Others
Shriirahasyatrayasaarasan'graha
Front matter
No text on this page.
सन्नाद्यानपुष्पहारे प्रकीर्णकसरः 8.
॥ श्रीः॥
श्रीमद
रहस्यतूयसारसंग्रहः॥
पण्डित
र. शेषशायि अय्यङ्गार
Pandit R. Seshasayi Iyengar.
VA
1929.
No text on this page.
श्रीमते निगमान्तमहादशिकाय नमः ॥ श्रीरहस्यत्रयसारसंग्रहः॥ नन्नमामि गुरुत्तंसं श्रीनिवासाह्वयं मुनिम् । यदुक्तथा प्रीणितोऽकार्षीत् निर्भरं मां रमापतिः । रहस्यत्रयसारार्थसंग्रहोऽयं विरच्यते । उपायमाहमा येन ललितं साधु बोध्यते ॥ गुरुपरम्परासारः। सेपि चेतनावन्तः सदाचार्यवत्तया संसारभयाद्विमुच्यन्ते । सायमा- चार्यवंशः आ भगवत्तः अनुसन्धेयः । वेदप्रदानेन शास्त्रार्थप्रवर्तनेन च भगवान् लक्ष्मीः विष्वक्सेनश्चाचार्यकोटिमधिशेरते । शठकोपमुनिस्तु वेदान्तसंप्रदाय- प्रवर्तनेन भगवद्गुणानुभवपरायणस्य श्रीनाथमुनेः योगदशायामाविर्भूय विशिष्य हिततमोपदेशेन च आचार्यो बभूव । नाथमुनेः पुत्र ईश्वरभट्टः तस्य पुत्रो यामुनेयः (=gerous wri) तस्य पुत्रः OFTELril 9 तस्य पुत्रः बाळा # तस्य चतुषु पुत्रेष्वन्यतमः [Kair or uiui तस्य पुत्रः Gari ui तस्य पुत्रिकाद्वयमिति शारीरको वंशः । विद्यावंशस्त्वेवम्- नाथमुनेः पुण्डरीकाक्षः तस्य श्रीराममिश्रः तस्य यामुनयः तस्व महापूर्णः तस्स श्रीमद्रामानुजाचार्या:-- इति ।। भक्तितारतम्यानुरोधेनैव कश्चिद्गुरुं प्रकाशयति कश्चिन्न । भगवतीव गुरावपि परा भक्तिः सर्वमपेक्षितार्थ प्रकाशयदिति कठजाबालश्रुत्यादी सञ्ज- यादिवृत्तान्तेषु च प्रसिद्धम् । उधानपत्रिका-अनुबन्धः ।
२ रहस्यत्रयसारसंग्रह अनेवभूतानां न ज्ञानप्रादुर्भावः । अतिशयितगुणानामन्तेवाासना जवाद- ध्यात्मशास्त्रप्रकाशनं नाचार्यस्य निष्ठामूनयति । अविचार्य त्वरया समुपदिशन्ना- चार्यः इन्द्रस्य उपदेशेन विस्मृतात्मविधः ततः स्वशिष्यभूतान्नारदाद्ग्रहीत- व्यात्मविधश्चतुर्मुख इव खनिष्ठातश्च्यवते । अतो गुरुप्रकाशनं आर्हन्ती रहितान्तवासिभ्यो मन्त्रसंरक्षणं च अवश्यकरणीयम् । मन्त्रोपदेशादौ आ- चायपरम्परा विशिष्यानुसन्धेया भवति । 2 आचार्यकरणीयम् । इत्थं परमाचार्यभूतं सर्वेश्वरमारभ्य सत्संप्रदायतः समागतान् सिमीस्तन्यव- द्विजातीयैरावैज्ञातरसान् रहस्यत्रयार्थान् सङ्ग्रह्य साधुतरं स्वयमनुसन्दधानाः श्रद्धाधन्विताय परापवादावरताय विविक्तशीलाय विधिप्रियाय विजानते शि- प्याय यथाशास्त्रं तत्त्वमुपदिशन्तः, अनृतवादिभ्यः शठेभ्यः परोपतापिभ्यः अजितेन्द्रियेभ्यः पण्डितम्मन्येभ्यः अविचक्षणविमोहकवादकुतूहलिभ्यः अ- सद्भयः तत्त्वत्रयरनं संरक्षन्तः, सन्मार्गप्रच्यावकमात्मसम्माननमर्थ डम्भं लो- कानुसरणं च दूरीकुर्वन्त आचार्याः शरण्यानुग्रहनिदानभूतसात्त्विकत्वास्ति- क्यादिगुणवतः दैवप्रकृतीन् यथाविधि मासत्रयं परीक्ष्यान्तेवासितापदे स्था- उम्भदर्पादिदोषवतः आसुरप्रकृतीन् बहिष्कुर्वन्तःवयं निस्पृहाः, एवं यथारुचि सङ्ग्रह्य शिष्येभ्य उपदिशेयुः -- यथा जीवात्मानो हि देहेन्द्रिया- दिव्यतिरिक्ता नित्याः । परमात्मा हि चेतनाचेतनान्तर्यामी सर्वशरीरकः सर्वशेषी । विना च परमात्मानं नान्योऽस्ति कश्चन रक्षकः । अनादिकाल- मारभ्य संसरतां इतः परं गर्भवासादिक्लेशाभावाय भगवतश्चरणावाश्रयणीयौ । आचार्यप्रसादलब्धयोः श्रीशचरणयोः गुरुपरम्परासमधिगतेन द्वयेन आत्मात्मी- यसमर्पणमेव हि हितम् । सदाचार्यकटाक्षलब्धः स भगवान् न कदाऽप्या- श्रितान् जह्यादिति महता विश्वासेन यावज्जीवं निरपराधमनुकूलमुत्तरं कृत्यं चावश्यकमिति । उद्यानपत्रिका- पयन्तः, रहस्यत्रयसारसंग्रहः। 3. शिष्यकरणीयम् । इत्थं तत्त्वान्यखिलानि अन्तर्गृहं महानिधिमिव प्रदर्शयतां परमेोप. कारिणामाचार्याणां विषये शिष्यस्य कृतज्ञतानुसन्धानमद्रोहाचरणं च वि- दधच्छास्त्रं सविभूतिकस्य भगवतो निग्रहं हितवादिप्रह्लादविभीषणादिप्र. तिकूलाहिरण्यरावणादिवदस्य दण्ड्यतां च निवर्तयितुमेव प्रवृत्तम् । शरी- रस्यार्थस्य प्राणानां च दक्षिणात्वेन यदाचायाय निवेदनं विधीयते, तदिदं प्रणिपाताभिवादनादिवत् कर्तव्यं यत्किञ्चन गर्भाकरोति । देववदाचार्ये वर्तितव्यमित्यापस्तम्बादिवचनमपि शास्त्रचक्षुषोऽस्यानन्धतां भगवदनुभवमिव सदाचार्यकैकर्यानुभवमपि संवर्धयितुमेवाशेते । नैतैः प्रमाणैः निस्पृहमुप- दिशतामाचार्याणां विषये कश्चन प्रत्युपकारोऽवबोध्यते । अत एव ब्रह्मविधा- प्रदानस्य प्रतिप्रदानं नेति वचनजातमुपपद्यते । एवंभूतस्यान्तेवासिनः इमान्यवश्यकरणीयानि भवन्ति-यद्विप- रीतानुष्ठानादिभिः श्रुतं कपालसम्बन्धेन क्षीरमिव सर्वानुपजीव्यं न करो- ति; यच्च काकवाशितमिव श्रुतमर्थज्ञानमात्रप्रयोजनकं न कल्पयति; यच्च श्रुतमवबोध्य लब्धेन वित्तेन कुक्षिमापूरयन् वान्ताशितामात्मनो न निष्पाद- यति; यच्च श्रुतं गणिकालङ्कारमिव स्वप्रयोजनपदान्न दूरीभावयति; यच्च अ. नुलेपनसुगन्धिद्रव्यवच्छृतं मूल्यानुगुणं न विक्रीणीते; यच्च पृथुककणप्र- करणभिवान्यविचारमन्तरेण समुदायोद्देश्यकं न करोति यच्च श्रुतं वान- रहस्ते मालामिवापात्रे नायोजयतीति । किंच जनुषान्धकल्पमात्मानं सूरिपरिपदह परिकल्पयत आचार्यस्य तुल्यः 'प्रत्युपकारो नैवेति जानन् कुलग्रामादिना व्यपदेशं विरहयन् भगवता लाधितमाचार्यसम्बन्धव्यपदेशमात्मनः प्रकाशयन् सदाचार्यसम्बन्धजनितमुप- कारमविस्मरन्नासीत । उद्यानपत्रिका ।
रहस्यत्रयसारसंग्रहः । इत्थमवगतं रहस्यत्रयं सति पात्रे विनिवेशयितुमीहमानः आत्मीय- गुरुपरम्परां प्रकाशयन् तत्र कृतज्ञतां तदीयार्थप्राशस्त्यं चावबोधयन्नुपदिशेत् । यश्च उत्संप्रदायं खयमेव पुस्तकं विलोक्य अथवाऽऽत्मानं प्रच्छाध गृही- तमर्थ परानवबोधयति स किल प्रमुषिताभरणधारीव सर्वेभ्यो विज्ञातृभ्यो बिभीयात् । प्रत्यवेयाच्च । आचार्यसकाशादपि नियममतिलद्ध्य गृह्णानः कालपुरुषदानप्रति- ग्रहप्राप्तभूषण इव सवैः कुत्सनीयो भवति,अनर्थकारी च। गुरुपरम्पराप्रकाशनाभावे हि शिफारहिततृणवदस्थिरत्वेनाप्रामाण्यश- कास्पदतया अनादरविषयः उपदेशः स्यात् । गुरूणामप्रकाशनं चापचार- मध्ये पठ्यते । तदप्रकाशने च ज्ञानवैशयपूर्वकभगवदनुभवसम्पत् सत्तानुवृत्ति हेतुशंषत्वानुसन्धानपूर्वकखनिष्ठारूपमायुश्च नश्यतः । आचार्यकृतशास्त्रीयो पदेशस्य विरोधमुपपादयन्नन्तेवासी विप्रलम्भकः पापिष्ठश्च भवति । सच्छि प्येभ्यस्तत्त्वमनुपदिशन्नाचार्यः लुब्धो भगवन्नियोगातिक्रमी च विज्ञायते । दीपधारी सेवकः नाथन कार्यान्तरे विनियुज्यमानः तुल्येऽन्यत्र दीपं संक्र- मय्य किलापगच्छति । एवं पात्रान्तरे सदुपदेशं निदधानः अविरुद्धं खतो- भातस्यार्थस्य सदाचार्यमूलकतां प्रकाशयन् सर्वादरणीयतत्त्वार्थः कृतज्ञ इति साविकैरनुगृह्यते । सत्यवादीति उपनिषदा परमपुरुषतुल्यमुपश्लो- क्यते च । एवंभूतान्तेवासिजनलाभेन स्वकृषः फलवत्त्वं परिचिन्तयन्ना- चार्यः कृतार्थो भवति ।
रहस्यत्रयसारसंग्रहः। 1. उपोद्घातः । श्रियः पत्युः कौस्तुभस्थानीयो हृदयङ्गमश्शेषभूतो जीवात्मा परमे पदे नागपर्यङ्कमध्यासीनस्य श्रीमतो नारायणस्य सर्वविधकैकर्याणि नित्यसु- रिभिः साकमनुविधातुं योग्यतावानपि अनादिमायया प्राकृते महागर्ते पाततः, शैशवावस्थायामेव केनापि हतविधिना मृगयासक्तस्य पितुः सकाशात्प्रच्या- वितः पक्कणं प्रापितः तत्रत्यैः स्वानुगुणं परिपोषितः स्वस्वरूपानहवेषभाष- णाबारादीननुतिष्ठत्राजकुमार इव निष्प्रभो दीनतरश्च भवति । तदनु स यथा तत्त्ववेदिभिः कैश्चन धार्मिकैरुपदिष्टस्ववृत्तः दृष्टादृष्टसंस्कारैरुत्कृष्ट- भोगतदुपायादिषु योग्यता प्रापितः पितुः सभीपं गन्तुमहिमानः तैरेव तत्र प्रापितः स्वोचितपुरुषार्थ लभते तथैवायमपि यादृच्छिकसुकृताधीनसमा- गमैराचार्यः भगवच्छेषत्वमवगमितः महितेनोपायेन निरतिशयभोग्यं भगवत्कैकर्यमवाप्य मोदते । एवं वर्तमानस्यात्मनः ईशोशितव्यस्वरूपस्वभावसंबन्धाः, भोगापवर्गों, त्याज्योपादेयभूता अनयोरुपायविशेषाः, गतिविशेषाः, मोक्षविरोधिनश्चेतीमे अर्था ज्ञातव्याः । एतेऽर्थाः सारतमरहस्यत्रये प्रतितन्त्रसारोद्धारक्रमेण संगृहीता वर्तन्ते । 2. सारनिष्कर्षः। परमपुरुषार्थतदुपायानां प्रत्यक्षागम्यतया शब्द एव प्रमाणम् । तत्र बाह्यकुदृष्टिशास्त्राण्यत्यन्तासाराणि । वेदेऽप्यहिकफलसाधनकर्मप्रति- पादको भागः अल्पसारः । आमुष्मिकस्वर्गादिफलसाधनभागः सारः । ततोऽप्यात्मप्राप्तितत्साधनप्रतिपादको भागः सारतरः । ततोऽपि परमात्म- तत्प्राप्तितदुपायप्रकाशको भागः सारतमः । तत्रापि प्रधानप्रतितन्त्रण तत्त्वहितसंग्राहको भागः अत्यन्तसारतमः । तत्राष्टाक्षरस्य सर्वार्थप्रदान- चणतया, चरमश्लोकस्य सर्वफलसाधकोपायविशेषविधायकतया, द्वयस्य सकृ- .. दुच्चारणमात्रेण कृतकृत्यतासंपादनदक्षतया च इदं रहस्यत्रयं सारतमं मुमु- क्षुभिः समाद्रियते । उद्यानपत्रिका .
