Donar
Goopikoonmaada
Front matter
No text on this page.
व्यज्यते पन्ना
अनन्तशयनावश्वविद्यालयः
भनन्तशयनसंस्कृतग्रन्थावलि
ग्रन्थाङ्क:
१८०
गोपिकोन्मादः
DONATED D
TTO CENTRAL LORA
OF
TRAVANCORE
UNIVERSITY
कर्मणि
सम्पादका
शूरनाड् कुञ्जन् पिल्ल, एम्. ए.,
पौरस्त्यग्रन्थप्रकाशनकार्यालयाध्यक्षः ।
भनन्तशयने एस्. वी. जी. मुद्रणालये मुद्रितः
१९५६११३२
मूल्यम् भाणकाष्टकम्
ji allacy at a g lasagilaaaię atagai निन्ये मार्ग प्रियतमकथां तत्र तत्र प्रशंसन् ॥ (stanza 39) On the way, Nārada showed the Gopi several places which had become memorable for some exploit or other of Kršņa. Thus, the sage led the Gopi to Dvāraka. मुग्धां मान्यः स मुनिरनयद् द्रक् पुरी द्वारकाख्याम् (stanza 46) The concluding portion of the poem is a beautiful description of Dvāraka abounding in allusions regarding the divinity of Friņa. The Gopikovmāda has the characteristics of a dramatic lyrical poem. It has an inver resemblance to the great Gita Govinda of Jayadeva, but in form and technique both the poems have very little' in common. There are there manuscripts of this work in this Library of these the first, No. 629 marked *, is couplete and comes from Nāreri Mana (kudallur Mana). The second, No. 5219 marked a, is also a complete manuscript and is ootuined from Sri, Govinda Pisāroti, Vaikkam. The third, No 12557 marked 1, has been brought from Akavür Mana. It is an incomplete manuscript. All the manuscripts are well preserved and are written in Malayālam script. In the preparation of the edition of this work I have been assisted by the Curator Śrī. 1. S Mahādeva Šāstri and Śri V. Nārāyaṇan Nampūtiri, M. A., B. Sc., B. T., Pandit in this Library. University Manuscripts Library, Trivandrum. 18-12 - 1956 Śūranād Kuñjan Pillai, Honorary Director.
श्री गोपिकोन्मादः। वृन्दारण्ये विसृमरशरच्चन्द्रिकायां निशायां गोपस्त्रीभिः कलमुरलिकानादसम्मोदिताभिः । रासक्रीडामधिक मधुरामादधानं युवानं वन्दे मूनां वलभिदुपलश्यामलाङ्गं मुकुन्दम् ॥ १ ॥ *अत्राश्चर्य रसम भिनव सेव्यशृङ्गारसार मान्यां मूर्ति मुरविजयिनो मायिनो मूर्तिभेदान् । वेदान्तार्थ किमपि किमपि व्यज्यमानश्च मध्ये काव्ये श्राव्ये शृणुत रसिका गोपिकोन्मादसंज्ञे ॥ २ ॥ काचिद् वृन्दावनपरिसरे गोकुलं चारयन्तं पश्चादे त्य प्रकृतिमधुरं वंश मापूरयन्नम् । तन्नादेन श्रुतिसुरभिणा तियगाकृष्य नाणा कृष्णं क्रीडारसपरवशं पुष्पलावी ददर्श ॥ ३ ॥ चित्रं कश्चिः मस्तकगिरिः काळमेघोऽप्यमुष्मिन् वाप्यावत्र श्रितकुवलये द्वाविहेवेन्द्रचापो । अस्मिन्नम्भोरुहमिदमितो मौक्तिका विद्रुमोत्था स्तम्भाश्चासन्निह माणमयाः सेति हृष्टा तदाभूत् ।। ४ ।। - विठसित २. वेदान्तान् किमपि किमपि. क. ग. ३ कालमेघो. यमुष्मिन् , ४. ऐन्द्रचापी. क. ५. विद्रुमोप्ता. ख. * पद्यमिद क. मातृकायां न दृश्यते ।
२ गोपिको मादे पादावेतौ प्रतिनवलसत्पद्मरागप्रकाशा- वाकारश्रीस्तिरयतितर मिन्द्रनीलस्य लक्ष्मीम् । वक्षोमध्ये किमपि ललितं लक्ष्म भिन्नाञ्जनाभ कोऽय दिव्यः पुरुष इति सा तर्कयामास तन्वी ॥५॥ इन्द्रो नेत्ररुपचिततनुः सोऽपि चन्द्रः कलङ्की बीमत्साङ्गस्त्रिणयनसम्बः कामदेवस्त्वनङ्गः । भूमे रं परिलयितु नन्दगोपस्य गेहे जातः साक्षात् परमपुरुषः सोऽयमित्येव मेने ॥६॥ *व्यत्यस्ताधिं वलितवदनं वान्तवेणीकलाप लोलापाङ्गं ललितमुरलीकुन्मलीभावितोष्ठम् । वीत पीताम्बरममलया मालया बेजय-त्या बर्हापीडं प्रणय भरिता प्रेक्षतापादचूडम् ।। ७ ।। पादावेतौ स खलु शकटो जधिकषार्जुनौ तौ मध्योऽय सा सुराभरशनां वक्ष एवद् वृषः सः । बाहुँचायं स पुनरचलो वक्रमेतज्जगत् तद् बालस्सोऽयं स तु विषधरः सेत्यभूद् विस्मितान्तः ॥ ८ ॥ उद्यद्रामं पदकमलयोरुन्नतं श्रोणिबिम्बे मध्ये क्लान्तं वलिषु तरळं नाभिगर्ते निमनम् । व्याप्तं वक्षस्यधिकविपुले वऋपने प्रसन्न तत्सारूप्यं प्रणतजनवत् प्राप नेत्रं तरुण्याः ॥९॥ १. फलत्. ख. २. वक्षोदेश किमपि लीळतालिप्तकाश्मीरगौरम. स. ३. वपुः. क. ४. बाहुस्सोऽयं. ख. ५. जगव. ग. ६. बालमायं.क. * पचमिदं क. मातृकायां न रभ्यते ।
प्रथमोन्मादः । दृष्टे दृष्टे नयनसुभगे नन्दगोपस्य सूनौ गाढारूढप्रणयविवशा गोपकन्या तदानीम् । मन्दं मन्दं मदनविशिखैरन्तरन्तः प्रविष्टे- भूयोभूयः क्षुभितहृदया भावभेदं प्रयेदे ॥ १० ॥ सस्तो बन्धाद् वसनचिकुरौ न ह्यशक्नोन्निर ढुं नैवाविन्दद् वलयरशनाहारमञ्जीरमोक्षम् । आक्रष्टु सा नयनमनसी नालमस्मिनिमग्ने नाङ्गेऽप्यासीदहमिति ममेत्येवमस्याः प्रतीतिः ॥ ११ ॥ मा विश्लेषोऽस्त्विति सहचरं चेतसा किं प्रविष्टा ध्यानारूढा किमुत किमियं मूछिता किं निरुद्धा । किं वा सुप्ता किमु विलिखिता वेत शङ्कां दिशन्ती संस्तब्धाङ्गी सपदि सुतनुः सालभञ्जीव तस्थौ ॥ १२ ॥ सिक्ता खेदैः श्वसिततरळा प्रस्फुरत्पल्लवोष्ठी जृम्भारम्भस्तबकितकुचा जातरोमाफुरश्रीः । जीळानम्रा विकसितमुखी मीलिताक्षिहिरेफा वल्लीवासीदुपवनतले माधवे वीक्ष्यमाणे ॥ १३ ॥ सद्यः पक्वं सुचरितफलं सुप्रभातं दिनं मे वाम नेत्र स्फुरति बहुशश्चित्तमान्ने प्रसन्नम् । कूजन्त्येते श्रवणसुभगं पक्षिणो दक्षभागे प्रायेणास्मान् विधिरभिमतं प्रापयेदित्यमंम्त ॥ १४ ॥ २. सं. , ३. चीत क. ४. वीमक्षाणे. ख. ग. १. बन्धुं. श्रवणसुभगा:. क.
