Prakrit Bharati Academy, Jaipur

Chandradhawalbhoop Dharmtatra Shreshith Katha

Suri, Manikaya Sundar · 2010/02

PDF Proofread

Front matter

चंद्रधवल- भूपधर्मदत्त श्रेष्ठिनोः कथा । नाम कुमारः । सर्वेषु शास्त्रेषु पारीणो विशेषतश्च शकुनशास्त्रेषु निपुणो बभूव । कुमारोऽन्यदा रात्रौ धवलगृहोपरि सुप्तः शिवाशब्दं शुश्राव । हृदि विचारं चक्रे-एषा शिवा मम महान्तं लाभ वक्ति । इति ध्यात्वा खड्गधरो भूत्वा शब्दानुसारेण स्मशानं जगाम । तत्राग्निकुण्डमध्ये ज्वलन्तं सुवर्णपुरुष ददर्श । कुमारः समीपस्थं पानीयमानीय स्वर्णपुरुष सिक्त्वा बहिष्कृष्ट्वा (निष्कास्य) भूमौ निक्षिप्य स्वस्थानमागत्य सुष्वाप । प्रभाते जाते प्रभातकृत्यानि कृत्वा पितरं नन्तुं सभां ययौ । तावता प्रतीहारेण राजा विज्ञप्तः, स्वामिन् ! कश्चित्पुरुषः शीर्षे रजः क्षिपन् मुषितोऽस्मीति पूत्करोति । राज्ञा चिन्तितम्-दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अन्यायपरिभूतानां, सर्वेषां पार्थिवो गतिः ॥ १ ॥ इति तमाकारयामास । सोऽपि पुमान् पूत्कुर्वन्नृपसमीपं प्राप्तः । राज्ञोचे-किं ते गतं ? । केन पराभूतः ? तेनोक्तम्--सुवर्णपुरुषो गतः । किं कुर्वेऽहं-पञ्चमो लोकपालस्त्वं, कुपालुः पृथिवीपते ! । देवेनाहं पराभूतस्त्वमेव शरणं मम ॥ २॥ राजापि तं दुर्बलशरीरं मलिनवस्त्रं च दृष्ट्वा बभाषे-भो युक्तं (सत्यं) वद, तवेदृशाकारस्य स्वर्णपुरुषो न घटतेऽन्यत्किञ्चद्गतं कथय । तथा सभ्यैरपि प्रोक्तम्-करहा कंटउ चारि कियमल्ली, विहिह परिक्खओ । आयारह ओमुहह कांह सो जोगी दक्ख ॥ ३ ॥ रोजा पोचे, कथय कथं सुवर्णपुरुषोऽर्जितः। तेनोक्तं श्रूयताम्-अत्रैव पुरे श्रीपतिर्नाम श्रेष्ठी । यस्य गृहे लक्ष्मीविलसन्ती कमलवासेति नामापि विसस्मार, तस्य श्रीमती प्रिया । सान्यदा निजसखीगृहं गता पुत्रोल्लापनपरां तां वीक्ष्य निजापुत्रतादुःखेन दुःखिताऽभूत् । भोजनावसरे गृहागतेन श्रेष्टिना पृष्टा, भोजनानन्तरं तया प्रोक्ते सोऽपि दुःखितोऽचिन्तयत्-मेघहीनो हतो देशः । चंद्रधवल. भूपधर्मदत्त. श्रेष्ठिनो: कथा ॥

No text on this page.

जी सा
555
लगुच्छाधिराज-महाप्रभावक-श्री-मेरुतुंगसूरीश्वरांतेवासिना
श्रीमन्माणिक्यसुन्दरसूरिणा विरचिता-
अतिथिसंविभागवते-
HFULY
॥ चन्द्रधवलभूप-धर्मदत्तश्रेष्ठिनोः कथा ॥
पपुर
प्रकाशकः
दी
युगप्रधानदादाश्री आर्य-जय-कल्याण प्रकाशन-मुंबई
: संयोजक :-
अचलगच्छाधिपति प. पू. आचार्यदेवश्री गुणसागरसूरीश्वरस्य
शिष्य-मुनिश्री-कलाप्रभसागरजी.
दी

चंद्रधवल.
भूपधर्मदत्त-
श्रेष्टिनो:
कथा ॥
: प्राप्तिस्थान :
लखमशी गेलाभाइ कु.
३ चीचबंदर रोड
मुंबइ नं. ९
प्रथमावृत्ति,
नकल ५५०
॥ २ ॥
अचलगच्छाधिराज पू० युगप्रधानदादाश्री कल्याणसागरसूरीश्वरजी
म. साहेब चतुर्थ जन्मशताब्दि महोत्सव वर्षना उपलक्षमां श्री
जैन श्वेतांबर मूर्तिपूजक संघ
ने सादर भेट
-
मुद्रक :
कांतिलाल डी. शाह
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो:
वीर निर्वाण २५०३
वि. सं. २०३३
भरत प्रिन्टरी
कथा ॥
,
दाणापीठ पाछळ-तळाव
पालि ताणा
॥ २ ॥

Sa
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो
कथा ॥
ॐ अहं नमः
युगप्रधानदादाश्री आर्य-जय-कल्याण प्रकाशन (६)
प्राचीन साहित्योद्धार ग्रंथावली क्रमांक (२)
॥ श्री अतिथिसंविभागवते ॥
॥ ३ ॥
॥ चंद्रधवलभूप-धर्मदत्तश्रेष्ठिनोः कथा ॥
आरोग्यं सौभाग्य, धनाढयता नायकत्वमानन्दः ।
कृतपुण्यस्य स्यादिह, सदा जयो वाञ्छितावाप्तिः ॥१॥
चतुष्पर्वी कथा प्रोक्ता, पौषधव्रतहेतवे । संविभागवतस्याथ, रुचिरा प्रोच्यते कथा ॥२॥
चन्द्रधवलभूपधर्मदत्तश्रेष्टिनोः कथा ज्ञेया । तथाहि-इह भरतक्षेत्रे कश्मीरदेशे चन्द्रपुर नाम नगरम् । तत्र
यशोधवलो नाम राजा । तस्य यशोमती देवी । तत्कुक्षिसमुद्भूतः प्रभूतगुणो (णनिवासः) निस्तन्द्रः चन्द्रधवलो
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो
,
कथा ॥
॥ ३ ॥

चंद्रधवल- भूपधर्मदत्त श्रेष्ठिनो ३ कथा । क नाम कुमारः । सर्वेषु शास्त्रेषु पारीणो विशेषतश्च शकुनशास्त्रेषु निपुणो बभूव । कुमारोऽन्यदा रात्री धवलगृहोपरि सुप्मः शिवाशब्दं शुश्राव । हृदि विचारं चक्रे-एषा शिवा मम महान्तं लाभ वक्ति । इति ध्यात्वा खड्गधरो भूत्वा शब्दानुसारेण स्मशानं जगाम । तत्रामिकुण्डमध्ये ज्वलन्तं सुवर्णपुरुषं ददर्श । कुमारः समीपस्थं . पानीयमानीय स्वर्णपुरुष सिक्त्वा बहिष्कृष्ट्वा (निष्कास्य) भूमौ निक्षिप्य स्वस्थानमागत्य सुष्वाप । प्रभाते जाते प्रभातकृत्यानि कृत्वा पितरं नन्तुं सभां ययौ । तावता प्रतीहारेण राजा विज्ञप्तः, स्वामिन् ! कश्चित्पुरुषः शीर्षे रजः क्षिपन् मुषितोऽस्मीति पूत्करोति । राज्ञा चिन्तितम्-दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अन्यायपरिभूतानां, सर्वेषां पार्थिवो गतिः ॥ १ ॥ इति तमाकारयामास । सोऽपि पुमान् पूत्कुर्वन्नृपसमीपं प्राप्तः । राज्ञोचे किं ते गतं ? । केन पराभूतः ? तेनोक्तम्-सुवर्णपुरुषो गतः । किं कुर्वेऽहं-पञ्चमो लोकपालस्त्वं, कुपालुः पृथिवीपते ! । दैवेनाहं पराभूतस्त्वमेव शरणं मम ॥ २॥ राजापि तं दुर्बलशरीरं मलिनवस्त्रं च दृष्ट्वा वभाषे-भो युक्तं (सत्यं) वद, तवेदशाकारस्य स्वर्णपुरुषो न घटतेऽन्यत्किञ्चद्गतं कथय । तथा सभ्यैरपि प्रोक्तम्-करहा कंटउ चारि कियभल्ली, विहिह परिक्खओ । आयारह ओमुहह कांह सो जोगी दक्ख ॥३॥ रोजा पोचे, कथय कथं सुवर्णपुरुषोऽजितः। तेनोक्तं श्रूयताम्-अत्रैव पुरे श्रीपतिनाम श्रेष्ठी । यस्य गृहे लक्ष्मीविलसन्ती कमलवासेति नामापि विसस्मार, तस्य श्रीमती प्रिया । सान्यदा निजसखीगृहं गता पुत्रोल्लापनपरां तां वीक्ष्य निजापुत्रतादुःखेन दुःखिताऽभूत् । भोजनावसरे गृहागतेन श्रेष्ठिना पृष्टा, भोजनानन्तरं तया प्रोक्ते सोऽपि दुःखितोऽचिन्तयत्-मेघहीनो हतो देशः । चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनो: कथा ॥ ॥ ४ ॥ . . है

