Sri Kuppuswami Sastri Research Institute, Chennai
Krxshhnd-ayajuvaidiiya Taittiriiyasan'hitaa Trxtiiyo Bhaaga
Front matter
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलि
ग्रन्थाः १२
पदपाठयुता
कृष्णयजुर्वेदीयतैत्तिरीयसंहिता ।
श्रीमत्सायणाचार्यविरचितभाष्यसमेता।
( तत्र प्रथमकाण्डगतसप्तमप्रपाठकान्तर्गतदशमानुवाकमारभ्य
प्रथमकाण्डसमाप्तिपर्यन्तस्तृतीयो भागः (३))
एतत्पुस्तकम्
4. शा. रा. रा. “काशीनाथ शास्त्री आगाशे" इत्येतैः
संशोधितम् ।
हरि नारायण आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।
शालिवाहनशकाब्दाः १८२३
ख्रिस्ताब्दाः १९०१
(अम्ब सर्वेऽधिकारा रानशासनानुसारेण स्वायत्तीकृताः)
मुल्यं पादोनरूपकत्रयम् २०१२ ।
No text on this page.
१०५६५ प्रपा०७अनु०१०] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । ( वाजपेयोपयुक्तानहोमाभिधानम् ) ( अथ प्रथमाटके सप्तमप्रपाठ के दशमोऽनुनाकः ।) वार्जस्येमं प्रसवः मुंपवे अग्रे सोम राजा- नमोषधीष्वप्सु । ता अस्मभ्यं मधुमतीर्भवन्तु वय राष्ट्र जांग्रियाम पुरोहिताः । वास्येदं प्रसव आ बभूवेमा च विश्वा भुवनानि सर्वतः। स विराजं पति प्रजानन्प्रजां पुष्टिं वर्धय- मानो अस्मे । वाजस्येमां प्रसवः शिश्रिये दिवमिमा च विश्वा भुवनानि सम्राट् । अदि- सन्तं दापयतु प्रजानन्रयिम् ( १ ) च नः सर्ववीरां नि यच्छतु । अग्ने अच्छा वदेह नः प्रति नः सुमना भव । प्र णौ यच्छ भुवस्पते धनदा असि नस्त्वम् । प्र णो यच्छत्वर्यमा प्र अगः प्र बृहस्पतिः। प्र देवाः प्रोत सूनृता प्र वाग्देवी ददातु नः । अर्यमणं बृहस्पति- मिन्द्रं दानाय चोदय । वाचं विष्णु सरस्व- ती सवितारम् (२) च वाजिनम् । सोम राजानं वरुणमग्निमन्वारंभामहे । आदित्या- विष्णु५ मूर्य ब्रह्माणं च बृहस्पतिम् । देवस्य॑ त्वा सवितुः प्रसर्वेऽश्विनो हुभ्यां पूष्णो हस्ताभ्या सरस्वत्यै वाचा यन्तुर्य- श्रीमत्सायणाचार्यविरचितभाष्यसमेंता- [१प्रथमकाण्डे- ( वाजपेयोपयुक्तानहोमाभिधानम् ) न्त्रेणानेस्त्वा साम्राज्येनाभि पिञ्चामीन्द्रस्य बृहस्पतस्त्वा माम्राज्येनाभि पिञ्चामि (३) । ( रथि५ सवितार पत्रि५ शच्च । ) इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके सप्तमप्रपाठके दशमोऽनुवाकः ॥ १० ॥ ( अथ प्रथमाटके सप्तमप्रपाटके दशमोऽनुवाकः । ) वाज॑स्य । इमम् । प्रसव इति प्र–सवः । सुषुवे । अग्रे। सोमम् । राजानम् । ओपंधीषु । अप्स्वियं- प्-सु । ताः । अस्मभ्यमित्यस्म-भ्यम् । मधुमती- रिति मधु-मतीः । भवन्तु । वयम्। राष्ट्रे । जाग्रि- याम । पुरोहिता इति पुरः-हिताः । वार्जस्य । इदम् । प्रमव इति प्र–सवः । एति । बभूव । इमा। च । विश्वा । भुवनानि । सर्वतः । सः । विराज- मिति वि-राजम् । परीति । एति । प्रजाननिति प्र-जानन् । प्रजामिति प्र—जाम् । पुष्टिम् । वर्षय- मानः । अस्मे इति । वाजस्य । इमाम् । प्रमव इति प्र–सवः । शिश्रिये । दिवम् । इमा । च । विश्वा । भुवनानि । सम्राडिति सम्राट् । अदि- सन्तम् । दापयतु । प्रजाननिति प्र--जानन् ।
प्रपा०७अनु.१०J कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
१०६.
( वाजपेयोपयुक्तानहोमाभिधानम् )
रयिम् (१)। च । नः । संवैवीरामिति सर्व-
वीराम् । नीति । यच्छतु । अग्ने । अच्छे । वद ।
इह । नः । प्रतीति । नः । सुमना इति सु–मनाः ।
भव । प्रेति । नः । यच्छ । भुवः । पते । धनदा
इति धन-दाः । असि । नः । त्वम् । प्रति। नः ।
यच्छतु । अयमा । प्रेति । अगः । प्रेति। बृहस्पतिः।
प्रति । देवाः । प्रेत । उत । सूनृतः । प्रेत । वाक् ।
देवी । ददातु । नः । अर्यमणम् । बृहस्पतिम् ।
इन्द्रम् । दानाय । चोदय । वाचम् । विष्णुम् ।
सरस्वतीम् । सवितारम् (२)। च । वाजिनम् ।
सोमम् । राजानम् । वरुणम् । अग्निम् । अन्वार-
भामह इत्यनु-आरंभामहे । आदित्यान् । विष्र्णम् ।
सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम् । देवस्य ।
खा। सवितः । प्रमव इति प्र—मवे । अश्विनीः ।
बाहुभ्यामिति बाहु–भ्याम् । पूष्णः । हस्ताभ्याम् ।
सरस्वत्यै । वाचः । यन्तुः । यन्त्रेण । अग्नेः। खा।
साम्राज्येनेति साम्राज्येन। अभीति । मिञ्चामि ।
इन्द्रस्य । बृहस्पतः । त्वा । साम्राज्येनेति साम्
राज्येन । अभीति । मिञ्चामि (३)॥
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितापदपाठे प्रथमा-
टके सप्तमप्रपाठ के दशमोऽनुवाकः ॥ १० ॥
२०६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [१प्रथमकाण्डे- वाजपेयोपयुक्तानहोमाभिधानम् ) (अथ प्रथमकाण्डे सप्तमप्रपाठके दशमोऽनुवाकः । ) - नवमे यूपारोहणमुक्तं दशमेऽन्नहोमा उच्यन्ते । कल्प: " अथास्येतत्पुरस्तादोदुम्बरे द्रोणे सर्वोषधमाज्येन समुदायुतं भवति तस्योदुम्बरेण सुवेणोपघातं सप्तानहोमा होति वाजस्येमं प्रसवः सुषु- वे अग्रे सोममिति " इति । तत्रेयमृक्प्रथमा- वाजस्येमं प्रसवः सुषुवे अग्रे सोम राजान- मोषधीष्वप्सु । ता अस्मभ्यं मधुमतीभवन्तु वय राष्ट्रे जाग्रियाम पुरोहिताः ।, इति । वाजस्यान्नस्योत्पादकः परमेश्वर ओषधीप्वप्सु च सारभूतमिमं सोमं वल्लीरूपं राजानं दीप्तिमन्तं पदार्थमग्रे सृष्ट्यादौ सुपुत्र उत्पादयामास । तावी- पधय आपश्चास्मदर्थ-मधुमतीर्माधुर्योपेता भवन्तु । वयमप्यस्मित्राष्ट्रे पुरोहिता यागानुष्ठानादौ पुरोगामिनो जाग्रियाम जागरूका भूयास्म ।। अथ द्वितीया- वाजस्येदं प्रसव आ बभूवेमा च विश्वा भुव- नानि सर्वतः । स विराज पर्येति प्रजान- प्रजां पुष्टिं वर्धयमानो अस्मे ।, इति । वाजस्य प्रसवः परमेश्वर इदमनुष्ठीयमानं कर्माऽऽवभूव भावितवानुत्पादि- तवान् । इमानि सर्वाणि भुवनानि सर्वत उत्पादितवान् । स परमेश्वरोऽस्मे अस्मदर्थ प्रजा पुष्टिं च वर्धयमानः प्रजाननस्पदभिप्रायं प्रकर्षण जानानो विराज हूयमानमन्नं पर्येति सर्वतः पामोतु । अन्नं वै विराडिति श्रुतिः ।। अथतृतीया- वाजस्येमां प्रसवः शिश्रिये दिवमिमा च विश्वा भुवनानि सम्राट् । अदि. सन्तं दापयतु प्रजाननायिं च नः सर्ववीरां नि यच्छतु ।