Prakrit Bharati Academy, Jaipur

Aatma Meemansa Dashmank

Samantbhadra · 2010/01

PDF Proofread

Front matter

No text on this page.

श्रीपरमात्मने नमः।
सनाततजैनग्रंथमालायाः
दशमांकः।
आंचायवर्य श्रीसमंतभद्रखामिविरचिता
७
आप्तमीमांसा
स्थाहादविद्यापतिश्रीविद्यानंदस्वामिविरचिता
८
प्रमाणपरीक्षा च।
न्यायशास्त्रिणा श्रीयुत-पंडितगजाधरलालजैनेन,संपादिते ।
तंच
उस्मानाबादनिवासि-स्त्रीयश्रेष्ठिवर्यगांधीकस्तूरचंद्रस्यात्मजवालचंद्रस्य स्मरणार्थ
काशीस्थ-भारतीयजैनसिद्धांतप्रकाशिनीसंस्थायाः व्यवस्थापकेग
श्रीपन्नालालजैनेन
काशीम्य-कृष्णयंत्रालये चंद्रप्रभानाम्नि यंत्रालये च प्रकाशित।
श्रीचौरनिर्वाणसंवत्सर: २४४० निवाब्दः १९१४
प्रथमसंस्करणं ।
अस्यांकस्य मूल्यमेको रुप्यकः ।
a

No text on this page.

- प्रस्तावना आप्तमीमांसा विद्वन्महोदयाः !-. प्रत्यपरसत नाम वैफल्यं पुरा स्वपरहितापादनाकुंचितशेभुषीनामाईतमतप्रवर्तकमानिनामाहतानां पुरस्तात् सविनयमपि कृताभ्यर्थनाः श्रीमताममलतत्त्वस्वरूपावबुभुत्सूनामवदाततया । परंतु नाद्यत्वे ते जैनाः । प्रतियंति कतिपयास्तेष्वाहततत्त्वप्रवर्तनफलं । समाविरभावि तैस्तत्स्वरूपप्रकाशनाय सनातनजैन- ग्रंथमालाभिधोऽनुपमप्रभाकरः । रसयंतु रसिकाः तत्स्वरूपसुधां निर्वृहतया सांप्रतमिति समभ्यर्थना । समुपानीयते ग्रंथरतद्वयमिदमस्माभिरय श्रीमतां पुरस्तात् । आदिम-आप्तमीमांसा वृत्त्यष्टशतीति विशदटीकाद्वितयविभूषिता । अपरं-अमलप्रमाणस्वरूपावबोधेिका प्रमाणपरीक्षा आदिमस्य प्रणेता किल ग्रंथरत्नस्य समजनि श्रीमत्स्वामिपंतभद्रः समंतभद्रः । सर्वथा परहितप्रणिहितात्मायं महात्मा कदा भारतभूमिमम विभूपयामासात्मवैदुष्येणेति नास्ति किमपि निर्णायकं गमकं । सांप्रतिकोतिवृत्तवेत्तृणां मतमिदमस्य पावनात्मानो विषये यदजनिष्टायं षष्ठायां खीष्टशताब्दौ । नदि- संघपट्टावलीतश्च व्यज्ञायीदं समपद्यतायं सपादप्रथमायां शताब्दौ । कामयांचकार च मैसूरप्रांतस्थकांची. पुरमवदातयात्मनीनवासेन । परं नोभयत्रापि समयनिर्णये प्रत्यायकं किमपि सुनिर्णेयं प्रमाणं । किंतु नात्र संशीतिः प्रवादिमहीधराशनिनानेन मुनिना भवितव्यं नियतं प्रखरविदुषा चिरंतनतमेन च । जतश्रुति- रप्येतद्विपयिणीयं- आसीस्किल विविधमतिमन्निकरपरिपालितनिदेशः शेमुषीमंथनमथितानैकागमोदधिसमवाप्तानवद्यसुधा- परिपूरितस्वांतः श्रीसमंतभद्रो भगवान् मुनिराट् । स चैकदा पुरा समुपार्जितनैकाशुभकर्मसंपातात् समुपात्त- प्रखरभस्मव्याधिः कठिनतमं मुनिव्रतं परिपालयितुमशक्नुवन् व्याधिपरिहरणधिया विमुच्य मुनिलिंगसमियाय घाराणस्यां । तदात्वे च वाराणस्यां कश्चित् स्वप्रतापपराभूतविबुधपतिः शिवकोटिमहीपतिरासीत् स च परमशैवत्वात विनिर्माय कमपि शिवालयं समादिशत् बहुलसुरसमोदकादिसामग्या शिवमर्चयितुं । यदा च समंतभद्रः समश्रौषीत् बहुलया सामग्या शिवस्य पूजां तदाधिकं मनसि तुतोष । समेत्य च नरपतिशिव- कोटिपरिपदि, उपदर्य कमपि लोकेतरातिशयं, प्रपेदे शिवपूजकपदं राजानुमत्या । भक्षश्च सुरसपदार्थ- जातं शमयामास च खोदरव्याधि सानंदं । कियता कालेन व्याधिस्तस्योपशशाम । व्याध्युपशमे च कदाचि. स्पुनः शिवकोटिपरिषदि समागत्य, आविर्भाव्य च विचित्रातिशयं स्वमंत्रवचनव्याहूताष्टमजिनचंद्रप्रभं, चकार शिवकोटिमहीपतिं दिगंबरदीक्षादीक्षितं । भगवत्समंतभद्रः स्वव्याध्युपशमनकामनया वाराणसी- प्राप्तितः पूर्वमपि बहुत्र वभ्राम | अतो यदा शिवकोटिमहीपतिः स्वामिपरिचिकीषया तदीयवृत्तमप्राक्षीत् तदा परिचायितः स पधेनामुना स्वामिना। कांच्यां नग्नाटकोऽहं मलमलिनतनुलीबशे पांडुपिंडः पुंडेंड्रे शक्यभिक्षुर्दशपुरनगरे मिष्टभोजी परिबाट । वाराणस्यामभूवं शशधरधवलः पाण्डुरांगस्तपस्वी राजन् यस्यास्ति शक्तिः स वदतु पुरतो जैननिग्रंथवादी ॥१॥ नेमिचंद्र वणिरीचताराधनासारस्थं पद्यमिदं मलिषणप्रशस्तौ च समुल्लेखोऽयं स्वामिविषयक:- बंद्यो भस्मकभस्मसात्कृतिपटुः पद्मावतीदेवता- दत्तोदात्तपदः स्वमंत्रवचनव्याहूतचंद्रप्रभः । - .

W - सनातनजैनग्रंथमालाया- आचार्यः स समंतभद्रगणभृद्येनेह काले कला जैनं वर्म समंतभद्रमभवद्भद्रं समतान्मुहः ॥ १ ॥ शिवकोटिनरपतिपुरस्तादात्मनीनपरिचयः- पूर्व पाटलिपुत्रमध्यनगरे मेरी मया ताडिता. पश्चान्मालवसिंधुढक्कविपये कांचीपुरे वैदिशे। प्राप्तोऽहं करहाटकं बहुभट विद्योत्कटं संकटं वादार्थी विचराम्यहं नरपते शार्दूलविक्रीडितं ॥ १ ॥ अवटुतटमटति झटिति स्फुटचटुवाचाटधूर्जटेर्जिह्वा वादिनि समंतभद्रे स्थितवति सति का कथान्येषां ॥ २ यद्यपि परात्मनः किलतस्य स्वामिनः न क्यापि घष्ठिपथमवतरति नियतसमयादिसमुल्लेखस्तथापि तत्कृतिन्यामुग्धप्रतिभैः प्राशास्ययमनेकैगरीयोभिराचार्यः- नमः समंतभद्राय महते कयिवेधसे यद्वचोक्ज्रपातेन निर्भिन्नाः कुमतादयः ।। ४३ ॥ कवीनां गमकानां च वादिनां वाग्मिनामपि यश सामंतभद्रीयं मूर्ध्नि चूडामणीयते ॥ ४४ ॥ अमोघवर्षगुरुः, महापुराणकर्ता भगवनिनसेनाचार्य: सरस्वतीस्वैरविहारभूमयः समंतभद्रप्रमुखा मुनीश्वराः । जयंति वाग्वजनिपातपाटितप्रतीपराद्धांतमहीधकोटयः ।। महाकविश्रीवादीमसिंह लक्ष्मी त्परमं निरुक्तिनिरतं निर्वाणसौख्यप्रद कुज्ञानातपवारणाय विधृतं छत्रं यथा भासुरं । सज्ञाननययुक्तिमौक्तिकरसैः संशोभमानं परं 'वंदे तद्धतकालदोपममलं सामंतभद्रं मतं ॥ श्रीवसुनंदिसैद्धातिकचक्रवर्ती समंतभद्रादिकवींद्रभास्वत स्फुरति यत्रामलसूक्तिरश्मयः व्रजति खद्योतवदेव हास्यतां न तंत्र किं ज्ञानलबोद्धता जनाः । श्रीज्ञामार्णयकर्ता श्रीशुभचंद्राचार्य: गुणान्विता निर्मलवृत्तिमौक्तिका नरोत्तमैः कंठविभूपणीकृता न हारयष्टिः परमेव दुर्लभाः समंतभद्रादिभवा च भारती । महाकविश्रीवारनदी शिवकोटेजैनवनिर्णायको वरीवर्ति सांप्रतमपि तनिर्मितः प्राकृतभाषायां-भगवत्याराधनासारा. भिधः परमग्रंथः । विद्यते च तत्रं मुनिधर्मसमुपवर्णना । शिवकोटिमहीपतिः कदा शशास भारतीवि- मूपितां वाराणसीमिति निश्चिती तु नियतं स्वामिसमंतभद्रसमयो निर्णीतःस्यात् । समंतभद्राभिधयाऽपरोऽप्याचार्यः प्रतिश्रुतो वर्तते यस्य चिंतामणिव्याकरणस्य टिप्पणी, अष्टसहस्री विषमपंदव्याख्येतिग्रंथद्वयमुपलभ्यते । यद्ययमपरः समंतभद्रः षष्ठतमायां शताब्दी भवेद्विनिर्णीतस्तदा न कापि क्षतिः ।.. स्वामिसमंतभद्रनिर्मितग्रंथाः । गंधहरितबहाभाष्यं १ देवागमस्तोनं २ जिनसत्तालंकारः ३ विजयधवलटीका ४ तत्त्वानुशासनं : युक्त्यनुशासनं ६ वृहत्स्वयंभूस्तोत्रं-७ जिनशतकामित्यादयः ।

३ . प्रस्तावना। देवागमस्तोत्रस्यैवापरामिधा-आप्तमीमांसा-नायं स्वायत्ततया विरचितो ग्रंथः किंतु गंधहस्तिमहा- भाष्यस्य मंगलाचरणं । भाष्यस्य चतुरशीतिसहस्रपरिमिता ८४००० श्लोकसंख्या । श्रीमदुमास्वामिशय- कुशेशयखचिततत्त्वार्थाधिगमसूत्रस्यो (मोक्षशास्त्रस्य) परिष्टात्तभाष्यं । दुर्भागधेयमेतदास्माकीनं यन्नो दृष्टिपथमायाति तत्सांप्रतं । एतस्याः किलाप्तममिांसाया उपरि कृता सैद्धांतिकचक्रवर्तिना श्रीमद्वसुनंदिना पदवृत्तिः । विरचि- ता च श्रीमदकलंकदेवस्वामिना भाष्यभूताप्टशंती स्वातंत्र्येण कारिकाणामुपरि । विरचयामास चाष्टशत्युपरि- अष्टशतीनाम्नी विवृति श्रीमद्विद्यानंदिप्रभुः । भूमंमलं कदा मॅडयायासात्मपाण्डित्येन श्रीमदकलंकदेवस्वामी ति तु समाविर्भावयामोवयं श्रीमत्तत्त्वार्थराजवार्तिकप्रस्तावनोलेखसमये । प्रभाविद्यानदिनस्तु व्यलेख्याप्तप- रीक्षाप्रस्तावनायामवदाततयास्माभिरितिवृत्तं । प्रमाणपरीक्षा । अत्रांकेऽपरः प्रमाणपरीक्षाभिधोग्रंथः । रचयिता किलेतद्नंथरत्नस्य समजनि श्रीमद्विद्यानंदिप्रभुः मह- चित्रमेतद्विरचयंतोऽप्यतलस्पर्शगभीरग्रंथमिमं श्रीमद्विद्यानंदा: न प्रकटयांचक्रिरे स्वनामविवृति कापि यशोलिप्सया तथापि- जयंति निर्जिताशेपसर्वथैकांतनीतयः । सत्यवाक्याधिपाः शश्वविद्यानंदा जिनेश्वराः ॥ १॥ इत्यत्र जिनेश्वरविशंपणीभूतेन विद्यानंदपदेन- ७७ तमेपृष्ठे-तस्यानादेरेकस्येश्वरस्याप्तपरीक्षायामुपक्षिप्तत्वादिति वाक्ये आप्तपरीक्षापदो- लेखेन-आप्तपरीक्षापत्रपरीक्षेतिग्रंथद्वयस्य समानकर्तृकत्वप्रतिभासकत्वात-अंत्यमंगले च विद्यापददानान्नि- यतं विज्ञायतेऽस्माभिरयमेव श्रीविद्यानंदप्रभुः प्रमाणपरीक्षायाः कर्ता । ग्रंथसंपादनसमये भष्टशत्याः पुस्तकद्वयं मया मोहमयीतः समुपलब्धं तत्र क. पुस्तकस्य शुद्धतरत्वेपि ख. पुस्तकमतीवाशुद्धमासीत् । ततोऽन्वभूवं वहलं कष्टं कठिनतमाप्तमीमांसाग्रंथसंपादनकाले । प्रमाणपरीक्षायाः क. पुस्तकं जनहितैपिसंपादकश्रीमत्पंडितनाथूरामजीमहानुभावैः- ख. पुस्तकं च स्याद्वादमहाविद्यालयप्रधानाध्यापकैः श्रीमत्पडित-उमरावसिंहजीमहोदयैः प्रहितमिति विहितानुग्रहोऽस्म्युक्तविदुपोः । यदपि पंडितंमन्याधुनिकलेखकतदनुयायिमहोदयानुकंपया प्रमाणपरीक्षायाः पुस्तकद्वयमप्यतीवाशुद्धं तदपि-एकतः संजातशंकाया अपरतः समाधानात् समपादि महता प्रयासनेयं प्रमाणपरीक्षा । तथापि प्रमत्तयोगादजनिष्ट कापि स्खलनं मामकीनं क्षमयंतु तदशक्यपरिमार्जनस्खलनं साक्षरवरा इति सनतिमभ्यर्थना । लेखकादिमहानुभांवकरकमलखचितग्रंथमाहात्म्यात्-असामयिक 'वैकल्यतश्च विनिचाय्य कुतोऽपि मामकीनं स्खलनं कठिनतमसंपादनकृत्यानुभवबहिर्भूतत्वात् वेधयंति केचित्स्वरतरकुवचनसायकैः संपादकं । शिक्षयितृत्वे तेषामनुगृहीतोऽस्मि । प्रिय मित्रवर देवराज ! पठिष्यामीति तावकाग्रहवशंवदतया महतायासेन संपादितापीयं प्रमाण परीक्षा असामयिकभवन्निधनतो दुनोति मामकीनं मनो बहलतया । अवदातहृदय ! न तावकीनोपकारविनिमये किमपि मत्पार्श्वे समीचीनं वस्तु येन विगतोपकार- भारः स्यां-ततस्त्वद्गुणस्मृतिसमीहया समर्पयामि तव करकमलयोः श्रीप्रमाणपरीक्षामिमां सविनयं- "एहि परंमनिश्रेयसं त्वमिति मे कामना । विद्वत्कृपाभिलाषी गजाधरलाल .

सनातनजैनग्रंथमालायां । १ m . ४ . ६ पृ.सं. गा.सं. स्तुतिविषयसाध्यकदेवागमादिहेतोय॑भि- चारित्वोपाख्यानं', पूरणादिश्वसंमविबहिरंतरंगमहोदयहेतुरपि व्यभिचारीति प्रतिपादनं '.२ २ तीर्थकरत्वहेतोरनैकांतिकलस्य सर्वासर्वज्ञत्व- स्य च समुल्लेख स्तुतिविषयवसान्यतायां सुपुष्कल. हेतूपादानं सर्वज्ञत्वसाधने प्रमाणोपन्यासः ५. जिनपतिरेव सर्वज्ञो नान्योयुक्तिशास्त्रा- विरोधिवाक्वादिति विवरणं खेष्टस्य प्रत्यक्षेण वाधितवान्न-परे. सर्वज्ञा इति विवृतिः खेष्टस्य स्वेष्टेन वाघांप्रदय परसर्वज्ञत्वाभावोपादानं सर्वथा भावकांताभ्युपगमे दूषणोप- न्यासः ८ केऽभावाः ? कियंतोवा! कान्यनाद्यनं- तानि ! कस्मादमावास्कि स्यादिति प्रतिपादनं- ८... १० अन्योन्यात्यंताभावस्वरूप- स्तत्स्वीकारफलं च ११ भभावकांतेऽपि कुशलाकुशलादि- कर्मानुपपत्तिरिति विवरणं १० १२ भावाभावोभयकांतवादिनामपि न कापि निष्पत्तिरिति विवेचनं ११ १३ एकांतेन यदि सर्वथा सदसदुभयावक्तव्य- रूपं तत्त्रं. नास्ति कुतस्तदिति सदा- दीनां वास्तविकस्वरूपाख्यानं १२ १४ अनेकांतेनाभ्युपगततत्स्वरूपादीनां विशेष विवरणं भनवस्थादूषणपरिहरणंच-१३ १५ पृ.सं. गा.सं. स्यादति चावक्तन्यत्वाद्युत्तरभंगस्वरूप- निरूपणं १३ १६ अस्तित्वादिधर्माणामेकस्मिन्नधिकरणेऽवि. रोधेनोल्लेख: १४.१५ १७-१८-१९ अंत्यत्रिधर्माणामविरोधेनकत्रावस्थान- प्रदर्शन १६ २० एकांततत्त्वनिराकरणं १६ २१ स्यादस्तीत्यनेनैव स्याच्छब्देन सर्वभंगाना- ग्रहणे किमर्थ शेषभंगोपादानमिति समाहितिः १७ २२ स्यादेकत्वानेकत्वसप्तभंगीद्योतनं १७ २३ द्वितीयः परिच्छेदः अद्वैतकांतनिराकरणं ......१८ २४-२५ प्रमाणादद्वैतनिराकरणं १८ .२६ अद्वैतं द्वैताविनाभावीति विवरणं १८. २७ सर्वथा द्वैतकांताम्युपगमे दोषोद्भावनं १९ २८ द्वैतकांतविशेषमायासु क्षणिकैकांत- कदर्थन १९ २९ मंग्यंतरेण पुनतकांतखंडन २० ३. गौणतया सामान्यमभ्युपगच्छता पुरस्तात्सामान्यसंसिद्धिः २० ३१. द्वैताद्वैतोभयकांतनिराकरणं २१ ३२ सामान्यविशेषयोः सापेक्षतेऽर्थ- क्रियासमर्थन २१ ३३ भेदाभेदयोः संघटनव्यवस्था २१ ३४ केपांचिद्विद्यमानस्याविवक्षाऽविद्यमानस्यैव विवक्षा, अन्येषां वैयाकरणानां विद्य- मानस्यैव विवक्षा नाविद्यमानस्येति । अपरेषां विवक्षैव नास्तीति खंडनपुर- स्सरं तात्त्विकविवक्षाख्यापनं २२ ३६ संवृतिकल्पितभेदाभेदजनितदुर्वासनां निहत्य - .... - ....

२ .... - ७७. विषयानुक्रमणिका। पृ.सं. गा.सं. पृ.सं. गा.सं. तात्त्विकभेदाभेदव्यवस्थोपादानं २२ ३६ प्रतिपादनं ३२-६४६५-६६.. तृतीयः परिच्छेदः परमाणूनामेकांतेनान्यत्वाभ्युपगमे- नित्यत्वकांतनिराकरणं २२ ३७ दोषोपन्यासः ३२-३३ ६७-६८-६९ . नित्यत्वैकांतपक्षाभ्युपगमायाभिमत सर्वावयवावयविव्यतिरेकान्यतिरेकपक्षे व्यंग्यव्यंजकभावे दूषणं ३३ ७० दूषणोद्भावनं २२ ३८ द्रव्यपर्याययोरभेदप्रकारः. ३३ ७१ नित्यत्वैकांतपक्षे परिणामदौर्घ- द्रव्यपर्यायो दप्रकारः. ३४ ७२ व्योपदेशः २३ ३९. पंचमः परिच्छेद: सांख्यमते बंधमोक्षाभावप्रतिपादनपुरस्सर अपेक्षानपेक्षयोः पार्थक्येनैकांताभ्युप: माहतसिद्धांते तयोः सत्त्व- गमे दोषोल्लेखः... प्रतिपादनं. २३ अपेक्षानपेक्षयोरुभयैकांतपक्षे दूषणं ३५.७४ क्षणिकैकांतपक्षे दूषणोद्भावनं.... २३. ४१ तयोरनेकांतत्वसमर्थनं .' ३६. ७५ असत्कार्यवादप्रतिषधः २४ ४२ षष्ठः परिच्छेदः क्षणिकैकांतपक्षे हेतुफलादीनाम- सर्वथा सर्वेषां वस्तूनां हेतोरागमाच सिद्धौ संभवप्रतिपादनं २५ ४३ . दोषोपन्यासः ३५. ७६ संतानकल्पनेन तस्य संवृतित्वे सर्वथोभयकांते दूषणं । ३५ ७७ दोषोद्भावनं २५ ४४ उभयोरनेकांतनिरूपणं .... ३६ ·७८ संतानतद्वतोरवाच्यत्वाभ्युपगमे सप्तमः परिच्छेद दोषोपन्यासः . २६ ४५-४६ अंतस्तत्त्वस्यैव तत्त्वत्वे' दूषणप्रति- अवाच्यत्वाभ्युपगमे प्रतिषेधः पादनं .... ३६ । ७९ स्यापि दौर्घट्यं. २६. ४७-४८ ज्ञानाद्वैतवादिनं प्रति दोषाविर्भावः ३७. ८. सर्वथावक्तव्यवादिनं प्रत्युपालंभः२७ ४९-५० सर्वथा बहिरंगतत्त्वाभ्युपगमे दोषो-' क्षणिकैकांते हिंसा बंधमोक्षादयश्च न पन्यासः ३७. ८१ संघटते इति विवरणं . २७ ५१ बहिरंतोभयैकांते दूषणं ३८ ८२ क्षणिकैकांतवादिवचनविरोधोल्लेखः २८ ५२ भाव एव तत्त्वं नाभाव इति मतस्य विभागार्थ निमित्ताभ्युपगमेऽपि दूष- निराकरणं ...... '३८८३ गोल्लेखः. २८ ५३ अनुमानप्रणाल्या बाह्यार्थसिद्धिः क्षणिकैकांतपक्षे-उत्पादादीनामसंभवो- सिद्धसाधनतापरिहारपुरस्सरं पदेशः .... २८ . ६४ बाह्यार्थप्रकटीकणं ३९८५ नित्यत्वानित्यत्वोभयैकांतपक्षे दूषणं २९ ५५ पुनरपि बाह्यार्थप्रतिपादनं ....' '३९ '८६ अनेकांतसमर्थनं २९-३० ५६-५७. वाह्यार्थे सत्येव प्रमाणाप्रमाणव्यवस्थेति एकत्रोत्पादव्यययोविरोधव्यवस्था ३०. ५८ प्रतिपादन ::.'४० ८९ लौकिकदृष्टांतेन, उत्पादव्ययधौन्य अष्टम परिच्छेदः परिणामविरोधप्रदर्शनं ३० ५९-६० दैवादेवार्थसिद्धिखीकारें दोषाख्यानं ४० ८९ चतुर्थः परिच्छेदः पौरुषादेवार्थसिद्ध्यभ्युपगमे दूषण- प्रतिपादन ४०१९ गुणिगुणकार्यकारणादीनां भेदाभ्यु- पगमे दोषोपन्यासः ३.१ ६१-६२-६३ सर्वथा दैवपौरुषोभयकांताभ्युपगमे समवायादिसंबंधाभ्युपगमे दूषण दूषणं ४१. "९० ....

३ .... सनातनजैनग्रंथमालायां- पृ.सं. - गा.सं. पृ.सं. गा.सं. अर्थसिद्धर्वास्तविककारणोपादनं ४१ ९१ सम्यग्ज्ञानस्य निर्दोपतया प्रमा- नवमः परिच्छेदः णत्यनिर्वाचन ५१ ४ परदुःखे कृते पापं तत्सुखे पुण्यं खदु:- सम्यग्ज्ञानस्य स्वार्थव्यवसाया- खात्पुण्यं परदुःखात्पापमिति मत- स्मकत्वसमर्थन ५३ ६ निराकरणं ४१-४२ ९२-९३ स्वार्थव्यवसायात्मकत्वसाध्यसाधनसम्यग्ज्ञा. उभयैकांताभ्युपगमे दूपणं ४३ ९४ नत्वहतोरप्रयोजकत्वनिराकृतिः ५६ ३५ सुखासुखसत्त्वप्रकारः ४२ ९५ बाह्यपदार्थसमर्थन- १५ दशम परिच्छेदः सम्यग्ज्ञानमर्थव्यवसायात्मकमेव न स्वव्यव- सर्वमज्ञानाद्वंधत्वे स्तोकज्ञानान्माक्षत्वे सायात्मकमिति मतनिराकरणं . ५८ ३२ दोपोपन्यासः ४२ ९६ अर्थज्ञानस्य ज्ञानांतरवेद्यत्वमभ्युपगम्य उभयकांत दूपणं खार्थव्यवसायात्मकत्रप्रतीतर्वाधा- वास्तविकी बंधमोक्षव्यवस्था ४३ ९८ पपत्तौ निराकरणं ६. ७ ईश्वरप्रेरणान्मोक्ष इति निराकरणं, पराक्षत्वहेतुना, स्वार्थव्यवसायात्मकत्वप्रतीतौ कामादीनां कर्मणां च वैचित्र्यम- वाधोपन्यासे समाहितिः ६० ३१ नादीति द्योतनं वा ४३ ९९ अचेतनत्वहेतुना ज्ञानस्य स्वव्यव- शुद्ध्यशुद्धिस्वरूपप्रतिपादन ४४ १००. सायात्मकत्ववाधने दोपोपन्यासः ६१ ३१ प्रमाणतत्त्वनिरूपणं ४४ १०१ प्रमाणतत्त्वस्य सर्वथा निषेधकत्वे दो- प्रमाणफलोपदर्शनं ४५ . १०२ पोपन्यासायं ६२ १३ स्याद्वादाख्यपदार्थसाधनसमर्थनं ४११०३-१०४ प्रमाणभेदप्ररूपणं स्याद्वादकेवलज्ञानयोः कथंचित्सामा- एकांतेनाभ्युपगतैकद्वित्रिचतुःपंच- न्यनिदर्शनं ४६ १०५ षट्प्रमाणवादिनां प्रमाणसंख्या. नयस्वरूपाख्यानं ४७ १०६ विघटन ६४ नयविपयद्रव्यस्त्ररूपाख्यानं १०७ तर्काख्यप्रमाणस्य सिद्धिः नयानां सापेक्षत्वनिरपेक्षत्वे साफल्य- प्रत्यक्षस्य विशदज्ञानत्वसमर्थन ६७ २८ वैफल्यप्रदर्शनं ४७-४८ १०८-१०९ इंद्रियानींद्रियातींद्रियभेदात्प्रत्यक्षस्य वाक् अस्तित्वनास्तित्वरूपद्विविषया त्रैविध्यं ६८ ८ न भवतीति सिद्धांतनिराकरणं ४८ ११० स्वसंवेदनाख्यचतुर्थप्रत्यक्षस्य निषेधः ६८ १८ वचोलक्षणाख्यानं ४८ १११ सामान्यमेव वाचोऽर्थः इति मतस्य इंद्रियप्रत्यक्षविवरण ६६ २५ कदर्थनप्ररूपण स्मृत्यादिपरोक्षप्रमाणनिरूपणं ६९ १० ४९ ११२ स्मृतिप्रमाणनिरूपणं स्याद्वादस्वरूपाख्यान ६९ २६ ४९ ११३ शस्त्रोपसंहारकारिका प्रत्यभिज्ञानस्वरूपवर्णनं अंत्यंमंगलं अनुमानस्वरूपाख्यानं २० ११५ ३४ इत्याप्तमीमांसा समाप्ता श्रुतज्ञानस्वरूपाख्यानं ७६ १० शब्दस्य पौरुषेयत्वापौरुषेयत्वविचारः ७६ ३७ अथ प्रमाणपरीक्षा। विषयविप्रतिपत्तिनिराकरणं ७९ १९ फलविप्रतिपत्तिनिराकरणं विषयानुक्रमणिका ..... ७९ २९ सन्निकर्षादिप्रमाणस्वानिवृत्तिपूर्वकं .... or ४७ ४९ ११४ नमः सिंद्धभ्यः ।। श्रीमद्भगवत्समंतभद्रस्वामिविरचिता आप्तमीमांसा। . देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यंते नातस्त्वमसि नो महान् ॥ १॥ वृत्तिः-सार्वश्रीकुलभूपणं क्षतरिपुं सर्वार्थसंसाधनं सन्नीतेरकलंकभावविधृतेः संस्कारकं सत्पथं । निष्णातं नयसागरे यतिपतिं ज्ञानांशुसद्भास्करं भेत्तारं वसुपालभावतमसो वंदामहे बुद्धये ॥ १ ॥ लक्ष्मीभृत्परमं निरुक्तिनिरतं निर्वाणसौख्यप्रदं कुज्ञानातपवारणाय विधृतं छत्रं यथा भासुरं । सज्ज्ञानर्नययुक्तिमौक्तिकफलैः संशोभमानं परं वंदे तद्धतकालदोषममलं सामंतभद्रं मतं ॥२॥ समीचीनासमीचीनोपदेशविशेषप्रतिपत्तये सकलदोपातीतानंतचतुष्टयसमेतप्रकटिताशेषद्रव्यपर्यायसा- मान्यविशेपपरमात्मपरीक्षाभिधायक, असंख्यातगुणश्रेणिकर्मनिर्जरणोपायं । निराकृतसामान्यापोहशब्दार्थ- गृहीतविद्वन्मनःसंतोषकरं परमार्थभूतवाच्यवाचकसंबंधमनेकसूक्ष्मार्थप्रतिपादनचटुलं निःश्रेयसाभ्युद- यसुखफल स्वभक्तिसंभारप्रेक्षापूर्वकारित्वलक्षणप्रयोजनवद् गुणस्तवं कर्तुकामः श्रीमत्समंतभद्राचार्यः सर्वज्ञ प्रत्यक्षीकृत्यैवमाचष्टे हे भट्टारक ! संस्तवो नाम माहात्म्यस्याधिक्यकथनं, त्वदीयं च माहात्म्यमतीद्रियं मम प्रत्यक्षांगोचरं-अतः कथं मया स्तूयने ?। अत आह भगवान् ‘ननु भो वत्स! यथाऽन्ये देवागंमादिहेतोर्मम माहात्म्यमवबुध्य स्तवं कुर्वन्ति तथा त्वं किमिति न कुरुपे ? । अत आह, अस्माद्धतोर्न महान् भवान् मां प्रति' व्यभिचारित्वादस्य हेतोः । इति व्यभिचारं दर्शयति- देवास्त्रिदशास्तेषां स्वर्गावतरण-जन्म-निष्क्रमण-केवलज्ञानोत्पत्ति-मुक्तिगमनस्थानेषु आगमनं-आगमः अवतार:-देवागमः । नभसि गगने हेममयाम्भोजोपरि यानं नभोयानम् । चामराणि वातायनानि तानि आदिर्यासां विभूतीनां संपदां लाश्च ता विभूतयश्च चामरादिविभूतयः । आदिशब्देन अशोकवृक्षसुरदंदुभि सिंहासनादीनि परिगृह्यते, एतेषां द्वंद्वः । विभूतयः । मायाविष्वपि इन्द्रजालेष्वपि दृश्यते । न अतः--न - अस्मात् । त्वमसि--त्वं भवसि । नः--अस्माकं महान्-गुरुः । किमुक्तं भवति । देवागमादिहेतो स्मार्क भवान्गुरुर्भवति । यतो देवागमादयः, पूरणादिष्वपि दृश्यते । अतोऽनैकांतिको हेतुः ॥ १॥ अथ मतम् । अयं तर्हि हेतुर्बहिरतरंगलक्षणो महोदयः पूरणादिष्वससंभवी इत्ययमपि व्यभिचारी, सथैव प्रतिपादयति- अष्टशती-उद्दीपीकृतधर्मतीर्थमचलज्योतिर्बलत्केवलालीकालेकितलेोकलाकमीखलरिंद्रादिभिर्वदितं ॥

२ याप्तमीमांसा । वंदित्वा परमार्हतां समुदयं गां सप्तभंगीविधि स्याद्वादामृतगर्भिणी प्रतिहतकांतांधकारोदयां ॥ १ ॥ तीर्थ सर्वपदार्थतत्वविषयस्याबादपुण्योदर्भन्यानामकलंकभावकृतये प्राभावि काले कलौ ॥ येनाचार्यसमंतभद्रयतिना तस्मै नमः सततं कृत्वा विवियते स्तवो भगवतां देवागमस्तस्कृतिः ॥२॥ देवागमेयादिमगलपुरस्सरस्तीवषयपरमात्मगुणातिशयपरीक्षामुपक्षिपतैव स्वयं श्रद्धागुणज्ञताल- क्षण प्रयोजनमांक्षिप्तं लक्ष्यत तदन्यतरापायेऽस्यानुपपत्तेः । शास्त्रन्यायानुसारितया तथैवोपन्यासात्-! आज्ञाप्रधाना हि त्रिदशागमादिकं परमेष्टिनः परमात्मचिहं प्रतिपद्येरन् नास्मदादयः तादृशो माया- विष्वपि भावात् , इत्यागमाश्रयः ॥ १ ॥ अध्या:मं वहिरप्येष विग्रहादिमहोदयः । दिव्यः सत्यो दिवाकस्स्वप्यस्ति रागादिमत्सु सः ॥ २॥ वृत्तिः-आत्मनि अघि अध्यात्म । सः अंतः । क्षुत्पिपासाजरारुजापमृत्य्वाद्यभाव इत्यर्थः । बहिरपि वाह्योऽपि । एपः प्रत्यक्षनिर्देशः । विग्रहो दिव्यशरीरमादिर्येयां, निस्वेदत्व-निर्मलत्व- अच्छायवादीनां तानि विवहादीनि तेरो त.न्यत्र वा महोदयः, विभूतः पूर्वावस्थाया अतिरेको- ऽतिशयो वा विग्रहादिमहोदयः, अमानुपातिशय इत्यर्थः । दिवि भवो दिव्यः । सत्यः अवितयः, मायास्वरूपो न भवति । दिवि द्यौ दिवि ओकः अवस्थानं येषां ते दिवौकसः नाकसदनाः, तेप्वपि दिवौ- कस्वपि । अयत्रा दिवाशब्दोयं तेनेष्टव्यः । रागो लोभमायत्यादिर्येषां द्वेषादीनां ते रागादयः ते संति येषां ते रागादिमंतः, तेषु रागादिमत्सु अक्षीणक्रयायप्वित्यर्थः । स महोदय इति । अयं महोदयो यद्यपि समासेऽनर्भूतस्तथापि अध्यात्ममहोदय इति संबंधः कर्तव्यः अंत्यस्य श्रुतत्वात् । अथवा बहिर्विग्रहादि- महोदयः अध्यात्म च । किमुक्तं भवति । योऽपि विग्रहादिमहोदयो मायाविष्वसंभवी हेतुत्वेनोपन्यस्ता सोऽपि व्यभिचारी । स्वनिषु संभवात् ॥ २॥ द्वयोर्हेत्वोरनैकांतिकत्वं प्रदर्श्य अन्यैर्यतीर्थकरत्वेनोपन्यस्तस्तस्य हेतोरसाधकत्वं सर्वासर्वज्ञत्वं प्रदर्शयन्नाह- अष्टशती-बहिरंतः शरीरादिमहोदयोऽपि पूरणादिष्वसंभवी व्यभिचारी, स्वर्गिषु भावादक्षीणकषायेषु। ततोऽपि न मवान् परमात्मेति स्तूयते ॥ २ ॥ तीर्थकृत्समयानां च परस्परविरोधतः । सर्वेषामाप्तता नास्ति कश्चिदेव भवेद्गुरुः ॥ ३॥ वृत्तिः-तीर्थ संसारनिस्तरणोपायं करोतीति तर्थिकृत् । यततीर्थकृत् भवान् अतः सर्वज्ञः । इत्ययमपि हेतुरनैकांतिकः सुगतादिषु दर्शनात् इत्यनुक्तोऽपि द्रष्टव्यः । अस्मिन्नवसरे वैनयिकः प्राह- इष्टमस्माकं सर्वेषां सर्वज्ञत्वम् । अत आह-समयानांच परस्परविरोधतः अन्योऽन्यविसंवादात् , सर्वेषामाप्तता नास्ति-विश्वयां सर्वज्ञत्वं न भवति । अथवा तीर्थकरत्वात्सर्वज्ञो न भवति, सुगतादिषु दर्शनात् । अतः सर्वनर्वज्ञाः संतु इत्येतत्तवमुक्त्वा पश्चादिदं वक्तव्यं सर्वेयामाप्तता नास्ति । कुतः ? यतस्तीर्थकतां तत्स- मयानां च परस्परविरोधात् स्वरूपपदार्थविवाददर्शनात् । अन्नावसरे सर्वज्ञाभाववादी प्राह-सत्यं युक्तमेव न कश्चित सर्वदर्शी इति । अत आह-कश्चिदेव-कोऽप्येव तेषां मध्ये भवेत् , स्यात् गुरु-महान् स्वामी । १ प्रतिज्ञातं स्वीकृसं २ देवागमस्तवस्य ३ अनुपपत्तिः कुत इत्यत आह ४ परीक्षाप्रधानाः ५ देवगमादिचिहस । ३। इति हेतोः। देवागमादिविभूति नः महान इत्ययं ।

. ३ . सनातनजैन मंथमालामा किमुक्तं स्यात् । न सर्वेयामाप्तता परस्परविरोधात्समयानामागमानां ।. एकोऽपि न भवति प्रमाणाभावात् । अतः केन चिदेव भवितव्यं । एवमत्यन्ताभावाभावः कृतः । यदि परस्परविरोधात्सर्वज्ञत्वभावो न भवति तर्हि येषां सर्वज्ञविच्छेदकः संप्रदायस्तेषामाप्तता स्यात् ? अत आह-तीर्थकृदित्यादि । तीर्थ सर्वज्ञं कृतंति छिदंति इति तीर्थकृतः समया आम्नायाः सम्प्रदाया येषां ते तीर्थकृत्समयास्तेषां अन्योऽयविरोधात्. 1.सर्वेः निरवशेष अवगतं अगम्यावगमनं वा इच्छंति अभ्युपगच्छंति इति सर्वपः तेषां सर्वेषां आप्तता परमार्थ वादित्वं नास्ति न विद्यते । अतः कः आत्मजीवः चिच्चतनोऽचंतनो भवत्येव । एवकारः अवधारणार्थः ।। भवं संसारं यांति गच्छंति इति भवेतः तेषां भवेतां शकचक्रवरादीनामित्यर्थः । गुरुर्नाथः । भवेद्गुमः भवेतां गुरुः । न च लब्धात्मस्वरूपाणां । किमुक्तं भवति-तीर्थकृल्छेदकाम्नायानामपि. सर्वमेकेन. प्रमाणेन.. पड्भिरभ्युपगच्छता आप्तता नास्ति परस्परविरोधात् । अता यतिपतिरव. स्यान्नान्यः ॥.३ ॥ पूर्वकारिकोपात्तमर्थं समर्थयन्सुपुष्कलहेतुमाह- . अष्टशती-न हि तीर्थकरत्वमाप्ततां साधयति शक्रादिष्वसभवि, सुगतादिपुदर्शनात्। न चसर्वे सर्वदर्शिनःः परस्परविरुद्वतमयाभिधायिनः । ततोऽनकांतिको हेतुः । अत एव न कश्चित् सर्वज्ञः-इत्ययुक्तं श्रतेरविशेषा- दप्रमाणतोपत्तेः । तथेष्टत्वाददोप इत्यैकेपामप्रामाणिकैवेष्टिः, न खलु प्रत्यक्ष सर्वज्ञप्रमाणांतराभावविषय अति- प्रसंगात् । नानुमानमसिद्धेः । प्रमाणतः सिद्ध नानात्मसिद्ध नाम-अन्यथा परस्यापि न सिद्धयत् । तदिमे स्वयमेकेन प्रमाणेन सर्व सर्वज्ञरहितं पुरुषसमूह सविदतः एवात्मानं निरस्यंतीति व्याहतेमतत्.। तीर्थच्छेद- संप्रदायानां तथा सर्वमवगतमिच्छतामाप्तता नास्ति परस्परविरुद्धाभिधानात् । एकानेकप्रमाणवादिनां: स्वप्रमाव्यावृत्तेरन्यथानकांतिकत्वात् । सर्वप्रमाणविनिवृत्तरितरथासंप्रतिपत्तेः । वागक्षवुद्रीच्छापुरुषत्वादिकं कचिदनाविलज्ञानं निराकरोति न पुनस्तत्प्रतिपेधवादिषु तथेति परमगहनमेतत् । तदित्यं सिद्धं सुनिश्चितासं- भवद्बाधकप्रमाणत्वं । तेन कः परमात्मा. चिदेव लब्ध्युपयोगसस्काराणामावरणनिधनानामत्यो भवभृतां प्रभुः, न हि सर्वज्ञस्य. निराकृतेः प्राक् सुनिश्चितासंभवसाधकप्रमाणत्वं सिद्धं येन परः प्रत्यवतिष्ठेत । नापि बाधकासंभवात्, परं प्रत्यक्षादेरपि विश्वासनिबंधनमस्ति तत्प्रकृतेऽपि सिद्धं, यदि तत्सत्तां न साधयत् सर्व त्राप्यविशेषात् । तदभावे दर्शनं नादर्शनमतिशेतेऽनाश्वासाद्विभ्रमयत्।साधकबाधकप्रमाणयोर्निर्णयाद्भावाभावयो- रविप्रतिपत्तिरनिर्णयादारेका स्यात् । न खलु स्वभावस्य कश्चिदगोचरोऽस्ति यन्न क्रमेत तत्स्वभावांतरप्रतिषे- घात् । चेतनस्य सतः:संवंध्यतर माहोदयकारणकं मदिरादिवत् तदभाव,साकल्येन विरतमोहः सर्वं पश्यति प्रत्यासत्तिविप्रकर्पयोरकिंचित्करत्वात् अत एवाक्षानपेक्षा । अजनादिसंस्कृतचक्षुषो यथालोकानपेक्षा ॥३॥ दोपावरणयोहानिनिःशेपाऽस्त्यतिशायनात् । कचिद्यया स्वहेतुभ्यो वहिरंतर्मलक्षयः ॥ ४॥ वृत्तिः-दोपः अज्ञानादि, कार्यरूपं । आवरणं कारणभूतं कर्म । अथवा मोहांतराया दोषाः । ज्ञानदर्शनावरणे आवरण । तयोर्हानिर्विनाशो विश्लेषो दोषावरणयोनिः । सिद्धसाधनतानिराकरणार्थ निम्शेषा समस्ता समूलतलप्रहाणिः इत्युक्तं.। अस्ति भवति ।. अतिशायनात् प्रकृष्यमाणाज्ञानहानेः पूर्वाव- स्थातिरेकात् । कचित् कस्मिंश्चित्पुरुषविशेषे । यथा शब्दो दृष्टान्तप्रदर्शनफल:. स्वस्य आत्मनो हेतवः कारणानि ते तामृतास्तेभ्यः खहेतुभ्यः । बहिः किटकादिकं, अभ्यतरं कालिमादि तच तन्मलं च तस्य, १ भवितव्यमवासंताभावाभावः कृतः.पागेऽयं लिखितपुस्तके । २-लिखित पुस्तके नचालब्धात्मस्वरूपाणामिति ४ जनस्यापि ।। ५ वैनायकांनां । ३ चावाकानां । पाठा ६अर्यग्रहणशक्तिलब्धिः अर्थग्रहणव्यापार उपयोगः। ७मीमांसक। सिद्धसांध्यतेति लिखितपुस्तके पाठ। " .

CC आप्तमीमांसा। क्षयो विगमः विश्लपः बहिरंतर्मलक्षयः । एतदुक्तं भवति । कस्मिंश्चिइतिशायनाद्दोपावरणयोर्हानिरस्ति । यथा धातुपापाणस्य अंतर्मलक्षयः । स कश्चिद्भवत्येव गुरुरिति संबंधः । एकत्र स्वहेतवः सम्यग्दर्शना- दयः । अन्यत्र पिण्डीबन्धनप्रयोगादयः । तथा एकत्र बहिर्मलः शरीरेन्द्रियादिकं । अन्तर्मल: कर्म । अन्यत्र बहिर्मल: किटकादिकं । अन्तर्मल: कालिमादि ॥ ४ ॥ ननु विश्वस्तदोषाऽप्यात्मा कथं विप्रकर्षिणमर्थं प्रत्यक्षीकुर्यात् ।। (इति शङ्कायां) साधनान्तरस्य वाधकाभावस्य भावनिरूपणमाह- अष्टशती-वचनसामर्थ्यादज्ञानादिर्दोपः स्त्रपरपरिणामहेतुः, अत एव लोठादौ निःशेषदोपावरणनिवृत्तेः सिद्धसा- धतेत्यसमीक्षिताभिधान साध्यापरिज्ञानात् । दोपावरणयोर्हानिरतिशायनात् । निश्शेषतायां साध्यायां बुद्धरपि किं न परिक्षयः स्याद्विशेषाभावात् । अतोनैऽकांतिको हेतुरित्यशिक्षितलक्षितं चेतनगुणव्यावृत्तेः सर्वात्मना पृथिव्यादेरभिमतत्वात् । अदृश्यानुपलभादमावासिद्धिरित्ययुक्तं परचैतन्यनिवृत्तावारेकापत्तेः संस्कर्टणां पातकित्वप्रसंगात् । वहुलमप्रत्यक्षस्यापि रोगादेविनिवृत्तिनिर्णयात् । व्यापारव्याहाराकारविशेपव्यावृत्तिसमय- वसालादृशं लोको विवेचयति । व्यापारव्याहाराकारविशेषव्यावृत्तरिति सययवशात्तत्सिद्धांतविल्लोको विवेच- यति । यदि पुनरय निर्वधः सर्वत्र विप्रकर्षिणामभावासिद्धे, तदा कृतकत्वधूमादेविनाशानलाभ्यां व्याप्तेरसिद्ध न कश्चिद्धेतुः । ततः शौद्धोदनिशिष्यकाणामनात्मनीनमेतत् , अनुमानोच्छेदप्रसंगात्।तथाहि, यस्य हानिरतिश- यवती तस्य कुतश्चित्सर्वात्मना व्यावृत्तिर्यथा बुद्धयादिगुणस्यात्मनः। तथा च दोपादेर्हानिरतिशयवती कुतश्चिनि- वर्तयितुमर्हति, सकलं कलंकमिति कथमकलंकसिद्धिर्न भवेत् । मणेर्मलादेव्यावृत्तिः क्षयः सतायतविनाशानु- पपत्तेः, ताहगात्मनोऽपि कर्मणां निवृत्तौ परिशुद्धिः, । कर्मणोऽपि वैकल्यमात्मवल्यमस्त्येव ततो नातिप्रसज्यते । प्रतिपक्ष एवात्मनामागुंतुको मलः परिक्षयी स्वनिर्हासानिमित्तविवर्द्धनवशात् ॥ ४ ॥ ननु निरस्तोपद्रवः.सन् आत्मा कथमकलंकोऽपि विप्रकार्पणमर्थं प्रत्यक्षीकुर्यात् ?- सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्य चिद्यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ।। ५ ।। वृत्तिः-सूक्ष्माः स्वभावविप्रकृष्टाः । अंतरिताः कालविप्रकृष्टाः । दूराः देशविप्रकृष्टाः । ते च ते अर्थाश्च सूक्ष्मान्तरितदूरार्थाः । तथा च स्वभावाविप्रकृष्टा मन्त्रौषधिशक्तिचित्तादयः । कालविप्रकृष्टा लाभा- लाभसुखदुःखग्रहोपरोगादयः । देशविप्रकृष्टा मुष्टिस्थादिद्रव्यम् । दूरा हिमवन्मदरमकराकरादयः । प्रत्यक्षाः अध्यक्षाः प्रत्यक्षज्ञानगोचराः कस्यचित् । सामान्यकथनमेतत् । अनिर्दिष्टनामधेयस्य-यथा दृष्टांतप्रर्दशकः अनुमयाः अनुमानगम्याः । अथवा अनुगतं मेयं मानं येषां ते अनुमेयाः प्रमेया इत्यर्थः । तेषां भावस्तस्मा- दनुमेयत्वतः । अग्निः पावकः आदिर्यस्यासावग्नादिः । इत्येवमनेन प्रकारेण सर्वज्ञस्य विश्वदर्शिनः सस्थि- निर्व्यवस्था सर्वज्ञसंस्थितिः सर्वज्ञास्तित्वामित्यर्थः । मागासिद्धानकांतिकविरुद्धहेत्वाभासाभावात् । ये ये प्रमेयास्ते ते प्रत्यक्षाः । यथा अग्न्यादयः । प्रमेयाश्च स्वभावकालदेशविप्रकृष्टा अर्थाः कस्य चित्पुरुषविशे- पस्य तस्मात्तेऽपि प्रत्यक्षाः । अथवा ये अनुमानगम्यास्ते प्रत्यक्षाः कस्य चित् । यथा अग्न्यादयः । अनुमानगम्याश्च सूक्ष्मान्तरितार्थास्तस्मात्तेऽपि प्रत्यक्षाः । सुनिश्चितासंभवद्वाधकप्रमाणस्य समर्थनमेतत् । विगतकर्मकलकोऽपि विप्रकृष्टार्थदर्शी सामान्येन यः प्ररूपितः स कः? इति विशेषं दर्शयन्नाह- अष्टशती-स्वभावकालदेशविप्रकर्षिणां अनुमेयत्वमसिद्धमिति-अनुमानमुत्सारयति । यावान् कश्चिद्भावः स सर्वः क्षणिका-इत्यादिव्याप्तेरसिद्धौ प्रकृतोपसंहाराऽयोगात् । अविप्रकर्षिणामनुमतैरानर्थक्यात् । सत्त्वादे- रनित्यत्वादिव्याप्तिमिच्छतां सिद्धमनुमेयत्वमनवयवेनेति न किंचिद्व्याहतं पश्यामः । तेऽनुमेयाः-न-कस्य चि- १ विप्रकण लि. पु. पाठः। २आप्रहः।

सनातनजनग्रंथमालायां- अन्यक्षश्च स्युः किं व्याहन्यतं इति समानमग्न्यादीनां तथा चानुमानोच्छेदः स्यात् । तदभ्युपगमे-अस्त्रमंत्र- द्यविज्ञानव्यक्तिभिरध्यक्षं किं लक्षयेत् प्रमाणतया परमप्रमाणतयेति न किंचिदतत्तया नैतत्तया वा यमभ्यु. पगंतुमर्हति । तदेवं प्रमेयत्वसत्त्वादिहेतुलक्षणं पुष्णाति तं कथं चेतनः प्रतिपधुमर्हति, संशयितुं वा । धर्मिण्यसिद्धसत्ताके भावाभावोभयधर्माणामसिद्धविरुद्धानेकांतिकत्वात् कथं सकलविदि सत्त्वसिद्धिः ? इति ब्रुवन्नपि देवानांप्रियः-तद्धर्मिस्वभावं न लक्षयति । शब्दानित्यत्वसाधनांप कृतकत्वादावयं विकल्पः किं न स्यात् ? । विमत्यधिकरणभावापन्नविनाशधर्मिधर्मत्वे कार्यत्वांदरसंभवद्वाधकत्वादरपि संदिग्धसद्भावाम- धर्मत्वं सिद्धं बोद्धव्यं । यदि विनकृष्टार्थप्रत्यक्षत्वमहतः साध्येत पक्षदोपः-अप्रसिद्धविंशपणत्वं तत एय व्याप्तिन सिद्धयत् । अनर्हतश्चेत्-अनिष्टानुपंगोऽपि कः पुनः सामान्यात्मा तदुभयव्यतिरेकेण, यस्य किंव- क्षितार्थप्रत्यक्षत्वं ?, इत्येतद्विकल्पजालं शब्दनित्यत्वेऽपि समानं न केवलं सूक्ष्मादिसाक्षात्करणस्य प्रतिपयने संशीती वा, तदयमनुमानमुद्रां भिनत्ति । वर्णानां नित्यत्वमकृतकत्वादिना सर्वगतानां यदि साधयति । स्यादप्रसिद्धविशेषणः पक्षः। इतरथाऽनिष्टानुःपंगः ।। कीदृक् पुनः सामान्य नाम यदुभयदोपपरिहाराय प्रकल्प्येत, सर्वगतसाधनऽपि समान अविवक्षितविशेषस्य पक्षीकरणे समः समाधिः, इत्यलमप्रतिष्टितमि- ध्याविकल्पोपाधः ॥ ५॥ स त्वमेवासि निर्दोपो युक्तिशास्त्राविरोधिवाक् । अविरोधो यदिष्टं ते प्रसिद्धन न वाध्यते ॥ ६ ॥ वृत्तिः स (पूर्वप्रकान्तः तच्छब्दः) पूर्वप्रक्रान्तपरामर्शी त्वमेव-भवानेव नान्यः । अन्ययोगव्य- वच्छेदफल एवकारः । असि-भवसि । निर्दोष:-अविद्यारागादिविरहितः क्षुधादिविरहितो वा अनंतज्ञाना- दिसंबंधन इत्यर्थः ? कुत एतत् | युक्तिशास्त्राविरोधिवार यतः । युक्तिः-अनुमानं न्यायः तत्सहचरितं मध्यक्षमपि । शास्त्र आगमः स्याद्वादः ताभ्यां अविरोधिनी अविसंवादिनी वाक् वाणी वचनं यस्यासी युक्ति- शास्त्राविरोधिवाक | बहिाप्तिमंतरेणांताप्या सिद्धं । यतः इयमेवान्यत्रापि प्रधाना । ननु वचन स्याऽविरोधः कुतः यावता यत्र वचनं तत्र विरोधो दृश्यते । अत आह अविरोधः अविसंवादः । यत्-यस्मात् । इष्ट-मतं प्रवचनं । कुतो वीतरागस्य इच्छा ? उपचारेण, सयोगिध्यानवत् । इष्टशब्दस्यापि जहत्स्वार्थे वृत्तित्वात् कुशलशब्दवत् । ते-तव । प्रसिद्धन परमतापेक्षं विशेषणमेतत् (परमसेन) अनेकांतवस्तुत्वेन । अथवा व्यवहिताव्यवहितप्रसिद्धलक्षणवता प्रमाणेन । न बाध्यते अन्यथा न क्रियते, तेनैव स्वरूपेण दृश्यत इत्यर्थः । किमुक्तं भवति-यो निर्दोषो विप्रकृष्टदर्शी सच त्वमेव भवसि । न्यायागमाविसंवादिवचनं । यतः अविरोधोऽपि, तव मतं न वाध्यते प्रसिद्धेन यस्मात् । ननु भो वत्स मदीयं मतं न वाध्यते अन्येषां किं वाध्यते ? अत आह- विप्रकर्ण्यपि भिनलक्षणसंबंधित्वादिना कस्य चित्प्रत्यक्षं । सोऽत्र भवानहनेव-अन्येषां न्यायागम विरुद्धमापित्वात् । विचित्राभिसंयंधितया व्यापारल्याहारादिसांकर्येण क्वचिदतिशयानिर्णये कैमर्थक्याविशे- पेष्टिः ! ज्ञानवतोऽपि विसंवादात् क पुनराश्वासं लभेमहि । नचैवं वादिनः किंचिदनुमानं नाम निरभि- संधीनामपि बदुलं कार्यस्वभावाऽनियमोपलंभात् । सति काष्टादिसामिग्रीविशेपे फचिर्दुपलब्धस्य तदभावे प्रायशोऽनुपलब्धस्य मण्यादिकारणकलापेऽपि संभवात् । यज्जातीयो यतः संप्रेक्षितस्तग्जातीयासागिति दुर्लभनियमितायां धूमधूमकेत्वादीनामपि व्याप्यव्यापकभावः कथमिव निर्णायेत ।। वृक्षः शिंशपात्वात् इति २ विज्ञानं मस्वसंवेद्य भूतपरिणामत्या पिसादिवत् । २ मुद्रितपुस्तकेऽयमधिकः पाठः। ३सहोच्चरितमित्यपि पाठः। ३सहोच्चरितमित्यपि पाठः । ४ अभिप्रायतया । ५ पचनादि । ६ भानः। ७ भग्नः । ८ सूर्यकांतमण्यादेः। . ? ।

६ . आप्तमीमांसा। लताचूतादरपि कचिदेव दर्शनात् प्रेक्षावतां किमिव निश्शंकं चेतः स्यात् ! । तदेत्तदृष्टसंशयकांतवादिनां विदग्धमर्कटकानामिव स्वलांगूलभक्षणं । यत्नतः परीक्षितं कार्य कारणं नातिवर्तते । इति चेत् स्तुतं प्रेस्तुतं । ततोऽयं प्रतिपत्तेरपराधो नानुमानस्येति अनुकूलमाचरति । तदेवं तत्सुनिश्चितासंभवद्वाधकप्रमाणत्वमर्हत्येवः सकलज्ञत्वं साधयति नान्यंत्र, इत्यविरोध इत्यादिना स्पष्टयति । तत्रेष्टं मतं शासनमित्युवचर्यते निराकृत- वाचोऽपि कचिदप्रतिषेधात् । नियमाभ्युपगमे सुषुप्त्यादावपि निरभिप्रायप्रवृत्तिन स्यात् । प्रतिसंविदिताका- रेच्छा तदा संभवंती पुनः स्मर्येत वांछांतरवत् । ततश्चैतन्यकरणपाटवयोः साधकतमत्वं सहकारिकारणांतरं न वै नियतमपेक्षणीयं नक्तंचरादेः सस्कृतचक्षुषो वा नापेक्षिताऽलोकसन्निधेरूपोपलभात् । नचैवं संवित्क- रणपाटवयोरप्यभावविवक्षामात्रात्कस्यचिद्वचनप्रवृत्तिः प्रसज्यते संवित्करणवैकल्ये यथाविवक्षं वागवृत्तेरभावात् । नच दोषजातिस्तद्धेतुर्यतस्तां वाणी नातिवर्तेत तत्प्रकर्षाप्रकर्षानुविधानाभावात् । बुद्धयादिवत्प्रमाणतः सिद्ध प्रसिद्धं तदेव कस्यचिद्वाधनं युक्तं विशेषणमेतत्परमतापेक्षं । प्रसिद्धनाप्यनित्यत्वाकांतधर्मेण बाधाकल्पनात् । नर्ते प्रमाणात्प्रेतिबंधसिद्धेरभ्युपगमात् । नच परेषां प्रत्यक्षं-अग्निधूमयोः क्षणभंगसद्धा- वयोर्वा साकल्येन व्याप्ति प्रति समर्थ-अविचारकत्वात् सन्निहितिविषयत्वाच्च । नचानुमान-अनवस्थानु- षंगात् । परीक्षांत विना नस्तर्केण संबंधो व्यवतिष्ठेत । तदप्रमाणत्व न लैंगिक समारोपव्यच्छेदाविशे- षात् । अधिगमोऽपि व्यवसायात्मैव तदनुपपतौ सतोऽपि दर्शनस्य साधनांतरापेक्षया संनिधानाभेदात्, सुषुप्तचैतन्यवत् ।। ६॥ वन्मतामृतवाद्यानां सर्वथैकांतवादिनां आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥ ७॥ वृत्तिः त्वद्-युष्मन्मतमेव आगम एव अमृतं सर्वात्मप्रदेशसुखकारणं दुःखनिवृत्तिलक्षणस्य परमानं- दमुक्तिसुखस्य निमित्तं वा मतं अमृतं तस्माद्वाह्या बहिर्भूता मिथ्यादृष्टयः त्वन्मतामृतबाह्याः तेषां वन्मता- मृतबाह्यानां-युष्मदागमद्विषतां । सर्वथा सर्वप्रकारैः स्वरूपपररूपविधिप्रतिषेधात्मकैः एकान्तं एकं धर्म नित्य-. त्वादिकमेव वदितुं शीलं येषां ते सर्वथैकांतवादिनः तेषां सर्वथैकांतवादिनां एकस्वभावाभ्युपगच्छताम् । आप्ताः सर्वज्ञाः इति.अभिमानः गर्वः अहंकारः तेन दग्धाः भस्मसात्कृताः प्रलयं नीताः, तेषां आप्ताभिमा- नदग्धानाम् । स्वस्य आत्मनः इष्टं मतं स्वेष्टं आत्माभ्युपगतप्रमाणप्रमाणफलं सर्ववस्तु । दृष्टेन प्रत्यक्षेण प्रत्य- क्षप्रमितेन अनेकान्तात्मवस्तुना वा, बाध्यते विरोधमुपनीयते अन्यथा क्रियत इत्यर्थः । किमुक्तं भवति । भवदागमबाह्या आप्ताभिमानदग्धाः सर्वथैकान्तवादिनः तेषां स्वेष्टं दृष्टेन बाध्यते । धर्मकीर्तिमतनिरासार्थ- मन्वयव्यातरकावृक्तवानाचार्यः । द्रव्यार्थिकपर्यायार्थिकानुग्रहार्थ वा ॥ ७॥ परवादिस्वेष्टस्य दृष्टेन बांधां प्रदय इदानी स्वेष्टेन स्वेष्टस्य बाधां दर्शयितुमाह- अष्टशती-अनेकांतात्मक़वस्तुसाक्षात्करणंबहिरंतश्च सकलंजगत्साभीभूतं विपक्षे प्रत्यक्षविरोधलक्षण- अनेन दक्षयति- न हि किचिद्रूपांतरविकलं सदसन्नित्यानित्यायेकांतरूपं संवेदनमन्यद्वा पश्यामों यथा प्रतिज्ञायते चित्रज्ञानवत्कथंचिदसंकीर्णविशेषकात्मनः सुखादिचैतन्यस्य वर्णसंस्थानाद्यात्मनः स्कन्धस्य च प्रेक्षणात् । सामान्यविशेषकात्मनः संवित्तिरेकातस्यानुपलब्धिर्वा सर्वतः सिद्धा चक्षुरादिमतामनाईतकल्पनामस्तं गम- यति. इति किं नः प्रमाणांतरेण । न हि दृष्टाज्ज्येष्टं गरिष्ठमिष्टं तदभावे प्रमाणांतराप्रवृत्तेः समारोपविच्छे- दविशेषात् अन्वयव्यतिरेकयोः स्वभावभेदप्रदर्शनार्थत्वाच । अनैकांतकांतयोरुपलंमानुपलंभयोरेकत्वप्रदर्श- - - १ प्रकृतं । २ समर्पितं । ३.अविनामावः । ४ सांगतानां । ५ निर्विकल्पकत्वात् । ६ बौद्धाचार्यः ।