रहस्यत्रयसारसंग्रहे ur. 3. प्रधानप्रतितन्त्रम् । प्रतितन्त्रं नाम इतरसिद्धान्त्यनङ्गीकृता एकतरसिद्धान्त्यसाधारणी- भूता अर्थाः । तादृशाः प्रधानभूता अस्माकं मते चेतनाचेतनयोरीश्वरस्य च शरीरात्मभावसंबन्धादयः । तत्र भगवतः शरीरित्वं नियतचेतनाचेतनद्रव्यधारकत्वनियन्तृ- त्वशेषित्वरूपम् । चेतनाचेतनयोः शरीरत्वं नियतेश्वरधार्यत्वनियाम्य- वशेषत्वरूपम् । धारकत्वं नियन्तृत्वं च स्वरूपेण संकल्पेन च यथार्ह तत्सत्तास्थितिप्रवृत्तीनां प्रयोजकत्वरूपम् । ईश्वरः किल स्वरूपनिरूपक- धर्माणामिव निरूपितस्वरूपावशेषणगुणानामिव च खव्यतिरिक्तसमस्तद्रव्याणां अव्यवधानतः स्वरूपेणाधारो वर्तते । तत्तद्र्व्याश्रितगुणानां तत्तद्रव्य- द्वाराऽऽधारो भवति । जीवधृतानां शरीराणां जीवद्वाराऽऽधार इति केचित् । अपर पुनः जीवद्वारा स्वरूपेण चाधार इत्यङ्गीकुर्वन्ति । सर्वस्यापि ईश्वरा- पृथक्सिविशेषणतया अदसीयाः सत्तादय आश्रयसत्ताधीना भवन्ति । अनित्यवस्तुसत्ता अनित्येच्छयोत्पद्यते । नित्यवस्तुसत्ता नित्येच्छासिद्धा वर्तते । सत्तानुवृत्तिलक्षणा स्थितिरपीश्वरेच्छाधीनेति सर्वस्यापि सङ्कल्पा. श्रितत्वमुपपद्यते । गुरुद्रव्याणां सङ्कल्पधृतत्वकथनं देशविशेषे पतनाभाव- तात्पर्येण प्रवृत्तम् । इत्थमिच्छाधीनसत्तास्थितिप्रवृत्तीनां वस्तूनां परमात्म- खरूपाश्रितत्वमिच्छव व्यवस्थापयति । इत्थं च सर्वाणि वस्तूनि भग- वत्स्वरूपाश्रितानि तत्सङ्कल्पाश्रितानि च सन्ति । लोकेऽपि शरीरस्य स्वरूपेण सङ्कल्पेन च शरीर्याश्रितत्वं पश्यामः । जीवसत्तासमव्याप्तत्वात् शरीरस्य स्वरूपाश्रितत्वम् । एतच्च सङ्कल्पराहतसुषुप्तयाद्यवस्थासु स्फुटम् । जाग- रादिषु सङ्कल्पेन पतनप्रतिबन्धनात् सङ्कल्पाश्रितत्वम् । स्वरूपाश्रिते व- स्तुनि आधेयतया सङ्कल्पाधीने च नियाम्यतया व्यपदेशो भवति । अत्र भ गवतश्शेषित्वं नाम पारायॆकस्वभावानां स्वप्रयोजनतया उपादानादतिशय- भाक्त्वमेव । इत्थमाधाराधेयभावेन तदपृथक्सिद्धखरूपलाभः शेषशषिभावेन उद्यानपत्रिका।
रहस्यत्रयसारसंग्रहः। अनुरूपपुरुषार्थरुचिः नियन्तृनियाम्यभावेन निरपेक्षोपायविज्ञानं चास्य फल- मिति । एवं च जीवः अनन्याधारः अनन्योपायः अनन्यप्रयोजनश्चेति लभ्यते । नारायणशब्दे तत्पुरुषबहुव्रीहिसमासाभ्यामनन्याधारत्वादिविशि- घटस्वरूपलाभः । प्रणवनमःपदाभ्यां अनन्यशरणत्वानन्यप्रयोजनत्वयोर्लाभः फलतीति । प्रपत्त्यनुष्ठानप्रकाशके द्वयेऽपि पूर्वखण्डेन अनन्यशरणत्वं उत्त- रखण्डेनानन्यप्रयोजनत्वं उभाभ्यामनन्याधारत्वं च प्रकाश्यते । एवं चरम- श्लोकेऽपि स्वयं ऊह्यम् । ईश्वरगतं शोषित्वं खामित्वरूपे विशेष, खगत शेषवं दास वरूपे विशेष च पर्यवसाय्यानुसन्धानं सांप्रतम् । इत्थं च शे. पस्य कैकय शेषिणोऽतिशयलाभश्च पुरुषार्थी सिद्धयतः । 4. अर्थपञ्चकम् । आधाराधेयभावादिना विवक्षितं प्राप्यप्राप्तोः खरूपं, उपायः फ. लं प्राप्तिविरोधीति अर्थानां पश्चकं अवश्यं ज्ञातव्यम् । चेतनाचेतनयोः ब्रह्मणश्च शरीरशरीरिंभावसम्बन्धमपि षष्ठं विज्ञेयं केचन वदन्ति । प्राप्यस्य स्वरूपं अकारनारायणादिशब्दतः प्रतीयमानं सत्यज्ञानादि- खरूपनिरूपकधर्मविशिष्टमाप बहुप्रमाणानुरोधेन श्रीविशिष्टं समस्तकल्याण- गुणयुक्तं अप्राकृतदिव्यमङ्गलविग्रहावशिष्टं भूषणायुधादिविराजितं च अनु- सन्धेयम् । तदिदं ब्रह्मस्वरूपं परव्यूहविभवहार्दा_रूपतः पञ्चप्रकार लीलाभोगविभूतिविशिष्टं च । आनुकूल्यस्य तुल्यत्वेऽपि रसवैषम्येण लो- कवत् विभूत्याः लीलार्थत्वं भोगार्थत्वं चोपपद्यते । प्राप्ता च प्रत्यगात्मा बद्धमुक्तनित्यभेदेन विधा । अनादिकर्मप्रवा- हान्तर्गता बद्धाः । शास्त्रचोदितोपायविशेषतो निवृत्तसंसारा निरतिशय- ज्ञानानन्दा मुक्ताः । नित्यसिद्धज्ञानानन्दा ईश्वरतुल्या नित्याः । अ- मीषां ज्ञानानन्दामलत्वादयः स्वरूपतोऽणुत्वं च साधारणो धर्मः । यथायोग्य नमआदिषु पदेषु प्रत्यगात्मखरूपमनुसन्धयम् । उद्यानपत्रिका।
८ रहस्यत्रयसारसंग्रहः । उपायस्वरूपमपि सपरिकरमुपरिष्टात् विस्तरेण प्रतिपादयिष्यते । प्रपधे व्रजेत्यादौ च उपायोऽनुसन्धातव्यः । फलस्वरूपमपि परस्ताद्विशदीभावयति । तच्च चतुर्थीनमआदिषु अनुसन्धेयम् । प्राप्तिविरोधी नाम, अविद्याकर्मवासनादिरूपमोक्षप्रतिबन्धकवर्गः । तत्राज्ञातिलङ्घनजनिता भगवन्निग्रहस्तु सर्वनिदानभूतः । स हि जीवानां विचित्रं प्रकृतिसंसर्ग, तिर्यगादिदशां, मनुष्यदशायां बाह्यकुदृष्टिमतप्रवेश, तत्र तत्त्वाज्ञानादिमूलकाज्ञातिलङ्घनादिरुचिपरम्परां, देवतान्तरप्रावण्यं, नामाय- चेतनोपासनासक्तिं, केवलात्मानुभवकुतूहलं, भगवदनुभवान्तरायभूताष्टैश्वर्या- दिसिद्धयोन्मुख्यं, वस्वादिपदप्राप्तिरूपं विळम्बं च जनयति । एकेनापि विरोधिना जातेऽन्तराये नैष संसृतिवन्धं निश्शेषतो हातुं प्रभवति । प्रपत्ति- व्यतिरिक्ताः कर्मयोगादयो हि विळम्बेन जन्मान्तरादिष्वेव फलमुपजनयेयुः । सर्वथा व्यथयतो भगवन्निग्रहस्य निश्शेषनिवर्तिनी प्रपत्तिरकैवेति दृश्यते । एवांविधविरोधिनिवृत्तिः नमआदौ अनुसन्धया । 5. तत्त्वत्रयचिन्तनम् । अवश्यं विज्ञेये अर्थानां पञ्चके षटके वा तत्त्वहितपुमर्थरूपतत्त्व- त्रयविवेचनमेव मुख्यम् । यत इदमेव प्रकृत्यात्मभ्रमं स्वतन्त्रात्मभ्रममनी- श्वरवादरुचिं चापाकरोति । तत्र अचेतनानि त्रिगुणकालशुद्धसत्त्वभेदेन त्रिधा । चेतना अपि बद्धमुक्तनित्यभेदेन त्रिविधाः । एतदुभयशरीर- को भगवानिति यथाप्रमाणमवगम्यते । एतादृशीं च तत्त्वरीत प्राञ्चः सं- स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदम्' इत्याहुः । स्वासाधारणधर्मनिरूप्यो धर्मी स्वरूपम् । कालान्तरानुवृत्तिः स्थि- तिः । सेयं नित्येषु नित्या । अन्यत्र भगवत्सङ्कल्पमनुसरति । व्यापार- विशेषः प्रवृत्तिः । सा च प्रतिवस्तु प्रमाणप्रतिनियता वर्तते । प्रमाणानि किल वस्तूनां स्वरूपं तन्निरूपकान् धर्मान् निरूपितस्वरूपविशेषणानि उपानपत्रिका। गृह, रहस्यत्रयसारसंग्रहः। व्यापारांश्च प्रदर्शयन्ति । प्रमाणेन च स्वरूपं स्वरूपनिरूपकधर्मविशिष्ट- मेवावबोध्यते । तेन विना तत्स्वरूपं निरूपयितुं न शक्यते । वि- हाय स्वरूपनिरूपकं धर्म जिज्ञास्यमानः शशविषाणसदृशः स्यात् । अतो जीव: ज्ञानत्वानन्दत्वामलत्वाणुत्वरूपासाधारणधरेव निरूप्यते । भगव- निरूपितशेषत्वस्य सम्बन्धरूपतया सम्बन्धिनिरूपणं विना न तन्निरूपणा- हमिति शेषत्वस्य निरूपितस्वरूपविशेषणत्वमेव युक्तमिति सांप्रदायिकाः । केचित्तु अणुत्वविशिष्टचेतनत्वस्येव खतःशेषत्वविशिष्टचेतनत्वस्या- पि स्वरूपनिरूपकत्वं लक्षणविधया संभवतीति वदन्ति । एवं निरुपाधिकशेषित्वादिकमपि ईश्वरलक्षणमङ्गीक्रियते । जीवा- नामीश्वरस्य च चेतनत्वप्रत्यक्त्वे साधारणे । चेतनत्वं ज्ञानाश्रयत्वम् । प्रत्यक्त्वं खस्मै भासमानत्वम् । तदानीं धर्मभूतज्ञाननिरपेक्षमहमिति ख- रूपेण प्रकाशते । ईश्वरेऽतिव्याप्तिवारणाय जीवलक्षणे स्वतःशेषत्वादिकं निवेशितम् । इदं शेषत्वं भागवतशेषत्वपर्यन्तमभिवर्धत इति वक्ष्यते । चेतनानां प्रवृ- तिः पराधीना परार्था च । भगवांश्च स्वभोक्तृत्वनिर्वाहायामीषां कर्तृत्वादिकं वेतरति । बद्धाश्चाविद्याकर्मवासनारुचिप्रकृतिसंबन्धयोगितया इतस्भ्यो भिन्नाः । ते च भगवद्दत्तं करणकळेवरादिकं धर्मिस्वरूपेण धर्मभूतज्ञानेन च धरन्ति । धर्मिस्वरूपेण धरणं सत्ताप्रयोजकं । धर्मभूतज्ञानेन धरणं तु पुरुषार्थतदुपायानुष्ठानादिप्रयोजकम् । जीवेन त्यज्यमानाः विशीर्णाश्च दे- हादयः उपादानद्रव्यद्वारा भगवतः शरीरं भवन्ति । बद्धानां स्थितिभेदः प्रवृत्तिभेदश्च यावन्मोक्षं संसारसम्बन्धात् पुण्यपापानुभयरूपाणां त्रिविधप्रवृ- त्तीनां सम्बन्धाच्च भवति । प्रतिबन्धकनिवृत्त्या आविर्भूतस्वरूपत्वमेव मुक्तानां तदितरभेदः । तेषां स्थितिभेदश्च पूर्वावधिविशिष्टस्वरूपाविर्भावस्य उत्तरावधिराहित्यमेव । अन्योन्यं स्थितिभेदश्च मुक्तेषु कालाल्पत्काधिक्यादिना भवति । तेषां प्रवृत्तिभेदः उद्यानपत्रिका।
१० रहस्यलयसारसंग्रहः । चिरेण प्रच्युतानां संप्रति समधिगतानां भगवदनुभवजनितकैकर्याणां विशेषै- खगन्तव्यः । अनाद्याविभूतस्वरूपत्वविशिष्टपारतन्त्रयं नित्यानां तदित- रभेदः । स्थितिभेदश्चानाद्यनुवृत्तशेषितत्त्वानुभवात् भवति । एतादृशा- नुभवस्य सर्वनित्यसाधारण्येन न परस्परस्थितिभेदः शक्यते वक्तुम् । प्र- वृत्तिभेदश्चानादिप्रवाहनित्यकैङ्कयविशेषैरवगन्तव्यः । अनन्तगरुडादिप्रति- नियतकैकयेष्विच्छानुदयात् एकानुष्ठितकैङ्कर्यसन्दर्शनेन समानफलवत्त्वा- च न नित्यमुक्तयोः कैकर्यवत्त्वहानिः । अत्र चेतनशब्देन धर्मिस्वरूप- ज्ञानमिव तद्विशेषणीभूतं धर्मभूतज्ञानमपि विवक्षितम् । विषयप्रकाशन- वेळायां स्वाश्रयस्य स्वयंप्रकाशत्वमस्य स्वरूपभेदः । इदमीश्वरस्य नि- त्यानां च नित्यविभु । बद्धस्य कर्मानुरूपबहुविधसङ्कोचविशिष्टम् । मुक्तस्य नैजविकासेन उत्तरकालं यावद्विभु । अस्य प्रवृत्तिर्नाम विषयप्रकाशन, प्रयत्नावस्थायां शरीरादिप्रेरणं, बद्ध- दशायां सोचविकासौ भोगावस्थाप्राप्तिश्च । भोगो नाम अनुकूलतया प्रतिकूलतया वा कस्यचिदनुभवः । यद्यपीश्वरविभूतीनामानुकूल्यमेव स्वभावः । तथैव मुक्ता नित्याश्चानुभवन्ति । तथाऽपि संसारिणां तत्त- कर्मानुरूपभगवत्सकलेन कालपुरुषदेशीपाधिभिरनुकूलं प्रतिकूलभुदासीनमि- तीमे विभागा भवन्ति । न तु वस्तुस्वभावसिद्धाः । एतादृशकर्मफलानुभवे पर- तन्त्रचेतनत्वं स्वरूपयोग्यता भवति । सापराधत्वं च सहकारियोग्यता । नि- त्यमुक्तयोः सत्यामाप स्वरूपयोग्यतायां सापरावत्वरूपसहकारियोग्यताविरहात् नानुभवः । ईश्चरस्य योग्यताद्वयमपि नास्ति । यतः स न परतन्त्रः । नाप्यपराधवान् । जीवानां धर्मिस्वरूपज्ञानप्रकाशः कदापि न सकोच- विकासौ भजति । सर्वेषां धर्मभूतं ज्ञानं विषयप्रकाशनवेळायां स्वाश्रयस्य स्वयंप्रकाशम् । ज्ञानत्वं स्वयंप्रकाशत्वं च धर्मधर्मिभूतज्ञानयोः साधा- रणम् । धर्मभूतस्य विषयित्वमसाधारणम् । धर्मिणः प्रत्यक्त्वमसाधारण- म् । ज्ञानत्वं नाम स्वस्य वा परस्य वा कस्यचित् व्यवहारानुगुण्यसंपादक- उद्यानपत्रिका ।
