Canegie Mellon Univeristy

Lalita Sahasranaama Stotrama~

Vyaasa Mahar^shi Or Badaaraayand-a · 2006/02/26

PDF Proofread

Front matter

No text on this page.

श्रीललितासहस्रनामस्तोत्रम्
मूलम्
PUBLISHED BY R. A. SASTRY
Care of THE VASANTA PRESS, ADYAR
Annaa]
1925
[Postage Extra

No text on this page.

श्रीललितासहस्रनामस्तोत्रम्
मूलम्
PUBLISHED BY R. A. SASTRY
Care of THE VASANTA PRESS, ADYAR
Innas 3]
1925
[Postage Extra

No text on this page.

श्रीललितासहस्रनामस्तोत्रम्
॥ पूर्वभागः ॥
|| श्रीललितामहात्रिपुरसुन्दर्ये नमः ॥
प्रथमोऽध्यायः
अगस्त्य उवाच-
अश्वानन महाबुद्धे सर्वशास्त्रविशारद ।
कथितं ललितादेव्याश्चरितं परमाद्भुतम् ॥ १ ॥
पूर्व प्रादुर्भवो मातुस्ततः पट्टाभिषेचनम् ।
भण्डासुरवधश्चैव विस्तरेण त्वयोदितः ॥ २ ॥
वर्णितं श्रीपुरंचापि महाविभवविस्तरम् ।
श्रीमत्पञ्चदशाक्षर्यामहिमा वर्णितस्तथा ॥ ३ ॥

श्रीललितासहस्रनामस्तोत्रम्
घाटा न्यानादयो न्यासा न्यासखण्डे समीरिताः ।
अन्तबंगक्रमश्चैव बहियोगक्रमत्तथा ॥ ४ ॥
महायागक्रमश्चैव पूजाखण्डे अकीर्तिताः ।
पुरश्चरणवण्डे तु जपलक्षणीरितम् ॥ ५ ॥
होमखडे त्वया प्रोक्तो होमद्रव्यविधिक्रमः ।
चक्ररजन्य विद्यायाः श्रीदेव्या देशिकात्मनोः ॥ ६ ॥
रहम्बखण्डे तादात्म्यं परम्परमुदीरितम् ।
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥ ७ ॥
मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके ।
न तु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम् ॥ ८ ॥
तत्र मे संशयो जातो हयग्रीव दयानिधे ।
किं वा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम् ॥ ९ ॥
मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् ।
किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥ १० ॥
सूत उवाच--
इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।
प्रहृष्टो वचनं प्राह तापसं कुम्भसंभवम् ॥ ११ ॥
श्रीहयग्रीव उवाच-
लोपामुद्रापतेऽगस्त्य सावधानमनाः शृणु ।
नाम्नां सहस्रं यत्नोक्तं कारणं तद्वदामि ते ॥ १२ ॥

प्रथमोऽध्यायः
रहस्यामिति मत्वाहं नोतवांस्ते न चान्यथा ।
पुनश्च पृच्छत भनत्या तन्मात्तते बदाम्यहम् ।। १३ ॥
अयाच्छिवाय भन्नाय रहस्यमपि देशिकः ।
भवता त देयं न्यादभत्ताय कदाचन ।। १४
न गटाय न दुष्टाय नाविश्वासाय कर्हिचित् ।
श्रीनानक्तियुक्ताय श्रीविद्याराजवेदिने ।। १५ ॥
उपालकाय शुद्धाय देयं नामसहस्रकम् ।
यानि नामसहस्राणि सद्यः सिद्धिप्रदानि वै ॥ १६ ॥
तन्त्रषु ललितादेव्यास्तेषु मुख्यमिदं मुने ।
श्रीविग्रेव तु मन्त्राणां तत्र कादिर्यथा परा ॥ १७ ॥
पुगणां श्रीपुरमिव शक्तीनां ललिता यथा ।
श्रीविद्योपासकानां च यथा देवो वरः शिवः ॥ १८ ॥
तथा नामसहस्रेषु वरमेतत्प्रकीर्तितम् ।
यथास्य पठनाद्देवी प्रीयते ललिताम्बिका ॥ १९ ॥
अन्यनामसहस्रस्य पाठान्न प्रीयते तथा ।
श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥ २० ॥
बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम् ।
पौर्वा तुलसीपुष्पैरेभिर्नामसहस्रकैः ॥ २१ ॥
सद्यः प्रसादं कुरुते तत्र सिंहासनेश्वरी ।
चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ २२ ॥

श्रीललितासहस्रनामस्तोत्रम् जपान्ने कीर्तयेन्नित्यमिदं नामसहस्रकम् । जपपूजाद्यशक्तश्चेत्पठेन्नामसहस्रकम् ॥ २३ ॥ साङ्गार्चन साङ्गजपे यत्फलं तदवाप्नुयात् । उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥ २४ ॥ इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् । चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ॥ २५ ॥ भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः । भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥ २६ ॥ तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसंभव । पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥ २७ ॥ वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत् । देव्युवाच- वाग्देवता वशिन्याद्याः शृणुध्वं वचनं मम ॥ २८ ॥ भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः । मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥ २९ ॥ मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः । मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ।। ३० ॥ कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः । येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ॥ ३१ ॥ -

प्रथमोऽध्यायः
-
ह्यग्रीव उवाच-
इत्याज्ञप्ता बचांदव्या देव्या श्रीललिताम्बया ।
रहम्यैर्नामभिर्दिव्यैश्चक्रुः स्तोत्रमनुत्तमम् ॥ ३२ ॥
रहस्यनाममाहस्रमिति तद्विश्रुतं परम् ।
ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका ॥ ३३ ॥
म्वसेवावसरं प्रादात्सर्वेषां कुम्भसंभव ।
मेवार्थमागतास्तत्र ब्रह्माणी ब्रह्मकोटयः ॥ ३४ ॥
लक्ष्मीनारायणानां च कोटयः सनुपागताः ।
गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥ ३५ ॥
मन्त्रिणीदण्डिनीमुख्याः सेवार्थ याः समागताः ।
शक्तया विविधाकारास्तासां संख्या न विद्यते ॥ ३६॥
दिव्योषा मानमौघाश्च सिद्धौघाश्च समागताः ।
तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ॥ ३७ ।।
तेषु दृष्टोपविष्टेषु स्वे म्वे स्थाने यथाक्रमम् ।
ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥ ३८ ॥
उत्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा ।
अस्तुवन्नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम् ॥ ३९ ॥
श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी ।
सवें ने विस्मयं जग्मुर्ये तत्र सदसि स्थिताः ॥ ४० ॥