, इति । वानस्य प्रसव ईश्वर इमां दिवमिमानि चान्यानि सर्वाणि भुवनानि - प्रपा०७अनु० १०] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । ( वाजपेयोपयुक्तानहोमाभिधानम् ) शिश्रिय आश्रितवान् । सर्वेषां च भुवनानां राजा भूत्वाऽदित्सन्तं हवितु. मनिच्छन्तं मां प्रजानन्मदीयबुद्धिप्रेरणेन हविर्दापय तु । ततो नोऽस्मभ्यं सर्व- चीगं पुत्रभृत्यादयः सर्वे वीरा यस्याः सा सर्ववीरा तादृशीं रयिं धनं च नियच्छतु नियमेन ददातु ॥ अथ चतुर्थी- अग्ने अच्छा वदेह नः प्रति नः सुमना भव । प्र णो यच्छ भुव- स्पते धनदा असि नस्त्वम् ।, इति । हेऽग्न इहास्मिन्कर्मणि नोऽस्माकमच्छाऽऽभिमुख्येन वद हितं कथय । नोऽस्मान्प्रति सुमनाः करुणाचित्तो भव । हे भुवस्पते भूमिपते नोऽस्मभ्यं प्रकर्षेण यच्छ धनं देहि । यस्मात्त्वमस्मत्स्वामी सन्नोऽस्मभ्यं धनदा असि ॥ अथ पञ्चमी- प्र णो यच्छत्वर्यमा प्र अगः प्र बृह- स्पतिः । प्र देवाः प्रोत मूनृता प्र वाग्देवी ददातु नः।, इति । पइभिः प्रशब्दैः प्रयच्छत्विति प्रददात्वित्यन्वये सत्येतानि षवाक्यानि भवन्ति । अर्थमभगबृहस्पतयो देवेपत्तमत्वाद्विपपरिव्राजकन्यायेन पृथनिर्दि- श्यन्ते । तेभ्योऽन्ये त्वत्र देवशब्देनोच्यन्ते । ते सर्वे नोऽस्मभ्यं धनं प्रयच्छन्तु। उतापि च सूनृता प्रियवागभिमानिनी देवता या चान्यवाङ्मात्राभिमानिनी देवता ते उभे धनं प्रयच्छताम् ।। अथ षष्ठी- अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । वाचं विष्णु सरस्वती सवितारं च वाजिनम् ।, इति । हे ईश्वर पुनरस्मभ्यं दातुं धनस्य दानायार्यमादींश्रोदय प्रेरय । वाक्स- रस्वत्योः पूर्वोक्तसन्तावाचीरिव भेदो द्रष्टव्यः । वाजिनमनाधिपतिम् ।। अथ सप्तमी- सोम राजानं वरुणमग्निमन्वारनामहे । आदि- त्यान्विष्णु मूर्य ब्रह्माणं च बृहस्पतिम् । इति । - १०६४ श्रीमत्सायणाचार्यविरचितभाप्यसमेता-- [१प्रथमकाण्डे- ( वाजपेयोपयुक्तानहोमाभिधानम् ) वयं सोमराजादीन्प्रथमतः कारम्भकाननुसृत्य पश्चादारभामहेऽतस्ते सर्वेs. नगृह्णन्तु ॥ - " विधत्ते- समानहोमा होति । सप्त वा अन्नानि । यावन्त्येवान्नानि । तान्ये. चावरुन्ध । सप्त ग्राम्या ओषधयः । सप्ताऽऽरण्याः । उभयीपामवरुद्धयै । [ ब्रा० का० ? प्र० ३ अ० ८ ] इति । अन्नहतूनामोपधीनां सप्तत्वात्तत्कार्याणामन्नानामपि सप्तत्वम् । ओषधीनां सप्तत्वमापस्तम्बोऽग्निचयने दर्शयति-" तिलमापत्रीहियवाः प्रियङ्ग्वणवो गांधूमा,बेशुः श्यामाका नीवारा जतिलाश्च गवीधुका अरण्यजा मार्कटका विज्ञेया गामुतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः कृष्टे सप्ताऽऽरण्या अऋष्ट" इति ॥ एकैकस्यान्नस्य पृथगेव होमं विधत्ते- अन्नस्यान्नम्य जुहोति । अन्नस्यान्नस्यावरुद्ध्य । [ब्रा० का? प्र० ३ अ० ८ ] इति । इमं पक्षमापस्तम्बो दर्शयति-" वाजप्रसवीयं जुहोति सप्त ग्राम्या ओप- धयः मप्ताऽऽरण्याः पृथगन्नानि द्रवीकृत्यादुम्बरेण वेण वाजस्यमं प्रसवः सुपुत्र इति ग्राम्याणि हुत्वाऽऽरण्यानि जुहोति " इति । इदानी बौधायनाभिमतं सर्वाण्यकीकृत्य होम विधत्त- " यद्वाजपेययाज्यनवद्धस्याश्नीयात् ( १ ) । अवरुद्धेन व्युध्येत । सर्वस्य समवदाय जुहोति । अनवरुद्ध स्यावरुद्ध्यै ।" [ब्रा० का० १ प्र० ३ अ० ] इति। होमकाले यदन्नमवरुद्धं स्वीकृतं तदुपेक्ष्य यदस्वीकृतं वाजपेययाजी काला- न्तरेऽश्नीयात् । तदानीमुपेक्षितेन यागकालीनेनान्नेनासो विमुक्तो भवेत् । अतः सर्वपकीकृत्य होमे सर्वस्यापि यागकाले स्वीकृतत्वेन दोपापादकमस्वीकृतं किंचिन्न भवेत् । अतोऽस्वीकृतस्य सर्वस्यापि यागकाले स्वीकाराय मिलित्वा होम इत्यर्थः ।। होम साधनविशेषं विधत्ते- औदुम्बरेण सुवेण जुहोति । उग्र्वा अन्नमुदुम्बरः । उर्ज एवान्नाद्यस्याव. रुद्ध्यै ।" [ब्रा० का० प्र० ३ अ०८] इति । १ क. घ. ड. च. कारोऽयं मि ।
.. कल्प: प्रपा ०७अनु.१० .] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता। ( वाजपेयोपयुक्तानहोमाभिधानम् ) उगा अन्नं वलपदमेवान्नमत एव देशविशेषे वयते ॥ देवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पृष्णो हस्ताभ्या५ सरस्वत्यै वाचो यन्तुर्यन्त्रे- णानेस्त्वा साम्राज्येनाभि पिञ्चामन्द्रिस्य बृहस्पतेस्त्वा साम्राज्येनाभि पिञ्चामि ॥ अथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तु णाति तद्य जमानं पाश्चमुपवेश्य सुवर्णरजताभ्यां रुक्माभ्यां पर्युपास्य पुरस्ता- प्रत्यञ्चमभिषिञ्चति शीर्पतोऽभिषिभत्यामुखादन्ववस्रावयति देवस्य' त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूष्णो हस्ताभ्या५ सरस्वत्यै वाचो यन्तुर्यवे. णाग्नेस्त्वा साम्राज्येनाभिपिश्चामीन्द्रस्य त्वा बृहस्पतेस्त्वा साम्राज्येनाभिषि. ञ्चामीति" इति । अत्रेन्द्रस्येत्यस्मिन्मध्यममत्रेऽनुपङ्गसूचनायानाम्नातोऽपि त्वाशब्दः सूत्रका- रेण पठितः । देवस्य त्वेत्यादिप्रख्यातः । या सरस्वती वाग्विशेषदेवता या च वाक्शब्दाभिहिता वाक्सामान्यदेवता यशान्तर्यामी यन्त शब्दवाच्यो योऽप्य- ग्निस्तनःप्रदस्तेषां यत्रेण नियमनेनानुज्ञया साम्राज्यनिमित्तं त्वामभिषिञ्चामि । इन्द्रस्येत्येतावानेवाऽऽम्नातो द्वितीयो मत्रः । स च पूर्वोत्तरभागयोरनुपङ्गेण व्याख्यातव्यः । बृहस्पतरित्यादी तृतीयपत्र पूर्वभागोऽनुपञ्जनीयः ।। देवस्य वेत्येतस्मिन्मत्रभागे प्रसवपदाभिप्रायमाह- " देवस्य त्वा मविनः प्रमव इत्याह । सवितृप्रसन एवैनं ब्रह्मणा देवता- भिरभिषिञ्चति । " [ ब्रा० का० १ प्र० ३ ० ८ ] इति । ब्रह्मणा मन्त्रेण प्रतिपाद्याभिरिति शेपः ।। सर्वोपधिरसमभिषेकद्रव्यत्वेन विधत्ते- " अन्नस्यान्नम्यामिपिञ्चति । अन्नस्यान्नस्यावरूद्ध्यै (२)।" [ब्रा० का० १ ० ३ अ० ८ ] इति ।। प्रकारविशंपं विधत्त- पुरस्तात्प्रत्यश्चमभिषिचनि । पुरस्ताद्धि प्रतीचीनमन्नमद्यते । शीर्षतोऽ. भिषिञ्चति । शीपतो ह्यन्नमद्यने । [ब्रा० का० १ प्र० ३ ० ८ ] इति । आसपुटाघातविषयवाक्यवद्याख्येयम् ।। " श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [१प्रथमकाण्डे- ( वाजपेयोपयुक्तानहोमाभिधानम् ) गुणान्तरं विधत्ते- आमुखादन्ववस्रावयति । मुखत एवास्मा अन्नाद्यं दधाति ।" [ब्रा० का० १ प्र० ३ अ०८] इति । शिरस आरभ्याऽऽनुलोम्येन मुखपर्यन्तमेवावस्रावयेन त्वधः । मवेष्वनीन्द्रबृहस्पतिशब्दतात्पर्य व्याचष्टे- " अग्नेस्त्वा साम्राज्येनाभिषिञ्चामीत्याह । एप वा अग्नेः सवः । तेनैवैन- मभिपिञ्चति । इन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामीत्याह (३)। इन्द्रियमेवा- स्मिन्नतेन दधाति । वृहस्पतेस्त्वा साम्राज्येनाभिपिञ्चामीत्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणवैनमभिपिश्चति । ' [ ब्रा० का० १ ० ३ अ० ८] इति । एप ओपधिरसोऽग्नेः सवोऽग्निना प्रेरितः । अतोऽग्निशब्दमुच्चारयन्नग्निसंब- न्धेन तेनैव रसेनाभिषिञ्चति । एष वा इन्द्रस्य सवो वृहस्पतेः सव इत्यनु- संधेयम् ॥ विधत्ते- " सोमबहा५श्वावदानीयानि चविग्भ्य उपहरन्ति । अमुमेव तैर्लोकमन्न- वन्तं करोति । सुराग्रहार थानवदानीयानि च वाजमृद्भ्यः । इममेव तेर्लोक- मन्नवन्तं करोति । अथो उभयीवेवाभिषिच्यते ।" [ ब्रा० का० १ १०३ अ० ८ ] इति । पशोर्यान्यवदानीयानि हृदयादीनि हृदयस्याग्रेऽवद्यतीत्यादिश्रुतेः, तानी. डायामवत्तानि सोमग्रहांश्चत्विग्भ्यः प्रयच्छेत् । शिरआदीन्यनवदानीयानि न शीर्णोऽवद्यति नांसयोरित्यादिश्रुतेः, तानि सुराग्रहांश्च वाजमृद्भ्यो रथान्तरैः पोडशभिराजिधावनं कृतवद्भ्यो वैश्येभ्यः प्रयच्छेत् । एवं सत्युभयीपु दैवीपु मानुपीपु च प्रजास्वयमभिपिक्तो भवति । विधत्ते-- विमाथं कुर्वते वाजस्तः ( ४ ) । इन्द्रियस्यावरुद्ध्यै । " [ ब्रा० का० १ प्र० ३ अ० ८ ] इति । विशेपेण मथनमालाडनं कलहो विमाथः । पानवश्यनटनायाभिनयं विमाथं कुर्युः ॥ सवनत्रये स्तोत्रेषु ऋग्विशेषं विधत्ते- " अनिरुक्ताभिः प्रातःसवने स्तुवते । अनिरुक्तः प्रजापतिः । प्रजापते. राप्त्यै । वाजवतीभिर्माध्यंदिने । अन्नं वै वाजः । अन्नमेवावरुन्धे । शिपिवि.
• प्रपा०७अनु० ११] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । १०६७ ( वाजपेयविषयोज्जितिमन्त्राभिधानम् ) 'ष्टवतीभिस्तृतीयसवने । यज्ञो वै विष्णुः । पशवः शिपिः । यज्ञ एव पशुषु प्रतितिष्ठति" [ब्रा० का० १ प्र० ३ अ० ८ ] इति । अनिरुक्ताभिरव्यक्तदेवताकाभिग्भिः । साकल्येन तन्महिम्नो वक्तुमश- क्यत्वात्प्रजापतिरनिरुक्तः। वाजशब्दोपेता ऋचो वाजवत्यः, शिपिविष्टशब्दो. : पेताश्चर्चः शिपिविष्टवत्यस्ताः सर्वाः सामवेदे द्रष्टव्याः । विष्टशब्दो विष्णु- पर्यायः सन्नत्र फलव्यापिनं यज्ञमाचष्टे, शिपिशब्दः पशुवाची, अतः शिपि- विष्टवतीभिरिभर्यज्ञे पशुषु च प्रतितिष्ठत्येव ॥ सामविशेष विधत्ते-- "बृहदन्त्यं भवति । अन्तमेवैन श्रियै गमयति (५)।"[ब्रा० का० १ म० ३ अ०८] इति । अन्तिमस्य स्तोत्रस्य यदन्त्यं साम तदबृहद्गायेत् । तेन गानेनैनं यजमानं श्रियै संपत्सिद्धये यज्ञस्यान्तं समाप्ति प्रापितवान्भवति ।। अत्र विनियोगसंग्रहः- " वाजसप्तभिरन्नस्य होमो देवयजुस्यात् । अभिषिञ्चेत्स्वामिनं तं दश मत्रा इहादिताः ॥ १॥" इति ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय- तैत्तिरीयसंहितामाप्ये प्रथमकाण्डे सप्तमप्रपाठके दशमोऽनुवाकः ॥ १० ॥ (अथ प्रथमाटके राप्तमप्रपाठक एकादशोऽनुवाकः । ) अग्निरेकाक्षरेण वाचमुदजयदश्विनौ द्यक्ष- रण प्राणापानाबुदजयता विष्णुरुयक्षरेण वा- लोकानुजयत्सोमश्चतुरक्षरेण चतुष्पदः पशू- नुदजयत्पूषा पञ्चाक्षरेण पङ्क्तिमुदजयदाता षडक्षरण पट्टतनुदेजयन्मरुतः सप्ताक्षरेण सप्त- पंदार शक्करीमुदजयन्बृहस्पतिरष्टाक्षरेण गाय- १०६८ श्रीमत्सायणाचार्यविरचितभाप्यसमेता- [१प्रथमकाण्डे- ( वाजपेयविषयोज्जितिमन्त्राभिधानम् ) त्रीमुदजयन्मित्रो नवाक्षरेण त्रिवृत५ स्तोम- मुदजयत् (१) वरुणो दाक्षरेण विराजमु- दजयदिन्द्र एकादशाक्षरेण त्रिष्टुभमुदजयदिश्वे देवा द्वादशाक्षरेण जगतीमुदजयन्वसंवसयो- दशाक्षरेण त्रयोदशः स्तोममुदजयन्रुद्राश्चतु- दशाक्षरेण चतुर्दश५ स्तोममुदजयनादित्याः पञ्चदशाक्षरेण पञ्चदश स्तोममुदजयन्नदितिः पोर्डशाक्षरेण षोडश स्तोममुदजयत्प्रजापतिः सप्तर्दशाक्षरेण सप्तदश स्तोममुद्जयत् (२)॥ ( त्रिवृत स्तोममुदं जगत्पटचत्वारि५ शञ्च । ) इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके सप्तमप्रपाठक एकादशोऽनुवाकः ॥ ११ ॥ (अथ प्रथमाटके सप्तमप्रपाठक एकादशोऽनुवाकः । ) आनः । एकांक्षरेणेत्येकं-अक्षरण । वाचंम् । उदिति । अजयत् । अश्विन । यक्षरेणेति द्वि- अक्षरण । प्राणापानावित प्राण-अपानौ । उदिति । अजयताम् । विष्णुः । व्यक्षरेणेति त्रि-अक्षरेण । त्रीन् । लोकान् । उदिति । अजयत् । सोमः । चतु- रक्षरेणेति चतुः-अक्षरेण । चतुष्पद इति चतुः- १०६९ - प्रपा ०७अनु०११] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । ( वाजपेयविषयोज्जितिमन्त्राभिधानम् ) पदः । पशुन् । उदिति । अजयन् । पूषा । पञ्चा- क्षरेणेति पञ्च-अक्षरेण । पङ्क्तिम् । उदिति । अज- यत् । धाता । षडक्षरेणेति षट्-अक्षरेण । षट् । ऋतून् । उदिति । अजयत् । मरुतः । सप्ताक्षरेणेति सप्त-अक्षरेण । सप्तपदामिति सप्त—पदाम् । शक्वं. रीम् । उदिति । अजयन् । बृहस्पतिः । अष्टाक्षरे- णेत्यष्टा–अक्षरेण । गायत्रीम् । उदिति । अजयन् । मित्रः । नाक्षरेणेति न-अक्षरेण । त्रितमिति त्रि-वृतम् । स्तोमम् । उदिति। अजयत् (१)। वरुणः । दशाक्षरेणेति दर्श-अक्षरेण । विराजमिति वि-राजम् । उदिति । अजयत् । इन्द्रः । एकाद- शाक्षरेणेत्येकादश-अक्षरेण । त्रिष्टुभम् । उदिति । अजयत् । विश्व । देवाः । द्वादशाक्षरणेति द्वादेश- अक्षरेण । जगतीम् । उदिति । अजयन् । वसवः । त्रयोदशाक्षरेणेति त्रयोदश-अक्षरेण । त्रयोदशमिति त्रयः-दशम् । स्तोमम् । उदिति । अजयन् । रुद्राः। चतुर्दशाक्षरेणेति चतुर्दश--अक्षरेण । चतुर्दशमिति चतुः-दशम् । स्तामम् । उदिति । अजयन् । आदित्याः । पञ्चदशाक्षरेणेति पञ्चदश-अक्षरेण । पञ्चदशमिति पञ्च-दशम् । स्तोमम् । उदिति । -- १०७० श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [१प्रथमकाण्डे - ( वाजपेयविषयोज्जितिमन्त्राभिधानम् ) अजयन् । अदितिः । षोडशाक्षरेणेति षोडश-अक्ष- रेण । षोडशम् । स्तोमम् । उदिति । अजयत् । प्रजापतिरिति प्रजापतिः । सप्तदशाक्षरेणेति सप्त- देश–अक्षरेण । सप्तदशमिति सप्त-दशम् । स्तोमम्। उदिति । अजयत् (२)॥ इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितापदपाठे प्रथमाष्टके सप्तमप्रपाठक एकादशोऽनुवाकः ॥ ११ ॥ ( अथ प्रथमकाण्डे सप्तमप्रपाठक एकादशोऽनुवाकः । ) दशमेऽन्नहोम उक्तः । एकादश उजितिमत्रा उच्यन्ते । कल्प:-" अथ यजमानमन्वास्थायोजितीर्वाचयत्यग्निरेकाक्षरेण वाचमुद- जयदिति सप्तदश" इति । पाठस्तु- अग्निरेकाक्षरेण वाचमुदजयदश्विनौ यक्षरेण प्राणापानाबुदजयतां विष्णुरुयक्षरेण त्रील्लोका- नुदजयत्सोमश्चतुरक्षरेण चतुप्पदः पशृनुदजय- त्पूषा पञ्चाक्षरेण पङ्क्तिमुदजयद्वाता षडक्षरेण षडतूनुदजयन्मरुतः सप्ताक्षरेण सप्तपदा शक्क- रीमुदजयन्बृहस्पतिरष्टाक्षरेण गायत्रीमुदजय- मित्रो नवाक्षरेण त्रिवृतर स्तोममुदजयह- रुणो दशाक्षरेण विराजमुदजयदिन्द्र एकाद- शाक्षरेण त्रिष्टुभमुदजयविश्वे देवा द्वादशाक्षरेण जगतीमुदजयन्वसवस्त्रयोदशाक्षरेण त्रयांदा स्तोममुदजयन्रुद्राश्चतुर्दशाक्षरेण चतुर्दश स्तोममुदजयन्नादित्याः पञ्चदशाक्षरेण पञ्चदश प्रपा०७अनु०१२] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता। १०७१. : ( वाजपेयोपयुक्तातिप्रायमन्त्राभिधानम् ) स्तोममुदजयन्नदितिः षोडशाक्षरेण षोड. श५ स्तोममुदजयत्प्रजापतिः सप्तदशाक्ष- रेण सप्तदश स्तोममुदजयत् ॥, इति ।। आश्रावयेत्यादिके सप्तदशाक्षरे मत्रसंघ एकैकाक्षरवृद्धया तत्तन्मत्रं पठि- त्वा तत्सामर्थ्यादग्न्यादयो वागादीनुदजयन् । अथ वा विध्यन्तर एकाक्षरो मंत्रशास्त्रप्रसिद्ध्या वांगमिवीजं तेनेकाक्षरण मत्रेणाग्ने गुज्जयः । यक्षरेणाज- पामत्रेण प्राणापानात्मकेनाश्विनोः प्राणापानोज्जयः। एवमन्येऽपि यक्षरादि- मत्रा यथायोगमुन्नेयाः । मत्राक्षरसंख्यानुमारेण लोकत्रयादिजयो विज्ञेयः । त्रिकृत्स्तोमगतानामृचां नवसंख्योपेतन्वात्तजयो द्रष्टव्यः । त्रयोदशस्तोमादा- वपि तिमृणामृचामावृत्तिविशेषण तत्तत्संख्या द्रष्टव्या । एतदुन्जितिविधिस्तु ता वा एता उजितयो व्याख्यायन्त इत्येतादृशः पूर्वमेवास्माभिर्व्याख्यातः सोऽयमत्रोत्कर्पणीयः॥ अत्र विनियोगसंग्रहः- " अग्निः सप्तदशाऽऽनाता उज्जितीर्वाचयेदमः । यजमानं रथेप्चेषु धावत्स्वध्वर्युरादरात् ॥ १ ॥" [इति ॥] इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे. दीयतेत्तिरीयसंहितामाप्य प्रथमकाण्ड सप्तमप्रपाठक एकादशाऽनुवाकः ॥ ११ ॥ (अथ प्रथमाष्टके सप्तमप्रपाटके द्वादशोऽनुवाकः ।) उपयामगृहीतोऽसि नृपदं त्वा द्रुपदं भुव- नसदामिन्द्राय जुष्टं गृह्णाम्येष ते योनिरि- न्द्राय खोपयामगृहीतोऽस्यप्सुषदै वा घृत- सद व्योमसदमिन्द्राय जुष्टं गृह्णाम्येष ते योनि- रिन्द्रीय त्वोपयामगृहीतोऽसि पृथिविषद वाऽ- १ ख. मन्त्रः शा। २ क. .ह. वाऽग्नि' । २ क. घ. 3. च.तिशे । THE KUPPUSWA SASTRI RESEARCH :TITUTE श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [१प्रथमकाण्डे- ( वाजपेयोपयुक्तातिप्राधमत्राभिधानम् ) न्तरिक्षमद नाकसदमिन्द्राय जुष्टं गृह्णाम्येष ते योनिरिन्द्राय ला । ये ग्रहाः पञ्चजनीना येषां तिस्रः परमजाः । देव्यः कोशः (१) समब्जितः। तेषां विशिप्रियाणामिषमूर्ज५ सम- ग्रभीमेष ते योनिरिन्द्राय त्वा । अपाय रस- मुयम सूर्यरश्मि समाभृतम् । अपा सस्य यो रसस्तं वो गृह्णाम्यत्तममेष ते योनिरिन्द्रीय त्वा। अया विष्ठा जनयन्कर्व- राणि स हि घृणिरुरुर्वराय गातुः । स प्रत्यु- देवरुणो मध्वो अग्र स्वायां यत्तनुवा तनूम- स्यत । उपयामगृहीतोऽसि प्रजापतये खा जुष्टं गृह्णाम्येष ते योनिः प्रजापतये त्वा (२)। ( कोशम्तनुवां त्रयोदश च ।) इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके सप्तमप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥ (अथ प्रथमाष्टके सप्तमप्रपाठक द्वादशोऽनुवाकः । ) उपयामगृहीत इत्युपयाम-गृहीतः । आस । नृषदमिति नृ-सदम् । त्वा । द्रुपदमिति द्रु-स- दम् । भुवनसदमिति भुवन–सदम् । इन्द्राय । जुष्टंम् ।
प्रपा०७भनु०१२] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । २०७३ ( वाजपेयोपयुक्तातिप्राह्यमन्त्राभिधानम् ) गृह्णामि । एषः । ते । योनिः । इन्द्राय । त्वा । कृपयामाहीत इत्युपयाम–गृहातः । आस । अप्सु. पदमित्य॑प्सु-सर्दम् । त्वा । घृतसमिति घृत-स- दम् । व्योमसदमित व्योम–सर्दम् । इन्द्राय । जुष्टम् । गृह्णामि । एषः । ते । योनिः। इन्द्राय । त्वा । उपयामगृहीत इत्युपयाम–गृहीतः । असि । पृथिविषदमिति पृथिवि-सर्दम् । त्वा । अन्तरिक्ष- सदमित्यन्तरिक्ष-सर्दम् । नाकसमिति नाक-स- दम् । इन्द्राय । जुष्टंम् । गृह्णामि । एषः । ते । योनिः । इन्द्राय । त्वा । ये। ग्रहाः । पञ्चजनीना इति पञ्च-जनीनाः। येषाम् । तिस्रः । परमजा इति परम-जाः । देव्यः । कोशः (१)। समुंब्जित इति सम्-उब्जितः । तेपाम् । विशिप्रियाणामिति वि-शिप्रियाणाम् । इषम् । ऊर्जम् । समिति । अग्रभीम् । एषः । ते । योनिः । इन्द्राय । ला । अपाम् । रसम् । उद्रयममित्युत् वयसम् । सूर्यर- श्मिमिति सूर्य-रश्मिम् । समातमिति सम्-आभु- तम् । अपाम् । रमस्य । यः । रमः। तम् । वः। गृह्णामि । उत्तममित्युत्तमम् । एपः । ते । योनिः । इन्द्राय । त्वा । अया। विष्ठा इति वि- १०७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [१प्रथमकाण्डे- ( वाजपेयोपयुक्तातिग्राह्यमन्त्राभिधानम् ) स्थाः । जनयंन् । कर्वराणि । सः। हि । घृणिः । उरुः । वराय । गातुः । सः । प्रति । उदिति । ऐन् । धरुणः । मध्वः । अग्रंम् । स्वार्याम् । यत् । तनु- वाम् । तनूम् । ऐरयत । उपयामगृहीत इत्युपया- म-गृहीतः । अमि । प्रजापतय इति प्रजा–पतये । खा । जुष्टंम् । गृह्णामि । एषः। ते । योनिः । प्रजापतय इति प्रजा-पतये । त्वा (२)॥ इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितापदपाठे प्रथमाष्टके सप्तमप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥ - ( अथ प्रथमकाण्डे सप्तमप्रपाठके द्वादशोऽनुवाकः । ) एकादश उजितिमत्रा उक्ताः । द्वादशेऽतिग्राह्यमत्रा उच्यन्ते । कल्पः- " आग्रयणं गृहीत्वा पन्द्रानतिग्राह्यान्गृह्णात्युपयामगृहीतोऽf नृपदं त्वा द्रुपदमित्येताभिः पञ्चभिः" इति । तत्र प्रथममत्रपाठस्तु--- उपयामगृहीतोऽसि नृषदं त्वा द्रुषदं भुवनसद- मिन्द्राय जुष्टं गृह्णाम्येष ते योनिरिन्द्राय वा इति । हे प्रथमातिग्राह्य त्वमुपयामेन पृथिव्यात्मकेन पात्रेण गृहीतोऽसि । इयं उपयाम इति पूर्वमुदाहृतम् । मनुष्येषु वनस्पतिषु भुवनेषु स्वामित्वेनावस्थि मिन्द्राय प्रियं त्वां गृह्णामि । एष खरप्रदेशस्ते स्थानं तस्मादिन्द्राय वार सादयामि । एष इत्यादिः सादनमत्रः ।। नृषदमित्यादिपदाभिप्रायमाह--- " नृपदं त्वेत्याह । प्रजा वै नन् । प्रजानामेवैतेन सूयते । द्रुपदमित्या प्रपा०७अनु. १२] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता। १०७५ ( वाजपेयोपयुक्तातिप्राह्यमन्त्राभिधानम् ) वनस्पतयो वै छ। वनस्पतीनामेवेतेन सूयते । भुवनसदमित्याह । यदा वै वसी- यान्भवति । भुवनमगन्निति वै तमाहुः । भुवनमेवेतेन गच्छति (१)।" । [ब्रा० का० १ प्र० ३ अ० ९ ] इति । नन्नरस्तेपु सीदतीति नृपत्तं नृपदम् । एतेन यजुष्पाठेन प्रजानां मध्ये मृयते स्वामित्वेनाभिषिच्यते । यदा लोके वसीयान्धनाढ्यो भवति तदा तं 'पुरुषं स्वामित्वेन कृत्स्नं भुवनमगन्प्राप्तवानिति जना आहुः ॥ अथ द्वितीयग्रहणमत्रः- उपयामगृहीतोऽस्यप्मुपदं त्वा घृत- सदं व्योमसदमिन्द्राय जुष्टं गृह्णा- म्येष ते योनिरिन्द्राय ला , इति । पूर्ववघ्याख्येयम् ॥ एतदेवाभिप्रेत्य तथैव व्याचष्टे- अप्मुपदं त्वा घृतसदमित्याह । अपामेवैतेन घृतस्य सूयते । व्योमस- दमित्याह । यदा वै वसीयान्भवति । व्योमागन्निति वै तमाहुः । व्योमैवतेन गच्छति ।" [ ब्रा० का० १ प्र० ३ अ० ९ ] इति । अस्वित्यादिपाठेन तत्स्वामित्वेनाभिषेकः । धनाढ्यस्य व्योमगामित्वं नाम गजाश्वारोहणम् ॥ अथ तृतीयग्रणमत्रः- उपयामगृहीतोऽमि पृथिविषदं खाऽ- न्तरिक्षमदं नाकसदमिन्द्राय जुष्टं गृह्णा- म्येष ते योनिरिन्द्राय वा। , इति । पूर्ववद्व्याचष्टे- "पृथिविषदं त्वाऽन्तरिक्षसदामित्याह । एपामेतेन लोकाना सूयने । तस्माद्वाजपेययाजी न कंचन प्रत्यवरोहनि । अपीव हि देवताना सूयते । नाकसदमित्याह । यदा वै वसीयान्भवनि । नाकमगनिनि व तमाहुः । नाक- मवेतेन गच्छति।" [ब्रा० का० १ प्र० ३ अ० ९] इति । तस्मादयं वाजपेययागेनाग्न्यादिदेवतानामपि मध्येऽभिषिक्त इव भवति । अग्नेस्त्वा साम्राज्येनाभिषिञ्चामीत्यादिमत्रेप्वग्न्यादीनां यत्तत्साम्राज्यं तेन - १०७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [१प्रथमकाण्डे- ( वाजपेयोपयुक्तातिग्राह्यमन्त्राभिधानम् ) निमित्तेनाभिषेकस्योक्तत्वान्न प्रत्यवरोहति । अपि तस्मादेवतानां मध्येऽपि. पिक्तत्वादेववदेव कमपि मनुष्यं प्रति गजादिवाहनान्नावरोहति नावरोहेदिति विधिः । अत एवाऽऽपस्तम्ब आह यावजी न कंचनं प्रत्यवरोहेबृह- स्पतिमवेन वा प्रत्यवरोहणीयेन यजेत" इति ।। अथ चतुर्थग्रहणमत्रः- ये ग्रहाः पञ्चजनीना येषां तिस्रः परमजाः । देव्यः कोशः समुब्जितः । तेषां विशिप्रियाणा- मिषमूर्ज५ समग्रभीमेष ते योनिरिन्द्राय त्वा।, इति । येऽल्ग्रिाह्यरूपा ग्रहाः पञ्चजनीनाः पञ्चजनेभ्यो देवमनुष्यासुररक्षोगन्ध- र्वेभ्यो निषादपश्चमेभ्यो वर्णेभ्यो वा हिताः । येषामतिग्राह्याणां तिस आने- येन्द्रसौर्याख्यातिग्राह्यरूपाः परमजाः प्रकृतयः । किं च येषां प्रभावेन दैव्यो दिवि भवः कोशो मेघः समुन्जितः सम्यन्युजीकृतो वर्षाभिमुखः कृत इत्यर्थः । विविधानि शिप्राणि हनुस्थानीयानि पात्राग्राणि तैरुपेता विशिप्रि- यास्तादृशानां तेपामतिग्राह्याणां पूरणायेपमन्नसदृशमूर्न बलप्रदं सोमरसं सम- अभी सम्यग्गृह्णामि ॥ पञ्चजनीनशब्दाभिप्रायं दर्शयति- ये ग्रहाः पञ्चजनीना इत्याह । पञ्चजनानामेवैतेन सूयते।" [ब्रा० का० १ प्र० ३ अ०९] इति । एतेन पत्रपाठेन निषादपञ्चमानां वर्णानां स्वामित्वेनाभिषिच्यते ॥ अथ पञ्चमग्रहणमत्र:- अपार रसमुदयस५ सूर्यरश्मि समा- भृतम् । अपार रसस्य यो रसस्तं वो गृह्णाम्युत्तममेष ते योनिरिन्द्राय त्वा ।इति । हेऽतिग्राह्या वो युष्माकं मध्य उत्तमं चरमं ग्रहं तं तथाविधं गृह्णामि । किं- विधम् । अपां रसम् । उदकस्यैव सोमरसत्वेन परिणामात् । उद्भूतं वयोऽनं जीवनं वा यस्य तमुद्वयसम् । सोमरसो ह्यन्नभूतो जीवनहेतुश्च । अपाम सोम- ममृता अभूमेत्युक्तत्वात् । सूर्य (यो?) रश्मिः परिपाकहेतुर्यस्य तं सूर्यरश्मिम् । वृष्टिक्लिन्ना ओषधय आतपेन पच्यन्तेऽन्यथा वृष्ट्याधिक्येन पूयेयुः । समाभृतं गायच्या धुलोकात्सम्यगानीतम् । किं चापां रसः सोमवल्लिरूपेण परिणतस्त- स्यापि यो रसः सारस्तादृशमुदकरसम् ।।
