Allahabad University

Navratrapradipa

Gopinath Kaviraja · 2006/06/18

PDF Proofread

Front matter

THE
PRINCESS OF WALES
SIRASWATI BHAVANA TEXIS
No 23.
42. A. 12
EDITED BY
GOPI NÀTHA KAVIRAJA,
.
THC
NAVARĀTRAPRADĪPA
9.
Printed lie Jai Krishna Das Gupta
At the l'idyra l'ilas Press, Gopal Jandir Lane,
Bencres City.
1928
24.9.2
2. n.2.exe

नवरात्रप्रदीपः धर्माधिकारिनन्दपण्डिताऽपराऽभिधान- विनायकपण्डितप्रणीतः। 49. AA***** MW RAMANI THE NAVARĀTRAPRADĪPA by. Nanda aliâs Vināyaka Pandita Dharmādbīkāri. Edited with Introduction etc. by Vaidya Nātha Sāstrī Varakale, Dharma S'āstra S'āstrī, Sādholal Research Scholar, Government Sanskrit College, Benares.' With a Foreword by PANDIT GOPINATH KAVIRAJ, M. A., Principal, Govt. Sanskrit College, Benares, det HER HA #AH DIA Government Sanskrit Library, Sarasvati Bhavana, Benares. 1928.

सूचीपत्रम्।
सं० विषयाः
पृ०
Foreword
१-३.
...
....
२ भूमिका ।
१-३७.
....
....
....
....
१ उपक्रमः । २ ग्रन्थपरिचयः ।
२ ग्रन्थकृत्परिचयः । ३ उपसंहारश्च,....
३ नवरात्रप्रदीपे समुपात्तानां विशिष्टशब्दानां सार्थी सूची।
४ नवरात्रप्रदीपस्थविषयसूची ।
१-३.
१-११२.
५ नवरात्रप्रदीपः।
६ नमात्रप्रदीपे समुपात्तानां ग्रन्थतत्प्रणेतॄणां नामानि ।
७ शुद्धिपत्रम् ।

FOREWORD The following pages represent the text of a work on Dharmaśāstra by the great Nanda alicos Vināyaka Pandit of the Dharmādhikari family of Benares. The work deals with certain details* connected with the observance of the Navarātra rites. These details have been well brought out in the Sanskrit Introduction prefixed to the work & need not be repeated here. The author lived in Benares in the 17th Century of the Christian era & was universally respected as the leading pandit of the age in Northern India, specially on questious connected with Hindu Law. He was the author of several works, mostly on Dharma S'āstra, the only exception being his Mādlavānanda Mahākāvya. His ancestor Pandit Lakşmidhara, a Māhāgāştra Brāhmaṇa of the Judgala family, was one of the most celebrated scholars of Bidar iu Southern India & was recipient of high honours from the Emperor of Delhi. He was recognised in those days as the highest &final authority on Hiudu Law.His younger son Govinda migrated to Benares on the death of his elder son S'rī Krşņa, together with the latter's in- * These details bear upon the determination of the tithis. So far as the Pratirat is concerned the author is in favour, when it is not available in its purity, of it being connected with Amā rather than with Dvitīvā. The Navaratra Vrata is held by him to be a species of "Nakta Vrata.” Regarding the Pāraņā day the author prefers the Nav:imī against the Das'amí as in the opinion of Kamalakara Bhatta, Ra shuna dana & others. The Navami view is supportod by Ananta Deva (Smrtikaustabha ) & others.

( 2 ) fint sou Jahipati. The author of the present work is the treat grand-son of this Mahipati. The family of Nanda Pandit had been a votary of Sri Rūna. But since he obtained three images of Mahā Vişnı at Prapaga ( Triveņi ) the family has been a worshipper of Sri Krşpa. The Janmāștamīceremony of S'ri Krsnl, rhich was commenced by Nanda Pandit, is still continued in the family. The author flourished at a time when Benares as the home of Sanskrit Learning. During his life time (1550—1630.4.D.)Benares was the seat of literary activities of sm3 of the greatest figures in the history of Sanskrit Literature. Nārāyaṇa Bhatta & his son Sankara Bhatta I, Vidyānivāsa Bhattacharya--the father of Visvanātha Nyāyasiddhāntapañchānana,Nisimhāsram:,the author of Bhedadhikkāra, Advaitadipikā and Vedāntitattvarireka, Madhusūdana Sarasvati, Nilakantha D:livajña, tire author of Nilakanthi Tājika, Muhūrtachintāın:ņi.& the court astronomer of the Emperor Akbar, were some of the most illustrious contemporaries of Nanda Pandit. Nanda Pandit lived in the end of the 16th and in the beginning of the 17th century, the date of his commentary on Vişnu Smrti being 1622 A.D.A manuscript of the Dharmadhikārī Vamsacharita, written by one Venirīnua Pandit, is available. It is a descriptive account «»f the fimily beginning with Pandit Lakşmīdhara of Bidar, the 5th ancestor of Nanda Pandit Dharmādhikārī. From this it appears that the family has been famous from the days of Lakşınīdhara for proficieucy in Dharmaśā-

stra learning and that it has been a Vaişņava family
with Rāmachandra as its family deity. A list of Nanda
Pandit's works has been supplied in the Sanskrit
Introduction, to which may be added the name of
Māņsamīmānsā, *a work mentioned in his
own
S'rāddhakalpalatā.
Govt, SANSKRIT COLLEGE,
Benares,
GOPINATH KAVIRAJ.
* This work should be distinguished from works on the saino
subject by Visvanātha Nyāyapanchanana and other.

श्रीः उपक्रमः। "कालाय तस्मै नमः अहो नितान्तं किल योगिनामपि सुदुरधिगमः कालस्य म. हिमा । अस्य किल कलाविलासानां पुरो ब्रह्मविष्णुमहेशानां सृष्टिस्थितिपलयविधातॄणां देवदेवानामपि कलालेशोऽपि न प्र- भवति, का कथा किल पराकाणां मानवाना निसर्गपरवशानां दुरालस्यदुरहङ्काराऽभिनिविष्टचेतसाम् । अस्य खलु कलाजाला- न्तर्गतः पुरुषः का कां वा दशा नाऽधिरोहति । अय हि कदा- चित् नृप याचकयति, याचक नृपयति । एक सम्मानयत्यपरम- पमानयति । अहो कालकलाना वैचित्र्यम् । अभ्याऽनन्तोदरे किं न जातं किं वा न निलीनम् । अत्र हि जातुचित् कल्पनाती- तमपि वस्तु पुरो दृश्यते कल्पितमपि गगनकुसुमायते । उपका- रोऽपकारायते । अपकारश्चोपकारता ब्रजति । अमृत विषायते विषमप्यमृनायते । एकतो जन्म परतो निधनम् । य एव सुखी म एवाऽन्यदा दुःखी दृश्यते । निन्दन्तु वा स्तुवन्तु वा जनाः कालस्य कार्य निरन्तरनिरन्तरायमेवमेव प्रचलति । अहो घट- नापाटवं कालस्य । सत्यं ममुपश्लोकितं भर्तृहरिणा- यत्राऽनेके क्वचिदपि गृहे नत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र चान्ते न चैकः ।।

२ नवरात्रप्रदीपभूमिकायाम्- इत्थं चेमौ रजनिदिवसौ दोलयन्वाऽपि चाक्षी कालः काल्या सह बहुकलः क्रीडति प्राणिशारैः ॥ हा इन्त तथाऽपि न जहति मोहनिद्रामुद्रितलोचना निज सर्वस्वनाशकारिणी दुर्बुद्धिम् । न च निजधर्माचरणे चित्तमर्प- यन्ति । भवतु इदमपि कालस्यैव माहात्म्यम् । अयि जनाः ! धर्माचरणमन्तरा मुखसम्भावनाऽपि वर्त्तते किमु ? जागर्ति च प्राणिमात्रस्य हृदये 'निरन्तर निरतिशयं मुखमेव मामायातु न दुःखलशोऽपि जात्वपि' इति लालसा। ततश्च मुखमाप्त्यै आ- जीवन वियोग प्रवर्तते । परं पारमार्थिक मुखमजानानो जीव- जाह प्रयतमानोऽपि तत्सुख नैव लभते पुरुषः। कुतो वा लभ. ताम् ; यतो हि धर्ममन्तरेण सुखोपलब्ध्युपाय एव नास्ति । अ. तो धर्म एव परमपुरुषार्थ इति वास्तवम् । अत एव धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । इति श्रूयते । धर्मस्य वास्तवं स्वरूप धर्मोऽपि वेत्तु प्रभव- ति न वेति को जानाति, तथाऽपि यथामनीषं विचार्यमिति प्रस- कापतितं विचार्यते । धर्मो हि द्विविधः साधनसाध्यभेदात् । तत्र त्रिवर्गरूप आघः आत्मदर्शनाकारो ऽपरः साध्यस्वरूपः । स एव परं पदम् , स एव महाका- लः, स एव परमो धर्मः, किं बहुना स एव सर्वस्वम् । तत्प्राप्ति- रेव सर्वासा श्रुतिस्मृत्यादीनां सारम् । सैच चरमा सीमा । अत एवाहाऽऽपस्तम्बा-"आत्मलाभान्न परं विद्यते" अत एव याज्ञ- साधनरूप:

. ३ वल्क्योऽपि-- इज्याऽऽचारदमा हिंसा दान स्वाध्यायकर्म च । अय तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ आत्मदर्शनमात्मलामः । इत्यात्मलाभस्य परमधर्मत्वं प्रख- पीपदत् । तत्र यथाऽधिकार च व्यवस्था । एव च क्रियाया धर्मत्वं वदता क्रियाजन्याऽपूर्वस्य च धर्मत्व वदतां परस्पर न कोऽपि विरोधः । निरुक्तदिशा व्यवस्थोपपत्तेः । अत एव 'इ. ज्याचारदमा हिंसा' इति याज्ञवल्क्युक्त मगच्छ। । किं च "आ. स्मा वाडरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यामितव्यः' इत्या- दिश्रुत्पादिप्रतिपादितस्य मुख्यधर्मस्यात्मदर्शनस्य सम्पादने शोभनाचार पुरुषमन्तरा नाऽन्योऽधिकारी सम्भवति । आचा- रश्च क्रिया तेन क्रियायाः परमधर्मत्व मन्यमानानामुक्तिः सा- धीयस्येव । अत एव परमाप्तेन भगवता मनुना आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्सदा युक्तो निस स्यादात्मवान्दिनः ।। इयाचारस्यैव परमधर्मत्वं प्रतिपादितम् । एव हि धर्मार्थ- काममोक्षाणां चतुर्णा व्यवस्था । उभयविधस्याऽपि धर्मस्य, पुरु- पार्थचतुष्टयस्येति यावत् जिज्ञासायां श्रुत्यादिषु प्रमाणेषु पर प्रमाण श्रुतिः । धर्म जिज्ञासमानाना प्रमाणं परमं श्रुतिः॥ इति मनुवचनात् । एव च सुखं धर्माचरणमन्तरा न सम्भ- वतीति सिद्धम् । धर्माचरण च कालज्ञान विना न सम्भवति ।

नवरात्रप्रदोपभूमिकायाम्- mane Aama तथा हि "वसन्ते ब्राह्मणोऽग्नीनादधीत" "वसन्ते ब्राह्मणमुपनयी. त" "दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेन" "श्राद्धं कुर्वन्नमावा- स्या" इत्यादिश्रुतिस्मृनिषु तत्तत्कालविशेषे तत्तत्कर्म विहितम् । तच्च ऋने कालज्ञानं कथमुपपद्येत ? अतो धर्माचरणे कालज्ञानं नितरामपेक्षितम् । अत एव लगधाचार्यैरुक्तम्- वेदा हि यज्ञार्थमभिप्रवृत्ताः कालाऽनुपूर्वा विहिताश्च यज्ञाः । तस्मादिद कालविधानशास्त्र यो ज्योतिष वेद स वेद यज्ञान् ॥ इति । किं च लोकेऽपि यथा वर्षाकाले बीजमुप्त सत् फलति न ग्रीष्मे इति प्रत्यक्षतयाऽनुभूयते, तस्मात् तत्तधोग्यकाल एव कृत कर्म फलोत्पादकं भवति नान्यथा। एवं श्रुत्याधुक्तकर्मा- ज्यपि कालं कृतान्येव स्वेष्टफलोत्पादने शक्तानि भवन्ति । एवं च धर्माचरणे कालनिर्णयस्याऽत्यन्तमावश्यकतेति सिद्धम् । अथ को नाम कालोऽयमिति विचारावसरे कालपदस्य कालो मृत्यौ महाकाले समये यमकृष्णयोः । इति निघण्टू क्ते, महाकालायर्थाः पुरः समायान्ति । तत्रेदं विचार्यम् , यदेतेऽर्थाः कथमुद्भूता इति । सूक्ष्मतत्त्वदर्शिनामिदम- परोक्षं यदेतत् मेयमातृमानलक्षणं सर्व परमार्थत एकमपि बहु- धाऽवभासते तदेव ब्रह्ममहाकालपरमशिवपरमात्मादिशब्दैव्यंव- हियते । तथा हि तहह्म विविध परं चापरं च । " ब्रह्मणी वे- दितव्ये परं चापर च" इति श्रुतेः । तत्र परं निष्कलम् । अपर , उपक्रम सकलम् । एतदेव सर्वशक्तिमत् जगन्नियामकं जगदात्मक च "जगन्नियन्ता जगदात्मकश्च" "एको हि रुद्रो न द्वितीयाय तस्थु य इमाल्लोकानीशन ईशनीभिः" । इत्यादिश्रुतिपतिपादितम् । तत्र मामा शक्तीना प्रवरा शक्तिमहाकालीत्युच्यने । तत्सम्बन्धेन ब्रह्मणोऽपि महाकाल- त्वम् । यत इयमेव निखिलं तस्वजात कलयति । तत्र तत्व जाते भावानां क्रमाऽवभासकं कालाऽभिध तत्वमस्ति । तस्या. ऽपि कलनादस्या महाकालीत्वम् । मृत्युना हि भावाभाससमा. प्तिर्भवति, नाम भावस्य काळे प्रलीनत्वं भवति ततः काळपदं मृत्योरपि बोधक भवति । इत्यादि तत्तत्कारणेस्तत्तद्वोधकं कालपद् भवति । कालेनैव हि 'जायते' 'अस्ति' इत्यादिव्यव- हाराः समुद्भूताः । तदुक्तं वाक्यपदीये- एकमेव यदाम्नातं भिन्न शक्तिव्यपाश्रयात् । अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥ अव्याहताः कला यस्य कालशक्तिमुपाश्रिताः। जन्मादयो विकाराः षट् भावभेदस्य योनयः ॥ एकस्य सर्वबीजस्य यस्य चेयमनेकधा । भोक्तभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥ इति । तदिदं कालनिरूपणमतिगहनमन्यदा यथावकाश विचा- रयिष्यते । सोऽय कालः सर्वत्र सर्वैरपि दार्शनिकैरङ्गीकृत एव । तथाहि तत्र तत्र व्यवहारास्ते च सझेपतः प्रदश्यन्ते । तथाहि श्रुती ।

- ६ नवरात्रप्रदीपभूमिकायाम्- "कृतं यत्स्वप्नी विचिनोति काले" इति बचाः "अहमेव का. लो नाह कालस्य" इति तैत्तिरीयकाः "का च सन्ध्या कश्च स. न्ध्यायाः कालः" इति सामगाः इत्यादि । स्मृतौ यथा सृष्टिम- करणे मनु:-'कालं कालविभक्तीश्च' इति । याज्ञवल्क्य:-'श्रा. द्धकालाः प्रकीर्तिताः' आपस्तम्ब:-"अतिक्रान्त साविच्या का. ल ऋतुं त्रैविद्यकं ब्रह्मचर्य चरेत्" (आप०००१-१-१-३३) गौतमः-"संवत्मरः षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विशत्यहो. द्वादशाहः षडहस्यहोऽहोरात्र इति काला" (गौ०००१९- १८) इति । बौधायनः- "शरीरं बलमायुश्च वयः कालं च कर्म च । समीक्ष्य धर्मविशुद्ध्या प्रायश्चित्तानि निर्दिशेत्" (बौ०५० मू० १-१-१६) इति । एवमन्यान्यपि स्मृतिपुंदाहार्यानि । म. हाभारते-- प्रहरौ घटिकान्यूनौ प्रहरौ घटिकाऽधिको । स कालः कुतपो ज्ञेयः पितॄणा दत्तमक्षयम् ॥ अन्यत्र पुराणेऽपि- अनादिरेष भगवान् कालोऽनन्तोऽजरः परः । सर्वगत्वात्स्वतन्त्रत्वात्सर्वात्मत्वान्महेश्वरः ।। वैशेषिके "अपरस्मिन्नपर चिर क्षिप्रमिति काललिङ्गानि" (वै००२-२-६) येऽपि साङ्खयादयः कालरूपं तत्त्वा- न्तरं न मन्यन्ते तेऽपि आर्थिक कालतत्त्वमूरीकुर्वन्त्येव । पृथग. नुक्तिस्तु तत्तच्छास्त्रीयप्रधानतमप्रमेयेषु प्रकृतिपुरुषविवेकादिष्व- -- उपक्रम नुपयोगित्वेन । तथाहि साढयशास्त्राचार्येण पञ्चविंशतित चविवेचनाऽवसरे मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृनयः सप्त । षोडशकश्च विकारो न प्रकृतिन विकृतिः पुरुषः (मा०का०) इत्यत्र कालाऽभिधं तत्त्वान्तरमनुक्त्वैव साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तर करणम् । (मा०का०) इत्युक्तम् । तेन कालतत्त्व साडयाचार्याणामप्यनुमनमेवेति सुदृढ वक्तुं पार्यते । कालपदार्थाऽविवेचन वनुपयोगात् । तथा- ह्याहुः साङ्घयतच्चकौमुद्यां वाचस्पतिमिश्राः-"कालस्तु वैशेषि- काऽभिमत एको नातीतानागनादिभेद प्रवर्तयितुमर्हति । तस्मा- दयं यैरुपाधिभेदैरतीतानागतादिभेदभावं प्रतिपद्यते सन्तु त ए. वोपाधयो व्यवहारहेतवः कृतमन्तर्गडुना कालेनेति सावयाचा- योः" इति । तथा योगशास्त्रेऽपि कालतत्त्वं पृथगनङ्गीकृत्याऽपि 'स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः" (यो० मू०१- १४) "जातिदेशकालममयाऽनवच्छिन्नाः सार्वभौमा महाव्रतम्" (यो०सू०२-३१) इसादौ तत् व्यवहृतम् । एवमेव तत्र तत्रो. दाहायम् । किंबहुना आविद्वदगनागोपालं प्रमिद्धस्य कालस्य कथ- मपतवः शक्यते कर्तुम् । साक्षात् परम्परया वा मर्वेऽप्यत एव शा- स्त्रज्ञाः कालमङ्गीकुर्वन्ति । भिन्नभिन्नरूपेण गृह्णन्तीत्यन्यदेतत् । सर्वे ऽपि कालमगीकुर्वन्नीति श्रुतावेव प्रतिपादितम् । तथा हि तै. त्तिरीयका अरुणकेतुके मन्त्रमामनन्ति- wa नवरात्रप्रदीपभूमिकायाम्- स्मृतिः प्रत्यक्षमैतिहमनुमानचतुष्टयम् । एतरादित्यमण्डल सर्वैरेव विधास्यते ॥ न च श्रुत्याऽनया स्मृत्यादिकमादित्यमण्डलसाधकमित्यु क्त न कालमाधकामिति वाच्यम् । मण्डल हि सार्वजनीनप्रत्य. क्षसिद्धम् । न तत्र स्मृत्याद्यपेक्षा । तस्मात् कालविवक्षयैव का. लसाधकमण्डलसाधकत्वं स्मृत्यादीना प्रतिपादितमिति वाच्यम्। कालविवक्षा च- सूर्यो मरीचिमादत्ते सर्वस्माद् भुवनादधि । तस्याः पाकविशेषेण स्मृतं कालविशेषणम् ।। इत्यग्रतनपठितमन्त्रेणाऽवसीयते । एव च कालस्य सर्वत्र व्यवहारोऽस्तीति सिद्धम् । स किंस्वरूपः कुत्र कुत्र कथं कथ चो. त इति सर्व यथावकाशमन्यत्र विचारयिष्यते । साम्प्रतं प्रकृता. ऽनुसरणं साम्प्रतम्। तदेवं धर्मशास्त्रे कालनिर्णयस्यात्यन्तिकीमावश्यकतां म- नसि विभाव्य अधुनाऽवधि बहुभिर्महर्षिभिः परःसहनैर्वि- द्वद्भिः कालनिर्णयाः प्राणायिषत । तेषु बहवो निबन्धाः कालोदरदरीकोणेष्वेव निलीनाः । ये च समुपलभ्यन्ते तेष्वपि बहवो विदुषा महात्मनां गृहे वेष्टनाऽवगुण्ठिता गर्भागारकोणेषु वि. राजन्ते । मदृष्टेषु कालनिर्णयषु नवरात्रमात्रविषयमवलम्ब्य म- तान्तरखण्डनमण्डनपुरम्सरं विहितेषु निबन्धेषु प्रस्तुतो निबन्धः धर्माधिकारिनन्दपण्डिताऽपराभिधानविनायकपण्डितविरचितोन- बरात्रप्रदीपोऽतिसमीचीनः सर्वेषु निबन्धेषु । सोऽयमत्युपयु. ।

ग्रन्थपरिचय. २ क्तोऽप्यद्यावधि न कुत्राऽपि मुद्रिन इति सशोध्य सम्मुन्य प्रका- शितः सहर्ष सविनयं सादर च तत्र भवतां भवतां नवरात्रनि- जयजिज्ञामूना प्राचीननिबन्धममवलोकन कुतुहलानां मनीषि- धुरीणानां करकमलेषूपहारीक्रियते । भवन्तोऽपि शास्त्रपरिपूतेन समीक्षणेन ग्रन्थमेन समीक्ष्य परमानन्द प्राप्स्यन्तीति दृढमह विश्वस्य ग्रन्थपरिचयाय प्रयते । mms- ग्रन्थपरिचयः ग्रन्थोऽयं काशीस्थमहाराष्ट्रभूसुरवरेण धर्माधिकारिकुलक- मलदिवाकरेण पदवाक्पप्रमाणपागवारपारीणधुणेन महाम- हिमशालिना धर्मशास्त्रमर्मज्ञेन नानानिबन्धविधायिना रामप- ण्डितात्मजेन नन्दपण्डिताऽपराभिधानेन विनायकपण्डितेन प्रणीतो विजयतेतराम् । अथ कोऽयं विनायकपण्डितः कदा च समभूव के के निबन्धा अनेन विहिता इति सर्वमग्रे स्फुदीकरि ध्यते । अस्य ग्रन्थस्याऽन्वर्थक 'नवरात्रप्रदीप' इति नाम । अयं च केवलं नवरात्रनिर्णयविषयमेवाऽवलम्ब्य विहितो नि. बन्धः। अत्र निरूपिता विषया विषयमूच्या प्रदर्शिता एवेति पुनरत्र वर्णन पिष्टपेषणप्रायं भविष्यनीन्युपेक्ष्यते । जिज्ञासु भिस्तत्रेच द्रष्टव्यम् । अस्मिन् किल लोकत्रयापरि निजगुणगणमहिम्ना अति वर्तमाने कर्मभूमी भारते वर्षे अनादिनिधनधर्मानुयायिनाम- स्माकं नवरात्रनिर्णयस्य कियत्यपेक्षेति सर्वजनविदितमेव । २ १७ नवरात्रप्रदीपभूमिकायाम्- अन एव आमहता महङ्ग्य ऋषिभ्यः इदानीन्तनविद्वद्धौरेयपर्यन्त च सर्वैरपि कालनिर्णयकृद्भिः न्यूनाधिक्यभावेन नवरात्रनिर्ण- याय प्रयतिनम् । नवरात्राण्यपि रामनवरात्रदेवीनवरात्रादीनि नैकानि । तत्र देवीनवरात्र हि भारतवामिना सर्वेषामेव जनाना प्राय आवश्यक मेवेति मन्ये । अथ न केवल भारती. यायामेव, अपि तु अखिलब्रह्माण्डगताना जन्तुमात्राणामाव- श्यकम् । यतः शक्तिमन्तरा शिवस्य शिवत्वमपि न मिक्ष्यनि । येऽप्याग्रहग्रहिला निजादृष्टवैभवात् शक्तिमेव नागीकुन्ति वराका- स्त दयनीयतया समुपेक्ष्या एव । भारतवर्षे च इदानी कलिकाल- कवलितेऽपि पराशक्तिकृपाप्रसादलवेनैव साम्प्रनमपि न शक्ति. पूजनपराङ्मुखा भारतीयाः सनातनधर्मानुगायिन इति पर हर्षस्थानम् । तेषामेव कृते इदानीमपि देवीनवरात्रनिर्णयाय प्रयतन्ते विद्वासः प्रयनिष्यन्ते च । भवतु प्रकृनमनुसरामि । बहुभिनिर्णीतोऽयं नवरात्रविषयो बहुधात्वमापद्यमानः मतभेद- बाहुल्येन स्थिरां सिद्धान्तभूमिमनासंदिवान् मुविदुषामपि चेतांसि व्याकुलयति । पश्यत विद्वांसः साम्पतमपि नवरात्र कंचिदमा- युक्तप्रतिपदि देवीपूजनादि वाच्छन्ति कोचिच्च द्वितीयायुक्ताया- मिति महान्त मतभेदम् । स्वमनस्थापनाय च बहूनि पुगण- वाक्यानि मीमांसान्यायान् लौकिकीयुक्तीश्च प्रदर्शयन्ति । अनिद्याशक्तिविलासमन्तरा किमत्र कारणं स्यात् । भवतु सा- म्मतमिदमालोचनीयं यदत्र ग्रन्थे प्रतिपादिताः सिद्धान्ताः केषां सम्मता असम्मताश्च । किं च तेषा मतमिति । तत्र सत्स्वपि - ग्रन्थपरिचय: बहुषु वादस्थलेषु मुख्यतया समालोच्य वादस्थलद्वयम् । एकं प्रतिपनिर्णयस्थलमपरं च पारणानिर्णयस्थलम् । काश्यां किल शङ्करभट्टादयो भट्टास्तानुयायिनोऽन्ये च शुद्ध पनिपदभावे अ. माविद्धद्वितीयाविद्धपतिपत्नसक्तौ द्विनीयाविद्धमनिपदो मुख्य- तया ग्राह्यतां प्रनिष्ठापयन्ति । धर्माधिकारिनन्दपण्डिनप्रभृतय- स्त हनुयायिनश्च अमानिद्धप्रतिपद मुख्यतया ग्राधा वदन्ति । एव पारणानिर्णये भट्टा दशम्यां पारणं विधेयमिति प्रतिपा. दयन्ति स्वग्रन्थेषु । धर्माधिकारिणश्च नवम्यां विधेयमिति प्रतिपादयन्ति निजनिवन्धेषु । एतदेव मतद्वयं भमनं धर्माधि- कारिमतं चेति सङ्केतितं मया । नत्र भहमनेनैव सङ्क्षिप्तः प्रति- पनिणय:-"आश्विन शुक्ला प्रनिपत देवीनवरात्रे शुद्धा ग्राये- ति मुख्यः कल्पः सर्ववादिसम्मतः । शुदाया अमारे अमा- विद्ध द्वितीयाविद्धयोः प्रतिपदोः प्रमक्तो द्वितीयाविद्धा मुख्या । तदभावे अमाविद्धा ग्राह्या, अन्यथा बालोपः स्यादिति सिद्धा. न्तः । तथाहि अत्र व्रतविषये कर्मकालो बहुधा श्रूयते तत्र कानिचिद्वचनानि रात्रेः कर्मकालत्वं प्रतिपादयन्ति । अन्यानि च पूर्वाह्नस्य कर्मकालत्वं वदन्ति । न च पूणिम्य कर्मकाल- स्वप्रतिपादकवचनानामनाकरत्व शक्यते वक्तुम् । यथा पुरा णान्तरीयाणा रात्रः कर्मकालत्वप्रतिपादकवाक्यानामविगीत प्रामाण्यमिष्यते तथैव देवीपुराणगतस्य पूर्वाह्न म्य कर्मकालत्व- प्रतिपादकवचनस्याऽपि प्रामाण्यमेष्टव्यम् । यद्यपि तत्र तत्रो- पाताना द्वितीयाविद्धनिषेत्रकानाममाविद्धनिषेवकाना च सर्वेषां १२ नवरात्रप्रदीपभूमिकायाम्-- वचनाना तत्तत्पक्षेऽभिनिवेशं दधद्भिर्निबन्धनिबन्धृभिरुपन्य- स्तानामनाकरत्व वक्तुं शक्यने, तथाऽपि देवीपुगणगतस्य सराद्रियमाणस्य साक्षात्परिदृश्यमानवचनस्यानाकरत्वं शङ्कि- तुमपि न शक्यते । तद्वचनं यथा- आश्विनस्य सिते पक्षे प्रतिपत्सु यथाक्रमम् । सुस्नातस्तिलतैलेन पूर्वाह्ने पूजयेच्छिवाम् ॥ इति । अत्र बहुवचनाऽनुपपत्तेः क्रमविधानाञ्च प्राणभृदादिवल्लि इसमवायन प्रतिपच्छब्दः प्रतिपदादितिथिनवके गौणः । तथा रुद्रयामलेऽपि नवरात्रप्रक्रमे प्र-यह पूजनं कुर्यात्रिकाल भक्तितत्परः । अष्टम्यां जागरं चैव महापूजनपूर्वकम् ।। इति वचनेन प्रातमध्याह्नसायङ्कालाना कर्मकालत्वे मुतरां प्रतिपनं प्रातःकालस्य कर्मकालत्वम् । किं च डामरकल्पे यन्त्रो- दारे कलशस्थापनपूर्वकं कलशोपरिस्थे यन्त्रे दुर्गा पूजा कार्य- त्युक्तम् । तथाहि- ! शृणु राजन ! प्रवक्ष्यामि चण्डिकायन्त्रमुत्तमम् । आश्विनस्य सिते पक्षे प्रतिपत्सु यथाक्रमम् ॥ सुस्तावस्तिलतैलेन पूर्वाह्ने च नृपोत्तम । पुण्याहवाचन कृत्वा द्विजांश्चैव तु पूजयेत् ॥ ततश्च कारयेद्वेदि सप्तधान्ययुतां नृप ।। स्थापयत्पूर्णकलश पञ्चरत्नसमन्वितम् ॥ वस्त्र धारक्तके चैव संल्लिखेद्यन्त्रमुत्तमम् ॥ इति ।

ग्रन्थपरिचय सामान्यवाक्यस्य अत्र सर्वत्र कालाकासाया 'पूर्वाह्न' इनि सम्बध्यते । एत्र च पूर्वाह्नस्यैव पूजाकालस्वमिद्धिः अनः पूर्वाह्नरूपकर्मकाल- व्यापिनी द्वितीयाविद्धैव प्रतिपन्नवरात्रप्रक्रम ग्राह्यनि सिद्धान्तः । रात्रेः कर्मकालत्वप्रतिपादकानि वचनानि तु गौणकालपरत्वेन नेयानि । ननु पूर्वाह्नस्यैव कुतो न गौणकालत्वं वाच्यम् । मैवम् । उत्तरकालस्यैव गौणनौचित्यात् । स्वकालादुत्तरः कालो गौणः सर्वः प्रकीर्तितः । इति मण्डनोक्त। न चैवमनेनैव सिद्धे रात्रेः कर्मकालत्वप्रतिपादकवचना- नामानर्थक्यम् । नियविषयत्वात्काम्ये नवरात्रत्रने विशेषतो गौणकालप्रतिपादनस्याऽर्थवचात् । यद्यपि “वर्षे वर्षे च कर्तव्यम्" इति वीप्सया "वमन्ने वमन्ते ज्योतिषा यजेत" इतिवनित्यताऽत्रेष्यते । तथाऽपि नानाफल- श्रवणस्याऽपि सत्त्वात् ज्योतिष्टोमवदेव नित्यकाम्यत्वात् का- म्यप्रयोगार्था गौणकालोक्तिः । इतरत्र सामान्यवचनादेव सिद्धेः' इति । यद्वा रात्रावपि पूजान्तरविधायकत्वेन रात्रि कर्मकालवाक्यानि व्याख्येयानि । अत एव देवीपुराणे-- शुद्धतिथौ प्रकर्तव्या प्रतिपच्चोर्ध्वगामिनी । आधास्तु नाडिकास्त्याज्याः षोडश द्वादशाऽपि वा ।। अपराह्ने च कर्तव्य शुद्धसन्तानकाटिभिः । इति हि यदा प्रतिपत्पष्टिदण्डाऽहोरात्रं व्याप्य वर्तते तदा आधपोडशद्वादशनाडीना निषिद्धत्वात्तदैव चाऽपराहेऽपि कर्त mum नवरात्रप्रदीपभामकायाम्- व्यतोत्या पूर्वाह्न षोडशघटिकासम्पाताभावे पूर्वाह्न एव मुख्यः काल इति गम्यने । तथा च पूर्वाह्नस्य कर्मकालत्वेन तव्यापिन्या द्वितीयाविद्धाया एव ग्राह्यत्वे सिद्धे यदि कानि चिदमाघिद्धा- ग्राह्यताप्रतिपादकवचनानि समूलान्यपि भविष्यन्ति ततस्तानि द्विनीयाविद्धाया अभाचे योजनीयानि ।" इति द्वैतनिर्णयकृच्छ- ङ्करभट्टाः । यच्चान्यत्र नवरात्रस्याऽस्य नक्तव्रतत्वं माधवाचा. र्यादिभिरुद्धोषित तदप्येते वैकल्पिकत्वेन व्यवस्थाप्य तन्मत च "सत्यमिदमेव रात्रिवतत्वेन" इसादिना "तेनाऽय माधवग्रन्थः सर्वथाऽप्यलग्नकः केवल भक्तिग्राह्य एवेत्युपेक्षणीयः" इत्यन्तेन ग्रन्थेन माधवाचार्यप्रतिपादित देवीपूजायां प्रदोषकालस्य मुख्यतया कर्मकालत्वं खण्डयन्ति । अन्यदपि सर्व विस्तस्तो द्वैतनिर्णयतोऽवसेयम् । विस्तरभिया नाऽत्र लिख्यते । एवमेत्र कमलाकरभट्टादयोऽपि द्वितीयाविद्धामेव मुख्यतया ग्राह्यां प्रतिपदं मन्यन्ते । परं तु तद्वंश्या एव रघुनाथभट्टास्तु पुनः नैवं मन्यन्ते । ते हि कालतत्त्वविवेचनाऽभिधे स्वनिबन्धे “अत्र हि नवरात्रशब्दो रात्रिशब्दस्याहोरात्रपरस्य तिथिविषयपूर्ववाक्यैकवाक्यतया औत्सर्गिकपूर्णतिथेरेव पायो व्यवहारविषयत्वेन सम्मतिपत्त्या च तिथिलक्षात्वात् सप्तम्यन्तः कालरूपगुणविधिः। द्वितीयान्तो- ऽपि कचिछुतः "कालाधनोरसन्तसंयोगे" (पा०मू०२-३-५) इतिवचनातादृश एव, न तु नामधेयम् ।" इत्यादि "तस्मा- गुणविधिरेत्र नवरात्रशब्दो न नामधेयम् ।" "यद्यपि च देवी- पुराणे कालत्रये पूजनमुक्तम्- । ma ग्रन्थपरिचय त्रिकालं पूजयेद्देवी जपस्तात्रपरायणः । इति । तथाऽपि प्रातमध्याह्नयोः मङ्गपूजन, अगाविस्तर- पूजन तु प्रधानभूनं राबावेव द्रष्टव्यम् । एवं मनि य-प्रातरेव कलशस्थापनादिपूर्वकं देवीस्थापन शिष्टाना “पूर्वाह्न पूजयोच्छ- वाम्" इयाद्याधुनिकलिखितं वचन च तत्सर्व प्रथमकालपूजा- र्थमुपपन्नमेव । तिथिनिर्णयस्तु प्रामाणिकोक्तनक्तवतत्वबलेन प्रधानपूजनस्य प्रदोषकालत्वमङ्गीकृत्यैव कर्तव्य इति मम मनिः। यद्यपि च सर्वा रात्रिः पूजाकालत्वेन श्रुता, तथाऽपि प्रथमा- ऽतिक्रपकारणाभावात्समभिव्याहृननक भोज नाऽनुरोधाच्च प्रदोषव्यापिनी ग्राह्या तिथिनक्तवने सदा । इति वचनस्य च भोजनात्मकनक्तवत इवाऽत्राऽपि प्रतेश्व प्रदोष एव तत्कालः । तत्र यदा पनिषदः खण्डत्व नदा पमु कर्मकालसम्बन्येषु दिनद्वये कुम्नकर्मकालव्याप्तौ द्वितीयदिन एव व्याप्त्यैकदेशेन वा तत्सम्बन्धन दिनद्वयेऽपि साम्येन वैषम्येण वा तदेकदेशस्पर्शे च सङ्कल्पप्रभृनित्रिकालपूजाका- लव्याप्तिलाभात् । त्रिसन्ध्यव्यापित्ताच्चोत्तराग्राह्यत्वस्य न तन्यायेनाऽमन्दिग्यत्वात् पूर्वदिन एवं कर्मकालसम्बन्धः, दिनद्वयेऽपि तदस्पर्श इत्यनयोः पक्षयोः कस्यचिद्विशेषस्य वक्तव्यात् ग्राह्यप्रतिपन्निर्णयः क्रियते । तत्र द्वितीयदिनऽस्तमया- त्पूर्व समाप्त्या पूर्वदिन एव व्याप्त्यैकदेशेन वा कालयोगे पूर्वैव ग्राह्या 'कर्मणो यस्य यः कालः' इतिवचनात् । नक्तवतेषु सर्वेषु रात्रियोगः प्रशस्यते ।