रहस्यत्रयसारसग्रहः । ११ त्वम् । स्वयंप्रकाशत्वं नाम ज्ञानान्तरानपेक्षप्रकाशवत्त्वम् । विषयित्वं नाम स्वेतरनिष्ठविषयतानिरूपकत्वम् । प्रत्यक्त्वं नाम स्वस्मै भासमानत्वम् । स्वप्रकाशफलित्वमिति यावत् । यस्य कस्यचिद्वस्तुनः प्रकाशं प्रति फलि- त्वमित्यस्मिन् सामन्याकारे स्वप्रकाशं प्रति स्वयं फलित्वमित्येवं विशे- षिते प्रत्यक्त्वं भवति । यद्वस्तु एतद्रिशेषरहितं तस्येदं सामान्यं तद्व्यातं चेतनत्वं च न भवति । एवं धर्मधर्मिणोः सत्यपि स्वयंप्रकाशत्वे नित्यत्वा- दिधमविशेषविशिष्टतया ज्ञानान्तरवेद्यत्वमपि बोध्यम् । स्वीयधर्मभूतज्ञानानां विभिन्नत्वं प्रसरभेदप्रयोज्यं भवति । अचेतनलं नाम ज्ञानाश्रयताशून्यत्वम् । परस्मै भासमानत्वं नाम स्वप्रकाशं प्रति स्वस्य फलित्वाभावः । इदं द्वयं धर्मभूतज्ञानादेराप तुल्यम् । त्रिविधाचेतनेषु प्रकृतिः कालश्च जडौ । केचित्तु शुद्धसत्त्व- मपि जडं वदन्ति । जडत्वं नाम स्वयंप्रकाशतारहितत्वम् । भगवच्छा- स्त्रपरामर्शकास्तु शुद्धसत्त्वस्य ज्ञानात्मकतया तत् स्वयंप्रकाशमङ्गीकुर्वन्ति । यथा स्वरूपज्ञानं स्वस्यैव स्वयंप्रकाशं यथा वा धर्मभूतज्ञानं स्वाश्रयस्यैव स्वयंप्रकाशमित्यङ्गीक्रियते तथैव शुद्धसत्त्वगतं स्वयंप्रकाशत्वं संसारिभिन्न- विषयकमिति न प्रत्यक्षतापादमरूपी दोषः । यथा धर्मभूतज्ञानविषयस्यापि दिव्यात्मस्वरूपस्य स्वयंप्रकाशत्वं स्वीकृतं तथा ईश्वरीयधर्मभूतज्ञानविषयस्यापि शुद्धसत्त्वस्य स्वयंप्रकाशत्वमङ्गीक्रियत इति न दोषः । एवमेव नित्यानामपि शुद्धसत्त्वं स्वयं प्रकाशते । मुक्तानामपि तदवस्थायां तत्स्वयमेव प्रकाशते । बद्धानां तु *धर्मभूतज्ञानगतस्वप्रकाशनशक्तिरिव शु- द्धसत्त्वगतस्वप्रकाशनशक्तिरापि कर्मविशेषण प्रतिबध्यत इति सर्व सुस्थम् । एवमवस्थान्तरापत्तिः विकारिद्रव्याणां न विरुद्धयते । अतश्च प्रमाणसि- द्धोऽर्थो न युक्तिभिर्विचाल्यः । उपचाराश्रयणेनान्यथा निर्वाहस्तु दिव्यात्मस्व- रूपादिष्वपि ज्ञानादिशब्दानामन्यपरत्वकल्पनेन विपरीतफलः स्यात् । यथा धर्मधर्मिभूतयोः ज्ञानत्वे तुल्येऽपि वैषम्यम् तथा शुद्धसत्त्वस्य स्वयं- *विषयाप्रकाशदशायां उद्यानपत्रिका।
१२ रहस्यत्रयसारसंग्रहः । -- प्रकाशत्वे सत्यपि रूपरसादयः पृथिव्यादिविभागः परिणामविशेषाश्च नानुप- पन्ना भवन्ति । इत्थं स्वयंप्रकाशशुद्धसत्त्वस्य ज्ञातृत्वैववुर्येणाचेतनमध्ये ग- पनमुपपद्यते । अचेतनानां प्रवृत्त्यश्च ईश्वरसङ्कल्पानुरोधेन विचित्रपरि- णामादयः । तत्र प्रकृतेः स्वरूपभेदः गुणत्रयाश्रयत्वम् । सततपरिणामिन्या अस्याः गुणत्रयसाम्ये महाप्रळयः, वैषम्ये सृष्टिस्थिती । गुणवैषम्यवत्सु प्र- देशेषु महदादयो विकारा भवन्ति । विकृताविकृतोभयप्रदेशानुरोधेन प्रकृतिः,महान् , अहङ्कारः, पञ्च तन्मात्राः, पञ्च भूतानि, एकादश इन्द्रियगी- ति तत्त्वानि चतुर्विंशतितया गण्यन्ते । विवक्षावैलक्षण्येन तत्त्वानां न्यू- नाधिकत्वमप्युपपद्यते । अमूनि तत्त्वानि तदधिष्ठानदेवताश्च उपासकैर्वि- शिष्य विज्ञेयानि । अस्माकं तु आत्मभिन्नत्वज्ञानमात्राय एतेषां विज्ञानम् । एतानि तत्त्वानि भगवतः अस्त्रभूषादिरूपेण वर्तन्ते । तद्यथा--- याति श्रीवत्सभावं प्रकृतिरपि मनश्चक्रतां कौस्तुभत्वं जीवोऽहङ्कारयुग्मं भजति जलजताशार्ङ्गभावौ मुरारेः । साकं भूतैश्च मात्रा दधति च तुळसीदामभावं महांस्तु प्राप्तः कौमोदकीत्वं वपुषि भगवतो राजते तत्त्वगुम्फः ॥ अमीषामन्योन्यं स्वरूपभेदः तत्तल्लक्षणेनैवावगन्तव्यः । प्रकृतेस्तत्कार्यभूतानां त्रयोविंशतस्तत्त्वानां च स्थितिभेदाः यथाप्रमाणं अनुसन्धयाः । मूलप्रकृतेरानन्त्यश्च नित्यविभूत्यनवच्छिन्नप्रदेशतो विज्ञेयम् । प्रकृतेः प्रवृत्तिभेदो नाम चेतनीयभोगापवर्गार्थ भगवल्लीलारसार्थं च समविषमपरिणाम- सन्ततिं प्राप्य देहेन्द्रियादिरूपेण व्यापारविशेषाणां निष्पादनम् । अयं प्रवृत्तिभेदः बद्धानां रजस्तमोद्वारा तत्त्वज्ञानं पिधाय भोगार्थ विपरीतज्ञानं जनयति । एष एव सत्त्वविवर्धनद्वारा अपवर्गार्थ तत्त्वानि यथावत्प्रकाशयति । इदं सर्व भगवतो लीलारसमापूरयति । शुद्धसत्त्वस्य स्वरूपभेदो नाम रज- स्तमःस्पर्शरहितकेवलसत्त्वरूपत्वम् । एतस्य स्थितिभेदः नित्येषु मण्टपमोपुरा- दिषु, भगवतो नित्यानां च विग्रहविशेषेषु नित्यो भवति । नित्यमुक्त- उद्यानपत्रिका ।
रहस्यत्रयसारसंग्रहः। १३ योरीश्वरस्य चानित्येच्छास्वीकृतेषु विग्रहादिषु अनित्यभूतः । प्रवृत्तिभे. दश्चास्य इच्छानुरूपपरिणामादिभिः शेषिणा भोगापकरणीभवनं शेषभूतानां कैकोंपकरणीभवनं च । जडत्वे सति विभुत्वं कालस्य स्वरूपभेदः । स्थि- तिभेदश्च कलाकाष्ठादिविभागेन सृष्टयाद्युपकरणीभवनाद् द्रष्टव्यः । एतानि द्रव्याणि स्वरूपतो नित्यानि । नामान्तरभजनाविस्थाविशेष- वत्तापुरस्कारेण कानिचिदनित्यानि कथ्यन्ते । पूर्वप्रध्वस्तावस्थासजातीया- वस्थाया एव उत्तरोत्तरमागमनेन प्रवाहनित्यानीति कथ्यन्ते । पदार्थस्वरूप- स्थितिप्रवृत्तिभेदानामीश्वराधानत्वं नाम भगवत्सत्तासङ्कल्पानधीनसत्तादियोगि- त्वाभावः । अतः सर्वपदार्थानां खभावसिद्धानुकूल्यमीश्वरायत्तं भवति । ततश्चाभी ईश्वरस्य नित्यानां मुक्तानां चानुकूला एव । बद्धानां तु कर्मानुगुणं पुरुषार्थभेदेन कालभेदेन चामी प्रतिकूला अल्पानुकूलाश्च भवन्ति । आ- त्मस्वरूपन्तु बद्धानामपि भगवदिच्छया अनुकूलभेव भवति । एतादृशा- त्मसम्बन्धन खलु तदभेदभ्रमवशात् कर्नवशाच्च शरीर मूढानामानुकूल्यं भा- सते । इदं च शरीरं कर्मोपाधिकप्रातिकूल्यवत्तया मुमुक्षुमिस्त्यज्यते । स्वाभाविकानुकूल्यवत्तया मुक्तैरुपादीयते । अहङ्कारममकारवताऽऽत्मीयतया खीकृतानि वस्तूनि प्रतिफूलानि । स्वरूपज्ञानवता स्वामिशेषतया दृश्यमा- नानि सर्वाण्यनुकूलानि भवन्ति । एवं स्वाधीनसत्तादिमतो भगवतः स्वरूपं सत्यं ज्ञानमनन्तमानन्दोऽ मलं च भवति । इत्थमेव द्रमिडोपनिषद्दष्टारः अनुसन्दधुः । एतद- तिरिक्ता गुणा दिव्यमङ्गळविग्रहाश्च निरूपितस्वरूपविशेषणानि भवन्ति । एतेषु ज्ञानवलैश्चर्यवीर्यशक्तितेजांसि पट परत्वोपयुक्तानि । सौशील्यवात्स- ल्यादयः सौलभ्योपयुक्ताः । एते गुणाः सदा भगवस्वरूपमाश्रिताः । परव्यूहादिविभागेन गुणनियमकथनं तावतो गुणान् तथाऽनुसन्दवतां पुरतो भगवानाविष्करोतीति बोधनार्थम् । यथा उपासनाभेदेन गुणविशेषा नियम्यन्ते तथाऽत्रापीति न दोषः । तत्र पररूपे ज्ञानादयः षडापि गुणा वेद्याः । व्यूह- उद्यानपत्रिका ... 6 १४ रहस्यत्रयसारसंग्रहः । श्चतुर्विध इति त्रिविध इति च शास्त्रे कथ्यते । व्यूहवासुदेवस्य परवासुदेवात् अनुसन्धेयगुणविशेषाभावात् त्रिव्यूह इति अभ्युपगम्यते सांप्रदायिकैः । परव्यूहयोर्गुणक्रियाविभागाः पाडगुण्याद्वासुदेवः पर इति स भवान् मुक्तभोग्यो बलाढ्या- बोधात्सङ्कर्षणस्त्वं हरसि वितनुषे शास्त्रमैश्वर्यवीर्यात् । प्रद्युम्नः सर्गधर्मी नयसि च भगवन् शक्तितेजोऽनिरुद्धो बिभ्राणः पासि तत्त्वं गमयसि च तथा व्यूह्य रङ्गाधिराज ॥ इति निरूपिताः । विशाखयूपस्य जाग्रदादिपदभेदस्था विशेषा आप तत एवावधार्याः । केशवादयो द्वादशापि व्यूहभेदाः । पद्मनाभादयः षट- विंशत् सप्तत्रिंशत् अष्टात्रिंशद्वा विभवसंज्ञका भवन्ति । अत्र मत्स्यकू- मादयः प्रयोजनविशेषानुरोधेन विशिष्य कथ्यन्ते । भगवान्विभवेषु कति- चित् गुणान् पिदधाति कतिचित्तु आविष्करोति प्रयोजनवशात् । विभवस्यावान्तरभेदा बहवः । एवं विभवान्तरमाप वेदितव्यम् । भगवतः शक्तिविशेषेण विग्रहविशेषेण चाधिष्ठिताः अत एवातिशयितकर्मा- णि कुर्वन्तः जीवविशेषाश्च विभवेष्वन्तर्भवन्ति । अर्चा हि आश्रिताननुग्रहीतुं विम्बाकृत्यात्मना विम्बे समागताः परव्यूहादय एव । अन्तर्याम्यवतारः किल सर्वेषां हृदये सूक्ष्मरूपविशेषेण स्थितिः । सर्वव्यापकदिव्यात्मस्वरूपं सन्दि- वृक्षणां द्वारभूततयाऽन्तर्यामिरूपमिति तदभिधानम् । एवमाद्यवताररूपभेदाः शुद्धसत्त्वद्रव्यमयतया कर्मतत्फलसंसर्गरहिततया च शुद्धसृष्टिरिति कथ्यन्ते । एषु ईश्वरस्य ज्ञानसंकोचाभावं, विग्रहाणां शुद्धसत्त्वमयत्वं, ईश्वरेच्छामानहेतु- कत्वं, धर्मसंरक्षणसमानकालिकत्वं, सावुपरित्राणादिप्रयोजनवत्त्वं एवमनु- सन्दधतो जन्मान्तरसम्बन्धं विना मुक्तत्वं च गीताचार्यः प्राह । इदमनु- सन्धानं शरण्यगुणविशेषज्ञानमुखेन खतन्त्रप्रपत्तिनिष्ठस्य महाविश्वासं दृढी- कृत्य उपकरोति । एवम वतारप्रणामादिकमपि विनवायासं मोक्षं जनयतीति प्रशस्यते । उद्यामपत्रिका।
रहस्यत्रयसारसंग्रहः । १५ तथैव कतिपये सरयः अर्चावतारवैलक्षण्यं अतीवानुसन्दधानाः एतत्संरक्षक- पृष्ठगामिसेनातुल्यं परतत्त्वरूपसन्दर्शनमभिमन्यन्त । इत्थंभूतः स भगवान् खानन्दपरीवाहभूतान् जगत्सृष्टिस्थितिसंहाराननुतिष्ठति । अयञ्च सर्वास्त्र- प्यवस्थासु सपत्नीक इति संप्रदायग्रन्थतो विशिष्य ज्ञायताम् । भगवतो दण्डधरत्वं श्रियः पुरुषकारत्वादिकं च विभज्याङ्गीकृतं वर्तते । श्रियं तद्- मधर्मिणीमित्यतिदेशेन सर्वधर्मवत्त्वेऽपि ऐच्छिकपूर्वोक्तधर्मविभागपुरस्कारेण हि, उपदिश्यमानधर्माधारापेक्षयाऽतिदिश्यमानधर्माधारस्य वैशेष्यमिति मध्य- स्थानां प्राचां वचनमुपपद्यते । अयमर्थः 'युवत्वादौ तुल्ये' इति श्लोके नि- गीतः । अतो यथाप्रमाणमङ्गीकरणमेव न्याय्यम् । इत्थश्चेशशितव्ययोः यथाप्रमाणं विज्ञानमेव समुचितम् । अतिमहति पयोनिधौ नाविकैया- नसरणिरिव विवकिभिरियदवगन्तव्यम् । तत्त्वं सर्वशरीरकतया भगवानित्येकधा , आत्मानात्मभेदेन द्वि- धा, तत्त्व-हित-पुमर्थतया त्रिधा, रक्ष्यरक्षकहेयोपादेयतया चतुर्धा, प्रा- प्यत्वादिरूपेण अर्थपञ्चकोक्तप्रकारमनुरुद्धय पञ्चधा, सम्बन्धज्ञामेन सह पोढा, त्रिगुण-काल-शुद्धसत्त्व-जीव-ईश्वर-बुद्धि- अद्रव्यभेदेन सप्तति प- रिचिन्तयतां तदनुगुणज्ञानानुष्ठानप्रतिष्ठारूपप्रयोजनविशेषा अवगन्तव्याः । अकृष्ट्वैव फलं लभमान इव क्लेशावहशास्त्राभ्यासमकृत्वैव सदुपदे- शेन इत्थं तत्त्वमवगम्य मोक्षलाभाय त्वरतामिति सुस्थम् । 6. परदेवतानिर्णयः। उक्तवैध>ण सामान्यतः प्रकृतिपुरुषेश्वरविवेके जातेऽपि अव्यवधानेन मोक्षप्रयोजक तादृशं पारमैकान्त्यं परदेवताविशेषनिर्णयाभावे न घटेतति त- निर्णयः प्राप्तावसरः । तत्र चेतनाचेतनयोर्भेदस्य प्रमाणसिद्धतया सर्व ब्रह्म- द्रव्यमेकमिति पक्षो न घटते । जीवेश्वरभेदस्य जीवानामन्योन्यभेदस्य च सुखदुःखादिव्यवस्थया प्रामाणिकत्वेन, ब्रह्मरुद्रादीनामीश्वरेण सहैक्यं जीवेन सहैक्यं वा नोपपादयितुं शक्यते । देवतासु प्रधानतया गण्यमानानां उधानपत्रिका। .
