University Library,gurukul Kangri Vishwavidyalaya
पार्वतीपरिणयम्
Front matter
Sri Vani Vilas Sanskrit Serie.so
COMPILE
No. 1.
Parvati..
Parinaya.
with an introduction and footnotum
Pandit R. V. KRISHNAMACHARIAR.
(ABUNTIA HATI BIN.)
Srirangam :
SRI VANI VILAS PRESS.
1903.
Copyright Registerende
.Ill rights Reserved.
॥ श्रीः॥
॥पार्वतीपरिणयम्॥
'अभिनवभट्ठबाण शब्दतर्काल कारविद्याभूषण " बिरुदभाजा
वात्म्यचक्रवर्तिना श्रीकृष्णमूरिणा
विरचितया भूमिकया टिप्पण्याच
समुपेतम् ।
श्रीरङ्गनगरे
श्रीवाणीविलास मुद्रायन्त्रालये
सम्मुद्रितम् ।
१९०६.
PREFACE. The publication of this Sanskrit Series needs no justification. Several mare manuscripts of classical Sanskrit works are to be found scattered in the precious collections of many a Pandit and library in Southern India and even where the Mss. are of illready published works, we find such excellent reailings in thein that we are perforce tempted to bring then out ilgain with these better realings readings, which by far improve the tone and significance of the originals. Readers of this cdition of Parvati Parinaya will observe the various differences in the learlings and also note whai Vitse improvements have been effected thereby. Thus the object of the publication of this series is not only to make public hitherto unpublished rale Sanskrit works but also to bring out in the best style possible, with all the readings of Southern India, several of the already published works. The following alle some of the works awaiting early publication in this series. 1. Yadav übhyudaya of Vedanta Desikat. with the comimentary of Appaya Dikshita 2. Siva Gîtå with the commentary of Paraznivenza. 3. Lalità Sahasranama with the commentary of Sri Sankara Bhagavad Pada Acharyil. 4. Vâsivadatti with commentall. 5. Achyutarayabhyudaya. 6. The poetical works of Râmabhadra Dikshita.
ii. The critical Sanskrit Introduction in this book will be very tiseful rending, since it discusses the authorship of the drama and the date of the author. It clearly exposes the error of the popular belief that the renowned Bana, the author of the famous masterpieces viz. Kadambari and Harshacbarita, is the author of this drama also and adduces several arguments to conclude that Våmana Bhajţa Bâna who lived in the 15th Century A.D. is, in all probability, responsible for the composition of this drama. For further details, the reader is referred to the Introduction itself which is made purposely elaborate and flowing, in order to relieve the tediousness which is the inevitable concomitant of Historical Researches. My thanks are due to Pandit R. V. Krishnamacharya for this tine latroduction and for the Malabar Mss. procured by him, as also to Mr. T. S. Kuppuswamy Sastriyal of Tanjore for his kindness in sending me the readings of the 'Tunjore Palace Mss. The illustrations are likely to be much appreciated as adding largely to the beauty and the get-up of the Series. SRIRANGAM, 20th April 06. J. K. Balasubrahmanyam भूमिका। इदं किल नाटकं केन कविना विरचितमिति, स च कवि: कस्मिन् काले जीवति स्मेति, कीदृशञ्चास्य रूपकस्य स्वारस्यमिति च सांप्रतमस्माभिर्विचार्यते । तत्र प्रथमन्तावदस्य नाटकस्य कर्ता कोऽसाविति विमृशामः । बहवः किल मन्यन्ते प्रकृतमिदं नाटकं श्रीमता प्राचा भट्टबाणेनैव- यः कादम्बर्यादीनां रचयिता- संग्र- थितमिति । यतश्चास्य नाटकस्य प्रस्तावनायां “अस्ति कविसार्व- भौमो वत्सान्वयजलधिकौस्तुभो बाणः। " इत्येवमुपलभ्यते । प्रसि- द्धश्च भट्टबाणो वत्सान्वयसंभूत इति स्पष्टमेवेदं हर्षचरितमवलोकय- ताम् । दृश्यते चात्र तत्कृतग्रन्थान्तरेण संवादः। यथा । "कुचयुगलं परिणद्धं यथा यथा वृद्धिमेति तन्वङ्गथाः । वरचिन्ताहृतमनस- स्तथा तथा कार्यमेति मे गात्रम् ॥ " इति पार्वतीपरिणयम । “ उद्वेगमहावर्ते पातयति पयोधरोन्नमनकाले । सरिदिव तटमनु- वर्ष विवर्धमाना सुता पितरम् ॥” इति हर्षचरितम् । “सौभाग्य- मयीव सालभजिका सौन्दर्यदेवतेव विग्रहिणी " इत्यादिवाक्यशै- ल्यपि नियतमेकान्तत एव गद्यकविमनुस्मारयति प्राञ्चं भट्टबाणम्। प्रायेण प्रबन्धेषु परिदृश्यमानो ह्ययंतश्शब्दतश्च परस्परसंवादस्सम- भिव्यनक्ति तेषामेकमेव कर्तारम् । तथा च कालिदासकृतिषु । " आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ।" इति मेघसन्देशः । “शक्यं खल्वाशा- वन्धनात्मानं धारयितुं" इति विक्रमोर्वशी । “गुरुअं वि विरहदु- क्खं आसाबन्धो सहावेदि ।" इति शाकुन्तलम । रीतिवृत्तिश- य्यादिविसंवादस्तु न विघटयिष्यत्येककर्तृकताम । तत्तद्रसव्यतिकरे- ण वर्णनीयार्थसंसर्गेण पौर्वापर्यपर्वणा च प्रबन्धान्तरेष्वन्येषामिव विभिद्यमानस्सोऽयमत्राप्युपपद्यत एव । नापि कश्चिदन्यः श्रूयते ज्ञायते वा वत्सान्वयजलधिकौस्तुभो बाणः । येन तावदेतन्नाटक- कर्तृपदं लम्भितेन निर्भरं सुस्था भविष्यामः । आतश्च विचार्यमाणे नियतमस्माभिरकामैरप्यगत्या समभ्युपगन्तव्यमेव प्रकृतनाटकस्य प्राचीनबाणकर्तृकत्वमिति तेषामभिसन्धिः । वयन्तु ब्रुमः । नेदं नाटकं प्राचो बाणभट्टस्य कृतिर्भवितुमर्हति । यदि च प्राचा बाण- भट्टेन कृतमिदमभविष्यन कथन्नाम तर्हि रूपकलक्षणनिरूपणप्रवृ- त्तेन केनापि नेदं कुत्रापि नामतो निरदेक्ष्यत । न खल्वादशरूपक- मा च साहित्यदर्पणादन्यतमेऽपि लक्षणग्रन्थे गन्धोऽप्यस्य नाटकख समुपलभ्यते । किञ्च अन्येष्वप्यलङ्कारग्रन्थेषु न केनाप्यालङ्का- रिकेण पद्यमेकं वाप्यस्मादुद्धृत्य रूपकादुदाहृतमस्ति । न हि प्रसिद्धभट्टबाणस्य एतत्कर्तृतायां, नामतोऽप्येतदनुदाहरणं कारणा- न्तरेण कथञ्चित्समय॑मानमपि सहृदयसंवादमनुभवितुमर्हति । प्रबन्धान्तरसंवादस्तु समानकर्तृकत्व इव भिन्नकर्तृकत्वेऽपि भूयसा परिदृश्यत इति न खल्वसौ संवादः कस्यचित्साधको न वा बाधकः कस्यापि । किञ्च नात्र रूपके तावान कथाघटनसंप्रदायः तावती वा रसपुष्टिः, तावद्वा वर्णनाचातुर्यमनुभूयते, याक्ता यावत्या यावता च तेन तया तेन च किंचिदास्वादविषयतामनुभाव्यमानमादरास्पदं। भवति नाटकं । लभते च महाकविकृतिव्यपदेशप्रशंसाम । यथाजातं ।
ह्यत्र नाटके वस्तुविन्यासादिविजृम्भणम । कादम्बरीहर्षचरित- चण्डीशतकेषु तथा तथा स्वीयमसाधारणमालोकविसरमभिदर्श- यता सुदूरगामिना प्राचो भट्टवाणस्य प्रातिभेन चक्षुषा- यदेकदैव रोदसी व्याप्नोति- परमस्मिन्नाटके निमीलितमिति हन्त सर्वथा विप्रतिषिद्धमिदं न केवलं विमर्शकः श्रद्धाजडोऽपि को हि नाम सम- भ्युपगच्छतु । भूयान किल वर्णनाचमत्काररसचर्वणादिपु विसं- वादः कादम्बर्यादीनामस्य च नाटकस्य । सुनिपुणं विमृश्यतां, येन च कादम्बर्यादीनि स्त्रीरत्नानि वर्णितानि तेनैव कविना वर्णिता पार्वतीति कथनाम युज्यते कथञ्चिदप्यभिधातुं । महत्किल तत्ताह- गन्तरं । यन्महता प्रयासेनापि न शक्यत एव पौर्वापर्यपदिभि- रपह्नोतुम । न ह्युद्भेदतश्शुष्यदुत्तरोत्तरमुपचीयते वीजमिति सांप्रतम । परन्तु मन्यामहे श्रीमान वामनभट्टवाण एव स्यादस्य कर्ता नाटकस्य । यः खलु वत्सवंशजातः अभिनवबाणविरुदधारी वीरनारायणचरि- ताख्यगद्यकाव्यम्य अन्येषाञ्च शब्दरत्नाकरनिघण्ट्रादीनां रच- यिता । तथा च दृश्यते । यथा शब्दरत्नाकरनिघण्टुग्रन्थारम्भे । " सोमाङ्गमुत्तंसयते वामाङ्गमवरुन्धते । नमः परस्मै देवाय तेजोभिः पश्यते त्रिभिः । वरदाग्निचित: पौत्रः पुत्रः कोवटियज्वनः । जागर्ति वामनो वाणो वत्सवंशशिखामणिः ।।" इति । तथा चतुर्थाध्यायपरि- समाप्तौ " इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे ऋष्य- ध्यायश्चतुर्थः ।।" इत्युपलभ्यते । “ तेजोभिः पश्यते त्रिभिः” इत्यस्य प्रकृतनाटकस्थस्य " तेजस्त्रयेण महता विहितेक्षणश्रीः । इत्यस्य च दृश्यतां सहृदयैस्संवादः । तथा शृङ्गारभूषणाख्य- भाणऽपि सौभाग्यस्य निधिश्श्रुतस्य वसतिर्विद्यावधूनां वरी लक्ष्म्या: केळिगृहं प्रसूतिभवनं शीलस्य कीर्तेः पदं । निस्सामा- न्यविकासया कवितया जागर्ति वत्सान्वयश्श्रीमान्वामनभट्टबाणसु- कविस्साहित्यचूडामणिः ॥” इति दृश्यते। वीरनारायणचरितेऽप्येव- मस्ति । " प्रतिकविभेदनबाणः कवितातरुगहनविहरणमयूरः । सहृदयलोकसुबन्धुर्जयति श्रीभट्टबाणकविराजः । जयति कविभट्ट- बाणे दधति कविम्मन्यभावमन्येऽपि । प्रद्योतयति रवौ द्यां खद्यो- ताख्या न किन्नु कीटमणेः । गाथास्ताथागता वो दधति वितथतां तार्किकास्तत्वविद्भिस्सत्रा सत्रासमाद्ध्वं फणिभणितिजुषो वः कृतं प्रक्रियाभिः । भग्ना साहित्यसीमा भुवने वामने भट्टबाण दीव्यत्यस्मिन्कवीन्द्रे जहित जहित भोः कद्वदा विद्वदास्थाम् । अय- मभिनवबाणः काव्यमत्यद्भुतार्थ भुवनमहितभूमा नायको वेमभूपः। त्रिभुवनमहनीयख्यातिमानेष योगः ॥ नृपाणां दुर्मदपरिपन्थिशिखरिदम्भोलिः । सर्वज्ञचक्रवर्ती पेद्दकोमटिवेमभूपतिर्जयति ॥” इति । इत्थच मन्यामहे अयमेव वत्सान्वयजलधिकौस्तुभो बाणः प्रकृतनाटकस्य कर्ता स्यादिति । प्राचस्तु भट्टबाणस्य नेयं कृतिरिति पुरस्तादेव परामृष्टम । नाप्य- स्माद्वामनबाणादन्यः कश्चिच्छ्रयते बाणः । किरुच न वयमन्य- स्य पुनरश्रवणादेव बाणस्य प्रकृतनाटककर्तारं वामनबाणमभिनिवे- शेन केवलमङ्गीकुर्मः । परन्तु प्रदर्शयिष्यमाणः पण्डितमणे: कस्य- चिल्लेखैकदेशोऽपि परिवहयत्यस्माकमीदृशमाशयमित्येव तथा वदा- । सहृदयाः ! सांप्रतं केरळेषु मासस्य चतुः प्रचरन्ती नागरलिपिमुद्रिता विज्ञानचिन्तामणिनामिका संस्कृतपत्रिका इतश्च द्वाविंशतेर्वत्सरेभ्यः पूर्वमेकपत्रात्मिका केरळलिपिमुद्रिता मासिक- .... मः पत्रिकात्वमवलम्व्य प्रचरति स्म । तदा पण्डितमणिना रामपार- शवनाम्ना केरळीयेन रसविमर्शविपयके कस्मिंश्चन लेखे प्रकटिते " अतो वामनाचार्यमहाकवेः कृतिषु राक्षसादिभ्या रसोदर्कतया रसमण्डपशब्देन भूरिशो व्यवहारं प्राप्तवति पार्वतीपरिणय इति कविसंकेतेन कैश्चिदभिधीयमानेऽस्मिन्नाटक इहोदाहतश्लोक इव तत्र तत्र नीरसत्वापत्तिः । तत्तत्प्रदेशस्थसाहित्यवाचस्पतिमिश्रोक्ति- व्याकोपावसरश्च" इति लिखितमस्ति । अयञ्च लेखको राम- पारशवः केरळेषु विख्यातः पण्डितोत्तंसी बहूनां ग्रन्थानां द्रष्टा रचयिता च सर्वविद्याविशारदो बहुषु राजस्थानेषु लब्धस्थितिर- स्माकमसाधारणम्मित्रम । मन्यामहे, तेन खलु साम्प्रतं स्मृतिमात्रस- निहितेन विद्वन्मणिना संपादिते पुस्तके वामनकृतमित्येव लिखितं स्यान । कथमन्यथा तथा लेखस्य कथञ्चिदप्यवसरो नाम । गच्छता च कालेन विश्वसिमः, वामनवाणमजानद्भिः प्राञ्चं परं बाणं स्मरद्भिरबहुदर्शिभिरनेकैरन्यथा परिकलय्य वामनपदमपा. कृतम । तत एव च प्रावर्तत प्रकृतनाटकस्य प्राचीनबाणकर्तृकत्वप्र- वादसंप्ररोह इति नेदं विमर्शकानामपि तिरोहितम । विमर्शकाः, एकच सति निपुणे निरूपणे नह्यस्य कर्ता रूपकस्य प्राचीनी भट्टबाणः । परन्तु वामनभट्टबाण एवेति सिद्धम । सम्प्रत्ययं वामनभट्टबाणः कदा कस्मिन्देशे समुत्पन्न इति विमृशामः । इदं किल विमर्शकानामनुभवपुनरुक्तं । यत् प्राचीनपुण्यपुरुषका- लनिरूपणाय पदमवतारयन्तो हन्त न किमपि तत्र स्पष्टं प्रमाणमु- पलभमानाः केवलमभ्यूहपथेनैव सुदूर संचरमाणा वास्तविकं विप- रीत वा कमपि कालं निर्धारयन्तो बहुधा क्लिश्नन्ति विमर्शका इति ।
तन्नात्र किमपि विशिष्य वक्तव्यमवशिष्यते । यद्वयमप्यत्र विषये पदं निक्षिपन्तः क्लिनीमो नाम । अनुस्यूतं खल्विदमखिलेष्वपि पूर्वपुण्यपुरुषेष्वस्मदीयं दौर्भाग्यम । अहो कति कतिवा नासन तत्तन्महापुरुषाणां समकालिका वश्यवचसः। कुतो नु खल्विदमतेषामत्र विषये परमौदासीन्यम ? यन्महनीयमहिम्नां साक्षात्कृतशब्दब्रह्मणामपूर्वदर्शनानां सुगृहीतना- नां महापुरुषाणामद्भुतमसाधारणमतिशयितमखिलोपकारकमभिवी- क्ष्यापि दैनन्दिनं चरितमात्मना वश्यवाग्भिरपि तादात्विकैः कवि- भिर्लेशतोऽप्यनुट्टङ्कयद्भिहन्त हन्त मूकैरिव जडैरिव स्तब्धैरिव तूष्णीमासितम् । न चापि तेऽपि महात्मानः पुण्यपुरुषाश्चिरस्य मार्गप्रदर्शकमात्मचरितमुपनिबद्धय स्वयं वा लोकस्य प्रसीदन्ति स्म । अहो वयमनुशोचामस्सुतरामस्मदीयं भाग्यविपर्ययम् । येन वयमेवभूतास्स्मः । सम्प्रति ह्यत्र कर्मणि प्रयस्यन्तः केचिदाङ्गलमहाशयास्सानु- मानं सप्रमाणमप्रमाणं वा सहेतु सहेत्वाभासं वा किमपि सिद्धान्त- यन्तो नूनमस्माकमुपकुर्वन्तीति यद्यपि सर्वविदितमिदम । तदपि न वयमेकान्ततस्तेषां वचसि विस्रम्भं जातुचिदपि वहामः । अस्त्येव नूनमस्माकमपि तेषु मार्गप्रदर्शका इति महती सम्भावना । अथापि ते किल चिरस्य पुरातनानस्मत्पुण्यपुरुपान , न जानीमः केन फलेन, आसन्नप्राये समये हठादाकृष्य पातयन्तीति महदिदमस्माकं- यदि स्यादभिमानः-- शिरश्शूलमुत्कोपर्यात । इदंकिल स्यात् , मन्यामहे, तत्र निगूढं रहस्यं । यञ्चिरायैव पुरा भारतमिदमासीदभिवृद्ध- मनुविद्धं च नागरिकवृत्ये येतदंशतोऽपि तेषां सुसहं न भवति ।
