Bharti Bhawan Library Allahabad

Gurugunratnakerkavyam

PDF Proofread

Front matter

eseseseseSSSESeseses
Twear Kam
-
27
Ndrrent
अहम्
श्रीयशोविजयजैनग्रन्थमाला [२४]
श्रीसोमचारित्रगणिविरचितं
गुरुगुणरत्नाकरकाव्यम्।
शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरिचरणान्ते-
वासिना मुनि-श्रीइन्द्रविजयेन संशोधितम् ।
घोघाग्रामवास्तव्य श्रेष्ठि-विट्ठलभाई-धर्मचन्द्रसाहाय्येन
वाराणस्यां
श्रेष्ठिभूराभाईतनुजहर्षचन्द्रेण निजधर्माभ्युदययन्त्रालये
मुद्रितं प्रकाशितं च ।
Printed and Published by Shah Harakhchand Bhurabhai
at The DHarmabhyudaya Press, Benares city.
वीरसंवत् २४३७ ।
मूल्यमर्धरूप्यकम् ।

से पका राय सतां।
1 DD
it..
ASHA
HTTER
वि
.
।
Tagse
+
नं०
भूत
..
४५२
यः।
भारतीभवन प्रयाग।
PHEATRE
पुस्तकदाता का नाम "नीर मान् होलापलिन
इन्स्ट्रकरण"यूपी"प्रयाग
ता० (---
PAR
RSTAR
Seased
मंत्री
anasamacassagas

PadurNTIONARISTORY
GGEETATOES
22
CATRINTED
अहम्
श्रीयशोविजयजैनग्रन्थमाला [२४]
श्रीसोमचारित्रगणिविरचितं
गुरुगुणरत्नाकरकाव्यम्।
शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरिचरणान्ते-
बासिना मुनि-श्रीइन्द्रविजयेन संशोधितम् ।
घोघाग्रामवास्तव्य-श्रेष्ठि-विट्ठलभाई-धर्मचन्द्रसाहाय्येन
वाराणस्यां
श्रेष्ठिभूराभाईतनुजहर्षचन्द्रेण निजधर्माभ्युदययन्त्रालये
मुद्रितं प्रकाशितं च ।
-:0:-
वीरसंवत् २४३७ ।
मल्यममा

No text on this page.

YASHOVIJAYA JAINA GRANTHAMALA, 24.
THE
GURUGUNARATNAKARA
OF
SHRI SOMACHARITRA GANI
EDITED BY
MUNI INDRAVIJAYA,
DISCIPLE
OF
SHASTRAVISHARADA JAINACHARYA
SHRI VIJA VADHARMASURI
WITH
THE PECUNIARY HELP OF
SHETH VITHALBHAI DHARMCHAND
OF GOGHA.
PRINTED AND PUBLISHED
BY
HARSHCHAND BHURABHAI
PROPRIETOR OF DHARMABHYUDAYA PRESS,
BENARES.
مجم
Veer-Era, 2437.

No text on this page.

ANTERNARAKHAND उपोद्घातः। , अस्मिन् लघीयस्यपि वरीयसि निम्नाभिधेयनिरूपणप्रवणे चारुतर- चरितचर्चेऽन्वर्थामभिधां दधति गुरुगुणरत्नाकराख्ये कविकणि श्रीरत्न- शेखरसूरिपट्टधराणां श्रीलक्ष्मीसागरसूरीणां कतिपयगुणगणवर्णनं श्री- सोमचारित्रगणिना व्यधायि, इति समुत्पद्यते जिज्ञासाऽवसरः--क इम ए- तेषां चरित्रनिरूपयितारः १, कदा कतमस्मिन् जनपदे च किमर्थमिदमार- ब्धम् ?, इति । तत्र स्वयमेते प्रतिसर्गान्ते समुट्टङ्कयन्ति चैवम्- श्रीमन्मालवमेदिनीन्दुबदनालङ्कारहारप्रभो- रुग्रामाऽऽगरवासिकर्मतनयश्रीरत्नसङ्घप्रभोः आक्षेपाद विधुवेदवमवसुधा १५४१ वर्षे सुभिक्षोद्भवे लक्ष्मीसागरसूरिराजविलसद्भाग्यप्रकर्षस्तवे ॥ १ ॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाह्वयः शिष्यः सूरिवरश्च शिष्य-वृषभश्चारित्रहंसोऽस्य यः । तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते" इत्यादि । एतच्छ्लोकद्वयादुत्तानमेव जिज्ञासासार्थः प्रशाम्यति । तथा- "पूज्याऽऽराध्यध्येयतमश्रीगच्छाधिराजभट्टारकपुरन्दरश्रीसोमसुन्दरसूरिशि- व्यशिरोऽवतंसकसकलसकर्णपुरुषश्रेणीप्रणीतपदपद्मसेवभट्टारकप्रभुश्रीसोमदेवसू. रिशिष्यशिरोमणिपूज्याऽऽराध्य पं०चारित्रहंसगणिपादविनेयपरमाणुना सोमचा- ( २ ) - एतस्मिन् ग्रन्थपरिशोधनकर्मणि पुस्तकत्रयसाहाय्यमासादितम्, तत्र- १-२ पुस्तकद्वयं पूनाराजकीयविद्याऽऽलय (डक्कनकॉलेज) सका- शादधिगतम् । ३ तृतीयं चाहमदावादनिवासिना प्रेमचन्द्रात्मजकेशवलालेन प्र- हितमिति । एतत्परिशोधने यथाशक्ति प्रयतमानोऽपि दृष्टिदोषशीशकाक्षर- योजकयोजनाऽऽदिना संभवति स्खलने भवद्भिस्तत् प्रमार्जनीयम्--- इत्याशास्ते- आचार्योपासक- इन्द्रविजयः। अशुद्धिशोधनम् । पृष्टम् . पङ्गिः अशुद्धम्. त्वोजसा शुद्धम्. त्वोजसा ।

अहम् श्रीविजयधर्मसूरिभ्यो नमः । श्रीसोमचारित्रगणिविरचित गुरुगुणरत्नाकरकाव्यम् । श्रेयाश्रीधर्मबीजं विमलमतिबृहद्भारतक्षेत्रधाच्या येनोप्तं यद् युगादौ तदनु निजलसगोरसैः सिक्तमेतत् । मौढिं च प्रापि तज्ज्ञैः सुकृतगुरुगणैः स्वाऽऽश्रितेऽद्यापि दद्या- दाधिव्याधिव्यपायं परमसुखफलं नाभिमूः स्तात् स सिद्धये ॥१॥ खामिन् ! शीर्ष ममः मृगशिरसि समस्त्यक्षियुग्मं मृगाक्ष्या- मेणाङ्के मेऽङ्गमास्ते तदनु मृगमदे नाभिरेतचतुष्कम् । प्राणेष्ट प्रापयैभ्यः किमिति कृतकृपं प्राक्कपोताऽऽवक यं विज्ञीप्सुर्लक्ष्मलक्षाद् मृग इह भजते शान्तये स्तात् स शान्तिः॥२॥ आबालब्रह्मचारी मधुररवकलापीनगत्यद्भुताङ्गः खामी सानन्तशक्तिः परमहितहरो-रागमानास्यहृयः । युक्तं ख्यातः शिवाजोद्भव इह कुतुकं तच्च यच्छम्भुनाथ: श्रीनेमिः शाश्वतं वः सृजतु सुखमसौ सन्नमदानवारिः ॥३॥ दृष्ट्वा यत्कायभासा समवसृतिरसां सर्वतो नीलवर्णा- मर्वाणः सप्त भानोरिह हरितयवक्षेत्रविभ्रान्तिभाजः । साक्षात् तद्भक्षणाय स्फुटकपटधरा यदचोऽम्भश्च पातुं श्रीसोमचारित्रगणिविरचित- ताराराज्यश्च मूरिप्रभृतिकृतिगुणा यत्वसंख्यर्षि चित्रं ज्योतिश्चक्रायते तत् प्रवचनमनघं यस्य वीरः श्रिये सः ॥५॥ सौपर्णेयोपमां ये निदधति विनतानन्दना विश्वरूपा- ऽऽधाराङ्गाऽधाकृताष्टापदनगवसवः स्वामिनः सत्कवीनाम् । न-व्या-धामेहमेघाविधुतबहुविधाऽधर्मकर्मद्विजिहाः सर्वे सार्वाः श्रितानां ददतु दिततमःशर्मधर्मप्रकाशम् ॥६॥ खोद्यत्पादैस्तदाऽष्टापदजिदपि किलाष्टापदं यः पवित्री- वक्रे तैनिमात्मन्यसदपि च ददौ केवलं तापसेभ्यः । योगीन्द्रैरुज्ज्वलान्तःकरणसरसिजध्येयसन्नामधेयः श्रीलब्ध्यम्भोधिराशाः सफलयतु स वः श्रीगुरुगौतमाहः ॥७॥ स्तुत्या येऽमर्त्यतत्या बलविजयपरा नाऽकभाजः सुधर्माऽ- लङ्कारा गौरवर्णा वरविभवसुधाभुक्सभाऽऽतप्रभुत्वाः । इन्द्रायन्ते कवीन्द्राः किल सततममी भूभृतो रञ्जयन्तो यस्याः सान्निध्यतः सा कलयतु कविताकौशलं शारदा मे ॥८॥ ( स्रग्धराच्छन्दोनिबद्धं नमस्कारकाव्याष्टकम् ) चेतस्कामितमातनोति कृतिनां यत् स्मर्यमाणं यतः स्युर्देशेष्वखिलेष्वमी मुनिवरा मान्या यदादानतः । तन्नामाऽपि ततः सुरद्रुमसमं येषां जने गीयते तेभ्यः श्रीगुरुसोमसुन्दरतपागच्छाधिपेभ्यो नमः ॥९॥ श्रीजैनेश्वरधर्मनिर्जरतरुः काले कलावप्यसौ यद्वाक्सौधरसेन नित्यमधुना संसिच्यमानः सताम् । वाञ्छायोग्यफलानि यच्छति, तपागच्छाधिपाः श्रीयुता- लक्ष्मीसागरसूरयश्चिरमिमे मे सन्तु सन्तुष्टये ॥ १० ॥ PA TAKNITANA गुरुगुणरत्नाकरकाव्यम् । ३ नव्यं करोमि काव्यं गुरुगुणरत्नाकरं नाम ॥ ११ ॥ ये श्रीमज्जिनशासनार्णवसमुल्लासकजैवानुका- राजन्तेऽत्र युगे युगोत्तमगुरुप्रख्यप्रभावात्मकाः । स्तोष्ये हर्षवशादशेषसुदृशामिष्टार्पणप्रत्यलान् लक्ष्मीसागरगच्छनायकवरानेतान् गुणैरुज्ज्वलान् ॥ १२॥ रत्नैरम्बुधिवद् गुणैर्बहुविधैर्येऽलङ्कृता यैरलं नाऽलं स्याद् नवितुं हि तान् मम मतिस्तन्वी समस्तानपि । एकस्तेषु विशिष्य यो विजयते सौभाग्यनामा गुणो वर्धिष्णुः सततं स्तुवे तदपि तं विश्वत्रयीविश्रुतम् ॥१३॥ येषां श्रीपुरुषोत्तमत्वसजुषां ताम्यत्तमोविद्विषां लक्ष्मीसागरगोत्रसंश्रितिरभूत तत्सांप्रतं सांप्रतम् । यन्नामस्मृतिमात्रतोऽपि परितः सर्वार्थसंपज्जुषा- मन्येषामपि बोभवीति भविनां मेषाऽद्भुतं भूतले ॥ १४ ॥ यत्कः प्राञ्चत्प्रतापः सवितुरतिशयी भूर्भुवःस्वःप्रकाशी येषामास्ते यशोऽपि ज्ञपितुरभिनवं तामसध्वंस्यदोषम् । मुक्तापतेयदीया गुणततिरधिका छिद्रमुक्ताऽपि तन्या- धन्नृणां कण्ठकान्ति तदिह सुगुरवः केन तुल्याः स्युरेते?॥१५॥ अथैषां श्रीगुरूणामुत्पत्तिस्थानदेशपुरपितृमात्रादिवर्णनम्- अभ्युद्यविषयोन्नताऽतनुमहःपूरा शिवप्रश्रया या दीव्यन्नयनाऽथ मानवमता रैमौक्तिकाऽलङ्कृता । धत्ते मर्त्यसुखाकरं भवहरं श्रीगूर्जरत्राङ्गना श्रीवाणीविलसद्विवेकपुरुषाऽऽश्लेषाद् वृषाख्यं सुतम् ॥ १६ ॥ तस्याः कोमलकाश्यपीशशिमुखीवक्षःस्थलालङ्कृति- श्रीसोमचारित्रगणिविरचित- जीवत्स्वामियुगादिवीरजिनपप्रासादपुण्योत्सव- प्रश्राद्धसमृद्धद्धनगरासन्नः समस्तीह यः॥ १७॥ मित्रप्रीतिपरायणः समकलाशाली सुवृत्तालयो धान्नाऽऽन्यो महता-रजन्यरहितो यो निष्कलङ्कः कलौ। विभ्रचारुषोच्चत्तां दिततमा नालीकसंपद्वरः प्राश्चत्पार्वणरोहिणीरमणवद् देदीप्यमानः सना ॥ १८ ॥ सर्पवेषिशिलीमुखाऽक्षिततनुमोजूततेजोभर- भ्राजच्चम्पकराजधीसखवरः सङ्केश्वरः श्रीधरः। उकेशान्वयपमभावदुदयः श्रीकर्मसिंहाह्वयः श्राद्धस्तत्र वसत्यसौ सुहृदयप्राणिप्रणीतप्रियः ॥ १९ ॥ (युग्मम् ) या गङ्गावदपङ्कपुण्यभवनाङ्गा शुद्धगोत्रोद्भवा रम्भावत् कमनीयरूपकलिता कामं कुसङ्गोज्झिता। ब्राह्मीवत् परमेष्ठिजापरतताऽवाप्तेष्टविद्याकला लक्ष्मीर्वाङ्गजवत्यथाऽर्थिनिचये मिष्टान्नपानप्रदा ॥ २० ॥ मुक्तालीकलयोरुहारलतया तुल्या गुणैः सज्जया पद्मिन्याप्ततुलाऽचलातिमृदुला पद्माकरैकालया। शीलद्धिः सुलसेव देवसुगुरुश्रद्धेद्धभक्त्यावहा कर्मादेव्यभिधा बभस्ति सुभगा चैतस्य सा प्रेयसी ॥२१॥ ( युग्मम् ) नीरोगाङ्गरमादिकाऽमितसुखं भुञ्जानयोरेतयो- जज्ञे मूनुरनूनलक्षणरुचिः सुस्वमसंमूचितः । यावत्तावदतुच्छमुत्सवमसौ श्रीकर्मसिंहः पिता- ऽकार्षीच्च स्वजनाङ्गनाऽऽवलिरलं वर्धापनाcase-.......

गुरुगुणरत्नाकरकाव्यम् ।
अपि च-
श्रीमद्विक्रमतोऽब्धिरागदिगिरासंख्याधरे वत्सरे
मासे भाद्रपदे प्रदोषसमये कृष्णद्वितीयातिथौ ।
अश्विन्याह्वय तथा सति शुभे लग्नेऽत्र कुम्भाभिधे
जन्माऽजायत यस्य कस्य न विशः स स्यात् प्रशस्यः शिशुः१२३
अथाऽस्य नामस्थापना-
Mawal
अत्राऽयं भविता क्षमाधरमहाश्रीपक्षपातक्षमः
सेव्यः सद्विबुधैः सुधीर्नवसुधाभोगस्पृहः प्रत्यहम् ।
मत्वैवं किमु देवराज इति तन्नामाऽस्य निर्मापितं
धात्रा तातकृताऽतिविस्तरवरवज्ञातिवात्सल्यतः ॥ २४ ॥
पित्रादेः प्रथयन्नथैष पृथुकः प्रेमाऽप्रमं पञ्चधा
धात्रीभिः परिलालिताङ्गलतिकः सन् वर्धमानोऽनिशम् ।
लावण्यादिगुणाश्चितश्चतुरवाग्युग् देवराजः प्रजा-
ऽऽप्यायी सप्तसमावयाः समभवद् यावद्विवेकोदयः ॥ २५ ॥
तावत् सोत्सवमानयद् विनयिनं तं लेखशालां पिता
तत्रायद्विजसनिधौ समकलाविद्यावधीती धिया ।
शश्वद्देवगुरुप्रणामनिपुणः पुण्यस्पृहः प्राप्तवान्
साधूपाश्रयमश्रमं पठितवानवाऽऽहतं च श्रुतम् ॥ २६ ॥
युग्मम् )
शृण्वानस्य सनाऽस्य नैकशमिनां श्रेयस्विनी देशनां
सर्व वैषयिकं सुखं विषसमं संपश्यतः संसृतौ ।
उत्पन्नं स्वमनस्यनेनसि भृशं वैराग्यमभ्रंशकं
दीक्षाऽऽदानमनोरथस्तदभवद् दक्षस्य बाल्येऽप्य हो !॥ २७॥

