Central Library, Visva-bharati

Nrisinghapurbattaropanishad

Machhakaracharya · 2007/08/24

PDF Proofread

Front matter

No text on this page.

No text on this page.

... ... ... ... ... ०४ ... ... ६ ... ... ... ... ... ... ... ... ... ३ . ८७ ६ ... ... ६ [२] रु.आ० आ०१० १३. तैत्तिरीयोपनिषद्भाष्यवार्तिकं मुरेश्वराचार्यकृतं सटीकमानन्दाश्रमस्थपण्डितैः संशोधितम् २२ १४. छान्दोग्योपनिषत्सर्टीकशांकरभाष्योपेता, 'आगाशे' इत्युपाहर्बालशास्त्रि- तनूजः काशीनाथशास्त्रिभिः संशोधिता ५ १५. बृहदारण्यकोपनिषत्साकशांकरभाष्योपेता, 'आगाशे' इत्युपाढालशा- स्त्रितनूजः काशीनाथशास्त्रिभिः संशोधिता १६-१. बृहदारण्यकोपनिषद्भाष्यवार्तिकमानन्दगिरिकृतटीकासमेतम् । एतत्यु- स्तकम् 'आपशे.' इत्युपहिर्बालशास्त्रितनूजः काशीनाथशास्त्रिभिः संशोधितम् । तत्र केवलसंबन्धवार्तिकरूपः प्रथमो भागस्तस्य मूल्यम् १६-२. बृहदारण्यकोपनिषद्भाप्यवार्तिकमानन्दगिरिकृतीकासमेतम् । अस्य प्रथमद्वितीयाध्यायद्वयरूपो द्वितीयो विभागस्तस्य मूल्यम् ... १६-३. बृहदारण्यकोपनिषद्भाप्ययार्तिकमानन्दगिरिकृतटीकासमेतम् । अस्य तृतीयाध्यायादिषष्टाध्यायान्तस्तृतीयो भागस्तस्य मूल्यम् ... १० १२८ ६ १७. कृष्णयजुर्वेदीयश्वेताश्वतरोपनिषत्सभाष्या तथा च शंकरानन्दकृता श्वेता- श्वतरोपनिषदीपिका, नारायणकृता श्वेताश्वतरोपनिषद्दीपिका, विज्ञानभगवत्कृतं श्वेताश्वतरोपनिषद्विवरणम्, एतत्पुस्तकचतुष्टयमानन्दाश्रमस्थपण्डितैः संशोधितम् ... २ १८. सौरपुगणं, लेले इत्युपाह्नः वे शा० रा. काशीनाथशास्त्रिभिः संशोधितम् ३ १९. रसरत्नसमुच्चयः, वराजक्षेत्रनिवासिभिः : रा० रा. बापटोपाहः कृष्णराव इत्येतेः संशोधितः ३ १२ ३ ६ २०. श्रीमद्विद्यारण्यकृतो जीवन्मुक्तिविवेकः वे. शा० रा. पणशीकरोपाहर्वासु- देवशास्त्रिभिः संशोधितः २१-१. श्रीमद्वैपायनप्रणीतब्रह्मसूत्राण्यानन्दगिरिकृतटीकासंवलितशांकरशारी- 'स्कभाप्यसमेतानि । तानि च वे. शा० सं० रा० यकसंबेकरोपाहनारायणशास्त्रिभिः संशोधितानि । तत्र प्रथमोऽध्यायः, द्वितीयाध्यायस्य पादद्वयं च, इत्येतद्वयं प्रथमो भागस्तस्य मल्यम् • ५ २१-२. श्रीमद्वैपायनप्रणीतब्रह्मसूत्राण्यानन्दगिरिकृतटीकासंवलिनशांकरशारी- रकभाष्योपेतानि । तेषां च द्वितीयाध्यायान्तिमपादयसमततृतीयाध्यायचतुर्थाध्या- यल्पो द्वितीयो भागस्तस्य मूल्यम् २२. विद्यारण्यकृतः श्रीशंकरदिग्विजयो धनपतिसरिकृतडिण्डिमाख्यटीकयाs- द्वैतराज्यलक्ष्मीटीकान्तर्गतविशेषविभागटिप्पण्या च समेत आनन्दाश्रमस्थपण्डितैः संशोधित: ० ५ २३. भारतीतीर्थमुनिप्रणातो वैयासिकन्यायमालाविस्तरः, जयपुरमहाराजाधि- तेन संस्कृतपाठशालाध्यापकेन वे० शा० दाधीचपण्डितशिवदत्तेन संशोधितः १ १२ १६ २४. श्रीमन्माधवप्रणीतो जैमिनीयन्यायमालाविस्तरः, जयपुरमहाराजाश्रितेन संस्कृतपाठशालाध्यापकेन वे. शा. दाधीचपण्डितशिवदत्तेन संशोधितः ... २५-१. स्कन्दपुराणान्तर्गता सूतसंहिता श्रीमाधवाचार्यकृतीकोपेता वे• शा० ... , , ६ . ६ ... w ... ... ...

आनन्दाश्रमसंस्कृतग्रन्थावलिः । अन्थाङ्गः ३० वृसिंहपूर्वोत्तरतापनीयोपनिषर । श्रीमच्छंकराचार्यविरचितपूर्वतापनीयभाष्यविद्यार- ण्यप्रणीतोत्तरतापनीयदीपिकाभ्या समेता । एतत्पुस्तकमानन्दाश्रमस्थपण्डितैः सपाठान्तर- निर्देशं संशोधितम् । हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्द श्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । शालिवाहनशकाव्दाः १८१७ खिस्ताव्दाः १८९५ ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः) मूल्यं रूपको द्वादशाऽऽणकाश्च ।

No text on this page.

आदर्शपुस्तकोल्लेखपत्रिका । अथास्या नृसिंहतापनीयोपनिषदः पुस्तकानि यः परहितैकपरायणतया प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते । क. इति संज्ञितम्-मूलम् , विंचूरग्रामनिवासिनां श्री. रा. रा. अण्णासाहेब इत्येतेषाम् । ख. इति संज्ञितम्--पूर्वतापनीमूलमायखण्डपरिमितम् , आनन्दाश्रमपुस्तकसं- ग्रहालयस्थम् । ग. इति संज्ञितम्-मूलम् , एतदप्यानन्दाश्रमपुस्तकसंग्रहस्थमेव । घ. इति संक्षितम्-मूलम् , सातारानगरनिवासिनां वे. शा. रा. रा. अनन्ता- चार्य गजेन्द्रगडकर इत्येतेपाम् । ङ. इति संज्ञितम् -मूलम् , पुण्यपत्तनस्थानां वे. रा, लक्ष्मण नारायण साठे इत्येतेपाम् । च. इति संज्ञितम्-मूलम् , रा. रा. हरि वाबाजी करंबेळकर इत्येतेषाम् । छ. इति संक्षितम्-मूलम् , श्री. रा. रा. अण्णासाहेब विंचुरकर इत्येतेपाम् । ज. इति संक्षितम्- केवलश्रीमच्छंकराचार्यविरचितपूर्वतापनीयोपनिषद्भाप्यस्यै- व, श्री. रा. रा. अण्णासाहेब विंचुरकर इत्येतेपाम् । झ. इति संज्ञितम्- केवलशंकराचार्यविरचितभाप्यस्यैव, श्री. रा. रा. कृष्ण- राव भीमाशंकर इत्येतेषाम् । ब. इति संज्ञितम्-केवलविद्यारण्यप्रणीतोत्तरतापनीयोपनिपदीपिकाया एव, श्री. रा. रा. अण्णासाहेब विंचुरकर इत्येतेपाम् । ट. इति संज्ञितम्-केवलविद्यारण्यप्रणीतोत्तरतापनीयोपनिषद्दीपिकाया एव, श्री. रा. रा. कृष्णराव भीमाशंकर इत्येतेपाम् । ठ. इति संज्ञितम्-एतदपि केवलविद्यारण्यप्रणीतोत्तरतापनीयोपनिषद्दीपिकाया एव , श्री. रा. रा. कृष्णराव भीमाशंकर इत्येतेपाम् । समाप्तिमगमदिदं नृसिंहपूर्वोत्तरतापनीयोपनिपत्सूचीपत्रकम् ।

No text on this page.

ॐ तत्सद्रह्मणे नमः। नृसिंहपूतापनीयोपनिषत् । श्रीमच्छंकराचार्यविरचितभाष्यसमेता । ॐ नमो भगवते लक्ष्मीनृसिंहाय । यनानोपनिषत्ख्याता तपनं तं विधुं गुरुम् ।। प्रणम्योपासनागी तयाख्यां श्रद्धयाऽऽरभे ॥ १ ॥ आनुष्टुभात्सामराजानारसिंहादिदं जगत् ।। जातं यस्मिस्थितं लीनं नमस्तस्मै त्रिशक्तये ॥२॥ भद्रं कर्णेभिः शृणुयाम देवा इतिमत्रान्तर्गतभद्रपदव्याख्यानपरामचमुदिता शान्तौ पठन्नन्याभ्यः श्रौतस्मातपौराणिककल्पप्रतिपादिताभ्यः साकारब्रह्म विद्याभ्य इयं सुभद्रेति दर्शयति- ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमा- क्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्य- शेम देवहितं यदायुः॥१॥ भद्रं कल्याणम् । कर्णेभिरिति च्छान्दसम् । कर्णैः शृणुयाम शृणुम देवाः सन्तो वयं भद्रं कल्याणं पश्येम । अक्षभिश्चक्षुभिर्यजत्रा यज- नशीलाः । स्थिरैरङ्गैर्हदयायः सामाङ्गप्रणवसावित्रीयजुर्लक्ष्मीनृसिंहगाय- त्रीरूपैलमबागव्याख्यानपरैस्तनूभिस्तनूमत्रः " यो वै नृसिंहो देवो भगवान्यश्च ब्रह्मा तस्मै वै नमो नमः" इत्याधैः । तुष्टुवांस इति स्तुतिसा- धनत्वेनोक्तत्वात्तनूशब्देन मत्रा गृह्यन्ते । तथाऽङ्गशब्देन च तुष्टुवांसः स्तुवानाः स्तुतिं कुर्वाणाः। व्यशेम विगतरोगं विविधैहिकामुष्मिकसुखभोग- क्षममशेम प्रामुयाम । आयुरिति प्रत्येकं संबध्यते । यद्देवहितं देवस्तापनीय उक्तविद्ययोपास्यस्तत्तदवसरोचितकरणबुद्ध्या शिक्षन्हितमाचरति यस्मिन्ना- युषि तत्तथोक्तमायुर्व्यशेमेति संबन्धः ॥ १ ॥ 8. विधेि।

२ श्रीमच्छंकर चार्यविरचितभाष्यसमेता-[ १ प्रथमोपनिषत् ] स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नरतायो अरिष्टनेमिः खस्ति नो बृहस्पतिर्दधातु ॥ २॥ॐ शान्तिः शान्तिः शान्तिः ॥ स्वस्ति न इत्यत्र स्वस्तिपदानां चतुर्णामपौनरुक्त्यं यास्कवचनाद्यथासंख्यम् । स्वस्तीसविनाशमायुर्नोऽस्मभ्यमिन्द्रो दधातु । कीदृग्द्धश्रवा वृद्धाबृहस्पतेः सद्विद्याश्रवणं यस्य स तथोक्तो दधातु स्वस्तीत्याभिमुख्यमुपासनायां नोऽस्म- भ्यम् । पूषा विश्ववेदा विश्वानि वेदांसि यस्य स तथोक्तः । अथवा सर्वे वेदा उपासनायामाभिमुख्यं दधतु । स्वस्ति नोऽस्मभ्यं पूजार्हतां तायो देवभक्तो गरुत्मानरिष्टनेमिरहिंसितवज्रो दधातु स्वस्ति सुशोभनं नोऽ- स्मभ्यं दधातु बृहस्पतिरित्यर्थः । अस्मिन्मत्रेऽस्मच्छन्दवीप्सया वक्ष्यमाणायां विद्यायामादरं दर्शयति । शान्तिः शान्तिः शान्तिस्त्रिधा तु विघ्नोपशान्तिर्व- क्ष्यमाणविद्यानुष्ठाने ॥२॥ ॥ इति शान्तिः॥ १ज. निसलेषा।

[१प्रथमोपनिषत् ] नृसिंहपूर्वतापनीयोपनिषत् । आपो वा इदमासमित्याचा तदेताभिष्कामस्य भवतीत्यता तापनीयोपनिष- छीनृसिंहाकारब्रह्मविपया सती निराकारब्रह्मपतिपत्युपायभूताऽत एव पृथ- क्संबन्धाभिधेयप्रयोजनानि न वक्तव्यानि यान्येव तपनिषत्संबन्धाभिधेयम- योजनानि तान्येवोपनिषब्याविख्यासुना संक्षेपतो वक्तव्यानि । तत्र प्रयोजन- साधनाभिव्यञ्जकत्वेनाभिधेयसंबन्धशास्त्रं पारम्पर्येण प्रयोजनवत् । किं पुनः प्रयो- जनमित्युच्यते । रोगातस्येव रोगनिवृत्त, स्वस्थता दःखात्मकस्याऽऽत्मनो द्वैतप्रपञ्चस्योपशमे स्वस्थता द्वैताभावः प्रयोजनं दैनप्रपञ्चस्य चाविद्यालया। द्विद्यया तदुपशमः स्यादिति ब्रह्मविद्याप्रकाशनायास्या आरम्भः। यत्र हि दैतमिव यत्र चान्यदिव स्यात्तत्रान्योऽन्यत्पश्येद्विजानीयाद्यत्र त्वस्य सर्वमात्मैवाभू- तत्केन कं पश्येद्विजानीयादित्यादिश्रुतिभ्योऽस्यार्थस्य सिद्धिः। तत्र तावदस्या- मुपनिषदीदं परामृश्यते किं तावद्वेय विद्याभेद आहोस्विदन्योन्यविशेषणवि- शेष्यभावाद्विशिष्टस्य च वेद्यस्यैक्याद्विधैक्यमिति । तत्र किं नः प्रतिभाति विद्याभेद इति । तथा हि-प्रथमोपनिषदि लोकसागसामशुद्धसामग्र्यादि- सामान्तर्गतस्वरविशेषक्षीरोदार्णवशायिनृकेसरिशंकरसच्चिदानन्दमयानामन्यो- न्यविशेषणविशेष्यभावरहितानां वेद्यानां श्रवणात्तथा प्रणवानुष्टुप्पदपदार्थशक्ति- सामवीजसामाङ्गमन्त्रचतुष्टयानां वेद्यानां द्वितीयतृतीयचतुर्थोपनिषत्सु यथासंख्यं श्रवणात् । अन्त्योपनिषदि महाचक्रविद्या श्रूयते । नन्वन्योन्यविशेषणविशेष्य- भावरहितानामप्यङ्गाङ्गिभावो भवतु । नेति ब्रूमः फलवत्संनिधावफलं तदङ्गम्' इति न्यायवैषम्यात् । तथाहि-लोकादितत्तवैद्यानां फलसंबन्धेन 'यो जानीते सोऽमृतत्वं च गच्छति' इत्यसकृच्छ्षणात् । ननु लोकादीनाम- न्योन्यविशेषणविशेष्यभावरहितानामपि श्रीनृसिंहाकारब्रह्मणा सह विशेषणवि. शेष्यभावसंभवात् । तथाहि-“साल्लोकान्सान्देवान्सर्वानात्मनः सर्वाणि भूतान्युगृहात्युदृह्यते " इत्यादिपदव्याख्याने सर्वेषां वेद्यानां तत्संबन्धश्रवणा- दतो विशिष्ट स्य वेद्यस्यैक्याद्विद्यैक्यमिति । अत्राच्यते । सत्यं श्रूयते संबन्धः । तथाऽप्यर्थवादत्वान्न विवक्ष्यतेऽर्थवादश्च विध्यश्रवणाद । उहाति विरमति व्यामोति ज्वलति पश्यति पलायन्ते ददाति मारयति नमन्तीत्येवंवर्तमानो- पदेशाच्च । न च वाच्यमधस्तात्पदोद्धारे तस्य ह वा उग्रं प्रथम स्थान जानीयादिति विधिः श्रूयत इति । यतस्ताः प्रागपि प्रत्यक्षरमुभयत ओं- कारो भवतीतिविधिवलात्म गवाक्षरमि नगेन मूठमात्र क्षरव्यत्ययात्चत्पदाज्ञाने प्राप्ते तत्तत्पदपरिमाणज्ञापनार्थ विविपक्षीणः सत्र तत्पदार्थानां श्रीनृसिंह- ब्रह्मगा सह संवन्धं विधातुं शक्रोति । अतो यावदेयं विद्याभेद इत्येवं माप्तम्। एवं प्राप्ते व्रमः । सत्यं पृथिव्यादिलोकानां परस्परं विशेषणविशेष्यभावो श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[ १ प्रथमोपनिषत् ] नावगम्यते प्रत्युत प्रत्येकं च वेद्यता भ्रूयते जानीयादिति । तथाऽपि श्रीनृसिं- हब्रह्मणा सह संबन्धस्तत्र तत्र श्रूयमाणः केन वारायितुं शक्यते । तथाहि । य एतं मनराज नारसिंहमानुष्टुभं पायच्छद्य एतं मत्रराजं नारसिंहमानुष्टुभं पति- गृह्णीयादित्यादिमध्ये पुनश्वाऽऽनुष्टुभस्य मत्रराजस्य नारसिंहस्याङ्गमत्रानो बहीति मत्रराजं नारसिंहमानुष्टुभं भवतीत्येवं मध्ये श्रावयित्वाऽन्ते य एतं मत्रराजं नारसिंहमानुष्टुभं नित्यमधीत इत्यसकृदभ्यस्याऽऽदिमध्यावसानेषु सिदबमसंबन्धित्वेन संकीर्तनाद्विद्याया ऐक्यमिति विनिश्चिते तत्संबन्धित्वेन यथायोग्यतया तदन्तर्गतं पदनातं सामसंबन्धि समस्तं यथायोग्यतया वर्णनी- यम् । अपि चान्त्योपनिषदि फलकथनावसरे कृत्स्ना श्रीनृसिंहब्रह्मविद्यामभि- धाय य एतं मत्रराजं नारसिंहमानुषुभं नित्यमधीत इत्येतंन्नारसिंहानुष्टुभश- ब्दानां कृत्स्ननृसिंहब्रह्मविद्याभिधायकत्वेन निश्चितानामसकृच्छ्रुतानामेवाऽऽ- दावेतं मत्रराजं नारसिंहमानुष्टुभमपश्यदिति श्रवणात्तदन्तरालवर्तिपदजातं नृसिंहब्रह्मविद्यासंबद्धमिति निश्चीयते । तत्संबन्धश्च तत्तत्पदव्याख्यानावसरे स्पष्टमेव प्रदर्शयिष्यते । अपि च “वाक्यान्वयात्" इति न्यायेन सर्वमेवेदं प्रकरणं नृसिंहब्रह्मविद्याप्रकरणमिति गम्यते । अथ यदुक्तं पदव्याख्यानवा- क्यानां नृसिंहब्रह्मविद्यासंबन्धसमर्पकाणां विध्यश्रवणाद्वर्तमानापदेशाचार्थवा- दत्वमिति तदयुक्तम् । अधस्तात्पदोद्धारे तस्य ह वा उग्रं प्रथमं स्थानं जानी- यादिति विधिः स्पष्ट एव श्रूयते । तत्र च विधौ तच्छब्देन साङ्गस्य मूलमत्रस्य परामर्शादङ्गानां च द्वैविध्यान्मूलमन्त्रागमत्राणां सामाङ्गमत्राणां च यथायोग्य- तया व्याख्यानव्याख्येयभावेनावस्थितत्वात्कृत्स्नैव नृसिंहब्रह्मविद्याऽवगम्यते। स च विधिरनुषङ्गन्यायेन सर्वपदसंबन्धः स्पष्ट इति । ननु तत्राप्युक्तं पदज्ञानार्थ तदिति तन्त्र । माक्प्रत्यक्षरमुभयत ओंकारो भवतीति वाक्यादर्थाज्ञानेन पदा- माने प्राप्ते तत्पुरःसरमेव पदज्ञानमिति । नन्वेवं तच्छेषत्वेनोपरिष्टादर्थकथनम. नुपपन्नम् । नानुपपनम् । उपरिष्टाद्धि कस्मादुच्यते कस्मादुच्यत इत्यर्थपुरः- सरमेव पदं स्पष्टार्थमुपसंहरति तस्मादिदमुच्यत इत्यतोऽवगम्यते प्रागप्य- र्यज्ञानपुरःसरमेव पदज्ञानमिति । अतः सर्वसंबन्धिविधिश्रवणं स्पष्टमिति । किंच सर्वेषां पदानामर्थमाश्राव्यान्ते य एवं वेदेति विधिश्रवणात् । वेदेति वर्तमानत्वात्कथं विधिरिति चेन “वचनानि त्वपूर्वत्वात् वचनानि त्वपूर्वत्वात्" [पू० मी० म० १०-४-२२] इति न्यायात् । य एवं वेदेति य एवं प्राक्त- नमर्थजातं श्रीनृसिंहब्रह्मसंबद्धं वेदोपास्ते । उपनिषदि साकारब्रह्म- विद्याप्रकरणे पठितानां वेदोपासनाज्ञानध्यानपदानामुपासनार्थत्वेन निर्णी- तत्वान् । अतो नायमर्थवाद इत्यतः पासपनिषत्सु न यावद्वयं विद्याभेद इति [१ प्रथमोपनिषत् ] नृसिंहपूर्वतापनीयोपनिषत् । आपो वा इदमासन्सलिलमेव स प्रजापतिरेकः पुष्करपणे समभवत्तस्यान्तर्मनसि कामः समवर्त- तेदं सृजेयमिति तस्माद्यत्पुरुषो मनसाऽभिग- च्छति तहाचा वदति तत्कर्मणा करोति तदेषाऽ- भ्युक्ता-कामस्तदने समवर्तताधि मनसो रेतः सिद्धम् । आपो वा इदमासनित्यादिना श्रीनृसिंहब्रह्मविद्याप्रकरणमाख्यायि- कापूर्वमवतारयनीयमुपनिषत् । तत्र तावत्पथमोपनिषदि सामसंबन्धित्वेन पृथि- व्यन्तरिक्षघुब्रह्मवेदसाङ्गसामानिसूर्यचन्द्रब्रह्मादिदेवानां सामोद्धारपूर्वकं क्षीरो- दार्णवशायिन्युपविष्टे वा शेषाभोगमस्तकपरिहते नृकेसरिणि योगारूढे वरदा- भयहस्ते त्रिनेत्र शंकरे पिनाकहस्ते सच्चिदानन्दमये ब्रह्मविवर्त उपासनम् । तस्मिन्नेव द्वितीयोपनिषदि प्रणवोपासनापूर्वकसामरहितानुष्टुब्मत्रपञ्चाङ्गपदो- द्धारपूर्वकपदव्याख्याकथनगुणविशिष्टोपासनम् । तस्मिन्नेव तृतीयोपनिषदि सामान्वितत्वेन मूलमत्रसंबन्धित्वेन शक्तिबीजकथनं तनिर्णयश्च । तस्मिन्नेव चतुर्थोपनिषदि मूलमत्राङ्गमत्रसामाङ्गमत्रैः प्रणवेन हृदयं सावित्रेण शिरो महा- लक्ष्मीशिखां व्याख्याय नृसिंहगायत्र्या कवचं व्याचष्टे । महाचक्रद्वात्रिंशद्व्यूह- दवनोद्देशपूर्वकं पुरश्चरणमत्राश्च । पञ्चमोपनिषदि मत्रवर्ण द्वात्रिंशदव्यूहान्महा- चक्रे विन्यस्य तत्स्वरूपप्रकथनेनास्त्रमत्रान्व्याख्याय श्रीनसिंहब्रह्मविद्यानुष्ठातुः फलं व्याचष्टे । आप आसन्निति संबन्धः । वै प्रसिद्धमिदं प्रत्यक्षादिदृष्टं सलि- लमम्ब्वेव स प्रजापतिः । स इति पूर्वपरामशिना तच्छन्देन पुंलिङ्गेन प्रकृतं परामृशति यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै " इति श्रुतेः । ब्रह्मा प्रजापतिरेकः सन्पुष्करपणे समभवदासीत् । तस्य प्रजाप- तेर्मनस्यन्तःकरणेऽन्तर्वर्ती काम इच्छां समवर्तत । इदं सृजेयमिति सृष्टिविषय इत्यर्थः । तस्माद्यत्पुरुषो मनसाऽभिगच्छत्यन्तःकरणेनेच्छति तद्वाचा वदति । वाग्वदनपूर्वकं कर्मकरणं लोकप्रसिद्ध दर्शयति-तत्कर्मणा करानीति । उक्तमे- वार्थ द्रढयितुमचं साक्षित्वेनोद्भावयति-तदेषाऽभ्युक्तेति । अर्थदाय कहानि- गीतंत्र । सामयजुपोरर्थशैथिल्यमपि संभाव्यते “ यद्वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तद्यहचा तदृढम्" इति श्रुतेः । तस्मिभेवार्थ एषा, ऋग्वक्ष्य- माणाऽभ्युक्ता । मनसः कामस्तदने समवर्तत रेत उदकं प्रथममादौ सृष्ट्यवमरे ख. ग. "पो दवा । २ छ. जरमन'।

श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[ १ प्रथमोपनिषत् ] प्रथमं यदामीत् । सतो बन्धमसति निर- विन्दन्हृदि प्रतीप्या(प्य) कवयाँ मनीषेत्युपैनं तदुपनमति यत्कामो भवति स तपोऽतप्यत स तपस्तप्त्वा स एतं मन्त्रराजं नारसिं- हमानुष्टुभमपश्यत्तेनं वै सर्वमिदमसृजत यदिदं यदासीयस्मात्कारणादासीत् । अथवा कालनिर्देशो यदेति यस्मिन्काले प्रथम- मुदकमासीत्तदैव मनसः कामोऽधीत्युपरि विषये सृष्टिविषये समवर्ततेत्यर्थः । सतो ब्रह्मणो बन्धुं बन्धनं विवर्त कवयो विपश्चितो हृदि निरविन्दन् । असति ब्रह्मणि । असच्छब्दस्य नामरूपाव्याकृतत्वेन ब्रह्मणि प्रयुक्तत्वात् असद्वा इदमग्र आसीत् " इत्यादौ । हृयन्तःकरणे प्रतीप्य प्रत्यगात्मानमवेक्ष्य मनीषा मनीषया विपश्चिबुद्ध्या । ब्रह्मणो बन्धु बन्धुमिव बन्धुं परं ब्रह्म व्याकर्तारं क्षीरोदार्णवादिविशेषणविशिष्टं भाविसृष्टेः स्रष्टारं मूलमत्रसामाधुपास्यं हृदि निरविन्दनित्युत्तरार्धस्य गूढोऽभिप्रायः। इतिशब्द ऋक्समाप्ति द्योतयति । उपैनं कामिनं तत्काम्यमुपनमति यस्मिन्कामो भवति । स प्रजापतिः । तपः "मनसश्चेन्द्रियाणां च ऐकाय्यं परमं तपः" इति स्मरणादतप्यत मनसश्चेन्द्रियाणां चैकाग्यमकरोत् । स प्रजापतिः । तपस्तप्त्वा । पूर्व व्याख्यातम् । स प्रजाप- तिरेतं प्रकृतं सर्वनाम्नोपात्तं सतो बन्धुमित्यनेन गूढाभिप्रायेण सूचितं " ज्योतिश्चरणाभिधानात् " [ब्र० सू० १-१-२४ ] इति न्यायेन मत्रराज पाकरणिकमत्राणां राजानं प्रधानभूतं सामराजं वा । मत्रशब्दस्याहिबुध्रिय मत्रं मे गोपाय यमृषयस्त्रायविदो विदुः । ऋचः सामानि यजूंषीत्यादी साम्न्यपि प्रयुक्तत्वात् । नारसिंह नृसिंहसंबन्धिसामादि । तद्धितात् । नृसिंहगायत्र्या- दिप्राप्तौ तव्यावृत्त्यर्थमानुष्टुभमित्यनुष्टुप्छन्द उपाधिकमग्विशेषमाह प्रमेतदहर्भवति" इति न्यायात् । अपश्यदृष्टवानित्यभिप्रायः । एतदुक्तं भव- ति--द्वितीयतृतीयचतुर्थपञ्चमोपनिषत्सु मत्रराजादित्रयः शब्दाः प्रयुक्तास्त- त्पुरुषबहुव्रीहितदितसामर्थ्यात्पूर्वपूर्वोपनिषदर्थमाचक्षाणाः सन्त एवाऽऽदौ प्रयुक्ताः कृत्स्नामेव ब्रह्मविद्यां संगृहीतवन्तोऽतश्च वक्ष्यमाणां कृत्स्नामेव ब्रह्म- विद्यामपश्यदित्यर्थः । तेन वै प्रामुक्तेन वै प्रसिद्धम् । सर्वमिदमसजत प्रत्यक्षा- दिसिद्धमस.जत । यदिदं किंच स्पष्टम् । तस्मात्सर्वमिदमानुष्टुभमित्याचक्षते यदिदं गाय- १ व. न स ।

[१ प्रथमोपनिषत् ] नृसिंहपूतापनीयोपनिषद । किंच तस्मात्सर्वमिदमानुष्टुभमित्याचक्षते यदिदं किंचानुष्टुभो वा इमानि भूतानि जायन्तेऽनु- लुभा जातानि जीवन्त्यनुष्टभं प्रयन्त्यभिसंवि- शन्ति तस्यैषा भवत्यनुष्टुप्पथमा भवत्यनुष्टुबु- त्तमा भवति वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचै- वोद्यन्ति परमा वा एषा छन्दसां यदनुष्टु- बिति ॥१॥ -------- - किंच मत्रराजनारसिंहशब्दौ । इहाऽऽनुष्टुभमितितद्धितप्रयोगावात्रिंशद- क्षराणामेव तत्साम्नश्च सामर्थ्य दर्शयत्येवात्राप्युपाख्यायिकायां किल प्रजा. पतिस्तपसा लोकत्रयसृष्टयर्थमेव कारणजिज्ञासुरत्यन्तशुद्धान्तःकरणत्वाच्छक्ति- अययुक्तां ब्रह्मस्वरूपिणी भूतसृष्टिपुरःसरसर्वसृष्टिकारणिकामनुष्टुवृचमपश्यदि- त्याह । अनुष्टुभो वा इमानि भूतानि जायन्तेऽनुष्टुभा जातानि जीवन्त्यनुष्टुभं प्रयन्त्यभिसंविशन्तीति “जन्माघस्य यतः" [ ब्र० सू० १-१-२] इत्यस्या ब्रह्मलक्षणलक्षितत्वं दर्शयति । उक्तमेवार्थ द्रढयितुमचं साक्षित्वेनोद्भावयति- तस्य ब्रह्मस्वरूपस्य साक्षिण्येपा वक्ष्यमाणा, ऋग्भवति। अनुष्टुप्पथमा भवति सर्व- सृष्टेः प्रथमाऽऽद्या भवति । अनुष्टुवुत्तमा श्रेष्ठा भवति वाग्वा अनुष्टुप्सर्वो वाक्पप- चोऽनुष्टुभि लीन इति दर्शयति । नाममृष्टिपूर्वकत्वापसृष्टेर्वाग्रूपत्वादनुष्टुभोऽनु- पुबेव मूलकारणम् । वाचैव प्रयन्त्यनुष्टुभैव प्रलयं गच्छन्ति भूतानि । वाचैवानु- युभवोद्यन्त्युत्पत्तिं गच्छन्ति । परमा वा एषा छन्दसां गायत्र्यादीनां छन्दसा वेदानां वा परमोत्कृष्टा । परमत्वं च सामाधारत्वादनुष्टुभः । साम्नश्च परमत्वं "देवा वै नर्चि न यजुष्यश्रयन्त ते सामन्येवाश्रयन्त" इति श्रुतेः “वेदानां सामवेदोऽस्मि इति स्मृतेश्च । यदनुष्टुबितीतिशब्द ऋक्समाप्तिं घोत- यति॥१॥ एवं तावदाख्यायिकायामन्ते सकलनृसिंहोपासनसंग्राहकान्मत्रराजनारसिं. हानुष्टुभशब्दान्विज्ञाय तैरेव शब्दैः सकलोपासनां सृष्ट्यर्थ प्रजापत्यनुष्ठितां संगृ- वेदानीमविशेषेणानुष्ठाने प्राप्ते तत्र तावत्साम्न ऋगक्षराभिव्यञ्जकत्वादभि- व्यञ्जकाभिव्यङ्गययोरभिव्यञ्जकपूर्वकत्वात्साम्नश्च सर्ववेदश्रेष्ठत्वात् देवा वै नचि न यजुष्यश्रयन्त ने सामन्येवाश्रयन्त" इति श्रुनेः “वेदानां सामवेदोऽ- श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[१ प्रथमोपनिषत् ] ससागरां सपर्वतां सप्तद्वीपां वसुंधरां तत्साम्नः प्रथमं पादं जानीयाद्यक्षगन्धर्वास्परोगणसे- वितमन्तरिक्षं तत्साम्रो द्वितीयं पादं जानी- याहसुरुद्रादित्गैः सर्वैर्देवैः सेवितं दिवं तत्सा- मस्तृतीयं पादं जानीयाद्ब्रह्मस्वरूपं निरञ्जनं परमव्योनिकं तत्साम्नश्चतुर्थ पादं जानी- याद्यो जानीते सोऽमृतत्वं च गच्छत्य- स्मि" इति स्मृतेश्वास्य च सामराजत्वात्तदुपासनायां प्राप्तायां क्रमसूचनपूर्वि- कामाह--ससागरां सपर्वतां सप्तद्वीपां वसुंधरा तत्साम्नः प्रथमं पादं जानी- यादिति । यथाकथंचिदुपासनारूपे प्राप्ते ससागरामिति प्रथमत एवं सागरसं- कीर्तनेन सागरपूर्विकामुपासनां द्योतयति । अत एव न पृथ्वीविशेषणं सागर इति केचिद्याचक्षते । ततश्च प्रथमतः सागरं क्षीरोदार्णवं ध्यात्वा तच्छायिन्यु. पविष्टे वा तस्मिन्पञ्चाङ्गन्यासमृक्सामयोः कृत्वा तस्मिन्नेव सपर्वतामित्याद्युपासनां सह सागरेण वर्तनं यस्या उपासनायास्ता ससागरां जानीयादित्यनुषङ्गः। यथा (त्तु) 'ब्रह्म पुच्छं प्रतिष्ठा' इत्यादेरानन्दमयाद्विच्छेदमिवेति तदयुक्तम् । न तावद्वि- शिष्टामुपासनां ससागरशब्दस्तावदाह किंतु बद्धक्रमके पदार्थजाते तदादिन्या- येन सूचयति । तदन्यविशेषणत्वेनैकवाक्यत्वेऽपि समानम् । तस्मादद्धक्रमकमु. पासनं प्रथमत एव सागरशब्दोपादानात्क्षीरोदार्णवपूर्वकं विज्ञेयम् । ततश्चाय- मर्थः । तत्साम्नस्तस्या न्यस्ताया अनुष्टुभो न्यस्तस्य च साम्नः प्रथमं पादं क्षीरोदार्णवशायिन उपविष्टस्य वा नृकेसरिण उक्तविशेषणविशिष्टां वसुंधरा हृदयमङ्गं हृदयान्तर्वर्तित्वेन जानीयादित्यर्थः। एवमुत्तरेष्वपि त्रिषु पादेषु यक्ष- गन्धर्ववसुरुद्रब्रह्मस्वरूपं लोकसाहचर्याद्ब्रह्मलोकं तत्साम्नस्तस्या न्यस्ताया अनुष्टुभो न्यस्तस्य च सानो द्वितीयं तृतीयं चतुर्थ पादं तस्य नृकेसरिणः शिरःशिखाकवचान्तर्वतित्वेन जानीयादिति योज्यम् । एवं नृकेसरिणं यो जानीते सोऽमृतत्वं च गच्छतीति गमनोपादानात्कार्यममृतत्वं न कैवल्यं “कार्य बादरिरस्य गत्युपपत्तेः [ब्र० सू० ४-३-७] इति न्यायात् । अथवा देहान्ते देवः परं ब्रह्म निर्गुणं ब्रह्म तारकं तारकमात्राभिः प्रत्यग्ब्रह्मणोरेकत्वं १ क. ग. घ. समम । २ क. ग. गर्णः में। ३ ज.न्तरवति ।

१ प्रथमोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । ग्यजुःसामाणिश्चत्वारो वेदाः सानाः सशाखाश्चत्वारः पादा भवन्ति किं ध्यानं किं दैवतं कान्यङ्गानि कानि देवतानि किं छन्दः क ऋपिरिति ॥२॥ स होवाच प्रजापतिः स यो ह वै तत्सावित्रस्याष्टाक्षरं पदं श्रियाऽभिषिक्तं तत्साम्रोऽहं वेद व्याचष्ट इत्यन्ते श्रवणादमृतत्वं कैवल्यमेवमुपरिष्टादुभयथाऽस्यामृतत्वं श्रूयमाणं व्याख्येयम् । ऋग्यजुःसामाथर्वाणश्चत्वारो वेदाः साङ्गाः सशाखाश्चत्वारः पादा भवन्तीति महाचक्रं व्याख्यातम् । तस्य नाभ्यां क्षीरोदार्णवशायिन उपवि- टस्य वा नृकेसरिणः क्रमप्राप्तं पञ्चममङ्गमत्राख्यं वक्ष्यामः । नन्वेवं साजोपास- नामपरिसमाप्य कोऽयं मध्ये ध्येयप्रश्नोपक्रमः पिशाचजल्पितमिव किं ध्यानं किं देवतं कान्यङ्गानि कानि देवतानि किं छन्दः क ऋपिरिति ध्यानदेवतागा- ङ्गदेवताछन्दर्षीणां प्रश्नः । अत्रोच्यते । अत्र किलाऽऽख्यायिकायां प्रजापति- विरतेभ्यो देवेभ्यः सामद्वारिकामेकामुपासनां परिसमाप्य तूष्णीं बभूव श्रोतृणां बोधं परीक्षितुं किं प्रागुक एवार्थेऽवान्तरविशषं पृच्छन्त्यन्यदप्यर्थनातं तदुपयोगि न वेति । अनेनाभिप्रायेण मध्य एव प्रश्नोपक्रमस्तत्र पंदन नान्प्रथमप्रश्ने जानीयादिति प्रागुक्तविधाबुपरिष्टाचोपनिषत्स्वा समाप्तीनमात्र ध्यानं वति प्रश्नः । जानीयादिति विधावभ्यासस्य ध्यानस्याश्रवणात्तत्रोत्तरा- प्रदानात् “अप्रतिपिद्धमनुमतं भवति" इति न्यायाजानीयादित्यत्र ध्यायदि- त्यर्थः। ध्यायतिर्जानाभ्यासे वर्तते । किं दैवतं किं छन्दः क ऋषिरिति प्रश्नत्रये नारसिंहानुष्टुभतद्धितश्रवणात्स्वस्य च ब्रह्मणः प्रजापतेः कथकत्वेन देवतच्छ- न्दर्षित्वेनोत्तरम् “यस्य वाक्यं स ऋषिर्या तेनोच्यते सा देवता" इत्याश्वला- यनस्मरणात् । इतिशब्दः प्रश्नसमाप्तिं द्योतयति ॥ २॥ अत्र किल पदप्रश्नाः प्रश्नचतुष्टयनरपेक्ष्येणापूर्वखादङ्गिज्ञानस्य पारिशे- प्याच सानोऽहं तदैवतं प्रश्नद्वयेन स प्रजापतिः श्रोतॄणां बोधर्मार्थतां चावेक्ष्य हर्षितो निपातानामनेकार्थत्वात् । उत्तरमुवाच-स यो ह वा इति । वीप्सया हर्षनिर्भरतां दर्शयति । सावित्रस्याष्टाक्षरं पदं श्रियाऽभिषिक्तं श्रीबीजेनाभि- षिक्तमुपरिष्टाच्छीवीजमित्यर्थः । तत्सानोऽहं वेदेत्यभिषिक्तमिति वदशिरः- पूर्वकन्वादभिषेकस्य तस्मिन्नभिषिक्ते शिरोगस्थाने सानो वेदे त्यस्ता १ श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [१ प्रथमोपनिषत् ] श्रिया हैवाभिषिच्यते सर्वे वेदाः प्रणवा- दिकास्तं प्रणवं तत्सानोऽङ्गं वेद स त्रील्लोका- ञ्जयति चतुर्विशत्यक्षरा महालक्ष्मीर्यजुस्तत्सा- नोऽङ्गं वेद स . आयुर्यश कीर्तिज्ञानेश्वर्यवान्भ- वति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति सावित्री प्रणवं यजुर्लक्ष्मी स्त्रीशूद्राय नेच्छन्ति द्वात्रिंशदक्षरं साम.जानो- याद्यो जानीते सोऽमृतत्वं च गच्छति सावित्री लक्ष्मी यजुः प्रणवं यदि जानीयास्त्रीशूद्रः स मृतोऽधो गच्छति तस्मात्सर्वदा नाऽऽचष्टे विधत्ते । श्रिया हैवाभिषिच्यत इत्यङ्गेषु सर्वत्र फलश्रवणं " द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्" [पू० मी० सू० ४-३-१] इत्यर्थवादः। अन- तिधृष्टं स्तृणोति प्रजयैवैनं पशुभिरनतिधृटं करोतीति न्यायेन गुगफलाधिकारो वा। सर्वे वेदाः प्रणवादिकास्तं प्रणवमिति सर्वे वेदा उपवेदाचाष्टावित्यष्टसंख्या- नन्तरं तत्स्थाने हृदयाङ्गस्थाने प्रणवं विदधत्सर्ववेदादिभुतात्मणवात्सामाक्षरा- ण्यधिकतराणीति दर्शयति । तत्सानोऽङ्गं वेद स त्रील्लोकाञ्जयतीत्युक्तार्थम् । चतुर्विंशत्यक्षरा महालक्ष्मीर्यजुस्तस्मिंश्चतुर्विशत्यक्षरस्थाने सामतृतीयपादादुप- रिष्टात्साम्नोऽङ्ग वेदशिखाङ्गस्थान इत्यर्थः। स आयुर्यशो ज्ञातिप्रशंसा वा कीर्तिर्जनप्रशंसा वा ज्ञानेश्वर्यवान्भवतीत्युक्तार्थम् । यस्मादेवं सामाङ्गफलं तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छतीत्युक्तार्थम् । सावित्रादिमत्राणां हृदयाघजस्थाने प्राप्तानामत्राऽऽदावेवाङ्गत्वविधानार्थमपक- पस्तुपक्रमोपसंहाराभ्यां विद्युक्ये तात्पर्य दर्शयति । सावित्री प्रणवं यजुक्ष्मी स्त्रीशूद्राय स्त्री च शूद्रश्च स्त्रीशूद्रं तस्मै स्त्रीशूद्राय नेच्छन्तीति निषेधं कुर्वन्प्रधानो- पासनायां स्त्रीशद्रस्याप्यधिकारं दर्शयति । द्वात्रिंशदक्षरं साम जानीयादिति द्वात्रिंशदक्षराणां सामसंबन्धं विधत्ते । यो जानीत इत्याधु कार्यम् । सावित्री लक्ष्मी यजुः प्रणवं यदि जानीयात्स्त्रीशद्रः स मृतोऽधो नरकं गच्छतीति प्रत्य- वायदर्शनेन निषेधमेव द्रढयति । तस्मात्सर्वदा नाऽऽचष्ट इति कदाचिदपि [१प्रथमोपनिषत्] नृसिंहपूर्वतापनीयोपनिषः । यद्याचष्टे स आचार्यस्तेनैव मृतोऽधो गच्छति ॥३॥ स होवाच प्रजापतिरमि वेदा इदं सर्व विश्वानि भूतानि प्राणा वा इन्द्रियाणि पश- वोऽनममृतं सम्राट्स्वराइविराटुतरसाम्नः प्रथम पादं जानीयादृग्यजुःसामाथवरूपः सूर्योऽन्त- रादित्ये हिरण्मयः पुरुषस्तत्सानो द्वितीयं पादं जानीयाद्य ओषधीनां प्रभवति तारा- पतिः सीमस्तरसाम्नस्तृतीयं पादं जानीयात्स ब्रह्मा स शिवः स हरिः स इन्द्रः सोऽग्निः सोऽक्षरः परमः स्वराट्तसाम्रश्चनुर्थ पादं नाऽऽचष्ट इत्याचार्यस्य निषेधं दर्शयति । यद्याचष्टे स आचार्यस्तेनैव कयनेन मृतोऽधो गच्छतीति प्रत्यवायदर्शनेन निषेधमेव द्रढयतीति ॥ ३ ॥ एवं सामाङ्गान्युक्त्वा तदुपासनायां च स्त्रीशूद्रव्यतिरिक्तमधिकारिणमुक्त्वाऽ. न्त्यप्रश्नाङ्गदेवतानि वक्तुं सामदेवतैव तत्तत्स्थाने निपतितस्याङ्गस्य सैव देवतेति स प्रजापतिह हर्षितोऽन्त्यपश्न उत्तरमुवाच-अग्नि वेदा इदं सर्वमित्यादि यो जानीते सोऽमृतत्वं च गच्छनीत्यन्तं च ससागरामित्यादिना योजनी- यम् । एतदुक्तं भवति । क्षीरोदार्णवशायिन्युपविष्टे वा न्यस्तस्य साङ्गस्य साम्नः पादश उक्तगुणां पृथ्वी हृदयान्ततित्वेनाग्नि वेदा इदं सर्व विश्वानि भूतानि प्राणा इन्द्रियाणि पशवोऽन्नममृतं सम्राट्स्वराविराट्तत्सान्नः प्रथमपादस्य तदङ्गस्य प्रणवस्य हृदयमत्रस्य च दैवतं जानीयादिति पारमेश्वरं हृदयं व्याख्या तम् । तथा यक्षगन्धर्वादिगुगविशिष्टमन्तरिक्षं शिरोन्तर्वतित्वेन सर्ववेदमयः सूर्यो हिरण्मयः पुरुषस्तत्साम्रो द्वितीय सदस्य शिरोमत्रस्य च तदङ्गस्य सावि- त्रमत्रस्य च देवतमिति पारमेश्व शिरो व्याख्यातम् । तथाच वसुरुद्रादित्यैः सेवितं धुलोकं शिखान्तर्वतित्वेन य ओषधीनां प्रभवति तारापतिश्चन्द्रमास्तत्सा. नस्तृतीयपादस्य शिखामत्रस्य च लक्ष्मीयजुषश्च दैवतमिति पारमेश्वरं शिखा व्याख्यातम्।तथा च ब्रह्मलोककवचान्तर्वतित्वेन स ब्रह्मेत्यादिमन्त्रवर्णात्तत्सान- चतुर्थपादस्य च तदभूताया नृसिंहगायत्र्याश्च कवचमत्रस्य च दैवतमिति पार- १७. याच ऋग्य । २. 'यायः स ३ग. घ... " रिसेन्दः ।

१२ २ श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [१ प्रथमोपनिषत् ] जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । ॐ उग्रं प्रथमस्याऽऽद्यु मेश्वरं कवचं व्याख्यातम् । तथा, ओमिति प्रणवबहुलेन महाचक्रेण पारमेश्वर- मस्त्रं व्याख्यातम् । लोकानामङ्गेष्वन्तर्भावात्सामाङ्गदेवतासाहचर्याचतिषिक्ता वेमे लोकास्तस्माद्यतिषिक्तान्यङ्गानि भवन्तीति विधायकवचनाचेत्येष उपा- सनाक्रमः । एवं तावन्यस्तसामद्वारिकां पारमेश्वरीमुपासनां परिसमाप्याथेदानी न्यस्तं सामोद्धरति । ननु नायं सामोद्धारः किंतु मत्रोद्धार एव सामश- ब्दस्तु यौगिकवृत्त्या तेन सामर्थेन सह वर्तत इति साम मूलमत्रः । तन्न गीतिए सामाख्या [पू० मी० सू० २-१-३६ ] इति गीत्यां साम- शब्दस्य रूढत्वात् " रूढियोगमपहरति " इति न्यायात्सामोद्धार एव । ननु वेदेन सामशब्दो यौगिकः कृतः• “सैव नाम त्वमासीरमो नामाहं सोम(?)" इत्युपक्रम्य “सा चामश्चाभवतां तत्सामाभवत्तत्साम्नः सामत्वम्" इति श्रुतेः। सत्यं भवतु यौगिकस्तथाऽप्युभयोद्धारे सामोद्धारस्तु सिद्ध एव। एवं रूढवैदि- कप्रयोगाच्च सामोद्धारे स्थिते द्वात्रिंशदक्षरं साम जानीयादिति सामान्याकारण सामसंबन्धे सिद्धे विशेषाकारेण मूलमत्राक्षराणां सामसंबन्धं विधातुमाह- उग्रं प्रथमस्याऽऽद्यमित्यादिना । अत्र हि सामगानां हस्ते मुखस्वरनिर्णयो द्रष्टव्यः । सप्तधा हि स्वरः षड्जादिभेदेन । तत्र हस्तगतस्वरानुसारेण मुखेन गीत्युच्चारणं तत्र हस्ताङ्गुष्टोत्तमपर्वणः क्रौष्टकसंज्ञ उच्चै वे कृते सर्वोदात्तां त्रिमात्रां चतुर्मात्रां पञ्चमात्रां वा कृत्वा विहिताक्षरेषु गीतिं गायेत्तामाद्यं निर- पेक्षं स्वरमित्याचक्षते ततोऽङ्गुष्ठोत्तमपर्वणा वक्रीभावे कृते पूर्वोदात्तापेक्षयाऽनु- दात्तामुत्तरापेक्षयोदात्तामेवमेवाङ्गुष्ठेन तर्जनीस्पर्शे कृते तत्संनिहिताङ्गुलिस्पर्श उपकनिष्ठिकास्पर्श कनिष्ठिकामध्यमपर्वस्पर्शे कृते पूर्वपूर्वापेक्षयोत्तरोत्तरापेक्षयो- दात्तानुदात्तात्मिकां विहिताक्षरेषु गीतिमुच्चार्याङ्गुष्ठेन कनिष्ठिकामूलपर्वस्पर्शे कृते सर्वानुदात्तां गीतिमुच्चारयेत्तं त्वन्त्यं स्वरमित्याचक्षते । एवं मुखहस्ताभ्यां षड्- जादयो यथाक्रमं सप्त स्वरा निष्पाद्यन्ते । स एप सामगानां सर्वसामसाधा- रणः स्वरनिर्णयः। ततश्च । उग्रं ३ । ४।५ गीतिमात्रासंख्या । उग्रं प्रथम- स्याऽऽद्यं सर्वोदात्तं सामपदानुषङ्गादुक्तेऽक्षरद्वय आद्यमाद्यस्वरात्मकं साम जानीयादिति विधीयतेऽन्यथा प्रथमपादस्याऽऽद्यमक्षरद्वयं जानीयादित्येतस्य द्वितीयोपनिषदुक्तपदोद्धारादेव ज्ञातत्वात् “अप्राप्ते शास्त्रमर्थवत्' इति न्यायो वाधितः स्यात्सामपदपदस्य व्यर्थता स्यादुभयविधाने च वाक्यभेदः स्यात् । बेदितव्यसामसंबन्धस्वरविशेषे विहितेऽनिर्धारितस्वरविशेषकं साम कथं विधा.

१३ [१ प्रथमोपनिषत् ] नृसिंहपूर्वतापनीयोपनिषत् । ज्वलं द्वितीयस्याऽऽयं नृसिं तृतीयस्याऽऽद्य मृत्यु चतुर्थस्याऽऽद्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति तस्मादिदं . साम यत्र कुत्रचिन्नाऽऽचष्टे यदि दातुमपेक्षते पुत्राय शुश्रू- पवे दास्यंयन्यस्मै शिष्यायं चेति॥४॥क्षीरो- दार्णवशायिनं नृकेसरि योगिध्येयं परमं पदं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति तुं शेक्येत तस्मान्मूलमत्रोक्तप्रथमपादाक्षरद्वयस्याऽऽद्यशब्दोक्तस्वरविशेषात्म- कसामसंबन्ध एव विधीयते । एवमुत्तरेष्वपि त्रिषु वाक्येपु योजनीयम् । ज्वलं २४.५ गीतिमात्रासंख्या । द्वितीयस्य पादस्याऽऽयं साम गीति जानी- यात् । नृसि ३।४।५ गीतिमात्रासंख्या । तृतीयस्याऽऽद्यमित्युक्तार्थम् । मृत्यु- म् ३ । ४ । ५ गीतिमात्रासंख्या । चतुर्थस्याऽऽद्यमित्यादि गच्छतीत्यन्तमुक्ता- र्थम् । यस्मादिदं साम परमरहस्यतरं तस्मादिदं साम यत्र कुत्रचित्पुंसि नाऽऽ- चष्ट इति कथयितुनिषेधः । यदि दातुमपेक्षते पुत्राय शुश्रूपवे शुश्रूषारतायाऽऽ- चार्योपमर्पणन श्रवणच्छावते दास्यति दद्यादित्यर्थः । अन्यस्मै शिष्याय.पागु: क्तलक्षणाय चेति । इतिशब्दः सामदातृप्रनिग्रहीत्रोरधिकारसमाप्तिं द्योत- यनि ।। ४ ॥ एवं तावत्साम्ना सह दातृपतिग्रहीत्रोः संबन्धं विधाय श्रीक्षीरोदार्णवशा- यिनो नृकेसरिणो योगिवदासीनस्य ध्येयस्याऽऽश्रयायिलक्षणसंबन्धविशेपो- पासनां कृत्स्नफलवती विधातुमाह-क्षीरोदार्णवशायिनं ना चासौ केसरी च नृकेसरी नं नृकेसरिणम् । नृकेसरिमिनि छान्दसम् । योगिवदासीनं शेषभोग- मस्तकपरिन रहस्यकल्पान्तरपालोचनयाऽस्मिन्नेव स्थाने शाखान्तरश्रुत्यन्त रपालोचनयाऽऽसीनं शेषभोगमूर्धावृतम् । द्विशाखगामिनीयमुपनिषद्गुशा- खायां च । परमं पदं परमाश्रयभूतम् । जानीयादिति सर्वत्रानुपज्यते । सामे- त्यादि गच्छतीत्यन्तमुक्तार्थ भवति । यत्साम जानीयात्तदुक्तगुणविशिष्टे नृकेस- रिणि साझं न्यस्तं जानीयादित्यर्थः । इदानी साम्नां द्वितीयोद्धारमक्षराणां 13. 'य वेनि । २ अशक्यते ।

श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [१ प्रथमोपनिषत् ] वीरं प्रथमस्यार्धान्यं तंसं द्वितीयम्या- न्त्यिं हंभी तृतीयस्यार्धान्त्यं मृत्यु चतु- र्थस्यार्धान्यं साम जानीयाद्यो जानीते सोऽमृ- तत्वं च गच्छति तस्मादिदं साम येन केन- चिदाचार्यमुखेन यो जानीते स तेनैव शरी- रेण संसारान्मुच्यते मोचयति 'मुमुक्षुर्भवति जपात्तेनैव शरीरेण देवतादर्शनं करोति स्वरविशेषसंबन्धार्थमाह-वीरं प्रथमस्यार्धान्त्यं प्रथमपदोक्ताक्षरद्वय आद्यार्थे "प्रथमातिक्रमे कारणाभावात्" इतिन्यायनान्त्यमन्त्यस्वरात्मकं साम जानी- यादित्यनुषज्यते । अत एवास्मिन्नेव स्थाने शाखान्तरे पाठान्तरं वीरं प्रथमा- द्यार्धस्यान्त्यमिति विधानविषये प्रागुक्ते चोद्यसमाधाने ततो वीरोऽनुदात्ता. त्मिका गीतिर्मात्रासंख्या ३ । ४।५ र मध्यवर्तिस्वरात्मिका गीतिर्मात्रासंख्या ३।४।५ एवमुत्तरेष्वपि तदुद्धारवाक्येषु योजनीयम् । तंसं द्वितीयस्यार्धान्त्य- मित्युक्तार्थम् । तमनुदात्तात्मिका गीतिर्मात्रासंख्या ३ । ४ । ५ हंभी तृतीय- स्याङन्त्यम् । तृतीयाद्याधस्यान्त्यमिति पाठान्तरम् । हमनुदात्तात्मिका गीति- मात्रासंख्या ३।४।५ भीमध्यवर्तिस्वरात्मिका गीतिर्मात्रासंख्या ३।४। ५ म अनुदात्तात्मिका गीतिर्मात्रासंख्या ३ । ४ । ५ । त्युं पारिशे- ध्यान्मध्यवर्तिस्वरात्मिका गीतिर्मात्रासंख्या ३ । ४ । ५ चतुर्थ. स्याङन्त्यमित्युक्तार्थम् । मृत्युं चतुर्थाद्यार्धस्यान्त्यमिति पाठान्तरम् । समेत्यादि गच्छतीत्यन्तमुक्तार्थम् । यस्मात्सामैकदेशपरिज्ञानात्कृत्स्नफलावा- प्तिस्तत्र कृत्स्नसामपरिज्ञाने किमुतेत्याह-तस्मादिदं विहिताक्षरेषद्धृतं कृत्स्नं साम येन केनचियेन केनापि सामोद्धारवाक्यकदम्बकेनापि यो जानीत इत्यनुपङ्गः । आचार्यमुखेन यो जानीत इत्याचार्यमुखोपायान्तरयोर्विकल्पः । यद्वाऽऽचार्यशब्दो वेदमभिधत्ते तस्मादाचार्यवचः प्रमाणमित्यादौ प्रयोगादा- चार्यमुखेन वेदमुखन सामोद्धारवाक्यकदम्बकेनेत्यर्थः । स तेनैव स्वयमेव साम- परिज्ञानेन संसारान्मुच्यते मोचयत्यन्यं वा साम ज्ञापयन् । सामपरिज्ञानात्सरा गोऽपि मुमुभुर्भवति संख्यानुपादानात्सकदेव सामज गद्यत्साङ्गेन साम्ना पारमेश्वरं शरीरं क्षीरोदार्णवस्थं पदकदम्बकव्याकृतं तेनैव शरीरेण देवतादर्शनं करोति [१ प्रथमोपनिषत् ] नृसिंहपूर्वतापनीयोपनिषत् । १५ तस्मादिदमे मुख्य द्वार कलौ नान्येषां भवति तस्मादिदं साङ्गं साम जानीयांद्यो जानीते स मुमुक्षुर्भवति ॥ ५॥ ॐ ऋतं सत्यं परं ब्रह्म पुरुषं नृकेसरिविग्रहम् । कृष्णपि- ङ्गलमूर्ध्वरे विरूपाक्षं शंकरं नीललोहित- देवता प्रत्यक्षा भवति । तस्मादिदमेव साङ्गं सामैव मुख्यं द्वारं देवतादर्शने तया- कृतौ च कलौ पापबाहुल्येनान्येषां सामरहितानां केवलमूलमत्रपरिज्ञातॄणां देवतादर्शनं झटिति न भवतीत्यर्थः । यस्मादिदं साङ्गं सामदेवतादर्शने देव- ताकारव्याकृतौ च मुख्यमेव दारं तस्मादिदं साङ्गं साम जानीयान्मुमुक्षुर्भवति मानुषानन्दारूढोऽप्येतत्परिज्ञानान्मानुषानन्दं विहाय मोक्षेप्सुर्भवति । यद्वा मुमुक्षुरेतज्जानीयादित्यन्वयः । तस्य भवतीति फलनिर्देशः। भू सत्तायामिति- धातो रूपम् । साकारब्रह्मोपासनाद्वारं सन्मात्रतां प्रामोतीत्यर्थः ॥ ५ ॥ एवं तावद्यदङ्गमुपास्यदेवताकारव्याकृती क्षमं तदेवाङ्गं निर्दिशमाह- ओमिति। तच्चतुर्थोपनिपदि स्पष्टी करिष्यति । ओमित्येतदक्षरमित्यादिना नृके- सरिविग्रहों व्याख्यातः स न स्वमायया लीलाविग्रहः किं तु कर्मविपाकजन्मा- नुभवरूपाणां केवलतिय पाणां मत्स्यकूर्मादीनां केवलातिर्यग्रूपाणां वामना- दीनां लीलारूपत्वेनैव दृष्टत्वादस्य च तद्विलक्षणत्वान स्वमायालीलाविग्रहता स्यादितीमामाशङ्कां मत्रवर्णादपनेतुं मन्त्रमाह-ऋतं सत्यं परं ब्रह्म पुरुषं नृकेस- रिविग्रहम् । ना च पुरुषश्च केसरी च सिंहश्व नृकेसरी। तत्र पुरुपमित्यनूद्य सत्यं परं ब्रह्म जानीयादिति विधीयते । एतदुक्तं भवति । सत्यस्य परब्रह्मणः खमा- यया लीलाविग्रहं पुरुषाकारमृतमिति परमार्थ जानीयादिति यावत् । यद्वा, ऋतं सत्यं परं ब्रह्म ब्रह्मात्मकं पुरुषाकारमोमित्योंकारेण व्याख्यातम् । ऋतमिति धननामतमयं हिरण्मयं हिरण्यमयं जानीयादित्यर्थः । अत एव सतो बन्धुमिति वन्धुरिति धननाम ब्रह्मणो विवर्त हिरण्मयमसति ब्रह्मणि हृदि निरविदन्निति कैश्विव्याख्यातम् । कृष्णपिङ्गले अक्षिणी अस्य तं तथोक्तम् । ऊर्ध्वरेतमिति च्छान्दसम् । ऊर्ध्वरेतस्कं योगारुढमासीनं विरूपाक्ष ललाटनेत्रं ललाटनेत्रेण रौद्रता प्रामोति तयावृत्त्यर्थ शंकरं सुखकर वरदाभयहस्तं शंकरसाहचर्या- बीललोहितमिति नीलकण्ठमुर्वरितपदेशे लोहितम् । नीललोहिती वर्णी ललाटनेत्रयोर्यथायोग्यतयाऽस्य धृता तथोक्तम् । कल्पान्तरे तु श्वेतवर्णमेवं १ क. म्यू, ग. च. व मोक्षद्वा । २ . छ. यान्ममा । ३ ज. "वलं म।

१६ श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [१ प्रथमोपनिषत् ] मुमापतिं पशुपतिं पिनाकिनं ह्यमिता- तिमीशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिब्रह्मणोऽधिपतिर्यो यजुर्वेदवा- च्यस्तं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । महा प्रथमान्तावस्याऽऽ- द्यम् । र्वतो द्वितीयान्तार्धस्याऽऽद्यं षणं मुवर्णलोहितशुक्लाकाराणां विकल्पः । कामनावशाब्यवस्था वाऽतो वाक्यार्थः । उमापतिम् । उ प्रसिद्धौ मा लक्ष्मीस्तस्याः पतिर्लक्ष्मीपतिः। अथवा प्रसिद्धोमा गौरी तस्याः पतिः । श्रिया लक्ष्मीति सप्त शक्तयो वक्ष्यन्ते । पशुपतिः । पशूनां देवानां पतिः । पशूनां प्राणिनाम् । यद्वा पशूनां वेदानां गायत्र्यादी- नाम् “पशवो वै छन्दांसि'' इति श्रुतेः। पिनाकिनं पिनाकधनुर्हस्तम् । हीति निश्चितार्थः । अमितद्युतिममितप्रकाशम् । ईशानः सर्वविद्यानां प्रभुः। ईश्वरः सर्वभूतानां प्रभुः । ब्रह्माधिपतिः । ब्रह्म तपो मनसो विषयेभ्यो विवर्त्य दर्शनं पूर्वोत्तोपासनं तस्याधिपतिः । ब्रह्मणोऽधिपतिर्ब्रह्मणोऽधिष्ठाता । ब्रह्मेत्यन्न नामानं क्षीरं ततश्च क्षीरस्याधिष्ठाता । यद्वा ब्रह्मणोऽथर्ववेदस्याधिष्ठाता । एवं यो यजुर्वेदवाच्यः प्रागुक्तेन यजुषा वेदेन वाच्यो यजुर्वेदवाच्यः । प्रागुक्तानां गुणानां प्रथमानिर्दिष्टानां जानीयादित्यनेनान्वयं कर्तुं विशिष्टतयैकत्वाभिप्रा- येण द्वितीयान्ततया निर्दिशति-तमिति । सामेत्यादि गच्छतीत्यन्तमुक्तार्थम्। एवं प्रागुक्तमाकारं नृकेसरिण्येव जानीयात् । अत्र केचित्मागुक्तमाकारं मत्रवर्णा- त्पृथक्त्वेनोपास्यमाचक्षते तदयुक्तम् । एवं तयुपक्रमोपसंहाराभ्यां नृसिंहब्रह्मवि- धैक्यमवगतं वाध्येत । नृसिंहपदव्याख्यानावसरे नृसिंह एवाऽऽसीत्परमेश्वर इति नृसिंहेश्वरयोः सामानाधिकरण्यमवगतं बाध्येत । तस्मात्रिनेत्राद्याकारविशि- टोऽस्यां विद्यायां नृसिंह एवोपास्य इति सिद्धम् । अथेदानी तृतीयं सामोद्धार- माह-म पारिशेष्यान्मध्यस्वरगीतिर्मात्रासंख्या ३।४।५ हा सर्वोदात्तात्मिका गीतिर्मात्रासंख्या३।४।५ प्रथमान्तार्धस्याऽऽद्यमिति। प्रथमपादोक्ताक्षरद्वयेऽन्त्या- र्धस्याऽऽद्यस्वरमाद्यस्वरयुक्तं साम जानीयादित्यनुषज्यते । 4 पारिशेष्यान्म- ध्यस्वरवर्तिगीतिर्मात्रासंख्या ३।४ । ५ तो सर्वोदात्तात्मिका गीतिर्मात्रा- संख्या ३ । ४ । ५ द्वितीयान्तार्धस्याऽऽद्यमित्युक्तार्थम् । ष पारिशेष्या- न्मध्यस्वरवर्तिगीतिर्मात्रासंख्या ३ । ४।५ णम् , सर्वोदात्तात्मिका गीतिर्मा- १६. का. यान्त्यार्थ। २ ग. घ. भीषणं ।

[१ प्रथमोपनिषत् ] नृसिंहपूर्वतापनीयोपनिषत् । तृतीयान्तार्धस्याऽऽद्यं नमा चतुर्थान्तावस्याऽऽद्यं साम जानीयाद्यो जानीते. सोऽमृतत्वं च गच्छति । तस्मादिदं सच्चिदानन्दमयं परं ब्रह्म तमेवं विद्वानमृत इह भवति । तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छ- ति ॥६॥ प्रासंख्या ३ । ४।५ तृतीयान्तार्धस्याऽऽद्यमित्युक्तार्थम् । न पारिशेष्या- न्मध्यस्वरवर्तिगीतिमात्रासंख्या ३।४ । ५ मा सर्वोदात्तात्मिका गीति- मात्रासंख्या ३ । ४ । ५ चतुर्थान्तार्धस्याऽऽद्यमित्युक्तार्थम् । सामेत्यादि गच्छतीत्यन्तमुक्तार्थम् । नन्वत्राक्षरद्वयमध्येऽन्तार्धस्येत्यन्तस्याक्षरस्या दीर्घा- दिमात्रा तस्या आधस्वरसंवन्धः कस्मान विधीयते । तन्न । षष्ठीतत्पुरुषात्कर्म- धारयस्य बलीयस्त्वादन्तं च तदर्थं चान्ता प्रथमापेक्षया द्वितीयमक्षरमन्तं च तदर्धं चेति । अन्यथाऽन्तस्याक्षरस्य मात्राघर्धमिति षष्ठीतत्पुरुषः एतया निषादस्थपति याजयेत् इति न्यायात् । नन्वतितुच्छमेतन्मात्रायामप्या- धारापेक्षया कर्मधारयसंभवात् । सत्यम् । द्वात्रिंशदक्षरं सामेत्यत्र द्वात्रिंशदक्ष- राणामेव स्वरात्मकसामसंबन्धः श्रूयते न मात्राणां तस्मादन्तार्धशब्देन द्विती- याक्षरस्यैवाऽऽद्यस्वरसंबन्धी विधीयत इति सिद्धम् । यस्मात्सामैकदेशोऽपि कृत्स्नफलावाप्तो क्षमः किमुत कृत्स्नसामज्ञानम् । तस्मादिदं सच्चिदानन्दमयं परं ब्रह्मेति । तादृशनृसिंहप्रतिपादकमूलमन्त्राभिव्यञ्जकत्वाद्रह्म । जानीयादि- त्यनुषज्यते । सामाभिव्यक्तमूलमत्रप्रतिपाद्योऽयं नृसिंहाकारसच्चिदानन्दं ब्रह्मे- त्येकः संबन्धः । यद्वा सच्चिदानन्दमयं ब्रह्मेत्येकः । प्राअत्रवर्णाद्रमाकारता प्रतिपादिताऽप्यदृढा स्यादिति शङ्का तव्यावृत्त्यर्थमिदमुच्यते सच्चिदानन्दमयं ब्रह्म जानीयादिति । तं नृसिंहाकारममुमेवमुक्तप्रकारंण जानअमृत क्षीरं पञ्चा- मृतान्यानयेत्यादावमृतशब्दस्य क्षीरे दृष्टत्वादिदेव लोक उत्कृष्टो भवतीत्यर्थः । यदेवं पञ्चाङ्गन्यासे कृन इहैव जीवन्मुक्तो भवत्यानन्दो भवतीत्यर्थः । यस्मात्सा- # साम कृत्स्ननृसिंहब्रह्मविद्यापतिपादकमूलमत्राभिव्यञ्जकं तस्मादिदमित्यादि गच्छतीत्यन्तमुक्तार्थम् ॥ ६॥ १ ह. 3. “यान्न्याध। २ च. 'दं सा । ३ क. 'यं साम ।

१८ श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [१ प्रथमोपनिषत् ] विश्वसृज एतेन वै विश्वमिदममृजन्त यांदश्वमसृजन्त तस्माद्विश्वसृजो विश्वमेनाननु प्रजायते ब्रह्मणः सायुज्यं सलोकतां यन्ति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । विष्णुं प्रथमस्यान्त्यं मुखं द्वितीयस्यान्त्यं अस्य साम्न उक्तप्रकारेण विश्वस्रहत्वं दर्शयितुमाह-विश्वसृज एतेन साना नृसिंहब्रह्मविद्यापतिपादकमूलमत्राभिव्यञ्जकेन । वै प्रसिद्धम् । सर्वमि. दमसृजन्त । यद्यस्मात्सर्वमसृजन्त तस्मात् । विश्वसृज इति सक्शब्दं निर्वक्ति। विश्वमेनाननु प्रजायते । ब्रह्मणः सायुज्यं सलोकतां यन्तीत्युपासकानां तादा- त्म्यभेदापासनया भेदेन फलनिर्देशः । ब्रह्मणः सायुज्यं सलोकतां यन्तीति यस्मात्साङ्गात्साम्न ईदृशमुपासकानां फलं तस्मादिदमित्यादि गच्छतीत्यन्तम्- तार्थम् । तस्मादिदं साङ्गं सामेत्यसकृदभ्यासस्यायमभिप्रायः साङ्गसाम्नैव कृस्नब्रह्मविद्यापतिपादकमत्राभिव्यक्त्या या ब्रह्मविद्योत्पन्ना सैव फलवती नान्यति । अत एवोक्तं तस्मादिदमेव मुख्यं द्वारं कलाविति पापभूयिष्ठेऽत्र कालेऽस्यैव मुख्यताऽन्येषां तु गौणतेति । कालान्तरे त्वस्या अन्यस्य वैक- ल्पिकी मुख्यतेति सर्वमनवद्यम् । अथेदानी चतुर्थ सामोद्धारमाह-विष्णुं सर्वानुदात्तात्मिका गीतिमात्रासंख्या ३ । ४ । ५ प्रथमस्यान्त्यमिति । प्रथ- मपादोक्ताक्षरद्वयेऽप्यन्त्यमन्त्यस्वरयुक्तं जानीयादिति प्राक्तनमनुषज्यते । मुखं सर्वानुदात्तात्मिका गीतिर्मात्रासंख्या ३ । ४ । ५ द्वितीयस्यान्त्य- मिति । द्वितीयपादोक्ताक्षरद्वयेऽप्यन्त्यस्वरयुक्तं सामेति संबन्धः । ननु सर्वो- दारेषु प्रथमद्वितीयशब्दौ कस्मात्पादाभिप्रायेण व्याख्यायेते नोक्ताक्षरसंख्या- पेक्षया । तथाहि । प्रथमान्त्यमित्युक्ताक्षरद्वयमध्ये प्रथमस्याक्षरस्यान्त्यं स्वरं जानीयादिति । तथा द्वितीयान्त्यमित्युक्ताक्षरद्वयमध्ये द्वितीयस्याक्षरस्यान्त्यं स्वरं जानीयादेवं प्रथमोद्धारेऽपि प्रथमस्याक्षरस्य द्वितीयस्याक्षरस्याऽऽद्यस्वरं जानीयादिति कस्माम व्याख्यायते । उच्यते । सर्वत्र ह्यक्षरद्वयमुक्त्वैव प्रथम- द्वितीयतृतीयचतुर्थशब्दाः श्रयन्ते न ाक्षरद्वयोक्तो तृतीय चतुर्थशब्दावुपपनी तृतीयचतुर्थयोरक्षरयोरभावादिति पादाभिप्रायेण व्याख्येयाविति निश्चिते तत्साहचर्यात्पथमद्वितीयशब्दावक्षरद्वयोक्ताबुपपन्नाविति नाक्षराभिप्रायेण व्या- १ ग. घ. 'गतान ।

