Bharatiya Vidya Bhavan Library, Mumbai
Updeshsahastri
Front matter
श्रीमद्भगवत्पादाचार्यप्रणीता उपदेशसाहस्री। Ker पदयोजनिकाख्यया श्रीमद्रामतीर्थविरचित- व्याख्यया संवलिता। otoo0- अयं ग्रन्थः पणशीकरोपाहविद्वद्वरलक्ष्मणशर्मतनुजनुपा वासुदेवशर्मणा संस्कृतः। मुम्पय्या तुकाराम जावजीश्रेष्ठिना स्वीये निर्णयसागराख्यमुद्रणयन्त्रालयेऽयित्वा प्रकाशितः। शाका १८३५, सन १९१४. मूल्यं १ रूप्यकम् ।
अथात्र प्रास्ताविकम् । वेदान्तवाक्यपुप्पेभ्यो ज्ञानामृतमधूत्तमम् । उजहारालिवद्यो नस्तस्मै सगुरवे नमः॥ इह जगति धर्मादिचतुःपुरुषार्थसंपत्तिर्हि वेदार्थज्ञानाधीनेति निर्वि- वादम् । वेदस्तदर्थश्वातिगहन इति तदर्थमाकलय्य लोकोदिधीर्पणा परमकारुणिकेन श्रीमच्छंकराचार्येण नैकशः सन्ति संदृब्धा ग्रन्थाः । शंकराचार्यस्तावत्कलिगतेषु ३८८९ वर्षेषु प्रादुर्वभूवेति विज्ञायते । तथा चोक्तं शंकरमन्दारसौरभे–'प्रास्त तिप्यशरदामतियातवत्या- मेकादशाधिकशतोनचतुःसहरूयाम्' इति । अन्यत्रापि-निधि- नागेभवतयन्दे ३८८९ विभवे मासि माधवे । शुक्ल तिथौ दशम्यां तु शंकरार्योदयः स्मृतः' इति च । तेन वैक्रमवत्सरमानेन ८४५ मिते वर्षगणे प्रादुर्बभूवेति निश्चीयते । यद्यप्यत्र विषये भिन्न- भिन्नारभव्या विवदन्ते विद्वांसः तथापि शिरोनिर्दिष्टप्रमाणेनायमेव तेपा- मवतारसमय इति नः सिद्धान्तः। आस्तामयं समयविवादः, यतैरवतीर्या- खिलधरामण्डले अद्वैतवेदान्तसिद्धान्तप्रणयनादिभिरतीवोपकृतं न तथान्येन केनापीति जगद्गुरुत्वमेषामेवाधिकं राजते । तत्प्रणीतेष्विय- मुपदेशसाहस्री १९ एकोनविंशतिप्रकरणोपेता अद्वैतवेदान्तसिद्धा- न्तानुद्वोधयन्ती जागर्ति सर्वत्र भारतवर्षेषु । अस्या एकैकं पद्यं सर्वो- (२) पदेशक्षम ललितच्छन्दोबद्धमर्धगम्भीरं च विद्यते । एतयाख्यापि मझुडैव व्याख्यात्रा प्रणीतास्ति । संप्रत्यस्सैकं सव्याख्यं २०० द्विशतवर्षेभ्यः पूर्व लिखित पुस्तकं प्रायःशुद्धमुपलब्धम् । तस्मात्पूर्वमुदितं संवाय सम्यक्परि- शोध्यास्माभिरिदं सुचिकणपत्रेषु मधुराक्षरैः सुव्यवस्थया मुदितमस्ति । अस्य सर्वोपयुक्तव्यं सौभाग्यंच दर्शनसमकालमेव स्फुटीमविष्यति । विद्वदेकान्तवशंवदः-पणशीकरो वासुदेवशर्मा ।
उपदेशसाहस्रीप्रकरणानुक्रमः। पनं. १ २० ५ २७ २९ w प्रकरणम् विषयाः लोकाः १ उपोद्धाप्रकरणम् (चैतन्यप्र.) २६ २ प्रतिपेधप्र० ( आत्मज्ञानोत्पत्तिप्र.) ३ ईश्वरात्मप्रकरणम् ४ तत्त्वज्ञानस्वभावम. (अहंप्रत्ययप्र.) ५ बुद्ध्यपराधप्रकरणं (मूत्राशङ्कप्र.) ६ विशेषापोहप्रकरणम् (छित्त्वाप्र.) ७ बुद्ध्यारूढप्रकरणम् ८ मतिविलापप्रकरणं (चित्तस्वरूपप्र.) ६ ९ सूक्ष्मताव्यापिताप्रकरणम् १० दृशिखरूपपरमार्थदर्शनप्रकरणम् १४ ११ ईक्षितृत्वप्रकरणम् १२ प्रकाशप्रकरणम् १९ १३ चक्षुष्वप्रकरणम् २७ १४ स्वमस्मृतिप्रकरणम् ५० १५ नान्यदन्यत्प्रकरणम् ५४ १६ पार्थिवप्रकरणम् ७४ १७ सम्यातिप्रकरणम् १८ तत्त्वमसिप्रकरणम् २३३ १९ आत्ममनःसंवादपकरणम् २८ ४० ४४ ८८ १२१ २१० ३०१ इति उपदेशसाहस्रीप्रकरणविषयानुक्रमः।
ॐ श्रीमच्छङ्कराचार्यप्रणीता उपदेशसाहस्री। श्रीमद्रामतीर्थविरचित्तपदपोजनिकाव्याख्यायुता । उपोद्घातप्रकरणम् १ यत्राध्यस्तमिदं सर्व मेयमात्रायविद्यया । माति नो भाति यज्ज्ञानात्तदसि ब्रह्म चित्सुखम् ॥१॥ तदेवं सर्वोपनिषदर्धसारसंग्रहं गद्यमन्धप्रबन्धेन संक्षेपतो युक्तयो- पदिश्य पुनरप्युक्तमैवार्थजातं पद्यवन्धप्रबन्धेन सोपस्करं विस्तरेणी- पदेष्टुकामो गगवान्भाप्यकारः पद्यग्रन्थारम्भे ग्रन्थप्रतिपाद्यपरदेवता- नमस्काररूपं मगलं कृतं शिप्यशिक्षार्थ श्लोकेनोपनिबध्नाति- चैतन्यं सर्वगं सर्व सर्वभूतगुहाशयम् । यत्सर्व विषयातीतं तस्मै सर्वविदे नमः ॥ १॥ चैतन्यमिति ।। तसै सामान्यतः प्रसिद्धाय नमः प्रहीमावो भूया- दित्यर्थः । तस्य विशेपजिज्ञासायां लक्षणमाह–सविद इति । स चीति सर्ववित्तस्मै । सर्वशब्देन भूतं भवद्भविष्यदित्येतदागर्क जगदुच्यते तत्सर्व सर्वावसं सर्वदासवितृवत्संनिधिसत्तामात्रेण प्रकाश- उ.सा.१ २ उपदेशसाहस्री । [ उपोद्वात- यत्सर्ववित् । नहींद जडं स्वसत्तास्फ्योः स्वतन्त्रं भवति, अतो यदधी- नसत्तास्फूर्तिमदिदं तदस्ति सर्वज्ञं सर्ववित्सर्वाश्रय इति तटस्थलक्षणं सिद्धं भवतीति भावः । एवं जगत्मवृत्तिस्थितिसंहारनियामकत्वेन स- मात्रतया ताटस्थ्येन लक्षितस्य सरूपलक्षणं वदन् सर्वविषयवेदना- श्रयतया सर्ववित्त्वमिति वैशेषिकादिमताशङ्कां वारयति-चैतन्यमि- ति। यच्चैतन्यं चितिस्वभावं ज्ञानस्वरूपं तस्मै इति यत्तच्छन्दयोः संबन्धः। 'विज्ञानमानन्दं ब्रह्म', 'सत्यं ज्ञानमनन्तं ब्रह्मे' त्यादिश्रुतिभ्यः । ना- चित्तभावस्य चिद्धर्मकता युज्यते । न खल्वनुष्णखभावकं अलगcणत्यधर्मकं भवतीति भावः । चिदेकरसस्यापि सर्वज्ञत्वं मायोपा- धिकं व्यावहारिकमित्यनवद्यम् । ननु चेतनोऽणुपरिमाण इत्येकदेशि- नो, मध्यमपरिमाण इति दिगम्बरा मन्यन्ते, अतस्तस्य सर्वविषयसंस- र्गाभावे कथं सर्वज्ञत्वम् । प्रकाशो हि सावित्रादिः खसमृष्ट एव प्रकाशव्यवहारहेतुर्नाससृष्टे विषय इत्यत -सर्वगमिति । 'नित्यं विभुं सर्वगतं', 'आकाशवत्सर्वगतश्च नित्य', 'स पर्यगा- च्छुक्र'मित्यादिश्रुतिविरोधादणुपरिमाणत्वादिकल्पनानवकाश इति । उत्क्रान्त्यौदेलिङ्गोपाधिकत्वश्रवणान्न तेन खाभाविक विभुत्वार्थकश्रुति- बाप इति दिक् । ननु सर्वगगित्युक्ते सर्वमन्यत्तद्गतं च ब्रह्मान्यदिति तस्य वस्तुपरिच्छेदप्रतिभासारसांख्यादिवादिमतवत्सजातीयविजाती- यभेदवत्त्वं प्राप्समित्यत आह-सर्वमिति । 'सर्वं खल्विदं ब्रह्म', 'इदं सर्वं यदयमात्मा', 'आत्मैवेदं सर्वमित्यादिश्रुतेरित्यर्थः । अनेन सर्वोपा- दानत्वमुक्तम् । उपादानं हि स्वकार्य सबै व्याप्नुवद्याप भवति नानु- पादानम् । तद्वदेकदेशेन ससृग्यमानमव्यापकमेव भवतीत्यत: सर्वो- पादानत्वात्सर्वमित्यभिप्रायः। सर्वात्मकमपि ना जीवाव्यावृत्तं जीवस १न्त्यादिलिड. २ तोकदेशेन. आह- - प्रकरणम् १] पदयोजनिकान्याख्यायुता। ब्रह्मणोऽभिन्नत्वात्, नवसंसारि संसारिभावेन विरुद्धधर्मयतोरक्यं संभवति दहनतुहिनवदित्यत आह–सर्वभूतगुहागयमिति | सर्व- भूतानां स्थावरजङ्गमानां गुहानु बुद्धिषु शेत इति सर्वभूतगुहाशयम् । गूढा अस्मां ज्ञानज्ञेयज्ञातृपदार्था इति गुहा बुद्धिः। गूहतेः संवर- गार्थस्य धातोरिदं रूपम् । सर्वप्राणिबुद्ध्यन्तःसाक्षितया निर्विकारं वर्तत इत्यर्थः । तथाच श्रुतिः 'यो वेद निहितं गुहायां परमे व्योमन्', 'हृद्यन्तज्योतिः पुरुषः', 'स वा एप आत्मा हृदि तस्यैतदेव निरुक्तं हृदय' मित्याया। तथाच 'तत्सृष्ट्वा तदेवानुप्राविश'दित्यादिना- स्रष्टुरेय ब्रह्मणो जीवरूपेण प्रवेशश्रवणात् 'अयमात्मा ब्रह्मे'त्यादितादा त्भ्यश्रुतेश्च न ब्रह्मणोऽन्यो जीव इत्यवधार्यते । विरुद्धधर्मसंसर्गप्रति- गासस्तूपाधिनिबन्धनो न सरूपनिबन्धन इति भावः। एतेन जीवो नाम ब्रह्मणोंऽशो विकारो वा स्वतन्त्र एवेति भेदाभेद(भेद)वादिपक्षा निराकृता वेदितव्याः । ननु सर्वभूतगुहाशयत्वे ब्रह्मणो मानसवेद्यत्वं त्याचा सर्वात्मत्वे प्रपञ्चात्मत्वप्राप्तिरिति शङ्कायामाह-यत्सर्वविपया- तीतमिति । सर्वमविद्यातकार्यात्मक विषयमतीत्ये व्यवस्थितमित्य- क्षरार्थः । 'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वर' मित्यादिश्रुतेः परमेश्वराधिष्ठितमायाविवर्तत्वावगमात् । सर्वम्य मायायाश्चानिर्वच- नीयत्वान्न परमार्थ फिमपि ब्रह्मणो भिन्नं वस्त्वस्ति तथा तत् सर्वान्तः- करणतत्प्रचारसाक्षिणो न मानसवेद्यत्वं संभाव्यते । नहि मिथ्याह- टिगृहीतेन मरीच्युदकादिना भूम्याधुदकादिमत्परमार्थतो भवति । नवा काठेनामिः प्रकाश्यते दह्यते वा । अतो युक्तं सर्वविपयातीत- स्वमिति भावः । तथाच श्रुतिः 'नेतिनेति', 'नेहनानास्ति किंचन'- 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे' त्याद्या । अत्र चैतन्यमि, १ एववेति मेदा. २ सावस्थित.
४ उपदेशसाहस्री। [ उपोद्धात- स्यादिविशेषणत्रय तत्वपदार्थसाधारण, सर्वभूतगुहाशयमिति च बुद्ध्या दिसाक्षी त्वपदार्थ उक्त , सर्ववित्पदेन तत्पदवाच्य ब्रह्मोच्यते, सर्ववि पयातीतमिति तत्पदलक्ष्यमुक्तम्, यत्तच्छन्दयो सामानाधिकरण्यादै- कार्थवृत्तित्वे सति तत्वपदार्थयोरैक्यमखण्डवाक्यार्थस्तात्पर्यवृत्त्या प्रतिपादितो भवति । तदेव मङ्गलाचरणव्याजेन वेदान्तशास्त्रीयविषया धनुबन्धोऽप्यत्र प्रपञ्चितोऽस्य तत्प्रकरणत्वद्योतनाय । तथाहि । उक्त वाक्यार्थो विषयश्चैतन्य सर्वविषयातीतमिति च चिदात्मन सर्वानर्थ सस्पर्शित्वाभावोक्तेरशेषानर्थनिवृत्त्युपलक्षित निरतिशयानन्दाविर्भा वात्मक ब्रह्मैव प्रयोजनमुक्तम् । अर्थात कामोऽधिकारी सूचित एव भवति । उक्तविशेषणाना वेदान्तेष्वेव प्रसिद्ध शास्त्रब्रह्मणो प्रतिपा- द्यप्रतिपादकमाव सबन्धो ध्वनित इति ॥ १॥ एय देवतानमस्कारव्याजेन वेदान्तप्रतिपाद्यपरदेवतातत्त्वमुपक्षि सम्, इदानीं वेदाना तत्परत्व प्रतिपादयितु कर्मकाण्डनिवृत्तमर्थगनूद्य तेन ज्ञानकाण्डाख्यवेदान्ताना सगतिमभिदधानस्तेषामगतार्थत्वमन- न्यशेषत्व च तावदाह- समापय्य क्रियाः सर्वा दाराग्याधानपूर्विकाः । ब्रह्मविद्यामदानी वक्तुं वेदः प्रचक्रमे ॥२॥ समापय्येति ॥ वेद इदानीं ब्रह्मविद्या वक्तु प्रचक्रम इत्यन्थय । इदानीमिति जिज्ञासोरुपस्थितिसमय उक्त । अथेति जिज्ञासाप्रवृ तिप्रयोजकहेतुसाधनचतुष्टयसपत्त्यानन्तर्यमुच्यते । तथाच विवेक- वैराग्यशमादिसाधनसपत्नस्य मुमुक्षोर्मोक्षसाधनब्रह्मविद्या साक्षात्पति पादयितु ज्ञानकाण्डात्मको वेद प्रवर्तत इत्यर्थ । कुतोऽस्य साधनस- १ वेदान्ताना.
प्रकरणम् १] पदयोजनिकाव्याख्यायुता। पचिरित्यपेक्षायां कर्मकाण्डोक्तकर्मानुष्ठानजनितयुद्धिशुद्धित इत्यमि- प्रेत्याह—समापय्येत्यर्थेन । दाराग्याधानपूर्विका इति विहितक्रिया- मात्रोपलक्षणम् । नित्यनैमित्तिकप्रायश्चित्तोपासनारूपाः सर्वाश्रमप्रयु- क्ता विधिविहिताः सर्वाः क्रियाः समापय्य सगाति प्रापय्य कर्मका- ण्डात्मनानुष्ठेयकर्माणि प्रतिपाद्य स्थितो वेद इति संवन्धः । अयं भावः-वेदो हि स्वतःप्रमाणभूतः सर्वार्थप्रकाशको नित्यनिरतिशय- पुरुषार्थमर्थयमानस्य तदुपायं मृगयतः सर्वोत्साहं प्रयतमानस्यापि तमलभमानस्य तादृक्पुरुषार्थसाधनं प्रत्यक्षादिभिरनवगम्यमानमुपदेष्टुं प्रवर्तते । नित्यनिरतिशयपुरुषार्थश्च मोक्ष एव नान्य इति मोक्षोपाय- प्रतिपादने वेदतात्पर्यमवगम्यते । श्रुतिस्मृती चात्र भवतः 'सर्वे बेदा यत्पदमामनन्ति', सर्वे वेदा यौकीमचन्ति', 'स मानसीन आत्मा जनाना'मिति, 'वेदैश्च सर्वैरहमेव वेद्य' इतिच । मोक्षसाधनं च साक्षा- दात्मतत्त्वज्ञानमेव । 'तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते- ऽयनाये' तिश्रुतेस्तच नाशुद्धान्तःकरणस्योपदेष्टुं युक्तं तस्य तद्रण- सामर्थ्याभावात् । श्रतिश्च भवति 'नाविरतो दुश्चरितान्नाशान्तो नासमाहितः। नाशान्तमानसो वापि प्रज्ञानेनैनमामुया'दिति । अत- स्तस्य ज्ञानोत्पतिप्रतिबन्धकदुरितक्षयार्थानि नित्यानि कर्माणि प्रथम विद्यन्ते, तानि च संयोगरूपचोदनासमाख्यानाम विशेषेण सर्वशाखा- प्रत्ययन्यायेनेतिकर्तव्याकलापपरिमाणाधिकारिविशेपोक्तिपूर्वकमनु- प्ठापयति । 'धर्मेण पापमपनुदति', 'न कर्म लिप्यते नरे', 'अविद्यया मृत्युं तीत्वं' त्यादिश्रुतेर्दुरितक्षय एव धर्मानुष्ठानस्य परं प्रयोजनं, पर- म्परया परमपुरुषार्थोपयोगित्वात् नतु 'कर्मणा पितृलोक' इत्याद्युक्तः पितृलोकादिः प्रयोजनम् तस्य क्षयादिदोषदुष्टतया हेयत्वात् । आनुप- शिकं हि तत्कर्मफलं भवति । भवदपि नेदं चित्तशुद्धिप्रतिबन्धकम् । - .
६ उपदेशसाहस्री। [ उपोद्धात- तदुक्त सुरेश्वराचार्य --'नित्येपुशुद्धिप्राधान्याद्भोगोऽप्यप्रतिबन्धक । भोग भङ्गुरमीक्ष्यन्ते बुद्धिशुद्धिस्तु रोचत' इति । काम्याभिचारादि कर्मविधान तु पुरुपयशीकरणेन खामाविकमवृत्तिनिवारणार्थमित्येषा दिक् । तथाच चित्तशुद्धे प्रथमापेक्षितत्वातदर्थ कर्मविधान प्रथम प्रवर्तते पश्चाच ज्ञानोपदेश इति कर्मज्ञानकाण्डयोरर्थद्वारा हेतुहेतु मद्भावेन पोर्वापर्यसबन्ध उक्त । ज्ञानकाण्डस्य साक्षात्फलार्थविषय- स्वाकर्मभिरनपेक्षितार्थत्वाचागतार्थत्वमनन्यशेपत्त च तस्य सिद्ध- मिति ॥२॥ ननु कर्माणि कृतानि कतु फलप्रदानि लोके दृष्टानि । यथा पित्रादिभिरुपदिष्टविषयाणीट फलानि, तैर्निपिद्धविषयान्यनिष्टफलानि, तदुदास्तविषयाणि देवाधीनतयोभयार्थानि । तथा वेदविहितानि कर्माणीष्टफलानि, निषिद्धान्यनिष्टफलानि, विहितप्रतिषिद्धव्यामिश्र- कर्माणोष्टानिष्टव्यामिश्रफलानि भवन्ति । तथाच शास्त्र ‘अनिष्टमिष्ट मिश्र च त्रिविध कर्मण फल' मिति । एवच कर्मणा फलायभिचा- रान्मोक्षरस च फलविशेषत्वाकर्मविशेषसाध्यत्वोपपत्तेर्ने विद्यया कृत्य मस्तीति न तदर्थानि जानकाण्डानि मुमुक्षुणा विचारणीयानि, किंतु कर्माण्येव कानिनिचातुर्मास्यादीन्यक्षय्यफलार्थान्यनुष्ठेयानीति कर्म- जडाना प्रत्यवस्थानमित्याशङ्कयाह - कर्माणि देहयोगार्थ देहयोगे प्रियाप्रिये । ध्रुवे स्यातां ततो रागो द्वेपश्चैव ततः क्रियाः॥३॥ कर्माणीति द्वाभ्याम् ॥ कर्मफल हि जात्यायुर्मोगलक्षण, तच देहरबन्धविना नोपपद्यत इति कर्माणि देहयोगार्थमेवेत्यर्थ । देह- योगे च ससारो दुर्वार इत्याह-देहयोग इति । देहसबन्धे सति ७ प्रकरणम् १] पदयोजनिकाब्याख्याबुता। प्रियाप्रिये सुखदुःखे ध्रुवे स्यातां भवेतामेव । 'न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती' तिश्रुतेः । ततः सुखदुःखयोस्तत्साधनयोश्च यथासंख्यं रागद्वेयो बासनारूपौ स्याताम् । ततो रागद्वेपाख्यानिमि- चाक्रिया वाड्मनःकायचेप्टाः स्युरित्यर्थः ॥ ३ ॥ धर्माधर्मों ततो ज्ञन्य देहयोगस्तथा पुनः । एवं नित्यप्रवृत्तोऽयं संसारश्चक्रवदशम् ॥४॥ अज्ञस्य प्रत्यगात्मतत्त्वं ब्रह्माजानतोऽहंकारपारवश्यस्य ततः क्रिया- भ्यो विहितप्रतिषिद्धरूपाभ्यो धर्माधर्मों पुनर्भवेताम् पुनस्ततो देहयो- गस्ततः प्रियाप्रिये इत्येवं संसारो जन्ममरणकर्मकरणतत्फलभोगल- क्षणः कुलालचक्रवद्र्शमत्यर्थमविश्रमं यथा स्यात्तथा नित्यप्रवृत्तो- ऽनादिकालगारभ्य प्रवर्तते अयं प्रत्यक्ष इत्यर्थः । तस्सादैहिकार्थानां कर्मणामनित्यफलत्वस्य लोके दृष्टत्वादामुमिकफलार्थानामपि कर्म- त्वादनित्यफलतानुमानात् 'तद्यथेह कर्मजितो लोकः क्षीयत एव- मेवामुन्न पुण्यजितो लोकः क्षीयत' इति वस्तुबलावलम्बिश्रुतेश्च 'अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृत' मित्याद्यर्थयादश्रुत्ववलम्बनेन कर्मफलस्य नित्यत्वाशा न कार्येति भावः ॥ ४ ॥ नन्वेवमपि न मोक्षार्थिनो ज्ञानेन प्रयोजनमस्ति, कृतकर्मणां संसारनिमित्तानां फलभोगानन्तरं नाशेसति निमित्ताभावान्नैमित्ति- काभाव' इति न्यायादयत्नलभ्यत्वान्मोक्षस्सेत्याशयाज्ञानमूलत्वाकर्म- णस्तस्मिन्सति तदनुपरमात्मैवमित्याह--- अज्ञानं तस्य मूलं स्यादिति तद्धानमिप्यते । ब्रह्मविद्यात आरब्धा ततो निःश्रेयसं भवेत् ॥ ५ ॥ १ कर्मचित:-पुण्यचितः इत्यपि पाठः उपदेशसाहस्री। [उपोद्धात- अज्ञानमिति ॥ यद्वा अज्ञस्य कर्मप्रवृत्त्यविरमात्संसाराविरमः कृतकर्मफलभोगसमयेऽपि कर्मप्रवृत्त्यवश्यंभावात्पुनर्भोगसंतानाविच्छे- दश्चेत्कथं तर्हि कर्मनिवृत्त्या मोक्षसिद्धिरिति विवक्षायामाह-अज्ञा- नमिति । अयमर्थ.-'नीहारेण प्रावृता जलप्या चामतृप उक्थशास- श्वरन्ति', 'एकः शत्रुर्न द्वितीयोऽस्ति शत्रुरज्ञानतुल्यः पुरुषस्य राजन् । येनाविष्टः कुरुते कार्यते च घोराणि कर्माणि सुदारुणानी' त्यादिश्रुतिस्मृतिभ्योऽज्ञानं तस्य पूर्वोक्तस्स कर्मतत्कललक्षणस्य ससारस्य मूलं स्यादिति हेतोस्तस्याज्ञानस्य हानमात्यन्तिकोपरम इप्यते यतेन संपादनीयतयाभिप्रेयते, मूलोन्मूलनमन्तरेण प्ररोहा- विच्छेदादित्यर्थः । 'तरति शोकमात्मवित्', 'यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा देवम विज्ञाय दुःखस्यान्तो भविष्यति', 'ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेपामादित्यवज्ज्ञानं प्रकाशयति तत्पर' मित्यादिश्रुतिस्मृतिभ्यो यतोऽविद्यैवाज्ञानहानहेतु. स्वगतातो ब्रह्मविद्यारव्या, अतो ब्रह्मविद्यया नि श्रेयस कैवल्यं भवे- चदुदये नान्तरीयकतयाऽज्ञाननिवृत्तौ केवलात्मस्वरूपावस्थानरूपो मोक्षो लब्ध इव भवेदित्यर्थः ॥ ५॥ ननु कर्मणां विचित्रशक्तित्वात् 'हिरण्यदा अमृतत्वं भजन्त' इत्यादिश्रुतेः 'कर्मणैव हि ससिद्धिमास्थिता जनकादय' इत्यादिम्मृतेश्च कर्मभिरेव मोक्षसिद्धेः कथं तं ब्रह्मविद्ययेति शङ्कामपाकुर्वन्ननन्तरोक्त- मर्थमुपपादयति- विद्येवाज्ञानहानाय न कर्माप्रतिकूलतः। नाज्ञानस्याप्रहाणे हि रागद्वेपक्षयो भवेत् ॥ ६ ॥ विधति द्वाभ्याम् ।। संसारमूलाज्ञानहानाय विधेय समथेत्य- प्रकरणम् १] पदयोजनिकान्याख्यायुता। ध्याहारः । एवकारार्थमाह-न कर्मति । तत्र हेतुरप्रतिकूलत इति । अविरोधादित्यर्थः । विद्यैव प्रकाशरूपत्वादप्रकाशरूपामविद्यां तकार्य च निवर्तयति । यथा रज्ज्वावरणाविद्यां तमसि तत्काल्पितसर्पाधाकारं च रज्जुतत्त्वज्ञानप्रदीपौ निवर्तयतः स्वभावविरोधात् । कर्म तु नाज्ञा- नतमोनिवर्तकं तदविरोधित्वादप्रकाशात्मकत्वाद्वा नीहारस्तोमवदित्या- धनुमानैः 'नान्यः पन्था विद्यतेऽयनाय' इत्यादिश्रुतिभिश्च विरोधा- द्धिरण्यदा इत्यादायापेक्षिकममृतत्वं पर्यवस्यति । 'कर्मणैव ही ति स्मृतिः 'न कर्मणा न प्रजये' तिश्रुतिविरोधेऽन्यपरेत्यतो न तहला- कर्मभिरज्ञानहानशकेत्यभिप्राय. । विद्यां विनाऽज्ञानक्षयाभावश्चेद- ज्ञानक्षयार्थमेव विद्यान्विप्यतां तत्कार्यस्य तु परमार्थत्वाद्विद्यया नाशा- नुपपत्तेस्तन्नाशे हेत्वन्तरमन्वेषणीयमित्यत आह–नाज्ञानस्येति । अज्ञानस्याग्रहाणे रागादिक्षयो न स्यादविवेकपूर्वकत्वस्य रागादावन्व- यव्यतिरेकसिद्धत्वादज्ञानमया रागादयो न परमार्था इत्यज्ञाननिवृ- त्यैव निवर्तन्त इति न तत्र हेत्वन्तरान्वेपणेत्यर्थः ॥ ६ ॥ रागाधनिवृत्ती का हानिरिति तत्राह- रागद्वेपक्षयाभावे कर्म दोपोद्भवं ध्रुवम् । तस्मानिःश्रेयसार्थाय विद्यैवात्र विधीयते ॥७॥ रागद्वेषेति ।। दोपा रागद्वेषमोहास्तदुद्भवं तद्धेतुकं फर्म ध्रुवं पुनः स्यादेवेति पुनः संसारो दुर्वार इत्यर्थः । उपपादितमर्थमुपसंहरति- तस्मादिति । अत्रेति वेदान्तोक्तिः। विधीयते प्रकाश्यत इत्यर्थः ॥७॥ तदेवमज्ञानमूलत्वात्संसारस्य ज्ञानमेव तन्निवर्तकं मोक्षहेतुर्न करें- युक्तं तत्र यदि कर्मणां खातव्येण मोक्षहेतुता न संभवेत्तर्हि ज्ञानेन समुच्चयेसति तदेतता स्यादिति समुच्चयवादिगतमुत्थापयति- १० उपदेशसाहती। [ उपोद्घात- ननु कर्म तथा नित्यं कर्तव्यं जीवने सति । विद्यायाः सहकारित्वं मोक्ष प्रति हि तद्ब्रजेत् ॥८॥ ननु कर्मेति ।। 'नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते एवशः कर्म सर्वः प्रकृतिजैर्गुणै' रिति स्मृत्युक्तन्यायेनावो- नापि जीवता पुरुषेण कर्म कर्तव्यमेव । 'विद्या यथा तथा नित्यं कर्मावश्यं कर्तव्यं यावजीव' मित्यादिश्रुतिविहितत्वादित्यर्थः । उपयोगाभावान्मुमुक्षुणा नित्यं कर्म न कर्तव्यमित्यत आह--विद्याया इति । विद्याया मोक्षप्रति कारणभूतायाः सहकारित्यमितिकर्तव्यभावं हि यस्मातकर्म व्रजेत्प्राप्नुयादतस्तत्कायें मुमुक्षुणेत्यर्थः । 'विद्ययामृ- तमश्नुत' इति तृतीयया ज्ञानस्य मोक्षकरणत्यागमाकरणस्य चेति- कर्तव्यतासापेक्षत्वादन्यस्य चेतिकर्तव्यस्यात्राभावात्कर्मभिरेव प्रयाजा- दिभिर्दर्शादीव फलोपकार्यझै नं समुञ्चीयत इति भावः ॥ ८ ॥ 'कर्मणा वध्यते जन्तुर्विद्यया च विमुच्यते । तस्मारकर्म न कुर्वन्ति यतयः पारदर्शिन' इत्यादिम्मृतेर्मुमुक्षुभिः कर्म न कर्त य- मिति चेत्तवाह- यथा विद्या तथा कर्म चोदितत्वाविशेपतः। प्रत्यवायस्मृतेश्चैव कार्य कर्म मुमाभिः ॥ ९ ॥ यथा विद्येति ॥ यथा विद्या मुमुक्षुभिः कार्या तथा कर्मापि फर्तव्यम् । कुतः । 'विद्यां चाविद्या च यस्तद्वेटोमय आहे' ति समुश- यविधिना अविशेषेण चोदितत्वादित्यर्थः । किंच" अन्विहितं फर्म निन्दितं च समाचरन् । प्रमंथेन्द्रियार्थप नरः पतनगृच्छति ।' इत्यननुष्ठाने प्रत्यवायस्मृतेश्च कर्म पार्यमित्यर्थः । तथाचोदारन:- प्रकरणम् १] पढयोजनिकाव्याख्यायुता। ११ तिस्मृतिविरोधे 'तस्मात्कर्म न कुर्वन्ति यतय' इतीयमपि स्मृतिर्ज्ञान- प्रशंसा वा भविष्यतीति भावः ॥९॥ अत्र सिद्धान्ती विद्यायाः सहकार्यपेक्षितत्वमुक्तमाक्षिपति- ननु ध्रुवफूला विद्या नान्यत्किंचिदपेक्षते । उत्तर-दू, नाग्निष्टोमो यथैवान्यद्बुवकार्योऽप्यपेक्षते ॥१०॥ नन्विति ।। ब्रह्मविद्या सहकारिनिरपेक्षा ध्रुवफलत्वाद्धटादिज्ञान- वदित्यर्थ. । पूर्ववादी व्यभिचारेण परिहरति-नेति । अवश्यं- भाविफलोऽप्यग्निष्टोमो यथोद्गीथशस्त्रादितद्गतदेवताज्ञानसहकारिक- मापेक्षते तथा विद्यापीत्यर्थः ॥ १० ॥ पूर्वपक्षमुपसंहरति- तथा ध्रुवफला विद्या कर्म नित्यमपेक्षते । सिमान इत्येवं केचिदिन्छन्ति,न-कर्म प्रतिकूलतः ॥ ११ ॥ इत्येवं केचिदिच्छन्तीति । सिद्धान्त वक्तुमुपक्रमते-नेत्या- दिना । विद्या खकायें न कर्मापेक्षते तत्प्रतिकूलत्वात्तद्विरोधित्वादि- तियावत् । नहि खप्रतिकूलः स्वसहायो भवति । माभूत्तिमिरं तेजस सहायभूतमित्यर्थः ॥ ११ ॥ कर्मणो विद्याप्रतिकूलत्वमुक्तं साधयति-~ विद्यायाः प्रतिकृलं हि कर्म स्यात्साभिमानतः। निर्विकारात्मवुद्धिश्च विद्येतीह प्रकीर्तिता ॥ १२ ॥ विद्याया इत्यर्धेन ।। हिशब्दः प्रसिद्धिद्योतकः । साभिमानत इति ब्राह्मण्याद्यमिमानसहितपुरुषतिर्त्यत्वात्कर्मणो विद्यायाश्च कूटस्थात्मा- १२ उपदेशसाहस्री । [उपोद्धात- कारतया जात्यायभिमानहीननिष्ठत्वात्प्रसिद्धो विद्याकर्मणोविरोध इत्यर्थः । हिशब्दयोतितां प्रसिद्धिमुपपादयति--निर्विकारेति । नाहं कर्ता भोका किंतु कूटस्यं ब्रह्मैवास्मीत्येवमात्माकारान्तःकरणवृत्तिर्वि- येति इह वेदान्तेषु विद्वद्भिः प्रकणोक्तत्यर्थः । कर्मत्वहं ब्राह्मणोऽस्य कर्मणः कर्ता ममेदं फर्मसाध्यं फलं भविष्यतीत्यभिमानपूर्वकं प्रवर्तत इति प्रत्यक्षमतः स्फुटो विरोध इत्यर्थः ॥ १२ ॥ ज्ञानकर्मणोरन्तर्मुखत्ववहिर्मुखत्वाभ्यां प्रवृत्तितो विरोधमुक्त्वोत्प. तितो विरोधमाह- अहं कता ममेदं स्यादिति कर्म प्रवर्तते। यस्त्वधीना भवेद्विद्या कर्बधीनो भवेद्विधिः॥१३॥ वस्त्वधीनेति ॥ प्रमाणवस्त्वधीना विद्या यथाप्रमाणं यथावस्तु च जायते न तत्र पुरुषस्वातन्त्र्यं संभवतीत्यर्थः । विधिविधेयं कर्म कधीनं पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यमतः पुरुषवातघ्या. स्वातन्त्र्यरूपविरुद्धहेतुनन्यत्वान्न कर्मज्ञानयोः समुच्चय इत्यर्थः ॥१३॥ किंच विद्यायां सत्यां कर्मणो निराश्रयतया खरूपालामान ज्ञान- सहकारितेति विध्यन्तरेण विरोधमाह- कारकाण्युपमृगाति विद्या बुद्धिमियोसरे। इति तत्सत्यमादाय कर्म कर्तुं व्यवस्यति ॥ १४ ॥ कारकाणीति || ऊसरदेगे जातामुदकवुद्धि यथोखरस्सभारावल. म्बिनी विद्योपमन्नाति तथात्मन्यविद्याध्यस्तकारकबुद्धिमात्मस्वभाषा- वलम्बिनी विधोपमृद्रात्येयेत्यर्थः । इति तत्सत्यमित्यश्लोकः पूर्वेणे- चान्वेति । उपमृद्गातीति यतोऽनसत्कारकजात सत्यमादाय पर्म गर्नु ज्ञानी कथं व्यवस्सतीति कर्यशब्दाभ्याहारणायं योजनीयः ॥ १५ ॥ .
प्रकरणम् १] पदयोजनिकान्याख्यायुत्ता। विरुद्धत्वकृतसमुच्चयासंभवे फलितमाह- विरुद्धत्वादतः शक्यं कर्म कर्तुं न विद्यया । सहव यिदुपा तस्मात्कर्म हेयं मुमुक्षुणा ॥ १५ ॥ विरुद्धत्वादिति ॥ अतो विरुद्धत्वादिति सामानाधिकरण्यम् । विद्यया सह कर्म कर्तु विदुषा न शक्यमेवेत्यन्वयः । समुच्चयनिराक- रणफलमाह-तस्मादिति ॥ १५ ॥ ननु 'ज्ञात्वा फर्म समाचरे' दित्यादिवचनात्वर्गकामादिविध्यन्य- थानुपपत्तेश्च देहादिव्यतिरिक्तात्मज्ञानवतः कर्मानधिकारात् ज्ञानकर्म- णोविरोधे च तदयोगादधिकार्यभावेन कर्मकाण्डस्याप्रामाण्यं प्राप्तमि- त्याशङ्कय कर्मस्वरूपभेदागविशेषप्रयुक्तकमाधिकारादिविशेषज्ञानस्य देहादिव्यतिरिक्तात्मज्ञानस्य च कर्मविशेषाधिकारिण्यपेक्षितत्वेऽपि न परमात्मतत्त्वज्ञानं तत्रापेक्ष्यतेऽनुपयोगादधिकारिविरोधाच्चेत्यभिप्रेत्य समाधत्ते- देहाचैरविशेपेण देहिनो ग्रहणं निजम् । प्राणिनां तदविद्योत्थं तावत्कर्मविधिर्मवेत् ॥ १६ ॥ देहाधैरिति ॥ यद्वा यद्योपनिषदं ज्ञानं कर्मकारकभेदोपमर्दक स्यात्तदा ज्ञानकाण्डेन कर्मकाण्डस्य निर्दिषयीकरणाद्वाधितविषयं कर्म- काण्डमप्रमाणं स्यात्तच्चानिष्टं स्वाध्यायाध्ययनविधिविरोधादित्याशझ्य क्रिमात्मतत्त्वज्ञानात्प्रागूच वा तदप्रामाण्यापत्तिरिति विकल्प्यायनिरा- करोति-देहायैरिति । देहिन आत्मनो देहायैरिन्द्रियमनोबुद्धिमा- गतद्धभैरविशेषेणाविवेकेन ग्रहणं तद्विशिष्टतयैवात्माभिमानरूपं निजं साभाविकं न योपिदादावम्यादिमावबुद्धिवद्विध्यधीनं यदेवंविधं मा- उपदेशसाहस्री। [उपोद्धात- णिनामात्मज्ञान तदविद्योत्थमनाद्यज्ञानजनान्तिसंस्कारोत्थं सर्वसाधा- रणवाद्यावदेव बामणोऽहं गृहस्सोऽहं सकलेन्द्रियवानह सकामो बल- चानित्यादिज्ञानमनुवर्तते तावत्कर्मविधि कर्मकाण्ड प्रमाणं भवेदि- त्यर्थ । प्रमितिजनक हि प्रमाण भवति अधिकारिणश्च प्रगितिज- नको वेदो नानधिकारिण इति स्थिते कर्मप्रवृत्तिपर्यन्तं प्रमितिजनकस्स विधिकाण्डस्योक्ताधिकारिलाभान्न ब्रह्मात्मतत्त्वविद्योदयात्प्रागप्रामाण्य- प्राप्तिरिति नाध्ययनविधिविरोध इति भावः ॥ १६ ॥ द्वितीयं विकल्पमिष्टापत्त्या प्रत्याचष्टे-~ नेतिनेतीति देहादीनपोह्यात्मावशेपितः । अविशेषात्मवोधार्थ तेनाविद्या निवर्तिता ॥१७॥ नेचीति ।। नेतिनेतीति चीप्सार्थया श्रुत्या देहादीन्मिच्यादृष्ट्यात्मा- स्मीयभावेन गृहीतानशेपानपोह्य प्रतिषिध्य प्रतिषेधावधिभूत आत्मा- वशेपित 'सत्यस्य सत्य मित्यादौ । किमर्थमित्यत आह-अविशेषा- त्मबोधार्थमिति । अविशेपश्चासाबात्मा चेति तथा । तस्य बोधो निर्वि- शेषचित्सदानन्दसभावाविर्भावस्तदर्थमित्यर्थ. । परागर्थेप्वपोहितेषु तदषधित्वेन प्रत्यगर्थ एवावशिष्यत इति प्रत्यक्तत्त्ववोधार्थमित्युक्तं भवति । वोधेसति किं स्याचदाह तेनैति । यत्रिवन्धनो देहादा- वात्माभिमान. कर्माधिकारहेतुः साऽविद्या तेन बोधेन निवर्तिता वाधितेत्यर्थः । अतो निमितभावान्नैमितिकामाव' इतिन्यायेना- त्मतत्त्वज्ञानयतो न कर्मविधिप्रतिपचिरिति तंप्रति फलवद्विज्ञानजन- कत्याभावात्कर्मकाण्डस तदानीमप्रामाण्य मिष्टमेव । निवृत्ततीयशोध- मत्यभिचारविधिशास्त्रवदिति सर्वमनवयम् ।। १७ ॥ ननु निविशेषात्मयोधनसहनिवर्तिताप्यविधा पुनरुद्भविष्यति तवः
-
प्रकरणम् १]
पदयोजनिकाव्याख्यायुता।
कर्माधिकारहेतुसंभवात्कविधिः स्वाच्छुक्तितत्त्वावगमाचदज्ञाननिव-
चावपि पुनस्तन समयान्तरे रजतभ्रमोदयोपलम्मादित्याशङ्कयाह--
निवृत्ता सा कथं भूयः प्रसूयेत प्रमाणतः।
असत्येवाविशेपेऽपि प्रत्यगात्मनि केवले ॥ १८ ॥
निवृत्तेति ॥ प्रमाणतो निवृत्ता प्रमाणामिना दग्धा साऽविद्या
भूयः पुनः कथं प्रसूयेत जायेत । नहि मूता दग्धा च भार्या पुनः
प्रसवायोद्भवति तद्वदित्यर्थ. । अविद्यान्तरं जायतेति चेत्तत्र वक्तव्य
कि निनिमिचं जायेत निमित्ताद्वा । नाद्यः । अकारणकार्योत्पत्ताव-
तिप्रसङ्गात् । द्वितीये किमात्मा निमित्तमनात्मा वा | नाद्य इत्याह
-असत्येवेति । अविशेषे केवले इत्यनयोक्त्यानव्याख्येयभावः ।
यद्वाऽविशेष इत्युक्ते मूर्त्यादिकतिपयविशेषाभावेऽपि विशेषान्तरशङ्का
स्यादत उक्तं केवल इति । तावत्युक्त एकाकिनोऽप्यात्मन. प्रयत्नादिगु-
णयोगित्वविशेषशङ्का स्यात्तन्निवृत्तयेऽविशेष इत्युक्तम् । तथाचाविशेपे
केवले प्रत्यगात्मनि सर्वान्तरे परमार्थवस्तुनि साऽविद्याऽसती एव
न सत्ता लमते । असहायस्यात्मनः कूटस्थस्य कर्तृत्वानुपपत्तेः ।
अविद्यान्तरसहायाभ्युपगमे चान्योन्याश्रयोऽनवस्था यां प्रसज्येतेत्यर्थः ।
अपिशब्देन पक्षान्तरं निरस्यते । अनात्मन्यप्यसत्येव साविद्या कार्य-
स्थानात्मनोऽविद्याहेतुत्वानुपपत्तेरित्यर्थः । शुक्तिकादौ तु रजतादि-
विक्षेपोपादानांशस्येवाविद्याशक्तिमेदस्य ज्ञानेन निवृत्त्यभ्युपगमात्
मूलाज्ञानम्य तादृगनन्तशक्तिमतो विद्यमानत्वाचदशात्पुनन्युदयो-
पपत्तेदृष्टान्तो विषम इति द्रष्टव्यम् ॥१८॥
अविद्यायाः पुनरनुद्भवसाधनफलमाह-
न चेद्भयः प्रसूयेत कर्ता भोक्तेति धीः कथम् ।
सदस्मीति च विज्ञाने तस्माद्विद्याऽसहायिका ॥१९॥
-- उपदेशसाहस्री। [ उपोद्धात- नचेदिति पादत्रयेण ।। सदेव ब्रह्मैवाहमस्मीति विज्ञाने विशिष्ट- ज्ञानेऽपरोक्षानुभवे सति भूयः पश्चान्न चेदविद्या प्रसूयेतेति कर्ता भोक्ते- ति धीः कर्माधिकारनिमित्तभूता कथं स्थान स्यादेवेत्यर्थः । चकारः कर्तृत्वादेः पारमार्थिकत्वशानिवृत्त्यर्थः । कर्तृत्वादेः पारमार्थिकत्वे विद्यानिवर्त्यत्वायोगादनिर्मोक्षप्रसङ्ग इति भावः । ज्ञानकर्मसमुच्चय- निराकरणमुपसंहरति-तस्मादिति । यस्माद्विद्यायामुत्पन्नायां कर्मासं- भवः सिद्धस्तस्मादसहाया केवलैव विद्या कैवल्यहेतुरित्यर्थः ॥१९॥ विद्यायाः सहकारिनिरपेक्षत्वेनैव मोक्षहेतुत्वमिति युक्त्योक्तेर्थे श्रीत लिङ्गमुपोद्दलयति- अत्यरेचयदित्युक्तो न्यासः श्रुत्यातएव हि । कर्मभ्यो मानसान्तभ्य एतावदिति वाजिनाम्॥२०॥ अमृतत्वं श्रुतं यस्मात्त्याज्यं कर्म मुमुक्षुभिः। अत्यरेचयदिति ॥ तैत्तिरीयोपनिषत्सु 'सत्यं परं परं सत्य' मित्सु- पक्रम्य 'सत्यं तप' आदिमानसान्तानि कर्माणि श्रेयःसाधनत्वेन निर्दि- श्य 'तानि वा एतान्यवराणि तपांसी' ति तेषां फल्गुफलत्वेन निन्दा- मभिधाय 'न्यास इति ब्रह्मत्युक्तो न्यास एवात्यरेचय' दिति तत्व- ज्ञानान्तरङ्गमूतः संन्यासः स्तूयते । तमानिन्दितम्यानुपादेयत्वा- स्तुतस्य चोपादेयत्वाकर्मसापेक्ष मोक्षस्य संन्यासविधानानुपपत्तेः ससंन्यासमात्मज्ञानमेव मोक्षसाधनं गम्यत इत्यर्थः । अतएव होति । ज्ञानस्य सफले कर्मनिरपेक्षत्वादेवेत्यर्थः । लिलान्तरमाह-एताप- दिति । वाजिनाममृतत्वं श्रुतमिति । वाजसनेयिनामुपनिषत्सु 'माम- नि खत्त्वरे हटे श्रुते मते विनात इदं सर्व शिदित' मित्युपगम्याय- मात्मतत्त्वं दुन्दुभ्यादिदृष्टान्तपमन्येनोपपाय 'उत्तानुशासनासि मैरे- १७ प्रकरणम् १] पदयोजनिकाव्याख्यायुता। य्येतावदरे खल्वमृतत्व' मिति ज्ञानस्यैवामृतत्वसाधनत्वावधारणं श्रुतं वस्य कर्मानपेक्षायां लिगमन्यथैतावदित्यवधारणार्थवचनानुपपत्तेरित्य- र्थः। 'अमृतत्वस्य तु नाशोऽस्ति वित्तेने ति च तत्रोक्तो वित्तसाध्यस्य कर्मणोऽमृतत्वसाधनत्वाभावे लिङ्गमनुसंधेयम् । नच 'विद्यां चाविद्यां चेति समुच्चयविधानविरोधः तस्य देवतोपासनज्ञानकर्मसमुच्चयविप- यत्वात् । अन्यथा 'हिरण्मयेन पात्रेण', 'अग्ने नय सुपथे' ति च मार्ग- याचनाद्यनुपपत्तेरिति सर्वमनवद्यम् । 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः', 'त्याग एव हि सर्वेपां मोक्षसाधनमुत्तम- म् । त्यजेतैव हि तज्ज्ञेयं त्यक्तः प्रत्यक् परं पद' मित्यादिशास्त्राद्य- स्मात्यागोपलक्षितमात्मज्ञानमेव मुक्तिसाधनं तस्मादिति प्रकृतार्थ. मुपसंहरति । तस्मात्त्याज्यं कर्म मुमुक्षुभिः साधनचतुष्टयसंपन्नैरात्म- तत्त्वजिज्ञासुभिरित्यर्थः । विविदिपोरपि नास्ति कर्मावसरः कुतो विदुप इत्यभिप्रायः ॥ २० ॥ अनाश्लोकोऽधिकः प्रागुक्ताधिकार्थेन संख्येयः । तदेवं मुमुक्षु- णा सर्वकर्मसंन्यासपूर्वकज्ञाननिष्ठेन भवितव्यमिति न्यायेनोपपाये. दानी परोक्तदृष्टान्तमनूद्य दूषयति- अग्निष्टोमवदित्युक्तं तत्रेदमभिधीयते ॥ २१ ॥ अग्निष्टोमवदिति ॥ अर्घश्लोकेन ।। २१ ॥ दूषणमुच्यत इति प्रतिज्ञाय श्लोकेन दुपणमाह- नैककारकसाध्यत्वात्फलान्यत्वाच कर्मणः । विद्या तद्विपरीतातो दृष्टान्तो वियमो भवेत् ॥२२॥ नैकेति ॥ कर्मणोऽग्निष्टोमादेरनैककारकसाध्यत्वान्नियतद्रव्यमन्नत. न्त्रप्रयोगसाध्यत्वादितियावत् । तथा फलान्यत्वात्फलमेदवत्त्वात् 'यदेव उ.मा.२
१८
उपदेशसाहस्री।
[ उपोद्धात्त-
विद्यया करोति श्रद्धयोपनिपदा तदेव वीर्यवतरं भवतीतिश्रुतेर्विद्याद्वारा
वीर्यवत्रफलविशेषसंभवाच युक्ता सहकार्यपेक्षेत्यर्थः । नैवं विद्याया
इत्याह-विद्यति ॥ तद्विपरीता कर्मखभावविपरीतस्वभावेतियावत् ।
यथा वस्त्वधीनप्रमाणनिबन्धनाया निरतिशयमोक्षकफलाया विद्या-
या न सहकार्यपेक्षा युक्तेत्यर्थः । यतएवं स्वभावभेदः कर्मविद्ययोर-
तोऽग्निष्टोमदृष्टान्तो विषमो दान्तिकाननुरूपो भवेदित्यर्थः ॥ २२॥
वैपम्यमेवोपपादयति--
कृप्यादिवत्फलार्थत्वादन्यकर्मोपवृंहणम् ।
अग्निष्टोमस्त्वपेक्षेत विद्यान्यत्किमयेक्षते ॥ २३ ॥
कृष्यादिवदिति ॥ अग्निष्टोमः सातिशयः साध्यफलार्थत्वादन्य-
कोपबृंहणमन्यैः कर्मभिः सहकारिभिर्विहितोद्गीथाद्यङ्गसंश्रितोपासना-
दिरुपैरुपचयमपेक्षेतेति योजना। तत्र दृष्टान्तः कृप्यादिवदिति । कृषि-
वाणिज्यादौ फलोपचयाथै साधनविशेपोपचयः प्रसिद्ध इत्यर्थः ।
विद्या तु निरतिशयफलत्वादन्यत्सहकारिभूतं किं वस्त्वपेक्षते, न
किमपीत्यर्थः ॥ २३॥
यदुकमकुर्वन्विहितं कर्मेति प्रत्यवायस्मृतेश्चेति तबाह-
प्रत्यवायस्तु तस्यैव यस्याहंकार इप्यते ।
अहंकारफलार्थित्वे विद्यते नात्मवेदिनः ॥ २४ ॥
प्रत्यवायस्त्विति ॥ अस्य कर्मणोऽहं फर्ता एतत्कृत्वेदं फलं
मोक्ष्य इति यस्याइंकार इप्यते इप्टो भवति स्वाभाविको वर्तत इति
यावत् । तस्याधिकृतस्य विहिताफरणे प्रत्यवायो मवेदित्यर्थः ।
मात्मदिन आत्मतत्त्वज्ञाननिष्ठस तु अहंकारफलार्थिवेन विद्यते
विषयामायादती निमित्ताभावान प्रत्यवायस्वस्येत्यर्थः ॥ २४ ॥
प्रकरणम् १] पदयोजनिकान्याख्यायुता। 'विद्यैवाज्ञानहानाय न कर्माप्रतिकूलत' इत्युपक्रम्येयता ग्रन्थेन कर्मणः खातन्त्र्येण वा ज्ञानसहकारितया वा सर्वथा न साक्षान्मोक्ष- हेतुत्वमस्तीत्युपपाद्य 'ब्रह्मविद्यामथेदानीं वक्तुं वेदः प्रचक्रम' इति परमप्रकृतमुपसंहरति- तस्मादज्ञानहानाय संसारविनिवृत्तये । ब्रह्मविद्याविधानाय प्रारब्धोपनिपत्वियम् ॥२५॥ तस्मादिति ॥ विद्यायाः कर्मनिरपेक्षत्वं तच्छब्दार्थः । अज्ञान- हानायानाद्यज्ञाननिराससिद्धयेऽपेक्षितब्रह्मविद्या विधातुं संपादयितुमयं परोपनिषद्वेदान्तभागः प्रारब्ध इति योजना । अज्ञानहानस्य विशेषणं संसारविनिवृत्तय इति । संसारस्य विनिवृत्तिः सम्यवृित्तिर्यस्मादिति विग्रहः । अक्लीवत्वमार्यम् । अत्रोपनिपच्छब्दो लक्षणया वेदान्तग्रन्थेषु प्रयुक्तः ॥ २५॥ तर्हि कोऽस्य मुख्योऽर्थ इति विवक्षायां ब्रह्म विद्याख्यं शब्दसा- मध्ये दर्शयन्नुपनिपच्छन्दव्युत्पादनेनापि स्वतन्त्रैव विद्या मोक्षहेतुरिति सूनयति- सदेरुपनिपूर्वस्य किपि चोपनिषद्भवेत् । मन्दीकरणभावाच गर्भादेःशातनात्तथा ॥ २६ ॥ सदेरिति ॥ ‘पद विशरणगत्यवसादनेषु' इति धातोरुपनीत्युप- सर्गद्वयपूर्वकस्य किप्प्रत्ययान्तस्योपनिषदिति रूपम् । अस्त्यत्र धात्वर्थ- त्रयम् । तथाहि ये मन्ब्रह्मविदस्तेषां गर्भजन्मजरादिकमुपनिषदयति शिथिलीकरोतीत्युपनिपद्रित्येकोऽर्थः । जिज्ञासोश्योपसमीपे नि निश्चयेन ब्रह्म गमयतीति द्वितीयः । तत्त्वविदां तु गर्भादि नाशयत्येवेति [ प्रतिषध- उपदेशसाहस्री। तृतीयः । एवं सम्यग्धात्वर्थयोगाद्विथैवोपनियच्छन्दवाच्या । तादा- अन्योऽप्युपनिषदुच्यते । लाङ्गलं जीवनमितिवदित्यर्थः ॥ २६ ॥ इति प्रथममुंपोद्धातप्रकरणम् । F . प्रतिषेधप्रकरणम् २ तदेवं मुमुक्षोर्मोक्षसाधनब्रह्मात्मविद्यापतिपत्तये वेदान्तारम्म उप- पद्यते इतिस्थिते पुनराशङ्कयते । ननु विद्योपदेशाय वेदान्ता- रम्भस्तदोपपद्यते यदि विद्योदयः संभाव्येत स इहात्मनि ससारित्र- ग्राहकप्रत्यक्षादिविरोधाद्वास्यशतेनापि नोत्पादयितु शक्यते, असं- जातविरोधितया प्रत्यक्षादेवलवत्त्वाचदुपजीविनश्चागमस्य दुर्बल- त्वात्कथंचिदुत्पन्नापि विद्या यदि प्रमाणसिद्धं संसारं बाधेत तर्हि प्रत्यगात्मनोऽपि ब्रह्मरूपत्वं कथं प्रत्यक्षानुभयो न बाधेतेति, अत उत्तरं वदति- प्रतिपेद्धमशक्यत्वान्नेतिनेतीति शेपितम् । इदं नाहमिदं नाहमित्यद्धा प्रतिपद्यते ॥ १॥ प्रतिपेद्भुमित्यादि । नेतिनेतीति वीप्सया सकलदृश्यप्रतिपेधे शेपितमुर्वरितं यदात्मतत्त्वं तत्प्रतिषेपावधित्वेन प्रतिपेद्धः सरूपत्वेन प्रतिघसाक्षितयाऽवस्थितं यतोऽतः प्रतिपेद्धमशक्यत्वादद्धा साक्षा• त्पतिपयते नि.संदिग्धमुपलभ्यत इति योजना । उपलम्भप्रकारम- मिनयति-~-इदमिति । इदं देहरूपं नाहमात्मा इदमिन्द्रियजा मनोबुद्धिमाणतदुपादानचेतनपर्यन्तं नाहं विपां प्रकाशपमध्यमि- चारि स्वयंप्रकाशं कूटसगक्षरं यस्मिन्सचे जगदाश्रयेऽव्यारवारास १चैतन्यप्रकरणमिति टोकान्तरे पाठः, मकरणम् २] पदयोजनिकान्याख्यायुता। ओतश्च प्रोतश्च तदेवाहं परमक्षरमिति प्रतिपद्यत इत्यर्थः । भनेन विद्या नोदेतीत्येपा शङ्का निराकृता | प्रतिपेद्धमशक्यत्लादित्यनेन तु यथाव्याख्यातेन वाघायोग्यत्वं दर्शितमिति विवेक्तव्यम् ॥ १॥ नन्वहं ब्रह्मेति ज्ञानमुक्तविधयोत्पन्नमपि न प्रतिष्ठां लभते देहे- न्द्रियाद्यमिमानस्यानवरतमनुवृत्तेरित्याशय, तस प्रमाणमूलवामावा- द्वाधितानुवृत्तिमात्रस्याभासत्वान्न विद्याप्रतिपक्षत्वमित्यभिप्रेत्य वाक्यो- स्थज्ञानस्य प्रावस्यमुपपादयति- अहंधीरिदमात्मोत्था पाचारम्भणगोचरा ।' निपिद्धात्मोद्भवत्वात्सा न पुननितां प्रजेत् ॥ २॥ अहंधीरिति ॥ देहादावनात्मन्यात्मवुद्धिरहंधीरित्युच्यते साह- कर्तुरिंदमंशात्पूर्वपूर्वाहंकारबासनावासिनान्तःकरणरूपादिदमात्मनः सकाशादुत्थिताध्यासात्मिकेत्यर्थः । खरूपतोऽस्या दौर्बल्यमुक्त्वा विषयभेदादपि तदाह-वाचारम्भणगोचरेति । निरूप्यमाणं स्वतः- सचाहीनमपि यदपरोक्षव्यवहारगोचरतया गम्यते तद्वाचारम्भणमनुत- जडानात्मरूपं तदेव गोचरो विपयो यस्याः सा । तथा यत एवमतो नेतिनेतीति शास्त्रेण निपिद्धो बाधित आत्मा खरूपमुद्भवः कारणं यस्याः सा निषिद्धात्मोद्भवा तस्या भावो निषिद्धात्मोद्भवत्वं तस्मादिति विग्रहः । सा पुनरिदंधीरात्मयाथात्म्यज्ञानानन्तरं मानतां प्रमाणत्वं न व्रजेन्न लभेत, अवस्तुत्वावस्तुजत्वादवस्तुविषयत्वाच समावस्थायि- शेपज्ञानवदित्यर्थः । अतो वाक्योत्थज्ञानमेव प्रबलं नेतरदिति भावः॥२॥ इदानीं पौर्वापर्ये पूर्वदौबल्यं प्रकृतिवदितिन्यायेन प्रथमोत्पन्नाया उपदेशसाहस्री। [प्रतिपेष- अपि कर्ता भोकेत्यादिघिय उत्तरेण ब्रह्मात्मज्ञानेन वाध्यत्वमुप- पादयति~~ पूर्वबुद्धिमवाधित्वा नोत्तरा जायते मतिः। दृशिरेकः स्वयं सिद्धः फलत्वात्स न वाध्यते ॥ ३ ॥ पूर्ववुद्धिमिति ।। न शुक्त्यज्ञानजन्यां रजतबुद्धिमत्राधित्वा शुक्ति- धीरुतरोत्पद्यते एवं कादिबुद्धिमवाधित्वा नात्मतत्त्वज्ञानमुत्तरमुत्प- द्यते । अतः प्रसक्तनिषेधात्मकत्वाद्वाधस्य पूर्वसमये उत्तरप्रसत्त्यभा- वान्न पूर्वेणोत्तरस्य बाधः, किंतु परेण पूर्वस्य प्रसक्तस्य याध इत्यन- वद्यम् । पदार्थबोधे शब्दस्य मानान्तरसापेक्षत्वेऽपि न वाक्यार्थबोधे तदपेक्षा, पदार्थबोधेऽपि व्यवहारमात्रस्यैवापेक्षत्वात्पूर्वबुद्धेर्व्यवहाराङ्ग- त्यांशस्योत्तरेणात्मज्ञानेनाबाधनाच नोपजीव्यविरोधश्चेति द्रष्टव्यम् । किंचौपनिषदात्मज्ञानमेव तत्त्वावेदकमत्यन्तावाध्यार्थत्वादित्याह- दृशिरिति । ब्रमात्माकारान्तःकरणवृत्तिप्रतिफलितापरोक्षस्फूर्तिद्देशि- रित्युच्यते सचैकः पराभावेनोपलक्षितोऽद्वितीय इति यावत् । स्वयंसिद्धः परनिरपेक्षसत्तास्फूर्तिक. स न बाध्यते । उक्तैविशेषणैर्बाधायोग्यत्वा- वगमात्फलत्वात् । नहि फलं बाध्यते। तस्य सर्वज्ञानसाधारणत्वात्सर्व- व्यवहारहेतुप्रकाशत्वाचेत्यर्थः । नित्यसिद्धस्याप्यस्य फलत्वं विषया: कारवृत्तिव्यक्तस्वापेक्षयोपर्यत इति भावः ॥२॥ एवं ब्रह्मात्मज्ञानस वाक्यादनुत्पत्तिशामुत्पन्नस्य प्रायल्योपपा- दनेन पूर्वप्रवृत्तप्रत्यक्षादिभिर्वाध्यार्थत्वशङ्कां चोन्मध्येदानी कथमिद- मुत्पद्यतामिति वीक्षायां पदार्थपरिशोधनेनेति श्रौतहटान्तेनोपपा- दयति- इदं वनमतिक्रम्य शोकमोहादिक्षितम् ।
प्रकरणम् ३] पदयोजनिकान्याख्यायुता। २३ पनागान्धारको यद्वत्वात्मानं प्रतिपद्यते ॥४॥ इदं वनमिति ॥ इदं शरीरमेव वनमिव वनं रागद्वेषशोकमो- हादिभिर्व्याघतस्करादिस्थानीयैर्दूषितमाक्रान्तमतिक्रम्य दिच्यानमाचा- दिवगम्यान्वयव्यतिरेकालोचनया पदार्थशोधनेन देहादिकगनात्म- तया त्यक्त्वा स्वमात्मानं सर्वानुस्यूतमनपोह्यं प्रतिपद्यते । अहं ब्रह्मा- सीत्यौपनिषदं पुरुषमवगच्छतीत्यर्थः । यथा गान्धारको गन्धारदेश- बासी पुरुषो बद्धचक्षुरेव तस्करैरानीय गहायने निक्षिप्तः स बन्धमो- क्षार्थी तत्राक्रोशं कुर्वन्केनचित्कारुणिकेनोपलव्धस्तेन मोचितबन्धो दर्शितवदेशमार्गों ग्रामाद्रामं पृच्छन् पण्डितो मेधावी वनात्स्वदेश प्रतिपद्यते, तथायमपि संसारी अविद्यारागादितस्करैमिथ्याज्ञानपटेन विवेकदृष्टिमाच्छाद्य स्वदेशादेहारण्यं प्रवेशितो बन्धमोक्षार्थी कदा- चित्केनचित्कारुणिकेनाचार्येण ब्रह्मविदा त्याजितमिथ्यादृष्टिपटः प्रतियोधितवदेशब्रह्ममार्गोऽन्वयव्यतिरेकाभ्यां खयमूहमानः समा- स्मानमधिगच्छतीत्यर्थः ॥ ४ ॥ इति द्वितीयं आत्मज्ञानोत्पत्तिविधिप्रकरणम् ।। २ ।। ईश्वरात्मप्रकरणम् ३ येयं ब्रह्मविद्या प्रतिपादिता तस्यां प्रकाशमानं ब्रम किं प्रत्यगा- त्मनो भेदेन प्रत्येतव्यं तदभेदेन वेति 'द्वा सुपर्णा सयुजे त्यत्र भेदश्र- वणात् 'अयमात्मा ब्रह्मे' त्यभेदश्रवणाच संदेहे निर्णयकारणं श्रौतं दर्शयन्वाश्यविषयमर्थ स्पष्टयति- ईश्वरश्चेदनात्मा स्थानासायनीति धारयेत् । आत्मा चेदीश्वरोऽस्मीति विद्या सान्यनिवर्तिका ॥१॥ १ प्रतिषेधप्रकरणमित्सन्यत्र .
उपदेशसाहस्री।
[ ईश्वरात्म-
ईश्वर इत्यादिना ॥ ईश्वरो जगत्कारणत्वेनोपलक्षितः परमात्मा
सत्यज्ञानानन्तानन्दरूपः स चेदात्मभिन्नो गेर्वादिवद्विषयभूतः परोक्षो
वा स्याचदासावीश्वरोऽहमस्मीति मुमुक्षुर्न धारयेदारमान तत्वतो न
प्रतिपद्येत । ततस्तत्त्वमस्यादिवचनविरोधः स्यात् । 'आत्मेति रूपं
गच्छन्ति ग्राहयन्ति चेति न्यायविरोधश्च स्यादित्यर्थः । ईश्वर एवा-
माहमस्मि नान्य इति चेद्धारयेद्विजानीयाचदा न श्रुतिन्यायविरोध
इति योज्यम् । सा विद्या तिरोहितभेदाकारप्रत्यग्ब्रह्मैक्यावलम्बिनी
अन्यस्या अविद्याया निवर्तिका समूलसंसारनिवर्तिकेत्यर्थः । 'ब्रह्म
वेद ब्रह्मैव भवति' 'ब्रह्मैव सन्ब्रह्माप्येती'त्यादिश्रुतौ ब्रह्मज्ञानस्य
ब्रह्ममावफलश्रवणादन्यत्वपक्षे स्थितस्स नष्टस्य वान्यस्यान्यभावानुप-
पत्तरेक्यज्ञानमेव फलपदिति तत्रैव शास्त्रतात्पर्य न भेदे । तज्ज्ञान-
स्याफलत्वात् 'अन्योऽसावन्योऽहमस्मीति न स वेदे' ति भेददर्शनस्य
निन्दितत्वाच भेदश्रतेस्त्वनाद्यविद्याकल्पितभेदानुवादपरत्वान्न खार्थे
तापर्यमिति भाव ॥१॥
इतश्चाभेदे वेदतात्पर्यमाह-
आत्मनोऽन्यस्य चेद्धर्मा अस्थूलत्वादयो मताः।
अज्ञेयत्वेऽस्य किं तैः स्वादात्मत्वे ह्यन्यधीहतिः ॥२॥
आत्मन इति ॥ अस्थूलत्वादयो धर्मा. प्रत्यगात्मनोऽन्यस्य
भिन्नस्सेश्वरस्य चेन्मता इप्टा स्युस्खदास्येश्वरस्यानात्मभूतत्वादज्ञेयत्वे-
सति मुमुक्षोरस्थूलत्वादिभिः श्रौतैर्धमः किं स्यान्न किमपि । स्थूलोऽहं
कृशोऽमित्यादिवगतम्रान्त्यनिवृत्तेरित्यर्थः। यदा त्वस्थूलत्वादिधर्मक
ईश्वरोऽहमसीति ज्ञायते तदा तस्याप्यात्मत्वेसति प्रतीचोऽन्यधीद्रुतिः
खात्मन्येव गृहीतायाः कृशस्थूलत्वादिघियो मोहमूलाया बाघसिद्धिः
फलं स्यादित्यर्थः ॥२॥
-
प्रकरणम् ३]
पदयोजनिकान्याख्यायुता। २५
'कमिन्नाकाश ओतश्च प्रोतश्चे' ति कार्यकारणात्मकजगदाश्र-
यप्रश्नोत्तरत्वेनाक्षरस्योपक्रमात् 'एतस्य वा अक्षरस्य प्रशासने गार्गि'
इति जगदीश्वरतया मध्ये परामर्शात् 'अदृष्टं द्रष्ट्रि'त्यादिना तत्स्वभा-
वकथनपूर्वकमन्ते च एतस्मिन्नु खल्वक्षरे गाग्र्याकाश ओतश्च प्रोत-
थे' त्युपसंहारादीश्वरपरता ब्राह्मणवाक्यस्याशेषस्यावधारिता, तत्र
'नान्यदतोऽस्ति द्रष्टुश्रोतृमन्तृविज्ञात्रि'ति द्रष्टवाद्युपलक्षितस्य प्रत्यगा-
मनोऽक्षरब्रह्माभेदश्वावधारित इतीवरात्मनोरभेद एव शालार्थों
यतस्तस्मात्प्रत्यगात्मन्यध्यस्तस्थूलत्वादिप्रतिषेधपरमिदं वाक्यमास्थेय-
मित्यभिप्रेत्याह-
(प्रत्यगामणि
मिथ्याध्यासनिषेधार्थ ततोऽस्थूलादि गृह्यताम् ।
परन्न चेन्निषेधार्थ शून्यतावर्णनं हि तत् ॥ ३॥
मिथ्येति । ततस्तस्मान्मिथ्याध्यासाज्ञानमूलस्य निषेधार्थ निवृ-
त्यर्थ अस्थूलादिप्रत्यगात्मविशेषणत्वेन गृह्यताम् । विपक्षे दोपमाह-
परत्रेति ॥ अस्थूलादिवाक्यं परत्र प्रत्यगात्मनोऽन्यत्र स्थूलत्व-
निषेधार्थ चेत्स्याचदा हि निश्चितं शून्यतावर्णनमेव तत्स्यादात्मनो-
ऽन्यस्य जडत्वातस्य च सौल्यादिधर्मयोगान्निषेधान्तःपातित्वे सतीश्व-
रस्येश्वरवायोगान्निषेधमात्रपरमेव वाक्यं स्यादित्यर्थः । तस्मादस्थूला-
दिधर्मकस्यानात्मत्वायोगादीश्वरमभ्युपगच्छतात्मैव सोऽभ्युपगन्तव्य
इति भावः ॥३॥
किंच प्रत्यगात्मनोऽन्यत्र स्थूलत्वादिप्रतिषेधे चाप्राप्तप्रतिषेधो
निष्फलश्चापद्यतेति दोषान्तरमाह-
बुभुत्सोर्यदि चान्यत्र प्रत्यगात्मन इप्यते ।
अग्राणो ह्यमनाः शुभ्र इति चानर्थकं वचः॥४॥
उपदेशसाहस्री। [तत्त्वज्ञानसभाव- चुभुत्सोरिति ।। यदि प्रत्यगात्मनो बुभुत्सोरात्मतत्त्वं बोटुमिच्छोः संसारित्वेनाभिमतादात्मन इतियावत् तदन्यन्न देहेन्द्रियप्राणमनस्त- द्धर्मनिषेध इप्यते तदाऽप्राण इत्यादिवचनमनर्थकं निर्विषयं स्यादन्यत्र प्राणादिप्रसक्त्यभावात्प्रतिपेधस्य च दृष्टार्थत्वादित्यर्थः ॥ ४ ॥ इति तृतीयं ईश्वरात्मप्रकरणम् ॥ ३ ॥ तत्त्वज्ञानस्वभावप्रकरणम् ४ ननु यदिदमीश्वराभेदेनात्मनो ज्ञानं मोक्षसाधनमुक्तं तन्नोपपद्यते संचितानेककर्गसद्भावात्कर्मणां च फलावश्यंभावनियमाचैः प्रतिबन्ध- संभवादिति तत्राह--- अहंप्रत्ययवीजं यदहंप्रत्ययवस्थितम् ।' नाहंप्रत्ययवह्नयुष्टं कथं कर्म प्ररोहति ॥१॥ अहपत्ययेति । अहमिति प्रत्ययोऽहंकारोऽनात्मन्यात्माभिमान- लक्षणः स बीजं कारणं यस्य कर्मणस्तदहंप्रत्ययबीजं अहमिति प्रती- यते आत्मा यस्मिन्नन्तःकरणे साभासे तदहंप्रत्ययवत्तस्मिन्नहंप्रत्ययवति खितं संचितं यत्कर्मजातं तन्नाहं कर्ता भोक्ता, किंतु ब्रवाहमस्मीति यः प्रमाणजनितः प्रत्ययः स एव वहिस्तेनोष्टं दग्धं कथं पुनः मरो- हति फलोन्मुखं जायतेति योजना । तथाच श्रुतिस्मृती 'क्षीयन्ते चास्य कर्माणि तमिन्दृष्टे परावरे । 'ज्ञानामिः सर्वकर्माणि भस्मसा- कुरुते तथेति ज्ञानोदये नान्तरीयकतया मूलाज्ञानस्य विरोधादेव निवृत्तिसंमवात्तदा तत्कार्यान्तःकरणस्यापि निवृत्तेराश्रयाभावे कर्मस्थि- त्ययोगात्कुतस्तेन मोक्षप्रतिबन्धसङ्केत्यभिप्रायः ॥ १ ॥ ननु यथा ज्ञानवतोऽपि भिक्षाटनादिकर्म सफलमुपलभ्यते तथा तस्यादृष्टफलमपि कर्म सफलं सादिति कल्प्यत इति शकते- प्रकरणम् ४] पदयोजनिकान्याख्यायुता। २७ दृष्टयञ्चेवरोहः स्यान्नान्यकर्मा स इप्यते । तन्निरोधे कथं तत्सात्पृच्छामो वस्तदुच्यताम् ॥२॥ दृष्टवच्चेत्प्ररोहः स्यादिति ॥ परिहरति-नान्यकर्मा स इप्यत इति । नेति निषेधार्थः । स भिक्षाटनादिर्विदुषो व्यापारोऽन्यकर्मा । अन्यत्र प्रवृत्तं फलं कर्म कारण यस्य सोऽन्यकर्मा स इप्यते । ज्ञानावि- रोधिप्रारब्धफलकर्मनिबन्धनं हि भिक्षाटनादि नैवंविधलक्षणं तस्य ज्ञानविरोधित्वादित्यर्थः । ननु ज्ञानादज्ञाननिवृत्त्या तन्मूलाहंकारनि- वृत्तिद्वारेण तदाश्रयकर्मनिवृत्तौ फथमारब्धमपि कर्म सिद्ध्येद्यनिमित्ता विदुपो भिक्षाटनादिकर्मप्रवृत्तिरिति पृच्छति पूर्ववादी तन्निरोध इति । कर्माश्रयः प्रथमतच्छन्दार्थः । फर्म द्वितीयतच्छब्दार्थः ॥ २ ॥ उत्तरमाह- देहाघारम्भसामर्थ्याज्ज्ञानं सद्विपयं त्वयि । अभिभूय फलं कुर्यात्कर्मान्ते ज्ञानमुद्भवेत् ॥ ३ ॥ देहादीति ।। सद्विषयं प्रमाणजनितत्वेन प्रबलमपि ब्रह्मात्मवि- षयं ज्ञानमभिभूय विदेहकैवल्यरूपात्फलामच्याव्य कर्म प्रारब्ध- फललक्षणं खफलं देहामासजगदाभासरूपं त्वयि ज्ञानवत्यपि कुर्या- देव । कुतः । देहाद्यारम्भप्रति समर्थत्वादन्ते प्रारब्धकर्मफलभोगा- वसाने सति ज्ञान प्रतिबन्धरहितं समुद्भवेदुद्भूतं भवति । वर्तमानकार्य- संपादकाविद्यालेशमप्यपबाध्य विद्वांस खाराज्ये स्थापयेदित्यर्थः ॥३॥ ननु प्रारब्धकर्मवशाज्ञानिनोऽपि भोगः स्यान्नत्वनारब्धकर्मतत्फ- लयोस्तस्मिन्नवस्थितिरिति कथमुपपद्येत, अज्ञानकार्यत्वाविशेषात्सर्वस्या- ज्ञाननिवृत्तौ च पुनराश्रयाभावेनावस्थानाभावस्य समत्वादित्याशङ्कच विशेषमाह---
उपदेशसाहस्री । [तत्त्वज्ञानखभाव-
आरब्धस्स फले ह्येते भोगो ज्ञानं च कर्मणः ।
अविरोधस्तयोर्युक्तो वैधय चेतरस्य तु ॥४॥
आरब्धस्येति ।। भोगो ज्ञानं चेत्येते हि यसादारव्यस्थ कर्मणः
फलेऽतस्तयोरविरोधो युक्त इतरस्य त्वनारब्धफलस्य संचितस्य
क्रियमाणस्य वा कर्मणो वैधय वैपरीत्यं विरोध एवेत्यक्षरार्थः ।
अयंभावः-ज्ञानं हि स्वकारणाजायमानं शरीरादिसापेक्षमेव जायते,
अशरीरस्यागन्तुकज्ञानासंभवात् । शरीरादिकं तु न ज्ञानकारणादुत्प-
धते, अन्यकारणस्यान्यहेतुत्वायोगात् । अतः कैश्चित्कर्मविशेपैः शरी-
रविशेषे ज्ञानोत्पत्तियोग्ये खफलदानायारब्धे सति तमाश्रित्य ज्ञानहे.
