University Library,gurukul Kangri Vishwavidyalaya
कण लुप्त गृहं दहति
Front matter
सर्व-जन-संस्कृत-माला-१
shal
COMPILED
कणः लुप्तः गृहं दहति
(A Spark Neglected Burns The House)
TOLSTOY
'संस्कृत स्यैव वाण्या तु वर्ष भारत मुह्यतां'
भविष्य पुराण.
स्टा
अनुवादकः
को. कृष्णसोमयाजी एम् . ए. एल; टि.
गुंटूर
कलिः ५०५५
सर्व-जन-संस्कृत-माला-१
ॐ
कणः लुप्तः गृहं दहति
(A Spark Neglected Burns The House )
OLSTOY
280
-
संस्कृत स्यैव वाण्या तु वर्ष भारत मुह्यतां'
भविष्य पुराण.
Amais
CHECKET 1973
अनुवादकः
को. कृष्णसोमयाजी एम् . ए. एल ; टि.
गुंटूर्
कलिः ५०२५
.
परिचयः कथा इयं मूलत: टालस्टायेन रषियन् भाषायां लिखिता। अस्याः आंग्ल: अनुवादः पुनः अद्य मया संस्कृते अनूद्यते । टालस्टायः, न केवलं रषियन्-कवि-कुलस्य , किंतु जगतः कवि-समाजस्य सर्वस्य अपि प्रथमां श्रेणिं अलंकरोति । रुचिर- अस्य शिल्प । मृदुः सरळा च अस्य शैली । सौम्याः उदाराः च अस्य भावाः । ख्रिष्टस्य (of Christ) सत्यः भक्तः अयं कृतबुद्धिः, कर्ता च । अतः एव द्विगुणं फलति अस्य उपदेशः पाठकेषु । सर्वे अस्य विचाराः धर्म्य-कर्मणि कर्म- वादिनां भारतीयानां अस्य वाक्येषु प्रीतिः, श्रद्धा, आदरः च । पर्यवस्यति इति, - . अत्र कथा-क्रमः, नामानि, 'देश्य वस्तु' इति सर्वं यथा तथं एव मया रक्षितं। भाषांतरे भावस्य प्रसाराय वाक्यानां विभजनं यत् बावश्यकं तत् एव मया कृतं आस्ते। - अथ भाषा-विषयः - अस्ति हिंदी-राज्य-भाषा; अस्ति च प्रजा-गता आंध्री, द्राविडी वा देश-भाषा; ' मध्ये संस्कृतं कुतः?' इति प्रश्नः । 'संस्कृतं मध्ये न आयाति; किंतु मूले, सर्व-मूले एव तिष्ठति इति, कालत्रये अपि भारतस्य भाषा नाम संस्कृतं एव' इति .
ii
च अस्मद् उत्तरं। - संस्कृतस्यैव वाण्या तु वर्ष भारत मुह्यतां' इति
पूराण-वचनं; इदं न जातु मोघं भवितु अर्हति ।
.
संस्कृतं लोकस्य आद्या भाषा; वेदश्च आद्यः ग्रंथः ।
संस्कृतस्य वाड्मयम् सुमहत् , विविधं च । भारते शतशः भाषाः
संस्कृत-जन्याः। बंग्ला, मराठी, आन्ध्री, द्राविडी-आदयः एता.
१४ अपि, ये शासने मुख्याः मन्यते। केचित् भाषा-पंडिताः,
पश्रिमीयाः एव, यूरपीय-भाषानां अपि मूलं संस्कृतं वदंति ।
संस्कृतस्य मूलेन एव भाषा-भाषा संबंधान् अपि साधयितु
शक्नुवन्ति । अद्य लोके एकः अपि सभ्यः देशः न विद्यते यत्र
संस्कृतं न पठ्यते, न पूज्यते, न प्रीयते च। न एकः अपि
विद्वान् यः संस्कृतस्य महत्वं मुक्त-कंठं न गायति। यदि अस्ति
तादृशः कोट-पि देशः सः भारतं एव! पश्यत :-
.
--
जपानस्य विद्यालयेषु संस्कृतं नित्यं (compulsory) |
मद्य ३,००० जपानीयाः विद्वांसः संस्कृतस्य नाना शाखासु
परिश्रमं कुर्वन्ति; दिवा निश च कर्मणि तिष्ठति।'
डाक्टरः सोदा टाकी, टोकियो
'संस्कृत भाषायाः आसिया-भाषासु पश्चिमीय भाषासु च
विशिष्टः प्रभावः इति अमेरिकायाः विश्व-विद्यालयेषु महा-विद्या-
लयेषु च संस्कृत-विभागाः संस्कृताय अधिक महत्वं ददति ।
संस्कृतस्य पाठ्य-विषयेषु ऋग-वेद: अपि अधीयते । संस्कृतस्य उच्च
on
iii
शिक्षणं हार्वर्ड, येल, कोलंबिया, कौनेल्, जोन्स्, हापकिन्स,
विकागो, पेन्सिलवेनिया, वापिंग्टन् विश्वविद्यालयेषु महाध्यापकैः
दीयते। अमेरिकायाः कांग्रसस्य पुस्तकालयस्य प्राच्य-विभागे,
संस्कृतस्य हस्त-लिखितानि ४ लक्ष-पुस्तकानि संति प्रचीनानि ।'
अमेरिकन रिपोर्टर:
गच्छत्सु राज्येषु कालेषु च हिन्दुस्थाने विषयः अयं
अद्भुतं आवहति-वैभवोपेता तस्य भाषा । यूरपियैः याः भाषा:
शिष्टाः गण्यते तासां अपि मातृभाषा | ग्रीक इव मृदुः, लाटिन्
इव प्रोढा च।
टेलर:
१
वेदभूम्यां ऋषिभिः अघिगतानि न केवलं धर्म- .
रहस्यानि किंतु विद्यत् , रेडियम् , एलक्ट्रान्स,
विमानाः इत्यादयः ।
ह्वीलर विलकाक्स
-
अहो नु खलु चित्रं, यत् लोके सर्वेषु
सर्वेषु दर्शनेषु
भारतीयं एक एव, यत्र अभिनवस्य प्रकृति-शास्त्रस्य अनुरूपाः
वादा: जगत्-परिणा मादयः प्रतिपादिताः संत।
लूयी जकोलियट
१
संस्कृतेन एव भारतस्य एकत्वं अस्माकं प्रतीयते।
लूयीरिनोव, प्यारिस विश्वविद्यालयः
iv
'चित्त-संस्कारकत्वं नाम अनन्य संस्कृतस्य ।'
माक्स मुल्लरः
.
-
संस्कृतस्य वाङ्मयं न केवलं भारतस्य किंतु सर्वस्याः
मानव-जातेः अपि अत्यन्तं अमूल्यः निधिः ।
बाबू राजेंद्रप्रसादः
यदि कोऽपि 'तव सत्तमं पित्र्यं धनं कि' मिति मां
पृच्छेत् , मम स्पष्टं, अविचारं उत्तरं भवति, संस्कृत,तस्य ज्ञानं च'
इति । यावत् संस्कृतस्य महत्वं तावत् एव हि भारत ।'
नेहू-पंडितः
यावत् संस्कृतेन धार्यते, तावत् विभक्त अपि भारतं
अविभक्त एव । यदि .हिंद्याः राज्य-भाषात्वेन प्रांतीय-भाषाणां
मध्ये मनो-मालिन्यं जायेत, तर्हि संस्कृत एव राज्य-भाषा भवेत् ।'
विनोबा भावे
'लोके बहवः देशाः संस्कृते बद्धादराः इति भवन्धः
निवेदने नितरां हर्ष अनुभवामि । संस्कृत-सदृशी भाषा वा, तस्य
साहित्यं इव साहित्यं वा लोके अन्यत् नास्ति इति तेषां विदुषां
मतं........ | अतः संस्कृतस्य लोक-भाषात्वं पुनः पंच-वर्षेभ्यः
परं भाविनि प्राच्य-भाषा परिषदः समावेशे विचार-पदं एष्यति ।
श्री लक्ष्मणस्वामि मुदलियारः
भारत प्रतिनिधिः-प्राच्य-भाषा परिपत्,
इस्तंबूल, तुर्की-१९५२