7 यञ्च तेषां सर्वापीयं भारतस्य परिष्कारसम्पत्तिस्समुपजाता यवन- देशप्रभाप्रसरणेत्यवश्यकथनीयमापतति । हन्त नास्ति खल्वसाध्यं नाम भगवत: परगुणासहनस्य । तद्धि विद्वांसमपि विमर्शक- मपि सुदूरमाकृष्य न किञ्चिन्न कारयति । अथवा किमिति वयमन्यानाक्षिपामः । वञ्चितो ह्यम्माकमीहशो भागधेयमहिमा यत्सत्यमस्मदीयैरेव । यतो वयमत्र परमुखप्रतीक्षिणः कृताम्स्म: । इत्थंभूतेऽपि व्यतिकरे द्वित्राः पुनरात्मचरितमप्यात्मनैव लेशतस्समसूत्रयन्निति चिरस्य तेषु कृतज्ञतां वहामः । अथवा सति निपुणे निरूपणे, विश्वसिमः, न ते पुनरस्माकमुपालम्भमई- न्ति । येषां किल पश्यतामुत्क्षेप्रया वर्णनीयवम्तूनि सङ्कटमम्बरतलम , लिखतां सरसानि पदान्यविस्तीर्ण महीमण्डलम , गणयतां वर्ण्यगु- णानल्पीयसी संख्या, शृण्वतां वर्णनामबहुभापिणी सरस्वती, ध्यायतां रसपरिपोषं ह्रसीयान कालो हृदयम्यापतति । येषां च प्रातिभं चक्षुः परोक्षमप्यद्धयक्ष्यति, सदयं च येषां मानसं सर्वा- त्मना विरसमपि वस्तुजातमात्मकाव्यमारोप्य यत्सत्यमेकान्तत एव सरसयति । ते पुनर्महामतयः पूर्वपुरुषाः कथन्नाम निर्बन्ध- बहुळमात्मनः परस्य वा चरितमभिलिखन्तु । कथं च वा तेषा- माकाशमन्यच्च युगपदेव व्याप्नुवत्प्रातिभं ज्योतिरत्र पुनरात्मनः प्रभाप्रसरं प्रकाशयतु । अभाजनं हि तादृशस्य भागधेयस्य मह- तीयमीदृशी नियन्त्रणा । मन्यामहे महदेव नियन्त्रणानिरयदुःख- मनुबभूव श्रीमानात्मचरितमभिलिखन भट्टबाणः । अहो वयमतिदरमाकृष्टाम्म्मः पूर्वपुरुषपुण्यसंरम्भेण । दृष्ट- मिदानीमन्तःकरणापहारिणः पूर्वपुरुषमहिमकथारसस्य निपुणमाक्षे- 8 , पसामर्थ्यम् । यनिरूपयितुं प्रवृत्तास्मः, तदेव तावदालोचयितुमभिवा- छामः । एतत्कृते हि वीरनारायणचरिते विमृश्यमाने ज्ञायते आसी- दयं कविस्त्रिलिङ्गदेशे जातस्तव अद्दङ्किनामनगर्यधिपतेइश्रीवेमभू- पालस्य प्रीतिपात्रमिति । तथा च वीरनारायणचरितम ॥..... कामाभिधानो नराधिपः । तेन खलु कामपालनिभेन कामभूपालेन पालितस्समधिककृष्णागोदावरीस्रोतस्समुदायनदीमातृकायमाण स्त्रि- लिङ्गो नाम जनपदः । यवास्ति अङ्किनामधेया नगरी। तस्यां पुरि निवसन पुरन्दरप्रतिमः पूरितार्थिजनकामः कामनृपतिरेक- नगरीनिर्विशेषमशिषदशेषमवनिचक्रम । तस्मात्प्रससार महीतले महान्वंशः । तत्र च माळवकुलापमृत्युर्जरज्वरः सिन्धुगजराज- यक्ष्मा वङ्गहृदयशङ्क गजा प्रोल्लभूपति म । तस्माच भुवनमहित- कीर्तेः प्रोलभूपालादजायन्तमाचनरेन्द्र इति वेमभूप इति दोडुनरप- तिरिति अन्नभूप इति मल्लमहीपाल इति पञ्च कुमाराः। तेषामादिमः भुजेन भूषणमिव भुवनभारमुगहन वन्द्यो बभूव । माचभूपालः । यस्य पुनरनुजो वेमभूपालस्सर्वमुर्वीतलमजैधीत् । येन खलु विरचि- तेन श्रीशैलशिखरतः पाताळगङ्गावतरणसोपानपथेन यत्नाहते अन्तरेण तपांसि जनानां शिवपुरप्रयाणपथेनेव तस्य च माचभूपतेरजनिषताग्नय इवासह्यतेजसः रडिप्रोत इति कोमटीन्द्र इति नागरेन्द्र इति त्रिदशसदृशास्त्रयोनन्दनाः। ततः क्रमेण गुणज्येष्ठो विशेषतः पालयिता बभूव धरण्याः पेद्दकोमटीन्द्र इति राजराजप्रभावो राजा । तस्याभूदनन्ताम्बा नाम महिषी । स ब- हूनि दिनानि सुतमुखालोकनसुखस्य दूरे बभूव । ततो वेमभूपनामानं सुतमसूत सा देवी । ततः पञ्चमं वर्षमवतरति कुमारे भूयोऽपि देवी गर्भे देवकीव पुण्डरीकाक्षमधत्त माचभूपालं द्वितीयं कुमारम ।
1) पृथ्वीपतिस्सार्वभौमः पेहकोमटीन्द्रोऽपि अखिलभुवनभारभरणशिक्षि- तमालोक्य तस्मिन्नेवाससज धुरं धरण्याः । इति । पेहकोमटीन्द्र- सूनीरस्यैव वेमभूपतेः वीरनारायण इत्यपरं नामधेयम । यत एव तचरितमधिकृत्य कृतस्य वामनबाणगद्यकाव्यस्य वीरनारायणचरि- तमिति विख्यातिः । तथा च अमरुकशतकव्याख्यावमाने " इति श्री- वीरनारायणसकलविद्याविशारदपेहकोमटिवेमभूपालविरचिता शृ. ङ्गारदीपिकाख्या व्याख्या समाप्ता।" इति दृश्यते । वीरनारायण इत्यपराभिधानस्य च वेमभूपालस्य समये निर्णीते, भविष्यति निश्चितः प्रकृतकवेरपि जीवितकाल इति तत्र किश्चिद्गच्छामः । तत्र वेमभूपालसमयपर्यालोचनायाः पूर्व अमरुकव्याख्यावीरना- रायणचरितताम्रशासनादिभिरवगम्यमानं तद्वंशक्रममधस्तादल्लीभ- गया प्रदर्शयामः । येन दर्शितेन श्रीमतो वेमभूपतेस्तदाश्रितम्य वामनबाणम्य च समयनिर्णयस्सुकरो भविष्यति । प्रोल (ल्ल) भूपतिः । माचः अन्नः वेमः श. १२६७. रहप्रोतः कोमटीन्द्रः-अनन्ताम्बिका नागेन्द्रः अन (त्र) पोतः वेमः माचः अन (न) वमः वेममानी वीरनारायणः) श. १३३१ कुमारगिरिः अस्यामात्यः काटयवेमः मलाम्बिका. श. १३०७-१३३८. ii -
एवं वंशवल्लीसमुल्लेखे प्रमाणानि निरूपयामः । अमरुकव्या-
ख्यायां-
“ राज्यं वेमस्स चिरमकरोत्प्राज्यहेमाद्रिदानो
भूमीदेवैर्भुवमुझभुजो भुक्तशेषामभुक्त ।
श्रीशैलागात्प्रभवति पथि प्राप्रपाताळगङ्गा-
सोपानानि प्रथमपदवीमारुरुक्षुश्चकार ।।
माचक्षोणिपतिर्महेन्द्रविभवो वेमक्षितीशाग्रजो
हेमाद्रेस्सदृशो बभूव स गुणैस्तस्य त्रयो नन्दनाः ।
कीर्त्या जाग्रति रेडि (ड्डि) पोतनृपतिः श्रीकोमटीन्द्रस्ततो
नागक्ष्मापतिरित्युपात्तवपुषो धर्मार्थकामा इव ।।
वेमाधिपा माचविभुश्च नन्दनौ श्रीकोमटीन्द्रस्य गुणैकसंश्रयौ ।
भूलोकमेकोदरजन्मवाञ्छया भूयोऽवतीर्णाविव रामलक्ष्मणौ ॥
स वेमभूपस्सकलासु विद्यास्वतिप्रगल्भो जगनब्बगण्डः ।
कदाचिदास्थानगतः कवीनाम काव्यामृतास्वादनतत्परोऽभूत् ॥
अमरुककविना रचितां शृङ्गाररसात्मिकां शतश्लोकीम् ।
श्रुत्वा विकसितचेतास्तदभिप्रायं प्रकाशतां नेतुम् ॥
मूलश्लोकान् समाहृत्य प्रभितान्परिहृत्य च ।
विधत्ते विदुषामिष्टां टीकां शृङ्गारदीपिकाम ।।
इत्यस्ति । यथा च वीरनागयणचरिते तथा पूर्व प्रदर्शितमेव ॥
श्रीकुमारगिरिभूपामात्यश्रीकाटयवेमभूपतिधर्मपत्नीमल्लांबि-
काकारितमार्कण्डेयशिवालयाग्रहारप्रशस्तिप्रतिपादकेषु ताम्रपत्रेषु
एवं लिखितमस्ति ||
१. तेषां बिरुदनामेति भाति ।
।।
पुंमस्तम्य पुरातनम्य चरणाम्भोजातजातं कुलं
स्वल्पाचारविधानतोऽपि विमलं शुद्धस्वभावादिदम् ।
आसीत्किञ्च कलौ युगे नृपतयः प्रायेण यत्रोदिताः
तेजश्शौर्यपराक्रमप्रभृतिभिर्युक्ता गुणैः प्राभवन ।
तत्र पण्टकुलं नाम प्रभूतं बहुशाखिनि ।
तराविव फलं रम्यवृत्तं सरसमुज्ज्वलम् ॥
तवासीद्वेमभूपाल: कुले विबुधर जकः ।
पयोधाविव सन्तानो राजरत्नोद्भवाकरे ॥
श्रीमान्वेममहीपतिः स विदधे पाताळगंगातटे
श्रीशैले जगनोब्बगण्डविरुदस्सोपानवीथीं शुभाम् ।
यासौ दीव्यति दिव्यसोमनगरारोहोद्यतानांनृणां
निश्रेणिः परिकल्पितेव नितरामाब्रह्मकल्पस्थिरा ।।
अनवोतप्रभुस्तस्मादजायतभुजायतः ।।
महासेनो महादेवादिवारातिकुलान्तकः ।
कुमारगिरिभूपोऽभूदनवोतविभोस्सुतः ।
।
आसीदमात्यरत्नं काटयवेमप्रभुस्तम्य ।
अभूत काटयवेमस्य जाया मल्लाम्बिका सती ।
अशेषगुणसंपूर्णा पातिव्रत्यधुरन्धरा ॥
१. एपि ग्राफिका इण्डिका----- ४. ३२१-३२५.
12 राजद्राजमहेन्द्रनामनगरे गोदावरीतीरगं मार्कण्डेयशिवालयं पतिहिता मल्लाम्बिका धार्मिका । कृत्वा शुद्धसुवर्णरत्नखचितं ब्रह्मप्रतिष्ठास्तथा सत्राण्यध्वनि च प्रपा विजयतेऽनेकांस्तटाकानपि ॥ श्रीशाके गुणरामविश्वगणिते कार्तिक्यहेऽब्दे खरे प्रादात्काटयवेमयम्स्ववनितामल्लाम्बिका नामतः ॥ प्रामं मल्लवरं नृसिंहविदुषे काण्वद्विजायादरा- दाचन्द्रार्कमुदर्कलालसमति: मैश्वर्यभोगाष्टकम ।" इति । एनेन हि ताम्रशासनेन यथा वीरनारायणवेमः पोलनृपते- स्तथा कुमारगिरिराजोऽपि प्रपौत्रस्तस्येति ज्ञायत इति प्रायेण तयोस्समकालिकत्वमुत वा तुल्यशताब्दकत्वं न खल्वसंभाव्यम । सति चैवं कुमारगिरिराजमन्त्रिवरकाटयवेमपल्या मल्लाम्बिकाया- स्ताम्रशासने योऽयमुल्लिखितः कालः, मन्यामहे न खल्विदमनु- पपन्नम् , स एव किञ्चिन्न्यूनाधिकभावेन वीरनारायणवेमस्यापि ( य: किल वामनबाणभट्टेन वर्णितः ) समयः । शासने च " गुणरामविश्व" गणिते शाके इत्यस्ति । तस्य च संख्या १३३३. इति भवति । शकश्चायं शालीवाहनस्य । नतु औत्तराहेष्विव दाक्षिणात्येषु भूयसा अव्यवह्रियमाणो विक्रमा- कस्य । शालीवाहनशकेन च अष्टासप्ततौ (७८) संवत्सरेषु सङ्कलितेषु क्रिस्तीयाब्दपूर्तिरिति तथा क्रियमाणे प्रकृतस्य ताम्रशा- सनस्य समय: क्रिस्तीयवर्षेषु (१३३३+ ७८ = १४११.) पञ्च- दशशताब्द्याः पूर्वार्द्धऽप्यादिमो भाग इति सिद्धचति । अयमेव च समयः कियतापि भेदेन स्यात् कुमारगिरिराजस्य वीरनारा- प्रकृतताम्रपत्र-
13
यणवेमस्य एतदाश्रितस्य वामनबाणस्यापीति मंभाव्यते ।
इदञ्चान्यत्ताम्रशासनद्वयम । यच्छीप्रोलभूपतेः पौवस्य
श्रीमदनवेमनृपतेः । तयोरेकमेवम् ।
...
तस्मिन्नभूदिन्दुरिवाम्बुराशौ प्रोलनितीशो जगदेकपालः ।।
तस्य पुण्योदयाजातः सुपुत्रः प्रोलभूपतेः ।
वेमावनीश्वरो नाम पुण्यश्लोको नृपाग्रणीः ॥
सोपानानि विधाय वेमनृपतिः पाताळगङ्गापथे
म्तम्भत्वं निजधर्मशासनविधेः श्रीशैलमेवानयत ।
॥
आसीदप्रतिमप्रतापमहिमा हेमाद्रिदानव्रती
वीरश्रीपतिरन्नपोतनृपतिर्वेमक्षितीशात्मजः ।
॥
तस्यानुजन्मा जगनोब्बगण्डः कीर्तिप्रियो भूपतिरन्नवेमः ।
॥
शाकाब्दे गगनाभ्रविश्व ( १३७०) गणिते सिद्धार्थिसंवत्सरे
माघे कृष्णचतुर्दशीशिवतिथौ वीरान्नवेमप्रभुः ।
प्रादादिम्मडिलङ्कसंज्ञमतुलं कृत्वाग्रहारोत्तम
प्रामं लोहितगोत्रजाय विदुषे श्री इम्मडीन्द्राय सः ॥
नीतो मन्त्रीश्वरो विद्यागोष्ठीषु विबुधाग्रणीः ।
मित्रं हितोपदेशेषु भूभुजामिम्मडीश्वरः ॥” इति ॥
एपिग्राफिका इण्डिका
-ns.
iii
काल
अत्रत्यशकवर्षेषु च अष्ट्रासप्ततिसंवत्सरेम्सङ्कलितेषु मत्सु
(१३७+७८ = १४४८) क्रिम्तीयशताब्दीषु पञ्चदशशताब्द्याः
पूर्वार्द्धस्यावसानसमयः प्रोलपौत्रश्रीमदन्नवेमशासनपत्रस्य
इति, शाखान्तरेण प्रोलभूपतिप्रपौत्रस्य वीरनारायणवेमस्य तदा-
श्रितस्य वामनबाणस्य च समय: पूर्वप्रदर्शितताम्रशासनेन संभावित
एव दृढीकृतो भवत्यनेन शामनेन । इदमन्यच्छासनपत्रं ।
...
-
अभूत्तस्यां जातौ गुणगणनिधिः प्रोलनृपतिः
तस्माजज्ञे वेमभूपः प्रतापी
मेझमन्दरकैलासानारुरुक्षुर्महामतिः ।
मोपानपङ्गिं श्रीशैले व्यतनोद्वेमभूपतिः ।
तम्य शामितुम्भौ वभूवतू रामलक्ष्मणनिभौ तनूभवौ ।
अन्नवोतनृपतिः प्रतापवानन्नवेमनपतिश्च जित्वरः ।
पितुरनन्तरमग्रयगुणोऽग्रजरर
जरसमाधिगत्य स राज्यमकण्टकम ।
वसुमतीमखिलां परिपालयन सुचरितैः ममचेष्ट महद्यशः ।
तदनन्तरमन्नवेमभूपः पितृसिंहासनमुन्नतोऽधिरूढः ।
॥
तस्यान्नवेमचन्द्रम्य लक्ष्मीग्वि सहोदरी ।
श्रीनल्लनूकभूपस्य महिषी विष्णुतेजसः ।
वेमसानीति विख्याता सप्तसन्तानशालिनी ।
नित्यं हेमाद्रिकल्पोक्तदानव्रतविधायिनी ।
१. एपिग्राफिका इण्डिका-. ३.
२८८,... २९१.
शाकाब्दे रसरत्नभानु (१२०६)गणित प्रस्तविधौ राहुणा कार्तिक्यां विजयेश्वरम्य पुरतः श्रीगौतमीरोधसि । विप्रेभ्यः परमन्नवेमनृपतिः श्रीवेमसान्याम्स्वसुः पुण्यार्थ नडुपूरसंज्ञमददाद् ग्रामं म कोणस्थले ।। सातैश्चर्य माष्भोगं दत्तो विंशतिभागवान । तस्या नानाग्रहारोऽयं भाति वेमपुरावयः ॥” इति । अस्य च ताम्रशासनस्य समय: पूर्वोक्तरीत्या क्रिस्तीय- शताब्दीषु (१२९६+७८ = १३७४) चतुर्दशशताब्या उत्तरार्धम्य मध्यमकाल इति सिद्धति । इत्यच समुचित्य सर्वषां कृते वि- मर्श श्रीवीरनारायणस्य तदाश्रितम्य वामनवाणम्य च ममयः चतु- देशशताब्या उत्तरभागः पञ्चदशशताब्या: पूर्वार्ध वा स्यादिति युज्यते वक्तुम । किञ्च विद्यारण्यगुरून सार्वभौमाद्यखिलसत्कवीन । नमस्कृत्याथ बाणन क्रियत शब्द चन्द्रिका ।। म्वर्गे सारस्वतपुरी भागभूमिस्तु मैरिकः । गीर्वाणनगरी वीरमाधारणपुरीति च ।। शब्दचन्द्रिकारम्भपान विद्यारण्यशिष्यः कश्चिद्वाण आसी दिति ज्ञायते । संभाव्यते माऽप्ययमेव म्यादिति । यतः तुर्याश्रम विद्यारण्यनामभाजा श्रीसायणमाधवाचार्येण श्रीविजयनगरमहारा- जमन्त्रिणेव सता गृहस्थाश्रमो यापितः । विजयनगरञ्च वेमभूपाल- नगरीसन्निहितमिति म्पष्टमव । " तस्य पुनरचिन्तनीयमनवधिका- नन्दसुन्दरमनादिनिधनमनञ्जनमगुणमक्रियमात्मानमबाह्येन चक्षुषा साक्षात्कुर्वतः समुपसंहृताखिलद्वैतकल्पनाविकल्पम्य" इति विलेख- इति ।
16 नमपि नियतमद्वैताचार्यस्य विद्यारण्यगुरोशिशष्यतामेतत्कवेस्सूचय- तीवेत्यत्र सहृदयानां हृदय एव तिष्ठामहे । श्रीसायणमाधवाचार्यस्य समयश्च ताम्राशासनादिभिः ज्ञायते चतुर्दशशताब्द्या अन्ति- मभागः पञ्चदशशताब्द्या आदिमो भागो वेति । सहृदयाः, यद्ययमेव बाणः श्रीविद्यारण्यगुरूणां शिष्यस्स्यात् , तर्हि निश्चितपूर्वस्तस्य समय एनेनापि द्वारान्तरेण भवति दृढीकृतः । विमर्शकाः, न जानीमः कियन्ति नाम स्खलितान्यस्माकमापति- तान्यस्मिन्विमर्श परन्तु यावत्प्रमाणलाभ यथामति- वैभवमालोचितं सुदूरमम्माभिः । इतःपरमस्य विमर्शस्य साधु- त्वासाधुत्वयोः श्रीमतां बहुग्रन्थपरिशीलनप्राप्रमहिमा समालोचनै- व परमं प्रमाणमस्माकम। महाशयाः, एतावता च प्रकृतनाटकस्य कोऽसौ कति कश्च तस्य समय इति च समालोचितमस्माभिः । साम्प्रतं प्रकृतं नाटकमधिकृत्य किञ्चिद्वदामः । इदं हि रूपकं भूयमा शिवपुराणस्थपार्वतीपरिणयकथां प्रमाणीकृत्य निर्मितम । यामेव कविसार्वभौमः कालिदासोऽप्यनुसृत्य कुमारसंभवं नाम महाकाव्यं प्रणिनाय | यथा हि कालिदासश्शिव- पुराणमर्थतश्शब्दतश्चानुगच्छति, एवमयमपि बाणकविश्शिवपुराण- मिव कुमारसंभवमपि सर्वात्मना समनुसरतीति विस्पष्टमेवेदं विम- कमहाशयानां । य एव च प्रवाहरिशवपुराणे कथारसस्य, य एव १. एपिग्राफिका इण्डिका ३ १२० - १२४. २. दृश्यतां कुमारसंभवस्योपोद्धातश्रीतारानाथतर्कवाचस्पतिविलि- खितः। ३. विलोक्यतामस्मत्कृता प्रकृतनाटकटिप्पिा.