१६ नवरात्रप्रदीपभूमिकायाम्- me इसादिवचनात् , “प्रतिपदाऽप्यमावास्या" इतियुग्मवा. क्याच्च । एव च पूर्वदिनेऽपि सत्त्वे सुतरां पूर्वा। एतद्विषयाण्येव अमायुक्तैव कर्तव्या प्रतिपच्चण्डिकार्चने । इत्यादीन्याधुनिकनिबन्धलिखितवाक्यानि ।" "पूर्वदिने प्रदोषादूर्ध्व प्रवृत्त्या द्वितीयदिने चाऽस्तमयपर्य- न्तसत्त्वेन दिनदये प्रदोषास्पर्शेऽपि पूव ग्राह्या। गौणकाल- व्यापित्वात् । स्वकालादुत्तरः कालो गौणः सर्वः प्रकीर्तितः । इति प्रदोषोत्तरकालस्य गौणत्वात् । नक्तवतेषु सर्वेषु रात्रियोगः प्रशस्यते । इतिवचनाच्च ।" "एवं प्रामाणिकनिबन्धकारोक्तनक्त. व्रतत्वाऽनुरोधेन पूर्वेयुरेव प्रदोषव्याप्ती दिनेऽसत्त्वेऽपि, तत्र सत्त्वे मुतरां दर्शयुक्ताया एव पतिपदो नवरात्रव्रतग्राह्यत्वे न्याय्ये यदिदानीन्तनाना केषा चिद्दाक्षिणात्यानां नक्तवतत्वाऽपह्नवेन अमायुक्ता न कर्तव्या पनिपत् पूजने मम । मुहूर्त्तमात्रा कर्तव्या द्वितीयादिगुणान्विता ॥ इत्यादि काऽप्यदृष्टवचनपुरस्कारेण त्रिमुहूर्तदर्शयुक्तामहो. रात्रव्यापिनीमपि प्रतिपदमुल्लड्वय 'मुहूर्तमात्राऽपि द्वितीयायुक्तैव सा ग्राह्या' इति निर्णयकरण तादृशमेव चाऽनुष्ठानप्रवर्त्तनं तत्साहसमात्रम्" इत्यायुक्तिभिः किंचिन्माध्यस्थ्यमवलम्बमाना अपि धर्माधिकारिमतमेव पोषयन्ति । तदनुयायिनखदौहित्रास्तत्स. दुपाख्परामभट्टाः स्वकृते कृत्यरत्नावलीनिबन्धे तथैव प्रतिपाद- " ग्रन्थपरिचयः यन्ति । तत्तत एवाऽनसेयम् । लोके चेदानी धर्माधिकारिवं. श्यास्तदनुयायिनो द्वित्रानन्यांश्च विहाय सर्वेऽपि द्विनीयाविद्धा- यामेव प्रतिपदि देव पूजनादिक समाचरन्तो दृश्यन्ते । रघुन. न्दनभट्टाचार्यादयस्तु स्वनिबन्धेषु पूर्वाह्नस्यैव कर्मकालत्वं मन्यन्ते । स्मृतिकौस्तुभकारानन्तदेवास्तु बहुना विस्तरेण खण्डनमण्डनपूर्वकं प्रतिपनिर्णय विधायान्ते "यरमाविद्धायाँ प्रतिपदि कुलपरम्परया देवीपूजनादिकमनुष्ठीयते तैरमाविदैव मुख्यतया ग्राह्या । यैश्च कुलपरम्परया द्वितीयाविद्वायां पूजा- दिकमनुष्ठीयते तैर्द्वितीयाविद्धैव ग्राह्या” इति वदान्त । प्रकृत- ग्रन्थे अमावि दैव प्रतिपत् मुख्यतया गृहीताऽस्ति । तथा तेषां मतम्-- नक्तवतमिदं पार्थ सर्वपापप्रणाशनम् । नवरात्राऽभिधं कम नक्तव्रतमिति श्रुतम् ॥ "नक्तव्रतमिदं यस्मात्" सम्पूज्य नवदुर्गा च नक्त कुर्यात्समाहितः । इत्यादिवचनैः प्रधानभूतायाः पूजाया नक्तकाले विहित. त्वात् नक्तवतमेवेदम् । ततस्तव्यापिन्येव प्रतिपदाह्येति युक्तमेव । किं च द्वितीयाविद्धाविधायकाना बहूना वचनानां विंशयधिकषु हेमाद्रिमाधवीयादिप्रामाणिकनिबन्धेषु अपरिदृश्यमानतया अन्प- रीत्याऽपि व्यवस्थायाः सम्भवेन च अमाविदैव प्रतिपद्मावति सिद्ध्यति । यान्यपि वर्जनीया प्रयत्नेन अमायुक्ता तु पार्थिव ! । :

नवरात्रप्रदीपभूमिकायाम्- इत्यादीन्यमायुक्तप्रतिपनिषेयेन द्वितीयायुक्तप्रतिपद्विधाय- कानि वाक्यानि तान्यपि प्रतिपदः अमायोगाऽभावे द्वितीया- योगमात्रसच्चे द्वितीयायुक्तप्रतिपदोऽनुपादेयत्वशङ्कानिरसनद्वारा गौणकालविधानपराणि "प्रधानकालपत्यासत्तेः क्रमनियाम- कत्वात्" इति न्यायात्, स्वकालादुत्तरः कालो गौणः सर्वः प्रकीर्तितः। इतिवचनाच्च । ततश्चामायुक्तप्रतिपदभावे द्वितीयायुक्ता- यामपि प्रतिपदि तदारम्भ इति तेषामर्थः । यः पुनरमायोग- निषेधः स विधेयस्तुत्यर्थ इति न काऽपि विरोधः ।" इत्यादि सविस्तरं ग्रन्थ एवाऽवलोकनीयम् । एव चाऽत्र मतद्वये कतर. समीचीन युक्त चेति निर्णयकरण विषमतममपि गुरुचरण- कृपाप्रसादसमासादितया विशदया दृशा स्वाऽनुभवेन च समालोच्यमानं नोपहास्यं स्यादिति विभाव्य सङ्क्षिप्ततया समालोच्यते- इद तावत्सर्वैरपि निरन्तरमनुभूयते यदपेक्षिनवस्तुप्राप्त्या- ऽऽनन्दप्राप्तिरिति। अपेक्षितवस्त्वपि किं स्यादित्यत्र ब्रूमः सर्वमिद विश्व किल गुणत्रयमयम् । तत्र कचिद्वस्तुनि त्रिषु गुणेषु सत्त्वाधिक्यं तदपेक्षया न्यून रजः, तदपेक्षया च तमः । एव तत्र तत्र न्यूनाधिक्यभावेन गुणत्रयमयत्वम् । प्राधान्येन व्यपदेशा भवन्तीति न्यायेन च साविकराजसादिव्यपदेशः । सतश्च सात्त्विका साविकमाप्त्या मोदते, राजमो राजसेन, तामसस्तामसेन । युक्तं चैतत् । ययोरेव साम्यं सम्भ. mus ग्रन्थपरिचय वति तयोरेव सम्मेलनं सुखकरमित्यत्र न कश्चन सन्देहले शोऽपि । अत एव “ययोरेव सम वित्त" इत्यादयो लौकिक्यो गाथा आपे याथातथोनाऽनुभूयन्ते । एवमेवोचितममये तद्यो- ग्योपचारोग्यदेवतायाः पूजने योग्यमेव फलमपि भवतीति समीहितफलाऽभिलाषिणा योग्यायोग्यविचारपूर्वकमेव सर्व- माचरणीयम् । एवं मनि प्रथमत इदमालोचनीयम् , शक्ति पूजने कः कालः समुचितः स्यादिति । नत्र चालोच्यमाने "निशि भ्रमन्ति भूतानि शक्तयः शूजऋष्टयः ।" "रात्रिरूपा यतो देवी दिवारूपो महश्नरः।" इत्यादिवचनपर्या लोचनया अनिर्वचनीयया स्वाऽनुभूत्या च रात्रिरेव मुख्यः काल इति समायानि । नक्तत्रतत्वाच्चाऽस्य व्रतस्य देवीपूजाया मुख्यः कालः प्रदोषकाल एव । तध्यापि- न्येव च प्रतिपदाप ग्राह्यति युक्तम् । किं च ये आग्रहपहिला निजकुशादुरशेमुपीवैभववलेन केवलं शास्त्रीयवचनाऽनुपूर्वीपेच पश्यन्तो द्वितीयाविद्धामेव प्रतिपदं व्यवस्थापयन्ति, हन्त वाहि मुंखास्ते दूरत एव नमस्करणीयाः । यतः अमातरस न हि कदाचिदपि विचारितं तैः । यद्यपि तैम्तिथिविचारादौ तेस्तै चनजातैस्तत्तत्तिथिविचारः शोभनं विहितः, परं यदि स एवाऽध्यात्मशाऽकरिष्यत तदा नैनाश आग्रहस्तैः कृतः स्यात् । तथा हि अमानाम मा तिथिः यत्र मूर्याचन्द्रममोः परः सन्निकर्षो भवति । “यः परो विप्रकर्षः मूर्याचन्द्रमसोः सा पौर्णमासी । यः परः सनिकषः साऽमावास्या" इति गोभिः नवरात्रप्रदीपभूमिकायाम्- लोके । सा चाऽमानाम्नी भगवती महामाया क्षयोदयरहिता नित्या तिथिसंज्ञका इति तत्र तत्र प्रतिपादितम् । यथा च पक्ष्यते- अमाजोडशभागेन देवि ! प्रोक्ता महाकला। संस्थिता परमा माया देहिना देहधारिणी ॥ अमादिपौर्णमास्थन्ता या एव शशिनः कलाः । तिथयस्ता समाख्याताः षोडशैव वरानने ! ॥ इति । तथा च रहस्यभूता सर्वत्र विद्यमानाऽपि बहिर्मुखानामग. म्या ध्रुवा क्षयोदयवर्जिता षोडशी कलैचामानाम्नी महाकला सद्युक्तः कालो महाकालः । सा च महाकाली तदङ्गभूता एवं पुनः पुनर्वहिर्निगच्छन्त्यः पुनः पुनश्चान्तार्नेलीयमानाः पञ्चदश कलाः प्रतिपदादिनामव्यपदेश्याः तत्तदिवसव्यवहारोपयोगिन्यो भवन्ति । तत्र शुक्लपक्षे एकैका कला बहिनिर्गत्य चन्द्रमण्डलं पूरयति ताश्च प्रतिपदादयः पूर्णिमान्ताः। कृष्णपक्षे च क्रमेणैकै. का कला लीयते । ता अपि क्रमेण प्रतिपदादिनाममाजो भव. न्ति । षोडशी कला तु "तस्य रात्रयः पञ्चदश कला ध्रुवैषा- ऽस्य षोडशी कला" इति श्रुतिप्रतिपादिता नित्यं सूर्ये एवं वर्तते । अत एव तिथयः पञ्चदशैव व्यवतियन्ते । पौराणिकानां मते ताः पञ्चदश कलाः क्रमेण कृष्णपक्षे वयादयः प्रजापस. न्वा देवाः पिबन्ति, शुक्रपक्षे चोगिरन्तीति क्रमेण तासां ति. थीनां प्रतिपदादिनामानि भवन्ति । ज्योतिःशाने स्वन्यथैव प्रतिपादितं तदन्यान्तरतोऽबसेपम् । तस्ववस्तु सर्वमध्येकमेव । ।

ग्रन्थपरिचय एवं सति यत्र हि महाकालमहाकाल्योः सामरस्यं जायते तादृशयोगयुक्त कालप्रमाविद्धपतिपदं विहाय द्वितीयाविद्धामेव प्रतिपदं देवीपूजनेऽङ्गीकुर्वन्ति ते कथं ज्ञापयितव्याः । भवतु । अत्राऽन्यदपि रहस्यतमं वर्तते परं तस्य गुरुमुखैकसंवेद्यत्वेना- ऽतिगोपनीयत्वेन तल्लेखनमनुचितमिति नाऽत्र तल्लिख्यते । जिज्ञासुभिर्गुरुमुख त्वाऽनुभूत्या चाऽवगन्तव्यमित्येवालम् । एवं च ये हि माधवाचार्यनन्दपण्डिनरघुनाथभट्टादयः अमाविद्धपतिपदं मुख्यतया ग्राह्यां मन्यन्ते देवीनवरात्रे, तथैव तत्र प्रधानभूने देवीपूजने प्रदोषकालस्यैव मुख्यकर्मकालवं म. न्यन्ते नवरात्रव्रतस्य च नक्तवतस्वं साधयन्ति तन्मते, ये च शङ्करभट्टकमलाकरभट्टनीलकण्ठभट्टभानुभट्टादयः द्वितीयाविद्धा प्रतिपदं मुख्यतया ग्राह्यां मन्यन्ते प्रधानभूते देवीपूजने च पूर्वाह्नस्यैव मुख्यकर्मकालत्वं मन्यन्ते नवरात्रव्रतस्य च नक्तवत- वन मन्यन्ते तन्मते च कियदन्तरमिति पण्डिता एव विचारय. न्तु । ननु शङ्करभट्टकमलाकरभट्टसदृशानां विदुषां फथमत्रता. दृश आग्रह इति चेत् न किञ्चिदेतत् । यतो हि- ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ इति स्थित्या तत्र नाश्चर्यलेशाऽवकाशः । इत्थं समालो- चितं सङ्केपेण प्रतिपनिर्णयवादस्थळम् । अत्र बहुवक्तव्येऽपि विस्तरभियैतावतैव विरम्यते । अतः परं द्वितीयं महद्वादस्थलं पारणानिर्णयः समालोच. an ૨૨ नवरात्रप्रदीपभूमिकायाम्- -- नीयः । अत्राऽपि मतभेदः । तत्र 'दशम्यां पारणं कार्य देवी- नवरात्रे' इति भप्रभृतीनां मनम् । 'नवम्यां पारणं कार्य देवी- नवरात्रे' इति धर्माधिकारिप्रभृतीना मतम् । तत्र पूर्व भट्टमत सङ्क्षपेण प्रदश्यते-- "पारणं दशम्यामेव कार्यम् । नवरात्रे उपवासनवकवि- धानात् । तथा हि वचनम् - आश्विने प्रतिपन्मुख्याः पुण्यास्तु तिथयो नव । देविकापूजने प्रोक्ताः सर्वकामफलपदाः ।। इति । अत्र तिथिनवकविधानात्पूजायां तावत्सङ्ख्यापूरकन- वमीविधिः सिद्धः । ततश्च फलिसंस्कारकतया तदङ्गभूतेषूपवा- सादिषु नक्तादिवैकल्पिकतया तत्स्थानापन्नेष्वनुक्ताऽपि ता. बन्नवसङ्ख्या ब्रीहिधर्म इव यवेषु प्राप्नोति किमुतोक्तेति । य. एवं च विन्ध्यवासिन्या नवरात्रोपवासितः। इत्यनेनाऽपि नवम्यामुपवामः सिद्ध्यति । कि च "याव- द्धि नवमी भवेत्" इत्यत्र यावच्छब्दस्याऽभिव्याप्त्यर्थत्वात् , च्च रुद्रयामलेऽष्टमेऽध्यायेऽधिकोपचासनिषेधः स न नवम्युपवा- सनिषेधः । यतः न हि 'नवम्यां नोपयामः नवमोपवासो वा न कार्यः' इति श्रूयते । किं तु सामान्यत उपवासद्धिनिषिद्धा. तिथिहासश्च विहितः वृद्धिहासौ च किञ्चिदपेक्ष्य भवत इति नवमोपवासापेक्षयाऽप्याधिक्यानिषेध इति मम्भवानवम्याश्चोपो. व्यवसत्वे प्रमाणसत्त्वे सुतरां तदपेक्षयैव वृद्धिहासनिषेधप्र. * ग्रन्थपरिचय २३ -- तः । अन्यथा चाऽनवस्थितशास्त्रार्थापत्तेः । यदा कदाचित्ति- थिङ्ख्या प्रसक्तौ दशम उपवासो निषिद्ध्य ने” इत्यादिसुविस्तृतं- द्वैतनिर्णये । तत्तत्रैवाऽवलोक्यम् । रघुनाथभट्टा अपि-- आश्विने मासि शुक्लं तु कर्तव्यं नवरात्रकम् । प्रतिपदादिक्रमणैव यावच्च नवमी भवेत् ॥ त्रिरात्र वाऽपि कर्तव्य सप्तम्यादि यथाक्रमम् । इति भविष्योत्तरवचनात् , लब्धाऽभिषेका वरदा शुक्ले चाऽऽश्वयुजस्य तु । तस्मात्सा तत्र सम्पूज्या नवम्यां चण्डिका बुधैः ।। इति भविष्यवचनाच नवम्या प्रतिपदादिवत्पूना आवश्य- कोत्यर्थादशम्या देवी विसर्जन नियमत्यागश्च । अत एव “के. शसस्कारद्रव्याणि" इत्यारभ्य "भुक्त्वेह परमान् भोगान्" इस. में भविष्यपुराणोक्तमतिपदादिविशेषपूजामकारेऽपि नवमीप- यन्तं पूजामुक्त्वा दशम्यामेव विसर्जनमुक्तम् । कालिकापुराणे ऽपि कल्पान्तरे रामरावणयोर्जयपराजपाथ प्रतिपदि देव्याः प्रबोधनं द्वितीयाप्रभृत्यष्टमीपर्यन्त रामरावणयुद्धदर्शनपूर्वक न. वम्या कृतस्य रावणवधस्य दर्शनं चोक्त्वा- निहते रावणे वीरे नवम्यां सकलैः सुरैः । विशेषपूजा दुर्गायाश्चक्रे लोकपितामहः ।। हाते नवम्यां देव्या विशेषपूजामुक्त्वा, तेनैव च प्रतिपत्म. भृति पूजां मूचयित्वा-- ततः सम्प्रेषिता देवी दशम्यां शाबरोत्सवः ।

ta नवरात्रप्रदीपभूमिकायाम्- इति दशम्यामेव विसर्जनमुक्तम् । एव सति यत्केषाचि द् भ्रान्तानां नवमीपारणाऽऽचरण तन्मूलभूतवचनकल्पनं च त. सर्व शिष्टैः कदाचिदष्टमीयुक्तनवम्यां नवमीकृत्ये जाते द्वितीय नवम्या क्रियमाणां पारणामुपलभ्य तत्र नवमीप्रयुक्तत्वभ्रा- न्या प्रवृत्तं शक्तिभ्रान्त्येवाऽसाधुशब्दप्रयोगे इत्युपेक्षणीयम्" इत्यादिना दशम्यामेव पारणां स्थापयन्ति । कमलाकरभट्टाश्च- "अथ नवरात्रपारणानिर्णयः सा च दशम्या कार्या" "आश्विने मासि शुक्ले०-सप्तम्यादि यथाक्रमम्" इति हेमाद्रौ धौम्यवचनात् । नवमी तिथिपर्यन्तं वृद्ध्या पूजाजपादिकम् । इति प्रागुक्तवचनैनवमीपर्यन्तं प्रधान भूतपूजायुक्तरुपवा. सादेवाङ्गत्वेन तत्पर्यन्तत्वादादिशब्देनोपचासोक्तेः पूर्वोक्तत्रिरा- त्रवते नवम्या अप्युपोष्यत्वाच्च" इत्यादिना "यानि तु कैश्चि- ल्लिखितानि नवम्यां पारणाविधायकानि वचनानि तानि हे. माद्यादिविरुद्धत्वान्निर्मूलानि । समूलत्वेऽपि यदा दिनद्वये न. चमी तदा द्वितीयादिने उपोष्यतिथ्यन्ते पारणा न किं तु नवमी. मध्ये कार्येत्येव नेयानि शिवरात्रिपारणावत्" इत्यन्तेन ग्रन्थेन निर्णयसिन्धौ दशम्यामेव पारणा कर्तव्येति प्रतिपादयन्ति । तत्सदुपाख्यरामभट्टा अपि कृत्यरत्नावलीनिबन्धे-"पारणस्या- ऽपि नियमत्यागरूपस्य विसर्जनकालोत्तरत्वात्तदपि विसर्जनो- तरं दशम्यामेव कर्तव्यम् अत एव हेमाद्रौ धौम्यवचने नवमी पर्यन्त व्रतमुक्तम्" इसादिना ग्रन्थेन दशमीपारणापक्षमेव स्था. पयन्ति । पुरुषार्थचिन्तामणिकारास्तु नवम्यां पारणा कार्या इति ग्रन्थपरिचय २५ , , मनान्तरखण्डनपूर्वकं महता विस्तरेण प्रतिपादयन्ति तत्तत्रैक द्रष्टव्यम् । स्मृतिकौस्तुभकारानन्तदेवा अपि नवमीपारणावादि. नः तत्तत एवाऽवसेयम् । रघुनन्दन भट्टाचार्यास्तदनुयायिनश्च दशमीपारणावादिनः । प्रकृतग्रन्थकुतस्तु नवमीपारणावादिनः तत्सङक्षेपतो यथा-"नवरात्रे नवम्यां पारणं कार्यम् । नत्र- मीपारणविधायकवचनानिचयात् । तादृशविधिलिङ्गदर्शनात् , सप्तोपवासविधिबलात् , अष्टमीपर्यन्नोपचामविधेः, सप्तोपवास- लिङ्गदर्शनात्, व्रतस्य नवमीपर्यन्तनाश्रयणात् , दशमदिवसे पारणनिषेधात् , दशमीपारणनिषेधात् , दशमीविद्धनवमीपारण- निषेधात् , अधिकोपवासनिषेधाच्चेति दशहेतुसद्भावात् । ननु व्रतस्य नवरात्रममाख्यया समाख्यातत्वात् न्यायतो दशम्यां पारण प्राप्तम् । तथा हि समाख्याऽपि श्रुत्यादिवद्विनियोजिका। नवरात्रराब्दश्च नवानां रात्रीणां ममाहार इत्यस्मिन्नर्थे निष्पनी यौगिक । यौगिकश्च शब्दः समाख्यत्युच्यते । तेन-- नवरात्रोपवासेन यथाशक्या नृपोत्तम । एवं च विन्ध्यवासिन्यां नवरात्रमुपोषितः ।। स्वयं नियमतः कुर्यान्नवरात्रमुपोषयन् । इत्यादिवाक्येषु नवरात्रशब्देनैव तदुपादायोपवासविधाना- नवमीमभिव्याप्योपचासमिद्धौ दशम्यां पारणमर्थतः सिद्ध्यति । किं च "नवरात्रोपत्रामेन" इत्यादौ उपत्रामध्यवच्छेदकमङ्ख्या- काङ्क्षायां तिथ्यवच्छेदिकयैव सङ्ख्ययैवोपवासपरिच्छेदा. नवमीपर्यन्तत्वेन दशम्यां पारणमर्थसिद्धमेवेति । ।

नवरात्रप्रदीपभूमिकायाम्- and -- धौम्येन-- प्रतिपदादिपूर्णान्तं दिनभेदेन पूजयेत् । इति । अत्र च पूर्णायां दशभ्यामन्तश्रवणात्पारणायाश्च व्रतान्त- रूपत्वादशम्यां पारणमिति चेन्न । स्यात्समाख्ययैवोपवासनिर्णयः यधुपवासेष्ववच्छेदकसयाकाङ्क्षायां प्रमाणान्तर सख्यापा- पकं न स्यात् । अस्ति च तत्-- दुर्गोत्सवे स्मृतं देव उपवासस्य सप्तकम् । अष्टमे दिवसे होमस्ततः किंचित्तु भक्षयेत् ॥ इति रुद्रयामलीय वचनम् । श्रुतिश्चय 'उपवासस्य सप्त- कम्' इतिसमाख्यातो बलवती । ततो न्यूनबला समाख्या नोप- वासेष्ववच्छेदिका सङ्ख्यां विनियुत । तथा चोपवासानां नव- सङ्ख्यत्वेन नवम्यभिव्याप्तौ दशम्या पारणमिति कुत एतत् ? कि च "नवम्यां पारण कुर्यात्" इत्यादिपारणाकालविधाय- कश्रुतिसगावेनार्थेन लिङ्गेन तत्कल्पना युक्ता। अत्र 'पूर्णान्त' इतिवचनबलेन दशम्या पारणमित्युच्यते तदपि न । तस्यापि पूर्णायां दशम्यामन्तो विसर्जनं यथा भवति तथा पूजयदित्यर्थ- परतयाऽवश्यं व्याख्येयत्वात, अन्यथा नवमीपारणविधाय. कवाक्यैर्विरोधो दशमीविसर्जनविधायकवाक्यर्भिन्नमूलकता चा- ऽस्य केन वार्यत । तस्मान्न दशम्यां पारण कि तु नवम्यामेव" इति सविस्तर ग्रन्थ एवाऽवलोक्यम् । लोके चेदानी भट्टमताऽनु- यायिनः कांश्चिद्विहाय सर्वत्र नवमीपारणेव समाद्रियमाणा द. रीदृश्यते । ये हि प्रतिपद्विषये भट्टमातमङ्गीकुर्वन्ति तेऽपि पार- प्रन्थपरिचय च णाविषये न तत्मम्मन्यन्ने । दशमी पारणायाः वण्डनं प्रकृत- ग्रन्थग्रन्थायित्रा बहुसमीचीनया रीत्या व्यधायि । नवमीपार- णायां च कारणदशक पादर्शि। इत्थ च दशमीपारणावादिनां भट्टप्रभृतीना नवमीपारणावादिना धर्माधिकारिप्रभृतीनां च परस्परं प्रतभेदः प्रदर्शितः । किं इदमप्यत्राच. धेयम् । दैतनिर्णयादि भट्टग्रन्थेषु नवरात्रे उपवामविशिष्टायाः पूजायाः प्राधान्यं दृश्यते पूजाया मुख्यकालश्च पूर्वाह्नः पारणं च दशम्याम् । प्रकृतग्रन्थकारमते च केवलपूजायाः प्राधान्यम् । पूजाया मुख्यकालश्च नक्तम् । पारणं नवम्यामेव विसर्जनं तु दशम्याम् । इति । "वस्तुनस्तु प्रकृते पूजाया एव प्रधानत्वा- चदन्तस्य विसर्जनस्य दशम्पनुष्ठीयमानतया तदन्तःपातिनः पारणस्य व्रतश्योगबहिर्भावः शङ्कापथमेव नाऽत्रतरतीति दिक्" इति प्रकृतग्रन्थकृदुक्तरीत्या स्पष्टमिदं ज्ञायते यत् पारणं व्रतरू- पमेव । तथैवाने कण्ठरवेणैव प्रतिपादितं तत्तत्रैव द्रष्टव्यम् । यदा पूर्वदिने अष्टमी, नवम्याः क्षयवशाच्चोत्तरदिने दशमी तदा दशम्यामपि पारणं भवति । अन्यथा कर्मलोप: स्यात् । दश- मीपारणविधायकवाक्यानि च तद्विषयाण्येव प्रकृतग्रन्थमते । दैतनिर्णयनिर्णयसिन्धुकालतत्वविवेचनादिदशमीपारणसमर्थक- ग्रन्थखण्डनदर्शनरासिकः 'पुरुषार्थचिन्तामणि रवलोकनीयः । तत्र च नामग्राहमेषां खण्डनं दृश्यते । अत्र चेदमालोचनीयम्- 'कतरः पक्षो युक्ततरः' इति । यद्यपि यथा कुलधर्म सर्वत्राऽपि व्यवस्था वर्तते, तेन च यस्य कुलपरम्परया यादृशी रीतिस्तथैव नवरात्रप्रदीपभूमिकायाम्- २८ च तेन सर्वदा सर्वथा च वर्तनीयमित्यस्ति तेन च यैः परम्परया दशम्यां पारणा विधीयते तैर्दशम्यामेव कार्या न नवम्याम् । यैश्च निजकुलपरम्परया नवम्यां क्रियते तैनवम्यामेव कार्या न दशम्याम्, इत्यपि वर्तते, तथाऽपि चेदमवश्यं समालोचनीयं यद्न्थतो युक्तितश्च किं युक्तमिति तत्र च ग्रन्थाना प्रामाण्य ग्र- न्ये समुपातप्रमाणाधीनम् । ग्रन्थकृतो हि स्वपक्षस्थापनाय परपक्षखण्डनाय च प्रवृत्ता रागद्वेषाऽभिनिविष्टचेतसः सर्वाणि वचनानि तत्र विरुद्धान्यपि स्वमताऽनुकूल व्याख्यापयन्ति । अतिविरुद्धानि तु निर्मूलतामारोप्य बहिर्यापयन्ति । इत्थं सति का पक्षः समुचित इति निर्णयकरणमतिकठिनमेव । तथाऽपि यथामनीषं किं चित्सझेपतो विचार्यते । इदं प्रथमतोऽवधेयं यत् द्वयोरपि मते नवरात्रशब्दे रात्रिशब्दस्तिथिपर एव । नवरात्रश- ब्दे च कचित्समाख्या कचिच्च गुणविधिः, सर्वत्र समाख्या गुणविधिर्वा नास्ति इत्यपि समान द्वयोः । परं भट्टमते नवम्या. मप्युपवासः दशम्यां पारणम् । दुर्गोत्सवे व्रतं देव उपवासस्य सप्तकम् । इत्यादिवाक्याना च व्रतान्तरप्रतिपादकत्वमेव इति। तत्र चेदं बदामः, यद्भट्टः दुर्गोत्सवे व्रतं देव उपवासस्य सप्तकम् । इत्यादीनां व्रतान्तरपरत्वेन नेयत्वमुक्तं तद्विनिगमनाविरहा. दुक्षेपणीयमेव । किं च पारणान्ते व्रत ज्ञेयं व्रतान्ते तद्विभोजनम् ।