गापिकोन्माद निश्चित्यान्तः कथमपि चिरादत्र कर्तव्यमर्थ भक्तिव्याजादवनततनुः पादमूले मुरारेः । वामाक्षी तत्क्षण नय चन विक्षिपन्ती प्रसून प्राप्ता सद्यः स्मरपरवशा पङ्कजाक्षस्थ पार्श्वम् ।। १५ ॥ वैदग्धीनां स खलु वसतिः फुल्लकल्हारहृयैः प्रेमााः प्रणयविवशां भृपयनक्षिपातः । वाचा मन्दस्मितमधुश्या माधवो मञ्जुाणी खैरालापैश्विरमरमयत् मादरं कातराक्षीम् ।। १६ ॥ पुष्परेमिश्विरमपचित पमा सम्भृतां ते कान्ते! श्रान्ति परिहर लतामण्डरेऽस्मिन् विशाले । का त्वं ब्रूयाः किमिह विपिने कस्य वा वल्लभासी- त्येवंप्रायः प्रणयवचनः खे वशे तां चकार ।। १७ ।। कन्यां विद्धि ब्रजकुलभवां कान्त! मां भावनाख्यां यष्टुं देवं रुचितवरदं काममाराममाप्ताम् । आविर्भूतस्त्वमपि भगवन्नान्मयोनेऽन्तरात्मन्! मथ्नन् पञ्चायुध झटिति मां मन्मथेत्येनमूचे ॥ १८ ॥ हासालापप्रणयकलहैः प्रेक्षणालिङ्गनायैः खेच्छाभागैः स्वरसमधुरां मानिनी मानयित्वा । भावं ज्ञातुं जगति सुभगा साहमेकेति जातं मानं चास्या दलयितुभयो माधवोऽयं तिरोऽगात् ॥ १९ ॥ १ रुचिरवरदं. ख. २. कलहप्रेक्षण. ख. ग. ३. तिरोऽधात्. क.
प्रथमान्मादः।
हा हा कान्त प्रियसहचर प्राणनाथेत्यनाथा
विक्षिप्याक्षितितयमलसा दिक्षु निर्लक्षमेव ।
रोदंरोदं रमण रमणत्याह्वयन्ती समस्तं
तत्रापश्यञ्चरमचरमप्यङ्गना कृष्णमेव ॥ २० ॥
किंस्वित् स्वमः किमुत मनसो विभ्रमोऽथेन्द्रजालः
किं वा म या किमु शः धृतः कृष्णरूपैव सृाष्टः ।
यस्मद्भाग्यं परिणतमथो सर्वतः कृष्णरूपं
मुग्धा मूर्छा मुहुरिनि गता वञ्चिता माधवेन ॥ २१ ॥
आलोक्यान्तः परमपुरुष मीलिताक्षी तदा सा
मा गच्छ त्व पुनर्गप शटेत्यञ्जसा तर्जयन्ती ।
यद्वन्माता हृदयकमले कर्णिकालूखले तं
वन्धच्छेदे निपुणमवला प्रेमदाम्ना बबन्ध ॥ २२ ॥
कान्त! खरं विहर सुचिरं पूतनायाः स्तनान्ते
कण्ठाश्लेपं कुरु बकतृणावर्तवत्सासुराणाम् ।
केशग्राहं विरचय पुनः कशिनः केशव त्वं
मुग्धा मुश्चेत्यलपदबला माधव स्वप्नदृष्टे ॥ २३ ॥
आळीवर्गद्रुतमुपगतैरञ्जसा बाधयित्वा
किं ते जातं सुमुखि कथयेत्याकुलैः पृच्छ्यमाना ।
प्रत्याचष्ट प्रियतमकृतं तच्चरित्रं विचित्रं
वीळां मुक्त्वा विवशहदया गद्गदोत्सन्नकण्ठी ॥ २४ ॥
गोपिकमा दे आकृप्यादौ मधुरमुरळीनादमन्त्रेण चित्तं रूपं सिद्धाञ्जनमिव वशीकारि मे दर्शयित्वा । आद्यः सिद्धो निजकुहतया मोहयामास मुग्धां विद्युद्वल्लीविलसितमिदं विक्लबा किं ब्रवीमि । २५ ॥ एकोऽप्यासीत् मुरनरचरस्थावराद्यात्मभेदैः व्याप्तः सोऽन्तर्बहिरपि सहस्राक्षिशीर्षाघिबाहुः । व्यक्ताव्यक्तं गुणमहदहङ्कारभृतेन्द्रियाचं स्थूलं मूक्ष्मं जगदिदमंथो दर्शयामास देहे ।। २६ ॥ ब्रह्मा भूत्वा भुवनमसृजद् दिङ्मुखो वेदगी वैकुण्ठः संस्तदवनमधात् सेव्यदिव्यावतारैः । नीलग्रीवः सपुनरभवन्नेत्रनिर्दग्धविश्वः किं किं नाभूत स खलु विमलः सन्ततानन्दरूपः ॥ २७ ॥ तद्भूमानं कथयितुमलं नैव वाचां विलासी ध्यातुं चाथो विविध विषयाभोगारिप्लवा धीः । द्रष्टुं दृष्टिश्विरमवयवे तत्र तत्र भ्रमन्ती सा चेद् भूयादनुभवकला शक्यते ज्ञातुमेनम् ॥ २८ ॥ मन्दाकिन्यां कृतविहरणों मामुपश्लोक्य पूर्व दिव्यर्माल्याभरणवसनालेपनेर्भण्डयित्वा । ऐन्द्रोंगरयमरमयन्नन्दनोद्यानमध्ये नानाभोगेदिवि भुवि तथा नागलोके च दीर्घम् ॥ २९ ॥ 1. गुणमयमह. क. २. महो. ख. ग.३ ३. पुनरमल.., ५. संवि- दानन्दरूपः. क. ५, गणयितुम. , ६. विलासाः. ख. ग. ७. उपप्लान्य, प्रथमा-मादः । सङ्गे सङ्गे मृदुनखपदं लेखयित्वा लिखित्वा . मध्ये मध्ये मधुरमधरं पाययित्वा च पोत्वा । आलिङ्ग्यालिङ्गनपरवशामित्यथा?क्तिमध्ये स्मारं स्मारं सुरतचरितं तत्र मूर्छामगच्छत् ।। ३० ॥ कृत्वा सख्यः किमपि शिशिरं मण्डपं चन्द्रकान्तै- ज्योत्स्नासङ्ग हुनजलकणस्पाँधमुक्तावलम्बम् । तो संविष्टां नवकिसलयः कल्पिते तत्र तल्पे शेकु श्वामयितुमलमा हन्त शैत्योपचारैः ॥ ३१ ॥ जज्वालान्तर्विसकिमलयैर्वीजितायाः स्मराग्निः तस्यैवास्या वपुपि निहितं जातमिध्मं मृणाळम् । लेपः पङ्के िमजललवान्दभिश्चन्दनानां तिग्माङ्गारोपरि परिण मत्सोष्मभस्मोपमोऽभूत् ॥ ३२ ॥ आश्वासार्थ तदनु सुतनर्विक्तुमारेभिरेऽस्याः सख्यस्तम्य प्रकृतिगहनं पुण्यकीर्तश्चरित्रम् । मुग्धे मुश्च क्षणिकमुहृदि प्रेम बन्धं त्वमस्मिन् यं नाद्राक्षीचिरमुपनिषद्योपिदन्विष्य गूढम् ॥ ३३ ॥ सोऽयं कृष्णः सखि! बदरिकामेत्य नारायणात्मा योगारूढो नियतकरणश्चालितो नाप्सरोभिः । ऊरोस्ताभ्योऽप्यधिकललितामुवंशी निर्ममे यो मुग्धे! बुद्धिं भ्रमयसि सुधा मुक्तसङ्गे मुकुन्दे ॥ ३४ ॥ 1. साबुतमदल. ख. ताः सपिष्टैन. क. ३. विगतकरुणः. स.