- . सनातनजैनग्रंथमालायां- नाथै मतांतरप्रतिशेपार्थ वा । यदाह-साधर्म्यवैधर्म्युयोरन्यतरेणार्थगतावुभयप्रतिपादनं पक्षादिवचनं वा निग्रहस्थानमिति न तयुक्तं साधनसामर्थ्येन विपक्षव्यावृत्तिलक्षणन पक्ष प्रसाधयत: केवलं वचनाधिक्यों- पलंभछलेन पराजयाधिकरणप्राप्तिः स्वयं निराकृतपक्षण प्रतिपक्षिणा लक्षणीयेति प्रतिज्ञानुयोगि- शास्त्रादिष्वपि नाभिधीयेत विशेपाभावात् । यत्सत्तत्सर्वं क्षणिकं यथा घटः संश्च शब्दः इति त्रिलक्षणं हे- तुमभिधाय यदि समर्थयते कथमिव संधामतिशेत तावतार्थप्रतिपत्ती समर्थनं वा निगमनादिकं यतः परा- जयो न भवेत् । सत्त्वमात्रेण नश्वरत्वसिद्धी-उत्पत्तिमत्त्वकृतकत्वादिवचनं अतिरिक्तविशेषणोपादानात् कृतकत्वप्रयत्नानंतरीयकत्वादिषु च कप्रत्ययातिरेकादसाधनांगवचनं पराजयाय प्रभवेत् । क्वचित्पक्षधर्म- प्रदर्शनं संश्चशब्दः इत्यविगानात् त्रिलक्षणवचनसमर्थनं च, असाधनांगवचनं अपजयप्राप्तिरिति व्या- हतं । तथान्यस्यापि प्रस्तुतेतरस्य वादिनोक्तावितरस्य स्वपक्षमसाधयतो विजयासंभवात् निग्रहस्थानमयुक्तं । साधनांगस्यावचनं, प्रतिवादिनाप्यदोषस्योद्भावनं दोषस्यानुद्भवनं वा-अनेन प्रत्युक्तं । विजिगीषुणोभयं कर्तव्यं स्वपरपक्षसाधनदूपणं । अतोऽन्यतरेणासिद्धानैकांतिकवचनेऽपि जल्पापरिसमाप्तिः ॥ ७ ॥ निराकृतावस्थापितविपक्षस्वपक्षयोरेव जयेतरव्यवस्था नान्यथति दर्शयन्नुभयमाह- कुशलाकुशलं कर्म परलोकश्च न कचित् । एकांतग्रहरक्तेषु नाथ स्वपरवैरिषु ॥८॥ वृत्तिः-कुशलं सुखनिमित्तं, अकुशलं दुःखहेतुकं, कर्म मिथ्यात्वासंयमकपाययोगकारणसंचितपुद्गल- प्रचयः । कुशलं चाकुशलं च कुशलाकुशलं कर्म शुभाशुभमित्यर्थः । परलोको भवांतरगतिरन्यजन्म | चशब्दोऽनुक्तसमुच्चयार्थः । तेन तत्फलंबंधमोक्षेहलोकादयो गृह्यन्ते | नशब्दः प्रतिषेधार्थः । कचित् केषु- चित् । एक एवांतो धर्मः एकांतः तस्य ग्रहणमभ्युपगमो ग्रहः एकांतग्रहः तस्मिन् तेन वा रक्ता रंजिताः, प्रविष्टा भक्ता एकांतग्रहरक्ताः । अथवा ग्रह इव ग्रहः तेन व्याकुलिताः तेषु एकांतग्रहरक्तेषु । नाथ स्वामिन् ! श्रद्धावचनमेतत् । स्वश्चात्मा च परे चान्ये च स्वपरे तेषां वैरिणः शत्रवः तेषु स्वपरवैरिषु । किमुक्तं भवति? हे नाथ! अर्हन् ! एकांतग्रहरक्तेषु स्वपरवरिषु केषु चिदपि शुभाशुभकर्म नास्ति । परलोकांदयश्च । न सन्ति । एकांततस्त्रग्रहणात् । यद्यपि पक्षान्तर्भूतो हेतुस्तथापि पृथग्द्रष्टव्यः । “अंतर्व्याप्तिसंग्रहात् । न केवलमेकान्तवादे कुशलाकुशलादिकं कर्म न घटते किं तु प्रमाणप्रमेयपक्षविपक्षहेतुहेत्वाभासदूषणा- भासादिकमपि सर्वथार्थक्रियायोगात् ॥ ८ ॥ सामान्येनैकांतवाद्यभ्युपगतस्य वाचं प्रदर्थेदानी दूषयितुमनाः स्वल्पोऽपि शत्रुपेिक्षणीय इति न्यायमनुसरन्प्रथमतरं तावद्भावैकांतं भस्मसात्कर्तुमाह- अष्ठशती-कर्मफलसबंधपरलोकादिकं-एकांतवादिनां प्रायेणेष्टं तदनेकांतप्रतिषेधेन बोध्यते ततोऽनुष्ठानम- भिमतव्याघातकृत्, सदसन्नित्यानित्यायेकांतेषु कस्यचित् कुतश्चित् कदाचित् कचित्प्रादुर्भावासंभवात् । न हि सर्वात्मना सर्वस्य भूतावेव जन्मविरुद्धं-अपि तु सर्वथाऽभावेऽपि, व्यलीकप्रतिभासानामनुपरमप्रसंगात् । न केवलं स्वभावनैरात्म्य एवायं दोषः किं त्वंतरुभयत्र वा निरन्वयसत्त्वेऽपि न, कार्यकालमप्राप्नुवतः कारण- त्वानुपपत्तेचिरतरातीतवत् । सत्यभवतः स्वयमेवं नियमेन पश्चाद्भवतस्तत्कार्यत्वं विरुद्ध कालांतरेऽपि किं न स्यात् तदभावाविशेषात् समनंतरवत् । समर्थे सत्यभवतः पुनः कालांतरभाविनस्तत्प्रभावाभ्युपगमे कथम- क्षणिकेऽर्थक्रियानुपपत्तिः ! तत्सत्त्वासत्त्वयोरविशेषात् । कारणसामपिक्षिणः कालनियमकल्पनायां-अंचल- पक्षेऽपि समानः परिहारः । क्षणवर्तिन एकस्मात्कारणस्वभावमभेदयतां विचित्रकर्मणामुत्पत्ती कूटस्थेपि किं न स्यात् कार्योत्पत्तिः। कथमत्रोत्पत्तिर्नाम ? तत्र समानः पर्यनुयोगः, सदसतोरनुत्पत्तेः,निष्पन्नखपुष्पवत् । सतः १ नित्यपक्षेऽपि ॥ - . १ ? आप्तमीमांसा। पुनर्गुणांतराधानमनेकं क्रमशोऽप्यनुभवतः किं विरुद्धयेत क्षणस्थायिनः कस्य चिदेव ग्राह्यग्राहकाकार- वैश्वरूप्यानभ्युपगमेऽपि संविदितज्ञानस्य ग्राह्यप्राहकाकारविवेकं परोक्षं विभ्राणस्य सामर्थ्यप्राप्ते:-अन्यथा शून्यसंविदोविप्रतिषेधात् । तदयं क्षणस्थायिकारणं स्वसत्तायां कायं कुर्वदम्युपगच्छन् क्रमोत्पत्तिमुपरुणद्धि, सकलजगदेकक्षणवृत्तिप्रसंगात् । कारणस्य कार्यकालप्राप्ती क्षणभंगभंगानुपंगात् । तदप्राप्नुवतस्तत्कृती व्यलोककल्पनाविशेषेण कूटस्थानतिशायनात् । ततः सुभाषितं कुशलाद्यसंभूतिरेकांतग्रहरक्तश्विति ॥ ८ ॥ भावकांते पदार्थानामभाषानामपहवात । सर्वात्मकमनायतमस्वरूपमतावकम् ॥ ९ ॥ वृत्तिः --भाव एवेति सन्नवेति एकांतः असहायधर्मग्रहो भावैकांतः । सर्वथा सत्याभ्युपगम इत्यर्थः । तस्मिन्भावकान्ते पदार्थानां । पंचविंशतितत्त्वानां चेतनाचेतनदेवमनुजपशुनारकस्तम्भकुम्भाम्भाप्रभृतीनां वा अभावानां वस्तुधर्माणां त्वङ्गानां विशेषणमित्यर्थः , बहुवचनाच्चत्वारोऽपि परिगृह्यन्ते अपह्नवान्निरा- करणादित्यर्थः । किं स्यात् ? सर्व निरवशेषमात्मा स्वरूप यस्य तत्सर्वात्मकं विश्वमेकस्वरूपमित्यर्थः । आदि- रुत्पत्तिःपूर्वस्मिन्नसत्त्वं । अंतोऽवसानं विनाशो वा आदिश्चान्तश्चातौ तौ न विद्यते यस्य तदनाद्यन्तम- नाद्यनन्तमित्ययः । स्वमात्मीयरूपमाकारः स्व आत्मैव वा रूपं स्वरूप न विद्यते तद्यस्य तदस्वरूपं | अ- भाव इत्यर्थः । तवेदं तावकं न तावकमतावकं । किमुक्तं भवति-पदार्थानां भावैकांताभ्युपगमे अतावक सर्वाद्यात्मकमनाद्यनंतमस्वरूपं स्यात कस्मात्सर्वाभावापहवात् ॥ ९ ॥ अथ मतं केऽभावाः, कियंता वा, कान्यनाद्यनंतानि ? कस्मादभावात किं स्यादत आहः- अष्टशती-निष्पर्यायद्रव्यैकांतपक्षे सर्वात्मकत्वादिदोपानुषंगः कुतः पुनर्विशेषानपढुवीत सत्सा- धनव्यभिचारात् । संविनिर्भासभेदाद्भावस्वभावभेदः प्रकल्प्यते, स पुनरभेदेऽप्यात्मनः खंडशः प्रतिभासमा- नात्, तदन्यत्रापि विभ्रमाभावे कोशपानं विधेयं । तदेकं चक्षुरादिज्ञानप्रतिभासभेदवशाद् रूपादिव्यपदेशभाक ग्राह्यग्राहकसंवित्तिवत् । इतरेतराभावविकल्पोऽपि कथमयतार्थो न स्यात् वर्णादिविकल्पवत् । न हि वस्तुन्य- तिरिक्तमसन्नाम प्रमाणस्यार्थविषयत्वात् । अभावदृष्टौ हिं तदवसानकारणाभावाद्भावदर्शनमनवसरं प्राप्नोति । सकलशक्तिविरहलक्षणीनरुपाख्यस्य स्वभावकार्यादेरभावात् । कुंतस्तत्प्रमिति:? वस्तुनानात्वं बुद्धयादिकार्यना- नात्वात् प्रतीयते । स्वभावाभेदेऽपि विविधकर्मता दृष्टा युगपदेकार्थोपनिबद्धदृष्टिविषयक्षणवत् । शक्ति- नानात्वे प्रसवविशेषात् स चयभिचारी ? दुतस्तद्गतिः । केवलमविद्यास्वभावदेशकालावस्थाभेदेनात्मनि परत्र चासतः स्वयमसता मिथ्याव्यवहारपदवीमुपनयति-यतः क्षणभंगिनो भिन्नसंततयः स्कंधा विकल्प्येरन् । अन्यथा चेति प्रतिभासकार्याधभेदेऽपि कस्य चिदेकत्वं प्रसाधयतीति साध्यसाधनयोरभेदे कि केन कृतं स्यात् ! पक्षविपक्षादेरभावात् । न क्वचिदसाधना साध्यसिद्धिरतिप्रसंगात् ॥ २ ॥ कार्यद्रव्यमनादि स्यात्लागभावस्य निहवे। मध्वंसस्य च धर्मस्य प्रच्यवेऽनंततां ब्रजेत् ॥ १०॥ वृत्तिा कार्य च द्रव्यं च कार्यद्रव्य वस्त्वन्यथाभावा, घटादिकं । क्रियत. इति कार्यम् । अवस्थान्तरं द्रवति गच्छतीति द्रव्यम् । अनाद्यनंतसर्वकालैकस्वरूपं नित्यमादिरहितं स्याद्भवेत् । प्राक पूर्वस्मिन्नभाव:. अंसत्त्वं प्रागभावः । मृत्पिण्डे घटस्यासत्त्वमित्यर्थः । तस्य प्रागभावस्य निहवे विलोपे निराकरणे । प्रध्वं- संस्य च विनाशस्य च घटस्य कपालनाशादय इत्यर्थः। धर्मस्य-विशेषस्य गुणस्य प्रच्यवे अभाव निराकरणे । अनंतस्य भावोऽनंतता तामनंततामपयर्वसानं सर्वकालकार्यमिति संबंधनीयम् । बजत् गच्छेत् । किमुक्तं भवति-प्रागभावस्य निहवो यदि स्यात्कार्यद्रव्यमनादि स्यात् । प्रध्वंसाभावास्याभावस्य चाभावे तदेव कार्यद्रव्यमनंततां बजेत् ॥ १० ॥ तृतीयचतुर्थाभावस्वरूपं तदभावे च यद्भवति- ? ?

सनातनजैनग्रंथमालायां- अष्टशती-प्रागभावानभ्युपगमे घटादेरनादित्वप्रसंगात् पुरुषव्यापारानर्थक्यं स्यात् । कल्पयित्वापि तदमिव्यक्ति तस्याः प्रागभावोंऽगीकर्तव्यः । तथाहि सतः शब्दस्य . ताल्वादिभिरभिव्यक्तिः प्रागसती क्रियते न पुनः शब्द एवेति स्वरुचिविरचितदर्शनप्रदर्शनमात्रं । सा यदि श्रवणशानोत्पत्तिः सैव कथं प्राक -सती यत्नतः कर्तव्या। योग्यतायां समानश्चर्चः। तदावरणविगमः प्राक किमभूत् भूतौ वा किं यत्नेन ?. विशे- षाधानमपि तादृगेव कर्तृकर्मकरणानां प्रागभावाभावात्, न कश्चिद्विशेषहेतुः, ताल्वादयो व्यंजका न पुन- श्चक्रादयोऽपि इति । न हि व्यंजकव्यापृतिनियमेन व्यंजकं संनिधापयति । नायं दोपः सर्वगतत्वाद्वर्णाना- मित्यपि वात ? अन्यत्रापि तथाभावानुषंगात् । इष्टत्वात् अदापोऽयं न कारणव्यापारेष्वपि चोद्यानिवृत्तः । एतेनानवस्था प्रत्युक्ता तद्विशेपैकांते तद्वतोऽनुयोगस्तावतेति कर्तव्यतास्थानात् । अभेदैकांते पूर्ववत्प्रसंगः । परिणामेऽप्येषः पर्यनुयोगस्तदभिन्नानां क्रमशोवृत्तिर्माभूत् । मिन्नानां व्यपदेशोऽपि माभूत् संबंधासिद्धरनुप- कारकत्वात् । उपकारेऽपि .सर्व समानं अनवस्था च । विनाशानग्युपगमे तस्य किंकृतमश्रावण ! तदात्मा- नमखंडयतः कस्यचिदावरणत्वायोगात् । आवृतानावृतस्वभावयोरभेदानुपपत्तेः । तयोरभेदे वा शब्दस्य श्रुति- रश्रुतिर्वा इत्येकातः । तमसापि घटादेरखंडने पूर्ववदुपलब्धिः किं न भवितुमर्हति स्वसवित्त्युत्पत्ती कारणांत- रापेक्षा माभूत् तत्करणसमर्थस्य, अन्यथा तदसामर्थ्यमखंडयदकिंचित्करं किं सहकारिकारणं स्यात् । तत्खंडने , वा. स्वभावहानिरव्यतिरेकात् । व्यतिरेके व्यपदेशानुपपत्तिरिति पूर्ववत्सर्वं । वर्णानां व्यापित्वानित्यत्वाच्च क्रमश्रुतिरनुपपनैव, समानकरणानां तादृशाममिव्यक्तिनियमायोगात् । सर्वत्र सर्वदा सर्वेषां संकुला श्रुतिः स्यात् । वक्तृश्रोक्तृविज्ञानयोस्तत्कारणकार्ययोः क्रमवृत्चित्यमपेक्ष्य परिणा- मिनां क्रमोत्पत्तिप्रतिपत्त्योर्न, किंचिद्विरुद्धं पश्यामः । सर्वगतानामेष क्रमो दुष्करः स्यात् क्षणिकेष्वेव करणांगहारादिषु प्रयभिज्ञानाद्विरुद्धो हेतुः । तक्रियैकत्वेऽपि किमिदानीमनेकं स्यात् । सर्ववर्णकत्य- प्रसंगात् । शक्यं हि वक्तुं-अभिव्यंजकभेदाद्वैश्वरूप्यं जलचंद्रवत् । क्वचित्प्रत्यक्षविरोधे ! तदन्यत्राप्यंविरोधः कुतः तदयं तालादिव्यापारोपजीनतश्रावणस्वभावं परित्यज्य विपरीतमासादयन्नपि नित्यश्चन्न किंचिदनित्यं । युग़पत्प्रतिनियतैकदेशमंद्रतारश्रुतेः कस्य चिदेकत्वेन क्वचिदनेकत्वसिद्धेः। न हि कथंचित् क्वचित्प्रत्यवमर्शो न स्यात्, तच्छेषविशेषबुद्धरभिव्यंजकहेतुत्वप्रक्लप्तौ सर्व समंजसं प्रेक्षामहे । तदेतेषां पुद्गलानां करणसंनिपा- तोपनीतश्रावणस्वभावः शब्दः पूर्वापरकोव्योरसन प्रयत्नानंतरीयको घटादिवत् पुद्गलस्वभावत्वे दर्शनविस्ता रविक्षेपप्रतीघातकर्णपूरणैकश्रोत्रप्रदेशाग्रुपलंभो गंधपरमाणुप्रतिविधानतयोपेक्षामर्हति । कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतोभवनाद्युपघातिनः शब्दस्य प्रसिद्धिः-अस्पर्शत्वकल्पनामस्तं गमयति । निश्छिद्रानरगमनादयः सूक्ष्मस्वभावत्वात् स्नेहादिस्पर्शादिवन विरुध्येरन् अतो यनजनितवर्णाद्यात्मा श्राव- णमध्यस्वभावः प्राक पश्चादपि पुद्गलानां नास्तीति तावानेव ध्वनिपरिणामः । ततः प्राकप्रध्वंसाभावप्रति- क्षेपे कोटस्थ्यं क्रमयोगपद्याभ्यां स्वाकारज्ञानाद्यर्थक्रियां व्यावर्तयंतीति निरूपाख्यत्वमित्यभिप्रायः । तदानु पूर्वीकल्पना विस्तरेण प्रतिक्षेप्स्यामः ॥ १० ॥ सर्वात्मकं तदेकं स्यादन्योपाहव्यतिक्रमे । अन्यत्र समवायेन व्यपदिश्येत सर्वथा ॥ ११ ॥ वृत्ति:-सर्वो विश्वौ निरवशेषः आत्मा स्वरूप यस्य तत् सर्वात्मकम् । सत् किचिद्वस्तु विवक्षितरूप, एकं-अभेदरूपं-स्यात् भवेत् । अन्यस्य अपरस्य अपोहो-निराकरणं तस्य व्यतिक्रमः-निहवः निराकृतिः स तथाभूतः तस्मिनन्यापोहळ्यतिक्रमे इतरेतराभावाभावे इत्यर्थः । अन्यत्र अत्यन्ताभावाभावे । समवायेन मीलनेन समुदायन । व्यपदिश्येत कथ्येत अभ्युपगम्येत । सर्वथा सर्वप्रकारैः । खरविपाणादि । अथानयो- रभावयोः को विशेषः? इति चेत्-घटे पटाभाव इतरेतराभावः । कदाचित्कालांतरे तत्तेन स्वरूपेण भवति, शक्तिरूपेण विद्यमानत्वात् । अत्यंताभावः पुनर्जीवत्वेन पुद्गलस्यामावः कदाचिदपि तेन स्वरूपेण न भवति ।

. : आप्तमीमांसा-1 एतदुक्तं भवति-अन्यापोहळ्यतिक्रमे सति,. किंचिद्विवक्षितं सर्वात्मकमेकं भवति । अत्यंताभावाभाने पुनरैक्येन सर्वप्रकारैर्व्यपदिश्येत । ततो न . किंचित्स्यात् ।। . भावैकांतपक्षे कुशलाकुशलकर्मादेरघटनां प्रदर्थ अभावकांतपक्षेऽपि भृशं न घटत इति प्रदर्शयन्नाह. अन्तशती-स्वभावांतरात्स्वभावव्यावृत्तिरन्यापोहः । संविदों ग्राह्याकारात्कथं चिद्व्यावृत्ती- अनकांत- सिद्धिः-अन्यथा संबंधासिद्धिः । अव्यावृत्तावन्यतरस्वभावहानेन किंचित्स्यात् विषयाकारविकलस्यानुपलब्धेः । संवित्तेः स्त्रलक्षणप्रत्यक्षवृत्तावपि संवेद्याकारवित्रेकस्वमावांतरानुपलब्धेः स्वभावव्यावृत्तिः । शवलविषयनिर्भासे ऽपि लोहितादीनों परस्परल्यावृत्तिरन्यथा चित्रप्रतिभासासंभवात् तदन्यतमवत्तदालंबनस्यापि नीलादेरभेदस्वभा- शपत्तः। तद्वतस्तेभ्योव्यावृत्तिरेकानेकस्वभावत्वात् संपादिवत् अन्यथा द्रव्यमेव स्यान्न रूपादयः । स्वाभाविक- त्येऽपि नि सबैलक्षण्यं करणसामिप्रीभेदमनुविदध्यात दूरासन्नकार्थीपनिबद्धनानादर्शननिर्भासवत् । प्रति पुरुष विषयस्वभावभेदो वा सामिग्रीसंवत्रभेदात् । अन्यथा. न केवलं. रूपादेरभेदः । कस्य चित्क्रमशः संबं- ध्यंतरेपनिपातोऽपि स्वभावं न भेदयेत् । ततः क्रमवंत्यपि कार्याणि तत्स्वभावभेदं नानुमापयेयुः ततो यावंति संबंध्यंतराणि तावंतः प्रत्येक भावस्वभावभेदाः परस्परल्यावृत्ताः । न हि कस्यचित्केनचित् साक्षात्परंपरया वा संबंधो नास्ति निरुपाख्यत्वप्रसंगात् । तदेवं प्रतिक्षणमनंतपर्यायाः प्रत्येकमर्थसार्थाः । क्रमशोऽपि विच्छेदे, अर्थक्रियानुपपत्तेः । स्वभावमसंतन्वतः कचिपकारितानुपपत्तेः । कारणस्य स्वकार्यात्मना भवतः प्रतिक्षेपायो- गात् । स्वभावांतरानपक्षणात् | तस्मादयमुविसुरेव नश्यति । नश्वर एव तिष्ठति । स्थास्नुरेवोत्पद्यते । ततः प्रतिक्षणं त्रिलक्षणं-स्थितिरेवोत्पद्यते। विनाश एव तिष्ठति । उत्पत्तिरेवं नश्यति । स्थितिरेव स्थास्यत्युत्पस्यते 'विनश्यति । विनाश एवं स्थास्यति उत्पस्यते विनश्यति । उत्पत्तिरेव उत्पत्स्यते विनश्यति स्थास्यतीति न कुतश्चिदुपरम इति भावः । द्रवति द्रोष्यति अदुद्रवत् सत्तव विशिष्यतें द्रव्य-क्षेत्र-काल-भावात्मना । ततः परस्परब्यावृत्तस्वभावाननंतगुणपर्यायान् प्रतिक्षणमासादयंती सत्तेव तिष्ठतीत्यादि योज्यं । तथा भेदानेव संद्रवंतीत्यादि प्रतिपत्तव्यं । अत्यंताभावापकृतौ न काचित्किचित् कथंचित् वर्तते तथा सर्वं सर्वत्र सर्वदोप- लभ्येत । कथं पुनरभावप्रतिपत्तिः ? कथंचन स्यात् । प्रत्यक्षस रूपादिस्वलक्षणविषयत्वात प्रमाणांतरस्यापि स्वकारणविषयत्वादंतशोऽनुपलब्धैः । पर्युदासवृत्त्या वस्तुनि नियमादेकस्य कैवल्य इतरस्य वैकल्यमिति ब्रुवन्नपि देवानांप्रियो नावधारयति भावाभावप्रतिपत्तरभावाभ्युपगमात् । स्वपररूपादिभावाभावलक्षणत्वात् सर्वस्य निश्रेणीपदबंधाभ्यामिव भावाभावस्वभावाभ्यां प्रतिबंधानं किंचित्प्रमाणं सर्वात्मना भावमभाव वा गृहीतु मर्हति अनियमप्रसंगात् । भावप्रमेयेकांतवादिनामभावप्रतिपत्तिरयुक्तिः अतो न भावप्रतिपत्तिः तत्प्रमेय- तोपसंख्यानं प्रमाणद्वयनियम विवटयति |भावनैरात्म्यस्य प्रमाणाकारणत्वात प्रतिबंधनियमपि माभूत् ॥११॥ अभावैधतपक्षेऽपि भावापहववादिनां। बोधवाक्यं प्रमाणं न कंन साधनदूपणम् ॥ १२ ॥ वृत्तिः अभाव इति अंसन्निति एकांतो मिथ्याभिप्रायोऽभावकांतः । स एव पक्षोऽभ्युपगंमस्त- स्मिन्नप्यभात्रकांतपक्षेऽपि । न केवळं भावकाते, किं लंभावकांतेऽपि भावस्य सत्त्वस्य अपहवः अभावो निराकरणं तं बदितुं श्रीलं येषां ते तथाभूतास्तेषां भावापहववादिनाम् । बोधो ज्ञानं स्वार्थानुमानं, वाक्य नागमः परार्यानुमानम् । वोधश्च वाक्यं च बोधवाक्यम् । प्रमीयतेऽनेनेति प्रमाणं स्वपरावभासकं ज्ञानं । न प्रतिवधवचनम् । केन कतरेण । साधनं च दूयणं च साधनदूषणं द्वेदैकवद्भावः । स्वपक्षसिद्धिः परपक्षनिराकरण । भावापववादिनामभावकांते बोधवाक्ययोरप्यभावस्ततः प्रमाणाभावात् केन साधनं केन या दूपणं नियत इति संबंधः ।। १२ ।। .1 १ मुन्तश्चिदुपरमत पाठोऽयं लिखित पुस्तके । २ असदिति पाठो लिखितपुस्तके ।

- . . मनातननग्रंथमालायां- (क्रमांक 8 भावाभावैकति विराध निरूप्योभयकांतवादिनामपि न किंचिरताच्छले इत्याह- अष्टशती-बहिरंतश्र परमार्थसत् अन्यतरापायेऽपि साधनदूपणप्रयोगीनुपपत्तरियतार्थपरिसमाप्ती की विलक्षणविकल्पनया। न हि संवृत्या साध्यसाधनव्यवस्था युक्तिमती । शून्यसिद्धस्परमाचल पुनरनिराकृत- सद्भावस्य सर्वस्याशून्यतानुपंमात् । समारोपव्यवच्छेदेऽपि समानं हेयोपादेयोपायरहितमयमहीकः केवलं विक्रो- शति । संवृत्त्यास्तीति सारूपेणत्ययमर्थः ? कृतमनुकूलं. केवलं वक्ता आत्मनो वैयात्यं सूचयति । अथ पर- रूपेण · नास्ति. नानि विवादात् एतदपि ताडगेव । तदेतेनाभयानुभयविकल्पः. प्रत्युक्तः। तदस्ति मृपात्म. नेति समानश्चः । संवृविचारानुपपत्तिरित्ययुक्तं. तदभावात्तत्प्रतिपादनार्थ.शास्त्रमुपदिशन्नुपदेष्टार चावण- यन् सर्व प्रतिक्षिपतीति कथमनुन्गत्तः ? सौद्रोदनरेव तावत्प्रज्ञापराधोऽयं लोकातिक्रांत:: कथं. वभूवेत्यति- विस्मयमास्महे । तमन्ये पुनरचापि कीर्तयंतीति किं वत परमन्यत्र मोहनीयप्रकृतेः ॥ १२ ॥ विरोधानोभयकात्म्यं स्यावादन्यायविद्विपा अवाच्यतेकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ।। १३ ।। वृत्तिः-विरोधाद्वयभिचारात् पूर्वापरासंगतत्वात् । न प्रतिपंधवचनम् । एक आत्मा. स्वभावो ययोस्तों तथा तयोर्भावस्तदैकात्म्यम् । उभयोः सत्वासत्त्वयोरैकात्म्यमुभयकात्म्यं भावाभावक्यमित्यर्थः । न्यायो युक्तिः प्रमाणेन प्रमेयस्य घटना । स्याद्वाद एव न्यायः स्याद्वादन्यायस्तस्मै विद्विपस्तं वा विद्विपन्तीति स्यांद्वादन्या- यविद्विपस्तेषां स्याद्वादन्यायविद्विपामनेकांतवैरिणाम् । अथ भावाभावोभयकांतपक्षदोपदर्शनादवाच्यतेकांत आधीयते । तथापि दोष एव अत आह। उच्यत इति वाच्यं न वाच्यमवाच्यं तस्य भावोऽवाच्यतासैव एकांतोs- विद्याध्यवसायोऽवाच्यतैकांतस्तरिमन्नवाच्यतकांते. अपि । शब्दार्थयारवांच्यवाचकत्वेऽपि। रक्तिर्वचनं अवाच्य- मित्यवक्तव्यमिति । न युज्यते न घटते । स्याद्वादन्यायविद्विषां वादिनामुभयैकात्म्यं न.भवति । विरोधात् । विज्ञानशून्यवत् । तथावक्तव्यकांतपक्षेऽपि अवाच्यमित्येवं या उक्तिः साऽपि न युज्यते ।.सर्वथाऽवाच्यत्वात् । एकराब्देन घटपटादिवत् ॥ १३ ॥ एकहेलया यदि सर्वथा सदसदुभयावक्तव्यरूप तत्वं नास्ति कथ. तहत्यिाह-- अष्टशती-भावाभावयोरेकतरप्रतिक्षेपकांतपक्षोपक्षिप्तदोषपरिजिहीर्पया सदसदात्मकं सर्वमभ्युगच्छ- तोऽपि वाणी विप्रतिपिध्यते । तस्याः परस्परपरिहारस्थितिलक्षणत्वात् । न. हि सर्वात्मना कंचिदर्थ संतं तथै- वासंतमाचक्षाणः स्वस्थ: स्वाभ्युपगमेतरनिरासविधानकरणात् शून्यावबोधवत् । त्रैलोक्यं व्यक्तरपैति नित्यत्व- प्रतिषेधातू-अपेतमप्यस्ति विनाशप्रतिषेधादिति था तदन्यथापेतमन्यथास्तीति स्याद्वादावलंबनमधसर्पवि- लप्रवेशन्यायमनुसरति । योऽपि पक्षत्रयोपक्षिप्तदोपपरिजिहासया. सर्वथाऽयक्तव्यतत्वमवलंबते . सोऽपि कथमवक्तव्यं ब्रूयात् ! नेप दोपः स्वलक्षणमनिर्देश्यं प्रत्येकं कल्पनापाढमित्यादिवत् । तदप्यसत् यदसतः. समुदाढतं । यथैवाक्षविपयेऽभिधानं नास्ति तथाक्षाने विषयो नैवास्ति ततस्तत्र प्रतिभासमानेपि न प्रति-- भासते । न केवलं.विषयवलात् · दृष्टेरुत्पत्तिः अपि तु चक्षुरादिशक्तेश्च । तदर्थवत् करणमनुकर्तुमर्हति न वार्थ विशेषाभावात् । दर्शनस्य कारणांतरसद्भावेऽपि विषयानुकारानुकारित्वमेव, सुतस्येव . पित्राकारा- नुकरणमित्यपि वात स्वोपादानमात्रानुकरणत्वप्रसंगात् । उभयाकारानुकरणेऽपि रूपादिवदुपादानस्याकि विषयतापत्तेरतिशयाभावात् । वादेर्वा तद्वदविषयत्वप्रसंगात् । तजन्मरूपाविशेपेऽपि तदध्यवसायनियमाल बहिरर्थविषयत्वमित्यसारं । दर्शनस्यानध्यवंसायात्मकत्वाददोपोऽयं प्रत्यक्षस्याध्यवसायहेतुत्वा'दित्यनिरूपिता- मिधानं तत्राभिलापाभावात् । तदभावेऽप्यध्यवसायकल्पनायां प्रत्यक्षं किं नाध्यवस्येत् । यथैव हि प्रत्यक्षस्या- मिलापसंसर्गयोग्यता नास्ति तथा तत्समनंतरभाविनोऽपि विकल्पस्य । तथाहि किंचित्केन चिद्विशिष्टं गृह्य-- माणं विशेषणविशेष्यतत्सबंधव्यवस्थाग्रहणमपेक्षते दंडिवत् । नचायमियतो व्यापारान् कर्तुं समर्थः । प्रत्यक्ष- चलोत्पत्तेरविचारकत्वात्-प्रत्यक्षवत् । नैतदेवं शब्दार्थविकल्पवासनाप्रभवत्वान्मनोविकल्पस्य ततस्तही आप्तमीमांसा। १२ः कथमक्षवुद्धेरूपादिविषयत्वनियमः ! तदभ्युगमे या नदमिलापसंसगोंऽपि तदद मीयते । तस्मादयं किंचि- त्पश्यन् तत्सदृशं पूर्वदृष्टं न स्मर्तुमर्हति तन्नामविशेषास्मरणात् । तदस्मरन्नैव तदभिधानं प्रतिपद्यते । तद- प्रतिपत्ती तन तन्न योजयति । तदयोजयन्नाच्यवस्यतीति न क्वचिद्विकल्पः शब्दो बेत्यविकल्याभिधानं जगत् स्यात् । तथाहि-बहिरंतर्वा गृहीतमप्यगृहीतकरसंक्षणक्षयलक्षणसंवेदनादिवत तथाचायातमचेतनत्वं जगत । सहस्मृतिरयुक्तंत्र तन्नामाक्षरमात्राणामपि क्रमशोऽध्यवसानात अभ्यथा संकुला प्रतिपत्तिः स्यात् । नाम्नो नामांतरेण विनापि स्मृती केवलार्थव्यवसायः किं न स्यात् । तन्नामांतरपरिकल्पनायामनवस्था । तदयम-, शब्दं सामान्यं व्यवस्यन् स्वलक्षणमपि व्यवस्येत् । भेदाभावात सामान्यवत् स्वलक्षणंमध्यवस्यन्नमिलापनयोजयेत् ततो न किंचित्प्रमयमनमिलाप्यं नाम । प्रत्यक्षस्यानमिलाप्यत्वे स्मात शब्दानुयोजनं दृष्टसामान्यव्यवसायोः यद्यपेक्षत सोऽर्थो व्यवहितो भवेत् तदिद्रियज्ञानात्सामान्यव्यवसायो न स्यात प्रागिवाजनकत्वात् तदंतरेणापि दर्शनमयं गौरिति निर्णयः स्याताअनमिलाप्यस्य विशेषस्यानुभवे कथमभिलाप्यस्य स्मृतिरत्यंतमेदात शब्दार्थयोः संबंधस्यास्त्रामाविकत्वे कथमर्थमात्रं पश्यन् शब्दमनुस्मरेत् । तदर्थ वा यतोऽयं व्यवसायः । चक्षुरादिज्ञानस्य कचिव्यवसायात्मकत्वाभाव दृष्टसजातीयस्मृतिर्न स्यात् । दानहिंसाविरतिंचतसः स्वर्गादिफलजननसामर्थ्य- संवेदनवत् । क्षणक्षयानुभववद्वां प्रत्यक्षेऽमिलापसंस्कारविच्छेदे कुतस्तद्विकल्यामिलापसंयोजनं यतः सामान्य- ममिलाप्यं स्यात् । नच ग्राहकप्रत्यक्षस्मृतिप्रतिभासंभदाद्विपयस्वभावमेदः सकृदेकार्थोपनिबद्धदर्शनप्रत्यास- तरपुरुपज्ञानविषयवंत । तथा च मंदप्रतिमासिनि तत्संकेतव्यवहारनियमकल्पनायामपि कथंचिदर्भिधयत्वं मस्तुनः सिंद्धमित्यलं प्रसंगन | तस्मादवायतकांते यदवाच्यमित्यांमधानं तदसमंजसं स्वलक्षणमनिर्देश्यमि- त्यादिवत् स्ववचनविरोधात् ॥ १३ ॥ कियांचचे सदेवेष्टं कयञ्चिदसदेव तत् । तयाभयमवाच्यं च नययोगान सर्वथा ॥ १४ ॥ वृत्तिः-कथंचित् केन चित्प्रकारेण । ते-तव सदेव-भाव एव । इष्ट-मतमभ्युपेतम्। कथंचित्-केन- चिप्रकारेण | असदेव-अभाव एव । तत् यदेव सत् । तथा तेनैव केनचित्प्रकारेण । उभयं सदसदात्मकम् । अवाच्यमवक्तव्यम् । चकारात्कथंचिदित्यर्थः । नयस्य वक्तरभिप्रायस्य योगो युक्तिर्नययोगस्तस्मान- ययोगादमिप्रायवशादित्यर्थः । न सर्वथा-सर्वकारेन । किमुक्तं भवति-सदसदुभयावक्तव्यं वस्तु न भवति । किंत केन चित्प्रकारेण। तदेव स्वष्टंयति अनवस्थां च निराकरोति उत्तरकारिकया- अष्टशती-नावग्रहादरन्योन्यं स्वलक्षणविकैकांतो जीवांतरवत् स्वात्मन्यपि संतानभेदप्रसंगात् । अह- महमिक्रयात्मा विवताननुभवन्ननादिनिधनः स्वलक्षणप्रत्यक्षः सर्वलोकानां कचिचित्रवित्तिक्षणे नीलादि विशेषनिमालबत् आत्मभूतान् परस्परतो विविक्तान् महक्रममाविनी गुणपयार्यानात्मसात्कुर्वन् सन्नेव । तदे- कल्लामा नीलादिविशेषनियतदर्शननानासंतानसंवेदनक्षणवाच्चित्रसंवेदनं न स्यात् । तथा क्रमवृत्तीनां सुखा- दीनां मतिश्रुतादीनां या तादात्म्यावर्गमैक्रांत संततिरनकपुरुषवत । नैरंतर्यादेर विशेषासंतानव्यतिकरोऽपि किं न स्यात् । न हि नियामकः कश्चिद्विशेषोऽन्यत्र भेदाभेदपरिणामात् असंकरे हर्पविषादादिचित्रप्रतिपत्तेरयोगात्। यर्यकत्र सननंतरावग्रहादिसदादिस्वभावसंकरपरिणामस्तथैव सर्वत्र चेतनाचेतना संप्रत्यतीतानागतेपु, तत्स्व- भावाविच्छित्तः । अतः कथंचित्संदवेष्टं। न केवलं जीवाजीवप्रभेदाः सजातीयविजातीयव्यावृत्तिलक्षणाः किंतुः बुद्धिक्षणेपि क्वचिद्ग्राह्यग्राहकयोः सितादिनिर्मामांशपरमाणुसंवितयोऽपि, परस्परपरिहारस्थितिलक्षणत्वात् मन्यथा स्यूलशवलालोकनाभावात् ,तदेकांशवत् । तथाच सकलचेतनतरक्षणपरिणामलबविशेषाः परस्परविवि: तात्मनस्तदन्योन्यामात्रमात्रं जगत् अन्यथा सर्वथैकत्व प्रसंगात् । अन्वयस्य विशेषापेक्षणादभावो वा। तदिष्ट- सदेव कचित् । न हि.भावाभावकांतयोनि:पर्यायमंगीकरणं युक्तं । यथैत्रास्ति तथैव नास्तीति विप्रतिषे- .

सनातनजेनग्रंथमालायां- १३ धात् कथंचित्सदसदात्मकं द्रव्यपर्यायनयापेक्षया, विपर्यये तथवातंभवात् । सर्वथा जात्यंतरकल्पनायां तदंश- निबंधनविशेषप्रतिपत्तरत्यताभावप्रसंगात् । सर्वथोभयरूपत्वे वा जात्यंतरप्रति स्त्रयोगात् । तथा चानवस्थादि- दोषानुवंगः । तदिष्टं स्यादुभयं, सद्भावेतराभ्यामनभिलापे वस्तुनः केवलं मूकत्वं जगतः स्यात् विधिप्रतिषेध- व्यवहारायोगात् । न हि सर्वात्मनामभिलाप्यस्वभावं बुद्धिरध्यवस्यति । न बानध्यवसायं प्रमितं नाम गृही. तस्यापि तादृशस्यागृहीतकल्पत्वात् मूछांचैतन्यवत् । सर्वात्मनाभिधयत्वेऽपि प्रत्यक्षतराविशेषप्रसंगात् । तथा- भिधेयत्वेऽपि सत्येतरयोरभेदः स्यात् । स्वपक्षविपक्षस्यासत्वात् तत्वप्रदर्शनाय यत्किंचित्प्रणयन् वस्तु सर्वथा- नभिधेयं प्रतिजानातीति किमप्येतन्महाद्भुतं, तत्कृता वस्तुसिद्धिमुपजीवति न च तद्वाच्यतां चेति स्वदृ- टिरागमात्रमनवस्थानुपंगात् ॥ १४ ॥ सदेव सर्व को नेच्छेत् स्वरूपादिचतुष्टयात् । असदेव विपर्यासान चेन व्यवतिष्ठते ॥ १५ ॥ वृत्तिः-सदेव-सत्त्वमेव सर्व-निरवशेष विश्वम् । को नेच्छेत्-को न मन्यते कस्य नेष्टं ? किंतु इष्टमेव सर्वस्य । स्वरूपमात्मरूपं स्वस्य वा रूपं तदादिर्यस्य तत्स्वरूपादि तच्चैतच्चतुष्टयं. चतुर्विकल्प तत्त:- थाभूत । तस्मात्स्वरूपादिचतुष्टयात् । किं तत् ? स्वदन्यस्वक्षेत्रस्वकालस्वभावः। तस्मात् । हासदेव.नास्तित्व- मेव.विपर्यासात्-अस्त्ररूपादिचतुष्टयात् । अस्त्रद्रव्यक्षेत्रकालभावात्। न चेत्-यद्येवं न । न व्यवतिष्ठते-न घटते नात्मस्वरूपं लभत इत्यर्थः । किमुक्तं भवति-स्वरूपादिचतुष्टयात्सर्वे सदेव को नेच्छेत् ।।. विपर्ययाद्विपर्ययं को नेच्छेत् । । यदि पुनर्येनैव सत्वं तेनैवासत्त्वमिति स्यान्न किंचिदपि स्यात् । शेषभंगप्रकपणार्थमाह- अष्टशती-स्यात्सदसदात्मकाः पदार्थाः सर्वस्य सर्वाकरणात्। नहि पटादयो घटादिवत् क्षीराद्याहारणलक्ष- णामक्रियां कुर्वति घटादिज्ञानं वा । तदुभयात्मनि दृष्टांतः सुलभः । शब्देतरप्रत्यययोः एकानेकवस्तुविषययाः; एकात्मसमवेतयोः कारणविशेषवशात् परिवृत्तात्मनोः स्वभावभेदेऽपि कथंचिदेकत्वमस्त्यैव विच्छेदानुपलब्धः । उपादानस्य कार्यकालमात्मानं कथंचिदनयतंश्चिरतरनिवृत्ताविशेषात् कार्योत्पत्तावपि व्यवेदशानुपपत्ते- स्तादृशं स्वरूपैकत्वमस्त्येव विशेगावेक्षया तु नास्त्येव । न हि पौरस्त्यः पाश्चात्यंः स्वमावः, पाश्चात्यो वा पोरस्त्यः निरपेक्षः । तत्र क्रमोऽपि प्रतिभासातिशयवशात् प्रकल्प्येत तदेकत्वादक्रमः किं न स्यात् । तदे- कमनेकाकारं, अक्रमक्रमात्मक, अन्वयव्यतिरेकरूपं सामान्यविशेषात्मकं सदसत्परिणामं स्थित्युत्पत्तिविना शात्मकं स्वप्रदेशनियतं स्वशरीरव्यापिनं त्रिकालगोचरमात्मानं पर वा कथंचित् साक्षात्करोति परोक्षयति चा केशादिविवेकव्यामुग्धबुद्धिवत् । तादृशैकचैतन्यं सुखादिभेदं वस्तु स्वतोऽन्यतः सजातीयविजातीयाद्वि- विक्तलक्षणं विभर्ति-अन्यथा अनवस्थानात् क्वचित्कथंचिदनियमः स्यात् ॥ १५ ॥ क्रमाप्तिदया द्वैतं सहावाच्यमशक्तितः। अवक्तव्योत्तराः शेपास्त्रयो भंगा स्वहेतुतः ॥ १६ ॥ वृत्ति-क्रमणं परिपाव्या अर्पित विवक्षित क्रमार्पितं तच्च तद्वयं द्वितयं क्रमार्पितद्वयं तस्मात्क्र- मार्पितद्वयात् । द्वाभ्यामितं द्वीत-द्वीतमेव द्वैत-द्वयात्मकमस्तित्वनास्तित्वस्वरूप-क्रमविवक्षितस्वपरचतुष्टयाद स्तित्वनास्तित्वस्वरूपमित्यर्थः । सह-युगपत् एकहेलया विवक्षितस्वपरचतुष्टयादित्यर्थः । यद्यपि द्वयशब्दः समासांतर्भूतस्तथापि तेन संबंधोऽन्यस्याऽश्रुतत्वात् । अवाच्यं-अवक्तव्यमुच्चारयितुमशक्यमित्यर्थः । कुतः ? अशक्तितः असामर्थ्यात् । अवक्तव्यमवाच्यमुत्तरं-परं येषां भङ्गानां तेऽवक्तव्योत्तराः शेषा अन्ये त्रयो भङ्गास्त्रयो विकल्पाः । स्वहेतुतः स्वकीयंकारणात् । के ते स्वहेतवः स्वरूपादिचतुष्टयासहविवक्षितस्वरूपादिचतुष्टया- चास्ति चावक्तव्यं । तथा पररूपादिचतुष्टयात्, युगपद्दर्शितस्वपररूपादिचंतुष्टयाच्च नास्ति चावाच्यम् । तथा क्रमाप्तिस्वरूपादिचतुष्टयाधुगपद्विवक्षितस्वपररूंपादिचतुष्टयाच्चास्ति नास्ति चावक्तव्य ' च ।

सनातनजनग्रंथमालायां- १५ दर्शने स्वाकारमनपर्यंतां स्वभावकार्यप्रतिबंधाभावे प्रमेयत्वं प्रमाणांतरमवश्यमाकर्पयति । ततोविप्रतिषिद्ध- मेतत् । नच स्वलक्षणमेवान्यापोहः सर्वथाविधिनियमयोरेकतानत्वाऽसंभवात् । तत्स्वभावभेदाभावे च संके- तविशेषानुपपत्ते:-अभिधानप्रत्ययविशेषोऽपि माभूत्तदन्यतरवत् । ततो यावंति पररूपाणि प्रत्येक तावंत- स्ततततः परावृत्तिलक्षणाः स्वभावभेदाः प्रतिक्षणं प्रत्येतव्याः । यदि संबंध्यतराणि भावस्वभावभेदकानि न स्युस्तदा नित्यत्वेऽपि कस्यचित्संबंध्यंतरपु कदाचित्केषु क्रमशोऽर्थक्रिया न वै विप्रतिपिध्येत । शक्यं हि वक्तुं क्रमवानि कारणानि तत्तनिर्वतनात्मकानि इति नित्यं स्वभावं न वै जहाति क्षणिकसामिग्रीसन्नि- पतिकतमवत् । तदेतत्तदा तदा तत्तत्कर्तुं समर्थमकं स्वभावं अविचलित विभ्राणं सहकारिकारणानि स्वभाव स्याभेदकानि नानाकार्यनिबंधनानि कादाचित्कानि प्रतीक्ष्यंत इति । तदिमेऽर्था विधिप्रतिषेधाभ्यां संप्रतिवत हानप्रतिबंधमतिवर्तते वस्तुत एव । ततो न संवृत्तिस्तद्व्यवहाराय भेदमावृत्त्य तिष्ठतीति युक्तं । तद- नेकस्वभावाभावे विनिर्भासासंभवात आत्मनि परत्र चासभविनमाकारमादर्शयतीति मुग्धायंत सर्वत्रासहाय- रूपांनुपलव्धेः । तदियं संवृतिः सामान्यसामानाधिकरण्य-विशेषणविशेष्यभावादिव्यवहारनिर्भासान् विभ्रती स्वयमनेकरूपतां प्रतिक्षिपंतं व्यवस्थापयति । तद्वद्भावांतराणामनेकात्मक वास्तवी साधर्म्यादिस्थितिरवि- शेषेण विकल्पबुर्मिथ्यात्वं प्रतिजानंतं प्रतिशिपत्येव । यत्पुनरेतदन्यतो व्यावृत्तिरनात्मिकैवेति तन्न चक्षुरादि- ज्ञानस्य निर्व्यवसायात्मकस्य स्वयमभूताविशेपात् । निर्णयस्य भावस्वभावाऽसंस्पर्शिनः सर्वथा वस्तुतत्वा- परिच्छेदादच्छमेवेति स्वयमेकांतानुपपत्तेः । अतोऽयं स्वभावः स्वभावभेदान् विधिप्रतिषेधविषयान् विभ्राणः प्रत्यक्षतरप्रमाणसमाधगतलक्षणः प्रतीयेत । तस्माद्यद्विशेषणं तत्प्रतिपेच्याविनाभावि क्वचिंतामणि यथा सांधयं भेदविवक्षया, कृतकत्वादौ विशेषणं चास्तित्वं ततः प्रतिपेध्यधर्मप्रतिबंधी ॥ १७ ॥ नास्तित्वं प्रतिषेध्येनाविनाभाव्यकधार्माण । विशेपणत्वाद्वैधयं यथाऽभेदविवक्षया ॥ १८ ॥ वृत्तिः-नास्तित्वं प्रतिपयनास्तित्वेनाविनाभावि विशेषणत्वात् । यथा वैधय॑मभेदविवक्षया ॥ यत्किंचित् विशेषणं तत्सर्वमेव प्रतिपक्षधर्मविनाभावि यथा वैधर्म्य साधर्म्यविवक्षया । हेतोर्विशेषणं च नास्तित्वं ॥ १८ ॥ पुनरप्यविरोध दर्शयन्नाह- अष्टशती-भेदाभेदविवक्षयोरवस्तुनिबंधनत्वे विपर्यासोऽपि किं न स्यात् । तत: समंजसमेतत् । यत्किंचिद्विशेषणं तत् सर्वमेकत्र प्रतिपक्षधर्मविनाभावि यथा वैधर्म्यमभेदविवक्षयां हैतौ । तथा च नास्ति त्वं विशेषणं अन्यथा व्यवहारसंकरप्रसंगात् । न हि स्वेच्छाप्रक्लप्तधर्मधार्मिव्यवस्थायां परमार्थावतारः स्यात् । तदसमीक्षिततत्त्वार्थलॊकप्रतीतिवशाद्भेदाभेदव्यवस्थितिस्तत्त्वप्रतिपत्तये समाश्रियत इति वालाभिला- पकल्पं । भावस्वभावोपरोधात् ॥ १८ ॥ विधेयप्रतिपेध्यात्मा विशेष्यः शब्दगोचरः । साध्यधर्मोः यथा हेतुरहेतुश्चाप्यपेक्षया ॥ १९ ॥ वृत्ति-विधेयशब्दवाच्यः साध्य इत्यर्थः । प्रतिपेथ्यो निराकरणीयः । द्वन्द्वः । तावात्मा स्वरूपं यस्य स विधेयप्रतिषंध्याध्यात्मा विशेष्यो धर्मी पक्ष इत्येकार्थः । शब्दगोचरः शब्दविषयः । साध्यस्य धर्मः साध्यधर्मः । यथा दृष्टान्तप्रदर्शकः । हेतुः साधनमेहेतुरसाधनम् । अपिः संम्भावनायाम् । अपेक्षया विवक्षया ॥ विशेष्यो विधेयप्रतिपेध्यात्मा शब्दगोचरत्वात् यथा सांध्यधर्मों हेतुश्चाहेतुश्च भवति विवक्षया | अग्निमत्त्वे साध्ये धूमो हेतुर्भवति जलत्वे साध्येऽहेतुरेकस्मिन्धर्मिणि । एवमत्रापि-यो यः शब्द- विषयः स सर्वोऽपि विधेयप्रतिपेध्यात्मा विशेष्यः । यथा साध्यधर्मो हेतुरहेतुश्चापेक्षया । शब्दविषयश्च विशेष्यः तस्माद्विधेयप्रतिषेध्यात्मा ।। १९ ।। - .

१६ भोप्तमीमांसा। शेपभगान् समर्थयन्नाह- अष्टशती-किंचित्केन चिद्विशिष्ट गृह्यमाणं विशेषणविशेष्यतत्संबंधलोकस्थितिसंकलनेन गृह्येत नान्यथेत्यभिनिवेशेऽपि वस्तुनो विधिप्रतिषेधस्वभावयोः प्रत्येक दर्शनमवश्यंभावि । ततो विधिप्रतिषेधावा- स्मानी विशेषस्य सविकल्पकत्वं प्रसाधयंतः । ततः सामान्यविशेषात्मकत्वं वस्तुत्वलक्षणं । अस्तित्वनास्तित्व- योधर्मी सामान्यं तत्र तादात्म्यलक्षणः संबंधः संबंधांतरकल्पनायामनवस्थाप्रसंगात् । तन्नैतत्सारं, जात्यादि- मतामेतन संभवत्येवेति तदभाव एवासंभवात् तथा सति नैकांतेन दर्शनविकल्पाभिधानानां विषयभेदो- ऽस्ति कथंचित्प्रतिभासभेदेऽपि प्रत्यासन्नेतरपुरुषदर्शनवत् । तथाहि धूमादयः कृतकत्वादयो वा कचिदग्नि- सलिलयोर्विनाशेतरयोर्वा साधनेतरस्वभावाम्यां साक्षास्क्रियेरन् । इतरथा हि विशेष्यप्रतिपत्तेरयोगात् । अना- पेक्षायां तु विरोधः । तस्मात् यदभिधेयं तद्विशेष्यं यद्वा विशेष्यं तदभिलाप्यं यद्वा वस्तु तत्सर्व विधेयप्रतिषेध्या- स्मकं यथोत्पत्यादिः । अपेक्षया हेतु:-अहेतुश्च साध्येतरयो:-तथा च विमत्यधिकरणं सत्त्वाभिधेयत्वादि।॥१९॥ शेषभंगाश्च नेतव्या यथोक्तनययोगतः । न च कश्चिद्विरोधोऽस्ति मुनींद्र तव शासने ॥ २० ॥ वृत्तिः-शेषभंगाश्च अवक्तव्यादयो नेतव्या ज्ञातव्या योजनीयाः । यथोक्तश्चासौ नयश्च यथो- तनयः तस्य योगस्तस्मात् विशेपणत्वादिति, हेतोरित्यर्थः । विरोधोऽपि न कश्चित् । उपलक्षणमेतत् । विरोध इति संशयविरोधवैयधिकरण्योभयदोषप्रसंगसंकरानवस्थाऽभावानाक्षिपति एते.दोषा न संति कस्मा- त्? अनेकांतत्वाद्वस्तुनः । जीवादिपदार्थयाथात्म्यमननान्मुनयस्तेषामिंद्रो भगवान् केवली तस्य संबोधनं. हे मुनींद्र । तव शासने युष्मन्मते । अनभिलाप्यादयोऽपि धर्माः क्वचिदकधर्मिणि प्रत्सनीकस्वाभावाविनाभाविनी विशेषणत्वात् पूर्वोक्तमुदाहरणम् ।। अष्टशती-स्यांदस्ति स्यान्नास्तीति भंगद्वयमुपयुक्तं तदपेक्षयाशेषत्वं भंगत्रयापेक्षं वा यथोक्तनययोगत इति विशेषणत्वादीनाक्षिपति । तदनभिलाप्यादयोऽपि कचिद्धर्मिणि प्रत्पनीकस्वभावाविनाभाविनः प्रतीयते विशेपणत्वादिभ्यः पूर्वोक्तदाहरणं । नचैवं सति किंचिद्विप्रतिषिद्धं अन्यथैव विरोधात् ॥ २०॥ भनेकांतात्मकं तत्वं व्यवस्थाप्यकांतं निराकर्तुमाह- एवं विधिनिषेधाभ्यामनवास्थितमर्थकत् । नेति चैन्न यथाकार्य वहिरंतरुपाधिभिः ।। २.१ ॥ वृत्तिः-एवमनेन प्रकारेण । विधिनिषेधाभ्यामस्तित्वनास्तित्वाभ्याम् । अनवस्थितमनवधारित पद्वस्तु तदर्थ कृत्-कार्यकारिभवति । नेतिंचेत् यद्येवं न भवति। न । यथाकार्य यथाभूत कार्यमुपल- स्यते तस्य कारकं न स्यात् । बहिरंतरुपाधिभिः बाह्याभ्यतरहेभिः सहितरपि । अथवा "अनवस्थित शून्यं अयथाकार्यम् ॥ अप मतं स्यादस्तीत्यनेनैव स्याच्छब्देन सर्वे भंगा गृहीताः । किमैतषां प्रपंचोऽत आह- अष्टशती-सप्तभंगीविधी स्याद्वादे विधिप्रतिषेधाभ्यां समारूढं वस्तु सदसदात्मकमर्थक्रियाकारि कधचित्सत एव सामिग्रीसन्निपातिनः स्वभावातिशयोपपत्तेः सुवर्णस्य केयूरादिसंस्थान नेति चेदित्यादि- नेकांतऽर्थक्रियां प्रतिक्षिपति | न तावत्सतः पुनरुत्पत्तिरस्ति- 'नःचानुत्पन्नस्य स्थितिविपत्ती खपुष्पवत् । नाप्यसतः सर्वधोत्पत्त्यादयस्तद्वत्। यदि पुनः सामिग्याः प्राग्विद्यमानस्य जन्म न स्यात् को दोषः स्यात् । तस्या निरन्वयविनाशे निष्कारणस्य तथैवोत्पत्तिर्न स्यात् । न हि निराधारात्पत्तिर्विपत्तिा क्रियारूपत्वात् । स्थितिवनैतन्मंतव्यं । नोत्पत्यादिः क्रिया क्षणिकस्य तदसंभवात् । ततोऽसिद्धोहेतुरिति प्रत्यक्षाविरोधात् । प्रादुर्भावादिमतः चक्षुरादिबुद्धौ प्रतिभासनात् । अन्यथा तद्विशिष्टविकल्पोऽपि माभूत् न हि दंडपुरुषसंबं- - आप्तमीमांसा १७ -- धादर्शने दंडीति विकल्पः स्यात् । तस्मात्सूक्तं यदेकांतेन. सदसद्वा तन्नोत्पत्तुर्महति व्योमबंध्यासुतवत । इति । कथमिदानीमनुत्पन्नस्य गगनादेः स्थितिः इति चेत् न-अनभ्युपगमात्। द्रव्यनयापेक्षया, परप्रसिद्धया वा उदाहरणं ॥ २१॥ धर्मे धर्मेऽन्य एवार्थों धर्मिणोऽनंतधर्मणः । अंगित्वेऽन्यतमांतस्य शेषांतानां तदंगता ।। २२ ।। वृत्तिः-धर्मे धर्मे धर्मनिर्देशे । भने भङ्गे इति वा पाठांतरं । अन्य एवार्थोऽपूर्व एवार्थः । कुतः धर्मिणो वस्तुनः । अनंता धर्माः स्वभावा यस्य सोऽनंतधर्मा तस्यानंतधर्मणः । अंगित्वे प्रधानत्वे । अन्यत- मांतस्यास्तित्वादीनां मध्ये एकतमस्य । शेषांतानां परिशेषधर्माणां नास्तित्वादीनां । तत्तस्मात् । अंगता अप्रधानता । अथवा तदांगता इति पाठांतरम् । तदा तस्मिन्काले । शेषाणामप्रधानता । अतः पुनरुक्तता नास्ति । अथवा सुनयसप्तभंगीनिरूपणार्पमियं कारिका, संक्षेपार्था चेयं ।। २२ सप्तभंगी योजयानाह- अष्टशती-यदि पुनः प्रत्युपाधि परमार्थतः स्वभावभेदो न स्यात् तदा दृष्टेऽभिहिते या प्रमाणांतर मुक्तयंतरं वा निरर्थकं स्यात् । गृहीतग्रहणात्पुनरुक्तेश्च स्वभावातिशयाभावात्, सदुत्पत्रिकृतकत्वादेः प्रत्य- 'नीकस्वभावविशेषाभावात् । यावंति पररूपाणि तावत्यस्ततस्ततो व्यावृत्तयः प्रत्येकमित्येषापि कल्पना माभूत् । सतां हि स्वभावानां गुणप्रधानभावः स्यात् । ततः परिकल्पितव्यावृत्त्या धर्मातरव्यवस्थानं परिफ- ल्गुप्राय वस्तुस्वभावाभावप्रसंगात् । तथेंद्रियबुद्धयोऽपि स्वलक्षणविषया माभूवन्, केवलं व्यावृत्तिं पश्येयुः, अदृष्टे विकल्पायोगात् । अंतिप्रसंगाच ।। २२ ॥ एकानेकविकल्पादावुत्तरत्राऽपि योजयेत् । प्रक्रियां भंगिनीमनां नयनेयविशारदः ॥ २३ ॥ वृत्तिः-नयविशारदो : नयः प्रमाणपरिगृहीतार्थंकदेशे वस्त्वध्यवसायस्तस्मिन्कुशलः । नयैः स्वहे- तुभिर्विशेषणत्वादिभिः । एनां प्रक्रियाम् । भगिनीं भंगवती भंगबहुलां । उत्तरत्रापि इह ऊर्ध्वमपि । योजयेदुद्धाटयेत् ॥ क ! एकश्च अनेकश्च तावेव विकल्पी तावादिर्यस्य तस्मिन्नेकानेकविकल्पादौ । कथं ? स्यादेकः । स्यादनेकः । स्यादेकश्चानेकश्च । स्यादवक्तव्यः । स्यादेकश्चावक्तव्यः । स्यादनेकश्चावक्तव्यश्च । स्यादेकश्चानकश्चावक्तव्यश्च । एवमनेन द्वैताद्वैतादिषु योज्यं ॥ २३ ॥ सदायेकांतेषु दोषमुद्भाव्यवमद्वैतकांत दूषयितुमाह- अष्टशती-स्यादेकं.सद्व्यनयापेक्षया । यद्यपि विशेषाः परस्परव्यावृत्तपरिणामाः कालादिभेदेऽपि सद्रूपाविशिष्टाच्चित्रज्ञाननीलादिनिर्भासवत् स्यादनेकत्वमास्कदंति । न हि संख्यासंख्यावृतो देनादृष्टौ विशे- पेणविशेष्यविकल्पः कुंडलिवत् । क्षीरोदकवदतद्वेदिनि-नच भेदैकांते तद्त्तास्ति व्यपदेशनिमित्ताभावात् । अन- वस्थाप्रसंगाच्च । तस्मादयं कथंचिंदव संख्यासंख्यावतोः स्वभावभेदं पैश्यति तद्विशिष्टविकल्पनात् । क्वचि- निर्णयेऽप्यन्यत्र संशयाद्, वर्णरसादिवत् ।। २३ ॥ .इत्याप्तमीमांसाभाष्ये प्रथमा परिच्छेदः । - १.अविकल्पायोगात् पाठगेयं सं. पुस्तके । २ पश्यन् पश्यतीति स. पुस्तके पाठः। . .