ग्रन्थपरिचयः २९ इतिवचनविरोधो भट्टमते ! नथाहि सङ्कल्पक्षणमारभ्य पार- णान्तक्षणपर्यन्त विततभावनान्तनिष्पानिवन पारणस्याऽपि व्रतरूपत्वम् । व्रतत्वेपि प्रधानत्व नेत्यन्य देतत् । नैतावना व्रत- त्वक्षतिः । तथा च नवम्यनुष्ठीयमानवतस्य नवमीपर्यन्तता सि- ध्यतीति न दोषः । नन्विदं व्रतप्रयोगबहिनमेगङ्गमस्तु "व. लान्ते तद्विभोजनम्" इत्यनेन व्रतसमाप्तौ तच्छ्रवणात् । यथा "संस्थाप्य पौर्णमास वैमृधमनुनिर्वपनि" इत्यनेन पोर्णमासस माप्तौ मृधो विधीयते । सस्थापनान्तशब्दयोश्च पर्यायवादि- तिचेत् मैत्रम् । “पारणान्तं वन ज्ञेयम्" इत्यस्य पारणया अ- न्तः समाप्तिर्यस्येत्यर्थपरत्वेन पारणस्य व्रतप्रयोगबहिर्भावाऽभा- वात् । तथा च पूर्वोत्तरयोरेकार्थत्वमेव इति स्थिते, दशम्यां पारणायां क्रियमाणायां व्रतस्य दशरात्रताऽऽपत्तिः, नवमीपार- णाया तु नैष दोषः । किं च यथा नवमीपारणाविधायकानि व. चनानि बहूनि श्रूयन्ते न तथा दशमीपारणाविधायकानि । किं च यावत्कालं पारणं न कृतं तावत्पर्यन्त प्रतितिथि प्रधान तया विहिता पूजा करणीयैव । अन्यथा व्रतलोप: स्यात् , तेन दशमीपारणापक्षे दशम्या मुख्यभूना पूजा प्रातः करणीयैव, त. दनन्तरं पारणं करणीयमितीत्यपि व्रतस्य दरारात्रताऽऽपत्तिः । भट्टमते च नवरात्रे प्रातःपूजैव मुख्या इति नवमीपारणावा. दिप्रकृनग्रन्थपक्ष एव ममुचित इति निश्चीयते । ननु भहमते उपवामविशिष्टायाः पूजायाः प्राधान्येन दशम्यां च उपवासर- हितपूजायाः क्रियमाणतया न दशम्यां मुख्यभूना पूजा क्रियते ३० नवरात्रप्रदीपभूमिकायाम्- इति न दशरात्रताऽऽपत्तिरिति चेदसमञ्जममिदमुच्यते । तथा हि यदुन्यते उपवासविशिष्टायाः पूजायाः प्राधान्यमिति भ्रा- न्तिरेव सा । यतः एकभक्तेन नक्तेन स्वशत्यायाचितेन च । अथ वा सर्वनक्तैश्च नवरात्र समापयेत् ॥ इत्यत्र एकभक्तादीना चतुर्णामपि वैकल्पिकतयोक्तत्वा- कोऽप्येकः पक्षोऽङ्गीकरणीयः। परमिदं न वक्तुं शक्यते यदुपवा- सकरणमेव मुख्यमिति । चतुर्णामपि माम्येन प्राधान्यस्योक्तला त् । यद्यप्यत्र परिश्रमन्यूनाऽधिक्यवशेन फलतारतम्यकल्पनेन उपवासाना फलविशेषजनकत्वकल्पनया उपवासपक्षस्यैव मुख्य चं सम्भवति, तथाऽपि उपवासविशिष्टाया एव पूजायाः प्रधान्य. मिति कथनमसमञ्जसमेव । तथा हि येन पुरुषेण प्रथमवर्षे उप. वासपक्षोऽङ्गीकृतः, द्वितीयवर्षे च रुग्णतया उपवासाऽसमर्थ- तया एकभक्तादिपक्षोऽङ्गीकृतस्तत्र न को ऽपि प्रत्यवायः 'एक- भक्तन' इतिवचनानुरोधात् । भट्टमते तु उपवासविशिष्टाया एव- पूजायाः प्राधान्येन तदानीमुपवासरहितपूजायाः समाचरणात व्रताऽसम्पन्नत्वापत्तिः । धर्माधिकारिमते तु न तथा । याच्येत 'उपवासविशिष्टाया एव पूजायाः प्रधान्यमित्यस्य स्वीकृततत्तद्वि- शिष्टाया एव पूजायाः प्राधान्यं न केवलपूजाया इति तात्पर्य मिति सदपि यद्वातदैव । साधारणासाधारणमध्ये असाधारणविशि हस्यैव प्रधानन्बाङ्गीकारात् । दर्शपूर्णमासादौ प्रयानादीनामि- छ । तस्मादुपवासादिविशिष्टाया एव पूजायाः प्राधान्यमिति 4 ग्रन्थपरिचय ३१ कथनमसङ्गतमेव । तेन च तत्तत्कालविशिष्टाया एव पूजायाः प्राधान्यमिति सर्वैरप्यगीकरणीयमेव । यच्च धर्माधिकारि- प्रभृतिभिः “नक्तत्रतमिदं मुख्यम्" इत्युच्यते पुनः पुनः, त. त्र नक्तवतपदस्य नक्तकालकृतपूनाया. प्राधान्यम् इत्यर्थः, न तु दिवाभोजनत्यागपुर सररात्रिभोजनरूपनक्तवतमिति । अत एव धर्माधिकारिकुले एकभक्तादिपक्षचतुष्टयादुपवामपक्ष एवाऽङ्गीकृतो दृश्यते । तथैवेतरेषामपि बहूनां विदुषा कुल- रीतिः । ते हि "दुर्गोत्सवे" इत्युक्तवचनानुसार सप्तोपवासान् विधायाऽष्टम्यां किंचिद्भक्ष प्रकल्प्य नवम्या पारणामाचरन्ति विसर्जनमात्र च दशम्यामिति न नवरात्रत्वक्षतिः । एवं सति भट्टमतेऽपि कालविशिष्टाया एवं पूजायाः प्राधान्य वाच्यम् । नोपवासविशिष्टायाः तन्मने मुख्यः कालश्च पूर्वाह्नः तेन पूर्वाह्न - विशिष्टपूजाया एव प्राधान्यात्तस्याश्च नवतिथिषु विहितत्वात व्रतस्य च नवरात्रत्वात् रात्रिशब्दस्य च तिथिपरत्वाद , पारणान्तस्यैव च व्रतत्वात् पारणापर्यन्तं पूजाया अवश्यं कर- णीयत्वात् दशमीपारणाया पूर्वाहपूजाऽवश्यमाचरणीयैवति भ- दृमते दशरात्रतापत्तिोंपायसहस्र गाऽपि वारयितुं शक्यते इति नवमीपारणापक्ष एवं समुचितः । यच्च पूर्वाह्नस्यैव मुख्य पूजा- कालत्वप्रतिपादन तदपि शक्तिपूजनरहस्य ज्ञानविधुराणामेव शोभते । पर महदिदमाश्चर्यास्पद यत् शक्तिपूजकत्वेन प्रसि- द्धाना बगीयविदुषा रघुनन्दनभट्टाचार्यादीना मते कथ पूर्वाह्नस्य देवीपूजायाः प्रधानकाल-वमुक्तम् ? अथ वा "ज्ञानिनामपि ३२ नवरात्रप्रदीपभूमिकायाम्- चेतासि" इतिस्थित्या तदपि समीचीनमेवेत्यालमियतैव । मतदय- मिद तत्तद्न्येषु मुविशदमुपपादितमिति तत एवाऽवलोकनीयम् । एव च कृते विचारे मतदये कतरत्समीचीनमिति मनीषिण एव विचारयन्तु । इत्थं विचारितं पारणावादस्थलं सङ्केपेण । अतः परमे- तदन्थस्य किं चिद्वैशिष्टयमुच्यते--अनुष्य ग्रन्थस्य लेखो ग. म्भीरः सरलः प्रसन्नः सुपरिणतश्चेति मनो रअयन् प्रतिपाद्य. तत्वानि पाठकचेत.सु प्रतिष्ठापयति । तत्र कानिचिदुदाहरणानि पदयन्ते-"एवं युक्तिमुक्ताकरम्बिते वचनचिन्तामणौ धुमणौ परिस्फुरति नवरात्रशब्दस्य नामधेयत्वमनङ्गीकुर्वतां प्राच्याना- मतितरा तमावलिनत्वमवगम्यते" (पृ०८) "तद् रूपनाराय. णादिसर्वदेशीयशिष्टपरिगृहीतनिबन्धेषु प्रत्यक्षपरिदृश्यमाना- नामपि वचनानां करकङ्कणन्यायेनाऽपकापकौशलमायुष्मताम् । यत्पुनरेतेन तस्य नक्तवतत्वादिति वदन् माधवोऽपि प्रत्यादिष्ट इति तदपि भ्रान्तप्रलपितमेवेत्युप्रेक्षणीयम् । यतो हि ऋङ्मात्राऽन भिज्ञैराधुनिकैश्चतुर्विशतिशाखापारदृश्वनामार्याणा माधवाचार्या णामधिलेपः कलिकालप्राबल्यमाचष्टे' (पृ०१६) "तदेवं सि. द्धा नवम्या पारणा । एवं च युक्तिमुक्ताकरम्बिते वचनचिन्ता. मणौ परिस्फुरति बुद्धिदरिद्राणां भिक्षालब्यसमाख्यामात्रेण कालाऽतिवाहनमतितरा दुरदृष्टं गमयति" ( पृ०१०९) इत्यादि। अहो रमणीयाऽस्य लेखशैली । प्रतिविषयं चाऽनेन ग्रन्थकृता प्रथम ऋषिवचनानि निर्दिश्य मीमासान्यायैस्तत्सङ्गतिमभिधाय ग्रन्थकृत्परिचय तैरेव निजयुक्तिभिश्च परमतखण्डनं विधाय स्वसिद्धान्त. प्रत्य- छापि, किंबहुनोक्न निःसंशयं किलाऽस्य ग्रन्थस्य शैली सर्वाङ्गपूर्णतया श्लाध्यतमा पुरोभागिनामपि हृदयं क्षणमात्रं मस्तक सानन्द धूनयत्येवेतीयनैव ग्रन्थपरिचयेनालम् । रमिक- ग्रन्थ एव सर्वमवलोकनीयम् । www : ग्रन्थकृत्परिचयः। ग्रन्थकृद्विषयेऽपि सङ्क्षेपणोच्यते । प्रकृतग्रन्थनिर्माता वि- नायकपण्डितः नन्दपण्डिताऽपराऽभिधः मुद्गलसगोत्रः काशीस्थमहाराष्ट्रभूमीमुरः धर्माधिकारीत्युपाख्य आसीत् । अस्य पिता प्रसिद्धो विद्वान् रामपण्डिताऽभिध आसीत् । इति प्रकृतग्रन्थान्तिमपद्यादवसीयते । अय हि पदवाक्यप्रमाणपारा- वारपारीणः मूर्तिमान् धर्म एव नेकनिबन्धनिर्माणप्रतिष्ठापित- निष्कलङ्कतुहिनकिरणच्छविमहनीयकीर्तिरनेकभूपालमुकुटमणि मञ्जरीनीराजितचरणयुगलः सं० १६३०-१६९० वैक्रमवत्सर- पर्यन्नं काश्यां विद्यमान आसीत् । परमकृष्णभक्तोऽयं निजकु लजसर्वानपि पूर्वापगन् पुरुषाननिशय्यामीत् । अस्य वंशे तत्त- च्छास्त्रीयमर्मविज्ञानां सर्वोचशिखरमारूढा बहवः पण्डितोत्तमा अभूवन् । वंशोऽयमतिविस्तृतिमागत्य सम्पति बहुषु देशेषु नैकाभिः शाखाभिर्विराजने इति बहुलेखनीयमपि विस्तरभिया नाऽत्र लिख्यते । इतोऽधिकमनत्यल्प मया "शुद्धिचन्द्रिका" भूमिकाया लिखितमिति तत एवाऽवसेयम् । महता विस्तरेण

नवरात्रप्रदीपभूमिकायाम्--
च धर्माधिकारिवंशविषयकमैतिचं स्वतन्त्रपुस्तकरूपेण यथा-
ऽवसरं प्रायोऽचिरादेव प्रकाशयिष्यते इति जिज्ञासुभिस्तत्रैवा.
ऽवलोकनीयम् । प्रकृतग्रन्थमात्रदर्शिनां कृते ज्ञातमूलपुरुषादा.
रभ्य प्रकृतनिबन्धप्रणेतृपर्यन्तं वंशवृक्षः प्रदश्यते-
लक्ष्मीधरपण्डित (धर्माधिकारसम्पादक )
BAR
श्रीकृष्णप०
गोविन्दप (श्रय काश्यामागतः)
महीपति प० (श्रय निजपितृव्येण सम चतु सम एव
काश्यामागतः)
अनन्तपं०
शङ्करप०
| विश्वनाथप०
कृष्णप० रामपं० गणेशपं० |
अनन्तप०
नारायणप०
गदाधरप०
गोविन्दप वासुदेवप *नन्द पण्डित* = विनायकप०
नीलकण्ठ पर
खण्डेयरायप०
बालकृष्ण प०
कान्हप०
माधवप
वामनप०
धर्माधिकारिवशः किलाऽतिविस्तृतः स यावच्छक्यं स.
म्पाद्य अचिरमेव पुस्तकाकारेण प्रकाशयिष्यते । प्रकृतग्रन्यकृता
बहवो निबन्धाः प्रणीतास्तत्र ज्ञातास्त्वेते-
१ काशीप्रकाश

ग्रन्थकृत्परिचय.
२ तस्वमुक्तावलिः (मुद्रिता )
३ दन्तकचन्द्रिका
४ दत्तकमीमासा-पुत्रीकरणमीमासा ( मुद्रिता )
५ नवरात्रप्रदीपः (मुद्रितः)
विद्वन्मनोहरा पराशरस्मृतिटीका ( मुद्रिता)
७ माधवानन्दम्-महाकाव्यम् ।
८ प्रमिताक्षरा-मिताक्षराटीका
२ केशववैजयन्ती-विष्णुस्मृनिटीका
१० विनायकशान्तिपद्धतिः
११ शुद्धिचन्द्रिका-पडशौतिटीका ( मुद्रिना)
१२ शूद्राधिकारमीमासा
१३ श्राद्धकल्पलता
१४ श्राद्धमीमामा
१५ सापिण्ड्यनिर्णयः
१६ संस्कारनिर्णयः ( स्मृतिसिन्धोरुधृतः )
१७ स्मृतिसिन्धुः
१८ हरिवंशविलाम:-
१ दानकौतुकम् ।
२ कालनिर्णयकौतुकम् ।
३ आह्निककौतुकम् ।
एतद्न्यादिविषयेऽपि यथाऽवसरं प्रकाशयिष्यतेऽग्रे सवि-
इतरमैतियामिति विरम्यते ग्रन्थकृत्परिचयात् ।
me

३६ - नवरात्रप्रदीपभूमिकायाम्-- उपसंहारः- अथैतद्वन्थप्रकाशनमाधनभून पुस्तकद्वयम् । तत्रक प्रकृत- ग्रन्थकृन्नन्दपण्डिताऽपराभिधानविनायकपण्डितैकादशपुरुषाणा- मस्मत्सुहृद्वराणा धर्माधिकारि-पं० लक्ष्मीधरपन्नानां परम्परा. सरक्षितमशुद्धिबहुल च । अत्रान्ते सवत् १८१३ इति लेखका लो दृश्यते । प्रथमपत्रप्रथमपृष्ठे 'हरीपण्डितस्येदं पुस्तकं' इति लेखो वर्तते । पुस्तकेऽत्र ३९ पत्राणि प्रतिपत्रमेकादश पड्तयः प्रतिपति पञ्चत्रिंशदक्षराणि । द्वितीयं च पुस्तकं ग्रन्थकूदग्रजमहा महिमशालि "श्राद्वदीपिका "ज्योतिषरत्नसङ्ग्रहा" दिनिबन्धनिर्मात- गोविन्दपण्डित श्यानामिदानी प्रयाग निवसतामस्मन्मित्रधर्माधि- कारि-प० जयकृष्णपन्तानां वशपरम्परासंरक्षितं प्रायः शुद्ध. मन्तिमपत्ररहितं लेखकालरहित प्राचीनं च । अत्र पत्राणि ३४ प्रतिपत्र पतमः १३ प्रतिपतयक्षराणि ३७ । एतत्पुस्तकद- याधारण मुसम्पन्नमस्य ग्रन्थस्य मुद्रणकार्यम् । अत्र च याभ्यां निजपुस्तकप्रदानेन मदुत्साहवर्धनेन च ग्रन्थप्रकाशने साहा- ध्यमाचरितं तौ सुहृद्वर-धर्माधिकारि-पं० लक्ष्मीधरपन्त पं० जयकृष्णपन्तौ हृदयेनाऽभिनन्दामि । अथवा कृतमभिनन्दनेन कर्तव्यमेवैतदनयोः, यन्निनपूर्वजनिर्मितनिबन्धाना प्रकाशनम् । कृतकर्तब्यकमविषयेऽनुचितमपि सौहृदवशेन मया समाचरित मभिनन्दन तौ स्वीकरिष्यत इति सुदृढो में प्रत्ययः प्रमाणत्वेन समुपाताना ग्रन्थादिनाम्नापकारादिक्रमेण सूचीपत्रं निर्मायाऽन्ते निवेशिनम् । प्रतिपादितविषयज्ञानाय विषयसूची- । अत्र उपसंहार प्रत्यारम्भे निवेशिनाऽस्ति । ग्रन्थोल्लिखितपारिभाषिकशब्दज्ञा- नाय तन्मूच्यपि निर्दिष्टाऽत्र वर्तने । एव यथाशक्ति ग्रन्थमिम परिष्कृय सशोध्य सम्मुद्य मरस्वतीभवनग्रन्थमालाया प्रकाशित नीरक्षीरन्यायेनाऽवलोक्य सुधीवराः सफलयिष्यन्ति मत्परिश्र- म मति बाद समाशासे । अन्ते च-येषां कृपया ग्रन्थोऽय प्रकाशितस्तान मत्समुन्नतिहेतुभूनान् माननीय पं. गापीनाथकविराज एम् . ए. ( प्रिन्सिपल गवर्नमेन्टसंस्कृतकालेज बनारस ) महो- दयान् सप्रश्रयमभिनन्ध मदीयनिरूपधिहितैषिणः साहिया चार्य पं०नारायणशास्त्रीखिस्ते (सरस्वतीभवनपुस्तकालयाध्यक्ष) महोदयाश्च सादरमभिनन्द्य साञ्जलिवन्धं परमेश श्रीकाशीवि. श्वनाथमभिवन्ध समापयाम्यमु लेखमिति शम् । वरकलोपाख्य सरस्वतीभवनम् , काशी। स०१९८४ वैद्यनाथशास्त्री।

श्री. नवरात्रप्रदीपे समुपात्तानां विशिष्टशब्दानां सार्थी सूची। नवरात्र-तिथिनवकक्रियमाणपूजाप्रधानात्मक व्रतम् । अतिविस्तृत ग्रन्थे । एकभक्त एकवारभोजनात्मकव्रतम् । नक्त-दिवाभोजनत्यागपुर सररात्रिभोजनात्मकत्रतम् । अयाचित-याच्या विना लब्धस्य भोजनात्मकब्रतम् । नक्तव्रत-नक्तकालक्रियमाणपूजाप्रधान व्रतम् । महाष्टमी आश्विन शुक्लाऽष्टमी । महानवमी-आश्विनशुक्ला नवमी। किंचिद्भक्षण अव्रतघ्नापोमूलादिभक्षणम् । विजयकाल आश्विनशुक्लदशम्या एकादशो मुहर्त । पृ. १ 3 १ श्री. नवरात्रप्रदीपस्थविषयसुची। सं० विषयाः मङ्गलाचरणम् । २ नवरात्रपदार्थनिर्णयः । नवरात्रशब्द. कालवचन' कर्मवचनो वा । ४ पूर्व कालवचनत्वसाधनविचारः । ५ कालवचनत्वस्य खण्डनपूर्वकं कर्मवचनत्वनिरूपणम् । ६ रात्रिपदार्थनिर्वचनम् । नवरात्रस्य नक्तवतत्वसिद्धान्त । ८ नवरात्रारम्भदिननिर्णय.। ९ प्रतिपनिर्णयः । २ ३ ८ पृ १८ १९ १९ २० my mu w ३८ सं० विषया १० प्रतिपटैविध्यनिरूपणम् । ११ प्रतिपत्सामान्यनिर्णय । १२ प्रतिपद्विशेषनिर्णय । १३ अमायुक्तप्रतिपदो ग्राह्यत्वसिद्धान्त । १४ द्वितीयायुक्तप्रतिपदो ग्राह्यत्वे प्रमाणानि । १५ तव्यवस्था, अमायुक्तप्रतिपद एव ग्राह्यत्वम् । १६ सङ्कल्पकालनिर्णय । १७ नवरात्रव्रतस्य नित्यकाम्यस्वम् । १८ नवरात्रद्वैविध्यनिरूपणम् । १९ नवरात्रव्रताऽधिकारिनिरूपणम् । २० पूजाकर्तृनियमा । २१ नवरात्रत्रतविधि २२ अशक्तस्य प्रकारान्तरम् । २३ सप्तम्यादिपूजाविधानम् । २४ अष्टमीनिर्णय । २५ नवमीयुक्तैवाऽष्टमी मुख्येति सिद्धान्तः । २६ विश्वरूपाचार्यमते सप्तमीविद्धाऽप्टम्या ग्राह्यत्वमिति प्रतिपाद्य तव्यवस्था। २७ नवमीनिर्णय । २८ नवमीसामान्यनिर्णय । २९ नवमीविशेषनिर्णय । ३० अष्टमीविद्धैव नवमी ग्राह्यति सिद्धान्त । ३१ अष्टमीपूजाविधि । ३२ होमनिर्णय । ३३ स्त्रीशूदाणा होमाऽधिकारनिर्णयः । ३४ होमाऽनधिकारत्वशङ्का । ५९ ६१ ६५ ७१ ७६ ७७ स० विषया ( ३ ) पृ ३५ स्त्रीशूद्रादिभिर्ब्राह्मणद्वारा होमादि कार्यमिति सिद्धान्त । ८२ ३६ नवमीपूजाविधि । ८२ ३७ बलिदाननिर्णय । ३८ मध्येनवरात्र सूतकादिपाते निर्णय । ३९ पारणानिर्णय । ४० दशम्या पारण कार्यमिति पूर्वपक्षनिरूपणम् । ६१ ४१ दशमीपारणखण्डनम् । ९२ ४२ नवमीपारणसिद्धान्तनिरूपणम् । ९२ ४३ नवमीपारणे प्रमाणानि । ४४ नवमीपारणे प्रथमहेतुनिरूपणम् । ४५ द्वितीयहेतुनिरूपणम् । ९४ ४६ तृतीयहेतुनिरूपणम् । ९५ ४८ चतुर्थहेतुनिरूपणम् । ४८ पञ्चमहेतुनिरूपणम् । ९९ ४९ षष्ठहेतुनिरूपणम् । ५० सप्तमहेतुनिरूपणम् । १०३ ५१ अष्टमहेतुनिरूपणम् । १०४ ५२ नवमहेतुनिरूपणम् । १०५ ५३ दशमहेतुनिरूपणम् । १०७ ५४ दशमीदिनकृत्यम् । ५५ विसर्जनम् । १०९ ५६ विजययात्रा ५७ दशम्या शमीपूजनम् । १११ ५८ विजयकालनिर्वचनम् । ११२ ५९ दशमीनिर्णय । ६० ग्रन्थसमाप्ति । ० १ ॥श्री ॥ धर्माधिकारिविनायकपण्डितविरचितः- नवरात्रप्रदीपः श्रीगणेशाय नमः । श्रीएकवीरायै नमः। अभिनन्द्य जगहन्द्यपदद्वन्द्वं विनायकम् ।। नवरात्रविधि वक्ति श्रीविनायकपण्डितः ॥ १ ॥ अमुष्मिन्सन्दर्भे वचनरचनायामपि मनाङ् मनः कर्तुं शक्यं यदपिहि न गीर्वाणगुरुणा ।। तथापि श्रीदुर्गाचरणपरिचर्यावतविधे- विचारे या शक्तिर्मम स खलु तस्यैव महिमा ॥२॥ अथ नवराजतिषः तत्रादौ नवरात्रशब्दो विचार्यते, किमयं कालवचनः उत कर्मवचन इति । तत्र कालवचन इति प्राप्तम् । अनुशासनसामर्थ्यात् । तथाहि “अचप्रत्यन्ववपूर्वात्सा- मलोम्नः” (पा० म०५-४-७५) इत्यतोऽचप्रत्य- यानुवृत्तौ “तत्पुरुषस्याङ्गुलेः सङ्ख्याऽव्ययादेः" (पा० २ । नवरात्रप्रदीपे- सू०५-४-८६ ) इत्येतस्मात्सङ्ख्यानुवृत्तौ "अहः सवैकदेशमङ्ख्यातपुण्याच्च रात्रेः” (पा०सू०५-४- ८७ ) इत्यनेन नवानां रात्रीणां समाहार इति विग्रहे समासान्ताऽच्प्रत्ययविधानान्नवरात्रइति शब्दो निष्पद्यते। तथा च रात्रिसमुदायात्मककालविशेषस्य शब्दसामर्थ्यादेव प्रतीयमानत्वाद्यौगिक एवायं कालवचनो नवरात्रशब्दः। न चाऽश्वकर्णसप्तपर्णादिवदवयवशक्तिमनपेक्ष्यैवायं प्रयु. ज्यत इति वाच्यम् । तथात्वे तादृशशब्दस्वरूपानिष्पत्तेः। अतो न रूढः । अवयशक्त्यैवोपपत्ती समुदायशक्तिकल्पने गौरवात्। अवयवाऽर्थाऽतिरेकेणाऽर्थान्तराऽप्रतीतेश्च । तथा न योगरूढोऽपि । तत्र हि योगरूढिर्भवति यत्राऽतिप्र- सक्ते योगार्थे प्रयोगप्राचुर्येण शब्दस्य व्यवस्थाऽऽश्रीय- ते । यथा पङ्कजादौ । न च प्रकृतेऽतिप्रसङ्गोऽस्ति । चैत्राश्विनसम्बन्धिनोरेव रात्रिसमुदायविशेषयोस्तत्प्रयो- गात् । न चाहर्गणे क्रतुविशेष “तं नवरात्रेण याजयेत्" इत्यादिवाक्यविहिते नवरात्रशब्दप्रयोगादतिप्रसङ्ग- इति वाच्यम् । तत्र कर्मनामधेयत्वेन कालपरत्वाभा- वात् । न चान्यत्रापि नवसङ्ख्याकरात्रिसमुदाय 'नवरा- नवरात्रपदार्थनिर्णयः त्रेणाऽऽगतोऽस्मि' इत्यादी नवरात्रशब्दप्रयोगादतिप्र- सङ्गतादवस्थ्यमिति वाच्यम् । तस्यास्मत्साधकत्वात । तद्यथा-यतश्चैत्राश्विनसम्बन्धिरात्रिसमुदायविशेषे अन्य- त्रापि नवसङ्ख्याकरात्रिसमुदाये नवरात्रशब्दप्रयोगः । अन एव शुद्धयौगिकत्वम्, न योगरूढत्वमिति । अ- त्रोच्यते । नाऽयं नवरात्रशब्दः कालवचनः । प्रतिपदि तदारम्भविधानाऽनुपपत्ते. । प्रतिपद्रूपे काले कर्मणो वि. धानं शक्यम्, न तु नवरात्ररूपस्य कालस्य । तस्य पुरुषकृत्यसाध्यत्वात् । विधानं च नारदीयपुराणे श्रूयते- आश्विनस्य सिते पक्षे नवरात्रव्रतं शुभम् । आदौ प्रतिपदं प्राप्य तिथिं चण्डीमनःप्रियाम् ॥ कुर्यादिति शेषः । रुद्रयामलेऽपि-- आश्विने मासि सम्प्राप्ते शुक्लपक्षे विधेस्तिथिम् । प्रारभ्य नवरात्रं स्याद् दुर्गा पूज्या तु तत्र वै प्रतापरुद्रनिबन्धे धौम्योऽपि विदधाति- आश्विने शुक्लपक्षे तु कर्त्तव्य नवरात्रकम् । प्रतिपदादिक्रमेणैव यावद्धि नवमी भवेत् ॥

४ नवरात्रपदीपे- S सप्तम्यन्तोऽपि क्वचित्पाठः । देवीपुराणेपि- मासि चाश्वयुजे शुक्ले नवरात्रे विशेषतः । सम्पूज्य नवदुर्गा च नक्तं कुर्यात्समाहितः॥ इत्यादि। न च नवसङ्ख्याकरात्रिसमुदायसाध्यत्वाद् व्रतस्य लक्षणया नवरात्रशब्दवाच्यत्वमिति वाच्यम् । 'नवरात्र- व्रतं कुर्यात्' इति विधौ लक्षणाप्रसङ्गे "न विधौ परः शब्दार्थः" इतिन्यायविरोधात् । न च "न विधौ परः शब्दार्थः' इत्यत्र विधिशब्देन प्रत्ययो गृह्यते न तु वा- क्यम् । तेन प्रत्ययांश एव न लक्षणा तहाक्यान्तर्गत- शब्दान्तरेऽपीति वाच्यम् । “आद्यमेकादशेऽहनि" इत्यत्र एकादशाहशब्दस्य आशौचाऽनन्तरदिनोपलक्षकत्वे त- न्यायविरोधस्य भट्टविश्वेश्वरप्यङ्गीकृतत्वात् । किं च तस्य कालपरत्वे "प्रारभ्य नवरात्रं स्यात्" इत्यादौ नपुंसकलिङ्गाऽनुपपतिः। “रात्राहाहाः पुंसि” (पा.सू. २-४-२९) इत्यनेन रानान्तस्य पुल्लिङ्गत्वाऽनुशास- नात् । अस्तु वा “सङ्ख्यापूर्व रात्रं क्लीवम्" ( का. वा०) इति वार्तिकेन नपुंसकत्वम्, तथाऽपि पूर्वो- तयुक्त्या सामानाधिकरण्येन च कर्मनामधेयत्वमेव नवरात्रपदार्थनिर्णयः युक्तम् । न च गुणविधित्वम् । उद्भिवता यागेनेतिवत नवरात्रवता व्रतेनेति मत्वर्थलक्षणाप्रसङ्गात् । न चाग्नये होत्रमस्मिन्निति नव रात्रयो यस्मिन्निति व्युत्पत्त्या नव- रात्रशब्दो गुणविधिरिति वाच्यम् । तथात्वे नवरात्रीति शब्दस्वरूपापत्तेः । षष्टयर्थलक्षणाऽऽपत्तेश्च । नाऽप्य- त्यन्तसयोगे द्वितीयेयम् । “नवरात्रीरभिव्याप्य व्रतं कुर्या- तु"इतिवैय्यधिकरण्येनान्वयाऽऽपत्तेः । सम्भवति सा- मानाधिकरण्येन कारकविभक्तित्वे उपपदविभक्तित्वकल्प- नाऽयोगाच्च । यत्र तु 'नवरात्रव्रतम्' इति समस्तं पदं, तत्र कर्मधारयेणाभेदाऽवगमादेकार्थत्वेन सुतरां नाम- धेयत्वसिद्धिः । तस्मान्नायं कालवचनः । किंतु दर्शपूर्ण- मासद्विरात्रत्रिरात्रद्वादशाहादिशब्दानां यथा तत्तत्का- लयोगेन निमित्तेन कर्मनामधेयता तथा नवसङ्ख्याक- रात्रिसमुदाययोगमेव निमित्तमादाय नवरात्रशब्दोऽपि कर्मनामधेयम् । तत्प्रख्यन्यायात् । तत्प्रख्यं च शास्त्रं देवीपुराण एव- आश्विने प्रतिपन्मुख्याः पुण्यास्तु तिथयो नव । देविकापूजने प्रोक्ताः सर्वकामफलप्रदाः ॥ इति । BAR नवरात्रपदीपे- हेमाद्रौ धौम्यवाक्यमपि । अत्र च पूर्वोत्तरार्द्धाभ्यां नामधेयत्वगुणविधित्वे स्पष्टीकृते । तद्यथा-यदाश्विने शुक्लपक्षे नवरात्रवतं कर्त्तव्यं तत्प्रतिपदादिक्रमेण याव नवमीति । अन्यथा गुणे गुणान्तरविधानाऽऽपत्तेः । एवं च मासि चाश्वयुजे शुक्ले नवरात्रे विशेषतः सम्पूज्य नवदुर्गा च नक्तं कुर्यात्समाहितः ॥ इति सप्तम्यन्तेनाऽभिहिते कर्मण्येव प्रधानभूत- पूजानन्तरमङ्गभूननक्तविधानमुपपद्यते । तेन तत्का- लपरत्वे युज्यते । अङ्गस्य तस्याङ्गान्तराऽपेक्षाऽभावात् । "गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात" इति न्यायात् । यत्तु श्रुत्या गुणविधित्वं, न तु लक्षणया कर्मकालत्वमिति कैश्चिदुक्तं तद् गुणविधित्वेऽर्थान्तरवाचि- नामुहिदादीनामर्थान्तरे यागे वृत्तिमत्वर्थलक्षणया स्यात् । उहिद्वता यागेनेतिनामधेयत्वे तु श्रुत्येतिपार्थसारथि- लिखनविरुद्धम् । नामधेयेषु सर्वेषु श्रुतिवाक्यस्यैव शक्तिग्राहकत्वात् । न च तत्र तत्र यजतिसामानाऽ धिकरण्येन नामधेयत्वम, प्रकृते तु न तथेति वा- च्यम् । “नवरात्रतं शुभम्" इत्यादिवाक्ये कर्मसा- नवरात्रपदार्थनिर्णयः ७ च मानाऽधिकरण्यस्य प्रकृतेऽपि विद्यमानत्वात् । न च करणीभूतकर्म सामानाधिकरण्यं नामधेयत्वे साधकम् , न तु प्रथमान्तमामानाधिकरण्यमिति वाच्यम् । “अग्नि- होत्रं जुहोति" इत्यत्रेव करणत्वस्योत्तरकालकल्प्य- त्वात् । न च कालयोगेन नामधेयत्वे यादृशा काल- वचनस्तादृशस्यैव कर्मनामधेयत्वम् । यथा दर्शद्विरात्रा- दिशब्दानाम् । प्रकृते तु न तथा कालवचनस्य पुल्लि. ङ्गत्वात् , कर्मवचनस्य नपुंसकलिङ्गत्वा- दिति वाच्यम् । कालवचनस्याऽपि स्त्रीलिङ्ग- स्य पौर्णमासीशब्दस्य कर्मनामधेयत्वे 'पूर्णमास' इति पुलिङ्गत्वविकारयोर्दर्शनात् । न चायं पूर्णमास- शब्दो न पौर्णमासीशब्दविकारः किं तु पूर्णो मासोऽ स्मिन्निति व्युत्पत्तावन्यपदार्थस्य पुल्लिङ्गस्य तिथेविशेष्य- त्वात्तिथिविशेषवचन एव । तेन नायं दृष्टान्त इति वाच्यम् । “लिङ्गमशिष्यं लोकाश्रयत्वात्तस्य” इति महाभाष्यकारवचनाऽनुरोधेन लिङ्गमात्रविकारस्याऽप्र- योजकत्वात् । किं च नवरात्राभिध कर्म नक्तव्रतमिति श्रुतम् ।

८ नवरात्रप्रदीपे- धर्मार्थकाममोक्षार्थमनुष्ठेयं द्विजातिभिः ॥ इतिनृसिंहप्रसादोदाहृतभविष्योत्तरवाक्ये "नव- रात्राभिधं कर्म" इतिश्रुत्यैव साक्षान्नवरात्रशब्दस्य क- मनामधेयत्वमाविष्कृतमित्यलं बहुनोक्तेन । तस्मान्नव रात्रशब्दः कर्मनामधेयमिति सिद्धम् । एवं युक्तिमुक्ता- करम्बिते वचनचिन्तामणौ द्युमणौ परिस्फुरति नवरा- त्रशब्दस्य नामधेयत्वमनङ्गीकुर्वतां प्राच्यानामतितरां तमोवलितत्वमवगम्यते । ननु नवरात्रकालसम्बन्धस्य तिथिहासवृद्ध्यादावसत्वेनानियतत्वात्कथं नवरात्रशब्दप्र- वृत्तिनिमित्ततेति चेत् मैवम् । रात्रिशब्दस्य तिथिपर- त्वात् । तिथिपरता चाऽवश्यं तस्य वाच्या । अन्यथा कालपरतायामपि तस्य तिथिवृध्यादौ विवक्षितार्थाऽसि- देः । अत एव डामरकल्पे- तिथिवृद्धौ तिथिहासे नवरात्मपार्थकम् । इति साक्षादेवाऽभिहितम् । न च प्रतिपदमारभ्य यथा नवाहोरात्राणि व्याप्नोति व्रतं तथा कार्यमिति वाच्यम् । तथा सति तिथिक्षयवशेनाष्टरातादौ नवम्यां पारणविधानाऽनुपपत्तेः । न चास्तु तथेति वाच्यम् ।