८ गोपिकानद रामो भूत्वा रणभुवि पुरा रावणं दारयित्वा प्रत्यानीतां प्रकृति टलः किंवदन्ती प्रमाण्य । अग्नौ शुद्धामखिलजननी जानकी यस्त्वमुञ्च- निये तस्मिन् गमयसि मनो निघृणे हन्त कृष्णे ॥ ३५ ॥ निक्षिप्याङ्के निजमथ कुचं पाययन्ती स्वधात्री व्यालुम्पन्तीं व्रजकुलवधूवर्गसौभाग्यगर्वम् । प्राणेहीनामकुरुत पुरा पूतनां यस्तु बाल्ये करे तस्मिन् किमिति कुरुषे केशो स्नेहपाशम् ॥ ३६ ।। सा प्रत्यूचे सरसवचना सापहार साखस्ताः लक्ष्मीर्यस्य स्फुरति हृदये वीतरागः कथं सः । यल्लाभार्थं जलधिमथने प्रस्तुते तं गरिष्ठं पृष्ठे मायाकमठवपुषा मन्दराद्रिं दधार ॥ ३७ ॥ पत्नी यस्याः प्रतिकृतिरभृदस्यं तत्राश्वमेधे रामोऽमुञ्चजनकतनयामकदारव्रतस्थः । सीतास्नेहो यदि न विदितः सेतुमैक्षधमब्धौ यस्मिन् दृष्टे न भवति पुनर्गर्भवासो जनन्याः ॥ ३८ ॥ तन्मे चित्तं मदयति मुहुः सत्यमालोच्यमाने पातुं चालानदयमधयत् पूतनासूनसौ यत् । कृष्णं वक्तुं क्षणिकसुहृदं कैः सदा मे हृदिस्थं वृध्वं बुद्धैः सुंनिगमरहः सम्यगध्यापितं वः ॥ ३९ ॥ १.नीतां सद्यः. ख. २. स्त्वनिन्द्यां नीन्ये तस्मिन्. क. ३. सापहासा. ग. 1. बस्य. ग., यस्य तस्थ. क. ५. रामोमुछेत् क. स्व. ६. वीतहः. बुद्धये. क. ८. स्वनिगमरहा. क.
प्रथमोन्मादः। सङ्गस्त्यक्तः स्वजनविषये यस्य सङ्गाय सोऽयं संख्यश्चिन्तामय इह पुरः सर्वतो विष्णुरास्ते । आनन्दात्मा रमयति परप्रेमभारास्पदो मा- मित्थं पश्यत्युपनिषदमुं मैद्वदन्विष्य गूढम् ॥४०॥ आस्ते साकं स्वपिति हसति क्रीडति नाति भुङ्क्ते यद्यत् कुर्यामयमपि तदा तत्तदङ्गीकरोति । सर्वावस्थास्वपि वितनुते साहचर्य समेतो नैवासक्तां विरहयति मां नाचरत्याप्रिय वा ॥४१॥ नैनं लक्ष्मीर्वशयति न भूः नैव गोप्यो मदन्या न व्यापार रचयति महीभारनाशाय किं वा । गोभिः साकं विहरति पुर्नन क्षणं मद्वियुक्तो मामेवासामभिमुखगांमीक्षते सर्वदापि ॥४२ ।। आदायासौ वसनमधुना स्नानकाले मदीयं कुन्दारूढः परिहसति मां पश्यताग्रे मुकुन्दः । मुग्धा बद्धाञ्जलिरिति पुरः कृष्णमाकाशलक्षा सा पश्यन्त्याः सखिपरिपदः क्षोममेनं ययाचे ॥४३॥ मा माँ सिञ्च प्रियतम चिरस्नानसञ्जातशैत्यां त्वं चात्यन्तप्लवनतरलो लक्ष्यसे वेल्लदङ्गः । श्वासान् दीर्घान् विसृजसि मुहुः कान्त! राहाव तीरं सेति स्वान्तर्जलितमदना मत्तकाशिन्यशंसत् ।। ४४॥ १. सङ्गं त्यक्त्वा. , २. प. , ३. मुग्धनन्धिय. क १. विरचयति. ख. ग व., ६. तो वीक्षते, क, ७. माकाशलक्ष. ख. ८. मा. ग. ९. प्रियसहचर. ख. ग.
१० गोपिकोन्माद श्रुत्वा नाद श्रवणसुभगं मत्त'स्कोकिलानां कृष्णो मामाह्वयति मधुरं श्लक्ष्णयासो गिरेति । सा विश्लिष्यद्वलयरशनानूपुराग्रे सखीनां रोधं रोधं चिकुरवसने मुक्तलज्जा चचाल ॥४५॥ शाखाबाहान् शिखरविलसत्पुष्पचक्राभिरामा- नुच्चेः कूजच्छुककुलकलालापवंशीनिनादान् । श्लक्ष्णस्निग्धेर्नयनसुभगैः श्यामलाङ्गान् पलाशै- वृक्षान् लक्ष्मीसहचरधिया विह्वलाक्षी ददर्श ॥४६॥ लक्ष्म्यावासा ललितवनमालोपगूढोपकण्ठा नद्धारशीर्षे नटनगाळतैः ककिनां पिञ्छभारैः । यशैः क्षुण्णमृदुलपवनापूर्यमाणेनदाद्भि- स्तन्वीं शैलास्तरलहृदयां हर्षयामासुरग्रे ॥४७॥ श्यामच्छायारुचिरममलैभूषितं रत्नजालै- रौर्वज्वालाकपिशवसनं व्याप्तदिक्चक्रवाळम् । सत्त्वैरन्तः किल विलसितेर्विश्वरूपं दधानं पारावारं परमपुरुषोत्प्रेक्षया सा प्रपेदे ॥४८॥ कान्तारान्तः कलुषहृदया कान्तमन्विष्य यान्ती यूथभ्रश्यत्तरुणहरिणीप्रेक्षणा सा तदानीम् । वाचां गुम्फैरधिकमधुरेलक्षशून्यैः सदैन्यं निस्सम्बन्ध व्यलपदशनैरङ्गनानङ्गतप्ता ॥४९॥ १. शाखावा. ग. २. रौर्वश्छाया. म. ग.