१८ - सनातननग्रंथमालायां औतकांत पक्षेपि दृष्टो भेदो विरुध्यते । कारकाणां कियायाश्च नैकं स्वस्मात्मजाय ॥२४॥ वृत्तिः-अद्वैतवत्येकांतोऽसद्ग्रहः स एव पक्षो जिज्ञासितविशयो धर्मी तस्मिन्नपि दृष्टो भदः प्रत्यक्षप्रमाणपरिच्छिन्नं नानावं लोकप्रसिद्धं वा । विध्यते मिथ्या भवेत् । कारकाणि कादीनि क्रिया आकुंचनादिका पाकादिका बा एतषां परस्परेण "इयं क्रिया इमानि कारकाणि इदं कर्तृकारक- मिई कल्यादि । इयं दहनक्रिया इयं. पचनक्रियेत्यादि । चशब्दादिदं प्रमाणमिदं परिच्छेद्यं " इति भेदो न स्यात् । कुतः ? नत्ति एकांतंप्रतिधवचनम् एिंकमसहायम् स्वस्मादात्मनः। प्रजायत उत्पद्यते ॥ २४ ॥ तैयवमपि- अष्टशती-सदायकतिषु दोषोद्धावनमभिहित अद्वैतकांताभ्युपगमात् न तावतानकांतसिद्धिरिति चेत् ? नप्रत्यक्षादिविरोधात्। न हि कस्यचिदम्युपगममात्र प्रमाणसिद्ध क्रियाकारकभेदं प्रतिरुणद्धि क्षणिकाभ्युपगमवत्। न स्वतो जायते परतो वा अपि तु सुपुतायते प्रतिपत्त्युपायाभावात् । तस्मात् यदृष्टविरुद्धं तन्न तमंजसं । यथा नराम्यं । विरुद्धयते च तथाऽतं क्रियाकारकमेदप्रत्यक्षादिभिः ॥ २४ ॥ कर्मद्वैत फलद्वतं लोकदैतं च नो भवेत् । विद्याविद्याद्वयं न स्यात् बंधमोक्षद्वयं वया ॥ २५ ॥ वृचिः-शुभकर्माशुभकर्मेति द्वय न स्यात् । पुण्यमिदं पापमिदं इहलोकः परलोको ज्ञानम- ज्ञान बंधी मोक्षश्च जीवप्रदेशकर्मप्रदेशान्योन्याइलेपो बंधः । अष्टविधर्ममोक्षा मोक्ष इत्येवमादि न स्यात् ।। प्रमाणादद्वैतं निराक माह- अष्टशती-प्रमाणाप्रत्यनीक स्वम पिकाभिरद्वैतमन्यद्वा किंचित्फलमुद्दिश्य औरचयेत् । अन्यथा तत्यतिपत्तिप्रवर्तनायोगात्प्रेक्षावृत्तः । तथाहि पुण्यपापसुखदुःखहपरलोकविद्यतरबंधमोक्षविशेषरहितं प्रेक्षा- पूर्वकारिमिः-अनादरणीयं यथा नैरात्म्यदर्शनं । तथा च प्रैस्तुतं ॥ २५ ॥ हेतोद्वतसिद्धिश्चेद्भुतं स्यातुसाध्ययोः । हेतुना चेहिना सिद्धिद्वैत वाङ्मावतो न किं ॥ २६ ॥ वृत्तिः-अद्वैतस्य सिद्धिः किं हेतोराहोस्त्रिद्वचनमात्रात् ? यदि हेतौरिदं सावनमिदं साध्यमिति द्वैतं स्यात् । साधनमंतरेणाद्वैतस्य सिद्धिश्चंदेवं वचनमात्राद्वैतं कस्मान्न स्यादिति समानं ॥ २६ ॥ पुनरप्यद्वैतं निरार्तुमाह- अष्टशती-यदसिद्ध तन्न हितप्मुभिः-अहित जिहामुभिर्वा प्रतिपत्तव्यं । यथा शून्यैक्रांतः । तया- चासिद्धमद्वैतमित्यत्र नासिद्धी हेतुः । तसिद्धियदि साधनात् ! सांध्यसाधनयोस्तर्हि द्वैतं स्यात् । अन्यथा अद्वैतनिधिवत् द्वैतसिद्धिः कथं न स्यात् ? स्वामिलापमात्रादर्थसिद्धौ सबै सर्वस्य सिद्धयेत् ॥ २६ ॥ अद्वैवं न विना इतादहेतुरिव हेतुना । संजिना प्रतियो न प्रतिपेच्याहते कचित् ॥ २७ ॥ त्तिः-दूताद्विना न भवत्यद्वैतं । यथा अहंतुहेतुमंतरण न भवति । संझिनो नामवतः प्रतिपेथ्य- मंतरण प्रतियो यस्मात् । यो यः संही तस्य तस्य प्रतिपच्यमंतरेण प्रतिषेधो न भवति । यथा कुसुममंत- रेण आकाशादी कुमुमस्य । संजि चाद्वैतं तस्मादतन विना प्रतिषधो न भवति ।। २७ ॥ १ इसतोये प्रमाणादिनस्वादिलपि पाठः। २॥ आरमयत् पाठः स. पुस्तके। ३ प्रकृतमित्यर्थः ।

. ? आप्तमीमांसा। १९ अधुना सर्वथा सर्वपदार्थपृथक्त्वैकांतवादिवशेषिकादिमतंकदर्थनार्थमाह- अष्टशती-अद्वैतशब्दः स्वाभिधेयप्रत्यनीकपरमार्थापेक्षा-नापूर्वीखंडपदत्वात् अहेवभिधानवत् । नात्र किंचिदतिप्रसज्यते तादृशो नत्रो वस्तुप्रतिषेधनिबंधनत्वात् । सर्वत्र प्रतिषेध्यादृते संज्ञिनः प्रतिपेधाभावः प्रत्येतव्यः ॥ २७ ॥ इटमद्वैतकांतापवारणं पृथक्त्वकांतांगीकरणात्' इति मावदीधरत् । पृथक्त्वैकांतपक्षेपि पृथात्वादपृथक्कृतौ । पृथक्त्वे न पृथक्त्वं स्यादनकस्थो ह्यसौ गुणः ॥ २८ ॥ वृत्तिः-यद्यप्यद्वैतैकांतपक्षे दोषभयात् पृथक्त्वमित्येकांतपक्षोऽभ्युपगभ्यते तथापि पृथग्गुणात्ता- वपृथग्भूतावभ्युपगन्तव्यौ गुणगुण्यादी । अन्यथा तस्मादपि यदि तौ पृथक भिन्नौ स्यातां तदानीं पृथक्त्वाख्योगुणो न स्यात् ? कुतः । यतोऽनेकस्था ह्यसौ गुणो दृष्ट इत्यर्थः न च तयोः पृथक्त्वगुणः पृथ: गतिः सर्वेषामभावः स्यात् । तस्मात् भेदपक्षोऽपि न श्रेयान् ॥.. इदानी पृथक्त्वैकांतवादिविशेषमायासु क्षणिकृत्वकांतकदर्थनार्थमाह- अष्टशती-पृथग्भूतपदार्थेभ्यः पृथक्त्वस्य पृथग्भावे तेपामपृथक्त्वप्रसंगात् । तद्गुणगुणिनोरता- दात्म्ये घटपटवद् व्यपदेशोऽपि माभूत् संबंधनिबंधांतराभावात् । पृथक्त्वमन्यद्वा पृथगभूत्तम शं-अनेक:- स्थेषु निष्पर्यायं वर्तते-इति दुरवगाहं ॥ २८॥ संतानः समुदायश्च साधर्म्यं च निरंकुशः । प्रेत्यभावश्च तत्सर्व न स्यादेकत्वनिहवे ॥ २९ ॥ वृत्तिः-एकत्वस्य सादृश्यस्य कथंचित्तादात्म्यस्य । निवोऽपनुतिनिराकरणम् । अथवा एकशब्दो द्रव्यवचनोऽयं ततः स्वार्थिकस्त्वप्रत्ययः तस्मिन्नेकत्वनिहवे । क्रमभाविनां कारणतद्वतामाली- नकमन्दकमधुरकादीनां गोरसजातिमजहतामुत्तरोत्तरपरिणामप्रवाहः संतानो न स्यान्न भवेत् । तथा रूप: रसादीनां धर्माणां सहभुवां नियमतो युगपदुत्पादव्ययभाज़ामकस्मिन्नवस्थानं समुदयो न स्यात् यद्यनेकांतात्मकं द्रव्यं न स्यात् । तथा. शब्दघटादीनां साधर्म्य च न स्यात् । मृत्वाऽमुत्र प्राणिनः प्रादुर्भावः प्रेत्यभावः सोऽपि न स्यात् । निरंकुशो निर्बाधोऽस्खलितरूपः सर्वत्र सबंधनीयः। चशब्देन प्रत्यंभिज्ञानादयोऽपि न स्युः । तदेतत्सर्वं न स्यादिति समुदायन निर्देशात् 'यथायोग्यं सबंधो भवति । सोमान्यनिर्देशानपुंसकलिंगता ।। पुनरपि भैदैकांते दूषणमाह- अष्टशती-कार्यकारणयोः पृथक्त्वैकांते कार्यकालमात्मानमनयतः कारणत्वाऽसंभवात्तदनुत्पत्तेः कुतः संततिः पूर्वापरकालभाविनोरपि हेतुफलव्यपदेशंभाजोरतिशयात्मनोरन्वयः संतानः क्वचित्क्षणांतरे नीललो-- हितादिनिर्भासचिौकसंवेदनयत् कथंचिंदेकत्वमेव भवितुमर्हति । तदवयवपृथक्त्वकल्पनायां चित्रनिर्भासो, माभात् पृथगवर्णीतरविषयानेकसंतानकक्षणवत् तंत्र प्रत्यासत्तिविशेषःकथंचिदैक्यात् कोऽपर स्यात् अन्यथा वेद्यवेदकाकारयोरपि पृथक्त्वैकांतप्रसंगात । स्वभावभेदेऽपि सहोपलंभनियमात्कथंचिदभेदाभ्युपगमे कथं- मेकसंतानसंविदां समनंतरोपलंभनियमात्कधीच क्यं न स्यात । तत्र यथा प्रत्यासल्या संतानः समुदायश्च तथैव कथंचिदैक्यमस्तु । न हि तादृशां साधर्म्यमन्यदन्यत्रात्मसांकार्यात् । एकज्ञाननिर्भासविशेषाणां मिथः स्वभावभेदेऽपि यथैकत्वपरिणामः स्वभावतोऽनंकुशः-तथा प्रेयभावादिषु संतानान्वयः परमार्थंकत्वमात्मस- त्वजीवादिव्यपदेशभाजनं स्वभावभेदानाक्रम्य स्वामिवदनन्यत्र वर्तयति ॥ २९ ॥ १ अभिमतमद्वैतकांतप्रतिषेधः इत्यर्थः । २ सर्वमित्यत्रेत्यर्थः। ३ मा भूदिति.ख. पुस्तके. पाठः । ..

२० सनातनजनप्रथमालायां- सदात्मना च भिन्नं चेव झान- याद्विधाऽप्यसत् । झानाभाव कथं ज्ञेयं वाहिरतश्च ते द्विषां ।। ३०. . . वृत्तिः-तथा चैतन्यस्वरूपेण ज्ञेयात्प्रमेयात् — ज्ञानमवबोधी " भिन्नमन्यच्चयदि सदात्मना चास्तित्वसंपणापि पृथक् स्यात् । वैधाऽपिवान ज्ञेयं चासत्स्यात् । अभावः स्यात् । कुतः? ज्ञानाभावे बोधशून्य कथं ज्ञेयम् । बहिबाह्यं । अन्तः अतरङ्गं च ! ते द्विषां तुभ्यं द्विषतां मिथ्यादृशाम् । यस्माजाने सति 'ज्ञेयं विषयत्वात्। जेये सति ज्ञानं च भवति तत्परिच्छेदकवात् । तस्मात् ज्ञानं कयंचिदभिन्नमेपितव्यं सदाद्यात्मनाऽन्यथाऽवस्नु स्यात् । सार्थविशेषस्य. वाच्यवाचकतष्यते तस्य.पूर्वमदृष्टत्वासामान्यं वपदिश्यते शब्दरित्यभिप्रायवतो मतमा- दिल तत्कदर्थयितुमाह- अष्टशती-विषयिणो विषयाकथंचिस्त्रमावभेदेऽपि सदाद्यात्मना तादात्म्यं बोधाकारस्यत्र विषया- कारात्, विशेयाभावात् । अन्यथा ज्ञानमवस्त्वेव खपुष्यवत् । तदभाव बहिरंतर्वा ज्ञेयमेव न स्यात् तदपेक्षत्वात् ॥ ३० ॥ सामान्यार्या गिरोऽन्येषां विशेपो नाभिलप्यते । सामान्याभावंतस्तेषां मपत्र सकला गिरः ॥ ३१ ॥ वृतिः अथ मतं सामान्यमस्मामिरिष्यते किंतु शब्दगोचरत्वादवस्तु, अत आह । सामान्य विक- पेनेष्टोऽयों वाच्या यासां ताः सामान्यार्थाः । गिरो वाचःअन्येषां मिथ्यादृशां । यतस्तामिविशषो याया- स्यं स्त्रलक्षणं नामिलप्यते । यद्येवं सामान्य तेपामवस्तु अतस्तस्वाभावात्सकलाः समस्ता गिरो वचनानि ऍपवासत्यख्या एव अतो न वाच्यं नापि वाचकोऽनुमानाभावः ॥ ३१ ॥ उमयकांतं निराकतुकामः माह- अवती-विशेषाणामशक्यसमयत्वात्-असंकेतितानमिवानात् विशेषदर्शनवत्तबुद्धावप्रतिभासनात् अर्थसंनिवानानपेक्षगाच, स्त्रलक्षणमनभिधेयं सामान्यमस्तु उच्यत इति वस्तु नोच्यतइति स्यात् । ततः किं शब्दोचारणेन संकेतन वा गोशब्दोऽपि हि गां नामिवत्त यथाश्वशन्दः। तथाच मौनं यत्किंचिद्वा वचन- मार्चरत् विशयामावात् । अस्ति विशेषः कथं स्वार्थ नाभिदधीत न वै परमार्थकतानत्वात् अमिवान- नियमः किंतृपादानविशेषात् ? इत्यपि वात अविकत्येऽपि तथैव प्रसंगात् । तदेवमनवघारितात्मकं वस्तुस्त्र- लक्षणमापन पद्येत । नावस्यामंद्रियन्नान अर्थसंनिधानमंपेक्षते विप्लवाभावप्रसंगात् । नापि विशादात्मकमेव दूरेऽपि तथाप्रतिमासप्रसंगात् । यथारात् । क्षणभंगादिसाधनत्रधनमन्यद्वा न किंचित्सत्यं वक्तुरभिप्रेतमात्र सूचितत्वात् । प्रधानश्वरादिसाधनवाक्यवत् । सद प्रतिपादनाद्वा प्रसिद्वालीकवचनवत् । दृश्यविकल्या- किारयोः कथंचिदप्यतादात्म्य स्वलक्षणं सर्वथानवारितलक्षणं दानादिचोधर्मादिक्षणवत् कथं संशीति मतिवर्तेत । विकलानांचावस्तुविषयत्वादविकल्येवरराश्योरथैतरविषयत्वमन्यहास्त्रांशमात्रावलंबिना विकत्सा- तरेण प्रत्यतीति मुपरिबोधप्रबो देवानांग्रियः । स्वत एत्र विकल्पसंविदा निर्णय स्त्रलक्षणविषयोऽपि विकल्यः त्यात् । परतश्चेत् अनवस्यानादप्रतित्तिः । अतोऽविकल्योऽपि मामूत इत्यंबकल्यं जगत्स्यात् । नचायं परोक्षबुद्धिवादमतिशत स्वयमनितिन नामात्मना बुद्धिरय व्यवस्थापयतीति सुव्यवस्थितं तत्वं । न वै स्वयं पररूपं वा वुद्धिरध्यवस्यति निर्विषयत्वादिम्रांतः । इदमतो-भ्रांततरं बहिरंतश्च सद्भावासिद्धेः! स्वपर- स्वभावप्रतिपत्तिशुन्येन स्वपरपक्षसाधनघणव्यवस्था प्रत्येतीति किमपि महामुतं ॥ ३१ ॥ १ अंचं भवतीत्यर्थः । २ तायागनमते स्वलक्षणविपयं प्रत्यक्षं सामान्यविषयं चानुमान ततत्र सामान्यामावे ऽनुमानामावः स्यादित्येतदर्थः । - ? आप्तमीमांसा २१ विरोधान्नोभयकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतकांतेऽप्युक्ति वाच्य मति युज्यते ॥ ३२ ॥ वृत्तिः-अध मतं याकके दोष उभयकात्म्यमपितव्यमिति दूपणमाह । एकत्वपृथक्त्वपरप्रत्यनी- कस्वभावद्वयसम्भवोऽपि न संभवति अस्तित्वनास्तित्ववत् प्रतिषेधात् । एकैनकस्य निराकृतत्वात् । अथा- वाध्यमिष्यते तदपि न । अवाच्यत्वे येयमुक्तिः साऽपि न संभयति मिध्यादृशां । सामान्यविशेषौ परस्परानपेक्षावन्याभ्युपगती निरस्य तो सापेक्षा सतावर्थक्रियां कुरुत इत्यस्यार्थस्य प्रतिपादनार्थमाह- अष्टशती-अस्तित्वनास्तित्वैकत्वानेकत्ववतं पृथक्वेतरप्रत्यनीकस्वभावद्वयसंभवोऽपि माभूत विप्र- तिषेधात् । न खलु सर्वात्मना विरुद्वधर्माध्यासोस्ति तदन्योन्यविधिप्रतिषेधलक्षणवाद्, वंध्यासुतवत् । सर्वथा- नभिलाप्यतत्त्वाभ्युपगमेऽपि यदेतदनभिलाप्यं तत्त्वमिति तद्व्याहन्यते ॥ ३२ ।। अनपेसे पृथक्त्वैक्य वस्तु द्वयहेतुतः। तदेवैक्यं पृथक्त्वं च स्त्रभेदैः साधनं यथा ॥ ३३ ॥ बृत्तिः-परस्परानपेक्षे पृथक्त्वैक्ये सामान्यविशेषाववस्तु अर्थक्रियाकारि न भवति द्वयहेतोर्टाभ्यां । कथं ! यद्यद्विशेषशून्य तत्तन्नास्ति यथा खरविषाणं सामान्यं च तथा परपरिकल्पितं । तस्मान्नास्ति विशेषः सामान्यशून्यत्वात् । खरविषाणविशेषवत् । इत्यनेन हेतुद्वयेन सामान्यविशेषयोरवस्तुत्वं साधनीयं । तदेव वस्तु ऐक्यं सामान्य-विशेषश्च पृथक्त्वं च द्वयात्मकं । कुतः अविरोधात् । यथा साधनं हेतुशानं वाक्यं वा स्वभेदैः स्वधर्मः पक्षधर्मान्वयन्यतिरेकादिभिभिन्नमेकं भवति । ननु तदेवैक्यं पृथक्त्वं च कथं ? यावता विरुद्धमेतत् ,- अष्टशती-एकत्वपृथक्त्वेऽनेकांततः स्तः प्रत्यक्षादिविरोधात् इति स्पष्टयति-पृथक्त्वैकत्वे तथाभूते न स्ता-एकत्यपृथक्वरहितत्वाद् व्योमकुसुमादिवत् । सापेक्षत्वे हि तदेवैक्यं पृथक्त्वमित्यविरुद्ध सपक्ष- विपक्षयोर्भावाभावाभ्यां साधनवत् । स्त्रभेदैर्वा संवेदनवत् । सारंभकावयवैर्वा घटादिवत् । तादृशं हि साधनं स्वार्थक्रियायास्तदंतरेणापि पाठांतरमिदं वहुसंगृहीतं भवति ॥ ३३ ॥ सत्सामान्यात्तु सवैक्यं पृथक द्रव्यादिभेदतः । भेदाभेदविवक्षायामसाधारणहेतुवत् ॥ ३४ ॥ वृत्तिः-सतोऽस्तित्वस्य सामान्यं यत्तत्तथा तस्माच्च सर्वस्यैक्यमेव । - द्रव्यादिभेदै- द्रव्यपर्यायगुणादिभेदैरथवा द्रव्यक्षेत्रकालभावभिन्न पृथक्त्वादेव । भेदश्चाभेदश्च तयोर्विवक्षायां. क्रिय- माणायामसाधारणहेतुः श्रावणत्वप्राणादिमत्त्वादिस्तद्वत् । यद्यप्यत्रान्वयो नास्ति तथाप्यन्यथानुपपत्ति चलेन सिद्धमिति ॥ ३४ ॥ केपांचिद्विद्यमानस्याविवक्षाऽविद्यमानस्यव विवक्षा अन्येषां वैयाकरणानां विद्यमानस्यैव विवक्षा नाविद्यमानस्य, अन्येषां विवक्षां नास्तीत्येतन्मतनिराकरणायाह- अष्टशती-सर्वार्थानां समानपरिणामेऽपि कथमैक्यं भेदानां स्वभावसांकर्यानुपपत्तेः । यथैकभेदस्य स्वभावविच्छेदाभावात् । अन्यथैक सदन्यदसत्स्यात् ? तत्समंजसं सर्वमेकं सदविशेषात इति । तस्यैव सतो द्रव्यादिभदात् पृथक्त्वं । उदाहरणं पूर्ववत् ।। ३४ ॥ १ अभिन्नस्येत्यर्थः।

१२
सनातननग्रंथमाला-
विवक्षा चाविचक्षा च विध्यनंतधामणि ।
सतो विशेषणस्यात्र नाहतस्तैस्तदभिः ॥ ३५ ॥
वृत्ति:-नता विद्यमानस्य विशेषणस्थान्तिवादविवक्षा चावित्रता च । नासतो नाविद्यमानस्य
क्रियते । कस्तथिमितिक्षाप्रयोजनवद्भिः । अत्रकस्मिन् । कुतः ? लोक्यसिद्धमतत् ।
कम्पत्रिनंदः संवृतिकाव्यतोऽन्यस्यामदः संवृतितलियत इत्यतां दुरागमवासनाजनितां त्रिप्रतिपत्ति
निगदुनाह-
अष्टशवी-विविप्रतिवधर्माणां सतामंत्र विवशतसम्यां योगतथिमिः क्रियेन अन्यथा अनिय-
नामावात उपचारमात्रं नुस्यात् । नत्राऽग्निर्माणवक्र इत्युपकरायानादावुपयुज्यते । तदेकेकशः परस्परव्या-
वृनयोऽपि परिणामधिशेषाः ॥१५॥
प्रमाणगाचरा संना भेदाभेदी न संथनी ।
तावऋत्राविरुद्धी ने गुणमुख्यविवसया ॥ ३६॥
वृतिः-मद्रामा प्रमाणगांचन-प्रमाणविषयों संती-मयंती संपतिल्यावपरमार्यो न प्रमाणविष-
यन्त्रात् । अतस्तवागन तांत्रककस्मिन् धर्मिणि न विरुदी 1 गुणविवनया अप्रयानविवक्षया । मुख्यविश्व-
या प्रधानविया | श्यते त्रलोक प्रवानाप्रधानवित्रता यथाऽनुदरा कल्यंत्यादि ।। ३६ ।।
नित्यत्वनां निगरतकाम आह-
अष्टावी-प्रमाणनविसंत्रादिद्वानमनधिगतार्थाविगमलक्षणन्त्रात् । तदेवं सति भेदमदं वा नान्यो
ऽन्यरहित विश्वानरोति । न हि बहिस्ता स्वलक्षणं सामान्यलक्षणं वा तत्रापलभामहे यथैकांतवादिभि-
राम्नायते । नभनन्यूलाागणां स्थूलसूक्ष्मस्त्रमावन्यतिरेकण प्रत्यक्षादावीतमासनात् नत्र स्वभावांतरस्य
प्राधान्यवित्रायां-आकारांतरस्य गुणमात्रः स्यात् । घटीऽयं परिमाणको रूपादया वति ॥ ३६ ॥
इति आप्तमीमांसाभाष्यं द्वितीयः परिच्छेदः ।
नित्यत्वकांवपक्षेपि विक्रिया नोपपद्यते ।
प्रागेव कारकाभावः क्व प्रमाणं क्व तत्फलम् ।। ३७ ॥
वृत्तिः-उक्तपापमयान्नियन्त्रकांवपक्ष आधीयते तत्रापि सतो मावस्यांतरावातित्रिक्रिया सा
नोपपद्यत न बरत इयर्थः । अत एव कारणात् कारकाणि कादीनि तपानमावः शून्यता प्रागेव पूर्व-
मेव । तस्मिनमात्र कारक्रीवंशषप्रमाणवनुयायन्यप्रतिपादक क तस्मिन् किंतु न कचिदपि । तदमात्र क
प्रमाणपलमुपनाहानोरानादिकम् ? ॥ ३७ ॥
मामूद्रिक्रिया व्यंन्यव्यंजक्रमावो भविष्यत्सत माह-
अमृती सदसवयवांतप्रतिषवानंतरं नित्यत्वकांनप्रतिक्षयः पूर्वापरस्त्रमात्रपरिहारावातिल-
क्षणामक्रिया कौटस्थ्यऽपि ब्रुवाणः कथमदुन्मतः ? कारकनायकहतल्यापारासमवाद । परिणामविवर्तव-
मावस्याविकाराणां स्वभावपपीयन्त्रात् 1 - तदेतद्विनाशात्यचिनिवारणमबुद्धिपूर्वकं प्रत्यक्षादिविरावात्
क्षणिकांतवत् ।। ३७॥
प्रमाणकारकैयक्तं व्यक्तं चेदिद्रियार्यवन् ।
ते च नित्ये विकायं किं साधास्त्र शासनादहिः ॥ ३८॥

+ - शासने पुनः . .. . आप्तमीमांसा.. '२३ वृत्तिः-प्रमाणानि प्रत्यक्षादीनि । कर्तृकर्मकरणसंप्रदानापादानाधिकरणानि कारकाणि. तैर्व्यक्त प्रकाशिनं व्यंजितं कृतं । व्यक्तं महदादि । यथेंद्रियैश्चक्षुरादिभिार्थो विषयः । यद्येवं । ते च व्यंग्यव्यंजके नित्ये अविचलितकरूपे । किं विकार्य यावता हि न किंचिदपि । तव साधोर्मुनेः शासनात् प्रवचनात् । वहिरतेष्वंयमेव हि विकारो यो वस्तुन्यन्यथामा व्यक्तिरप्यन्यथाभावः अव्यक्ताव्य कमन्यत्. । तत्र सर्व सुघटम् । पुनरपि कदयितुमाह- अष्टशती-अथ मतं-प्रमाणकारकाणि व्यवस्थितमेव भावं व्यं जयंति । चक्षुरादिवत्स्वार्थं ततोन किं- चिद्धिप्रतिषिद्धं । विषयविशेषविज्ञानादेः शाश्वतत्वान्न किंचिद् व्यक्तार्थ पश्यामः कथंचिदपूर्वोत्पत्ती तदेकांत- विरोधात् तदभावविका-नुपपत्तेः । न वै किचिद्विरुद्धं कार्यकारणभावाभ्युपंगमात् इत्यनालोचितसिद्धांतः ॥ यदि सत्सर्वथा कार्य पुंवनोत्पत्तुमर्हति ।' परिणामप्रक्लुप्तिश्च नित्यत्वकांतवाधिनी ॥ ३९ ॥ वृत्तिः-असत्किंचिदपि नोपपद्यत सर्वे सर्वत्र सर्वस्मादत आहे । यदि, सर्वथा विश्वप्रकारैर्यथा शक्त्यात्मना एवं व्यक्तात्मनापि कार्य घटादिकं सत् विद्यमान पुमानिन पुंवत् सांख्यपरिकल्पितपुरुषवत् । नोत्पत्तु नो प्रादुर्भवितुमर्हति योग्यं भवति । यद्यत्सर्वथा सत् न तदुत्पद्यते यथा सांख्यपुरुषः सच्च सर्वथा कार्य तस्मान्नोत्पद्यते । अथ व्यवस्था तस्य द्रव्यस्य धर्मातरत्यागैर्धमातरोपजनितः परिणाम इष्यते ? अत आह परिणामस्य प्रक्लूप्तिः कल्पना समर्थन च सर्वस्य नित्यत्वमिति योऽयमेकांतस्तस्य बाधिनी निराकरण- शीला विरोधिनी इत्यर्थः । अतो बन्धमोक्षादिकमत्र न संभवति नित्यत्वात्प्रकृतिपुरुषयोस्तव मते पुनः संभवतीत्याह- अष्टशती-न तावत्सतः कार्यत्वं चैतन्यवत् । नाप्यसतः सिद्धांतविरोधात् गगनवकुसुमत्रत् । नापरमे- कांतप्रकारांतरमस्ति । विवर्तादेः पूर्वोत्तरस्वभावप्रध्वंसोत्पत्तिलक्षणत्वात् । तदेतत्त्रैलोक्य व्यक्तरपति नित्य- त्वप्रतिषेधात्-अपेतमप्यस्ति विनाशप्रतिषेधात् इत्यनेकांतोक्तिरंधलपविलप्रवेशन्यायमनुसरति ॥ ३९ ॥ पुण्यपापक्रिया न स्यात् प्रेत्यभावः फलं कुतः । बंधमोक्षी च तेपो न येपां त्वं नासि नायकः॥ ४० ॥ वृत्तिः--मैत्रीप्रमोदकरुणादिक्रियाऽभावे कुतः पुण्यहतुत्वात् पुण्ग .। हिंसादिरशुभपरिणामः पापहेतुत्वापापं । तयोः क्रिया क्षयोपार्जनं न स्यान्न भवेत् अत एव क्रियाऽभावे कुतः प्रेत्यभावः? जन्मांतर- फलं च सुखदुःखादिरूपं कुतः ? बंधः कर्मणाऽस्वतंत्रीकरणं मोक्षः स्वात्मोपलब्धिः एतौ च द्वौ तेषां न येषां त्वं नासि-न भवसि नायकः प्रभुः ? किमुक्तं भवति एतत्सर्वं त्वच्छासन एव नान्येषां नित्यत्ववादिनां कुतः ? विक्रियाऽभावात् ॥ न केवलं नित्यैकांत एतेपामभावः किंतु- अष्टशती-नैतत्प्रेक्षापूर्वकारिभिराश्रयणीयं पुण्यपापप्रेयभावबंधमोक्षविकल्परहितत्वात् नैरात्म्यादिवत् । न चैतत्क्वचिदेकांते संभवति ॥४॥ क्षणिकैकांतपक्षेऽपि मेत्यभावाद्यसंभवः । प्रत्यभिज्ञाधभावान कार्यारंभः कुतः फलं ॥४१॥ वृत्ति:-क्षणिको निरन्वयविनाशः स एवैकांतपक्षस्तस्मिन्नपि प्रेत्यभावादीनां जन्मांतरादीनामसंभवो भावः । प्रत्याभिज्ञा स एवायमिति ज्ञानं सा. आदिर्येषां ते प्रत्यभिज्ञादयस्तेषामभावस्तस्मान कार्यारंभ ओ- • . । .

२४ - सनातनजेनग्रंथमालायां- दनघटादेरारंभ आदिक्रिया । अतः कुतः फलं समर्पणादिकं परिहारोऽनिष्टस्य । अस्मादतकार्य भविष्यति नान्यस्मादेतदपि न संभवत्येव । आदिशब्देन पर्यालोचनाध्यवसायादीनां ग्रहणं । यदि कश्चित् स्थिरः कर्ता स्यादुपादानादीन्यपि यदि स्थिराणि संत्यस्य कार्यस्य, एतद्योग एव तन्निराकरणमपि । कथंचिद्यदि कार्य- रूपेण परिणमति तदा सर्व सुघटं नान्यथा ॥४१॥ तत्र कारणे कार्य मनागपि नास्तीति चेदत आह- अष्टशती-क्षणक्षयकांतदर्शनं-अहितं, असंभवत्प्रत्यभावादित्वात् उच्छेदेकांतवत् । ध्रौव्यकांताभ्युपगम- वदा । मिन्नकालक्षणानामसंभवद्धासनत्वात् अकार्यकारणवत् । न विनष्टं कारणमसत्त्वाचिरतरातीतवत् । समनंतरत्वेऽप्यभावाविशेपात् । न च पूर्वस्योत्तरं कार्य तदसत्येव हि भावात् वस्त्वंतरवत् अतिक्रांततमवता नहि समर्थेऽस्मिन् सति स्वयमनुपित्सोः पश्चाद्भवतस्तत्कायलं ? समनंतरत्वे वा नित्यवत् । कारणाभावा- विशेषेऽपि कार्योपत्तिसमयनियमावक्लप्तौ कस्यचित् कौटस्थयेऽपि तत्कारणसामर्थ्य सद्भावाभेदेपि कार्यजन्मनः कालनियमः किं न स्यात् । विशेषाभावात् । तथा चाकस्मिकत्वं स्यात् । उभयंत्राविशेषेण कचिदनुपयोगेऽपि क्वचिद् व्यपदेशकल्पनायामन्यत्रापि किं न भवेत्क्षणस्थिति:- । एकोऽपि भावोऽनेकस्वभावः चित्रकार्यत्वात् नानावत् । न हि कारणशक्तिभेदमंतरेण कार्यनानात्वं युक्तं रूपादिज्ञानवत् । अन्यथा रूपादेर्नानात्वं न सि- द्धयेत् चक्षुरादिसामिग्रीभेदात् तज्ज्ञाननिर्भासभेदोऽत्रकल्पेत । युगपदकार्थोपनिवद्धदृष्टानामपि भवितव्यमेव प्रतिभासभेदेन कारणसामिग्रीभेदात् । अन्यथा दर्शनभेदोऽपि माभूत् । प्रत्यासन्नेतरयोर्वेशद्येतरनिर्भासो- पलब्धेः । सेयमुभयतः पाशारज्जुः । सकृत्कारणस्वभावभेदमंतरेण यदि कार्यनानात्वं क्रमशोऽपि कस्यचिद- पेक्षितसहकारिणः कार्यसंततिः किं न स्यात् । सहकारिणस्तद्धतुस्वभावमभेदयंतोऽपि कार्यभेदहेतवः स्युः क्षणक्षयवत् । न हि कादाचित्कानि तत्कर्तुं समर्थानीति स्थिरोऽर्थस्तत्करणस्वभावं जहाति सद्बुद्धिपूर्वक- वाभावात् । क्षणिकसामिग्रीसन्निपतितैककारणांतरवत् । कल्पयित्वापि स्वहेतुप्रकृतिं भावानां स्वप्रकृतिर- वश्य-अन्वेष्याः। तत्स्वभाववशात्तत्कारणप्रकृतिव्यवस्थापनात् । तदयमकारणोऽपि स्वभावनियतोऽर्थः स्यात् । यद्यद्भाव प्रत्सनपेक्षं तत्तद्भावनियतं तथा विनाशं प्रत्यनपेक्षं विनश्वरं तथैव स्थितिं प्रत्यनपेक्ष स्वास्नु तद्धेतोरकिंचित्करत्वात् तद् व्यतिरिक्ताव्यतिरिक्ताकारणात् इत्यादि सर्व समानं । आदौ स्थितिदर्शनात् विद्युत्प्रदीपादेरतेऽपि स्थितरनुमानं युक्तं .। अन्यथाते क्षयदर्शनात् आदौ तत्प्रतिपत्तिरसमंजसैव तादृशः कारणादर्शनेऽपि कथंचिदुपादानानुमानंवत् तत्कार्यसंतानस्थितिरदृष्टाप्यनुमीयेत । तस्मात्कथंचन स्थितिमतः प्रतिक्षणं विवर्तोऽपि नान्यथा प्रभावादेरयोगात् । कुतः प्रेत्यभावादिः सत्यपि हेतुफलभाव कारणकार्यात- खत् संततिर्न स्यात् । अतादात्म्याविशेषात् तत्स्वभावविशेषावक्लप्तौ तादात्म्येऽपि कोऽपरितोपः विरोधस्य सर्वथाप्यपरिहार्यत्वात्। तत्संतानपेक्षया प्रेत्यभावादिः मामस्त ज्ञानज्ञययोः प्रतिक्षणं विलक्षणत्वात् । न वै प्रत्यभिज्ञादिः पुरुषांतरवदातरखच्च । ततः कर्मफलसंबंधोऽपि नानासंतानवदनियमात् न युक्तिमवतरति । तत्सूक्तं क्षणिकपक्षो विद्वद्भिरनादरणीयः सर्वथार्थक्रियाविरोधात् नित्यत्वैकांतवत् | सत्येत्र कारणे यदि कार्य त्रैलोक्यमकक्षणवर्ति स्यात् । ततः संतानाभावात् पक्षांतरासंभवाचेति स्थितमेतत् ॥ ४१ ।। यवसत्सर्वथा कार्य तन्माजनि खपुष्पवत् । मोपादाननियामोभून्माऽऽश्वासः कार्यजन्मनि ॥ ४२ ॥ वृत्तिः-सर्वथा शक्तिव्यक्तिस्वरूपेण यदसदविद्यमानं तत्कार्य माजनि माभूत् । खपुष्पं गगनकुसुमं तदिव खपुष्पवत् । उपादानं मृत्पिडतत्त्वादिकं तस्य नियामोऽस्मादतत्कार्य भवतीति निश्चयः सोऽपि माभूत्। आश्वासोऽस्मादेतद्भविष्यत्ययमपि माभूत् । कार्यजन्मान कार्योपत्तौ ॥ ४२ ॥ पुनरपि. दोपमुद्भावयितुमाह- १॥ एतद्योग्यमेव पाठोऽयं लिखितपुस्तके। .२ परिणमनमपि पाठोयं मुद्रितपुस्तके ।

। • - • आप्तमीमांसा.. २५ अष्टशती-कथंचित् सतः - कार्यत्वं-उपादानस्योत्तरीभवनात् सकदपि. विरुद्धधर्माध्यासानिराकृतेः । तथा चान्वयव्यतिरेकप्रतीतेर्भावस्वभावनिबंधनायाः किं फलमपलापेन । तदन्यतरनिराकृतावुभयनिराकृतिः अभेदात् । तन्नासत्कार्य सर्वथानुत्पादप्रसंगात् खपुष्पवत् । न तादृशकारणवत्.सर्वथाऽभूतत्वात् बंध्यासुतवत् । कथंचिदस्थितानुत्पन्नत्वादिति योज्यं । सत्यपि प्रभवलक्षण पूर्वपूर्वस्योत्तरीभवनं मृपिंडस्थासकोशकुशूला- दिषु सकललोकसाक्षिक, स्वमनीषिकाभिः सदृशापरापरोत्पत्तिविप्रलंभानवधारणावक्लप्तिमारचयता मोपादान- नियामोऽभूत्कारणांतरवत् तदन्वयाभावाविशेषात् सर्वथा वैलक्षण्यात् । निरन्वयस्यापि तादृशी प्रकृतिरात्मानं कारणांतरेभ्यो यया विशेषयतीति चेत् । न अत्यंतविशेषानुपलब्धेः । तदविशेषादर्शने . सर्वथा साध्यं स्यात् । तस्मात् इयमस्य प्रकृतिर्यया पूर्वोत्तरस्वभावहानोपादानाधिकरणस्थिति प्रतिक्षणं विभर्ति यतोऽयमुपादान- नियमः सिद्धः । अथापि कथंचिदुपादाननियमः कल्प्येत कार्यंजन्मनि कथमाश्वासः । तदत्यतासतः-कार्य- स्योत्पत्ते: तंतुभ्यः पटादिरेव न घटादिरिति ..निर्हेतुको नियमः स्यात् । पूर्वपूर्वविशेषादुत्तरोत्तरनियमकल्प- नायामनुपांदानेऽपि स्यात् । तथादर्शनमहेतुरत्रैव विचारात् कथंचिदहितविशेषतंतूनी पटस्वभावप्रतिलं- भोपलभात् । तदन्यतरविधिप्रतिषेधनियमनिमित्तात्ययात् प्रतीतरलमपलापेनं । तस्मादुभयलक्षणप्राप्तानुप- लब्धिरन्वयस्यैव नः पुनरंभयरूपस्येत्यलं प्रसंगेन ॥ ४२ ॥ न हेतुफलभावादिरन्यभावादनन्वयात् । संतानांतरवका संतानस्तद्वतः पृथक् ।। ४३ ॥ त्तिः क्षणिकैकांतपक्षे हेतु:-कारणे । फलं-कार्य तयोर्भावोऽस्तित्व से आदिर्यस्य स हेतुफलभावादि- रुपादानोपादेयस्वरूपं कार्यकारणभावो वाच्यवाचकभावश्च न स्यात् । कुतः १ अन्यभावादत्यंतपृथक्त्वात् । तदपि कुतः अनन्वयादेकस्य पूर्वापरावस्थाऽभावात् । तथा संतानांतरे प्रस्तुतसतानादन्यः संतानः संतानांतर तस्मिन्यथा न संभवति कार्यकारणभावः मृत्पिण्डात्पेटइव । अभ्युपगम्यैतदुक्तं परमार्थतस्तु सेतांनिभ्यों मिने- भ्यः पृथग्भूतेषु, ततो न कश्चिदेकः संतानोऽनुगतैकाकारः । अन्यानन्यभावाभ्या निराकृतत्वात् । तस्मान्न संतानो नापि संतानिन इति ॥ ४३ ॥ पुनरपि तस्य दूषणमाह- अष्टशती-विलक्षणानामत्यंतभेदेपि स्वभावतः किलासकाणीः संततयः कर्मफलसंबंधादिनिबंधन शश- विषाणस्येव वर्तुलत्वमारचित कश्चेतनः श्रद्दधीत ? ।। ४३ ॥ अन्येष्वनन्यशब्दोऽयं संवृतिनै मृषा कथं । मुख्यार्थः संवृतिनास्ति विना मुख्यान संशतिः ॥ ४४॥ . ... वृत्तिः सत्यं सतानिभ्यो व्यतिरिक्तः सतानो नास्तिं किं तु अन्येषु पृथाभूतेषु योऽयमनन्यशब्दो- ऽनन्यबुद्धिश्च संतानः सा संवृतिरुपचारः । यद्येवं कथं सां न मृषा व्यलोको भवेत् । च मुख्यार्थः. संवृतिरस्ति तस्यास्तुच्छरूपत्वात् । संवृतिस्तूपचारः । न च मुख्यार्थमंतरेण संवृतिः, सति मुख्यार्थे तस्याः संभवो यथा सिंहोऽयं माणवकः, सति मुख्यसिंहे माणवके सिंहकल्पना । न चैवं संवृते- रस्ति मुख्यार्थ इति ॥ ४४ ॥ अथैवं परिकल्प्यते- अष्टशती-संतानिभ्योऽनन्यः सतानः अन्यथा आत्मनो नामांतरकरणात्-नियानित्यविकल्पानुपत्तेः । १ पूर्वापरभावात् पाठोऽयं लिखितपुस्तके । २ मृर्पिडाट इव पाठों मंद्रितपुस्तके। मतत पामेयं लिखित पुस्तके । ...... . ३ सस्थाः शब्द २६ सनातननग्रंथमालायां- अपि तु तेप्वनन्यन्यवहारादेकत्वमुपचरितमिति । व्यलीकन्ययहारेऽपि विशानुपपत्तेः संबधनियमाभावस्तद- वस्थः । उपचारस्तु नर्ते मुख्यात् यथाग्निर्माणवक इति स्खलति हि तत्रानन्यप्रत्ययः परीक्षाऽक्षमत्वात् । अत एवामुख्यार्थः प्रस्तुतासाधनं ।। ४४ ॥ चतुष्काटेर्विकल्पस्य सर्वांतपृक्तचयोगतः । सत्वान्यत्वमवाच्यं च तयोः संतानतद्वतोः ॥ ४५ ॥ वृत्तिः-यथा सर्वधर्मपु चतनः कोटयो सत्वैकत्रादिषु विभागा यस्यासौ चतुष्कोटिर्विकल्पस्तस्य सदसदुमयादिभेदभिन्नस्य विकल्पस्य । रक्तिर्वचनं तस्या अयोगोऽसंभवः ततः । तयोः संतानतद्वतोश्चतुष्को- टेर्विकल्पस्य वचनस्यायोगात्तत्त्वान्यत्वमेकलानेकत्वमवाच्यं ॥ ४५ ॥ चदत आह- अष्टशती-सत्त्वकत्वादियु.सर्वधर्मेषु सदसदुभयानुमयचतुष्कोटेरभिधातुमश्यक्यत्वात् संतानतद्वतोरपि भेदाभेदोमयानुभयचतुष्कोटेरनभिलाप्यत्वं । सत्चे तदुत्पत्तिविरोधात्-असत्त्वे पुनरुच्छेदपक्षोपक्षिप्तदोषात् । उमपत्रोमयदोषप्रसंगात् । अनुभयपक्षेऽपि विकल्पानुपपत्तिरित्यादि योज्यं ॥ ४५ ॥ अवक्तव्यचतुष्कोरिविकल्पोऽपि न कथ्यतां । असर्वातमवस्तु स्यादविशेष्यविशेषणं ॥ ४६॥ वृत्तिः-तीवक्तव्यचतुष्कोटिविकल्पोऽपि यः सोऽपि न कथ्यंतां नोच्यतां माभाणीदित्यर्थः । अन्यथा भेदाभेदोभयानुभयस्त्ररूपेणामिलाप्यत्वे कथंचिदनभिलाप्यत्वं स्यात् । अन्यञ्चत्र सति असर्वोतं सर्वविकल्पाती- तमवस्तु स्यात् । अविशेष्यविशेषणं स्यात् । विशेष्यत इति विशेषः विशेष्यतेऽनेनेति विशेषणं तयोरभावात् ॥ ४६॥ अन्यच्च प्रतिषेधोऽपि न घटते, तत्कथमत आह- अष्टशती-न हि सर्वथानमिलाप्यत्वेऽनमिलाप्यचतुष्कोटेराभिधेयत्वं युक्तं कथंचिदमिलाप्यत्वप्रसंगात् । अपि चैव सति सर्वविकल्पातीतमवस्त्वेव स्यादन्यत्र वाचोयुक्तः ॥ ४६ ।। द्रव्याद्यतरभावेन निषेधः संझिनः सतः । असद्भदो न भावस्तु स्थान विधिनिषेधयोः ॥ ४७ ।। वृत्तिः-द्रव्यमादिर्येषां ते द्रव्यक्षेत्रकालभावास्तेभ्योऽन्यानि द्रव्याद्यतराणि तेपामभावस्तेन परद्रव्य- परक्षेत्रपरकालपरभावस्वरूपेण यः प्रतिषेधः सतो विद्यमानस्य । संझिनो नामवतो भवति । यः पुनरसद्भदो भावविशेषः परपरिकल्पितो नासौ भावः स्वलक्षणं । विधिनिषेधयोरस्तित्वनास्तित्वयोः । स्थानमास्पदं । कुतः? सर्वथा तस्य तुच्छत्वात् । तस्माद्भाव एव विधिनिषेधयोरवस्थानं तस्यैव स्वपररूपेणास्तिलनास्तित्वं ।। यतः- - अष्टशती-द्रव्यक्षेत्रकालभावांतरप्रतिषेधः संज्ञिनः सतः क्रियते न पुनरसतस्तद्विधिप्रतिपेधाविषय- त्वात् । नचैतद्विरुद्ध ? स्वलक्षणमनिर्देश्यमित्यादिवत् | अभावोऽनभिलाप्य इत्यपि भावाभिधानादेकांतवृत्तावेव दोपात् । भावामिधानरपि कथंचिदभावाभिधानात् ॥ ४७ ॥ अवस्त्वनभिलाप्यं स्यात् सातैः परिवर्जितं । वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥ ४८॥ वृत्तिः-सातैः सर्वधर्मः [ परिवर्जितं विरहितं । सर्वथा यत्तदनभिलाप्यमवाच्यमवस्तु स्यात् न किंचिदपि भवेत् परपरिकल्पितं । कथं तवस्तुवमत आह-वस्त्वेवावस्तुतां याति-अर्थक्रियायाः सर्व एव + माप्तमीमांसा । २७ पदार्थो भवति । कुतः! प्रक्रियायाः स्वरूपादिचतुष्टयलक्षणायाः विपर्ययात्पररूपादिचतुष्टयात्। तस्माद्यदयस्तु तदनभिलाप्यं यथा न किंचित् । यत्पुनरभिलाप्यं तद्वस्तु. यथा खपुष्पं । तस्मादेतवैकस्योपलब्धिर्यदन्य- स्यानुपलब्धिरिति ।। पुनरप्यवक्तव्यवादिनमुपालभते- अष्टशी-भावव्यतिरेकवाचिभिरपि वाक्यतामापन्न वाभिधानात्, नात्र किंचिद्विरुद्ध । अतः सूक्तं यदवस्तु तदनभिलाप्यं यथा न किंचित् । यत्पुनरभिलाप्यं तद्वस्त्वेव यथा खपुष्पं. । अन्यस्य.कैवल्य- मितरस्य वैकल्यं, स्वभावपरमावाभ्यां भावाभावव्यवस्थितिर्भावस्य || ४८ ॥ साताश्चेदवक्तव्यास्तेषां किं वचनं पुनः । संवृत्तिश्चन्मपवपा परमार्थविपर्ययात् ॥ ४९ ॥ वृत्तिः-यदि सर्वोताः सर्वधर्मा अवक्तव्या अवाच्यास्तेपो मतानां यदेतद्वचनमुक्तिः "सर्वथा प्रतिक्षणं निरन्वयविनाशिनो निरंशाः सजातीयविजातीयव्यावृत्ता इत्यादिकं पुनः पुनरावर्तमानं किमर्थं स्यात् । अथ मतं परमार्थ न तद्भवेस्कि तु संवृतिः । यद्यैवं मृवैपा व्यलोकवसा । कुतः:१. परमार्थस्य तत्त्वरूपस्य विपर्ययोऽभावः यतः । संवृतिनीमोपचारः, न च सा परमार्थमंतरेण भवति ॥ ४९ ॥ अष्टशती-पुनरपि-अवक्तव्यवादिनं पर्यनुयुंज्महे सर्वधर्मा यदि वाग्गोचरतामतीता, कथमिमेंऽर्मि- लाप्यते इति । संवृत्त्या इति चेत् ? न विकल्पानुपपत्तेः । स्वरूपेण चेत् ? कथमनभिलाप्याः ! पररूपेण चेत्तेषां स्वरूपं स्यात् केवलं वाचः स्खलनं गम्यते । उभयपक्षेऽप्युभयदोषप्रसंगः । तत्वेन चेत् ! कथम- वाच्याः । मृपात्वेन चेत् ! कथमुक्ताः तदलमप्रतिष्ठितमिथ्याविकल्पोधः ॥ ४९ ॥ अशक्यत्वादवाच्यं किमभावास्किमवोधतः । आधंतोक्तिद्वयं न स्यात् किं व्याजेनोच्या स्फुटं ॥ ५० ॥ वृत्तिः-इदं तावदवक्तव्यवादी प्रष्टव्यः । किमशक्यत्वादसामर्थ्यादवाच्यं ! आहौस्विदभावात् ! किम- ज्ञानात् ? विकल्पवयं । न तावदशक्यत्वादशनागसहस्रवलवत्त्वाद् बुद्धस्य | नाप्यज्ञानात्सर्वज्ञत्वेन परिक- ल्पितं यतः । यस्मादायुक्तिरादिविकल्पोऽतोक्तिस्तृतीयविकल्प एतद्यं न भवेत् । तस्मात्कि.व्याजेन छपना ? उच्यता भण्यतामभावादेवावाच्यं स्फुटमिति । न चैतदभावमानं प्रमाणसिद्धं प्रमाणस्याप्यभावात् ।। ५० ।। क्षणिकैकांतवादिकल्पिता हिंसा पंचभिः कारणैः प्राणप्राणिजनव्याघातचित्ततद्वतचेष्टाप्राणवियोगैर्न, बंधमक्षिादिश्च न घटत इत्याह- अष्टशती-अर्थस्यानभिलाप्यत्वं-अभावात् ,वक्तुरशक्त?-अनवबोधाद्वा प्रकारांतराभावाद्वा:बुद्धिकरण- पाटवापेक्षत्वात् ? न च सर्वत्र तदभावो युक्तः ततो नैरात्म्यान विशिष्यते मध्यमपक्षावलंबनात्। अशक्यसमय- त्यातू अनभिलाप्यमर्थरूपमिति चेन्न कथंचिच्छक्यसंकेतत्वात, दृश्यविकल्पस्वभावत्वात् परमार्थस्य प्रतिभास- भेदेऽपि इत्युक्तं । विषयविषयिणोभिन्नकालत्वं प्रत्यक्षेऽपि समानं । अविपरीतविप्रतिपत्तिरन्यत्रापि। दर्शन विकल्पयोः परमार्थकतानत्वाभावेन किंचित्सिद्धं दृष्टस्यानिर्णयात अदृष्टकंल्पत्वात् । अदृष्टनिर्णयस्य प्रधाना- दिविकल्पाविशेषात् ।। ५०॥ हिनस्त्यनभिसंघात न हिनस्त्याभिसंधियत् । वयते तद्वयापेतं चित्तं बद्धं न मुच्यते ॥ ११ ॥ वृत्तिः--क्षणिकैकांतवादेऽभिसंधिमन-मारणाभिप्रायवत् । चित्तं तत्परिकल्पितरूपज्ञानं जीवसदृशं तत्प्रा- णिनं न हिनस्ति न मारयति । यच हिनस्ति तदनभिसंधात अनभिप्रायवत् । बध्यते च कर्मणां तयापेतं ।।११॥ A २८ सनातननग्रंथमालायां- -- तचनविरोध दर्शयति-- अष्टशती-संतानादेरयोगात, इति कर्तव्यतासु चिकीर्पोर्विनाशात् कर्तुरचिकीर्षत्वात् तदुभयावनि- मुक्तस्य बंधात तंदविनिर्मुक्तेश्च, यमनियमादेरभिधेयत्वं कुर्वतो वा यत्किंचनकारित्वं ॥ ११ ॥ अहेतुकत्वान्नाशस्य हिंसाहेतुने हिंसकः। चित्तसंततिनाशश्च मोक्षो नाष्टांगहेतुकः ॥ ५२ ॥ वृत्तिः यो हिंसाया हेतुनिर्मितं नासौ हिंसकः प्राणवियोजकः कुतोऽहेतुकत्वान्नाशस्य। यदेतपाणिनो मरणनिमित्तं यच्च मोक्षस्तरभ्युपगतः चित्तानां रूपविज्ञानक्षणानां संततिनरंतर्य तस्य नाशः क्षयः प्रदीप- निर्वाणरूपो वा । अष्ट मंगान्यवयत्रा यस्य स हेतुर्यस्यासी अष्टांगहेतुकः । कानि तान्यष्टांगानि सम्यक्त्व- संज्ञा-संज्ञि-वाकायकर्म-अंतर्व्यायाम-स्मृति-समाधिलक्षणानि । सोऽपि न स्यात् । कुतः स्वत एव-हेतुमंत- रेंगाभ्युपगतत्वात् ।। ५२ ॥ अथ मतं स्वभावविनाशार्थ न निमित्तमस्मामिरिष्यते, किं तु विभागार्थमित्यत आह- अष्टशती-अहेतुं विनाशमभ्युपगम्य कस्य चिद् यदि हिंसकत्वं ब्रूयात् कथमविक्लवः ? तथा निर्वाणं संतानसमूलप्रहरणलक्षणं सम्यक्त्वसंज्ञासंज्ञिवाकायकर्मीतायामजीवस्मृतिसमाधिलक्षणाष्टांगहेतुकं ! तदन्यो ऽन्यं विप्रतिषेधात् ।। ५२ ॥ विरूपकार्यारम्भाय यदि हेतुसमागमः । आथयिभ्यामनन्योऽसावविशेषादयुक्तवत् ॥ ५३ ॥ वृत्ति-विरूपकार्य विभागसन्तानः कपालांदिस्तस्यारम्भस्तस्मै विरूपकार्यारंभाय । यदि हेतोः समागमः कारणापेक्षणं ।तहसौ विरूपकार्यारम्भ आश्रयिम्यामुत्यादविनाशाभ्यामनन्योऽभिन्नः । कुतः? अविशे- पादमेदात् । अविशेषेणाभेदोनोपलब्धिराश्रयिम्पो यतः । अयुक्तवत् यथा ग्राह्यग्राहकाकारा सहायुतसिद्धिः॥ चित्तविशेषरूपरसादिवद्धान् प्रागुत्पादादीनभ्युपगम्य क्षणिकवादे दूपणममाणि । साम्प्रतं तु तेषा- मुत्पादादीनामसंमत्रमेव दर्शयन्नाह- अष्टसती-विसमागसंतानोत्पादनाय हेतुसंन्निधिर्न प्रध्वंसाय पूर्वस्य स्वरसनिवृत्तेः इति चेत् ? स पुनरु- स्तरोत्पादः स्वरसतः किं न स्यात् विनाशहेतुवत् । स्वरसोत्पन्नमपि तदनंतरमावित्वात् तेन व्यपदिश्यते ? इति चेत् इतरत्र समानं ।.परमार्थस्तदहेतुकत्वं, प्रतिपत्रभिप्रायाविशेषऽपि स्वतः प्रहाणवादी न शक्नोत्या- स्मान न्यायमार्गमनुकारयितुं सर्वदा विरूपकार्यत्वात् । सभागविसमागावक्लप्ति प्रतिपत्रभिप्रायवशात् समनुगच्छन् सहेतुकं विनाश ततः किं नानुजानीयात् । नंच समनंतरक्षणयोर्नाशोत्पादी पृथग्भूतौ मिथः स्वाश्रयतो वायौ समं सहेतुकेतरीस्ता प्रत्यभिवानमेटेऽपि ग्राह्यग्राहकाकारवत् स्वभावप्रतिबंधात् संज्ञाछंदमति, स्मृत्यादिवत् सत्यपि भेदे समकालभाविनोः कथं सहकारी पुनरन्यतरस्यैव हेतुरहेतुर्वा कार्यरूपादेखि कारणं। तस्मात्कायकारणयोरुत्पादविनाशी न सहेतुकाहेतुको सहभावाद्रसादिवत् । न तस्य किंचिद्भवति। न भवत्येव कवलीमति चेत् भवत्येव केवलमिति समानं । तस्मादयं विनाशहेतुर्भावममावीकरोति न पुनरकिंचित्करः, कार्योत्पत्तिहेतुळ, यद्यमावं न मावी कुर्यात भावं करोतीति कृतस्य करणायोगात्-अकिंचित्करः । तदतत्क- रणादिविकल्पसंहतिरुभयत्र सदृशी ॥ ५३॥ स्कंधाः संततयश्चैव सवृतित्वादसंस्कृताः । स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥ ५४॥ तस्य बद्रस्व अविनिर्मुकरित्ययः ।

आप्तमीमांसा। २९. वृत्तिः- स्कंधा रूपवेदनाविज्ञानसंज्ञासंस्कारास्तेषां संततयश्च कार्यकारणयोरविच्छेदाः । एवकारो- अवधारणार्थः । असंस्कृता एवापरमार्था एवं | कुतः ? संवृतित्वान्मिध्यारूपत्वात अतस्तेषां स्थितिः । सदव- स्थानमुत्पत्तिर्घटावस्था, विनाशः कपालादिरूपस्ते न स्युन भवेयुः खरविषाणवत् | यथा खरविषाणस्य स्थि- त्युत्पत्तिव्यया न सन्त्येवमेतेषां, अभावं प्रत्यविशेषात | यत्पुनः संस्कृतं तत्परमार्थसत् यथा स्वलक्षणम् | न तथा स्कंधाः संततयश्च । ततः स्थित्युत्पत्तिविपत्तिविरहस्ततोऽपि विभागसंतानोत्पत्तये विनाशहेतुरिति पोप्लूयते ॥ यस्य मिथ्यादृश उभयैकांतपक्षस्तन्निरासार्थमाह-- अष्टशती-रूप-वेदना-विज्ञान-संज्ञा-संस्कारस्कंधसंततयोऽसंस्कृताः संवृत्तित्वात् । यत्पुनः संस्कृतं तत्परमार्थसत् । यथा स्वलक्षणं । न तथा स्कंधसंततयः । ततः स्थित्युत्पत्तिविपत्तिरहिताः । ततो . विसभा- गसंतानोत्पत्तये विनाशहेतुरिति पोप्ल्यते ।। ५४ ॥ विरोधात्रोभयैकात्म्यं स्याद्वादन्यायविदिपा । अवाच्यतैकांतेऽप्युक्तिनांवाच्यमिति युज्यते ॥ ५५ ॥ वृत्तिः-उभयैकात्म्यं नित्यानित्यैकांतद्वयमयुक्तमंगीकर्तुं, कुतः मिथ्यादृशां तद्विरोधात् । अनामिलाप्य- मपि न युक्तमनेकांतवैरिणां ॥ ५५ ॥ एकांतवादिपक्षं निरस्यानकांतं समर्थयन्नाह- अष्टशती-नित्यत्वतरकांतद्वयमप्ययुक्तमंगीकतु विरोधात् युगपज्जीवितमरणवत् नित्यत्वानित्यत्वाभ्यां । अत एवानमिलाप्यमित्ययुक्तं ? तदेकांतेऽनभिलाप्योक्तेरनुपपत्तेः ॥ १५ ॥ नित्यं तत् प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा। क्षाणिक कालभेदात्ते बुद्धयसंचरदोषतः ॥ ५६ ।। वृत्तिः-तच्छब्देन तत्त्वमुच्यते प्रस्तुतत्वात् तत्त्वं कथंचिनित्यं प्रत्यभिज्ञानात । वस्तुनः पूर्वापर कालव्याप्तिज्ञानं प्रत्याभिज्ञानं । यथा स एवायं देवदत्त इत्यादि । तस्मात्प्रत्यभिज्ञानांत् । तस्य प्रत्यभिज्ञानस्य अविच्छिदा अविच्छेदोऽन्वयः। सोऽकस्मात् । अहेतोर्न भवति यस्मात् । न च नित्यत्वमेव । कालभेदात्परिणाम- कशातू क्षणिकं नश्वरं । तवाहट्टारकस्य नान्यस्य क्षणिकाणिकवादिनः । बुद्धरसंचाराऽसंचरणमन्यत्रागमनं स एव दोषस्तस्मात् । न हि एक पदार्थ विज्ञायान्यस्य पदार्थस्य परिच्छत्तिः संभवति । उभयकांते पुनः सुघटा॥ १६ ॥ तदेव दर्शयति- अष्टशती-तदेकांतद्वयेऽपि परामर्शप्रत्ययानुपपत्तेरनेकांतः । स्थित्यभावे हि प्रमातुरन्येन दृष्टं नापरः प्रत्यभिज्ञातुमर्हति । संबधविशेषेऽपि पित्रेव पुत्रः सन्नप्यतिशयः पृथक्त्वं न निराकरोति । तदेवान्यत्रापि, प्रत्यवमर्शाभावनिबंधनमेकसंतत्या प्रत्यभिज्ञानं प्रत्यभिज्ञानवलाञ्चकसंततिरिति व्यक्तमितरेतराश्रयणमेतत् । नच पक्षांतरे समानं स्थितेरनुभवात् । तद्विभ्रमकल्पनायामुरादविनाशयोरनाश्वासः । तथानुभवनिर्णयानुपलब्धे- यथा स्वलक्षणं परिगीयते तत्रैतत्स्यात् । स्वभावाविनिर्भागेऽपि न संकलन दर्शनक्षणांतरवत् । सत्यमेकांत. एवायं दोषः । ततःक्षणिकंकालभेदात् ,दर्शनप्रत्यभिज्ञानसमयोरभेदे तदुभयाभावप्रसंगात । किंच पक्षद्वयेऽपि ज्ञानासंचारानुषंगात अनेकांतसिद्धिः । अपोद्धारकल्पनया कथंचिज्जात्यंतरेऽपि वस्तुनि--प्रत्यभिज्ञानादि- निबंधने स्थित्यादयो व्यवस्थाप्येन् । न च स्वभावभेदोपलंभेऽपि नानालविरोधः संकरानवस्थानुषंगः, चेतसि पासमाहकाकारक्त ॥ १६॥ '. " .