V ' पुरातनं संस्कृत-साहित्यं एक भव्य मंदिरं, यस्मिन् मानवस्य प्राचीन-कालिकं सर्वं ज्ञानं सामंजस्येन संगृहीतं वर्तते । अहं विश्वसिमि यत् अस्य देशस्य बहूनां-जनानां इच्छा असीत् यत् संस्कृतं स्वतंत्र-भारतस्य तथैव राष्ट्र-भाषा भवेत् यथा ऐलंडे नस्य मूलभूता ऐरिष्-भाषा राज्य-भाषात्वेन प्रतिष्ठिताः इज्रायल-देशे च तत्रत्या-मूलभूता हीब्रू-भाषा देशस्य राज्यभाषा जाता । तथापि भारते संस्कृत-भाषा नैव किंतु हिंदी राष्ट-भाषात्वेन अंगीकृता ।' ह्यगो बलबानी फिन्निष राज्यदूतः, देहली अंग्रेज्याः स्थाने हिंद्याः वा अन्यस्याः कस्याश्चित् प्रांतीय-भाषायाः वा स्थापनात् देशस्य महान् अघातः भविष्यति । माध्यमिक स्कूलानां पाठ्य-क्रमे अंग्रेजी तिष्ठेदेव । एत दवश्य वक्ष्यते यत् अंग्रेजी-स्थाने अंग्रेजी - सदृश्यै भारतीयायै अन्तर-राष्ट्रीय-भाषायै महत्त्वं अवश्यं देयं, यस्य अध्ययनात् संसारस्य अन्य-भाषाणां अध्ययने साफल्यं स्यात् । एतत् संबन्धे अप्रेल-मासे समितेः संपूर्णः-विचार: प्रकटी करिष्यते ।' (१९५२ वर्षे भारत-शासनेन नियोजितायाः; माध्यमिक : विद्या-निरीक्षण-समिते: निवेदन) अप्रेलस्य द्वयं गतं । निवेदनं इदं शासकैः शनैः शनैः जीर्यते इव । राज्ये ईदृशानि निवेदनानि बहूनि संति, vi यानि महता व्ययेन-श्रमेण च संपादितानि किंतु स्वप्नेऽपि पुनः न चिंतितानि । उपचार मागं खलु निवेदनं नाम ! - - भारतस्य भाषासु संस्कृतं एक ईदृशं यत् राष्ट-भाषा योग्यतां बिभर्ति संभवति यत् हिंद्यां संस्कृत- शब्दानां अधिकाधिक मेलनेन पंचाशत् वर्षांतरे संस्कृतं एव सर्व साधारणस्य व्यवहारे आयायात्।' श्री बाबू भगवान् दासः 'संस्कृतस्य पठनं सुलभं कर्तुं ये प्रयत्नाः प्रचलंति ते फलिष्यति इति न मे प्रत्ययः । यदि ते फलित्वा वयं संस्कृतं सुलभ वक्तुं लिखिंतु च शक्ष्यामः तर्हि तदेव भारतस्य भाषा भवेत् इति आशा स्यात् नाम । श्री प्रकाशः १ संस्कृतं सरळी-कृत्य लोक-प्रियं निर्णायं।' श्री मुन्धी 'संस्कृतं एव राज्य-भाषा भावितु अर्हति इति निश्चितः मे अभिप्रायः श्री पतंजलिशास्त्री . -- 'अद्यतः प्रायः ८०० वर्ष पूर्व भारतस्य राष्ट्र भाषा संस्कृतं एव आसीत् । भारतस्य इतर देशनां च पारस्परिकः संबंधः अस्य vii आधारे स्थितः । संस्कृते अद्यापि सैव व्यापिका शक्तिः विद्यते । अतः संस्कृतं राष्ट-भाषा भवितुं अर्हति।' श्री नरेन्द्रदेवः संस्कृतस्य भारत-राज्य-भाषात्वं कामयानेषु धीमतः श्रीमंतः कटजू , मुन्षी, श्रीप्रकाशः, पट्टाभि सीतारामय्यः, संपूर्णानंदः, नरेंद्रदेवः, पणिकरः, शुक्ला, रामनः, रामस्वामि अय्यरः, पतंजलिशास्त्रो, महाजनः कति कति वा सुगृहीत नामानः अस्मदीयाः संति । . . . संति अपि न किंचित् कार्य भवति । राज्य-रंगे धर्मस्य इव संस्कृतस्य अपि नाम्नः अग्राह्यत्वात् । तिष्ठतु प्राच्य-परिषत्, तिष्ठतु संस्कृतस्य लोक-भाषात्वं । सद्यः सं कृतस्य जीवितं एव संशये पतति । . मुगल-राज्ये, आंग्ल-राज्ये च, वर्ष-शतैः धर्म-जीविनः ये सज्जनाः संस्कृतं बहिः-प्राण इव अरक्षन् तेऽपि कांग्रस- प्रणीते खराज्ये संस्कृतं श| इव त्यति । अर्थकरी न इति पूरुषाः । कामकरी न इति स्त्रियः । कष्टं इति बालाः । पुराणं हति युव-जनाः । मृतं एव इति 'डाक्टराः' अस्मन् नायक- वराः एव । संस्कृतं नाम दारिद्यं इति जातं । अद्य स्वराज्यस्य षष्ठे वर्षे संस्कृतस्य महा-विदुषः अपि अन्नं नास्ति । वस्त्रां नास्ति । गृहं नास्ति । विवाह : अपि न viii । . भवति । आंग्ली यस्य मुखे सः धनी, सः कुली, सः गुणी, सः पंडितः । शासनं हिंदुस्थानी-प्रचाराय लक्षशः दानं करोति । संस्कृताय न काणी वराटिकां । देश भाषासु नूनानि पुस्तकानि आह्वयति । अत्र प्रार्थितं अपि संस्कृताय स्थानं न यच्छति । कारण ? नाम्ना भारतीयाः अपि अन्तः बहिः च आंग्लीकृताः संति अस्मत्-शासकाः। यत् आग्लं तत् एषां सत्यं शिवं सुन्दरं :- आंग्ल-भाषा, आंग्ल-वेषः, विद्या, विवाहः, आचारः, व्यवहारः सर्वं अपि । अर्थ-काम-मूलां आंग्ली मनसा भजतः एते धर्म-मूलं संस्कृतं नहिं मन्यते । - स्वतंत्रो भारते बुद्धि-पर तंत्राः इमे कांग्रसीयाः । एते द्विधा बद्धाः । एकत:आंग्ली-मोहेन; अन्यतः कांग्रसस्य पाषंडेन । यत्र पर-भाषा-प्रसंगे अन्य-देशीयाः स्त्रियः अपि लजन्ते, तत्र अस्मन्-नायकाः साटोपं विगँभन्ते । — यथा आंग्ल देशे आंग्लाः, तथा आंग्लाः वयं भारते' इति आत्मानं प्रकट- यंति इव । केवलं स्वराज्यस्य लाभाय कल्पितः कांग्रस-सङ्घः । नीति- निपुणेन गांधी महाशयेन अस्य द्वारा सत्याग्रहं प्रयुज्य राज्य प्राप्तं । सत्याग्रहः नाम महा-मंत्रः आसीत् । किंतु मांकि विना न प्रसरति। अतः एव महाशयः 'प्राप्ते स्वराज्ये कांग्रसस्य विसर्जन' इति जुघोष।
ix प्रत्यक्षं एव खलु, यत् गांधी-महाशयस्य अपगमे कांग्रसः सत्याग्रहात् भ्रष्टः दुराग्रहं एव आपन्नः । देश-धर्मस्य प्रामाण्यं न अभिजानाति । तस्य धर्मस्य उन्मूलन एव निजं परमं धर्म प्रकटयति । यूरपस्य अमेरिकायाः च प्राकृतान् उच्छिष्टान् संघ वादान् आलंव्य, सनातनस्य भारत-प्रजा-संघस्य पुनः निर्माणं एव प्रतिपादयति । राज्ये अर्थ काम एव चिंतयति; तत् च बांग्ल सूरैः । अनेन किं फलति ! द्वंद्र सर्वत्र । पितृ-पुत्रयोः द्वंद्वं । पति-पल्योः द्वंद्वं । खामि-पालयोः । धनिक-श्रमिकयोः । गुरु- शिप्ययोः अपि । हताः शालिकाः; हताः शौंडिकाः; हताः पन्डिताः; हता भाषा, हताः मध्यमाः (Middle-class people) हताः विद्वद्-अक्रियाः; हता-हतं सर्वं । तथापि गुरु-प्रोक्तं अपि, कांग्रस: आत्मनः विसर्जनं न सहते । विना कांग्रसं 'हृतं भारत' इति च प्रचारयति । अकार्य इदं । महाशयस्य आदेशः अमोघः । सर्वथा युक्ति - युक्तः कांग्रस विसृज्य कांग्रसीयाः प्रजासु मिलिताः लीनाः च भवेयुः । सत्यं, केचित् इमे पुरुषाः महांतः मान्याः च । किंतु भारतं महत्तरं, सुमहत्तरं च आस्ते। न एकः पंडितः किंतु शतं पंडिता: संस्कृत-हृदयाः राज्ये अद्य स्थातुं अहन्ति । न तु पर भाषा-दूषिता: बुद्धि-भेदं आपन्नाः कांग्रसीयाः । उप-सहस्रवर्षे: घोरं दास्यं अनुभूय दैवात् स्वतंत्री-भूतस्य,प्रकृत्या धर्म-मार्गः एव विकसन ।
.
शीलस्य भारतस्य धर्म-भीरवः एते कांग्रसीयाः अधिपतयः भवेयुः
इति, 'हंत, विधि रहो बलवान् !
कांग्रसस्य विजातीया आंग्ला राजनीतिः वृद्ध-भारतस्य
कथं युज्येत? सर्व-प्रथमं अस्य भाषा-नीतिः दुष्टात्
अपि
दुष्टा
प्रतीयते । 'कः अयं देशः? कः अस्य धर्म: ? किं अस्य पूर्व
चरितं? का च अस्य प्राणभूता भाषा?' इति सहजं सरळ च
विचारं दूरतः कृत्वा, भारतं कांग्रसेन एव निर्मितं इव, आदी
बहु जनानां, अर्थात्, ३६ कोटि-मध्ये, १२ कोटीनां इति
हिंदी, परं मुस्लिमनां कृते हिंदुस्थानौं,
हिंदी, सद्यः संस्कृत-पूर्णां हिंदी इति. न तु संस्कृतं इति, क्वचित्
आंग्ली इति च, एवं एवं वदंतः भारतस्य भाषा-प्राणैः क्रीडंति
इव इमे दुरधीताः!
पुनः स्वराज्ये प्राप्ते
..