तुकर्माणि ज्ञानमारभन्त इत्यभ्युपगन्तव्यम् । तथाचारव्ये देहे तो-
गस्यावश्यंभावित्वाद्धोगप्रदकर्मारब्धशरीरमाश्रित्य खहेतुसमासादित
ज्ञान वफलमज्ञाननिवृर्षि कुर्वदपि न सद्यो भोगैकनाश्यदेहारम्भक-
कर्माक्षिसाविद्यालेश निवर्तयत्युपजीव्यबिरोधित्वाभावादिति नारब्ध-
फलफर्गज्ञानयोविरोधोऽनारब्धफलानां तु कर्मणामकात्मतत्त्वज्ञा-
नोदयविरोधादेव कर्तृखभावनिवृत्तावाश्रयाभावादभावोपपत्तेर्न ज्ञानस-
हावस्थानमुपपद्यत इत्यस्ति विशेष इति ॥१॥
ननु ज्ञानिनोऽपि चेद्धोगो देहारम्भककर्मनिबन्धनोऽस्ति तर्हि तस्य
कदाचिद्देहात्माभिमानसभवात्तदुद्भुतदुरितप्रतिबन्धवशान्मोक्षानुपप-
तिरिति चेन्नेत्याह-
देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानवाधकम् ।
आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ।
ततः सर्वमिदं सिद्धं प्रयोगोऽस्माभिरीरितः ॥५॥
.. प्रकरणम् ५] पदयोजनिकाव्यात्यायुता । ૨૨ देहात्मज्ञानवदिति ॥ यथा विवेकविलक्षणव लौकिकस देहे मनुष्योऽहमित्यात्मज्ञानं निःसंदिग्धमुपलव्धं तथा मुख्यात्मन्येव देहायहकारपर्यन्तसाक्षिण्यात्मन्येव यस्य देहात्मज्ञानवाशकमहमसि परं ब्रह्मेत्येवंरूपं निःसंदिग्धं ज्ञानं भवेत्स यथोक्तज्ञानवलादनर्थरा- शेरपनीतत्वान्मुक्तिमनिच्छन्नपि बलान्मुच्यत एवेत्यर्थः । तथाचा- विर्भूतात्मतत्त्वस्य पुनर्देहाभिमानहेत्वभावान्न मोक्षे कोऽपि प्रतिबन्ध इति भावः । तथाच श्रुतिः 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसं- शयाः । क्षीयन्ते चास्य कर्माणि तमिन्दृष्टे परावरे' इत्याया। तथा स्मृतयोऽपि 'बीजान्यम्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञान- दग्धस्तथा क्लेशैर्नाल्मा संवध्यते पुनः । यथा पर्वतमादीप्तं नाशयन्ति मृगद्विजाः । तद्वद्रह्मविदो दोपा नाश्रयन्ते कदाचन । मन्त्रीपवले- यद्वजीर्यते भक्षितं वियम् । तद्वत्सर्वाणि कर्माणि जीर्यन्ते ज्ञानिनः क्षणा' दिति । ज्ञानिनः कर्मणा प्रतिबन्धाभावमुपपादितमुपसंहरति -तत इत्यर्धश्लोकेन । सर्वमिदमिति प्रारब्धकर्माविरोधित्वोक्तिः । सिद्धं श्रुत्यादिप्रमाणसिद्धमित्यर्थः । प्रयोग उपपत्तिः॥ ५॥ इति चतुर्थ तत्त्वज्ञानस्वभावप्रकरणम् ॥४॥ वुद्ध्यपराधप्रकरणम् ५ यदि प्रागुक्तरीत्या ब्रह्मात्मज्ञानममृतत्वं गमयेस्किमिति तहि सवै- रहब्रह्मास्मीत्यात्मरूपं न गृह्यते निसर्गत एव सर्वेषां परमपुरुषार्था- थित्वादिति तत्राह- मूत्राशको यथोदको नाग्रहीदमृतं यथा । कर्मनाशभयाजन्तोरात्मज्ञानाग्रहस्तथा ॥ १ ॥ १ इत्यहंप्रत्ययप्रकरण मित्सन्यतः उपदेशसाहस्री । [ वुद्यपराध- मूत्राशङ्ग इति । अत्रेयमाख्यायिका-उदको नाम कश्चिद्य- पिर्भगवन्तं महाविष्णुं तपसा तोपयित्वा देवरक्षितममृतं प्रार्थितवान् । तदा भगक्ता देवेन्द्रप्रत्युक्तममृतमसै दीयतामिति । इन्द्रस्तु विष्णो- राज्ञां पालयन्नमृतकलशं नीत्वा मातङ्गवेषमास्थाय खबस्तिदेशे कल- शमुपनिधायोदवाय दातुमारेभेऽसूयया माभवत्वस्यामृतपानमिति मन्यगानः । तदुदकोऽपि चण्डालमूत्रशङ्कयान जमाहेति । उदको मूत्रा- शङ्कः सन् यथाभूतमेव प्रत्यक्षोपलब्धमप्यमृतं यथा नाग्रहीन मदभि- लपितममृतमिदमिति न गृहीतवान् जातिनाशभयादिति योजना, तथा जन्तोलॊकस्य वर्णाश्रमोपाधिविहितकर्मनाशमयादात्मज्ञानस्य यथोक्तस्याऽमहस्तस्मिन्ननादर इत्युत्तरार्घयोजना। पदार्थस्वरूपापरिज्ञानं विपरीतज्ञानं च श्रुत्युकात्मस्वरूपाग्रहणकारणमिति भावः ॥ १॥ ननु दृष्टान्ते देवेन्द्रस्य वेपान्यत्वममृतकलशस्य च मूत्राशयस्थान- निवेशनं च जात्यन्तरमूत्रनमोत्पादनेनामृताग्रहणकारणमासीन तथा- स्मनो ब्रह्मभूतस्य भ्रमकारणमस्तीत्यत आह- चुद्धिस्थश्चलतीवात्मा ध्यायतीव च दृश्यते । नौगतस्य यथा वृक्षास्तद्वत्संसारविनमः॥२॥ बुद्धिस्य इति ॥ अनाद्यविद्यया खात्मन्यध्यस्तबुद्धौ लिङ्गशरीरे अमिमानित्वेन स्थित आत्मा तस्यां बुद्धौ चलन्त्यां चलतीव दृश्यते न वस्तुतश्चलत्यविक्रियत्वात्तथा तस्यां ध्यायन्त्यां निश्चलीभूतायां ध्यायतीव निश्चल इय दृश्यते प्रतिभासते न वस्तुतोध्यायति । चल- नाभावे तत्प्रतियोगिकस्य नैश्चल्यस्याप्यभावादित्यर्थः । विकारवहु- ज्यविवेकादादावेव संसार्यहमस्मीति विपरीवनिश्चयदोपाच्छुत्यादिभि- रोर्यमाणमप्यात्मनो ब्रह्मत्वं न गृह्णाति लोक इत्यभिप्रायः । अविवे- प्रकरणम् ५] पदयोजनिकान्याख्यायुता। कादन्यथामतिपत्तौ दृष्टान्तमाह-नौगतस्येति । तद्वदिति दान्ति- कोक्तिः ॥२॥ उक्तमेव प्रपञ्चयति- नौस्थस्य प्रातिलोम्येन नगाना गमनं यथा । आत्मनः संसृतिस्तद्वयायतीवेति हि श्रुतिः ॥३॥ नौस्यस्येति । जलस्थायां चलन्त्यां नावि स्थितस्य जनस्य यथा नौगतिदिग्वैपरीत्येन जलाशयतीरस्थानां नगानां वृक्षादीनां गमनं विभाव्यते उपाध्यविवेकात् तद्वदसंसारिणोऽप्यात्मनः संमृतिरनुभूयत इत्यर्थः । उक्तार्थानुवादिनी श्रुतिं पठति-ध्यायतीवेति हि श्रुति- रिति । स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीवे' ति श्रूयत इत्यर्थः ॥ ३॥ प्रपचितदृष्टान्तानुगुण्येन दान्तिकं प्रपञ्चयनुदाहृतश्रुत्यर्थमाह- चैतन्यप्रतिविम्बेन व्याप्तो बोधो हि जायते । बुद्धेः शब्दादिमिर्भासस्तेन भोमुह्यते जगत् ॥ ४ ॥ चैतन्यप्रविम्बेनेति ।। चैतन्यप्रतिविम्वश्चिदाभासतेन व्याप्तो हि यस्माद्बुद्धोधो विपयाकारा बुद्धिर्जायते, अतः खाभासाविवेका- च्छब्दादिभिर्बुद्धिवृत्तिव्याप्तविपयैः । इत्थंभावे तृतीया । विषयगत- देहाद्यात्मना भासो भासनं स्फुरणमात्मनो भवतीति शेषः । यदि शब्दादिनिर्भास इति पाठो लभ्यते तदा चोघविशेषणम् । शव्दादे- विपयस्य निर्मासो यसिंस्तथेति सुगमम् । यैनैवमेकस्यां बुद्धिवृत्ती देहादिविषयचैतन्ययोः संश्लेप इव भवति तेनान्योन्याविवेकनिमित्तेन जगज्जनोऽतिशयेन मुह्यतीत्यर्थः । यथा नौस्थः पुरुषो नापश्चलनं नानुभवति अचलस्सु च वृक्षेषु चलनमनुभवतीत्युपाधिसामर्थ्यादेवं उपदेशसाहस्री। [बुद्ध्यपराध- बुद्धिस्थदेहाद्यात्मभावमिवापन्न आत्मा तदीयं व्यापार न पृथगनुभवति तदाभासाविवेकातु चिदात्मनि विकारमारोपयन्ननुभवति मृपैवेत्येत- ध्यायतीवेत्यादिश्रुत्योच्यते । अत उपाघिसामर्थ्यात्संसारित्वविभ्रम इत्यभिप्रायः ॥ ४॥ एवमविवेकाधीने संसाराध्यासे विविक्तपदार्थस्य वाक्यादहब्रह्मा- स्मीति बुद्धिवृत्त्युदये मुक्तिः फलिप्यत्यतः पदार्थविवेकवता भाज्यं मुमुक्षुणेत्यभिप्रेत्याह- चैतन्यभास्यताहमस्तादर्थं च तदस्य यत् । इदमंशप्रहाणेन परः सोऽनुभयो भवेत् ॥ ५॥ चैतन्यभासतेति ॥ अहमोऽहंकारस्य चिदचिंद्रन्थिरूपस्य यञ्चैतन्यमास्यता दृश्यता यच्च तादयं चिदात्मनो विषयोपस्थापकल्वेन तच्छेपत्वमस्ति तदुभयमस्याहंकारस्य संबन्धि तस्मिन्निदमंशस्य प्रहाणे विवेके सति न भवेन्न स्यादिति योजना । तत्र योऽनुभवः साक्षी परिशिष्टः स परः परमात्मा वाक्यार्थभूतो भवेदित्यर्थः । यद्वा अस्या- हमोऽहंकारस्य चैतन्यमास्यता जडता तादथ्य च तच्छेपत्वं च यद्य- स्मादस्ति तत्तस्मादयमहंकारो नात्मेति वेद्यांशप्रहाणेन तस्मिन्नस्मदर्थ- स्वाभिमानत्यागेन योऽनुभवः स पर आत्मेति निश्चयवान्भवेदिति योजना अथवास वाक्यार्थविषयः परः सर्वोचरोऽनुभवोऽहमोऽहंकार- स्वेदमंशप्रहाणेन पृथकरणेन भवेदिति संबन्धः । इदमनिदमात्मक- स्याहंकारस्य संबन्धी य इदमंशस्तस्य साक्षिसाक्ष्यान्वयव्यतिरेकाग- मापायितदवध्यन्वयव्यतिरेकालोचनरूपेण मननेनापबाघेसति अवशि- टांशोऽनपोस आत्मेत्यनुभवो भवेदित्यर्थः । नन्वहमित्यवभासे इदमंश एव न चकास्ति यस्य प्रहाणेन परोऽनुभवो भवेदित्याशक्कायामाह--- प्रकरणम् ६] पदयोजनिकाव्याख्यायुता। चैतन्यभास्यतेति । तादर्थ्य चेति च । सुपुप्त्यादावात्मनि भासमा- नेऽप्यहंकारस्यानवभासादनात्मत्वे निश्चिते सति जागरितादावागन्तु- कचैतन्यमास्यता तस्य सिद्धा । अतः प्रतिभासते इदमंशाभावेऽपि चैतन्यभारसत्वेन लक्षणेनास्तीदमाकारतेत्यर्थः । तथातादर्थ्यमप्यस्ति आत्मनि कर्तृत्वभोक्तृत्वादिव्यवहारनिर्वाहकतया आत्मशेषत्वमस्ति य- यस्मादेवं तत्तस्मादप्यनात्मत्वलक्षण इदमंशो विद्यते अतस्तत्प्रहाणेन ब्रह्मात्मानुभवो भवेदिति सर्व समञ्जसं ॥ ५ ॥ इति पंचमं बुद्ध्यपराधप्रकरणम् ॥ ५ ॥ विशेषापोहनकरणम् ६ पदार्थविवेकवतो वाक्यादब्रह्मेति ज्ञानं भवतीत्युक्तम्, तत्राह- मित्यत्रेदमंशाहाणेन साक्षितत्त्वस्य शोधनप्रकारः सूक्ष्मोपायो निर्दिष्टः, तत्रासमर्थप्रति स्थूलोपायेन पदार्थशोधनप्रकारमुपदेष्टुं प्रकरणमार- भते । तत्र यत्स्वरूपग्रहाणमन्तरेण ज्ञातुं न शक्यते यथामेरौप्ण्ये तस्य स्वरूपत्वादेव न विशेषणता यद्यपि तथापि तथाविधस्य कचिद्विशेषणत्वव्यवहारः कल्पितभेदमाश्रित्येति स्थिते आत्मनि सति सत्ताचैतन्यानन्दानामनपायान्न तेषां विशेषणत्वं किंतु खरूप- त्वमेव कृशः स्थूलः कृष्णो गौरोहं मनुष्यः श्रोता द्रष्टा वक्ता कामी क्रोधी ज्ञानी कर्चा भोक्ता सुखी दुःखीत्येवंविधानि विशेषणानि नात्मनः सत्तादिवत्खरूपमूतानि सत्यप्यात्मनि सुपुत्यादौ तेषामभा- वादित्येवमात्मनः पृथगुद्धृत्य तस्य कूटस्थतावधेयेत्यभिप्रेत्य पृथग्भू- तस्य विशेषणत्वामावे दृष्टान्तमाह- १ मुलाशाप्रकरणगित्सम्यान, मा.३ उपदेशसाहस्री। [विशेषापोह- छित्त्वा त्यक्तेन हस्तेन खयं नात्मा विशिष्यते । तथा शिष्टेन सर्वेण येन येन विशेष्यते ॥१॥ छित्त्वा त्यक्तेनेति ।। यथायं दृष्टान्तस्तथा येन येन मनुष्यवादिना विशेप्यते तेन सर्वेण शिप्टेन त्यक्तहस्तातिरिक्तेन पादादिना वा स्वयमात्मा न विशिष्यते यथा हस्तच्छेदानन्तरंहस्तवानहमिति न विशि- प्टप्रत्ययः क्रियते एवमेव पादादिमान्मनुष्योऽहमित्यादिविशिष्टप्रत्ययो न कार्य इत्यर्थः ॥ १॥ देहद्वयसमवायिधर्माणामात्मनि व्यभिचारातैरात्मा विशिप्य न प्रत्येतव्य इत्युक्तमनूद्य फलितमाह- तस्मात्त्यक्तेन हस्तेन तुल्यं सर्व विशेपणम् । अनात्मत्येन तस्माज्ञो मुक्तः सर्वैर्विशेषणैः ॥२॥ तरमादिति ॥ अनात्मत्वेन त्यक्तेन हस्तेनेति संबन्धः।विमतानि विशेषणानि नात्मखभावभूतानि विशेषणत्वात् छित्त्वा त्यक्तहस्तवदि. त्यर्थः । यम्मादेवं तस्मात् ज्ञो ज्ञानवान्विवेकज्ञानवान्सर्वविशेषणैर्मु. क्तश्चित्सदानन्दमात्रात्मक एवावशिष्यत इत्यर्थः ॥३॥ उक्तन्यायेन विशेषणानामनात्मत्वेऽपि नात्मनस्तद्वियोगोऽस्ति आगमापायाभ्यां संबन्धनैरन्तर्यादित्याशङ्कयाह- विशेषणमिदं सर्व साध्वलंकरणं यथा । अविद्याध्यासतः सर्व ज्ञात आत्मन्यसद्भवेत् ॥३॥ विशेषणमिदं सर्वमिति ॥ इदं सर्व विशेपणं यथालंकरणमलं. कार्यसबन्धेऽपि न तनादास्यतद्धमत्वबुद्धिविषयस्तथा साधु शोभनं युक्तमिति यावत् । इतरथा आगमापायानुपपत्तेरित्यर्थः । तर्हि कुतो
प्रकरणम् ६]
पदयोजनिकान्याख्यायुता।
मनुष्योऽहमित्यादौ तादात्म्यावभासस्तत्राह-अविद्याध्यासत इति ।
मोहादेव तथावभास इत्यर्थः । यस्मादविद्ययाध्यस्तमेवात्मनीदं सबै
विशेपणमतो ज्ञाते आत्मन्यविद्यानिवृत्तावसत् बाधितं कालत्रयेऽप्य-
विद्यमानं भवेत्तथा निश्चितं भवेदिति योजना ॥३॥
ज्ञात आत्मनीत्युक्ते ज्ञेयत्वमात्मन उक्तमिति शक्का स्यात् ज्ञेयत्वे
च विशेपणादिवदनात्मत्वप्रसङ्ग इत्याशङ्कयाह-
ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयमुत्सृज्य केवलः।
अहमित्यपि यद्राचं व्यपेताङ्गसमं हि तत् ॥ ४ ॥
ज्ञातैवेति ॥ ज्ञेयमुत्सृज्य दृश्यांशापोहं कृत्वा यो ज्ञाता सदा
सर्वस्य स एवात्मा न ग्राह्यांश इति माह्योऽध्यक्सेयः । किंलक्षणः ।
केवलो ज्ञातृत्वविशेपणेनापि रहित इत्यर्थः । ज्ञातृत्वाद्युपलक्षितं
चिन्मात्रमलुप्तप्रकाशस्वभावतया सर्वानुस्यूतं वस्त्वात्मेति विवेकवतो
निश्चितप्रत्ययो भवेदिति भावः । अहमित्यनुभूयमानत्वात्कथं ज्ञातै-
वात्मेत्युच्यत इत्यतआह अहमित्यपीति । यदपि इदमहमिति ग्राह्य-
मात्मरूपं मन्यसे तन्यपेतागसमं छिन्नस्ततुल्यं हि एव तत्सुपुष्ट्या-
दावात्मन्यवभासमानेऽप्यहमित्यनवमासनादहमो व्यभिचारित्वे सत्या-
स्मदृश्यतयात्मत्वायोगादित्यर्थः ॥ ४ ॥
आत्मनोऽहंप्रत्ययग्राह्यत्वाभावे चक्षुरादेरप्यविषयस्य कुतः सिद्धि-
रिति मुग्धशहां दृष्टान्तेनापाकुर्वन्नात्मनोऽन्यनिरपेक्षां सतःसिद्धि
साधयति-
यायान्यादिदमंशो यः स खतोऽन्यो विशेपणम् ।
विशेषप्रक्षयो यत्र सिद्धो ज्ञचित्रगुर्यथा ॥ ५ ॥
उपदेशसाहसी। [विशेषापोह- यावानिति । अहमित्यत्र यावांश्चिदवभास्यत्वलक्षणेनेदमंशो योऽहंकारादिर्यत्र विशेषणं स्याद्यसिन्सानुगतप्रतिभासे प्रत्यगात्मनि विशेषव्यवहारहेतुः स्यात्स प्रत्यगात्माऽन्यो विशेषणत्वेनाभिमतात्तद- हंकारादेः परो विशेषप्रक्षयश्च सर्वेषां विशेषाणां प्रक्षयो व्यावृत्ति- यस्मिन्निति व्युत्पत्तेनिर्विशेपश्च एवंरूपः स्वतःसिद्धोऽन्यनिरपेक्ष एव सिद्धः स्फुरन्वर्तत इति पदयोजना । यथा देवदत्तो विशेषणभूता- याचित्रगोरन्यस्तरसंबन्धात्मागेव सिद्धो न चित्रगोः संबन्धं खसिद्धि प्रत्यपेक्षते तथात्माप्यहंकारादिसंबन्धात्प्रागेव स्वमहिम्ना सिद्धो नाहं- कारादिकं स्वसिद्धावपेक्षत इति दृष्टान्तदा न्तिकसंगतोऽर्थः ॥ ५ ॥ नन्वहमोऽनात्मत्वे कथमहं ब्रह्मेति तादात्म्यश्रुतिरुपपद्यतेत्याश- कयाऽध्यस्ताहंकारस्य मूलनिवृत्त्यर्थी श्रुति हंकारस्थात्मत्वप्रतिपत्य- थति परिहरति-- इदमंशोऽहमित्यत्र साज्यो नात्मेति पण्डितैः। अहंसेति शिष्टाशो भूतपूर्वगतेर्भवेत् ॥६॥ इदमंशोऽहमिति ॥ अहमित्यत्राहकारावभासे य इदमंशः स नात्मा दृश्यत्वादिति निश्चित्य पण्डितैस्त्याज्यः । तस्मिन्नात्माभिमानो न कार्य इत्यर्थः । तर्हि कथं श्रुतिनिर्देशस्तवाह-- अहमिति । अहंब- लेति वाक्यार्थनिष्ठायां योऽहंकारांश उल्लिख्यते स भूतपूर्वगतेहेंतो- भवेत् । भूता संजाता पूर्व गतिः प्राप्तिस्तस्या इति विग्रहः । अहंकार- लक्ष्यं वस्तु तत्साक्षिरूपमहमिति श्रुत्योल्लिख्यत इत्यर्थः ॥ ६ ॥ इति षष्ठ विशेषापोहप्रकरणम् ।। ६ ।। - १इति छिलाप्रकरणमिति का।
प्रकरणम् ७] पदयोजनिकाव्याख्यायुता। - . बुद्ध्यारुढप्रकरणम् ७ एवं कृतान्वयव्यतिरेकस्य परिशोधितपदार्यतत्त्वस्य वाक्यादेव वाक्यार्थज्ञानमुपपद्यत इत्युपपत्त्या निर्धारितमर्थ खानुभवावष्टम्भेन स्पष्टीकर्ते प्रकरणान्तरमारभते- बुयारूढं सदा सर्व दृश्यते यत्र तत्र वा। मया तस्मात्परं ब्रह्म सर्वज्ञश्चास्मि सर्वगः ॥१॥ बुद्ध्यारूढमित्यादिना ॥ यस्मान्मया सर्वमध्यात्ममधिभूतम- धिदैवमित्यादिलक्षणं यत्र तत्र वा जामत्स्यमयोरिहलोकपरलोकयो: स्थितं प्रत्यक्षादितः शास्त्रतो वा यदुपलभ्यमस्ति तत्सर्वं वुद्ध्यारूढ़ बुद्धिवृत्तिकोडीकृतं सदा दृश्यते प्रकाश्यते तस्मादहं सर्वदृश्यविल- क्षणत्वात्परं प्रपञ्चातीतं ब्रह्मास्मि सर्वज्ञः सर्वार्थप्रकाशकः सर्वगोऽपरि- च्छिन्नश्यास्मीत्यर्थः ॥ १ ॥ ननु कथमेतावता सर्वज्ञत्वं पुरुषान्तरवुद्ध्यारूदेर्थे पुरुषान्तरस्यानुभव- स्मरणयोरसंभवादेकस्यात्मनः सर्वार्थप्रकाशकत्वासिद्धेरित्यत आह- यथात्मबुद्धिचाराणां साक्षी तद्वत्परेप्पपि। नयापोडं न वा दातुं शक्यस्तस्मात्परो खहम् ॥२॥ यथात्मेति ॥ आत्मनि सर्वव्यवहारप्रवर्तकतया आत्मसंब- धिनी बुद्धिरात्मबुद्धिस्तस्याश्यारः प्रचारो येषु ते आत्मबुद्धिचारा आध्यात्माधिदैवस्थूलसूक्ष्मदेहात्मकास्तेषां साक्षी स्फोरकोऽहं यथा तद्वत्तथा परेपु परफीयबुद्धिचारेप्वप्यहं साक्षी साक्षिभेदे प्रमाणाभा- चात् 'मय्येव सकलं जासं मयि सर्व प्रतिष्ठितम् । मयि सर्व लयं याति तद्ब्रह्माद्वयमस्म्यह' मित्यादिश्रुतेर्मय्येवैकसिंश्चिदेकरसे - उपदेशसाहस्री। [बुद्यारुढ- आत्मनि सर्वप्रमातृतहृद्धितत्प्रचारगोचरस्य प्रपश्चस्स कल्पितत्वावग- माच युक्त मम सर्वज्ञत्वादीत्यर्थ । यस्मादेवमह सर्वसाक्षित्वेन सर्वा- धिष्ठानत्वेन च सर्वज्ञ सर्वगतश्च तमादपोढुमयमस्य द्रष्टा न भव- त्यत्र स नास्तीति वा निराकर्तुं नैव शक्य केनचित् । नचैवादातु ज्ञानेन क्रियया वा प्रकाशयितुमुत्पादयितुमाक्रष्टु वा शक्यो हि यसादह ग्राहग्राहकादिपपञ्चविलक्षणस्तस्मात्पर परमात्मैवेत्युपसहार ॥२॥ ननु युद्ध्यारूढ चेत्सर्व प्रकाश्यते क्षेत्रज्ञेन तदा दर्शनक्रियाया कर्तृ- त्याद्विकारित्वादिदोपप्राप्तेस्तस्यानात्मत्वप्रसङ्ग इतिशङ्का निरस्पति- विकारित्वमशुद्धत्वं भौतिकत्वं न चात्मनः । अशेषबुद्धिसाक्षित्वाद्बुद्धिवञ्चाल्पवेदना ॥ ३ ॥ विकारित्वमिति ॥ आत्मनो न विकारित्व बुद्धिवासावयवत्वा- भावात्सर्वविकारसाक्षित्वाञ्च । ततएव नात्मनोऽशुद्धत्व क्रियागुणयो- गित्वमस्ति । सकलगुणक्रियावद्वस्तुसाक्षित्वाच्च । नापि भौतिफत्वमा- त्मनो रूपादिहीनत्वात् । किंच नात्मनो बुद्धिवदल्पवेदना । यथा बुद्धेर्बुद्धितत्ससर्गादिविषया वेदनास्ति नैवमात्मनोऽशेपबुद्धिसाक्षित्वा- सर्वबुद्धिखरूपतद्विकारादिसाक्षित्वादित्यर्थ ॥ ३ ॥ यदि निर्विकार एवात्मा, कथ तर्हि स सर्वार्थप्रकाशक इत्युच्यत इत्याशङ्कय लोकप्रसिद्धदृष्टान्तेन निर्विकारस्यैव प्रकाशकत्वमुपपाद- यति- मणी प्रकाश्यते यद्वद्रक्ताद्याकारतातपे। मयि संदृश्यते सर्वमातपेनेव तन्मया ॥४॥ मणाविति ।। मणौ स्फटिकादिलक्षणे जपाकुसुमादिरूपा रक्ता- द्याकारता आतपे सूर्यालोके सत्येक प्रकाश्यते गृह्यते यद्वतथा मयि - प्रकरणम् ७ ]. पदयोननिकाव्याख्यायुता । ३९ क्षेत्रज्ञे आदित्यस्थानीये विद्यमान एव स्फटिकादिस्थानीयायां बुद्धौ जपाकुसुमादिरक्ततादिस्थानीयं सर्व विषयजातं संदृश्यते । तत्तस्मा- दातपेनेव निःप्रकम्पेन मया सर्व प्रकाश्यते न बुद्धिवद्विकारवत्ता नापि बुद्धिरेव द्रष्ट्री । नचैवंसति बुद्धेरनुपयोग एव, चैतन्यस्य विषयविशे- पाकारत्वापादनाय तदुपयोगादिति ॥४॥ इदानी प्रत्यगात्मनो द्वितीयत्वमुपपादयंस्तस्य च शुद्धत्वं स्पष्ट- यति- - बुद्धौ दृश्यं भवेद्रुद्धौ सत्यां नास्ति विपर्यये। द्रष्टा यस्मात्सदा द्रष्टा तस्माद्वैतं न विद्यते ॥५॥ बुद्धाविति ॥ जायदादौ वुद्धौ सत्यां साविद्ययाध्यम्तायां वुद्धौ समारूढं सदृश्यं द्वैतं भवेदुद्भवेत् । नास्ति विपर्यये बुद्धावसत्या स्त्रापादौ दृश्यं नास्ति । जडस्याज्ञातसत्वे प्रमाणाभावादित्यर्थः । द्रष्टा तु साक्षी सदा सर्वास्वप्यवस्थासु द्रष्टैच न दृश्यवत्वसत्तां व्यभिचरति । यस्मादेवं सतः प्रकाशमानत्वाव्यभिचारस्तव्यभिचारिणश्च सत्वानुप- पत्तिः तस्माद्वैतं न विद्यत इति नित्यशुद्ध एव प्रत्यगात्मेत्यर्थः ।।५।। यद्यपि द्वैतसंसर्गकृतमशुद्धत्वमात्मनों नास्ति द्वैतस्याभावात्तथापि विद्याविद्याभ्यां संबन्धादशुद्धिर्मविप्यतीत्याशङ्कय बुद्धेरेव विद्याविये नात्मनस्तत्संसर्ग इति शुद्ध एवात्मेत्याह- पराभावं यथा बुद्धिरवैत्तथा । विवेकातु परादन्यः खयं चापि न विद्यते ॥६॥ अविवेकादिति ॥ न विद्यते विवेको भेदो भासमानतया यस्मिन् सोऽविवेको देहादावात्मबुद्धिविपर्ययज्ञानमिति यावत् । तस्मादविवेकापरस्यासंसारिणः सर्वसाक्षितया विविक्तस्याभावमविद्य- ४० उपदेशसाहस्री। मितिविलापन- मानतां यथा बुद्धिरवैद्विदितवती । अत्र वुझ्यध्यासादेव चिदात्म- नोऽपि प्रान्तियोगासामासा बुद्धिरेवानानविपर्यासाश्रय इत्यङ्गीकृत्य यथा बुद्धिरवैदित्युक्तमिति द्रष्टव्यम् । तथाविवेकातु अनात्मापवा. देनात्मनः खभावनिर्धारणं विवेकस्तस्माद्विवेकादूर्ध्व परादसंसारिणः परमात्मनोऽन्यो जीवः संसारी न विद्यते । स्वयं चापि स्वाभासबुद्धि- रपि सनिदाना न विद्यते वदा प्रत्याब्रह्मभूतत्वात्सर्वस्येत्यर्थः । तथाच भ्रान्तिसम्यग्ज्ञानयोर्विद्याविद्यारूपयोरपि बुद्धितन्त्रत्वान्नात्म- नोऽशुद्धिगन्धोऽपीति भावः ॥ ६ ॥ इति सप्तमं बुद्ध्यारूढप्रकरणम् ॥ ७ ॥ मतिविलापनप्रकरणम् ८ ननु विद्याविद्ययोर्यदि बुद्धिगतत्वं तर्हि सांख्यसिद्धान्तप्रसङ्गस्खे हि बुद्धिरेव पुरुषस्यापवर्गार्थ भोगाथै च ज्ञानाज्ञानरूपतामाचरतीति वदन्तीत्याशङ्कामपनुदन्पूर्व खानुभवानुरोधेन साधितमेव ब्रह्मात्मज्ञा- नमात्मनः संवादात्मकेन प्रकरणान्तरेण द्रढयति- चितिस्वरूपे खत एव मे मते रसादियोगस्तव मोहकारितः । अतो न किंचित्तव चेष्टितेन मे फलं भवेत्सर्वविशेपहानतः ॥१॥ चितिखरूप इति ॥ रसादियोगो रागादिनिवन्धनो भोकृत्वा- दिसंबन्धः मोहोऽविवेकः । फलितमाह-अतो नेति ॥ १॥ यसात्सर्वविशेषराहित्यात्तव चेष्टितेन में ममानाधेयातिशयस्य किमपि फलं नास्ति तस्साचवोपशम एव युक्त इत्याह-- ।
प्रकरणम् ८] पदयोजनिकाव्याख्यायुता। विमुच्य मायामय कार्यतामिह प्रशान्तिमायाह्य- सदीहितात्सदा । अहं परब्रह्म सदा विमुक्तवत्तथा- जमेकं द्वयवर्जितं यतः ॥२॥ विमुच्येति ।। मायामयकार्यतां मिथ्याचेष्टितं विमुच्यासदीहि- तानिरर्थकप्रयासात्प्रशान्ति प्रशममिह मयि प्रत्यगात्मन्यायाहि प्रामुहि । अत्र मायामयचेष्टितासदीहितशब्दाभ्यामविद्यानिवन्धन- त्वस्य सूचितत्वात्सांख्यमतशङ्का निरवकाशीकृता वेदितव्या । ननु किमिति प्रत्यगात्मनि मनसो लय उच्यते सत्यज्ञानादिलक्षणे ब्रह्म- ण्येव करमान्नोच्यत इत्याशङ्कयाह-सदा अहं परब्रह्मेति । यतः सदैवाहं ब्रह्मैव तथासति सदा विमुक्तवन्मुक्त इवास्मि नतु मे मुक्ति- वन्धाभावादिति योजना। अजत्वविशेषणं जन्मादिसमस्तविकारप्रति- पेधार्थम् । अत एकं सदैकरूपमित्यर्थः । संजातीयभेदरहितमिति वा । द्वयवर्जितं विजातीयभेदहीनमित्यर्थः । अतो यन्मय्येकीभूतं ब्रह्मण्येव तदेकीभूतमिति स्थिते न 'परेऽव्यये सर्व एकीभवन्ती'- ति श्रुतिविरोध इति भावः। अपरा योजना-हे मते, असत्सु स्वतः खरूपशून्येपु देहेन्द्रियविपयेषु यदीहितमभिलपितं दृष्टमदृष्टं वा फलं तस्मादसदीहितात्सदा जाग्रहशायामपि प्रशान्ति प्रशममायाहि तदर्थ व्यापारं परित्यजेत्यर्थः । उपशान्तापि त्वं नैवात्मानं धारयेत्याह- विमुच्येति । कार्यतां बुद्धिरूपकार्यात्मता विमुच्य विहाय मायां कारणरूपमायामयगच्छ तदात्मिका मव । तर्हि तद्रूपेण स्थित्वा पुन- रुद्धविष्यामीतिचेचत्राह-इहेति । इह मत्वरूप एवान्तरय प्रविंश । कार्यकारणरूपतां विहाय तप्तायःपीतोदकबिन्दुवन्मदूपास्ता भवे. त्यर्थः । कथमहं मुखान्तःकवलीकृतब्रह्माण्डकोटिर्मयेतस्ततश्चाल्य- , ४२ उपदेशसाहस्री [ मतिविलापन- मानेन त्वया ग्रस्ता स्यामितिचेत् नाहं कदापि चालयितुं त्वया शक्यस्त्वभान्तिमानमेतदित्यभिप्रेत्याह-अहं परब्रह्मेति । यतोऽहं सदा परब्रह्म 'अयमात्मा ब्रह्मे' तिश्रुतेरिति योज्यम् । विमुक्तव- दिति ब्रह्मविशेषणम् । स्वार्थे तद्धितः । विमुक्तं नित्यमुक्तमेवेत्यर्थः । तथा यथा श्रुत्युक्तं तथेत्यर्थः । व्याख्यातमन्यत् ॥ २॥ नन्वजत्वादिप्रतिपादकशास्त्राद्ब्रह्मणो निर्विशेषतया नित्यमुक्त- स्वेऽपि कथमात्मनो देहादिप्वन्वितस्य निविशेषतया ब्रह्मरूपतासंभव इत्यत आह- सदा च भूतेषु समोऽमि केवलो यथा च खं सर्वगमक्षरं शिवम् । निरन्तरं निष्कलमक्रिय परं ततो न मेऽस्तीह फलं तवेहितैः ॥ ३॥ सदा च भूतेष्विति || चशब्दोऽवधारणार्थः । अहं केवलो- ऽविद्यात कार्यरूपविशेषणरहितः सर्वेषु भूतेषु सम एवास्ति । उपाधि- परामर्शमन्तरेण मयि विशेषोल्लेखाभावादित्यर्थः । सर्वानुस्यूतस्याप्य- सशसभावतया निर्विशेपत्ये दृष्टान्तमाह-यथा च समिति । आकाशस्यासङ्गत्वादेः मसिद्धत्वान्न तस्मिन् शक्षा कार्येति चशब्दार्थः। सर्वगमित्यादीनि विशेषणानि ब्रह्माफाशयोः समानि । यतः आका- शबकेवलोऽहं सर्वभूतेषु समोऽत आकाशस्खमावोपमितं सर्वग- मित्यादिविशेषणं परं मनास्लीति योग्यम् । उपमादिते प्रशास्मैश्ये फलितमार-तत इति ॥ ३॥ नसभूतस्प तर मदोदितः फलामावेऽपि कथंचिन्मयेष्टया त्वास 'यन्धिनम्त्यांमति गुणमूतस प्रधानमूतस्य या कम्पचिदर्भस पचिप- योगो मविप्यतीत्याशय तोऽपि मपि दुःसंपाद इत्यार- . प्रकरणम् ८]. पदयोजनिकाव्याख्यायुता। ४३ अहं.ममैको न तदन्यदिप्यते तथा नं कस्याप्य- हमस्म्यसङ्गतः । असगरूपोऽहमतो न मे त्वया कृतेन कार्य तब चाद्वयत्वतः ॥ ४ ॥ अहमिति ॥ एक एवाहं चित्तरूपस्य मम परमार्थतः सजाती- यविजातीयखगतभेदे मानाभावात्ततो न मम गुणभूतं किंचिन्मतो- ज्यदिप्यते मृग्यते । तथा कस्यापि प्रधानभूतस्याहं गुणभूतो नासि । कुतः । असङ्गतः अनिष्पादितातिशयत्वात् । अनाधेयातिशयत्वा- दित्यर्थः । यतोऽहमसङ्गरूपोऽतो न मे त्वया कृतेन किमपि प्रयो- जनमस्तिं । किंच त्वमेव नासि कुतस्तवेहितं तत्फलं वेत्याशये- नाह-तवचेति । मत्स्वरूपज्ञानकल्पितायास्तवाधिष्ठानभूतमरस्वरूप- व्यतिरेकामावादभेदे चोपकार्योपकारकत्वासंभवादलं विकल्पनया प्रशान्तैव भवेत्यर्थः ॥ ४॥ इदानीं कृतार्थस्याचार्यस्य स्वानुभवसिद्धार्थाविष्कारकप्रकरणनि- र्माणप्रवृत्तौ निमित्तं दुःखिजनदर्शनसंजातकरुणैव न ख्यात्यादीत्यभि- प्रेत्याह- फले च हेतौ च जनो विपक्तवानिति प्रचिन्याह- मतो चिमोक्षणे । जनस्य संबादमिमं प्रकृसवान्ख- रूपतत्त्वार्थविवोधकारणम् ॥ ५॥ फले चेति । अयं जनो हेतुफलात्मके संसारे विशेषेणासक्तवा- निति प्रचिन्त्य विमृश्य तादृग्जनस्स लोकस्यातः संसाराद्विमोक्षणे मोक्षार्थमहमिममध्यात्मसंवादरूपं ग्रन्थं प्रयुक्तवान्प्रणीतवानसि । किमनेन संवादग्रन्थेन जनस भवेदिति तदर्थ तं विशिनष्टि-स.
४४ उपदेशसाहस्री। [ सूक्ष्मतान्यापिता- रूपेति । स्वस्यात्मनो रूपं नित्यचैतन्यखभावस्तस्य तत्त्वार्थो ब्रह्मत्वं तस्य विस्पष्टबोधकारणमित्यर्थः ॥ ५॥ यत एवं विघोऽयं संवादस्तस्मात्साध्यसाधनविपर्यावर्तलक्षणात्सं- सारान्मुमुक्षुभिरयमनुचिन्तनीय इत्यभिप्रेत्याह- संवादमेतं यदि चिन्तयन्नरो विमुच्यते ज्ञानमहा- भयागमात् । विमुक्तकामश्च तथा जनः सदा चरत्यशोकः सम आत्मवित्सुखी ॥६॥ संवादमेतमिति ॥ अज्ञानकृतान्महाभयागमात्संसारादित्यर्थः । यद्वा महाभयस्यागमो यस्मातन्महामयागममज्ञानं तस्मादिति विग्रहः। भयहेत्वज्ञानाद्विमुच्यत इत्यर्थः । कारणनिवृत्त्या कार्यनिवृतिमाह-- विमुक्तकामश्चेत्यादि । चरति जीवन्नेव बन्धप्रतिमासरहितः सन्ब्रह्म- ण्येव विचरति । कृतकृत्यो भवतीत्यर्थः । सुगममन्यत् ॥ ६॥ इति अष्टमं मतिविलापनप्रकरणम् ॥८॥ 1 सूक्ष्मताव्यापिताप्रकरणम् ९ यस्य प्रत्यग्ब्रह्मणो वाक्योत्थज्ञानेनाज्ञाननिवृत्या मुक्तिरुक्ता तस्य सर्वान्तरत्वेन निरतिशयसूक्ष्मत्वं व्यापित्वं च यथा च समित्यत्र सूचितमुपपादयितुं प्रकरणान्तरमारमते- सूक्ष्मतान्यापिते ज्ञेये गन्धादेरुत्तरोत्तरम् । प्रत्सगात्मावसानेपु पूर्वपूर्वप्रहाणतः ॥१॥ सूक्ष्मतेत्यादिना | गन्यशब्द. पृथिवीशब्दार्थ. पृथिव्यम्व्वा- दिलक्षणात्कार्यात्पूर्यस्मात्पूर्वस्मादुत्तरोतरं कारणतया सितेषु प्रत्यगा- १ इति विविसरूपवरणमित्यन्यत्र ।
४५ प्रकरणम् ९] पदयोजनिकान्याख्यायुता। मायसानेषु सर्यान्तरात्मपर्यन्तेषु पदार्थेषु यथाक्रमं पूर्वपूर्वप्रहाणतः कार्याकारापोहेन सूक्ष्मता व्यापिता च विज्ञातव्या । कार्यकारणान्व- यव्यतिरेकालोचनया संभावनीयेत्यर्थः । कार्येपु विद्यमानमपि कार. णखरूपं तत्कार्याकारतिरोहिततया न सरूपेणावभासत इति सूक्ष्मम्- च्यते न पुनः कार्यपरिमाणान्यूनपरिमाणयोगात् । तथा सकलविकारा- नुगतस्यैवोपादानकारणत्वात्कार्यापेक्षयाधिकदेशवृत्तित्वेन व्यापित्वं च कारणस्य । तथाहि चतुर्विधभूतग्रामोपादानरूपा पृथिवी तावन्न भूतगामेषु गृह्यमाणेषु गृह्यते तत्र तच्छब्दप्रत्ययव्यवहारादर्शनाल्लोकस्य अनस्तदपेक्षया सूक्ष्मा तदव्याप्तदेशवर्तित्वाद्यापिका च । नच तत्त- कार्योपादानभूताः पृथिव्यंशा भिन्ना इति नोपादानस्य व्यापकतेति वाच्यम् । कार्याकारेण भेदव्यतिरेकेण मृत्खरूपभेदे प्रमाणानिरूपणा- दन्यथा तटाकान्तःस्थमृन्निर्मितकुसूलस्स गृहागणदेशे मृदात्मना विलयाभावप्रसङ्गादुपादानादन्यत्र कार्यलयानुपपत्तेः । तस्मात्स्वकार्या- पेक्षया पृथ्वी तावत्सूक्ष्मा व्यापिका न सिद्धा । तथाद्भिाप्ता पृथिवी 'तद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभव' दितिश्रुतौ जलप- रिणामविशेषस्य शरशब्दवाच्यस्य दधिमण्डाफारस्य पृथिव्यात्मत्व श्रव- णात्स्वेदप्रसवणादेः पर्वतामशिलायामन्तभूमौ च सर्वत्रोपलम्भावसस्य च सलिलासाधारणगुणस पृथिव्यां सर्वत्रोपलम्भाचस्पैकत्वेऽपि कटुती- क्ष्णत्वादिभेदः परिणामविशेषोपाधिनिबन्धन इति । तस्माजलव्याप्ता पृथिवी सपरिणामेति जलं पृथिव्या व्यापकं सूक्ष्मं च प्रागुक्तयुत्त्या सिद्धम् । तथा सपृथिवीजलं तेजसा खकारणेन व्याप्त सर्वत्रोप्मोपल. म्भाचप्तायोगोलकादौ सूर्यकिरणेपु चोदकस्य लयदर्शनाच । तथाचैव तेजसो जलायापकत्वं सूक्ष्मत्वं च प्रसिद्धम् । तदपि वायुना प्रस्त
४६
उपदेशसाहसी। [सूक्ष्मताच्यापिता-
'यतश्चोदेति सूर्योऽस्तं यत्र च गच्छती'ति 'प्राणाद्वा एप उदेति प्राणे-
ऽस्तमेति' इतिश्रुतेः प्राणशब्दवाच्ये वायौ लयश्रवणाज्ज्वालारूपस्य
च वाय्यधीनप्रवृत्तिनिवृत्तिदर्शनाच्च । वायुश्चाकाशेन अस्त इति
प्रसिद्धमेवैतत् । सूक्ष्मत्वं तु व्याख्यातमेव सर्वत्र । एतत्सर्व सत्ता-
स्फूर्तिभ्यां व्याप्तमेवानुभूयत इति सञ्चिन्मानं सर्वस्योपादानं तस्य
चार्थान्तरेणानुगमादर्शनान्निरुपादानकत्वे सिद्ध निरपेक्षव्यापकत्वं
प्रागुक्तपरिपाट्या निरतिशयसूक्ष्मत्वं च सियति । तदनेन समिन्मा-
त्रेण सर्वस्य दृश्यराशेर्मस्तत्वान ततः पृथक् किमपि वस्तु विद्यत
इति तस्य परमसूक्ष्मताव्यापिते निश्चित्य सोहमसङ्गकूटस्थाद्वयात्मेति
सदा भावयेदिति तात्पर्यार्थः ॥१॥
ननु नैतावतात्मन उक्तरूपत्वज्ञानसिद्धिरध्यात्माधिदैवतयोः पृथि-
व्यादेभेदेन प्रथमानत्वादित्यत आह-
शारीरा पृथिवी तावद्यावद्वाह्या प्रमाणतः ।
अम्ब्यादीनि च तत्त्वानि तापज्ज्ञेयानि कृत्लशः॥२॥
शारीरेति ॥ यावद्वाह्या पृथिवी प्रमाणतः परिमाणतो भवति
तावत्तावत्ममाणा शारीरा पृथिवी जेयेति संपन्यः । तथाम्यादीनि
चत्वारि भूतानि कलशो निरवशेषतया तावचावत्यमाणानि यानि
यावच्छरीरा याद्या च पृथिवीति योजना । एतदुकं भवति-अध्या-
माधिभूताधिदेवात्मना विभक्कानां पृथिव्यादीनामेकानानविभिगत-
त्यादेकायतेन प्रविलापनोपपत्तेः सर्वत्र प्रत्यक्तत्त्यानुगमात्प्रत्यगात्मा-
वसानमेवाध्यात्मादिरूप तेन व्याप्तं न ततः पृथगनीति प्रत्यक्ताये-
अपार्यमाणे बाह्याध्यामिकादिभेदस्प्रनवकाशात्मत्यगात्मनात साप-
न्मात्रमेव सर्वमवशिष्यत इति भवेदेव प्राणुकात्मतत्त्वज्ञागसिद्धि-
M
रिति ॥२॥
४७ - प्रकरणम् ९] पदयोजनिकाव्याख्यायुता। नन्वेवं परागर्थस्यासत्वे कथमात्मनः प्रत्यक्त्वं सर्वगतत्वमित्याधु- पपद्यते, तस्य पराचीनविकारापेक्षत्वादतः कथं पराचां प्रत्यगात्मा- वसानवमित्याशङ्कय, चिन्मात्रस्वरूपस्यैवापूर्वादिलक्षणस्य प्रत्यगादि- शब्दैलक्ष्यत्वाल्लक्ष्यमाणदशायामारोपितपरागर्थापेक्षायामपि स्वरूपस्या- न्यानपेक्षत्वाद्युत्तं सर्वस्य प्रत्यगात्मावसानत्वावधारणमिति दृष्टान्तेनो- पपादयति- वाय्यादीनां यथोत्पत्तेः पूर्वं खं सर्वगं तथा । अहमेकः :: सदा सर्वश्चिन्मात्रः सर्वगोऽद्वयः ॥३॥ वाय्वादीनामिति ॥ स्पष्टार्थः ॥ ३ ॥ ननु कथमाकाशवदेक एवात्मा सर्वात्मा भवेत् ब्रह्मादिभेदेनाम- नामनेकरवस्य विभाव्यमानत्वात्तथा चैतन्यमानत्वं चानुपपन्न रागादि- दोपसंसर्गोपलव्यरित्याशङ्कयाह- ब्रह्माद्याः स्थायरान्ता ये प्राणिनो मम पूः स्मृताः । कामक्रोधादयो दोपा जायेरन्मे कुतोऽन्यतः ॥ ४ ॥ ब्रह्माद्या इति ॥ ममैव चिदात्मनः सर्वे प्राणिनः पूः पुरंगरीर- भूताः स्मृताः निर्णीता इत्यर्थः । तथा कामक्रोधादयो दोपा आत्मनो मे न स्वामाविका व्यभिचारित्वात्परतोपि ते न सभवन्तीत्वाद- जायेरन्मे कुतोऽन्यत इति । अन्यस्याभावादित्यर्थः ॥ ४ ॥ प्रत्यगात्मनो निर्दोपत्वमसिद्धं संसारदोषस्य प्रत्यक्षत्वादित्याश. ब्याकाशकार्यप्रत्यक्षवदात्मनि दोषदृष्टेनमत्वान्मैवमित्याह- भूतदोपैः सदाऽस्पृष्टं सर्वभूतस्थमीश्वरम् । 'नीलं व्योम यथा वालो दुष्टं मां वीक्षते जनः ॥ ५॥ H ..
-१८ उपदेशसाहस्री। [ सूक्ष्मतान्यापिता- भूतदोपैरिति ।। अस्पृष्टमिति छेद' । सर्वभूतेषु स्थितस्यापि तद्दोपैरस्पृष्टत्वमीश्वरत्वादिति हेत्वर्थ विशेषणमीश्वरमिति । सर्वस्ये- शितारं कारणमिति यावत् । नहि कारणं कार्यधर्मेः सस्पृशत इत्यर्थः । स्पष्टमन्यत् ॥ ५॥ यदुक्तं ब्रह्माद्या. स्थावरान्ता, प्राणिन एकम्यात्मन. शरीरभूता इति तत्कथमित्यत आह- मचैतन्यावभास्यत्वात्सर्वप्राणिधियां सदा । पूर्मम प्राणिनः सर्वे सर्वज्ञस्य विपाप्मनः ॥ ६ ॥ मचैतन्येति ॥ सर्वज्ञस्य सर्वावभासकस्यातएव विपाप्मनो दृश्य- दोषससर्गरहितस्य ममात्मनः सर्वे प्राणिनः पू शरीरम् । कुतः । सर्वप्राणिधिया सदा मच्चैतन्यावभास्यत्वादिति योजना । 'योऽयं विज्ञानमयः प्राणेषु हृयन्तज्योतिः पुरुष'इतिश्रुतेर्तुड्यन्त साक्षितया प्रकाशमानस्स चैतन्यज्योतिष एव सर्वप्राणिप्वात्मत्वावगमात्, तस्य च बुद्धितत्स्थामासभेदमन्तरेण स्वरूपतोऽभेदानिरूपणात्सवितुरियोद- कपात्रतत्स्थाभासव्यतिरेकेणेति सिद्धमेकस्यात्मनः सर्वाणि भूतानि शरीरमिति भावः । तथाचश्रुतिः 'यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूनान्यन्तरो यमयत्येप त आत्मान्तर्याम्यमृत' इति ॥ ६॥ तर्हि भारयप्राणितबुद्धीनां सत्त्वादद्वैतक्षतिरिति तनाह- जनिमज्ञानविज्ञेयं स्वमजानवदिप्यते । निसं निर्विपयं ज्ञानं तस्माद्वैतं न विद्यते ॥ ७ ॥ जनिमदिति ॥ यजनिमयच्च ज्ञानविज्ञेयं यत्कार्य जहं च तन्मिय्येप्यते यथा समज्ञानं तया जादपि कार्य दृश्य चेति मिथ्येति तर द्वैतं न विद्यते मसाघमाज्ञेयस्यासत्त्वात् शानं नित्य - प्रकरणम् ९] पदयोजनिकाव्याख्यायुता। ४९ सदा निर्विपयं विषयनिरूप्यं न भवति । यद्वा नित्यमविनाशि सर्व- विनाशसाक्षित्वादिति योजना । नवध्यारोपितेन द्वैतेन परमार्थमद्वैतं विहन्यते । नखल्यारोपितेन तोयादिना तदाधारभूम्यादि सद्वितीय दृष्टमिति मावः ॥ ७॥ खरूपज्ञानस्य निर्विपयत्वं नित्यत्वं चोक्तं श्रुत्योपपादयति- ज्ञातुर्मतिर्हि नित्योक्ता सुपुप्ते त्वन्यशून्यतः ॥ जाग्रज्ज्ञातिस्त्वविद्यातस्तद्वाह्यं चासदिप्यताम् ॥८॥ जातातिरिति ॥ सुपुप्ते वन्यस्य ज्ञेयस्यासत्त्वमदर्शनपूर्वक ज्ञातुरात्मनो ज्ञातिः खरूपभूता ज्ञप्तिनित्येति श्रुत्योच्यते हीत्यर्थः । तथाच श्रुतिः 'यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति नहिं द्रष्टुईटेविपरि- लोपो विद्यतेऽविनाशित्वान्नतु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्ये' दित्यादिका । यद्यपि सुपुप्ते निर्विपयं ज्ञानं विषयाभावात्स्वरूपतो नाश- शीलत्वाभावाच्च नित्यं श्रुतिसिद्धं तथाप्यवस्थान्तरे सविषयमुपलभ्यत इति ज्ञातु तिरनित्या स्यादित्यतआह-जामदिति । यतः श्रुतिसिद्धं नित्यं निर्विपयं ज्ञानं अतः कारणात् जाग्रज्ज्ञातिविषयदर्शनामिका- ऽविद्याम्रान्तिरेवात्मनो निर्विकारतया ज्ञानकर्तृवायोगादन्तः च जडत्वादेव ज्ञानाश्रयत्वानुपपत्तेरध्यस्तमेव सविषयं ज्ञानं तबाह्यं च विषयजातमसदपरमार्थमिप्यता स्वीक्रियतामित्यर्थः । जागरितादौ विपयाकारबुद्धिवृत्तीनां स्फुरणावगुण्ठित वारसर्ववृत्त्युत्पत्तिस्थितिविना- शसाक्षितया स्फुरणस्यैकस्य नित्यस्यान्यस्यावश्यमाश्रयणीयत्वाज्जाग्रत्य- , प्यात्मचैतन्य नित्यमेव । तथा विषयाणा वृत्तिसमकालमेव स्फुरणा- द्विपयव्यभिचारेऽपि स्फुरणाव्यभिचाराचस्य विपयानिरूप्यत्वानिर्वि. पयत्वं च सिद्धमिति भावः ॥ ८॥ करणस्य उ.सा.४ ५० उपदेशसाहस्री । [दृशिखरूप- ननु 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासित- व्य'इति श्रुत्यैवात्मनो दर्शनाटिकर्मत्वोक्तेश्यत्वादशनाभुजङ्गादिवदस- त्वप्राप्तिरित्याशङ्कच, 'अशब्दमस्पर्शमरूपमव्ययं तथाऽरस नित्यमग- न्धवञ्च यत्' । 'न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वेत्यादिश्रुतिविरोधाटूपादिहीनस्य दर्शनायविषयत्वाद्रष्टव्य इत्यादि- अतिरथिन तब्येन योगादर्शनाचईत्वोपदेशमुखेनानात्मप्रवणतात्या- जनार्थेत्याह-- रूपवत्त्वाद्यसत्वान्न दृष्ट्यादेः कर्मता यथा । एवं विज्ञानकर्मत्वं भूनो नास्तीति गम्यते ॥ ९ ॥ रूपवत्वादिति ॥ यथा द्रष्टव्य इत्यादिवशान्न ज्ञानकमत्वमेव 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमे त्यत्रापि प्रागुपन्यस्तश्रुतिविरोधात् 'यत्रान्यन्न पश्यत्यात्मानमेव पश्यतीति खात्मदर्शनविधिपरत्वकल्पनायोगाद्भूनो ब्रह्मणो विज्ञानकर्मत्वं नास्ती. ति गम्यते निश्चीयत इत्यर्थः ॥ ९॥ इति नवम सूक्ष्मताव्यापिताप्रकरणम् ॥ ९ ॥ . दृशिखरूपपरमार्थदर्शनप्रकरणम् १० इदानीं पूर्वप्रकरणे युक्त्या व्यवस्थापितमात्मनो निर्पिपयनानख- गावत्वं सानुभवाभिनयेन प्रमटयन्नविषयत्वेनयात्मनानं भवतीति दयितुं प्रकरणान्तरमारभते- दृशिखरूपं गगनोपमं परं सकृद्विभातं त्यजमेक- मक्षरम् । अलेपकं सर्वगतं यदद्वयं तदेव चाहं सततं विमुक्त ॐ ॥ १॥ ।
प्रकरणम् १०] पदयोजनिकान्याख्यायुता। दृशिस्त्ररूपमिति ।। सकृद्विभातमेकदैव विस्फुरितम् सदैव स्पष्टं भासमानमितियावत् । यदेवंविधमक्षरं ब्रह्म तदेवाहं सततं भवामि अतो विमुक्तः । ॐइत्यभ्यनुज्ञार्थम् । ॐकार उक्तखरूपमोंकारद्वारा मुमुक्षुवुधभिव्यक्तं भवतीति सूचयितुं ॐकारनिर्देशः ॥ १॥ ननु नाकाशवदलेपकत्वं दृशेः संगच्छते दृश्यसंबन्धादशुद्धिविक्रि- यादिदोपसंभवादित्याशङ्कय दृशेरात्मखरूपत्वाचस्य च नित्यशुद्धत्वादेः श्रुत्यैव निर्धारणान्मैवमित्यभिप्रेत्य श्रुतिसिद्धमर्थ प्रकटयति- दृशिस्तु शुद्धोऽहमबिक्रियात्मको न मेऽस्ति कश्चि- द्विपयः खभावतः । पुरस्तिरश्चोयमधश्च सर्वतः संपूर्णभूमा त्वज आत्मनि स्थितः ।। २ ।। दृशिस्तु शुद्ध इति ॥ अहं तु दृशिः ज्ञानस्वरूप इत्यन्वयः । अतः परमार्थतः । शुद्धोऽशुद्ध्यादे ननिबन्धनत्वात्तस्य चाभासत्वा- दिति भावः । 'शुद्धमपापविद्ध'मिति मन्त्रवर्णात् यतश्चाविक्रियात्मकः विक्रियात्मकात्प्राणादेरन्यः 'अप्राणो ह्यमनाः शुभ्रः' 'अस्थूलमनण्वह- स्वमदीर्घ'मित्यादिश्रुतेरतोऽपि शुद्ध इत्यर्थः । 'न तदभाति किंचन नतदश्नाति कश्चनेति'श्रुतेर्नात्मनो विषयसंसर्ग इत्याह नमेऽस्तीति। स्वभावतः परमार्थतः। अनेन विक्रियाहेतुविषयाभावादप्यविक्रिय इत्युक्तं भवति । विषयाभावेनाद्वयात्मत्वे भूमवाक्यशेषमर्थतः पठति-पुर- स्तिरश्चेति । स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिग्नि यदि चान महिम्नी तिखरूपावस्थानमनन्याधीनमुपन्यस्य तदुपपादनायेदंकारास्पद सर्व पूर्वादिविभागेनाधरोत्तरादिविभेदेन चोपलभ्यमानं भूसैवेति प्रतिपाचाहंकारास्पदस्य देहादिवुद्धिपर्यन्तस्य तर्हि मूनो मेद इति शङ्कायामहंबुद्धियायमपि भूमैवेति मध्ये निर्दिश्येदमनिदमात्मकस्य ५२ उपदेशसाहसी। [ दृशिखरूप- सर्वस्य मूनोऽन्यत्वाभावे भेदकामावात्मत्यगात्मैव भूमेत्यात्मैवेद सर्वमित्यन्तेन संपूर्णभूमा छान्दोग्ये दर्शित इत्यर्थः । अजोऽहमाविर्भा- ववर्जितो यत आत्मनि खे महिम्नि स्थितो नान्याधीन इत्यर्थः ॥ २ ॥ आत्मनो जन्मजरादिविक्रियाभावेन कूटस्थाद्वयखामाव्यप्रतिपाद- नपराः श्रुतीः स्वरूपतोऽर्थतश्च पठति- अजोऽमरथैव तथाजरोऽमृतः खयंप्रभः सर्वगतो- ऽहमद्वयम् । न कारणं कार्यमतीय निर्मला सदै- कतृसश्च ततो विमुक्त ॐ ॥ ३ ॥ अजोऽमर इति । तथाच श्रुतयः अजो नित्यः शाश्वतोयं पुराणः' 'स वा एप महानज आत्माऽजरोडमरोऽमृतोऽभयो ब्रह्मेति । 'अन्नायं पुरुष. स्वयंज्योतिः' 'तच्छुत्र ज्योतिषां ज्योति' नित्य विभुं सर्वगतं मुसूक्ष्मम्' 'एको देवः' 'एकमेवाद्वितीय मिति तदेतद्ब्रह्मापूर्वमनप- रमनन्तरमयाह्य'मित्यादिश्रुत्यर्थमाह--न कारणं कार्यमिति । निर्मलो निरखनः । 'निरञ्जनः परमं साम्यमुरैती'तिश्रुतेः । एकतृप्तः एकेन निजानन्देनैव तृप्त इत्यर्थः । 'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुत. श्चन' 'आनन्दरूपममृतं यद्विभाति' इत्यादिश्रुतिभ्यः 'विमुक्तश्च विमु- च्यत' इति श्रुतिमाश्रित्याह--ततो विमुक्त इति । यत एवंलक्षण- स्ततो विमुक्त एव । सदेतिपदं सर्वत्रानुपञ्जनीयम् । यदाचार्यशाल मम स्वरूपं तत्तथैवेति शिप्योऽनुमन्यत ओमितिपदेनेत्यर्थः ॥ १ ॥ ननु सानत्रयेऽन्यथान्यथा प्रथमानम्य कथमविक्रियात्मकत्व- मित्यत आह- सुपुप्तजामत्वपतश्च दर्शनं न मेऽस्ति किंचित्समि- प्रकरणम् १०] पदयोजनिकाव्याख्यायुता। वेह मोहनम् । सतश्च तेषां परतोऽप्यसत्वत- स्तुरीय एवास्मि सदागद्वयः ॥ ४ ॥ तुपुप्तेति ॥ सुपुप्तश्चासौ जाग्रञ्च सचासौ स्वपश्च सुपुप्तजाप्रत्ख- पन् तस्य सुषुप्तजाग्रत्खपतो मे मम खमिवात्मीयमिवेह व्यवहारे किंचिद्दर्शनं नास्ति । खमिव वरूपभूतमिवेति वा, किंतु मोहनमवि- वैकाविद्याध्यारोपितं जाग्रदादिदर्शनमिति योजना । तत्र हेतुमाह- सतश्चेति । तेषां जाग्रत्वमसुषुप्तिदर्शनानां जाग्रदाद्यवस्थारूपाणां वा स्वतश्च परतोऽप्यसत्त्वतो सत्त्यादित्यक्षरयोजना । नहि तेपां खतोऽ- न्यनिरपेक्षं सत्वंसंभाव्यते चकारात्स्फुरणं च । आगमापायित्वेन रज्जु- सर्पवदारोपितत्वनिश्चयात् । तथा परतोऽपि न सत्त्वं स्फुरणं च संभा- व्यते परं चैतन्यं स्यात् । नहि तेनात्मना सत्त्वादिकमेपां संभवति प्रत्य- क्पराग्भावेन विरुद्धखभावयोस्तादात्म्यानुपपत्तेस्तकल्पनायाश्च श्रान्ति- मात्रत्वादित्यर्थः । प्राज्ञम्तैजसो विश्व इत्येते तत्तदवस्थावत्त्वेन भास- माना न मम स्वरूपमिति भावः । तर्हि किंवरूप आत्मेति तदा- ह-तुरीय एवास्मीति । विश्वादित्रयापेक्षया परतो गम्यमानत्वाच्चतुर्थ इत्यर्थः । तस्य लक्षणं सदागिति । सर्वावस्थाद्रष्टेत्यर्थः । विश्वा- दीनां स्वखावस्थामात्रद्रष्टुत्वादयं ततो व्यतिरिक्तः । स्थूलसूक्ष्मक्रमेण विविच्यान्वेपणदशायां विश्वादिस्थानत्रयापोहेनावसीयमानत्वातुरीय इत्युच्यते न पुनर्वस्तुतस्तुरीयत्वमस्तीति द्योतयत्यद्वय इति निर्विशेष एव सदाहमस्मीत्यर्थः ॥ ४ ॥ कथमात्मनो निर्विशेषत्वं शरीरादिसंबन्धस्य प्रत्यक्षत्यादित्यत आह- शरीरबुद्धीन्द्रियदुःखसंततेनं मे न चाहं मम नि- . उपदेशसाहस्री । [हशिखरूप- विकारतः । असत्त्वहतोश्च तथैव संततेरसत्वम- साः खपतो हि दृश्यवत् ॥ ५ ॥' शरीरेति ॥ शरीरादिसंततेर्न मदात्मत्वं मदीयत्वं वा परमार्थ- तोऽस्तीत्यर्थः । तत्र हेतुर्मम निर्विकारत इति । नह्यविक्रियं वस्त्वा- गमापायिशरीराधात्मना परिणमते संसृज्यते वा येन तत्वरूपता तद्धमता वा भवेदित्यर्थ. । हेत्वन्तरमाह-असत्त्वहेतोश्च तथैव । संततेरिति । कुतोऽसत्त्वमित्यत आह-असत्त्वमस्या इति । खपतः' खमावस्थाया यथा दृश्यं मिथ्या तथास्याः संततेदृश्यत्वादेवासत्त्व- मित्यर्थः । हिशब्दः खप्नदृश्यस्य मिथ्यात्वप्रसिद्धिद्योतनार्थः ॥ ५॥ शरीरादिसंततेदृश्यत्वेन चेन्मिथ्यात्वं तर्हि शुद्धत्वाविक्रियत्वादे- रपि दृश्यत्वान्मिथ्यात्व कि न स्यादित्यत आह- इदं तु सत्यं मम नास्ति विक्रिया विकारहेतुर्न हि मेऽद्वयत्वतः । न पुण्यपापे न च मोक्षवन्धने न चास्ति वर्णाश्रमताऽशरीरतः ॥ ६ ॥ इदं स्विति ॥ मम विक्रिया नास्ति न मे विकारहेतुरप्यस्ति ततः पूर्वनिरूपितादद्वयात् द्वयाभावाद्धेतोः स्वतः परतो या ममात्मनो विकि- या नास्तीति यदिदं तत्सत्यमित्यर्थः । तुशब्दः शाव्यावृत्त्यर्थः । अविक्रियत्वादिना विक्रियाभावाद्युपलक्षितस्वरूपस्याभिप्रेतत्याचनिध हेत्वसिद्धेन शकावकाश इत्यर्थः । कर्म वा तत्फलं वा तद्वंसो या कमा- दिसाधनं वा विक्रियाहेतुर्भविष्यतीति सुतोऽद्वयत्वमित्याशयार- न पुण्येति । पुण्यादि नेति प्रतिज्ञायां हेनुरशरीरत इति । शरीरस्यं तु पूर्वश्लोके प्रतिपादितमेवेत्यर्थः ॥ ६ ॥ ननु यद्यपि गरीरोपादनवन तद्धर्मपत्वन चात्मन. शरीरयत्या- .
प्रकरणम् १०] पदयोजनिकाव्याख्यायुता। भावरतथापि शरीरेणास्ति संवन्ध उपलभ्योपलम्भकमावलक्षण इति फथमशरीरतेत्याशङ्कय नैतावता सशरीरत्वेन कर्मादियोगितेत्यभिप्रेत्य पुण्यापुण्यादिसंबन्धवैधुर्यमुक्तमुपपादयति- अनादितो निर्गुणतो न कर्म मे फलं च तस्मा- त्परमोऽहमद्वयः । यथा नभः सर्वगतं न लिप्यते तथा ह्यहं देहगतोऽपि सूक्ष्मतः ॥ ७ ॥ अनादित इति ।। यत्कर्म समवायि तदादिमदृष्टं यथा रथश- रीरादि । नच परमाणुमनसोरनेकान्तो मनस उत्पत्तिश्रवणात्परपरिक- ल्पितपरमाण्वनङ्गीकाराच । यथा यकर्म समयायि तत्सगुणं दृष्टम् यथोक्तमेवोदाहरणम् । तथाच सगुणत्वं सादित्वं चाव्यापकं प्रत्यगात्मनो व्यावर्तमानम् । तस्य क्रियावत्वं खव्याप्यमादाय निवर्तत इति । क्रियायत्त्वाभावात्तत्साध्यपुण्याद्यसंभव इति भावः । कर्म पुण्यादिलक्षणं फलं तत्साध्यं सुखदुःखादिरूपं फलं च न मेऽस्तीत्यन्वयः । तस्मादहं परम उत्तमः संसारिभ्यो विलक्षणः अद्वयो निर्विशेषः क्रियावत्त्वा- भावाचसाध्यपुण्याद्यसंभव इति विलक्षणत्वमुपपादयति- यथेति । देहगतो देहप्राप्तः तत्रोपलभ्यमानोऽपीत्यर्थः । सूक्ष्मतोऽमूर्तत्वादि- त्यर्थः । तथाचाह भगवान् 'अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः शरीरस्योऽपि कौन्तेय न करोति न लिप्यते । यथा सर्वगतं सौम्या- दाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे नोपलिप्यते' इति ॥ ७ ॥ ननूपलब्ध्यधिष्टानानां देहादीनां वैपन्यदर्शनात्तत्रोपलभ्यमान- स्यात्मनोऽपितत्कृतवैषम्यसंभवात्कुतः परमात्मत्वं परिपूर्णता चेत्याशय अयं तारतम्यप्रतिभासोऽविद्याविलसितो न परमार्थत इत्याह- उपदेशसाहस्री। [ दृशिखरूप- सदा च भूतेषु समोऽहमीधरः क्षराक्षराभ्यां , परमो ह्ययोचमः । परात्मतत्त्वश्व तथादयोऽपि सन्विपर्ययेणाभिमतस्त्वविद्यया ॥ ८॥ सदा चेति ॥ ईश्वर इत्यनेनोपाधिवश्यत्वाभावं सूचयति । अतो न मे देहादिकृतं वैषम्यमित्यर्थः । ईश्वर इत्युक्ते तस्येशितव्याऐश- वात्सद्वयत्वशङ्का स्यादत आह-क्षराक्षराभ्यामिति । अथवेश्वरत्वमेव साधयति-क्षराक्षराभ्यामिति । हि यस्माक्षराक्षराभ्यां परमोऽथ तस्मादहमुत्तम इत्यन्वयः । क्षरति नश्यतीति क्षरः कार्यवर्गः न क्षरतीत्यक्षरं कारणं मायाशवलितं चिद्वस्तु तान्यां परमो व्यतिरिक्तः कार्यकारणादिमेदकल्पनाधिष्ठानभूत इत्यत उत्तमः पुरुषोतम इत्यर्थः । यत उत्तमोऽतः परेपामात्मनां तत्त्वं स्वरूपमसिन्निति परमात्मतत्त्वश्व अहमेव सर्वात्मा चेत्यर्थः । एवंविधश्चेदात्मा कथं तर्हि तत्र विपरी- तस्वरूपप्रतिभास इत्यत आह-तथाद्वयोऽपि सन्निति । उक्तोत्तरमे- तत् । अविद्याविलसित एव विपर्यय इत्यर्थः । तथाच भगवतोक्तम् 'द्वाविगौ पुरुपौ लोके क्षरण्याक्षर एव च । क्षरः सर्वाणि भूतानि कूटसोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः । यसाक्षरमतीतोऽहमक्षरादपि चोतमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम' इति ॥ ८॥ तर्हि किमविद्यासंबन्धो वर्तते नेत्याह- अविद्यया भावनया च कर्मभिर्विविक्त आत्मा. जव्यमधिः मुनिर्मलः । शादिशतिप्रचितोऽहम- द्वयः स्थितः सरूपे गगनं यथा चरम् ॥९॥ अविधयेति ॥ अविशश मूलानानं मावना तरतो देशाभिमानः - प्रकरणम् १०] पदयोजनिकान्याख्यायुता। कर्माणि तत्पूर्वकाणि पुण्यपापलक्षणानि तैर्विविक्तसत्संस्पर्शशून्यः । कुतो यसादव्यवधिर्व्यवधानं वस्त्वन्तरकृतोऽवच्छेदस्तद्रहितोऽव्यवधिः। अयमाशयः । चित्प्रकाशस्तावदात्मेति श्रुतिस्मृतीतिहासपुराणन्याय- सिद्धम् । अविद्या च जडाऽप्रकाशामिका । अतस्तयोविरुद्धखमावयोः परमार्थतः संबन्धो दुर्घट एवेति स्थितेऽनवच्छिन्नचैतन्यमानं तावन्ना- विद्याश्रय उपपद्यते । तथासत्यणुमात्रस्यापि प्रकाशानुपपत्तिप्रसङ्गात् । नापि केनचिदवच्छिन्नभागविशेषमविद्याव्यतिरिक्तस्य तस्य कल्पनाया अनिबन्धनत्वात् । तस्मादविद्यातिरिक्तव्यवधानाभावादन्यवधित्वेसति दिवान्धपरिकल्पितान्धकारयदात्मन्यविद्यादिकल्पनमिति । अतएव सुनिर्मलः सर्वाशङ्कितदोपरहित इत्यर्थः । एवंविध आत्मनि कथं द्रष्टा श्रोता मन्ता बोद्धेत्यादिव्यवहार इत्याशङ्कयाऽविद्याध्यस्तान्तःकरणप- रिणामरूपगादिशक्तिसंबन्धादेव द्रष्टुत्वाद्युपचयप्रतिभासो न परमार्थत इत्याह-गादीति । स्पष्टमन्यत् ॥ ९॥ एवंविधात्मतत्त्वपरिज्ञानेसति कैवल्यं फलतीत्याह- अहं परं ब्रह्म विनिश्चयात्महङ् न जायते भूय इति श्रुतेचः। न चैव वीजे त्वसति प्रजायते फलं न जन्मास्तिं ततो बमोहता ॥१०॥ अहं परं ब्रह्मेति ।। अहं परं ब्रीति निश्चयेनात्मनि दृक् ज्ञानं यस्य स तथोक्तः स भूयः पुनर्न जायते शरीरवान्न भवति इति श्रुतेर्वचो विद्यत इति शेयः । तथाच श्रुतिः 'स तु तत्पदमाप्नोति यसान्दयो न जायते' 'पुरुषान परं किंचित्सा काष्ठा सा परा गतिः' 'अथ सोऽभयं गतो भवति' । 'ब्रह्म चेद ब्रह्मव भवतीति च । श्रुति- सिद्धेय युक्तिमप्याह-नचैवेति । उक्तं समान्यन्यायं प्रकृते - उपदेशसाहस्री। [शिखरूप- योजयति-न जन्मातीति । हि यल्लादमोहता प्रागुक्तबर्मना मोहराहित्यं ततो हेतोर्न जन्मास्तीति योजना । मोहपदवाच्याऽवि- द्यामूलत्वाजन्मादिविकारस्य तदभावेऽभाव एवेत्यर्थः ॥ १०॥ मोहकार्यत्वात्संसारस्य मोहनिवृत्त्या निवृत्तिरेवेत्युक्तं तत्र किमा- त्मक मोहकार्यमित्यपेक्षायां तदाह-- ममेदमित्यं च तयेदमीदृशं तथाहमेयं न परोन वान्यथा । विमूढतैवं न जनस्य कल्पना सदा समे ब्रह्मणि चाद्वये शिवे ॥ ११ ॥ ममेदमिति प्रथमं देहद्वयेऽहंकार. ततस्तद्वासार्थकल्पनमिदमि- ति । तत्र शोभनाधध्यास इत्थमिति । ततो ममेदमित्यादिकल्पना तथा परोप्येव नैवमन्यथा वा नास्ति या अस्ति वा इति विमूढता मम परस्य वा सुजता च । तथाच इत्येवं जनस्य जन्मादियोगिनोऽनाघज्ञा- नतिरोहितात्मस्वभावस्य या एवंविधा कल्पना सा सदा समे ब्रह्मण्य- द्वये शिवे परमानन्दरूपे न च नाम्त्येवेत्यर्थः ॥ ११ ॥ एवं विचित्र संसारस्यात्मतत्त्वज्ञानेन तदनाननिवृत्त्या निवृत्ति- मुक्तां स्फुटयति- यदद्वयं ज्ञानमतीय निर्मलं महात्मनां तत्र न शोकमोहता । तयोरभाव न हि फर्म जन्म या भवेदयं वेदविदां विनिश्चयः ॥ १२ ॥ यदद्वयमिति ॥ अद्वयमद्वयात्माकारमतीय निर्मलं संभायनारि- परीतभावनादिप्रतिवन्धरहितं यज्जानं तन तलिन्सति महामना मगतानां शोकमोदता संसारित्वं नास्त्येवेत्यर्थः । तयार मा: 'तर को मोदः कः गोक एकत्वमनुपश्यत इति । तयोः शोममोहयोरभाने
प्रकरणम् १०]
पढ़योजनिकान्याख्यायुता।
तदुपलक्षितस्य तत्कारणस्याज्ञानस्य निवृत्तौ बीजाभावे फलाभावन्यायेन
जन्मादि पुनर्नहि भवेदिति वेदार्थविदां विनिश्चय इत्यर्थः । तथाच
श्रुतिः । 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य
कर्माणि तस्मिन्दृष्टे परावरे' इति ॥ १२ ॥
एवमुक्तस्यात्मविदः खरूपमाह-
सुपुप्तवज्जाग्रति यो न पश्यति द्वयं तु पश्यन्नपि
चाद्वयत्वतः । तथा च कुर्वन्नपि निष्क्रियश्च यः
स आत्मविन्नान्य इतीह निश्चयः ॥ १३ ॥
मुपुप्तवदिति ॥ जाग्रति विश्वावस्थायां द्वयं द्वैतप्रपञ्चं प्राग्वास-
नावशात्पश्यन्नप्युलिखन्नपि विशेषतो न पश्यति । किंतु सुपुप्तयत्ता-
बिलीनप्रपञ्चप्रत्यगात्मस्वरूपेणैव पश्यतीति योजना । तत्र हेतुरद्वय-
स्वत इति । द्वैतस्य बाधितत्वादित्यर्थः । तथाच यथा पूर्व स्नानशौच-
भिक्षाटनादि कुर्वन्नपि निष्क्रियो निर्विकारोऽकात्मस्वभावाविर्भावाच
एवंविधः स आत्मविद्विक्षेपदशायामप्यप्रच्युतात्मयाथात्म्यदर्शनत्वा-
ब्रह्मविदामुत्तमोऽयमेव नान्यः शास्त्रार्थज्ञोपियो व्यवहारकाले ज्ञातृत्वक-
र्तृत्वाभिमानवानित्यर्थः। इति इत्थमिह वेदान्तशास्त्रे विनिश्चयः॥१॥
शास्त्रन्यायानुसारेण स्वानुभव प्रदर्वेदानीमस्मिन्दर्शने परिनिष्ठि-
तस्य कृतकृत्यता भवतीति दर्शयन्परानुग्रहाय प्रकरणनिर्माणे प्रयू-
तिरिति सूचयति-~-
इतीदमुक्तं परमार्थदर्शनं मया हि वेदान्तविनि-
श्चितं परम् । विमुच्यतेऽस्मिन्यदि निश्चितो भवेन्न
लिप्यते व्योम इवेह कर्मभिः ॥ १४ ॥
उपदेशसाहस्री। [ईक्षितृत्व- इतीदमुक्तमिति ॥ वेदान्तपिनिश्चितमित्युक्तदर्शनस्य परमार्थ- विषयत्वे प्रमाणमुक्तम् । व्योम झेति विसधिवृत्तपूरणार्थ ॥ १४ ॥ इति दशम शिखरूपपरमार्थदर्शनप्रकरणम् ।। १० ॥ ईक्षितृत्वप्रकरणम् ११ ब्रह्म मेक्यज्ञानमात्रनिष्ठो मुच्यत इत्युक्त तन्नोपपद्यते कर्मसाध्य स्वान्मुक्त कर्मसहितज्ञानसाध्यत्वाद्वा । तथा जानस वेदान्तविनिश्च यत्वमुक्त तदपि सदिग्धमनुमानादिनाप्युपपवेरितीमा शङ्का परिहर्तु प्रकरणान्तरमारभते- इक्षितृत्वं स्वतःसिद्ध जन्तूनां च ततोऽन्यता। अज्ञानादित्यतोऽन्यत्वं सदसीति निवर्त्यते ॥१॥ ईक्षितृत्वमित्यादिना ॥ तत्रादौ ज्ञानादेव मुक्तिन च वेदा न्तमहावाक्यादेव नानुमानादिनेत्येतत्साधयति-अन्यत्व सदसीति निवर्यंत इति । य तत्सच्छन्दलक्षित ब्रह्मवासि न ससारीति वाक्योपदेशेनैव सच्छब्दार्थामणोऽन्यत्व जीवन्य निवर्त्यत इत्यर्थ । ससारिणो जीवस्याशुद्धम्य फथ तद्विपरीतग्रमत्व सभाव्यत इत्यत आह--ईशितृत्वमिति । सर्वेषामेव जन्तूना प्राणिना चिद्पत्यमेवे क्षितृल तत्खन सिद्ध साभाविक रूपम् । चकार शानिहत्त्यर्थ । कर्तृत्त्वभोक्तृत्वादेरपि स्वाभाविकत्वनका न कार्या स्वरूप यमिनारा दित्यर्थ । कुतो ज्ञानादेवान्यत्वनिवृतिरूपा मुक्तिरित्यत आह- अनानादित्यत इति इति यतोऽन्यतान्यत्वमनाननिमन्धन न परमात इत्यर्थ । अज्ञानकल्पितराद्रप्सविपरीतरूपत्वस्य पतचिन्मानसमाव- त्वादज्ञाननितिरक्षणत्याच मोक्षस्य तम्म च तत्वज्ञानमानापेक्षणा।
प्रकरणम् ११]
पदयोजनिकाव्याख्यायुता।
६१
ज्ञानस्य च यथोक्तवाक्यादेवोत्पत्तेन मानान्तरं साधनान्तरं चात्र मृग्यत
इति भावः ॥१॥
कर्मणो मोक्षहेतुत्वकल्पनं ज्ञानसहायत्वेन नोपपद्यते श्रुतियुक्ति.