प्रथमोन्मादः । ११ धन्यासि त्वं सम्धि मुरलिके! तुङ्गवंशप्रसूता विष्णोः पाणिग्रहणविधिना प्राप्तसौभाग्यगर्वा । पश्यन्तीनामपि च पुरतो वल्लवीनां प्रकामं *गायं गायं पिबसि मधुरं तस्य बिम्बाधरोष्ठम् ॥५०॥ माध्वीपूर्णा मुरविजयिनो मालिका वैजयन्ती लक्ष्म्या साकं लसतु हृदये पुष्पवत्यप्यजस्रम् । यस्तां धत्ते बहळरजसं वीतलजं धिगेनं कामान्धानां चपलमनमां निविवेकं हि चित्तम् ॥५१॥ काश्यं धत्से वपुषि दिनशो भूयसा पाण्डुरागी न व्यापार कमपि कुरुषे दुस्सहोऽयं तवोष्मा । त्वत्संसर्गे विसकिसलया म्लानिमानं भजन्ते किं कृष्णन त्वमपि लळिते! वञ्चिता चन्द्रलेखे! ॥५२॥ कान्तारेऽस्मिन् गमयसि निशां नित्यमेकाकिनी त्वं सत्यं ब्रहि प्रियसखि मम त्वत्समानवतायाः । कस्माद्धेतोर्व्यसनहृदया क्रौश्चिके! क्रोशसीत्थं चिन्तामस्मिन् विरचयसि किं चित्तचोरे किशोरे ॥५३॥ पूर्ण भाग्यं बैंकि सखि रहस्तीरमासाद्य नद्या ध्यायन्त्यास्ते परमपुरुषस्यायमत्रावतारम् । मौनग्रन्थिनहि विरमते पाण्डरीभूतगात्र्याः किं वा कुर्वः कितवचरितं मानयन्त्यौ वनान्ते ॥ ५४ ॥ * 'पायं पाय नदसि' पाठान्तरम् । १. धत्ते. ग. २. पाण्डराङ्गी. क. ३. किमपि. ख. ४. ललिता. क. प्रियसखि. ख. ग.
गोपिकोन्माद १२ मा त्वं भृङ्गः स्पृश पदमिदं मत्सपत्नीजनानां कण्ठाश्लेषे कुचविललितैः कुङ्कुमैः पङ्किलास्यः । बिभ्रन्मालामुखविगळितां धृळिमस्यैव योग्यां दूरे स्थित्वा कथय वचनं दूतकृत्ये स्थितश्चेत् ॥ ५५ ॥ सल्लापाथ मम कळपदां कर्णपीयूषधारां लक्ष्मीभर्तुः कथयसि कथां शारिके! स्वागतं ते । एवेद्यस्मद्भवनवलभी तत्र सम्भाव्यसे त्वं सम्यक्पक्वररुणधवलैंडाडिमीबीजपूरैः ॥ ५६ ॥ वंशीनादेस्तव विरचयन् सौम्य सङ्गीतसख्यं धृतॊ नृत्तभ्रमणगळितं बर्हमादातुकामः । आपीडा किमुत गतवानन्तिकं ते कलापिन्! मह्यं ब्रूया मधुरनिन मेघवर्णो मुकुन्दः ॥ ५७॥ चञ्चौ बिभ्रद् मम तनुगतं म्लानमेतन्मृणाळं दौत्यं कर्तुं मयि करुणया सजसे चेन्मराळ । तूष्णीभूतो विनतवदनस्तिष्ठ विष्णोः पुरस्तात् पाण्डुस्तेऽङ्गं प्रथयितुमलं मन्मनःखेदमस्मै ॥ १८ ॥ इत्थं तिर्यग्जनमपि शुचा द्रावयन्तीं नितान्तं तामाकाशप्रणिहितभुजां तत्समालिङ्गनोत्काम् । स्मृत्वा स्मृत्वा रैमणमनिशं कृष्ण कृष्णेत्युशन्ती प्रत्याचख्युः सजलनयनाः पार्श्वमागत्य सख्यः ॥१९॥ १. विलुळितां., २. स्वैरं भर्तुः. क. ३. किमुप. , ४. शरणं. ख. ग.
प्रथमोन्मादः । ३ १३ मा व्यामुह्य धुमणिरबले चक्रपाणेर्न चक्र बिम्बः साऽयं सुमुखि शशिनो न त्वसौ पाञ्चजन्यः । एषा सन्ध्याजलदपटली नैव पीताम्वरश्री- राकाशोऽयं न तु मुररिपोर्मेचका मूर्तिरेषा ॥६०॥ बाले! बालातपरुचिरियं नो हरिद्रादुकूलं धारा धातोः स्फुरति न पुनः कौस्तुभाभाप्ररोहः । एषा मुग्धे! नवतमतमालावली नैव कान्तिः. शैलः सोऽयं तरळनयने नैव लक्ष्मीनिवासः ॥६१॥ मुग्धामेनां न खलु दयसे नाथ! नारायण! त्वं सा ते वास्ते कथय करुणा श्रीगजेन्द्रस्य मोक्षे । आरुह्यांशु प्रजवगरुडस्कन्धमादाय चक्रं यातो लक्ष्म्या सह च सरसीं यद्वशे वर्तमानः ॥६२॥ अस्यां काश्चिद् रचय करुणां तावकी विश्वमूर्ते! यत्संश्लेषाद् विरचितमहानारसिंहाकृतिस्त्वम् । भित्त्वा स्तम्भं झटिति युगपत् तद्धिरण्यस्य वक्षः प्रह्लादस्य प्रणयमधिकं मानयन् प्रादुरासीः ॥ ६३ ॥ उद्धतु नः प्रियसहचरीमाधिसिन्धी निमग्नां नैवोद्युझे किमिति निखिलत्राणदत्तक्षणोऽपि । क्षोणीमेतां प्रलयजलधौ गाढमनां पुरा यो दंष्ट्राग्रेण द्रुतमुदधरः क्रीडया क्रोडरूपी १. दिग्गजेन्द्रस्य, ग. २. आरुह्याने. क. ३. कट. , ४. वर्तमाने, साग, ५. दत्तेक्षणोऽपि. ख. ६. उदहरः. क. ग. - गोपिकोन्मादे भूत्वा योऽग्रे भृगुकुलपतिर्मातुरातस्वरायाः श्रुत्वाक्रोशं पतिनिधनतः ताडयन्त्याः स्तनौ खौ बिभ्रत् तीक्ष्णं परशुमकरोवीर निःक्षत्रियां मां स त्वं सख्यै कुरु तव कृपामेहि कृष्ण प्रसीद ॥६५॥ *तासां वाक्यौगुणितपतिप्रेमसम्भ्रान्तचित्ता मा तर्जन्या किसलयरुचा विक्षिपन्ती तदोर्ध्वम् । आयात्येष प्रिय इह पुरः पश्यताकाशमार्ग बाला पश्चादिति सहचरीः प्रत्युवाच प्रहृष्टा ॥६६॥ विद्युबल्लीवलयविततौ जातपीताम्बराशा बर्हापीडं सुतनुरभिसन्धाय माहेन्द्रचापम् । मत्वा साक्षात् परमपुरुषं मानिनी काळमेघ याथातथ्ये तदनु विदिते सा सलज्जा रुरोद ॥ ६७॥ पश्चादूचे प्रियसखि! कुतः क्रन्दसे मुक्तकण्ठं किं ते कान्ति कथय कितवो मेघमाले! मुमारे । गाढोत्कण्ठाकुलितहृदया बाष्पधारासहस्रः क्षोणी सिञ्चस्यनुकलमहो दुस्त्यजो निःस्पृहोऽसौ ॥६८॥ इति प्रथमान्मातः ।। अथ द्वितीयोन्मादः! काळिन्योपैरिव वरतनुं कान्तिपूरैर्निषिञ्चन कण्ठे मालामिव कुवलयैर्निक्षिपनक्षिपातैः । ज्योत्स्नागौरस्मितलहरिभिश्चन्दनेनेव लिम्प- नाविर्भूतः सकलजगतामुत्सवो वासुदेवः ॥१॥ ६६, ६७ पद्ये कपा एव दृश्यते । १. मुमोच. ग. २. मथो. , ३. निःस्पृहो वा. क.