६ श्रीललितासहस्रनामस्तोत्रम् ततः प्रोवाच ललिता सदस्यान्देवतागणान् । देव्युवाच- नमाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥ ४१ ॥ अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः । तत्पठध्वं सदा यूयं स्तोत्रं मन्त्रीतिवृद्धये ॥ ४२ ॥ प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् । इदं नामसहस्रं मे यो भक्तः पठते सकृत् ॥ ४३ ॥ स मे प्रियतमो ज्ञेयस्तस्मै कामान्ददाम्यहम् । श्रीचके मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ।। ४४ ॥ पश्चान्नामसहस्रं में कीर्तयेन्मम तुष्टये । मामर्चयतु वा मा वा विद्यां जपतु वा न वा ।। ४५ ॥ कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा । मत्प्रीत्या सकलान्कामाँल्लभते नात्र संशयः ॥ ४६ ॥ तस्मान्नामसाहस्रं मे कीर्तयध्वं सदादरात् । हयग्रीव उवाच इति श्रीलिलतेशानी शास्ति देवान्सहानुगान् ।। ४७ ॥ तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः । शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥ ४८ ॥ पठन्ति भक्त्या सततं ललितापरितुष्टये । तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ।। ४९ ॥ - प्रथमोऽध्यायः अवश्यकत्वे हेतुम्ने मया प्रोक्तो मुनीश्वर । इदानीं नामसाहलं वक्ष्यानि श्रद्धया शृणु ॥ १० ॥ न्यासः ॥ (अन्य श्री ललितासहस्रनामस्तोत्रमालामन्त्रस्य । बशिन्यादि- वाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितापरमेश्ररी देवता । श्रीमद्राग्भवकूटेति बीजम् । मध्यकटेति शक्तिः । शक्तिकृटेति की- लकम् । श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफला- वाप्त्यर्थे जपे विनियोगः । मूलमन्त्रेण करपडगन्यासान् कृत्वा) ध्यानम्-- सिन्दूरारुणविग्रहां त्रिणयनां माणिक्यमौलिस्फुर- तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रती सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकान् ।। ५१॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसवाद धीललितानामसहस्रपूर्वभागो नाम प्रथमोऽध्यायः ॥

द्वितीयोऽध्यायः
श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्निकुण्डसंभूता देवकार्यसमुद्यता ॥ १ ॥
उद्यद्भानुमहनाभा चतुर्बाहुसमन्विता ।
रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २ ॥
मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका । (10)
निजारुणप्रभापूरमज्जब्रह्माण्डमण्डला ॥ ३ ॥
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ४ ॥
अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।
मुखचन्द्रकलङ्काभमृगनाभिविशेषका ॥ ५ ॥
वदनम्मरमाङ्गल्यगृहतोरणचिल्लिका ।
वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ॥ ६ ॥
नवचम्पकयुप्पाभनासादण्डविराजिता ।
ताराकान्तितिरस्कारिनासाभरणभासुरा ॥ ७ ॥ (20)
कदम्बमञ्जरीक्लप्तकर्णपूरमनोहरा ।
ताटङ्कयुगलीभूततपनोडुपमण्डला ॥ ८ ॥

द्वितीयोऽध्यायः
९
पद्मरागशिलादर्शपरिभाविकपोलभूः ।
नवबिद्रुमबिम्बश्रीन्यकारिरदनच्छदा ॥ ९ ॥
शुद्धविद्याकुगकारद्विजपक्तिद्वयोज्वला ।
कर्पूरवीटिकामादसमाकर्षदिगन्तरा ।। १० ॥
निजसल्लापमाधुर्यविनिर्मितकच्छपी ।
मन्दम्मितप्रभापूरमजत्कामेशमानसा ॥ ११ ॥
अनाकलितसादृश्यचुबुकश्रीविराजिता ।
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥ १२ ॥ (31))
कनकाङ्गदकेयूरकमनीयभुजान्विता ।
रत्नप्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥ १३ ॥
कामेश्वरप्रेमग्नमणिपतिपणम्तनी ।
नाभ्यालवालरोमालिलताफलकुचद्वयी ॥ १४ ॥
लक्ष्यरामलताधारतासमुन्नेयमध्यमा ।
म्तनभारदलन्मध्यपट्टबन्धवलित्रया ॥ १५ ॥
अरुणारुणकौमुम्भवस्त्रभास्वत्कटीतटी।
रत्नकिङ्किणिकारम्यरशनादामभूषिता ॥ १६ ॥
कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।
माणिक्यमकुटाकारजानुद्वयविराजिता ॥ १७ ॥ (40)
इन्द्रगोपपरिक्षिप्तस्मरतूणाभजधिका ।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥ १८ ॥

श्रीललितासहस्रनामस्तोत्रम्
नखदीधितिसंछन्ननमज्जनतमोगुणा ।
पदद्वयप्रभाजालपराकृतसरोरुहा ॥ १९ ॥
शिञानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ।
मरालीमन्दगमना महालावण्यशेवधिः ॥ २० ॥
सारुणा ऽनवद्याङ्गी सर्वाभरणभूषिता । (50)
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥ २१ ॥
सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका।
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ॥ २२ ॥
महापद्माटवीसंस्था कदम्बवनवासिनी ।
सुधासागरमध्यस्था (61)) कामाक्षी कामदायिनी ॥ २३ ॥
देवर्षिगणसंघातस्तूयमानात्मवैभवा ।
भण्डासुर वधोद्युक्त्शक्तिसेनासमन्विता ॥ २४ ॥
संपत्करीसमारूढसिंधुरव्रजसेविता ।
अश्वारूढाधिष्ठिताश्वकोठिकोटिभिरावृता ॥ २५ ॥
चक्रराजरथारूढसर्वायुधपरिप्क्रता ।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥ २६ ॥
किरिचक्ररथारूढदण्डनाथापुरस्कृता । (70)
ज्वालामालिनिकाक्षिप्तवहिप्राकारमध्यगा ॥ २७ ॥
भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।
नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥ २८ ॥