[१ प्रथमोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । भद्रं तृतीयस्यान्त्यं म्यहं चतुर्थस्यान्त्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति योऽसौ सोऽवेदयदिदं किं चाऽऽत्मनि ब्रह्म- ण्यानुष्टुभं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । स्त्रीपुंसोर्वा य इहैव स्थातुमपेक्षते स सर्वैश्वर्य ददाति यत्र कुत्रापि म्रियते देहान्ते देवः परं ब्रह्म तारकं व्याचष्टे ख्येयौ किंतु पादाभिप्रायेणेवेति स्थितम् । भद्रम् । सर्वानुदात्तात्मिका गीति- मात्रासंख्या ३ । ४ । ५ तृतीयस्यान्त्यमित्युक्तार्थम् । म्यहम् । सर्वानुदा- तात्मिका गीतिर्मात्रासंख्या ३।४।५ चतुर्थस्यान्त्यमित्युक्तार्थम् । ननु कस्मा औरन्तर्येण सामोद्धाराभावो नैरन्तर्येण युद्धृते सान्नि सौकर्य स्याद्वितीयोपनि- पदुक्तपदोद्धारवत् । उच्यते । सत्यं सौकर्य स्यात्किनु सामद्रष्टा प्रजापतिः सर्वान्देवान्द्रष्टुं शक्तोऽपि मूलमत्रवन्नेदं सामापश्यत्किंतु तदर्शनायास्यामुपास- नायामुपासनैकदेशानुष्टानादीपच्छुद्धान्तःकरणः प्रथमोद्धारमपश्यत्पुनश्च क्षीरो- दार्णवाद्युपास्यमुपास्य द्वितीयमुद्धारमपश्यदेवमप्यधिकोपासनानुष्ठानादभ्यधि- कशुद्धान्तःकरणस्तृतीयं चतुर्थमपश्यदिति प्रजापतेरपि तदर्शने महानायासः किमुतान्येषामिति नैरन्नर्येण सामोद्धाराभावः । सानो दुर्लभतां दुर्दर्शनतां च दर्शयति-यः प्रजापतिरसौ स प्रजापतिरवेदयनिवेदितवानुपदिष्टवानिदं किं- च यदिदं प्रागुक्तमुपासनमात्मनि ब्रह्मणीति ब्रह्मण्यात्मनीति ब्रह्मात्मकता स्वस्मिन्परिज्ञायाऽऽनुष्टुभमनुष्टुप्संबन्धि सामद्वारकमुपासनं जानीते यो जानीते सोऽमृतत्वं च गच्छतीत्युक्तार्थम् । स्त्रीपुंसोर्वा स्त्रियां वा पुंसि वा प्रागुक्तमुपा- सनं प्रजापतिरुपदिष्टवानित्यर्थः। अथवा ब्रह्मणि हिरण्यगर्भ एतदुपासनं स्त्रीपुंसोर्वा यद्वाऽऽत्मनि ब्रह्मणीति ब्रह्मणि परमेश्वर आनुष्टुभं साम न्यस्तं जानीते। अस्मिन्पक्षे प्रागुतो यच्छन्द उपास्यपरो न प्रजापतिपरः। स्त्रीपुंसोर्वा खीपुंसोश्च वाशब्दः समुच्चयार्थो वायुर्वा त्वा मनुर्वा त्वेत्यादौ दृष्टत्वात् । एत- दुक्तं भवति । उपास्येश्वरे सामन्यासं कृत्वोपासकेनाऽऽत्मन्यपि सामन्यासः कार्यः । य उपासक इह लोक उत्कर्षेण स्थातुमपेक्षते तम्मै सर्वैश्वर्यं ददाति । देहान्ते तु देवः परं ब्रह्म तारकं व्याचष्टे कामिनं प्रकृत्य देहान्त इति विशेष- १ क, ख. च. सौ स वेद य'। ग. मौ म देवेभ्योऽवे। छ. सौ साम वेद य । २ . "ते सर्व २० श्रीमच्छकराचार्यविरचितभाष्यसमेता- [१ प्रथमोपनिषत् ] येनांसावमृती भूत्वा सोऽमृतत्वं च गच्छ- ति । तस्मादिदं साममध्यगं जपति तस्मा- दिदं सामाङ्गं प्रजापतिस्तस्मादिदं सामा- झं प्रजापतिर्य एवं वेदेति महोपनि- गोपादानात्कामित्वेन प्रागधिकाराच निष्कामस्यागपि देवः परं ब्रह्म तारक प्रणवस्थं सामाङ्गं प्रणवेन व्याख्यातम् । येन प्रणवन व्याख्यातेनामृती भूत्वा स श्रोताऽमृतत्वं च कैवल्यं प्राप्नोति । यस्मात्तारकस्थं परब्रह्म व्याख्येयं तस्मादिदं तारकं साममध्यगं साममध्यवर्तिकं जाति सामोपासनाङ्गप्रणवनपो यथाशक्तीति दर्शयति । एतदेवाऽऽह-तस्मादिदं तारकं सानोऽङ्गं प्रजापतिक्रपित्वेन। यद्वेदं तारकं परमेश्वरस्वरूपाख्यानेन साम च परमेश्वरविपयविद्यापतिपादकमूलमत्रा- भिव्यञ्जकत्वेन प्रजापतिरुभयकथनेनेत्येतत्रितयमवश्यमुपासनायामङ्गम् । एत- देव त्रितयमस्यामुपासनायामावश्यकमिति दर्शयितुं द्विरभ्यासस्तस्मादिदं सामाङ्गं प्रजापतिस्तस्मादिदं सामाङ्गं प्रजापतिरिति । यस्मादेवं साम तस्मा. दस्य नैरन्तर्येणोद्धारः स्पष्टी क्रियते । तत्र मूलमत्रप्रथमपादाक्षरेष्वष्टसु मुखह- स्ताभ्यां हस्ताङ्गुष्ठोत्तमपर्वोच्छ्रयेणाऽऽद्यमक्षरद्वयं मुखेन प्रागाय तृतीयमक्षरं कनिष्ठिकामूलपर्वस्पर्शेन तथैव मुखेन प्रागाय चतुर्थं पञ्चमं चैकैकं पृथक्पृथगङ्गु- ठोसमपर्वतर्जनीस्पर्शतत्संनिहिताङ्गुल्युपकनिष्ठिकाकनिष्ठिकामध्यमध्यपर्वस्पर्शेन तथैव मुखेन प्रागायेत्पष्ठमङ्गुष्ठोत्तमपर्वोच्छ्रयेण तथैव मुखेन प्रागायेत्सप्तमाष्टमा- क्षरे कनिष्ठिकामूलपर्वस्पर्शेन यथाविहितस्वरैराद्याक्षरद्वयाद्यतृतीयाक्षरान्त्यचतु- र्थपञ्चमाक्षरमध्यषष्ठाक्षराधसप्तमाष्टमाक्षरान्त्यैरप्रमत्तस्तथैव मुखेन गायेत् तथैव तृतीयषष्ठयोरङ्गुलीभ्यां दीर्घ गृह्णीयादेवं द्वितीयतृतीय चतुर्थपादाक्षरेष्व- टसु साम गेयं द्वितीयपादे पष्ठं दीर्घ तृतीये चतुर्थमक्षरं दीर्घ चतुर्थे षष्ठं दीर्घ- मिति शुद्धं साम साङ्गं चेत्प्रथमपादान्ते प्रण निक्षिप्य द्वितीयपादान्ते सावित्री तृतीयपादान्ते यजुक्ष्मी चतुर्थपादान्ते नृसिंहगायत्रीं गायेत् । स्त्री चेच्द्रश्चे- देतत्रितयं विहाय शुद्ध साम गायेदेष नैरन्तर्येण सामोद्धार उच्चारस्यातिदुर्ल- भरवादतिरहस्यत्वाच्च लिखितोऽपि न लिखित्वा प्रदर्श्यते वाचैव स्पष्टी क्रियत इति । य एवमुक्तप्रकारेण वेदोपास्ते । इतिशब्दोऽस्या उपासनाया नामक- रणं करोति । उपनिपत्स्वेष समयः प्रणवर्भितप्रणवबहुलोपासनानां महोपनि- . १ ख. घ. च. "नाम।२ घ. 'ध्यमं ज। ३ ख. घ. च. 'तिर्य।

. [२ द्वितीयोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । पद्य एतां महोपनिषदं वेद स कृतपुरश्चरणोऽपि महाविष्णुर्भवति महाविष्णुर्भवतीति ॥ ७ ॥ इत्यथर्ववेदान्तर्गतनृसिंहपूर्वतापनीयोपनिषदि प्रथमोप- निषत्समाप्ता ॥१॥ देवा ह वै मृत्योः पाप्मभ्यः संसाराचाबिभयुस्ते षदिति नाम । तत्र तत्र महोपनिषदुपनिपूर्वस्य सदः किवन्तस्य गत्यवसादनवि- शरणार्थत्वान्महब्रह्म गमयति ज्ञापयतीति महोपनिषन्महान्तं संसारमवसादयति क्लेशयति नाशयतीति वा महोपनिपदिति । ओमित्यात्मानं युञ्जीनतद्वै महोप- निषदमिति श्रुतेः । य एतामुक्तप्रकारेण प्रतिपादितां महोपनिषदं वेदोपास्ते स उपासकः कृतपुरश्चरणः कृतं प्रागुक्तोपासनं येन स तथोक्तः। महाविष्णुर्भवति । विष्ल व्याप्तौ । द्विरभ्यासः प्रथमोपनिषत्समाप्तिं द्योतयति ॥ ७ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिप्यस्य परमहंसपरिव्राजकाचार्यश्रीशं- करभगवत आद्यकृतावाथर्वणतापनीयोपनिषद्भाप्ये प्रथमोपनिष- धाग्या संपूर्णा ॥ १ ॥ एवं तावत्प्रथमोपनिषदन्ते य एतां महोपनिषदं वेदेत्येतच्छन्दपरामृष्टसा- मोपनिषदो महोपनिषदश्च सामानाधिकरण्यमुक्तम् । महोपनिषञ्च द्वात्रिंश- नृसिंहलीलाविग्रहस्तुतिमवात्मिका तस्या अन्तं य एवं महोपनिषदि- त्युपसंहारात्तत्र तावदुभयोपनिषत्सामानाधिकरण्यात्सामाभिव्यक्तमूलमत्रद्वा- त्रिंशदक्षरेषु महाचक्रन्यस्तेषु नृसिंहद्वात्रिंशद्व्यहानुपास्य तैरेव मत्रैस्ता देवतां स्तुत्वा सामोपासनां कुर्यादित्यवगम्यते । अत एव स्तुत्युप- निषदः पुरश्चरणोपासनार्थत्वमाह म कृतपुरश्चरण इति । कृतं पुरश्च- रणं स्तुत्युपासनया येन स तथोक्तः । एवं पुरश्चरणोपासनायां मुमुक्षो- रुपासकस्याधिकारसंपत्तिमभिधाय तस्यैव तदुपासनास्त्रीकारेऽन्यदप्यधिकारि- विशेषणमाख्यायिकामधिकारपूर्वकमाह-दवा ह वै मृत्योरिति । देवा अकृतपुर- चरणा वै मृत्योरविभयुस्त उपासका देवा मृत्योर्मरणहनाववस्वतात्स च मृत्युः पाप्पपूर्वक इति पाप्मभ्यः संसाराज्ञानभयात्समस्ताव्यस्तावितयाद्भयमागच्छं- स्तच पापं संसारपर्वकमिनि संसाराचाविभयुरिति प्रत्येकं संबध्यते । १ क. छ. एवमेतां। २ क. स्व. ग. घ. च. छ. "द मापुर'। ३ ख. र. छ. णो म' ।

२२ श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[२ द्वितीयोपनिषत् ] प्रजापतिमुपाधावंस्तेभ्य एतं मन्त्रराज नारसिंहमानुष्टुभं प्रायच्छत्तेन वै सर्वे मृत्यु- मजयन्सर्वे पाप्मानमतरन्संसाराचातरंस्त- स्माद्यो मृत्योः पाप्मभ्यः संसाराच बिभीयात्स एतं मन्त्रराजं नारसिंहमानुष्टुभं प्रतिगृह्णीयात्स मृत्युं जयति स पाप्मानं तरति स संसारं तरति द्विविधा ह्युपासका देवा मुमुक्षवोऽमुमुक्षवश्चेति । तत्र मुमुक्षूणां त्रितयं समुच्चिनं विशेषणम् । अमुमुक्षूणां व्यस्तं द्वितयं विशेषणं केचन मृत्योर्जयमेव कामयन्ते केचन पाप्मन एव जयमन्ये तु त्रितयजयं ते द्विविधा देवाः प्रजापतिमुपाधावन् । उपपूर्वको धावतिः पूजामाह । समीपमेत्य प्रजापतिमपूजयन्स्तुतिशुश्रूषादक्षि. णाभिश्च । तेभ्यो देवेभ्यः प्रीतः प्रजापतिरेतं मत्रराजमित्याद्यानुष्टुभमित्यन्तं सर्वमुक्तार्थ प्रायच्छत्पादात्तेन प्रदानेन वै स प्रजापनिर्मुन्युमजयदेवा अपि मृत्युमजयन् । अजयभितिवहुवचनात्स इत्येकवचनादुभयत्रापि प्रकृत्यर्थसंबन्धे प्राप्ते यथायोग्यतया वचनं योज्यम् । तथा तेनेत्यर्थप्राप्तं स्वीकरणं परामृश्यते । एतदुक्तं भवति । तेन प्रदानेन प्रजापतिमत्युमजयत्तेन स्वीकारेण देवा मृत्यु. मजयनिति । कैश्चिदेवं व्याख्यातं समृत्युमिति समस्तं कृत्वा सह मृत्युना वर्तते यदहानं तत्तथोक्तं तन्न । पूर्व तस्याप्रकृतत्वात् । अथार्थप्राप्तं प्रकृतमिति चेद्भ- वतु न कश्चिद्विरोधः किंतु दातुः फलं न संकीर्तितं स्यादिति दाता कथं प्रवर्तेत । दक्षिणादिभिरिति चेन्न । विरक्ते तु का वातः । तस्मादुभयत्रापि फलवत्युपास- नेति व्याख्या ज्यायसी । एवमुत्तरत्रापि व्याख्येयम् । पाप्मानं ससंसारमतरद- तरनिति च ।यस्मादिदमुभयत्र फलवत्तस्माद्यः प्रागुक्त उपासको मृत्योः पाप्मभ्यः संसाराच बिभीयात्समस्ताव्यस्तावितयाद्भयं गच्छेत्स प्रागुक्त उपासको गुरूपस- पणेन । एतं मत्रराजमित्यादि स संसारं तरतीत्यन्तं स्पष्टार्थम् । प्रतिगृह्णीयात्स्वी कुर्यादित्यर्थः । अनेनैतदर्शयति मूलमत्रमात्रे गुरूपसर्पणमावश्यकम् । सामप्रभृत्यु- पासनांशे गुरूपसर्पणाच्छतितस्तव्याख्यानाद्वेति विकल्पः । तस्मादिदं साम येन केनचिदाचार्यमुखेनेति श्रुतेः । अत एवैतद्विषयरहस्यकल्पग्रन्थानसमर्थश्चेद्गुरुमु- खाच्छृणुयात्समर्थश्चेत्स्वयमेवावक्षेत । मूलमत्रं सबीजं सशक्तिकं साङ्गं सन्यास गुरुमुखात्स्वीकृत्यैवं प्रागुक्तस्योपासकस्य मुमुक्षोः प्रागुक्तं समस्तं विशेषणमितm- १ घ. द. वै म । २ घ ८. यमामा' ।

२ द्वितीयोपनिषत्] नृसिंहपूर्वतापनीयोपनिष । तस्य ह वै प्रणवस्य या पूर्वा मात्रा पृथिव्य- कारः स ऋम्भिर्ऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः स सानः प्रथमः पादो भवति द्वितीयाऽन्तरिक्षं स उकारः स यजुभिर्यजुर्वेदो विष्णू रुद्रास्त्रिष्टुब्दक्षिणाग्निः स सानो द्वितीयः पादो अवंति तृतीया द्यौः स मकारः स सामभिः सामवेदो रुद्रा आदित्या जगत्याहव- नीयः स साम्रस्तृतीयः पादो भवति याऽ- वसानेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोक ओंकारः सोऽथर्वणैर्मन्त्रैरथर्ववेदः संवर्तकोऽग्नि- मरुतो विराडेक ऋषिर्भास्वती साँ साम्रश्व- तुर्थः पादो भवति ॥ १॥ रस्य द्वितयं विशेषणमुभयत्रापि स्तुन्युपनिषत्प्रतिपादितं स्तवनं तेषां व्यूहाना- मुपासनं साम्ना मूलमन्त्राभिव्यक्तिश्चेति त्रितयमप्येनत्पुरश्चरणरूपत्वात्साधार- णम् । एवं विशिष्टमधिकारिणमभिधाय तदुपासनापारम्भस्य प्रणवोपासनापू- वकत्वात्प्रणवमात्रा नृसिंहव्यहे । ॐ स ॐ ॐ यो वै नृसिंहो देवो भगवान्या- श्वार्धचतस्रो मात्राम्नस्मै वै नमो नम इति मत्र पत्रवर्णात्पुरश्चरणोपासनान्तर्गतत्वेनाऽऽ- दित्वेन स्थितेऽपि मात्राशब्दादर्धशब्दाच्चतुःशब्दाच्च तन्मात्राव्यूहप्रत्यभिज्ञा- नात्तस्मिन्नेव व्यूहे चतुर्मात्रासंबन्धित्वेनोपासनाविशेषमाह-तस्य प्रागुक्तस्य मत्रराजस्य साम्नः सामाभिव्यक्ताक्षरस्य संपुटिनत्वेन स्थितस्य ह निश्चित सामाभिव्यक्तमूलमत्राक्षरसंपुटीकरणेन स्थितत्वात्साना संबन्धः । तस्मात्मत्य- भरमुभयन ओंकारी भवतीति श्रुतेः । प्रणवस्य या पूर्वा मात्रेत्यादि सा साम्न- श्वतर्थः पादो भवतीत्यन्तं स्पष्टार्थम् । अकारोकारमकारार्धमात्रा नादात्मिका यथासंख्यं पृथिव्यन्तरिक्षासोमलोकऋग्यजुःसामाथर्वणब्रह्मविष्णुमहेश्वरोंका- रवसुरुद्रादित्यमरुद्गायत्रीत्रिष्टुञ्जगतीविराङ्गार्हपत्यदक्षिणान्याहनीयसंवर्तका त्मकः प्रणवस्तस्मिन्नृसिंहव्य हे विश्वरूपन्यायेनावस्थित उपास्यः । नन्वनेक एव लीलाविग्रहाः कथं न भवन्ति । नेति ब्रूमः । यस्तस्मा इत्येकवचनादेक एवायं लीलाविग्रह इत्यवगम्यते ॥ १॥ १ ग. घ. 'लः सा प्र” । २ ग. दु. च. विष्णुरू । ३ ग. च. 'मिः मा द्वि' । ४ ग. छ. 'दादि । ग. च. यः गा तुती । ६ घ. र. माऽय' । .. म ।

२४ श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[२ द्वितीयोपनिषत् ] अष्टाक्षरः प्रथमः पादो भवत्यष्टाक्षरात्रयः पादा अवन्त्येवं द्वात्रिंशदक्षराणि संपद्यन्ते हात्रि- शदक्षरा वा अनुष्टुभवत्यनुष्टुभा सर्वमिदं सृष्ट- मनुष्टुभा सर्वमुपसंहृतं तस्य हि पञ्चाङ्गानि भवन्ति चत्वारः पादाश्चत्वार्यङ्गानि भवन्ति सप्रणवं सर्व पञ्चमं भवति। ॐ हृदयाय नमः। ॐ शिरसे स्वाहा।ॐ शिखायै वषट् । ॐ कव. चाय हुम् । ॐ अवाय फडिति प्रथमं प्रथमेन एवं तावत्पुरश्चरणान्तर्गनप्रणवमात्राव्यूहोपासनमभिधायेदानी सामाभिव्य- तमूलमत्रेण ब्रह्मोपासनामभिधातुं मूलमत्रस्य प्रणवसंपुटीकरणादक्षरसंख्या- विवृद्धः कथं द्वात्रिंशदक्षरं सामेत्याशङ्कय पादशः पञ्चाङ्गन्यासं चाभिधातुं पादाक्षरसंख्यापूर्विकां कृत्स्नमूलमत्राक्षरसंख्यामाह-अष्टाक्षरः प्रथमः पादो भवतीत्यादि सप्रणवं सर्व पञ्चमं भवतीत्यन्तं स्पष्टार्थम् । ॐ हृदयेत्याधगम- वाणां पञ्चानां सामाङ्गमवेरेव व्याख्यातत्वान्न पृथग्व्याख्यापेक्षेति । हृद- येत्यादि पञ्चमेनेत्यन्तं स्पष्टार्थम् । व्यतिषक्ता वेमे लोकास्तस्माद्यतिषक्तान्य- गानि भवन्तीति लोकबुद्ध्योपास्यानां हृदयाघङ्गानां सामाभिव्यक्तमूलमत्रप्र- तिपाद्ये नृसिंहब्रह्मव्यूहे क्षीरोदार्णवशायिन्युपविष्टे वा लोकव्यतिषङ्गहेतुका- अव्यतिषक्तता विधीयते तस्माद्यतिषक्तान्यङ्गानि भवन्तीत्यत्र व्यतिषक्तानि यथायोग्यतयाऽन्योन्यं मिश्रितान्युपास्यानीत्यर्थः । ततश्चायमर्थः संपद्यते पार- मेश्वरं हृदयाख्यमङ्गं पारमेश्वरशिरोङ्गादधःप्रदेशान्तस्थितं हृदयप्रदेशादारभ्यो- पास्यम् । अत एव सामाङ्गप्रणवव्याख्यानेन मूलमत्रहृदयाङ्गव्याख्यानावसरे पारमेश्वरं हृदयं व्याख्यातमितरथा तयाख्यानमप्रस्तुतं स्यात्तस्मादङ्गव्यतिषा- विधानादेव तव्याख्यानं प्रस्तुतमिति सिद्धम् । यत एवं हृदयाजोपासनैव तदन्त- तत्वानेत्रत्रयोपासनाऽत एव नेत्रत्रयाजोपासना न पृथगभिहिता । एवमु. त्तरत्रापि शिखाख्यमङ्गं पारमेश्वरं शिरोगमूर्ध्नि च व्यतिषक्तं सामाङ्ग- लक्ष्मीनृसिंहयजुर्मवेण व्याख्यातमुपास्यम् । शिरश्च द्वितीयमङ्गं यथोक्तहृदये सामाङसावित्रीमत्रेण व्याख्यातं पारमेश्वरं कवचम् । यथोक्तहृदयैकदेशे नाभेज़ ग्रीवानोऽधःपृष्ठप्रदेशव्यापिमामाङ्गनृमिंहगायत्र्यां व्याख्या- २५ [२ द्वितीयोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । युज्यते द्वितीयं द्वितीयेन तृतीयं तृतीयेन चतुर्थ चतुर्थेन पञ्चमं पञ्चमेन व्यतिषता वा इमे लोकास्तस्माद्यतिषक्तान्यङ्गानि भवन्त्यो- मित्येतदक्षरमिदं सर्व तस्मात्प्रत्यक्षरमुभयत ओंकारो:भवतीत्यक्षराणां न्यासमुपदिशन्ति ब्रह्मवादिनः ॥२॥ तस्य ह वा उग्रं प्रथम स्थानं जानीयाद्यो जानते सोऽमृतत्वं च गच्छति वीरं द्वितीयं स्थानं महाविष्णुं तृतीयं ज्वलन्तं चतुर्थ सर्वतोमुखं पञ्चमं नृसिंहं पष्ठं भीषणं सप्तमं भद्रमष्टमं मृत्युमृत्यु नवमं नमामि तमुपास्यम् । एवं पञ्चममङ्गमस्त्राख्यमुत्तराधरभावेन तनाभिमध्यवनिक्षीरोदा- णवपारमेश्वरव्यूहचतुष्टयाङ्गव्यापितया व्यवस्थितं व्यतिषक्तमुपास्यमिति यथा- योग्यतया व्यतिपक्तशब्दस्याङ्गेषु स्थितिः पश्चाङ्गन्यासोपन्यासो न षष्ठमङ्ग- मिति तस्य हृदयान्तर्गतत्वादिति प्रागभिहितम् । समणवे पञ्चमेऽङ्गे सप्रणवतां विधातुमाह । यस्मादोमित्येतदक्षरमिदं सर्वमिति यदिदमर्थजातमभिधानाभि- धेयभूतं तस्याभिधानाव्यतिरेकादभिधानभेदस्य चोंकाराव्यतिरेकादोंकार एवेदं सर्वं तस्मात्प्रत्यक्षरमुभयत ओंकारो भवति प्रत्यक्षरमेकै मूलमत्राक्षरं प्रणवेन संपुटितं कुर्यादित्यक्षराणां मूलमत्राक्षराणां न्यासमखाख्येऽग उपदिशन्ति कथयन्ति ब्रह्मवादिनो ब्रह्मैवोपास्यतया ये वदन्ति ते ब्रह्मवादिनः । अत्र चोपदिशन्तीति विशेषणोपादानान्मूलमत्रागजातमुपदेशगम्यमिति दर्श- यति । तमिमं पञ्चाङ्गन्यासं यथोक्तविशेषणे परमेश्वरे यथोक्तविशेष. गविशिष्टं विधाय स्वात्मन्यपि विदध्यात् । अस्मिन्हि प्रकरणे तस्यार्थ- जातस्य प्रायशः परमेश्वरसंबन्धितया श्रुतत्वादिति ॥२॥ एवं तावत्माक्प्रत्यक्षरमुभयत ओंकारी भवतीति विधानात्सामाभिव्यक्तम्- लमवाक्षरव्यवधानेनार्थाप्रतिपादन औपाधिकेन पदाझानेन प्राप्ते तदव्यवधा. नेनार्थप्रतिपादनोपाधिना गूढेन पदपरिमाणं झापयितुं पदोद्धारमाह---तस्य ह वा इत्यादि सर्वमुपसंहृतमित्यन्तं स्पष्टार्थम् । स्थानं जानीयात्पदं जानीयात् । १ छ. ति प्रत्य।

२ २६ श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[२ द्वितीयोपनिषत् ] दशममहमित्येकादशं स्थानं जानीयाद्यो जा- नीते सोऽमृतवं च गच्छति । एकादशपदा वा अनुष्टुभवत्यनुष्टुभा सर्वमिदं सृष्टमनुष्टुभा सर्वमुपसंहृतं वस्मात्सर्वमिदमानुष्टुभं जानी- याद्यो जानीते सोऽमृतत्वं च गच्छति ॥३॥ .. एकादशपदा वा अनुषुब्भवतीत्युपसंहारात्माक्तनः सर्वोऽपि स्थानशब्दः पादे वर्तते । यस्मादभिधानाभिधेयप्रपञ्चस्याभिधानाव्यतिरेको वाचारम्भणं विकारो नामधेयमिति श्रुतेर्नामप्रपञ्चस्य सामान्यविशेषात्मकस्यानुष्टुप्त्वे नामा- व्यतिरेकादनुष्टुभश्वाऽऽद्यब्रह्मविर्तात्मकत्वात्साकारब्रह्मप्रतिपादकत्वेन ब्रह्मत्वे सिद्धे ब्रह्मणश्च सृष्टयुपसंहारकारणत्वेनोपादानादित्यनुष्टुबेवोपादानं तस्मात्स- र्वमानुष्टुभमित्यादि गच्छतीत्यन्तं स्पष्टार्थ व्याख्येयमुक्तार्थम् ॥ ३ ॥ यदर्थप्रतिपादकगूढोपाधिना पदज्ञानमभूत्तमेव गूढोपाधि विकृणोति प्रश्नोत्त. राभ्याम् । स चात्र बहुतरो व्याख्येयः साङ्गसामाभिव्यक्तसाङ्गमूलमत्रं प्रतिपाद्य। स च मूलमत्रः पदत्रयात्मकः प्रथमः पादः पदद्वयात्मको द्वितीयः पदत्रयात्म- कस्तृतीयस्तत्संख्याकपद एव चतुर्थ इत्येकादशपदात्मक एवमेकादशपदात्मके मत्रे पञ्चाङ्गन्यासानन्तरमुक्त मत्रे द्वितीयान्तेषु नवसु पदेषु मत्रान्त्यं पदद्वयं नृतीयपादाद्यं च पदमपि त्रितयमप्यधस्तनेषूपरितनेषु च तृतीयपादाद्यपदाद- न्यत्रानुपज्यते तृतीयपादाद्यपदे द्वितयमनुषज्यत एवं क्रियाकारकाद्यन्वयसंब- न्धशुद्धिः । तत्र पश्चाङ्गन्यासानन्तरं पठितत्वात्पदोद्धारतदर्थकथनस्य सर्वेष्वेव पादेषु साङ्गेष्वर्थः कथनीय इत्याद्ये पादे पदत्रयात्मके साङ्गे लोकायग्न्यादिना सामोपनिषद्युपास्ये सामाङ्गप्रणवेन च मूलमत्रहृदयाङ्गव्याख्याने प्राप्ते तत्रैकैकं पदं बहुतरेष्वर्थेषु व्याख्येयं तथोपरितनकचो दशपदसंबन्धिन्यः प्रश्नोत्तरा- न्तरालवर्तिब्राह्मणवर्तिन्यस्तदेषाऽभ्युक्तेत्येवं ब्राह्मणोक्तार्थे साक्षित्वेनानुभा- विता महाचक्रे न्यस्ते द्वात्रिंशद्व्यूहनृसिंहात्मके ब्रह्मण्येकैकमूलमत्रपदव्या- ख्यानपरत्वेन वर्णनीयाः । तथा ब्राह्मणमेकैकमूलमत्रपदव्याख्यापरत्वेन महा- चक्रनाभिवतिक्षीरोदार्णवसंबन्धिमूलनृसिंहव्यूहे ब्रह्मणि प्रागुक्तगुणविशिष्टे व्याख्येयमत एव तत्र साक्षित्वेनानुद्भावनमृग्नाणियोस्तत्तत्पदव्याख्याना- वसरे विभागं क्रमं च स्पष्टं प्रदर्शयिष्यामः । तत्र तावदेकैकं पदं धातूपसर्गा- दियोगेन बहुतरमर्थजातं कथं वदिष्यति प्रजापतिः कथं व्याख्यास्यत्यस्मा- २७ [२ द्वितीयोपनिषत् नृसिंहपूर्वतापनीयोपनिषत् । देवा ह वै प्रजापतिमब्रुवन्नथ कस्मादुच्यत उग्रमिति स होवाच प्रजापतिर्यस्मात्स्वमहिना सर्वाल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतान्यगृहात्यजस्रं मृजति विसृजति विवास- यत्युबाह्यत उद्गृह्यते । स्तुहि श्रुतं गर्त- सदं युवानं मृगं नभीममुपहनुमुग्रम् । व्युत्पन्नान्प्रतीत्येवं देवा विस्मयेन ह हर्षिता वै प्रजापतिमब्रुवमिति सर्वपद- साधारणं व्याख्यानं पृष्ट्वाऽनन्तरं कस्मात्प्रकृतिप्रत्ययविभागादनाख्यातात्मकं प्रथमपदमुच्यते व्याख्यायत उभयत्रापि मूलनृसिंहव्यूहे द्वात्रिंशनृसिंहव्यूहे चोग्रमिति । इतिशब्दः प्रश्नसमाप्तिं द्योतयति । स प्रजापतिस्तान्देवान्परमेश्व- रोपासनानिष्ठान्विवक्षितार्थप्रष्न्इश्वोत्तरमुवाच एवमुत्तरोत्तरप्रश्नोत्तरे- प्वपि योज्यम् । यस्मात्स्वमहिम्ना स्वतत्रशक्त्या मायया तस्या आत्मतत्र- त्वादेव स्वातत्र्यम् । स्वमहिम्नेति च वचनं सर्वशक्तिमत्तृतीयपादाद्यपदानुपर दर्शयति । एवं तत्तत्पदव्याख्यानावसरे सर्वाल्लोकान्पृथिव्यादीन्पार्थिवत्वावा- न्तरजातिभेदभिन्नान्सर्वान्देवानग्न्यादीन्सप्रणवव्याख्यानपक्ष ऋग्ब्रह्मादिगा- हपत्यान्तान्प्रणवप्रथममात्राप्रतिपादितान्सर्वात्मनो विश्वादीन्प्रणवव्याख्यानेन वक्ष्यमाणान्सर्वाणि भूतान्युगृह्णाति । उदित्ययमुपसर्ग उ इत्येतस्य निपातस्य स्थाने वर्णसाम्यादन्वित्युपसर्गस्यार्थग्रह इत्ययं गृह्णातीति भावव्युत्पत्त्याऽनुर- हातीत्यर्थः । अजस्रमनवरतं तथाचोत्पूर्वको गृहातीतिशब्दः सृष्टिविमोचनव- सतिषु वर्तते । उद्ाह्यत उगृह्यत इत्यात्मनेपदात्प्रयोजककर्तृत्वं साक्षात्कर्तृत्वं चेत्युक्तमेवार्थ द्रढयति । ततश्चायमर्थः । पूर्वोक्तानुग्राहकत्वं स्रष्टत्वं च विपू. कस्य सृजतेरुपसंहारार्थत्वेन तदर्थत्वं विमोचनार्थत्वं वाऽवस्थितिकारयि- तृत्वमनुग्रहे प्रयोजकत्वमिति मूलनृसिंहव्यूहहृदयान्तर्वतित्वेनोपास्यम् । एवं मूलनृसिंहगूढहृदयोपासापरत्वेनोग्रपदं व्याख्यायायेदानीं तदेव पदं द्वात्रिंश- द्व्यूहोपासनापरत्वेन व्याख्यातुमचमाह । स्तुहीति स्तोतारं प्रत्यक्षीकृत्याऽऽह परोक्षीकृत्य स्तुत्यम् । यो वै नृसिंह इत्यादिमत्रवगैरेव स्तुतं द्वात्रिंशनृसिंह- व्यूह गर्तसदं गर्ने महाचक्रे गृणातः स्तुतिकर्मणो गीर्यत इति व्युत्पत्या सीद- तीति गर्तसदम् । युवानं प्रसिद्धम् । मृगं सिंहरूपम् । नभीममभयंकरमुपहल्नु. मनुग्रहार्थ सर्वत्रोपगमशीलम् । उग्रं द्वात्रिंशभृसिंहव्यूहरूपम् । अत्रापि सश- क्तिकनृसिंहपदस्यानुपङ्गः । स्तुहीत्येवं संबन्धः । एवं परोक्षनः स्तुने द्वात्रिंश- श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[२ द्वितीयोपनिषत् ] मृडा जरित्रे सिंह स्तवाना अन्यं त अस्मांनव- पन्तु सेनाः । तस्मादुच्यत उग्रमिति । अथ कस्मा- दुच्यते वीरमिति यस्मात्स्वमहिना सर्वाल्लोकान्स- वन्देिवान्सर्वानात्मनः सर्वाणि भूतानि विरमति . विरामयत्यजस्रं मृजति विसृजति वासयति। यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः । नृसिंहव्यूहे तत्सामर्थ्यादूरश्रवणयुक्तत्वाच्च तच्छ्रुत्वा प्रत्यक्षो ह्यभूत्स व्यूह उपासकायंति प्रत्यक्षीकृत्वाऽयमुत्तरार्धः। हे सिंह द्वात्रिंशद्व्यूह स्तवानस्तू यमानस्त्वं मृड सुखय जरित्रे, स्तोत्रकर्ने । यद्वा चतुर्थी द्वितीयार्थे । ते तव सेना अस्मदस्मत्तोऽन्यं निवपन्तु विनाशयन्तु । यद्वा स्वानुग्रहं लब्ध्वा परानुग्रहं प्रार्थयते । ते तव सेनास्तद्व्यूहरूपा अस्मदन्यं निपूर्वको वप- तिरनुग्रहार्थे वर्ततेऽनुगृह्णन्त्वित्यर्थः । यस्मादेवं प्रागुक्तेन प्रकारेणोभयोपास्य उग्रपदं क्षमं तस्मादुच्यत उग्रमिति । इतिशब्द उत्तरसमाप्तिं द्योतयति । एवं प्रथमपदमुभयोपासने क्षममिति विज्ञायाथेदानी द्वितीयं पदमक्ष- योपास्ये व्याख्यातुं द्वितीयो देवप्रश्नः स च प्रथमदेवप्रश्नेन व्याख्यातः । अथ कस्मादुच्यते वीरमिति स होवाच प्रजापतिरिति प्रागुक्तमनुषज्योत्तरम् । यस्मात्स्वमहिम्नंत्यादि सर्वाणि भूतानीत्यन्तमुक्तार्थम् । विरमति विरामयति विविधप्रकारेण प्रागुक्तान्पति रमति । रम क्रीडायाम् । तथैव तानाक्रीडयति । कथं क्रीडयतीत्यपेक्षित आह-अजस्रमित्यादि वासयतीत्यन्तमुक्तार्थम् । एत- दुक्तं भवति । सृष्टिस्थितिलयविमोचनकर्तृत्वरूपाः क्रीडा अतः प्रागुक्तार्थमूल- नृसिंहव्यूहहृदयं क्रीडासक्तमुपास्यम् । एवं मूलनृसिंहोपासनापरत्वेन द्वितीय पद व्याख्याय द्वात्रिंशनृसिंहव्यहोपासनायां तदेव पदं व्याख्यातुमर्धर्चमाह । देवकामस्तांस्तान्ब्रह्मादिदेवान्स्वेन रूपेणावतारयितुं कामयत इति देवकामः । यद्वा नृसिंहव्यूहमेव धृत्वा ब्रह्मादिरूपं प्रकटयति कचिदायुधैः कचिद्विश्वरूपो- पपत्तिन्यायेन । यो वै नृसिंहो देवो भगवान्यश्च ब्रह्मेत्यादिषु यो वै नृसिंहो देवो भगवान्ये चाष्टौ वसव इत्यादिषु च पदेष्वेवं देवकामो जायते यतो वीरः शरो यद्वा वीरो विविधावताररूपेण रमणीयसंसारशीलो वीरः कर्मण्यस्तत्तद- वतरणरूपकर्मशील उपासकानुग्रहणे । सुदक्षः पूजितवलः। यद्वा पूजितः । युक्तग्रावा युक्तो ग्रावभिर्युक्तग्रावा सोमेऽध्वर्खादिरूपो यो वै नृसिंहो देवो २९ [२ द्वितीयोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । तस्मादुच्यते वीरमिति । अथ कस्मादुच्यते ' महाविष्णुमिति यः सर्वाल्लोकान्व्यानोति व्या- पयति स्नेहो यथा पललपिण्डमोतप्रोतमनुप्राप्त व्यतिषको व्याप्यते व्यापयते । यस्मान जातः परोऽन्योऽस्ति य आविवेश भुव- नानि विश्वा । प्रजापतिः प्रजया संविदान- स्त्रीणि ज्योतींषि सचते स षोडशीति । भगवान्यश्च सर्वमित्यादिमत्रवर्णात् । यस्मादुक्तप्रकारेणोभयोपास्ये वीरपदं क्षमं तस्मादुच्यते वीरमिति । इतिशब्द उत्तरसमाप्तिं द्योतयति । अथेदानी तृतीय- पदं व्याख्यातुं देवप्रश्नः स चोक्तार्थः । सर्वत्र प्रश्नवाक्यप्वयशब्दस्तत्तदान- न्तर्यार्थः । अथ कस्मादुच्यते महाविष्णुम् । इतिशब्दोऽनुषक्तप्रश्नसमाप्ति द्योत- यति । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । य इत्यत्रापि स्वपहिनेत्यनुषका- च्छक्तिमनृसिंहपदस्यानुषङ्गः । सर्वाल्लोकान्व्यामोति व्यापयतीत्यत्र सर्वलोकप- दादेवाऽऽत्मभूतानां संग्रहः प्रारबद्धक्रमत्वेनावगतानां तदादिन्यायेन । विष्णुरिति विष्ल व्याप्ताविति धातो रूपम् । तच्च व्यापकत्वं निरुपपदत्वेन महत्व प्राप्त- मिति महच्छब्देन तदेव दृढीकृतम् । यद्वा मह इति तेजो नाम महो व्यापकम् । व्यापकत्वे दृष्टान्तमाह-स्नेहस्तैलादिर्यथा पललपिण्डं पललस्य पिण्डं पलल- पिण्डम् । ओतमनुस्यूतं प्रोतं प्रकर्षणानुस्युतमनुषक्तं तादृशं पिण्डं व्यतिषक्तोऽ- वयवसंभिन्नो व्याप्यते व्यापयते । दृष्टान्त आत्मनेपदोपादानाद्यामोति व्याप- यतीति दान्तिके च परस्मैपदोपादानादुभयपद्ययं धातुरिति दर्शयति । एत- दुक्तं भवति । प्रागुक्तसर्वलोकादिसाक्षायापकत्वं प्रयोजकव्यापकत्वं च मूल- नृसिंहहृदय उपास्यमिति । एवं तावत्साङ्गमूलनृसिंहव्यूडोपासनापरत्वेन महा- विष्णुपदं तृतीयं व्याख्यायाथेदानीं तदेव पदं द्वात्रिंशन्नृसिंहव्यूहोपास्यपर- त्वेन व्याख्यातुमचमाह-यस्माद्वात्रिंशनृसिंहव्यूहात्पर उत्कृष्टो न जातो जानोऽन्यो नास्ति सर्वस्यैवान्तर्भावाद्यो व्यूहः स विश्वा सर्वाणि भुवनानि भूतान्याविवेश प्रविष्टः । व्याप्तुस्तत्सदृपधारणेन विश्वरूपावतारणेनाऽऽविर्भ- वत्याविर्भूत्या वा प्रजया सह प्रजापतिरपि संविदानो जानंस्तमुपास्यतया त्रीणि ज्योतींषि गार्हपत्यादीमचने सेवते । स प्रजापतिरुपासनां कुर्वषोडशी श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[२ द्वितीयोपनिषत् ] तस्मादुच्यते महाविष्णुमिति । अथ कस्मादुच्यते ज्वलन्तमिति कला निराकारब्रह्मतया बभूवं । तस्य चाऽऽद्यस्योपासकस्य प्रजापतेरन्यस्य चोपासकस्यायमुपासनाक्रमः। अत्र च प्रकरणे महाचक्रनाभिवतिक्षीरोदार्णव- संवन्ध्युपास्यो मूलनृसिंहव्यूह'इति पूर्वाचार्याणां परिभाषा संप्रदायागता । तत्र च.प्रणवपूर्वकशक्तिबीजोच्चारणपूर्वकं सामाभिव्यक्तद्वात्रिंशदक्षरेषु न्यस्तेषु चके यथासंख्यमेकैकस्मिन्नक्षरे प्रणवसंपुटिते तत्तद्वयूहमत्रैस्तं तं व्यूह स्तुत्वा तथैवो- पास्यैवं द्वात्रिंशनृसिंहव्यूहोपासनया स्वात्मानं महाविष्णुमुपास्य साङ्गसामाभि- व्यक्तसागमूलमत्रेण नृसिंहव्यूहे प्रकरणे श्रुतत्वात्पञ्चाङ्गन्यासं विधाय संपदा- यानुसारेण तस्मिन्महाविष्णौ तथैव पञ्चाङ्गन्यासं विधाय ततः सानोपासन- मारभेत । तत्र प्रथमपादे पदत्रयात्मके प्रथमपदव्याख्यानप्रतिपादितगुणविशिष्टं शक्तिमनृसिंहपदपूर्वकं नमस्क्रिर्यापदपूर्वकं सामाङ्गप्रणवमत्रव्याख्यानहृदयमन्त्र- गुणविशिष्टं मूलनृसिंहव्यूहमुपास्य द्वात्रिंशनृसिंहव्यूहमृक्प्रतिपादितमुपासीत । एवं प्रतिपदं मूलनृसिंहव्यूहोपासनपूर्वकं द्वात्रिंशन्नृसिंहव्यू होपासनम् । अत एव हृदयाघङ्गमत्राणामर्थ व्याचक्षाणैरस्माभिरुक्तं प्रपश्चागमशास्त्रे- "हृदयं बुद्धिगम्यत्वात्प्रणामः स्यानमःपदम् । क्रियते हृदये नमो बुद्धिगम्या नमस्क्रिया" इति । एवं द्वितीयतृतीयचतुर्थपादेषु तत्तत्पदोपासनां प्रागुक्तां कृत्स्नां विधाय महा- विष्णुरूपेऽन्त्यसामप्रतिपादितरूपे वोपास्यरूपे वा सायुज्यतया सच्चिदान- न्दरूपे वाऽथवा यथान्तःकरणशुद्धियोग्यतया समाधिना वा तिष्ठेतोपासकः । आद्यद्वितीयोपासनयोः साममूलमत्रप्रणवानां वैकल्पिकजपपूर्वकत्वेनावस्था- नम् । तथा यत्र यत्र मूलमत्रस्मृतिस्तत्र तत्र प्रणवशाक्ते बीजसंपुटीकरणेन तत्रापीषन्मूलमत्रजपपूर्वकः प्रणवजपः श्रेयान् । तस्य सर्वोत्कृष्टत्वात्सर्वमत्रजपप्र- त्याम्नायत्वेन विहितत्वाधः प्रणवमधीते स सर्वमधीत इति श्रुतेः। अन्त्ययोरुपा- सनयोरन्त्यसामिति(?) राकारयोरवस्थितौ न जपो नान्यचिन्तनं समाधावेवाव. स्थितिरिति परमरहस्यविवेको न कस्यचित्पतिपादनीय इति स्थितम् । यस्मादिदं महाविष्णुपदमुभयोपास्यप्रतिपादनक्षमं तस्मादुच्यते महाविष्णुमिति । इति- शब्दो व्याख्यातः । एवं प्रथमपादः । एवं प्रथमपादोपासनां विधातुं तदाद्य- पदं मन्त्रापेक्षया चतुर्थ च पदं व्याख्यातुं प्रश्नोपक्रमः स चोक्तार्थः । अथ कस्मादुच्यते ज्वलन्तमिति । इतिशब्दो व्याख्यातः । स होवाच प्रजापतिरि- १ छ. ति यः स्वम ।

. [२ द्वितीयोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । यस्मात्स्वमहिना सर्वाल्लोकान्सर्वान्देवान्सर्वा- नात्मनः सर्वाणि भूतानि स्वतेजसा ज्वलति ज्वालयति ज्वाल्यते ज्यालयते । सविता प्रसविता दीप्तो दीपयन्दीप्यमानः । ज्वल- ज्वलिता. तपन्वितपन्संतपत्रोचनो रोच- मानः शोभनः शोभमानः कल्याणः । त्यनुपज्योत्तरम् । यः स्वमहिम्ना स्वाधीनमायया सर्वाल्लोकानन्तरिक्षगतान्पू र्वोक्तान्भाविनश्च तदन्तर्गनान्सर्वान्देवान्यक्षगन्धर्वादीन्सर्वानात्मन ऋग्यजुः- सामाथवरूपान्पुरुषानन्यानृपीन्सामाङ्गसावित्रमत्रव्याख्यातांच सर्वाणि भूतान्ये- तान्पूर्वोक्तान्वक्ष्यमाणांश्च स्वतेजसा ज्वलति स्वकीयप्रकाशनैतानपि प्रकाशयति । शिरोन्तर्गततेजो व्याख्यातम् । सर्वाङ्गाङ्गिव्यापितायाङ्गा(?)नामन्योन्यसंबन्धश्र- वणात्तस्माद्यतिपक्तान्यङ्गानि भवन्तीति श्रुतेः। ज्वलयतीत्येतान्प्रकाशयतीत्यर्थः । एवं साक्षात्मयोजकत्वेन च स्वरसंबन्धितया शिरोगान्तर्गततेजःसंबन्धे सिद्धेऽ- प्येतदेव वेदयितुमुभयपदित्वेन धातुं प्रयुक्ने प्राक्परस्मैपदमिदानीमात्मनेपदं ज्वाल्यते ज्वालयत इति । एवं मूलनृसिंहव्यूहोपास्ये चतुर्थ पदं व्याख्याय द्वात्रिंशनृसिंहव्यूहे व्याख्यातुमृचमाह । सविता सवितृमण्डलतद्वर्तुलतया स्थित- त्वात्सविताऽयं व्यूहोऽत एव प्रसविता सर्वकर्मानुष्ठानेऽभ्यनुज्ञातंतव्यूहोपास- नपूर्वकत्वादितरोपासनस्य दीप्तो दीपयन्दीप्यमानो यथाऽयं सविता रात्रितमो- विनाशनेन दीप्तः प्रकाशमानः कर्मानुष्ठानेऽभ्यनुज्ञाता तथाऽयं द्वात्रिंशनृसिंह- व्यूह उपासित उपासकाय मूलनृसिंहव्यूहोपासनाज्ञानरात्रितमीविनाशनेन दीप्तः प्रकाशमानः प्रधानोपासनाभ्यनुज्ञाता । दीपयन्दीप्यमान इति शतृशान- प्रत्ययो वर्तमानकालावुक्तमेवार्थ द्रढयतः । ज्वलज्वलिता प्रकाशं कुर्वन्म- काशयिता । यद्वोभयत्रापि बलशब्दो दहनार्थे वर्तमानोऽप्यज्ञानदाहकलेन व्याख्येयः । तत्र लोकाद्यज्ञानस्य प्रकाशवत्तादाहकः प्रकृते चीपासकाज्ञानदा- हक इति । ज्वलन्प्रकाशनेनाज्ञानदहनं कुर्वञ्चलिताज्ञानदहनकर्ता तपस्तापं कुर्वत्रज्ञानस्य वितपस्वयं शान्तः संतपन्संतापं कुर्वनज्ञानस्य । एते शतृप्रत्यया वर्तमानकालाः सन्तो यस्मिन्काल एतव्यूहोपासनं वर्तते तस्मिन्नेव महाविष्णु- रुपासकः प्रकाशात्मकोऽधिकारी वर्तत इति दर्शयन्ति । रोचनोऽनुद्वेगकरो रोच- मान इच्छाकरोऽत एव शोभनः शोभमानः कल्याण इति । एतदुक्तं भवति । मूलनृसिंहव्यूहस्य शिरोग उन्नने स्थितं तेजः सर्वप्रकाशकं सर्वाशानदाहकं चेति ३२ श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[२ द्वितीयोपनिषत् ] तस्मादुच्यते ज्वलन्तमिति। अथ कस्मादुच्यते सर्वतोमुखमिति यस्मादनिन्द्रियोऽपि सर्वतः पश्यति सर्वतः शृणोति सर्वतो गच्छति सर्वत आदत्ते स सर्वनः सर्वतस्तिष्ठति । एकः पुर- स्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः। यमप्येति भुवनं सांपराये नमामि तमहं सर्वतो- मुखम् । तस्मादुच्यते सर्वतोमुखमिति । सामागसवितृमत्रेण व्याख्यातमुपास्यमिति यस्मादुभयोपास्यप्रतिपादनक्षम ज्वलन्तमिति पदं तस्मादुभयोपास्यपरखेनोपसंहरति तस्मादुच्यते ज्वलन्तमिति । इतिशब्दो व्याख्यातः । अथेदानी क्रमप्राप्तं मूलमत्रापेक्षया पञ्चमं पदं पादा- पेक्षया द्वितीयमुभयोपास्ये व्याख्यातुं देवप्रश्नोऽथ कस्मादुच्यते सर्वतोमुख- मिति स चोक्तार्थः । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । यस्मात्स्वमहि- नेत्यनुषज्य व्याख्येयम् । अनिन्द्रियोऽपीति सेन्द्रियस्य व्याख्यातविग्रहस्य तदभिमानराहित्यादनिन्द्रियोऽप्ययं मूलनृसिंहव्यूहः सर्वतः पश्यति सर्वतः शृणो- तीति बुद्धीन्द्रियोपलक्षणं सर्वतो गच्छति सर्वत आदत्ते सर्वगः सर्वतस्तिष्ठतीति कर्मेन्द्रियोपलक्षणमेवमुभयेन्द्रियाभिमानरहितोऽप्ययं व्यूह उभयेन्द्रियजन्यका- र्यकरणशक्तिमाशिरोग उपास्य इति दर्शयति । एवमिदं सर्वतोमुखपदं मूलनृ. सिंहोपास्यपरत्वेन व्याख्यायाथेदानी द्वात्रिंशनृसिंहोपासनापरत्वेन व्याचष्टे । एकः पुरस्तात्माग्ब्रह्मा नृसिंहावतारो बभूवेदं सर्व यतो बभूव भुवनस्य गोपा गोप्ताऽपीदानी नृसिंह एव विष्णुर्बभूव । यमप्येति लयं गच्छति सांपराये प्रल- यकाले भुवनं सर्व स एव महेश्वरो बभूवेति बद्धक्रमकाणां व्यूहानां त्रयाणां प्रथमत एवोपादानेन तदादिन्यायेनेतरेषामेकोनत्रिंशद्व्युहानां ग्रहणमस्मिन्मने। नमामि नमस्करोमि तं व्यूहमहं नमामीत्येतत्पदद्वयमत्र वदन्सर्वपदव्याख्यानेऽ- नुषक्तमिति दर्शयति । स्वमहिम्नेत्युपादानात्तत्र तत्र शक्तिमनृसिंहपदमप्येतद- नुषक्तम् । सर्वतोमुखमिति सर्वतो नृसिंहाकाराणि मुखानि यस्य स तथोक्तस्तं नृसिंह सर्वतोमुख नमाम्यहमित्यर्थः । यस्मादिदं पदमुभयप्रतिपादने शक्तं तदु- भयप्रतिपादकत्वेन तस्मादित्युपसंहरति तस्मादुच्यते सर्वतोमुखमिति । एतदुक्तं Hamage.net १ उ. "स्मा:स्वयमनि । २ ग. 'दतीन्द्रि' । ३ छ. ति । य ए।

[ २ द्वितीयोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । अथ कस्मादुच्यते नृसिंहमिति यस्मात्सर्वेषां भूतानों ना वीर्यतमः श्रेष्ठतमश्च सिंहो वीर्य- तमः श्रेष्ठतमश्च तस्मान्नृसिंह आसीत्परम- श्वरो जगद्वितं वा एतद्पमक्षरं भवति । भवति । द्वितीयपादे शिरोगविशिष्टप्रतिपादितसर्वप्रकाशकत्वसर्वाज्ञानदाहकलो- भयेन्द्रियकार्यकरणशक्तिगुणविशिष्टः सामाङ्गसवितृमत्रव्याख्यातगुणविशिष्टो मूलनृसिंहव्यूह उपास्यस्तत इतरां व्यह इति । एवमाद्यादङ्गादुन्नतप्रदेशस्थितत्वा- च्छिरसः शिरस्त्वम् । अत एव शिर आदित्यः सर्वोत्कृष्टः प्रकाशस्तस्मा उन्नतायो अतस्थाय सर्वोत्कृष्टप्रकाशाय स्वाहेति प्रपश्चस्तस्य तस्मात्प्रपञ्चाकागत्तदाकारां बुद्धिं प्रत्याहृत्य नृसिंहाकारमेवोपासीतेत्येवं शिरोगमत्रस्यार्थः। यो वै नृसिंहो देवो भगवान्यश्च सर्वमिति श्रुतेः । अत एवोक्तं शिरोङ्गमत्रार्थ व्याचक्षाणैर- स्माभिः प्रपञ्चागमशास्त्रे- "तुङ्गार्थवाच्छिरोङ्गस्य विषयाहरणे विपः । शिरोमवण चातुङ्गविषयाहतिरीरिता" इति ।। एवं द्वितीये पादे साङ्गोपामनामभिधाय तृतीयपादोपासनामभिधानुं नदाचं पदं पष्ठं च मूलमत्रापेक्षयोक्तोपास्य व्याख्यातुं देवप्रश्नोऽथ कस्मादुच्यने नृसिं- हमिति स चोक्तार्थः । स होवाच प्रजापतिरिन्यनुपज्योत्तरम् । अत्र च यस्मा- च्छब्दप्रयोगात्स्वमहिम्नेत्यस्यानुपङ्गं दर्शयति । यस्मात्सर्वेषां भूतानां मध्ये ना पुरुषाकारो वीर्यवत्तमस्ततः सर्वातिशायिनः श्रेष्ठतमश्च सिंहो वीर्यवत्तमः श्रेष्ठत- मश्वेत्युक्तार्थम् । ततश्चोभयात्मरूपप्रदर्शनेन यद्यद्वपं कामयेऽहं तत्तद्वारेण लीलयैव शक्तोऽहमिति दर्शयति । यस्मादेवं तस्मानसिंहः परमेश्वर आमी- दित्यन्वयः । न च नृसिंहे परमेश्वर आसीदित्यन्वयः । वैयधि- करण्यापत्तः। सामानाधिकरण्यान्वयोपपत्ती सत्यां वैयधिकरण्यानुपपत्तेः । तस्मानृसिंहः परमेश्वरत्रिनेत्रो नीलकण्ठः पिनाकीति सिद्धम् । ऋतं सत्यमिति प्राग्व्याख्यातं मन्त्रवर्णाचोक्तं जगद्वितं जगतो हितं जगदिनमनिष्टनिरसनेन वे प्रसिद्धमेतदृपं प्रागुपास्यत्वेन यदुक्तमक्षरं भवनि यदक्षरमविनाशं चिपं निरा- कारं तदेव साकारमुपासकानुग्रहाय भवतीत्यन्वयः । एवं नृसिंहपदं पष्ठं मूल- नृसिंहव्यहोपास्ये व्याख्याय तदेव पदमचा द्वात्रिंशनृसिंहव्यहे व्याचष्टे । १ क. छ, 'नां वा ।

( श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[२ द्वितीयोपनिषत् ] प्र तद्विष्णुः स्तवते वीर्याय मृगो नभीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधि क्षि- यन्ति भुवनानि विश्वा । तस्मादुच्यते नृसिंह- मिति । अथ कस्मादुच्यते भीषणमिति यस्मा- द्यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि भीत्या पलायन्ते स्वयं यतः कुतश्चिन्न बिभेति । भीषाऽस्माहातः पवते विष्णुमंगः सिंहः प्रस्तवते स्तुति प्रामोति स्तुतिमन्त्रीस्तवीर्याय तत्तत्सामर्थ्याय नभीमो नभयंकरः । कुचरः कुत्रायं न चरति सर्वदेवविग्रहेषु लीलया स्वयं विचरति सर्वदेवलीलाविग्रहधारीत्यर्थः । गिरिष्ठा गिरिः पर्वतस्तत्स्थ ईश्वरा- त्मक इत्यर्थः । यद्वा गिरिपु वाणूंपासु स्तुतिषु यद्यद्रूपमभिलपन्स्तोता कोमयते सत्तदूपं स्वस्मिन्स्थापयतीति गिरिष्ठाः । यस्य त्रिषु विक्रमणेषु विग्रहेषु विविधं क्रमणं विक्रमणं तेषु ब्रह्मविष्णुमहेश्वरात्मकेपु । अधीत्युपरिभावे । अध्युरुषु बहुलीलाविग्रहेषु । भुवनानि सर्वाणि क्षियन्ति निवसन्ति स्वभावतस्तानि ज्ञानपूर्वकाणि निवसन्ति विनिवसन्ति । एषु लीलाविग्रहेषु वयं तिष्ठाम इति । तहि क्षियतिरैश्चर्यकमैश्वर्य प्रामुवन्तीत्येवं नानाविधविक्रमणावतरणे वीर्याय सामर्थ्याय तदर्शनाय विष्णुर्मगः सिंहः प्रस्तवते प्रकर्षण स्तुतिं लभत इत्यर्थः । एवमुभयोपास्ये नृसिंहपदं व्याख्यातं तस्मादित्युपसंहरति तस्मादुच्यते नृसिं- हमिति । एवमुभयोपेक्षयाऽऽद्यं षष्ठं नृसिंहपदमुभयोपास्ये व्याख्यायायेदानीमुभ- यापेक्षया सप्तमं द्वितीयं च पदं व्याख्यातुं प्रश्नोऽथ कस्मादुच्यते भीषणमिति ।स होवाच प्रजापतिरित्यनुषज्योत्तरम् । यस्माच्छब्दोपादानात्स्वमहिम्नेत्यनुषङ्गः । यस्मात्स्वमहिम्ना यस्य मूलनृसिंहव्यूहस्वरूपं साङ्गं शिखास्याङ्गयुक्तं मौलिप्रदेशे चान्द्रतेजोराशियुक्तं सामानयजुर्लक्ष्मीमत्रव्याख्यातं भूर्भुवःस्वर्महर्लोकचतुष्टय- संपिण्डिततेजोराशियुक्तमप्रधृष्यतेजोमयं रूपं दृष्ट्वा सर्वे देवास्तदङ्गानिवासिनो वसुरुद्रादित्याः सर्वाणि भूतानीमानि भीत्या भयेन पलायन्ते पलायनं कुर्वन्ति स्वयं देवो यस्मात्कस्मादपि न बिभेति निरतिशयाभयगुणविशिष्ट उपास्यः । एवमुक्तोपास्ये भीषणपदं व्याख्याय तदेव पदं द्वितीये व्यूहे कृत्वा व्याचष्टे- भीषेत्यादि । भीषा भीत्याऽस्मान्मूलव्यूहाद्वातो वायुः पवते वाति । वातपदो- १ ह. 'स्मादीषणं यस्य । २ ज. कामयेत ।

है द्वितीयोपनिषत् ] नृसिंहपूर्वतापनीयोपनिषत् । ३५ भीषोदेति मूर्यः। भीषाऽस्मादग्निश्चन्द्रश्च मृत्यु- विति पञ्चमः । तस्मादुच्यते भीषणमिति । अथ कस्मादुच्यते भद्रमिति यस्मात्स्वयं भद्रो. भूत्वा सर्वदा भद्रं ददाति रोचनो रोचमानः शोभनः शोभमानः कल्याणः । भद्रं कर्णेभिः पादानात्पश्चमहाभूतव्यूह उपलक्षितः । भीषादति सूर्य इति सोमसूर्यव्यूहावु- पलक्षितौ । भीषाऽस्मादग्निश्चेत्याग्नेयो व्यहः । इन्द्रश्चेति सर्वव्यूहः । मृत्यु. र्धावति पञ्चम इति मृत्युव्यूहः । तत्रास्यामृचि यद्यपि पश्चानां व्यूहानामुपा- दानं तदादिन्यायेन सर्वसंकलनतया भियो दर्शनादादित्यादीनां स्वस्वरूपेण भयदर्शनमुखेन सर्वेषां ब्रह्मादीनां संग्रहणात्तदुभयभावरूपनृसिंहप्रवेशनेन वा प्रदर्शनेन तद्रूपधारणेन वोभयरूपतेति । तत्रैकैकस्य देवस्य तत्तद्रूपधारणेनोभ- यरूपं दर्शयन्बहूनां देवानां स्वान्तर्भावेनोभयरूपं प्रदर्शयति । इत्युभयरूपेण सर्व द्वात्रिंशद्व्यूहं संगृह्णातीयमृगिति तत्त्वार्थः । एवमुभयोपास्ये भीषणपदं व्याख्यातं तस्मादित्युपसंहरति-तस्मादुच्यते भीषणमिति । एवमुक्तोपास्ये प्रागुक्तपदं व्याख्यायाथेदानीमुभयापेक्षया तृतीयमष्टमं च पदमुभयोपास्ये व्याख्या देवप्रश्नोऽथ कस्मादुच्यते भद्रामिति । स होवाच प्रजापतिरित्यनु- पज्योत्तरम् । यः स्वमहिम्नेत्यनुपङ्गः । स्वयं भद्रो भूत्वा भजनीयो माङ्गलिको भूत्वा सर्वदा भद्रं माङ्गलिकं ददाति । भद्रदातृस्वरूपं च मूलव्यूह उपास्य- मिति दर्शयनि । रोचमो दीप्तियुक्तः। रोचमानः शिखाङ्गेन रुचि दीप्तिं कुर्व- शानच्प्रत्ययान्तत्वात् । तदङ्गं द्वितीयतजोरूपादङ्गादधिकतरतेजोरूपमतश्व नानाभरणयुक्तमौलिगतं तेजस्तदन्तर्गतानां देवानां च स्वतेजसाऽभिभवती- त्येवमुपास्यम् । अत एवोक्तमस्माभिः शिखाङ्गमन्त्रं व्याचक्षाणः प्रपञ्चा- गमशास्त्रे- "शिखा तेजः समुद्दिष्टं वपडित्यङ्गमुच्यते । तत्तेजोऽस्य ततः प्रोक्ता शिखा मत्रेण मत्रिणः"। निरतिशयतेजोवयवः शिखेत्यर्थः । यस्य ज्ञानमयी शिखेति श्रुतेः । शोभनस्वरूपेण शोभमानः शिखागतेजसाऽत एवं कल्याणो माङ्गलि- कमूलनृसिंहव्यूहः । एवमुक्तोपास्येऽष्टमं पदं व्याख्यायाथेदानी तेनैव पदेन द्वात्रिंशद्व्यूहरचा व्याचप्टें-भद्रं कर्णेभिरिति । इयमृक्पारम्भे - १. ग. छ. ति यः स्वयं ।

श्रीमच्छंकराचार्यविरचितभाप्यसमेता-[२ द्वितीयोपनिषत् ] शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरै- रङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । तस्मादुच्यते भद्रमिति । अथ कस्मादुच्यते मृत्यमृत्युमिति । यस्मात्स्वमहिना स्वभक्तानां स्मृत एव मृत्युमपमृत्युं च मारयति । य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः। यस्य च्छायामृतं यो मृत्युमृत्युः कस्मै देवाय शान्तिपाठे व्याख्याता । तनुभिरवैभिस्तनूमत्रैरेव स्थिरैरङ्गैरिति विशेषः । पञ्चमानान्तर्भावाच्छ्रतिमत्राणाषेवोभयोपास्ये व्याख्यानं तस्मादित्युपसं- हरति--तस्मादुच्यते भद्रमिति । इतिशब्दो व्याख्यातः । एवं तृतीय- पादे तत्पदव्याख्यानेन साङ्गोपासनामभिधाय तथैव चतुर्थपादोपासनामभि- धातुं तदाद्यपदं मूलमत्रापेक्षया नवमं च पदमुभयोपास्य व्याख्यातुं देवप्र- नोऽथ कस्मादुच्यते मृत्युमृत्युमिति । स होवाच प्रजापतिरित्यनुषज्योत्तरम् । यस्मात्स्वमहिम्नंत्यनुपङ्गः । स्वभक्तानां भन सेवायां स्वसेवकानामनन्यभावेन स्मृत एवोपासित एव मृत्युं साक्षात्कालप्राप्तमपमृत्युं चावान्तरप्राप्तं जातक- मणि गणितशास्त्रनिर्णीतायुःपरिमाणात्तदन्तरा मृत्युरपमृत्युस्तं चानन्यभावे- नोपासकानामप्रार्थित एवं मारयनि विनाशयतीत्येवंरूपः । कवचमङ्गमुपास्यं तस्य सामाङ्गमत्रेण नृसिंहगायत्र्या नृसिंहरूपेण व्याख्यातत्वात्स्वांस्तदुपासका- न्स्वस्वरूपान्संपाद्य मृत्युं मारयतीत्यर्थः । यो वै नृसिंहो देवो भगवान्यश्च जीव इति मत्रवर्णात् । इदं प्रागुक्तं पदं मूलनृसिंहव्यू होपास्यपरत्वेन व्याख्या- याथेदानी तेनैव पदेन द्वात्रिंशव्य हमृचा व्याचष्टे । यो द्वात्रिंशन्नृसिंहव्यूह आत्मदा आत्मानं ददातीत्यात्मदाः स्वस्वरूपदाता सर्वपां देवानां स्वरूपमेव धारयतीत्यर्थः । वलदाः सामर्थ्यदाता स्वोपासकानां स्वस्वरूपधारणे शक्तिं ददातीत्यर्थः। यस्य प्रशिष मूलनृसिंहव्यूहस्याङ्गचतुष्टयप्रशिपं प्रकर्षेण शिष्यत इति प्रशिपं.. प्रोवरितं द्वात्रिंशद्व्यूहं विश्वे देवाः सर्वे देवा उपासत उपास्ति कुर्वन्तीत्यर्थः । यस्य च्छायामृतं छायेति गृहनाम च्छायैवा- मृतं छायामृतं महाचक्रं तदन्तर्भावादस्य व्यूहस्य यो व्यहो मृत्युमृत्युर्म- त्योरपि मृत्युः । मृत्युर्यस्योपसेचनमिति श्रुतेः । कं प्रजापति ब्रह्मणो व्यूह नदादिन्यायेन बद्धक्रमकत्वात्सर्व संगृह्णाति देवं देवो दानाद्वा द्योतनाद्वा दीप- [२ द्वितीयोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । हविषा विधेम । तस्मादुच्यते मृत्युमृत्यु- मिति । अथ कस्मादुच्यते नमामीति यस्माद्यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्च । प्र नूनं ब्रह्मणस्पतिर्मन्त्रं नाद्वेति यास्कवचनात् । हविषा हविप्पदानेन होमेन नैवेद्येन वाऽर्चनेन । अत एव वक्ष्यति महाचक्रप्रकरणेऽनुष्टुभा होमं कुर्यादनुष्टुभाऽर्चनमिति । विधम परिचरेम । यद्वा विधतिर्दानकर्मेति यास्कवचनाद्राह्मव्यूहप्रभृतिव्यहाय हवि- र्दा इति विभक्तिव्यत्ययः कशब्द देवशब्दे च । तस्मिन्पक्षे विधतिः परिच- रणकर्मेति तत्वार्थः। एवं प्रागुक्तोपास्ये मृत्युमृत्युपदं व्याख्यातं तस्मादित्यु- पसहरति-तस्मादुच्यते मृत्युमृत्युमिति । एवं प्रागुक्तपदं प्रागुक्तोपास्ये व्याख्यायाथेदानीमुभयापेक्षया द्वितीयं दशमं च पदं व्याख्यातुं देवप्रश्नोऽथ कस्मादुच्यते नमामीति । स होवाच प्रजापतिरित्यनुपज्योचरम् । यस्मात्स्व- महिम्नत्यनुपङ्गः । नमामीत्यम्याऽऽग्न्यातपदत्वादम्मदर्थं प्रत्ययार्थ विहाय प्रकृत्यर्थ व्याचष्टे । तथा चास्य प्राक्तनसर्वपदार्थमंवन्धिनः सर्वत्रानुपङ्गः । यस्माच्छब्दोपादानात्स्वमहिम्नत्यनुपङ्गः प्रकृत्यर्थेन । यम्मायं सर्वे देवाः प्रागुक्तविशेषणं मलनिहव्यहं सर्व पृथिव्यन्तरिक्षब्रह्मलोकनिवासिनो महा- चक्रोपासकाच नमन्ति नमम्कुर्वन्तीति सर्वनमम्कार्यगुणविशिष्ट उपास्य · इति दर्शयति । तथाच द्विविधांपासकानां देवानामधिकाविशेषणमाह---मुमुक्षवो ब्रह्मवादिनचनि । अब्रह्मवादिन इत्यन्यथा द्वविध्यासंभवान् । यद्वा मुमुक्षवी ब्रह्मवादिनी मुक्ताश्च लीलया विग्रहं परिगृह्य नमन्तीत्यनुपङ्गः । एतदुक्तं भवति । ब्रह्मलोक स ब्रह्मा स शिवः स गिरत्यादिमत्रवर्णापात्तसामाङ्गनृ- सिंहगायत्र्या व्याख्यातनृसिंहव्य हश्चतुर्थकवचाङ्गाश्रयन्वनोपास्यस्ततश्च कवचं सर्वानेतानुपास्यान्संगृह्णानीत्यङ्गचतुष्टयान्नगतानन्यांश्च । अत एवोक्तमम्माभिः कवचाङ्गमत्रार्थ व्याचक्षाणः प्रपञ्चमार-- "कवचग्रह इत्यस्माद्धानाः कवचमंभवः । हूं नेजस्तेजसा तन गृह्यने कवचं ननः" इति । एवं प्रकृत्यर्थसहितेन च पदार्थ प्रतिपाद्य साधारणरूपरूपं नमस्कार्य- मभिधायाथेदानी सामादिमत्रसाधारणन्वन पुनः प्रकृत्यर्थमृचा व्याचष्टे- प्र नृनमिनि । उक्थ्यं प्रशम्नं ब्रह्मणस्पनिब्रह्मणः साकारस्य निराकारस्य चोपदेशद्वारा पाता पालयिता । ननं निश्चिनं मनं सामराजं स्तुहीत्यादि श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[२ द्वितीयोपनिषत् ] वदत्युक्थ्यम् । यस्मिनिन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे । तस्मा- दुच्यते नमामीति । अथ कस्मादुच्यतेऽह- मिति । अहमस्मि प्रथमजा ऋता३स्य पूर्व देवेभ्यो अमृतस्य ना३भायि । यो मा ददाति स इदेव माश्वाः। अहमनमनमदन्तमानि। य आत्मदा इत्यन्तं द्वात्रिंशद्व्यूहमतिपादकं मत्रजातम् । यस्मिन्मागुक्ते मन्त्र इन्द्रो मित्रो वरुणोऽर्यमा देवा ओकांसि गृहाण्युपासनाय चक्रिरे कृतवन्त इत्यर्थः । अनेनैतदर्शयति । यथा देव उपास्ये गुरौ च भक्ति- स्तथा मत्रेऽपीति । तदुक्तम् --- "गुरौ देवे च मन्त्रे च सदृशी भक्तिरिष्यते" इति । तत्र च मत्रस्य नमस्कार्यत्वश्रवणात् । एवं नमामीत्येतदाख्यात- पदमुक्तोपास्ये व्याख्यातं तस्मादित्युपसंहरति-तस्मादुच्यते नमामीति । एवं नमामीति पदं नवपदसंबन्धत्वेन व्याख्यायाथेदानीमहमिति कर्तृपदं सर्वसाधारण्येन व्याख्यातुं देवप्रश्नोऽथ कस्मादुच्यतेऽहमिति नन्वाख्यातोत्त- मपुरुषप्रयोगादर्थादेवाहमिति प्राप्ते पुनः प्रयोगः स च कस्मादिति चोद्याभि- प्रायेण । स होवाच प्रजापतिरित्यनुपज्योत्तरम् । पश्चाङ्गोपासनाकर्तृफलं निर्दि- श्यते तादात्म्यलक्षणम् । न च मुमुक्षारेतदनिष्टमिति वाच्यमैश्वर्य एतत्फला- वाप्तेः । य इह स्थातुमपेक्षते तस्य तादात्म्यलक्षणं सर्वैश्वर्य ददाति देहान्ते देवः परं ब्रह्म तारकमिति श्रुतेः फलपदमिदं न तूपासकपदम् । तच्च पृथक्सामाभि- व्यक्तं मत्रेण व्याचष्टे तच्च सर्वपदेष्वनुषज्यमानं सर्वपदजातं सामाभिव्यक्तमेव व्याख्यातमिति नियमं दर्शयति । तथाच प्रागुक्ता सर्वोपासना सामविकै- वेति । ततश्च प्रागुक्तायामुपासनायामुपास्योपासकभावेन प्रवृत्त उपासक उपासनातः शुद्धान्तःकरणः प्रत्यगात्मकतयैवोपास्यं साक्षात्कृत्याऽऽहानेन साम्नाऽन्येषामुपासनफलं दर्शयितुम् । अहमस्मि प्रागुक्तमुपास्यमहं भवामि प्रथसनाः पुरश्चरणोपासनायाः प्रथमोत्पन्नः । ऋतस्य सत्यमूर्तामूर्तस्य जगतः पूर्व स्यां देवेभ्योऽमृतस्य क्षीरस्य नामायि नाभ्यां यो मा ददाति स्वी करोति धारयति वा स इदेव इत्थमेव मा मामवा रक्षितवान् । तथाचात्र स्तावकेन मत्रेण सामाभिव्यक्तेन फलनिर्देशं कुर्वन्क्षीरोदार्णवसंबन्धिनीयमुपासनेति दर्श- यति । अहम क्षीरमुपास्याधारमहमेव भवाम्यन्नमदन्वा योऽत्ति तमनमदन्तं देवब्राह्मणेभ्योऽनमदातारमहमव्यहं भक्षयामि । यद्वाऽन्नमदन्तमन्नादनकर्तारं

[ २ द्वितीयोपनिषत् नृसिंहपूर्वतापनीयोपनिषा ।
अहं विश्वं भुवनमभ्यभवा३म् । सुवर्न
ज्योतीः। य एवं वेदेत्युपनिषत् ॥४॥
इत्याथर्वणीये नृसिंहपूर्वतापनीयोपनिषदि द्वितीयोपनिषत्समा ॥२॥
जीवभावं पञ्चाङ्गोपासनातोऽनि भक्षयामि संसाररूपं विनाशयामीत्यर्थः । यत
एवमतोऽहं विश्वं सर्व भुवनमभ्यभवामभिभवामि सुबर्न ज्योतीः सूर्यज्योतिरिव ।
यदा सुवर्णाकारस्योपास्यस्य ज्योतिः प्रकाशोऽहमेव भवामीति फलनिर्देशः ।
इदं च फलमनुपङ्गात्मतिपदं प्रतिपादं चानुसंधेयम् । असकृत्साकाराखण्डवा-
क्यार्थोपदेशे हि दाढ्यं स्यात्तत्त्वमसीति नवकृत्व उपदेशवदेवं साकारनिष्ठस्य
यद्यन्तःकरणं शुद्धं ततोऽपीदमेव फलं व्याख्यातम् । अत एव नोत्तरोपसंहारः
पाक्तनवत्तस्मादुच्यत इति । उपासनाभ्यासादद्वैतापत्तैर्यत्र स्वस्य सर्वमात्मैवा-
भृत्तत्केन के पश्यदिति श्रुतः । एतत्सर्व सामाङ्गप्रणवेन हृदयमत्रव्याख्याना-
वसरे स्पष्टी क्रियते । य उपासक एवं प्रागुक्तमुपास्यमहंपरिग्रहोपासनयाऽधि-
कारतरतमभावाद्वोपास्योपासकभावेन वा वेदोपास्ते । इतिशब्दः प्रागुक्तसफ-
लोपासनसमाप्तिं दर्शयति --उपनिषदिति । उपनिपच्छब्दो व्याख्यातः । इदं
च सामाधीतं नैवेद्ये विनियुक्तं तच्चाऽऽनुष्टुभं द्रष्टव्यम् । ननु(तु) पदस्वरं साधं वा
यतः प्रथमोपनिपदि यच्छब्दस्य तृतीयव्याख्यानावसरे तथैव व्याख्यातत्वा-
दानुष्टुभं चानुष्टुप्स्वराभ्यां गेयं तौ च प्रथमोत्तमौ तथा चानुष्टुभा भूतोत्पत्तिव्या-
ख्यानावसरे साक्षित्वेनोद्भावितायाभूचि नैस्यपा भवतीत्यत्रानुष्टुप्पथमा भवत्य-
नुष्टुवुत्तमा भवतीति प्रथमोत्तमयोः स्वरयोरनुष्टुप्शब्देन व्याख्यातत्वाद्वाग्वा अनु-
टुबिति गीतिमात्रेऽपि वाक्शब्दस्य प्रयुक्तत्वात् । सैपा वाग्वनस्पतिपु वदति या
दुन्दुभौ या ऋणवे या वीणायामिति श्रुतेः । वाचैव प्रयन्ति गीत्यैव प्रयन्ति
प्रथमस्वरेण गायन्ति वाचवोद्यन्ति गीत्येवोत्तमस्वरेण गायन्त्यक्षराणीत्यर्थः ।
परमा वा एपा छन्दसां यदनुष्टुवित्यनुष्टुप्छन्द इति । ततश्चास्मिन्प्रकरणेऽनुष्टु-
प्शन्देन त्रयोऽर्था उच्यन्ते कचित्पथमा स्वरी कचिद्गीतिः कचिच्छन्द इति
यथायोग्यतया ग्राह्या इत्यनुष्टुप्सामोद्धार इति रहस्यमिति ॥ ४ ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिप्यम्य परमहंसपरिव्राजकाचार्यश्रीशंकर-
भगवत आयकृतावाथर्वणनृसिंहपूर्वतापनीयोपनिषद्भाप्ये द्वितीयोप-
निपयाख्या संपर्णा ॥ २ ॥