अबान्धवाः ।
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनोः
कथा ॥
पुत्रहीनं हतं कुलम् ॥ विद्याहीनं हतं रूपं । हतं सैन्यमनायकम् ॥ ४॥ विना स्तम्भं यथा गेहं, यथा देहो विनात्मना ।
तरुविना यथा मूलं, विना पुत्रं कुलं तथा ॥ ५ ॥ अपुत्रस्य गृहं शून्यं, दिशः शून्या
मूर्खस्य हृदयं शून्यं, सर्वशून्या दरिद्रता ॥ ६ ॥ चउसहि दीवा जो बले, बारह रवि उगंत । तोइ अन्धारउ
तिणइ कुलइ, जिणघर पुत्र न हुंत ॥ ३ ॥ वांझणी रोवइ थाल चढी, हुं कांइ सिर जमाइ । नवि हुल-
रायो हालरो, वहूडी न पामी पाइ ॥ ४ ॥ गेहंपि तं मसाणं, जत्थ न दीसंति धूलिधूसरिया । उटंत पडत
रडवडंत, दो तिनि डिंभाई ॥ ५ ॥ पियमहिलामुहकमलं, बालमुहं धूलिधूसरच्छायं । सामिमुहं सुपसन्नं,
तिनिवि पुनेहिं पाविति ॥ ६ ॥ इत्यादि चिन्तयित्वा प्रियां प्रति प्रोचे-प्रिये मा खिद्यस्व । करिष्याम्युप-
क्रमम् , ततः श्रेष्ठी मन्त्रतन्त्रयन्त्रदेवदेवीपूजनादिमिथ्यात्वे प्रवृत्तः । अन्यदा धर्मधननाम्ना मित्रेण प्रोक्तम्-मा
मिथ्यात्वं कुरु । यतः-संमत्तं उच्छिदिय, मिच्छत्तारोवगं नियकुलस्स । तेण सयलोवि वंसो, दुग्गइमुहसंमुहो
नीओ ॥ ७ ॥ मिच्छत्तं उच्छिदिय, संमत्तारोवगं नियकुलस्स । तेण सयलो वि वंसो, सिद्धिपुरीसंमुहो नीओ
॥ ८ ॥ मिथ्यात्वेन यदि कदाचित् पुत्रो भवेत् तदपि न वरम् । यथा देवशर्मनाम्नाऽपुत्रद्विजेन कापि पाद्र-
देवता प्रोक्ता । यदि मे पुत्रो भविष्यति तदा ते देवकुलमुद्धरियेऽग्रे तटाकिकां कारयिष्ये । वर्ष प्रति एकं
छागं हनिष्यामि । अथ तस्य पुत्रो जातः । महोत्सवः कृतः । देवीदत्त इति नाम कृतम् । देवशर्मणा देव्या
भवनमुद्धृतम् । तटाकिका कारिता, वृक्षा रोपिताः, देव्यग्रे छागो हतः । एवं प्रतिवर्ष कुर्वतो देवीदत्तो यौवन
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो:
कथा ॥
२
॥ ५ ॥

चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनो कथाम प्राप्तः । पिताऽन्ते कृतार्तध्यानो मृत्वा तत्रैव पुरेऽजोऽभूत् । तत्पुत्रेण वर्षप्रान्ते स एव मेषो द्रव्येण क्रीतः स्वगृहे समानीतः । तस्य छागस्य स्वगृहं पश्यतो जातिस्मरणमुत्पन्नम् , सर्व स्वरूपं ज्ञातम् । मनसि भीतः । देव्यग्रे वधार्थ महोत्सवेन नीयमानो न चलति । बलेन नीयमानो मार्गे केनापि ज्ञानवता साधुना दृष्टः, तेनो- क्तम्- सयमेव य रुक्खरोविया, अप्पणियावेयडि खाणिया । सयमेव य लुद्दयाइते, किं छगला वयबित्ति वासं से ॥ १३ ॥ इति श्रुत्वा साहसं धृन्वाऽजश्चचाल । सर्वे लोकाश्चमत्कृताः । देवीदत्तेन साधुरुक्त:-छागचालनमन्त्रं मम कथय । तेनोक्तम्-भद्र ! तवायं पिता मिथ्यात्वं कृत्वा मृत्वाऽजोऽभूत् । यदि सन्देहस्तदा गृहे नीत्वा मध्ये मुकलं मुश्च । यदि निखातं द्रव्यं किंचित् कर्पयति तदा सत्यम् । तेन द्विजेन तथैव कृतम् । साधोः समीपे श्रविकत्वमादृतम् । हे श्रीपते ! तथा त्वमपि मिथ्यात्वेन भवाम्भोधौ भ्रमिष्यसि, धर्मधनवचसा प्रीतः श्रीपतिः : प्राह-कमुपायं कुर्वे । तेनोक्तं-वीतरागसदृशो नहि देवो, जैनधर्मसदृशो नहि धर्मः । कल्पवृक्षसदृशो नहि वृक्षः, कामधेनुसदृशी नाह धेनुः ॥ १४ ॥ जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके, विद्वद्गोष्ठी वचनपटुता कौशलं सत्कलासु ( सक्रियासु ) ॥ साध्वी लक्ष्मीश्वरणकमलोपासनं सद्गुरूणां, शुद्धं शीलं मतिरमलिना प्राप्यते नाल्पपुण्यैः ॥ १५ ॥ चन्दनं शीतलं लोके, चन्दनादपि चन्द्रमाः। चन्द्रचन्दनयोर्मध्ये, पुत्रगात्रं सुशीतलम् ॥ १६ ॥ अतो जैनधर्म कुरु । इति मित्रवचसा धर्म ज्ञात्वा त्रिकालं जिनपूजाम् , उभयकालं प्रतिकमणं, प्रतिवेलं च सामायिकं परमेष्ठिस्मरणं, नियदव्वमउव्व जिणभवण-जिणविवरपइट्ठासु । वियरइ चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनो: कथा ॥

चंद्रधवल. भूपधर्मदत्त- श्रेष्ठिनोः कथा ॥ ॥ ७ ॥ पसत्थपुत्थय-सुतित्थतिस्थयरजत्तासु ॥ १७ ॥ इतिसु (नव ) क्षेत्रवित्तवपनादिपुण्यं च कुर्वतः सकलत्रस्य श्रीपतेः षण्मासा व्यतिक्रान्ताः । एकदा पाश्चात्यरात्रौ प्रबुद्धः चिन्तयामास ' जैनधर्ममपि कुर्वतो मम न फलसिद्धिः' । किमेष धर्मो निष्फल इति यावचिन्तयति तावता शासनदेवता प्रोचे हा मूढ ! जितं फलकं मा हारय, शङ्का मा कुरु । यतः-आरम्भे नत्थि दया, महिलासङ्गेण नासए बभं । संकाए सम्मत्तं, पध्वजा अस्थगहणेण ॥१८॥ तव पुत्रो भविष्यति । परं शङ्काकरणात् पुत्रसौख्यं त्वं न लप्स्यसे । तथापि श्रेष्ठी हुएः प्रभाते कान्तया पूर्ण- कलशस्वमदर्शन प्रोक्तम् , तेनोक्तं-पुत्रो भविष्यति । कोऽप्युत्तमजीव: श्रीमतीकुक्षाववतीर्णो दिनेषु पूर्णपु जातः । श्रेष्ठिना महोत्सवः कारितः । नामकरणे धर्मदत्त इति नाम दत्तम् । स च प्रवर्धमानः सर्वकलाः शिक्षितः । साधुपार्श्वे विशेषतो धर्मकलां शिक्षितवान् । यतः । वावत्तरिकलाकुसला, पंडियपुरिसा अपडिया चेव । सव्वकलाणं पपरं, जे धम्मकलां न याणति ॥ १९ ॥ स च श्रीदेवी नाम कन्यां परिणायितः । परं शास्त्ररसे मग्न: पुस्तिकां कदापि हस्तान्न मुञ्चति । तन्मात्रा श्रेष्ठी भाषितः पुत्रोऽयं सर्वशास्त्रवेत्तापि मूर्ख इव दृश्यते-काव्यं करोतु परिजल्पतु संस्कृतं वा, सर्वाः कलाः समधिगच्छतु वाच्यमानाः । लोकस्थितिं यदि न वेत्ति यथानुरूपां, सर्वस्य मूर्खनिकरस्य स चक्रवर्ती ॥ २० ॥ अतः शृङ्गपुच्छरहितः पशुरिव दृश्यते । अत्र 'वैद्यज्योतिपिकलाक्षणिकप्रामाणिककथा' वाच्या । ततोऽयं पुत्रो यदि द्यूतकारेभ्योऽयते तदा ते स्तोकैदिन- निपुणं कुर्वन्ति । श्रेष्ठी प्राह-भोः प्रिये ! केयं कुबुद्धिः । काके शौचं द्यूतकारे च सत्यं, सर्षे शान्तिः . . , चंद्रधवट- भूपधर्मदत्त- श्रेष्ठिनो: कथा ॥ ॥ ७ ॥ ---