द्वितीयोऽध्यायः
भण्डपुत्रवधायुक्तबाला विक्रमनन्दिता ।
मन्त्रिण्यम्बाविरचितविषयवधतापिता ॥ २० ॥
विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।
कामेश्वरमुखालोककल्पितश्रीगणेश्वगः ॥ ३० ॥
महागणेशनिर्भिन्नविनयन्त्रप्रहर्षिता ।
भण्डामुन्द्रिनिर्मुक्तशन्त्रप्रत्यस्त्रवर्षिणी ॥ ३१ ॥
करागुलिनखोत्पन्ननागयणदशाकृतिः । (80)
महापाशुपतास्त्राग्निनिबन्धासुरसैनिका ॥ ३२ ॥
कामेश्वरास्त्रनिर्दग्धसभण्डासुरसैनिका(शून्यका) ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ३३ ॥
हरनेत्राग्निसंदग्धकामसंजीवनौषधिः ।
श्रीमद्वाग्भवकूटैकम्वरूपमुस्वपङ्कजा ॥ ३४ ॥
कण्ठाध:कटिपर्यन्तमध्यकृटम्वरूपिणी ।
शक्तिकूटैकतापन्नकटयधोभागधारिणी ॥ ३५ ॥
मूलमन्त्रात्मिका मूलकूटत्रयकलेबरा ।
कुलामृतैकरसिका (99) कुलसंकेतपालिती ॥ ३६ ॥
कुलाङ्गना कुलान्तस्था कोलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचारतत्परा ॥३७ ।।
मूलाधारकनिलया ब्रह्मग्रन्थिविभदिनी । (10))
मणिपूरान्तरुदिता विष्णुप्रन्थिविभदिनी ॥ ३८ ॥

१२
श्रीललितासहस्रनामस्तोत्रम्
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ ३९ ॥
तटिल्लतासमरुचिः षट्चक्रोपरि संस्थिता ।
महासक्तिः कुण्डलिनी (110) बिसतन्तुतनीयसी ॥ ४० ॥
भवानी भावनागम्या भवारण्यकुठारिका ।
भद्रप्रिया भद्रमूर्ति भक्तसौभाग्यदायिनी ॥ ४१ ॥
भक्तिप्रिया भक्तिगम्या भक्तिवश्या (120) भयापहा ।
शांभवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२ ॥
शांकरी श्रीकरी साध्वी शरच्चन्द्रनिभानना ।
शातोदरी (130) शान्तिमती निराधारा निरञ्जना ॥ ४३ ॥
निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला (140) शान्ता निष्कामा निरुपप्लवा ॥४४॥
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या (150) निरन्तरा ॥ ४५ ॥
निष्कारणा निष्कलङ्का निरुपाधि निरीश्वरा ।
नीरागा रागमथना निर्मदा मदनाशिनी ॥ ४६ ॥
निश्चिन्ता (160) निरहंकारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७ ॥
निष्क्रोधा क्रोधशमनी निर्लोभा (170) लोभनाशिनी ।
निःसंशया संशयनी निर्भवा भवनाशिनी ॥ ४८ ॥

द्वितीयोऽध्यायः
१३
निर्विकल्पा निरावाधा निर्मदा भेदनाशिनी ।
निःशा (180) मृत्युमधनी निक्रिया निप्परिग्रहा ॥ ४९ ।।
निम्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा (190) दुःखहन्त्री सुखप्रदा ॥ ५० ॥
दुष्टदूग दुराचारशमनी दोषवर्जिता।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ ५१ ॥
सर्वशक्तिमयी सर्वमङ्गला (2010) सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्रम्वरूपिणी ॥ ५२ ।।
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मी (210) मुंडप्रिया ॥ ५३ ॥
महारूपा महापूज्या महापातकनाशिनी ।
महामाया महासत्वा महाशक्ति महारतिः ॥ ५४॥
महाभोगा महैश्वर्या (220) महावीर्या महाबला ।
महावुद्धि महासिद्धि महायोगीश्वरेश्वरी ॥ ५५ ॥
महातन्त्रा महामन्त्रा महामन्त्रा महासना ।
महायागक्रमाराध्या (230) महाभैरवपूजिता ॥ ५६ ॥
महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।
महाकामेशमहिषी महात्रिपुरसुन्दरी ॥ ५७ ॥
चतुःषष्टयुपचाराट्या चतुःषष्टिकलामयी।
महाचतुःषष्टिकोटियोगिनीगणमेविता ॥ ५८ ॥

१४ श्रीललितासहस्रनामस्तोत्रम् मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा। (240) चारुरूपा चारुहासा चारुचन्द्रकलाघरा ॥ ५९ ।। चराचरजगन्नाथा चक्रराजनिकेतना। पार्वती पद्मनयना पनरागसमप्रभा ।। ६० ।। पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी । (250) चिन्मयी परमानन्दा विज्ञानवनरूपिणी ॥ ६१ ॥ ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता। विश्वरूपा जागरिणी स्वपन्ती तेजसात्मिका ॥ ६२ ॥ सुप्ता (260) प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता। सृष्टिकी ब्रह्मरूपा गोत्री गोविन्दरूपिणी ॥ ६३ ॥ संहारिणी रुद्ररूपा तिरोधानकरी (270) ईश्वरी । सदाशिवा ऽनुग्रहदा पञ्चकृत्यपरायणा ॥ ६४ ॥ भानुमण्डलमध्यस्था भैरवी भगमालिनी । पद्मासना भगवती पद्मनाभसहोदरी ॥ ६५ ॥ (280) उन्मेषनिमिषोत्पन्नविपन्नभुवनावलिः । सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६ ॥ आब्रह्मकीटजननी वर्णाश्रमविधायिनी । निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ॥ ६७ ॥ श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका । सकलागमसंदोहशुक्तिसंपुटमौक्तिका ॥ ६८ ॥ (290)