६ श्रीसोमचारित्रगणिविरचितं- । वत्स ! त्वं मृदुसंवरोऽसि चरणाऽऽदानं त्विदं दुष्करम् । भुक्ष्व श्रीयुवतीमुखं भवसुखं ह्येतद्ग्रहे वासरो- ऽस्माकं सम्प्रति यं प्रतीति वचनं स्नेहेन तौ पाहतुः ॥२८॥ भिन्नं नास्य मनो मनागपि गिरा पित्रोरमुह्यन्मते- यचातुर्यचमच्चरीकृतकृतित्राताऽद्वितीयाकृतेः । प्रव्रज्योत्कलिकावतः कलिकलाकेलीप्सितप्रच्युते- स्तत्केन क कदाऽन्वदायि शिवदा सैतन्मयाऽऽख्यायते ॥२९॥ अत्रास्य व्रतदातॄन् श्रीमुनिसुन्दरमुनीश्वरान् यावत् । अथ कथयामि कति श्रीगच्छपतीन् गौतमप्रभृतीन् ॥ ३० ॥ तथाहि- यचिन्तामणिवचिनोति कृतिनां यचिन्तितार्थप्रथां श्रीपृथ्वीवसुभूतिभूस्तदुचितं चञ्चत्तभावाञ्चितः । चित्रं श्रीगणधार्यपीह विदितो निर्ग्रन्थनाथाऽग्रिमः श्रीवीरान्तिषदादिमः सुखयतात् स्वामी स नो गौतमः ॥३१॥ सेवासङ्गतशक्रमुख्यसुमनाः श्रीनन्दनाद्यातता- रामैकक्षितिभूतकामितकरश्रीकल्पगच्छस्थितिः । धर्ता काञ्चन-सम्पदं गिरिगुरुमरूपमा यः श्रितः श्रीनीरस्य स पञ्चमो गणधरः सिद्ध्यै सुधर्माऽभिधः ॥३२॥ मुक्ताष्टापदकोटिनाटकरसप्रेसत्कुमारीस्पृहः सर्वज्ञोऽप्यथ यः किलेह विदितः स्वामी महानन्दभूः। श्रीजम्बूप्रभवादिबोधनपरः पुष्यात् सुखं वः सदा वीरादन्तिमकेवली स च चतुःषष्ट्याऽभवद् वत्सरैः ॥३३॥ सूरीशप्रभवः प्रणाशितभवः शय्यंभवः श्रीयशो- RATARRANASI गुरुगुणरत्नाकरकाव्यम् । भद्राद् बाहुरुपद्रवत्रुटिपटुः श्रीस्थूलभद्रप्रभुः षट् त्वेते श्रुतकेवलादधिगतत्रैलोक्यभावा बभुः ॥ ३४ ॥ त्रैकाल्यार्थविदो महागिरिसुहस्त्याद्या घना जज्ञिरे वज्रान्ता दशपूर्विणो जिनमतोद्योतोद्यताः मूरयः । वज्रस्वामिविनेयवृन्दवृषभः श्रीवज्रसेनस्तत- श्चत्वारश्च युगप्रधानयतिपास्तस्याऽपि शिष्या इमे ॥ ३५ ॥ श्रीनागेन्द्रसुचन्द्रनिर्वृतिवरा विद्याधरश्चेति त- त्तेभ्यो वेदमिताः समुन्नतिमिताः शाखास्तदीयाख्यया । तासामन्तरसंख्यसाधुविसरैविस्तारमाप्ताऽवना- वस्तोकास्तिककल्पिताऽतुलवृषा शाखाऽस्ति चान्द्री चिरम्॥३६॥ (युग्मम् ) तस्यां भूरिषु मरिषु त्रिभुवनख्यातेष्वतीतेश्वभूद् यो गच्छप्रभुरभुताऽतिशयभृद्विद्याब्धिरुयोतनः । स प्रापाऽर्बुदसन्निधौ वटतले दृष्ट्वा मुहूर्त शुभं तत्राऽष्टौ गणपानतिष्ठिपदथो यत् तद् वटाऽऽहो गणः ॥ ३७ ॥ आद्यस्तेष्वथ सर्वदेवसुगुरुस्तस्याऽप्यनेकेऽभवन् सन्ताने भुवनेऽतिशायिचरिताः श्रीदेवसूर्यादयः। धर्मोद्धारधुरन्धरा गणधरास्तेभ्यः क्रमाद् विक्रमाद् ब्रह्माशार्यमहायने गुरुजगच्चन्द्राख्यसूरीश्वराः ॥ ३८ ॥ आचामाम्लतपो द्वियुग्दशसमास्तेपे क्षमापेशलै- यस्तन्नाम तपा इति क्षितिभृता येभ्यः प्रदत्तं तदा । तेभ्यश्चैष तपागणो गुरुजगचन्द्रप्रभुभ्यस्ततः सेव्यः श्रावककोटिभिर्वटगणादासीदसीमोदयः॥ ३९ ॥ अथ चmonumanAMAHIMANDA PPAmetaminon- ८ श्रीसोमचारित्रगणिविरचितं- Hemanta कर्मग्रन्थप्रमुखविविधग्रन्थगुम्फास्तयासन् । पीयूषाभां मुषितकलुषां यत्कभाषां निपीय पाप प्रीतिं पुलकितवपुर्वस्तुपालादिसङ्घः ॥ ४० ॥ मृर्यायां जिनमतभुवि प्रादुरासीच येषां वाग्वार्योगात् परमदलभूधर्मशालालतैषा । नव्या भव्याऽचलसमशमप्रायकायाऽपि लध्वी तुच्छो गच्छोऽप्यजनि किल यत्सङ्गतो वर्धमानः ॥४१॥ (युग्मम् ) विद्यानन्दश्रमणपतयस्तद्विनेयास्त्वभूवन् पट्टे तेषामथ गणधरा धर्मघोषाभिधास्ते । पीत्वा पृथ्वीधरसचिवराड् गोरसं साग यदीयं दीमं शम्भुप्रभुषमहो ! पुण्यकार्यैः पुपोष ॥ ४२ ॥ शाकिन्यादेराशिवविसरोऽवारि विद्यापुरे यै- जिग्ये योगी स्वकपरिकरक्षुद्रकायुज्जयिन्याम् । शुद्धध्यानात् सलिलनिधिनाऽदर्शि रत्नं च येषां तेषां विद्वानपि नु कवयेत् कोऽवदातान् प्रभूतान् ? ॥ ४३ ॥ (युग्मम् ) गोविज्ञातोदयमयकलावत्मसिद्धौ निदानं शुद्धा येषां प्रतिपदभवद् नन्वमाऽग्याऽद्भुतं तत् । ते श्रीसोमप्रभगुरुवरा रेजिरे धर्मघोष- प्रेङ्खपट्टोदयशिखरिणि द्वादशात्माऽनुकाराः ॥ ४४ ॥ मुक्त्वाऽष्टादशकूटभावकलितान् ये दोपटङ्कान् भवे हट्टेऽस्माद् जगृहमहागुणमणीन् षट्त्रिंशतं त्वोजसा ! याता नीतrren.

गुरुगुणरत्नाकरकाव्यम् । पट्टाऽलङ्कृतयोऽत्र सोमतिलका भट्टारका भ्रजिरे ॥४५॥ सूरीन्द्रानणहिल्लपाटकपुरे यान् गुङ्गडीपल्वलो- पान्तस्थान् प्रणतः समोदमुदयीपा नाम योगी तदा । पृष्टः श्राद्धवरैरवक् स च ममेत्युक्तं हि सिद्धिप्रदा- अत्रैते पुरुषोत्तमाः कणयरीपाख्येन नाथेन तत् ॥ ४६॥ श्रुत्वेति योगिगदितं मुदितैरशेषैः सङ्घविशेषतरभक्तिरकारि येषाम् । वेऽवाप्तसोमतिलकाऽमलपट्टपद्माः श्रीदेवसुन्दरगणप्रभवो बभूवुः ॥ ४७ ॥ अथ परमगुरुश्रीसोमसुन्दरसूरीश्वराणां कतिपयगुणवर्णनम्- सुरनरविभुवन्द्यश्रीजयानन्दमूरि- प्रवरकरसरोजात् संमदात् सोत्सवं यैः । रुचिरचरणलक्ष्मीरात्मसाद् निर्ममेऽद्रि- ज्वलनजलधिधात्रीवत्सरे विक्रमार्कात् ।। ४८ ॥ तदनु निजतनोर्ये यत्यजेयं प्रमाद- द्विषमतुपमनीपोत्कर्षतोऽपास्य दूरम् । बभुरिह गुरुराजज्ञानयुक्सागराङ्गा- ऽस्मयविनयसपर्यावाप्तविश्वाप्तविद्याः ॥ ४९ ॥ अपहृतभवितापाः पुण्यपद्माकरा ये- नवमरसकलापा नीरजस्थित्युदाराः । सततमधुरऽनेकोच्चागमानद्भुतं तद् मधुपमुखपतद्भिर्नानुषङ्ग त्वकार्युः ॥ ५० ॥ तुरगशरगवां हिक्ष्मामिते विक्रमाब्दे

१०
श्रीसोमचारित्रगणिविरचित-
करसरसिरुहा श्रीदेवयुक्सुन्दराणां
नरवरनरसिंहाऽऽरब्धरम्योद्धवैर्ये ॥ ५१ ॥
गुरुधरणविहाराघाईतोत्तुङ्गगेहाः
सपदि यदुपदेशात् कारिताः श्रावकेन्द्रैः।
व्यरचि शुचिमहौधैर्यैश्च तारङ्गकादा-
वजितजिनमुखाईबिम्बलक्षप्रतिष्ठा ।। ५२ ॥
गृहिविहितमहीयोविस्तरैः स्थापिता यै-
रमरफलदमानाः सूरयो वाचकाश्च ।
विबुधगणिपदानि प्रापिता दीक्षिता ये
गुरुसहगपि तेषां वेत्ति संख्यां न कोऽपि ॥ ५३॥
कति यतिवृषभा यदेशचादुग्धपानाद्
विजनविपिनवासं शिश्रियुः कष्टकृत्यै।
अभवदतितपस्वी चाज्यचारित्रिराशि-
श्वरमजिनतपस्कृत् शान्तिचन्द्राख्यभिक्षुः ॥ ५४॥
अगणितगणयो यद्वारके सर्वविद्या-
प्रमथितपरमत्युन्मत्तताभीत्यभेद्याः।
प्रतिपुरमतिमात्रश्रीभृतो भूपमान्या
व पुरि शुशुभिरे च श्राद्धवर्गा वदान्याः ॥ ५५ ॥
(मालिनीच्छन्दसा काव्याष्टकम् )
चारित्ररत्नजिनमण्डनहेमहंस-
श्रीसोमदेवसुसुधादिमनन्दनाद्याः।
के वाचका गुरुधियः कति सूरयो वा
येषां विनेयविभवो बहवो बभूवुः ॥ ५६ ॥