17 च कथापुरुषाः, यैव च परस्परमुक्तिप्रत्युक्तिवैदग्धी, यदेव च वर्णनानैपुणम् , तान्येव प्रायः कविनाप्यनेन समायोजितानि । न पुनर्विशेषान्तरं किमपि रूपकोचितमासूत्रितममुना । विमृश्यतां, न खलु वस्तुघटनासंप्रदायः किश्चिदपि चमत्कारपदमारोपितः। ना- पि पात्राणामुक्तिप्रत्युक्तिव्यतिकर: कियताप्यंशेन समानीतस्सारस्य- भूमिम । न वा रसविलासः कथमपि परिमलं पाहितः । नैव च वर्णनाविशेषः कल्पनाशिल्पमल्पमपि लम्भितः। परन्तु कथञ्चिदिति वृत्तप्रकाशनपरेणेव हन्त सर्वथाप्युदासितमत्र परमनेन कविनेति यत्सत्यमेकान्ततएव विषीदामः । न खलु पौराणिकस्येव रूपक- कर्तुयुज्यते केवलमितिवृत्तप्रकाशने संरम्भः । पुराणतएव तत्सिद्धेः । तथा च ध्वनिकारः । " कविना प्रबन्धमुपनिबध्नता सर्वात्मना रस- परतन्त्रेण भवितव्यम । तवेतिवृत्त यदि रसाननुगुणां स्थितिं पश्ये. त्तां भङ्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत । न हि कवेरितिवृत्तमात्रनिर्वहणेन किंचित्प्रयोजनं । इतिहासादेवतत्सिद्धेः" इति । पञ्चमाङ्के परिदृश्यमानं पार्वतीप्रसाधनवर्णनमपि नातीव पुष्णाति मानसोल्लासम । अपरत्र च कचिदनुभूयमानो वर्णनाविशे- षोऽप्यनुजीवति नियतमन्यदीयच्छायाम । “कुचयुगळं परिणद्धं. आभोगशालि कुचकुड़मळमायताझ्याः, तन्वीसमुल्लसति काचन रोमरेखा" इत्यादि वर्णनन्तु पुत्रीविषयकत्वादनुचितं सतहृदय- सङ्कोचमादधातीत्यत्र सचेतसां मरसं मन एव प्रमाणम् । एवमप्यत्र परिदृश्यमानं पदलालित्यम . बन्धसौकुमार्यञ्च नियतमेकान्तत एव हृदयमपहरति भावुकानामिति यत्सत्यं वदामः । सहृदयाः, यदि नाम वामनभट्टबाण एवं प्रकृतनाटकस्य रचयितेति निश्चीयते. .
IS
.
विश्वसिमः, तर्हि नेदमस्माकं वचनमप्राप्तावसरम । यत् अनेन
वामनबाणेन रचितमस्ति रघुनाथचरितमपीति ब्रूमः । यत्रैवमादितः
पठ्यते ।
" दंपत्योर्जगतां पत्योरपत्यं श्रेयसेऽस्तुवः ।
विघ्नसन्तमसं भिन्तेयहन्त द्युतिचन्द्रिका ।
आनदेन्दुसमुद्भूता कवेरमृतशीतळा ।
कस्य वा न सुखं कुर्यात् कविता कापि कौमुदी ।
वन्द्यः कस्य न वाल्मीकिर्यस्य वामञ्जरीकणान ।
आदायकवयोऽद्यापि निक्षिपन्ति स्वसूक्तिषु ।
कः कालिदासकविना कृतं कर्म करिष्यति ।
हनूमल्लचितं कोऽन्यो लकेतपुनरर्णवम ।
बाणं सत्कविगीर्वाणमनुबध्नाति कः कविः ।
सिन्धुमन्धुः किमन्वेति धुमणिं वा तमोमणिः ।" इति ।
आर्याः, एवमस्योपोद्घातस्य विलेखन वीरनारायणचरितादि-
प्रेषणन बहु बहु उपकृतमस्मन्मित्रमणिभिस्तानगरस्थ श्रीमत्कुप्पु-
स्वामिशास्त्रिवरिति सधन्यवादं सकार्तझ्यञ्च सहस्रकृत्वः प्रशंसा-
मस्तेषामुपकारमिव विद्यापक्षपातमपीति साम्प्रतमेतावता विरमामः ।
इति
श्रीवत्सकुलचक्रवर्ती
अभिनवभट्टबाणः कृष्णमाचार्यः ।
DAANDHinha- ॥ पार्वतीपरमेश्वगै ॥
॥ श्रीः ॥ ॥ पार्वतीपरिणयम्॥ • CM ॥ प्रथमोऽङ्कः ॥ आदौ 'प्रेमकषायिता हरमुखव्यापारलोला शनै- बीडाभारविघूर्णिता मुकुलिता धूमोद्गमव्याजतः । पत्युः संमिलिता दृशा सरभसव्यावर्तनव्याकुला पार्वत्याः परिणीतिमङ्गलविधौ दृष्टिः शिवायास्तु वः ॥१॥ अपि च । संपदमतरललभ्यामनन्यसामान्यवहलदर्पनिः । पुष्णातु चित्तयोनेरघटितघटनापटीयसी विभुता ॥२॥ नान्द्यन्ते) सूत्रधारः (सप्रश्रयमन्नलिं बवा ।। ब्रह्मस्तम्बकुटुम्बस्य योगक्षेमविधायिनी । आनन्दविग्रही भूत्यै भूयास्तामादिदम्पती ॥ ३ ॥ १. कपायिता - रञ्जिता सुरभिता वा। कषायस्सुरभौ रक्ते इति केशवः । दृष्टेः प्रेम्णा रक्तत्वं दशकुमारचरितेपि वर्णितम् । २. ब्रह्मस्तम्बकुटुम्बस्य " यद्यपि स्तम्बशब्दो धान्यादि विस्तार- वाची, तथापि ब्रह्मस्तम्बशब्दो ब्रह्माण्डे निरूढ इति सांप्रदायिकाः ।" : = अलब्धलाभः । क्षेमः लब्धपालनं । ३. योगः पार्वतीपरिणये , (इति पुष्पाञ्जलिं विकीर्य नेपथ्याभिमुखमवलोक्य ।) आर्ये इतस्तावत् । ( प्रविश्य ।) नटी अज्ज, इअमि। आर्य, इयमस्मि । सूत्रधारः आर्ये, अद्य खलु किमप्यभिनवं पार्वतीपरिणयं नाम रूपकं द्रष्टुमभिलषति परिषदेषा । नटी- अज्ज, तं उण अहिणअं कस्स कइणो किदी हुविस्सदि । आर्य, तत्पुनः अभिनवं कस्य कवेः कृतिर्भविष्यति । सूत्रधारः अस्ति कविमार्वभौमो वत्सान्वयजलधिकौस्तुभो बाणः । नृत्यति यद्रसनायां वेधोमुखरङ्गलासिका वाणी ॥ ४ ॥ तद्विरचितेन विचित्रसंविधानेन वस्तुनानेन सामाजिकानुपस्था- स्यामहे । नटी--अज्ज, अण्णएसु नाडएसु वट्टन्तेसु कहं तहिं जेब तत्तहोदो अहिलासो । आर्य, अन्येषु नाटकेषु वर्तमानेषु कथं तत्रैव तत्रभवतोऽ भिलाषः । सूत्रधारः--- संविधानस्य सामग्रयं रसानां परिपुष्टता । संदर्भसौकुमार्य च सभ्यानां रञ्जने क्षमम् ॥ ५ ॥ १. जलधिकौस्तुभः । जलधिसंभव इति पाठस्तु नहृयः । २. सामग्रथं = पुष्कलत्वं, चमत्कार इति यावत् । , प्रथमोऽङ्कः। ३ तत एवाहं गुणग्राहितया तत्र प्रवृत्तः । नटी- जइ एवं, जुज्जइ । यद्येवं, युज्यते । सूत्रधारः (नटी निर्वर्ण्य । ) आर्ये, पार्वतीपरिणयप्रसङ्गेऽपि किं- निमित्तं भवती विमनायमानेव विलोक्यते । नटी अज्ज, इमिणा परिणअप्पसङ्गेण अह्माणं वि वच्छाए बाल- चन्दिआए अणुरूववरलाहमहूसवो कहं भविम्सदित्ति णिरन्दरं चिन्दाउलं होइ मे हिअअम् । आर्य, अनेन परिणयप्रसङ्गेनास्माकमपि वत्साया बालचन्द्रि काया अनुरूपवरलाभमहोत्सवः कथं भविष्यतीति नि- रन्तरं चिन्ताकुलं भवति मे हृदयम् । सूत्रधारः-आर्य अलं विषादेन । विधिरेव कन्यकानामभिमतवरयोजनार्थमुद्युते । अयमिह महतीदयितो मुनिरिव गिरिराजकन्यायाः ॥६॥ इति प्रस्तावना । ततः प्रविशत्याकाशमार्गेण नारदः । ) नारद: हन्त, जन्मनः प्रभृति न जहाति नूनमम्मानियममरकार्य- घटनाकुतूहलिता । यतः । दक्षाल्लब्धसमुद्भवा तदनु तं त्यक्त्वा पतिद्रोहिणं जाता संप्रति शैलराजसदने गौरीति दाक्षायणी । १. महादयितः - महती इति नारदवीणायास्मंज्ञा ।
पार्वतीपरिणये एनां योजयितुं हरेण हिमवत्सानौ तपस्तन्वता कार्य भावि समाकलय्य मरुतामद्य प्रवामहे ॥ ७ ॥ परिवहनाम्नः पवनस्य पन्थानं (किंचिदन्तरमवतीर्यावलोक्य च । प्राप्तवानस्मि । तथा हि । आरादेञलिपेयमत्र विकसन्मन्दारपुष्पोत्थितं सौरभ्यं पवनोपनीतमभितो धावन्त्यमी षट्पदाः । तत्रीमण्डलमार्द्रयन्ति कणिका मन्दाकिनीपाथसा- मप्यन्तःकरणं च मे सुमहतीमालम्बते निर्वृतिम् ॥ ८ ॥ (सरभसावतरणं नायित्वा । अधोऽवलोक्य । अये, मध्यमलोकस्य 'नेदीयांसं प्रदेशमनुप्राप्तोऽस्मि । यतः । १. अलिपेयं = सान्द्रं । २. अप्यन्तःकरणं चेत्यादि "मालि:- त्रिस्रोतसं वहति यो गगनीतष्ठा ज्यातीपि वर्तयति च प्रविभकरश्मिः । तस्यद्वितीयहरिविक्रनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम्।। राजा-मातले, अत: खलु सबाह्यान्तःकरणोममान्तरात्मा प्रसीदति ।" इति शाकुन्तलम् । ३. नदीयांसं . अन्तिकतरं । अन्तिकशब्दम्य नेदादशः ।
प्रथमोऽङ्कः । ५ उद्यद्भिः शिखरैरमी कतिचन व्यज्यन्त एवाचला वैमल्यादनुमीयते च परितस्स्रोतस्विनीसंततिः । मूच्यन्ते परिमण्डलेन तरवो नीलाम्बुदश्रीमुषो मन्दं मन्दमुपैति लोचनपथग्राह्यां दशां मेदिनी ॥ ९ ॥ ( पुनर्विलोक्य साश्चर्यम् । ) गिरिवरतटिनीगुल्मैदर्शनपदवीं क्रमादुपारूढः । अवरोहति मयि रभसाद्भरियमारोहनीव गगनतलम् ॥ १० ॥ मुहूर्तमात्रादवतीर्णोऽस्मि हिमवदुपकण्ठभूमिम् । (किंचिदन्तरमव- तीर्यावलोक्य च । ) अयं हि शैलराजः उत्सारयन्निव विभाति नभाऽवकाशं शृङ्गेविहारभवनैरिव तुङ्गतायाः । आभोगवद्भिरमृतांशुकरावदाते- राक्रामतीव कटकेर्हरिदन्तराणि ॥ ११ ॥ अतिरिच्यते खल्वयमसाधारणेन भुवनधुरंधरेण भूम्ना मन्दरगन्ध- मादनप्रभृतिभ्यो महामहीधरेभ्यः । यतः । ...... १. उद्यद्भिरिशखरैः गिरिवरतटिनी 'शैलानामवरोहतीव शिखरादुन्मजतां मेदिनी पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः । सन्तानैस्तनुभावनष्टसलिला व्यक्ति व्रजन्त्यापगाः केनाप्युत्क्षिपतेव मर्त्यभुवनं मत्पार्श्वमानीयते ॥ इति शाकुन्तलम् । २. भूम्ना -- माहात्म्यन ।
६ पार्वतीपरिणये 'त्रिभुवनगुरुणा गुणातिरागा- कमलभुवा कलिताधिपत्यलक्ष्मीः । अविरतमनुशास्ति देवतात्मा सकलमिदं कुलशैलचक्रवालम् ॥ १२ ॥ तदहमधुना किन्नरीगीतनिष्पन्दकृष्णसारेण चमरीजालवालविक्षेप- विरचितालीकचन्द्रोदयविलासेन कस्तूरीपरिमलोपहतगगना- गमनखेदेन शैलेयगन्धिना कटकवर्त्मना प्रस्तुतवस्तुसाधनाय प्रविशामि यावदोषधिप्रस्थम् । ( तथा कृत्वा पुरोऽवलोक्य । ) इदं तदोषधिप्रस्थं विपुलकनकशृङ्गोपान्तविश्रान्तमेघ सुरतरुवरवाटीशोभमानोपकण्ठम् । मणिभवनमहोभिः सृज्यमानेन्द्रचापं मदयति मम चेतो मन्दिरं विस्मयानाम् ॥१३॥ पुरप्रवेशमभिनीयाग्रतो दृष्टिं दत्त्वा ।) इदमभ्रंलिहगोपुरशिखरावली- ढनक्षत्रपथं हैमवतमायतनम् (प्रवेशं नाटयन् । आकाशे । ) भोः कञ्चुकिन् , कुत्र वर्तते कुलाचलचक्रवर्ती । किं ब्रवीषि- 'देव्या मेनया साध किमपि मन्त्रयन्नभ्यन्तरमण्डपमधिवसति' इति । तर्हि साधीयानवसरः कार्यनिवेदनस्य । (इति परिक्रामति।) ४. त्रिभुवनगुरुणा- अस्त्युत्तरस्यां दिशिदेवतात्मा...... "प्रजापतिः कल्पितयज्ञभागं शेलाधिपत्य स्वयमन्वतिष्ठत् ।" इति कुमारसंभवः ।
प्रथमोऽङ्कः । . ( ततः प्रविशति हिमवान् , मेना, परिमितः परिजनश्च । ) हिमवान्- देवि, कन्यापितृत्वं खलु गृहमेधिनामधिकतरं दुःख- मावहति । अस्मत्कुलालंकरणमियं च गैरी परिणययोग्यां दशां प्रतिपद्यते । तथा हि । आभोगशालि कुचकुड्मलमायताक्ष्या वक्षोऽवकाशमभिवाञ्छति संनिरोद्धुम । अप्यस्तिनास्तिवचसां विषये वलग्ने तन्वी समुल्लसति काचन रोमरेखा ॥ १४ ॥ मेना--जहा अज्जउत्तो आणवेदि, तहा विवाहमङ्गलजोग्गा संवुत्ता यथार्यपुत्र आज्ञापयति, तथा विवाहमङ्गलयोग्या संवृत्ता। हिमवान्-देवि, अन्यदपि श्रूयताम् । कुंचयुगलं परिणद्धं यथा यथा वृद्धिमेति तम्वङ्गयाः। वरचिन्ताहृतमनसस्तथा तथा कार्यमेति मे गात्रम् ॥१५॥ १. अस्तिनास्तिवचसां विषये अतिसूक्ष्म इत्यर्थः । “ सदसत्संशय- गोचरोदरी" इति नैषधः । २. कुचयुगलमित्यादि- " उद्वेगमहावर्ते पातयति पयोधरोन्नमनकाले सरिदिवतटमनुवर्षे विवर्द्धमाना सुता पितरम् ।। यौवनारम्भ एव च कन्यकानामिन्धनीभवन्ति पितरः सन्तापानल- स्य । हृदयमन्धकारयति मे दिवसमिव पयोधरोन्नतिरस्याः । यथा यथा समा- पतन्ति दूता वराणां, वराकी लजमानेव चिन्ता तथा तथा नितरां प्रविशति मे हृदयम्।” इति हर्षचरितम् ।
८ पार्वतीपरिणये मेना-मह वि रतिंदिरं भाइदे अस्सि ज्जेव अत्थे णिहिअहिअ- आए किं लक्खीअदि। ममापि रात्रिंदिवं भावितेऽस्मिन्नेवार्थे निहितहृदयायाः किं लक्ष्यते । हिमवान्---(पुरोऽवलोक्य । देवि. वीणाविहारी मुनिरित एवाभि- वर्तते । तदर्यमानीयताम् । मेना-जहा आणवेदि अज्ज उत्तो । ( इत्यय॑मानयति ।) यथाज्ञापयत्यार्यपुत्रः । हिमवान्–(उत्थाय साञ्जलिबन्धम् ।) भगवन् , अभिवादये। नारदः-अभ्युदयपरम्परावाप्तिरस्तु । ( हिमवानासनमुपनीयायं समर्पयति । ) (नारदः प्रतिगृह्णाति ।) हिमवान्-(सहर्षमञ्जलिं बद्ध्वा ।) स्वायत्तसिद्धाखिलकामनानां तत्त्वे परस्मिन्परिनिष्ठितानाम् । भवादृशामागमनोत्सवोऽयं न लभ्यते नूनमनात्तपुण्यैः ॥ १६ ॥ नारदः-निस्पृहैरपि मादृशैस्त्वादृशाः सर्वाश्रमोपकारिणो गृह- मेधिनः पुरुषा द्रष्टव्या एव । "। इति १. स्वायत्तसिद्धेत्यादि । " स्वाधीनकुशलास्सिद्धिमन्तः शाकुन्तलम् । 'अहोऽल्पपुण्यैः' इति त्वपपाटः । " प्रथमोऽङ्कः । हिमवान्-यदभिहितं भगवता, तदनुग्राह्येषु । नारदः-किमनुग्राहकम्यानुग्राह्यतायां वितर्कः । किं च 'तीर्थभूतो भवानस्माभिरभिगन्तव्य एव । यतः । शिरसि निपतिता पुरा पुरारे- रथ शिखरे तव यत्ततोऽवतीर्णा । अमरसरिदशेषलोकमान्या त्रिभुवनपावनतामुपैति तेन ।। १७ ।। हिमवान्–किमेवमतिभूमिमारोप्यते भगवता निदेशवर्ती परिजनः । नारद:- अप्रतिमरूपलक्ष्म्यो गङ्गा गौरी च कन्यके भवतः । हिमवान्-एवमेतत् । १. तीर्थभूतः - पुण्यक्षेत्रभृत: । तीर्थ शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रा- वतारयोः, इति अनेकार्थसंग्रहः । २. त्रिभुवनेत्यादि । भवत्सङ्गादेव गङ्गाया अपि पावनत्वमिति किंपुनर्वक्तव्यं भवतः पवित्रत्वमिति भावः । “यथैवश्लाध्यते गङ्गा पादेन परमेष्ठिनः । प्रभवेणद्वितीयेन तथैवोच्छिरसा त्वया ॥ इति कुमारसंभवः । ३. अप्रतिमेत्यादि । “शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् । तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि । या मेरुदुहिता राम तयोर्माता सुमध्य- मा। नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया। तस्यां गङ्गेयमभवज्ज्येष्ठा हिम- वतस्सुता । उमा नाम द्वितीयाभूत्कन्या तस्यैव राघव ।” इति रामायणम् । । 2 १० पार्वतीपरिणये नारद:- पूर्वा तयोः पुरस्तादनुरूपं रमणमम्बुधि प्राप्ता ॥ १८ ॥ हिमवान्-अस्त्येतत् । नारदः- द्वितीयायास्तु ते दुहितुः को नाम वरोऽभिमतस्तत्र- भवतः । हिमवान्-भगवन् , इममेवार्थ विचिन्तयतो मे मनसि महाननु- तापः अस्याश्च देव्याः । नारद:- न नागलोके न मनुष्यलोके न देवलोकेऽपि समो वरोऽस्याः । एषां प्रभुर्यस्तनयां त्वदीयां स एव देवः परिणेतुमीष्टे ॥ १९ ॥ हिमवान्– तमपि भगवानेव निवेदयितुं प्रगल्भते । नारदः-(आत्मगतम् अस्येदानी सामान्यवचनैरेव चन्द्रचूडामणि- निगूहितव्यः। प्रकाशम् । मया किल प्रेणिधानचक्षुषा दृष्टोऽ- यमर्थः । यथा विश्वाधिकं कमपि वरमियं ते दुहिता प्रपत्स्यते । नपुनरिममिति विशेषेण । हिमवान्-विश्वाधिक इत्येतावता कृतार्थोऽस्मि । १. प्रगल्भते - प्रभर्वात । २. प्रणिधानं = समाधिः ।