९
-
रात्रिपदार्थनिर्वचनम् ।
दशम्यां पारणनिषेधात् । तस्य चाऽग्रे वक्ष्यमाणत्वात् ।
तस्माद्रातिशब्दस्तिथिपरः । एवं च भविष्यपुराणीयं
लिङ्गमपि घटते । यथा-
प्रथमा द्वितीया तृतीया चतुर्थी च नराधिप!।
एतास्तु एकभक्तेन प्रवदन्ति मनीषिणः ॥
पञ्चमी च तथा षष्ठी सप्तमी चाष्टमी नृप ! ।
उपवासपरो भूत्वा पूजयेञ्चण्डिका बुधः ॥ इति
तथा भविष्योत्तरेपि-
प्रतिपद्याहृतं खड़े द्वितीयायां धृतं धनुः ।
तृतीयायां करे चक्रं चतुर्थी चर्म निर्मलम् ॥
पश्चम्यामाददे शूलं षष्ठयां तु परशुं तथा ।
गदामबिभ्रत्सप्तम्यामष्टम्यां शक्तिमुत्तमाम् ।
नवमी च सदा देव्या मूर्ति त्यविनाशनी॥ इति ।
यद्यहोरातपरतैव विवक्षिता स्यात्तर्हि प्रतिपदादि-
शब्दै भिदध्यात्, किं तु प्रथमाहादिशब्दै—पात् ब्रूते
च तथा । तस्मात्तिथिपर एवं रात्रिशब्दः । एवं च
तिथिवृद्धौ तिथिहासे नवरात्रमपार्थकम्
इत्यपि डामरकल्पीयं वचनं सङ्गच्छते । अत एव
२

नवरात्रमदीपे- देवीपुराणे आहत्यैत्र नवतिथय इत्युक्तम् । यथा-- आश्विने प्रतिपन्मुख्याः पुण्यास्तु तिथयो नव । देविकापूजने प्रोक्ताः सर्वकामफलप्रदाः ॥ इति । एतेन "दशरात्रमशौचकम्" इत्यादी दशरात्र- शब्दवदेव नवरात्रशब्दोऽपि नवाऽहोरात्रपर इति निर- स्तम् । न च तत्रापि तिथिपरताया मानमस्ति । वस्तु- तस्तूत्पत्तिवाक्ये कालसम्बन्धो नियतोऽपेक्षितः। यथाग्ने- याद्युत्पत्तिवाक्ये दर्शादिसम्बन्धः । तस्यैव शब्दप्रवृत्ति- निमित्तत्वात । न तु प्रयोगकालीनस्य । तस्याऽप्रयोज- कत्वात् । प्रकृते त्वस्ति नियम एव (?) उत्पत्तिवाक्येऽ सौ । उत्पत्तिवाक्यं च नारदीये श्रुतम्- आश्विनस्य सिते पक्षे नवरात्रव्रतं शुभम् । आदौ प्रतिपद प्राप्य तिथिं चण्डीमन प्रियाम्।। इति । कर्यादिति शेषोऽर्थसिद्ध 'एन । रुद्रयामलेऽपि- आश्विने मासि सम्प्राप्ते शुक्लपक्षे विधेस्तिथिम् । प्रारभ्य नवरात्रं स्यादुर्गा पूज्यातु तत्र वै॥ इत्यादि । अनयोश्चान्येषां च भविष्यभविष्योत्तरादीनां भूय- स्त्वेन "उभयश्रुति" इनिन्यानोत्पत्तिरवसया ।

नवरात्रस्य नक्तवतत्वम् ।
अथेदं विचार्यते-एकभक्तनक्ताऽयाचितोपवासत्रता-
नामिदं कतमदिति । तत्र चतुर्विधमपीति प्राप्तम् , प्रका-
रचतुष्टयस्याऽपि तत्र श्रूयमाणत्वात् । तथा हि
नृसिंहप्रसादोदाहनेषु स्कान्दमार्कण्डेय भविष्योत्तरेषु-
एकभक्तेन नक्तेन स्वशक्त्याऽयाचितेन च ।
अथ वा सर्वनक्तैश्च नवरात्र समापयेत् ।।
कालिकापुराणेऽपि-
अथ वा नवरात्रं च सप्तपञ्चत्रिकादि वा ।
एकभक्केच नक्तेनाऽयाचितोपोषितैः क्रमात् ॥
नारदीयेपि-
स्वयं नियमतः कुन्निवरात्रमुपोषयन् ।
पयोबतफलाशित्वं नक्तभोज्यमयाचितम् ॥
एकभक्तं च सुभगे यथाशक्त्या समाचरेत् ।
रुद्रयामलेपि-
उपोषणेन नक्तेन एकभक्तेन वा पुनः ।
हविष्यान्नेन वा देव प्रत्यहं पूजयेच्छिवाम् ॥
भविष्यपुराणेऽपि-
अपाची त्वथ वैकाशी नक्काशी त्वथ वाखदः ।

नवरात्रप्रदीपे-
NRNA
आरभ्य नन्दिकां राजन् ! यावद्धि नवमी भवेत् ॥
वायवदा वायुभक्षः । नन्दिका प्रतिपदा । प्रथमो-
पस्थितत्वात् । तथा भविष्योत्तरे--
नवरात्रोपवासेन यथाशक्त्या नृपोत्तम !।
मासे चाश्वयुजे शुक्लपक्षे फलमुदीयते ॥
एवं च विन्ध्यवासिन्यां नवरात्रमुपोषितः ।
इत्यादिवाक्यैर्नवरात्रे
प्रकारचतुष्टयाऽऽम्नानाच्चतु-
विधत्वमिति । अत्रोच्यते नेदं चतुर्विधं किं तु नक्तव्रतमेव ।
नक्तवतमिदं पार्थ ! सर्वपापप्रणाशनम् ।
सर्वकामप्रदं नृणां सर्वशत्रुनिबर्हणम् ॥
नवरात्राभिधं कर्म नक्तव्रतमिति श्रुतम् ।
धर्माऽर्थकाममोक्षार्थमनुष्ठयं द्विजातिभिः ।।
आश्विने मासि मेघान्ते प्रतिपद्या तिथिर्भवेत् ।
तस्यां नक्तं प्रकुर्वीत रात्री देवीं च पूजयेत् ॥
रात्रिरूपा यतो देवी दिवारूपो महेश्वरः ।
रात्रिवतमिदं देवि ! सर्वपापप्रणाशनम् ॥
सर्वकामप्रदं नृणां सर्वशत्रुनिबईणम् ।
रात्रिव्रतमिदं तस्य रात्रौ कर्त्तव्यतेष्यते ॥

नवरात्रस्य नक्तव्रतत्वम् । १३ नक्तव्रतमिदं यस्मादन्यथा नरके गतिः । मासि चाश्वयुजे शुक्ले नवरात्रे विशेषतः ॥ सम्पूज्य नवदुर्गा च नक्तं कुर्यात्समाहितः । आश्विने मासि मेघान्ते महिषासुरमर्दिनीम् ॥ निशास पूजयेद्भक्त्या सोपवासादिकः क्रमात् । इत्यादिनृसिंहप्रसादोदाहृतस्कान्दभविष्योत्तरभाविष्य- कालिकापुराणदेवीपुराणादिवाक्थैनक्तव्रतत्वप्रतिपाद- नात् । किं च एकभक्तादिषु चतुर्वपि विलक्षणका- लव्यापिन्याय एव । तिथेरङ्गत्वात् । चतुर्विधे च तस्मिन्ने- कभक्ताद्यन्यतमकालव्यापिन्यास्तिथरुपादातुमशक्यत्वात् । चाश्रवणादङ्गीभूततिथेरुपादानमशक्य स्यात् । न चैकभक्तादीनां "अयाची त्वथ वैकाशी" इत्यादिना वैकल्पिकानां मध्ये यदा येन नवरात्रं समाप- नीयम् , तदा तदुक्तकालव्यापिनी तिथिरुपादेयेति वाच्यम् । प्रकारान्तरस्य अथ वा नवरात्रं च सप्तपञ्चत्रिकादि वा एकभक्तेन नक्तेनाऽयाचितोपोषितैः क्रमात ॥

१४ नवरात्रप्रदीपे- इत्यादिना प्रतिपदादितिथिषु क्रमविहितैश्चतुर्भि- रपि मिलितैनवरात्रसमापने तिथ्युपादानाऽसम्भवात् । न च प्रतिपदादितिथिषु क्रमेणैकभक्ताद्यनुष्ठाने विहिते एकभक्तायुक्तकालव्यापिन्यामेकेनैवैकभक्तादिकमनुष्ठेयमि- ति वाच्यम् । प्रतिपदादिक्रमेणैकभक्ताद्यनुष्ठाने तिथेहीं- सवृद्ध्यादौ तत्तत्कालव्यापित्वाऽसम्भवेन तदनुष्ठानाऽ सम्भवात् । नन्वेतस्य नक्तव्रतत्वमनुपपन्नम् । तद्धि नक्तव्रतमित्युच्यते यत्र दिवाभोजनपरित्यागेन रात्रिभो- जनं फलार्थ विधीयते । यथा हि वाराहपुराणे- मार्गशीर्षे सिते पक्षे प्रतिपद्या तिधिर्भवेत् । तस्यां नक्तं प्रकुर्वीत रात्री विष्णुं च पूजयेत् ॥ इत्यत्र व्याख्यातं माधवाचार्यैः । न च प्रकृते तथा । एकभक्तनक्ताऽयाचितोपवासानां चतुणी श्रूय- माणत्वात् । न च चतुष्टयमेककाले विधातुं शक्यते । तस्य विलक्षणस्यैव तत्तदङ्गत्वात् । न चैषां प्राधान्यम् । फलसम्बन्धाऽश्रवणात् । तस्मात्कथमस्य नक्तव्रतत्वमिति चेत् उच्यते- प्रारभ्य नवरात्रं स्याद् दुर्गा पृज्य तु तत वै ।

नवरात्रस्य नक्तत्रतत्वम् ।
१५
इत्याद्युत्पत्तिवाक्ये नवरात्रकालसम्बन्धेनोत्पन्ना पू-
जा, सैव च नवरातरूपकालसंयोगेन निमित्तेन नवरा-
वशब्दाऽभिधेया। ततश्च
यावजीवं नरः स्त्री वा नवरात्नं महाव्रतम् ।
कुरुते चण्डिकाप्रीत्यै भुक्तिं मुक्तिं च विन्दति ।।
इत्यादिविनियोगविधिना नवरात्रशब्दनोपादाय सैव
च भुक्त्यादिफले विनियुज्यते । तेनाऽत्र पूजैव प्रधा-
नम् । यथा “दर्शपूर्णमासयोरिज्याप्राधान्यमविशेषात"
इत्यत्राऽमावास्थापौर्णमासीकालसंयोगेनोत्पन्नानामाग्नेयादी-
नां तत्कालसंयोगेनैव निमित्तेन दर्शपूर्णमासशब्दोपा-
चानां फलसम्बन्धात्प्राधान्यमुक्तं, तद्वत्प्रकृतेऽपि ।
तथा च प्रधानभूतायाः पूजाया नक्तकाले विहितत्वा-
नक्तव्रतत्वम् । एतस्य विधानं च रूपनारायणीयो-
दाहृतदेवीपुराणे-
आश्विने मासि मेघान्ते महिषासुरमर्दिनीम् ।
देवीं सम्पूजयित्वा ये अर्द्धरात्रेऽष्टमीषु च ।। इति ।
तथा तवैव--
मातॄणां
चैव देवीनां
पूजा
कार्या तदा निशि। इति

१६ नवरात्रप्रदीपे- कालिकापुराणेऽपि- आश्विने मासि नेघान्ते प्रतिपद्या तिथिर्भवेत् । तस्यां नक्तं प्रकुर्वीत रातो देवीं च पूजयेत्॥इत्यादि। तस्माद्यत्र प्रधानं च नक्तकाले विधीयते तदेव न. क्तव्रतम् । न तु नक्तकालभोजनमात्रप्रयुक्तं नक्तव्रत- त्वम् । येनोक्तदोषः स्यात् । एकभक्तनक्ताऽयाचितोपवा- सानां च फलिसंस्कारद्वारा वैकमङ्गत्वं तत्राऽपि “फलस्य कर्मनिष्पत्तः, तेषां लोकवत्परिमाणतश्व फलविशेषः स्यात्" (जै.सू.१-२-१-१७) इतिन्यायेन प्रधानो- पकारतारतम्येन फलतारतम्यं कल्प्यम् । तेनैकभक्तादि- चतुष्टयप्रतिपादकवाक्यानां नानर्थक्यविरोधादिकं श- यम् । तस्मान्नवरात्राभिधं कर्म नक्तव्रतमिति सिद्धम् । अत एव वचननिचयात् । माधवाचार्यैरपि तस्य नक्त- व्रतत्वात्' इत्यनेन नक्तव्रतत्वं सिद्धान्तितम् । यत्तु नृसिंहप्रसादोदाहृतस्कान्दभविष्यादिवाक्यानां निर्मूलत्वे तत्र तत्राऽनुपलब्धिः, अनेकनिबन्धाऽपरिग्रहश्च हेतु- रित्युक्तम् , तपनारायणीयादिसर्देशीयशिष्टपरि- गृहीतनिबन्धेषु प्रत्यक्षपरिदृश्यमानानामपि वचनानां नवरात्रारम्भदिननिर्णयः १७ करकङ्कणन्यायेनाऽपलापकौशलमायुप्मताम् । यत्पुनरेतेन तस्य नक्तवतत्वादिति वदन्माधवोऽपि प्रत्यादिष्ट इति, तदपि भ्रान्तप्रलपितमेवेत्युपेक्षणीयम् । यतो ऋङ्मात्त्रा नभिज्ञैराधुनिकैश्चतुर्विंशतिशाखापारदृश्वनामार्याणां माध- वाचार्याणामधिक्षेपः कलिकालप्राबल्यमाचष्टे । तस्य चाश्विन शुक्लप्रतिपद्यारम्भः । तदुक्तं नार- दीयपुराणे- आश्विनस्य सिते पक्षे नवरात्रवतं शुभम् । आदौ प्रतिपदं प्राप्य तिथिं चण्डीमन.प्रियाम् ॥ इति तथा रुद्रयामलेपि- आश्विने मासि सम्प्राप्ते शुक्लपक्षे विधेस्तिथिम् । प्रारभ्य नवरात्रं स्याद् दुर्गा पूज्या तु तत्र वै ॥ इत्यादि । एवं प्रतिपद्यारम्भे सिद्धे विचार्यते, कस्यां प्रति- पदि तदारम्भणीयमिति । तत्र हि प्रतिपद्विविधा । शुद्धा विद्धा च । तत्र शुद्धा तावत्सूर्योदयमारभ्य पुनः सूर्योदयर्पयन्तकालव्यापिनी । तदुक्तं नारदीये- आदित्योदयवेलाया आरभ्य षष्टि नाडिकाः । तिथिस्तु सा हि शुद्धा स्यात्सातिथ्यो ह्ययं विधिः॥ इति । ३ १८ नवरात्रप्रदीपे- विद्धा तु सूर्योपलक्षिते काले त्रिमुहूर्ततिथ्यन्तर- युक्ता साऽपि द्विविधा पूर्वोत्तरतिथियोगात् । तदाह पैठीनसि:- पक्षद्वयेऽपि तिथयस्तिथि पूर्वी तथोत्तराम् । त्रिभिर्मुहूत्तैर्विध्यन्ति सामान्योऽयं विधिः स्मृतः ॥ इति तेनाऽयमर्थः--यदोदयोत्तरकालं पुर्वेद्युस्त्रिमुहूर्त्ता अ. मावास्या उपरिष्टात्सर्वाऽपि प्रतिपत्, तदा सा अमा- विद्धेत्युच्यते । यदा पुनः परेधुरस्तमयात्प्राक् त्रिमुहू- र्तात् द्वितीया तदधस्ताच्च प्रतिपदेव सा द्वितीयावि- इत्युच्यते । एवममाद्वितीयाविद्धयोनिद्वयवर्तिन्योः प्र- तिपदोर्मध्ये कतरा ग्राह्येति, तत्र सामान्यविशेषाभ्यां निर्णयः । सामान्यतस्तावन्निगमवाक्येन प्रतिपद्यप्यमावास्यातिथ्योर्युग्मं महाफलम् । इति । पैठीनसिस्कन्दव्यासा अप्याहुः- प्रतिपन्नवमी चैव कर्त्तव्या सम्मुखी तिथिः । सम्मुखी नाम सायाह्नव्यापिनी दृश्यते यदा ॥ प्रतिपत्सम्मुखी कार्या या भवेदापराह्निकी।

प्रतिपनिर्णयः प्रतिपरसैव विज्ञयों या भवेदापराह्निकी । दैव कर्म तथा ज्ञेयं पित्र्यं च मनुरब्रवीत ॥ इति । माधवीयेऽपि- एकादशी तथा षष्ठी अमावास्या चतुर्थिका । उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः ॥ इति । एतैर्वाक्यैः शुक्लप्रतिपन्मात्रस्याऽमावेधेऽपि पूज्य- वं प्रतीयते । यत्त्वापस्तम्बभविष्योत्तराभ्यां- प्रतिपत्सद्वितीया स्याद् द्वितीया प्रतिपाता। इतिवचनेन सामान्यतः प्रतिपदो द्वितीयायुक्तत्वमुक्त तत्कृष्णप्रतिपद्विषयमिति माधवाचार्याः । तिलकाऽशो- ककरवीरव्रतविषयम् । तेषां पूर्वाह्वे विधानात, इत्यन- न्तभट्टाः। सोऽयं सामान्यनिर्णयः । विशेषनिर्णयस्तु नृसिंहप्रसादे- अमायुक्कैव कर्तव्या प्रतिपच्चण्डिकार्चने । न ग्राह्या परसंयुक्ता शुद्धा सन्तानकाक्षिभिः । लल्लसहितायाम्-- द्वितीयाशेषसंयुक्ता प्रतिपञ्चण्डिकार्चने । -

२०
नवरात्रप्रदीपे-
मोहादथोपदेशाद्वा कृतं पुत्रविनाशकम् ॥
आरम्भे नवरात्रस्य द्वितीया त्रुटिसम्मिता ।
न केवलं तिथिं हन्ति वेधात्सा पुत्रसम्पदम् ॥
तथा-
द्वितीयादिकलोपेता प्रतिपच्चण्डिका–ने ।
वर्जनीया प्रयत्नेन विषलेशो यथाऽम्भसि ॥
यदि मोहात्प्रकुर्वीत ज्येष्ठपुत्रो विनश्यति ।
धवलनिबन्धेऽपि-
श्रीदेव्युवाच--
प्रतिपच्छेषसंयुक्तद्वितीयायां ममार्चनम् ।
कृत धर्म नाशयति सन्ततिं पुत्रपौत्रिकीम् ॥
अमायुक्तैव सा ग्राह्या प्रतिपच्चण्डिकाचने ।
अन्यथाकरणे तावद्राज्यभङ्गः प्रजायते ॥
इत्यादिवाक्यैर्द्वितीयायुक्तप्रतिपन्निषेधात, अमायु-
क्तप्रतिपदि देवीपूजाविधानाच्च सामान्यतो विशेषतो-
ऽप्यमायुक्तप्रतिपद्येव नवरात्रारम्भ इति सिद्धम् । अत्र
केचित् द्वितीयायुक्तप्रतिपदि तदारम्भमिच्छन्तो वा-

प्रतिपनिर्णयः
२१
mamme
mamaAR
क्यान्युदाहरन्ति । तथा हि तत्र सामान्यतस्तावत्सौ-
रपुराणे--
मासे सम्वत्सरे वाऽपि तिथिद्वैधं यदा भवेत् ।
तदोत्तरा तिथिमा॑ह्या न पूर्वा तु मलिम्लुचा ॥ इति ।
भविष्यपुराणेपि-
यथा द्वादशभिर्मासैर्मासो वृद्धो मलिम्लुचः ।
तथा तिथिस्त्वहोरात्रा वृद्धेः प्रोक्ता मलिम्लुचा ॥
यथा मलिम्लुचः पूर्वो मासो देवस्तथोत्तरः ।
त्याज्या तिथिस्त्वहोवृद्धौ ग्राह्या चवोत्तरा तिथिः॥ इति ।
विशेषतस्तु-
तिथीनां प्रवरा यस्माद् ब्रह्मणा समुदाहृता ।
प्रतिपादिता यदा पूर्व प्रतिपत्तेन सोच्यते ।।
तिस्रो हताः पराः प्रोक्तास्तिथयः कुरुनन्दन !।
कार्त्तिक्याश्वयुजे मासि चैत्रे मासि च भारत ॥ इति ।
पराः परयुताः । देवीपुराणेऽपि-
आश्विनस्य सिते पक्षे प्रतिपत्सु यथाक्रमम् ।
सुस्नातस्तिलतैलेन पूर्वाह्ने पूजयेच्छिवाम् ॥ इति ।
।
ANNA

नवरात्रमदीपे- अत्र पूर्वाह्नोपादानात्पूर्वाह्नव्यापित्वं निश्चीयते । तथा- वर्जनीया प्रयत्नेन अमायुक्ता तु पार्थिव ! द्वितीयादिगुणैर्युक्ता प्रतिपत्सर्वदा शुभा ॥ इति । मनुरपि- यो मां प्रपूजयेन्नित्यं द्वितीयादिगुणान्विते । प्रतिपच्छारदि (?) ज्ञाता सोश्नुतेऽफलमव्ययम् ॥ यदि मोहात्प्रकुरुते प्रथमे स्थापनं मम । तस्य शापाऽयुतं दत्त्वा भस्मशेष करोम्यहम् ॥ आग्रहात्कुरुते यश्च प्रथमे स्थापनं मम । तस्य सम्पादनाशः स्याज्ज्येष्ठः पुत्रो विनश्यति ॥ पुनरपि मनुरेव- पूर्वविद्धा तु या शुक्ला भवेत्प्रतिपदाश्विनी । नवरात्रव्रतं तस्यां न कार्य शुभमिच्छता ॥ देवीपुराणेपि- देशभङ्गो भवेत्तत्र दुर्भिक्षं चोपजायते । नन्दायां दर्शयुक्तायां यत्र स्यान्मम पूजनम् ॥

प्रतिपनिर्णयः। २३ तस्माद्भद्रान्विता राजन् ! नवरात्रे प्रशस्यते । आश्विने मासि मे भक्तैः कर्त्तव्या शुक्लपक्षजा ॥ प्रतिपत्रिमुहूर्त्ता या पुत्रपौत्रप्रवर्द्धिनी । धनवृद्धिकरी पुंसां सर्वसौख्यकरी तथा ॥ अतोऽन्यथा न कर्तव्या नवरात्रव्रते मम | इत्यादि । मार्कण्डेयोऽपि- सुस्नातस्तिलतैलेन चापराहे महामुने !। प्रतिपद्याविने मासि शुद्धे विद्वेऽथ भद्रया ॥ एवं शुद्धे च विद्वे च भद्रया प्रतिपत्तिथौ । भद्रकाली स्तुवीतार्या श्रद्धाभक्तिसमन्वितः ॥ इत्यादीनि तत्रेदमुत्तरम्-भवदुदाहृतेषु हेमाद्रि- माधवीय-चन्द्रिका-कल्पतरु-कालादर्श-निबन्धप्त- वस्व-स्मृतिसङ्ग्रह-दुर्गोत्सव-भोजराजीय-रूपनारा- यणीय-निर्णयामृत-धर्मप्रदीपादिनिबन्धेष्वपि चिन्ता मणि-वर्षप्रदीप-रत्नाकर-पारिजात-राजमार्तण्ड-प्र- तापरुद्रीय-हरनाथ-सययप्रकाशादिष्वप्यदर्शनात्समू- लत्वाऽनिश्चये कथमेपु विश्वासः । अस्तु वा समूलत्वं, नवरात्रप्रदीपे- तथाऽपि नास्मत्सिद्धान्तविरोधिता। तथा हि न ता- वत्सौरभविष्यपुराणीयवाक्यैरभीष्टसिद्धिरायुष्मताम् । ते- षां तिथिमात्र_धे उत्तरतिथिग्राह्यत्वप्रतिपादकानां सामा- न्यरूपत्वात् । निगमपैठीनसिस्कन्दव्यासादिवाक्यैः शु- क्लप्रतिपन्मात्रस्यामायुक्तस्य ग्राह्यत्वप्रतिपादकैर्विशेषभू- तैर्बाधितत्वेन शुक्लप्रतिपद्भिन्नतिथिपरत्वं तेषां वाच्यम् , सामान्यविशेषन्यायात् , तेन न विरोधः । आवश्यक- श्वायमेतद्वाक्यसङ्कोचः श्रीमताम् । अन्यथा सर्वति- थीनामुत्रविद्धानामेव ग्राह्यत्वप्रतिपादने तिथिविशेष पूर्वविद्वाप्रतिपादकवाक्यानामानर्थक्ये कालनिर्णयमात्री- च्छेदप्रसङ्गात् । सम्भवति व्यवस्थापक्षे विकल्पानाश्र- याच्च । तेन न सामान्यवाक्यैहितीयायुक्तप्रतिपदो ग्रा- ह्यत्वं सिद्ध्यति । अथ "तिथीनां प्रवरा यस्मात्" इत्यादि- विशेषवाक्यैरेव तत्सिद्धिरिति, तत्रोच्यते-तदपि प्रतिप- न्मात्रस्य परत्वप्रतिपादकम् । अमाविद्धप्रतिपद्ग्राह्य- ताप्रतिपादकवाक्याविरोधातू । आपस्तम्बीयवाक्यवदेव कृ- एणप्रतिपद्विषयं वक्तुमुचितम् । न्यायसामान्यात् । अथ "आश्विनस्य सिते पक्षे” इत्यादिदेवीपुराणवाक्ये 8 प्रतिपनिर्णयः। २५ "पूर्वाह्ने पूजयेच्छिवाम्” इतिपूर्वाह्नपदोपादानात्पू- हिव्यापित्वं प्रतिपदः सेत्स्यतीति वाच्यम्, तत्रोच्य- ते-अत्र प्रतिपच्छब्दः प्रतिपदादिनवतिथ्युपलक्षणार्थः । "प्राणभृत उपद्धाति" इतिवत् “छत्रिणो गच्छन्ति" इतिवहा । अन्यथा एकस्यां तिथौ "प्रतिपत्सु" इतिब- हुवचनस्य "यथाक्रमम्" इतिक्रमविधानस्य चाऽनुपप- त्तेः । न च पाशबहुत्ववदेव बहुत्वाऽभिप्रायेण बहुवच- नमिति वाच्यम् । क्रमविधानस्य तथाऽप्यनुपपत्तेः । तथा च प्रतिपदादितिथिषु त्रिकालं पूजयेदेवीं त्रिकाल शिवपूजकः । इत्यादिवाक्यविहितपूजास्वाद्यपूजाकालवेन पूछ- हविधानान्न विरोधः । अन्यथा त्रिकालपूजाश्रवणात्रि- कालव्यापिन्येव तिथिग्ङ्गं स्यान्न खण्डतिथिरिति प्रधान- लोपप्रसङ्गः । किं चाऽस्य नक्तव्रतत्वप्रतिपादकेषु वा- क्येषु नक्तं पूजाश्रवणानक्तकालव्यापिनी प्रतिपत्कुतो नेष्यते ? वस्तुतस्त्वस्मिन्वाक्ये तिलतैलस्नानाङ्गत्वेन पूर्वाह्नश्रवणान्न पूजाङ्गत्वाऽसिद्धिः । तथा च डाम- नवरात्रप्रदीपे- रकल्पे आश्विनस्य मिते पक्ष प्रतिपत्सु यथाक्रमम्। सुस्नातस्तिलतैलेन पूर्वाह्न च नृपोत्तम! ॥ पुण्याहवाचनं कृत्वा द्विजांश्चैव प्रपूजयेत् ॥ इति । यान्यपि-- वजनीया प्रयत्नेन अमायुक्ता तु पार्थिव !। इत्यादीनि, अमायुक्तप्रतिपन्निषेधेन द्वितीयायुक्तप्रतिप- विधायकानि वाक्यानि तान्यपि प्रतिपदो अमायोगाऽभा- वे द्वितीयायोगमात्रसत्वे द्वितीयायुक्तप्रतिपदोऽनुपादेय- त्वशङ्कानिरसनहारा गौणकालविधानपराणि । प्रधान- कालप्रत्यासत्तेः क्रमनियामकत्वादितिन्यायात् । स्वकालादुत्तरः कालो गोणः सर्वः प्रकीर्तितः इतिवचनाच्च । ततश्वाऽमायुक्तप्रतिपदभावे द्वितीयायु- क्तायामपि प्रतिपदि तदारम्भ इति तेषामर्थः । यः पुनरमायोगनिषेधः, स विधेयस्तुत्यर्थः इति न कापि विरोधः । यहा-अमाविडप्रतिपन्निषेधोऽश्वपुजाविषयो कुहुकाष्ठोपसंयुक्तां वर्जयेत्प्रतिपत्तिथिम् ।

प्रतिपनिर्णयः राज्यनाशाय या प्रोक्ता निन्दिता साऽश्वपूजने ॥ इति निर्णयामृतोदाहृतकल्पतरुलिखितवचनात् । एवं चाऽमायुक्तप्रतिपद्ग्रहणे नवरात्राऽभिधस्य नक्त- স্বরান कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः । इत्यादिवाक्योपात्तोऽपि कालो लभ्यते । माधवाचार्य- द्वितीयाप्रकरणे कर्मकालव्याप्तिशास्त्रस्यैव शास्त्रान्तरेभ्यः प्राबल्याऽभिधानात् । दृष्ट च पार्वणादिषु । प्रतिपत्सम्मुखी कार्या या भवेदापराह्निकी । इत्यादीनि त्वनुगुणान्येव भवन्ति । यत्तु "तस्य देव- कर्मत्वात् “पूर्वाह्नो वै देवानाम्” इत्यादिश्रुत्या च दैवे कर्मणि पूर्वाह्नविधानात् पूर्वाह्नव्यापिन्यां प्रतिपदि तदारम्भसिद्धिरिति, तदपि न । प्रतिपत्सैव विज्ञेया या भवेदापराह्निकी । दैवं कर्म तथा ज्ञेयं पित्र्यं च मनुरब्रवीत् । इतिवचनेनाऽपराह्नव्यापिन्यामपि प्रतिपदि दैवकर्मविधा- नात् । न च स्मृतेः श्रुतिर्बलीयसीति वाच्यम् । तस्याः "तस्मादपराहे ददाति" इतिविधिशेषत्वेन स्वार्थाऽवि- + २८ नवरात्रप्रदीपे- धायकत्वात् । तद्यथा "निवीनं मनुष्याणां प्राचीना- वीतं पितॄणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव त- कुरुते" इत्यस्मिन्वाक्ये मनुष्यपितृसम्बन्धिनी निवी- तप्राचीनाबीते देवसम्बन्धेन विधीयमानस्योपवीतस्य स्तुत्यर्थमनुचितत्वेन निन्द्यते । तथा “पूर्वाह्नो वै देवाना मध्यन्दिनं मनुष्याणामपराह्नः पितृणं तस्मादपराह्ने ददा- ति" इत्येतदपि पितृयज्ञार्थ विधीयमानस्याऽपराह्नस्य स्तुत्यर्थं देवमनुष्यसम्बन्धिनौ पूर्वाह्नमध्यन्दिनावनुचि- तत्वेन निन्द्यते इति । यदपि गौडनिबन्धेषु- प्रातराबाहयेदेवीं प्रातरेव प्रवेशयेत् । प्रातः प्रातश्च सम्पूज्य प्रातरेव विसर्जयेत् ॥ इति भविष्योत्तरीयं वाक्यं, तदपि सप्तम्यादितिथित्रय- कर्त्तव्यपत्रिकापूजाविषयं वाच्यम् । न प्रतिपद्विषयम् । पूर्वाह्ने नवपत्रिका शुभकरी सर्वार्थसिद्धिप्रदा आरोग्यं धनदा करोति विजयं चण्डी प्रवेशे शुभा ॥ मध्याह्ने जनपीडनक्षयकरी सङ्ग्रामघोरावहाँ सायाझे वधबन्धनादिकलहं सर्पक्षतं सर्वदा ॥

प्रतिपनिर्णयः सप्तम्यामस्तगायां यदि विशति गृहं पत्रिका श्रीफलाट्या राज्ञः सप्ताङ्गराज्यं जनसुखम- खिलं हन्ति मूलाऽनुरोधात् ॥ तस्मात्सूर्योदयस्थां नरपति- शुभदां सप्तमी प्राप्य देवी भूपालो वेशयेत्तां सकलज- नहितां राक्षसर्फ विहाय ॥ इतिज्योतिषवाक्याऽनुरोधात् । यदपि नन्दिपुराणे- शरत्काले महापूजा क्रियते या च वार्षिकी । सा कार्योदयगामिन्यां न तत्र तिथियुग्मता ॥ इत्यादि, तदपि सप्तमीपूजाविषयम् । युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया। रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता ॥ इतिदेवीपुराणे सप्तमीपदश्रवणात । एवमन्यदपि व्यवस्थाप्यम् । यदपि चित्रावैधृतिपरिहारस्मरणं लोके, तन्मूलस्य पूर्वोदाहृतनिबन्धेष्वन्यतमेनाऽप्यनुदाहरणाद् भ्रममूलमित्येव गम्यते । सति तु तस्मिन्नेतावतामभियु-

नवरात्रमदीपे-
क्तानामदर्शनस्य कल्पयितुमशक्यत्वात् । यदपि-
अश्वयुक्प्रतिपद्येव शुक्लायामपराह्न के ।
कलशस्थापनं कुर्याद्धित्वा चित्रांच वैधृतिम् ॥इति ।
तथा-
खाष्ट्रवैधृतियुक्ता चेत्प्रतिपच्चण्डिकार्चने ।
तयोरन्ते विधातव्य कलशारोपणं गुह ! ॥
इति वचनं, तदप्यश्वनीराजनाङ्गकलशस्थापनविषय
गम्यते ।
आरभ्य नवरात्रं स्यात्प्रतिपद्याश्विने सिते ।
वाजिनीराजनं पश्चाद्धित्वा चित्रां च वैधृतिम् ॥
इत्यवशास्त्रीयवचनैकमूलत्वात् । अत एव ब्रह्मपुराणे
चित्रापरिहाराऽभिप्रायेणैव स्वातियोगेऽश्वपूजा विहिता ।
यथा-
अश्वयुक्शुक्लपक्षे तु स्वातियोगे शुभे दिने ।
पूर्वमुच्चैःश्रवा नाम प्रथमं सूर्यवाहनम् ॥
तस्मात्सोऽश्वचरेस्तत्र पूज्या वै श्रद्धया सदा ।
पूजनीयाश्च तुरगा नवमीं यावदेव हि ॥ इति ।