१६ रहस्यत्रयसारसंग्रहः ।। ब्रह्मरुद्रादीनां कार्यत्वकर्मवश्यत्वादेः प्रामाणिकत्वेन, भगवत एव सर्वकार- णत्वावगमेन, नित्यत्वस्य तत्रैव न्याय्यत्वेन च मूर्तित्रयसाम्यवादः मूर्तित्रयै- क्यवादः त्रिमूत्युत्तीर्णेश्वरवादः त्रिमूत्यन्यतमब्रह्मवाद इत्यादयो निरस्ताः । ब्रह्मरुद्रादयः स्वेषां विष्णुजन्यत्वं स्वयमेवाहुः । कर्मपरवशाश्चेत साधुकमभिभगवन्तमाराध्य कांक्षितपदमवापुरिति प्रमाणशतसिद्धम् । वेदा- पहारादिवृत्तान्तरतेषां मायापारतन्त्रय गुणवश्यत्वं ज्ञानसोचविकासवत्त्वादि- कं च सुतरां विज्ञायते । भगवद्दत्तज्ञानादिना तदादर्शितं पन्थानमव सेवन्त इति तत्र तत्र विज्ञायते । एतेषां शुभाश्रयत्वं नात पराशरादयः प्रत्यपादयन् । खस्य इतरानाश्रयत्वं स्वाश्रयत्वं चान्येषां सुव्यक्तमाह भगवान्नारायणः । उभयविभूतिनाथस्य भगवत इसे विभूतिभूता इति दृश्यते । अचेतनाना- मिव चेतनानां ब्रह्मरुद्रादीनां भगवच्छरीरता नारायणशब्दसामानाधिकरण्यन सिद्धयति । स्वस्य दासत्वं भगवतः शषित्वं च मन्त्रराजपदस्ताले सर्वज्ञन रुद्रेण कथितम् । सर्वप्रकारेण भगवतो निःसमाभ्यधिकत्वं बहुत प्रपञ्चितम् । जायमानाः किल मधुसूदनदृष्टाः सात्त्विकाः, ब्रह्मणा दृष्टा राजसाः, रुद्रेण दृष्टास्तामसाश्च भवन्तीति प्रमाणजातं प्रतिपादयतीति ब्रह्मरुद्रयोरनु- पास्यत्वं भगवत एवोपास्यत्वं च सुव्यक्तम् । कचिदेतयोरुच्यमानं मोक्षो- पकारकत्वमाचार्यादीनामिव ज्ञानजननद्वारा योजनीयम् । परावरयारक्य- बुद्धिं साम्यबुद्धिं व्यत्ययबुद्धिं आसुरस्वभावप्रयुक्तप्रद्वेषादिकं चाभजतामेव सूर्यभक्तयादिः परम्परया भगवद्भक्तिं जनयदिति च विज्ञायताम् । विपरीतबुद्धिमतां देवतान्तरभक्तिर्जाताऽपि भगवतो निग्रहेण प्रत्य- वायैकफला भवति । मोहनशास्त्रेण दृष्टफलसिद्धिप्रदर्शनमपि तेषामधःप- तनायैव परिकल्पितम् । जातं भगवन्निग्रहं न कोऽपि शक्नोति प्रशमयितुम् । सुग्रीवादिवत् इतरदेवताः विभीषणमिव कञ्चित्स्वाश्रयं कामं बाधितुं प्रवर्त- न्ताम् । अथापि सत्यप्रतिज्ञो भगवान् रावणादिवर्दुष्प्रकृतीन्निरस्य सुग्रीवादिवत् सत्प्रकृतीननुकूलयन्नेव रक्षति । क्षुद्राभ्यो देवताभ्यो विष- उद्यानपत्रिका । • रहस्यत्रयसारसंग्रहः । । मधुतुल्यानि क्षुद्राणि फलानि अल्पीयसा कोलन अवाप्यन्ते । तानि फला- न्यप्यन्ततो भगवदायत्तानि । ताभ्यो विळम्बनापि मोक्षो न लभ्येत । मगवत्सकाशास्तु अतिशयितैश्चर्याण्यपि लभ्यन्ते । अमापनोदनायानुष्ठित गागजलावगाहनं पापमपि यथा व्योहति तथा ऐश्वर्याद्यर्थ भगवदाश्रयण पाप व्यबोध रजस्तमोवृत्तिं प्रशमय्य जनकादीनामिव क्रमेण मोक्षपर्यन्तं फलं वितरति । मोक्षोपायसिद्धिमथयतः खलु विळंव: जायत एव । मोक्षार्थ भक्तिप्रपत्त्यन्यतरमुपायमाश्रयतां न विख्वः। तत्र स्वतन्त्रप्रपत्तिनिष्ठस्य तु, विगक्षितकाल एवं मोक्षः । एते च नियमविशेषाः भगवतःस्वाच्छन्धन उप- पधन्ते । एवं विचारपराङ्मुखाना विषये देवतान्तरस्य सेव्यत्वं व्यवस्थापित। अविवकिभिराराध्यमाने देवतान्तरे तच्छरीरको भगवान् चार्वाकाराधितरा- जालेव यद्यपि प्रीयते तथापि शास्त्रार्थवैकल्येन निर्दुष्टं फलं न सि- ध्यति । यदि क्षुद्रफलायापि भगवानेवाराध्यते तर्हि तत्रापि अतिशयितानि फलानि भवन्ति । अनन्यप्रयोजनानामपि आराधयितृणामानुषङ्गिकानि वि. तरति भगवान् फलानि । अयमर्थः कुलशेखरप्रभृतिभिः स्वग्रन्थे प्रकाशि- तः । अयन्च विद्याविशेषे रागविशेषे च नियतः । उक्तमर्थ सर्वमपि द्रमिडा- नायदर्शिनः अन्यूनं न्यरूपयन् । इदं देवतापारम्य तत्र तत्र मन्त्रादिघटक- भगवद्वाचकशब्देष्वनुसन्धेयम्। एवंविधदेवताविशेषनिर्णयरहितानां अनन्यशर- णत्वावस्था नैव भवति । इत्थं देवताविशेषनिर्णय एव देवतान्तरत्यागं तदी- यपर्यन्तमुपकल्पयन् तदीयपर्यन्तं भगवच्छेवत्वंचावगमयति । अत एव परका- ल: मूर्तित्रयमध्ये एनमेव नारायणमुपास्यमवर्णयत् । तैत्तिरीयश्रतिरपि श्रीप- तित्वचिद्रेन एनमेव निरधारयत् । पराशरादयो मुनय एवमेव शिष्येभ्योप्युपदि- दिशः। 7. मुमुक्षुा। एवं तत्त्वार्थानध्यात्मशास्त्रातम्साधु विजानन्तः स्वयंप्रकाशत्वज्ञातृ. उद्यानपात्रका १८ रहस्यत्रयसारसंग्रहः । त्वाणु वादिभिः देहेन्द्रियादिविलक्षणमात्मानं ज्ञात्वा परलोकगमनंदेहान्तरप्रा- प्तियोग्यतानिश्चयेन लोकोतीर्णपुरुषार्थ हाः नरकपतनादिजन्मान्तरक्लेश त्या तत्कारणभूतमभ्यो निवृत्ताः आधेयत्वविधेयत्वशेषत्वाल्पशक्तित्वाशु- भाश्रयत्वादिभिः आत्मानं भगवद्यावृत्तं निश्चिन्यानाः स्वम्पप्राप्तभगवत्कैक- यवैभवानुभवापेक्षायोग्यता प्रतिपद्यमानाः, प्रणवगतमकारप्रतिपन्नज्ञानचा- पनुसन्धानेन देहतदनुवन्धिषु अहङ्कारममकारौ, अकारोतरलुततादर्थ्यचतु- या देहातिरिक्तात्मस्वरूपतद्गुणेषु अहङ्कारमा कारो, उकारार्थीवधारणेन शेषित्वनिरूपणघटकाहकारममकारों, नगःपइप्रतिपन्ननिषेधविशेषेण स्वरक्षणा- र्थव्यापारनिरूपिताहकारममकारी, नारायणशब्दोत्तरचतुर्थीप्रतिपन्नकैहाय- रूपे फले फलान्तरानुभवन्यायप्राप्तावहारममकारौ च यथायोग्यमर्थतः श- ब्दतश्च निराकुवन्तः, अल्पत्वास्थिरत्वदुःखमूलत्वदुःखमिश्रत्वदुःखोदकत्वविप- रीताभिमानमूलत्वस्वाभाविकानन्दविरुद्धत्वरूपान् अचिद्विषयानुभवसंभाविता- न सप्त दोषान्, यथासंभवमुत्पन्नान् चेतनमानानुभवदोषान् एतादृशानुभव- प्रतिद्वन्द्विभगवदनुनववैलक्षण्यश्च विशदतरमनुसन्दधानाः, वैराग्यावस्थामुपा- श्रयन्तः प्रवृत्तिधर्मतो विरताः निवृत्तिधर्मानुष्ठानकुतूहलिनः किल मुमुक्षवो भवन्ति । परावरतत्त्ववंदिनोऽपि परमपुरुषार्थोपायमननुतिष्ठन्तः श्रुतफलं दूरीकुर्वन्तः नितरां परिहस्यन्ते । अतः श्रुतानुरूपं उपायविशेषानुष्ठाने त्वरमाणा एव सर्वोन्नता भवितुमर्हन्ति । 8. अधिकारिविभागः । एवं परमपुरुषार्थोपायभूते निवृत्तिधर्मे प्रवृत्तौ द्वावधिकारिणौ । भद्वारकप्रपत्तिनिष्ठः सद्वारकप्रपत्तिनिष्ठश्चेति । स्वतन्त्राप्रपतिभ्यां द्वावापि प्रान्नी, फलसाधनभक्तिभ्या उभावपि भक्तो कीत्यते । यथा मानसवाय- न्यादयः समानफलाः यथाधिकार स्नानभेदाः तथा उक्तिराचार्यनिष्ठेत्येता- वपि प्रपत्वेर्मुखभेदौ । ततोक्तिर्नाम आनुकूल्यसकल्पाघङ्गेषु अविशदज्ञान- उद्दानपत्रिका ।
रहस्यत्रयमारग्यंग्रहः। १९ यथा वतः अनन्यशरणम्य महाविश्वासवतः शरण्यज्ञातपूर्णताविशिष्टप्रपत्तिगर्भा- चार्योपदिष्टवाक्यपात्रेण धात्रीकथितवचनेन महाराज प्रसादयतः मुग्धसा- मन्तराजकुमारभ्येव प्रार्थनापूर्वकस्वभरसमर्पणम् । पदवाश्यादिवृत्तान्तमविज्ञानता ब्रह्मचारिणा कथितं भवति भिक्षां देहीति वाक्यं सत आत्यम्य गृह इव परिपूर्णपरमोदारस्य भगवतो विषये इयमुक्तिः फलेनाविनाभूता। ज्ञानदरिद्राणां एवमुक्तीतरगतिशून्यानां प्रार्थनावाक्यं न कदाऽपि जायति भगवान् फलमप्रदाय । अभियुक्ता आप प्रपत्तिवाचैव निरीक्षितुं वृणे' इत्यादिभिरुक्तमर्थ व्याचस्युः । ना भरोऽहमकारियोति श्लोकेन उभयं संयोज्य निरूप्यत इति विभाव्यम् । अवस्थः अपिशब्दः प्रत्येक साधनभावमवगमयति । आचायनिष्ठस्तु आचार्यकृतात्मीयसमपणे अन्तर्भवति । भागवताश्रयाणां सिद्विरसंशयिता तथा आचार्यनिष्ठम्य फलसिद्धिराप । गिरेगिर्यन्तरमभ्युत्पतितस्य सिमस्य गरीरगता जन्तव इव श्रीमद्रामानुज- श्रीपादसंबन्धनैव वयमुत्तीणी इति ह्यभियुक्तानां श्रीसूक्तिर्वर्तते । व्याख्याता चेयं न्यासतिलकस्थेन अन्धोऽनन्ध इति पयन । कथञ्चिद्येनके नापि अनुष्ठितां प्रपत्ति विना न वितरति भगवान् पुरुषार्थम् । भागव- ताभिमानभगवद्विषयवासादिमतामपि पूर्वतः परतो वा उपायसम्बन्धः खेन परेण वा कृतो वर्तते । भागवताभिमानादया हि भक्तिप्रपत्त्यन्यतरसम्बन्धं उत्पन्नोपासनानामुत्तरोत्तरोपचयं स्वतन्त्रप्रपत्तिनिष्ठस्य कैकाभिवृद्धि भगव- प्राप्तौ त्वरां चोपजनयन्ति । व्यासादिवत् उपायान्तरसमर्थस्य विळम्बक्ष- मम्य भक्तिरूपोपायवतः प्रारब्धकमावसानभाव्यन्तिमप्रत्ययावाधिकोपासना- निष्पत्तिपूर्वको मोक्षः फलं भवति । सर्वाधिकारिकां सर्वानिष्टनिवर्तनक्षमा संर्वष्टसाधनभूतां मुकरां स. कृत्कर्तव्यामप्रतिबद्धयां ब्रह्मास्त्रबन्धवत् उपायान्तरसम्बन्धासहखफलां प्रपति उद्यानपत्रिका २० रहस्यत्रयसारसंग्रहः । खाधिकारानुगुणमारकमाश्रयतां वाञ्छितभगवकैदयांचरणानुमतेतच्छरीरा- वसानसीसा इहानुष्ठितकैङ्कर्यफलोद्मवती परिपूर्णकै कर्यपर्यन्ता मुक्तिः फल. ति । सकलफलप्रदे भगवति कृता प्रपत्तिः द्वयोरप्यधिकारिणाञ्छिता- नुगुणं. फलं ददातीनि युक्तमेव । चतुर्विधानामपि फलानां भक्तिः प्रपत्ति- श्च साधनमिति प्रमाणतोऽवगम्यते । विवक्षितानि सण्यिपि फलानि यथा- मनोरथं स्वोद्दिष्टे समय एव जायन्ते । अत एव प्रपन्नादन्ये निहींनाः कथ्यन्ते । प्रारब्धसुकृतविशेषमूलकेच्छावैषम्यात् इह कैकर्यवैषम्यं भवति । शरीरावसानानन्तरभाविकैकये तु न किंचिदपि वैषम्यम् । पारतन्ध्यमप्ये- करूपम् । परमफलानुभवदशायां कथ्यमान स्वातन्त्र्यं कर्मवश्यतारहि. तसर्वकर्ययोग्यतापरमिति सर्व सुस्थम् । 9. उपायविभागः। मुमुक्षूणामनुष्ठेय उपायः ज्ञानविकासविशेष एव । एतत्सा- यः प्राप्तिरूप उपयोऽपि ज्ञानविकासविशेष एव । अत्रोपायरूपः ज्ञा- नविकासविशेषः करणसापेक्षः शास्त्रविहितः स्वरूपनिरूपकलत्यत्वादिगुण- संहिततत्तद्विधाविशेषाधीत्तनियतकतिपयगुणविशिष्टब्रह्मविषयकः । उपेय- रूपज्ञानविकासविशषो हि करणनिरपेक्षः स्वभावपाप्तः गुणविभूत्यादिसर्वोपे- तपरिपूर्णब्रह्मविषयकः । तत्क्रतुन्यायो हि उपासितगुणातिरिक्तगुणानां न प्रतिषेधमाह । किन्तूपासितगुणानामप्रहाणमेवेति न दोषः । प्राप्तिरू- पानुभवपरीवाहतया कैयमुपेयं भवति । इत्थमुपायप्राप्तिरूपोभयज्ञानवि- षयस्य भगवत उपायत्वमुपेयत्वं च फलप्रदत्तभोग्यत्वाभ्यां संभवतः । अद्वार- कप्रपत्तिनिष्ठस्य विषये भगवदीयमुपायत्वमुपायान्तरस्थाननिवेशिताविशिष्टम् । अन्येषामधिकारिणां विषये कर्मयोगारम्भप्रभृति उपासनागृति यावत् प्राप्तपा- पनिवर्तनेन सत्वसवर्धनेन उपासनायाः फलपर्यन्तत्वकल्पनन च विशिष्टं तदायत्वम् । तल कायोगो नाम सति जीवपरमात्मयाथात्म्यज्ञाने, शक्यैः फल. उद्यानपत्रिका रहस्यत्रयसारसंग्रहः। २१ साविवर्जितैः काम्यकर्मभिः, सह च नित्यनैमित्तिकैः सनियमं परिगृह्यमाणः कर्मविशेषः । तदवान्तरभेदाः देवार्चनतपस्तीर्थदानयज्ञादयः दैवमेवापर य- ज्ञमित्यारभ्य गीतायां कथिताः । यथा प्रपत्तिः साक्षात्, भक्तिद्वारा वा मोक्षहेतुः तथा सपरिकरः कर्मयोगः साक्षात्, ज्ञानयोगद्वारा वाऽऽत्माव- लोकनहेतुः । ज्ञानयागो नाम कर्मयोगनिर्मलीकृतस्वान्तस्य, प्रकृत्यादिविलक्षणस्याधेय- त्वादिभिर्भगवच्छरीरभूतस्य स्वात्मस्वरूपस्य नैरन्तर्येण चिन्तमम् । यथा रत्नगर्भग्रन्थिदर्शनं तध्यतिरिक्तवैतृष्ण्यपूर्वकं रने उत्कटेच्छामुत्पादयदेव त- प्राप्तिसाधन प्रवर्तयति तथेदमात्मावलोकनं परमात्मानुभवव्यतिरिक्तवैतृष्ण्य- पूर्वकं भगवदुत्कण्ठामुत्पादयत् भक्तियोगे प्रवर्तयतीति तदधिकारकोटौ प्रविशति । भक्तियोगो नाम अनन्यनिष्ठस्यानन्याधीनस्यानन्यशेषस्य भगवतः स्वरूपादिकं विषयीकुर्वन् निरतिशयप्रीतिरूपो ध्यानविशेषः । स च तैलधा- रावदविच्छिन्नस्मृतिरूपः साक्षात्कारसदृशवैशद्यमादधानः आ परमपदप्रया- णदिवसात् प्रत्यहमनुष्ठानेन संवर्धमानः अन्तिमप्रत्ययावधिको ज्ञानसन्तति- विशेषः । ज्ञानविकासहेतुसत्त्वविवृद्धिप्रतिबन्धकरजस्तमोमूलभूतपापनिबर्ह. णद्वारा वर्णाश्रमधर्माः अस्याङ्गता भजन्ति । एष चापचेळिमबुद्धीनामा- श्वासाय, कामनाभेदेन ऐश्वर्यादीनामपि साधनं भवतीति 'चतुर्विधा भजन्ते माम्' इत्यादिभिर्निरूपितम् । तत्र भक्तव्योत्कर्षमन्येषां च्यवनधर्मत्वं च भगवानाह । एवं विहितो भक्तियोगः परभक्तिरुच्यते । एतस्य हेतुभूतः सा- त्त्विकसहवासादिजनितो भगवद्विषयः प्रीतिविशेषः तद्विज्ञानाभिनिवशकार- णभूतो भक्तिरित्युच्यते । शास्त्रजन्यतत्त्वज्ञानकर्मयोगादिपरम्परया जाता परभक्तिः साक्षात्काराभिनिवेशमुत्पादयन्ती 'दर्शयात्मानम्' इति विलाप. उद्यानपत्रिका। 