विरोधादित्याह-
एतावद्यमृतत्वं न किंचिदन्यत्सहायकम् ।
ज्ञानखेति बुवच्छास्त्रं सलिङ्गं कर्म वाधते ॥ २ ॥
एतावद्धीति ॥ एतावदरे खल्वमृतत्व'मित्येतदमृतत्वसाधनमा-
स्मज्ञानमेवेत्येतावच्छब्देनावधारयन्ती श्रुतिः शास्त्रमुच्यते । तज्ज्ञानस्य
किंचिदन्यन्न सहायभूतमस्तीति त्रुवत्सलिङ्गं ससाधनं कर्म बाधत इति
योजना । अद्वैतात्मज्ञानादूर्व कर्महेतुजात्याद्यभिमानाभावे कुतः कर्म
यज्ज्ञानस्य मोक्षफले सहायभूतं भवेदिति भावः ।। २ ।।
इदानीमीक्षितृत्वमित्यत्रोक्तं स्वाभाविकं चिद्रूपत्वं प्रपञ्चयन्
ज्ञानिनः कर्म न घटत इत्येतदुपपादयति--
सर्वपां मनसो वृत्तमविशेपेण पश्यतः।
तस्स मे निर्विकारस्य विशेपः स्यात्कथंचन ॥३॥
सर्वेषामिति ॥ विशेषः कर्तृत्वादिलक्षणो विहितकर्मसाधनजा-
त्याभिमानलक्षणश्चेत्यर्थः । कथचनत्याक्षेपार्थ. । न कथंचन में
विकारः स्यादित्यर्थः । कुत इत्यत आह-अविशेषेणेति । अभिमान-
शून्यतया केवलं साक्षिमात्रेण पश्यत इत्यर्थः ॥ ३ ॥
कथं मनोवृतं पश्यत्यविशेषेणात्मेत्यपेक्षायां दृष्टान्तपूर्वकं तदुपपा-
दयंश्चिदेकरसत्वमात्मनो निगमयति-
मनोवृत्तं मनश्चल खप्नवजाप्रतीक्षितुः।
संप्रसादे द्वयासत्वाचिन्मात्रः सर्वगोऽव्ययः॥४॥
उपदेशसाहस्री। [ ईमितृत्व- मनोवृत्तमिति ॥ स्वमदशायां सवृत्तिकं मनएव पश्यत्यात्मा यथा बाह्यविषयाभावात्तथा जाग्रति जागरणदशायां मनोवृत्तं मनः- प्रचारं मनश्च तदाश्वयं पश्यतः कथं विशेषः स्यादिति पूर्व श्लोकेना- न्वयः । जाग्रहशायामपि विषयाकारवृत्तिमन्मनोच्यतिरेकेण नात्मना किमप्युपलभ्यत इति भावः । तपेवंविधमनोदर्शनमेव साभाविको विशेष इत्यत आह-संप्रसाद इति । संप्रसादे सुपुतिदशायां यस्य सवृत्तिकस्य मनसोऽसत्वान्न तद्दर्शनमपि स्वाभाविक 'नतु तद्वितीय- मस्ति ततोऽन्यद्विभक्तं यत्पश्ये दिति श्रुतेः । तथाचात्मा चिन्मानः सर्वगोऽपरिच्छिन्नोऽव्ययो नित्य इति सिद्धमित्यर्थः ॥ ४ ॥ ननु यद्येवं तदा बायाभ्यन्तरद्वैतरयाभाव एवेति युक्तं स्यात्तन्नोप- पद्यते प्रत्यक्षादिप्रमाणविरोधालौकिकवैदिकव्यवहारविलोपप्रसशाच्चेति चेन्नेत्याह--- खामः सयो यथा वोधादेहात्मत्वं तथैव च । प्रत्यक्षादेः प्रमाणत्वं जाग्रत्स्यादात्मवेदनात् ॥ ५ ॥ स्वप्न इति ॥ यथा आरोधात्प्रवोधपर्यन्तं स्वमः सत्यो लौकिकवै- दिकव्यवहारास्पदतयावमासते तथैव जाग्रजाग्रदवसायामपि देहात्मत्वं प्रत्यक्षादेः प्रमाणत्वं च सर्वव्यवहाराङ्गं स्यात् । कियत्पर्यन्तमित्यत माह--आत्मवेदनादिति । आ आत्मवेदनादिति पदच्छेदः । आत्म- तत्त्वसाक्षात्कारात्प्रागेव सा व्यवहारम्नस्मिन्सति व्यवहाराभाव इष्ट एवेति भावः ॥ ५॥ अव्यवहार्यखरूपमाविझरोति- व्योमकत्सर्वभूतस्थो भूतदोपैर्विवर्जितः। साक्षी चेतागुणः शुद्धो ब्रह्मवासीति केवलः ॥६॥ -
प्रकरणम् ११]
पदयोजनिकाव्यात्यायुता।
व्योमवदिति द्वाभ्याम् ॥ चेता चिद्रूपः । साक्षीति भूतदोपराहित्ये
हेतुः । व्योमवत्सर्वभूतस्थ इत्यसङ्गत्वमुक्तम् । सर्वभूतेष्वहमाकार-
वृत्तावभिव्यत्त्यपेक्षया सर्वभूतस्य इत्युच्यते । एतच्च 'अहं मनुरभवं
सूर्यश्चेति तत्सर्वात्मत्वाभिनयाभिप्राय इति द्रष्टव्यम् । शुद्धोऽज्ञानर-
हितः केवलोऽवस्थात्रयरहितः ब्रह्मैव पूर्ण एवास्मीत्यर्थः ॥ ६ ॥
केवलत्वं व्यनक्ति---
नामरूपनियाभ्योऽन्यो नित्यमुक्तस्वरूपवान् ।
अहमात्मा परं ब्रह्म चिन्मात्रोऽहं सदाद्वयः
नामरूपेति ॥ वाच्यवाचकतव्यापारात्मकप्रपञ्चविहीन इत्यर्थः ।
सुगममन्यत् ॥ ७॥
कथमद्वयत्वमात्मनः संगच्छते अहं ब्रह्मासीतिवदहं कर्तास्मीति
चानुमवस्य प्रमाणमूलत्वादिति ज्ञानकर्मसमुच्चयवादिनो भेदाभेदम-
तानुसारिणस्तान्कुत्सयन्नद्वैतात्ममतं द्रढयति-
अहं ब्रह्मास्मि कर्ता च भोक्ता चास्मीति ये विदुः ।
ते नष्टा ज्ञानकर्मभ्यां नास्तिकाः स्युन संशयः॥८॥
अहं ब्रह्मास्मीति | विरुद्धार्थप्रतिपादकत्वायोगाच्छास्त्रस्य विरुद्धं
तत्त्वमवगच्छतां कर्मकाण्डाज्जानकाण्डाच्च बहिर्मुखत्वान्नास्तिकत्वमेव
तेपां फलिप्यतीत्यर्थ. ॥८॥
ननु निन्दामात्रेण कथमद्वैतकमतसिद्धिस्तत्र प्रमाणस्यासंभवादि-
त्यत आह-
धर्माधर्मफलोग इप्टो दृष्टो यथात्मनः ।
शास्त्राद्ब्रह्मत्वमप्यस्य मोक्षो ज्ञानात्तथेप्यताम् ॥९॥
उपदेशसाहती। [ ईक्षितृत्व- धर्माधर्मेति ॥ आत्मनो धर्माधर्मफलै सुखदु खादिरूपयोगः संवन्ध प्रमाणान्तरदृष्टोऽपि यथा शास्त्रादेव 'पुण्यो वै पुण्येन कर्मणा भवति पाप. पापेने त्यादेरिटोऽङ्गीकृतः शास्त्रार्थविद्धिरिति शेषः । तथास्यात्मनो ब्रह्म ज्ञानादेव मोसश्चेति 'ब्रहा वेद ब्रह्मैव माति' 'तमेव विदित्लातिमृत्युमेति नान्य पन्था विद्यतेऽयनायेत्यादिशा- स्वादिप्यताम् । तथाच भेदकर्मणोनिन्दितयोः शास्त्रतात्पर्यविषयत्वा- योगाच्छास्त्रानुसारिभिर्यथाशास्त्रमर्थः प्रतिपत्तव्य इति भाव. ॥९॥ नन्वात्मनो धर्माधर्मफलयोग शास्त्रोक्तो मानान्तरविरोधाभावाचथै- वेति युज्यते न तथात्मनो ब्रह्मत्व प्रत्यक्षदृष्टकर्तृत्वादिविरोधादत श्रुत्य- नुभवयोरविरोधाय भेदाभेदाचादरणीयाविति चेन्मैयम् , कर्तृत्वादिप्रति- मासस्यासत्वामृत्युक्ताद्वैतप्रतिपक्षत्वानुपपत्तेरिति सदृष्टान्तमाह-- या महारजनाधास्ता वासनाः समदर्शिभिः । अनुभूयन्त एवंह ततोऽन्यः केवलो शिः ॥ १० ॥ या महारजनाद्या इति ॥ तस्य हैतस्य पुरुषस्य रूपं यथा महारजन वास' इत्यारभ्य 'यथाऽसद्विद्युत'मित्यन्तेन श्रुत्युक्ता या बासनास्ताः स्वप्नदर्मिभिरनुभूयन्त एव यथेत्यक्षरयोजना । महारजन हरिद्रा तया रञ्जित वस्त्रादि महारजनं समदशाया जामद्वासनागासि- तस्स मगसो वातपित्तश्लेष्मपितरसपूर्णनाडीप्वनुगतस्यादृष्टादिसमु- होधितानेकवासना तया जाग्रदृष्टार्याकारेण परिणममानस्य हरिदार- जितपटादिरूपसदृसतया भासमानम्य दृश्यदर्शनतरकरणादिमायेन नित्य खमद्रष्टोपलभ्यमानत्वात्समदृश्याम्यो महाराजनादिसहरावास- नाम्यो लिलामसहिताम्यो द्रटारमा शिस्त्रमावो विलक्षणो रयते तथा कर्तृत्वादीनां श्यत्याटनात्मधर्मत्यमेवेति निश्चितमेवह जापट- प्रकरणम् ११] पदयोजनिकाव्याख्यायुता। चस्थायामपि । ततः कर्तृत्वादिधर्मकाल्लिङ्गादन्यः केवलः शुद्धो दृगिरात्मेत्यर्थः ॥ १० ॥ आत्मनः समावस्थायां दृश्यविलक्षणत्वेन प्रतीतिमेव दृष्टान्तेन स्पष्टयति- कोशादिव विनिष्कृष्टः कार्यकारणवर्जितः । यथासिदृश्यते स्वप्ने तद्वद्वोद्धा स्वयंप्रभः ॥ ११ ॥ कोशादिवेति ॥ इवशब्दो यथाशब्दार्थे । असिरिवेति संवन्धः । यथागब्दो यथावदित्यर्थे । यथासिः खगः कोगात्पृथकृतः स्वरूपेण दृश्यते तद्वदेवं बोद्धा आत्मा कार्यकारणविवर्जितः कार्यकारणाकारम- नसो लिङ्गात्पृथग्भूतः स्वप्ने यथावत् दृश्यते । दृश्यत इत्युक्ते विषयवदृश्य त्वान्मिथ्यासमित्याशङ्कय विगिनष्टि-स्वयंप्रम इति । स्वमहिम्नेय प्रथते न विषयतयेत्यर्थः । यद्वा कथमवगम्यते खप्ने कार्यकारणविवर्जित इति वीक्षायां 'अत्राये पुरुषः स्वयंज्योति' रिति श्रुतिसामर्थ्यादित्याह- स्वयंप्रभ इति । स्वयं प्रकाश इति श्रुत्या निति इत्यर्थः । उपाधेः पृथक्स्वरूपेणावमासमानेऽसिदृष्टान्त इति न चैषम्यगढ़ावकाश इति द्रष्टव्यम् ॥ ११॥ आत्मनः कर्तृत्वादिप्रतिभासस्य स्वममतिमासवन्मिथ्यात्वाच्छुद्ध एवात्मा ब्रवति शास्त्रादविरोधेनैव प्रत्येतुं शक्यत्वान्न भेदाभेदकल्प- नया मनः खेदनीयमिति सिद्धेऽर्थे सोपक्रम वाक्यं प्रमाणमाह-- आपेपात्प्रतिबुद्धस्य ज्ञस्य स्वाभाविकं पदम् । उक्तं नेत्यादिवाक्येन फल्पितस्थापनेतृणा ॥ १२ ।। आपेपादिति ।। 'तं प्राणिनापेपं चौधयांचकार सहोत्तस्था विति श्रुती 'मुप्तपुरुषो बृहत्पाण्डुरवासः सोमराजनित्यादिप्राणनामभिराम- उ.सा.५ उपदेशसाहस्री। [ ईक्षितृत्व- न्त्रितो नोत्थितः पाणिना स्वापिप्यमाण उत्थित इति निर्धारितस्तेन प्राणेन्द्रियादिस्वरूपलिङ्गसंघातविलक्षणः स्थूलसंघातादप्यन्य एवात्मे- तिप्रतिपन्नम् । अतएव जडविलक्षणत्वाज्जानसभावः तस्यापेषत्वात्पति- वुद्धस्य ज्ञस्य त्वंपदार्थस्य स्वाभाविकं पदं परब्रह्मलक्षणमुक्तम् । केन । नेत्यादिवाक्येन । 'यथात आदेशो नेतिने त्यारभ्य 'सत्यस्य सत्यमिति प्राणा वै सत्यं तेपामेप सत्य' मित्यन्तेन वाक्येनेत्यर्थः । किंविषयेण कल्पितस्याध्यस्तस्य मूर्तामूर्ततद्वासनाश्रयरूपस्यापनेतृणा प्रतिषेधकेन नेतिनेतीति वीप्सया समसकारणकार्यात्मकोपाधिपतिपेपद्वाराखण्डे ब्राह्मणि पर्यवसितेनेत्यर्थः ॥ १२ ॥ नेतिनेत्यादिशास्त्रेण निषिध्यमानस्य कल्पितत्वं श्रुत्यैवोपपादित- मित्याह- महाराजादयो लोका मयि यद्वत्प्रकल्पिताः। खप्ने तद्ववयं विद्याद्रूपं वासनया सह ॥ १३ ॥ महाराजादय इति । सम्मे खमावस्वायां महाराजादयो लोका यद्वन्मयि हगात्मनि प्रकल्पितास्तद्वदेव वासनया लिङ्गाश्रितया सह द्वयं रूपं मूत चैयामूर्त च मयि कल्पितं विद्यात् । तथाच श्रुतिः 'यौप एतत्सुप्तोऽभूय एष विज्ञानमयः पुरुष'इत्युपक्रम्य स यत्रतत्वममा- चरति ते हास्य लोकास्तदुतेव महाराजो भवत्युतेय महामामण उत्तयोचावचं निगच्छतीति । इवशब्देन महाराजत्वादेः समदृश्यस्या- भासता मध्ये निर्दिश्य एवमैवैप एतत्प्राणा-गृहीत्सा से शरीरे यया- काम परिवर्तते' इत्युपसंहरन्ती शरीरमध्य एवं प्राणशब्दवाच्यलि- झोपाधिमहाराजाद्यामतया गृहीत्वा समहाव्यवहरतीति दर्शयति । अतो न समोपलब्ध परमार्थमित्यर्थः । तथाच यासनाश्रयलिहायरी. .
प्रकरणम् ११] पदयोजनिकाव्याख्यायुता । रसहितस्य मूर्तामूर्तरूपस्थूलस्यापि हगात्मनि फल्पितत्वं तदृश्यत्वादु- पपन्नमेवेति तात्पर्यार्थः ।। १३ ॥ खमप्रपञ्चवजाप्रत्प्रपञ्चस्यापि प्रत्यगात्मनि कल्पितत्वे सिद्धे प्रत्य- क्तत्त्वाभिज्ञस्य कर्मासमवः सिद्ध इत्याह- देहलिङ्गात्मना कार्या वासनारूपिणा क्रियाः। नेतिनेत्यात्मरूपत्वान्न मे कार्या क्रिया क्वचित्॥१४॥ देहलिङ्गेति।। क्रियाः कर्माणि देहलिजात्मना स्थूलसूक्ष्मदेहरूपेण तदभिमानेन तदात्मतामापनेनात्मना कार्या अनुष्ठेयाः न पुनस्तन्निर- पेक्षेण तदभिमानहीनेन असंभवादित्यर्थः । किंलक्षणेन-वासनारू- पिणा वासनाः रूपयितुं संचेतुं शीलमस्यास्तीति वासनारूपी तेन । पुनःपुनः कर्मप्रवृत्तिनिमित्वेनाविच्छिन्नेनेत्यर्थः । इदानी मे मम ने- तिनेत्यादिनोक्तात्मस्वरूपत्वादेहद्वयाभिमानाभावात्कचित्खमे वा जागरे वा न क्रिया कार्या कर्तव्या । स्वभावतो विधितो वेत्यर्थः॥१४॥ अज्ञानविलसितदेहाभिमानाटेव कर्मेति तस्याज्ञानमूलत्वे सिद्धे न तेन मोक्षाशा कर्तव्येत्याह- न ततोऽमृतताशास्ति कर्मणोऽज्ञानहेतुतः। मोक्षस्य ज्ञानहेतुत्वान्न तदन्यदपेक्षते ॥ १५ ॥ न तत इति । ततस्तस्मात्कर्मणो हेतोरमृतताया मोक्षभावस्याशा आशंसनं नास्ति । कुतोऽज्ञानहेतुतोऽज्ञानहेतुकत्वादविवेकपूर्वकत्वात्क- मण इत्यर्थः । जडयोरज्ञानकर्मणोरित्यर्थ. । जडयोरज्ञानकर्मणोविरो- धाभावान्नाज्ञाननिवृत्तिरूपे मोक्षे कर्माशा कार्या । ब्रह्मात्मनावस्यानरू- पस्य च परमानन्दाविर्भावलक्षणस्य मोक्षस्य चतुर्विधक्रियाफललि- क्षणत्वान्न तत्रापि कर्मापेक्षेति भावः। कर्मणः खतो मोक्षहेतुत्वाभावे-
६८
उपदेशसाहस्री। [इक्षितृत्व-
ऽपि मोक्षहेतुज्ञानसहायतया तद्धेतुर्भविष्यतीत्याशयाशाननिवृत्ती
ज्ञानमात्रस्य समर्थत्वान्न तत्र कर्मसहायतापेक्षेति नापीतरत्र तस्स स्वतः-
सिद्धत्वादित्यभिप्रेत्याह-~मोक्षस्येति ॥ १५ ॥
यदि कर्मसाध्यममृतत्वं स्यात्तर्हि स्वर्गादिवत्कृप्यादिफलवच्चानित्यं
सभयं च स्यात्तच्चानिष्टम् अभयं प्रतिष्ठां विन्दत' इत्यभयरूपत्वश्रुति-
विरोधात् 'अतोऽन्यदात"मिति मोक्षस्वरूपादन्यस्यातत्योक्त्या तस्याना-
तत्वपर्यवसानवचनविरोधाचेत्यभिप्रेत्याह-
अमृतं चाभयं नात नेतीत्यात्मा प्रियो मम ।
विपरीतमतोऽन्यद्यत्त्यजेत्तत्सक्रियं ततः ॥ १६ ॥
अमृतं चेति ॥ चान्द्रस्त्वर्थः । अमृतं त्वभयं नातमित्यर्थः ।
यद्यपि ब्रह्मस्वरूपममृतत्वमुक्तलक्षणमकर्मसाध्य तथापि जीवोऽन्यस्त-
कर्मणैव लभेतेत्याशङ्कय जीवस्य ब्रह्मणोऽन्यत्वाभावान्भवमित्याह-
नेतीति । यः प्रियो जायादिः प्रीत्यास्पदतया विभाव्यते स ममात्मा
म्वरूपभूतः । अनेन जीवनात्मनानुप्रविश्ये त्यादिश्रुतेः । सच नेतीत्य-
पोढाशेषविशेष इति मद्रूपत्वान्न तस्य कर्मप्राप्यममृतत्यमित्यर्थः ।
अत उत्तादात्मस्वभावाद्यदन्यद्रेवुया गृह्यमाणं विपरीतं दृश्यम-
नात्मभूतं तक्रियासहितं त्यजेचदभिमानं परित्यजेत् तचलाकारणा-
दित्युपसंहारार्थः । नचायमात्मज्ञस्य विधिस्तस्याविनियोज्यत्वाप्रत्य-
नुयादमात्रं साधकस्य पुनरुपयुज्यते नियोग इतीह विधिप्रत्ययनिर्देश
इति द्रष्टव्यम् ॥ १६॥
इति एकाददामीक्षितृत्वप्रफरपम् ॥११॥
प्रकरणम् १२] पदयोजनिकाव्याख्यायुता। प्रकाशप्रकरणम् १२ ननु यदि भोक्ता प्रियशब्दोक्तनिर्विशेषब्रह्मस्वरूप एव तह सों लोकोऽहमहमित्यात्मानमनुभवन्नपि ब्रह्माहमिति कथं नानुभवती- त्याशङ्कायां पदार्थतत्त्वपरिशोधनाभावापराधादेवेति त्वंपदार्थशोधन- प्रधानं प्रकरणमारभमाणः साभासान्तःकरणाविवेकाद्याथात्म्येन स्वात्मानं न प्रत्येति सर्यो लोक इति प्रथमं सदृष्टान्तमाह- प्रकाशस्थं यथा देहं सालोकमभिमन्यते । द्रष्ट्राभासं तथा चित्रं द्रष्टाहमिति मन्यते ॥१॥ प्रकाशस्थमिति ॥ यथायं जनः स्फीतालोकमध्यगतं स्थूल देहं ततो विलक्षणमपि तेनालोकेन व्यासत्वात्सालोकमालोकविशिष्टमभि- मन्यते, तथा द्रष्ट्राभासं चित्रं साक्षिचैतन्यव्याप्तमन्तःकरणं सचेतनं मन्यमानोऽहं द्रष्टेति साभासं चितमेवात्मानं मन्यते न तद्याथात्म्य जानातीत्यर्थः । अयंभावः—यथाऽविशेषेण सर्वत्र प्रसृतमालोक देहसंपर्कात्तदाकाराकारितमिव दृश्यमानं देहाभेदेन पश्यति लोक- स्तथा सदा स्वरूपेणानवच्छिन्नप्रकाशस्वभावोऽप्यात्मान्तःकरणसंप- त्तिदाकाराकारित इव भासत इत्यहं कर्ता द्रष्टा भोक्तेत्येवमन्तः- करणसभावविशिष्टमेवात्मानमनुभवति लोको न शुद्धमिति ॥१॥ एवमात्मनः साभासान्तःकरणाविवेकमुक्त्वा तद्वारेण देहपर्यन्त- मविवेक दर्शयन्नात्माप्रतिपत्तिमेव लोकस्य द्रढयति- यदेव दृश्यते लोके तेनाभिन्नत्वमात्मनः । प्रपद्यते ततो मूढस्तेनात्मानं न विन्दति ॥ २॥ यदेवेति ।। यदेव सतभासचित्ताविविक्ततयाहंकारास्पदं प्राणेन्द्रि- यस्थूलदेहपर्यन्तं दृश्यतेऽनुभूयते लोके व्यवहारभूमाविति यावत् ।
७० -- उपदेशसाहस्री । [प्रकाश- तेन माणादिदेहान्तेनात्मनोऽभिन्नत्वं तादात्म्यं प्रपद्यते । चित्तादिदेह- पर्यन्तं चिदाभासप्रतीतेस्तदविवेकासंघातमेवात्मानं मन्यत इत्यर्थः । यतएवं ततस्तस्मान्मूढो देहादेरात्मनश्चान्योन्यमध्यासकर्ता संस्तेन मौट्येन हेतुनात्मानं ब्रह्मत्वेन न विन्दति न प्रत्येतीत्यर्थः ॥ २ ॥ उक्तमथै दृष्टान्तेन सापयति- दशमस नवात्मत्वप्रतिपत्तिवदात्मनः । दृश्येषु तद्वदेवायं मूढो लोको न चान्यथा ॥ ३ ॥ दशमस्येति ॥ दश हि माणवकाः कचिन्नदी तीत्वा पारं गताः सन्तो गणयामासुः कति वयं स इति । तत्र गणयिता खात्मानं विहाय नवैय गणयतिस्मेति प्रसिद्धिः । तत्र यद्वद्यथा दशमस्सात्मनो माणवकरय गणयितुरविवेकानवात्मत्वमतिपतिः नवभ्योऽन्यमात्मानं न विन्दति । नव वयं दशमो नास्तीति भ्रान्तिरुपलभ्यत इत्यर्थः । तद्वत्तथैवायं लोको बुद्ध्यादिषु दृश्येप्वेवात्मतादात्म्यप्रतिपत्त्या मूढः शास्त्राचार्योपदेशेन हीनः खात्मानमन्यथा प्रतिपद्यते । नचान्यथा वैप- रीत्येन बुद्ध्यायपोहेन ब्रह्मास्मीति सरूपयाथाल्य न वेचीत्यर्थः ॥३॥ ननु प्रत्यक्षानुभवस्य श्रुतेश्याविरोधाय प्रत्यगात्मन एव कर्तृत्वा- दिधर्मवत्त्वं ब्रह्मरूपत्वं चास्तु किमविवेककल्पनया मूढत्वमास्थीयत इत्यत आह- त्वं कुरु त्वं तदेवेति प्रत्ययावेककालिको। एकनीडो कथं स्यातां विरुद्वौ न्यायतो वद ॥ ४ ॥ त्वंकृर्विति ॥ यद्वा शाखाचार्योपदेशहीनो युद्यादिवपरीत्येना- स्मयाथात्म्यं न जानातीति तस्य पदार्यविवेकामावान्मोसो नोपपद्यत इति सूचितम् । तत्र कि पदार्थविवेकेन कृत्यं शास्त्राद्रसत्वे मतिपले प्रकरणम् १२] पदयोजनिकाव्याख्यायुता। सति ब्रह्माहमस्मीति प्रसंख्यानादेयात्मयाथात्म्यापरोक्ष्यान्मोक्ष उपपद्यत इति प्रसंख्यानविध्यवसरमाशङ्कय परिहरति-त्वं कुर्विति। त्वं तदेवेति एकनीडौ एकस्मिन्विपये विरुद्धौ प्रत्ययौ एककालिका- वेकावस्थामाजौ कथं स्यातामिति न्यायतो युक्तितो वदेत्यन्वयः । तधाचैकस्सिन्नात्मनि कुरु तदेव त्वमिति कर्तृत्वाकर्तृत्वप्रकारकविरु- द्धवुद्ध्योः समासमयोर्मध्ये तादृशशीतोष्णबुद्धिवदवश्यमन्यतरवुद्ध्या- न्यतरवाध एव युक्तो नोभयोः प्रामाण्यमित्यभिप्रायः॥ ४ ॥ तर्हि दुःखित्वादिभानेन प्रत्यक्षानुभवेन शाब्दस्य ज्ञानस्य बाध्य- त्योपपत्तेस्तदीयस्थैर्याय प्रसंख्यानविधिः स्यादत आह- देहाभिमानिनो दुःखं नादेहस्य खभावतः । खापवत्तत्महाणाय तत्त्वमित्युच्यते दृशेः ॥ ५ ॥ देहेति ।। यदि दुःखित्वादिकमात्मनः खाभाविकं स्यातदा तन्न ज्ञानाभ्यासशतेनापि निवर्तयितुं शक्यते ज्ञानस्याज्ञानमात्रविरोधित्वा- चथाच तद्विधिप्रकारोऽनर्थकः । यदा त्वविद्याप्रयुक्तदेहायभिमाननि- बन्धनं दुःखित्वादि तदा विद्यानिवृत्त्यैव तन्निवृत्तेरविद्यानिवृत्तेश्च ज्ञानमात्रायत्त्वान्न कर्मविध्यवकाश इति श्लोकतात्पर्यार्थः । नादेहस्य देहाभिमानरहितस्सेत्यर्थः । तत्र हेतुः खमावत इति । अदेहत्वमा- त्मनः स्वाभाविक रूपमित्यन्न नियामकमाह-सापवदिति । यद्वा नादेहस्येत्यनेन देहाभिमानव्यतिरेकेण न दुःखमस्तीत्युक्तं व्यतिरे- कमाह-खापवदिति । सुपुप्ताविवेत्यर्थः । दृशेरात्मनस्तत्प्रहाणाय समूलाभिमाननिवृत्तये तत्त्वमिति श्रुत्योच्यते । ऐक्यमानं बोध्यते न कर्मेत्यक्षरार्थः ॥ ५ ॥ तत्त्वमस्यादिवाक्याद्देहादिव्यतिरिक्तमात्मानमवगच्छतोऽपि दुः- उपदेशसाहस्री । [प्रकाश- ख्यहमिति प्रतीतेरनुवृत्ते गिमाननियन्धन दुःखमित्याशङ्कय तद्वि- शिष्टात्मदर्शनस्याभासत्वान्मैवमित्याह- शेन्छाया यदारूढा मुखच्छायेव दर्शने पश्यंत प्रत्ययं योगी दृष्ट आत्मेति मन्यते ॥६॥ दृशेरिति ॥ दर्शयतीति दर्शनं दर्पणादि तलिन्मुखच्छाया मुखाभासो मुखप्रतिबिम्बरूपा यथा आरूढा भवति तदृशे प्रत्य- गात्मनश्छाया आमासो यदारूढा यसिन्सक्रान्तैव भवति त प्रत्यय प्रत्याययतीति प्रत्ययोऽहंकारस्त साभासमन्त करण पश्यन्नहमित्युप- लभ्यमानो योगी अग्रणाविद्यादियोगवान्पुमानात्मा दृष्ट इति मन्यते । यथा कश्चिद्दर्पणमुखखभावाविवेकाद्यथादृष्टं दर्पणदोपमालि- न्याल्पत्वादिविशिष्टमेव स्वमुख मन्यते, तथाय महाजन उपाधिदोषै. रास्कन्दितमिव तदविवेकादात्मानं पश्यन्नदं फर्ता दुखीत्यभिमन्यत इत्यर्थः । तथाचाहमिति दर्शनस्य कल्पितात्मविषयत्वादुक्त दु खित्य- साविवेकाभिमाननिवन्धनत्वमिति न सम्यगात्मान वाक्यादवगच्छतो दुखित्वाचनुवृत्तिरुपपद्यते कठाचित्प्रतिमारास बाधितानुवृत्तिमानत्या- दिति भाव ॥६॥ यदि सामासाहकारमात्मान पश्यन्नसम्यग्दशी कस्तहि सम्यग्दी- त्यपेक्षायामाह- तं च मूदं च यद्यन्यं प्रत्यय येत्ति नो रशेः। स एव योगिनां प्रेठो नेतरः सान संशयः ॥७॥ चति । नमुपाघिभूलं परययमहकार मुहं च मोहात्मकम- विवेक मन्य चोपाधिगतमामास टु खादिकं वा यदि वेत्ति साक्ष्यमे चेद सर्व मिति साक्ष्यत्वेनेय जान्गति न दशेरामन साक्षिण संबन्धी- प्रकरणम् १२] पदयोजनिकान्याख्यायुता। त्येवं न वेत्ति य एवं विवेकमतिः स एव योगिनां युज्यतेऽनेनेति योगस्तत्त्वज्ञानं तद्विद्यते येषां ते योगिनस्तेषां प्रेष्ठः प्रियतमः सम्य- ग्दर्शात्यर्थः । नेतरः पूर्वोक्तसाहंकारात्मदर्शी न संशयः संशयोऽत्र न फर्तव्यः । 'अन्नश्वाश्रद्दधानश्च संशयात्मा विनश्यतीति भगवद्वचना- दित्यर्थः ॥ ७ ॥ सर्वस्य लोकस्यात्मत्वेन भासमानोऽप्यहंकारथेदनात्मत्वेन त्यज्यते तदा तदन्यस्य त्वंपदार्थस्यादर्शनातत्त्वमस्यादिवाक्यस्य निरालम्बन- स्वापत्तिरित्याशङ्कयाहंकारादिविविक्तस्य त्वमर्थस्य श्रुत्यैवोपपादितत्वा- मैवमित्याह- विज्ञातेर्यस्तु विज्ञाता स त्वमित्युच्यते यतः। स सादनुभवस्तस्य ततोऽन्योऽनुभवो मया ॥८॥ विज्ञातेरिति ।। 'नहि विज्ञातुर्विज्ञातेविपरिलोपो विद्यते विज्ञातेर्न विज्ञातारं विजानीया' इति श्रुतौ पष्ठ्यन्तशब्दनिर्दिष्टाया वुद्धिवृत्ति- रूपाया विज्ञातेरनित्याया विज्ञातारं नित्यविज्ञप्तिरूपेण ज्ञातारं त्वं न विजानीया इति । यस्तु विज्ञातर्विज्ञातृरूपो विषयभूतः सर्वसाक्षी प्रतिपन्नः स सर्वावभासक एव त्वमिति वंशब्देन तत्वमसिवाक्ये उच्यते नाहंकारात्मतया । यतो यसाचतस्तमवलम्व्य तत्त्वमस्यादि- वाक्यप्रवृत्तेर्न निरालम्यनत्वशक्कावकाश इति शेषः । तस्य स्वंपदार्थस्य सएव श्रुत्युक्तप्रकारोऽनुभवः सम्यगनुभवः स्यात्ततोऽन्यो बुद्धितत्स्था- भासविशिष्टरूपतयानुभवो मृपा मिथ्याध्यास इत्यर्थः ॥ ८॥ नन्यविषयश्चेदात्मा श्रुत्या निवेद्यते कथं तर्हि तस्यानुभयोऽनुभव- रूपत्वात्तस्य नानुभवापेक्षेतिचेन्न । अन्यत्रानुमाव्यानुभवयोर्भेददर्शना- दित्याशय जहाजडत्वाभ्यां चिशेपोपपत्तेमवमित्याह--- ७४ उपदेशसाहस्री। [प्रकाश- दृशिरूपे सदानिये दर्शनादर्शने मयि । कथं स्यातां ततो नान्य इप्यतेऽनुभवस्ततः ॥९॥ दृशिरूपे इति ।। यस्य खसत्तायां प्रकाशव्यभिचारस्तस्यागन्तुकना- नसापेक्षत्वात्स्वान्यज्ञानागमापायनिवन्धने दर्शनादर्शने म्यातां सदा दृशिरूपे ज्ञानखरूये मयि सत्ये नित्येऽन्यनिरपेक्षसचाके खरूपतो ज्ञानतश्च नित्ये इति यावत् दर्शनादर्शने कथं स्यातां न कथमपी- त्यर्थः । ततस्तस्मात्कारणात्ततः स्वरूपादन्योऽनुभवो नेप्यत इति योजना ॥९॥ उक्तमेव नित्यग्रूपत्वमात्मनः स्फुटयति- यत्स्थस्तापो रवेदेहे दशेः स विषयो यथा । सत्त्वस्थस्तद्वदेवेह दृशेः स विपयस्तथा ॥ १० ॥ यत्स्थरताप इति ।। यद्वा सुखदुःखादियुक्तत्वेनात्मनो भानान नित्यदृशिमानत्वमित्याशङ्कयाह-यत्स्यस्ताप इति । रवेतापो देहे मवन्यस्थो यत्प्रदेशस्थितो भवति स तापो यथा खाश्रयप्रदेशवि- शिष्ट एव दृशेरात्मनो विषयस्तद्वदेवेह व्यवहारकाले सत्वस्योऽन्तः- करणस्य एव भवति सुखदुःखादिरूपस्तापस्तथा खाश्रयान्तःकरणसहित एव दृशेविषयो न गात्मसमवेत इत्यर्थः । अतस्त्रापस्यान्यधर्मत्वे- नैवानुभवादात्मा नित्यः चैतन्यमानस्वभान एवेनि मायः । अथवा देहे भवन् रवेस्तापो यत्स्यो यस्सिन्देहदेशे स्थितः स देह एप तापविशिष्टतमोऽहमिति मन्यमानस्स दृशेलौकिकस्यात्मनो विपयो यथा सद्वदेव विषयसंपर्कजनितः सुखदुःखादितापः सत्यसोऽन्तःकरणम्य इति सोऽन्त फरणाख्यः मुखादितापरिशिष्टस्तथैव शेः साक्षिणो विषय इत्यर्थः । तथाच मुख्यमित्याघभिमानन्य देहतापेन तदघ्या.
७५ प्रकरणम् १२] पदयोजनिकान्याख्यायुता । सातप्तोऽहमित्यभिमानवत्सदृश्यान्तःकरणाध्यासनिबन्धनत्वाद्विवेकि- नो दुःखादिमत्तयारमा कदापि न भासत इति भावः ॥ १० ॥ आत्मनः मुखादियुक्तान्तःकरणसंवन्धाभावं स्फुटयन्विविक्तस्वरू- पमनुसंधत्ते- प्रतिपिद्धे गंशोऽज्ञः खमिवैकरसोऽद्वयः। नित्यमुक्तः सदाशुद्धः सोऽहं ब्रह्मास्मि केवलः॥११॥ प्रतिपिद्धेति ॥ स्पष्टार्थः ॥ ११ ॥ यस्मादेवं विचार्यमाणेऽहं ब्रह्मैव तस्मान्न साक्षिरूपस्य मम कुत्रापि स्वरूपभेदोऽस्तीत्यद्वयात्मतत्त्वमाविष्करोति- विज्ञातु व विज्ञाता परोऽन्यः संभवत्यतः। विज्ञाताहं परो मुक्तः सर्वभूतेषु सर्वदा ॥ १२ ॥ विज्ञातुरिति ॥ सर्वविज्ञातृरूपादात्मनोऽन्यो यतः परो व्यापको विज्ञाता नैव संभवति, अतोऽहमेव परो विज्ञाता सर्वभूतेषु स्थावर- जंगमेषु सदा सर्वदा एवं सर्वविज्ञेयतद्धर्मरहितत्यान्मुक्तश्चेत्यर्थः ॥१२॥ एवं श्रुत्युपदेशात्सर्वत्र सर्वदाद्वयमात्मानमनुसंदधानस्यापि ब्रह्मवि- दहमस्मीत्यभिमानात्स्यात्सविशेपत्वमित्यत आह- यो वेदालुसदृष्टित्वमात्मनोऽकर्तृतां तथा । ब्रह्मवित्त्वं तथा मुक्त्वा स आत्मज्ञो न चेतरः॥१३॥ यो वेदेति ॥ ब्रह्मवित्व मुक्त्वा ब्रह्मविदहमस्मीत्यगिमानं त्यक्त्वा यथा श्रुत्युक्तं तथात्मनोऽलप्तचिन्मावतया द्रष्टत्वं तथाऽकर्तृतां चेद स आत्मज्ञः आत्मतत्त्वब्रह्मपिन्न चेतरो योऽभिमानलेशमपि भजत इत्यर्थः ॥ १३ ॥ ननु ब्रह्मात्मज्ञानस्यात्मनि विद्यमानत्वात्कथं ब्रह्मवित्त्वाभिमान- त्यागोऽतो नात्यन्तं निर्विशेष आत्मेत्यत आह- ७६ उपदेशसाहसी । [प्रकाश- ज्ञातवाहमविज्ञेयः शुद्धो मुक्तः सदेत्सपि । विवेकी प्रत्ययो बुद्धेदृश्यत्वान्नाशवान्यतः॥ १४ ॥ ज्ञातैवेति ॥ ज्ञातैवाहमित्यादिरूपो यो विवेकी विवेकवान्विवि- तात्मनिष्ठ इति यावत् । प्रत्ययो बुद्धोधेद्धो यो वृत्तिरूपः स दृश्य- त्वात्साक्षिसाक्ष्यत्वान्नश्यत्येव । यतो यस्सात्तरसानास्ति ब्रह्मविदो- ऽभिमानलेशस्याप्यवकाश इत्यर्थः । यथा कतकबीजं रजःकलपिते जले प्रक्षिप्तं जलगतसकलरजो विलापयत्वयमपि विलीयमानं सलिल- मनाविलं करोति तथा यथोक्तविवेकवुद्धिवृचिरपि परे प्रत्यगात्मनि संसिद्धा तद्गतसकलविशेषमुन्मूलयन्ती खयमप्युन्मूलिता प्रत्यगात्मानं निरस्तसमस्तविशेषमनाविलमापादयतीति भावः ॥ १४ ॥ नन्वात्मचैतन्यप्रतिमासोऽपि नाशवानात्मप्रकाशत्वात्प्रकृतबुद्धिप- त्ययवदितिचेन्मैवम्, कारकाधीनात्मलाभत्वस्योपाधित्वादित्याह- अलुप्ता त्यात्मनो दृष्टिन!त्पाद्या कारकैर्यतः। दृश्यया चान्यया दृष्टया जन्यतास्याः प्रकल्पिता॥१५॥ अलुतेति ॥ उपाधेः साधनव्यापकत्वमाशङ्कय प्रत्याह-दृश्यया चेति । अस्या भात्मखरूपाया दृष्टेर्जन्यता तु दृश्ययान्यया बुद्धिवृ. तिरूपया स्वरूपदृष्टेविशेषाकाराभिव्यन्युपाधिभूतया प्रकल्पिता आरोपिता घटजन्मना घटाकाशजन्मवदिति नास्त्यतः साधनव्याप- कत्व पर्थः॥ १५॥ तदेवमात्मन्यव्यभिचाराचिनकाशस नित्यत्वाद्यो वेदालतदृष्टि- त्वमित्यत्नोतं नित्यदृष्टिरूपत्वगुपपाद्याकर्तृतां तथेत्युक्तं निर्विकारत्व. मुपपादयति-- देहात्मयुद्धपेक्षवादात्मनः कर्तृता मृपा।
৩৩ प्रकरणम् १२] पदयोजनिकाल्याख्यायुता। नैव किंचित्करोमीति सत्या बुद्धिः प्रमाणजा ॥१६॥ देहात्मवुद्धीति द्वाभ्यां ॥ देहात्मबुद्धिमिथ्याबुद्धिस्तत्पूर्नकत्वा- स्कर्तृत्वादिरात्मनो मृपा । नैव किंचित्करोमीत्यकात्मवुद्धिः निष्कलं निष्क्रिय शान्त'मित्यादिप्रमाणजाअतः सत्या देहात्मयुद्धेरप्रमाणजाया बाधिकेत्यर्थः ॥ १६ ॥ इत्तोऽपि कर्तृत्वमात्मनोऽपरमार्थमिल्याह- कर्तृत्वं कारकापेक्षमकर्तृत्व स्वभावतः। कर्ता भोक्तेति विज्ञानं मृपैवेति सुनिश्चितम् ॥१७॥ कर्तृत्वं कारकापेक्षमिति ॥ असझे निरवयवे आत्मनि कारक- संसर्गस्य परमार्थतोऽनुपपत्तेरकर्तृत्वस्य स्वाभाविकत्वाकर्ता भोकात्मेति विज्ञानं मृपैव न परमार्थ इति सुनिश्चितम् । नित्यनिर्मल एवात्मे- त्यर्थः ॥ १७ ॥ तदेवं परिशोधितपदार्थतत्त्वस्य वाक्यादेवाहं ब्रह्मास्मीति निरपवादे विज्ञाने जातेसति नियोज्योऽहमिति बुद्धरुन्मूलितत्वान्न प्रसंख्यान- विध्यवकाश इत्याह-- एवं शास्त्रानुमानाभ्यां स्वरूपेऽवगते सति । नियोज्योऽहमिति झेपा सत्याधुद्धिः कथं भवेत्॥१८॥ एवं शास्त्रानुमानाभ्यामिति ॥ शास्त्रं 'विज्ञातेर्यस्तु विज्ञाता स स्वमित्युच्यते यत' इत्यत्र दर्शितं यत्स्यस्तापो रवेदेह' इत्यत्रोक्तमनु- मानं ताभ्यामित्यर्थः ॥ १८ ॥ ब्रह्मविदो नियोज्यस्वादिबुद्धिनैव भवतीत्यत्र निर्विकारत्वादिक हेतुं बदन्प्रकरणार्थमुपसंहरति- -
उपदेशसाहस्री।
[अचाक्षुष्ट-
यथा सर्वान्तरं व्योम ब्योनोऽप्यभ्यन्तरो यहम् ।
निर्विकारोऽचलः शुद्धोऽजरो मुक्तः सदाद्वयः ॥१९॥
यथा सर्वान्तरमिति ।। स्पष्टम् ।। १९ ।।
इति द्वादशं प्रकाशप्रकरणम् ।। १२ ।।
अचाक्षुष्टमकरणम् १३
तदेवं पदार्थतत्त्वपरिचयाभावादेव वाक्यार्थीप्रतिपत्तिनस्पति
तत्परिचयमात्रादेव वाक्याद्वाक्यार्थयाथात्म्यावमाससंभवे प्रसंख्याना-
दिविधिरनर्थकोऽनुपपन्नश्चेत्युक्तम्, इदानीं पूर्वप्रकरणान्ते 'निर्विकारो-
चलः शुद्ध' इति यदुक्तमात्मनः शुद्धलमचलत्वं च तत्स्फुटीकर्तु
प्रकरणान्तरं प्रस्तौति--
अचक्षुष्ट्वान्न दृष्टिम तथाऽश्रोत्रस्य का श्रुतिः।
अवाक्त्वान्न तु वक्तिः स्यादमनस्त्वान्मतिः कुतः ॥१॥
अचक्षुष्ट्यादिति ॥ दृष्टिशब्देन चक्षुरिन्द्रियद्वारकथुद्धियत्तिर्बहिः
प्रस्ता रूपादिविषयोपरञ्जिता जानामिक्रियात्मिकोच्यते सा दृष्टिर्न
मेऽस्ति मद्विकारतया मद्धर्ममूता सा न भवतीत्यर्थः । तत्र हेतुरच-
क्षुप्तादिति । चक्षुर्हि देहदेशाश्रितं भौतिकं करणं न मदाथितमित्य-
न्वयव्यतिरेकाभ्यां निश्चितमिति न हेत्वसिद्धिराका । एवं का श्रुति-
रित्यादिषु योज्यम् । तथाच तचदिन्द्रियद्वारकबुद्धितिरूपसादि-
क्रियाहीनत्वात्सिद्धमात्मनोऽचलत्वं चेति भावः ॥ १॥
तथा कर्तृत्वज्ञातृत्वविकारहेतुपाणदुयोरमावादपि शुद्ध इत्याह-
अप्राणस्य न कर्मास्ति बुद्धभावेभ येदिता ।
विद्याविद्य ततो न स्तश्चिन्मानज्योतियो मम ॥२॥
-
प्रकरणम् १३ ]
पदयोजनिकाव्याख्यायुता।
७९
अप्राणसेति ॥ चिन्मानज्योतिषः सदा प्रकाशमानचिदेकरसस्स
विद्याविद्ये ज्ञानतदभावौ ज्ञानक्रिये वा न स्वस्तयोरपि बुद्ध्यवस्थावि-
शेपत्वादात्मनश्च बुद्ध्यभावादिति सिद्धा शुद्धतेत्यर्थः ॥ २ ॥
उक्तधर्मजातस्यारमन्यमावेन शुद्ध्यादिसिद्धायशरीरत्वमेव हेतुरि-
त्यभिप्रेत्य चिन्मात्रज्योतिःखरूपं विशेषणविंशदयति-
नित्यमुक्तस्य शुद्धस्य कूटस्थस्याविचालिनः।
अमृतस्याक्षरस्सैवमशरीरस्य सर्वदा ॥ ३ ॥
नित्यमुक्तस्येति ॥ विद्याविये न स्त इति पूर्वेणान्वयः । शुद्ध-
त्वान्नित्यमुक्तत्वमविचालित्वात्कूटस्थत्वमक्षरत्वादमृतत्वमिति विशेप-
णानां योजना । त्रिवपि हेतुरशरीरस्येति । नहि शरीरसंबन्धमन्त-
रेणात्मनोऽशुद्धिचलनक्षरणानि निरूपणपथमवतरन्ति । अतः सर्वदै-
वाशरीरत्वात्सर्वदा शुद्ध इत्यादियोज्यम् ॥ ३ ॥
आत्मनः पर्मिसंबन्धाभावादपि सिद्धा शुद्धतेत्याह---
जिघत्सा वा पिपासा वा शोकमोही जरामृती।
न विद्यन्तेऽशरीरत्वाद्योमवद्यापिनो मम ॥४॥
जिघत्सेति ।। खादितुमिच्छा जिघत्सा, पातुमिच्छा पिपासा
अन्यत्प्रसिद्धमशरीरत्वादित्युपलक्षणमप्राणत्वादमनस्त्वाचेत्यर्थः। तथा-
चोक्तं 'प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमोहकौ । जरामृत्यू शरी-
रस्य पडूमिरहितः शिव' इति ॥ ४ ॥
इदानीमनुक्तसकलेन्द्रियवृत्तिप्रतिपेघोपलक्षणतया स्पर्शरसनसंबन्धं
प्रतिपिच्याविर्भावतिरोभावहीनतया विशुद्धचिद्रूपत्वमुक्तमुपसंहरति-
अस्पर्शत्वान्न मे स्पृष्टि जिद्धत्वाद्रसज्ञता ।
नित्यविज्ञानरूपस्स ज्ञानाज्ञाने न मे सदा ॥ ५ ॥
८० - उपदेशसाहनी। [अचाक्षुष्य- अस्पर्शत्वादिति ।। स्पर्शनेन्द्रियरहितत्वादित्यर्थः ॥ ५ ॥ आत्मनो दृष्ट्यादयो न सन्तीत्युक्तेथे उपपत्तिमाह- या तु स्यान्मानसी वृत्तिश्चाक्षुप्फा रूपरजना । नित्यमेवात्मनो दृष्ट्या नित्यया दृश्यते हि सा ॥६॥ या तु सादिति ॥ चाक्षुष्का चक्षुरजनिता रूपरजना रूपाकाराकारिता या तु मानसी वृत्तिः स्यात्स्याच्छन्दो भवतीत्यर्थे एवंविधा वृत्तिरस्ति सात्मरूपया नित्यया दृष्ट्या चैतन्यप्रकाशलक्षणया नित्यमेव दृश्यते प्रकाश्यते । हि प्रसिद्धमनुभवसिद्धमेवैत- दित्यर्थः ॥ ६॥ तथाच दृष्ट्यादयश्चिदात्मीयास्तदृश्यत्वाद्यो येन दृश्यते न स तदीयो यथा रूपादिरिति सिद्धमात्मनो दृष्ट्यादिराहित्येन शुद्धत्वादी- त्यभिप्रेत्य चक्षुरकवृत्तायुक्तन्याय वृत्त्यन्तरेप्वतिदिशति--- तथान्येन्द्रिययुक्ता या वृत्तयो विपयाजनाः । स्मृती रागादिरूपा च केवलान्तर्मनस्यपि ॥ ७ ॥ तथेति ॥ विपयाजनविपयोपाधिकाः विपयाकारा इति यावत् । याच केवला चक्षुरादिद्वारनिरपेक्षा अन्तर्मनसि शरीरान्ततिनि चित्ते स्मृति रागादिरूपा सापि पूर्वोक्तयात्मदृष्टा दृश्यत इत्यन्वय. ॥७॥ किंच समावस्याया विद्यमाना मन परिणामरूपा विषयाकारा वृत्त्यस्ततो व्यतिरिक्तस्यैव द्रष्टुर्दश्या यथा संप्रतिपन्नास्तथा जाग्रदृश्या अपि दृश्यत्वात्स्यव्यतिरिक्तस्यैव द्रष्टुश्या इत्याह-- मानस्सनद्वदन्यस्य दृश्यन्ते स्वमवृत्तयः। द्रष्टदृष्टिलतो नित्या शुद्धानन्ता, च केयला ॥ ८॥ मानस इति ।। मानस्सः समवृत्तयोऽन्यस्स साक्षिणो यन्ते
प्रकरणम् १३]
पदयोजनिकान्यात्यायुता। ८१
दृश्यत्वेन विपरिवर्तन्त इत्यर्थः । तद्वजाग्रदृत्तय इति शेषः । सर्व-
टीनां कूटस्थदृष्टिभास्यत्वे सिद्धे फलितमाह-द्रष्टुरिति ॥ ८ ॥
कूटस्था चेदात्मदृष्टिरिष्टा कथं तत्रान्यथा प्रत्याशङ्कच वृत्तिम-
दन्तःकरणाविवेकादेवेत्याह-
अनित्या साऽयिशुद्धेति गृह्यतेऽनाविवेकतः।
सुखी दुःखी तथा चाहं दृश्ययोपाधिभूतया ॥९॥
अनित्येति ।। अविशुद्धेति छेदः । उपारिभूतया दृश्यया दृष्ट्या
सहावि विवेकामहादत्र व्यवहारभूमी सा नित्या शुद्धा चात्म-
दृष्टिरनित्याऽविशुद्धेति च गृह्यत इति योजना। तथाहं सुखी दुःखीति
च मन्यत इत्युत्तरश्लोकगतेनान्वयः ॥ ९॥
अविवेकनिबन्धना मिथ्याभिमानादेव संसारप्राप्तिरित्युक्तनेव
स्फुटयति-
मूढया मूढ इत्येवं शुद्धया शुद्ध इत्यपि ।
मन्यते सर्वलोकोयं येन संसारमृच्छति ॥ १० ॥
मूढयेति ॥ स्पष्टम् ॥ १०॥
कथं तहि संसारनिवृत्तिरित्यपेक्षायां तदुपायं ब्रुवन्मुमुक्षु शिक्ष-
पति---
अचक्षुप्कादिशास्त्रोक्तं सबाह्याभ्यन्तरं त्वजम् ।
नित्यमुक्तमिहात्मानं मुमुक्षुश्चेत्सदा स्मरेत् ॥ ११ ॥
अचक्षुष्कादीति ॥ इह प्राणिनां मध्ये कश्चिन्मुमुक्षुश्चेत्स्यात्स
तहि स्वात्मानमुक्तरूपं सदा स्मरेत् श्रुत्याचार्योपदिष्टमनवरतमनुसंद-
घीतेति योजना ॥ ११॥
- - उपदेशसाहस्री। [अचाक्षुष्- यदात्मनश्चक्षुरादिराहित्यं प्राकसिद्धवदुक्त तत्र प्रमाणमाह- अचक्षुष्कादिशास्त्राच्च नेन्द्रियाणि सदा मम । अप्राणो घमनाः शुभ्र इति चावणेचः ॥ १२ ॥ अचक्षुष्कादिशास्त्राचेति ॥ 'अचक्षुप्कमश्रोत्रमवागमन' इत्या- दिना बृहदारण्यके यथात्मरूपमुक्त तथा 'मुण्डकेऽप्युक्तगित्याह-- अप्राण इति ॥ १२॥ आत्मनो निर्विशेषत्वे श्रुत्यन्तरमुदाहरति- शब्दादीनामभावश्च श्रूयते मम काठके । अप्राणो ह्यमना यस्मादविकारी सदा हहम् ॥१३॥ शब्दादीनामिति ॥ 'अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवञ्च यत् । अनाद्यनन्तं महत पर ध्रुवं निचाय्य त मृत्युमुखात्प्रमुच्यते' इति काठके श्रूयत इत्यर्थः । उक्त प्रमाणमनूध फलितमाह---अप्राण इति । एतदचक्षुप्फादेरप्युपलक्षणम् ॥ १३ ॥ अविकारित्वनिश्चयफलमाह- विक्षेपो नास्ति तस्मान्मे न समाधिस्ततो मम । विक्षेपो वा समाधिर्वा मनसः स्वाद्विकारिणः॥१४॥ विक्षेप इति ॥ तस्मात् । अविकारित्वादित्यर्थः । ततो विक्षेपा- भावादित्यर्थः । विक्षेपनिवृचिरूपत्यात्समाधेस्तदभावे तदभाव । कस्स तहि समाधिविक्षेपार्वित्यपेक्षाया विकारयत एवेति वदन् अविकारिण- स्वदमा द्रढयति-विक्षेपो वेति ॥ १४ ॥ मनोवद्विकारित्याद्वा विकारिमनस्तादाम्यादा विक्षेपसमाधी मा- मनि संभाव्येताम् , तदुभयामावागे न स इत्याह- प्रकरणम् १३ ] पदयोजनिकाव्याख्यायुता। अमनस्कस्य शुद्धस्य कथं तत्स्यावयं मम । अमनस्त्वाविकारित्वे विदेहव्यापिनो मम ॥१५॥ अमनस्करसेति ॥ शुद्धस्य । अविकारिण इत्यर्थः । कथममन- स्कत्वमविकारित्वं चेत्यत आह--अमनस्त्वाविकारित्वे इति । विदेह- श्चासौ व्यापी चेति विदेहव्यापी तस्येति विग्रहः । विदेहत्वादमनस्कत्वं व्यापित्वादविकारित्वं चेत्यर्थः ॥ १५ ॥ कथं तर्हि जिज्ञासावस्थायां समाध्यादिकं कर्तव्यमिति ते वुद्धि- रासीदिति तत्राह- इसेतद्यावदज्ञानं तावत्कार्य ममाभवत् । नित्यमुक्तस्य शुद्धस्य बुद्धस्य च सदा मम ॥ १६ ॥ इत्येतदिति ॥ सदा नित्यमुक्तबुद्धस्यापि मम यावत्पर्यन्तमेत- नित्यशुद्धत्वादिविषयमज्ञानमासीत्तावत् मम कार्य समाधानादि कर्तव्यमभवत् , नेदानी तज्जानतः कृत्यमस्तीत्यर्थः ॥ १६ ॥ इदानीं कस्मात्समाधानादि न कर्तव्यमित्यपेक्षायां तद्धत्वभावा- दित्याह--- समाधिर्वाऽसमाधिर्वा कार्य चान्यत्कुतो भवेत् । मां हि ध्यात्वा च वुवा च मन्यन्ते कृतकृत्यताम्॥१७॥ समाधिति ।। कुतो भवेन्ममेति शेषः । कुतो न भवेदित्यत्र हेतुमाह-मां हीति । यस्मान्मा प्रत्यगेकरसं ब्रह्म ध्यात्या विचार्य बुवा साक्षात्कृत्य कृतकृत्यतां मन्यन्ते मुमुक्षव इति शेषः । तथाच श्रुतिः 'एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीया'- निति । 'यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च . उपदेशसाहस्री। [ अचाक्षुष्व- संतुष्टस्तस्य कार्य न विद्यते' इति स्मृतेश्च । तस्मादज्ञानाभावाना- स्तीदानी किमपि कर्तव्यमित्यर्थः ॥ १७ ॥ ननु यद्यपि यथोक्तात्मविदः समाध्यादि कर्तव्यं नास्ति तथा- प्यात्मनो ब्रह्मत्वं सपाय प्रपञ्चस्स विलय कर्तव्योऽवशिष्यत इत्या- शङ्कय ब्रह्मरूपत्वस्य नित्यसिद्धत्वात्प्रपञ्चस्य चा ज्ञानमात्रविलसितस्य तन्निवृत्तिसमय एव चाधिष्ठानात्मना विलीनत्वान्न तदनुष्ठेयमवशिष्यत इत्यभिप्रेत्याह- अहं ब्रह्मास्मि सर्वोऽस्मि शुद्धो बुद्धोऽस्म्यतः सदा । अजः सर्वत एवाहमजरश्चाक्षयोऽमृतः ॥ १८ ॥ अहं ब्रह्मासीति ।। सदेति ब्रह्मास्मीत्यादिपु सर्वेषु विशेपणेषु योज्यम् । अतस्ततो बन्धहीन सर्वत इति च पदमजोऽक्षय इत्युगयन योच्यम् । जन्मक्षयहेतुरहित इत्यर्थ ॥ १८ ॥ ननु प्रतिदेह चेतनभेदे भासमाने कथ नहास्मीति प्रतीच पूर्ण- तानुभव इत्यत साह- मदन्यः सर्वभूतेषु वोद्धा कश्चिन्न विद्यते । कर्माध्यक्षश्च साक्षी च चेता नित्योऽगुणोऽहयः १९ मदन्य इति !| उक्तेऽ प्रमाणमाह-कर्माध्यक्ष इति । 'एको देव सर्वभूतेषु गृह. सर्वव्यापी सर्वभूतान्तरात्मा । फर्माध्यक्ष सर्वभूता- धिवासः साक्षी चेता केवलो निर्गुणश्चेति श्रुतायेक्स्पेय सर्वभूतान्त- रात्मत्वोपपादनाझेदप्रतिभानम्याकाशभेदमानपदुपाधिनिबन्धनत्याना स्मान्तराशक्षेति युक्त पूर्णप्रसात्मानुभयनमित्यर्थ ॥ १९ ॥ अह ब्रह्मासीत्यत्रोक्तमात्मनो ब्रह्मत्यमुपपादितं, सर्वोऽलीत्युक्त तु बाधाया सामानाधिकरण्याभिप्रायमित्युपपादयति- -
८५
प्रकरणम् १३] पदयोजनिकाव्याख्यायुता।
न सच्चाहं न चासच नोभयं केवलः शिवः।
न मे संध्या न रात्रि नार्वा सर्वदा दृशेः ॥२०॥
न सच्चाहमिति ॥ सत्प्रत्यक्षयोग्य पृथिव्यप्तेजोरूपं भूतत्रयम् ।
असत्प्रत्यक्षायोग्यं त्यच्छन्दनिर्दिष्टं वाय्वाकाशात्मकं भूतद्वयम् ।
उमयं पञ्चभूतपरिणामात्मकं शरीरसंस्थानं तत्सवै नाहमित्युक्ते
नेतिनेतीति मय्येवारोप्य निपिद्धत्वान्मदन्यत्र मयि चासत्त्वादहमे-
वेदं सर्वमिति युक्तमेवोक्तमित्यर्थः। केवलः सर्वविशेषशून्यः । शिवो
निस्वैगुण्यः । संध्यादिकालविशेषयोगालथं केवलत्वमित्यत आह-
न मे संध्येति । तत्र हेतुः-सर्वदा दृशेरिति । अलुप्तप्रकाशात्म-
त्वादित्यर्थः । यद्वा संध्यादिशब्दैः क्रमेण खमसुषुप्तिजागरणान्युच्य-
न्ते सदैवैकरूपेणप्रकाशमानस्य स्वरूपावरणविक्षेपरूपावस्थाः कुतस्त्या
इत्यर्थः ॥ २० ॥
तस्माच्चिदेकतानस्यात्मनो निर्विपयस्य युक्तं ब्रह्मरूपेण पूर्णत्वमिति
सदृष्टान्तमाह-
सर्वमृर्तिवियुक्तं यद्यथा खं सूक्ष्ममद्वयम् ।
तेनाप्यस्मि विनाभूतं ब्रह्मैवाहं तथाद्वयम् ॥ २१ ॥
सर्वमूर्तीति । यथाकाशं सर्वस्मात्परिच्छिन्नाकारादिलक्षणमिति
सूक्ष्ममालक्ष्यते तथेदं ब्रह्म परिपूर्णमत्यन्तसूक्ष्मं द्वैतामाधोपलक्षितमि-
प्यते तस्माद्ब्रह्मणोऽद्वितीयत्वादात्मनश्च तदनन्यत्वाद्रीवास्मीत्यर्थः ।
तर्हि ब्रह्माकाशयोरुपमानोपमेयभावेन भेदात्कथं ब्रह्माद्वितीयमित्यत
आह-तेनापीति । तेनाफाशेनापि विनाभूतं सिद्धं ब्रह्मास्मि व्यव-
हारदृष्टयोपमानादिभेदेऽपि परमार्थतस्तदभावान्नाद्वैतक्षतिरित्यर्थः
एकमद्वयपदमाकाशेन संबध्यते, द्वितीयं ब्रह्मणेत्यपौनरुत्त्यम् ॥२१॥
उपदेशसाहस्री। [ अचान- पूर्वमाकाशदृष्टान्तेन पूर्णत्वनिरूपणात्परमार्थतः परिच्छेदाशका निराकृता, इदानीं तेनैव दृष्टान्तेन भेदपरिच्छेदप्रतीतेर्गतिमाह- ममात्मा खत आत्मेति भेदो व्योम्नो यथा भवेत् । एकस सुपिभेदन तथा मम विकल्पितः ॥ २२ ॥ ममात्मेति ॥ मम ज्ञातुरात्मा स्वरूपं ब्रह्मेति खत स्वस्यात्मेति च योऽयमात्मात्मीयभावेन भेदप्रतिमास स एकस्य ममान्त करणा- धुपाधिकृतभेदपरिच्छेदापेक्षया विकल्पित आरोपितो मवेत् ,यद्वदेकस्य व्योम्न सुपिभेदेन छिद्रभेदेनाशाशिभावरूपो भेदो विकल्पितो भवति तद्वदित्यर्थः ॥ २२॥ तस्मादविद्यादशाया मेदव्यवहारेऽपीदानीमवगतात्मतत्त्वस्य सोऽपि नास्तीति सिद्धमित्याह- भेदोऽभेदस्तथा चैको नाना चेति विकल्पितः । ज्ञेयं ज्ञाता गतिर्गन्ता मय्येकस्मिन्कुतो भवेत् ॥२३॥ भेदोऽभेद इति ॥ मय्येबैकस्मिन्पूर्व भेदोऽभेदश्च विकल्पितो व्यवहतः । तथा एको नाना चेति चाहमेव विकल्पितः । ज्ञेय जाता गतिः फलं गन्ता फलप्राप्तिकर्ता भोति चाह विकल्पित इति योजना। एतत्सर्वं कुतो भवेत् विचार्यमाणे न भवेदेवेत्यर्थ. ॥ २३ ॥ ननु तथापि ससारित्व हेयं ब्रहावं चोपादेयमिति न निविशेष- त्वमात्मन इतिचेत्तत्राह- न मे हेयं न चादेयमविकारी यतो सहम् । सदा मुक्तस्तथा शुद्धः सदा वुद्धोऽगुणोऽद्वयः ॥२४॥ न मे हेयमिति ॥ तन हेतुमाह-अविकारीति । यतो यस्ता.
प्रकरणम् १३ ] • पदयोजनिकाव्याख्यायुता। - दहमविकारी । कुतोऽविकारीत्यपेक्षायांतत्र प्रमाणं हिशब्देन सूच्यते । 'अविकार्योऽयमुच्यत' इति स्मृतेरित्यर्थः । फलितमाह-सदा मुक्त इति । सदैव बन्धसंसर्गशून्य इत्यर्थः । तथा शुद्धस्तद्धत्वविद्यासंव- न्धरहितः । यतः सदा बुद्धः । तर्हि किं बोधगुणः । नेत्याह-अगुणः बोधरूप एवेत्यर्थः । तर्हि वोध्यं किंचिदन्यदस्ति, नेत्याह-अद्वय इति ॥ २४ ॥ तदेवमुक्तलक्षणेनात्मतत्त्वं शाखाचार्यप्रसादाचवणमनननिदि- ध्यासननिष्ठां प्राप्तः सन् सदा मुमुक्षुरहं ब्रह्मासीत्यनुसंदध्यादिति मुमुक्षु प्रोत्साह्यति- इत्येवं सर्वदात्मानं विद्यात्सर्व समाहितः। विदित्वा मां खदेहस्थमृपिर्मुक्तो ध्रुयो भवेत् ॥२५॥ इत्येवमिति ॥ सर्व पूर्वमुक्तं वेदनफलमाह-विदित्वेति । ऋपिः सर्वदर्शी ॥ २५ ॥ उक्ततत्वविद उक्तां मुक्ति प्रपञ्चयति- कृतकृत्यश्च सिद्धश्च योगी ब्राह्मण एव च । य एवं वेद तत्त्वार्थमन्यथा यात्महा भवेत् ॥ २६ ॥ कृतकृत्यथेति ॥ स ब्राह्मण इति श्रुतेर्मुख्यो ब्राह्मण एव च भवेदिति संबन्धः । एवं निष्ठाहीनस्य प्रत्यवायमाह --अन्यथेति । उक्तं श्रीभागवते भगवता 'नृदेहमाचं सुलमं सुदुर्लभं प्लवं सुकल्प गुरुकर्णधारम् । मयानुकूलन नभस्वतेरितं पुगान्भवाब्धि न तरेत्स आत्महे ति ॥ २६ ॥ उक्तस्य प्रकरणार्थस्य प्रामाणिकत्वं दर्शयन्प्रतिपत्तिसौकर्यमाह- उपदेशसाहस्री । [स्वमस्मृति- वेदार्थो निश्चितो ोप समासेन मयोदितः। संन्यासिभ्यः प्रवक्तव्यः शान्तेभ्यःशिष्टवुद्धिना॥२७॥ वेदार्थ इति !! अस्य ग्रहणे मुख्याधिकारिणो दर्शयति-संन्या- सिभ्य इति । न केवलं प्राप्तसंन्यासाश्रममानेभ्यः किंतु शान्तेभ्यः । शमादिसाधनसपनेभ्य इत्यर्थः । उपदेष्टारं विशिनष्टि-शिष्टबुद्धिने- ति । शास्त्राचार्यानुशिष्टबुद्धिनेत्यर्थः ॥ २७ ॥ इति त्रयोदशं चक्षुधप्रकरणम् ॥ १३ ॥ - खमस्मृतिप्रकरणम् १४ पूर्वसिन्प्रकरणेऽन्तःकरणाविवेकादात्मनि संसारित्यप्रतीतिर्न खत इति शास्त्रप्रामाण्याद्वाधिताज्ञानतत्कायों ब्रह्मरूप एवात्मेति निर्धारि- तन, इदानीमन्त करणस्य परोक्षत्वात्ससारप्रतिमासस्य चापरोक्षत्वान्न तत्प्रतिभासो बुद्ध्यविवेककृत इत्याशङ्कयान्त करणस्यापरोक्षत्वप्रतिपा- दनपूर्वक पूर्वोक्तशास्त्रार्थे युक्तिप्रदर्शनपरं प्रकरणं प्रक्रमते- खप्नस्मृत्योर्घटादेहि रूपाभासः अदृश्यते । पुरा नूनं तदाकारा धीदृष्टेत्यनुमीयते ॥ १ ॥ स्वप्नस्मृत्योरिति । हि यस्मात्स्समे स्मृतौ च पटादेविषयनातस्य रूपाभास आकारावभासो दृश्यतेऽनुगूयते तस्मात्पुरा पूर्व जामदव. स्थायामनुभवायसायामपि गूनमवश्यं तदाकारा घटाद्याकारा धीरन्त करणवृचिर्दष्टा साक्षादनुभूतेत्यनुमीयत इत्यर्थः । समस्मृत्योदृष्टार्थ- विषयत्यनियमारपूर्वदृष्टस्य याहार्थस्य तत्रामावाल्वमस्मृत्योरपलभ्यगानो विपयोऽर्थाकार चिमदन्तःकरणमेवेति जामत्पूर्यानुभक्योरप्यन्त पर- .