द्वितीयोऽध्यायः
पुरुषार्थप्रदा पूर्णा भोगिनी बने वरः ।
अम्बिका ऽनादिनिधना हग्निमेन्द्र लेविता ।। ६९ ।।
नारायणी नादरूपा नानपविवर्जिता । (31)
ह्रींकारी हीमती हृया हेयोपादेववर्जिता ।। ७० ॥
राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी (810) रम्य, रणन्किङ्किणिमन्वला ॥ १ ॥
रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसन्नी रामा रमणलम्पटा ।। ७२ ।। (820)
काम्या कामकलारूपा कदम्बकुम्सुमप्रिया ।
कल्याणी जगतीकन्दा करुणारससागरा || ७३ ॥
कलावती कलालापा कान्ता कादम्बरीप्रिया । (330)
वरदा वामनयना वारुणीमदविह्वला ॥ ७४ ॥
विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ७५ ॥ (340)
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥ ७६ ॥
विजया विमला वन्द्या वन्दारुजनवत्सला ।
वाग्वादिनी (350) वामकेशी वह्निमण्डलवासिनी ॥ ७७ ॥
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहृताशेषपाषण्डा सदाचारप्रवर्तिका ॥ ७८ ॥

१६
श्रीललितासहस्रनामस्तोत्रम्
तापत्रयाग्निसंतप्तसमाह्नादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमच्या (36)) तमोऽपहा ॥ ७९ ॥
चिति स्तत्पदलक्ष्यार्था चिदकरसरूपिणी ।
म्वात्मानन्दलवीभूतब्रह्माद्यानन्दसंततिः ॥ ८० ॥
परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा (371)) वैखरीरूपा भक्तमानसहंसिका ॥ ८१ ॥
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गाररससंपूर्णा जया जालन्धरस्थिता ॥ ८२ ॥
ओड्याणपीठनिलया विन्दुमण्डलवासिनी । (380)
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ ८३ ॥
सद्य:प्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ॥ ८४ ॥
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी । (390)
नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ।। ८५ ॥
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृति रव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ।। ८६ ॥
व्यापिनी (400) विविधाकारा विद्याविद्यास्वरूपिणी ।
महाकामेशनयनकुमुदाह्लादकौमुदी ॥ ८७ ।।
भक्ताहार्दतमोभेदभानुमद्भानुसंततिः ।
शिवदूती शिवाराध्या शिवमूर्तिः शिवकरी ॥ ८८ ॥

द्वितीयोऽध्यायः
१७
शिवप्रिया शिवपरा (4111) शिष्टेष्टा शिष्टपूजिता ।
अप्रनया न्वप्रकाशा मनोवाचामगोचरा ।। ८९ ।।
चिच्छतिश्चेतनारूपा जडशक्ति जडात्मिका !
गायत्रः (420) व्याहृतिः सन्ध्या द्विजवृन्दनिषेविता ॥१०॥
तत्त्वालना तत्वमयी (तत्-त्वं-अयी) पञ्चकोशान्तरस्थिता ।
निःसीनमहिमा नित्ययौवना (430) मदशालिनी ॥ २.१ .
मदपूर्णिटरक्ताक्षी मदपाटलगण्डभूः ।
चन्दनद्रवदिग्धाङ्गी चाम्पेयकुम्सुमप्रिया ।। ९२ ॥
कुगटा कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया (140) कोलमार्गतत्परमेविता ॥ १३ ॥
कुमारगणनाथाम्बा तुष्टिः पुष्टि मति धृतिः ।
शान्तिः म्वन्तिमी कान्ति नन्दिनी (450) विघ्ननाशिनः ।
तेजाबनी त्रिनयना लोलाक्षीकामरूपिणी ।
मालिनी हंसिनी माता मलयाचलवासिनी ॥ ९५ ॥
सुमुखी नलिनी (460) सुभ्रः शोभना सुरनायिका।
कालकण्ठी कान्तिमती क्षोभिणी मूक्ष्मरूपिणी ॥ ९६ ॥
वज्रेश्वरी वामदेवी वयोऽवस्थाविवर्जिता । (470)
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ९७ ॥
विशुद्धचक्रनिलया ऽऽरक्तवर्णा त्रिलोचना।
खटाङ्गादिप्रहरणा वदनैकसमन्विता ॥ ९८ ॥

१८
श्रीललितासहस्रनामस्तोत्रम्
पावसानप्रिया (48)) त्वक्स्था पशुलोकभयंकरी ।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ॥ ९९ ॥
अनाहताब्जनिलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वला ऽक्षमालादिधरा रुधिरसंस्थिता ॥ १०० ॥(490)
कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया ।
महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ॥ १०१ ॥
मणिपूराजनिलया वदनत्रयसंयुता ।
वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥ १०२ ॥
रक्तवर्णा मांसनिष्ठा (500) गुडान्नप्रीतमानसा ।
समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ॥ १०३ ॥
स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।
शूलाद्यायुधसंपन्ना पीतवर्णा ऽतिगर्विता ॥ १०४ ॥
मेदोनिष्ठा मधुप्रीता (510) बन्दिन्यादिसमन्विता ।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १०५ ॥
मूलाधाराम्बुजारूढा पञ्चवक्त्रा ऽस्थिसंस्थिता ।
अङ्कुशादिप्रहरणा वरदादिनिषेविता ॥ १०६ ॥
मुद्रौदनासक्तचित्ता साकिन्यम्बाम्वरूपिणी । (520)
आज्ञाचक्राव्जनिलया शुक्लवर्णा षडानना ॥ १०७ ॥
मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ॥ १०८ ॥