नित्यं व्यवहाराय देश-भाषा इति, राज्य-व्यवहाराय
हिंदी इति, लोके व्यवहाराय आंग्ली इति, मोक्ष-लाभाय संस्कृतं
इति च यः अस्मत्-शासनस्य भाषा-प्रबंधः सः कर्म-लोके अत्र
न संभाव्यः । विद्या नाम भाषा एव न भवति । संस्कृतं प्रति
वक्र-भणित इव इदं ! यतः अनेन न तावत् संस्कृत-वेदिनां
यावत् संस्कृतस्य एव संसार-मोक्षः भविष्यति । अलं 'संस्कृत
मोक्षाय' इति उपदेशेन । देशे देशे विद्वांसः संस्कृतं प्रोढां
लोक-भाषां कामयते । स्वदेशेऽपि शासनेन नियुक्तः विद्वत्-संघः
एव संस्कृतं भारतस्य अन्तर-राष्ट्रीय-भाष. कामयते । किंतु क्लैब्य गताः कांग्रसीयाः डोलायां रुदंती, पदेषु स्खलंती, अलक्षणां अर्भकां इव हिंदी अभिलषन्ति । अस्तु, पुनः संस्कृत-सहायां इति कः अयं विसंवादः? संनिपाते अत्र एका चिकित्सा- संस्कृत-सेवनं नाम । भाष्यते इति भाषा । विना भापण, यथा प्रजानां पारतंत्र्ये- भाषा अभाषा अर्थात् मृतभाषा एव भवति । यदि एव संस्कृत भारते जीवेत् , अवश्यं भाष्येत, पंडितैः पामरैः सर्वैः अपि । भाषा वृक्षः इव । प्रजाः मृलं; पुष्पं फलंच पंडिताः। द्वयोः अंतरं एव, न वस्तु-भेदः। व्यवहारस्य अभावे संस्कृतं कष्टं इति, क्लिष्टं इति, पुराण इति, मृत इति च नाना वदंति । अस्तु; यत् कार्य तत् कार्य, कष्टं वा सुख वा । किंतु लोके कष्टाः भाषाः इति, सुखाः इति च वाल-वचनं इदं । व्यवहारे भाषायाः कष्ट-सुख विचारः एव न भवति । स्तन्येन समं अयत्न एव अंतः गृह्यते । चित्र! कचित् अव्यवहारेऽपि कष्ट-सुख विचारः न भवति-यथा आंग्लयाः । किं आंग्ली भारते व्यवहियते? नहि । तिष्ठति आंग्ली ५,००० क्रेश-दूरे, विजातीया च । तथापि ३६ कोटि संकीण भारत अपांगेन इव शास्ति । 'शिष्यस्तेऽहं शाघि मां त्वां प्रपन्न' इति बालः, वृद्धः, स्त्री, पुमान् , घनिकः, दरिद्रः, पंडितः, xii न पामरः, आटविका, पार्वतीयः सर्वः अपि तस्याः पाद-पूजां करोति । किं अस्य रहस्य ? अर्थस्य पुरुषो दासः! अर्थकरी आंग्ली राज्य-भाषात्वेन दूरात् अपि समाराध्या । अर्थकर न संस्कृतं; अंकात् अपि निपात्यते । अर्था तुगणां न गुरु बंधुः। भोः कांग्रसीयाः, सकृत् त्यागशीलैः युप्माभिः खलु भारत बंध-मुक्तं । भारतस्य प्राणं संस्कृतं अपि मुक्त कुरुत- युप्मद्-राज्य-बंधात् । तातस्य कूपं इति क्षारं मा पिबत । त्यजत हिंदी । जगत्-ज्योतिः संस्कृतं राज्ये स्थापयत । देशे देशे विदुषां बहु मताः भवता । संस्कृतं निरस्य हास्य मार्ग मा भजत । 'पृथग- जनस्य संस्कृतं कप्टं' इति मिथ्या-वाईमा कुरुत। सः नित्यं व्यवहारे प्रतिशतं सप्तति पदैः संस्कृत एव भापते । अद्य आंग्लीं चर्वतः तस्य नूनं मधु-पानं इव संस्कृतं, यतः स्वकीयं । अर्थ-प्रदं संस्कृत आंग्ली इव कष्टं अपि सुखं, क्लिप्टं अपि सरळं, पुराणं अपि नवं, मृतं अपि जीवितं भवेत् एव । श्री श्री प्रकाशः वदति-एवं एव श्री मुन्धी महाशयः 'देहि मे लघु संस्कृतं । तत् अहं राज्य-भाषां करिष्यामि ।' कः अत्र न्यायः, भोः राज्य पाला: 'राज्यं करोति हिंदी; प्रजाः कुर्वतु संस्कृतं' इति । किं, भाषाः प्रजाभिः चत्वरे संभूय सृज्यंते, उत सर्व शक्तैः राज्यैः? साक्षात् दृश्यते हि कथं दश . . १ xiii शत-वर्षेः ऐरलांडः, विंशति - शत वर्षेः इजायलः केवलं शासन मात्रेण खां खां भाषां आप; कथं च दश-वर्षेः, पंच-दश-वर्षेः वा भाषा-द्रुयं इदं राज्य-पोषणेन पुनः अद्य जीवति, चलति गायति, नृत्यति च। किं न संस्कृतं ? असति व्यवहारे संस्कृतस्य सुलभी-करणं इति मिथ्या प्रसंगः । व्यवहारे एव सर्व समी- क्रियते। यदि अस्ति भाषा, बालेषु बालभाषा, स्त्रीपु स्त्री-भाषा पंडितेषु पंडित-भाषा, पामरेपु पामर-भाषा इति यत्र यत्र भाषा गच्छति, तत्र तत्र तत् तत् रूपं गृह्णाति । सति कुडये चित्र कर्म! सुलभ संस्कृतं सुलभं इति दर्शयितुं एव अयं प्रयत्नः। संधि कष्टं, समास-कष्टं इति कष्टद्वयं संस्कृतस्य उच्यते । किंतु बहवः न स्मरंति इव यत् संधिः समासः च न नित्यः किंतु वक्तुः इच्छा-विषयः एव इति । अत्र अपि पुनः आंग्ल-दृष्टिः एव । आंग्ल्यां प्रायः संधि: इति समासः इति नास्ति । पदं सदा व्यस्तं एव दृश्यते। अस्मद्-आंग्ल-शिक्षिताः सौलभ्य इदं संस्कृते अपि वांछति । इति एतावत् न्याय्यं एव । वांच्या किं? व्यवहारे या कापि भाषा छिन्न - भिन्न एव प्रचलति । संधिं कृत्वा न हसति । समासेषु न रुंदति। संस्कृतं अपि तथा भवेत् एव। सहजा इमां भाषा - गति विस्मरंतः सौलभ्यं प्रथम, व्यवहारः परं इति इमे विपरीतं वदति इदं एव चिंता-पदं । विदां वेदनं इति क्लेशः ।संस्कृतस्य व्यवहारे यावत् सहजः अनुकरण-मार्गः न Xiv . संभवति तावत् संधिः उपेक्ष्यः इति अस्मद् विनतिः । यतः अनुकरण-मार्गे कष्ट-सुख विचारः एव न भविष्यति । भाषा नाम नदी इव । प्रवाहे सति, बहु-मुख प्रसरति, क्वचित् उच्च, क्वचित् नीचं, कचित् कष्टं, कचित् सुख । संस्कृतं सर्वतः कप्टं इति भ्रमः एव आंग्लीं भजतां अस्मदी- यानां । दश-लकाराः कष्ट इति केचित् ; आंग्ल्याः अष्टा-दश लकारान् अगणयंतः । द्वि-वचनं, अवार्य इव, दुःख इति केचित् । आंग्ल्यां अपि नित्यं एकत्वं, नित्यं बहुत्वं, क्वचित् उभयत्वं, इत्यादि निरूढिं न स्मरंतः । संधिः कष्टं इति केचित् ; आंग्ल्या: असह्यं गुणित-क्लेशं (spelling) विस्मरंतः। एवं विवशाः इमे सर्व सुख आंग्ल्यां, सर्व संसार-कष्टं संस्कृते च पश्यति । आंग्ल्याः सर्व-विधान् क्लेशान् सातः संस्कृतात् पदे पदे शंकिताः भवंति इति दृष्टि-दोषः अयं पाठकानां एव, न तु वस्तु - दोषः भाषायाः इति स्पष्टं । विजातीयानां पश्चिमी- यानां भत्क्या मौनेन च संस्कृतं पठित्वा तत्र प्रामाण्यं अधि- गच्छता, संस्कृतं कष्टं इति येषां भारतीयानां यत् भयं तत् मनो- गतः विकार-मात्रः । भेषजं पूर्व उक्तं संस्कृतस्य अर्थ-करत्वं एव। अर्थ-करत्वं राज्य-भाषात्वेन । राज्य-भाषानं शासनस्य खीकारेण । खोकारः शासकानां संस्कार - बलेन । वैदिकः अयं संस्कारः वैदिक-भाषायाः अर्थात् संस्कृतस्य सम्यक् शिक्षणेन । समग्रं .
XV । भारतीय-भाषा-शिक्षणं विना भारत-देशस्य शासकत्वं इति शुष्कं विडंबन । लोक-हास्यं च । एवं अद्य अपटस्य अपि जनस्य श्रवणे ग्रहणे, च संस्कृतं यथा शृति - सुख, सुलभं च भवेत् तथा पदं अल्पं, व्यस्तं च वाक्यं लघु, सरळ च कर्तुं एव अत्र यत्नः। शैली कचित् आंधी,कचित् आंग्लीं च अनुकरोति । मन्ये न इदं संस्कृतस्य अवमानाय । संस्कृतं समुद्रः इव । महा-नदीभिः इव कु-सरिद्भिः अपि पूर्यते। पद-विषये वक्तव्यं किंचित् अस्ति । संस्कृत महत् । तथापि काल-वंचित सत् आंग्लादि भाषाणां प्रकृति-शास्त्र-संपदं न बिभर्ति । यतः शास्त्र इदं नृत्नं, केवलं द्वि-शत-वर्षीयं । एवं एतत्-संबंधिनः पद-जालस्य लोपः संस्कृते वर्तते । पुनः संस्कृत- पदानि सकलानि देश-भाषासु वा पंडित-व्यवहारे वा न लभ्यते । कानि-चित् पदानि, संस्कृते अपि मृग्याणि, देश-भाषासु व्यवहारे दृश्यते। एवं सति अद्य संस्कृतस्य भाषणे लेखने वा पद- ग्रहण कोशस्य प्रामाण्येन एव भवितुं अर्हति । 'अप्रसिद्ध' इति 'अप्रयुक्त' इति ईदृशैः संकोचैः न भाव्यं । अन्य-देश्यानां पदानां संस्कृती-करणं यावत् न भवेत् तावत् तानि पदानि यथारूपं प्रातिपदिकत्वेन गृहीतानि भवेयुः। 'चायः' (Tea) इति अत्र नवम् पदम् देश-व्यवहारात् गृह्यते । 'कृशः' (Cross) सकृत बैबिलात् । संस्कृते बंधवः पाठकाः अल्पः अहं जनः। भाषायां यः मे अभिमानः सः एव मे तत्र अधिकारः । न अन्यः, . -- xvi अधिकः वा। तथापि उड्डुपेन इव सागरं प्रविष्टः अस्मि । 'न साहस मनारुह्य नरो भद्राणि पश्यति' इति बाल-नीति आश्रयामि । संस्कृतस्य यात्रायां अस्यां महतां नौका-साधनानां मध्ये अल्पस्य अपि अस्य उडुपस्य सेवां अनल्पां एव आशासे । तृणेन कार्य भव तीश्वराणां । मन्ये स्वराज्यस्य भारः इव संस्कृतस्य भारः अपि आंग्ल- शिक्षितेषु भूयसा तिष्ठति । यतः अद्य साकृत राज्य-रंगं प्रविशति । व्यवहार - भूमिं च अवतरति। व्यवहाराय तु आंग्ल शिक्षिताः एव कल्पते; न तु पंडिताः । वज्र वज्रेण भिद्यते। ये आंग्ल- शिक्षिताः संस्कृतस्य मार्ग-निरुंधति ते आंग्ल-शिक्षितैः एव साध- यितुं शक्यते । नो चेत् गताः पंडिताः, गतं संस्कृतं, गतं एव च भारतं । अतः आंध्रेषु संस्कृत-प्रियाः आंग्ल-शिक्षिताः सर्वे संस्कृत- प्रचाराय स्थापितस्य संस्कृत सेवक समाजस्य सभ्यत्वं सदयं अंगी कुर्वतु इति पुनः पुनः प्रार्थना । उद्यमे सर्व-विधं साह्यं दातुं च । सामान्यः अहं जनः । संस्कृतस्य-सेवायां श्री विश्वनाथः शरणं इति प्रस्थितस्य मम पूर्व शिष्यः, अद्य मित्रं, श्री कपूर रामकृष्णमूर्तिः B.Com. (Hons.) अत्र मे सहायः तिष्ठति । युवा,विद्वान् , धनी, दाता च अयं संस्कृत-पक्षे स्थितः, उत्तरोत्तरं, संस्कृतस्य, संस्कृत-धर्मस्य च पालने, पोषणे च कृती, कीर्ति-पानं च भूयात् इति अनेकाः हृद्याः मे आशिषः । जयतु संस्कृतं । इति, संकृतसेवकः-को. कृष्णसोमयाजी Dear Reader, Sanskrit is our great inheritance. Our past greatness is all of Sanskrit, its life, Îiterature, art and philosophy. Even today the western nations are seeking inspiration from it. We cannot afford, as we are doing, to lose this grand heritage. How to preserve Sanskrit, as a living force? It is only by making it our national language. That it is not in use is no matter. The Irish have brought back Gælic, after 1200 years and the Jews, their Hebrew after 1900 years. To day these are state languages and living. Şanskrit is much easier to bring back. It persists in our life in this or that form and constitutes 70% ofall our regional languages. Today it is a world language, studied and honoured in every civilized country. To our shame, we are not able to find a place for Sanskrit-in our public life. We are so anglicised that we see nothing good in things Indian, not even in its language. Our leaders, unable to construct, or rather, reconstruct on age-old foundations are cryingfor a revolution, by which they hope, ultimately, to pattern our law and life on those of Europe and America. It is time we resist this wild revolutionary zeal, utterly unworthy of an ancient people like ourselves.