- ? - . सनाननंजनग्रंथमालायां- न सामान्यात्मनोंदति न व्यति व्यक्तमन्वयात् । व्ये युद्धति विशेषाचे सहकत्रोदयाद मत् ।। ५७ ॥ वृत्तिः- यमनकांत त्रयमकस्मिन् संमत्रति इति चंदत आह । सामान्यात्मना द्रव्यरूपेण नोदेति नोवद्यते न व्येति न विनश्यति कुतोऽन्वयात् सर्वपर्यायध्वंनुगतेकाकारण वर्तनाद व्यक्त रफुटमेतत। विश पात्पर्यायपणोत्पद्यते विनश्यति च । नवाहतः । सह युगपदककस्मिन् वस्तुनि | उदयादि सत्-उत्पाद- विनाशस्थितयः सत्यों विरोधाभावात् ।। ५७॥ कथं य एत्रोत्पादः स एव विनाशो यात्रैव विनाशोत्यादौ तावच स्थितिः । इत्यत आह- अष्टशतीचलाचलात्मकं वस्तु कृतकाकतकात्मकत्वात् । न हि चेतनस्य अन्यस्य वा सर्वयोत्पत्तिः सदादिसामान्यस्त्रमावेन सत एवातिशयांतरोपलंमाद वटवदाकचिदुवादविगमारमकवादिति योज्यं ॥२॥ कार्योत्सादः क्षयो हेवोनियमाल्लसणात्पृयक् । : न तो जात्याघवस्यानादनपेक्षाः खपुष्पवत् ॥ ५८ ॥ वृत्तिः योऽयं कार्यस्योवादः स एव हेतोपादानकारणस्य क्षयो विनाशो नियमानिश्चयात् । लक्षणात्पुनः पृथग-मिन्नौ स्वल्यमदाता जात्यादेवस्थानात् सत्वग्रमेयत्वादिनान तो मिन्नी कुतः तेन रूपे कलात् । अनपेक्षाः परस्परापेक्षामंतरेण ते स्थित्युत्पत्तिविनाशाः खपुष्यसमानाः । तस्मादेते कथंचित् परस्सरममिन्नाः कथंचिद्रिनाथ भवंति ॥ ५८ ॥ लौकिकदृष्टतिन स्पष्टयन्नाह अष्टशती कार्यकारणयोल्मादविनाशौ कयंचिदिन्नौ मिन्नलक्षणसंबंधिवात् सुखदुःखत्रत् । स्याद- मिन्नौ तदमेदस्थितजातिसंख्याद्यात्मकत्वात् पुरुषवत् । उत्पादविगमनौव्यलक्षणं स्यादिन्नं असखटन्नाना- प्रतीतिरूपादिवत् । उत्पादः केवलो नास्ति स्थितिविगमरहितन्त्रात् वियकुमुमवत् । तथा स्थिति- विनाशी प्रतिपचन्यो । ५८ ॥ घटमौलिसुवर्णार्थी नाशोत्सादस्थितिप्वयं । शोकममोहमाध्यस्थ्य जनो याति सेहतुकम् ॥ ५९॥ वृत्ति:-अयं जनत्रितयार्थी यो बटार्थीस तस्मिन् भन्ने शोकं याति । यश्च मौल्ययी स तस्मिन्नुत्पन्ने हर याति | यच सुर्वणार्थी स माध्यस्थ्यं याति सुवर्णसद्भावात् । नचैतदहेतुकं किंतु सहेतुकमेव । तदेव मुवर्णद्रव्य वटवरूपेण विनश्यति, तदेव मैलिस्वरूपेणात्पद्यते, सुवर्णस्वरूपणानुगतकाकारस्वरूपेण तिष्ठति। एवं सब वस्तु ॥ ५९॥ अष्टशती-प्रतीतिमेदमित्यं समर्थयते-घटं मंक्वा मौलिनिर्वतने घठमालिसुवर्णार्थी तन्ना- शोत्यादस्थितिषु विवादहयोदासीन्यस्थितिमय जनः प्रतिपद्यत इति । निर्हेतुको तदनुपपत्तेः ॥ ५९ ॥ पुनरपि लोकोत्तरदृष्टतिन पोषयति- पयोबतो न दन्यचि न पयोति दघिन्तः । यगारसबूतो नामे तस्मात्तत्त्वं त्रयात्मकं ॥ ६०॥ वृषिः यस्य पया-दुग्धमेवाहं मुख इति व्रतं नियमः, नासौ दन्यत्ति-दवि मुंक्त यस्य च दथ्यह मुख इति व्रतं नासी पयोऽनि-दुग्यं मुक्त । यस्य चागोरसमहं मुंब- इति व्रतं नासावुमयमत्ति। कुतः गोरसम्पण नयारकत्वात् । दुग्वतस्य दविरूपणामावात् । दवित्रतस्य पयोहाणामावात् । अगारेसवतस्य आप्तमीमांसा ३१ दाधिदुग्धरूपेणाभावात् । तस्मात्तत्त्वं वस्तु प्रयात्मकं स्थित्युत्पत्तिव्ययात्मकं सुघटमेतदनेकांते जनमत इति स्थितम् ॥ १०॥ अष्टसती-लोकोत्तरदृष्टांतेनापि तत्र प्रतीतिनानात्वं विनाशोत्पादस्थितिसाधनं प्रत्याययति । दधिपयोगोरसवतानां क्षीरदयुभयवर्जनात् क्षीरात्मना नश्यद्दध्यात्मनोत्पद्यमानं गोरसस्वभावेन तिष्ठतीति । तस्मात्तत्त्वं त्रयात्मकं ॥ १० ॥ इति आप्तमीमांसाभाष्ये तृतीयःपरिच्छेदः । 1.. वृत्ति-द्रव्यपर्यायरूपं तत्त्वं व्यवस्थाप्य नैयायिकवैशेपिकमतमाशङ्कय दूषयितुक.म: प्राह- कार्यकारणनानात्वं गुणगुण्यन्यताऽपि च । सामान्यतद्वदन्यत्वं चैकांतेन यदीष्यते ॥ ६१ ॥ वृत्तिः-कार्य घटादिरूपं कारणं मृत्पिण्डादिकं तयोर्नानात्वं भेद इष्यते चेत् ! गुणो रूपादिगुणी इन्ध तयोरपि यद्यन्यतेष्यते सर्वथा भेद इष्यते ? सामान्यं बुद्धयभिधानप्रवृत्तिलक्षणं तद्वत्सामान्यवत्-व्यक्तयः, तयोश्च यद्यन्यतेष्यते सर्वथैकांतेन ? ॥ ११ ॥ तदानी किं स्यादत आह- अष्टशती-अवयवगुणसामान्यतद्वतो व्यतिरेकैकांतमाशंक्य प्रतिविधत्ते ॥ ११ ॥ एकस्यानेकवृत्तिन भागाभावादहूनि वा। भागित्वाद्वाऽस्प नैकत्वं दोपी वृत्तेरनाईते ।। ६२ ।। वृचिः--एकस्यावयन्यादेः कार्यस्य घटादेरनेकेषु स्वारंभकावयवेषु वृत्तिर्वर्तनं सा न स्यात् । कुतः ? भागाभावात् निरवयवत्वात् । अययविनो अर्थे वर्तन्ते अवयवबहुत्व स्यादनिष्ट चैतत् । यथास्य भागाः परि कल्प्यंते, एवं सति नैकत्वमस्य भागित्वात् । तस्मादनार्हते मते वृत्तिविकल्पस्य सर्वात्मनैकदेशन दोष एव । आर्हते पुनर्मते सर्व युक्तमनेकांतात् ॥ १२ ॥ पुनरपि भेदपक्षे दूपणमाह-- अष्टशती-एकमनेकत्र वर्तमान प्रत्यधिकरणं । न तावदेकदेशेन निष्प्रदेशत्वात् । नापि सीत्मना अवयव्यादिवदुत्वप्रसंगात् । अथापि कथंचित्प्रदेशवत्त्वं तत्रापि वृत्तिविकल्पोऽनवस्था च । तदेकत्वमेव न स्यात् । नायं प्रसंगो ऽनेकांते कथंचित्तादात्म्यात् वेद्यवेदकाकारज्ञानवत् ॥ २ ॥ देशकालविशेषेऽपि स्यावृत्तियुतसिद्धवत् । समानदेशता न स्यात् मूर्तकारणकार्ययोः ॥ ६३ ॥ वृत्तिः-देशः क्षेत्र कालः समयादिकः तयोविशेषो भेदस्तस्मिन्नपि तयोरवयवावयविनोर्या वृत्तिर्वर्तनं स्यात् युतसिद्धानामिव पृथग्भिन्नानामिव युतसिद्धवत् घटपटादिवत् इत्यर्थः । अन्यच्च समानदेशता न स्यात् तयोरवयवावयविनोरेकस्मिन्नवस्थानं न स्यात् मूर्तिमत्वात् यथा खरकरभयोः ।.६३ ।। पुनरपि भेदयादिनं प्रति दूषणमाह- अष्टशती-तस्मादंगांग्यादेरत्यंतभेदादेशकालविशेषणापि · वृत्तिः प्रसज्येत । घटवृक्षवर्णादिभि- रनकांतिकत्वमित्ययुक्तं तद् व्यतिरेकैकांतानभ्युपगमात् । अवयवावयविनोः समानदेशवृत्तिन भवेत् मूर्ति- मस्वात् खरकरभवत् ॥ १३॥: . .. .-....

। ३२ सनातनजनग्रंथमालायां- आश्रयायिभावान स्वातंत्र्यं समवायिनां। इत्ययुक्तः स संबंधो न युक्तः समवायिमिः ॥ ६४ ॥ वृत्तिः-स्वातंत्र्यं स्वप्रधानता तेषां नास्ति। कुतः ? आश्रयाः स्वारंभकावयवा आश्रयी अवयत्री कार्या- दिस्तयोर्भावस्तस्मात् । यस्मात् आश्रयमंतरेण नाश्रयी वर्ततेनायिणमंतरेणाश्रयः परस्परप्रतिबंधात् । तस्मान्न कालादिभेदेन वृत्तिस्तेषां समवायिनां कार्यकारणानामिति चेदत्रोत्तरमाह । सोऽयुक्तः संबंधः समवायिभि: सह न युक्तः, समवायसंबंधः परेरिष्टः कार्यकारणादिभिः सह स न घटते विचार्यमाणायोगात् । अनवस्था- दिदोषादिति ॥ ६४ ॥ तदेव विघटयन्नाह- अष्टशती-कार्यकारणादीनां परस्परं प्रतिबंधात् कुतः स्वातंत्र्यं यतो देशकालादिभेदेन वृत्तिः ? इति चेत् समवायस्य समंवायांतरेण वृत्तौ अनवस्थाप्रसंगात् । स्वत एव वृत्तौ द्रव्यादस्ताथापत्तेरसंबद्धः समवायः कथं द्रव्यादिभिः सह वर्तेत यतः पृथक् सिद्धिर्न स्यात् ।। ६४ ।। सामान्य समवायश्चाप्येककत्र समाप्तितः । अंतरेणाश्रयं न स्यानाशोत्पादेिषु को विधिः ॥ ६५ ॥ वृत्तिः-सामान्यं भिन्नेष्वभिन्नकारणं । समवाय इहेदं प्रत्ययलक्षणं । एकैकत्र एकस्मिन्नवयवे व्यक्ती वा । समाप्तितः समाप्तेर्व्यवस्थितत्वादित्यर्थः । आश्रयमंतरेण यस्मात्तयोरवस्थानं नास्ति । एवं सति नाशो- त्पादा विद्यते येषां तेषु नाशोत्पादिषु खण्डमुण्डघटपटादिषु को विधिः कः क्री? किंतु न कश्चिदीप स्यात् ।। पुनरपि संबंधस्य दूषणमाह- अष्टशती-प्रत्येकं परिसमाप्तराश्रयाभावे सामान्यसमवाययोरसंभवादुत्पत्तिविपत्तिमत्सु कथं वृत्तिः- उत्पित्सुप्रदेशे प्राङ् नासांत नान्यतो याति, स्वयमेव पश्चाद्भवति स्त्राश्रयविनाशे च नश्यति प्रत्येक परिसमाप्तं चेति व्याहतमेतत् ॥ ६५ ॥ सर्वथाऽनभिसंबंधः सामान्यसमवाययोः । ताभ्यामर्थो न संबद्धस्तानि त्रीणि खपुष्पषत् ॥ ६६ ॥ वृत्तिः-सामान्यसमवाययोः परस्परेण सर्वथा सर्वप्रकारेणानमिसंबंधोऽसंयोगोऽतस्ताभ्यां सामान्यसम- वायाभ्यां अर्थो गुणगुण्यादिन संबद्धो न लग्नाऽतस्तानि त्रीण्यपिसामान्यसमवायार्थरूपाणि खपुष्पसमानानि॥ सत्यमेवैतत् समवायादीनां दोषः । अस्माकं पुनः परमाणूनामेकांतेनानन्यत्वमिच्छतां न दोष इत्यत्र दूषणमाह- अष्टशती-सामान्यसमवाययोः परस्परतः स्वसंबंधासंभवात् ताम्यामों न बद्धः, ततस्त्रीण्यपि नात्मानं विभूयुः कूर्मरोमादिवत् ।। ६६ ॥ अनन्यतैकांतेऽणूनां संघातेऽपि विभागवत् । असंहतत्वं स्याद्भूतचतुष्कं भ्रांतिरेव सा ॥६७ ॥ वृत्ति:-परमाणूनां द्वितीयविभागरहितानां संघातेऽपि प्रत्येऽपि असंहतत्वं पृथक्त्वं स्यात् विभागवत, यथा घटपटयोः। नान्यताऽनन्यतां सैवैकांतस्तस्मिन् परमाणूनां । अन्यथा स्वरूपेण परिणामायोगात् ,एकदेशेन सवात्मना वा तथा वृत्तिविरोधात् । सहस्राणुमात्रपिंडप्रसंगादणोः । तस्मात्प्रेविरलत्वं प्रविकलत्वं, अणूनां ततो धारणाकर्षणादयो न स्युः । भूतानां पृथिव्यादीनां चतुणां भावश्चतुष्कं सा भ्रांतिः स्यात्-भूतचतुष्टयं भ्रांतं स्यादित्यर्थः॥.... ... नानुलभ्यते पाठीयं लिखितपुस्तके विकलवस्थानांतरेत्वत्वनियोज्यः प्रविलरत्वनावकलखयोः समानार्थकरवादिति ।

. आप्तमीमांसा। ३३.. सत्यमेव नैतत्प्रामणं भावात् [?] पुनरपि दृषणमाह-- अष्टाती कार्यकारणादेरभेदैकांते धारणाकर्षणादयः परमाणूनां संघातेऽपि माभूवन् विभागवत् । नाहितोऽपि विशेषः तेषां विभागैकांतं निराकरोति । तत एवान्यत्रापि नेष्यते पृथिव्यादि भूतचतुष्टयस्थितिरेवं विभ्रममात्र प्राप्नोति । इष्टत्वाददोष इति चेत् न प्रत्यक्षादिविरोधात् ॥ ६४ ॥ कार्यभ्रांतरणुभ्रांतिः कार्यलिंां हि कारणं । उभयाभावतस्तत्स्थं गुणजातीतरच न ॥ ६८ ।।.. वृत्तिः-अणूनां यदेतत्कार्य स्थूल्घटपटादिकं तस्य यदि भ्रांतिविभ्रमस्तदानी कार्यवांतरणूनामपि भांतिः । यतः कार्यलिंगं कारणं कार्यद्वारेण कारणस्यावगमो नान्यथा, अतोऽन्यतराभावे उभयोरप्यभावोऽवि नाभावनियमात् । उभयाभावाच्च तयोः स्थितं गुणो रूपादिः, जातिः सामान्यं इतरच क्रिया एतत्ससुदितं न स्यात् । न चतदिष्टं सर्वप्रमाणप्रसिद्धत्वात् ।। ६६ ।। अप्टशती-चक्षुरादिबुद्धौ स्थूलैकाकारः प्रतिभासमानः परमाणुभदैकांतवाद प्रतिहति तीद्वपरीतानुपलब्धिर्वा तत्रैतत्स्यात् । भ्रांतैकत्वादिप्रतिपत्तिरिति तन परमाणूनां चक्षुरादिबुद्धौ स्वरूपमन- र्पयतां कार्यलिंगाभावात् । तत्त्वभावाभ्युपगमानुपपत्तस्तवयाभावात् वृत्तयो जातिगुणक्रिया न स्युः, व्योम- कुसुमसौरभवत् ॥ ६८ ॥ एकत्वेऽन्यतराभावः शेषाभावो विनाभुवः । द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृपैव सा ॥६९ ॥. वृत्ति कार्यकारणयोकत्वे द्वयोर्मध्येऽन्यतराभावस्तस्य चाभावे द्वितीयस्य चाभावः । कुतः ? अवि- नाभावनियमात् । न ह्येकमंतरेणापरं भवति । द्वित्वमिति च या संख्या तस्याश्च विरोधोऽघटना । अथ मतं संवृत्या सर्व युक्तं ? सा संवृतिर्मुक्षेत्र । व्यलीकैव ततो न किंचित् स्यात् बंध्यासुतपरिकल्पितरूप- व्यावर्णनवत् ॥ ६९॥ उभयेकांतवादिनं प्रत्याह---.. अटशवी-आश्रयायिणोरेकत्वे तदन्यतराभावस्ततः शेषाभावस्तत्स्वभावाविनाभावित्वात् बध्यासुत रूपसंस्थानवत । तथा च सति द्वित्वसंख्यापि न स्यात् । तत्र संवृतिकल्पना शून्यता नातिवर्तते पर- मार्थविपर्ययाद् व्यलीकवचनार्थवत् ॥ ६९ ।। विरधानोभयंकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्ति वाच्यनिति युज्यते ॥ ७० ॥ वृत्ति:-अवयवावविव्यतिरेकान्यतिरकैकांती न योगपद्येन संभविनौ विरोधात्-स्ववचनविरोधात् । अनभिलाप्यकांतोऽपि.न संभवति । स्याद्वादाभ्युपगमे तु न दोषः कथांचित् तथाभावोपलब्धेः ॥ ७० ॥ तथैव स्पष्टयति- अष्टसती-अवयेवतरादीनां व्यतिरेकाऽव्यतिरेकैकांतौ न वै. योगपद्येन संभविनौं विरोधात् । तथानभिलाप्यतैकांते स्ववचनविरोधः तदभिलाप्यत्वात् । स्याद्वादाभ्युपगमे तु न दोषः कंधचित्तथा- भावोपलब्धेः ॥ ७॥ द्रव्यपर्याययोरक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥७१ ॥. ? . .

सनातननग्रंथमालायां-
वृत्तिा-कारणं गुणी सामान्य वस्तु द्रव्यमिब्युच्यते, काय गुणो विशेषः पर्याय इत्युच्यते, तयोरें-
क्यमेडलं कुतस्तयोण्यतिकता त्यागयाख्यतिरकोपलंभान् । एतेनात्य हेतोः प्रतिज्ञायकदशाति-
दुवं प्रयुजन् । परिणामः कारणन्यान्ययामात्रः वामांत्राऽतीतस्तम्य विशेषश्च तस्मात्परिणामधिपाच
तयोरेश्य । अजयो विद्यन्ते यस नन्छजिलद्रव्यं परिणानि । प्रतिनियतकार्यसम्पादनसामर्थ्य
विशेषाः यजयो यथा वृतादेःलहर्षिणहगादयः । तयोर्मावतलाव तयारत्ममिति बेदितव्यं ॥७॥
क्यांचंद्रदनिलपणार्यग्रह-
संझासंख्यात्रिषाच्च स्वलक्षणविशेषतः ।
योजनादिभेदाच्च वन्लानावं व सर्वया ।। जा
वृनि:-त्रा नान, संग्या एकादिका, तपोशिश मेदस्तस्मात्तयानानावं मदः । दृश्यते च
संडामेका उहाऽत्र क्यूः प्रमहा कानिनी भोवती नामा ] हिलांदवं संयोमदाऽपि प्रतीतः। स्वममा-
वारणं गं स्वयं यस्य न चानी वितम्माचयानानानं । द्रथा च इयणान्यप्रयोजन पर्यायणान्यत्
दृश्यत्रयुपत् ॥
अचाननेकांनप्रीतवार्थमाह-
अष्टमती-यतिमा मेहेऽलि अतिरिकं तदेकं यथा वंद्यवेदकानानं रूपादिद्रव्यं वा । तया
च.व्यायायौ न व्यतिरिच्यते तदन्यत्ययाऽर्थस्यानुभूपतः। उपयोगविश्वयानुपादिवाननिर्मातदः स्त्र
विप्रयेवं न वै निगराति सामिग्रीमंदऽपि युगपदकार्थानिवद्धत्रिमंदतरझानवत् । तदवं सति विरो-
घायुष्यमन्त्रवियों ननो जनागीच न प्रीणति | दिप्यमानप्रसंगात् एकलानक्लैनंती
नान्योऽन्यं विदयेने मात्रसभावप्रतिनात् । यमरत्रिविलनात्रपरिणामसंज्ञारख्याप्रयोजनादिक
नाहिनावणं, यथा मंदादि, त्या व न्यायो । विद्वधर्माच्यासारखल्टुट्टिप्रतिमानभेदान्या
वस्तुम्नमात्रमनिद्रः-अन्यथा नानकं जगत्यात् तदन्युपगन्ग्रकारांतराभवात् ।। ७१ ॥ ७९ ॥
इयातनामांसामान्य चतुर्थः परिच्छेदः
यद्यापेक्षिकसिद्धिः स्यान्न इयं व्यवतिष्ठने ।
अनापक्षिकसिद्धी च न सामान्य विशेषता ॥ ७३ ॥
वृत्तिः अभव प्रयोजनमानीनां निदिनितिनिश्चिीता । अथवाऽऽपक्षिको त्राता सिद्विश्व
सा यदि श्यान् । कार्यकारणादि युगपट्टयं न व्यत्रतिष्टत न बने । एजनकस्य प्रतिहतन्त्रात् । यदि पुन-
रनापक्षिसिदिस्तस्यामन्युगम्यमानायों सामान्यं त्र विद्युत्रश्च तयांना सामान्यविशेषता सा न स्यात्-
न भवन् विनास्वांग स्वत एव निद्रन भवितव्यं वर्मिवर्ममात्रक परस्परापेक्षः ।। ७३ ।।
उमौनांनं दर्शयन्नाह-
अष्टशवी-सारिकाद्वयन नामान्यछिपानम मंहत्य तत्रांपलानपत्रांतप्रतिक्षेपायाह-
नपान्यान्याने स्वभावतः प्रतिष्टितस्यैकतरस्याप्यमानान्यतामावात् उमयं न प्रकल्यैत ! .
दूरामनभावारपि स्वभावविव॑तविशेषामात्र समानंदशादरप्यभावप्रसंगात् । तदिनी स्त्रमावत: स्ता।
अन्यथेतरतराश्रयदीपानुगादनपेक्षापद्रषि नान्यत्र्यनिीको स्यातां, मेदामदयोल्योन्यापेक्षामकलात्
विपनामावस्य ॥७३॥

आप्तमीमांसा । ३३ . . - विरोधानोभयकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्ति वाच्यमिति युज्यते ॥ ७४ ॥ बृत्तिः-अपेक्षानपेक्षकांतोभयं नास्ति विरोधात् । नाप्यवाच्यमवाच्यत्वेनापि वाच्यत्वात् ।। ७४ ॥ तयोरनेकांतं दर्शयन्नाह- अष्टशती-अनंतरकांतयोर्युगपद्विवक्षा माभूत विप्रातिधात् सदसदैकांतवत् । तथानाभिधेयत्वैकांत- ऽपीति कृतं विस्तरेण ।। ७४ ॥ धर्मधर्यविनाभावः सिद्धयत्यन्योऽन्यवीक्षया । न स्वरूप स्वतो मेतत् कारकज्ञापकांगवत् ।। ७५ ॥ वृत्तिः-क्रमभावि पिंडादिकार्य सहभावी रूपादिर्गुणो विसदृशपरिणामलक्षणश्च विशेषो धर्मोऽत्र कथ्यते । कारणादिव्यपदेशं द्रव्यं धर्मी । स्वधर्मापेक्षया द्रव्यस्य धर्मिव्यपदेशः । स्वधर्म्यपेक्षया च रूपादेश्च धर्मव्यपदेशस्तयोर्योऽविनाभावोऽव्यभिचारोऽवश्यं सोऽन्योऽन्यापेक्षया सिद्धयति भासते उत्पद्यते वा । स्वरू- पमसाधरणं रूपं तयोर्न परतः । कुतः ? यस्मात्स्वत एव तसिध्यति । यथा कारकज्ञापकांगे कारकक्रियाया अंग ज्ञापकक्रियाया अंगं निबंधनं तयोरिव तद्वत कर्तृकर्मकबोध्यबोधकवदित्यर्थः । अथवा अंगशब्दो विशेषार्थो द्रष्टव्यः, यथा कर्मकर्तृव्यपदेशाविनाभावो बोध्यबोधकव्यपदेशाविनाभावश्च सिध्यत्यन्योन्यापेक्षयैवमत्रापीत्यर्थः । उप्रेतय व्यवस्थाप्योपायतत्त्वव्यवस्थापनार्थमाह- अष्टशती-न केवलं सामान्यविशेषयोः स्वलक्षणमपेक्षितपरस्पराविनाभावलक्षणं स्वतःसिद्धलक्षणं, अपि तु धर्मधर्मिणोरपि, कर्मकर्तृबोध्यबोधकवत् ।। ७५ ॥ इत्याप्तमीमांसाभाष्ये पंचमः परिच्छेदः । -- सिदं चंदतुतः सर्व न प्रत्यक्षादितों गतिः ।। सिद्धं चेदागमात्सर्व विरुद्धार्थमतान्यपि.॥.७६ ॥ वृत्तिः यदि सर्वं हेतुतो निमित्तासिद्धमवगतं. तर्हि प्रत्यक्षादितः प्रत्यक्षागमादेर्गतिरवगमो. न स्यात् ।। दृश्यते चेंद्रियकस्याशनपानादेरर्यस्यातद्रियस्य.मलयकाश्मीरादेरन क्रमेण प्रत्यक्षादाप्तोपदेशतश्च गतिरिति । भधागमादाप्तोपदेशात्सर्वं.चेष्यत.ततो विरुद्धार्थानि यानि मतानि तान्यपि सिद्धिमुपगच्छेयुरिति ॥ ७६ ॥ उभौकात्म्यैकांत.निराकर्तुमाह-- अष्टशती-उपेयतत्त्वं व्यवस्थाप्य-उपायतत्त्वं व्यवस्थाप्यते:- युक्तया यन घटामुपैति तदहं दृष्टापि न श्रद्दधे. इत्यादेरेकांते.तस्य बहुलं दर्शनात् प्रत्यक्षतदाभासयो- रपि व्यवस्थितिः-अनुमानात् अन्यथा संकरव्यतिकरोपपत्तेः । कथंचित्साक्षात्कारणमंतरेण न क्वचिदनुमान किं पुनः शास्त्रोपदेशाः। नचैत. युक्तिनिरपेक्षाः, परस्परविरुद्धार्थतत्त्वसिद्धिप्रसंगात् । न हि प्रत्यक्षानुमानाभ्या- मंतरणोपदेशा ज्योतिर्ज्ञानादिप्रतिपत्तिः ॥ ७६ ॥ विरोधामोभयकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ७७ ॥ वृतिः उभयेकांतवं नास्ति विरोधात् । अवाच्यमपि न ॥ ७७ ॥ पुनरप्यनेकांतनिरूपणार्थमाह-.. .

सनातनजनग्रंथमालायां- ३६ अष्टशती-युक्तीतरकांतद्याभ्युपगमोऽपि मास्मभूत्-विरुद्धयोरेकन सर्वथाऽसंभवात् । तदवान्यत्वे ऽपि पूर्ववत् ।। ७७ ॥ वक्तयनासे यद्धेतोः साध्यं तद्धेतुसाधितं । आप्ते वक्तरि तद्वाक्यात् साध्यमागमसाधितं ॥ ७८ ॥ धृत्तिः यो यत्राविसंवादकः स तत्राप्तः । ततः परोऽनाप्तः अनाप्ते वक्तरि तत्त्वस्योपदेष्टार हैतोरनु. मानायल्साध्यं शक्याऽभिप्रेतं प्रसिद्धं तद्धेतुसाधितं-लिंगात्प्रतिपादितं । आप्त वक्तरि वाक्यावचनाद्यत्साध्यं तदागमसाधितं प्रवचनप्रतिपादितं प्रमाणभूतं प्रवचनं हि तत् । अनाप्ते पुनर्विसंवादकं तस्माद्धतुमंतरण न तल्लेत्स्यति ।। ७८॥ अंतस्तत्वमेव तत्समिति येपा मतं तनिराकरणायाह - अष्टशती-यो यत्राविसंत्रादकः स तत्राप्तः। ततः पराऽनाप्तः । तस्वप्रतिपादनमसंवादः तदर्थज्ञानात् । तेनातीदिये जैमिनिः-अन्यो वा स्तुतिमात्रावलंबी नैवाप्तः तदर्थापरिज्ञानात्ताथागतवत् । न हि तादृशातीहि- यार्थज्ञानमस्ति दोपावरणक्षयातिशयाभावात् । श्रुतः परमार्थविश्वं ततः श्रुतैरविसंवादनमित्यन्योऽन्यसंश्रितं स्वतः श्रुतेन वै प्रमाण्यमचेतनत्वात् घटवत् । सन्निकर्यादिमिरनैकांतिकत्वमयुक्तं तत्प्रामाण्यानभ्युपगमात् । अथापि कथंचित्यमाणत्वं स्यात् अविसंवादिलात् श्रुतरयुक्तमेव तदमावात् तेनोपचारमात्रं च न स्यात् तदर्थ- बुद्धिप्रामाण्यासिद्धः । आप्तवचनं तु प्रमाणव्यपदेशमान तत्कारणकार्यत्वात् तदुतींद्रियार्थदर्शनोपपत्तेस्तदर्थ- ज्ञानोत्पदनाच । नैतत् श्रुतेः संभवति सर्वयातानुक्तेः पिटकत्रयवत् । वक्तृदोषात्तादृशाप्रामाण्यं तदभावा- च्छुतेः प्रामाण्यमिति चेत् कुतोऽयं विमागः सिद्धयेत् अभ्युपगमानभ्युपगमाभ्यां क्वचित्पौरुषेयत्वमन्यद्वा व्यवस्थापयतीति सुव्यवस्थितं तत्त्वं । एतेन कर्तृस्मरणामावादयः प्रत्युक्ताः वेदेतरयारविशेषात् । इतरत्र बौद्धो वक्तेति चेत् तत्र कमलोद्भवादिरिति कथं न समानं । सूदमपि गत्वा तदंगीकरणेतरमात्रे व्यवतिष्टत् वेदाध्ययनवदितरस्थापि सर्वदाध्ययनपूर्वाध्ययनलप्रक्लक्तौ न चक्त्रं वक्रीभवति । तदतिशयांतराणां च शक्यक्रियत्यादितरत्रापि मंत्रशकेर्दर्शनात् सिद्धेऽपि तदनादित्वे पौरुषेयत्वाभावे वा कथमक्सिंवादकत्वं प्रत्येतन्य । म्लेच्छव्यवहारांदेस्तादृशो बहुलमुपलंभात्.कारणदापनिवृत्तेः कायदोपाभावकल्पनायां पौरुषेय- स्यैव वचनस्य द्रोपनिवृत्तिः कर्तुतिदोषस्यापि संभवात् तदध्यतृव्याख्यातृश्रोतृणां रागादिमत्त्वानेतरस्येति निशंक नश्वेतः । वक्तगुणापेक्षं वचनस्याविसंवादकत्वं चक्षुनिवत् । तद्दोपानुविधानात् ततोऽनाप्तवचना- नर्थज्ञानमंत्ररूपदर्शनात् । तत्र यदेव युक्तियुक्तं तदेव प्रतिपतुं प्रतिपादयितुं वा शक्यं, अग्निर्हिमस्य भेष- जमित्यादिवत नाग्निहोत्रादि वाक्यसावनं । सिद्ध पुनराप्तवचनले यथा हेतुवादस्तथा आनावादोऽपि प्रमाणं | ननु चापौरुषेयन्यवदातशासनमप्यशक्यव्यवस्थं ! उक्तमत्र सर्वधैकांतवादानां स्याद्वादप्रतिहत- त्वात् इति । तत्राप्तिः साक्षात्करणादिगुणः संप्रदायाविच्छेदी वा अन्यथांऽधपरंपरयाऽप्रतियत्तः ॥ ७८ ॥ इत्याप्तमीमांसामाध्ये यष्टः परिच्छेदः समाप्तः ॥ अंतरंगायतकांत बुद्धिवाक्यं मृपाखिलं । प्रमाणाभासमेवातस्तत्प्रमाणाहत्ते कयं ॥ ७९ ॥ वृत्तिः-अंतरभ्यंतरमगं कारणं यस्य स चासावयश्च तस्य भावोऽतरंगार्यता सेवैकांतों मिथ्यात्वं तस्मिन् । बुद्धिश्च बहिरर्थपरिच्छेदिका । वाक्यं चानुमाननिमित्तं परापं । द्वैकवद्भावः । तदखिलं निरवेश ..

आप्तमीमांसा। ३७ मृषा मिध्या। प्रमाणमिवावभासत इति प्रमाणाभासमेव । यद्येवं कथं मुख्यप्रमाणमंतरेण तत्प्रमाणाभास यस्मात्सति प्रमाणे प्रमाणाभासो नान्यथा ॥ ७९ ॥ अथ मतं सर्व बाह्याभ्यन्तरं ज्ञानमेवैतस्य मतस्य निराकरणार्थमाह-- अष्टशती-तजन्मकार्यप्रभवादिवेद्यवेदकलक्षणमनेकांतिकमादर्य संवित्तिरेव खंडशः प्रतिभासमा- ना व्यवहारांय कल्प्यत इत्यभिनिवेशेऽपि प्रमाणं मृग्यं । क्षणिकत्वमनन्यवेद्यत्वं नानासंतानत्वमिति स्वत- स्तावन्न सिद्धयति भ्रातः। तथात्मसंवेदनेऽपि व्यवसायवैकल्ये प्रमाणांतरापेक्षयानुपलंभकल्पत्वात् । न हि तथा बुद्धयः संविदंते यथा व्यावय॑ते । नापि परतः संबंधप्रतिपत्तेरयोगात् स्वांशमात्रावलंबिना मिथ्याविकल्पेन प्रकृतितत्त्वव्यवस्थापने बाहरर्थेष्वप्यविरोधात् । कथंचिदत्र वेद्यलक्षणं यदि व्यवतिष्ठेत प्रकृतं कृतं स्यात् ना- न्यथा। न चानुक्तदोषं लक्षणमस्ति तत्संभवे नान्यत्र तदभावोऽभिधेयः तत्स्वपक्षपरपक्षयोः सिद्धयसिद्धयर्थं किंचित्कथंचित्कुतश्चित् आवितथं ज्ञानमादरणीयं अन्यथा शेषविभ्रमासिद्धेः । एतेन यग्राह्यग्राहकाकारं तत्सर्वे भ्रांतं यथा स्वनेंद्रजालादिज्ञान तथा प्रत्यक्षादिकमिति प्रतिविहितं वेदितव्यं ॥ ७९ ॥ साध्यसाधनविज्ञप्तर्यदिविज्ञप्तिमात्रता । न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोपतः ॥८०॥ वृत्तिः -साध्यत इति साध्यं शक्यमभिप्रतमप्रसिद्धं पक्षधर्मः । साध्यतेऽनेनेति साधन प्रकृते नाविनाभावि तयोराकारो विज्ञाप्तिर्विज्ञानं तस्या यदि विज्ञप्तिमात्रता ज्ञानमात्रत्वं । न साध्यं न च हेतुः चकरानापि दृष्टान्तः।कुतः प्रतिज्ञादोषाद्धेतुदोषाच्च । निरंशत्वमभ्युपगम्य स भेदं साधयेत् ? अभ्युपगमहानिः प्रातज्ञाहेतुदोषः, अतः प्रतिज्ञादोषे हेतुदोषेऽकिंचित्कराख्यः । अथवा प्रतिज्ञैव हेतुः स दोषस्तस्मात् । यस्मान्न तदेव साध्यं साधनं निरंशत्वात्तस्य ॥ ८ ॥ अथान्तरंगार्थतैकांते दोपदर्शनाद्वहिरंगार्थोऽभ्युपगम्यते तत्रापि दोषं दर्शयति- अंष्टशती-सहोपलंभनियमादभेदो नीलतद्धियोचिंद्रदर्शनवत् इत्यत्रार्थसंविदों: सहदर्शनमुपेत्यै- फत्वकांतं साधयन् कथं अवधेयाभिलापः । स्त्राभिलापाभावं वा स्ववाचा प्रदर्शयन् कथं स्वस्थः । पृथगनु- पलंभानेदाभावमात्रं साधयेत् तचासिद्धं संबंधासिद्धरभावयोः खरशंगवत् । एतेन सहानुपलंभादभेदसाधनं प्रत्युक्तं भावाभावयोः संधासिद्धेः । तादात्म्यतदुत्पत्त्योरर्थस्वभावनियमात् सिद्धेऽपि प्रतिषेधैकांते विज्ञप्ति- मात्रं न सिद्धयेत् तदसाधनात्तसिद्धौ तदाश्रयं दूषणमनुषज्येत । तदेकोपलंभनियनोप्यसिद्धः साध्यसाधन योरविशेषात् । एकज्ञानग्राह्यत्वं द्रव्यपर्यायपरमाणुभिरनैकांतिकं, अनन्यवेद्यत्वं असिद्धं एकक्षणवर्तिसंवित्तीनां साकल्येन सहोपलंभनियमातू, व्यभिचारिहेतुः तथोत्पत्तेरेव संवेदनत्वात्, दृष्टांतोऽपि. साध्यसाधनविकलः तथोपलंभाभदयोरर्थप्रतिनियमात् भांती तदसंभवात् । ननु चासहानुपलंभमात्रादभेदमात्रं कथंचिदर्थस्वभा- वानवबोधप्रसंगात | सर्वविज्ञानस्वलक्षणक्षणक्षयविविक्तसंततिविभूमस्वभावानुमितेः । साकल्यनैकत्वप्रसंगात् एकार्थसंगतदृष्टयः परचित्तविदो वा नावश्यं तद्बुद्धिं तदर्थ वा संविदेतीति हेतोरसिद्धिः सहोपलंभनियमश्च स्यात भेदश्च स्यात् किं प्रतिषिध्येत स्वहेतुप्रतिनियमसंभवात् । तस्मादयं मिथ्यादृष्टिः परप्रत्यायनाय शास्त्रं विदधानः परमार्थतः संविदानो वा वचनं तत्त्वज्ञानं च प्रतिरुणद्धीति न किंचिदेतत् असाधनांगवचनात अदोषोदावनाच निग्रहार्हत्व त् ।। ८० ॥ बहिरंगायतकांत प्रमाणाभासनिहवात् । सर्वेषां कार्यसिद्धिः स्याविरुद्धार्थाभिधायिना ॥ ८॥ वृत्तिः बहिरंगार्थतकांतो बाह्यार्थैकांतस्तस्मिन्नभ्युपगम्यमाने विरुद्धार्थाभिधायिनां प्रमाणांतरबाधिता-

--
३८
सनातनजैनग्रंथमालायां-
थंप्रकाशकानां सर्वेषां निरवशेषाणां कार्यस्य सिद्धिनिष्पत्तिः व्यवहारसिद्धिर्भवेदित्यर्थः । कस्मात्प्रमाणा-
भासनिहवात् प्रमाणस्याभासो मिथ्यात्वं तस्य निहयो निराकरणं तस्मात् । एतदपि कुतः ? अंतस्तत्त्वे सति
वहिरर्थस्य सिद्धिरसिद्धिश्च नान्यथा ॥ ८१ ।।
उभयकांतप्रतिक्षेपायाह-
अष्टशती-यत्किंचिच्चतस्तत्सर्वं साक्षात्परंपरया वा वहिरर्थप्रतिबद्धं यथाग्निप्रत्यक्षतरसंवेदनं । तथा
स्वप्नदर्शनमपि, चेतस्तथाविषयाकारनिर्भासात् । साध्यदृष्टांती पूर्ववदित्यत्रापि लोकसमयप्रतिबद्धानां परस्प--
रविरुद्धशब्दबुद्धीनां स्वार्थसंबंधः परमार्थतः प्रसज्येत ॥ ८१ ।।
विरोधानोभयकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकांतेऽप्युक्तिनाच्यमिति युज्यते ।। ८२ ॥
वृत्तिः-पूर्ववत् ॥
माव एव तत्वं नाभाव इति यस्य मतं निराकरणायाह--
अष्टशती-अंतर्वहिजेयकांतयोः सहाभ्युपगमो विरुद्धः तद्वाच्यतायां युक्तिविरोधः पूर्ववत् ॥ ७॥
भावप्रमेयापेक्षायां प्रमाणाभासनिहवः।
'वहिःप्रमेयापेक्षायां प्रमाण तन्निभं च ते ॥ ३ ॥
वृत्तिः-भावो ज्ञानं तदेव प्रमेयं तस्य तस्मिन्वाऽपेक्षाऽभ्युपगमस्तस्यामभ्युपगम्यमानायां । प्रमाणा-
भासस्य निहवो लोपः । कुतः ? ज्ञानस्य तदेतत्प्रामाण्यमप्रामाण्यं च बाह्यार्थापेक्षायां भवति नान्यथा इति ।
एतच मतं सर्वे वचो विवक्षामात्रसूचकमित्यस्य निराकरणायाह-
अष्टशती-सर्वसांवत्तेः स्वसंवेदनस्य कथंचित्प्रमाणत्वोपपत्तेः तदपेक्षायां सर्व प्रत्यक्षं न कश्चित्प्रमा-
णाभासः । तथानभ्युपगमेऽन्यतम एव बुद्धेनुमानं स्यात् । तत्रार्थज्ञानमलिंगं तदविशेषणासिद्धेविशेषे वा तद-
न्यतरेणार्थपरिसमाप्तेः किं द्वितीयेन । यच्चेदमर्थज्ञानं तच्चेदर्यस्वलक्षणं स्याद् व्यभिचारात् अहेतुः, एतेनेंद्रि-
यादि प्रत्युक्तं । प्रत्यक्षतरबुद्धयवभासस्य स्वसंवेदनात्प्रत्यक्षविरुद्धं । सुखदुःखादिबुद्धरप्रत्यक्षवे हर्ष-
विषादादयोऽपि न स्युरात्मांतरवत् । एतेन प्रतिक्षणं निरंशं संवेदनं प्रत्यक्षं प्रत्युक्तं यथाप्रतिज्ञमनुमवाभावात्।
यथानुभवमनभ्युपगमात् सर्वत्र सर्वदा मांतरप्रत्यक्षत्वाविशेषात् कथंचिद्भांतो एकांतहानर्विकल्पसंबंदनेऽपि
विकल्पानतिवृत्तेः । तस्मात्स्वसंवेदनापेक्षया न किंचिद् ज्ञानं सर्वथा प्रमाणं । बहिरीपेक्षया तु प्रमाण
तदामासव्यवस्था तत्संवादकविसंवादकत्वात् क्वचित्स्वरूपे केशमशकादिज्ञानवत् ॥ ८३ ॥
जीवशब्दः सवाह्यायः संज्ञात्वाद्धेतुशब्दवत् ।
मायादिभ्रांतिसंज्ञाश्च मायायैः स्वैः प्रमोक्तिवत् ।। ८४ ।।
वृत्तिः-जविस्य शब्दः संज्ञा देशामर्शकत्वाइटादिसंज्ञाः परिगृह्यते । सह बाहनार्थेन वर्तत इति
सवाह्यार्थः । कुतः ? संज्ञात्वात्सनामत्वाद्धेतुशब्दवत् | शब्दस्यार्थ स्वधा वहिरों घंटाद्याकारः स्वार्थो वा ।
तथा चोक्तम्-स्वार्थमभिधाय काऽप्यन्यत्र वर्तत इति । यद्येवं भ्रांतिसंज्ञा यास्ताः कथं ? ता अपि स्वैरात्म-
स्वरूपैरथैर्मायाद्यैर्माया स्वप्नेन्द्रजालादिः । ब्रांतिसंज्ञाः स्वार्थवत्यः प्रमाया उक्तिर्यथा, प्रमाणशब्दः प्रमाणाभास
शब्दश्च यथा स्वार्थप्रतिपादकः । अथवा सम्यक् ज्ञायतेऽनयेति संज्ञा तस्या भावः संज्ञात्वम् । तस्मादे
शामर्शकत्वादन्येषामपि ग्रहणं प्रमाणतन्निबन्धनविचाराभ्यांसदानफलादीनाम् । एतेषामन्यथाऽनुपपत्तेर्जीवादि
शन्दः सवाझार्थः । अन्यथा एतेषामभावः स्यात ॥ ८४ ॥

• . . आप्तमीमांसा। ३९ सिद्धसाध्यतापारहारद्वारेणामुमेवार्थ प्रकंटयन्नाह-- अष्टशती-स्वरूपव्यतिरिक्तेन शरीरेंद्रियादिकलापेन जीवशब्दोऽर्थवान् अतो न कृतः प्रत्यक्षतः स्यात् । इति विक्लवोल्लापमानं लोकरूढेः समाश्रयणात् । यत्रायं व्यवहारः जीवो गतस्तिष्ठतीति वा नात्र संज्ञा, अभिप्रेतमात्रं सूचयति ततोऽर्थक्रियायां नियमायोगात्, तत्करणप्रतिपत्तीनां तदभावनादरणीयत्वात्, साधनतदाभासयोरन्याथा विशेषासंभवात्, परंपरयापि परमार्थंकतानत्वं वाचः प्रतिपत्तव्यं । कचिद् व्यमि चारदर्शनादनाष्वासे चक्षुरादिबुद्धस्तदाभासोपलब्धेः कुतो धूमादरग्न्यादिप्रतिपत्तिः ? कार्यकारणभावस्य व्यभिचारदर्शनात् । काष्टादिजन्मनोऽग्नेरिव मणिप्रभृतेरपि भावात् । तद्विशेषपरीक्षायामितरत्रापि. विशेषा- भावात् । अभिसंधिवैचित्र्यादभिधानन्यभिचारोपलंभे तदितरकारणसामग्रीशक्तिवैचित्र्यं पश्यतां कथमा- श्वासः । तस्मादयमक्षलिंगसंज्ञादोषाविशेषेऽपि कचित्परितुष्यन्नन्यतमप्रद्वेषेण ईश्वरायते परीक्षाक्लेशलेशाऽस- हत्वात् । भावोपादानसंभवे हि समाख्यानामितरेतरोपादानप्रक्लूप्तिः। भावश्चात्र हर्षविषादाद्यनेकविकारविवर्तः प्रत्यात्मवेदनीयः प्रतिशरीरं भेदाभेदात्मको प्रत्याख्यानार्हः प्रतिक्षिपंतमात्मानं प्रतिबोधयतीति कृतं प्रयासेन । न हि मायादिसमाख्याः स्वार्थरहिताः विशेषार्थप्रतिपत्तिहेतुत्वात् प्रमाणसमाख्यावत् ॥ ८४ ॥ बुद्धिशब्दार्थसंज्ञास्तास्तिस्रो बुद्ध्यादिवाचिकाः । तुल्या बुद्धयादिबोधाश्च त्रयस्तत्मतिविविकाः ॥८॥ बृत्तिः-बुद्धिश्च शब्दश्चार्यश्च बुद्धिशब्दार्थास्तेषां संज्ञा बुद्धिशब्दार्थसंज्ञास्तिस्रन्त्रिसंख्याः। बुद्धिरादि- र्येषां ते बुद्ध यादयस्तेषां वाचिकाः प्रतिपादिका तुल्याः समाः। केन ? बुद्धयाद्यर्थप्रतिपादकत्वेन । बुद्धयादीनां बोधाश्च ज्ञानानि च बुद्धयाद्यर्थस्य.प्रविविंबिका प्रतिनिधयस्त्रयस्तेऽपि तुल्या अर्थप्रतिपादकत्वेन ॥ किमुक्त भवति-गौरिति जानीत इतीयं बुद्धर्वाचिका संज्ञा । तस्याश्च श्रोतुः पुरुषस्य स्वार्थे बोधको बोधो भवति । गौरित्याहेतीयं शब्दस्य स्वस्यैव रूपस्य वाचिका संज्ञा। तस्याश्च श्रोतुः पुरुषस्य स्वार्थे शब्दस्य स्वस्मिन्नेव रूपे बोधको बोधो भवति । गामानय दोहार्थमितीयं संज्ञा बाह्यार्थस्य वाचिका भवति । तस्याश्च श्रोतुः स्वार्थे सास्नादिमति पिण्डे बोधका बोधो भवति । ततो बुद्धयाद्यर्थवाचकत्वेन संज्ञास्तिनः समा एव बुद्धयादीनां शब्दार्थानां त्रयोऽपि बोधका वेदका बोधा बुद्धयादिशब्दार्थप्रतिभासकाश्च समा एव तत्पतिभासकत्वेना।८५॥ पुनरप्याशंक्य तमेव बाह्यार्थे प्रतिपादयन्नाह- अष्टशती-हेतुव्यभिचाराशंका प्रत्यस्तमयति-तिसृणामपि स्वव्यतिरिक्तवस्तुसंबंधदर्शनात्तबुद्धीनां च तन्निर्भासनात्तदिषयतोपपत्तेः ।। ८५॥ वक्तृश्रोतृप्रमातृणां-वाक्यबोधप्रमाः पृथक् । भ्रांतावेव प्रमानातौ वाह्याौँ तादृशेतेरी ॥८६॥ वृत्तिः-वक्ता च श्रोता च प्रमाता च वक्तृश्रोतृप्रमातारस्तेषां वक्तृश्रोतृप्रमातॄणां वाचकश्रावक- ज्ञापकानां । यथासंख्यं वाक्यं च. बोधश्च प्रमा च वाक्यबोधप्रमाः शब्दशाब्दप्रत्यक्षानुमानानि । पृथक व्यवस्थितलक्षणानि । भ्रांतावेव यदि भ्रांतिस्वरूपे व्यवतिष्ठेरन् न तु वर्तेरनिति वाक्यशेषः । ततः को दोषः स्यादित्याह-प्रमाभ्रांतौ सर्वेषां प्रमाणानां बाह्यापेक्षायां वैविध्ये सति प्रमाणयोः प्रत्यक्षाप्रत्यक्षयोः प्रत्यक्षानुमा- नयोर्वा भ्रांती भ्रांतिस्वरूपतायां सत्यामपि । बाह्यार्थी बाह्यविशेषौ दृश्यानुमेयाख्यौ । तादृशा प्रस्तुताद्धांत- स्वरूपादितरावन्यावभ्रांतस्वरूपौ क्रमाक्रमानेकांतात्मको , संतो विभावनीयौ स्यातां । अथ वा प्रमानांतौ यौ ब्रांताभ्रांती बाह्यार्थी प्रांतावेव तत् इदं ब्रांतामिदमनांतमिति विचारोऽनर्थकः स्यात् ॥ ८ ॥ बाह्यार्थे सति प्रमाणमप्रमाणं च युज्यते नान्यथाऽत आह- सनातनजेनग्रंथमालायां- अष्टशती-वहिरामावाद् वक्त्रादित्रयं न बुद्धः पृथकृतं ततोऽसिद्धतादिदोपः साधनस्येति तन्न रूपादेहिकमा तद्व्यतिरिक्तविज्ञानसंतानकालस्य च स्त्रांशमात्रावलंबिनः प्रमाणात्य विचमकल्यनायां साक- ल्येनासिद्धिः अंतर्जेयाम्युपगमविरोधात् ।तो हि ग्राहकापेक्षया वाह्यार्थी भ्रांतावत्र कुतस्तत्र हेयोपादेयविवेकः ८६ बुद्धिशब्दप्रमाणत्वं चाह्यार्थे सति नासति । सत्यानृतव्यवस्थैवं युज्यतेऽर्थाप्त्सनाप्तिषु ॥ ८७ ॥ दृचि-बुद्धिश्च शब्दश्च तयोः प्रामाण्यमर्थप्रतिपादकत्वं बाझार्थे सति भवत्य जन्यविद्यमाने च न भवति । सत्यमवितथमनृतं वितयं तयोर्व्यवस्था अर्धस्याप्यनातिषु ग्रहणाग्रहणए सत्सु युज्यते नान्यथा । वचनस्य तदा सत्यता भवति यदा बाह्याथै ताइग्मूतं प्रापयति । अन्यथाऽसलं ।। ८७ ।। तस्य वाह्यार्थस्य कथं प्राप्तिर्मवतीति पृष्ट कश्चिदाह देवादेव, कश्विःपुनः पौम्पादत्रतत्पनद्वयं विघटयन्नाह- अष्टशती-स्त्रपरप्रतिपत्त्यर्थ साधनं वुद्धिशब्दात्मकं स्वसंवित्यैव परप्रतिपादनायोगात् । तस्य च सति वहिरर्थे प्रमाणत्वमर्थप्राप्तितः सिद्धयेत् । असति प्रमाणाभासत्वं-अर्थानाप्तित इति । तदेवं परमार्थसन् वहिरर्थः साधनदृपणप्रयोगात् | अन्यथा स्वप्नेतराविशेषात् किं किं न साधितं दूषितं चेति कुतः संता- नांतरमन्यद्वा । तैमिरिकदयादिचंद्रदर्शनवत् मांतः सर्वो व्यवहार इत्यत्रापि तत्त्वज्ञानं शरणं । अन्यथा वहिरर्थवदभिसंहितस्यापि निराकरणापत्तस्तथा परमाण्वादिदूपणेऽपि प्रतिपत्तव्यं अन्यथा तत्कृतमकृतं स्या- दिति सर्वत्र योज्यं । तदिमें विज्ञानसंतानाः संति न संतीति तत्वाप्रतिपत्ते: दृष्टापद्दतिरनिबंधनत्र अदृश्ये नात्मना कथंचिददृश्यानामपि परमाणूनां वहिरपि समवस्थानयिप्रतिवाभावात् अंतज्ञेयवत् । तत्र पूर्वादिदि-. ग्मागमेदेन पहंशादिकल्पनया वृत्तिविकल्पेन वा परपक्षोपालंमे स्वपक्षाक्षेपात, काचद्विरोधपरिहारस्य पुनरायाशयतामप्यशक्तः तत्साक्षात्परंपरया वा विमत्यधिकरणमावापन्न ज्ञानं स्वरूपव्यतिरिक्ताविलंबनं ग्राह्यग्राहकाकारत्वात संतानांतरसिद्धवत् । न हि व्यापारल्याहारनि सोऽपि विप्लुतो नास्ति तदन्यत्रापि वासनामेदो गम्यते न संतानांतरं ॥ ८७॥ इत्याप्तमीमांसाभाष्ये सप्तमः परिच्छेदः । or देवादेवार्थसिद्धिश्चेवं पौरुषतः कथं । दैवतश्चेदनिर्मोशः पौरुप निष्फलं भवेत् ॥ ८८ ॥ वृत्तिः-अर्थस्य कार्यस्य प्रशस्ताप्रशस्तशरीरेंद्रियादस्तथा ज्ञानसुखादेरज्ञानदुःखादेवी सिद्धिनिष्पत्ति. यदि देवादेव सर्वथा स्यात् तद्देवं कर्माख्यं पौरुपान्मनोवाक्कायव्यापारलक्षणाच्छुभाशुभरागादिप्रायात्पुत्यका- रात्तहि कथं स्यात् । अथ देवांतरादेव दैवं स्यादित्यत्रोच्यते । देवतश्चेद्यदि दैवादेव देवं स्यात्तदानीमनि- ोशोऽसिद्धिः स्यात् । दैवस्य कारणमूतस्य कार्यमूतस्य च सततं संततितो विच्छेदं प्रत्युपायासंभवात् । तदा दानशीलप्रत्रज्यार्थः कृष्यार्थश्च पुरुषकारोऽप्यनर्थः स्यात् ।। ८८ ॥ अष्टशवी-योग्यतापूर्वकर्मता वा दैवमुमयमदृष्टं, पौरुषं पुनरिह चेष्टितं दृष्ट ताम्यामर्थसिद्धिः तदन्य- तरापायऽघटनात् । पौरुषमात्रे अर्थादर्शनात् देवमात्रे वा समीहानर्थक्यप्रसंगात् ॥ ८८ ॥ पीरुपादेव सिद्धियेत् पौरुषं देवतः कथं । पौरुपाचेदमोयं स्यात् सर्वाणिषु पौरुपं ।। ८९ ॥ वृतिः-अथ पौरुपादेव सिद्धिश्चेत् सर्वया यदि, पौरुषमात्रादेवार्थसिद्धिः स्यात् । तत्पौरुष-दैवाईव- .