द्वितीयोऽध्यायः सहस्रदलपमम्था सर्ववर्णापशोभिता । सर्वायुधधरा (5311) शुक्लामंस्थिता सवतोमुवी ।। १०१ ॥ सर्वोदनप्रीतचित्ता याकिन्यम्बान्वरूपिणी । म्वाहा स्वधा ऽमति मेंधा श्रुतिः स्मृतिर (540) नुत्तमा ॥११॥ पुण्यकीर्ति. पुण्यलभ्या पुण्यश्रवणकीर्तना । पुलोमजार्चिता बन्धमोचनी बर्व (बंधु गलका ॥ १.११ ॥ विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः । (5511) सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥ ११२ ।। अग्रगण्या ऽचिन्त्यरूपा कलिकल्मषनाशिनी । कात्यायनी कालहन्त्री कमलाक्षनिषेविता ॥ १.१३ ॥ ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा । (560) मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ ११४ ॥ नित्यतृप्ता भक्तनिधि नियन्त्री निखिलेश्वरी । मैत्र्यादिवासनालभ्या (570) महाप्रलयसाक्षिणी ॥ ११५॥ पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी । माध्वीपानालसा मत्ता मातृकावर्णरुपिणी ॥ ११६ ॥ महाकैलासनिलया मृणालमृदुदोर्लता । महनीया (580) दयानूर्ति महासाम्राज्यशालिनी ॥ ११७ ॥ आत्मविद्या महाविद्या श्रीविद्या कामसेविता। श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥ ११८ !!

श्रीललितासहस्रनामस्तोत्रम्
कटाक्षकिङ्करीभूतकमलाकोटिमेविता । (590)
शिर:स्थिता चन्द्रनिभा भालम्थें न्द्रधनुःप्रभा ॥ ११९ ।।
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥ १२० ॥ (600)
दरान्दोलितदीर्घाक्षी दरहासोज्वलन्मुखी ।
गुरुमूर्ति र्गुणनिधि गोमाता गुहजन्मभूः ॥ १२१ ॥
देवेशी दण्डनीतिम्था दहराकाशरूपिणी ।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥ १२२ ॥ (610)
कलात्मिका कलानाथा काव्यालापविनोदिनी ।
साचामररमावाणीसव्यदक्षिणसेविता ॥ १२३ ॥
आदिशक्तिर मेया ऽऽत्मा परमा पावनाकृतिः ।
अनेककोटिब्रह्माण्डजननी (620) दिव्यविग्रहा ॥ १२४ ॥
क्लींकारी केवला गुह्या कैवल्यपददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्ति स्त्रिदशेश्वरी ॥ १२५ ॥
त्र्यक्षरी (630) दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ॥ १२६ ॥
विश्वगर्भा स्वर्णगर्भा ऽवरदा वागधीश्वरी । (640)
ध्यानगम्या ऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १२७ ।।
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।
लोपामुद्रार्चिता लीलाक्लप्तब्रह्माण्डमण्डला ॥ १२८ ॥

द्वितीयोऽध्यायः २१ अश्या दृश्यरहिता (650) विज्ञात्री वेद्यवर्जिता । योगिनी योगदा योग्या योगानन्दा युगन्धरा !! १२० ।। इच्छागक्तिज्ञानशक्तिक्रियाशक्तिम्वरूपिणी । सर्वाधारा सुप्रतिष्ठा (66)) सदनद्रूपधारिणी !! १३० ॥ अष्टमूर्तिर जाजैत्री लोकयात्राविधायिनी । एकाकिनी भृमरूपा निता द्वैतवर्जिता ॥ १३१ ॥ अन्नदा वमुदा (671)) वृद्धा ब्रह्मात्मैक्यम्वरूपिणी । बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा वलिप्रिया ।। १३२ ।। भाषारूपा बृहत्सेना भावाभावविवर्जिता । (60) मुखाराध्या शुभकरी शोभनामुलभागतिः ॥ १३३ ॥ राजराजेश्वरी राज्यदायिनी राज्यवल्लभा । राजत्कृपा राजपीठनिवेशितनिजाश्रिता ॥ १३४ ॥ राज्यलक्ष्मीः कोशनाथा (690) चतुरङ्गबलेश्वरी । साम्राज्यदायिनी सत्यसन्धा सागरमेखला ॥ १३५॥ दीक्षिता दैत्यशमनी सर्वलोकवशंकरी । सार्थदात्री सावित्री सच्चिदानन्दरूपिणी ॥ १३६ ॥ (700) देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी । सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १३७ ॥ सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता संप्रदायेश्वरी (710) साध्वी (साधु-ई) गुरुमण्डलरूपिणी ।।

२२
श्रीललितासहस्रनामस्तोत्रम्
कुलोत्तीर्णा भगागध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या (724)) कोमलाङ्गी गुरुप्रिया ॥ १३९ ॥
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ।
सनकादिसमाराध्या शिवज्ञानप्रदायिनी ॥ १४० ॥
चित्कला ऽऽनन्दकलिका प्रेमरूपा (730) प्रियंकरी ।
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥ १४१ ॥
मिथ्याजगदाधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
लाम्यप्रिया लयकरी लज्जा (740) रम्भादिवन्दिता ॥१४२॥
भवदावसुधावृष्टिः पापारण्यदवानला ।
दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ॥ १४३ ॥
भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाधना ।
रोगपर्वतदम्भोलि म॒त्युदारुकुठारिका ॥ १४४ ॥
महेश्वरी (750) महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ॥ १४५ ॥
क्षाराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।
त्रिवर्गदात्री (760) सुभगा व्यम्बिका त्रिगुणात्मिका ।।१४६॥
स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७ ॥ (770)
दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ।
महती मेरुनिलया मन्दारकुसुमप्रिया ॥ १४८ ॥