xviii Sanskrit is India's one language and can alone teach us how to tackle our great problems. So in the best interests of our country's future, as also of its present, it is the duty of us all, high and low, to learn it and learn it in the shortest possible time. For India, without Sanskrit, is India - Benighted. Learning Sanskrit through the regional language is a suggestion worth examining. wwww "भाषा" संस्कृत वार-पत्रिका (WEEKLY) संस्कृतस्य राज्य-भाषात्वं अधिवक्ति। सुलभ-संस्कृ- तस्य प्रचारं च, यथा सर्वे जनाः संस्कृतं जानीयुः । वर्ष-छदः रू. ५-०-० सम्पादकः को. कृष्णसोमयाजी एम् . ए. एल ; टि. राजेश्वरीपुरम् , गुंटूरु (आन्ध्राः) कणः लुप्तः गृहं दहति आसीत् पुरा रुषिया-देशे यस्मिन् कस्मिन् प्रामे इवान: नाम कार्षः। तस्य नवं वयः, सुस्था वृत्तिः, त्रयः पुत्राः च आसन् ! ग्रामे कारिषु स्वयं पटोः तस्य सुताः सर्वे अपि कृतवः आसन् । ज्येष्ठः ऊढः; द्वितीय ऊढ्यै योग्यः; तृतीयः अपि प्रौढः हयान् पालयति; हलं च किंचित् कलयति । इवानस्य जाया गृहे श्रमिणा शांता च आस्त । एवं इवानस्य, तस्य जनस्य च, सुखे जीवने न कापि बाधा आसीत् । तेषां गृहे एकः एव अकरः पोष्यः जनः आसीत् । सः इवानस्य पिता एव। वृद्धः सः श्वासेन रुग्णः बहिः सुधानां उद्धानस्य तले कुट्यां सप्तभिः वर्षेः कृश्यति स्म । सर्व संपन्नं खलु इवानस्य ! तस्य त्रयः घोटाः, एकः बालः स-वत्सा धेनुः, पंच-दश मेषाः च आसन् । स्त्रियः न केवलं क्षेत्र सहायाः किंतु गृहे सर्व वस्त्रं वयन्ति, यथा क्षेत्र पुरुषाः कृषन्ति । तेषां गृहे क्षेत्रस्य भन्यात् फलात् ऊध्वं अपि भोम्यं स्वीय एव धान्यं सदा संचिंत आस्ते । करस्य दानाय अन्यस्य अर्थस्य साधनाय च ते कंगून् विपणन्ति। एवं इवानः पुलाः च सुख अवत्स्यन् यदि 2 एव तस्य च पक्षे गृहे घोरकस्य सुतस्य गबेलस्य च वैरं न अभविष्यत् । यावत् वृद्धः घोरकः अजीवत्, इवानस्य पिता च गृधे कर्मणि अदक्षत्, कार्षा: ते सामंतानां सदृशं एवं अवसन्। अत्र गृहे स्त्रीणां पात्रेण वा बिलकेन वा कार्ये जाते, गोण्या वा पुंसां, अथवा यानस्य चक्रे भग्ने, सद्यः तस्य सत्कारे च अशक्ये, एकेन अन्यस्य गृहं प्रति वचः प्रेषितं। एवं ते सर्वे अपि प्रतिवेशानां अहं यथा तथा मिथः साह्यं आचरन् । एकस्य वत्सः अन्यस्य खलं अत्येति। सः द्राव्यते हि। उच्चते च तैः जनैः वत्स: मा एतु। अत्र अस्मत् धान्यं अस्ति ।" तालैः कोष्ठ स्य बंधनं, अन्यस्य वस्तुनः गृहनं, अथवा परोक्षे मिथः दूषणं, एवं-आदि तेषु दिनेषु मनसि अपि तैःन चिंतित। एवं पितृ-काले । यदा तु पुत्राः गृह-पतयः आसन् , तदा सर्व व्यस्तं आसीत्। सर्व इदं अल्पस्य एव हेतोः। इवानस्य स्नुषा कुक्कुटी एकां पालयति । एषा कल्ये एव ऋतौ अंडानि सूते । सा च तानि अंडानि 'उत्थानं' प्रति चिनुते। दिने दिने सा यान-शालां याति; अंडंच याने विंदति । सकृत् तु प्रायः बाले: तर्जिता सा कुकुटी वृतिं उल्लंघ्य प्रतिवेशस्य गृहं अयात्। अडंच तत्र ससर्ज। .. सा योषा तस्याः कलकलं अशृणोत् ; किंतु स्वगतं आह:- अद्य न मे क्षणं अस्ति। आदि वा राय सजा स्यां। अंडं परे आने
3
प्यामि' इति । सायं सा यान अगात्। अंड तु न अपश्यत् । श्वश्रू
गता; देवरं च गता; अपृच्छत् च यदि तै: अंडं आनीतं । नहि,
: न आनीतं । तस्याः खुल्लः देवरः तारसः तु अवदत् ,
'कुट्टी अडं प्रतिवेशस्य गृहे अधात्। तस्याः कलकलः तत्र एव
आशीत् । ततः एव सा वृति उत्क्रम्य भागात् ' इति ।
गतं स्त्रिया । कुक्कुटी च दृष्टा। सा तत्र एव अन्यैः
पक्षिभिः साकं विटंके आस्त । निद्रां गंत्री इव नेनं मीलति ।
वधुः अपि कुक्कुटी प्रष्टुं उत्तरं च लब्धं इच्छति इव ।
सा सद्यः गृहं गता। गबेलस्य माता च तां मिलितु बहिः
अयात्।.
किंबाले ?
आर्ये, किं अस्ति ? प्रातः मम कुक्कुट्या उड्डोय आगतं ।
किं तया अंड अत्र न सूतं !
-
न किंचत् दृष्टं तस्याः देवस्य- कृपया अम्मत
कुक्कुद्या एव चिरात अंडानि दीयते। वयं अंडानि स्वीयानि
एव चिनुमः । परेषां अडैः, नो नः कार्य । परेषां वाटेषु च, बाले,
अंडानि वयं न चिनुमः
-
तेन रुष्टा सा योषा । तया किंचित् अत्युत्कं । प्रतिवेशा च
वृद्धया सह तां प्रत्यदात् । द्वयं मिथः गालिं अदात् । इवानस्य जाया .
जलं हाती ततः आगत्य कलहे युयुजे। गब्रेलस्य जाया च बहि:
म्हत्य 'यूनी तां भूतः अभूतैः च दोषैः शपितुं आरभत । तेन
जात महान कलकलः । सर्वाः समं अक्रोशन् । पदे पद-द्वयं उच्चरितुं
चेष्टितं-ताभिः । तत् च न श्लील ।
त्वं इदं'
'त्वं अदः
१
त्वं चोरा'
6
वं लट्वा'
'वृद्ध श्वशुरं निरन्नं हंसि'
'कृत ते सत्वेन 'एवं आदि।
'हंजे, त्वया बिलक मे नीतं; छिन्नं च दत्तं । येन
घटान् वहसि स: नः युगः । ज्योक्, देहि नः युगं ।
सः युगः द्वाभ्यां गृहीतः । क्षिप्तं जलं; हृताः कंबला।
वृत्तं द्वंद्व । क्षेत्रात् निवृत्तः गबेलः जायां अपक्षत् । इवान च
पुरेण सह बहिः निस्सृत्य जन्ये मिलितः ।
इवानः बली। सः तं सर्व वार अद्राव्यत् । गलस्य
ढाढ्याः मुष्टि एकां अलुचत् । किंवा जात इति जनाः तत्र द्रष्टुं
आगताः । अति कष्टेन च वैरिणः ते वियुक्ताः आसन् । सर्व
एवं आरब्धं ।
5 वृद्धः कुट्यां स्थितः, आदे: अपि तान् संधिं कतु आदिशति । ते तु तं न गणयंति । सः आह :- . जाताः, अल्पान् अर्थान् प्रति विवदतः यूयं साधु न आचरथ । चित्यतां नाम । सर्वः अयं अर्थः एकेन अंडेन आरब्धः । बालैः तत् हृतं एव स्यात् । अस्तु । किं तेन ? एकस्य अंडस्य कियत् मूल्यं स्यात्? देवः सर्वेभ्यः अलं यच्छति हि । अस्तु, तव प्रतिवेशः परुषं एव किंचित् वक्ति; तत् त्वया सत् खलु कार्य । त्वया तथा वाच्यं यथा तेन मृदु वक्तुं शक्यते । यत्र कलि: तत्र एवं विधाः अर्थाः जायते । सर्वे वयं पापाः । सर्व संधित कुरु । तेन अर्थस्य अस्य अंतः भवतु । यदि त्वं क्रोधं पुप्यसि तत् तव एव महान् अनर्थः भविष्यति ।' युवानः ते वृद्धं तं न मन्यते । तस्य वचः वृद्धस्य जल्पं मन्वते । इवानः प्रतिवेशस्य पुरः स्वं न जातु नमयेत् । न तस्य दाढी मया कृष्टा । सः तां स्वयं एव चकर्ष । प्रत्युत तस्य पुत्रः मम चोलस्य बन्धान् अच्छिनत्। चोलं अपाट- यत् च । पश्य इदं "। इवानः अपि समां अगात् । शांति-पालेन, प्रांत-पालेन च स: विचारितः । अर्थस्य अस्य चलतः गवेलस्य यान-कीलः न 6 तस्य चौर्य दृष्टः । गबेलस्य स्त्रियः इवानस्य पुत्रो अक्षिपन् । ताः ऊचुः 'रात्रौ अस्मत् जालं अतीत्य यानं प्रति गच्छन्तं तं वयं अपश्याम । कश्चित् प्रतिवेशः अपि गंजा-पालाय कील अर्पयतं तं अपश्यं इति वक्ति।' ततः इदं अपि सभां नीतं । एवं गृहे, विना कलिं वादं वा, एक अपि दिन न याति । बाला: अपि मिथः अशपन् । पितृन अनु । स्त्रियश्च वस्नानि धावितुं यदा नदीं गच्छन्ति तदा तत्र तासां कराः