प्रतिपनिणय।। तथा निर्णयशिरोमणावपि- ततो नीराजनं कर्म प्रतिपद्याश्विने सिते । प्रारभ्य नवरात्रं स्याद्धित्वा चित्रां च वैधृतिम्॥इति । वाष्ट्रवैधृतियुक्ता चेत्प्रतिपच्चण्डिकार्चने । इतिवाक्येन चण्डिकार्चनेऽपि तयोः परिहार्यत्वमि- ति वाच्यम् । तस्य चण्डिकार्चने यद्यपि त्वाष्ट्रवैधृति- युक्ता प्रतिपत्तथाऽप्यश्वनीरजनाङ्गकलशस्थापनं तदन्त एव कार्य इत्यर्थपरत्वात् । अम्य चार्थस्य चच्छब्दे- नैव लाभात् । अन्यथा मूलान्तरकल्पनाक्लेशापत्तेः । एतेन सामान्यतश्चित्रावैधृतिपरिहारं वदन्नृसिंहप्रसादो- ऽपि तद्विषय एवेति गन्यते । विषयविशेषविवेचनं स्वाचार्यस्य वादिविवादरसेन विस्मृतम् । स्मृतमपि वा- चादिवदनविवर्णतार्थमेव नोडाटितमिति न दोषः । य- दा तु षष्टिदण्डा प्रतिपदहोरात्र व्याप्नोति वर्द्धते तदाप्या- द्याः षोडश हादश वा नाडीस्त्यक्त्वा पूजा कार्येत्युक्त देवीपराणे- शुद्धे तिथौ प्रकर्त्तव्या प्रतिपच्चोर्ध्वगामिनी ।

नवरात्रपदीपे- Haseem आद्यास्त नाडिकास्त्याज्याः षोडश द्वादशाऽपि वा। अपराह्ने च कर्तव्यं शुद्धसन्तानकाक्षिभिः॥ इति । तथा चित्रावैधृत्यादेरप्यहोरात्रव्यापित्वे षोडशैव ना- डिकास्त्याज्या इत्याह मनु:- चित्रावैधृतिसक्रान्तौ प्रतिपच्च क्षयं गता । तदा पूर्वयुना कार्या त्यक्त्वा षोडश नाडिकाः॥इति। पुर्वयुता अमायुक्ता प्रतिपच्चित्रावैधृतिसक्रा- न्तिभिः क्षयं योगं गता चेत् क्षयगामिनी वा तदा चि- त्रावैधृत्यादेः षोडश नाडिकास्त्यक्त्वा कार्येत्यर्थः । स एष चित्रावैधृतिपरिहारोऽश्वनीराजनाङ्गकलशस्थापन- विषय इत्युक्तं प्राक् । यत्वेवममायुक्तप्रतिपदि योऽयं नवरात्रोपक्रमो विहितस्तस्य सङ्कल्पः किं प्रातःकाले कार्य उत प्रतिपत्काले ? नाद्यः । अमायां प्रतिपदुपक्र- मस्य नवरात्रस्य सङ्कल्पाऽयोगात् । अत एव बौ- धायनः यो यस्य विहितः कालः कर्मणस्तदुपक्रमे । तिथिर्याऽभिमता सा कायर्या नोपक्रमोज्झिता।। इति । उपक्रमतिथिश्च प्रतिपदेवेत्युक्तं प्राक् । नापरः । तु प्रतिपदिनकृत्यनिर्वचनम् । प्रातःकालस्यैव सङ्कल्पाऽङ्गत्वात् । उक्तं च-- प्रातः सङ्कल्पयेद्विद्वानुपवासव्रतादिकम् । इति । यथा- - प्रातरारम्य मतिमान् कुर्यान्नक्तवनादिकम् । नापराहै न मध्याह्न पित्र्यकालौ हि तौ स्मृतौ॥ इति । उच्यते-प्रातरेव मङ्कल्पः कार्यः त्वदुक्तवचनात् । तदानी ज्योतिःशास्रसिद्ध प्रतिपदभावेऽपि स्मृत्युक्त- प्रतिपदः सत्त्वात् । उक्तं च देवलेन- यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः । सा तिथिः सकला ज्ञेया दानाऽध्ययनकर्मसु॥ इति । एतदेवाऽभिप्रेत्योक्तं माधवाचार्यः- अभावेऽपि प्रतिपदः सङ्कल्पः प्रातरिष्यते । इति । तस्मात्प्रातरेव व्रतसङ्कल्पं विधायाऽपराह्न कलशं संस्थाप्य नक्तकाले पूजेनि युक्तमेव सिद्धम् । तदेवं प्रतिपदि प्रारभ्य नवमीपर्यन्तं नवरात्रव्रत कुर्यात् । तदुक्तं धौम्येन- आश्विने शुक्लपक्षे तु कर्तव्यं नरात्रकम् । प्रतिपदादिक्रमणैव यावच नवमी भवेत् ॥ EDIAW RAHA ५ ३४ नवरात्रप्रदीपे- विश्वरूपेऽपि जपहोमाद्यभिधायाऽवधिरुक्तः शुक्लप्रतिपदारभ्य यावत्स्यान्नवमी तिथिः । इति । यत्तु प्रतापरुद्रीये कन्यकापूजनप्रक्रमे प्रतिपदादिपूर्णान्तं वृद्धिभेदेन पूजयेत् । इत्यनेन दशम्यन्त प्रतीयते, तदपि पूर्णा अन्ते यस्याः स इत्यतद्गुणसविज्ञानबहुव्रीहिणा पूर्णान्तशब्देन नव- मीरूपस्तिथिविशेष एव गृहीतः । तथा च द्वितीयया तदभिव्याप्तावुक्ताया नवमीपर्यन्ततैव लभ्यत इति न विरोधः । यद्धा-पूर्णायामन्तो विसर्जनं यथा भवति तथा पूजयदित्यर्थो वक्तव्यः । दशम्यामभिषेक च कृत्वा मूर्ति विसर्जयेत् । इत्यादिनैकवाक्यत्वात् । अन्यथा नवमीपर्यन्तताविधायक- वाक्यविरोधो दशमीविसर्जनबोधकवाक्यौर्भिन्नमूलता चा- स्य दुर्वारा स्यात् । तस्मात्प्रतिपदमारभ्य नवमीप- र्यन्तमेव व्रतमिति सिद्धम् । एवं च आश्विने प्रतिपन्मुख्याः पुण्यास्तु तिथयो नव । इतिपूर्वोक्तं नवतिथिसम्बव्रतगमक लिङ्गमपि सङ्ग- च्छते । तदिदं नवरात्रव्रतं नित्यम् ।

प्रतिपदिनकृत्यनिर्वचनम् । एवं तु यजनं कुर्याद्वर्षे वर्षे नराधिप ! इतिवीप्साश्रवणात् । “वसन्ते वसन्ते ज्योतिषा यजे- त" इतिवत् । तथा कालिकापुराणे भगवद्वाक्यम्- यो मोहादथ नास्तिक्याद्देवी दुर्गा महोत्सवे । न पूजयति दम्भाहा द्वेषाद्वाऽप्यथ भैरव ! ।। क्रुद्धा भगवती तस्य कामानिष्टान्निहन्ति वै । तथा- mum some यो न पूजयते सम्यक् चण्डिका भक्तवत्सलाम् । भस्मीकृत्याऽस्य पुण्यानि निईहत्यवमानिता ॥ इत्याचकरणे प्रत्यवायश्रवणाच्च । तथा फल- श्रवणाञ्च काम्यम् । तथा हि देवीपुराणे- शृणु शक्र ! प्रवक्ष्यामि यथा त्वं परिपृच्छसि । महासिद्धिप्रदं धन्यं सर्वशत्रुनिबर्हणम् ॥ सर्वलोकोपकारार्थ विशेषादामवृत्तिषु । कर्तव्यं ब्राह्मणायैश्च क्षत्रियैल्लोकपालकैः॥ गोधनार्थ तथा वैश्यैः शूद्रैः पुत्रसुखार्थिभिः । सौभाग्यार्थ तथा स्त्रीभिरन्यैश्च धनकालिभिः ॥

Wome नवरात्रपदीपे- महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् । कर्तव्यं देवराजेन्द्र! देवीभक्तिसमन्वितैः ।। इति । तेनेदं नित्यकाम्यम् । नारदीये त्वाहत्यैव नित्य- काम्यता प्रतिपादिता- यावजीवं नरः स्त्री वा नवरात्रं महाव्रतम् । कुरुने चण्डिकाप्रीत्यै भुक्तिं मुक्तिं च विन्दति ॥ इति । अत्र यावज्जीवश्रवणात्फलश्रवणाच्च नित्यकाम्यता। यत्तु तत्रैव- नववर्षाणि यावच्च नारी स्नानपरायणा । दुर्गापूजादिकं कृत्वा किं व्रतान्ते समाचरेत् ।। इतिशुद्धकाम्यवत्कालश्रवणं, तन्नित्यस्याऽप्यग्निहो- त्रादस्त्रिंशद्वर्षादिकालश्रवणवदशक्तस्य वैकल्पिककाला- न्तरविधानेनाऽविरुद्धमिति । तच द्विविधं शारदं वासन्तिकं च । तदुक्तम्- शरत्काले महापूजा क्रियते या च वार्षिकी ।इति । वर्षादी भवा वार्षिकीति व्युत्पत्त्या चैत्रशुक्ल प्रतिपदा- दिषु क्रियमाणा लभ्यते । ये तु शरत्कालीनमहापूजा- या एव चतुर्मासात्मकवर्षर्तुभवत्वाद्वार्षिकीति विशेषण-

प्रतिपदिनकृत्यनिर्वचनम् ।
३७
माहुस्ते चाऽर्थेऽप्यव्युत्पन्ना उपेक्षणीयाः । किं च---
वासन्ते नवरात्रे तु पूज्या स्याद्रक्तदन्तिका ।
इत्यादिना रुद्रयामले स्पष्टतयैव भेद उपपादितः ।
तस्मात्सिद्धं दैविध्यम् ।
अथाऽधिकारिनिर्णयः॥
भविष्योत्तरे-
पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे ।
गृहे गृहे शक्तिपरैमे ग्राम वने वने ॥
शक्तिपरैश्चण्डिकापरायणैः।
स्नातैः प्रमुदितैर्दृष्टैर्ब्राह्मणैः क्षत्रियविशैः ।
शूद्वैभक्तियुतम्लेंच्छैरन्यैश्च भुवि मानवैः ।।
स्त्रीभिश्च कुरुशार्दूल ! तद्विधानमिदं श्रुणु ।
म्लेच्छ शबर-किरात-पुलिन्दादिभिः ।
भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ।
इत्यमरोक्तेः। अन्यैरनुलोमप्रतिलोमजैः । देवीपुराणे
ब्रह्मवाक्यम्-
शृणु शक्र ! प्रवक्ष्यामि यथा त्वं परिपृच्छसि ।
महासिद्धिप्रदं धन्यं सर्वशत्रुनिबईणम् ॥

नवरात्रप्रदीपे- - सर्वलोकोपकारार्थ विशेषादसिवृत्तिभिः । कर्तव्यं ब्राह्मणाद्यैश्च क्षत्रियोकपालकैः ॥ गोधनार्थ तथा वैश्यैः शूद्रैः पुत्रसुखार्थिभिः । सौभाग्याथै तथा स्त्रीभिरन्यैश्च धनकातिभिः ।। महावत महापुण्यं शङ्कराद्यैरनुष्ठितम् । कर्तव्यं देवराजेन्द्र ! देवीभक्तिसमान्वितैः ।। अथ पूजाकर्तृनियमाः। देवीपुराणे- अयाची त्वथ वैकाशी नक्ताशी त्वथ वाय्वदः । प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः ॥ जपहोमसमासक्तः कन्यका भोजयेत्सदा । एकाशी एकभक्ताशी । वावदो वायुभक्षः । जितद्वन्द्वः शीतोष्णक्षुत्पिपासादिद्वन्द्वदुःखेष्वनुद्विग्नः । शिवा दुर्गा तत्पूजकः । छान्दसः पुंबद्भावः । त्रिकालं पूजयेद्देवीं जपहोपरायणः । इति तत्रैव श्रवणात् । यहा-शिवश्च शिवा च शिवौ तयोः पूजकः शिवपूजकः । इयं चाङ्गभूना त्रिकाल- पूजा । प्रधानभूता तु नक्तकाल एव । उक्तं चैतत्प्रा- प्रतिपदिनकृत्यनिर्वचनम् । Poonam .. । man- गैव । तथा कुलपूज्याऽपि देवी पूजनीया । तदुक्तं व्रतखण्डे- यस्य यस्य हि या देवी कुलमार्गेण संस्थिता । तेन तेन च सा पूज्या बलिगन्धाऽनुलेपनैः ॥ नैवेद्यर्विविधैश्चैव नवरात्रे समन्वितः । नानाविधैः सुकुसुमैः पूजयेत्कुलमातरम् ॥ तथा प्रत्यह कुमारीभोजनं कार्यम् । तदुक्तं स्कान्दे- एकैकां पूजयेत्कन्यामेकवृद्धां तथैव च । द्विगुणं त्रिगुणं वाऽपि प्रत्यकं नवकं तथा ॥ एकवर्षा तु या कन्या पूजार्थ तां विवर्जयेत् । गन्धपुष्पफलादीनां प्रीतिस्तस्या न विद्यते ॥ अरोगिणी सुपुष्टाङ्गी सुरूषां ब्रह्मवार्जिताम् । समानवंशसम्भूतां कन्यां सम्यक् प्रपूजयेत् ॥ वंशस्य समानत्व पूजकवंशाऽपेक्षया । तेन ब्राह्म- णस्य ब्राह्मणी क्षत्रियस्य क्षत्रिया इत्यादि वक्ष्यते । कामनायां पुनर्विशेषस्तत्रैव-- ब्राह्मणी सर्वकार्येषु जयार्थे नृपवंशजाम् । लाभार्थे वैश्यवंशोत्था सुतार्थे शूद्रवंशजाम् ॥

नवरात्रप्रदीपे- दारुणे त्वन्त्यजातीनां पूजयविधिना नरः। भोजयेत् श्वेतवस्त्रैश्च गन्धपुष्पाऽक्षतादिभिः ।। वर्षविशेषेण कन्यानामान्युक्तानि धौम्येन- एकवर्षा भवेत्साध्या द्विवर्षा च सरस्वती। त्रिवर्षा तु विमूर्तिः स्याच्चतुर्वर्षा तु कालिका ॥ सुभगा पञ्चवर्षा स्यात्षड्वर्षा तु उमा भवेत् । सप्तभिर्मालिनी सा स्यादष्टवर्षा तु कुब्जिका ॥ नवभिः कालसंवर्षा दशभिश्चाऽपराजिता । एकादशेऽब्दे विन्द्राणी द्वादशेऽब्दे तु भैरवी ॥ त्रयोदशे महालक्ष्मीहि सप्ताऽपीह मायिका । क्षेत्रजा पञ्चदशभिः षोडशे वर्चिका मता ॥ पूज्या सा यावत्पुष्पं न विद्यते । तच्च कलशस्थापनपूर्वकं कार्यम् । तदुक्तं नारदीये- ततस्त्वेकमना भूत्वा कृत्वा गोमयमण्डलम् । मृत्तिकास्थण्डिले स्थाप्य कलश जलसम्भृतम् ॥ सपल्लवं सवस्त्रं च स्वर्णमुद्रासमन्वितम् । सपूर्णपात्रं निक्षिप्य दुर्गा तत्र तु विन्यसेत् ॥ एवं क्रमेण

पूनानियमाः।
यथोक्तेन विधानेन पूजयेद्भक्तिमान्नरः ।
यवगोधूमधान्यानि वापयेत्तरितस्ततः ॥
तथा डामरकल्पे-
शरदृताविषे मासि शुक्लपक्षे नृपोत्तम ! ।
प्रतिपत्तिथिमारभ्य नवचण्डी समारभेत् ॥
कलशं सर्वरत्नाढ्यं हेमवस्त्रोदकान्वितम् ।
सम्प्रतिष्ठाप्य सम्पूज्य चण्डिकार्चनमारभेत् ।।
तत्रैव यन्त्रोद्धारे-
शृणु राजन्प्रवक्ष्यामि चण्डिकायन्त्रमुत्तमम् ।
आश्विनस्य सिते पक्षे प्रतिपत्सु कथाक्रमम् ॥
सुस्नातस्तिलतैलेन पूर्वाह्ने च नृपोत्तम ! ।
पुण्याहवाचनं कृत्वा द्विजांश्चैव तु पूजयेत् ॥
ततश्च कारयेद्वेदि सप्तधान्ययुतां नृप ! |
स्थापयेत्पूर्णकलशं पञ्चरत्नसमन्वितम् ॥
वस्त्रे चारक्तके चैव सैल्लिखद्यन्त्रमुत्तमम् । इति ।
तथा तत्रैव नवचण्डीविधाने-
आश्विने प्रतिपन्मुख्याः पुण्याः स्युस्तिथयो नव ।
चण्डिकापूजने प्रोक्ताः सर्वकामफलप्रदाः ॥
६

४२ नवरात्रपदीपे- स्नात्वा शुक्लतिलैम्तोये गङ्गायाः शुचिमानसः । गृहे वा देवतास्थाने कुर्यात्कुसुममण्डपम् ॥ वस्त्रैः परिवृतं सम्यक् नानावणैः सुशोभनैः । पगैश्च नारिकेलैश्च जम्बीरैर्मातुलिङ्गकैः ॥ अन्यैश्च बहुपुष्पैश्च शोभितं फलसञ्चयः । तत्र मध्ये मृदः कार्यमालवालं मनोरमम् ॥ निःक्षिपेत्तत्र धान्यानि ततः सिञ्चेजलैः शुभैः तत्रोपरि न्यसेत्कुम्भं जलपूर्ण नवं शुभम् ॥ सुवर्ण निक्षिपेत्तत्र गन्धपुष्पैः समर्चयेत् । पुष्पमालावृतं कुर्यात्प्रतिष्ठामन्त्रमन्वितम् ॥ पुरस्तात्तस्य कुम्भस्य जपेत्सप्तशती बुधः ॥ इति। देवीपुराणेपि- पूज्या मङ्गलकुम्भस्था देवी देवगणैर्युता ॥ इति । एतेन कलशस्थापनमाचारमात्रकममूलमिति स्वज्ञान- स्यैवाऽमुलतामाह । तथा च तत्रैव ब्रह्मपूजनं का- र्यम् । तदुक्तं महार्णवे-- पञ्चाशादिः कुशैः कार्यों ब्रह्मा पश्चान्मुखैः स्थितः । संस्नातः स्थापितः कुम्भे चतुर्बाहुश्चतुर्मुखः ॥

नवरात्रत्रतविधिः। वत्सजान्वाकृति वेदमुत्तराः कुशैः कृतः । ब्रह्मोपधाने कृत्वा तं ततः स्वस्त्ययनं पठेत् ।। प्रतिष्ठां कारयेत्पश्चात्पूजाद्रव्यमथोच्यते । इत्यभिधाय "ब्रह्मजज्ञानम्” इति वा गायच्या वा पूजयेत् । उपाध्यायं च सम्पूज्य यथापाठ पठेत्ततः । इति । अथ नवरात्रव्रतविधिः। नारदीयपुराणे- MIND अरुन्धत्युवाच- व्रतं किंचित्समाख्यातं रूपसौभाग्यदायकम् । स्त्रीभिभिश्व यच्चाल्पं कृतं सर्वार्थसाधकम् ॥ वसिष्ठ उवाच- शृणु चाङ्गि ! विमले शरत्काले उपस्थिते । आश्विनस्य सिते पक्षे नवरात्रव्रतं शुभम् ॥ आदौ प्रतिपदं प्राप्य तिथि चण्डीमन:प्रियाम् । प्रातःस्नानं प्रकुर्वीत विधिना स्त्री नरोऽपि वा ॥

नवरात्रप्रदीपे-
वापीकूपतडागे वा नदीनिर्झरणेषु च ।
गृहे वा शुद्धभावेन दुर्गा देवीं हृदि स्मग्न् ॥
तिलाऽमलकचूर्ण तु मृत्तिकागोमयान्वितम् ।
कुङ्कुमाऽऽलोडितं कृत्वा तेनाङ्गान्यनुलेपयेत् ॥
स्नानं कृत्वा मन्त्रपूर्व परिधाय तु वामसी ।
सूर्यायाय ततो दद्यात्तत्र सञ्चिन्त्य चण्डिकाम् ।।
ताम्रपात्रे जलं कृत्वा कुङ्कुमाऽक्षतचन्दनम् ।
रूपसौभाग्यदा मह्यं तेन त्वं भव सर्वदा ॥
स्नानमन्त्र:-
ततस्त्वेकमना भूत्वा कृत्वा गोमयमण्डलम् ।
मृत्तिकास्थण्डिले स्थाप्य कलशं जलप्तम्भृतम् ॥
सपल्लवं सवस्त्रं च स्वर्णमुद्रासमन्वितम् ।
सपूर्णपात्रं नि.क्षिप्य दुर्गा तत्र तु विन्यसेत् ॥
यथोक्तेन विधानेन पूजयेद्भक्तिमान्नरः ।
यवगोधूमधान्यानि वापयेत्परितस्ततः ।।
अखण्डं दीपक देव्याः प्रीतये नवरात्रकम् ।
उज्चालयेदहोरात्रमेकचित्तो धृतव्रतः ।
नैवेद्यानि पृथक् कुर्यात्पायसादीनि नित्यशः ॥

नवरात्रबनविधिः।
वेदपारायणादीनि स्वशक्त्या कारयेद् व्रती।
मार्कण्डेयपुराणं वा चण्डिकापाठमेव वा ।।
प्रत्यहं भोजयेद्विप्रान् कुमारीयोंगिनीरपि ।
तेभ्यो दद्याद्यथाशक्त्या रक्ताम्बूलफलादिकम् ॥
स्वयं नियमतः कुर्यान्नवरात्रमुपोषणम् ।
पयोव्रतफलाशित्वं नक्तभोजमयाचितम् ॥
एकभक्तं च सुभगे ! यथाशक्त्या समाचरेत् ।
हविष्यान्नं ब्रह्मचर्य भूमिशय्या विशेषतः ॥
ब्रह्मपत्रेषु भोक्तव्यं रम्भापत्रे विशेषतः ।
न दिवा शयनं कार्य न क्रोधद्रोहचिन्तनम् ।।
त्रिकालं पूजयेदेवीं त्रिकालं स्नानमाचरेत् ।
उपवासस्य नियम
कृत्वा
सर्व समाचरेत् ॥
तस्यां पशुबाल चित्रं यस्तु दद्यान्मनोहरम् ।
स लभेडाञ्छितान् कामान् नरो वा नार्यथाऽपि वा ।।
अजो वा महिषो वाऽपि मेषः कुपुरुषोऽपि वा।
बलिदानेन दत्तेन देव्याः सद्भक्तिभावतः ।।
भवानीप्राङ्गणे प्राणा येषां यान्ति वरानने !।
तेषां स्वर्गे चिरं वासो धनतां पापं न विद्यते ॥

नवरात्रप्रदीपे-
मेषाऽजमहिषादीनामलाभे पैष्टिकः पशुः ।
देयो देव्या विधानेन यहा कूष्माण्डकं फलम् ॥
तिलाज्यकुसुमादीनि पायर्स मधुशर्कराः ।
हविर्द्रव्याणि जुहुयाद् दुर्गाष्टम्यां विशेषतः ॥
रात्रौ जागरणं कुर्याद् गीतवाद्यपुरःसरम् ।
ततः प्रभाते विमले प्रातः स्नात्वा यथाविधि ॥
दुर्गापूजां सुमहतीं कुर्यान्नानोपचारतः ।
कुमारीणां वयं भोज्यं नवकं वाऽथ शक्तितः ॥
कुङ्कुमाक्षतपुष्पादिवस्त्रालङ्कारभूषणम् ।
दद्याद्विप्राय विधिवदेवीभक्ताय भामिनि ! ॥
मन्त्रहीन क्रियाहीनं यन्मया कृतमत्र
तत्सर्व चण्डिके ! दुगर्गे ! पूर्ण भवतु
एवं सम्प्रार्थयेदेवीं क्षमाप्य विधिवद् व्रती।
दत्वा द्विजाय शुद्धाय श्रुतिस्मृतिविदे ततः ॥
स्वयं पारणकं कुर्यादिष्टबन्धुजनैः सह ।
अहःशेष समासीत शिष्टैरिष्टैः शिवाप्रियैः ॥
यावज्जीवं नरः स्त्री वा नवरात्रं महाव्रतम् ।
कुरुते चण्डिकाप्रीत्यै भुक्तिमुक्तिमवाप्नुयात् ॥
बाल
मे
सदा ॥

नवरात्रव्रतविधिः। रूपसौभाग्यभाग्यानां कथ्यते का कथा प्रिये !! दिवि भुव्यन्तरिक्षे च दुर्गा देवीव मोदते ।। अरुन्धत्युवाच--- नववर्षाणि यावच्च नारी स्नानपरायणा । दुर्गादेव्यादिकं पूज्य सा व्रतान्ते समाचरेत् ॥ तत्तन येन सम्पूर्णव्रत भवति भूतले । तदै त्व भगवन् ब्रूहि वसिष्ठ ! मुनिसत्तम ! ॥ वसिष्ठ उवाच- पूर्वोक्तविधिना सम्यक् दुर्गा स्थाप्य प्रपूजयेत् । तहद्विप्रान् कुमारीश्च गौरणीः(?) पूजयेच्छुभे ! ।। भोजयित्वा यथाशक्त्या तेभ्यो दद्यात्फलादिकम् । नारिकेलफलादीनि नवकं नवकं प्रिये !॥ ताम्रमृन्मयपात्राणि सपयांसि तथैव च । वंशपात्राणि वस्त्राणि भक्ष्यभोज्याऽन्वितानि च ॥ यदि वा तिलपात्राणि मृत्पात्राण्यथ वा पुनः। अथ वा चाऽन्यपानाणि पञ्चामृतभृतानि च ॥ सौभाग्यपात्राण्यथ वा कुकुमादिभृतानि च । दुर्गा देवी प्रीयतां मे इत्युक्त्वा विधिवदेत् ॥

४८ नवरात्रप्रदीपे- दुर्गा देवी प्रसन्ना स्यात्तदन्ते व्रतपारणा । यावज्जीवं तु सुखिनी पतिपुत्रधनाऽन्विता ॥ पितृमातृसुखं भ्रातः सा प्राप्नोति महीतले । मातुर्भवान्या भवने क्रीडने सुखिनी प्रिये !॥ इत्येतत्चे समाख्यातं नवरात्रव्रतं महत् । या कुर्याद दुरिताऽऽपद्भयो मुच्यते नाऽत्र संशयः॥ अथात्र कर्त्तव्यचण्डिकापाठप्रसङ्गेन शतचण्डीविधान- मुच्यते । डामरकल्पे- INR ऋषिरुवाच- शतचण्डीविधानं हि यथावत्कथयाम्यहम् । सुघोरायामनावृष्टयां भूकम्पे च सुदारुणे ॥ परचक्रभये तीव्र क्षयरोग उपस्थिते । राज्याऽवाप्त्यादिकार्थेषु स्वायुष्मत्सुतजन्मनि ॥ महोपघातनाशाय पञ्चविंशतियोजने । देशे सर्वत्र शान्त्यर्थ शतचण्डीमिमां जपेत् ।। शिवाभ्याशे शुभे देशे चतुर्दार सुतोरणम् । पताकालङ्कृतं कुर्यान्मण्डपं वदिभूषितम् ॥

नवरात्रत्रतविधिः।
तत्र कुण्ड प्रकर्त्तव्यमुक्तलक्षणसंयुतम् ।
सदाचाराः कुलीना ये ह्रीमन्तः सत्यवादिनः ।।
चण्डिकापाठसम्पूर्णा यावन्तो जितेन्द्रियाः ।
ईदृग्लक्षणसंयुक्तान् दम्भमोहविवर्जितान्ः ॥
दश विप्रान् समभ्यर्च्य महालक्ष्मीस्वरूपिणः ।
मधुपर्कविधानेन यथावत्तद्वदाम्यहम् ॥
श्रीपर्णीवृक्षपीठानि हस्तमात्राणि मानतः ।
अष्टाङ्गलममुत्थान(?) सहितानि समानि च ॥
स्रुवः सुचा समायुक्तः खादिरो लक्षणान्वितः ।
सप्तविंशतिदर्भाणां विष्टरोऽग्रविभूषितः ॥
विष्टरे सर्वयज्ञेषु लक्षण परिकीर्तितम् ।
सुखोष्णोदकसंयुक्ताः पाद्यार्थे ताम्रभाण्डिकाः ।
शङ्खा अयप्रदानाय गन्धपुष्पजलान्विताः ।
दूवादकसमायुक्ताः स्थापनीयाः पृथक् पृथक् ॥
ताम्रपात्राणि च तथा जलपूर्णानि सर्वशः।
मधुर्थिकास्पादिदधिमध्वादिपूरितम् ॥
महाहीणि च वस्त्राणि मुद्रिका भूषणानि च ।
मयूापत्रच्छत्राणि सोष्णीषाणि समाहरेत् ॥

नवरात्रप्रदीपे-
पादुका आहरेत्तत्र ताम्रभूषणभूषिताः ।
अन्यत्स्मा तदप्युक्तं मधुपर्कस्य पूजने ॥
शतचण्डीमखे
कृत्वा
प्रयत्नेन समाहरेत् ।
स्मान विधिना पूर्व मधुपर्केण पूजनम् ॥
कृत्वा फलमवाप्नोति महायज्ञाहणोपमम् ।
अन्येभ्यो मधुपर्कस्य विप्रेन्यो यत्प्रपूजनम् ॥
तस्माद् द्विगुणितं दद्यादाचार्याय तु पूजनम् ।
अर्चितास्ते द्विजश्रेष्ठाः सन्तुष्टाः पूर्णमानसाः ॥
यजमान सपत्नीक सुतबन्धुसमन्वितम् ।
उपविश्यासने पुण्ये कुशाग्रैरुषभूषिते ॥
वेदमन्त्राक्षतैः पूर्ण कुर्युस्ते स्वस्तिवाचनम् ।
कृतस्वस्त्ययने विप्रैर्वेदवादित्रनिःस्वनैः ।।
चण्डिकामण्डपं यावत्परिवारविभूषितः ।
पश्चिमद्वारमार्गेण प्रविश्य क्रतुमण्डपम् ॥
ददाति पूजनेऽनुज्ञां दशिकस्य कृताञ्जलिः ।
देशिकः सर्वमन्त्रज्ञो नवभिब्राह्मणैः सह ॥
नवग्रहाश्च दिग्देवीर्लोकपालसमन्वितान् ।
पूज्य
च॥
दिशापालांश्च सम्पूज्य
सम्पूज्य कलशस्थांश्च

नवरात्रतविधिः ।
मण्डपस्य चतुर्दिक्षु दत्त्वा भूनबलिं बहिः ।
मण्डपे कलशौ द्वौ द्वौ द्वारि द्वारि निवेशयेत् ॥
गङ्गादितोयसम्पूीवाम्रपल्लवशोभिनौ ।
उपस्पृश्योदकं ध्यात्वा चण्डिका देववन्दिताम् ॥
उपविश्यासने वेद्यां बद्ध्वा पद्मासनं दृढम् ।
प्राणायामविशुद्धात्मा देशिकः शुभलक्षणः ॥
चण्डिकापूजनं कुर्याद्विशेषेण समन्वितम् ।
कस्तूरीकुङ्कुमोपेतं सकर्पूरं सुचन्दनम् ॥
पलद्वयमित सर्वमनुलेपनमाहरेत् ।
दिव्यवस्त्रमलङ्कार हैमगद्याणकत्रयम् ॥
लक्षपुष्पचतुर्थाशं गुग्गुलुं च पलद्वयम् ।
दीपानां विंशतिः श्रेष्ठा मण्डपे जपसाधनम् ॥
कुडवौ द्वौ हविष्यान्नं नैवेद्य नरसंशुचि(?)।
ताम्बूलानां सकर्पूरं शतद्वयमनुत्तमम् ॥
नवचण्डीविधानोक्तं महालक्ष्मीप्रपूजनम् ।
नवभिब्राह्मणैः सार्द्ध कृत्वाऽऽचार्यों द्विजोत्तमः ॥
ददाति नवविप्रेभ्यो आचार्यश्चण्डिकामयः ।
कार्यजाप्यप्रसिध्यर्थमनुज्ञां मानपूर्वकम् ।।

नवरात्रप्रदीपे-
:
ततोऽनुज्ञामनुप्राप्य वेद्यामाचार्यसन्निधौ ।
मृद्वासनेषु सन्तुष्टा उपविष्टाः सुनिश्चिताः ॥
नासाध्यानसमायुक्ता नासाग्रस्याऽवलोकिनः ।
सुगन्धपुष्पमालाढ्याश्चण्डिकाचरितत्रयम् ॥
सरहस्यमृषिच्छंदोदेवनाशक्तिसंयुतम् ।
बीजतत्त्वसमोपेतमुपांशुगणसंयुतम् ।।
जपेयू रूपमेकैकं मौनिनस्त्यक्तमत्सराः ।
समुत्थाय ततः कुर्युग्कैकं ते प्रदक्षिणम् ।।
चण्डिकां तु नमस्कारैः परितोष्य पुनः पुनः ।
उपविश्यामने सूक्तैः श्लोकैः सर्वार्थसाधनैः ॥
प्रार्थयेयुः प्रार्थ्यफलं महालक्ष्मी दृढव्रताः ।
कुमार्यो दशसङ्ख्याका भोज्या विप्रा दशोत्तमाः॥
महाकालीमहालक्ष्मीसरस्वत्या जपं जपन् ।
भोजयेत्परया भक्त्या देशिकादिदशद्विजान् ॥
ततो बन्धुसमायुक्तो भुञ्जीयाद्यज्ञकृत्पुमान् ।
सत्कथाभिः सुगीतैश्च सर्ववादित्रनिःस्वनैः ॥
पूजनैः प्रेक्षणैव वेदपाठर्निशां नयेत् ।
हितीये दिवसे स्नाला विधिवत्ते द्विजा दश

नवरात्रत्रतविधिः।
चण्डिकातर्पणं कुर्य. सम्पूर्णध्यानपूर्वकम् ।
सर्वे
पृथक् पृथक् कृत्वा दिग्देवीपूजनादिकम् ।।
बहिर्भूतबलिं दत्त्वा कृत्वा देव्याः प्रदक्षिणम् ।
पुष्पागारे महारम्ये स्वस्वमासनमास्थिताः ।
जपन्ति जयचण्डीति यावद् दुर्गाप्रपूजनम् ।।
पूर्वस्मात्पूजनात्कुर्याद् द्विगुणं पूजनं क्रमात् ।
आचार्यः सुस्थितः शान्तश्चण्डिकायाश्च तोषणम् ॥
कृते तु पूजने विप्रा जपेयुर्द्विगुणं जपम् ।
द्विगुणं च प्रकर्त्तव्यं कुमारीद्विजभोजनम् ॥
कार्यश्च जागरो रात्रावक्तैः सर्वमहोत्सवः ।
चण्डिकापूजनं जाप्यं कुमारीद्विजपूजनम् ।
तृतीयेऽहनि कर्त्तव्यं त्रिगुणं च सजागरम् ।
चतुर्थे दिवसे सर्व सम्यक्कार्य चतुर्गुणम् ॥
महाजागरणोपेतं होमः स्यात्पञ्चमेऽहनि ।
पायसं सर्पिषा युक्त तिलैः शुक्लैर्विमिश्रितम् ।।
जुहुयादुक्तविधिना दशांशेन नृपोत्तम ! ।
रुद्राध्याये यथा होमो मन्त्रेणैकेन साध्यते ॥
:

नवरात्रमदीपे-
:
चण्डीसप्तशतीजाप्ये होममन्त्रो नवाक्षरः ।
कथितः पूजनाध्याये तेन होमो भवेदिह ॥
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।।
अथवाऽयं भवेद्धोमः श्लोकः स्तोत्रनिरूपितैः ।
जपहोमे सुसम्पूर्णे दिग्देवीनां शतं शतम् ॥
होतव्यं नाममन्वैश्व हविषे तेन सादरम् ।
शतं शतं क्रमाद्देयमाज्यं चरुसमित्तिलान् ॥
आहेभ्यो वैदिकैर्मन्त्रैः फलं पुष्पं शतं शतम् ।
लोकपालान् दिशापालान होमे सर्पिश्वरुस्तिलान् ।।
आचार्यादिद्विजाः सर्वे जुहुयुश्च शतं शतम् ।
होमे सम्पूर्णतां प्राप्त नमस्कृत्वेष्टदेवताम् ॥
चण्डिका देवदेवानामृषीणां वन्दितां पराम् ।
स्तम्भवये श्रुतं कृत्वा यजमानः स्वलकृतः ॥
घृतकुम्भदशांशेन दद्यात्पूर्णाहुतिं स्वयम् ।
मूर्धानमन्त्रपाठेन नवाक्षरमथापिवा ॥
प्राशनं मार्जनाद्यं च नवदुर्गाविधानवत् ।
जपं हुतं समावेद्य चण्डिकायै मनोरथान् ॥

नवरात्रव्रत विधिः।
ब्रह्मणे निष्कषट्कं तु दद्याद् गोमिथुनद्वयम् ।
अस्याः प्रभावमतुलश्लोकमुक्त्वा कृताञ्जलिः ॥
दद्यागोमिथुनान्यष्टावाचायार्य तु भक्तिमान् ।
चतुर्विशतिसङ्ख्याकैहैंमगद्याणकैः सह ॥
एकैकमष्टविप्रेभ्यो दद्याद् गोमिथुनं समम् ।
निष्कत्रयसमायुक्तं वस्त्रालङ्कारभूषितम् ॥
सुस्थितं स्वासने शान्तं यजमानं महोत्सवम् ।
कुङ्कुमाक्ताक्षता दूर्वाः सुगन्धं चन्दनं दधि ॥
आदायादयते विष(?) आचार्यश्च सुपूजितः ।
स्तोत्राणां तु चतुर्णा तु महालक्ष्मीपरायणः ॥
एकैकं श्लोकमुच्चार्य दद्युराशिषमुत्तमम् ।
सभार्यः ससुनः पूर्णो लब्ध्वाऽऽशीर्वादमङ्गलम् ॥
रत्नपुष्पाञ्जलिं दद्याच्चण्डिकाया विसर्जनम् ।
भूरिदानं ततो दद्युः पुण्यवादित्रनिःस्वनैः ॥
प्रविशेच्छान्तिपाठश्च तोरणाचं स्वमालयम् ।
शतचण्डीविधानस्य कृतेन सुकृतेन हि ॥
महालक्ष्मीददात्यस्मै त्रैलोक्यसुखमुत्तमम् ॥

नवरात्रप्रदीपे- RON यद्यत्कार्य समुद्दिश्य क्रियते शतचण्डिका । तत्तत्तस्य महालक्ष्मीः सत्यमाशु प्रयच्छति ॥ इति डामरकल्पे शतचण्डीविधानम् । अथ शतचण्डीविधानाऽशक्तेन दिनवृद्ध्या स्तोत्रपाठः कार्यः । तदुक्तं डामरकल्पे- आश्विने प्रतिपन्मुख्याः पुण्यास्तु तिथयो नव । चाण्डकापूजने प्रोक्ताः सर्वकामफलप्रदाः ॥ स्नात्वा शुक्लतिलैस्तोये गङ्गायाः शुचिमानसः । गृहे वा देवतास्थाने कुर्यात्कुसुममण्डपम् ॥ इत्यादिना कलशस्थापनादिदेवीपूजनान्तमुक्वा स्तोत्र- पाठकाले- : एकमेकोत्तरावृद्ध्या रूपाणि परिकीर्तयेत् । तथैव कन्यकाविप्रहयानां वृद्धिरुत्तमा ।। रात्री जागरणं कुर्याद गीतवादित्रनिःस्वनैः । इत्यभिधाय होमविसर्जनाद्यभिहितम् । अथ वा भवानीसहस्त्रनामस्तोत्रं पठनीयम् ।

पूजाकनियमाः ।
तदुक्त तत्रैव फलश्रुतौ-
नवरात्रेष्वनाहारो दृढबुद्धिर्जितेन्द्रियः ।
चण्डिकायतने विद्वान् शुचिष्मान्मूर्तिसन्निधौ ।
एकाकी तु शतावर्त पठन् धीरश्च निर्भयः।
साक्षाद्भगवती तस्मै प्रयच्छेदीप्सितं फलम् ॥
सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये ।
पठनात्साधकस्याशु सिद्धिर्भवति वाञ्छिता ॥
दशावर्त पठन्नित्यं भूमिशायी नरः शुचिः ।
स्वप्ने मूर्तिमयीं देवीं वरदां सोऽपि पश्यति ॥
आवर्तनसहीयें पठन्ति पुरुषोत्तमाः ।
ते सिद्धाः सिद्धिदा लोके शापाऽनुग्रहणे क्षमाः॥इत्यादि ।
अथाऽशक्तस्य प्रकारान्तरम् । तत्र धौम्यः-
अथ वा नवरात्रं च सप्तपञ्चत्रिकादि वा ।
एकभक्तेन नक्तेनाऽयाचितोपोषितैः क्रमात् इति।
आदिशब्देन द्विरात्रैकराते गृह्यते । तदुक्त भविष्ये-
त्रिरात्रेण द्विरात्रेण एकरात्रेण वा पुनः । इति ।
पञ्चरात्रपक्षे पञ्चम्यामारम्भः ।

नवरात्रप्रदीपे-
एकभक्तस्तु पञ्चम्या षष्ठयां नक्तं प्रवर्तयेत् ।
अयाचितस्तु सप्तम्यामष्टम्यां तु उपोषित. ॥
नवम्यां च पारणम् । इत्येवं पञ्चरात्रम् । विरात्रपक्षे
सप्तम्यामारम्भः ।
त्रिरात्र वाऽपि कर्त्तव्यं सप्तम्यादिदिनत्रयम् ।
इति तत्रैवाऽभिधानात् । द्विरात्रमपि भविष्ये-
अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् ।
पूजयित्वाऽऽश्विने मासि विशोको जायते नरः ॥
एकरात्रं त्वष्टमीमात्रीपोषणम् ।
कन्यासस्थे वावीशशुक्लाष्टम्यां प्रपूजयेत् ।
सोपवासो निशाढे तु महाविभवविस्तरैः ।।
इतिवाक्यात् । केचित्तु एकरात्र नवम्युपोषणमाहुः ।
यः करोत्युपवासं तु नवम्यां विधिवन्नृप।।
स फलं प्राप्नुयात्सर्व राजसूयाऽश्वमेधयोः ।
इतिवचनादिति तन्न । तस्य फलश्रवणेन काम्यतया
नवरात्रवहिर्भावस्य वक्ष्यमाणत्वात् ।

सप्तम्यादिपूना विधिः ।
अथ सप्तम्यादिपूजाविधानम् ।
राजमार्तण्डे-
सप्तम्यां मूलयोगे प्रथमचरणगे पत्रिका पूजनीया
चाष्टम्या रात्रियोगे कृतनियमविधेर्यज्ञकर्म प्रदिष्टम् ॥
नानाजातेः पशोर्वा हतिरपि नवमीरौद्रयोगे प्रदिष्टा
सा पत्री वैष्णवान्ते कृतविहितविधिः प्रेषयेत्तां दशम्याम् ।।
तथा-
JuIDEOS
मूल प्राप्य प्रथमचरणेऽभ्यर्चनं चण्डिकायाः
कृत्वाऽष्टम्यामशनरहितस्त्यक्तनिद्रश्च पूजाम् ॥
प्रातःकाले पशुबलिविधिस्नानदानं दशम्यां
निर्माल्यं तु श्रवणदशमीवासरान्ते विजयात् ॥
कात्यायन:-
RRINRNA
मृलेन प्रतिपूजयेद्भगवती चण्डी प्रचण्डाऽऽकृति
चाष्टम्यामुपवाससङ्गततया भक्त्या समाराधयेत् ॥
नानापाशवमजमांसरुधिरैः कृत्वा नवम्या बलि
युक्ता च श्रवणेन तां च दशमी सम्प्राप्य सम्प्रेषयेत् ॥

नवरात्रप्रदीपे- Rampa ज्योति शास्त्रे- ऋक्षत्रये च मूलादौ सप्तम्यामाश्विने सिते । चण्डिकामुपहारैश्च पूजयद्राष्ट्रवृद्धये ॥ कुर्याज्जागरमष्टम्यां नवम्यां विधिवद्वलिम् । दशम्या बलवृध्यर्थ कुर्यान्नीराजनं नृपः ।। मूलेनाऽऽवाहयेद्देवीं पूर्णेन प्रतिपूजयेत् । उत्तरेणाऽर्चनं कृत्वा श्रवणेन विसर्जयेत् ॥ अत्र तिथिनक्षत्रयोगो मुख्यः कल्पः । वियोगे तु ति- थिरेव मुख्या। तिथिः शरीरं तिथिरेव कारणं तिथिः प्रधानं तिथिरेव साधनम् । नक्षत्रयोगादिषु सैव मुख्या ग्राह्या न लभ्येत यदा हि ऋक्षम् ।। इतिज्योतिर्गर्गवचनादिति रूपनारायणो मन्यते । म- ध्यदेशीयसमाचारस्तु नक्षत्रयोगमादायैव जागर्ति । त- न्मूलमन्वेषणीयम् । धवलनिबन्धे- मूलेनाऽऽगमनं देव्यः पूर्वाषाढासु पूजनम् । उत्तरासु बलिं दद्याच्छवणेन विसर्जयेत् ॥ इति ।

अष्टमीनिर्णयः । ६१ अथाऽटमी निीयते । तत्र सामान्यतस्तावत् “वसुरन्ध्रपाः" इतियुग्मवाक्येन शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्दशी । पूर्वविद्धा न कर्त्तव्या कर्त्तव्या परसंयुता ॥ इति वाक्येन, तथैव- एकादश्यष्टमी षष्ठी शुक्लपक्षे चतुर्दशी। पूज्याः परेण सयुक्ताः पराः पूर्वेण संयुताः ।। इतिशङ्करगीतावाक्येन चैकवाक्यतापन्नेन नवमीयुक्ता- ऽष्टमी ग्राह्येति सिद्धम् । एवमन्यान्यपि । सप्तमी नाऽष्टमीयुक्ता न सप्तम्याऽष्टमी युता। सर्वेषु व्रतकल्पषु अष्टमी परतः शुभा ॥ इत्यादीनि ब्रह्मवैवर्तपादमस्कान्दादिसामान्यवाक्यनि पूर्वन्यायेन विशेष व्यवस्थापनीयानीतिविस्तरभयान्नेहो- दाहृतानि । तमेतं निर्णय रूपनारायणोऽप्यनुमेने । वचनं च विष्णुधर्मोत्तरे- अष्टम्या नवमी युक्ता नवम्या चाऽष्टमी युता। अर्द्धनारीश्वरप्राया उमाहश्वेरी तिथिः॥ इत्यादि।

नवरात्रप्रदीपे- maNERAL भोजराजोऽपि- अष्टम्यां पूज्यते रुद्रो नवम्यां शक्तिरर्यते । उमाया नवमी प्रोक्ता हरस्य तिथिरष्टमी ॥ द्वयोोंगे महापुण्या उमामाहेश्वरी स्मृता । इति । तदेवं नवमीयुक्तैवाऽष्टमी ग्राह्येति सिद्धम् । अत एव सप्तमीविद्याऽष्टमीनिषेधोऽपि श्रूयते- सप्तम्या चाऽष्टमी विद्धा न कर्त्तव्या शिखिध्वज!। इति । भोजराजेनाऽपि सप्तभीवेधाभावो नवमीविद्धाऽष्टमीग्र- हणे हेतरुक्तः । न दिवा न निशाऽपि च विष्टिहता न च सप्तमीशल्यसमोपहता। यदि चाष्टमीशेषभवाऽनवमी अमरैरपि पूज्यतमा नवमी ॥ इति । अस्यार्थः अष्टम्या उपरि यदि नवमी लभ्यते तदा साऽष्टमी अनवमी सर्वोत्कृष्टा अमरैरप्यतिशयेन पूज्या । तत्रैव हेतुमाह यतो दिवा निशाऽपि विष्टिहता न, सप्तमीश- ल्योपहताऽपि नेति । अतो दोषद्वयवती पूर्वाऽष्टमी परि- ।

अष्टमीनिर्णयः। त्यज्योत्तरैव तच्छून्योपादेयेति । एवं हेतुमुक्त्वा तन्मू- लमाह RAMA पुत्रान् हन्ति पशून् हन्ति हन्ति राष्ट्रं सराजकम् । हन्ति जातानजातांश्च सप्तमीसहिताऽष्टमी ॥ तस्मात्सर्वप्रयत्नेन सप्तमीवेधसंयुता । वर्जनीयाऽष्टमी पार्थ ! भुवो राज्यमभीप्सुभिः॥इति। दिवोदासस्तु विशेषवचनवलादेवेतमर्थमुपोद्वलयनि स्मा यथा- Ram- जम्भेन सप्तमीयुक्ता पूजिता सा महाऽष्टमी । इन्द्रेण निहतो जम्भस्तेन दानवपुङ्गवः ॥ तस्मात्सर्वप्रयत्नेन सप्तमीमिश्रिताऽष्टमी । वर्जनीया हि मनुजेरात्मनः शुभकाटिभिः ॥ सप्तमीशल्यसंयुक्तां मोहादज्ञानतोऽपि वा। महाष्टमी प्रकुर्वाणो नरक प्रतिपद्यते ।। इति । SHNA महाष्टमीत्वं चास्याः कालिकापुराणे प्रतिपादितम्- आश्विनस्य तु शुक्लस्य या भवेदष्टमीतिथिः । महाऽष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा ॥

नवरात्रप्रदीपे- 64 ततस्तु नवमी या स्यात्सा महानवमी स्मृता । सा तिथिः सर्वलोकानां पूजनीया शिवाप्रिया॥इति। नक्षत्रयोगपुरस्कारेण महाऽष्टमीत्वं धौम्येनोक्तम्- आश्विने माप्ति शुक्ले तु या स्यान्मूलेन चाष्टमी । सा महत्यष्टमी ज्ञेया तत्र देवावृतालया ॥ ब्रह्माण्डपुराणेऽपि- कन्यां समाश्रिते भानौ या स्यान्मूलेन चाष्टमी । सा महत्यष्टमी ज्ञेया न युधानवमीयुता ॥ मूलयोगस्तु सम्भवाऽमिप्रायः । तेन पूर्वाषाढायुता- ऽपि महाष्टमी भवति । मूलऋक्षसमायुक्ता पूजनीया प्रयत्नतः । मूलाऽभावेऽपि कर्त्तव्या यदि स्यात्तोयसंयुता ।। इतिवचनात् । अस्या एवं नक्षत्रद्वयाऽन्यतरयोगे म- हानवमीत्यपि संज्ज्ञान्तरम् । तदुक्त नृसिंहप्रसादे- आश्वयुक्शुक्लपक्षे तु अष्टमी मूलसंयुता । पूर्वयाऽषाढया साईमृक्षद्वययुताऽथ वा ॥ सा महानवमी नाम त्रैलोक्येऽपि सुदुर्लभा ॥इति।

अष्टमीनिर्णयः । ६५ तथा कन्यागते सवितरि शुक्लपक्षेऽष्टमी तु या। मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥ इति । एतेन "अष्टमी मूलसयुता" इत्येकं पदमध्याहतस्य नवमीत्यस्य पदस्य विशेषणमिति निरस्तम् । यदप्युत्त- राषाढा निषिद्धा रूपनारायणेन- मूलेन पूजयेद्देवीं तथा सलिलदैवते । वैश्वदेवे तु नक्षत्रे पूजिता दुःखदा भवेत् ॥इति । ब्रह्माण्डपुराणेऽपि- धनुःसंस्थे निशानाथे पूजयेदम्बिकां बुधः । नैर्ऋते चाम्बुदैवत्ये न विश्वः कथञ्चन ॥ इति । तदपि सम्भवति मूलादौ न तत्रेति तात्पर्येण । अन्यथा "उत्तरासु बलिं दद्यात्” इति विरुध्येत । तस्मान्नवमी. मिश्रितैवाऽष्टमी देवीपूजायां ग्राह्येति बहुतरनिबन्धस्वर- सः । अत्रार्थे विप्रतिपन्ना विश्वरूपाचार्या ह्यन्यथैव वा- क्यान्युदाजहः । यथा- महाष्टम्याश्विने मासि शुक्ला कल्याणकारिणी । सप्तम्याऽपि युता कार्या मूलेन तु विशेषतः ॥

अष्टमीनिर्णयः । ६७ एताश्चतसः प्रथमेऽह्नि कुर्या- द्वैशाखमासस्य च या तृतीया ॥ सप्तम्यामुदितः सूर्यो अष्टम्यस्तमितो यदि । मूलऋक्षसमायुक्ता पूजनीया प्रयत्नतः ॥ और्वोपि- महाष्टम्यां भगवती भद्रायामपि पूजिता । ददाति चायुरारोग्यं यतो भद्रास्वरूपिणी ।। विष्टिं त्यक्त्वा महाष्टम्या मम पूजां करोति यः । तस्य पूजां न गृह्णामि तेनाहमवमानिता ॥ भविष्योत्तरेऽपि- अहं भद्रा च भद्राऽहं नावयोरन्तरं क्वचित । एवं सिद्धि प्रदास्यामि भद्रायामर्चिताऽप्यहम् ॥ भद्रायां भद्रकाल्याश्च मध्ये स्यादर्चनक्रिया । तस्मादै सप्तमीविद्धा कार्या दुर्गाष्टमी बुधैः ।। इत्यादिविशेषवाक्यैर्युग्मादिसामान्यवचनबाधान्महाष्ट- मी सप्तमीविव ग्राह्यति । एवं वचनविरोधेन भोजराजादिभिर्विश्वरूपादीनां विप्रतिपत्तावित्थं व्यव- स्था । यत्र पूर्वदिने षड्दण्डा सप्तमी, उपरिष्टाचाऽष्टमी ।

नवरात्रप्रदीपे- ma तथा द्वितीयदिने च क्षयवशादष्टमी नास्त्येव । कि त नवम्यत्र सर्वा । तत्र मप्तमीविद्वाऽष्टमीपरिहारेऽष्टमीकृत्यमात्रलो- पप्रसङ्गः । तन्निराकरणार्थ सप्तमीविधायकानि वाक्या- नि प्रवृत्तानि । तदुक्तं नृसिंहप्रसादे- सूर्योदये यदा न स्यान्नवमी चाऽपरेऽहनि । तदाऽष्टमी प्रकुर्वीत सप्तमीसहितां नृप। ॥ इति । उत्तरास्तिथयो यत्र क्षयं यान्ति नराधिप !। पूर्वाष्टमी तदा कुर्यादन्यथा चाऽशुभं भवेत्॥इति । च षड्दण्डाऽधिकसप्तमीवधे परदिने चाऽ- ष्टमीसहावे नवमीयोगप्रशस्तत्वात्परैवेति पूर्ववाक्या- नां विषयः । अत एवोक्तमौर्वेण-- सप्तमी बहुला यत्र परतश्चाष्टमी भवेत् ॥ तेन शल्यमिदं प्रोक्तं पुत्रपौत्रधनक्षयम् ॥ इति । अत्र च यावत्सप्तमीसद्भावे परदिनेऽष्टमी भवति तावती सप्तमी शल्यमित्युच्यते न सप्तमीमात्रम् । तथा च सप्तमीशल्यं निषेधन्ति भोजादिवाक्यान्यपि लब्धवि- षयाणि । यान्यपि सामान्यत एवं सप्तमीयोगं निषेधन्ति तान्यपि शल्याऽभिप्रायाण्येव । उपसहारन्यायात् । नन्वेवमु- अष्टमीनिर्णयः । भयविधाऽष्टमीविधायकवाक्यस्वास्थ्येऽप्युभयविधाऽष्टमी- निन्दकानि दुस्थान्येवेति चेत्, न । निन्दकानामुभय- बाऽपि स्वस्वविधेयस्तावकत्वात् । तथा च प्रधानविधा- यकस्वास्थ्ये तद्गुणानां निन्दाऽर्थवादानी सुतरां स्वास्थ्य- मेवेति । तस्माद्विशेषवचनबलेनैवोभयेषा वाक्यानां वि- रोधपरिहारेण व्यवस्था प्रामाणिकैः करणीया । एव च सति यत्केनचिदिवोदासोदाहनविशेषवाक्यानाममूलता- मक्त्वा तदितरेषा च सामान्यवाक्यतया विश्वरूपोदाह- तविशेषवाक्यैर्बाधितत्वेन महाष्टम्यतिरिक्ताष्टमीविषयत्वं प्रावोचि, तदतिमात्रेण वचनविरोधपरिहाराऽसामर्थ्यमा- त्मीयमपतवानस्य शिष्यबन्धनमात्रम् । न हि प्रामाणि- का धर्मनिरूपणे प्रवृत्ता अमूलकैर्वाधर्म विप्लाव- यन्ति । तथात्वे निर्णयमात्रोच्छदप्रसङ्गः । तादृशा- नाऽश्वासस्य सर्वत्राऽपि सम्भवात् । न च मुनिनामानु- दाहरणादमूलत्वमिति वाच्यम् । परमशिष्टाऽऽचार्यस्याss यस्य विज्ञानेश्वरस्याऽपि कृतौ शतशस्तथाविधानां दर्शनात् । तस्मादुक्तव्यवस्थैव ज्यायसीति । यदपि कैश्चिदुक्तं सप्तमीविद्वाऽष्टमीविधायकानि वाक्यानि कृष्णा- नवरात्रप्रदीपे- टभीविषयाणीति तदपि न । अष्टमीनवमीयुग्मे महोत्साहे महोत्सवः । शिवशक्त्योः शिवक्षेत्रे पक्षयोरुभयोरपि ।। इतिवाक्यदर्शनात् । किं च सामान्यवाक्यानां कृष्णाऽष्टमीविषयत्वेऽपि भोजराजीयवाक्यानां महाष्टमी- प्रकरणगतानां दिवोदासोदाहनविशेषवाक्यानां च वि- रोधाऽपरिहारात । अथाऽपि कृष्णाष्टमीविषयत्वाऽभिनिवे- शस्तर्हि पञ्चदशदिवससाध्यदेवीपूजायामाश्विनकृष्णपक्षे अष्टम्यां देवीमधिवास्य नवम्यां च प्रबोध्याऽग्रिमाष्टमी. पर्यन्त या पूजा क्रियते तत्र या कृष्णाऽष्टमी तद्विष- याणि वा भवन्तु । तदुक्तं देवीपुराणे- कन्यायां कृष्णपक्षे तु पूजयित्वाऽधिवासयेत् । नवम्यां बोधयेदेवी गीतवादित्रनिःस्वनैः ॥ इति । अत्र नवम्यां बोधनविधानादष्टम्यामधिवासनमर्थ- सिद्धं भवतीति । अथ नवमीनिर्णयः । स च यद्यपि पूर्वोदाहृतरूपनारायणभोजराजादि- वाक्यैरष्टमीनिर्णयेनैव सिद्धस्तथाऽपि संशयव्युदासाथ नवमीनिर्णयः। mom पुनः कानि चिद्वाक्यानि लिख्यन्ते । तत्र तावद्युम्मवा- क्यं “वसुरन्ध्रयोः” इति । पामेऽपि- अष्टम्या नवमी विद्धा नवम्या चाष्टमी युता अर्द्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ॥ इति । भविष्यपुराणेऽपि- नवम्या सह कार्या स्यादष्टमी नवमी तथा ॥ इति । दशमीयुक्ता च निषेधति स्कन्दपुराणम्- न कार्या नवमी तान ! दशम्या तु कदाचन। इति । विधिनिषेधावुभावपि ब्रह्मवैवर्ते- अष्टम्या नवमी विद्धा कर्त्तव्या फलकाजिभिः । न कुर्यान्नवमी तात! दशम्या तु कदाचन ॥ इति । तदेवमेतैर्वाक्यैरष्टमीविद्धव सामान्यतो नवमी ग्राह्येति सिद्धम् । विशेषतोऽपि देवीपुराणेऽष्टमीविद्धव विहिता- अश्वयुक्शुक्लनवमी त्वष्टमी मूलसंयुता । सा महानवमी तस्यां जगन्मातरमर्चयेत् ॥ अत एव माधवाचारष्टमीविद्वैव नवमी ग्राह्यति प्रतिपाद्य सेयं नवमी भविष्यत्युराणोक्तदुर्गावतादौ द्रष्ट- नवरात्रप्रदीपे- व्येत्युक्तम् । तथा हि भविष्यपुराणे- दुर्गा सम्पूज्य दुर्गाणि नवम्यां तरतीच्छया । सङ्ग्रामे व्यवहारे च सदा विजयमश्नुते ॥ मासि चाश्वयुजे वीर ! नवमी या नराऽधिप!। तस्यां यत्क्रियते वीर ! नरैः स्नानादिकं विभो ! | तत्सर्वमक्षय तेषां तबै सिद्धिकरं तथा । नवम्यां श्रीसमायुक्ता देवैः सर्वैः सुपूजिता ॥ जघान महिषं दुष्टमवध्यं देवतादिभिः । लब्ध्वाऽभिषेकं वरदा शुक्ले चाश्वयुजस्य तु ॥ तस्मात्सा तत्र सम्पूज्या नवम्यां चण्डिका बुधैः ॥ इत्यादि व्रतस्वरूपमुक्तम् । विश्वरूपाचारप्यष्ट- मीविद्धव नवमी ग्राह्या न दशमीविद्धेत्युक्तम् । नवमी सह कार्या स्यादष्टम्या सततं नृप । न कुर्यान्नवमी तात ! दशम्या तु कदाचन ॥ यो मोहाद्दशमीवेधे नवस्यां चण्डिकां यजेत् । पूजाभारो महामोहोवृथा स्यात्तस्य नान्यथा॥ इति।

नवमीनिर्णयः ।
७३
देवीपुराणेऽपि-
अम्बिकापूजने स्कन्दनवमी दशमीयुता ।
वर्जनीया प्रयत्नेन पशुपुत्रादिनाशिनी ॥ इति ।
किं च पारणादावपि दशमीयुक्ता न ग्राह्येत्युक्तं
ब्रह्माण्डपुराणे-
आश्विने शुक्लपक्षे तु नवरात्रमुपोषितः ।
नवम्यां पारण कुर्यादशमीसहिता न चेत् ॥
दशभीमिश्रिता यत्र पारणे नवमी भवेत् ।
दुःखदारिद्रयदा ज्ञेया तथा व्रतविनाशिनी ॥इति ।
रुद्रयामलेऽपि-
दशम्या मिश्रिता यत्र पारणे नवमी भवेत
सप्तजन्मकृतं पुण्यं तत्क्षणादेव नश्यति ॥ इत्यादि ।
यानि तु कैश्विद्दशमीविद्धानवमीमङ्गीकुर्वाणैर्वाक्या-
न्युदाहृतानि । यथा सौरपुराणे-
मासि चाश्वयुजे वीर ! नवमी या नराऽधिप ! ।
तस्यां स्नानं जपो होमो दानं चैव विशेषतः ।।
अश्वयुक्शुक्लनवमीमुहूर्त वा कला यदि ।
सा तिथिः सकला ज्ञेया लक्ष्मीविद्याजयार्थिभिः॥
Mamta

७४ नवरात्रप्रदीपे- तथा- SHASTRATIONat इथे तु शुक्लनवमी सङ्गवस्पृग्यदा तदा । दुर्गा भगवती पूज्या लक्ष्मीविद्याजयार्थिभिः॥इति । सेष्वाचं तावत् “मासि चाश्वयुजे वीर !" इतिवाक्यं स्नानदानादिबोधकं दशमीयुक्तनवमीविधायकं कथमिति नाऽवधारयामः । यत्पुनर्द्वितीयं "अश्वयुकशुक्लनवमी" इतिवाक्यं तदपि मुहूर्त्तमात्रसत्त्वे नवम्याः सकलत्रमा- त्रप्रतिपादकम् । यथा- सा तिथिः सकला ज्ञेया यस्यामभ्युदितो रविः॥इति। न पुनईशर्मायुक्तनवमीग्राह्यत्वप्रतिपादकम् । न च मुहूर्त्तमात्राया नवम्याः सकलत्वप्रतिपादनं नादृष्टार्थे किं तु तादृश्या नवम्या ग्राह्यत्वार्थमेवेति वाच्यम् । सकलत्ववचनस्य प्राशस्त्यपरतयाऽर्थवादस्य लिङ्गत्वेनाऽ- टमीयुक्तनवमीग्राह्यत्वप्रतिपादकप्रत्यक्षश्रुतिविरोधेन श्रु- त्यन्तराऽनुमापकत्वासम्भवात् । तर्हि तस्य का गतिरिति चेत, गतिमवगच्छ । अष्टमीदिने मुहूर्त्तमानसत्त्वे प्रा- शस्त्यपरतयोपपत्तिः पूर्वोदाहृतानेकवाक्याऽनुरोधात् । न चोदयकालीनमुहूर्त्तमात्रपरत्वमिति वाच्यम् । अस्यार्थस्य नवमीनिर्णयः। वाक्यादप्रतीतेः। एतेन तृतीयमपि व्यवस्थापितम् । यदा यदि अष्टमीदिनेऽपि सङ्गवं स्पृशति तदा तर्हि फलातिशयार्थेत्यर्थपरत्वात् । यहा सङ्गवकालीननवम्यां भगवतीपूजा लक्ष्म्यादिफलविशेष एव विधीयत इनि विशिष्टविध्यन्तरत्वान्नास्त्यस्य बाधकम् । अन्यथा वि- शिष्टविधाने विशिष्टाऽनुवादे वाक्यभेदापत्तेः । एवं चाऽ नेकविधिनिषेधवाक्यानि सुस्थानि भवन्ति । तस्मादष्ट मीयुक्तैव नवमी ग्राह्येति स्थितम् । अथाष्टमी पूजाविधिः। भविष्योत्तरे- तताऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी। प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह ॥ अतोऽर्थ पूजनीया सा तस्मिन्नहनि मानवैः। इति। अत्राहनीतिपदश्रवणादिवापूजा प्रतीयते इति क- श्चित् । तन्न । अहःपदस्याऽहोरात्रपरत्वात् । तेन रात्रा- वेव पूजा । उक्तं च देवीपुराणे- आश्विने मासि मेघान्ते महिषासुरमर्दिनीम् । देवी सम्पूजयित्वा ये अर्द्धरात्रेऽष्टमीषु च ॥ इति ।

७६ नवरात्रपदीपे- अष्टमीष्विति बहुवचनं पाशबहुत्ववद् घटिकाद्यव- यवपरम् । विश्वरूपेऽपि- अष्टमीरात्रिमासाद्य पूजां गृह्णाति पार्वती । निशायां पूजिता देवी वैष्णवी पापनाशिनी ॥ तस्मात्सर्वप्रयत्नेन अष्टम्यां निशि पूजयेत् । देवीपुराणे- कन्यासंस्थे रवावीशशुक्लाष्टम्यां प्रपूजयेत् । सोपवासो निशा. तु महाविभवविस्तरैः ॥ पूजां समाहरेद्देव्या महाविभवविस्तरैः । पूजोपकरणानि ब्रह्माण्डपुराणे- उपोषितैर्वस्त्रधूपमाल्यरत्नाऽनुलेपनैः । दीपरत्नैस्तथा भक्ष्यैः फलैर्मूलैश्च धान्यकैः ॥ आमिषैर्विविधैः शाकहोमैर्नीराजनैरपि । अत्रोपोषितैरिति सामान्योपादानेऽपि पुत्रवद्गृह- स्थव्यतिरिक्तैरिति ध्येयम् । उपवासं महाष्टम्यां पुत्रवान्न समाचरेत् । पूतात्मा व्रती देवी प्रपूजयेत् ॥ इति कालिकापुराणे पुत्रवत्ता महाष्टम्युपवासनि- यथा तथैव अष्टमीपूजाविधिः । षेधात् । अत्र च पूजासम्भारविशेषो ग्रन्थान्तराद- वगन्तव्यः । RA अथ होमः। नारदीये- तिलाज्यकुसमादीनि पायसं मधुशर्कगः । हविर्द्रव्याणि जुहुयाद् दुर्गाष्टम्यां विशेषतः ॥ राजमार्तण्डेऽपि- अष्टम्यां रानियोगे कृतनियमविधेर्यज्ञकर्म प्रदिष्टम्॥इति। धौम्योऽपि- शुम्भासुरवधार्थाय रक्तबीजो महाबलः । अष्टम्यां निहतो देव्या रात्रौ चैवाऽरुणोदये ॥ ततः प्रभृति विन्ध्याद्री स्थिता पूजाप्रवर्तिका । शास्त्रार्थमन्त्रोतव्यं पायसं घृतसंयुतम् ॥ मांसानि तत्र होमार्थे मेषाद्यानि च सर्वशः। अजस्त्वेकस्तु होतव्यो रक्तवर्णो विशेषतः ।। कृष्णवर्णश्च होतव्यो गौरस्तित्तिर एवं वा। रोहितं मत्स्यमांसं च होतव्यं जयमीप्सता॥इति । अष्टमीविधिमधिकृत्य श्रुतत्वादप्यष्टम्यां होमः प्रति- ७८ नवरात्रपदीपे- पाद्यते । अत एव नवम्यां होमनिषेवोऽपि कालनिर्णये- नवम्या अलनं वह्नः पूर्णयां पशुधातनम् । भद्राया गोकुलक्रीडा तत्र राज्यं विनश्यति ॥ तमेतमष्टमीहोमं रूपनारायणादय. प्रयोगकारा अप्यनुमन्यन्ते । तत्र मन्त्र उक्तो धौम्येन- होमस्तत्र प्रकर्त्तव्य. स्वमन्त्रेण जयार्थिभिः । जातवेदसेतिमन्त्रेण सम्मन्व्य परमाहुतिम् ॥ इति । स्वमन्त्री गुरूपदिष्टो मन्त्रः । जातवेदस इति वा । डामरकल्पे- रुद्राध्याये यथा होमो मन्त्रेणैकेन साध्यते । चण्डीसप्तशतीजाप्ये होममन्त्री नवाक्षरः ॥ कथितः पूजनाऽध्याय तेन होमो भवेदिह । नमो देव्यै महादेव्यै शिवायै सततं नमः ॥ नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् । अथवाऽयं भवेद्धोमः श्लोकैः स्तोत्रनिरूपितैः॥ इति । कचिन्नवम्यामपि होमः स्मर्यते- नवम्यां च जप होम समाप्य विधिवहलिम् । यात्रां वैजयिकी कुर्याद्दशम्यां श्रवणेऽपि वा।। इति । :

नवरात्रीयहोमनिर्णयः।
७९
।
-
सौरपुराणेऽपि-
मासि चाश्वयुजे वीर ! नवमी या नराधिप !।
तस्या स्नानं जपो होमो दान चैव विशेषतः॥ इति।
स चाष्टम्यामसम्भवे नवम्यां कार्यः । उक्तं च रुद्रयामले
दशमेऽध्याये-
नवम्यां वा विशालाक्ष! कार्या होमादिकाः क्रियाः। इति ।
अत्र च वाश्रवणात्पूर्वताऽसम्भवे इति गम्यते ।
यहा तयोः कल्पयोर्यथाकुलाचारं व्यवस्था कार्या ।
अथेदं विचार्यते । किं स्त्रीशूद्राणामपि होमाधि-
कारोऽस्ति नवेति । तत्र स्त्रीशद्राणां होमे नाऽधिकारः
विध्यभावात् । न च सामान्यविधिना तत्सिहिः तस्य
त्रैवर्णिकविषयत्वात् । उक्तं च भविष्ये-
शूद्रोक्त्या विहितं यच्च यश्च मन्त्र उदाहनः ।
तद् द्वयं विप्रवदनाद् ग्राह्यं शूद्रैः सदैव हि ॥ इति ।
एतेन शूद्र इद कुर्यादित्येवंविधिना यच्छूद्रस्य वि-
हितं तत्रैव तस्याऽधिकारो नान्यत्रेति सिद्धम् । किं
च होमस्य मन्त्रसाध्यतया शूद्राणां च मन्त्राऽभावा-

नवरात्रप्रदीपे- नाधिकारः । कथं मन्त्राऽभाव इति चेतु न विकल्पा- ऽमहत्वात् । तथा हि-किं वैदिको मन्त्र उत पौराणः अहोस्विन्नमोमन्त्र इति । नाद्यः । स्त्रीशूद्रद्विजवन्धूनां त्रयी न श्रुतिगोचरा । इति तन्निषेधात् । न द्वितीयः । मोहाद्वा कामतः शूद्रः पुराणं संहितां श्रुतिम् । पठन्नरकमाप्नोति पितृभिः सह कुट्टनम् ॥ इतिभविष्ये निषेधात् । नान्त्यः । नवरात्रीयहो- मस्योत्पत्तिवाक्ये मन्त्रान्तराऽवरुद्धत्वेनोत्पत्तेः । उक्त च धौम्येन- होमस्तत्र प्रकर्त्तव्यः स्वमन्त्रेण जयार्थिभिः । जातवेदसमन्त्रेण सम्मन्थ्य परमाहुतिम् ॥ इति । नचोत्पत्तिशिष्टोऽपि गुणो अधिकारिविशेषे ध्यत इति वाच्यम् । यथाविनियोगमधिकारो न तु य- थाऽधिकारं विनियोग इति न्यायविद्भिः साधनात् । न च 'स्वमन्त्रेण' इत्यनेन गुरूपदिष्टमन्त्रेणैव स्यादिति वाच्यम् । सर्वेषां तदभावात् । न च स्वस्याऽनधिकारे प्रतिनिधिसम्भवः । तस्मान्नाऽधिकार इति । अत्रोच्यते- : बा.