8 २२ रहस्यत्रयसारसंग्रहः । यन्ती इत्यमपेक्षाविशेषमूलकभगवत्प्रसादविशेषात् तत्कालनियतपरिपूर्णसाक्षा- कारं जनयति । एवंभूतः साक्षात्कारः परज्ञानमित्युच्यते। इत्थं निरतिशयभी- ग्यभगवत्साक्षात्करणे तृषितस्य तटाकसन्दर्शन इव समुपजातः प्रीत्यतिशयः परमभक्तिरुच्यते । एषा च निःसङ्कोचभगवदनुभवमन्तरा क्षगमाष धतुमश. क्यमभिनिवेशविशेषमुत्पाद्य, अनतिक्रमणीयलक्ष्मीशपथं पुरस्कृत्य समाह्वानन कालव्यवधानराहतप्राप्तिप्रदानयोग्यां भगवतस्त्वरामुपजनय्य तीव्रतृष्णाशम- नेन परमं पदं प्रापयति । एष च भक्तियोगः त्रैवर्णिकेतरेषाम्, त्रैवर्णि- केष्वपि ज्ञानशक्तिविधुराणाम्, विळम्बाक्षमाणां च न योग्य इति स्वसा- मर्ययत्तां विदित्वा अद्वरिकां प्रपत्तिं मोक्षोपायतयाऽवलम्बमानानां पर- भक्तिस्थाननिविष्टत्वात् सर्वफलसाधनभूतायाः प्रपत्तेः, उपासकस्य परभक्तेः परस्ताज्जायमाना अवस्था इवामीषामपि कांक्षितानुगुणमाविभूता उत्तराव- स्थाः फलभूता भवन्ति । अधिकारिविशेषेण तुल्यफलत्वादमू भक्तिप्रपत्ती विकल्पिते । अनयोर्भेदः नानाशब्दादिभेदादित्यधिकरणे सिद्धम् । वि- कल्पोऽविशिष्टफलत्वादित्यधिकरणे विकल्पश्च सिद्धः । उपासनायां विशे- षा इव न्यासविद्यायामपि मन्त्रादिविशेषाः शाखाभेदसंहिताभेदादिभिरुपप- नाः । नमस्कारवत्प्रपत्तिरपि वाचिककायिकमानसभेदेन त्रिधा विभज्य निरूपिता । त्रयाणां संश्लेथे तु नमस्कारवत् प्रपत्तिराप पूर्णा भवतीति वदतामपि बाचिककायिकव्यापारविशेषरूपपरीवाहशालिमानसप्रपत्तिपूर्ती तात्पर्यम् । यथाधिकारमभूः फलपदा इति प्रागेवोक्तमित्यलम् । 10. प्रपत्तियोग्यः। एवं कांक्षितफलविशेष प्रत्युपायान्तरमनपेक्षमाणस्य न्यासविद्यायाम. बतोर्णस्य चेतनस्यात्राधिकारविशेषादितिव्यः । फले अर्थित्वं उपाये सा. मर्थ्य चाधिकारः । सामर्थ्य च शास्त्रार्थविज्ञानं तदनुष्ठानशक्तिमत्त्वं शा- खानुमतजातिगुणादियोम्यता च । अयं चाधिकारः पूर्वमेव सिद्धः स्यात् । उद्यानपत्रिका।
रहस्यत्रयसारसंग्रहः। एवमधिकारभाजः प्रयोजनं सत् साध्यत्वेनानूयमानं फलम् । फलार्थ साध्य- त्वेन विधीयमानः उपायः । मुमुक्षावतः स्वतन्त्रप्रपतिरूपमोक्षोपायविशे- पनिष्ठस्य उपासकस्य च शास्त्रजन्यसम्बन्धज्ञानादिके तुल्ये सति प्रपित्सोरा- किञ्चन्यमनन्यगतित्वं च विशेषतोऽधिकारौ भवतः । तत्राकिञ्चन्यमुपाया- न्तरसामर्थ्याभावः । अनन्यगतित्वं नाम प्रयोजनान्तरवैमुख्यं शरण्यान्तर- वैमुख्यं च । इदं प्रयोजनान्तरवैमुख्येनाप्यर्थतः सिद्धयति । तीव्रतमा मुमुक्षा विना देहानुवृत्त्यादिप्रयोजनासक्तस्यानुष्ठितायामपि मोक्षार्थप्रपत्ता प्रयोजना- न्तरानुरोधेन मोक्षाऽपि विळम्बते । एतदीयाकिञ्चन्यानन्यगतित्वयोः उ- पायान्तराज्ञानाशक्ती, फलावळम्बासहत्वं च निबन्धनम् । शरण्यान्तरवैमुग्य- स्य प्रयोजक स्वपरसाधारणभगवदेकपारतन्त्र्याध्यवसायः, प्रयोजनान्तरवैमु- ख्यं च । अयं प्रपत्त्यधिकारविशेषः ‘स पित्रा च परित्यक्तः' 'अकिञ्चनो ऽनन्यगतिः' इत्यादिप्रमाणं सत्सम्प्रदायं चाश्रित्य कथितः । एतादृशाधिकारे सिद्धे सति जात्यादिनियमो नापेक्ष्यत इति प्रपत्तः सर्वाधिकारत्वं सुस्थम् । 11. परिकरविभागः। अस्याः प्रपतेः परिकरभूतानि, आनुकूल्यसङ्कल्प, प्रातिकूल्यवर्जन कार्पण्य, महाविश्वास, गोप्तृत्ववरणानि पञ्च । भक्तरष्टाङ्गत्वव्यपदेशवत् प्रपत्तेः षड्विधत्वव्यपदेशः अङ्गानिसमुच्चयेन उपपादनीय इति निक्षेपस्या- नित्वमन्येषामङ्गत्वं च बोधयता वचननैव न्यायसञ्चारनिरपेक्षं सिद्धयति । अहिर्बुध्न्याक्तं फलत्यागरूपमङ्गान्तरं मोक्षार्थनिक्षेपे नियतं वर्तते । फल- सङ्गकर्तृत्वादित्यागस्य कर्मयोगादिसर्वानिवृत्तिधर्मसाधारणतया मुमुक्षाः सा- असमर्पणदशायां तदनुसन्धान कर्तव्यम् । प्रवृत्तिनिवृत्तिरूपभगवदभिमताचर- णस्य मूलभूतं पारार्थ्यज्ञानं आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जनयोः प्रयोजकं भवति । अनुष्ठिताभ्यामाभ्यामपायपरिहारः सिद्धयति । कार्पण्यं नाम आकिञ्चन्याद्यनुसन्धान, तन्मूलकगर्वहानिः, कृपाजनककृपणवृत्तिर्वा । इदञ्च उधानपत्रिका रहस्य त्रयसारसंग्रहः । भगवतः कारुण्यमुत्तम्भयाखीयानन्योपायतामपि पुष्कलयति । महाविश्वा- सश्च निःसन्देहमुपायानुष्ठानसिद्धिं तदुत्तरं खनिर्भरतां च परिब्रह्मयति । खरूपानुचितपुरुषार्थानामिव स्वरूपप्राप्तस्यापर्गस्यापि पुरुषार्थत्वाविशेषात्यु- रुषप्रार्थनामन्तरा दातुमनहतया अत्र गोप्तृत्ववरणमप्यपेक्षितम् । श्लाघ- नीयमपि वस्तु अर्थयमानायाददानो हि न पुरुषार्थदायी भवति । अत एव 'अप्रार्थितो न गोपायेत्' गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम्' इति च कथितं सङ्गच्छते । इत्थं पश्चानामङ्गानां न्यासविद्यानुष्ठानोपयु- ततया तदविनाभूतस्वभावत्वं युक्तम् । एष च परिकरः राक्षसीरुद्दिश्य सीताप्रपदनं विदधति त्रिजटावाक्ये साधु दृश्यताम् । तथा हि । तदलं करवाक्यैवः' इत्यनेन प्रातिकूल्यवर्जनमुक्तम् । 'सान्त्वमेवाभिधीयताम्' इत्य. नग वाक्प्रवृत्तौ विधीयमानायामपि तदनुसन्धानजनितो तन्मूलभूतो मानस आनुकूल्यसङ्कल्प आक्षिप्यते । 'राघवाद्धि भयं घोरं राक्षसानामुपस्थित'मित्य- नन गत्यन्तरनिषेधकेन, आकिञ्चन्यं तदनुसन्धान गर्वहान्यादिरूपं कार्पण्यं चक्तिप्रायम् । अलमेषा परित्रातुमित्यनेन 'अलमषा परित्रातुं राघवादाक्षसी- गणम्'इति हनुमदनुवादवचनेन च भगवतो निग्रहसकल्पमपि प्रशमय्य रक्षितुं शक्नोति सीतेति महाविश्वासः कथितः । 'अभियाचाम बैदेहीम्' इत्यनेन गो- प्तृत्ववरणं कथितम् । 'प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा' इत्यत्र प्र- सादकारणविशेषप्रतिपादकप्रणिपातशब्देन अङ्गिभूत आत्मनिक्षेपो विवक्षितः। इत्थं सानो निक्षेपोऽल प्रतिपादितः । एवमुपदिष्टानां राक्षसीनां त्रिजटास्वीकरणापयुक्तमप्रतिषेधमेवावल. म्ब्यातिवात्सल्येन भवेयं शरणं हि वः' इति देवी प्रत्यपादयत् । आभियु- त्ता आप एतद्वचनस्य फलपर्यन्ततां 'मातमैथिलि' इति पद्येन प्राकाशयन् । एवं त्रिजटाया आत्मात्मीयभरसमर्पणे जन्मसम्बन्धप्रयुक्ताभिमानविषयीभूता राक्षस्योऽप्यन्तर्गता भवन्ति । एवमेव विभीषणभरसमर्पणे तदनुजीविनश्च- उद्यानपलिका।
रहस्यत्रयसारसंग्रहः । २९५ ममतात्यागफलत्यागयोः निबन्धनमात्मात्मीयस्वरूपानुबन्धिभगवदेकशेषत्वज्ञा- नम्। फलोपायत्वत्यागस्य निबन्धनं शरण्यप्रसादनतयाऽनुष्ठितस्यास्य फलाव्य- वहितकारणत्वमचेतनतया फलप्रदानसङ्कल्पानाश्रयत्वं च । भगवतः फलोपायत्वं हि सहजसौहार्दतः करणकळेबरदानप्रभृतिद्व- योच्चारणपर्यन्तानां सर्वेषां निदानभूतस्य प्रसादपूर्वकस कल्पविशेषविशिष्टस्य तस्याव्यवहितकारणतया , उपायान्तरशून्यानामुपायस्थाननिवेशनेन च भव- ति । एतस्य धर्मिग्राहकप्रमाणसिद्धत्वेन न युक्तिभिर्विचलनं शक्यम् । अयमत्र संग्रहः [अम्माळ्] . इति प्रसिद्धैवरदाचार्यरनुगृहीतः । चिरेणानिष्टाचरणात् संसारी अंभवम् । इतः प्रभृति अनुकूलो वर्ते । प्रतिकूलं नाचराणि । भवन्तं प्राप्तुं न मे कोऽप्युपायः । भव- न्तमेवोपायमध्यवस्यानि । त्वमेव उपायो भव । इतः परमिष्टप्राप्तौ अनि- ष्टनिवृत्तौ च न मे कश्चन भरः, इति । अत्रानुकूल्यसङ्कल्पादीनामुपायप- रिकरत्वेन सकृत्वम् । उत्तरकालानुवर्तिनां तेषामुपायफलतया यावदा- मभावित्वं चास्ति । प्रातिकूल्यवर्जनस्य सकल्परूपत्वे सकृत्कर्तव्यत्वं सुस्पष्टम् । अभिसन्धिविरामरूपत्वे प्रातिकूल्यस्वरूपनिवृत्तिरूपत्वेऽपि वा, प्रथमक्षणवर्तिनोऽङ्गत्वं तदुत्तरकालिकस्य फलरूपत्वं वगन्तव्यम् । इत्थं महाविश्वासेऽप्यूह्यम् । यावज्जीवं निरपराधकैय प्रारब्धशरीरनाशानन्तरं मोक्षं च सह फलतया उद्दिश्य किलाभियुक्ताः प्रपद्यन्ते । 13 कृतकृत्याधिकारः॥ एवमुपायविशेषनिष्ठः एतदुत्तरं स्वविवक्षितफलाय कर्तव्यांशेऽन्वय- विरहात् कर्तव्यस्य सकृदनुष्ठानेन कृतत्वात् , भगवतः सत्यसङ्कल्पस्य मा शुचः इति वचनाच्चात्मनो जातां भरन्यासदशामालोक्य निर्भरः, मामेकं श. रणं व्रजेति सिद्धोपायतया स्वीकृतस्य भगवतः 'अहं त्वा सर्वपापेभ्यो उद्यानपत्रिका । 10 ३० रहस्यत्रयसारसंग्रहः । मोक्षयिष्यामी' ति फलप्रदानसङ्कल्पेन फलसिद्धौ निःसंशयः , निर्भयश्च, सवासनं त्यक्तानि पुरुषार्थान्तराणि, सपरिकरमुझितान्युपायान्तराणि, अप्र- यत्नं महानिधिलाभमिव स्वयमुदेष्यमाणपरमपुरुषार्थपरीवाहांश्च साध्वनुचिन्त्य हृष्टमानसः , वेदेषु लिखितमौपाधिकं प्रजापतिपशुपतिप्रभृतीनां किङ्कर- तारूपऋणपलं , मूलधनानुपकारिपत्यहमनुष्ठातव्यभृत्यकृत्यरूपतद्धिपत्रञ्च विच्छिन्दन् पञ्चमहायज्ञादिनित्यनैमित्तिकासु विधिप्राज्ञ तद्यजनं कन्चुके समर्पितमाल्यादि राजीव तदन्तर्यामिणि पर्यवसाययन्, प्रजापतिप्रमु- खशब्दानामवयवशक्तिपोकल्येन भगवति नारायण एव स्थिरां वृत्तिमाक- लयन् , तच्छब्दमात्रोच्चारणेन पारमैकान्त्यं शुद्धयाजिनामिव अभङ्गर- मात्मनः स्थिरीकुर्वन् , स्ववर्णाश्रमानिमित्तगुणाद्यनुरूपशास्त्रवेद्याज्ञानुज्ञापरिपा- नरूपकैयमाचरन् , मुक्ततुल्यः , उपायपूर्त्या कृतकृत्यः , पुरुषार्थपूर्त्या कृतार्थ इति शास्त्रैः तन्निष्ठैश्च श्लाध्यमानो वर्तते । एवंभूतं कृतकृत्य- तानुसन्धानमावश्यकमिति शरणागतिगये निरूपितम् । चिरेणाज्ञाति- लङ्घनमूलकभगवन्निग्रहागतसंस्कृतिखेदमनुभवतः अवसरप्रतीक्षभगवत्कृपामू- लकसदाचार्यकटाक्षविषयीकरणलब्धद्वयोचारणागूचारणसमुपजात प्रपत्यनु- ष्ठानं निग्रहहतन् सीन् निर्मुल्य श्रीशं प्रसादयत् प्रसन्नेन भगवता स्वय- मेवा, संक्षयेदिति विश्वततो निरीभवन एव 'माशुचः' इति भावाक्यस्य परमं तात्पर्यम् । प्रपत्त्यनुष्ठानात् प्राक्शोकाभावे अधिकारानिष्पत्त्या उपायानिष्पत्तिः स्यात् । प्रपत्तेः पश्चाच्छोकसत्त्वे उपायस्यापूर्णतया फलं विळम्बेत । पूर्व प्राप्तशोकः पश्चाद्वीतशोक एव हि कृतकृत्य इत्युच्यते । . - 14 स्वनिष्ठाभिज्ञानाधिकारः॥ इत्थं भूतः कृतकृत्यः परकृतानां परिभवानां आत्मस्वरूपासम्बन्धि- वज्ञानेन विषादादिराहित्यं , परिभवादिना खीयं पापमखिलं खीकुर्वत्सु उद्यानपत्रिका । , रहस्यत्रयसारसंग्रहः। ३१ मूढेषु उद्वेलां कृपाम्,अनवरतमनुसन्धातव्यानां वदोषाणामविस्मरणमनवधि- कपरीवादैरुत्पादयत्सु उपकारस्मृतिम्,सर्वेषां भगवत्तारतन्व्यं कविश्यतां च ह. वा, स्वपरकर्मानुगुणभगवत्सङ्कल्पानुरोधन परीवादमाचरत्यु अविकृतचित्तता, प्रारब्धपापविशेषशिखाकर्तनेन सन्तुचि भजति चेत् अचिद्विलक्षणे आनु- कूल्यादियोग्यज्ञानवति सर्वतोमुखाकिञ्चन्यभाजि भगवदननन्याहशेषत्वपार- तन्त्र्ययुजि भगवदधीनहितसिद्विमति स्वस्वरूप निष्ठाऽस्तीति विजानीयात् । भगवतोऽन्यत्रारक्षकत्वबुद्धिम्, मृयुपर्यन्तेषु भयहेतुष्वपि अनुद्विन- तां, मरणानन्तरं महापुरुषार्थस्यात्यासत्या प्रीतिमत्त्वम्, रक्षकावष्टम्भसम्भूतं विश्वासदाळम् , स्वीयभरन्यासे स्वयत्ननिवृत्तिम् , इष्टप्राप्तेरनिष्टनिवृत्तेश्च शरण्येकाधीनतां च साधु चिन्तयतां उपाये निष्ठा निष्प्रत्यूहा भवति । प्रारब्धकर्माधोनायां च सत्यां देहयात्रायां भगवत्सङ्कल्प विना स्व सङ्कल्पस्य निरर्थकतां , प्रारब्धानुगुणमागच्छत्यु कर्मफलेषु ऋणनिवृत्ति- बुद्धया अप्रतिषिद्धमनुभवम् , कर्मविशेषाधीनप्राप्यान्तरलाभालाभयोहर्ष- शोकविधूननेन स्वानुरूपपरमप्राप्यकैकर्य महतीं रुचिम् , तत्र कदा कदे- ति त्वरां च भजतां पुरुषार्थनिष्ठा प्रतिष्ठिता वर्तते । एवं स्वरूपोपायपुरुषार्थपु मूलमन्त्रादिभिः निष्ठां साधु प्रपश्यतां ब्रह्मविदपचारानुदयेन , तद्व्यतिरिक्तेषु भीतिस्थानेषु , स्वरूपप्राप्तकैयन्य- तिरिक्तप्रीतिस्थानेषु च न मनागपि प्रवृत्तिर्भवेत् । यदृच्छया जातु चित् प्रवृत्तावपि भीतिः प्रीतिवी बोदयेत । . 15 उत्तरकृत्याधिकारः ॥ इत्थं कृतकृत्यः विज्ञातस्वरूपोपायपुरुषार्थनिष्ठः , विस्तीर्णेऽपि क्षेत्रे कर्षकः असारमंशं परित्यज्य सारतममिव शरीरे ऋणि वांशं परि- त्यज्य आज्ञानुज्ञादिकैकर्यप्रयोजकमंशान्तरं स्वीकुर्वाणः मुक्तकैङ्कर्यपरम्परामिव उद्यानपत्रिका।
३२ रहस्यवयसारसंग्रहः। भोग्यतमामनन्यप्रयोजनां शास्त्रविभक्तकालविशेषानियतां शृङ्खलाक्रमवती भगवत्प्रसादकारणभूतां अवश्यानुष्ठेयां स्वरूपानुरूपकालक्षेपार्थी उत्तर- कृत्यपद्धति स्थिरयितुमेवं वर्तते । तथा हि --दिहाज्ञातपूर्वेपु ज्ञातव्येष्वर्थेषु कृतकृत्यताभिमानेन अना- दरमकुर्वन् अनुभवपूर्तिनिष्पादकयोर्ज्ञानवैशधप्रेम्णोरावश्यकतया तदुचित- ज्ञानभक्तिप्रार्थनाया अनिषिद्धतया च भगवद्विषयचित्तरञ्जनचणान् यथाविधि समाश्रितपरमैकान्तिसकाशात् सदुपंदशान् शृणुयात् । यच्च तादृशः परमैकान्तिभिराचरितषु स्ववर्णाश्रमजात्याद्यनुगुणम- नुष्ठेयांश मिष्कृप्य स्वोत्कर्षपरनिकांनुसन्धानरूपमहागर्ते आत्मानमपातयन् निपुणं विलोक्य कर्मसु वर्तेत । यच्च शठकोपनाथमुनिप्रभृतीनामिव जातेष्वपि साक्षात्कारादिफ- लोद्मपर्वस्वनुत्सेकः अधिकारभूतमाकञ्चन्यं सत्प्रकारांश्चाविस्मरन्नासीत । यच्चामादिकालागतानहतामूलकभगवत्कैकर्यपरिच्युतौ अनिर्विणः मातृस्तन्यवदतिप्रियेण पथ्येन भगवत उपदेशवैभवेन अवताररहस्यादिती- र्थमवगाह्य गतमननुशोचयन् अपर्यनुयोज्यशरण्यप्रभावसमागतामार्हन्तीमव- लोक्य तदनुरूपाज्ञानुज्ञाकैकयीचरणोचितं करणनिचयं सात्त्विकाहारसे- वादिभिरयोग्यविषयान्तरपराङ्मुखं विधाय योग्यानुभवेषु प्रवर्तयेत् । यच्च विहारयेतऽपि यथाविधि शारप्रचारणमिवाज्ञानुज्ञाकैङ्कर्येष्वपि शासितुरभिमतमनुवर्तमानः पित्तपरीहारार्थपयःपानतुल्यतां तदाचरणस्य अनाकलयन् लब्धारोग्यपयःपानतुल्यतां स्वयं भोग्यतया अनुसन्दधानः प्रकामप्रहर्षणानुतिष्ठेत् । यञ्चाधिकारिविशेषार्थ दयया सान्निध्यं प्रकल्पयति भगवत्यर्चावतारे गुणपूर्ति पावनतमत्वं कुवासनादिनिवर्तनक्षमत्वमाश्रितपारतन्त्र्यमाकर्षक- त्वञ्चानुसन्धाय तत्तत्सम्बन्धवर्गपरत्वसौलभ्याद्यनुरूपां वृत्तिमाश्रयेत् । उद्यानपत्रिका।
रहस्यत्रयसारसग्रहः । ३३ . , यञ्च पादुकायां भरत इव न्यायार्जितैव्यैः राजसेवकवृत्ति भगवदचीवतार सादरं कुर्यात् । यच्च एनां वृत्तिं परिणीतायाः कुलवध्याः भङ्गळ्यसूत्रादिसंरक्षण- कल्पां मन्येत ॥ यच्च इत्थं भगवन्तमुपक्रभ्य आ भागवतभ्यः प्राप्तस्य कैकर्याख्यपु- रुषार्थस्य प्रधानकारणं सदाचार्यसंबन्ध इति विश्वम्य , अभिषेक्ष्यमाणस्य राजकुमारस्य रात्रौ प्रदीपाद्यारोपणमिव सदाचान्तमुपकारं विज्ञाय तत्र कृतज्ञतां अनुचिन्तयेत् । एवमेतेषां साधारणभूतं प्रधानकारणं मुक्तदशायां पर्यनुयोज्यभगवत्स्वातन्त्र्यमूलकात्मानुबान्धभगवदनुभवविच्छेदपरिहारभूतं च भगवतस्सहज कारुण्यमिति विचिन्त्य तत्रापि कृतश्ता प्रकाशयदिति । इत्थंभूते उत्तरकृत्ये मनोवारकायैः परिहार्येषु परिग्राह्येषु च सार- यच्च भूताः एते-- ३ १ परमपुनर्थरुचिसंवर्धनाय विस्मर्तव्येषु प्रधान विषयास्वादः । २ कृतन्नतापरिहारा याचार्यकृतप्रथनकटाक्षामृत्युपकारः स्मतव्येषु प्र- धान भवति । कार्पण्यप्रतिष्ठायै आत्मोत्कर्ष अवचनायेषु प्रधान भवति । ४ उपायनिष्ठामविस्मर्तुं वक्तव्य द्वयं प्रधानम् । भगवत्प्रीतिसंरक्षणाय परिहार्येषु ब्रह्मविदपचारः प्रधानम् । ६ पुरुषार्थसागरस्याविशोषणाय अपरिच्छेद्यानुवृत्तये च कर्तव्येषु प्रधान करणलयसंपाद्यभगवत्कैकयसीमभूतं भागवतकै कर्यम् ।। इत्थमुत्तरकृत्यविशेषः फलप्रतिपादकस्थलप्वनुसन्धयः ॥ ५ उद्यानपलिका 11 ३४ रहस्यत्रयसारसंग्रहः । १६. पुरुषार्थकाष्ठाधिकारः परगतातिशयाधोनच्छया उपादेयत्वमेव यस्य स्वरूपं स शेषः पर- श्शेषाति श्रीभाष्यकाराभिमतानुरोधेन भगवदतिशयाधायकत्वं चेतनस्य प्रा- प्तम् । शरीरतयातिशयाधानं त्वचेतनसाधारणं भवति । चैतन्यमुखेनातिश- याधान किल युज्यते । अस्य शास्त्रावरुद्धाचरणं शासितुर्भगवतो लीलारस- मेव केवलमुत्पाद्य तदतिशयमादधाति । शास्त्रानुमताचरणं भगवतः सन्तोषमुत्पाद्य तदीयौदार्यादिप्रकाशनद्वारातिशयमादधाति । एवं नित्यो मुक्तश्च भगवदभिप्रायसाक्षात्कारानुविहितकैकेयेण भोगविशेषमुत्पाद्यातिशय- माधत्तः । अयं च प्रकारः शास्त्रमुखनेश्वराभिप्राय विदुषः कृतकृत्यस्यापि तुल्यः। भगवल्लीलारसमात्रप्रयोजकमपि शास्त्राविरुद्धाचरणं स्वानथं जनयति । बद्धदक्षायां शास्त्रमुग्वेन मुक्तदशायां प्रत्यक्षेण च भगवदभिप्रायं ज्ञात्वा त- दनुरूपाचरणं तु भावतो लीलारसम् , आनुषङ्गिकतया स्वाभिमतपुमर्थांश्च जनयति । अवशानुपलिकपुमर्थान् लिप्सुना शास्त्रतो भगवदभिप्राये जिज्ञा- स्यमाने तत्र भागवतके कर्यमभिमततमं विज्ञायते ॥ आराधनानामित्यादिप्रमाणप्रतिपन्नं भागवतकैय अपत्योपलाळनम- वनीपतिमिव भगवन्तं प्रीगयतीति तदत्र प्रधानम् । भगवान् भागवतशरी- रकोऽप्याराव्यत इति तत्त्वविदां सम्मतम् । स च मम प्रियः, ज्ञानीत्वात्मैव मे मतमिति वदतः परगैकान्तिपरतन्त्रस्य भगवत आशय निरूप्यमाणे भाग- वतककय स्यान्तयामिसविधेऽनुष्ठितं भवति । श्रिया समेतस्य भगवतः साक्षात समप्लेषित्वमद्वारकम् , भक्तात्मनस्तस्य सद्वारकं शेषित्वमित्याश्रय- णात् कैयमपि सद्वारकं भवति । यथा स्वतन्त्रो राजा स्वघृतान्याभरणा- दीनि गजाश्चादीन् प्रापयति तथा भगवानपि स्वेष्टविनियोगार्हमेनं करोतीति भगवच्छेपत्वं भागवतशेषत्वपर्यन्तं भवति । तदिदं भागवतशेषत्वं स्वरूप- उद्यानपत्रिका।
रहस्यत्रयसारसंग्रहः। प्रयुक्तं गुणज्ञानपूर्वकस्वेच्छाप्रयुक्तमिति द्विविधम् । एतच्च प्रभवो भगव- द्भक्ता मादृशां सततं द्विज'इत्यत्रभगवद्भक्ताः मादृशामिति पदाभ्यामवगम्यते। इदं शेषत्वं क्रयाहमिति कल्पसूत्रव्याख्यातारः कथयन्ति । शेषत्ववत् शेषवृत्तिरूपभागवतकैकर्यमापसद्वारकमद्वारकं च भवति । अतश्च साध्याकारविवृद्धिभूतस्य भागवतकैकर्यस्य स्वशक्तयनुरूपभग- वककयसीमभूमितया परिष्कृत्य तस्य संरक्षण न्याय्यम् । वधूनामिव (पति- व्रताधर्म इव) परमैकान्तिनां पतिचित्तानुवर्तनं समुचितमेव । अस्यान्य- शेषत्वस्य भगवच्छषत्वज्ञानमूलकतया न विरुद्धत्वम् । एतादृशस्य भाग- वतशेषत्वस्य मुक्तदशायामप्यनुवर्तनेन स्वामाविकत्वम् , भगवत्संबन्धज्ञान- विशेषपूर्वकतया औपाधिकत्वञ्च भवति । द्वयाभागवतयोः परस्परं शेषित्वं शेषत्वं च उपकार्योपकार कत्वादिवन्न विरुद्धयते । अधिकार्यवस्थायां क्रियां प्रति शेषिण एव कर्तृत्वावस्थायां तां प्रति शेषत्वमप्यवगम्यते ।। इत्थं चातिशयाधायकत्वेन उभयोश्शेषत्वं अतिशयभाक्त्वेन शेषित्वं च निवीधमुपपद्यते । भगवदिच्छया परस्परातिशयाधाने प्रवृत्तत्वात् भाग- वतशेषत्वसम्बन्धः प्रामाणिकः । गुणवशोकृतस्य खेच्छया भगवतीव भाग- वतविषयेऽङ्गीकृतं दासत्वं भोगवर्धकं सत्परमुत्कृष्यते । अत्र भगवान् स्वे- च्छया सर्वेषां भागवतानां शेषित्वं प्रापयति । भगवदिच्छासहकृतोभये- च्छया भागवतशेषत्वं सिद्धयति । भगवदिच्छामात्रसिद्धमेकं शेषत्वम्, उभ- येच्छासिद्धं शेषत्वमन्यदित्यपि विज्ञेयम् । शेषित्वं तु भगवदिच्चमात्र- सिद्धमिति बोध्यम् । शेषभूता नामपि भगवदिच्छाधीनशेषित्वं न स्वरूप विरुन्धे । स्वाभीष्टभागवतशेषत्वस्य , तत्फलभूतभागवतकैयस्य च सि- या उभावपि पुरुषार्थकाष्ठामभजताम् । उभावपि शेषशेषिणौ नियम्य (विरचय्य)अनुमोदनेन भगवानीश्वरत्वं भोक्तृत्वञ्चालभत । एवंप्रकारेण शेषत्व- उद्यानपत्रिका।
३६ रहस्यत्रयसारसंग्रहः। शेपित्वादिकं सर्व भगवद्भाक्तृत्वशेषमिति विजानतां निर्दष्टा पुरुषार्थकाष्ठ, सिध्यति । इति निश्चिन्वतां सारविदां कृतकृत्यानामपराधरुचिः अति शङ्क देवतान्तरसंस्पर्शः अन्याधीनभागः आत्मार्थभोग इति दोपविवर्जितः पर- मैकान्तिनां प्रसाद एव स्वयंप्रयोजनतया अपक्ष्यते । १७. शास्त्रीयनियमनाधिकारः ।। इत्थं शेषत्वसम्बन्धमूलकभगवद्भागवतकैयविषय अज्ञानमहान्धका- रावृतस्य अस्य शास्त्रप्रदीप आवश्यक इति यथाशास्त्रं प्रवृत्तिः विकल्पिते विषये यथारूचि च प्रवृत्तिरुचिता । तथा हि-स्ववियोगदुःखितान् शिप्यानाहूय ‘मा च यूयं मामनुमृ. पत । यधनुम्रियेध्वं । तर्हि श्रीयामुनेयश्रीपादाभ्यां शपे' इति वदन्मुमू- घुः रामानुजमुनिः शोकार्तानामस्माकं का गतिरित्यनुपृच्छतः शिप्यानेवमशात्। प्रपन्नस्यात्मयात्रा भगवदधीना । अतो न तदर्थ किभाप चिन्त- नीयम् । यदि चिन्तयति तात्मसमर्पणमपि मुधा स्यात् । देहया- त्रा तु कर्माधीना । अतो न तदर्थ खेत्तव्यम् । यदि खिद्यते तर्हि नास्तिक्यं स्यात् । अतो नोभयत्र कर्तव्यं किश्चिदप्यस्ति । करण- त्रयेण यथाकामचारितां स्वरूपानहीं परिहरन् यावदेहावसान पञ्च कैङ्क- याणि यथाशक्ति कुर्यात् -- १. श्रोभाष्यप्रवचनम् , २. तदनहींणां दि- व्यप्रबन्धानुसन्धानम् , ३. तत्राप्यनर्हाणां दिव्यक्षेत्राथदीपतैलनैवेद्यार्थतण्डु- लादिसम्पादनम् , ४. तत्रानर्हाणां द्वयार्थानुसन्धानम् , ५. तदनहर्हाणां श्रीवैष्णवाभिमानपात्रतासंरक्षणम् , इति । इत्थंभूतस्याधिकारिणः अवश्यावधातव्यास्त्रयः अनुकूलाः उद्यानपत्रिका ।