न तावत् पीडनं कुर्वति यावत् कुत्सनं तासां जिह्वाः । दुष्टं च सर्वं वचः । आदौ कार्षा: ते मिथः अपालपन् । परे एकस्य यत् यत् कर आयात् बुध्या तत् अन्यः हर्तुं आरभत । बाला: च वृद्धानां रीति अन्वसरन् । एवं तेषां जीवनं कष्टात् कष्टतरं आसीत् । इवानः सर्वकोवः कुन्ठः गवेलः च क्रमात् ग्राम-सभां, मंडल-सभा, शांति-पालस्य पुरः गत्वा, मिथः दृषितौ आस्तां । येन सर्वे विवाकाः तेषु श्रांता: आसन् । अद्य गबेलेन इवानः दन्डं वा बन्धं वा प्रापितः । परं इवानेन गबेल: च तावत एव । यथा यथा ते मिथः अद्विषन् तथा तेषां क्रोधः अपि ऐधत । शुनां इव, ये खलु मिथः रुन्धति । पुनः यथा ते युध्यते तथा एव ते रूष्टाः भवंति । त्वं एक पुच्छे प्रहरसि । तेन सः अन्यः एव स्वं दशति इति मत्वा पूर्वात् अपि उग्रः . -- -- 7 व भवति । एवं एव एते ग्राम्याः। ते सभां गताः। अद्य एक: दंडितः । अथवा बंदी कृतः । परं अन्यः । एवं एवं ते मिथः कृद्धाः आसन् । ' किंचित् तिष्ठ रे, फले अस्य दृतं एव नूनं भोक्ष्यसि'। एवं षडर्षाः गताः । उच्चैः कुट्यां स्थितः वृद्धः तु वारं वारं वक्ति पृत्राः, किं क्रियते? अलं एतेन दानेन प्रति-दानेन च । कर्मणि तिष्ठत द्रोहं मा चिययत। एवं वःश्रेयः भविष्यति । यथा तु दृह्यते तथा क्लेश: एव भुज्यते । किंतु ते तं न अगणरन् । सप्तमे वर्षे यत्र कुत्र विवाहे इवानस्य स्नुषया ब्रीडित: गबेल: । तया सः यदा कदा हयस्य हरणे निग्रहेण आक्षिप्तः । मत्तः गवेल: कोपं सोढुं अशक्तः तां तथा प्राहरत् यथा सा वारं यावत् मंच-गता आसीत् । तदा सा गुर्वी च आस्त । इवानः मुदितः-दंडपालं च गत:-कथयितुं । अद्य खलु प्रतिवेशात् अस्मात् अहं मुक्तः भविष्यामि । स: नूनं बन्धं आप्स्यतिः सैबीरियायां निर्वास वा।' किंतु इवानस्य इच्छा न पूरिता। दंडपालेन दोषणं निरस्तं । स्त्री पृष्टा । किंतु तदा सा स्थातुं चलितुं च शक्ता इति, घातस्य चिहूं किंचित् नासीत् इति च स्थापितं । तत: इवानः शांति-पालं अगात् । सः तु अर्थ एनं मंडल-सभां प्रापयत् । इवान: जागर्ति । मन्डल सभायाः किरकं ज्येष्ठं च
8
मधु-भांडेन सम्प्रीय गबेलाय कशां अदापयत् । दन्डः लेखकेन
गबेलाय वाचित:- ' सभा इयं शास्ति यत् गबेलः गार्डेयः मन्डल
सभायां सिबि-वेोण विंशति घातान् ग्रहीष्यति' इति ।
इवानः अपि दन्डं वाचिंत शृत्वा ऐक्षत, कथं स: तेन
गृहीतः भवेत् इति । गबेल: पन्जिवत् पांडुः आसीत् । विवृत्य
च वरन्डं अयात् । निज हयं द्रष्टुं इव इवानः । अनु-गतः ।
अज्ञात: एव सः इत्थं वदन्तं गबेलं अशृणोत् :- 'हंत; सः मां
पृष्ठे धातयिष्यति, तेन पृष्ठं मे धक्ष्यति । अस्तु; तस्य किंचित्
अस्मात् अपि गुरुतरं एव दहेत् नाम ।
इदं वचः शृत्वा इवानः सद्यः सभां गतः । अकथयत्
च, न्याय-पाला:, गबेल; मां गृह-दाहेन तर्जति। श्रूयतां,
साक्षिणः पुरः एव सः आह " | गबेलः प्रत्याहूतः। 'किं
इदं सत्यं यत् त्वया एवं उवतं ?
न मया किंचित् उक्तं । कशां देहि; यत: भवान्
अधिकृतः अस्ति । दृश्यते, अहं एव अत्र दंड्य:; यतः अहं
ऋजु: अस्मि। सः तु स्वैरं कर्तुं अर्हति ।'
गबेल: पुन: यत् किंचित् वक्तुं ऐच्छत्। किंतु
तस्य ओष्ठौ गंडौ च द्वयं कम्पित। सः च कुडयं प्रति
.
विवृत्तः। स्थानिकाः ते अपि तस्य दृशा भीताः आसन् । “वस्य
वा प्रतिवेशस्य वा का अपि हानि अयं कुर्यात् एव" इति ते
अचिंतयन्।
वृद्धः विवाकः आह :- "रे जनाः, अत्र पश्यत। वरं वः
न्याय्य वर्तन, सांत्वनं च। अयि गबेल, किं तत् न्याय्यं यत् त्वं
गुर्वी ता तथा प्राहरः? दिष्ट्या तत् तथा साधु जातं; किंतु चिंतय
किं किं भूतं स्यात् । किं तत् न्याय्य वरं त्वं निजं दोषं विवृत्य
इवानं क्षमा याचेः। सः नूनं त्वां क्षमां दास्यति। वयं च दंड
मिंद्मः। " वचः इदं शृत्वा किरकः व्याख्यात '२२६ सूत्रं अनु
इदं न भाव्यं । वादिभिः न संधित इति एव सभया निर्णयः
कृतः। सः च निर्वाह्यः ।
विवाकः तं न मेने। जिह्वा ते भजतु मौनं।
न्यायेषु प्रथमः ईश्वरस्य आज्ञायाः पालनं । सः शांत्या प्रीयते'।
विवाकः प्राम्यान् तान् बोधयितुं प्रवृत्तः । किंतु कृती न आसीत् ।
गबेलः तं न शृणोति ।
--
'वयस्य,
सः ऊचे : "भाविनि वर्षे अहं पंचाशत् वयाः
भविष्यामि। मम ऊढः पुत्रः अस्ति। जन्मनि न जातु मया
कशः भुक्तः । अद्य जदुलः इवानः मां कश्यं करोति। तं गत्वा
किं अहं क्षमा याचे? नहि,
नहि। अल सोट्वा । इवानस्य
मां स्मर्तुं हेतुः भवेत् एव।"
10
गबेलस्य खरः चकंपे। सः परं किंचित् अपि वक्तुं न
अशकत्। विवृत्त्य बहिः अगात्।
सभातः ग्रामः चतुः -क्रोशेषु आसीत् । इवानस्य, गृह
गतस्य, चिरं जातं । हयं वीत-सज्ज कृत्वा, तं गोष्ठे नक्तं बध्वा
शालां प्राविशत्। तत्र कोपि न आसीत्। तदा एव स्त्रियः
पशून् गृहं निवर्तयितु गताः। युव-जनाः अपि क्षेत्रात् न निवृत्ताः ।
इवान: अंत: गत्वा तत्र आस्त। अचिंतयत् च, कथं गबेल:
विवाकस्य दंडं अशृणोत् ; कथं तेन सः विकलः आसीत् ; कथं
च सः कुडयं विवृत्तः। इवानस्य मन: गुरु जातं ।
..
'यदि खयं अहं दन्डितः,किं मया भावितं स्यात्'? गबेल
प्रति सः आर्द्रः च आसीत् । तदैव स. स्तूपे कासमानं पितरं
अशृणोत् । पादौ प्रसार्य अधः सर्पतं च तं अपश्यत् ।
वृद्धः च मन्दं मन्दं तत्र पीठं उपसृत्य आस्त । अनेन
एव श्रमेण भृश क्लांतः सः चिरं कासित्वा कंठ च विशेध्य फलक
आश्रित्य ऊचे, 'हंत, किं सः जितः?'
'आम, वेत्रेण विंशति-घातैः सह' इवानः प्रत्याह । वृद्धः
शिर:-कंपं चकार ।
स: आह, 'अनर्थः अयं इवान, अर्ध आचरसि ।'
अत्याहित खलु । न तावत् तस्य यावत् तव एव । बाद, तस्य
कशा भविष्यति । किंतु तेन ते किं फलिप्यति ?
11
न पुनः करिष्यति", आह इवानः ।
" किं तत् यत् सः न पुनः करिष्यति ! त्वया कृतात्
दुष्टु किं तेन कृतं अस्ति।
'किं वा? स्मयतां, का मे हानिः कृता तेन । स्नुषा मे
तेन - हतप्राया। इदा पुनः नः सर्वान् दग्धु उत्थितः। किं
अस्मै तस्य धनं दद्यां?
वृद्धः निश्वस्य आह :- 'इवान, त्वं लोके बहुत चरसिः
यावत् अहं वर्षे: अपि चुल्यां स्थितः अस्मि । तेन त्वं मन्यसे
यत् त्वं सर्वं वेत्सि; न किंचित् अहं वेद्मि इति। हंत वत्स,
अपश्यन् त्वं एव। द्वेषः त्वां अधयति । परेषां दोषाः तव पुरः
संति; स्वीये तु पृष्ठे ।
तेन दुष्टु चरितं इति वा? का इयं उक्तिः ? यदि सः
एकः एव दोषी, का नाम वैरस्य भूमिः? किं लोके एकेन वैरं कर्तुं
शक्यते, वैरं सदा द्वयस्य एव । त्वं तस्य दोषं पस्यसि
खस्य तु न पश्यसि । यदि सः दुष्टः, त्वंतु साधुः, वैरं न स्यात्एव ?
तस्य दाव्याः कैस्य केन कृप्टं ? तस्य कक्ष रसिः केन नासितः
तं सभां चकर्ष का? तथापि त्वं सर्व तस्य उपरि क्षिपसि । त्वं
खयं दुष्टं चरसि; अत्र अस्ति दोषः । न अयं मार्गः यः मया
त्वां बोधितः । किं अयं अस्ति मार्ग: एन मया च वृद्धेन
गबेलस्य पित्रा च गतं ? वयं कथं आस्म? यथा हि
प्रतिवेशाः स्यु।
?