श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[२ तृतीयोपनिषत् ] देवा ह वै प्रजापतिमबुवन्नानुष्टुभस्य मन्त्रराजस्य नारसिंहस्य शक्तिं बीजं च नो बेहि भगव इति स होवाच प्रजापतिर्माया वा एषा नारसिंही सर्वमिदं मृजति. सर्वमिदं रक्षति सर्वमिदं संहरति तस्मान्मायामेतां शक्ति विद्याद्य एतां मायां शक्ति वेद से पाप्मानं तरति स संसारं तरति स मृत्यु तरति सोऽमृतत्वं च गच्छति महती, श्रियमश्नुते. एवं द्वितीयोपनिपदि साङ्गां सफलामुपासनामभिधायाथेदानीं तस्याः शक्तिबीजनिर्णयपूर्वकन्वातनिर्णयार्थ तृतीयोपनिपदारभ्यते प्रश्नोत्तराख्यायि- कया। नन्वेवं तहीयं पूर्वमेवाऽऽरब्धव्यतत्पूर्वकत्वात्प्रागुक्ताया उपासनायाः । सत्यम् । शक्तिवीजदयस्य संपुटीकरणेन विवक्षितत्वादर्थात्प्राक्प्राप्तस्यार्थस्य पश्चात्संकीर्तने संपुटीकरणं स्यादन्यथाऽर्थानुसारेण मंकीर्तने पूर्वमेव द्वयं स्यानोपरिष्टादिति संपुटीकरणासंभवादिति पाठत उपासनाया ऊर्व संबन्धः शक्तिवीजस्यार्थाव्येन प्रमाणन प्राक्संबन्धः । न ह्यनवधृतशक्ति. कस्योपासनस्योपास्याकारावधृतिः । तथाहि कथमस्यायमाकार इति पर्यनुयुङ्क्ते स्वसामर्थ्यादिति वाच्यं ततश्च सामर्थ्यावधारणपूर्वकमेवोपास्याकारावधारणमि- त्यर्थात्माक्संबन्धः पाठश्चानन्तरमिति कथं नु संपुटीकरणं स्यादिति प्रजापते- हृदयम् । किंचोपासनानन्तरं पुटिताऽपीयमुपनिषच्छक्तिबीजनिर्णयात्मिका तत्र तत्र पदपादसाङ्गोपासनावतरण यस्मात्स्वमहिम्ना यः स्वमहिम्नेति वीप्साश- ब्देन चापकृष्टा सती पूर्व संबन्धं लभते महोपनिषदपकर्षणवदतश्चाऽऽरम्भ- णीयेति सिद्धम् । देवा ह वा इत्यादि स होवाच प्रजापतिरित्यन्तं स्पष्टार्थम् । मायाविपुरुषाधीना मायेत्युच्यते । लोके हि माया प्रसारकमायाव्यधीना दृष्टा । वै प्रसिद्धम् । एषा नारसिंही नृसिंहाधीना यस्मादियं नृसिंहाकार- ब्रह्माधीना सती । सर्वमिदं सजतीत्यादि संहरतीत्यन्तं स्पष्टार्थम् । जगज्ज- न्मस्थितिलयकारणत्वमेतदधीनं शुद्धस्य ब्रह्मणोऽकारणत्वात् । यस्मादेवं तस्मान्मायामेतां शक्ति विद्यानृसिंहाधीनामुपासीत । य एतां मायां शक्तिं वेदोपास्ते । तदुपासनाफलमाह-स पाप्मानमित्यावश्नुत इत्यन्तं १ घ. द. 3. ज नो । २ क. ग. स मयं जगति म पा।

४१ [३ तृतीयोपनिषत् ] नृसिंहपूर्वतापनीयोपनिषत् । मीमांसन्ते ब्रह्मवादिनो हवा वा दीर्घा वा प्लुता वेति । यदि हस्वा भवति सर्व पाप्मानं दहत्यमृतत्वं च गच्छति यदि दीर्वा भवति महतीं श्रियमाप्नुयादमृतत्वं च.गच्छति यदि प्लुता भवंति ज्ञानवान्भवत्यमृतत्वं च गच्छति तदेतदृषिणोक्त निदर्शनम्-सई पाहि य ऋ- जीषी तस्त्रः श्रियं लक्ष्मीमौपलामम्बिकां गां षष्ठी च यामिन्द्रसेनेत्युत आहुस्तां विद्यां ब्रह्म- योनि सरूपां तामिहाऽऽयुष शरणं प्रपद्ये । स्पष्टार्थम् । मीमांसन्ते विचारयन्ति ब्रह्मवादिनो इस्वा वा दीर्घा वा लुता वेति । सामान्तर्भावात्प्लुतैवेति प्राप्ते इस्वदीर्घायाः फलविशेषसंबन्धार्थमियं मीमांसा तामाह । यदि हस्वेत्यादि गच्छतीत्यन्तं स्पष्टार्थम् । इस्वदीर्घलतसं- वन्धः सव्यञ्जनस्य स्वरस्योत साकाराख्यं व्यञ्जनं विहाय स्वरस्य संबन्ध इति संदेहस्तस्मिन्संदेहे निर्णयायैतद्वक्ष्यमाणं निदर्शनमुद्दाहरणमृपिणोक्तं सर्व- मिति । साकारव्यञ्जनात्पृथक्करणं सबिन्दुकस्य स्वरस्यातः सबिन्दुके स्वरे इस्वादिसंबन्धो मायाबुद्ध्योपासनं च । सईमिति समासः। सकारचे च सईम् । तस्याः संबोधन ईमिति निपातत्वाददोषः। हे सईं सबिन्दुकस्वर त्वदा- लम्बनेनैता वक्ष्यमाणाः शक्तीरुपासिताः पाहि रक्ष । यद्वा स इति व्यस्तं यत्तदोनित्यसंवन्धः । य ऋजीपी, ऋजुभावेच्छुस्तरुत्रस्तरणशीलः स ई शक्तिं सबिन्दुकं स्वरं श्रियादिबुद्धयोपासितं पाः पालितवान् । पा पालने । पालकाधीनत्वात्पालनीयशक्तः। हीति निश्चितम् । सविन्दुकस्वरालम्बन- त्वेनोपास्यास्तत्र व्यूहसंवन्धिनीः शक्तीराह । श्रियं विष्णुशक्ति पाः पालितवान् । यद्वा पाहि । एवमुत्तरत्रापि द्विधा संबन्धः । लक्ष्मी नृसिंहशक्तिम् । औपलाप- म्बिकां गौरी महेश्वरशक्ति गां सरस्वती ब्रह्मशक्ति षष्ठी च स्कन्दशक्तिम् । यामिन्द्रसेनेत्याहुस्तामिन्द्रशक्तिमिन्द्राणी विद्यामीश्वरशक्तिं ब्रह्मयोनि ब्रह्मा- वाप्त्यै कारणभूतां सरूपां साकारां तां तां शक्तिमिह सबिन्दुके स्वर आयुष उपासनानुकूलायुरभिवर्धनाय शरणं प्रविशामि । एवं शक्त्यक्षरनिर्णय तदाश्रितां सप्तविधशक्त्युपासनां दीर्घादिमात्रोपासनां सफलामभिधायाथेदानी ur ४२ श्रीमच्छंकराचार्यविरचितभाष्यसमेता-[३ तृतीयोपनिषत् ] सर्वेषां वा एतद्भूतानामाकाशः परायणं सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते। आ- काशादेव जातानि जीवन्त्याकाशं प्रयन्यभिसं- विशन्ति तस्मादाकाशं बीजं विद्यात्तदेत दृषि- णोक्तं निदर्शनम् ह५ सः शुचिषदसुरन्तरि- क्षसद्धोता वेदिषदतिथिदुरोणसत् । नृषद- रसदृतसयोमसदब्जा गोजा ऋतजा .अद्रिजा बीजाक्षरनिर्णयं तदाश्रितां सफलां चोपासनामभिधातुं तन्निर्णयमाह। सर्वेषां वा इत्यायभिसंविशन्तीत्यन्तं स्पष्टार्थम् । आकाशशब्दो हकारं वक्ति । सर्वागम- शास्त्रप्रसिद्धेरागमरूपोपनिषत्प्रसिद्धेश्च । यस्मादेवं तस्मादाकाशशब्दवाच्यं हकारं बीजं विद्यात् । बीजनिदानं मूलकारणं तदुद्ध्योपासीत तद्वाचकं वा निपातरू- पेण । स चायं वाच्यवाचकसंबन्धो लोके प्रसिद्ध इति मत्रागमशास्त्रैकगम्यमेवं शक्त्यक्षरमपि शक्तिवाचकत्वाच्छक्तिस्तदुद्ध्योपास्यत्वाद्वा शक्तिबीजयोस्तद्- ध्योपास्यत्वं तद्वाचकत्वादेवेति रहस्यम् । यथा प्रणवाक्षरं ब्रह्मवाचकत्वाद्ब्रह्म- बुद्ध्योपास्यमभूत्तद्वच्छक्तिबीजं तच्च सस्वरं व्यञ्जनमात्रं वेति संदेहस्तव्या- त्यर्थमाह । तदेतदृपिणोक्तं निदर्शनम् । तच्चोक्तार्थम् । स परमात्मा हं मूलका- रणं सबृहत् । यद्वा सकारेण संवद्धमजपागायत्रीरूपेण वर्तमानं नासिकापु. टाभ्यां निःसृतं ब्राह्मणस्त्रीशूद्राधिकारतया वर्तमानं संकल्पादेव फलदं परमा. त्मवाचकं स इति । हंसः परमात्मा । वक्ष्यमाणं सर्वमभूदिति वाक्यशेषः । शुचौ बुद्धौ सीदतीति शुचिषत् । हंस एव वसुदेवः स एवान्तरिक्षे सीदतीत्य- न्तरिक्षसबृहबृंहणत्वादन्तरिक्षाश्रितो देवः स एव होता वेदिषवद्यां सीद- तीति वेदिषत्स एवातिथिरोणसत् । दुरोण इति गृहनाम दुर्वा भवन्ति दुस्त- र्णस्तस्मिन्सीदतीति दुरोणसत् । स एव नरि जीवे सीदतीति नृपत् । य आत्मनि तिष्ठनिति श्रुतेः । वरसद्वरे वरिष्ठे स्थाने सीदतीति वरसत्स एवर्तेन सत्येन सीदताति ऋतसत्स एव व्याम्नि हृदयाकाश उपलभ्यतया सीद- तीति व्योमसत् । अजा अप्सु क्षीरोदार्णव उपास्यतया जात इत्यजा गोषु वोपास्यतया प्रतिपाद्यत्वेन जात इति गोजाः । ऋतं सत्यमिति मत्रवर्णादुपास्यतया जात इति ऋतजाः । अद्रो मेघे जात इत्यद्रिजाः।

[३ तृतीयोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । ऋतं बृहत् । य एवं वेदेति महोपनिषत् ॥१॥ इत्यथर्ववेदान्तर्गतनृसिंहपूर्वतापनीयोपनिषदि तृतीयोपनि- पत्समाप्ता ॥३॥ छन्दसि जनिरयं मुंबन्तप्रयोगे सकारान्तो दृष्ट इति सोपपदो विस: र्गान्तो दीर्घश्च सुतेजा इतिवत् । एवं परमात्मैव बृहन्महानिति । ऋतं सत्यं ज्ञेयमिति शेषः । य उपासक एवं परमात्मतत्वं वीजाक्षरवाच्यं तद्बुद्ध्या चोपास्यं वेद जानाति । इतिशब्दः शक्तिवीजनिर्णयसमाप्तिं द्योतयति । यद्वेती- त्येवं निपातानामनेकार्थत्वादित्येवं महोपनिपदिति । महोपनिपदि पठि. तानां मत्राणामवंशब्दादतदेव शक्तिबीजं संवनाति । ततश्च मूलमत्रे पष्ठपदे त्र्यक्षरं नृकारं सकारं विहाय शिष्टमक्षरमद्वयं यथापठितं शक्तिबीजं द्रष्टव्यं सामर्थ्यात् । परमात्मवाचकमाथर्वणचि द्वितीयं हंसर्चि प्रथमं यत्प- ठितं तदित्येवं स्तुतिमत्रेषु सर्वेषु चतुर्थपदे नृकारं सकारं विहाय यच्छि- एमक्षरद्वयं यथापठितं तच्छक्तिवीजमिति तत्त्वं रहस्यं चेति शक्तिवीजा- क्षरनिर्णयः ॥ १॥ इति श्रीगोविन्दभगवत्पूज्यपादशिप्यम्य परमहंसपरिव्राजकाचार्यश्रीशंकर- भगवत आयकृतावाथर्वणनृसिंहपृर्वतापनीयोपनिषदि तृतीयोप- निपद्भाप्यं संपूर्णम् ॥ ३ ॥ एवं तावच्छक्तिवीजसंपुटितां साङ्गां नृसिंहब्रह्मोपासनामभिधायाथेदानी तदङ्गहृदयादिमत्रव्याख्यानाय यथासंख्यं सामानमूलमन्त्रागमत्रांपनिपत्पश्नोत्त ररूपाख्यायिका चतुथ्यारभ्यते । ननु यदि मूलमत्राङ्गमत्रव्याख्यानायोपनिष- दियं प्रस्तुता तर्हि तदङ्गन्यासावसरेऽस्याः प्रस्तावः स्यान्न विदानी प्रस्तावो युक्तः। किंच मूलमत्रपदव्याख्यानावसरे तदुपासनायाः कृत्स्नाया एवोक्तत्वा- दन्ते तत्फलस्य चोक्तत्वान्किमवशिष्टं यदर्थमियमुपनिषदारभ्यते । अत्रोच्यते । सत्यम् । तत्तदङ्गन्यासावसरे पञ्चमाङ्गन्यासावसरे च प्रत्यक्षरमुभयत ओंकारो भवतीतिवचनान्मूलपाक्षराणां यथापठितानां व्यत्यासे कृते मूलमंत्रतत्पदा- परिज्ञाने प्राप्ते तत्परिज्ञानस्यैवान्तरङ्गत्वात्तदर्थ पदोद्धारः स्तुनस्तदनन्तरं तद- थज्ञाने प्रस्तुते शक्तिबीजनिर्णयः प्रस्तुन इत्येवं पञ्चमाङ्गन्यासपदोद्धारतदर्थ- शक्तिवीजनिर्णयानामन्योन्यं बद्धक्रमकत्वादन्नरङ्गत्वाच्च तद्न्तगले प्रवेशोऽस्या श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [४ चतुर्थोपनिषत् ] देवा ह वै प्रजापतिमब्रुवनानुष्टुभस्य मन्त्रराजस्य नारसिंहस्याङ्गमन्त्रानो ब्रूहि अगव इति । स होवाच प्रजापतिः प्रणवं सावित्री यजुर्लक्ष्मी नृसिंहगायत्रीमित्यङ्गानि जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति । ओमित्येतदक्षर- युक्त इतीयमुपनिषच्छक्तिबीजनिर्णयानन्तरं पठिता । यथा गुरुमतेऽधिका- रलक्षणं मध्य एवं पठितं तथेयमुपनिषदुपरिष्टान्महाचक्रोपासनाफलकथनयोर्बद्ध- क्रमकत्वात्तदन्तराले प्रवेशमलभमाना मध्यस्थैव शोभते । किंच सामाङ्गप्रणवेन शक्तिबीजाक्षरमिश्रितेन हृदयाङ्गमत्रो व्याख्येय इति न तदङ्गन्यासा- वसरेऽस्याः प्रवेशो युक्तः । तदानीं शक्तिबीजाक्षरस्याप्रस्तुतत्वेनाशक्यत्वा- मिश्रणस्य । तस्माच्छक्तिवीजनिर्णयानन्तरमस्या आरम्भो युक्तः । यदुक्तं कृत्स्न विद्याभिधानात्किमवशिष्टमिति तन । अत्रत्यमेवानागतावेक्षणन्यायेन व्याख्याभिरेव तत्रोपसंहृतं न तु तत्रत्यं शब्दोपात्तमिति । यदुक्तमन्ते फलस्य चोक्तत्वारिक शिष्टमिति तदुक्तमेव प्राक्तनन्यायेन कृत्स्नत्वाद्विद्यायास्तस्मा- त्सूक्तं शक्तिबीजनिर्णयानन्तरमस्या आरम्भः शोभत इति । देवा ह वा इत्यादि नारसिंहस्येत्यन्तं स्पष्टार्थम् । अङ्गमत्रानो हि भगव इति । वेदे रुकारा- देशान्तो भगवच्छब्द इति संबोधनं भगव इति । अङ्गेषु हृदयाघङ्गेषु व्याख्ये- येषु तव्याख्यानमत्रा अङ्गमत्रा यद्वाऽङ्गानि च मत्राश्वाङ्गमत्रा इत्युभयथाऽपि समास उक्तः किंतूभयथाऽप्येषां मूलमन्त्राङ्गमत्रसंबन्धः संख्यातः स्थानाच सामर्थ्याच्च प्रतीतो नूनं न निवारयितुं शक्यते । स होवाच प्रजापतिरित्यादि गच्छतीत्यन्तमुक्तार्थम् । येनैव क्रमेणाङ्गानामुद्देशः कृतस्तेनैव क्रमेण तयाख्या- माह-ओमित्येतदक्षरमिति । कथं पुनरोंकारनिर्णयः साकारात्मतत्त्वप्रतिप- त्युपायत्वं प्रतिपद्यत इति । उच्यते । ओमित्येतदालम्बनमेतद्वै सत्यकाम ओमि- त्यात्मानं युञ्जीत । ओमिति ब्रह्मोंकार एवेदं सर्वमित्यादिश्रुतिभ्यो रज्ज्वादि- रिव सर्पादिविकल्पस्याद्वयात्मा परमार्थः सन्माणादिविकल्पास्पदो यथा तथा सर्वो वाक्प्रपश्चः प्राणाद्यात्मविषय ओंकार एव स चानुष्टुबङ्गं सत्वात्मस्वरू- पमेव तदभिधायकत्वादोंकारविकारशब्दाभिधेयश्च सर्वः प्राणादिरात्मविक- ल्पोऽभिधानव्यतिरेकेण नास्ति वाचारम्भणं विकारो नामधेयं तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्व सितं सर्व हीदं नामनीत्यादिश्रुतिभ्योऽत आहो.

[४ चतुर्थोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । मिदं सर्व तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्व- मोंकार एव यच्चान्यत्रिकालातीतं तदप्योंकार एव सर्व ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पा- जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः मित्येतदक्षरमिदं सर्वमिति । यदिदमर्थनातमभिधानाभिधेयभूतं तस्याभिधाना- व्यतिरेकादभिधानभेदस्योंकाराव्यतिरेकादोंकार एवेदं सर्व परं च ब्रह्माभिधा- नाभिधेयोपायपूर्वकमवगम्यत इत्योंकार एव । तस्यैतस्य परापरब्रह्मरूपस्या- क्षरस्योमित्येतस्योपव्याख्यानं ब्रह्मप्रतिपत्त्युपायत्वाद्ब्रह्मसमीपतया विस्पष्ट प्रकटकथनमुपव्याख्यानम् । प्रस्तुतं जानीयादिति शेपः । न त्वनुपङ्गो व्यवा- यानानुषज्यत इति न्यायात् । भूतं भवद्भविप्यदिति । कालत्रयपरिच्छेद्यं यत्त- दोंकार एवोक्तन्यायतः । यच्चान्यत्रिकालातीतं कार्याधिगम्यं कालत्रयापरिच्छे- द्यमव्याकृतादि तदप्योंकार एव । अभिधानाभिधेययोरेकत्वेऽभिधानप्राधान्येन निर्देशः कृत ओमित्येतदक्षरमिदं सर्वमित्यादि । अभिधानप्राधान्येन निर्दिष्टस्य पुनरभिधेयप्राधान्यन निर्देशोऽभिधानाभिधेययोरेकत्वप्रतिपत्त्यर्थम् । इत. रथा ह्यभिधानतत्राऽभिधेयप्रतिपत्तिरित्यभिधेयस्याभिधानत्वं गौणमित्याशङ्का स्यादेकत्वप्रतिपत्तेश्च प्रयोजनमभिधानाभिधेययोरेकेनैव प्रयत्नेन प्रविलापयं. स्तद्विलक्षणं ब्रह्म प्रतिपद्यत इति । तथाच वक्ष्यति । पादा मात्रा मात्राश्च पादा इति । तदाह । सर्वं ह्येनहम । सर्व यदुक्तमोंकारमात्रमेतद्ब्रह्म । तच ब्रह्म परोक्षाभिहितं प्रत्यक्षतो विशेषेण निर्दिशति--अयमात्मा ब्रह्मति। अयमिति चतुप्पाचन प्रविभज्यमानं प्रत्यगात्मानं प्रत्यगात्मतयाऽभिनयेन निर्दिशति- अयमात्मेति । सोऽयमात्मोंकाराभिधयः परापरत्वेन व्यवस्थितश्चतुप्पाका- पणवत् । न गौरिव चतुष्पात् । त्रयाणां विश्वादीनां पूर्वपूर्वपविलापनेन तुरी- यस्य प्रतिपत्तिरिति करणसाधनः पादशब्दस्तुरीयस्य तु पद्यत इति कर्मसाधनः पादशब्दः । कथं चतुष्पावमित्यत्राऽऽह-जागरितं स्थानमस्येति जागरित- स्थानः । बहिप्पज्ञः स्वात्मव्यतिरिक्त विषय प्रज्ञा यस्य स बहिप्पज्ञो बहिर्वि- षये यस्य प्रज्ञा विद्याकृताऽवभासत इत्यर्थः । तथा सप्ताङ्गः सप्त शक्तयोऽ) हृदयाख्ये यस्य स तथोक्तः। विष्णुशक्तीनां विष्णुवक्षस्थलाश्रयत्वप्रसिद्धः। विष्णोर्वक्षस्थलाश्रया इति स्मृतः । विष्णोक्षस्थले स्थितामिति च । प्रविका- शिपङ्कजां वक्षस्थलेन श्रियमुदहन्विभुरिति च । तथैकोनविंशतिमुखो मूलमत्रा- पेक्षयकोनविंशतितममक्षरं बीजं मुखं यस्य मूलनृसिंहव्यूहस्य स तथोक्तः। नाभे- ४६ श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [४ चतुर्थोपनिषत् ] स्थूलभुग्वैश्वानरः प्रथमः पादः कचं मूर्धतः प्राग्घृदयाख्यमङ्गमत उपास्योपासकयोरैक्ये भेदे वा हृदयाङ्गन्या- सादिकमविरुद्धम् । नन्वेवं सप्तान्यङ्गानि मूर्धेव सुतेजा इत्येवमादीनि यस्य स तथोक्तः । तथैकोनविंशतिर्मुखान्यस्य बुद्धीन्द्रियकर्मेन्द्रियाणि वायवश्व प्राणा- दयः पञ्च मनो बुद्धिरहंकारश्चित्तमिति' मुखानीव तान्युपलब्धिद्वारत्वादित्येवं यथासंख्यं विराड्ढिरण्यगर्भपरत्वेन वाक्यद्वयं माण्डूक्योपनिषत्पणवविद्यायां व्याख्यातं तथाऽत्रापि कस्मान्न व्याख्यायते । उच्यते.। अत्रास्यापरविद्याप्र- करणाश्रितत्वात्मणवविद्यायां तथाऽङ्गत्वेन च विनियोगात्प्रणवमङ्गं जानीया- दिति । तथा शक्तिबीजनिर्णयानन्तरमस्याङ्गस्य पाठात् । माण्डूक्ये प्रणववि- घामारभ्याधीतत्वात्प्राधान्यमङ्गत्वेन विनियोगाभावाच तथा तत्र शक्तिबीज- योरप्रस्तुतत्वाच्च विद्याभेदाच्च तथाव्याख्यानभेदेनाथ भेदात्पृथगर्थप्रतीतिा- यसी । ननूभयत्राप्यन्यूनानतिरिक्तपाठप्रत्यभिज्ञानेन विद्यैक्यादङ्गविद्याया उत्कर्षः प्रधानविद्याया अङ्गविद्याप्रवेशः । अत्रोच्यते । अन्यथात्वं शब्दादिति चेन्नाविशेषादिति न्यायन विद्याभेदस्यैव युक्तत्वादाभ्युदयिककाम्येष्टिवाक्य. वत् । ननु भेदेऽपि प्रधानविद्याया एवाङ्गत्वेन विनियोगोऽस्तु प्रत्यभिज्ञानाच विद्यै क्यमिति तन्न । प्रकरणान्तरे प्रयोजनान्यत्वमिति न्यायेन नैयमिका- निहोत्रकोण्डपायिनामग्निहोत्रबद्भेदस्यैव युक्तत्वात् । किंचोभयत्रापि बहुतर- पाठसाम्येऽपि कचित्पाठभेदोऽपि दृश्यते । तुरीयमात्रानिरूपणावसर एषोऽ- न्तर्याम्येष ईशान एष प्रभुरिति माण्डूक्ये पाठः । तापनीये त्वेषोऽन्तर्याम्येष योनिरितीशानप्रभुपदद्वयं विहाय पाठः । तस्माद्भिन्नत्वाद्यद्यत्र योग्यं प्रस्तुतं च तत्तथा व्याख्येयम् । तथा स्थूलभुक्स्थूलां पृथिवीं हृदयाङ्गान्तर्गतां भुते सेवत इति स्थूलभुक् । विश्वेषां नराणां स्वस्मिन्नेवानेकधानयनाद्विश्वानरो विश्वानर एव वा वैश्वानरः । ननु यथा माण्डूक्ये वैश्वानरशब्दसाम- र्ध्यात्सप्ताङ्गकोनविंशतिमुखपदद्वयं यथासंख्यं विराढिरण्यगर्भपरत्वेन व्या ख्यातं तथाऽत्रापि वैश्वानरशब्दसामर्थ्यादुभयपरत्वेन व्याख्यायतां किमिति शक्तिबीजपरत्वेन प्रकरणसंनिधेर्वाक्यसंनिधेर्बलीयस्त्वात् । सत्यम् । यद्यत्र वैश्वानरशब्दो वैश्वानरविद्यापरत्वेनैव वर्तेत तये॒वं स्यान्न त्वेतत्स्यायोगिक्या वृत्त्याऽन्यपरत्वेन व्याख्यातत्वात् । किंच तत्र तत्र विधेयार्थभेदेन वाक्यभे- देन वाक्यसंनिधिर्न निश्चितोऽत उभयत्रापि प्रकरणसंनिधरविशिष्टत्वा- त्पाग्व्याख्यैव ज्यायसी। प्रथमः पादस्तत्राकारोकारमकाराश्रितत्वेन तद्वा- चकत्वेन वैवंविधविशिष्टबुद्ध्युत्पत्तिरिति प्रथमः पादः। एतत्पूर्वकत्वादुत्तरपा- ४७ [ ४ चतुर्थोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । स्वप्रस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशति- मुखः प्रविविक्तभुक्तैजसो द्वितीयः पादो यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वनं पश्यति तत्सुषुप्तं सुषुप्तस्थान एकीभूतः प्रज्ञानधन दाधिगमस्येति प्राथम्यम् । नन्वयमात्मा ब्रह्मेति प्रत्यगात्मनोऽस्य चतुष्पावे प्रकृते कथं शक्तिवीजयोरङ्गमुखत्वकीर्तनमिति । नैप दोषः । उपास्योपासक- योरभेदस्यात्र विवक्षितत्वात् । एवं च सति नृसिंहब्रह्माद्वैतसिद्धिः । सर्वभूत- स्थश्वाऽऽत्मैको दृष्टः स्यात्सर्वभूतानि चाऽऽत्मनि । यस्तु सर्वाणि भूतानीत्या- दिश्रुत्यर्थश्चैवमुपसंहृतश्च स्यात् । अन्यथा परिच्छिन्न एव प्रत्यगात्मा सांख्या- दिभिरिव दृष्टः स्यादिप्यते च सर्वोपनिषदां सर्वात्मकत्वप्रतिपादकत्वम् । अतो युक्तमेवास्योपासकस्याऽऽत्मन उपास्येनाऽऽत्मनैकत्वमभिप्रेत्य सप्ताङ्गत्ववचनं मुखवचनं च । स्वमं स्थानमस्य तैनसस्य स स्वमस्थानः । जाग्रत्प्रज्ञाऽनेकसा- धना बहिर्विपयेव भासमाना मनसः स्पन्दमाना सती तथाभूतसंस्कारं मन- स्याधत्ते तन्मनस्तथा संस्कृतं विचित्र इव पटो वाद्यसाधनानपक्षमविद्याकर्मभ्यां प्रेर्यमाणं जाग्रदवभामते । तथाचोक्तमस्य लोकस्य सर्वावती मात्रामपादाये- त्यादि । परे देवे मनस्येकी भवतीति प्रस्तुत्यात्रैप देवः स्वप्ने महिमानमनुभ- वतीत्याथर्वणे । इन्द्रियापेक्षयाऽन्तःस्थत्वान्मनसस्तद्वासनारूपान्तर्लब्धा स्वमे प्रज्ञा येनत्यन्तःप्रज्ञः। तैजसो विषयशन्यायां प्रज्ञायां केवलप्रकाशरूपायां विष- यित्वन भवतीति तैजसः । विश्वस्य सविषयत्वेन प्रज्ञायाः स्थलाया भोग्य- त्वम् । इह पुनः केवला वामनामात्रा प्रस्फुटप्रज्ञा भाग्येति प्रविविक्तो भोग इत्युकारमिश्रणं शक्तिवीजयोः । समानमन्यत् । द्वितीयः पादस्तैजसस्विष्वपि स्थानेषु तत्त्वाप्रतिबोधलक्षणः स्वापोऽविशिष्ट इति पूर्वाभ्यां सुपुप्तं विभजते -यत्र सुप्तो न कंचनेत्यादि । न हि मुषुप्ते पूर्वयोरिवान्यथाग्रहणलक्षणं स्वमदर्शनं कामो वा कश्चन विद्यते । तदेतन्मुपुप्तं स्थानमस्येति सुपुप्तस्थान: स्थानद्वयप्रविभक्तमनस्पन्दितं द्वतजातम् । नद्यथा रूपापरिज्ञानेनाविवेकापन्न नैवतमोग्रस्तमिवाहः स्फुटप्रपञ्चमेकीभृनमुच्यते । अत एव स्वमनाग्रन्मनःस्पन्द- नानि प्रज्ञानानि घनीभनानीवेयमवस्था विवेकरूपत्वात्प्रज्ञानयन उच्यते । यथा रात्री नशेन तमसाऽविभज्यमानं सर्व घनमिव तद्वत्मज्ञानधनः । एवशब्दा. १ क. ग, मुषप्रो।

श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [४ चतुर्थोपनिषत् ] एवाऽऽनन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृ- तीयः पाद एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्या- म्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानां जात्यन्तरं नास्तीत्यर्थः । मनसो विषयविषय्याकारस्पन्दनायासदुःखाभावा- दानन्दपायो नाऽऽनन्द एवानात्यन्तिकत्वात् । यथा लोके निरायासस्थिती मुख्यानन्दभुगुच्यते । एष परमानन्द इति श्रुतेः । स्वमादिप्रतिबोधे चेतः प्रति द्वारीभूतत्वाचेतोमुखो वोधलक्षणं वा चेतो मुखं द्वारमस्य स्वमाद्यागमनं प्रतीति चेतोमुखः । भूतभविष्यज्ञातृत्वात्सर्वविषयज्ञातृत्वमस्यैवेति प्राज्ञः । सुप्तो हि भूतपूर्वगत्या प्राज्ञ उच्यतेऽथवा प्रज्ञप्तिमात्रमस्यैवासाधारणं रूपमिति प्राज्ञ इत- रयोविशिष्टमपि ज्ञानमस्ति सोऽयं प्राज्ञस्तृतीयः पादः । एप हि स्वरूपावस्थः साधिदैविकस्य भेदजातस्य सर्वस्येशिता नैतस्माज्जात्यन्तरभूतेऽन्येषामिव पाणबन्धनं हि सोम्य मन इति श्रुतेः । अयमेव हि सर्वेश्वरः । अयमेव हि सर्वभेदावस्थाज्ञातेत्येष सर्वज्ञः । एपोऽन्तर्याम्यन्तस्तनु प्रविश्य सर्वेषां भूतानां नियन्ताऽप्येष एव । अत एव यथोक्तं सभेदं जाग्रत्प्रसूयत इत्येष योनिः । अत एव प्रभवश्वाप्ययश्च प्रभवाप्ययौ हि भूतानामेष एव कृतवानुभ- यत्रापि समानः पाठः। अत ऊर्च माण्डूक्य उक्त एवार्थे श्लोकान्पठित्वा तुरीयः पाद एतस्मिंस्तापनीये तु तान्विहाय तुरीयः पादः। तस्मिन्नपि कियान्पाठभेदस्त- व्याख्यानावसरे दर्शित एव । तत्रोपयोगी श्लोकः पठ्यते- "दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः" । जागरितावस्थायामेव विश्वादीनां त्रयाणामनुभवप्रदर्शनार्थ श्लोकः । दक्षि- णमक्ष्येव मुखं यस्य स तथोक्तस्तस्मिन्सर्वेषु करणेष्वविशेपेऽपि दक्षिणेऽक्षण्युप- लब्धिपाटवदर्शनात्तत्र विशेपनिर्देशे विश्वस्य दक्षिणाक्षिगतो रूपं दृष्ट्वा निमी- लिताक्षस्तदेव स्मरन्मनस्यन्तः स्त्रम इव वासनारूपमभिव्यक्तं पश्यति यथाऽत्र तथा स्वमेऽतो मनस्यन्तस्तु तैजसो विश्व एवाऽऽकाशो वाह्यादिस्मरणव्यापारो- परमे प्राज्ञ एकीभूतो घनप्रज्ञ एव भवति मनोव्यापाराभावात् । दर्शनस्मरणे एव हि मनःस्पन्दितं तदभावे हृद्येवाविशेषेण प्राणात्मनाऽवस्थानात्माणः । प्राणो होवैतान्सर्वान्संदृत इति श्रुतेः । तैजसो हिरण्यगर्भः । मनस्यवस्थितत्वा- ल्लिङ्गं मनः । यत्र मनोमयोऽयं पुरुष इत्यादिश्रुतिभ्यः । ननु व्याकृतः प्राणः मुषुप्ते तदात्मकानि कारणानि भवन्ति कथमव्याकृतता । नैष दोपः । अव्या- [४ चतुर्थोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । न बहिष्प्रज्ञं नान्तःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञ नाप्रज्ञं न प्रज्ञानधनमदृष्टमव्यवहार्यमग्राह्यमल- क्षणमंलिङ्गमचिन्यमव्यपदेश्यमेकात्मप्रत्ययसारं कृतस्य देशकालविशेषाभावात् । यद्यपि प्राणाभिमाने सति व्याकृततैव माणस्य तथाऽपि पिण्डपरिच्छिभविशेषाभिमाननिरोधः पाणे भवतीत्यव्याकृत एव प्राणपरिच्छिन्नाभिमानवतां यथा प्राणलये परिच्छिमाभिमानिनां प्राणेs. व्याकृतता तथा प्राणाभिमानिनोऽप्यविशेषापन्नत्वादन्याकृतता समाना । मण. ववीजात्मकत्वं च तदध्यक्षश्चैको व्याकृतावस्थः परिच्छिन्नाभिमानाध्यक्षाणां च तेनैकत्वमिति पूर्वोक्तं विशेषणमेकीभूतः प्रज्ञानघन इत्याधुपपनं तस्मिनुक्तहेतु- त्वात्माणशब्दत्वमव्याकृतस्य । पाणबन्धनं हि सोम्य मन इति श्रुतेः । एवं तावत्प्रभवाप्ययौ हि भूतानामित्यनेनैकविज्ञाने सर्वविज्ञानप्रतिज्ञा प्रदर्शिता तथा माण्डूक्यश्लोके जागरितावस्थायामेवावस्थात्रयमुक्तं तस्यामेवावस्थायां तत्रैविध्ये मनोव्यापार व्यावृत्य प्रागुक्तोपास्ये मनोव्यापार प्रवर्तयितुमुपा- स्यस्वरूपमाह-न बहिष्पज्ञमिति । बहिर्विषयव्यापारोपरमाज्जागरिताव. स्थामतिषेधान्मनसो हि स्वस्मिन्व्यापारेणान्तःप्रज्ञत्वे तैजसत्वे च प्रत्यगा- त्मनः प्राप्ते तनिषेधति-नान्तःप्रज्ञमिति । उभयत्र व्यापारमतिषेधेन तद. न्तरालव्यापार प्राप्ते तं निषेधति-नोभयतःप्रज्ञमिति । जाग्रत्स्वमान्तराले मनो व्यावृत्तं प्रज्ञार्थ न कुर्यादित्यर्थः । अन्तरालप्रतिषेधेनोभयत्र युगपत्मज्ञार्थ व्यापार प्राप्ते तं निपेधति-न प्रज्ञमिति । एवं सर्वतो मनोव्यापारप्रतिषेधादज्ञान- साक्षिके स्वमे प्राप्ते तं निषेधति-न प्रज्ञानघनमिति । अथ पदप्रतिपेधैः प्रणववि. द्याभूतैरुपास्यप्रतिकूलं प्रतिषिव्य व्याहत्य यदुपास्ये मनोऽव्यावृत्तं कार्य तदु- पास्यं निर्दिशति-अदृष्टमिति । न हीदृशमुपास्यं कचिदृष्टं पुरुषाकारमेव वा तिर्यगाकारमेव वा यथा गोपालकूर्मादि । तत्तूभयरूपं नृसिंहात्मकं त्रिनेत्रं पिना- कहस्तमिति । अत एवाव्यवहार्यम् । अत एवालक्षणमिति । न लक्षणं लियं विद्यते यस्य तदलक्षणम् । अत एवाचिन्त्यमनुमानेन तर्केण वा । अत एवा- व्यपदेश्यं नियताकारोपास्यप्रतिपादकैः शब्दः । अत एवैकात्मपत्ययसार- मेकस्मिन्सर्वेषामात्मनां प्रत्यय एकात्मप्रत्ययः स एव सारं यस्यं तत्तथोक्तम् । १ घ.. छ. 'माचि। २ . प्रम।

उपास्य श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [४ चतुर्थोपनिषत् ] प्रपञ्चोपशमं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेयः ॥ १॥ अथ सावित्री गायत्री या यजुषा प्रोक्ता तया सर्वमिदं व्याप्तं वृणिरिति हे अक्षरे सूर्य इति त्रीण्यादित्य इति त्रीण्येतहै सावित्रस्याष्टाक्षरं पदं श्रियाऽभिषिक्तं य एवं वेद श्रिया हैवाभिषिच्यते तदेतदृचाऽयुक्तम्-ऋचो अथवेक एवाऽऽत्मोपास्योपासकयोरित्येवं प्रत्ययः । शेषं पूर्ववत् । अत एव प्रपञ्चोपशमं प्रागुक्तेन न्यायेन मनसो हि बाह्यदर्शनस्मरणव्यापाराभावाद्या- तत्वाच्च स्वापाभावादित्युपास्यव्यतिरेकेण प्रपश्चाप्रतीतेः प्रपञ्चोपशममिति । शिवं शंकरं चतुर्थ तुरीयपादं मन्यन्तेऽर्धमात्रानादात्मकमिति तथोपास्यम् । प्रत्यगात्मतयोपास्यमाह-स आत्मा प्रत्यगात्मेत्येवं विज्ञेयो द्रष्टव्यः ॥ १॥ एवमियं प्रणवविद्यापदपतिपेधवती सप्तशक्तिकहृदयाङ्गबीजमुखवत्यङ्गिना मनोव्यापार स्थिरं कुर्वत्यस्यां विद्यायामुपकारकवत्यसकृदावर्तनीयोमुपासके- नेति तात्पर्यार्थः । एवं तावत्सामाङ्गप्रणवविद्यां नृसिंहब्रह्मविद्योपकारिणीम- भिधायाथेदानीं तदुपकारिणीमेव शिरोगव्याख्यात्री सामाङ्गसवितृप्रतिपाद्यां विद्यां नृसिंहब्रह्मविद्याङ्गभूतामाह-अथ सावित्री गायत्रीति । अथशब्दः क्रमप्राप्तानन्तर्यार्थः । मत्रे सवितृपदाभावेऽपि सावित्रीति वदन्सवितृकालीन प्रकाशवत्सुषुप्तप्रकाशवच्च बाह्यान्तरतमोनिरिकप्रकाशवदयं शिरोङ्गप्रकाशो निबिडाविद्यानिवर्तक इति दर्शयति । गायत्र्यष्टाक्षरत्वात्तां गायत्री यजुषा व्याचष्टे या यजुषा प्रोक्ता तया सर्वमिदं व्याप्तम् । शिरोङ्गं व्याख्यातमुपास्यं च । अक्षराणि गणयति । घृणिरिति द्वे अक्षरे । सूर्य इति त्रीणि पृथग्रेफगण- नात् । आदित्य इति त्रीणि । एतद्वै सावित्रस्याष्टाक्षरं पदं श्रियाऽभिषिक्त- मिति । श्यादिभिस्तदादिन्यायेन सप्तभिः शक्तिभिर्विग्रहवतीभिर्मणिगणखचि- तैर्हेमकुम्भैरमृतपूर्णैः शिरोऽभिषिक्तमित्यर्थः । य उपासक एवमुपास्ते तस्य फलं निर्दिशति । श्रिया हैवाभिषिच्यते प्रागुक्ताभिः शक्तिभिः प्रागुक्तेन प्रकारेण सोऽप्यभिषिच्यत इत्यर्थः । तदेतदृचाऽभ्युक्तमुक्तार्थम् । ऋचो निषे. १ क. 'म शान्तं शि" । २ ज. "हिनी म ।

[४ चतुर्थोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः। यस्तन वेद किमृचा करिष्यति य इत्तहिदुस्त इमे समासत इति । न हं वा एतस्यर्च न यजुषा. न साम्राऽर्थोऽस्ति यः सावित्र वेदेति । ॐ . भूलक्ष्मी वर्लक्ष्मीः सुवःकालकर्णी । दुनितरां सेवनं कृतवत्यः । ऋग्रहणमुपलक्षणार्थम् । यद्वा ऋच इति षष्ठी । ऋचः सईमित्यादिकाया नयाः प्रतिपादिताः शक्तयो वेदा वा न केवलं शक्त- योऽपि तु विश्वे देवाः सर्वे देवा अधीत्युपरि शिरस्यक्षरे न क्षरति न विलीनं भवति परमे व्योमन्व्योमनि सर्वाभिपेकद्वारत्वात्परमं मोक्षद्वारत्वाच व्योम यस्मिशिरसि । य उपासकस्तच्छिरो वेददेवदेवीभिः प्रागुक्तेन प्रकारेणाभि- पिक्तं न वेद न जानाति किमृचर्वेदादिना । यद्वा सईपाहीत्यनयर्चा किं करिष्यति । य इदित्यमेव तदभिषिक्तं शिरो विदुरुपासते त इम उपासकाः समासते सम्यक्प्रकारेणाऽऽसते सुखिन इत्यर्थः । ऋग्गतमृक्पदं व्याचष्टे। न ह वा एतस्यर्चा न यजुपा न सानार्थः प्रयोजनमस्ति यः सावित्रीं शिरःशिखां साधनभूतां वेदेति । ततश्चायमर्थः । अष्टाक्षरां सावित्री पठित्वा प्रागुक्ताः सर्वे वेददेवादयोऽभिषिश्चतीनि सावित्रस्याष्टाक्षरं पदमष्टावक्षराण्यभिषेचनाय यस्मिशिरसि तदष्टाक्षरं शिरस्तदेव पदमाश्रय इति तत्त्वार्थः । एवं तावन्नृ- सिंहब्रह्मविद्यां शिरोङ्गोपकारिणी सावित्राभिषेचनी विद्यामभिधायाथेदानी तदुपकारिणी शिखाङ्गद्वारा सामाजमहालक्ष्मीविद्यामाह-ॐ भूर्लक्ष्मीरिति । प्रणवविद्यापुरःसरा एताः शक्तयो भूरित्याद्या व्याहृतयः । भूः। भू सत्तायामिति सचायामत्र वर्तते । अत एवोक्तमस्माभिः सप्तव्याहनीया॑चक्षाणः प्रपञ्चसारे- "भूपदात्तु व्याहृतयो भूःशब्दः सति वर्तते । तत्पदं सदिति प्रोक्तं सन्मात्रत्वाच्च भरतः ।। भूतत्वात्कारणत्वाच्च भुवःशब्दस्य संगतिः । सर्वस्य स्वीकरणात्स्वात्मतया स्वरितीरितम् । महत्त्वाच्च महत्त्वात्मा महच्छन्दः समीरितः" ||. ततश्च यथासंख्यं भूर्लक्ष्मीरिति । सन्मात्रब्रह्मणो व्यापारिका शक्ति लक्ष्मी- रित्युच्यते । कारणमात्ररूपस्य ब्रह्मणः शक्ति(वर्लक्ष्मीरिति । सर्वत्र स्वात्मत- याऽवस्थितस्य ब्रह्मणः शक्तिः सुवःकालकर्णीत्युच्यते । महाभूतमकाशकात्म.

श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [४ चतुर्थोपनिषत् ] तत्रो महालक्ष्मीः प्रचोदयादित्येषा वै महा- लक्ष्मीर्यजुर्गायत्री चतुर्विंशत्यक्षरा भवति गायत्री वा इदं सर्व यदिदं किंच तस्माद्य एतां महालक्ष्मी याजुषीं वेद महती श्रियमश्नुते । ॐ नृसिंहाय विद्महे वजन- खाय धीमहि । तनः सिंहः प्रचोदयादि- कस्य भुवब्रह्मणः शक्तिर्महालक्ष्मीरिति । सैकैका शक्तिस्तदङ्गं शिखाख्यं तेजो- मयं सुषुम्नामृतमयं सोमरूपेणोपास्यत्वात्तस्य पादस्य । य ओषधीनां प्रभवति तारापतिः सोमस्तत्साम्नस्तृतीयं पादं जानीयादिति श्रुतेः। सोमश्चन्द्रः सुषुम्लः सूर्यरश्मिश्चन्द्रमा इति श्रुतेः । नोऽस्मान्प्रचोदयादिति चुद प्रेरणे प्रेरयतु । तदङ्ग- मेकैका विग्रहवती शक्तिरमृतस्रवणाय प्रेरयतु । अभिषेक्त्रीणां शक्तीनां शिखा- धिष्ठात्रीः शक्ती प्रत्यनयर्चा गायत्र्या यजुर्महालक्ष्म्याः प्रार्थनारूपं वचनम् । सतश्च तदङ्गममृतस्राव्यमृतरूपमुपास्यमिति । अथवा सैकैका शक्तिस्तदङ्गं नः मचोदयादिति नः प्रेरयतु । असंविवादमेवाझं कुर्यादिति । एषा वै महालक्ष्मी- यजुर्गायत्री महतीनां महालक्ष्म्यादीनां प्रतिपादकत्वान्महालक्ष्मीः सावित्रमत्रे। अत्र च यजुरिति वदन्सामाङ्गत्वेऽपि गीतिरहितमजदयमिति दर्शयति । प्रणवा- न्तर्भावायाक्षराणि गणयति । *चतुर्विशदक्षरा भवतीति । चतुर्विशदिति च्छान्द- सम् । गायत्री वा इदं तृतीयमङ्गं सर्व कृत्स्नं यदिदं किंच । यस्मादेवं तस्माद्य एतां शिखां पारमेश्वरी महालक्ष्मी याजुषी प्रागुक्तविग्रहशक्त्युपास्यां वेदो- पास्ते । तस्य फलं निर्दिशति-महतीं श्रियमभुत इति । महतीं श्रियं प्रामो- तीत्यर्थः । एतद्गायत्र्युक्ताः शक्तयो विग्रहवत्योऽभिषेचनशक्तीनामुपकारायाम- तमयी शिखाममृतस्रवणाय तद्वन्धनाय वोपास्त इति तत्त्वार्थः । एवं साव. सिंहब्रह्मविद्योपकारिणी सामाङ्गतृतीयाङ्गविद्यामभिधायाथेदानी सामाङ्गचतु- जिविद्यां नृसिंहगायत्रीमाह। ॐ प्रणवो व्याख्यातस्तदङ्गं कवचाख्यं पारमेश्व. रम् । धीमहीति । ध्यायेमहि । किमर्थं वजनखाय नृसिंहाय । तादर्थे चतुर्थी। सदर्य विग्रहे जानीमो यतस्तदेवाझं नोऽस्मानिसहः प्रचोदयादित्युक्तार्थम् । नर- शब्दं विहाय सिंह इति वदंस्तस्यां विद्यायां सिंहाकारस्य प्राधान्यं दर्शयति । आदर्शपुस्तकेषु तु चतुर्विशत्यक्षरेत्येव पाटो दृश्यते । १ क. एवमेता।

[४ चतुर्थोपनिषत् ] नृसिंहपूर्वतापनीयोपनिषत् । येषा वै नृसिंहगायत्री वेदानां देवानां निदानं भवति य एवं वेद स निदानवान्भवति ॥२॥ देवा ह वै प्रजापतिमब्रुवनथ कैर्मन्त्रैर्देवः स्तुतः प्रीतो भवति स्वात्मानं दर्शयति तत्रो ब्रूहि भगवं इति स होवाच प्रजापतिः। ॐ 5 ओं यो वै नृसिंहो देवो भगवान्यश्च ब्रह्मा तस्मै वै नमो नमः १ ॐ ग्रं ॐ यो वै मृसिंहो देवो भगवान्यश्च विष्णुस्तस्मै वै नमो नमः २ ॐवीं ॐ यो वै नृसिंहो देवो भगवान्यश्च महेश्वरस्तस्मै वै नमो नमः ३ ॐ रं ॐ यो वै नृसिंहो देवो भगवान्यश्च पुरु- इतिशब्दो मन्त्रसमाप्तिं द्योतयति। एषा वै नृसिंहगायत्री नृसिंहाथकवचप्रतिपाद- कलाद्गायत्री प्रणवान्तर्भावं दर्शयति। कवचाश्रिततदातहृदयान्तर्गतानां वेदानां देवानां यथायोग्यतया निदानं मूलकारणं भवति । उपासकस्य फलं निर्दिशति । य एवं वेद स निदानवान्भवतीति । ततश्चायमर्थः । पारमेश्वरं कवचाख्यम हृत्संबन्धि सर्ववेददेवनिदानत्वेनोपास्यं तत्प्रतिपादकत्वाहसंबन्धि सर्ववेददेव- निदानं गायत्र्युच्यत इति तत्त्वार्थः ॥ २॥ एवं तावसिंहब्रह्मविद्योपकारिण्यङ्गचतुष्टयव्यापिनी महाचक्राख्या[ता]पभि- धातुं तस्मिश्चक्रे द्वात्रिंशत्पत्रे यथासंख्यं कृतप्रणवसंपुटे न्यस्तमूलमत्राक्षर एकैक- स्मिंस्तत्तद्देवता नृसिंहव्यूह स्तुतिमत्रवर्णसामर्थ्यलभ्यं च प्रदर्शयितुं तान्मवान्म- भोत्तररूपाख्यायिकयाऽऽरभते। देवा ह वै प्रजापतिमनुवन्नित्यादि स होवाच प्रजापतिरित्यन्तं स्पष्टार्थम् । अत्र हि सर्वे मत्राः प्रणवादिकास्तदादिन्यायेन प्रणवं मूलमत्राक्षरं पुनः प्रणवं सर्वेषु मत्रेषु दर्शयति। अत्र हि मत्रेषु यच्छब्दद्वये- नान्यतः सिद्धमनूच कुत्रचिच्छब्दसामर्थ्यात्कुत्रचित्तस्मा इत्येकवचनसामा- * अत्र प्रतिपर्यायमादी प्रणवस्नतो मूलमन्त्राक्षरं ततः प्रणव इत्ययं क्रमः "छ.' पुस्तक एवं रश्यते नान्येष्वादर्शपुस्तकेषु । १ क. ग. 'वनिनि । २ ज. मध्यं ।

श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [४ चतुर्थोपनिषत् ] वै नृसिंहो देवो भगवान्यश्च सोमस्तस्मै वै नमो नमः२९ ॐ मां ॐ यो वै नृसिंहो देवो भगवा- न्यश्च विराट्पुरुषस्तस्मै वै नमो नमः३०म्यं ॐ यो वै नृसिंहो देवो भगवान्यश्च जीवस्तस्मै वै नमो नमः३१ ॐ हं ॐ यो वै नृसिंहो देवो भगवान्यश्च सर्व तस्मै वै नमो नमः॥३२॥ इति तान्प्रजापतिरब्रवीदेतैत्रिंशन्मन्त्रैर्नित्यं देवं स्तुवते ततो देवः प्रीतो भवति स्वात्मानं दर्शयति तस्माद्य एतैर्मन्नर्नित्यं देवं स्तौति स देवं पश्यति स सर्व पश्यति सोऽमृतत्वं च गच्छति य एवं वेदेति महोपनिषत् ॥ ३ ॥ इत्याथर्वणीयनृसिंहपूर्वतापनीयोपनिषदि चतुर्थोप- निषत्समाप्ता ॥ ४॥ पालविग्रहो वसुरुद्रादित्याष्टग्रहपञ्चमहाभूतविग्रहा एकैकस्मिनृसिंहव्यूहे यथा- संख्यमन्तर्भूता उपास्या इति दश व्यूहा विश्वरूपा उपास्याः । कालमनुमृत्यु- यमान्तकमाणसूर्यसोमविराट्पुरुषजीवरूपचेतनाचेतनसर्वात्मका इत्येते व्यूहा अविश्वरूपास्तत्तदसाधारणरूपगम्या एवमेकैकव्यूह उपास्यस्तेन तेन मत्रेण स्तुत्यः । ततो देवः स्वात्मानं स्वकीयं रूपं विश्वरूपमविश्वरूपं च यथायोग्य दर्शयति । यस्मादेवं तस्माद्य उपासक एतैर्मनित्यं नियमेन स्तौति स देवं विश्वरूपमविश्वरूपं च पश्यति साक्षात्करोति । सोऽमृतत्वमित्यादि महोपनि- पदित्यन्तं स्पष्टार्थम् । तत्रामृतत्वं च गच्छतीति फलस्य द्विरभ्यासः स्तुतिमात्रा- देव परमफलावाप्ति मत्राणां च सामर्थ्य दर्शयति । महोपनिषच्छब्दः प्रणव- बाहुल्यमिति सर्व निर्मलम् ॥ ३ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिप्यस्य परमहंसपरिव्राजकाचार्यश्रीशंकरभगवत आद्यकृतावार्थर्वणनृसिंहपूर्वतापनीयोपनिषद्भाप्ये चतुर्थोपनिषद्भाष्यं संपूर्णम् ॥ ४ ॥ १ क. 'देभिः । २ घ. रू "तेर्म । ३ क. त । य एवमेतां महोपनिषदं वेद सकृत्पुरश्च. रणो भवति महाविष्णुर्भवति । ई।

[५ पञ्चमोपनिषत् ] नृसिंहपूर्वतापनीयोपनिषत् । देवा ह वै प्रजापतिमवन्महाचक्रं नाम चक्रं नो बहि भगव इति सार्वकामिकं मोक्षदारं यद्योगिन उपदि- शन्ति स होवाच प्रजापतिः षडरं वा एतत्सुदर्शनं महाचक्रं तस्मात्परं भवति पदपत्रं' चक्रं भवति एवं तावच्चतुर्थोपनिषद्यन्ते स्तुत्योपनिषदा महाचक्रस्थद्वात्रिंशत्पत्रेषु यथा- संख्यं द्वात्रिंशनृसिंहस्तुत्योपास्यानभिधायाथेदानी महाचक्रविद्यामभिधातुं महा- चक्रस्वरूपं निरूपयितुं प्रश्नोत्तररूपाख्यायिकया पञ्चमोपनिपदारभ्यते-देवा ह वै प्रजापतिमब्रुवन्निति । नन्वेवं तर्हि स्तुत्युपनिपद्विद्यातो महाचक्रविद्यया प्राग्भवितव्यम् । अत्रोच्यते। सत्यम् । यदीयं प्राक्स्यात्पुरश्चरणार्थमितरत्सुदर्श- नादिमहाचक्रं सवात्रिंशद्व्यूहकं पञ्चमाङ्गमित्यवं विभागः प्रतीयेतातस्तद्विभाग- ज्ञापनार्थ न प्रागभिहितेयमिति । नन्वेवमपि तदादिन्यायेन महाचक्रविद्या पुर- श्वरणार्थ कृत्स्नेव कस्मान्न गृधेत । तन्न । तदादिन्यायवैषम्यात् । न हि महा- चक्रस्यायमादिभत्रिंशद्व्यहो नामापि तु नाभिवतिक्षीरोदार्णवसंबन्धिनसिंह- व्यहस्तस्मात्सूक्तमुपनिपद्विद्यातः प्रागभिधानमस्या इति । देवाः प्रावस्तुनिश्रव- नात्यन्तहर्पिताः प्रजापतिमब्रुवन्महाचक्रं नामैतन्नामधेययुक्तं चक्रम् । यद्वैतन्ना- मधेययुक्तमेव चक्रं वर्तुलमुनराधरभावेन स्थितं सच्चतुष्टयाङ्गव्यापकमत्राख्यमङ्गं नोऽस्मभ्यं हि । भगवो भगवनिनि संबोधनम् । सार्वकामिकं सर्वकामसा. धनत्वात्सार्वकामिकम् । अथवा सर्वेषां देवानां ब्रह्मादीनां व्यूहाः स्वात्म- तयैव स्वभावतयैव कामिता यस्मिश्चक्रे नाभिवायव्यूहेन नत्सार्वकामिकम् । अत एव मोक्षद्वारं प्रणवबहुलत्वान्मूलमत्राक्षरमंख्यातः प्रणवसंपुटीकरणा- त्पणवाक्षरसंख्या द्विगुणा चतुःपष्टिः । अस्यां च विद्यायां मोक्षः प्रणवद्वारक एव । देहान्ते देवः परं ब्रह्म तारकं व्याचष्ट इनि श्रुतेः। ततश्चायमर्थः । मोक्षस्य प्रणवाख्यं द्वारं यस्मिंस्तत्तथोक्तम् । यचक्र योगिन उपदिशन्त्युपासकेभ्यः । स होवाच प्रजापतिरित्युक्तार्थम् । पडरं वा एतत्सुदर्शनं महाचक्र महाचक्र- स्यैव नामान्तरं मुदर्शनमत्रयोगात्सुदर्शनम् । यद्वा सुष्टु दर्शनं विद्यते यस्मिंस्त- थोक्तम् । एतत्पत्राधांभागे नालरूपोऽरशब्दवाच्यः। पडरा विद्यन्ते यस्मिंस्त- पडरं यस्मादेवं तस्मात्पडरं भवति पदपत्रं भवति । अरादुपरिभागः कोणत्र- ययुक्तः पत्राकृतिः पत्रं षट्पत्राणि विद्यन्ते यस्मिंस्तत्तथोक्तम् । एतदेव स्तोति । Mehm.re me १ क. "वनानुष्टुभस्य मन्त्रराजस्य म। रु. वनानुभस्य मन्त्रराजस्य नारसिंहस्य म । २ क. ग. 'डक्षरं । ३ ग. छ. भ ।

५८ श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [५ पञ्चमोपनिषत् ] षड्वा ऋतव ऋतुभिः संमितं भवति मध्ये नाभिर्भवति नाभ्यां वा एतेऽराः प्रतिष्ठिताः । मायया वा एतत्सर्व वेष्टितं भवति नाऽऽत्मानं माया स्पृशति तस्मान्मायया बहिर्वेष्टितं भव- ति। अथाष्टारमष्टपत्रं चक्रं भवत्यष्टाक्षरा वै गा- यत्री गायच्या संमितं भवति बहिर्मायया वेष्टितं भवति क्षेत्रं क्षेत्रं वा मायैषा संपद्यते । अथ द्वादशारं द्वादशपत्रं चक्रं भवति द्वादशाक्षरा वै जगती जगत्या संमितं भवति बहिर्मायया वेष्टितं भवति । अथ षोडशारं षोडश- पत्रं चक्रं भवति षोडशकलो वै पुरुषः पुरुष एवेदं सर्व पुरुषेण संमितं भवति पड़वा ऋतव ऋतुभिः संमितं भवति । एतस्मादर्थवादादराः पत्राणि चर्तुबुद्ध्यो- पास्यानि भवन्ति । अराणां प्रतिष्ठार्थ स्थानमाह । मध्ये चक्रस्य मध्ये नाभिर्वर्तु- लाकारा भवति। नाभ्यां वैतेऽराः प्रतिष्ठिताः प्रागुक्तास्तदादिन्यायेन पत्राणि । मायया प्रागुक्तेन मूलमत्रशक्त्यक्षरणैतत्पडरं षट्पत्रं सर्व वेष्टितं भवति । यस्मा- माऽऽत्मानं चक्रस्य स्वरूपमरपत्रात्मकं माया स्पृशति तस्मान्मायया बहिर्वे- ष्टितं भवति । यद्वा प्रत्यक्चैतन्यमेव केवलं शुद्धं चक्रबुद्ध्योपास्यं यस्मात्तस्मा- दात्मानं प्रत्यक्चैतन्यं न माया स्पृशति मायाविनमिव तस्मान्मायया बहि- वेष्टितं भवति । अष्टारमष्टपत्रं चक्रं द्वादशारं द्वादशपत्रं चक्रं षोडशारं षोडश- पत्रं चक्रं द्वात्रिंशदरं द्वात्रिंशत्पत्रं चक्रमिति चतुष्टयं षडरं पदपत्रचक्रेण व्याख्यातम् । तवायं विशेषः । आद्यपत्रेऽराः पत्राणि चर्तुबुद्ध्योपास्यानि । द्वितीयतृतीयपश्चमेष्वरा वेदबुद्ध्योपास्याः पत्राणि गायत्रीजगत्यनुष्टुब्बुरख्या यथासंख्यमुपास्यानि । वेदा एवाराश्छन्दांसि वै पत्राणीत्यर्थवादात् । चतुर्थे पत्रे षोडशाराः षोडशपत्राणि च षोडशकलाबुद्ध्योपास्यानि । क्षेत्र क्षेत्र वा मायैषा संपद्यते । पुरुष एवेदं सर्व पुरुषेण संमितं भवतीति वाक्चैतन्य १ . साक्षर । २ क. नि बहिर्मायया वेष्टि' ।

[५ पञ्चमोपनिषत् नृसिंहपूर्वतापनीयोपनिषत् । मायया बहिर्वेष्टितं भवति । अथ द्वात्रिंशदरं द्वात्रिंशत्पत्रं चक्रं भवति द्वात्रिंशदक्षरा वा अनुष्टुबनुष्टुभा संमितं भवति बहिर्मायया वेष्टितं भवत्यरैर्वा एतत्संबद्धं भवति वेदा वा एतेराः पत्रैर्वा एतत्सर्वतः परिकामति च्छन्दांसि वै पत्राणि ॥१॥ शुद्धमाह माययाऽसंस्पृष्टं बहिःशब्दात् । तादृशं चक्रं तस्मिन्प्रकल्प्य तदुपा- स्यमित्यर्थः । तथाचारपत्रशब्दादहिःशब्दाच सबिन्दुकेन शक्त्यक्षरेण यद्वे- टनं तद्यथासंख्यं पूर्वपूर्वचक्रापरपत्रासंस्पृष्टपुत्तरोत्तरचक्राणामाश्रयत्वेन नाभि- अमित्येवं सुदर्शनचक्रपत्रासंस्पृष्टं यद्वेष्टनं मायया तदुपरितनाक्षरनारायणच- काश्रयत्वेन नाभिरूपमेवमष्टाक्षरवेष्टनं द्वादशाक्षरस्य नाभिरूपं द्वादशाक्षरवेष्टनं सबिन्दुकमातृकाषोडशाक्षरस्य नाभिरूपं सबिन्दुकाधमातृकापोड शाक्षरवेष्टनं द्वात्रिंशदक्षरस्य नाभिस्ततो द्वात्रिंशदक्षरवेष्टनमसंस्पृष्टमनाभिरूपमेवेत्येवं मुदर्श- ननारायणवासुदेवषोडशारद्वात्रिंशदरचक्राणां यथासंख्यं पश्च नाभयो नाभी- नामेवापेक्षया वेष्टनरूपतेत्यायो नाभिर्मायाक्षररहित उपरितना नाभयोऽन्त्यं च वेष्टनं मायाक्षरेणेति तत्त्वार्थः । नन्वेवं तथशब्दस्य तत्र तत्र प्रयोगात्पूर्व- चक्रसंस्पर्शात्पञ्चनाभिकानि पञ्च चक्राणि पृथक्प्रयोज्यानि कस्मान परिगृह्यन्ते । तथाचैकचक्रत्वेऽप्यमायिनो भूतनाभिकल्पनायां वेष्टनव्यतिरिक्तपश्चनाभिक- ल्पना कस्मान भवति । अत्रोच्यते । महाचक्रं नाम चक्रं नो बृहीत्युपक्रम्य तद्वा एतन्महाचक्रमित्युपसंहारान्महाचकतावगमाच्च चक्रचतुष्टयं तदन्तर्गत- मेवेत्यवगम्यते । तत्र तत्राथशब्दप्रयोगस्तत्तश्चक्रोद्धारे माङ्गलिकप्रदर्शनार्यः । तथा वेष्टनानां नाभिकल्पनायां प्रतिषेधाभावायोग्यत्वाच्च कल्पनालाघवाच न पृथगुभे कल्पने इति । यत्र कचिदहिःशब्दपूर्वको मायाशन्दः पठ्यते कचि द्विपसललायमभिप्रायः। यत्र मायाशब्दावहिःशब्दः पूर्वस्तत्र मायाविशे- पणं बहिर्भूतया मायया बहिर्मायया। यत्र च मायाशब्दात्परो वेष्टनशब्दा- त्पूर्वो बहिःशब्दस्तत्राविशिष्टया मायया तत्र बहिःशब्दो न मायाविशेषणं किंतु वेष्टनविशेषणम् । माया हि द्विविधा नारसिंहमूलमत्राता सवितुके. काररूपा निरूपपदान्मायाशब्दात्पनीयतेऽन्या तु रेफहकाराभ्यां मिलितस- १ क. सुदर्शनं भ।

६० श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [५ पञ्चमोपनिषत् ] तदेव चक्रं सुदर्शनं महाचक्रं तस्य मध्ये नाभ्यां तारकं भवति यदक्षरं नारसिंहमेकाक्षरं तद्भवति षद्सु पत्रेषु षडक्षरं सुदर्शनं भवत्य- बिन्दुकेकाररूपा सोपपदान्मायाशब्दात्पतीयते । ततश्च मूलमत्राहि तमा- यया हीमित्येवंरूपया वेष्टितं भवतीति तत्त्वार्थः । ततः सुदर्शनचक्रे मूलमत्रग- तमायया वेष्टनं षोडशचक्रेऽप्येवमेव बहिःशब्दस्य वेष्टनात्पूर्वमुपादानाद्वेष्टनवि- शेषणं बहिःशब्दो मध्यवेष्टनव्यावृत्त्यर्थः । नारायणवासुदेवनारसिंहचक्रेषु व्याख्यातवहिर्मायया वेष्टनमिति वेष्टनचक्रोद्धारविवेकः ॥ १ ॥ एवं महाचक्रस्य संवेष्टनमुद्धारं चाभिधायाथेदानीमुद्धनचक्रे यथाविहितम- घान्यसितुं तन्नाभ्यामक्षरन्यासमाह-तदेव चक्रं सुदर्शनं महाचक्रमिति । तच्छब्देन द्वात्रिंशदरं द्वात्रिंशत्पत्रं चक्रमेवशब्देन तदेवावधृत्य तदेव चक्रं तदा- दिन्यायेन सुदर्शनादिशब्दरूचं चक्रचतुष्यमपि महाचक्रात्मकमिति दर्शयति । महाचक्रमिति सामानाधिकरण्याच । तस्य मध्ये महाचक्रस्य मध्ये मध्यवर्ति- नाभ्यां वेष्टनरूपा हि नाभयो भूमध्यास्ता व्यावर्तयितुं मध्ये नाभ्यामित्युक्तम् । तारकं भवति संसारतारकत्वात्तारकं प्रणवाक्षरं भवति । यदक्षरं नारसिंहमे- काक्षरं तद्भवतीत्यक्षरम् । जगद्धितं वा एतद्रपमक्षरमिति नृसिंहपदं व्याख्यातं तदक्षरशब्दात्मत्यभिज्ञायते । तथा नारसिंहमिति तद्धितात्सामप्रभृत्युपास्यं सर्व प्रतीयते । ततः सर्वस्मिनुपास्ये प्रतीत एकमेवोपास्यं मूलनृसिंहव्यहाख्यं वक्तुं विशिनष्टि-एकाक्षरं तद्भवतीति । यदक्षरं नारसिंहमुपास्यमित्यनद्य तदेकं भवतीत्यक्षरं चेति महाचक्रमध्यनाभिवतित्वेन क्षीरोदार्णवसंबन्धितयोपासनं विधीयत इत्यर्थः। तत्र केचिन्नारसिंहमेकाक्षरमितिविशेषणोपादानादेकाक्षर- नृसिंहमिश्रितप्रणवो नाभ्यां न्यसनीय इत्याचक्षते तदपि सांप्रदायिकत्वान विरुद्धम् । तस्मिन्नपि पक्षे नारसिंहमिति तद्धितादेकाक्षरो नृसिंहमनः प्रणवमि- श्रितो द्वात्रिंशन्नृसिंहव्यूहं विहाय यावत्माकरणिकं मूलनृसिंहव्य हगतमुपास्यं प्रतीयत एव । ततश्चैतद्विद्यागमेकाक्षरो नृसिंहमत्रो यथोक्तोपास्याभिधायकत्वा- तस्य केवलः प्रणवेन विकल्प एकाक्षरनृसिंहमत्रस्य प्रणवस्तु नियत एवेति तत्त्वार्थः । अत.ऊर्ध्व तत्तन्मत्रन्यासे तत्तचक्रेपु पत्रग्रहणमरतदन्तरालपत्रान्त- रालव्यात्त्यर्थ द्रष्टव्यम् । षदमु पत्रेपु सुदर्शनं भवति । ऐशानपत्रमारभ्य षड- १ क. ह. देवरसुदा [५ पञ्चमोपनिषत्] नृसिंहपू बिनीयोपनिषत् । ६१ ष्टसु पत्रेष्वष्टाक्षरं नारायणं भवति हादर्शसु पत्रेषु . द्वादशाक्षरं वासुदेवं भवति षोडशंसु पत्रेषु मातृकाद्याः सबिन्दुकाः षोडश कला भवन्ति द्वात्रिंशत्सु पत्रेषु द्वात्रिंशदक्षरं मन्त्रराजं नारसिं- हमानुष्टभं भवति तदा एतत्सुदर्शनं महाचक्र सार्वकामिकं मोक्षद्वारमामयं यजुर्मयं साममयं ब्रह्ममयममृतमयं भवति तस्य पुरस्तादसव आसते रुद्रा दक्षिणत आदित्याः पश्चा- विश्वे देवा उत्तरतो ब्रह्मविष्णुमहेश्वरा नाभ्यां क्षरः सुदर्शनो मत्रो न्यसनीय इत्यर्थः । एवमुत्तरेषु पत्रेषु योज्यम् । अष्टसु पत्रेष्वष्टाक्षरं नारायणं भवति । प्रणवान्तर्भावनाष्टाक्षरतेति केचित् । तद्वदेव द्वादशपत्रेपु द्वादशाक्षरं गासुदेवं भवतीति । अत्रापि द्वादशाक्षरता पूर्ववत् । षोडशपत्रेषु मातृकामत्रवर्णस्याऽऽद्या वर्णमातृकाद्याः सविन्दुका विन्तुसहिताः षोडश भवन्ति । द्वात्रिंशन्सु पत्रपु द्वात्रिंशदक्षरं सामाभिव्यक्तं मत्रराजमानुष्टुभं भवति । मूलमन्त्रस्य वककमक्षरम् । यच्चकमक्षरमेककस्मिन्पत्र तत्प्रणवलंपुटितं कार्य प्रत्यक्षरमुभयन ओंकारी भवतीति श्रुतेः । नदीख्यमङ्गं महाचक्रमुपा- सितं तनिक्षिप्तमनिष्टे वस्तुनि त्रासकारित्वात्तदस्त्रं पश्चममङ्गम् । अत एवानाङ्ग- मन्त्रं व्याचक्षाणरम्माभिरुक्तं प्रपञ्चसारे "असुत्रामादिको धातृ स्तः क्षेपचलनार्थको । ताभ्यामनिष्टमाक्षिप्य क्षिप्यत फदग्वडमिना" इति । सार्वकामिकं मोक्षद्वारमित्युक्तार्थम् । ऋङ्मयं यजुर्मयं साममयं ब्रह्ममयममृतमयं भवतीति पञ्च मयत्प्रत्ययाः प्राचुर्यार्थी ग्राह्याः । ऋग्यजुःसामाथर्वप्रचुरम् । ब्रह्म- मयमिति ब्रह्मशब्दनाथर्ववेदः सोऽयं ब्रह्म वेद इत्येनद्राह्मणाभिधानात् । वेदप्र- चुरताऽराणां वेदबुद्ध्योपास्यत्वात् । विकारार्थी वा मयवंदविकारात्मका इत्य- र्थः। अमृतमयं क्षीरमचुरनाभिकं क्षीरविकारनाभिकं वति । तस्यति तच्छब्दाना- भिस्थो विष्णुर्मूलनृसिंहव्यूहः परामृश्यते । तत्परिचारकान्देवानाह-पुरस्ताद- सवः परिचारका आसते रुद्रा दक्षिणत आदित्याः पश्चाविश्वे देवा उत्तरतो ब्रह्मविष्णुमहेश्वरा नाभ्यामिति । एवं दिइनाभिपरिचारकानुक्त्वाऽथेदानी १ क. 'शप । २ क. 'शप । ३ क. शपत्र । ४ छ. तस्मादतन्महा। ५ क ग, घ. 'त्सुमहा।६ झ. 'नाच्यामन्त्रं महा ।