प्रकरणम् १४ पदयोजनिकान्याख्यायुता। ८९ णमेवार्थाकारवृत्तिमदपरोक्षमनुभूतमिति कल्प्यते । तस्मात्सर्वास्वप्यव- स्थासुवृत्तिमदन्तःकरणस्यापरोक्षत्वात्तद्गतचिदाभासाविवेकादात्मनः सं- सारितावमासोऽपरोक्षो युक्त इति भावः ॥ १॥ एवमन्तःकरणस्यापरोक्षत्वे निरूपिते किमायातगात्मन इत्यपेक्षायां दृश्यादन्तःकरणादिसंघाताद्विवेकसिद्धिरायातेति सदृष्टान्तमाह- भिक्षामटन्यथा खप्ने दृष्टो देहो न स खयम् । जाग्रदृश्यात्तथा देहामुष्कृत्वादन्य एव सः ॥२॥ मिक्षामिति ॥ सुपुप्तस्य यतेः खमे भिक्षामटन्दृष्टो यो देहः स वयं द्रष्टा न भवति । यथा तदेहात्मत्वमभिमन्यमानोऽपि तदात्मको न भवति, तथा जाग्रदृश्यादपि देहात्स आत्मान्य एव द्रष्टुत्वादित्य- र्थः । देहपदमुपलक्षणमिन्द्रियान्तःकरणयोरपि । तथाच प्रयोगः- विमतो देहादिर्नामा दृश्यत्वात्स्वमदृश्यदेहादिवदिति ॥ २ ॥ बुद्धिरेव सर्वावस्थावाकारा दृश्यत इत्युक्तमर्थ दृष्टान्तेन स्पष्टयति- मूपासिक्तं यथा तानं तन्निभं जायते तथा । रूपादीव्याप्नुवचित्तं तन्निभं दृश्यते ध्रुवम् ॥३॥ मूति ।। मूपान्तःसुपिरा मृत्प्रतिमा यथाग्निसंपर्काद्रवीभूतं तानं मूपायां निषिक्तं निक्षिप्तं सत्तन्निमं जायते तत्समानाकृति भवति तथा चितमपि रूपादीन्विपयान्व्याप्नुवन्निभं दृश्यते । तदाकारं जायत इत्यर्थः ॥ ३ ॥ ननु मूपासिक्ततामस्य कठिनमूपाभिघातेन शेत्यापत्तो तदाकाराप- तिरिति युज्यते, चित्तस्य त्वमूर्तत्वाद्विपयव्याप्तावपि कथं तदाकारापति- संभव इत्याशङ्कय दृष्टान्तान्तरमाह- उपदेशसाहस्री । [स्वमस्मृति- व्यञ्जको वा यथालोको व्यङ्ग्यस्याकारतामियात् । सर्वार्थव्यजकत्वाद्वीरांकारा प्रदृश्यते ॥ ४ ॥ व्यञ्जको वेति ॥ व्यञ्जकोऽज्यादिरयःपिण्डादेरालोको वा घटादेः। स्पष्टार्थः ॥ ४ ॥ बुद्धेरन्वयमुखेन खम्मस्मृत्योरित्यत्रोपपादितमपरोक्षत्यमनूध व्यति- रेकमुखेनोपपादयति- धीरेवाखरूपा हि पुंसा दृष्टा पुरापि च । न चेत्स्वप्ने कथं पश्येत्स्मरतो वा कृतिः कुतः ॥५॥ धीरेवेति ।। स्पटम् ॥ ५॥ आलोकादिवय्यञ्जकत्वाझुद्धेळगयाकारत्वमुक्तं स्पष्टयति- व्यञ्जकत्वं तदेवास्या रूपाद्याकारदृश्यता । द्रष्टुत्वं च दशेस्तद्वयासिः स्याद्धिय उद्भवे ॥ ६ ॥ व्यञ्जकत्वमिति ॥ अस्या बुद्धेर्या रूपाधाकारेण दृश्यता दर्शन-- योग्यतापचिस्तदेव विषयव्यजकत्वमित्यर्थः । चैतन्यं हि विषयाव- मासो विषयश्च न बुद्धेरन्यत्र सातत्येण स्फुरति । तथाच बुद्धेषि- पयाकारत्वाभाचे चैतन्यस्य विषयात्मना स्फूतिरनुपपन्नेति विपयाभि- च्यत्त्यर्थतया तदाकारापचिरेव बुद्धय॑जकत्यमित्यभिप्रायः । यथा रूपायाकारणावभासमानत्वमेव धियो रूपादिव्यञ्जकत्वं तथा दृशेरा. स्मनो थिय उद्भवे धर्माधर्मशादुत्पची सत्यां तयाप्तिस्तदात्मना स्फुरणमेव द्रष्टुत्वं न परिणाम इत्याह-द्रष्टत्वं चेति । यद्यपि धियो विषयव्याप्तिः परिणाममन्तरेण न भवति विषयदेशे तस्याः प्रागेवासत्त्वात्, तथापि चैतन्यात्मनो धीवृत्तिव्याप्ती न परिणामापेक्षा
प्रकरणम् १४] पदयोजनिकान्याख्यायुता।
चिदात्मन्येव तत्प्रकाशफवलिताया एवं धियः सदोत्पतेरिति
भावः ॥६॥
बुद्धितद्वृत्तिसाक्षित्वेन चिदात्मनः परिणामाभावेऽपि न तस्य ब्रह्म-
रूपतयैकत्वं युक्तं, प्रतिदेहं तत्तद्बुद्धिसाक्षिभेदादित्याशङ्कय, प्रमा-
णाभावान्मैवमित्याह-
चिन्मात्रज्योतिपा सर्वाः सर्वदेहेषु बुद्धयः ।
मया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो यहम् ॥७॥
चिन्मात्रेति ॥ यथैकसिन्छरीरे बुद्ध्यवगातो विकृतचिच्याप्ति-
मात्रस्तथा सर्वशरीरगतवुझ्यवभास इति भास्यबुद्धिभेदेऽपि न तदव-
भासस्वरूपभेदः प्रमाणपथमवतरति । भेदस्यापि साक्ष्यत्वेन साक्षिध-
मत्वाभावान्न साक्षिभेदाशङ्कावकाश इत्यर्थः ॥ ७ ॥
चैतन्यस्य सर्वत्रैकत्वेऽपि दृश्यस्य बुद्यादेरनेकत्वान्नाद्वयवसात्म-
तासिद्धिरित्याशय सकलदृश्यस्यानाद्यनिर्वाच्याविद्याविलासबुद्धि-
मात्रत्वाचेतनस्याद्वयब्रह्मत्वमविरुद्धमित्युपपादयति-
करणं कर्म कर्ता च क्रिया खन्ने फलं च धीः ।
जाग्रत्येवं यतो दृष्टा द्रष्टा तस्मादतोऽन्यथा ॥८॥
करणमिति ॥ यथा क्रियाकारकफलानि स्वमे धीरेव बाह्यार्थस्य
तदा तत्राभावादिति निश्चितं । एवमेव जाग्रति जाग्रदवस्थायां च यतो
धीरेव क्रियाकारकफलरूपा दृष्टा तयैव बहिः पदार्थसत्त्वमवगतम् ।
तथासति सुपुप्तावपि तदाकारविशेषस्फुरणं कदाचित्स्यात् । तस्माद्विपयैः
सहैवात्मनि बुद्धेरध्यस्तत्वातस्याश्चाद्यन्तयत्त्वेन मिथ्यावाद्रप्टात्मा तत्तो
बुद्धेरन्यथान्यादृशः सत्योऽखण्डैकरस इत्यर्थः ॥ ८॥
९२ उपदेशसाहस्त्री। [स्वमस्मृति- अन्यथेत्युक्तं स्फुटयति- बुयादीनामनात्मत्वं हेयोपादेयरूपतः। हानोपादानकर्तात्मा न त्याज्यो न च गृह्यते ॥९॥ बुद्ध्यादीनामिति ॥ बुद्ध्यादयो नात्मखरूपधर्मा आगमापायि- त्वाद्वस्त्रादिवदित्युक्ते चिदात्मनि व्यभिचारमाशङ्कय परिहरति-हा- नोपादानेति । बुद्ध्यादेमुनोपादानयोर्लयविक्षेपयोः कर्तात्मा तदधि- ठानमात्रेण कर्तेत्युच्यते । स न केनचित्त्याज्यो न विलाप्यो नच गृह्यते न विक्षिप्यते । आत्मनः सर्वाधिष्ठानत्वात्तस्य चाधिष्ठानान्तराभावा- दित्यर्थः ॥ ९॥ आत्मनः स्वरूपेणाहयानुपादेयत्वेऽपि तत्संबन्धित्वेन प्राप्तस्य वाह्यस्य वस्त्राभरणादेरान्तरस्य च पापादेयत्वमान्तरम्य च योगध्या- नादेरुपादेयत्वं भविष्यतीति न विशुद्धिरात्मन इत्याशझ्याह- सवाह्याभ्यन्तरे शुद्धे प्रज्ञानकरसे घने । वाह्यमाभ्यन्तरं चान्यत्कथं हेयं प्रकल्प्यते ॥ १० ॥ सवाद्येति ।। बाह्याभ्यन्तरसहिते बाहामाभ्यन्तरं चात्मैव न ततः पृथगित्यर्थः । यतः शुद्धः केवलोऽतो वाह्याभावः । यतश्च प्रजानकर- सोऽतो नान्तरमपि पृथगस्ति । एकरसत्वं स्पष्टयति-धन इति । सैन्धवपनयविज्ञानधन इत्यर्थः । हेयमित्युपलक्षणम् । एवंभूते आत्मनि कथं हेयमुपादेयं वा कल्प्यत इत्यर्थः । सत्चास्फूर्त्यनालिङ्गितस्य बाह्यस्याभ्यन्तरस्य चोल्लिखितुमशक्यत्वात् तयोश्चात्मकरूपत्वान ततो वहिरन्तर्वा किमप्यस्ति । परमार्थतो यदुपादेयं हेयं वा भवेदिति नात्मनो विशुद्धिसंकोचावकाश इति भावः ।। १०॥ वस्तुस्वभावानुसारेण विचार्यमाणे नात्मनियाचस्तीत्युक्तम् इदानी विद्वदनुभवेनाप्ययमोंऽवगम्यत इत्याह- प्रकरणम् १४] पदयोजनिकाव्याख्यायुता। ९३ य आत्मा नेतिनेतीति परापोहेन शेपितः । स चेद्ब्रह्मविदात्मेप्टो यतेतातः परं कथम् ॥ ११ ॥ य आत्मेति ॥ ब्रह्मविदो ज्ञानिनः आत्मा स्वरूपम् । कथं यतेत कृतकृत्यत्वादित्यर्थः ॥ ११ ॥ एवंविधमात्मतत्त्वं न परानुभवगम्यमिति स्वयमेवात्मविदा शास्त्रा- चार्योपदेशानुसारेण विवेक्तव्यमित्याह-- अशनायाद्यतिक्रान्तं ब्रह्मैवास्मि निरन्तरम् । कार्यवान्स्यां कथं चाहं विमृशेदेवमासा ॥ १२ ॥ अशनायादीति ॥ पडूमिरहितमित्यर्थः ॥ १२ ॥ एवं विमर्श प्राप्त प्रापणीयमितिकर्तव्यबुद्धिरेव न भवेदिति दृष्टा- न्तेनाह- पारगस्तु यथा नद्यास्तत्स्थः पारं यियासति । आत्मज्ञथेत्तथा कार्य कर्तुमन्यदिहेच्छति ॥ १३ ॥ पारग इति ॥ नद्याः पारं परतीरं गतो यथा तत्स्थः परतीरस्थ एव तमेव पारं यियासति यातुं प्राप्तुमिच्छति चेदित्यन्वयः । तथा यथोक्तात्मनोऽन्यत्कार्य कर्तुमिह श्रेयोमार्गे इच्छतीति योजना । नैव यियासति भवेच्छति चेत्यर्थः ॥ १३ ॥ यः पुनरात्मज्ञोऽपि कार्यवान्स्यात्स न सम्यग्दर्शीति तं निन्दति- आत्मज्ञस्यापि यस्य स्थाद्धानोपादानता यदि । नमोक्षाहःस विज्ञेयो वान्तोऽसौ ब्रह्मणा ध्रुवम्॥१४॥ आत्मज्ञस्सापीति ।। स्पष्टार्थः ॥ १४ ॥ 'अनागतां तु ये पूर्वामनक्षत्रां तु पश्चिमाम् । संध्यां नोपासते - उपदेशसाहस्री। [खनस्मृति- विप्रास्ते कथं ब्राह्मणा स्मृता' इति स्मृतेर्ब्रह्मविदोऽपि विपस्स सध्यावन्दनमस्ति कार्यमित्याशय कैमुतिकन्यायेन निराकरोति- सादित्यं हि जगत्प्राणस्तस्मान्नाहर्निशैव वा । प्राणज्ञस्यापि न स्यातां कुतो ब्रह्मविदोऽदये ॥ १५ ॥ सादित्यमिति ॥ आदित्य. सूर्यस्तत्सहितमिद जगत्सर्वं हि यसात्प्राणो हिरण्यगर्भस्तस्मात् 'प्राणज्ञस्यापि प्राणोऽहमसी'ति प्राणा- त्मभावमापन्नस्याप्युपासकस्येति यावत् । अहर्निशैव वा न स्याताम् । उदयास्तमयरहितसूर्यरूपत्वात्तस्याहोरात्रे न सातामित्यर्थ । तथाच श्रुति 'न ह वा अस्मा उदेति न निम्लोचलि सकृद्दिवा हैवारसे भव- तीति । तथाच प्राणज्ञरयापि प्राणविदोऽपि भेददर्शिनो यद्यनिदो न स्याता तदास्य ब्रह्मविदो मुख्यव्रह्मभूतस्याद्वये सर्वद्वैताभासरहिते खरूपे सति ते कुत स्याता न कुतोपोति कालभेददर्शनाभागादेव तन्निमिसकर्तव्याभाव इत्यर्थ ॥१५॥ ब्रह्मविदो बायक्रियाभावेऽपि 'सभ्य समाधावात्मन्याचरे दिति श्रुते खात्मनि विस्मृति परित्यज्य मोक्षाय स्मृति कर्तव्येत्यत आह- - न स्मरत्यात्मनो ह्यात्मा विस्मरेद्वाप्यलुप्तचित् । मनोऽपि स्मरतीत्येतज्ज्ञानमज्ञानहेतुजम् ॥ १६ ।। न मरतीति || रतियोगात्यष्ठी द्वितीयार्थे । सरणविस्मरण- योरभावे हेतु अलुप्तनिदिति । यधशक्यत्वादात्मन विधातु न युक्त तर्हि तत्त्वज्ञानादूर्ध्वमारिभवतिरोभावादिविकार- शान्तये मन एवात्मान'सरेदिति विधि सादित्यत आह-मनो. पीति । मनसोडचेतगत्यास्मर्तृखानुपपर्मन सरतीति शनमप्यता- स्मरण
प्रकरणम् १४]
पदयोजनिकाव्याख्यायुता।
नहेतुजमविवेकविलसितमित्यर्थः । तथाचासम्याब्रह्मविद आत्मव्यति-
रेकेण मनः पश्यतः संध्यं समाधाविति विधिर्न सम्यग्ब्रह्मविद इति
भावः ॥ १६॥
यथप्यात्माऽलतचिद्रूपत्वान्नात्मानं स्मरति तथापि परमात्मानं
स्मरेदेवेत्याशङ्कयाह-
ज्ञातुर्नेयः परो यात्मा सोऽविद्याकल्पितः स्मृतः।
अपोढे विद्यया तस्मिन्रज्वां सर्प इवाद्वयः ।। १७ ।।
ज्ञातुरिति । यदि पर आत्मा ज्ञातुर्तेयो विषयः स्यातदा सो-
ऽविद्याकल्पितः स्वाज्ञानकल्पितो हि निश्चितं स्मृतो ज्ञातो विद्वद्भिः ।
ज्ञानविषयस्य रज्जुसर्पदविद्याकल्पितत्यनियमात्स आत्मैव न भवती-
त्यर्थः । तथाच तसिन्नात्मनः परत्वज्ञेयत्वादिके विद्यया आत्मविद्य-
याऽपोढे वाघिते सत्ति ज्ञातज्ञेयविभागाभावादद्वय एवात्मा भवती-
त्यर्थः । तत्र दृष्टान्तो रज्या सर्प इवेति । यथा रजुविधया सर्षे
बाधिते रज्जुरेवावशिप्यते तद्वदित्यर्थः ॥ १७ ॥
प्रत्यगात्मनो वस्तुतोऽद्वितीयत्वेऽपि तसिन्गमाहमित्यादिसंसार-
प्रतिमासाचन्निवृत्तये किमपि कर्तव्यं भविष्यतीत्यत आह-
कर्तृकर्मफलाभावात्सवाह्याभ्यन्तरं यजम् ।
ममाहं वेत्ति यो भावस्तस्मिन्कस्य कुतो भवेत् ॥१८॥
कर्वकर्मेति ॥ कर्तृकर्मफलमेदामावात्सबाह्याभ्यन्तरमजमेवात्म-
खरूपं हि यतः तस्मिन्नात्मनि ममाहमित्यादिरूपो यो भावः प्रति-
भासः स कस्य भवेत्कुतो वा हेतोर्भवेत् । न भवेदेवेति योजना।
तस्मात्तज्ज्ञानोत्पत्तेः प्रागेव सर्वकर्तव्यता नोर्ध्वमिति भावः ॥ १८ ॥
उपदेशसाहस्री । [समस्मृति- आत्मविदो देहादावहंकारममकाराभाये हेतुमाह- आत्मा यात्मीय इत्येप भायोऽविद्याप्रकल्पितः । आत्मैकत्वे ह्यसौ नास्ति वीजाभावे कुतः फलम् ॥१९॥ आत्मा ह्यात्मीय इति ।। आत्मैकत्वे जाते सतीति शेष ॥१९॥ केन प्रमाणन तदात्मकत्वं ज्ञातुं शक्यमित्यपेक्षायां वेदान्तवाक्य- प्रमाणबलादित्याह-- द्रष्टुं श्रोतृ तथा मन्तृ विज्ञात्रेव तदक्षरम् । द्रष्ट्राद्यन्यन्न तयस्माचसाद्रष्टाहमक्षरम् ॥ २० ॥ द्रष्टश्रोत्रिति द्वाभ्याम् ॥ यमुष्ट थोतृ मन्तृ विज्ञात प्रसिद्ध प्रत्यग्रूपं तदक्षरमेव सर्वाधिष्ठानं ब्रीति योजना । तथाच श्रुतिरक्षर प्रकृत्य 'अदृष्ट द्रष्टुश्रुत श्रोत्रमतं मन्त्रविज्ञातं विज्ञात्रि'ति । तथा 'नान्यदतोऽस्ति द्रष्टु नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति विज्ञानि' युचरवाक्यार्थमाह-~-द्रष्टवादीति । तत् द्रष्यादिप्रत्ययस्वरूपं तस्माद- क्षरादन्यन्न भवतीत्यर्थः । यसादेवगविषयमूलगेचाद्वयमात्मतत्त्व श्रुतिसिद्ध तस्माद्दपाहमक्षरमित्युपसंहार. ॥२०॥ प्रत्यगात्मनोऽक्षरब्रह्मात्मत्वेऽपि कयमद्वयात्मत्वसिद्धिरित्यागमय 'एतस्मिन्नु खल्पक्षरे गायीकाश ओतश्च प्रोतश्चेति श्रुत्यर्थ वढन्न- द्वयात्मत्वं साधयति- स्थावर जंगमं चैव द्रष्टत्यादि क्रियायुतम् । सर्वमक्षरमेवातः सर्वस्यात्माक्षरं त्वहम् ॥ २१ ॥ स्थावरमिति ।। उपाधिरपहितमुपाध्याधारश्चेति समक्षरमेया- तोऽहमक्षरं सर्वम्यात्मा स्वरूप न मदन्यलिमप्यस्तीत्यर्थ. ॥ २१ ।। स्थायरादिसमक्षरमित्सुते राप्रपञ्चमेवाक्षरंगात्मेति प्रतिमासा पारयनागमिकमात्मनानं स्फुटयति- - प्रकरणम् १४] पदयोजनिफाल्याख्यायुता। ९७ अकार्यशेपमात्मानमक्रियात्म क्रियाफलम् । निर्ममं निरहंकारं यः पश्यति स पश्यति ॥ २२ ॥ अकार्यशेयमिति ॥ अकार्यशेषत्वमकर्तृत्वम् । तत्र हेतुः अक्रिया- त्मेति । क्रियाखरूपतत्फलविलक्षणमित्यर्थः । क्रियातत्फलसंसर्गशू- न्यमिति वा । कुतः यतो निर्ममम् । तदपि कुतः यतो निरहंकारम् । एवंविधमात्मानं यः सम्यक्पश्यति स एव तत्त्वदीत्यर्थः ॥ २२ ॥ आत्मविदोऽहंकाराद्यमावादकर्मशेपत्यमुक्तं मपञ्चयंस्तस्य कृत- कृत्यतामाह- ममाहंकारयतेच्छाः शून्या एव खभावतः । आत्मनीति यदि ज्ञातमाध्यं स्वस्थाः किमीहितैः २३ ममाहंकारेति ॥ आत्मनि स्वभावतः शून्या एवाविद्याप्रयुक्तपदे- हाद्यभिमानं विना न सन्तीत्यर्थः । हे मुमुक्षवः, यद्येवं ज्ञातं तर्हि वस्था निय॑नाः सन्तः आवं तिष्ठत । किमीहितैः कर्मभिः कृत्यं, ज्ञानेनैव कृतकृत्यत्वाकर्मणां चानधिकृतकृतानां विफलत्वाचे- त्यर्थः ॥ २३ ॥ देहाद्यतिरिक्तात्मज्ञानवतः सर्वेषु पारलौकिककर्मवधिकाराभ्युप- गमादस्त्यात्मविदोऽपि सफलं कर्मेत्याशङ्कय तस्यात्मतत्ववित्त्वमेव नास्तीत्याह- योऽहंकारमात्मानं तथा वेत्तारमेव च । वेत्ति नात्मज्ञ एवासौ योऽन्यथाज्ञः स आत्मवित् २४ योऽहंकारमिति | फस्तात्मविदित्यत आह-योऽन्यथाज्ञ इति । योऽकर्तारमज्ञातारमभोक्तारं चात्मानं जानाति स आत्मतत्त्व- विदित्यर्थः ॥ २४॥ 4 मा ७ उपदेशसाहस्री। [स्वमम्मृति- किमिति कर्तात्मेति जानतो नात्मवित्त्वमात्मन्येव कर्तृत्वादिपति- भासादित्याशङ्कय, कर्जविवेकनिवन्धनोऽयं भ्रम इत्यभिप्रेत्याह- यथान्यत्वेऽपि तादात्म्यं देहादिप्यात्मनो मतम् । तथाकर्तुरविज्ञानात्फलकात्मतात्मनः ॥ २५ ॥ यथान्यत्वेऽपीति ॥ यथा परमार्थतो देहादिभ्योऽन्यत्वेऽप्यात्म- नस्तेपु तादात्म्यमाध्यासिकं मतमिष्टं तथाऽकर्तुरभोक्तुरविज्ञानादा- त्मनः फलकर्मात्मता मता । यथा स्थूलदेहात्मनोरभेदाध्यासान्मनुष्य- त्वाद्यभिमानस्तथाहंकारप्रधानलिङ्गदेहाविवेकाकर्तृत्वायभिमानो मि- थ्यावुद्धिरित्यर्थः ।। २५॥ नन्वहंकारस्यैवात्मत्वात्कथमहकारात्मनोरविवेक इत्युच्यत इत्यत आहन दृष्टिः श्रुतिर्मतििितः खग्ने दृष्टा जनैः सदा । तासामात्मखरूपत्वादतः प्रत्यक्षतात्मनः ॥२६॥ दृष्टिरिति । दृष्ट्यादिशब्दैश्चक्षुरादिद्वारकान्त करणवृत्तयो निर्दि- श्यन्ते । तास्तु सदैव खमे जनदृष्टाः । सवृत्तिक्म्यान्त करणस्य खमे वेद्याकारत्वाचद्वेदितान्यः साक्षी सिद्ध इत्यभिप्राय । किंच तासां दृष्ट्या- दीनामात्मस्वरूपत्वादिति । अयमर्थः-सुयुप्ते सवृत्तिरस्यान्त करणस्या- विद्यामातयात्मन्यस्तमयादात्मनश्यानस्तमयारस्वतस्तस्याद्वितीयापरोक्ष- चिन्गात्रतयावभासमानत्यायुक्तान्तःकरणादहकारादिरूपादात्मनो व्य- तिरेक सिद्धिरिति । यत एवमत आत्मनः प्रत्यक्षता साक्षिमानेण स्वय प्रकाशमानतया नित्यापरोक्षब्रह्मरूपता सिद्धेत्यर्थः ॥ २६ ॥ एवमशेपप्रमातृसाक्षिमततया प्रत्यगात्मनो ब्रह्मत्यापादने लाभ दर्शयन्योऽन्यथा ज्ञः स आत्मविदित्यनोक्तमात्गमित्वं सष्टीरीति-
प्रकरणम् १४]
पदयोजनिकाव्याख्यायुता।
परलोकभयं यस्य नास्ति मृत्युभयं तथा ।
तस्यात्मज्ञस्य शोच्याः स्युः सब्रह्मेन्द्रा अपीथराः २७
परलोकमयमिति ।। यस्य परलोकभयं परलोकनिमितं भयं
'किमहं साधु नाकरवं किमहं पापमकरव'मित्यादिरूपं नास्ति 'नैनं
कृताकृते तपत' इति श्रुतेः । तथा यस्य मृत्युभयं मरणभयं नास्ति
'न जीवो नियत' इति श्रुतेः । आत्मव्यतिरिक्तस्य द्वितीयस्यादर्श-
नात् । द्वितीयदर्शननिमित्तं हि भयं द्वितीयाद्वै भयं भवतीति श्रुतेः ।
तस्यात्मज्ञस्य ब्रह्मेन्द्राधा अपि ज्ञानेश्वर्यसंपन्नतया ईश्वरा अपि शोच्याः
शोचनीयाः स्युरहो एते ऐश्वर्यासक्ततया व्यग्राः कथं खस्थाः
स्युरिति । तस्माद्यः परलोकमरणनिमित्तव्यग्रताहेत्वहंकारादिशून्य-
तया ब्रह्मनिष्ठः स एवात्मविन्न विपरीत इति सिद्धम् ॥ २७ ॥
ब्रह्मेन्द्रादिभावस्य सर्वैः प्रार्थमानत्वात्कथं शोच्यतेत्याशय ब्रह्मा-
स्मज्ञानादूर्व न किमपि प्रार्यमस्तीत्याशयेनाह-
ईश्वरत्वेन किं तस्स ब्रह्मन्द्रत्वेन चा पुनः ।
तृष्णा चेत्सर्वतश्छिन्ना सर्वदैन्योद्भवाऽशुमा ॥ २८ ॥
ईश्वरत्वेनेति ॥ सर्वत्र दैन्यस्योद्भवो यस्याः सा तथा अतएवा-
शुभा पापप्रवृत्तिद्वारत्वात्सा तृष्णा चेत्सर्वतः सर्वात्मना सहमूलेन
छिन्नेत्यर्थः । तथाच श्रुतिः 'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हदि
श्रिताः। अथ मोऽमृतो भवत्यत्र ब्रह्म समश्नुत' इति ॥ २८ ॥
'निर्मम निरहंकारं यः पश्यति स पश्यती'त्युक्तं स्पष्टयन्नात्म-
जस्य लक्षणमाह-
अहमित्यात्मधीर्या च ममेयात्मीयधीरपि।
अर्थशून्ये यदा यस्य स आत्मज्ञो भवेत्तदा ॥ २९ ॥
उपदशसाहती। [खमस्मृति- अहमितीति ।। यस्य शास्त्राचार्यानुगृहीतस्य पदार्थद्वयविवेकवतो- ऽहममेति चात्मात्मीयविषयधियावर्थशू ये प्रयोजनशून्ये यदा स्याताम् । तत्प्रयुक्तव्यवहारहीन पुमान्यदा स्वादित्यर्थ । तदा स आत्मविद्भ- वेत् । देहादौ तदनुबन्धे च व्यवहारकालेऽपि पूर्ववद्वस्तुत्वोल्लेखरहिततया आत्ममात्रदर्शी सम्यगात्मविदित्यर्थ ॥ २९ ॥ यदैवमात्मज्ञान वाक्याद्भवति तदा कृतकृत्यत्वान्न तस्य कार्यशेष- ता सभवतीति प्रागुक्तमकार्यशेषत्व प्रपञ्चयति- बुद्ध्यादौ सत्युपाधौ च तथासत्यविशेपता । यस्य चेदात्मनो ज्ञाता तस्य कार्य कथं भवेत्॥३०॥ वुयादाविति ॥ जागत्वप्नयोर्बुध्यादावुपाधौ सति तथा सुपुप्ता- वसति च यस्यात्मनोऽविशेषता चेज्ज्ञाता । चेच्छब्दोऽसदेहेऽपि सदेहवचनो वेदाश्चत्प्रमाणमितिवत् । तस्याविशेपात्मजस्य कार्य कथ भवेत् । न क्थचिदित्यर्थ ॥ ३० ॥ आत्मविदो नास्ति कार्यमित्यन हेत्वन्तरमाह- प्रसन्ने विमले व्योम्नि प्रज्ञानकरसेऽदये। उत्पन्नात्मधियो चूत किमन्यत्कार्यमिप्यते ॥ ३१ ॥ प्रसन्न इति । व्योग्नि व्योमसदृशे प्रसन्ने खतो दोपरहिते विमले आगन्तुकमलवर्जिते । उक्तविशेषणद्वयसाधक क्रमेण विशेप- णद्वय प्रजानकरसेऽद्धय इति । एतस्मिन्ब्रह्मण्युत्पन्ना आत्मधीरात्मे- ति मतिरेवविध जीवात्मेति बुद्धिर्यस्य तम्यात्मवरूपनानादन्यति कार्यमिप्यते तत न निमपीत्यर्थ ॥११॥ ननु शाखाचार्यप्रसादादेव तत्त्वेऽवगम्यमानेऽपि थेयोमार्गमाप्ति- प्रकरणम् १४] पदयोजनिकान्याख्यायुता। प्रतिवन्धकस्य शत्रोः संभवातत्परिहारार्थ किमप्यनुष्ठेयं सादिति चेनेल्याह- आत्मानं सर्वभूतस्थममित्रं चात्मनोऽपि यः। पश्यन्निच्छत्यसौ नूनं शीतीकर्तुं विभावसुम् ॥३२॥ आत्मानमिति ॥ यथोष्णस्वभावस्य विभावसोः शीतखभावता- पादनं न संभाव्यते । तथा सर्वभूतात्मभूतस्य शत्रुमित्रादिसंभावना दुःसंपायेति नानुष्ठेयकल्पनावसर इत्यर्थः ।। ३२ ।। आत्मनः कर्मशेषत्वं किं सोपाधिकस्येप्यते निरुपाधिकस्य वेति विकल्प्याद्यमङ्गीकृत्य द्वितीयं दूषयति- प्रज्ञाप्राणानुकार्यात्मा छायेवाक्षादिगोचरः। ध्यायतीवेति चोक्तो हि शुद्धो मुक्तः खतो हि सः॥ प्रज्ञेति ॥ प्रज्ञा बुद्धिः । प्रज्ञाप्राणायनकर्तुं शीलमस्तीति प्रज्ञापा- जानकारी । प्रज्ञाप्राणोपाधिक इत्यर्थः । छायेव सूर्यादिप्रतिविम्बमिव जलेप्वक्षादिगोचरः इन्द्रियतद्वारकवृत्तिषु प्रतिबिम्बित आत्मा तददि- वेकात्करोतीवेति ध्यायतीव लेलायतीवेति श्रुत्योक्तस्तस्यां दशायां कर्मशेपत्वमनुवानोऽपि खतःशुद्धो मुक्तश्च हि स आत्मा भवति । उदकानुगतत्वेन सूर्यस्य कम्पादिमच्या भासमानत्वेऽपि न परमार्थतः सूर्यः कम्पादिमान्भवति तथाचोपाधिविगगे भेदविपर्यासादिविगमा- द्वारहीनं कर्मात्मतत्वविदं न ढौकत इत्यर्थः ॥ ३३ ॥ निरुपाधिकस्यात्मनो न कर्मशेषत्वमित्युक्तमुपपादयन् 'प्राणायामा न्पडाचरे दित्यादियतिधर्मविधिशेषतापि नास्यास्तीत्याह- अप्राणस्यामनस्कस्य तथाऽसंसर्गिणो दृशेः व्योमवद्यापिनो हास्य कथं कार्य भवेन्मम उपदेशसाहस्री। [खप्तस्मृति- अप्राणस्येति ॥ क्रियाशक्तिप्राणहीनस ज्ञानशक्तिमनोहीनस्स खभावतोऽसंसर्गिणोऽसङ्गस्य व्योमवदपरिच्छिन्नस्य खतश्चलनशक्ति- रहितस्येतियावत् । शेश्चिदेकरसस्यास्यैवविधस्य मम कथं कार्य भवेत् । नकथमपीत्यर्थः ॥ ३४ ॥ 'तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युज्यायोगमात्मविशुद्धय' इत्यादिभगवद्वचनान्मनःसमाधानानुष्ठाने- नात्मशुद्धिः संपाद्यावशिप्यत इत्याशङ्कय, तस्या. प्रागेव सिद्धत्वा- नेदानीमस्त्यवसर इत्यभिप्रेत्याह- असमाधि न पश्यामि निर्विकारस्य सर्वदा। ब्रह्मणो मे विशुद्धस्य शोध्यं नान्यद्विपाप्मनः ॥३५॥ असमाधिमिति । विकारो ह्यसमाधिर्नाम तद्धेतूपाधिशून्यतया सदा निर्विकारस्य तन्न पश्यामि । ब्रह्मभूतस्यातएव सर्वदा विशुद्धस्य प्रागेव विपाप्मनो नित्यनिवृतकल्मपस्य गोध्यं चान्यन्न पश्यामी- त्यर्थः ॥ ३५॥ नन्वन्यन्न पश्यामीत्ययुक्तं गन्तव्यब्रह्मलोकादेर्गमनसाधनस्याचिरा- दिमार्गस्य च ब्रह्मविदोऽपि जातव्यत्यादित्याशकय, सगुणब्रह्मविदस्त- सत्त्वेऽपि न निर्गुणब्रह्मविदस्तथात्वमिति सहेतुकमाह--- गन्तव्यं च तथा नैव सर्वगस्याचलस्य च । नोच नास्तिरो पापि निष्कलस्यागुणत्यतः ॥३६॥ गन्तव्यमिति ।। गन्तव्यमिति भाषकर्मणोलन्द्रेण ग्रहणम् । तथाच सर्वगत्येन चलनासामर्थ्यागन्तव्यं नैव पश्यामि । गमनधात्यर्थ नैव पश्यामीत्यर्थः । तथा गन्तव्यं गत्या प्राप्यं देशं स्थानविशेन पश्यामि। कुत इत्यत आह--नोभंगिति । तिर इति पुरस्तात्पश्चादक्षिणं प्रकरणम् १४ ] पदयोजनिकान्याख्यायुता। चोत्तरं च नैव पश्यामीत्यनुपगः। कुतो देशभेदाभाव इत्यत आह- निप्कलस्येति । पूर्णस्येत्यर्थः । कुतो निकलत्वं ज्ञानसुखादिगुणात्म- कावयवयोगादित्यत आह-अगुणत्वत इति । ज्ञानसुखयोः स्वरूपत्या- संसर्गिगुणस्य चासद्गमय्यासंभवाद्गुणतोऽपि विभागशून्यस्य न गन्तव्यं प्राप्यं गतिः प्राप्तिा विद्यत इति न तत्साधननिप्पादन विधानावकाश इत्यर्थः ॥ ३६ ॥ किंचाज्ञानोपाधि विनात्मनि नित्यमुक्त कस्यापि विशेपस्योत्पेक्षि- तुमशक्यत्वादज्ञानन्य च ज्ञानस्वभावे वस्तुतोऽसंभाव्यमानत्वान्न कदा- प्यात्मनः क्रियायोग्यतेति स्थिते कुत इदानीमज्ञानप्रतिभासस्याप्यभावे कर्मविधिशेषता स्यादित्यभिप्रेत्याह- चिन्मात्रज्योतिपो निसं तमस्तस्मिन्न विद्यते । कथं कार्य ममैवाद्य नित्यमुक्तत्य शिष्यते ॥ ३७ ॥ चिन्मात्रेति ॥ तस्मिन्नात्मनि तमः खरूपतः प्रतिभासतोऽपि न विद्यते। कुतः चिन्मात्रज्योतिपः।ज्योतिष्ट्वत इति भावप्रधानो निर्देशः। सुगममन्यत् ।। ३७॥ किंचाज्ञानाभावे वाह्यान्तःकरण एतत्संसर्गाभावात्तं विना प्रवृत्त्य- भावान्न भे कर्मावसर इत्याह-- अमनस्कस्य का चिन्ता क्रिया बानिन्द्रियस्य का । अप्राणो ह्यमनाः शुन्न इति सत्यं श्रुतेर्वचः ॥ ३८ ॥ अमनस्करोति ॥प्राणमनोविहीनत्वे प्रमाणमाह–अप्राणो हीति। श्रुतेर्वचः सत्यं सत्यार्थ निषितया सतःप्रमाणत्वादित्यर्थः ।। ३८ ॥ अपरानादिकालस्य विविक्तपूतादिदेशस्य प्राच्यादिदिग्विशेपस्य - -- १०४ उपदेशसाहस्री। [समस्मृति- मनोविक्षेपराहित्यराहपरागादिनिमित्स्य च प्रतीक्षाया आत्मचिन्तने कर्तव्यत्वात्कथं कार्याभाव इत्याशङ्कयाह-- अकालत्वाददेशत्वाददिक्त्यादनिमित्ततः । आत्मनो नैव कालादेरपेक्षा ध्यायतः सदा ॥ ३९ ॥ अकालत्वादिति ।। सदात्मानं ध्यायतो यतेनैव कालादेरपेक्षा- स्तीति योजना । तत्र हेतुरात्मनोऽकालत्यादित्यादिः । आत्मसरूपस्य कालायनिवन्धनवान तयाने तदपेक्षेत्यर्थः । तथाचाह भगवान्सूत्र- कारः 'यत्रैकाग्रता तत्राविशेषात्' इति ।। ३९ ॥ ब्रह्मविदो देशकालादिसव्यपेक्षे कर्मण्यपेक्षाभावेऽपि प्रयागादिती स्यादपेक्षा 'गङ्गातीरे वसेन्नित्यं भिक्षुमोक्षपरायण'इत्यादिस्मृतिविहि- तत्यादित्याशङ्कय, ब्रह्मात्मज्ञानरूपे तीर्थे साक्षान्मुक्तिहेतौ सातस्या- त्मविदो न तीर्थान्तरापेक्षास्तीत्याह- यस्मिन्देवान वेदाथ पवित्रं कुत्लमेकताम् । ब्रजेत्तन्मानसं तीर्थ यस्सिन्सात्वाऽमृतो भवेत् ॥४०॥ यसिन्निति ।। यस्मिन्ब्रह्मात्मस्फूर्तिरूपे देवास्तत्ततीर्थस्थाननिशेषा- धिष्ठातारो माधवविश्वेश्वररामेश्वरत्रिविक्रमादयः पूजादर्शनस्पर्शनसर- णादिमिर्गक्तपावनाः प्रसिद्धास्तथा वेदाश्च ऋग्यजुःसामाथर्वाग्या अध्ययनब्रह्मयजपाठानुष्ठानादिभिः पापयन्ति । तथा कृत्वं पवित्रं पावनं तीर्थविशेष हरिहरनामोच्चारणादि एतत्सर्वमेकत्वं प्रजेत् । यनि- न्सरित इव सागरेऽन्तर्भवन्तीत्यर्थः । सर्वात्मकालाविर्भावरूपत्यादिति परमो हेतुरनानुसधेयः। तन्मानसं मनमि पेदान्तमहावाक्यजनि- तान्तःकरणतिरूपे समुहमितं मानसं तीर्थ संसारपापमूलाविपाता- रकम् । तीर्थत्व स्पष्टयति-यलिनिति । यसिमाना निमरज्याद- - प्रकरणम् ११] पदयोजनिकान्याख्यायुता। १०५ कराशौ निक्षिप्तोदकविन्दुवत्तदेकतां प्राप्य इत्येतत् अमृतो भवेन्निर्वि- शेषनित्यात्मखरूप एच भवेत् । तसिंस्तीर्थ नित्यं निममस्य न तीर्थान्त- रापेक्षेति भावः । तथाच श्रुतिः शतं शुक्राणि यत्रैकं भवन्ति सर्वे वेदा यत्रैकं भवन्ति सर्वे होतारो यत्रैकं भवन्ति स मानसीन आत्मा जनानां' इति । 'यथोदकं शुद्ध शुद्धमासिक्तं ताहगेव भवति एवं मुनर्विजानत आत्मा भवति गौतमे ति च ॥ ४० ॥ एवं कृतार्थत्वापादकं ज्ञानतीर्थ केनोपायेन प्राप्यमित्यपेक्षायां पूर्वोक्तः पदार्थविवेक एव तल्लाभोपाय इति वक्तुं प्रथमं स्थूलदेहा- न्यत्वमात्मनो विशदयति- न चास्ति शब्दादिरनन्यवेदनः परस्परेणापि न चैव दृश्यते । परेण दृश्यास्तु यथा रसादयस्तथैव दृश्यत्वत एव दैहिकाः ॥४१॥ न चास्तीति । शब्दादिर्गन्धान्तो विपयोऽनन्यवेदनो न चारित । स्वयंप्रकाशस्तावन्नास्तीत्यर्थः । तथा परस्परेणापि शब्देन स्पर्शः स्पर्शन शब्द इत्येवं परस्परेणापि न चैव दृश्यते प्रकाश्यते । जडत्या- देवेत्यर्थः । दर्शनमन्तरेण व्यवहारानुपपत्तेर्दर्शनस्य स्वतः परस्परत- श्वाभावे परिशेषात्परेण खविलक्षणेनाजडेन प्रकाश्या एव । तुशब्दो- ऽवधारणार्थः । तथाच दैहिका अपि रसादयः परेण दृश्याः दृश्यत्वा- द्यथा बाह्यरसादयस्तथैवेमे तस्साचथैत्यक्षरार्थः ॥ ११ ॥ तदेवं पञ्चभूतात्मकास्थूलादेहात्तद्र्ष्टारमात्मानं विविच्य सूक्ष्मा- दपि देहातं विविनक्ति-- अहंममेयेपणयलपिक्रियासुखादयस्तददिह प्रह- उपदेशसाहस्री। [समस्मृति- उयतः । दृश्यत्ययोगाच्च परस्परेण ते न दृश्यता यान्ति ततः परो भवान् ॥ ४२ ॥ अहंममेति ॥ अहमहकार एपणयत्नविक्रियासुखादय कामप्र- यनकर्तृत्वभोकृत्वसुखदु खमोहद्वैपादयो ममेति निदिश्यमाना मनो- वृत्तयस्तद्वच्छब्दादिवन्नान्यवेदना । कुत इह व्यवहारभूमौ प्रदृश्यतो दर्शनर्मत्वाचे परस्परेणापि दृश्यता न यान्ति न प्राप्नुवन्ति । दृश्यत्व- योगादेव परिशेपातेपा दृष्टा ततस्तेभ्योऽहकारादिभ्यस्तत्सपातरूपा- ल्लिङ्गदेहादिति यावत् । मवानागा परोऽन्य इति योजना ।। १२ ॥ यद्यप्येव देहद्वयग्राहकत्वात्तदतिरिक्त एवात्मा तथापि तत्सबन्ध. प्रतीतेस्तस्य न नित्यमुत्तारूपतेत्याशङ्कयाह- अहंक्रियाद्या हि समस्त विक्रिया सकर्तृका कर्म- फलेन संहता । चितिखरूपेण समन्ततोऽवत्प्र- काश्यमानासिततात्मनो ह्यतः ॥४३॥ अहंक्रियेति ॥ अहक्रियाहकरणमममेत्येवमाद्या समस्तविक्रिया चितिस्वरूपेण चैतन्यप्रकाशात्मनाङवदणेन समन्तत प्रकाश्यमाना हि यतोऽत आत्मनोऽसितताऽपद्धता सिद्धा । विक्रियासयन्धम्यापि दृश्यत्यादृष्ट्रधर्मत्वानुपपतेर्न मुक्तिविरोध इत्यर्थ ॥ ३ ॥ एव देहद्वयाविवित्तस्याप्यात्मन प्रतिदेह परिच्छिन्नत्यान नह्मात्मना पूर्णता सिद्ध्येदित्याशङ्कयाह- दृशिखरूपेण हि सर्वदेहिनां पियद्यथा ब्याप्य म- नांस्यस्थितः । अतो न तस्मादपरोऽस्ति वेदिता परोऽपि तस्मादत एक ईश्वरः ॥ ४ ॥ दृशिखरूपेण हीति | हि यत आत्मा सर्वटेरिना मनासि प्रकरणम् १४ ] पदयोजनिकाव्यात्यायुता। १०७ शिखरूपेणैव व्याप्य घटादीनि वियदियावस्थितो न परिच्छिन्नरू- पेण । अतस्तसादात्मनश्चितिस्वरूपादपरो जीवो वेदिता नास्ति । तथा पर ईश्वरोऽपि तस्मादन्यो वेदिता नास्ति, चितिखभावत्याविशेपत्वात् तसादेकएवात्मेत्यर्थः। आत्मा न स्वरूपमेदवानुपाधिपरामर्शमन्तरे- णाविभाव्यमानभेदत्वादाकाशवदिति भावः देहद्वयसाक्षी ब्रह्मखभावश्चेदात्मा कथं तर्हि तस्य नास्तिताशङ्का केषांचिदित्याशङ्कय स्वदोपवशादेवेत्यभिप्रेत्याह- शरीरबुयोर्यदि चान्यदृश्यता निरात्मवादाः सु- निराकृता मया । परश्च शुद्धो ह्यविशुद्धिकर्मतः मुनिर्मलः सर्वगतोऽसितोऽद्वयः ॥ ४५ ॥ शरीरेति । शरीरबुझ्योः स्थूलसूक्ष्मदेहयोर्यद्यन्येन नित्यसद्रूपेण दृश्यता पूर्वोक्तन्यायेन सिद्धा तदा निरात्मवादाः शून्यक्षणिकाद्यात्म- बादा मया निराकृता एवेत्यर्थः । तथाच अविशुद्धिकराकर्मतो धर्माधर्मादिलक्षणाकर्मणः परो व्यतिरिक्तस्तत्साक्षित्वादतश्च शुद्धो- ऽकर्ताऽतश्च सुनिर्मलः कर्मफलभोगमललेशेनापि रहितः सर्वगतो. ऽपरिच्छिन्नोऽत एवासितो बन्धनशून्यश्चेत्यर्थः ।। १५ ।। गयेदेतदेवं यदि शरीरयुयोरात्मदृश्यता सिद्ध्येत्सा तु न संपति- पन्नेत्याशङ्कय तयोरात्मदृश्यत्वासावे बाधकमाह-- घटादिरूपं यदि तेन गृह्यते मनः प्रवृत्तं बहुधा स्ववृत्तिभिः । अशुद्धयचिद्रूपविकारदोपता मते- यथा वारयितुं न पार्यते ॥ ४६ ॥ घटादीति ॥ यदि ते तव मते सवृतिमिहुधा प्रवृत्तं घटादि- रूपं विषयाकारं मनोऽन्येनात्मना न गृह्यते न प्रकाश्यते तदात्मनो १०८ उपदेशसाहती। [खनस्मृति- मनोन्यत्वासिद्धावशुद्ध्यचिद्रूपविकारदोपदुष्टता गया मतेर्बुद्धखभा वारयितुं न शक्यते । तस्य साक्षित्वानभ्युपगमे सति मतिदोषाणां तस्मिन्नवश्यंभायात्तथाचानिमोक्षप्रसङ्ग इत्यर्थः । अथवा यद्यपि शरीरद्वयग्राहकतया तदन्य आत्मा नित्यसद्रूपस्तथापि दृश्यसंसर्गकृत- दोपो न परिहतुं शक्यते । खचैतन्याभेदेन हि दृश्यमवभासयन्द्रष्टा भवति । अन्यथा दृश्यस्यापरोक्षानुपपत्तेरतो विशुद्धत्वाद्यनुपपन्नमिति शङ्कते-घटादिरूपमिति । स्ववृत्तिभिर्बहुधा प्रवृत्त घटाद्याकारं मनो यदि तेन चेतनात्मना गृह्यते तदा तस्य दृश्यसंवन्धादशुद्ध्यादिदोषता चारयितुं न पशर्यते । यथा मतेश्चैतन्यससर्गाञ्चिच्छायता वारयितुं न पार्यते तद्वदित्यर्थ ॥ ४६॥ स्यादेतदेवं यदि मतिवत्सावय परिच्छिन्न परिणामि चामखरूप स्यान्नैवमात्मस्वरूपमतो नास्याशुद्ध्यादिशकावकाश इति दृष्टान्तेनो- पपादयन्नुत्तरमाह--- यथा विशुद्धं गगनं निरन्तरं न सजते नापि च लिप्यते तथा । समस्तभूतेषु सदैव तेवयं समः सदात्मा बजरोऽमरोऽभयः ॥ १७ ॥ यथा विशुद्धमिति ॥ विशुद्धं परिणामविक्रियामलरहित निर- न्तरमपरिच्छिन्नमतएव निरवयव चेति द्रव्यम् । एवविध यथा गगनं न सजते काठेन जतुवन्न सलमं भवति । नापि लिप्यते मल्लातकरसेनेव वस्खादि । तथात्मापि विशुद्धो निरन्तरो निरषयवश्य शासानिश्चिती न बुधादिषु सजते नापि सदोषेण लिप्यत इत्यर्थः । न शास्त्रप्रसिद्धि हिशब्देन द्योतयन्हेतुमाह--समतभूतेप्यिति । पदभिमानिदेवतासहितेष्वपि समस्तमतेषु अपमात्मा सदा समोहि प्रकरणम् १४] पदयोजनिकाव्याख्यायुता। यस्मात्तस्मादजरोऽमरोऽभयो नित्यशुद्ध इत्यर्थः । तथाच शास्त्रं 'यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योन्तरोयं सर्याणि भूतानि न विदर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येप त आत्मा- न्तर्याम्यमृत' इति । 'सगं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विन- श्यत्स्वविनश्यन्तं यः पश्यति स पश्यति' । 'न लिप्यते लोकदुःखेन बाह्य'इत्यादि ।॥ १७ ॥ किंच दृश्यस्य बाधितत्वादपि न तत्कृतदोपसंबन्ध आत्मनः संभा- व्यते । नहि मिथ्यार्थेन सत्यं वस्तु संसृज्यते । कथं बाधितत्वमिति चेत्प्रतिपन्नोपाधौ निषिध्यमानत्वाद्रज्जुसादिवदित्यभिप्रेत्याह- अमूर्तमूर्तानि च कर्मवासना दृशिखरूपस्य पहिः प्रकल्पिताः । अविद्यया ह्यात्मनि मूढदृष्टिभिरपोह्य नेतीत्यवशेपितो दृशि ॥४८॥ अमूर्तेति ॥ अमूर्ने च मूर्तीनि च अमूर्तमूर्तानि पञ्चमहाभूता- त्मकानि स्थूलानि 'वाव ब्रह्मणो रूपे मूर्त चैवामूर्त चेति श्रुतौ वृशिखरूपस्य ब्रह्मणः संवन्धीनि श्रुतानि । च अपरं कर्मवासनाश्रयं लिङ्गमिति यावत् । तदपि तस्य हैतस्य पुरुषस्य रूपं यथा महारजनं वास'इत्यत्रोक्तं, एतत्सर्व सकारणं मूढचुद्धिभिरविद्यया मोहरूपया आत्मनि दृशिस्त्ररूपे प्रत्यगात्मनि ब्रह्मणि प्रकल्पितं, वासनाप्रकल्पि- ताऽमूर्तमूर्तानि प्रकल्पितानीति योजना । हि यस्मादविद्ययाध्यस्त- मात्मनि सप्रपञ्चत्वं तस्मान्नेतिनेतीति वीप्सया तत्सर्वमात्मनो वहिर- पोह्यात्मविशेषणतारूप बाधित्वा केवलं दृशिश्चिन्मान एवावशेपितः 'सत्यस्य सत्यम्' इतिश्रुत्लेति योजना । 'यदा प्रकल्पिता' इति विस- र्गान्तपाठस्तदैवं योजना-अविद्यया मूढदृष्टिमिरात्मनि प्रत्यग्रूपे उपदेशसाहती। [सनस्मृति- प्रकल्पिता आरोपिताः कर्मवासना अमूर्तमूर्तानि च भूतानि दृशि- खरूपस्य प्रत्यक्खरूपस्य ब्रह्मणो वहिनेतिनेतीत्यपोझ दृशिरेवावो- पितो निषेधावाघभूतः श्रुत्या हि यस्मात्तस्मान्नास्त्यात्मनि दोषसंसर्ग इति ।। ४८॥ स्थूलसूक्ष्मप्रपञ्चस्य श्रुत्या बाधमुक्त्वा दृश्यत्वादिति युत्यापि वाघमाह-- प्रबोधरूपं मनसोऽर्थयोगजं स्मृतौ च सुप्तस्य च दृश्यतोऽर्थवत्। तथैव देहातिमानतः पृथग्दशेः शरीरं च मनश्च दृश्यतः ॥४९॥ प्रबोधेति ॥ अर्थयोगाद्विपयसंबन्धाज्जातं मनसः पयोधरूपं विषयाकारवृत्तिरूपं यत्तस्मृतौ स्मृत्यवस्थाया सुप्तस्य पुंसः स्वभाव- स्थाया चार्थवद कारमेव दृश्यते । तद्यथा स्वमस्मृत्योरर्थाभावेऽप्यर्था- कारं दृश्यमानमात्मनः पृथगेव नात्मविशेषणं तदृश्यत्वात्तौर दृश्यतो दृश्यत्वहेतोः शरीरं मनश्च देहातिमानतो देहप्रतिमान च तसेः साविभक्तिकत्यागीकारात्मथमार्थः स इह गृह्यते । देद्वय वासनारूपं च दशेरात्मनः पृथक् न दृशिविशेपणमिति योजना । अत आत्मन्येव दृश्यस्यात्मनि निषेघान्मिथ्यात्वं शुक्तिरूप्यादिवत्मि- द्धमिति भावः ॥१९॥ गनु श्रुत्या यद्यध्यस्तनिषेधेनात्मा प्रतिपाद्यते तदा निवृउसंसार- त्यविशेपयोगाद्विक्रियावत्वेनानित्यत्वादिदोपप्रसङ्ग इतिचेन्नत्याह- स्वभावशुद्धे गगने घनादिके मलेऽपयाते सति चाविशेषता । यथाच तदन्छुर्तिवारितद्वये सदा- विशेपो गगनोपमे दृशौ ॥ ५० ॥ - प्रकरणम् १५ पदयोजनिकाव्याख्यायुता। ‘स्वभावेति । यथा खभावशुद्धे शुद्धस्वभावे गगने अधिष्ठाने धनादिके मले सति तस्मिन्नपयाते वाऽविशेषता न विशेषः कश्चि- दस्ति । अविक्रियमेव सदा गगनमित्यर्थः । तद्वदृशावात्मन्यधिष्ठाने गगनोपमे स्वभावशुद्धे श्रुत्या वारितं याधितं द्वयं यसिंस्तस्मिन्सदेवा- विशेषः कूटस्थतेति योजना । तथा संसारनिवृत्तमिथ्यार्थप्रतियोगिकाया अधिष्ठानहगात्मव्यतिरेकेणानिरूपणान्न कोऽपि विशेष इति भावः।।५०॥ इति चतुर्दशं स्वप्नस्मृतिप्रकरणम् ॥ १४ ।। - नान्यदन्यत्प्रकरणम् १५ ननु स्वभावशुद्ध आत्मा तथासति साधनवैयर्थ्याकिंतु संसारि- स्वभाव एव सन् ज्ञानध्यानादिसाधनानुष्ठानेन खभावशुद्धब्रह्मखरूपो भविष्यतीति केचिदेकदेशीयाः प्रतिपेदिरे तन्न श्रद्धेयं मुगुक्षुभि- स्तस्य श्रुतियुक्तिवाधितत्वादित्याह- नान्यदन्यद्भवेद्यस्मानान्यत्किंचिद्विचिन्तयेत् । अन्यस्यान्यत्वभावे हि नाशस्तस्य ध्रुवो भवेत् ॥१॥ नान्यदिति ॥ जीवब्रह्मणोरत्यन्तं भेद इप्यते किंवा भेदाभेदौ । नान्त्यो विरुद्धसभावतया ब्रह्माहगित्येकरूपध्यानज्ञानयोरसंभवात्तदसं. भवे चासंसारिब्रह्मभावफलानिप्पतेरिति मनसि निधायाये दोपमाह- नान्यदन्यद्भवेद्यस्मादिति । यस्मादन्यजीवरूपं स्थितं सदन्या न भवेत्तपस्थितिविरोधात् । तथा तदेव ब्रह्मणोऽन्यजीवरूपं वस्तु नष्ट सदन्यद्रता न भवेन्नष्टत्वादेव तस्य ब्रह्मभावं प्राप्तुरभावादिति योजना ब्रीव सन्ब्रह्माप्येतीति श्रुतिविरोधः स्फुट एवेति नात्रोदाहृतः यस्गादेवं श्रुतियुक्तिविरुद्धमिदं मतं तरसात्किंचिदीपन्मात्रमप्यन्यद्र-
११२
उपदेशसाहती। [नान्यदन्यत्-
होति न विचिन्तयेन्मुमुक्षुरिति शेषः। कि त्वमेव ब्रह्म ब्रह्मैवाहमिति
भेदोपमर्देनैकरूपमेवात्मवस्तु चिन्तयेदित्यर्थः । नन्वन्यस्याप्यन्यात्मता
दृष्टा साधनविशेषसाध्या यथौषधविशेषयोगाचानादेरपि सुवर्णात्मता
तदिहापि स्यादित्याशङ्कयाह---अन्यस्येति । जीवस्य सविरुद्धख-
भावस्यान्यन्ब्रह्मण्येकीभावे तप्तायोगोलकप्रविष्टोदकबिन्दुवत्तस्य नाशो
ध्रुवो भवेत् । तथाच न ब्रह्मभावः पुरुषार्थः किंत्वनार्थः स्यादि-
त्यर्थः । दृष्टान्तोऽसंप्रतिपन्नो वस्त्ररूपाभिभावकनील्यादिवत् , रस.
विशेषस्य ताम्ररूपामिमात्रकमात्रत्वाकालान्तरे सुवर्णाकारतापगम-
दर्शनाच्च ताम्रादेस्ततश्च श्रममानं तदित्यभिप्रायः ॥ १ ॥
ननु यद्येवमन्यन्न ध्येयं स्वात्मनि च ध्यानं न संभवत्येकशि-
न्ध्यातृध्येयभावायोगात्कथं तर्हि निदिध्यासनविधिरिति चेदन्यथैवो-
पपतेर्न तदर्थ भेद आस्थेय इत्याह-
स्मरतो दृश्यते दृष्टं पटे चित्रमिवार्पितम् ।
यत्र येन च तौ ज्ञेयो सत्त्वक्षेत्रज्ञसंजको ॥२॥
सरत इति ॥ दृष्टं नीलपीतादि सरतः पुंसो यत्रान्तःकरणे
तद्वासनारूपं पटेऽर्पित चित्रमिच दृश्यते येन च चैतन्यारमना दृश्यते
उपलभ्यते तो सत्त्वक्षेत्रज्ञसंज्ञको यत्र दृश्यते तत्सत्त्वं येन दृश्यते
स क्षेत्रज्ञ इत्यर्थः । तथाचात्मा निदिध्यासितव्य इति विपिना नैर-
न्तर्येण त्वंपदार्थविवेकसंपादनमेव कर्तव्यतयोच्यते विविक्तत्वमर्थ-
सैव ममत्वादहमलामीत्यपरोक्षानुभवसंमवासंसारनिविफलसिद्धिः ।
अन्यभावनायां तु प्रागुक्तन्यायनान्यसान्वात्मतायोगारांसारानियचे.
निष्फलो विधिः स्यादिति भावः ॥ २॥
प्रकरणम् १५] , पदयोजनिकाव्याख्यायुता । ११३ अन्तःकरणस्याप्रत्यक्षत्वात्कय स्मृत्यवस्थायां तस्मिन्नीलपीताद्युप- लम्भ इत्यत आह- फलान्तं चानुभूतं यद्युतं कर्नादिकारकैः । सार्यमाणं हि कर्मस्थं पूर्व कमव तचितः ।। ३ ।। फलान्तमिति ।। फलान्तं सुखादिफलावसानं कादिकारकैयुतं यद्वैतं पूर्वमनुभूतं तदिदानी स्मर्यमाणं कर्मस्थं दृश्यनिष्ठं दृश्यते न द्रष्ट्रनिष्ठम् । हि यस्मात्तस्मात्पूर्वमपि तत्सर्यमाणस्याधिकरणमन्तःकरणं नित आत्मनः कर्मैव दृश्यमेवेत्यर्थः ॥ अयंभावः-पूर्वानुभूतविप- याकारा हि वृत्तिरन्तःकरणपरिणामात्मिका स्मृतिरित्युच्यते । तस्यां हि विपयो भासमानः साश्रयो भासते । नहि तदा साक्षिणानुभूय- मानस्य विपयस्य वहिराश्रयेऽवस्थानमस्ति । तथाचेदं सरामीति परा- मर्शयोग्यतया दृश्यस्थतयानुभवस्यावश्यंभावाचदा चित्तमेव सर्य- माणाधिकरणतया दृश्यत इति सिद्धमन्तःकरणस्य साक्षिप्रत्यक्षत्व- मिति ॥ ३॥ आत्मैव द्रष्टा दृश्यं चेति भाटा मेनिरेऽतः स्वगतमेव वासनारूप- मात्मा पश्यतीतीदं स्मरामीत्यनुभवस्यान्यथासिद्धत्वान्नान्तःकरणस्य साक्षिप्रत्यक्षतेत्याशङ्कयाह- द्रष्टुश्चान्यद्भवेदृश्यं दृश्यत्वाद्धटवत्सदा । दृश्यादृष्टा सजातीयो न धीवत्साक्षितान्यथा ॥४॥ द्रष्टुश्चेति ॥ विमतं दृश्यं द्रष्टुरत्यन्तं भिन्नं दृश्यत्वान्बटवदित्युक्ते द्रष्टदृश्ययोदपि परिणामत्वेन साजात्यसंभवामुष्टः सजातीयमेतदृश्य- मित्याशङ्कयाह---दृश्यादिति । द्रष्टा सदैव दृश्यासजातीयो दृश्यांश- साचेतनत्वादात्मत्वानुपपत्तेरित्यर्थः । विपक्षे दोपमाह-न पीवदिति ।
उपदेशसाहस्री । [नान्यदन्यत्- अन्यथा द्रष्टदृश्ययोरसजातीयत्वानगीकारे द्रष्टुः परिणामित्वाद्धीव- साक्षिता आत्मनो न स्यादित्यर्थः ॥ ४ ॥ ननु भवत्येवात्मा साक्षी तस्य ब्राह्मण्यादिजातिमत्तया सविशेष- त्वात्कर्माधिकारित्वेन परिणामित्वोपपरित्याशङ्कयाह- खात्मबुद्धिमपेक्ष्यासौ विधीनां स्यात्प्रयोजकः । जासादिः शववत्तेन तद्वन्नानात्मतान्यथा ॥ ५ ॥ खात्मेति ।। असौ जात्यादिाह्मणत्वादिः । आदिशब्दाद्वयोव- स्थादि गृह्यते । वात्मबुद्धि खसिन्नात्मीयामिमानलक्षणां मिथ्यादृष्टि- मपेक्ष्य विधीनां प्रयोजकः प्रवर्तकः स्यान्नान्यथा । यथा शव उत्क्रान्त- प्राणो देहो मम माता मम पिता येत्यध्यासानुसारेण संस्कारप्रयो- जको दृश्यते तदभावे न दृश्यत इति योजना । तेन हेतुना तद्वच्छ- चवदेव जात्यादिरात्मधर्मो न भवतीत्यर्थः । अन्यथा जात्यादिमत्त्वे- (वात्मनो घटादिवदनात्मता प्रसज्येवेति योजनीयम् । तस्मात्साये- वात्मा न कर्माधिकारितया परिणामीति भावः ॥ ५॥ ननु नाध्यासनिबन्धनं कर्तृत्वं विदुषोऽपि मोक्षाय क्रियानुष्ठा- नादितिचेन्नेत्याह- न प्रियाप्रिय इत्युक्तेर्नादेहत्त्वं क्रियाफलम् । देहयोगः क्रियाहेतुस्तस्माद्विद्वान्क्रियास्त्यजेत् ॥६॥ न प्रियेति ॥ अदेहत्मशरीरत्वं हि मोक्षस्तत्र क्रियाफलं तु मुखदु खे प्रसिद्ध । ते तु नाशरीरस्य दृष्टे श्रुते वा । 'अशरीरं वाव सन्तं न मियाप्रिये स्पृशत' इत्युक्तेः श्रुत्यैवमुक्तवादित्यर्थः। क्रिया हेतुर्यस्य सः क्रियाहेतुर्देहयोगः, क्रियया देहसपन्ध एव साध्यो न मोक्ष इत्यर्थः । यस्सादेवं तस्माद्विद्वान फर्मसाध्या मुकिः किंतु .
प्रकरणम् १५] पदयोजनिकाव्याख्यायुता। ज्ञानैकसाध्येति जानन् क्रियाः सर्वाणि साहंकाराणि कर्माणि त्यजेत्, संन्यस्स श्रवणादिनिष्ठो भवेदित्यर्थः ॥ ६ ॥ ननु सर्वेषां कर्मणामात्मकर्तव्यत्वप्रतीतेन विद्वान्क्रियास्त्यक्तुं शनुयादिति चेन्नेत्याह- कर्मखात्मा खतन्त्रवेनिवृत्तं च तथेप्यताम् । अदेहत्ये फलेऽकार्ये ज्ञाते कुर्यात्कथं क्रियाः ॥७॥ कर्मस्विति ॥ आत्मा चेत्कर्मसु खतत्रः कर्ता तर्हि निवृतं च कर्मत्यागरूपं च तथेप्यताम् । यथा रागादिमान् प्रवृत्तिलक्षणे कर्मणि स्वतन्त्रस्तथा विशुद्धसत्त्वो वीतरागस्तत्त्यागेऽपि स्वतन्त्र इप्यता, कर्मसाध्यफलाभिलापाभावे कर्मत्यागस्यार्थप्राप्तत्वादित्यर्थः । एतदेव स्पष्टयति---अदेहत्व इति । देहसंबन्धशून्ये फले मोक्षलक्षणे अकार्ये केनापि कर्मणाऽसाध्ये शास्त्रादिना ज्ञाते सति क्रियाः कथं कुर्यान्न कुर्यादेव, ताभिः प्रयोजनाभावादित्यर्थः ॥ ७ ॥ किं क्रियापरित्यागमात्रेणाकार्य विदेहकैवल्यं प्राप्यते नेत्याह- जात्यादीन्संपरित्यज्य निमित्तं कर्मणां बुधः । कर्म हेतुविरुद्धं यत्स्वरूपं शास्त्रतः स्मरेत् ॥ ८ ॥ जात्यादीनिति ॥ बुधः पण्डितो बुद्धिमान् कर्मणां निमित्तभू- ताजात्यादीन्संपरित्यज्य जात्याद्यभिमान परित्यज्य यत्स्वरूपं कर्म हेतुविरुद्धं कर्म निमित्तोपमर्दकं शुद्धात्मस्वरूपं तच्छासतो यथा शास्त्रोक्तं तथा सरेत् , अनुचिन्तयेदित्यर्थः ॥ ८ ॥ शास्त्रमेवोदाहरन्मर्तव्यमात्मरूपं विशदयति- आत्मैकः सर्वभूतेषु तानि तस्मिंश्च से यथा । पर्यगायोमवत्सर्वं शुक्र दीसिमदिप्यते ॥९॥ .
उपदेशसाहस्री। [ नान्यदन्यत्-
आत्मैक इत्यादिना ॥ 'यस्तु सर्वाणि भूतान्यात्मन्येवानुप-
श्यति । सर्वभूतेषु चात्मान ततो न विजुगुप्सत'इति मन्त्रार्थ
पूर्वाधेनोच्यते । ‘स पर्यगाच्छुकमकायमत्रणमत्राविर शुद्धमपापविद्ध'
मिति मन्त्रार्थ सार्यश्लोकेनाह-पर्यगादिति । एषाक्षरयोजना । सर्व-
भूतेप्वमेक एवात्मा न चेतनभेदोऽस्ति । तर्हि किं भूतान्यधिकरण
मात्मनो नेत्याह--तानीति । तानि च भूतानि तस्मिन्नात्मन्येवा-
ध्यस्तानि न तत पृथवर्तन्ते । तथाच खाध्यस्तसकलविकारानुस्यू-
तसचास्फूर्तिरूपो विकारोपमर्दैनानुसधेय इत्यर्थ । खे यथेति ।
अन्त सुपिररूपेण पहिरवकाशरूपेण वर्तमाने आकाशे यथा भूतस-
वन्धस्तथेत्यर्थ । पर्यगादात्मा व्योमवत्स्वसत्तामात्रेण परि समन्ताद-
गाद्गतवान् । सर्वमशेपमात्मना न किंचिदव्याप्तमस्तीत्यर्थ । तथाच
ब्राह्मण 'नैनेन किंचनानादृत नैनेन किंचनासवृत'मिति । शुक्रमिति
मन्त्रपद तस्य व्याख्यान दीप्तिमदिति । प्रकाशस्वभाव शुद्ध तदात्म-
खरूपमिप्यत इत्यर्थ ॥९॥
'अव्रणमस्लाविर'इति पदयोरर्थमाह-
व्रणलापोरभावन स्थूल देहं निवारयेत् ।
शुद्धापापतयालेपं लिङ्गं चाकायमित्युत ॥ १० ॥
व्रणेति ॥ क्षतशिराजालनिरासेन स्थूर देहात्मत्वमात्मनोपोहामि-
त्यर्थ । 'शुद्धमपापविद्ध'मित्यनयोरर्थमाह-शुद्धेति । शुद्ध रागा-
दिदोषहीनमत एवापाप पुण्यपापहीन तस्मात्सारणाभायादेव सुबदु -
खादितदनुभवसस्कारलेपहीनमित्यर्थ । अकायमिति मापदेन
सूक्ष्मदेहात्मता निरसनीयेत्या--लिज मिति । निवारयेदिति सा
गानुपद्न । म्थूर सूक्ष्मदेहतकार्यतद्वामनायो व्यात मग यो-
अरिच्छित आत्मेति सता चिन्तयेदित्यर्थ ॥१०॥
प्रकरणम् १५] पदयोजनिकान्याख्यायुता। ११७ य एवं यथोक्तमात्मानं वेत्ति स ब्रह्मविदामुत्तम इत्याह-- चासुदेवो यथावत्ये खदेहे चाब्रवीत्समम् । तद्वद्वेत्ति य आत्मानं समं स ब्रह्मवित्तमः ॥ ११ ॥ वासुदेव इति ॥ वासुदेवो भगवान्कृष्णोऽश्वत्थे निकृष्टोपाधौ खदेहे चावि तविज्ञानैश्चर्यशक्तिमदात्माधिष्ठिते उत्कृष्टोपाधौ च यथा सममविशिष्टमात्मानमब्रवीत् 'अश्वत्थः सर्ववृक्षाणामिति, 'वृष्णीनां वासुदेवोऽमी तिच, तद्वद्य आत्मानं सममुपाधिकृतवैपन्या- पोहेनैकरूपं वेति सोऽतिशयेन ब्रह्मविदित्यर्थः ॥ ११॥ वासुदेवस्य युक्तं सर्वत्र समात्मदर्शनं तम्योपाधिषु ममाहंकारर- हितत्यानतु मुमुक्षोस्तस्य तद्वैपरीत्यादित्यत आह-~- यथा ह्यन्यशरीरेपु ममाहन्ता न चेष्यते । अस्मिंश्चापि तथा देहे धीसाक्षित्वाविशेषतः॥१२॥ यथा हीति ॥ अन्यशरीरेषु बहिश्यमानेषु देहेषु यथा ममाहन्ता ममाहमोभावो न चेप्यते तस्य दृश्यत्वेनानात्मत्वनिश्चयात्तथाऽस्मि- श्चापि सत्वाभिमते देहे ममाहन्ता नेप्यते । कुतः। घीसाक्षित्वावि. उभयत्र देहाकारपरिणतबुद्धिसाक्षित्वाविशेषादित्यर्थः । तथाचात्मतत्त्वालोचनायामहंकारादेरनवसरत्वाद्वासुदेववत्समात्मदर्शनं युक्तमेवेति भावः ॥ १२ ॥. रागद्वेषमयोपलम्मान्नास्ति मुमुक्षोरमिमानाभाव इतिचेन्नेत्याह--- रूपसंस्कारतुल्याधी रागद्वेपो भयं च यत् । गृह्यते धीश्रयं तस्माज्जाता शुद्धोऽभयः सदा ॥१३॥ रूपेति ॥ नीलादिरूपसंस्कारेण तुल्यः समान आधिः आश्रयो ययोस्तौ रागद्वेपो रूपसंस्कारतुल्याधी यञ्च भयं तदपि तत्समाना- शेपतः, उपदेशसाहस्री। [ नान्यदन्यत्- श्रयमिति । संस्कारो नाम खाश्रयस्य प्रागुभृतावस्थासमानावस्थान्त- रापादकोऽतीन्द्रियो धर्मः । नतश्चायमर्थः-~-रूपाद्याकारपरिणतान्तः- करणे हि रूपादिसंस्कारः पुनरपि रूपाद्याकारपरिणामहेतुर्विद्यते । तत्रैव च रागद्वेषौ रूपादिदर्शननिमित्तौ । तन्निमित्तकं च भयं तत्रैव । 'कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिही(भीरित्येतत्सर्व मन एवे'तिश्रुतेः । यस्माद्धीश्रयं बुद्धिसंश्रयमेव रागद्वेषौ भयं चेति त्रयमात्मना गृह्यते नात्मसंश्रयं तस्माज्ज्ञाता शुद्धो रागादिरहितो- ऽभयश्च सदेति ॥ १३ ॥ ननु सदा शुद्ध आत्मा किंतु 'यथाक्रतुरसिंल्लोके पुरुषो भाति तथेतः प्रेत्य भवति' इति श्रुतेः 'यं यं वापि स्मरन्मावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा सद्भावभावित इति स्मृतेश्च पूर्वमशुद्धोऽपि पुरुषो ब्रह्मभावनया शुद्धः पश्चाद्ब्रह्म भविष्यतीत्याश- यन्मनास्तन्मयोऽन्यत्वे नात्मत्वाप्ती क्रियात्मनि । आत्मले वानपेक्षत्वात्सापेक्षं हि न तत्खयम् ॥१४॥ यन्मना इति ॥ यसिन्ध्येये देवादौ मनो यस्य स यन्मना ध्यायी पुरुषः स तन्मयो ध्येयदेवादिमयो भवति । ध्यातृव्येययोर- न्यत्वेसति ध्यानझियायास्तत्रार्थयत्त्यसंभवादित्यर्थः । न पुनराम- त्याप्तौ आत्मस्वरूपावस्थानप्राप्त्यर्थमात्मनि क्रिया ध्यानादिरूपापेक्ष्यत इत्यर्थः । तत्र हेतुः--आत्मत्वेति । मोक्षरूपस्य ब्रह्मण आत्मत्वेतति तख चतुर्विधक्रियाफलविलक्षणत्वारिक्रयाया अनपेक्षत्वादित्यर्थः । मोहमानव्यवपानाचात्र न क्रियापेक्षेति पकारार्थः । विपक्षे दोषमाह- सापेक्षं हीति । यदि फियासापेक्ष कैवल्यं भवेदि तत्सयमात्मरूपं - प्रकरणम् १५] पदयोजनिकान्याख्यायुता। नं स्यात् । क्रियासाध्यस्यानात्मत्वादनित्यत्वाचेत्यर्थः । तस्मात्सदा शुद्ध एवात्मा तस्मिन्नशुद्ध्यामासो मिथ्याध्यास इति भावः ॥ १४ ॥ विभागादिमलाभावाचिदेकरसत्याचात्मा सदाशुद्ध एवाभ्युपेयं इत्याह- खमिवैकरसा ज्ञप्तिरविभक्काजराऽमला । चक्षुराद्युपधानात्सा विपरीता विभाव्यते ॥ १५ ॥ स्वमिवेति ॥ यद्येवंखभावैपा ज्ञप्तिस्तर्हि तस्यां जन्मविनाशभेद- प्रतिभासाः कथमित्याशङ्कय चक्षुराद्युपाधिसंसर्गदोपादित्याह-चक्षु- रादीति ॥१५॥ आगनः प्रतिपादितममलत्वं विशदयति- दृश्यत्यादहमित्येपो नात्मधर्मो घटादिवत् । तथान्ये प्रत्यया ज्ञेया दोपाश्चात्माऽमलो ह्यतः॥१६॥ दृश्यत्वादिति ॥ अहमित्येपोऽहमिति प्रत्ययो नात्मधर्मो नात्म- निष्ठो दृश्यत्वाद्धटादिवत्तथान्येऽपि प्रत्ययाः परिणामा दोपाः दोषरूपा रागद्वेषादयोऽनात्मधर्मा ज्ञेयाः। हि यस्मादत आत्माऽमलो हि निर्मल एवेत्यर्थः ॥ १६ ॥ अहंकारादीनामात्मधर्मत्वाभावेऽपि नात्मनो विशुद्धिः सिध्यति विकारित्यात्परिच्छिन्नत्वाचेत्याशङ्कयाह- सर्वप्रत्ययसाक्षित्वादयिकारी च सर्वगः । विक्रियेत यदि द्रष्टा बुद्धादीवाल्पविद्भवेत् ॥ १७ ॥ सर्वप्रत्ययेति ॥ विपक्षे दोषमाह-विक्रियेतेति । विक्रियेत परिच्छिन्नो वा यद्यात्मां तदाल्पविद्विपयमात्रावभासको भवेहुल्या. दिवढद्धिचित्तमनोवदित्यक्षरार्थः । बुच्यादिशब्देन तद्गतामासो उपदेशसाहस्री। [नान्यदन्यद- लक्ष्यते अन्यथा स्वरूपतो चेतनत्वाद्वेदनयोगवत्त्वेनाल्पवित्ववचन- मनुपपन्नं स्यात्तत्र बुद्धे. साभासाया विषयावमासनमाने उपक्षीणपरि- गामाया यथापूर्वापरानुभूतितदवस्था तत्प्रचारानुसधानाभावो विक्रि- यावत्त्वात्तथा द्रष्टुरपि विक्रियावत्त्वेऽनुसधानाभावप्रसङ्गात्सर्वव्यवहार- विलोपप्रसङ्ग इति भाव ॥ १७ ॥ द्रष्टुरात्मनोऽपि बुद्धिवदल्पवित्वमेव ज्ञानस्य साधनाधीनस्योत्पत्ति- विनाशवत्वादितिचेन्नेत्याह- न रदिर्तृप्यते द्रष्टुश्चक्षुरादेर्यथैव तत् । नहि द्रष्टुरिति शुक्तं तरमाद्रष्टा सदैकदृक् ॥ १८॥ न दृष्टिरिति । यथैव चक्षुरादिद्वारकदृष्टिलृप्यते परिणामित्वात- था द्रष्टुरात्मनो दृपिर्लप्यते अपरिणाम्यात्मखरूपत्वात्तस्या इत्यर्थ । तदृष्टेनित्यत्व नहि द्रष्टुईष्टेपिपरिलोपो विद्यतेऽविनाशित्यादिति हि श्रुत्योक्तमित्यर्थ । यस्मात्प्रमाणसिद्धमिद तमादित्यर्थ । सदेकडक एकरूपदृष्टिस्वभाव इत्यर्थ । 'सदैकमुगितिपाठे मुझे पश्यतीति भुक् साक्षीत्यर्थ ॥१८॥ यस्मादेवमात्मा शुद्धखभावोऽपि सन्नुपाधिसबन्धादन्यथा प्रतीयते तस्मादात्मान ब्रह्मत्वेन प्रतिपतु पदार्थविवेक कुर्यान्मुमुक्षुरित्याह-- संघातो वास्मि भूतानां करणानां तथैव च । व्यस्तं पान्यतमो वास्मि को वास्मीति विचारयेत् १९ संघातो वेति । अयमर्थ --अहमिति तावदात्मावभासते । स भासमानो मनुष्य कृश स्थूल' इत्यादौ भूतसघातात्मकदेहरूप स्फुरति । तदिदमुच्यते सघातो वारिस भूतानामिति । द्रष्टा श्रोता रसयिता फाणो बधिर इति करणेप्वयमातेसो तथाह प्रकरणम् १५] पदयोजनिकाच्याख्यायुता । १२१ दृश्यते अन्तःकरणसंघातो वाहमिति । तत्रापि पृथक्पृथगेवाह- कारदर्शनाव्यस्तमेकैकं चेन्द्रियमहमस्मि । अथवैकस्सिन्देहेऽनेकात्मत्वे कदाचिद्वैमत्यसंभवाद्धोगव्यवस्थानुपपत्तेरन्यतमो वास्मीन्द्रियसंघाताद- न्यो वा तदधिष्ठातास्मि । यद्यन्यतमस्तर्हि स को वान्तःकरणप्राणाद्यन्य- तमः किं वा तत्साक्षी तद्विलक्षणस्वभाव इति विचारयेत् ॥ १९॥ विचारफलं पदार्थविवेकं कथयति- व्यस्तं नाहं समस्त वा भूतमिन्द्रियमेव वा । शेयत्वात्करणत्वाच ज्ञातान्योऽसाद्धटादिवत् ॥२०॥ व्यस्तं नाहमिति ।। भूतं चेन्द्रियं या समस्तं व्यस्तं वा नाहमसि ज्ञेयत्वादचेतनत्वाद्धटादिवत् , करणत्वात्कुठारादिवदिति यथायोगं योज्यम् । तस्माज्ज्ञाता चेतनोऽन्योऽन्तःकरणप्राणादिभ्योऽप्यचेतनेभ्य इति द्रष्पृश्यान्वयव्यतिरेकालोचनेन विवेकः कार्य इत्यर्थः ॥ २०॥ इदानीं साक्षिसाक्ष्यान्वयव्यतिरेकालोचनेनावस्थात्रयविवेकद्वारा तत्साक्षिणस्तुरीयस्याधिगमप्रकारमाह- आत्मारिन्धना बुद्धिरविद्याकामकर्मभिः । दीपिता प्रज्वलत्येपा द्वारैः श्रोत्रादिभिः सदा ॥२१॥ आत्मामेरित्यादिना ॥ तत्रैवं सतीत्यतः प्राक्तनैःश्लोकैः । आत्मै- याग्निस्तस्येन्धना इध्यते प्रकाश्यते व्यवहारयोग्यः क्रियते अनयेती- न्धना बुद्धिः आत्मचैतन्यस्य विशेपाकारतयाभिव्यक्तिकारणभूतेत्यर्थः । साविद्याकामकर्ममिर्दीपिता उत्तेजिता वायुनेवाग्मिस्थामिन्धनमाध्माता सती प्रज्वलति चैतन्यग्रस्ततया प्रकागमाना जायतेऽभिव्यक्ताग्निना दह्यमानमिन्धनमिवेत्यर्थः । गवाक्षेभ्यो निःसृतदीर्घप्रमान्यायेन श्रोत्रादिभिर्निःसृता सती सदा प्रज्वलत्येपेति योजना । अत्राग्नी- .. ।
-- १२२ उपदेशसाहसी। [नान्यदन्यत्- न्यनादिरूपकनिर्देशप्रयोजनं व्यवहारकाले विषयग्रहणस्य होमत्वमा- वना तत्फलं च विपये सक्तिनिवृत्तिरिति द्रष्टव्यम् ॥ २१ ॥ एवंविधबुधवखा जागरणं तस्यामात्मा स्थूलपदार्थमुभव- तीत्याह- दक्षिणाक्षिप्रधानेषु यदा बुद्धिविचेष्टते । विषयहविपा दीप्ता ह्यात्माग्निः स्थूलभुक्तदा ॥२२॥ दक्षिणाक्षीति ॥ दक्षिणस्याहस्स पुरुषे श्रेष्ठत्वमसिद्धेरिंद विशेषणम् । दक्षिणमक्षि प्रधान मुख्यं येषामिन्द्रियाणां तेषु बुद्धिर्यदा विचेष्टते व्यापारवती भवति हविःस्थानीयैर्विषयैदीसा विषयं व्याप्य तदाकारेण दीप्यमाना सतीति यावत् । तदात्माग्निः स्थूलभुक् स्थूलवि. पयाणा भोका जागर्तीत्युच्यत इत्यर्थः ॥ २२ ॥ रूपकनिरूपणफलं स्पष्टयति- हूयन्ते तु हवींपीति रूपादिग्रहणे स्मरन् । अरागद्वेष आत्मानौ जाग्रहोपैन लिप्यते ॥ २३ ॥ हृयन्त इति ॥ रूपादिग्रहणे विषयग्रहणसमये अरागद्वेष, शोभ- नाशोभनाध्यासेन रागद्वेषावकुर्वन् हवीपीमान्यात्मासौ हुयन्त इति सरन्ध्यायनात्मा जाग्रदोपैर्विषयोपलब्धिनिबन्धनैः पुण्यापुण्यलक्षणैर्न लिप्यते न समिप्यत इत्यर्थः ॥२३॥ इदानी खप्नावस्थामाह---
,
प्रकरणम् १५]
पदयोजनिकाव्याख्यायुता। १२३
तां विपयाकारां पश्यस्तैजस इत्युक्तो विद्वद्भिः । तेजसि वासनामये
विषयेऽभिव्यक्त इति व्युत्पत्तेरित्यर्थः । तत्र भासमानकर्मसुखदुःखा-
दीनां मनोमानत्वात्तस्य च दृश्यत्वेनैव तदावस्थानादात्मन उपाध्य-
न्तरामाचे सति बाह्यस्य चादित्यादिज्योतिपस्तदानीमुपरमादात्मैव
स्वयंज्योतिः सन्प्रकाशिता साक्षी भवतीत्यर्थः । तथाच श्रुतिः 'दृष्ट्दैव
पुण्यं च पापं चेति, 'अत्रायं पुरुषः खयंज्योतिर्भवतीति च ॥२४॥
सुपुप्तिमाह--
विपया वासना यापि चोद्यन्ते नैव कर्मभिः ।
यदा बुद्धौ तदा ज्ञेयः प्राज्ञ आत्मा बनन्यदृक् ॥२५॥
विपया इति ॥ यदा बुद्धायन्तःकरणे विषयाः स्थूलाः वास-
नाश्च सूक्ष्माः स्वमदृश्याश्च कर्मभिर्न चोद्यन्ते नोद्भूताः क्रियन्ते
तदात्मा प्राज्ञो यस्तत्संज्ञकस्तदा भवतीत्यर्थः । मज्ञातिशयात्तदा प्राज्ञ
इति व्युत्पत्तिमभिप्रेत्य विशिनष्टि-अनन्यगिति । अन्यदात्मव्य-
तिरिक्तं विपयं वासनां वा न पश्यतीत्यनन्यहकू, अपरिच्छिन्नप्रज्ञ
इत्यर्थः ॥ २५॥
एवमवस्थात्रयं तदवस्खे चात्मानं द्रदृदृश्यभावेन विविच्यैदानीम-
मिमानिसहितावस्थात्रयसाक्षितया विश्वादिवयापेक्षया तुरीयं प्रत्यञ्च-
मात्मानं नित्यविज्ञप्सिसभावमुपलम्भयति--
मनोवुद्धीन्द्रियाणां या अवस्थाः कर्मचोदिताः।
चैतन्येनेच भास्यन्ते रविणेव घटादयः ॥ २६ ॥
मनोबुद्धीति ॥ इन्द्रियाणामवस्या नागरणं । मनोवसा खमः ।
बुद्ध्यवस्या कारणावस्था सा सुषुप्तिरिति विभागः । स्पष्टमन्यत् ॥२६॥
१२०
उपदेशसाहसी । [ नान्यदन्यत-
ननु यद्यात्मा निर्विकार एव साक्षी कथं तर्हि बुद्ध्यादीनां कर्ता-
.
च्यते तत्राह--
तत्रैवंसति बुद्धी आत्मभासायभासयन् ।
कर्ता तासां यदर्थास्ता मूरेवाभिधीयते ॥ २७ ॥
तत्रैवंसतीति ॥ तत्र तस्मिनात्मनि एवंसति अवसानयेऽध्य-
ते सावस्थाः बुद्धीः आत्मभासा खचैतन्याभासेनावभासयन् ज्ञ आत्मा
तासां कति मूढैः शास्त्राचार्योपदेशरहितैरभिधीयते व्यपदिश्यते इति
योजना । तथा व्यवहारप्रवृत्ती निमित्त सूचयन्बुद्धीविशिनष्टि-
यदर्थास्ता इति । यस्मात्मनः सुखदुःखप्रतिभासाास्ता भासमन्निति
कर्मोद्भासितबुद्ध्यवस्थानुगतः चिदामासाविवेकादात्मा दर्शनकर्तेत्यु-
च्यते मूरित्यर्थः ॥ २७ ॥
एवमजाने तत्कार्ये च प्रतिबिम्बितस्य चिदात्मनो ज्ञातृत्वमुपी-
धिनिबन्धनं व्युत्पाद्य सर्वज्ञत्वं सर्वकर्तृत्वं च तस्यैव मायोपाधिप्रति-
बिम्बवशादिति व्युत्पादयति---
सर्वज्ञोऽप्यतएव स्यात्वेन भासावभासयन् ।
सर्व सर्वक्रियाहेतोः सर्वकृत्त्वं तथात्मनः ॥ २८ ॥
सर्वज्ञोऽपीति ।। अतएवेत्युक्तमेव विशदयति-खेनेति । खात्मा-
श्रयविषयकमायाविवर्त सर्व खचैतन्येनादित्यप्रकाशवदविकृतेन भास-
यन्सर्वज्ञ उच्यते न पुनः सर्वविषयज्ञानकर्तृत्वनेत्यर्थः । तथा तद्वन्मा-
यानिबन्धनमेवात्मनः सर्वकृत्त्वं सर्वकर्तृत्वम् । तदेवाह-सर्वक्रिया-
हेतोरिति । संनिधिसत्तामात्रेण भ्रामकवसवेकारकप्रवृत्तिहेतुत्वादि-
दिर्थः ॥ २८ ॥
प्रकरणम् १५] पदयोजनिकाव्याख्यायुता। १२५ तदेवमवस्थात्रयसाक्षितया विविक्तशुद्धचिद्रूपस्यात्मनः कार्यकारणा- त्मकमायोपाधिवशाज्ञातृत्वकर्तृत्वसर्वज्ञत्वादिव्यवहारास्पदत्वं न ख- मावत इत्युक्तमर्थमनूध किं तत्वाभाविकं बिम्यतुल्यमात्मखरूपमि- त्यपेक्षायां तदाह-- सोपाधिश्चैवमात्मोक्तो निरुपाख्योऽनुपाधिकः। निष्कलो निर्गुणः शुद्धस्तं मनो वाक नामुतः ॥२९॥ सोपाधिश्चेति ॥ यस्तु निरुपाख्यो विषयतयोल्लेखयोग्यो न भवति सोऽनुपाधिकः सर्वव्यवहारातीत इत्यर्थः । गुणावयवशून्यत्वा- च्छुद्धः कूटस्थ इत्यर्थः । निरुपाख्यत्वमुक्त व्यक्ति--तमिति ॥२९॥ मनोवागगम्यत्वं साधयति- चेतनोऽचेतनो वापि कर्ताकर्ता गतोऽगतः। बद्धो मुक्तस्तथा चैकोऽनेकः शुद्धोऽन्यथेति वा ॥३०॥ चेतन इति ॥ अयमर्थ:--अहमिति शब्दप्रत्ययौ तावत्पराग्व्या- वृत्ततयात्मानं प्रत्यञ्चमवगाहेते इत्यविवादम् । तौ चेच्छुद्धमेवात्मानं गोचरयेतां तदा प्रत्यक्षोपलव्धे घटादाविव विवादिनां विप्रतिपत्त्यभाव एव स्यात् । विप्रतिपद्यन्ते तु ते देहेन्द्रियमनोबुद्धीनामन्यतमोऽचेतन एव चेतनो या नात्मेति वेदयाह्याः। तदन्यश्चेतन इति वेदवादिनस्ते- प्यपि केचित्कर्तेति केचिदकतेति गतो व्यापकोऽगतोऽव्यापको- ऽणुपरिमाणो देहपरिमाणो वेति केचिद्वद्धो जीवो मुक्तोऽन्य ईश्वरस्तथा सर्वशरीरेप्चेकोऽनेको वा शुद्धो रागादिगुणरहितोऽन्यथा तद्युक्तश्चेति ॥ ३० ॥ अतो विप्रतिपरयामृतात्ममात्रगोचरत्यादसमर्थों शब्दप्रत्ययौ शुद्धात्मनीत्याह- ..