12
यदि तस्य सक्तुः क्षीणः, कयापि स्त्रिया
कयापि स्त्रिया आगत्य,
माम, सक्तुः कार्यः' इति उच्यते ।
उच्यते च मया 'जाते, कोष्ठं गच्छ । यत् कार्य
तत् नया
-
यदि तस्य हयान् चारयितुं कोऽपि न आसीत् अहं
अवदं : गच्छ रे इवान । हयान् चारय ' इति ।
यदि मे किंचित् कार्य, अहं तं अयाम् ।
'माम गर्ने इदं इदं मे कार्य'।
हर माम' एवं आसीत् अस्मन्- मध्ये; एवं सुखं यात:
अस्मत् कालः । अद्य अहो परेद्यवि कोवा सैन्यः प्लेना- युद्ध
प्रति अस्मान् कथयति स्म। किं तेन ? प्लेन्नातः घोरं युद्ध
युष्मन् मध्ये चलति । किं इदं अस्ति जीवन ? किं, अरे, पापं
इदं
त्वं ज्येष्ठः गृहपाल: च । त्वं असि प्रतिवाक्यः । शिशून्
स्त्रियः च किं सिक्षयसि ? रटनं मुटनं च ! किं, परेद्यवि तव
तारसः, सः डिंभः, प्रतिवेशां इरीनां गालि अदात् । तस्य माता
शृण्वन्ती हसती च आसीत् । किं इदं युक्तं ? त्वं असि प्रति-
वाक्यः । अत्मनि चिंतय । किं सर्व इदं भाज्य? एकं वचः मयि
क्षिपसि; द्वयं, अहं क्षिपामि। एक घातं दास्यसि; द्वये अहं
दास्यामि । न हि, जात, त्रिष्टः, यदा सः भूमिं च चार, मूढान्
?
.
13
'यदि इतः
अस्मान् न एवं उपादिशत् । महत् भिन्नं एव उपादिशत् ।
कस्मात् अपि रूक्षं वचः लब्ध्वा मौनं भज । तस्य एव
आत्मा तं पिंचति ।' इत्थं शशास नः प्रभुः :-
पेटं पद्यसे, ततः
गलं वर्तय। ' अत्र देहि, यदि मां पात्र
मन्यसे ।' तस्य एव आत्मा तं पिंचति। सः द्रवति; त्वां
शृणोति च।'
'अयं अस्ति मार्ग: यः तेन प्रोक्त:; ‘मा कुरु गर्व'
इति । न भाष्यते किं? किं न तथा अस्ति यथा अहं वधिम?'
इवानः तूष्णीं आम्त-श्रोता ।
वृद्धः क्षौति । महता कलेन कंठ विमुच्य पुनः आरभते :-
किं खिम प्रोक्त दोष मन्यो? नहि, नहि, तत् सर्वं अस्मत्
क्षेमाय एवं। तव जीव - यात्रां किंचित् विमृश, यदि अद्य
ते सुखं अस्ति उत दुःखं, यतः युष्मन्-मध्ये कलिः अयं प्रवृत्त
कल्यतां तावत् यत् त्वया अर्थे अस्मिन् व्ययितं, यत् पुरः पश्चात्
इदं रोहण, यत् च त्वया अन्नाय दत्तं । कियत् अपि दक्षाः जाताः
ते सुताः । सुख जीवेः; सुखं वसेः। अद्य क्षीयते हि
वृत्तिः। कुतः ? सर्व अम्मात् मौरूषोत् एव । मानात् एव ।
पुरैः सह कृषन् स्याः। स्वयं च वापं कुर्याः। किंतु भूतं
इदं त्वां विवाकं हरति यं कंचित् करण - पाश,
अन्य, अन्य वा। कृष्ठिः काले न क्रियते ; वापः वा । माता
.
अथवा
14
-
भूमिः च काम न फलति । ऐषमः कंगुः कथं नष्टः? कदा तं
त्वं अवप:? पुरात् त्वया कदा निवृत्तं सर्वं अर्थ ते भुज-माः एव ।
अयि वत्स, निज कार्य चिंत्य । पुरैः सह क्षेत्रो कर्म कुरु ।
गृहे च । यदि कोट-पि त्वां रोषयति, तं क्षमख, यत् एव ईश्वरः
त्वां कर्तुं इच्छति । तेन सुखं जीवेः; चित्तं च ते सदा लघु
भवेत् ।" इवानः तूष्णीं आस्त ।
इवान, मे जात, वृद्ध पितरं शृणु। याहि। घोटी
सज्जां कुरु। सद्यः सभां गच्छ। सर्व अर्थ एनं अंत नय ।
प्रातः गच्छ; ईश्वरस्य प्रीत्यै गबेलेन संधिं कुरु । श्वः महसे
इदं आसीत् धन्य - मेर्याः जन्म-दिनं - तं तव गृहं आह्वय ।
चाय सज्ज कुरु। मधुलस्य कूपी एकां आनय। दुष्ट पणं
अंत नय; यथा सः भव्ये किंचित् अपि न शिष्येत। स्त्रियः
शिशून् च तथा कर्तुं दिश"।
इवानः निश्वस्य एवं चिचिंत:- ' यत् अयं वदति, सत्य।
अनेन तस्य मनः च लघु जातं । अर्थ संधातु किं द्वार इति
इदं एव सः न विवेद। अल वृद्धः पुनः प्रवृत्तः; इवानस्य चित्ते
स्थितं औहत् इव।
गच्छ, इवान, कालं मा क्षिप। यावत् न
सर्पति अग्निः तावत् एव ते शमय । न चेत् कृतं अपि अति-चिर
भवेत्"।
वृद्धः पुनः वक्तुं याति इव । किंतु तावत् एव स्रियः
अंत विविशुः, कीराः इव स-कलकलाः । गबेलः कशेन दंड्यः
15 - इति, तेन गृहं दग्धुं तर्जितं इति च वार्ता ताः पूर्व एव प्राप्ता। तत् सर्व शृत्वा, तेन किंचित् किंचित् निज अपि संयोज्य शादे पुनः गबेलस्य स्त्रीभिः सह ताः जन्यं चकः। गबेलस्य जाया नवेन अक्षेण अतजत् इति, गवेल दंड - पालस्य कर्णे आसाध वृत्तं सर्व व्यस्तं कुर्यात् इति, ग्राम - करणः इवानं प्रति - इदा तु स्वयं राज्ञे एव - नूनं अर्थ लिखति इति, अत्र अर्थे यान - कीलं प्रति । शाक - वाट प्रति, येन येन च इवानस्य गृह, धनं, सर्व आत्म सात् भवेत् , तत् सर्व अत्र अस्ति इति च ता: वत्कुं भारत । इवानः तासां ऊक्तं सर्वं शुश्राव; येन तस्य हृदयं स्तब्धं जातं इव । सः च गबेलेन संधौ संकलं एव तत्याज। क्षेत्र - पदे क्षेत्र - पालस्य कार्य - भरः सदा विद्यते एव । इवानः स्त्रीभिः सह वक्तुं अपि न तस्थे। सह वक्तुं अपि न तस्थे। किंतु खलं प्रति, कोष्ट प्रति च अंगात्। यावत् सः तत्र मार्ज चक्रे, तावत् सूर्यः अस्तं गतः युव -जनाः च क्षेत्रात् निवृत्ताः। ते तत्र शरत्-सस्यं प्रति हय - द्वयेन हलंति स्म । इवान तान् प्राप्तः । कृतं कर्म प्रति च तान् अपृच्छत्। सर्व वस्तु स्थाने कर्तुं तेषां सा अदात् । दीर्णा हयस्य कंठी एकां, 'सत् - कार्या इयं ' इति तत्र पृथक अधात् । कोष्ठस्य अधः कति - चन शंकून् न्यसितुं अयात् किंतु तमः पतितं इति, तान् तत्र एव त्यत्लु मतिं चकार । ततः - 16 पशुभ्य: प्रासं अदात् । द्वारै च विवृत्य, हयान् , येषां रानी चारणं तारसस्य कृत्यं आसीत् बहि: विसृज्य, द्वार पुनः सहत्य, अगळं अदात्। " इदा नक्तं-आशं कृत्वा निद्रां एष्यामि' इति मत्वा, हयस्य कंठी गृहीत्वा सः शालां विवेश । तेन कालेन सः गबेलं, वृद्धस्य पितुः वाक्यं च व्यस्मरत् । यहा च बरंडं निविष्ठः सः द्वारस्य कग अग्रहीत् , पारे वृते: यत्-किंचित् कटु-स्वाण शपंत प्रतिवेशं अशृणोत् :- 'दैत्यः अयं कस्मै श्रेयसे भवेत्?' गबेल वदति स्म । 'हंतुं एव अयं योग्य: । एतैः वाक्यैः प्रतिवेशं प्रति इवानस्य पूर्वः द्वेषः सर्वः अपि जागरितः | गबेलम्य एवं चचतः , इवानः तृष्णीं श्रोता अस्थात् । यदा सः विरराम, एषः शालां प्राविशत् । . अंत: दीपः अभात् । इवानस्य स्नुषा कृणंती आस्त। जाया च सायं - अन्न पचति स्म । ज्येष्ठः सुतः पाद्वोः कृते वल्क - शल्कान् तनोति स्म । द्वितीयः पुस्तकं गृहीत्वा फलकस्य पार्वे उपविष्टः । तारसः राग हयानां चारणाय बहिः गंतुं सजः भवति स्म । शालायां सर्वं भव्यं भासुरं च अ- भविष्यत् यदि एव हंता सः दुष्टः प्रतिवेशः न अभविष्यत् । इवानः शालां प्रविष्ठः, क्लिष्टः रुष्टः च । आसात् बिडाले अधः अक्षिपत् । जल-पाचं अस्थाने किं? ' इति स्त्रियः
17.
आक्षिपत् । सः भनः इव । काक्षेण कंठी बनन् आस्त ।
गबेलस्य वासि तस्य कर्णे रणति स्म:- सभायां तस्य तर्जः,
हेतु एव अयं योग्यः, इति यं के प्रति कटु-भाषणं च ।
-
तारसस्य जाया तस्मै नक्तं-आशं अदात् । तं भुक्त्वा
तारसः पुराणं मेष-चर्म प्रावृत्य धट्याच कटिं बध्वा रोटी किंचित्
आदाय हयान् प्रति बहिः अयात् । ज्येष्ठः भ्राता तं प्रेषयितुं
गतः । किंतु इवानः स्वयं उत्थाय पिंडं प्राप्तः । बहिः व्याप्तं
अंध तमः । संगताः मेधाः । उत्थितः वायुः । इवानः द्वारात्
अवतीय, पुत्र हयं आरोप्य, बालं च तस्य पृष्ठे प्रस्थाप्य यत्
किंचित् शृणोति स्म, यावत् तारसः ग्रामात् निर्गत्य निजैः घो?:
सह अन्यान् यूनः मिलितः ।
इवानः तत्र तस्थे, यावत् ते सर्वे शृति-पथं अतीत्य
गता: । द्वारे स्थितस्य तस्य ‘पश्य, यदि तव किंचित् गुरुतरं
न दहेत् ' इति गबेलस्य वचः शिरसः अपास्तु शक्यं
नासीत् । चंडः, साहसी च खलु एषः', मेने इवानः ।
मेने इवानः । " सर्व
शुष्कं अस्ति । वायु: अपि उत्थितः । पुच्छतः कुतः अपि एप्यति ।
यत्र कुत्र अग्नि दास्यति । अपैप्यति च । शालां दग्ध्वा, नाल्मः
अक्षतः एव नक्ष्यति । यदि एव मया तत्र कर्मणि गृहीतः स्यात् !