प्रथमोऽङ्कः । ११ नारद:- पुण्यन केनापि किलावतीर्णा पुरातनी शक्तिरियं सुता ते । इमामसाधारणरूपलक्ष्मी न लोकसामान्यसुतां प्रतीयाः ॥ २० ॥ ततश्च भवता दुहितेयं न यस्मै कस्मैचित्प्रदित्सितव्या । हिमवान् नाहं भवदाज्ञां लश्यामि । नारदः--अभ्युदयस्य निमित्तमन्यदपि किंचिदुपदिश्यते । यथा । अष्टाभिरेव तनुभिर्भुवनं दधान- स्तेजस्त्रयेण महता विहितेक्षणश्रीः । अन्येषु सत्स्वपि य ईश्वरशब्दवाच्यः सोऽयं तपस्यति तटे तव चन्द्रमोलिः ॥ २१ ॥ हिमवान्--अस्त्येतत् । नारदः-- ततो भवानन्तिकमागतमिन्दुशेखरं सपर्यया कयाचिदुप- तिष्ठताम् । " १. अष्ठाभिरेवेत्यादि । “कलितान्योन्यसामथ्र्यैः पृथिव्यादिभिरात्म- भिः । येनेदंध्रियतविश्वं" "अष्टाभियस्य कृत्स्न जगदपि तनुभिर्बिभ्रतः इति कुमारसंभवमालविकाग्निमित्रे । “यो लीलयैव त्रिपुरं ददाह कामं कालं सोमसूर्याग्मिनेत्रः । इति शरभोपनिषत् । "यस्मिन्नीश्वर इत्यनन्यविषयश्शब्दो यथार्थाक्षरः । इति विक्रमोर्वशी। २. तपस्थति - तपः चरति ।
१२ पार्वतीपरिणये हिमवान्– भगवन् , अभिधेहि का वा सपर्या । नारदः- अनुरूपसखीजनपरिवृतां दुहितरमिमां गौरी समित्कु- शदूर्वाद्युपहरन्ती परिचर चन्द्रशेखरमिति प्रेषयतु भवान् । हिमवान्-- तथा करिष्यामि । नारदः- (आत्मगतम् ।) उपक्षिप्तं बीजम् । कर्तव्यं च सामान्य- वृत्त्या निवेदितम् । तद्यथागतं गमिष्यामि । (प्रकाशम् ।) हिमवन् , यदुक्तमस्माभिस्तदनुष्ठीयताम् । (इत्याकाशमार्गेण निष्कान्तः ।) हिमवान्– (विलोक्य) दिवापि देहप्रभया दर्शयन्दिा चन्द्रिकाम् । द्वितीय इव चन्द्रोऽयमारोहति दिवं मुनिः ॥ २२ ॥ (मेनां प्रति ।) देवि, श्रुतं खलु त्वया महामुनेर्वचनम् । मेना- सुदं मए विस्साहिओ पुरिसो णाही त्ति । श्रुतं मया विश्वाधिकः पुरुषो नाथ इति । हिमवान्– (स्वगतम् ।) विश्वाधिकशब्दोपक्षेपेण कर्तव्योपदेशेन च दुहितुरस्याश्चन्द्रशेखर एव वर इति सूचितम् । ( प्रकाशम् । देवि, नारदोपदिष्टामिन्दुमौलिसपर्या विरचयितुं दुहितर नियोक्तुमुधुज्महे । [इति निष्कान्ताः सर्वे । इति प्रथमोऽङ्कः। १. "उद्युञ्जामहे” इति त्वपपाठः ।
द्वितीयोऽङ्कः। (ततः प्रविशति वनदेवता वासन्तिका ।) वासन्तिका-आणत्तमि णन्दीस्सरेण जहा वासन्दिए, णिअ- माट्ठिदस्स 'णीललोहिदस्स पूआपुप्फाइं णन्दणवणादो आणे- हित्ति । ता जहा आदिह्र णन्दीस्सरेण तहा आआसमग्गेण गदुअ सोरहवासिददिसामुहाई कप्पदुमकुसुमाइं णन्दणवणादो अवचेदं गमिस्सम् । (इति तथा करोति ।) आजप्तास्मि नन्दीश्वरेण यथा वासन्तिके, नियमस्थितस्य नीललोहितस्य पूजापुष्पाणि नन्दनवनादानयेति । तद्य- थादिष्टं नन्दीश्वरेण तथाकाशमार्गेण गत्वा सौरभ्यवा- सितदिशामुखानि कल्पद्रमकुसुमानि नन्दनवनादवचेतुं गमिष्यामि । ततःप्रविशति रम्भा ।) रम्भा- तारआसुरबन्दिग्गहणसज्झसपरिसङ्किदो अच्छराजणी महामेरुगुहाणिलीणो आसि। अहं उण कुबेरणन्दणं णलकूबरं खणं विहाय जीविदं धारदं ण पारेमि । तदो तं एव्व अहि- सरामि । (इत्यवतरति ।) १. नीललोहितः = कण्टे नीलः जटासु लोहितः शिवः । स्कान्देतु "नीलं येन ममाङ्गन्तु रसाक्तं, लोहितं त्विषा । नीललोहित इत्येव ततोऽहं परिकीर्तितः ।।" इत्यस्तीति मुकुटः ।
१४ पार्वतीपरिणये A- तारकासुरबन्दिग्रहणसाध्वसपरिशङ्कितोऽप्सरोजनो महामेरु- गुहानिलीन आसीत् । अहं पुनः कुबेरनन्दनं नलकूबरं क्षणं विहाय जीवितं धारयितुं न पारयामि । ततस्तमे- वाभिसरामि। वासन्तिका- (रम्भां दृष्ट्वा ।) अए, पिहसही रम्भा आअच्छइ । ता उपसप्पामि णं । इति तथा करोति ।) अये, प्रियसखी रम्भा आगच्छति । तदुपसाम्येनाम् । रम्भा अए, हिमवक्कडआणिवासिणी वणदेवदा वासन्दिआ । भदं पिअसहीए। अये, हिमवत्कटकनिवासिनी वनदेवता वासन्तिका । भद्रं प्रियसख्याः । वासन्तिका-- पिअसहि, किं एत्थ आअदे । प्रियसखि, किमवागतम । रम्भा-- तारआसुरबन्दिग्गहसज्झससङ्किदा अच्छराजणो महा- मेरुगुहाणिलीणो वट्टइ। तारकासुरबन्दिग्रहसाध्वसशङ्कितोऽप्सरोजनो महामेरुगुहा- निलीनो वर्तते । वासन्तिका- सच्चं सो तारिसो दुट्ठसीलो । सत्यं स तादृशो दुष्टशीलः । रम्भा- कुबेरणन्दणं खणं अदिट्ठिअ ण सक्कुणोमि जीविदं धारेतूं त्ति पिअसही सुट्ठदरं जाणादि । कुबेरनन्दनं क्षणमदृष्ट्वा न शक्नामि जीवितं धारयितुमिति प्रियसखी सुष्टुतरं जानाति ।
द्वितीयोऽङ्कः। १५ वासन्तिका- फुडं जाणामि, पसिद्धो क्खु तुह्माणं अण्णो- ण्णाणुराओ । स्फुटं जानामि, प्रसिद्धः खलु युवयोरन्योन्यानुरागः । रम्भा--- तदो अहं आसण्णा एत्थ मअणकोअण्डणिरन्दराण- म्सरन्तसरणिअरजजरिदहिअआ अहिसरामि वञ्चिअ सही- जणाणं णलकूबरम्। ततोऽहमासन्नाव मदनकोदण्डनिरन्तरनिःमरच्छरनिकर जर्जरितहृदयाभिसरामि वञ्चयित्वा सखीजनान्नल- कूबरम । वासन्तिका--- जुज्जइ तारिसम्स अणुराअम्स ईरिसो व्वावारो । युज्यते तादृशस्यानुरागस्येदृशो व्यापारः । रम्भा-तुमं उण कहिं गच्छसि । त्वं पुनः कुत्र गच्छसि । वासन्तिका- 'णिज्झादणिजम्सरूवम्स लोअणमेत्तबाडबम्स भअवदम्स णीललोहिदम्स पूआपुप्फाइं णन्दणवणादो आणेk आणत्तमि णन्दीम्सरेण । निध्यातनिजस्वरूपस्य लोचनमात्रबाडबस्य भगवतो नी- ललोहितस्य पूजापुष्पाणि नन्दनवनादानेतुमाजप्तास्मि नन्दीश्वरेण । रम्भा-पिअसहि, अत्थि अहिणवो तत्थ वुत्तन्तो? प्रियसखि, अस्त्यभिनवस्तत्र वृत्तान्तः ? , ? १. निध्यातं = साक्षात्कृतं । निर्वर्णनन्तु निध्यानं दर्शनालोकने- क्षणम् । इत्यमरः ।
१६ पार्वतीपरिणये है वासन्तिका- अण्णो कोवि णत्थि । पिदुणो णिदेसेण सपरि- जणा पवई दिअसे दिअसे आगदुअ महादेवं आराधेइ । अन्यः कोऽपि नास्ति । पितुर्निदेशेन सपरिजना पार्वती दिवसे दिवसे आगत्य महादेवमाराधयति । रम्भा-- किं आराधणस्स फलम् । किमाराधनस्य फलम। वासन्तिका-- परमेस्सरप्पसादो । परमेश्वरप्रसादः । रम्भा जुज्जइ । गच्छ तुमं पत्थुदं कज्जं कादुम् । अहं वि जहासंकप्पिदं कादं गमिस्सम् । युज्यते । गच्छ त्वं प्रस्तुतं कार्य कर्तुम । अहमपि यथा- संकल्पितं कर्तु गमिष्यामि । [इति निष्कान्ते। विष्कम्भकः। १. महादेवं । " पूज्यते यत्सुरैः सर्वैर्महांश्चैव प्रमाणतः । धातुर्महेति पूजायां महादेवस्ततस्स्मृतः ॥" इति शिवपुराणम् । २. अत्र केचित् । अत्र विष्कम्भक इति लेखकप्रमादपतितम् । नहि तस्यात्रावसरः । तथाहि । किमत्र शुद्धो विष्कम्भक इष्यते, उतसङ्कीर्ण: । नाद्यः । तस्य केवलसंस्कृतात्मकत्वात् । मध्यमपात्रप्रयोज्यत्वाच्च । तदुक्तं विद्यानाथेन । 'केवलसंस्कृतप्रायश्शुद्धः ।' इति । उक्तं च भरतेनापि । 'मध्यमपुरुषैर्नित्यं योज्यो विष्कम्भकोऽपि तत्वशैः। संस्कृतवचनानुगत- स्संक्षिप्तार्थः प्रवेशकवत्' इति । नचात्र रम्भावासन्तिके मध्यमपात्रे । प्राकृत- द्वितीयोऽङ्कः । १७ व्यवहारेण तयोरतथात्वावगमात् । नापि द्वितीयः । तस्य विद्यानाथेन संस्कृत- प्राकृतमिश्रितत्वाभिधानात् । प्रकृते च केवलप्राकृतात्मकत्वात् । अतः अत्र 'प्रवेशकः' इत्येव युक्तम् । दृश्यते च ईदृशकेवलप्राकृतात्मकविषये प्रवे- शकः' इति विलेखनं मालविकारत्नावलीनागानन्दमालत्यादिषु ।" इति वदन्ति । परेतु, संभवत्यत्र शुद्धो विष्कम्भकः । तस्य मध्यमपात्रप्रयोज्ये केवलसंस्कृत इव केवलप्राकृतेऽपि निष्प्रतिबन्धप्रमरत्वात् । न हि शुद्धत्वं केवलसंस्कृतात्मकत्वमिति केनापि प्राचीनेन प्रामाणिकेन लाक्षणिकेन निरू. पितम् । येन तथाभ्युपगमाय निर्बध्येमहि । मध्यमपात्रप्रयोज्यत्वं हि तजीवा- तुः । तथा च नाट्यशास्त्रे । शुद्धस्संकीर्णो वा द्विविधो विष्कम्भकोऽपि विशेयः । मध्यमपात्रैश्शुद्धः संकीर्णो नीचमध्यकृतः । इति । 'एकानेककृतश्शुद्धस्संकी- ो नीचमध्यमैः' इति कारिकाव्याख्यावसरे "एकेन द्वाभ्यां वा मध्यमपा- त्राभ्यां शुद्धो भवति । मध्यमाधमपात्रैर्युगपत्प्रयोजित: संकीर्णः” इति अव लोककारः । कविराजोऽपि 'मध्येन मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः । शुद्धस्स्यात्स तु संकीर्णो नीचमध्यमकल्पितः।' इत्येवाह । - संस्कृतवचनानु- गतः' इति भरतोक्तं विशेषणन्तु, “नोत्तममध्यमपुरुषैराचरितो नाप्युदात्त- वचनकृतः ।" इत्युपरिष्टादृश्यमाणे प्रवेशकलक्षणे निवेशितस्य 'नाप्युदात्त- वचनकृतः इति विशेषणस्य प्रतिद्वंद्वितयोपात्तमिति तत्रत्यं संस्कृतपदं उदात्तपरमिति न तेनापि स्वाभीष्टार्थसिद्धिप्रत्याशा । तथा च उत्तरत्र "विष्क म्भकस्तु संस्कृतपुरोहितामात्यकञ्चुकिभिः इति स एव वक्ष्यति । युक्तं चैतत् । 'शुद्धस्संकीर्णो वा' इत्युत्तरकारिकानुरोधात् । कथमन्यथा एकान्त- तस्संस्कृतवचनानुगतत्वोक्तौ 'शुद्धस्संकीणों वा' इति विभागस्संगच्छताम्। संकीर्णे तदसंभवात् । शुद्धाभिप्रायकत्वं तद्विशेषणस्य ब्रूम इति चेत् , स्या दप्येवं यदि उत्तरत्र निर्दिष्टं स्यात् । यदि च न स्यात् 'मध्यमपाश्शुद्धः इत्युत्तरत्र निर्दिष्टम् । एतेन विद्यानाथोऽपि व्याख्यातः । यद्वा भूयसा व्यपदेशेन तथोक्तिरिति तत्रत्यं संस्कृतपदं भावाद्वयासांकर्यतात्पर्यकमिति न किञ्चि- दनुपपन्नम् । रम्भावासन्तिके अपि न नीचपात्रे । एकस्या अप्सरस्त्वेन । . 3 १८ पार्वतीपरिणये ( ततः प्रविशति विविक्तमास्थानमण्डपर्माधवसन्महन्द्रः। महेन्द्रः-- ( मण्डपद्वारं विलोक्य । ) कः कोऽत्र भोः । देवनन्दी ( प्रविश्य । ) स्वामिन् , अयमस्मि । महेन्द्रः- महत्कार्य विचारणीयमस्ति । अतो बृहस्पतिमन्तरेण नान्यः प्रवेशनीयः । अन्यस्याश्च वनदेवतात्वेन नीचत्वायोगात् । न हि प्राकृतव्यवहारमात्रेण नीचत्वं सेत्स्यति । अन्यथा नायिकादीनामपि तथा प्रसज्यमान नीचपात्रत्वं केन वार्यतां । पुरुषाणामनीचानां संस्कृतं स्यात्कृतात्मनाम् । शौरसेनी प्रयोक्तव्या तादृशीनां च योषिताम्" इति प्रमाणबलप्राप्तं तत्र प्राकृतमिति चेत् , हन्तवं “ छन्दस्तः प्राकृतं पाठ्यं स्मृतमप्सरसां भुवि” इति भरतवच- नेऽपि निक्षिप्यतां दृष्टिः । तथा च परिहृतं रम्भाया: प्राकृतव्यवहारमात्रेण नीचपात्रत्वम् । वनदेवतायाश्च वासन्तिकाया नीचपात्रत्वकल्पनं नांशतोऽपि सहृदयसंवादमनुभवति । साघुत्तमा । अत एव हि उत्तरचरिते वनदेवताया वासन्त्या: संस्कृतेनैव व्यवहारः । “संस्कृतं संप्रयोक्तव्यं लिङ्गिनीवृत्तमासु च" इत्युक्तेः । प्रकृते तु अनेन कविना तस्या रम्भायाश्च अत्र मध्यमपात्र- त्वमभिप्रेतमिति ध्येयम् । नन्वेवं कथमत्र तस्या मध्यमाया वनदेवतायाः प्राकृतेन व्यवहारः इति चेत् , “कार्यतश्चोत्तमादीनां कार्यों भाषा विपर्ययः" इति वचनादिति गृहाण । कार्य चात्र परिजनसाधारण्येन नन्दीश्वराज्ञानुष्ठान- रूपम् । तथा च तत्तद्योग्यतापर्यालोचनयैव नीचत्वादिकं निर्णेयं न तु भाषामात्रेणेति सिद्धम् । एतेन प्रवेशकविमशीन विमर्शसहः । मालविका- दिषु च चेट्यादीनामेव प्रवेश इति युक्तं तत्र प्रवेशककथनं । तथा च भरतः। 'परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः ।' इति । नपत्र रम्भा परिजनत्वेन प्रविष्टा। इत्थं च विष्कम्भक इति यथाश्रुतं सम्यगेवेति प्राहुः । अत्रत्यं तत्वं सुधियो विमुशन्तु । १. बृहस्पति: = बृहतां देवानां वेदमन्त्राणां वा पतिः, सुरगुरुः ।
द्वितीयोऽङ्कः । १९ देवनन्दी-- तथा । ( इति निष्क्रान्तः । ) । ततः प्रविशति बृहस्पतिः । ) बृहस्पतिः :-- ( पुरोऽवलोक्य । ) अयमिह महेन्द्रो विविक्ते आस्थान- मण्डपे वर्तते । एष खलु । कैश्चिन्नेत्रैर्दलितदनुजं वज्रमालोकमानः कैश्चित्पश्यन्नमरसुदृशां सस्मितान्याननानि । कश्चित्सेवाविहितमनसामञ्जलिं वीक्षमाण- श्चित्ते चिन्तापर इव पुरो दृश्यत वासवा मे ॥ १ ॥ तदेनमुपसमि। इति तथा करोति । महेन्द्रः- वृहस्पति दृष्टा । इहोपविश्यताम् । बृहस्पतिः- तथा। इति 'भद्रासनान्तिकमुपविशति । ) देवनन्दी- प्रविश्य । ; खामिन् , देवदूतो देवलो विज्ञापयति विज्ञाप्यं मे किंचिदस्तीति । महेन्द्रः- तर्हि तमेकं प्रवेशय । ततः प्रविशति देवदूतः । देवदूतः- अयं हि स्वामी बृहस्पतिना सह किमपि मन्त्रयन्वर्तते । तदेनमुपसर्पामि । । इत्युपसृत्य । । जयतु जयतु स्वामी । महेन्द्रः- देवल, किमुद्विम इव विलोक्यसे । देवदूतः-तारकदनुजसमाक्रान्तिमन्तरेण किमन्यदस्माकमुद्वेगकारणं । - १. भद्रासनं । ' नृपासनन्तु यद्भद्रासनं ' इत्यमरः । "द्वे मण्यादिकृतराजासनस्य इति मुधा ।
२० पार्वतीपरिणये - महेन्द्र:- किमस्त्यभिनवोपरोधः । देवदूतः-- अतिभूमिं गतामसुरपीडां कथं स्वामिने विज्ञापयामि । महेन्द्रः मा भैषीः । कथय तेषामुद्यमम् । देवदूतः- कथयामि । श्रृयताम् । उद्धृत्यामरदीर्घिकाजलभुवामम्भोरुहाणां तति स्वैरं नन्दनपादपानभिमतानामूलमुन्मूल्य नः । हृत्वा वाञ्छितवस्तुदानचतुरां तामर्जुनी दुर्जनाः ( इत्य/क्त विरमति ।) महेन्द्रः अवशिष्टं च कथ्यताम् देवदूतः- स्वर्गस्त्रेणकचग्रहं रचयितुं निश्शङ्कमुद्युञ्जतं ॥२॥ महेन्द्रः- देवल, कुलिशसहाय महाही जाग्रति किमेवमतिशंका क्रियते । विमृश्य । १. उद्धृत्येत्यादि । मन्दाकिन्याः पयः शेषं दिवारणमदाविलं । हेमाम्भोरुहसस्यानां तद्वाप्या धाम सांप्रतम् ।।' इति कुमारसंभवः । 'चिच्छेद नन्दनतरून् देवस्त्रीपरिपालितान् । इति शिवपुराणम् । २. अर्जुनी .. गां। 'अर्जुनी गवि ।' इति मेदिनी । ३. स्रणं .. स्त्रीणां समृह: । त्रीपुंसाभ्यासित नञ् । .