द्वितीयोन्मादः। १५ वामाङ्गी सा विकसदतसीगुच्छसच्छायकायं भाग्योत्कर्षात् परमपुरुषं प्रेक्षमाणापि साक्षात् । मेने मुग्धा मदनशिखिना तप्यमानातिमात्रं व्यामोहाय प्रसरति पुरो वासना मानसीति ॥२॥ सोऽयं कृष्णः सहजकरुणापूर्यमाणान्तरात्मा बाष्पक्लिन्ने 'किसलयरुचा पाणिनोन्मृज्य नेत्रे । आलिज्यनामलसनयनां मांसलाभ्यां भुजाभ्यां क्षीणां पश्चादनुनयपदैः प्राणयन् सल्ललाप ॥३॥ अश्रान्तं गोनियमनपरानग्रजाधीनवृत्तीन् मा शोचास्मान् पथि विचरतो नित्यमारण्यकानाम् । येषां सङ्गः क्वचिदुपनमेद्वा न वा दैवयोगात कर्माधीने कथमिव जने तादृशं भागधेयम् ॥ ४॥ धन्यास्तेऽन्ये विपुलविषयाभोगसञ्जातहर्षा ये सम्मोहं सुमुखि! दधते त्वादृशां मानिनानाम् । नित्यं निष्किञ्चनजनवशे वर्तमानाः कथश्चित् तेषां के वा गुणवति वयं निर्गुणी निर्विशेषाः ॥५॥ ईषन्मात्रोऽप्यलसनयने! नावयोरस्ति भेदः त्वय्येवाहं त्वमपि च मयीत्यञ्जसा मां प्रतार्य । अप्रत्यक्षस्त्वमपि दयित! त्यक्तसङ्गो निरीहो मुग्धाहं त्वां न विदितवती मायिनं मानहीनम् ॥ १. कमलरुचिना. क.
१६ गोपिकोन्माद गूढं दारुष्विव हुतवहं व्यक्तमव्यक्तमार्ग त्वामन्विष्य श्रममुपगता त्वं निरस्तेषणोऽभूः । क्रीडस्यवं तव कुहनया वञ्चयित्वा प्रपञ्च कार्पण्योक्तीरिति कृतवती साथ याथार्थ्यहृद्याः ॥७ प्राप्ताश्वामा प्रियतमवचोहृद्यपीयूषवषैः त्यक्तुं तापं सुचिरविरहाद् भूयसैवोष्मळे स्खे । तव्याधत्त स्तनगिरितटे पावनं पादपद्म येनाक्रान्तं त्रिभुवनमिदं मायिना वामनेन ॥८॥ ३ खेदं सद्यश्विरविरहजं सा जहाँ सन्नताङ्गी पुण्यैर्विष्णोः पदकमलजैः पांसुभिर्भाग्यलभ्यः । कल्याणी स्वां प्रकृतिभभजत् प्रागहल्योत्तमस्त्री यत्सम्पर्कान्मुनिवरगिरा सा शिलीभृतदेहा ॥९॥ कण्ठाश्लप व्यतनुत मुहुरचुम्बात स्माधराष्ट्र मौलौ वक्र स्तनकलशयोस्तत्कराम्भोजमाधात् । व्यामृद्नात् तच्चरणकमलं बोजयामास वक्त्रं तत्ताम्बूलं समुपयुयुजे चिक्षिपेऽङ्गेषु शेषम् ।। १० ॥ रासक्रीडामकुरुत मिथो गायति स्मास्य गाथाः खैर तोये व्यहरदमुना सेंचनास्फालनाभ्याम् । बध्वा काञ्च्या प्रणयकलहे ताडयाम स दाना क्रुद्धापश्यत् कुटिलनयना भर्त्सयामास वाचा ।।११ 1. सा यथार्थाथहृद्या:. ख. ग. २. तयाधत्त. क. ३. मानिना. ग. ४. बीजयामास गात्रं, ५. सक्ताम्बूले. , ६. स्मार्यगाथाः. क ७. सेवन. ,८. भस्मयामास. ग.
द्वितीयोन्मादः । १७ अक्रूराख्यो यदुपतिरथो घोषयन् घोषमध्ये मान्यं धन्वोत्सवमभिनवं प्रस्तुतं कंसगेहे । गोपः साकं शकटविधृतोपायनैनन्दमुख्यै- जाँतोत्कण्ठः सपदि मधुरां रामकृष्णौ निनाय ॥ १२ ॥ तां विश्लिष्टां तदनु विधिना चक्रवाकीमिवैको रिक्तेऽरण्ये रणराणिकया क्रन्दमानां मुकुन्दम् । तिर्यञ्चोऽवग् रुरुदुरदयं तत्र रात्रिष्वजसं बाप्पसावं हिमजलमयं पादपाश्च व्यमुञ्चन् ॥ १३ ॥ तत्प्राणा तन्निहितकरणा तत्सुहत्तच्छरण्या तद्भावा तद्गतविलसिता तन्मयी तच्चरित्रा। तन्निध्याना तदितरपरिज्ञानशून्या तदीशा तन्वी तस्मिन् व्रजपरिसरे सेति चक्रोश दीना ॥ १४ ॥ आभीराणां किमयमपरः कश्चिदास्ते निवार: कालिन्धाग्या किमियमयरा स्यन्दते कापि कुल्या । एताश्वान्याः किमु मुभियः क्रीडते नात्र कृष्णो या जी पामि प्रिविमहिता सा किमन्याहमस्मि ॥ १५ ॥ वहीं दृष्टी नयनसुभगं पश्यतो ये न कृष्ण पर्ण जिह्वा पिबति न पुनर्यास्स बिम्बाधरोष्ठम् । गों कणों न खलु शृणुतो यौ न वेणोनिनादं नूनं हस्तावपि च विटपौ यौ तु नालिङ्गतस्तम् ॥ १६ ॥ ., जातोत्कण्ठां क.