---
.
-
-
f
चंद्रधवल.
भूपधर्मदत्त-
श्रेष्टिनो.
कथा ॥
॥ ८ ॥
स्त्रीषु कामोपशान्तिः । क्लीबे धैर्य मद्यपे तत्वचिन्ता, राजा मित्रं केन दृष्टं श्रुतं वा ॥ २१ ॥ ततः श्रेष्ठिना
कुसंसर्गनिवारणाय 'ऋषिशुकमिल्लशुककथा' प्रोक्ता । तथापि सा न तिष्ठति । पुनः पुनः कथनेन श्रेष्ठयपि
भ्रोन्तः यतः-जे गुरुया गंभीर धीर, मोटउ जेह मरट्ट । महिला ते वि भमाडयई, जिम करि धरीय घरट्ट
॥ २२ ॥ जे पुरा जे पंडिया, जे गरूया गंभीर । नारी तेह न चोवीया, जे जे बावनवीर ॥ २३ ॥
श्रेष्ठिना द्यूतकारानाहूय व्यवहारनैपुण्याय धर्मदत्तस्तेभ्यो दत्तः, तेऽपि हृष्टास्तमादाय द्यूतरमणवनभ्रमणजलकेली-
मुख्यान् क्रीडारसान् कारयन्तः कामपताकायाः पणाङ्गनाया गृहं निन्युः । सा तैः प्रोचे-जङ्गमो निधिरयं
वर्तते । सापि तमावर्जयामास । श्रेष्ठिनी तत्स्वरूपं ज्ञात्वा हृष्टा द्रव्यं प्रेषयामास । कियत्सु दिनेषु गतेषु
श्रेष्ठीश्रेष्टिनी पुत्रमाकारयामासतुः । स तु नैति । कथमपि तौ दु:खितौ जातौ । श्रेष्टिना शासनदेवतावचः
स्मृतम् । तच्च नान्यथा तो आकार्य आकार्य निर्विष्णौ खिन्नौ दुःखेनैव विपन्नौ । यतः-आत्मापराधवृक्षस्य फलान्येतानि
देहिनाम् । दारिद्रयरोगदुःखानि, बन्धनव्यसनानि च ॥ २४ ॥ इति स्वमूर्खत्वं निन्दन्तौ मृतौ । धर्मदत्तस्तथापि
नागात् । धर्मदत्तवधूगृहे स्थिता वर्तते । अथ द्रव्यानागमनात् (ने-) पण्याङ्गनाया दासीभी रज इव प्रमार्य
धर्मदत्तो निर्वा(का) सितश्चिन्तयामास । अधममध्यम तेडइ अथुले तीन जेडइ । तरु जिम नरुवेडइ । एकस्युं
एक भेडइ । प्रियसिरि रजुरेडइ वेसपाडइ पवेडइ, विलगइ जीह केडइ नींहतुं नाम फेडइ ॥ २५ ॥ पिहरूठी
जामाणसाह नाउं घालइ कूय । के वेसा घर पाठवे, केइ रमाडइ जूय ॥ २६ ॥ विसहरनइवेसाहर विसहरमंत
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो:
कथा ॥
॥ ८ ॥

चंद्रधधल- भूपधर्मदत्त- श्रेष्ठिनोः कथा ॥ ॥ ९ ॥ पलंत । जे वेसाहरडंकिया, ताहि न मंत न तत ॥ २७ ॥ इत्यादि चिन्तयन् स्वं निन्दन् श्रीपतिगृहं पृच्छन् स्वगृहमागान्निजगृहं पतितं पश्यन् माता(१ )पितृविपत्ति कस्यचित्समीपे श्रुत्वा गृहमध्यं गतः, तर्कुरवं श्रुत्वा तत्र गच्छन् कर्तयन्तीं निजवधूं ददर्श । साऽपि तं दृष्ट्वाऽनुमानेन निजपतिमुपलक्ष्य प्रतिपत्ति चक्रे । सोऽपि विष्टरे निविष्टः सर्व स्वरूपं पप्रच्छ । साऽप्यची(च)कथत् । अथ स दुःखपूरितोऽचिन्तयत्-सौरभ्याय भवन्त्येके, चन्दना इव नन्दनाः । मूलोच्छित्यै कुलस्यान्ये व्यालका इव बालकाः ॥ २८ ॥ तं प्रिया प्रोचेऽथ खेदेन किं स्यात् । अद्यापि यदि हे प्राणेश ! त्वं सावधानस्तदा सर्वमपि भव्यं भावि । तेनोक्तम् , द्रव्यं विना भव्यता कुतः-जाई विजा रूवं, तिन्निवि निवडंतु कन्दरे विवरे । अस्थुच्चिय परिवडूढउ, जेण गुणा पायडा हुति ॥ २८ ॥ सा प्रोचे स्नानभोजनादि क्रियता पश्चादुपायं वक्ष्ये । तेन चिन्तितम्-किमपि निधाना- दिकं कथयिष्यति । तेन स्नात्वा बुभुजे । क्षणं विश्वस्य सा प्रोक्ता-कथ्यता क उपायः १ । तया निजल- क्षद्रव्यसत्काभरणमध्यात् पञ्चाशत्सहस्रसत्कमाभरणमर्पितम् । ततोऽसौ तेन द्रव्येण व्यवसायं कर्तुं प्रवृत्तः । परं कोटिवजपुत्रत्वेन स्वल्पव्यवसायेन लजमानः प्रियां प्रति प्राह-प्रियेऽत्राहं पे । समुद्रं गमिष्यामि । यतः- इक्षुक्षेत्रं समुद्रश्व, योनिपोषणमेव च । प्रसादो भूभृतां चैव, क्षणाद् प्रन्ति दरिद्रताम् ॥ २९ ॥ सा प्रोचे- प्राणेश ! साम्प्रतं समुद्रसेवनं न साम्प्रतम् । यता-पुण्यादेव समीहितार्थघटना नो पौरुषात् प्राणिनाम् यद्भानोभ्रंमतोऽपि नाम्बरपथे (तले) स्यादष्टमः सैन्धवः । स्वस्थानात्पदमात्रमप्यचलतो विन्ध्यस्य चानेकशो, चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनो: कथा | 3

चंद्रधवल-
भूपधर्मदत्तः
श्रेष्ठिनो:
कथा ।
॥ १० ॥
जायन्ते मदपालिपालितयशः-श्री( शो लंमिनः कुम्भिनः ॥ ३० ॥ धर्मदत्तोऽभापिष्ट प्रिये ! कालो सहाव
नियई, पुवकय पुरिसकारणे पंच । एगन्ते मिच्छत्तं, समासओ हुन्ति सम्मत्तं ॥ ३१ ॥ लोकेऽपि-उद्यमः
साहसं धैर्य, बलं बुद्धिपराक्रमौ । षडेते यस्य विद्यन्ते, तस्माद्देवोऽपि शकते ॥ ३२ ॥ अतो रत्नाकरं सेविण्ये,
एवं स प्रियां प्रत्युत्तरय्य स्वजनेभ्यः स्वकीयगृहादिशिक्षा दन्वा सजीकृतप्रवहणः समुद्रमचटत् । कर्कोटकद्वीप
प्रति प्रवहणस्य गच्छतोऽन्यदा प्रतिकूलवाता वातुं लग्नाः । तस्मिन्नाकुले पोतो भग्नः फलकं गृहीत्वाम्भोधिं तरन्
प्रियाशिक्षा स्मरनीरधितीरं प्राप्तः । भीषणं समुद्रं पश्यन् वभाषे-स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः, कल्या-
णिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं फलं सकलमप्यमुतः पयोधे-यंदारुणैर्जलचरैर्न विदारिताः स्मः ॥ ३३ ॥
इति कथयन् वेलावनेषु परिभ्रमन् एकं जलपूर्ण तटाकं विलोक्य मिष्टं नीरं पपौ । तीरतरुच्छायाम श्रित्य विवि-
धचिन्तां कुर्वन् निद्राकुलितनेत्रः सुष्वाप । केनाप्युत्पाटितं स्वं ज्ञात्वा प्रबुद्धः । प्रौढदेहं भयंकरराक्षसं दृष्ट्वा
भयभीतो नेत्रे निमील्य चिन्तयामास-छिचा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुरां, पर्यन्ताग्निशिखाकलापव्यस-
नानिर्गत्य दूरं वनात् । व्याधानां शरमोचनादतिजवेनोत्प्लुत्य धावन्मृगः, कूपान्त: पतितः करोतु विधुरे किं वा
विधौ पौरुषम् ॥ ३४ ॥ यद्यहं समुद्रानिर्गतस्तदा राक्षसेन गृहीतस्तकि कुर्वेऽथ यद्भावि तद्भवतु इति चिन्तयन्
क्वापि स्थाने स्वं मुक्तं ज्ञात्वा नेत्रे उन्मील्य यावद्विलोकयति तावन्न पश्यति राक्षसं किन्तु वृक्षच्छायाश्रितां दिव्य-
रूपां कन्यामद्राक्षीत् । स चातीव विस्मितः किं राक्षस एव कन्यारूपो जातोऽन्या वा काचित् किं नागकन्या
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो
कथा ।
॥ १० ॥

।
चंद्रधवल.
भूपधर्मदत्त-
श्रेष्ठिनोः
कथा |
॥ ११ ॥
खेचरी वा अमरी वेति चिन्तयन् साहसं धृत्वा प्रोचे-हे बाले का त्वं ? । तयोक्तम्-त्वं कः ? । तेनोक्तम्-
मानवोऽहम् । तयाप्युक्तं मानव्यहं, कुतोऽत्र विषमवने तिष्ठस्येकाकिनी ? । साऽवादीव-दैवगतिविपमा । तेनोक्त-
कथं ? साऽवोचत्-श्रूयतां सिंहलद्वीपे कमलपुरं नाम नगरम् । तत्र सत्यार्थनामा धनसागरश्रेष्ठी । तस्य धनश्रीः
प्रिया । तत्कुक्षिजा धनवती नाम पुत्री पितुः प्राणेभ्योऽपि वल्लभाऽभूत् । सा यौवनं यान्ती पित्रा दृष्टा चिन्ति-
तश्च । एषा पुत्री तस्यैव वरस्य देया । यस्य जन्मपत्रिका मत्पुत्रीजन्मपत्रिकया सह भाग्यवत्तया मिलिष्यति ।
इति चिन्तयन्मनेकेषां श्रेष्ठिपुत्राणां जन्मपत्रिका विलोकयामास । परं न कापि मिलति । अन्यदा चन्द्रपुरात्
प्राप्तः कोऽपि ज्योतिपिको मयि समीपस्थायां पित्रा भाषितः, एवंविधा जन्मपत्रिका कस्यापि वर्तते, तेनोक्तं-
चंद्रपुरे नगरे श्रीपतिश्रेष्ठिनः पुत्रस्य धर्मदत्तस्य जन्मपत्रिका मया कृतास्ति सा ईदृशी वर्तते, लिखित्वा दर्शिता,
एतया एपा मिलति, धर्मदत्तः पोडशस्वर्णकोटिभाग भविष्यति । श्रेष्ठिनोक्तं तेनैवैनां पुत्रीं विवाहयिष्यामि ।
लग्नानि पश्य । तेनोक्तमस्मिन् सर्वशुद्धमेकमेव लग्नमस्ति चैत्रसुदिपञ्चमीदिनेऽर्धाधिकप्रहरसमये । श्रेष्ठिनोक्तं-
स्तोका दिनाश्चन्द्रपुरे गमनागमनं कर्तुं न शक्यतेऽतः पुत्रीमादाय वयं तत्र यास्याम इत्युक्त्वा पोतं सजीकृत्य
सकलपुत्रपुत्रीयुक्तोऽम्भोधौ चचाल । दैवप्रेरितप्रतिकूलपवनैः प्रवहणे भग्ने धनवती फलकाधारेण तरन्ती सप्तदिन-
स्तीरं प्राप्ता वनमध्यसरसि पयः पीत्वा सुप्ता राक्षसेनोत्पाटितात्र मुक्ता । भयात्कम्पमाना राक्षसेनोक्ता-मा
भैपीमम क्षुधाकुलस्यापि त्वां विलोक्य कृपा जाता यावदन्यद्भक्ष्यं लप्स्ये तावत्वां न भक्षयिष्यामि इत्युक्त्वा स
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो:
कथा ॥
॥ ११ ॥