द्वितीयोऽध्यायः वीराराध्या विराडूपा विरजा विश्वतोमुखी । (7d1)) प्रत्यगृपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४०. ।। मार्ताण्डभैग्वाराध्या मन्त्रिणीन्यस्तराज्यधुः । त्रिपुरेशी जयत्सना निस्त्रैगुण्या परापरा ॥ १५० ॥ (794)) सत्यज्ञानानन्दरूपा सामरस्यपरायणा । कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥ १५१ ॥ कलानिधिः काव्यकला रसज्ञा रसशेवधिः । (800) पुष्टा पुरातना पूज्या पुष्करा पुष्कक्षिणा ॥ १५२ ।। परंज्यातिः परंधाम परमाणुः परात्परा । पाशहम्ता (810) पाशहन्त्री परमन्त्रविभदिनी ॥ १५३ ॥ मूर्ता ऽमूर्ता ऽनित्यतृप्ता मुनिमानसहंसिका ! सत्यव्रता सत्यरूपा सर्वान्तयामिणी सती ॥ १५४ ॥ (820) ब्रह्माणी ब्रह्म जननी बहुरूपा वुधार्चिता । प्रसवित्री प्रचण्डा ऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥१५५॥ (830) प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी । विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६ ॥ मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी । (840) भावज्ञा भवरोगनी भवचक्रप्रवर्तिनी ॥ १५७ ।। छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी। उदारकीर्ति रुद्दामवैभवा वर्णरूपिणी ॥ १५८ ॥ (850) श्रीललितासहस्रनामस्तोत्रम् जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी। सर्वोपनिषदुर्दुष्टा शान्त्यतीतकलात्मिका ॥ १५९ ॥ गम्भीरा गगनान्तस्था गर्विता गानलोलुपा। कल्पनारहिता काष्ठा ऽकान्ता (860) कान्तार्धविग्रहा॥१६०॥ कार्यकारणनिर्मुक्ता कामकलितरङ्गिता । कनत्कनकताटङ्का लीलाविग्रहधारिणी ॥ १६१ ॥ अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी । अन्तर्मुखसमाराध्या (870) बहिर्मुखसुदुर्लभा ॥ १६२ ॥ त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी । निरामया निरालम्बा स्वात्मारामा सुधासृतिः ।। १६३ ॥ संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता । (880) यज्ञप्रिया यज्ञकी यजमानस्वरूपिणी ॥ १६४ ॥ धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी । विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ॥ १६ ॥ विश्वग्रासा (890) विद्रुमामा वैष्णवी विष्णुरूपिणी । अयोनि योनिनिलया कूटस्था कुलरूपिणी ॥ १६६ ॥ वीरगोष्ठीप्रिया वीरा नैप्का (900) नादरूपिणी । विज्ञानकलना कल्या विदग्धा वैन्दवासना ॥ १६७ ॥ तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी । सामगानप्रिया सौम्या (910) सदाशिवकुटुम्बिनी ।। १६८ ॥

द्वितीयोऽध्यायः
२९
स्न्यापसव्यमार्गस्था सर्व पहिनिवारिणी ।
वस्था स्वभावमधुरा धीग धीरसमर्चिता ॥ १६० ।।
चैतन्याध्यसमागध्या चैतन्यकुसुमप्रिया ।
सदादिता (921)) सदातुष्टा तरुणादित्यपाटला ॥ १७० ।।
दक्षिणादक्षिणाराध्या दरस्मरमुखाम्बुजा ।
कोलिनीकेवला ऽनय॑कैवल्यपददायिनी ॥ १७१ ॥
स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।
मनस्विनी (93)) मानवती महेशी मङ्गलाकृतिः ॥ १७२ ।।
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परमोदा (9-4)) मनोमयी ॥ १७३ ।।
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ॥ १७४ ॥
पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणी । (950)
शाश्वती शाश्वतैश्वर्या शर्मदा शंभुमोहिनी ॥ १७५ ॥
धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता (960) गुणातीता सर्वातीता शमात्मिका ॥१७६॥
बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी ।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७ ॥ (970)
सुवासिन्यर्चनप्रीता ऽऽशोभना शुद्धमानसा ।
बिन्दुतर्पणसंतुष्टा पूर्वजा त्रिपुगम्बिका ॥ १७८ ॥

२६ श्रीललितासहस्रनामस्तोत्रम् दशमुद्रासमाराध्या त्रिपुराश्रीवशंकरी । ज्ञानमुद्रा ज्ञानगम्या (980) ज्ञातृज्ञेयस्वरूपिणी ।। १७९ ॥ योनिमुद्रा त्रिखण्डेशी त्रिगुणा ऽम्बा त्रिकोणगा। अनघा ऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥ १८० ॥ अभ्यासातिशयज्ञाता (990) षडध्वातीतरूपिणी । अव्याजकरुणामूर्तिर ज्ञानध्वान्तदीपिका ॥ १८१ ॥ आबालगोपविदिता सर्वानुल्लङ्घयशासना । श्रीचक्रराजनिलया श्रीमत्रिपुरसुन्दरी ॥ १८२ ॥ श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ॥१८२ 211000 इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे श्रीललितासहस्रनामस्तोत्रकथनं नाम द्वितीयोऽध्यायः॥

उत्तरभागः
तृतीयोऽध्यायः
फलश्रुतिः !
इत्येतन्नामसाहस्रं कथितं ते घटोद्भव ।
रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १ ॥
अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।
सर्वरोगप्रशमनं सर्वसंपत्प्रवर्धनम् ॥ २ ॥
सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।
सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३ ॥
पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् ।
इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ॥ ४ ॥
जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः ।
प्रातः सात्वा विधानेन सन्ध्याकर्म समाप्य च ॥ ५ ॥