तदा खलु न अपेयात् ।'
18 द्वारात् निर्ययो चिंता इयं तस्य मनसि तथा लमा यथा सः द्वारस्य पर्व अपि न उगतः । वीथीं प्रविष्टः तस्याः उपांत एव परिययौ। 'शालां परि-चरामि । सः किं करिष्यति वा? केन वक्तुं शक्यते?' इवानः लघुभिः पदैः । यावत् सः तत्र कोणं प्राप्तः, तावत् वृति अनु पस्यन् प्रति-कोणे हठात् चलितं किंचित् अपस्यत् । कोट-पि जनः निर्गत्य पुनः अदर्शनं गतः इव । इवानः विरम्य तस्थौ, जोषं पश्यन्, शृण्वन् च । शांतं सर्व, हित्वा तु नड्डलस्य पत्राणां गल-गलं पटस्य तृणानां मर्मरं च । आदौ तस्य अधं तमः प्रतीतं । किंतु, यथा तमसि युक्ते तस्य नेत्रो, सः दूरं कोणं, तत्र स्थितं हलं, पर्णानि च द्रष्टुं अशकत् । सः क्षणं ऐक्षत । किंतु न कंचित् अपस्यत् । मन्ये अयं मे भ्रमः । तथापि परितः चशमि ।' इति सः कोष्ठं अनुसृत्य निभृतं अगात् । बरुक-पावः सः तथा मृदु पदं अधात् यथा तस्य हतिं अपि स्वयं न अशृणोत् । यावत् च सः कोष्टस्य दूरं कोणं आप, तत्र हलस्य पार्वे क्षणं यत् किंचित् दीप्तं इव आसीत् । सद्यः नष्टं च । इवानः हृदि विद्ध: इव । स्तब्धः च । स्तब्धो न वा, तत्र एव देशे यत् किंचित् पूर्वात् अपि तीनं जज्वाल । ज्वाले च शिरसि खोलं धृत्वा स्वस्य पुरः एव सर्पत, करे धृतं तृण-पुजं दीपयंतं च जनं एक सः अपस्यत् । अन्तः इवानस्य हृदयं पत्री इव चकंपे । प्राणान् निगृह्य, विना 19 इव अधः पाद-स्पर्श, उरु-क्रमैः सः तं प्राप्तः । '' मेने इवानः, 'इदा न अयं नस्येत् । कर्मणि गृहीतः स्यात् ।, इवानः किंचित् दूरं एव आसीत् यदा सः पुरः पुनः हठात् दीप्तं तेजः अपस्यत् । न तु पूर्व-स्थले, न वा स्वल्पं कील। पटं वलिकं प्रति समिद्धं : कीलाः च पटं आरोहन् । तेषां अधः स्थितं गबेलस्य पूर्ण रूपं स्पष्टं दृश्यं आसीत् । चाप निपतन् श्येनः इव इवान कुठं गबेलं दुद्राव। इदा खलु एनं गृह्णीयां; मा नाम अयं नश्येत् ,' मेने इवानः । किंतु गबेलः, येन प्रायः शृतं एव तस्य पदं-कथं इति न विद्मः- परिधाय, शशः इव कोष्टात् परं अपारसत् । तं अनु-पतन् इवानः, न त्वं नश्ये:' इति चक्रोश । यावत् च सः गबेलं ग्रसिंतु गतः, तावत् एव सः पादेन स्रस्तः । किंतु गबेलस्य कंचुकस्य पाळि ग्रहीतुं अशकत् । सा किल छिन्ना; इवानः च अधः गतः । पादौ प्रतिपद्य, चोराः,चोराः, गृह्णीत गृह्णीत; हत्या,हत्या,पात, पात' इति क्रोशन् पुनः तं ललंघ । किंतु अंतरे अस्मिन् गबेलः निज द्वार गतः । तत्र एव प्राप्तः इवानः तं तत्र पुनः लंजिंतु उद्यतः, यदा, कर्णे शिल्या इव येन केन वस्तुना सः ताडितः । तेन सः स्तब्धः, बधिरितः च । सः गबेलः एव, याद्वारे प्रति स्थितं साल- खन्डं गृहीत्वा बलपूर्व तं प्राहरत् । . .
20 स्तब्धः इवानः । तस्य अक्ष्णोः पुरः कणाः उदपतन् । ततः सर्वे तमः जात। सः बभ्राम । यदा सः संज्ञां अलसत, तदा तेन गबेलः तत्र न दृष्टः । भातं दिनं इव। तस्य कुटी- दिशः, चलतः यंत्रस्य इव, यत् किंचित् रटितं स्फुटितं च शृतं । इवानः परिवृत्य सर्वत: ज्वलंती स्वस्य पश्च-कुटी अपश्यत् । पार्श्व-कुटी च अमि-सात् जाता। कीलाः, धूमः, ज्वलंतः तृगस्य खंडाः च शालां आपतन् । किं इदं वयस्याः !" बाहू उन्नीय, ऊरू च ताडयन् इवानः चुक्रोश । “कथं इदं ? वलिकस्य अधः तस्य अग्नेः ऋषण मर्दन च इति इदं एव आसीत् मे कार्य । किं इदं वयस्याः' इवानः पठति स्म । स: कंदितु ऐच्छत् । किंतु श्वासः रुद्धः; गतः च कंठः। धावितुं ऐच्छत् । किंतु पद-द्वयं न अचलत्। मिथः लग्नं च आसीत् । सः मदं चलितः । पुनः स्खलितः । श्वासं लव्धुं इव सः तत्र तूष्णीं आस। ततः ययो। अग्नि प्राप्तुं यावत् अयं पृष्ठ-कुटी पर्यगात्, तावत् पक्ष-कुटी सर्वतः दीप्ता आसीत् । शाला-कोणः, छन्नं द्वारं च समं दीप्तं । कीला: कुट्याः बहिः उदीयुः। वाटी गंतुं शक्यं न आसीत्। महान् संधः जातः। किंतु न किंचित् कर्तुं अशकत् । प्रतिवेशाः निजं वस्तु-जातं शालाभ्यः वहिः प्राक्षिपन् । पशून् च कोटेभ्य: दूरं अचास्यन् । इवानस्य गृहात् परं 1 २७ 가치 2. 20 गबेलस्य अपि दीप्तं । ततः उस्थिते वायौं, कालाः वीच्या पार व्यासा:; प्रामस्य च अर्ध दम्छ । इवानस्य गृहे तस्य पिता कष्टेन रक्षितः । कुटुंबिन च यथा स्थिताः निर्ययुः । रात्रौ शादं नीतान्- हयान् अंतरा सर्व ध्वस्त । सर्वे पशवः, पालिकासु पक्षिणः, यानानि, सीराः, दतिकार, बस्यौः सह स्त्रीणां पेटाः, कोष्ठेषु धान्य सर्व दग्धं मासीत् । गबेलस्य गृहे पशवः बहिः द्राविताः । बानि कानि वस्तूनि गृहात् भाकृष्य रक्षितानि । . अमिः रामिं यावत् चचाल। इवानः गृहस्व पुरः स्थित्वा अपठत् , 'कि इदं क्यस्याः ! यदि एवं तत् मया कृष्ट मुक्ति च' किंतु पतिते पटले इवानः दीप्तं भाग प्रविश्य बन्या एका तुलां गृहीत्या, बहिः क्रष्टुं अयसत् । ते दृष्टा लियः 'मा, मा; एहि, एहि ', इति अक्रोशन् । किंतु तुला एका कृप्य, अन्यां मातुं गतः । पादेन च सस्तः सः ज्वालासु पपात । तदा तस्य पुनः ते अनुविश्य बहिः चकर्ष । इवानस्थ केशाः दाढिका च किंचित् दम्या । वस्त्र दग्ध । कर-युग च दग्ध । किंतु सः तत् न जज्ञे । दुखेन स्तब्धः अयं " इति जना ऊचुः । मामि कुटीः निर्दहति । इवानः तु पठन् पासीत् , 'वयस्याः ! किं इदं ! यदि एव येन केन तत् कृष्ट भासीत् । ' प्रातः ग्रामिकस्य सुतः इबानं नेतुं मायात् ।
22 'तात, इवान, पिता ते प्रियते । त्वं आप्रष्टुं इच्छति । तव कृते मां प्रेषयति । इवानः पितरं न स्मरति । यत् च तेन उक्तं, तत् अपि न वेति । 'कि पिता ? कस्मै प्रेष्यति ? ' सः आहे । 'वां आप्रष्टुं इच्छति । तव कृते च मां प्रेषयति । सः अस्मत् कुट्यां म्रियते । एहि, एहि, तात इवान' इति उचे ग्रामिकस्य सुतः । भुजेन च सः तं चकर्ष । इवानः च तं अनु-ययौ । कुट्याः बहि: नीय-मानस्य तस्य उपरि किंचित् दीप्तं तृणं अपतत् । तेन सः दग्धः । ग्रामस्य पराक् भागे ग्रामिकस्य शालां नीत: च यत्र अमिः न व्याप्तः । इवानः पितरं उपगतः । तत्र कुट्यां ग्रामिकस्य जाया एकला आसीत् । केचित् बाला: उद्धानस्य तले आसन् । अन्ये सर्वे अपि अग्मि एवं उप-स्थिताः । सः वृद्धः फलके. शयितः। करे घृत-वर्तिः सःद्वार प्रति नेत्रो वर्तयन् आसीत् । प्राप्ते च पुगे, सः किंचित् चलितः । वृद्धा सा तं उपेत्य, ' सूनुः आगतः' इति ऊचे। सः च तं पार्वे आनीतं ऐच्छत् । इवानः पार्वे गतः । किं मया. उक्त, इवान ? ' वृद्धः वक्तुं प्रवृत्तः, ग्रामः केन दग्धः ?' 'तात, तेन एव । सः मया कर्मणि गृहीतः । पटे उल्का न्यस्यतं ते अहं स्वयं अपस्य। किंतु दीप्तं कक्ष अप-क्रष्टुं न पशकं; न वा तं मृदितुं । तेन न किंचित् उद्धृतं स्यात् ' । .