चंद्रधवल. भूपधर्मदत्त- श्रेष्टिनो: कथा ॥ ॥ १२ ॥ गतस्तेन त्वं चानीतः हे सत्पुरुप ! त्वां दृष्ट्वाऽहं चिन्तयामि, हे विधे ! कथमहमभाग्यमयी सृष्टा ? । पूर्व पित्रोवियोगः साम्प्रतं त्वस्य पुरुषरत्नस्य विनाशवीक्षणदुःखाय स्थापिताऽस्मि । हे सत्पुरुष ! त्वं क इति तयोक्ते धर्मदत्तः स्मित्वाऽवादीत् , मम स्थानादिकं त्वयैव प्रोक्तं, तावत्तस्या वामभुजः स्फुरितः प्रीतिं च प्राप्ता, स एव धर्मदत्त इति निश्चित्य लजां च लेभे, धर्मदत्तेनोक्तं-यद्यावयोर्दैवेन योगो मेलितस्तदा विमृश्य कथय लग्नदिन कदा प्रोक्तं । तया विचिन्त्योक्तं-अद्यैव दिनं एपैव वेला । ततस्तेन सा परिणीता । तया चोक्तम्- प्राणेश ! राक्षसभीस्तथैवास्ति । तेनोक्तम्-क्वास्ति राक्षसस्तयोक्तं-तत्रैव तटाके स्नात्वा खड्गं पार्श्व विमुच्य देवताची कुर्वन्नस्ति । तेनोक्तं-रक्षो हनिष्यामि । तयोक्त-तदैव वेला । स उत्थाय तयाग्रे चलितया चलितः शनैः शनैः पृष्ठविभागे गत्वा खड्गमादाय कृष्ट्वा पुरो भूत्वा हक्कितः । यावत्स कोपाकुल उत्तिष्ठति तावता तेन हतः । धनवती तस्य भुजौ पुष्पैरपूजयत् । तौ निःशङ्को तत्र कदलीफलद्राक्षादिकृताहारौ युग्मिनाविव सुखेन तिष्ठतः । अन्येद्युस्तयोक्तं-प्राणेश ! धर्म विना दिना वृथा यान्ति । पालो थको जीव धर्मकरि, सूवे निचितो काइ । दीहा जति चलंति नहु, जिम गिरि निझरणाइ ॥ ३५ ॥ येषां न विद्या न तपो न दानं, न चापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूताः, मनुष्यरूपेण मृगाश्चरन्ति ॥३६॥ बासरविग्रहराय, ते धन्ना जे धम्मसु । सेसा संभरि राय, जाणे जूधे हारिया ।। ३७ ॥ अतो वासभूमौ गम्यते तदा भव्यं । ततस्तौ ततः स्थानाचलितो वासं प्राप्तौ चन्द्रपुरदेशमध्यं गतौ । अन्यदा सन्ध्यायां निर्विणी चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनोः कथा ॥ ।। १२ ।।

चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो:
कथा ॥
॥ १३ ॥
वनमध्ये क्वापि विश्रान्तौ । धर्मदत्तः पाश्चात्यरात्रिसमये सूर्योदयात्पूर्व प्रबुद्धो लीलया प्रियामाश्रित्य बभाषे-
प्रोज्जृम्भते परिमलः कमलावलीनां, शब्दायते क्षितिरुहोपरि ताम्रचूडः । शृङ्गं पवित्रयति मेरुगिरेविवस्वा-
नुत्थीयतां सुनयने रजनी जगाम ॥ ३८ ॥ सा हुंकारमपि न दत्ते पुनः क्षणं प्रतीक्ष्य स बभापे-एते व्रजन्ति
हरिणास्तृणभक्षणाय, चूणि विधातुमथ यान्ति हि पक्षिणोऽपि । मार्गस्तवापि सुबहः किल शीतलः स्यादुत्थीयतां
सुनयने रजनी जगाम || ३९ ॥ सा श्वसन्यपि न ज्ञायते--ततो धर्मदत्तेन सम्मुखमीक्षितं तावन्न पश्यति
स्म । किमेतत् ? । सा क्व गता पूर्वमुत्थिता ? क्षणं प्रतीक्ष्य शब्दं कुरुते स्म । प्रिये ! आगच्छ आगच्छ ।
न कोऽप्यायाति । उत्थाय परितो वीक्षितम् । तां च न पश्यति पदमपि न दृश्यते । ततो विविधचिन्ता
जाता । वने भ्रान्त्वा भ्रान्त्वा श्रान्तः । परं सा क्वापि न लब्धा । हे हंस ! हे मयूर ! हे चम्पक ! हे
सहकारः ! मप्रियाशुद्धि कथयत इति जल्पन् पुनः स्वापस्थानं समेतः । प्राह-ए संसार असारडो, आसा
बंधण जाइ । अनेरे किरि सूईयइ, अन्नेरडे विहाइ ॥ ४० ॥ यन्मनोरथशतैरगोचरं न स्पृशन्ति कवयो गिरापि
यत् । स्वमवृत्तिरपि यत्र दुर्लभा, हेलयैव विदधाति तद्विधिः ॥ ४१ ॥ इत्यादि विलप्याऽथ स्वगृहमेव
यास्यामीति विचिन्त्य चंद्रपुरं प्राप्तः, प्रतोली प्रवेष्टुं लग्नो यावत्तावञ्चिन्तितम्-हा मूढ धर्मदत्त ! कत्र यासि ।
अग्रेऽपि कलत्रस्य पञ्चाशत् सहस्रा (णि) विनाशिताः, (नि) अथ निजमुख कथं दयते । सधनाः स्वजना अपि
हसिष्यन्ति । ततो वनमेव सेवितं वरम् ॥ यतः-कपिकुलनखमुखविदलित-तरुतलपतितफलभोजनं प्रवरम् । न
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनी:
कथा ॥
॥ १३ ॥

--
-
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो
कथा "
पुनर्धनमदगर्वितभ्रभङ्गविकारिणी दृष्टिः ॥४२॥ इति निश्चित्य पश्चाद्वलितो वनान्तः । फलजलाहारस्तत्र तिष्ठन्नन्यदा
योगिना दृष्टः प्रोक्तश्च-बाबू सचिन्त इव दृश्यसे ? । तेनोक्तम्-निर्धनानां कुतो निश्चिन्तत्वम् । तेनोक्तम्-अहं
दारिद्रयकन्दकुद्दालविरूदं वहे । अहमेवं चिन्तयामि-मयणदेव ईसरि दहिउ, लंक दहिय हणुएण । पंडगवणु
पंडव दहिउँ, पुण दालिद्द न केण ॥ ४२ ॥ तदहं दारिद्रधं दहामि । हृष्टो धर्मदत्तोऽवक्-कथय कथं ?
योगिनोक्तम्-स्वर्णपुरुषं साधयामि । धर्मदत्तेन चिन्तितम्-रक्ष्यतां मामेव स्वर्णपुरुषं करोति इत्याह-भो योगीन्द्र !
जीववधेन स्वर्णपुरुषः साध्यतेऽन्यथा वा ? योगी धिक कुर्वन्वभाषे-तत् श्रुतं यातु पातालं, तच्चातुर्य विलीयताम् ।
ते विशन्तु गुणा वही, यत्र जीवदया न हि ॥ ४४ ॥ पुनर्योगी किन्नरी वादयन् भाषया गातुं लग्न:-
सोनाकइ पुरिसई काहु रे कीजइ, जइ नहीं दया प्रधान । तीणई सोनइ काहु करेवउ, जीणइं तूटइ कान
॥ ४५ ॥ भारवहु काई जड जनोई, दया विणु धर्म न कोई । जीवदया तम्हि पालउ जोगी, हीअडा
निरमल होई ॥ ४६ ॥ गोरख जंपइ सुणि न बाबू , म गणि आपपराया । जीवदया तुम्हे(इक)अविचल
पालओ, अवर धरम सवि माया ॥ ४७ ॥ एभिर्वचनैर्धर्मदत्तो हृष्टस्तं प्रति जगौ । तहि कथय कथं निष्पा-
दयसि स्वर्णपुरुषं । तेनोक्तम्-रक्तचन्दनकाष्टमयं पुरुषप्रमाणं पुत्तलकं कृत्वा मन्त्रप्रभावेण सर्पपैराच्छोट्य वह्निकुण्डे
पातयामि । तत उष्णशीतलजलाभ्यां सिक्तः स एव स्वर्णनरो जायते । धर्मदत्तेनोक्तम्-तर्हि प्रसद्य कुरूद्यमं ।
तेनोक्तम्-वयं त्यागिनः ( योगिनः ) स्वर्णेन किं प्रयोजनम् । परं तवार्थमुपक्रम करिष्ये । धर्मदत्तेनोक्तम्-
चंद्रधवल-
भूपधर्मदत्त.
श्रेष्ठिनोः
कथा ॥
॥ १४ ॥