६२ श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [५ पञ्चमोपनिषत् ] सूर्याचन्द्रमसौ पार्श्वयोस्तदेतदृचाऽभ्युक्तम्- ऋची अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः। यस्तं न वेद किमचा करिष्यति य इत्तदिदुस्त, इमे समासत इति। तदेतन्महा- चक्रं बालो वा युवा वा वेद सं महान्भ- वति स गुरुर्भवति स सर्वेषां मंन्त्राणामुप- देष्टा भवत्यनुष्टुभा होमं कुर्यादनुष्टुभाऽर्चनं पार्श्वपरिचारकानाह-सूर्याचन्द्रमसौ पार्श्वयोः कुक्षिप्रदेशयोरिति यावत् । तदेतन्महाचक्रमृचाऽभ्युक्तम् । यस्मिन्महाचक्रे । अक्षरे । अशू व्याप्तावित्यस्य रूपं सरो मत्वर्थे । तस्मिन्व्याप्तिमति । परम उत्कृष्ट व्योमवत्सर्वव्यापकत्वेन स्थिते । अधीत्युपरिभावे । ऋच इत्यग्ग्रहणमुपलक्षणार्थम् । ऋचो निषेदुः स्थिताः । यदि वर्च इति पष्ठी । अनुष्टुप्संवन्धिन्यक्षरे व्याप्तिमति चक्रे सर्वे वेदाः स्थितास्तत्सुदर्शनमत्रादिसंबन्धि चक्रमित्यर्थः । य उपासकस्तन्महाचक्र न वेद नोपास्ते किमृचर्वेदादिना यदि वर्चाऽनुष्टुप्छन्दस्कयर्चेति । अनेनैत- दर्शयति । महाचक्रोपासनभितमेवानुम्बुपासनं कुर्यान तु तद्रहितमिति । य इत्तद्विदुस्त इमे समासत इत्युक्तार्थम् । इतिशब्द ऋक्समाप्तिं द्योतयति । तदेतन्महाचक्रं बालो वा युवा वा वेदोपास्ते तस्येदं फलं स महान्भ- वति । महती प्रतिष्ठां जने प्रामोति । यदि वा महान्महाविष्णुरिति । स गुरुः सर्वैर्देववदाराध्यः । स सर्वेषां मत्राणामुपदेष्टा भवत्युपदेशकः । सामा- भिव्यक्तानुष्टुभा होमं कुर्यादिति विद्याङ्गोऽयं होमस्तस्मिन्द्रव्यानुपादानात्पति- दिनं हविष्यमन्नं साज्यं जुहुयादिति । तथा संख्यानुपादानात्सकद्वादशवारं वा । यदि वा सूत्रागतदशपदानां मूलनृसिंहव्यूहे द्वात्रिंशद्व्यूहे च व्याख्यातत्वा- दुभयोदेशेन होमं कुर्यात् । ततश्च क्षीरोदार्णवशायिने नृसिंहाय त्रिनेत्राय पिना. कहस्तायोग्रायेदमिति हुत्वा ब्रह्मादिद्वात्रिंशद्व्यूहात्मकाय नृसिंहायोग्रायेति जुहुयादित्येवं प्रतिपदं मूलमन्त्रावृत्तिः ।यद्वाऽनुष्टुभेत्येकवचनात्सकन्मूलमत्रमुचार्य स्वाहाकारान्तं जुहुयात्प्रतिपदमुद्दिश्य त्यागः कार्यः । तथा सामाभिव्यक्तानुष्ट- भाऽर्चनं षोडशोपचारादि कुर्यादित्यनुषः। अत्रापि होममत्रवन्मत्रावृत्त्य नावृत्ती १ ड. छ. गुरुः स । २ ज. °य चक्रपि। ३ ज. 'कवराभयह ।

५ पञ्चमोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । तदेतद्रक्षोनं मृत्युतारकं गुरुतो लब्धं कण्ठे बाहौ शिखायां वा बनीत सप्तदीपवती भूमिर्दक्षिणार्थ' नावकल्पते तस्माच्छ्रद्धया यां, कांचिद्दद्यात्सा दक्षिणा भवनि ॥ २ ॥ देवा ह वै प्रजापतिमब्रुवनानुष्टुभस्य मन्त्ररा- एष्टव्ये।तदेतन्महाचक्रं रक्षानं मृत्युतारकं गुरुप्रसादाल्लब्धं कण्ठे बाहौ शिखायांवा बधीत यस्तस्मै गुरवे यस्मात्सप्तद्वीपवती द्विगुणात्ताऽपि पृथ्वी दक्षिणार्थ नाव- कल्पते तस्माच्छ्रद्धया भक्त्या यां काचिद्भुमि यथाशक्त्यनुरूपां दद्यात्सा दक्षिणा भवति । एवं प्रागुक्तं श्रुतित उपासनमवगतं पञ्चाङ्गन्यास उपसंहृतमेकस्मान्मतात् । अथ मतान्तरपर्यालोचनया महाचक्र एवोपसंहतं तस्मात्प्रत्यक्षरमुभयंत ओंकारो भवतीत्यत्र मूलमत्राक्षराणां प्रणव उपसंहतत्वात्प्रणवप्रधानमेवेदं महाचक्र तस्मि. शक्तिवाहुल्यश्रवणान्मायया बहिर्वेष्टितं भवति । बहिर्मायया वेष्टितं भवती- त्यसकृच्छवणादुद्धृतपदव्याख्यानावसरे प्रतिपदं यस्मात्स्वमहिम्ना सर्वाल्लोका- न्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानीत्यसकृन्महिमशब्दवाच्याया मायायाः सर्वलोकसर्वदेवात्मभूतानां साधनत्वेन श्रवणात्तद्वेष्टितमायाधारत्वेन यथासंख्यं पृथिव्यादिलोकर्वेदादिवेदाग्न्यादिदेवभूतानामात्मनां च साधनत्वश्रवणान्म- हाचक्रान्तर्गतवेष्टितमायाधारमेवेदमुपासन । न तु मूलनृसिंहगनं पञ्चाङ्गन्यांसार्थ चान्तरङ्गत्वान्महाचक्रमेवेदमुपासनम् । तदपि संप्रदायागतमुपादेयमित्युपासना- विकल्पः । तत्रापि बहुतरं संप्रदायानुकल्यागतत्वादन्त्यमेवोपासनमुपादेयमिति केचित् । तस्मिन्मते प्रणवसावित्रयजुलक्ष्मीनृसिंहगायत्रीति मत्रचतुष्टयमासा- माभिव्यक्तं यथायोग्यतया महाचक्रप्रकाशकत्वेन याज्यं तथैवोपास्यं महाचक्र- मिति रहस्यं तत्वं चेनि ॥२॥ एवं नृसिंहब्रह्मविद्यां सकलमनानुमारिणी कृत्स्नामभिधायाथेदानी तदनु- ठातुः कैमुत्यन्यायेन फलकथनाय प्रश्नोत्तररूपाख्यायिकामवतारयति-देवाह वै प्रजापतिमब्रुवमित्यादिना । अत्र देवा ह वा इत्याद्यारभ्य तदेतनिष्का- मस्य भवतीत्यन्ता अष्टावध्यायाः प्रत्यध्यायसमाप्तौ च द्विरभ्यासः। देवा ह वै १ ग. घ. द. छ. गुरुणा । २ क. ग. घ. "ण्ठे वा बा । ३ क. ग. घ. "ही वा शि। ४ क. नीयात्सप्त' । ग. घ. नीयामा म । ५ क. नी दक्षि' । ६ च. भमी दक्षि' । ७ क. ग. घ. ' तानका ८ ज. 'म् । नत्रा।

श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [५ पञ्चमोपनिषत् ] जस्य फलं नो ब्रूहि भगव इति स होवाच प्रजापतिर्य . एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति से ब्रह्मपूतो भवति स विष्णुपूतो भवति स रुद्रपूतो भवति स वेदपूतो भवति स सर्वपूतो भवति स सर्वपूतो भवति ॥ इति प्रथमोऽध्यायः ॥ १ ॥ प्रजापतिमब्रुवन्नस्य मत्रस्य प्रागुत्तोपासनाविशिष्टस्य फलं नो ब्रूहि भगव इति स होवाच प्रजापतिरित्युक्तार्थम् । यो द्विविधोपासक एतमित्येतच्छब्दपरामृष्टं प्रागुक्तविद्याभितं मत्रगजं सामराजे नारसिंहं नृसिंहाकारब्रह्मोपासनागर्भ- मानुष्टुभमनुष्टुप्छन्दस्कं नित्यमिति साकारब्रह्मपतिपत्तिद्वारेण नित्यभूतनिराका- रब्रह्मप्रतिपादकत्वानित्यमधीत उच्चारयति । यत्रेदृशसामोच्चारणमात्रादेव वक्ष्य- माणफलाप्तिः किं तत्र विद्यानुष्ठानादित्यभिप्रायेण तत्र तत्राधीतेऽधीत इत्यवो- चत् । अथवा नित्यमधीत इति नियमेनाधीतेऽथवा नित्यमधीत्युपरिभाव इते जानीते । सर्वे गत्यर्था ज्ञानार्थाः । नित्यं संध्योपासनादि निर्वोक्तकालं यो विद्यामेतामनुतिष्ठतीत्यर्थः । अथवा नित्यमानुष्टुभमित्यन्वयादानुष्टुभस्य सानो नित्यत्वं दर्शयति न वितरस्य सामवयस्येति । अथवा नित्यं संध्योपासनादि कर्माधिकृत्येते जानीते । एतदुक्तं भवति । ततो नित्यसंध्योपासनाग्निहोत्रायु- पास्यदेवता नारसिंहलीलाविग्रहेन्युपास्ते । एतद्विद्यागभितेत्यर्थः। अथवा य उपासकः प्रागुक्तविद्यानुष्ठानप्रकारज्ञानेऽसमर्थः स केवलं विद्यापतिपादकं ग्रन्थं नित्यं प्रतिदिनं स्वाध्यायधर्मेणाधीते पठति जपति सोऽपि वक्ष्यमाणं फलं प्रामोति । तस्य तज्जपसामर्थ्यात्परमेश्वरः कारुण्यात्तद्विद्यानुष्ठानप्रकारं साका- रप्रभृति निराकारपर्यन्तमिहैव कथयति । तथाचान्ते श्रूयते तद्वा एतत्परमं धामै- तद्विधागर्भितमत्रराजाध्यायकस्य पाठकस्य जापकस्येत्यादिना । स उपास- कोऽग्निवाय्वादित्यसोमसत्यब्रह्मविष्णुरुद्रवेदैनृसिंहरूपैरुपास्यैः पूतो भवति पवित्रो भवति । अन्यैश्च सबैसंहरूपैरुपास्यैः पूतो भवति । द्विरभ्यासोऽध्या- यसमाप्तिं द्योतयति ॥ इति प्रथमोऽध्यायः ॥ १ ॥ १ क. ग. घ. च. स लोकपृतो भवति स । २ क. घ. ङ, देव तो । :

[५ पञ्चमोपनिषत् ] : नृसिंहपूर्वतापनीयोपनिष । य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते स मृत्युं तरति स पाप्मानं तरति स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति सवीरहत्यां तरति स सर्व तरति स सर्व तरति ॥ इति द्वितीयोऽध्यायः॥२॥ य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्निं स्तम्भयति स वायुं स्तम्भयति स आदित्यं स्तम्भयति स सोमं स्तम्भयति स उदकं स्तम्भयति स सर्वान्देवान्स्तम्भयति स सर्वान्ग्रहान्स्तम्भयति स विषं स्तम्भयति स विषं स्तम्भयति ॥ इति तृतीयोऽध्यायः ॥ ३ ॥ य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते इतःप्रभृति नित्यमेतद्विद्यानुष्ठाने तत्प्रतिपादकग्रन्थजपे चाऽऽनुषत्रिकान्ये(ण्ये)- व फलानि काम्यानि तद्रहितानि वा कथयितुमाह । य उपासको नित्यत्वेन तद्वि- घानुष्ठानेन तज्जपेन वा पापक्षयं कामयते । एतं मत्रराजं नारसिंहमानुष्टुभं नित्यमधीत इत्युक्तार्थम् । तथेतः प्रभृत्याऽन्त्यादध्यायात्तत्र तत्र यच्छब्देन पुंलिङ्गेन प्रागुक्तनृसिंहविद्याया निश्चिततयाऽनुष्ठानात्तद्विद्यामतिपादकग्रन्थजप्ता वाऽध्येता वा परामृश्यते । तथा तच्छब्देन पुंलिङ्गेन स एव परामृश्यते । तथा तत्र तत्र पुंलिङ्गात्तच्छब्दाभ्यासात्तस्मिन्नेव नित्यानुष्ठाने जपे वा व्यस्तं समस्त्र वा यथायोग्यतया फलं गम्यते स मृत्यु पाप्मानं ब्रह्महत्यां भ्रूणहत्या भ्रूणो गर्भो यद्वा सावेदार्थव्याख्याता दीक्षितो भ्रूणो वीरहत्यां वीरः पुत्रः सवनस्थः क्षत्रियो वाऽन्यच्च पातकं सर्व तरति । द्विरभ्यासोऽध्यायसमाप्ति द्योतयति ।। इति द्वितीयोऽध्यायः ॥ २ ॥ य एतं मत्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽनिं वायुमादित्यं सोम- मुदकं सर्वान्देवान्ग्रहान्विषं स्तम्भयतीति स्तम्भनफलनिर्देशः। द्विरभ्यासोs- ध्यायसमाप्तिं द्योतयति ॥ इति तृतीयोऽध्यायः ॥ ३ ॥ य एतं मन्त्रराज नारसिंहमानुष्टुभं नित्यमधीते स भूर्भुवः स्वमहर्जनस्तपः स- १ छ. ति स सर्वहत्यां तरति म समारं तरति स । २ क. "न्यं स । ३ क. 'मं स । ५ श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [५ पञ्चमोपनिषत् ] स भूलोकं जयति स भुवलोकं जयति स स्व- लोकं जयति स महलोंके जयति स जनो- लोकं जयति स तपोलोकं जयति स सत्यलोक जयति स सर्वलोकं जयति स सर्वलोकं जयति ॥ इति चतुर्थोऽध्यायः ॥ ४ ॥ य एतं मन्त्रराज नारसिंहमानुष्टुभं नित्यमधीते स मनुष्यानाक- र्षयति स देवानाकर्षयति स नागानाकर्षयति स यक्षानाकर्षयति स ग्रहानाकर्षयति स सर्वा- नाकर्षयति स सर्वानाकर्षयति॥इति पञ्चमोऽध्यायः॥५॥ य एतं मन्त्रराज नारसिंहमानुष्टुभं नित्यमधीते सोऽग्निष्टोमेन यजते स उक्थ्येन यजते स षोडशिना यजते स वाजपेयेन यजते सोऽति- रात्रेण यजते सोऽप्तोर्यामेण यजते सोऽश्वमेधेन यजते स सर्वैः क्रतुभिर्यजते स सर्वैः क्रतुभिर्य- जते ॥ इति षष्ठोऽध्यायः ॥ ६ ॥ त्यमन्यच्च सर्व पाताललोकं जयतीति फलनिर्देशः । द्विरभ्यासोऽध्यायसमाप्ति द्योतयति ॥ इति चतुर्थोऽध्यायः ।। ४ ।। य एतं मत्रराजं नारसिंहमानुष्टुभं नित्यमधीते स मनुष्यान्देवानागान्यक्षा- न्ग्रहास्तव्यतिरिक्तानन्यांचाऽऽकर्षयतीति फलनिर्देशः । द्विरभ्यासोऽध्याय- समाप्तिं द्योतयति ॥ इति पञ्चमोऽध्यायः ॥ ५ ॥ य एतं मत्रराज नारसिंहमानुष्टुभं नित्यमधीते सोऽनिष्टोमेनोक्थ्येन षोड- शिना वाजपेयेनातिरात्रेणाप्तोर्यामेणान्यैश्च सर्वैः ऋतुभिर्यजत इति फल- निर्देशः । द्विरभ्यासोऽध्यायसमाप्तिं द्योतयति । न च वाच्यमन्यानर्थक्यादिति न्यायेन कथं फलनिर्देश इति यतो मनोव्यापारैकसाध्यत्वादेतद्विद्यानुष्ठानस्य तस्य च कमोनुष्ठानादत्यन्तदुःसंपादत्वादित्यधिकारभेदेन नान्यानर्थक्यमिति सर्व निर्मलम् ॥ इति षठोऽध्यायः ॥ ६ ॥ १ क. घ. ङ. च, जनलो। ग, जनलोक।

[५ पञ्चमोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । य एतं मन्त्रराजं नारसिंहमानुष्टुभं नियमधीते स ऋचोऽधीते स यज्ञेष्यधीते स सामान्यधीते सोऽथर्वाणमधीते सोऽङ्गिरसमंधीते स शाखा अधीते स पुराणान्यधीते स कल्पानधीते स गाथा अधीते स नाराशंसीरधीते स प्रण- वमधीते यः प्रणवमधीते स सर्वमधीते स सर्वमधीते ॥ इति सप्तमोऽध्यायः ॥ ७ ॥ अनुप- नीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशत- मेकमेकेन गृहस्थेन तत्समं गृहस्थशतमे- कमेकेन वानप्रस्थेन तत्समं वानप्रस्थशतमेक- मेकेन यतिना तत्समं यतीनां च शतं पूर्ण य एतं मत्रराजं नारसिंहमानुष्टुभं नित्यमधीते स ऋचो यजूंषि सामान्य. थर्वाणमगिरसमेतच्च त्रयीसंपुटीकरणमेतदन्तरालवर्तित्वादेतस्य तथाच तस्मि- अव ब्राह्मणे प्रजापतिः प्रथममथर्वाणमपश्यत्ततस्त्रयीं ततोऽङ्गिरसमित्यसकदमि- हितत्वाच्छाखाः पुराणानि कल्यान्गाथा नाराशंसीः प्रणवमधीत इति फालनि. देशः। अत्र च यः प्रणवमधीते स सर्वमधीत इति वदन्मूलमत्रप्रणवयोः फल- साम्यावुभयोः साम्यं दर्शयति । ततश्च जपे समाधौ चोभयोर्विकल्पः । तथाच नित्यानुष्ठने फलकामनायां प्रयोगविशेषः। तत्तत्फलपदोच्चारणं मूलमत्रजपान्ते कार्यमिति केचित् । अन्ये तु तद्विनैव केवलं कामनैव कार्येति सांप्रदायिकमेवा- न्वेष्यमिति । द्विरभ्यासोऽध्यायसमाप्ति घोतयति । इति सप्तमोऽध्यायः ॥ ७ ॥ एवं नित्यानुष्ठान आनुषङ्गिकं सर्व फलमभिधायादानी ताद्वेद्यानुष्ठ - रध्येतुश्चोत्कर्षतरतमभावेन सर्वोत्कृष्टता सर्वोत्कृष्टं च फलमाह-अनुपनीतश- तमेकमेकेनोपनीतेन तत्समम् । उपनीतशतमुपकुर्वाणकानां न नैष्ठिकाभिमायेण तस्य सर्वोत्कृष्टत्वात् । एकमेकेन गृहस्थेन च तत्समं गृहस्थशतमेकमेकेन वानप्र- स्थेन तत्सम वानप्रस्थशतमेकमेकेन यतिना तत्ममं सोऽयमाश्रमस्वीकारमात्रे तरतमभावोऽनाश्रमप्रयुक्तानुष्ठानाभिप्रायेण ततश्च यतीनां च शतं पूर्ण स्वीकृता- १ क. घ. च. तु । २ क. तं परमहमेन नाममं परमहमशनमेकमेकेन ।

श्रीमच्छंकराचार्यविरचितभाष्यसमेता- [५ पञ्चमोपनिषत् ] रुद्रजापकेन तत्समं रुद्रजापिशतमेकमेकेना- थर्वशिरःशिखाध्यायकेन तत्सममथर्वशिरशि- खाध्यायकशतमेकमेकेर्ने मन्त्ररोजजापकेन त- समं तहा एतत्परमं धाम मन्त्रराजाध्यायकस्य यत्र सूर्यो न तपति यत्र न वायुर्वाति यत्र न चन्द्रमास्तपति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शाश्वतं शान्तं सदा- शिवं ब्रह्मादिवन्दितं योगिध्येयं यत्र गत्वा न निवर्तन्ते योगिनस्तदेतदृचाऽभ्युक्तम्-तदि- श्रममात्राणां यस्मिन्कस्मिंश्चिस्थितरुद्रजाप्येन तत्समं रुद्रजप्यशतमेकं यस्मिन्क- स्मिंश्चिदाश्रमे स्थिताथर्वशिरःशिखाध्यायकेन जापकेन तत्सममथर्वशिरःशिखा- ध्यायकशतं मनराजजापकेन तत्सममित्युत्कर्षतरतमभावस्य मत्रराजजापक एत- द्विधावति विश्रान्तत्वादेतद्विद्यावान्सर्वोत्कृष्ट इति गम्यते । यथाऽऽनन्दतरतम- भावस्य ब्रह्मणि विश्रान्तत्वाब्रह्मानन्द एव सर्वोत्कृष्टः । यस्मादेवं तस्माद्वै प्रसिद्धमेतत्परमं धाम स्थानमेतद्विद्यागर्भितमत्रराजाध्यायकस्य जापकस्यानुष्ठा- तुर्वा यत्र क्षीरोदार्णवस्थाने सूर्यो न तपति यत्र वायुनं वाति यत्र न चन्द्रमास्तपति यत्र न नक्षत्राणि भान्ति यत्र नानिर्दहति यत्र न मृत्युः प्रवि- शति यत्र न दुःखं सदानन्दं परमानन्दं शाश्वतं शान्तं सदाशिवं ब्रह्मादि. पन्दितं योगिध्येयं यत्र गत्वा न निवर्तन्ते योगिनस्तदेतत्स्थानमृचाऽभ्युक्तं विष्णोर्यत्परमं पदमिति । यच्छब्देन क्षीरोदार्णवस्थानं परामृश्यते पर- मपदमत्यभिज्ञानात्सूरय उपासका उपासनाभेदेन तादात्म्यमुपासनया चे- त्सायुज्यं फलं ततश्च विष्णुरेव परमं पदम् । उभयत्रापि विष्णोरिति षष्ठी- निर्देशः शिलापुत्रकस्य शरीरमितिवद्रष्टव्यः । अथोपास्योपासकभावेन चेद- क. द्रजाप्येन । २ घ. 'ध्यायिके । ३ घ.ध्यायिक'। ४ क..'न तापनीयोपनि- षदध्यापकेन तत्सम तापनीयोपनिषदध्यापकशतमेकमेकेन म। ५ ङ, राजाध्याप'। ६ घ. ध्यायिक। ७क. 'स्य भवति य । ८ क. आ. 'यं परमं पदं य ।

: [५ पञ्चमोपनिषत्] नृसिंहपूर्वतापनीयोपनिषत् । ६९ ष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव. चक्षुराततम् । तदिप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णार्यत्परमं पद- मिति तदेतनिष्कामस्य भवति । तदेतनिष्का- मस्य भवति ॥ इत्यष्टमोऽध्यायः ॥ ८ ॥ ॥३॥ इत्यथर्ववेदान्तर्गतनृसिंहपूर्वतापनीयोपनिषदि पश्चम्युपनि- षत्समाप्ता ॥ ५॥ नुष्टुब्बिद्या तस्य नृसिंहस्य विष्णोः परमं पदं परमं स्थानं महाचक्रनाभिक्षीरो- दार्णवप्रभृति तत्र स्थिता उपासका अनुष्ठातारो जप्तारोऽध्येतारो वा सदा सर्वकालं पश्यन्ति । कीदृशं तदित्यपेक्षित आह-दिवीव घुलोक इव चक्षुः ख्यातेः सूर्यमण्डलमाततमासमन्तात्ततं विस्तृतं 'वर्तुलं प्रकाशात्मकं सर्वप्रका- शाभिभवकारणमतः सूर्यचन्द्रनक्षत्रादीनां ब्रह्मणि प्रवेशः प्रतिषिद्धस्तपकर्तृता च यत्र सूर्यो न तपतीत्यादिना । एवं तस्मिन्नाधिदैवात्मके दुःखे प्रतिषिद्ध आध्यात्मिकदुःखप्राप्तौ तत्मतिषेधति यत्र न दुःखमिति । विदुःखता दुःख- भावमात्रे प्राप्ते सुषुप्तवज्जडता स्यादिति तब्धावृत्त्यर्थ सदानन्दमिति । ब्रह्मादिवन्दितमिति । तदादिन्यायेन नाभिस्थब्रह्मविष्णुमहेश्वरैः परिचारकै- वन्दनीयं महाचक्राख्यं स्थानम् । यत्र गत्वेति गन्तव्यतामाह-तद्विपास इति । तत्तादृशं स्थानं विपासो विप्रा ब्राह्मणा उपासका विपन्यवो मेधाविनः समाधौ धारणशक्तियुक्ताः। जागृवांसो जागरितावस्थायामेवावस्थात्रयात्म- च्युत्य समिन्धते समृद्धिं कुर्वन्ति । तादात्म्यपक्षे तु मत्रब्राह्मणयार्यथास्वरूपं व्याख्येयम् । इतिशब्दो मन्त्रसमाप्तिं द्योतयति । पदचतुष्टयाभ्यासः सर्वोप- निषत्समाप्तिं द्योतयतीति सर्व निर्मलं सिद्धम् ॥ इत्यष्टमोऽध्यायः ॥ ८ ॥ ॥ ३ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यश्रीशं- करभगवत आद्यकृतावाथर्वणनृसिंहपूर्वतापनीयोपनिषद्भाप्ये पञ्चमो. पनिषद्भाष्यं संपूर्णम् ॥ ५ ॥ समाप्नेयं सभाष्यनृसिंहपूर्वतापनीयोपनिषत् ।। ---- १ क. ग. घ. 'ति । य एवं वेदेति महोपनिषत् ।। छ. 'ति । य एवं वेदेति महोपनिषद एतां महोपनिषदमेव सकृत्पुरश्चरणो महाविष्णुर्भवति महाविष्णुर्भवति ।

ॐ तत्सब्रह्मणे नमः। नृसिंहोलस्तापनायोपनिषः । श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता । ॐ नमो भगवते श्रीदिव्यलक्ष्मीनृसिंहाय नमः ।। निरस्तनिखिलानर्थपरमानन्दरूपिणे । नृसिंहाय नमस्कुर्मः सर्वधीवृत्तिसाक्षिणे ॥१॥ चरणाजरजोलेशसंपर्कात्सहसाऽसकृत् ।। सर्वसंसारहीनोऽहं तानतोऽस्मि गुरून्सदा ॥२॥ तापनीयरहस्यार्थविवृतिलेशतो मया ॥ क्रियतेऽल्पधिया तस्मात्क्षन्तव्यं क्षतमुत्तमैः ॥ ३ ॥ इह पूर्वस्मिन्ग्रन्थे नृसिंहाकारब्रह्मविषया विद्या निरुपाधिकब्रह्मविद्याफलाs- धिगता । तथा युक्तं वार्तिककृद्भिः- "नृसिंहब्रह्मविद्यैषा व्याख्याता ज्ञानसिद्धये" इति । प्रणवस्य त्वनुष्टुबङ्गत्वेनैव तत्र प्रवेशः। तथाचोक्तम्- सर्वे वेदाः प्रणवादिकास्तं प्रणवं तत्सानोऽहं वेद स त्रील्लोकाञ्जयतीति । इह तु पूर्वोक्तोपासनादिभिरीषच्छुद्धान्तःकरणस्य परब्रह्मविद्याप्रवेशमात्रयोग्यस्य नृसिंहाकारमेव ब्रह्म प्रणवधानमादाय तद्वारेण तुरीयपर्यवसायिनीमुपासना कर्तव्यत्वेन विधाय तदनुष्ठानेनातिशुद्धान्तःकरणस्य साक्षात्तुरीयविद्यैव स्वरू- पावस्थानफलोच्यते । तदुक्तम्-"तुरीयावसिता विद्या साक्षादत्र प्रदर्श्यते" इति। तुरीयावसितोपासना साक्षात्तुरीयविद्या चात्र प्रदर्यत इत्यर्थः । अत्रा. नुष्टुप्पवेशस्तु प्रणवाङ्गत्वेनैवानुष्टुभान्विष्य प्रणवेनैव तस्मिन्नेव स्थिताः। ओंकारे परे ब्रह्मणि पर्यवसितो भवेदित्यनुष्टुवात्वस्य प्रणवप्रधानत्वस्य च श्रवणादनुष्टुबर्थस्य प्रणव एव प्रक्षेपदर्शनाचोत्तरत्र । आख्यायिका तु विद्यासंपदानग्रहणविधिमदर्शनार्थी विद्यास्तुत्यर्था वा । देवाः पूर्वोक्तैः साथ- [१ प्रथमः खण्डः ] नृसिंहोत्तरतापनीयोपनिषत् । ७१ ॐ भद्रं कर्णेभिः०॥१॥ स्वस्ति न इन्द्रो०॥२॥ ॐ शान्तिः शान्तिः शान्तिः ॥ देवा ह वै प्रजापतिमब्रुवन्नणोरणी- यांसमिममात्मानमोंकारं नो व्याच- वेति तथेत्योमित्येतदक्षरमिदं सर्व नैर्दीप्तान्तःकरणाः प्रसिद्धा वा देवाः । इत्यैतिद्यार्थः । वैशब्देनोक्तसाधनवि- शेषैर्दीप्तान्तःकरणत्वेन देवानां प्रष्मृत्वसामर्थ्य स्मारयति । प्रजापतिमाचार्य प्रसिद्धं वा अब्रुवन्नुपगम्योक्तवन्तः । किमुक्तवन्त इत्याह-अणोरणीयांसमिम- मात्मानमोंकारं नो व्याचक्ष्वेति । अणोः सूक्ष्मादप्याकाशादरणीयांसं सूक्ष्म- तरं परमात्मानम् । इममनन्तरातीतग्रन्थे गुरुणाऽनुष्टुबुपाधिकत्वेनोक्तम् । किमों- कारं नो व्याचक्ष्व । अनुष्टुभोऽपि कारणभूतो ‘य ओंकारस्तद्रूपं परमात्मानं नोऽस्मभ्यं व्याचक्ष्व विस्पष्टं प्रकथय । स्वप्रणवकार्यभूता ह्यनुष्टुप्श्रूयते वैरिशे मन्त्रराजकल्पे- "चतुर्मात्रात्मकात्ताराच्चतुष्पादो महामनुः । वक्त्रेभ्यो मम संजातो मत्रविद्येश्वरेश्वरः" इति।। दृश्यते च घटे मृदन्वयवदनुष्टुभि प्रणवस्यान्वयः । उकारादिम(ह)कारान्ता हनुष्टुप्पणवैकदेश एव पर्यवसिता दृश्यते । उक्तं वैरिक्षे मत्रराजकल्पे-. "प्रणवान्तर्गतोऽयं हि मत्रः सर्वार्थसाधकः । उकार आदिमवस्य हकारोऽन्त्यः प्रकीर्तितः ॥ लुप्ते हकारे प्रणवो व्यज्यते व्यत्ययाक्षरे" इति । अतः कारणत्वादोंकारस्यानुष्टुभोऽप्यणीयस्त्वं सिद्धम् । एतदुक्तं भवति । अनुष्टुप्पाधान्येनोक्तमात्मानं तत्कारणप्रणवप्राधान्येन प्रणवगुणभूत- तयाऽनुष्टुभं च स्वीकृत्य व्याचक्ष्वेति । इतिशब्दः प्रश्नवाक्यसमाप्त्यर्थः । देवेरेवं प्रार्थितः प्रजापतिरोमित्यनुजानाति प्रार्थितम् । तथेति । यथा- पार्थितमुपदिशामीत्यर्थः । तत्र प्रथमं संग्रहेणोक्तामनुष्टुवात्मनः प्रणवरूपता- माह-ओमित्येतदक्षरमिदं सर्वमिति । संक्षेपविस्तराभ्यां हि प्रतिपाद्यमानं वस्तु मन्दमनस्यापि बुद्धावारोहति । यदिदमनुष्टुम्मात्रमित्युक्तं सर्व कार्यकारणात्मक जगत्स एतं मत्रराज नारसिंहमानुष्टुभमपश्यत्तेन वै सर्वमिदमसृजयदिदं किंच तस्मात्सर्वमेाऽऽनुष्टुभमित्याचक्षत इत्यादिवाक्यैस्तदनुष्टुभा सहोमित्येतदक्ष- १ ग. घ. नि । ओत । २ छ. येत्यों तन्यो ।

श्रीमद्विद्यारण्यमुनिविरचितभाष्यसमेता-[१ प्रथमः खण्डः ] रम् । कुतः । यतो वाआत्ररूपोऽयमोंकारः । वक्ष्यति हि वाग्वा ओंकार इति । नन्वनुष्टुभोऽपि वायात्ररूपत्वमुक्तं पूर्वत्र वाग्वा अनुष्टुबिति । अतः साया अनुष्टुभः कथं प्रणवात्मकत्वं विपरीतं किं न स्यादिति चेन । अनु- धुभि प्रणवान्वयदर्शनेन प्रणवस्यानुष्टुभं प्रति कारणत्वोपपादनेन परिहृतत्वा- दस्य चोयस्य । वामात्ररूपिण्यास्त्वनुष्टुभस्तथाविधात्मणवाद्भेद एव नास्तीति तस्या अपि तदात्मकत्वं सिद्धम् । यदि च भेदोऽस्तीत्युच्येत तथाऽपि वाग्वि- शेपरूपयोहि प्रणवानुष्टुभोः प्रणवस्यैव कारणत्वं दृष्टम् । तस्माद्वाक्सामान्यरूप- योरपि तयोस्तथैव कार्यकारणभावो युक्तः । इति वाङ्मात्ररूपे प्रणवेऽनुष्टुबन्त- भूतैव यथाऽन्ये सर्वे शब्दविशेषाः । उक्तं च यथा-“उकारो वै सर्वा वाक्सैपा स्पर्शोष्मभिर्व्यज्यमाना बढी नानारूपा भवति" इति । साक्षाञ्च- तद्यथा शङ्कुना सर्वाणि पर्णानि संवृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णेति सर्ववागात्मकत्वमुक्तं प्रणवस्य । सर्व वाग्वस्तु प्रणवात्मकमिति च । अर्थविशे- पाणां च तद्वाचकनामविशेषद्वारेण वा वाड्यात्ररूपे प्रणवेऽन्तर्भावः संभवति तेषां तब्यतिरेकेणानुपलम्भात् । उक्तं च-"तदस्येदं वाचा तन्त्या नामभि- मभिः सर्व सितं सर्व हीदं नामानि तस्यैव यदुपांशु स प्राणोऽथ यदुच्चैस्त- च्छरीरम्" इति । अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा । यो वैतां वाचं वेद यस्या एष विकार इति वाचः कारणत्वश्रवणाच्च । वाचार- म्भणं विकारो नामधेयमिति च विकारस्य नामधेयमात्रत्वं श्रुतम् । साक्षाच प्रणवस्यैव सर्वात्मकत्वं श्रुतम्-ओंकार एवेदं सर्वमेतद्वै सत्यकाम परं चापरं चं ब्रह्म यदोंकारो यश्छन्दसामृषभो विश्वरूपः । ओमितीदं सर्वमित्यादिवाक्यैः । ननु वाआत्रात्मतां विवक्षित्वा सर्वशब्दानां सर्वात्मत्वं शक्यं वक्तुं तथाच सति को विशेषः प्रणवस्य सर्वात्मकत्वे येन सर्वश्रुतीनां मात्रादरो महान्दृश्यते । सर्वे वेदा यत्पदमामनन्ति । एतदालम्बनं श्रेष्ठं धनुर्गृहीत्वा प्रणवो धनुस्तिस्रो मात्राः । एतदै महोपनिषदमित्यादिप्रदेशेषु । अनुष्टुबन्तर्भाव एवासी विशेष इति चेन्न । अन्येष्वप्युकारादिमकारान्तेषु मत्रेष्वनुष्टुबन्तर्भावसंभवादतोऽत्रैवा- नुष्टुबन्तर्भावकथनमपि प्रणवस्य न मत्रान्तरेभ्यो विशेष द्योतयति । अतः कोऽसौ विशेष इति वक्तव्यम् । उच्यते । श्रुतिगम्य एवासौ विशेषः स्मृति- गम्यो वा नास्मदुद्धिगम्यः । तथाचोक्तं सारसंग्रह प्रणवनिर्णये- "ऋग्वेदः स्यादकारान्त उकारान्तं यजुर्मतम् । सामवेदो मकारान्तः सर्वग्राही ततो ध्रुवः ।। - १ ट. यात्रतां।

१ प्रथमः खण्डः ] नृसिंहोत्तरतापनीयोपनिषत् । षडङ्गन्यायमीमांसा पुराणं स्मृतिपूर्वकम् । वेदेऽन्तर्भूतमेव स्यात्सर्वे वेदाश्च तारगाः । अहयोर्मध्यगा वर्णा लक्षौ कपलगौ यतः ।। अकारः पुरुषस्तत्र हकारः प्रकृतिः स्मृता । तथा प्रणवगोऽकारो वीजात्मा पुरुषः स्मृतः ॥ उकार शक्तिरूपत्वात्प्रकृतिः सा हरूपिणी । पुंस्पकृत्यात्मका वर्णास्तस्मादोंमध्यगाः सदा ।। क्षराक्षरपरो देवो मकारः परमेश्वरः । अथवाऽकार एवायं चिन्मात्रः परमेश्वरः ।। सर्वप्रकाशको देवो ह्यकारः सर्वभामकः । न हि तेन विना वर्णप्रकाशः कापि कस्यचित् ।। कार्य च कारणं सर्वमुकारः शक्तिरूपवान् । उकारमत एवात्र जगत्मसवरूपतः ।। उच्चरत्यतिदीर्घण सृष्टिस्थितिलयात्मना। कार्यकारणरूपेण महेशादात्मनो दृतम् ।। तमेवमात्मकं भूयः प्रविश्याऽऽत्मस्वरूपिणम् । तावन्मात्रत्वमायाति मकारो हि महाचितिः ।। अकारः सोमरूपोऽथ उकारः सूर्य एव तु । मकारश्च महावतिरिति तेजस्रयात्मकः ।। पोडशात्मा भवेत्सोमः पोडशः स्वररूपवान् । सूर्यो द्वादशमासात्मा मासाश्च द्विविधा मताः ।। अयनद्वयभेदेन सृष्टिसंहाररूपतः । संसारमोक्षभेदेन तथाऽहोरात्रभेदतः ।। कंभादिवर्णरूपास्त सृष्टिसंहाररूपतः । मकारोकारकलिनः परमात्मा महेश्वरः ।। आदित्यान्तर्गतो देवः कालकालो महाप्रभुः । सर्वसंहारवयात्मा साक्षाचिन्मात्रविग्रहः ।। पुरुषः पञ्चविंशोऽयं पडविंशस्तु महेश्वरः । पञ्चविंशात्मना भोक्ता पड़विंशो भोजको मनः ।।. १ न. कमादि ।

७४ श्रीमद्वियारण्यमुनिविरचितदीपिकासमेता-[१प्रथमः खण्डः] तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोंकार एव उभयात्मा मकारोऽयं प्रणवस्थ उदाहृतः । भोक्ता तत्राग्निरूपः स्यादृशभेदयुतः स च ।। सप्तधातुद्वयाधारभेदतोऽस्मिन्कलेवरे । यकारादिक्षकारान्ता वर्णास्तद्भेदरूपिणः ।। मकारस्तु समष्ट्यात्मा भोक्तृभोजकरूपवान् । अतः सर्वात्मकस्तारः साक्षात्सर्वेश्वरः स्वयम् ।। सर्वतजानुगश्चैव सर्ववर्णात्मकस्तथा । अपरः प्रकृतेर्यद्वा वाचकोऽकार इप्यते ।। सन्मात्रबीजरूपेण सर्वत्रानुमता हि सा । अकारः सर्ववर्णेषु तथैवेहान्वितः सदा ।। तस्मात्तद्वाचकोऽकारस्तदभिन्नः सदा भवेत् । उन्मुखः स्यादुकारोऽयं तस्य उद्गतसाक्षिणः ॥ व्याप्तेर्बलस्य चाऽऽधिक्यादकारादुद्गतो ह्यसौ । तद्वत्साक्ष्यात्मिका शक्तिः साभासवलसंयुतः ॥ उकारोऽतस्तदात्मा स्यात्तदाभासामृताप्लुतः । मकारो महतो बोधः केवलस्य महात्मनः ।। निराभासमहासंविदानन्दैकस्वरूपिणः । इति शब्दान्तरेभ्योऽयमोंकारः परमो मतः ।। वर्णा वर्णान्तरेभ्यश्च सारभृताः परा मताः । आदिमान्तास्तु ये मत्रास्ते सर्वे प्रणवात्मकाः ।। तेषां तदात्मकत्वेन सर्वात्मत्वं स्वतो न तु" इति । एवं सार्थ मन्त्रराज प्रणवेऽन्तर्भाव्य तेनाऽऽत्मप्रतिपत्तिप्रकारं च संग्रहेणा- भिधाय तदेव विस्तरेण व्याचिख्यासुर्वक्ष्यमाणेऽर्थे श्रोतृणां बुद्धिसमाधानवि- शेषसिद्धये प्रजापतिराह-तस्योपव्याख्यानमिति । तस्योमित्येतस्याक्षरस्योप- व्याख्यानमात्मप्रतिपत्त्युपायतया तत्सामीप्येन व्याख्यानम् । इदानी प्रस्तुत- मिति शेषः । यथाप्रतिज्ञातमुपव्याख्यानमेवानुवर्तयते-भूतमित्यादिना । भृतं भवद्भविष्यदित्येवं कालत्रयपरिच्छिन्नं कार्यजातमित्यर्थः। तच्च द्विविधं स्थूलं मूक्ष्मं चेति । तत्र स्थूलं समष्टिव्यष्ट्यात्मकं विराडूपम् । सूक्ष्मं समष्टिव्यष्टया- त्मकं हिरण्यगर्भरूपम् । तयोरुभयोरपि प्रणवात्मकतामाह-सर्वमोंकार एवेति । ननु भूतं भवद्भविष्यदिति सर्वमकारोकारावेवेनि वक्तव्यं विराइदिरण्यगर्भ- १ प्रथमः खण्डः ] नृसिंहोतातापगोपनिषत् । योर्युत्तरत्राकारोकारात्मत्वमेवोच्यते न तु समस्तप्रणवात्मकत्वम् । अत्रापि भूतं भवद्भविष्यदिति तावेवोक्तो तयोरेव दिकालपरिच्छेदसंभव इति यच्चा- न्यत्रिकालातीतमित्यव्याकृतादेः पृथक्कथनाच्च । यद्येवं तयाँकारैकदेशात्माना- वपि विराइढिरण्यगर्भावुपचारेणोंकारात्मानावित्युक्ताविति चेत् । न । श्रुत्य. थपरित्यागप्रसङ्गात् । तर्हि सामान्येनोंकारमात्रं सर्वमित्युच्यत इति चेत् । यद्येवं तर्हि कालत्रयपरिच्छिन्नं तदपरिच्छिन्नं च सर्वमनूद्य पुनः सर्वमेतदोंकार एवेति वक्तव्यं न तु जगदेकदेशमेवातूयायमोंकार एवायमप्योंकार एवेति वचं- नमुपपन्नम् । सामान्येन च सर्वात्मकमोमित्येतदक्षरमिदं सर्वमिति पूर्वोक्तमिति न पुनर्वचनीयम् । अतो विराइढिरण्यगर्भाव्याकृतसन्मात्रशरीराणां प्रत्येक सर्वात्मकप्रणवात्मत्वमेवात्रोच्यते । नन्वेकस्यैवोंकारस्यैकस्मिन्नेव प्रयोगे कथं सर्वात्मना शरीरचतुष्टयात्मत्वं संभवति । न । एकस्यैव प्रणवस्य वैखर्यादिरू- पेण प्रत्येकं सर्वात्मत्वादिति बुमः । वैखर्यास्तावदक्षररूपिण्या अकारोकारम- कारार्धमात्रप्रणवात्मकत्वं प्रत्यक्षसिद्धम् । मध्यमापश्यन्तीपरारूपप्रणवस्यापि वैखर्याः प्रविभागरूपत्वेन सर्वात्मत्वमभ्युपगन्तव्यम् । एवं सति प्रत्येकं चतू- रूपेण वक्ष्यमाणानां विराडादीनां वाचकत्वं संभवत्योंकारस्य । अकारादी- नामपि चतूरूपाणामेव विराडादिवाचकत्वं वक्ष्यति । विश्वो वैश्वानरश्वतूरूप अकार एवेत्यादिना । अकारादयो हि बीजविन्दुनादशक्तिरूपस्वात्मभेदैर्वा- क्चतुष्टयरूपा एव न हि वैखर्यादिरूपचतुष्टयरहितः शब्द एवास्ति लोके । उक्तं घ वाचश्चतुरात्मत्वमुत्तरोत्तरं सौम्यं च चत्वारि वाक्परिमिता पदानि सानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिना नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति" इति । तस्माद्वैश्वर्यादिरूपस्य प्रणवस्येवोत्तरोत्तरसूक्ष्मस्य तथारूपविराजादिवाचकत्वेन विराडाद्यात्मकत्वमत्रोक्तम् । यावरह्म विष्ठित तावती वागिति च वाक्यान्तरम् । तत्राकारोकारमकारार्धमात्रात्माऽस्मदादि श्रोत्रग्राह्यः क्रियाशक्तिप्रधानो खर्यात्मा तत्प्रधानः प्रणवो विराजो वाचकः। उभयोः खरत्वस्य कठिनत्वस्य साम्यात् । विशेषेण खरत्वाद्धि वैखर्युच्यते । वैखर्युचारणात्पूर्वमकारादिमानाचतुष्टयरूपेगैव मनस्युद्भुतः क्रमादिविशिष्टवर्ण- विमर्शात्मा ज्ञानशक्तिप्रधानो मध्यमा वागात्मा तत्मधानः प्रणवो हिरण्यगर्भ- वाचको मनोरूपत्वसाम्यादुभयोः सा च मध्ये वर्तने चेति हि मध्यमेत्युच्यते । एवं विराड्ढिरण्यगर्भयोवक्ष्यमाणप्रकारेण चतुगत्मनो वैखरीमध्यमारूपचतुर्मा- त्रप्रणवात्मत्वमभिधाय समष्टिव्यष्टिमुषप्तात्मकस्याव्यानस्य समस्तजगद्वाम. - १. मात्राम।

श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[१ प्रथमः खण्डः ] यच्चान्यत्रिकालातीतं तदप्योंकार एव सर्व ह्येत- द्वमायमात्मा. ब्रह्म तमेतमात्मानमोमिति ब्रह्मणैकीकृत्य ब्रह्म चाऽऽत्मनोमित्येकीकृत्य नाविशिष्टतया किंचिदहिर्मुखसदात्मकस्य कारणशरीरस्यान्तर्मुखसदात्मकस्य सामान्यशरीरस्य च ब्रह्मज्ञानात्मनः क्रमेण पश्यन्तीपरावाग्रूपप्रणवरूपता- माह-यच्चान्यत्रिकालातीतं तदप्योंकार एवेति । मध्यमावाग्रूपविशेषज्ञानात्यू- वक्रमवहिर्मुखस्पन्दमात्ररूपसामान्यज्ञानात्मक इच्छाशक्तिप्रधानः पश्यन्त्यात्मा प्रणव उक्तकारणशरीरवाचकः पश्यद्रूपत्वाविशेषात् । परित्यक्तसर्वस्पन्दः केव- लसन्मात्रतया स्थितः स्वानश्यशक्तिः सदात्मा परावाग्रूपप्रणव उक्तरूपसा- मान्यशरीरवाचकः परत्वसामान्यात् । उक्तवाच्यानां चोक्तवाचकव्यतिरेके. णानुपलब्धेः सर्वमोंकार एवेति युक्तम् । ओंकारस्य सर्ववाच्यवाचककल्पनार- हितचिन्मात्ररूपत्वं च यच्चान्यदित्यनेनैवोक्तम् । न हि चिद्रूपत्वं विना प्रण- वस्य बोधकन्वं संभवति । एवमात्मप्रतिपत्त्यर्थमोंकारस्योपव्याख्यानमेकेन प्रकारेण कृत्वा व्याख्यातं वाक्चतुष्टयं प्रणवरूपं सार्थ क्रमेण तत्साक्षिणि ब्रह्मणि प्रणवे विलापितं तावन्मानं भवतीत्याह-सर्वे ह्येतदिति । हिशब्देन तत्राध्यस्तत्वलक्षणो हेतुः सूचितः । एवं त्वंपदार्थ तत्पदार्थपर्यन्तमुपव्याख्या- नेन संशोध्य शुद्धस्य प्रत्यगात्मनो ब्रह्मणैक्यमाह-अयमात्मा ब्रह्मति । उक्त ब्रह्मात्मैक्यं प्रणवन व्यतिहारेण प्रतिपत्तव्यमित्याह-तमेतमात्मानमो- मिति ब्रह्मणकीकृत्य ब्रह्म चाऽऽत्मनोमित्येकीकृत्येति । तमेतं ब्रह्मस्वरूपं प्रत्यगात्मानमिति तदेतच्छब्दयोरर्थः । तत्र प्रथमा प्रतिपत्तिरहं स इति- वाक्यरूपेण प्रणवेन कार्या । तत्राहंशब्दः स्थूलसूक्ष्मप्रधानत्वंपदार्थवाचकः सम्भवस्थात्रयसाक्षिणं प्रत्यगात्मानं लक्षयति । अकारोकारावपि तद्वाचकत्वेन तमेव लक्षयत इति तदात्मकौ तौ । स इति कारणोपाधिप्रधानतत्पदार्थवाचकः संस्तत्साक्षिणं परमात्मानं लक्षयति । मकारोऽपि तद्वाचकत्वेन तमेव लक्षयति । सामानाधिकरण्येन च प्रत्यगात्मनो ब्रह्मणैक्यं प्रतिपत्तव्यम् । द्वितीया तु पति- पत्तिः सोऽहंवाक्यरूपेण प्रणवेन कर्तव्या। सोऽहमित्यस्माद्वाक्यात्सकारहका- रयोरुद्धारे कृते पूर्वरूपे चोमिति प्रणवः संपद्यते । तस्मादोमिति परमात्मवा- चकः स इति हि तस्यार्थः। तच्छब्दश्व कारणोपाधिप्रधानब्रह्मवाचक इति । अहमिति प्रत्यगात्मवाचकः सोहंशब्दात्मको ह्यसौ सामानाधिकरण्येन ब्रह्मणः १ क.. म्बरमात्मा ।

- [१ प्रथमः खण्डः ] नृसिंहोत्तरतापनीयोपनिषत् । तदेकमजरममरममृतमभयमोमित्यनुभूय तस्मिन्निदं सर्व त्रिशरीरमारोप्य तन्मयं हि तदेवेति. संहरेदोमिति तं वा एतं त्रिशरीरमात्मानं त्रिशरीर परं ब्रह्मानुसंध्या- प्रत्यगात्मनक्यं प्रतिपत्तव्यमिति । एवं व्यतिहारेणेंकत्वं प्रतिपाद्यानुज्ञाप्रणवेन परिपूर्णत्वावद्योतकेन परिपूर्ण वाक्यार्थमात्रे पदपदार्थद्वयतदैक्यं प्रति विकल्फ- रहिते स्थितिः कार्या मन्दस्य सम्यग्ज्ञानोदयायेत्याह-तदेकमजरममृतमभय- मोमित्यनुभूयेति । तदके वस्त्येकत्वेन जराहेत्वभावादजरमजरत्वादमृतं सर्व- विकारवर्जितमित्यर्थः । अनोऽभयमिति । आमिति शास्त्राचार्ययुक्तिसिदै- क्यस्य स्वानुभवसिद्धतया सत्यमेवंरूपमेवाऽऽत्मतत्त्वमिति स्वस्य पूर्णत्वाव घोतकेनानुज्ञाप्रणवेनानुभूयेत्यर्थः । अनुभूय तस्मिन्निदं सर्व त्रिशरीरमा. रोप्य संहरोदित्यन्वयः । यद्यवं स्वात्मन्यवस्थितस्य कदाचित्केनचिनिमित्तेन जगत्पतिभासः स्यात्तदा तत्सर्व स्वशरीरत्वेन स्वात्मनि कल्पनीयमित्याह- तस्मिन्निदं सर्वे त्रिशरीरमारोप्येति । तस्मिन्पूर्वोक्ते वाक्यार्थरूपे स्वात्मनि तुरीय इदं सर्व कार्यकारणात्मकं जगत्रिशरीरं स्थूलसूक्ष्मकारणलक्षणं शरीरत्रयं यथा भवति तथाऽऽरोप्येत्यर्थः। अत्र कारणमामान्यशरीरयोरेकत्वं विवक्षित्वा त्रिशरीरत्वमुक्तपित्यवगन्तव्यम् । ईक्षणावस्थं प्रलयावस्थं बहिर्मुखं सदात्मकं कारणं कारणशरीरमुच्यते । तदेव मन्मात्रमन्तर्मुखं साक्ष्येकाकारं ब्रह्मज्ञा- नरूपं सामान्यशरीरमिन्युच्यने । आरोप्य किं तथैव स्थातव्यं नेत्याह- तन्मयं हि तवति संहरदोमिति । यत्तत्सचिदानन्दरूपं तुरीयं ब्रह्म तन्मयं हीदं सर्व पटः सन्पटः संविन्पटः मुखमित्यादिप्रकारेण तदनुगमदर्शनात् । हि यस्मादेवं तस्मिन्नध्यस्तं सर्व तस्मात्तदेवेति युक्तितो निर्धार्यामित्यात्मानं प्रति- पद्य सर्व स्वात्ममात्रतया संहरंदित्यर्थः । आमितितुरीयप्रतिपच्या तत्राध्यस्तं सर्व तावन्मात्रतया विलापयन्मन्द इति भावः । नन्वस्य सर्वस्य कथं त्रिशरीरत्वं कथं वा तुरीय आरोपिनत्वेन नावन्मात्रत्वं कथं वाऽस्योकारोच्चारणमात्रेण तुरीयप्रतिपत्त्या लय इत्याकाङ्क्षायां तत्पनिपादनाय तं वा एनमित्यारभ्येष वीरो नृसिंह एवेत्यन्तो ग्रन्थ आरभ्यते । तत्र तावदस्य सर्वस्य त्रिशरीरत्व. माह-तं वा एतं त्रिशरीरमात्मानं त्रिशरीरं परं ब्रह्मानुमंदध्यादिति । तमिति परमात्मानं परापृश्य वैशब्देन नं स्मारयित्वा स एवायं प्रत्यगात्मेत्याह- एतमिति । एवमात्मनः पारमार्थिक रूपमभिधाय तस्यैव काल्पनिकनिय- : अजरममृतमिति बीकानगाग पाट. ।

19८ श्रीमद्वियारण्यमुनिविरचितदीपिकासमेता-[१प्रथमः खण्डः] स्थूलत्वात्स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्म- भुक्त्वाच्चैक्यादानन्दभोगाच्च सोऽयमात्मा चतुष्पाजागरितस्थानः स्थूलप्रज्ञः सप्तान म्यरूपं शरीरत्रयात्मकं नियंन्तुः शरीरत्रयेणाभिन्न प्रतिपत्तव्यमित्याह-त्रिश- रीरमित्यादिना । स्थूलसूक्ष्मसौषुप्तशरीरैरात्मनस्त्रिशरीरत्वं तदभिमानित्वेनाय- मात्मा विश्वतेजसप्राज्ञनामा भवति । तमेवं त्रिशरीरमात्मानं त्रिशरीरं परं ब्रह्मानुसंदध्यादनुचिन्तयेत् । विराइढिरण्यगर्भाव्याकृतशरीरैर्ब्रह्मणस्त्रिशरी- रत्वम् । तदुपहितं च ब्रह्म वैश्वानरसूत्रेश्वरशब्दरभिलप्यते । यद्यपि नियम्यं सर्व जीवस्य ब्रह्मणश्च शरीरं तथापि समष्टिशरीरत्रये ब्रह्माभिव्यक्त्यतिशया- तत्रयं नियन्तुब्रह्मण इत्युच्यते । नियन्तुर्हि नियम्यमानं शरीरं श्रुतं यस्य सर्वाणि भूतानि शरीरमित्यादिना । जीवस्य च सर्वशरीरत्वं वक्ष्यति सर्वे जीवाः सर्वमया इति । तस्मादीशस्य यथा यस्मिञ्शरीरे स्वातघ्यं तद्वत्तदमि भस्याऽऽत्मनोऽपि तत्र स्वातश्यं परिज्ञातुमेव जीवेश्वरशरीरैक्यमवगन्तव्यम् । स हि प्रतिबोधं वाक्चतुष्टयार्थरूपं शरीरत्रयं सृजति स्थापयति संहरति च । तत्कथमस्यं तत्पारतव्यम् । कथं त्रिशरीरस्यास्य परिच्छिन्नस्यापरिच्छिन्नत्रि- शरीरब्रह्मणैक्यं प्रतिपत्तुं शक्यते । गुणैरित्याह -स्थूलत्वात्स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक्त्वाच्चैक्यादानन्दभोगाचेति । तत्र स्थूलत्वादिति स्थूलवि- राजोपाध्यंशयोरेकत्वे सामान्यम् । स्थूलभुक्त्वादिति विश्ववैश्वानरयो रुपहितयोः । एवमुत्तरयोरपि पदद्वयं योज्यम् । तुरीयस्य तु 'साक्षिणः साक्षित्वादकत्वं द्रष्टव्यम् । वक्ष्यति च साक्षित्वाचेति । एवं व्यष्टि- समष्टयैक्यप्रतिपादनेन सर्वस्यापि जगतस्त्रिशरीरत्वं प्रतिपाद्य प्रणवोच्चार- णमात्रेण सर्वप्रपञ्चलयपूर्वकं तद्विलक्षणे ब्रह्मण्यवस्थानं दर्शयितुं चतुर्मात्रात्म- केन प्रणवेन यथोक्तस्य परापरस्याऽऽत्मन एकत्वं प्रकारान्तरेणापि प्रदर्शयितुं तस्य चतुष्पावं चतुरंशत्वं चाऽऽह-सोऽयमात्मा चतुष्पादिति । सोऽयमिति परापररूप इत्यर्थः । कथं चतुष्पात्त्वमित्याह-जागरितस्थान इत्यादिना । स्थूलविषया प्रज्ञाऽस्येति स्थूलमज्ञः । घोर्मूर्धा चक्षुरादित्योऽग्निर्मुखं प्राणो वायुर्देहमध्यमाकाशो बस्तिः समुद्रः पृथिवी पादाविति सप्ताङ्गान्यस्य नाम- रूपात्मना तब्यापकस्येति सप्ताङ्गः। वाक्श्रोत्रप्राणमनदीनि साधिदैवतानि नामरूपाश्रयक्रियासाराण्येकोनविंशतिसंख्यानि मुखानि चोपलब्धिद्वाराण्यस्ये- १ म. 'येण भि । २ . स्य पार' । ३ ऋ. देश ।

१ प्रथमः खण्डः ] नृसिंहोत्तरतापनीयोपनिषत् । एकोनविंशतिमुखः स्थूलभुक्चतुरात्मा विश्वो वैश्वानरः प्रथमः पादः स्वमस्थानः सूक्ष्म- प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः सूक्ष्मभुः क्चतुरात्मा तैजसो हिरण्यगर्भो द्वितीयः पादो यत्रं सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषप्तं सुषुप्तस्थान एकी- भूतः प्रज्ञानघन एवाऽऽनन्दमयो ह्यानन्दभु- त्येकोनविंशतिमुखः । स्थूलान्विषयान्प्राधान्येन भुङ्क्ते स्वात्मसात्करोतीति स्थूल. भुक् । चत्वार आत्मानोऽस्येति चतुरात्मा। जाग्रदभिमानिनः स्थूलमूक्ष्मकारण- साक्षिलक्षणाश्चत्वार आत्मानः प्रसिद्धाः । अन्यथा व्यवहारायोगाच्च । विश्वो वैश्वानर इति समष्टिव्यष्टयात्मनोरेकत्वमुक्तम् । प्रथमः पादः । एतत्पूर्वकत्वा- दुत्तरपादाधिगमस्य संहारक्रमे । सूक्ष्मप्रज्ञ इति । सूक्ष्मरूपवासनाविषयाऽस्य प्रक्षेति । अङ्गमुखयोरपि वासनारूपत्वमेवात्र बोद्धव्यम् । स्वमेऽपि वासनाम- ययोः स्थूलसूक्ष्मयोः प्रतीयमानत्वाच्चतरूपत्वं न विरुध्यते । त्रिष्वपि स्थानेषु तत्त्वामतिबोधलक्षणस्य स्वापस्य तुल्यत्वात् । पूर्वाभ्यां सुषुप्तं विभजते- यत्र सुप्त इति । प्राप्तविषयभोगकाले कस्यापि कामस्याभावात्तत्कालव्यात्त्यर्थ: माह-न कंचन स्वममिति । स्वप्नशब्देनान्यथाग्रहणमात्रं विवक्षितम् । यंत्र न कंचन स्वप्नं पश्यतीत्येवोक्ते कामकालेऽपि विषयान्यथाभावलक्षणस्य स्वमदर्शन- स्याभावात्तच्यावृत्त्यर्थं यत्र सुप्तो न कंचन कामं कामयत इत्युक्तम् । तृतीयं पाद- माह-सुषुप्तस्थान इत्यादिना । असत्कार्यवादस्यायुक्तत्वाद्विद्यमानमप्यत्र सप्ताङ्ग- त्वमेकोनविंशतिमुखत्वं च न पृथक्सन्मात्राद्विभाव्यत इत्याह-एकीभूत इति । किमात्मकोऽसावकीभाव इत्याकाझायां सन्मात्ररूपप्रज्ञात्मक इत्याह-प्रज्ञानधन एवेति । जाग्रदादिप्रज्ञासविषयकीभूतेयमवस्थेत्यर्थः । अत एव विशेषविज्ञानाया- साभावादानन्दमय आनन्दपायो नाऽऽनन्द एव । दुःखबीजस्य विद्यमानत्वात् । अनेन सच्चिदानन्दाभासग्रस्तान्तर्मुखसन्मा न्मात्ररूपब्रह्मज्ञानात्मकसामान्यशरीरम- वेशोपायः प्रदर्शितः । विश्वतेज्सयारिवास्यापि भोग्यमाह-आनन्दभुगिति । विषयदर्शनव्यग्रतया हीतरयोर स्थियोः परमानन्दानुभवाभावः। ततोऽत्र तद- भावात्स्वाभाविकपरमानन्दभोग उपपन्नः । प्रज्ञानघनरूपोऽयं सौपुप्त आत्मेति १ ग. छ. “स्थानोऽन्तःम । २ छ. मुश्मः । ३ म. 'नन्दभा।

श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[१प्रथमः खण्डः] क्चेतोमुखश्चतुरात्मा प्राज्ञ ईश्वरस्तृतीयः पाद एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तयाम्यष यानिः सर्वस्य प्रभवाप्ययौ हि भूतानां त्रयमप्येतत्सु- षप्तं स्वप्नं मायामात्रं चिदेकरसो ह्ययमात्माऽथ चतुर्थश्चतुरात्मा तुरीयावसितत्वादेकैकंस्योतानु- ज्ञात्रनुज्ञाविकल्पैस्वयमत्रापि सुषुप्तं स्वप्नं माया- कथमवगम्यत इति चेत्स्वम जाग्रत्प्रज्ञाकारणत्वादित्याह-चेतोमुख इति । जाग्रदाद्यवस्थाचेतसां कारणभूत इत्यर्थः । स्थूलसूक्ष्मयोरपि धनरूपेण विद्य- मानत्वादस्यापि चतूरूपत्वं स्यान ह्यसतः संभव उपपन्नः । तत्र सर्व घनीभूतं विद्यते चेत्किमिति सर्व न जानातीति चेयेन सन्मात्ररूपेण सर्वस्यापि विद्य- मानत्वं तदात्मना सर्व जानात्यवेत्याह-प्राज्ञ इति । प्राज्ञस्य समष्ट्यभिमानि- नैक्यमाह-ईश्वर इति । सर्वेश्वरत्वादिकमपि धर्मजातं सापेक्षत्वात्सवीजस्यैव प्राज्ञस्य संभवति न तु बीजस्य तुरीयस्येत्यत आह -एष सर्वेश्वर इत्यादि । सर्वयोनित्वे हेतुमाह-प्रभवाप्ययो हि भूतानामिति । एवं पादत्रयमात्मन्या- रोप्य तस्याज्ञानमिथ्याज्ञानरूपत्वेनावस्तुत्वमाह-त्रयमप्येतत्सुषुप्तं स्वममिति । जाग्रदादिकमेतत्रयमपि सुषुप्तं न ह्यत्र किंचिदपि वस्तु ज्ञायते तत्त्वेन मूरैः स्वमरूपं चैतत्रयम् । अन्यथाज्ञानरूपत्वात् । तात्पर्यमाह-मायामात्रमिति । तत्र हेतुमाह-चिदेकरसो ह्ययमात्मेति । न हि चिदेकरसस्याऽऽत्मनो माया- व्यतिरेकेणोक्तवैचित्र्यं संभवतीत्यर्थः । तुरीयपादस्यापि सोपक्रमं चतुरूपत्व- माह-अथ चतुर्थश्चतुरात्मेति । चतुर्णामप्यात्मनां कथं तुरीयत्वं संभवतीत्यत आह-तुरीयावसितत्वादेकैकस्येति । एकैकस्य रूपस्येत्यर्थः । के रूपैस्तुरीयस्य चतूरूपत्वमित्यत आह--ओनानुज्ञात्रनुज्ञाविकल्पैरिति । अविकल्पैरिति च्छेदः।ओतादीनां स्वरूपमुत्तरत्र वक्ष्यति । ननु चतूरूपत्वे तुरीयस्यानेकरसत्वं स्यादिति चेत्र रूपत्रयस्य कारण एवान्तर्भावादित्याह-त्रयमत्रापीत्या- दिना । अत्रापि तुरीयपादे त्रयमोतानुज्ञात्रनुज्ञालक्षणं सुषुप्तं स्वामित्युक्तार्थम् । अयं भावः । सच्चिदानन्दरूपस्य कारणसाक्षिणः सदादिरूपैः कारणव्याप्ति- चिन्तनमोतयोगो नाम । तेन व्याप्तस्य कारणस्य स्वतःसत्ताद्यभावात्तदधीन- सत्ताप्रकाशन्वेन तस्मिन्नध्यस्तं तदिति चिन्तनमनुज्ञातृयोगो नाम । तस्मिन्नध्य- १ ग. घ... 'यमेव [१ प्रथमः खण्डः] नृसिंहोत्तरतापनायोपरित् । मात्रं चिदेकरसो यथायमादेशो न स्थूलप्रज्ञं न सूक्ष्मप्रशं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञा- नघनमदृष्टमव्यवहार्यमग्राद्यमलक्षणमचिन्यमव्य- पदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवं शान्त- मद्वैतं चतुर्थ मन्यन्ते स एवाऽऽत्मा स विज्ञेय .स्तत्वात्तावन्मात्रमेतदिति चिन्तनमनुज्ञायोगो नाम । एतच्च योगत्रयमोतानुज्ञा- त्रनुज्ञारूपेण विभक्तेन प्रणवेन कार्यम् । ओतमित्यत्र तकारे लुप्ते सत्योमिति भवति । तस्मादोतशब्द एवायोकारः। तस्मादोतत्वगुणविशिष्टं ब्रह्मानेन प्रतिपत्तुं शक्यम् । अनुज्ञातृत्वानुज्ञात्वयोरप्योंकारे प्रसिद्धत्वात्तद्गुणविशिष्टमपि ब्रह्मानेनैवाविभक्तेन तुरीयेण प्रतिपत्तुं शक्यते । एतच्च योगत्रयं कारणप्रतिप- त्यपेक्ष्यमिति कारण एवान्तर्भवतीति त्रयमप्येतत्सुषुप्तं स्वमं मायामात्रमित्यु- क्तम् । तुरीयप्रधानत्वाचास्य योगत्रयस्य कारणसंहारकस्य तुरीयेऽप्यन्तीवो विद्यते तुरीयप्रधाना हि तदा बुद्धिवृत्तिर्भवति । ततस्तुरीयपादरूपत्वमपि न विरुध्यत इति । एवं तुरीयपादत्रयस्य मिथ्यात्वमभिधाय पारमार्थिकं तुरी- यस्य चतुर्थं रूपं निर्विशेषमिति विशेषप्रतिषेधमुखेनैवोपदेष्टुं शक्यत इत्याह- अथायमादेश इति । न स्थूलप्रज्ञमिति जाग्रदवस्थातदभिमानितद्भेदानां निषेधः। न सूक्ष्मप्रज्ञमिति स्वमादेः। नोभयतःप्रज्ञमिति जाग्रत्स्वमयोमध्यस्थस्य । न प्रज्ञमिति सामान्यज्ञानस्य । नाप्रशमित्यचेतनत्वस्य । न प्रज्ञानघनमिति सुपता- वस्थादेरतोऽदृष्टं चक्षुषा । कर्मेन्द्रियैरप्यव्यवहार्यम् । श्रोत्रादिभिरप्यग्राह्यम् । अतोऽलक्षणमलिङ्गमननुमेयमित्यर्थः । केवलमनसाऽप्यचिन्त्यम् । अतः शब्दैर- व्यपदेश्यम् । प्रमाणाभावानास्ति तर्हि तदिति चेन्नेत्याह-एकात्मप्रत्ययसार- मिति । जाग्रदादिष्वेकोऽयमात्मेत्यव्यभिचारी सर्वमाणिनां सूक्ष्मः स्वाभा- विकोऽकृत्रिमः प्रत्ययः सततोदितस्तेन सारं सरणीयं तत्साधकत्वेन तदविषयतयाऽनुसरणीयं तत्प्रमाणकमित्यर्थः । तथाऽपि प्रपञ्चोपशममुपशान्त- प्रपञ्चम् । अतः शिवं निरुपद्रवमुखरूपम् । अतः शान्तमविक्रियम् । अविक्रि- यत्वादिधर्मकत्वमपि नास्तीत्याह-अद्वैतमिति । इत्येवं तुरीयपादस्य चतुर्थ रूपं मन्यन्ते ब्रह्मविदः । एवं सर्वविशेपविनिर्मुक्तं ब्रह्मात्मानमुपदिश्य मुमुक्षु तज्ज्ञान एवं नियमयति-स एवाऽऽत्मा स विज्ञेय इति । नन्वीश्वर एव १ क. ग. घ. द. णमनिहम । २. 'दि ।

४२ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेटा-[२द्वितीयः खण्डः] ईश्वरपासस्तुरीयतुरीयः ॥१॥ इत्यथर्ववेदान्तर्गतनृसिंहोत्तरतापनीयषष्ठोपनिषदि प्रथमः खण्डः ॥ १॥ तं वा एतमात्मानं जाग्रत्यस्वप्नमसुषुप्तं स्वप्रेऽजाग्र- तमसुषुप्तं सुषुप्तेऽजाग्रतमस्वप्नं तुरीयऽजाग्रतमस्व- प्रमसुषप्तमव्यभिचारिणं नित्यानन्तसदेकरसं ह्येवं विज्ञेयो नाऽऽत्मेत्याशङ्कयेश्वरस्यापि कारणात्मनः संहारकोऽयं ब्रह्मरूप आत्मा तस्मात्स एव परमेश्वरो ज्ञेय इत्याह-ईश्वरग्रास इति । ईश्वरमपि कारणात्मानं स्वासाधारणत्यारूढः सन्ग्रसतीतीश्वरग्रासः। यस्मात्तुरीयतुरीय ईश्वरमपि ग्रसति तस्मात्तस्यैवाऽऽत्मशब्दयोग्यता । तस्मात्स एवाऽऽत्मा तस्मात्स एव विज्ञेयस्तदनुभवार्थमेव प्रयत्नोऽनुष्ठेय इत्यर्थः ॥ १ ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छंकरानन्दपूज्यपादशिष्यश्री- मद्विद्यारण्यमुनीश्वरकृतौ श्रीनृसिंहोत्तरतापनीये षष्ठोपनिषदि Pr-am-main प्रथमः खण्डः ॥ १ ॥ यदुक्तं त्रयमप्येतत्सुषुप्तं स्वमं मायामात्रमिति तत्संग्रहेण चिदेकरसो हीत्यु- पपादितम् । पुनरपि सहेतुकस्य तस्यैव विस्तरेण प्रतिपादनाय मात्रापा- दैक्यं प्रदर्य प्रणवोच्चारणेन सर्वसंहारपूर्वकं विदुषस्तुरीयमात्ररूपत्वप्रदर्शनाय खण्डान्तरारम्भः-तं वा एतमिति । तत्र प्रथममागमापायितदवध्यन्वयव्य. तिरेकमाश्रित्यावस्थात्रयस्य व्यभिचारित्वेनाव्यभिचारिण्यात्मनि कल्पितत्व- माह-तमित्यादिना । तमित्युक्तं तुरीयं परामृशति । एतमित्यस्यैवावस्थात्र- यानुगतिं दर्शयत्यव्यभिचारित्वोपपादनाय । अथ जाग्रदादित्रयस्येतरेतरव्य- भिचारित्वं तुरीये सर्वव्यभिचारं च साधयति-जाग्रत्यस्वममसुषुप्तमित्यारभ्य तुरीयेऽजाग्रतमस्वमममुषुप्तमित्यन्तेन । चतुष्पादं मात्राभिरोंकारेण चैकी कुर्यादि- त्युत्तरत्र द्वितीयान्तानां सर्वेषां पहानामन्वयः । आत्मनस्त्वनात्मवन्न व्यभि- चारः सर्वकल्पनाधिष्ठानत्वेन सर्ववाधावधित्वेन चेत्याह-अव्यभिचारिण- मिति । उक्तान्वयव्यतिरेकफलमाह-नित्यानन्तसदेकरसं ह्येवमिति । एवं सति नित्यत्वमानन्त्यं परमार्थसत्त्वं चाऽऽत्मनः सिद्धमित्यर्थः । अवस्थात्रयानु- गमानित्यत्वम् । तथ्यापकत्वादानन्त्यम् । व्यभिचारित्वेन कल्पितस्यासतः पर- मार्थसद्भूपाधिष्ठानापेक्षत्वात्सत्त्वम् । कल्पितस्याधिष्ठानव्यतिरेकेणाभावादेकर- १ क. स. छ. नन्दं स । ग. नन्दस' २ क, ग. घ. छ. सदैक ।