द्वितीयोऽमः। वृत्रं बलं च नमुचिं च कथावशेष कृत्वा विधाय कुलपर्वतपक्षभेदम् । त्रैलोक्यरक्षणपटोर्मम तारकेऽस्मि- न्वेधोवरः किल महानयमन्तरायः ॥ ३॥ तत्कतिपयैरेव दिवसैस्तत्प्रतिक्रिया भविष्यति । गच्छ त्वं समु- चितनियोगकरणाय । देवदूतः- तथा । इति निष्क्रान्तः । ) महेन्द्रः--- गुरो, किमतःपरं विधातव्यम् । बृहस्पतिः-यदादिष्टं भगवता विरिश्चेन । पूर्वेपुरेव तारकदनु- जाक्रान्तिमसहमानैरस्माभिरमरपरिषदा साध भगवानुपस्थितः पद्मयोनिराचष्ट । यथा सेनान्यमन्तरण नान्येन तारको निहन्त- व्यः । तदुत्पादने चायमभ्युपायः । हेमवते कटकतटे शशाङ्कचूडामणिस्तपस्तनुते । यनेन येन केनचिदस्तु प्रणयी स पार्वत्याम् ॥ ४ ॥ ततस्तयोरात्मसंभवेन सेनान्या कुमारेण वो मनोरथसिद्धिर्भ- विष्यतीति । महेन्द्रः--- तत्कथं गिरिजा गिरिशेन परिग्राह्यते । कदा वा तदुत्पन्नः कुमारः पूरयिष्यति नो मनोरथान् । १. कुलपर्वत ......। महेन्द्रो मलयस्सह्यश्शुक्तिमानक्षपर्वत: । विन्ध्यश्च पारियात्रश्च सतेत कुलपर्वताः २२ पार्वतीपरिणये बृहस्पतिः-- नहीश्वराणां व्याहृतयो व्यभिचरन्ति । महेन्द्रः- ( सस्मरणं सहर्ष च ) विरिञ्चिसमादिष्टमस्मत्कार्यमप्य- श्रीकुर्वतीव पितुर्निदेशेन सपरिजना पार्वती दिवसे दिवसे समागत्यभगवन्तमिन्दुशेखरं परिचरतीति रम्भामुखादश्रौषम् । बृहस्पतिः-- यद्येवं सिद्धं नः समीहितम् । महेन्द्रः-- किमेतावता। मुग्धैरप्सरसां विलासहसितैर्वाक्यमनोहारिभिः कर्णान्तस्खलितेरपाङ्गवलितैरांरेचितभ्रलतः । बाहोः सस्तकुचोत्तरीयघटनामञ्जुक्कणकङ्कणे- ापारैरपि यो विकारपदवीं न प्रापितस्संयमी ॥५॥ तम्य पुनरचिन्तनीयमनवधिकानन्दसुन्दरमनादिनिधनमैनञ्जन- १. नहीश्वराणां इत्यादि । नहीश्वरव्याहृतयः कदाचित्पुष्णन्ति लोके विपरीतमर्थ इति कुमारसंभवः। २. आरेचितभ्रलतेः आरचिते एकेको विवर्तिते भूलते येषु तैः । स्याब्रुवोललिताक्षपादकस्या एव रोचितम् । इति नाट्यदीपिका। ३. अनञ्जनम् । "निष्कलं निष्क्रिय शान्तं निरवा निरञ्जनम्' इति श्वेताश्वतरोपनिषत् । "निष्क्रिय = स्वमाहिमप्रतिष्ठितं कूटस्थमित्यर्थः । निरञ्जनं निलेपम् । ' इति श्रीशङ्कराचार्याः ।
द्वितीयोऽङ्कः । २३ मगुणमक्रियमात्मानमबाह्येन चक्षुषा साक्षात्कुर्वतः समुपसंहृता- खिलद्वैतकल्पनाविकल्पस्य स्वतन्त्रकर्तुश्चराचरगुरोर्भगवतश्च- न्द्रमौलेः कियद्वशीकरणं गौरीपरिचरणम् । बृहस्पतिः- मघवन् , अन्ययुवतिसामान्यामेव तां न मन्येथाः । यतः ॥ आसेचनकतनुश्रीरन्तःकरणस्य किमपि संवननम् । सा खलु गिरिराजसुता संमोहनमस्त्रमेव पुष्पेषोः ॥ ६॥ महेन्द्रः- (सहर्षम। पुप्पेषोरित्युपोद्धातेन स्मारितोऽस्मि, स एव तयोगिरिजागिरिशयोर्घटने पटीयानिति । बृहस्पतिः-- (सहर्षम् । त्रैलोक्यशासने दक्षा नावकी मतिरूर्जिता । शान्तिकं पौष्टिकं कर्तुं शक्ता नः केवलं मतिः ॥ ७ ॥ ( १. आत्मानं...... । 'यमक्षरं वेदविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् । इति कुमारसंभवः । . २. आसेचनकं । 'तदासेचनकं तृप्ते म्त्यन्तो यस्य दर्शनात् । इत्यमरः । ३. संवननं - 'वशक्रिया संवननं । इत्यमरः । ४. संमोहनं । उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा । संमोहनश्च कामस्य पञ्चबाणाः प्रकीर्तिताः ॥"
२४ पार्वतीपरिणये यतो मदीयापि बुद्धिरिमां वितर्कपदवीं नावतीर्णा । तदविलम्बित- मेव समाहूयतां कामः । महेन्द्रः-- (मण्डपद्वारं विलोक्य । ) कः कोऽत्र भोः । (प्रविश्य ।) देवनन्दी- स्वामिन् , अयमस्मि । महेन्द्रः-- देवनन्दिन्, आहूयतां झटिति कामः । देवनन्दी--- तथा । इति निष्कान्तः । ( ततः प्रविशति रतिवसन्ताभ्यां सह कामः । ) कामः- सखे वसन्त, किमकाण्डे स्वामी महेन्द्रम्समाह्वयति । वसन्तः- एवं मन्ये । आर्द्रापराधकलुषीकृतया कयाचि- दाबद्धरोषमभिमानवशेन धृतः । सम्मोहनेन भवतः किल सायकेन तस्या विधातुमभिवाञ्छति चित्तभेदं ।। ८ ।। उपसृत्य सर्व ज्ञास्यामः । इत्युपसर्पनि।) महेन्द्रः- (विलोक्य सहर्षम् ।। मुखरमधुपमालाचारुमौर्वीसनार्थ त्रिभुवनजययोग्यं चापमंसे दधानः । मुखमुदितविलासं वीक्षमाणः प्रियायाः सहमधुरिह मन्दं मन्दमायाति कामः ॥९॥ काम:- १. चापमंसे इत्यादि । "रतिवलयपदाङ्के चापमासज्य कण्टे ।" इति कुमारसंभवः।
द्वितीयोऽङ्कः । २५ ।) कामः---(अञ्जलि (कामो रतिवसन्ताभ्यां सार्धमुपसृत्य चापगर्भेणाञ्जलिना सविलासं प्रणमति।) महेन्द्रः- आसनान्तिकं हस्तेन निर्दिशन् ।) सखे काम, इहोप- विश्यताम् । (कामो रतिवसन्ताभ्यां सार्धमुपविशति ।) बृहस्पतिः-अये, माननीयं भवन्तं स्थाने खलु मानयति महेन्द्रः । वर्धा त्रैलोक्यनाथस्य तवातिशक्तेः किमस्ति कार्य मघवन्मयापि । प्रकाशिताशेषदिशावकाशो दिवाकरो दीपमपेक्षते किम् ॥ १० ॥ बृहस्पतिः मा भवानेवमाचष्टाम् । असावलोकसामान्यचापविद्याधुरंधरः । करोतु कार्य सकलं बाहुस्तव 'दिवौकसाम् ॥ ११ ॥ महेन्द्रः- सखे काम. चक्रेण विष्णोरपि यद्दरापं तरस्विना वा शतकोटिना मे । तत्साधयेत्पुष्पमयं त्वदस्त्र- महो भवानद्भुतवाहुवीर्यः ॥ १२॥ १. दिवौकसां - देवानां, दिवं स्वर्ग: ओकः स्थानं येषामिति विग्रहः। "मन्दरः सैरिभः शक्रसदनं खं दिवं नमः।" इति त्रिकाण्डशेषः । 4 २६ पार्वतीपरिणये कामः-- (सगर्वम् । ) स्वामिन् , यस्ते सापत्न्यमाचरति । दनुजो वा मनुजो वा मुनिरपि वा मुग्धचन्द्रचूडो वा । सुरलोकसुन्दरीणां स भवतु बद्धः कटाक्षशृङ्खलया ॥१३॥ ( महेन्द्रो बृहस्पतेर्मुखमवलोकयति ।) बृहस्पतिः-- अये काम, यस्त्वया चरमोऽर्थः परिगणितो मुग्ध- चन्द्रचूडो वेति, स इदानीं शंकरः शैलराजकटकसीग्नि निर- तिशयशीतलान्तःकरणस्तपश्चरति । काम:- बृहस्पतिः-- तैमिदानीं पितुर्निदेशेन सौभाग्यमयीव सालभञ्जिका सौन्दर्यदेवतेव विग्रहिणी ससखीजना पार्वती परिचरति । . ततस्ततः । कामः- -- ततस्ततः । बृहस्पतिः- तयोश्च मेलने दिविषदां सुमहती कार्यसिद्धिः। सा च भवन्तमेव कटाक्षयति । १. दनुजो वेत्यादि । " तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुयों हरस्यापि पिनाकपाणे- धैर्यच्युति के मम धन्विनोऽन्ये || इति कुमारसंभवः । २. तमिदानीमित्यादि “गुरोर्नियोगाच्च नगेन्द्र कन्या स्थाणु तपस्यन्तमधित्यकायाम् । अन्वास्ते... इति कुमारसंभवः ।
द्वितीयोऽङ्कः। २७ कामः--(आत्मगतम् । ) अहो, अनात्मज्ञता हि पुंसामात्मनिधनमा- पादयति, यदहमात्मप्रशंसापरवशः परमेश्वरमपि सामान्यवृत्त्या पर्यजीगणम् । वसन्तः ( आत्मगतम् । ) अन्यदुपक्रान्तमन्यदेवापतितम् । कायं सुगन्धिविशिखः स्वदमानचापः स्त्रीणां वशीकरणकर्मणि जागरूकः । कासो ललाटनयनानलविस्फुलिङ्ग- वार्तावशेषितपुरत्रितयो महेशः ॥ १४ ॥ रतिः-- अम्हो, अचाहिदं आपडिदं जं खण्डपरसू जेदव्यो । अहो, अत्याहितमापतितं यत्खण्डपरशुर्जेतव्यः । कामः यत्पुनः परिजनपरमाणोर्मत्तोऽपि मखभुजः कार्यमिच्छन्ति तदात्मव्ययेनापि कर्म कर्तुमुद्युञ्ज । महेन्द्र:- संमोहने तव शरे संहितमात्रे गिरीन्द्रकन्यायाः। मुखमुदितमुग्धहासं विलोकयिष्यति विमुक्तधृतिरीशः॥१५॥ तंदीषत्करेऽस्मिन्कार्ये भवता न किंचिदपि शङ्कनीयम् । १. अनात्मज्ञता इत्यादि । स्फुटमापदां पदमनात्मवेदिता ।' इति माघः । २. स्वदमानचापः । स्वदमानं रोचमानं चापं यस्य सः, स्वदमान- चाप:= इक्षुचापः । ३. अत्याहितं - महाभीतिः । ४. ईषत्कर . सुकर, "ईपद:सुपुइति ग्वल ।
२८ पार्वतीपरिणये -- . त्यजन्यास्यामि कार्याय प्राणान्प्रियतमानपि । यशःशरीरममलं लभन्ते ानुषङ्गिणः ॥१६॥ तद्यथादिष्टं खामिना, तथा करिष्यामि । महेन्द्रो बृहस्पतिश्च- (हस्तमुद्यम्य । ) अस्तु स्वस्त्ययनं तवाद्य मरुतां सत्याशिषामाशिष- स्त्वां रक्षन्तु यशश्च ते मुविपुलं लोकत्रये दीव्यतु । शौर्य त्वद्भुजयोरिदं च भवतात्पुङ्खानुपुङ्खोदयं किंचोद्योगमिमं समर्थयतु नः स्वच्छन्दचेष्टो विधिः ॥१६॥ ( कामो रतिवसन्ताभ्यां सह शङ्कमानो निष्क्रान्त. ।) महेन्द्रः-गुरो, विरिञ्चयादेशानुरूपमम्माभिरेतावदनुष्ठितम् । कार्य- सिद्धौ भगवती नियतिरेव प्रभवति । १. त्यजन्यास्यामीत्यादि । " अङ्गव्ययप्रार्थितकार्यसिद्धिः । " इति कुमारसंभवः । २. अनुषङ्गिणः = कार्यसक्ताः । ३. स्वस्त्ययनं । स्वस्ति, अयनं, इति च्छेदः । अयनं मार्गः, स्वस्ति शिवं, अस्तु । “शिवास्ते पन्थानस्सन्तु ।” इति शाकुन्तळम् । यद्वा स्वस्त्ययनं = मङ्गळम् । ४. पुङ्खानुपुलोदयं । पुङ्खशब्दो यद्यपि बाणादिमूलप्रदेशवाची । तथापि अत्र शरलाक्षणिकत्वात्तस्य, यथा न्विना केनचित् शराननु शरा विमुच्यन्ते तथेत्येवं पुतानुपुङ्खशब्द: उत्तरोत्तराभिवृद्ध निरूढलाक्षणिकः ।' इति भट्टः। "
द्वितीयोऽङ्कः ।
२९
वृहस्पतिः
एवमेतत् ।
महेन्द्रः- स्थाण्वाश्रमं प्रति गच्छतः कामस्य पश्चाद्वृत्तान्तज्ञाना-
य कंचन प्रेषयितुमुटुले ।
बृहस्पतिः- अहमपि प्रस्तुतकार्यसिद्धये कुलदेवताः प्रार्थयितुं
गमिष्यामि ।
इति निष्क्रान्ताः सर्वे।
इति द्वितीयोऽङ्कः।
9.0/)
तृतीयोऽङ्कः। ( ततः प्रविशति महेन्द्रो बृहस्पतिश्च।) महेन्द्रः- गुरो, किं नाम कामः केनापि बाणसंधानेन खण्डपरशुं वशीकुर्यात् । आहोवित्संवर्तसमयदिनकरदुष्प्रेक्षं मुनिमीक्षितु- मशक्नुवन्निवर्तेत । अथवा कोपान्धकारिचेतसात्मनो भालन- यनपावकस्य पुरोडाशतां नीयेत । कथं भविष्यतीति न जाने (वामाक्षिस्पन्दनं सूचयित्वा साशङ्कम् । ) अदक्षिणमिदं चक्षुः स्फुरितैः शंसतीव मे । देवकार्यविघाताय जाग्रतो वामतां विधेः ॥ १ ॥ बृहस्पतिः-प्रतिहतममङ्गलम् । मघवन् , अनेन निमित्तेन ज्ञाप्यते वृत्तान्तज्ञेन केनचिदागन्तव्यमिति । ( ततः प्रविशति नारदः ।) नारदः- मघवदादेशेन स्थाण्वाश्रमं गत्वा तत्रत्यमुदन्तं विज्ञाय समागतोऽस्मि । तदेनमुपसृत्य निवेदयिष्यामि तत्रत्यमखिल- मुदन्तम् । (इति परिक्रामति ।) महेन्द्रः- ( विलोक्य।) अयमेव महतीवल्लभो मुनिरुपसर्पति । तदासनमुपनीयताम् । ( बृहस्पतिरासनमुपनयति ।) (नारदः उपविशांत।)
तृतीयोऽङ्कः । ३१ महेन्द्रः- (अञ्जलिं बना ।) भगवन् , कथय भद्रमभद्रं वा दिवि- षदामभिलषितम् । नारदः- सर्वमादितः प्रभृति कथयामि । श्रूयताम् । महेन्द्रः- अवहितोऽस्मि । नारद:- तथा देवकार्याय प्रस्थितं कन्दर्प तिरस्करिण्या विद्यया छन्नस्तत्रत्यवृत्तान्तजिज्ञासयाहं त्वन्निदेशादन्वसरम् । महेन्द्रः-- ततस्ततः नारदः तत्र स्थाण्वाश्रमसमीपमासाद्य कामो वसन्तमभिहितवान् । महेन्द्रः-- कथमिति । नारदः- सखे, त्वयास्मिन्हिमवदुपकण्ठकानने विजृम्भितव्यमिति । महेन्द्रः ततः स किं कृतवान् । नारदः वाचालयन्नथ कुलानि वनप्रियाणा- मङ्करयन्मलयमारुतकन्दलानि । सख्युः प्रमूनविशिखस्य भुजावलेपं संवर्धयन्मधुरजृम्भत काननेषु ॥ २ ॥ महेन्द्रः-- ततस्ततः । नारद:- दत्तं प्रियाभिर्वहुमानपूर्व- मास्वाध चूतासवमन्यपुष्टाः । आमोदिभिः पञ्चमरागभेदैः प्राबोधयन्पश्चशरावलेपम् ॥ ३ ॥ - ३२ पार्वतीपरिणये - महेन्द्रः- ततस्ततः । नारदः आधूय चन्दनतरूनुत्तमनद्यास्तरङ्गमालिङ्गय । आदाय कमलसौरभमङ्कुरितो मलयशैलपवमानः ।।५।। महेन्द्रः- ततस्ततः । नारद: चूताः कोरकिता विहाय सुदृशां हस्ताम्बुजामर्शनं तत्पादाम्बुजताडनैरपि विना कङ्केलयः पुष्पिताः । तत्सङ्गीतकमन्तरेण हसिता रम्याः प्रियालद्रुमा मुक्त्वा तद्वदनासवं मुकुलिता गन्धोत्तराः केसराः॥५॥ महेन्द्रः- ततस्ततः । - “ १. चूता इत्यादि। असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां संपर्कमाशिञ्जितनू पुरेण ॥" इति कुमारसंभवः । यद्यपि "स्त्रीणां स्पर्शात्प्रियङ्गुर्विलसति वकुलश्शीथुगण्डूषसेका त्पादाघातादशोकस्तिलककुरवको वीक्षणालिङ्गनाभ्याम् । मन्दारो नर्मवाक्यात्पटुमृदुहसनाच्चम्पको वक्रवाता- चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः ॥" इत्येव दोहदं श्रूयते। अथापि प्रकारान्तरमिदं दोहदस्येति कल्पनीयम् ।
तृतीयोऽङ्कः । ३३ - नारद: आदाय चापमधिरोपितषदपदज्यं तस्मिन्हिमाचलमुपेयुषि पञ्चबाणे । वेलातिलनि किमपि प्रणयातिरेका. द्वन्द्वानि लौल्यमभजन्त विमोहितानि ॥ ६ ॥ महेन्द्रः-- ततस्ततः । नारदः- किं वहुना। तस्मिन्वने निवसतामनुकलमुल्लङ्घय धैर्यमर्यादाम् । अबलासु निर्ममानामासीदनुरागसिन्धुरुद्वेलः ॥ ७ ॥ महेन्द्रः- एवं सकलजनविकारकारािण तम्मिन्प्रवृत्ते किं कृत- वान्कामः । नारदः-- स कामो रत्या वसन्तेन चान्वीयमानो महति देवदारु- खण्डमण्डपे तरक्षुचर्मवेर्मितायां हिमशिलावेदिकायामासीन- मन्तर्मुखनिहितचित्तवृत्तिमभ्यन्तरपवननिरोधनिश्चलाननं ना- १. आदाय इत्यादि । "तं देशमारोपित पुष्पचापे रतिद्वितीये मदने प्रपन्ने । काष्ठागतस्नेह रसानुविद्धं दन्द्रानि भावं क्रियया विवत्रुः । इति कुमारसंभवः । २. वर्मित - कवचित । ३. अभ्यन्तरेत्यादि । अवृष्टिसंरम्भमिवाम्बुवाह- मपामिवाधारमनुत्तरङ्गम् । 5 " ३४ पार्वतीपरिणये -- साप्रनिहितपक्ष्माण्यक्षीणि धारयन्तमपरमिव निस्तरङ्गमम्बुधिं तमिन्दुशेखरमपश्यत् । महेन्द्रः- ततस्ततः । नारद: ततो भगवानपि नीललोहितः प्रतीचाविलोचनेन प्रत्य- श्चमात्मानमपरोक्षीकृत्य शिथिलितपर्यङ्कबन्धः प्रणिधानाध्यरं- सीत् । महेन्द्रः-ततस्ततः । नारदः स कामस्तदर्शनेन करतलविधृतकार्मुकः कर्तव्यमपर- मजानन्क्षणमालिखित इव भयादतिष्ठत् । महेन्द्रः- ततस्ततः । नारदः अत्रान्तरे हरमुपासितुमभ्ययासी- द्वासन्तिकाप्रसवकल्पितमण्डनश्रीः । अन्तश्वराणां मरुतां निरोधा- निवातनिष्कम्पमिवप्रदीपम् ॥ इति कुमारसंभवः । १. पर्यवन्धः = वीरासनम् । " एकं पादमथैकस्मिन् विन्यस्योरौ तु संस्थितम् । इतरस्मिन् तथाचान्यं वीरासनमुदाहृतम् ॥ इति वसिष्ठः । .. २. वासन्तिकाप्रसवः = मालतीकुसुमम् । वासन्तिकप्रसवेति पाठा- न्तरम् ।