. - माप्तमीमांसा । ४१ प्रामाण्यात्कथमफलं स्यात् । तथाहि समाने हि समानानां केचिदर्थेषु युज्यंते कोचिन्न प्रसिद्धमेतत् । अन्यथा दैवमंतरेण पौरुपादेव पौरुपस्य प्रवृत्ती सत्यां सर्वप्राणिषु पीरुपममोघमेव सफलमेव स्यात् देवहीनानामपि तद्भवति ।। ८९ ॥ उभयकांतेऽपि न युक्तं- अष्टशती-तद्धि पौरुपं विना दैवसंपदा न स्यात् तदुक्तं- तादृशी जायते बुद्धिर्व्यवसायश्च तादृशः । सहायास्तादृशाः संति यादृशी भवितव्यता ॥ १॥ इति तत्सर्वं पौरुषापादितमिति चेत् तद्व्यभिचारदर्शिनो न वै श्रदधीरन् ।। ८९ ॥ . विरोधान्नोभयकात्म्यं स्याद्वादन्यायविदिपा । अवाच्यतैकांतेऽप्युक्तिीवाच्यमिति युज्यते ॥ १० ॥ वृत्तिः-उभयदोपप्रसंगात् । अवाच्यत्वदोपाच्च ।। ९० ॥ देवात्केवलापौरुयाच केवलादर्थसिद्धिर्यदि न भवति कथं तर्हि स्यादत आह- अष्टशती-देवेतरयोः सहकांताभ्युपगमे व्याघातात् , अवाच्यतायां च स्ववचनविरोधात् स्याद्वादनीतिः॥९०॥ अवुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदेवतः । बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुपात् ॥ ९१ ।। वृत्तिः--बुद्धिर्विचारः पूर्व प्रथमं कारणं यस्याः सा तथा न बुद्धिपूर्वा अबुद्धिपूर्वा सा चासावपेक्षा च आलोचनं च सा तथा तस्यामतर्कितोपस्थितन्यायेनेत्यर्थः । इप्टमभिलपितं सुखादि अनिष्टमनभिलपितं दुःखादि । स्वदेवतः स्वपुण्यपापफलात्पूर्वजन्मनिबद्धकर्मणः । यद्यपि पौरुषमात्रं विद्यते तथापि मुख्याभावो विवक्षितो नात्यंताभावः । तथा बुद्धिपूर्वव्यपेक्षायां विचारपूर्वकत्वेनानुष्टानादिष्टमनिष्टं च स्वपौरुपात्स्वकी- यपुरुषकारात् । अत्रापि देवमप्रधानत्वेन विवक्षितं नात्यंताभावत्वेन । परस्परापेक्षयैव कार्यसिद्धिर्यतो देव आत्मा तस्य कर्म देवमिति ॥ ९१ ॥ ननु परदुःखे पापं तस्यैव सुखे पुण्यं खदुःखात्पुण्यं स्वसुखापापमित्येवं कैश्चिदभाणि न देवादिति तन्मतनिराकरणायाह-- अष्टशती-अतर्किर्तापस्थितमनुकूलं प्रतिकूलं वा देवकृतं तद्विपरीतं हि पौरुषापादितं । अपेक्षाकृत- त्वात्तव्यस्थायाः ॥ ९१ ।। इत्याप्तमीमांसाभाष्ये अष्टमः परिच्छेदः । - पापं ध्रुवं परे दुःखात् पुण्यं च सुखतो यदि । अचेतनाकपायी च वध्येयाता निमित्ततः ॥ ९२ ॥ वृत्ति:-परेऽन्यस्मिन् प्राणिनि दुःखमात्राद्यदि पापं स्यात् । तस्मिन्नेव सुखमात्राच पुण्यं यदि स्यात् । तदानीमचेतनो विपशस्त्रादिरकपायो वीतरागः तावपि बध्येयातां कर्मबंधस्य कर्तारी भवतः । निमित्तत्त्वात् । प्रत्ययमंतरेणापि भावप्रधानत्वानिर्देशस्य ।। ९२ ।। तथा- १ । विवक्षायमित्यपि पाठः।

-- सनातनजनंग्रथमालायां- अष्टशती-परत्र सुखदुःखोत्पादनात् पुण्यपापबंधैकांते-कथमचेतना न बध्यरन् ? वीतरागो वा ? तन्निमित्तत्वात् ।। ९२ ॥ पुण्यं ध्रुवं स्वतो दुःखात्पापं च सुखतो यदि । वीतरागो मुनिर्विद्वांस्ताभ्यां युंज्यानिमित्ततः ॥ १३ ॥ वृत्तिः-स्वस्मिन् दुःखात् ध्रुवं निश्चितं पुण्यं यदि स्यात्तस्मिन्नैवात्मनि सुखाद्धेतोर्धवं पापं च यदि स्यात् । ततः किं स्यात् ? ताभ्यां वीतरागो मुनियुज्याद्वद्धो भवेत् । कुतः ? निमित्तत्वात् ।। ९३ ॥ अधोभयकांतस्तद्भयादिष्यते तत्रापि दोष एव विरोधात् | नाप्यवाच्यत्वं वचनविरोधात्- अष्टशती-आत्मसुखदुःखाम्यां पापेतरकांतकृतांते पुनस्कषायस्यापि ध्रुवमेव बंधास्यात् ततो न कश्चिन्मोक्तुमर्हति तदुभयाभावसंभावात् ॥ ९३ ॥ विरोधान्नोभयेकात्म्यं स्यादादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९४ ॥ बृत्तिः-सुगम ।। ९४.1. कथं तहत आह- भष्टशती प्रस्तुतकांतद्वयसिद्धति व्याहतेःअनभिधेयतायां-अनभिधेयाभिधानविरोधात कथं चिदेवेति युक्तं । विशुद्धिसंक्लेशांग चेत् स्वपरस्थं सुखासुखं । . पुण्यपापासदौ युक्तौ न चेयर्थस्तवाईतः ॥ ९५ ॥ त्तिः-ख आत्मा परोऽन्यस्तयोस्तिष्ठतीति स्वपरस्थं सुखं चासुखं च सुखासुखं जीवप्रदेशाहादना- नाहादनं । विशुद्धिः प्रमोदादिशुभपरिणामः । यद्यपि निरवशंपरागादिविरहलक्षणायां विशुद्धौ विशुद्धिशन्दो वर्तते तथापि कुशलशब्दवत्-शुभपरिणामादौ वर्तमानो विशुद्धिशब्दो गृह्यते । संक्लेशः-आर्तरीध्याने तयोरंग. - कारणं विशुद्धिसंक्लेशांग-चेद्यदि स्वपरस्थं सुखासुखं विशुद्धिसंक्लेशालंबनं यदि भवति तदा पुण्यं च पापं च तयोरास्रवौ युक्तौ । न चेदेवं यद्येवं न स्यात् । पुण्यात्रवः पापानवश्च व्यर्थो निष्फलः । अर्हतो वीतरा- गस्य तवेव वा शुष्ककुड्यनिपतितचूर्णमुष्टिवत् बंधाभावात् । एतेन मस्करिपूरणमतं निराकृतं भवति । सिद्धेषु सक्लेशकारणाभावात् ।। ९५ ॥ 'अथ पुण्यपापानवकारणमज्ञानमिष्यते चेत्तन्मतनिराकरणायाह- अष्टशती-आत्मनः परस्य वा सुखदुःखयोर्विशुद्धिसंक्केशांगयोरेव पुण्यपापारवहेतुत्वं नचान्यथा अतिप्रसंगात् । आर्तरौद्रध्यानपरिणामः संक्लेशः तदभावो विशुद्धिः-आत्मनः स्वात्मन्यवस्थानं ॥ ९५ ॥ इत्याप्तमीमांसाभाष्ये नवमः परिच्छेदः । : . अज्ञानाच्चेद्धवो वंधो शेयानंत्यान केवली । मानस्तोकाद्विमोक्षवेदज्ञानाद्वहुतोऽन्यथा ॥ ९६ ।। वृत्तिः यद्यज्ञानाज्जाध्यस्वरूपाद्वंधो ध्रुवो न केवली मुक्तः । कुतः ज्ञेयानंत्यात्प्रमेयस्यानंत्यं यतः । अप कदाचित् ज्ञानस्तोकाद्बोधनि सान्मोक्षोऽम्युपगम्यते चेइतो विपुलादज्ञानादन्यथाऽन्येन प्रकारणा- -- आप्तमीमांसा। ४३ तिशयेन विमोक्षः स्यादिति संबंधः । अथवा प्रागुक्तान्मोक्षप्रकारादन्येन प्रकारणापि सह जन्मनो योगः स्यात् । तथा च सति न बन्धो नापि मोक्षस्तस्य विचाराक्षमत्वात् ।। ९६ ॥ अष्टाती-यदि बंधोऽयमविज्ञानात् नेदानी कश्चिन्मुच्येत सर्वस्यैव कचिदज्ञानोपपत्तेईयानंत्यात् । यदि पुनर्ज्ञाननिर्हासाद्ब्रह्मप्राप्तिः-अज्ञानात्सुतरां प्रसज्येत । दुःखनिवृत्तरिव सुखप्राप्तिः ।। ९६ ।। विरोधानोभयैकात्म्यं स्याद्वादन्यायविदिपां। अवाच्यतकांतेऽप्युक्ति वाच्यमिति युज्यते ॥२७॥ वृत्तिः-उभयकांतावक्तव्यमपि दुष्टं विरोधात् ।।. कथं तर्हि तो स्यातामत. आह- अष्टशती-नहि सर्वात्मनकस्यैकदा ज्ञानस्तोकान्मोक्षो वहुतराज्ञानाद्वंध इत्येकांतयारविरोधः स्याद्वा- दन्यायविद्विषां सिद्धयति येन तदुभयैकात्म्यं स्यात् ।। ९७ ॥ अज्ञानान्महितो बंधो नाज्ञानाद्वीतमोहतः । शानस्तोकाच मोक्षः स्यादमोहान्मोहितोऽन्यथा ॥ ९८ ॥ वृत्तिः-ज्ञानात्पुनरपि किंविशिष्टात् मोहतो मिथ्यात्वरूपाच॑धो भवति विनष्टमिथ्यात्वरूपादज्ञाना- पुनर्न बंधो भवति ज्ञानस्तोकादपि मोक्षः स्याद्यद्यमोहाद्भवेत् यदि पुनर्मोहितः स्यात्तस्य मोक्षाभाव एव ॥९८॥ अथ कदाचिन्मनुषे न दैवान्नापि पौरुषान्न ज्ञानानाप्यज्ञानात किं तु ईश्वरप्रेरणादित्यस्य मतस्य निरा- करणायाह-अथवा कामादीनां कमर्णश्च वैचित्र्यमनादित्वं च दर्शयितुमाह- अष्टशती-मोहनीयकर्मप्रकृतिलक्षणादज्ञानाद् युक्तः कर्मबंधः ततोऽन्यतोऽपि बंधाभ्युपगमेऽतिप्रसंगाता: तथैव बुद्धरपकर्षात् मोहनीयपरिक्षयलक्षणान्मोक्षमिति । विपर्ययेऽपि.विपर्यासादित्यधिगंतव्यं ।। ९८ ॥. कामादिमभवचित्रः कर्मबंधानुरूपतः । तच कर्म स्वहेतुभ्यो जीवास्ते शुद्धयशुद्धितः ॥ ९९ ॥ वृत्तिः-कामादीनां रागादीनां. प्रभव उत्पादः. कार्यरूपश्चित्रो नानाप्रकारः । कर्मबन्धानुरूपता आनावरणदिकर्मणः कारणाद्भवति तच.कर्म ज्ञानावरणादिकं स्वहेतुभ्यो भवति । कुत एतत् ? अनादिबंधबंधहेतु- संतानो बीजांकुरवत्, न पुनरीश्वरादेस्तस्यावस्तुत्वात् विरागाक्षमत्वन। न. तर्हि केपांचिन्मुक्तिरन्येषां संसारश्च कर्मबंधनिमित्तविशेषादिति चेदाह- ते भगवतोऽहतो जीवा द्विप्रकाराः संसारिणः सति । कुतः शुद्धय- शुद्धितो भव्याभव्यशक्तेः । अत एव न सर्वेतां मोक्षः ।. एतेनान्यदपि.मतांतरं निराकृतं वेदितव्यं ॥१९॥ शुद्धयशुद्धिस्वरूपप्रतिपादनायाह- अष्टशती-संसारोऽयं नैकस्वभावेश्वरकृतः तत्कार्यसुखदुखादिवैचित्र्यात् । न हि कारणस्यैकरूपत्वे. कार्यनानात्वं युक्त शालिबीजवत् । अपरिणामिनः सर्वथार्थक्रियासंभवात् तल्लक्षणत्वाच वस्तुनः सद्भावमेव तावन संभावयामः । तत्र कालदेशावस्थास्वभावभिन्नानां तनुकरणभुवनादीनां किलायं कर्तेति महाच्चित्रं एतेनेश्वरेच्छा प्रत्युक्ता । नचेतनास्याः संबंधः तत्कृतोपकारानपेक्षणात् ततो व्यपदेशोऽपि माभूत अमिसं- धेरनित्यत्वेऽपि समानः प्रसंगः । सकृदुत्पत्त्यादिप्रसंगाद्विचित्रत्वानुपपत्तेरिति । तयोरेकरूपत्वेऽपि. कर्मवे- चिच्यात्कामादिप्रभववैचित्र्यमिति चेतं. ?. युक्तमेतत् । किंतु नैश्वरेच्छाभ्यां किंचित्तावतार्थपरिसमाप्तेः । एतेन विरम्य प्रवृत्तिसन्निवेशविशेषादिभ्यः पृथिव्यादेबुद्धिमत्कारणपूर्वकत्वज्ञानेनेश्वरप्रमाणं प्रत्युक्तं..। 'प्राकाय- १. मोहिनः इत्यंथि. पाठ २ पत्रपि मोहिन इति पाठः। A - ४४ सनातननग्रंथमालायां- करणोत्पत्तरात्मनो धर्माधर्मयोश्च स्वयमचेतनत्वात् विचित्रोपभोगयोग्यतनुकरणादिसंपादनकाशलासभयात। तन्निमित्तमात्मांतरं मृपिंडादिकुलालबदिति चेन्न तस्यापि वितनुकरणस्य तत्कृततरसंभवानतादृशोऽपि निमि- त्तभावे कर्मणामचेतनत्वेऽपि तन्निमितत्वमविप्रतिषिद्धं सर्वथा दृष्टांतत्र्यतिक्रमात् | स्थित्वा प्रवर्तमानार्थक्रि- यादिचेतनाधिष्ठानादिति नियमे पुनरीश्वदरपि माभूत् । नायं प्रसंगो बुद्धिमत्त्वादितिचत् । तत एव तर्हि ग्रहीणतनुकरणादयः प्राणिनों माभूवन् । कर्मगां वैचियादिति चेत् तेपामीश्वरज्ञाननिमित्तत्व समानः प्रसंगः। तदनिमित्तत्त्रे तनुकरणादरपि तन्निमित्तत्वं माभूद्विशवाभावा । अर्थक्रियादेरपि ताभ्यामकांतिकत्वं । ततः कर्मबंधविशवशात् चित्राः कामादयः ततः कर्मचित्र्यं । नहि भावस्वभावापलंम: करणीयः अन्यत्रापि तत्प्रसंगनिवृत्तेः । न तहि केपांचिन्मुक्तिरितरेषां संसारश्च । कर्मबंधनिमित्तविशेषादिति चन तेषां शुद्धयशुद्धितः प्रतिमुक्तीतरसंभवात-आत्मनां ।। ९९ ॥ शुद्धयशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् । साधनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥ १०० ।। वृत्तिः-शुद्धयशुद्री ये शक्ती भन्याभव्यत्वरूपे ते अनादितत्त्वार्थश्रद्धानाश्रद्धानयोग्यके कटुकेतर- मुद्पाक्यापाक्यशक्तिवत् तयोभव्यत्वाभव्यत्वशक्त्योर्व्यक्ती तत्त्वार्थश्रद्धानप्रियधर्मवादिपरिणत्यपरिणती साध- नादी । कुतोऽयं शक्तिभेदोऽतर्कगोचरः स्वभावो यतः ।। १०० ।। एवं तावत्प्रमाणपरतन्त्रप्रमेयविचारः कृतः । अधुना प्रमाणन्वनिरूपणार्थमाह- अष्टशती-भव्येतरस्वभावो तेषां सामर्थ्यासामर्थ्य मापादिपाक्यापरशक्तिवत् । शक्तः प्रादुर्भावापे- नया सादित्यमेवमभिसंधिनानात्वं शुद्धयशुद्धिशक्तयोरिति भेदमाचार्यः प्राह । ततोऽन्यत्रापि साधनादी. प्रकृतशक्तयोर्व्यक्ती । कुतः शक्तिप्रतिनियम इति चेत् ? न हि भावस्वभावाः पर्यनुयोक्तव्याः ॥ १०॥ तत्त्वशानं प्रमाणं ते युगपत्सर्वभासनं । क्रममावि च यज्ञानं स्याद्वादनयसंस्कृतं ॥ १०१॥ वृत्तिः तत्त्वज्ञानं परार्थबोधः पुनरपि कथंभूतं युगपत्सर्वार्थमयमासत इति युगपसर्वभासनं अक्रमेण परिच्छेदात्मकमित्यर्थः तत्प्रमाणमेव । क्रमभावि च तज्ज्ञानं अस्थीयं चक्षुरादिकं चकारादक्रमभावि च दीर्घशाकुल्यादिभक्षण संभवात् । सर्वथा सदसदेकानेकनित्यानित्यादिसकलकांतप्रत्यनीकानकांततत्त्वविषयः स्याद्वादो जातियुक्तिनिबंधनो वितर्को नयस्ताभ्यां संस्कृतं प्रमाणगोचरं नीतं तदपि प्रमाणं स्याद्वादनय- संस्कृतं यतस्ते तव ॥ १०१ ॥ प्रमाणफलं दर्शयन्नाह- अष्टशती-बुद्धरनेकांतात् येनाकारण तत्त्रपरिच्छेदः तदपेक्षया प्रामाण्यं । ततः प्रत्यक्षतदाभासयो- रपि प्रायशः संकीणां प्रामाण्येतरस्थितिरुनेतन्या। प्रसिद्धानुपहतेंद्रियदृष्टेरपि चंद्रादिपु देशप्रत्यासच्याद्य भूताकारावभासनात् । तथोपहताक्षादेरपि संख्यादिविसंवादेऽपि चंद्रादिष्वभावतत्वोपलमात् । तत्प्र- कर्षापेश्या व्यवदेशव्यवस्था गंधद्रव्यादिवत् । तथानुमानादेरपि कचिन्मिथ्याप्रतिमासेऽपि तत्वप्रतिप- त्यैव प्रामाण्यं । एक्रांतकल्पनायां तु नांतर्बहिस्तत्त्वसंवेदनं स्वयमद्वयादेईयादिप्रतिभासमानात् रूपादि स्थलक्षणानां च तथवादर्शनात् यया व्यावण्यते । तद्विशेषोपलंभाभ्युपगमेऽपि तद्व्यवसायवैकल्ये फचिद्धर्माधर्मसंवेदनवत् परीक्षत्वोपपत्तेः । विकल्पानामतत्वाविषयत्वात् कुतस्तत्त्वप्रतिपत्तिः ? मणिप्रदीप- प्रमादृष्टांतोऽपि स्वपक्षघाती माणप्रभादर्शनस्यापि संवादकत्वेन प्रामाण्यप्राप्या प्रमाणांतीवविघटनात् । न हि प्रत्यक्षं स्त्रविषये विसंवादनात् शक्तिकादर्शनवद्रजतम्रांती | नापि लैंगिकं लिंगलिंगिसंवधाप्रति- पत्तेः-अन्यथा दृष्टांतेतरयोरेकत्वात् किं केन कृतं स्यात् । कादाचिंकार्यप्राप्तरारेकादेरपि संभवात् । । .

आप्तीमांसा। नहि मिथ्याज्ञानस्य संबादनेकांतः । तथा न लैंगिकं सर्वथैवाविसंवादकत्वात् । तस्मात्सूक्तं तत्वज्ञानमेवं प्रमाणं । कारणस्य सामिप्रीभदात्प्रतिभासभेदेऽपि इति । प्रमाणमेव वा तत्वज्ञानं । ततः स्त्रलक्षणदर्शना- नंतरभाविनस्तत्वव्यवसायस्य प्रमाणतोपत्तेः प्रत्यक्षमनुमानमिति प्रमाणे एवेत्यधारणं प्रत्याचष्टे अनधिग- सार्थधिगमाभावात, तदप्रमाणत्वे लैंगिकस्यापि माभूद्विशेषाभावात् । अनधिगतस्वलक्षणाव्यवसायात् अनु- मितेरतिशयकल्पनायां प्रकृतस्यापि न वै प्रामाण्यं प्रतिषेध्यं-अनिर्णीतनिर्णयात्मकत्वात् क्षणभंगानुमान- वत् । घनेरखंडशः श्रवणाधिगमोऽपि प्राथमकल्पिकस्तत्वनितिरेव । तदत्यये दृष्टरपि विसंवादकत्वेन प्रामाण्यानुपपनेरदर्शनातिशायनात् । तदर्शनाभावेऽपि तत्त्रनिश्चये तदन्यसमारोपव्यच्छेदलक्षणप्रमा णलक्षणांगीकरणात । कचित्कुतश्चिधूमकेतुलैंगिकवन्निीतार्थमावस्मृतरधिगतार्धाधिगमात् प्रामाण्यं माभूत्। प्रमितिविशेषाभावात् , प्रकृतीनर्णयस्य प्रामाण्ये हि न किंचिदतिप्रसज्यते निर्णीतेऽपि कथंचिदतिशायनात् । प्रत्यभिज्ञानं प्रमाण व्यवसायातिशयोपपत्तेः तत्मामाधीनत्वात् प्रमाणत्वसिद्धेः, अन्यथा हि विसंवादः स्यात् लिंगलिंगिसबंधज्ञानं प्रमाणमनिश्चितनिश्चयादनुमानवत् । सत्त्वक्षणिकत्वयोघूमतत्कारणयोर्वा साकल्यन व्याप्तिप्रतिपत्तौ न प्रत्यक्षत्वमुत्सहते सन्निहितार्थानुकारित्वात् अपरीक्षाक्षमत्वाच्च । नानुमानमनवस्थानुषं- गात् । सूद्रमपि गत्वा तदुभयव्यतिरिक्तं व्यवस्थानिमित्तमभ्युपगंतव्यं । उपमानादिकं प्रमाणांतरभावनि- च्छतां तत्वनिर्णयप्रत्यवमर्शप्रतिबंधाधिगमप्रमाणत्वप्रतिषेधः प्रायशो वक्तुर्जडिमानमाविष्करोति इति प्रत्य- क्षं परोक्षमित्येदाद्वितयं प्रमाण अर्थापत्यादेरनुमानव्यतिरेकेऽपि परोक्षेऽतर्भावात् । तत्र सकलज्ञानावरणपरि- क्षयविजृमितं केवलज्ञानं युगपत्सर्वार्थविषयं । तथाचोक्तं 'सर्वद्रव्यपर्यायेषु केवलस्य' इति । तज्ज्ञानदर्श- नयोः क्रमवृत्ती हि सर्वज्ञत्वं कादाचित्कं स्यात् । कुतस्तत्सिद्धिरिति चेत् ! सामान्यविशेषविषययोगिताव- रणयोरयुगपत्प्रतिभासायोगात् प्रतिबंधांतराभावात् । शेषं सर्व क्रमवृत्ति प्रकारांतरासंभवात् । चक्षुरादिशानपंचकस्यापि परस्परव्यवधानेऽपि विच्छेदानुपलक्षणं क्षणक्षयवत् । योगपद्ये हि संतानभेदात्परस्परपरामर्शाभावः संतानांतरवत् । मानसप्रत्यक्षेऽपि चक्षुरादिज्ञानानंतरप्रत्ययोद्भवेन कश्चिद्विशेषः क्रमवृत्ती व्यवधानप्रतिभासविकल्पप्रतिपत्तरसंभवात् । योगपद्ये हि स्पर्शादिप्रत्यवमर्शविरोधः पुरुषांतरवद्विषयस्यानकांतात्मकत्वात्। मतिज्ञानादि स्याद्वादनयलाक्षतं प्रतिपत्तन्यं ॥ १०१ ॥ उपेक्षा फलमाद्यस्य शेपस्यादानहानधीः । पूर्व वाऽज्ञाननाशो वा सर्वस्यास्य खगोचरे ॥ १०२ ॥ वृत्तिः :-आद्यस्य प्रमाणस्य केवलज्ञानस्य फलमपेक्षा रागमोहाभावः । शेपस्य प्रमाणस्य छपस्थीयज्ञा- नस्य, आदानं ग्रहणं हानं त्यागस्तयोर्धाधुद्धिः तत्फलं। पूर्व वा उपेक्षा वेत्यर्थः । सामान्यापेक्षायां नपुंसकलि- गता | पूर्वा वेति पाठांतरं । वा अज्ञाननाशः फलं ज्ञानतेत्यर्थः । सर्वस्यास्य मत्यादिभेदभिन्नस्य हिताहितभे- दभिन्ने खगोचरे स्वविषये वर्तमानस्यौत्सर्गिकं फलमज्ञाननाश इत्युक्तं ॥ १०२ ॥ प्रस्तुतस्याद्वादाख्यपरार्थसाधनसमर्थनार्थमाह- अष्टशती-सिद्धप्रयोजनत्वात् केवलिनां सर्वत्रोपेक्षा । करुणावतः परदुःखजिहासोः कथमुपेक्षा तदभाने कथं वाप्तिः । इति चेत् स्वदुःखनिवर्तनवदकरुणयापि वृत्तेरन्यदुःखनिराचिकर्षाियां । दयालोरे- वात्मदुःखनिवर्तनादसमाधिरिति चेत् न वै प्रदीपः कृपालुतया आत्मानं परं वा तमसा निवर्तयति इति । कल्पयित्वापि कपालुतां तत्करणस्य स्वभावसामर्थ्य मृग्या एवं हि परंपरापरिश्रमं परिहरेत् । मत्यादेः साक्षात्फलं स्वार्थव्यामोहविच्छेदः तदभावे दर्शनस्यापि सन्निकविशेपात् । क्षणपरिणामोपलंभवदविसंवादक- त्वासंभवात् । परंपरया हानोपादानसंवित्तिः। तथाहि-करणस्य क्रियायाश्च कचिदकत्वं प्रदीपतमोविग- मवत् । नानात्वं च परस्खादिवत् । तस्माद्ग्राह्यसंविदाकारयोः प्रमाणफलव्यवस्थायामपि विसंवादनिराक .

४६ सनातननग्रंथमालायां- रणे तदज्ञस्येव विषदृष्टिः प्रमाणत्वं न प्रतिपक्षुमहति । तावतंत्र प्रमाणत्वे क्षणिकवाद्यनुमान-अधिगतार्थी- धिगमलक्षणत्वान्न वै प्रमाणं ॥ १०२ ॥ वाक्येप्वनेकांतद्योती गम्यं प्रति विशेषकः । स्यान्निपातोऽर्थयोगित्वाचव केवलिनामपि ॥ १०३ ॥ वृत्तिः-पदानां परस्परापेक्षाणां निरपेक्षाः समुदाया वाक्यानि तेषु वाक्येष्वनकांतं द्योतयति. प्रकटया- तीति अनेकांतद्योती । स्याच्छन्दो निरातोऽव्ययं । गम्यमभिधेयमस्ति घट इत्यादिवाक्येऽस्तित्वादि तत्प्रति. विशेषकः समर्थकः । अथवा गम्यं हेयादेयभेदभिन्नं वस्तु यथा यदवस्थितं तथैव तस्य विशेषकः । अर्थस्य तत्तदात्मकस्य योगित्वं घटनं तस्मादन्येषां पुनर्माणां गुणीभूतत्वात् । तब भवत एतदुक्तं केवलिनां श्रुतके- वलिनां च आपिशव्दात्तच्छिष्यप्रशिष्याणां च नान्येषां तथाभूतस्य वस्तुभावात् ॥ १०३ ।। पुनरपि तदेव समर्थयति- अष्टशती-पदानां परस्परापेक्षणां निरपेक्षः समुदायो न तर्हि तदानीमिदं भवति-यथा पत्तत्तत्सर्व परिणामि यया घटः संश्च शब्दः, तस्मात्परिणामीत्याकांक्षणात् । प्रतिपक्षुधर्मोऽयं वाक्येष्वध्यारोप्यते सचे- प्रतिपत्ता तावतार्थ प्रत्येति किमिति शेषमाकांक्षति । प्रकरणादिना वाक्यकल्पनाप्यर्थप्रतिपत्तौ न वा प्राथ- मकल्पिकंवाक्यलक्षणपरिहारः सत्यमामादिपदवत् । सदसन्नित्यानित्यादिसर्वथैकांतप्रतिक्षेपलक्षणो नैकांतः । क्वचित्प्रयुज्यमानः स्याच्छन्दः तद्विशेषणतया प्रकृतार्थतत्वमनवयन सूचयति। प्रायशो निपातानां तत्स्व- भावत्वात् एवकारादिवत् । न हि केवलज्ञानवदखिलमक्रममवगाहते वाचः क्रमवृत्तित्वात् तबुद्धरपि तथाभावात् ॥ १०३.॥ स्याद्वादः सर्वथैकांतत्यागात्किवृत्तचिद्विधिः । सप्तभंगनयापेक्षो हेयादेयविशेषकः ॥ १०४ ॥ वृत्तिः स्याद्वादोऽर्थप्रकरणादीनां घटादिशब्दार्थविशेपस्थापनहेतूनामनुकूलः । कुतः सर्ववैकांत- त्यागात्तेपामर्थप्रकरणादीनां प्रतिकूलस्यैकांतस्य त्यागात् | अथ कथं प्रकारः स्याद्वादः किंवृत्तचिद्विधिः किमो वृत्तं किं निष्पन्नं वृत्तं किंवृत्तं च तच्चिच किंवृत्तचित् तदेव विधिः प्रकारो यस्य कथंचित् कुतश्चिदित्यादि। सप्तमंगाश्च ते नयाश्च तानपेक्षतःइति स्यादस्तिस्यान्नास्त्यादि। हेयादेययोर्विशेषकः गुणमुख्यकल्पनया॥१०४॥. स्याद्वादकेवलज्ञानयोः कथंचित्सामान्य दर्शयन्नाह- अष्टशती-कथंचिदित्यादि किं वृत्तचिद्धिधिः स्याद्वाटपर्यायः सोऽयमनेकांतमभिप्रेत्य सप्तमंगनया- पेक्षा स्वभावपरमावाम्यां सदसदादिव्यवस्था प्रतिपादयति । सप्तभंगी प्रोक्ता द्रव्यार्थिकपर्यायार्थिकप्रवि- मागवशानगमादयः शब्दार्थनया बहुविकल्या मूलनयद्वयशुद्धयशुद्धिम्यां ।। १०४ ॥ स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच गवस्त्वन्यतमं भवेत् ।। १०५ ॥ वृत्तिः-सर्वाणि चं तानि तत्त्वानि च जीवाजीवादीनि तानि प्रकाशत इति सर्वतत्त्वप्रकाशने के ते द्वेस्याद्वादश्च केवलज्ञानं च ते द्वे प्रमाणे । तयोर्मध्येऽन्यतमं परैः परिकल्पितमवस्तु भवेद्यतः कथं तयो- मेंदः साक्षात्प्रत्यक्षादसाक्षादप्रत्यक्षात् ।। १०५ ।। प्रमाणं चर्चितमय को नयो नामत्याह- अष्टशती-स्याद्वादकेवलज्ञाने इति निर्देशात् तयोरम्बर्हितत्वान्नियमं दर्शयति परस्परहेतुकत्वादभ्य- हित वा पूर्वनिपातेऽन्यभिचारं सूचयति । कथं पुनः स्याद्वादः सर्वतत्त्वप्रकाशनो यावता "मतिश्रुतयोनिबंधो - ४७ आप्तमीमांसा । द्रव्येष्वसर्वपर्यायेषु" । जीवादयः सप्तपदार्थास्तत्त्वं तत्प्रतिपादनाविशेषात् !. तथा हि भेदः साक्षादसाभा- चेति साक्षात्कृतेरेव सर्वद्रव्यपर्यायान् परिछिनत्ति नान्यत इति यावत् ॥ १०५ ॥ सधर्मणव साध्यस्य साधादविरोधतः । स्याद्वादमविभक्तार्थविशेषव्यंजको नयः ॥१०६ ॥ वृत्तिः-समानो गुणो यस्य स सधर्मा तेन सधर्मणैव एवकाराद्विपक्षनिराकरणं साध्यस्यानित्यत्वा- देः शक्याभिप्रेताप्रसिद्धस्य । सधर्मणो भावः साधर्म्य तस्मात्साधात् । स्याद्वादः श्रुतज्ञानं तेन प्रविभक्तो विषयीकृतोऽर्थस्तस्य विशेषो नित्यत्वादिस्तद्वयंजकः प्रकटको द्योतको नयो युक्तितोऽर्थपरिग्रहः । इत्यनेना- न्वयव्यतिरेकपक्षधर्मा उक्ताः । अविरोधादित्यनेनान्यथानुपपत्येकलक्षणो हेतुः प्रदर्शितः । किमुक्तं भवति- अंतर्व्याप्तिमंतरेण त्रिलक्षणो हेतुर्न गमक इति । अथ को नयप्रमाणयोर्विशेषः ? अनेकांतप्रतिपत्तिः प्रमाणं, एकधर्मप्रतिपत्तिर्नयः ।। तद्विषयस्य द्रव्यस्य स्वरूपप्रतिपादनार्थमाह- अष्टशती-सपक्षणव साध्यस्य साधादित्यनेन हेतोस्टेलक्षण्यमविरोधात इत्यन्यथानुपपत्तिं च दर्श- यता केवलस्य त्रिलक्षणस्यासाधनत्वमुक्तं तत्पुत्रत्वादिवत् । एकलक्षणस्य तु गमकत्वं "नित्यत्वैकांतपक्षऽपि विक्रिया नोपपद्यत इति" बहुलमन्यथानुपपत्तरेव समाश्रयणात् । यत्राक्रियान संभवति तन्न वस्तु यथा वि- नाशकांतः तथा च नित्यत्वेऽपि क्रमयौपद्याभ्यामक्रिया न संभवति नापरं प्रकारांतरं-इति त्रिलक्षणयोगेऽपि प्रधानमेकलणं तत्रैव साधनसामर्थ्य परिनिष्ठितेः । तदेव प्रतिबंधः पूर्ववद्वीतसंयोग्यादिसकलहेतुप्रतिष्ठापकं । ततः स्याद्वादेत्यादिनानुमितमनेकांतात्मकमर्थतत्त्वमादशर्यति । तस्य विशेषो नित्यत्वादिः पृथक् पृथक्त्वस्य प्रतिपादको नयः । तथा चोक्तं- अर्थस्यानेकरूपस्य धीः प्रमाणं तदंशधीः नयः धर्मातरापेक्षी दुर्णयस्तन्निराकृतिः ॥ १। तदनेकांतप्रतिपत्तिः प्रमाणं । एकंधर्मप्रतिपत्तिर्नयः । तत्प्रत्यनीकपातक्षेपो दुर्णयः केवलं विपक्षविरोध- दर्शनेन स्वपक्षाभिनिवेशनात् ।। १०६.।। नयोपनयकांतानां त्रिकालानां समुच्चयः । अविभ्राट् भावसंबंधो द्रन्यमेकमनेकधा ॥ १०७ ॥ वृत्तिः-नया नैगमादयः सप्त उपनयास्त दोपभेदार्थपर्यायास्त एवैकांताः प्रधानधर्मास्तग्राह्यत्वात्त- व्यपदेशः । त्रयः काला विषयो येषां ते तयाभूतास्तेषां समुच्चय एकस्मिन्नवस्थानम् । अविभ्राद् अपृथक् भावसंबंधः सत्तासंबंधो यस्य स तथाभूतस्तद्व्यमेकमभेदापेक्षया पुनरनेकप्रकारं ।। १०७ ॥ तदर्थं चोध परिहारायाह- अष्टशती-उक्तलक्षणो द्रव्यपर्यायस्थानः संग्रहादिर्नयः । तच्छाखाप्रशाखामोपनयः । तदेकांता- तात्मनां विपक्षापक्षालक्षणानां त्रिकाललक्षणानां त्रिकालविषयाणां समितिद्रव्यं । ततस्तेषामपोद्धारात गुण- गुण्यादिवत् ॥ १०७ ॥ मिथ्यासमूहो मिथ्या चेन्न मिथ्यकांतताऽस्ति नः । निरपेक्षा नयां मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥ १०८ ॥ वृत्तिः-नित्यानित्यास्तित्वादीनां मिथ्याधर्माणां योऽयं समूहः समुदायः ‘स मिथ्याऽसत्यरूप इति चेदेवं भवतोऽभिप्रायः । मिथ्यत्येकांतः संग्रहस्तस्य भावो मिथ्र्यकांतता सा नोऽस्माकं नास्ति न विद्यते ।

४८ सनातनजैनग्रंथमालायां- कुतः यतो निरपेक्षा नयाः मिथ्या परस्परमपेक्षा घटना तस्या निर्गताः पृथग्भूता धर्मा व्यर्टीकाः । सापेक्षाः परस्परसंवद्धास्ते नया वस्तु परमार्थतत्त्वं यतोऽर्थवत् क्रमाक्रमाभ्यामर्थकारित्वादतो.न चोद्यस्यावतारः । पुनरपि तमर्थ समर्थयन्नाह- अण्टशती-मुनयगुर्णययोर्ययास्मामिलक्षणं व्याख्यातं तथा न प्रबोध्यं न परिहारः। तथाहि-निरपेक्षत्वं प्रत्यनीकर्मस्य निराकृतिः । सापेक्षत्वमुपेक्षा अन्यथा प्रमाणनयाविशेषप्रसंगात् । धर्मातरादानोपेक्षाहानि- लक्षणत्वात् प्रमाणनयदुर्णयाणां प्रकारांतरासंभवाच्च । तदतस्त्रमावप्रतिपत्तेस्तत्प्रतिपत्तिरन्यनिराकृतिश्चेति विश्वोपसंहतिः ॥ १०८॥ नियम्यतेर्यो वाक्येन विधिना वारणेन वा । तयाज्यया च सोऽवश्यमविशेष्यत्वमन्यया ॥ १०९ ॥ वृत्तिः-वाक्येन, अस्ति घटो नास्ति वेति विधिप्रतिषेधरूपेणार्थो नियम्यते नियंत्र्यते विशेषाविषयं नीयते तस्मात्सोऽर्थस्तथा च तदतदात्मक इत्यभ्युपगंतव्यः । यदि पुनरन्यथान्येन प्रकारेणकांतरूपेणाभ्युप- गम्यते तदानीमविशेष्यत्वमवस्तुत्वं स्यादेकधर्माक्रांतत्वेन वस्त्वस्ति यतः। वाक् दिविपया न भवतीत्यस्य निराकरणायाह- अष्टशती-यत्सत् तत्सर्वमनकांतात्मकं वस्तुतत्वं सर्वथा तदर्थक्रियाकरित्वात् । स्वविषयाकारसंवि- तिवत । न किंचिदेकांतं वस्तुतत्वं सर्वथा तदर्थक्रियासमवात् गगनकुसुमादिवत् । नास्ति सदेकांतः सर्व- व्यापारविरोधप्रसंगात् असदेकांतवदिति विधिना प्रतिपेवेन वा वस्तुत नियम्यते । अन्यथा तद्विशिष्टमर्थ- तस्त्रं न स्यात् इत्यनेन विधिप्रतिपेवयोर्गुणप्रधानमावेन सदसदादिवाक्येपु वृत्तिरिति लक्षयति ॥ १०९ ।। तदतद्वस्तु वागेपा तदेवेत्यनुशासति । न सत्या स्यान्मृपावाक्यैः कयं तत्त्वार्यदेशना ॥ ११० ॥ वृत्तिः-एपा बागेतद्वचनं सर्वाभ्युपगतं तच्चातच्च तदतत् अस्तित्वनास्तित्वात्मकं वस्तुतत्त्रं तदेव ताहरभूतमंत्र नैकांतात्मकमवेत्येवमनुशासति कथयति प्रतिपादयति । यदि न सत्या सद्भुता स्याद्भवेत् । एवं सति मृपा वाक्यानि असत्यरूपाणि वाक्यानि स्युः । तथा सति तत्वार्थस्य परमार्थस्य प्रमाणहेतुफलप्रतिपादकस्य येयं देशना कयनं परप्रतिपादनं कथं स्यात् ? किं तु न मवेदेव । तथा च विशीण प्रमाणादिलक्षणं वर्म । तस्माद्यसत्तदनेकांतात्मकं हेतुहानं प्रमाणवदिति वचनस्य प्रमाण्यमपितव्यं ॥ ११० ॥ पुनरपि बचोटक्षणमाह- . अष्टशती प्रत्यक्षादिप्रमाणविषयभूतं विरुद्धधर्माच्यासलक्षणं वाऽविरुद्धं वस्तु । तदेवत्येकांतेन प्रति- पादयंती मिथ्यत्र भारती कथमनयार्थदेशनं ? इत्येकांतवाक्यार्थानुपपत्तिरालक्ष्यते ।। ११०॥ बाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरंकुशः । आह च स्वार्थसामान्य तादृग्वाच्यं खपुष्पवत् ।। १११ ।। वृत्तिः वाचः स्त्रमात्र आत्मीय रूपमन्येषां वाच्यत्वेनाभिप्रेततराणां वाग्वचनं तस्या अर्थस्तस्य प्रति- पेधो निराकरणं तस्मिन् निरंकुशः समर्थो घटशब्दः पटादीनां निराकरण करोति स्वार्य च प्रतिपादयति अतो- उनकांतः, यदि पुनः सर्वथा स्त्रस्य ज्ञानार्थस्य बाह्यार्थस्य सामान्यं परापररूपमपोहं चार्वाक आह आचष्ट इत्य- म्युपगमः स्यात् तादृग्वाच्यं विशेषरहितं सामान्य खपुष्पवत् गगनकुसुमसमानमतो न किंचित्स्यात् ।।१११॥

आतमीमांसा। ४९ ? ननु सामान्यमव वाचोऽर्थो यदुत विशेष वर्तत सामान्येऽर्थक्रियाभावादिति संसर्गबोधमतं तन्निरा- करणार्थमाह-- अपशती-वाचः स्वभावोऽयं येन स्वार्थसामान्यं प्रतिपादयंती तदपरं निराकरोति । अन्यतरापाये ऽनुक्तानतिशायनात् । इदं तदानेयं तद्यावान् प्रतीयेत तदर्थः । कूर्मरोमादिवत् नच सामान्य विशेषपरि. हारेण क्वचिदुरलभामहे । अनुपलभमानाश्च कर्य स्वात्मानं परं वा तयाभिनित्रशेन विरल मामहे ? ॥१११॥ सामान्यवाग्विशेपे चेन्न शब्दार्था मृषा हि सा । . अभिप्रेतविशेषाप्तः स्यात्कारः सत्य सांछनः ।। ११२ ।। वृत्तिः-सामान्यसंबंधिनी वाक् विशेपे वर्तते-विशेषमाचष्टे तत्त्वार्थक्रियाभावात् चेदेवं भवतोऽभि- मायः ? तर्हि शब्दस्यार्थोऽभिधेयः कुतः ? तादृग्भूता वाक् मृपा पलीका सा । यस्मान्न ह्यन्यस्य वाचकोऽन्य- माह । वटशब्दः पार्थस्य न कदाचिदपि प्रतिपादकः । नाप्यपाहोऽस्यार्थः, अपोहो हि परल्यावृत्तिः सा च तुच्छा ततो भेदक्षाणिकैकांतपक्षे न वाच्यं नापि वाचको नानुमानं नाप्यागमः सीमावोऽतः स्यात्कारः स्याद्वादः सत्यलांछनः सत्यभूतोऽभिप्रेतविशेषस्याप्तेनिमित्तमिष्टार्थप्राप्तिहेतोराश्रयणीयः सर्वदोपकलंकातीतत्वात् । तस्यैव स्वरूपमाह- अटशता-अस्तीति केवलमभावव्यवच्छेदादपोहमाहेति चेत् ? कः पुनरपोहः? परतो व्यावृत्तिर- भावः । कथमेवं सत्यभावं प्रतिपादयति भावं न प्रतिपादयतीत्येवमनुक्तसमं न स्यात् । तद्विकल्पो मिथ्याभिनिवेशवशादिति चेन चैतत्तस्य प्रतिपादकं मिव्याविकल्पहेतुत्वाद् व्यलीकवचनवत् । ततः स्या- द्वाद एत्र सत्यलांछनो न वादांतरमित्यनुशाययति ॥ ११२ ।। विधेयमीप्सितार्थीगं प्रतिपेध्याविरोधि यत् । तथैवादेयहेयत्वमिति स्याहारसंस्थितिः ॥ ११३ ।। वृत्ति:-विधेयमस्तीत्यादि प्रतिपेध्यस्य नास्तित्वादरविरोधनाविरुद्धं यत्तदीप्सितार्थस्याभिप्रेतकार्यस्यांग कारणं । तथैवादेयं वस्तु हेयात्याच्यादविरुद्वं इत्यनेन प्रकारेण स्याद्वादस्य संस्थितिः सर्वप्रमाणैरविरुद्धा सिद्धिरिति प्रमाणहेतुदृष्टांताभासाः परवादिपरिकल्पितप्रमाणहेतुदृष्टांता वेदितव्याः । कुतः ? तल्लक्षणाभावात् । वस्त्वपि तत्परिकल्पितं तदपि नास्ति लक्षणाभावात. | तस्माद्यदनेकांतात्मकं तत्सत्यं लक्षणयोगादिति । शास्त्रार्थोपसंहारकारिकामाः- अष्टशती-अस्तीत्यादि विधेयमभिप्रेत्य विधानात् नास्तित्वादिभिरविरुद्धं विधिप्रतिपेधयोरन्योन्यावि- विनाभावलक्षणत्वात, स्वार्थज्ञानवत् । तद्विधेयप्रतिध्यात्मविशेषात् स्माद्वादः प्रक्रियते सप्तभंगीसमा- श्रयात् ॥ ११३॥ इतीयमाप्तमीमांसा विहिता हितमिच्छता। सम्यमिथ्योपदेशार्थविशेषप्रतिपत्तये ।। ११४ ॥ वृत्तिः-इत्यनेन प्रकारणेयं प्रत्यक्षतश्च योऽयमुपदेशस्तरयार्थः स्वरूपं तस्य विशपो य थात्म्यं तस्य प्रतिपत्तिरवगमस्तस्यै सम्यगुपदेशोऽयं मिथ्येति सर्वज्ञेन ज्ञायते यस्मात् । कृतकृत्यो नियूंढतत्त्वप्रतिज्ञ आचार्यः श्रीमत्समंतभद्रकेसरी प्रमाणनयतीक्ष्णनखरदंष्ट्राविनारितप्रवादि- कुनयमदविलकुंभिकुंभस्थलपाटनपटुरिदमाह- ?

s सनातनजनप्रथमालायां- अष्टशती-इति स्त्रोक्तपरिदविहितयमातमीमांसा सर्वशविशेषपरीक्षानिःश्रयसकामिनां । अभव्यानई तदनुषयांगात | तत्वतरपरीक्षा प्रति मन्यानामंत्र हि नियताधिकतिः ॥ ११ ॥ श्रीवर्द्धमानमकलंकमानावंद्य- पादारविंदयुगलं प्रणिपन्य मूर्ती मध्यकलोकनयनं परिपालयन- स्याहादतम परिणीमि समंतभद्रं ॥१॥ इत्यष्टशती समाप्ता। - जयति जगति कलशावंशप्रपंचहिमांशुमान् विहतविपमेकांतवांतप्रमाणनयांशुमान् । अतिपतिरजो यस्याधृष्टान्मतांचुनिपर्लचान स्त्रमतमतयस्ता नाना परे समुपासते ॥ ११९ ।। वृत्ति:-- -~यस्य भट्टारकस्य मतांबुधेरागमादधर्मवान् कणान् अघृष्टानम्वरकतान पर नाना तार्थ्याः प्रवादिनः मुगतादयः स्वमत मतियां ते स्त्रमतमतयः कुतात्मबुद्धयः समुपासते सेवंत सोऽनो जातिजरा- मरणरहितो यतिपतिः प्रधानस्वामी जयति त्रैलोक्यस्वामित्वं करोति बाह्याभ्यंतराचन् निहत्य जयति लोके । पुनरपि विविशिष्टः ? साम्य दुश्वस्य आवशः ऋदर्थना तस्य प्रपंचा विस्तारः स एव हिमं प्रालयः तस्यांशुमा- नादित्यः । एकांत एव व्वांतं तमः विषमं च तदकांनच्चांतं च विषमैक्रांतवांतं प्रमाणं च नयाच प्रमाण- नया उक्तलक्षणा विहृतं निराकृतं विप्रमकांतध्यांतं यस्तै तथाभूतास्त च ते प्रमाणनयाझ्च त मवांशवः क्रिरणास्त विद्यत यस्य स तथाभूत इति चीतपंतर्विशपणं ॥ ॥ ११५ ॥ श्रीमन्समंतभद्राचार्यस्य त्रिमुवनलब्धजयाताकस्य प्रमाणनयचक्षुषः स्याद्वादशारीरस्य देवागमाग्न्या- ऋतः संक्षपमृतं विवरणं कृतं श्रुतविस्मरणशीलन बमुनंदिना जडमतिनाऽऽमापकाराय । समंतभदवाय परमार्थविकल्पिन । समंतमद्देवाय नमोऽस्तु परमात्मनं ॥ १॥ मुग्वाय जायते लोक यमुनंदिसमागमः । तस्मात् निपत्र्यतां मर्यवमुनंदिसमागमः ॥ २ ॥ इति श्रीयमुनंद्याचायकृता देवागमवृत्तिः समाप्ताः। FEEGSeisur समाताऽयं ग्रंथः। Ananan १ नतत्ययस्वाध्यत्युपलब्धा ।

ॐ सनातनजैनग्रंथमाला स्याद्वादपतिश्रीविद्यानंदस्वामिविरचिता- प्रमाणपरीक्षा। ? जयंति निर्जिताशेपसर्वथैकांतनीतयः । सत्यवाक्याधिपाः शश्वविद्यानंदा जिनेश्वराः ॥ १॥ अथ प्रमाण-परीक्षा-तत्र प्रमाणलक्षणं परीक्ष्यते- 'सम्यग्ज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्ते । सन्निकर्षादिरज्ञानमपि प्रमाणं स्वार्थप्रमितौ साधकतम- त्वात् ? इति नाशंकनीय। तस्य स्वप्रमितौ साधकतमत्वासंभावात् । न ह्यचेतनोऽर्थः स्वप्रमिती करणं पटा- दिवत् । सोऽर्थप्रमिती करणमित्यप्यनालोचितवचनं नैयायिकानां स्वप्रमितावसाधकतमस्यार्थप्रमिती साधकतमत्वानुपपत्तेः। तथाहि-नः सन्निकर्षादिरर्थप्रमितौ साधकतमः स्वप्रमितांवसाधकतमत्वात्पट- वत् । प्रदीपादिभिर्व्यभिचारः साधनस्य ? इति न मंतव्यं । तेषामर्थपरिच्छत्तावकरणत्वात् । तंत्र नयनम- नसोरेव करणतया स्वयमभिमतत्वात् । प्रदीपादीनां तत्सहकारितयोपचारतः करणव्यवहारानुसरणात् । न चोपचारतोऽर्थप्रकाशन एव प्रदीपादिः करणं न पुनः स्वप्रकाशन इति मन्यमानो निर्मलमना मनीषिभिः; अनुमन्यते । नयानादेः-अर्थसंवेदनमिव प्रदीपादिसंवेदनमप्युपजनयतः प्रदीपादीनां सहकारित्वाविशेषात् । तेपामर्थप्रकाशनवत् स्वप्रकाशनेऽपि करणतोपचारव्यवस्थितः । नयनादिना-अनेकांत इत्यपि न मननीय तस्याप्युपकरणरूपस्याचेतनस्वभावस्यार्थप्रतिपत्ती करणतोपचारातः। परमार्थतो भावेंद्रियस्यैव-अर्थग्रहणश- क्तिलक्षणस्य साधकतमतया करणताध्यवसनात् । न चैतदसिद्धं विशुद्धधिषणजनमनसि युक्तियुक्ततया.परिवर्त- मानत्वात् । तथाहि- 'यदसन्निधाने कारकांतरसनिधानेऽपि यन्नोपपद्यते तत् तत्करणकं । यथा कुठारासन्निधाने.काष्टछेदनम- नुत्पद्यमानं कुठारकरणकं । नोत्पद्यते च भावेंद्रियासमवधानेऽर्थसंवेदनमुपकरणसद्भावेऽपि, इति तद्भावेंद्रि- यकरणकं । बहिःकरणसन्निकर्षाधीनतायां हि पदार्थसंवेदनस्य, नयनसन्निकर्षात् कलश इव नभसि नायन- संवेदनोदयः कुतो न भवेत् । न हि नयननभसोरन्यतरकर्मजः संयोगो न विद्यते एवेति वक्तुं युक्तं सकलमूर्तिमद्र्व्यसंयोगान्नमसि सर्वगतत्वसाधनविरोधात् । न च नयनममूर्तिमदेव ? तस्य परैभौतिकतयो- पगतत्वात् । पौगलिकतयास्माभिरुपकरणस्याभिमतत्वात् । ननु नभसि नयनसन्निकर्षस्य योग्यताविरहान संवेदननिमित्तता ? इत्यपि न साधीयः तद्योग्यताया एव साधकतमत्वानुषंगात् । का चेयं सन्निकर्षस्य योग्य- ता नाम ? विशिष्टा शक्तिरिति चेत् ? सा तर्हि सहकारिसन्निधिलक्षणा अनुमंतव्या । ? " . ५२ सनातननग्रंथमालायां- 'सहकारिसांनिध्य शक्तिः' इत्युद्यातकरवचनात् । सहकारिकारणं च द्रव्यं गुणः कर्मा दि वा स्यात् ? न तावदात्मद्रव्यं सहकारि नत्सन्निधानस्य नयननमःसन्निकऽपि समानत्वात् । एतें- न कालद्रव्यं दिन्द्रव्यं च सहकारि निराकृतं तल्लान्निध्यस्यापि सर्वसाधरणत्वात | मनांद्रव्यं सहकारि इत्यपि न संगतं तत्सन्निधरपि समानत्वात् । कदाचित्तद्गतमनसः पुरुषस्याक्षार्थसन्निकर्षस्य संभवात् । एतेन आत्मा मनसा युज्यते, मन इंद्रियेण, इंद्रियमर्थेनति चतुष्टयसन्निकोऽर्थप्रमिती साधकतम इति सामिग्रीप्रमाणवादी दृषितः-तत्सामिग्न्याश्च नभसि सद्भावात् । कालादिनिमित्तकारणमामिग्रीवत् । यदि पुनस्तेजोद्रव्यं सहकारि तत्सन्निधानात् चाक्षुपादिज्ञानप्रभवादिति मतं तदापि न विशेषः बठादावित्र गगनेऽपि लोचनसन्निकर्षस्यालोकसानिधिप्रसिद्धेः संवेदनानुपंगस्य दुर्निवारत्वात् । अथादृष्टविशपों गुणः सहकारी तत्सान्निध्यं संयुक्तसमवायेन, चक्षुपा संयुक्त पुरुष त्वदृष्टविशेषस्य समवायात् इति मन्यध्वं तर्हि कदाचिन्नमासि नायनंसंवेदनादयः कुतो न भवेत् ? । सर्वदा सर्वस्य तत्रादृष्टविशपस्य सहकारिणोऽस- निधानात् इति चेत् ? कथमत्रमीश्वरस्य नमसि चक्षुपा ज्ञानं श्रौत्रादिभिरिव घटने ? समाधिविशपापजनि- तधर्मविशेषानुगृहीतेन मनसा गगनावशेषपदार्थसंवदनोदये तु महेश्वरस्य बहिःकरणमनर्थकतामियात् । फलासंमवात् । बहिःकरणरहितस्य च नांतःकरणमुपपद्यत परनिवृत्तात्मवत् । ततः कथमंतःकरणेन धर्मा- दिग्रहणं मनसोऽसभवे च न समाधिविशेषस्तदुपजनितधर्मविशयो वा घटामदायते तस्यात्मांतःकरणसं- योगनिबंधनात् । स्यान्मतं शिशिरराश्मिशेखरस्य समाधिविशेषसंततिधर्मविशेषसंततिश्च सर्वार्थज्ञानसंततिहेतुरना- घपर्यवसाना, सततमनामलरस्पृष्टत्वात् । तस्य संसारिसादि मुक्तिविलक्षणत्वात् सर्वथा मुक्ततयंत्र प्रसिद्ध: वात् इति तदप्यसमीचीन एवमीश्वरस्यापि एनोमटविल्यादेरेवार्थसंवेदनोद्भवप्रसक्तेः । सततमेनोमला- भावो हि यथा सततमर्थज्ञानसंतानहेतुमरीक्रियते तथा कादचिकनोमलामावः कदाचिदप्रिमितिनिमित्त- युक्तमुत्पश्यामः तस्यैव सन्निकर्यसहकारितोपपत्तः । तत्सान्निध्यस्यैव च सन्निकर्पशक्तिरूपत्रसिद्धः । तदाबादेव च नयनसन्निकर्षऽपि नमसि संवेदनानुत्पत्तियटनात् । तत्र विशिष्टधर्मोऽपि न पापमलापायादपरः प्रतिपद्यते भावांतरस्वभावत्वादमावस्य, निःस्वभावस्य सकलप्रमाणगोचरातिक्रांतत्वेन व्यवस्थापयितुमशक्य- त्वात् इति पुल्पगुणविशेषसद्भाव एव पापमलामावो विभाव्यतास चात्मविशुद्धिविशेपो ज्ञानावरणवीर्यातराय- क्षयोपशमभेदः स्वार्थप्रमिता शक्तियोग्यतेति च स्याद्वादवेदिभिरभिधीयते । प्रमातुरूपलब्धिलक्षणप्राप्त- तापि नातोर्यातरमात्रमनुभवति पुंसः संवेदनावरणवीयांतरायलक्षणपापमलापगमविरहे कचिदुपलब्धिटक्षण- प्राप्ततानुपलब्धः, नयनोन्मीलंनादिकर्मणो दृझ्यादृश्ययोः साधारणत्वात् प्रद्योतादिकरणसाकल्यवत् । एतेन नयनोन्मीलनादिकर्मसन्निकर्षसहकारिविषयगतं चौपलभ्यत्वसामान्यमिति प्रत्याख्यातं तत्सन्निधाने सत्य- पि क्वचित्कस्यचित् प्रमित्यनुपपत्तेः कालाकाशादिवत् । न हि तत्रोपलम्यत्वसामान्यमसमान्यं योगिनो- ऽप्यनुपलब्धिप्रसंगात् । अस्मादृशापेक्षयोपलभ्यन्त्रसामान्यमन्यदेव योगीश्वरापेक्षादुपलभ्यतासामान्यादिति- चेत् ? तस्किमन्यत्। अन्यत्र योग्यताविशेषात् । प्रतिपुस्य भेदमास्तिन्नवानादिति(?) स एव प्रमातुः प्रमित्यु- पजनने साधकतमोऽनुमंतव्यः सन्निकर्यादी सत्यपि क्वचित्संविदपजननाभावविभावनात् । स च योग्य- ताविशेषः स्वार्थग्रहणशक्तिः । आत्मनो भावकरणं ज्ञानमेव फलंरूपत्वात् स्त्रार्थज्ञानात्कथंचिदभिन्नत्वात् सर्वथापि तता भेदे नात्मात्रभावत्वांपत्तः । न चत्रमुपगंतुं युक्तं ? आत्मन एवोभयनिमित्तवशात्तथापरिणा- मात् । आत्मना हि जानात्यनेनेति करणसाधनात भेदोपत्रर्णनं कथं चिदभिन्नकर्तृकस्य करणस्य प्रसिद्धः अग्निराण्यन दहतीधनमिति यथा । स्वातंत्र्यविवक्षायां तु जानातीति ज्ञानमात्मैव, कसाधनत्वात्तदात्मज्ञा- नयोरभेदप्राधान्यात् आत्मन एवं स्वार्थग्रहणपरिणाममापन्नस्य ज्ञानव्यपदेशसिद्धेः ओप्ण्यपरिणाममाप- नस्याग्नरीष्ण्यव्यपदेशवत् । तेन ज्ञानारमा ज्ञानात्मना ज्ञेयं जानाति इति व्यवहारस्य प्रतीतिसिद्धत्वात् । यथा च ?