८३ [२ द्वितीयः खण्डः] नृसिंहोत्तरवापनीयोपनिषत् । चक्षुषो द्रष्टा श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो द्रष्टा बुद्धद्रष्टा प्राणस्य द्रष्टा तमसो द्रष्टा सर्वस्य द्रष्टा ततः सर्वस्मादस्मादन्यो विलक्षणश्चक्षुषः साक्षी श्रोत्रस्य साक्षी वाचः साक्षी मनसः साक्षी बुद्धेः साक्षी प्राणस्य साक्षी तमसः साक्षी सर्वस्य साक्षी ततोऽविक्रियो महाचैतन्योऽस्मात्सर्वस्मा- प्रियतम आनन्दघनं ह्येवमस्मात्सर्वस्मात्पुरतः सुविभातमेकरसमेवाजरममरममृतमभयं ब्रह्मैवा- सत्वम् । अथ द्रष्टदृश्यान्वयव्यतिरेकमाह-चक्षुषो द्रष्टेत्यारभ्य सर्वस्य द्रष्टे- त्यन्तेन । चक्षुःश्रोत्राभ्यां रूपनामविषयाभ्यामवशिष्टमपि ज्ञानेन्द्रियत्रयं गृह्णाति । वाचा शब्दनिर्वतिकयाऽवशिष्टमपि कर्मेन्द्रियग्रहणम् । ज्ञानक्रियाश- क्तिसमष्टिरूपाभ्यां मनःप्राणाभ्यां तदृत्तिग्रहणम् । तम इति कारणमुक्तम् । उक्तानुक्तविषयद्रष्टुत्वं संक्षिप्याऽऽह-सर्वस्येति । उक्तान्वयव्यतिरेकफलमाह- ततः सर्वस्मादिति । ततो द्रष्टत्वेन सर्वत्रान्वयाव्यभिचारिणो दृश्यादन्यत्वम् । तस्माद्वैलक्षण्यं चाऽऽत्मनो घटद्रष्टवसिमित्यर्थः । प्रथमान्तानां चैषां पदानां द्वितीयान्तत्वेन परिणतानामुत्तरत्रैवान्वयः । अथ साक्षिसा- क्ष्यान्वयव्यतिरेकमाह-चक्षुषः साक्षीत्यारभ्य सर्वस्य साक्षीत्यन्तैन । अस्या- न्वयव्यतिरेकस्य फलमाह-ततोऽविक्रियो महाचैतन्य इति । ततः सर्वसाक्षि- त्वेनाविक्रियत्वं महत्त्वं चिदूपत्वं च सिद्धमित्यर्थः । दुःखिपरमप्रेमास्पदान्वय- व्यतिरेकमाह---अस्मात्सर्वस्मात्प्रियतम इति । अस्मात्पुत्रवित्तादेश्वभुःश्रोत्रा- देश्च प्रियतमस्तच्छेपत्वेन हि तेषां प्रियत्वं न स्वतः। आत्मनस्तु स्वत एव पियत्वम् । अतः परमप्रेमास्पदखात्परमानन्दरूपोऽयमात्मेति । अस्यान्वयव्य- तिरेकस्य फलमाह-आनन्दघनं ह्येवमिति । द्वितीयाया उक्त एवान्वयः। एवम- न्वयव्यतिरेकचतुष्टयेन सच्चिदानन्दानन्तात्मरूपत्वं प्रसाध्य सच्चिदाभेदेनानेक- रसत्वमाशङ्कय तद्वयुदासार्थमाह-अस्मात्सर्वस्मात्पुरतःमुविभातमेकरसमेवेति। अस्मात्सच्चिदादिवाच्यभेदप्रत्ययात्पुरतः पूर्वमेव मुष्ठ विस्पष्टं तद्भदसाक्षित्वेन भातीत्यनृतादिविरुद्धरूप आत्मा तथोक्तः । तत्फलमाह-एकरसमेवेति । एवं ब्रह्मलक्षणलक्षितत्वाब्रह्मैवायमात्मेत्याह-अजरममरममृतमभयं ब्रह्मैवेति । अम- रमित्येकदेशनाशप्रतिषेधः । अमृनमिति सर्वनाशनिषेधः । तस्मादभयं ब्रह्म - ८४ श्रीमद्वियारण्यमुनिविरचितदीपिकासमेता-२द्वितीयः खण्डः] प्यजयैनं चतुष्पादं मात्राभिरोंकारेण चैकी कुर्याजागरितस्थानश्चतुरात्मा; विश्वो वैश्वा- नरश्चतूरूपोऽकार एव चतूरूपो ह्ययमकारः स्थूलमूक्ष्मबीजसाक्षिभिरकाररूपैराप्तेरादिमत्त्वा- दा स्थूलत्वात्सूक्ष्मत्वाद्वीजत्वात्साक्षित्वाचाऽऽ- मोति ह वा इदं ...सर्वमादिश्च भवति य एवं वेद स्वप्रस्थानश्चतुरात्मा तैजसो हिर- ण्यगर्भश्चतरूप उकार एव चतृरूपो ह्यय- तदेवायमात्मेत्यर्थः । कथं तर्हि तस्य चतुष्पात्त्वमुक्तमिति । अनाद्यविद्याकल्पितं तदित्याह-अप्यजयैनं चतुष्पादमिति । ब्रह्मस्वरूपमप्येनमजयाऽनाद्यविद्यया मायया चतुष्पादम् । किमित्याह-मात्राभिरोंकारेण चैकी कुर्यादिति। मात्रा अकारायाः। ओंकारस्तास्वनुगत ओतानुज्ञात्रनुज्ञाविकल्परूपः। कस्य पादस्य कया मात्रयैक्यमित्याह-जागरितस्थान इत्यादिना । जागरितस्थानश्चतुरात्मा विश्वो वैश्वानर इत्युक्तानुवादः । तस्य वैखर्यादिभेदेन चतुरात्मनाकारेणैक्यमाह- चतरूपोऽकार एवेति । अकारस्य चतूरूपत्वमसिद्धमिति नेत्याह---चतूरूपो ह्ययमकार इति । कथं प्रसिद्धिरपीत्यत आह-स्थलसक्ष्मवीजसाक्षिभिरकाररू- रिति । स्थूलादिविमर्शरूपवैखरीमध्यमापश्यन्तीपरारूपवीजबिन्दुनादशक्तिभि- रकाररूपैरित्यर्थः। केन सामान्येनाकारविराडात्मनोरेकलं निर्णीयत इत्याह- आप्तेरादिमत्वादेति । अकारस्य तावत्सर्ववर्णव्याप्तिः प्रसिद्धा । विराजश्च विश्व- रूपात्मत्वेन व्याप्तिः सिदैव । तेन व्याप्तिसामान्येन तावदेकत्वं प्रतिपत्तुं शक्यते नामरूपात्मनारकारविराजोः स्थूलविमर्शप्रकाशात्मनोरादिमत्त्वाद्वा सामान्यात्तयोरक्यं फलविशेषकामस्य प्रतिपत्तव्यम् । मात्राणामादिरकारो विश्वश्च पादानाम् । एवं विश्वाकारयोः सामान्यनैकत्वं प्रति साम्यद्वयमभिधाय विशेषेण रूपचतुष्टयैकत्वप्रतिपत्तावपि सामान्यानि क्रमेणाऽऽह-स्थूलत्वादि- त्यादिना । वाचकं हि वैखर्यादिकं स्थूलादिविमर्शरूपं तद्वदेव स्थूलादिरूपम- भ्युपगन्तव्यमित्यभिप्रायः । एवंविदोऽवान्तरफलमाह--आमोति ह वा इत्या- दिना । परमफलं हि स्वरूपावस्थानमेव पादादिकल्पनायाः। आनोति प्रामोति ह वा एव । इदं मर्व भोग्यजातम् । आदिः प्रधानं च भवनि । एवमुक्तमेकत्वं [२ द्वितीयः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । मुकारः स्थूलसूक्ष्मबीजसाक्षिभिरुकाररूपेरुक- दुभयत्वाद्दा स्थूलत्वात्सूक्ष्मत्वाद्वीजत्वात्सा- क्षित्वाच्चोत्कर्षति ह वै ज्ञानसंततिं समानश्च भवति य एवं वेद सुषुप्तस्थानश्चनुरात्मा प्राज्ञ ईश्वरश्चतूरूपो मकार एव चतूरूपो ह्ययं मकारः स्थूलसूक्ष्मबीजसाक्षिभिर्मकाररूपैर्मि- तेरपीतेर्वा म्थूलत्वात्सूक्ष्मत्वाद्वीजत्वात्साक्षि- त्वाच्च मिनोति ह वा इदं सर्वमपीतिश्च वेद । स्वमस्थान इत्यादिना तैजसोकारतदपाणमिकत्वमाह--उत्कर्षादुभयत्वा- द्वेति । तैजसोकारयोः सामान्येनैकत्वप्रतिपत्तो कारणद्वयमुक्तम् । अकारादुत्कृष्ट ऊर्ध्वमाकृष्ट इव ह्यु कारः प्रणवोच्चारणे दृश्यते । तेजमश्च विश्वात्स्वमादिष्वकारा- दुत्कृष्ट उत्तमो वोकारो व्याप्त्यतिशयात् । बलातिशयाच्च । अकारस्थानं कण्ठं व्याप्यातिक्रम्यौष्ठस्थाने हि स्थितस्याभिव्यक्तिः। ततोऽकारादपि व्याप्तत्वे- नोत्तम उकारो विराज इव हिरण्यगर्भः। वलातिशयवत्वं च खरप्रयत्नव्याय- त्वात्प्रणवस्थोकारस्य मन्दप्रयत्नव्यायमकारमपेक्ष्य भवति । उभयत्वं च पध्य- त्वमुभयोः समानम् । एवंविदः फलमाह-उत्कर्षति ह वै ज्ञानसंततिं समानश्च भवति य एवं वेदेति । उत्कर्षयति वर्धयतीत्यर्थः । समानस्तुल्यो भवति शत्रु पक्षस्याप्यप्रद्वेप्यो भवतीत्यर्थः । सुपुप्त इत्यादिना प्राज्ञमकारयोरेकत्वमाह । मितेरपीतेर्वेत्येकत्वे सामान्यकथनम् । मितिर्मानं मीयेते इत्र हि विश्वतैजसो प्राज्ञेन प्रलयोत्पत्त्योः प्रवेशनिर्गमाभ्यां प्रस्थेनेव यवास्तथाकारसमाप्तौ पुनः पुनः प्रयोगे च प्रविश्य निर्गताविवाकारोकारी मकारेऽपीतिरप्यय एकी- भावः । ओंकारोच्चारणेऽन्त्येऽक्षर एकीभूताविवाकारोकारौ तथा सुषुप्ते माझे विश्वजिसौ । एवंविदः फलमाह--मिनीतीत्यादिना । मिनोतीति जाग्र- दादियाथात्म्यं जानातीत्यर्थः । अपीतिश्च भवति । प्रतिज्ञातं पादत्रयस्य मात्रात्रयस्य च स्वात्मन एवोत्पत्तिं स्वात्मन्येव स्थितिं लयं च स्वात्मनस्तत्प्रवेशित्वं तनियन्तृत्वं च जानाति । एवंविदकार- स्योक्तरूपविराड्वाचकत्वेन तदुच्चारणकाले तजन्यवृत्त्यारुढं विराजं संचिन्त्या- जगत्कारणात्मा १ ट. व्यासानि'। . ट. 'गइभावक ।

८६ श्रीमद्विद्यारण्यमुनिपिरचितदीपिकासमेता-[२द्वितीयः खण्डः] भवति य एवं वेद मात्रा मात्राः प्रतिमात्राः कुर्यादथ तुरीय ईश्वरग्रासः स्वराट्स्वयमी- श्वरः स्वप्रकाशश्चतुरात्मोतानुज्ञात्रनुज्ञाविकल्पै- रोतो ह्ययमात्मा यथेदं सर्वमन्तकाले काला- मिसूर्य उरनुज्ञाता ह्ययमात्माऽस्य सर्वस्य - कारोचारणसमये तदृत्यारूढं हिरण्यगर्भ विराजोऽपि कारणभूतं चिन्तयन्वि- राजं तावन्मात्रतया विलाप्य मकारोच्चारणकाले तवृत्त्यारूढं कारणात्मानमी- श्वरं संचिन्त्य हिरण्यगर्भ तावन्मात्रतया संहत्य स्वयमीश्वरात्मा भवेदित्याह मात्रा मात्राः प्रतिमात्राः कुर्यादिति। मात्रा अकाराद्याः प्रतिमात्रा उकाराद्याः। अकारस्य प्रतिमात्रोकारस्तत्मातिलोम्येन तत्संहारकत्वेन स्थितत्वादुकारस्य मकारः प्रतिमात्रा मकारस्य सुरीयः प्रणवः प्रतिमात्रा । अथेश्वररूपकारणसं- हारार्थ तुरीयं पादं मत्वाऽऽह-अथ तुरीय इत्यादिना । ईश्वरं कारणात्मानं असतीतीश्वरग्रासः । ननु तमप्यन्यो ग्रसिष्यतीति न तत्प्राप्तिरपि पुरुषार्थ इति चेन तद्भसनसमर्थस्यान्यस्याभावादित्याह-स्वराडिति । नन्वीश्वरग्रासेऽ. नीश्वरोऽसमर्थः स्यादिति नेत्याह-स्वयमीश्वर इति । सापेक्ष्यं हीतरस्येश्वर- स्यैश्वर्यमतोऽनीश्वर एव सः । अयं तु तुरीयः स्वयमेवेशितव्यमनपेक्ष्यैवेश्वरः स्वतत्र इत्यर्थः । न ह्यस्य सच्चिदानन्दरूपस्य नित्यस्य तुरीयस्य . सत्तायां स्फूर्ती पुरुषार्थत्वे वा किंचिदपेक्ष्यमस्तीति स्वातन्त्र्यमस्य सिद्धम् । तत्साधकं किमपि प्रमाणमपेक्षणीयमिति चेन्न स्वप्रकाशत्वादित्याह-स्वप्रकाश इति । तुरीयस्यापि विश्वादिवचतूरूपत्वमुक्तमनुवदति प्रतिपादयितुम् । चतुरात्मो- तानुज्ञात्रनुज्ञाविकल्पैरिति । तत्रोतत्वं व्यापकत्वं सदृष्टान्तमुपपादयति-ओतो हीत्यादिना । यथा कालाग्निसूर्यो प्रलयकाले स्वात्ममात्रतया सर्व संहर्तुं प्र- तावुखैः स्वदीप्तिभिः सर्व बाह्याभ्यन्तरं व्यामृतस्तद्वत्तुरीयात्मा सच्चिद्रश्मिभ्यां कारणं स्वात्ममात्रतया सर्व संहर्तु व्यामोतीत्यर्थः । अनुज्ञातृत्वमप्युपपादयति- अनुज्ञाता हीति । कस्य किमनुजानातीत्यत आह-अस्येति । इदं हि सर्व सच्चिद्रूपेणोक्तत्वात्तव्यतिरेकेण निरात्मकम् । निरूपणायां व्यवहारे च घटसं- विद्घटसत्तेत्यादिप्रकारेण स्वतः सात्मकमिव भाति । न च स्वतः सदादि- रूपेणाऽऽत्मना स्वात्मापदाने तस्यैवं भानं संभवति । ततस्तदपेक्षितं स्वात्मानं ददाति यथा रज्जुः सर्पस्येत्यर्थः । तहि तुरीयस्यानात्मत्वप्रसक्तिरिति चेद्यतो ८७ [२ द्वितीयः खण्डः] नृसिंहोत्तरतापनीय पनिषत् । स्वात्मानं ददातीदं सर्व स्वात्मानमेव करोति यथा तमः सविताऽनुज्ञैकरसो ह्ययमात्मा चिद्रूप एवं एवं यथा दाजु दग्ध्वाऽग्निरविकल्पो ह्ययमात्माऽवाङ्मनो- गोचरत्वाचिद्रूपश्चतूरूप ओंकार एव चतू- रूपो ह्ययमोंकार ओतानुज्ञात्रनुज्ञाविकल्पै- रोंकाररूपैरात्मैव नामरूपात्मकं हीदं सर्व न तथाऽऽत्मानं ददातीत्याह-इदं सर्व स्वात्मानमेव करोतीति । स्वात्मन्य- ध्यस्ततया स्वात्मनों स्वात्मकमवभासयतीत्यर्थः । तत्र दृष्टान्तमाह-यथा समः सवितेति । यथा नक्तंशा सवितर्यध्यस्तं तमः सविता स्वात्ममात्र- मेव करोति तद्वदित्यर्थः । अनुज्ञात्वमुपपादयति-अनुकरस इति । किं सदनु करसत्वमिति तदाह-चिद्रूप एवेति । दृष्टान्तमाह-यथेति । यथा खलु प्रकृतः कालाग्निः सर्व दाह्यं दग्ध्वा स्वयं निर्विशेषो भवति एवं स्वात्म- न्यध्यस्तं कारणं स्वात्मतावन्मात्रमिति बुद्ध्वाऽऽत्मा चिदेकरसो भवतीति नानुज्ञातृत्वमस्ति किं त्वनुज्ञात्वं चिन्मात्रमेवास्य विद्यत इत्यर्थः । अवि- कल्परूपत्वमुपपादयति-अविकल्पो हीति। तत्र हेतुमाह--अवाअनोगोचरत्वा- दिति । किंरूपोऽसावविकल्प आत्मेति तदाह-चिद्रूप इति। एवं तुरीयस्याऽs- त्मनश्चतूरूपत्वमुपपाद्य तस्य चतूरूपेण तुरीयपणवेनैक्यमाह-चतूरूप ओंकार एवेति । ओंकारस्य चतूरूपत्वमसिद्धमिति नेत्याह-चतरूपो ह्ययमोंकार इति । कै रूपेश्चतूरूपत्वमित्यत आह-ओतानुज्ञात्रनुज्ञाविकल्पैरोंकाररूपैरिति । आत्मनो [क्तप्रकारेणोतादिरूपत्वं संभवति । ओंकारस्य तु कथमोतादिरूपत्वमि- त्याशङ्कयाऽऽत्मनश्चतूरूपत्ववत्तद्वाचकस्योंकारस्य तदभ्युपगन्तव्यमित्याह- आत्मैवेति। आत्मवदोंकारोऽप्योतादिभिश्चतुरात्मेत्यर्थः । अस्तुक्तप्रकारेणाऽऽ- त्मनस्तुरीयस्य चतूरूपत्वं तद्वाचकस्य तु मा भूदिति चेन्न । वाचकस्य चतूरूप- त्वाभावे वाच्यस्य चतूरूपत्वप्रत्यवमर्शानुपपत्तस्तदभावप्रसङ्गात्तद्विमर्श तु स एव विमर्शो वाचकः । ओंकार इत्योंकारस्यापि नाम्नो रूपात्मकवाच्यवच्चतूरू. पत्वं सिद्धमित्याह-नामरूपात्मकं हीदं सर्वमिति । नामरूपयोः परस्परावि- नाभावादेकस्य चतुरात्मत्वे सिद्धेऽन्यस्यापि तत्सिद्धमेवेत्यर्थः। एवं वाच्यषा- . १ क. दर्शयती । २ ग. घ. दाति यदि ममिद दर्शयति स्वा' । ३ छ. अ. 'ना मात्म।

८८ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[२द्वितीयः खण्डः] तुरीयत्वाचिद्रूपत्वादोतत्वादनुज्ञातृत्वादनुज्ञात्वा- दविकल्परूपत्वाचाविकल्परूपं हदि सर्व नैव । तत्र काचन भिंदाऽस्त्यथ तस्यायमादेशोऽ- मात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽ- दैत ओंकार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेदेष वीरो नारसिंहेन वाऽनुष्टुभा मन्त्रराजेन तुरीयं विद्यादेष द्यात्मानं प्रकाशयति चकयोश्चातुर्विध्यमुपपाद्य तयारक्ये सामान्यद्वयमाह-तुरीयत्वाच्चिद्रूपत्वाद्वेति । रूपाणामक्ये सामान्यान्याह-ओतत्वादित्यादिना । ओतादिरूपाणि क्रमे- णाविकल्पे विलापनीयानीत्याई- अविकल्परूपं हीदं सर्वमिति । पूर्वत्र प्राप्तो वाच्यवाचकरूपो भेदो विकल्पो नास्तीत्याह-नैव तत्र काचन भिदाऽस्तीति । न चेत्तत्र वाचकभेदाऽस्ति कथं तर्हि तस्योपदेश इत्यन्यनिषेधमुखेनेत्याह- अथ तस्यायमादेश इति । पूर्वमपि निषेधमुखेन तुरीयोपदेशप्रकार उक्तः । तत्र वाच्यातिपेधप्राधान्येनोपदेश इह तु वाचकनिषेधप्राधान्यनेति विशेषः। उप- देशप्रकारमाह-अमात्र इत्यादिना । अमात्रो मात्रा अस्य न विद्यन्त इत्य- मात्रः । चतुर्थस्तुरीय ओंकारोऽत्र विशेष्यतेऽमात्रादिविशेषणेरमात्रत्वादनुच्चार्य इत्याह-अव्यवहार्य इति । कुतोऽमात्र इत्युपशान्तवाच्यवाचकमपश्चत्वादि- त्याह-प्रपञ्चोपशम इति । अत एव शिवः । अव्यवहार्यत्वादिधर्मोऽप्यस्य नास्तीत्याह-अद्वैत इति । यस्मादेवंविधोऽयमोंकारस्तस्मात्तुरीय आत्मैवाय- मित्याह-ओंकार आत्मैवेति । एवंविदः फलमाह-संविशत्यात्मनाss- स्मानं य एवं वेदेति । आत्मना स्वेनैव प्रणवरूपेणाऽऽत्मानं स्वयमेव प्रविशतीत्यर्थः । एवं प्रतिपत्तुर्न पुनः संसारपरिभव इत्याह-एप वीर इति । एवं तुरीयप्रणवेन तुरीयप्रतिपत्तिमभिधाय मन्दस्य नृसिंहानुष्टु- भाऽपि तुरीयं प्रतिपत्तव्यमित्याह-नारसिंहेन वाऽनुष्टुभा मत्रराजेन तुरीयं विद्यादिति । ननु तुरीयवाचकेन मत्रराजेन कथं तत्पतिपत्तिरि- त्याशङ्कय तस्य तद्वाचकत्वमाह-एष ह्यात्मानं प्रकाशयतीति । अथवा मन्दस्य मत्रराजेन तुरीयप्रतिपत्तो को विशेष इत्याशङ्कयाऽऽह-एष हीति । कथं मत्रराजस्य तुरीयवाचकत्वमित्याकाङ्क्षायां तत्प्रकारप्रदर्शनाय मन्त्रार्थ- १२. मामा । २ . हेनान । ३ अ. न्यायाह ।

२ द्वितीयः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । ८९ सर्वसंहारसमर्थः परिभवासहः प्रमुव्याप्तः सदोज्ज्वलोऽविद्याकार्यहीनः स्वात्मबन्धहरः माह-सर्वसंहारसमर्थ इत्यादिना। तत्रोग्रमित्यस्य पदस्य तुरीयबोधकता दर्शयंस्तस्यार्थमाह-सर्वसंहारसमर्थ इति । न हि तुरीयादन्यस्य जडस्य सर्व- संहारसामर्थ्य संभवति । अतः संहारसमर्थवाचक उग्रशब्दः । सर्वद्वैतसंहारस. मर्थ तुरीयमेव लक्षणया प्रकाशयतीत्यर्थः । लोके संहारसमर्थोऽपि मन्दप्र. स्थानः कश्चित्संहार्यमसंहरन्दृष्ट इति तुरीयोऽपि तथा स्यादिति तस्यापि संहा- रसामर्थ्य न निणेतुं शक्यमित्याशङ्कायां तव्यावर्तकत्वेन वीरमित्यपि पदमर्थत- स्तुरीयप्रतिपत्तौ विनियोजयति-परिभवासह इति । न लौकिकमन्दपुरुषव. दयं मन्दप्रस्थानः परिभवसहिष्णुरतः संहरत्येव सदा संहार्यमविद्यादिलक्षणं जगत्ततश्च तत्सामर्थ्यमस्य निर्णेतुं शक्यत इत्यर्थः । परिभवासहिष्णुरपि प्रति- बन्धसंभवान्न संहरतीत्याशङ्कायां तयावर्तकत्वन महाविष्णुमित्यत्र महत्पदमर्थ- तोऽवतारयति-प्रभुरिति । महाप्रभुत्वान्न प्रतिबन्धुं शक्यत इत्यर्थः । समर्थस्य परिभवासहिष्णोः प्रतिबन्धहीनस्यापि सर्वत्र व्याप्त्यभावेन सर्वसंहर्तृत्वं न संभवति साऽप्यनुपपत्तिरत्र नास्तीति वदन्विष्णुमिति पदमर्थतोऽवतारयति- व्याप्त इति । उक्तसामग्रीसद्भावेऽपि येन प्रमाणनाभिज्वलितः सन्सर्व संहरति तन्न संहर्तुं युक्तमुपकारकत्वादित्याशङ्कायां निर्विकारत्वान्न प्रमाणसापेक्ष्यम- स्याभिज्वलनं किंतु सर्वद्वैतविरुद्धस्वप्रकाशचिद्रूपत्वेन सदैवाभिज्वलितः सर्वदा संहतसकलद्वैतश्व परमार्थ इति वदवलन्तमितिपदमवतारयति—सदोज्ज्वल इति । तथाऽपि लौकिकसंहर्तुरसंहार्य रक्षणीयं च स्वकार्यकरणादि दृष्टं तद्वै- दस्यापि स्वाभाविकमसंहार्य किमप्यभ्युपगन्तव्यमित्याशङ्कायां नास्य लौकि- कपुरुषवदविद्यातत्कार्ययोरईपमाभिमानोऽस्ति येनासंहार्य तद्रक्षणीयं स्यात् । तस्मात्स्वमहिमस्थो निरपेक्षः सवमेव संहरतीति वक्तुं सर्वतोमुखमितिपदमर्थ- तोऽवतारयति-अविद्याकार्यहीन इति । सर्वतः सर्वत्र मुखं यस्य । मुखशब्दे- नोपलब्धिरविद्यातत्कार्यासंमृष्टस्वप्रकाशोच्यते । अतः सर्वत्रोपलब्धिस्वरूप एवायं न विजातीयमसंहार्य किमप्यत्रास्तीति सर्वतोमुखपदस्यार्थः । एवंभूतो महाप्रभुः किमर्थमतिदुर्बलं द्वैतजातं संहरतीत्याकाङ्क्षायां स्वानर्थप्रतिभासहे- तुत्वादिति वदनृसिंहपदमवतारयति-स्वात्मवन्धहर इति । नृ गतावितिधातो रूपेण नृशब्देन त्रिविधपरिच्छेदरहित आत्मोच्यते पिञ् बन्धन इतिधातोः १ ग. घ. छ. 'यातकार्य । २ ट. “वानन्न । ३ ट. 'द्वनम्य स्वा' ।

श्रीमद्वियारण्यमुनिविरचितदीपिकासमेता- [२द्वितीयः खण्डः] सर्वदा दैतरहित आनन्दरूपः सर्वाधिष्ठान- सन्मात्री निरस्ताविद्यातमोमोहोऽहमेवेति सिमिति तद्वन्धकमविद्यालक्षणं द्वैतं इमिति च तत्संहर्तृत्वमुच्यते । अतो नृसिं- हपदस्य स्वात्मबन्धहर इत्यर्थोक्तिरुपपन्ना । नन्वेवंरूपत्वेऽप्येवं विवेकात्मा. ग्यथा द्वैतं तत्पराभवसहिष्णुत्वं च तथैव सर्वदाऽस्तीत्याशङ्कायां न कदा. चिदप्यस्य परमार्थतो द्वैतपरिभव इति वदन्भीषणपदमवतारयति--सर्वदा दैतरहित इति । न हि महास्फुरणस्वभावमेतं तमः स्वनाशभयात्कदाचिदपि परमार्थतः स्पृशति मध्याह्नभास्करमिवेति भीषणपदस्यार्थ इति भावः। ननु सर्वद्वैतसंहारे सुखसाधनाभावादपुरुषार्थत्वं स्यादस्यातो न सर्व संहर्तव्यमि- त्याशङ्कच स्वत एव परमानन्दानुभवरूपत्वमाह भद्रपदेन । आनन्दरूप इति । ननु नित्यस्य कारणस्यापि संहारे स्वात्मनोंऽपि तत्मसङ्गोऽतो न संहरत्ययं सर्वमित्याशङ्कयाध्यस्तस्याऽऽत्माज्ञानलक्षणस्य कारणस्याधिष्ठानज्ञानेन नाशेऽपि परमार्थ सदूपमनध्यस्तमबाधितं पूर्ववत्स्वमहिमस्थमेव भवतीति परिहरति मृत्युमृत्युपदेन । सर्वाधिष्ठानसन्मात्र इति । पूर्वमृत्युशब्देन संततमरणशीलं सर्वा- त्मकमज्ञानमुच्यते तस्य संहर्ता मृत्युमृत्युः । सर्वदा मरणशीलमेवाज्ञानं नित्य- कल्पितम् । अयं तु तन्मृत्युत्वेन सर्वदाऽमृत एव । अतो न तन्नाशेनास्य नाश- प्रसङ्गः किंतु पूर्वमधिष्ठानत्वेनोत्तरत्र बाधावधित्वेन तत्साक्षितयाऽपि चावशि- प्यत इति मृत्युमृत्युपदस्यार्थ इति भावः । यस्मादेवं सर्वसंहारसमर्थः परिभ- वासहो निष्पतिबन्धः सर्वसंहार्यकवलीकरणस्वभावो निरपेक्षो रक्षणीयशून्यः स्वात्मबन्धहरो भयंकरः परमानन्दानुभवः परमार्थसटूपः परमात्मेति नाविद्या- दिलक्षणद्वैतमस्मिन्कदाचिदप्युपपद्यते तस्मात्तदत्र कालत्रयेऽपि नास्तीति वद- भमामीत्यस्यार्थमाह-निरस्ताविद्यातमोमोह इति । अविद्येति विद्याविरोधि- त्वकथनेन निवर्तयितुं शक्यतोक्ता । तम इत्याच्छादकत्वेन निरसनीयत्वम् । मोह इति विक्षेपहेतुत्वेन निरसनीयत्वमेवोक्तम् । अविद्यादिलक्षणमनर्थकारणं नित्यमेव निरस्तं यस्मिन्स तथोक्तः। नमामीत्यत्र नकारो निषेधार्थः । मेति प्रमावाचकत्वेन परिपूर्णानन्दसंविदूपतुरीयवाचकः। मीति तदिसाकरं तदाच्छा- दनविक्षेपकारणभूतमज्ञानमुच्यते । तस्मान्मीति हिंसाकरं नास्तीति नमामिपद स्यार्थ इति भावः । उक्तं च-"मीति हिंसाकरं नात्र तमोज्ञानादिलक्षणम्' इति । किं तीस्तीत्याकाङ्क्षायां तुरीयः प्रत्यगात्मैवेति वदनहंपदार्थमाह- अहमेवेति । एवकारोऽहंकारमसङ्गेन प्राप्तसर्वद्वैतनिषेधार्थः । इतिशब्दो मब्रव्या- - १ क... धानः स ।

[३ तृतीयः खण्डः] नृसिंहोचरतापनोयोपनिष । तस्मादेवमेवेममात्मानं परं ब्रह्मानुसं- दध्यादेष वीरो नृसिंह एव.॥ २ ॥ इत्यथर्ववेदान्तर्गतनृसिंहोत्तरतापनीये षष्ठोपनिषदि, द्वितीयः स्वण्डः ॥ २ ॥ तस्य ह वै प्रणवस्य या पूर्वा मात्रा सा प्रथ- मपादोभयंतो भवति द्वितीया द्वितीयस्य तृतीया ख्यानसमाप्त्यर्थः। अत्र मत्रव्याख्याने प्रथमयैव विभक्त्या व्याख्यातत्वान्य- वस्य तुरीयप्रतिपत्तिशेषत्वे द्वितीयार्थोऽविवक्षित इति केचिदाहुः । अपरे तु सप्तम्यर्थे द्वितीयामाश्रित्य नमामीतिपदेन संबन्धमाहुः । उग्रे नमामीति हिंसा- करं नास्तीत्यादिप्रकारेण । वार्तिककारैस्तु द्वितीयान्तपदानां सप्तम्यर्थता स्वीक- तेति गम्यते मीति हिंसाकर नातिसप्तमीप्रयोगदर्शनात् । अत्रोग्रे वीरे विष्णो मीति हिंसाकरं नेत्यादिप्रकारेण हि तस्यार्थो युज्यते । यस्मादुक्तेन प्रकारे- णानुष्टुभस्तुरीयप्रकाशकत्वं सिद्धं तस्मादुक्तेनैव प्रकारेणेमं प्रत्यगात्मानं तुरीयं परं ब्रह्माऽऽचार्योपदेशमनुजानीयादित्याह-तस्मादिति । एवंपतिपतुर्न पुनः संसारपरिभव इत्याह-एष वीर इति । कथं वीर इति नृसिंहवादित्याह- नृसिंह एवेति ॥ २॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दपूज्यपादशिष्यश्री- मद्विद्यारण्यमुनीश्वरकृतौ श्रीनृसिंहोत्तरतापनीये षष्ठोपनिषदि द्वितीयः खण्डः ॥२॥ - तुरीयमात्रयाऽनुष्टुभा च तुरीयप्रतिपत्तिरभिहिताऽथेदानी मात्राचतुष्टयमनु- टुप्पादचतुष्टयं च मिश्रीकृत्य विराडादिपादचतुष्टयस्योपासनं वक्तव्यमिति खण्डान्तरारम्भः-तस्यति । तस्योमित्येतदक्षरमित्युक्तपणवस्य या पूर्वा मात्राs. कारो विराड्वाचकः सा मात्राऽनुष्टुप्पथमपादस्य विराडर्थस्योभयतः पूर्वोत्तर- भागयोर्विराचिन्तनाथ भवति । ततश्थामुग्रं वीरं महाविष्णुममित्येवं मत्रोच्चारः सिद्धो भवति । अत्राकारो बीजबिन्दुनादशक्त्यन्तः प्रयोक्तव्यश्चतुरात्मकवि- राइवाचकत्वात् । तस्य द्वितीया मात्रोकारो हिरण्यगर्भार्थः । साऽनुष्टुन्दितीय- पादस्य हिरण्यगर्भार्थस्योभयतः पूर्ववद्भवति । एवं तृतीया मात्रा मकार ईश्व- १ क. ग. घ. छ. "थमः पादो भव ।

श्रीमद्वियारण्यमुनिविरचितदीपिकासमेता-[३ तृतीयः खण्डः] तृतीयस्य चतुर्योतानुज्ञात्रनुज्ञाविकल्परूपा तया तुरीयं चतुरात्मानमन्विष्य चतुर्थपादेन च तया तुरीयेणानुचिन्तयन्यसेत्तस्य ह वा एतस्य प्रणवस्य या पूर्वा मात्रा सा पृथिव्य- कारः स ऋग्भिऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः सा प्रथमः पादो भवति. भवति च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्मबीजसाक्षि- भिदितीयाऽन्तरिक्षं स उकारः स यजुभिर्यजु- र्वेदो विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः सा द्वितीयः पादो भवति भवति च सर्वेषु पादेषु चतुरात्मा रार्थोऽनुष्टुतृतीयपादस्येश्वरार्थस्योभयतो भवति । या चतुर्थी मात्रा का सेत्यत आह-ओतानुज्ञात्रनुज्ञाविकल्परूपेति । तया तुरीयं पादमोतादिरूपैश्चतुरात्मा- नमन्विप्य संचिन्त्यानुष्टुप्चतुर्थपादेन च तमेव प्रतिपद्य पुनश्च तया पूर्वोक्ततुरी- यमात्रया तुरीयमन्विष्य तुरीयतुरीयेग स्वात्मना तावन्मात्रेणैवमनुचिन्तयन्सर्व जगद्सद्विलापयदित्यर्थः । अयं भावः । अमितिचतरूपेणाकारेण चतूरूपं विराज प्रतिपद्य तमेवानुष्टुप्रथमपादेन स्फुटं संचिन्त्य पुनरप्यमित्युच्चरनकार- रूप तं स्मृत्वामित्युचरन्हिरण्यगर्भ संचिन्त्य तत्र विराजं विलाप्यानुष्टुब्दितीय- पादेनोकारेण च हिरण्यगर्भ भावयित्वा मकारेणाव्याकृतं संचिन्तयंस्तत्र हिर- ण्यगर्भ विलाप्यानुष्टुतृतीयपादेन मकारेण चाव्याकृतमव चिन्तयित्वोमितिना- दाकृत्योतादिरूपेण प्रणवेन तद्रूपं तुरीयं संचिन्त्य तत्राव्याकृतं विलाप्यानुष्टु. चतुर्थपादेन च तमेव स्मृत्वा पुनरप्युक्तरूपेण बिन्द्रादिसहितेन प्रणवेन तमेव संचिन्तयन्स्वरूपस्थो भवेदिति । पुनरपि प्रकारान्तरेण मात्रापादमिश्रमेवोपास- नमाह-तस्य ह वा एतस्येत्यादिना। का सा मात्रेत्याह-अकार इति । तस्योपासनाशेषत्वे विभूतिमाह । सा पृथिवी म ऋग्भिः स मत्रैः सहर्वेदस्त- घाख्यानरूपं ब्राह्मणं स ब्रह्मा स वसव इत्येवं सर्वत्रान्वयः । सा मात्रा विराडा प्रथमः पादः स्ववाच्यविराव भवन्युभयोाप्त्यादिमत्वाच्चतू. रूपत्वसाम्यात् । पृथिव्याद्यात्मकस्याकारस्य न केवल विराज्येवावस्थानमपि त्ववशिष्टपादत्रयेऽीत्याह - भवति च सर्वेषु पादेविति । तत्रोपपत्तिमाह- चतुरात्मेति । चतुरातत्वमुपपादयति-स्थलेत्यादिना । विश्वादीनां स्थूला.

[३ तृतीयः खण्डः] नृसिंहोत्तरतापनीयोपनिष । स्थूलमूक्ष्मबीजसाक्षिभिस्तृतीया द्यौः समकारः स सामभिः सामवेदो रुद्रादित्या जगया- हवनीयः सा तृतीयः पादो भवति भवति च सर्वेषु पादेषु चतुरात्मा स्थूलमूक्ष्म- बीजसाक्षिभिर्याऽवसानेऽस्य चतर्यर्धमात्रा सा सोमलोंक ओंकारः सोऽथर्वणैर्मन्त्रैरथर्व- वेदः संवर्तकोऽनिर्मरुतो विराडेकऋषिर्भास्वती स्मृता सा चतुर्थः पादो भवति भवति च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्मबीजसाक्षि- भिर्मात्रा मात्राः प्रतिमात्राः कृत्वोतानुज्ञा- त्रनुज्ञाविकल्परूपं चिन्तयन्यसेत ज्ञाऽमृतो दिरूपचतुष्टयं समष्ट्यात्मनः स्थूलादिरूपेऽन्तर्भाव्यमित्यर्थः । एवमुत्तरपर्याये- बपि योज्यम् । याऽवसाने बीजात्मकाक्षरत्रयान्तेऽस्य प्रणवस्य चतुर्थी तुरी- याऽर्धमात्रा बिन्द्रादिरूपाधं मात्रापक्षस्याममात्रापक्षस्येत्यर्धमात्रा,सा कारणं तुरीयं चानुगतेति हाक्तं पूर्वत्र कालतो वार्धमात्रात्वं न स्वतः । सा सोमलोक उमया विद्यया सहितस्य परमेश्वरस्य लोकः सोमलोक इतरस्य धुलोकैकदेश- त्वेन पृथग्ग्रहणायोगात् । का सा मात्रेत्याह-ओंकार इति । बिन्द्रादीनां स्वय- मनुच्चार्यत्वात्तेषां स्थान पठितोऽयमोंकार एकऋपि माऽऽथर्वणिकानामग्निः सा च मात्रा भास्वती स्मृता बिन्दादिरूपत्वेन तुरीययोधकत्वाच्च । एवं समष्टिव्य- ट्यैक्यं संचिन्त्य मात्रापादमिश्रोपासनया पूर्ववत्सर्व क्रमणोत्तरोत्तरत्र संहत्य स्वात्मन्यवस्थातव्यमित्याह-मात्रा मात्रा इत्यादिना । अथ सानुष्ठानक्रमन्या- सार्चनादिसहितमुपासनमाह-ज्ञोऽमृन इत्यादिना । ज्ञोऽमृत इत्यादिनेहोपा- सनाक्रम उच्यते । अत उपासनापरस्य खण्डाष्टकस्यार्थो गुरूक्तकमेणेहैवा- न्तर्भाव्यः । ज्ञः सन्नमूनो भूत्वा हुनमवित्कश्च सशुद्धो भूत्वा संविष्टः सन्निर्विनः सन्निमममुनियमेऽनुभूयेत्यादिक्रमणान्वयो द्रष्टव्यो झोऽमृत इत्यादेः । तत्र प्रबोधसमये प्रबोधमत्रेण प्रणवेन वा निद्रासाक्षित- याऽनिद्रे ज्ञस्वरूपे स्वात्मन्यवस्थानं कर्तव्यमित्याह-ज्ञ इति । ॐ नित्यमबुद्धाय परमात्मने नम इति प्रबोधमत्रः । पुनरमृतमयमूर्तिम- ९४ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[३ तृतीयः खण्डः] हुतसंवित्कः शुद्धः संविष्टो निर्विघ्न इममसुनिय- मेऽनुभूयेहेदं सर्व दृष्ट्वाऽसुप्रपञ्चहीनोऽथ सकलः - बेण प्रणवेनैव वा विद्यामयी परमात्मनो मूर्तिरात्मत्वेनानुसंधातव्ये: त्याह-अमृत इति । ॐ विद्यादेहाय परमात्मने नम इति मूर्तिमन्त्रः । पुनर्गतदिवसे कृतं तदिने करिष्यमाणं च ज्ञानक्रियात्मकं सर्वमपि व्यव- हारजातं व्यवहारकाल एव संविन्मात्ररूपेणाऽऽलोचितं परिपूर्णसच्चिदान- न्दरूपे परमेश्वरे तत्पूजाजपहोमतर्पणध्यानादिरूपेण समर्पणीयमित्याह-हुत- संविक इति । मनस्तु प्रणव एव । अथोत्थायाऽऽवश्यकशौचाचमनदन्तधाव- नमलस्नानविधिस्नानादिभिः शुद्धो भवेदित्याह-शुद्ध इति । पुनः कृतसंध्यो- पासनादिकर्तव्यस्य शुद्ध स्वासने समुपवेशः कर्तव्य इत्याह-संविष्ट इति । उपविष्टस्य गुर्वाद्यनुज्ञापूर्वकंमत्रेणाङ्गुलिकरशोधनतालत्रयदिग्बन्धामिप्राकार- वष्टनैर्विघ्ननिरासः कर्तव्य इत्याह-निर्विघ्न इति । पुनरोमित्येतदक्षरमिदं सर्वमित्युक्तपणवव्याप्त्यनुसंधानानन्तरमकारादिव्यापकेनापरिच्छिन्नशरीरस्य इंस इति परमात्मनि रक्षितजीवस्य भूतं भवदित्यादावुक्तप्रकारेण रेचकपूर- काभ्यां संहृतसकलस्य कुम्भककाले स्वात्मानुभवः प्रणवेन कर्तव्य इत्याह- इममसुनियोऽनुभूयेति । एवं शक्त्यनुसारेण प्राणायाम कृत्वा तमेतमात्मानमो- मित्युक्तप्रकारेण व्यतिहारपतिपत्तिमनुज्ञाप्रणवेनाऽऽत्मानुसंधानं च कृत्वा प्रण. धमकारादिव्यापकैरात्मनि शरीरचतुष्टयमुत्पादनीयमित्याह-इहेदं सर्व दृष्ट्येति । इह प्रत्यगात्मनीदं सर्व जगच्छरीरचतुष्टयरूपं दृष्ट्वा सृष्ट्वा दृष्टिरेव हि सृष्टिरि- त्यर्थः । पुनस्तस्मिन्निदं सर्व त्रिशरीरमित्युक्तप्रकारेण प्राणाग्निहोत्रप्रपञ्चयाग- कर्तव्यतामाह-असुमपञ्चहीन इति । ॐ हीमिति चिदानन्दरूपं देवं संभाव्य क्षकाराधकारान्तां मातृकामुच्चरंस्तदात्मकं सर्वजगन्मयशरीरचतुष्टयं देवात्स- चिदानन्दरूपादुत्पनं तन्मयं संभाव्य सोऽहं हंस इति जीवपरमात्मनोः पर- स्परमेकर संभाव्य तस्मिन्ननौ स्वाहेति शरीरचतुष्टयं विलापयेदिति प्राणानि- होत्रसंग्रहः । प्रपञ्चयागोऽप्येवमेव कार्य ॐ ह्रीमित्युक्त्वाऽकारादिक्षकारान्ता- मभिधाय । हंसः सोऽहं स्वाहेति तु तत्र मन्त्र इत्येव विशेषः । अथ तं वा एतं त्रिशरीरमित्युक्तक्रमेण सकलीकरणन्यासः कर्तव्य इत्याह-अथ सकल इति । ओमिति तमेतमात्मानमोमिति ब्रह्मणकीकृत्येत्यादिना पादखण्डोक्तक्रमेण ब्रह्मात्मनोः परस्परमेकत्वं पुनरपि प्रतिपद्य तदेकमजरममृतमभयमोमित्यनुज्ञाप- णवेनाभूय शरीरचतुष्टयसृष्टयर्थ वक्ष्यमाणैर्मत्रैः सकलीकरणं कुर्यादोमिति [ ३ तृतीयः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । साधारोऽमृतमय- शान्तान्तंमुच्चार्य शान्त्यतीतकलात्मने साक्षिणे नम इति व्यापयन्साक्षिणं संचिन्त्य प्रणवं शक्त्यन्तमुच्चार्य शान्तिकलाशक्तिपरावागात्मने सामान्यदेहाय, नम इति व्यापयन्नन्तर्मुखसदात्मकब्रह्मज्ञानरूपं सामान्यदेहं संचिन्त्य प्रणवं नादान्तमु- चार्य विद्याकलानादपश्यन्तीवागात्मने कारणदेहाय नम इति व्यापयन्प्रलयम- षुप्तीक्षणावस्थं किंचिदहिर्मुखसदात्मकं कारणदेहं संचिन्त्य प्रणवं बिन्दन्तमु- चार्य प्रतिष्ठाकलाबिन्दुमध्यमावागात्मने सूक्ष्मदेहाय नम इति व्यापयन्सूक्ष्म- भूतान्तःकरणप्राणेन्द्रियरूपं सूक्ष्मशरीरं स्मृत्वा प्रणवमकारान्तमुच्चार्य निवृत्ति- कलाबीजवैखरीवागात्मने स्थूलशरीराय नम इति व्यापयन्पश्चीकृतभूततत्का- त्मिकस्थूलशरीरं स्मरेदिति सकलीकरणन्याससंग्रहः । एवं सृष्टमिदं शरीर- चतुष्टयं भगवतः सपरिकरासनमूर्तिरूपेण कल्पयता पीठमूर्तिन्यासौ कल्पयित- व्यावित्याह-साधारोऽमृतमय इति । आधारेण पीठेन तदाधारेण च स्थाना- दिना सह वर्तत इति सपरिकरपीठन्यासोऽनेन सूचितः । अमृतमय इति मूर्ति- न्यासः । अमृतमनृतजडदुःखपरिच्छेदादिविरुद्धं सच्चिदानन्दानन्तात्मपदलक्ष्य ब्रह्म तन्मयोऽन्तर्मुखसदात्मनि ब्रह्मज्ञानेन प्रतिविम्बितानि यान्यनृतादिविरु- द्धानि रूपाणि सच्चिदानन्दपूर्णात्मपदानां वाच्यार्थरूपाणीच्छाज्ञानक्रियास्वा- तव्यतच्छक्तीनां कारणानि तन्मय इत्यर्थः । एवं सति सच्चिदानन्दपूर्णात्मरु- पिणीच्छाज्ञानक्रियास्वातन्त्र्यसद्रूपिणी च परा शक्तिर्भगवतो मूर्तिरित्युक्तं भवति । पीठादिकल्पनाप्रकारस्तूच्यते । ॐ चतुरशीतिकोटिप्राणिजात्यात्मने ब्रह्मवनाय नम इति व्यापयन्केशरोमादिकं वनत्वेन कल्पयेत् । ॐ पञ्चभूतनाम- रूपात्मकेभ्यः प्राकारेभ्यो नम इति व्यापयन्पश्चीकृतपञ्चभूतनामरूपात्मकान्स- तधातून्सप्तप्राकारत्वेन कल्पयेत् । ॐ नवच्छिद्रात्मभ्यो नवद्वारेभ्यो नम इति व्यापयन्प्रतिप्राकारं गोपुरनवकत्वेन नव द्वाराणि कल्पयेत् । एवं स्थूलशरीरं स्थानत्वेन परिकल्प्य सूक्ष्मशरीरं महाराजराजेश्वरस्याऽऽत्मनः परिचारकत्वेन कल्पयेत् । तथाहि-संचिद्वपेभ्यो राजराजेश्वरद्वारेभ्यो नमः । सकामाकाम- वृत्तिभ्यो द्वारदेवताभ्यो नमः । कामवैराग्याभ्यां द्वारपालाभ्यां नमः। दिग- ग्न्याधात्मकश्रोत्रादीन्द्रियरूपिभ्यो राजपरिचारकेभ्यो नमः । चन्द्रात्मकाय मनसे राजदूताय नमः । ब्रह्मरूपिण्यै सर्वकार्यनिश्चयकर्थे बुद्ध्यै नमः । रुद्ररू- पाय सर्वकार्याभिमानकर्त्रेऽहंकाराय नमः । विष्णुरूपाय सर्वकार्यानुसंधानकर्ड चित्ताय नमः । सर्वेश्वररूपाय सर्वाधिकारिणे प्राणाय नम इति न्यसञ्जपन्स्म- रन्वा मुक्ष्मशरीरं भगवत उपकरणं विधाय गुणत्रयात्मने प्रासादाय नम इति १६ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[ ३ तृतीयः खण्डः ] श्चतुरात्मा सर्वमय- पासादं संकल्प्य प्रणवं बिन्दन्तमुच्चार्य परमात्मासनाय नम इति हृदये विन्यस्य किंचिदहिर्मुखं पूर्वोक्तं सदात्मानं कारणशरीरं गुणसाम्यरूपं पीठत्वेन कल्पये- ततः प्रणवं शक्त्यन्तमुच्चार्य परमात्ममूर्तये नम इति हृदयादिमस्तकान्तं व्यापय- पूर्वोक्तसामान्यशरीरमन्तर्मुखं सदाद्यात्मकं ब्रह्म ज्ञानपराशक्तिरूपिणी शङ्खच- क्रगदाज्ञानमुद्रालसत्करचतुष्टयां सर्वालंकारविशिष्टां 'स्वात्मानन्दानुभवसागर- मनां भगवतो मूर्ति संचिन्तयेदिति पीठमूर्तिन्यासः। पीठमूर्तिमन्त्रद्वयमेवात्रावश्यं न्यस्तव्यमवशिष्टं तु कल्पनीयम् । अथैवंभूतमूर्तिव्यापकस्य तत्साक्षिणः कूटस्थस्य परमेश्वरस्य परमात्मनो मूर्तिमतो मूर्तावावाहनमाभासद्वारेण तयापकत्व- चिन्तनं कर्तव्यमित्याह-चतुरात्मेति । चतुर्णा सामान्यादिशरीराणामात्मा भवेदित्यर्थः । चतुरात्मेत्यनेनैव प्रणवेन समस्तव्यस्तेन कराङ्गुलिन्यासौ कनि- छायङ्गुलिवन्यासः समस्तेन देहे त्रिंशो व्यापकन्यासः समस्तस्य प्रणवस्य मूलाधारे न्यासो व्यस्तस्य नाभिहृदयभ्रमध्येषु समस्तस्य द्वादशान्तषोडशा- न्तयोश्च न्यासः सूचितः । तथाहि । चत्वारोऽकारोकारमकारोंकारा आत्मानो यस्य स चतुरात्मा तथाविधो भूत्वेति ह्यस्यार्थः । चत्वारो व्याहृत्यग्न्यादयः संभ्या आत्मानो यस्येत्यङ्गन्याससचनप्रकारः। अथ पादमात्राखण्डयोः सूचितः पादन्यासः कर्तव्य इत्याह-सर्वमय इति । सर्वशब्देन सर्वात्मकं विराडादि- पादचतुष्टयमुच्यते तन्न्यासेन तन्मय इत्यर्थः । ऐश्वर्यशक्त्यात्मने धुलोकाय नमः । ज्ञानशक्त्यात्मने सूर्याय नमः । संहारशक्त्यात्मनेऽग्नये नमः । क्रिया- शक्त्यात्मने वायवे नमः । सर्वाश्रयशक्त्यात्मन आकाशाय नमः । इच्छाश- क्त्यात्मने प्रजापतये नमः । सर्वाधारशक्त्यात्मने पृथिव्यै नम इति मूर्धातिवद नघाणात्मगुह्यपादेषु सप्ताङ्गन्यासः। पुनरेकोनविंशतिमुखेषु तन्यासः। तत्र समानादिन्यासे चित्तश्रोत्रवागादिन्यासे च तत्तच्छक्त्यात्मने नम इति योज्यम् । शक्तिमात्ररूपं हि भगवतः शरीरमितरत्तु स्थानप्राकारपरिचारकादि- रूपेण कृप्तम् । उक्तं च-देवात्मशक्तिं स्वगुणैर्निगूढां न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते, परेशस्य शक्तिर्विविधैव श्रूयते स्वाभा- विकी ज्ञानबलक्रिया चेति । अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः, अपाणिपादो जवनो ग्रहीतेति च, मन्त्रास्त्वेवं प्रयोक्तव्याः । प्रणयनशक्त्यात्मने प्राणायापनयनशक्त्यात्मने व्यानयनशक्त्यात्मन उन्नयनश- १८. सत्या ।

[ ३ तृतीयः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । ६७ क्त्यात्मने समनयनशक्त्यात्मनेऽनुसंधानशक्त्यात्मने तथा निश्चयाहंकारसंक- ल्पश्रवणस्पर्शनदर्शनरसनघ्राणवचनादानगमनविसर्गानन्दशक्त्यात्मन इत्यादि- रूपेण । इति पादंन्यासं कृत्वा वक्ष्यमाणं मत्रपञ्चकं व्यापकत्वेन विन्यस्य पादचतुष्टयं ध्यायेत् । ॐ उग्रं वीरं महाविष्णुं जागरितस्थानाय स्थूल- प्रज्ञाय सप्ताङ्गायैकोनविंशतिमुखाय स्थूलभुजे चतुरात्मने विश्वाय वैश्वान- राय पृथिव्यग्न्युग्वेदब्रह्मवसुगायत्रीगार्हपत्याकारात्मने स्थूलसूक्ष्मवीजसाक्ष्या- त्मने प्रथमपादात्मने नमः । ॐ ज्वलन्तं सर्वतोमुखं स्वमस्थानाय सूक्ष्मप्रज्ञाय सप्ताङ्गायैकोनविंशतिमुखाय सूक्ष्मभुजे चतुरात्मने तैजसाय हिरण्यगर्भाया- न्तरिक्षयर्जुर्वेद विष्णुरुद्रत्रिष्टुब्दक्षिणाग्न्युकारात्मने स्थूलसूक्ष्मवीजसाक्ष्यात्मने द्वितीयपादाय नमः ॐ नृसिंह भीपणं भद्रं सुषुप्तस्थानायैकी- भूताय प्रज्ञानघनायाऽऽनन्दमयायात्यानन्दभुजे चेतोमुखाय चतुरात्मने प्रज्ञा- येश्वराय घुसामवेदरुद्रादित्यजगत्या हवनीयमकारात्मने स्थूलसूक्ष्मवीजसाक्ष्या- त्मने तृतीयपादाय नमः । ॐ मृत्युमृत्युं नमाम्यहं सर्वेश्वराय सर्वज्ञाय सर्व- शक्तये सर्वान्तर्यामिणे सर्वात्मने सर्वयोनये सर्वप्रभवाय सर्वाप्ययाय सोमलो. काथर्ववेदसंवर्तकाग्निमरुद्विराडेकोकारात्मने स्थूलसूक्ष्मवीजसाक्ष्यात्मने चतु- थपादाय नमः । ॐ मत्रराजान्ते नान्तःप्रज्ञायावहिप्पज्ञायानुभयप्रज्ञायाप्रज्ञाय नाप्रज्ञायाप्रज्ञानघनायादृष्टायाव्यवहार्यायाग्राह्यायालक्षणायाचिन्त्यायाव्यपदे- श्यायैकात्म्यप्रत्ययसारायामात्राय प्रपञ्चोपशमाय शिवाय शान्तायाद्वैताय सर्व- संहारसमर्थाय परिभवासहाय प्रभवे व्याप्ताय सदोज्ज्वलायाविद्याकार्यहीनाय स्वात्मबन्धहराय सर्वदा द्वैतरहितायानन्तरूपाय सर्वाधिष्ठानसन्मात्राय निरस्ता- विद्यातमोमोहायाकृत्रिमार्गविमर्शायोंकाराय तुरीयतुरीयाय नम इति पुनः प्रण- वेन सकृयाप्याङ्गन्यासमाचरेत् । ॐ उग्रं वीरं महाविष्णुं पृथिव्यग्वेदब्रह्मवसु. गायत्रीगार्हपत्याकारभृरग्न्यात्मने सर्वज्ञानशक्त्यात्मने हृदयाय नमः । ॐ ज्वलन्तं सर्वतोमुखमन्तरिक्षयजुर्वेद विष्णुरुद्रात्रिष्टुब्दक्षिणाग्न्युकारभुवःप्रजापत्या- त्मने नित्यतृप्त्यैश्वर्यशक्त्यात्मने शिरसे स्वाहा । ॐ नृसिंह भीषणं भद्रं घुसामवेदरुद्रादित्यजगत्याहवनीयमकारस्वःसूर्यात्मनेऽनादिबोधशक्त्यात्मने शि- खायै वषट् । ॐ मृत्युमृत्युं नमाम्यहं सोमलोकाथर्ववेदसंवर्तकाग्निमरुद्विराडेक- याँकारभूर्भुवःस्वब्रह्मात्मने स्वातत्र्यबलशक्त्यात्मने कवचाय हुम् । ॐ ओं- कारभास्वत्यलुप्त शक्त्यात्मने नेत्रत्रयाय वौषट् । ॐ मत्ररानान्ते पृथिव्य- कारवेंदब्रह्मवसुगायत्रीगाईपत्यान्तरिक्षाकारयजुर्वेदविष्णुरुद्रबिन्दक्षिणाग्नि घुमकारसामवेदरुद्रादित्यजगत्याहवनीयसोमलोकोंकाराथर्ववेदसंवर्तकानिमरुद्वि- ९० श्रीमद्विषारण्यमुनिविरचितदीपिकासमेता-[३ तृतीयः खण्डः] श्वनुरात्माऽथ महापीठे सपरिवारं तमेतं चतुः- सप्तात्मानं चनुरात्मानं मूलामावनिरूपं. प्रणवं राडेकर्षिभास्वतीसत्यात्मनेऽनन्ततेजःशक्त्यात्मनेऽस्त्राय फडित्येतान्यङ्गानि । पुनर्ऋष्यादिकं विन्यस्य बीजादिकं स्मृत्वा देवं ध्यात्वा परमानन्दामृतेन चतु. Vात्मभूताया देवतायाः पूजा कर्तव्येत्याह-चतुरात्मेति । मूर्तिचतुष्टयव्या. पकं तत्सालिगं परमानन्दबोधाब्धि ध्यात्वा मूर्तिचतुष्टयं तत्र मग्नं भावयेत् । इयमेवाऽऽत्मपूजा । पुनस्तस्य ह वै प्रणवस्य या पूर्वा मात्रा सा प्रथमपा- दोभयतो भवतीत्यादिवाक्यैरस्मिन्नेव क्रमखण्डे कथितमुपासनं विधा- याऽऽत्मैव चतुर्मतिरूपेण पृथक्पूजनीय इति पीठादिकल्पनापूर्वकमाह- अथ महापीठ इत्यादिना । अथाऽऽत्मपूजानन्तरम् । महापीठे बहिर्मुख- सदात्मके गुणवीजरूपे मूलाधारस्थद्वात्रिंशदष्टचतुर्दलपद्माकारे । सपरिवार द्वात्रिंशद्दलगतैः पृथिव्यन्तरिक्षासोमलोकाद्यष्टकरूपैरष्टदलगतः सच्चिदान- न्दपूणात्माद्यप्रकाशविमर्शरूपैश्चतुर्दलगतब्रह्मसर्वेश्वरविष्णुसर्वेश्वररुद्रसर्वेश्वरस- वेश्वरेश्वरपरिवारः सहितमित्यर्थः । तं पादमात्राखण्डयोरुक्तमेतमिह पृथि- व्यकार इत्यादिना कथितं चतुःसप्तात्मानमकारादिसंबन्धित्वेनोक्तपृथिव्या- दिचतुर्विधसप्तकरूपमकारादिसमष्टिरूपत्वादोंकारस्य सर्वत्र मन्त्रब्राह्मणयो- रैक्यं विवक्षित्वा चतुःसप्तात्मानमित्युक्तम् । अकारादिभिर्विभृतिमद्भिर्वा विना स्वतश्चतुरष्टधात्मानमित्येवार्थः । अनेन च व्यष्टिदेवानां सर्वेषाम- विशेषेण समष्टिदेवतयैकत्वमुक्तम् । तदंशमूर्तिचतुष्टयस्य विशेषेणैकत्वमाह- चतुरात्मानमिति । समष्टिव्यष्टिस्थूलादिभिश्चतुरात्मानमित्यर्थः । यद्यपीह सप्तात्मानं चतुरात्मानमिति तुरीयं मात्रासंबन्धस्य सप्तकस्य तदंशरूपस्थू- लादिचतुष्टयस्य तुरीयप्रणवेन विशेषसंबन्धप्रतिपत्तये वक्तव्यमपि नोक्तं तथाऽपि तस्योत्तरत्र तुरीयप्रणवसंबन्धित्वेन कथनादिहापि तत्कथितमेवेत्यवग- न्तव्यम् । मूलाधारस्थस्यापि प्रणवस्य तुरीयप्रणवरूपत्वात्तत एव ह्यत्रापि मध्येऽ- दलं पद्ममुपदिशन्त्याचार्याः । द्वादशान्तषोडशान्तयोरिव मूलाग्नौ मूलाधारग- तामावनिमण्डलेऽग्निरूपं चित्प्रकाशरूपं क्रियाशक्तिजाठरेण संपृक्तं प्रणवं संचि. न्तयेत् । अग्निरूपमित्युक्तत्वात्सपरिवारस्योंकारस्यात्र शिरःपाण्यादिविशिष्टो विग्रहो न कल्पनीयः किंतु प्रलयानलार्कसमज्योतिर्मात्ररूप एव चिन्तनीय इति गम्यते । अथ मूलाधारस्थमग्निं नाभ्यन्तरमुन्नीय तस्मिन्ननावनुष्टुप्पथमपा- १ र. 'म । २२. सयमा । ३ द. “यादिश।

[ ३ तृतीयः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । ६९ संदध्यात्सप्तात्मानं चतुरात्मानमकारं ब्रह्माणं नाभौ सप्तात्मानं चतुरात्मानमुकारं विष्णुं हृदये सप्तात्मानं चतुरात्मानं मकारं रुद्रं भ्रूमध्ये सप्ता- स्मानं चतुरात्मानं चतुःसप्तात्मानं चतुरात्मान- मोंकारं सर्वेश्वरं द्वादशान्ते । सप्तात्मानं चतुरा- स्मानं चतुःसप्तात्मानं चतुगत्मानमानन्दामृत- दस्याष्टाक्षररूपमष्टदलं पद्मं संचिन्त्य तत्कर्णिकायां प्रगवस्थाकारबीजबिन्दुना- दशक्तिभिश्चतुरात्मकं चतुर्दलपद्मरू संचिन्त्य तत्कर्णिकायां सरस्वतीमूलपक- तिसहितो ब्रह्मसर्वेश्वरो ध्येय इत्याह-सप्तात्मानमित्यादिना । अत्रापि सप- रिवारमित्यनुषज्यते । तथोत्तरवाक्येप्वपि । अत्राष्टदलेऽकारसंबन्धित्वेन कथित- पृथिव्याद्यष्टकरूपानुष्टुप्प्रथमपादाक्षरस्थाः साङ्गोपाङ्गवेदाश्चतुर्दलस्थब्रह्म ब्रह्मब- ह्मविष्णुब्रह्मरुद्रब्रह्मसर्वश्वराश्च परिवारत्वेन ध्येयाः । तत्राष्टदले दिक्षु वेदाः स्मर्तव्याः । अग्निकोणे पडङ्गानि निर्ऋतिकोणे मीमांसा वायव्यकोणे न्याय ईशानकोण इतिहासपुराणागमकाव्यनाटकादयः । चतुर्दलेऽग्रतो ब्रह्मसर्वेश्वरो दक्षिणतो ब्रह्मरुद्र उत्तरतो ब्रह्मविष्णुः पश्चिमतो ब्रह्मब्रह्मा । एवमुत्तरत्रापि मूर्तिचतुष्टयस्थितिरवगन्तव्या। सप्तात्मानं चतुरात्मानमकारं ब्रह्माणं नाभाविति मध्ये ब्रह्मसर्वेश्वरक्लप्तिरुक्ता सप्तात्मानमकारसंवन्धित्वेनोक्तं सप्तात्मानमकारेण सहाष्टात्मानमित्यर्थः । अन्यथाऽनुष्टवक्षरसंबन्धायोगादिति । व्यष्टिसमष्ट्योः सामान्येनैकत्वमभिधाय तदंशानां स्थलादीनामप्येकत्वमाह - चतुरात्मानमिति । अकारं प्रणवस्थाकारात्मकं रजःप्रधानं सोममण्डलस्थं ब्रह्माणं ब्रह्मसर्वेश्वरं सरस्वतीमूलप्रकृतिसहितं नाभी तेजोमध्येऽष्टदलस्थचतुर्दलकर्णिकायां संदध्या- दित्यर्थः । तथा सप्तात्मानमुकारसंबन्धित्वेनोक्तान्तरिक्षादिसप्तकरूपमुकारेण सहाष्टरूपं चतुरात्मानं स्थूलादिभिरुकाररूपं विष्णुसर्वेश्वरं श्रीमूलप्रकृतिसहितं सत्त्वप्रधानं सूर्यमण्डलस्थं स्वहृदयेऽष्टदल उकारसंबन्धित्वेनोक्तान्तरिक्षाद्या- मकानुष्टुन्दितीयपादाक्षरस्थवाराहनरसिंहवामनपरशुरामराघववलभद्रकृष्णक- ल्किमूर्तिभिरधिष्ठितेन(?) तन्मध्यस्थोकाररूपं चतुर्दलपद्मगतविष्णुसर्वेश्वरादियु- तेऽनुसंदध्यात् । तथा सप्तात्मानं मकारसंबन्धितयोक्तं धुलोकाधष्टकरूपं तथा चतुरात्मानं मकाररूपं रुद्रसर्वेश्वरमुमामूलप्रकृतिसहितं तमःप्रधानमनिमण्डलस्थं १ क.. ग. घ. उ. दात्मामता प्रणवं पा ।

ܘܠܐܕ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[३ तृतीयः खण्डः] रूपमोंकारं षोडशान्ते । अथाऽऽनन्दामृतेनैताश्चतुर्धा संपूज्य भूमध्येऽष्टदले मकारसंबन्धित्वेनोक्तधुलोकायात्मकानुष्टुप्तृतीयपादाक्षरस्थशर्व- भवपशुपतीशानभीममहादेवरुद्रोग्रमूर्तिभिरधिष्ठितेन(?) तन्मध्यस्थं मकाररूपं पद्म- चतुर्दलगतरुद्रसर्वेश्वरादियुतेऽनुसंदध्यात्। तथा सप्तात्मानं मकारसंबन्धिमात्रासं- बन्धित्वेनोक्तः सोमलोकायेरष्टात्मानमित्यर्थः। तथा चतुरात्मानं तत्संबन्ध- स्थूलादिभिस्तथा चतुःसप्तात्मानं मात्राचतुष्टयसंबन्धित्वेनोक्ताष्टकचतुष्टयेन चतुरष्टात्मानं तथा चतुरात्मानं तत्संबन्धस्थूलादिभिरोंकारं तुरीयप्रणवरूपं सर्वेश्वरं गुणसाम्योपाधिशक्तिमण्डलस्थं मूलप्रकृतिमायासहितं द्वादशान्ते द्वात्रिं- शद्दलपट्टे मूलाधारस्थद्वात्रिंशद्दलोक्तदेवताविशिष्टे तद्गताष्टदलस्थसदादिमूर्ति- युते तत्कर्णिकागतचतुर्दलस्थसर्वेश्वरचतुष्टयसंयुक्तेऽनुसंदध्यात् । तथा सप्ता- त्मानं चतुरात्मानं चतुःसप्तात्मानं चतुरात्मानमोंकारं तुरीयमानन्दामृतरूपं गुण- बीजोपाधि शक्तिमण्डलस्थं पोड शान्तेऽधोमुखद्वात्रिंशदष्टदलचतुर्दलपझैः पूर्वोक्त- देवतादिभिश्च विशिष्टेऽनुसंदध्यात् । अथोक्तमूर्तिचतुष्टयपूजा कार्ये त्याह-अथे. त्यादिना । अथ पीठमूर्तिकल्पनानन्तरमानन्दामृतेन पूर्वोक्तेनैतान्ब्रह्मादिसर्वेश्व- रान्सपरिवारांश्चतुर्धा चतुष्प्रकारेण देवतागुरुमत्रात्मप्रकारेण । अथवा चतुर्धेति पूजासाधनानां जलगन्धपुप्पादिधूपदीपनैवेद्यादीनामानन्दरूपाणां स्थूलादिरू- पेण पूज्यदेवतावच्चतुरात्मत्वमुक्तं देवताद्रव्ययोः संबन्धयोग्यत्वप्रदर्शनाय । पूजामत्रास्त्वेवं प्रयोक्तव्याः -ॐ अमुग्रं वीरं महाविष्णुं अं ॐ रजउ. पाधये स्थूलविरादरीराय विश्ववैश्वानरात्मने सर्वस्रष्ट्रे ब्रह्मणे सरस्वतीसहि- ताय सर्वज्ञाय सदात्मनेऽसङ्गाखण्डसंविदे नारायणाय नरसिंहाय परमात्मने सपरिवाराय मनः । ॐ उं ज्वलन्तं सर्वतोमुखं उ ॐ सत्वोपाधये सूक्ष्महिरण्यगर्भशरीराय तैजससूत्रात्मने सर्वपालकाय विष्णवे .लक्ष्मीसहिताय सर्वज्ञायाऽऽनन्दात्मनेऽसङ्गाद्वयसंविदे नारायणाय नरसिंहाय परमात्मने सप. रिवाराय नमः । ॐ मं नृसिंहं भीषणं भद्रं मं ॐ तमउपाधये सौषुप्ताज्ञा. नशरीराय प्राज्ञेश्वरात्मने सर्वसंहर्ने सदाशिवायोमासहिताय सर्वज्ञाय सचिदा- नन्दात्मनेऽसङ्गाखण्डाद्वयापरोक्षसंविदे नारायणाय नृसिंहाय परमात्मने सप- रिवाराय नमः । ॐ ॐ मृत्युमृत्यु नमाम्यहं ॐ ॐ गुणसाम्योपाधये व्याक. ताव्याकृतशरीराय प्रत्यग्ब्रह्मात्मने सर्वोत्पत्तिस्थितिसंहारकर्ने सर्वेश्वराय मूल. प्रकृतिमायासहिताय सर्वज्ञाय सदानन्दचिदात्मनेऽसङ्गाखण्डाद्वयापरोक्षसंविदे नारायणाय नरसिंहाय परमात्मने सपरिवाराय नमः । ॐ समस्तनिरविद्युगु- १ ग छ, अथ स्वान । २ न. 'ग्वद्य। ३ ट. निर्गणा ।

[ ३ तृतीयः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । १०१ णायाशरीरायासङ्गप्रत्यगद्वयाय स्वभासावभासितकृत्स्नायासबोधायासनाख- ण्डाद्वयापरोक्षसदानन्दचिदात्मने स्वप्रबोधध्वस्तानर्थद्वैताय निरालम्बनबिम्बा- याहीनमहोदयाय नारायणाय नृसिंहाय परमात्मने सपरिवाराय नम इति । ॐ ह्रीं श्रीं स्त्रों ई नमः संसिद्धसमृद्धिदाप्रमेयपरमैकरस्यायै परमहंसिन्यै समस्तजनवाङ्मनसावर्तिन्यै निरन्तरारम्भस्तिमितनिरञ्जनपरमानन्दसंदोहमहा- र्णवस्वरूपपरम्परायै विष्णुपत्न्यै विष्णवे हं हों ॐ स्वाहा नम इति देवस्य सूक्ष्मदेहे ब्रह्मज्ञानात्मके पुष्पाञ्जलिं कुर्याद्वक्ष्यमाणपत्रपञ्चकेन च। ॐ ही श्री स्रौं ई नमो निरन्तरप्रथमानपरमसामरस्यायै स्वस्वातन्त्र्यसमुन्मिषितनिमे. पोन्मेषपरम्परारम्भे स्वच्छस्वच्छन्दस्पन्दमानविज्ञानवारिनिधये परमसूक्ष्मायै विष्णुपत्न्यै विष्णवे महामायायै हं सां ई ॐ स्वाहा नमः । ॐ ह्रीं श्रीं स्रौं । ई नमः स्वसंकल्पबलसमुन्मूलितभगवद्याप्तिभावस्वभावे स्वेच्छावेशवि. जृम्भमाणासत्ताविभक्तिमूर्तिकरचतुरगुणगणग्रामयुतत्रिमहोर्मिज्वालायै पूर्णषा. इगुण्यमहाछायायै परमस्थूलायै विष्णुपत्न्यै विष्णवे मायाय पञ्चविन्दवे हे ई ॐ स्वाहा नमः । ॐ ह्रीं श्रीं क्षों ही ही हीः नमो नित्योदितमुदितम- हानन्दपरमसुन्दरभगवद्विग्रहप्रकाशे विविधसिद्धजनास्पदपाइगुण्यप्रसरमयपरम- सत्त्वरूपपरमव्योमस्वभावायै विचित्रानन्तनिर्मलमुन्दरभोगजालप्रकारपरिणा- मप्रवीणस्वभावायै परममूक्ष्मस्थूलरूपसूक्ष्मायै विष्णुपत्न्य विष्णवे महामायायै पञ्चविन्दवे ह ही ही ही ॐ स्वाहा नमः । ॐ ह्रीं श्रीं श्रीं शूरौं ह्रीं नमः स्वसंकल्पसमीरणसमीर्यमाणबहुविधजीवकोशविमृष्टपुञ्जायै कल्पितकालकाल्प- निककल्पभेदेन पिण्डनिवहाय लीलासंदर्शितभोक्तभोग्यभोगोपकरणभोगसंप- दैकमहासिन्धवे सूक्ष्मस्थूलरूपस्थूलाय विष्णुपत्न्यै विष्णवे महामायायै पञ्चवि. न्दवे हं ही ही हीः ॐ स्वाहा नमः । ॐ ह्रीं श्रीं श्रीं हो ही नमः समस्त- जगदुपकारस्वीकृतबुद्धिमनोगप्रत्यङ्गमुन्दरायै द्विधाचतुष्टयमु(?)न्मपितसमस्तजन- लक्ष्मीकीर्तिजयमायाप्रभवात्मकसमस्तसंपदैकनिधये समस्तचक्रसूत्रधारायै सम- स्तजगत्संभोगसौभाग्यदायिनि विविधविषयोपप्लवशमनि नारायणाङ्कस्थितायै ॐ श्रीं ह्रीं क्षरौं ही हीः नमो नारायणाय नरसिंहाय लक्ष्मीनारायणाभ्यां स्वाहा ॐ श्रीं ह्रीं श्रीम् । अथ नैवेद्यानन्तरं पूजनादिभी राजोपचारादिभिश्व संपूज्य भगवन्तमतिप्रसन्नं संचिन्त्याधिकारिखण्डे वक्ष्यमाणेन क्रमेण मत्ररा- जमाश्रित्य नमस्कारखण्डे वक्ष्यमाणक्रमेण पत्रराजेन नृसिंहपदेन च ब्रह्मात्मै- कत्वं प्रतिपद्य क्रमेण प्रणवनिष्ठां प्राप्य संधानखण्डे. वक्ष्यमाणप्रकारेण ब्री. म. 'मभ । २ ट. वे हीं। ३ ट. पस्थाये । ४ ट. ही ही:। ५ ट. द्दा श्रीं ।

२ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-३ तृतीयः खण्डः] कत्वं प्रतिपद्य व्यतिहारखण्डे वक्ष्यमाणप्रकारेण व्यतिहत्यापि ब्रह्मात्मत्वं संचिन्त्यानुज्ञाप्रणवमाश्रित्य द्वादशसाहस्रसंख्यं त्रयस्त्रिंशाधिकत्रिंशद्युतं त्रिस- इस्रवारमष्टोत्तरसहस्रसंख्यं त्रयस्त्रिंशाधिकत्रिशतवारमष्टोत्तरशतसंख्यं त्रय. त्रिंशद्वारं दशत्रिवारमकवारं वा शक्त्यनुसारेण जप्त्वा जपं देवाय समर्प्य वक्ष्य माणमत्रत्रयेण पुष्पाञ्जलिं कुर्यात् । ॐ अं हंसात्मको योऽपामनेस्तेजसा दीप्यमानः स नो मृत्योस्वायतां नमो ब्रह्मणे विश्वनाभिः। ॐ नमो भगवते नृसिंहायाऽऽत्मने ब्रह्मणे व्याप्ततमाकाराय सर्वसाक्षिणे परमेश्वराय सर्वगता- याद्वयाय व्याप्ततमाय मायिने तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ॐ अं उग्रं हः अं वीरं हं अं महाविष्णुं हः अं ज्वलन्तं हः अं सर्वतोमुखं हः अं नृसिंह हः अं भीषणं हः अं भद्रं हः अं मृत्युमृत्यु हः अं नमामि हः अं अहं हः ॐ तत्सन्नमो ब्रह्मणे तत्सत् । ॐ नमो नमोऽ- जरायामरायामृतायाभयायाशोकायामोहायानशनायापिपासायाद्वैताय । ॐ हीं सं हः सोऽहं स्वाहा हंस सर्वप्रकाशकाकृत्रिमापूर्णा हमकाराय सर्वाय सर्वान्त- राय सर्वात्मनेऽद्वयायाप्रकाशप्रकाशाय । ॐ नमो ब्रह्मण ॐ नमः संहर्ने सतत- महिम्ने । अंहं उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् । अं नम इत्यनेनाकारमत्रेण देवस्य वामबाहुमूले विचि- अमवरचितां विचित्रां मालां प्रयच्छेत् । ॐ उं उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं नृसिंह भीपणं भद्रं मृत्युमृत्युं नमाम्यहम् । ॐ नमो भगवते नृसिं- हायाऽऽत्मने ब्रह्मणे विष्णवे सर्वोत्कृष्टतमोंकाराय परमार्थसत्यस्वरूपाय स्वप्र. काशायासङ्गायानन्यदर्शिनेऽद्वयायोत्कृष्टाय नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् । ॐ उं उग्रं हुः ॐ उं वीरं हुः ॐ उं महाविष्णुं हुः ॐ उ ज्वलन्तं हुः ॐ उं सर्वतोमुखं हुः ॐ उं नृसिंहं हुः ॐ उं भीषणं हुः ॐ उं भद्रं हुः ॐ उं मृत्युमृत्युं हुः ॐ उं नमामि हुः ॐ उं अहं हुः । ॐ नमो भगवते वासुदेवाय । ॐ नम उत्कृष्टायोत्पाद- कायोत्प्रवेष्ट्र उदुत्थापयित्र उद्रष्ट्र उत्कर्ष उदुत्पथवारकायोवुद्रासकायोदु- द्वान्तायोदुदुत्तीर्णविकृतये । ॐ नमो नारायणाय सर्वनिर्णायकाकृत्रिमपूर्णो- न्मेषोकाराय । ॐ नमो विष्णव उं नमः सर्वविचिकित्सानिरासपूर्णोन्मेषमा हिम्ने हरिः(?) । ॐ उं उग्रं वीरं महाविष्णुं जलन्तं सर्वतोमुखं नृसिंह भीषणं भद्रं मृत्यूमु-युं नमाम्यहम् । ॐ नम इत्यनेन भगवतः कण्ठ आपादलम्बिनी मालां दद्यात् । ॐ मं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव १८. कोऽ| २८. भई ।