शूहस्य होमाऽनधिकारित्वम् । औतं द्विजातयः कुर्युः स्मात शूद्रः समाचरेत् । इतिवचनाद् द्विजातिविशेषविहितकर्मभिन्नसकल- स्मार्तकर्मण्यधिकारः • शूद्रस्य । सङ्कोचे मानाभावात् । न च मन्त्राऽभावान्नाधिकार इति वाच्यम्। ब्राह्मण- पठितमन्त्रादेव तत्सिद्धेः । उक्तं च ब्रह्मपुराणे- - अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रैण गृह्यते । इति । तस्माद् ब्राह्मणपठितमन्त्रैः शूद्रादिनाऽपि होमकर- णे न बाधकं पश्यामः । न च शूद्रस्य स्वतो होमक- र्तृवं काऽपि न दृष्टचरमिहापि न स्यादिति वाच्यम् वैश्वदेवहोमे तद्दर्शनात् । अभ्युपगतं चैतद् विज्ञानेश्वरा- चार्यैरपि तत्र वैश्वदेवं लोकिकेऽग्नौ कर्त्तव्यं वैवाहिके- ऽनावित्याचार्याः' इतिमतोपन्यासव्याजेन । वस्तुतस्तु "स्त्रीभिः शूद्रैश्च श्लेच्छैश्च" इत्यादिवाक्येन प्रधाना- ऽधिकारे सिद्धे अधिकृताधिकारेण्वनेषु होमादिषु सुत- रामधिकारः सिद्ध एवेति क विचाराऽवसरः । म्लेच्छ- शब्दश्च शबरकिरातपुलिन्दादिपर इति व्याख्यातं प्राक् ।

८२ नवरात्रप्रदीपे- अपि च-- दाक्षिणार्थ तु यो विप्रः शूद्रस्य जुहुयाइविः । ब्राह्मणस्तु भवेच्छूद्रः शूद्रस्तु ब्राह्मणो भवेत् ॥ इतिपराशरवाक्येन यो विप्रः शूद्राद्दक्षिणामादाय तदीय हविः शान्तिपुष्टयादिसिद्धये वैदिकैर्मन्त्रैर्जुहोति तस्य ब्राह्मणस्यैव प्रत्यवायः शूद्रस्तु होमफलं लभेतै- वेति माधवाचार्यव्याख्याविख्यापितेन सकलसशयो- च्छेद इत्यलं बहुना । इतोऽप्यधिक युक्तिमुक्ताकदम्ब- के शूद्राधिकारमीमांसायामेवाऽनुसन्धेयम् । अथ नवमीपूजाविधिः। भविष्यपुराणे-- दुर्गी सम्पूज्य दुर्गाणि नवम्यां तरतीच्छया । सङ्ग्रामे व्यवहारे च सदा विजयमश्नुते ॥ मासि चाऽऽश्वयुजे वीर ! नवमी या नराऽधिप !। तस्यां यत्क्रियते वीर ! नरैः स्नानादिकं प्रभो!॥ तत्सर्वमक्षयं तेषां सबै सिद्धिकरं तथा । नवम्यां श्रीसमायुक्ता देवैः सर्वे. सुपूजिता ॥

नवमीपूजाविधिः। ८३ जघान महिषं दुष्टमवध्यं देवतादिभिः । लब्धाऽभिषेक वरदा शुक्ले चाऽऽश्वयुजस्य तु ॥ तस्मात्सा तत्र सम्पूज्या नवम्यां चण्डिका बुधैः । महत्त्वं हि यतः प्राप्ता अत्र देवी सरस्वती ॥ अतोऽर्थे महती प्रोक्ता नवमीय मदा बुधैः । पूजयित्वा महादेवीं नवम्यां चण्डिका शुभाम् ॥ महत्वं प्राप्तवान् वीर ! ब्रह्मा विष्णुस्तथा हरः । तस्मादियं महापुण्या नवमी पापनाशिनी ।। उपोष्या तु प्रयत्नेन सततं सर्वपार्थिवैः । मासि चाऽऽश्वयुजे वीर ! शुक्लपक्षे त्रिशूलिनीम् ॥ नवम्यां पूजयेद्यस्तु तस्य पुण्यफलं शृणु । अश्वमेधसहस्रस्य राजसूयशतस्य च ॥ तत्फल लभते वीर ! देवीदेवगणैर्वृतः । अथबलिदानम् । राजमार्तण्डे-"नानाजातेः पशोर्वा हनिरपि नव- मीरौद्रयोगे प्रदिष्टा” इति । तथा-"अष्टम्यामशन- रहितस्त्यक्तनिद्रश्च पूजाम्" इत्युक्त्वा “प्रातःकाले पशु- बलिविधि" इत्याह । कात्यायनोऽपि “नानापाशवमज-

नवरात्रमदीपे-
मांसरुधिरैः कृत्वा नवम्या बलिम्" इति । ज्योतिः
शाखेपि-
कुर्याज्जागरमष्टम्यां नवम्यां विधिवद्वलिम् ।
तथा
HOM
BOAD
सप्तम्यां पत्रिकापूजा अष्टम्यां चाऽप्युपोषणम् ।
पूजा
चजागरं चैव नवम्यां विधिवलिः ॥ इति ।
"उत्तरासु बलिं दद्यात्" इति च। अत एव दशम्यां
निषेधोऽपि
दशम्यां दीयते यत्र बलिदानं च मानवैः ।
तद्राष्ट्र नाशमायाति मकरोपद्रवैः स्फुटम् ॥ इति ।
ब्रह्मवैवर्तेऽपि-
अवाऽपराह्निके काले बलिदानं प्रशस्यते ।
दशमी वर्जयेत्तत्र नाऽत्र कार्या विचारणा ॥
नन्दाया दर्शने रक्षा बलिदानं दशासु च ।
भद्रायां गोकुलक्रीडा देशनाशाय जायते ॥
कालनिर्णयेऽपि-
नवम्यां चलन बढेः पूर्णायां पशुधातनम् ।
भद्रायां गोकुलक्रीडा तत्र राज्य विनश्यति ॥

बलिदाननिर्णयः। ८५ अष्टभ्यामपि बलिदान विश्वरूपे श्रूयते- ततो राज्यपरे भागे महिषं तत्र दापयेत् । पश्चाऽब्दलक्षणोपेतमजमेकं तथैव च ॥ भविष्येऽपि- विचित्रां रचयेत्पूजामष्टम्यामुपवासयेत् । दुर्गाऽग्रतोजपन्मन्त्रमेकचित्तो धृतव्रतः ॥ तदईयामिनीशेषे विजयार्थ महीपतिः । पञ्चाऽब्दलक्षणोपेतं गन्धपुष्पस्रगन्वितम् ॥ विधिवत्कालिकालीति जप्त्वा खड्ड्रेन घातयेत्॥ इति देवीपुराणेऽपि- आश्विने मासि सम्प्राप्ते महिषासुरमर्दिनीम् । देवी सम्पूजयित्वा ये अढरात्रेऽष्टमीषु च ॥ घातयन्ति पशून् अत्रैवं व्यवस्था-अष्टम्यां बलिदानप्रतिपादकानि सर्वा- णि वचनानि राजविषयाणि | "विजयार्थ महीपतिः" इतिविशेषवचनात् । इतराणीतरविषयाणि । सामान्य- भक्त्या ते भवन्ति महाबलाः।

नवरात्रपदीपे-
वाक्यत्वात् । अत एव कालिकापुराणे-
पक्षिणः कच्छ ग्राहा मत्स्या नवविधा मृगाः ।
महिषो गोधिकागारे छागो बभ्रुश्च शूकरः ॥
खड्गश्च कृष्णसारश्च गोधिका शरभो हरिः ।
शार्दूलश्च नरश्चैव स्वगात्ररुधिरं तथा ॥
चण्डिकाभैरवादीनां बलय. परिकीर्तिताः ।
इत्युपक्रम्य
सिंहं व्याघ्रं नरं चापि स्वगात्ररुधिरं तथा ।
न दद्याद्राह्मणा मद्यं तथा दैव्यै कदाचन ॥
सिंहव्याघ्रनरान् दत्त्वा ब्राह्मणो नरकं व्रजत
इहाऽपि स्यात्स हीनायुः सुखसौभाग्यवर्जितः ॥
स्वगात्ररुधिरं दत्त्वा चात्मवध्यामवाप्नुयात् ।
मधं दत्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते ।।
न कृष्णसारं विसृजेद्वलिं तु क्षत्रियादिकः।
प्रददरकृष्णसारं तु ब्रह्मवध्यामवाप्नुयात् ॥
यत्र सिंहस्य व्याघ्रस्य नरस्य विहितो वधः ।
ब्राह्मणोक्त्याऽनुवाक्यादौ तत्रायं विहितः करः ॥

बलिदाननिर्णयः। कृत्वा धृतमय व्यानं नरं सिंह तथैव च । अथ वाऽपूपविकृतं यवक्षोदमयं च वा ॥ घातयेच्चन्द्रहासेन तेन मन्त्रेण संस्कृतम् । तथा अवश्यं विहितं यत्र मद्यं तत्र द्विजः पुनः । नारिकेलजलं कांस्ये ताने वा विसृजेन्मधु ॥ नापद्यपि द्विजो मद्यं कदाचिद्विसृजेदपि । ऋते पुष्पासादुक्तात्कुजलाहा विशेषतः । इत्यादिना वर्णविशेषेण पशुविशेषनिषेधः, प्रति- निधिविधानं च दृश्यते । तथा च मध्यदेशीयशिष्टा- चारोऽपि तथा । तस्मात्सर्वेषां तदिति सिद्धम् । अत ए- वोपयुक्तपशुगतिकथनपूर्वकं ध्नतां दोषाऽभावः प्रति- पादितः- भवानीप्राङ्गणे प्राणा येषां यान्ति वरानने। तेषां स्वर्गे चिरं वासो नतां पापं न विद्यते ॥ तथा पुराणसमुच्चये श्रीकृष्णवाक्यम्- महानवम्यां ये देव्या हन्यन्ते महिषादयः । सर्वे ते स्वर्गतिं यान्ति नतां पापं न विद्यते॥

८८
नवरात्रप्रदीपे-
-
भवानीप्राङ्गणे प्राणा येषां यान्ति युधिष्ठिर !!
तेषां स्वर्गे चिर वासो वीरास्तेऽप्सरसा प्रियाः ॥इति।
धौम्योऽपि--
उद्दिश्य दुर्गा हन्यन्ते विधिना यत्र जन्तवः ।
ते यान्ति स्वर्गे कौन्तेय ! घातयन्तोऽपि शक्तितः॥
तब ये धुपयुज्यन्ते प्राणिनो महिषादयः ।
सर्वे ते स्वर्गमायान्ति घ्नतां पापं न विद्यते।।इति।
कालिकापुराणेऽपि-
बले पूर्वोदिता मन्त्रा नित्यं ग्राह्यास्तु साधकैः ।
स्वयं मन्त्रस्तु वक्तव्यस्तस्य हत्याविहानये ॥
यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा ।
अतस्त्वां घातयिष्यामि तस्माद्यज्ञेऽवधो वधः॥इति।
नन्वस्य वैधत्वे दोषाऽभावकीर्तनमनुपपन्नम् । न
हि अग्नीषोमीयादिवधे दोषाऽभावकीर्तनमस्ति विधाना
देव दोषाऽभावसिहेरिति चेत्, मैवम् । विधिप्रवर्ति-
तस्य प्रबलतरालस्यदुर्वासनादिदोषाऽपनोदनहाराऽर्थवा-
दानां प्रामाण्यस्थापनात् । नैतावताऽन्यतराऽनर्थक्यं
शक्यते वक्तुम् ।

अघिनवरात्रपनितमूत कादिनिर्णयः । SURE अथ प्रसङ्गेन मध्येनवरात्रं मूतकादिपाते निर्णयः । तत्र यद्यपि सर्वकर्मणां निषेधः सामान्यतो दृश्य- ते । तथाऽपि केषां चित्प्रतिप्रसवदर्शनादनुष्ठान सम्भव- तीति प्रकृते विचारः । तत्र सामान्यतस्तावद्विष्णुराह- व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे । प्रारब्धे सूतक न स्यादनारब्धे तु सूनकम् ॥ सूनकमिति मृतकस्याऽप्युपलक्षणम् । तुल्यन्या- यत्वात् । अत्र प्रारम्भशब्देन सङ्कल्पमात्रम् । प्रारम्भो वरणं यज्ञे सङ्कलो व्रतमत्रयोः । इत्यनेन सङ्कल्पस्याऽऽरम्भस्वव्यपदेशात् । तथा सङ्कल्पाऽनन्तरमन्त्यपदार्थपर्यवसानपर्यन्ते कालेऽत्र सू- तकाऽभावः इति विवेकः । “सङ्कल्पो व्रतसत्रयोः' इतिविशेषवचनात् । विशेषतोऽपि विश्वरूपनिबन्धे- आश्विनस्याऽमले पक्षे प्रारब्धे नवरात्रके । शावे सूते समुत्पन्ने क्रियाः कार्याः कथं बुधैः ॥ इतिप्रश्नपूर्वकमुत्तरितम् । प्रवृत्ते नवरात्रे तु सूतकं च यदा भवेत् । देवीपूजा प्रकर्तव्या पशुयज्ञविधानतः ॥

नवरात्रमदीपे-
HAR
तथा-
-
सूतके पूजनं प्रोक्तं दानचैव विशेषतः ।
देवीमुद्दिश्य कर्त्तव्यं तत्र दोषो न विद्यते॥ इति ।
यहाऽन्यद्वारा पूजा कारणीया। तदुक्तं देवीपुराणे--
स्वयं वाऽप्यन्यनो वाऽपि पूजयेत्पूजयीत वा । इति।
एकोऽत्र स्वार्थे णिच् । अपरश्च प्रयोजकव्यापारे
इति न पौनरुक्त्यम् ।
अथ पारणानिर्णयः ।
तत्र विचार्यते किमिदं पारणं दशम्यां कार्यमत
नवम्यामिति । तत्र दशम्यामिति न्यायविदो मन्यन्ते ।
व्रतस्य नवरात्रसमाख्यया समाख्यातत्वात् । तथा हि
समाख्याऽपि हि श्रुत्यादिवद्विनियोजिका । नवरात्रशब्दश्च
नवानां रात्रीणां समाहार इत्यस्मिन्नर्थे निष्पन्नो यौगिकः।
यौगिकश्च शब्दः समाख्येत्युच्यते । तेन
नवरात्रोपवासेन यथाशक्त्या नृपोत्तम !।
एवं च विन्ध्यवासिन्यां नवरात्रमुपोषितः।।
स्वयं नियमतः कुर्यान्नवरात्रमुपोषयन् ।

पारणनिर्णयः। इत्यादिवाक्येषु नवरात्रशब्देनैव तदुपादायोपवास- विधानानवमीमभिव्याप्योपवाससिद्धौ दशम्यां पारणम- र्थतः सिद्यति । ननु तिथिहासवृद्ध्यादौ रात्रीणां नवस- ङ्ख्यत्वाभावेन नवरात्रसमाख्याऽयोगात्कथ तया विनियोग इति चेत् तुल्यमेतत् । भवतोऽपि ह्रासवृद्यादौ नवरा- त्ररूपकालसम्बन्धस्य प्रवृत्तिनिमित्तस्याऽभावे कथं नवरा- शब्दवाच्यता कर्मणः स्यात् । तत्र यदि रात्रिशब्दस्य तिथिपरतामङ्गीकृत्य नवतिथिसम्बन्धेन नवरात्रशब्दे प्रवृत्तिरिति वाच्यम् । तर्हि प्रकृतेऽप्येतत्तुल्यम् । तदेवं "नवरात्रोपवासेन" इत्यादी उपवासेष्ववच्छेदकसङ्ख्या- काङ्क्षायां तिथ्यवच्छेदिकयैव सङ्ख्ययोपवासपरिच्छे- दानवमीपर्यन्तत्वेन दशम्यां पारणमर्थसिद्धमेति। उक्तं च धौम्येन-- प्रतिपदादिपूर्णान्तं दिनभेदेन पूजयेत् । इति । अत्र च पूर्णायां दशम्यामन्तश्रवणात्पारणायाश्च व्रता- न्तरूपत्वादशम्यांपारणमिति। अत्रोच्यते। स्यात्समाख्य- यैवोपवाससङ्ख्यानिर्णयः, यापवासेष्ववच्छेदकसङ्ख्या- काङ्क्षायां प्रमाणान्तरं सङ्ख्याप्रापक न स्यात् । अ- * नवरात्रपदीपे- wder स्ति च तत्- दुर्गोत्सवे स्मृतं देव ! उपवासस्य सप्तकम् । अष्टमे दिवमे होमस्ततः किंचित्तु भक्षयेत् ।। इति रुद्रयामलीयं वचनम् । श्रुतिश्चय "उपवासस्य सप्तकम्” इनिसमाख्यातो बलवती। ततो न्यूनबला समाख्या नोपवासेष्ववच्छेदिकां सङ्ख्यां विनियुङ्क्ते । तथा चोपवासानां नवसङ्ख्यत्वेन नवम्यभिव्याप्तौ दशम्यां पारणमर्थसिद्धमिति कुत एतत् । किं च “नवम्या पारणं कुर्यात"इत्यादिपारणाकालविधायक श्रुतिसद्भावेनार्थेन लि- लेन तत्कल्पना युक्ता । अत्र “पूर्णान्तम्” इति वचनबलेन दशम्यां पारणमित्युच्यते तदपि न । तस्याऽपि पूर्णायां दशम्यामन्तो विसर्जन यथा भवति तथा पूजयेदित्यर्थ- परतयाऽवश्यव्याख्येयत्वात् । अन्यथा नवमीपारण- विधायकवाक्यैर्विरोधो दशमीविसर्जनविधायकवाक्यर्भि- नमूलकता वाऽस्य केन वार्येत । तस्मान्न दशम्यां पारणं किं त नवम्यामेव । नवमीपारणविधायकवचन- निचयात, तादृशविधिलिङ्गदर्शनात, सप्तोपवासविधि- बलात, अष्टमीपर्यन्तोपवासविधेः, सप्तोपवासलिङ्गद.

पारणनिर्णयः Samme र्शनात, व्रतस्य नवमीपर्यन्तताश्रवणात, दशमदिवसे पारणनिषेधात्, दशमीपारणनिषेधात , दशमीविद्धनवमी- पारणनिषेधात्, अधिकोपवासनिषेधाच्चेति दशहेतुस- द्रावात् । तत्राऽऽद्यस्तावत् ब्रह्माण्डपुराणे- आश्विने शुक्लपक्षे तु नवरात्रमुपोषितः । नवम्यां पारणं कुर्याद्दशमीसहिता न चेत् ॥ रुद्रयामलेऽपि-- वासन्ते नवरात्रे तु पूज्या स्याद्रक्तदन्तिका । इति प्रक्रम्योक्तम्- नवम्यां वा विशालाक्ष ! कार्या होमादिकाः क्रिया:। पारणं च प्रकुर्वीत देवीपूजनपूर्वकम् ।। तत्रैव दशमीपारणं निन्दित्तोपसंहृतम्-- तस्मात्तु पारयेद्देव ! नवम्यां भक्तितत्परः। अन्वयव्यतिरेकाभ्यां नवमीपारणप्रशंसा- WARINA तथा me मुक्त्वोपसहृतं तत्रैव- नवम्यां पारिता देवी कुलवृद्धिं प्रयच्छति । दशम्यां पारिता देवी कुलनाशं करोति हि ॥ तस्मात्तु पारणं कार्य नवम्यां विबुधाऽधिप।इति।

नवरात्रपदीपे- पुनश्च तत्रैवोपसंहृतम- नवम्यां पारणं कार्यमन्यथा दुःखदं भवेत् । इति वचननिचयसत्त्वान्नवम्यां पारणम् । अथ द्वितीयः। नारदीयपुराणे पूर्वोदाहृतनवरात्रप्रस्तावे- इविव्याणि जुहुयाद् दुर्गाष्टम्यां विशेषतः । रात्री जागरणं कुर्याद् गीतवाद्यपुरस्सरम् ॥ ततः प्रभाते विमले प्रातःस्वात्वा यथाविधि । इत्यादिनाऽष्टम्युत्तरदिनकृत्यं किं चिदुक्त्वान्तेऽ- भिहितम्- स्वयं च पारणं कुर्यादिष्टबन्धुजनैः सह । अहःशेष समासीत शिष्टैरिष्टैः शिवाप्रियः ॥इति । एतेनाऽष्टम्यां रात्रौ होमजागरणाद्यनेकधर्मानभि- धाय प्रातरपि स्नानदेवीपूजनकुमारीभोजनद्विजपूजन- व्रतपूर्णतावाचनाद्यनन्तरं पारणविधानानवम्यामेव तत्सि- द्यतीत्येकं लिङ्गम् । किं च रुद्रयामलेऽपि नवरात्र- प्रक्रमे

पारणनिर्णयः।
प्रत्यहं पूजनं कुर्यात्तिकालं भक्तितत्परः ।
अष्टम्यां जागरं चैव महापूजनपूर्वकम् ।।
होम कुर्यान्महाराचे बलिदानं च माधव !।
प्रात पारयेद्दवीं ब्राह्मणान् भोजयेत्तथा ॥
कुमारीणां च नवकं सम्भोज्यं विविधान्नकैः ।
स्वयं च पारणं कुर्याद्रात्रौ जागरणं तथा ।
दशम्यामभिषेकं च कृत्वा मूर्ति विसर्जयेत्। इति।
अत्रोपक्रमे अष्टम्यां जागरणाद्यभिधायाऽन्ते च
दशम्यामभिषकादिकमुक्त्वा मध्ये च "प्रातर्वे पारयेत्"
इत्यादिना देवीपारणतर्पणकुमारीभोजनाद्यभिधायाऽनन्तरं
"स्वयं च पारणं कुर्यात्" इति वदताऽष्टम्युत्तरदिने दशमी-
पूर्वदिने च पारणमुक्तं, तदेव च नवमीदिनमिति सिद्ध
नवम्यां पारणमित्यपरं लिङ्गम् ।
अथ तृतीयः ।
रुद्रयामले-
दुर्गोत्सवे स्मृतं देव ! उपवासस्य सप्तकम् ।
अष्टमे दिवसे होमस्ततः किं चित्तु भक्षयेत् ॥इति।
अत्र कृतशुद्धसप्तोपवासस्य होमाऽनन्तरमशक्त्यादिना

९६ नवरात्रप्रदीपे-- MD- किंचिद्भक्षणेऽप्युपवाप्तस्याऽक्षत्याऽष्टोपवाससिद्धावुपवासा- नामष्टसङ्ख्यानुरोधान्नवमदिने पारणस्याऽऽवश्यकत्वान्न- वम्यां पारणं सिध्यति । यथा चाऽष्टमदिने किंचिगक्ष- णेऽप्युपवासत्वाऽक्षतिस्तथोपरिष्टावक्ष्यामः । अथ चतुर्थः । मविष्यपुराणे- प्रथमा द्वितीया तृतीया चतुर्थी च नराधिप !। एतास्तु एकभक्तेन प्रवदन्ति मनीषिणः ॥ पञ्चमी च तथा षष्ठी सप्तमी चाऽष्टमीषु च । उपवासपरो भूत्वा पूजयेच्चण्डिकां बुधः ॥ इति । अत्र सर्वोपवासाऽसमर्थस्य चतुर्थीपर्यन्तमेकभक्तमु- क्त्वा पञ्चमीमारभ्याऽष्टमीपर्यन्तमेवोपवासगणनया नवम्यां पारणमर्थतोऽवगम्यते । नन्वष्टम्यामुपवासे अष्टावु- पवासा भवन्ति तथा च तृतीयहेतुसाधकं रुद्रयामलीयं "उपवासस्य सप्तकम्" इति वचो विरुद्ध्येतेति चेत् नैष दोषः । अष्टम्युपवासस्य काम्यत्वेन नवरात्रबहिर्भूत- त्वात् । काम्यत्वं चाऽस्य भविष्योत्तरे- पारणनिर्णयः । अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् । पूजयित्वाऽऽश्विने मासि विशोको जायते नरः ॥ इतिफलश्रवणात् । यद्यप्यत्रोपचासो न श्रूयते तथाऽपि कन्यासंस्थे रवावीशशुक्लाष्टम्यां प्रपूजयेत् । सोपवासो निशाढे तु महाविभवविस्तरैः । तथा- तत्राष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी । प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह ॥ अतोऽर्थ पूजनीया सा तस्मिन्नहनि मानवैः । उपोषिनर्वस्त्रधूपमाल्यरत्नानुलेपनैः ॥ इत्यादिवाक्यैः पूजाया उपवासपूर्वकत्वबोधकैरेकवा. क्यतापन्नेन तेनोपवासपूर्वकपूजाया एव फलसम्बन्धबो- धकत्वात् । न च दिनद्वयसाध्यकर्मान्तरस्यैवेदं फलश्र- वणमिति वाच्यम् । तत्तद्वाक्यैः प्रत्येकमुत्पादिताया एवाऽष्टमीनवमीपूजाया एकप्रयोगतासूचनाय समुदायी- करणपूर्वकफलसम्बन्धकरणात । आग्नेयादित्रिकस- मुदायीकरणवाक्यवदिति च (?) विरोधः इति स्यात्परं दृष्टान्ते विशेषः यदेकेन वाक्येन समुदायीकरणमपरेण नवरात्रप्रदीपे- .. फलसम्बन्धकरणमिति । प्रकृते त्वेकेनैवोभयमपीति । अत एव रुद्रयामलीयवाक्येन सप्तोपवासानां सप्तमीप- यन्तमेवाऽनष्ठानात्पारणस्य च नवम्या विहितत्वादष्टभ्यां किं कार्यमित्याकाङ्क्षायामुपवासपारणविलक्षणं किंचिग- क्षणमुक्तम् । उपवासनिषेधे तु किंचिक्ष्यं प्रकल्पयेत् । इति न्यायात् । निषेधश्च सप्तसङ्ख्याविधानार्थः । त- स्मान्न विरोधः । अथ चाष्टमदिने किंचिदक्षणेऽपि उपावृत्तस्तु पापेभ्यो यस्तु वासोगुणैः सह । उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥ इत्युपवासलक्षणसत्वान्न विरोधः । न च किंचिद्भ. क्षणे सर्वभोगविवजितत्वं नास्तीति वाच्यम् । अत्र किंचिच्छब्देनाव्रतघ्नस्य पयोमूलादेर्ग्रहणात् । तदुक्तम्- अष्टौ तान्यव्रतध्नानि आपो मूलं फलं पयः । हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ इति । तेन पयोमूलादिभक्षणेऽप्युपवासत्वं न हीयत इति सर्वभोगविवर्जिजतत्वमस्त्येव । अथ वा नित्यवत्कृ- तस्याऽपि तस्याऽष्टम्युपवासविधिवलात्सामर्थ्यबलाचाश- - पारणनिर्णयः। ९९ क्तविषयत्वाऽवगमात । एकभक्तादिवत् । न ह्युपवास. सामर्थ्य भक्षणं युज्यते । “प्रभुः प्रथमकल्पस्य” इतिन्या- यविरोधात् । तद्युपत्रासानां नित्यवत्कृता सप्तसङ्ख्या बा- ध्येतनि चेत् न, तस्याऽऽवश्यकोपवासपरिच्छेदकत्वेनाऽट- मोपवासपरिसङ्ख्यायकत्वाभावात् । आवश्यकत्वं च सप्तरात्रप्राधान्यात् । प्राधान्य चोत्तरत्र हेतौ स्फुटीभ- विष्यति । अथ पञ्चमः । कालिकापुराणे- रामस्याऽनुग्रहार्थाय रावणस्य वधाय च । रात्रावेव महादेवी ब्रह्मणा बोधिता पुरा ।। ततस्तु त्यक्तनिद्रा सा नन्दायामाश्विने सिते। रामरावणयोर्युद्धं सप्ताह सा न्ययोजयत् ॥ व्यतीते सप्तरात्रे तु नवम्यां रावण ततः । रामेण घातयामास मायया सा जगन्मयी ॥ यावत्तयोः स्वयं देवी युद्ध केलिमुदक्षत । तावत्तु सप्तरात्राणि सर्वदेवैः सुपूजिता ॥ निहते रावणे वीरे नवम्यां सकलैः सुरैः ॥

१०० नवरात्रप्रदीपे- विशेषपूजां दुर्गायाश्चके लोकपितामहः । चके कारयामासेत्यर्थः । ततः सम्प्रेषिता देवी दशम्यां सा सुरोत्तमैः । तथैव च नराः सर्वे कुर्युः पूजां यथाविधि ॥इत्यादि। अथ सप्तरात्रमेव युद्धनिरीक्षिका देवी देवैः पूजि- तेति नरैरपि सन्यैः सप्तरात्रमेव पूजनीयेति वदता सप्त- रावस्यैव प्राशस्त्येन प्राधान्यमुक्तमिति सप्तैवोपवासा युक्ता इत्येक लिङ्गम् । तथा ज्योति शास्त्रेऽपि नवरा- त्रप्रक्रमे “शुक्लपक्षे प्रतिपदि" इत्यादिना वाजिरक्षा विधाय एनत्प्रतिदिनं कुर्यात्सप्तरात्रमतन्द्रितः । कारयेद् ब्राह्मणैश्चैव शान्तिस्वस्त्ययनानि च ॥ सप्तरात्रे व्यतिक्रान्ते क्षौरितान्स्नापितांस्तथा । अर्चितान्विविधैर्गन्धैस्ततो नीराजयेद् बुधः ॥इति। अत्राऽपि सप्तरात्रप्राधान्य दृश्यते । जपहोमार्चनादि. सहचरितानामुपवासानामपि सप्तरात्रमेवाऽनुष्ठानं युक्त- मित्यपरं लिङ्गम्।क्वचिद् द्वितीयायामित्यपि पाठस्तत्राऽपि समाप्तिनवम्यामेवेति न दोषः ।