चंद्रधवल- भूपधर्मदत्त- थेष्ठिनो: कथा ॥ N निष्पेषोऽस्थिचयस्य दुःसहतरः कष्टं तुलारोपणं, ग्राम्यस्त्रीकरलुञ्चनव्यतिकरस्तन्त्रीप्रहारव्यथा । मातङ्गोज्झितगल्ल- वारिकणिकापानं च कूर्चाहतिः, कासेन परार्थसाधनकृते किं किं च नाङ्गीकृतम् ॥ ४८ ॥ योगिनोक्तम्- सपादलक्षपर्वतमध्यात् शीतमुष्णं च पानीयमानीतं वीक्ष्यते । ततो द्वावपि चलितो। शीतोष्णकुण्डयोः पानीय- मानीतम् । रक्तचन्दनपुत्तलकः स्वयं योगिना घटितः सर्वेऽप्याहुतिसंयोगा मेलिताः कृष्णचतुर्दशीरात्रौ तौ द्वावपि स्मशानं गतौ । तत्र योगिनाग्निकुण्डं ज्वालितम् । तत्र लोहरक्षामिपेण खड्गं पाद्यं कृत्वा निविष्टः, धर्मदत्तस्य चोक्तम्-तवापि लोहरक्षास्ति । तेनोक्तमम्ति किञ्चित् , ततस्तेनापि राक्षससत्कखड्गः समीपे गुप्तो धृतः, स च धर्मदत्तः योगिनात्मनोऽये पराङ्मुखो निवेशितः, पश्चान्न वीक्ष्यमित्युक्तं च, द्वयोरन्तरे रक्तचन्दनपुत्तलक: स्थापितः । परं योगी मन्त्रेण सर्षपानमिमन्व्य धर्मदत्तपृष्ठिमेवाच्छोटयति स्म । ततो धर्मदत्तेन चिन्तितम् । एष मम पृष्टिमेवाच्छोटयति । ततो भव्य इव न दृश्यते विश्वासश्च कतुं न युक्त इति विचिन्त्य ॐनमो १. परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्रपञ्जराभ, स्मराम्यहम् ||१|| ॐ नमो अरिहंताणं, शिरस्क शिरसि स्थितम् । औं नमो सिद्धाणं, मुखे मुखपटं वरम् ॥ २ ॥ आँ नमो आयरियाणं, अगरक्षातिशा- यिनी । औं नमो उपज्झायाणं, आयुधं हस्तयोई ढम् ॥ ३ ॥ ओ नमो लोए सव्वसाहूण, मोचके पादयोः शुभे । एसो पंच नमुक्कारो, शिला बज्रमयी तले ॥ ४ ॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसि, खादिराङ्गारखातिका ॥ ५ ॥ स्वाहान्तं च पदं ज्ञेय, पढम होइ मंगलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥ ६ ॥ महाप्रभाषा रक्षेय, सर्वोपद्रवनाशिनी । परमेष्ठिपदोद्भता, कथिता पूर्वसरिभिः ॥ ७ ॥ यश्चैवं कुरुते रक्षा, परमेष्ठि- पदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ॥ ८ ॥ चंद्रधवल- भूपधर्मदत्त- श्रेष्टिनी कथा ॥ , चंद्रधवल. भूपधर्मदत्त- श्रेष्टिनोः कथा।। ॥ १६ ॥ अरिहंताणं शिरस्कं शिरसि स्थितं.' इत्यादि परमेष्ठिमन्त्रेण स्वाङ्गरक्षा चक्रे खड्गं च सज्जयामास । यावदष्टो- त्तरशतविधिः पूर्णों भवति तावता वक्रदृशा धर्मदत्तेन योगी खड्गं सजयन् दृष्टः । ततस्तेनैव झटिति पश्चान्मु- खीभूय योगी हतः कुण्डान्त: पतितः स्वर्णनरोऽभूत् ( स्वर्णनरमद्राक्षीत् ) । तेन चिन्तितम्-शीतोष्णपानीयमानीय सिञ्चामीति नदीं गतः । यावदायातस्तावत् स्वर्णनरं नाद्राक्षीत् मूर्छितः पतितः ॥ पवनैः सचेतनोऽचिन्तयत् " पापमपि कृतं फलमपि गतं"। " चाण्डालपाटके प्रविष्टो मिक्षापि न लब्धा" हा देव ! त्वयाहमेवोपल- क्षितोऽस्मीति विलपन् " दुःखेनातिदुर्बलस्य बलं राजा" इति त्वत्पार्श्वमागत: सोऽहं धर्मदत्तोऽस्मि । इति श्रुत्वा राजाऽवक् 'भो भद्र ! स्वर्णनरो न केनापि व्यावर्तते परं लक्षकोटिमानं स्वर्ण याचस्व, यथा कोशात्त- दूदाप्यते । तेनोक्तम्-यदि स्वर्णनरो मयावाप्यते तदैव मे निवृत्तिरन्यथा स्वर्णेन पूर्णम् । यतः-चप्पीहउ तं जलु पीयइ, जं तुट्ठउ घणु देइ (जं जलगजि न देइ) माणविवजिय धर पडिय, मरइ न चंचु भरेइ ॥ ४९ ॥ अतः स्वर्णग्रहणे(ण)न वाच्यम् । इति तस्मिन्निश्चले राजाऽचिन्तयत् । हा मामप्याश्रित्य कार्यमस्य न सिद्धयति । अथ हस्तबीटकमुत्पाट्य बभाषे-सोऽपि सभायां कश्चिदस्ति योऽस्य स्वर्णनरं वालयति । ततश्चन्द्रधवलकुमारेण वीटकं गृहीतम् । सर्वः कोऽपि चमत्कृतः । कथं वालयिष्यति । अथ तौ द्वावपि सभातो निर्गतौ । कुमारेण विलम्बकरणार्थ स उक्तः-भो न ज्ञायते देवेन दानवेन खेचरेण वा तव स्वर्णनरो रात्रौ तत्र स्थीयते यथा स्वरूपं ज्ञायते । अथ तौ तत्रैव श्मशाने रात्री निविष्टौ । धर्मदत्ते निद्रायिते कुमारेण । चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनो: कथा ॥ अतः र चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनोः कथा ॥ ॥ १७ ॥ दिव्यवाधरवः श्रुतः । ततः कौतुकात्तत्र धर्मदत्तं निद्रायन्तमेव मुक्त्वाऽभिज्ञानानि कुर्वनग्रे स्वरानुसारेण गच्छन् वने क्यापि यक्षभवने दत्तकपाटे छिद्रेण मध्येऽष्टोत्तरशतदेवकन्या नृत्यन्तीर्ददर्श, तन्मध्ये चैकां रूपेण तदधिकामपि मनुष्यलक्षणां वीक्ष्य विस्मितः क्षणं वीक्ष्य व्यावृत्तोऽभिज्ञानरेव धर्मदत्तसमीपं प्राप्तः । सोऽपि प्रवुद्धः, कुमारेणोक्तम्-भोः किमपि श्रुतम् ? । तेनोक्तम्-शृगालाः शब्दायिताः, नहि अन्यत् , तदा भैरवी कलकलायते । तत: स्मित्वा कुमारेण नाटकस्वरूपे कथिते सोऽवादीत् । सा ममैव प्रिया घटते । द्रुतं गम्यतेऽहं तां पश्यामि । ततो यावत्तौ यक्षद्वारं गतौ तावन्नाट्यं विसर्जितम् । धर्मदत्तो हस्तौ घर्पयन् पुनः पुनः पप्रच्छ । सा कियन्माना किंकुर्वाणा [किंवर्णा] किं वयोऽनुमाना दृष्टा ? कुमारेण स्वरूपे प्रोक्ते सोऽवक् । स्वर्णपुरुषेणालम् , तां मम प्रिया- मेव चालय । अथ प्रभाते देवार्चकेन द्वायुद्घाटितायां धर्मदत्तस्य कथयित्वा कुमारो यक्षाग्रे दर्भस्रस्तरे निविष्टः । तृतीयोपवासे रात्री सिंहसर्पादिभिः क्षोभणपूर्वकं कुमारे निश्चले सति यक्षः प्रत्यक्षोऽभूत् । किं याचसे ? । तेनोक्तम्-धर्मदत्तप्रियामपंय । यक्षेणोक्तम् । सा मम प्रियावश्यं मया दातुं न शक्यते, एपा कथं त्वदीया ? शृणु- एकदाहं मत्प्रिया च रात्रौ क्वापि बने प्राप्तौ । तत्र सा दिव्यरूपा सुप्ता दृष्टा । यक्षिण्याहमुक्तः, मानवी क्वापीदृशी रूपेण न दृश्यतेऽतोपहृत्य मेऽपय । ततः सा तस्यै समर्पिता, अत्रार्थ नाहं वेदीत्युक्त्वा क्षणेन यक्षोऽदृश्योऽभूत् । कुमारेण चिन्तितं, धिग देवादयोऽपि स्त्रीवश्या एव" । अथ यक्षिणीमुद्दिश्य तपः करिष्ये । यतः ॥ यरं यदुराराध्यं, यच्च दूरे, व्यवस्थितम् । तत्सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम् चंद्रधवल. भूपधर्मदत्त- श्रेष्टिनो: कथा ॥ ॥ १७ ॥ ५