[ ३ तृतीयः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । १०१ पन्धनान्मृत्योर्मुक्षीय मामृतात् । ॐ नमो भगवते नृसिंहायाऽऽन्मने परब्रह्मणे देवाय रुद्राय महाविभूतिमकाराय महात्मने भिन्नरूपाय स्वप्रकाशाय प्रत्यग्न- मणे व्याप्ततमायोत्कृष्टतमाय सर्वप्रत्यक्तमाय सर्वज्ञाय महामायाविभूतये तत्पु. रुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् । ॐ मं उग्रं हुँ म वीर हुं में महाविष्णुं हुं मं ज्वलन्तं हुं मं सर्वतोमुखं हुं मं नृसिंहं हुं में भीषणं हुं मं भद्रं हुं मं मृ यमुत्युं हुं मं नमामि हुं मं अहं हुं मं ॐ ह्रीं हो नमः शिवाय इंसः सोहं मं ॐ महते महसे मानाय मुक्ताय महादेवाय महे- वराय महासते महाचिते महानन्दाय महासभव ॐ ह्रीं ह्रौं नमः शिवाय में सर्वमहत्तम ब्रह्ममहत्तम मकाराय सर्वजगन्मयाय सच्चिदानन्दरूपाय वामनो. गोचरातिगायाऽऽनन्दानुभवस्वरूपायाऽऽत्मप्रकाशाय । ॐ नमः शिवाय में नमः सर्वमनोद्रप्ट्रे सर्वनिर्वाहकाय सर्वप्रत्यूहकाय सर्वसंपीडकाय सर्वसं- ज्वालकाय सर्वभक्षकाय स्वात्मस्वरूपदात्रेऽत्यु पायातिवीरायातिमहतेऽतिविष्ण. वेऽतिज्वलतेऽतिसर्वतोमुखायातिनृसिंहायातिभोपंणायातिभद्रायातिमृत्युमृत्य- वेऽतिनमाम्यत्यहंकाराय स्वमहिमस्थाय हरः(?)। मं उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् । मं ॐ नम इत्यनेन मत्रेण दक्षिणबाहुमूले मालां प्रयच्छन् । एवं पुष्पाञ्जलित्रयं कृत्वा । ॐ उग्रं० इति नमस्कारखण्डे वक्ष्यमाणेन मवेग स्तुतिनमस्कारौ कृत्वा । ॐ उग्रमात्मानं नृसिंहमहं नमामि । ॐ वीरमात्मानं नृसिंहमहं नमामि । ॐ महाविष्णुमात्मानं नृसिंहमहं नमामि । ॐ ज्वलन्तमात्मानं नृसिंहमहं नमामि। ॐ सर्वतोमुखमात्मानं नृसिंहमहं नमामि । ॐ नृसिंहमात्मानं नृसिंहमहं नमामि । ॐ भीषणमात्मानं नृसिंहमहं नमामि । ॐ भद्रमात्मानं नृसिंहमहं नमामि। ॐ मृत्युमृत्युमात्मानं नृसिं- हमहं नमामि । ॐ सर्वनमस्कार्यमात्मानं नृसिंहमहं नमामि । ॐ सर्वात्मानमात्मानं नृसिंहमहं नमामि । इति च स्तुत्यादिकं कृत्वा पूर्वोक्तमालामत्रत्रयं समु- चित्य पठेत् । भगवतो मस्तकात्पदान्तालम्बिनीं व्यापिनी मालां दत्त्वा भगव- न्तमतिसंतुष्टं संचिन्त्य सदादिमत्रनवकैनमस्कारखण्ड वक्ष्यमाणैः स्तुतिनमस्कारौ कुर्वन्नभेदप्रतिपत्तिरूपमात्मसमर्पणं कुर्यात् । ॐ उग्रं सच्चिदानन्दपूर्णप्रत्यक्स. दात्मानं नृसिंह परमात्मानं परं ब्रह्माई नमामि । ॐ वीरं सच्चिदानन्दपूर्ण- प्रत्यक्सदात्मानं नृसिंह परमात्मानं परं ब्रह्माई नमामि । ॐ महान्तं सच्चिदा- नन्दपूर्णप्रत्यक्सदात्मानं नृसिंहमित्यादि । ॐ विष्णु सच्चिदानन्दमित्यादि । ॐ ज्वलन्तं सच्चिदानन्दमित्यादि । ॐ सर्वतोमुखं सचिदानन्दपूर्णप्रत्यक्सदा. १ म. मब्रह्माम। २ म. परत्र । ३ प्र. परत्र ।

२०४ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[२ तृतीयः खण्डः] तथा ब्रह्माणमेव विष्णुमेव रुद्र- मेव विभक्तांस्त्रीनेवाविभक्तांस्त्रीनेव त्मानं नृसिंहमित्यादिना । ॐ भीषणं सच्चिदानन्दपूर्णप्रत्यक्सदात्मानं नृसिंह- मित्यादिना । ॐ भद्रं सच्चि०। ॐ मृत्युमृत्युं सच्चिदानन्दपूर्णप्रत्यक्सदात्मानं नृसिंह परमात्मानं परं ब्रह्माहं नमामीति सन्मत्रनवकम् । ॐ उग्रं सच्चिदानन्दपू- प्रत्यक्चिदानन्दात्मानं नृसिंह परमात्मानं परं ब्रह्माहं नमामीत्यादिकं चिन्म- बनवकमूह्यम् । ॐ उग्रं सच्चिदानन्दं पूर्णप्रत्यगानन्दात्मानं नृसिंह परमात्मानं परं ब्रह्माई नमामीत्यानन्दमत्रनवकमूह्यम् । ॐ उग्रं सच्चिदानन्दपूर्णप्रत्यगनन्ता- त्मानं नृसिंह परमात्मानं परं ब्रह्माहं नमामीत्याद्यनन्तमत्रनवकमूह्यम् । ॐ उग्रं सच्चिदानन्दपूर्णप्रत्यगात्मानं नृसिंह परमात्मानं परं ब्रह्माहं नमामीत्याद्यात्मम- बनवकमूह्यम् । इत्यात्मसमर्पणं कृता ब्रह्मात्मैकवप्रतिपत्त्या प्रणवं जपन्पूजाप- रिपूर्ति विधाय चतुर्मुर्तियोगं कुर्यात् । तथाहि । प्रणवमुच्चरन्नमृतमास्राव्य मूर्तिच- तुष्टयमुपहारैश्चतुर्धा संपूज्य मूर्तिचतुष्टयं तेजसो जातं तेजोमयं लिङ्गचतुष्टयं स्मृखा प्रणवं समत्रराजमुच्चरल्लिङ्गचतुष्टयमेकीकृत्यामृतमास्रावयेदिति चतुर्मूर्तियोगप्र- कारः । एवं चतुमूर्तियोगं कृता ब्रह्मयोगः कर्तव्य इत्याह-तथा ब्रह्माणमे- वेति । तथा यथा चतुर्प स्थानेषु मर्तिचतुष्टयं स्मृखा संपूज्य तेजोमयमूर्तिचतुष्टयं संहृत्यामृतास्रावणलक्षणश्चतुर्मुर्तियोगः कृतस्तथा ब्रह्माणं ब्रह्मसर्वेश्वरमेव सर- स्वतीमूलप्रकृतिसहितं सपरिवार संचिन्त्य पूजादि कुर्यादित्यर्थः । अथ विष्णु- योगमाह-विष्णुमेवेति । चतुर्वपि स्थानेषु विष्णुं सर्वेश्वरमेव श्रीमूलप्रकृतिस- हितं सपरिवारं संचिन्त्य पूजादि कुर्यादित्यर्थः । रुद्रयोगमाह-रुद्रमेवेति । चतुर्ध्वपि स्थानेषु रुद्रमेवोमामूलप्रकृतिसहितं सपरिवारं स्मृत्वा पूजादिकमाच- रेदित्यर्थः । भेदयोगमाह-विभक्तांस्त्रीनेवेति । विभक्तान्भिन्नशरीरांस्त्रीन्द्र- मादिसर्वेश्वरानेव प्रकृतित्रयसहितान्सपरिवारांश्चतुर्वपि स्थानेषु संचिन्त्यार्च- नादिकमाचरेत् । अस्मिन्योगे सर्वत्र द्वात्रिंशदष्टचतुर्दलानि पानि पूर्वोक्तदेव- ताविशिष्टानि स्मर्तव्यानि । तत्र पीतश्चतुर्मुखः सुक्नुवाक्षमालादण्डकमण्डलुध- रचतुर्बाहुर्ब्रह्मा । अक्षस्रक्पुस्तकमुद्राकलशधरा श्वेता सरस्वती । विष्णुश्चक्रश- जगदापमधरो विद्युद्वर्णः। पद्मद्वयश्रीफलाभयधरा रक्ता श्रीः। परशुहरिणशूलक- पालधरः श्वेतो रुद्रः। पाशाङ्कुशाभयवरधरा श्यामोमा । सर्वत्र मूर्तित्रयमेकपीठ- युतं ध्येयं शक्तयस्तु मूर्त्यङ्कमध्ये वामोरुदेशे वा ध्येयाः। अष्टदलेषु च वेदा- दिकं वाराहादिकं शादिकं सदादिकमित्याद्यावरणचतुष्टयं प्रत्येकं ध्येयम् । अथाभेदयोगमाह-अविभक्तांस्त्रीनेवेति । अविभक्तानेकशरीरांतीस्त्रीन्ब्रह्मादी- ३ तृतीयः खण्डः]] नृसिंहोत्तरवापनीयोपनिषत् । १०५ लिङ्गरूपानेव च संपूज्योपहारैश्चतुर्थाऽथ लिङ्गान्सं- हृत्य तेजसा शरीरत्रयं संव्याप्य तदधिष्ठानमात्मानं संज्वाल्य तत्तेजे आत्मचैतन्यरूपं बलमवष्टभ्य ऽशक्त्यविभागस्वरूपमूलप्रकृतिमायासहितान्सपरिवारांश्च चतुर्वपि संचिन्त्य पूजादिकमाचरेत् । तत्र सर्वेश्वरो हरिणपरशुशङ्खचक्राक्षवलयदण्डधरस्त्रिमुखोऽ निर्देश्यवर्णो ध्येयः । पाशाङ्कुशपमद्वयमुद्रापुस्तकधरा त्रिमुख्यनिर्देश्यवर्णा प्रकृतिः स्मर्तव्या । लिङ्गयोगमाह-लिङ्गरूपानेव च संपूज्येति । सशक्तिका- न्सपरिवारान्ब्रह्मादीन्सर्वत्र ज्योतिर्लिङ्गरूपानेव संचिन्त्य पूजादिकमाचरेदि- त्यर्थः । पूजासाधनं प्रकार चाऽऽह-उपहारैश्चतुर्धेति । उपहारैरमृतरूपैरर्घ्य- पाद्यादिभिर्जलादिभिर्वा । चतुर्धेत्यस्यार्थो व्याख्यातः पूर्वमेव । संपूज्य पुनः किं कर्तव्यमित्याह-अथ लिङ्गान्संहृत्येत्यादिना । अथ पूजानन्तरं लिङ्गा- न्स्थानचतुष्टयस्थज्योतिलिङ्गानि प्रणवोच्चारेण संहृत्यैकीकृत्वाऽमृतमासाव्य सर्वदेवतात्मकं तत्तेजी वर्धयदित्यर्थः । अयं च योगक्रमोऽत्रोक्तः पूर्वत्राप्यनु- संधेयः । चिदवष्टम्भयोगमाह-तेजसा शरीरत्रयं संव्याप्येत्यारभ्यावष्टभ्येत्य- न्तेन । तेजसा पूर्वोक्तेन सर्वदेवतात्मकनाऽऽनन्दामृतवर्धितेन शरीरत्रयं यस्य स्थूलसूक्ष्मकारणलक्षितस्य शरीरत्रयस्यान्तरिदं पूजादिकं कृतं तच्छरीरत्रयं तेन तेजसा तत्रयव्यापकरूपेण भेदेन संव्याप्य सम्यक्सबाह्याभ्यन्तरं व्याप्ये- त्यर्थः। ननु सामान्यशरीरं ब्रह्मज्ञानपरशक्त्यात्मकं देवस्य शरीरत्वेन संकल्प्य तत्रेदं सर्व कृतं तदेव च शरीरमिह सर्वदेवतात्मकं तेज उच्यते तदनन शरीरेण व्याप्य शरीरत्रयं किमात्मकं तदाधारभूतकारणाद्यात्मकमिति चेत्र । तस्य पीठादिरूपत्वेन शरीरत्वाभावात् । नायं दोपः । यतो न पीगदिरूपत्वकल्प- नामात्रेण शरीरत्वं कारणादेरपगच्छति कारणादिरूपशरीरमंत्र हि परोपलब्ध्य- धिष्ठानत्वादिना पीठादिकमुच्यते । अतस्तेन साक्ष्याकारज्ञानात्मकेन तेजसा शरीरत्रयं संव्याप्य तदधिष्ठानं शरीरत्रयस्याप्यधिष्ठानभूतं ब्रह्मात्मकं चैतन्य- रूपं संज्वाल्य शरीरत्रयं संव्यापकज्ञानतेजमा च शरीरत्रयेऽपि ज्ञानतेजसा कवलीकृते तद्वत्किचित्तेजोभावमापने विभज्यतेत्यर्थः । तदेवंभूतं तेजः शरी- रत्रयव्यापकमात्मचैतन्यरूपं बलं तस्मिन्हि ब्रह्मज्ञानतेनसि ब्रह्मात्मचैतन्य शरीरचतुष्टयसंहारकमभिव्यक्तमिति तत्तेज आत्मचैतन्यरूपमित्युच्यते । बलं च तत्तेजः सर्वदैतपरिभवं संहारसामर्थ्यरूपत्वात्तस्य तद्वलमवष्टभ्य । अत्यवधा- क. छ. "जमाऽऽरम । २ क. गड. छ. न्यस्वम । ३ प्र. माक्षात्कार' ।

.. २०६ श्रीमद्विद्यारण्यमुनि वरचितदीपिकासमेता-[३ तृतीयः खण्डः] तस्य गुणैरैक्यं संपाद्य महास्थूलं महासूक्ष्मे महासूक्ष्मं महाकारणे च. संहृत्य मात्रांभिरोतानुज्ञात्रनुज्ञाविकल्परूपं नेन च सर्वचलनपरित्यागपूर्वकं चेतःसाक्ष्येकाकारत्वापादनं तदवष्टम्भो नाम । एवं शरीरचतुष्टयं संहारोन्मुखं कृत्वा गुणयोगः कर्तव्यो मन्दमध्यमयोरित्याह- गुणैरैक्यं संपायेति । गुणराप्तेरादिमत्वाद्वोत्कर्षादुभयत्वाद्वा मितेरपीतेर्वा तुरी- यत्वाचिद्रूपत्वात्सूक्ष्मत्वाद्रीजत्वात्साक्षित्वाचेत्युक्तैरैक्यं वाच्यवाचकयोरेकत्वं संपाद्य संचिन्त्येत्यर्थः । अथ मन्दमध्यमयोः संहारयोगोऽपि तस्य ह वै प्रण- वस्य या पूर्वा मात्रा सा प्रथमपादोभयतो भवतीत्यत्रोक्तक्रमेण केवलप्रणवो. चारणेन कर्तव्य इत्याह-महास्थूलमित्यादिना । महास्थूलं विराडात्मकं स्थूलशरीरम् । महत्त्वं चास्य पूर्वमध्यात्मपरिच्छिन्नस्थूलशरीरमपेक्ष्य । महा- सूक्ष्म हिरण्यगर्भात्मकं सूक्ष्मशरीरमध्यात्मसूक्ष्ममपेक्ष्य । महाकारणमीक्षणाच- वस्थं बहिर्मुखसदात्मकं प्रलयावस्थं च सत्समस्तसंसारवासनाविशिष्टतया बहि- मुखोत्सुकत्वेन साक्ष्येकाकारत्वाभावात् । किंचिदहिर्मुखमेव हि कारणात्मकं सत्तत्तथाऽपि सर्वजगत्कारणत्वेन महाकारणं भवत्यध्यात्मपरिच्छिन्नसौषुप्तश- रीरमपेक्ष्य । संहारसाधनमाह-मात्राभिरिति । उक्तगुणैर्विराडादिपादरूपा- भिरकारोकारमकारमात्राभिरित्यर्थः । अत्र मात्राभिरित्येवोक्तत्वात्केवलपणवे- नायं योगः कर्तव्य इति गम्यते । प्रकरणबलात्पादसंयोगेऽपि न दोषः । अथ कारणसंहारायोतादियोगमाह-ओतेत्यादिना । ओतादियोगास्तूक्तास्तुरीय- खण्डे चोच्यन्ते । तत्रोतादियोगानन्तरमेवोतादिमत्रास्तुरीयखण्ड एव सूचि ज्ञातव्याः । ॐ नमो भगवते नृसिंहायाऽऽत्मन ओतप्रोतादिभावाय सर्वाधि- छानाय सर्वात्मने सर्वायायाय सर्वात्मन एकाय परमार्थसदात्मने व्याप्ताय सच्चिदानन्दघनैकरसायाव्यवहार्यायाद्वयाय नमः । ॐ नमो भगवते नृसिंहायों- कारात्मन ओतप्रोतभावाय सर्ववाचकाय वामात्ररूपाय सर्वरूपात्मने चिन्मा- अरूपाये सर्वात्मने परमेश्वरायाभिन्नायामृतायाभयाय परब्रह्मणे नम इत्योत. मश्राः १ ॐ नमो भगवते नृसिंहात्मने सर्वानुज्ञात्रे सदात्मदात्रेऽसङ्गायावक्रि- यायावयाय नमः । ॐ नमो भगवते नृसिंहायोंकारात्मने सर्वानुज्ञात्रे वायात्र- रूपाय सर्वरूपात्मने चिन्मात्ररूपाय सर्वात्मने सदात्मकत्रे परमेश्वरायाभिन्नाया- मृतायाभयाय परब्रह्मणे नम इत्यनुज्ञातृमत्रः२ ॐ नमो भगवते नृसिंहोत्मनऽनु- 7. 'णन च । २८. य प ।

[४ चतुर्थः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । १०७ चिन्तयन्यसेत् ॥ इत्यथर्ववेदान्तर्गतनृसिंहोत्तरतापनीये षष्ठोपनिषदि तृतीयः खण्डः ॥ ३॥ तं वा एतमात्मानं परमं ब्रह्मोंकारं तुरीयों- काराग्रविद्योतमनुष्टुभा नत्वा प्रमाद्योमिति करसांय प्रज्ञानघनायाऽऽदिसिद्धायाद्वयाय नमः । ॐ नमो भगवते नृसिंहायों- कारात्मनेऽनुज्ञैकरसाय सर्वानुज्ञात्मने वाड्मात्ररूपाय सर्वरूपात्मने चिन्मात्ररू- पाय सर्वात्मने परमेश्वरायाभिन्नायामृतायाभयाय परब्रह्मणे नम इत्यनुज्ञापत्रः३ ॐ नमो भगवते नृसिंहायाऽऽत्मनेऽविकल्पायाद्वयाय नमः । ॐ नमो भगवते नृसिंहायोंकारात्मनेऽविकल्पायाद्वयाय चिन्मात्ररूपाय सर्वात्मने परमेश्वराया भिनायानामरूपायाव्यवहार्यायाद्वयाय स्वप्रकाशाय महानन्दायाऽऽत्मनेऽमृ. तायाभयाय परब्रह्मणे नम इत्यविकल्पमत्रः ४ एवमतैश्चतुर्दशयोगैः सर्वमपि जगत्स्वात्ममात्रात्मतया विलाप्यानुशासनखण्डे वक्ष्यमाणलक्षणं परमात्मानं इंसः सोऽहमित्यात्मत्वेन प्रतिपद्यानुज्ञाप्रणवेन चिदात्मकेन चिचिदात्मकेन वा सर्वदा स्वात्मस्थो भवेदित्यनुष्ठानक्रमसंक्षेपः। विस्तरस्तु तत्प्रतिपादकेषु ग्रन्थेषु द्रष्टव्यः ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दपूज्यपादशिप्यश्री. मद्विद्यारण्यमुनीश्वरकृतौ श्रीनृसिंहोत्तरतापनीये पष्ठोपनिषदि तृतीयः खण्डः ॥ ३ ॥ . अथ स्तुतिनमस्कारविशिष्टां प्रतिपत्ति वक्तुमारभते-तं वा एत- मिति । तं विराइवैश्वानरहिरण्यगर्भसूत्रप्राज्ञानेश्वराव्याकृतब्रह्मरूपमेत स्थूलं विश्वं सूक्ष्म तेजसं सौषुप्तप्राज्ञाव्याकृतप्रत्ययूपमात्मानमेतत्सर्वव्यापकमत्तारं परमं ब्रह्म परब्रह्मरूपमोंकारं चतुर्विधाकारांकारमकारार्धमात्रारूपं चेत्यर्थः । तुरीयोंकाराग्रविद्योतमोतादिरूपस्य तुरीयोंकारस्य बिन्दुनादशक्तिशान्तरूप- स्याग्रे पूर्वभागे साक्षितया विद्योतमानं प्रकाशमानं स्वत एव तमात्मान- मनुष्टुभा नमामिपदपर्यन्तया स्तुतिपूर्वकं नत्वा प्रसाद्य तत्मसादेनं लब्धसंसा- रसंहारसामर्थ्यः सनोमिति संहृत्य चतुर्मात्रमोंकारमुच्चरन्विराहादिकं क्रमेण १ ट. मत्राज्ञानेश । २ ठ. 'गत्माव्या' ।

१०८ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[४ चतुर्थः खण्डः ] संहत्याहमित्यनुसंदध्यादथैतमेवाऽऽत्मानं परमं ब्रह्मोंकारं तुरीयोंकाराग्रविद्योतमेकादशात्मा- नमात्मानं नारसिंहं नत्वोमिति संहरननु- संदध्यादथैतमेवाऽऽत्मानं परमं ब्रह्मोंकारं तुरीयोंकाराग्रविद्योतं प्रणवेन संचिन्यानुष्टुभा संहृत्याहमित्यनुसंदध्यात् । अवशिष्टेनाहंपदेनावशिष्टं तुरीयतुरीयमद्वितीयमात्मा- नमनुचिन्तयेदित्यर्थः । अत्र नत्वेतिवचनं(नेन) नमामिपदस्य नमस्कार एवार्थः। तथा चोग्रमित्यादिद्वितीयान्नपदानां यथाश्रुत एवार्थः । उपासना चेयमनुष्टुप्पा- दमाषामिश्रा न भवति । अनुष्टुभस्तुरीयप्रतिपत्तिमात्रशेषत्वात् । तुरीयोंका- राग्रविद्योतमनुष्टुभा नत्वति युक्तम् । ओंमिति संहृत्येतिवचनाच प्रणवेनैव संहारः । अयमर्थः । चतुर्मात्रमोंकारं समुच्चरंस्तस्य सामर्थ्यस्य साधकं तुरीय- तुरीयं परमात्मानं मृत्युमृत्युमितिपदपर्यन्तयाऽनुष्टुभा स्तुत्वा नमामीति मनसा कायेनोभाभ्यां प्रणम्य प्रणवमुच्चरन्सर्व संहृत्याहमितिपूर्णोऽहंविमर्शरूपेण ब्रह्म- ज्ञानेनावशिष्टमात्मानमनुसंदध्यादिति । अथानुष्टुप्पदसाधनां स्तुतिनमस्कारविशि- टामुपासनामाह-अर्थतमिति । अथशब्दः क्रमार्थः। क्रमस्तु क्रमखण्ड एवास्माभि- रूक्तः। एतमेवं तं वा एतमित्युक्तमेवेत्यर्थः । विद्योतमित्यन्तमुक्तार्थम् । एकादशा- त्मानमुत्वादिगुणभेदवैशिष्ट्यादेकादशस्त्ररूपमात्मानं प्रत्यग्रूपं नारसिंहं स्वात्म- बन्धहरं परं परमात्मानं नत्वा स्तुतिपूर्वकं नमस्कृत्य तत्मसादलब्धवीर्यः सन्नोमिति सर्व संहरनवशिष्टं ब्रह्म स्वप्रकाशमनुसंदध्यात् । तदात्मनाऽवतिष्ठतेत्यर्थः । अयं भावः । ओंकारं समुच्चरंस्तुरीयतुरीयं प्रतिपद्योग्रमित्यायककन पदेनोग्रवादि- गुणविशिष्टं तमेव संचिन्तयन्स्तुत्वाऽऽत्मानं नृसिंहोऽहमिति तमेव वाक्यार्थरूपं स्तुत्वाऽहं नमामीति स्वात्मसमर्पणलक्षणं नमस्कारं विधाय वीरादिमत्रैरप्येवमेव स्तुतिनमस्कारौ कृत्वा पुनः प्रणवमुच्चार्य सर्व संहृत्य स्वात्मन्यवतिष्ठतेति । मवास्तु क्रमखण्डे लिखिता द्रष्टव्याः । पुनरपि परसाधनं नमस्कारादिविशिष्टं चिन्तनान्तरमाह भगवतः प्रसादातिशयार्थम् । अथैतमेवेत्यादिना । उक्तक- मार्थ एवायशब्दः। एतमेवेत्यादि विद्योतमित्यन्तमुक्तार्थम् । प्रणवेन चतुर्मात्रण तुरीयतुरीयपर्यन्तं प्रत्यगात्मानं त्वंपदार्थरूपं संचिन्त्येति प्रणवेन संचिन्त्येत्य- स्यार्थः । उत्तरत्रानुष्टुना परमं ब्रह्म संभाव्येतिविशेषश्रवणादहंपदेनाऽऽत्मान- 2. 'प्रतादि ।

४ चतुर्थः खण्डः] उसिंहोत्तरतापनीयोपनिषत् । १.९ सच्चिदानन्दपूर्णात्मसु नवात्मकं सच्चिदान- न्दपूर्णात्मानं परमात्मानं परं ब्रह्म संभा- मादायेत्यहंपदेन शोधितत्वंपदार्थादानश्रवणाच्चानुष्टुभेत्यनुष्टुबन्तर्गतैरुग्रं वीर महाविष्णुं ज्वलन्तं सर्वतोमुखं नृसिहं भीषणं भद्रं मृत्युमृत्युमितिपदैरित्यर्थः । अविशिष्टविनियोगान्तरश्रवणादहंपदेनाऽऽत्मानमादाय नमसा ब्रह्मणैकीकुर्या- दिति नमाम्यहमिति पदद्वयं तावच्छोधितप्रत्यगात्मादाने तस्योग्रादिपदनक- शोधितंब्रह्मणैकत्वप्रतिपत्तौ च विनियुक्तम् । अर्थादेवावशिष्टं नृसिंहपदं नवप- दविशिष्टब्रह्मवाचकमिति गम्यते । तद्धि नृसिंहरूपस्य ब्रह्मणो वाचकमिति प्रधानभूतविशेष्यवाचकं युक्तम् । अतोऽनुष्टुभेत्यनुष्टुवन्तर्गतोक्तपदनवकेनेत्येवे- त्यर्थः । कथंभूतं ब्रह्मानुष्टुप्पदैरन्वेष्टव्यमित्याह-सच्चिदानन्दपूर्णात्मसु नवा- त्मकमिति । ब्रह्मणः स्वरूपभूतेषु सच्चिदानन्दपूर्णप्रत्यक्षु पञ्चस्वपि प्रत्येक नवात्मकं सदादीनामेकैकस्यापि सर्वसंहारसैमर्थत्वादिरूपत्वसिद्धये प्रत्ये- कमुग्रमित्यादिपदनवकं योज्यमित्यर्थः । ॐ उग्रं सदात्मानं वीरं सदा. त्मानं महान्तं सदात्मानं विष्णुं सदात्मानं ज्वलन्तं सदात्मानं सर्वतोमुखं सदात्मानं नृसिंहं सदात्मानं भीषणं सदात्मानं भद्रं सदात्मानं मृत्यु- मृत्यु सदात्मानमिति तत्संयोगक्रमः । उग्रं चिदात्मानं वीरं चिदात्मान- मित्यादिरूपचित्संयोगक्रमः । उग्रमानन्दात्मानं वीरमानन्दात्मानमित्यादि- रूप आनन्दयोगक्रमः । उग्रमनन्तात्मानमुग्रं पूर्णात्मानमित्यादिरूपो वा पूर्णसंयोगक्रमः । उग्रं प्रत्यगात्मानमुग्रमान्मानमित्यादिरूपो वाऽऽत्मसंयो- गक्रमः । एवं ब्रह्मविशेषक्रमभूतानां सदादीनां ब्रह्मवत्सर्वसंसारविरो- धित्वप्रतिपत्त्यर्थमुग्रत्वादिरूपमभिधाय तेषामेव सदादीनां ब्रह्मवत्सचिदा- नन्दपूर्णात्मत्वप्रतिपत्त्यर्थमुग्रमित्यादिपदसमूहस्य सदात्मानमित्यादिपदसमूहस्य च मध्ये सदादिविशेषणत्वेन सच्चिदानन्दपूर्णप्रत्यक्पदानि प्रक्षेप्तव्यानीत्याह- सच्चिदानन्दपूर्णात्मानमिति । अत्रापि सच्चिदानन्दपूर्णान्मस्त्रित्यनुपज्यते । अतः सचिदानन्दपूर्णात्मसु पश्चस्वपि सच्चिदानन्दपूर्णान्मानमिति संबन्धे सदा दीनामेकैकस्यापि ब्रह्मवत्सचिदानन्दादिस्वरूपत्वं सिद्धं भवति । अतो ब्रह्मणो 'शेषणानां चैकत्वेन ब्रह्मण एकरसत्वं च सेत्स्यति । ॐ उग्रं सच्चिदानन्द- पूर्णप्रत्यक्सदात्मानमित्यादिक्रमेण योगो द्रष्टव्यः । विशेष्यब्रह्मप्रतिपत्त्यर्थ तद्वाचकं पदद्वयमाह-परमात्मानं परं ब्रह्मेति । ॐ उग्रं सच्चिदानन्द० परमा- स्मानं परं ब्रह्मेत्यादिप्रयोगक्रमः। अत्र यद्यपि विशेष्यवाचकनृसिंहपदपर्यायत्वेन १ क. ग घ. छ. परमं । • ए. 'वकागो । : प्र. शेषवा ।

११० श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[४ चतुर्थः खण्डः ] व्याहमित्यात्मानमादाय नमसा ब्रह्मणैकी कु- दिनुष्टुभव वैष उ एव वेष हि सर्वत्र सर्वदा सर्वात्मा सिंहोऽसौ परमेश्वरोऽसौ हि सर्वत्र सर्वदा सर्वात्मा सन्सर्वमत्ति परमात्मानं परं ब्रह्मेति पदद्वयमेव श्रुतं तथाऽपि तस्मात्पूर्व नृसिंहपदं प्रयोक्त- व्यमन्यथा मत्रराजगतस्य नृसिंहपदस्य परित्यागप्रसङ्गात् । पदद्वयात्पूर्वमेव च तस्य प्रयोगो न्याय्यस्तत्स्थाने पदद्वयस्य प्राप्तत्वेन तस्य प्राधान्यात् । एवं तत्प- दार्थ संभाव्याहंपदेन शांधितं प्रत्यगात्मानमादाय नम इतिपदेन तस्य ब्रह्मणैः कत्वं भावनीयमित्याह-अहमित्यात्मानमादाय नमसा ब्रह्मणैकी कुर्यादिति । ॐ उग्रं सच्चिदानन्दपूर्णप्रत्यक्सदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमा- मीत्यादिक्रमेण क्रमखण्डोक्तमत्रा द्रष्टव्याः । अथ प्रणवादिकं विनाऽनुष्टुभव ब्रह्मात्मैक्यं प्रतिपत्तव्यमित्याह-अनुष्टुभैव वेति । अत्रोग्रत्वादिगुणलक्ष्यो नृसिंहस्तत्पदार्थोऽहमिति त्वंपदार्थवाचकः । नमामीति पदं तत्त्वंपदार्थयोरै- क्यवाचकमिति भावः । मत्रराजमध्यगतनृसिंहपदेनैव च ब्रह्मात्मैक्यं प्रतिपत्त- व्यमित्याह -एप उ एव वित्यादिना । तत्र नृशब्दस्य प्रत्यगर्थतामाह-एष इति। एष सर्वेषां स्वभावसिद्ध आत्मा । उ एवेति तस्यैव नृशब्दार्थत्वमन्यत्रा- नुपपत्तेरवधीयते बिति नृसिंह इत्यत्र नृशब्दस्यार्थ इत्यर्थः । कथमस्यैव नृश- दार्थत्वमित्यत आह-एप हीति । एष हि यस्मात्सर्वत्र सर्वस्मिन्देशे वर्तते सर्वस्याऽऽत्मरूपं सच्चिदानन्दरूपेण सर्वदा सर्वस्मिश्च काले वर्तते नित्यत्वात्स- त्मिा च भावाभावात्मकस्य जगतः सच्चिद्यतिरेकेणाभावात्सर्वात्मत्वमस्यावग- न्तव्यमिति। देश[तः]कालतो वस्तुतश्चापरिच्छिन्न आत्मेत्यर्थः । अयं भावः। व्रिति नृ गताविति धातो रूपं गतिश्च व्याप्तिस्त्रिविधा मुख्या सा च प्रत्यगात्मन्येवोप- पद्यते तदन्यस्य तदृश्यत्वेन तत्र कल्पितत्वोपपत्तेस्तस्मात्स एव नृशब्दार्थ इति। सिंहशब्दस्य तत्पदार्थवाचकत्वं दर्शयति-सिंहोऽसौ परमेश्वर इति । सिंहः सिंहशब्दस्यार्थ इत्यर्थः । असौ श्रुतिस्मृतिलोकप्रसिद्धः परमेश्वरः। सिंहश. ब्दस्य तदर्थवाचकता दर्शयति-असौ हीति । असो परमेश्वरः सर्वत्र सर्वदा सर्वात्मा सन्नित्युक्तार्थम् । सर्वमत्ति स्वात्मसात्करोति सच्चिद्रूपेणेत्यर्थः । अयं भावः । पिञ् बन्धन इति धातो रूप सिमिति । अतः कार्यकारणरूपबन्धार्थोs- सौ तं हन्ति व्याप्य संहरतीति सिंह इत्युच्यते । ह इति हन हिंसागत्योरि- १ अ. नेन ।

- [४ चतुर्थः खण्डः] नृसिंहोत्तरतापनीयोपनिष। १११ नृसिंह एवैकल एष तुरीय एष एवोग्र एष एव वीर एष एव एव महानेष एवं विष्णुरेष एव ज्वलन्नेष एवं सर्वतोमुख एष एव नृसिंह एष एव भीषण एष एंव भद्र एष एव मृत्युमृत्युरेष एव नमाम्येष एवाहमेवं योगारूढो ब्रह्मण्येवानुष्टुभं संद- त्यस्य रूपम् । तत्र हिंसा सर्वसंहारो गतिाप्तित्रिविधा । तदुभयं प्रत्यगात्म- भूते परमेश्वर एव संभवतीति स एव सिंहशब्दार्थ इति । एवं पदार्थद्वयं संशोध्य सामानाधिकरण्यादिसिद्धं पदार्थयोरत्यन्तैक्यलक्षणवाक्यार्थमाह- नृसिंह एवेति । आत्मा ब्रह्मैव ब्रह्म चाऽऽत्मवेत्यर्थः । पदार्थद्वयकथनप्रसङ्गे प्राप्तां संसर्गवाक्यार्थतां निराचष्टे-एकल इति । एकरसः सिंह एव नैकरसो नैव च सिंह इत्यर्थः । ननु लोके संसर्गादिलक्षणो वाक्यार्थो दृष्टस्ततोऽत्रापि तथा स्यादित्याशङ्कयास्य वाक्यार्थस्य लोकोत्तरत्वान्नैवमित्याह-पष तुरीय इति । सर्वद्वैतसंहारसमर्थत्वाचास्य वाक्यार्थस्यासंसर्गादिरूपत्वमित्याह-एप एवोग्र इति । संहारसमर्थत्वेऽपि मन्दप्रस्थानतया सर्वमनर्थजातं सहत इति चेन्नेत्याह-एप एव वीर इति । एष एव महानित्यायेष एवाहमित्यन्तं सर्व- संहारसमर्थः परिभवासहः प्रभुाप्त इत्यादिपदव्याख्यानेनैव व्याख्यातमा. यमिति न पुनर्व्याख्यायते । तत्र तुरीयपदार्थसद्भावं दर्शयता पदान्यर्थतो व्याख्यातानीह तु तत्रोक्तमेवार्थ मुपजीव्य तुरीयस्य वाक्यार्थरूपस्य सर्वसंहा. रसामर्थ्यकथनेन वाक्यार्थस्याखण्डतोपपाद्यत इति विशेषः। किंच पूर्वत्र तुरीये पदार्थसद्भावमात्रं दर्शितं सर्वसंहारसमर्थ इत्यादिना । इह त्वेष एवोग्र इत्या- दिभिः सावधारणैर्वाक्यैरिहैव सद्भावो दर्शित इति महान्विशेषः । अत एव च वार्तिककृद्भिः प्रतिपदार्थव्याख्यानमेवकारार्थो दर्शितः-"उग्रता क्रूरताऽन्यत्र प्रतीचो ब्रह्मणो न हि" इत्यादिना । उक्तोपासनावलेन केवलोंकारा- वस्थानसमर्थस्य सर्वमन्यत्साधनजातं प्रणवे संन्यस्य तेन स्वात्मानुसंधानं कर्तव्यमित्याह-एवमित्यादिना । एवं कर्मकाण्डविहितः साधनैः पूर्वोपनिषद्युक्तोपासनयाऽत्रोक्तानुष्टुप्पादमिश्रोपासनादिभिश्च योगारूढः केव- लप्रणवे योगाश्रयणसमर्थो ब्रह्मण्येवोंकारेऽनुष्टुभं संदध्यात् । सर्वमन्यत्सा- धनजातं ब्रह्मरूपे प्रणवेऽन्तर्भाव्य तेनाऽऽत्मानमनुसंदध्यादित्यर्थः । गतखण्ड- १. "त्या" । २ज, ट. प्रणवों।

११२ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[४ चतुर्थः खण्डः] ध्यादोंकार इति तदेतौ श्लोकौ भवतः- संस्तभ्य सिंहं स्वसुतान्गणर्धान्संयोज्य शृङ्ग- ऋषभस्य हत्वा । वश्यां स्फुरन्तीमसती निपीड्य संभक्ष्य सिंहेन स एष वीरः । शृङ्गप्रोतान्पदा स्पृष्ट्वा हत्वा तामग्रसत्स्वयम् । चतुष्टयोक्तेऽर्थे मन्त्राववतारयति-तदिति । तत्तत्रोक्तेऽर्थे श्लोको मन्त्री ब्राह्म- णमूलभूती संभवतः । संस्तभ्य सिंहमुपाध्यविवेकवशाच्चलन्तमात्मानं सिंहं पर- मार्थतो निरस्तनिखिलवन्धं संस्तभ्य विवेकविज्ञानेन स्वमहिम्न्येव स्थिरीकृत्य किमित्याह । स्वसुतान्स्वस्य सिंहात्मनः सुतान्स्थूलविश्वादीन्गुणर्धान्गुणैः स्थूल- त्वात्स्थूलभुक्त्वाचेत्याधैर्कद्धान्मृद्धि प्राप्तान्विराइवैश्वानरादिभावं गतानिति मत्रस्य प्रथमपादेन प्रथमखण्डार्थः संगृहीतः । ऋषभस्य च्छन्दसामृषभस्य प्रधानस्य प्रणवस्य शृङ्गात्राभिस्तान्स्वसुतानाप्त्यादिभिः सामान्यैः संयोज्य मात्रापादेक्यं प्रतिपद्येत्यर्थः । हत्वा स्थूलं सूक्ष्मे सूक्ष्मं कारणे च मात्रात्रयेण संहृत्येत्यर्थः । तुरीयमात्रात्रयाकारेण संहारप्रकारमाह-वश्यामित्यादिना । तां कारणरूपां मायामोतयोगेनाऽऽत्मवशां कृत्वाऽनुज्ञातृयोगेनाऽऽत्मसत्तास्फुरणा- धीनतया सती स्फुरन्तीं तत्र कल्पितया संभाव्यानुज्ञायोगेनासतीमविद्यमान- समां निरस्तप्रसवां कृत्वा निपीड्य साक्षिचिदाकारमेवातिप्रयत्नेन मनः कुर्वस्तां साक्षिसिंहचैतन्ये स्वविरोधिन्येव मज्जयित्वेत्यर्थः । उक्तं च-“ओतत्वाच तुरीयस्य वश्यानुज्ञातृतोऽपराम् । अनुज्ञैकरसत्वाच्च संहृत्यैव द्वयाकृतिः" इत्यादि । संभक्ष्य सिंहेन बुद्धिवृत्त्यारूढेन तुरीयेण स्वात्मना ब्रह्मणा ताव- न्मात्रेण संभक्ष्य तत्राध्यस्तां मायां तस्मिनुदितेन ज्ञानेन तावन्मात्रां कृत्वे- त्यर्थः । संभक्ष्य सिंहेनेति मत्रराजेन तुरीयतुरीयं चिन्तयंस्तां मायां संहृत्येति वाऽर्थः । स एवं विद्वान्वीरः पुनः संसारापरिभाव्यो भवति नृसिंहरूपत्वात्त- स्येति द्वितीयखण्डार्थः संगृहीतः । शृङ्गप्रोतान्प्रणवमात्राव्याप्तान्विराडादीश्व- तुःसप्तकान्ब्रह्मसर्वेश्वरादींश्च पदाऽनुष्टुप्पादचतुष्टयेन स्पृष्ट्वा संयोज्य संचिन्त्य हत्वा क्रमेण संहृत्य तां कारणभूतां मायामुक्तप्रकारेण तुरीयमात्रया पादेन च यथासंभवमग्रसत्संहतवान् । स्वयं वीरो विद्वानृसिंह आत्मेति तृतीयखण्डार्यः संगृहीतः। नत्वा च बहुधाऽनन्तरखण्डोक्तमकारेणाऽऽत्मभूतनृसिंहमनेकप्रकारेण ५ पञ्चमः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । नवा च बहुधा दृष्ट्वा नृसिंहः स्वयमद्वभाविति ॥ इत्यथर्ववेदान्तर्गतनृसिंहोत्तरतापनीये षष्ठोपनिषदि चतुर्थः खण्डः ॥ ४॥ अथैषो एवाकार आप्ततमार्थ आत्मन्येव नृसिंहे नखा । चशब्दात्स्तुत्वां चेत्यर्थः । बहुधा दृष्ट्वा चं स्वात्मानं नृसिंहं नमस्कार- मन्त्रैः प्रणवेन मत्रराजेन नृसिंहपदेनं च बहुधा दृष्ट्वा । नृसिंहः स्वयमुद्वभौ पूर्वमपि स्वयं नृसिंह एव सन्मज्ञानादनभिव्यक्ततया देवप्रसादजेन ज्ञानेन नृसिंहः स्वयमुद्धभौ । अभिव्यक्त इत्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दपूज्यपादशिष्यश्री- मद्विद्यारण्यमुनीश्वरकृतौ श्रीनृसिंहोत्तरतापनीये पष्ठोपनिषदि चतर्थः खण्डः ॥ ४ ॥ . ओंकारेऽनुष्टुभमन्तर्भाव्य तेन स्वात्मानुसंधानं कर्तव्यमित्युक्तं तत्क. थमनुष्टुभः प्रणवऽन्तर्भावः कथं वा तेनाऽऽत्मानुसंधानं कर्तव्यमित्याकाङ्- क्षायां तत्प्रदर्शनाय खण्ड आरभ्यते-अथेति । तत्राकारस्याततिजस्य व्याप्त- प्रत्यगर्थत्वमभिधाय तदुपपादनाय प्रतीचि मत्रराजार्थसद्भावमभिधाय स एवाकारस्य योग्योऽर्थ इति नियम्यते प्रथमपर्यायेण । द्वितीयपर्याये शङ्का- न्तरपरिहाराय प्रत्यगात्मन एवोत्कृष्टोकारार्थत्वमभिधायाऽऽत्मन उत्कृष्टत्वो- पपादनायाऽऽत्मनि मत्ररानार्थसद्भावमभिधाय स एवोकारस्य योग्योऽर्थ इति नियम्यते । तृतीय तु पर्याय महाविभूतिविशिष्टस्य प्रत्यग्ब्रह्मण एवं मकारार्थत्वमभिधाय विभूतिमत्त्वेन प्राप्तदोषपरिहाराय ब्रह्मणि मत्रराजा- न्तर्भावात्तद्वाचकपणवमात्रास्वपि तदन्तभावो ज्ञातव्यः । अन्यथा तद्वा- चकायोगाद्वाच्यवाचकयोरभेदाच्च । तत्र तावदकारस्य व्याप्ततमार्थत्वमत. तिजत्वबलेनाऽऽह-अथेति । अनुष्टुप्पादचतुष्टयन चतुर्मात्रप्रणवेनोपासनमभि- धाय केवलेन त्रिमात्रेण प्रणवेनाऽऽत्मप्रतिपत्तिरभिधीयत इत्यथशन्दस्यार्थः । एषा मात्रा । उ एव । का सा मात्रेत्यत आह-अकार इति । सा चाऽऽसत. मार्थ एवेत्येवकारस्यान्वयः । अस्त्वकारस्याततिजत्वेन व्याप्ततमार्थत्वं स तु व्याप्ततमोऽकारार्थः को यस्मिन्नकारस्य वृत्तिर्भवतीत्यत आह-आत्मन्येवेति । आत्मन्येव प्रत्यगात्मन्येवेत्यर्थः । तस्याकारार्थत्वाय त्रिविधव्याप्तिसिद्धये सर्व- संहर्तृत्वमाह-नृसिंह इति । स्वात्मबन्धहर इत्यर्थः। ततश्च बृहत्वातत्राका- १. न ह।

. ११४ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[५ पञ्चमः खण्डः] ब्रह्मणि वर्तत एष ह्येवाऽऽततम एष हि. साक्ष्येष ईश्वरोऽतः सर्वगतो न हीदं सर्व- मेष हि व्याप्ततम इदं सर्व यदयमात्मा मायामात्रमेष, एवोग्र एष हि व्याप्ततम रस्य वृत्तिर्युक्तेत्याह-ब्रह्मणि वर्तत इति । नन्वन्येऽपि व्याप्ता आकाशादयः पदार्थाः सन्त्यतस्तेषामन्यतमस्मिन्नकारस्य वृत्तिरस्तु न तेषां व्याप्तत्वेऽपि व्याप्ततमत्वाभावादित्याह-एष ह्येवाऽऽसतम इति । कथं प्रत्यगात्मनोऽप्येतच्छ- रीरमात्रवर्तिनो व्याप्ततमत्वमित्याशङ्कय सर्वबुद्धिसाक्षित्वान्नैवमिति वदनुक्तं सर्व- संहर्तृत्वं ब्रह्मत्वं च क्रमेण साधयति-एष हि साक्षीति । न हि साक्षिमात्रे भेदो भवतीत्यर्थः । तथाऽपीश्वरस्य भैदेनास्थितत्वानवाऽऽप्ततमत्वमित्याशङ्कय नेत्याह-एष ईश्वर इति । न हि साक्षिणो व्यतिरिक्तस्य साक्ष्यस्य जडस्ये- श्वरत्वं संभवतीत्यर्थः । फलितमाह-अतः सर्वगत इति । तथापि सर्वसाक्षिणः साक्ष्यसद्भावान व्याप्ततमत्वमित्याशङ्कय साक्ष्यस्य साक्षि- व्यतिरेकेणासत्त्वमाह-न हीदं सर्वमिति । तत्र हेतुमाह-एष हि व्याप्ततम इति । एष ईश्वरः साक्षीशितव्ये साक्ष्येऽतिशयेन व्याप्तः स बाह्याभ्यन्तरं स्वीकृत्य सकलोऽन्यथा साक्षित्वानुपपत्तेरित्यर्थः । अय- वाकारस्य तावद्याप्ततमः कश्चिदर्थोऽभ्युपगन्तव्यः स च साक्षिणोऽ- न्योऽनुपपन्न इत्यकारस्य निरर्थकत्वभयादात्मनः साक्ष्यसंकोचोऽपि नाभ्यु. पगन्तव्य इत्यर्थः । नन्वेवमपि साक्ष्ये व्याप्ये साक्षिणो भेदेनाभेदेन वा विद्यमाने कथं व्याप्ततमत्वं संभवतीति चेत् । नायं दोषः । यतो न साक्ष्यं परमार्थतोऽस्तीत्याह-इदं सर्व यदयमात्मेति । योऽयमात्मा स एवेदं सर्वे न तु तस्माद्भेदेनाभेदेन वा स्थितमित्यर्थः । तत्रास्य सर्वस्य माया- मात्रत्वं हेतुमाह-मायामात्रमिति । मायामात्रेणापि साक्ष्येण व्याप्तिसंकोचो भवत्यतो न व्याप्ततमत्वमात्मन इति चेन्न तत्संहारसमर्थत्वादस्येत्याह-एष एवोग्र इति । उग्रत्वमप्यततिभवस्याकारस्य नैरर्थक्यभयादात्मन्यभ्युपगन्तव्य- मित्याह-एष हीति । अकारस्य तावदेष एवाऽऽत्मार्थो यत एष वाऽऽत. तमो न चाऽऽप्ततमत्वमुग्रत्वस्य सर्वसंहर्तृत्वस्याभावे संभवत्यतोऽकार एव स्वय. मुप्रपदात्मा सनुग्रखमप्यात्मनो बोधयतीत्यकारस्योग्रपदात्मत्वं तावत्सिद्धमि- त्यनेनोक्तम् । एवं वीरादिपदात्मत्वमप्यवगन्तव्यः । ततश्च यदुक्तमनुष्टुभं संद- क. ग. प ही।

[१ पञ्चमः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । ११६ एष एव वीर एष हि व्याप्ततम एष एव महा- नेष हि व्याप्ततम एष एव विष्णुरेष हि व्याप्त- तम एष एव ज्वलन्नेष हि व्याप्ततम एष एव सर्वतोमुख..एष हि व्याप्ततम एष एव नृसिंह एष हि व्याप्ततम एष एव भीषण एप हि व्याप्ततम एष एव भद्र एष हि व्याप्ततम एष एव मृत्युमृत्युरेष हि व्याप्ततम एष एव नमा- म्येष हि व्याप्ततम एष एवाहमेष हि व्याप्त- तमै आत्मैव नृसिंहो ब्रह्म भवति य एवं वेद सोऽकामो निष्काम आप्तकाम आत्मकामो ध्यादोंकार इति तदित्थमुपपादितं श्रुत्या भवति । संहारसमर्थत्वेऽपि मन्दप्र- स्थानत्वान्न संहरति किंतु सर्वमप्यनर्थजातं सहत एवेति चेन्न यतोऽयं पराम. वासह इत्याह-एष एव वीर इति । वीरत्वेऽपि पूर्ववद्धेतुमाह-एष हीति । एवमपि प्रतिबन्धसंभवान संहरतीति चेन्नेत्याह-एष एव महानिति । मह- त्वेऽपि पूर्ववद्धतुमाह-एष हीति । एवमेवोत्तराण्यप्यनुष्टुप्पदानि, पूर्वोक्ताश- शानिवर्तकत्वेनोत्थाप्य तत्तत्पदार्थात्मन्यकारार्थव्याप्त्यन्यथानुपपत्त्या तत्तत्प- दात्मकेनाकारेण साधनीयम् । एवमकारेऽनुष्टुभमन्तर्भाव्य तेन प्रत्यगात्मप्रति- पत्तुः फलमाह-आत्मैव नृसिंह इत्यादिना । ज्ञानकाल एव प्रत्यग्भूतं चिदा- त्मकं सर्वबन्धरहितं ब्रह्म भवतीत्यर्थः । एवंविदो वेदनमात्रेण ब्रह्मत्वमुपपाद- यति-सोऽकाम इत्यादिना । यस्मात्स विद्वानकामो मुक्तः। सर्वविषयरहितो मानसमकाल एव तस्माज्ज्ञानसमकाल एव ब्रह्म भवतीत्यर्थः । कुतो ज्ञानस- मकाल एवाकाम इति तत्र निष्कामत्वं हेतुमाह-निष्काम इति । निर्गततृष्णा- भेदत्वात्तदैवेत्यर्थः । कुतस्तृष्णाभाव इति । आप्तसर्वकामत्वादित्याह-आप्त- काम इति । अनाप्तकामस्य हि तृष्णा तद्विषया भवति न तु माप्तसर्वकामस्य । कुत आप्तकामता विदुष इति । आत्मकामत्वादित्याह-आत्मकाम इति । ये पूर्व परमानन्दानुभवरूपात्माज्ञानादाप्तव्या अनात्मभूताः कामा अभवंस्तेऽस्यो- तात्मज्ञानादनाने निवृत्तेऽजानकार्यत्वानिवृत्ता आत्मानन्दमात्रतामेव प्राप्ताः । अत आत्मकामत्वादाप्तकामोऽतश्च निवृत्तसर्वतृष्णोऽतोऽकामो निर्विषयो मुक्तो १ घ. मस्तस्मादात्मानमेवं जानीयादान्मै । २ क. ग. घ. 'हो देवो नै ।

श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[५ पञ्चमः खण्डः ] न तस्य प्राणा उत्क्रामन्यत्रैव समवनीयन्ते ब्रह्मैव सन्ब्रह्माप्येत्यथैषो एवोकार उत्कृष्टत- मार्थ आत्मन्येवं नृसिंह देवे ब्रह्मणि वर्तते तस्मादेष सत्यस्वरूपो न ह्यन्यदम्त्यमेयम- ब्रह्मवासौ ज्ञानसमय इत्यर्थः । अस्त्वेवं ज्ञानसमये ब्रह्मत्वं शरीरपातादूर्ध्वं तु पूर्ववत्पुनरपि संसारं प्रामोतीति चेन्न । अज्ञानकामाद्यसत्त्वेनोत्क्रान्त्यभावादि- त्याह-न तस्येति । तस्याकामस्य प्राणा नोत्क्रामन्ति । कर्मफलभोगाय ह्युत्क- मणं स्यात् । कर्म चाज्ञानकृतं विद्यया नष्टमिति तत्फलानुपपत्तेः । न तद्भोगाय प्राणा उत्क्रामन्त्यन्तकाले किं तात्रैव विदुप आत्मन्येव समवनीयन्त एकीभावं गच्छन्ति । स तु विद्वान्समवनीतेषु प्राणेषु शरीरे च पतिते पूर्वमपि ब्रह्मैव सन्नुत्तरकालेऽपि ब्रह्मैवाप्यति । अज्ञानकृताब्रह्मत्वनिवृत्तिरेव ब्रह्मप्राप्तिन तु स्वर्गादिप्राप्तिवदप्राप्तप्राप्तिः संभवति । आत्मत्वाब्रह्मणो मोक्षस्य स्वर्गादिवद- नित्यत्वप्रसङ्गाच । नन्वात्मन्यनात्माध्यासवदात्मनोऽप्यनात्मन्यध्यासोऽङ्गीक- तव्यः । अन्यथा लोकव्यवहारानुपपत्तेः । तस्मात्कल्पितस्यासत्त्व आत्मनोऽपि कल्पितत्वेनासवप्रसङ्गस्तस्य सत्यत्वे चानात्मनोऽपि सत्यत्वं स्यात् । एवं च सति के विशेषमाश्रित्याऽऽत्मनः सर्वसंहारसमर्थत्वेन व्याप्तत्वादकारार्थत्वं न त्वनात्मनस्तदभावादिति पूर्वमुक्तमित्याशङ्कामुकारेण परिहर्तमुकारस्यार्थमाह- अथेत्यादिना । अकारार्थकथनानन्तरमुकारार्थ उच्यत इत्यथशब्दार्थः । एषा मात्रा । उ एव । का सा मात्रेत्याह-उकार इति । स चोत्कृष्टतमार्थ उत्कर्ष शब्दैकदेशत्वात्तस्योर्ध्वमुत्कृष्टत्वमाधिक्यं चोत्कर्षः । अनात्मसंवन्धित्वेना. ध्यस्तत्वेऽपि स्वरूपेणानध्यासाचोत्कृष्टत्वमसंसृष्टत्वमनध्यस्तत्वमूर्ध्वमुत्कृष्टत्व- माधिक्यं च तदेव । कोऽसावुत्कृष्टतमोऽर्थो यस्मिन्नुकारस्य वृत्तिरिति तत्राऽऽह-आत्मन्येवेति । देवादिरूपस्याऽऽत्मन एव सर्वाध्यक्षस्योक्तरूपो- स्कर्षसंभवात्स एवोकारार्थ इत्यर्थः । अतश्चोक्तशङ्कानिरवकाशेत्याह-तस्मा. दिति । यस्मादध्यासाध्यस्ताध्यक्षतया स्वरूपेणानध्यस्ततया वर्तते तस्मादुत्कृ- तृत्वादेष एव सत्यस्वरूपो न त्वनात्मेत्यर्थः । अनात्मनोऽपि तर्हि संबन्धरूपेण चाध्यस्तत्वं स्वरूपतस्त्वात्मवदनध्यस्तपरमार्थसद्रूप एवानात्माऽपीति चेन्ने त्याह-न ह्यन्यदस्तीति । परमात्मासत्त्वाभावे हेतुमाह-अमेयमिति । अज्ञा- तत्वासंभवान्मानसंबन्धायोग्यत्वादित्यर्थः । ननु प्रमाणाविषयस्याप्यात्मनो १ ड, वलीय । २ क. घ. 'हे ब्र' । ३ म.क्षस्योक्तया . [५ पञ्चमः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । ११७ नात्मप्रकाशमेष हि स्वप्रकाशोऽसङ्गोऽन्यत्र वीक्षत आत्माऽतो नान्यप्रथाप्राप्तिरात्ममात्रं ह्येतदुत्कृष्टमेष एवोग्र एष ह्येवोत्कृष्ट एष एव वीर एष ह्येवोत्कृष्ट एष एव महानेष द्येवोत्कृष्ट एष एव विष्णुरेष ह्येवोत्कृष्ट एष एव ज्वलन्नेष ह्येवोत्कृष्ट एष एव सर्वतोमुख एष ह्येवोत्कृष्ट एष एव नृसिंह एष ह्येवोत्कृष्ट एष एव भीषण एष ह्येवोत्कृष्ट एष एव भद्र एष ह्येवोत्कृष्ट एष एव मृत्युमृत्युरेष ह्येवोत्कृष्ट एष एव नमाम्येष यथाऽस्तित्वं तद्वदनात्मनोऽप्यस्तीत्याशङ्कयानात्मन आत्मनो वैषम्यमाह- अनात्मप्रकाशमिति । प्रमाणाविषयत्वेऽप्यात्मनः सिद्धिः संभवति स्वप्रकाश- त्वान्न त्वनात्मनोऽस्वप्रकाशत्वादित्यर्थः । आत्मनोऽपि स्वप्रकाशत्वं नेति चेन्नेत्याह-एप हीति । सर्वसाधकस्य स्वप्रकाशत्वमभ्युपगन्तव्यमित्यर्थः । तर्हि स्वप्रकाश आत्माऽनात्मानं साधयत्विति चेन्नेत्याह-असङ्गोऽन्यत्र वीक्षत आत्मेति । असङ्गत्वादन्यन्न प्रकाशयत्यात्मत्यर्थः । फलितमाह- अत इति । कथं तनात्मप्रतिभासो लोकस्यत्यात्मन्यध्यस्ततयाऽनात्मन आत्मव्यतिरेकेणाभावादात्मप्रथामेवानात्मप्रथां मन्यते लोक इत्याह--आत्म- मात्रं हीति । अनात्मन एवाऽऽत्मन्यध्यस्तत्वे पूर्वोक्तं हेर्नु स्मारयति-एतदु- त्कृष्टमिति । एतदात्मतत्त्वं स्वतोऽनध्यस्तं हीत्यर्थः । अध्यस्तस्यापि द्वैतस्य यदि प्रतीतिः परिहर्तुं न शक्या तर्हि सभयत्वप्रतिभासोऽपि न परिहर्नु शक्यः। न चानात्मनः कल्पितत्वं निश्चेतुं शक्यते तस्य व्यभिचारासिद्धरित्य- यमपि दोषो नास्ति यतोऽयमात्मा स्वाध्यस्तसर्वसंहारसमर्थ इत्याह-एप एवोग्र इति । उग्रत्वमेव कुत इति तदाह-एप ह्येवोत्कृष्ट इति । उकारस्य ताव- देष एवाऽऽत्माऽर्थः। यत एष ह्येवोत्कृष्टो न चोक्तमुत्कृष्टत्वमुग्रत्वं सर्वसंहर्तृत्वम- न्तरेण निश्चेतुं शक्यतेऽत एवोकार एवोग्रपदात्मा सन्नुग्रत्वमप्यात्मनो बोध- यतीत्युकारस्योग्रपदात्मत्वमननोक्तम् । एवं वीरादिपदात्मत्वमप्यवगन्तव्यम् । उकारस्य संहारसमर्थत्वेऽपि मन्दप्रस्थानत्वान्न सहरति किंतु सर्वमप्यनर्थजातं सहत एवेत्याद्याशङ्कायामुत्तराण्यपि पदानि तत्तच्छङ्कानिवर्तकन्वेनोच्थाप्य १ घ. 'न्यप्रा । इ. न्यथा । २ अ. स्वतो नाध्य।

• . श्रीमद्विधारण्यमुनिविरचितदीपिकासमेता-[५ पञ्चमः खण्डः ] ह्येवोत्कृष्ट एष एवाहमेष ह्येवोत्कृष्टस्तस्मादा- स्मानमेवैवं जानीयादात्मैव नृसिंहो देवो ब्रह्म भवति य एवं वेद सोऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्यत्रैव समवनीयन्ते ब्रह्मैव सन्ब- ह्याप्येत्यथैपो एवं मकारो महाविभूत्यर्थ आत्मन्येव नृमिहे देवे परे ब्रह्मणि वर्तते तस्मादयमनल्पोऽभिन्नरूपः स्वप्रकाशो ब्रह्मैव तत्तत्पदार्थात्मत्वमात्मन्युकारार्थोत्कर्षान्यथानुपपच्या तत्तत्पदात्मकेनोकारण साधनीयम् एप वीर इत्यादिना । यस्मादुक्तमकारेणाऽऽत्मैव स्वतोऽनध्यस्तः सन्सर्व संहरति तस्मादात्मानमेव परमार्थसत्यस्वरूपं जानीयादित्याह-तस्मादिति । एवंविदः फलमाह-आत्मैवेति । तत्साध- यति-सोऽकाम इत्यादिना एवमकारोकाराभ्यां ब्रह्मस्वरूपस्य वाक्यार्थयोग्यस्य प्रतिपत्तिप्रकारमभिधाय मकारस्यार्थ- माह-अयेति । कोऽसौ महाविभूत्याख्यो मकारार्थ इति प्रत्यग्रूपं ब्रह्म- त्याह-आत्मन्येवेति । देवपरशब्दाभ्यां मकारस्य तत्पदार्थवाचकत्वं सूचि तम् । तत्पदार्थे हि देवत्वं परत्वं च प्रसिद्धम् । महाविभूतिपदे दृश्यमानोऽयं मकारो महाविभूतिपदात्मक एवेति महाविभूतिविशिष्टे ब्रह्मण्येव वर्तत इत्यर्थः । ननु ब्रह्मणः प्रत्यगात्मत्वे प्रत्यगात्मवब्रह्मणोऽपि परिच्छेदादिप्रसक्तिरित्युक्त- प्रत्यक्खरूपविस्मरणशीलस्य मतमाशङ्काय ब्रह्माभेदात्मत्यगात्मनोऽप्यपरिच्छि- मचैतन्यादिरूपत्वं किं न स्यादित्याह-तस्मादयमनल्प इति । तस्मात्परिपूर्ण- ब्रह्मणः प्रत्यāपखादयं प्रत्यगात्मा मन्दः परिच्छिन्नत्वेन गृह्यमाणोऽपि परमार्थ- तोऽनल्प इत्यर्थः । उभयथाऽपि संभवे कस्तहि निर्णय इत्याशङ्कय प्रत्यक्स्वरू- पनिरूपणे तस्यापि ब्रह्मवत्परिच्छेदाधभावान तदभेदेन ब्रह्मणोऽपि तत्प्रसङ्ग इति वदन्मतवतन्यर सर्वत्रैकरूपत्वादोपाधिक्येव भेदप्रतीतिरित्याह-अभिन्न रूप इति । स्वयंप्रकाशस्याऽऽत्मनः परिच्छेदग्रहणानुपपत्तेश्चापरिच्छिन्नोऽयमि- त्याह-स्वप्रकाश इति। स्वप्रकाशत्वे च सर्वस्यापि ब्रह्मलक्षणस्य संभवानिरूपि- तेन प्रकारेण ब्रह्मैवायमात्मेत्याह-ब्रह्मैवेति । साक्षादपरोक्षचिद्रूपत्वं तावत्स्व. प्रत्यगात्मनः १ ग. ह. वलीय'। २ क. ग. घ. प्रस्वरू। ३ म. क्यान्वययों।

[५ पञ्चमः खण्डः] नृसिंहोत्तरतापनीयोपनिषः । ११९ व्याप्ततम उत्कृष्टतम एतदेव ब्रह्मापि सर्वज्ञ महामायं महाविभूयेतदेवोग्रमेतद्वि. महाविभू- येतदेव वीरमतदि महाविभूत्येतदेव महदेतदि महाविभूत्येतदेव विष्ण्वेतद्धि महाविभूत्येतदेव ज्वलदेतद्दि महाविभूत्येतदेव सर्वतोमुखमेतद्धि महाविभूत्येतदेव नृसिंहमेतद्धि महाविभूत्येतदेव भीषणमेतद्वि महाविभूत्येतदेव भद्रमेतद्धि महाविभू- प्रकाशत्वे सिध्यति नित्यापरोक्षस्याऽऽत्मनो नित्यसद्रूपवमपि सिध्यति । ततश्च सत्तास्फूयोरन्यनिरपेक्षत्वेन स्वातन्त्र्यादनन्यशेषत्वेनाऽऽनन्दरूपत्वमपि सिध्यति । अन्यच्च ब्रह्मलक्षणत्वेन श्रूयमाणमेवं प्रतिपादनीयम् । आत्मन्यका- रोकाराभ्यां यत्प्रत्यगात्मनो व्याप्ततमत्वमुत्कृष्टतमलं चोक्तं तदपि ब्रह्मरूपत एव संभवतीत्याह-व्याप्ततम उत्कृष्टतम इति । आप्ततमत्वमुत्कृष्टतमत्वं च ब्रह्मत्व एवेति पूर्वेण संवन्धः । एवं प्रत्यगात्मस्वरूपनिरूपणेन तस्य ब्रह्मत्व- मभिधाय ब्रह्मस्वरूपलोचनायां ब्रह्माप्यात्मवेत्याह-एतदेव ब्रह्मेति । ननु सर्वज्ञं सर्वशक्ति महाविभूतिसंपन्नं च ब्रह्म श्रूयतेऽतस्तनिरूपणायां कथं तस्य तद्रहितप्रत्यप्रपत्वमिति चेन्नायं दोषः । सर्व जानातीत्यादिव्युत्पत्त्या सर्वज्ञत्वा दीनां कल्पितजगत्सापेक्षत्वेन कल्पितत्वान तेषां परमार्थब्रह्मस्वरूपत्वं परमार्थ- ब्रह्मस्वरूपस्य च प्रत्यग्रूपत्वमुच्यत इति न विरोधः । अथ सर्व च तज चेत्यादिव्युत्पत्त्या ब्रह्मणः सर्वज्ञत्वादिकमुच्यते तथाऽपि न विरोधो ब्रह्मणः प्रत्यक्त्वे प्रतीचोऽपि तथात्वादित्याह--अपि सर्वझं महामायं महाभूतीति । एवंविधमपि ब्रह्माऽऽत्मैवोक्तयुक्त्येत्यर्थः । उक्तं च वार्तिककृद्भिः- "उक्तं कल्पितमेव स्यात्समानाधिकृतस्तु वा" इति । सर्व जानातीति सर्वज्ञमिति पक्षे तर्हि मायामयं जगदभ्युपगन्तव्यम् । पक्षान्तरेऽपि शब्दव्यतिरेकेण सर्वशब्द- प्रयोगाच सर्वमभ्युपगन्तव्यं ततश्च मायामयस्यापि द्वितीयप्रतिभासस्य विद्य- मानत्वात्तहुःखप्रतिभासोऽपि स्यादेवः ब्रह्मणः । न च महाविभूतिरूपत्वं देशतः कालतो वस्तुतश्चापरिच्छिन्नविभूतित्वं निर्णेतुं शक्यते । सर्वस्य माया. मयत्वं च न निश्चेतुं शक्यत इति चेन । सर्वसंहारसमर्थत्वाद्ब्रह्मण इत्याह- एतदेवोग्रमिति । उग्रत्वमेव कुत इति तदाह-एतद्धि महाविमूतीति । - १८. चनया । २ म.न्तव्यमतः रखमा।

. . १२० श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[५ पञ्चमः खण्डः] त्येतदेव मृत्युमृत्य्वेतद्धि महाविभूत्येतदेव नमाम्येतद्धि महाविभूत्येतदेवाहमेतद्धि. महा- . विभूति तस्मादकारोकाराभ्यामिममात्मानमा- ततममुत्कृष्टतमं चिन्मानं सर्वद्रष्टारं सर्वसाक्षिणं सर्वग्रास सर्वप्रेमास्पदं सच्चिदानन्दमात्रमेकरसं मकारस्य तावदेतदेव ब्रह्मार्थः । यत एतदेव महाविभूति । न चोक्तं महाविभूतित्वमुग्रत्वं सर्वसंहर्तृत्वमन्तरेण निश्चेतुं शक्यमतो मकार एवोग्रप- दात्मा सन्नुग्रत्वमपि ब्रह्मणो बोधयतीति मकारस्योग्रपदात्मत्वमनेनोक्तम् । एवं वीरादिपदात्मत्वमप्यवगन्तव्यम् । मकारस्य सर्वसंहारसमर्थत्वेऽपि न संहरतीत्याद्याशङ्कायामुत्तराण्यपि पदानि तन्निवर्तकत्वेनोत्थाप्य तत्तत्पदा- र्थात्मत्वं ब्रह्मणि मकारार्थे महाविभूत्यन्यथानुपपत्त्या तनत्पदात्मकत्वेन मकारेण साधनीयमेतदेव वीरमित्यादिना । एवं पदार्थद्वयमितरेतरपर्यवसितं संशोध्योक्तमेवार्थमनुवदन्सामानाधिकरण्यसिद्धमेकत्वलक्षणवाक्यार्थमाह-त- स्मादित्यादिना । यस्मादेवं प्रत्यग्ब्रह्मणोरेकत्वमविरुद्धं तस्मादकारोकाराभ्या- मिमं प्रत्यगात्मानमन्विष्य प्रतिपद्य मकारेण ब्रह्म जानीयादित्युत्तरेणान्वयः । इममित्युक्तमात्मानं विशिनष्टि तस्य ब्रह्मणैकत्वयोग्यताप्रदर्शनार्थम्-आप्तत- ममुत्कृष्टतममिति । आप्ततमोत्कृष्टतमत्वयोः सर्वाधिष्ठानसन्मात्रत्वं हेतुमाह- चिन्मात्रमिति । द्रष्टदृश्यान्वयव्यतिरेकेण चिद्रूपत्वं साधयति-सर्वद्रष्टारमिति। द्रष्टत्वं नाम दर्शनक्रियाकर्तृत्वम् । अतः कथं चिन्मात्रत्वमित्याशङ्कय साक्षिसा- क्ष्यान्वयव्यतिरेकेण सर्वविक्रियानिरासेन चिन्मात्ररूपत्वमाह-सर्वसाक्षिण- मिति । साक्षाक्रियाव्यवधानमन्तरेण स्वात्मनैव सर्वमीक्षत इति साक्षी तत- श्चिन्मात्ररूपत्वं सिद्धम् । अथ साक्षिणः साक्ष्यसद्भावेन प्राप्तं सद्वितीयत्वं परि- हरन्सद्रूपत्वमानन्त्यं चाऽऽगमापायितदवध्यन्वयव्यतिरेकेणाऽऽह-सर्वग्रास- मिति । आगमापायवतां कल्पितानां जायदादीनां साक्ष्यरूपाणां सर्वकल्पना- धिष्ठानादिरूपसच्चिन्मात्रात्मव्यतिरेकेणासत्त्वात्सर्वसंहारमित्यर्थः । अथास्य पुरुषार्थरूपत्वाय दुःखिप्रेमास्पदान्वयव्यतिरेकमाश्रित्य परमानन्दरूपत्वमाह सर्वप्रेमास्पदमिति । परप्रेमास्पदत्वात्परमानन्दरूपत्वमित्यर्थः। अन्वयव्यतिरे- कचतुष्टयसिद्धं फलं स्वयमेवाऽऽह-सच्चिदानन्दमात्रमेकरसमिति । सन्मात्रं चिन्मात्रमानन्दमात्रमिति मात्रपदं प्रत्येकमभिसंबन्धनीयम् । सदादिषु स्वगत. भेदनिरासाय सदादीनां परस्परभेदाभावादेकरस्यमुक्तम् । ऐकरस्यं युक्तितः [५ पञ्चमः खण्डः] नृसिंहोचरतापनीयोपनिषत् । पुरतोऽस्मात्सर्वस्मात्सुविभातमन्विष्याऽऽसत- ममुत्कृष्टतमं चिन्माचं' महाविभूति सच्चिदान- न्दमात्रमेकरसं परमेव ब्रह्म 'मकारेण जानी- यादात्मैव नृसिंहो देवः परमेव ब्रह्म भवति य एवं वेद सोऽकामो निष्काम आप्तकाम आत्म- कामो न तस्य प्राणा उत्क्रामन्यत्रैव समर्वनी- यन्ते ब्रह्मैव सन्ब्रह्माप्यतीति ह प्रजापतिरुवाच ।। इत्यथर्ववेदान्तर्गतनृसिंहोत्तरतापनीये षष्ठोपनिषदि पञ्चमः खण्डः ॥५॥ साधयति सदादीनाम्-पुरतोऽस्मादिति । अर्थस्त्वस्य मात्राखण्डोक्तप्रकारेण द्रष्टव्यः। एवं ब्रह्मलक्षणलक्षितमात्मानमन्विष्य प्रतिपद्य किं कार्यमित्यत आह-आप्ततममित्यादिना । आप्ततममित्यादिकं ब्रह्मणो विशेषणं प्रत्यगा- त्मनोऽपि ब्रह्मरूपत्वेन ह्याप्ततमत्वादिकमुक्तम् । अतः प्रत्यगात्मन्युक्तमेवाऽऽ- सतमत्वादिकं ब्रह्मणो विशेषणत्वेनोच्यते तयोरत्यन्तैक्यप्रदर्शनाय । पूर्वमेवा- कारोकाराभ्यामुक्तलक्षणमात्मानमन्विष्य मकारेण चोक्तरूपब्रह्मविष्य सामा- नाधिकरण्येन तयोरेकत्वमोमिति जानीयादित्यर्थः । एवं ब्रह्मात्मैकत्वविदः फलमाह-आत्मैवेत्यादिना । पूर्वत्रापि पदार्थज्ञानस्येदमेव फलमनूदितं वाक्यार्थज्ञानपर्यन्तत्वात्पदार्थज्ञानस्य । इह तु परमेव ब्रह्म भवतीति विशेषो दर्शितः । यद्यपि वाक्यार्थपर्यन्तमेव पदार्थज्ञानमपीति पदार्थज्ञानेनापि ब्रह्मत्वं कथंचित्संभाव्यते तथाऽपि पदार्थज्ञानमात्रस्याज्ञाननिवर्तकत्वाभावादपरब्रह्मा- त्मत्वमपि भात्येव तत्रेह तु वाक्यात्मना प्रणवेन परब्रह्मण्यात्मतया झाते तेना- जानकार्यलापरब्रह्मात्मत्वे निवृत्ते स्वतः परमेव ब्रह्म भवतीत्ययं विशेषः परचन्दप्रयोगादवसीयते । इति ह प्रजापतिरुवाचेति विद्यां स्तौति श्रुतिः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दपूज्यपादशिष्यश्री- मद्वियारण्यमुनीश्वर कृतौ श्रीनृसिंहोत्तरतापनीये षष्ठोपनिषदि पञ्चमः खण्डः ॥६॥ mamimanna १ क. महामायं म । २ ग, क. वलीय। ११ १२२ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता- [६ षष्ठः खण्डः] ते देवा इममात्मानं ज्ञातुमैच्छंस्तान्हाऽऽ. मुरः पाप्मा परिजग्रास त ऐक्षन्त हन्तै- नमासुरं पाप्मानं' ग्रसाम इति त एत- मेवोंकाराग्रविद्योतं तुरीयतुरीयमात्मानमुग्र- मनुग्रं वीरमवीर महान्तममहान्तं विष्णुम- विष्णुं ज्वलन्तमज्वलन्तं सर्वतोमुखमसर्वतो- मुखं नृसिंहमनृसिंह भीषणमभीषणं भद्रमभद्रं मृत्युमृत्युममृत्युमृत्युं नमाम्यनमाम्यहमनहं नृसिंहानुष्टुभैव बुबुधिरे तेभ्यो हासावासुरः अथ मन्दमध्यमांत्तमाधिकारिभेदेन स्वरूपप्रतिपत्तिसाधनभेदं विधातुं खण्डा- न्तरमारभते- ते देवा इति । तत्र मन्दानां सप्रणवनृसिहानुष्टुनिष्ठा प्रथमतः कार्येति सेतिहासमाह- ते देवा इति । ते देवा एवं प्रजापतिनाऽनुशिष्टा इमं यथोपदिष्टं ब्रह्मात्मानं ज्ञातुमैच्छन् । ज्ञानसाधनं ध्यानादिकं कर्तुमुपक्रान्तवन्त इत्यर्थः । उपक्रममात्र एव च तान्देवान्हाऽऽसुरः पाप्मा विषयासङ्गाविवेक- परिच्छेदाभिमानादिलक्षणो वहिर्मुखेः प्राणैरसुरैः क्षिप्तः पाप्मा परि समन्ततो जग्रास कवलीकृतवान् । अन्तःकरणशुद्ध्यभावाद्विषयासङ्गादिकं बाहुल्येनाभूदि- त्यर्थः । ते देवा एवं पाप्मना ग्रस्यमाना अपि समस्तग्रासात्पूर्वमेवावगतसाधनैः किंचिच्छुद्धान्तःकरणत्वादैक्षन्ताऽऽलोचनं कृतवन्तः। कथमिति । तदाह । हन्तेदानीमेनमस्मत्पुरुषार्थविरोधिनमासुरं पाप्मानं ग्रसामः स्वात्मानुसंधानेन तावन्मात्रतया संहराम इत्यर्थः । एवमीक्षित्वा किं कृतवन्त इत्याह–त एत- मेवेत्यादिना । त एतमेवोंकाराग्रमात्रविद्योतं तुरीयतुरीयमात्मानं नृसिंहानुष्टुभैव बुबुधिर इत्युत्तरत्रान्वयः। कथंभूतमात्मानमित्याह-उग्रमनुग्रमित्यादिना। उग्र- मिति वाक्यजन्ये वृत्त्यभिव्यक्तस्य तुरीयस्य सर्वसंसारसंहर्तृत्वमुच्यते । अनुग्र- मिति तदाऽपि परमार्थतः स्वमहिमस्थतया कूटस्थत्वेन परमार्थतोऽकर्तृत्वमुच्यते। अथवाऽनुग्रमित्ययमर्थः। उग्रत्वं नाम न धर्मः किंतु स्वरूपमेवेति । एवं वीरमवीर- मित्यादिकमपि योज्यम् । चतुर्मात्रमोंकारमुच्चार्य तुरीयतुरीयक्रमेण प्रतिपद्य तमेव तुरीयं नृसिंहानुष्टुभा च पुनः पुनातवन्त इत्यर्थः। एवं तुरीयध्याने प्रह- तानामासुरः पाप्मा विनष्ट इत्याह-तेभ्य इति । तेषां परिच्छेदको योऽसावा. २ क, ग, घ, 'नं परिण।