गुरुगुणरत्नाकरकाव्यम् । मालादिकप्रकरणावलिबालबोधात् । कल्याणकादिविविधस्तवमुख्यशास्त्रा- ण्यसाक्षुरक्षितशमाः स्वपरोपकृत्यै ।। ५७ ।। संवेगरगगुणितत्रिसहस्रसंख्य- स्वाध्यायकाः प्रतिदिनं च निरीहनाथाः। निद्रोदयेऽपि विदधुः स्ववपुःप्रसारं ये नाऽप्रमाय, यतना क विशीदृशी स्यात् १ ॥५८॥ आशादिपल्लिवसतिर्गुणराजनामा यद्वाश्रुतेः सहवयैरकरोत् कृतीशः । देवालयैर्दशभिरस्तविमानमानै- रूकेशमौलिरतुलां विमलादियात्राम् ॥ ५९॥ गोविन्दकारितगजाङ्कजिनप्रतिष्ठा तारङ्गकेऽथ महती गुणराजयात्रा । यो देवराजजनितो मुनिसुन्दराणां यद्दीयमानगणधारिपदे महश्च ।। ६० ॥ निर्मापितं नगरराणपुरे यदुचं चैत्यं चतुर्मुखमथो धरणास्तिकेन । यद्वारकेऽत्र करणीयचतुष्कमेत- जातं चमत्कृतिकरं चतुराङ्गभाजाम् ॥ ६१ ॥ (युग्मम्) आकर्ण्य यद्गुणगणं गृहिणः प्रहृष्टा- लेखेन दुष्कृतततीरतिदूरदेशात् । विज्ञाप्य केपि कृतिनः परपक्षिभाजोड- 2 DEPALI பானம் १२ श्रीसोमचारित्रगणिविरचितं- श्रीगौतमप्रतिमतां दधतां विधूताऽ- न्तर्विद्विषां परमशर्मजुषां च येषाम् । नामस्मृतेरपि भवेद् भविनामभीष्टा सर्वार्थसिद्धिरधुनाऽपि सुधर्मभाजाम् ।। ६३ ।। (सिंहोद्धताच्छन्दसा काव्याष्टकम् ) यो यो व्यधायि त्वयि मृत्युपायो- मया तवाऽयात् स स निष्फलोऽभूत् । तन्मेऽपराधं क्षमिराट् ! क्षमस्वा- ऽऽचार्यो जरीयानिति कश्चिदाख्यत् ॥ ६४ ।। यत्कारितं मनोरमकल्पद्रुमनामपार्श्वजिनबिम्बम् । खीमाईश्राविकया प्रतिष्ठितं यैश्च तदतिमहत् ॥६५॥ इत्याद्यद्भुतपुण्यकारणचणाः सम्यग्गुरुद्यद्गुणाः ये दोषैरखिलैरनाप्ततनवस्त्वौन्नत्यभृत्साधवः । ते श्रीसुन्दरदेवसुन्दरमहापट्टप्रभावावहाः सर्वेष्टा गवि सोमसुन्दरवरा रेजुर्गणाधीश्वराः ॥६६॥ अथ श्रीमुनिसुन्दरसूरीश्वराणां सर्वगुणसंपूर्णानामपि कियद् गुणवर्णनम्- अध्यात्मकल्पद्रुमवल्गुगु- वलीविचित्राऽऽप्तपतिस्तवादीन् । ग्रन्थान् बहून् ग्रेथुरजिह्ममत्या येऽपास्तवाचस्पतिदर्पदीप्त्या ॥ ६७॥ श्रीमूरिमन्त्रस्मरणाऽतिशेषात् षष्ठाष्टमादेश्च तपोविशेषात् । प्रत्यक्षतामाययुरार्यपद्मा- गुरुगुणरत्नाकरकाव्यम् । १३ वत्यादिदेव्यः प्रमदेन येषाम् ॥ ६८ ॥ निर्माय यैः शान्तिकरं स्तवं नवं निवारिता मारिरिहाऽतिदुस्तरा । ध्यानात्तथा तिड्डभरेतिरऽञ्जसा जाग्रद्गुणै नमतप्रभावकैः ॥ ६९ ॥ पीयूपयूपमधुरात्मगिरा दुरन्त- माऽऽनेमुषामिह विमोहविषं हरन्तः । भव्योत्सवं भुवि विहारविधि सृजन्तः श्रीमानतुङ्गगुरुवन्महिमर्द्धिमन्तः ॥ ७० ॥ सत्क्षुल्ललाभमनिभश्रुतसंविदेकाऽऽ- लोकात् समीक्ष्य मुनिसुन्दरसूरिराजाः । खाश्रय्युमापुरमुमापुरनामधेयं ग्राम क्रमादनुपमं तमुपागमंस्ते ॥ ७१ ॥ (युग्मम् ) प्रीतस्ततस्तत्र स कर्मसिंह- स्तेषां प्रवेशोत्सवमाश्वकार्षीत् । संमानतो मेलितसङ्घराशेः सदस्खरैटङ्कककदानपूर्वम् ॥ ७२ ॥ फलवानद्य मनोरथमरुत्तरुर्मे फलेग्रहिस्त्वजनि । जनिरपि यदत्र पादावधारिताः सन्ति सद्गुरवः ॥ ७३ ॥ ध्यात्वेति देवराजः समुद्ववन्दे स ताननूचानान् । प्रददत मे व्रतमतनोदिति विज्ञप्तिं च तत्पुरतः ॥ ७४ ॥ दीर्घायुधधर्मश्रीशर्मदमुख्यपूर्णरेखाड्यम् । DastanARA HastLARSHARE १४ श्रीसोमचारित्रगणिविरचितं- करतामरसं तावत्रस्य निरीक्षितं नितराम् ॥ ७५ ॥ सर्वाङ्गचङ्गिमानं कुमारमिममीक्ष्य तदनु ते यतिपाः। भावी गुरुपदवीभागयमेवं भावयामासुः ॥ ७६ ॥ दापयताऽस्य तपस्यां सुतस्य भोः ! आयतौ हि भवभेत्तुः । भवदादीनामिति ते जगुस्ततः कर्मसिंहाग्रे ॥ ७७॥ स तदा तान् प्रत्येतामदर्शयद् जन्मपत्रिकामस्य । दृष्ट्वा पुनराहुरमी इहाऽपि चारित्रयोगोऽस्ति ॥ ७८ ॥ १२ श. १० ११ १रा.चं. २ श्रीः ३६. ७ बु.के. ५ शु. ४ ६म.र. तदपि पिता नाऽनुमतिं व्रतदानेदादमुष्य स ततोऽवक् । खेदकृदेतद्विषये जननीं प्रति देवराजसुधीः ॥ ७९ ॥ कीदृगयं भविताऽग्रे तयेति पृष्टे त्ववादि गुरुभिस्तैः । श्रीगणपतिरिति मुदिता दत्तवती सा क्षमाश्रमणम् ॥८॥ ( आर्याऽष्टकेन कुलकम् ) ग्रामादितः सपदि सङ्घदृढाऽऽग्रहेण प्राप्तेषु पत्तनममीषु शमीवरेषु । ग्रामान्तरं गतवति स्वपत्तौ च कर्मा- देव्यप्यगात् सममनेन सुतेन तस्मिन् ॥ ८१ ॥ पूज्याः! प्रयच्छत जवाद् वरसंयम मे- गुरुगुणरत्नाकरकाव्यम् । १५ वाऽपि प्रणम्य च गुरून् अमुनेत्थमुक्ते । ते पत्तनादपि निदानपुरं तदानी- मीयुर्जिनाऽभिनमनाय तदन्तिकस्थम् ॥ ८२ ॥ तत्राम्बया बहुधनैरनया प्रणीते कान्तक्षणे सुकृतिसन्ततिसाक्षिकं तैः। दीक्षा ददेऽस्य मुनिसुन्दरसूरिपादै- रब्देऽम्बराऽम्बुनिधिवेदविधुप्रमाणे ॥ ८३ ॥ लक्ष्मीवदत्र भविकाऽमितसातदाता गम्भीरतादिगुणरत्नरमारतिश्च । भाव्येष सागर इवेति विभाव्य लक्ष्मी- युक्सागरेति विदधेऽस्य ततोऽभिधा तैः ॥ ८४ ॥ (चतुर्भिः कलापकम् ) अथैषां श्रीलक्ष्मीसागराणां गणिपण्डितवाचकपदप्राप्तिसमयकथनम्- भक्त्याऽऽदरेण मुनिसुन्दरमरिराजां पार्थे प्रसन्नमनसां परभागभाजाम् । सिद्धान्तमुख्यसमवाङ्मयमल्पकालं ये ह्यध्यगीषत विशुद्धधिया रसालम् ॥ ८५॥ सत्तर्कवादकविताकरणैकतानै- रुत्तार्य मानविषमाऽऽशु वचोवितानैः । दुर्वादिनां शिशुदशा अपि जीर्णदुर्गे येऽरञ्जयनरपतीन् महिपालमुख्यान् ॥ ८६ ॥ षड्जीवकाययतनारचनापवित्रं येऽपालयन्ननतिचारचयं चरित्रम् नित्यं चिरन्तनमुमुक्षुवदप्रमत्ता- ANAL R.SHNA १६ श्रीसोमचारित्रगणिविरचितं- बाह्यान्तरङ्गरिपुपतयनुपात्तचित्ताः ॥ ८७ ॥ विश्रामणादिविनयप्रतिपत्तिकृत्या सत्यापनं विदधतः शुचिसंयतानाम् । प्रापुः क्रमेण गणिनाम पदं विवाह- प्रज्ञप्तियोगवहनात् समहामहं ये ॥ ८८ ॥ श्रीसोमसुन्दरगुरुपवरैः प्रदत्तं येभ्यः सुपण्डितपदं प्रथिते महेऽत्र । आगत्य देवगिरितः कृतिना महादे- नाम्ना महीयसि रसग्रहदिग्रसाऽब्दे ॥ ८९ ॥ मुण्डस्थलेऽथ मुनिसुन्दरमूरिभिर्यै- ये स्थापिता तदनु वाचकतापदव्याम् । भीमेन सङ्घपतिना निजबान्धवेना- ऽऽरब्धोद्धवे विधुवियद्वसुधाऽङ्कवर्षे ॥ ९ ॥ श्रीसोमसुन्दरगुरूत्तमपट्टपद्म- प्रद्योतना गणधरा मुनिसुन्दराख्याः। श्रीलक्ष्मिसागरवरैरथ वाचकैस्तै- स्ते चक्रिरे परिदृता नहि केषु हर्षम् ॥ ९१ ॥ ( सप्तभिः कुलकम् ) अथ श्रीजयचन्द्रसूरिश्रीजिनकीर्तिसूरिश्रीविशालराजसूरिवर्णनकण:- याम्याऽऽदिदिग्मिलितदुर्मदवादिभट्टा- निर्धाट्य तर्ककविताक्षतियुक्तिपझ्या । ये लेभिरे बिरुदमिभ्यसभासमक्षं तैरेव तूक्तमिह कृष्णसरस्वतीति ॥ ९२ ॥ चन्द्रार्कदीपतरकीर्तितपःप्रतापाः गुरुगुणरत्नाकरकाव्यम् । ? पापप्रणाशनिपुणाः प्रणतप्रजानाम् । धीराऽजिताश्च मुनिसुन्दरसूरिपट्टे- ऽजायन्त तेऽत्र जयचन्द्रगणाधिराजाः ॥ ९३ ।। (युग्मम्) संवेगतो गुणदृढं सकुटुम्बकैय- राश्रित्य संयममधीत्य च सत्यविद्याः। मुक्त्यर्थमेव विहितान्यतिदीर्घशास्त्रा- ण्युच्चश्रियेऽत्र जिनकीर्तियतीश्वरास्ते ॥ ९४ ॥ येऽलङ्कृतित्रजकृतप्रमदाधिकश्री- गोपीवरास्तदुचितं हि सुविश्वरूपाः । यत्कृत्तदर्पकरमाः कुतुकं तु तत् ते चक्रुर्न कस्य यतिराजविशालराजाः? ॥ ९५ ॥ अथ परमगुरुश्रीरत्नशेखरसूरिवर्णनम्- ये बेदरादिषु पुरेषु पटिष्ठभट्ट- चेतोमरट्टमपहृत्य वचःमपञ्चैः। शीर्षेष्वशेषविदुषां विदधुर्बुधेशा बाल्येऽपि सार्थकमहो ! निजनाम मेध्यम् ॥ ९६ ॥ ग्रन्थान् प्रतिक्रमणसूत्रविवृत्तिवीत- रागस्तवाऽऽस्तिकविधिप्रमुखान् प्रशस्यान् । येऽरीरचन्नथ च विश्वजनीनचित्ता- चातुर्यवद्वचनरञ्जितनागरेभ्याः॥ ९७ ॥ सन्देहसंहतिहलाहलहारिणो ये सद्देहिनामऽतमसो विमलान्तरङ्गाः। साम्यं मणेरऽधुरगण्यरुषादिदोषाऽs- ३ NEESHAR श्रीसोमचारित्रगणिविरचितं- भोगालिमालिकलिकुण्डलिमौलिकोटौ ॥ ९८ ॥ यदीक्षिताः कतिपये यतयो भजन्ते- ऽनूचानवाचकपदान्यधुना सुधीनाः । ये पण्डिताश्च गणयो गरिमाऽभिरामा- स्तेषां तु कोऽपि गणनाभणनाय नाऽलम् ॥ ९९ ॥ सर्वाद्धतश्रुतधरा अपि विश्रुता ये कामोद्भवा अपि च नित्यमनङ्गनाशाः। भान्ति स्म तेत्र जयचन्द्रगणेन्द्रपट्टे श्रीरत्नशेखरवरास्तपगच्छनाथाः ॥१०० ॥ (पञ्चभिः कुलकम् ) सवाग्रहादथ विहारविधानतस्ते सूरीश्वरा बहुपुराणि पवित्रयन्तः । श्रीमेदपाटपृथिवीमुकुटाभमज्जा- पद्राभिधाननगरं समहं समीयुः॥ १०१ ॥ अथ श्रीउदयनन्दिसूरिवर्णनम्- आदाय संयमकृपाणमपारतेजः- श्रीकङ्कलोहमयमुज्झितकोशशोभम् । आसि स्यदादहितराशिरऽशेषसत्त्व- वर्गे कृपालुहृदयैरिह यैरमायैः ॥ १०२॥ श्रीपूज्यपादपदवन्दनहेतवे ते तत्रागमन्नुदयनन्द्यभिधा मुनीन्द्राः । श्रीलक्ष्मिसागरसुवाचकपुङ्गवाचा- ऽन्येऽपि प्रधानविबुधा बहुसाधुसाध्व्यः ॥ १०३ ॥ साईसजुसमधरास्तिककारितेऽस्मि- गुरुगुणरत्नाकरकाव्यम् । १९ न्नुत्तुङ्गजैनभवने स्वधनेन पूर्वम् । तैर्गच्छपैय॑रचि तत्र महादिभद्र- प्रासादसार्वपतिमूर्तिततिप्रतिष्ठा ॥ १०४ ॥ आत्माऽमितान्यपुरमेलितसङ्घसङ्घ- वात्सल्यवस्त्रवरराजतटङ्कदानैः । प्राग्वाटशाठिकनरानिमकर्मनाम- श्रद्धालुनाऽतिमहति प्रथिते महेऽस्मिन् ॥ १०५ ॥ तस्याग्रहाच वयजाहसुहृद्युतस्य श्रीविक्रमादसुखपुङ्खशशाङ्कवर्षे । श्रीलक्ष्मिसागरसुवाचकनायकानां प्रादायि मूरिपदवी गणमोदकानाम् ॥ १०६॥ (त्रिभिर्विशेषकम् ) अथ श्रीसोमदेवसूरिवर्णनम्- विद्याविवादमदमेदुरबादिवृन्द वाक्यैर्निवार्य नृपपर्षदि हर्षवषैः । यै रञ्जितः स्वककवित्वकलाऽतिरेका- क्षुल्लैरपि क्षितिपतिः किल कुम्भकर्णः ॥ १०७ ।। श्रीपावकावनिपसज्जयसिंहजीर्ण- दुर्गेशमण्डलिकहाममुखा नरेन्द्राः । आत्मीयगीर्मधुरताकवितासमस्या- पूर्त्याऽऽदिना हृदि चमत्कृतिमापिता यैः ॥ १०८ ॥ भूजानिरञ्जनकलावलबप्पभट्टि- कल्पास्त्वनल्पधिषणा धिषणाऽनुकाराः। ये देवमूरिसदृशाः कुदृशां जयित्वा- श्रीसोमचारित्रगणिविरचितं- । नैकस्तवस्तुतिविधानजिनप्रभाभाः ॥ १०९ ॥ तेभ्यो ददुर्नगरराणपुरे क्षणौधे सुरेः पदं धरणसङ्घपतिप्रणीते । श्रीसोमदेवगणिवाचकनायकानां श्रीरत्नशेखरवरा गणधारिणस्ते ॥ ११० ॥ ( चतुर्भिःकलापकम् ) अथ समकं गुरुचतुष्कवर्णनम्- द्वौ द्वौ रवी शशधराविति तेऽब्धिमानाः प्राप्ताः किमत्र समकं तमसश्छिदायै? । धर्मादयः किमथवा विमला इमेऽर्था मूर्ताः स्वसेविषु सदा सुखपोषणार्थम् ? ॥ १११ ॥ श्रीरत्नशेखरगुरूदयनन्दिमूरि- श्रीलक्ष्मिसागरसुधीश्वरसोमदेवाः । नैकैः सकर्णपुरुषैरिति वर्ण्यमाना- निन्युः स्वगोभिरिह सार्वषं विवृद्धिम् ॥ ११२ ॥ ( एवं वसन्ततिलकाछन्दसा संलग्नकवित्वद्वात्रिंशिका) श्रीमन्मालबमेदिनीन्दुवदनाऽलङ्कारहारपभो- रुग्रामागरवासिकर्मतनयश्रीरत्नसङ्घप्रभोः । आक्षेपाद्विधुवेदवर्मवसुधावर्षे सुभिक्षोद्भवे लक्ष्मीसागरमरिराजविलसद्भाग्यप्रकर्षस्तवे ॥११३॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाहयः शिष्यः सूरिवरश्च शिष्यवृषभश्चारित्रहंसोऽस्य यः। तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते गुरुगुणरत्नाकरकाव्यम् । २१ सर्गोऽयं प्रथमोऽभवद्गुरुगुणादनाकराख्याश्रिते ॥११४॥ (युग्मम्) इति परमगुरुश्रीलक्ष्मीसागरसूरीश्वराणामुत्पत्तेरारभ्य भट्टारक- पदप्राप्तिसमयं यावत् श्रीगौतमादिगणधरपरम्परावर्णनगर्भो गुरुगुणरत्नाकरनाम्नि काव्ये प्रथमः सर्गः ॥ अहम् अथ द्वितीयः सर्गः। वच्स्यथ लक्ष्मीसागरसूरीणां गच्छनाथताऽवसरम् । यत्पुनरिह विहितं तैः सुपुण्यकार्य स्वयं तदपि ॥ १ ॥ आचार्या ये मालवादौ विहारं चक्राणाश्चाहत्पतिष्ठादिकृत्यम् । ग्रामे ग्रामे निर्मितोरुक्षणं श्रीसङ्घ पुण्यं लम्भयन्तः शुभार्थम् ।।२।। अश्वश्वेतज्योतिरक्षक्षमाऽब्दे पौषे मासे विक्रमाद् यावदासन् । ये सूरिश्रीरत्नयुक्शेखराणां पट्टे लक्ष्मीसागरा गच्छनाथाः ॥३॥ तावल्लाटापल्लिपुर्या चतुर्धाश्रीसङ्घनागत्य नानापुरेभ्यः । आनन्देनाऽऽनम्य यान् पूज्यपादान् सद्वात्सल्याद्युत्सवश्व व्यधायि।। (युग्मम्) वि-प्रद्युम्नोदारदेहप्रदीप्त्यापूर्वाऽखर्वाडा विद्याविनोदैः । वैराग्येण त्यक्तबाह्यार्थकोशैरङ्गीचक्रे स्थूलभद्रोपमा यैः॥५॥ येभ्यो बिभ्रद्भयः सहस्राक्षभावं भास्वज्ज्योतीरुच्यशम्बाश्रितेभ्यः। विश्वाबाधामुग् नमः सत्क्षमाभृच्चक्रं चक्रे स्वीयपक्षमवृद्ध्यै ॥६॥ येभ्यः केचित्साधवोऽवाप्तविद्या देदीप्यन्ते नव्यकाव्यप्रकाराः । तन्वानास्ते स्वोदयं सर्वदिक्षु प्रत्तक्षेमाः संमुखाः स्वध्वयाताम्।।७।। त्रिंशच्चत्वारिंशदब्देभ्य आगाद् यः प्राग येषामेकशो दृष्टिमार्गम् ।

२२
श्रीसोमचारित्रगणिविरचितं-
देहीदानीमेष मक्षूपलक्ष्यः स्यादीक्षा धारणा कस्य विश्वे?॥८॥
नैकेषु श्रीगच्छनाथेषु सत्सु प्राधान्यं येष्वेव जज्ञे महिन्ना ।
राजीवोद्यत्पग्रहेषु ग्रहेषु श्रीमल्लक्ष्मीसागराः केन तुल्याः ॥९॥
( सप्तविभक्तिक्रमं शालिनीछन्दसा काव्याष्टकम् )
यान् मालवस्थानवलोक्य गूर्जरक्ष्मायामवाप्तावसरेण साधवः ।
स्वसेवकाः केऽपि कृताः कलिक्षमाभृता ततोऽभूद्गण एष सव्रणः१०
अर्थतन्मेलकृतिः-
वाग्देवतादत्तवरा व्रतीश्वरा-
दीव्यद्वपूरूपपराजितस्मराः।
चकाशिरे ये कविमौलिमण्डनाऽ-
नुकारकाः श्रीगुरुरत्नमण्डनाः ॥११॥
श्रीसोमदेवाह्वयमूरिसूत्रिताऽ-
त्याक्षेपतः पक्षपृथक्त्वमोक्षिषु ।
निर्णिक्तहेमेव नतेषु तेषु च
श्रीस्तम्भतीर्थे नगरे गुरूत्सवैः ॥ १२ ॥
खदृक्शरोर्वीशरदि व्यधायि यै-
यंदा गणैक्यं धनसङ्घसाक्षिकम् ।
तदाऽज्यपक्षीयमहात्मनामपि
प्रकाममासीन्मनसीह विस्मयः॥ १३ ॥
(चतुर्भिः कलापकम्)
महाव्रतित्वं किल नैकशो नरा-
यत्पाणिनाऽथो विबुधत्वमापिताः ।
सुब्रह्मतां श्रीधरतां च यद्राि
कस्येहगाऽऽस्ते गरिमा जगत्त्रये ॥१४॥

गुरुगुणरत्नाकरकाव्यम् । २३ सितां सिताश्मप्रतिमा सुधां मुधा- मधूलका वा लपनश्रियं खलम् । तथेक्षुदण्डं तृणमेव मेनिरे यद्वाचमास्वाद्य विदां वरा नराः॥१५॥ तपा इति ख्यातिमतां महात्मनां कर्तुं हि युक्ता विकृतिर्न नित्यशः। तत्पश्चपा क्षपणादिकारकै- यस्त्याजिताऽऽज्यादिरियं जितेन्द्रियैः ॥ १६॥ श्वेताम्बरेति स्वकरूढिसूनृती- कृते वितीर्णानि यतिबजाय यैः । श्वेताम्बराणि व्यवहारिणां नृणां बोधाय तदानविधाविवाऽथवा ॥ १७ ॥ (उपजातिच्छन्दसाऽष्टकम्) अथैषां गच्छपरिधापरिधानिकाविधिः- विक्रमात्पाणिपादाक्षक्षमावर्षे स्वहर्षतः । तपागच्छस्य यैर्वेषैरारब्धा परिधापना ॥१८॥ यैराचार्या उपाध्यायाः स्थापिताः परिधापिताः । ये तेषामभिधां वक्ष्ये श्लेषाचात्रान्तिषत्ममाम् ॥ १९ ॥ अपि च- श्रीरत्नमेघादिभिरिभ्यधुर्ये यद्वारके प्रापि च यत्प्रसादात् । तत्राहमाऽऽख्याः कियतां यतीना- माख्यामि ता याः श्रुतिमागता मे ॥ २० ॥ BANA अथ च- लक्ष्मीसागरसूरीशैः पूर्व तैः परिधापिताः ।.

श्रीसोमचारित्रगणिविरचितं-
तत्त्वदृक्संयतार्याः श्रीसुधानन्दनसूरयः ॥ २१ ॥
विद्यामानधराराध्याऽनगारार्यास्ततः
: पुनः।
सूरयः शुभरत्नाख्याः शुभरत्ननिधिप्रभाः ।। २२ ॥
महाव्रतपदव्यक्तवत्यार्याङ्गीकृतक्रमाः ।
श्रीमत्सोमजयाचार्या यशःसोमजयोद्यताः ॥ २३ ॥
ज्ञानामृतरूचिस्फीतसंवरश्रमणाऽग्रिमाः ।
आचार्या जिनसोमाख्याः सोमजार्जुनकीर्तयः ॥२४॥
गुणराँमतपोधाममुनिसत्याप्तसेवनाः ।
वृजिनध्वान्तहंसाः श्रीजिनहंसाबसूरयः ॥ २५ ॥
विश्वभूतहिताचारचारित्र्यायश्चितास्ततः ।
सूरयः सुन्दरा मत्या श्रीमत्सुमतिसुन्दराः॥२६॥
भयेन्द्रियजयेद्धश्रीश्रमणार्याऽनुरागिणः ।
स्वशिष्याग्याश्च सूरीशाः श्रीमत्सुमतिसाधवः ॥ २७ ॥
भास्वत्तारतपःपूतशरीरव्रतिशालिनः ।
धन्यराजप्रियप्रज्ञाः श्रीराजप्रियसूरयः ॥ २८ ॥
अहीनेन्दुशुचिश्लोकधारिचारित्रिसाधवः ।
अनूचाना नतानेकनरेन्द्रा इन्द्रनन्दयः ॥ २९ ॥
अथ वाचका:-
ms-
सदानेन्दकराऽमन्युमुन्यार्या जुष्टमूर्तयः ।
श्रीमन्महीसमुद्राहा महोपाध्यायपुङ्गवाः ॥ ३०॥
क्षमारामयमारामघनसंयमिसंश्रिताः ।
श्रीमल्लब्धिसमुद्राख्या उपाध्याया महोमयाः॥ ३१ ॥
तत्त्वदृष्टिगरिष्ठाङ्गवत्यार्यासादिताश्रयाः ।
उपाध्यायाः प्रशस्याऽयाः श्रीमन्तोऽमरनन्दयः ॥ ३२ ॥

गुरुगुणरत्नाकरकाव्यम् । २५ कुविद्याऽजयभित्साधुसत्याराधितविग्रहाः । कुशाग्रीयधियः श्रीमज्जिनमाणिक्यवाचकाः ॥ ३३ ॥ जगतीजनताऽऽदेयवचोवाचंयमाश्रमाः । वाचका धर्महंसाख्या धर्महंससरःसमाः ॥ ३४ ॥ मण्डिताश्चरणच्छायाभृदमायमहात्मभिः । उपाध्यायपदोपेताः श्रीमदामममण्डनाः ॥ ३५ ॥ यतिधर्मकृतिप्राप्तगौरवव्रतिभूषिताः । इन्द्रहंसा उपाध्याया इन्द्रहससमौजसः ॥ ३६ ॥ अजन्माऽऽयकाङ्क्षिस्तुएमालेमसौख्यदाः । वाचका गुणसोमाख्या मुख्या मेधाविवाग्मिनाम् ।। ३७ ।। तथाऽमासंपराहार्ययत्यार्या वरवाचकाः । श्रीमन्तोऽनन्तहंसाहाः सुबह्वागमवोदिनः ॥ ३८ ॥ भुवनाद्भुतकृत्साधुधुर्याः श्रीसङ्घसाधवः । वाचका वाक्यचातुर्याऽऽवार्जिताऽर्यसभासदः ॥ ३९ ॥ यद् न्यगादि मया मानमेषामन्तिपदामिह । अनुमानेन तद् न्यूनाऽधिकत्वे नैव दूषणम् ॥ ४० ॥ अथ कति विबुधाभिधाः- यैरथार्पितवेषाणामशेषाणां महात्मनाम् । संख्यां ख्यातुमलं नाहं तादृग्ज्ञप्रयोगतः॥४१॥ गीतार्थानां तथाऽप्यत्र ब्रुवे नामानि कानिचित् । कौतुकादेतदाख्याऽन्तस्थाऽवर्गाक्षरक्रमात् ॥ ४२ ॥ राजतिलकशुभतिलकाऽभयतिलका अमरभुवनशिवतिलकाः। श्रीसिद्धान्तविवेका भुवनविवेकाऽभिधा विबुधाः ॥४३॥ एतेऽकान्ता मता भूरिभूतेष्टा अष्टविष्टपे ।