- प्रमाणपरीक्षा। ५२ ज्ञानात्मैव प्रमाता स्यात , अज्ञानात्मनः खादेः प्रमातृत्वायोगात् तथा ज्ञानात्मैव प्रमाण स्वार्थमिती ज्ञान- क्रियात्मिकायां करणत्वात् । अज्ञानात्मनस्तत्र साधकतमत्वाघटनानाज्ञानं प्रमाणं, अन्यत्रोपचारतः। ततो- नाजानन इंद्रियसन्निलिंगशब्दादिना साधनस्य व्यभिचारः। नापि व्यतिरंकासिद्धिः सम्यग्ज्ञानत्वस्य साध्यस्य निवृत्ती प्रमाणत्वस्य साधनस्य पटादी विनिवृत्तिीधीनश्चयात । केवलव्यतिरेकिणोऽपि साधनस्य समर्थनात् । ततः सूक्तं सम्यग्ज्ञानमेव प्रमाणमज्ञानस्य प्रमाणत्वायोगामिथ्याज्ञानवदिति । किं पुनः सम्याग्शनं ? अभिधीयते-स्त्रार्थव्यवसायात्मकं सम्यग्ज्ञानं सम्यग्ज्ञानत्वात् । यत्तु न स्वार्थव्यवसाया- त्मक तन सम्यग्ज्ञानं यथा संशयविपर्यासानध्यवसायाः। सम्यग्ज्ञानं च विवादापन्नं तस्मात्स्वार्थव्यवसायात्मकमिति सुनिश्चितान्यथानुपपीत्तनियमनिश्चयलक्षणो हेतुः प्रसिद्ध एव सम्यगववोधादीनां साध्यवर्मिणि सद्भावात् । स्व- संवेदनेंद्रियमनोयोगिप्रत्यक्षः सम्यग्ज्ञान:-अव्यवसायात्मकैर्व्यभिचारी हेतुः इति स्त्रमनारथमात्रं सौगतस्य तेषां सम्यग्ज्ञानलविरोधात्। सम्यग्ज्ञानत्वं ह्यविसंवादकत्वेन व्याप्तं तदभावे तदसंभवात् । तदपि प्रवर्तकत्वेन व्याप्त तदभावे तदसंभवात् । तदप्यर्थप्रापकत्वेन अर्थप्रापकस्याविसंवदित्वात् । निर्विपयज्ञानवत् । तदपि प्रवर्त- कत्वेन व्याप्त अप्रवर्तकस्याप्रत्यायकत्वात् । तद्वत् प्रवर्तकत्वमपि विश्वविषयोपदर्शकत्वेन व्याप्तं स्वत्रिपयमु- पदर्शयतः प्रवर्तकव्यवहारविषयत्वसिद्धेः । न हि पुरुष हस्ते गृहीत्वा ज्ञानं प्रवर्तयति । स्वविषयं रूपं दर्शयत् प्रवर्तकमुच्यते अर्थप्रापकं च इत्यविसंवादकं सम्यग्वेदकं प्रमाण तद्विपरीतस्य मिथ्याज्ञानत्वप्रसिद्धेः संशय- चदिति धर्मोत्तरमतं । तत्राव्यवसायात्मकस्य चतुर्विधस्यापि समक्षस्य सम्यग्वेदनत्वं न व्यवतिष्ठत तस्य स्वविषयोपदर्शकत्वाऽसिद्धेः । तसिद्धी वा नीलादाविव क्षणक्षयादावपि तदुपदर्शकत्वप्रसक्तेः । ततो यद- व्यवसायात्मकं ज्ञानं न तत्स्वविषयोपदर्शकं यथा गच्छतः तृणस्पर्शसंवेदनं । अध्यवसायि प्रसिद्धमन्यवसायात्मक च सौगताभिमतदर्शनमिति व्यापकानुपलब्धिः सिद्धा। व्यवसायात्मकस्य व्यापकस्याभावे तव्याप्यत्वस्य स्वविपयोपदर्शकत्वस्याननुभवात् । स्यादाकृतं-- तेन व्यवसायात्मकत्वेन स्वविषयोपदर्शकत्वस्य व्याप्तिः सिद्धिमधिवसति तस्य व्यवसा- यजनकत्वेन व्याप्तत्वात् । नीलधवलादी व्यवसायजननाद्दर्शनस्य तदुपदर्शकत्वव्यवस्थितेः। क्षणक्षयस्वर्ग- प्रापणशक्त्यादी व्यवसायाजनकत्वात् तदनुपदर्शकत्वव्यवस्थानात् । गच्छत्तृणस्पर्शसंवेदनस्यापि तत एव स्त्रविषयोपदर्शकत्वाभावसिद्धेः मिथ्याज्ञानत्वव्यवहारात् अन्यथानध्यवसायित्वाघटनात् इति ? तदेतदवि- चारितरमणीयं ताथागतस्य व्यवसायो हि दर्शजन्यः । स किं दर्शनविपयस्योपदर्शकोऽनुपदर्शको वा ? इति विचार्यते- यद्यपदर्शकस्तदा स एव तत्र प्रवर्तकः प्रापकश्च स्यात् संवादकत्वात् सम्यक्संवेदनवत् । न तु तन्निमित्तं दर्शनं सन्निकर्यादिवत् । अथानुपदर्शकः ? कथं दर्शनं तज्जननात् स्वविपयोपदर्शकं ? अतिप्रसंगात् । संशयविपर्यासकारणस्यापि स्वविषयोपदर्शकत्वापत्तेः । दर्शनविषयसामान्याध्यवसायित्वाद्धि- कल्पतज्जनकं दर्शनं स्वविषयोपदर्शकमिति च न चेतसि स्थापनीयं दर्शनविषयसामान्यस्यान्यापोहलक्षण- स्यावस्तुत्वात् । तद्विपयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात् । दृश्यसामान्ययोरेकत्वाध्यवसायाद्वस्तूप- दर्शक एव व्यवसाय इत्यपि मिथ्या तयोरेकत्वाध्यवसायासंभवात् । तदेकत्वं हि दर्शनमध्यवस्यति तत्पृष्ठजो- व्यवसायो वा ज्ञानांतरं वा ? न तावदर्शनं तस्य विकल्पाविषयत्वात् । नापि तत्पृष्ठजो व्यवसाय: तस्य दृश्यागोचरत्वात् । तदुभयविषयं ज्ञानांतरं तु निर्विकल्पकं विकल्पात्मकं वा ? न तावन्निर्विकल्पकं तस्य दृश्य विकल्प्यद्वयविषयत्वविरोधात् । नापि विकल्पात्मकं तत एव । नच तदद्वयाविषयं संवेदनं तदुभयैकत्वमध्यव- सातुं समर्थ । तथाहि- यद्यन विषयी कुरुते न तत्तदेकत्वमध्यवस्यति यथा, रससंवेदनं स्पर्श रूपोभयं । न विषयी कुरुते च दृश्यविकल्प्योभयं किंचित्संवेदनं, इति न कुतश्चिदृश्यविकल्प्ययोरेकत्वाध्यवसायः सिद्धयेत् ततो न व्यवसायो वस्तूपदर्शकः स्यात् । नापि तदुपजननादर्शनं स्वविषयवस्तूपदर्शकं योगिप्रत्यक्षस्य विधू- तकल्पनाजालस्य सर्वदा वस्तुविकल्पाजनकत्वात् तदुपदर्शकत्वविरोधात् । स्वसंवेदनमपि न तस्य स्वरूपोप- . ? । सनातननग्रंथमालायां- दर्शकं ताहिकल्पानुत्पादकत्वात् इति कुतः स्वरूपस्य स्वतो गतिरवतिष्ठेत ?। किं च दर्शनपृष्ठभाविनों विकल्पस्य स्वसंवेदनबलासिद्धौ तस्वसंवेदनं कुतः प्रमाणं स्यात् । तद्यदि स्वरूपोपदर्शनादेव प्रमाणमा- स्थीयते ? तदा स्वर्गप्रापणशक्त्यादावपि प्रमाणतामास्कंदेत् । तत् स्वसंविदाकार एव प्रमाणं तद्व्यवसाय जननात्-न पुनरन्यत्रेति परिकल्पनायां तद्व्यवसायस्वसंवेदनस्यापि व्यवसायांतरोपजननात्, स्वरूपोपदर्श- नेन भवितव्यमित्यनवस्थानात्, नाद्यव्यवसायस्वसंवेदनस्य प्रामाण्यं । तदप्रामाण्ये च न तत एव व्यवसाय- सिद्धिः । तदसिद्धौ च न तज्जननादर्शनस्य स्वविषयोपदर्शकत्वं । तदभावे च न तस्य प्रवर्तकत्वं । अपवर्त- फस्य नार्थप्रातिनिमित्तत्वं । तदसंभवे च नाविसंवादकत्वं तद्विरहे च न सम्यग्ज्ञानत्वं स्वसंवेदनोंद्रियमनो योगिज्ञानानामिति न तैर्व्यभिचारः साधनस्य संभवति । स्यान्मतं-अर्थसामर्थ्यादुत्पत्तिः-अर्थसारूप्यं च दर्शनस्य स्वविषयोपदर्शकत्वं तच्च सकलसमक्षवेद- नानामव्यवसायात्मकत्वेऽपि संभवत्प्रवर्तकत्वमर्थप्रापकत्वमविसंवादकत्वं सम्यग्ज्ञानलक्षणमिति तैः समीची- ननिर्व्यभिचार एवं हेतोरिति ? तदपि दुर्घटमेव क्षणक्षयादावपि तदुपदेशकत्वप्रसंगात् । तवाक्षणिक- वादिसमारोपानुप्रवेशादयोगिनः प्रतिपत्तुर्नोपदेशकत्वमवतिष्ठते । योगिनस्तु समारोपासंभवात् क्षणक्षयादा- वपि दर्शनं तदुपदेशकमेवेति समाधानमपि न धीमतिकरं नीलादावप्ययोगिनस्तद्विपरीतसमारोपप्रसक्तः । कथमन्यथा विरुद्वधर्माध्यासात्तदर्शनभेदो न भवेत् ? न हि-अभिन्नमेकदर्शनं कचित्समारोपाक्रांतं क्वचिन्नेति. वक्तुं युक्तं । तता यद्यत्र विपरीतसमारोपविरुद्धं तत्तत्र निश्वायात्मकं यथानुमेयेऽर्थेऽनुमानज्ञानं । विपरीतसमारो- पविरुद्धं च नीलादौ दर्शनमिति व्यवसायात्मकमेव बुद्ध्यामहे । निश्चयहेतुत्वाद्दर्शनं नीलादी विपरीतसमा- रोपविरुद्धं न पुनर्निश्चयात्मकत्वात् ततोऽन्यथानुपपत्तिः साधनस्यानिश्चितेति मामस्थाः योगिप्रत्यक्षेऽस्य विपरीतसमारोपस्य प्रसंगात् तेन तस्याविरोधात् । परेषां तु तस्यापि निश्चयात्मकत्वात्तेन विरोधः सिद्ध एव ।। तथा निश्चयहेतुना दर्शनेन विरुद्ध प्रतिपादयतः स्वमतविरोधः स्यात् । निश्चयारोपमनसोध्यिवाधकभाव इति. धर्मकीर्तेरभिमतत्त्रात् दर्शनारोपयोविरोधाभावासिद्धः । ननु चार्थदर्शनस्य निश्चयात्मकत्वे साध्ये प्रत्यक्षवि- रोधः संहतसकलविकल्पदशायां रूपादिदर्शनस्यानिश्चयात्मकस्यानुभवात् । तदुक्तं- संहत्य सर्वतश्चितां स्तिमितेनांतरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ १॥ इति । तथानुमानविरोधोऽपि न्युच्छित्तचिंतावस्थायां-इंद्रियादर्थगतौ कल्पनानुपलब्धः । तत्र कल्पनास- द्राये पुनस्तस्मृतिप्रसंगः तदा विकल्पितकल्पनावत्-तदप्युक्तं- पुनर्विकल्पयन् किंचिदासीन्मे कल्पनेशी । इति वेत्ति न पूर्वोक्तावस्थायामिद्रियाद्गतौ ॥ १ ॥-इति तदेतदपि धर्मकीर्तेरपरीक्षिताभिधानं प्रत्यक्षतो निर्विकल्पदर्शनाप्रसिद्धत्वात् । संहतसकलविकल्पा- यस्या धन्वं विकल्पयतो गोदर्शनावस्था । न च तदा गोदर्शनमव्यवसायात्मकं पुनः स्मरणाभावप्रसंगात् । तस्य संस्कारकारणत्वविरोधात् क्षणिकत्वादिवत् । व्यवसायात्मन एव दर्शनात् । संस्कारस्य स्मरणस्य च संभयात् अन्यतस्तदनुपपत्तेः । ददुक्तं--- व्यवसायाननो दृष्टेः संस्कारः स्मृतिरेव वा। दृष्टे दृष्टसजातीय नान्यथा क्षणिकादिवत् ॥ १॥ अथ मतं-अभ्यासप्रकरणबुद्धिपाटवार्धित्वभ्यो निर्विकल्पकादपि दर्शनान्नीलादौ संस्कारः स्मरण चौपचते न पुनः क्षणिकादो तदभावात् । व्यवसायात्मनोऽपि प्रत्यक्षात्तत एव संस्कारस्मरणोपपत्तेः । सेगमभार निधितेऽपि यस्तुनि नियमेन संस्कारादेरभावात् तपां व्यवसायात्मकसमक्षवादिनोऽपि नियमतो- - प्रमाणपरीक्षा। ५५ ऽभ्युपगमनीयत्वात् इति ! तदपि फल्गुप्रायं भूयोदर्शनलक्षणस्याभ्यांसस्यै क्षणक्षयादौ सुतरां सद्भावात् । पुनपुनर्विकल्पोत्पादरूपस्य चाभ्यासस्य परं प्रत्यसिद्धत्वात् तत्रैव विवदात् । क्षणिकाक्षणिकविचारणायां क्षणि- कप्रकरणस्यापि भावात् । बुद्धिपाटवं तु नीलादी क्षणक्षयादौ च समानं तद्दर्शनस्यानंशत्वात् । तत्र पाटवा- पाटवयोर्भदे तद्बुद्धेरपि भेदापत्तेः, विरुद्धधर्माध्यासात् । तथाविधतद्वासनाख्यकर्मवशाद्वंद्वेः पटवापाटवे स्यातां, इत्यप्यनेनापास्तं तत्कर्मसद्भावयोरपि विरुद्धधर्मयोरनंशबुद्धावेकस्यामसंभवात् । यत्पुनरर्थित्वं जिंज्ञासितत्वं तत्क्षणिकवादिनः क्षणिकत्वेऽस्त्येव नीलादिवत् । यत्पुनरभिलपितृत्वमर्थित्वं तन्न व्यवसायजनननिबंधनं कचिदनभिलपितेऽपि वस्तुनि कस्य चिदुदासीनस्य स्मरणप्रतीतेः-इति नाभ्यासादिभ्यः कचिदेव संस्कार- जननं-अनंशज्ञानज्ञेयवादिनो घटते । परस्य तु बहिरंतरनेकात्मकतत्त्ववादिनो न किंचिदनुपपन्नं सर्वथै- कत्र व्यवसायाव्यवसाययोः, अवायानवायाख्ययोः, संस्कारासंस्कारयोः, धारणेतराभिधानयोः, स्मरणास्मरण- योश्चानभ्युपगमात् । तद्भेदात्कथंचिद्बोधबोध्ययोर्भेदप्रसिद्धः । सौगतस्यापि व्यावृत्तिभेदाढ़ेदोपगमाददोषोयं तथाहि-नीलत्वमनीलत्वव्यावृत्तिः,क्षाणिकत्वमक्षणिकत्वव्या- वृत्तिरुच्यते तत्रानीलव्यावृत्ती नीलव्यवसायस्तद्वासनाप्रबोधादुत्पन्नो न. पुनरक्षणिकव्यावृत्तौ क्षणिकव्यवसाय- स्तत्र तद्वासनाप्रबोधाभावात् । न चानयोावृत्त्योरभेदः संभवति व्यावर्त्तमानयोरभेदप्रसंगात् । न च तद्भेदाव- स्तुनो भेदः तस्य निरंशत्वात् अन्यथा अनवस्थाप्रसंगात् इति परे मन्यते तेपि न सत्यवादिनः स्वभावभेदाभावे वस्तुनो व्यावृत्तिभदासंभवात् । नीलस्वलक्षणं हि येन स्वभावनानीलाव्यावृत्तं तेनैव यद्यक्षणिकाद्व्यावर्तेत तदा नीलाक्षणिकयोरेकत्वापत्तेस्तव्यावृत्योरेकत्वप्रसंगः । स्वभावांतरेण तत्ततो व्यावृत्तमिति वचने तु सिद्धः स्वलक्षस्य स्वभावभेदः कथं निराक्रियते ? । यदि पुनः स्वभावभेदोऽपि वस्तुनो तत्स्वभावव्यावृत्त्या कल्पित एवेति मतं ? तदा परिकल्पितस्वभावांतरकल्पनायामनवस्थानुषज्येत । तथाहि-अनीलस्वभावा- न्यव्यावृत्तिरपि स्वभावांतरेण अन्यव्यावृत्तिकपेण वक्तव्या। सापि तदन्यव्यावृत्तिस्वभावांतरेण तथाविधे- नेति न कचिद् व्यवतिष्ठते । कश्चिदाह-तत एव सकलविकल्पवागगोचरातीतं. वस्तु विकल्पशब्दानां विषयस्यान्यव्यावृत्ति-. रूपस्य अनाद्यविद्योपकल्पितस्य सर्वथा विचाराऽमहत्वात् । विचारसहत्वे वा तदवस्तुत्वविरोधात् इति सोपि न सम्यग्वादी दर्शनविषयस्याप्यवस्तुत्वप्रसंगात् तस्यापि शब्दविकल्पविषयवत् विचारासहत्वाविरो-. धात् । तथाहि-नीलस्वलक्षणं सुगततरजनदर्शनविषयतामुपगच्छत् किमेकेन स्वभावेन नानास्वभावेन. या दृश्यं स्यात् । तद्ययेकेन स्वभावेन तदा यदेव सुगतदृश्यत्वं । तदेवेतरजनदृस्यत्वमित्यायातं अशेषस्य जगतः सुगतत्वं । यच्चेतरजनदृश्यत्वं तदेव सुगतदृश्यत्वमिति सकलस्य सुगतस्येतरजनत्वापत्तेः सुगत-. रहितमखिलं स्यात् । अथैतस्मादोषाद्विभ्यता नानास्वभावेन सुंगतेतरजनदृश्यत्वं प्रतिपाद्यते तदा नील- स्वलक्षणस्य दृश्यस्वभावभेदः कथमपह्रयेत ? न च दृश्यं रूपमनेकं कल्पितमिति शक्यं वक्तं दृश्यस्य . कल्पितत्वविरोधात् । अथ मन्येथाः स्वलक्षणस्य दृश्यत्वं स्वाकारार्पकत्वव्यावृत्तिरूपं नानादृष्ट्व्यपेक्षयाऽनेक घटामटत्येव तदभाव नानादृष्टदर्शनविषयतां स्वलक्षणं नास्कंदेत् । न च परमार्थतो दर्शन दृश्यविषयं- सर्वज्ञानां स्वरूपमात्रपर्यवसितत्वात् । उपचारादेव बहिर्विषयताव्यवहारात् इति तदप्यसत् वस्तुनः स्वा- कारार्पकत्वस्यापि पूर्वपर्यनुयोगानतिक्रमात् । तद्धि स्वलक्षणं येन स्वभावेन सुगतदर्शनाय स्वाकारम- यति तेनैवतरजनदर्शनाय स्वभावांतरेण वा ? ' यदि तेनैव तदा तदेव सुगतेतरजनदर्शनैकत्वमापनीप- यते तथा च सर्वस्य सुगतत्वं इतरजनत्वं' वा 'दुर्निवारतामांचनीस्कंद्यते।' स्वभावांतरेण स्वाकारार्पकत्वे स एव वास्तवः स्वभावभेदः स्वलक्षणस्याक्षुण्ण्तया कथं ' प्रतिक्षिप्यते । यत्पुनः स्वाकारार्पकत्वमपिन वस्तुनः परमार्थपथप्रस्थायिः समवस्थाप्यते स्वरूपमैत्रिविषयत्वात् सकलसंवेदनानामिति मतं तदर्षि :

? सनातनधनालायां- दुन्यपादत्र यं वैयध्यप्रगान । झन हियनियर्थ प्रेक्षावतानविध्यंत प्रवाश्यनिय प्रदाया- विकत । न पुनः स्वल्पसियर्थ प्रदीपवति । बहिग्यात्रियत्रं नकलवनानां कर्यानत्र यय न जानु ? निर्षिययन्त्रतादिनदनानामपि सार्थकवानंगान स्वरुप प्रशासनस्य प्रयोजनन्य सर्वत्र भावान् । वित्र गतवेदनस्यापि स्वरमात्रपत्रसिताया कीपत्र भुगतः नीयंत पृथजनन ! पृथग्जनाका कथं न दी मुगनुवदनुमन्यत ? स्वयमावलितायाः तावदनवि नमावान् । यदि युनीस्तवत्रं दिलं नायागतम्लोनक्रिया संकृत्या वन्य व्यवहानिमः मंत्र्यवहाणात नुदश्यहन्ग नवनय अवताव्यवहामनुपातः सन्यज्ञानाहिन्धुपादादिग्रटननांकनलंगात । जानवान् ऋपने ऋश्चित प्रतिवनय । अंबादशनाणे विपनमनशक्निभिः॥21॥ इति प्रतियत तयापि भुगतनख्यवहारनिद्रिः सुगादिना जनत्यानि संवत्या समवत्रिय- नानुगान् । सलमहान्यः सुगतस्य वदनादयान कार्यहना युन्न कल्पयितुं न पुनरितर- जनस्य प्रतिनियतरदायादव तंदनानुरिति उन ? न मुगतानस्यादि मन्तवार्यजन्यावान्छिः । सनसनकार्तिघायजन्यवानमत्रान् । यदि पुनन्नाअतीतरवान्या भविश्य वार्यन्यः प्रतिनाथ- न्यश्च अदम्यः नुगतवदनम्यादतिः अखिन्त्राविधातृश्शाविनामारुमत ४ अनादिनवेद- नाद्विशिष्टवादन्टोनि म ? दवा निकन बनावन कायमचर्तिकदार्थः सुगतिविधानमन मानाबमात्र ? अन स्त्रयावन, एकनाथन भुगतान जयंत नेत्र अन्तरवार्यः तदा मलद्रायानानेऋवानापत्तिः । भुगतविधानन्य वा ददकरतानन्य त्रलिपिति नंतरजन- संवदनातन्य विशेषः निन् । अथान्यन स्वभाबनायः मुगताननुजननि पदार्थातथि बमक- बजयजनयंति इति ननिमरतां नई सुगतान विकलायातं । तलम वस्तु कयमनताल मतां न स्वीकृयादिति चिंतनीय । प्रस्यानिकलमात्री नकलीनीत त् ? ऋर्यान्दानी भुगतविज्ञान महायजन्यं नानालयतां विना ? | यदि पुनरतनन्यन्मयान्या न्यनपरिकल्पनान्न द्वन्वतः गतवदन नकदमतातानियाकृत ? तदान परमार्थतः मुदानितन्यविमानर्मालदार्थ- दन्यं, इति अनः याचनबदनादस्य त्रिशासनिष्टत मुगविहानश्यतानितरजनविज्ञानविष- अनां च पास्य नालाविश्वमगत्यानभागमरियमुनर्गनुर्वता नीलकगनादिलातानि ध्याछा- बलशालीनतव्या, तथा अनानादी कानमन्यवसायाला कालाणकारणं तद्विरदर्शनादक- बौद्धन्य, इति न प्रत्यालिद्रं नियंत्रनायालयायमानस्य । नायनुमानप्रनिद गोदर्शनमा अनावत् गोदानन्याधि व्यवसायाललोपनः । पुनर्विकलयतः तदनुस्मरणस्यान्ययातः ! नया हि यनियंत्रनायन शान तनोत्तरकालानुलग्यदननतमय यया पामिमताप्राशययादि. दर्शन तथा चाईविकल्पका गोदर्शनामति तनुम्लगमननसर्थ न स्यात् भवति च पुनर्विकलयत- वदनुम्मा दलाच्यत्रकायालनिति निश्चयः । तंत्र व्यायामले साथै अन्यावानं सारनं न मितानिन्ट चिनिन्यायानस्वायनान्मन्तवनागनावितवादिति न्यिद । वाई-वायव्यवसायानसाचं सत्याचानस्य द्वैतान प्रोनरलं नन्द सत्यानानस्या- थव्यवसायमंतरणेव जयाडानन्त्रहिंद्रः। तया हि-विवादाभ्यासित सन्याशानं नार्यव्यवसायान झानवात, वन्यसायालयात । यहानत्रयमाणानकंवा दन्नार्यन्यायालयानदिधान तथा व विदावन धानं जिननिस्तानुगरिमा, अन्यनुहानं लानार्थव्यवसायानमिति तदिन प्राताति- .. . प्रमाणपरीक्षा। ५७ कवादिनः जागृदशाभाविनः समीचीनविज्ञानस्यार्थव्यवसांयात्मकत्वप्रतीतेः । तस्यार्थाव्यवसायात्मकत्वे- ततोऽर्थे प्रवृत्त्यभावप्रसंगात् । प्रतीयते च सम्यग्ज्ञानादर्थे प्रवृत्तिरविसंवादिनी तस्मादर्थव्यवसायात्मकं तदर्थे प्रवृत्त्यन्यथानुपपत्तेः । मिध्याज्ञानादप्यर्थे. प्रवृत्तिदर्शनादनेकांतः ? इति चेन तस्याः प्रवृत्याभास- त्वात्, व्यवसितार्थप्राप्तिनिमित्तत्वाभावात् । व्यवसितमर्थ प्रापयितुं समर्था हि सम्यक् प्रवृत्तिः सा च मिथ्या- ज्ञानानोपपद्यत इति न व्यभिचारः । यच्चार्थव्यवसायात्मकत्वनिराकरणप्रवणमनुमान तत्स्वार्थ व्यवस्यति वा न वा ? प्रथमविकल्पे तेनैवानकातिक साधनमापद्येत तस्य ज्ञानत्वे स्वव्यवसायात्मकत्वेऽपि स्वसाध्यार्थ- न्यवसायात्मकत्वसिद्धेः। द्वितीयविकल्पेऽपि नातोऽनुमानादिष्टसिद्धिः स्वसाध्यार्थव्यवसायात्मकत्वात् अनु- मानाभासवत् । ततः किं बहुना सर्वस्य किंचिदिष्टं साधयतः स्वयमानष्ट वा दूषयतः कुतश्चित्प्रमाणात् तस्यार्थव्यवसायात्मकत्वाभ्यनुज्ञानमवश्यंभावि तस्यार्थान्यवसायात्मकत्वे स्वेष्टानिष्टसाधनदूषणानुपपत्तेः । पर- प्रसिद्धयार्थव्यवसायिनः प्रमाणस्याभ्यनुज्ञानाददोष इति चेत् १ तर्हि परं प्रतिपाद्यसे वा न वा १ यदि न प्रतिपाद्यसे कथं परप्रसिद्ध्या काचिदभ्युनुज्ञानं ? तं न प्रतिपाद्यसे तत्प्रसिद्ध्या च किंचिदभ्यनुजानासीति कथमनुन्मत्तः । अथ परं प्रतिपाद्यसे तर्हि यतः प्रमाणात्तत्प्रतिपत्तिः तत्स्वकीयार्थव्यवसायात्मकं सिद्धं तस्याव्यसायात्मकत्वे तेन परप्रतिपत्तेरयोगात् । यदि पुनः पराभ्युपगमांतरात्परप्रतिपत्तिरिति मतं तदाप्य- निवृत्तः पर्यनुयोगः तस्यापि पराभ्युपगमांतरस्य प्रतिपत्त्यप्रतिपत्तिपूर्वकत्वे पूर्वोक्तदूषणानतिक्रमात् । स्यान्मतं न बहिरर्थाः परमार्थतः संति तत्प्रत्ययानां निरालंबनत्वात स्वमप्रत्ययवत् सतानांतरवि- ज्ञानानामपि असत्त्वात् । तत्र स्वरूपमात्रव्यवसायात्मकमेव विज्ञानमिति तदप्यसारं तथाहि-सर्वप्रत्य- यानां निरालंबनत्वं न तावत्प्रत्यक्षतः सिद्ध्यति तस्य ताद्वषयत्वात् । विवादापनाः प्रत्यया निरालंबना एव प्रत्ययत्वात् स्वप्नेंद्रजालादिवदिति अनुमानान्निरालंवनत्वसिद्धिरित्यपि मिथ्या स्वसंतानप्रत्ययेन व्यभिचारात् । तस्यापि संतानांतरप्रत्ययवत्पक्षीकरणे किमिदमनुमानज्ञानं स्वसाध्यार्थालंबनं निरालंबनं वा ? प्रथमपक्षे तेनैवा- नैकांतिकत्वं प्रत्ययत्वं । द्वितीयकल्पनायो नातो निरालंबनत्वसिद्धिः । परब्रह्मस्वरूपसिद्धिरेव सकलभेदप्रत्ययानां निरालंबनत्वसिद्धिः ! इत्यपि न न्यवतिष्ठते परब्रह्मण एवाप्रसिद्धः । तद्धि स्वतो वा सिद्ध्येत् परतो वा ? न तावत्स्वत एव विप्रतिपत्त्यभावप्रसंगात् । परतश्चेदनुमानादागमादा ? यद्यनुमानात् किमत्रानुमानमित्यभि- धीयता । विवादापन्नोऽर्थः प्रतिभासांतः प्रविष्ट एव प्रतिभासमानत्वात् । यो यः प्रतिभासमानः स स प्रति- भासांतःप्रविष्ट एव दृष्टः यथा प्रतिभासस्यात्मा प्रतिभासमानश्च सकलोऽर्थश्चतनाचेतनात्मको विवादापन्नः तस्मात्प्रतिभासांतःप्रविष एवेत्यनुमान न सम्यक् धर्मि-हेतु-दृष्टांतानां प्रतिभासांतःप्रविष्टत्वे साध्यांतःपाति- त्वेन अनुमानोत्थानायोगात् । प्रतिभासांतः प्रविष्टत्वाभावे तैरेवेति हेतोर्व्यभिचारात् । यदि पुनरनाद्यवि. घावासनावलाद्धर्मि-हेतु-दृष्टांताः प्रतिभासबहिर्भूता इव निश्चीयंते प्रतिपाद्यप्रातिपादकसभ्यसभापतिजनवत्। सतोऽनुमानमपि संभवत्येव सकलानाद्यविद्याविलासविलये तु प्रतिभासांतःप्रविष्टमाखलं प्रतिभासमेवेति विप्र- तिपस्यसंभवात् । प्रतिपाद्यप्रतिपादकभावाभावात् साध्यसाधनभावानुपपत्तेने किंचिदनुमानोपन्यासफलं ख- यमनुभूयमाने परब्रह्मणि प्रतिभासात्मनि देशकालाकारावीच्छन्नस्वरूपे निर्व्यभिचारे सकलकालावस्थाव्यापि- नि-अनुमानाप्रयोगात् इति समभिधीयते तदा साप्यनाविद्या यदि प्रतिभासांतःप्रविष्टा तदाविद्यैव कथमसंत धर्मिदृष्टांतादिभेदमुपदर्शयेत् । अथ प्रतिभासबाहिर्भूतास्तदा साऽप्रतिभासमाना प्रतिभासमानावा ? न ताव- दप्रतिभासमाना भेदे प्रतिभासरूपत्वात् तस्याः । प्रतिभासमाना चेत् तयैव हेतोय॑भिचारः प्रतिभास- बहिर्भूतत्वेऽपि तस्याः प्रतिभासमानत्वात् । स्यादाकूतं -न प्रतिभासमाना नाप्रतिभासमाना न प्रतिभासंबहिर्भूता नापि प्रतिभासांतःप्रविष्टा नैका नचानेका न नित्या नाप्यनित्या न व्यभिचारिणी नाप्यव्यभिचारिणी सर्वथा विचार्यमाणायोगात् । सफलविचारातिक्रांतस्वरूपैव रूपांतराभावात् अविद्याया नीरूपतालक्षणत्वात् इति । तदेतदप्यविद्यावि- भितमेव तथाविधनीरूपतास्त्रभावायाः केन चिदविद्यायाः कथंचिदप्रतिभासमानायाः वक्तुमशक्तेः । प्रतिगासमानायास्तु तथावचने कथमसौ सर्वथा नीरूपा स्यात् ! येन स्वरूपेण यः प्रतिभासते तस्यैव ८ - . ५८ सनातनजनग्रंथमालायां- तद्रूपत्वात् । तथा सकलविचारातिक्रांततया किमसी विचारगोचरा अविचारगोचरा वा स्यात् ? प्रथमकल्प- नायां सकलविचारातिक्रांततया विचारानतिक्रांतत्वाभ्युपगमव्याघातः । द्वितीयकल्पनायां न सकलविचारा- तिक्रांतता व्यवतिष्ठते सकलविचारातिक्रांततायामपि तस्यास्तया व्यवस्थाने सर्वथैकानेकरूपताया अपि व्यवस्थानप्रसंगान् । तस्मात्सत्स्वभावैवाविद्याभ्युपगंतव्या विद्यावत् । तथा च विद्याऽविद्याद्वैतप्रसिद्धेः कुतः परमब्रह्मणोऽनुमानासिद्धिः ।। एतेनोपनिषद्वाक्यात्परमपुरुपसिद्धिः प्रत्याख्याता । सर्व वै खल्विदं ब्रह्मेत्यादिवाक्यस्य परमात्मनोंऽांतरभावे द्वैतप्रसक्तरविशेषात् । तस्यानाद्यविद्यात्मकत्वेऽपि पूर्वोदितदूपण- प्रसंगात् ततो न परमपुरुषाद्वैतसिद्धिः स्वतः परतो वा येन सम्यग्ज्ञानं स्वव्यवसायात्मकमेव न पुनरर्थव्य- वसायात्मक-अर्थाभावादिति वदन् अवधेयवचनः स्यात् । यत्तु स्वप्नज्ञानं स्वव्यवसायात्मकमेवेत्युक्तं तदपि न संगतं तस्य साक्षात्परंपरया वार्थव्यवसायात्म- कवाघटनात् । द्विविधो हि स्वप्नः सत्योऽसत्यश्च तत्र सत्यो देवताकृतः स्यात् धर्माधर्मकृतो वा कस्यचित्सा- क्षाव्यवसायात्मकः प्रसिद्धः स्वप्नदशांयां यद्देशकालाकारतयार्थः प्रतिपन्नः पुनर्जागृद्दशायामपि तद्देश- कालाकारतयैव तस्य व्यवसीयमानत्वात् । कश्चित्सत्यः स्वप्नः परंपरयार्थ-व्यवसायी स्वप्नाध्यायनिगदि- तार्थप्रापकत्वात् । तदुक्तं- यस्तु पश्यति राज्यंते राजानं कुजरं हयं । सुवर्ण वृषभं गां च कुटंबं तस्य वर्धते ॥ १ ॥ इति कुटुंबवर्धनाविनाभाविनः स्वप्ने राजादिदर्शनस्य कथमर्थनिश्चायकता न स्यात् १ पावकाविना- भाविधूमदर्शनवत् । दृष्टार्थीव्यवसायात्मकत्वान्न स्वप्नवोधोऽर्थव्यवसायी इति वचने लैंगिकोऽपि वोघोऽर्थ- व्यवसायी माभूत । तत एव तद्वत् । अनुमानवाधोऽनुमितार्थव्यवसायी संभवतीति वचने स्वप्नागमगम्या- र्थव्यवसायी स्वप्नबोधोऽपि कथं नाभ्यनुज्ञायते ? | कदाचिद्व्यभिचारदर्शनानैवमभ्युपगमः कर्तुं सुशक्य इति चेन्न देशकालाकारविशेष यथार्थागमोदितमपेक्ष्यमाणस्य कचित्कदाचित्कथंचिद्व्यभिचाराभावात् । तदपेक्षाविकलस्तु न समीचीनः स्वमः तस्य स्वप्नाभासत्वात् । प्रतिपत्तुरपराधाच व्यभिचारः संभाव्यते न पुनरनपराधात् यथा चाधूमः धूमबुद्ध्या प्रतिपद्यमानस्य ततः पावकानुमानं न्यभिचारीति प्रतिपत्तुरेवापराधो म धूमस्य धीमद्भिरभिधीयते । तथैवास्वप्नं स्वमवुख्याध्यवस्य ततस्तद्विययाध्यवसायो न व्यभिचरतीति न स्वप्नागमस्यापराधः प्रतिपत्तेरेवापराधात् । यः पुनरसत्यः स्वप्नः पित्ताशुद्रेकजनितः स किमर्थसामान्य व्यभिचरति अर्थविशयं वा ? न तावदर्थसामान्य देशकालाकारविशेषाणामेव व्यभिचारान् सर्वत्र सर्वदा सर्वथार्थसामान्यस्य सद्भावात् । तदभावेऽर्थविशेपेषु संशयविपर्यासस्वप्नायथार्थज्ञानानामनुत्पत्तेः न हि किंचिद् ज्ञानं सत्तामात्रं व्यभिचरति तस्यानुत्पत्तिप्रसक्तेः ततोऽसत्यस्वप्नस्याप्यर्थसामान्यव्यवसायात्मकत्वसिद्धेः न किंचिद् ज्ञानमर्थाव्यवसायात्मकं । विशेषं तु यत एव व्यभिचरति तत एव असत्यः कथमन्यथा सत्येतरव्य. वस्थितिः स्यात् तस्याः स्वार्थविशेषप्राप्यप्रातिनिमित्तत्वादित्यलं प्रसंगेन स्वव्यवसायात्मकत्ववत् सम्यग्ज्ञान- स्यार्थव्यवसायात्मकत्वप्रसिद्धेः । अत्रापरः प्राह-सम्यग्ज्ञानमर्थव्यवसायात्मकमेव न स्त्रव्यवसायात्मकं स्वात्मनि क्रियाविरोधात् एकस्य ज्ञानस्यानकाकारानुपपत्तेः । न हि ज्ञानमेकमाकारं कर्मतामापन्नं व्यवस्यति कर्मात्मनाकारणेति वक्तुं यक्तुं ताभ्यां कर्मकरणाकाराभ्यां ज्ञानस्याभेदे भेदप्रसंगात् । न हि भिन्नाभ्यां ताभ्यामभिन्नमकं नाम अतिप्रसंगात् । तयोर्वाकारया नादभेदें भेदप्रसंगात् नयभिन्नादमिन्नयोर्मेंदःसंभाव्यते अतिप्रसंगात् । एवं ताभ्यां विज्ञानस्य भेदोपगमे न विज्ञानमात्मनात्मानं व्यवस्यति परात्मना परात्मन एव व्यवसायात् तो चाकारी यदि ज्ञानस्या- त्मानौ तदा ज्ञानं व्यवस्यति वा नवा ? प्रथमपक्षे किमेकेनाकारांतरेण द्वाभ्यां वाऽकारांतराभ्यां तत्तौ व्यवस्येत। न तावदेकनाकारांतरेण विरोधात्। द्वाम्यां व्यवस्यति इति चेत् तयोरप्याकारांतरयो नादभेदो भेदो वा स्यात् १ स्वप्नांते इति पाठांतरं । २ अर्थव्यवसायः पाठांतरं । .

. प्रमाणपरीक्षा। १९ इत्यनिवृत्तः पर्यनुयोगः-अनवस्था च महीयसी । कथंचिद्भेदः कथंचिदभेदः इत्युभयपक्षालंबनमपि अने- नैवापास्तं पक्षद्वयनिक्षिप्तदोषानुपंगात् पक्षांतराऽसंभवाचेति सोऽपि न न्यायकुशल: प्रतीत्यतिलंघनात् । लोके हि ज्ञानस्य स्वव्यवसायिन एवार्थव्यवसायित्वेन प्रतीतिः सिद्धा। नचेयं मिथ्या बाधकाभावात् । स्वात्मनि क्रियाविरोधो बाधक इति चेत् का पुनःक्रिया ? किमुत्पत्तितिर्वा ? यद्युत्पत्तिः सा स्वात्मनि विरु- ध्यतां । न हि वयमभ्यनुजानीमहे ज्ञानमात्मानमुत्पादयति इति। नेकं खस्मात्मजायते इति समंतभद्रस्वामिभिरभिधानात् । अथ ज्ञाप्तिः क्रिया सा स्वात्मनि विरुद्धा तदात्मनैव ज्ञानस्य स्वका- रणकलापादुत्पादात् । प्रकाशात्मनैव प्रकाशस्य प्रदीपादेः। न हि स्वकारणसामिग्रीतः प्रदीपादिप्रकाशः समुप- जायमानः स्वप्रकाशात्मना नोत्पद्यत इति प्रातीतिकं तत्स्वरूपप्रकाशेन प्रकाशांतरापेक्षाप्रसंगात् । नचायं प्रदीपाद्यालोकः कलशादिज्ञानं स्वरूपज्ञानं च चक्षुषोजनयतः सहकारित्वं नात्मसात्कुरुते येन स्वप्रकाशको न स्यात् । चक्षुषः सहकारित्वं हि प्रदीपादेः प्रकाशत्वं तच्च कलशादाविव स्वात्मन्यपि दीपादेविद्यत एवेति सिद्धा स्वात्मनि प्रकाशनक्रिया । तद्वद्विज्ञानस्यार्थप्रकाशनमिव स्वप्रकाशनमप्यविरुद्धमवबुध्यतां । एतेन 'ज्ञानं न स्वप्रकाशकं, अर्थप्रकाशकत्वादित्यनुमानमपास्तं प्रदीपादिना हेतोरनेकांतात् । प्रदीपादिः-उपचारात प्रकाशको न परमार्थत इति तेनाव्यभिचारे चक्षुरादेरपि परमार्थतोऽर्थाऽप्रकाशकत्वात् साधनशून्यो दृष्टांतः ज्ञानस्यैव परमार्थतोऽर्थप्रकाशत्वोपपत्तेः । ततो 'ज्ञानं स्वप्रकाशकं, अर्थप्रकाशकत्यात् यत्तु न स्वप्रकाशकं तन्नार्थप्रकाशकं दृष्टं यथा कुड्यादिकं । अर्थप्रकाशकं च ज्ञानं तस्मात्स्वप्रकाशकमिति केवलव्यतिरेक्यनुमान मविनाभावनियमनिश्चयलक्षणाद्वेतोरुत्पद्यमानं निरवद्यमेवेति बुध्यामहे । चक्षुरादिभिः परमार्थतोऽर्थप्रकाश- कल्वासिद्धेस्तेन साधनस्यानेकांतिकतानुपपत्तेः । कुड्यादेरपि स्वाविनाभाविपदार्थांतरप्रकाशकत्वाद्भूमादिवत् साधनाव्यतिरेको दृष्टांत इत्यपि समुत्सारितमनेन तस्याप्युपचारादर्थप्रकाशकत्वसिद्धेः अन्यथा तज्जनितवि. ज्ञानवैयापत्तेः । यत्पुर्ज्ञानमात्मानमात्मना जानातीति कर्मकरणाकारद्वयपरिकल्पनायामनवस्थादिदोषा नुपंगो बाधक इति मतं तदपि न सुंदरतरं तथाप्रतीतिसिद्धत्वात् । जात्यंतरत्वादाकारवतोमैदाभेदं प्रत्यने- कांतात् । कर्मकरणाकारयोर्ज्ञानांत् कथंचिदभेदः कथंचिद्भेदः इति नैकांतेन भेदाभेदपक्षोपक्षिप्तदो- पोपनिपातः स्याहादिनां सलक्ष्यते । नच कथंचिदित्यंधपदमात्रं ज्ञानात्मना तदभेदस्य कथंचिंदभेदशब्दे- नाभिधानात् । कर्मकरणात्मना च भेद इति कथंचिद्भदध्वनिना दर्शितत्वात् । तथा च ज्ञानात्मना तद. भेद इति ज्ञानभेदाभेदस्ततो भिन्नस्य ज्ञानात्मनोऽप्रतीतेः । कर्मकरणाकारतया च भेद इति कर्मकरणा- कारावेव भेदस्य द्रव्यव्यतिरिक्तस्याकारस्याप्रतीयमानत्वात् इति । येनात्मना ज्ञानात् कर्मकरणाकारयोरभेदो येन च भेदस्ती ज्ञानात्किमभिन्नौ भिन्नौ वा इति म पर्यनुयोगस्यावकाशोऽस्ति ययाऽनवस्था महीयसी सप्र- सज्यत । नच भिन्नाभ्यामेव कर्मकरणाभ्यां भवितव्यमिति नियमोऽस्ति करणस्य भिन्नकर्तृकस्यापि दर्शनात् भिन्नकर्तृकरणवत् । यथैव हि देवदत्तः परशुना छिनत्ति काष्टमित्यत्र देवदत्तात्कर्तुभिन्नं परशुलक्षणं करण- मुपलभ्यते । तथाग्निर्दहति दहनात्मनेत्यत्राग्नेः कर्तुर्दहनात्मलक्षणं करणमभिन्नमुपलभ्यत एवं दहनात्मा- प्युष्णलक्षणः स चाग्नेर्गुणिनो भिन्न एवेति न मंतव्यं सर्वथा तयोर्विरोधे गुणगुणीभावविरोधात् सह्यवि- ध्यवत् । गुणिनि गुणस्य समवायात् तयोस्तद्भाव इत्यपि न .सत्यं समवायस्य कथंचिदविश्वग्भावात् अन्यस्य विचारासहत्वात् । समित्येकीभावेनावायनमवगमनं हि संमवायः तच्च समवायनं कर्मस्थं समवेयमानत्वं समवायितादात्म्यं प्रतीयते, कर्तृस्थं पुनः समवायनं समवायकत्वं प्रमातुस्तादात्म्येन समवायिनोहिकत्वं न चान्या गतिरस्ति क्रियायाः कर्तृकर्मस्थतयैवं प्रतिपादनात् तत्र- कर्मस्था क्रिया कर्मणोऽनन्या कर्तृस्था कर्तुग्नन्या इति वचनात् । ततो नाभिन्नकर्तृकं करणमप्रसिद्धं । नापि कर्म तस्यापि भिन्नकर्तृकस्येवाभिन्नकर्तृ. कस्यापि प्रतीतेः । यथैव हि कदं करोतीत्यत्र कर्तुर्भिन्न कर्मानुमन्यते । तथा प्रदीपः प्रकाशयत्यात्मानमि- .

६० . सनातननग्रंथमालायां- त्यत्र कर्तुमिन्नं कर्म संप्रतीयत एव । न हि प्रदीपात्मा प्रदीपाद्भिन्न एव प्रदीपस्याप्रदीपत्यप्रसंगात् घटवत् । प्रदीपे प्रदीपात्मनाभिन्नस्यापि समत्रायात् प्रदीपत्वसिद्धिरितिचत् न अप्रदीपऽपि घटादी तत्समवायप्रसं- गात् । प्रत्यासत्तिविशेषात्नदीपात्मनः प्रदीप एवं समवायो नान्यत्रेति चत् ? स प्रत्यासत्तिविंशपोऽत्र कोड- न्यत्र कथंचित्तादात्म्यात् । ततः प्रदीपादभिन्न एव प्रदीपामा कर्मेति सिंद्धममिन्नकर्तृकं कर्म । तथा च ज्ञानात्मात्मानमात्मना जानातीति न स्वात्मनि ज्ञप्तिलक्षणायाः क्रियाया विरोधः सिद्धः, यतः स्वव्यवसाया- स्मकं ज्ञानं न स्यात् । स्यान्मतं-अर्थज्ञानं ज्ञानांतरखेचं प्रमेयत्वात् घटादिवदित्यनुमान स्वार्थव्यवसायात्मकत्यप्रतीतर्वा- धकमिति तदपि फल्गुप्रायं महेश्वरार्थज्ञानेन हेतोर्व्यभिचारान् । तस्य ज्ञानांतरावेद्यत्वेऽपि प्रमेयत्वात् । यदि पुनरीश्वरार्थज्ञानमपि ज्ञानांतरप्रत्यक्षं-असंवद्यत्वात् इति मितिस्तदा तदप्यर्थज्ञानज्ञानमीश्वरस्य प्रत्य- क्षमप्रत्यक्ष वा ? यदि प्रत्यक्षं तदा स्वतो ज्ञानांतरादा १ । स्वतश्रेत् प्रथममप्यर्थज्ञानं स्वतः प्रत्यक्षमस्तु किं विज्ञानांतरेण ? । यदि तु ज्ञानांतरात्प्रत्यक्षं तदपीष्यते तदा तदपि ज्ञानांतरं किमीश्वरस्य प्रत्यक्षमप्रत्यक्ष वेति स एव पर्यनुयोगो ऽनवस्थानं च दुःशाक्यं परिहतुं । यदि पुनरप्रत्यक्षमेवेश्वरार्थज्ञानज्ञानं तदेश्वरस्य सर्वज्ञत्वविरोधः स्वज्ञानस्याप्रत्यक्षत्वात् । तदप्रत्यक्षवे च प्रथमार्थज्ञानमपि न तेन प्रत्यक्षं स्वयमप्रत्यक्षेण ज्ञानांतरेण तस्यार्थज्ञानस्य साक्षात्करणविरोधात् । कथमन्यथा आत्मांतरज्ञानेनापि कस्यचित्साक्षात्करणं न स्यात् । तथा चानीश्वरस्यापि सकलस्य प्राणिनः स्वयमप्रत्यक्षेणापीश्वरज्ञानेन सर्वविषयेण सर्वार्थसाक्षात्क- रणं संगच्छेत ततः सर्वस्य सर्वार्थदिवासिद्धः-ईश्वरानीश्वरनिभागाभावो भूयते । यदा चार्यज्ञानमपि प्रथम मीश्वरस्याप्रत्यक्षमेव कक्षीक्रियते तदा तेनापि स्वयमप्रत्यक्षेण महेश्वरस्य सफलोऽर्थः प्रत्यक्षं कथं समयंत तेन सकलपाणिगणस्य सर्वार्थसाक्षात्करणप्रसंगस्य तदवस्थत्वात् । तदनेन वादिना महेश्वरस्यापि किंचिच- त्वं सर्वस्य वा सर्वत्रत्वमनुज्ञातव्यं न्यायवलायातत्वात् । तथाम्यनुज्ञाने वा नैयायिकस्य नैयायिकत्व- विरोधः केनास्य वार्येत । यदि पुनरीश्वरस्य ज्ञानं सकलार्थवदात्मानमपि साक्षाकुरुतं नित्यकरूपत्वात् , क्रममाव्यनेकानिल्यज्ञानोपगमे महेश्वरस्य सकृत्सर्वार्थसाक्षात्करणविधानात् सर्वज्ञत्वान्यवस्थितेरित मतं तदा कथमननवानकांतिको हेतुर्न स्यात् । स्यान्मतिरेपा युष्माकमम्मदादिज्ञानापेक्षयार्थज्ञानस्य ज्ञानांतरवद्यत्वं प्रमेयत्वेन हेतुना साध्यते ततो नेश्वरज्ञानेन व्यभिचारः तस्यास्मदादिज्ञानाद्विशिष्टत्वात्। न हि विशिष्ट दृष्टं धर्म- मविशिष्टेऽपि घटयन् प्रेक्षावत्तां लभते इति सापि न परीक्षासहा ज्ञानांतरस्यापि प्रज्ञानन वैद्यत्वेऽनवस्था- नुषंगात् । तस्य ज्ञानांतरेण वेद्यन्ये तेनैव हेतोय॑भिचारः । न च तदप्रमेयमेव सर्वस्येति बक्तुं शक्यं प्रतिपत्तुः प्रमाणवलात्तद्व्यवस्थानविरोधात् । सर्वज्ञज्ञानेनापि तस्याप्रमेयत्वे सर्वज्ञस्य सर्वज्ञताव्याघातात् । ततोऽस्मदादिज्ञानापेक्षयापि न ज्ञानं ज्ञानांतरप्रत्यक्ष प्रमेयत्वाद्धताः साधयितुं शक्यं, ज्ञानस्य खार्थव्यवसा- यात्मनः प्रत्यक्षसिद्धत्वाच्च । प्रत्यक्षबाधितपक्षतया हतोः कालात्ययापदिष्टचप्रसंगाच्च । एतेनार्थज्ञानेन ज्ञानांतरत्रेय साध्ये कालत्रयत्रिटोकवर्तिपुन्यपरिपत्संप्रयुक्तसकलेहेतुनिकरस्य कालात्ययापदिष्टत्वं व्यख्यातं । तदनेन यदुक्तमेकात्मसमवेतानंतरविज्ञानप्रायमर्थज्ञानमिति तत्समुत्सारितं । योऽप्याह न स्वार्थव्यवसायात्मकं ज्ञानं परोक्षत्लात् अर्थस्यैव प्रत्यक्षत्वान् । अप्रत्यक्षा नो बुद्धिः प्रत्यक्षोऽयः । स हि बहिर्देशसंबद्धः प्रत्यक्षमनुभूयते । ज्ञाते त्वर्थे अनुमानादवगच्छति बुद्धिरिति सावरमाष्ये श्रवणात् । तथा ज्ञानस्यार्थवत् प्रत्यक्ष कर्मवप्रसंगान् ज्ञानांतरस्य करणस्यावश्यं परिकल्पनीयत्वात् । तस्य चाप्रत्यक्षत्वं प्रयमे कोऽपरितोपः १ । प्रत्यक्ष तस्यापि पूर्ववत्कर्मतापत्तेः करणात्मनोऽन्यविज्ञानस्य परिकल्पनायामनवस्थाया दुर्निवारत्वात् । तथैकस्य ज्ञानस्य कर्मकरणद्वयाकारप्रतीतिविरोधाच्च न ज्ञान प्रत्यक्षं परीक्षकरनुमंतव्यमिति सोऽपि न यथार्थमीमांसकतामनुस मुत्सहते ज्ञानस्याप्रत्यक्षल्वे सर्वार्थस्य प्रत्यक्षत्वविरोधात् । संतानांतरज्ञानेनापि सर्वस्यार्थस्य प्रत्यक्षवप्रसंगात् । तथा च न कस्यचित्कदाचिदर्थ- प्रत्यक्षः स्यात् । -- . प्रमाणपरीक्षा। ६१ स्यादाकूतं भवता यस्यात्मनोऽर्थे परिच्छित्तिः प्रादुर्भवति तस्य ज्ञानेन सोऽर्थः प्रतीयते न सर्वस्य ज्ञानेन सर्वोऽर्थः प्रत्यक्षः सर्वस्य प्रमातुः सर्वत्रार्थे परिच्छित्तेरसंभवात् इति तदपि स्वगृहमान्यं मीमांस- कानां कचिदर्थपरिच्छित्तेः प्रत्यक्षत्वाप्रत्यक्षत्रविकल्पानतिक्रमात् । सा हि न तावत्प्रत्यक्षा ज्ञानधर्मकत्वात् । कर्मवेनाप्रतीतिश्च करणज्ञानवत् । तस्याः कर्मत्वेनाप्रतीतावपि क्रियात्वेन प्रतीतेः । प्रत्यक्षत्वे करण ज्ञानस्य कर्मत्वेनाप्रतीयमानस्यापि करणत्वेन प्रतीयमानत्वात् । प्रत्यक्षत्वमस्तु करणत्वेन प्रतीयमानं करण- ज्ञानं करणमेव स्यात् । न प्रत्यक्षं कर्मलक्षणमिति चेत् तर्हि पदार्थपरिच्छित्तिरपि क्रियात्वेन प्रतिभासमाना क्रियेव स्यात् न प्रत्यक्षा कर्मत्वाभावादिति प्रतिपत्तव्यं । यदि पुनरर्थधर्मत्वादर्थपरिच्छित्तेः प्रत्यक्षतेष्यते तदा सार्थप्राफव्यमुच्यते । न चैतदर्थग्रहणविज्ञानस्य प्राकव्याभावे घटामटति अतिप्रसंगात् । न ह्यप्रकटे ऽर्थज्ञाने संतानांतरवर्तिनिकरस्य चिदर्थस्य प्राकव्यं घटते प्रमातुरात्मनः स्वयं प्रकाशमानस्य प्रत्यक्षस्यार्थ परिच्छेदकस्य प्राकाव्यादर्थे प्राकव्यं परिच्छित्तिलक्षणं संलक्ष्यते । परिच्छित्तेः परिच्छेदकस्वरूपायाः कर्तृस्थ- याः क्रियाया कर्तृधर्मत्वादुपचारादर्थधर्मत्ववचनात् परिच्छिद्यमानतारूपायाः परिच्छित्तेः कर्मस्थायाः क्रियाया एव परमार्थतोऽर्थधर्मत्वसिद्धः । फरणज्ञानधर्मतानुच्छित्तेर्नेष्यते एव चक्षुषा रूपं पश्यति देवदत्त इत्यत्र चक्षुषः प्राकट्याभावेऽपि अर्थप्राकव्यं सुघटमेव लोकेऽतींद्रियस्यापि करणत्वसिद्धेः इति केचित् समभ्यमंसत मीमांसकाः, तेऽप्यंधसर्पविलप्रवेशन्यायेन स्याद्वादिमतमेवानुप्रविशति, स्याद्वादिभिरपि स्वार्थपरिच्छेदकस्य प्रत्यक्षस्यात्मनः कर्तृसाधनज्ञानशब्देनाभिधानात् । लार्थज्ञानपरिणतस्यात्मन एव स्वतंत्रस्य ज्ञानत्वोपपत्तेः, स हि जानातीति ज्ञानमिति व्यपदिश्यते । तदमस्तु परिच्छित्तिः फलज्ञानं कथंचि- प्रमाणाद्भिन्नमभिधीयते । यत्तु परोक्षमतींद्रियतया करणज्ञानं परैरक्तं तदपि स्याद्वादिमिर्भावेंद्रियतयां करणमुपपयोगलक्षणं प्रोच्यत 'लन्ध्युपयोगी भावेंद्रियं । इति पचनात् । तत्रार्थग्रहणशक्तिर्लब्धिः । अर्थग्रहणन्यापार उपयोगः इति व्याख्यानात् केवलं तस्य कथंचिदात्मनोंऽनर्थातरभावादात्मतया प्रत्यक्ष- वोपपत्तेः अप्रत्यक्षतकांतो निरस्यते इति प्रातीतिकं परीक्षकैरनुमंतव्यं । ये तु मन्यते नात्मा प्रत्यक्षः कर्म- लेनाप्रतीयमानत्वात् करणज्ञानवदिति तेषां फलज्ञानहेतोर्व्यभिचारः फर्मत्वेनाप्रतीयमानस्यापि फलज्ञानस्य प्राभाकरैः प्रत्यक्षत्रवचनात् । तस्य क्रियात्वेन प्रतिभासमानात् प्रत्यक्षत्वे प्रमातुरप्यात्मनः कर्तृत्वेन प्रति भासमानत्वात् प्रत्यक्षत्वमस्तु । सच्च फलज्ञानं-आत्मनोऽर्थातरभूतमनर्थातरभूतमुभयं वा ! न तावत्स पर्थातिरभूतमनतिरभूतं वा मतांतरप्रवेशानुषंगात् । नाप्युभयं पक्षद्वयनिगदितदूपणानुषक्तेः । कथं- चिदनातरत्वे तु फलज्ञानादात्मनः कथंचिप्रत्यक्षत्वमनिवार्य प्रत्यक्षादभिन्नस्य कथंचिदप्रत्यक्षत्वैकांतविरो- धात् । एतेनाप्रत्यक्ष एवात्मेति प्रभाकरमतमपास्तं । यस्य तु करणज्ञानमत्फलज्ञानमपि परोक्षं पुरुषः प्रत्यक्ष इति मतं तस्यापि पुरुषात्प्रत्यक्षात् कथंचिदभिन्नस्य फलज्ञानस्य करणज्ञानस्य च प्रत्यक्षतापत्तिः कथंचित्क- थमपाक्रियते ततो न भट्टमतमपि विचारणा प्रांचति इति स्थव्यवसायात्मकं सम्यग्ज्ञानं, भर्थपरिच्छित्तिनि- मित्तत्वात् आत्मवदिति व्यवतिष्टते । नेत्रालोकादिभिर्व्यभिचारः साधनस्येति न मंतव्यं तेषामुपचारतोऽर्थ परिच्छतिनिमित्तत्ववचनात्, परमार्थतः प्रमातुः प्रमाणस्य च तन्निमित्तत्वघटनात् । अत्रापरः कपिलमतानुसारी प्राह-न सम्यग्ज्ञानं स्वव्यवसायात्मकं, अचेतनत्वात् घटादिवत् न तचेत नमनित्यत्वात् । तद्वदनित्य चोत्पत्ति निमित्तत्वात् विधुदादिवत् । यत्तु स्वसंवेयं तचेतनं नित्यमनुत्पत्तिधर्मकं च सिद्धं यथा पुरुषतत्त्वमिति सोऽपि न न्यायवेदी न्यभिचारिसाधनाभिधानात् । उत्पत्तिमत्त्वं हि तावद- नित्यतां व्यभिचरति निर्वाणस्यानंतस्याप्युत्पत्तिमत्त्वात् । तथैवानित्यत्वमचंतनत्वं व्यभिचरति पुरुषभोगस्य कादाचित्कत्वस्य बुद्ध्यध्यवासतार्थापक्षस्य चतनत्वेऽप्यनित्यत्वसमर्थनात् । अचेतनत्वं तु सम्यग्ज्ञानस्याशुद्धमेव तस्मादचेतनादिवेकख्यातिविरोधात् । चेतनसंसर्माच्चतनं ज्ञानमित्यपि वात शरीरादेरपि चेतनत्वसंगात । ज्ञानस्य चेतनसंसर्गो विशिष्ट इंति चेत् स कोऽन्यः कथंचित्तादात्म्यात्। ततश्चेतनात्मकमेव ज्ञानमनुमंतव्य- मित्यचेतनमसिद्ध। .