१८ गोपिकोन्मादे तत्तारुण्यं तदपि तरळं वीक्षितं तान् विलासां- स्तान् सल्लापस्तदपि हसितं तद्वपुस्ताश्च गोष्ठीम् । तान् वा भावांस्तदपि च गतं ताञ्च लावण्यवीची प्रेक्षिष्येऽहं पुनरपि कदा देवानां प्रसादात् ।। १७ स्फूर्जद्वेणुध्वनिसमुदितैर्नर्मगोष्टीवन्धे- मा प्रक्रान्तप्रणयकहां हामयन्तं हमन्तम् । याचे युष्मानुपवनमता देवता ब्रून मह्यं प्रेक्षिष्ये किं पुनरपि विभुं वल्लवीभागवेयम् ॥ १८ ॥ घोरे गौर्यास्तपसि विरते त्र्यम्बके मम्प्रयुक्त वैकुण्ठेऽपि प्रकटय विमो वीर्यमव्याहतं ते । मान्यामोदैवकुलकुसुमैमन्मथाराध्य त्यां मा विश्लिष्या मरतकशिशामांनळांपेन घुमा ।। १९ ।। संसारेऽस्मिन् कलापिनी नय श्यामि सारं शून्यं मन्ये मविद मधुना विमानन मे । आमात्यन्धं तम इव पनि व जीण्यप्रतिमा काट द्रावनं च ।। २० ॥ हा काळिन्दि ! त्वमपि नहीं विप्रयोग मुगरः सेकास्फाल प्लवनपतनोन्मजनाधर्मनाः । क्रीडाभेदैः सुचिरममुना लाल्यमाना पुरस्ता- च्छेषाधूळीकपिशसलिला या तदा बीक्षिताभूः ॥ २१ ॥ २वीभिटो ग. ३. मज्जनामज्जनायैः ख. ग.
द्वितीयोन्मादः १९ अकराख्यां वहति भुवने कोऽप्यतिक्रूरकर्मा वात्यां मन्दानिल इति वृथा व्याहरन्ति प्रमत्ताः । ज्योत्स्नाज्यालाज्वलितमुवनं पावकं शीतरश्मि मुग्धो लोको वहांने कुपितं मूर्ति मलेति सर्पम् ॥ २२ ॥ दावाग्निं यः प्राममहरत् माग बत्राणहताः कामाग्निं मे वलयसि कुतः साप्रा दूरगोऽपि । रिक्तां दृष्टि रमय दायत द्रागिहागत्य कृष्ण! त्वविश्लो मति च कठिन नद्रत थि मनो मे ॥ २३ ॥ जाने चित्तं मन मृदुतथा हन्त हव्यङ्गवीन यन्मुष्णामि त्वनिरू तदिदं किं यशोदा न पृच्छेत् । एपा पङ्क्तिः स्फुति पदयोः शङ्खचक्राब्जरेखा दूरेऽसि त्वं दायित विधिना हा हता मन्दभाग्या । २४ ॥ त्यक्त्वा चित्तं चिरपरिचितं मां तमेवान्वगच्छत् प्रत्यावृत्ति न ग्गुलु लभने लोहपीताम्बुतुल्यम् । प्राणत्राणं क इह तनुयाद् दूरगः प्राणनायः कामः किंम्वित् प्रळयदहनः किं यमो राक्षसो वा ॥ २५ ॥ आधिक्षामामकृतसुकृतामुज्झितां बन्धुवगै- रस्तं यातो दिनमणिरसावक्षमो वीक्षितुं माम् । घोरा वाता जलयति जगत् कोऽपि कालाग्निरिन्दु- हन्ताकाण्डे प्रलयसमयो यत्र नान्तो निशायाः॥ २६ ॥. 1. कोऽप्ययं क्रूरकर्मा क, २. दृरतोऽपि ख. ग. ३. चिरपरिचितां ग. ४ घोरा ५. अकोले क. ६. नान्तं क.
२० गोपिकोम्माद रासक्रीडामिह हि पुळिने निर्ममे प्राङ् मुकुन्दा वत्सान् वाप्यामिह सह जलं पाययामास गोभिः । भुङ्क्ते स्मान्नं से इह रुचितं वेष्टितो क्यस्यै- वत्सस्तैन्यं व्यतनुत पुनर्नूनमत्रैव धात्रा ।। २७ ॥ तालाटव्यामिह खरतर्नु ध्वस्वान् धेनुकाख्यं केशी प्राप्तस्त्विह हि निधन केशवादश्वरूपः । अत्रारिष्टो धृतवृषवपू रामगोष्टचानिरस्त देशे त्वम्मिन् वजमजगरग्रस्तमारक्षदार्थः ।। २८ ।। क्रीडन् गोपैरिह हि निधनं सीरिणाप प्रलयः स्नातुं क्षीवस्त्विह हि यमुनां रोहिणयश्चकर्म । कालक्षेपं सुतनुरतनोदेवमाद्यः प्रमङ्ग- श्चित्तारूढैश्विरमनुकृतेश्वास्य चित्रश्चरित्रैः ॥२९॥ आबिभ्राणा कपिशवसनं बहमापीडयन्ती वक्षोमध्ये बहळतुळसीमालिकामादधाना । गोधूळीभि-छुरितवदना वेणिकाबद्धकशी विष्णोः कृत्या वपुरिति तदा वादयामास वेणुम् ॥ ३० गङ्गे मा गा न चल यमुने याहि गोदावार त्वं हे कावेरि क वलमि पुरस्तुङ्गभद्रे निषीद । इत्थं सद्यः करकिसलये दण्डमुद्यम्य रम्यं बाला शिञ्जद्वलयरशना मण्डलं सा चचाल ॥ ३१ ॥ १. सह चितरं क. २. स्वामः, ३. कर्त, ४. चलसिख.ग २१ द्वितीयोन्मादः । भूत्वा पूर्व प्रकृतिपुरुषो भावयित्वा प्रपञ्च पश्चाद् दिव्यैर्भुवनविदितैः पालयित्वावतारैः । कुक्षौ न्यस्य प्रळयसमये कृत्यशेषे समाप्त क्षीराम्भोधौ भुजगशयने योगनिद्रां भजामि ॥ ३२ ॥ अङ्गस्यार्धे निवसति मम स्वरमर्धेन्दुमौलि- वेंधा नाभीकमलकुहरे वक्षसि श्रीविशाले । देवाः सिद्धा अपि च मुनयो मां भजन्ते समन्ता- दाविष्टेव प्रलंपित्तवती सेत्थमेवास्य वृत्तम् ।। ३३ ॥ काले तम्मिन् मुररिपुकथां वीणया वाच्यमानां शृण्वन् सप्तस्वरमुखरितां मोदमानान्तरात्मा । मूर्त तादृक् तप इव जटी वल्कली चाक्षसूत्री प्रादुर्भूतः सपदि पुरतः स्नातको नारदाख्यः ।। ३४ ॥ तन्वी भर्तुचरितकथया विस्मयं नीयमाना शिञ्जद्वीणारवमुंदितया गाढगूढानुरागा। प्रयुत्थाय प्रसभमुपसङ्गम्य पादो ववन्दे मुग्धा मूर्ध्नि प्रतिमुहुरधादञ्जलिं हृष्टचित्ता ।। ३५ ।। भूयो भूयः सुतनुरलुठत् पादधल्यां महपः प्रक्षाल्याधिं तदुदककणैः प्रोक्षयामास चाङ्गम् । तस्यातिथ्यं रुचितमकरोत् सोपचार वराङ्गी पश्चादेनं विनयविनता पृच्छति स्मादरेण ॥ ३६ ॥ ४. रवविदितथा क. १. निरतति, २. प्रचलितवती, ३. पुरतो ज्ञानदो, विगाहानुरागा ख. ६. प्रौशद स्वकीयम स्व २२ गोपिकोन्मादे अस्मद्वेतोर्हदि समुदितात् पूर्णकारुण्यपूरा- दन्यत्कार्यं तव न घटते श्रेयसां भाजनस्य । भाग्यं तावन्मम परिणतं दर्शनादव सद्यः करमाद्धेनोः कथय भगवन्नागतोऽथापि घोषम् ।। ३७ ।। किं वा वृत्तं कथय भगवन् साम्प्रतं तस्य विष्णोः किं स्वस्त्यास्ते किमुत गणयेन्मादृशां प्रेमव बन्ध किं वीक्षिष्ये पुनरपि मुार मुन्धहामावलोकं क्षुद्राः कामं ब्रजयुक्त्यो दुर्लभन्तन्यमादः ॥ ३८ ॥ मा ताम्य त्वं तरलहृदये त्वां नयाम्यद्य कृष्णं दत्तानुज्ञा भवसि रमिक देवकीनन्दनेन । तामित्युक्त्वा स तु निजतपोवैभवाद् वीतखेदां नित्ये मार्ग प्रियतमकयां तत्र तत्र प्रशंसन् ॥ ३९ रामादेशादिह हि रजकस्याददे वस्त्रजालं दत्तालेपामृजुभरचयत् कुब्जिकां काञ्चिदत्र । अस्मिन् देशे स तु कुवलयापीडसंज्ञं करीन्द्र कंसं मल्लानपि मृदितवान् मुष्टिचाणूरमुख्यान् ।। ४० कसे जामातार युधि मृते द्राग जरासन्धनामा चक्रेत्राष्टादश च समरान् विशदक्षौहिणीभिः । वन्यो मत्तद्विप इव तरं यं पुनर्मल्लयुद्धे द्वेधा चके भुवनविजयी भीमसेनोऽभिमानी ॥ ४१ ॥ .. मष्टी तशख.ग. २. समरंक.