तृतीयोऽङ्कः । ३५ ततस्ततः । शृङ्गारवीरतपसामधिदेवतेव साकं सखीभिरवनीधरराजकन्या ।। ८॥ महेन्द्रः-- ततस्ततः । नारदः-- ततः स कामो लब्धावलम्ब इव समाश्वस्य दृष्टिप्रदीप- परिहारेण पाश्चात्यंभागमाश्रित्य समयं प्रतीक्ष्य स्थितवान् । महेन्द्रः- नारदः- पार्वती च सुखोपविष्टमष्टमूर्तिमष्टाङ्गस्पृष्टभूमिरवन्दिष्ट । महेन्द्रः- ततस्ततः । नारदः-- अनुरूपंरमणमासादयेति तामाशिषावर्धयदर्धचन्द्रमौलिः । महेन्द्रः-- ततस्ततः । नारदः ततः क्षणे तस्मिन्नयमेवावसर इति स कामः कामुके समधत्त संमोहनं बाणम् । महेन्द्रः ततस्ततः । नारदः- तदनु युगपदीशः पार्वतीवक्रपझे स्मितविकसितगण्डे प्राहिणोल्लोचनानि । महेन्द्रः ततस्ततः । १. समधत्त. "संमोहनं नाम च पुष्पधन्वा धनुध्यमोघं ममघत्त बाणम् । इति कुमारसंभवः ।
३६ पार्वतीपरिणये नारद:- पुलकिततनुरन्तर्भावमावेदयन्ती दरनमितमुखेन्दुः सा च सत्रीडमस्थात् ॥ ९ ॥ महेन्द्रः-- ततस्ततः । नारदः-- ततो भगवानन्तःकरणविक्रियां तपोबलेन संयम्य तत्कार- णाय विष्वग्विलोचनानि व्यापारितवान् । महेन्द्रः-- ततस्ततः । नारद:-- आरादपश्यदधिसंहितमोहनावं कर्णावतंसपदकल्पितकार्मुकज्यम् । आकुञ्चितेकपदमाञ्चितपूर्वकार्य लक्ष्यीकृतात्मवपुष मदनं महेशः ॥ १० ॥ महेन्द्र:- ( सभयम् । अवशिष्टं च कथ्यताम् । नारदः--तदनु प्रकुपितस्य शूलिनो भाललोचनादुदजृम्भत ज्वाला- वलीजटालो ग्रासलालस इव कालानलो वह्निः । महेन्द्रः- सनिर्वेदम् । ) किमतः परं निवेद्यते । १. ततो इत्यादि। "अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वादलवनिगृह्य । हेतुं म्वचेतो विकृतेर्दिदृक्ष दिशामुपान्तपु ससर्ज दृष्टिम् । ' इति कुमारसंभवः ।
तृतीयोऽङ्कः । नारदः- तेन पुरारेनयनानलेन मदनः शलभतां नीतः । (महोन्द्रो मूर्च्छति । नारदः समाश्वासयति।) महेन्द्रः- (आश्वस्य ।) हा भुवनरमणीय पुष्पबाण सकलजना- नन्दन, पुरन्दरस्यार्थे त्यक्तजीवितोऽसि । वृहस्पतिः- मघवन् , मा विषीद । भवितव्यता हि बलवती । तदास्ताम् । रतिः किं कृतवती । नारद:- रतिरपि मोहं प्राप्ता । महेन्द्रः-- किं कृतवान्वसन्तः । नारदः मोहं प्राप्तः सखा वसन्तोऽपि । महेन्द्रः मूच्छितो रतिवसन्तो किमन्वतिष्ठताम् । नारदः प्रथमाश्वस्तेन मधुना कथंचित्संज्ञां लम्भिता रतिः पुरतः परुषपवनविकीर्यमाणपांसुपटलं भसितमयं पुरुषाकृति पत्युरङ्ग मालिङ्गय गुरुतरशोकोपहता कुररीव प्रियवियोगमापन्ना । आक्रन्ददार्तनादं बाष्पस्नपितोनतस्तनी बाला ॥११॥ महेन्द्रः-- ततस्ततः । नारद: तदनु हा नाथेति बहु विलपन्ती रतिमाश्वासयदाकाश- संभवा वाणी । यथा १. पुरुषाकृति इत्यादि । " ददृशे पुरुषाकृति क्षिती हरकोपानलभस्म केवलम् । " इति कुमारसंभवः ।
पार्वतीपरिणये मुश्च शोकमयि कामवल्लभे . लङ्घन्यते जगति केन कल्पना। उद्भविष्यति पुनश्च ते पतिः पार्वतीपरिणये पिनाकिनः ॥ १२ ॥ इति । महेन्द्रः समाश्वस्य सहमिव ।) भग्नो मनोरथो मे पुनरङ्करितुं किलायमुद्युते । दावाग्निलीढशेषस्तरुरिव धाराधरेण संसिक्तः ॥ १३ ॥ बृहस्पतिः-- मघवन् , सत्यमेव वैहायसी वाणी । सर्वथा कामः पुनरुद्भविष्यति । महेन्द्रः नारद:- कथंचित्प्रत्याश्वम्ता रतिनीता सा समानदुःखेन मधुना निजं भवनम् । महेन्द्रः-- कामं कथावशेषं कृत्वा कालकण्ठः किमकरोत् । नारदः- स्त्रीसन्निकर्षपरिजिहीर्षया सह भूतगणेन भूतपतिरन्त- निमकरोत् । ततस्ततः । १. मुञ्च इत्यादि । "परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः । उपलब्धसुखम्तदा स्मरं वपुषा खेन नियोजयिष्यति ।" इति कुमारसंभवे अशरीरोक्तिः ।
तृतीयोऽङ्कः । महेन्द्रः- किं कृतवती पार्वती । नारदः- आगत्य दोामादाय मूर्छामुकुलितेक्षणा। नीता नितान्तवात्सल्यागौरी हिमवता गृहम् ॥ १४ ॥ महेन्द्रः -भगवन्नारद, श्रुतं श्रोतव्यम् । किमतः परं प्रतिपद्यसे । नारद: पुनरिमं वृत्तान्तं सत्यलोकवर्तिने चतुर्मुखाय निवेदयितुं गमिष्यामि । (इति निष्कान्तः । (ततः प्रविशति रम्भा) रम्भा--- कुबेरभवणादो णिवट्टमाणाए ओसहिप्पत्थणअरे जो मए आकाण्णदो वुत्तन्तो तं सामिणे विण्णवेमि । इति परिक्रामति ।) कुबेरभवनान्निवर्तमानयौषधिप्रस्थनगरे यो मया आणितो वृत्तान्तस्तं स्वामिने विज्ञापयामि । महेन्द्रः-- : विलोक्य । 'सञ्चारिणीव वल्ली विद्युल्लतिकेव चापलोन्मुक्ता । मोहनकलेव मूर्ता कास्विदियं कमलपत्राक्षी ॥ १५ ॥ निरूप्य । रम्भा खल्वियम् । रम्भा उपसृत्य । । जेदु जेदु भट्टा । जयतु जयतु भर्ता । महेन्द्रः--- रम्भे कुत आगम्यते भवत्या । रम्भा-- कुबेरभवणादो। कुबेरभवनात् । १. सञ्चारिणीव । “सञ्चारिणी पल्लविनीलतेव" इति कुमारसंभवः । ...
पार्वतीपरिणये महेन्द्रः-- किमस्ति तत्रापूर्वो वृत्तान्तः । रम्भा-- णीललोहिदम्स णिडिलग्गिकीलजालेण कहावससिदो कामो- त्ति सव्वो भणइ । अण्णं च किं वि ओसहिप्पत्थणअरे । नीललोहितस्य निटिलाग्निकीलजालेन कथावशेषितः काम इति सर्वो भणति । अन्यच्च किमप्योषधिप्रस्थनगरे । महेन्द्रः-- किं तदन्यत् । मम्महदाहेण भग्गमणोरहा पवई परमेस्सरं जेव्व पई अहिलसन्दी कठिणेहिं तवच्चरणेहिं अत्तणो अहिलासं पूरिद इम्सदि ति । मन्मथदाहेन भग्नमनोरथा पार्वती परमेश्वरमेव पतिमभि- लषन्ती कठिनैस्तपश्चरणैरात्मनोऽभिलाषं पूरयितुमि- च्छतीति । महेन्द्र:--- किमुक्तमस्मिन्नर्थे मातापितृभ्याम् । रम्भा मेणआदेवीए एव्वं भणिदम् । मेनकादेव्या एवं भणितम । महेन्द्रः- किमिति । परुसो तवोविसेसो तुह उण अग्गं सिरीससुउमारम् । विवसिदमेदं कहिणं पव्वइ ता दुक्करं त्ति पडिभाइ ॥ १६ ॥ १. कीलजालेन ज्वालासमूहेन । “वडूयोर्खालकीलौ” इत्यमरः । २. मातापितृभ्यां । “मातापितरौ पितरौ मातरपितरौ प्रसूजनयि तारौ।" इत्यमरः ।
तृतीयोऽङ्कः। ४१ 'परुषस्तपोविशेषस्तव पुनरङ्गं शिरीषसुकुमारम । व्यवसितमेतत्कठिनं पार्वति तद्दष्करमिति प्रतिभाति ॥ महेन्द्रः- किमुक्तं हिमवता। रम्भा- अस्थि अणुमदं देण । अस्त्यनुमतं तेन । महेन्द्रः- रम्भे, साधीयांसमुदन्तमानीतवती । गच्छ त्वं समुचि- तनियोगकरणाय । तहा। तथा। (इति निष्कान्ता ।) । नेपथ्ये) वैतालिकः- आधूय प्रणयं विवस्वति गते देशान्तरं पधिनी सोहूं तस्य वियोगमक्षमतया म्लायत्सरोजानना। सन्ध्यावल्कलिनी द्विरेफपरिषद्रुद्राक्षमालावती तत्माप्तिस्पृहयेव संप्रति तपस्सक्ता समालक्ष्यते ॥ १७ ॥ महेन्द्रः- (आकर्ण्य । वयमपि सन्ध्यां वन्दितुं साधयामः । [इति निष्कान्ताः सर्वे । इति तृतीयोऽङ्कः। १. परुष इत्यादि। “तपः क वत्से क च तावकं वपुः । " इति कुमारसंभवः । २. वैताळिकः । विगतेन विविधेन वा तालेन चरति व्यवहरतीति वैतालिकः । “तत्तत्प्रहरणयोग्यै रागैस्तत्कालवाचिभिः श्लोकैः । सरभसमेव विताल गायन्वैतालिको भवति ।" इति तल्लक्षणम् । ३. आधूयेत्यादि । अनेन पार्वतीतपश्चरणमपि क्रोडीकृतम् । तथा चोत्तरत्र वक्ष्यति "क्षीणा पार्वतीनलिनी" इति । ४. सन्ध्यावल्कलिनी = सन्ध्यारागरूपवल्कलसहिता । 6 चतुर्थोऽङ्कः। ततः प्रविशति गृहीतमुनिविग्रहो नन्दी ।) नन्दी--- आज्ञप्तोऽस्मि भगवता नीललोहितेन यथा--' नन्दिन् , मन्मथदाहेन भनमनोरथा पार्वती मन्निबन्धेन भावेन महान्तं नियममनुतिष्ठन्ती गौरीशिखरनाम्नि पितुः शिखरे तपश्चरति । तपस्यन्त्याश्च तस्या व्यतीतो बहुतिथः कालः । तद्भवान् गृहीतमुनिवेषः तत्र गत्वा कीदृशो वा तम्या नियमः, की- दृशो वाभिलाषबन्ध इति तत्सख्योर्जयाविजययोर्मुखेन विदित्वा पुनरागच्छतु' इति । तत्प्रभोर्नियोगमनुतिष्ठामि । ( इति परि- क्रामन्विमृश्य । ) प्रकृतिकठिनानि खलु स्त्रीणां चेतांसि । तथाहि । एषा शिरीषसुकुमारशरीरयष्टि- चान्द्री कलेव नयनोत्सवमावहन्ती । सञ्चेतुमिच्छति शिलाकठिनैः शरीरैः संपादितान्यपि तपांसि तपोधनानाम् ॥ १ ॥ अपि च । शेते या किल हंसतूलशयने निद्राति सा स्थण्डिले वस्ते या मृदुलं दुकूलमबला गृह्णाति सा वल्कलम् । या वा चन्दनपङ्कलेपशिशिरे धारागृहे वर्तते पश्चानामुदितोष्मणां हुतभुजां सा मध्यमासेवते ॥२॥ १. बहुतिथः = बहूनां पूरण: । पूरणार्थके इटि बहुपूगगणेति तिथुगागम: । "काले गते बहुतिथे” इति शाकुन्तलम ।
चतुर्थोऽङ्कः । रथकल्पद्रुमः ततः प्रविशतः कुसुमावचयमाचरन्त्यो जयाविजये।) जया हला विजए, तवच्चरणे किदमदीए पिअसहीए गौरीए मणोरहकप्पदुमो कदा फलं दंसहस्सदि । सखि विजये तपश्चरणे कृतमत्या प्रियसख्या गौर्या मनो- : कदा फलं दर्शयिष्यति । विजया हला जए तहा मम्महदाइपरुसहिअओ णिक्करुणदाए पुडम णिदंसणभूदो परमेम्सरो जदा अद्दहिअओ हुविस्सदि तदा फलं दसइम्सदि । सखि जये, तथा मन्मथदाहपरुषहृदयो निष्करुणतायाः प्रथमं निदर्शनभूतः परमेश्वरो यदा आर्द्रहृदयो भवि- प्यति तदा फलं दर्शयिष्यति । इति पुष्पावचयमाचरतः । नन्दी- इमे खलु तम्याः प्रियसख्यौ जयाविजये। यावदुपसर्पामि । तथा करोति ।) जया हला मम पुप्पकरण्डअं पूरिदं पुप्फेहिं । तुह उण कहम् । मखि मम पुष्पकरण्डकं पूरितं पुष्पैः । तव पुनः कथम् । विजया- पुष्पकरण्डकं विलोक्य मम उण अद्ध पूरिदं । अव- सिटुं पूरइस्सम् । मम पुनरर्ध पूरितम् । अवशिष्टं पूरयिष्यामि । इति पुष्पकरण्डकं पुष्पैः पूरयति ।) नन्दी- (उपसृत्य ।) भद्रं भवत्तीभ्याम् । जयाविजये- भअवं वन्दामो। भगवन् , वन्दावहे । नन्दी- के युवाम् , किन्निमित्तं वा पुष्पावचयमाचरथ ।
पार्वतीपरिणये उभे- अह्मे हिमवदम्स कण्णाए गौरीए पिअसहीओ । तवच्च- रणणिअमट्ठिदाए ताए देवपूआपुप्फाई अवचिणुमो । आवां हिमवतः कन्यायाः गौर्याः प्रियसख्यौ । तपश्चरण- नियमस्थितायास्तस्याः देवपूजापुष्पाण्यवचिनुवः । नन्दी- किंनिमित्तं वा तपस्तम्याः । अणुरूवं वरं लहेअं त्ति । अनुरूपं वरं लभेयेति । नन्दी--कोऽसावनुरूपो वरः । जया- जं किल भणन्दि आ णिचजुवाणं पुराणपुरिसं च । जो किल धारइ णिचं ईम्सरसदं च चन्दलेहं च ॥ ३ ।। यं किल भणन्ति वेदा नित्ययुवानं पुराणपुरुषं च । यः किल धारयति नित्यमीश्वरशब्दं च चन्द्रलेखां च ।। एसा णो प्पिअसही तं जेव्व परमेम्सरं पई अहिलसन्दी महि- न्दप्पमुहं लोअपालं अवमण्णि तवञ्चरणं करेइ । किं च मम्महदाहिविरहादो पिदुणो घरं प्पविसिअ बलिअं उक्कण्ठिदा आसी। एषा नौ प्रियसखी तमेव परमेश्वरं पतिमभिलषन्ती महे- न्द्रप्रमुखान लोकपालानवमान्य तपश्चरणं करोति १. य: किलेत्यादि । अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् । शब्दमीश्वर इत्युच्चैः सार्द्धचन्द्रं विभर्ति यः ।" इति कुमारसंभवः ।
चतुर्थोऽः । १५ - अतः किं च मन्मथदाहिविरहात्पिर्तुगृहं प्रविश्य बलवदुत्कण्ठि- तासीत् । नन्दी- तत्कथम् , उच्यताम् । जया- पाण्डुक्खामसरीरा झत्ति णमन्तवअणसरसिरहा । क्खीणा पवइणलिणी पसुपइणो विरहगिह्मण ॥ ४ ॥ पाण्डुक्षामशरीरा झटिति नमद्वदनसरसिरहा । झीणा पार्वतीनलिनी पशुपतेविरहग्रीष्मेण ।। नन्दी- ततः परं कथमासीद्वां प्रियसखी । जया- अदो वरं सुणु । परं शृणु। चन्दं वारइ चन्दणद्दिपवणप्पम्सं ण संमण्णइ सजं पल्लवकप्पिदं ण सहई चन्दाअवं णिन्दइ । णो वा पोम्मपलासणिम्मिअथणप्पावारअं खम्मइ सां णीहारसिलाअले सुणु वरं तावादुरा वट्टइ ॥५॥ चन्द्रं वारयति चन्दनाद्रिपवनस्पर्श न संमन्यते शय्यां पल्लवकल्पितां न सहते चन्द्रातपं निन्दति । नो वा पद्मपलाशनिर्मितस्तनप्रावारकं क्षाम्यति सा नीहारशिलातले शृणु परं तापातुरा वर्तते ।। नन्दी- एवं प्रबलमदनज्वरा सा पश्चात्किं कृतवती । उभे- पच्छा के वि उवाअं अपेक्खन्ती तवचरणेहिं परमेस्सरं अहिमुहीकार्नु पउत्ता तहा तिव्वणिअमं करेइ । १. स्तनप्रावारक स्तनोत्तरीयम् ।