रहस्यत्रयसारसंग्रहः। . प्रतिकूलाः अनुभव इति । तत्रानुकूलाः श्रीवैष्णवाः । प्रतिकूला भग- बवेषिणः । अनुभये तु एतद्विकानन्तर्गताः संसारिणः । भोगसाधनध- बनकुसुमादिवत् तापहरमलयानिलचन्द्रिकादिवत् भोग्यतमविषयादिवचा- नुकूलेषु वार्तेतन्यम् । सर्पामयादिवत् प्रतिकूलेषु, काष्ठलोष्टादिवश्चानुभयेषु वर्तितव्यम् । इत्थं अनुकूलानां विषये ज्ञानसम्पत्प्रादुर्भावनम् प्रतिकूलानां विषये सकृपमवस्थानश्चावश्यकम् । अर्थकामप्रावण्यं हि एतत् विघटयति । अर्थकामवशात् सन्निधौ खापत्यमनादियमाणान् नृपतिरिव श्रीवैष्णवमनाद्रियमाणानीश्वरो निगृ- हाति । अर्थकामानुरोधेन प्रतिकूलमाद्रियमाणेषु क्षुदेषु भिक्षमाणायां महिण्यां राज्ञ इव भगवतश्चित्तं विमुखीभवति । अनुभयानाद्रियमाणेषु रसपाषाणतारतम्यमविजानस्विव भगवत अनादर एव स्यात् इति । इरथं भाष्यकृद्धिरुपदिष्टोत्तरकृत्ये 'कुलटाषण्डपतितवैरिभ्यः काकि- णीमपि । उद्यतामपि गृहयानापद्यपि कदाचन ॥' इत्यादिरीत्या धर्मविरुद्धयो- रर्थकामयो(रनिरस्तत्वात् तदविरुद्धार्थकामोपाधिकतयाऽपि अनुकूलप्रतिकूला. नुभयेषु स्वीया स्थितिः न परिच्याव्येति तेषामाशयः । अनुकूलाननादर्तव्या- नाह शाण्डिस्यः । प्रतिकूलसंसर्गस्त्याज्यः भगवत्प्रेमनाशकत्वादिति भारते कथ्यते । अनुभयेषां तृणवत्करणश्च विहितं । एवं वर्तनस्य शालेकवेद्यतया शास्त्रीयोपलक्षणतया सारोद्धारेण श्रीभाष्यकारप्रोक्तेषु पञ्चस्वपि कैर्येषु शास्त्री. नियमः खीकार्य इति साधु सुचितम् । शास्त्रविरुद्धानां कर्मणां देवप्रकृः त्यनहतया यावच्छरीरसम्बन्धं शास्त्रीयं दास्यत्वमेव समुचितम् । प्रीत्येव कारित इत्यत्र एक्कारः साधनत्वबुद्धि व्यवच्छिनीति स्फुटम् । इत्थं शास्त्रीयनियमनं प्रपत्त्यध्याये प्रसिद्धम् । तनियमाखीकारे दोषश्च जाय- मानः अस्य विमुक्तेः प्रागेवानिष्टं किश्चन जनयति । सात्त्विकानां भगव- दप्रीत्यभ्यधिको नरको नाम कोऽस्ति । निसर्गसुहृदो भगवतः अप्रीतिर. 12 IV 7&8 ३८ रहस्यत्रयसारसंग्रहः। रुन्तुदा तदीयानाम् । इयञ्च क्षमापणकर्माचरणेनापगच्छति । अक्षमा- पयितृणां स्वामिनि प्रावण्यं मोक्षे रुचिश्च शङ्कनीयं स्यात् । एवं आज्ञा- तिलंघनस्य भगवत्प्रीतिविशेधितया विरोधिनिवृत्त्यनुसन्धानस्थले शास्त्रीयनि- यमनस्यानुसन्धानमावश्यकम् । इदश्च अपूर्णापायानां उपायपूर्तिविरोधिनं प्रशमय्य भगवत्प्रसादनं भवति पूर्णोपायानामतिलंघनहेतुकाप्रीतिमजनयत् भगवत्प्रीणनं भवति । 'आज्ञानुज्ञाविभागेन द्विधा शास्त्रीयपद्धतिः । निग्रहानुदयायाद्याऽपरा तत्तत्फलाप्तये ॥ अनुज्ञया प्रवृतेऽपि क्रमकोपादिसंभवे । आज्ञातिक्रमदोषः स्यान्नियमोऽतो दुरत्ययः ।। 18 अपराधपारहारः । इत्थं भगवच्छेषतकस्वभावस्य शास्त्रनियतकै कर्येकरसस्याधिकारिणः अनापदि बुद्धिपूर्वापराधः प्रायेण न संभवेत् । प्रारब्धकर्मविशेषतः देश- कालावस्थावैगुण्यहेतुकाः प्रामादिकाः सुगुप्तयाद्यवस्थासु जाताश्चापराधाः नाधिकारिणि श्लिष्येरन् । मा जनिषत मम बुद्धिपूर्वकाणि पापारम्भका- णि च पापानीति सक्कल्प्य प्रपदनमनाचरतः प्रकृतिदोषपस्विष्टितस्य बुद्धि- पूर्वमपि जायमानाः स्वनिष्ठाविपरीताचाराः निसर्गसुहृदि श्रीपतौ रक्षणोन्मु- खे सति विद्युत इव यद्यपि नातिचिरं स्थातुं प्रभवन्ति तथाऽपि लज्जानु- तापादिविशिष्टस्य तादृशापराधपरिहाराय यथाधिकार प्रायश्चित्तानुष्ठानं ति- हत्येव । प्रारब्धवशेनाकृतक्षमापणोगयानां कठिनप्रकृतीनां यमविषयगम- नादिवर्ज काणत्वखात्वादिप्रापणेन क्षमानिधिः स भगवान् अल्पीयसा दंड नेन काकादिवत् तानिरपराधान् कराति । युक्तमेवेदम् । अन्तःपुरचा- रिणां कुब्जवामनादोनां अन्तरगत्वतारतम्यानुनरोधेन पराङ्मुखत्यनिवा- रहस्यत्रयसारसंग्रहः । रणासंभाषणादिकमेवाचरन् तदपराधानां गणं सहमानो दृश्यते स्वल्ल महाराजः । अत एव किल प्रपत्तिमाहात्म्यवादनः लघुदण्डत्वमनुसन्धायैव मृदुप्रकृतीनां क्षमापणकर्मानुष्ठापनमिव , कठिनप्रकृतीनां दण्डविधानमिव च बुद्धिपूर्वोत्तराघस्यापि क्षमणमनुष्ठितायाः प्रपत्तभवेनोपपन्नामिति केचन वदन्ति । प्रारब्धेषु पापांश इव अकृतप्रायश्चित्तस्य बुद्धिपूर्वोत्तराचं फलं जनयदपि न मोक्षं प्रतिबन्नीयात् । किन्तु समठानुलिप्तवृक्षाणां म्लानतायां स्थलादिविशेषानुरोधेन कालतारतम्यमिव निःशेषसंसारनिवृत्तेः विलम्बे केवलं वैषम्य भवति । एतद्देहावसाने मोक्षं कांक्षतामप्यनिय- तायुषामायुद्धया विलम्बो जायेत । नियतायुष्काणामायुरन्ते फलं भव. ति । प्रपत्त्युत्तरं राक्षसीनां बुद्धिपूर्वोत्तरापचारेऽपि क्रुद्धहनूमद्दर्शनजनित- भीतिरूपो दण्डः सिद्धयतीति न न्यूनता । अतश्च बुद्धिपूर्वोत्तराधेऽपि क्ष- मापणं न विधेयम् , तदभावेऽपि शिक्षारूपदण्डविशेषो न । विलम्बा- क्षमाणामपि परमे फले विळम्बो न , प्रारब्धसुकृतविशेषाधीनभगवत्कैकर्यस्य विच्छेदः सोचो वा नेति पक्षाः शरण्यगुणान् शरणागतिवैभवश्च स्तोतुमेव प्रवृत्ता इति सांप्रतम् । अन्यथा प्रपन्नानामनुष्ठानविशेषस्य , प्रपन्नानां विषये प्रायश्चित्तविधायकवचनानां अनिर्दिष्टकालानां विषये विलम्बविधाय- कवचनस्य च व्याकोपः स्यात् । वचनविशेषानुरोधेन प्रपत्त्यन्तरमेव तेषां विषये प्रायश्चित्तं भवति । बुद्धिपूर्वोत्तराघपरिहारमप्युद्दिश्य पूर्वमेव प्रपत्त्यनु- छानविधायिनि वचने सत्येव किल तदितरविषयतया प्रायश्चित्तप्रयचिविधानं नियन्तुं शक्येत ! । अतः प्रायश्चित्तप्रपदनविधायिनो वचनस्य बुद्धिपूर्वोचराघ- परिहारार्थप्रपदनाननुष्ठातृविषयकतया नियमनं न युज्यते । प्रपतेः बुद्धिपूर्वोत्त- राघपरिहारार्थता यदि विज्ञायते तार्ह तादृशं लाघवं न कोऽपि जमादिति पुतः प्रपतिविधायकं वचनं निर्विषयं स्यात् । न हि सामान्यवचनेन विशे- प्रवचनं बाध्येतः । यद्येवं विशेषवचनं पाध्येत ताई आसकस्यापि रहस्यत्रयसारसंग्रहः । बुद्धिपूर्वोत्तराधे दोषो न स्यात् । बुद्धिपूर्वोत्तराघवतामपि यमक्यता- दिदोषो नेति प्रमाणसिद्धम् । एकरूपस्य पापस्य जातिगुणाधिकारभेदेन गुरुलघुफरभेदवत्त्वं सर्वसंप्रतिपन्नम् । इत्थच्छ- 'न प्राग्वत् बुद्धिपूर्वाघे न चात्यन्तमनुग्रहः । लघुर्दण्डः प्रपन्नम्य राजपुत्रापराधवत् ॥' अतः प्रपन्नस्य लघुदण्डनिवारपाय पुनः प्रपदनं विधीयते । शिष्टतया व्यपदिष्टानां प्रसिद्धेषु निमित्तेषु यथाशक्ति प्रसिद्धप्रायश्चित्तानुष्ठानमेव लोकसंग्रहानुरोधेन समुचितम् । तथाविधप्रायश्चित्ताकरणं च तेषामपराधं जनयति । आज्ञातिलंघनं च, सरन्ध्रयाः सेवातिलंघनमिव तादात्त्विकप. रिमलाननुभवं भीति च, अमीषां द्विविधमनर्थमादधाति । ननु वचनाभावेऽपि स्वेच्छया बुद्धिपूर्वोत्तराघपारहरािर्थमाप कुतो न प्रपदन स्यादिति चेत् तत् तादृगुत्तराषपरिहारार्थ उपासनं अङ्गप्रपत्तिा कुतो नानुष्ठीयतामिति प्रतिवन्धा निरस्तम् । इष्टापत्तौ च भाष्यादिविरोधः । उपस्तिप्रभृतीनां ब्रह्मविदामनुष्ठानस्य च विरुद्धमिदम् । निमित्तानन्तरमेव नैमित्तिकमनुष्ठातव्यमिति न्यायः न बुद्धिपूर्वोत्तराघविषयं बाधितुं शक्यते । अतश्चागामिवुद्धिपूर्वपापेभ्यो विभ्यताधिकारिणा तत्कारणभूतप्रारब्धपापपरि- हाराय प्रादनरूपं प्रायश्चित्तं कर्तव्यम् । प्रपत्त्या जपहोमार्चनादिभिश्च प्रारब्धपापनाशः कथ्यमान उपपद्यते । पापारम्भकपापपरीहारायाप्यनुष्ठि- तप्रपदनस्य बुद्धिपूर्व पापं नादयेत । अत्यन्तभगवदन्तरङ्गभूतानामपि सात्त्विकापराधलेशः प्रत्यवायकर इति शाण्डिलीवृत्तान्तादौ प्रसिद्धम् । भगवानिव सूरयोऽपि सेच्छयाव- तीणीः कर्मवश्यतामभिनयन्तः लोकहितप्रवर्तनाथ अपचारपरीहारादीननुति- हन्ति । अतश्च भगवत्प्रीतेरहानाय, पुनः प्रपते। लघुदण्डस का रहस्यत्रयसारसंग्रहः। अप्रसजाय उत्तराघनिर्मूलने यत्नवता भाव्यम् । अत्र सर्वेषामपराधानां निदा- नमविवेकः । तत्र प्रधानीभवति अचित्स्वभावजाड्यविकारादीन ईश्वरस्वभाव. स्वनिष्ठत्वस्वातन्त्र्यानन्यार्थत्वादींश्च परिकल्पयन्नविवेकः । एतादृशमविवेक छत्तुमसिनवति अन्यूनानतिरिक्तमात्मनि जातं निम्संशयं तत्त्वज्ञानम् । इत्थं सर्वमूलभूतस्य फलप्रदानोन्मुखस्य पूर्वाधस्य निवर्तनार्थमपि पूर्वमेव प्रपत्ति विशिष्य प्रायश्चित्तभूतपुनःप्रपत्तिञ्चानुतिष्ठतां न कोऽपि दोपः । एवं परिहार्येषु अपराधेषु राजदारापराधवत् प्रयानीभवति भागवतापचारः । अतश्च जातिगुणादिमिरुत्कृष्टानां शुकशौनकादीनां न्यस्तभरस्य स्वस्य च तुल- ऽपि भागवतत्वे भगवत्सङ्कल्पविशेषप्रयुक्त, तत्तदुपाधिस्वभावसिद्धोत्कर्षापकर्ष- योः तिरस्कारप्रयोजकतया अस्वीकरणम्, 'अनुज्ञापरिहारौ देहसम्बन्धाज्ज्यो- तिरादिवत्' इति न्यायेन जात्याधुपाधिमूलकविधिनिषेधव्यवस्थायां सत्यामपि अन्यूनप्रतिपत्तिपरिपालनम् , एतादृशेषु प्रतिपत्त्यैव कैकयीचरणसम्पादनं चावश्यकम् । यद्युक्तेषु कर्मसु परिस्खलति तर्हि स लक्ष्मणसुग्रीवयोः संवादं साधु विमृश्य क्षमापणविशेषेण पराविदितपरिस्खलनं वर्तत । विशेषज्ञस्य बुद्धिपूर्व प्रातिकूल्यमाचरतोऽपि अपराधं पुनः प्रपत्त्या भगवान् शाम्यतीति बदरिकाश्रमे रुद्रानुष्ठानेन विज्ञायते । अद्य सापराधः निरपराधो वा जन्मान्तरदुष्कृतानुरोधेन भागवतैर्विगर्यमाणः, तेषां क्षमापणो- पायाचरणेन भगवन्तं प्रसादयेदिति वैष्णवलक्षणाभिधायकप्रमाणैर्विज्ञायते । एवं भगवन्तमप्रसादयतम्तु भगवदभिमानविषयत्वम् , भागवतशेषत्वं स्व- भावभूतशमादयश्च होयेरन् । एवंभूतगुणविशेषाणां हानिरेवास्य वधः द- ण्डश्च भवति । भगवदभिमानवाह्यतायाःौर्य भक्तांघ्रिरेणुः साधुन्यरूपयन् । 19 स्थानविशेषः ॥ इत्थं निरपराधानकूलवृत्तौ रुचिमान् परमैकान्ती आर्यावर्तादीनां 13 IV& 10 ।
४२ रहस्यलयसारसंग्रहः। पुण्यदेशानां युगस्वभावप्राप्तां वैयाकुली साधु निरूप्य चातुर्वर्ण्यप्रतिष्ठावति स्ववृत्त्यनुगुण देशे निवसेत् । तत्रापि परमभागवतनिवासपावनः प्रदेशः परमेकान्तिनः साधीयान् । 'कलौ खलु भविष्यन्ति नारायणपरायणाः' इत्युपक्रम्य भागवतपरिग्रह विषया देशाः काथताः । अत एव देवै ऋषिभिश्च पृष्टो भगवान् 'यत्र वेदाश्च यज्ञाश्च तपः सत्यं दनम्तथा । हिंसा च धर्मसंयुक्ता प्रचरेयुः सुरोत्तमाः ॥ स वै देशो हि वः सेव्यो मा वाऽधर्मः पदा स्पृशेत् ।' इति प्रत्याह । उकगुणान्वितेष्वपि भागवतपरिगृहीते कस्मिंश्चित् स्वकैक- यसमुचिते देशे निवासः प्रशस्यते । भाप्यकारोऽपि 'अत्रैव श्रीरङ्गे सुख- मास्व' इति सत्त्वोत्तरभगवक्षेत्राणां प्रदर्शनाय श्रीरङ्गमादितः कथयति । भगवक्षेत्रमेव विवेकिनां वासाहमिति व्यासवाल्मीकिप्रभृतयः न्यरूपयन् । श्रोसात्वतादयोऽपि क्षेत्रविशेषान् तत्सीमां , तत्र देहं न्यस्यतां विशेष च प्रतिपादयन्ति । अतः शक्यं कैकर्षमाचरन् भगवद्भागवताभिमानविषये सत्त्वोत्तरे देशे निवसेत् । गत्यन्तराभावे तु यस्मिन् करिमश्चित् देशे निव- संतु । एतद्वासेन किल तदपि पवित्रं भवति । अल च शाण्डिलीवृत्ता- न्तः सश्चिन्त्यतामुदाहरणतया ! शरीरपातस्य देशविशेषनियमो नेति वचनं फलस्यान्यूनतां गर्भाकरोति । 20 निर्याणम् ॥ एवं भगवतः पादाववलम्बमानं प्रपन्नं हरतेनावलम्ब्य भगवानुभय- विभूतिनाथः अभिषिक्तां महिषोभिव सबहुमानं कांक्षिते परमे पदे प्रति- रहस्यत्रयसारसंग्रहः । ४३ . ष्ठापयितुमिच्छति । तत्र प्रारब्धदुष्कृतविशेषवैचित्र्यमूलकाहकारममकारौ तन्मूलकानपचारान् ; प्रयोजनान्तररुचिम् , तन्मूलतया सम्भावित देवता- न्तरसम्पर्शम् , बुद्धिदौर्वल्यम् , तन्मूलकोपायान्तरप्रत्याशां च भजताम- धिकारिणां, एवं विधवपरीत्यगन्धविधुराणां, प्रारब्धसुकृतविशेषेण पूर्वप्रपती फलसकल्पविशेषेण च अच्छिद्रकानुष्ठानप्रतिष्ठावतामधिकारिणां च सं- सृतिपथान्निर्याणे विळम्बाविळम्बव्यवस्था यवं प्रदश्यते । एतेषामहकारम- भकारौ चार्वाकादीनामिव न स्थिरौ भवतः । गच्छतां स्खलनमिव जातुचिज तावपि तो पश्चात्तनेन विवेकेन विनश्यतः । जापानामप्य- पराधानां क्षमापणावधित्वं शिक्षावपित्वं च प्रागेवाभ्यधायि । कालम- निर्दिश्य उपायमनुतिष्ठतां विषये 'तनूकृत्याखिलं पापं मामाप्नोति नरः शनैः ।' इति वचनं चरितार्थम् । मुमुक्षूगामेषां प्रयोजनान्तररुचिः न स्थिरा स्या- त् । उभयभावनावतामिवामोपां मोक्षेण सह प्रयोजनान्तरेऽपेक्ष्यमाणेऽपि हितपरः स भगवान् कुण्डघरोपाख्यानोक्तविधया कानिचित् प्रयोजनान्यददानः अल्पास्थिरत्वादिविवेकेन तेषुचिदरुचिमुत्पादयन् सौभरिकुचेलादोनामिव कतिपयभोगप्रदानेनोद्वगं च जनयतीति कालविशेष निश्यि प्रपन्नानां तावत्येव समये प्रयोजनान्तरवैमुख्यं जायत । अन्येषां तु वैराग्यावधिः विळम्यः स्थादव । प्रयोजनान्तरानुरोधेन जायमाननवि देवतान्तरस्पर्श परमैकान्ति- सम्बन्धमानजनितलजावधिकं परिकल्प्य स भगवानात्मनि प्रवणयति । स्थिरे सति देवतान्तरम्पर्शे पूर्वमुपायस्पर्शी न । उपरि च नरकाद्यनुभवोऽ पोति ज्ञायताम् । भगवति कृता प्रपतिस्तु कदाचिदुपायं निप्पाद्य स्वयं चरि- तार्था भवेत् । परिपूर्णमहाविश्वासेनोपायमनुतिष्ठतां बुद्धिदौर्बल्यमुपाया. न्तरप्रत्याशा च न जातु जायेत । यदि जायते तेषां विश्वासो मन्द एव न महान् । मन्दविश्वासानामेषामपि महाविश्वासमुत्पाथ पूर्णप्रपत्तिनिष्ठां जन- ४४ रहस्यत्रयसारसंग्रहः । . यति । एवमादिवैपरीत्यरहितानां विळम्बादिशताऽपि न । किन्तु ए. तेषां इच्छावधिको विळम्बः । मोक्षश्चोद्दिष्टे समये सिद्धयति । एष च भगवतः सदाऽभिमतोऽधिकारी । अमुष्य विषये सत्यसङ्कल्पः स भगवान् सद्वारकप्रपत्तिनिष्ठस्योपायप्रारम्भ इव प्रपत्तिवाक्योच्चारणप्रथमक्षण एव सर्व- भयकारणभूतं निग्रहसङ्कल्प शमयित्वा , एतस्य एतदनुबन्धिनां च नि- त्यसूरिपरिषत्प्रवेशनेऽपि अपूर्यमाणेन श्रद्धातिशयेन आश्रितापराधराशीन् अन्तःकुक्षिकोणमवस्थाप्यानुबन्धिनां बुद्धिपूर्वीपराधस्यानुतापादिनितार्यता- प्रयोजकमनुग्रहं सङ्कल्प्य एतदपक्षितविळम्बे स्वयं सानुशयः त्वरितश्च कस्या- पि त्वरामुत्पाद्य स्वाभिप्रायानुरोधं प्रारब्धशरीरावसान एवं तेन परमप्राप्ति प्रार्यमानः, बन्धकयोः पुण्यपापयोः तदभ्युपगतातिरिक्तांशे सम्बन्ध- मस्य निरस्य शरीरपातसमये प्राप्ते प्रियेषु सुकृतमप्रियेषु दुष्कृतं च संक्रम- य्य दिवाशुक्लपक्षादिप्राशस्त्यस्य फलान्तरासक्तविषयकतया मोक्षोपायपू. तिराहितविषयकतया च व्यवस्थापितत्वेन कालनियम मरणस्य निराकृत्य मनुष्यपितृदेवानामहि रात्रौ वा स्वसङ्कल्पितसमये अप्रच्युतपूर्वसंस्कारम- नोरथमेनं विधाय तत्कालोपस्थितयत्किञ्चिच्छरीरविश्लषनिमित्तमुत्पाद्य वा- गादीनि दश बाह्यन्द्रियाणि मनसा , तथाभूतं मनश्च प्राणेन , प्राणश्च जीवेन, जीवश्च त्रिस्थूणक्षोभदशायां स्थूलेदहमन्थनजनितेन पञ्चभूतसूक्ष्मेण संयोज्य नादृशं जीवं हार्दभूतस्य स्वस्य सविधे विश्रमय्य एवंभूतविद्व- दविद्वत्साधारणोत्क्रान्त्यनन्तरं स्वर्गनरकप्रापकमार्गान्तरमुखभूतनाढीविशेषे- प्वप्रवेश्य अर्चिरादिमार्गमुखभूतशताधिकब्रह्मनाड्यां प्रवेश्य सूर्यकरावलम्ब- नपूर्व प्रस्थापयति । एवंभूतस्य प्रपन्नस्यान्तिमस्मृतिनीवाश्यका । अत एव भगवान् भाष्यकारः मुमूर्षोः श्रीवत्साकमिश्रस्य श्रोत्रे द्वयमुञ्चार्य खि- नान् तत्सविधवर्तिनः प्रति इदमुपायपरिकरतया नोक्तम् , किन्तु खण्डश- करावत् भोग्यतया इति प्राहः । केचित् अन्तिभस्मृतिमपि उपायफलं विवक्षित्वा प्रपन्नानामन्तिममृतिरवश्यं भवेदिति वदन्ति । अत एवं रहस्यत्रयसारसंग्रहः । ४५ गये अप्रच्युतपूर्वसंस्कारमनोरथ इति कथनमुपपन्नम् । उपायभूतान्तिम- स्मृतिनीवश्यिकी । सा च स्वयं न साध्या । अत एव मदीययैव द- ययेति गद्यस्थं वाक्यमुपपद्यते । अन्तिमस्मृतिनीम वागादिषूपशान्तेषु उपशममनापन्ने मनसि जायमाना स्मृतिः । नेयं सविधगतैरीक्षितुं शक्या । दृश्यते हि वागिन्द्रियोपरमेऽपि मनः प्रवृतिरिति भाष्यं तु लिङ्गविधया, व्याध्याद्यवस्थासु अनुभूतदर्शनविधया वा नेयम् । अतश्च मुच्यमानस्य मोक्षदातुश्चान्तिमस्मृतिः ज्ञानविषयः । इतः परं हार्दविश्रमणावधि सुषुप्तितुल्या स्थितिः । 'काष्ठपाषाणसन्निभं नष्टस्मृति' रित्यादिकमिमानेवाव- स्थामक्बोधयति । ततः परं लब्धज्ञानः तत्प्रकाशितद्वारः ब्रह्मनाडी प्रविश्य उसरकालं यावत् अहरेवाभिनिष्पद्यत इति । 21. गतिचिन्तनम् । इत्थं मूर्धनाड्यां प्रवेशितं मुमुक्षु स्थूलशरीररूपाद्ब्रह्मपुरात् ब्रह्मनाडी. द्वारेण समादाय प्रस्थितोऽतिवत्सलो हादः देवयानमार्ग नीत्वा अर्चिपा, अह्ना, पूर्वपक्षण, उत्तरायणेन, संवत्सरेण, वायुना, आदित्येन, चन्द्रेण, अमा- नवसंज्ञकवैद्यतेन, तत्सहकारिभिर्वरुणन्द्रप्रजापतिभिस्वप्रधानर्मार्गदर्शकैरतत्त- सीमसूचिताहणाभिरनुभावितभोगः कांक्षितं देशविशेषमुपगमथ्य, कर्मफल- भोगार्थतारहितं विद्यया स्थापितं गत्युपयोगि मूक्ष्मशरीरं, निम्तीर्णनदीक उडुपमिव, परित्याज्य, विरजायाः पारं प्रापय्य, दत्वा चापाकृतं शरीरं,निकषा- ऐरम्मदीयं सरः, सामसवननामानमश्वत्थं प्रापय्य, मालाञ्जनचूर्णवासःपणव- हरताभिः पञ्चशत्या अप्सरोमिः प्रत्युद्तं ब्रह्माल कारणालंकृतं च कारयि. स्वा, ब्रह्मगन्धरसतेजांस्यनुप्रवेशितं नित्यसूरिपु सम्मुवीनेषु, इन्द्रप्रजापतिना- नोर्गोपुररक्षकयोः सविधमनुष्य अप्राकृतराजोपचाराननुभाव्य, निरतिशय- भाग्ययोः स्वपादाम्बुजयोः मूले निवेश्य , समानभोगत्वलक्षणसायुज्यवता IV 11 - 14 ४६ रहस्यलयसारसंग्रहः । सुरिणां परिषदमनुप्रवेश्य , समस्तप्रतिबन्धकनिवृत्तिपूर्वकं स्वस्वरूपाविभीव. पूर्वक देवकालावस्थासङ्कोचरहितं मनोरथानुगुणं च कार्य तदीयं सर्व- विधमपि कैडी यावदात्मभावि विधाय ऐकान्तिकात्यन्तिकनित्यकिङ्करता- नुभवन निरतिशयानन्दमाजमेनं करोति स भगवान् । वस्त्रादिपदनाप्तिपूर्व- कमोक्षसाधनभूतमधुविधादिनिष्ठानां, पान्चरात्राधिकरणप्रोक्ताधिकारिवि- शेषनियतक्रममुक्तिभाजां, सत्यलोकान्मोक्ष भजतां च गतिविशेषास्तत्तदधि- कारिभिरेव ज्ञातव्याः , प्रश्ते नातीवोपयुज्यन्ते चेति उपेक्षिताः । यद्य- प्युपासकस्येव गत्यनुसन्धानादयः प्रपन्नास्याङ्गतया न विहिताः ; तथापि स्वाधिकारिताप्रयोजकफलार्थिताया आवश्यकतया फलपर्वविशेषानुसन्धान- मपि तत्रानुप्रविशति । गतिचिन्तनं चेदं भाविनो भावुकस्य वासरपरिग- जनमिव ईप्सितपुरुषार्थमहिन्ना प्रीत्यतिशयमुत्पादयत् स्वयंप्रयोजनीभवति । अतः स्थूलतोऽपि गतिचिन्तनमपेक्षितं भवति । 22. परिपूर्णब्रह्मानुभवः ॥ इथं अध्वविशेषेण गतः सर्वदेशसर्वकालसर्वावस्थासु निरतिशय- भोग्यं अनन्त्तगुणविग्रह विभूतिविशिष्टं सर्वेश्वरं भगवन्तं परिपूर्णमनु- भवति । एवम नुभवश्य तौल्येन जीवेश्वरयोः परमं साम्यमुच्यमानमुपप- द्यते । यथा प्रियतमे राजनि भाग्यभूते तदुपकरणेषु तन्महिप्याः भा- ग्यत्वं तथा भोग्यभूते सति ब्रह्माणि तद्भोगोचितभोगीपकरणभोगस्थाना- दिषु भगवत्स्वरूपानुवन्धिषु भोग्यता न हीयते । सर्वप्रकारविशिष्टः स भगवान् भोग्यभूत इति भूमाधिकरणे प्रपश्चितम् । अत्र परमपदशब्दः निरतिशयानुकूलतया परमप्राप्यत्वेन भगवत्स्व- रूपमभिधते । स्थानविशेष एव तथाविधपरिपूर्णानुभवात् तदपि स्थान परमपद शब्दः बोधयति । एवमनुभवाश्रयः भगवद्विभूतिभृतः ज्ञानानन्दलक्षणः रहस्यलयसारसग्रहः । ४७ स्वात्माऽपि परमपदशब्देनोच्यते । अमीषां त्रयाणां कालशुद्ध- सत्त्वयोश्च प्राप्यत्वं केवलमविशिष्टम् । ननु प्रतिकूलतया प्रत्यक्षसिद्धेषु मुमुक्षाम्त्याज्यतया विहितेषु लीला- विभूतिस्यपदार्थेषु कथं भोग्थता जायतामिति चेत् न । प्रशान्तपित्तस्य पथसीव प्रशान्तकोपेन राज्ञा विमोचितस्य कुमारस्य कारायामिव च प्रशान्त- कर्म परोवाहस्य समुपजातनिरन्तरभगवदमुभवस्य लोलाविभूतिस्थेषु पदार्थेषु भोग्यता नैव होयते । बद्धदशायां प्रतिकूला अल्पानुकलाश्च पदार्थाः कर्मवन्धरहितावस्थायां भगवदिच्छाता भोग्या भवन्ति । इत्थमनुकूल- स्वभावः सर्वप्रकारविशिष्टो भगवान् नारायणः द्वये अष्टाक्षरे च चतुर्थ्या प्राप्यतया अवगम्यते । तथाविधभगवतयं च परिपूर्णानुभवजन्यपीति- विशेषस्य परीवाह इति सुस्पष्टं गधेऽभिहितम् । मुक्तदशायां श्रुतं जक्षणादि ज्ञात्यादिसम्पादनं च कर्मनिरपेक्षभगवदिच्छानुगुणस्वेच्छामूलतया निरुक्तकैङ्कय एवान्तर्भवति । अयमनुभव उत्तरावधिरहितः सदा वर्तते । इत्थं भगवत्कैकर्यान्तर्गतस्वच्छन्दविहारेण लीलाविभूतिमनुप्रविशतामपि तथाविधानुभवस्यासङ्के।चात् अपुनरावृत्तित्वं युज्यते । इत्थमनुभवं लप्स्य- मानानामन्तिमं शरीरमेवजातीयकमिति न निश्चेतुं शक्यते । ब्रह्मादय इव धर्मव्याधादयोऽपि मोक्षं लभन्त । इत्थं च मुमुक्षुदशायां विद्यमानमुत्क- पादिकं मुक्तदशायामप्यनुभवतारतम्यं जनयतीति वदन्त आनन्दतीर्थीयाः ब्रह्मणा विपश्चिता सह मुक्तानां परमसाम्यं प्रतिपादयन्तीं श्रुति विसस्मरुरिव । आचारवैकल्यानुगुणः आनन्दहास इति वचनस्याप्तत्वेऽपि देशविशेगप्राप्ति प्राकालिकभगवदनुभवपरतया समर्थन न्याय्यम् । कालतारतम्यमेव पूर्वा- परमुक्तामाम् ; न भोगे हासः । श्रीविष्णुलोकादिपु सालोक्यसारूप्यमा- त्रभाजां मुक्तत्वव्यपदेशः अदुरविप्रकर्षाद्भवति । परमे पदे लभ्य- मानसायुज्यमेव मोक्षपदार्थः । शते पञ्चाशन्न्यायेन सालोक्यादीनां ४८ रहस्यत्रयसारसंग्रहः। उदन्तभूतत्वातत्र न वैषम्यं कस्यापि । एकभाग्यपदार्थनिरूपितभोक्तृत्वमेव सायुज्यपदेनोच्यते । इह च सप्रकारकब्रह्मरूपे भोग्य ब्रह्मणा सह मुक्त. स्थापि भोक्तृत्वान्वयाविशेषात् रायुक्त्वमुपपद्यते । तारतम्यरहितभोग- वर साष्टिताशदनाच्यते इति न सायुज्यसाटिताशब्दयोरेकत्र प्रयोगे विरोधः । मुक्तस्य जगद्यापारसम्बन्धाभावेऽपि पितृकृषिफलं पुत्रस्य व जगन्यापाररसः विधातुः ब्रह्मणः पश्यतां मुक्तानां च तुल्य एव भवति । अत एव 'जगद्व्यापारवज' 'भागमात्रसाम्यलिङ्गाचेति सुत्रकार आह। सायुज्य- पदस्य ऐक्यमर्थ इति वदतां मते सामरस्यं हि सायुज्यमिति शाकटा- यनवचनं भेदश्रुतयश्च विरुद्वोरन् । 'मम साबर्धमागताः' इति हि गीताचार्यः प्राह मुक्तोऽकर्मवश्यतया खतन्त्रः कथ्यते । इत्थं श्रुति- सूत्रादिपु साम्यस्य कण्ठत उक्तत्वेन मुक्तदशायां प्रतिपादितमैक्यं राममु- ग्रीवयोरैक्यमित्यादाविव भेदश्रुत्यविरोधेन निर्वाह्यम् । अन्यथा प्रमाण. सहलं विरुद्धयत । अतश्च ज्ञानभोगादिषु मुक्तस्य परमसाम्यमेव वर्तते ईश्वरस्य जगत्कारणत्वमोक्षप्रदत्वसर्वव्याप्तत्वज्ञानानन्दस्वरूपत्वलक्ष्मोसहाय- त्वादीनि प्रतिनियतानि । मुक्तानां आधेयत्वविधेयत्वशेषत्वाणुत्वादीनि व्यवस्थितानि । नन्वेयं तर्हि अस्वतन्त्राणां मुक्तानां पुनरावृत्ति शक्का कुतो न स्यादिति चेत् इत्थम् - किरा मम ते नित्यं भवन्ति निरुपद्रवाः । इति भगवद्वचनात् , मुक्तैः सर्वस्यापि ब्रह्मात्मकतया दर्शनेन केवल- चिदचिदनुभवस्थाप्रसङ्गात् , केवलचिदचिदनुभवे दोषस्य प्रत्यक्षितत्वा- चन स्वच्छया पुनरावृत्तिशङ्का जायत । मुक्तदशायां धर्मभूतज्ञानस्य वि- मंदसोचयोरभावन विकस्वरतया अज्ञानमूलकावृत्तिशङ्काऽपि न । भगवद्वि षयलसम्यज्ञानतो जातं भक्तिशब्दवाच्यं ज्ञानं सर्वविधभगवद्वैलक्षण्यस्य अत्यक्षिततेवन निरतिशयप्रीतिरूपं पर्यवस्यति । तथाविधप्रीत्यतिशयस्य अतश्च रहस्यत्रयसारसंग्रहः । ४९ भगवताऽप्यपरिच्छेद्यतया अप्रतिबद्धयग्रसरणवत्त्वं स्फुटम् । भगवत्स्वातन्त्र्यप्रयुक्ताऽपि पुनरावृत्तिशङ्का न सम्भावनाही । मुक्तदशायां शास्त्रवश्यताधिकाराभावेन आज्ञातिलंघनाभावात् भगवदभिमतातिरिक्तस्वा- भिमताभोवन विपरीतानुष्ठानराहित्याच्च कैकयपर्यन्तपरिपूर्णब्रह्मानुभवरूपमा- क्षपुरुषार्थः उपरि च यावदात्मभावी भवति । सर्वमिदमभिप्रेत्य ग- वान् सुत्रकारः 'अनावृत्तिश्शब्दादनावृत्तिश्शब्दादि'त्याह । श्रीनिवासयतीशानपदाम्बुजरजःकणः । जडभूतमिमं तूर्ण चेतनीकुरुते हठात् ॥ इति श्रीमद्रहम्यत्रयसार संग्रह अर्थानुशासनभागः प्रथमः ।