१२६
उपदेशसाहसी
[नान्यदन्यत-
अप्राप्यैव निवर्तन्ते चचोधीभिः सहैव तु ।
निर्गुणत्वात्नियाभावाद्विशेषाणामभावतः ॥ ३१ ॥
अप्राप्यवेति ॥ कथमात्मप्राप्तिवीचां धियामिति चेत्परमार्थतः
प्रवृत्तिवीजामावादित्याह-निर्गुणत्वादिति । रूपादिगुणहीनत्वाद्वा-
येन्द्रियद्वारकधीभिस्तावदात्मा न प्राप्यते । मनसश्च बाह्येन्द्रियद्वारो-
पलब्धविषयातिरेकेण स्वतन्त्रस्य विपयानिरूपणाचदगोचरमात्मानं
तत्र प्रामोति । क्रियाभावाद्वात्मनो गोचरत्वामावः । नहि क्रियाहीने-
ऽनवच्छिन्ने वस्तुनि क्रियावदनुगतिमात्रेणापूर्वधर्मोपजनिः संभवति ।
घटादिनानुगते गगने तददर्शनात् । तस्मान्मनःसंयोगजनानासंभवान्न
मनसापि प्राप्य आत्मेत्यर्थः । तथा विशेषाणां गोधनरूपाणां बाह्यानां
स्वगतानां वा जात्यादीनां प्रवृत्तिनिमित्तानामभावान्न शब्दोऽपि
प्रामोत्यात्मानमित्यर्थः । तथाच श्रुतिः 'यतो वाचो निवर्तन्ते
अप्राप्य मनसा सहे' ति, 'न चक्षुषा गृह्यते नापि वाचा नान्यदे-
वैस्तपसा कर्मणा वेति च ॥ ३१ ॥
अविययस्यात्मनः कथं वेदान्तवेदनीयत्वमित्याशङ्कच लक्षणावर्त्म-
नेत्यभिप्रेत्याह-
व्यापकं सर्वतो व्योम मूतैः सर्ववियोजितम् ।
यथा तद्वदिहात्मानं विन्द्याच्छुद्धं परं पदम् ॥ ३२॥
व्यापकमिति ॥ सवैः मूर्तः सर्वतो वियोजितं परिच्छेदपति-
भासहेतूपाधिवर्जितं व्यापकं स्वरूपतोऽपरिच्छिन्नं च व्योम यथा
तद्वदेव शुद्धमवस्तात्रयोपाधिवियोजितमवस्थात्रयसाक्षितया लक्षितं
शुद्धमात्मानमिह वेदान्तसमये परं पदं परमात्मानं ब्रह्म विद्यादिति
-
योजना ॥ ३२॥
तमः
प्रकरणम् १५]
पदयोजनिकान्याख्यायुता। १२७
एवमात्मतत्त्वेऽवधारित पुनरवस्थात्रयाभिमानं न कुर्यादित्याह-
दृष्टं हित्वा स्मृति तस्मिन्सर्वग्रश्च तमस्त्यजेत् ।
सर्वग्ज्योतिया युक्तो दिनकृच्छावरं यथा ॥ ३३ ॥
दृष्टमिति ॥ दृष्टं जागरितं तद्धित्वा द्रष्टा श्रोता मन्तेत्येवमेकै-
कक्रियोपरक्ततयात्माभिमानं त्यक्त्वेत्यर्थः । दर्शनाद्यवस्थायामपि नि-
विशेपमेवात्मानं मन्वीतेति भावः । तस्मिन् दृष्टेऽर्थे स्मृति स्वमं हि-
त्वा । संस्कारद्वारकत्वात्स्वम एवेह स्मृतिरुच्यते । अहं स्वमे देवोऽभूवं
व्याघ्रो वाभूवमिति तदभिमानं हित्वेत्यर्थः । दृश्यस्य सवासनस्य मनसो
विकारोऽसौ नात्मन इत्यसंगतामात्मनोऽनुसंदधीतेति भावः । तथा
:सुपुप्ति त्यजेत् । तमसो विशेषणं सर्वग्र इति । सर्व ग्रसतीति सर्वग्रः।
सान्तमिद पदम् । सुपुप्तेरप्यवभासफतयाऽलुप्तप्रकाशस्वभाव एवात्मा
नतु मूढो ज्ञानवान्वेति मन्वीतेत्यर्थः । कोऽसाववस्थात्रयत्यक्तेति
तमाह----सर्वदगिति । सर्वदृक्सर्वसाक्षी प्रत्यगात्मा ज्योतिपा युक्तः।
'ज्योतिपांज्योतिरित्युक्तेन ब्रह्मणैकीभूत इत्यर्थः । यथा दिनकृत्सविता
शर्वर्या भवं शार्वरं तमः स्वतेजसा असित्वा निस्तमस्क एवावतिष्ठते
तथाऽवस्थाविकारहेत्वज्ञानं बाहाणज्योतिषाऽभिभूयाद्वयानन्दखभाव
एवावतिष्ठतेत्यर्थः ॥ ३३॥
उक्तमेव त्यागप्रकारं प्रकटयति-
रूपस्मृत्यन्धकारार्थाः प्रत्यया यस्य गोचराः ।
स एवात्मा समो द्रष्टा सर्वभूतेषु सर्वगः ॥ ३४ ॥
रूपस्मृतीति ॥ रूपस्मृत्यन्धकारा जाग्रत्वमसुपुप्तयोऽर्था विषया
येपा प्रत्ययानां ते तथोक्ताः ते यस्य साक्षिणो गोचराः प्रतिभास्याः
स एवात्मा सर्वभूतेषु द्रष्टा । तथापि समो निर्विशेपः । यतः सर्वगः
परिच्छेदकरहित इत्यर्थः ॥ ३४ ॥
१२८
उपदेशसाहस्री। [नान्यदन्यत्-
यद्येवमुक्तसभाप एवात्मा कुतस्तस्मिन्यिचित्रः संसारमत्ययोदय-
सलाह-
आत्मबुद्धिमनचक्षुर्विषयालोकसंगमात् ।
विचित्रो जायते बुद्धेः प्रत्ययोऽजानलक्षणः ॥ ३५ ॥
आत्मबुद्धीति।।अनानलक्षणोऽज्ञानोपाधिनिवन्धन इत्यर्थ. ॥३५॥
अविद्यातत्कायोपाधीनागालगनश्च विवेकानुपलम्भादेव ससारप्रति-
भास इति खिते मुगुक्षो. कर्तव्यमुपदिशति--
विविच्यास्मात्स्वमात्मानं विन्याच्छुद्धं परं पदम् ।
द्रष्टारं सर्वभूतस्थं समं सर्वभयातिगम् ॥३६ ॥
विषिच्येति । अस्माहृयादिसपाताद्विविच्य समात्मान विन्द्या-
दिति सबन्ध । स्पष्टमन्यत् ॥ ३६॥
वेद्यमेवात्मरूप पुनर्विशिनष्टि-
समस्तं सर्वगं शान्तं विमलं व्योमवस्थितम् ।
निष्कलं निष्क्रिय सर्व नित्यं द्वन्द्वैर्विवर्जितम् ॥३७॥
समस्तमिति ॥ समस्तमात्मान सर्व पर पद ब्रह्मेति पृथक
योज्यमपुनरुक्ततायै । अत्र विधिमुखेन प्रतिषेधमुखेन च ये विशेषा
निर्दिष्टास्तानशेपान्साक्षिणि स्वपदाथे तत्पदार्थे च ब्रह्मण्यनुसधाया-
नयोस्तुल्यलक्षणव निश्चित्य तत्वमसिवाक्यादहब्रह्मति निश्चिनुया-
दिति तात्पर्यार्थ ॥ ३७ ॥
एवं ब्रह्मागरूपेणैव ज्ञातव्यमित्युक्ते पुनर्मुमुक्षु शिक्षयत्ति---
सर्वप्रत्ययसाक्षी ज्ञः कथं ज्ञेयो मयेत्युत ।
विमृश्यैवं विजानीयाज्ञानकर्म न वेति वा ॥ ३८॥
प्रकरणम् १५] पदयोजनिकान्याख्यायुता । १२९ सर्वेति ।। सर्वप्रत्ययसाक्षी ज्ञानकखभावो य उक्तः स कथ. कीडक्रसभाव इति विमृशेदिति योजनीयम् । कथंशब्दसूचितं विमर्शमेव विमनते-ज्ञेय इति । मया ज्ञेय उत न ज्ञेय इति शेषः । यदि शेयस्तदापि ज्ञानं प्रति फर्म वा न वेत्येवं विमृश्य विजानीयाचव- मात्मन इत्यर्थः ॥ ३८॥ एवंविमरों ज्ञेयत्वपक्षस्तावन्न संगच्छत इत्याह- अदृष्टं द्रष्ट्रविज्ञातं दृष्टमित्यादि शासनात् । नैव ज्ञेयं मयान्यैर्वा परं ब्रह्म कथंचन ॥ ३९ ॥ अदृष्टमिति ।। 'यदि मन्यसे सुवेदेति दममेवापि नूनं त्वं वेत्थ ब्रह्मणो रूप मिति ज्ञेयस्याल्पत्योपदेशादब्रह्मत्वापचेरदृष्टमविज्ञातमिति च श्रुतिशासनान्न ब्रह्मात्मतत्त्वं ज्ञानकर्मत्वेन मया अन्यैर्वा कथंचन ज्ञेयमित्यर्थः ॥ ३९ ॥ यद्येवं ज्ञेयत्वं न संभवति कथं तात्मन्येवात्मानं पश्येदित्याधु- पदेश इत्याशझ्याविषयत्वेनाविर्भावमात्रमेवात्मतत्त्वज्ञानं न विषयत्वेन 'यस्यामतं तस्य मतं मतं यस्य न वेद स'इति श्रुतिरिति मन्वानो- ऽज्ञेयत्वं पक्षमपि प्रतिक्षिपति- खरूपान्यवधानाभ्यां ज्ञानालोफखभावतः । अन्यज्ञानानपेक्षत्वाज्ञातं चैव सदा सया ॥४०॥ खरूपेति ।। यज्ज्ञानवरूपादन्यजडं यच्च व्यवहितं ज्ञानदेशा- चदागन्तुकज्ञानसापेक्षसिद्धिकरवाज्ज्ञानविषयतया ज्ञेयं भवति ने तथेदमात्मतत्त्वम् । कयं तर्हि शृणु । ज्ञानालोखमावतो ज्ञानप्रकाश- खरूपत्वात्वरूपाव्यवधानाभ्यां हेतुभ्यामन्यज्ञानानपेक्षवादविषयत्वेन - १३० उपदेशसाहस्री। [ नान्यदन्यत्- विज्ञातं भवत्यात्मतत्त्वमिति योजना । मातुरेव ब्रह्मत्वोपदेशाज्ज्ञातुश्च खज्ञेयत्वानुपपत्रविज्ञातत्वाभावाञ्च सदा मया ज्ञातं च ब्रह्मात्मतत्त्व- मित्यर्थः ॥ ४०॥ ज्ञानवरूपस्य नान्यज्ञानापेक्षेत्येतदृष्टान्तेन साधयति- नान्येन ज्योतिपा कार्य रवरात्मप्रकाशने । वयोधानान्यवोधेच्छा बोधस्यात्मप्रकाशने ॥४१॥ नान्येनेति ॥ स्पष्टार्थः ॥ ४१ ।। दृष्टान्तस्य दार्शन्तिकस्य च नरपेक्ष्यमुक्तं साधयति- न तस्यैवान्यतोपेक्षा खरूपं यस्य यद्भवेत् । प्रकाशान्तरदृश्यो न प्रकाशो बस्ति कश्चन ॥ ४२ ॥ न तस्येति ।। आस्मा नान्यतो ज्ञानमपेक्षते तत्स्वरूपत्वात् । यद्यस्य स्वरूपं तन्नान्यतस्तदपेक्षते । यथा प्रकाशरूपः सविता न प्रकाशम- भ्यतोऽपेक्षते तथा चायं तस्मादेवमित्यर्थः । किंच नात्मा प्रकाशान्त- रदृश्यः प्रकाशरूपत्वादादित्यवदित्याह-प्रकाशान्तरेति ॥ ४२ ॥ ननु प्रकाशान्तरदृश्यत्वाभावेऽपि स्वरूपप्रकाशदृश्य एव किं न स्थाद्यथा सविता घटादि प्रकाशयन्खात्मानमपि प्रकाशयत्येव तथा- लापि दृश्यमवभासयन्सात्मानमपि भासयेदिति चेन्नेत्याह-- व्यक्तिः स्यादप्रकाशस्य प्रकाशात्मसमागमात् । प्रकाशस्त्वर्ककार्यः स्यादिति मिथ्या वचो यतः॥४३॥ व्यक्तिः स्यादिति ॥ अप्रकाशखरूपतः प्रकाशहीनस्य प्रकाशा- स्मसमागमात्प्रकाशखभावसंसर्गमात्राद्यक्तिरमिव्यक्तिस्तमोनिवृत्तिलक्ष- मा स्यात् । न तन्त्र प्रकाशगुणोदय इत्यर्थः । अतः प्रकाशोऽकार्य इति.मृषा व्यपदेशः । प्रकाशावगुण्ठिते वस्तुनि प्रकाशोदयाभावेऽभि- - प्रकरणम् १५] पदयोजनिकान्याख्यायुता। व्यक्त्यभावादर्शनादित्यर्थः । तस्माद्भासमानस्वरूपसंसर्ग एव भासस्या- भिव्यक्तिरिति प्रकाशस्वभावस्य सवितुर्नान्यप्रकाश्यता खप्रकाश्यता वास्तीति न दृष्टान्तत्वसिद्धिरतो न दान्तिकसिद्धिस्त्वत्पक्ष इति भावः ॥४३॥ घटादिप्रकाशः करमादर्ककार्यों न भवतीति चेत्तत्राह-- यतोऽभूत्वा भवेद्यच तस्य तत्कार्यमिप्यते । खरूपत्यादभूत्वा न प्रकाशो जायते रवः ॥४४॥ यतोऽभूत्वेति ॥ यत्तु प्रागमूत्वा यतो भवेत्तत्तस्य कार्यमिप्यत इति संवन्धः । स्पष्टमन्यत् ॥ १४ ॥ कथं तर्हि प्रकाशखरूपस्यादित्यस्य प्रकाशयितृत्वमात्मनश्च बोध- मात्रखमावस्य बोद्धृत्वं व्यपदिश्यते तत्राह-- सत्तामात्रे प्रकाशस्य कर्तादित्यादिरिप्यते । घटादिव्यक्तितो यद्वत्तद्वद्वोधात्मनीप्यताम् ॥ १५ ॥ सत्तामान इति ॥ प्रकाशस्य संधिसत्तामात्रे सति घटादिव्य- क्तितो घटाद्यभिव्यक्तैर्दर्शनादादित्यादिः प्रकाशस्य कर्तेप्यते यद्वत्तद्व- द्वोधरूपेऽप्यात्मनि खाध्यस्तवस्तुसंधिसत्तामाने सति बोद्धृत्वगिष्यता- मङ्गीक्रियतामिति योजना ॥ ४५ ॥ खगतविकारमन्तरेणैवात्मनोऽर्थप्रकाशकत्व मित्येतदपि रविदृष्टा- न्तेन स्पष्टयति- विलासर्पस्य निर्याणे सूर्यो यत्प्रकाशकः । प्रयतेन विना तहज्ज्ञातात्मा वोधरूपतः ॥४६॥ बिलादिति ॥ सर्पस्य बिलद्वारान्निर्गमे ज्ञायमाने यद्वत्सूर्यः प्रयतेन विना पूर्वसिद्धेनैव खज्योतिपा तं भासयन्प्रकाशको व्यपदि- उपदेशसाहसी। [नान्यदन्यत्- श्यते तद्वदात्मा योधरूपत्वात्प्रयलेन विना विकारमन्तरेण ज्ञाता न्यपदिश्यत इत्यर्थ ॥ १६ ॥ इदानीमुपाधिभावे ज्ञातृत्वव्यपदेशासदभावे तदभावादीपाधिकमेव ज्ञातृत्वमिति दर्शयितु परमुदाहरणमाद- दग्धैवमुष्णः सत्तायां तद्वद्वोद्धात्मनीप्यताम् । सत्येव यदुपाधौ तु ज्ञाते सर्प इयोत्यिते ॥ ४७ ।। दग्धैवमिति ॥ यथा दागसनिधावुष्णस्वरूपस्याने सचामात्रेण दाहकत्व तथा बोधखरूपस्याप्यात्मनो बोध्यसनिधिमात्रेण बोद्धृत्वमि- प्यता यद्यस्मादुपाधौ ज्ञाते सत्येवात्मा ज्ञातीच्यते । यथा मिलादुत्थिते स उपाधी ज्ञाते सत्येव सविता प्रकाशक कप्यते न तदमावे । तस्मादौपचारिक एवात्मनो ज्ञातृत्वव्यपदेश इत्यर्थ ॥ ४७ ॥ औषाधिकत्व ज्ञातृत्वमात्मनो रविदृष्टान्तेन प्रतिपाद्य तेनैव दृष्टान्तेन कर्तृत्वमप्यौपाधिक प्रतिपादयति- ज्ञाताऽयनोपि तहज्ज्ञः कर्ता भ्रामकवद्भवेत् । खरूपेण स्वयं नात्मा ज्ञेयोऽज्ञेयोऽथवा ततः ॥४८॥ ज्ञातेति ॥ यद्वदय ज्ञ आत्मा यत्नरहितोऽपि ज्ञाता व्याख्यातस्त. द्वत्वगतविशेषशून्योऽपि सनिधिमात्रेण कारफाणि प्रवर्तयन्क्रियाणा कर्तेति व्यपदिश्यते प्रामकवदित्यर्थ । मामयति प्रवर्तयति प्राक्सुप्त जनसमूहमिति प्रामक सूर्य । यद्वा आमकोऽयस्कान्त स यथा खय चलनादिव्यापाररहितोऽपि लोहकीलादीना चालको दृष्टस्तथाय. मपीत्यर्थ । तदेव व्यक्ति स्यादप्रकाशस्यत्यारभ्योक्त प्रासनिकमा- स्मनो ज्ञातृत्व कर्तृत्व चौपाधिक व्यवस्थाप्य प्रकान्तमात्मनो ज्ञानक मत्वाकर्मत्वाभ्यामज्ञेयज्ञेयत्वपक्षद्वयसमर्थनमुपसहरति-खरूपेणेति !
प्रकरणम् १५] पदयोजनिकाव्याख्यायुता। यतोऽयमात्मानिर्विशेषः स्वभावतो लुप्तप्रकाशस्वरूपश्च ततः स्वयं खरूपेणासाधारणस्वभावेन न ज्ञेयो ज्ञानक्रियया व्याप्तो न भवति, तथा नाज्ञेयो व्यवहितवस्तुवन्न ज्ञानप्रकाशरहित इत्यर्थः । अथवे- त्यनेन ज्ञाता वान्यस्याज्ञाता वा न भवत्यात्मा निर्विकारत्वाचैतन्य- योगाच तथा कर्ता कारकाध्यासाधिष्ठानत्वान्न कर्ता च निर्व्यापार- वादित्यादिविरुद्धप्रतिभासव्यवस्थोपसंहार उक्तो वेदितव्यः ॥ ४८ ॥ आत्मन उक्त ज्ञेयत्वायभावे प्रमाणमाह- विदिताविदिताभ्यां तदन्यदेवेति शासनात् । वन्धमोक्षादयो भावास्तद्वदात्मनि कल्पिताः ॥४९॥ विदिताविदिताभ्यां तदिति । 'अन्यदेव तद्विदितादयो- अविदितादधीति श्रुत्या विदिताविदिताभ्यां कार्यकारणाभ्यामन्यदा- स्मत्त्वं ब्रह्मेति शासनात्कार्यकारणधर्मविलक्षणस्वभाव एवायमात्मेत्यर्थः । तथाच यथात्मनि ज्ञातृत्वं कारणत्वमित्यादि सर्वमविद्यावशादेव कल्पितं तथा बन्धो मोक्षश्छिन्नो भिन्नः सुखीत्यादयोऽपि भावा आत्मनि कल्पिता एवेत्याह—बन्धेति ॥ १९॥ वन्धादीनामात्मनि कल्पितत्वे सदृष्टान्तं हेतुमाह- नाहोरात्रे यथा सूर्य प्रभारूपाविशेपतः। बोधरूपाविशेपान्न बोधायोधौ तथात्मनि ॥ ५० ॥ नाहोरान इति ॥ अयोधनिबन्धनो बन्धो बोधनिबन्धनो मोक्ष- स्तयोरभावे तत्र तयोरप्यभाव इत्यर्थः ॥ ५० ॥ उक्तेनोपायेनोक्तखरूपं ब्रह्म विजानतः फलमाह- यथोक्तं ब्रह्म यो वेद हानोपादानयर्जितम् । यथोक्तेन विधानेन स ससं नैव जायते ॥ ५१ ॥ - । १३४ उपदेशसाहसी । [ नान्यदन्यत्- यथोक्तमिति ॥ दानोपादानयर्जितमिति हानोपादानकर्तत्वं कर्मवं च व्यावय॑ते । अनेन सर्वविशेपाः प्रतिषिद्धा मवन्ति परिग्रहपरित्या- गात्मकत्वात्सर्वविशेपागामित्यर्थः । यथोक्तविधानं पदार्थपरिशोधन- प्रकारः स नैव जायत इति सत्यमिति संबन्धः । न स भूयोऽभि- जायत' इति स्मृतरित्यर्थः ॥ ५१ ॥ यथोक्तबहावेदनेन विनापि यथोक्तफलसिद्धेः कृतं ज्ञानेनेत्याशय 'नान्यः पन्था विद्यतेऽयनायेति श्रुतिविरोधान्मैवमित्याह- जन्ममृत्युप्रबाहेपु पतितो नैव शक्नुयात् । इत उद्धर्तुमात्मानं ज्ञानादन्येन केनचित् ॥ ५२ ॥ जन्मेति ॥ इत एभ्यो जन्ममृत्युप्रवाहेभ्यः । केनचित्साधनान्त- रेण ।। ५२ ॥ उक्तेर्थेऽथर्योपनिपद्वाक्यं प्रमाणयति- भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्ट इति श्रुतेः ॥५३॥ भिद्यत इति || स्पष्टम् ।। ५३ ॥ प्रकरणाथै संक्षिप्योपसंहरति- ममाहमित्येतदपोध सर्वतो विमुक्तदेहं पदमम्ब- रोपमम् । सुदृष्टशास्त्रानुमितिभ्य ईरितं विमुच्य- तेऽस्मिन्यदि निश्चितो नरः ॥ ५४ ॥ ममाहमिति ॥ सर्वतः सर्वात्मना ममाहमित्येतत्सविपयमपोख त्यक्त्वा नरो मनुष्योऽस्मिन्यदि निश्चितो निश्चितमतिः स्राचदा स विमुच्यत इति योजना । अस्मिन्कस्मिन् विनिश्चित इति तदाह-विमु. क्तदेहमिति । देहद्वयसंबन्धशून्यं प्रत्यक्तत्त्वं पदं ब्रह्माम्बरोपमं निर-
प्रकरणम् १६]
पदयोजनिकान्याख्यायुता। १३५
तिशयं निःप्रपञ्चमितियावत् । कुत एवंविधं ब्रह्मात्मस्वरूपमित्यपे-
क्षायां श्रुतियुक्तिभ्यां निर्धारितत्वादत्रासंमावना नास्तीत्यभिप्रेत्य
तद्विशिनष्टि-सुदृष्टेत्यादि ईरितमित्यन्तेन । यदेवंविधं सम्यग्वि-
चारितशास्त्रानुमानेभ्योऽलाभिरीरितमस्मिन्निति संबन्धः ॥ ५४ ।।
इति पञ्चदशं नान्यदन्यत्प्रकरणम् ॥ १५ ॥
पार्थिवप्रकरणम् १६
पूर्वस्मिन्प्रकरणे एकदेशिगतप्रतिक्षेपमुखेन ब्रह्मैकत्वज्ञानमेव स्वरू-
पावस्थानलक्षणमोक्षसाधनं न भेदाभेदज्ञानमिति प्रतिपादितम् ।
अधुना सर्वतार्किकमतप्रतिषेधेन मुमुखं खाराज्येऽभिपेक्तुं प्रकरणान्त-
रमारममाणः प्रथमं स्थूल शरीरात्मवादिमतं निराकरोति--
पार्थिवः कठिनो धातुईयो देहे स्मृतोऽम्मयः ।
पक्तिश्चेष्टावकाशाः स्युर्वहिवाय्वम्बरोद्भवाः ॥ १॥
पार्थिव इति ॥ यः स्थूलदेहे कठिनो घातुर्मासादिरूपः स पा.
र्थिवः पृथिव्यंशः पृथिवीपरिणामात्मकः स्मृतो ज्ञातो विद्वद्भिरित्यर्थः ।
एवं द्रवोऽम्मयोऽपां परिणामः । पक्तिः पाकश्चेष्टास्पन्दनमवकाशोन्न-
पानमनसां संचारमार्गा देहगतसुपो ये स्युः एते क्रमेण वहिवा-
य्वम्बरोद्भवा देहानुगतवयाचंशकार्यभूताः स्मृता इत्यक्षरार्थः । देहो
नात्मा भूतपरिणामत्वाद्वल्मीकादिवदिति भावः ॥ १॥
इन्द्रियात्मवादिनं प्रत्याह--
प्राणादीनि तदर्थाश्च पृथिव्यादिगुणाः क्रमात् ।
रूपालोकवादिष्टं हि सजातीयार्थमिन्द्रियम् ॥२॥
[पार्थिव- १३६ उपदेशसाहसी। प्राणादीनीति ॥ प्राणादीनीन्द्रियाणि तदर्थास्तेषां विषयाः गन्यादयश्च क्रमापृथिन्यादीनां गुणाः कार्याणीत्यर्थः । गन्धरसरूप- स्पर्शशब्दास्तावत्पृथिव्यतेनोवावाकागानां क्रमेण धर्माः प्रसिद्धास्तेयां प्राणायककेन्द्रियग्राखतान्वयध्यतिरेकसिद्धा। तथाच यदिन्द्रियं यस्य धर्म ग्राहयति तदिन्द्रियं तस्य सजातीय भवितुमर्हति । यथा तैनसस्य रूपस प्रकाशको दीपादिस्तैजसो दृष्टस्तथेन्द्रियाण्यपि मौतिकानां प्रकाशकत्वाद्वौतिकान्येवेत्यनुमानमाह-रूपालोकवदिति । एवमि- न्द्रियाणां भौतिकत्वे सिद्ध देहवदेपामप्यनात्मत्वमिति भावः ॥२॥ किंचेन्द्रियाणि नात्मनः करणवात्कुठारवदित्यनुमानान्तरं सूच- यन्कार्यवशाद्विन्दियाणामेकादशत्यनियममाह- वुद्धर्थान्याहुरेतानि वाक्पाण्यादीनि कर्मणे तद्विकल्पार्थमन्तस्थं मनं एकादशं भवेत् ॥ ३॥ बुद्धर्थानीति ॥ एतानि प्राणादीनि बुद्ध्यर्थानि ज्ञानकरणान्याहुः । वाक्पाणिपादपायूपस्याख्यानीन्द्रियाणि कर्मणे फर्मार्थ वचनादान- गमनविसर्गानन्दार्थ तत्करणान्याहुरित्यर्थः । तेषां दशानामिन्द्रि- याणां विकल्पार्थ युगपद्विपयसंनिधाने क्रमेण तत्तद्विषयज्ञानादिनि- साथै यदिन्द्रियं तन्मन उक्तदशापेक्षया एकादशं भवेत् । मनश्चैकं साधारणं करणमवश्यमङ्गीकार्यम् । अन्यथात्मनो युगपदनेकेन्द्रिय- विषयसंप्रयोगे सति युगपदेवानेकज्ञानानि जायेरन् । नचैवमस्ति । तथाच तस्यापि मनसः करणत्वादनात्मत्वमिन्द्रियवदिति सिद्धम् ॥३॥ बुद्धिरपि नात्मा करणविशेषत्वान्मनोवदिति बौद्धमतं निरा- कुवैस्तस्याः खभावं दर्शयति---
प्रकरणम् १६] पदयोजनिकाव्याख्यायुता। १३७
निश्चयार्था भवेद्बुद्धिस्तां सर्वार्थानुभाषिनीम् ।
ज्ञातात्मोक्तः सरूपेण ज्योतिषा व्यजयन्सदा ॥४॥
निश्चयाति ॥ निश्चयोऽर्थपरिच्छेदः सोऽर्थः प्रयोजनं यस्या
अन्तःकरणवृत्तेः सा निश्चयार्थी बुद्धिर्भवेत् । निश्चयकरणं बुद्धिरि-
त्यर्थः । अन्यदृश्यत्वादपि तस्या अनात्मत्वमित्याह-तामिति ।
बुद्धिज्ञातुरपि बुद्धिवदन्यज्ञेयत्वशङ्कां वारयति-स्वरूपेण ज्योति-
पेति । तथाच भास्यभासकयो रूपालोकयोरिव भेदादास्याया बुद्धे.
रन्यो भासक आत्मेत्यर्थः॥४॥
यदि बुद्धरात्मा भासकतर्हि तया संसर्गादशुद्धिरापद्येतेत्याशङ्कय
दृष्टान्तेन परिहरन्नाह-
व्यजकस्तु यथालोको व्यङ्ग्यस्याकारतां गतः ।
व्यतिकीर्णोऽप्यसंकीर्णस्तद्वज्ज्ञः प्रत्ययैः सदा ॥५॥
व्यञ्जकस्त्विति । यथाआलोको व्यञ्जको दीपालोकादिर्व्यङ्ग्यस्य
घटादेराकारतां गतः सन्व्यतिकीर्णोऽपि व्यामिश्रतया भासमानोऽपि
वस्तुतोऽसंकीर्णो विविक्तखभाल एव भवति तद्वदेव ज्ञः आत्मा
सदाप्रत्ययैवुद्धिवृतिभिरित्यर्थः । अतो नित्यशुद्ध एवात्मेति भावः ॥५॥
यदि बुध्यादेरत्यन्तविलक्षणो निर्व्यापार आत्मा कथं तर्हि तस्य
तदवभासकत्वमित्याशङ्कय तदपि दृष्टान्तेनाह-
स्थितो दीपो यथायनः प्राप्तं सर्वं प्रकाशयेत् ।
शब्दाद्याकारबुद्धीः नासास्तापश्यति ॥ ६ ॥
स्थित इति । स्पष्टार्थः ॥ ६ ॥
तथापि कथं शुद्धिः सुसित्वादिस्फुरणादित्याशझ्याह-
शरीरेन्द्रियसंघात आत्मत्वेन गतां घियम् ।
नित्यात्मज्योतिषा दीसां विशिंपन्ति सुखादयः ॥७॥
[पार्थिव- उपदेशसाहसी । शरीरेति ॥ सुखादयः शरीरादिसंघाते आत्मत्वेन प्रवृत्तां धियं बुद्धिं विशिंपन्ति नत्वात्मानम् । किंलक्षणम् । नित्यात्मज्योतिपा दीशां प्रकाशिताम् । तथाच भास्यमासकवुझ्यात्मनोरविवेकादात्मा मुखादि- मानिति प्रान्तिरित्यर्थः ॥ ७॥ कुत एवं निश्चय इत्यत आह- शिरोदुःखादिनात्मानं दुःख्यस्मीति हि पश्यति । द्रष्टान्यो दुःखिनो दृश्यादृष्तृत्वाच न दुःख्यसौ ॥८॥ शिर इति । शिरआदिदेहावयवगतेन दुःखेन हि यस्माइःख्य- हमसीत्यात्मानं पश्यति तस्माद्देहमात्मत्वेन गता बुद्धिरिति योजना। अयमाशयः-आत्मनो विशेषविज्ञानं बुद्ध्याध्यासनिबन्धनमिति हि स्थितिः । तथाच शिरोदुःखेनोदरदुःखेन वा दुःल्यहमसीत्यभिमा- नात्मकबुद्ध्यवस्थापनविशेषस्यैव दुःखित्वात्सुखदुःखादयो वुद्धिं विशि- पन्तीति युक्तं वक्तुमिति । द्रष्टा तु दुःखिनो दृश्यादन्यः आत्मत्वे- नाभिमन्यमानदेहावयवीपघातादिजनितदुःखाकारसामासबुद्धेदृश्यायाः साक्षी तदन्य एवासौ दृष्तृत्वादेव न दुःखीत्यर्थः ॥ ८ ॥ दृष्तृत्वादसौ न दुःखीत्युक्तमेव स्पष्टयति- दुःखी स्याहुःख्यहमानादुःखिनो दर्शनान या। संहतेऽज्ञादिभिर्द्रष्टा दुःखी दुःखस नैव सः ॥ ९ ॥ दुःखी स्वादिति ॥ अयमात्मा दु.ख्यमानामुःखाकारपरिणाम- वत्यन्तःकरणेऽहमित्यभिमानादुःखी स्यान्नतु दुःखिनो दुःखाकारपरि- णामवतोऽदर्शनात्, तथासत्सुदासीनानामपि दुःखिनं पश्यतां दुःखि- त्वप्रसङ्ग इत्यर्थः । प्रकृते किमायातं तदाह-संहत इति । अङ्गादि- ।
प्रकरणम् १६] पदयोजनिकाव्याख्यायुता। १३९ मिर्हस्ताद्यङ्गैश्चक्षुरादीन्द्रियैश्च संहते देहे यद्गुःखं तस्स दुःखस्स द्रष्टा य आत्मा साक्षी स नैव दुःखीति सिद्धमिति शेषः ॥ ९॥ दुःखिनो द्रष्टुत्वेऽपि दुःखित्वमात्मनो युज्यत इति दृष्टान्तेन शकते- चक्षुर्वत्कर्मकर्तृत्व स्थायेन्नानेकमेव तत् । संहतं च ततो नात्मा द्रष्टत्वात्कर्मतां ब्रजेत् ॥ १० ॥ चक्षुर्वदिति ॥ यथा चक्षुपो दर्पणादिनिष्टतया दृश्यत्वं तस्यैव मुखदेशस्थतया दृष्मृत्वं च तथात्मनो दुःखसंमिन्नतया दृश्यत्वं खरू- पचैतन्यावस्थतया द्रष्टुत्वं चेति कर्मकर्तृत्वं घटत इत्यर्थः । सिद्धान्ती परिहरति-नेति । कुत इत्यत आह–अनेकमेव तदिति । तचक्षु- रनेकमनेकाकारमेव संहतं च भवतीत्यतो घटते तस्य कर्मत्वं कर्तृत्वं चांशभेदोपपत्तेरित्यक्षरार्थः । गोलकांशस्य दर्पणस्थस्य दृश्यत्वं तस्यैव शक्तिमत्त्वांशस्य मुखनिविष्टस्य द्रष्टुत्वमिति युक्तमुभयरूपत्वमिति विवक्षितोऽर्थः । आत्मनस्तु नैवमंशभेदोऽस्ति एकरूपत्वादसंहतत्वाचे- त्यभिप्रेत्याह-तत इति । चित्प्रकाशैकस्वभावो ह्याल्मा द्रष्टैच न दृश्यांशसंभिन्नो दृश्यांशस्यानात्मत्वादतो द्रष्टुत्वाकर्मतां न प्राप्नोती- त्यर्थः ॥ १० ॥ नन्यात्मनोऽपि ज्ञानादिमिरनेकात्मत्वसंभवाचक्षुर्वद्भास्यमासकता स्यादित्याशय प्रत्याह--- ज्ञानयनाद्यनेकत्वमात्मनोऽपि मतं यदि । नैकज्ञानगुणत्वात्तु ज्योतिर्वत्तस्य फर्मता ॥ ११ ॥ ज्ञानयत्नादिति || ज्ञानमयलेच्छाद्वेषादिगुणभेदैरनेकात्मकत्वा- दात्मनोऽपि केनचिदशेन विशिष्टस्य ग्राह्यत्वमशान्तरेण ग्राहकत्वं च [पार्थिव- उपदेशसाहसी । यदि मतमिति शक्षामन्यार्थः । तुशब्दः शशानिपेयार्थः । मैवम् । एकज्ञानगुणत्वात्कृत्सः प्रज्ञानघन एवे वि श्रुत्या जाने कसभापत्वाव- धारणादनेकात्मत्वायोगाज्योतिर्वचस्य न कर्मता, ग्रासता तस न संभवतीति परिहारमन्यार्थः ॥ ११ ॥ दृष्टान्तंन्याचऐ-- ज्योतिपो द्योतकत्वेऽपि यद्वन्नात्मप्रकाशनम् । भेदेऽप्येवं समत्वान आत्मानं नैव पश्यति ॥१२॥ ज्योतिप इति ॥ अयमर्थः-यद्यात्मनो मायग्राहकाशभेदो- ऽभ्युपाम्पते तदेदं वक्तव्य ग्राधाशोऽपि चेतनः किं वा जड इति । तत्राचं निराकरोति दृष्टान्तेन-ज्योतिप इति । आदित्यादिज्यो- तिपो द्योतकत्वेऽपि प्रकाशनस्वभावत्वेऽपि नात्मप्रकाशनं न ज्योतिः- खरूपप्रकाशनं तद्वदेव यथा दृष्टान्तस्तथा भेदेऽप्यंशभेदकल्पनेऽपि ज्ञ आत्मा समत्वाचैतन्यखमावाविशेषादात्मान नैव पश्यति न स्वाश विषयीकरोतीत्यर्थः । न द्वितीयः। जडाजडयोरंशाशित्वेनाभेदानुप- पत्तेर्न पायाशस्यात्मत्वमिति नात्मनः सवेद्यत्वसिद्धिरिति दूपणं स्फुटमेवेत्युपेक्षितमिति द्रष्टव्यम् ॥ १२ ॥ खरूपेणाराद्वारेण वा यद्यप्यात्मात्मान नैव पश्यति तथापि गुण- ज्ञानस्य कर्मत्व गमिप्यतीत्याशङ्कयाह- यद्धर्मा यः पदार्थो न तस्यैवेयात्स कर्मताम् । न ह्यात्मानं दहसग्निस्तथा नैव प्रकाशयेत् ॥ १३ ॥ यद्धर्मेति ।। य. पदार्थों यद्धर्मा येनाताधारणधर्मेण धर्मवान्स तस्यैव धर्मस्य कर्मता नेयात् । तथाच ज्ञानखगाव आत्मा न ज्ञानक- - प्रकरणम् १६] पदयोजनिकाव्याख्यायुता। मतां गन्तुमर्हतीत्यर्थः । दृष्टान्तभागः स्पष्टार्थः । आत्मा न स्वीय- धर्मव्याप्यः पदार्थत्वादमिवदित्यर्थः ॥ १३ ॥ उक्तन्यायेन विज्ञानवादी बौद्धोऽपि निराकृत इत्याह- एतेनैवात्मनात्मानो ग्रहो बुद्धनिराकृतः । अंशोऽप्येवं समत्वाद्धि निर्भेदत्वान्न युज्यते ॥ १४ ॥ एतेनैवेति । आत्मन इत्यस्मिन्नात्मान इति छान्दसः प्रयोगः । बुद्धेरात्मनः खरूपस्यात्मना खेनैव ग्रह इति बौद्धपक्षोऽप्येतेनैवोक्त- दृष्टान्तप्रवन्धेन निराकृत इत्यर्थः । खरूपस खरूपेणैव प्रायत्वाभा- वेऽपि एकेनाशेन ग्राबवमंशान्तरेण ग्राहकत्वमिति कल्पनाप्यन न घटत इत्याह-अंशोऽप्येवमिति । एवं प्रागुक्तवर्मना । तदेवाह- समत्वाद्धि निर्भेदत्वादिति ॥ १४॥ एवं बुद्धेः खग्राह्यत्वनिराकरणेनार्थादन्यमानत्वमुपक्षिप्तमन्यथा तस्याः क्षणिकत्वाद्यसिद्धेः । तत्र माभूत्तर्हि बुद्धिस्तद्राहकश्वापरः शुन्यमेवात्मतत्त्वमस्त्विति वादिनं निराकरोति- शून्यतापि न युक्तं वै बुद्धेरन्येन दृश्यता । युक्तातो घटवत्तस्याः प्राक्सिद्धेश्च विकल्पतः॥१५॥ शून्यतापीति ॥ एवंसति शून्यतापि न युक्ता । यद्वा यथा बुद्धेः खग्राखता न युक्ता युक्तिविरोधादेवं शून्यतापि बुद्धेस्तदवभासस्य च न युक्ता । अपरोक्षतया तस्याः प्रतीयमानत्वादित्यर्थः । अतो हेतो- स्वदन्येन साक्षिणा बुद्धाधता युक्ता, साक्षिणि पर्यवसानात्तस्यापि न शून्यताशकेत्यर्थः । किंच तस्या बुद्धेविकरूपतो विकल्पनात्यागेव तत्साक्षिणः सिद्धेर्न शून्यता कदापीत्यर्थः । बुद्धिविकल्पनात्पूर्वमेवं - [ पार्थिव- १४२ उपदेशसाहसी। सुपुप्तावप्यात्ममकाशसद्भावोऽभीकर्तव्योऽन्यथा सुपुप्तेरसाक्षिफत्वादव- सान्तरे परामर्षानुदयप्रसन्नादिति भावः ॥ १५ ॥ किंच यत्कार्य यदन्वितं दृश्यते ततस्स कारण कार्यविकल्पात्मा सिद्धं च यथा घटान्विता मृतथा बुद्ध्यादेविकल्पस्य सदान्वितत- योपलभ्यमानत्वात्प्राक् सिद्धसत्कारणकत्वमेव युक्तमित्याह- अविकल्पं तदस्त्येव यत्पूर्व स्वाद्विकल्पतः। विकल्पोत्पत्तिहेतुत्वायद्यस्यैव तु कारणम् ॥ १६ ॥ अविकल्पमिति ।। सर्वविकल्परहितं कूटलमित्यर्थः । अकार- णकार्योत्पचेरनुपपत्तेः कारणसत्यमेष्टव्यमन्यथा कार्यविशेपार्थिनी कारणविशेपोपादानप्रवृचिनियमानुपपत्तिः शून्यस सर्वत्र मुलमत्वा- दिति भावः ॥ १६॥ कूटस्थस्य ब्रह्मात्मनः कथं फारणत्वं, व्यापारवद्धि कारणं नामेत्या- शङ्कय रज्जुवसर्पस्य विवाधिष्ठानतया तस्य कारणत्वं घटत इत्यभि- प्रेत्याह-- अज्ञानं कल्पनामूलं संसारस नियामकम् । हित्वात्मानं परं ब्रह्म विन्द्यान्मुक्तं सदामयम् ॥१७॥ अज्ञानमिति ॥ अज्ञानमनाद्यविद्याकूटस्थपत्यगात्मनि ब्रह्मणि सर्वकल्पनाया मूलमतद्रूपप्रतिभासहेतुरित्यर्थः । तथाच चिदविद्यावि- वर्तेषु कार्येषु सत्चात्मना भासमानतया कारणत्वं कूटस्थस्यापि घटत इति मायः । संसारस नियामकमिति विशेषणेन सर्वविकल्पनाया अज्ञानमूलत्वेऽन्वयव्यतिरेकाख्यं प्रमाणमनुमानं सूचयति । तीज्ञान- विशिष्टमेव किं ब्रह्म मत्यक्त्वेनानुसंधैर्य नेत्याह-हित्येति । सकार्यमज्ञानं हिला साक्ष्यवेन तस्य साक्षिधर्मतां बाधित्वात्मानं प्रकरणम् १६] पदयोजनिकान्याख्यायुता। प्रत्यञ्चं साक्षित्वेनोर्वरितं साक्ष्यवाधया परं ब्रह्म परिपूर्ण मुक्तं कार्य- कारणप्रपञ्चसंसर्गरहितमभयमद्वयमहं ब्रह्मास्मीति महावाक्यार्थभूतं सदा विन्द्यादनुसंदध्यादित्यर्थः ॥ १७ ॥ संसारनियामकमज्ञानं हित्वात्मानं ब्रह्म विन्द्यादित्युक्तं तन कः संसारः कथं वा तस्याज्ञानं कारणं ततो वा कथमात्मनो विवेकः स्यादित्यपेक्षायामाह- जानवमं तयोवीज सुपुप्ताख्यं तमोमयम् । अन्योन्यस्मिन्नसत्त्वाच नास्तीत्येतत्रयं सजेत् ॥१८॥ जाग्रदिति ॥ जाग्रत्वमौ स्थूलसूक्ष्मविषयभोगलक्षणौ । ससार इति शेषः । तयोजि कारणं तमोमयमज्ञानप्रायं सुपुप्ताख्यं सुपु- प्तिसंज्ञितम् । तमोबीजमिति वक्तव्ये मयप्रयोगादज्ञानस्य स्वातघ्यं वार्यते । साभासं तमोबीजमित्यर्थः । एवं कार्यकारणखरूपमुक्त्वा तयोस्त्यागप्रकारमाह-अन्योन्यसिान्निति । स्थूलसूक्ष्मकारणावस्था- नामन्योन्यस्मिन्नप्तत्त्वात्सत्वव्यभिचाराचकारादृश्यत्वाच एतनयं रज्वा दृष्टसर्पधारादिवदात्मनि ततोऽन्यत्र च नास्तीति ज्ञात्वा त्यजेद्विलाप- येत् । आत्मानं शोधयेदित्यर्थः ॥ १८॥ त्यजेदित्युक्ते कर्तृत्वप्रतीतेः कथमस्यात्मनो ब्रह्मत्वमित्यत आह- आत्मबुद्धिमनश्चक्षुरालोकार्थादिसंकरात् । भ्रान्तिः स्यादात्मकर्मेति क्रियाणां संनिपाततः ॥१९॥ आत्मबुद्धीति॥आत्मा देहः अर्थादीत्यादिपदाद्देशकालादिग्रहः । आत्मादीना सकरान्मिभो गुणप्रधानभावेनाध्यासाद्धेतोः क्रियाणा संनिपाततासमुद्भवादात्मकर्म आत्मनः कर्म क्रिया इत्यात्मा तदाधिष्ठान- - १४४ उपदेशसाहसी। [पार्थिव- भूतः कूटस्थोऽपि करोतीति नान्तिः स्यात् । तस्मादात्मनः खतो निष्क्रियत्वानिष्क्रियं ब्रझतमविरुद्धमित्यर्थः ॥ १९॥ अन्यधर्मस्याप्यन्यत्रारोपे दृष्टान्तमाह- निमीलोन्मीलने स्थाने यायव्ये तेन चक्षुपः । प्रकाशत्वात्मनस्येवं बुद्धौ न स्तः प्रकाशतः ॥ २० ॥ निमीलेति ।। ये नेत्रगोलकरसाने निमीलोन्मीलने दृष्टे ते वायव्ये वायुकार्य क्रियात्मकस्य वायोस्तदाश्रयत्वान्न चक्षुरिन्द्रियस्य तस्य प्रकाशरूपत्वास्कियाश्रयत्वानुपपत्तेखथापि चक्षुप्येव ते व्यपदि- श्येते अध्यासाद्यथा, एवं मनसि बुद्धौ च चलनाचलने न स्तः प्रकाशत्वादेव खतो न विद्यते तथापि प्राणव्यापाररूपे ते तयोरा- रोप्येते चञ्चलं मनः स्थिराबुद्धिरिति व्यपदेशदर्शनादित्यर्थः ॥ २०॥ मनोबुग्यौरसाधारणधर्मकथनपूर्वक भासनिकमुपपादितमुप- सहरति-- संकल्पाध्यवसायौ तु मनोवुयोर्यथा क्रमात् । नेतरेतरधर्मत्वं सर्व चात्मनि कल्पितम् ॥ २१ ॥ संकल्पेति ॥ संकल्पधर्मकं मनोऽव्यवसायधर्मिका बुद्धिरिति व्यवस्थैव न सांकर्यमित्यर्थः । तस्मात्कृटस्थस्यात्मनः सतःकर्तृत्वा- संभवादविद्यादेश्व जडस्य सातन्त्र्येण प्रवृत्त्यसंभवाजडाजडयोश्च परमार्थतः सबन्धानिरूपणात्सर्व सहेतुकं संसारबन्धनमात्मनि कल्पितमध्यस्तं न परमार्थत इति सदैवात्माद्वयं ब्रह्मेति सिद्ध- मित्यर्थः॥ २१ ॥ पूर्व देहेन्द्रियमनोबुद्धिशून्यात्मवादनिराकरणेन तद्विलक्षण आत्मा विवेचितः । इदानी देहादिविलक्षणोऽप्यात्मा देहसमपरिमाण इति प्रकरणम् १६ ] पदयोजनिकाल्याख्यायुता। जैनमतेनात्मनः परिच्छिन्नत्वशङ्कायां न तस्य ब्रह्मत्वमुपपद्यते । नच तत्र सर्व कल्पितमिति युज्यते कल्पकाभावादित्याशङ्कयाह- स्थानावच्छेददृष्टिः स्यादिन्द्रियाणां तदात्मताम् । गता धीस्तां हि पश्यज्ञो देहमात्र इवेक्ष्यते ॥ २२ ॥ स्थानेति ॥ इन्द्रियाणां देहाहहित्त्यभावादेहावयवगोलकस्था- नावच्छेदेन दृष्टिरुपलम्भः स्यात् । भवतीत्यर्थे स्याच्छब्दः । तथाच त्वगादीनामिन्द्रियाणां यथायोगं देहपरिमाणत्वात्तदात्मतां गता धीः सेन्द्रियदेहतादात्म्यं प्राप्ता बुद्धिः स्यादिति योजना । तां बुद्धिं पश्यन्न- वभासयन् ज्ञ आत्मा खतोऽपरिच्छिन्नोऽपि देहमात्र इव देहपरिमाणाव- च्छिन्न इवेक्ष्यते ज्ञायते भ्रान्त्या प्रतिभासते । अन्यथा मध्यमपरिमाणस्य घटादिवत्सावयवत्वेनानित्यत्वापतेः पारलौकिकसाधनप्रवृत्त्यसंभव- प्रसङ्ग इति दिक् । उक्तोपाधिमन्तरेणात्मनः स्वतःपरिच्छेदानुपल- म्भाधुक्तं तस्य ब्रह्मत्यम् । निरवयवस्य च परमार्थत उपाधिसंसर्गायोगा- युक्तं तस्मिन्सर्वस्य कल्पितत्वं चेति भावः ॥ २२ ॥ दिगम्बरमतनिराकरणेन यदनन्तस्वमात्मन उक्तं तदमृप्यमाणाः माझ्याः प्रत्यवतिष्ठन्ते-- क्षणिकं हि तदत्यर्थ धर्ममानं निरन्तरम् । सादृश्याहीपवत्तद्धीस्तच्छान्तिः पुरुपार्थता ॥ २३ ॥ क्षणिक हीति ॥ तज्ज्ञानं ज्ञेयं चेत्युभयं क्षणिक हि निश्चितम् । कतिपयानेकक्षणवर्तित्वशकां वारयति—अत्यर्थमिति । स्वरसमपुर- मित्यर्थः । धर्ममात्रं वस्तुमानं न स्थायि किंचिचस्याधिष्ठानमस्तीति मानस्यार्थः । तर्हि कथं विच्छेदो नोपलभ्यते तत्राह-निरन्तर- मिति । नरन्तर्येणोत्पद्यमानमित्यर्थः । यदि सर्व क्षणिकमेव कथं - + म १० उपदेशसाहस्री। [पार्थिव- तर्हि तदेवेदमिति सोऽहमिति च दृश्यद्रष्टविषयं प्रत्यभिज्ञानं घटत इत्याशङ्कय अतिसादृश्यादित्याह- सादृश्यादिति । तद्धीस्तदेवेद- मिति मतिस्तच्छान्तिस्तस्य स्थायित्वप्रतिभासस्य ज्ञानज्ञेयगतस्य तन्मू- लस्थाविवेकस्य च शान्तिरस्तमयः प्रतिभासनिवृत्तिरेव पुरुषार्थता । मोक्ष इत्यर्थः ॥ २३ ॥ सिद्धान्ती दूपणविभागज्ञानाय बौद्धमतभेदं विविच्य दर्शयति- खाकारान्यावभासं च येषां रूपादि विद्यते । येपां नास्ति ततश्चान्यत्पूर्वासंगतिरुच्यते ॥ २४ ॥ स्वाकारेति ॥ साकारस्यान्येन ज्ञानेनावभासोऽस्यास्तीति खाका- रान्यायभासं रूपादि बाखं वस्तु येषां बौद्धानां मते विद्यते, येषां च ज्ञानमात्रास्तित्ववादिनां मते ततोऽवभासाज्ञानादन्यद्वाझं रूपादि नास्ति, पूर्वार्धगतचकारायेषां मते विज्ञानमपि नास्ति शून्यमेव सर्व- मिति तत्र पूर्वासंगति ह्यार्थसत्त्ववादस्यासंगतिरघटमानता ताबदु- च्यत इति प्रतिजानीत इति योजना ॥ २४ ॥ तन्मतस्यासंगति प्रतिपादयति- वाह्याकारत्वतो जप्तेः स्मृत्यभावः सदा क्षणात् । क्षणिकत्वाच संस्कारं नैयाधत्ते कचित्तु धीः ॥२५॥ पाहोति ।। प्ते नस्यैव याह्याकारत्वतो वाह्यवस्त्याकारत्मप्रसहा- दित्यक्षरार्थः । ज्ञेयम्योत्पत्चेः पार तारजानसंबन्धो नास्ति । उत्पन्नस्य म स्वरमगद्गुरवारकमकारकतया ज्ञानात्यागपम्यानामापादनानेन संपन्धानिरपणाच प्रत्यक्षानुभनविगेधानित्यानुमेयत्वकल्पनानुपपत्तेश्च परिपामानम्याकारी विपय इति विनमानास्तित्यवादिमतमोग दति भावः । किंचानुभवितुरपि ते मते क्षणिस्त्वादन्यानुभूतेऽन्यस्य
प्रकरणम् १६]
पदयोजनिकान्याख्यायुता। १४७
स्मृत्यदर्शनादनुभूतविपयस्मृत्यभायश्च प्रसज्यतेत्याह-स्मृत्यभाव
इति । क्षणाक्षणिकत्वात्सदा स्मृत्यभावः प्रसज्यतेत्यर्थः । स्मृतिहेतु-
संस्कारोऽपिते दुर्लभ इत्याह-क्षणिकत्वादिति। धीः कचिदपि संस्कार
नैवायत्ते न निक्षिपति । सर्वस्य क्षणिकत्वादित्यर्थः । चशब्दान्न
खारमन्यपि स्वस्यापि क्षणिकत्वादित्यर्थः ॥ २५ ॥
कचिदित्युक्तं स्फुटयति-
आधारस्याप्यसत्त्वाच तुल्यतानिनिमित्ततः।
स्थाने या क्षणिकत्वस्य हानं स्यान्न तदिष्यते ॥२६॥
आधारस्येति ॥ यत्र संस्कार आधातव्य आत्मन्यन्तःकरणे वा
तस्याप्याधारस्य संस्काराधानकालेऽसत्त्वाच स्मृत्यभाव इत्यन्वयः ।
यदुक्तं सादृश्यनिबन्धनो भ्रम एव प्रत्यभिज्ञानमिति तडूपयति-
तुल्यतेति । इत आरभ्य क्रियमाणं दूपणं क्षणिकविज्ञानमात्रवादेऽपि
समानं ज्ञेयम् । तुल्यतानिनिमित्तत इत्येकं पदम् । तुल्यतायाः पूर्वा-
परक्षणयोः • सदृशत्वस्य निमित्ताभावादित्यर्थः । गुणैरवयवैर्वापि
सामान्यं सादृश्यव्यवहारनिमित्तं तद्विज्ञानानां नास्ति निर्गुणत्यान्निर-
वयवत्वाच । तथा पूर्वोत्तरक्षणयोएरेकस्यासत्त्वाच न सादृश्यसि-
द्धिः। अतस्तुल्यताया असिद्धेन तन्निबन्धनं प्रत्यभिज्ञानमित्यर्थः । अथ
पूर्वापरक्षणसादृश्यद्रष्टा स्थायी कश्चिदास्थीयते तत्राह–स्थाने वेति ।
तत्क्षणिकत्वहानं नेप्यते त्वयेति शेषः ॥ २६ ॥
यत्तु क्षणिकत्वादिभायनया स्थायित्वादिग्रान्तिशान्तिर्मुक्तिरित्युच्य-
ते बौद्धस्तदपि नोपपद्यत इत्याह-
शान्तेयायनसिद्धत्यात्साधनोक्तिरनर्षिका ।
एफैकस्मिन्समाप्तत्याच्छान्तेरन्यानपेक्षता ॥ २७॥
उपदेशसाहस्री। [पार्थिव- शान्तश्चेति ॥ शान्तेरयत्नसिद्धत्वमेव साधयति–एकैकलि- निति । भावानामेकैकस्मिन्क्षणे समाप्तत्यात्सतानन्य चावस्तुत्वादेकै- कस्मिंश्च प्रान्त्यभावाच्छान्तेरन्यनिरपेक्षता सिद्धा अतस्तत्साधनविधा- नोक्तिनिरवकाशेत्यर्थ ॥ २७ ॥ किंचास्मिन्मते लोकेऽपि साध्यसाधनभावो न घटत इत्याह- अपेक्षा यदि भिन्नेऽपि परसंतान इप्यताम् । साथै क्षणिके कस्मिंस्तथाप्यन्यानपेक्षता ॥ २८ ॥ अपेक्षा यदीति ॥ कार्यकारणलक्षणानामत्यन्तविलक्षणत्वाद्भि- न्नेऽप्यत्यन्त व्यावृत्तेऽपि क्षीरे यदि दलोपेक्षा तथा परसताने सिक- तादावपि दघ्नोपेक्षेप्यता अत्यन्तभेदाऽविशेपास्कर्थ नेप्यत इत्यर्थ । तथाच सिकताभ्योऽपि दधि जायेतेत्यतिप्रसङ्ग इति भाव । प्रसिद्ध- वटम्मेनातिप्रसङ्गपरिहारशङ्का तदीयामनूद्य निराकरोति–सर्वार्थ इति । सर्वस्य जनस्याथेऽयमाने कार्यकारणभावेन स्थिते दधिक्षीरादौ वस्तुनि क्षणिकेऽपि कस्मिंश्चित्क्षीर एव कस्यचिद्दघ्नोपेक्षा न सर्वत्रेति लोकप्रसिद्धेर्नातिप्रसङ्ग इति चेदिति शवानुवादार्थ । तथापि प्रसि- ध्याश्रयणेऽपि क्षणिकपक्षेऽन्यानपेक्षतैवेति परिहारभागार्थ ॥ २८ ॥ तत्र हेतुमाह- तुल्यकालसमुद्भूतापितरेतरयोगिनी। योगाच संस्कृतो यस्तु सोऽन्यं हीक्षितुमर्हति ॥२९॥ तुल्यकालेति ॥ यो मानौ तुल्यकालसमुद्भूतावेककालेन लव्या. मयी इतरेतरयोगिनी परम्पर सरद्धौ च यथा पर्जन्याकुरौ तयोर्मध्ये यस्तु मायोऽकरलक्षण पर्जन्ययोगात्सस्कृतश्च रब्धातिशयश्च भवेत्स दि सत्यन्यमुपकारिणमीक्षितुमपेक्षितुमर्हति न क्षणिरस्तथा प्रसिध- प्रकरणम् १६] पदयोजनिकान्याख्यायुता। १४१ भावात्, अतः क्षणिकानां भिन्नकालतया परस्परसंबन्धाभावेनोपका- योपकारकत्वायोगान्नापेक्षा घटयितुं शक्यत इति भावः ॥ २९ ॥ तदेवं क्षणिकमतं निराकृत्य शून्यमतं निराकरिष्यन्नादौ स्वमत- सामञ्जस्यमुपन्यस्यति- मृपाध्यासस्तु यत्र स्यात्तन्नाशस्तत्र नो मतः । सर्वनाशो भवेद्यस्य मोक्षः कस्य फलं पद ॥ ३० ॥ मृपेति ।। यद्वा वेदान्तमतेऽपि ब्रह्मात्मनोऽनाधेयातिशयत्वात्क्ष- णिकमत इव तुल्या मोक्षानुपपचिरित्याशङ्कय परमार्थतोऽतिशयायो- गेऽपि स्थायित्वात्फलत्वोपपत्तेमवमित्याह-मृपेति । यत्राधिष्ठाने ब्रह्मात्मनि कर्तृत्वादिसंसाराध्यासो मृपा मिथ्या । अथवा मृपाध्या- सोऽविद्यानिवन्धनो भ्रमः कर्तृत्वादिसंसारप्रतिभासो यत्र स्यादिति योजना । तत्राहं ब्रह्मास्मीति विद्यया तत्रैव तन्नाशोऽध्यस्तनाश इति नो मतोऽस्माकं मतमित्यर्थः । तथाच योऽज्ञानाद्वन्धानुभवांस्तस्य ज्ञानाइन्धनिवृत्त्या शुद्धखरूपानुभवः पुरुषार्थ इति वेदान्तिमतं समञ्जसमिति भावः । इदानी शून्यमते दोपमाह-सर्वनाश इति । अनुभवितुरभावाकस्य पुरुषार्थः। अधिष्ठानारोप्ययोरुभयोरपि नाशे फलाभावात्फलासिद्धेमोक्षासिद्धिरिति भावः ॥ ३०॥ सर्वनाश एव मोक्षो बलादापतति परमार्थस्वभावस्सास्तित्वे प्रमा- णाभावादित्याशङ्कयाह-- अस्ति तावत्स्वयं नाम ज्ञानं वात्मान्यदेव या। भावाभावज्ञतस्तस्य नामावस्त्वधिगम्यते ॥ ३१ ॥ अस्तीति ॥ स्वयं नामांस्तीत्यविवादं सर्ववादिनाम् । स च ज्ञानं वा आत्मा वान्यच्छून्यं वेति परं विकल्पस्तस्यामावस्तु नाधिगम्यते ।
[ पार्थिव- उपदेशसाहस्री । शून्यता तु न प्रामाणिकीत्यर्थः । कुत इति तत्राह-भावाभावशत इति । लोकव्यवहारसिद्धार्थानां भावाभावामिज्ञत्वादन्यथा स्थिरस्य कस्यचित्साक्षिणोऽभावे सर्वव्यवहारलोपप्रसङ्ग इत्यर्थः ॥ ११ ॥ तस्याप्यभावः कस्यचिद्भातीत्याशक्य यस्य भाति तस्यैव सत्त्वप्राप्तेन शून्यत्वशङ्कावकाश इति परिहरति- येनाधिगम्यतेऽभावस्तत्सत्यात्तन्न चेद्भवेत् । भावाभावानभिज्ञत्वं लोकस्स स्यान्न चेप्यते ॥ ३२॥ येनेति ॥ अथवा उक्तमेवार्थ प्रपञ्चयति-येनेति । येनाभावोऽधि- गम्यते सर्वस्य तत्सदेव स्यात् । विपक्षे दोषमाह-तन्न चेदित्यादिना । अस्तु लोकस्य भावाभावानभिज्ञत्वमिति चेन्नेत्याह-न चेप्यत इति । केनापि सोऽभिजो निराकर्तुं न शक्यते निराकर्तुरेव तत्त्वरूपत्वात्तस्य च सत्त्वातस्यापहववचनं खानुभवविरुद्धमेवेत्यर्थः ॥ ३२ ॥ यद्यपि भावाभावविभागज्ञ किंचिदस्तीत्यवगतं तथापि तत्कीदृश- मिति विशेपतो निर्धारणे कारणं नास्तीत्याशङ्कय तत्स्वरूपमुपपाद- यति-- सदसत्सदसचेति विकल्पात्माग्यदिप्यते । तदद्वैतं समत्वातु नित्यं चान्यद्विकल्पितात् ।। ३३॥ सदसदिति ॥ साक्षिखरूपं जगच सदसद्रूपमिति च यो विकल्पो विवादस्तसात्मागेच सिद्ध निरालम्यनविफल्पानुपपत्र्यख- रूपमिप्यते तत्त्वद्वैतम् । तत्र हेतु:--समत्वादिति । विकल्पात्माग्वैप- भ्यदेवभावादित्यर्थः । द्वैतजडविलक्षणत्वं तत्वरूपमभिधायाविना- शित्वं विशेषान्तरमाह-नित्यं चेति । अन्तविलक्षणत्वेन सत्यत्वं व विशेषान्तरमाह--अन्यद्विकल्पितादिति । विकरपात्माग्यदिप्यत प्रकरणम् १६] पदयोजनिकाव्याख्यायुता। इत्यत्र स्वतःसिद्धत्वोत्या ज्ञानखरूपत्यमुक्तं, अद्वैतमित्यानन्त्यमुक्तम् । नित्यमिति कूटस्थत्वोक्या दुःखाभावस्य सूचितत्वात्तदविनाभूतान- न्दरूपता ध्वनिता । तथाच सत्यज्ञानानन्तानन्दरूपमात्मतत्तमित्यनु- भवादेव सिद्धमिति न तत्र कारणान्तरं.मृग्यमिति भावः ॥ ३३ ॥ नानाविधे द्वैते प्रतीयमाने कथमद्वैतमात्मतत्त्वमनुभूयत इत्यत आह, यद्वा द्रप्टः सत्यत्वमुपपाद्य दृश्यस्य विकल्पामकतयानृतत्वं प्रतिपादयति- विकल्पोद्भयताऽसत्त्वं सादृश्यवदिप्यताम् । द्वैतस्य प्रागसत्त्वाच सदसत्त्वादिकल्पनात् ॥ ३४ ॥ विकल्पोद्भवत इति ॥ द्रुतस्यासत्त्वं परमार्थत्वाभाव इप्यताम् । कुतः विकल्पोद्भवतो विकल्परूपेणोद्भूतत्वात्स्समदृश्यवदिति योजना। द्वैतं न परमार्य सत् दृश्यत्वात्सप्नदृश्यवदित्यर्थः । हेत्यन्तरमाह- प्रागिति । सदसत्वादिविकल्पनात्प्रागसत्त्वाच्च स्वप्नदृश्यवदिति संवन्धः । नहि द्वैतस्याज्ञातसत्त्वे प्रमाणमस्तीति भावः ॥ ३४ ॥ न्यायतो द्वैतमिथ्यात्वमुपपाद्य शास्त्रादपि तन्मिथ्यात्वमुपपन्न- मित्याह---- चाचारम्भणशास्त्राय विकाराणां ह्यभावता । मृत्योः स मृत्युमित्यादेर्मम मायेति च स्मृतेः ॥३५॥ वाचारम्भणेति ॥ 'वाचारम्भणं विकारो नामधेयं' इति श्रुति- शास्त्राद्विकाराणामभावता सिद्धेति शेषः । वाचारम्भणशब्दो खनृत- स्ववचनोऽवगम्यते । मृतिकेत्येव सत्यमिति कारणे सत्यत्वावधारणादि- त्यर्थः । मृत्योः स मृत्युमिति शास्त्रेण द्वैतदर्शनस्य निन्दितत्वात्सा त्यत्वे द्रुतस्य तदयोगादर्थादनृतत्वं तस्योक्तमित्यर्थः । आदिशब्दात [पार्थिव- उपदेशसाहस्री। 'नेह नानास्ति किंचने'त्यादिसाक्षाद्वैतापवादक शास्त्रं गृह्यते । मम मायेत्पन्न मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते' इति गुणमय्याः सकार्याया मायायाः परमात्मज्ञाननिवर्त्यत्वस्य भगवतोऽनुशासना- सत्यत्वे तदनुपपत्तेर्मायिकत्वं द्वैतस्य सिद्धमित्यर्थः ॥ ३५ ॥ तदेवं श्रुतियुक्तिभ्यां द्वैतमिथ्यात्वप्रतिपादनेनात्मनोऽद्वितीयत्वे दृढीकृते सत्वशुद्धिकारणाभावात्तस्य विशुद्धिरपि सिध्यतीत्याह--- विशुद्धिश्चात एवास्य विकल्पाच विलक्षणः। उपादेयो न हेयोऽत आत्मा नान्यैरकल्पितः ॥३६॥ विशुद्धिरिति ॥ अस्यात्मनो विशुद्धिः धर्माधर्मतत्फलसंस्पर्शाभा- वः। अतएव द्वैतस्सानृतत्वादेव सच यतो विकल्पाद्विलक्षणस्तद्विपरीत- स्वभावोऽतएवात्मा नोपादेयो हेयो वा भवति । हानोपादाने हि मूर्त- विषये नामूर्ते प्रत्यगात्मनि ते संभवत इत्यर्थः । फिंचान्यैरकल्पितोऽन्यैः फल्पयितुमशक्यत्वादपि विशुद्ध एवात्मेत्यर्थः । नहि सर्वकल्पनाधि- छान केनचित्कल्पयितुं शक्यते अतो नित्यशुद्ध इति भावः ॥३६॥ कस्सादात्मा कल्पितो न भवतीत्याशय कल्पनाहेतोरज्ञानस्य वस्तुत आरमन्यभावादित्याह- अप्रकाशो यथादिसे नास्ति ज्योतिःस्वभावतः। निसबोधस्वरूपत्वानाजानं तद्वदात्मनि ॥ ३७॥ अप्रकाश इति ॥ अनात्मनोऽजानकल्पितत्वादेव तत्र तदभाव इति द्रष्टव्यम् ॥ ३७॥ यथा नित्यत्रोधस्वरूपत्याटनानमात्मनि वस्तुतो नास्ति तथा सर्व- विक्रियारहितसमाचत्वादवसान्तरं कूटम्यतांप्रच्युतिरूपं तस्य नास्ती- त्याह- प्रकरणम् १६] पदयोजनिकाव्याख्यायुता। १५३ तथाविक्रियरुपत्यानावस्थान्तरमात्मनः। अवस्थान्तरवत्त्वे हि नाशोऽस्य स्थान संशयः ॥३८॥ तथाविक्रियेति॥ विपक्षे दोपमाह-अवस्थान्तरवत्त्वे हीति॥३८॥ मोक्षस्यावस्थान्तरत्वात्कथमवस्थान्तराभाव इति तत्राह- मोक्षोऽवस्थान्तरं यस्य कृतकः स चलो खतः। न संयोगो वियोगो वा मोक्षो युक्तः कथंचन ॥३९॥ मोक्ष इति ॥ यस्य वादिनो मते मोक्षोऽवस्थान्तरमात्मनः स्यात्तस्य मते कृतको मोक्षः स्यात्प्रागवस्थायोगित्यानुपपत्तेः, अतः स मोक्षश्चलो- ऽनित्य एव स्यादित्यपुरुषार्थतापत्तिरित्यर्थः । मामूदवस्यान्तरं मोक्ष- स्तथापि ब्रह्मणः संयोगो वा प्रकृतेर्वियोगो या मोक्षो भविष्यतीति मतान्तरमाशङ्कय प्रत्याहन संयोग इति ॥ ३९ ॥ अयुक्तत्वे हेतुमाह- संयोगस्याप्यनित्यत्वाद्वियोगस्य तथैव च । गमनागमने चैव स्वरूपं तु न हीयते ॥ ४० ॥ संयोगसेति ॥ कृतकस्यानित्यस्य नियमादित्यर्थः । ननु जीवस्य संसारदेशात्परमात्मनो वा खोपासकानुग्रहाय तं प्रत्यागमन मोक्ष इत्याशयाह-गमनागमने चेति । न मोक्षो युक्त इति पूर्वेणा- नुपङ्गः । जीवपरयोईयोरप्यविक्रियत्वाद्गमनागमनायोगादित्यर्थः । पर- मते दोपमुक्त्वा खमते निदोपतामाह---स्वरूपं विति । न हीयते न विनश्यति, अत आत्मस्वरूपमेव मोक्षो युक्त इत्यर्थः ॥ ४०॥ आत्मस्वरूपमोक्षस्य नित्यत्वेऽकार्यत्वे हेतुमाह- खरूपस्यानिमित्तत्वात्सनिमित्ता हि चापरे । अनुपातं खरूपं हि खेनात्यकं तथैव च ।। ४१ ॥
[पार्थिव- . - १५४ उपदेशसाहस्री। स्वरूपस्येति ॥ नास्ति निमित्तं कारणं यस्य तदनिमित्तं तस्य भावोऽनिमित्तत्वं तस्मादकार्यत्वादित्यर्थः । अपरे अवस्थान्तरादयः सनिमिचा हीत्यतोऽनित्याः स्युरित्यर्थः । खरूपस्यानिमित्त तल्लक्ष- णोक्त्या साधयति—अनुपातमिति । स्वरूप हि नाम तद्यत्वेनान्येन वा नोपात्तमुपार्जितं न भवति । तथा सेनान्येन वा त्यक्तमिति न भवति । नघुपादेयं वा वस्त्रादे. खरूपत्वं दृष्टम् अतो नागन्तुकं वस्तु स्वरूप किंतु नित्यमेवेत्यर्थः ॥ ११ ॥ उक्तं स्वरूपलक्षणमात्मनि लक्ष्ये योजयति- खरूपत्वान्न सर्वस्य त्यक्तुं शक्यो ह्यनन्यतः । गृहीतुं या ततो नित्योऽविपयत्वात्पृथक्त्वतः ॥४२॥ खरूपत्वादिति ॥ सर्वस्याकाशादेः स्वरूपत्यादारोपितसादे रज्ज्वादिवत्सर्वस्यात्मभूतत्वात्त्यक्तुं गृहीतुं वा न शक्य आत्मा । कुत । हि यसादनन्यतो भेदाभावादित्यर्थः । हेयोपादेयत्वाभावे सिद्धे फलितमाह-गृहीतुमिति । आत्मन उपादानहानयोरयोगे पुनरपि क्रमे हेतुद्वयमाह-अविपयत्वात्पृथक्त्वत इति । नवविषय उपादीयते खरूपं वा त्यज्यत इति युज्यत इत्यर्थः ॥ ४२ ॥ आत्मनो नित्यत्वे हेत्वन्तरमाह--- आत्मार्थत्वाय सर्वस नित्य आत्मैव केवलः। सजेत्तस्मानियाः सर्वाःसाधनैः सह मोक्षवित्॥४३॥ आत्मार्थत्वाचेति ॥ सर्वस्यागमापायिन आत्मार्थत्वादात्मभोग्य- वात्तेप्वनागमापाय्यभोक्तात्मा नित्य एवेति योजना | केवलो निरु- पाधिरित्यर्थः । उपाधितोऽप्यस्य विशेषो नास्तीत्यर्थः । यस्मादात्मा नित्योऽन्यत्सर्वमनित्यमात्मार्थ सर्व च स्वात्मन्यवस्थानं मोक्ष इति - प्रकरणम् १६] पढयोजनिझाव्याख्यायुता। सिद्धम् तस्मान्मुमुक्षुणा ससाधनं सर्व कर्म त्याज्यमित्याह- त्यजेदिति ॥ १३॥ इतोऽपि मुमुक्षुणा क्रिया त्याज्येत्याह-- आत्मलाभः परो लाभ इति शास्त्रोपपत्तयः। अलाभोऽन्यात्मलाभस्तु यजेत्तस्मादनात्मताम् ॥४४ आत्मलाभ इति ॥ आत्मलाभान्न परं विद्यत इति स्मृतिः शास्त्रम् । सर्वस्वत्यागेनाप्यात्मसंरक्षणप्रवृत्तिदर्शनमुपपत्तिः । बहुवचन- प्रयोगादनेकत्वं शास्त्रोपपत्तीनां सूचयति । आत्मलाभस्य नित्यसिद्ध- वात्किमिदमपूर्वमियोच्यत इत्यत आह-अलाम इति । अन्यस्मि- न्याज्ञानपरिनिप्पन्नेऽहंकारादावमेदेनात्मस्फुरणमन्यात्मलाभ उच्यते स तु लामो न भवति संसारदुःखहेतुत्वात् खतःसिद्धपरमानन्दा- विर्भावप्रतिबन्धकत्वात्प्रत्युत क्षतिरेवेत्यर्थः । तस्मादनात्मतामहंकारा- द्यात्माभिमानितामविद्याध्यारोपितां प्रमाणजनित ब्रह्मात्मज्ञानेनाज्ञान- बाधनद्वारा त्यजेढित्यर्थः ।। ४४॥ आत्मतत्त्वब्रह्मवरूपावगम आत्मलाभ एव परमो लाभः परम- पुरुषार्थ इत्यात्मैक्यज्ञानं मोक्षसाधनमात्मा चाव्यानन्दरूपस्तस्मिन्न- ज्ञानमूलः संसारो न परमार्थत इति स्वमतमभिधाय तत्रैव मुमुक्षूणां मतिस्थैर्याय मतान्तरनिराकरण कर्तुमारभमाणो भगवान्भाप्यकारः सांस्यकल्पनां तापन्निराकरोति- गुणाना समभावस्य अंशो न ह्युपपद्यते । अविद्यादेः प्रसुप्तत्यान्न चान्यो हेतुरुच्यते ॥ ४५ ॥ गुणानामिति ॥ तत्र यत्प्रधानं त्रिगुणात्मकं सतन्त्रमचेतनं [पार्थिव- उपदेशसाहस्री। पुरुपस्य भोगापवर्गार्थ महदादिरूपेण परिणमत इति कल्पयन्ति तत्तावन्न संभवति । यतो गुणानां सत्वरजस्तमसां समभावस्य सृष्टि- प्राक्कालीनमेलनस्य अंश. प्रच्युतिः पूर्वावस्थात्यागेनावस्थान्तराप- चिरूपः परिणामो दुर्घटत्वान्नोपपद्यते । कुत इतिचेत्तत्र वक्तव्यं किं निर्हेतुक एव गुणपरिणाम इप्यते सहेतुको वा। नाद्यः। सदा परिणामप्रसङ्गात् । द्वितीयेऽप्यविद्याप्राप्यदृष्टपुरुष एव हेतुस्तदन्यो वा परमेश्वरः । नाच इत्याह-अविद्यादेरिति । तस्यामवस्थायाम- विद्यादेः प्रसुप्तत्वाल्लीनत्वात्पुरुषाणामुदासीनत्वान्न तन्निमित्तः साम्या- वस्थाअंश इत्यर्थः । न द्वितीय इत्याह-नचान्य इति । अविद्या- दिभ्योऽन्यपरमेश्वराङ्गीकारेऽपसिद्धान्तप्रसङ्ग इत्यर्थः ।। ४५ ।। गुणानामन्योन्य प्रवृत्तिहेतुत्वं स्यादिति चेत्तत्राह- इतरेतरहेतुत्ने प्रवृत्तिः स्यात्सदा न था। नियमो न प्रवृत्तीनां गुणेप्वात्मनि वा भवेत् ॥४६॥ इतरेतरेति ॥ अस्मिन्पक्षे प्रयोजकान्तरप्रतीक्षानपेक्षणात्सदा प्रवृत्तिः परिणामः स्यान्न वा स्याद्विशेपाभावादित्यर्थः । अथ क्रमेणो. त्पत्तिस्थितिसहाराणां प्रसिद्धत्वान्न सदा तत्प्रसङ्ग इति तत्राह- नियम इति । नियम्यतेऽनेनेति नियमो नियामको हेतुः । प्रवृत्तीनां गुणकार्योत्पत्त्यादीनां गुणेषु सत्त्वादिप्वात्मनि पुरुपे वा यतो न भवेन्न समवेदतः सदा प्रवृत्ति; स्यादिति योजना । नहि गुणपुरुषा- तिरिक्तं किंचित्तत्वमभ्युपगतमस्ति सांख्यैर्यद्गुणेषु वा पुरुषेषु वा स्सिला प्रवृत्त्यादिनियामकं स्यादित्यर्थः ॥ १६ ॥ यथाकथंचिदस्तु वा प्रधानप्रतिस्तथापि दोपप्रसक्तिः परिहतु न पार्यत इत्याह-- प्रकरणम् १६] पदयोजनिकान्याल्यायुता। १५७ विशेपो मुक्तवद्धानां तादयन च युज्यते । अार्थिनोस्त्वसंवन्धो नार्थी शो नेतरोऽपि वा॥४७॥ विशेप इति ।। तादध्यें प्रधानस्य पुरुषार्थत्वेसति बद्धमुक्तानां विशेषो न युज्यते । नहि सर्वपुरुषान्प्रति साधारणे प्रधानस्यैकस्य व्यापारे केचिद्वद्धाः केचिन्मुक्ता इति व्यवस्थोपपद्यते । तथाच सर्व एव सदा बद्धा मुक्ता वा स्युरित्यर्थः । किंचास्मिन्मतेऽर्थाथिनोः शेपशेषिणोः संबन्धश्च न युज्यत इत्यन्वयः । अर्थ्यते प्रार्थ्यते इत्यर्थः । सुखतत्साधनरूपः पदार्थः सोऽमिलपितो विद्यते यस्य सोऽर्थी तयोः संबन्ध उपकार्योपकारकमावलक्षणः स प्रधानवादे न युज्यते न घटत इत्यर्थः । कुत इत्यत आह–नेति । ज्ञो ज्ञानक- स्वभावः पुरुषो नार्थयुक्तस्तस्यासङ्गत्वनिविशेषत्वाभ्युपगमान्नेतरोऽपि वा प्रधानाख्योऽपि नार्थी जडत्वादेवेत्यर्थः । तस्मात्प्रधानस्य परार्थत्व- कल्पनमयुक्तमिति भावः ॥ १७ ॥ एवं प्रधानस्य पुरुपान्प्रति प्रवृत्तिमङ्गीकृत्याव्यवस्थोक्ता सापीदानी न घटत इति साधयति- प्रधानस्य च पारार्थे सुरुपस्याविकारतः। न युक्तं सांख्यशास्त्रेऽपि विकारेऽपि न युज्यते ॥४८॥ प्रधानस्येति ॥ पुरुपस्याविकारतः प्रधानकृतातिशययोगित्वल- क्षणविकाररहितत्वात्प्रधानस्य पारायं च न युक्तमिति योजना। नानुविधेयकृतातिशयायोगिनि खामिन्युपपद्यत इत्यर्थः । यदि पुरुषस्य प्रधानपति स्वाम्योपपत्तये विकारोऽप्यनीक्रियते तदाङ्गीकृतेऽपि विकारे प्रधानस्स पाराय न युज्यते । विकारवतो नित्यत्वनियमा- नित्यप्रधानखाम्यायोगादित्यर्थः । सांख्यशास्त्रेऽपीत्यपिशब्दान्न वेद- [पार्थिव- उपदेशसाहस्री।। बाह्यशास्त्रेप्वेवाव्यवस्था किंतु सांख्यशास्त्रेऽपीति तस्यापि 'बुद्धिमूलत्वं न सम्यग्वेदमूलत्वमस्तीति द्योत्यते ॥ १८ ॥ प्रधानपुरुषयोः संबन्धाभावमुक्त प्रपञ्चयति- संवन्धानुपपत्तेश्च प्रकृतेः पुरुषस्य च । मिथो युक्तं तदर्थत्वं प्रधानस्याचितित्वतः ॥ ४९ ॥ संबन्धानुपपत्तेश्चेति ॥ पुरुपस्यासगोदासीनस्वभावत्वात्प्रकृते- जडत्वेन खतःप्रवृत्त्यनुपपत्तेः तयोमिथः संबन्धानुपपत्ते प्रधानस्य तादयं पुरुषार्थत्वमयुक्तं युक्तिशून्य अचितित्वतो जडत्वात् । प्रधा- नस्य भृत्यवदुपकारकत्वासंभवादित्यर्थः । अतः प्रधानपुरुपयोरार्थित्व- कल्पना न युक्तेति भावः ॥ ४९ ॥ पुरुषस्याविकारत इत्युक्तामविकारित्व स्पष्टयति- क्रियोत्पत्तौ विनाशित्वं ज्ञानमात्रे च पूर्ववत् । निनिमित्त त्वनिर्मोक्षः प्रधानस्य प्रसज्यते ॥ ५० ॥ क्रियोत्पत्ताविति ॥ पुरुषे यत्किचिस्कियोत्पत्तौ अभ्युपगम्यमा- नाया निनाशिवं तस्य प्रसज्येत यक्रियावत्तदनित्यं यथा घटाढीति व्याप्तिदर्शनात् नित्यश्च पुरुषोभ्युपगम्यते साख्यरित्यर्थः । ननु न परि- स्पन्द परिणामो वा पुरुषस्य क्रियाभ्युपगम्यते येनानित्यत्वप्रसङ्गः, किंतु ज्ञानमेव क्रियाभ्युपगम्यते इति चेत्तर्हि जन्यमजन्य वा ज्ञानमभ्युपेयते, नोभयथापि घटत इत्याह-ज्ञानमात्रे च पूर्वव- दिति । जन्यज्ञानयोगे विकारित्वादनित्यत्वापत्तिरजन्यज्ञानयोगित्वे न प्रधानप्रति खाम्यसभव इत्युक्तटोपापचिरित्यर्थः । तस्मात्पुरुषस्यामझो- दासीनत्वादनाधेयातिशयत्वात्प्रवर्तक्त्वानुपपशेरन्यस्य च हेत्वन्तरस्य प्रधानविकारातिरिक्तस्यानभ्युपगमाप्रलये च प्रधानविकाराणामलधा- प्रकरणम् १६] पदयोजनिकाव्याल्यायुता । १५९ मतया प्रवर्तकत्वायोगान्निनिमित्तैव प्रधानप्रवृत्तिरङ्गीकार्य । तथाचा- व्यक्सा सुस्पैवेति प्रतिपादयत्नुपसंहरति-निर्निमित्त इति । प्रधानस्य व्यापारे निर्निमित्तेऽभ्युपगम्यमाने तस्य सर्वदा प्रवृत्तिसंभवात् दृक्शन तिमतां पुरुषाणां तद्दर्शनस्यावर्जनीयत्वादनिर्मोक्षः प्रसज्येत, अत इत्यमव्यवस्थितं सांख्यशास्त्रं न मुमुक्षुभिः श्रद्धेयमिति भावः ॥५०॥ निर्गुणपुरुषमतप्रक्रियां निराकृत्य सगुणाः पुरुपा इति वैशेपिक- मतप्रक्रियां दूषयति- न प्रकाश्यं यथोष्णत्वं ज्ञानेनैवं सुखादयः । एकनीडत्वतोऽग्राह्याः स्युः कणादादिवर्मनाम्॥५१॥ न प्रकाश्यमित्यादिना ॥ आत्मगतेन ज्ञानेनात्मगताः सुखा- दयो गुणाः प्रकाशन्त इति हि ते मन्यन्ते तन्नोपपद्यते । तथाहि यथोष्णत्वममिनिष्ठमग्निनिप्टेन प्रकाशेन न प्रकाश्यं प्रकाशाई न भवति एकाश्रयत्वादेवं सुखादयो गुणा आत्मनिष्ठेन ज्ञानेनानाया न ग्राह्याः स्युः । कुतः । एकनीडत्वत एकाश्रयत्वात् । कणादादि- वर्मनां मत इत्यर्थः । विपयविपयिणोः सगानदेशत्वे ग्राह्यमिदं ग्राहकमिदमिति च भेदनियमो न सियेदिति भावः ।। ५१ ।। न केवलमेकाश्रयत्वादेव ज्ञानमुखादीनां भास्यमासकत्वानुपपत्ति- रपितु योगपद्यासंभवादपीत्याह- युगपत्समवेतत्वं सुखविज्ञानयोरपि । मनोयोगैकहेतुत्वादग्राह्यत्वं सुखस्य च ॥ ५२ ॥ युगपदिति ॥ नेति पूर्वश्लोकाटनुवर्तनीयम् । तथाचायमर्थः- सुखविज्ञानयोर्न युगपत्समवेतत्वं संभवति । कुतः । मनोयोगैकहेतु-
[पार्थिव-
उपदेशसाहस्री।
स्वान्मनासयोगस्यासमवायिकारणस्पैकनेवानगुणप्रति हेतुत्याभ्युपग-
मात्तथाच सुखासमवायिकारणमनःसंयोगनाशे सुखस्य नाशासंयो-
गान्तरासमवायिकारणज्ञानेन सुखस्स न ग्राह्यत्वं प्रत्यक्षत उपपद्यते
इति । अपिशव्दात्समवायोऽपि न प्रमाणयुक्तिपथमवतरतीति द्योत्यते ।
चशब्दादात्ममनसोनिरवयवयोः प्रदेशाभावादात्मनोरिव संयोगानुप-
पत्तिः संयोगे वा विभोरात्मनो विभागानुपपत्तिस्तदभावे संयोगान्त-
रानुपपत्ती ज्ञानादिकार्यक्रमानुपपत्तिः । कार्याणां समवायिकारणदेशा-
नतिवतित्यनियमदर्शनादन्यत्रेहापि तत्प्रसङ्गेऽणुपरिमाणमनःसंयोग-
स्थाणुदेशमात्रवर्तितया तत्कार्यस्यापि तन्मात्रवर्तित्वे सकलशरीरगता-
स्मवेदनाया अप्रत्यक्षत्वप्रसङ्ग इत्यादिदूषणगणः समुच्चीयते ॥ ५२ ।।
सुखवदेव दुःखेच्छाद्वेषप्रयत्नानामप्यग्राह्यत्वं न्यायसाम्यादित्याह-
तथान्येपां च मिन्नत्वायुगपजन्म नेप्यते ।
गुणानां समवेतत्वं ज्ञानं चेन्न विशेषणात् ॥ ५३ ॥
तथेति ॥ अन्येषां गुणानां भिन्नत्वात्परस्परविलक्षणत्वाज्ज्ञान-
सुरायोरिव युगपजन्म नेप्यते एकस्यात्ममनःसंयोगस्यानेककार्यहेतु-
त्वासमवस्योक्तवादित्यर्थः । चकारादेकाश्रययोविषयविषयित्वायोगः
पूर्वोक्तः संगृह्यते । गाभूज्ज्ञानभास्सत्यं सुखादीनामेकसिन्नात्मनि
समवेतत्वमेव तेपां ज्ञानं नामेत्याशङ्कय जानेन तेषां विशेपितत्वा-
मैवमित्याह---गुणानामिति । ज्ञातं सुखं ज्ञातं दुःखमिति विशिष्ट-
व्यवहारदर्शनादित्यर्थः ॥ ५३॥
एतदेव विशदयति--
ज्ञानेनैव विशेपत्याज्ज्ञानाप्यत्वं स्मृतेस्तथा ।
सुसं ज्ञातं मयेसेवं तवाज्ञानात्मकत्वतः ॥ ५४ ॥
प्रकरणम् १६] पदयोजनिकान्याख्यायुता। १६१ ज्ञानेनैवेति ॥ ज्ञानेन विशेषत्वादेव ज्ञानाप्यत्वं सुखादीनामेष्ट- व्यमित्यर्थः । ज्ञानाहितसंस्कारजन्यस्मृतिविपयत्यादपि ज्ञानाप्यत्वं मुखादेरेष्टव्यमित्याह-स्मृतेस्तथेति । सुखं मया ज्ञातमित्येवं स्मृते- रिति संबन्धः । किंच ज्ञानविशिष्टात्मसमवेतत्वं सुखादेनिमिष्यते केवलात्मसमवेतत्वं वा। नायः। युगपत्क्षणिकात्मविशेषगुणानां समवा- यासंभवस्योक्तत्वादात्मगतसंख्यापरिमाणादेरपि ग्रहणप्रसङ्गाचेत्यभि- प्रेत्य द्वितीयं दूपयति-तवेति । तव मते आत्मनो ज्ञानभिन्नत्वाद्ध- टबद्रव्यमानत्वात्तत्समवेतत्वमात्रेण न सुखादिसिद्धिः सर्वस्य जडत्वा- दित्यर्थः ।। ५४ ॥ ज्ञानसुखादीनामात्मगुणत्वाभ्युपगमेन भास्यभासकत्वासंभव उक्तः, इदानी तेपागात्मगुणत्वमपि दुर्भणमित्याह- सुखादेर्नात्मधर्मत्वमात्मनस्तेऽविकारतः । भेदादन्यस्य कस्मान्न मनसो वा विशेपतः ॥ ५५॥ मुखादेरिति ॥ सुखादेरात्मधर्मत्वं न संभवति । ते तव मते आत्मनो विकारतो विकारित्वाभावाद्विभुत्वाझीकारेण नित्यत्वाभ्युपग- मात् । नहि नित्यमनित्यगुणकमिति मांप्रति दृष्टान्तः कोऽपि विद्यतेऽतो नात्मनो गुणवत्त्वसिद्धिः । दूरे ग्राह्यग्राहकत्वकल्पनेति भावः । किंच गुणगुणिनोरत्यन्तभेदवादिनस्तव मते अस्यैवात्मनोऽयं सुखादिरिति नियमोऽपि दुर्घट इत्याह-भेदादिति । अन्यस्मात्मान्तरस्य मनसो वा फस्मात् सुखादयो गुणा न स्युरविशेपितो भेदाविशेपादित्यक्ष- रार्थः । अयमाशयः--सर्वात्मनां विमुत्याहीकारायच्छरीरावच्छेदे- नात्मनि सुखादयो जायन्ते तत्र तदा सर्वात्मनां सत्त्वात्तद्भेदस्य च तत्रानवगमादस्यैवात्मनोऽयं मुखादिधर्मो नान्यस्येति नियन्तुं न [ पार्थिव- उपदेशसाहस्री। शक्यते । न मनःसंयोगभेदो नियामको मनस्यपि सर्वात्मसंबन्धस्या- विशेषात् । नाप्यदृष्टभेदो नियामकस्तस्याप्यात्मधर्मत्वासिद्धेरदृष्टहेतु- प्रयलादेरपि गन सयोगनिमित्तकत्वाचस्स च सर्वात्मसु विशेपासिद्धर- दृष्टस्यापि नाश्रयविशेषसिद्धिरिति । यत्र कुत्रापि जायमानं मुखादि यस्य कस्यापि कमान्न स्यात्तथा मनसः क्रियावत्त्वान्मूर्तत्वात्मुखादि- देशाव्यभिचाराच तस्यैव कस्ताद्धर्माः सुखादयो न स्युर्विनिगमना- भावादिति ॥ ५५॥ यद्यपि वैशेषिकर्ज्ञानस्य ज्ञानान्तरवेद्यत्वमिप्यते तदप्ययुक्तमनव- स्थाप्रसङ्गादित्याह-~- स्यान्मालाऽपरिहार्या तु ज्ञानं चेन्शेयता प्रजेत् । युगपद्वापि चोत्पत्तिरभ्युपेतात इष्यते ॥ ५६ ॥ स्यान्मालेति॥अयमर्थ -येनात्मन. संयोगेन प्रथम ज्ञानं जायते तदन्येन संयोगान्तरेण तद्विपयं ज्ञानान्तरं जायते किंवा तेनैव सयोगेन । आये दोपमाह -स्यादिति । ज्ञानं चेज्जेयतां ब्रजेत्तदा- ऽपरिहार्या ज्ञानमाला ज्ञानपरम्परा स्यात् । ज्ञानानवस्था स्यादित्यर्थ. । विषयावभाससमये यदि जानं नावमासेत तदा विषयः स्वयमेव भासते ज्ञानाधीनतया चेति विधेनुगशक्यत्वात्तदैव ज्ञानभानं नाना- न्तरमेष्टव्य तस्याप्यभाने पूर्वज्ञानस्य ज्ञानान्तरभास्यत्वासिद्धेस्तदानाय बनान्तरमिति दुर्निवारानवस्या स्यादिति भावः । तुशब्दश्चार्थः । तेनच प्रथमज्ञानोत्पत्यनन्तरं मनसि किया ततो विभागस्ततः पूर्व- संयोगनाशततः संयोगान्तरं ततो बानान्तरमिति बहुक्षणविलम्मेनो- यद्यमानमुत्तरमानं पूर्वज्ञानापमासनं फथ कुर्यात्तस्य तदानीमभावादि- त्यादियुत्तयन्तरं समुचीयते । अथ द्वितीय कल्पमनूद्यातिप्रसङ्गेन
प्रकरणम् १६] पदयोजनिकान्याख्यायुता।
दूषयति--युगपदेति । अपिचानवम्पादोपपरिजिहीर्पया पूर्वोत्तरज्ञान-
योरेकस्मादेव संयोगायुगपद्धोत्पत्तिरभ्युपेता चेदित्यनुपज्यते तदातो-
ऽसादेव संयोगायुगपत्संनिकृष्टरूपरसगन्धशब्दस्पर्शज्ञानानामपि तदै-
वोत्पत्तिरिप्यतां तदा संस्कारोबोधसंपाते सहकारिलाभाचदर्थस्मृती-
नामप्युत्पत्चिरिप्यतामतो न ज्ञानस्य ज्ञानान्तरवेद्यत्वकल्पना युक्तिम-
तीति स्थितमित्यर्थः ।। ५६ ॥
किंचात्मनश्चैतन्यं स्वरूपलक्षणमुच्यते तटस्थलक्षणं वा । आये
पृथिव्यादौ गन्धादिवत्सनातनत्वाचस्य च स्वरूपानतिरेकादनित्यज्ञान
आत्मेत्युद्धोपो मृषैव स्यात्, द्वितीये तु सरूपलक्षणमन्यदनात्मासा-
धारणं वक्तव्यं तच चेतनातिरिक्तं न किमपि संभावितमस्त्यतो
देहादिजडविलक्षणमात्मानमभ्युपगच्छता सदा निर्षिशेपचिपः
कूटस्थ एवात्माभ्युपेतव्योऽन्यथा विकारिणोऽनित्यत्यनियमाद्वन्धमो-
क्षान्वय्येक आत्मा भवतीति दुःसंपादमित्येतत्सर्वमभिप्रेत्याह-
अनवस्थान्तरत्वाच वन्धो नात्मनि विद्यते ।
नाशुद्धिश्चाप्यसङ्गत्वादसङ्गो हीति च श्रुतेः ।। ५७ ।।
अनवस्थान्तरत्वाञ्चेति ॥ नास्त्यवस्थान्तरं यस्य सोऽनवस्थान्तरं
तस्य भावोऽनवस्थान्तरत्वं तस्मादिति विग्रहः । आत्मन इति शेपः ।
तथाचात्मनः कूटस्थत्वाचस्सिन्नात्मनि वन्धो विशेषगुणवत्त्वलक्षणः
परमार्थतो न विद्यते । चकारातन्नित्तिरूपो मोक्षोऽपि न विद्यत
इति योज्यम् । तसाानित्यशुद्ध एवात्मेत्यत्र प्रमाणं वदन्परकल्पना-
निराकरणफलमाह-नाशुद्धिश्चापोति । स्वगतधर्मकृतबन्धाभाववद-
न्यसंसर्गकृताशुद्धिरपि न चास्त्यसङ्गत्वादित्यर्थः ॥ ५७ ॥
इतश्च नात्मनः पारमार्थिको बन्ध इत्याह-
सूक्ष्मैकागोचरेभ्यश्च न लिप्यत इति श्रुतेः ॥ ५८ ॥
[पार्थिव- उपदेशसाहस्री। सूक्ष्मेति ।। सूक्ष्मत्वं मनोवागगन्यत्वमेकत्वमद्वितीयत्वमगोचरत्वं निर्विशेषत्वमेतेभ्यश्च हेतुभ्यो नित्यशुद्ध एवात्मा 'न लिप्यते लोक- दुःखेन बाह्य' इति श्रुतेरित्यर्थः । 'यथा सर्वगतं सौम्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते' इति भगव- द्वचनं चात्रोदाहर्तव्यम् । अधश्लोकः ॥५८॥ एवमात्मनो नित्यशुद्धबुद्धमुक्तखभावत्व साधयतो वेदान्तिन आत्मोपदेशशास्त्रानर्थक्यमित्याक्षिपन्ति पूर्ववादिनः- एवं तर्हि न मोक्षोऽस्ति बन्धाभावात्कथंचन । शास्त्रानर्थक्यमेव स्यान्न बुद्धान्तिरिष्यते । वन्धो मोक्षश्च तन्नाशः स यथोक्तो न चान्यथा ५९॥ एवं तहीति ॥ यदीत्यध्याहार्यम् । यद्येव नित्यशुद्ध आत्मा तहि कथचन केनापि रूपेण वन्धाभावान्मोक्षोऽपि नास्ति बन्धपू- कलान्मोक्षस्य तदभावेऽभावातथाच मोक्षोपायोपदेशशास्त्रानर्थक्य- मेव स्यादिति । उत्तरमाह-न युद्धरित्यादिना । बुद्धनौन्तिः बन्ध इप्यत इत्यन्वयः । तन्नाशो प्रान्तिनाशो मोक्ष इति चेप्यते न परमा- थत इत्यर्थः । स बन्धो यथा पूर्वमुक्तोऽज्ञानं कल्पनामूलं संसारस्य नियामकमिति । तथैव न चान्यथा तथाचाज्ञानकल्पितवन्धभ्रमनि- वृत्त्यर्थत्वादुपदेशशास्त्रस्य न वैयर्यप्रसङ्ग इत्यर्थः ॥ ५९ ।। अज्ञानमूलबुद्धिधर्माध्यासलक्षणो वन्धश्चिदात्मनीत्युक्तमुपपाद- यति- योधात्मज्योतिपा दीसा वोधमात्मनि मन्यते । बुद्धिनान्योऽस्ति योद्धति सेयं नान्तिर्हि धीगता ६० योधात्मेति ॥ बोधरूपस्यात्मनो यज्ज्योतिःप्रकाशश्चिदाभास- प्रकरणम् १६] पदयोजनिकान्याख्यायुता। १६५ स्तेन दीप्ता व्याप्ता प्रकाशिता बुद्धिरात्मनि खस्यां बौधं चैतन्यं मन्यते अन्यो योद्धा साक्षी नास्ति अहमेव बोद्धेति साभासा वुद्धिः प्रकाशते तदविवेकादहमेव बद्धोऽकर्तेत्यादिरात्मनि संसारो घीगता आन्तिरेवे- त्यर्थः ॥ ६॥ बुद्धेरेव बोधात्मत्वं यथाप्रतीति परमार्थ किं न स्यादिति चेनेत्याह-- बोधस्सात्मखरूपत्वानिस तत्रोपचर्यते । अविवेकोऽप्यनाद्योऽयं संसारो नान्य इप्यते॥६१॥ चोधस्येति ॥बुद्धेरागन्तुकत्वेन बोधव्यभिचाराहोघस्य च विनापि बुद्धिं सुपुप्ते सझावादात्मखरूपत्वाचन बुद्धौ स उपचर्यतेऽध्यस्य व्यवद्वियतेऽविवेकादित्यर्थः । तर्हि सोऽविवेकः सादिरनादिति वीक्षायामाह--~-अविवेकोऽपीति । यद्यविवेक एवानाद्यज्ञानकृतत्वाद- नादिस्तर्हि तस्यैव ब्रह्मात्मज्ञानान्निवृत्तिः स्यान्न संसारस्येति भ्रमं वार- यति--संसारो नान्य इप्यत इति । कादिधर्मकवुद्ध्यविवेक एव संसार इत्यर्थः ॥ ६१॥ वन्धस्याज्ञानात्मकत्वे फलितमाह- मोक्षस्तन्नाश एव स्थानान्यथानुपपत्तितः। येपां वस्त्वन्तरापत्तिर्मोक्षो नाशस्तु तैर्मतः ॥ १२ ॥ मोक्ष इति ॥ ज्ञानादज्ञाननिवृत्त्या तकार्यबन्धनिवृत्तिरेव मुक्ति- नान्यथा हेयस्योपादेयस्स वा मोक्षस्यानुपपत्तितोऽनुपपवेरित्यर्थः अनुपपत्तिमेव द्रढयन्पक्षान्तरं निराकरोति-येपामिति । येषां वादिनां सरूपादन्यवस्त्वन्तरापत्तिरात्मनो मोक्ष इति मतं तैरात्मनाश एव मोक्ष इतीष्टःस्यात् । स्थितस्य नष्टस्य वान्यस्यान्यत्वासंभवाद्वस्त्वन्त-
[पार्थिव-
उपदेशसाहसी ।
रापत्तिशब्देन यदि प्राप्तिर्विवक्ष्यते तथापि संयोगा विप्रयोगान्ता' इति
न्यायेन कृतकस्यानित्यत्वव्याप्तेश्चानित्यो मोक्षः स्यादित्यर्थः ।। ६२ ॥
यथावस्त्वन्तरापत्तिर्मोक्ष इति पक्षेऽनुपपचिरनित्यत्वापत्तिश्च तथा-
स्मनोऽवस्थान्तरापत्तिर्मोक्षपक्षेऽपि स दोपस्तुल्य इत्याह---
अवस्थान्तरमप्येवमविकारान युज्यते ।
विकारोऽवयवित्वं स्यात्ततो नाशोघटादिवत् ॥६॥
अवस्थान्तरमप्येवमिति ॥ अविकारित्वादात्मनोऽवस्थान्तरमपि .