... २६ श्रीसोमचारित्रगणिविरचितं- सर्वमङ्गलयाऽऽश्लिष्टाः श्रीमहाव्रतिमूर्तिवत् ॥ ४४ ॥ (युग्मम् जयरुचिसिद्धान्तरुची अथ प्रभाराजमेरुराजवराः। जयराजचन्द्रराजाऽमरराजानन्दराजाख्याः॥४५॥ सुन्दरराजो नन्द्यादिमसहजानन्दसहजनामानौ । शिववदमी एकादश विबुधाः स्मरहा अपि च-जान्ताः॥४६॥ (युग्मम् ) श्रीसुधाभूषणा लब्धिभूषणाऽभयभूषणौ । देवभूषणनामानस्तथा कमलभूषणः ॥४७॥ बुधाः प्रतिष्ठाकल्याणाऽभयकल्याणसंज्ञकाः । जयकल्याण एतेऽष्टौ णान्ता दिग्गजतेजसः॥४८॥ (युग्मम् ) सत्सुविहिताभयश्रुतसंज्ञौ सुमतिश्रुतेन्द्रशीती च । मुनिकीर्तिनेमिकीर्ती सुलब्धिकीर्तिस्तिलककीर्तिः ॥४९॥ सिद्धान्तादागमात्कीर्ती तथा विनयमूर्तयः । धीरमूर्तिवरानन्दमूर्तिसंयममूर्तयः॥ ५० ॥ सत्तिलकमूर्तिलब्ध्यादिममूर्ती षोडशेति विबुधाः स्युः। इन्दुकला इव विमला एतेऽतान्तास्तथाऽर्त्यन्ताः॥५१॥ (त्रिभिर्विशेषकम् ) ज्ञानप्रमोदचरणप्रमोदसंज्ञौ जिनप्रमोदश्च । भावानन्दः पुण्यानन्दः श्रीरत्ननन्दिवराः॥ ५२ ॥ श्रुतनन्दिरभयनन्दिप्रभुसंयमनन्दिराजनन्द्यभिधाः। दश दिक्पतय इवैते दान्ताः सुमनःश्रिता विबुधाः ॥५३॥ (युग्मम् ) जयसाधुचरणसाधू बुधाश्च सिद्धान्तसाधुगुणसाधू ।

२७ गुरुगुणरत्नाकरकाव्यम् । सत्कमलसाधुरेते ध्वन्ताः स्वस्तरव इव पञ्च ॥ ५४ ॥ श्रीसत्यरत्ना वरमेरुरत्नाः सचन्द्ररत्ना अथ नेमिरत्नाः । लब्ध्यादिरत्नास्तदनु प्रतिष्ठारत्नाः सुधारत्नसुसूररत्नाः॥५५॥ सत्तिलकरत्नलक्ष्मीरत्नसमयरत्नचरणरत्नाख्याः। सुमतिरत्नेन्द्ररत्नौ कुलरत्नः कमलरत्नश्च ॥ ५६ ॥ सरसोमसोममण्डनशिवमण्डनसमयमण्डनाह्वानाः। लक्ष्मीमण्डनभावादिममण्डनकमलमण्डनकाः ॥ ५७ ॥ श्रीपुण्यनन्दना हेमनन्दना धर्मनन्दनाः । प्रभाऽभयागमेभ्यश्च वर्धनाः शुभवर्धनाः ॥ ५८ ॥ इन्द्रज्ञानः स्फुरज्ज्ञानः सहजज्ञानसंज्ञकः। सङ्घज्ञानाभिधः साधुस्तथा कल्याणदर्शनः ॥ ५९ ॥ पण्डिताः पर-मा-नान्ताः एते मर्येशसत्कृताः । देवा इव त्रयस्त्रिंशत्सुधर्माचारदर्शिनः ॥ ६० ॥ ( षड्भिः कुलकम् ) उदयमभनामानः पण्डिताः सुन्दरप्रभाः॥ आगमप्रभसद्भावलाभेन्द्राऽजितलाभकाः ॥ ६१ ॥ एतेऽदर्पक-ला-भान्ताः षड्दर्शनसुरा इव । पुण्योपदेशतः क्लुप्तखाप्तदर्शनदीप्तयः ॥ ६२ ॥ (युग्मम् ) श्रीविमलधर्मसारादिमधौं चन्द्रधर्मजयधौं । सिद्धान्तधर्मसुतिलकधर्मभुवनधर्मनामानः ॥ ६३ ॥ चारित्रधर्मसदऽमरधर्माऽजितधर्मकमलधर्माख्याः। गुणधर्मकनकधर्मों सुमतेः संवेगतो नेमी ॥ ६४ ॥ श्रीसर्वसोमा वरशान्तिसोमाः श्रीशीलसोमा उदयादिसोमाः।

२८ श्रीसोमचारित्रगणिविरचितं- सिद्धान्तसोमा विजयादिसोमाः सद्धर्मसोमास्तिलकादिसोमाः६५ शुभसोमराजसोमाऽभयसोमा भुवनसोमकुलसोमौ । लाभसोमेन्द्रसोमौ सत्यागमसंयमौ यमिनौ ।। ६६ ।। शिवहेमसारहेमौ जिनजयहेमौ च भद्रहेमाख्यः । संवेगरत्नहेमौ शान्तिक्षेमा जयक्षेमाः॥ ६७ ॥ विश्वदेवा इवामीषु तेजःपात्रं त्रयोदश । बुधाः शेषा भवन्त्वे समेऽमान्ताः क्षब्धियः ॥ ६८॥ ( षड्भिःकुलकम् ) श्रीविनयप्रियसारप्रियागमप्रियजिनोदयाः सदयाः। हर्षोदयरत्नोदयभुवनोदयनामधेयाश्च ॥ ६९ ॥ साधुमाणिक्यविबुधाः श्रुतमाणिक्याश्च सूरमाणिक्यः । समयमाणिक्यसंज्ञाः सज्ञानानन्दमाणिक्यौ ॥ ७० ॥ सुमतिमाणिक्यनामा सुराजमाणिक्यसर्वमाणिक्यौ । सत्सुमतिसत्यसुन्दरसत्यौ कल्याणसत्यश्च ॥ ७१ ॥ रत्नजयास्तीर्थजयाः सिद्धान्तजयाश्च तिलकजययतयः । अजिताभयकनकजयः कुलोदयेन्द्रोदयौ सनयौ ॥७२॥ साधुविजयः शिवविजयाःसजयाश्चारित्रविजयजिनविजयाः। रत्नविजयसर्वविजयविवेकविजयेन्द्रविजयाश्च ॥ ७३ ।। महोमया इमेऽयान्ताः पण्डिता अहितच्छिदे । षट्त्रिंशद्दण्डशस्त्रामा गणनायकचक्रिणः॥ ७४ ॥ (षड्भिः कुलकम् ) धर्मसुन्दरचारित्रसुन्दरास्तीर्थसुन्दराः। विजयात् सुन्दरा विज्ञधराः समयसुन्दराः ॥ ७५ ।। सिद्धान्तसुन्दराश्चापि चरणोदयसुन्दरौ ।

२९
गुरुगुणरत्नाकरकाव्यम् ।
दक्षाः सुमतिसाराख्याः सोमसारेन्द्रसारकौ ॥ ७६ ॥
सज्ञानधीरसंज्ञा विज्ञाश्चारित्रधीरशिवधीराः।
हेमादिमधीराऽभयधीरसुमतिधीरकुलधीराः ॥ ७७ ॥
आनन्दधीरविबुधाः शुभवीराश्चन्द्रवीरशिववीराः।
जयवीरश्रुतवीराजितवीरास्तदनु कुलवीराः ॥ ७८ ॥
आनन्दाचारित्रा आगमचारित्रपण्डितप्रवराः ।
सहजचारित्रनामा चरणाचन्द्रः सहजचन्द्रः ॥ ७९ ॥
श्रीसोमभद्रसारादिमभद्रज्ञानभद्रनामानः ।
श्रीसिद्धान्तसमुद्राः समयसमुद्राभिधानाश्च ॥ ८० ।।
सन्नेमिशेखरा राजशेखरामयशेखरौ ।
सुमतेः शेखरः साधुस्तथा भुवनशेखरः ॥ ८१ ।।
भुवनात्सागराऽऽरावः श्रीमच्चरणसागराः।
नयाभयागमेभ्यश्च सागराः सोमसागराः ॥ ८२ ।।
रत्नसरा वचःसूरा जिनमुरा जितस्मराः।
सर्वसूराः शुभात्सूराश्चन्द्रसूराश्च पण्डिताः ॥ ८३ ।।
द्विपञ्चाशदमी एवं सदा-रान्ता जगन्नताः।
श्रीगणाधीशशुश्रूषापरा वीरसुरा इव ।। ८४ ॥
(दशभिः कुलकम् )
श्रीसोममङ्गला हेममङ्गला धर्ममङ्गलाः।
शुभशीलाः सुसंवेगशीलाच ज्ञानशीलकाः ॥ ८५ ।।
चारित्रशीला वरमूरशीलाः सौभाग्यशीला इह नन्दिशीलाः।
सद्भावशीला अथ शीलशब्दः पुरो जिनेन्द्रागमसुन्दरेभ्यः८६
तीर्थकुशलजिनविमलौ शुभविमलः पटुवचाश्च कुलकमलः ।
अभयाच्छुभतः कीर्विशालशब्दस्तथा विबुधाः ॥८॥

३०
श्रीसोमचारित्रगणिविरचितं-
तिथिवत्प्रतिपन्मुख्या एषु पञ्चदशाऽपरे ।
सप्तर्षिवदपङ्काङ्गा लान्ता द्वाविंशतिः समे ॥ ८८ ॥
(चतुर्भिः कलापकम्
आनन्ददेवा अथ तीर्थदेवा धनादिदेवाः कनकादिदेवाः ।
श्रीचन्द्रदेवाऽमरदेवलक्ष्मीशिवाश्च संवेगशिवाः शिवाङ्गाः ८५॥
श्रीमचन्द्रयश कुलयशःकमलकलशकनककलशाख्याः ।
विबुधा इमे वशान्ता रवय इव द्वादशोदयिनः ॥ ९० ॥
(युग्मम् )
श्रीउदयहर्षलक्ष्मीहर्षविजयहर्षहसहर्षाख्याः ।
शिवहर्षशीलहर्षाः सुनेमिहर्षाश्च कृतहर्षाः ॥ ९१ ॥
सज्ञानहर्षनामानस्तथा कनकहर्षकः।
क्षमोद्भवा अमी-पान्ता विबुधा निधिवन्नव ॥ ९२ ॥
(युग्मम् )
श्रीमत्संयमहंसाः सुरत्नहंसा विवेकहंसाश्च ।
सल्लब्धिहंसलक्ष्मीहंसाः सिद्धान्तहंसवराः॥९३ ॥
अथ शीलहंसनन्द्यादिमहंसौ शान्तिचरणहंसौ वा।
श्रुतहंसाभयहसौ सुन्दरहंसश्च कुलहंसः॥ ९४ ॥
जडध्याश्रयनिर्मुक्ता रत्नानीव चतुर्दश ।
सदाऽसान्ता बुधा एते सुमनःसुखदायिनः ॥ ९५ ॥
(त्रिभिर्विशेषकम् )
विबुधा आगमतीर्थास्तथा कमलधीरकनकसौभाग्यौ ।
लावण्यादी भूषणभद्रौ चारित्रमाणिक्यः ॥ ९६ ॥
यादिद्वादशपर्यन्तयत्यार्यासंयुतान् बुधान् ।
ये पर्यधापयन्नेवं शर्वोनत्रिशतीमितान् ॥ ९७ ॥

गुरुगुणरत्नाकरकाव्यम् । ३१ येषां सुधामुचं दाचं श्रुत्वैते सपरिच्छदाः । रत्नाबैरास्तिकैः कैश्चित् प्रायेण परिधापिताः ॥ ९८ ॥ श्रीश्रामण्यं सहस्रानुमिततनुमतां विज्ञवाचंयमाना- माचार्यत्वं नवानां तदनु तिथिमितिव्यापिनां वाचकत्वम् । एकार्यायाश्च माहत्तरपदमपि यैरर्पितं पण्डितानां गण्यादीनां पदानां नहि परिगणना स्यात् स्वयं स्थापितानाम् ९९ अभिकृतिशतमानागमगुणनपराः प्रत्यहं प्रमादहराः। बभुरिह लक्ष्मीसागरसूरीशास्ते युगप्रवराः ॥ १० ॥ श्रीमन्मालवमेदिनीन्दुवदनालङ्कारहारमभो- रुग्रामागरवासिकर्मतनयश्रीरत्नसङ्घप्रभोः । आक्षेपाद्विधुवेदवर्मवसुधावर्षे सुभिक्षोद्भवे लक्ष्मीसागरसूरिराजविलसद्भाग्यप्रकर्षस्तवे ॥१०१।। श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाइयः शिष्यः मूरिवरश्च शिष्यवृषभश्चारित्रहंसोऽस्य यः। तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते सर्गोत्र प्रथमेतरो गुरुगुणादनाकराख्यायुते ॥१०२॥ इति परमगुरुलक्ष्मीसागरसूरीणां गच्छनायकपदवीप्राप्तिगच्छ- मेलगच्छपरिधापनिकादिविधानगर्भो गुरुगुणरत्नाकरनानि काव्ये द्वितीयः सर्गः।

अर्हम् अथ तृतीयः सर्गः। श्रीगूर्जरत्राऽमरमालवेषु यै- राधायि या श्राद्धकृतोद्धवोच्चयैः। बिम्बप्रतिष्ठादिककार्यमालिका वच्मि क्रमात्तामथ चित्रकारिकाम् ॥ १॥ भट्टारकाः केऽपि पदादिकं यदाऽऽ- देशादकार्षदृषकृत्यमुत्सवैः। यात्रा च केचिच्च महधिकाऽऽस्तिका- यद्वारके यत्तदपि ब्रुवे कियत् ॥ २॥ (युग्मम् ) अत्र प्रथममुकेशज्ञातीयसाह साहविहितविस्तरः प्रोच्यते- प्रासादसौधद्धिविधूतताविष- च्छायाभरे श्रीगिरिपूर्वके पुरे । श्रीसोमदासावनिजानिमन्त्रिणा धर्मिष्ठधुर्येण च साहसाधुना ॥ ३ ॥ खाक्षिक्षमामानमणोरुपित्तला निर्मापिता या जिनमूर्तिरुज्ज्वला । तस्याः परस्या अपि बिम्बसन्तते- श्चक्रे प्रतिष्ठा प्रथम महेन यैः॥४॥ (युग्मम्) अथ दक्षणीयसाहमहादेव विस्तर:- श्रीदेवगिर्याद्वमहापुरादिहाऽऽ- गत्याऽतिभक्त्या प्रणिपत्य तीर्थपान् ।

गुरुगुणरत्नाकरकाव्यम् ।
शत्रुञ्जयादौ सुगुरून् पुनर्महा-
देवाऽभिधेनेभ्यवरेण साधुना ॥ ५ ॥
लाटादिपल्ल्यां प्रथिते पृथुक्षणे
प्रभूतपुंसां पटटङ्ककार्पणे ।
श्रीसोमदेवाह्वयमूरिशोभितैः
पूज्यस्ततो यैः शतशो यतैतैः ॥ ६॥
श्रीमत्सुधानन्दनहेमहंसयोः
सद्वाचनाऽऽचार्यशिरोऽवतंसयोः ।
प्रसादिता वाचकता तदोदया-
च्चूलागणिन्याश्च महत्तरापदम् ॥ ७ ॥
(त्रिभिर्विशेषकम् )
अथ मण्डपीयसं०चांदारचितविस्तरः-
हाडावटीमालवदेशनायक-
प्रजाप्रियाऽहम्मुदमुख्यमन्त्रिणा ।
श्रीमण्डपक्ष्माधरभूमिवासिना
सङ्घाधिनाथेन च चन्द्रसाधुना ॥ ८ ॥
द्वासप्ततिर्दारुमया जिनालया-
रीरीचतुर्विंशतिपट्टराजिताः ।
ये कारिता मङ्गलदीपकादिषट्-
त्रिंशत्प्रमाणोपकृतिश्रियाऽऽश्रिताः ॥९॥
प्राग्वाटवंशोदधिपार्वणेन्दुना-
ऽमुना चतुर्लक्षचतुष्कलव्ययात् ।
पुण्यैकचित्ताअमिताऽऽस्तिकास्तिकी-
पङ्क्तेढुकूल भरणा दिदानतः ॥ १० ॥

३४
श्रीसोमचारित्रगणिविरचितं-
क्लुप्ते गरीयस्तरविस्तरे तत-
स्तेषां प्रतिष्ठा यतिपैरकारि यैः ।
श्रीमत्सुधानन्दननामवाचक-
प्रभोरनूचानपदं च तत्क्षणे ॥ ११ ॥
(चतुर्भिः कलापकम् )
अथ मन्त्रिगदाकृतप्रथमविस्तर:-
अहम्मदाबादपुराधिवासिना
सोझींत्रिके श्रीगदराजमन्त्रिणा ।
त्रिंशत्सहस्रद्रमटकविक्रयाद्
यत् कारितं नूतनजैनमन्दिरम् ॥ १२ ॥
श्रीसोमदेवाहयमूरिभिस्तत-
स्तत्राऽऽर्हती मूर्तिततिः प्रतिष्ठिता।
ददे यदादेशमथाप्य सोत्सव
श्रीवाचकत्वं शुभरत्नसाधये ॥ १३॥
आशादिपल्लीपुरि मञ्जुले महे
महेभ्यरा मण्डनमङ्कमाण्डिते ।
प्रवर्तिनीनाम्नि पदे पुनस्तदा
तैः सोमलब्धिणिनी निवेशिता ॥ १४ ॥
(त्रिभिर्विशेषकम् )
अथ मालवीयसं०सूरावीराविरचितविस्तरः-
श्रीग्यासदीनावनिमुग्नियोगिनौ
महर्द्धिको मण्डपदुर्गवासिनौ।
श्रीसूरवीरौ कृतिनौ सुदानिनौ
प्राग्वाटमुख्याविह यौ यशखिनौ ॥ १५ ॥