23 " इवान, . व .. .. वृद्धः माह:- अहं प्रिये । क्रमात, स्वय अपि मृत्युः अभिगम्यः..। कस्य. इदं. पापं ? इवानः तृष्णी पितरं ऐक्षत । एकं पदः अपि ...वक्तु न अक्षमत। ईश्वरस्य मुख दृष्टा अद्य वद, कम्य इदं पाप? किं मया उक्तं? तदा खलु इवानः संज्ञा आप; सर्व विवेद च । सा उछ्वस्य आह :- 'हे पितः, पापं मम । ' पितु: पुरः : जानु पात निपत्य पुनः आहः- "पितः, क्षमख. मां तव अग्रे, दैवस्य च, अहं दोषी। सः वृद्धः हस्तौ विमुच्य -वति च दक्षत् वाम कर परिवर्त्य, 'कृशेन ' अगस्य न्यासाय दक्ष कर उन्नतु ययास । किंतु अशक्तः व्यरमत । 'जय देव, जय देव ', सः आह ; पुनः पुत्र प्रति नेये अवर्तयत् च । इवान, वच्मि; इवान। कि पित:: 30 है "किं इदा त्वया. कार्य?" इवान: रोदितिस्म । "पितः, न भने. कथं वय · अझ जीवेम,"सः आह । सः 'वृद्धः नेगे निमीलयप्राणान् धर्तुं इन ओष्ठौ अचालयत् । न च पुनः उम्मील्या आह; 'शक्येः' यदि 24 एवं देश-विष्ट कोषि; शक्य' । किंचित् विरम्य मिला बसा माह :- 'इसान, मनः कुरु। बामिः कः अदात् इति केपि मा पद। अन्यस्व पापं गृह । ईश्वरः ते द्वयं क्षमेत।" य वर्ति कर-द्वये भृत्या करौ च वक्षसि निवघ्य, निवस्य, गानं विसार्य सः वृद्धः विराम। इवान: गबेलं प्रति न किंचित् अवदत् । न कोऽपि बजे कः भनि दात्। गबेलं प्रति इवानस्य क्रोधः गतः। गोलः च विस्मितः यत् इवानः के भपि कथां तां न बास! गाचे गवेलः विभाय; किंतु पचिर एव तत्-शील. आतः। ते मनाः सर्वे अपि कलहं मुमुचुः । तान् अनु तेषां कुटुंबिनः ।। शालानां पुनः निर्माणे कुटुंब-दुर्य बपि एक-गृहे एव. अवसत् । प्रामस्य पुनः निर्माणेच - यदा ते दूरं गताः भवेयः -इवानः गबेलः च पटे, पक्षे घरं बबंध । यथा-पूर्व व पविवेशा: आसन् । ते अवसन् यथा-संतः प्रतिवेशाः बसेयुः । इवान सर्व- कोवः 'ईश्वरस्य आज्ञा कार्या' इति पितुः वाक्य मिल्य समार। 'माधे कणे शाम्य: अमिः' इति च ! इदातु यदि एकेन भन्यस्य कापि हानिः भवेत्, सः यतते, न प्रति-कर्ते,किंतु अयं ते स धातु एव । यदि एक दुष्ट क्वः बदेद, अन्यः तत् पति तस्य भवरं न वक्ति । किंतु दुष्टात् सः तस्य निवर्तन उप-दिशति । सास्त्रियः शिशून च तथा एवं शिक्षयति। एवं इवानः पुनः खस्य पादयो तिति । पूर्वात् अपि अद्य सुख तर एक जीवति ।
विवरणं D प्रौढ:-qrown up. - - पृष्ठ १ आसीत् = there was. पुरा = once upon a time. #T%:=farmer. a : - prime of youth. सुस्था वृत्तिः settled profession. कारिषु among work menebata: = good work-men- ज्येष्ठः the eldest son. ऊढ; (was) married. कलयति %plies. श्रमिणा-hard working. अकर: unfit for work. श्वासेन रुग्ण:: ill with Asthma. Tai SEIART AS = on the top of a brick stove. कृश्यति स्म fa = was ailing. बाल: = colt. वयंति-weave. कृषति = plough. भव्यात् फलात् ऊवं अपि-even beyond the coming harvest erfata=stored up. FIFT STARTE for paying the tax. अन्यस्य अथस्य साधनायfor meeting any other need. कंगून् = Italian millet. अवत्स्यन् = would have lived. पृष्२ यदि एव न अभविष्यत्=if only there had not been.यायत्=as long as.गृह्य कर्मणि=in house-hold work. अदक्षत्-was able to engage in. सामंतान 26 OT fr FETİ = as became good neighbours. वा= either or. बिलकेन कार्ये जाते = when need arose of a seive. torrt ar gai = or of a bag for men. = when a wheel was broken. सत्कार: = repair. वच: प्रेषितं = word was sent. afarazit: = neighbours. er= be fitting. मिथ: = one another. साह्य आचरन्=gave help to ta:=calf threshing floor. Britfa= strays into द्राव्यते = is driven away. indeed. Tout= It is said. ales:=with locks. Tem= hiding. परोक्षे first: Toi= back-biting one another. The reversed. अरूपस्य एव elet: = only for a small reason, that = daughter-in-law. कुक्कुटी=hen. कल्ये ऋतौ = early in the season. सूते=lays. उत्थान = Resurrection of christ; (lit. rising) चिनुते= gathers. यान TIGT= cart-shed. fara= finds. FEST=once. affrai= scared. a Je=crossing the fen. es= cackling. स्वगत आह=said to herself. 7oi -leisure #1 = ready. Ta later, Arit= in the evening. पृष्ठं ३ at= brother in-law TE: = younger कुट्टीa pet formof कुक्कुटी। अधात्=laid. आगात्- ce. www.
27 came. Tá feater = The woman went (lit: it was gone by the woman). साक- along with बिटके on the perch. निद्रां गंत्री इव=as if going to sleep. asfa= shuts spege to ask. Jei लम्धु= to get a reply. नो नः कार्य-we have no need. nurr(was) offended. ar fferma apariti = she talked a little too much. वृद्धया सह प्रत्य- TO= gave it back with interestf2T: Tifos STEIT = abused each other. पृष्ठ ४ कलहे ययुजे=joined in the quarrel. उदृत्यrushing out. tậ: aparát: =real and unreal. 09:= up-roar. Ri= at the same time erga ara:=they tried (lit. it was tried by them.) pala= decent. लवी=slut. कृतं ते सत्वेनenough of your goodness. बिलक-seive. घटान्= pots. युग:-yoke: द्वंद्वम्= tight. अपक्षत्-sided with. art=crowd. ICIT: gfo= a handful of (his) beard. så=happened. farger:=sepa rated. पृष्ठ ५ न गणयंति= do not care for. जाता:- my dear ones. अल्पान् मर्थान् प्रति= about small 28 - things. चिंत्यतां नाम- think it over (lit let it be thought over). ait:=legal affair. O RITTE may have been stolen. किं तेन=what of that. सत् खलु कार्य= must indeed be made good. कलिः= evil. अर्थस्य अंतः भवतु let there be an end of this affair. यदि क्रोधं पुष्यसि=if you nourish your anger. अनथ:-disaster. जल्पं-prattling. स्वं न जातु नमयेत्= should not humble himself. steya=on the other hand. ERTI=court. प्रांत पाल:=the head of the district. अर्थस्य अस्य. चलतः= while the case went on. %3D जालं window. ÁTTTTTTT= to the tavern keeper. नीत(was) taken. ' पित्रान् अनु=after the (manner of the) fathers. पीडनं= rinsing. कुत्सन = reviling. करं आयात्=came to hand. सभा village-court मंडल-सभा-disrict court. syifa-977:=justice of the peace. faar *T:=judge ग्राम - पृष्ठं ८ %3- atsa:=put to shame. गुर्वी big with child. ie. pregnant• दंडपाल:=superintendent of police सैबीरिया-name of a tract in Russia. दोषणं = charge. · स्थापित = proved. किरक % 29 clerk. ज्येष्ठः = senior. पृष्ठ ८ कशाflogging. सिबि-वेत्रेण=with a birch-rod. पांडु: Pale पंजिवत्=like a roll of cotton. बरंडं- into the veranda. अधिकृतः (are) authorised. दृश्यते-It appears. पृष्ठं ९ स्थायुकाः officers. विवृत्य = disclosing. HAI Tê: = you should beg pardon. Si section. faafg: = (is) to be carried out. जदुल मुख:=with a pock marked face. कश्यः = liable to be whipped. पृष्ठं १० - दुष्टु - bad. सजा_harness. गुरु=heavy. आद्रः आसीत्- relented fra: = defeated in law. yes. फलिंप्यति = avails. पृष्ठं ११ bad. चुल्यां= on the stove. भूमि: ground. कैश्य =handful of hair. कक्ष-राशि:hay stack. पृष्ठं १२ सक्तुः = barley mea: कार्य = (is) wanted. परे द्यवि = the other day. सैन्यः - soldier- 30 प्लेज्ना = name of a place. gfaart:-answera ble.. रटन=screaming. मुटनं-abusing. भाव्यto be thought of खिष्टः = Christ. चचार walked. - पृष्ठ १३ this year. un mare. fue fa = torments पेंट = slap द्रवति softness. श्रोता = listener. · कल्यतां तावत् =just calculate. रोहणं = riding. मानात् = through pride. भूत = devil. करणः=a scribe (private) पृष्ठ १४ ऐषमः = this घोटी अर्थ: legal affair, महसे-for the feast. मेर्याः = of Mary; the mother of Christ. f = bottle. द्वार-expedient. अति-चिरं = too late. शाद:- meadow. पृष्ठ १५ नवेन अक्षेण = with a new law suit. क्षेत्र farm-stead. शरत् - सस्य = winter-crop कंठीं = collar FO = handle. पारे other side. first = spinning. spinning. पाद्वोः कृते for sandals. वल्क-शल्कान् = bark-slips. सजा- ready. भव्य-pleasant. भासुरं=bright. आसात् from the bench. - o on the
31
-
-
%3D
पृष्ठं १७
भानः = frustrated. घटी-waist-band. रोटी-
bread. पिंडं =porch. अक्षत:-unhurt. नक्ष्यति-
wiu escape. न अपेयात् cannot get away:
पृष्ठं १८
पर्व = step. उपांत = Corner. प्रति-कोणे =at
the opposite corner. पटस्य=of the roof. युक्ते
used to. खोल
= a cap.
पत्री इव-like a bird
कर्मणि गृहीत:
caught in the act. कील-flame.
पृष्ठ १९
वलिक = eaves OfTet=looking around,
पाळिं = skirt.
पृष्ठ २०
Trae het = back shed, fo = cry out,
छन्न = covered. कोटेभ्यः = form the stalls.
पृष्ठं २५
यथा स्थिता:-as they were. सीरा:-ploughs.
a facit: = harrows. TET: = boxes Tzi=beam
ग्रामिकः = head of the village.
पृष्ठं २२
पराग-भागे = on the other side. एकला
alone afa: = candle. Hari
a senses.
32
..
पृष्ठ २३
कृश = cross, the Xian
symbol. न्यालाय
for crossing himself.
पृष्ठ २४
तत् - शील:= used to it. धरः =
धरः = house. प्रति-
Frig = retaliate. 378=affair. perg=to make up.
spai = worse
शुद्धिपत्रं पचं 11 पंक्तिः दुष्ट ७. पश्रिमीयाः ८ उच्चते ३ गबलस्य ४ १२ २० साधु पश्चमीयाः उच्यते गलस्य भायात् उड्डीय किरकं कंपितौ चुल्यां स्वीयाः पक्ष्यति इरीनायां पिंछति १८ ११ अयात् उड्डाय किरक (द्वयं) कंपित चुलयां स्यीये पस्यति इरीनां पिंचति ८ ११ १४ १६ १३ ३ काम w १५ १३ इक्नः न्यास्तु मिलतः अपसरतं इवान: न्यस्तु मिमेल १७ १० अपासरत
No text on this page.