प्रपा०७अनु०१३] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता। '१०७७ ( काम्ययाज्यापुरोनुवाक्याभिधानम् ) स्वामित्वं तेजोयुक्तत्वं च भागद्वयपाठेन भवतीति दर्शयति- " अपार रसमुद्रयसमित्याह । अपामेवैतेन रसस्य सूयते । सूर्यरश्मिर समाभृतमित्याह सशुक्रत्वाय (२)।" [ब्रा० का० १ प्र०३अ० ९] इति । कल्प: अया विष्ठा जनयन्कर्वराणीति सप्तदश प्राजापत्यान्सोमग्रहा- गृह्णाति " इति । पाठस्तु- अया विष्ठा जनयन्कर्वराणि स हि वृणि- रुवराय गातुः । स प्रत्युदैवरुणो मध्वो अग्र स्वायां । यत्तनुवां तनूमैरयत । उपयामगृहीतोऽसि प्रजापतये खा जुष्टं गृह्णाम्येष ते योनिः प्रजापतये त्वा॥, इति ।। अयाऽयं प्रजापतिर्विष्ठा विशेषेणात्र स्थितः कर्वराण्येतानि कर्माणि जनय- न्संपादयन्वर्तते । यस्मात्स प्रजापतिघृणिदीप्तिमान्प्रकाशको भूत्वा वराय श्रेष्ठा- य कर्मफलायोरुगातुविस्तीर्णो मार्गो भवति तस्मात्स प्रजापतिर्मध्वो मधुनः कर्मफलस्य धरुणो धारयिता सन्नग्रं प्रत्यस्मत्समीपं प्रति उदैदुत्कर्षेण प्रामोतु । यद्यस्मात्स्वायां तनुवां स्वकीय शरीरे तन्मस्मच्छरीरमैरयत प्रापयति, तस्मा- यं फलं प्राप्स्याम इति शेषः । एकया गृह्णातीत्यतस्य विधिः, स च पूर्वमेव व्याख्यातः॥ अत्र विनियोगसंग्रहः- " उपत्यतिग्राह्य मैन्द्रं गृहीत्वैषेति सादयेत् । उत्तरेषु चतुर्वेवमया सप्तदश ग्रहान् ।। प्राजापत्यान्प्रगृह्णाति मत्रा द्वादश वणिताः॥१॥" इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वदार्थप्रकाश कृष्णय नुवेदीय- तैत्तिरीयसंहिताभाप्ये प्रथमकाण्ड सप्तमप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥ ( अथ प्रथमाष्टके सप्तमप्रपाठके त्रयोदशोऽनुवाकः ।) अन्वह मासा अन्वदनान्यन्वोषधीरनु पर्व- १ ख. णावस्थि।
१०७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [१प्रथमकाण्डे, ( काम्ययाज्यापुरोनुवाक्याभिधानम् ) तासः । अन्विन्द्र रोदसी वावशाने अन्वापो आजहत जायमानम् । अनु ते दायि मह इन्द्रियार्य सत्रा ते विश्वमर्नु वृत्रहत्यै । अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरर्नु ते नृपये । इन्द्राणीमासु नारिषु सुपत्नीमहमंश्रवम् । न ह्यस्या अपरं चन जरसा (१) मरते पतिः । नाहमिन्द्राणि रारण सख्युषापेर्ऋते । यस्ये- दमयं५ हांवः प्रियं देवेषु गच्छति । यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्य - पद । यस्य शुप्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः । आ ते मह इन्द्रोत्युन समन्यवो यत्समरन्त सेनाः। पतौति दिद्युन्न- यस्य बाहुबोर्मा ते (२) मन विष्वद्रियग्वि चारीत् । मा नो मर्धारा भरा दद्धि तत्रः प्र दाशुषे दातवे भूरि यत्ते । नव्ये देणे शस्ते अस्मिन्त उक्थे प्र व॑वाम वयमिन्द्र स्तुवन्तः। आ तू और माफिरतत्परि पाहिद्मा हि त्वा वसुंपतिं वसूनाम् । इन्द्र यत्ते माहिनं दत्रम- स्त्यस्मभ्यं तद्धर्यश्व (३) प्र यन्धि । प्रदा- तार हवामह इन्द्रमा हविषा वयम् । उभा प्रपा ०७अनु० १३] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । १०७९. ( काम्ययाज्यापुरोनुवाक्याभिधानम् ) हि हस्ता वसुना पृणस्वाऽऽ प्र यच्छ दक्षि- णादोत सव्यात् । प्रदाता वजी वृषभस्तुरा- पाट्छुष्मी राजा वृत्रहा सोमपावा । अस्मि- न्यज्ञे बर्हिष्या निषद्याथा भव यजमानाय शं योः । इन्द्रः सुत्रामा स्ववा अवोभिः सुमृ- डीको भवतु विश्ववेदाः । बातां द्वेषो अभयं कृणोतु सुवीर्यस्य ( ४ ) पतयः स्याम । तस्य वयः सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववा इन्द्रो अस्मे आराबिवेषः सनुतयुयोतु । खेतीनः सध- माद इन्द्रे सन्तु तुविवाजाः। क्षुमन्तो याभि- मदेम । प्रो ष्वस्मै पुरोरथमिन्द्रीय शूषमर्चत । अभीके चिदु लोककृत्सने समत्सुं वृत्रहा। अस्माकं बोधि चोदिता नभन्तामन्यकेषांम् । ज्याका अधि धन्वंमु (५)॥ ( जरसा मा ते हर्यश्व मुवीयम्याध्येकं च ।) इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके सप्तमप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥ ( पाकयज्ञ ५ स५ श्रवाः परोक्ष बहिषो ध्रुवामगन्मेत्यांह देव सवितर्देव- स्याई क्षत्रस्योल्वं वाजस्याग्निरेकाक्षरेणोपयामगृहीतोऽसि नृपदमन्वह त्रयो- दश ॥ १३ ॥)
१०८० श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [१प्रथमकाण्डे-- ( काम्ययाज्यापुरोनुषाक्याभिधानम् ) ( पाकयझं परोक्ष ध्रुवां वि मुंजते च नः संवैवीरां पतयः स्यामैवोप- श्वाशत् ॥ ५१ ॥) हरिः ॐ इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके सप्तमः प्रपाठकः ॥ ७॥ ( अथ प्रथमाटके सप्तमप्रपाटके प्रयोदशोऽनुवाकः । ) आन्वति । अहं । मासाः । अन्विति । इत् । वनानि । अन्विति । ओषधीः । अन्विति । पर्व- तासः । अन्विति । इन्द्रम् । रोदसी इति । वावशाने इति । अन्विति । आपः । अजिहत । जार्यमानम् । अन्विति । ते । दायि । महे । इन्द्रियाय । सत्रा। ते । विश्वम् । अन्विति । वृत्रहत्य इति वृत्र-हत्यै । अन्विति । क्षत्रम् । अन्विति । सहः । यजत्र । इन्द्र। देवेभिः । अन्विति । ते । नृषह्य इति नृ-सवें । इन्द्राणीम् । आसु । नारिषु । सुपत्नीमिति सु- पत्नीम् । अहम् । अवम् । न। हि। अस्याः । अप- रम् । चन । जरसा (१)। मरते । पतिः। न । अहम् । इन्द्राणि । रारण। सख्युः । वृषापेरिति वृषा-कपेः । ऋते । यस्य । इदम् । अयम् । हविः । प्रियम् । देवेषु । गच्छति । यः। जातः । एव । - १०८१ प्रपा०७अनु०१३] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । ( काम्ययाज्यापुरोनुवाक्याभिधानम् ) प्रथमः । मनवान् । देवः । देवान् । क्रतुना । पर्य- भूषदिति परि—अभूषत् । यस्य॑ । शुष्मात् । रोद॑सी इति । अभ्यसेताम् । नृम्णस्य । मह्ना । सः । जनासः । इन्द्रः । एति । ते । महः । इन्द्र । ऊती । उग्र । समन्यव इति समन्यवः । यत् । समरन्तेति सम्-अन्त । सेनाः । पाति । दिद्युत् । नयस्य । बाहुवोः। मा। ते ( २ )। मनः। विष्वद्रियगिति विष्व-द्रियक् । वीति । चारीत् । मा। नः। मर्धीः । एति । भर । दृद्धि । तत् । नः । प्रेति । दाशुषे । दातवे । भूरि । यत् । ते । नव्ये । देष्णे । शस्ते । अस्मिन् । ते । उक्थे । प्रेति । वाम । वयम् । इन्द्र । स्तुवन्तः । एति । तु । भर । मार्किः । एतत् । परीति । स्थात् । विद्म । हि । वा। वसुपतिमिति वसु-पतिम् । वमूनाम् । इन्द्र । यत् । ते । मा- हिनम् । दम् । अस्ति । अस्मभ्यमित्यस्म-भ्यम्। तत् । हर्यश्वेति हरि अश्व (३)। प्रेति । यन्धि । प्रदातारमिति प्र-दातारम् । हवामहे । इन्द्रम् । एति । हविषा । वयम् । उभा । हि। हस्तां । वसुंना । पृणख । आ । प्रेति । यच्छ । दक्षिणात् । एति । उत । सव्यात् । प्रदातेति प्र–दाता। वजी।