पारणनिर्णयः । अथ षष्ठः। तथा च धौम्यः- - आश्विन शुक्लपक्षे तु कर्त्तव्यं नवरात्रकम् प्रतिपदादिक्रमेणैव यावच्च नवमी भवेत् ॥ तथा- शुक्ल प्रतिपदारभ्य यावत्स्यान्नवमीतिथिः । इति । तथा- आश्विने प्रतिपन्मुख्याः पुण्याः स्युस्तिथयो नव । इति । एतेनाऽपि व्रतस्य नवमीपर्यन्ततैवोक्तति । ननु “पार तीर कर्मसमाप्तौ” इत्यस्माद्धातोनिष्पन्नः पारणशब्दो यद्यपि कर्ममात्त्रसमाप्तिमभिधत्ते तथाऽपि लोकशास्त्रा- भ्यामुपवाससमाप्तावेव पङ्कजादिवद्योगरूढो वाच्य तथा च पारणस्य व्रतसमाप्तिरूपत्वेन व्रतप्रतियोगित्वेऽपि व्रतस्वरूपत्वाभावादुपवासाद्यात्मकस्य "यावच नवमी भवेत्" इत्यादिनोक्ता नवमीपर्यन्तता न सिद्धा अष्टमीपर्यन्तमेवोपोष्य नवम्या पारणविधाना- दिति चेत् मैवम् । तथाऽपि सिध्यत्येव नवमीपर्यन्त- ता। तथा हि पारणं नाम व्रतचरमाङ्गभोजन(१)मुच्यते । नवरात्रत्रतस्य नवरात्रप्रदीपे- यथा होटेश्वरमाङ्ग ब्राह्मणतर्पणम् । अङ्गत्वे चाऽस्य "स्वयं च पारणं कुर्यात्" इत्यादिविधिश्रुतिरेव मानम् । किं च पारणमङ्गं न स्यात्तर्हि द्वादश्यादिषु मुख्यपार- णसङ्करे अङ्गिपारणं कुर्यादिति प्रतिनिधिनियमो नोप- पद्येत न हि रागप्राप्तेषु प्रतिनिधिसम्भवः । अतः पार- णशब्दबलात्प्रतिनिधिबलाच्चाङ्गत्वं पारणस्य सिद्धम् । तदुक्तमादित्यपुराणे- पारणान्तं व्रतं ज्ञेयं व्रतान्ते तहिभोजनम्। इति । तथा च सङ्कल्पक्षणमारभ्य पारणान्तक्षणपर्यन्तं वितत. भावनान्तनिष्पातित्वेन पारणस्यापि व्रतरूपत्वम् । व्र- तत्वेऽपि प्रधानत्वं नेत्यन्यदेतत् । नैतावता व्रतत्वक्ष- तिः । तथा च नवम्यनुष्ठीयमानव्रतस्य नवमीपर्यन्तता सिद्धयतीति न दोषः । नन्विदं व्रतप्रयोगबहिर्भूतमेवाङ्ग- मस्तु "व्रतान्ते तद्विभोजनम्" इत्यनेन व्रतसमाप्तौ त च्छ्रवणात । यथा “संस्थाप्य पौर्णमाप्तं वैमृधमनुनिर्वपति" इत्यनेन पौर्णमाससमाप्तौ वैमृधो विधीयते । संस्थाप- नान्तशब्दयोश्च पर्यायत्वादिति चेत् मैवम् । “पारणा- तं व्रतं ज्ञेयम्" इत्यस्य पारणया अन्तः समाप्तिर्यस्ये- पारणनिर्णयः त्यर्थपरत्वेन पारणस्य व्रतप्रयोगबहिर्भावाऽभावात् । त- था च पूर्वोत्तरयोरेकार्थत्वमेवेति । वस्तुतस्तु प्रकृते पूजाया एवं प्रधानत्वात्तदन्तस्य विसर्जनस्य दशम्य- नुष्ठीयमानतया तदन्तःपातिनः पारणस्य व्रतप्रयोग- बहिवः शङ्कापथमेव नाऽवतरतीति दिक् । अथ सप्तमः। रुद्रयामले- यो मोहात्पारणं कुर्याद्दशमे दिवसे विभो !। तद्राष्ट्रं नाशमायाति दुर्भिक्षादिभवेन हि ॥ तथा तत्रैवm न कुर्यादिनवृद्धि तु दुर्गायाः पारणे विभो ! । यः कुर्यात्पारणं दूरे तस्य स्यादशुभं गृहे ॥ इति । अत्र दशमदिवसे पारणकरणे दशरात्रसाध्यतया बतस्य नवरात्रसमाख्याभङ्गोऽपि स्यात् । पारणस्याऽप्यु- क्तयुक्त्या व्रतरूपत्वात् ।

१०४ नवरात्रप्रदीपे- अथाऽष्टमः । ब्रह्माण्डपुराणे- दशमीमिश्रिता यत्र पारणे नवमी भवेत् । सप्तजन्मकृतं पुण्यं तत्क्षणादेव नश्यति ॥ यो मोहादशमीवेधे नवम्यां चण्डिकां यजेत् । पारण व प्रकुर्याद्वै तस्य पुण्यं निरर्थकम् ॥ अथ नवमः। अत्राऽयमभिसधिः। नवम्या दशमीयोगोन स्वरूप- तो निषियते, किंतु पारणकालीनत्वेन । “दशम्यां पारणे कृते” इत्यनेन पारणाधिकरणत्वेन दशम्या निषेधात् । पारणकालस्य पञ्चधा विभक्तस्य दिवसस्याऽऽद्यो भागः प्रातःसंज्ज्ञः। सर्वेषामुपवासानां प्रातरेव हि पारणम् । इतिवचनात् । तेन यदि प्रातःकाले घटिकामात्रा नवमी परस्ताच्च दशमी तदा तादृश्यां नवम्यां पारणं न कार्यमेव । कर्मकालव्याप्त्यभावात् । किं तु पूर्वेधु- रेव, तत्राऽपि कर्मकालव्याप्तिश्चेत । तेनाऽयमर्थः-यदि पूर्वेधुः षड्दण्डाधिका वा अष्टमी परस्ताच्च नवमी पारणनिर्णयः। परेधुश्च षड्दण्डाऽधिका वा नवमी तदा पोथुरेव पारणा। पूर्वेधुर्नवमीमिश्राऽष्टम्या उपोष्यत्वात्परेयुः पारणकाले दशम्यभावाच्च । इतरथा पुनस्त्रिमुहर्त्तन्यूनाया अष्टम्याः सत्त्वेऽप्यग्राह्यत्वेनाऽप्रयोजकत्वात्पूर्वेधुरेव पारणेति । तथा च लघुतिथिनिर्णये पद्मपुराणम्- अष्टम्या सहिता रिक्ता न कदाचित्परायुना। चामुण्डापूजनं कृत्वा पारणं च ततः परम् ॥ इति । अष्टमीसाहित्यं चोदयव्यापित्वेन न त्रिमुहू दिसत्वेन, तथात्वेनोपोष्यतापत्तेः । तथा देवीपुराणम्- अष्टम्यामुदिते सूर्ये दिनान्ते नवमी भवेत् । पारणे सा तिथिः प्रोक्ता बलिदानं परेऽहनि ॥ इति । परेऽहनि अह्नः परभागे। अत्राऽपराधिके काले बलिदान प्रशस्यते । दशमी वर्जयेत्तत्र मात्र कार्या विचारणा ।। इति ब्रह्मवैवर्तात् । अत्र नवम्या प्रक्रमात परेधुः (?) रत्वे तु दशम्यां बलिदानप्रसङ्गः । कथं चिदौदायिकन- वमीपरत्वे च पूर्वेयुः पारणा, परेवुश्च बलिदानमित्ति नवरात्रप्रदीपे- महदेव वैशसम् । रुद्रयामलेऽपि- Masa अष्टम्या सह कार्या स्यानवमी पारणादिने । यो मोहाद्दशमीवेधे नवम्यां चण्डिकां यजेत् ।। पारणं च प्रकुर्याद्वै तस्य पुण्यं निरर्थकम् । इति । यदा पुनः पूर्वेधुः षड्दण्डा अष्टमी परस्ता- च्च नवमी परेधुश्च क्षयवशादल्या नवम्यथ वा नव- म्यभावस्तदा पूर्वारष्टभ्या अवश्योपोष्यत्वात्परेधुर- पायामपि नवम्यां पारणं कार्यम् । पूर्वोक्तवचननिच- यात् । सर्वथा तदभावे यद्यपि दशम्यां पारणनिषेध- स्तथापि तत्रैव पारणं कार्यम्, न पूर्वेद्युः । अङ्गाङ्गस्य पारणाकालस्याऽनुरोधन प्रधानानामुपवासानां सङ्ख्या- कालबाधस्यान्याय्यत्वात् । तस्मात्प्रधानोपवाससङ्ख्या- ऽनुरोधेनाऽङ्गभूतपारणाकालव्यवस्थापनं युक्तमिति । यत्पुनः “यो मोहादशमीवेधे" इत्यादिवेधपदं तदपि पूर्वोक्तयुक्त्या पारणाकालीनदशमीयोगमात्रपरमेव न तु सायङ्कालीनत्रिमुहूर्त्तवेधपरम् । तस्याऽप्रयोजकत्वात् । तादृशदशनीवेवस्याऽपरिहार्यत्वेन पारणासङ्कटापत्तेश्चेति।

पारणनिर्णयः। अथ दशमः। वै ॥ रुद्रयामलेऽष्टमेऽध्याये- आश्विने मासि सम्प्राप्ते शुक्लपक्षे विधस्तिथिम् । प्रारभ्य नवरात्रं स्याद् दुर्गा पूज्या तु तत्र उपोषणेन नक्तेन एकमतन वा पुनः । हविष्यान्नन वा देव ! प्रत्यहं पूजयच्छिवाम् ॥ व्रतोपवासपूजादौ दिनहानि च कारयेत् । न देवदिवसस्याऽत्र वृद्धिः कार्या विजानता ।। तिथिवृद्धि तु यः कुर्यादज्ञानाज्ज्ञानतोऽपि वा। परलोके भवेलीडा प्रेतत्वजनिता स्थिरा ॥ भगवत्याश्च पीडा स्यादुपवामेन केशव ! । तस्मान्न वर्द्धयेदेव ! दिवसं दुर्गपूजने ।। प्रत्यह पूजने प्रोक्तो विधिदेवमहर्षिभिः । तिथिवृद्धौ न कार्य स्यात्तस्मान्नो वर्द्धयदिनम् ॥ तिथिहासस्तु कर्तव्यो देवीपूजनके व्रते। तेन सम्मानिता देवी हासो येन कृतः प्रभो !॥ इत्यादिनोपवासाऽऽधिक्यनिषेधादष्टावेवोपवासाः । न च प्रतिषेधबलादेवाऽधिकोपवाससिद्धिः। तस्य प्राप्तिपूर्वक- १०८ नवरात्रप्रदीपे- त्वादिति वाच्यम् । नवरात्रममाख्यामात्रेण भ्रान्त्या नवम्युपवासप्रवृत्तस्याऽनेन निवर्त्तनात् । मन अयाची त्वथ वैकाशी नक्ताशी त्वथ वावदः । प्रारभ्य नन्दिकां राजन् । यावद्धि नवमी भवेत् ॥ इत्यादिवाक्यैनवमीमभिव्याप्यैकमक्तादिविधानात्कथं नवम्यां पारणमिति चत् न। यावच्छब्दस्याऽवध्यर्थत्वेना- ऽभिव्यात्म्यर्थत्वाऽभावात् । अन्यथा पूर्वोक्ताऽनेकदोषाप- त्तेः। अत एवोक्तं च नवम्यां च जपं होम समाप्य विधिवहलिम् । यात्रां वैजयिकी कुर्याद्दशम्यां श्रवणेऽपि च ॥ इति । नवम्यां जपादिसमाप्तिं वदता जपाद्युत्तराङ्गस्यैव त- वाऽनुष्ठान दर्शितं, न जपादेरिति । समाप्तश्चरमपदार्थानु- ष्ठानत्वात् । ननु एकभक्तेन नक्तेन स्वशक्त्याऽऽयाचितेन च । अथ वा नवनक्तैश्च नवरात्रं समापयेत् ।। इत्यत्र मवनक्तश्रवणात्कथं नवम्यां पारणमिति चेत् नैष दोषः । नापवासाऽऽधिक्यमपि निषिद्यते येन नत्र- मीपारणविरोधः । पारणशब्दस्य कर्ममानिसमाप्त्यर्थक- पारणनिर्णयः । त्वेऽपि लोकशास्त्राभ्यां योगरूढत्वेनोपवामममातिवाचक- त्वस्य पूर्वमेव स्थापितत्वात् । तथा चोपवासपक्ष नवम्या प्रातरेव पारणम । सर्वेषामुपवासानां प्रातरेव हि पारणम् । इतिवचनात् । नक्तपक्षे तु पारणात्मकस्य भोज- नस्य नक्तकालकर्त्तव्यत्वात्तेन सह नवनक्तनिर्देश इति कापि न विरोधः । तदेवं सिद्धा नवम्यां पारणा । एवं च युक्तिमुक्ताकरम्बिते वचनचिन्तामणौ परिस्फुरति बुद्धिदरिद्राणा भिक्षालब्धसमाख्यामात्रेण कालातिवाहन- मतितरा दुरदृष्टं गमयति । अथ विसर्जनम् । रुद्रयामले- दशम्यामभिषेकं च कृत्वा मूर्ति विसर्जयेत् । इति । तथा तत्रैव- दशम्यां च विसर्गः स्यादभिषेकश्व माधव !। इति राजमार्तण्डऽपि- सम्प्राप्ते वैष्णवान्ते कृतनिय- मविधिः प्रेषयेत्तां दशम्याम् । इति । Re- नवरात्रमदीपे- upali - "निर्माल्यं तु श्रवणदशमीवासरान्ते विजह्यात" कात्यायन: "श्रवणेन तां च दशमी सम्प्राप्य सम्प्रेषयेत" धवलनिबन्धेऽपि- उत्तरासु बलि दद्याच्छवणेन विसर्जयेत। श्रवणेनेतिसामान्योपादानेऽपि चतुर्थचरण एव ग्राह्यः। "सम्प्राप्ते वैष्णवान्ते” इतिवाक्यात् । तथा- अन्यपादो दिवाभागे श्रवणस्य यदा भवेत् । सम्प्रेषणं तदा देव्या दशम्यां तु पुनर्दिवा ।। श्रवणान्त्यपादो नवमीयुक्तदशम्यां चेत्तदा तदहरेव । अन्यथा परेधुरेव प्रातरित्यर्थः । दिनद्वयेऽपि तद्योगाऽ- भावे दशम्यामेव । तिथेः प्रधानत्वात् । रूपनारायणा- दयोऽप्येवमेवाहुः-"दशम्यां प्रातः सम्प्रेषयेत्” इति । अथ विजययात्रा। यात्रां वैजयिकी कुर्याद्दशम्यां श्रवणेऽपि वा । सा च विजयदशमीत्युच्यते । तथा च नारदः- वलक्षदशमी या स्यान्मासीषे विजयाऽभिधा ।

दशमीदिनकृत्यनिर्णयः।
विजयस्तत्र शत्रूणां मन्धि; न पराजयः ॥
तस्यां चाऽपराजिनापूजा, सीमाल धनम् । तदुक्तं
पुराणसमुच्चये-
दशम्यां तु नरैः सम्यक् पूजनीयाऽपराजिता ।
ऐशानी दिशमाश्रित्य अपराह्ने प्रयत्नतः ॥
विशेषो विश्वरूपे-
अश्मन्तकं शमी वाऽपि गन्धपुष्पादिनाऽचयेत् ।
तत्र मन्त्रः--
-
अश्मन्तक ! तरुश्रेष्ठ ! वनराज ! वनस्पते ।
अतस्त्वां पूजयिष्यामि मम सिद्धिप्रदो भव॥इति ।
तदभावे शमी पूज्या । तदुक्तम्-
सर्वांशलक्षणोपेतामीशानाशां प्रतिष्ठिताम् ।
सम्प्रार्थ तां च सम्पूज्य त्वीशानमम्मुखो भवेत् ॥
शमि ! शमय मे पाप नित्यं लोहितकण्टाक!।
धारयित्र्य नास्त्राणा रामसम्बाददायिनि !॥
यथासुखं यथाकामं मया यात्रा करिष्यते ।
तत्र निर्विघ्नकी त्वं भत्र रामेण पूजिता ॥इति।

नवरात्रप्रदीपे-
तथा-
शमी शमयते पापं शमी आयुष्यबर्दिनी ।
अर्जुनस्य धनुत्रिी रामस्य प्रियवादिनी ॥ इति ।
तत्र च राममूर्ति नीत्वा मृद्ग्रहणं कार्यम् ।
तदुक्तम्-
गृहीत्वा साक्षतां मार्दी शमीमूलगतां मृदम् ।
गीतबादित्रनिर्घोषैस्ततो देवं गृहं नयेत् ॥
तञ्च सायंकाले कार्यम् । तदुक्तं चिन्तामणौ--
आश्विनस्य सिते पक्षे दशम्यां तारकोदये ।
स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धये ॥
रत्नकोशेऽपि-
ईषत्मन्ध्यामतिक्रान्तः किञ्चिदुन्निद्रतारकः ।
विजयो नाम कालोऽयं सर्वकामार्थसाधकः ॥
कालोत्तरेऽपि-
आश्विनस्य सिते पक्षे दशम्यां सर्वराशिषु ।
सागंकाले शुभा यात्रा दिवा वा विजयक्षणे ॥
विजयनामकः क्षणो विजयक्षणः । तल्लक्षणमाह

दशमीदिनकृत्पनिर्णयः। AND अत्र भृगु एकादशो मुहूत्तों यो विजयः परिकीर्तितः । तस्मिन्सविधातव्या यात्रा विजयकातिभिः ॥इति । चैवं व्यवस्था । नवमीदिने सायकाले दशमी- सद्भावे तदैव यात्रा। नवमीशेषयुक्ताया दशम्यां वाऽपराजिता । ददाति विजयं देवी पूजिना जयवईिनी ॥ इति कालोत्तर नवमीयुक्तायाः प्राशस्त्यश्रवणात् । इदमपि श्रवणयोगे द्रष्टव्यम् । श्रवणः तु पूर्णाया काकुस्थः प्रस्थितो यतः । उल्लङ्घयेयुः सीमानं तद्दिनः ततो नरः ॥ इति कश्यपस्मरणात् । यदा तु परदिन एवं श्रवणयोगो दशम्यास्तदा तवैव यात्रा कार्या। उदये दशमी किंचित्मम्पूर्णकादशी यदि । श्रवणः यथाकालं मा तिथिविजयाभिधा ।। इतिकात्यायनस्मरणात् । उदये तारकोदये । चिन्ता- मणिवाक्यात् । सूर्योदयपरत्वे तु दशमीवृद्धावपि परत्र यात्राप्रसङ्गे पूर्वोक्ताऽनेकवाक्यविरोधः । यत्तु गर्ग-

११४
नवरात्रप्रदीपे-
ANTAREERS
वचनम्-
आश्विने दशमी शुक्लां पूर्वविद्धां न कारयेत् ।
एकादश्या युता कार्या राजपट्टाऽभिषचने ।
सूर्योदये यदा राजन् ! दृश्यते दशमी तिथिः ।
आश्विने शुक्लपक्षे तु विजयां तां विदुर्बुधाः॥इति।
तद्राजपट्टाऽभिषेचने इति विशेषणोपादानात्तन्मात्रवि-
षयम् । अतो न विरोधः । द्वितीयदिने सायं दशम्यभावे
मध्याह्नादुपरि सद्भावे च दिवैवैकादशे मुहूर्ते ।
आश्विने शुक्लपक्षे तु दशम्यां पूजयेन्नरः ।
एकादश्यां न कुर्वीत पूजनं चापराजिताम् ॥
दशमी यः समुल्लध्य प्रस्थानं कुरुते नरः ।
तस्य संवत्सरं राज्ये न काऽपि विजयो भवेत् ॥
इतिस्कान्दे एकादश्या प्रस्थाने दोषश्रवणात्। एतेन
दशमीनिर्णयोऽपि व्याख्यातः । तदुक्त विश्वरूपे---
नवम्या सहिता कार्या दशम्याश्वयुजे सिता।
एकादश्या युना जातुन कार्या जयकाटिभिः।।इति ।
अन्यदप्यत्राऽश्वपूजानीराजनादि ग्रन्थान्तरादवगन्तव्य
विस्तरभिया नेहोक्तमिति ।
-

ग्रन्थसमाप्तिः। धर्माधिकारिकुलकैरवकाननेन्दु- श्रीरामपण्डितसुनेन विनायकेन । दुर्गावतस्य नवरात्रसमाख्ययैव ख्यातस्य पारणविधिर्विहितोऽतियत्नात् ॥१॥ बुधा ! मुधा दूषणभूषणाभ्यां दृष्यो न भूष्यश्च मम प्रयासः ॥ यद्यस्ति कोऽप्यत्र गुणाऽऽग्रहश्य धर्मे तदेनं परिशीलयन्तु ॥ २ ॥ सन्तोऽपि सन्तोषमपास्य दूर कृति मदीयां यदि दूषयेयुः ॥ हानिस्तदा स्यात्कियती ममाऽत्र सत्वं पुरस्तात्परिहास्यते तैः ॥ ३ ॥ इति श्रीधर्माधिकारिरामपण्डितात्मजविनायक- पण्डितविरचितो नवरात्रप्रदीपः सम्पूर्णः ।

No text on this page.

परिशिष्टम् । अधिनवरात्रप्रदीपं समागतानां ग्रन्थतत्प्रणेतृणां च अकाराद्यनुक्रमणिका । . ६ A नामानि। पृ. प पृ प १ अनन्तभट्ट २ अमर ३ अश्वशास्त्र ३० ११. ४ आदित्यपुराण १०२ ७ ५ आपस्तम्बभविष्योत्तर १९ और्व ६७ ७ कल्पतरू २३ १२ १७ ८ कश्यप ९ कात्यायन ५९ १२. ८३ १८ ११०३ ११३ १६ १० कालनिर्णय ११ कालादर्श १२ कालिकापुराण ७६ १८.८६ १. ८८८ १३ कालोत्तर ११२ १४. ११३ ८. १४ गर्ग १५ गौडनिबन्ध २८ ९ १६ चन्द्रिका , २३ १२ १७ चिन्तामणि २३ १४. ११२ ८ १८ ज्योतिर्गर्ग १९ ज्योति शास्त्र २० ज्योतिष २९ ९ २१ डामरकल्प ९ १८ २६ १४१ ३. ૨ ७८९ २२ दिवोदास ६ २३ दुर्गोत्सव २४ देवल २३ . ... . . . BO .

२. ५४ भृगु नामानि । पृ पृ. प पृ प ४६ ब्रह्मवैवर्त ९ ४७ ब्रह्मवैवर्तपाझस्कान्दादि ६१ १२ ४८ बौधायन ४९ भट्टविश्वेश्वर १२. ५० भवानीसहस्रनामस्तोत्र ५६ १२ ५१ भविष्यपुराण २ ११ १७ २१ ५ २४२ ५७ १५ ५८ ६. ७१ ५ ७११८ २ ७२ १२ ८०८ ८२११ ८५ ४ ५२ भविष्योत्तर १२ १२ ३ २८ १२ ६ ६७ १०, ७५ १० ९७ १७ ५३ भविष्यभविष्योत्तरादि १० १७ ११३ १ ५५ भोजराजीय २३ २३ ६२ १,८६७१७.६८ १६. ७० ५६ मनु २२ १२ ३२ ४ ५७ महाभाष्यकार ५८ महार्णव ५९ माधवाचार्य १४ १२ १६ १३ १७ २, १९३ (माधव) १९ १० २३ १२ २७ ६ ३३ ११ (माधवीय) ७१ १७ ८२ ७ ६० मार्कण्डेय २३ ६ ६१ रत्नकोश ११२ १२ ६२ रत्नाकर ६३ राजमार्तण्ड २३ १५ ५९ २ ७७ ७ ८३ १५ १०९१६ ६४ रुद्रयामल ३ १२ १० १४ ११ १४ ३७ ३ ७३ १० ७९ ४ .. . ६५ रूपनारायण २०३७ १०६१ १.७२ ... १५ १३ १६ १७.२३ १३ ६० १४ ( ४ ) नामानि । पृ रूपनारायणीय) ६१ १४ ६५ ६. ७० १७ ७८ ४. ११० १३ ६६ लघुनिथिनिर्णय ६७ लल्ललहिता ६८ वर्षप्रदीप ६९ वसिष्ठ ७० वाराहपुराण १४९ ७१ वार्तिक ७२ विश्वरूपाचार्य ६५ १५ ६७ १७ ७२ १२ (विश्वरूपनिबन्ध) (विश्वरूप) ७३ विष्णु ७४ विष्णुधर्मोत्तर ६१ १५ ७५ विज्ञानेश्वराचार्य ६९ १५ ८११० (विज्ञानेश्वर) ७६ व्रतखण्ड ७७ शङ्करगीता ७८ शूद्राऽधिकारमीमांसा ८२ ९ ७९ समयप्रकाश ८० सौरपुराण ૨૨ ૨ २४२ ७३ ११४ ७९१. ८१ स्कन्दपुराण ३९७ ७१७ ११४ १३ (स्कान्द) ८२ स्कान्दभविष्यादि ८३ स्कान्दमार्कण्डेयभविष्योत्तर ( नृसिंहप्रसादे) ११ ४ ८४ स्कान्दभविष्योत्तरभविष्य- कालिकापुराणदेवीपुराणादि .. ८५ स्मृतिसङ्ग्रह २३ १६. ८६ हरनाथ ८७ हेमाद्रि २३ ११.

शुद्धिपत्रम्। पृ० अशुद्धम् अवय शुद्धम् अवयव २ १६ २ ३ १९ २३ २८ १६ ५ ८ पूज्या मेघान्ते सर्वदे यतोहि विज्ञेया समय देवाना वुक्ताया चण्डिका दसि श्रृणु जपहोम विवर्जितान् पुष्पाञ्जलि मुक्त्वा गीतवादित्र ३५ पूज्य नेपान्ते सर्वर्दै यतो विज्ञेयो सयय देवाना वुक्ताया चण्डिका दास श्रुणु जपहो विवर्जितान् पुष्पाञ्जलि मुक्वा गीतवादित्र सहस्त्र पञ्चम्या विद्धा ८ १४ १२ ३८ १५ ४९ १३ १० १४ १६ सहस्र पञ्चम्या विद्ध १ ७३ तस्या ३ तस्या लब्ध्वा ब्राह्मणो लब्धा ब्राह्मणो २ " दाना दानार्चा २० २ THE PRINCESS OF WALES SARASVATI BHAVANA TEXTS Edited by GOPINATH KAVIRAJ, I A No 1-The Kiranāvālī Bhāskara, a Commentart on l'darana's Kıranăvali, Dravya section, by Padmanābha M161 a Ed with Introduction and Index by Gropinath Kaviraj, V A Rs 1-12 No 2-The Advaita Chintamani, by Rangoji Bhatta Ed with Introduction etc by Nārayana S'astri Khiste Bahitráchärra Rs 1-12 No 3-The Vedānta Kalpalatikā, by Madhusudana Sarasvati Edited with Introduction etc by Ramāna Pāndeva vā karanáchārya R, 1-12 NO 4-The Kusumānjalı Bodhani, a Commentary on Edarana's Theistic Tract, Nyaya Kusumānjali, by Paradaraja Ed with Introduction etc by Gopinath Kaviraj, V A Rs 2-0 No 5-The Rasasāra, a Commentary on Udayand. Kıranārall, Guna Section, by Bhatta vadindra Ed with Introduction etc by Gopinath Kaviraj, MA Ils 1 4 Ao 6--(Part 1)-The Bhāvanā Viveka by Mandana Mafra, with a com mentary by Bhatta Umbeka Ed with Introduction ere hr V V Ganganatha Jhā, M A, D Litt R$ 0-12 No 6-(Part IT)-Ditto Ditto Rs 0.1% No 7-(Part 1)-Yogintbrdaya dipiki by AmrtananaVatha, being 2 Commentary on Yngınıhıdara 1 puit of Vanzkes vara Tantra Ed with Introduction Atchs luopuath Kavna, MA Rs. 1_. No - Part II ) Ditto Diits Rs 1- No 8-The Kävyadakini, by Gangānanda Kau Indra Ed with Introduétion etc by Jagannatha S'āstri Hoshing Sāhityopādhváya Rs 0-10-6 (2) No ?-(Part 1)-The Bhakti Chandrikā, a Commentary on S anailya s Bhaktısūtras, by Nārāyana Tirtha Ed with a Prefatory Note by Gopinath Kavnaj,M A Rs 0-1J No 10-(Part I)-The Siddhantaratna, by Baladeva Vidyābhūsana Ed with a Prefatory Note by Gopinath Kaviraj, M A Rs 1-2 No 10-(Part II)-The Siddhantaratna by Baladeva Vidyābhūsana Ed with Introduction by Gopinath Kaviraj, M A Rs 2-12 No 11-The S'ri Vidya Ratna Sūtras, by Gaudapäda, with ? Com mentary by Sankarāranya Ed with Introduction etc by Nārāyana S'āstu Khiste Sahityācharya Rs 0-9 No 12-The Rasapradipa, by Prabhākara Bhatta Ed with Introduction etc by Nārāyana S'istri Kliste Sāhityācharya Rs 1-2 No 13-The Siddhasıddhānta Sangraha, by Balabhadra Ed, with Introduction by Gopinath Kaviraj, MA Rs 0-14 No 14-The Trivenikā, by Āsādhara Bhatta Ed with Introduction by Batukanātha S'armā Sahityo pādhyāya, M A and Jagannātha S'astrı Hoshing Sahitya pādhyāya Rs 0-14 No 15-(Part 1)-The Tripurărahasya (Jnana Khanda) Ed with a Prefatory Note by Gopinath Kavira), M A Rs 0-14 No 15- Part-II )-The Tripurārahasya (Jnanahhanda ) Ed by Gopinath Kavira) M A Rs 2-12 No 16-The Kavya Vilasa, by Chiranjiva Bhattachārva Ed with Introduction etc by Batukanātha Sarmā Sāhityopādhyāya, MA and Jagannātha S'āstrı Hoshing Sahityopādhyāya Rs 1-2 No 17-The Nyāya Kalika, by Bhatta Jayanta Ed with Introduction by M M Gangånātha Jh, MA, D Litt, Rs 0-14 R 0-12 No 18-(Part T)-The Gorahsa Siddhinta Sangraha Ed with a Prefatory Vote by Gopinath h 11112]; 11 A No 19- Part I)-The Prākrita Prahāśa by Vararuchi with the Prākrita Sanjivan. by Vasantarāja ard Subodhını br Sadananda ta with Prefatory note etc by Batuk Sath Sarmā, M A and Baladera t'pīdhyāya, 1 l the R$ 2-4 No 19-( Part II ) Ditto Ditto Rs 2-12 No 19-( Part III ) Introduction etc (In Preparation ) No 20 The Mansatattvaviveka hr V181 anathi Xritapanehānına Bhattāchārya Edited with Introduction etc by P Jannath Sāstri Hoshing Sahitvopādhsāra, with a Foreword by Pandit Gopi Nath Kavirāja, M A , Principal, Government Sanskrit College, Benares R, 0-12 No 21 (Part I) The Nyaya Siddhanta Mala by Jutar in a săva Panchanand Bhattachärva, Edited with Intioduction etc by Vanzel Dera Sastrı M , D Phil (Oxon ), Librarı in, Gelt Sanskrit Library, Sarasvati Bhavana, Benares Rs 1-2 No 22-The Dharmānubandhı Sólohachaturdası hy Sri S'esa Krsna with a Commentary hy Rºma Pandit Eated with Introduction etc by Nirava na Sāstri Khiste Sahityāchālya, Assistant Lahirıın, Government Sanskrit Library, Saraswati Bhavana, Bin ues No 23-Navarātiapı adıpa by Nanda Pandit Dharmadhik tri Ed with Introduction etc by Vaijanātha S'āstri Varakale, Dharmasāstık-$'astrī, Sadholal Resourch Scholar Sanskrit College, Benares, with a Foroword by P Gopinith Kavira), Ma, Principal Government Sanskrit College Benues No 24-Sri Pāmatapıniyopanisad with the Commentary called Rama Kāsıkā in Parvatāpıni and Anandanıdhı in Uttaratapini by Anandavana Ed with Introduction etu by Anantarāma s'āstri Vetala Sahityopādhyāya, Post-Achārya Scholar, Gott Sanskrit College, Benares, with a Foreword by Pandit Gopi atha Kavirāja, V A, Principal, Government Sanskrit College, Benares No 25-Sāpındyakalpalatıkā by Sadāsıya deva alias Apadeva with a commentary by Nārāyana Deva Edited with Introduction ete by Jagannātha S'āstri Hosinga, Sahityopādhyāya, Sadhulal Research Scholar, Govt Sanskrit College, Benares THE PRINCESS OF WALES SARASTATI BHAVANA STUDIES Edited by GoPIV {TH KAVIRAJ, 14 Vol I (1) Studios in Hindu Lux (1) its Lt olution, by Gangānīth : Jha (b: The v10 1-20mnt of tyīva Plisesika Philosophy, by Gopi nath Kavnaj (c) Nu manu Krya, by Gopinath Kavnaj Ps 1-13 Vol II (2) Par usurimi Misia al as Vini Hiszli Raid by Gopinath Kaviraj (b) Index to Sbarr's Inīsy 1, by the lite Col G Jacob (c) S'tudies in Hindu Iew (2) -ets s sur ces by Ganyanıth Jhr (d) A New Bh ihti Sūtra, by Gopinath Kavilaj (c) The System of Chakras acordmg to Gozhsa natha, by Gopinath Kaviraj (f) Theism in Ancient Indu, by Gopinath Kaviraj (g) Hindu Poetics, by Batuha nátha Sarm (h) A Seventeenth Century 1strolabs, by aPd nīkaia Dygl Fedı (1) Some aspects of Vir alta Philosophy, by Gopinath Kaviraj (1) Nyāya Kusumānjalı ( English Translation ), by Gopinath Kaviraj (k) The Definition of Poetry, by Nārāyanā S'astrı Khiste (1) Sondala Upadhyāya, by Gopinath Kaviraj Rs 5 Vol III- (2) Index to S'abara's Bhâsya, by the late Col G A Jacob (b) Studies in Hindu Law (3) Judicial Procedure by Gangā nātha Jha (c) Theism in Ancient India, by Gopinath Kaviraj (d) History and Bibliography of Noita Vaisesık 2 L terature by Gopinath Kaviraj (0) Naisadha and S'r Harsa by Nilalamala Bhattacharya (f) Indian Driniturgy, by P N Patankar Rs 5 yol I 1ely Studies in Jlinda san (4) juliv xl Procodulo by (tanga nat111 Ja (b) History and B bliography of N3912 usesik. Literature, by Gopinath Kaviruj (c) Analysis of the Contents of the Rgreda Prátisākhyi, by Mangalı Dovi Sastra (d) Narāyana's Gapita kaumudi, by Padmāku z Duivedi (0) l'ood and Drink in the Rāmayınic Age, bt MI mum itha nātha lloy (fy Satkacyavāda Causality in Sankhya, by Gopinath Kaviraj (S) Discipline by Consequences, by G L Sinha (h) History of the origin and expansion of the Aryans by AC Ganguly (1) Punishments in Ancient Indian Schools, by G L Sinha Rs 5 Vol V (a) ancient Home of the Alyans and then migration to India, by A O Ganguly (b) A Satrap Coin, by Shyamalal Mehr (c) An Estimate of the Civilisation of the Vannas is depicted in the Ramayan, by Janmatha näth. Roy (d) A Comparison of the Contents of Rgreda, Vajasines ?, Tai tuiya & Atharvareda Prātisikhyas, by Mangala Deva S'āstri () Formal Training and the Ancient Indian Thought, b, GL Sinha (f) History and Bibliography of Nyäyı Vars'esika Literature, by Gopinath Kaviraj (8) A Descriptive Index to the names in the Ramayana, by Manmatha nāth Roy (h) Notes and Queries (1) Virgin Worship, by Gopinath Kariraj Vol VI-(In progress) (a) Index to S'abara's Bhāsya, by the late Col G A Jacob (b) Some Aspects of the History and Doctrine of the Nathas, by Gopinath Kaviraj (c) Studies in Hindu Law (5) Evidence, by Ganganatha Jhå To be bad of The Superintendent, Government Press Allahabad U P. (India)

Navratrapradipa

Author
Gopinath Kaviraja
Title
Navratrapradipa
File name
Navratrapradipa
Text
OCR done
Citation
1928
Published
2006/06/18
Publisher
Vidya Vilas Press Benaras City
Language
Sanskrit
Pages
171
Library
Allahabad University
Classification
Literature
DLI number
486601
Barcode
5990010121679.00
Scanning centre
IIIT, Allahabad
VMLT id
aOQU06gw2vI
Download PDF

Navratrapradipa