न युज्यते । यदि पुनर्विकारोऽध्यभ्युपगन्येत तथासति सावयवत्वमा-
स्मनः स्यात्ततः सावयत्वान्नाश एव घटादिवदपरिहार्यः स्यात् । अतो
भ्रान्तिनिवृत्तिमात्र एव मोक्षो नान्यथा संभवतीत्यर्थः ॥ १३ ॥
वेदान्तसिद्धान्तादन्या बन्धमोक्षादिकल्पनाः वादिभिरुत्पेक्षिताः
श्रुतिस्मृतिन्यायबाधितत्वान्नादरणीया मुमुक्षुभिरित्युपसंहरति-----
तस्माद्धान्तिरतोऽन्या हि वन्धमोक्षादिकल्पनाः ।
सांख्यकाणादवौद्धानां मीमांसाहतकल्पनाः॥६४॥
तस्मादिति द्वाभ्याम् ॥ भ्रान्तिरेव परिशेषादात्मनि वन्धमोक्ष-
प्रतिभास इति कल्पना श्रुत्याधविरुद्धा, अतोऽन्या वन्धमोक्षादिक-
पनाः आदिशब्दाचद्धेतुकल्पनाश्च नादर्तव्याः कदाचनेति संबन्धः ।
अतोऽम्मात्सिद्धान्तादन्या वन्धमोक्षादिकल्पना हि यसान्द्रान्तिः
प्रमाणशून्या तस्मान्नादर्तव्येति यान्वयः । केषां वा कल्पना नादर्त-
व्येत्यत आह---सांस्येति । मीमांसाहता विचारविरुद्धा विचारा-
•सहा वा कल्पना गीगांसाहतफल्पना इत्यर्थः ॥ ६४ ॥
- प्रकरणम् १६] पदयोजनिकान्याख्यायुता। १६७ अनादरे हेतुमाह- शाखयुक्तिविहीनत्वान्नादर्तव्याः कदाचन । शक्यन्ते शतशो वक्तुं दोपास्तासां सहस्रशः ॥६५॥ शास्त्रेति ।। शास्त्रयुक्तिविरुद्धाश्च ताः कल्पना इत्याह- शक्यन्त इति ॥ ६५॥ इतश्च सख्यादिकल्पना नादर्तव्येत्याह- अपि निन्दोपपत्तेश्च यान्यतोऽन्यानि चेत्सतः। त्यक्त्वातो ह्यन्यशास्त्रोक्तीमतिं कुर्यादृढां बुधः॥६६॥ अपि निन्दोपपत्तेरिति ॥ यान्यतोऽन्यानि शास्त्राणि पृथिव्यां विविधानि वै शङ्कनीयानि विद्वद्भिर्धर्मशुद्धिमभीप्सुभिः । 'या वेद- वाद्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमो- निष्टा हि ता; मता' इत्यादिनिन्दावचनान्नादर्तव्या इत्यर्थः । अतोऽन्यशास्त्रोक्तीस्त्यरत्वा दृढां मति बुधः कुर्यादित्यन्वयः ॥ ६६ ॥ कथं मतिं कुर्यात्कुत्र वेत्याकाहायामाह- श्रद्धाभती पुरस्कृत्य हित्वा सर्वमनार्जवम् । वेदान्तस्यैव तत्त्वार्थे व्यासस्याभिमतौ तथा ॥६७॥ श्रद्धेति ॥श्रद्धा श्रुत्युक्तेऽर्थे विश्वासः, भक्तिस्तत्परता ते पुरस्कृत्य । आदरेणावलम्ब्येत्यर्थः । सुगममन्यत् ।। ६७ ॥ एवमुक्तं परपक्षनिराकरणं संक्षिप्य तत्प्रयोजनं कथयति-- इति प्रणुन्ना द्वयवादकल्पना निरात्मवादाश्च तथा. हि युक्तितः । व्यपेतशङ्काः परवादतः स्थिरा सुमुक्षको ज्ञानपथे स्युरित्युत ॥ ६ ॥ इतीति ।। इति इत्थं युक्तितः प्रणुन्नाः निराकृताः द्वयवादक- ल्पनाः भेदवादकल्पनाः । सांख्यादिकल्पना इति यावत् । तथा निरा- उपदेशसाहली। [पार्थिव- स्मवादाः बौद्धवादाश्च युकितः प्रणुन्ना इत्यर्थः । किमर्थं तदाह- व्यपेतेति । मुमुक्षवः परवादतः परशास्त्रेभ्यो व्यपेतशहास्तत्मामाणि- कत्वशङ्कारहिताः सन्तो ज्ञानपथे वेदान्तोक्तज्ञानमार्गे स्थिराः स्युभंवे- युरित्युत अपीति योजना ॥ ६८ ॥ वेदान्तविहितब्रह्मात्मज्ञानस्यैव पुरुषार्थसाधनत्वमिति तत्वरूपक- थनपूर्वकं मुमुक्षणां तन्निष्ठत्वमावश्यकमिति दर्शयति- खसाक्षिकं ज्ञानमतीय निर्मलं विकल्पनाभ्यो विपरीतमद्वयम् । अवाप्य सम्यग्यदि निश्चितो भवेनिरन्बयो निईतिमेति शाश्थतीम् ॥ ६९ ॥ स्वसाक्षिकमिति ॥ अद्वयम् । अखण्डवस्तुमात्राकारमित्यर्थः । निरन्वयो निरस्ताज्ञानतलार्यसंवन्धः सन्नित्यर्थः । शाश्वती निर्वृतिर- खण्डानन्दानुभवस्वरूपाविर्भावः ॥ ६९ ॥ यथोक्तज्ञानाधिकारिणं संक्षिप्तविशेषणसारं कथयस्तत्त्वनिष्ठालक्ष- णमाह- इदं रहस्यं परमं परायणं व्यपेतदोपरभिमानव- र्जितैः । समीक्ष्य कार्या मतिराजवे सदा न तत्त्व- हक्खान्यमतिर्हि कश्चन ॥ ७० ॥ इदं रहस्यतिति ॥ यदवाप्य शाश्वती नितिमेति तदिदं रहस्य- मुपदेशैकगम्यम् । परमं परमात्मतत्त्वप्रकाशत्यात्सर्वोत्तमम् । परायणं निरवधिकसर्वाश्रयं परमगतिरूपमिति यावत् । एवंविधमात्मज्ञान समीक्ष्य सम्यगालोच्य दृढीकृत्येति यावत् । व्यपेतदोपैरपगतेन्द्रियवहि- मुनरभिमानवर्जितः पाण्डित्यादिनिमिचचिदोपरहितैः शान्तैर्दान्त- श्वेति यावत् । एवंविधेरधिकारिभिरार्जवे ऋजुभावे सर्वसमे ब्रह्मात्म- प्रकरणम् १६] पदयोजनिकान्याख्यायुता। तत्त्वे मतिर्निष्ठा सदा कार्या । ब्रह्मात्मतत्त्वमेव ऋजु सर्वदा सर्वन- फरूपत्वात्तत्वरूपमेवार्जवं नाम तस्य निर्विशेषत्वादिति द्रष्टव्यम् । तथाच ब्रह्माभेदेनात्मज्ञाननिष्ठा तत्त्वनिष्ठेत्युक्तं भवति । एतदेव व्यतिरेककथनेन विशदयति-न तत्त्वगिति । यः कश्चन खान्य- मतिः प्रत्यगात्मनोऽन्यस्मिन्ब्रह्मणि मतिर्यस्य स सान्यमतिः स न तत्त्वहक तत्त्वदृष्टिर्न भवतीत्यर्थः । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' । 'अथ योऽन्यां देवतामुपास्तेऽन्योसावन्योऽहमस्मीति न स वेदेति श्रुतेः ॥ ७० ॥ एवमतियतलभ्येन ज्ञानेन किं फलं साध्यते तदाह- अनेकजन्मान्तरसंचितैनरो विमुच्यतेऽज्ञाननिमि- तपातकैः । इदं विदित्वा परमं हि पावनं न लिप्यते व्योम इवेह कर्मभिः ॥ ७१ ॥ अनेकेति ।। स्पष्टार्थः ।। ७१ ॥ इदं ज्ञानमाचार्येण कस्मै दातव्यमित्यपेक्षायां विस्तृतविशेषणम- धिकारिणमाह--- प्रशान्तचित्ताय जितेन्द्रियाय च प्रहीणदोपाय यथोक्तकारिणे । गुणान्वितायानुगताय सर्वदा प्रदेयमेतत्सततं मुमुक्षवे ।। ७२ ॥ प्रशान्तति ।। प्रशान्तचित्ताय शान्तिगुणयुक्ताय । जितेन्द्रियाय दान्ताय । प्रहीणदोपाय अनेकजन्मानुष्ठितयज्ञादिपरितोपितेश्वरमसा- दहतसमस्तकरमपाय । यथोक्तकारिणे शास्त्रोक्तस्वधर्मस्य यथाशास्त्र- मनुष्ठाने । गुणान्विताय विद्याविनयावादिगुणयुक्ताय । सर्वदा दीर्घकालं सततं च नैरन्तर्येणानुगताय गुरुगनुसृताय एवंविधाय [ पार्थिव- १७० उपदेशसाहस्री। मुमुक्षवे मोक्षमात्रेच्छावते एतदात्मज्ञानं गुरुणा देयं प्रतिपादयित- व्यमित्यर्थः ।। ७२॥ एवंविधः शिप्यो महावाक्येनावगमितमात्मतत्त्वं कथमवगच्छति किंवा फलं प्रामोतीत्यपेक्षायामाह- परस्य देहे न यथाभिमानिता परस्य तद्वत्परमार्थ- मीक्ष्य च । इदं हि विज्ञानमतीव निर्मलं संप्राप्य मुक्तोऽथ भवेच सर्वतः ॥ ७३ ॥ परस्पेति ॥ यथा परस्यान्यस्य देहे परस्य नाभिमानिना अहंम- मेत्यभिमानित्वं न संभवति तद्वत् खदेहेऽपि परमार्थमीक्ष्य देहाति- रिक्तमात्मतत्त्वमीक्ष्यालोच्याभिमानरहितः सन्निति यावत् । चकाराच- प्रतिपादकवेदान्तवाक्यान्यालोच्येति गृह्यते । एवंविधं इदं विज्ञानं पूर्वोक्तसाक्षात्कार संप्राप्याथ तदैव सर्वतो मुक्तो भवेत्। निरस्ताज्ञानत- कार्यसंस्कारपरमानन्दानुभवब्रह्मात्मस्वरूपो भवेदित्यर्थः ॥ ७३ ।। निमिति गुणविशेषवच्छिप्यपरीक्षणं गुरोर्यसै कसैचिच्छिप्याय फरमाद्विद्या न दीयते तत्राह- नहीह लाभोऽभ्यधिकोऽस्ति कश्चन स्वरूपला- भात्स इतो हि नान्यतः । नदेयमैन्द्रादपि राज्य- तोऽधिकं खरूपलाभ त्वपरीक्ष्य यत्नतः ॥ ७४ ॥ नहीति ।। सरूपमात्मतत्वं लभ्यतेऽनेनेति सरूपलामतत्त्वज्ञानं तस्मादम्पधिको लाभः कश्चन कोऽपीह देवमनुप्यादिभवपरम्परायां नाम्नि। 'गात्मलामान परं विद्यत' इति स्मृतेः । स लामः इतएव चेदान्तवाक्यानान्यतोऽन्यम्माच्छालान्तरान भवति हि यमाच- मापनः शियमपरीक्ष्य स्वरूपलाभं तु जान न देयम् । ऐन्द्रादपि प्रकरणम् १७] पदयोजनिकाव्याख्यायुता। राज्यतो राज्यादधिकमिति विशेपणेन 'प्राणाप्यायचान्तेवासिने नान्य- स्मै कसैचन यद्यप्यसमा इमामद्भिः परिगृहीतां धनस्य पूर्णा दद्यादेत- देव ततो भूय' इति श्रुति प्रमाणयति ॥ ७४ ॥ इति पोडशं पार्थिवप्रकरणम् ।। १६ ।। सम्यातिप्रकरणम् १७ परपक्षनिराकरणमुखेनोक्तं मोक्षसाधनं ज्ञानं स्वप्रक्रिययापि व्यक्ती- कर्तुं प्रकरणान्तरमारभमाणो देवताभक्तर्विद्याप्राप्त्यन्तरगत्वं द्योतयन् प्रकरणप्रतिपाद्याथै नमस्कारव्याजेन संक्षिप्याह- आत्मा ज्ञेयः परो ह्यात्मा यस्मादन्यन्न विद्यते । सर्वज्ञः सर्वदृक् शुद्धस्तस्मै ज्ञेयात्मने नमः ॥ १ ॥ आत्मा ज्ञेय इति ॥ आत्मा स्वरूपं ज्ञेयः खरूपतोऽवधार्यः । किं घटादिवद्विपयत्वेन, नेत्याह--परो ह्यात्मेति । हि यसादात्मा सर्वज्ञेयात्परो शेयत्वधर्मरहितः । तत्कुतस्तत्राह-~-यस्मादन्यन्न विद्यत इति । यस्मादात्मनः वरुपादन्यत्परमार्थतः पृथग्भूतं तद्धनॊ वा न विद्यते । तथाच रूपादिहीनतया चक्षुराद्यगोचरत्वात्स्वसमानजातीय- प्रत्यक्षव्यत्तयन्तराभावाव्याशिग्रहाभावे सत्यनुमानापत्तिग्राह्यत्वामा- वात्सदृशवस्त्वन्तराभावेनोपमानामाह्यत्वात् पष्ठीजातिगुणक्रियादिधर्म- राहित्येन शब्दागोचरत्वात् ज्ञातुः स्वरूपत्वादेव नास्तीत्यभ्युपगन्तु- मशक्यत्वात्परिशेपाद्विपयभूतदेहेन्द्रियान्तःकरणप्रत्याख्यानेनान्विय तत्साक्षितया विषयत्वेन स्वयंप्रकाश आत्मा ज्ञेय इत्यर्थः । एवं खंपदार्थ परिशोध्य तस्य तत्पदार्थात्मकत्वं वाक्यार्थ कथयितुं तत्प-
.
१७२
उपदेशसाहस्री। [सम्यङ्मति-
दार्थमाह-सर्वज्ञ इति । सामान्यतः सर्व जानातीति सर्वज्ञः ।
विशेषतः सर्व पश्यतीति सर्वदृक् । सर्वज्ञत्वमुपलक्षणमुक्त्वा तस्य
खरूपलक्षणमाह-शुद्ध इति । अनृतजडपरिच्छिन्नदुःखादिप्रपञ्चसस-
गैरहित. सत्यज्ञानानन्तानन्दरूप इत्यर्थः । वाक्याथ तत्त्वंपदार्थे-
क्यमाह
--तस्मा इति । पूर्वोक्तप्रकारेण ज्ञेयश्चासावात्मा च ज्ञेयात्मा
तसै ज्ञेयात्मने तस्मै सर्वज्ञत्वाद्युपलक्षिताय सत्यादिवरूपाय नमः
प्रह्रीभावोऽस्तु । तदिदृष्टिविलय एवेह नमःशब्दार्थः ॥ १॥
देवताभक्तिवद्गुरुभक्तरषि विद्याप्राप्त्यन्तरङ्गत्व 'यस्य देवे परा
भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्याः प्रकाशन्ते महा-
स्मन' इति श्रुतिसिद्ध द्योतयन् गुरुपरम्परा प्रमाणयति-
पदचाक्यप्रमाणहर्दीपभूतैः प्रकाशितम् ।
ब्रह्म वेदरहस्सं यैस्तानित्यं प्रणतोऽस्म्यहम् ॥ २॥
पदवाक्येति ॥ यगुरुभिर्वेदरहस्यं ब्रह्म प्रकाशित तानित्यं
प्रणतोऽस्म्यहमिति सबन्धः । पदानां वाक्याना च शक्तितात्पर्यमर्या-
दया प्रमाणः पदवाक्यप्रमाणज्ञैः । यद्वा पदवाक्ये प्रसिद्धे, प्रमाणमनु-
मानादि तज्ज्ञैरित्यर्थः । दीपभूतैरयलेन सर्वार्थप्रकाशयरिति
संबन्धः ॥२॥
सामान्यनाचार्यपरम्परां नमस्कृत्य विशेषेण स्वगुरुप्रणामपूर्वकमु.
द्देश्य प्रतिजानीते-
यद्वापसूर्याशुसंपातप्रनष्टध्वान्तकल्मपः ।
प्रणम्य तान्गुरूवक्ष्ये ब्रह्मविद्याविनिश्चयम् ॥ ३॥
यद्रागिति ॥ नमविद्याविनिश्चयो यस्मान्यायविशेषाद्भवति तं
न्यायविशेष चक्ष्य इत्यर्थः । सुगममन्यत् ॥ ३॥
प्रकरणम् १७]
पदयोजनिकान्याख्यायुता। १७३
किमर्थ ब्रह्मविद्याविनिश्चयो वक्ष्यते तदाह-
आत्मलाभात्परो नान्यो लाभः कश्चन विद्यते ।
यदा वेदवादाश्च स्मार्ताश्चापि तु याः क्रियाः॥४॥
आत्मलाभादिति ॥ आत्मलाभस्य परमत्वे प्रमाणं सूचयति-
यदर्थी इति । वेदवादा वेदवचनानि स्मार्ताश्च वादाः स्मृतिवचनानि
साक्षाज्ञानार्था वेदवादाः स्मृतिवादाश्च यदर्थाः अपितु याः क्रियाः
कर्मपरवेदस्मृतिविहितास्ताश्च चिचशुद्धिपरम्परया यदास्तस्मादात्म-
लामादिति सबन्धः ॥ ४ ॥
पुनादिलाभापेक्षया आत्मलाभस्य परमत्वं प्रामाणिकमित्युक्तमुप-
पादयति-
आत्मार्थोऽपि हि यो लाभः सुखायेप्टो विपर्ययः।
आत्मलाभः परः प्रोक्तो नित्यत्वाब्रह्मवेदिभिः ॥५॥
आत्मार्थोऽपीतियोऽपि लाभः पुत्रघनादिविपयो लोके सुखा-
येप्टः सोऽप्यात्मार्थ आत्मसुखार्थ इति हि प्रसिद्धमिति योजना ।
तर्हि पुत्रादिलाभेनैवात्मसुखसिद्धेः किमित्यात्मज्ञानमात्मलाभायेष्टव्यं
विशेषाभावादित्यत आह–विपर्यय इति । सुखविपर्ययः दुःखायापि
स लाभः स्यात्कदाचित्कस्यचित्पुत्रादेरेव दुःखहेतुत्वदर्शनादित्यर्थः ।
तस्माल्लाभान्तरापेक्षया आत्मलाभः परमो लाभ इति तदर्थ सर्वपरि-
त्यागेनात्मज्ञानं सपादनीयमित्यभिप्रेत्याह—आत्मेति । विपर्ययप्रस-
गस्तत्र नास्तीत्याह--नित्यत्वादिति । तथाच श्रुतिः 'तदेतत्प्रेयः पुत्रा-
प्रेयो वित्वात्प्रेयोऽन्यस्मात्सर्वमादन्तरतरं यदयमात्मा स योऽन्यमा-
स्मनः प्रियं ब्रुवाणं ब्रूयात्प्रियं त्वां रोत्स्यतीतीश्वरोऽहं तथैव स्यादा-
मानमेव प्रियमुपासीत स य आत्मानमेव प्रियमुपास्त्रे न हास्य
प्रियं प्रमायुकं भवतीति ॥५॥
१७४ उपदेशसाहस्री। [ सम्यमति- आत्मसुखलाभस्य नित्यत्वमुक्तं साधयति- स्वयं लब्धस्वभावत्वाल्लाभस्तस्य नचान्यतः। अन्यापेक्षस्तु यो लाभः सोऽन्यदृष्टिसमुद्भवः ॥६॥ स्वयमिति ॥ तस्यात्मनो लाभो नचान्यतोऽन्यनिमित्तको न भवति कुतः स्वयं लब्धस्वभावत्वात्साधनसाध्यत्वाभावान्नित्यत्वमित्यर्थः । पुत्रादिलाभस्य साधनाधीनत्वेनानित्यत्वं साधयति-अन्यापेक्ष इति । अन्यदृष्टेः सकाशात्समुद्भवो यस्य स तथा । अन्याधीनस्य तदपगमेऽप- गमादनित्यत्वमित्यर्थः ॥ ६॥ केयमन्यदृष्टिः का वा तदुद्भवस्यान्यपुनादिलाभस्य नित्यत्वे हानिरित्यत आह- अन्यदृष्टिस्त्वविद्या स्यात्तन्नाशो मोक्ष उच्यते । ज्ञानेनैव तु सोऽपि स्याद्विरोधित्वान्न कर्मणा ॥७॥ अन्यदृष्टिस्त्विति ॥ अन्यस्मिन्ननात्मनि दृष्टिः प्रतीतिर्यस्याः सा अन्यदृष्टिः सा अविद्या भवतीत्यर्थः । ततश्चात्माऽविद्याकृतभा- न्तिनिबन्धनत्वात्पुत्रादिलाभप्रीतेस्तस्याश्च स्वमतुल्यत्वानित्यात्मप्रिय- हानि स्यादिति भावः । तथाचाविद्यानिवृतिमन्तरेणात्मस्वरूपनित्य- सुखलाभाभावात्सा सपायेत्याह-तन्नाश इति । मोक्षो नित्यनिर- तिशयपरमानन्दाविर्भावोऽज्ञानहानिलक्षणः।तत्प्राप्त्युपायमाह--ज्ञाने- नैवेति । सोऽप्यज्ञाननागलक्षणो मोक्षो ज्ञानेनैव स्यात्तस्यैवाज्ञानविरोधि- लान कर्मणा तस्याज्ञानविरोधित्वाभावात् । तस्मात्मर्वफर्मपरित्यागेना- स्मनानं सर्वथा सपादनीयमेव मुनुक्षुणेत्यर्थः ॥ ७ ॥ ननु विरोधाभावासकार्याऽविद्यानिवृत्तिरूपी मोक्षः कर्मणा मामू- प्रथापि तेन नित्यपुरुषार्थो भविष्यत्यतः किंभानेनेति नेत्याह--- प्रकरणम् १७] पदयोजनिकाव्याख्यायुता। १७५' कर्मकार्यस्त्वनित्यः स्यादविद्याकामकारणः । प्रमाणं वेद एवान ज्ञानस्साधिगमे स्मृतः ॥ ८ ॥ कर्मकार्यस्त्विति ॥ तत्र हेतुगर्भ विशेषणं-अविद्येति । मिथ्याप्रत्ययमूलरागप्रयुक्तकर्मसाध्यत्यादित्यर्थः । कर्मसाध्यं फलम- नित्यं ज्ञानसाध्यं तु नित्यमित्यत्र किं प्रमाणमिति चेद्वेद एवेत्याह- प्रमाणमिति । 'तद्यर्थह कर्मजितो लोकः क्षीयत एवमेवामुन्नपुण्यजि- तो लोकः क्षीयते', 'ब्रहाविदामोति पर', 'तरति शोकमात्मवि'दित्या- दिवेद एव कर्मसाध्यमनित्यं ज्ञानसाध्यं नित्यं मोक्षरूपमित्यत्र ज्ञानस्य विवेकस्याधिगमे प्रमाणं विद्वद्भिः स्मृतमित्यर्थः ॥ ८॥ किंच वेदस्य सर्वस्याध्ययनविध्युपपादितत्वादपुरुषार्थे पर्यवसाना- योगात्परमपुरुषार्थपर्यवसानायात्मैवयज्ञानपरत्वमेप्टव्यं, ततो न कर्ममु तस्य महातात्पर्य लभ्यत इत्यभिप्रेत्याह- ज्ञानेकार्थपरत्वात्तं वाक्यमेकं ततो विदुः । एकत्वं यात्मनो ज्ञेयं वाक्यार्थप्रतिपत्तितः ॥ ९॥ ज्ञानेकार्थेति ॥ ज्ञानमेवैकोऽर्थः प्रयोजनं परं प्रतिपाद्यं यस्य वेदस स तथा तस्य भावस्तत्त्वं तस्मात्तं वेदमेकं वाक्यं विदुः वाक्य- प्रमाणकोविदा इति शेपः । किं तस्य ज्ञेयमित्यपेक्षायामाह-~-एकत्वं हीति । ततो ज्ञानादात्मन एकत्वमेव ज्ञेयमित्यन्वयः । हिशब्दोऽव- धारणार्थः । ज्ञानप्रकारमाह--वाक्यार्थप्रतिपत्तित इति । सत्य ज्ञानमनन्तमिल्यायवान्तस्वाक्यार्थप्रतिपत्तिद्वारेण तत्वमस्यादिमहा- वाक्यरात्मनो ब्रझैकत्वं ज्ञेयमित्यर्थः । आत्मतत्त्वज्ञानस्यैव परमपुरु- पार्थहेतुतायाः श्रुतत्वाकर्मकाण्डमपि तत्त्वज्ञानापेक्षितचित्तशुद्धिहेतु- उपदेशसाहस्री। [सम्यङ्मति- कर्मविधानद्वारा पारम्पर्येण परमपुरुषार्थसाधनमावं भजत इति युक्त- मेकार्थपयेवसानेनैकवाक्यत्वं वेदवाक्यस्येति भावः ॥९॥ नन्यात्मनो ब्रह्मणश्चैकत्वनानमनुपपन्नं वयोरपर्यायशब्दवाच्यत्वेन भेदादित्याशङ्कय मैवमन्योन्याश्रयापत्तिरित्याह- वाच्यभेदात्तु तद्भेदः कल्प्यो वाच्यो हि तच्छ्रुतेः । अयं वेतत्ततः प्रोक्तं रूपं नाम च कर्म च ॥ १० ॥ वाच्यभेदादिति ॥ तद्भेदोऽपर्यायशब्दभेदो वाच्यभेदाकल्प्य- स्त्वया चाच्योऽपि तच्छ्रुतेरपर्यायशब्दभेदश्रवणाद्भिन्नः कल्प्यः । तथाच सिद्धे वाच्यजीवब्रह्मभेदे तद्वाचकशब्दयोरपर्यायत्वसिद्धिस्त- सिद्धावितरसिद्धिरित्यन्योन्याश्रयः स्यादित्यर्थः । स्वरूपतो भेदकल्प- नायां प्रमाणामावादिति भावः । भेदस्याप्रामाणिकत्वादेकत्वज्ञानमु- पपन्नमित्युक्ते मेदस्यापि प्रमाणसिद्धत्वं पूर्ववादी शङ्कते-त्रयं त्वेतदि- ति।'त्रयं वा इदं नामरूपं कर्मेति श्रुत्या तत आत्मनोऽतिरिक्तं रूपं नाम च कर्म च प्रोक्तमतो नैकत्वमेव वेदार्थ इत्यर्थः । सिद्धान्ती दूपयति-असदेतदिति । हि यस्मादेतत्रयमन्योन्येन कल्पितं अन्योन्यसापेक्षसिद्धिकं तसादसदित्यन्वयः । अन्योन्याश्रयग्रस्ततया भेदस्य प्रमातुमशक्यतया प्रामाणिकत्वाभावाद्यथाकथंचिल्लोकसिद्धो मिथ्याभेदः श्रुत्यानूयते केवलं वैराग्यायातो नाद्वैतज्ञानविरोधितेति भावः । अथवा कथं सर्वस्य वेदस्सैकार्थज्ञानपरत्वेनैकवाक्यत्वं नियन्तुं शक्यतेऽपुनरुक्तशब्दभेदवशातत्र तत्रार्थभेदस्य प्रतीयमानत्वादिति चेत्सत्यम् । तथापि न तत्र तात्पर्य युक्तं प्रमाणयुकिनाधितत्वाद्वैतस्ये- त्यभिप्रेत्याह-वाच्यभेदादिति । वाच्यभेदे प्रामाणिकेसति तद्विपय- तात्पर्यवच्छब्दमेदादनेकवाक्यता सिध्यति तथा तद्भेदो वाच्यभेदोऽपि ।
प्रकरणम् १७] पदयोजनिकाव्याख्यायुता। १७७ तच्छ्रुतेन वाचकशब्दभेदश्रुतेः श्रवणात्कल्प्यः। प्रकारान्तरेण वाच्यभे- दासिद्धेः । नहि शब्दाधीनोऽर्थतत्त्वनिश्चयः आरोपितविषयेऽपि शब्ददर्शनात् । नाप्यर्थाधीनः शब्दनिश्चयः एकस्मिन्नपि पुरुपे पिता प्राता मातुलो जामाता पितृव्य इत्युपाधिभेदव्यतिरेकेण वस्तुभेदो विद्यते । तथाचानाधविद्याकल्पितोऽनेकोपाधिभेदावच्छिन्नानेककी- दिकारकभेदानुवादेन ज्ञानापेक्षितान्तःकरणशुद्धिसाधनकर्मविधिपर- त्वात्कर्मकाण्डस्यात्मतत्त्वज्ञानवाक्यैकवाक्यत्योपपत्तेनिरतिशयानन्दात्य- न्तिकदुःखनिवृत्तिफलस्य सर्वेषां सरसतोऽमिलापगोचरस्यात्मतत्त्व- ज्ञानादन्यतोऽसंभवादविद्याविद्यावस्थोपाधिभेदेनाधिकारिभेदप्रयोग- भेदयोचोपपत्तेरेकपुरुषापेक्षितैकपरमपुरुषार्थ कसाधनप्रकाशत्वेनैकवा- क्यता वेदस्य युक्तेति भावः। एवं द्वैतस्याविद्याकल्पितत्वे युक्तिम- भिधाय प्रमाणमभिधत्ते-नयंत्विति । यतोऽयमनिरूपिताकारभेदः प्रपञ्चस्ततो हेतोरेतत्सर्वं दृश्यं रूपं नाम च कर्म चेति त्रयं राशीकृत्य श्रुत्या प्रोक्तमिति योजना । 'त्रयं वा इदं नामरूपं कर्मे त्यस्मिन्त्रा- सणे हेतूक्तिपूर्वकं शब्दविशेषाणां वास्मात्रत्वं, रूपविशेषाणा चक्षु- त्रित्वं, कर्मविशेषाणां शरीरमात्रत्वमिति विशेषमविलापनेन तत्सा- मान्यत्रित्वमभिधाय तदेतत्रयं सदेकमयमात्मा एकः सन्नेतत्रयमि- त्यैकात्म्यं सर्वस्य जगत उपसंहृतमतो न तत्त्वभेदोऽस्तीत्यर्थः ॥१०॥ उपसंहरति- असदेतत्रयं तस्मादन्योन्येन हि कल्पितम् । कृतो वर्णों यथाशब्दाछुतोऽन्यत्र धिया वहिः॥१२॥ असदेतदिति ॥ उक्तार्थमेतत् । अन्योन्यापेक्षयावगम्यमानस्य मिथ्यात्वे दृष्टान्तमाह-कृतइति । शब्दाछुतो वर्ण इन्द्रादिरूपवि- २ सा.१२ - . उपदेशसाहस्री।। [सम्यहमति- शेषः सहस्राक्षवज़बाहुत्वादिः धिया प्रत्यूह्यान्यन्त्र बहिः कुड्बादी चित्ररूपेण कृतो यथा फरिपतो मिथ्येति योजना । नहि चित्रे दृश्य- मेवरूपमिन्द्रस्य वा भवति । तथाच मिथ्यार्थगोचरः शब्द इत्यर्थः ॥ ११ ॥ शब्दान्मिथ्यार्थकल्पनामुदाहृत्य मिथ्याच्छिन्दकल्पनामुदा- हरति-- दृष्टं चापि यथारूपं घुद्धेः शन्दाय कल्पते । एवमेतजगत्सवं भ्रान्तिबुद्धिविकल्पितम् ॥ १२॥ दृष्टं चापीति ॥ मित्तिपटादौ दृष्टं देवतारूपं तथा तद्वदेव वुद्धस्तद्दर्शनसंस्कृताया आगत्य शब्दाय शब्दव्यपदेशाय कल्पत इति योजना । दार्टान्तिकमाह-एवमिति । एतत्सर्वं जगदेवं यथा दृष्टान्तमेवं भ्रान्तबुद्ध्या शुक्तौ रजतमिवात्मनि विविधं कल्पितं न वस्तुसदस्तीत्यर्थः ।। १२ ।। जगतो मिथ्यात्वे फलितमाह-- असदेतत्ततो युक्तं सचिन्मानं न कल्पितम् । वेदश्चापि स एवाद्यो वेधं चान्यत्तु कल्पितम् ॥१३॥ असदेतत्तत इति ॥ सर्व कल्पितं चेच्छून्यवादापत्चिरित्याशङ्का न कार्येत्याह-सञ्चिदिति । निरधिष्ठानकल्पनानुपपत्तेः सर्वकल्पना- स्पदं सच्चिन्मानं प्रत्यक्तत्वेन कल्पितं सर्वसाक्षित्वाचस्य सर्वकल्प- नायाः प्रागेव सिद्धत्वादित्यर्थः । वेदाचार्यादेरात्मतत्त्वप्रतिपचिहेतु- स्वादकल्पितत्वमस्तीति कथं सच्चिन्मात्रमकल्पितमित्युच्यते तत्राह- वेदश्यापीति । स एवायः पूर्वसिद्ध आत्मद वेदोपि वेदनहेतुः श्रुत्या- चार्यरुपेण मायया मयते । अर्थप्रकाशनशक्तरन्यत्र जडेऽसंभवात् । - प्रकरणम् १७ ] पदयोजनिफाव्याख्यायुता। १७९ नयमिगतप्रकाशनशक्तिव्यतिरेकेण दीपादेरपरा प्रकाशनशक्तिरस्ति वेद्यं च तत्वं स एवाद्य इति संवन्धः । अन्यतु विशेषगानं कल्पि- तम् । तथाच कल्पितशेपानुगतत्वेनात्मन एव बोधकत्वं सर्वकल्प- नापवादावधितया तस्यैव बोध्यत्वं चोपपद्यत इत्यर्थः ।। १३ ।। कथं स एवाद्यो वेद्यं चेत्याशङ्कय स्वप्नदृष्टान्तेन व्युत्पादयति- येन वेत्ति स वेदः स्यात्खने सर्व तु मायया । येन पश्यति तचक्षुः शृणोति श्रोत्रमुच्यते ॥ १४ ॥ येनेति ।। खमे स्थित आत्मा येन खामं विषयजातं वेति स एव वेदः स्यात् । नहि खमे चिदात्मव्यतिरिक्तं भासकमस्ति । आदित्यादि- ज्योतिषां तदोपरमात्स्वयंज्योतिष्यश्रुतेश्च । यत्तु तत्र सर्व वेद्यं तदपि मायया स एव । नहि सप्ने बाह्यं विषयजातमस्ति तत्रानवकाशात् 'न तत्र रथा' इत्यादिश्रुतेश्च । तथा स एवात्मा खसाक्ष्यमायाक- तोपाधिभेदावच्छिन्नसदात्मना वेद्यस्तदनुस्यूतचिदात्मना वेदनरूपश्चेति वेद्यवेदितृभावो मायिक इत्यर्थः । चक्षुरादीन्द्रियाणामुपरमात्समगत आत्मा येन पश्यति रूपमुपलभते तदेव चक्षुरिति योजना । स्वमे रूपाकारसंस्कृतमनोवस्थचिन्निष्ठाविद्यात्मकं रूपं प्रकाशयन्पश्यतीत्यु- च्यते एवं श्रोत्रादावप्यूयम् ॥ १४ ॥ येन स्वागतो यक्ति सा चारघ्राणं तथैव च । रसनस्पर्शने चैव मनश्चान्यत्तथेन्द्रियम् ॥ १५ ॥ येन स्वमगत इति ॥ येन खमगतो जिघ्रति तद्राणमित्यादि यथायोग योज्यम् ॥ १५॥ कथमेकरूपं चैतन्यं वेद्यवेदकचक्षुरादिरूपेण भिद्यते तत्राह- उपदेशसाहस्री । [सम्यहमति-- कल्प्योपाधिमिरेवैतद्भिन्नं ज्ञानमनेकधा। आधिभेदाधथा भेदो मणेरेकस्य जायते ॥ १६ ॥ कल्प्योपाधिरिति ॥ स्वप्मकल्प्योपाधिभेदादेकमेवेदं ज्ञानम- नेकधा भिन्नमित्यत्र दृष्टान्तमाह-आधिगेदादिति । मणेः स्फटि- कादेराधिभेदानीलपीताद्युपाधिभेदात्तथा ज्ञानमेकमनेकधा जायत इत्यर्थः ॥ १६॥ यथा स्वप्ने निभेदस्य ज्ञानस्य कल्पितोपाधिभेदादशेषव्यवहारा- स्पदत्वं दृष्टमेवं जागरितेऽप्यशेषव्यवहारास्पदत्वं तस्योपपन्नमिति दान्तिकमाह---- जाग्रतश्च यथा भेदो ज्ञानस्यास्य विकल्पितः। वुद्धिस्थं व्याकरीत्यर्थ भ्रान्सा तृप्णोद्भवक्रियः॥१७॥ जाग्रतश्चेति ॥ कथंचिद्रूपस्य ज्ञानस्यास्य जाग्रतो विकल्पितत्वं तदाह-बुद्धिस्थमिति । आत्मा खल्वज्ञानकञ्चुरुः प्रथमं बुद्धिं परि- कल्प्य ततस्तत्कञ्चकः संस्तदविवेकाभान्त्या बुद्धिस्थमेवार्थ व्या फरोति खात्मगततया कल्पयन्व्यवहरति । ततश्च प्रान्तिप्रयुक्ततृष्णाख्यकामो- मृता क्रिया हानोपादानन्यवहाररूपा यस्य स तथा । अविद्याप्रत्यु- पस्यापितान्तःकरणपरिणामावस्थामवभासयंस्तदविवेकादनेकरूपप्रपञ्च- मात्मनि कल्पयन्व्यवहरतीत्यर्थः ॥ १७ ॥ खप्नदृष्टान्तसिद्धमनृद्य दान्तिकं निगमयत्यर्धन- खमे तद्वत्यवोधे यो वहिश्चान्तस्तथैव च । आलेख्याध्ययने यद्वत्तदन्योन्यधियोद्भयम् ॥ १८ ॥ स्वप्ने तद्वदिति || यद्वत्समे व्यवहारमाहाबोधेऽपि व्यवहारः । यथैव समेऽन्तर्वहिर्भाव तथैव प्रयोयेऽप्यन्तर्वहिर्भाव इति योजना । -
प्रकरणम् १७
पदयोजनिकाव्याख्यायुता।
अन्तर्वहिर्भावेन प्रथमानो व्यवहारः स्वमवत्कल्पित इत्युक्त्वा तत्रैव
दृष्टान्तान्तरमाह-आलेख्येति । यथा आलेख्यापेक्षयाध्ययन
श्लोकादेरध्ययनापेक्षया च पत्रादौ पुनरालेखनं मिथ्यैव सर्वगतानां
निरवयवानां वर्णानां लेखनासंभवादित्यर्थः । एपाक्षरयोजना ।
आलेख्यं च अध्ययनं चालेख्याध्ययने तदुभयं यथान्योन्यधियोद्भव-
मन्तवहि वेन परस्परापेक्षवुद्धिजन्यं वही रेखाविशेषाकारणानुभूत-
मपेक्ष्यान्तर्बुद्धौ संस्काररूपेणाधीयते तदपेक्ष्य च बहिः शब्दव्य-
वहारायालिख्यत इत्यक्षरेषु दृष्टयोरन्योन्यापेक्षवेनालेख्याध्ययनयोर-
वस्तुत्वं यद्वत्तद्वदात्मन्यप्यन्तर्वहिर्भावेन दृश्यमानः सर्वो व्यवहारो
न वस्तुसन्निति ।। १८॥
बुद्धिनिष्ठमर्थ व्याकुर्वन्ान्त्या तृप्णोद्भवक्रिय इत्युक्तं प्रपश्च-
यति-
यदायं कल्पये दं तत्कामः सन्यथाक्रतुः ।
यत्कामस्तत्क्रतुर्भूत्वा कृतं यत्तत्प्रपद्यते ॥ १९ ॥
यदायमिति ॥ अयमात्मा पूर्व प्रान्तिसंस्कारवशायदा बुद्धिक-
शुकारूढः सन्नविद्यया भेदं कल्पयेत्तदा तत्कामः शोभनत्वेनाध्यस्त-
विषयभेदेऽमिलापवान्सन्यथामतुर्यथाकामं कृतसंकल्पो गवति ।
ऋतुः संकल्प इदमहं साधयिप्य इत्यध्यवसायरूपः । ततश्च यत्तामः
तत्कतुर्भूत्वा यत्कामसाधनं कर्मकृतं तन्निप्पादितं तत्फलावस्थं प्रपद्यते
प्रामोति । पुनस्तरसंस्कारसचिवो भेदं परिकल्प्य कामक्रतुपूर्वकं कर्मा-
नुष्ठाय फलभागित्येवमन्योन्यधिया हेतुफलात्मना परिकल्पितं संसार-
मनुभवतीत्यर्थः । तथाच श्रुतिः 'अथो खल्वाहुः काममय एवायं पुरुप
इति स यथाकामो भवति तथाकतुर्भवति तत्कर्म कुस्ते यत्कर्मकुरुते
तदभिसंपद्यत' इति ॥ १९ ॥
१८२ उपदेशसाहस्री। [सम्यन्मति- उक्तं दृश्यमिथ्यात्वं सोपपत्तिकमुपसंहरति- अविद्याप्रभवं सर्वमसत्तस्मादिदं जगत् । तद्वता दृश्यते यस्मात्सुषुप्से न च गृह्यते ॥ २० ॥ अविद्याप्रभवमिति ॥ तद्वता विद्यावता यस्मादृह्यते तदभावे सुपुप्तेन च नैव गृह्यते । तस्मात्सर्वमिदं जगदविद्याप्रभवं मिथ्याज्ञा- नविजृम्भितमसदपरमार्थमिति योजना ॥ २० ॥ तर्हि जगद्धेतुरविद्या कीदृशी तन्निवर्तिका विद्या वा कीदृशी केन वा विद्याविध ज्ञायते इत्याकाङ्खायामाह- विद्याविद्य अतिप्रोक्ते एकत्वान्यधियों हि नः । तस्मात्सर्वप्रयत्नेन शास्त्रे विद्या विधीयते ॥ २१ ॥ विद्याविद्ये इति । एकत्वान्यधियो विद्याविद्ये ब्रह्मात्मैकत्वधीविद्या तद्भेदधीरविद्येति सरूपोक्तिः । श्रुतिप्रोक्ते इति ज्ञापकोक्तिः । 'अथ योऽन्यां देवता मिति श्रुत्या भेदधियोऽविद्यात्वं लोकानुभवसिद्धभेदा- नुवादरूपतयोक्तं किमु तद्ब्रह्मविदित्याक्षेपपुरःसरं 'ब्रह्म वा इदमय आसीत्तदात्मानमेवावेदहं ब्रह्मासी ति प्रवृत्ता प्रमाणभूताऽप्रसिद्धार्थ- बोधिनी श्रुतिरेकत्वज्ञानम्य विद्यात्वं ज्ञापयति नोऽसाकमित्यर्थः । यसादविद्यावद्विया लोकस्यानुभवसिद्धा न भवति तसासर्वप्रयत्लेना- ध्यारोपापवादप्रबन्धनिर्माणन शास्त्रे विद्या विधीयते प्रतिपाद्यत इति मुमुक्षुः शास्त्रतस्तत्परो भवेदित्यर्थः ॥२१॥ शास्त्रे चेत्सर्वप्रयतेन विद्या व्युत्पाद्यते किमिति तहिं सर्वोपि शासे नरवतते अपर्तमानो या कथं विद्यां न प्रमिोतीत्यपेक्षायां चिचशु- यभायादित्यमित्याह-- प्रकरणम् १७] पदयोजनिकान्याख्यायुता। चित्ते ह्यादर्शवद्यस्माच्छुद्धे विद्या प्रकाशते । यमैनित्यैश्च यज्ञैश्च तपोभिसास्य शोधनम् ॥ २२ ॥ चित्ते हीति ॥ तस्गचित्तशुद्धिः कर्तव्येति शेषः । तर्हि कैरुपायैः चित्तशोधनमित्यपेक्षायामाह—यमैरिति । अहिसाब्रह्मचर्यादयो यमास्तनित्यैः शौचादिभिर्नियमैरित्यर्थः । यज्ञैः साश्रमविहितधर्मैरी- श्वरसात्कृतैः तपोभिश्च तस्य चित्तस्य शोधनं कार्यमित्यर्थः ।। २२ ।। तपःशब्दार्थमाह--- शारीरादि तपः कुर्यात्तद्विशुद्ध्यर्थमुत्तमम् । मनआदिसमाधानं तत्तद्देहविशोपणम् ॥ २३ ॥ शारीरादीति ।। तस्य खरूपं भगवतोक्तम् 'देवद्विजगुरुप्राज्ञ- पूजनं शौचमार्जवम् । ब्रह्मचर्यमहिसा च शारीरं तप उच्यते ।। अनुद्वेगकरं वारयं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत्तपो मानसमुच्यत इति । एतान्यपि सात्त्विकान्य- नुष्ठेयानि न रानसतामसानि । तत्र सात्त्विकतपोलक्षणम् 'श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः । अफलाकानिभिर्युक्तः सात्त्विक परिचक्षते' इति । तदुक्तमुत्तममिति । तद्विशुद्ध्यर्थ चितविशुद्यर्थम् । मनआदीत्यादिपदाद्वाह्येन्द्रियनिग्रहः । समाधानं नैश्चल्यम् । तत्रतत्रे- त्यस्मिन्नर्थ तत्तच्छब्दः । तेषु तेप्यतुपु देहविशोपणशीतोष्णवर्षवात- सहनेन कृशीकरणमित्यर्थः ।। २३ ॥ एवमारादुपकारकं तप उक्त्वा श्रवणादौ संनिपत्योपकारकं तपोषि- शेष स्मृतिवचनपाठेनाह-
१८४
उपदेशसाहसी।
[सम्यहमति-
मनसचेन्द्रियाणां च होकायं परमं तपः।
तज्यायः सर्वधर्मभ्यः स धर्मः पर उच्यते ॥ २४ ॥
मनसचेति ॥ ऐकायं श्रुत्युक्ते वस्तुनि मननद्वारा स्थिरीकरणम् ।
एतस्यावश्यकर्तव्यत्वाय स्तुतिः क्रियते तज्ज्याय इति ॥ २४ ॥
एवमुक्तैः साधनैः संशुद्धचित्तः श्रवणादिपरः सन्नवस्थात्रयातत्सा-
क्षिणं विविच्य वाक्याब्रह्मात्मत्वेन जानीयादित्याह--
दृष्टं जागरितं विद्यात्स्मृतं खप्नं तदेव तु ।
सुपुप्तं तदभावं च खमात्मानं परं पदम् ॥ २५ ॥
दृएमिति दृष्टं दर्शनं बाह्येन्द्रियैर्वाह्यार्थोपलम्भनं जागरितं
विद्यात् । तदेव तु दृष्टशब्दवाच्यमेव स्मृतम् । सस्कारवशान्निद्रा-
दशायां भातं स्वप्नं विद्यात् । तदभावं तयोर्दृष्टस्मृतयोरभावो यस्मिंस्तत्सु-
पुप्तं विद्यात् । एवं दृश्यत्रयं पृथकृत्य तत्साक्षिण खे खरूपभूतमा-
मानं परं पदं सत्यज्ञानादिलक्षणं ब्रह्माहमसीति विद्यादित्यर्थः ॥२५॥
नन्ववस्थात्रयहेतावज्ञाने सति कथं तद्विविक्ततया प्रत्यगात्मनो
ब्रह्मत्वमुपपद्यत इति तत्राह--
सुपुत्याख्यं तमोज्ञानं वीजं स्वप्नप्रवोधयोः ।
खात्मवोधप्रदग्धं स्याद्वीजं दग्धं यथाभयम् ॥ २६॥
सुपुधारख्यमिति ।। तम इति विशेपणेनाज्ञानस्य भावरूपत्वमु-
च्यते । ततो चीजत्वमुपादानत्वमुपपद्यते तदज्ञानं स्वात्मनः सम्यग्बो-
पामिना प्रकर्षण निर्लेप दग्धं स्यात् । यथा दग्धं बीजमभवं भवशून्यं
कार्योत्पादकं न भवति तथा तत्त्वज्ञानामिदग्धमज्ञानं पुनरवस्थामरो-
हकरं न भवतीति युज्यते, एवं प्रतीचो ब्रह्मत्वमित्यर्थः ॥२६॥
प्रकरणम् १७] पदयोजनिकाल्याख्यायुता। १८५ अज्ञानस्यावस्थाची जत्वमुक्तमुपपादयन्नज्ञाननिवृत्त्यैव सर्वसंसारो- पाधिनिवृत्तिने यनान्तरसाध्येति दर्शयति-- तदेवैकं विधा ज्ञेयं मायावीजं पुनः क्रमात् । मायाच्यात्माविकारोऽपि बहुधैको जलावत् ॥२७॥ तदेवैकमिति ॥ तदेवैकं मायाख्यं वीजं त्रिधा भिन्नं क्रमात्सुपु- प्यादिक्रमेणेत्यर्थः । पुनरित्यत्र वीप्सा द्रष्टव्या । सुषुप्तिमारभ्य जागरितपर्यन्तं तदारभ्य सुषुप्तिपर्यन्तमहरहविधा विक्रियत इत्यर्थः । एतदुक्तं भवति-चिन्मात्राश्रयविषयमेकमेवाज्ञानमनाद्यनिर्वचनीय- मनेककार्यविक्षेपसंस्कारोपेतं चैतन्याभासखचितं वाश्रये आत्मन्य- ध्यात्माधिदैवतभेदेन प्राज्ञेश्वरोपाधिविशिष्टसुपुप्तिलयावस्थाकारंजायते। तथा तैजसहिरण्यगर्भोपाघिसंभिन्नस्वप्नसृष्ट्यवस्थात्मकं भवति । पुनर्विश्ववैश्वानरोपाधिखचितजापस्थित्यवस्थारूपमापद्यते । तत्रापि देवतिर्यमनुष्यस्थावरादिभेदेन नानाविधशरीरेन्द्रियान्तःकर- णोपाध्याकारं सत् प्रत्यग्ब्रह्मचिदात्मन्यनन्तजीवमेदव्यवहारनिर्वाहक भवति । यथै वटादिवीज मृदाश्रितं सत्तस्यामेव मृदि अङ्गुरकाण्ड- विटपशाखापत्रपुप्पफलादिभावमापद्य पुनर्बीजभावं चापद्यते तथेदम- पीति द्रष्टव्यम् । तदेव वृक्षाकारं वस्तु मूलदाहे सति तत्रैव मृद्भा- वमापद्य पुनर्न भवति यथा, तथा संसारवृक्षमूलाज्ञानस्य तत्त्वज्ञाना- मिना दाहे खाश्रयचिदेकामना विलीनत्वात्पुनर्न दर्शनयोग्यो भवति संसार इत्यज्ञानदाहायैव तत्वज्ञाने यतितव्यमिति । तदेवैकं विधे- त्युक्ते तमोवीजस्य खातन्येण प्रवृतिशक्षा स्यात्तथासति सांख्यसि- द्धान्तापात इत्यतस्तमसोपेक्षितमाश्रयं दर्शयति-मायावीति । आत्मा निरुपचरितव्याप्तिमान् खप्रकाशचिदेकरसो मायावी माया- तथा उपदेशसाहस्री। [सम्यमति- दिशब्दवाच्याज्ञानाश्रय इत्यर्थः । मायाश्रयश्चेदात्मा तर्हि तस्य मायाविक्षिप्तानन्तोपाधिप्वनेकधा विक्षिप्यमाणस्य कथं कूटस्थत्वमि- त्याशङ्कय दृष्टान्तेन प्रत्याचष्टे-अविकार इति । एक एवात्मा खगतविकाररहितोऽपि बहुधा विभाव्यमानो भवति जलार्कवत् । यथैक एवार्को जलभेदोपाधिष्वनेकधा विभाव्यमानोऽपि नानेको भवति न वा जलोपाधिविकारेण विक्रियते तथायमपीत्यर्थः ॥२७॥ उक्कमेव दृष्टान्तदान्तिकरूपं प्रपञ्चयति- वीजं चैकं यथा भिन्नं प्राणस्वप्नादिभिस्तथा । खप्नजाग्रच्छरीरेषु तद्वचात्मा जलेन्दुवत् ॥ २८ ॥ बीजं चेति ।। प्राण इत्यव्याकृतावस्थोक्तिः । स्वमादिभिरिति जाग्रदवस्था मूविस्था च गृह्यते । यथैकमविद्यामायाख्यं बीजमव्या- कृताद्यवस्थामेदेन भिन्न तथा समजाग्रच्छरीरेषु समष्टिव्यटिस्थूल- सूक्ष्मशरीरेषु जलेन्दुवच्चिदाभासोऽपि भिन्नो भवति तदा तदधि- प्ठानभूतश्चिदात्मा चोपाधिगताभासाविवेकातद्वद्भिन्नो विभाव्यते । तैजसहिरण्यगर्भविश्ववैश्वानरादिभेदेन प्रकाशत इत्यर्थः ॥ २८ ।। ननु यद्यात्मनो मायाकल्पितेषूपाधिपु बहुत्वं तर्हि तत्र व्यापारवत्व- मपि स्यादिति कथं कूटस्थतेत्याशङ्कय दृष्टान्तेन निराकरोति- मायाहस्तिनमारुह्य मायाव्येको यथा ब्रजेत् । आगच्छंतद्वदेवात्मा प्राणस्वप्नादिगोचरः ॥ २९ ॥ मायाहस्तिनमिति ॥ यथैव एको मायावी स्वमायानिर्मित हस्तिनमारब मजेदिष्टं देशमागच्छश्च भवति गमनागमने आचरन्निय भासमानोऽप्यचल एव तद्वत्तथैवात्मा प्राणवमादिगतत्वेन विभाव्य- मानोऽप्यचलः कूटस्थ एवेत्यर्थः ॥ २९ ॥ ..