गुरुगुणरत्नाकरकाव्यम् । ३५ पैगच्छराजैर्घनसङ्घसंयुतौ साकं सुधानन्दनमूरिभिश्च तौ । सिद्धाचलादौ जिनपूजनोद्यतो ग्रामं क्रमादुम्बरहट्टमागतौ ॥ १६ ॥ पङ्किकातूर्यगुरूदरस्फुर- त्तुरङ्गयुग्यव्रजजातडम्बरम् । किं पार्थिवः कोऽपि महानिहागमद् ? यत्सङ्घमीक्ष्येति जनस्तदाऽवदत् ॥ १७ ॥ ताभ्यां महेभ्यागुतकारिणि क्षणे तत्राप्रमाणैर्द्रविणैर्विनिर्मिते । यैरपिता श्रीशुभरत्नवाचक- स्याऽऽचार्यसम्पत् प्रमदप्रदायिनी ॥ १८ ॥ श्रीपातशाहेः फरमाणमाप्य तौ श्रीतीर्थयात्रामय च प्रचक्रतुः। लक्षाधिकार्थव्ययतः सविस्तरं निरन्तरायं यदुरुप्रसादतः॥१९॥ (पञ्चभिः कुलकम् ) अथ दाक्षिणात्यसं०धनराजनगराजजनितक्षण:: श्रीदेवगिर्याः समुपेत्य गुर्जर- क्षाण्यामगण्याव्यनृणां शिरोमणिः । श्रीधन्यराजो नगराजबन्धुयुग यान् नंनमीति स्म यतीश्वरान् मुदा ॥ २० ॥ श्रीमन्महिम्मूदमहीपतेर्महो- पदाप्रदानाद् बहुमानमासदत् ।

३
श्रीसोमचारित्रगणिविरचितं-
ततः सहर्ष चकृश्चितुलसौ
तीर्थेषु यात्रां विमलाऽचलादिषु ॥२१॥
श्रीपत्तनेऽस्मिन्नणहिलपाटके
प्राट्चतुर्मासकमेष तस्थिवान् ।
अबूभुजद् भानुमिताधसंयुत-
ज्ञातीनभीष्टैरशनादिभिस्तथा ॥२२॥
कौशेयवासाकनकादिनाणकै-
स्ताम्बूलदानाद् बहुशः सुदृग्विशाम् ।
निर्माय निर्मानमहं दृढाऽऽग्रह
येषां पुरस्ताद् धनराजसङ्घराद् ॥ २३ ॥
सूरेः पदं सोमजयावाचक-
स्याऽकारयद् यत्करपङ्कजेन यः।
यदन्तिषच्छ्रीजिनसोमपण्डित-
प्रभोरुपाध्यायपदं च पत्तने ॥ २४ ॥
श्रीधन्यराजो नगराजसङ्गतः
स दक्षिणीयोऽपि कृतार्थिकामितः ।
लक्षाधिकैस्तत्र सुवर्णटङ्ककै-
वृष्टस्तदाऽहो ! घनकान्तिरुच्चकैः ॥ २५ ॥
(षड्भिः कुलकम् )
अथ संगदाकस्य द्वितीयः प्रथीयःक्षण:-
श्रीगूर्जरज्ञातिवणिग्वराग्रणी-
मन्त्री सुरत्राणसुखक्षमामृताम् ।
विज्ञो वदान्यो विनयी नयी बृह-
पुण्यप्रथा जैनमतप्रभावकः ॥ २६ ॥

३७
गुरुगुणरत्नाकरकाव्यम् ।
निर्व्याजवृत्त्या बहुवत्सरावधि
श्रीपक्षिका प्रत्युपवासकृञ्च यः ।
तत्पारणे द्वित्रिशताऽऽस्तिकावले-
वात्सल्यकारी गदराजसङ्घराट् ॥ २७ ॥
व्योमेक्षणक्ष्मामणरीतिपिण्डितं
बिम्बं स नाभेयविभोरबीभरत् ।
तत् पापयत् चार्बुदभूध्रभूषणे
भैमे विहारे बहुवित्तविक्रयात् ॥ २८ ॥
आसाद्य सद्यः फरमाणमुर्वरा-
राजस्य यात्राकरणार्थमुत्सुकः।
पर सहस्रैर्नृभिरर्वभिः परः-
शतैः स्वनःसप्तशतैश्च शोभितम् ॥ २९ ॥
विचित्रवाद्यारवगर्जदम्बरं
श्रीसङ्घमादाय सुखपयाणकैः।
श्रीभानुलक्षादिमहीशसत्कृतः
पाप क्रमादर्बुदपर्वतं स तम् ॥ ३० ॥
रैटङ्कलक्षव्ययतोऽनणीयसः
सङ्घस्य मिष्टान्नपटादिदायिना ।
तस्योपरिष्टाद् धनिविस्मयावहे
महे महेभ्येन तु तेन मण्डिते ॥ ३१ ॥
तत्रेत्य यैः सोमजयाख्यमूरिभिः
सत्रेषु नेत्रेन्द्रियचन्द्रहायने ।
सा मूर्तिरर्चा अपराश्च भूरिशः
प्रतिष्ठिता भौमजिनौकसि स्थिताः ॥ ३२ ॥

३८
श्रीसोमचारित्रमणिविरचितं-
Mam
ततः सुधानन्दनसंज्ञमूरिभि-
दत्ताऽनुमत्या च गदाऽऽग्रहात् तदा ।
प्रसादिता श्रीजिनसोमवाचक-
स्याऽऽचार्यता यैर्गणपैः स्वपाणिना ॥३३॥
अथात्रैव सा डुङ्गर-सं०सांडाकृतमहः-
श्रीपत्तनादेत्य बृहद्वृषावली-
विधायिसाधारणसाधुमूनुना।
श्रीडुङ्गरेण प्रथिते क्षणेऽर्पितं
यैर्वाचकत्वं जिनहंससद्गुरोः॥ ३४ ॥
संडाऽऽस्तिकेनार्बुदवासिना पुनः
प्रौढे प्रणीतेत्र धनैर्घनैर्महे ।
मादाय्युपाध्यायपदं सुपण्डिते-
शितुः सुमत्यादिमसुन्दरस्य यैः ॥ ३५ ॥
खं मन्यमाना गदराज ङ्गर-
श्रीसंडकेभ्याः सफलं जनुस्ततः।
श्रीजीरपल्लिप्रभुपार्वतीर्थक-
द्यात्रामकार्षुः कुशलेन सोत्सवम् ॥ ३६ ॥
(एकादशभिः कुलकम् )
अथाहम्मदावादीयहर्म्यद्वारिकप्राग्वाटसं०कर्मण-दो महि-
राज-दोव्हेमादिविस्तरः-
श्रीतीर्थयात्रायुरुपुण्यकारिणा
श्रीकर्मणाऽऽख्येन महीपमन्त्रिणा ।
महीसमुद्राभिधपण्डितप्रभोः
प्रादाय्युपाध्यायपदं विवेकिना ॥ ३७॥

गुरुगुणरत्नाकरकाव्यम् । शत्रुञ्जये यो दशभिर्जिनालयै- यात्राविधायी गुणराजसङ्घराद् । पौत्र्या कपूर्याह्वयया तदीयया तत् कारितं लब्धिसमुद्रसद्यतेः ॥ ३८ ॥. निर्दम्भमर्हद्गुरुभक्तिभावितः साध्वन्वये यः प्रचुराऽऽज्यदः सदा । तेनैतदेवामरनन्दिपण्डित- स्याऽकारि धीमन्महिराजसाधुना ॥ ३९ ।। श्रीपुण्डरीके कृतवान् नवोत्सवै- यात्रा द्विशोऽब्दं प्रति सङ्घयुग् यकः। जिनादिमाणिक्यगणिप्रभोरदः सहेमधन्यादिपतिय॑धापयत् ॥ ४० ॥ चतुर्भिरेभिः प्रपिते पृथक् पृथक् पृथूत्सवे वेषपुरे नरेश्वरैः। न्यायार्जिताऽन्यूनधनैरहम्मदा- वादादुपेत्य त्वभिनुत्य यान् प्रभून् ॥४१॥ एषां चतुर्णा वतिनां तपःक्षमा- चातुर्यविद्यादिगुणाञ्चितात्मनाम् । तदाग्रहात् सोमजयाबसूरिभिः साकं यकैर्वाचकता समार्पता ॥ ४२ ॥ (षड्भिः कुलकम् ) अथ सं०खीमा-सं०कुन्ता-कृतविस्तर:- सौवश्रिया स्वर्गपुरी जिगाय या जिनालयव्याजवशात् ततः स्वकान् ।

श्रीसोमचारित्रगणिविरचितं- सौवर्णकुम्भध्वजराजिराजितान् यस्या विमानानुपदीचकार सा ॥ ४३ ।। सीरोहिकायां पुरि तत्र चित्रक- द्धर्मिष्ठधन्याऽऽस्तिकधोरणीधृति । दीनाऽऽदिदेहिप्रकरोपकारकः खीमाऽभिधः सङ्घपतिः समस्ति यः ॥४४॥ निष्पादिते तेन महे महात्मनां वात्सल्यवर्याम्बरदानपूर्वकम् । यैर्गच्छराजैर्जिनहंसवाचकं प्रति स्वयं मूरिपदं प्रसादितम् ॥ ४५॥ सुडाककाभिख्यपुरादुदारधीः कुन्ताऽभिधः सङ्घविभुः श्रियाऽर्हताम् । यात्रादिपुण्यैकपटुीपाययौ योज स्वपुत्र्याः सुविवाहहेतवे ॥४६॥ द्वात्रिंशताऽसौ सह रिक्किकाशतै- स्ताम्बूलनिर्माणपुरस्सरं सताम् । येषां पुरस्तादतिमात्रभाग्रह विरच्य रुच्यं च महं महीयसम् ॥ ४७॥ श्रीसोमदेववतिनेतुरन्तिष- न्मुख्यस्य मत्याऽनुकृतासद्गुरोः । श्रीमत्सुमत्यादिमसुन्दरस्य यै- राचार्यतामर्पयति स्म विस्मितः॥४८॥ (षड्भिः कुलकम् ) गुरुगुणरत्नाकरकाव्यम् । ४१ अथाऽकीयसो ईश्वरपताप्रथितविस्तर:- ख्यातः सना तीर्थजिनेन्द्रवन्दना- दानाद्यगण्याऽनणुपुण्यकर्मभिः । य ईश्वरः श्राद्धवरः पताऽभिध- भ्रातृश्रितो भूरिधनैरकारयत् ।। ४९ ॥ प्रासादमुच्चैरिलदुर्गपर्वतो- परिप्रसादादिह भानुभूपतेः । अतिष्ठितं तद्विहितेऽद्भुते महे- ऽजितेशबिम्बं बहुबिम्बयुक् च यैः ॥ ५० ]] अथ को श्रीपालकलितमहः- यः प्रौढिमान् भानुनरेशधीसखः श्रीपालसाधुः सुकृतार्जनोन्मुखः । ऊकेशवंशेन्दुरियहरस्थित- स्तपागणे वेषसमर्पणे रतः ॥ ५१ ॥ खीयश्रिया तेन विधाय सूद्धवं यत्पाणिना मूरिपदं प्रदापितम् । श्रीमत्सुमत्यादिमसाधुपण्डिते- शितुः सुधीसाधुगुणोच्चयाम्बुधेः ॥ ५२ ॥ (युग्मम् ) अथोकेशज्ञातीयसो०पतासोव्हरिश्चन्द्ररचितक्षण:- पदप्रतिष्ठादिविधायकः स्वयाऽऽ- ह्वया श्रिया चाऽकमियोऽजनीश्वरः। भ्राता लघुस्तस्य पताहयस्तु यः सुतो हरिश्चन्द्र इतीह विश्रुतः ॥ ५३ ।। ६

IPARAN
४२
श्रीसोमचारित्रगणिविरचितं-
more
ताभ्यां कृतिभ्यां महति क्षणे कृते
दत्त्वाऽऽशु ये वाचकतां पृथग्महम् ।
राजप्रियायाऽदुरथेन्द्रनन्दये
द्वाभ्यां सुधीभ्यामिति मुरिसम्पदम् ।। ५४ ।।
(युग्मम् )
अथ मं०मेघमहः-
श्रीधर्महंसस्य बुधस्य वाचक-
श्रीरिन्द्रहंसस्य च यैः समर्पिता।
अत्याऽऽग्रहाद् रम्यमहादहम्मदा-
वादीयमाग्रिममेघमन्त्रिणः ॥ ५५ ॥
अथ ऊसा०जीवाविहितविस्तर:-
प्रह्लादनाद् येत्र पुरे निवासकृद्
यः खीमसूनुर्वितनोति सन्ततम् ।
श्रीतीर्थयात्रादिवृषान् सुखेच्छया
जीवाह्वयः साधुरनर्गलश्रिया ॥ ५६ ॥
निशम्य सम्यग् यदुदारदेशनां
तेनानगारावलिवेषदायिना ।
क्लप्ते महे वाचकता मुदा ददे
श्रीपण्डितायाऽऽगममण्डनाय यैः ॥ ५७ ॥
(युग्मम् )
अथ को सायररचितविस्तर:-
मन्त्रीशिता भानुनृपस्य सुक्रिय-
अतिप्रियप्राज्यकुटुम्बवन्धुरः।
यः सायरस्तेन कृते महेऽर्पितं
यैर्वाचकत्वं गुणसोमसद्गणेः ॥ ५८ ॥

गुरुगुणरत्नाकरकाव्यम् । अथ सं०धनाजनितक्षण:- प्रत्यब्दयात्राकरहेममनुना धनाभिधेनेभ्यवरेण साधुना । अनन्तहंसस्य मनीषिशेखर- स्याऽदापि यैर्वाचकता सविस्तरम् ॥ ५९ ॥ अथाऽऽशापल्लीयप जूठाम उठाकृतविस्तर:- समग्रगीतार्थसुवेपदायका- जूठादयो ये पटुहंसनन्दनाः । तैर्विस्तरे चारुतरे कृते ददे यैर्वाचकत्वं बुधसङ्घसाथवे ॥ ६ ॥ मूरित्रयं वाचकषदकमित्यदः संस्थापितैरिलदुर्गपत्तने । प्रवर्तिनीनां पुनरष्टकं तदा क्षणैस्तदप्याढ्यकृतैः पृथक् पृथक् ॥ ६१ ॥ अथ प्रा०को०ऊजलकाजाकृतविस्तर:- प्रभूतिविश्वाद्भुतपूरुषोद्भवा प्राज्ञप्रजाप्रक्रियमाणसूत्सवा। नानाजिनावासविमानजित्वरी या राजते राजगृहप्रभा पुरी ॥ ६२ ॥ सीरोहिकायामिह वासिनौ सना लक्षक्षमानेतुरमात्यपुङ्गवौ। शत्रुञ्जयादावतिविस्तरेण यौ यात्राकृतेः सङ्घपती च राजतः ॥ ६३ ॥ सदैव लोगस्सशतद्वयीतनू- श्रीसोमचारित्रगणिविरचित- त्सर्गोद्यतौ त्रिर्जिनपूजने रतौ । यौ द्विष्यतिक्रान्तिमुखक्रियाकृती गृहीतपक्वान्नगुडादिनिश्चयौ ॥ ६४ ॥ श्रीसोमदेवैः सह मूरिभिः पुरा यौ जीरपल्ल्यां जिनपार्श्ववन्दनम् । अकारिषातामिह सप्त वासरान् महेन यावत्करमोचनादिना ॥ ६५॥ यौ दुर्गतौ वा वणिजां सुधर्मिणां धान्यादिदानैः प्रतिमन्दिरं मुदा । नित्यं निजौकस्यनिवारजेमना- ऽऽच्छादप्रदौ मारवमुख्यभूस्पृशाम् ॥ ६६ ।। दुर्भिक्षखिनेषु जनेषु शम्बला- पंको प्रयात्सु प्रति मालवान् यकौ । कृपाऽऽकुलौ रङ्ककुलेषु वत्सलौ पञ्चप्रमादैरकलङ्कितौ कलौ ॥ ६७ ॥ यौ जीर्णजनेश्वरमन्दिरोद्धृति- व्यापारधुर्यो नयसञ्चितैर्धनैः । मर्वादिनीवृत्सु च पञ्चसेरक- प्रमाणखण्डापुटलम्भने पटू ॥ ६८ ।। ताभ्यां स्वपुर्युज्ज्वलकार्यकाभिधा- भ्यामास्तिकाभ्यामभिनम्य बोधिदान् । चतुर्युताशीतिमितार्यदम्पती- भिः सार्धमन्यैरपि धन्यमानवैः ॥ ६९।। यः शिष्यराट् सोमजयाख्यरिवा- गुरुगुणरत्नाकरकाव्यम् । क्सुधा मनोहत्य निपीय निस्समाम् । अरीकृतं तद्वदनाम्बुजन्मना ब्रह्मव्रतं राजसमाजसाक्षिकम् ॥ ७० ॥ परःसहनैरिह रूप्यटङ्ककै- स्ताम्बूलदानेन सतां तनूमताम् । ताभ्यां महेभ्यावलिविस्मयावहः कीर्तिप्रसत्तिर्विहितस्तदा महः ॥ ७१ ॥ (दशभिः कुलकम् अथ सं०सहसावि०महः- यः कुम्भकर्णादिमहीशसत्कृतः सङ्घाधिनेता धरणाभिधः सुधीः । चतुर्मुखं चैत्यमचीकरद् जना- श्चर्यावहं राणपुरान्तरार्हतम् ॥ ७२ ।। श्रीरत्नसिंहः प्रथमः सहोदर- स्तस्याऽभवद् यः सुकृताम्बुसागरः। तस्याऽङ्गजः सालिगनामसङ्घराद् यो वंशवाले जिनसौधकारकः ॥ ७३ ॥ दानादिपुण्याचरणे परायण- स्तस्योद्वहः श्रीसहसाबयोऽस्ति यः। श्रीग्यासदीनेन कृतश्च मालवा- धीशेन धर्माधिकधीसखाग्रणीः ॥ ७४॥ पुण्योपदेशं सुमतिस्थसुन्दरा- चार्येश्वराणां हृदये निधाय सः। नातिक्रमन् पूर्वजमार्गमुत्तम ४६ श्रीसोमचारित्रगणिविरचितं- .. SHO न्यायार्जितै कहिरण्यराशिभिः ॥ ७५ ॥ लक्षक्षमापत्यनुमत्यवाप्तितः श्रीअर्बुदोच्चाऽचलदुर्गशृङ्गके। प्रासादमुत्तुङ्गमकारयञ्चतु- मुखं मरुद्धाममुषं विभूषया ॥ ७६ ॥ स्वकारितं रीतिखहक्षमामणैः पूर्ण यदेकं जिनविम्बमुज्ज्वलम् । तच्चान्यदर्चात्रयमत्र तत्सम संस्थापयामास यकैः प्रतिष्ठितम् ॥ ७७ ॥ (षड्भिः कुलकम् ) अथ मण्डपीयसंवेलादिरचितोत्सव:- श्रीसुमतिसुन्दराणामाचार्याणां निशम्य मधुरगिरम् । वेल्लाकः श्रद्धालुबिशेषसुकृतैकरसिकोऽभूत् ।। ७८ ॥ जिनयात्राकरणमनाः सपदिसुरत्राणदत्तफरमाणः । व्यवहारिव्रजमञ्जुलतमं समादाय सङ्घमसौ ॥ ७९ ॥ यावन्मण्डपदुर्गाद् रतलामद्रङ्गमागमद् रङ्गात् । तावत् तत्र ससङ्घा धन्या अन्ये घना मिलिताः ॥ ८० ॥ यच्छिष्यसुमतिसुन्दरसूरिभिराधायि सङ्घपतितिलकः । वेल्लादीनां लक्ष्मीवतां द्विपञ्चाशतस्तदनु ॥ ८१॥ वर्णा इव के व्यञ्जनगात्राः केचित् स्वराश्च बिन्दुयुताः। मात्राश्रितास्तदा कति पत्रस्था वर्णितास्तज्ज्ञैः ॥ ८२ ॥ पृथक् पृथग वात्सल्यं सत्सु दुकूलादिभिश्च ताम्बूलम् । निर्मायाऽमी निखिलाः क्रमादितः प्रापुरिलदुर्गम् ।।८३॥ प्रतिपाद्य स्नात्रमहं प्रतिजिनमन्दिरमिह ध्वजारोपम् ।