६२ सनातनजैनग्रंथमालायां- यदप्यम्यधायि सांख्यैः-ज्ञानमचंतनं प्रधानपरिणामत्वान् महाभूतवदिति तदपि न श्रेयः पक्षस्य स्वसं- वंदनप्रत्यक्षबाधितत्वात् । प्रतिवादिनः कालात्ययापदिष्टवाच्च साधनस्य । तथानुमानवाधितः पक्षः परं प्रति चेतन ज्ञानं स्वसंवेद्यत्रात् पुन्यवत् । यत्तु न चेतनं न तस्वसंवेद्यं यथा कलशादीति व्यति- रेकनिश्चयात् नेदमनुमानमगमकं । झानस्य स्वसंवेद्यत्वमसिद्धं ? इति चेन्न तस्यास्वसंवेद्यत्वे अर्थसंवेदनवि- रोधादित्युक्तपायं । एतेन न स्वसंवेद्यं विज्ञानं कायाकारपरिणतभूतपरिणामत्वात् पिचादिवदिति वदंश्चा- वाकः प्रतिक्षिप्तः । न.चेदं सावनं सिद्धं भूतविंशषपरिणामवासिद्धः संवदनस्य बाहोंद्रियप्रत्यक्षतप्रसंगात् गंधादिवत् । सूक्ष्ममूतविशेषपरिणामत्वात् न वामंद्रियप्रत्यक्षं ज्ञानमिति चेत् स तर्हि सूक्ष्मविशेषः स्पर्शादिमिः परिवर्जितः स्वयमस्वशादिमान संवदनापादानहेतुः सर्वदा वाइंद्रियात्रिययः कयमात्मैव नामां- तरण निगदितो न भवेत् । तस्य ततोऽन्यत्वे मुतचतुष्टयावलक्षणत्वात् तत्वांतरापत्तिरदृष्टपरिकल्पना च प्रसज्येत तयात्मनः प्रमाणसिद्धत्वात तत्परिणामस्यैव ज्ञानस्य घटनात् । तत इदं न्यत्रतिष्टते स्त्रव्यवसा- यात्मकं सम्यग्ज्ञानं चेतनात्मपरिणामत्र सत्यर्थपरिच्छेदकलान यत्तु न स्वव्यवसायात्मकं न तत्तया यथा घटः तथा च सम्यग्ज्ञानं तस्मात्स्यव्यवसायात्मकं इति सम्याज्ञानलक्षणं प्रमाणसिद्ध । ननु प्रमाणतत्त्वस्य प्रमेयतत्वबदुपप्लुतत्वात न तस्त्रतः किंचिप्रमाणं संमवति इति कस्य लक्षणमभि- धीयते लक्ष्यानुवादपूर्वकबालक्षणामिधानस्य । प्रसिद्ध लक्ष्यमन्य लक्षणं विधीयत इति लक्ष्यलक्षणभावत्रादि- मिरम्युपगमात् इति केचिदमंसत तेषां तत्त्वोपष्टरमात्रमिष्टं साधयितुं तदा सावनमभ्युपगंतव्यं । तच्च प्रमा- णमेव भवति तथा चदममिधीयते-तत्त्वोपप्लववादिनोऽप्यस्ति प्रमाणं, इष्टसाधनान्यथानुपपत्तः । प्रमाणा- भाषेऽभीष्टसिद्धी सर्व सर्वस्य ययेष्टं सिद्धयेत इत्यनुपकृततत्वसिद्विरपि किं न स्यात् सर्वथा विशेषाभावात् । स्यादाकूनं न स्वष्टं विषिप्राधान्येन साच्यते येन तत्वोपप्ठवं साधयतः प्रमाणसिद्धिः प्रसज्येत ।.किं तहि : पराभ्युपगतप्रमाणादितत्त्वनिराकरणसामर्थ्यात परीक्षनजनयतस्तत्वोपलवमनुसरति गत्यंतरामावात । तथाहि-प्रमाणत्रं कस्य चिकिमद्रुष्टकारणजन्यत्वेन बाधारहितत्वेन वा प्रवृत्तिसामध्यन वा अर्थक्रिया- प्रातिनिमित्तत्वेन वा व्यवतिष्टते ? न तावदुष्टजन्यत्वेन तस्य प्रत्यक्षतो गृहीतुमशक्तेः करणकुशलादेरपि प्रमाणकारणत्वात् । तस्य त्रातींद्रियत्वोपगमात् । न चानुमानमदुष्टं कारणमुन्ने समय तदविनामाविलि- गाभावात् । सत्यज्ञानं लिंगामिति चत् न परस्पराश्रयणात् । सति ज्ञानस्य सत्यचे तत्कारणस्यादुष्टत्व- निश्चयात् । तस्मिन्सति ज्ञानस्य सत्यत्वसिद्धेः । यदि पुनर्बाधारहितत्वेन संबदनस्य प्रामाण्यं साध्यते तदा कि कदाचित्यत्रिद्वावकानुसत्या तसिद्धिराहॉस्वित् सर्वत्र सर्वदा सर्वस्य प्रतिपत्तुवकानुत्त- त्तरिति पक्षद्वयमवतरति । प्रथमपक्षे मरीचिकाचक्रे सलिलसंवेदनमपि प्रमाणमासज्यते दूरस्थितस्य त- संवेदनकाले कस्य चित्लातिपत्तु वक्रानुवत्तः । द्वितीयपश्छे तु सकलदेशकालपुल्याणां बोधकानुत्पत्ति:- कथमसर्वत्रिदोऽत्रबाटुं शक्येत तत्तत्प्रतिपत्तुः सर्ववेदिलप्रसंगात् । यदि पुनः प्रवृत्तिसामर्थेन ज्ञानस्य प्रामाण्यमुन्नीयते तदा प्रमाणेनार्थमुपलब्धवतस्तदर्थे प्रवृत्तिर्याप्यते तद्देशोपसर्पणलक्षणा तस्याः सामप्य च फलेनामिसंबंधः सजातीयज्ञानोत्सतिर्वा तदेतराश्रयदोयो दुनत्तरः स्यात् । सति संवेदनप्रमा- पत्रनिश्रये तेनार्थप्रतिपत्ती प्रवृत्त: । तल्लामर्य्यस्य च बटनात् प्रवृत्तिज्ञानर्यस्य निश्चये च तेनायसवे- दनस्य प्रमाणत्रनिर्णीतः प्रकारांतरासंभवात् । अथार्थक्रियानिमित्तवन संवेदनं प्रमाणतामारकंदति तदा कुतन्तस्य तन्निश्चयः स्यात् । । प्रतिपत्तुरर्थक्रियाझानादिति चत् तन्नस्य प्रमाणवसिद्धिः ? 1 परमार्थ- क्रियाज्ञानांतराञ्चत् कयमनकल्या न मत्रत् ! । अथावसंवेदनादत्रार्थक्रियावानस्य • Iमाण्यं मन्यते तदा परस्पराश्रयदोषः । सत्ययक्रियाज्ञानस्य प्रमाणवनिश्चय तहलादाद्यसंवेदनस्यार्थक्रियाप्राप्तिनिमित्तवन प्रामाण्यनिश्चयस्तत्प्रामाण्यनिश्याच अर्थक्रिया संवेदनस्य प्रमाणतासिद्धिः कारणांतरामावात् । ततो न प्रमाणत्वं विचार्यमाणं वा व्यवतिष्ठते तदवसानामात्र च न प्रमेयत्वसिद्धिः इति तदेतत्सकलं प्रलापमा परामिमतप्रमाणतत्वनिराकरणस्य स्वयमिष्टस्य प्रमाणनंतरेण सिझ्ययोगाव तन्य स्वयामिष्टले सावनानुपपत्ते परपर्यनुयोगमात्रस्य करणाददापोऽयं ।

- प्रमाणपरीक्षा। ६३ परपर्यनुयोगपराणि हि वृहस्पतेः सूत्राणि इति वचनात् सर्वत्र स्वातंत्र्याभावादित्येतदपि यत्किंचन भापणमेव । किमदुटकारणजन्यत्वेन प्रा- माण्यं साध्यते बाधारहितत्वेनैवेत्यादि पक्षाणां कचिन्निर्णयाभावे संदेहाभावात् परपर्यनुयोगायोगात् । स्यादाकूतं पराभ्युपगमात् . तन्निश्चयसिद्धेः संशयोत्पत्तेर्युक्तः प्रश्नः, तथाहि-मीमांसकाभ्युपगमात् ताबददुष्टकारणजन्यत्वं बाधावर्जितस्वं च निर्णीतं निश्चितत्वापूर्वार्थत्वलोकसम्मतत्ववन् । तदुक्तं- तत्रापूर्वार्थविज्ञानं निश्चितं बाधववर्जितं । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतं ॥ १ ॥ इति तथा प्रवृत्तिसामर्थ्यमपि नैयायिकाभ्युपगमान्निति-. प्रमाणतोऽर्थमतिपत्ती प्रवृत्तिसामर्थ्यादर्थवत्ममाणं इति वचनान् । तथार्थक्रियाप्राप्तिनिमित्तत्वमविसंवादित्वलक्षणं सौगताभ्युपगमानिर्णीतमेव प्रमाण- मविसंवादिजानं अक्रियास्थितिः अविसंवादनं शब्दोऽप्यभिप्रायनिवेदनादिति वचनान्। तदिदानी चार्वाक- मतानुसारेण संदिह्य पर्यनुयुज्यमानं न किंचिदुपालंभमर्हति इति तदेतदपि न व्यवस्था प्रतिपद्यते पराभ्यु- पगमस्य पूमाणापूमाणपूर्वकत्वे संशयाप्रवृत्तेः तथाहि यदि परेपामभ्युपगमः प्रमाणपूर्वकः तदा फर्थ संदेहः ? प्रमाणपूर्वकस्य निर्णीतत्वात् । निर्णीतेः संशयविरोधात् । अथाप्रमाणपूर्वकः तथापि न संदेहः प्रर्वतते तस्य कचित्कदाचित्कथंचित् निर्णयपूर्वकत्वात् । तन्निर्णयस्यापि प्रमाणपूर्वकत्वात् । प्रमाणाभावे प्रमाण्यनिश्चयात् तन्निश्चयनिबंधनस्य च प्रमाणांतरस्याभ्यस्तविषयत्वे 'सर्वथा तदनुपपत्तेरित्यलं प्रसंगेन सर्वस्यष्टस्य संसिद्धेः प्रमाणप्रसिद्धरवाधनात् अन्यथातिप्रसंगसमर्थनादिति । एतेन सर्वथा शून्यं संविददैतं पुरुपाद्वैतं शब्दाद्वैतं वा समाश्रित्य प्रमाणप्रमयभागं निराकुर्वाणाः प्रत्याख्याताः स्वयमाश्रितस्य सर्वथा शून्यस्य संविदद्वैतादेवी कथंचिदिष्टत्वे प्रमाणसंसिद्धेर्व्यवस्थापनात् । तस्याप्यनिष्टत्वे तद्वादित्वविरोधात् । प्रलापमात्रानुसरणापत्तेः परीक्षकत्वव्याघातात् इति । तदेवं प्रमाणतत्त्वनिीती प्रमेयतत्वासिद्धिनिधिा व्यवतिष्ठत एव । ननु चैव प्रमाणसिद्धमपि कि स्वतः प्रमाण्यमात्मसात्कुर्वीति परतो वा । न तावत्स्वतः सर्वत्र सर्वदा सर्वस्य तद्विप्रतिपत्त्यभावप्रसंगात् । नापि परतः अनवस्थानुपंगात् परापरप्रमाणान्त्रपणात् कचिदवस्थितेरयो- गात्। प्रथमपूमाणाद्वितीयस्य प्रामाण्यसाधने द्वितीयाच्च प्रथमस्य परस्पराश्रयाणापत्तेः प्रकारांतराभावादिति केचित्तेऽप्यसमीक्षितवचसः संलक्ष्यंते स्वयमभ्यस्तविपये पूमाणस्य स्वतः प्रामाण्यसिद्धेः सकलविप्रतिपत्ती- नामपि प्रतिपत्तुरभावात् अन्यथा तस्य प्रमेये निस्संशय प्रवृत्त्ययोगात् । तथानभ्यस्तविपये परतः प्रमाणस्य प्रामाण्यनिश्चयात् तन्निश्चयनिमित्तस्य च प्रमाणांतरस्याभ्यस्तविपयत्ये स्वतः प्रमाणत्वसिद्धेः अनवस्थाप- रस्पराश्रयणयोरनवकाशात् । तस्याप्यनभ्यस्तविपयत्वे परतः प्रमाणादभ्यस्तविपयात् स्वतःसिद्धप्रामाण्यानं प्रमाणत्वनिश्चयात् सूदरमपि गत्ता कस्यचिदभ्यस्तविपयस्य प्रमाणस्यावश्यंभावित्वात् अन्यथा प्रमाणतदा- भासव्यवस्थानुपपत्तेः तदभावव्यवस्थानुपपत्तिवत् । कुतः पुनः प्रतिपत्तः कचिद्विपर्यऽभ्यासः कचिदन- भ्यासः स्यात् ! इति चेत् तत्प्रतिबंधकदशाविशेषविगमाभ्यां कचिदभ्यासानभ्यासौ स्यातां इति महे परिदृष्टकारणव्यभिचाराददृष्टस्य कारणस्य सिद्धेः तन्नः कर्म ज्ञानावरणवीयांतरायाख्यं सिद्धं तस्य क्षयोपशमा- कस्य चित् कचिदभ्यासज्ञानं तत्क्षयोपशमाभावे वा ऽनभ्यासज्ञानमिति सुव्यवस्थित प्रमाणस्य प्रमाण्यं सुनिश्वितासंभवद्वाधकप्रमाणत्वात् स्थयमिष्टवस्तुवत् सर्वत्रेष्टसिद्धेस्तन्मात्रनिबंधनत्वादन्यथा सर्वस्य तत्त्व- परीक्षायामनधिकारादिति स्थितमेतत्-- प्रामाणादिष्टसंसिद्धिरन्यथातिप्रसंगतः। प्रामाण्यं तु स्वतःसिद्धगभ्यासात्परतोऽन्यथा ॥ १ ॥ इति एवं प्रमाणलक्षणं व्यवसायात्मकं सम्यग्ज्ञानं परीक्षितं तत्प्रत्यक्षं परीक्षं वेति संक्षेपाद् द्वितयमेव व्यवतिष्ठते ? .

. गात्। ." सनातनजैनग्रंथमालायां- ६४ सकलप्रमाणानामत्रैवांतर्भावादिति विभावनात् । परपरिकल्पितकदिव्यादिप्रमाणसंख्यानियमे तदघटनात् । तथाहि-येपा प्रत्यक्षमेकमेव प्रमाणं न तेपामनुमानादिप्रमाणातरस्यांतर्भावः संभवति तद्विलक्षणत्वात् । प्रत्यक्षपूर्वकत्वादनुमानादेः प्रत्यक्षभावः इत्ययुक्तं प्रत्यक्षस्यापि कचिदनुमानपूर्वकत्वादनुमानादिश्वंतर्भावप्रसं- यथैव हि धमिहेतुदृष्टांतप्रत्यक्षपूर्वकमनुमानं श्रोत्रप्रत्ययपूर्वकं च शाब्दं । सादृश्यानन्यथाभावनियेध्याधार- वस्तुमाहि प्रत्यक्षपूर्वकाणि चौपमानाथापत्त्यभावप्रमाणानि तथा-अनुमानेन कृशानुं निश्चित्य तत्र प्रर्वत- मानस्य प्रत्यक्षमनुमानपूर्वकं रूपाद्रसं संप्रतिपद्य रसे रासनसमक्षवत् । शब्दाच्च मृष्टं पानकमवगम्य तत्र प्रवृत्ती प्रत्यक्षं शाब्दपूर्वकं । क्षीरस्य संतर्पणशक्तिमीपत्त्याधिगम्य धीरे प्रवृत्तस्य तदात्मके प्रत्यक्षमापत्तिपूर्वकं । गोसादृश्याद्वयमवसाय तं व्यवहरतः प्रत्यक्षनुमानपूर्वकं । गृहे सर्पाभावमभावप्रमाणाद्विभाव्य प्रविशतः प्रत्यक्षमभावपूर्वकं प्रतीयते एव ततः प्रत्यक्षमेव गौणत्वादप्रमाणं न पुनरनुमानादिकं तस्यागौणत्वादिति शुष्क पतिष्यामि इति जातः पातः कर्दमे । स्यादाकूतं न प्रत्यक्ष-अनुमानागमार्थापत्युपमानाभावसामप्रीपूर्वकं तदभावऽपि चक्षुरादिसामग्रीमात्रा- तस्य प्रसूतेः प्रसिद्धत्वात् । तदभाव एव अभावनियमादि ते तंदप्यसत् लैंगिकादीनामपि प्रत्यक्षपूर्वकत्वामा- वात् । लिंगशब्दानन्यथाभावसादृश्यप्रतियोगिस्मरणादिसामग्रीसद्भाव एव भावात् । सत्यपि प्रत्यक्षे स्वसामि- प्रयभावेऽनुमानादीनामभावात् । ततः किं बहुनोक्तेन प्रतिनियतसामग्रीप्रभवतया प्रमाणभेदमभिमन्यमाने प्रत्यक्षवदनुमानादीनामपि अगौणत्वमनुमंतव्यं प्रतिनियतस्वविपयव्यवस्थायां परापेक्षाविरहात् । यथैव हि प्रत्यक्षं साक्षात्स्वार्थ परिच्छित्तौ नानुमानाद्यपेक्षं तथानुमानमनुमेयनिणीतौ न प्रत्यक्षापेक्षमुत्प्रेक्षते प्रत्यक्षस्य धर्मिहेतुदृष्टांतग्रहणमात्रे पर्यवसितत्वात् । नापि शाब्दं शब्दप्रतिपाद्येऽर्थे प्रत्यक्षमनुमानं चापेक्षते तयोः शब्द- श्रवणमात्रे शब्दार्थसंबंधानुमात्रे व्यापारात् । नत्वर्थापत्तिः प्रत्यक्षमनुमानमागमं चापेक्षते अभावोपमानवत् । तस्याश्च प्रत्यक्षादिप्रमाणप्रमितार्थाविनाभाविन्यदृष्टेऽर्थे निर्णयनिबंधनत्वात् । प्रत्यक्षादीनामापत्त्युत्थापक पदार्थनिश्चयमात्रे व्यावृत्तत्वात् । नचापमानं प्रत्यक्षादीन्यपेक्षते तस्योपमेयेऽर्थे निश्चयकारणे प्रत्यक्षादि निरपेक्षत्वात् । प्रत्यक्षादेः सादृश्यप्रतिपत्तिमात्रेऽनधिकारात् । नचाभावप्रमाणं प्रत्यक्षादिसापेक्षं निषेध्या- धारवस्तुग्रहण तस्य सामर्थ्यात् । परंपरयानुमानादीनां प्रत्यक्षपूर्वकत्वं प्रत्यक्षस्याप्यनुमानादिपूर्वकत्वं दुःशक्यं परिहर्तुं । कथं चायं प्रत्यक्ष प्रमाणं व्यवस्थापयेत् स्वत एवेति चेत् किमात्मसर्वधि सर्वसंबंधि वा ? प्रथमकल्पनायां न सकलदेशकालपुरुषपरिपत्प्रत्यक्षं प्रमाण सिद्ध्येत् । द्वितीयकल्पनायामपि न स्वप्रत्यक्षा- सकलपरप्रत्यक्षाणां प्रामाण्यं साधयितुमीशः तेपामनींद्रियत्वात् वादिप्रत्यक्षागोचरत्वात् । यदि पुनः सक- लपुरुषप्रत्यक्षाणि खस्मिन् स्वस्मिन् विपये स्वतः प्रामाण्यमनुभवंति इति मतं तदा कुतस्तत्सिद्धिः ? ?। विवादाध्यासितानि सकलदेशकालवर्तिपुरुषप्रत्यक्षाणि स्वतः प्रामाण्यमापते प्रत्यक्षत्वात् यद्यत्प्रत्यक्षं तत्तत्स्वतः प्रामाण्यमापद्यमानं सिद्धं यथा मत्प्रत्यक्षं प्रत्यक्षाणि च विवादाध्यासितानि तस्मात्स्वतः प्रामा- ण्यमापद्यते सकलप्रत्यक्षाणां स्वतःप्रामण्यसाधने सिद्धमनुमानं प्रत्यक्षत्वेन स्वभावहेतुना प्रत्यक्षस्य स्वतः प्रामाण्यसाधनात् । शिशुपात्वेन वनस्पतेः वृक्षत्वसाधनवत् । प्रतिपाद्यबुद्ध्या तथानुमानवचनाददोप इति चेत् ? प्रतिपाद्यबुद्धि प्रतिपद्य अप्रतिपद्य वा तयानुमानप्रयोगः स्यात् ! न तावदप्रतिपद्य अतिप्रसंगात् । प्रतिपद्य तवुद्धितयानुमानप्रयोगे कुतस्तत्प्रतिपत्तिः १ व्यवहारादिकार्यविशेषादिति चेत् सिद्धं कार्यात्का- रणानुमानं धूमात्पावकानुमानवत् । यदि पुनर्लोकव्यवहारात् प्रतिपद्यत एवानुमानं लोकायतिकैः परलोका- देवानुमानस्य निराकरणात् तस्याभावादिति मतं तदापि कुत: परलोकाद्यभावप्रतिपत्तिः न तावत्प्रत्यक्षात् • तस्य तदगोचरत्वात् नास्ति परलोकादिः अनुपलब्धेः खपुष्पवदिति तदभावसाधनेऽनुपलब्धिलक्षणमनु- मानगायातं । तदुक्तं धर्मकीर्तिना- प्रमाणेतरसामान्यस्थितरन्यधियोगतेः । प्रमाणांतरसद्भावः प्रतिषेधान कस्यचित् ॥ १ ॥ इति ? प्रमाणपरीक्षा। ततः प्रत्यक्षमनुमानमिति द्वे एव प्रमाणे प्रमेयद्वैविध्यात् । न ह्याभ्यामर्थ परिछिद्य प्रवर्तमानोऽर्थ क्रियायां विसंवाद्यत इति प्रमाणसंख्यानियम सौगताः प्रतिपयंते तेषामागमोपमानादीनां प्रमाणभेदानाम- संग्रह एव तेषां प्रत्यक्षानुमानयोरंतर्भावयितुमशक्तेः । स्यान्मतिरेषा भवतां तदर्थस्य द्वैविध्यात् द्वयोरंतर्भावः स्यात् । द्विविधो ह्यर्थः प्रत्यक्षः परोक्षश्च । तत्र प्रत्यक्षविषयः साक्षास्क्रियमाणः प्रत्यक्षः । परोक्षः पुनरसाक्षात्परिच्छिद्यमानोऽनुमेयत्वादनुमानविषयः स हि पदार्थांतरात्साक्षाक्रियमाणात प्रतिपद्यते तच पदार्थांतरं तेन परोक्षणार्थेन सबद्धं प्रत्याययितुं समर्थ नासं- घद्धं गवादेरप्यश्वादेः प्रतीतिप्रसंगात् । संबद्धं चार्थांतरं लिंगमेव शब्दादि तजनितं च ज्ञानमनुमानमेव ततो न परोक्षेऽर्थेऽनुमानादन्यत्प्रमाणमस्ति शब्दोपमानादीनामपि तथानुमानत्वसिद्धेः । अन्यथा ततो- ऽर्थप्रतिपत्तौ अतिप्रसंगात् इति तदेतदपि न परीक्षाक्षम प्रत्यक्षस्यापि तथानुमानत्वप्रसंगात् । प्रत्यक्षमपि हि स्वविषये संबद्धं तत्प्रत्यायनसमर्थ । तत्रासंबद्धस्यापि तत्प्रत्यायनसामर्थ्य सर्वप्रत्यक्षं सर्वस्य नुः सर्वार्थ- प्रत्यायनसमर्थ स्यादिति कथमतिप्रसंगो न स्यात् ? । यदि पुनः संबंधाधीनत्वाविशेषेऽपि प्रत्यक्षपरोक्षार्थ प्रतिपत्तेः साक्षादसाक्षात्प्रतिभासभेदात् भेदोऽभ्युपगम्यते प्रमाणांतरत्वेन तदेंद्रियस्वसंवेदनमानसयोगि- प्रत्यक्षाणामपि प्रमाणांतरत्वानुपंगः प्रतिभासभेदाविशेषात् । न हि यादृशः प्रतिभासो योगिप्रत्यक्षस्य विशदतमस्तादृशोऽक्षज्ञानस्यास्ति स्वसंवेदनस्य मनोविज्ञानस्य वा ? यथाभूतश्च स्वसंवेदनप्रत्यक्षांतर्मुखो वि- शदतरः न तथाभूतोऽक्षज्ञानस्य । यादृशश्चाक्षज्ञानस्य बहिर्मुखः स्फुटः प्रतिभासो न तादृशो मनोवि. ज्ञानस्येति कथं प्रमाणांतरता न भवेत् ? अथ प्रतिभासविशेषेऽपि तच्चतुर्विधमपि प्रत्यक्षमेव न प्रमाणांतरं तर्हि प्रत्यक्षानुमानयोः प्रतिभासभेदेपि स्वावषयसबंधांवशेषात्व प्रमाणांतरत्वं माभूत् । यदि पुनः स्वविषयसंबद्धत्वाविशेषेऽपि प्रत्यक्षानुमानयोः सामग्रीभेदात प्रमाणांतरत्वमुररीक्रियते तदा शाब्दो- पमानादीनामपि तत एव प्रमाणांतरत्वमुररीक्रियतां । यथैव हि अक्षादिसामग्रीतः प्रत्यक्षं, लिंग- सामप्रीतोऽनुमानं प्रभवतीति तयोः सामिग्रीभेदः । तथागमः शब्दसामिग्रीतः प्रभवति । उपमानं सा- दृश्यसामग्रीतः । अर्थापत्तिश्च परोक्षार्थाविनाभूतार्थमात्रसामग्रयाः । प्रतिषेध्याधारवस्तुग्रहणप्रतिषेध्यस्मर- णसामप्रयाश्चाभाव इति प्रसिद्धः शान्दादीनामपि सामग्रीभेदः । तत एवाक्षज्ञानादिप्रत्यक्षचतुष्टयस्य प्रभेदप्रसिद्धः नहि तस्यार्थभेदोऽस्ति साक्षाक्रियमाणस्यार्थस्याविशेषात् तद्वलिंगशब्दादिसामग्रीभेदा- त्परोक्षार्थविषयत्वाविशेपेप्यनुमानागमादीनां भेदप्रसिद्धिरिति नानुमानेऽतर्भावः संभवति । तथा साध्य- साधनसंबंधव्याप्तिप्रतिपत्तौ न प्रत्यक्षं समर्थ । यावान् कश्चिद्धूमः स सर्वः कालांतरे देशांतरे च पावक- जन्मा, अन्यजन्मा वा न भवति इत्येतावतो व्यापारान् कर्तुमसमर्थत्वात् । सन्निहितार्थमात्रादुत्पत्तेरविचारकत्वात् योगिप्रत्यक्षं तत्र समर्थमिति चेत् न देशकालयोगिप्रत्यक्षद्वयानतिक्रमात् । देशयोगिनः प्रत्यक्षं व्याप्ति- प्रतिपत्तौ समर्थमित्ययुक्तं तत्रानुमानवैयर्थ्यात् । न हि योगिप्रत्यक्षेण साक्षात्कृतेषु साध्यसाधनविशेषेषु अशेषेषु फलवदनुमानं । अथ सकलयोगिप्रत्यक्षेण व्याप्तिप्रतिपत्तावदोष इति चेन्न उक्तदोषस्यात्रापि तद- वस्थत्वात् । परार्थफलवदनुमानमिति चेत् ? न तस्य स्वार्थानुमानपूर्वकत्वात् । स्वार्थानुमानाभावे च योगिनः कथं परार्थानुमानं नाम । यदि पुनः सकलयोगिनः परानुग्रहाय प्रवृत्तत्वात् परानुग्रहस्य च शब्दात्मक- परार्थानुमानमंतरेण कर्तुमशक्तः परार्थानुमानासद्धिः, तस्याश्च स्वार्थानुमानासंभवेऽनुत्पद्यमानत्वात् स्वार्थानुमानसिद्धिरपि परप्रतिपादनप्रवृत्तस्य संभाव्यत एवेति मतं तदा स योगी स्वार्थानुमाने चतुरार्य- सत्यानि निश्चित्य परार्थानुमानेन परं प्रतिपादयन् ग्रहीतव्याप्तिकमगृहातव्याप्तिकं वा प्रतिपादयेत् ? यदि गृहीतव्याप्तिकं तदा कुतस्तेन गृहीता व्याप्तिः ? न तावादद्रियस्वसंवेदनमनोविज्ञानैस्तेषां तदविषय- त्वात् । योगिप्रत्यक्षेण गृह्यते व्याप्तिः परेण तस्यापि देशयोगित्वात् इति चेत् तर्हि यावत्सु साध्यसाधन- भेदेषु योगिप्रत्यक्ष देशयोगिनस्तावत्सु व्यर्थमनुमानं स्पष्टं प्रतिभातेश्वपि अनुमाने सकलयोगिनः सर्वत्रा- नुमानप्रसंगात् । समारोपव्यवच्छेदार्थमपि न तत्रानुमान योगिप्रत्यक्षविषये समारोपानवकाशान् सुगत- प्रत्यक्षविषयवत् । ततो न गृहीतव्याप्तिकं परं सकलयोगी प्रतिपादयितुमर्हति । नाप्यगृहीतव्याप्तिकं . १ . . सनातनजैनग्रंथमालायां- अतिप्रसंगात् इति परप्रतिपादनानुपपत्तिः । तस्यां च न परार्थानुमान संभवति तदसंभवे च न स्वार्था- नुमानमवतिष्ठते सकलयोगिनस्तदव्यवस्थाने च न सकलयोगिप्रत्यक्षेण, व्याप्तिग्रहणं युक्तिमधिवसति । प्रत्यक्षानुपलंभाभ्यां साध्यसाधनयोाप्तिप्रतिपत्तिरित्यप्यनेनापास्तं प्रत्यक्षेण व्याप्तिप्रतिपत्तिनिराकृतौ प्रत्यक्षातरलक्षणेनानुपलभेन तत्प्रतिपत्तिनिराकृतिसिद्धेः । योप्याह कारणानुपलंभात् कार्यकारणभावव्याप्तिः । व्यापकानुपलंभाद् व्याप्यव्यापकभावः साक- ल्येन प्रतिपद्यत इत्यनुमानसिद्धा साध्यसाधनव्याप्तिः । तथाहि यावान् कश्चिद्रूमः स सर्वोप्यग्निजन्मा महा- हृदादिष्वग्नेरनुपरुंभाळूमाभावसिद्धेरिति कारणानुपलंभानुमानं । यावंती शिंशपा सा सर्वा वृक्षस्वभावा । वृक्षानुपलब्धौ शिंशपात्वाभावसिद्ध इति व्यापकानुपलंभो लिंग, एतावता साकल्येन साध्यसाधनव्याप्ति- सिद्धिः इति सोऽपि न युक्तवादी तथानवस्थानुपंगात् । कारणानुपलंभव्यापकानुपलंभयोरपि हि स्वसा- ध्येन व्याप्तिन प्रत्यक्षतः सिद्ध्येत् पूर्वोदितदोपासक्तेः। परस्मादनुमानात्तसिद्धौ कथमनवस्था न स्यात् ? प्रत्य- क्षानुपलंभपृष्टभाविनो विकल्पात् स्वयमप्रमाणकात् साध्यसाधनव्याप्तिसिद्धौ किमकारणं प्रत्यक्षानुमानप्रमा- णपोषणं क्रियते ? मिथ्याज्ञानादेव प्रत्यक्षानुमेयार्थसिद्धेाप्तिसिद्धिवत् । तस्माद्यथा प्रत्यक्ष प्रमाणमिच्छता सामस्त्येन तत्प्रामाण्यसाधनमनुमानमंतरण नोपपद्यते इत्यनुमानमिष्टं । तथा साध्यसाधनव्याप्तिज्ञातप्रमा- णमंतरेण नानुमानोत्थानमस्ति इति तदप्यनुज्ञातव्यं तच्चोहाख्यमविसंवादकं प्रमाणांतरं सिद्धमिति, न प्रत्य- क्षानुमाने एव प्रमाणे इति प्रमाणसंख्यानियमो व्यवतिष्ठते । एतेन वैशेपिकप्रमाणसंख्यानियमो प्रत्याख्यातः।। स्यान्मतं साध्यसाधनसामान्ययोः कचिद्व्यक्तिविशेपे प्रत्यक्षत एव संबंधसिद्धेर्न प्रमाणांतरमन्वे- षणीयं यावान् कश्चिद्भूमः स सर्वोऽपि अग्निजन्मानग्निजन्मा वा न भवति इत्यूहापोहविकल्पज्ञानस्य प्रमाणां तरत्वं संबंधग्राहिसमक्षप्रमाणफलत्वात् । कचिदनुमितानुमाने साध्यसाधने आदित्यगमनशक्तिरस्ति गतिमत्त्वात् । आदित्यो गतिमान् देशादेशांतरप्राप्तेः देवदत्तवत् संबंधबोधनिबंधनानुमानं फलवत् ततः प्रत्यक्षमनुमानमिति प्रमाणद्वयसंख्यानियमः कणचरमतानुसारिणां व्यवतिष्ठत एवेति तदन्यसारं सवि- कल्पकेनापि प्रत्यक्षेण साकल्येन साध्यसाधनसंबंधगृहीतुमशक्तेः । साध्यं हि किमग्निसामान्यं, अग्निवि- शेपोग्निसामान्यविशेषो वा ? न तावदाग्नसामान्यं सिद्धसाध्यतापत्तेः । नाप्यग्निविशपस्तस्यानन्वयात् । वन्हिसामान्यविशेषस्य हि साध्यत्वे तेन धूमस्य संबंधः सकलदेशकालव्याप्यध्यक्षतः कथं सिद्धयेत् ? तथा तत्संवधासिद्धौ च यत्र यत्र यदा यदा धूमोपलंमः तत्र तत्र तदा तदाऽग्निसामान्यविशेषविषयमनु- मानं नोदयमासादयेत् । न हन्यथा संबंधग्रहणमन्यथानुमानोत्थानं नामातिप्रसंगात् ततः संबंधज्ञानं प्रमा- णांतरमेव प्रत्यक्षानुमानयोस्तदविषयत्वात् । यञ्चोक्तं प्रत्यक्षफलत्वादहापोहविज्ञानस्याप्रमाणत्वमिति तदप्य- -सम्यक् विशेषणज्ञानफलत्वाद्विशेष्यज्ञानस्याप्रमाणत्वानुषंगात् हानापादानापेक्षावुद्धिफलकारणत्वाद्विशेष्य- ज्ञानस्य प्रमाणत्वे तत एवोहापोहविज्ञानस्य प्रमाणत्वमस्तु सर्वथा विशेपाभावात् । प्रमाणविषयत्वपरिशोधकत्वा- नोहः प्रमाणमित्यपि वात प्रमाणविषयस्याप्रमाणेन परिशोधनविरोधात् । तथा तर्कः प्रमाणं प्रमाणविषयप- रिशोधकत्वात् यस्तु न प्रमाणं स न प्रमाणविषयपरिशोधकों दृष्टो यथा प्रमेयोऽर्थःप्रमाणविषयपरिशोधकश्च तर्कस्तस्मात्प्रमाणमिति केवलव्यतिरोकणानुमानेनान्यथानुपपत्तिनियमनिश्चयलक्षणेन तर्कस्य प्रमाणत्वसिद्धः, न वैशेपिकाणां प्रमाणद्वयसंख्यानियमः सिद्ध्येत् । एतेन द्वित्रिचतुःपंचषदप्रमाणवादिनां प्रमाणसंख्या- नियमः प्रतिध्वस्तः संख्यानां प्रत्यक्षानुमानाभ्यामिवागमादपि. साध्यसाधनसंबंधासिद्धेः तर्कस्य तत्सिद्धिनि- बंधनस्य प्रमाणांतरत्वोपपत्तेः । नैयायिकानां च प्रत्यक्षानुमानागमैरिवोपमानेनापि लिंगलिंगिग्रहणासंभ- वात् । प्रभाकराणां चं प्रत्यक्षानुमानापमानागमैरिव अर्थापत्त्यापि हेतुहेतुमत्संबंधसिद्धरसंभवात् । भट्टमता- नुसारिणामपि प्रत्यक्षानुमानोपमानागमार्थापत्तिभिरिव अभावप्रमाणेनापि व्याप्तिनिश्चयानुपपत्तेस्तन्निश्चयनि- वंधनस्योहज्ञानस्य प्रमाणांतरस्य सिद्धिरवश्यंभाविनी दुःशक्या निराकर्तुं । ननूहः स्वविपये संबद्धोऽसंबद्धो वा न तावदसंबद्धस्तं प्रत्याययितुमीशोऽतिप्रसंगात् । संवद्धश्चेत् कुत- स्तत्प्रतिपत्तिः । न तावत्प्रत्यक्षात तस्य तदविषयत्वात् । नाप्पनुमानादनवस्थानुषंगात् । यदि पुनरुहांतरात्त- प्रमाणपरीक्षा। संबंधसिद्धिः तदोहांतरस्यापि स्वविपयसबंधसिद्धिपूर्वकत्वात् तस्याश्चापरोहनिबंधनत्वात् सैवानवस्था । प्रमा- णांतरात्तत्सिद्धा च स एव पर्यनुयोगः परापरप्रमाणांतरपरिकल्पनानुपंगात केयं प्रमाणसंख्या व्यवतिष्ठतेति केचित् तेपामपि प्रत्यक्ष स्वविपयं प्रतिबोधयत् तत्संबंधश्च नानुमानादेः सिद्ध्यति तस्य तदविपयत्वात् । प्रत्यक्षांतरात्तसिद्धौ तत्रापि प्रकृतपर्यनुयोगानिवृत्तेः कथमनवस्था न स्यात् यतः प्रत्यक्षं प्रमाणमभ्युपगम- नीयमिति प्रतिपद्यामहे । स्यान्मतिरेपा प्रत्यक्षं स्वविपयसंबंधावबोधनिबंधनं प्रामाण्यमात्मसात्कुरुते तस्य स्वविषये स्वयोग्यता- वलादेव प्रमाणत्वव्यवस्थितेः अन्यथा कचिदपूर्वार्थग्राहिणः प्रत्यक्षस्याप्रमाणत्वानुपंगात् इति सापि न साधीयसी तथाहस्यापि स्वयोग्यताविशेपसामदेिव स्वविषयप्रत्यायनसिद्धर्भवदुद्भावितदूपणवैयर्थ्यव्यव- स्थानात् । योग्यताविशेपः पुनः प्रत्यक्षस्येव स्वविषयज्ञानावरणवीर्यातरायक्षयोपशमविशेष एवोहस्यापि प्रति- पद्यते सकलबाधकवैधुर्यात् । यथा च प्रत्यक्षस्योत्पत्ती मनोऽक्षादिसामिग्री योग्यतायाः सहकारिणी वहि- रंगनिमित्तत्वात् तथोहस्यापि समुद्भुती भूयः प्रत्यक्षानुपलंभसामिग्रीवहिरंगनिमितभूतानुमन्यते तदन्वय- व्यतिरेकानुविधायित्वादूहस्येति सर्वनिरवद्यसिद्धे चानुमानप्रमाणान्यथानुपपत्त्या तर्कस्य प्रमाणत्वे-प्रत्याभि- ज्ञानं प्रमाणं तर्कप्रमाणत्वान्यथानुपपत्तेः न ह्यप्रत्यभिज्ञाने विपये तर्कः प्रवर्तते अतिप्रसंगात् । नच गृहीत- ग्रहणात्प्रत्यभिज्ञानस्याप्रमाणत्रं शंकनीयं तद्विपयस्यास्मर्यमाणदृश्यमानपर्यायव्याप्येकद्रव्यस्य स्मरणप्रत्य- क्षागोचरत्रात् अपूर्वार्थग्राहित्वासिद्धेः । नचेदं प्रत्यक्षतर्भवति प्रत्यक्षस्य वर्तमानपर्यायविषयत्वात् । नाप्यनुमाने लिंगानपेक्षत्वात् । न शाब्दे शब्दनिरपेक्षत्वात् । नोपमाने सादृश्यमंतरेणापि भावात् । नार्था- पत्ती प्रत्यक्षादिप्रमाणपदकविज्ञातार्थप्रतिपत्तिमंतरेणापि प्रादुर्भावात् । नाभावे निपेध्याधारवस्तुग्रहणेन निषेध्यस्मरणेन च विनवोत्पादादिति सर्वेपामेकद्वित्रिचतुःपंचपदप्रमाणसंख्यानियमं विघटयति । एतेन स्मृतिः प्रमाणांतरमुक्तं तस्याश्च प्रत्यक्षादिष्वंतर्भावयितुमशक्तेः । न चासावप्रमाणमेव संवादकत्वात् कथं- चिदपूर्वार्थसाहित्वात् वाधावर्जितत्वाचानुमानवदिति । येषां तु स्मरणमप्रमाणं तेषां पूर्वप्रतिपन्नस्य सा- ध्यसाधनसंबंधस्य वाच्यवाचकसंबंधस्य च स्मरणसामर्थ्यादव्यवस्थितेः कुतोऽनुमान शाब्दं वा प्रमागं सिद्ध्येत् । तदप्रसिद्धौ च न संवादकत्वासंवादकत्वाभ्यां प्रत्यक्षतदाभासव्यवस्थितिरिति सकलप्रमाण- विलोपापत्तिः ततः प्रमाणव्यवस्थामभ्यनुजानता. स्मृतिरपि प्रमाणयितव्या इति न परेपां संख्या- नियमः सिद्ध्येत् । स्याद्वादिनां तु संक्षेपात्प्रत्यक्षपरोक्षत्रिकल्पात् प्रमाणद्वयं सिद्धत्येव तंत्र सकलनमाण- भेदानां संग्रहादिति सूक्तं । किं पुनः प्रत्यक्षमित्युच्यते विशदज्ञानात्मकं प्रत्यक्ष प्रत्यक्षत्वात् यत्तु न विशदज्ञानात्मक तन प्रत्यक्षं यथानुमानादिज्ञानं प्रत्यक्षं च विवादाध्यासितं तस्माद्विशदज्ञानात्मकं । न तावदत्राप्रसिद्धो धर्मी प्रत्यक्षर्मिणि केवलप्रत्यक्षवादिनामविप्रतिपत्तेः । । शून्यसंवेदनाद्वैतवादिनामपि स्वरूपप्रतिभासनस्य प्रत्यक्षस्याभीष्टेः । प्रत्यक्षत्वस्य हेतोरसिद्धतापि अनेन समुत्सारिता प्रत्यक्षमिच्छद्भिः प्रत्यक्षत्वस्य तद्धर्मस्य स्वयमिष्टत्वात् । प्रतिज्ञार्थकदेशासिद्धलं साधनस्य स्यादिति चेत् का पुनः प्रतिज्ञा तदेकदेशो वा यस्या- सिद्धत्वं शंक्येत ? धर्मधर्मिसमुदायः प्रतिज्ञा तदेकदेशो धर्मी हेतुर्यथा नश्वरः शब्दो शब्दत्वादिति तथा साध्यधर्मः प्रतिजैकदेशो यथा नश्वरः शब्दो नश्वरत्वात् सायं द्विविधो प्रतिज्ञापैकदेशासिद्धौ हेतुः स्यादिति चेत् ? न धर्मिणो हेतुले कस्य चिदसिद्धतानुपपत्तेः । यथैव हि प्रत्यक्षप्रयोगकाले वादिप्रतिवादि प्रसिद्धो धर्मी तथा तस्य हेतुत्ववचनेऽपि नासिद्धिः । साध्यधर्मस्तु हेतुत्वेनोपादीयमानो न प्रतिज्ञातार्थक- देशवेनासिद्धो धर्मिणोऽप्यसिद्धिप्रसंगात् । किं तर्हि ? स्वरूपेण वासिद्ध इति न प्रतिज्ञार्थंकदेशासिद्धो नाम हेत्वाभासः संभवतीति कथं प्रकृतहेतौ प्रेतिज्ञार्थंकदेशासिद्धत्वं समुद्भावयन् भावितानुमानस्वभावः । धर्मिणो हेतुत्वेऽनन्वयप्रसंग इति चेत् न विशेपं धर्मिणं कृत्वा सामान्यं हेतुं त्रुवतां दोपासंभवात् । प्रत्यक्ष- हि विशेपरूपं धर्मी प्रत्यक्षसामान्यं हेतुः स कथमनन्त्रयः स्यात् सकलप्रत्यक्षविशपस्य व्यापित्वात् । दृष्टांते कचिदभावात् अनन्वय इति चत् न सर्वे भावाः क्षणिकाः सत्त्वात् इत्यादेरपि हेतोरनन्त्रयत्वप्रसक्तः ।

प्रमाणपरीक्षा। ६९ गुणप्रत्ययं चेति । तत्र भवप्रत्ययं बहिरंगदेवभवनारकभवप्रत्यंयनिमित्तत्वात् । तदावे भावात् तदभावेऽ- भावान् तत्तु देशावधिज्ञानमेव । गुणप्रत्ययं तु सम्यग्दर्शनगुणनिमित्तमसंयतंसम्यग्दृष्टः । संयमासंयमगुण- हेतुकं संयतासंयतस्य । संयमगुणनिबंधनं संयतस्य । सत्यंतरंगहेती बहिरंगस्य गुणप्रत्ययस्य भावे भावात् । तदभावे चाभावात् । तथा मनःपर्ययज्ञानं विकलमतींद्रियप्रत्यक्षं द्वधा ऋजुमतिविकल्पात् । तत्रर्जुमति- मनःपर्ययज्ञानं निवर्तितप्रगुणवाकायमनस्कृतार्थस्य परमनोगतस्य परिच्छेदकत्वात्रिविधं । विपुलमतिमनः पर्ययज्ञानं तु निर्वर्तितानिर्वतितप्रगुणाप्रगुणवाकायमनस्कृतार्थस्यं परमनसि स्थितस्य स्फुटतरमवघोधकत्वात् पप्रकार, तथाविधमनःपर्ययज्ञानावरणवीर्यातरायक्षयोपशमावशेपवलात् प्रादुर्भूतत्त्रात् । सकलमतींद्रिय- प्रत्यक्षं केवलज्ञानं सकलमोहक्षयात् सकलज्ञानदर्शनावरणवीर्यातरायक्षयाच समुद्भूतत्वात् सकलवैशद्य सद्भावात् सकलाविषयत्वाच्च । तद्वान् कश्चित्सुरुषविशेषो भवत्येव सुनिर्णीतासंभवाधकप्रमाणत्वात् । तथा शास्त्रज्ञानेन तहानुभयवादिप्रसिद्धः । नचात्रासिद्धं साधनं सर्वातींद्रियप्रत्यक्षवतः पुरुषस्य प्रत्यक्षादिप्रमा- गैरवाध्यमानस्य सकलदेशकालपुरुषपरिपदपेक्षयापि सिद्धत्वात् सुखांदिसंवेदनस्यापि तथैव प्रमाणत्वोपपत्तेः। अन्यथा कस्यचिदिष्टसिद्धरसंभवात् । इति संक्षपता विशदं ज्ञानं सांव्यवहारिकं मुख्यं च प्ररूपितं विस्त: रतस्तु तत्त्वार्थालंकारे परीक्षितमिह दृष्टव्यं । संप्रति परोक्षमुच्यते-परोक्षमविशदज्ञानात्मकं परोक्षत्वात् यन्नाविशदज्ञानात्मकं तन परोक्षं यथा- तीदियप्रत्यक्ष परोक्षं च विवादाभ्यासितं ज्ञानं तस्मादविशरज्ञानात्मकं । नचास्य परोक्षत्वमासिद्ध-अक्षेभ्यः परावृत्तत्वात् । तथोपात्तानुपात्तपरप्रत्ययापेक्षं परोक्षमिति तत्त्वार्थवार्तिककारैरभिधानात् । उपात्तो हि प्रत्ययः कर्मवशादात्मना करणत्वेन गृहीतः स्पर्शनादिः । ततोऽन्यः पुनर्वहिरंगः सहकारी प्रत्ययोऽनु- पात्तः शब्दलिंगादिः तदपेक्षं ज्ञानं परोक्षमित्यभिधीयते । तदपि संक्षेपतो द्वधा मतिज्ञानं श्रुतज्ञानं चेति भाधे परोक्ष इति वचनात् । मतिश्रुतावधिमनःपर्ययकेवलानि हि ज्ञानं । तत्राद्ये मतिश्रुते सूत्रपाठापे- क्षया लक्ष्येते ते च परापेक्षतया परोक्षे प्रतिपादिते । परानपेक्षाण्यवधिमनःपयर्यकेवलानि यथा प्रत्यक्षा- णीति । तत्रावग्रहादिधारणापर्यंत मतिज्ञानमपि देशतोवेशद्यसद्भावासांव्यवहारिक, इंद्रियप्रत्यक्षमतींद्रियप्र- • त्यक्षं चाभिधीयमानं न विरुध्यते ततः शेपस्य मतिज्ञानस्य स्मृतिसंज्ञाचिंताभिनिवोधलक्षणस्य श्रुतस्य च परोक्षत्वव्यवस्थितेः । तदुक्तमकलंकदेवैः- प्रत्यक्ष विशदं ज्ञानं मुख्यसंन्यवहारतः । परोक्ष शेषविज्ञानं प्रमाणमिति संग्रहः ॥ १ ॥ तत्र तदित्याकारानुभूतार्थविषया स्मृतिः अनिद्रियप्रत्यक्षं विशदत्वात् सुखादिसंवेदनवदित्येके तद- सत् । तस्मात्तत्र वैशद्यासिद्धः पुनर्भावयतो वैशद्यप्रतीते वनाज्ञानत्वात् तस्य च भ्रांतत्वात स्वमज्ञा- नवत् । पूर्वानुभूतेऽतीतऽर्थे वैशद्यासंभवान् स्मृतिः परोक्षमेव श्रुतानुमितस्मृतिवत् इत्यपरे तदित्युल्लेखस्य सर्वस्या स्मृतौ सद्भावात् । सा च प्रमाणमावसंवादकत्वात् प्रत्यक्षवत् यत्र तु विसंवादः सा स्मृत्याभासा प्रत्यक्षाभासवत् । तथा तदेवेदमित्याकारं ज्ञानं संज्ञा प्रत्यभिज्ञा तादृशमयेदमित्याकारं वा विज्ञान संज्ञोच्यते । तस्या एकत्वसादृश्यविषयत्वा विध्योपपत्तेः । द्विविधं हि प्रत्यभिज्ञानं तदेवेदमित्येकत्वनि- बंधनं । तादृशमेवंदति सादृश्यनिबंधनं च । ननु च तदवेत्यतीतप्रतिभासस्य स्मरणरूपत्वात् इद- मिति संवेदनस्य प्रत्यक्षरूपत्वात् संवेदनद्वितयमेवैतत् तादृशमेवेदमिति स्मरणप्रत्यक्षसंवेदनद्वितयवत् ततो नैकं ज्ञानं प्रत्यभिज्ञाख्यां प्रतिपद्यमानं संभवतीति कश्चित् सोऽपि न संवेदनविशेषविपश्चित् स्मरणप्रत्यक्षजन्यस्य पूर्वोत्तरविवर्तवयैकद्रव्यविषयस्य प्रत्यभिज्ञानस्यैकस्य सुप्रतीतत्वात् । न हि तदिति स्मरणं तथाविधद्रव्यव्यवसायात्मकं तस्यातीतविवर्तमात्रगोचरत्वात् । नापीदमिति संवेदनं तस्य व- र्तमानविवर्तमात्रविषयत्वात् । ताभ्यामुपजन्यं तु सकलज्ञानं तदनुवादपुरस्सरं द्रव्यं प्रत्यवमृशत् । ततो- मीमांसकाः । २ स्याद्वादिनः।

- ७० - सनातननग्रंथमालायां- नचे- ऽन्यदेव प्रत्यभिज्ञानमेकत्वविषयं तदपहवे कचिदेकान्चयाव्यवस्थानात् संतानकत्वसिद्धिरपि न स्यात् । तदगृहीतप्रमाणादप्रमाणमिति शंकनीयं तस्य कथंचिदपूर्वार्थत्वात् । न हि तद्विषयभूतमेकं द्रव्यं स्मृति- प्रत्यक्षग्राह्यं येन तत्र प्रवर्तमानं प्रत्यभिज्ञानं गृहीतग्राहि मन्यत तद्गृहीतातीतवर्तमानविवर्ततादात्म्यात् । द्रव्यस्य कथंचिदपूर्वार्थत्वेऽपि प्रत्यभिज्ञानस्य तद्विषयस्य नाप्रमाणत्वं लैंगिकादरप्यप्रमाणवप्रसंगात् तस्यापि सर्मथबापूर्वार्थत्वासिद्धेः 1 संबंधग्राहिविज्ञानविषयात् साध्यादिसामान्यात् कथंचिदभिन्नस्यानुमेयस्य देश- कालविशिष्टस्य तद्विषयत्वात् कथंचिदपूर्वार्थत्वसिद्धेः वाधकप्रमाणान्न प्रमाणं प्रत्यभिज्ञानमिति चायुक्तं तद्वा- धकस्यासंभवात् । नहि प्रत्यक्षं तद्वाधकं तस्य तद्विषये प्रवृत्त्यसंभवात् । साधकत्ववद्वावकत्वविरोधात् । यथा हि यद्यत्र विपये न प्रवर्तत न तत्तस्य साधकं बाधकं वा यथा रूपज्ञानस्य रसज्ञानं न प्रवर्ततं च प्रत्यभिज्ञा- नस्य विषये प्रत्यक्षं तस्मान्न तद्वाधकं । प्रत्यक्षं हि न प्रत्यभिज्ञानविषय पूर्वदृष्टदृदयमानपर्यायव्यापिनि द्रव्ये प्रवर्तते तस्य दृश्यमानपर्यायविषयत्वात् इति नासिद्धं साधनं । एतेनानुमानं प्रत्यभिज्ञानस्य बाधकं प्रत्याख्यातं तस्यापि प्रत्यभिज्ञानविषये प्रवृत्त्ययोगात् , कचिदनुमयमात्र प्रवृत्तिसिद्धः । तस्य तद्विषय प्रवृत्ती वा सर्वथा वायकलविरोधात् । ततः प्रत्यभिज्ञानं स्वविषये द्रव्ये प्रमाण सकलवाधारहितत्वात् प्रत्यक्षवन् स्मृतिवद्वा एतेन सादृश्यनिबंधनं प्रत्यभिज्ञानं प्रमाणमावेदितं बौद्धव्यं तस्यापि स्वविपये बाधाकारराहतत्वसिद्धः । यथैव हि प्रत्यक्ष स्वविषये साक्षाक्रियमाण स्मरणं च स्मर्यमाणेऽर्थ वाघाविधुरं तथा प्रत्यभिज्ञानमेकत्र द्रव्ये सादृश्ये च स्वविषये न संभवद्वाधकमिति कथमप्रमाणमनुमन्येमहि । यत्पुनः स्वविषये वाध्यमानं तत्प्रत्याभि- ज्ञानामास यथा प्रत्यक्षाभासं स्मरणाभास वा न च तस्याप्रमाणत्वे सर्वथा प्रमाणलं युक्तं प्रत्यक्षस्याप्यप्रमा- णत्नप्रसंगात् । तस्माद्यथा शुक्ने शंखे पीताभासं प्रत्यक्षं तत्रैत्र शुक्लाभासेन प्रत्यक्षांतरेण वाध्यमानत्वात् अप्रमाणं न पुनः पीते कनकादी पीताभासं प्रत्यक्षं। तथा तस्मिन्नेव स्वपुत्रादी तादृशायमिति प्रत्यभिज्ञानं सादृश्यनिबंधः स एवायमित्येकवनिबंधनेन प्रत्यभिज्ञानेन वाध्यमानमप्रमाणं सिद्धं न पुनः सादृश्य एवं प्रव- तमानं स्त्रपुत्रादिना सादृश्येऽन्यपुत्रादी ताहशोऽयमिति प्रत्यभिज्ञानं तस्यावाध्यत्वेन प्रमाणत्वात् । एवं लूनपु नर्जीतनोकशादिरिति सादृश्यप्रत्यवमर्शिप्रत्यभिज्ञानं तत्र तस्यावाध्यमानतया प्रमाणत्वसिद्धेः । तथैव पूर्वा- नुभूते हि हिरण्यादी प्रदेशविशेषविशिष्ट स्मरणं विपरीतदेशतया तस्मरणस्य बाधकामिति न तत्तत्र प्रमाणं । यथानुभूतप्रदेशे तु तथैव स्मरणं प्रमाणमिति बोद्धव्यं । तत इदमभिधीयते यतो यतथि परिच्छिद्य प्रवर्त- मानोऽर्थक्रियायां न विसंवाद्यत तत्तयमाणं यथा प्रत्यक्षमनुमानं वा । स्मरणात् प्रत्यभिज्ञानाच अर्थ परि- च्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते च तस्मात्प्रमाणं स्मरणं प्रत्याभिज्ञानं चति । तथा परोक्षमतदवि- संत्रादित्वात् । अनुमानवत् । साध्यसाधनसंबंधग्राहितर्कबदा विशदस्य भावनाज्ञानत्वात् । यावान् काश्चिमः स सर्वः पावकजन्मैव अपावजन्मा वा न भवति सकटदेशकालव्याप्तसाध्यसाधनसंबद्धोहापोहलक्षणो हि तर्कः प्रमाणयितव्यः तस्य कचिदपूर्वार्थत्वात् । प्रत्यक्षानुपलंभगृहीतप्रतिनियतदेशकालसाध्यसा. धनव्यक्तिमात्रग्राहित्वाभावात् गृहीतग्रहणसंभवात् बाधकर्जितत्वाच । नहि तर्कस्य प्रत्यक्ष वाधकं तद्वि- पये तस्याप्रवृत्तरनुमानवत् प्रवृत्ती वा सर्वथा तबाधकलविरोधात कचिदेव तहाधकम्पपत्तेः । यस्य तु तद्वाधक स तर्कामासो न प्रमाणमितीटं शिष्टः स्मरणप्रत्यभिज्ञानाभासवत् । प्रत्यक्षानुमानाभासत्रद्वा तथा प्रमाण तर्कस्ततोऽथ परिच्छिद्य प्रवर्तमानस्यार्थक्रियायां विसंवादाभावात् प्रत्यक्षानुमानवदिति प्रतिपत्तव्यं । परोक्षं चदं तर्कज्ञानं अविसंबादकत्वात् अनुमानवत् । किं पुनरनुमानं नाम ? सापनात्साध्यविज्ञानमनुमान । तत्र साधनं साध्याविनामाविनियमनिश्चयैकलक्षणं लक्षणांतरस्य साधनाभासेऽपि भावात् । स्वलक्ष णस्य साधनस्य साधनानुपपत्तः पंचादिलक्षणवत् | नच सपक्षे सत्त्वं पक्षधर्मत्वं विपक्ष चासत्त्वमात्रं साधन- लक्षणं पश्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यत्र साधनामासे तत्सद्भावसिद्धः। सपक्ष हीतरत्र तत्पुत्रे तत्पुत्रत्वस्य साधनस्य झ्यामत्वव्यातस्य सत्त्वं प्रसिद्ध । विवादाच्यासिते च तत्पुत्र पक्षाकृते तत्पुत्रत्वस्य सद्भावात् पक्षधर्म- लं । विपक्षे वा श्यामे कचिदन्यपुत्रे तत्पुत्रत्वस्याभावात् विपक्षेऽसत्त्रमानं च । नच तावता साध्यसाध- प्रमाणपरीक्षा। ७१ नत्र साधनस्य । ननु साकल्येन साध्यनिवृत्तौ साधननिवृत्तरसंभवात् परत्र गौरेऽपि तत्पुत्रे तत्पुत्रत्वस्य भावात न सम्यक् साधनमेतत् इति चेत् तर्हि कात्स्न्र्येन साध्यनिवृत्ती साधननिवृत्तेनिश्चयएवैकं साधनलक्षणं सएवा न्यथानुपपत्तिनियमनिश्चयः स्याद्वादिभिः साधनलक्षणमभिधीयते तत्सद्भावे पक्षधर्मत्वाद्यभावेऽपि साधन- स्य सम्यक्त्वप्रतीतेः उदेण्यति शकटं कृत्तिकोदयादित्यस्य पक्षधर्मत्वाभावेऽपि प्रयोजकत्वव्यवस्थितेः । न हि शकटे धर्मिण्युदेष्यत्तायां साध्यायां कृत्तिकाया उदयोऽस्ति तस्य कृत्तिकाधर्मत्वात ततो न पक्ष धर्मत्वं । यदि पुनराकाशं कालो वा धर्मी तस्योदेष्यच्छकंटवत्त्वं साध्यं कृत्तिकोदयसाधनं पक्षधर्म एवेति मतं तदा धरित्रीधर्मिणि महोदध्याधाराग्निमत्त्वं साध्यं महानसधूमवत्त्वं साधनं पक्षधर्मोऽस्तु तथा च महा- नसधूमो महोदधावग्निं गमयेदिति न कश्चिदपक्षधर्मो हेतुः स्यात् । अथेत्यमेतस्य साधनस्य पक्षधर्मत्व- सिद्धावपि न साध्यसाधनसामर्थ्यमविनाभाविनियमनिश्चयस्याभावादित्यभिधीयते तर्हि स एव साधनलक्ष- णमक्षणं परीक्षादक्षरुपलक्ष्यते । योप्याह शकटोदयो भाविकारणं कृत्तिकोदयस्य तदन्वयव्यतिरेकानुविधानात् सति हि स्वकाले भविष्यति शकटोदये कृत्तिकोदय उपलभ्यते नासतीत्यन्वयव्यतिरेकानुविधानं सिद्धं भविष्यच्छकटकृत्ति- कोदययोः कार्यकारणभावं साधयति विनष्टवर्तमानवदेव । यथैवोदगाद्भरणिः कृत्तिकोदयादित्यत्रातीतो भर- ण्युदयः कारणं, कृत्तिकोदयस्तत्कार्य स्वकालेऽतीते सति भरण्युदये कृत्तिकोदयस्य भावादसत्यभावाच्च तद- न्वयव्यतिरेकानुविधानात कार्यकारणभावः । तथा भविष्यद्वर्तमानयोरपि प्रकृतसाध्यसाधनयोायस्य समानत्वात् । नचैकस्य कृत्तिकोदयस्य भविष्यदतीतकारणद्वितयं विरुध्यते भिन्नदेशयोरिव भिन्नकालयो- रपि सहकारित्वविरोधात् । सहकस्य कार्यस्य कारणं हि सहकारित्वनिबंधनं नाभिन्नकालत्वमभिन्नदेशवत् । नचातीतानागती भरण्युदयशकटोदयौ कृत्तिकोदयस्योपादानकारणं पूर्वकृत्तिकालक्षणस्यानुदयमापन्नस्य तदुपादानकारणत्वसंप्रतिपत्तेः ? इति सोऽपि न प्रातीतिकवचनः तथा प्रतीत्यभावात् । कार्यकालमप्राप्नु वतोर्विनप्टानागतयोः कारणत्वे हि विनष्टतमानागततमयोरपि कारणत्वं कथं विनिवार्य ? प्रत्यासत्तिविशेषा- भावादिति चेत् तर्हि स एव प्रत्यासत्तिविशेपः कारणत्वाभिमतयोरतीतानागतयोः कारणत्वे हेतुर्वक्तव्यः । स चातीतस्य कार्ये व्यापारस्तावन्न भवति सर्वथापि कार्यकाले तदसत्त्वादनागतवत् । तद्भावे भावप्रत्यास- त्तिविशेष इत्यप्यसारं अतीतस्यानागतस्य चाभाव एव कार्यस्य भावात् भावे चाभावात् अन्यथा कार्यकार- णयोरेककालतापत्तेः सकलसंतानानामेकक्षणवर्तित्वप्रसंगः । नैकक्षणसंतानो नाम तस्यापरामृष्टभेद- नानाकार्यकारणलक्षणत्वात् । यदप्यभ्यधायि कारणस्यातीतस्यानागतस्य च स्वकाले भावे कार्यस्य भावात् अभावे चाभावात् तद भावाभावोऽन्वयव्यतिरेकानुविधानलक्षणः प्रत्यासत्तिविशेषोऽस्त्येव इति तदप्यसंगतं कारणत्वानभिमता- तीतानागततमयोरपि तथा तद्भावप्नसंगात् । कार्यस्य भिन्नदेशस्य तु कारणले युक्तस्तद्भावभावः कलशकुं- भकारादिवत् । कुंभकारादिपु हि भिन्नस्वदेशेषु सत्सु कलशस्य भावोऽसत्सु चाभावस्तेषां तत्र व्यापारात् । कारणत्वानभिमतस्य तु भिन्नदेशस्य न कार्ये तद्भावभावो तत्र तस्याव्यापारात् अतीतानागतवत् । सतो हि कस्य चित्कचिद्व्यापारः श्रेयान् न पुनरसतः खरविषाणादेरिवेति युक्तं ततो भिन्नदेशस्यापि कस्यचिदेकस्य कार्ये व्याप्रियमाणस्य सहकारिकारणत्वं प्रतीतिमनुसरति न पुनर्भिन्नकालस्य प्रतीत्यतिलंघनात् ततो न कृत्तिकोदयशकटोदययोः कार्यकारणभावः समवतिष्टते व्याप्यव्यापकभाववत् । सत्यपि तयोः कार्यकारणभावे • न हेतोः पक्षधर्मत्वं युज्यते इति पक्षधर्ममंतरेणापि हेतोर्गमकत्वसिद्धेर्न तल्लक्षणमुत्प्रेक्ष्यते । तथा न सपक्ष एव सत्त्वं निश्चितं तदभावेऽपि सर्वभावानामनित्यत्वे साध्ये सत्त्वादेः साधनस्य स्वयं साधुत्वसमर्थनात् । विपक्षे पुनरसत्त्वमेव निश्चितं साध्याविनाभाविनियमनिश्चयरूपमेवेति तदेव हेतोः प्रधानलक्षणमस्तु किमत्र लक्षणांतरेण ? अथ मतमेतत्पक्षधर्मत्वमसिद्धत्वमसिद्धत्वव्यवच्छेदार्थ साधनस्य लक्षणं निश्चीयते । सपक्ष एव सत्त्वं विरुद्धत्वव्यवच्छेदाय। विपक्षे चासत्त्वं-अनेकांतित्वंव्यवच्छित्तये । तदनिश्चये हेतोरसिद्धत्वादिदोषत्रयपरिहारा- ..