प्रकरणम् १७] पदयोजनिझाब्याख्यायुता। - प्राणाझुपाघिसंवन्धमात्मनोऽङ्गीकृत्योक्तमिदानीं सोपि नास्ति वस्तुत इत्याह- न हस्तीन तदारुढो मायाव्यन्यो यथास्थितः। न प्राणादि न तद्रष्टा तथा ज्ञोऽन्यः सदाशिः।।३०।। न हस्तीति | निगदव्याख्यातं पद्यम् ॥ ३० ॥ वस्तुतः प्राणाधुपाधिसंबन्धाभावेऽपि मायासंबन्धोऽपरिहार्य इत्यत आह- अपद्धचक्षुपो नाति माया मायाविनोऽपि वा। बद्धाक्षस्यैव सा माया मायाव्येव ततो भवेत् ॥३१॥ अबद्धेति ।। न बद्धं चक्षुर्यस्य सोऽबद्धचक्षुस्तस्य लौकिकरस यथा माया नास्ति मायाविनोऽपि तथा चक्षुर्वन्धाभावान्माया नास्ति । वाशब्द इवार्थः । अपिशब्दादवस्तुत्वनिश्चयादपि मायावी न व्यामुह्यतीत्यर्थः । व्यतिरेकमुक्त्वान्वयमाह-यद्धाक्षस्यैवेति । सा माया बद्धाक्षसैव भय- हेतुहस्त्यादिरूपा भासत इत्यर्थः । ततस्तस्मादमायान्येव मायोपलक्षित एव भवेत्पुमान्मायाधार इत्यर्थः । अयमेव श्लोको दार्शन्तिकेऽपि योज्यः । अबद्धचक्षुपो मायानावृतचित्खभावस्य मायाविनोऽपि मायाचित्वेन विभाव्यमानस्यापि माया नास्ति । व्यामोहहेतुहि माया साहममि परं ब्रह्मेति प्रकाशमान आत्मनि विरोधादेव न भवतीत्य- थः। वाशब्दो लोकप्रसिद्धमायाविदृष्टान्तार्थः । तथाच ज्ञानावस्थायां कदाचित्प्राणायाकारां मायां पश्यन्नप्यज्ञानावस्थायामिव न व्यामुह्यति किंतु सुषुप्तपनिर्विकार एव भवतीत्यर्थः । समानमन्यत् ॥ ३१॥ , तस्मात्साक्षाद्ब्रह्मात्मज्ञानादमायावी मायातल्कार्यसंयन्धविनिर्मुक्तो भवतीत्ययमर्थः श्रुतिसिद्धः श्रद्धेयो मुमुक्षुणेत्याह- [सभ्य ड्मति- उपदेशसाहस्री। साक्षाद्देवः स विज्ञेयः साक्षादात्मेति च श्रुतेः । भिद्यते हृदयग्रन्थिन चेदित्यादितः श्रुतेः ॥ ३२॥ साक्षाद्देव इति ॥ स सर्वविकारसाक्षी कूटस्थ आत्मा साक्षाद्देवो 'विज्ञानमानन्दं ब्रो'त्युक्तलक्षणो विज्ञेयः । 'यत्साक्षादपरोक्षाद्म' 'य आत्मा सर्वान्तर' इति ब्रह्मात्मैकत्वश्रुतेरित्यर्थः । एवं विज्ञाने लाम- मविज्ञाने हानि च श्रुत्या दर्शयति-भिद्यते इति । 'न चेदिहावेदी- न्महतीविनष्टि' रिति। आदित इत्यादिशब्दात् एकधैवानुद्रष्टव्यं मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती' इत्यादिश्रुतयो गृह्यन्ते ॥३२॥ साक्षादात्मविज्ञानमुक्तमाक्षिपति-- अशब्दादित्यतो नास ग्रहणं चेन्द्रियैर्भवेत् । सुखादिभ्यस्तथान्यत्वादुच्या वापि कथं भवेत् ॥३३॥ अशब्दादित्नत इति ॥ बाह्यान्तःकरणाग्राह्यत्वादात्मनः कथं साक्षाद्विज्ञानं स्यादित्यर्थः ।। ३३ ।। परिहरति- अदृश्योऽपि यथा राहुश्चन्द्रे विम्वं यथाम्भसि । सर्वगोऽपि तथैवात्मा बुद्धायेव स गृह्यते ॥ ३४ ॥ अदृश्योऽपीति ॥ यथा स्वरूपेणादृश्योऽपिराहुश्चन्द्रे चन्द्रमण्डले उपरक्तो दृश्यते यथावाम्भसि जले चन्द्रादेर्षिम्यं दृश्यते तथैव चक्षुराधगोचरोऽपि स परमात्मा सर्वगोऽपि सर्वत्र वर्तमानोऽपि तत्त्वमस्सादिमहावाक्योत्थबुद्धावेव प्रतिबिम्बितः सन् गृह्यते । तत्र प्रतिविम्बिततया स्वतःस्फुरणमेव ग्रहण विषयीभाव इत्यर्थः। शाकगम्यस्यापि प्रत्यक्षात्वे राहुदृष्टान्तः । सर्वसंहिततया मासमानस प्रकरणम् १७ ] पदयोजनिकाव्याख्यायुता। सर्वत्र यथावदस्फुरतोऽप्युपाधिविशेषे यथावत्स्फुरणे प्रतिबिम्बदृष्टान्त इति विवेकः ।। ३४ ॥ वुद्धौ योद्धात्मा गृह्यते चेगुद्धिधमों चोध इति शक्कां दृष्टान्तेन प्रत्याचष्टे- भानोर्विम्वं यथा चौपणं जले दृष्टं न चाम्भसः । बुद्धौ बोधो न तद्धर्मस्तथैव साद्विधर्मतः ॥ ३५ ॥ भानोरिति ॥ यथा जले दृष्टं विम्बमौणं च मानोरेव न चाम्सो जलस्य धर्मस्तस्य शैत्यस्वाभाज्यात्तथैव वुद्धौ स्फुरन्बोधो न बुद्धिधर्मः स्यात् । कुतः । विधर्मतो विपरीतधर्मतो बुद्धे ब्यधर्मत्वनिश्चयादि- त्यर्थः ॥ ३५॥ न केवलं शास्त्रीयबुद्धावेव चिद्धातुः परमात्मा स्फुरति किंतु लौकिकीप्वपि विषयाकारवुद्धिवृत्तिप्वात्मा सतोऽपरोक्षः साक्षितया स्फुरतीत्याह- चक्षुर्युक्ता धिया वृत्तिर्या तां पश्यन्नलुप्तदृक् । दृष्टेष्टा भवेदात्मा श्रुतेः श्रोता तथा भवेत् ॥३६ ॥ चक्षुरिति ।। चक्षुर्दारिका रूपाकारा या धियो वृत्तिस्त्रां पश्यन्नव- भासयन्नात्माऽलप्सगकुण्ठितज्ञानशक्तिर्दृष्टेष्टा भवेत् । एवमुत्तरत्रापि योज्यम् ॥ ३६॥ केवलां मनसो वृत्तिं पश्यन्मन्ता मतेरजः। विज्ञाताऽलुप्तशक्तित्वात्तथा शास्त्रं नहीत्यतः॥३७॥ केवलामिति ।। चक्षुरादिद्वारा बहिरप्रवृत्तामन्तरेव विषयाका- रामित्यर्थः । अजो विकाररहित इत्यर्थः । विज्ञाता अलप्तचिच्छक्ति- त्वादित्यर्थः । अलुप्तशक्तित्वे श्रुतिमुदाहरति-तथा शास्त्रमिति ।
उपदेशसाहस्री। [सम्यब्यति- एतदित्यस्मिन्नर्थतःशब्दः तसेः सार्वविभक्तिकत्वागीकारात् । सप्तम्य- थेयं तसिरिति केचित् । 'नहि द्रष्टुर्दृष्टे'रित्यारभ्य 'नहि विज्ञातुर्वि- ज्ञातेर्विपरिलोपो विद्यत' इतिश्रुतेरित्यर्थः । दृप्टेष्टत्यादौ च 'न दृष्टारं पश्यन्न श्रुतेः श्रोतारं शृणुयान्न मतेमन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीया एप त आत्मा सर्वान्तर इति श्रुति- रुदाहर्या ।। ३७ ॥ द्रष्टुत्वादिव्यपदेशाद्विकारित्वाशुद्धत्वप्रसक्तिमाशझ्याह- ध्यायतीत्यविकारित्वं तथा लेलायतीत्यपि। अत्र स्तेनेति शुद्धत्वं तथानन्यागतं श्रुतेः ॥ ३८ ॥ ध्यायतीति ॥ श्रुताविवशब्दाध्यानचलनयोराभासत्वमुच्यते । अतोऽविकारित्वं सिद्धमित्यर्थः । 'अत्र स्तेनोऽस्तेनो भवति भ्रूणहे' ति । 'अनन्वागतं पुण्येनानन्वागतं पापेनेति च श्रुतेः शुद्धत्व सिद्धमित्यर्थः ॥ ३८॥ ननु सुपुप्ते ज्ञानाभावाज्जाग्रत्वमयोश्च तद्भावादात्मनः कथमविका- रित्वमित्यत आह- शक्त्यलोपात्सुपुते ज्ञस्तथा वोधेऽविकारतः। ज्ञेयस्यैव विशेपस्तु यत्र येति श्रुतेर्वचः ॥ ३९ ॥ शक्त्यलोपादिति ॥ सुपुप्तेऽप्यात्मा ज्ञ एव शत्तयलोपादिति योजना । 'यद्वैतं न पश्यति पश्यन्वै तन्न पश्यती'त्यादिश्रुतेरि- त्यर्थः । तथा चोघे चोधदशायां जायस्वप्नयोरिति यावत् । जो ज्ञान- सरूप एवात्मा निरवयत्वेनाविकारतो विकारानुषपत्तेरित्यर्थः । अव. स्थारयेऽपि निर्विशेषचिद्रूपश्चेदात्मा कथं तर्हि नाज्ञासिषमिति मुघु- प्तिपरामयों योपावस्थायां च फथं जानामीत्यनुभव इत्याशय विप-
प्रकरणम् १७]
पदयोजनिकान्याख्यायुता। १९१
योपरमानुपरमोपाधिनियन्धनं तदुभयं न स्वरूपनिवन्धनं तथैव
श्रुत्योक्तत्वादित्याह-ज्ञेयस्येति । 'यत्र वा अन्यदिव स्याचनान्यो
ऽन्यत्पश्ये'दित्यादिका 'यन्न त्वस्य सर्वमात्मैवाभृत्तत्केन कं पश्ये दित्या-
ठिका चोदाहरणम् ॥ ३९ ॥
एवं नित्यचैतन्यस्वरूपत्वान्नित्यापरोक्षो निर्विकारश्चात्मेत्युक्तं प्रप-
चयति श्लोकत्रयेण-
व्यवधानाद्धि पारोक्ष्यं लोकदृष्टेरनात्मनः ।
दृष्टेरात्मखरूपत्वात्प्रत्यक्षं ब्रह्म तत्स्मृतम् ॥ ४० ॥
व्यवधानाद्वीति ।। अनात्मनो घटादेविषयस्य ग्राहिकाया लोक
दृष्टेतद्वाहाचक्षुरादिदृष्टेर्देशतः कालतो वा व्यवधामादसंकर्पत्यारोक्ष्य
हि प्रसिद्धमित्यर्थ । न तथात्मनो दृष्टिव्यवधानमस्ति दृप्टेरात्मस्वरू-
पत्तादात्मन एव ब्रह्मत्वात्तद्ब्रह्म स्वत एव सदा प्रत्यक्षं स्मृतं ब्रह्मवि-
द्विरिति योजना ॥ ४०॥
खरूपप्रकाशस्यानन्यापेक्षत्व दृष्टान्तेन स्फुटयति-
नहि दीपान्तरापेक्षा यदद्दीपप्रकाशने।
बोधस्यात्मस्वरूपत्वान्न वोधोऽन्यस्तथेप्यते ॥४१॥
नहीति ॥ स्फुटम् ॥ ११ ॥
एवमपरोक्षत्व विशदीकृत्याविकारित्व विशदीकुर्वन्नात्मनो निर्वि-
शेपत्वमाह-
विपयत्वं विकारित्वं नानात्वं वा नहीप्यते ।
न हेयो नाप्युपादेय आत्मा नान्येन वा ततः ॥४२॥
विषयत्वमिति ॥ नहीप्यते श्रुतिविरोधादिति शेष. । अन्यस्या-
सत्त्वाजडत्वाचेति हेतुरनुसंधेयः । वाशब्दात्लेनापीत्यर्थः ॥ ४२ ॥
१९२ उपदेशसाहस्री। [सम्यमति- नन्वेवमपि कुत आत्मनो निर्विकारत्वं नरकपातादिभयदर्शनादि- त्याशङ्कचाह- सवायाभ्यन्तरो जीणों जन्ममृत्युजरातिगः। अहमात्मेति यो वेत्ति कुतोऽन्येव विमेति सः ॥४३॥ सवाह्याभ्यन्तर इति ॥ सम्यक्पदार्थशोधनपूर्वकं य आत्मतत्त्वं जानाति स कुतोऽन्वेव बिभेति । भयहेतोद्धितीयस्य बाधितत्वादि- त्यर्थः ॥ ४३ ॥ तथापि यावजीयादिश्रुतिविहितत्वात्कर्मणां तदकरणे प्रत्यवायभयं विदुपोऽप्यस्तीति तत्परिहारायानुष्ठानं स्यादिति चेन्नेत्याह- प्रागेवैतद्विधेः कर्म धर्णित्वादेपोहनात् । तदस्थूलादिशाखेभ्यस्तत्त्वमेवेति निश्चयात् ॥४४॥ प्रागेवेति ॥ अस्थूलादिशास्त्रेभ्यो वर्णित्यादेः कर्माधिकारहेतो- पोहनाचत्त्वमेवेति वाक्येन ब्रह्मस्वरूपत्वनिश्चयादेतद्विधरेतदात्मत- त्वविधानात्प्रतिपादनास्पागेव पूर्वमेव तद्यावज्जीवादीशास्त्रविहितं कर्म नोर्ध्वमिति योजना । अनधिकारिणोऽकरणे प्रत्यवायासंभवा. नानुष्ठानप्राप्तिरिति भावः ॥ ४४ ॥ आत्मनोऽध्यासं विना न वर्णित्वाधस्तीत्यत्र युक्तिमाह-- पूर्वदेहपरित्यागे जात्यादीनां नहाणतः । देहस्यैव तु जासादिस्तस्याप्येवं बनात्मता ॥ ४५ ॥ पूर्वेति ॥ देहपरित्यागे तदनुरक्तजातेरपि परित्यागादागमापा- यित्वेन न जात्यादेरात्मधर्मखं किंतु देहस्यैवं जात्यादिर्धर्मः । तर्हि देह एवात्मास्त्वित्यत आह-तस्यापीति । एवगागमापायित्वादेव देहस्याप्यनात्मतेत्यर्थः । देहस आत्यादेश्च वर्णित्वादिना प्रकारेण प्रकरणम् १७ ] पदयोजनिफाव्याख्यायुता। १९३ कर्माधिकारहेतोरभायादात्मनो न खभावतः कर्मकर्तृत्वमुपपद्यत इति भावः ॥४५॥ शरीरादिप्वात्मीयाभिमानस्य प्रसिद्धत्वेन हेयत्वायोगमाशङ्कयाह- ममाहं चेत्यतोऽविद्या शरीरादिष्वनात्मसु । आत्मज्ञानेन हेया स्वादसुराणामिति श्रुतेः ॥ ४६ ।। ममाहमिति ॥ यत आत्मन्यागमापायाभ्यामनात्मत्वं देहादेनि- श्चितमतो हेतोः शरीरादिप्वनात्मसु ममाहं चेत्यभिमानोऽविद्या मिथ्याप्रत्ययः सात्मज्ञानेनात्मतत्त्वब्रह्मात्मानुसंधानेन हेया स्याद्वाध्या स्यादेहात्मदृष्टेरासुरत्वेन निन्दाश्रुतेश्चेत्याह-असुराणामिति । 'असु- राणां पोपनिषदिति श्रुतेरित्यर्थः ॥ १६ ॥ तत्त्वज्ञानादूर्ध्व न कर्म न वा तत्प्रयोजकं जात्याद्यात्मनोऽस्तीत्ये. तदृष्टान्तेन साधयति- दशाहाशौचकार्याणां पारिवाज्ये निवर्तनम् । यथा ज्ञानस्य संप्राप्तौ तद्वजासादिकर्मणाम् ॥४७॥ दशाहेति । पारिवाज्ये सति सपिण्डताभिमानाभावात्संन्यासिनो यथाऽऽशौचादेरननुष्ठेयता तथा ब्रह्मात्मज्ञानस्य संप्राप्तौ जात्याद्यमि- मानाभावाद्विदुषः कर्मानुष्ठानाभाव इत्यर्थः ॥ १७ ॥ यस्मादेवमात्मनो ब्रह्मात्मत्वाज्ञानमूलो देहायध्यासगिवन्धनः संसारस्तसातत्त्वज्ञानात्माकामादियुक्तो धर्माधर्मद्वारा संसरति । ब्रह्मा- रमजाने च सति कामादेरभावान्मुक्तो भवेदित्याह- यत्कामस्तकतुर्भूत्वा कृतं त्वज्ञः प्रपद्यते । यदा स्वात्मशः कामाः प्रमुच्यन्तेऽमृतस्तदा ॥४॥ यत्काम इति ।। खे खरूपे ब्रह्मण्येवात्मपिर्यस्य स खात्मा उपदेशसाहस्री । [सम्यमति- तस्य खात्मदृश इति विग्रहः । 'यदा सर्व प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मोऽमृतो भवतीति श्रुतेः हृदय्याः कामाः हृदयाध्यासबाधनेन बाधिताः सन्तो यदा प्रकर्षेण मुच्यन्ते तदा प्रवृत्तिबीजाभावात्स्वात्मसंस्थ आत्माऽमृतो मुक्तसंसारबन्धनो भवती- त्यर्थः ॥ १८॥ 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' 'नित्यतृप्तो निरञ्जन' इत्यादिश्रुतेरात्मनो नित्यतृप्तत्वावगमात्तस्य साध्यसाधनवि- लक्षणत्वेन खतः क्रियादिसंस्पर्शित्वाभावादध्यासमूलत्वं क्रियातल्कार- कयोगस्येति निश्चित्यात्मतत्त्वाववोधनेनैव क्रियादि त्याज्यमित्याह--- आत्मरूपविधेः कार्य क्रियादिभ्यो निवर्तनम् । न साध्यं साधनं वात्मा नित्यतृप्तः स्मृतेर्मतः ॥४९॥ आत्मरूपेति ॥ विधिविधानं तत्स्वरूपावधारणम् ॥ १९ ॥ यद्यपि विज्ञातात्मतत्त्वस्य क्रियाहेत्वभावात्तदभावस्तथापि जिना- सोर्मुमुक्षोर्मोक्षाय क्रियानुष्ठानं स्यादित्याशङ्कय मोक्षस्य क्रियाफल- विलक्षणत्वान्न तस्यापि कियासंभव इत्याह--- उत्पाद्याप्यविकार्याणि संस्कार्यं च कियाफलम् । नातोऽन्यत्कर्मणा कार्य त्यजेत्तस्मात्ससाधनम् ॥५०॥ उत्पायेति ॥ ससाधनं जायापत्यवित्तशिखायज्ञोपवीतादिसाधन- सहितकर्मविधिलक्षणं त्यजेन्मुमुक्षुरिति शेषः । कृतकस्यानित्यत्वान्मो- क्षस्य च नित्यात्मसरूपावस्थानरूपत्वान्न मुमुक्षोरपि कर्मणा कृत्यम- स्वीति भावः ॥ ५० ॥ किं ससाधनकर्मत्यागमात्रेण मुक्तिसिद्धिः किंवान्यत्किमपि कृत्य- मस्तीत्यपेक्षायामात्मतत्त्वज्ञानाय गुरूपसचिः कर्तब्येत्याह- - प्रकरणम् १७] पदयोजनिकान्याख्यायुता। तापान्तत्वादनित्यत्वादात्मार्थत्वाय या यहिः। संहत्यात्मनि तां प्रीति सत्यार्थी गुरुमाश्रयेत् ॥५१॥ तापान्तेति ॥ यद्वा यसात्सर्वकर्मनिवन्धना प्रीतिरनित्या दुःखान्ता सार्थप्रयुक्ता च तस्मात्तन्निमित्ता प्रीतिमनात्मविषयामात्मन्येवोपसंहृत्य नित्यपुरुषार्थी गुरुं संश्रयेतेति मुमुक्षु शिक्षयति-तापान्तत्वादिति । या बहिरात्मनोऽन्यन्न जायापुत्रादौ प्रीतिस्तां प्रीतिमात्मन्युपसंहृत्या- स्मसात्कृत्वेत्यर्थः ॥ ५१॥ उपगन्तव्यं गुरुं विशिनटि--- शान्तं प्राशं तथा मुक्तं निष्क्रियं ब्रमणि स्थितम् । श्रुतेराचार्यवान्वेद तद्विद्धीति स्मृतेस्तथा ।। ५२ ॥ शान्तमिति ॥ शान्तमक्षुब्धचित्तं प्राझं मेधाविनं यथा परित्य- तबन्धसजातीयेन पुनर्बद्धो न भवति तथा मुक्तं निष्किञ्चनमित्यर्थ । निष्क्रियमैहिकामुप्मिकार्थप्रवृत्तिरहितं ब्रह्मणि स्थितं खस्वरूपानन्दानु- भवेन सर्वनोदासीनमित्यर्थः । गुरोराश्रयणीयत्वे प्रमाणमाह- श्रुतेरिति । 'आचार्यवान्पुरुषो वेदेतिच श्रुते । 'तद्विद्धि प्रणिपातेन परिप्रभेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन' इति स्मृतेश्चेत्यर्थ ॥ ५२ ।। उक्तप्रमाणानुसारेणोक्तविशेषणगुरूपगमने फलं निरतिशयं दर्शयति-- स गुरुस्तारयेद्युक्तं शिष्यं शिप्यगुणान्वितम् । ब्रह्मविद्याप्लवेनाशु सान्तध्यान्तमहोदधिम् ॥ ५३॥ स गुरुरिति ॥ युक्तं समाहितं शिप्यगुणाः प्रशान्तचित्ताय जिते- न्द्रियाये'त्यमोक्ता गुणा अमानित्वादयश्च भगवदगीतोक्तास्तैरन्वितमि- उपदेशसाहस्री। [सम्यअति- त्यर्थः । ब्रह्मविद्यैव प्लवो ब्रह्मविद्याप्लवस्तेनेत्यर्थः । स्वान्तमन्तःकरणम् । उपाधिवचनेनोपाधीयमानो जीयो लक्ष्यते । तस्य ध्वान्तमात्मसभा- वावरणागविक्षेपलक्षणमनायनिर्वाच्याज्ञानं तदेव महानुदधिरपर्यन्त- त्वाचमित्यर्थः ॥ ५३॥ कथमुक्तलक्षणो गुरुरुक्तलक्षणं शिप्यं सम्याजानेन सद्यः संसार- सागरं तारयेदित्यपेक्षायां प्रथम पदार्थविवेक कारयित्वा याक्यार्थज्ञा- नोपदेशेनेत्यभिप्रेत्य क्षिपतः पदार्थविवेकमाह- दृष्टिः स्पृष्टिः श्रुति तिर्मतिर्विज्ञातिरेव च । शक्तयोऽन्याश्च भिद्यन्ते चिद्रूपत्वेऽप्युपाधिभिः॥५४॥ दृष्टिः स्पृपिरिति । अन्याश्च रसयतिवक्तिगत्याद्याश्च शक्तय इत्यर्थः । एता दृष्यादिशक्तयो यद्यप्यखण्डचिद्रूपा एव तथापि तत्त- दिन्द्रियद्वारकचुद्धिवृत्तिभेदोपाघिमिर्भिद्यन्ते न वस्तुतो भेदोऽस्तीति तत्तद्वृत्त्यंशपरित्यागेन सर्ववृत्तिसाक्षितयानुगतप्रकाशस्वभाव एवात्मा त्वंपदार्थ इति प्रथमं ग्राहयेदित्यर्थः ॥ ५४ ॥ कथमुपाधिभिरेव चिच्छक्तिभेदः स्वरूपत एव भेदो यथानुभव- मस्त्विति चेन्मैवम् । आत्मनो विकारित्वापत्तेः कल्पनागौरवाचेत्यभि- प्रेत्य दृष्टान्तेनाखण्डरूपतां साधयति-- अपायोद्भूतिहीनाभिर्निसं दीप्यरविर्यथा । सर्वज्ञः सर्वडक शुद्धः सर्व जानाति सर्वदा ॥ ५५ ॥ अपायेति ॥ यथा रविरपायोद्भूतिहीनाभिर्विनाशजन्मशून्याभिः खरश्मिभिः सर्वं ब्रह्माण्डं दीप्यन्प्रकाशयन्नेक एचाविकृतो वर्तते तथात्माप्यपायोद्भुतिहीनाभिरैव खरूपभूतचिच्छक्तिभिस्तत्तद्बुद्धिवृ- त्युपाधिभेदाद्भिन्नामि. सर्व विषयजातं विशेषतो जानाति सर्वदा .
प्रकरणम् १७] पदयोजनिकाव्याल्यायुता। १९७ सर्वदृक् सामान्येनापि सर्व पश्यन्नास्ते । यतः सर्वगतः सर्वदृश्याधिष्ठा- नत्वेन सर्वाव्यभिचारी तस्साच्छुद्धो निर्विकार इति योजना ॥ ५५ यघेवमुक्तलक्षण आत्मा कथं तस्य संसारोपलब्धृता परिच्छेदपति- भासश्चेत्यत आह-- अन्यदृष्टिः शरीरस्थस्तावन्मानो ह्यविद्यया । जलेन्द्वाघुपमाभिस्तु तद्धर्मा च विभाव्यते ॥ ५६ ॥ अन्यदृष्टिरिति ॥ अविद्यया शरीरस्यः स्थूलसूक्ष्मशरीरयोरेवो- पलभ्यमानत्वात्तत्र वर्तमानस्तावन्मात्रः शरीरं यावत्तावन्मात्रोऽहमिति मन्यमानोऽन्यदृष्टिदेहबाह्येभ्यो व्यावृत्तात्मदृष्टिस्तद्गतधर्मरात्मनो धर्म- वत्त्वदृष्टिरपि सन् परिच्छिन्नः संसारीव चावभासत इत्यर्थः । एतदेव दृष्टान्तेन स्पष्टयति-जलेन्द्वादीति । यथा चन्द्रादिर्जले प्रतिवि- म्बितो जलोपाधिभेदादिवानिव नलकम्पादिना कम्पादिमानिय चाविवेकादेव विभाव्यते तथैताभिरुपमाभिस्तद्धमत्याधुतार्थम् ॥५६॥ तदेवमुपाधिपरामर्शमन्तरेणात्मनिभेदसंसारादेरनुपलम्भादुपाधीनां चात्मनो बहिः स्वातन्त्र्येण सत्तायां प्रमाणामावादविद्यामयत्वे सति नित्यशुद्धः परिपूर्ण एव चिदात्मेत्यवान्तरवाक्यैरवधारित आत्मैव सत्यज्ञानादिलक्षणं ब्रह्मेति महावाक्येनाचार्यादवगतात्मतत्त्वो मुमुक्षु- स्वस्थात्रयात्मकस्यैव सर्वदृश्यत्वात्तदपोहेन तत्साक्षितया तदधिष्ठानतया चाव्यभिचारि चिदेकरसं ब्रह्मात्मेति खानुभवमापादयन्मुच्यत इत्य- मित्यानुसंधानप्रकारमाह- दृष्ट्वा बाह्यं निमील्याच स्मृत्वा तवविहाय च । अथोन्मील्यात्मनो घटिं ब्रह्म प्रामोसनध्वगः ॥५७॥ दृष्ट्वैति ।। वायं जागरितं पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकं सम- १९८ उपदेशसाहस्री। [सम्यहमति- प्टिव्यष्टिरूपं सर्व विषयजातं दृष्ट्वा द्रष्टदृश्यान्वयव्यतिरेकाभ्यां कार्य- कारणान्वयव्यतिरेकाभ्यां चालोच्याथ निमील्य दृश्यं तत्सर्वं द्रष्टमा- त्रत्वेन कार्य सवै कारणमूततन्मात्रत्वेन विलाप्येत्यर्थः । अथानन्तरं स्मृत्वा जाग्रदृष्टवासनाकार्य समदर्शनं स्मृतिस्ता स्मृत्वा विश्ववैश्वा- नरसहितं स्थूलोपाधि तद्वासनामये लिङ्गे सूक्ष्मभूतसहिते प्रविलाप्य वासनामयं खममात्रमेव तदित्यनुसंधायेत्यर्थः । तदपि लिङ्गशरीरं वासनामयं प्रविहाय च वासनासहितस्य मनःप्राणेन्द्रियसंघातस्यापि तत्कारणप्रपञ्चतन्मात्रादनतिरेकाचावन्मात्रेण प्रविलाप्य तेषां चोप- त्तिक्रमवैपरीत्येन तत्कारणसाभासाज्ञानमात्रत्वेन प्रविलाप्यायस्थान तद्धानं तत्कृत्वेत्यर्थः । अथानन्तरं सुपुप्तौ वीजात्मकमज्ञानमात्रं यदुर्वरितं तदपि सदसत्त्वभिन्नाभिन्नादिप्रकारनिरूपणासहत्वादिवा- न्धपरिकल्पितान्धकारवत्किंचिदिति विवेकेन बाधित्वात्मनः सर्वाव- स्थासाक्षितयानुस्यूतसच्चिदानन्दमात्रस्य दृष्टिं ज्ञानप्रकाशखरूपामु- न्मील्य निरुपाधिका कृत्वा स्थितो ब्रह्म प्राप्नोति । सत्यज्ञानादिलक्षणं ब्रह्मैव भवतीति यावत् । अनध्वगोऽचिरादिकमध्वानं न प्राप्नोति ब्रह्मण आत्मत्वान्न गत्यायचा ब्रह्मप्राप्तिरित्यर्थः ॥ ५७ ।। अनध्वगो ब्रह्म प्रामोतीत्युक्तमेव विशदयन्निरुपचरितैवास्य मुक्तिोंपासकसेवापेक्षिकीति द्योतयति- प्राणाद्येवं त्रिकं हित्वा तीर्णोऽज्ञानमहोदधिम् । खात्मस्थो निर्गुणः शुद्धोवुद्धो मुक्तः खतो हि सः५८ प्राणादिवि द्वाभ्याम् ॥ सुषुप्त्यादीत्यर्थः । खात्मस्यो नाचिरा- दिमार्गस्थः तथा निर्गुणः खात्मनि प्रविलापितसकलगुण इत्यर्थः । शुद्धो निरुपाधिकोऽतः स्वतः स्वभावत एव मुक्त इत्यर्थः ।। ५८ ॥
प्रकरणम् १७] पदयोजनिकाल्याख्यायुता। अजोऽहं चामरोऽमृत्युरजरोऽभय एव च । सर्वज्ञः सर्वहन शुद्ध इति बुद्धो न जायते ॥ ५९॥ अजोऽहमिति ॥ एवंविधोऽहं ब्रह्मास्मीति यो वुद्धोऽज्ञाननिद्राया निर्गतः स न जायते । पुनः शरीरं न गृह्णातीत्यर्थः ।। ५९ ।। प्रबुद्धस्य पुनर्जन्मामाये हेतुमाह- पूर्वोक्तं यत्तमोपी तन्नास्तीति विनिश्चयः । तदभावे कुतो जन्म ब्रोकत्वं विजानतः ।। ६० ।। पूर्वोक्तमिति ॥ सुपुत्याख्यं तमोऽज्ञानमित्यादिना यत्पूर्वोक्त- मज्ञानं तत्काल नयेऽपि नास्तीति निश्चयः करिमन्नपि काले सतो ज्ञानमात्रातिरोधानासंभवादस्य तु ज्ञानोदयमात्र एव तिरोधानाच्छु- क्तिरजतवदित्यर्थः । तदभाव इति कारणाभावात्कार्याभाव इत्यर्थः ॥ ६०॥ अहं ब्रह्मासीत्यात्मानं साक्षात्पश्यतोऽपि पूर्ववद्व्यवहारदर्शनात- स्कृतधर्माधर्मनिवन्धनं पुनः शरीरग्रहणं स्यादित्याशङ्कय बाधितानु- वृत्तिमात्रत्वाज्ज्ञानिनो व्यवहारस्य न तन्निबन्धनः पुनःशरीरग्रहणादि- संसार इति दृष्टान्तपूर्वफमाह- क्षीरात्सर्पिर्यथोदत्य क्षिसं तस्मिन्नपूर्ववत् । बुद्यादेजस्तथाऽसत्यान्न देही पूर्ववद्भवेत् ।। ६१ ॥ क्षीरादिति ।। यथा सर्पिर्नवनीतं क्षीरादुपायेनोद्धृत्य तस्मिन्नेव निःसारीकृते क्षीरे क्षिप्तं न पूर्ववदविविक्तं भवति तथाऽसत्याहृध्यादेः संघातात्प्रथममात्मा विविक्तो ज्ञानमानरूपेणोद्धृतो ब्रह्माहमसीति वाक्यादवगतब्रह्मभावः • पूर्ववत्पुनदेही देहद्वयसंघातामिमानवान् तस्मिन्विद्यमानोऽपि न भवेदित्यर्थः । साहंकारस्य हि कर्म बन्धहेतुर्न 2
[सम्ययति-
-
२००
उपदेशसाहसी।
निरहंकारस्य । तथाचोकं भगवता 'यस्य नाहंकृतो भावो बुद्धिर्यस्य
न लिप्यते । हत्वापि स इमाल्लोकान हन्ति न निबध्यत'इति ॥६१॥
पदार्थशोधनपूर्वकं वाक्यादहं ब्रह्मास्मीति प्रतियुद्धस्य पुनः
संसारभयशका नास्तीत्युक्तेऽर्थे 'आनन्दं ब्रह्मणो विद्वान्न विभेति कुत-
श्चनेति श्रुतिमर्थतः पठति-
सत्सं ज्ञानमनन्तं च रसादेः पञ्चकात्परम् ।
सामरश्यादिशास्त्रोक्तमहं ब्रह्मेति निर्भयः॥ २ ॥
सत्यं ज्ञानमिति ॥ रसादेरन्नमयप्राणमयमनोमयविज्ञानमयान-
न्दमयाख्यकोशपञ्चकात्परं तदाधारभूतं 'ब्रह्मपुच्छं प्रतिष्ठे'ति निर्दिष्टं
यत्तदेव 'अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठा विन्दते' इति
शास्त्रोक्तं ब्रह्माहं स्यामसीति पश्यन्निर्मयो भवतीति योजना ॥२॥
भयंकराणामपि भयंकरब्रह्मात्मभूतस्य कुतो भयशङ्कावकाश इति
ब्रह्मज्ञस्य पुनः संसाराभावमुक्तं द्रढयति-
यस्मानीताः प्रवर्तन्ते वामनःपावकादयः।
तदात्मानन्दतत्त्वज्ञो न विभेति कुतथन ॥ ६३ ।।
यसादिति ॥ यदि वारिखनौ पावकादय इति पाउस्तदा इनः
सूर्यः । आदिपदादिन्द्रमृत्यू गृह्यते । तथाच श्रुतिः 'भीपास्माद्वातः
पवते भीपोदेति सूर्यः । मीषामादग्निश्चन्द्रश्च मृत्युर्धावति पञ्चम'
इति । वामनःपावकादय इति पाठेऽध्यात्म वागादयोऽपिदैवम-
म्यादयश्च यसागीताः प्रवर्तन्त इत्यर्थः । तथाच श्रुतिः 'केनेपित
पतति प्रेपितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेपिता वाच-
मिमा वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति', 'भयादस्यामिस्तपति
भयाचपति सूर्यः । मयादिन्द्रश्य वायुश्च मृत्युर्घावति पञ्चम' इति ॥६॥
प्रकरणम् १७] पदयोजनिकान्याख्यायुता। २०१ ननु विदुषोऽपि हरिहरहिरण्यगर्भादीनां नमस्कार्यत्वात्तदतिक्रमे भयसंभवात्कार्यशेयो विद्यत इति चेन्नेत्याह- नामादिभ्यः परे भून्नि खाराज्ये चेस्थितोऽद्वये । प्रणमेकं तदात्मज्ञो न कार्य कर्मणा तदा ॥ ४ ॥ नामादिभ्य इति ।। नामवाक्मनआदिप्राणान्तेभ्य उत्तरोत्तर- भूयस्त्वेन श्रुतेभ्यः परे परस्मिन्भूग्नि सर्वव्यवहारातीतेऽमृते सुखरूपे- हये खे महिग्नि खराजि चेदहमस्मि भूमा ब्रह्मेति व्यवस्थित आत्मज्ञो विद्वांस्तदा तस्यान्यंप्रति गुणभावाभावात्कं प्रणगेत्प्रणम्यानामात्म- मूतत्वात् । अतः परिपकज्ञानस्य कृतकृत्यत्त्वान्न कर्मणा किमपि कार्य- -मस्तीत्यर्थः ॥ ६४ ॥ भूतो नामादिभ्यः परत्वेऽपि कथमद्वयत्वमित्याशङ्कय नामादेरव- स्थात्रयरूपस्याध्यस्तत्वेन मिथ्यात्वात्तत्साक्षिणस्तुरीयस्स भूमोऽद्वयत्व- मिति वक्तुमवस्थात्रयमनुवदति- विराद्धैश्वानरो वाह्यः स्मरन्नन्तः प्रजापतिः । प्रविलीने तु सर्वस्मिन्प्राज्ञोऽन्याकृतमुच्यते ॥६५॥ विराडिति ॥ अध्यात्माधिदैवतयोरभेदाभिप्रायेण विरादैश्वानर इत्युक्त विश्ववैश्वानर इत्यर्थः । बाह्यो वहि:प्रज्ञ इत्यर्थः । अन्तः सर- निति स्वग्ने वासनामयविपयदर्शी प्रजापतिर्हिरण्यगर्भस्तैजस इति योज्य- म् । अव्याकृतमायोपाधीश्वराख्यं तत्त्वं प्राज्ञ उच्यत इत्यर्थः ॥६५॥ एतदवसानयात्मकं जगदपोह्य तत्साक्षिणो यस्तुमूतस्याहं ब्रह्मेति सम्यग्ज्ञानान्मुक्तो भवतीत्याह- वाचारम्भणमात्रत्वात्सुपुतादित्रिकं त्वसत् । सत्यो थाहमित्सेयं सत्यसन्धो विमुच्यते ॥ ६६ ।।
-
२०२
उपदेशसाहस्री ।
[सम्यध्यति-
वाचेति ॥ ज्ञः साक्षी सत्यः परमात्मा सोऽहमेवेत्येवं सत्यसन्धो.
ऽनायासेन मुच्यत इत्यर्थः ॥ ६६ ॥
आत्मतत्त्वाज्ञानाध्यस्तः संसारस्तज्ज्ञानान्निवर्तत इत्युक्ते ज्ञानाज्ञा-
नयोरात्मधर्मत्वं स्यादित्याशङ्कय दृष्टान्तेन प्रत्याह-
भारूपत्वाद्यथा भानो होरात्रे तथैव च ।
ज्ञानाज्ञाने न मे सातां चिद्रूपत्वाविशेषतः ॥६७ ॥
भारूपत्वादिति ।। ज्ञानाज्ञानयोरपि साक्ष्यत्यात्कल्पितत्वे सति
नात्मधर्मत्वमिति भावः ॥ ६७ ।।
आत्मनो निर्विशेषत्वादेः शास्त्रप्रामाण्यादेव सिद्धेर्नात्र युक्तिकल्प-
नया मनः खेदनीयमित्यभिप्रेत्याह-
शास्त्रस्थानतिशङ्कयत्वाद्रीव स्वामहं सदा।
ब्रहाणो मे न हेयं स्याद्वाह्यं वेति च संस्मरेत् ॥६८॥
शास्त्रस्येति । स्पष्टम् ॥ ६८ ॥
किं तद्न परं शास्त्रं किंवा सर्वदाऽहेयानुपादेयब्रह्मात्मज्ञाननिष्ठस्य
फलमित्यपेक्षायां 'यस्तु सर्वाणि भूतानी'त्यादिमन्त्रार्थमुदाहरति-
अहमेव च भूतेषु सर्येप्वेको नभो यथा ।
मयि सर्वाणि भूतानि पश्यनेयं न जायते॥ ६९ ॥
अहमेवेति । स्पष्टम् ।। ६९ ।।
आत्मनोऽद्वितीयब्रह्मरूपत्वे शास्त्रमर्थत उदाहृत्य निर्विशेषब्रह्मरू-
पत्वे उदाहरति--
न बाह्य मध्यतो बान्तर्विद्यतेऽन्यत्स्वतः क्वचित् ।
अबाबान्तःश्रुतेः किंचित्तस्माच्छुद्धा म्वयंप्रभः ॥७॥
प्रकरणम् १७] पदयोजनिकाव्याख्यायुता। २०३ नवाह्यमिति ॥ तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरिति श्रुतेरित्यर्थः । सर्वानुभूरित्यस्यार्थः खयंप्रभ इति ॥७०॥ सामान्येन सर्वप्रपञ्चसंस्पर्शरहितत्वे श्रुतिमुदाहरति-- नेतिनेत्यादिशाखेभ्यः प्रपञ्चोपशमोऽद्वयः। अविज्ञातादिशास्त्राच नैव ज्ञेयो ह्यतोऽन्यथा ॥७१॥ नेतीति ॥ प्रपञ्चनिषेधद्वारेणैवात्मा विज्ञेयो न पुनर्विपयतया सप्रपञ्चतया वेत्यन्न 'अन्यदेव तद्विदितादयो अविदितादधि' । 'यस्यामतं तस्य मतं मतं यस्य न वेद सः' । 'अविज्ञातं विनातृ'- इत्यादिशास्त्रमुदाहरति-अविज्ञातादीति ॥ ७१ ॥ 'तस्मादेषां तन्न प्रियं यदेतन्मनुप्या विधु'रिति श्रुतिरेवमयादि- लक्षणमात्मानं जानतो देवाः फलप्राप्ति विघ्नन्तीति चेन्मैवम् । देवा- नामप्यात्मभूतत्वाद्विदुषो विनश्रुतेरविद्वद्विषयत्वादित्यभिप्रेत्याह- सर्वस्यात्माहमेयेति ब्रह्म चेद्विदितं परम् । स आत्मा सर्वभूतानामात्मा होपामिति श्रुतेः ॥७२॥ सर्वस्येति ॥ तस्य ह न देवाश्च नाभूत्या ईशत आत्मा ोपां संभवतीति श्रुतेरित्यर्थः ॥ ७२ ॥ एवं ब्रह्मात्मज्ञानवतो देवैरप्युपास्यत्वसिद्धेर्न तस्य देवपशुत्वश- कापीत्यतो न कुतश्विद्भयमस्तीत्यत्र श्रुतिमर्थतः पठति-- जीयश्चेत्परमात्मानं खात्मानं देवमअसा । देवोपास्यः स देवानां पशुत्वाच निवर्तते ॥७३॥ जीववैदिति ॥'यदेवमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूत- भव्यस्य न तदा विजुगुप्सते' । 'सर्वेऽस्सै देवा बलिमावहन्ति' 'तमेवं विद्वानमृत इह भवति' इति च श्रुतिभ्य इत्यर्थः ।। ७३ ।।
उपदेशसाहसी। [सम्यमति- यदुक्तं सत्यसंधो विगुच्यत इति तत्स्फुटयति- अहमेव सदात्मज्ञः शून्यस्त्वन्यैर्यधाम्बरम् । इत्येवं सत्यसंधत्यादसद्धाता न वध्यते ॥ ७४ ॥ अहमेवेति ॥ सदात्मा चासौ ज्ञश्चेति सदात्मज्ञः 'तत्सत्यं स आत्मेति श्रुतिरिहोदाहरणम् । अन्यैः शून्य इति वाचारम्भणश्रुत्यर्थो दर्शितः । यथाम्बरमिति दृश्यसंसर्गशून्यत्वाच्छुद्ध इत्यत्र दृष्टान्तो- क्तिः । असद्धाताऽनृताभिसंधिरहितस्तस्कर इव न बध्यते बन्धानर्थ- हीनो भवति स यथा तत्र न दखते, ऐतदात्म्यमिदं सर्वमित्यादि- श्रुतिरिहोदाहार्या ॥ ७४ ॥ एवंविधज्ञानाभावादितरे पशुभूताः शोच्या भवन्तीति दर्शयन् 'अथ येऽन्ययातो विदुरन्यराजानतेऽझय्यलोका भवन्ती' ति श्रुत्यर्थ- माह- कृपणास्तेऽन्यथैवातो विदुर्बल परं हि ये। खराड्योऽनन्यवस्थस्तस्य देवा असन्वशे ॥ ७५ ॥ कृपणा इति ॥ ये परं ब्रह्मातोऽन्यथैवोक्तवैपरीत्येनानात्मभूत- तया विदुस्ते हि कृपणाः शोच्या एवेति योजना । अभेददर्शी तु न कृपण इत्याह—खराडिति । 'एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दःस खराड्भवती' तिश्रुतिरिहोदाहरणम् । तस्य सर्वेषु लोकेषु कामचारो मवती'तिश्रुत्यर्थे मन्त्रभागोदाहरणेनात्म- रतिं द्योतयति-तस्येति । आसन्नित्यर्थे असन्निति छान्दसम् । 'यस्त्वेवं ब्राह्मणो विद्यात्तस्य देवा असन्वशे'इति मन्त्रस्यायमर्थः । यस्त्वेवं ब्राहाणो ब्रह्मनिष्ठ एवं वेदाह्मेतं पुरुषं महान्त मित्युक्तपका- रेण ब्रह्मात्मानं विद्यातस्य विदुषो देवा घशगा भवन्तीति ॥ ७५।।
प्रकरणम् १७] पदयोजनिकान्याख्यायुता। २०५ यस्माद्यथोक्तात्मज्ञानादेव कृतकृत्यता तसान्मुमुक्षुमिस्तदर्थ यलव- द्विभवितव्यमिति ताञ्छिक्षयन्नाह- हित्वा जात्यादिसंवन्धान्याचोऽन्याः सह कर्मभिः। ओमित्येवं सदात्मानं सर्व शुद्धं प्रपद्यथ ॥ ७६ ॥ हित्वेति ।। 'यसिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणेश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृत- स्यैष सेतुः', 'ओमित्येवं ध्यायथ आत्मानमिति च वाक्यद्वयमत्रो. दाहरणम् । अन्या वाचोऽनात्मविपयाः प्रवृत्तिपरा. । सबै सर्वाधार- मूतं शुद्धं विविक्तं निर्विशेपमित्यर्थः ॥ ७६ ॥ तमेव प्रतिपत्तव्यमात्मान श्रुत्यन्तरेण विशिष्टि- सेतुं सर्वव्ययस्थानामहोरानादिवर्जितम् । तिर्यगूलमधः सर्व सकृज्योतिरनामयम् ॥ ७७ ।। सेतुमिति ॥ सर्वव्यवस्थाना वर्णाश्रमादिमर्यादानां सेतुं विधार- कम् ! 'अथ य आत्मा स सेतुर्विधृतिरेषा लोकानामसभेदाय नैनं सेतुमहोरात्रे तरत. सकृतिभातो वैप ब्रह्मलोक' इति श्रुतिरत्रोदा- हरणम् ॥ ७७॥ पुन किंलक्षणमात्मानं प्रपद्यते इत्यपेक्षायाम् 'अन्यत्र धर्मादन्य- त्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच भव्याच यत्तत्पश्यसि तहदे विश्चत्यर्थमाह-- धर्माधर्मविनिर्मुक्तं भूतभव्यात्कृताकृतात् । खमात्मानं परं विद्याद्विमुक्तं सर्ववन्धनैः ॥ ७८ ॥ धर्माधमेति ॥ कृताकृतात्कार्यकारणादित्यर्थः ॥ ७॥ ननु कथं सर्वबन्धनैर्मुक्त आत्मा तस्य कर्तृत्वादिश्रवणादित्याश- २०६ उपदेशसाहसी। [सम्यमति- व्याकर्तृत्वादेरपि सहेव श्रवणाद्विरुक्षोभयस्खमावस्यैकमिलयोगात्स्त- भावप्राप्तं कर्तृत्वादिकं मायामयं प्रमाणावधेयमकर्तृत्वादिकमात्मस्वभाव इति विशेषमभिप्रेत्य विरुद्धधर्मवादिनीः श्रुतीरुदाहरति- अकुर्वन्सर्यकृच्छुद्धस्तिष्ठन्नत्येति धावतः । मायया सर्वशक्तित्वादजः सन्बहुधा मतः ॥ ७९ ॥ अकुर्वनिति । 'अनेजदेकं मनसो जवीय'इति मन्त्रमागार्थो- ऽकुर्वन्सर्वकृदित्युक्तः । 'शुद्धमपापविद्ध'मित्यस्यार्थः शुद्ध इति । 'तद्धावतोऽन्यानत्येति तिष्ठदित्यस्यार्थमाह-तिष्ठनिति । धावतो वेगतोऽन्यान् मनःप्राणादीनत्येति अतीत्य गच्छति । यत्र मनःप्राणादि गच्छति तत्र सर्वत्रात्मचैतन्यस्याभिव्यक्तिनियमाढात्मा तिष्ठन्नपि गच्छतीव भासत इत्यर्थः । 'अजायमानो बहुधा विजायते इति मन्त्रार्थमाह- -~-अजः सन्बहुधा मत इति । सर्वत्र हेतुर्मायया सर्वशक्ति- त्वादिति । नहि मायायामसंभावनीयमस्तीति भावः ॥ ७९ ॥ अक्रियस्यापि क्रियायत्त्वोपचारमुक्तं दृष्टान्तेन प्रपञ्चयति- राजवत्साक्षिमात्रत्वात्सांनिध्याद्धामको यथा । भ्रामयागदात्माहं निःक्रियोऽकारकोऽद्वयः ॥८॥ राजवदिति ।। स्पष्टम् ॥ ८०॥ यस्मादेवमात्मा खतो नित्यशुद्धत्वादिखभावः शास्त्रन्यायाभ्याम- बगतस्तस्मात्तं तथैव जानीयान्नान्यथेत्युपसंहरति-- निर्गुणं निष्क्रियं नित्यं निर्द्वन्द्वं यन्निरामयम् । शुद्धं बुद्धं तथा मुक्तं तद्ब्रह्मास्मीति धारयेत् ॥ ८१॥ निर्गुणमिति ।। नैतेषु श्लोकेषु पुनरुक्तं दोपावह, यतः प्रति- माद्यवस्तुनो दुर्वोपत्लान्मुमुक्षूपफाराय कारुणिक आचार्यः कचिच्छा- प्रकरणम् १७ ] पदयोजनिकाव्याख्यायुता। २०७ स्वतः कचित्फलकथनेन कचिद्विद्वदनुभवाभिनयनेन पुनःपुनः प्रति- पादयति । 'भूयोऽपि पथ्यं वक्तव्य मिति न्यायात् ।। ८१ ।। उक्त प्रकरणाथै प्रतिपत्तिसौकर्यार्थ संक्षिप्य कथयति- वन्धं मोक्षं च सर्वं यत इदमुभयं हेयमेकं द्वयं च ज्ञेयं ज्ञेयाभ्यतीतं परममधिगतं तत्त्वमेकं विशुद्धम् । विज्ञायतद्यथावच्छृतिमुनिगदितं शोकमोहापतीतः सर्वज्ञः सर्वकृत्स्याद्भवभयरहितो बामणोऽवासकृत्यः८२ वन्धं मोक्षमिति ॥ बन्धं मोक्षं च सर्व यथावद्विज्ञाय भवभयरहितः स्यादित्यन्वयः । बंन्धः प्रमातृत्वकर्तृत्वादिप्रतिभासलक्षणो मोक्षो ब्रह्मस्त्ररूपावस्थानं सर्वमिति निःशेषं पूर्वोक्तमकारमित्यर्थः । इदमु- भयं चन्धं मोक्षं च यतो हेतोरज्ञानाज्ज्ञानाच भवतः ते अपि विज्ञायेति संबन्धः । तथा एकमनुवृत्तं कारणं, द्वयं व्यावृत्तं कायै च यज्ज्ञेयं विषयभूतं तत्सर्वं हेयं वाध्यं विज्ञायेत्यन्वयः । ज्ञेयाभ्यतीतं दृश्या- त्सम्यक् पृथकृतं परमं निरतिशयं विशुद्धं एक ब्रम यद्वेदान्तेष्वधि- गतं तत्त्वं परमार्थं तदपि यथावद्विज्ञायात्मत्वेनोपादाय । किंलक्षणम्। श्रुतिमुनिगदितं श्रुतिवाक्येन मुनिना गुरुणोपदिष्टमित्यर्थः । एवमा- स्मानात्मतत्त्वं ज्ञात्वाऽनात्मापोहेनात्मतत्त्वनिष्ठः शोकमोहावतीतः स्यात् 'तत्र को मोहः कः शोक एकत्वमनुपश्यत इति श्रुतेः । सर्व हि ब्रह्म तज्जानन्सर्वज्ञः स्यात्सर्वे खात्मन्येकं करोतीति सर्वकृत्स्यात् । तथाच मुक्तविपया श्रुतिः 'अहं विश्वं भुवनमभ्यमवामिति । देय गानार्थम् । अभ्यभवमभिभूतवानात्मसात्कृतवानस्मोति श्रुत्यर्थः । भवभयरहितः 'न विमेति कुतश्चने तिश्नुतेः बामणो मुख्यया वृत्त्या ब्राह्मणशब्दाभिधेयः । 'अमौनं च मौनं च निर्विद्याध ब्राह्मण इति ।
२०८
उपदेशसाहस्री। [सम्यमति-
'अथ य एतदक्षरं गार्गि विदित्वालासोकात्मेति स बामण' इति च
श्रुतेः । अवासकृत्यः प्राप्तसक्रियाफल इत्यर्थः । सोऽश्नुते सर्वान्का-
मान्सह ब्रह्मणा विपश्चिते तिश्रुतेरित्यर्थः ॥ ८२ ।।
एवमात्मानं जानतः कृतकृत्यत्वमुक्तं प्रकटयति-
न सयं खस्स नान्यश्च नान्यस्यात्मा च हेयगः ।
उपादेयो न चाप्येवमिति सम्यमतिः स्मृता ॥३॥
न स्वयमिति ॥ सयमात्मा म्वस्य न हेयगस्त्यक्तव्यकोटी पतितो
न वाप्युपादेयः एकस्मिन्कर्मकर्तृत्वासमवात्स्वरूपस्य स्थिती नाशे वा
खविषयहानोपादानयोरसंभवाच । तथान्यश्च न खस्स हेयगोऽद्वैते-
ऽन्यस्यैवाभावान्नाप्युपादेयोऽतएव तथान्यस्यापि स्वयमुपादेयो हेयगो
भवत्यात्मान्तरामावादनात्मनश्च वाधितत्वादचैतन्याचेति
योजना । इत्येवं या निष्ठा सा सम्यमतिः सम्यग्ज्ञानं स्मृता ब्रह्म-
विद्भिरित्यर्थः ॥ ८३॥
कूटस्थचैतन्यैकरसे पूणे वस्तुनि हानाद्यसंभवान्निरायास परंत्री-
वास्मीत्येवंविधाया घिय. सम्यमतित्वे हेतुमाह-
आत्मप्रत्यायिका खेपा सर्ववेदान्तगोचरा।
ज्ञात्वैतां हि विमुच्यन्ते सर्वसंसारवन्धनैः ॥ ८४ ॥
आत्मप्रत्यायिकेति ॥ आरगान ब्रह्मत्वेन प्रत्याययतीत्यात्मप्र-
त्यायिका । हि यस्मादेपा मतिः स्वानुभवसिद्धेति वा सर्ववेदान्तगो-
चरेति प्रमाणमूलत्वमस्या दर्शयति । एता ज्ञात्वा लब्ध्वा सर्वससार-
बन्धनैर्विमुच्यन्ते कृतकृत्या भवन्तीत्यर्थः । तथाच भगवद्वचनं 'इति
गुह्यतम शास्त्रमिदमुक्त मयाऽनघ । एतद्बुवा बुद्धिमान्स्यास्कृतकृत्यश्व
वा न
भारते ति ॥ ८ ॥
प्रकरणम् १७] पदयोजनिकाव्याख्यायुता। २०९ प्रकरणोतं ज्ञानमिदानी प्रशंसन्नस्योपादेयत्वं द्रढयति- रहस्सं सर्ववेदानां देवानां चापि यत्परम् । पवित्रं परमं ह्येतत्तदेतत्संप्रकाशितम् ।। ८५॥ रहस्समिति ।। रहस्यमुपदेशव्यतिरेकेणाविज्ञेयं 'आचार्यवान्पुरु- पोवेद','सर्वे वेदा यत्पदमामनन्तीति च श्रुतेः । 'देवैरत्रापि विचि- कित्सितं पुरा नहि मुविज्ञेयमणुरेषधर्म' इति श्रुतेर्देवानां चापि रहस्समि- त्यर्थः । परं सर्वोचमं पवित्रं पावनं 'क्षीयन्ते चास्य कर्माणि', 'एवं- विदि पापं कर्म न लिप्यते'इत्यादिश्रुतेः। हि यस्मात्परमं परमपुरुषा- र्थरूपं निरतिशयानन्दप्रकाशमिति यावत् यदेवरूपं सम्यग्ज्ञानं तदेत- त्सम्यक् प्रकाशितं प्रकटीकृतमस्मिन्प्रकरण इत्यर्थः ॥ ८५ ॥ एतस्य गोपनीयत्वं सूचयति- नैतद्देयमशान्ताय रहस्यं ज्ञानमुत्तमम् । विरक्ताय प्रदातव्यं शिप्यायानुगताय च ॥ ८६ ॥ नैतदिति ॥ यद्वास्य दुर्विज्ञेयत्वेन दुर्धरत्वाचद्धारणसमर्थमघि- कारिणं विशिप्यन्ननधिकारिभ्यो विवेचयति-नैतद्देयमिति ॥८६॥ यस्मादेवलक्षणज्ञानद आचार्यः कृतकृत्यो न प्रलोभादिना ज्ञानं प्रयच्छति तस्मान्मुमुक्षुरमानित्वादिशिप्यगुणयुक्तः स्याधथाचार्यः कृपया विद्या दद्यादित्येतदर्थमाह-- ददतश्चात्मनो ज्ञानं निष्क्रियोऽन्यो न विद्यते । ज्ञानमिच्छंस्तरेत्तस्माद्युक्तः शिप्यगुणैः सदा ॥ ८७ ॥ ददतवेति ॥ न विद्यते यस्लादिति योज्यम् । तस्माच्छिप्यगुणैः सदा युक्तो ज्ञानमिच्छन्सपादयंस्तरेत्ससारमिति शेपः ।। ८७ ॥ उ.स.१४ २१० उपदेशसाहस्री। [तत्त्वमसि- आदावियोपसंहारेऽपि देवताचार्यनमस्कारौ तदक्तेर्विद्यां प्रत्यन्त- रङ्गत्वख्यापनाय कार्याविति दर्शयति श्लोकद्वयेन- ज्ञानं ज्ञेयं तथा ज्ञाता यस्मादन्यो न विद्यते । सर्वज्ञः सर्वशक्तिर्यस्तस्मै ज्ञानात्मने नमः ॥ ८८ ॥ ज्ञानमित्यादिना ॥ज्ञानात्मने चित्रसदानन्दरूपायेत्यर्थः ।।८८॥ विद्यया तारिताः मो यैर्जन्ममृत्युमहोदधिम् । सर्वज्ञेभ्यो नमस्तेभ्यो गुरुभ्योऽज्ञानसंकुलम् ॥ ८॥ विद्ययेति ॥ अज्ञानसंकुलमिति च्छेदः ।। ८९ ॥ इति सप्तदशं सम्यमविप्रकरणम् ॥ १७ ॥ तत्त्वमसिप्रकरणम् ॥ १८ ॥ पूर्वस्मिन्प्रकरणे ब्रह्मात्मविषयमपरोक्षज्ञानं मोक्षसाधनं वेदान्तेभ्यो भवतीत्युक्तं तद्युक्तं, वेदान्तानामपि वर्गकामादिवाफ्यवत्परोक्षज्ञान- जनकत्वादतोऽपरोक्षज्ञानाय प्रसंख्यानमेष्टव्यमिति केचित्प्रतिपेदिरे तन्मतनिराकरणेन पूर्वोक्तं सर्वं खसिद्धान्तं श्रौतमुपपत्तितः स्फुटमु- पपादयितुं प्रकरणान्तरमारभमाणो देवतानमस्कारव्याजेनान्तःकरण- वृत्तिमावाभावसाक्षिणं कूटस्थचिदेकतानमेवात्मानं नित्यापरोक्षं वेदान्ताः ब्रह्मेति प्रतिपादयन्तो न परोक्षं ब्रह्म समर्पयन्तीति सूचय- प्रकरणप्रतिपाद्यं दर्शयति- येनात्मना विलीयन्ते उद्भवन्ति च वृत्तयः। नित्यावगतये तस्मै नमो धीप्रत्ययात्मने ॥१॥ येनेति ।। वृत्तयो धीपरिणामाः । अलातचक्रमिवाम्ग्यात्मना येन चैतन्यज्योतिःस्वरूपेण विलीयन्ते सुपुतौ अवस्थान्तरे उद्भवन्ति च । प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २११ चिदात्मव्याप्ता इत्यर्थः । धीप्रत्ययाः साभासबुद्धिवृत्तयस्तेषामात्मने तद- ध्यासाधिष्ठानायेत्यर्थः । नित्यश्वासाववगतिश्चेति विग्रहः ॥१॥ इदानीं लोक्तऽर्थे मुमुक्षूणां विश्वासार्थ खाचार्यगुणोपवर्णनपूर्वक संप्रदायशुद्धि कथयति- प्रमथ्य बजोपमयुक्तिसंभृतैः श्रुतेररातीशतशो वचोसिभिः । ररक्ष वेदार्थनिधि विशालधीनमो यतीन्द्राय गुरोगरीयसे ॥२॥ प्रमथ्य वज्रेति ॥ संभृतैरभेद्यतया घटितैः श्रुतेर्वचोसिर्वेिदा- न्तवाक्यरूपनिस्त्रिशैः अरातीन्भेदतत्त्वारण्यवासिनोऽद्वैतरत्नापहारिणः शत्रून्ममथ्य समूलमुन्मूल्य यो विशालधीरप्रतिहतदीर्घवुद्धिर्वेदान्ता- र्थनिधि वेदान्तमञ्जूपागतं निधिं निघीयतेऽस्मिन्सर्वमिति निधिरद्वयं ब्रह्मात्मतत्त्वं तं ररक्ष तस्मै यतीन्द्राय गुरोर्गरीयसे परमगुरवे नम इति योजना ॥ २॥ एवं नमस्कारव्याजेन प्रकरणार्थ खसंप्रदायशुद्धिं चोक्त्वा तत्त्वम- स्यादिवाक्यादेवापरोक्षजानमात्मनीति प्रकरणसिद्धान्तं तावदाह- निसमुक्तः सदेवासीत्येवं चेन्न भवेन्मतिः। किमर्थ श्रावयत्येव मातृवच्छुतिरादरात् ॥३॥ नित्यमुक्त इति ॥ सदेवाहमहमेव सदसि नित्यमुक्त इत्येवं चेवदपरोक्षा मतिर्वेदान्तवाक्यान भवेतःवं सिद्धवन्निर्देशेन तत्त्वम- सीति श्रुतिः किमर्थं कस्मादादृता आदरपती पुनःपुनर्मातेव पुत्रहितै- पिणी श्रावयेदित्यर्थः ॥ ३ ॥ नित्यापरोक्षस्वभावात्मखरूपत्वाद्ब्रह्मणो वाक्यादेवापरोक्षज्ञानमारो- पितानर्थनिवृत्तिफलमुत्पद्यत इत्याह- २१२ उपदेशसाहस्री। [ तत्त्वमसि- सिद्धादेवाहमित्यस्माद्युप्मद्धर्मों निपिध्यते । रज्ज्यामिवाहिधीयुक्त्या तत्त्वमित्यादिशासनः ॥४॥ सिद्धादेवेति ॥ अहमित्यत्राहंशब्दलक्ष्यादपरोक्षतया सतःसि- द्वादात्मनः सकाशाद्युप्मद्धर्मः परागहिकारादिस्तत्त्वमित्यादिशासन- युन्या सहितैः शोधितार्थरिति यावत् । निषिध्यते भ्रमगृहीतपारोक्ष्य- सद्वयत्वाकारविलपनेनात्मतत्त्वं प्रतिपाद्यत इत्यर्थः । तत्र दृष्टान्तार्थः स्पष्टः ॥४॥ तन्निति दृष्टान्ताभ्यां स्पष्टयति---- शास्त्रप्रामाण्यतो ज्ञेया धर्मादेरस्तिता यथा । विपापोहोयथाध्यानाद् हतिः स्यात्पाप्मनस्तथा॥५॥ शास्त्रेति ॥ यद्वा नित्यापरोक्षात्मैव ब्रह्म तदवगमश्चानर्थनिवृत्ति- हेतुरित्येतत्क्रमेण दृष्टान्ताभ्यां साधयति-शास्त्रेति । तथा ब्रह्मण एवात्मत्वेनास्तिता अनेन जीवेनात्मनानुप्रविश्य' 'तत्त्वमसी'ति शास्त्र. प्रामाण्यतो ज्ञेयेति दार्शन्तिकं योज्यम् । ध्यानाद्गरुडादिमन्त्रबीजस्म- रणाद्विपापोहः सद्यो विपनिवृत्तिस्तथा पाप्मनोऽविद्यायनर्थरूपस्य वाश्यादात्मतत्त्वावगममात्रेण 'सद्य एव हुतिर्वाधरूपा निवृत्तिः स्यादित्यर्थः ॥ ५॥ ननु वाक्योत्थाहं ब्रह्मास्मीति प्रत्ययवदहं करोमीत्यपि प्रत्ययोऽनुभ- वसिद्धस्तन को हेतुरयमेवापरेण बाध्यत इत्यत्रेति शकते- सब्रह्माहं करोमीति प्रसयावात्मसाक्षिकौ । तयोरज्ञानजस्यैव सागो युक्ततरो मतः ॥ ६ ॥ साहमिति ॥ तत्र नियामकं हेतुं यदनुचरमाह-तयोरि- ते । युक्ततर इति तरपोऽयमर्थ:-- :-यथा पूर्वप्रवृत्तयागविनियोजक-
प्रकरणम् १८]
पदयोजनिकाव्याख्यायुता।
२१३
श्रुत्या पश्चात्प्रवृत्ता लिङ्गादयोऽप्राप्ता एव वाध्यन्ते, यथावा पूर्वमेय
प्रकृतेर्विकृतावतिदेशप्राप्तानामझानां विकृतिगतविशेषोपदेशेन पाश्चा-
त्येन वाध इति युक्तत्वेऽप्यनियमो वाध्यबाधकयोः पूर्वापरीभावस्य
न तथास्य न्यायस्येति युक्ततर इत्युक्तमिति ॥ ६॥
अत्र कः प्रमाणजः प्रत्ययः को वाऽज्ञानज इति वीक्षायां विवि-
च्य दर्शयति--
सदस्मीति प्रमाणोत्था धीरन्या तन्निभोद्भया ।
प्रत्यक्षादिनिभा वापि वाध्यते दिग्भ्रमादिवत् ॥ ७ ॥
सदसीति ॥ धीस्तत्वमसीति निर्दष्टवाक्यप्रमाणोत्था अन्या
कर्ताहमित्यादिधीस्तन्निभोद्भवा प्रमाणाभाससमुद्भूताविवेकदोपास्क-
न्दितत्वादित्यर्थः । वाक्यजन्यज्ञानस्यापि प्रत्यक्षाभासबाधनं दृष्टान्तेन
बुद्धिमारोहयति-प्रत्यक्षादीति ।। ७ ॥
ननु ब्रह्मास्मीति वुद्धिवत्कर्तृत्वादिबुद्धेरपि 'सत्यं वद' 'धर्म चर'
'स हि कर्ता भोक्तेत्याहुर्मनीषिण' इत्यादिवचनाच्छास्त्रसिद्धत्वं तुल्य-
मिति कथं तस्या बाध्यत्वमित्याशङ्कयाह--
कुरु भोक्तेति यच्छास्त्रं लोकवुमनुवादि तत् ।
सदसीति श्रुतेर्जाता वाध्यतेऽन्यतयैव धीः ॥ ८॥
कुरु भोक्तेति ॥ शास्त्रानभिज्ञानां तदभिज्ञसंगतिहीनानामपि
कर्ता भोक्ताहमसीति धियः सिद्धत्वात्कुर्वित्यादिशासू लोकसिद्धार्था-
नुवादिनाऽनधिगतार्थबोधकमित्यर्थः । सदस्मीति धीस्तु श्रुतेरन्यसि-
दायाः सकाशाजातेत्यर्थः । तस्मादेवयैव निरवकाशया सदसीति
श्रुतिजातया धियैवान्या सावकाशानुवादवाक्यजन्या बाध्यते बाधत
एवेति बान्वयः ॥८॥
२१४ उपदेशसाहस्री।
[ तत्त्वमसि-
तदेवं वाक्यादेवापरोक्षज्ञानमात्मविषयमुत्पद्यते तच निरपेक्षमेवा-
नर्थनिवृत्तिहेतुरिति स्वमतमुपन्यस्य स्खयूथ्यमतमुत्थापयति-
सदेव त्वमसीत्युक्ते नात्मनो मुक्तता स्थिरा ।
प्रवर्तते प्रसंचक्षामतो युक्त्याऽनुचिन्तयेत् ॥९॥
सदेवेति ॥ प्रसंचक्षा प्रसंख्यानं शब्दावृत्तिं युक्त्या सहाभ्यस्ये-
दित्यर्थः ॥९॥
उक्तमेव साधयति-
सकृदुक्तं न गृह्णाति वाक्यार्थज्ञोऽपि यो भवेत् ।
अपेक्षते त एवान्यदवोचाम द्वयं हि तत् ॥ १० ॥
सदिति ॥ योऽपि वाक्यार्थज्ञः सकृदुक्तं न गृह्णाति न
जानाति न सम्यक् प्रतिपद्यते यतोऽतएवान्यत्सहकारि भूतमपेक्षते
यदपेक्षते तद्यं वाक्यानुचिन्तनं युक्त्यालोचनं च पूर्वश्लोके वयमवो-
चामेत्यर्थः ॥ १० ॥
ननु तत्त्वमस्यादिवाक्येपु विधिनोपलभागहे ब्रह्मात्मभावस्य च
खत एव सिद्धेर्मुमुक्षोनियोगोऽपि न घटत इत्याह--
नियोगोऽप्रतिपन्नत्वात्कर्मणां स यथा भवेत् ।
अविरुद्धो भवेत्वावद्याक्त्संवेद्यताऽदृढा ॥ ११ ॥
नियोग इति ॥ वाक्यमात्रादैकात्म्यमापतिपत्नत्वात्साक्षात्कृत-
त्वाभावाचायन्नियोगोऽविरुद्धो भवेद्यावत्सवेद्यता ब्रह्मात्मकताऽदृढा
दृढा न प्रतीयत इति योजना । स नियोगः कर्मणाममिष्टोमादीनां
यया मवेद्वाक्यादवगतानामपि फलपातय इति दृष्टान्तार्थः ॥ ११॥
प्रकरणम् १८] पदयोजनिकान्याख्यायुता। २१९ किंच विधिमन्तरेण चेद्ब्रह्मात्मैक्यं वाक्यात्स्वयमेव प्रतिपद्येत तदा यमनियमादिकमनुष्ठीयमानं मिथ्या स्यादुपकार्याभायादित्याह- चेष्टितं च तथा मिथ्या खच्छन्दः प्रतिपद्यते । प्रसंख्यानमतः कार्य यावदात्मानुभूयते ॥ १२ ॥ चेष्टितमिति ।। चेष्टितमनुष्ठितं यमादि खच्छन्दः खेच्छावान- नियुक्त इति यावत् । प्रतिपद्यते चेदित्यध्याहारः । आत्मानुभूयते साक्षाक्रियत इत्यर्थः ॥ १२ ॥ इतोऽपि प्रसंख्यानं विधितोऽनुष्ठेयमित्याह- सदस्मीति च विज्ञानमक्षजो वाधते ध्रुवम् । शब्दोत्थं दृढसंस्कारो दोपैश्वाकृप्यते वहिः ।। १३ ॥ सदसीति ॥ सदस्मीति विज्ञानमक्षजः प्रत्यक्षप्रत्ययः कर्ता भोक्तेत्येवमाद्याकारो बाधते । नुवं निश्चितमेतत् । अक्षजस्य प्राबल्ये हेतुगर्भ विशेषणं-दृढसंस्कार इति । किंच तेन मुमुक्षुदोपै रागा- दिभिश्च वहिराकृप्यते बहिर्मुखीक्रियतेऽतः प्रसंख्यानं दोषनिवृत्तये च कार्यमित्यर्थः ॥ १३ ॥ न केवलं चिरं निरूढवासनाघटितत्वेन प्रत्यक्षप्रावल्यमपि तु विशेषविषयत्वाचेत्याह- श्रुतानुमानजन्मानौ सामान्यविपयो यतः । प्रत्ययायक्षजोऽवश्यं विशेपार्थो निवारयेत् ॥ १४ ॥ श्रुतेति ।। श्रुतः शब्दोऽनुमानं लिङ्गज्ञानं विप्रलिप्साभ्रान्त्योरपि पत्र संभाव्यमानत्वाद्गत्यन्तरसंभवाच प्रत्यक्षस्य तदभावाद्युक्तं बाधक- त्वमित्यर्थः ।। १४ ॥
उपदेशसाहस्री। [ तत्त्वमसि- यदि वाक्यार्थज्ञानमावास्कृतकृत्यता कसचिदृश्येत तदा प्रसंख्या- नकल्पनमनर्थकं स्यान्नतु तथा कश्चिदृश्यते अतः प्रसंख्यानमावश्यक- मित्याह- वाक्यार्थप्रत्ययी कश्चिन्निर्दुःखो नोपलभ्यते । यदि वा दृश्यते कश्चिद्वाक्यार्थश्रुतिमात्रतः ॥१५॥ वाक्यार्थप्रत्ययीति ।। 'तद्वैतत्पश्यन् ऋपिर्वामदेवः प्रतिपदे तद्धास्य विजज्ञा वित्यादौ वाक्यार्थज्ञानमात्राद्वामदेवादिः कृतकृत्यो दृश्यत इति चेत्तत्राह-~-यदि वेति । दृश्यते निर्दुःख इत्युत्तर-श्लोक- गतेनान्वयः ॥ १५॥ निर्दुःखोऽतीतदेहेपु कृतभावोऽनुमीयते । चर्या नोऽशास्त्रसंवेद्या स्यादनिष्टं तथासति ॥ १६ ॥ निर्दुःखोऽतीतेति ॥ वाक्यार्यश्रवणमात्राकश्चिद्यदि निर्दुःखो दृश्यते श्रुतिपुराणादौ । सोतीतदेहेषु कृतभावोऽनुछितप्रसंख्यानोऽनुमी- यते निर्दःखत्वलिङ्गेनेत्यर्थः। किंच सद्विज्ञातवाक्यार्थस्य विध्यन- भ्युपगमे नोऽस्माकं चर्या परमहंसाश्रमाचाराऽशास्त्रसंवेद्या स्यात् शास्त्र- विहिता न स्यात् । तथासत्यनिष्टं सात् । यत्यानमचर्यापरित्यागेऽप्यास- ढपतितता न भवेदित्यनिष्टप्रसङ्ग इत्यर्थः ॥ १६ ॥ कस्तर्हि प्रसंख्यानविधिपक्षे सिद्धब्रह्मोपदेशस्यार्थः स्यादित्यत सदसीति फलं चोक्त्वा विधेयं साधनं यतः। न तदन्यत्रसंख्यानायसिद्धार्थमिहेप्यते ॥ १७ ॥ सदसीति || त्वं सद्दाप्तीति वर्तमानौपदेशेन फलमिदं साधन- विघानार्यमुच्यते । यतो यस्मात्सर्वत्र फलमुक्त्वा साधनं विधेयमतो 'प्रकरणम् १८] पदयोजनिकाव्याख्यायुता । २१७ 'ब्रह्मात्मैक्यकामः प्रसंचक्षीतेति सार्थको विधिर्भवेदित्यर्थः । प्रसंख्या- 'नमेव किमिति विधीयते ज्योतिष्टोमादि कस्माद्ब्रह्मभावाय न विधी- यत इत्यत आह-न तदन्यदिति । प्रसंख्यानादन्यदिह वेदान्तेषु प्रसिद्धार्थाभिव्यञ्जनसमर्थ साधनं यत्तन्नेप्यते । ज्योतिष्टोमादेर्व्यञ्जक- त्वसामर्थ्याभावादित्यर्थः ॥ १७ ॥ पूर्वपक्षमुपसंहरति- तस्मादनुभवायैव प्रसंचक्षीत यत्नतः । सजन्साधनतत्साध्यविरुद्धं शममादिमान् ॥ १८ ॥ तसादिति ॥ किं कुर्वन् साधनतत्साध्यविरुद्धं त्यजन् साधनं प्रसंख्यानं तत्साध्यं तत्फलमात्मैक्यसाक्षात्कारः तद्विरुद्धं कर्मनिष्ठत्वम्। शमनं शमः आदिपदाइमोपरमावित्यादिग्रहः । शमादियुक्तश्च सनित्यर्थः ।। १८॥ सिद्धान्तमुपक्रमते- नैतदेवं रहस्यानां नेतिनेत्यवसानतः। क्रियासाध्यं पुरा श्राव्यं न मोक्षो नित्यसिद्धतः॥१९ नैतदेवमिति ॥ किं वेदान्तेषु प्रसंख्यानं साक्षाद्विधीयते किंवा वर्तमानोपदेशेन फलवचनानुपपत्त्या करप्यत इति । तत्र नाय इत्याह- रहस्यानामिति । उपनिषद्वाक्यानामित्यर्थः । नेतिनेति दृश्यनिषेध- द्वारा तदवधिमात्रे ब्रह्मात्मस्वरूपे पर्यवसानदर्शनाद्वेदान्तानां न विध्य- तेत्यर्थः । द्वितीय प्रत्याह-क्रियासाध्यमिति । यत्क्रियासाध्यं फलं तत्पुरा पूर्वकाण्डे श्राव्यं नोपनिषत्सु । अत्र श्रूयमाणो मोक्षो न क्रिया- साध्यः । कुतः । नित्यसिद्धतोऽसाध्यत्वादित्यर्थः ॥ १९ ॥ । ।
२१८
उपदेशसाहसी। [तत्त्वमसि-
तत्त्वमस्यादिवाक्यमपरोक्षाद्वितीयब्रह्मात्मज्ञानद्वारा तदज्ञानं तद-
-ध्यस्तं च दुःखित्वादिसंसारं निवर्तयतीति वक्तुमज्ञानाध्यस्तं दुःखा-
दीत्यत्र दृष्टान्तमाह--
पुत्रदुःखं यथाध्यतं पित्रादुःखे व आत्मनि ।
अहंकर्ता तथाध्यस्तो नित्यादुःखे व आत्मनि ॥२०॥
पुत्रेति ॥ अदुःखे ज्वरादिदुःखरहित इत्यर्थः । दार्यान्तिकमाह
-अहंकतॆति ॥ नित्यादुःखे सदा दुःखादिसंसाररहिते स्खे खरूपे
आत्मनि निरुपाधिकेऽहंकर्ता सामासान्तःकरणाविविक्तो दुःखादि-
धर्मकोऽविवेकलक्षणया विद्यया तथाध्यस्त इत्यर्थः । अहं फीति
पाठे ख आत्मनीत्यत्र दुःखादिरिति शेयः ॥ २० ॥
आत्मनो ब्रह्मखमावाज्ञानेनाध्यस्तः संसारस्तत्वभावज्ञानमात्रान्ने-
तिनेति तत्त्वमसीति च शास्त्रोत्थान्निवर्तते तदात्मनः सर्वक्रियाधि-
कारनिवृत्तेः सुपुप्ताविच पुनरध्यासपीजाभावात्कृतकृत्यस्य न प्रसंख्या-
नविध्यवसर इति फलितमाह-
सोऽध्यासो नेतिनेतीति प्राप्तवसतिपिध्यते ।
भूयोऽध्यासविधिः कश्चित्कुतश्चिन्नोपपद्यते ॥ २१ ॥
सोऽध्यास इति । प्राप्तबदिति वतिप्रयोगाद्वस्तुवृत्त्या प्राप्त्यमा-
वादारोपितत्वं द्रढयति ॥ २१ ॥
नन्यविपये ब्रह्मात्मनि विषयधर्माणां दुःखित्वादीनां कथमध्यासः
संभाव्यते, यतः पुरोऽवस्थिते विषयमूते शुक्तिकादौ रजताद्यध्यासो
दृष्ट इत्याशय व्यभिचारान्नैवं नियम इत्याह--
आत्मनीह यथाध्यासः प्रतिषेधस्तथैव च ।
मलाध्यासनिपेधौ खे क्रियते च यथावुधैः ॥ २२ ॥
प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। •२१९
आत्मनीति ॥ यथा देहव्यतिरिक्तात्मवादिनामात्मनीह पुरःस्थिते
देहजरामरणाद्यध्यासस्तत्प्रतिषेधश्च, यथा चेन्द्रियाविपयेऽपि खे
मलाध्यासनिपेघावबुधैः क्रियेते तथैव च प्रत्यगात्मनि ब्रह्मण्यप्यवि-
पये संसाराध्यासनिषेधौ स्यातामित्यर्थः । 'आत्मनीह तथाध्यास'
इति पाठे दृष्टान्तदान्तिकपरतयोत्तरार्धपूर्वार्धी स्पष्टार्थो । अधिष्ठा-
नखरूपमात्रस्फुरणमध्यासेऽपेक्ष्यते न विषयत्वेन स्फुरणं तदिह
स्वप्रकाशे आत्मनि स्वतःसिद्धमिति नानुपपचिरिति भावः ॥ २२ ।।
प्राप्तवत्प्रतिषिध्यत इत्युक्तं प्रपञ्चयति-
प्रासश्चेत्रतिपिध्येत मोक्षोऽनित्यो भवेद्धवम् ।
अतोऽप्राप्तनिपेधोऽयं दिव्यभिचयनादिवत् ॥ २३ ॥
प्राप्तथेति ॥ प्रमाणसिद्धश्चेत्संसारः प्राप्तवत्प्रतिषिध्येत तर्हि
संसारबन्धनिवृत्तिरूपस्य मोक्षस्यागन्तुकत्वावं निश्चितं मोक्षो नित्यो
भवेत् । परमार्थवृत्त्यात्मगतस्य बन्धस्य परमार्थत एव निवृत्तौ तस्या-
त्मनोऽवस्थान्तरापत्त्या विकारित्वादनित्यत्वमावश्यकं तथाऽनादिभाव-
रूपस्य बन्धस्य परमार्थत्वे तन्निवृत्तिरेवासंभाविनी । सादित्वाभ्युपगमे
तु तस्यात्मनैव कृतस्यान्निवृत्तसजातीयस्य पुनस्तस्मिन्पूर्ववदुत्पत्त्युपपत्तेर-
नित्यो मोक्षः प्रसज्येतैवेति बन्धस्याविद्यकत्वमवश्यमेष्टव्यम् । तस्य
च ज्ञानादेव नियुत्तेनिरर्थक प्रसंख्यानमित्यभिप्रेत्योपसंहरति-अत
इति । यथा 'नान्तरिक्षे न दिव्यग्निश्चेतव्य' इति पृथिव्यामिवामि-
चयनमन्तरिक्षादावारोप्याप्राप्तमेव प्रतिषिध्यते, तथा संसारबन्ध-
रहित एवात्मनि · तदारोपनिषेधाविति दृष्टान्तेनाह-दिव्यनीति ।
आदिपदादाकाशमालिन्यं लौकिकं गृह्यते ॥ २३ ॥
२२० उपदेशसाहसी। [ तत्वमसि- आत्मनि बन्धसंबन्धबोधकप्रमाणामावादपि न तत्र वन्यस्य सत्य. ताप्राप्तिरस्तीत्याह- . संभाव्यो गोचरे शब्दः प्रत्ययो वा न चान्यथा । न संभाव्यौ तदात्मत्वादहं कर्तुतथैव च ॥ २४ ॥ संभाव्य इति ॥ अयमर्थः-आत्मनि बन्धसंबन्धबोधक प्रमाण शब्दः प्रमाणान्तरं वा सर्वथापि नोपपद्यत इत्याह-~-शब्दः प्रत्ययो चेति । प्रत्ययः प्रमाणान्तरजन्यः शब्दो या प्रत्ययो वा लोके गोचरे विषये संभाव्यः संभावनायोग्यो न चान्यथा विषयत्वायोग्ये । तथाच पठी जातिगुणक्रियादिशब्दप्रवृत्तिनिमित्तरहितस्यात्मनो न शब्दगो- चरत्वं संभाव्यते येनायमात्मा सप्तारीति बोधः शब्दादुत्पद्यतेति । तथा रूपादिहीनत्वान्न बालेन्द्रियवर्गस्तस्मिन्क्रमतेऽतएव न तत्वरूपसंव- भृतया लिङ्गविशेषाग्रहणादनुमानार्थापत्ती तस्मिन्संभवतोऽवयवाद्यमा- वानोपमानं भावरूपत्वादेव नानुपलब्धिरपीति प्रतीतिमात्रं परिशि- प्यत इति न प्रमाणसिद्धो बन्धसंबन्ध इति यतो न संभाव्यावात्म- ज्यपिशब्दप्रत्ययाविति । किंच शब्दप्रत्यययोः प्रमाणत्वाभिमतयोस्तथैव चाहकर्तुः प्रमातृत्वाभिमतस्य च तदात्मत्वाब्रह्मात्मत्वान्न तद्गोचरत्व- मुपपद्यते । नवागन्तुकयोः शब्दप्रत्यययोरहकर्तुळ चिदात्मनः पृथक्खरूपमस्ति खात्मनि तु क्रियानुपपत्तिरित्यर्थः ॥ २४ ॥ तस्मादध्यस्तनिषेध एव वक्तव्य इति सिद्धमित्याह- अहंकात्मनि न्यस्तं चैतन्ये कर्तृतादि यत् । नेति नेतीति तत्सर्व साहका निपिध्यते ॥ २५॥ अहं कषेति ॥ चैतन्ये चित्खरूप आत्मनि यदहंक; साभा- इति श्लोकोक्तं प्रत्ययागोचरत्वमात्मनः प्रतिपादितम्, इदानीं शब्दस्यापि प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २२१ सान्तःकरणाविवेकेन कर्तृत्वादि न्यस्तमारोपितं तत्सर्व नेतिनेतीति निषिध्यते साहंक; अहंका सहेत्यर्थः ॥ २५॥ अध्यस्तनिषेध एव चेच्छास्त्रेण क्रियते कथं तात्मनः खरूपो- पलब्धिरित्यत आह- उपलब्धिः स्वयंज्योतिर्देशिः प्रत्यक्सदक्रियः। साक्षात्सर्वान्तरः साक्षी चेता नित्योऽगुणोऽद्वयः २६ उपलब्धिरिति ॥ अनुपलब्ध्यादिवरूपत्वे प्रमाणाभावादितरत्र च साक्षादित्यादिनोचराधसूत्रितभूतीनां प्रमाणत्वात्सप्रकाश एवात्मा सदा स्वतःसिद्ध इत्यर्थः ॥ २६ ॥ नन्वात्मागीयमिति च द्वयमहंममप्रत्ययगोचरत्वेन प्रसिद्ध तथा- सति कथमात्मा सतःसिद्धं इत्याशङ्कयोपाधिवशाचथा प्रसिद्धिरि- त्याह- संनिधौ सर्वदा तस्य स्यात्तदाभोऽभिमानकृत् । आत्मात्मीयं द्वयं चातः स्यादहममगोचरः ॥ २७ ॥ संनिधाविति ॥ अभिमानदहंकारस्तस्य चिदात्मनः सर्वदा संनिधौ सति तदामश्चैतन्यप्रकाशयुक्ततया तदाकारः स्यादतो हेतो- रात्मात्मीयं द्वन्द्वं च स्यादहममेति व्यवहारगोचर इत्यर्थः । तथाच सागासान्तःकरणतद्वृत्त्वविवेकादात्माहमिति ममेति भासमानोऽपि खतःसिद्ध एव स्वभावत इति भावः ॥ २७ ॥ एवमहंप्रत्ययादेरन्यविषयत्वोयपादनेन संभाव्यो गोचरे शब्द विषयान्तरं दर्शयंस्तदगोचरत्वमुपपादयति- २२२ : उपदेशसाहस्री। [ तत्त्वमसि- जातिकर्मादिमत्त्वाद्धि तसिशब्दास्त्वहंकृति । न कश्चिद्वर्तते शब्दस्तदभावात्स्व आत्मनि ॥ २८ ॥ 'जातीति । तस्मिन्नहंकृत्यहंकारे साभासे हि निश्चितं जातिक- र्मादिशब्दप्रवृत्तिनिमित्तयत्त्वाच्छब्दाः प्रवर्तन्ते तदभावात्मवृत्तिनि- मितजात्याद्यभावात्ले स्वरूपभूते आत्मनि निरुपाधिके कश्चिदपि शब्दो न वर्तते तं विषयीकुर्वन्नित्यर्थः । अत आत्मा । खतःसिद्ध इति भावः ॥ २८ ॥ खतःसिद्धस्वरूप आत्मनि प्रवृचिनिमित्तजात्याद्यभावात्कश्चिदपि शब्दो न प्रवर्तते चेत्कथं तस्य वेदान्तवेद्यतयौपनिपदत्वमुद्धप्यत इत्यत आह- आभासो यत्र तत्रैव शब्दाः प्रत्यग्दर्शि स्थिताः । लक्षयेयुर्न साक्षात्तमभिदध्युः कथंचन ॥ २९ ॥ आभास इति ॥ यत्राहंकारादावाभासश्चैतन्यप्रतिबिम्बोदयस्तत्रै- चागासा विविक्तेऽन्तःकरणादौ वाचकत्वेन स्थिता आत्मादिशब्दाः प्रत्याहार्श प्रत्यक्तया भासमान दृशिमात्मानं शुद्ध लक्षयेयुर्लक्षणया ज्ञापयेयुर्नतु तं साक्षादभिदध्युः कथंचन विशेषणादिप्रकारेणापीत्यर्थः । अतो नौपनिषदत्वप्रसिद्धिविरोध इति भावः ॥ २९ ॥ कथं नाभिदध्युरित्यत्र हेतुमाह-- नबजात्यादिमान्कश्चिदर्थः शब्दैनिरूप्यते ॥३०॥ नहीत्यर्धेन ॥ ३० ॥ ननु लक्षणयापि यत्र शब्दस्य तात्पर्य स एव शब्दार्थः तथाचा- मादिशब्दानामहकारातिरिके प्रत्यगात्मनि चेद्वृत्तिः कथं तर्हि लोका प्रकरणम् १८] पदयोजनिकान्याख्यायुता। २२३ अहंकारादायात्मशब्दं प्रयुञ्जते इत्यपेक्षायामुपचारादिति सदृष्टान्त- माह - आत्माभासो यथाहंकृदात्मशब्दैखथोच्यते । उल्मुकादौ यथाम्याः परार्थत्यान्न चाजसा ॥३१॥ आत्मामास इति श्लोकेन ॥ अहंकृदहंकारो वस्तुतोऽनात्मा- प्यात्माभास आत्मवदस्मत्प्रत्ययालम्बनो भासते यथा तथात्मादिश- दैरपि यथा प्रतिमासमुच्यते, वस्तुगत्या तु शन्दप्रत्यययोः शुद्ध एवात्मनि पर्यवसानम्, यथा अग्याः शब्दा दहत्यादय उल्मुकं दहति अयोदहतीत्युल्मुकादौ प्रयुज्यमाना अञ्जसा साक्षादुल्मुकादौ न च पर्यवस्यन्ति, तेषां दाहाद्याश्रयत्वानुपपत्तेर्दहत्यादिशब्दानां परार्थत्वा- तदभिव्यक्ताम्यर्थत्वात्तेऽमावेव पर्यवस्यन्ति, तथाहकारस्यात्माभिव्य- जयर्थत्वाचमिञ्जडे परिच्छिन्ने पराधीनप्रकाशे आत्मादिशब्दाश्चि- सदानन्दानन्ताद्यर्थी अनुपपद्यमाना विचार्यमाणे शुद्ध एव पर्यवस्य- न्तीति सर्वमुपपन्नमित्यर्थः ॥ ३१ ॥ आभासो यत्रेति श्लोके सिद्धान्तिनाभासोऽङ्गीकृतः स च भेदवि- पर्यासविशिष्टतया भासमानः परमार्थोऽपरमार्थो वेति वादिविप्रतिपत्त्या संशयेन परमार्थत इति सिद्धान्तं वक्तुं दृष्टान्तमाह- मुखादन्यो मुखाभासो यथादर्शानुकारतः। आमासान्मुखमप्येवमादर्शाननुवर्तनात् ॥ ३२ ॥ मुखादन्य इति ॥ यथा मुखाभासो मुखप्रतिबिम्ब आदर्शानुका- रत आदर्शभावाभावयोरनुकारादादर्शान्वयव्यतिरेकानुविधायित्वादिति यावत् । मुखाद्रीवास्थनादागमापायितया स्थितादन्यो न पुनः स्वरूपेणे. ति योज्यम् । तथा सति बिम्बचेष्टया विनापि प्रतिविम्यश्चेष्टेतेत्यर्थः ।
२२४
उपदेशसाहसी।
[तत्त्वमसि-
आमासान्मुखमप्येवमन्यदेव कुत आदर्शाननुवर्तनादादनिरपेक्षस-
त्तास्फुरणयोगादित्यर्थः । तथाच ग्रीवास्थस्यैव मुखस्यादर्श प्रतिविम्वि-
तस्यादर्शस्थतावैशिष्ट्येन भासमानत्वमेवाभासत्वं तच न सत्यं मुख-
वियुक्तादर्श तिर्यगिरीक्ष्यमाणे वा तस्मिन्नदर्शनात् । नाप्यसदपरो-
क्षप्रतिभासात् । तस्मादनिर्वचनीय एवाभासस्तस्माचान्यन्मुखमिति
भावः ॥ ३२ ॥
दान्तिकमाह--
अहंकृत्यात्मनिर्भासो मुखाभासवदिप्यते।
मुखवस्मृत आत्मान्योऽविविक्तौ तौ तथैव च ॥३॥
अहंकृतीति ॥ अहंकृत्यहंकारे आत्मनिर्भासचेतनावत्वावभासो
मुखाभासवन्मुखान्मुखप्रतिबिम्बवच्छुद्धादात्मनोऽमिन्न इष्यते। आत्मा
शुद्ध आभासादन्यः स्मृतो ज्ञातः मतिबिम्बान्मुखवदित्यर्थः । मुखस्य
मुखाभासस्थादर्शस्य चाभासाययस्य प्रतीतितो भेदेऽपि वस्तुतो
भेदाभाववदात्माभासतदाश्रयान्तःकरणादीनां प्रतिभासतो भेदेऽपि
वस्तुतो नात्मातिरिक्तं किंचिदस्तीति न परमार्थो भेद इत्यभिप्रेत्याह--
अविविक्तौ तौ तथैव चेति । तावात्मात्माभासौ तथैव मुखमुखामा
साविव वस्तुतोऽविविक्तौ - परमार्थभेदरहितावित्यर्थः । चकारादाभा-
साश्रयान्तःकरणं च न तद्विविक्तमिति योज्यम् ॥ ३३ ॥
एवं चिन्मात्रं.तत्रानाद्याद्यविद्यायां तत्कायें चाहंकारादौ प्रतिबि-
बितं तदेव चिदात्मसरूपमुपाधिस्थतावैशिष्टाध्यासवशासंसारीति
स्वमतमुक्वा तदृढीकरणायैकदेशिमतं दूपयितुमुत्थापयति--
संसारी च स इत्येक आभासो यस्त्वहंकृतिः।
वस्तुच्छाया स्मृतेरन्यन्माधुर्यादि च कारणम् ॥३४॥
प्रकरणम् १८] पदयोजनिकान्याल्यायुता। २२५ संसारीति ।। यस्त्वहंकृत्याभासोऽसामिः पृथगुक्तः स एव संसारी- त्येके मन्यन्ते इत्यर्थः । नन्वाभासस्यावस्तुत्वात्कथं तस्य बन्धमोक्ष- मागितया संसारित्वमित्याशङ्कयाभासशब्देन चिच्छायाया अभिप्रेत- त्वात्तस्याश्च वस्तुत्वान्नानुपपचिरित्यभिप्रेत्याह-वस्तुच्छायेति । छाया वस्तुपरमार्था 'नाक्रमेकामतश्छायां गुर्वादे'रिति स्मृतेरिति योजना । तथाच याजनल्स्यः 'देवर्यिक्लातकाचार्यराजां छाया परस्त्रियः । नाक्रमेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनादिक'मिति । न केवलं स्मृतिवचना- देव छायाया वस्तुत्वावगमोऽस्त्यन्यच्च कारणं माधुर्यादिच्छायायामा- सीनस्य मुखे माधुर्योपलव्धेः शैत्योपलव्धेश्वेत्यर्थः ॥ ३४ ॥ पुगरेकदेशिमतत्रयमाह - जैकदेशो विकारो वा तदभासाश्रयः परे । अहंकतैव संसारी स्वतन्त्र इति केचन ॥ ३५ ॥ जैकदेश इति ।। ज्ञस्य चित्सदानन्दपरमात्मन एकटेशः ससारी 'ममैवांशो जीवलोके जीवभूतः सनातन' इनि स्मृतेरित्येके | अग्मि- विस्फुलिङ्गदृष्टान्तेन 'सर्व एत आत्मनो ब्युच्चरन्ती'ति श्रुतेः परमा- मनो विकारः ससारीत्यपरे। परे तु तदभासाश्रयश्चिदात्माभासविगि- प्टोऽहकार एव संसारी 'तन्मनो दिशदिशं पतित्वे तिश्रुतेरित्याहुरि- त्यर्थः । भाहादिमतमाह-अहं कतैवेति । स्वतन्नो न परमात्माशा- दिरूप इत्यर्थः ॥ ३५॥ चौद्धमतमाह- अहंकारादिसंतानः संसारी नान्वयी क्वचित् । इत्येवं सौगता आहुस्तत्र न्यायो विचार्यताम् ॥३६॥ अहंकारादीति ॥ सतानो विरलोदयतया विच्छिन्नानि क्षणिक- उ.पा. १५
[ तत्त्वमसि-
.