गुरुगुणरत्नाकरकाव्यम् । मुदिता ववन्दिरे ते यान् गुरुराजान सवैनयिकम् ॥८४॥ परदेवाहार्यमहामहार्तिहर्ता तथेष्टसुखकर्ता । श्रीआश्वसेनिरधुना प्रभुरास्ते जीरपल्लिपुरे ॥ ८५ ॥ तत्पथममस्य यात्रा क्रियते मत्वेति सङ्घपतयस्ते । गत्वाऽऽशु तत्र नेमुस्तं चामेयं गुणामेयम् ॥ ८६ ।। रचयन्ति स्म विचित्रानत्र महांस्ते मुदेन्द्रमालां च । गुणराजसङ्घराजः स्वाट्यशतैः पर्यधाद् बहुभिः ॥ ८७ ॥ नवभिष्टकसहस्रैरवुदतीर्थे तथैव वेल्लाकः । इन्द्रस्रपरिधाता सद्वात्सल्यादिकर्ताऽऽसीत् ।। ८८ ॥ राणपुरेऽथ चतुर्मुखचैत्ये वेल्लाकधर्मसिंहायाः। देवकुलिका अनेकाः कृतोत्सवाः कारयाञ्चक्रुः ॥ ८९ ॥ तदनु तदानीं सिद्धक्षेत्रादावहतः समभ्यर्च्य। इलदुर्गे पुनरेत्य प्रणता गणतायिनस्तैर्ये ॥९॥ वेल्लाकेन च वर्धापिताः सुवर्णादिनाणकैर्गुरवः । परिधापिताः शतत्रयमितसंयतपरिवृता वेषैः ॥ ९१॥ तेनैव सोमसागरगणेस्तदा यैरदायि विबुधपदम् । पावकशैले शम्भवनाथमथानम्य सङ्केशाः ॥ ९२ ॥ हृदि निर्दृतिमन्तस्ते मालवनीति निजालयानाऽऽपुः। देवाहानायुत्सवमपि व्यधुर्मण्डपे केऽपि ॥ ९३ ॥ (षोडशार्याकुलकम् ) अथ सं०धर्मसिंहकृतविस्तरः आकार्य सुमतिसुन्दरसूरिवरान् सोत्सवेन विनयेन । धर्म्यग्यधर्मसिंहः प्रक्लप्तवान् पिप्पलीयपुरे ॥ ९४॥ देवाहानकपश्चम्पुद्यापनमुख्यमप्रमेयमहम् । waya

४८
श्रीसोमचारित्रगणिविरचितं-
अयुताधिकस्वसारव्ययाद् रयात् सङ्घभक्तिविधौ ॥ ९५ ॥
(युग्मम् )
अथ सं०भादाआनाजनितमहः-
देवासपर्युपासकवर्यो यौ भद्रकानकाभिख्यौ ।
कृतवन्तावुद्यापनजिनप्रतिष्ठादिनैकमहान् ॥ ९६ ॥
ताभ्यां पुनरारेभे परिधापनिका गणे हि वरवेषैः ।
यच्छिष्यसुमतिसुन्दरसूरिवचःसौधरसपानात् ॥ ९७ ॥
(युग्मम् )
अथाऽत्रैव पुरे सं०-देवसीप्रथितविस्तरः-
प्राग्वाटपुरुषरत्नं माफरमलिकस्य मान्यमन्त्रीशः।
श्रीदेवसिंहसुकृती गणस्य वेषार्पणप्रवणः ॥ ९८ ॥
चन्द्रोदयादिपञ्चत्रिंशत्ममितोपकृत्युपेतान् यः।
देवालयान् नवीनानकारयत्तीर्थकरसंख्यान् ॥ ९९ ।।
तेषु चतुर्विंशतिजिनपट्टान् पित्तलमयांश्च बहुवित्तैः ।
सडेंशुकादिदानैर्महामहं मण्डयित्वा च ॥ १० ॥
कारयति स्म स तेषां ततः प्रतिष्ठां यदन्तिषत्मष्ठैः ।
आगममण्डनवाचकपादैर्दत्तोत्तमानन्दैः ॥१०१॥
(चतुर्भिः कलापकम् )
अथ सामेघाजीवणजनितविस्तरः-
श्रीश्रीमालीमण्डपवासी यो मालवाधिपतिमित्रम् ।
माफरमलिकेत्यपरं नाम धरन्मेघमन्त्रिवरः ॥ १०२ ॥
यस्याम्बादिकुटुम्ब पूर्व श्रीसोमसुन्दरगुरूणाम् ।
भृशमनुरागभृदासीद् येष्वधुना यश्च सपरिकरः ॥ १०३ ॥
गुरुहाटकटङ्कयुतान् दशसेरमितांस्तु मोदकान् मधुरान् ।
निखिलजातिनिवासेष्वललम्भद् मण्डपादौ सः ॥१०४॥

गुरुगुणरनाकरकाव्यम् । ४९ मेदिन्यामुदकं यदेह न ददेऽम्भोदेन देहिबजे युक्तः स्वाऽनुजजीवनेन गुणिना मेघस्तदानीमसौ। सत्रागारमुखं सृजन्नुरुपं सत्सङ्घसन्तोषकृद् वृष्टः स्पष्टमहाबलः किल शुची रैटङ्कलक्षः स्वरैः॥१०५|| (चतुभिः कलापकम् ) एकद्वित्रिप्रभृतिभिरयुतैलारपि स्वटकानाम् । ये जनिताः सद्भिरिह मायस्ते विस्तराः प्रोक्ताः ॥ १०६ ॥ येषां श्रीमरिराजामपरिमितजिनस्वामिमृतिप्रतिष्ठा- चार्योपाध्यायमुख्यप्रवरपदविधावास्तिकर्विस्तरा ये । न्यायाऽऽत्तमाज्यवित्तव्ययकरणतया निर्मितारते मयाऽपि ख्याता ज्ञाताश्च दृष्टा इह तु कतिपये वारके ये यदीये ||१०७|| यैर्विबुधादिपदेषु क्रियमाणेषु क्षणाः प्रणीता ये। गृहिभिस्तत्परिमाणं न कोविदः कोऽपि कर्तुमलम् ।। १०८ ॥ युगवरसमलक्ष्मीसागरा भव्यनव्या- न्यतनुसुकृतकृत्यान्युत्सवैरेवमुाम् । परमगुरव एते निर्ममा निर्ममाणा- श्चिरमिह विजयन्ते स्माऽऽसतत्त्वं ब्रुवाणाः ॥ १०९ ॥ श्रीमन्मालवमेदिनीन्दुवदनालङ्कारहारप्रभो- रुग्रामागरवासिकर्मतनयश्रीरत्नसङ्घप्रभोः । आक्षेपाद्विधुवेदवर्मवसुधावर्षे सुभिक्षोद्भवे लक्ष्मीसागरसूरिराजविलसद्भाग्यप्रकर्षस्तवे ॥ ११० ॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाहयः शिष्यः मूरिवरश्च शिष्यवृषभश्चारित्रहंसोऽस्य यः। तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते

५०
श्रीसोमचारित्रगणिविरचितं-
सर्गोऽयं तु तृतीयको गुरुगुणारत्नाकराख्यायुते ॥१११॥
(युग्मम्)
इति परमगुरुश्रीलक्ष्मीसागरसूरिविधीयमानश्रीजिनार्चाऽनूचा-
नादिपदस्थापनावसरप्रौढोपासकप्रणीतोत्सवपरम्परावर्णनगर्भो
गुरुगुणरत्नाकरनानि काव्ये तृतीयः सर्गः ॥
wws
अहम्
अथ चतुर्थः सर्गः।
श्रीजेसिंगमहीपाख्यरत्नमेघादिधीमताम् ।
यात्रादिविस्तरं वक्ष्ये जातं यद्वारकेऽद्भुतम् ॥ १॥
सोमसुन्दरसूरीन्द्रजनकस्वजनस्य च ।
पूर्व पूर्वजनामानि रत्नाकस्य कति ब्रुवे ॥ २॥
यथा-
m
या श्रीविवेकाधिकगूर्जरत्रा-
भूभूषणाऽऽभाऽस्ति पुरी पवित्रा ।
सुवर्णपूर्णाऽचरसालराढा
लङ्कासमा सामढिकेति रूढा ॥३॥
तत्र प्रसर्पत्सुखंदृष्टिमान-
भुजाबलः पुण्यजनाधिपालः।
नवग्रहादिप्रतिबन्धकारी
मन्दोदरीनाथतयाऽन्वितः सन् ॥ ४॥

गुरुगुणरत्नाकरकाव्यम् । ५१ प्राग्वाटवंशोदधिमध्यवर्ती यो जैत्रसिंहो दशकन्धराभः । रामाद्यजेयः कुतुकं तु सोम- युक्सुन्दराणां पित्रपूर्वजोऽभूत् ॥५॥ (युग्मम् ) तस्याङ्गभूरिन्द्रजिदिद्धऋद्धिः कीनाशतामुकिलबूटडाख्यः । कालाभिधस्तस्य च सूनुरासीद् दासीकृताऽसीमपुमान् महोभिः ॥ ६ ॥ कालात्मजाः षद् खलु नोडवेदा- सद्भाङ्गदेसामलधीरवीराः। तुर्यः सुतः सामलनामधेयो यस्तेषु तेजस्विनरैरहार्यः॥ ७॥ जज्ञेऽर्जुनाभः स जने सुभद्रा- नुषगरङ्गः स्वपरोपकारी। धर्मोद्वहोपास्तिपरोऽपि चक्र न भीमकृष्णाश्रयमत्र चित्रम् ॥८॥ (युग्मम्) वेदाः किमेते कमनोद्भवत्वात् किंवा समुद्राः कमलालयत्वात् ? । क्षोण्यां सकर्णैरिति वर्ण्यमाना- श्चत्वार आसंस्तनयास्तदीयाः ॥९॥ यथार्थनामा धुरि सज्जनोऽभूद् निम्बो द्वितीयः कटु-ता-पहारी ।

श्रीसोमचारित्रगणिविरचितं- मनाभिधानः सुमनास्तृतीयो लम्पाकसंज्ञः सुकृती चतुर्थः ॥१०॥ (युग्मम् यः सज्जनः स्तोकधनस्ततः स- नात्मीयनिम्बादिकुटुम्बयुक्तः । स लुप्तदुष्कालबलावकाशं समागमद् मालवमध्यदेशम् ॥११॥ अथ तत्र तस्य वासस्थाननगरवर्णनम्- यदा नृपाद्या विषमाद्रिवप्रा- दिषु प्रनष्टाः परचक्रभीताः । यस्य प्रभावाद् यदभूत्तदार्य- प्रजाभिराकीर्णमशङ्किताभिः ॥ १२ ॥ भूतग्रहोद्भावितदुष्टदोषा- स्तुरुष्कचौरादिनरास्त्वशेषाः। यत्र स्थितं यत्पदपर्युपास्ते- नोपद्रवन्त्यातजन्तुजातम् ॥ १३ ॥ वीरस्य तस्यात्यवदातमूर्त्या भ्राजिष्णुजैनालययुक्तमध्यम् । `यच्चास्ति भूरिव्यवहारिरम्यं तस्मिन् पुरं पर्णविहारसंज्ञम् ॥ १४ ॥ स्वबन्धुवर्गेण समं समोदं स सज्जनस्तत्र चकार वासम् । पोगो भवेद् यत्र च देवगुर्वो- ही हि तस्मिन् वसतिं विदध्यात् ॥ १५ ॥ (चतुर्भिः कलापकम् ) ५३ गुरुगुणरत्नाकरकाव्यम् । रम्भानिभा रूपरमाऽतिरेका छेका विवेकादिगुणप्रवेका। श्रद्धावती साधुषु सार्वधर्मे- ऽमुष्य प्रियाऽजायत पूर्णदेवी ॥ १६ ॥ जातस्तयोः सत्तनुरङ्गजन्मा कर्माभिधः स क्रमतो महीयान् । यद्भागधेयाज्जनराज्यमान्यः स सज्जनः प्राज्यधनोऽजनिष्ट ॥१७॥ ततः स कर्माख्यकृती सवित्रा सोमीति कन्यां परिणायितः सन् । बभूव भाग्याऽभ्युदयाद् महेभ्यः सभ्यः सदभ्यस्तसमस्तविद्यः॥१८॥ अक्ष्यन्तरिक्षाक्षरसाङ्कवर्षे यात्राकृते सिद्धधराधरादौ। यः प्राप सद्देशपदं प्रथीयो- महेन भूयोविभवव्ययेन ॥ १९ ।। अथ कर्माकस्य सुताख्याः- तस्याङ्गजा जाग्रदभङ्गुराया जातात्रयो रत्न-सुजेस-मेघाः । खाम्भी तथा माणिकिचारुहीरू तिस्रः सुता रूपगुणैः प्रतीताः ॥ २० ॥ अथास्य वासस्थानाऽऽगरनगरवर्णनम्- विचित्रपोतावलिशालिलोक हादं दधचन्द्रवसूदयेन । - श्रीसोमचारित्रगणिविरचितं- सरखतीधीवरजीवराजी- लावण्यजित् पुण्यजिनालयं च ॥ २१ ॥ क्षमाधरैविप्रवरैरपारै- रासेवितं वारिदवाहिनीभिः। यद्भाति नानाभवनाभिरामं रत्नाकराभं सकलाप्तरङ्गम् ॥ २२ ॥ गृहे गृहे साऽस्य पुरस्य नाम्न्या- गरेतिरावोऽस्ति किलेति मत्वा । सरोमिषाद् यत्र च सागरेति प्रापार्णवः स्थापयितुं निजाहाम् ॥ २३ ॥ तत्तत्तद्वीपभवानि साक तेनाऽऽगमन्नङ्गिरतिपदानि । रसालजम्बूमुखशाखिलेखा- शालीनि यस्मिन् किमु काननानि ॥२४॥ अथ यत्रस्थजिना वर्णनम्- सदासितानन्तपदाश्रितस्य श्रीपार्श्वभर्तुः पुरुषोत्तमस्य । मूर्तिजगन्नाथजुषां जनानां यत्र स्थिता यच्छति वाञ्छितार्थम् ॥२५॥ सदक्षिणावर्तकशङ्खसाम्या माहात्म्यरम्या नवपल्लवस्य । बामेयदेवस्य यदन्तरस्था परा पिपर्ति प्रतिमा परं शम् ॥ २६ ॥ सत्रा सगोत्रैः स तदागराख्यं KINNAINS ५५ ma गुरुगुणरत्नाकरकाव्यम् । प्राप्तः पुरं पर्णविहारपुर्याः। कर्माककृत्युत्तमविश्वकर्मा धर्मादराभ्यागतकामशर्मा ॥ २७ ॥ (सप्तभिः कुलकम् ) हरिप्रियाऽनेकसुपर्वलोक- प्रत्तेष्टसन्तानवितानतारम् । खासमवद्वासकृते च तस्मिन् व्यधापयत्सौधमसौ धनीशः ॥ २८ ॥ अथास्य पुत्रत्रयवर्णनम्- तेऽथ त्रयो रत्न-सुजेस-मेघा- लोकेशलक्ष्मीशमहेशकल्पाः। धृतेन्द्रनागेन्दुघनोद्धवर्णाः क्रमेण चाष्टादशवर्णवाः ॥ २९ ॥ उपात्तहंसद्विजराजराजद्- वृषाः सुखादिष्टपदाभिगत्यै। विज्ञातकौतूहललास्यरमा भान्त्यत्र चित्रं न कुशास्त्रसङ्गाः ॥ ३०॥ (युग्मम् ) अथैषां कुटुम्बनामानि- रत्नस्य सावित्र्युपमात्मरूप- श्रिया प्रिया राउमिति प्रतीता। कर्णाभिधानस्तनुजश्च देव- ब्रह्मेव वाग्वद् दुहिता रहीति ॥ ३१ ।। जेसस्य जाया हमरी रमेव प्रियङ्करी प्राणभृतां नितान्तम् ।

५६ श्रीसोमचारित्रगणिविरचितं- जीवाहयः सूनुरनूनरूप- स्मरोपमः पुण्यगुणैरुपेतः ॥ ३२ ॥ मेघस्य जन्योर्युगलं सुशीलं देपूश्च रङ्गीरिति राजतेऽलम् । गौरीनिमा भूतगणे हिताऽऽद्या गङ्गेच पुण्यैकरसालयाऽन्या ॥ ३३ ॥ (त्रिभिर्विशेषकम् ) न्यायार्जिताऽन्यूनधना वदान्या- धन्याऽधिपास्तेऽवनिजानिमान्याः। तेजोयशोभासुरसङ्घमुख्या- भान्ति त्रयोऽर्हद्गुरुभक्तिदक्षाः ॥ ३४ ॥ अथैषां पुण्यकरणीयमाह- त्रिधा विशुद्धघा विधिपूर्वमुग्रं तेपे तपः पञ्चमिकातिथेस्तैः तन्निर्ममेऽस्याद्भुतकृजनाना- मुद्यापनं नन्दनकाननाभम् ॥ ३५ ॥ । तद्यथा- सझर्मलाः पुस्तकशालितायाः पञ्च स्थिताः स्थापनिका यदन्तः । वेल्लल्लतावेष्टितपत्रशाखाः कल्पद्रवोऽमर्त्यमता बभुः किम् ? ॥ ३६ ॥ चन्द्रोदयाश्चित्रचिता अपूर्व- शचीवराव्यैर्विहिता विमानाः। सर्वज्ञसत्राणि च बिम्बपत्रा- गुरुगुणरत्नाकरकाव्यम् । ण्यदुः प्रमोदं सुमनोजनानाम् ॥ ३७॥ कुम्माः कपर्यादिमया युकुम्भाः सश्रीकवर्णोद्भवहेतुभूताः। किमक्षमाला विविधप्रकाराः कामप्रदाः कामदुवाश्च यत्र ? ॥ ३८ ॥ कि कैरवाण्यक्षवराः सुराद्रेः पादास्तु रीरीकलशाः पृथूचाः । सल्लेखिनीकर्तरिकर्जुकम्वी- छुर्यादयोऽर्था विहमा विचित्राः ॥ ३९ ॥ सखज्जिकार्याशुकपृष्ठकानि नानाऽम्बुजालीयुतपल्वलानि । किं पञ्चवर्णानि वरेण्यपट्ट- सूत्राणि मूनस्तबकाश्च यस्मिन् ? ॥४०॥ वाप्यो गभीराः किमु वासकुम्प्यः समुद्गका वर्तुलदीर्घिकाश्च । सन्मोदका मेदुरकन्दुकामाः क्रीडाकृतेऽस्मिन् विबुधवजानाम् ? ॥४१॥ यत्रौरसाः केसरिविष्टराणि सद्भूपधानानि च वाहनानि । खज्जानि सज्जानि च चत्वराणि नाकौकसामप्युपवेशनार्थम् ॥ ४२ ।। पत्राणि चित्राणि फलान्यनेक- विधानि किं कल्पतरूद्भवानि ? शाल्यादिशस्यानि च पेशलानि