श्रीललितासहस्रनामस्तोत्रम्
पूजागृहं ततो गत्वा चक्रराजं समर्चचेत् ।
विद्यां जपेत्सहस्रं वा त्रिशतं शतमेव वा ।। ६ ॥
रहम्यनामसाहस्रमिदं पश्चात्पठेन्नरः ।
जन्ममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ ७ ॥
तम्य पुण्यफलं वक्ष्ये शृणु त्वं कुम्भसंभव ।
गङ्गादिसर्वतीर्थेषु यः सायात्कोटिजन्मसु ॥ ८ ॥
कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके ।
कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे ॥ ९ ॥
कोटिं सुवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ।
यः कोटिं हयमेधानामाहरेदाङ्गरोधसि ॥ १० ॥
आचरेत्कूपकोटीर्यो निर्जले मरुभूतले ।
दुर्मिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ॥ ११ ॥
श्रद्धया परया कुर्यात्सहस्रपरिवत्सरान् ।
तत्पुण्यकोटिगुणितं लभेत्पुण्यमनुत्तमम् ॥ १२ ॥
रहस्यनामसाहस्र नाम्नोऽप्येकम्य कीर्तनात् ।
रहस्यनामसाहस्र नामैकमपि यः पठेत् ॥ १३ ॥
तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ।
नित्यकर्माननुष्ठानानिषिद्धकरणादपि ॥ १४ ॥
यत्पापं जायते पुंसां तत्सर्वं नश्यति द्रुतम् ।
बहुनात्र किमुक्तेन शृणु त्वं कलशीसुत ॥ १५ ॥

..
तृतीयोऽध्यायः
अत्रैकनाम्नी या शक्तिः पातकानां निवर्तने ।
तन्निवयमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १६ ॥
यस्त्यक्त्वा नामसाहलं पापहानिमीप्सति ।
स हि शीतनिवृत्त्यर्थं हिमशेलं निपेवने ॥ १७ ॥
भक्तो यः कर्तियेन्नित्यमिदं नामसहस्रकम् ।
तस्मै श्रीललितादेवी प्रीताभीष्टं प्रयच्छति ॥ १८ ॥
अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।
नित्यं संकीर्तनाशक्तः कर्तियेत्पुण्यवासरे ॥ १२ ॥
संक्रान्तौ विपुवे चैव म्वजन्मत्रितयेऽयने ।
नवम्यां वा चतुर्दश्यां मितायां शुक्रवासरे ॥ २० ॥
कीर्तयेन्नामसाहस्रं पौर्णमाम्यां विशेषतः ।
पौर्णमास्यां चन्द्रबिन्ने ध्यात्वा श्रीललिताम्बिकाम् ॥ २१ ॥
पञ्चोपचारैः संपूज्य पठेन्नामसहस्रकम् ।
सर्वे रोगाः प्रणश्यन्ति दीर्घायुप्यं च विन्दति ।। २२ ।।
अयमायुप्करो नाम प्रयोगः कल्पचो (नो)दितः ।
ज्वरार्थ शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ॥ २३ ॥
तत्क्षणात्प्रशमं याति शिरस्तादो ज्वरोऽपि च ।
सर्वव्याधिनिवृत्त्यर्थं स्पृष्टा भम्म जपेदिदम् ॥ २४ ॥
तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ।
जलं संमन्त्र्य कुम्भम्थं नामसाहस्रतो मुने !॥ २५ ॥

३०
श्रीललितासहस्रनामस्तोत्रम्
अभिषिञ्चेद्ग्रहग्रस्तान्याहा नश्यन्ति तत्क्षणात् ।
सुवासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ॥ २६ ॥
यः पठन्नामसाहस्रं विपं तस्य विनश्यति ।
वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ॥ २७ ॥
नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्वम् ।
देव्याः पाशेन संबद्धामाकृष्टामङ्कुशेन च ॥ २८ ॥
ध्यात्वाभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकम् ।
आयाति स्वसमीपं सा यद्यप्यन्तःपुरं गता ॥ २९ ॥
राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ।
त्रिरात्रं यः पठेदेतच्छ्रीदेवीध्यानतत्परः ॥ ३० ॥
स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् ।
आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ ३१ ॥
तस्मै राज्यं च कोशं च ददात्येव वशं गतः ।
रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ॥ ३२ ॥
तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ।
यम्त्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ॥ ३३ ॥
तम्य ये शत्रवस्तेषां निहन्ता शरमेश्वरः ।
यो वाभिचारं कुरुते नामसाहस्रपाठके ॥ ३४ ॥
निवर्त्य तस्त्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ।
ये क्रूरदृष्टया वीक्षन्ते नामसाहस्रपाठकम् ॥ ३५ ॥

३१
नृतीयोऽध्यायः
सानन्धान्कुरुतं क्षिप्रं म्वयं माताण्डभैग्वः !
धनं यो हरते चारनामसाहस्रजापिनः ।। ३६ !
यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तम् ।
विद्यासु कुरुने वादं यो विद्वान्नामजापिना ।। ३७ ॥
तम्य वाक्म्तम्भनं सद्यः करोति नकुलेश्वरी ।
यो गजा कुरुते वरं नामसाहस्रजापिना ॥ ३८ ॥
चतुरङ्गबलं तम्य दण्डिनी मंहगेत्स्वयम् ।
यः पठेन्नाममाहनं षण्मासं भक्तिसंयुतः ।। ३२ ॥
लक्ष्मीश्चाञ्चल्यरहिता मदा तिष्ठति तद्गृहे ।
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ ४० ॥
भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः ।
यम्त्वेकवारं पठति पक्षमात्रमतन्द्रितः ॥ ४१ ।।
मुह्यन्ति कामवशगा मृगाक्ष्यम्तम्य वीक्षणात् ।
यः पठेन्नामसाहनं जन्ममध्ये सकृन्नरः ॥ ४२ ॥
तदृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ।
यो वेत्ति नामसाहस्रं तम्मै देयं द्विजन्मने ॥ ४३ ॥
अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ।
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ॥ १४ ॥
यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ।
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ ४५ ॥