द्वितीयोन्मादः । २३ वैरूप्यं प्रागिह हि शिशुपालेच्छया प्राप रुक्मी कन्यामस्मै मणिमपि दो जाम्बवान् निर्जितोऽत्र । सिन्धौ सान्दीपनिमुतकृते मुवीनोत्र कृष्णः शङ्खाकार दितिजमजयत् पाञ्चजन्यो यतोऽभूत् ॥ ४२ ॥ म्लेच्छाधीशम्त्विह हि मुचुकुन्देन राज्ञा निरस्तो यद्भीत्यासों पुरमरचयद् द्वारकामब्धिमध्ये । काशीनाथस्त्विह हि विजिनः पोण्डको वासुदेवो ध्वस्तो वैडरथ इह बाद् दन्तवक्रश्च साल्वः। ४३ ॥ मायावत्या मकरहृदयादुद्धृतः पोषितः मन् स प्रद्युम्नस्त्विह हि समरे शम्बरं निर्ममन्थ । अस्माद्देशादनयदुपया साकमेवानिरुद्धं जित्वा युद्धे त्रिपुररिपुणा त्राय नाणं च बाणम् ।। ४४ ।। कृष्ण निन्दनिह हि शिशुशालाहयः पाण्डवीय तत्मायुज्यं समुपगतवान् बाजाने स्वबाला । यन्ता भूत्वा गहरि मगरे बालानां सियार्थी व्यूई राजों व्यघट्यरिती भीमनार्जुनाभ्याम् ।। ४५ । इत्थं पुण्यां यद्दतिकशां वर्णवस्तृगामी दूर दृष्टः कनकावचितगापुरैः सून्यमानाम् बातोद्वेल्लयजपटकररावयन्तीमियनां मुग्धां मान्यः स मुनिरनयद् द्राक् पुरी द्वारकाख्याम् ।। ४६ ॥ १.बली क. २. तत्सादृश्यं ख. ३. कनकरचित क.
गोपिकोन्मादे
या प्रासादै रुचिररजतस्वर्णरत्नोपक्लप्तै-
श्चन्द्रादित्यज्वलनविभवान् सन्ततं निन्दतीव ।
दृष्टाः कनककलशा यद्विमानाग्रलीना
हंसाकारं परमपुरुषं स्मारयन्त्यद्भुताङ्गम् ।। ४७ ॥
दूरे
यस्यां जित्वा नरकमसुरं ताः सहस्राणि कन्या-
स्तावत्सङ्खयां दधदुदवहत् पोडशाम्भोरुहाक्षः ।
यत्रासाते सुरतरुवरी सत्यभामाप्रियार्थं
जित्वा शच्याः पतिमुपहृतो तद्गृहोद्यानमध्ये ।। ४८ ।।
अध्यारूढा नरकरिपुणा रोहिणेयोद्धवाभ्यां
यस्यामास्ते यदुभिरभितः सेविता सा सुधर्मा ।
यत्रोद्याने नरकसदनादाहृतो रत्नशैलः
कोशैः साकं विलसति चिरान्मन्दराद्रिप्रसूतः ।। ४९ ।।
मञ्जीरोत्थं मणिवलयजं हारकाञ्चीप्रतं
श्रुत्वा यत्र श्रवणसुभगं शिञ्जितं मजुवाचाम्
वाप्यां वाप्यां कृतवमतयो राजहंसाः वमन्तात्
कूजन्त्युच्चैमुदितमनसो बन्धुवुद्ध्योन्नतास्याः ।। ५० ॥
अध्यारूढा मृदुलपवनैर्मन्दमन्दोल्यमानां
शाखाडोळां सुरविटपिनां तत्फलास्वादतृप्ताः ।
यत्रारामे शुकशकुनयः शारिकाश्लाघ्यमानाः
शंसन्त्युच्चैः श्रवणसुभगाः श्रीनिवासस्य गाथाः ।। ५१
१. ददत्,
२.चिरं स. ३. श्रवणसुभगां,
३. श्रवणसुभगां, ४. गाथाम् क.