५८
श्रीसोमचारित्रगणिविरचितं-
प्रवालमुक्तामणिमण्डलानि ॥ ४३ ।।
श्रीधर्मशालासुरशैलमह्या-
मेवंविधं स्वर्वनतुल्यमेतत् ।
येऽरीरचन् सज्जनरञ्जनार्थ-
मुद्यापनं मेदुरधर्मरङ्गाः॥४४॥
(नवभिः कुलकम् )
तत्र क्षणे क्षान्तिमतां मुनीना-
मर्चामका' रुचिरैश्च चीरैः
समीक्षणायाऽस्य च मीलितानां
खान्याऽमितग्राममहाजनानाम् ॥ ४५ ॥
(युग्मम् )
षड्दर्शनीयाचकजन्तुराशे-
राज्यादियुग्जेमनवित्तदानैः ।
तेषां निवासेऽनिशमस्ति सत्रा-
गारः क्षुधानाशकरोऽनिवारः ॥ ४६॥
प्रौढोत्सवं कल्पचरित्रसत्कं
प्रायः प्रकुर्युः प्रतिवर्षमेते ।
सप्तस्वपि प्रत्यहमाहतेषु
क्षेत्रेषु हर्षाद् वपनं धनस्य ॥४७॥
अथ विशेषतो रत्नगुणवर्णनम्-
वितीर्णवान् कर्णनृपः सुवर्ण
दिनैकयामावधि याचकेभ्यः
योऽहर्निशं धान्यहिरण्यचीर-
दाता ततः सोऽस्य समः कथं स्यात् ॥४८॥

ADS गुरुगुणरत्नाकरकाव्यम् । श्रीवस्तुपालादिवदान्यमालि- हवाश्चर्यकृद् भास्यति रत्नवद् यः । दानादिपुण्यप्रथयेति मत्वा रत्नाभिधां यस्य विधिय॑ धत्त ॥ ४९ ॥ सद्वंशजं चापनिभं गुणाढ्यं यमाश्रयद् मार्गणमालिकाऽरम् । आसाद्य सारं सुखभोगमस्माद् महीधरानप्यधरीकरोति ॥ ५० ॥ यो धान्यदानाजगडूपमानः श्रीसङ्घभक्त्या जगसीसमानः । द्रव्यव्ययी पेथडवद् वृषार्थ सारङ्गवद् बन्दिविमोच्यथाऽऽस्ते ॥ ५१ ॥ तेष्वादिमस्याऽऽस्तिककुञ्जरस्य तस्याऽथ रत्नस्य मनस्युदारे । श्रीतीर्थयात्राकरणाय कामं मनोरथः प्रादुरभूद् महीयान् ॥ ५२ ॥ (पञ्चभिः कुलकम् ) ततोऽर्थिवीथीपृथुदौःस्थ्यदावो- पशान्त्यमोघाऽनघदाननीरैः। मेघेन मेघप्रतिमेन साकं सालोचयामास निजाऽनुजेन ॥ ५३ ॥ स्वजामिमाणिक्यिविवोढुरप्ये- तज्ज्ञाप्यते भो ! जयसिंहसाधोः। मेघोऽपि रत्नं प्रति हृष्टचेता- ६० श्रीसोमचारित्रगणिविरचित- यात्रोत्सुकश्चेति झगित्यवोचत् ॥ ५४ ॥ अथ सारङ्गपुरवासिसं जेसिंग-वर्णनम्- यः सङ्घाख्योखिलखानखोजा- मीरुम्बरायैर्बहु मानितश्च । निःस्वाऽऽदिसचोद्धरणाय सत्रा- गारं गरिष्ठं सततं विधाता ॥ ५५ ॥ श्रीसारसारङ्गपुराधिवासी जेसिंगसाधुर्विनयी विवेकी। जीरादिपल्ल्यर्बुदतीर्थयात्रां चिकीर्षुरासीदिह दानशौण्डः ॥ ५६ ।। विज्ञविधेया त्वरितं भवद्भिः श्रीतीर्थयात्राकृतिसज्जिका भोः!। तदैव रत्नप्रभृतेः स्वकत्वा- दित्यागरे ज्ञापितवांस्ततोऽसौ ॥ ५७ ॥ (त्रिभिर्विशेषकम् ) इष्टं तथा वैद्यवरोपदिष्ट- माभाणकोऽद्याऽभवदेष सत्यः । सखा वृषार्थी यदयादथेटर ज्ञायेत रत्नादिभिरित्यचिन्तयत् ॥ ५८ ॥ निमन्त्र्य यात्राकृतये सगोत्रान् छातमुखान् स्वान् सकलान्वितश्च । हंसादिसङ्घाधिपतीननेकान् कांश्चिन्नरान् वाहनवित्तदानैः ॥ ५९ ।। समील्य सङ्घ धनमागरादे- गुरुगुणरत्नाकरकाव्यम् । राडम्बरै राजबलानुकारैः। कुटुम्बयुग यावददोषलग्ने प्रस्थानकेऽस्थात् प्रमदात् स रत्नः ॥ ६०॥ (युग्मम् ) मेलाखनामण्डनयुग्महीपा- हरिभ्रमाजाजकलक्षमुख्यैः । सीणोरकद्रगनिवासिभिर्य युक्तं प्रभूतैर्व्यवहारिवगैः ॥ ६१ ॥ तथा च सिन्दुरपुरादिसंस्थै- स्तावत् स सारङ्गपुराच्चतुर्धा। सङ्ख समादाय महीपसन्तं जेसिंगसाधुर्मिलितश्च तस्य ॥ ६२ ॥ (युग्मम् ) पर्यदिकाः प्राज्यरथांस्तुरङ्गान् परम्शतान् वेगसरान् गवोष्ट्रान् । उपस्करायैः शकटांश्च सज्जी- कृत्याहतामुन्नतये मतस्य ॥ ६३ ॥ सत्का यथा पर्णविहारकादे- स्ततः पुरो मीलितभूरिसङ्घौ । जसिंगरत्नौ सुखदप्रयाणैः प्राप्तौ पुरं तौ रतलामनाम ॥ ६४ ॥ (युग्मम् ) श्रीमण्डपोर्वीधरसीबलीया- भूर्वासिनः सङ्घगणैः समेताः। मन्त्रीशजाऊसहजादयस्ते -an.nanaashak KARAN MANT ६२ श्रीसोमचारित्रगणिविरचितं- तदागमंस्तत्र निशम्य सद्यः ।। ६५ ।। धारोज्जयिन्यादिबृहत्पुरास्था- स्त्वन्येऽपि धन्या बहवस्तदानीम् । सङ्के तदीये मिलिता महेभ्याः सिन्धुप्रवाहा इव वार्धेिमध्ये ॥६६॥ (युग्मम् ) ततो महेन्द्रीतटवागडादौ स मालवीयः सकलोऽपि सङ्घः । सर्पन् प्रतिग्रामपुरं जिनेन्द्र- स्नात्रादिपुण्यं प्रथयन् हितार्थम् ॥ ६७ ॥ कुमारपालादिककारिताह- त्यासादसौधद्धिविधूतनाकम् । श्रीराजदेशाभरणं समागा- दीयदरं नाम पुरं क्रमेण ॥ ६८ ॥ (युग्मम् ) अथास्य समग्रसङ्घस्य वर्णनम्- किं सार्थवाहो बहुवस्तुशस्तः किं वा सुरत्राणवलं विशालम् ? । इत्याव्रजन्तः कति यत्र लोका दूराद् यमालोक्य विकल्पयन्ति ॥ ६९ ॥ यस्मिन् महेशान् बहुशो वृषस्थान् सतीगणांचाऽद्रिपतिर्निशम्य । तान् द्रष्टुमागात् सितशृङ्गसङ्गी गुरूदरालीव्यपदेशतोऽसौ ॥ ७० ॥ पटादिकुट्यौद्यघनाभ्रपङ्क्तया ?

PERMINATE गुरुगुणरत्नाकरकाव्यम् । भर्मादिभूषाातिविद्युता वा। भेर्यादिवाद्यारवगर्जितेन विभ्राजितस्तागपयश्चयेन ।। ७१ ॥ नृत्यभ्रमद्याचककेकिचक्र- प्रोचार्यमाणाऽमितकीर्तिकेकः। नभ्रानिभो भाति तदाश्रितां गां धत्ते न योऽन्तः किल कृष्णभावम् ॥ ७२ ॥ (युग्मम् ) यत्र प्रसर्पद्वनसारवारा- वासान् घनः प्रेक्ष्य सतः समुद्रान् । खाभ्राणि तोयग्रहणाय तेभ्यः प्रेषीत् प्रलम्बाम्बरसद्मदम्भात् ॥ ७३ ॥ (पञ्चभिः कुलकम्) केषां हि केषामिह पूरुषाणां काराप्यते सङ्घपतित्वपुण्ड्रः। सम्भूय सङ्ग्रेऽथ मिथः समेस्मि- नालोचमेवं व्यधुरिभ्यसभ्याः ॥ ७४ ॥ अथेलदुर्ग-भूपालवर्णनम्- भयेति वर्णद्वयमात्मदेशाद् निष्काश्य येनाऽथ पृथग विधाय । एकैकमस्थापि तमेव विश्वे स्फूर्जनिजाह्वायशसोरिवादौ ॥ ७५ ॥ तत्राधिनेताऽस्ति स भानुनामा धामाऽस्तमाद्यविषमारिवर्गः । onary ६४ श्रीसोमचारित्रगणिविरचितं- न्यायेन रामः सुकृताभिरामः श्रीसार्वभौमस्तनुरूपकामः ॥ ७६ ॥ (युग्भम् ) तस्येशितुर्हाटकटङ्कपट्ट- कूलादिकं ढौकनमभ्यकार्षुः । जेसिंगरत्नाद्यमहीपमुख्या- स्तेनाऽपि बाढं बहु मानितास्ते ॥ ७७ ॥ स्नात्रध्वजारोपणपात्रनृत्या- यत्युत्सवैः श्रीऋपभादिपूजाम् । विरच्य तत्राईतमन्दिरेषु ववन्दिरे श्रीगुरवस्ततस्ते ॥ ७८ ।। श्रीवाचकैर्विज्ञवरैश्च लब्धि- समुद्रसंज्ञैरथ यद्विनयैः। यावल्ललाटे तिलकः स चके जेसिंगरत्नादिधनीश्वराणाम् ।। ७९ ॥ भेरीनफेरीस्वरनायकादे- राकर्ण्य नादं तरणेश्च तावत् । त्रस्तास्तुरङ्गास्तदितस्ततोऽगु- स्तेनारुणः सोऽपि रुषाऽभवत् किम् ? ॥ ८० ॥ वाचंयमाएंरचनात् सुदृष्टि- रैरूप्यटङ्कादिसमर्पणेन । तेऽथाऽर्थिनां पञ्चविधार्थदानात् ततो वितेनेऽद्भुतविस्तरैस्तैः।। ८१ ॥ श्राद्धास्तदा ते च बभूवुरष्टा- गुरुगुणरत्नाकरकाव्यम् । शीतिप्रमाणाः किल सङ्घनाथाः । अहन्मतौनत्यकृतिमवीणा धर्मिष्ठसानिध्यधुराधुरीणाः ॥ ८२ ।। सश्रीभरामारजनीसुवर्णाः सदाशिसङ्गाश्च सुखप्रसाराः। ये रेजुरस्तात्मतमःप्रचारा- स्तुल्या वसुग्रावमितग्रहाणाम् ॥८३॥ तेष्वग्रिमौ श्रीजयसिंहरत्नौ खवासरोषाभरणातिशोभौ । स्तः पुष्पदन्तप्रतिमौ त्वपूर्व- तुरङ्गभाजौ वसुभासितोव्यौं ॥ ८४ ॥ नत्वा जिनेशान् सुगुरुन्नरेशा- ऽऽदेशात्ततस्ते शकुनैः प्रशस्यैः। श्रीपार्श्वनाथं मनसि स्मरन्तः सन्तः पुरश्चेलुरथेलदुर्गात् ॥ ८५ ॥ द्विजिह्वराजे विपदन्तरिक्षे रजोत्रजो नोभयमस्ति सङ्के । तदाऽध्वगच्छच्छकटाश्वचक्र- धाराखुरोत्खातधरातलेऽस्मिन् ॥८६॥ ते च प्रतिग्राममभङ्गतुङ्ग- प्रासादसावप्रतिमाऽतिनीनाम् । पूजां सृजन्तः क्रमतः समीयुः श्रीजीरिकापल्लिपुरं ससङ्घाः ॥ ८७ ॥ अथ तत्रस्थश्रीपार्श्वनाथवर्णनम्- यन्नाममन्त्रस्मृतिमात्रतोऽपि श्रीसोमचारित्रगणिविरचितं- रोगा दरा दुष्टनराश्च नाशम् । सर्वे प्रयान्तीप्सितसिद्धयः स्युः काले कलावप्यखिलाङ्गभाजाम् ॥८८॥ शश्वच्छिवाभोगपरस्त्रिलोकी- व्यापी क्षितोद्यत्कलिकालकेलिः। संभूयते यस्य गुरुप्रभावः प्रणम्रभूतार्पितभूरिभूतिः ॥ ८९॥ (युग्मम् तैस्तत्र यावद्ददृशे जिनेशः श्रीपार्श्वनाथः प्रथितार्थसार्थः चशूषि तावत् पुपुषुस्तथैषां पीयूषयूषेण यथाऽऽर्द्रितानि ॥ ९ ॥ श्रीनालिकेरादिफलानि तस्य प्रभोः पुरस्तेऽपि च ढौकयित्वा । नवाङ्गपूजां कनकादिटकै- निर्माय निर्मायहृदा प्रणामम् ॥९१॥ अधिष्वथार्थाभरणादिदानं दत्त्वा ततस्तोयपवित्रिताङ्गाः। अ.करङ्गाः परिधाय पट्ट पदादिवासांसि शुचीनि सद्यः॥९२॥ लात्वा सुगन्धीनि सुमानि भोगं. कर्पूरकृष्णागुरुमिश्रितं च। कोशममाणध्वजदानपूर्व सविस्तरं स्नात्रमहं वितेनुः॥ ९३ ॥ = (त्रिभिर्विशेषकम् ) गुरुगुणरत्नाकरकाव्यम् । ६७ श्रीआश्वसेनेरखिलपकारै- र! विरच्य स्वकचित्तभक्त्या। अमूमुचंस्ते च पुरागृहीता- नभिग्रहानुग्रतरांस्तदने ॥ ९४ ॥ दिनत्रयं चक्रतुरत्र सत्रा- गारं गरिष्ठं जयसिंहरनौ। दुर्जेयदेवायतकोलिकोप- कण्ठाद् व्यधाद् वन्दिविमोक्षमाद्यः॥१५॥ अथ श्रीपार्श्वप्रभोः पुरस्ताद्विज्ञप्तिकृतिः- देवस्त्वमेवासि युगेज जान- सभावधर्ताऽभिमतार्थकर्ता। प्रणेमुषामुल्वणसाध्वसोप- वापहर्ताऽपि च मुक्तिभर्ता ॥९६॥ याऽऽसीददृष्टे त्वयि नो दिदृक्षा साक्षाच दृष्टेऽपि जिनाऽधुनाऽलम् । सा वर्धते पार्थविभोः पुरस्ताद् विज्ञप्तिमेवं विबुधा व्यधुस्ते ॥९७॥ (युग्मम् ) वामेयदेवं विनयेन जीरा- पल्लीललाम प्रणिपत्य धीराः। चिकर्षिवश्चार्बुदतीर्थयात्रा समाययुस्ते तदुपत्यकायाम् ॥९८॥ ततोऽर्बुदायध्वनि सङ्घलोको- दन्याभिदे रत्नमुखा वदान्याः।

६८
श्रीसोमचारित्रगणिविरचितं-
सितोपलामिश्रितशीततोयैः
प्रपाः प्रतिस्थानमबीभरंस्ते ॥ ९९ ।।
धन्यास्तमारुह्य महीधरेशं
पापुश्च यावत्तदधित्यकायाम् ।
सङ्घः समं ते ददृशुर्जिनेन्द्र-
चैत्यानि तावत् पुलकाङ्किताङ्गाः ॥१०॥
अथ श्रीअर्बुदतीर्थवर्णनम्-
उत्तुङ्गताया विपिनश्रिया वा
किं भूभृताऽनेन जितो हिमाद्रिः ।
श्वेतानि सर्वज्ञयुतानि सोऽस्यै-
तानि खशृङ्गाण्युपदीचकार ? ॥१०१॥
किंवा विमाना इह नन्दनाद-
प्यारामरादामधिकामवेक्ष्य ।
देवाधिदेवस्य हि देवनाया-
यातस्य सविस्मयदायिनस्ते ॥१०२॥
व्याप्ते त्रिलोके कलिनाऽऽशु कल्कै-
धर्माः समस्ताः किमु मूर्तिमन्तः ।
तस्थुर्वलक्षा इह के तदाऽर्ह-
द्धाणि वीक्ष्येति विकल्पयन्ति ॥१०३॥
(त्रिभिर्विशेषकम् )
तेष्वादिदेवादिजिनाधिनाया-
नद्राक्षुरुनिद्रदृशः कृतीन्द्राः।
ते यावता दूरितदुःखतापा-
स्वावन्मुदाऽद्वैतभृतश्च जाताः॥१०४॥