चंद्रधवल-
भूपधर्मदत्त
श्रेष्ठिनो
कथा ॥
॥ १८ ॥
-
॥ ५० ॥ इति विचिन्त्य तामुद्दिश्य षडुपवासाः कृताः । सा कम्पितासनाकुला प्रत्यक्षीभूय बभापे-वत्स !
किमेवं साहसं कुरुषे ? कुमारेणोक्तम्-सैवार्यताम् । ततो यक्षिण्याऽमिच्छन्त्या बलादपि सार्पिता । कुमारेण
धर्मदत्त आहूय प्रोक्तः, एषा ते प्रिया भवति । सोऽपि तां दिव्याभरणदुकूलशोभितां स्वप्रियां वीक्ष्य हृष्टः ।
पुनः कुमारेणोक्तम्-चल यथा स्वर्णनरोऽपि दीयते इत्युक्त्वा तत्र स्मशाने समेत्योक्तम्-अत्र त्वं खन । तेन
खातम् । निर्गतो देदीप्यमानः स्वर्णपुरुषः । धर्मदत्तेनाचिन्ति, उवयारह उवयारडओ, सहुए कोइ करेइ । विण
उवयारह जो करइ, विरलो जणणी जणेइ ॥ ५१ ॥ एवंविध उपकर्ताऽयमेव कुमारो नान्य इति क्षणं विमृ-
श्योक्तम-हे कुमार ! पुनः किञ्चिद्याचे, तेनोक्तमथ किं ? मम वाक्यं व्यय .न कार्यमित्युक्त्वा धर्मदत्तोऽवक्-
स्वर्णनरं त्वमेव गृहाण । कुमारेणोक्तम्-कुतो हेतोः ? । तेनोक्तम्-वणिगहं नायं मे घटतेऽत्याग्रहं कुर्वति सति
कुमारेणोक्तम् । तर्हि (याचस्व) यावद्रोचते तावन्मात्रं स्वर्ण स्वर्णनराद् गृहाण । तेन छित्वा गृहीतम् । कुमा-
रोऽपि गलशीर्षमात्रं स्वर्णनरमुत्पाट्य सङ्गोप्य गृहं ययौ । राज्ञो मिलितः, पृष्टं च-तस्य कार्यसिद्धिर्जाता ?
जातेत्युक्त्वा स्वर्णनरवार्तामपि न कथयामास । राज्ञाऽपि न पृष्टम् राज्ञः किं सैव चिन्तास्ति । अथ धर्मदत्तेन
स्वर्णनरात् षोडशकोटिमानं स्वर्ण प्राप्य वनस्थेनैव महान्तं सार्थ कृत्वा स्वगृहे वर्धापकः (पनक) प्रेषितः ()ततः
सर्वस्वजनैः सम्मुख समेतैर्महोत्सवेन गृहं प्राप्तः । सर्वेऽप्याश्रितलोकास्तं सिषेविरे । यतः-संपदि सपदि घटन्ते
कुतोऽपि संपत्तिसहभुवो लोकाः । वर्षाभूनिवहा इव, काले कोलाहलं कृत्वा ॥ ५२ ॥ वयोवृद्धास्तपोवृद्धा,
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो
कथा ॥
॥ १८ ॥

चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनोः कथा ॥ ॥ १९ ॥ ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धस्य, द्वारे तिष्ठन्ति किङ्गराः ॥ ५३ ॥ यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ५४ ॥ अथ यशोधवलेन राज्ञा चन्द्रधवलस्य राज्यं दत्वा दीक्षामादाय शिवसौख्यं प्रपेदे । चन्द्रधवलोऽपि राज्यं प्राप्य स्वर्णपुरुष प्रकटयित्वा विश्वमदरिद्रीकृत्य चन्द्रसंवत्सरं प्रवर्त्तयामास । तस्यान्यदा धर्मदत्तः स्मृतिमागात् , प्रभाते मन्त्रिणं प्रेष्य सबहुमानमाहूतः । स सभां प्राप्तः । राज्ञा बहुमान (नो) दत्तम् (तः) । त्वदत्तेनैव स्वर्णनरेण सर्वत्र यशो मेऽस्ति । ततः सर्वव्यवहर्तृमध्ये श्रेष्ठिपदं दत्तं धर्मदत्तस्य, स च स्वगृहं ययौ । नित्यमागच्छतोऽस्य पाचे राज्ञा पृष्टं प्रीत्या । तब कियद्धनम् । तेनोक्तम्-स्वामिन् ! महत्कौतुकं वर्तते । श्रूयताम् , तस्मिन्नवसरे स्वर्णनरात् स्वभावे (स्वमाने) नैव पोडशस्वर्णकोट्यो गृहीताः । साम्प्रतं च जलस्थलव्यवसायं कुर्वतो मे लेख्यक- करणे ता एव पोडश कोट्यो दृश्यन्ते । तेन विशेपवन्तं व्ययमपि फतुं न शक्नोमि । कारण ज्ञानिनो विदन्ति । इति वाती कुर्वतोरेव तयोः प्रतीहारयुक्तेन वनपालेनोक्तम्-श्री धनसागरसूरयो ज्ञानिनः समेताः । राजा धर्म- दत्तश्च सपरिच्छदौ गुरून्नन्तुं वनं जग्मतुः । पञ्चाभिगमैर्गुरवो वन्दिताः । तैर्धर्मोपदेशो दत्तः । गज्ञा पृष्टम् - -प्रभो ! धर्मदत्तेनोद्यमः कृतः स्वर्णनरस्तु मद्गृहे । अस्य च ता एव पोडश कोटय: । को हेतुः ? यावद् गुरवो वदन्ति तावदेका मर्कटी वृक्षादुत्तीर्य गुरून् परितः पुनः पुनः बभ्राम ननत च । राज्ञोक्तम्-पोडश-- कोटीवार्ता पश्चात्कथ्यताम् । मर्कटी कुतो नृत्यति ? । गुरुणोक्तम्-विषमो मोहो विपमा च भवितव्यता । - - चंद्रधवल- भूपधर्मदत्त- श्रेष्टिनीः कथा ॥ ॥ १९ ॥ num

चंद्रधवल
भूपधर्मदत्त-
श्रेष्टिनो:
कथा ।
॥ २० ॥
एष धर्मदत्तो जामाता । एषा चास्मत्पुत्रीधनवतीमाता धनश्रीनामा, केचिदिति श्रुत्वा धाविताः । पुरान्त-
गत्वा धनवत्यै प्रोचुस्तव पिता गुरुश्च प्राप्तोऽस्ति । साऽपि तत्क्षणं तत्रागता, अश्रूणि क्षरन्ती गुरुन् ववन्दे
प्रोचे च किमिदं स्वरूपम् ? ।' गुरवः प्राहुर्यदा प्रवहणं भग्नं तदा हस्ते फलकं लग्नम् । तदाधारात्तरनवमि-
दिनैस्तटं प्राप्तः पुरमेकं तव पिताऽहं यावता ददर्श तावदेको विप्रो 'हे धनसागर ! आगच्छ आगच्छ इति
जल्पन् मां सविस्मयं गृहीत्वा निजगृहमगात् । तेन मम भक्तिमहती कृता । त्वपित्रा द्विजः पृष्टः (मया
प्रोक्तं द्विज !)-किमर्थ भक्तिः क्रियतेऽहं तु त्वां नोपलक्षयामि । तेनोक्तम् -शृणु । इदं शङ्खपुरं नगरम्-
अहं जिनशमनामा जैनो द्विजो ज्ञेयः, अपुत्रेण मया कुलदेवताराध्य पुत्रं याचिता । तयोक्तम्-तव निकाचितं
कर्म, पुत्रो न स्यात् । मयोक्तम्-अपुत्रस्य गति स्ति, स्वर्गों नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चाद्धर्म
समाचरेत् ॥५४॥ इत्यादि कथकश्लोकवन्मम मनसि विभ्रमो नास्ति । परं मे विद्या उच्छित्तिं यास्यन्त्येष एव
विषादः । तयो (देव्यो)क्तम्-कमलपुरवासी भग्नप्रवहणो धनसागरो नवदिनैरत्र समुद्रतटे समेष्यति । स स्वगृहमानेयः,
सर्वा विद्या देयाः । एकवारश्रुतं तत् सर्वं तस्य समेति । एवं त्वमनृणो भविष्यसि । तस्य च स्वपुत्री देया । इत्युक्त्वा
देवी गता ततस्तव भक्तिः क्रियते । इत्युक्ते तेन मया त्वपित्रा सर्वविद्या गृहीताः । तत्पुत्री च पाणी
गृहीता । कियति काले विप्रः कृताराधनः समाधिना परलोकमाप । त्वपितुस्तत्र द्विजपुन्यां (एतत्पुत्र्यामेव)
पुत्रोऽभूत्तस्य धनद इति नाम कृतम् । यात्वत्स अष्टवार्षिको जातः तावता सर्व विद्या ग्रहीतुं लग्नः । एवं कियति
.
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो:
कथा ॥
॥ २० ॥

चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनोः -- कथा ॥ ॥ २१ ॥ काले गच्छति तत्र श्री अजितसिंहसूरयः समेतास्तत्पाव द्विजपुत्रीयुग व्रतमादाय गुरुदत्तसूरिपदः सोऽहं समे- तोऽस्मि । सैषा तु वन्माता समुद्रजले कृतार्तध्याना मृत्वा मत्सीभूयात्र मर्कटी जाताऽस्मान् दृष्ट्वा पूर्वस्नेहा- दागत्य परितो भ्रमति नृत्यति च । इति श्रुत्वा धनवती मर्कटीं वीक्ष्य वीक्ष्य हा मातस्तव किं जातमिति जल्पन्त्यश्रूणि मुमोच । गुरुभिरुक्तम्-ईदृगेव विषमो भवोदधिर्वर्तते । अत्र (अमुत्र) पुण्यमेव कृतमुद्धरति । यतः- मानुषं भवमवाप्य दक्षिणावर्तशङ्खवदमुं भवाम्बुधौ ( वदिहातिदुर्लभम् )। पूरयेत्सुकृतगाङ्गवारिणा क्रूर(पाप)- वृत्तिसुरया न चोत्तमः ( क्रूरवृत्तिमपसार्य पण्डितः ) ॥ ५५ ॥ अथ राज्ञोक्तम्-प्रभो ! पूर्वपृष्टस्य पोडशकोटी- प्रश्नस्योत्तरं दीयताम् । गुरवः प्राहुः-श्रूयतां कलिङ्गदेशे काञ्चनपुरे लक्ष्मीसागरो नाम श्रेष्ठी । तस्य लक्ष्मीवती प्रिया । परं लक्ष्मीरेवाभूत् (न) तथापि स सम्यक् सर्वज्ञधर्म करोति, उभयवेलं प्रतिक्रमणम् । प्रतिवेलं सामा- यिकम् । पर्वसु पोषधम् । पारणे संविभागं च न मुञ्चति । परं संविभागेऽतीचारानानयति । कदाचित् शर्करादिकं स्वयं ग्रहीतुमना: साधुभ्यो दातुमनिच्छुः सचित्ते वस्तु निक्षिप्तं करोति १ । सचित्तेन वस्तुनः पिधान करोति २ । कालातिक्रमे वा साधूनाह्वातुं समेति ३ । इदं परकीयमस्ति यदि कल्पते तदा गृह्यताम् । साधवो वदन्ति-न कल्पते । स वक्ति-ममकिं (वदन्तु) । ते वदन्ति तव मुत्कलम् । ततः स तद्भुङ्क्ते ४ । कदाचिन्मत्सरं वा धत्ते ५ । एवं कुर्वतस्तस्य नेष्टापरस्य दिना यान्ति । अन्यदा कोऽपि सार्थी बसन्तपुरं प्रति चलितुं लगः । केपि सुहृदो लक्ष्मीसागरं प्रोचुः-सजीभव । शकटं चलीवादिसंयोगं कारयिष्यामः । चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनो: कथा ॥ ॥ २१ ॥ ह

--
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो
कथा ॥
॥ २२ ॥
किञ्चित्वमपि कुरु । इत्युक्ते सोऽपि सजोऽभूत् तावता सार्थोऽचलत् । तेऽपि भृतशकटाः पृष्टतश्चलिताः ।
क्वापि सतृणप्रदेशे स्थिताः रात्रौ, लक्ष्मीसागरेण निःसम्बलेन (निश्चलेन) पाश्चात्यरात्री सामायिकं कृतम् ।
यावत्परमेष्ठिस्मरण करोति तावता सार्थिकाः प्रबुद्धाश्चलत चलतेति वदन्तः शकटानि युझन्ति स्म । लक्ष्मीसागरेण
पूर्व खुत्कृतम् । तेष्वतिष्ठत्सु प्रोक्तम्-भो मम सामायिकमस्ति, इति श्रुत्वा केचिचिरे । केयं सामायिकवेला,
प्रयाणं दूरे, वृषभा अत्र क्षुधा म्रियन्ते, युङ्क्त भो इत्युक्त्वा शकटानि योत्रितानि । ये क्षण दाक्षिण्येन
स्थितास्तेप्यूचुवयमले चलितान् स्थापयिष्याम इति मिषेण तेऽपि चेलुः । श्रेष्ठिना चिन्तितम्-अहो साथिकाः
राकटेन यात्रया पुण्यं न स्यादेव भव्यमिदानीतनं सामायिक मे जातम् । अथ यद्भवति तद्भवतु । एवं
चिन्तयन् तत्पूर्ण कृत्वा श्रेष्ठी शकटं योत्रयित्वा यावदने गन्तुं प्रवृत्तस्तावदने बुम्बारवोऽभूत् (जातः) श्रेष्ठिना
चिन्तितम् । मम पुण्यं कृतं जातम् । अथ यद्भावि तद्भवतु इति चिन्तयन्नग्रे गतानिजसाथिकान् दिगम्बराना-
गच्छतो ददर्श । तेऽप्यूचुः । भोस्त्वं धन्यः : पुण्यं फलितम् । अस्माकमग्रे धाटकं मिलितम् । ईदृशाः कृत्वा
मुक्ताः, ततः श्रेष्ठिना तेषां वस्त्रादिकं दत्तम् । तेषु रक्षापालेषु श्रेष्ठी स्वगृहमागात् । तावता गृहीतं वस्तु तत्रैव
महायं [4] जातम् । तेनैव च वस्तुना विक्रीतेन महाँल्लाभोऽभूत् । तत: श्रेष्ठिना शकटेन यात्रानियमो गृहीतः।
गृहस्थितस्यैव व्यवसायं कुर्वतोऽस्य लक्ष्मीरपि शनैः शनैः प्रचुराभूत् । कियति काले तस्य लक्ष्मीचन्द्रो नाम
पुत्रोऽभूत् । स च यौवनं प्राप्तः । तस्य विवाहसामग्र्यां क्रियमाणायां मध्याह्वावसरे श्रेष्टिनो देवपूजां कुर्वतः
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो:
कथा ॥
॥ २२ ॥

. चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनोः कथा ॥ ॥ २३ ॥ केऽपि साधवस्तद्गृहे विहाँ प्राप्ताः । श्रेष्ठिना देवान्पूजयित्वा प्रोक्त' कापि गृहे दात्री वर्तते । तदा तत्र स्थितेन लक्ष्मीचन्द्रेणोक्तम्-ताताहमेवास्मि । तदा पृच्छ के साधवः, पृष्टे सति तैरुक्तम्-अद्य श्रीधर्मघोपसग्यः पञ्चशतपरिवारा: समेतास्तदीयावावां शिष्यो । तदा श्रेष्ठिनोक्तम्-पहसंतगिलाणेसु, आगमगाहीसु तह कया लोए (पारणए तह य लोयकम्मे य) । उत्तरवारणगंमि य, दाणं च बहुफलं होइ ॥ ५६ ॥ अत: कारणात् वत्स लक्ष्मीचन्द्र ! साधुम्या पोडशमोदकान् देहि । साधयो बहवः सन्तीति लक्ष्मीचन्द्रेण चिन्तितम्-मद्विवाहे मोदकाः कृताः, अत एष ममैव लाभ इति हप[पि]तोऽसौ तैरगणितैरेव स्थाले भृत्वा समेतः । साधौ न न कुर्वति ते सर्वेऽपि तेन दत्ताः । श्रेष्ठिना पुनः पृष्टम्-वत्स ! पोडश मोदका दत्ताः ? तेनोक्त-हुँ इति । श्रेष्ठिना तावन्मात्रमेव पुण्यमुपार्जितम् । पुत्रेणागणितदानात्पूर्ण पुण्यं चोपार्जितम् । ततः साधू गती, विवाहो जातः । अथ तो पिता पुत्रश्च पूर्णमायुर्भुक्त्वा शुभध्यानेन सौधर्मे सुरौ जातौ । ततश्च्युत्वा पितृजीव एप धर्मदत्तोऽभूत् । संविभागेऽती- चारभावात् अन्तरेऽन्तरे दुःखं प्राप्य पश्चात् पोडशमोदकपुण्यानुमोदनेन पोडशस्वर्णकोटीशोऽभूत् । पुत्रजीवस्त्वं राजाऽक्षयस्वर्णनरभागभूः । इति श्रुत्वा राजाऽचिन्तयत् । एव सदा येषां, दर्शनप्रतिभ्ररभूत् । क्वचिच्य-- जति किं नाम, तेषां मन्दिरमिन्दिरा ॥ ५७ ॥" परं मोक्षं विनाऽक्षयसौख्यं न भवतीति गुरूनूवे-प्रमोऽपार- भवपारावारतारणाय चारित्रपोतं मे देहि । राज्यचिन्तां कृत्वा अन्वागच्छामि । गुरुभिरूचे-मा प्रमादीः। ततो राजा गृहमागत्य भोजनानन्तरममात्यमाहूय बभाषे-राज्यं कस्य देयम् । तेनोक्तम्-शशिनि खलु कलकः कण्टका: धर्म चंद्रधवल- भूपधर्मदत्त- श्रेष्टिनीः कथा ॥

.
चंद्रधवल.
भूपधर्मदत्त-
श्रेष्टिनी:
कथा ॥
॥ २४ ॥
पद्मनाले, जलधिजलमपेयं पण्डिते निर्धनत्वम् । धनवति कृपणत्वं, भाग्यहीने सु(स्व)रूपं, स्वजनजन वियोगो
निर्विवेको विधाता ॥ ५८ ॥ इति न्यायात्तव संवत्सरप्रवर्तकस्यापि पुत्रो नाभूत् , यस्य तस्य तु निर्गुणस्य
राज्यदानं न युक्तम् । ततस्त्वमेव सुचिरं राज्यं कुरु इत्युक्त्वोत्थितो मन्त्री । राजा सायंतनसभां विसृज्य
संयमग्रहणचिन्तापरः सुष्वाप । पाश्चात्यरात्री तेन स्वप्नो दृष्टः । कापि दिव्यरूपा दिव्याभरणभूषिता स्त्री समेत्य
भूपं प्राह-तव राज्यं वीरधवलस्य दत्तम् । एषा वरमाला संयमश्रीसत्का तब कण्ठे क्षिप्यते इत्युक्त्वा सा गता ।
राजा प्रबुद्धोऽचिन्तयत्किमिदम् । प्रातमन्त्री पृष्टः । कोऽपि वीरधवला स्वकीये राज्ये योग्योऽस्ति । तेनोक्तम्-
न ज्ञायते श्रीगुरव एव पृच्छ्यन्तेऽतो राजा गत्वा गुरून् पप्रच्छ । को वीरधवल इति ? ते प्रोचुस्त्वं संयमाय
सजो भव यदा तव दीक्षा तदा तस्य पूर्वदिशः समागमो भविता । स तव दीक्षोत्सवं करिष्यति । इति
श्रुत्वा राजा गृहं गत्वा संयमश्रियं जिघृक्षुः श्रियं नवक्षेत्रेषु वापयामास । तदा धर्मदत्तोऽपि धनवतीकुक्षिजे
रत्नसिंह पुत्रे भारमारोप्य धनवतीयुक्तः संयमाय सादरोऽभूत् । ततो राजा धर्मदत्तश्च सप्रियः संयमाय महोत्सवेन
गुरुपार्श्व प्राप्तौ । राजा दीक्षा लाति । कोऽथ नः स्वामीति यावल्लोकाश्चिन्तयन्ति, कोऽपि राज्याही न
यातीति राजापि यावचिन्तयति, तात्रता दिव्यतूर्यरवोऽभूत् । विस्मिते सर्वस्मिन् पूर्वदिशः श्वेतगजारूढः
श्वेतच्छत्रचामरशोभितः कोऽपि दिव्यपुरुषोऽनाहतगीतवादित्रयुक्तस्तत्र समेतः । गगनादुत्तीर्य गुरून्नत्वा पुरो
निविष्टः । गुदुभिरूचे-नृपं प्रति एष वीरधवलः । तेनोक्तम्-कोऽयं कीहक् । पुनस्ते प्राहुः-श्रूयताम् सिन्धुदेशे
चद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो:
कथा ॥
॥ २४ ॥

चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनोः कथा ॥ अद्य ॥ २५ ॥ वीरपुरं नाम नगरम् । तत्र सिंहो राजा, तस्य वीरधवलो नाम पुत्रः । स मृगयाव्यसनी, वनेऽज्यदा मृगीमेकां सगी बाणेन विव्याध । तदर्भ बहिष्पतितं स्फुरन्तं वीक्ष्य स्वयमेव कृपां प्राप्तः स्वं निनिन्द । जीवधातनियम मनसि गृहीत्वा निवृत्तो गृहमागतः । अन्यदा सिंहो राजा पोरैः समेत्य विज्ञप्त:-चौरैः पुरं मुषितम् । राज्ञोक्तम् - रे रे आरक्षकाः किं पुरस्य रक्षा न क्रियते ? । तैरुक्तम्-देव ! स्तोकैर्यत्नैर्दुर्ग्राह्योऽयं चौरः । अद्य चौरं गृह्णामीत्युक्तो (क्ता) राजा(ज्ञा)हर्षित:(ता.) पौराः प्रेपिताः । सायं कुमारोऽन्येऽपि भृत्या भापिताः । सर्वाभिसारेण चतुष्किकासु स्थातव्यमिति । अथ रात्रौ कुमारचतुष्किकायामेव दैवयोगाचौरः पपात, भृत्यैः खेटकैरेवाच्छादितः । कुमारेण चिन्तितम् । प्रातर्पत एवासौ चौरः पापं मे भावि । ततो मुक्त एव वरम् , इति ध्यात्वा स मोचितस्तत्क्षणे ययौ, नृपाने कथनाय भृत्या वारिताः । प्रभाते गज्ञा चौराप्राप्तिविलक्षण पृष्टम् , चौरो न चटितः ? इति । सर्वैरुक्तम् , न चटितः, ततः सभायां विसर्जितायां कुमारभृत्यैश्चौरमोचनस्वरूप राजदण्डभीतैः स्वयमेव ज्ञापितम् । गज्ञा कुपितेन कुमारो देशत्याग कारितः । स भ्रमन् भदिलपुरं गतः, स कुमारस्तत्र भिक्षार्थ प्रविष्टः । रुष्टो विधिः किं न करोति । यत:-" यस्य पादयुगपर्युपासना-बो कदापि रमया विरम्यते । सोऽपि यत्परिदधाति कंवलं, तद्विधेरधिकतोऽधिकं बलम् ॥ ५९ ॥ ब्रह्मा येन 'कुलालवनि- यमितो ब्रह्माण्डमाण्डोदरे, विष्णुयेन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रो येन ' कपालपाणिपुटके भिक्षाटनं १ चंद्रधवल- भूपधर्मदत्त- श्रेष्ठिनो: कथा | ७

चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो
कथा ॥
॥ २६ ॥
कारित:, सूर्यों भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥६० ॥ तेन कुमारेण तत्र कर्मवशात् सक्तु-
भिक्षा लब्धा, स तान् सक्तूनादाय सरसीतले शीतलेन पयसा भोक्तुं सज्जयति स्म, चिन्तितम् , यदि कोऽपि
याचकोऽभ्येति तदा तस्मै किंचिद्ददामि । तावता तद्भाग्यात् कोऽपि मासोपोषितः साधुस्तन्मार्गेऽचलत् । स
मुदितस्तमाहूय प्राञ्जलिः प्रोचे-" अद्य पूर्वसुकृतं फलितं मे, लब्धमद्य वहनं भववाधौं । अद्य चिन्तितमणिः
करमागा-द्वीक्षितो यदि भवान्मुनिराजः ॥ ६१ ॥" इत्युक्त्वा सक्तुपिण्ड उत्पाटितः । साधुना करणवेला
पृष्टा । तेनोक्ता । सावशेष देयमित्युक्त्वा साधुना पात्रं धृतम् । तेन भाववशात् सर्वेऽपि सक्तवो दत्ताः । तदा
शासनदेवतया दिव्यदुन्दुभिध्वनि कृत्वा प्रोक्तम्-धन्यस्त्वं ! धन्यस्त्वम् । । चन्द्रघवलराज्यं तुभ्यं दत्तम् ।
साधुर्ययौ । कुमारः पुनर्भिक्षया सक्तुभिः प्राणाधारं चक्रे । देव्या तवापि स्वप्नो दत्तः । साम्प्रतं सैप वीर-
धवलस्त्वया समहोत्सवमत्रानीतः ततश्चन्द्रधवलादिभिस्तेन महोत्सवे क्रियमाणे दीक्षा गृहीता । गुरुभिरुपदेशो
दत्तः-" धर्मों यस्य पिता क्षमा च जननी भ्राता मन:संयमो, मित्रं सत्यमिदं (सत्यं सूनुस्य) दया च
भगिनी नीरा(रो)गता (शान्तिश्चिरं ) गेहिनी ॥ शय्या भूमितलं दिशोऽपि ( वसनं) सदनं ज्ञानामृतं भोजनं,
यस्यैतानि सदा कुटुम्बमनघं तस्येह कष्टं कथम् (एते यस्य कुटुम्बिनो वद सखे ! कस्माद्भयं योगिनः)
॥ ६२ ॥ मर्कट्यपि गुरून् धनवतीं च पुनः पुन: पश्यन्ती जातिस्मरणं प्राप्ता प्रबोधिता च भावनया धर्म-
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनोः
कथा ||-
॥ २६ ॥

चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनोः
कथा ॥
॥ २७ ॥
माराध्य समये सौधर्मे देवी भूत्वा तेषामेव गुरूणां सानिध्यकारिणी बभूव । गुरवो नवदीक्षितैः सह पृथ्वीमण्डले
विजहः । चन्द्रधवलोऽपि केवलज्ञानमासाद्याक्षयसौख्यं प्राप । धर्मदत्तो धनवती च समये सर्वार्थसिद्धि प्राप्तौ ।
वीरधवलो राजा महोत्सवेन चन्द्रपुरं प्रविश्य प्रजाः प्रजा इव पालयन् पित्रापि तत्स्वरूपं (पुत्रस्य स्वरूपं )
ज्ञात्वा बहुमानितो राज्यश्रियमभुङ्क्त । समये श्रीदत्तं पुत्रं राज्ये स्थापयित्वा संयमश्रिया सिद्धिसौख्यं सिषेवे ।
भीमं वनं भवति तस्य पुरं प्रधान, सर्वे जनाः सुजनतामुपयांति तस्य । कृत्स्ना च भूभवति संनिधिरत्नपूर्णा,
यस्यास्ति पूर्वविहितं सुकृतं नरस्य ॥ ६२ ॥ सकलकुशलवल्लीपल्लवोल्लासदक्षः, त्रिभुवनजनरक्षाशासने बद्धकक्षः।
नवधनसममूर्तिः दिक्षु विख्यातकीतिः, स भवतु जिननाथः पार्श्वनाथः श्रिये वः ॥ ६२ ॥
धर्मः कामगवी यदीयचरणा दानादयो यन्मुखं, शुद्धा जीवदया विवेकविलसत्पुच्छच्छटालङ्कृतम् [ता] ।
अश्रेयस्तृणचारिणी शुभपयःसम्पत्तिहेतूचया, आलस्यादिकपश्यतोहरगणाद्दक्ष त्वया रक्ष्यताम् ॥ ६३ ॥
श्रीमेरुतुंगसरीन्द्र-शिष्यो माणिक्यसुन्दरः । सरिरेनां करोति स्म, संविभागवते कथाम् ॥ ६४ ॥
यावन्मेरुमही यावत् , यावच्चन्द्रदिवाकरौ । वाच्यमाना जनस्ताव-कथाऽसौ लभतां प्रथाः ॥ ६५ ॥
--
चंद्रधवल-
भूपधर्मदत्त.
श्रेष्ठिनो:
कथा ॥
इति श्री माणिक्यसुंदरमरिकृता चन्द्रधवलभूपधर्मदत्तकथा सम्पूर्णा ॥
॥ २७ ॥

चंद्रधवल.
भूपधर्मदत्त-
श्रेष्टिनो:
कथा॥
॥ २८॥
युगप्रधान दादाश्री आर्य-जय-कल्याण प्रकाशन
द्वारा प्रकाशित
१. भगवान महावीरदेव ले. मुनिश्री कलाप्रभसागरजी
२. परमात्मा महावीरदेवस्मृति ग्रंथ सं.
३. परभवनुं भातुं
सं.
४. वीशस्थानक विधि
सं.
५. शुकराज कथा चरित्र
रचयिता माणिक्यसुंदरसूरि
६. चंद्रधवलभूपधर्मदत्त कथानक
"
चंद्रधवल-
भूपधर्मदत्त-
श्रेष्ठिनो:
कथा ॥
॥ २८॥

No text on this page.

Chandradhawalbhoop Dharmtatra Shreshith Katha

Author
Suri, Manikaya Sundar
Title
Chandradhawalbhoop Dharmtatra Shreshith Katha
File name
Chandradhawalbhoop Dharmtatra Shreshith Katha
Text
OCR done
Published
2010/02
Publisher
Yugpradhan Dadashri Aarya Jaykalyan Prakashan, Mumbai
Language
Sanskrit
Pages
31
Library
Prakrit Bharati Academy, Jaipur
DLI number
322229
Barcode
99999990245065.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
Zqzeuxc3MJA
Download PDF

Chandradhawalbhoop Dharmtatra Shreshith Katha