[६ षष्ठः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । १२३ पाप्मा सच्चिदानन्दघनं ज्योतिरभवत्तस्मादप- ककषाय इममेवोंकाराग्रविद्योतं तुरीयतुरीय- मात्मानं नृसिंहानुष्ठभैव जानीयात्तस्याऽऽसुरः पाप्मा सच्चिदानन्दघनं ज्योतिर्भवति ते देवा ज्योतिष उत्तितीर्षवो द्वितीयाद्रयमेव पश्यन्त इममेवोंकारांग्रविद्योतं तुरीयतुरीयमात्मानं नृसिंहानुष्टुभान्विष्य प्रणवेनैव तस्मिन्नवस्थि- तास्तेभ्यस्तज्ज्योतिरस्य सर्वस्य पुरतः सुविभा- मुरः पाप्मा पूर्वमभूत्स तुरीयध्यानवशास्किचिदन्तर्मुखचित्ते सति सच्चिदानन्द- घनं कारणात्मकं ज्योतिरभवत् । सद्पस्य हि कारणात्मनोऽनृतादिविरुद्धात्म- रूपाभासविशिष्टत्वेन सचिदानन्दरूपत्वमस्तीति पूर्वमेवोक्तमतः कार्यरूपपरि- च्छिन्नात्मतां संहृत्य कारणात्मतां प्राप्ता देवा इत्यर्थः । तस्मादेववदन्येनापि मन्देन प्रथमत एवमेव प्रतिपत्तव्यमित्याह-तस्मादिति । तस्याप्युक्तफलप्राप्ति माह-तस्येति । एवं मन्दानां प्रगवान्तेन मत्रराजेन तुरीयप्रतिपत्तिमभिधाय तेषामेव मध्यमावस्थां प्राप्तानां कंचित्कालं मत्रराजेन तुरीयं संचिन्त्य चित्तेऽ. भिज्वलिते प्रणवेनैव तुरीयः प्रतिपत्तव्य इत्याहाऽऽख्यायिकाद्वारेण-ते देवा इति । त एवं कारणात्मकज्योतिरात्मतां प्राप्ता अन्तःकरणशुद्ध्यतिशयाकार- णात्मकज्योतिषोऽप्युत्तितीर्षवः कारणात्मत्वमप्यतिक्रम्य तुरीयात्मत्वकामा इत्यर्थः । उत्तितीर्षव आत्मानमनुष्टुभाऽन्विप्य प्रणवेनैव तस्मिन्नवस्थिता इत्यु. तरत्रान्वयः । ज्योतिष उत्तितीर्घत्वे कारणमाह-द्वितीयादिति । ते पुनस्त- साधनत्वेन किं कृतवन्त इत्याह--इममेवेति । सर्वसाधकतया सर्वषां प्रत्यक्षमे- वेत्यर्थः । अनुष्टुभा कंचित्कालमन्विष्य पुनर्विक्षेपनिवृत्त्यर्थ नां परित्यज्य प्रण- नेनैव केवलेन तस्मिनात्मन्यवस्थिता इत्यर्थः । उक्तं च-'विक्षेपविनिवृत्त्यर्थ तदेतद्भण्यते मया' इति । तुरीयप्रणवकथनमप्यक्षरभेदतदर्थचिन्नाविक्षेपनि- वृत्यर्थमेव । एवं प्रणवेन तुरीयप्रतिपत्तिबलाद्देवानां बीजात्मा तुरीये लीयत इत्याह तेभ्य इत्यादिना । तेभ्यस्तत्कारणात्मकं ज्योतिरस्य सर्वस्य कार्यका- रणात्मकस्य जगतः पुरतः पूर्वमेव तत्साधकन्वेन मुबिभातं स्वयंप्रकाशत्वात् । अविभातमविषयत्वात् । सर्वस्य पुरत इत्युक्ते पुरतः सर्वसच्चशङ्कायामाह- १८. क्षमिय"।

- १२४ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता- [६षष्ठः खण्डः ] तमविमातमद्वैतमचिन्त्यमलिङ्गं स्वप्रकाश- मानन्दघनं शून्यमभवदेवंवित्स्वप्रकाशं पर- मेव ब्रह्म भवति ते देवाः पुत्रैषणायाश्च वित्तषणायाश्च लोकैषणायाश्च ससाधनेभ्यो व्युत्थाय निरागारा निष्परिग्रहा अशि- खा अयज्ञोपवीता अन्धा बधिरां मुग्धाः क्लीबा मूका उन्मत्ता इव परिवर्तमानाः अद्वैतमिति । अविभातत्वे स्वयमेव हेतुमाह-अचिन्त्यमलिङ्गमिति । सुविभा- तत्वे हेतुमाह-स्वप्रकाशमिति। तस्य स्वत एव पुरुषार्थरूपत्वमाह-आनन्द- घनमिति । आनन्दस्य लोके सातिशयत्वादिना प्राप्तं सविशेषत्वं निराचष्टे- शून्यामिति । देववदन्यस्याप्येवंविद एतदेव फलमाह-एवंविदित्यादिना । अथोत्तमानां सर्वकर्मसंन्यासपूर्वकं प्रणवेनैव तुरीयावस्थानं कर्तव्यमित्याह- ते देवा इत्यादिना । एवं प्रणवद्वारेण तुरीयनिष्ठा योग्यता प्राप्तास्ते देवाः पुत्रै- षणायाश्चैतल्लोकजयसाधनपुत्राद्यर्थप्रवृत्त्यादेवित्तैषणायाश्च नित्यनैमित्तिककर्मादे- लोकपणायाश्च लोकार्थकाम्यकर्मादेश्व ससाधनेभ्यः साधनसहितेभ्य उक्तेभ्यः कर्मभ्यो व्युत्थायेति ससाधनानां सर्वेषां कर्मणां संन्यासोऽभिहितः । एवं संन्यस्तसर्वसाधनानां वर्तनप्रकारमाह-निरागारा इत्यादिना । निरागारा वासार्थ नियताश्रयरहिताः । निष्परिग्रहा देहयात्रामात्रसाधनातिरिक्तपरिग्रह- रहिताः । अशिखाः शिखारहिताः । अयज्ञोपवीता यज्ञोपवीतरहिता इति ससाधनेषणात्यागाभिधानेनैव सिद्धस्य शिखायज्ञोपवीतत्यागस्य पुनर्वचनेन परमहंसवृत्तावादरो दर्शितः । त्यक्तसर्वेषणानामपि जीवनबलात्माप्तविषयेन्द्रि- यसांनिध्ये तत्र तद्विषयरागद्वेपपरिहारेणाविकृततया सुप्तवद्वर्तनं कार्यमित्याह- अन्धा इत्यादिना । सर्वेन्द्रियविषयसांनिध्येऽप्यविकृता इत्यर्थः । अन्धाश्वभूर- हिताः । बधिराः श्रोत्ररहिताः । मुग्धा अपरूहमनसः। क्लीबाः प्रजननसाम- यरहिताः । मूका वागुचारणसामर्थ्यरहिताः । उन्मत्ता इव । इवशब्दोऽन्धा- दिपदेनापि योज्योऽन्धा इवेत्यादिक्रमेण । यथोन्मत्तो न कस्यचिदप्युपादेय- रस्तथा सर्वैरनुपादेयः । जडोन्मत्तपिशाचवच्छाखोक्तक्रमेण परिवर्तमानाः परितो गच्छन्त इत्यर्थः । एवं सर्ववाहविषयपरित्यागाद्विषयरागद्वेषपरित्यागा- - १ क. ग. घ. य निरहंकारा निरा।

[६ षष्ठः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । १२५ शान्ता दान्ता उपरतास्तितिक्षवः समा हिता आत्मरतय आत्मक्रीडा. आत्म- मिथुना आत्मानन्दाः : प्रणवमेव परम ब्रह्माऽऽत्मप्रकाशं शून्यं जानन्तस्तत्रैव दिकं चाभिधाय तदुपायत्वेन शान्त्यादिकं कर्तव्यमित्याह-शान्ता इत्यादिना शान्ता उपरतवाह्येन्द्रिया निरुद्धेन्द्रियवहिप्पसरा इत्यर्थः । दान्ता उपरतान्त:- करणा निरुद्धबहिष्पसरान्तःकरणा इत्यर्थः । अन्तःकरणोपरतो विषयसंकल्पा- दिवर्जनं साधनमाह-उपरता इति । असंकल्पितस्यापि शीतोष्णादिद्वंद्वस्य प्राप्तौ तत्सहिष्णुत्वं कार्यमित्याह-तितिक्षव इति । उक्तानां शान्त्यादीनां साधकं परममुपायमाह-समाहिता इति । बाह्यान्तःकरणगणमन्तर्मुखमेकीकृत्य सर्वद्वैतजातविस्मरणपूर्वकं तत्साक्ष्यनुसारेणावस्थानं समाधानं नाम एतदेव स- माधानं साध्यं साधनं च भवति । आत्मनि चित्तसमाधानमेव हि पूर्णसमाधि- लाभसाधनम् । तस्यैवं समाधाने प्रवृत्तस्य पूर्णसमाधिलाभाय साधनमाह- आत्मरतय इत्यादिना । रतिरिष्टेऽन्नादिविषये मनसः प्रावण्यं प्रीतिः। अयमर्थः। यदा समाहितचित्तस्यापि क्षुधादिवशादन्नरसादिसाध्यसुखेच्छया मनश्चलना- भिमुखं भवति तदा तत्सुखस्याप्यात्मस्वरूपपरमानन्दान्तर्भावसमाधानपूर्वकं पर- मानन्दरूपे साक्षिण्येव ततो नियमितव्यमिति । रतिरन्नलाभादिनिमित्तं सुखं तदात्मन्येव येषां त आत्मरतयः। एवमुत्तरमपि योज्यम् । क्रीडा सख्यादिमेल- नाभिव्यक्तं सुखं विवक्षितं तत्साधनभूता हि क्रीडा। मिथुनमिति मिथुनसाध्यं सुखमानन्द इति सामान्यमुखमा विवक्षितम् । एवं समाधिनिष्ठानां शुद्धान्तः करणानां सम्यग्ज्ञानोदयो भवतीत्याह -प्रणवमेवेत्यादिना। प्रणवमेवशब्देना- नुष्टुभोऽपि त्यागोऽभिहितः । प्रणवमिति च ब्रह्मेवाच्यते प्रणतमवतीति । न हीतरस्याक्षरात्मकस्य परब्रह्मणा सामानाधिकरण्यं संभवति । ब्रह्म- चैतन्यमेव नामरूपोपाधिद्वारा वाच्यवाचकरूपप्रणवात्मनां प्राप्तमिति च ब्रह्मणि परब्रह्मशब्दो युक्तः शब्दान्तरेभ्यश्चास्य सारत्वमतगतवर्णत्रयस्य सर्ववर्णतदर्थ- कवलनरूपत्वादिनाऽवगन्तव्यम् । जानन्त इति वचनेन प्राप्तज्ञेयत्वं परिह- रति-आत्मप्रकाशमिनि । स्वयंप्रकाशमित्यर्थः । स्वयंप्रकाशखादिधर्मवत्वं व्यावर्त यति-शून्यमिनि । निर्विशंपमित्यर्थः । ब्रह्मज्ञानफलं ब्रह्मात्मत्वं दर्श- यति-तत्रैवेति । यस्मादंवा उक्तसाधनेन ब्रह्म विज्ञाय मुक्तास्तस्मादन्येना- परं ।

१२६ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता • [६ षष्ठः खण्डः] परिसमाप्तास्तस्माद्देवानां व्रतमाचरनोंकारे परे ब्रह्मणि पर्यवसितो भवेत्स आत्मनैवाऽऽत्मानं परमं ब्रह्म पश्यति तदेष श्लोकः-शृङ्गेष्वशृङ्गं संयोज्य सिंहं शृङ्गेषु योजयेत् । शृङ्गाभ्यां शृङ्गमाबध्य त्रयो देवा उदासत इति ॥ इत्यथर्ववेदान्तर्गतनृसिंहोत्तरतापनीये षष्ठोपनिषदि षष्टः खण्डः ॥६॥ प्येतदेव वेदनसाधनमनुष्ठेयमित्याह-तस्मादिति । सर्वकर्मसंन्यासपूर्वक प्रणवेनाऽऽत्मनिष्ठा देवानां व्रतं तस्य देववदेव ब्रह्मज्ञानपूर्वकं ब्रह्मण्यवस्थानं फलमाह-स आत्मनैवेति । स यथोक्तसाधनवानात्मनैव प्रत्यगात्मस्वरूपेणैव ब्रह्म पश्यति । ततश्चाज्ञाननिवृत्ती स्वात्मन्येव ब्रह्मण्यवतिष्ठत इत्यर्थः । खण्ड- दयोक्तेऽर्थे श्लोकमवतारयति-तदेष इति । तत्तत्रोक्तेऽर्थ एष श्लोको मत्रो भवति । शृङ्गेषु च्छन्दसामृषभस्य प्रणवस्य शृङ्गेषु मात्रास्वकारोकारमझारेषि- त्यर्थः । अशृङ्गममात्र निरवयवं तुरीयमात्मानं संयोज्य वाच्यतया संधायाका- रोकाराभ्यां त्वंपदार्थरूपं मकारेण तत्पदार्थरूपं च प्रतिपद्येत्यर्थः । सिंहं नृसि- हानुष्टुभं तुरीयगतसर्वसंहर्तृत्वादिवाचकं शृङ्गप्वकारादिपु तत्त्वंपदार्थरूपात्मवा- चकेषु तद्गतसर्वसंहर्तृत्वादिवाचकत्वाय योजयेत् । अन्तर्भूतं भावयेदित्यर्थः । एवं पदार्थशोधनं विधाय शृङ्गाभ्यामकारोकाराभ्यां तदर्थप्रत्यगात्मरूपेणेत्यर्थः शृवं मकारं तदर्थ ब्रह्मेत्यर्थः । आवध्याऽऽभीक्ष्णेनाऽऽत्यन्तैकत्वेन संयोज्य प्रतिपद्येत्यर्थः । इति पञ्चमवण्डार्थ उक्तः । षष्ठखण्डार्थमाह---त्रयो देवा इति । त्रयो देवा इति मन्दमध्यमोत्तमभेदेनं तय सर्वसंहारमतिक्रम्य तदूर्व मासते सर्वेषां हि देवानां तुरीयप्रतिपत्तेविद्यमानत्वादुदासनं न विरुध्यते । तुरीयमतिपत्तेश्चलत्वचलाचलस्वाचलत्वकृतस्तु विशेषः। साधनवैशिष्ट्यावैशि- ष्ट्यनिमित्तश्च ।। इति श्रीमत्परमहंसपरिव्रानकाचार्यश्रीमच्छंकरानन्दपूज्यपादशिप्यश्री- मद्विद्यारण्यमुनीश्वरकृतौ श्रीनृसिंहोत्तरतापनीये षष्ठोपनिषदि षष्ठः खण्डः ॥ ६ ॥ १. "देनान उर्व ।

- [७ सप्तमः खण्डः] नृसिंहोचरतापनायोपनिष । १२७ देवा ह वै प्रजापतिमब्रुवन्भूय एव नो भगवा- विज्ञापयस्विति तथेत्यजत्वादमरत्वादजरत्वा- दमृतत्वादभयखादशोकत्वादमोहत्वादनशना- यत्वादपिपासवाददैतत्वाचाकारेणेममात्मान- मन्विष्योर्दुत्कृष्टत्वादुदुत्पादकत्वादुदुत्प्रवेष्तृत्वा- दुदुत्थापयितृत्वादुदुद्दष्मृत्वादुदुत्कर्तृत्वादुदुत्पथ- वारकत्वादुदुद्गासंकत्वादुदुभ्रान्तत्वादुदुत्तीर्णवि- अथ प्रणवेन ब्रह्मात्मनाय॑तिहारेण प्रतिपत्तिप्रकारप्रदर्शनाय खण्डान्तरमा- रभते-देवा इति । भेदाभेदशङ्कानिरासेनात्यन्तैक्यप्रतिपत्त्यर्थं तत्पकारं भूय एव भगवानो विज्ञापयत्विति देवैः प्रार्थित ओमित्यनुजानाति प्रजापतिः- तयेति । तत्रैकेन प्रणवेन व्यतिहारमतिपत्तयेऽकारस्य प्रत्यगर्थत्वमुकारपूर्वोत्तरा- धयोर्ब्रह्मार्थत्वं मकारस्य पुनरपि प्रत्यगर्थत्वं च वदन्नकारेण प्रत्यक्प्रतिपत्ताव- कारप्रतीचोर्वाच्यवाचकभाव उपपत्तिमाह-अजत्वादिना । आत्मा तावदज- त्वगुणविशिष्टस्तथाविधात्मवाचकोऽयमजशब्दस्तस्य शब्दस्याऽऽदिभूतोऽयं प्रण- वस्थोऽकारस्तस्मादजशब्द एव सः। तस्मादजत्वगुणविशिष्टप्रत्यगात्मवाचकोऽ- यमकार एवममरत्वादिरूपात्मवाचकत्वमप्यकारस्य द्रष्टव्यम् । तत्राऽऽद्येन चतुष्टयेन देहधर्मा निषिद्धाः । ततस्त्रयेण बुद्धिधर्माः । ततो द्वाभ्यां प्राणधौं । तत एकेन सामान्येन सर्वे धर्मा निषिद्धा इति विभागः। अन्विप्येत्यादिपदा- नामेकीकुर्यादित्युत्तरत्रान्वयः । एवं लक्षणयाऽकारस्य शुद्धप्रत्यगर्थतामभिधा- योकारोच्चारणसमये किंचिद्दीर्घतया मात्राद्वयविशिष्टस्योकारस्य ब्रह्मार्थत्वे युक्तिमाह-उदुत्कृष्टत्वादित्यादिना । उत्कृष्टत्वधर्मादुत्कृष्टत्वे सत्युत्कृष्टत्व- मुदुत्कृष्टत्वम् । उदुत्पादकत्वादिकमप्येवं द्रष्टव्यम् । उत्कृष्टत्वं सर्व- संसारधर्मवर्जितत्वं ब्रह्मणः सर्वज्ञत्वादिविशिष्टत्वं चोत्पादकत्वं सर्वस्रष्टत्वं ब्रह्मरूपेण सृष्टे जगति जीवरूपेण प्रवेष्टत्वं तनियन्तृरूपेण स्थापयितृत्वं विष्णु- रूपेण प्रविष्टस्य द्रष्टत्वं कर्तृत्वं च बुद्धिप्राणोपाधितयोत्पथवारकत्वं नियन्तृ- त्वमीश्वररूपेणोद्रासकत्वं सर्वसंहर्तृत्वं रुद्ररूपेणोद्धान्तत्वं व्याप्तत्वं कारणा- त्मनादुत्तीर्णविकृतित्वं साक्ष्यात्मना । अयमर्थः । ब्रह्म तावदुत्कृष्टत्वादिगुणवि- * एतदारभ्योदुत्तीर्णेन्यन्तं सर्वशब्देपु . पुस्तकातिरिक्तादर्शपुस्तकेवेक एवादुपलभ्यते। क. ड. मत्वा ।

१२८ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[७ सप्तमः खण्डः] कृतित्वाच्चोकारेण परमं सिंहमन्विष्याकारमि- ममात्मानमुकारपूर्वार्धमाकृष्य सिंहीकृत्योत्त- रार्धेन तं सिंहमाकृष्य महत्त्वान्महस्त्वान्मा- नत्वान्मुक्तत्वान्महादेवत्वान्महेश्वरत्वान्महास- त्त्वान्महाचित्त्वान्महानन्दत्वान्महाप्रभुत्वाच्च मकारार्थेनानेनाऽऽत्मनैकी कुर्यादशरीरो निरि- न्द्रियोऽप्राणोऽतमाः सच्चिदानन्दमात्रः स स्वराड्भवति य एवं वेद कस्त्वमित्यहमिति . शिष्टं तथाविधब्रह्मवाचकाश्चैत उत्कृष्टादिशब्दास्तेषामादिभूतश्चायं प्रणवस्थ उकारो द्विमात्रः । तस्मादुदुत्कृष्टादिशब्दरूप एव सः। तस्मादुत्कृष्टत्वादिगुण- विशिष्टब्रह्मवाचकोऽसाविति । एवमकारस्य प्रत्यगर्थत्वमुकारस्य ब्रह्मार्थत्वं चाभिधाय तयोः सामानाधिकरण्यरूपवाक्येन जीवस्य तावड्रह्मणैक्यमाह- अकारमित्यादिना । अकारमिममकारार्थमिमं प्रत्यगात्मानमुकारपूर्वार्धमुकारपू- वर्धार्थब्रह्माऽऽकृप्य । ब्रह्म प्रत्याकृष्येत्यस्यार्थमाह-सिंहीकृत्येति । ब्रह्मणैक्यं प्रतिपद्येत्यर्थः । अथोकारोत्तरार्धस्य ब्रह्मणः प्रत्यगात्मनैक्यं वक्तुमारभते- उत्तरार्धेनेत्यादिना । उत्तरार्धेनोकारस्योत्तरमात्रया तं सिंहं पूर्वोक्तं ब्रह्माऽऽक- प्याऽऽदाय मकारार्थेनानेन प्रत्यगात्मनैकीकुर्यादित्युत्तरत्रान्वयः।मकारस्य ब्रह्म जैकत्वयोग्यप्रत्यगर्थत्वमुपपादयति-महत्त्वादित्यादिना।महत्त्वं व्याप्तत्वं महस्त्वं चित्तेजोरूपत्वं मानत्वं सर्वसाधकप्रमाणरूपत्वं मुक्तत्वमपारवश्यत्वं महादेवत्वं महाक्रीडारसिकत्वादिधर्मविशिष्टत्वम् । महेश्वरत्वं सर्वनियन्तृत्वं महासत्त्वादि. कमपरिच्छिन्नसच्चिदानन्दरूपत्वं महाप्रभुत्वं स्वसंनिधिसत्तामात्रेणैव सर्वप्रवर्त- कत्वम् । अयं भावः। आत्मा तावनिरुपचरितमहत्त्वादिगुणविशिष्टस्तथाविधा- त्मवाचकास्त्वेते महदादयः शब्दास्तेषामादिभूतश्चायं प्रणवस्थो मकारस्तस्मा- न्महदादिशब्दात्मक एव सः। तस्मात्तद्गुणविशिष्टप्रत्यगात्मवाचकोऽसाविति । अशरीर इत्यादिना विद्याफलमाह । तमः कारणम् । अशरीरादिपदलक्षितस्य स्वराजः स्वरूपमाह-सचिदानन्दमात्र इति । मात्रशब्देन सजातीयादिभेदो निरस्तः । एवं विक्षेपनिरासायेकेन प्रणवेन व्यतिहारप्रतिपत्तिमभिधायेतः पूर्व- मेव द्वाभ्यां प्रणवाभ्यां व्यतिहारपतिपत्तिप्रकारदर्शनायाऽऽरभते-कस्त्वमि- त्यादिना । तत्राकारस्याहंशब्दादित्वेनाहंशब्दरूपतामापाद्य तस्य प्रत्यगर्थतां १२ [७ सप्तमः खण्डः] नृसिंहोत्तरतापनं गोपनिषत् । होवाचैवमेवेदं सर्व तस्मादहमिति सर्वाभि- धानं तस्याऽऽदिरयमकारः स एव भवति सर्व द्ययमात्माऽयं हि सर्वान्तरो न हीदं सर्व निरा- स्मकमात्मैवेदं सर्व तस्मात्सर्वात्मकेनाकारण सर्वात्मकमात्मानमन्विच्छेद्बह्मैवेदं सर्व सच्चिदा- नन्दरूपं सच्चिदानन्दरूपमिदं सर्व सदीदं सर्व - - वक्तुमहंशब्दस्य सर्वात्मकमत्यगर्थत्वं साधयितुमाह-कस्त्वमित्यादिना । कस्त्व- मिति कश्चित्केनचित्पृष्टोऽहमिति प्रथममुत्तरमुवाचेत्यर्थः । नैकस्यैवमुत्तरं भवति किं तु सर्वमेव प्राणिजातं कस्त्वमित्युक्तेऽहमित्येवोत्तरं प्रतिपद्यत इत्याह- एवमेवेदं सर्वमिति। ततः किमिति चेदहंशब्दस्यं सर्ववाचकत्वं सिद्धमित्याह- वस्मादिति । भवत्वेवमहंशब्दस्य सर्ववाचकत्वं तेनाकारस्य प्रत्यगर्थत्वे किमा- यातमित्याशङ्कयाकारस्याप्यहंशब्दरूपत्वेन तद्वत्सर्ववाचकत्वं तावदेष्टव्यमि- त्याह-तस्याऽऽदिरिति । तस्याहंशब्दस्याऽऽदिभूतोऽयमकारः प्रणवस्थः स एव सर्ववाचकोऽहंशब्द एव भवति । ततोऽप्यस्याऽऽत्मार्थत्वे किं जातमित्या. शङ्कय यस्मादात्मन एव सर्वत्वं कृत्स्नत्वं पूर्णत्वमद्यत्वं संभवति तस्मात्सर्ववा- चकोऽयमकार आत्मार्थ एवेति वक्तुमात्मनः सर्वत्वं तावत्पतिनानीते--सर्व हीति। आत्मनः सर्ववं साधयति-अयं हीति । सर्वान्तरत्वमपि साधयति- न हीति । सर्वस्य सात्मकत्वे सर्वमात्मेति च वस्तुद्वये सति कथमात्मनः सर्व- त्वमित्याशङ्कयाऽऽत्मव्यतिरेकेण सर्व नास्तीत्याह-आत्मेवेदं सर्वमिति । सर्वस्याऽऽत्मनि कल्पितत्वात्तयतिरेकेण तन्नास्तीत्यर्थः । अतः सर्वशब्दात्म- कस्याकारस्य सर्वात्मकमत्यगात्मवाचकत्वं सिद्धम् । अतस्तथाविधेनाकारेण तथाविध आत्मा प्रतिपत्तव्य इत्याह-तस्मादिति । मकारस्य ब्रह्मशब्दा- न्त्यत्वेन ब्रह्मशब्दत्वमापद्य ब्रह्मवाचकत्वं दर्शयितुं ब्रह्मस्वरूपं दर्शयन्मत्यगा- त्मवत्तस्यापि सर्वात्मत्वं दर्शयति-ब्रह्मवेदमित्यादिना । ब्रह्मणः स्वरू- पमाह-सच्चिदानन्दरूपमिति । कथं तीसच्चिदानन्दरूपस्य जगतः सच्चिदान- न्दरूपात्मत्वं युक्तमित्याशङ्कय जगतोऽपि सच्चिदादिरूपत्वमाह-सच्चिदान- न्दरूपमिदं सर्वमिति । तत्र जगतः सद्रूपत्वं तावत्मसिद्धमित्याह-सद्धीति । - १ घ. ड. छ. "वे मत्म ।

. - .. श्रीमद्विधारण्यमुनिविरचितदीपिकासमेता-[७ सप्तमः खण्डः तत्सदिति चिदीदं सर्व काशते काशते चेति किं सदितीदमिदं नेत्यनुभूतिरिति कैषेती- यमियं नेत्यवचनेनैवानभवन्नुवाचैवमेव चिदा- नन्दावप्यवचनेनैवानुभवानुवाच सर्वमन्यदपि स परम आनन्दस्तस्य ब्रह्मणो नाम ब्रह्मेति प्रसिद्धिं साधयति-तत्सदिति । घटः सन्पटः सनित्यादिरूपेण सर्व सद्रूपमेव भातीत्यर्थः । चिद्रूपत्वमपि प्रसिद्धमित्याह-चिद्धीति । प्रसिद्धिं साधयति- काशते काशते चति । घटः प्रकाशते पटः प्रकाशत इत्यादिप्रकारेण सर्व चिद्रूपं भासत इत्यर्थः । आनन्दात्मकत्वं तु सर्वत्र समावेशदर्शनादवगन्त- व्यम् । इष्टविषये च स्पष्टमेवाऽऽनन्दात्मकत्वम् । सर्व चेष्टमेव कदाचित्कस्य- चिद्वक्ष्यति च स परम आनन्द इति । सदादिभेदनिरासचिकीर्षया प्रजापतिः शिष्यबुद्धिमपि वर्धयन्स्वयं सदूपं देवान्पृच्छति-किं सदितीति। ब्रूत सदादीनां स्वरूपं यद्भवद्भिः सदादिरूपं ज्ञातमित्यर्थः । देवैः सत्तासामान्यादिषु सद्रूपत्वेनाभिहितेषु तेषां व्याहत्तत्वेनेदंतयाऽसत्त्वात्सत्त्वं निराचष्टे-इदमिदं नेतीति । इदमिदं च घटसत्तासामान्यादिकं भवद्भिक्तमिदंत्वादेव व्याहत्तत्वे- नासवान सद्रूपमित्यर्थः । किं तर्हि सदिति देवानामाकाङ्क्षामालक्ष्य स्वयमेव प्रजापतिः सन्पमाह-अनुभूतिरितीति । पुनरपि प्रजापतिः स्वरूपविवक्षया पृच्छति-कैतीति । तैर्घटज्ञानादिष्वनुभूतिशब्दार्थत्वेनोक्तेषु तेषां दृश्यत्वा- भानुभूतित्वमित्याह प्रजापतिः-इयमियं नेतीति । का तर्वानुभूतिरित्याकाहा- यामवासनसगोचरा सेतीयमिति यतो वक्तुं न शक्या तस्मादवचनेनैव स्वयम- नुभवन्देवानां स्वतःसिद्धस्वरूपमेवानुभूतिरित्याह प्रजापतिरिति कथयति श्रुतिः। अवचनेनैवानुभव वाचेति । सत्स्वरूपोपदेशे कथितन्यायश्चिदानन्दयोः स्वरू- पोपदेशेऽपि सम इत्याह श्रुतिः-एवमेवेति । अन्येष्वपि ब्रह्मलक्षणेष्विममेव न्यायमतिदिशति-सर्वमन्यदपीति । अन्यदपि पदार्थजातमेवमेवावचनेनैवानु- भवभवामनसगोचरमेकरसमात्मनः स्वरूपमवेत्याहेत्यर्थः । मुकीभावमात्रेण देवानां ज्ञातुमशक्यमिति मत्वा ब्रह्मणः स्वरूपमानन्दपदेन लक्षणया कथयति प्रजापतिः-स परम आनन्द इति । स मयाऽद्यानुभवेनोपदिष्टोऽर्थः परमो निरतिशय आनन्दः । एवं ब्रह्मणः स्वरूपमभिधाय ब्रह्मशब्दस्य लक्षणया सद्वाचकत्वमाह-तस्य ब्रह्मण इति । ततः किमायातं प्रकृत इत्याशकय मका- १८. 'गचि'।

[७ सप्तमः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । तस्यान्त्योऽयं मकारः स एव भवति तस्मान्म- कारेण परमं ब्रह्मान्विच्छेकिमिदमेवमित्यु इ- त्येवाऽऽहाविचिकित्संस्तस्मादकारेणेममात्मान- मन्विष्य मकारेण ब्रह्मणा संदध्यादुकारेणा- विचिकित्संनशरीरो निरिन्द्रियोऽप्राणोऽतमाः सच्चिदानन्दमात्रः स स्वराभवति य एवं वेद । ब्रह्म वा इदं सर्वमेतृत्वादृग्रत्वादीरत्वान्महत्त्वा- रस्य ब्रह्मशब्दान्त्याक्षरत्वेन ब्रह्मशब्दत्वमेवेति तस्य ब्रह्मवाचकत्वं सिद्धमि- त्याह-तस्येति । तस्य ब्रह्मशब्दस्यान्त्योऽवसाने वर्णोऽयं प्रणवस्थो मकार इति कृत्वा स एव ब्रह्मशब्द एव भवति । तस्मात्तद्वदेव ब्रह्मवाचकत्वमपि सिद्धमेवेस्यर्थः । यस्माद्ब्रह्मवाचकोऽयं मकारस्तस्मात्तेन तत्मतिपत्त पमित्याह- तस्मादिति । एवमकारमकारयोः प्रत्यग्ब्रह्मार्थत्वमभिधाय मध्यस्थस्योकारस्य प्रत्यग्ब्रह्मणोरेकत्वावधारणार्थत्वं वक्तुमुकारस्य लोके कुत्रचिदवधारणार्थत्वं प्रसिद्धमिति कथयितुं लोकव्यवहारं तावदर्शयति-किमिदमित्यादिना । इद- माकाशादि घटादि चैवरूपं किमित्येवं कश्चित्केनचित्पृष्ट उ इत्येवोत्तरमाह । स्वयमविचिकित्सन्नात्मनश्चेत्तत्र पृष्टेऽर्थे निश्चयो भवति तद्यु इत्येवावधारयनुत्तर- माहेत्यर्थः । अनयैव श्रुत्यैवं व्यवहारः काप्यस्तीति ज्ञातव्यं तस्मादुकारस्याव- धारणार्थत्वं लोके प्रसिद्धमिति भावः। एवं प्रणवाक्षरार्थमभिधाय तेन प्रत्यगा- त्मनो ब्रह्मकत्वप्रतिपत्तिप्रकारमाह-तस्मादित्यादिना । यस्मादकारमकारोका- राणां प्रत्यग्ब्रह्मावधारणार्थत्वं सिद्धं तस्मादित्यर्थः। अविचिकित्समेकत्वनिश्चयं कुर्वन् । अयमर्थः । अकारोच्चारणसमये सर्व कृत्स्नं पूर्ण प्रत्यगात्मानमुक्तेन प्रकारेण प्रतिपद्याकारस्योकारेण संबन्धसमये प्रत्यगात्मनो ब्रह्मलक्षणलक्षितत्वेन ब्रह्मणै- कत्वयोग्यत्वं निश्चित्योकारस्य मकारसंबन्धसमये मकारार्थेन ब्रह्मणाऽकारा- र्थस्य प्रत्यगात्मन एकत्वनिश्चयं कुर्यादित्यर्थः । अशरीर इत्याधुक्तार्थम् । अथ सर्वात्मकस्य ब्रह्मणः प्रत्यगात्मनैकत्वं द्वितीयेन प्रणवेन वदन्ब्रह्मणः सर्वात्म. कत्वं पुनरपि प्रकारान्तरेणाऽऽह-ब्रह्म वा इदमित्यादिना । प्रतिज्ञाते सर्वत्वे हेतुमाह-अत्तृत्वादिति । सर्वसंहतत्वेन कारणत्वादित्यर्थः । संहर्तृत्वे संहारश- क्तिविशिष्टत्वं हेतुमाह-उग्रत्वादिति । संहारसमर्थत्वेऽपि न संहरतीत्याचाश. कायां परिभवासहत्वादिभिस्तां तां परिहरति-वीरवादित्यादिना । अतृत्वगु. 1 छ. परं । . क. ग. म ह वा । ३ क. ग. घ. छ. ममतत्वा । ४ म. अमृतत्या।

११२ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमता-[७ सप्तमः खण्डः] विष्णुत्वाज्ज्वलत्वात्सर्वतोमुखत्वानृसिंहत्वादी- षणत्वाद्द्रत्वान्मृत्युमृत्युत्वानमामित्वादहत्वा- दिति सततं ह्येतद्ब्रह्मोग्रवादीरत्वान्महत्त्वादि- प्णुत्वाज्वलत्वात्सर्वतोमुखत्वानृसिंहत्वादीषण- खाद्भद्रत्वान्मृत्युमृत्युत्वानमामित्वादहंत्वादिति तस्मादकारेण परमं ब्रह्मान्विष्य मकारेण मन- आद्यवितारं मनआदिसाक्षिणमन्विच्छेत्स यदै- तत्सर्वमुपेक्षते तदैतत्सर्वमस्मिन्प्रविशति स यदा णविशिष्टत्वेन ब्रह्मणःसर्वात्मकत्वं संप्रतिपत्तव्यमित्यभिधाय सततत्वगुणवादापि सर्वात्मकत्वं प्रतिपत्तव्यमित्याह-सततं हीति । सततं व्याप्तं देशतः कालतो वस्तुतश्चापरिच्छिन्नं हि यस्मात्तस्मादपि ब्रह्म सर्वमित्यर्थः । सततले सर्वसंहार- समर्थत्वं हेतुमाह-उग्रत्वादिति । बीरत्वादिकं पूर्ववद्योज्यम् । भवत्वेवं गुणद- यविशिष्टत्वात्सर्वात्मकं ब्रह्म प्रस्तुतायां प्रणवेन वाक्यार्थप्रतिपत्तौ किमायातमि- त्याशङ्कय प्रणवस्थाकारस्य तत्पदार्थवाचकत्वात्तस्य तत्पतिपत्तिसाधकत्वं सिद्ध- मित्याह-तस्मादकारेणेति । अन्विष्येत्येतस्यान्विच्छेदित्यनेन संबन्धः । अयं भावः । अत्तृत्वसततत्वगुणविशिष्टं हि ब्रह्म सततशब्दश्चायमततिशब्दस्थाने प्रयुक्तः श्रुत्या तत उक्तगुणद्वयविशिष्टस्य ब्रह्मणो वाचकावत्यततिशब्दो न त्वत्तृसततशब्दावल्यततिधातुद्वयं चाकाराद्यमिति धातुद्वयात्मक एवायमकारः। ततश्चात्तृत्वादिगुणविशिष्टब्रह्मवाचको मुख्यया वृत्त्या लक्षणया केवलब्रह्माभि- धायकस्ततस्तेन लक्षणया प्रतिपत्तव्यमिति । मकारेण तु प्रत्यगात्मप्रतिपत्तिः कर्तव्येत्याह-मकारेणेति । मकारस्य प्रत्यगर्थत्वोपपत्तिमाह-मन आयवि- तारमिति । मनःशब्दो हि मनोवाचकस्तस्मिंश्च मनःशब्दे मकारो दृश्यते तदु- पाधिकस्तद्रक्षिता तत्साक्षी च प्रत्यगात्माऽतः प्रत्यगात्ममकारयोः संबन्धस्य विद्यमानत्वात्तं मकारेणान्विच्छेदित्यर्थः। प्रतीचो मनादिरक्षितृत्वं साध- यति स यदेत्यादिना । स प्रत्यगात्मा यदा यस्मिन्काले सुषुप्त्यादि। समय इत्यर्थः। एतत्सर्व कार्यकारणजातमुपेक्षते तदभिमानं त्यजतीत्यर्थः । तदा किमित्याह-तदेति । अस्मिन्प्रत्यगात्मनि सन्मात्रोपाधिविशिष्ट प्रविशति विलीयत इत्यर्थः । तस्मिल्लयमभिधाय तत एवोत्पत्तिमाह तस्य रक्षकत्वमदर्श- नाय-स यदेत्यादिना । यदा जाग्रदादिभोगनिमित्तकर्मोद्भवस्तदाऽस्मादेवो- [७ सप्तमः खण्डः] . नृसिंहोत्तरतापनीयोपनिष । प्रबुध्यते तदेतत्सर्वमस्मादेवोत्तिष्ठति स एत- सर्व निरूह्य प्रत्यूह्य संपीड्य संज्वाल्य सं भक्ष्य स्वात्मानमेषां ददात्यत्युग्रोऽतिवीरोऽ- रोऽतिमहानतिविष्णुरतिज्वलनतिसर्वतोमुखोऽ- तिनृसिंहोतिभीषणोऽतिभद्रोऽतिमृत्युमृत्युरति- नमाम्यत्यहं भूत्वा स्वे महिनि सदा समासते तस्मादेनमकारार्थेन परेण ब्रह्मणैकी कुर्यादुका- त्पद्यते सर्वमित्यर्थः। अथ सृष्टस्याऽऽत्मन्येव स्थितिमाह-स एतत्सर्व *निरू- होति । निर्वाह्य कंचित्कालं स्वात्मन्येव सद्रूपे स्थापयित्वा किमित्याह-प्रत्यू- ह्येत्यादिना । अनेन च ज्ञानहेतुक आत्यन्तिकः प्रलय उच्यते । सं प्रत्यगात्मा ज्ञानवलेनैतत्सर्व प्रत्यूह्य कारणात्मनि संहृत्य संपीड्य कारणात्मानमपि स्वात्म- नाऽन्तर्बहिश्च संव्याप्य संज्वाल्य चिद्रूपतामापाद्य संभक्ष्य स्त्रे तावन्मात्रतया विलाप्य स्वात्मानं चिन्मात्ररूपमेपां कार्यकारणरूपपदार्थानां ददाति न हि तेषां स्वरूपान्तरमस्ति कल्पितत्वात् । भक्षणादौ सामर्थ्य दर्शयति-अत्युग्र इति । उग्रत्वगुणादतिक्रान्तत्वे सत्गुणत्वमत्युग्रत्वम् । एवमतिवीर इत्यादिक मपि योज्यम् । वीरादिपदानामवतारस्तूतप्रकारेणैव द्रष्टव्यः । स्वे महिन्नि सदा समासत इति । यस्मात्सर्वभक्षणादिकर्तृत्वेऽप्यस्य कोऽपि विकारो नास्ति प्रत्यगात्मनस्तस्मात्सर्वदा स्वे महिम्न्येवाऽऽस्तेऽसौ तस्माद्ब्रह्मणोऽने. नैक्यं युक्तमित्यर्थः। एवमकारस्य ब्रह्मार्थत्वं पूर्वमेवोक्तमुकारस्य त्वचधारणार्य- त्वं पूर्वमेवोक्तम् । अथोक्तविधस्य ब्रह्मणः प्रत्यगात्मनैकत्वं प्रतिपत्तव्यमि- त्याह-तस्मादेनमिति । यस्मादकारमकारोकाराणां ब्रह्मपत्यगवधारणार्थत्वं सिदं तस्मादेनं प्रत्यगात्मानमित्यर्थः। अकारार्थेन ब्रह्मणाऽकारार्थ ब्रह्मत्यर्थः। यथाश्रुतार्थस्वीकारे हि प्रथमप्रणवेनेव द्वितीयप्रणवेनापि प्रत्यगात्मनो ब्रह्मणे- कत्वप्रतिपत्तिरेव स्यात् । तथाच न व्यतिहारः सिध्यति व्यतिहारखण्डे च तेन भाव्यमतः पूर्ववत्मणवमुच्चरन्ब्रह्म प्रत्यगात्मनकी कुर्यात् । अकारोच्चारणस- मये यथोक्तं ब्रह्म प्रतिपद्याकारस्योकारसंबन्धसमये ब्रह्मणः प्रत्यग्रूपत्वेन प्रत्य- गात्मनेकत्वयोग्यत्वं संचिन्त्योकारस्य मकारसंबन्धसमये मकारार्थन प्रत्य. * एतत्प्रत्ययेति च च्छान्दमत्वात्माधु ।

११४ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[७ सप्तमः खण्डः ] रेणाविचिकित्सनशरीरी निरिन्द्रियोऽप्राणोऽ- तमाः सच्चिदानन्दमात्रः स स्वराड्भवति य एवं वेद तदेष 'श्लोकः-शृङ्गं शृङ्गार्धमाकृष्य शृङ्गेणानेन योजयेत् । शृङ्गमेनं परे शृङ्गे तम- . गात्मनाऽकारार्थस्य. ब्रह्मण एकत्वनिश्चयं कुर्यादित्यर्थः। उक्तं च वार्ति- ककृद्भिः- "अथवाऽकारमात्मानं मकारं च जगद्गुरुम् । अवधारणसंयुक्तमेकी कुर्यादामिति ।। अहंशब्दैकदेशत्वाब्रह्मशब्दैकदेशतः । अतत्यायेकदेशत्वाब्रह्माकारेण च स्मरेत् ॥ साक्षित्वान्मनादीनां मकारेण तु साक्षिणम् । सावधारणमैकात्म्यमेवमोमिति पश्यति" इति ॥ व्यतिहाररूपप्रतिपत्तिसाधकत्वं प्रणवद्वयस्य । अत्रापि ब्रह्माकारेण च स्मरे- दिति पठितत्वात् । द्वयोरपि प्रणवयोः प्रत्यगात्मनो ब्रह्मणैकत्वमेवोच्यत इति बदन्ति केचित् । तेषां पुनर्वचनानर्थक्यप्रसङ्गः प्रथमवचनमप्यनर्थकमेव तेषां साधनखण्ड एव प्रत्यगात्मनो ब्रह्मणैक्यस्योक्तत्वात् । ननु व्यतिहारपक्षेऽप्ये- केनैव प्रणवेन व्यतिहारस्य सिद्धत्वात्पुनर्व्यतिहारकथनमनर्थकमेव । न । संग्रह विस्तराभ्यां भेदोपपत्तेः । तद्यन्यत्राप्यकारमकारयोरर्थभेदादिच्छया प्रतिपत्ति- संभवाच न पौनरुक्त्यदोषः। व्यतिहारखण्डप्रसिद्धिस्तु व्यतिहारसद्भावमा- घेणैवोपपद्यते । श्रुतेर्यथाश्रुतार्थलाभश्चास्मिन्पक्षे महाल्लाँभः। अस्त्वेवं श्रुत्यर्थवि- दश्वेदेवमुपदिशन्ति । वक्ष्यमाणश्लोकविरोधस्त्वस्मिन्पक्षेऽपरिहार्यः । अशरीर इत्यादि फलकथनम् । उक्तेऽर्थे श्लोको भवति-तदिति । शृङ्गं छन्दसामृष- भस्य प्रणवस्य शृङ्गमंशमकारमकारार्थ प्रत्यगात्मानमादायेत्यर्थः । शृङ्गार्धमुका- रपूर्वार्ध तदर्थं ब्रह्म प्रत्याकृष्य ब्रह्मणैक्यं प्रतिपद्येत्यर्थः । शृङ्गेणानेन मकारेण तदर्थप्रत्यगात्मनेत्यर्थः । योजयेदुकारोत्तरार्धार्थ ब्रह्म योजयेत् । ब्रह्मणः प्रत्य- गात्मनैकत्वं चिन्तयेदित्यर्थः । इत्येकेन प्रणवेन व्यतिहार उक्तः। शृङ्गमेनमहं- शब्दादिभूतप्रणवाकारार्थमात्मानमित्यर्थः । परे शृङ्गे ब्रह्मशब्दान्त्यभूते मकारा- त्मकप्रणवमकारार्थब्रमणाऽऽकृष्योकारेणैकत्वं निश्चित्येत्यर्थः । तमन्त्यशृङ्ख पर- १२५ : अष्टमः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । नेनापि योजयेत् ॥ इत्यथर्ववेदान्तर्गतनृसिंहोत्तरतापनीये षष्ठोपनिषदि सप्तमः खण्डः ॥ ७॥ अथ तुरीणोतश्च प्रोतश्च ह्ययमात्मा सिंहोऽ- स्मिन्हि सर्वमयं हि सर्वात्माऽयं हि सर्व मात्मानमतत्यंशरूपप्रणवाकाराभिधेयं परमात्मानमित्यर्थः । अनेनापि मन- आधवित्रा प्रणवमकारार्थेन प्रत्यगात्मनाऽपि योजयेत् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दपूज्यपादशिष्यश्री- मद्विद्यारण्यमुनश्विरकृतौ श्रीनृसिंहोत्तरतापनीये पष्ठोपनिषदि सप्तमः खण्डः ॥ २॥ एवं विभक्तेन प्रणवेनाऽऽत्मप्रतिपत्तिप्रकारमभिधाय तुरीयतुरीयेणाविभ- तेन प्रणवेन प्रतिपत्तिप्रकारो वक्तव्य इति खण्डान्तरारम्भः । अथेति । किंच तुरीयावसितत्वादेकैकस्येत्योतादीनामेकैकस्य तुरीयावसितत्वमुक्तं न तु तत्स्प- टमभिहितमिति तदभिधानाय खण्डान्तरमारभते । अथ विभक्तपणवेनाss- त्मनो जीवेशरूपस्यैक्यप्रतिपत्त्यनन्तरमनेकपदतदर्थप्रतिपत्तिलक्षणस्य विक्षेपस्य शमनाय तुरीयेणाविभक्तेनोमित्येतेनोतानुज्ञात्रनुज्ञाविकल्परूपेणाऽऽत्मप्रतिपत्ति- रभिधीयत इति शेषः । तत्रोतप्रणवेनोतस्याऽऽत्मनः प्रतिपत्ति दर्शयितुमात्मन ओतत्वं प्रतिजानाति-ओतश्च प्रोतश्चेति । ओतश्व सामान्येन सन्मात्रात्मना प्रोतश्च चिदानन्दरूपेण । हीति प्रसिद्धिमाह । प्रसिद्धा हि सच्चिदानन्दाना सर्वत्र व्याप्तिः पुत्रसत्ता पुत्रसंवित्पुत्रसुखमित्यादिप्रकारेणेत्यर्थः । अयमात्मा पूर्वोक्तोऽयं ब्रह्मरूप आत्मा। सिंह इति सर्वसंसाररहितब्रह्मसर्वरूपत्वमभिहित- मात्मनः । वाक्यार्थरूपेणाऽऽत्मना सर्व व्याप्तमतो व्यापकत्वमेवोतत्वं न त्वात्मनो व्याप्यभावः कुत्रचिदोतत्वं संभवति । आत्मन ओतत्वं प्रसिद्ध स्वयमेवोपपादयति-अस्मिन्हीति । अस्मिन्हि सच्चिदानन्दरूपे व्यापके सर्व व्याप्यत्वेन वर्तते । अस्मिन्सर्व वर्तत इत्यत्र हेतुमाह- अयं हि सर्वात्मेति । न हि संविध्यतिरेकेण जगतः स्वरूपमस्तीत्यभिप्रायः । तात्मनो भिन्नमस्तु सर्व जगदिति नेत्याह-अयं हि सर्वमिति । न व्यतिरेकेणाव्यतिरेकेण वा सर्वमस्ति किंवान्मेवातीत्यर्थः । तर्हि व्याप्यस्य मसाभावात्कथमो- श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[८ अष्टमः खण्डः ] नैवोतोऽदयो ह्ययमात्मैकल एवाविकल्पो न . हि वस्तु सदयं द्योत इव सद्घनोऽयं चिद्- घन आनन्दधन एकरसोऽव्यवहार्यः केनचना- द्वितीय ओतश्च प्रोतश्चैष ओंकार .एवं नैव- मिति पृष्ट ओमित्येवाऽऽह वाग्वा ओंकारी तत्वमुक्तमात्मन इत्याशङ्कय मा भूत्पारमार्थिकमोतत्वमित्याह-नैवोत इति । किं तर्युक्तमोतत्वमिति । अद्वयतैवेत्याह-अद्वयो ह्ययमात्मेति । अद्वयो हि यस्मादात्मा तस्मादोतत्वमुक्तमित्यर्थः। अद्वयत्वमात्मत्वं वाऽस्य न धर्म इत्याह-एकल एवेति । नन्वद्वितीयत्वादिकमात्मनो धर्मत्वेनाभ्युपगन्तव्यं सर्वात्मनोऽद्वितीयत्वादिधमैरेव व्यवहारादित्याशङ्कयाऽऽह-अविकल्प इति । व्यवहारस्य विकल्पमात्रत्वान परमार्थतोऽद्वितीयत्वादिधर्मवत्त्वमात्मन इत्यर्थः । यस्माद्विकल्पितमेव सर्व व्याप्यं परमार्थतोऽद्वयोऽयमात्मा तस्मादात्मन उक्तमो- तत्वं व्यापकत्वमेव कल्पितमेवेत्याह-अयं ह्योत इवेति । ननु सदादिरूप- स्याऽऽत्मनः कथमद्वितीयत्वमुच्यते घटसत्ता पटसत्ता घटसंवित्पटसंवित्पुत्रमुखं वित्तसुखमित्यादिरूपेण तेषां भेदप्रतीतेरित्याशङ्कय सन्मात्रे चिन्मात्रे सुखमात्रे चन भेदमतीतिरस्ति किं तु घटाधुपाधिगतैव भेदप्रतीतिर्न च तेषामपि सन्मा- पाझेदोऽस्त्यसंभवादित्याह सधनोऽयमित्यादिना वाक्यत्रयेण । सदादीनां परस्परभेदं निराचष्टे-एकरस इति । नन्विदं निर्विशेषं वस्तूपदेश्यान्प्रति कथमुपदेष्टुं शक्यते सर्वशब्दाविषयत्वादिति सत्यमेवं नैकेनापि शब्देन विषय- त्वेनोपदेष्टुं शक्यत इत्याह-अव्यवहार्यः केनचनेति । अव्यवहार्य इत्यनेन धर्मेणोपदिश्यतां तर्हि नेत्याह-अद्वितीय इति । एवमात्मन ओतत्व- मुपपाय तद्वाचकस्याप्योंकारस्योतत्वं तदभेदार्थमाह-ओतश्चेत्यादिना । प्रतिज्ञातमोंकारस्योतत्वमुपपादयति-एवमिति । किमिदमेवं भवति किमि- दमेवं न भवतीति कश्चित्केनचित्पृष्ट ओमित्येवोत्तरमाहेत्यर्थः । किमयं भाव एवंरूपः किं वा नैवरूप इति पृष्टे सत्ययं भाव एवंरूपः । अयं भावो नैवंरूप इत्युत्तरे वक्तव्ये तत्स्थान ओमित्येवोत्तरं दृश्यते । तस्मा- सर्ववाचकत्वादोंकारस्योतत्वं सिद्धमिति भावः। वामात्ररूपत्वाञ्चोंकारस्यो- तत्वं सिदामेल्याह-वाग्वा इति । सर्ववर्णकवलनरूपत्वाद्वैखर्यादिरूपत्वाच्च वाभात्रत्वमवगन्तव्यमोंकारस्य वात्रत्वेऽप्योंकारस्यार्थजातस्य पृथग्विद्यमा.

[८ अष्टमः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । वागेवेदं सर्व न ह्यशब्दमिवेहास्ति चिन्मयो ह्ययमोंकारश्चिन्मयमिदं सर्व तस्मात्परमेश्वर एवैकमेव तद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति रहस्यमनुज्ञाता ह्ययमात्मैष ' ह्यस्य सर्वस्य स्वात्मानमनुजानाति न हीदं सर्व स्वत आत्मवन्न ह्ययमोतो नानुज्ञाताऽसङ्गत्वाद- नत्वात्कथमोतत्वमिति तत्राऽऽह-वागेवेदं सर्वमिति । वाकार्यत्वाद्रूपस्य वाग्व्य- तिरेकेणासत्त्वाद्वागेवेदं सर्वमित्यर्थः । वाचः सर्वानुगतिं दर्शयन्सर्वकारणत्वमु- पपादयति-न हीति । न हि परापश्यन्तीमध्यमावैखरीरूपवाग्व्यतिरेकेण कस्यचिदपि प्रतिभासोऽस्तीत्यर्थः । बोधकत्वेन चिद्रूपत्वाच्चोंकारस्योतत्वम- भ्युपगन्तव्यमित्याह-चिन्मय इति । चिन्मयत्वेन कथमोतत्वमिति चित ओत- त्वादित्याह-चिन्मयमिदं सर्वमिति । चिन्मयत्वेन सर्वस्यापि परमेश्वरलक्ष- णस्य संभवात्परमेश्वर एवायमोंकार इत्याह-तस्मादिति । वाच्यवाचकभेदं निराचष्टे । एकमेव तदुभयं प्रणवपरमेश्वरस्यैकमेव चिन्मानं भवतीत्यर्थः । अस्यैकस्य वस्तुनः सर्वसंसाररहितत्वेन पुरुषार्थरूपत्वमाह-एतदित्यादिना । कथमस्यैवंरूपत्वमिति ब्रह्मरूपत्वादित्याह-एतद्ब्रह्मेति । ब्रह्मणस्त्वयादि- रूपत्वं सिद्धमित्याह-अभयं वा इति । एवंविदः फलमाह-अभयं हीति । यथाज्ञानं हि फलमित्यर्थः । उक्तमोतत्वज्ञानं गोपनीयमित्याह-रहस्य- मिति । एवमोतप्रणवात्मनोस्तुरीयावसितत्वं प्रतिपाद्यानुज्ञातृप्रणवात्मनोस्तत्म- तिपादयन्नात्मनस्तावदनुज्ञातृत्वं प्रति जानाति-अनुज्ञाता हीति । कस्य किमनुजानातीत्याह-एप हीति । ओनभावनया तुरीयतुरीयस्वात्मन्यव- स्थितस्य केनचिनिमित्तेन चलिते मनसि द्वितीयप्रतिभासस्तावद्भवति । न चाऽऽत्मप्रतिपत्त्या बाधितस्य रसत्वेन स्वतः प्रतिभासः संभवत्यतस्त- स्याऽऽत्मनि कल्पिततया प्रातिभासिकसत्तामनुजानातीत्यर्थः । नन्विदं सर्व प्रतिभासमानत्वादात्मवत्स्वत एवाऽऽत्मवत्ततो नाऽऽत्मानुज्ञयपामात्म- बत्त्वमिति नेत्याह-न हीति । जडस्य स्वतः प्रकाशायोगात्सत्ताऽपि न स्वतोऽस्तीत्यर्थः । कथं तोतत्वमनुज्ञातृत्वं चोक्तमात्मन इत्याशङ्कायामुक्त- मेवोत्तरं स्मारयति-न ह्ययमिनि । अत्र हेतुत्रयमाह-असावादित्यादिना ।

१३८ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[८ अष्टमः खण्डः] विकारित्वादमत्त्वादन्यस्यानुज्ञाता ह्ययमोंकार ऑमिति ह्यनुजानाति वाग्वा ओंकारो वागे- वेदं सर्वमनुजानाति चिन्मयो ह्ययमोंकारश्चि- द्वदिं सर्व निरात्मकमात्मसात्करोति तस्मा- परमेश्वर एवैकमेव तद्भवत्येतदमृतमभयमेतब- माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं बेदेति रहस्यमनु करसो ह्ययमात्मा प्रज्ञानघन एवायं यस्मात्सर्वस्मात्पुरतः सुवि- मातोऽतश्चिद्घन एव न ह्ययमोतो नानुज्ञा- तोऽऽत्म्यं हीदं सर्वमसदेवानुज्ञैकरसो ह्ययमों- कार आमिति ह्येवानुजानाति वाग्वा ओं- एवमात्मनस्तरीयपर्यन्तमनुज्ञातृत्वं प्रतिपाद्योंकारस्यापि तदाह-अनुज्ञाता हीति । तदुपपादयति-आमितीति । किमहं तव स्वभूतमिदं गृहामीति निर्धने- नासत्कल्पेन पृष्टो धनवांस्त धनिनं सन्तं कुर्वन्नोमिति हि तेन प्रार्थितमनुजा- नाति तस्मादोंकारस्याऽऽत्मानुज्ञातृत्वं सिद्धमित्यर्थः । अथवा यज्ञे जगत्सृ- ध्यादिकरं चरुपुरोडाशादिकं देवादीनामनुजाननोमिति हि यस्मादनुजानाति तस्मात्सिद्धमाकारस्य सर्वेपामात्मानुज्ञातृत्वमित्ययः । वाग्वा ओंकार इत्यादि व्याख्यातप्रायम् । एवमोंकागत्मनास्तुरीयपर्यन्तमनुज्ञातृत्वमुपपाद्यानुज्ञात्व- मपि तुरीयपर्यन्तं नयाः सिद्धमिति वदन्नात्मनोऽनुज्ञात्वं तावदाह - अनुज्ञैक- रस इति । अनुज्ञा न व्यापाररूपा किं त्वात्मैवेत्याह-प्रज्ञानघन इति । काल्प- निकरूपमनुज्ञातृयोगेन तुरीयतुरीयपर्यन्तेन स्वात्मनि विलाप्य स्थितं साक्षिचै- तन्यमनुज्ञेत्यर्थः । चिद्धनत्वमुपपादयनि-अयं हीति । कथं तद्यस्यानुज्ञातृत्वमो- तत्वं चोक्तमिति चेदस्योत्तरमुक्तमित्याह-न ह्ययमिति । तत्र हेतुमाह- आत्म्यं हीति । इदं सर्व साक्ष्यमात्म्यं स्वत आत्मशून्यत्वादात्माईमात्मापेक्ष- मित्यर्थः । आत्मीयमात्मसंवन्ध्यात्मन्यध्यस्तमिति वाऽर्थः। अत आत्मव्यतिरे- केण नास्तीदं सर्वमित्याह-असदेवेति । ओंकारस्याप्यनुज्ञात्वं सिद्धमित्याह- अनुज्ञैकरस इति । अनुज्ञैकरसत्वमुपपादयति-ओमिति हवेति । ओमित्येवं हि १. घयमस्मा । २ क. इ. ज्ञानतदात्म्यं । घ. "ताऽऽत्मा ही। ४ इ. छ. मन म"।

[८ अष्टमः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । कारो वागेव ह्यनुजानाति चिन्मयो ह्ययमों- कारश्चिदेव ह्यनुज्ञा तस्मात्परमेश्वर एवैकमेव तद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति रहस्यम- विकल्पो ह्ययमात्माऽद्वितीयत्वादविकल्पो ह्ययमोंकारोऽद्वितीयत्वादेव चिन्मयो द्ययमों- कारस्तस्मात्परमेश्वर एवैकमेव तद्भवस्यविकल्पो नाविकल्पोऽपि नात्र काचन भिदाऽस्ति नैवात्र काचन भिदाऽस्त्यत्र भिदामिव मन्य- मानः शतधा सहस्रधा भित्रो मृत्योर्मृत्युमा- शास्त्राचार्योक्तां सर्वस्य चिन्मात्रतामनुजानन्ननुजानाति विद्वान्विविदिपुश्चोमिति ह्येव सर्वमीश्वरायानुजानन्मनुजानातीत्यर्थः । वाग्वा इति परा वागुच्यतेऽ. न्यथाऽनुज्ञाया अनुज्ञातुः सकाशादान्तरत्वानुपपत्तेः । वक्ष्यति चाऽऽन्तरत्वं श्लोकेन- 'ओतमोतन जानीयादनुज्ञातारमान्तरम्' इति । यद्यप्योतानुज्ञातुरा- न्तरत्वमेवात्रोक्तं तथाऽप्यनुज्ञातुरनुज्ञाया निर्विकल्पस्य चाऽऽन्तरत्वमवगन्तव्यं संभवात् । यद्यपि सर्वे तुरीयावमितत्वेन समाना आतादयस्तथाऽप्युगक्रमे बाह्यान्तरत्वं विद्यते तपामित्यस्ति हि संभवाऽनुज्ञातुरनुज्ञाया आन्तरत्वेऽनुज्ञा- याश्चाविकल्पस्य । आत्मनोऽविकल्पत्वमाह ----अविकल्पो हायमात्मेति । तत्र हेतुमाह-अद्वितीयन्वादिति । साक्षित्वलक्षणमनुज्ञातृत्वमपि विकल्परूपमेवेति तदपि विलाप्य स्वमहिमस्थं चतन्यमविकल्पमित्यर्थः। ओंकारस्याप्यविकल्पत्व माह-अविकल्पो ह्ययमोंकार इति । तत्रोक्त एव हेतुरित्याह-अद्विनीयत्वा- देवेति । ओंकारस्याद्वितीयत्वं साधयति-चिन्मय इत्यादिना। एकमेव तद्भ- वतीत्युक्तं किं तदेमिति नत्राऽऽह-अविकल्प इति । अविकल्पधर्मोऽप्यत्र नास्तीत्याह-नाविकल्पोऽपीति । अत्र हनुमाह-नात्र काचन भिदाऽस्तीति । भेदप्रतिभासाभावादेव भेदाभाववचनं न तु भंदस्य स्वरूपता भावादिति शङ्का वारयति-नैवेति । भेददर्शने दोपदर्शनेनापि भेदासत्वमेव द्रढ यति-अत्र भिदामिति । देवादिभेदनानात्वं प्राप्य तत्रापि न स्थैर्य प्रामोनीत्यर्थः । उक्त- ५ ग.२. चावा भि ।

श्रीमद्विचारण्यमुनिविरचितदीपिकासमेता-[९ नवमः खण्डः] मोति तदेतदवयं स्वप्रकाशं महानन्दमात्मै- वैतदमृतमभयमेतद्ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति रहस्यम् ॥ इत्यथर्ववेदान्तर्गतनृसिंहोत्तरतापनीये षष्ठोपनिषद्य- ष्टमः खण्डः ॥ ८ ॥ देवा ह वै प्रजापतिमब्रुवनिममेव नो भगवन्नों- कारमात्मानमुपदिशेति तथेत्युपद्रष्टाऽनुमन्तैष स्याविकल्पस्याऽऽत्मत्वमाह-तदेतदिति । तदेतदद्वयमात्मैवेत्यन्वयः । अद्वयत्वे तत्प्रकाशहेत्वभावात्कथं तत्प्रकाश इत्याशङ्कय स्वप्रकाशत्वमाह- स्वकाश- मिति । स्वत एवास्य पुरुषार्थतामाह--महानन्दमिति । आनन्दत्वेन लौकिकान- न्दवत्प्राप्तं दोपं परिहरति-एतदमृतमित्यादिना । एतदानन्दरूपमद्वयममृतं सर्वविकारजितमतोऽभयं तस्माद्रह्म । अभयं वा इत्यादि व्याख्यातम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दपूज्यपादशिष्यश्री- मद्विद्यारण्यमुनीश्वरकृतौ श्रीनृसिंहोत्तरतापनीये पष्ठोपनिषद्य- प्टमः खण्डः ॥ ८ ॥ - अथेदानीमुरुया तुरीयतुरीयपर्यन्तयोपासनयाऽतिशुद्धान्तःकरणस्य साक्षा- त्तुरीयंतुरीयोपदेशप्रकारं शिष्यस्योपदिष्टार्थप्रतिपत्तिप्रकारं तया च प्रतिपत्त्या निरस्तनिखिलाविद्यस्य स्वरूपावस्थानं च दर्शयितुं खण्डान्तरस्याऽऽरंम्भः देवा ह वा इति । उक्तं च- "गुरूक्तविद्यया छिन्नसर्वाविद्यस्य या स्थितिः। तां प्रवक्तुमुपेत्याद्य प्रारब्धैषोत्तरा श्रुतिः" इति । इममेवेति । तदेतदद्वयं स्वप्रकाशं महानन्दमात्मैवेति कथितं निर्विकल्पमेवे. त्यर्थः । ओंकारमित्योंकारलक्ष्यत्वादुच्यते । एवं देवैः प्रार्थितः प्रजापतिरुप- दिशति-उपद्रष्टेत्यादिना । एष प्रत्यगात्मा सिंहः परमात्मैवेत्यन्वयः । ननु कथं कर्तृत्वादिसंसारविशिष्टस्याऽऽत्मन ईश्वरत्वमित्याशङ्कय नाऽऽामनः कर्तृत्वादिकमस्तीत्याह-उपद्रष्टेति । कर्तृसमीपस्थः सन्कतन्पश्यति न तु स्वयं कर्तेत्युपद्रष्टा । अतो न कर्तृत्वादिसंसारधर्मो ब्रह्मात्मन इत्यर्थः । तर्हि सांख्य- सिद्धान्तप्रसक्तिरिति चेत्याह-अनुमन्तेति । स्वतःसत्ताप्रकाशप्रवृत्तिसाम- ठ. रप्रार।