२०८२ श्रीमत्सायणाचार्यविरचितमाप्यसमेता- [१प्रथमकाण्डे- ( काम्ययाज्या पुरोनुवाक्याभिधानम् ) वृषभः । तुराबाट । शुष्मी । राजा । बहेति वृत्र-हा। सोमपावेति सोम–पावो । अस्मिन् । यज्ञे । बर्हिषि । एति । निषधेति नि–सद्य । अर्थ । भव । यजमानाय । शम् । योः । इन्द्रः । सुत्रामेति सु-त्रामा । स्ववानिति स्व-वान् । अवौभिरि- त्यदः-भिः । सुमृडीक इति सु-मृडीकः । भवतु । विश्ववेदा इति विश्व-वेदाः । बाधताम् । देषः । अभयम् । कृणोतु । सुवीर्यस्येति सु-वीर्यस्य (४)। पतयः । स्याम । तस्य । वयम् । सुमतावित सु-मतौ। यज्ञिय॑स्य । अपीति । भद्रे । सौमनसे । स्याम । सः । सुत्रामेति सु-त्रामा । स्ववानिति स्व-वान् । इन्द्रः । अस्मे इति । आरात् । चित् । देषः । सनु तः । युयोतु । रेवतीः । नः । सधमाद् इति सध- मादः । इन्द्रे । सन्तु । तुविवाजा इति तुवि–वाजाः। क्षुमन्तः । याभिः । मदेम । प्रो इति । स्विति । अस्मै । पुरोरथमिति पुर:-रथम् । इन्द्राय । शूष- म् । अर्चत । अभीके । चित् । उ । लोककृदिति लोक-कृत् । सङ्गे । समत्स्विति समत्-सु । वृत्र- हेति त्र-हा । अस्माकम् । बोधि । चोदिता। - १०८३. प्रया ०७अनु०१३] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता। ( काम्ययाज्यापुरोनुवाक्याभिधानम् ) नभन्ताम् । अन्यकेषाम् । ज्याकाः। अधीति । धन्व- स्विति धन्वं-सु (५)। इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितापदपाठे प्रथमा- प्टके सप्तमप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयमंहितापदपाठे प्रथमाष्टके सप्तमः प्रपाठकः॥७॥ ( अथ प्रथमकाण्डे सप्तमप्रपाठके त्रयोदशोऽनुवाकः।) द्वादशे वाजपेयमत्राः समापिताः । त्रयोदशे काम्ययाज्या [पुरोनुवाक्या] उच्यन्ते । काम्येष्टिकाण्डे काचिदिष्टिरेवमाम्नायते- इन्द्रायान्जवे पुरोडाशमेकादशकपालं निर्वपेशामकाम इन्द्रमेवान्ज५ स्वेन भागधेयेनोप धावति स एवास्मै सजाताननुकान्करोति ग्राम्येव भवति" [सं० का० २ ० २ ० ८ ] इति । अनुकूलचासाजुश्चेत्यन्जुः, साहाय्यकरणमानुकल्यं, विरोधानाचारणमृ. जुत्वं तादृशम् । इन्द्रोऽस्मै यजमानाय सजाताज्ञातिप्रभृतिबन्धूननुकानेतस्मि- अनुकूलान्करोति । ततोऽयं ग्रामस्वामी भवत्येव ॥ तत्र पुरोनुवाक्यामाह- अन्वह मामा अन्विहनान्यन्वोषधीरनु पर्वतामः । अन्विन्द्र रोदसी वावशाने अन्वापो अजिहत जायमानम् ।, इति । अहशब्द इच्छब्दश्च समुच्चये । चैत्रादयो मासास्ते च जायमानमिन्द्रमनुसृ. त्याजिहतास्माननुग्रहीतुं प्राप्तवन्तः । एवं वनान्योषधयः पर्वता वावशाने अस्मान्कामयमाने रोदसी द्यावापृथिव्यावापश्चानिहतेति योजना । पोहा वाक्यानि भेत्तुं पडनुशब्दाः । स च भेद आदरार्थः ।। १ ख. जन्यम । R THE RUPPURVAR HISASTRI RESEARCH STITUTE - १०८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [१प्रथमकाण्डे- ( काम्ययाज्यापुरोनुवाक्याभिधानम् ) अथ याज्यामाह- अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहये । अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषो ।, इति । यजत्र यष्टव्य हे इन्द्र महे महते सर्वेभ्यो देवेभ्योऽधिकाय ते तुभ्यं सत्रा सत्रेषु विश्वं सर्व हविर्देवेभिरग्न्यादिभिरनुयायि अनुक्रमेण दीयते । किम- र्थम् । वृत्रहत्ये वृत्रवधमनु ते तवेन्द्रियाय बलसिद्ध्यर्थम् । न केवलं त्रवधम- नुसृत्य १ःत्रमनु त्वदीयं क्षत्रियत्वजात्यभिमानं चानुसृत्य, सहोऽनु त्वदीयमेव वलमनुसृत्य, नृप वैरिमनुष्यतिरस्कारशीलमनुसृत्य, त्वयि यथोक्तान्गुणान- वक्ष्य ते तुभ्यं पुनः पुनर्दीयत इति शेषः ॥ इष्टयन्तरं विधत्ते- " इन्द्राण्यै चरुं निपेद्यस्य सेनाऽस शितेव स्यादिन्द्राणी वै सेनायै देवतेन्द्राणीमेव स्वेन भागधेयेनोप धावति सैवास्य सेना सर श्यति "[सं० का० २ प्र० २ अ० ८ ] इति । असंशिता तीक्ष्णा न भवति ( वेत् ) स्वकार्यक्षमा नैव भवेदित्यर्थः ।। तस्यामिष्टौ कंचिदङ्गविशेष विधत्ते- "बल्वजानपीध्मे सं नोगौर्यत्राधिष्कन्ना न्यमेहत्ततो बल्बजा उद- तिष्ठनगवामेवेनं न्यायमपिनीय गा वेदयति" [सं० का० २ प्र० २ अ० ८ ] इति । बल्वजास्तृणविशेषाः । तानपि चोदकप्राप्त इध्मे सम्यग्वनीयात् । अधि. कन्नाऽधिकं पुरीपं प्राप्ता गोर्यत्र देशे न्यमेहन्नितरां मूत्रं करोति, ततो देशा- दल्बजा उत्पद्यन्ते । तेषां च बल्बजानां बन्धत्वेन यजमानं गवामेव न्यायम- पिनीय प्रापय्य गा वेदयति लम्भयति । गवां न्यायः स्वाधीनतया शिक्षित- त्वम् । यथा धेनवः शिक्षिताः प्रतिदिनमरण्ये गत्वा यत्र कापि पलायनलक्षणं चापलं परित्यज्य काले स्वगृहमेवाऽऽयान्त्यनायासेन दुह्यन्ते यथा वा बली- वर्दाः शिक्षिताः सन्तो रथादीस्वामिन इच्छानुसारेण वहन्ति, तथा सेनायाः' स्ववशत्वेन कार्यकारित्वं गोन्यायः । गा चेदयति गोवद्धितां स्वाधीनां कार्य- कारित्वेन प्रापयतीत्यर्थः॥ १ के. घ. इ. च. वधेऽनु । २ ख. भवतील । ३ क. घ. इ. च. निरन्तरं म ।