सनातनजैनग्रंथमाला- संभवात् त्रैरूप्यं तल्लक्षणं सफलमेव । तदुक्तं- तोत्रिष्वपि रूपेषु निर्णयस्तन वर्णितः। भसिद्धविपरीतार्थव्यभिचारिविपक्षतः इति ॥ १॥ तदप्यपरीक्षितामिवानं सौगतस्य हेतोरन्यथानुपपत्तिनियमनिश्चयादेव दोपत्रयपरिहारसिद्धेः स्वयम- सिद्धस्यान्यथानुपपत्तिनियमनिश्चयासंभवात् । अनेकांतिकविपरीतार्थवत् तस्य तथोपपत्तिनियमनिश्चय- रूपत्वात् । तस्य चासिद्धव्यभिचारिण विरुद्ध च हेतावसंभावनीयत्वात् । रूपत्रयस्याविनामाव- नियमप्रपंचत्रात् साधनलक्षणत्वे तत एव रूपप्रपंचकस्य साधनलक्षणत्वमस्तु । पक्षव्यापकत्रान्वयव्य- तिरेकाबाधितविषयत्वासत्प्रतिपक्षरूपाणि हि पंचाप्यविनामावनियमप्रपंच एव बाधितविषयस्य सत्य- तिपक्षितस्य चाविनामावनियमानिश्चयात् पक्षाव्यापकानन्त्रयाव्यतिरेकवत । न पक्षधर्मवे सत्येव सा- धनत्य सिद्धत्वं येनासिद्धविवेकतस्तत्तस्य लक्षणं, अपक्षधर्मस्यापि सिद्धत्वसमर्थनात् । नापि सपक्षे सत्त्वे एव विपरीतार्थविवेकः सर्वानेकांतात्मकत्वसाधने सत्त्वादेः सपक्षे सत्वाभावेऽपि विरुद्धत्वाभा- वात् परस्य सर्वानित्यत्तसाधनवत् । नच व्यतिरेकमात्र सत्यपि व्यभिचारिविवके श्यामते साध्ये- तत्पुत्रत्वादेर्व्यभिचारसाधनात् व्यतिरेकविशेषस्तु तदेवान्यथानुपपन्नत्वमिति न त्रीणि रूपाण्यविना भावनियमप्रपंचः तेषु सत्सु हेतोरन्यथानुपपत्तिदर्शनात् । तेषां तत्प्रपंचते कालाकाशादीनामपि तत्प- पंचत्वप्रसक्तिस्तप्वपि सत्सु तद्दर्शनात् । तेषां सर्वसाधरणत्वान्न हेतुरूपत्वमित्यपि पक्षधर्मवादिपु समानं तेषामपि साधारणत्राद्धवाभासेष्वपि भावात् । ततोऽसाधारणं लक्षणमाचक्षाणरन्यथानुपपन्नत्वमेव नियत हेतुलक्षणं पक्षीकर्तव्यं । तथोक्तं- अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं ॥ १ ॥ इति एतेन पंचरूपाणि हेतोरविनामावनियमप्रपंच एव इत्येतदपास्तं सत्यप्यवावितविषयत्वे सत्प्रतिपक्ष चाविनामावनियमानवलोकात् । पक्षव्यापकत्वान्यवन्यतिरंकवत् । स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवत् इत्यत्र तत्पुत्रत्वस्य हेतोपिये झ्यामत्वे वाधकस्य प्रत्यक्षादेरभावात् अबाधितविषयत्वसिद्धावपि अविना- भावनियमासत्त्वात् अश्यामेन तत्पुत्रेण व्यभिचारात् । तथा तस्य श्यामत्वसाधनानुमानस्य प्रतिपक्षस्यास- त्रात् असत्प्रतिपक्षत्वे सत्यपि व्यभिचारात्साधनस्य तदभावः प्रतिपत्तव्यः । तदत्रैवं वक्तव्यं- अन्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतं नान्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतं ॥ १ ॥ इति तदेवमन्यथानुपपत्तिनियमनिश्चय एवेक साधनस्य लक्षणं प्रधान तस्मिन्सति त्रिलक्षणस्य पंचल- क्षणस्य प्रयोगा निवार्यते एवेति प्रयोगपरिपाव्याः प्रतिपाद्यानुरोधतः परानुग्रहप्रवृत्तैरभ्युपगमात् । तथा चा- भ्यधायि कुमारनंदिभट्टारकैः- अन्यथानुपपत्त्येकलक्षणं लिंगमंग्यते प्रयोगपरिपाटी तु प्रतिपाद्यानुरोवतः ॥ १ ॥ इति तच साधनं एकलक्षणं सामन्यादेकाविधमपि विशेषतोऽतिसंक्षपाडिविधं विधिसाधनं संक्षेपात्रिविध- मभिधीयते कार्य कारणस्य, कारणं कार्यस्य, अकार्यकारणमकार्यकारणस्यति प्रकारांतरस्यात्रत्रांतर्भावात् । तत्र कार्य हेतुः, अग्निरत्र धूमात् इति कार्यकार्यादेरत्रैवांतर्गतत्वात् । कारणं हेतु:-अस्त्यत्र छाया छत्रात् इति कारणकारणास्त्रानुप्रवेशान्नार्थातरत्वं । न चानुकूलत्वमात्रमत्यक्षणप्राप्तं वा कारणं लिंगमुच्यते येन प्रतिबंधौकल्यसमवाळ्यभिचारि स्यात् । द्वितीयक्षणे कार्यस्य पक्षीकरणादनुमानानर्थकलं वा कार्याविना- भाविनियमतया निश्चितस्यानुमानकालप्राप्तस्य कारणस्य विशिष्टस्य लिंगत्वात् । अकार्यकारणं चतुर्विध- व्याप्यं सहचरं पूर्वचरं, उत्तरचरंचति । तत्र च्याप्पलिंगं व्यापकस्य यथा सर्वमनकांतात्मकं सत्त्वादिति सत्वं हि वस्तुत्रं- प्रमाणपरीक्षा उत्पादव्ययध्रौव्ययुक्तं सत् इति वचनात् । नच तदेकांतेन सुनयविपयेण व्यभिचारि तस्य वस्त्वंशत्वात् । सहचरं लिंगं यथा- अस्ति तेजसि स्पर्शसामान्यं (१) न रूपसामान्यस्य कार्य कारणं वा नापि रूपसामान्य स्पर्शसामान्यस्य तयोः सर्वत्र सर्वदा समकालत्वात् सहचरत्वप्रसिद्धः । एतेन संयोगिन एकार्थसमवायिनश्च साध्यसमकालस्य सहचरत्नं निवेदितमेकसामग्रयधीनस्यैव प्रतिपत्तव्यं समवायिनः कारणत्ववत् । पूर्वचरं लिंग यथोदेष्यति शकटं कृत्तिकोदयात् इति पूर्वपूर्वचराद्यनेनैव संगृहीतं । उत्तरचरलिंगं यथा-उदगारंणिः कृतिकोदयात् इंति, उत्तरोत्तरचरमेतेनैव संगृह्यते तदेतत्साध्यस्य विधौ साधनं पविधमुक्तं । प्रतिषेधे तुप्रतिषेध्यस्य विरुद्ध कार्य विरुद्ध कारणं विरुद्धाकार्यकारणं चेति । तत्र विरुद्धकालिंग-नास्त्यत्र शीतस्पर्टी धूमात् इति शीत स्पर्शेन हि विरुद्धो वन्हिः तस्य कार्य धूम इति विरुद्धकारणं । नास्य पुंसोऽसत्यमस्ति सम्यग्ज्ञानात् इति विरुद्ध ह्यसत्येन सत्यं तस्य कारणं सम्यग्ज्ञानं यथार्थज्ञानं रागद्वेपरहितं तत्कुतश्चित्सुक्ताभिधानादेः प्रसिद्धयत् सत्यं साधयति । तच्च सिद्धयदसत्यं प्रतिपेधयति इति । विरुद्धाकार्यकारणं चतुर्विध-विरुद्धव्याप्यं विरुद्धसह. चरं विरुद्धपूर्वचरं विरुद्धोत्तरचरं चेति तत्र विरुद्धव्याप्यं नास्त्यत्र शीतस्पर्शः, औष्ण्यात् । औष्ण्यं हि व्याप्यमग्नेः स च विरुद्धः शीतस्पर्शेन प्रतिपेयेनेति । विरुद्धसहचरं नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति मिथ्याज्ञानेन हि सम्यग्ज्ञानं विरुद्धं तत्सहचरं सम्यग्दर्शन मिति । विरुद्धपूर्वचरं नोदेष्यति मुहूर्ताते शंकटं रेवत्युदयात्।. शकटोदयविरुद्धो ह्यश्चन्युदयः तत्पूर्वरो रेवत्युदयः। विरुद्धोत्तरचरं-मुहूर्तात् प्राङ्गोदगाद्भरणः पुष्पोदयादिति । भरण्युदयविरुद्धो हि पुनर्वसूदयः तदुत्तरचरः पुष्योदय.इति । तान्येतानि साक्षात्प्रतिषेध्य- विरुद्धकार्यादीनि लिंगानि विधिद्वारेण प्रतिषेधसाधनांनि पडभिहितानि। परंपरयातु कारणविरुद्धकार्य व्याप- कविरुद्धकार्य कारणव्यापकविरुद्धकार्य व्यापककारणविरुद्धकार्य कारणविरुद्धकारणं व्यापकविरुद्धकारणं कार- णव्यापकविरुद्धकारणं व्यापककारणविरुद्धकारणं चेति तथा कारणविरुद्धव्याप्यादीनि कारणविरुद्धचहचरा- दीनि च यथाप्रतीति वक्तव्यानि । तत्र कारणविरुद्धकार्य-नास्त्यस्य हिमजनितरोमहर्षादिविशेपो धूमातू इति प्रतिपेथ्यस्य हि रोमहीदिविशेषस्य कारणं हिमं तंद्विरुद्धोऽग्निः तत्कार्य धूम इति । व्यापकविरुद्धकार्य नास्त्यत्र शीतसामान्यव्याप्तः शीतस्पर्शविशेपो धूमात् इति शीतस्पर्शविशेषस्य हि निषेध्यस्य व्यापकं शी- तसामान्यं तद्विरद्धोऽग्निः तस्य कार्य धूम इति । कारणव्यापकविरुद्धकार्य नास्त्यत्र हिमत्वव्याप्तहिमाविशे- पजनितरोमहादिविशेषो. धूमात् इति रोमहर्षादिविशेषस्य हि कारण हिमविशेपस्तस्य व्यापक हिमवं तद्विरुद्धोग्निः तत्कायें धूम इति । व्यापककारणविरुद्धकार्य-नास्त्यत्र शीतस्पर्शविशेपस्तद्व्यापकशीतस्प- र्शमात्रकारणहिमविरुद्धाग्निकार्यधूमादिति शीतस्पर्शविशेपस्य-हि व्यापकं शीतस्पर्शमात्रं तस्य कारणं हिम तद्विरुद्धोग्निस्तस्कार्य धूम इति । कारणावरुद्धकारणं-नास्त्यस्य मिथ्याचरणं तत्त्वार्थोपदेशग्रहणात् मि- थ्याचरणस्य हि कारणं मिध्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणं । तत्त्वार्थो- पदेशश्रवणे सत्यपि कस्य चित्तत्त्वज्ञानासंभवाद् ग्रहणवचनं । तत्त्वार्थानां श्रद्धानपूर्वकं-अवधारणं प्रहणमिष्टं, अन्यथास्य प्रहणाभासत्वात् । मिथ्याचरणस्य वात्र नास्तिता साध्यते न पुनरनाचरणस्य तत्त्वार्थोपदेशग्रहणादुत्पन्नतत्त्वज्ञानस्याप्यसंयतसम्यग्दृष्टेश्चारित्रासंभवात्-अनाचारस्य प्रसिद्धेः । न तु मि- थ्याचरणमप्यस्य संभवति तत्त्वज्ञानविरोधात् तेन सह तस्यानवस्थानात् इति । तथा व्यापकविरुद्धकारणं लिंग-नास्त्यस्यात्मनि मिथ्याज्ञानं तत्त्वार्थोपदेशग्रहणात् इति आत्मनि मिथ्याज्ञानविशेपस्य व्यापकं मिथ्या- ज्ञानमात्रं तद्विरुद्धं सत्यज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणं यथार्थोपवर्णितमिति । कारणव्यापकविरुद्ध- कारणं-नास्त्यस्य मिथ्याचरणं, तत्त्वार्थोपदेशग्रहणादिति अन मिथ्याचरणस्य कारणं मिथ्याज्ञानविशेषः तस्य व्यापकं मिथ्याज्ञानमात्रं तद्विरुद्धं तत्त्वज्ञानं, तस्य कारणं तत्त्वार्थोपदेशग्रहणमिति प्रत्येयं । व्यापककारणविरुद्धकारणं लिगं. नास्त्यस्य मिथ्याचरणाविशेषस्तत्त्वार्थोपदेशग्रहणादिति मिथ्याचरण विशे- पस्य हि व्यापकं मिथ्याचरणसामान्यं तस्य कारणं मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदे- (?) रूपसामान्यात् । स्पर्शसामान्य हि-इति शोधितं । .- १० . . G8 सनातनजनग्रंथमालायां- शप्रहणमिति तथा कारणविरुद्धच्याप्यं लिंग न संति सर्वधकोतवादिनः प्रशमसंवेगानुकंपास्तिक्यानि वैपर्यासिकमिथ्यादर्शनविशेषात् ।, प्रशमादीनां हि कारणं सम्यग्दर्शनं तद्विरद्धं मिथ्यादर्शनसामान्य तेन व्याप्यं मिथ्यादर्शनं वैपर्यासिकविशिष्टमिति । व्यापकाविरुद्धव्याप्यं-न सति स्याद्वादिनो वैपर्यासिकादिमि- थ्यादर्शनविशेपाः सत्यज्ञानविशेपात् इति वैपर्यासिकादिमिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसा- मान्यं तद्विरुद्धं तत्त्वज्ञानसामान्यं तस्य च्याप्यस्तत्त्वज्ञानविशेष इति । कारणव्यापकविरुद्धव्याप्यंन संत्यस्य प्रशमादीनि मिथ्याज्ञानविशेपादिति, प्रशमादीनां हि कारणं सम्यग्दर्शनविशेषः तस्य व्यापकं सम्य- ग्दर्शनसामान्यं तद्विरुद्धं मिथ्याज्ञानसामान्यं तेन च्याप्तो मिथ्याज्ञानविज्ञप इति । व्यापककारणविरुद्ध व्याप्य लिंगं न संत्यस्य तत्त्वज्ञानविशेषाः मिथ्यार्थोपदेशग्रहणविशेषात् । तत्वज्ञानविशेपाणां न्यापर्क तत्त्वज्ञानसामान्यं तस्य कारणं तत्त्वार्थोपदेशग्रहण तद्विरुद्धं मिध्यार्थोपदेशग्रहणसामान्यं तेन व्याप्ती मिथ्यार्थोपदेशग्रहणविशेप इति । एवं कारणविरुद्धसहचरं लिंग-न संव्यस्य प्रशमादीनि मिथ्याज्ञानादिति प्रशमादीनां हि कारणं सम्यग्दर्शनं तद्विरद्धं मिथ्यादर्शनं तत्सहचरं मिथ्याज्ञानमिति । व्यापकविरुद्ध- सहचरं-न सत्यस्य मिथ्यादर्शनविशेपाः सम्यम्झानादिति मिथ्यादर्शनविशयाणां हि व्यापकं मिघ्यादर्श- नसामान्यं तद्विरुद्धं तत्वार्यश्रद्धानं सम्यग्दर्शनं तत्सहचरं सम्यग्ज्ञानमिति । कारणव्यापकविरुद्धसहचर- न संत्यस्य प्रशमादीनि मिथ्याज्ञानादिति प्रशमादीनां हि कारणं सम्यग्दर्शनविशेपास्तेषां व्यापकं सम्य- ग्दर्शनसामान्यं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिथ्याज्ञानमिति । व्यापककारणविरुद्धसहचरं न सत्यस्य मिथ्यादर्शनविशपाः सत्यज्ञानादिति मिथ्यादर्शनविशेपाणां हि व्यापकं मिव्यादर्शनसामान्यं तस्य कारणं दर्शनमाहोदयस्तद्विरद्धं सम्यग्दर्शनं तत्सहचरं सम्याज्ञानमिति । तदत्सामान्यतो विरोधिलिंग, प्रपंचतो द्वाविंशतिप्रकारमपि भूतमभूतस्य गमकमन्यथानुपपन्नवनियमनिश्चयलक्षणत्वात् प्रतिपत्तव्यं । भूतं भूतस्य प्रयोजक कार्यादि पदप्रकार पूर्वमुक्त । तदित्यं विधिमुखेन विधायक प्रतिषेधमुखेन प्रतिपेवकं च लिंगम- मिधाय सांप्रतं प्रतिपेधमुखेन विधायक प्रतिषेधकं च साधनमभिधीयते तत्राभूतं भूतस्य विधायकं यथा- अस्त्यस्य प्राणिनो व्याधिविशेपो निरामयचेष्टानुपलब्धेरिति । तथा-अस्ति सर्वथैकांतवादिनामझानादि- र्दोषः युक्तिशास्त्राविरुद्धवचनाभावात् इति अस्वस्य मुनेराप्तत्वं विसंवादकत्वाभावात् । अभूदेतस्य ताल- फलस्य पतनकर्म वृतसंयोगाभावात् इति वहुधा दृष्टव्यं । तथैवाभूतमभूतस्य प्रतिपेवस्य प्रतिपेवकं यथा- नास्त्यत्र शवशरीरे बुद्धिापारख्याहाराकारविशेपानुपलब्धेरिति कार्यानुपलब्धिः। न संयस्य प्रशमादीनि तत्त्वार्थश्रद्धानानुपलब्धेरिति कारणानुपलब्धिः । नास्त्यत्र शिंशपा वृक्षानुपलब्धेरिति व्यापकानुपलब्धिः । नास्त्यस्य तत्त्वज्ञानं सम्यग्दर्शनामावात् इति सहचरानुपलब्धिः। न भविष्यति मुहृताते शकटोदयः कृत्ति- कोदयानुपलब्वेरिति पूर्वचरानुपलब्धिः । नोदगाद्भरणिर्मुहूर्तात्राक्कत्तिकोदयानुपलब्वेरिति उत्तरचरानुप- लब्धिः । एवं परंपरया कारणाधनुपलब्धिः व्यापकव्यापकानुपलभ्यादिकमपि बहुधा प्रतिपेधद्वारेण प्रतिपेवसाधनमवधारणीयं। अत्र संग्रहश्लोकाः स्यात्कार्य कारणच्याप्यं प्राक् सहोत्तरचारि च लिंग तलक्षणन्याप्तभूतं भूतस्य साधकं ॥ १ ॥ पोढा विरुद्धकार्यादि साक्षादेवोपवर्णितं लिंग भूतममूतस्य लिंगलक्षणयोगतः ॥ २॥ पारंपर्यात्तु कार्य स्यात् कारणं व्याप्यमेव च सहचारि च निर्दिष्टं प्रत्येकं तचतुर्विधं ॥३॥ कारणाविष्टकार्यादिभेदनोदाहृतं पुरा यया पोडशमेदं स्यात् द्वाविंशतिविधं ततः ||४|| - लिग समुदितं ज्ञेयमन्यथानुपपत्तिमत् , प्रमाणपरीक्षा। तथा भूतमभूतस्याप्यूह्यमन्यदपीदृशं ॥ ५॥ अभूतं भूतमुन्नीतं भूतस्यानेकधा बुधैः तथा ऽभूतमभूतस्य यथायोग्यमुदाहरेत् ॥५॥ बहुधाप्येवमाख्यातं संक्षेपण चतुर्विधं अतिसंक्षेपो द्वधोपलंभानुपलभभृत् ॥ ७॥ एतेन कार्यस्वभावानुपलभविकल्पात् त्रिविधमेव लिंगमिति नियमः प्रत्याख्यातः सहचरादेलिंगांतरत्वात् प्रत्यक्षपूर्वकं त्रिविधमनुमान-पूर्ववच्छेषवत्सामान्यतोदृष्टमित्यपि। यदि पूर्ववच्छेषवत् केवलान्वयि, पूर्ववत्सामान्य- तोदृष्टं केवलव्यतिरेक पूर्ववच्छेषवत्सामान्यतोदृष्टमन्वयव्यतिरेकि व्याख्यायते त्रिसूत्रीकरणादस्य सूत्रस्य तदान किंचिद्विरद्धं निगदितलिंगप्रकारेषु त्रिविधस्यापि संभवात् । यथोपपत्तिनियमात्केवलान्वयिनोगमकत्वाविरोधात्। तत्र वैधHदृष्टांताभावेऽपि साध्याविनाभावनियमनिश्चयात् । अथ पूर्ववत्कारणात्कार्यानुमानं शेषवत् कार्या- कारणानुमान सामान्यतो दृष्ट । कार्यकारणादकार्यकारणानुमानं सामान्यतोऽविनाभावमात्रादिति व्याख्यायते तदापि स्याद्वादिनामभिमतमेव तथा सर्वहेतुप्रकारसंग्रहस्य संक्षेपतः प्रतिपादनात् । यदापि पूर्ववत्पूर्वलिंग- लिंगिसंबंधस्य कचिनिश्चयादन्यत्र पूर्ववद्वर्तमान शेषवत्परिशेषानुमान प्रसक्तप्रतिषेधे परिशिष्टस्य प्रतिपत्तेः । सामान्यतो दृष्टं विशिष्टव्यक्तौ संबंधाग्रहणात्सामान्येन दृष्टं यथा--गतिमानादित्यः देशादेशांतरप्राप्तः देवद. तवदिति व्याख्या विधीयते तदापि स्याद्वादिनां नानवधेयं प्रतिपादितहेतुप्रपंचस्यैव विशेषप्रकाशनात् । सर्वं हि लिंगं पूर्ववदेव परिशेषानुमानस्यापि पूर्ववत्त्वासिद्धेः, प्रसक्तप्रतिषेधस्य परिशिष्टप्रतिपत्त्यविनाभूतस्य पूर्व कचिनिश्चितस्य विवादाध्यासितपरिशिष्टप्रतिपत्तौ साधनस्य प्रयोगात् । सामान्यतोदृष्टस्य च पूर्ववत्त्व- प्रतीतेः कचिदेशांतरप्राप्तेः ।। गतिमत्यविनाभाविन्या एव देवदत्तादौ प्रतिपत्तेरन्यथा तदनुमानाप्रवृत्तेः । परिशेषानुमानमेव वा सर्व संप्रतीयते पूर्ववतोऽपिघूमात्पावकानुमानस्य प्रसक्तौ पावकप्रतिषेधात् प्रवृत्तिघटनात। तदप्रतिपत्तौ विवादानुपपत्तेरनुमानवैयर्थ्यात तथा सामान्यतोदृष्टस्यापि देशांतरप्राप्तेरादित्यगत्यनुमानस्य तदगतिमत्त्वस्य प्रसक्तस्य प्रतिषेधादुपपत्तरिति । सकलं सामान्यतादृष्टमेव वा सर्वत्र सामान्येनैव लिंगालिंगि संबंधप्रतिपत्तेर्विशेषतस्तत्संबंधस्य प्रतिपत्तुमशक्तेः । केन चिद्विशेषेण लिंगभेदकल्पना न निवार्यते एव प्रकारांतरतस्तद्भेदकल्पनावत् । केवलमन्यथानुपपन्नत्वनियमनिम्यय एव हेतोः प्रयोजकत्वनिमित्तं तस्मिन् सति हेतुप्रकारभेदपरिकल्पनायाः प्रतिपत्तुरभिप्रायवैचित्र्यात् । वैचित्र्यं नान्यथेति सुनिश्चितं नश्वेतसि तथा प्रतीतरवाध्यमानत्वात् । यदापि-अवीतं वीतं वीतांवीतमिति लिंगं त्रिविधमनुमन्यते तदापि नान्यथानुपपन्नल नियमनिश्चयलक्षणमतिक्रम्य व्यवतिष्ठते । नापि प्रतिपादितहेतुमपंचवीहतं समयांतरभाषया केवलान्वय्यादि त्रयस्यैव तथाविधानात् । कचित्साध्यसाधनधर्मयोः साहचर्यमविनामावनियमलक्षणमुपलभ्यान्यत्र साधनधर्म- दर्शनात् । साध्यधर्मप्रतिपत्तिरावीतमुच्यते यथा गुणागुणिनौ परस्परं भिन्नौ भिन्नप्रत्ययविषयत्वात् घटपटव- दीति तच्च केवलान्वयीप्यते कथंचिद्गदएव साध्ये ऽन्यथानुपपन्नत्वासोः सर्वथा भेदे गुणगुणिभावविरोधात् गमकत्वासिद्धेः । तथा फचिदेकस्य धर्मस्य व्यावृत्तौ परस्य धर्मस्य व्यावृत्तिं नियमवतीमुपलभ्यान्यत्र तद्धर्मस्य निश्चयात् साध्यसिद्धितिं कथ्यते यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् इति तदिदं केवल व्यतिरेकीष्टं परिणामिनात्मना सात्मकत्वव्यावृत्तौ भस्ममि प्राणादिमत्वव्यावृत्तिनियमानश्चयात् निरन्वय क्षणिकचित्तवत् कूटस्थेनात्मना प्राणाद्यर्थक्रियानिष्पादनविरोधात् । वीसावीतं तु तदुभयलक्षणयोगादन्व- यव्यतिरेकि धूमादेः पावकाचनुमानं प्रसिद्धमेवेति न.हेत्वंतरमस्ति ततः सूक्तं-अन्यथानुपपत्तिनियमनिश्चय- लक्षणं साधनं अतिसंक्षेपविस्तरतोऽभिहितस्य सकलसाधनविशेषस्य तेन व्याप्तत्वात् । तथाविधलक्षणात्सा- धनात् साध्ये साधीयतुं शक्ये, अभिप्रेते कचिदप्रसिद्ध च विज्ञानमनुमानमिति । साधायतुमशक्ये सर्वथैकांते साधनस्याप्रवृत्तेः तत्र तस्य विरुद्धत्वात् स्वयमनभिप्रेते चातिप्रसंगात् प्रसिद्धे च वैयर्थ्यात् तस्य साध्याभासत्त्व प्रसिद्धः प्रत्यक्षादिविरुद्धस्यानिष्टस्य सुप्रसिद्धस्य च साधनाविषयत्वनिश्चयात् । ..लिंगमिति पाठांतरं ।

७६ सनातनजैनग्रंथमालायां- तदुक्तं-अकलंकदेवैः- साध्यं शक्यमभिप्रेतमप्रसिद्ध ततोऽपरं साध्याभासं विरुद्धादि साधनाविषयत्वतः ॥१॥ तदेत्साधनात् साध्यविज्ञानमनुमानं स्वार्थमभिनिबोधलक्षणं विशिष्टमतिज्ञानं साध्यं प्रत्यभिमुखान्नित्थमि- तात्साधनादुपजातबोधस्य तर्कफलस्याभिनिवोध इति संज्ञाप्रतिपादनात् । परार्थमनुमानमनक्षरश्रुतज्ञान- अक्षरभुतज्ञानं च तस्य श्रोत्रमतिपूर्वकस्य च तथाल्वोपपत्तेः । शब्दात्मकं तु परार्थानुमानमयुक्तं शब्दस्य प्रत्यवमर्शिनोऽपि सर्वस्य द्रव्यागमरूपत्वप्रतीतेः कथमन्यथा प्रत्यक्षमपि शब्दात्मकं परार्थे न भवेत् सर्वथा विशेषाभावात् प्रतिपादकप्रतिपाद्यजनयोः स्वपरार्थानुमानकार्यकारणत्वसिद्धरुपचारादनुमानपरामर्शिनो. वाक्यस्य परार्थानुमानत्वप्रतिपादनमविरुद्धं नान्यथातिप्रसंगादिति बोद्धव्यं । तदेत्परोक्षं प्रमाणमविशदत्वात् श्रुतज्ञानवत्। किं पुनः श्रुतज्ञानमित्येतदभिधीयते-श्रुतज्ञानावरणवीयाँतरायक्षयोपशमविशेषांतरंगे कारणे सति बहिरंगे मतिज्ञाने च, अनिद्रियविषयालंबनं, अविशदं ज्ञानं श्रुतज्ञान । केवलज्ञानं तीर्थकरत्वनामपुण्याति- शयोदयनिमित्तकभगवतीर्थकरध्वनिविशेषादुत्पन्नं गणधरदेवश्रुतज्ञानमेवमसंगृहीतं स्यादिति न. शंकनीयं तस्यापि श्रोत्रमतिपूर्वकत्वात् । प्रसिद्धमतिश्रुतावाधिमनःपर्ययज्ञानानि वंचनजनितप्रतिपाद्यजनवचनश्रुतज्ञां- नवत् । समुद्रघोषजलधरस्वनश्रुतिजनिततदविनाभाविपदार्थविषयश्रुतज्ञानवद्वा ततो निरवद्यं श्रुतज्ञानलक्षणं- अव्याप्त्यतिव्याप्त्यसंभवदोषरहितत्वात् । अनुमानलक्षणवत् । तदेवंविधं श्रुतज्ञानं प्रमाणमविसंवादकत्वात् प्रत्यक्षानुमानवत् । नचासिद्धमविसंवादकत्वमस्येति शंकितव्यं ततोऽर्थे परिच्छिद्य प्रवर्तमानस्य विसंवादा- भावात् सर्वदाऽर्थक्रियायां संवादप्रसिद्धः प्रत्यक्षादिवत् । ननु च श्रोत्रमतिपूर्वकश्रुतज्ञानादर्थं प्रतिपद्य वर्तमानस्यार्थक्रियायामविसंवादकस्य क्वचिदभावात् न प्रामाण्यं सर्वत्रानाश्वासादिति चेत् ? न प्रत्यक्षादेरपि शुक्तिकाशकलं रजताकारतया परिच्छिद्य तत्र प्रवर्त मानस्यार्थक्रियायां रजतसाध्यायामविसंवादविरहात् । सर्वत्र प्रत्यक्षेऽनाइवासादप्रामाण्यप्रसंगात् । प्रत्यक्षाभासे विसंवाददर्शनान्न प्रत्यक्षेऽनाश्वासोऽनुमानवदिति चेत् तर्हि श्रुतज्ञानाभासाद्विसंवादप्रसिद्धः सत्यश्रुतज्ञाने कथम- नाश्वासः? नच सत्यं श्रुतज्ञानमसिद्धं तस्य लोके प्रसिद्धत्वात् सुयुक्तिकसद्भावाच.तथाहि श्रोत्रमतिपूर्वकं श्रुतज्ञानं प्रकृतं सत्यमेव अदुष्टकारणजन्यत्वात् प्रत्यक्षादिवत। तड्विविधं सर्वज्ञासर्वज्ञवचनश्रवणनिमित्तत्वात् । तच्चोभ- यमदुष्टकारणजन्यं गुणवद्वक्तृकशब्दजनितत्वात् । ननु च नद्यास्तीरे मोदकराशयः संतीति प्रहसनेन गुणवद्वक्तृकशब्दादुपजनितस्यापि श्रुतज्ञानस्यास- व्यवसिद्धेय॑भिचारिगुणवद्वत्तृकशब्दजनितत्वमदुष्टकारणजन्यत्वे साध्ये ततो न तत्तद्गमकमिति न मंतव्यं प्रहसनपरस्य वक्तुर्गुणवत्त्वासिद्धेः प्रहसनस्यैव दोषत्वादज्ञानादिवत् । कथं पुनर्विवादापन्नस्य श्रोत्रमतिपूर्वक श्रुतज्ञानस्य गुणवद्वक्तृकशब्दजनितत्वं सिद्धं ? इति चेत् सुनिश्चितासंभवद्वाधकस्त्रादिति भाषामहे । प्रत्यक्षे ह्यर्थे प्रत्यक्षस्यानुमेयेऽनुमानस्यात्यंतपरोक्षे चागमस्य वाधकस्यासंभवात् असंभवद्बाधकत्वं तस्य सिद्धं । देशकालपुरुषांतरापेक्षयापि संशयानुत्पत्तेः सुनिश्चितत्वविशेषणमपि साधनस्येति नासिद्धताशंकावतरति । नाप्येनैकांतिकता विपक्षे कचिदसंभवात् । न विरुद्धता सुनिश्चितासंभवाधकस्य श्रुतज्ञानस्य अगुणवद्वत्तक शब्दजनितस्य वादिप्रतिवादिप्रसिद्धस्यासंभाव्यमानत्वात् । तथा व्याहतत्वाच्च । कथंचिदपौरुषेयशब्दजनित श्रुतज्ञानस्य तु गुणवद्वक्तृकशब्दज़नितत्वेनादुष्टकारणजन्यत्वं सिद्धयेत् । ततश्च सत्यत्वमिति स्याद्वादिनां सर्वमनवा पर्यायार्थिकनयप्राधान्यात् द्रव्यार्थिकनयगुणभावाच श्रुतज्ञानस्य गुणवद्वक्तृकशब्दजनितत्व- सिद्धः द्रव्यार्थेकप्राधान्यात्पर्यायार्थिकगुणभावाच्च गुणवव्याख्यातृकशब्दजनितत्वोपपत्तश्च । नच सर्वधा पौरुषेयःशब्दोऽपौरुषेयो वा प्रमाणतः सिद्ध्यते । ननु च विवादापन्नः शब्दः. पौरुषेय एव. प्रयत्नानंतरीयकत्वात् पटादिवदित्यनुमानात् आगमस्य द्वाद- शांगस्यांगवाह्यस्य चानेकभेदस्य पौरुषेयत्वमेव युक्तं भारतादिवदिति कश्चित सोऽप्येवं पृष्टः सन्नाचष्टां-किं ? . .

७७ - प्रमाणपरीक्षा। सर्वथा प्रयत्नांनतरीयत्वहेतुः कथंचिद्वा? सर्वथा चेत् ? अप्रसिद्धः स्याद्वादिनो द्रव्यार्थादिप्रयत्नानंतरीयकत्वादा- गमस्य । कीचन्द्रद्विरुद्धः कथंचिदपीरुपयत्वसाधनातः। प्रयत्नानंतरीयकत्वं हि प्रवचनस्योच्चारकपुरुप- प्रयत्नानंतरोपलंभात् स्यात् उत्पादकपुरुषप्रयत्नांनतरोपलंभाद्वा ? प्रथमकल्पनायामुच्चारकपुरुषापेक्षया पौरु- पेयत्वमेव तस्य संप्रति पुराणपुरुपोत्पादितकाव्यप्रबंधस्यत्र प्रसक्त।. न पुनरुत्पादकपुरंपापेक्षया प्रवचनस्याना- दिनिधनस्योत्पादकपुरुषाभावात् । सर्वज्ञ उत्पादक इति चेत् ? वर्णात्मनः पदवाक्यात्मनो वा प्रवचनस्यो- पादकः स स्यात् ? न तावद्वात्मनस्तद्वर्णानां प्रागपि, भावात् तत्सदृशानां पूर्व भावो न पुनस्तेषां घटादी- नामिवेति चेत्. कथमिदानामनुवादकस्तेपामुत्पादको न स्यात् ? तदनुवादात् प्रागपि तत्सदृशानामेव सद्भावात् तेपामनूद्यमानानां तदैव सद्भावात् । तथाच न कश्चिदुत्पादको वर्णानां सर्वस्योत्पादकत्वसिद्धेः । यथैव हि कुंभादीनां कुंभकारादिरुत्पादक एव न पुनरनुकारकस्तथा वर्णानामपीति तदनुवादकव्यवहारविरोधः पूर्वीपलंब्धवानां सांप्रतिकवर्णानां च सादृश्यादेकत्वोपचारात्पश्चाद्वादकोऽनुवादक एव | असावाह वर्णाना- हमिति स्वातंत्र्यपरिहरणात्पारतंत्र्यानुसरणादिति चेत् तर्हि यथा वर्णानां पठितानुवादकः तथा पाठयितापि तस्यापि खातंत्र्याभावात् सर्वस्य खोपाध्यायपरतंत्रत्वात् तत एवं वक्तव्यं नेह वर्णान्नरः कश्चित् स्वातंत्र्येण प्रपद्यते यथैवास्मै. परैरुक्तास्तथैवैतान्विवक्ष्यते ॥ १ ॥ परेप्येवं विवक्ष्यति तस्मादेपामनांदिता प्रसिद्धा व्यवहारेण संप्रदायाव्यवच्छिदा ॥२॥ तथा च सर्वक्षोप्यनुवादक. एव पूर्वपूर्वसर्वज्ञोदितानामेव चतुःषष्टिवर्णानामुत्तरोत्तरसर्वज्ञेनानुवादात् । तस्य पूर्वसर्वज्ञोदितवर्णानुपलंभे पुनरसर्वज्ञत्वप्रसक्तिः । तदेवमनादिसर्वज्ञसंततिमिच्छतां न कश्चित्सर्वज्ञो वर्णानामुत्पादकस्तस्य तदनुवादकत्वात् । पदवाक्यात्मनः प्रवचनस्योत्पादकः सर्वज्ञ इत्यप्यनेनापास्तं प्रव- चनपदवाक्यानामपि पूर्वपूर्वसर्वज्ञोदितानामेवोत्तरोत्तरसर्वज्ञेनानुवादात् सर्वदांगप्रविष्टांगवाह्यश्रुतस्य शन्दा- स्मनो द्वादशविकल्पानेकविकल्पस्यान्याशवर्णपदवाक्यत्वासंभवात् तस्यापूर्वस्योत्पादकायोगात् । स्यान्मतं-महेश्वरोऽनादिरेकः सर्वज्ञो वर्णानामुत्पादकः प्रथमं सृष्टिकाले जगतामिवोपपन्नस्तस्य सर्वदा स्वतंत्रत्वात् सर्वज्ञांतरपरतंत्रतापायात् तदनुवादकत्वायोगादिति तंदप्यसत्यं तस्यानादेरेकस्येश्वरस्या तपरीक्षायां प्रतिक्षिप्तत्वात्, परीक्षाक्षमत्वाभावात् कपिलादिवत् । संभव वा सदैवेश्वरः सर्वज्ञो ब्राह्मण मानेन वर्षाशतांते वर्षशतांत जगतां सृष्टा पूर्वस्मिन् पूर्वस्मिन् सृष्टिकाले स्वयमुत्पादितानां वर्णपदवाक्यानामुत्तर- स्मिन्नुत्तरंस्मिन् सृष्टिकाले पुनरुपदेष्टा कथमनुवादको न भवेत् । न ह्येकः कविः स्वकृतकाव्यस्य पुनः पुनर्वक्तानुवादको न स्यात् इति वक्तुं युक्तं , शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् इति वचनविरोधात् । एकस्य पुनः पुनस्तदेव वदतोऽनुवादासंभवे पुनरुक्तस्यैव सिद्धेः ततः कस्य- चित्स्वयं कृतं काव्यं पुनः पुनर्वदतोऽनुवादकले महेश्वरः सर्वदैवानुवादकः स्यात् । पूर्वपूर्ववादापेक्षयोत्तरो. तरस्यानुवादरूपत्वात् । नच पूर्वपूर्ववर्णपदवाक्यविलक्षणान्येव वर्णपदवाक्यानि महेश्चरः करोति इति घटते तेषां कुतश्चित्प्रमाणादप्रसिद्धेः प्रसिद्धौ वा तेषां किमज्ञानात्तदा महेश्वरोऽप्रणेता स्यात् । अथाशक्तेरतप्रयो- जनाभावादिति ? न तावदज्ञानात् सर्वज्ञत्वविरोधात् तस्य सर्वप्रकारवर्णपदवाक्यवेदित्यसिद्धेः अन्यथानी- श्वरत्वप्रसंगात् । नाप्यशक्तेः-ईश्वरस्यानंतशक्तित्ववचनात् । यदि ह्येकदा कानि चिदेव वर्णादीनि प्रणेतुमीश्व- रस्य शक्तिर्नान्यानि तदा कथमनंतशक्तिः स्यादनीशवत् । प्रयोजनाभावान्नान्यानि प्रणयतीति चेत् न सक- लवाचकप्रकाशनस्यैवं प्रयोजनवात् संकलवाच्यार्थप्रकाशनवत् । सकलजगत्कारणवद्वा प्रतिपाद्यजनानु- रोधात् केपी चिदेव वर्णीदीनां प्रणयने जगदुपभोक्तप्राण्यनुरोधान् केपांचिदेव जगत्कार्याणां करणं स्या- १.गौतमीयं सूत्रं । ? .

७८ सनातननग्रंथमालाया- न्न सर्वेषां । तथा चेश्वरकृतः कार्यः कार्यत्वादिति हेतुळमिचारित्रान्न सर्वकार्याणामीन्वरनिमित्तत्रं साधयेत् । नच सकलप्रकारवर्णादिवाचकप्रपंच जिज्ञासमानः कश्चियतिपाद्य एव न संमवतीति वक्तुं युक्तं सर्वज्ञवचन स्याप्रतिग्राहकत्वप्रसंगात् । तत्समवे च सर्गे सर्गे सकल्वर्णादीनां प्रणेतेश्वरोऽनुवादक एव स्यान् न पुन- उत्पादकः सर्वदेवेति सिद्धं ततोऽनेक एव सर्वत्रोऽस्तु किमकेश्वरस्य कल्पनया यथा चैको नवमिति वदति तदेवान्यः पुराणमित्यनेकसर्वज्ञकल्पनायां व्याघातात् वस्तुव्यवस्थानासंभवस्तथैकस्यापीश्वरस्यानेकसर्ग कालप्रवृत्तावनेकोपदेशाम्यनुज्ञानात् । तत्र पूर्वस्मिन् सर्गे नवामित्युपदेशीश्वरेण तदेवोचरस्मिन् सर्गे पुराण- मित्युपदिश्यते न पुनरेकदैव नवं पुराणं चकमिति व्याघातासमवे कयमनकस्यापि सर्वज्ञस्य कालभेदेन नव- मिति पुराणमित्युपदेशतस्तत्ववचनव्याघातः ? इत्यलमनायेकेश्वरकत्यनया तत्साधनोपायासंमवात् । सोपायसिद्धस्तु सर्वज्ञोऽनेकः प्रमाणसिद्धः निरतकालोच्छन्नत्य परमागमस्य प्रबंधेनाभिव्यंजकोऽनु- वादक इति प्रयत्नानंतरमभिव्यक्तेः कथं चिटययत्नानंतरीयकत्वं कथंचित्यौरुषेयत्वं साधयेत्-तथाहि- परमागमसंतानमनादिनिधनक्रम नोत्पादयेत्स्वयं कश्चित्सर्वज्ञोऽसर्ववेदिवत् ॥ १ ॥ यथैकः सकलार्थज्ञः स्वमहिम्ना प्रकाशयेत् तथान्योऽपि तमेवं चानादिः सर्वज्ञसंततिः ॥२॥ सिद्धा तत्प्रोक्तशब्दोत्यं श्रुतज्ञानमशेषतः प्रमाणं प्रतिपत्तव्यमदुष्टोपायजत्वतः ॥३॥ ततो बाह्यं पुन«धा पौरुषेयपदक्रमात् जातमार्यादनाच समासव्यासतोन्वितात् ॥ ४ ॥ तत्रापमृषिभिः प्रोक्ताददुर्वचनक्रमात् समुद्भुतं श्रुतज्ञानं प्रमाणं वाधकास्ययात् ॥ ५ ॥ अनाप तु द्विघोद्दिष्टं समयांतरसंगतं लौकिकं चेति तन्मिध्या प्रवादिवचनोद्भवं ॥६॥ दुष्टकारणजन्यवादप्रमाणं कथं च न सम्यग्दृष्टस्तदेतत्स्यात् प्रमाणं सुनयार्पणात् ॥ ७॥ नन्वदुष्टकारणजन्यत्वेन धूतज्ञानस्य प्रमाणत्वसाधने चोदनाज्ञानस्य प्रामाण्यं स्यात् पुरुपदोपरहिता- थाश्रोदनायाः सर्वथाप्यपौत्ययजनितत्वात् । तदुक्तं- चोदनाजनिता बुद्धिः प्रमाणं दोपवर्जितैः । कारणैर्जन्यमानत्वालिंगाप्तोक्त्यक्षबुद्धिवन् ॥ १॥ तदेतदुक्तं- गुणवत्कारणजन्यत्वस्यादुष्टकारणजन्यत्वशब्देनामिप्रेतत्वात् लिंगातोक्त्यक्षवृद्धिषु तथैव तस्य प्रति- पत्तेः । न हि लिंगस्यापौरुषेयत्वमदुष्टं साध्याविनामावनियमानश्चयाख्येन गुणेन गुणवत्वस्यादुष्टत्वस्य प्रती- तेः । तथाप्रोक्तेरविसंवादकत्वगुणेन गुणवत्तस्य तथाक्षाणां चक्षुरादीनां नैर्मल्यादिगुणेन गुणवत्त्वस्येति । ननु चादुष्टत्वं दोपरहितवं कारणस्य तच कचिद्दोपविरुद्धस्य गुणत्य सद्भावात् । तथा मन्वादिस्स- तिवचने कचिद्दोपकारणभावात् । यथा चोदनायां तदुक्तं- शब्दे दोघोद्रवस्ताबनवीनमिति स्थित तदभावः कचित्ताबद्गुणवद्वक्तृकलतः ॥१॥ तद्गुणैरपकष्टानां शब्दे संक्रांत्यसंमवात् यहा वक्तुरमावेन न स्युर्दोषा निराग्रंयाः ।। २॥ तदप्यसारं सर्वत्र गुणामावस्यैव दोपवत्त्वात् , गुणसद्भावस्यैव चादोपप्रतीतरमावस्य भावांतरवभाव- त्रसिद्धः, अन्यथा प्रमाणविषयत्वविरोधात्। गुणवक्तृकालस्य हि दोपरहितस्य वक्तृकत्वस्य संप्रत्ययः कथम- न्यया गुणदोषयोः सहानवस्थान युज्यत ? रागद्वेषमोहादिवत्तुर्दोपावितथाभिधानहेतवः । तद्विरुद्धाश्च वैरा- ग्यक्षमातत्त्वावबोधातदभावात्मकाः सत्यामिवानहेतबो गुणा इति परीक्षकजनमनसि वर्तते नच मन्वादयः स्मृतिशास्त्राणां प्रणेतारो गुणवंतस्तेषां तादृशगुणाभावात् । निर्दोपवेदपराधीनवचनत्वात्तेषां गुणवत्तमित्य- प्यसमावनीयं वेदस्य गुणवत्तासिद्धेः पुरुषस्य गुणाश्रयस्यामावात् । ययैव हि दोपवान् वेदान्निवर्तमानो . प्रमाणपरीक्षा। निर्दोषतामस्य साधयेत् तथासौ गुणवानपि-अगुणवत्तामिति न वेदो गुणवान्नाम । यदि पुनरपौरुषेयत्वमेव गुणस्तदानादिम्लेच्छव्यवहारस्यापि गुणवत्वं-अपौरुषेयत्वाविशेपात् । तदेवं- नादुष्टा चोदना पुंसोऽसत्त्वाद्गुणवतः सदा सव्याख्यातुः प्रवक्तुर्वा म्लेक्षादिव्यवहारवत् ॥ १ ॥ तया यजनितं ज्ञानं तन्नादुष्टनिमित्त सिद्धं येन 'प्रमाणं स्यात् परमागमबोधवत् ॥ २ ॥ घेदस्य पोरुषेयस्योच्छिन्नंस्य चिरकालतः सर्वज्ञेन विना कश्चिन्नोद्धतीतींद्रियार्थडक् स्याद्वादिनां तु सर्वजसंतानः स्यात्प्रकाशक: परमागमसंतानस्योच्छिन्नस्य कथंचन ॥ ४ ॥ सर्वभाषाकुभाषाश्च तद्वत्सर्वार्थवेदिभिः प्रकाश्यते ध्वनिस्तेपां सर्वभाषास्वभावकः ॥५॥ तत्प्रमाणं श्रुतज्ञानं परोक्षं सिद्धमंजसा मदुष्टकारणोद्भुतेः प्रत्यक्षवदिति स्थितं ततः सूक्तं प्रत्यक्षं परोक्षं चेति द्वे एव प्रमाणे प्रमाणातराणां सकलानामप्यत्र संग्रहात् इति संख्या- विप्रतिपत्तिनिराकरणमनवयं खरूपविप्रतिपत्तिनिराकरणवत् । विषयविप्रतिपत्तिनिराकरणार्थ पुनरिदमभिधीयते-द्रव्यपर्यायात्मकः प्रमाणविषयः प्रमाणविषयत्वान्य- थानुपपत्तेः प्रत्यक्षविषयेण स्खलक्षणेन, अनुमानादिविषयेण च सामान्येन हेतोर्व्यभिचार इति न मंतव्य तथाप्रतीत्यभावात् । न हि प्रत्यक्षतः खलक्षणं पर्यायमानं सन्मात्रमिवोपलभामहे । नाप्यनुमानादेः सामा- न्यद्रव्यमानं विशेषमात्रमिव प्रतिपद्येमहि सामान्यविशेषात्मनो द्रव्यपर्यायात्मकस्य जात्यंतरस्योपलब्धेः प्रवर्तमानस्य च तत्प्राप्तः अन्यथार्थक्रियानुपपत्तेः । न हि स्खलक्षणमक्रियासमर्थ क्रमयोगपद्यविरोधात् सामान्यवत् । नच तत्र क्रमयोगपद्ये संभवतः परिणामाभावात् । क्रमाक्रमयोः परिणामेन व्याप्तत्त्रात् सर्व- थाप्यपरिणामिनः क्षणिकस्य नित्यस्य च तद्विरोधसिद्धेः प्रसिद्ध च सामान्यविशेषात्मनि वस्तुनि तदंशमाने विशेषे सामान्ये वा प्रवर्त्तमानं कथं प्रमाणं नाम प्रमाणस्य यथावस्थितवस्तुग्रहणलक्षणत्वात् तदेकदेशमा- हिणः सापेक्षस्य सुनयत्वान्निरपेक्षस्य दुर्णयत्वात् । तत एव न तद्विषयेणानेकांतः साधनस्य स्यात् । तत्र प्रमाणविषयत्वस्य हेतोरप्रवृत्तेः । अतःसिद्धो द्रव्यपर्यायात्मार्थः प्रमाणस्येति तद्विप्रतिपत्तिनिवृत्तिः । फलविप्रतिपत्तिनिवृत्त्यर्थं प्रतिपाद्यते-प्रमाणात्फलं कथचिद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः । हानोपादोनोपेक्षाबुद्धिरूपेण प्रमाणफलेनानेकांत इति न शंकनीयं तस्याप्येकप्रमात्रात्मना प्रमाणादभेद- सिद्धेः प्रमाणपरिणतस्यैवात्मनः फलपरिणामप्रतीतेः, अन्यथा संतानांतरवत्प्रमाणफलभावविरोधात् । साक्षा- दज्ञाननिवृत्तिलक्षणेन प्रमाणादभिन्नेन प्रमाणफलेन व्यभिचार इत्यप्यपरीक्षिताभिधानं तस्यापि कथंचित्प्र- माणाद्भेदप्रसिद्धः प्रमाणफलयोनिरुक्तिसाधनविरोधात् । करणसाधनं हि प्रमाणं स्वार्थनिर्णीतौ साधकतम- त्वात् । खार्थनिर्णीतिरज्ञाननिवृत्तिः फलं भावसाधनं तत्साध्यत्वात् । एतेन कर्तृसाधनात् प्रमाणात्कथंचि- द्भेदः प्रतिपादितः तस्य स्वार्थनिर्णीतौ.खतंत्रत्वात् । स्वतंत्रस्य च कर्तृत्वात् स्वार्थनिर्णीतेस्तु अज्ञाननिवृत्ति- खभावायाः क्रियात्वात् । नच क्रियाक्रियावतोऽर्थातरमेवानींतरमेव वा क्रियाक्रियावद्भावविरोधात् । भाव- साधनात्प्रमाणादज्ञाननिवृत्तिरभिवेति,अयुक्तंप्रमातुरुदासीनावस्थायामव्याप्रियमाणस्य प्रमाणशक्तेभीवसाधन प्रमाणस्य व्यवस्थापितत्वात् तस्याज्ञाननिवृत्तिफलत्वासंभवात् । स्वार्थव्यवसितौ व्याप्रियमाणं हि प्रमाणम- ज्ञानानितिं साधयेत् नान्यथा अतिप्रसंगात् । ततः सूक्तं- - सनातननग्रंथमालाया- मपाणात्कथंचिदिन्नामिन्नं फलमिति ततन्तस्य सर्वथा भेदे बाधकवचनात् । अमेदवत्संवृत्या प्रमाणालच्यवहार इत्यतानीनिक रमार्थतः खष्टसिद्धिविरोधात् ततः पारमार्थिकप्रमाणं फलं चष्टसिद्धिलणमभ्यनुज्ञातव्यं । तत:मधुन्धार्थ- द्विविधानादिति संक्षेपः। इति प्रमाणन्य पक्ष्य लक्षणं विशेषसंग्याधिपायं पलं ततः प्रयुष्य तत्त्वं दृढशुद्धदृष्टयः प्रयांतु विद्यालीमष्टमुकः ॥ १ ॥ इति धीस्याद्वादविद्यापतित्रीविद्यानंदस्वामिविरचिता प्रमाणपरीक्षा समाता।

No text on this page.

Aatma Meemansa Dashmank

Author
Samantbhadra
Title
Aatma Meemansa Dashmank
File name
Aatma Meemansa Dashmank
Text
OCR done
Citation
1930
Published
2010/01
Publisher
Krishnalay Chandraprabha Yantralay, Kashi
Language
Sanskrit
Pages
88
Library
Prakrit Bharati Academy, Jaipur
Keywords
Jain Philosophy
DLI number
322123
Barcode
99999990244967.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
ZFrUeiMwqmy
Download PDF

Aatma Meemansa Dashmank