पार्वतीपरिणये - पश्चात्कमप्युपायमपश्यन्ती तपश्चरणैः परमेश्वरमभिमुखी- कर्तु प्रवृत्ता तथा तीब्रनियमं करोति । नन्दी- कथय, कीहक् पशुपतेरस्यामनुरागः । जया अण्णोण्णं पुण सुमहन्तो अणुराओ । अदो वरं सो एव्व जाणाइ। अन्योन्य पुनस्सुमहाननुरागः । अतः परंस एव जानाति । नन्दी- तत्किमनेन संदिग्धफलेन दुर्लभवन्तुप्रार्थनानिर्बन्धेन । देवेष्वियं यं कंचिदनुरूपं वरं वृणीताम् । अयं पुनः खण्ड- परशुरग्रणीरेव वीतरागाणाम् । तद्वद्धिमुपदिशतां भवत्यो प्रियसख्याः। जया- भअवं, एव्वं अह्माणं प्पिअसहीए व्यवसिदं जहा परमेस्सरं एव्व पइं लहेअम् । अण्णहा अत्थ एव्व सिहरे कठिणेहिं तवच्चरणेहिं विलीणा भवेअंति। भगवन् , एतदस्माकं प्रियसख्या व्यवसितं यथा परमेश्व रमेव पतिं लभेय । अन्यथावैव शिखरे कठिनैस्तपश्च- रणैर्विलीना भवेयमिति । नन्दी (आत्मगतम्। ) श्रुतं श्रोतव्यम् । तमिमं वृत्तान्तं नील- लोहिताय निवेदयामि । (प्रकाशम् ) भद्रे, यथागतं गमिष्यामि । (इति निष्क्रान्तः ।) जया- अम्हे वि प्पिअसहीए पूआपुप्फाई उवहरामो । आवामपि प्रियसख्याः पूजापुष्पाण्युपहरावः । [इति निष्क्रान्ते । इति मिश्रविष्कम्भकः ।
चतुर्थोऽङ्कः । ततः प्रविशति 'नैष्टिकभूमिकावलम्बी शङ्करः। शङ्करः- (आत्मानं निर्वर्ण्य । पर्याप्तेयं आत्मानं निर्वर्ण्य । ' पर्याप्तेयं भूमिका पार्वती प्रतार- यितुम् । तथाहि । अंसे कृष्णाजिनश्रीस्त्रिगुणविरचिता मेखला श्रोणिभागे पाणावाषाढदण्डो भसिनविरचितं पुण्ड्रकं भालदेशे। दभैः क्लुप्तं पवित्रं श्रवसि परिणमन्मातुलुङ्गीपिशङ्गी मौलौ पङ्किर्जटानां जपवलयमिदं स्फाटिकं च प्रकोष्ठे ॥६॥ ( विचिन्त्य । यत्सा मन्मथमोहनास्त्रसमये सापत्रपा चारुणा वक्त्रेण स्मितफुल्लगण्डफलकं व्रीडाविलोलेक्षणं । १. नैष्टिकः - निष्टा आमरणं ब्रह्मचर्येण वर्तिप्ये इत्येवं निश्चयः यस्यास्ति सः। “आजीवब्रह्मचारी यो नैष्टिकम्स निगद्यते । २. अंस इत्यादि । “हारिणमैणेयं वा कार्ण ब्राह्मणस्य" इति, " ऐणेयेनाजिनेन ब्राह्मणं " इति चापस्तम्बाश्वलायनौ । “मौञ्जी मेवला त्रिवृद्राह्मणस्य'' इत्यापस्तम्ब: ब्राह्मणो बैल्वपालाशी " इति मनुः । ३. परिणमन्मातुलङ्गीपिशङ्गी परिणमन्ती परिपक्का या मातुलुङ्गी मातुलङ्गीफलं तद्वत् पिशङ्की कपिलवर्णा । "अथाजिनाषाढधर: प्रगल्भवाक् ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्चिजटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ।। इति कुमारसम्भवः । :
पार्वतीपरिणये उन्मीलत्पुलकाङ्कुरं स्थितवती प्राप्लेव रूपान्तरं तन्वी तत्पुनरय चेतसि मम प्रादुर्भवत्यञ्जसा ॥ ७ ॥ तदिदानीमेव गाढतरतरणिकिरणपरिक्लान्तामिव मेदिनीं मेघः कठिनतपोविशेषतप्तामभ्युपपत्स्ये। यद्येवं जयाविजयाभ्यां निवे- दितो भावबन्धस्तस्या नन्दिना मह्यमर्पितः, तदात्मानमपरक्त मिवावधारयामि । ( इति मविनयं परिकामति ।) ततः प्रविशति जयाविजयाभ्यामन्वास्यमाना तपस्यन्ती पार्वती ।) पार्वती- (वामाक्षिस्पन्दनं सूचयित्वा ।) हला प्पिअसहिओ, हला प्रियसख्यौ, आणन्दवाहसिसिरं अकारणं फुरइ लोअणं वामम् । मह मन्दभाइणीए जाअइ एदस्स अज्ज किं णु फलम् ॥ ८॥ आनन्दबाष्पशिशिरमकारणं स्फुरति लोचनं वामम्। मम मन्दभागिन्या जायते एतस्याद्य किं नु फलम् ॥ जया-हला पव्वइ, इथिआणं वामक्खिचलणं पुरिसाणं दक्खि- णक्खिचलणं सुसउणं ति पउराणिआ भणन्दि । तहा मम्म- हदाहणिक्करुणो वि परमेस्सरो कम्स वि मुणिणो मुहेण तुम अणुगिहिस्सदि । सखि पार्वति, स्त्रीणां वामाक्षिचलनं पुरुषाणां दक्षिणाक्षि- चलनं सुशकुनमिति पौराणिका भणन्ति । तथा मन्म- थदाहनिष्करुणोऽपि परमेश्वरः कस्यापि मुनेर्मुखेन त्वामनुग्रहीष्यति । १. अभ्युपपत्स्ये = अनुग्रहीष्यामि ।
चतुर्थोऽङ्कः ।
दृष्ट्वा ।।
पार्वती सच्चं होदु प्पिअसहीए वअणम ।
सत्यं भवतु प्रियसख्या वचनम् ।
विजया सच्चं भणिदं सहीए जआए ।
सत्यं भणितं सख्या जयया ।
शंकर:- (पार्वती
केदं तपः कठोर केदं सुकुमारमङ्गमबलायाः।
दिवसः कुत्र घनोष्मा कुत्र कला कमलकोमला चान्द्री ।।९।।
अहो महान्तं तपःक्लेशमनुभवति मामुद्दिश्य मञ्जुभाषिणी ।
जया- विलोक्य । हला पव्वइ, गहिअतणू विअ पुडमम्समो
जुवा को वि महापुरिसो इदोमुहो आअच्छइ ।
मखि पार्वति, गृहीततनुरिव प्रथमाश्रमो युवा कोऽपि
महापुरुष इतोमुख आगच्छति ।
पार्वती- आअदाणं अदिहीणं तुम्हेहिं अञ्चणा कादव्वा । अहं
उण जहापुव्वं णिअमं अणुचिट्ठामि ।
आगतानामतिथीनां युवाभ्यामर्चना कर्तव्या। अहं पुन
यथापूर्व नियममनुतिष्ठामि ।
। इति मौनमवलम्बते ।।
शंकरः-- निर्वर्ण्य ।
आभाति वल्कलवती पाण्डुक्षामा मदीयविरहेण ।
पतिपत्कलेव चान्द्री संध्याशकलेन संवीता ।। १० ॥
(इति समीपमुपसर्पति । जयाविजय विष्टरमुपनयतः । शंकरः उपविश्य
मार्गखेदं नाटयति । पार्वती सख्यौ विलोकयति । मम्म्यो वर्णिनं
तालवृन्तेन वीजयतः ।)
7
५० पार्वतीपरिणये शंकरः हस्तमुद्यम्य । गतः श्रमोऽस्माकमनन्यसामान्येन भव- तीनां सौजन्येन । उभे- (सविनयम् ) कुदो आअच्छदि महापुरिसो । कुत आगच्छति महापुरुषः । शंकरः अद्य कैलासादागम्यते । जया- जइ एव्वं अग्धं पडिगेण्हाद महापुरिसो। यद्येवमयं प्रतिगृह्णातु महापुरुषः । शंकर:--- तथा । इत्यर्थ्यप्रतिग्रहं रूपयित्वा ।' भद्रे, एकं प्रष्टुमभि- लषामो भवत्या । ४ जया- पुच्छदु महापुरिसो। पृच्छतु महापुरुषः । शंकरः-- कम्येयं दुहिता. के भवत्यो. किंनिमित्तं वा कठोरे तपसि वर्तते । जया एसा णो प्पिअसही हिमवदम्स कण्णा पवईणामहेआ। अम्हे वि से प्पिअसहीओ जआविजए । अणुरूववरला- हणिमित्तं अ से तवच्चरणम् । एषा नौ प्रियसखी हिमवतः कन्यका पार्वतीनामधेया। आवामप्यस्याः प्रियसख्यौ जयाविजये। अनुरूपवरला- भनिमित्तं चास्यास्तपश्चरणम ।
चतुर्थोऽङ्कः । ११. शंकर:- जन्मान्ववाये प्रथमस्य धातुः पिता गरीयान्गिरिसार्वभौमः । वपुर्मनोहारि वचश्च रम्यं पदं च लोकादतिलांकमस्याः ॥ ११ ॥ तत्किमनया प्रार्थनीयो वरस्त्रिलोक्याम् । अत्थि को वि महापुरिसो। अस्ति कोऽपि महापुरुषः । शंकरः---- कोऽसावात्मसौभाग्यविशेषदुर्विदग्धः कठिनहृदयः । जया- महापुरिस, सुणाहि दाव । ( · जं किल भणन्ति वेआ ' इत्यादि पठित्वा । तं एव्व परमेम्सरं अहिलसन्दी णो प्पिअसही तवोणिअमं अनुचिट्ठइ । महापुरुष, शृणु तावत् । तमेव परमेश्वरमभिलषन्ती नौ प्रियसखी तपोनियममनुतिष्ठति । जया- १. जन्मत्यादि । "कुल प्रसूतिः प्रथमस्य वधस: त्रिलोकसौन्दर्यामवोदितं वपुः । अमृग्यमैश्वर्यमुग्वं नवं वयः तप:फलं स्यात्किमतः परं वद ।। इति कुमारसंभवः । २. आत्मसौभाग्य अवैमि मौभाग्यमदन र्वाञ्चनं तव प्रिय । इति कुमाग्मभवः ।
५२ पार्वतीपरिणये शंकर: पार्वती प्रति । भद्रे. अपि सत्यमेतत् । पार्वती- (मौनमुन्मुच्य । महापुरिस, जहा आअक्खिदं सहीहिं तहा मे मणोरहो। महापुरुष, यथाख्यातं सखीभ्यां तथा मे मनोरथः । शंकरः- आत्मगतम् ।। इदानीमात्मनिन्दनैरपि अविचालि चित्त- मस्याः परीक्षिष्ये । (प्रकाशं । सहस्ततालं प्रहस्य । आलेपो भसितं विभूषणमहिर्वासः पितॄणां बने वेतालाः परिचारकाः प्रतिदिनं वृत्तिश्च भिक्षामयी । इत्थं यस्य शुभेतराणि चरितान्याख्यान्ति सर्वे जना- स्तस्मिन्मौग्ध्यवशान्मानिस्तव रुचिं बध्नाति किं ब्रूमहे ॥१२॥ अन्यञ्च । जगत्त्रयीलोचनवालचन्द्रिका कुलस्य रत्वं भवती क भूभृतः । क कृत्तिवासाः पितृकानने वस- नमङ्गलाचारतिस्त्रिलोचनः ॥ १३ ।। पार्वती की पिधाय ।) सन्तं पावं. सन्तं पावम् शान्तं पापम , शान्तं पापम । १. आलेप इति । " श्मशानचारी सततं व्यालाभरणभूषितः । निन्दितविलोकेषु स कथं वाञ्छ्यते त्वया । चिताभस्मविलिमाङ्ग वातुलं जटिलं हरम् ।। इति शिवपुराणम् ।
चतुर्थोऽङ्कः । शंकरः- यद्येवं तं दृढतरो मनसि निश्चयम्तर्हि । विधुतुदं चान्द्रमसी यदि कामयत कला । वरं वृणीताद्भवती संप्रत्येव पिनाकिनम् ॥ १४ ॥ पार्वती- मुखवैवर्ण्य रूपयित्वा । जं कुन्वन्ति खु णिअमा सअला अवि मउलिणा णमक्कारम् । तं गिरिसं णिन्दन्तो किं णु तुह जिहा ण होइ णिभिण्णा ॥१५॥ 'यं कुर्वन्ति खलु निगमास्यकला अपि मौलिना नमस्कारम। तं गिरिशं निन्दतः किं नु तव जिह्वा न भवति निर्मिन्ना ॥ हला सहि, महापुरिसणिन्दाकालिणं ण तारिसं पावं जारिसं सुणं- दाणम् । एस उण बम्हणो इस्सरणिन्दाणिरङ्कुसमुहो ता अण्णदो सरामो। इति विनसमानवल्कलमन्यतः परावर्तते ।) हला सखि, 'महापुरुषनिन्दाकारिणां न तादृशं पापं, यादृशं शृण्वतां । एष पुनर्ब्राह्मण ईश्वरनिन्दानिरङ्कुश- मुखस्तदन्यतः सरामः । १. यमिति । यमुद्दिश्य नमस्कारं कुर्वन्तीत्यर्थः । २. महापुरुषेत्यादि । वार्यतामालिविप्राऽयं महद्दूषणभाषकः । न केवलं पापभागी श्रोता वैस्यानसंशयः । इति ब्रह्मपुराणम् पार्वतीपरिणये शंकरः- स्वरूपं प्रकाश्य । परिणाहि स्तनयुगलं कृशमवलग्नं क्षमेत किं गिरिजे । तव हस्तदानचतुरस्तपसा हि कृतोऽयमस्मि दासजनः॥१६॥ (इति पार्वत्या हस्तमवलम्बते । पार्वती सभयविस्मय प्रहर्षा पुलकिततनुः प्रस्विनगण्डा प्रतिपत्तिमूढा तिष्ठति ।) जया-पिणो, प्पि णो । सण्णिहिदो परमेम्सरो अम्हाणं सक्कम्मपरिणामेण । प्रियं नः, प्रियं नः । संनिहितः परमेश्वरोऽस्माकं सत्क- र्मपरिणामेन । शंकरः- आविःश्रमाम्बुकणिकामङ्गलतां गाढमङ्कुरत्पुलकाम् । मण्डितपयोधरान्तामालिङ्गय कृती भवाम्यहं गिरिजे॥१७॥ तदिमां गान्धर्वेण विवाहेन पाणो कर्तुमाभिलषामि । .१.. परिणाहीत्यादि । “ रम्भोरु संहर भयं क्षमते विकारमुकाम्पनः स्तनतटस्य न मध्यभाग: ।” इति मालतीमाधवम् । २. “क्रीतस्तवाहं दासोऽयं घोरेण तपसामुना । इति शिवपुराणम् । ३. गान्धर्वेणेति । "गान्धर्वेण विवाहेन।' इति शाकुन्तळम् । "इच्छयान्योन्यसंयोग: कन्यायाश्च वरस्य च । गान्धर्वस्सतु विज्ञेयो मधुन्यः कामसंभवः ॥ इति तल्लक्षणम् ।
चतुर्थोऽङ्कः । , जया-भअवं, अम्हाणं पत्थणा तुए कादव्वा। जहा सअल- कुलाचलचक्कवट्टिणो तादस्स हिमवदम्स घरणिम्मिअविवाह- कजे उवट्ठिअ इमं पडिच्छ । भगवन , अस्माकं प्रार्थना त्वया कर्तव्या । यथा सकलकु- लाचलचक्रवर्तिनस्तातस्य हिमवतो गृहनिर्मितविवाह कार्ये उपस्थायेमां प्रतीच्छ । शंकर:- ( मनिर्वेदमात्मगतम्। इतःपरं कथमिमां विहाय वर्तिष्ये । प्रकाशम् । भवतु । लोकयात्रा न हातव्या । जया- पञ्चसदिवसब्भन्तरे जहा विवाहमङ्गलं हुविम्सदि तहा करीअदु। पञ्चषदिवसाभ्यन्तरे यथा विवाहमङ्गलं भविष्यति तथा क्रियताम् । शंकर:---- त्रिचतुरदिवसाभ्यन्तर इति वक्तव्यम् । तथाहि । क्षणमपि विरहे मम प्रियायाः कलयति कल्पसहस्रकोटिसाम्यं कतिपयदिवसप्रयोगमेनं कथमिव हन्त सहिष्यते मनो में ॥ १८ ॥ पाणिं मुश्चति । १. क्षणमपीति । मे मन: कर्तृ, क्षणमपि कल्पसहस्रकोटिसमं मन्यते । कल्पसहस्रकोटिभिः साम्यं सादृश्यं यस्य तमिति बहुव्रीहिः । एनं कतिपयदिनप्रयोगं - कतिपयदिवसबोधक पञ्चषदिवसेति पदप्रयोगं ।
पार्वतीपरिणये
जया-- अमे गच्छम्मो विवाहमङ्गलं संवादेदुम् ।
वयं गच्छामो विवाहमङ्गलं संपादयितुम्
शंकरः-- तथा क्रियताम् । वयमपि सप्तर्षीन्विवाहमङ्गलाय प्रेषयितुं
गमिष्यामः ।
[इति निष्कान्तास्सर्वे ।
इति चतुर्थोऽङ्कः ।
१. मप्तर्षीनिति । .. मर्गचिरङ्गिरमौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्चेनि ममते लोके मतर्षयस्स्मृताः ॥"
पञ्चमोऽङ्कः। ततः प्रविशति कञ्चुकी। कञ्चकी आज्ञप्तोऽस्मि सकलकुलाचलचक्रवर्तिना हिमवता । यथा 'शिलाधर , पूर्वेचुरेव परमेश्वरप्रहिताः सारुन्धतीकाः सप्त- र्षयः समागत्य लब्धवराया वत्साया दिनमिदं विवाहमङ्गल- योग्यमकल्पयन् । तद्भवता चौषधिप्रस्थवासिनः पौराः पुरं परिष्क्रियतामिति नियोक्तव्याः' इति । तत्प्रभोनियोगमनु- तिष्ठामि । इति परिक्रम्य सर्वतो विलोक्य । भो भोः पौराः, संनयन्तां विचित्राः प्रतिभवनमिह श्रेणयस्तोरणाना- मुन्नम्यन्तां समन्ताद्गगनतललिहः केतनानां पताकाः। संसिच्यन्तां पटीरद्रवभरितजलैर्वीथयो मुक्तपुष्पाः समाप्तोऽसावुमायाः परिणयदिवसो विश्वमाङ्गल्यहेतुः ॥१॥ ( आकाशे । ) किं ब्रूथ, ‘भवद्वचनात्प्रागेव सर्वमस्माभिर्द्विगुण- माचरितम्' इति । सर्वनो निर्वर्ण्य सहर्षम । अहो . अस्म- दादेशात्प्रागेव प्रवृत्तमहोत्सवं नगरम् । तथाहि । एषा वन्दनमालिका विरचिता चूतप्रवाले वै- रम्भास्तम्भपरिष्कृतेषु भवनद्वारेषु संलक्ष्यते । १. वन्दनमालिका । "मङ्गल्यं दाम वन्दनमालिका ।" इति हेमचन्द्रः । २. रम्भा "द्वारिद्रारि निवेशयन्तु कदळीस्तम्भान्विनम्रान्फलैः ।' इति जानकीपरिणयम् । } । . ४ ५८ पार्वतीपरिणये आमन्द्रध्वनयः कणन्ति मुरजा मूर्च्छन्ति तत्रीस्वनाः शिञ्जानैर्मणिभूषणेस्तत इतो नृत्यन्ति वाराङ्गनाः ॥२॥ इतश्च। उत्सर्पदागरवधूपपरम्पराभिः प्रादुर्भवत्यभिनवो जलदागमोऽयम् । उन्नद्धतोरणमाणिप्रभया स्फुरन्त्या संजायते च शतमन्युशरासनश्रीः ।। ३ ।। अन्यतश्चामूः । धवलारुणमेचकरपाङ्ग रपरामारचयन्ति रङ्गवल्लीम् । कुचयोयुगलेन पूर्णकुम्भा- पुनरुक्तानिव कुर्वते मृगाक्ष्यः ॥ ४ ॥ सर्वतोऽवलोक्य । विक्षिप्तः सरभसमेव पौरलोक- विस्फूर्जकनकरजःपिशङ्गदीप्तिः । प्रत्यग्रामणिमयूखजालशोभा माधते दिशि दिशि वौमः परागः ॥ ५ ॥ तदिमं प्रवर्तमानं पुरपरिष्कारं प्रभवे निवेदयामि । .. १. आगरवा: = अगक संबन्धिनः । २. रकवल्ली भक्तिरचनां । कोलं इति द्राविडभाषा ।