गुरुगुणरत्नाकरकाव्यम् । ६९ ततो वसत्यां विमलादिमायां नात्रोत्सवे तैस्तु विधीयमाने। द्वात्रिंशता स्फाट्यशतैः सपर्या- ऽधादिन्द्रमालां जयसिंहसाधुः ॥१०५॥ खप्रेयसीयुक् तदनूपविश्य श्रीकारिराजादिमवाहनेऽसौ। दानं ददौ गैरिककुञ्जराढ्यं सत्कीर्तिकृत्युत्सुकयाचकेभ्यः॥१०६॥ चन्द्रोज्ज्वलास्यः कृतपङ्कनाशः क्षणाक्षमाभृज्जनपूरिताशः। ववर्ष तत्रावसरेबुंदेऽसौ सौवर्णटकैनवमेघतुल्यः॥१०७॥ (त्रिभिविशेषकम् ) पञ्चालिकाकोरणिकागजादि- रूपेक्षणप्रत्तजनाडूतेषु । सर्वातचैत्येषु युगादिमुख्या- नागर्च देवान् विधिना ततो यः॥१०८॥ श्रीअर्बुदेलामहिलाललाम ! श्रीनाभिरानो ! सुमनोऽय॑धामन् !। याऽऽस्ताभिरूपे भवदीक्षणार्थों- त्कण्ठालता प्राक् वहृदालवाले ॥१०९॥ सा सिच्यमाना तव भक्तिवारा त्वयीक्षितेऽद्येष्टफलैः पफाल। विज्ञप्तिमित्यादिविभोः पुरस्तात् ७० श्रीसोमचारित्रगणिविरचितं- तेने कृतार्थेन सता च येन ॥११०॥ जिनान् नमस्कृत्य पुनर्नगेन्द्रा- दुत्तीर्य तस्मादखिलः स सङ्घः। चैत्याग्ररैकुम्भभगास्तदोषां सीरोहिकाहां नगरीमथागात् ॥१११॥ (चतुर्भिः कुलकम् ) लक्षाख्यराज्ञोऽपि यदातिहया- ऽऽच्छादादिकं प्राभृतमत्र चक्रुः। जेसिंगरत्नप्रमुखास्तदानी- मदादमीषां बहुमानमेषः ॥ ११२ ॥ आदीश्वरादीनभिवन्ध देवान् प्रासादपतौ सुगुरूंस्ततस्ते । गुरुध्वजारोपणपात्रनृत्य- गीताद्भुतं स्नात्रविधि वितेनुः ॥११३॥ ततश्च मूरित्रयवाचकादि- वाचंयमानेकशतान्वितान् यान् । श्रीपूज्यपादान् प्रमदात् प्रणेमु- स्ते पुण्यवन्तः सममाप्तसङ्घः ॥११४॥ अथ रत्नाकस्य गच्छपरिधापनिका मनोऽभि- प्रायांश्च प्रोचे- नाकर्ण्यते यद्धनिनाऽऽप्तयात्रा- यातेन केनापि कृतं जनेन । कुर्वेत्र तत्सम्पति नव्यपुण्यं दध्यावसौ रत्नकृतीति चित्ते ॥११५॥ श्रीसोमपूर्वाचलसुन्दरैक- गुरुगुणरत्नाकरकाव्यम् । ७१ a करोदये ये निजगोत्रजाताः। सर्वे समुद्रा वसुतोयवन्तः सन्तः पुराऽऽपुः परितो गुरुत्वम् ॥११६॥ अहं हि मेघादिकषङ्करश्री- रत्नाकरोऽस्मीह च तत्सगोत्रः। विमानयानस्तु तमोविहीन- श्वकास्ति तत्तारगणोऽधुनाऽहम् ॥११७॥ वीक्ष्यैनमप्यङ्गशुचिं वसत्यां प्रीति बरीभर्ति मनो मदीयम् । ततोऽहमप्यम्बरदानतोषौ- ल्लासं करोमीति विचिन्त्य रत्नः ॥११८॥ लक्षक्षमेशाखिलराजकार्या- ऽधिकारपुर्योज्ज्वलकार्यकादैः। साधं विचार्य व्यवहारिवयः श्रीपूज्यपादान् स पुनर्ननाम ॥११९॥ (चतुर्भिः कलापकम् ) अथ गुरोरणे रत्नविज्ञप्तिकृति:- यथा यतेन्द्रैः परिधापितः स- द्वेषैरशेषोऽपि तपागणोऽयम् । मनोरथो मेऽपि ततोरुरास्ते चित्ते पुरे तद्विषये जयेच्छोः ॥१२०॥ स चाऽधुना प्राक्तनपुण्ययोगात् प्रवर्धते साधुगणं. समीक्ष्य । साफल्यमस्यात्र भवत्पसत्या- ७२ श्रीसोमचारित्रगणिविरचितं- ऽस्त्वेवं स तान् विज्ञपयाञ्चकार ॥१२॥ (युग्मम् ) प्रसादमासाद्य च मङ्क्षु येषां सीरोहिकाया बहिरामह्याम् । स मण्डपान् मण्डयति स्म तुङ्गान् शौमाम्बराच्छादितमध्यदेशान् ॥१२२॥ संमील्य सङ्घ स्वपुरं समग्रं भूभृच्चतुर्वर्णनृणां समक्षम् । नानानटीपेटकवाद्यभट्ट- गन्धर्वगानाधतिविस्तरेण ॥ १२३ ॥ श्रीसूर्युषाध्यायबुधाघनेका- नगारवारैः सह गच्छराजान् । आकार्य लक्ष्म्यादिमसागरान् या- नर्ची वरां तत्र चकार रत्नः॥१२४॥ (त्रिभिर्विशेषकम् ) आनाय्य वर्याशुकसम्भृतानि सतां मनांसीव महान्त्यनांसि । ततः शतत्रय्यनुमानयुक्त- व्रतिव्रजस्यार्पयति स्म वेषान्॥१२५॥ ततोऽज्यपक्षीयकियद्यतीशान् प्रतीह तानेष कृती वितीर्य । श्रीसङ्घलोकप्रकरस्य रूप्य- टङ्कादि ताम्बूलमदाच मोदात् ॥१२६॥ साधर्मिकाणां विविधप्रकारै- विधाय वात्सल्यमतुल्यभोज्यैः।

TOTKACE ENA ANANDHAR गुरुगुणरत्नाकरकाव्यम् । ७३ 1 वनीपकानां पुनरर्थदान- रमानि रत्नेन जनुः कृतार्थम् ॥१२७॥ कुर्वन्तमीग्वृषमेक्ष्य चैनं छाजू-सुखेतावपि तत्सगोत्री। श्रीमालवाधीश्वरमन्त्रिजाऊ- पानदुस्तेऽमितपण्डितानाम् ॥१२८॥ (चतुभिः कलापकम् ) ये मेदपाटपचुआरकगूर्जरत्रा- सौराष्ट्रदक्षिणमरुस्थलमुख्यदेशाः । तेषु स्थितिं विदधतां वतिनां सतीनां प्रैषीत् तदेव वरवेषभरं स रत्नः ॥ १२९ ॥ श्रीत्राणराणपुरमौलिचतुर्मुखोच्च- प्रासादमण्डनजिनेश्वरराजयात्राम् । सङ्घन साकमकरोत् कियता तदानी- मेवाथ रत्नलघुसोदरमेघराजः ॥ १३०॥ जिनवरगुरुपादास्ते प्रणम्य प्रणीता- अमितसुकृतकृत्याः सङ्घनाथाः ससङ्घाः । निरुपमनगरश्रीसझसीरोहिकाया- निजजनपदमन्वौत्सुक्यभाजः प्रतस्थुः ॥१३१॥ ततो लक्षक्ष्मापप्रभृतिकृतिसंप्रेषणतया रयादायातास्ते पथि कुशलिनो मालवभुवम् । धनैर्मानैरर्थिप्रकरमिह सन्तोष्य सुखद- प्रयाणैः सङ्घशा निजनिजपुरं प्रापुरखिलाः ॥ १३२ ॥ श्रीसङ्केन ततस्तदागरपुरे रत्नस्य सङ्घप्रभो- ७४ श्रीसोमचारित्रगणिविरचितं- भैर्याचारवगीतनृत्यरुचिरश्चक्रे प्रवेशोत्सवः । कृत्वा देवगुरूचितार्चनविधि तेनाऽप्यसौ सत्कृत- स्ताम्बूलपथनान्महासहिरिकीहूणप्रतापादिभिः ॥१३३॥ निखिलमुनिवराणां मालवे रत्नसाधुः प्रतिनगरमथैष प्रेषयामास वेषान् । निजपुरि च नवीनोपागतस्वाऽपरश्री- विबुधगणधरादेः सङ्घपूजाविधायी ॥ १३४ ॥ साधवो वृद्धशालीयास्तथा खरतरावयाः। अञ्चलागमगच्छीया नैके वटगणाश्रयाः॥ १३५ ॥ पूर्णिमिकाः पुनर्नाणानाणा बालादयश्च ये । केचिदागरमागुस्ते रत्नेन परिधापिताः ॥ १३६ ॥ रत्नमेघमहेभ्याभ्यां वेषैरेषाऽनगारिणाम् । परिधापनिकाऽऽरब्धा १५२८दिग्दोर्देहेन्दुहायने ॥१३७॥ श्रुत्वैतं यच्छन्तं रत्नं वेषानशेषगच्छानाम् । तपागणः कतिकृतिभिस्तैः परिधापयितुमारेभे ॥ १३८ ॥ एवं पुण्यानि नित्यं जगति विदधतः सद्विवेकस्य मेघा- जीवाकर्णावभीष्टस्वजनपरितस्याऽधुना रत्नसाधोः । देवाणोद्दीपकस्याप्रतिहतवचसो दानशौण्डाग्रत्तेः कीर्तिर्देशेषु सर्वेष्वपि विशदतरा सर्वतः पोस्फुरीति॥१३९॥ श्रीमन्मालवमेदिनीन्दुवदनालङ्कारहारप्रभो- रुग्रामागरवासिकर्मतनयः श्रीरत्नसङ्घप्रभोः । आक्षेपाद्विधुवेदवर्णवसुधा१५४१वर्षे सुभिक्षोदवे लक्ष्मीसागरसूरिराजविलसद्भाग्यप्रकर्षस्तवे ॥ १४० ॥ श्रीजम्बूसमसोमसुन्दरगुरोः श्रीसोमदेवाइयः

NATUS
AREERANSAR
गुरुगुणरत्नाकरकाव्यम् ।
शिष्यः मूरिवरश्च शिष्यवृषभश्चारित्रहंसोऽस्य यः।
तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते
सर्गश्चात्र चतुर्थको गुरुगुणाद् रत्नाकराख्यायुते ॥१४१॥
(युग्मम् )
इति श्रीपरमगुरुश्रीलक्ष्मीसागरसूरिभाग्यादिगुणवर्णनगर्भे गुरुगुण-
रत्नाकरनाम्नि काव्ये संरत्ना-मेघा-संजेसिंग-कृतयात्रा-
विस्तरमहश्चतुर्थः सर्गः ॥
:
यस्मिन् देशे विहारं विदधति यतिपा ये चतुर्मासकं वा
तस्मिन् देशे सुभिक्षं भवति, न तु कदापीतिसंभूतिभीतिः ।
येषां माहात्म्यमीदृग्विधमिह विबुधैर्जातमास्ते नृपायैः
श्रीलक्ष्मीसागराख्या गणधरगुरवः सन्तु वस्ते शिवाय ॥१॥
यत्कः पाञ्चत्प्रतापः सवितुरतिशयी भूर्भुवःस्व:प्रकाशी
येषामास्ते यशोऽपि ज्ञपितुरभिनवं तामसध्वंस्यदोषम् ।
मुक्तापत्या यदीया गुणततिरधिका छिद्रमुक्ताऽपि तन्यात्
यत्पुंसां कण्ठकान्ति तदिह गुरुवराः केन तुल्याः स्युरेते ॥२॥
हंहो! गच्छत मा विदूरविषयान् वज्राकरं वार्णवं
धातोर्वादविधौ भ्रमे पतत मा दुर्मन्त्रयन्त्रादिके ।
भूत्यर्थं भविकाः! भजध्वमऽनिभानेतान् यथार्थाऽभिधान्
लक्ष्मीसागरगच्छनायकवरान् सर्वार्थसिद्धिप्रदान् ॥३॥
समेरुरत्नाकररत्नगर्भा
विभाखरौ राजरवी च यावत् ।
राजन्ति जैनेन्द्रमतं जनेऽस्मि-
स्तावन्नवं नन्दतु काव्यमेतत् ॥ ४ ॥

७६ श्रीसोमचरित्रगणिविरचितmmmm श्रीपूज्यप्राज्यभाग्याभ्युदयगुणमयं सोमचारित्रसाधुः काव्यं नव्यं व्यधात् तत्स्वनयनविषयं प्रापणीयं प्रसन्नैः। आचार्यचकैर्वा बहुविबुधवरैर्वीतदोष विधेयं तद्विद्वज्जनानामिदमिह सदसि स्यान्मुदे वाच्यमानम् ॥५॥ तथा- श्रीअभयनन्दिविबुधा आगमचारित्रपण्डिताश्च यके । विजयन्ते, कविरेतद्विरचितवांस्तत्प्रसत्तिपदम् ॥६॥ इति सम्प्रतिविजयमानपरमगुरुपादश्रीलक्ष्मीसागरसूरिभाग्यसौ- भाग्यादिगुणवर्णनगर्भ गुरुगुणरत्नाकरनामाऽभिरामं काव्यं संपूर्णम् । पूज्याराध्यध्येयतमश्रीगच्छाधिराजभट्टारकपुरन्दरश्रीसोमसुन्दरसूरि- शिष्यशिरोऽवतंसकसकलसकर्णपुरुषश्रेणीप्रणीतपदपद्मसेवभट्टारक- प्रभुश्रीसोमदेवसूरिशिष्यशिरोमणिपूज्याराध्य पं० चारित्रहं- सगणिपादविनेयपरमाणुना सोमचारित्रगणिना विर- चितो ग्रन्थः संपूर्णः ॥

अहम् श्रीमुनिभद्रमुरिनिर्मितम्- श्रीशान्तिनाथचरितम् । यद्यपि बहूनि श्रीशान्तिनाथचरितानि भिन्नभिन्नाचार्यनिर्मिता- न्युपलभ्यन्ते, तथापि नैतादृक् क्वापि पाठकानामानन्द उपलप्स्यते । तत्त्वमत्र सुधियो विदांकुर्वन्तु- महाकविकालिदासकवितामप्यधरीकरोति काव्यमिदं प्रसादगुणादिभिरुपमायमकादिभिश्च । न ज्ञायते चादः कमपि प्रबन्धमनुसृत्य निर्मितम् , न च प्रनयुक्तिप्रत्युक्तिभिः समर्थितम् , महाकाव्यलक्षणाऽऽक्रान्तं चैतत् । पाठकानां भाग्यवशादेव पुस्तकमेक- मस्य लब्धमयत्नेन, किन्तु भूयान् प्रयत्नः कृतोऽपि पुस्तकान्तरान्वेषणाय न सफलत्वमाप्तः । चरितग्रन्थममुं बुद्ध्वाऽऽधुनिका नावहेलनां केऽपि यूयं करिप्यथ, यतो नैषधीयचरितस्यापि चातुर्य न रोचतेऽस्य पुरतः । अस्मिन् महति काव्ये श्रीशान्तिनाथभगवतो द्वादशभववर्णनमस्ति, तत्र मङ्गलकलश-मत्स्योदर-वत्सराज-देवराज-जिनपाल-जिनरक्षितादीनां च चरित्राणि प्रसङ्गतः प्रतिपादितानि । ये पुनरेतद् द्रक्ष्यन्ति तेषां खयमेवाऽऽनन्दसन्दोहो भविष्यतीति कृतं स्ववैदग्धीप्रदर्शनेन । शीघ्र- ममुं ग्रन्थं जिघृक्षवोऽत्र पत्रं प्रेषयन्तु । मूल्यमस्य रूप्यकत्रयम् । । श्रीरत्नमन्दिरगणिविरचिता- उपदेशतरङ्गिणी। इयमस्मिन् खभावत उत्पथपथिकप्रोत्साहनपरे दुर्निवारे पापिनि दुःषमाररूपे नितान्तभीषणे कलिकाले प्रान्तानां सरलाऽसरलरवान्तानां पञ्चजनानां रखलितपदानां पापपथमपहस्तयितुं, धर्माध्वनीनधुरामारोप- यितुं, कल्मषमलक्लान्तं मनः प्रक्षालयितुमेकैव प्रतीहार-कृषीवल-कत- कक्षोदसाम्यमुपगता जरीजृम्भते । दर्शनादेवास्याः पुरुषस्येतिकर्तव्य- ताज्ञानमुपतिष्ठते, साध्यसाधने च । प्ररोचनावाक्यादिभिरपि पूर्वपुरु- पाणां श्रीशान्तिनाथ-मेघकुमार-शालिभद्र-मूलदेव-चन्दनबाला-सं- ( २ ) प्रतिभूप-जगडू-वीसलदेव-राजशेखर-वाग्भट-नरवाहन-सिद्धसेना- चार्य-कुमारपाल-वस्तुपाल-समरा-श्रीहेमसूरि-भोज-विक्रमादित्या- दीनां ततत्कृतिसाध्यफलप्राप्तिप्रदर्शनतोऽन्वथै नाम मद्विधेषु संबि- भ्रती परतरगौरवाऽऽस्पदमुपैति । अत्र दानादि-सप्तक्षेत्रवितवपन-पूजापञ्चाशक-तीर्थयात्रा-धर्मो- पदेशात्मकाः पञ्च तरङ्गाः कल्लोलयन्ति । विद्यते चात्र अर्बुद-गिरिनार-शत्रुञ्जय-नागहूदा-ष्टापद-तार- गादितीर्थानां बहूनां नामोल्लेखः । अवश्यं द्रष्टव्योऽयं सकलमुनिराजश्रावकादिमहोदयैर्ग्रन्थः पत्रा- कारः सरलसंस्कृतमयः । मूल्यम् ३) मात्रम् । - निर्भयभीमव्यायोगः इह जगति पठितव्याकरणेषु जनेष्वपि व्युत्पत्त्याधायकत्वं सुकवि- निर्मितानां काव्यानामेवेति पांशुलपादिकहालिका अपि जानन्ति । तत्रापि " काव्येषु नाटकं रम्यम् " इत्यभियुक्तोक्तेद्देश्यकाव्यप्रभेदभूत- नाटकानामेवातिप्राशस्त्यमवलोक्यते । न तथा मुदमादधाति श्रव्यकाव्य- पठनम् , यथा रूपकाणां प्रेक्षणम् । ततस्त दानामिदानीं सर्वेषां विरलः प्रचारो लक्ष्यते- यथा कीदृग् व्यायोगः ? कोपलभ्यते डिमः !; इति काव्यानुशासन-साहित्यदर्पणाद्यध्येतॄणां कुतूहलमुत्पद्यते । ततो रूपक- भेदप्रभेदानामत्यावश्यकः प्रचार इति मुद्रितकुमुदचन्द्रप्रकरणं प्रकाश्या- इयं व्यायोगो भवतामुपढौक्यते पुरतः, अभिलष्यते चान्येषामप्युपहर्तुम् । कर्ता चास्य कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीणां पट्टग्रहीता विनेयः प्रबन्ध- शतक महाकविश्रीरामचन्द्रसूरिः । मूल्यमस्य केवलमाणकचतुष्टयम् । पुस्तकमाप्तिस्थानम्- शा-हर्षचन्द्र-भूराभाई अंग्रेजी कोठी, बनारस सिटी । AL

No text on this page.

Gurugunratnakerkavyam

Title
Gurugunratnakerkavyam
File name
Gurugunratnakerkavyam
Text
OCR done
Language
Sanskrit
Pages
87
Library
Bharti Bhawan Library Allahabad
DLI number
272836
Barcode
5990010894175.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
ZWG4YFrlPdR
Download PDF

Gurugunratnakerkavyam