द्वितीयोन्मादः । २२ सिद्धै विद्याधरपरिवृद्धः किन्नरैरप्सरोभिः प्रक्रान्तायां प्रतिगृहमपि प्रेष्ठसङ्गीतगोष्टयाम् । मत्वा मेघध्वनिरिति मुहुर्मद्दळानां निनादं यस्यां नृत्तं दधति शिखिनो मण्डलीकृत्य बर्हान् ।। ५२ ।। यत्सौधेषु प्रतिफलितया छायया विष्टपानां रत्नस्तम्भाः खचितवपुषः प्रांशवोऽत्यन्तरम्याः । कृत्वा सम्पक चिरमपचितिं प्राप्तसारूप्यसौख्या विष्णोक्ता इव विदधते विश्वरूपप्रकारम् ।। ५३ ॥ सम्यक् त्वष्ट्रा लिखितवपुषां यत्र पौराणिकानां रामादीनां चरितमनिशं लक्ष्यमाणं च साक्षात् । सान्द्रस्नहोच्छ्वसितपुळकः सन्ततानन्दपूणः तत्कालीनं कलयति जनो निर्निमेपाक्षिपातः ॥ ५४॥ गायन्तीभिः सुरयुवतिभिः चामरेवीज्यमानं ब्रह्मेन्द्राद्यैरमरनिकरैः क्लप्तपुष्पाभिषेकम् । कृष्णं दृष्ट्रा मणिमयगृहे रत्नसिंहासनस्थ सान्द्रानन्दामृतजलनिधौ सा निमग्नावतस्थे ॥ ५५ ॥ गेहे गेहे वरतनुरसौ वीक्षमाणा पतीन् स्वान् पुत्रैः पौत्रैः प्रतिगृहमपि प्राप्तसङ्ख्यासहस्रान् । उद्गायन्तं मुनिवरममुं नारदं मानयन्ती विष्णोः पार्श्वे सुचिरमवसद् विस्मिता तत्र दीर्घम् ॥ ५६ १. स्थगित, २. कथयति, २६ गोपिकोन्मादे काव्याकारा स्तुतिरभिनवा कृष्णकेळीप्रशंसा भक्त्या क्लप्ता स्फुरदुपनिषद्वाक्यगूढार्थपूर्णा । पापच्छेत्री जगति पठतां शृण्वतां कर्णभूषा मोदायास्तां मुरविजयिनो गोपिकोन्मादसंज्ञा ॥ ५७ ॥ ॥ इति उत्तरोन्मादः समाप्तः॥ १. प्रसङ्गा क. शृङ्गाराद्यैरभिनवरसैर्युक्तमप्यात्मवोधं सन्तन्वानं परमपुरुषे भक्तिमापादयन्तम् । श्रुत्वा काव्यं विवशहृदयो गोपिकोन्मादसंझं नित्यं नित्यं पठितुमलिखत् चित्रभानुर्विचित्रम् ॥ अन्यान्मीलत्कळायधुतिरहिरिपुपिन्छोल्लसस्केशजालो गोपीनेत्रोत्पलाराधितलळितवपुर्गोपगोवृन्दवीतः। श्रीमद्वारविन्दप्रतिहसितशशाङ्काकृतिः पीतवासा देवोऽसौ वेणुवाद्यक्षपितजनधतिदेवकीनन्दनो वः ॥ एतत् श्लोकद्वयं ख मातृकायामधिकतया दृश्यते ।
२७ गोपिकोन्मादः श्लोकानुक्रमणी लोकः पुटम् श्लोकः पुटम् 5 10 II 14 19 कान्त! स्वैरं 17 | कान्तारान्तः 21 कान्तारेऽस्मिन् 1 कालिन्योधरिव 24 काले तस्मिन् 24 काम्याकारा 15 काश्य धरसे 22 किं वा वृत्तं 13 कि स्वित् स्वतः 6 कृत्वा सख्यः 9 कृष्णं निन्दविह 21 26 2 अक्रूराख्यां भऋराख्यो अङ्गस्या অন্য अध्यारूढा नरक अध्यारूढा मृदुल भधान्तं अस्मद्धेतोः भस्यां काबिद् भाकृष्यादौ भादायासौ माधिक्षामा माबिभ्राणा मामीराणां भालीवगैः मालोक्यान्तः भाश्वासार्थ 1I 22 5 7 23 20 16 20 19 क्रोरन् 20 खेदं सद्यः 17 गले! मा गा 5 गायन्तीभिः 5 गूरुं दारुविध 7 गेहे गेहे 9 घोरे गौर्याः 25 16 25 18 आस्ते सार्क इस्थ तिर्यग्जनमपि 12 चम्चौ बिभ्रद् इथं पुण्या 12 23 चित्रं इन्द्रो 2 'जज्वालान्तर्विस 15 जाने चित्तं 3 तत्तारुण्यं 2 । तत्प्राणा 7 19 18 ईषन्मात्रोऽप्यलस उद्धर्तुं मः उपद्राम एकोऽप्यासीत् से जामातरि पठाश्लेष म्यां विन्द्वि चिद् 6 तद्भूमानं 17 6 8 ००० 22 तन्मे चित्तं 16 तन्वी भर्तुः 4 तो विश्विष्टा । तालाटण्यामिह 21 17 20 २८ पुटम् श्लोकः पुटम् | श्लोकः 24 14 यस्यां जित्वा 24 22 8 । 16 20 10 तासां वाक्यैः त्यस्वा चित्तं दावाग्निं यः दृष्ट दृष्टे धन्यासि त्वं धन्यास्तेऽन्ये निक्षिप्याङ्के निश्चित्यान्तः नैनं लक्ष्मीः पत्नी यस्याः पश्चादूचे पादावेतौ प्रतिना पादावेतौ सख पुष्पैरेभिः पूर्ण भाग्य प्राप्ताश्वासा यहाँ दृष्टी बाले! ब्रह्मा भूत्वा मूत्वा पूर्व 19 या प्रासादैः 19 रामादेशादिह 3 रामो भूत्वा 11 रासक्रीडामकुरुत 15 रासक्रीडामिह 8 लक्ष्म्यावासा 4 वंशीनादेस्तव 9वामाङ्गी सा 8 विद्युदल्ली 14 वृन्दारण्ये वैदग्धीनां 2 रूप्यं 4 व्यत्यस्ताति शाखाबाहान 16 । श्यामच्छाया 17 13. संसारेऽस्मिन् 12 15 4 2 4 23 2 10 10 lo 18 श्रुत्वा नादं ० 6. सङ्गस्त्यक्तः 20 7 14 भूत्वा योऽग्रे सद्यः पवं 2 भूयो भूयः सम्यक त्वष्टा सल्लापार्थ सा प्रत्यूचे 3 25 12 8 6 22 मिक्ता स्वदः 12 सिद्धविद्याधर 3 25 7 15 11 मञ्जीरोत्थं मन्दाकिन्यां मा ताम्य त्वं मा त्वं भृङ्ग! माध्वीर मा मा सिञ्च मायावत्या मा विश्लेषोऽस्त्विति मा व्यामुद्य मुग्धामेनां म्लेच्छाधीशस्विह 18 । 3 सोऽयं कृष्णः सखि 9 सोऽयं कृष्णः सहज 231 3 स्फूर्जद्वेणु 13 13 हा काळिन्दि! हासालापप्रणय कान्त सस्तो बन्धाद् 18 4 5 23 25
No text on this page.
IN THE PRESS 1. 1. Bhojanakatūhala (Dietitics) of Raghunatha Part H. 2. Sarasvatikanthábharana (Grammar) of Bhoja with the coramantary Hidayaharini of Danđanātha Narayana Part V. 3. Tripuradahana (Kavya1 of Vasabhattativi with the commentary of Pankajākşa. 4. Sitārāghave (Năţuka) of Ramapāņivada. 5. Harşacarita with the commentary Marmavabſodhini by Ranganatha 6. Aryabhatiya (Jyotiņa) with the commentary of Gargya. kerala Nilskaņthaomasntvan. 7. Horāśāstra (Jyotiça) with the commentary (2nd edition) 8. Bhram'ırakihali (Nataka) of Prallakara READY FOR THE PRESS --- 1. Astāngahrdaya with the commentary Hrdayabodhika of Śrīdāsapandita Part III. 2. Tantrasamuccaya (Tantra) by Nārāyana with the commentaries Vimarsini and Vivarana Part II]. 3. Púrvabhāratacampu (Tävya) of mănavece with the commentary by Trşņa. 4. Tantrasañgraha (Jyotişa) of Nilakantha with cong mentary. 5. Aitareya Aranyaka (Veda) with the commentary Mokşapradā of Sadgurusisya. 6. Karaņottama (Jyotiņa) of Acyuta with cmneptary. UNDER PREPARATION 1. Aitareyabrāhmaṇa(Veda) Part IV with the commentary Sukhaprada of Sadgurušişya 2. Kalašucandrika (Tantra),
No text on this page.