पञ्चमोऽङ्कः । म म्वामी । .. : नतः प्रविशति विवाहस्थानमधिवन्हिमवान । हिमवान्- पूर्व नारदमूचनेन महता चन्द्रार्धचूडामणि- जर्जामातेत्यभवत्पुनस्तदनु तत्संप्राप्तिराकाइक्षिता । लब्धोऽसौ तपसा मया दिनमिदं तस्याश्च वैवाहिक जातो विघ्नगणानतीत्य कृतिनामद्याहमग्रंसरः॥६॥ शिलाधरः- (उपत्य । जयतु हिमवान्- शिलाधर, किं पुरपरिष्कारः प्रवर्तितो भवता । शिलाधरः-- स्वामिन् . अम्मदीयोऽयमुत्सव इति प्रत्येकं पौरा- णामभिमानः : कथं परिहीयते पुरपरिष्कारः । सर्व द्विगुण- माचरितं पोरे :। हिमवान--- शिलाधर. किं सर्वे पर्वताः पार्वतीपरिग्रहणमङ्गलं द्रष्टुमागताः । शिलाधरः---- म्वामिन् , अवधार्यताम् । भूपडूहकर्णिकायितननुमरुस्गुगणां प्रिया योक्त्रीभूतभुजङ्गराजकषपस्निग्धांपला मन्दरः । विन्ध्या व्योमनि भानुमालिपदवीजङ्घालशृङ्गावलिः साकं संप्रति गन्धमादनमुखैस्त्वां द्रष्टुमभ्यागताः ॥७॥ १. भूपङ्केरुह ......। "जम्बूद्वीपारविन्दे कनकगिरिरसावश्नुते कर्णिकात्वं ।" इति शलाकापुरूषचरितप्रशस्तिः । २. योकीभृतः मन्थरज्जुभतः । - ६.० पार्वतीपरिणये हिमवान् -- अथ केलासः किं करोति । शिलाधरः-... स्वामिन् , स खलु जामातृपक्षम्थम्तेनैव सार्ध- मागमिष्यति । हिमवान् --- युज्यते । अथ विश्वावसुप्रभृतय आगता गन्धर्वाः । शिलाधरः आताद्यपाणयः सर्वे गन्धर्वाः सवधूगणाः । उपवीणयितुं प्राप्ता मानयन्तस्तवोत्सवम् ॥ ८ ॥ हिमवान्-... आगताः किमप्सरसः सार्धममरैः । शिलाधरः-- श्रूयताम् । विद्युदल्लीवितानव्यतिकरसुषमा व्याम्नि विस्तारन्त्यः कात्या नीलोत्पलानां श्रियमिव नयनैर्दिङ्मुखे दर्शयन्त्यः । ज्योत्स्नालक्ष्मी दिवापि स्मितरुचिविसरैर्विष्वगुत्पादयन्त्यः सर्वाः स्वर्वारयोषाः ममममरगणैरागताः प्रीतये नः ॥९॥ हिमवान--- शिलाधर, यद्येवमन्तःपुरं गत्वा भवान्कुलवृद्धां कौशिकी पुरस्कृत्य समागताभिरप्सरोभिर्वत्सा पार्वती सम्यगलक्रियता- मित्यभिधत्ताम् । अलंक्रियाप्रकारं च कौशिकी समागत्य मामाचष्टाम् । किंचागतानां वधूनां गिरीणां च सत्कृतये तत्रभवता संविधातव्यः सकललोकवस्तुसंभारः । १. उपवीणयितुं : वीणया उपगातुं ।
पञ्चमोऽङ्कः । ६१ शिलाधरः---- यथादिष्टं स्वामिना तथा सर्व संपादयिष्यामि । [इति निष्कान्तः । (प्रविश्य । प्राङ्मया यदुपक्रान्तं कार्य गुरु दिवौकसाम् । अन्तरायानतिक्रम्य तद्धि सिध्यति सांप्रतम् ॥ १० ॥ इति परिक्रम्यावलोक्य च । अयमध्यान्ते विवाहमण्डपं हिमवान् । तदेनमुपसमि । इत्युपुनर्पति ।। . हिमवान्- विलोक्य ।। अये, नारदः । अनलिं बधानि । ) नारदः-- हिमवन् . अभ्युदयः खलु तत्रभवतः । हिमवान्- भवदुपक्षिप्तम्य फलमिदं बीजस्य । नयति । नारदः उपविशनि ।' इत्यासनमुप- ततः प्रविशति कौशिकी। उपविश्य पार्वत्याः परिकर्मप्रकार आभिनिर्दिशति । -- हिमवान्-- किमलंकृता वत्सा । कौशिकी- भगवन् , कथयामि । श्रृयताम् । हिमवान्-- अवहितोऽस्मि । कौशिकी- असमग्रभूषणायास्तनुतरकोशेयवसनधारिण्याः । आलिप्तमङ्गमखिलं तैलेन सुगन्धिना तस्याः ॥ ११ ॥ है हिमवान् -- ततस्ततः ।
६२ पार्वतीपरिणये कौशिकी- मणिपीठवर्तिनी तां मङ्गलशङ्केषु मन्द्रघोषेषु । अम्भोभिरमरनद्याः सखीजनो विहितमज्जनां व्यतनोत् ॥१२॥ हिमवान्--- ततस्ततः। कौशिकी मङ्गलमज्जनविशदा कर्पूरक्षोदपाण्डुरं क्षोमम् । साऽधत्त जलदधौता द्यौरिव शरदिन्दुचन्द्रिकोद्भेदम् ॥१६॥ हिमवान्-- ततस्ततः । कौशिकी- चरणकमलं तदीयं लाक्षाबालातपेन संवलितम् । अध्यास्त भृङ्गमाला वेलभिन्मणिखचितनूपुरव्याजात् ॥१४॥ हिमवान्-- ततस्ततः । कौशिकी- बद्धा मणिमयकाची तस्याः परिणाहशालिनि नितम्बे । पङ्किरिव सारसानां सुरसरितः पुलिनमण्डलाभोगे ॥१५॥ १. मणिपीठ ...। विन्यस्तवैडूर्यशिलातलेऽस्मिन् आबद्धमुक्ताफलभक्तिचित्रे । आवर्जिताष्ठापदकुम्भतोयैः सत्यमेनां स्नपयाम्बभूवुः ॥" इति कुमारसंभवः । २. वलभिन्मणयः - इन्द्रनीलरत्नानि ।
पञ्चमोऽङ्कः। ६३ हिमवान्- ततस्ततः । कौशिकी- हारलता परिणद्धा कुचकलशे कुङ्कुमारुणे तस्याः । सिन्दुरिते करिपतेः कुम्भे नक्षत्रमालेव ॥ १६ ॥ हिमवान्- ततस्ततः । कौशिकी- कमनीयतानिवासः कण्ठस्तस्या विचित्रमणिभूषः । सविधप्रमुनरत्नं शङ्खनिधि दुग्मत्यकगेत् ॥ १७ ॥ हिमवान्---- ततस्ततः । कौशिकी- मुक्ताताटङ्कयुगं प्रतिमुक्तं कर्णपाशयारस्याः । मुखममलमिव निषवितुमागतममृतांशुविम्बयुगम् ॥ १८ ॥ हिमवान्-- ततस्ततः । कौशिकी आयामिनास्तदक्ष्णोरञ्जनलेखाविधिं वितन्वत्याः । पाणिः प्रसाधिकायाः प्रापदपाङ्गं चिरेण विश्रम्य ॥ १९ ॥ . १. नक्षत्रमाला -- सप्तविंशतिमौक्तिका माला । २. कर्णपाशयोः : अतिसुन्दरयाः कर्णयोः । पाशस्तु मृगपक्ष्यादि- बन्धने । कर्णान्ते शोभनार्थ: म्याकचान्ते निकरार्थकः । छात्राद्यन्ते च निन्दार्थः ।" इति हेमचन्द्र. ।
६४ पार्वतीपरिणये हिमवान्-- ततस्ततः । कौशिकी- तस्या ललाटसीमनि चन्दनपङ्केन मेनया लिखितम् । आसीत्सितातपत्रं तिलकमनङ्गस्य दर्शितच्छायम् ॥ २० ॥ हिमवान्- ततस्ततः । कौशिकी आगुल्फलम्बमस्याः कुन्तलमन्तर्निगूढमन्दारम् । संयम्य चतुरबन्धं सखीजनः स्तिमितनेत्रमास्त चिरम् ॥२१॥ हिमवान--- ततस्ततः । कौशिकी अङ्गं भूषणनिकरो भूषयतीत्येष लोकिको वादः । अङ्गानि भूषणानां कामपि सुषमामजीजनस्तस्याः ॥२२॥ हिमवान्- यद्येवं तत्सम्यगलंकृता वत्सा भवत्याः संनिधि- विशेषेण । ( नपथ्यं ।) भ्राम्यन्मन्दरकन्दराहनिचलन्क्षीरोदपूरोदर- स्फूर्जद्वीचिपरम्पराकलकलपाचण्डयवैतण्डिकः। निर्घोषैः कुलशैलगहरगुहारन्ध्राणि वाचालय- न्दिव्यः कश्चन दुन्दुभिः पटुरवः साटोपमाहन्यते॥२३॥ सर्वे ससंभ्रममाकणयन्ति । १. अङ्गमिति । "आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः । इति विक्रमोर्वशी पञ्चमोऽङ्कः । ६५ (पुनर्नेपथ्ये । जम्भारे भव पार्थतः परिसरेणायाहि लक्ष्मीपते वेधः स्वस्त्ययनान्यधीष्व मुनयः प्रब्रूत रौद्रीमृचम् । चन्द्राविपि चामरे विधुनुतं छत्रीभवाहीश्वर प्रेष्ठा रुद्रगणाः प्रयात पवन स्पन्दस्व मन्दोदयः ॥२४॥ हिमवान्– भगवन्नारद, कोऽयं देवानामिव कोलाहलः श्रूयते । नारदः-- सकलजगदुत्पत्तिस्थितिप्रलयहेतुरुद्धप्यमाणमहिमा च- राचरगुरुस्ते जामाता चटुलं विवाहवेषमाम्थाय सह देवगणे रित एवाभिवर्तते । अयं कलकलम्तत्पुरःसरस्य नन्दिनः प्रोत्सारणायाः। तद्भवानध्यपाणिः प्रत्युद्यातु भगवन्तमिन्दु शेखरम् । ततः प्रविशति गृहीतविवाहवषः शंकरो देवलोकश्च । शंकरः शाङ्गिणं प्रांत । अमरावतीमतिक्रम्य शोभते पुरामिद- मोषधिप्रस्थम् । शाी--- किं परिहीयते महन्द्रान्महीधरेन्द्रः । हिमवानयंपाणिरुपसर्पति । शंकरः- ( अवलोक्य । अभ्युद्गच्छति मामचलाधिराजः । तद्वाह- नादवरुह्य याम्यामः । तथा करोति । हिमवान्--- अचार्मणानामपि दूरमणा- मकर्तृकाणां वचसामभूमिम् । १. प्रष्ठा: = अग्रगामिनः । प्रष्ठोऽग्रगामिनि" इति पाणिनिः । २. अचार्मणानामिति । "नाभिपततो यच्चामणे चक्षुषी ।" इति अनर्घराघवम् ।
६६ पार्वतीपरिणये जामातरं लब्धुममुं गिरीशं कियन्ति पुण्यानि मया कृतानि ॥ २५ ॥ (इत्युपसर्पति ।) शंकरः-(विलोक्य ।) अतिगुरुचरणक्रमर्वितन्व नवनमितोनमितस्थलामिवोर्वीम् । विनयमुपदिशनिवात्मभाजा- मयमुपसर्पति मामगाधिराजः ॥ २६ ॥ इत्यभिमुखमुपसर्पति । हिमवानय॑मुपहरति । शंकरः सप्रणाम प्रतिगृह्णा- ति । हिमवान् सलज्ज मुखमवनमयति । जामातरं पुरस्कृत्य हरिवि. रिश्चिमुखाः परिकामन्ति ।) हिमवन् , कुत्र वैवाहिकी वेदिः । हिमवान्– इत इतो भगवन्तः । सर्वे उपसर्पन्ति ।) बृहस्पतिः- हिमवन् , प्रत्यासन्नो मुहूर्तः । तदाहूयतां दुहिता । हिमवान्-नेपत्याभिमुखं परिवृत्य) वत्से इत इतः । ततः प्रविशति जयाविजयाभ्यां सह पार्वती । ) पार्वती अज्ज क्खु मे मणोरहकप्पडुमो फलं दंसेइ । अद्य खलु मे मनोरथकल्पद्रुमः फलं दर्शयति । जया (सस्मितम् ।) हला पवई, एत्तिअं तुह प्पिअसहिओ अमेवि जाआ। हला पार्वति, एतावत्तव प्रियसख्यौ आवामपि जाते । , - पञ्चमोऽङ्कः। ६७ पार्वती- (सासूयम् ।) हला विजए, किं एसा भणइ । हला विजये, किमेषा भणति । विजया-हला पन्वइ, एसा सरसालावकुसलत्तणं दसेइ । (इत्युपसर्पति ।) हला पार्वति, एषा सरसालापकुशलत्वं दर्शयति । ब्रह्मा- (शार्जिणं प्रति ।) भगवन् , सर्वे देवाः सह भूतगणै- यथास्थानमुपविशन्तु । (सर्वे तथा कुर्वन्ति। हिमवान्-- अम्मत्पक्षाः कुलपर्वताश्च कैलासेन समं वामपाधै- उपविशन्तु । कुलपर्वताश्च तथा कुर्वन्ति ।) शंकरः- (पार्वती विलोक्य । आत्मगतम् ।) एषा विशेषरम्या विवाहवेषेण मोहनेन दृशोः । प्रतिभाति मानसे मे मदनसहस्राणि कल्पयन्तीव ॥२७॥ ब्रह्मा-- भोश्शंकर, वध्वा सहास्यां विवाहवेदिकायां प्राङ्मुखो . वर्तेथाः । (शंकरः पार्वत्या सहोपविशति शंकरः- (आत्मगतम् ।) नन्दितनयनचकोरा नवनवलावण्यकौमुदीविसरा । उत्कूलयति मनो मे सैषा जलधि कलेव चान्द्रमसी ॥२८॥ बृहस्पतिः- (अग्निमुपसमाधाय । ) शंकर, त्वदीयेन पाणिना पार्व- त्याः पाणिमवलम्बस्व । (शंकरस्तथा करोति । पार्वती पुलकोद्भेदमभिनयति ।)
६८ पार्वतीपरिणये शंकरः- (आत्मगतम् । आभाति बालिकेयं पाणिस्पर्शन पुलकितावयवा । अभिनववसन्तसङ्गादाविमुकुलेव बालचूतलता ॥२९॥ ब्रह्मा- वधूवरौ, पावकं प्रदक्षिणीकुरुतम् । उभी तथा कुरुतः । पार्वती शंकरमवलोकयति । शंकरः प्रत्यवलोकयति । पार्वती दृष्टिं परावर्तयति ।) शंकर:- (आत्मगतम् ।) अवलोकनाय लोला दृष्टिरियं मृगशो निवृत्तिमती । गत्वा प्रतिप्रवाहं राजति शफरी निवर्तमानेव ॥३०॥ बृहस्पति: पार्वत्याः पाणिना लाजाञ्जलिं कारयति । पार्वती धूमाक्रमणेन वैक्लब्यं निरूपयति । शंकर:- (आत्मगतम् ।। प्रविनगण्डफलकच्युतपत्रलेखं धूमाभिषङ्गगलिताञ्जनपाटलाक्षम् । म्लायद्वतंसकुसुमं मुखमायताक्ष्या- श्चित्ते ममापर्यति कामपि रागमुद्राम् ॥ ३१ ॥ । १. प्रस्विन्नगण्डफलकेति । "तदीषदाारुणगण्डलेग्व मुच्छ्वासिकालाञ्जनरागमक्ष्णोः । वधूमुखं क्लान्तयवावतंस माचारधूमग्रहणाद्वभूव ।" इति कुमारसंभवः ।
पञ्चमोऽङ्कः । बृहस्पतिः- (शंकरं प्रति ) शंकर, पार्वत्याः पादकमलं पाणिभ्या- मश्मानमारोपयतु भवान् । (शंकरः स्मयमानमुखस्तूष्णी तिष्ठति ।) कुलपर्वताः- (ससम्भ्रमम् ।) भगवन् , प्रमाणभूतेन पुरोधसा यदुच्यते तदनुष्ठीयताम् । भूतगणाः-(ससम्भ्रमम्।) कुलपर्वताः, कथमिव नियम्यते त्रिभुवन- नियन्ता नीललोहितः । ब्रह्मा- (सस्मितमुभयानिवार्य ।) सकलजननियामिका स्वतः प्रमाण- भूता श्रुतिरेव सम्यगित्थमभिदधाति । तद्यथोक्तमनुष्ठीयताम् । शंकरः संकुचिताभ्यां पाणिभ्यां पार्वत्याः पादकमलमश्मानमारोपयति।) (बृहस्पतिः कर्मशेष समापयन्वधूवरौ ब्रह्माणं प्रणमयति ।) ब्रहमा- (हस्तमुद्यम्य । सकलजगतां सवित्रोरनन्यसामान्यमस्तु वा प्रेम । भुवनभयभङ्गदक्षो भवतु कुमारोऽपि तारकध्वंसी ॥३२॥ इत्याशिषं प्रयुक्त।) प्रविश्य) वृद्धपुरन्ध्यः- अण्णोण्णसमसरीराणं अण्णोण्णप्परूढगाढपेम्माणं । जोण्हाणिसाअराणं तुम्हाणं होदु को वि अणुराओ ।। ३३ ।। -- १. श्रुतिरेव इत्यादि । इममश्मानमारोहाश्मेव त्वं स्थिरा भव । सहस्व पृतनायतोऽभितिष्ठ पृतन्यतः ॥" इति श्रुतिः ।
पार्वतीपरिणये ) - अन्योन्यसमशरीरयोरन्योन्यप्ररूढगाढप्रेम्णोः । ज्योत्स्नानिशाकरयोर्युवयोर्भवतु कोऽप्यनुरागः ।। (इत्यादीक्षतारोपणमाचरन्ति ।) नारद: उत्थाय साञ्जलिबन्धम् । ) भगवन् , देवकार्यहेतोः कृताप- राधं कन्दर्प पुनर्गृहीतवपुषं पदकमलसेविनं च भवाननुगृहातु। शंकरः- यथा रोचते तथा भवतु । (ततः प्रविशति रतिवसन्ताभ्यां सह पूर्वाकाराधिकविग्रहः कामः ।) सर्वे- माधुर्यसौरभतरङ्गितचापबाणः सख्युः करं समवलम्ब्य शनैरनङ्गः । आयाति रुद्रनयनानलदग्धकायः पूर्वाधिकः कथमहो ललनासमेतः ॥ ३४ ॥ ( सर्वे विस्मयं रूपयन्ति ।) हिमवान्- (सहर्षम् ।) पुण्यैरेव पुरातनैरुपनतैर्देवेन विश्वात्मना पुत्री भूरिगुणावदातचरिता पाणौ गृहीता मम । देवानां च मनोरथः परिणतः पाप्यानवयं वपु- लोकानन्दकरः स्मरोऽपि नयनातिथ्यं विधत्ते पुनः ।। ब्रह्मा- किमतः परं ते प्रियमस्ति । १. रुद्रनयन ......। "दग्धस्यापि त्रिपुररिपुणा सर्वलोकस्पृहाहीं यस्याधिक्यं रुचिरतितरामञ्जनस्येव याता। इति वात्स्यायनसूत्रसारः ।
पञ्चमोऽङ्कः । ७१ हिमवान्- समधिगतसकलमनोरथानां नः किमतः परं प्रार्थनी- यम् । तथापीदमस्तु भरतवाक्यम् । पर्जन्यो दृष्टिमिष्टां प्रदिशतु जगतो भद्रसंपादयित्रीं शश्वत्सस्यैः प्ररुद्वैर्भवतु पुलकिता सर्वतो भूतधात्री । वर्धन्तां वीतविघ्नाः स्फुरदुपकृतयः संपदः सज्जनानां नित्यानन्दो महेशो निरतिशयमुखप्राप्तये कल्पतांनः ॥३६॥ [इति निष्क्रान्ताः सर्वे । इति पञ्चमोऽङ्कः । इति पार्वतीपरिणयं नाटकं संपूर्णम् ॥