. - ९नवमः खण्डः] नृसिंहोचरतापनीयोपनिषत् । आत्मा सिंहश्चिद्रूप एवाविकारो ग्रुपलब्धा सर्वत्र न द्यस्ति दैतसिद्धिरात्मैव सिद्धोऽद्वि- तीयो मायया ह्यन्यदिव स वा एष आत्मा पर एवैषैव सर्व तथा हि प्राज्ञे सैषाऽविद्या. यरहितानां कर्तृणां प्रापाबुद्ध्यादीनां स्वात्मन्यध्यस्ततया तत्सर्वमनुजानाती- त्यर्थः । तनुज्ञातृत्वमसक्तिस्ततस्तदपि कर्तृत्वमेवेति नाकर्तृब्रह्मणैक्यमात्मन इत्याशङ्कयाऽऽह-चिद्रूप एवेति । सर्वविकारसाक्षित्वेन चिंद्रूपत्वं साधयति- अविकारो पलब्धेति । साक्षित्वमपि न विकारपूर्वकमित्याह-अविकारो घुपलब्धा सर्वत्रेति । विकारित्वे साक्षित्वं न हि घटत इति हीति सूचितम् । आत्मनोऽविकारित्वेन द्वैतसाधकत्वाभावादन्यस्य च तत्साधकस्यानुप- पत्तेः । कथं तर्हि द्वैतसिद्धिरित्याशङ्कयात एव परमार्थतो न द्वैतसिद्धिरि- त्याह-न ह्यस्ति द्वैतसिद्धिरिति । उक्तानुपपत्त्यर्थो हिशब्दार्थः । कथं द्वैतसि- दिर्नास्ति प्रतीतेरित्याशङ्कयाऽऽत्मैव तद्रूपेण प्रतीयत इत्याह-आत्मैव सिद्ध इति । तर्हि तस्य सदयत्वेनाद्वितीयब्रह्मभावानुपपत्तिः। न । आत्मनः परमार्थ- तोऽद्वयत्वादित्याह-अद्वितीय इति । सद्वितीयप्रतिभासस्तु माययेत्याह- मायया ह्यन्यदिवेति । फलितमाह-स वा इति । स उपद्रष्टेत्युक्त एप मायया ह्यन्यदिवेत्यन्तेन शोधित आत्मा पर एव तल्लक्षणलक्षितत्वादित्यर्थः । माय- याऽऽत्मा सद्वितीय इव भासत इत्युक्तं तत्फलमाह-एव सर्वमिति । एषा मायैव सर्वसंसाररुपद्वयमित्यर्थः । ननु प्रसिद्ध सर्व परित्यज्याप्रसिद्धस्वीकारोऽ- नुपपन्न इत्याशङ्कयाऽऽत्मनः परत्वं सर्वस्य मायामात्रत्वं चास्माभिरभ्युपगम्यत एतच्च सर्व प्राणभृतां सुषुप्ते सिद्धमतो नापमिद्धस्वीकार इत्याह-तथा हीति । पथाऽस्माभिरुक्तं स वा एष आत्मा पर एपैव समिति तथा हि तथैव हि प्रसिद्धं तत्सर्वेषां प्राज्ञे सुषुप्तावित्यर्थः । उक्तमेव स्पष्टतया दर्शयति-सेपेत्या- दिवाक्यद्वयन । सेति पूर्वोक्ता मायोक्ता । एपाऽविद्येति प्राज्ञे प्रसिद्धमज्ञान- मुक्तं सामानाधिकरण्येन चेक्यं दर्शितं मायाविद्ययोस्तत एवैका जहशक्ति विक्षेपशक्तिमाधान्येन मायोच्यत आच्छादनशक्तिप्राधान्येनाविद्योच्यत इति भावः । आत्मा परमात्मैवेति । प्रत्यगात्मनो ब्रह्मणैकत्वम् । स्वप्रकाश इति पर- मात्मनो विशेषणं तेन च परमात्मनः प्रत्यगात्मैकत्वं धोतितं न यात्मनोऽ- न्यस्य परमात्मनः स्वप्रकाशत्वं संभवतीति । सुषुप्ते यदि सर्वशः परमात्माऽयं प्रत्यगात्मा किमित्यात्मानमन्यं च न विजानानीत्याशयायमहमस्मीदमेवंरूप- १४२ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[९ नवमः खण्डः ] जगत्सर्वमात्मा परमात्मैव स्वप्रकाशोऽ- प्यविषयज्ञानत्वाजानन्नेव द्यत्र न विजा- नात्यनुभूतेर्माया च तमोरूपाऽनुभूतेस्तदे- तज्जडं मोहात्मकमनन्तं तुच्छमिदं रूप- मिति स्पष्टदर्शनाभावे कारणमाह--अप्यविपयज्ञानत्वादिति । न जानातीत्यु- तरत्रान्वयः । अपिशब्दः शङ्कानुवादार्थः । यद्यप्ययं सर्वज्ञः परमात्मा सुषुप्ते तथाऽप्यविषयज्ञानवादात्मानमन्यं च न विजानातीति । अविषयज्ञानत्वादि- त्ययमर्थः । अविषयत्वाद ज्ञानत्वाचति । तत्राविषयत्वादिति सन्मात्रव्यतिरि- क्तविषयसंबन्धाभाव उक्तो यद्विपयं स्पष्टं ज्ञानं स्यात् । अज्ञानत्वादिति ज्ञाय- सेऽनेनत्यन्तःकरणं वाह्यन्द्रियाणि च ज्ञानं तत्संबन्धरहितत्वादिति स्पष्टज्ञानक- रणाभाव उक्तः । ज्ञानमात्रं तु सुपुप्तऽप्यस्तीत्याह-जाननेव ह्यत्र न विजा- नातीति । स्वात्मानं स्वप्रकाशतया जानन्नेव वर्ततेऽज्ञानं च चैतन्याभासेनाज्ञा- नवृत्तिविशेषेण च जाननेव वर्तते सुपुप्तऽप्यात्मा । अतो जाननेवाऽऽत्मा गर्न विजानाती-युच्यते । यत इदानीमिव मुपुते सुपप्लवदेवेदानीमप्यात्माऽ- विक्रिय एव भवतीत्यर्थः । केन प्रमाणेनोक्तस्पार्थस्य सद्भावसिद्धिरिति चेत्स- र्वेषां स्वानुभवसिद्धोऽयमर्थ इत्याह – अनुभतेरिति । आत्मा चेत्परमात्मनैकी- भूतः स्वप्रकाशसुपुप्ते कथं तह नत्र मायाविद्यासंभव इति चेत्सत्यमस्तीयमनु- पपत्तिस्तथाऽपि तमोरूया माया सर्वेषां स्वानुभतिबलादभ्युपगन्तव्येत्याह- माया च तमोरूपाऽनुभूतरिति । अस्या मायायास्तमारूपिण्याः सर्वजगन्मयत्व- मुक्तमात्मनोऽद्वयत्वाय । एपेव सर्व सैपाऽविद्या जगत्सर्वमिति च । तत्प्रतिपा- दनायास्या जगत्कारणत्वमुपपादयन्स्वरूपमाह--तदेतदित्यादिना । तत्र जड- रूपनगत्कारणत्वोपपादनायास्या मायायास्तमसः सुपुप्तादौ सर्वेषां स्वानुभव- सिद्धं जडत्वमाह-तदेतजडमिनि । मुढोऽहमिदं च मढमिति प्रसिद्धं मौढ्य- मपि सुषुप्तमाहात्मकमेवेति वक्तुं सौषततमसः सर्वलोकप्रसिद्धिमाह --मोहात्म- कमिति । तस्य सर्वकारणत्वसिद्धये सुषुप्तिसमये सिद्धमेवाऽऽनन्त्यमाह-अन- न्तमिति । सर्वविषयाज्ञानसंभवाजाग्रत्यप्यानन्त्यं सिद्धमज्ञानतमसः । अनिर्व- चनीयजगत्कारणत्वाय सुपुप्तादौ स्वप्रकाशचिदाश्रयत्वानुभववलसिद्धामनिर्व- चनीयतामाह-तुच्छमिति । सत्कार्यवादिपक्षोपपादनाय सर्वस्यापि कार्यस्य सौषुप्ततमसि वासनारूणावस्थानमाह--इदं रूपमिति । ननु कस्येयमविद्या न तावज्जीवस्य तस्याविद्याधीनत्वेन तत्सिद्धेः पूर्वमेवाविद्यायाः साश्रयविष [९नवमः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । १४२ मस्यास्य व्यञ्जिका नित्यनिवृत्ताऽपि मूढरात्मेव दृष्टाऽस्य सत्त्वमसत्त्वं च दर्श- यति सिद्धत्वासिद्धत्वाभ्यां स्वतन्त्रास्व. तन्त्रत्वेन सैषा वटबीजसामान्यवदनेक- याया वक्तव्यत्वात् । नापीश्वरस्य सर्वज्ञत्वादविद्याधीनत्वाच्च । सत्यम् । अतः एव न जीवेशयोरियं किंतु जीवेश्वरविभागास्पदचिन्मात्रस्येत्याह-अस्येति । स्वप्रकाशतयाऽखिलजगत्प्रसिद्धचिन्मात्राश्रयविषयतया सपूस भानादित्यर्थः । मामहं न जानामीति चाऽऽत्ममात्राश्रयविषयत्वं प्रसिद्धमेवाज्ञानस्य न चास्या- विद्यासंबन्धेन कदापि काचिदपि हानिरस्ति परमार्थतः किं त्वौज्ज्वल्यमेव तत्साक्षित्वेनाभिवृद्धं घृतपिण्डसंबन्धेनेवाग्नेरित्याह-अस्य व्यञ्जिकेति । तर्हि घृतपिण्डमिव दीप्तोऽग्निरात्मा तो दहेदित्यविद्यासत्त्वमेव न स्यादिति चेत्सत्य- मित्याह-नित्यनिवृत्तेति । कथं तर्हि तस्याः कारणत्वमुच्यत इति चेदसत्यपि सा मृदैरविवेकिभिरात्माभिन्नेव दृष्टा कल्पिताऽमती सतीव भाति मूढानामत- स्तेषां सर्वमुपपत्रमित्याह-नित्यनित्ताऽपि मुहैरात्मैव दृष्टेति । एवं सर्वजग- न्मूलाध्यासमुपपाद्य तत्कार्यभूतजीवेश्वरायथ्यासं दर्शयति- -अस्येत्यादिना । अस्य स्वाश्रयविपयरूपस्य चेतन्यस्य सत्वं स्वसाक्ष्यत्वेन नयजकत्वाद्दर्शयति स्वतः सदमदादिविकल्पशुन्यं चैतन्यम् । अपच चाऽऽच्छादकत्वेन मूढानां दर्शयतीत्यर्थः । सत्त्वासत्त्वदर्शनयोरुपपत्ति स्वयमेवाऽऽह-सिद्धत्वासिद्धत्वा- भ्यामिति । सिद्धत्वेन सचं दर्शयनि । असिद्धन्वेन चासत्त्वं दर्शयतीति विभागः । स्वमहिमस्थं हि निर्विकल्पकचैतन्यमविद्यासंबन्ध तत्साधकत्वेन प्रकटी भवति । आकाशस्थमिव तेजो मतमाधकत्वेन । स्वप्रकाशमपि चैतन्यं जडप्रधान सदसिद्धमपि भवनि । अविद्याम्वाभाव्यात् । नाभ्यां च सिद्धन्वासिद्धन्वा- भ्यामात्मनः स्वातन्त्र्यं पारतन्त्र्यं च भवतीश्वरत्वे जीवत्वे च निमित्तभूतमि- त्याह-स्वतत्रास्वतत्रत्वेनेति । स्वयंसिद्धत्वनाविद्यायाः सत्ताप्रतीत्यर्थ- क्रियाप्रदतयाऽविद्या प्रति स्वातन्त्र्यं भवति चैतन्यस्याविद्यानाभा- सद्वारा तस्यामात्मत्वारोपात्तद्वत्पारतव्यं च भवति चैतन्यस्यातश्च तदे- कमेव चैतन्यं जीवेश्वरभेदभिन्नमिव भवति साहंकारनिरहंकारत्वाभ्यामित्यर्थः । वक्ष्यति च-अभिमन्ता जीवो नियन्तेश्वर इति । नन्वेकाऽविद्या कथमनेक- जीव प्रतिभासहेतुरिनि शङ्कायां दृष्टान्तेन तदुपपादयनि-मैपनि । संपाऽविद्या १ छ. नवाम । २ न. ट. "वेशादिनि । ३ ठ. न्यस्य तद्गता। ट. गैषा व ।

श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[९ नवमः खण्डः ] वटशक्तिरेकैव तद्यथा वटबीजसामान्यमेकम- नेकाम्स्वाव्यतिरिक्तान्वटान्सबीजानुत्पाद्य तत्र . तत्र पूर्ण सत्तिष्ठत्येवमेवैषा माया स्वाव्य- तिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावाभासेन करोति माया चाविद्या च घटबीजसामान्यवदनेकवटशक्तिरेकैव सती यथा वटवीजसामान्यमनेक्वटव्य- क्त्युपादानसमर्थमेमियमप्यनेकवटशक्तिरित्यर्थः । अत्र वटशब्देन क्षेत्राण्यु- ध्यन्ते । वटवद्विपमृतत्वात्प्राण्युपजीव्यत्वाच महाभूतावात्मके क्षेत्रे क्टशब्दो युक्त एव । अतोऽनेकजीवोपाधिभतानेकक्षेत्रशक्तित्वादेकाऽप्यविद्याऽनेकजीव- प्रतिभासहेतुर्भवतीत्यर्थः । ननु शक्तिशक्तिमतोर्भेदेऽनेकाविद्याप्रसङ्गः स चानु- पपन्नोऽविद्यानां विपयाश्रयभेदानिरूपणात् । शक्तिशक्तिमतोरभेदश्चेत्तत्रापि शक्तिशेषपक्षेऽनेकाविद्याप्रसङ्गात् । शक्तिमच्छेपपक्षे त्वेकैवाविद्येत्येक एव जीवः स्यात् । तथाचानन्त जीवप्रतिभासविरोधो भेदाभेदपक्षश्चानुपपन्न इति चेत्सत्यमस्त्येवेयमनुपपत्तिवटवीजसामान्येऽपि ततस्तद्वदत्रापि द्रष्टव्यमित्यभि- प्रेत्य दृष्टान्तमुपपादयति-तद्यथेति । शक्तिशक्तिमतोरभेदपक्षमाश्रित्याऽऽह- घटबीनसामान्यमेकमिति । एकत्वेऽप्यनेकवटहेतुत्वमाह-सामान्यमेकमनेका नस्वाव्यतिरित्तान्वटान्सबीजानुत्पाद्येति । कार्याणामपि शक्तिद्वारा वटबीज- सामान्येनैक्यमाह-स्वाव्यतिरिक्तानिति । सबीजानित्येकैकस्यापि वटस्य सामान्यवत्पूर्णशक्तित्वमुक्तम् । एकैकेषु वटेषु वटसामान्यस्यैकस्यापि सर्वात्म- नाऽवस्थानमाह-तत्र तत्रेति । दान्तिकं प्रपञ्चयति-एवमेवेति । मायति । दुर्घटघटनासमर्थेत्यर्थः । एवमेकस्या अप्यविद्याया मायामयत्वेनानेकजीवादि- प्रतिभासोत्पादनसामर्थ्यमभिधाय चैतन्यस्य तद्धर्माध्यासेन जीवादिभावे द्वार- माह-जीवेशावाभासेन करोतीति । आभासद्वारेणाविवेकात्तस्यां बद्धाहंभावो जीवो निरहंकारः स्वमायामाससाक्षी स्वसत्तामात्रेण सर्वप्रवर्तकत्वादीश्वरः। अथवा मायायाः स्वकार्यभेदानुगतं नियामकं यद्पं तदाभासद्वारेणेश्वरं भवति विशेषमात्राभासप्राधान्येनानेकजीवं भवतीति जीवेश्वरविभागः । जीवेश्वरभेद- कल्पनायाः पूर्वमेकैव जडशक्ति वेश्वरभेदमेवं संपाद्येश्वरस्य मायास्वातव्ये हेतुत्वेन जीवस्याविद्यास्वातव्ये हेतुत्वेन भवतीत्याह-माया चाविद्या च - १ क. छ. 'न्स्वात्मव्य । २ ठ. द्यायो वि। ३ . पक्ष एकै । ४ ठ. 'त् । सत्य। ५म. ट. 'स्वात्मव्य । ६ ट. रक।

१४५ [९ नवमः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । स्वयमेव भवति सैषा विचित्रा सुदृढा बह्वङ्कुरा स्वयं गुणभिन्नाऽङ्कुरेष्वपि गुण- भिन्ना सर्वत्र ब्रह्मविष्णुशिवरूपिणी चैतन्य- दीप्ता तस्मादात्मन एवं त्रैविध्यं सर्वत्र योनित्वमप्यभिमन्ता जीवो' नियन्तेश्वरः - स्वयमेव भवतीति । स्वयमेवेत्येकैव जडशक्तिरित्यर्थः । एवमविद्यानिमित्तमेव जीवेशभेदमुपपाद्य तनिमित्तमेव जगत्पतिभासं त्रुवन्सत्कार्यवादमाश्रित्य स्थित्या- दिकाले प्रतीयमानस्य भेदजातस्य सूक्ष्मेण कारणमात्ररूपेण तस्यामवस्थितत्वेन तस्या वैचित्र्यं दर्शयञ्जगदाकारणावस्थाने तस्याः सामर्थ्य दर्शयति-सैषा विचित्रेति । असती मायेयमिति मत्वा तन्नित्तिसाधनेऽनादरो न कार्य इत्याह-सुदृढेति । सम्यग्ज्ञानेन विनाऽनुच्छेद्येत्यर्थः । एवं तस्याः कारणत्व- मुपपाद्येश्वरसंनिधानात्सा मायाऽनेकप्रकारेक्षणरूपेण परिणमत इत्याह- वहङकुरेति । अङ्कुरशब्देनेक्षणात्मकं प्रथमं कार्यमुच्यते । भूतादिसृष्टेः पृथ- ग्वक्ष्यमाणत्वात् । अङ्करस्य बहुरूपत्वमुक्तं वार्तिककृद्भिः- “सर्वज्ञकरुणानुन्ना विचारज्ञानकामना । ईक्षणोपचयान्नादिरूपणाथ विवर्तते" इति । कार्यगतप्रकाशचलनावरणम्पत्वनिर्वाहाय तस्याः सचादिरूपत्वमाह-स्वयं गुणभिन्नेति । चैतन्याभिव्यञ्जकत्वात्स्सन्दशक्तित्वाच्चैतन्याच्छादकत्वाच्च स्वयं माया सत्त्वरजस्तमआत्मिकेत्यर्थः । ततः कार्याणामपि सत्त्वादिरूपत्वं सिद्ध- मित्याह-अकुरेप्वपीति । गुणत्रयस्य त्रिमूर्तिशरीरात्मकत्वात्सर्वमपि कार्य त्रिमूर्त्यात्मकमेवेति वदन्सर्वमपदिश्विररूपेण द्रष्टव्यमित्याह-सर्वत्र ब्रह्मवि. ष्णुशिवरूपिणीति । तस्यास्तद्रूपत्वे योग्यतामाह-चैतन्यदीप्तेति । यस्मादा- त्मव्यतिरेकेण न माया नाम कौचनास्ति तस्मादात्मैव स्वात्मनि कल्पितमा. यागतसत्त्वाद्याभासद्वारेण सर्वद्वतजातोत्पत्तिस्थितिलयपु त्रिमात्मत्याह तस्मादात्मन एव त्रैविध्यं सर्वत्रेति । गुणत्रयसाम्यशरीरः कारणात्मा सर्वेश्व- रोऽपि स एवंत्याह-योनित्वमपीति । योनित्वमपि तस्यैवेत्यर्थः एवमीश्वरभेदस्य मायानिमित्तत्वमभिधाय जीवेशभेदस्यापि संव निमित्त मित्युक्तं व्यनक्ति-अभिमन्तेत्यादिना । समष्टिनीवत्वे निमित्तमाह १ क. ग. घ. द. चित्रा । २ न. पकन्व । ३ ठ. काचिदस्ति ।

१४६ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[९ नवमः खण्डः] सर्वाहमानी हिरण्यगर्भस्त्रिरूप ईश्वरवद्यक्तचैतन्यः सर्वगो ह्येष ईश्वरः क्रियाज्ञानात्मा सर्व सर्वमयं सर्वे जीवाः सर्वमयाः सर्वावस्थासु तथाऽप्यल्पाः स वा एष सर्वेति । तस्यापि त्रिमूर्तित्वमाह-त्रिरूप इति । तस्य जीवत्वे तस्मि- नीश्वरत्वव्यपदेशः कचित्कथमिति चेत्तस्य स्वत एवेश्वरात्मज्ञानंवत्त्वेनश्व- ररूपत्वादित्याह-ईश्वरवदिति । यथेश्वरो नित्याभिव्यक्तचैतन्यस्वभाव- स्तथाऽयमपीत्यर्थः । अथवा तन्नियन्तृत्वेनेश्वरस्यापि तत्र विद्यमानत्वात्त- स्मिन्नीश्वरव्यपदेशोऽस्तीत्याह-सर्वगो ह्येष ईश्वर इति । हिरण्यगर्भे चैत- न्याभिव्यक्त्यतिशये हेतुं वदंस्तस्य स्वरूपमप्याह-क्रियाज्ञानात्मेति । सर्वज्ञानक्रियाशक्तिसमष्टिरूपस्वच्छज्ञानक्रियाशक्तिमात्रशरीरत्वाद्धिरण्यगर्भस्य सवितृमण्डले तेजोवन्नित्याभिव्यक्तं तत्र ब्रह्मत्यर्थः । हिरण्यगर्भस्य सर्वाहमा- नित्वं स्वरूपं चाभिधायान्येषामपि जीवानां सर्वाहंमानित्वकथनाय तदुपा- धीनां सर्वात्मकत्वमुक्तमनुवदति-सर्व सर्वमयमिति । सर्व क्षेत्रजातं सर्वमयं सर्वात्मकमायास्वरूपत्वादित्यर्थः । अतः सर्वेषामपि जीवानां सर्वाहंमानित्वं सिद्धमित्याह-सर्वे जीवाः सर्वमया इति । सर्वावस्थास्विति । अत्यल्पपुत्ति- काद्यवस्थास्वपि सर्वमया इत्यर्थः । सर्वेषां हि जीवानां सर्वावस्थासु सन्मात्र- कारणे पृथिव्यादिजातमात्रे च कारणात्मवयाप्तेस्तदभिन्नेऽभिमानः सूक्ष्मोऽस्ति तन्मध्यगतपिण्डविषयस्थूलाभिमानसमुद्भवात्तु जाग्रत्स्वमयोरसावनुभूतो भवति मन्दानाम् । पिण्डाभिमानतिरोभावे तु सुपुप्तप्रलयादौ परिपूर्णसन्मात्र- सर्वजात्यभिव्यक्तेः । स्वाभाविकोऽभिमानः समुद्भूनो दृश्यते सर्वैरतः सर्वे जीवाः सर्वमयाः सर्वावस्थास्वित्यर्थः । अन्यथा कथं हिरण्यगर्भादिभावः संभ. वति । न ह्यसत उत्पत्तिरस्ति तस्मात्सर्वेपां सर्वज्ञानकर्मफलयोग्यत्वात्सर्वात्म- त्वमस्त्येव । यद्यप्येवं सर्वे जीवाः सर्वावस्थासु सर्वमयाः स्वाभाविकाविद्याश- रीरत्वेन तथाऽपि कार्यात्मकं सप्तदशकं लिङ्गशरीरमपरिच्छिन्नमपि परिच्छिन्न- ज्ञानकर्मवशात्परिच्छिन्ने स्थूलशरीरे यदा संकोचं पामोति तदाऽल्पाभिमानि- त्वमप्यस्तीत्याह-तथाऽप्यल्पा इति । यद्यपि सर्वमयाः सर्वावस्थासु तथाऽ- प्यल्पा इत्यर्थः । अथवा यथा सर्वमयास्तथाऽल्पा अपीत्यन्वयः । सृष्टिशेषा- भिधानपूर्वकं प्रवेशव्यवहारौ दर्शयन्सृष्ट्यादमिथ्यात्वमाह-स वा इत्यादिना । १८. नवलेने । २ अ. ट. सेवत एव चै। ३ ठ. 'द्याशक्तिश' ।

. १४७ . . [९ नवमः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्दा प्रविश्यामूढो मूढ इव व्यवहरनास्ते माययैव तस्मादय एवायमात्मा सन्मात्री नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरदय आनन्दः परः प्रत्यगेंकरसः प्रमाणेरेतैरवगतः सत्तामात्रं स सुषुप्तस्थः कारणात्मैषं बहकुर इत्यत्र क्षेत्रत्वेन प्रस्तुत इति तदेतच्छब्दयो- रर्थः । ईश्वररूपः प्रत्यगात्मेति वाऽर्थः । भूतान्यपश्चीकृतानि सृष्ट्वा तेभ्य इन्द्रियाणि ततः पञ्चीकृत्य विराजं ततस्तत्करणेभ्योऽग्न्यादिदेवताः पुनर्व्य- ष्टिरूपान्नमयादिकोशांश्च सष्ट्वा सृष्टे प्रविश्य तत्र विशेषाभिव्यक्त्या व्यवहार- योग्यतां प्राप्यामूढः स्वतः स्वमहिमस्थतया मूढ इव मिथ्यारूपपरिच्छेदा- भिमानेन व्यवहरन्नहं कर्ता भोक्ता देवदत्तो देवो. मनुष्य इत्यादिप्रकारेणाऽऽस्ते माययैव तत्सृष्ट्यादिकं करोति न स्वतोऽतो मिथ्यारूपा एव सृष्टिसृज्यम- वेशव्यवहारा इत्यर्थः । मायामयसृष्टिकथनस्य प्रयोजनमाह--तस्मादद्वय एवा- यमात्मेति । यदुक्तमादावात्मैव सिद्धोऽद्वितीय इति तत्सृष्टेः सृज्यस्य च माया- मयत्वेन परमार्थतोऽसत्त्वात्सिद्धमित्यर्थः । अद्वयस्याऽऽत्मनः स्वरूपमाह- सन्मात्र इत्यारभ्य प्रत्यगेकरस इत्यन्तेन । पुनरप्यद्वयपदग्रहणं प्रासङ्गिकम् । कुतोऽस्याऽऽत्मन एवंरूपत्वं सिद्धमिति तदाह-प्रमाणरतैरवगत इति । प्रमाणैः प्रत्यक्षादिभिरेतैश्च सन्मात्रत्वादिहेतुभिः सदादिरूप आत्माऽवग- न्तव्य इत्यर्थः । तत्र सर्वद्वैतसिद्धेः पुरस्तात्स्वप्रकाशचिन्मात्रानुभवः सन्मा. त्रत्वादिसाधकं प्रत्यक्षं दृश्यत्वपदार्थत्वादिहतुभिश्चिन्मात्रव्यतिरिक्तस्य सर्वस्य मिथ्यात्वसाधकमनुमानं सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम् आत्मा वा इदमेक एवाग्र आसीत् प्रज्ञानधन एव ' इत्यादिवाक्यान्या- गमो जगतः सदादिरूपत्वप्रतिभासान्यथानुपपत्तिर्मुक्त्यादिश्रुत्यन्यथानुपपत्ति- वार्थापत्तिः सर्वद्वैतसिद्धेः पुरस्तातानुपलब्धिरभाव एतैरवगत इति सन्मात्र त्वादीनां सर्वेषां हेतुहेतुमद्भावस्योक्तत्वाबदाऽऽत्मनः सन्मात्रत्वं साध्यते तदा नित्यत्वादिभिर्हेतुभिस्तत्साधनीयं यदा नित्यत्वं साध्यते तदा सन्मात्रत्वादि- भिर्हेतुभिदशभिस्तदपि साधनीयमेवं शुद्धत्वादिकमपीति द्रष्टव्यम् । तत्राऽऽ- त्मनः सन्मात्रत्वं तावत्स्वयमेव युक्तितोऽनुभवतश्च साधयति-सत्तामात्रमि- त्यादिना । सत्तायाः सर्वत्रानुगमाद्यभिचारिणां चानुगते कल्पितत्वान्सत्तामात्रं १८. तत्क' । २ . 'मसत्तया । ३ ट. 'मिश्च चि ।

१४८ श्रीमाद्वद्यारण्यमुनिविरचितदीपिकासमेता-[९ नवमः खण्डः] हीदं सर्व सदेव पुरस्तासिद्धं हि ब्रह्म न ह्यत्र किंचनानुभूयते नाविद्याऽनुभवा- मनि स्वप्रकाशे सर्वसाक्षिण्यविक्रिये:- हीदं सर्वमित्यर्थः । ननु सत्ताया जातित्वाजातेश्च व्यक्तिसापेक्षत्वात्कथं सर्वे सत्तामात्रमित्याशङ्कय सन्मात्रमेव कारणं स्वाव्यतिरिक्त कार्यमुत्पाद्य तदनु- गतं सत्सत्ताजातिसंज्ञामाप ततः कार्यस्य कारणमात्रत्वात्तत्रानुगत्युपपत्तेने सत्ता जातिः किं तु, कारणरूपं सन्मात्रमवेत्याह-सदेवेति । कारणस्यापि सैषा विचित्रेति विचित्रत्वाक्तस्तत्र सदवेत्येवकारानुपपत्तिमाशङ्कय कारणादपि व्यतिरेकमाह-पुरस्तात्सिद्धं हीति । कारणादपि व्यतिरेके तस्यापि साक्षित्वं हेतुमाह-हीति । कारणस्यापि साधकं चैतन्यमेव । यतश्चित्ते चैतन्यकाकारे कारणस्याप्यनुपलब्धेस्तस्य न. सत्त्वमुपपद्यत इत्यर्थः । तस्माद्ब्रह्मैव सदि- त्याह-पुरस्तात्सिद्धं हि ब्रह्मेति । पुरस्तात्सिद्धस्य परिच्छेदकाभावेन च ब्रह्मत्वं प्रत्यक्षेण साधयति-न ह्योति । अत्र पुरस्तात्मिद्धे चिन्मात्रे स्वात्मनि न किंचिदपि तद्व्यतिरिक्तं तत्परिच्छेदकमनुभूयते तनिष्ठत्वेन ततस्तस्य ब्रह्मत्वमुपपद्यत इत्यर्थः । ननु पुरस्तासिद्धे चैतन्येऽ- विद्या दर्शिता पूर्वमस्येति तत्कथं तत्र परिच्छेदकाभाव इत्याशङ्कच न तत्र परमार्थतोऽविद्याऽस्ति कल्पितत्वात्तस्या इत्याह-नाविद्येति । तत्र हेतु- माह-अनुभवात्मनीति । अनुभवस्यापि परप्रकाश्यत्वे तद्विपयमज्ञानं संभ- वेदपि कदाचिन च तथाऽनुभवस्य परप्रकाश्यत्वं तथा सत्यनुभवत्वायोगात्त- तश्च स्वप्रकाशत्वादज्ञानतत्कार्ययोस्तत्रासंभवात्तस्य ब्रह्मत्वं सिद्धमित्याह- स्वप्रकाश इति । स्वप्रकाश यद्यज्ञानं परमार्थतोऽभ्युपगम्यते तर्हि तन्नाश एव बलादभ्युपगन्तव्यः। न हि नाशं विना स्वप्रकाशस्य स्वात्मानं प्रत्यभानं संभवति नाशश्चानुपपन्न इत्याह-सर्वसाक्षिणीति । नाशादेरपि साक्षिणं विना न सिद्धिरित्यर्थः । ननु पुरस्तासिद्ध आत्मैव कारणं सर्वस्य जगतस्तदन्यस्य निःस्वभावस्य कारणत्वायोगात्कार्य च कारणस्थमेव सर्वदा ततः कथं पुर- तोऽद्वयत्वमित्याशङ्कय नास्य परमार्थतः कारणत्वं किं तु मायाद्वारेणेव कार- णत्वमिति मायामयमेव तत् । अतोऽविक्रियेऽस्मिन्न किमपि परिच्छेदकमस्ती- त्याह-अविक्रिय इति । कार्यकारणत्वाभाववद्गुणगुणित्वधर्मधर्म्यशांश्यवस्था- वद्भावोऽपि नास्ति जगतोऽस्यातश्चात्र किमपि परिच्छेदकं नास्तीत्याह- १ ८. 'मिद्धमान्म । २ ट. पुरोऽद्ध' । ३ ठ. क्रिये तस्मि' ।

[९ नवमः खण्डः] नृसिंहोचरतापनीयोपनिषत् । १४९ • इय पश्यतेहापि सन्मात्रमसदन्यत्सत्यं हीत्थं पुरस्तादयोनिः स्वात्मस्थमानन्दचिद्धनं सिद्ध यसिद्धं तद्विष्णुरीशानो ब्रह्माऽन्यदपि सर्व सर्वगं, अद्वय इति । न केवलं पुरत एव सर्वस्य सन्मात्रत्वमनुभवितुं शक्यते किं तु परतोऽपि व्यवहारकाले सर्वस्य सन्मात्रत्वविशेषाणामप्यवगमादित्याशङ्कय विशेषाणामसत्त्वमाह-असदन्वदिति । सतोऽन्यत्वे विशेषाणामसत्वमनन्य- त्वेऽपि विशेषाणामसत्त्वमेवेत्यर्थः । ननु विशेषाणामसच्चे सन्मात्रस्यापि भाना- योगादसत्त्वमेव स्यादिति नेत्याह----सत्यं हीति । सत्यत्वे हीति सूचितं हेतु- माह-इत्थं पुरस्तादिति । सर्वकल्पनासाक्षितया कल्पकत्वेन वा कल्पितस्य सन्मा- त्रस्य सर्वप्राणिभिः सर्वकल्पनायाः प्रागेव सिद्धत्वान्न तस्यासत्वं शङ्कनीयमि- त्यर्थः । सर्वकल्पकत्वेन पुरस्तासिद्धत्वे द्वैतकारणवेन पुनरपि सद्वितीयत्वं प्राप्त- मिति चेन्न यतोऽस्य परमार्थतः कल्पकत्वमपि नास्तीत्याह-अयोनिरिति । यद्यप्येवं पुनः पुनरुपपाद्यते सन्मानं सर्वमिति तथाऽपि मया सन्मानं नानु- भूयते किंतु घटपटादिकं जगत्तदनुगतां च सत्तां पश्यामीत्याशङ्कय नैवं बहिर्मुखेन त्वया सन्मात्रान्वेपणं कार्य यतः स्ने महिम्नि प्रत्यगात्मन्येव स्थितं तन्न पटादावित्याह-स्वात्मस्थमिति । कस्यचिदपि द्वितीयस्यासत्त्वे मुखानु- भवस्याप्यसंभवान्न पुरुषार्थरूपं तदिति चन्नेत्याह-आनन्दचिद्घनमिति । स्वयमेवाऽऽनन्दानुभवात्मकमेकरसं चेत्यर्थः । सदानन्दचिद्रूपत्वे हेतुमाह- सिद्धं हीति । सर्वसाक्षितया पुरतोऽपरोक्षतया स्वत एव सिद्धेः सत्त्वं चित्त्व- मानन्दस्वरूपत्वं च सिद्धमित्यर्थः । सिद्धं चेत्केनचित्स्वव्यतिरिक्तंनव प्रमा- णेन तत्सिद्धमिति प्रमाणसापेक्षत्वान स्वातत्र्यमतो नाऽऽनन्दरूपत्वमनुभवरू- पत्वं चेति चेन । यतः प्रमाणस्यापि साधकत्वान्न प्रमाणविषयमतः स्वातन्या- दानन्दादिरूपत्वे पुरुषार्थरूपमेव तदित्याह-असिद्धमिति । ननु विष्ण्वीशा- दिमूर्तिभावस्तादात्म्यं वा पुरुषार्थो न सन्मात्रभाव इत्याशङ्कय मूर्तीनां माया- मयगुणरूपत्वेनात्र कल्पितत्वस्योक्तत्वान्नैतन्यतिरकेण तेषां सत्त्वमत एव तद्भाव एव परमपुरुषार्थ इत्याह-तद्विष्णुरित्यादिनाऽन्यदपि सर्वमित्यन्तन. । विष्ण्वादिशब्दानां हि सन्मात्र एव मुख्यार्थलाभस्ततः सदात्मव विष्ण्वादि- रूप इत्यर्थः । सदेव सर्वमित्यत्र हेतुं स्वयमेवाऽऽह-सर्वमिति । सर्व विष्ण्वा- दिकं गमयति प्रकाशयति सृजति स्थापयति संहरति च माययेति सर्वगं - १४. मर्यप्राणिनां।

. १५० श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[९ नवमः खण्डः] सर्वमत एव शुद्धोऽबाध्यस्वरूपो बुद्धः सुखरूप आत्मा न. ह्येतन्निरात्मकमपि नाऽऽत्मा पुरतो हि सिद्धो न हींदं सर्व कदाचिदात्मा हि स्वम- हिमस्थो निरपेक्ष एक एव साक्षी स्वप्रकाशः 'विष्ण्वादिमूर्तीनां सृष्ट्यादिकत्रित्यर्थः । सत्तामात्र हीदं सर्वमित्युपक्रम्य सर्वग- मित्यन्तेन सन्मात्रात्मस्वरूपमेव सर्वमित्युपपाद्य तस्य सन्मात्रस्य यत्पूर्वोक्तं ब्रह्मत्वं पुरस्तात्सिद्धं हि ब्रह्मेति तदुपसंहरति-सर्वमिति । सर्वं कृत्स्नं पूर्ण ब्रह्मेत्यर्थः । अत्र त्वंपदार्थविशेषणत्वेनोक्तानां सन्मात्रत्वादीनां शोधने तेषां ब्रह्मस्वरूपत्वकथनं सन्मात्रादिरूपस्य प्रत्यगात्मनो ब्रह्मत्वोपपादनाय प्रत्यगात्मनोऽपि विचारे ब्रह्मत्वं प्रतीयत इति वक्तुमुत्तरत्र ब्रह्मविशेषणत्वे. नापि सदादीनां वक्ष्यमाणत्वाच्च सन्मात्रत्वोपपादनायोक्तं न्यायमितरपदार्थरू. पत्वप्रतिपादनेऽप्यतिदिशति--अत एवेत्यादिना । शुद्धादिग्रहणं सर्वेपामुपल. क्षणमिति द्रष्टव्यम् । अवाध्यस्वरूप इति सत्पदार्थोक्तिः। आत्मति प्रत्यक्प- दार्थो दर्शितः । अथाऽऽत्मत्वेनापि हेतुनाऽऽत्मनोऽद्वितीयत्वं साधयति-न ह्येतन्निरात्मकमित्यादिना । एतत्कार्यकारणात्मकं जगन्न हि निरात्मकं निःस्व- रूपं किं तु सत्स्वरूपमेव स्वरूपमात्मेति पर्याय इत्यर्थः । तथाऽपि द्वैतस्याऽऽ- त्मना सत्स्वरूपत्वे द्वैतस्यापि स्वरूपत्वेन सद्भावादात्मनः सद्वयत्वं स्यादित्या- शङ्कय यथा द्वैतस्यावशेपः स्यान्न तथाऽयं तस्याऽऽत्मा किं तु सर्वग्रासेनातो द्वैतस्याऽऽत्मेत्येवं द्वैतसापेक्षमात्मत्वं नास्तीत्याह-अपि नाऽऽत्मेति । आत्मनो निरपेक्षमात्मत्वमित्यत्र हेतुमाह-पुरतो हीति । सर्वद्वैतसिद्धेः पूर्वमप्यात्मैव सिद्धोऽतो निरपेक्षमस्याऽऽत्मत्वमित्यर्थः । द्वैतस्य पुरतोऽसत्त्वे युक्त्यनुभवसिद्धे सत्यद्वितीयात्मनि तद्विरुद्धस्य द्वैतस्य तदपेक्ष्यस्य पुरत इव परतोऽपि परमार्थतो नास्तित्वमेवेत्याह-न हीदं सर्व कदाचिदिति। नन्वात्मनोऽपि सिद्धेः काला- पेक्षाऽस्ति पुरतोऽपि सिद्ध इत्युक्तत्वान्नेत्याह-आत्मा हीति । आत्मनो निर- पेक्षत्वादेकत्वात्साक्षित्वात्स्वप्रकाशत्वाचास्तित्वमनात्मनस्तु तद्वैपरीत्यादसत्त्व- मित्याह-निरपेक्ष इत्यादिना । उपद्रष्टेतिवाक्येन ब्रह्मात्मनोरेकत्वमुपदिश्य विरोधाशङ्कायां प्रत्यगात्मनो ब्रह्मलक्षणलक्षितत्वेन ब्रह्मत्वमुपपादितं स्वप्रकाश इत्यन्तेन ग्रन्थेन । एवमुपपादितेऽप्यतिसूक्ष्मत्वात्प्रमेयस्य परोक्षत्वमिव पश्य- १ क. ग. घ. ङ. बाह्यस्व' । २ ठ. 'न्मात्रब्रह्मस्व' । ३ ञ. ट. विचारिते। ४ ट. सत्य- पदा । ५ ठ. अथापि । ६ ट 'पेक्षस्य । ७ अ. ट. क्षमि' ।

[९ नवमः खण्डः] सिंहोनसपनीयोपनियत् । १५१ किं तनियमात्माऽत्र ह्येव न विचिकित्स्य- मेतद्धीदं सर्व साधयति द्रष्टा द्रष्टुः साक्ष्य- विक्रियः सिद्धो निरविद्यो बाद्यान्तरवीक्षणा: न्तो देवा आहुः-किं . तनित्यमिति । किं तन्नित्यशुद्धबुद्धादिरूपमात्मभूतं ब्रह्मेत्यर्थः । प्रजापतिर्न परोक्षं तद्ब्रह्मेत्युत्तरमाह-आत्मेति । नन्वात्मा चेद्रह्म तात्मन आपरोक्ष्यमेव ब्रह्मापरोक्ष्यमात्मा च सर्वेषां सर्वदाऽपरोक्ष एवेति न कस्यापि कदाचिदपि संसारप्रतिभासः स्यात् । भासते तु • तस्मानाऽऽत्मभूतं ब्रह्मेत्याशङ्कायामाह-अत्र ह्येव न विचिकित्स्यमिति । अत्र ब्रह्मण आत्मत्वे हि यस्मान्न विचिकित्स्यं संशयितव्यं संशयकारणाभावादित्यर्थः। हीति संश- यकारणाभावः सूचितः । आत्मानुभवेऽपि संशयदर्शनानासंसारिब्रह्माऽऽ- त्मेति दर्शितं ननु शङ्काकारणम् । न । तेपामात्मानुभवस्याभावात् । ते हि देहा- दिकमेवाऽऽत्मानं मन्यमानास्तदापरोक्ष्यमेवाऽऽत्मापरोक्ष्यं मन्यन्ते न तु केवल- मात्मानं ब्रह्मरूपं ते जानन्तीति हिशब्देनोक्तम् । ननु नास्त्येव ब्रह्म यद्यस्ति तथाऽपि तटस्थमेव तन्नाऽऽत्मभूतं जगत्कारणत्वेन श्रवणात् । न ह्यात्मनो जग- कारणत्वं दृश्यत इति तत्राऽऽह-एतद्धीति । एतदात्मरूपं ब्रह्म हि यस्मादिदं सर्व द्वितीयं दर्शनादिकाले साधयति सृजनि । स्थिनिसंहारादेरुपलक्ष- णार्थ सृष्टिः । आत्मनोऽन्यस्य दृश्यत्वेनाचेतनत्वादचेतनस्य. जगत्कारण- त्वानुपपत्तेर्जगत्कारणस्य ब्रह्मणः केवलस्य मुख्यवृत्त्यैवाऽऽत्मत्वमभ्युपग- न्तव्यमिति हिशब्दार्थः । एवं युक्तितो ब्रह्मण आत्मत्वमुपपाद्यान्वयव्यतिरेक- चतुष्टयेनाऽऽत्मनो ब्रह्मत्ववत्सच्चिदानन्दपूर्णान्मत्वमनुभावयितुमुपलक्षणत्वेन द्रष्टुंदृश्यसाक्षिसाक्ष्यान्वयव्यतिरेकावाह-द्रष्टेत्यादिना । तत्र द्रष्टेति द्रष्टदृश्या- न्वयव्यतिरेकोक्तिः । ननु द्रष्टाऽपि सुखदुःखसंसारधर्मविशिष्टः कथं ब्रह्मेत्या- शङ्कय न सुखदुःखादिविशिष्टो द्रष्टा किं तु तस्यापि साधकः साक्षीति वद- न्साक्षिसाक्ष्यान्वयव्यतिरेकमाह-द्रष्टा द्रष्टुरिति । सोऽपि द्रष्टत्वात्परिणाम्ये- वेति चेन सर्वविकारसाक्षित्वादित्याह-साक्षीति । सोऽपि साक्षादीक्षणस्य कर्तेति चेत्तथा सति विकारित्वेन साक्षित्वायोगात्सर्वविकारसाक्ष्यविक्रिय एवे- त्याह-अविक्रिय इति । कोऽसौ साक्षीति तु प्रश्नोऽनुपपन्नः सिदत्वात्म्ये- त्याह-सिद्ध इति । न वयं विद्म इति वा वक्तुं न शक्यत इत्याह-निरविद्य इति । निरविद्यत्वं साधयति-बाह्यान्तरवीक्षणादिति । कार्य वाद्यं कारणमा- १ क. ग. घ. ङ. निरवयो । २ ट. ति । सं। ३ अ. रवद्य । ४ अ. "रवद्य।

. श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[९ नवमः खण्डः] त्सुविस्पष्टस्तमसः परस्ताछूतेष दृष्टोऽदृष्टो वेति दृ- घोऽव्यवहार्योऽप्यल्पो नाल्पः साक्ष्यविशेषोऽन- न्योऽसुखदुःखोऽहयः परमात्मा सर्वज्ञोऽनन्तोऽ- न्तरं तयोर्वीक्षणादित्यर्थः । कार्यकारणवीक्षणेऽपि वीक्षितुः स्वस्वरूपेऽज्ञानं किं न स्यादिति चेत्सर्वसाधकत्वेन सर्वस्मात्पुरतः स्वयंप्रकाशत्वादीक्षितुरित्याह- सुविस्पष्ट इति । तमोऽज्ञानं कारणं तस्यापि साधकत्वेन ततोऽप्युपरि प्रत्य- गात्मा सुविस्पष्ट इत्यर्थः । एवमुपदिश्य प्रजापतिस्तेषां भावं ज्ञातुं पृच्छति मृतेति । एप मयोपदिष्टोऽद्वय आत्मा दृष्टः किं वा न दृष्टो भवद्भिरिति ब्रूते- त्यर्थः । ते बुद्धिगतं चैतन्याभासमात्मसदृशं पश्यन्त आहुः–दृष्ट इति । तेपाम- न्यथाज्ञानं लिङ्गेन विदित्वा तद्व्युदासाय भवद्भिवदित आत्मा कीदृश इत्युक्ते ते होचुः-अव्यवहार्य इति । यद्यपि दृष्टस्तथाऽप्यव्यवहार्य इत्यर्थः । न हि चैतन्याभास इत्थंरूप इति निर्णतुं शक्यश्चैतन्यसदृशन्वात्तस्य कंवलस्य पुनरपि शुद्धान्तःकरणतया स्वात्मनोऽनुभवं प्रजापनिनोक्तमात्मलक्षणं च पुनः पुनः परामृश्य बुद्धिगतस्याल्पत्वदोपं पश्यन्त आहुः- अल्प इति । यद्यपि दृष्टोऽ- व्यवहार्यश्च तथाऽपि परिच्छिन्न आत्मा नः प्रकाशन इत्यर्थः। इत्युक्तः प्रजा. पतिः परमार्थात्मनोऽल्पत्वं निराचष्टे-नाल्प इति । अनल्पत्वेऽल्पस्यापि साक्षित्वं हेतुमाह-साक्षीति । साक्षित्वादेव विशेपान्तरमप्याशयमानं निवर्तयति-अविशेष इति । तथाऽपि देहान्तरेऽप्यन्य एवंविध आत्माऽ- स्त्यतः सजातीयभेदवान्परिच्छिन्न एवेति चंन्न । यतो न देहान्तरस्थ आत्म- तदेहस्थात्मनोऽन्य इत्याह- अनन्य इति । ननु सुखदुःखादिव्यवस्थया देह- भेदेष्वात्मभेदोऽभ्युपगन्तव्य इति चेन्न । मुखदुःखादीनामात्मधर्मत्वाभा- वेन तद्भेदस्याऽऽत्मभेदसाधकत्वानुपपत्तेरित्याह-असुखदुःख इति । सर्वदेहेष्वात्मैकत्वानुसंधानादतिप्रसङ्ग इति चेन्नानुसंधानादेरप्यात्मधर्मत्वाभा- वादित्याह--अद्वय इति । तथाऽपि परमात्माऽन्य इति चेन्न यतः स्वत आत्मैव परमात्मेत्याह-परमात्मेति । ननु सर्वज्ञः परमात्माऽऽत्मा तु किंचिज्ज्ञोऽतः कथ- मयं परमात्मेति चेन्नायं दोषः । यत आत्माऽपि परमात्मवत्सर्वज्ञः सर्वेश्वरश्चे- त्याह-सर्वज्ञ इति । सर्वबुद्धिसाक्षित्वं चिद्रूपत्वं चेश्वरस्य सार्वज्ञं तदस्यापि चिन्मात्ररूपस्याऽऽत्मनोऽविशिष्टमित्यर्थः । सर्वेश्वरत्वं च स्वमंनिधिमात्रेण सर्वप्रवर्तकत्वं तदपि समानमेव । अतोऽपरिच्छिन्नोऽयमात्मेत्याह-अनन्त इति। तथाऽपि साक्षिण आत्मनः साक्ष्यसद्भावाद्विजातीयभेदवत्वेन नाद्वितीये.

. [९ नवमः खण्डः] नृसिंहोत्तरतापनीयोपनिष । १५३ भित्रोऽवयः सर्वदाऽसंवित्तिर्मायया नासंवित्तिः स्वप्रकाशे यूयमेव दृष्टः किमयेन द्वितीय- मेव न यूयमेव बृद्येव भगवनिति देवा ऊचुर्य- यमेव दृश्यते चेनाऽऽत्मज्ञा असङ्गो ह्ययमा: स्माऽतो यूयमेव स्वप्रकाशा इदं हि सत्संवि- न्मयत्वायमेव नेति होचर्हन्तासङ्गा वयमिति श्वरात्मत्वमिति चेन्न साक्ष्यस्य कल्पितत्वादित्याह-अभिन्न इति । फलित- माह-अद्वय इति । यद्येवमद्वय ईश्वर एवायमात्मा किमिति तथा तदाऽयं नाव- भासत इति । अज्ञानवलादित्याह-सर्वदेति । तर्हि मायाज्ञानसंवन्ध एव दोष इत्याशङ्कय न तत्संवन्धः परमार्थतः स्वप्रकाशत्वात्संभवत्यतो न दोष इत्याह–नासंवित्तिः स्वप्रकाश इति । किं तीदं मायेत्यज्ञानमिति च सर्व- दोच्यत इति । आत्मनि कल्पितत्वादात्मव्यतिरेकेणाज्ञानमायाया अभावादा- स्मैव तथोच्यत इत्याह-यूयमेवेति । पुनरपि पूर्ववत्मजापतिः पृच्छति-दृष्टः किमद्वयेनेति । किमद्वयरूपेणाऽऽत्मा दृष्टो भवद्भिः किं वा नेत्यर्थः । देवा ऊचुः-द्वितीयमेवेति । द्वयमेवास्माभिदृश्यते नाद्वयमित्यर्थः । आह प्रजापतिः नेति । न द्वयं भवद्भिदृश्यत इत्यर्थः । तत्र हेतुमाह-यूयमेवेति । यतो यूयमेव वस्तु न द्वयं तस्माद्द्वयं द्रष्टुं न शक्यत इत्यर्थः । देवा ऊचुः-ब्रह्मवेति । यद्ये- वमात्मैव वस्तु न द्वयं तर्हि तत्पुनरेव ब्रूहि भगवन्निति देवा ऊचुरित्यर्थः । आह प्रजापतिः-यूयमेवेति । न युप्मयतिरेकेण द्वयमस्ति परमार्थतो यूयमेव वस्त्वित्यर्थः । पुनरप्यस्माभियमेव दृश्यत इत्युक्तः प्रजापतिराह-दृश्यते चेदिति । दृश्यते चेद्वयं तर्हि यूयं नाऽऽत्मज्ञा इत्यर्थः । कथं द्वयदर्शनमात्रेण नाऽऽत्मज्ञत्वमिति तत्राऽऽह-असङ्ग इति । असङ्गस्य हि द्वितीयसंवन्धानुप- पत्तेर्न द्वितीयदर्शनमस्ति यूयं चाऽऽत्मानं द्वितीयद्रष्टारं मन्यध्वेऽतो नाऽऽत्मज्ञा इत्यर्थः । कथं तात्मनो द्वैतद्रष्तृत्वप्रतिभास इत्याशङ्कयाऽऽत्मा स्वप्रकाशो द्वैतरू- पेण प्रथते मायया तत आत्मपथैव द्वैतपथेति कल्प्यते मूरित्याह-अत इति । यत आत्माऽसङ्गत्वाद्वितीयद्रष्टा न भवत्यतो यूयमेव द्वैतरूपेण स्वप्रकाशा इत्यर्थः । द्वैतस्य स्वप्रकाशात्ममात्रत्वं साधयति--इदं हीत्यादिना । अर्थात्म- जापतिनोक्तमात्मनः ससङ्गसत्संविद्रूपत्वं नेति होचुर्देवा इति नेति होचरित्य- स्यार्थः । तत्रासङ्गत्वं हेर्नु प्रोचुरित्याह-हन्तासङ्गा वयमिति । यदि भवतोक्तं १८. तथाऽन्तरयं । २ अ. स्वितीत्य । ३ अ. ट. 'नोऽद्वैतव द्र।

श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[९ नवमः खण्डः ] कथं पश्यन्तीति हावाच न वय विद्म इति होचुस्ततो यूयमेव स्वप्रकाशा इति होवाच न च सत्संविन्मया एतौ हि पुरस्ता- सुविभातमव्यवहार्यमेवादयं ज्ञातो ह्येवैष विज्ञातो विदिताविदितात्पर इति होचुः स होवाच तद्दा एतद्ब्रह्मादयं बृहत्त्वानित्यं शुद्ध बुद्ध मुक्तं सत्यं सूक्ष्म परिपूर्णमहयं सदानन्दं सत्यमसङ्गो ह्ययमात्मेति तीसङ्गा वयमिति यस्मात्तस्मान्न ससङ्गसत्संचिन्मयत्व- मस्माकमिति होचुरित्यर्थः । कथमिति प्रजापतेः प्रश्नः । यद्यसङ्गा यूयं कथं तहि द्वैतं पश्यन्तीति होवाचेत्यर्थः । न वयं द्वैतदर्शनप्रकारं विद्म इति होचु- देवाः । यत एवमसङ्गत्वादात्मनो द्वितीयदर्शनं न भवति ततस्तस्मान्मदुक्तम- कारेण सत्संविदपा यूयमेव द्वैतरूपेण स्वप्रकाशा इति होवाच प्रजापतिः । ननु ससङ्गयोः सत्संविदोः कथमसङ्गसंविदृपत्वमिति देवानां मतमाशङ्कय न च युष्माकं ससङ्गसत्संविद्रूपत्वमित्याह प्रजापतिः-न च सत्संविन्मया इति । कथं तस्मिाकं सत्संविद्रूपत्वमुक्तं भवतेति देवानां मतमाशङ्कय सत्संविच्छब्द- लक्ष्यस्वरूपविवक्षयेत्यभिप्रेत्य सत्संविदात्मनोरव्यवहार्यात्ममात्रत्वमाह-एतौ हीत्यादिना । आह प्रजापतिः-ज्ञातो ह्यवेष इति । किं मयोक्तोऽव्यवहार्य आत्मा भवद्भिातोऽथवा न ज्ञात इत्यर्थः । देवा ऊचुः-विज्ञात इति । कथं विज्ञात इति प्रजापतिना पृष्टा देवा ऊचरित्याह-विदिताविदितात्पर इति होचुरिति । विदितात्परत्वमविषयत्वादविदितात्परत्वं स्वप्रकाशचिद्रूपत्वात् । एवं त्वंपदार्थशोधनं कारयित्वा तत्पदार्थशोधने प्रवर्तयन्स होवाच प्रजा- पतिः । किमुवाचेत्यत आह-तद्वा इति । तदिति कारणत्वेन परो- क्षमेतदिति तदेव कार्ये प्रविष्टमपरोक्षमुक्तम् । अद्वयत्वे हेतुमाह-बृह- स्वादिति । बृहतेर्धातोरद्वयत्व एव मुख्यार्थलाभादद्वयमेव ब्रह्मेत्यर्थः । एवं विशेष्यमद्वयमभिधायाऽऽत्मवब्रह्मणोऽपि नित्यत्वादिकं विशेषणमाह- नित्यं शुद्धमित्यादिना । उक्तस्य विशेष्यस्य ब्रह्मणोऽद्वयत्वानुगुण्यसिद्धये स्ववाच्यार्थ परित्यज्यकरसचिन्मात्रार्थतां प्राप्येव नित्यादिपदानां ब्रह्मणि - १ ग. घ. ड. छ. तो वै । २ न. ट. "टा ऊ ।

ચંદ્ર [९ नवमः खण्डः] नृसिंहोत्तरतापनीयोपनिषत् । चिन्मात्रमात्मैवाव्यवहार्य केनचन तदेतदात्मा- नमोमित्यपश्यन्तः पश्यत तदेतत्सत्यमात्मा ब्रह्मैव ब्रह्मात्मैवात्र ह्येव न विचिकित्स्यमियों सत्यं तदेतत्पण्डिता एव पश्यन्येतद्वयशब्दम- स्पर्शमरूपमरसमगन्धमवक्तव्यमनादातव्यमग- न्तव्यमविसर्जयितव्यमनानन्दयितव्यममन्तव्य- मबोद्धव्यमनहंकर्तव्यमचेतयितव्यमप्राणयित- व्यमनपानयितव्यमव्यानयितव्यमनुदानयित- व्यमसमानयितव्यमनिन्द्रियमविषयमकरणम- लक्षणमसङ्गमगुणमविक्रियमव्यपदेश्यमसत्त्वम- रजस्कमतमस्कममायमप्यौपनिषदमेव मुविभातं वृत्तिरित्याह-अव्यवहार्य केनचनेति । केनचनापि पदेन मुख्यया वृत्त्याs- व्यवहार्यमित्यर्थः । एवं पदार्थद्वयं संशोध्य नयोरेकत्वं प्रणवेनाविषयतया पति- पत्तव्यमित्याह-तदेतदिति । तदेतद्यथोक्तं ब्रह्माऽऽत्मानं पश्यताऽऽत्मरूपेणैव पश्यतेत्यर्थः । अपश्यन्त इत्यविषयतयेत्यर्थः । उक्तमेकत्वं शपथकरणेन द्रढ- यति-तदेतत्सत्यमित्यादिना । किं तदिति तदाह-आत्मा ब्रह्मैव ब्रह्माऽऽ- स्मैवेति । इत्येतत्सत्यमित्यर्थः । यत उक्तमेकत्वं सत्यमनोऽत्र संशयो न कार्य इत्या- ह-अत्र ह्यवेति । उक्तमेकत्वं स्वानुभवेनापि द्रढयनि-इत्योमिति। इतीत्युक्तस्यै- क्यस्य परामर्शः। ओमित्यनुज्ञया स्वानुभवः प्रकटीकृतः । सत्यत्वमुपसंहरति- सत्यमिति ।न्यायमीमांसासंस्कृतबुद्धीनां शब्दवृत्तिभेदविदामेवोक्तात्मैक्यप्रतिप- त्तिर्भवतीत्याह-तदेतदिति । तत्र हेतुमाह-एनद्धीत्यादिना । अविषयमिति विषयसामान्यप्रतिषेधः । अलक्षणमित्यनुमानप्रतिषेधः । शब्दप्रवृत्तिनिमित्तष- ठ्यादिप्रतिषेधोऽसङ्गमित्यादि । अनाऽव्यपदेश्यं शब्दः । अमायमिति गुण- साम्यरूपमायाप्रतिषेधः । यद्यप्यवं मर्वविशेपरहितं तथाऽप्युपनिषद्भिरेव लक्षण- या ज्ञातव्यमित्याह-अप्योपनिपदमिति । उपनिपद्भिर्लक्षणया ज्ञाते स्पष्टतया ब्रह्मज्ञानं भवतीत्याह-मुविभातमिति । न चौपनिपदेनापि ज्ञानेनाऽऽत्मनि - ११ कन्या १५६ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[९ नवमः खण्डः] सकृदिभातं पुरतोऽस्मात्सर्वस्मात्सुविभा- तमद्वयं पश्यताहं सः सोऽहमिति स होवाच किमेष दृष्टोऽदृष्टो वेति दृष्टो विदि- ताविदितात्पर इति होचः क्वैषा कथमिति होचुः किं तेन न किंचनेति होचु य- माश्चर्यरूपा इति न चेत्याहोमित्यनुजानीध्वं कश्चिदतिशयो जन्यते स्वप्रकाशनित्यचैतन्यरूपत्वादात्मन इत्याह-सद्विभा. तमिति । सर्वदा प्रकाशरूपमित्यर्थः । तत्र सर्वसाक्षित्वं हेतुमाह-पुरत इति । व्यतिहारेण चैकत्वं प्रतिपत्तमित्याह-पश्यताहं सः सोऽहमिति । पूर्ववत्स होवाच प्रजापतिः-किमेष दृष्टोऽदृष्टो वेति । एवं पृष्टा देवा ऊचुः-दृष्ट इति । दृष्टश्चेत्किमात्मकोऽसाविति पृष्टा ऊचुः-विदिताविदितात्पर इति । पुनरपि साश्चर्यमूचुः-कैपा कथमिति । केपा मायेदानीं गता कथं च पूर्वमासीत्स्वप्र- काशे चिदात्मनि । अहो आश्चर्यमेतदित्यर्थः । किं तेन मायावृत्तपरिज्ञानेन भवतां तदपरिज्ञाने किं भवतामस्ति काचिन्यूनतेत्यभिप्रायः प्रजापतिः पृच्छति-किं तेनेति । पृच्छन्तं देवा ऊचुः-न किंचनेति । न किंचन प्रयो- जनमस्माकमस्ति मायावृत्तपरिज्ञानेन 'केवलमाश्चर्यवशात्पृष्टमस्माभिरित्यर्थः । यूयमेवाऽऽश्चर्यरूपा न माया यता यूयमेवंविधाया मायायाः सत्ताप्रतिभासयो. विचित्रार्थक्रियासामर्थ्यस्य च हेतव इत्यर्थी यूयमाश्चर्यरूपा इत्यस्य । यतः स्वरूपसत्तामात्रेण भवतामप्युक्तहेतुत्वं न विकृततयाऽतो न युप्माकमपि सर्वदै- कत्वादाश्चर्यरूपत्वं वक्तुं शक्यतेऽदृष्टपूर्व ह्यद्भुतमाश्चर्यमुच्यत इति न चेत्याहेत्य- स्यार्थः । चशब्दादाश्चर्यरूपा इति पदमनुपज्यते । किं बहुना मायाचिन्तां परित्यज्य सर्वदोमित्यनुजानीध्वम् । सर्वसत्ताप्रतिभासानुज्ञातारं मदुक्तमात्मा- नमोमिति पूर्णवस्तुभासकेनानुज्ञानप्रणवेनानुनानीध्वं प्रतिपद्यध्यमित्यर्थः । न चात्र प्रतिपत्तृप्रतिपत्तव्यप्रतिपत्तिसाधनानां भेदोऽस्ति । यतो वक्ष्यति कैषाऽनुज्ञेत्येष एवाऽऽत्मेति होवाचेति । अत ओमित्यनुनानीध्वमिति विद्यया निवृत्ताविद्यानां स्वरूपावस्थानमेवोक्तम् । अनुजानीध्वमिति नियो- गपरं तु वचनं विविदिपन्प्रत्येवेति मन्तव्यमत उत्पन्न विद्यान्देवान्प्र- त्यनुजानीध्वमिति प्रजापतेर्वचनं सत्परीक्षार्थमेघ यथेदमुत्तरं वचनं परी- १५७ [९ नवमः खण्डः] नृसिंहोचरतापनीयोपनिषत् । बूतैनमिति ज्ञातोऽज्ञातश्चेति होचुन चैवमिति होचुतवैनमात्मसिद्धमिति होवाच पश्याम एव अगवन्न च वयं पश्यामो नैव वयं वक्तुं शक्नुमों नम- स्तेऽस्तु भगवन्प्रसीदेति होचुर्न भेतव्यं पृच्छतेति होवाच कैषाऽनुज्ञेत्येष एवाऽऽत्मेति होवाच ते होचु- क्षार्थम् । ब्रूतैनमित्यादि । एनं मयोपदिष्टं भवद्भिर्जातमात्मानं भवद्भिर्विदि- तेनासाधारणेन रूपेण ब्रूतेत्यस्यार्थः । ते देवाः पूर्ववज्ज्ञातोऽज्ञातश्चेति होचुः । तर्हि ज्ञातत्वाज्ञातत्वधर्मवानामा भवद्भिात इति प्रजापतिनोक्ता ज्ञाताज्ञातधर्माभावं पुनरप्याहुरिति न चैवमिति होचुरित्यस्यार्थः । यद्यपि ज्ञाताज्ञातत्वधर्मो नास्त्यात्मनस्तथाऽपि ब्रूतेवेनं यदस्यासाधारणरूपं तेन ब्रूतैव वक्तव्यमेव भवद्भिरित्यर्थो व्रतवैनमित्यस्य । ननु न शक्यते वक्तुमस्माकमिति देवानां मतमाशङ्कयाऽऽह-आत्मसिद्धमिति । न हि न सिद्धं वक्तुं शक्यत इत्यभिप्रायः । पश्याम इत्यादि देवानां वचनम् । त्वत्प्रसादात्पश्याम एवाऽऽ- त्मानं भगवन्न च वयं केनचिद्धर्मेण विशिष्टं पश्यामोऽतो नैवेत्थंरूप इत्यात्मानं वक्तुं शक्नुमः । नमस्ते भगवन्सर्वज्ञ प्रसीदास्मत्परीक्षाप्रश्नाद्विरम्य.प्रसन्नो भवेति होचुरित्यर्थः । यद्येवमात्मनो निर्विशेषत्वं निश्चितं भवद्भिस्तर्हि निवृत्तसं- सारभयां यूयमित्याह प्रजापतिः-न भेतव्यमिति। अतः परं निवृत्ताज्ञानत्वेन निवृत्तसर्वसंसारभया यूयमित्यर्थः । यदि प्रष्टव्यशेषोऽस्ति भवतां तर्हि पृच्छ- तेति होवाच प्रजापतिः पूर्वोक्तानुज्ञाकर्तव्यतां परिहर्तुमिच्छन् । विद्यया कृता- नस्मान्प्रति किमिदं प्रजापतिनोक्तमोमित्यनुजानीध्वमितीति हृद्गतं शल्यम- पनेतुं देवाः पप्रच्छुर्लब्धानुज्ञा इत्याह-कैषाऽनुज्ञति । अस्माकं त्वत्प्रसादात्कृ- तकृत्यानामपि कर्तव्यतया भगवतोक्ताऽनुज्ञोमित्यनुजानीध्वमिति सा किं कर्त- व्यरूपाऽस्माकमुत नेत्यर्थः । न कर्तव्यरूपेति प्रजापतेरुत्तरम् । एप एवेति । न कर्तव्यरूपा किं त्वेष एव स्वयंप्रकाश आत्माऽनुज्ञा , स हि सर्वस्य सत्तां स्फूर्ति चानुजानातीत्यनुज्ञारूप इत्यर्थः । अत ओमित्यनुजानीध्वमित्यस्याय- मर्थः । ओमित्यनेनोंकारण लक्ष्यमाणमात्मानमनुजानीध्वं प्रतिपद्यध्वं हे विवि- दिषव इति । एवं प्रजापतिना स्वाराज्येऽभिषिक्तास्ते देवा ऊचुः । किमुक्त- ५ ग घ. "तवन । २८. 'त्तसं . १५८ श्रीमद्विद्यारण्यमुनिविरचितदीपिकासमेता-[९ नवमः खण्डः] नमस्तुभ्यं वयं त इतीति ह प्रजापतिर्दे- वाननुशशासानुशशासेति तदेष श्लोकः-ओत- मोतेन जानीयांदनुज्ञातारमान्तरम् । अनुज्ञा- मद्वयं लब्ध्वा उपद्रष्टारमाव्रजेदित्युप्रद्रष्टारमा- बजेदिति ॥९॥ ॐ भद्रं० १ स्वस्ति०२ॐ शान्तिः३ इत्यथर्ववेदान्तर्गतनृसिंहोत्तरतापनीये षष्ठोपनिषदि नवमः खण्डः ॥ ९ ॥ समाप्तेयं नृसिंहोत्तरतापनीयोपनिषत् ॥ वन्त इत्याह-नमस्तुभ्यं वयं त इतीति । नमस्कारपूर्वकं स्वात्मानमर्पितवन्त इत्यर्थः । इतीत्यादि श्रुतेर्वचनम् । इत्येवमुक्तेन प्रकारेण प्रजापतिर्देवाननुशशा- सेति । द्विवचनमनुशासनसमाप्तिद्योतनार्थम् । इतिशब्द आख्यायिकासमा प्त्यर्थः। तुरीयानुशासनखण्डद्वयोक्तेऽर्थे श्लोकमवतारयति-तदेष इति । ओत- मात्मानमोतेन प्रणवेन जानीयादुक्तप्रकारेणानुज्ञातारमात्मानमान्तरम् । अनुज्ञा- तृप्रणवेनोक्तप्रकारेण जानीयादित्यनुवर्तते । अनुज्ञामनुज्ञारूपमात्मानमित्यर्थः । तमनुज्ञापणवेन जानीयादविकल्पमद्वयमात्मानमविकल्पप्रणवेन लब्ध्वा गुरुप्रसा- दतो ज्ञात्वेति तुरीयखण्डार्थ उक्तः । अनुशासनखण्डार्थमाह-उपद्रष्टारमात्र- जदिति । ओतादियोगैः शुद्धान्तःकरणोऽनुशासनखण्डोक्तमकारेणानुशिष्ट उप- द्रष्टरूपेणावस्थितो भवेदित्यर्थः ॥ इति नवमः खण्डः ॥ ९ ॥ तापनीयरहस्यार्थदीपिका तिमिरापहा ।। गुर्वनुग्रहलब्धषा सतामस्तु सुखाप्तये ॥ १॥ सच्चिदानन्दसंपूर्णप्रत्यगेकरसात्मने । तेजसे महते भयानमः पुंसिंहरूपिणे ॥ २॥ येषां संस्मृतिमात्रेण तरन्ति भवसागरम् ॥ तान्नतोऽस्मि गुरून्भक्त्या धिया वाचा च कर्मणा ॥ ३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दपूज्यपादशिष्यश्री- मंद्विद्यारण्यमुनीश्वरकृतौ श्रीनृसिंहोत्तरतापनीयषष्ठोपनिष. द्दीपिका समाप्ता ॥

No text on this page.

No text on this page.

. ... . " ६ १२७ . [३] रु०आ० आ०१० स०रा० पणशीकरोपाद्वैर्वासुदेवशास्त्रिभिः संशोधिता। तस्या आद्यखण्डत्रितयात्मकः प्रथमी भागस्तस्य मूल्यम् ३ ६ २५-२. स्कन्दपुराणान्तर्गता सूतसंहिता श्रीमाधवाचार्यकृतटीकोपेता। तस्या अन्तिमखण्डपूर्वभागरूपो द्वितीयो विभागस्तस्य मूल्यम् २५-३. सतसंहितान्तिमखण्डोत्तरभागरूपस्तृतीयो विभागस्तस्य मूल्यम् ... ३ १२ ३ ६ २६. पालकाप्यमुनिविरचितो हस्त्यायुर्वेदः, जयपुरमहाराजाश्रितेन संस्कृ- तपाठशालाध्यापकेन वे० शा० दाधीचपण्डितशिवदत्तेन संशोधितः २७. कुसमावल्याख्यटीकासंवलितो वृन्दमाधवः करवीरपुरनिवासिभिः कृष्णशास्त्रितनूजैः ‘हणमंतशास्त्रि पाध्ये' इत्यतैः संशोधित: २८. अष्टादशपुराणान्तर्गतं श्रीमद्व्यासप्रणीतं ब्रह्मपुराणम् , आनन्दाश्रमस्थष- ण्डितैः संशोधितम्--- ६ ४६.६ २९. श्रीनारायणशंकरानन्दविचितदीपिकासमेतानामथर्वशिखायानां हंसोप- निषदन्तानां द्वात्रिंशन्मितानामुपनिषदां समुच्चयस्तस्य मूल्यम् ... ६.१२६ इह समुच्चये संगृहीतानामुपनिषदा वर्णानुक्रमतो नामान्यऽधो लिख्यन्ते--- १ अथर्वशिखोपनिषत् १२ गोपालोत्तरतापनीयोपनिषत् २३ ब्रह्मविन्दुपनिषत् २ अथर्वशिरउपनिषत् १३ चुलिकोपनिषत् २४ ब्रह्मविद्योपनिषत् ३ अमृतनादोपनिषत् १४ जाबालोपनिषत् २५ मैत्र्युपनिषत् ४ अमृतविन्दूपनिषत् १५ तेजबिन्दुपनिषत् २६ योगतत्त्वोपनिपत ५ आत्मोपनिषत् १६ ध्यानविन्द पनिषत् २७ योगशिखोपनिषत् ६ आरुणेय्युपनिषत् १७ नाद बिन्दुपनिषत् २८ रामपर्वतापनीयोपनिषत् ७ कैवल्योपनिषत् १८ नीलरुद्रोपनिषत् २९ रामोत्तरतापनीयोपानपत् ८ कौषीतक्युपनिषत् १९ परमहंसोपनिषत् ३० संन्यासोपनिषत् ९ क्षुरिकोपनिषत् २. पिण्होपनिषत् ३१ सर्वोपनिषत् १० गर्भापनिषत् २१ प्राणाग्निहोत्रोपनिषत् ३२ हंसोपनिषत् ११ गोपालपूर्वतापनीयोपनिषत् २२ ब्रह्मोपनिषत् ३०. नृसिंहपूर्वोत्तरत्तापायोपनिषत् , श्रीमच्छंकराचार्यविरचितपूर्वतापनीयभा- प्यविद्यारण्यप्रणीतोत्तरतापनीयदीपिकाभ्यां समेता।आनन्दाश्रमस्थपण्डितः संशोधिता ... तस्या मूल्यम् ... ... ... ... ३१. श्रीनित्यानन्दमुनिविरचिता बृहदारण्यकोपनिषन्मिताक्षरा । आगाशे इत्यु. पाहवालशावितनृज: काशीनाथशास्त्रिभिः संशोधिता सांपतं मुद्रणावस्थायां वर्तमानानि पुस्तकानि । धन्वन्तरीयनिघण्टु राजनिघण्टुमहितो भाषासप्तकगतपर्यायशब्दसमेताव्यावलिवर्णानुक्रमको- शसहितः सपरिशिष्टश्च, वे० शा. रा. रा. वैद्योपनाम नारायणशान्निभिः संशोधितः । श्रीशाहदेवकृतः संगीतरत्नाकरश्चतुरकग्लिनाथविरचिनीकासमेतः । ऐतरेयत्राह्मणं धीमत्मायणाचार्यकृतभाप्योपेतम् । तथा नानाविधा नारायणशंकरानन्दविरचितदीपिकाममता उपनिषदश्च ।

[४] एतत्स्थूलवर्णपतेरघो यानि पुस्तकानि क्रमशः प्रदत्तानि सन्ति, तान्य- स्माभिः सांप्रतं संशोध्यन्ते । अतस्तानि पुस्तकान्येष्वन्यतमं वा यस्य कस्यापि सकाशे स्याचेत्, तर्हि तेनावश्यमस्मत्सकाशं प्रेषणीयम् । तेनास्मदुपरि तस्य महत्युपकृतिः स्यात् । वयमपि तस्य तत्पुस्तकं शोधनमुद्रणानन्तरं मुद्रितैकपुस्त- कसमेतं प्रेषयिष्यामः। अपरार्ककृतटीकासमेता याज्ञवल्क्यस्मृतिः । तत्तिरीयशाखिना संहिताब्राह्मणारण्यकानि श्रीमत्सायणाचार्यकृतभाष्यसमेतानि । श्रीमद्भगवद्गीता, आनन्दगिरिकृतदीकासंवलितश्रीमच्छांकरभाष्यसमेता माध्ववाल्लभरामानुजी- यपैशाचभाध्यैश्च सहिता । यास्कमुनिविरचितं निरुक्तं दुर्गाचार्यप्रणीतभाष्योपेतम् । विद्यारण्यकृता छान्दोग्योपनिषद्दीपिका । ( इत्येतानि पुस्तकानि सांप्रतं संशोध्यन्ते) इयं ग्रन्थावलिर्न प्रातिमासिकी । अस्यां दूरदेशसंपादितैर्बहुभिः पुस्तकैर्ग्रन्थस्य सपाठान्तर- निर्देशं परिशोधनं भवति । यदा च द्वित्रमासम्रन्थः परिपूर्णो भवति तदैव सर्वेभ्यो ग्राहकेभ्यो दीयते। नियतग्राहकेभ्य आनन्दाश्रमस्थमुद्रितशतपृष्टानां मूल्यं द्वादशाऽऽणका गृह्यन्ते । तेषां पुस्तकप्रे- षणाद्यर्थ धनव्ययो नैव भवति । अनियतग्राहकेभ्यस्तु शतपृष्ठानां मूल्यमेको रूपकः । पुस्तकप्रेषणा- द्यर्थ धनं च गृह्यते । पुस्तकमूल्यग्रहणं पुस्तकप्रेषणात्पूर्व पश्चाद्वा न, किंतु पुस्तकप्रापणसमय एव । नियतानियतग्राहकेभ्यः पुस्तकानि व्यालुपेबलपोष्टमार्गेण प्रेष्यन्ते । केवलदशोपनिषदां पुस्तकान्यपि सहैवास्माभिर्दीयन्ते, तेषां मूल्यं-सार्धेकविंशतिरूपकाः(२१॥) सन्ति, तथा दशोपनिषदः, अधिकरणमालासमेतशारीरशांकरभाष्यं चेति प्रस्थानद्वयमपि सहेच दीयते तस्य मूल्यं-त्रयस्त्रिंशद्रपकाः(३०) । पुस्तकप्रेषणार्थ धनं तु प्राहकसकाशादेव गृह्यते । पुस्तकानि व्यालुपेबलपोष्टमार्गेण प्रेष्यन्ते । तस्य धनव्ययोऽपि प्राहकसकाशादेव गृह्यते । एतदन्थावलीगतपुस्तकाहणेच्छुभिः पुण्यपत्तनस्थानन्दाश्रममुद्रणालये, अथवा मुंबापुर्या 'ज्येष्ठा- राम मुकुदर्जा' इत्येतेषां रामवाडीसंज्ञकचतुष्पथस्थितपुस्तकविक्रयणालये पत्रं प्रेषणीयम् । परं च केवलदशोपनिषत्पुस्तकप्रहणेच्छुभिः प्रस्थानद्वयग्रहणेच्छुमिश्च, पुण्यपत्तनस्थानन्दाश्रममुद्रणालय एव पत्रं प्रेषणीयम् । ग्राहकाणां पत्रप्रापणसमय एवाविलम्बेन पुस्तकक्रयणनियुक्तजनेभ्यः पुस्तकप्रे. षणं भविष्यति । पद्मपुराणम् । अष्टादशपुराणान्तर्गत श्रीमत्पद्मपुराणं कै. श्री. रावसाहेब मण्डलीकेन्युपना- मधारिभिः 'विश्वनाथ नारायण' इत्येतैर्महता परिश्रमेण बहुतराणि पुस्तकानि मेलयित्वा साठान्तरनिर्देशं संशोधितम् । एतदानन्दाश्रमसंस्कृतप्रन्यावागतं नैव रु.आ०रु.आ. किं तु स्वतन्त्रमेवास्माभिर्मुद्रापितं तस्य मूल्यम् ....

No text on this page.

No text on this page.

Nrisinghapurbattaropanishad

Author
Machhakaracharya
Title
Nrisinghapurbattaropanishad
File name
Nrisinghapurbattaropanishad
Text
OCR done
Citation
1891
Published
2007/08/24
Language
Sanskrit
Pages
169
Library
Central Library, Visva-bharati
Classification
Upanishad
DLI number
344889
Barcode
4990010214738.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
ZG5CARFglVU
Download PDF

Nrisinghapurbattaropanishad