प्रपा०७अनु०१३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । १०८५ ( काम्ययाज्यापुरोनुवाक्याभिधानम् ) तत्र पुरोनुवाक्यामाह- इन्द्राणीमासु नारिषु सुपत्नीमहमश्रवम् । न घस्या अपरं चन जरसा मरते पतिः ।, इति । आसु नारिपु देवस्त्रीपु मध्ये सेनास्वामिभृतामिन्द्राणी मुपत्नी पतिव्रताम- इमश्रवम् । अपरं चनान्यदप्येकमस्ति, अस्या इन्द्राण्याः पतिर्जरसा नहि मरते नैव म्रियते ॥ तत्रैव याज्यामाह- नाहमिन्द्राणि रारण सख्युवषाकते । यस्य- दमप्य५ हविः प्रियं देवेषु गच्छति ।, इति । हे इन्द्राणि अहं सख्युषाकपेते त्वत्प्रियमिन्द्रं विना यं कमप्यन्यं देवं न रारण नैव कीर्तयामि । यस्य ममाप्यमप्सु भवमिदं हविः सोमपुरोडाशादिकं प्रियमिष्टं भूत्वा देवेषु गच्छति सर्वान्देवान्यानोति, तादृशोऽहमिति पूर्वत्रान्वयः।। इष्टयन्तरं विधत्ते- इन्द्राय मन्युमते मनस्वते पुरोडाशमेकादशकपालं निर्वपत्सङ्ग्रामे संयत्त इन्द्रियेण वै मन्युना मनसा सङ्घाम जयतीन्द्रमेव मन्युमन्तं मनस्वन्त' स्वेन भागधेयेनोप धावति स एवास्मिन्निन्द्रियं मन्युं मनो दधाति जयति तर सवामम् " [सं० का० २ प्र० २ अ० ८ ] इति । मनस्वते धैर्योपेताय, सङ्ग्रामे युद्धे संयत्ते सम्यक्प्रवृत्ते सति, इन्द्रियेण पाणिपादादीन्द्रियपाटवेन, मन्युना वैरिविषयकोपाधिक्येन, मनसा पलायन- भीत्यादिवर्जन रूपेण धेर्येण ॥ तत्र पुरोनुवाक्यामाह- यो जात एव प्रथमो मनखान्देवो देवान्क्रतुना पर्यभूषन् । यस्य शुप्माद्रोदसी अभ्यसतां नृम्णस्य मह्ना स जनास यो देव इन्द्रो जात एवात्पन्नमात्र एव प्रथमो देवानां मध्ये मुख्यो मनस्वा- धैर्यवांश्च भूत्वा ऋतुना वृत्रवधादिकर्मणा देवानन्यानग्न्यादीनपर्यभूषदति- क्रान्तवान् , यस्येन्द्रस्य शुप्माद लाद्रोदसी द्यावापृथिव्यावभ्यसेतामविभीताम्, भ्यस भय इति धातुः, जनासो हे जनाः स इन्द्रो नृम्णस्य स्वकीयवलस्य मगा महिना युप्मानवत्विनि शेषः ।। इन्द्रः।, इति ।
१०८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [१प्रथमकाण्डे- ( काम्ययाज्यापुरांनुवाक्याभिधानम् ) तत्र याज्यामाह- प्रदाता वजी वृषभस्तुरापाट्छष्मी राजा वृत्रहा सोमपावा । अस्मिन्यज्ञे बहिष्या निषद्याथा अव यजमानाय शं योः। , इति । प्रदाता प्रकर्षण दाता। वज्री वज्रवान् । वृषभोऽभिमतानां धनानां वर्णिता । तुरापाट्शत्रूणां शीघ्रमभिभविता । शुष्मी बलवान् । राजा दीप्यमानः । वृत्रहा वृत्रं हतवान् । सोमपावा सोमस्य पाता । ईदृशस्त्वमस्मिन्यज्ञे बहिपि वेद्यां स्तीर्णदर्भ आनिषद्याऽऽगत्योपविश्याथानन्तरं शं सुखकरो योरनिष्टवियोज- यिता भव ॥ इष्ट्यन्तरं विधत्ते- इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं निवेपेदपरुद्धो वाऽपरु. ध्यमानो वेन्द्रमेव सुत्रामाण५ स्वेन भागधेयेनोप धावति स एवैनं त्रायतेऽ- नपरुध्यो भवति" [सं० का० २ प्र० २ अ० ८ ] इति । सुत्राम्णे मुष्टु त्रात्रे । अपरुद्धश्चिरं राज्याभ्रष्टः । अपरुध्यमान इदानी- मेव भ्रश्यमानः । अनपरुध्यो भ्रंशाविषयः॥ तत्र पुरोनुवाक्यामाह-- इन्द्रः सुत्रामा स्ववा अबोभिः सुमृडीको भवतु विश्ववेदाः। बाधतां देषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ।, इति । अयपिन्द्रः सुत्रामा सुष्टु त्राता स्ववान्धनवानवोभी रक्षणैः सुमृडीका मुखकरो विश्ववेदा अस्मदनुष्ठितकृत्स्नपरिचर्याभिज्ञो भवतु । बाधतामस्मा- बाधमानानां वैरिणां द्वेषो विद्वेषी स इन्द्रोऽस्माकमभयं कृणोतु करोतु । तत्मसादाद्वयं सुवीर्यस्य वैर्यभिभवसामर्थ्यस्य पतयः स्याम स्वामिनो भवेम ॥ याज्यामाह- तस्य वय सुमतौ यज्ञियस्यापि भद्रे । स सुत्रामा स्ववा इन्द्रो अस्मे आराच्चिद्वेष सनुतयुयोतु ।, इति । - सौमनसे स्याम - प्रपा०७अनु०१३]] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता। १०८२ ( काम्ययाज्यापुरोनुवाक्याभिधानम् ) वयं यज्ञियस्य यज्ञसंवन्धिनस्तस्येन्द्रस्य मुमतावनुग्रहयुक्त चित्ते स्थिता भवेमं । अपि च भद्रे परममङ्गले सौमनमे मनःसमाधानेऽवस्थिताः स्याम । सुत्रामा सुष्ठु त्राता स्ववान्धनवान्स इन्द्रोऽस्मे अस्माकं द्वेषो देप्यानाराचिद्दरादेव युयोतु पृथक्करोतु । कीदृशानामस्माकं सनुतः संनुतां इवितणाम् ।। इट्यन्तरं विधत्ते- इन्द्रो वै सदृङ्देवताभिरासीत्स न व्यावृतमगच्छत्स प्रजापतिमुपाधाव- तस्मा एतमैन्द्रमकादशकपालं निरवपत्तेनैवास्मिन्निन्द्रियमदधाच्छक्वरी याज्या- नुवाक्ये अफरोद वा वै शकरी स एनं वो भूत्या ऐन्ध सोऽभवत्सोऽ.. विभेद्भूतः प्र मा धक्ष्यतीति स प्रजापतिं पुनरूपाधावत्स प्रजापतिः शकर्या अधि रेवतीं निरमिमीत शान्त्या अपदाहाय " [सं० का २६०२ अ०८ ] इति । पुरा कदाचिदिन्द्रो देवताभिरितराभिहि सदृश आसीत्तदाधिपत्य लक्षणां व्यावृत्तिं न प्राप्तवान् । कश्चिदपि देव एतदीयं भृत्यत्वं नाङ्गी चकार । स इन्द्रः खिन्नः प्रजापतिमुपाजगाम । स प्रजापतिव्यावृत्तिकामाय तस्मा इन्द्रा- यातीतसृष्टिगतेन्द्रदेवताकमेकादशकपालं पुरोडाशं निवपत् । स प्रजापतिः स्वयमिन्द्रस्य यजमानस्य याग आध्वर्यवमकरोत् । तेनैव यागेनास्मिन्व्यावृत्ति काम इन्द्रे सामर्थ्य स्थापितवान् । तत्सिद्धयर्थ शक्कीछन्दसा युक्त द्वे चौ याज्यानुवाक्ये अकरोत् । यशप्यत्र प्रो प्वस्मा इत्यकेच शकरी तथाऽप्यावृत्ता सती सैव शकरी याज्या पुरोनुवाक्या च भविष्यतीति । सा शकरी वज्ररूपा। स वन एनं व्यायत्तिकामिनमिन्द्रं भत्या आधिपत्य लक्षणायश्वर्यायन्ध प्रका. शितवान् । स चेन्द्रोऽधिपतिरभवत् । भून ऐश्वर्य प्राप्तः स इन्द्रः पुनरविभे- दियमत्युग्रा शकरी मां प्रधक्ष्यतीति विचार्य, तच्छन्नये म इन्द्रः प्रजा- इति पुनरुपायावत् । स प्रजापतिः शकर्या अधि अधिकन्चन रेवती. रेवतीनः धमाद इत्येतामृचं निर्मितवान् । किमर्थम् । शक्कयां उग्रत्वशान्त्या इन्द्र- स्याप्रदाहाय च ॥ ऐश्वर्ययोग्यराजकुमारादरेवाप्राप्तावैश्वर्यप्राप्त्यर्थमिष्टिमिदानीं विधत्ते " योऽल५ श्रियै मन्त्महङाममानैः स्यात्तस्मा एतमैन्द्रमेकादशकपालं निपेदिन्द्रमेव स्वेन भागधेयनोप धावति स एवास्मिन्निन्द्रियं दधाति " [सं० का० २ प्र०२ अ० ८ ] इति । १ ख. सन्नां ।