Aw
श्रीललितासहस्रनामस्तोत्रम्
न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ ४६ ॥
परीक्ष्य विद्याविषये तेभ्यो दद्याद्विचक्षणः ।
श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥ ४७ ॥
देवता ललितातुल्या यथा नास्ति घटोद्भव ।
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥ ४८ ॥
लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ।
समर्चयेत्सदा भक्त्या तस्य तुप्यति सुन्दरी ॥ ४९ ॥
बहुनात्र किमुक्तेन शृणु त्वं कुम्भसंभव ।
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ॥ ५० ॥
तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ।
एभिर्नामसहस्रेस्तु श्रीचक्रं योऽर्चयेत्सकृत् ॥ ५१ ॥
पद्मा तुलसीपुप्पैः कल्हारैर्वा कदम्बकैः ।
चम्पकैातिकुसुमैर्मल्लिकाकरवीरकैः ॥ ५२ ॥
उत्पलैबिल्वपत्रैर्वा कुन्दकेसरपाटलैः ।
अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ ५३ ॥
तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ।
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ॥ ५४ ॥
अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः ।
प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ॥ ५५ ॥

तृतीयोऽध्यायः रात्रौ यश्चक्रराजस्थामर्चयेत्परदेवताम् । स एव ललितारूपस्तद्रुपा ललिता स्वमन् ॥ ५६ ॥ न तयार्विद्यते भेदो भेदकृत्पापकृद्भवेत् । महानवम्यां यो भक्तः श्रीदेवी चक्रमध्यगाम् ॥ ५७ ॥ अर्चयेन्नामसाहब्रम्तम्य मुक्तिः करे स्थिता । यन्तु नामसहस्रेण शुक्रवारे समये ।। ५८ ॥ चक्रगजे महादेवीं तस्य पुण्यफलं शृणु । सर्वान्कामानवाप्येह सर्वमौभाग्यसंयुतः ।। ५९ ।। पुत्रपौत्रादिसंयुक्त भुक्त्वा भोगान्वयस्सितान् । अन्तं श्रीललितादेव्याः मायुज्यमतिदुर्लभम् ॥ ६० ॥ प्रार्थनीयं शिवाद्यैश्च प्रामोत्येव न संशयः । यः सहस्रं ब्राह्मणानामिनामसहन्त्रकैः ॥ ६१ ॥ समर्च्य भोजयेद्भक्त्या पायसापूपपग्मैः । तस्मै प्रीणाति ललिता न्वसाम्राज्यं प्रयच्छति ॥ ६२ ॥ न तस्य दुर्लभं वन्दु त्रिषु लोकेषु विद्यते । निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ॥ ६३ ॥ ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात् । धनार्थी धनमामोति यशोऽर्थी चाप्नुयाद्यशः ॥ ६४ ॥ विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् । नानेन सदृशं स्तोत्रं भागमोक्षप्रदं मुने ।। ६५ ॥

३४
श्रीललितासहस्रनामस्तोत्रम्
कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः ।
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ॥ ६६ ॥
स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ।
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ॥ ६७ ॥
नामसंकीर्तनं मुक्त्वा नृणां नान्यत्परायणम् ।
लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ॥ ६८ ॥
विष्णुनामसहस्राञ्च शिवनामैकमुत्तमम् ।
शिवनामसहस्राच्च देव्या नामैकमुत्तमम् ॥ ६९ ॥
देवीनामसहस्राणि कोटिशः सन्ति कुम्भज ।
तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ ७० ॥
रहम्यनामसाहवमिदं शस्तं दशस्वपि ।
तस्मात्संकीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥ ७१ ॥
मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।
विष्णुनामपराः केचिच्छिवनामपराः परे ॥ ७२ ॥
न कश्चिदपि लोकेषु ललितानामतत्परः ।
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ॥ ७३ ॥
तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ ७४ ॥
नामसाहस्रपाठश्च तथा चरमजन्मनि ।
यथैव विरला लोके श्रीविद्याचारवेदिनः ॥ ७५ ॥

AW
तृतीयोऽध्यायः
तथैव विरला गुह्यनामसाहस्रपाठकाः ।
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ॥ ७६ ॥
रहस्यनामपाठव नाल्पस्य तपसः फलम् ।
अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ ७७ ॥
स चक्षुषा विना रूपं पश्येदेव विमूढधीः ।
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥ ७८ ॥
स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ।
यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिढम् ॥ ७९ ॥
नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ।
तस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ॥ ८० ॥
इति ते कथितं स्तोत्रं रहस्यं कुम्भसंभव ।
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ ८१ ॥
यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ॥ ८२ ॥
यो ददाति विमूढात्मा श्रीविद्यारहिताय च ।
तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान्म्मृतः ॥ ८३ ॥
रहस्यनामसाहस्रं तस्मात्संगोपयेदिदम् ।
स्वतन्त्रेण मया नोक्तं तवापि कलशीसुत ।। ८४ ॥
ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् ।
कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम् ॥ ८५ ॥

३ श्रीललितासहस्रनामस्तोत्रम् तेन तुष्टा महादेवी तवाभीष्टं प्रदाम्यति । श्रीसूत उवाच- इत्युक्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् ।। ८६ ॥ आनन्दममहृदयः सद्यः पुलकितोऽभवत् ॥ ८६ ॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे श्रीललितानामसहस्रफलनिरूपणं नाम तृतीयोऽध्यायः॥ ललितासहस्रनामस्तोत्रं संपूर्णम् ।। Printed by J. R. Aria, at the Vasanta Press, Adyar, Madras.

No text on this page.

Lalita Sahasranaama Stotrama~

Author
Vyaasa Mahar^shi Or Badaaraayand-a
Title
Lalita Sahasranaama Stotrama~
File name
Lalitha Sahasranama Stotram
Text
OCR done
Citation
1925
Published
2006/02/26
Publisher
Sastry R A ,vasantha Press,adyar
Language
Sanskrit
Pages
42
Library
Canegie Mellon Univeristy
Classification
Poetry. Poems. Verse
Keywords
1000 holy names dedicated to devi lailtha, It is the 36th chapeter of Laithapokhyana in brahmanada purana ,It is presented in form of instruction to sage Agastya
DLI number
496263
Barcode
1990020083173.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
Zbo6AdvPjl0
Download PDF

Lalita Sahasranaama Stotrama~