.
२२६
उपदेशसाहसी।
ज्ञानान्येवात्मा संसारी न ततः पृथगन्यय्येको विज्ञानोत्पचिविनाश-
द्रष्टास्तीत्येवं सौगता आहुरित्यर्थः । एवमुक्तेपु पक्षेषु वस्तुविषयत्वा-
द्विरोधाच विकरुपसगुशययोरसंभयादन्यतमस्यैव कस्यचिदुपादेयत्यम-
थवामदुक्तस ब्रह्मैवाविद्ययाहंकारादिगतामासाविवेकासंसारीत्येत-
स्पेति निर्धारणे न्यायो विचार्यतामित्याह-तत्रेति ।। ३६ ॥
प्रासङ्गिकी संसारिचिन्तां हित्वा कृतमाभासनिरूपणं प्रतिजा-
नीते-
संसारिणां कथा त्यास्तां प्रकृतं त्यधुनोच्यते ।
मुखाभासो य आदर्श धर्मो नान्यतरस्य सः ।
इयोरेकस चेद्धर्मों वियुक्तेऽन्यतरे मवेत् ॥ ३७॥
संसारिणामिति ॥ स्पष्टम् । प्रकृतमामासमेव निरूपयन्नादौ
मुखाभासं दृष्टान्तत्वेनापरमार्थमुक्तं विशदयति-मुखाभास इति ।
योयमादर्श मुखाभासो दृश्यते स किं मुखादर्शयोरन्यतरस्य यस्य-
कस्यचिद्धर्मः, किंवा मुखस्यैव धर्मः, अथवा द्वयोरपि धर्मों वस्त्वन्तरं
किंचिदिति विकल्प्याचं निराकरोति-धर्मो नान्यतरस्य स इति ।
एतदेय स्पष्टयति । द्वयोर्मध्ये एकस्यान्यतरस्य चेदाभासो धर्मः
स्याचदा वियुक्तऽन्यतरे सति दर्पणवियुक्ते मुखे तद्गतरूपादिवद्दर्शन-
गोचरो भवेत् । मुखवियुक्ते वा दर्पणे दृश्यो भवेन्नचैवमस्त्यतो
नान्यतरस्य धर्म इत्यर्थः ॥ ३७ ॥
कल्पान्तरमुत्थापयति-
मुखेन व्यपदेशात्स मुखस्सैवेति चेन्मतम् ।
नादीनुविधानाच मुखे सत्यविभावतः ॥ ३८ ॥
प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २२७ मुखेनेति ॥ दूषयति-नेति । यद्यपि मुखौभास इति मुखेन व्यपदिश्यते तथापि न मुखधर्म आभासः आदर्शानुविधानात्, मुखै- कधर्मत्वे तदयोगात्, किंच सत्यपि मुखे दर्पणवियुक्तेऽविभावतोऽदर्श- नादित्यर्थः ॥ ३८॥ तृतीयं कल्पमसूद्य प्रत्याह- द्वयोरेनेति चेत्तन्न द्वयोरेवाप्यदर्शनात् । अदृश्यस्य सतो दृष्टिः स्याद्राहोश्चन्द्रसूर्ययोः ॥ ३९ ॥ द्वयोरेवेति चेदिति ॥ द्वयोरप्यदर्शनादेवेति संवन्धः । नहि मुखादर्शयोवियुक्तयोराभासो दृश्यते नापि संयुक्तयोरयं धर्मों यथा- कथंचन संयुक्तयोरपि तदर्शनप्रसङ्गान्न तथा दृश्यते तस्मान्न द्वयोर्धर्म इत्यर्थः । तबस्तु परमार्थवस्त्वन्तरमेवाभास इति चतुर्थ पक्षं दृष्टा- न्तेन शकते--अदृश्यस्येति । सतो विद्यमानस्यैव सर्वैः करणैरदृश्यस्य राहोश्चन्द्रे सूर्ये चोपाधौ कदाचिदृष्टिदर्शनं यथा, तथा मुखाभासस्थापि वस्तुभूतस्य सतो मुखसन्मुखवद्दर्पणोपाधौ दर्शनं स्पादित्यर्थः ॥३९॥ चैपम्येण दूषयति- राहोः प्रागेव वस्तुत्वं सिद्धं शास्त्राप्रमाणतः । छायापक्षे त्यवस्तुत्वं तस्य स्यात्पूर्वयुक्तितः ॥ ४० ॥ राहोरिति ॥ चन्द्रायुपरागात्प्रागेव ज्योतिःशास्त्रप्रमाणतः पुरा- णादिशास्त्रप्रमाणतो या राहोः सैहिकेयस्य वस्तुत्वं सिद्धं निश्चित नेह तथा निश्चायक प्रमाणमस्तीति 'शेपः । नहि मुखदर्पणयोः संबन्धात्पूर्वमूर्ध्व वा तव्यतिरिक्तवस्तुता मुखाभासस्य केनचित्त- माणेन कापि संभावितेत्यर्थः । राहोर्वस्तुत्वमङ्गीकृत्य दार्शन्तिकान- नुगुणत्यमुक्तमिदानीं तस्यापि नास्ति वस्तुत्वमित्याभासस्य वस्तुत्वेनार्य
२२८
उपदेशसाहस्री।
[ तत्त्वमसि-
दृष्टान्त इत्याह-छायापक्षे विति । भूम्यादिछाया राहुरिति केपांचि-
पक्षः तस्मिन् छायापक्षे तु तस्स राहोरवस्तुत्वं स्यात् 'मुखाभासो य
आदर्श' इत्यादौ पूर्वोक्तयुक्तितो युक्तिसंचारादित्यर्थः ॥ १० ॥
वस्तुच्छायास्मृतेरित्यत्र छायाया वस्तुत्वे स्मृतिः प्रमाणमित्युक्तं
तबाह-
छायाक्रान्तेर्निपेधोऽयं नतु वस्तुत्वसाधकः ।
नरर्थान्तरनिष्ठं सदाक्यमर्थान्तरं वदेत् ॥४१॥
छायाकान्तेरिति ॥ नवित्यत्र छायाया इति शेयः । नतु
छायालधनप्रतिपेधपरमपि वचनं तस्याः वस्तुत्वमपि वोधयिप्यतीति
चेत् तत्र वक्तव्यं साक्षादेवोतार्थादिति । नाद्य इत्याह---नहीति ।
एकस्य वाक्यसोभयार्थत्वे वाक्यभेदप्रसङ्गादित्यर्थः । न द्वितीयः ।
निपेधस्य प्राप्तिमात्रसापेक्षत्वान्निषेधाविषयादेर्वस्तुत्वाभावेऽपि निषेधा-
नुपपत्तिरित्यत्र नियामकाभावादिति द्रष्टव्यम् ॥ ११ ॥
यदप्युक्तं माधुर्यादिकार्यदर्शनादर्थक्रियाकारित्वेन छायावस्तुत्व-
मिति तदप्यन्यथासिद्धमित्याह-
माधुर्यादि च यत्कार्यमुष्णद्रव्याद्यसेवनात् ।
छायाया न त्वदृष्टत्वादपामेव च दर्शनात् ।। ४२ ।।
माधुर्यादीति ॥ छायायामुपविष्टस्य यन्माधुर्यादिकार्यं दृश्यते
तदुप्णद्रव्याद्यसेवनानिमित्तानतु छायाया हेतुभूतायास्तन्माधुर्यादि-
कार्य,कुतोऽष्टत्वाचातप्यमानशिलाकूटच्छायायां माधुर्यादेरदर्शनाद-
पामेव च दर्शनादयं धर्मस्ताखेवाव्यभिचारादतः छायायामुपविष्टस्य
निवृत्तातपसंसर्गस्य स्वाभाविकस्योदकमाधुर्याभिव्यक्तौ छाया मधुरेति
विभ्रम इत्यर्थः ॥ ४२॥
- मकरणम् १८] पदयोजनिकाव्याख्यायुता। २२९ तदेवं यथामुखं तदाभासस्तदाश्रयश्चेत्येते त्रयो व्यवहारदृष्ट्या विभक्ता अवभासन्ते न परमार्थदृष्ट्या तथात्मा तदामासस्तदाश्रयश्चेत्य- यंत्रयं मिथो विलक्षणं गम्यते व्यवहारदृष्ट्येति दार्शन्तिकमाह- आत्मामासाश्रयाश्चैवं मुखाभासाश्रया यथा। गम्यन्ते शाखयुक्तिभ्यामाभासासत्त्वमेव च ॥४३॥ आत्मामासाश्रयाश्चैवमिति ॥ आत्मा त्वंपदलक्ष्यश्चिद्धातुस्त- स्यानाद्यविद्यानत्कार्यप्रतिविम्बिततया तदुपाधिस्थत्ववैशिष्टयं जीवत्वमा- मासोऽविद्यातत्का>पाधिराश्रय इति त्वंपदार्थः । शास्त्रयुक्तिभ्यामिति । 'रूपं रूपं प्रतिरूपो बभूव', 'इन्द्रो मायाभिः पुरुरूप ईयते', 'अनी- शया शोचति मुह्यमान' इत्यादि श्रुतेः एको वशी सर्वभूतान्तरात्मैक रूपं बहुधा यः करोती'त्यादिश्रुतेश्च । तथा बुद्ध्यादेविपयान्तरस्यागमा- पायिनो दृश्यस्य नित्यसिद्धसाक्ष्यात्मन्यध्यासव्यतिरेकेण स्फुरणसत्त- योरनुपपत्तेरित्यादियुक्तेश्च प्रत्यगात्मन एकस्यैव सत्त्वमाभासादेरसत्त्वं परमार्थसत्त्वाभावश्च गम्यते निश्चीयते इत्यर्थः ॥ १३ ॥ नन्येवंसति त्वगते संसारमोक्षयोराश्रयामावादनुपपतिरेव नह्या- स्मतदाभासतदाश्रयाणामन्यतमस्य मिलितानां वा संसाराघाश्रयत्वं घटत इति शङ्कते- न शेरविकारित्वादामासस्याप्यवस्तुतः । नाचितित्वादहंकर्तुः कस्य संसारिता भवेत् ॥४४॥ न दृशेरिति ॥ संसारो नाम ज्ञातृत्वकर्तृत्वभोक्तृत्वादिलक्षणो विकाररूप उपचयस्तदात्यन्तिकापचयश्च मोक्षः, तथाच ताभ्यां क्रमेण संवध्यमानो विकारी स्थापन शेश्चैतन्यैकरसस्यापि न संसारिता भवेदिति संबन्धः । तत्र हेतुरविकारित्वादिति कूटस्खत्वादित्यर्थः । .. -
२३०
उपदेशसाहसी ।
[ तत्वमसि-
तथाऽभासस्यापि न संसारिता भवेदिति । पूर्वनकारमादायान्वयः ।
तत्र हेतुरवस्तुत इति । पूर्वोक्तयुत्तया तस्यावस्तुत्सनिश्चयादवस्तुनः
शून्यस्य न कोऽप्यतिशयसंभव इत्यर्थः । अहंकर्तुरहंकारस्यामासाश्रयं-
त्वेनाभिमतस्याचितित्वाजडत्वान्न संसारिता भवेत् नहि ज्ञातृत्वमुखदुः-
खादिभोक्तृत्वखरूपस्य संसारस्य जडाश्रयत्वसंभवोऽतस्त्वन्मते कस्य
संसारिता भवेन्मोक्षो वेति च योज्यम् । न कस्यापीति वदतोऽनुमव-
विरोध इत्यभिप्रायः ॥ ४ ॥
सिद्धान्ती यद्येवमनिरूपिताश्रयो संसारमोक्षौ तार्ह माभूतां
परमार्थों कस्यापीति परिहरति--
अविद्यामात्र एवातः संसारोऽस्त्वविवेकतः ।
कूटस्थेनात्मना नित्यमात्मवानात्मनीव सः ॥१५॥
अविद्येति ।। यत एवमतः संसारोऽविद्यामान एव आन्तिमात्र
एव खमवदस्तु । अविवेकत आत्मखरूपाधिवेकात्संसार आत्मनीवा-
स्मधर्म इवावभासत इति योजना । अवस्तुभूतस्यात्मन्यपरोक्षतया
सदिति प्रतिभासे निमित्तमाह--कूटस्थेनेति । तत्राध्यस्तत्वातत्स-
तया सत्तावानित्यर्थः । नित्यमित्यन्याधीनात्मवतस्तत्राध्यततां
सूचयति ॥४५॥
आत्मसत्तया सत्तावानात्मधर्म इव भासते संसार इत्येतदृष्टान्तेन
स्पष्टयति-
रजुसो यथा रज्या सात्मकः प्राग्विवेकतः ।
अवस्तुसन्नपि खेप कूटस्थेनात्मना तथा ॥ ४६ ॥
रज्जुसो यथेति ॥ स्पष्टार्थः ॥ १६ ॥
. भकरणम् १८] पदयोजनिकाव्याख्यायुता। २३१ मतान्तरमाश्रित्य कल्पनालाघवेन शङ्कते- आत्माभासाश्रयश्चात्मा प्रत्ययैः खैर्विकारवान् । सुखी दुःखी च संसारी नित्य एवेति केचन ॥१७॥ आत्मामासाश्रय इति ॥ चकार एवकारार्थः । आत्मैवात्मा- भासाथय आत्माभासत्वाभिमतस्य जीवत्वस्याश्रयः, अतः स एव सैः खधर्मभूतैः प्रत्ययैर्विकारवान्सुखी दुःखी . चेत्येवं संसारी भवति, तथापि नित्य एव तरङ्गादिभिर्विक्रियमाणस्यापि समुद्रस्य स्थैर्यदर्शनात् , अत आमासतदाश्रयात्मना भेदकल्पनाचदविवेककल्पनात्तद्वशाद्वा- त्मनि संसारकल्पना च गुर्वी, आत्मैव संसारीति कल्पना लघीयसीति केचन मन्यत इत्यर्थः ॥ १७ ॥ उक्तं पुरस्तादस्माभिः संभाव्यो गोचरे शब्द इत्यत्रात्मनि संसारि- त्वग्राहकं प्रमाणं नास्तीति तन्न विस्मर्तव्यं त्वयेत्यभिप्रेत्योत्प्रेक्षामात्र- मूलवैषा कल्पना न प्रमाणमूलेति परिहरति- आत्माभासापरिज्ञानाद्याथात्म्येन विमोहिताः। अहंकारमात्मेति मन्यन्ते ते निरागमाः ॥४८॥ आत्मामासापरिज्ञानादिति ।। आत्मा परमार्थः कूटस्थनित्यः आमासस्तच्छायारूपोऽन्यत्र संक्रान्तो मिथ्यागूत इत्यात्माभासयो- थिात्म्येनापरिन्नानान्मोहिताः सन्तोऽहंकारं सामासान्तःकरणमेवा- मेति ते मन्यन्ते । यतो निरागगाः आगमरहस्यपरिचयशून्या इत्यर्थः। 'निष्कलं गिक्रियं शान्तं निरवद्यं निरञ्जनम्', 'साक्षी चेता केवलो निर्गुणश्च', 'कृल्लः प्रज्ञानघन एवात्रायं पुरुषः वयंज्योति' रित्यादिनित्यशुद्धत्वादिपरश्रुतिसंदर्भ, तथा 'अनीशया शोचति मुह्यमानः', 'भविद्यायामन्तरे वर्तमाना अनृतेन हि प्रत्यूढा' इत्या- [ . २३२ उपदेशसाहस्री। तत्त्वमसि- दिश्रुतिसंदर्भ चात्मन आविद्यकसंसारित्वानुवादपरं ते न पश्यन्त्यतः खोत्मेक्षया यत्किचिदेव वदन्तीत्यभिप्रायः ॥ १८ ॥ मोक्षोऽप्येषां दुर्लम इत्याह- संसारो वस्तुसंस्तेपां कर्तृभोक्तत्वलक्षणः । आत्माभासाश्रयाज्ञानात्संसरन्त्यविवेकतः॥ ४९ ॥ संसार इति ॥ तेषां मते संसारो वस्तुसम्परमार्थः सन्भवेत्, तथा च 'नासतो विद्यते भावो नाभावो विद्यते सत'इति नियमस्मृतेरवि- नाशी संसार इति तेषां मते मोक्षासिद्धिरित्यर्थः । यदि मोक्षाप्राप्ति- भयात्संसारस्यावस्तुत्वं तेऽपि मन्येरंस्तीस्मदुक्तप्रकार एव स इत्यनु- जानाति-आत्माभासाश्रयाज्ञानादिति । आत्मादित्रयाणां तत्त्वा- ज्ञानादविवेकतो भेदाग्रहात्संसरन्तीति योजना ॥ ४९ ।। परपक्षे हानि दोपमुक्त्वा खपक्षे त्वामासाभ्युपगमे लाभविशेषमाह- चैतन्याभासता धुद्धेरात्मनस्तत्खरूपता । साचे ज्ञानशब्दैश्च वेदः शास्तीति युज्यते॥५०॥ चैतन्येति ॥ बुद्धेरन्तःकरणस्य चैतन्याभासता आत्मनश्चैतन्य- खरूपता च चेत्स्याद्भवेत्तदा वेदस्तमात्मानं ज्ञानशब्दैर्ज्ञानसत्त्वान- न्तानन्दात्मादिभिः शब्दैः शास्ति प्रतिपादयतीति युज्यते घटत इत्यक्षरार्थः । अयं भावः-प्रकाशस्वभावं वस्तु यत्र प्रतिबिम्बते तत्र प्रकाशाभासोदयहेतुस्तद्भवति । यथा जले प्रतिविम्बितः सविता तथा बुद्धौ प्रतिविम्बितं चैतन्यं तत्र चित्प्रकाशोदयहेतुर्भवति । ततः साभासायां वुद्धौ गृहीतसंवन्धैर्ज्ञानादिशब्दैवेद आत्मानं लक्षणया वोधयतीति संगच्छतेऽन्यथा निधर्मक आमनि शब्दप्रवृत्त्यनुपपत्ते- वेदान्तवेद्यता तस्य न सिध्येन्मानान्तरं च तत्र न क्रमत इति प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २३३ असिद्धिरेवात्मनः स्यादित्याभासाभ्युपगमः श्रुतिस्मृतिन्यायविद्भिः कर्तव्य इति ॥ ५० ॥ यद्यप्येवमाभासाभ्युपगमे वेदप्रवृतिरात्मन्युपपद्यते तथाप्यस्मिन् जानात्यादिशब्दा न प्रवर्तेरनिति व्यवहारासिद्धिः प्रसज्येतेति शकते । ननु ज्ञानशब्दो व्युत्पाद्यमान आत्मनि मुख्या वृत्तिं लभत एव अतः कथं साभासवुद्धिवाचकः सन् आत्मनि लक्षणया वर्तिप्यत इति कल्पत इति वा शकते.-.- प्रकृतिप्रत्ययार्थी यौ भिन्नावेकाश्रयो यथा । करोति गच्छतीत्यादी दृष्टौ लोकप्रसिद्धितः ॥५१॥ प्रकृतीति ।। प्रकृत्यर्थः क्रिया प्रत्ययार्थः कर्तृत्वं तावुभौ खरू- पतो भिन्नावकस्मिन्नाश्रये स्थितौ करोति गच्छतीत्यादी लोके दृष्टौ यथा तथा लोकप्रसिद्धित एव जानाति करोतीत्यादेरप्यात्मैकाश्रयत्वं युक्तमित्यर्थः ।। ५१ ॥ यथैकाश्रयत्वमनयोदृष्टं तथा भिन्नाश्रयत्वमपि कचित् किं न स्यादि- त्यत आह- नानयोर्याश्रयत्वं च लोके दृष्टं स्मृतौ तथा । जानात्यर्थेषु को हेतुर्याश्रयत्वे निगद्यताम् ॥५२॥ नानयोरिति । अनयोः प्रकृतिप्रत्यययोः द्याश्रयत्नं न लोक- प्रयोगेषु दृष्टं तथा स्मृतौ व्याकरणरूपायामपि न दृष्टमतो जाना. त्यर्थेषु द्याश्रयत्वे आत्मा प्रत्ययार्थाश्रयः बुद्धिः प्रकृत्यर्थाश्नया इति घ्याश्रयत्वाभ्युपगमे को हेतुः स निगद्यतामित्यर्थः ॥ ५२ ।। प्रकृतिप्रत्यययोरेकाश्यत्वमात्रमस्मन्मते न सङ्गच्छत इत्युच्यते किंवा परमार्थतस्तयोरेकाश्रयत्वं, तत्र नाय इत्याह सिद्धान्ती- २३४ उपदेशसाहस्री। [ तत्त्वमसि- आत्माभासस्तु तिडाच्यो धात्वर्थश्च धियः क्रिया। उभयं चावियेकेन जानातीत्युच्यते मृपा ॥ ५३॥ आत्माभास इति ।। तुशब्दः शङ्कानिषेधार्थः । आत्माभासो बुद्धिगततिडाच्या प्रत्ययवाच्यः। धियो वुद्धेः क्रिया वृत्तिरूपा धात्वर्थः प्रकृत्यर्थः । तथाचात्माभासो वुद्धिश्चेत्युभयं चाविकेन परमार्थात्मा- विवेकेन मृपेव जानातीत्युच्यते । तथाचात्माभासव्याप्तक्रियावहुयै- क्याध्यासादात्मा जानातीत्येकाश्रयत्वावमासः प्रकृतिप्रत्यययोरिहापि नानुपपन्न इत्यर्थः ॥ ५३ ॥ द्वितीयं प्रत्याह- न बुद्धेरववोधोऽस्ति नात्मनो विद्यते क्रिया । अतो नान्यतरस्यापि जानातीति च युज्यते ॥ ५४ ॥ न युद्धेरिति ।। सम्यग्विचार्यमाणे क्रियावत्या युद्धेरवबोधश्चित्प्र- काशो नास्ति नाप्यात्मनोऽवबोधस्वभावस्य क्रिया विद्यते, अतो नान्य- तरस्यापि जानात्यवगच्छतीति निर्देशो युज्यते । तथाच प्रतीतिमा- त्रशरणैरारोपिततदैक्यविषयत्वं जानात्यादेराश्रयणीयमिति न लोक- व्यवहारविरोधः स्मृतिविरोधो वा भवतीत्यर्थः ॥ १४ ॥ यथा जानातीति ज्ञ इति कर्तृव्युत्पत्त्या बुद्ध्यात्मनोरेकैकस्मिन् जानात्यर्थानुपपत्तिर्नापि मीलितयोस्तदुपपत्तिः, परमार्थतो जडाजड- यौरैक्यायोगात् । नाप्यन्यतरसंधिनिमित्तान्यतरस्मिन्नुभयाश्रयतेति घटते अध्यासव्यतिरेकेण संनिधेरनिरूपणात् तथा ज्ञप्तिर्ज्ञानमिति भावव्युत्पत्त्यापि ज्ञानशब्दप्रयोग आत्मनि न घटत इत्याह- नाप्यतो भावशब्देन ज्ञप्तिरित्यपि युज्यते । न ह्यात्मा विक्रियामानो नित्य आत्मेति शासनात्५५ - प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २३५ नाप्यत इति ॥ भावशब्देन धात्वर्थसामान्यवचनेन ज्ञप्तिर्ज्ञान- मिति व्युत्पत्त्यापि ज्ञानशब्दप्रयोग आत्मनि न युज्यतेऽत इत्युक्तं हेतुं व्यक्ति नहीति । क्रियायामात्रत्वे पारतत्र्येणात्मनोऽनित्यत्व- प्रसङ्गस्तच्चानिष्टं नित्य आत्मेति श्रुतिशासनादित्यर्थः ॥ ५५ ॥ यथा जानातीति ज्ञ इति कर्तृव्युत्पत्त्या ज्ञप्तिानमिति भावव्यु- त्पत्त्या चात्मनि ज्ञानशब्दानुपपतिस्तथा ज्ञायतेऽनेनेति करणव्युत्पत्त्या ज्ञायत इति ज्ञानमिति कर्मव्युत्पत्त्या चात्मनि ज्ञानशब्दप्रवृतिर्न युज्यत इत्याह- न बुद्धेर्युद्धियाच्यत्वं करणं न बकर्तृकम् । नापि ज्ञायत इत्येवं कर्मशब्दैर्निरूप्यते ॥ ५६ ॥ न बुद्धेरिति ॥ बुध्यतेऽनयेति बुद्धिरिति व्युत्पत्त्या बुद्धिशब्द- वाच्यत्वं वुद्धेरन्तःकरणस्य स्पानात्मन इति योजना । तत्र हेतुः करणमिति । करणव्युत्पत्तिपक्षे बुद्धिशब्दवाच्यस्यात्मनः करणत्वापतौ फन्तराभावादकर्तृकं करणं स्यात् नहि करणमकर्तृकं कचिदृष्टमित्यर्थः। तथा ज्ञायते इति नानमिति कर्मशब्दैरप्यात्मा न निरूप्यते न सम्यगुध्यते खस्य खवेधत्वानुपपत्तेत्रिन्तरस्याभावाच न कर्मव्युत्प- त्तिरपीहेत्यर्थः । ज्ञायतेऽस्मिन्निति ज्ञानमिति व्युत्पत्त्यन्तरमस्तीति- चेत्तत्र वक्तव्यं ज्ञेयाघारत्वमानं ज्ञानशब्दनेहोच्यते ज्ञातृत्वे सति ज्ञेयाधारत्वं वा । नायः । ज्ञेयघटाद्याधारभूतलादेरपि व्युत्पत्तियोगा- ज्ज्ञानशब्दाभिधेयत्वप्रसङ्गात् । न द्वितीयः। आत्मनो ज्ञातृत्वस्य निराक- तत्वादित्ययं पक्षोऽतिस्थूल इत्याचार्यरुपेक्षित इति द्रष्टव्यम् ॥ ५६ ॥ एवं मुख्यया वृत्त्या मानादिशब्दवाच्यत्वमात्मनो नोपपद्यत इति प्रतिपादिते तवाप्येतत्तुल्यमित्याशङ्कयेष्टापत्त्या परिहरति-
२३६
उपदेशसाहस्री।
[ तत्त्वमसि-
न येपामेक एवात्मा निर्दुःखोऽविक्रियः सदा ।
तेपां साच्छब्दवाच्यत्वं ज्ञेयत्वं चात्मनः सदा ॥५७॥
न येपामिति ॥ येपा मते एकएवात्मा सदा निर्दु खादिलक्षणो-
ऽभ्युपगतस्तेषामात्मन सदा शब्दवाच्यत्व ज्ञेयत्व च न स्यात्परमार्थत
इति योजना । यद्वात्मनि मुख्यशब्दप्रवृत्त्यभावमुक्त व्यतिरेकमुसे-
नोपपादयति -न येपामिति । येपा मते एकएव यथा निर्दिष्ट
आत्मा न भवति तेपा शब्दयाच्यत्व शेयत्व चात्मन सदा साद-
स्त्विति योजना । तर कादिव्युत्पत्ते सभवात् ,
नत्वेकात्मवादे
श्रौते तत्सभव इत्यात्सिद्धमित्यर्थ ॥ ५७ ॥
तर्वस्तु शब्दार्थमुख्यत्वाय सविकार एवात्मेति शङ्कते-
यदाहंकर्तुरात्मत्वं तदा शब्दार्थमुख्यता ।
नाशनायादिमत्वात्तु श्रुतौ तस्सात्मतेप्यते ॥ ५८ ॥
यदेति । अह कर्तेत्यायभिमन्यमानाकारस्यात्मत्वमेव नास्तीति
परिहरति-नेति । 'योऽशनायापिपासे शोक मोह जरा मृत्युमत्ये-
त्येत वै तमात्मान विदित्वेति श्रुतावात्मनोऽशनायाद्यतीतत्वस्वाभा-
व्यावगमादशनायादिधर्मवत्त्वादरकर्तुस्तस्यात्मता नेप्यत इति योजना ।
अतो ज्ञानादिशब्दा आत्मनि न साक्षात्प्रवर्तन्त इत्याभासद्वारतास्म-
दुक्ता तेपा सिद्धेति भाव ॥ ५८॥
नन्वेवमुक्तरीत्या यदि जानात्यादेरात्मन्यन्यत्र च मुख्यता न
सभवेत्तर्हि वृत्त्यन्तरेणाप्यात्मनि प्रवृत्तिरनुपपन्ना नहि काप्यमुख्य
कचिदुपचर्यत इति सभवतीति-
हन्त तर्हि न मुख्याएँ नापि गौणः कथंचन।
जानातीत्यादिशब्दस्य गतिर्वाच्या तथापि तु ॥५९॥
हन्त तहीति चतुर्मि ॥ स्पष्टम् ॥ ५९॥
प्रकरणम् १८]
पदयोजनिकान्याख्यायुता।
२३७
मास्तु मुख्याभावाद्गौणोऽपि तथापि किमिति गतिर्वाच्येति
चेत्तत्राह--
शब्दानामयथार्थत्वे वेदस्याप्यप्रमाणता ।
सा च नेष्टा ततो ग्राह्या गतिरस्य प्रसिद्धितः॥६॥
शब्दानामिति ।। न केवलं लौकिकशब्दानामेव जानात्यादी-
नामप्रमाणता किंतु वेदस्यापीत्यपिशव्दयोजना । लोकप्सिद्धव्युत्पत्त्य-
पेक्षत्वादियोधकत्वस्येत्यभिप्रायः । सा वेदस्याप्रमाणता नेष्टा । चका-
राद्वेदस्यैवात्मनि प्रमाणतेप्टेति समुच्चीयते । अतो वेदप्रामाण्याङ्गी-
कारलोभादेव गतिर्वाच्येत्यर्थः । तर्हि प्रसिद्धैव गतिः किमिह वक्त-
व्यमिति सिद्धान्तिनः शहां गृहाति-ततो ग्राह्येति । प्रसिद्धित
इति चेदिति शेषः ॥ ६०॥
तत्र वक्तव्यं प्राकृतजनप्रसिद्ध्या गतिराश्रीयते पाणिन्यायभियुक्त-
प्रसिद्ध्या या । तत्राद्यमनूद्य दूषयति-
प्रसिद्धिर्मूढलोकस्य यदि ग्राह्या निरात्मता।
लोकायतिकसिद्धान्तः सा चानिष्टा प्रसज्यते ॥६॥
प्रसिद्धिर्मूढलोकसेति ॥ प्राकृतप्रसिध्यभ्युपगमे देहात्ममसिद्धे-
रप्यभ्युपगमानिरात्मवादाद्यापचिरनिष्टा प्रसज्येतेत्यर्थः ॥ ६१ ।।
द्वितीयमनूद्य प्रत्याह-
अभियुक्तप्रसिद्धिश्चेत्पूर्वबहुर्विवेकता।
गतिशून्यं न वेदोऽयं प्रमाणं संवदत्युत ॥ १२ ॥
अभियुक्तेति ॥ पूर्ववदिति बुद्धेरात्मनो वा ज्ञातृत्वं दुर्निरूप-
मिति प्रागुक्तदोपप्रसङ्ग इत्यर्थः । ययेवं तात्मनो गतिशून्यमिय
ज्ञातृत्वं वेदोऽनुयदिप्यतीति तत्राह-गतीति । प्रमाणमिति हेतुगर्भ
वेदविशेषणम् ॥ १२ ॥
२३८
उपदेशसाहस्री।
[तत्त्वमसि-
चिदात्मन्येवोपाधिको जानात्यादिशब्दप्रयोगः संभवतीत्यभिप्रेत्य
सिद्धान्ती दृष्टान्तमाह-
आदर्श मुखसामान्यं मुखस्येष्टं हि मानवैः।
मुखस्स प्रतिविम्वो हि मुखाकारेण दृश्यते ॥ ६३ ॥
आदर्शति ।। आदर्श हश्यमानं यन्मुखं तेन सामान्यं समानत्व-
मेकत्वं मुखस्यादर्शाबहिस्तिष्ठतो मानवैरिष्टं हि प्रसिद्धमित्यक्षरार्थः ।
आदर्श मुखव्यत्यन्तरोत्पादानुपपनिसहकृततया मदीयं मुखमिति
प्रत्यभिज्ञया विम्बप्रतिबिम्बभावेनोपाधितो भेदावभासेऽपि मुखैक्यं
मानवैरिप्यत एवेत्युक्तं भवति । उक्तमेवैकत्वं स्फुटयति-मुखस्ये-
ति ॥ ६३ ॥
यथा कल्पितमुखस्य परमार्थमुखस्य चान्योन्याविवेकान्मलिनं
मुखमल्प वक्रमित्यादिव्यपदेश उपाधिनिबन्धनस्तथात्मन्यपि ज्ञात-
स्वादिव्यपदेश उपाधिनिबन्धन इत्युपपन्नमिति दान्तिकमाह-
यत्र यस्यायभासस्तु तयोरेवाविवेकतः ।
जानातीति क्रियां सर्वो लोको वक्ति खभावतः६४॥
योति ॥ अवभास आभासः प्रतिविम्बभाव इति यावत् ॥६॥
यच्छब्दाभ्यामुक्तमर्थ स्पष्टयति-
बुद्धेः कर्तृत्वमध्यस्य जानातीति ज्ञ उच्यते ।
तथा चैतन्यमध्यस्य ज्ञत्वं वुद्धेरिहोच्यते ॥६५॥
बुद्धेरिति ॥ बुद्ध्यात्मनोस्तादात्म्याध्यासे सत्यन्योन्यधर्मसंकरा-
दात्मा जानात्यहं जानामीति च व्यपदेशो भवतीति समुदा-
यार्थः ॥ ६५॥
प्रकरणम् १८] पदयोननिकाव्याख्यायुता। २३९
ननु बुद्ध्यादिमिरात्मनि ज्ञानमुत्पाद्यते ततः कथमिदमुच्यते
आत्मचैतन्यं बुद्धावध्यस्थत इति तत्राह-
खरूपं चात्मनो ज्ञानं नित्यं ज्योतिःथुतेर्यतः।
न बुधा क्रियते तस्मानात्मनान्येन वा सदा ॥६६॥
स्वरूपं चेति ॥ ज्ञानमात्मनः सरूपं तदेव ज्योतिपां ज्योति-
रात्मैवास्य ज्योतिः' 'अत्रायं पुरुपः खयंज्योतिः साक्षी चेत्यादिश्रुतेः।
अतश्च नित्यमेव यतस्तस्मान्न बुद्ध्या ज्ञानं क्रियते । आत्मना वा-
न्येन का चक्षुरादिना ज्ञानं सदा कदापि न क्रियत इत्यर्थः ॥ ६६ ॥
बुद्ध्यात्मनोरन्योन्यधर्माध्यासेनैव
नव व्यवहार इत्युक्तेर्थे दृष्टान्त-
माह-
देहेऽहंप्रत्ययो यद्वजानातीति च लौकिकाः।
वदन्ति ज्ञानकर्तृत्वं तद्वदुद्धेस्तथात्मनः ॥ ६७ ॥
देह इति ॥ रूपादिमत्त्वेन पटादिवदहप्रत्ययायोग्येऽपि देहे
चेतनामध्यस्य यथाहं मनुष्यः कृशः स्थूल इत्यादिप्रत्ययो दृश्यते
तथा बुद्धर्जडत्वेन ज्ञातृत्वायोग्यत्वेऽपि चिदाभासव्याप्त्या ज्ञातृत्व-
मारोप्य जानामीति लौकिका वदन्ति व्यवहरन्ति । दान्तिकमाह-
तथात्मन इति । विकाररहितस्याप्यात्मनो विकारिचितो विवेकाद्वि-
कारित्वादिव्यपदेशसिद्धिरित्यर्थः । यद्वा स्थूलदेहे यद्वदप्रत्ययो
मनुष्योहमित्येवमादिरहंप्रत्ययायोग्येऽपि व्यवयिते सर्वैः। लौकिकाश्च
शास्त्रसस्काररहिताः देवदत्तो जानाति मनुत इति च देहस्सैव
ज्ञातृत्वं वदन्ति तद्बुद्धेनिफर्तृत्वं तथाऽत्मनो ज्ञानाश्रयत्वं विकार-
वलं च व्यवहारास्पदं भवतीत्यर्थः ॥ ६७॥
२४० उपदेशसाहस्री। [ तत्त्वमसि- ननु तार्किका ज्ञानस्योत्पत्तिविनाशौ पश्यन्तो ज्ञानमात्मना क्रियत इत्याहुः तत्कथं नित्यं ज्ञानमात्मखरूपमित्युक्तमित्यत आह- बौद्धस्तु प्रत्ययैरेवं क्रियमाणैश्च चिन्निभैः । मोहिताः क्रियते ज्ञानमित्याहुस्तार्किका जनाः॥६॥ बौद्धस्त्विति ॥ एवं पूर्वोक्तप्रकारेणात्मवुयोरन्योन्याध्यासाच्चि- निभैश्चिच्छायापत्त्या चिदिवभासमानौ वुद्धिप्रभवै क्रियमाणै प्रत्य- यैर्वृतिविशेषैोहितास्तार्किका जना ज्ञान क्रियते जायते इत्याहुर्वदन्ति तेपा वुद्यात्माविवेक एवापराधो नतु ज्ञानं क्रियते । तथासति प्रत्य- योत्पत्तिविनाशयोरसाक्षिकतयाऽसिद्धिप्रसङ्गादिति भावः ॥ ६८ ॥ यस्मादेव विचार्यमाणे प्रमाणसिद्धकौटस्थ्यस्यात्मनो न विकारित्व प्रामाणिक, यस्साच ज्ञानमात्मस्वरूपत्वश्रवणान्नित्यमेवेति न केनापि क्रियते, यस्माच्च वुद्धिसंसर्ग विनात्मनो न ज्ञातृत्वमुपलभ्यते सुप्तान- दर्शनात् , बुद्धिश्च नात्मनः पृथग्ज्ञातृत्वाद्याकारोपलभ्यते तस्मादात्म- बुद्धितत्स्थामासानामविवेकाद्यथाप्रसिद्धमेव व्यावहारिक बुद्ध्यात्मनो- रेकत्व गृहीत्वा जानात्यादिव्यपदेश उपपद्यते न परमार्थतो मुरयम- न्यदालम्बनमस्तीति प्रकृतमुपसंहरति- तस्माज्ज्ञाभासवुद्धीनामविवेकायवर्तिताः । जानातीत्यादिशब्दश्च प्रत्ययो या च तत्स्मृतिः६९॥ तसादिति ॥ जानातीत्यादिशब्दथ, तदनन्तरमावी तद्विपयः प्रत्ययश्व, या च तत्सस्कारजा स्मृति सा चेति योऽथा । ज्ञामास- युद्धीनामविवेकात्मवर्तिता इति योजना ॥ ६९ ॥ ज्ञाभासवुद्धीनामविवेकमूलः सर्वो व्यवहारो न पारमार्थिक इत्यु- कमर्थ दृष्टान्तेन स्पष्टयति-- , प्रकरणम् १८] पदयोजनिकान्याख्यायुता। २४१ आदर्शानुविधायित्वं छायाया अस्थते मुसम् । बुद्धिधर्मानुकारित्वं ज्ञाभासस्य तथेप्यते ॥ ७० ॥ आदर्शेति ॥ छायाया मुखाभासम्य यदा दशानुविधायित्व तन्मुखे अस्यतेऽध्यस्यते ययेति शेप । तथाध्यस्तस्य चिदाभासस्य बुद्धिधर्मानुकारित्व से आत्मनीप्यतेऽध्यस्य व्याहियत इत्यर्थ ॥७॥ यस्मादेव चिदामासाविविक्ता बुद्धिस्तस्मात्तत्परिणामेपु ग्राहकत्व- प्रतिभाससिद्धिरित्याह- धुद्धस्तु प्रत्ययास्तस्मादात्मामासेन दीपिताः। ग्राहिका इव भासन्ते दहन्तीयोल्मुकादयः ॥ ७१ ॥ युद्धस्विति ॥ निगदव्यारयात पद्यम् ।। ७१ ॥ एयमाभासविविक्तपदार्थस्वरूपाज्ञानाद्यथा तार्किकाणा व्यामोहो जान क्रियत इति तथा बौद्धानामपि बुद्धिव्यतिरिक्तो ग्राहको नास्तीति व्यामोह एवेत्याह- स्वयमेवावभास्यन्ते ग्राहकाः स्वयमेव च । इत्येवं ग्राहकास्तित्वं प्रतिपियन्ति सौगताः ॥७२॥ स्वयमेवेति ॥ स्वयमेव च प्रत्यया इति शेप ॥ ७२ ॥ यद्येव प्रत्ययाना ग्राहकमन्य स्थिरगनादृत्य प्रत्ययमेव प्राधग्राह- काकार बौद्धा मन्यन्ते तर्हि तन्मतस्यानुभवानुसारित्वादाभासानभ्युप- गमे कथ ते निराकर्तव्या इत्याशयेन खयूथ्य पृच्छति- यद्येवं नान्यदृश्यास्ते किं तद्वारणमुच्यताम् । भावाभावौ हि तेपां यौ नान्यग्राह्यौ सता यदि ७३ यद्येवमिति ॥ ते प्रत्यया नान्यदृश्याः अन्येन साक्षिणा नित्य- सिद्धेन न ग्राह्या इति यद्येव बौद्धा वदन्ति तन्मतवारण किमस्ति उ. मा.१६ २४२ उपदेशसाहस्री । [ तत्त्वमसि- तदुच्यतां इत्युक्ते खयूथ्यः प्रत्याह-भावाभावाविति । तेषां प्रत्य- यानां यौ भावाभायौ उत्पत्तिविनाशौ सता स्वतःसिद्धेन साक्षिणा- न्येन ग्राह्यौ यद्यपि तथापि यस्मिन्प्रत्ययानां भावाभावी सोहमिति प्रत्यभिज्ञाबलात्तेपां ग्राहकोन्वयी स्थाय्यात्मा सिध्यति किमाभासक- ल्पनयेति योजना ॥ ७३ ।। एवं स्वयूथ्येनोक्त नैतावता बौद्धो वारयितुंशक्यत इति दूपयति- अन्वयी ग्राहकस्तेपामित्येतदपि तत्समम् । अचितित्वस्य तुल्यत्यादन्यस्मिन्ग्राहके सति ।। ७४ ।। एतदपीति ।। एतदपि प्रत्यभिज्ञानसिद्धमपि ग्राहकरूपं तत्सम प्रत्ययसमं जड़मेवेत्यत्र हेतुमाह-अचितित्यस्येति । अयमर्थः । प्रत्य- यग्राहकः अप्रकाशः खप्रकाशो वा । आधं प्रत्याह-अचितिलस्येति । अन्यस्मिन्ग्राहके सति ग्राह्यकोटिपतितत्वेन जाड्यापरिहारात्स्वयम- प्यसिद्धः कथं प्रत्ययानां ग्राहक इत्यर्थः । अथवा अन्यस्मिन्ग्राहके- ऽसति खतःसिद्ध साक्षिण्यविद्यमाने प्रत्यभिज्ञाग्राह्यस्याप्यचितित्वस्थ तुल्यत्वादाहकत्वासिद्धिरित्यर्थः । द्वितीये स्वप्रकाशस्य साक्षिणो निर्विकारत्वामाससिद्धिरिति द्रष्टव्यम् ॥ ७४ ॥ खमकाशे साक्षिण्यसति प्रत्ययानां भावाभावासिद्धिश्चेत्तहि साक्षि- सानिध्यमात्रेणैव तत्सिद्धेः कृतमाभासाभ्युपगमेनेति शकते- अध्यक्षस्य समीपे तु सिद्धिः स्यादिति चेन्मतम् । नाध्यक्षेऽनुपकारित्वादन्यत्रापि प्रसङ्गतः ॥ ७५ ॥ अध्यक्षस्येति ॥ तर वक्तन्यं किं साक्षिसंधानमा प्रत्ययसिद्धि- हेतुः किंवा तत्कृतविशेषयोगोऽपीति तन द्वितीयं, तावदूपयति-- नेति । निर्विकारेऽध्यक्षे उपकारित्वानिरूपणादित्यर्थः पाठान्तरे - प्रकरणम् १८] पदयोजनिकान्याख्यायुता। २४३ अध्यक्षे साक्ष्येऽहंकारादायनुपकारित्वादुपकारपदयाच्यातिशयाजनफ- त्यादित्यर्थः । प्रथमं दूपयति-अन्यत्रापीति । साक्षिणः पूर्णतया सर्वत्र सदा सान्निध्याविशेपाकाष्ठलोष्ठादीनामपि सिद्धिप्रसङ्गादि- त्यर्थः ।। ७५॥ एवमाभासानभ्युपगमे बौद्धादिमतसाम्यदोषपरिहारानुपपत्तिं स्वयू- प्यान्मत्युक्त्वा शास्त्रीयो बन्धमोक्षव्यवहारोऽपि तेषां न सिध्यतीति वक्तुं विकल्पयति- अर्थी दुःखी च यः श्रोता सत्वध्यक्षोऽथवेतरः । अध्यक्षस्य च दुःखित्वमर्थित्वं च न ते मतम् ॥७६।। अर्थीति ॥ यो दुःखित्येन मोक्षार्थित्वेन च प्रसिद्धो गुरूपदेश- श्रोता स एवाध्यक्षो मतस्ततोऽन्यो वेति विकल्पार्थः । आये निरनु- ग्रहाध्यक्षवादिनः तवापसिद्धान्तप्रसङ्ग इति दूपयति-अध्यक्षस्येति । आत्मामासानङ्गीकारवादिनस्ते द्वाराभावादविद्यातत्कार्यसंबन्धासिद्धेस्ते- न च विनाथित्वाद्यसिद्धेराभासाभ्युपगमप्रसङ्ग इत्यर्थः ॥ ७६ ॥ द्वितीयं दूषयति- कर्ताध्यक्षः सदस्मीति नैव सहमहति । सदेवासीति मिथ्योक्तिः श्रुतेरपि न युज्यते ॥ ७७ ॥ कर्तेति ॥ श्रोतुर्थिनोऽध्यक्षस्य च भेदपक्षे कर्ता कर्तृत्वादिधर्मको विकारी श्रोता जडवर्गपतितत्वात्सदहमध्यक्षोऽस्मीति सहं सदाठि. शब्दनिर्दिष्टब्रह्मात्मग्रहं नार्हति विरोधादित्यर्थः । यद्वा सदध्यक्षो निर्विकार आत्माहमस्मीति सदहं यथार्थबोधं नार्हति न लभत इत्यर्थः । श्रुतिवाधप्रसङ्गाचायं पक्षो न युक्त इत्याह---सदेवेति १७७।। चिदाभासानभ्युपगमपेक्षे बन्धमोक्षानुपपत्तिमुपपाच स्वपक्षे तदुप- पत्तिमाह- - । -अन्त. २४४ उपदेशसाहस्री। [ तत्त्वमसि- अविविच्योभयं वक्ति श्रुतिश्चेत्स्याङ्गहस्तथा। अस्मदस्तु विविच्यैव त्वमेवेति वदेद्यदि । प्रत्ययान्वयिनिष्ठत्वमुक्तदोपः प्रसज्यते ॥ ७८ ॥ अविविच्येति ॥ उभयमात्मानमहंकारं च द्वयमाभासद्वारेण विवेकापन्नमविविच्य विविक्तमकृत्वा यथा प्राप्तमर्थित्वाद्युपादाय श्रो- तृत्वेन स्थितं प्रति 'तत्त्वमसी'तिथुतिर्यक्त्यात्मतत्त्वमिति चेत्पक्षस्तदा तथा यथाश्रुत्युक्तस्य ग्रहो ग्रहणं स्यादिति योजना । अयमभिप्रायः त.करणादौ चिदाभासोदयेपि सति तद्गतविकाराध्यासादविवि- क्ताहंकार आत्मार्थित्वादिसपन्नो मुमुक्षुता प्रतिपद्यते । तं तथैवाविवे- कावस्थं त्वमित्यनूद्याभासद्वारा साभासान्तःकरणसाक्षितया लक्षयित्वा तेजोबन्नादिजगत्कारणत्वेनोपलक्षितं सच्छब्दवाच्यं ब्रह्म तदित्यनूद्य जीवनात्मना नामरूपसंघातानुप्रविष्टत्वेनापरोक्षप्रत्यक्तया लक्षयित्वा त्वं तदसीति श्रुतिस्पदिशति आत्मतत्त्वमिति तया ग्रहणमुपपद्यत इति । अहंकार एव श्रोता स्यात्किमात्माभासाभ्युपगमेनेति सांख्यमतमनूय दूपयति-अस्मदस्त्विति । प्रत्ययान्वय्यहंकारः यदि वाक्यमस्मदः प्रत्यक्चैतन्यादहंकारं विविच्यैव त्वमेवेति प्रत्ययान्वयिनिष्ठत्वं वदेत्त- दोक्तो दोपः श्रुतेर्मिथ्योक्तित्वप्रसङ्गरूपः प्रसज्यत इत्यर्थः ॥ ७८ ॥ तहकर्तृविपयोऽप्युपदेशोऽध्यक्षे पर्यवस्थतीत्याशङ्कयाभासान- भ्युपगमे तदपि दुर्घटमित्याह- त्वमित्यध्यक्षनिष्ठश्चेदहमध्यक्षयोः कथम् । संवन्धो वाच्य एवान येन त्यमिति लक्षयेत् ॥७९।। त्वमिति ॥ समिति पदं अहंकारवाचि सदध्यक्षं बोधयति चेदहकाराध्यक्षयोः संवन्धग्रहमन्तरेण वाक्यानोपानुपपत्तेरहमध्य- प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २४५ क्षयोः संबन्धोऽत्र वाच्य एव स कथमुपपद्यते येन संवन्धेन त्यमिति पदमध्यक्ष लक्षयेदित्यर्थः ।। ७९ ॥ अस्ति संवन्ध इहेत्याशङ्कय परिहरति- द्रष्टदृश्यत्वसंपन्धो यद्यध्यक्षे क्रियेत्कथम् ॥ ८॥ द्रपदृश्यत्वेत्ति ।। यदि द्रष्टदृश्यत्वसंबन्धोऽभ्युपगम्यते तदापि संवन्धग्रहणमनुपपन्नम् । अहंकारस्य जडत्वात्संवन्धग्रहणायोगादध्य- क्षस्य तद्रहणमितिवक्तव्यम् । अक्रिये निर्विकारेऽध्यक्षे कथं संवन्धन- हणकर्तृत्वमित्यर्थः ।। ८० ॥ मास्तु संवन्धग्रहणं तथापि तादात्म्योपदेशो भविष्यतीति शङ्का- मनूध दृष्टविरोधान्मैवमिति परिहरति- अक्रियत्वेऽपि तादात्म्यमध्यक्षस्य भवेद्यदि । आत्माध्यक्षो ममास्तीतिसंवन्धाग्रहणेन धीः ॥८॥ अक्रियत्वेऽपीति ॥ यथा लोके घटस्स शौक्यमिति घटशौ- नययोः संबन्धाग्रहणे शुक्लो घट इति वाक्यतादात्म्यधीनौदेति तथा ममात्माध्यक्षोऽस्तीति संबन्धारणेसति न तादात्म्यधीः श्रुतितो जायतेत्यर्थः ।। ८१ ॥ 'एप म आत्मान्तर्हदये अणीयान् एष म आत्मान्तहृदये एतद्र- होति'शास्त्रादस्त्यहंकाराध्यक्षयोः सबन्धग्रह इति शङ्कामुत्थाप्य निरा- करोति- संवन्धग्रहणं शास्त्रादिति चेन्मन्यसे नहि । पूर्वोक्ताः स्युस्निधादोपा ग्रहो वा स्यान्ममेति च ८२ संबन्धग्रहणमिति ॥ नहीत्युक्तं व्यनक्ति-पूर्वोक्ता इति । अहंकारस्य जडत्वात्संबन्धग्रहीतृत्वं न घटते, नाप्यध्यक्षस्य निर्विकार- उपदेशसाहस्री। [तत्त्वमसि- त्वादिति द्वौ दोषौ, जडंप्रति श्रुतेर्योधकत्वासंभवस्तृतीयो दोप इति त्रिधा दोषाः स्युः, यदि कथंचित्संवन्धग्रहणं कल्प्येत तदापि ममा- ध्यक्षोऽस्तीति संवन्धग्रहणं स्थानत्वहमेवाध्यक्षोऽस्मीति तादात्म्या- ध्यासानङ्गीकाराच्चकारान्ममाध्यक्षोऽस्तीत्यपि न घटतेऽहंकारस्य जड- त्वादित्यम्युच्चयः ॥ २२॥ एवमात्मानात्मनोः परपक्षे संबन्धासिद्धिमुक्त्वा स्वपक्षे मिथ्याता- दात्म्यसंबन्ध इति दर्शयति- अरशिशिरूपेण भाति बुद्धियंदा तदा । प्रत्यया अपि तस्याः स्युस्ततायोविस्फुलिङ्गवत्॥८॥ अशिरिति ॥ यदाऽदृशिरचेतना वुद्धिशिरूपेण सदा भातीत्य- भ्युपगम्यते तदा तस्या बुद्धेः प्रत्यया वृत्तयोऽपि तप्तायोविस्फुलिङ्गा- नामग्यात्गत्ववदृशिरूपाः स्युरित्यर्थः ॥ ८३ ॥ अस्मिन्पक्षे लौकिकवैदिकव्यवहारसिद्धिरपि सुसंपादेत्याह-- आभासस्तदभावश्च दृशेः सीनो न चान्यथा । लोकस्य युक्तितः स्यातां तदहश्च तथासति ॥८॥ आमास इति ॥ सीन्नोऽवधिभूताया दृशेश्चिदात्मनः सकाशा- देव लोकस्यागासस्तदभावश्च प्रत्ययश्च तदभावश्च स्यातां युक्तितो युक्तरुपपत्तेर्नचान्यथा । तथासति आभासानभ्युपगमेसति प्रत्ययभावा- भावयोः प्रत्ययग्राह्यत्वायोगाचतोऽत्यन्तमेव विविक्तस्य चात्मनस्तद्वाह- करवानुपपत्तेराभासद्वारा तु संबन्धादात्मनो वुद्धिवृत्तिभावाभावसाक्षित्व- मुपपद्यते बुद्धश्च तद्रह आत्मग्रहोऽहमसीत्युपपन्नः स्यादित्यर्थः ।।८४॥ तप्तायोविम्फुलिङ्गवदिति दृष्टान्तामिधीनादात्मनो विकारमाप्ति शकते- प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २४७ नन्वेवं इशिसंक्रान्तिरयःपिण्डेऽग्निवद्भवेत् । मुखाभासवदित्येतदादर्श तन्निराकृतम् ॥ ८५॥ नन्वेवमिति ॥ अयःपिण्डेऽमिसक्रान्तिवत् वुद्धौ दृशिसंक्रान्ति- विकारो भवेदित्यर्थः । परिहरति-मुखाभासवदिति । तदेतच्चोध- मादर्श मुखामासवदिति दृष्टान्तेन प्रयन्धेन निराकृतमित्यर्थः । यथा मुखस्यादर्शे प्रतिबिम्बितस्य तत्स्थत्वेन रूपेण मिथ्यात्वं तथा बुद्धौ प्रतिविम्बितस्य चिदात्मनो बुद्धिधर्मत्वेनावभासो मृपेति पूर्वमुक्तं सर्वमिहानुसंधेयमिति भावः ॥ ८५ ॥ तहि कथं तप्तायोविस्फुलिङ्गदृष्टान्त उक्तस्तत्र विकारप्रसिद्धी - न्तिकाननुरूपत्वादित्याशङ्कय विवक्षितांशस्येहापि संभवान्मैवमित्याह- कृष्णायोलोहिताभासमित्येतदृष्टमुच्यते । दृष्टदार्टान्ततुल्यत्वं न तु सर्वात्मना क्वचित् ॥८६॥ कृष्णवर्णमयो ॥ लोहिताभासं लोहितवर्णमयमास इत्येतदेता- चदेव दृष्टं दृष्टान्त उच्यते । जडाया बुद्धेः चैतन्याभासत्वमित्यर्थः । सर्वाशसाम्यमनुपपन्नमित्याह-~दृष्टदान्तेति । अप्रकाशाद्यात्मनो मुखादेश्चन्द्रादिदृष्टान्ताभावप्रसङ्गादिति भाव ॥ ८६ ॥ दृष्टान्ते विविक्षितमंशमुक्त्वा दार्शन्तिकेऽपि तथाविधमशं दर्श- यति- तथैव चेतनाभासं चित्तं चैतन्यवद्भवेत् । मुखाभासो यथादर्श आभासचोदित्तो मृपा ॥ ८७॥ तथैवेति ॥ चेतनाया आभासो यसिसचेतनाभासं चित्रं चैत- न्यवचेतनमिव भवेत्स चाभासो यथादर्श मुखाभासोऽविकृत एवमेवे.
२४८ उपदेशसाहस्री। [ तत्त्वमसि- हापि द्रष्टव्यः । आभासश्चोपाधिस्थतया दृश्यमानो मृपा मिथ्येत्यु- दित उक्त एवेत्यर्थः ॥ ८७ ॥ कसाच्चिदाभासव्याप्त्या चित्तस्य चेतनतावभासोऽभ्युपगम्यते न खत इति शङ्का न कार्या तत्र प्रमाणन्याययोरभावादित्याह- चित्तं चेतनमित्येतच्छास्त्रयुक्तिविवर्जितम् । देहस्यापि प्रसङ्गः स्याचक्षुरादेस्तथैव च ॥ ८८ ॥ चित्तमिति ।। उत्पत्तिविनाशवत्तयान्यदृश्यस्यापि चित्तस्य चेचे- तनताखभावः स्यात्तदातिप्रसङ्गश्च दुष्परिहर इत्याह---देहस्येति ८८ इष्टापत्तिमाशङ्कय परिहरति--- तदप्यस्त्विति चेत्तन्न लोकायतिकसंगतेः । न च धीईशिरस्मीति यद्याभासो न चेतसि ॥ ८९ ।। तदपीति ॥ अवैदिकत्वप्रसमादित्यर्थः । किंचामासानभ्युपगमे द्वाराभावादहं ब्रह्मास्मीति आगन्तुकं वाक्यजन्यमैक्यज्ञानं न सिध्ये- दित्याह-नच धीरिति । चेतसि यद्याभासो न भवेचदा शिर्बझा- सीति धीन भवेत्केवलस्य चित्तस्य जडत्वाचिन्मात्रस्य च कूटस्थत्वा- दित्यर्थः ॥ ८९॥ ब्रह्मास्मीति धियोऽभावे का क्षतिरित्यत आह- सदस्मीति धियोऽभावे व्यर्थं स्यात्तत्त्वमस्सपि । युप्मदरसद्विभागजे सादर्थवदिदं वचः ॥९॥ सदसीति ।। अप्यवधारणार्थः । तत्त्वमसिवाक्यमैक्यग्राहकमुक्त- घियोऽभावे व्यर्थमेवाप्रमाणमेव स्यादित्यर्थः । अस्तु वैयर्थं तद्वाक्य- थोतृणां सर्वेषां झटिति ब्रह्मास्मीति वुद्युत्पत्त्यदर्शनादित्यारा याह-- युप्मदस्मदिति । अधिकारिणः प्रमितिजनको वेद इति न्यायात्सम्य- प्रकरणम् १८] पदयोजनिकान्याख्यायुता। २४९ कपदार्थ विज्ञानयत एव वापयार्थबोधेऽधिकारादात्मानात्मविभागज्ञान- वत्येव पुंसीदं वाक्यमर्थवन्न सर्वान्प्रति झटितीत्यर्थः ॥ ९० ॥ तमेव युष्मदस्मद्विवेकं दर्शयितुमुपक्रमते- ममेदप्रत्ययौ ज्ञेयौ युष्मद्येव न संशयः । अहमित्यमदीप्टः स्यादयमस्मीति चोभयोः॥९१॥ ममेदमित्यादिना ॥ इदं पुत्रादि ममेति च प्रत्ययौ युधमद्य- नात्मन्येव ज्ञेयौ पुत्रादिबावार्थस्य देहाघ्यासपणालिकयैवासदर्थे प्रवे- शाद्वाह्यार्थसंबन्धोऽप्यनात्मधर्म एवेति युक्तमुक्तम् । ममेदमिति प्रत्ययौ युप्मद्येवेति न संशय इति सर्वत्रानुपज्जते । अहमिति प्रत्यय आभा- सद्वारात्मभूते व्यावहारिकेऽसद्यात्मनि अहंकर्तरीष्टः स्यादहमित्ये- वोल्लेखदर्शनात् । अयं देहादिरस्मीति चोमयोरात्मानात्मनोः प्रत्यय इत्यर्थः ।। ९१ ॥ आत्मानात्मविषयाणां प्रत्ययानां संकीर्णतयाऽसंकीर्णतया च विषयानुक्त्वोक्तविवेकसिद्ध्यर्थं तेषां गुणप्रधानभावेन विशेषणविशेष्य- भावो ग्राह्य इत्याह- अन्योन्यापेक्षया तेषां प्रधानगुणतेप्यते । विशेपणविशेष्यत्वं तथा प्राधं हि युक्तितः ॥ १२ ॥ अन्योन्येति ।। स्पष्टम् ।। ९२ ॥ विशेषणविशेष्यत्वं युक्तितो प्रायमित्युक्तमेव विविच्य दर्श- यति- ममेदं यमप्येतन्मध्यमस्य विशेषणम् । धनी गोमान्यथा तद्देहोऽहंकर्तुरेव च ॥ ९३ ॥ -
.
२५०
उपदेशसाहस्री।
[ तत्त्वमसि-
ममेदं द्वयमिति ॥ मध्यमस्य पूर्वश्लोके मध्ये निर्दिष्टस्यास्स-
दर्थस्यात्मनो विशेषणमिदं ममेति च द्वयं मनुष्योऽहमिति प्रत्ययापे-
क्षयेत्यर्थः । तत्रोदाहरणं—धनी गोमान्यथेति । यथा धनादीदंत्वा-
स्पदं सद्देहापेक्षया ममत्वास्पदमहकर्तुः सिद्धं तद्वत्स्थूलो देहोऽहंफ-
तुरात्मनो वाह्यधनाद्यपेक्ष्याहत्यास्पदतया विशेषणमेवेत्यर्थः । चका-
रादात्मनोऽपि सोऽहं जातेत्यायुल्लेखे स्थूलदेहमपेक्ष्य प्रधानभूतोऽप्य-
हंकर्ता विशेषणमिति योज्यम् ॥ ९३ ॥
एतत्सर्व यदधीनसत्ताप्रकाशकं तत्रारोपितं सत्तस्य सदा विशेषणं
भवेदपि तेन साक्षिणा न संस्पृशत इत्यादिषु यो निरपेक्षसिद्धः स
शुद्ध आत्मेति युष्मदसद्विभागज्ञस्य भवेदेव वाक्याद्वाक्यार्थज्ञान-
मिति प्रमाणमेव वेदान्तवास्यमित्यभिप्रेत्योपसंहरति-
बुद्ध्यारूढं सदा सर्व साहकर्ता च साक्षिणः ।
तस्मात्सर्वावभासो ज्ञः किंचिदप्यस्पृशन्सदा ॥ ९४॥
बुयारूढमिति ।। बुद्ध्यारूढं बुद्धिवृत्तिकोडीकृतं सर्व देहतत्सं-
वन्धिविपयजातं साक्षिणो विशेपणं गुणगूतमिति योजना । न केव-
लमेतावत्किंच साईकर्ता अहंका साभासमनसा सहितः सूक्ष्मोऽपि
संघात. साक्षिणो विशेषणं तस्मिन्नध्यस्ततया तदवभास्सत्यादित्यर्थः ।
यस्मादेवं परमार्थतः किंचिदप्यस्पृशन् सदा सर्व सामासद्वारावभास-
यतीति सर्वावभासस्तस्माज्जो ज्ञानस्वरूप एय सदात्मेति विवेको
युक्त इत्यर्थः ।। ९४ ॥
एप विवेकिनां मार्गो विपरीतं त्वपिकिनां क्षेत्रादाययात्मनो
विशेषणत्यप्रतीतेरित्याह-
प्रतिलोममिदं सर्व यथोक्तं लोकवुद्धितः।
अविवकधियामस्ति नास्ति सब विवेकिनाम् ॥१५॥
प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २५१ प्रतिलोममिति ॥ वाघार्थोपहतचेता लोकस्तस्य बुद्धिलोंकबुद्धि- स्तस्या इति याहार्थसत्त्वप्रधानं लोकबुद्धिमपेक्ष्येति यावत् । तथाच वाधार्थ प्रधानीकृत्य यदिदं यथोक्तविशेषणविशेप्यादि सर्व प्रतिलो- ममनात्मभूतं तदविवेकधियां विवेकज्ञानशून्यानां दृष्ट्यास्ति वर्तते । विवकिनां तु दृष्ट्या सर्वमेतद्विशेषणादिकं दृश्यरूपं नास्ति न वर्तते । अतो विवेकिनां बुद्धिमात्मन्यवतारयितुं विशेषणविशेष्यादिप्रबन्ध- कल्पना यथा प्रतीतिसत्तामादाय क्रियतेऽध्यारोपापवादन्यायेनेति भावः ॥ ९५॥ नन्वन्वयव्यतिरेकाभ्यामेव सर्वसंसारविनिर्मुक्तात्मावगमारिक वा- क्येनेत्याशङ्कयाह----- अन्वयव्यतिरेको हि पदार्थस्य पदस्य च । स्यादेतदहमित्यत्र युक्तिरेवावधारणे ॥ ९६ ॥ अन्वयव्यतिरेकी हीति ।। पदार्थस्यान्वयव्यतिरेको नाम आत्म- पदार्थों द्रष्टा साक्षी न कदापि दृश्यः साक्ष्यो वा भवति तस्यालप्त- प्रकाशसम्मात्रतया स्वतःसिद्धत्वादतोऽनन्याश्रयस्वान्न कदापि कस्यापि विशेषणमात्मा तथा यदृश्यं साक्ष्यं चाहंकारादि विषयान्तं तदन्या. धीनप्रकाशसत्ताकतयान्याश्रयं सत्सदा विशेषणगावं न व्यभिचरति तसादनागमापायि गात्मरूपं सत्यं शुत्त्यादिवत्तद्विपरीतमसत्यं रज- तादिवदित्यनृतजडपरिच्छिन्नपराधीनपरागर्थव्यावृत्तः सत्यज्ञानानन्त- प्रत्यगानन्दरूप आत्मेति विवेचनम्, पदस्यान्वयव्यतिरेको नाम आत्मा चैतन्यं प्रज्ञानं ब्रह्म सदित्यादिपदानि कर्मत्याद्युपपदविधुराणि केवल- स्वात्मनः समर्पकाणि न विशेषणतद्विशिष्टविषयाणि असामर्थ्यात् । कर्ता भोक्ता ज्ञाता द्रष्टा श्रोता बक्ता गन्ता कृशः स्थूल इत्यादीनि
२५२
उपदेशसाहस्री।
[ तत्त्वमसि-
तु न केवलपूर्णात्मविपयाणि अन्याधीनक्रियाद्युपरागदशायामेव प्रयु-
ज्यमानत्वादिति विवेचनं, एवं पदस्य पदार्थस्य वाऽन्वयव्यतिरेकाविति
यदेतदहमित्यत्रामदर्थविषयेऽवधारणे युक्तिरेव स्याद्विवेकावधारणो-
पायमात्रं स्यानतु वाक्यार्थे पदार्थैक्ये व्यापारोऽस्येत्यर्थः । तस्मादेता-
वतापि विवेकेन देहादिवलक्षण्येऽवधारितेऽपि कोहं तहीति जिज्ञा-
साया अनुवृत्तेस्तत्त्वमसीति वाक्यं जिज्ञासितस्वरूपविशेषसमर्पकम-
वश्यमपेक्षितव्यमेवेति भावः ॥९६॥
किंचावस्थात्रयं परस्परव्यभिचारिचैतन्यात्मा तु न कदापि व्यभि-
चारीति प्रकारान्तरेणात्मानात्मविवेक दर्शयति-
नाद्राक्षमहमित्सस्मिन्सुपुप्तेऽन्यन्मनागपि ।
न वारयति दृष्टिं खां प्रत्ययं तु निषेधति ॥ ९७ ॥
नाद्राक्षमिति ॥ अस्मिन्सुपुप्तेऽत्रात्मनि अत्र स्थाने वा मनागपि
ईपदप्यन्यदात्मखरूपातिरिक्तमहं नाद्राक्षं न दृष्टवानसीति परामृशन्
जनो न खां वात्मनो दृष्टिं चैतन्यं वारयति, प्रत्ययं तु पुनर्निपेधति,
प्रतीयत इति प्रत्यय इति व्युत्पत्त्या प्रमातृप्रमाणप्रमेयादिसपः सर्व एव
विशेपो गृह्यते तस्मात्परस्परव्यभिचारितया दृष्टनष्टस्वभावाभ्योऽवस्था-
भ्यो मिथ्याभूताभ्यो व्यभिचारी चिद्रूपः साक्षी सत्य आत्मेति
विवेकः सिध्यतीत्यर्थः ॥ ९७ ॥
एवमुक्तावन्वयव्यतिरेको शास्त्रसंमतौ न खवुयुत्प्रेक्षामात्रकृताविति
विश्वासाय शास्त्रमुदाहरति-
खयंज्योतिर्न हि द्रष्टरित्येवं संविदोऽस्तिताम् ।
कौटस्थ्यं च तथा तस्याः प्रत्ययस तु लुसताम् ॥
खयमेवाबवीच्छास्त्रं प्रत्ययावगती पृथक् ॥९८॥
प्रकरणम् १८] पदयोजनिकाल्याख्यायुता । २५३ स्वयंज्योतिरिति सार्धेन । 'अत्रायं पुरुषः स्वयंज्योतिः' 'नहि द्रष्टुद्दष्टेविपरिलोपो विद्यत' इत्येवमादिशास्त्रं संविदश्चेतनाया अस्तितां सद्भावं तस्याः संविदः कौटस्थ्यं निर्विकारतां च स्वयमेवाबवीदिति संबन्धः । तथा प्रत्ययस्य प्रमात्रादिभेदस्य लुप्ततामसत्तां च 'नतु त- द्वितीयमस्ति ततोऽन्यद्विभक्त'मित्यादिशास्त्रं स्वयमेवानवीदिति पुनरे- वान्वयः । एवं प्रत्ययावगती पृथगसंकीणे शास्त्रेणैव विवेचिते इति शेषः । प्रत्ययो व्याख्यातः । अवगतिश्चैतन्यम् ॥ ९८ ॥ एवमवान्तरवाक्यकृतं युष्मदस्मद्विवेकमुपपचित उक्त्वा विनात- पदार्थतत्त्वे पुरुपे महावाक्यं फलवद्विज्ञानं जनयतीत्याह--- एवं विज्ञातवाक्यार्थ श्रुतिलोकप्रसिद्धितः । श्रुतिस्तत्त्वमसीत्साह श्रोतुर्माहापनुत्तये ॥ ९९ ॥ एवमिति ॥ एवमुक्तप्रकारेण श्रुतिप्रसिद्धितो लोकप्रसिद्धितो. ऽन्वयव्यतिरेकतश्च विनातावान्तरवाक्याथें पुसि सति महावाक्या- त्मिका श्रुतिः श्रोतुर्जिज्ञासोर्मोहापनुत्तये सकार्याविद्यानिवृत्तिप्रयोज- नाय तत्सदात्यं ब्रह्म त्वमसीत्याहोपदिशतीत्यर्थः ॥ ९९ ॥ चाफ्यश्रवणमात्रामोहापोहे दृष्टान्त पुराणसिद्धमाह-- ब्रह्मा दाशरथैर्यद्वदुत्त्यैवापानुदत्तमः । तस्य विष्णुत्यसंवोधे न यलान्तरमूचिवान् ॥ १०॥ ब्रह्मेति ॥ दाशरथिना रामेण देवकार्यसिद्ध मनुप्यावतारना- म्येन समाहात्म्याच्छादनं संकल्पपूर्वकं यत्कृतं तदिह तम शब्देनो- च्यते । नत्वीश्वरस्य संमोहः संभवति । तदुक्त सक्षेपशारीरके- 'संकल्पपूर्वकमभूद्रघुनन्दनस्य नाह विज्ञान इति कंचन कालमेतत् । ब्रह्मोपदेशमुपलभ्य निनिचमानं तचोत्ससर्न स कृते सति देवकार्य उपदेशसाहस्री । [ तत्त्वमसि- इति । है राम, त्वं विष्णुरसि न दशरथपुत्रमात्र इत्युक्त्यैव ब्रह्मा दाशरथेः संकल्पमात्रकृतं तमो विष्णुत्वाच्छादनरूपमपानुदत् । एवकारार्थमाह--तस्येति । यत्नान्तरं वाक्योपदेशग्रहणातिरिक्तमि- त्यर्थः ॥ १० ॥ दान्तिकमाह- अहंशब्दस्य निष्ठा या ज्योतिपि प्रत्यगात्मनि । सैबोक्ता सदसीत्येवं फलं तत्र विमुक्तता ॥ ११ ॥ अहंशब्दस्येति ।। एवंशब्दः प्रथमं योज्यः। यथायं दृष्टान्त एवं सदसीति वाक्येन सा निष्ठोक्तव केवलं नानुष्ठापितेति योजना । सा का निष्ठेति तामाह-अहंशब्दस्पेति । प्रत्यगात्मनि परागर्थेभ्यो व्यावृत्ते शोधिते आत्मनि निरुपाधिक ज्योतिपि साक्षिस्वप्रकाशस्वभावे अहंशब्दस्य या निष्ठा लक्षणया पर्यवसिता वृत्तिः सैवेत्यर्थः । तत्र त्वं तदसीत्युपदेशमानादहं सत् ब्रह्मास्मीति वाक्यार्थज्ञानोदयमाने सति विमुक्तता मोहापोहरूपा फलं भवतीत्यर्थः । यद्वा दृष्टान्तस्य दाटन्तिकमेव विज्ञातवाक्यार्थ इति पूर्वश्लोक एव स्थितं द्रष्टव्यम् । अयं त्वन्यथोत्थाप्यते । ननु दाशरथे वेदेव विष्णुत्वोपदेशमाना- द्विष्णुरहमस्मीति झटिति योधोदयस्तस्य महामहिमसंपन्नत्वात्कथ- मिदानीतनस्य कर्तामोक्तेत्यादिप्रत्यक्षामिमतमिथ्याप्रत्ययगृहीतस्यो- पदेशमात्रादहं ब्रह्मासीति निर्विचिकित्सं वानं संभाव्यत इत्या- शझ्याशोधितत्वंपदार्थस्य पुंसः कर्तादिसाक्षिण एवाहमादिशब्दलक्षि- तस्य ब्रह्मयोपदेशाम्नानुपपत्तिरत्रापीति परिहरति-अहंशब्दस्सेति । सदसीत्येवं वाक्येन सैव निष्ठोकेति संबन्धः । अन्यत्समानम् ॥१.१॥ एवमवगतपदार्थतत्त्वस्य वास्यादेव समूर संसारनिवृत्तिफलं ज्ञान
प्रकरणम् १८]
पदयोजनिकाव्याख्यायुता। २५५
जायत एवेति स्थिते श्रुतेः प्रामाण्यसिद्ध्यर्थं कार्यपरत्वं कल्प्यमित्या-
ग्रहो निरर्थको विद्वदनुभवविरोधादित्यभिप्रेत्याह-
श्रुतमात्रेण चेन्न स्यात्कार्य तत्र भवेद्धवम् ।
व्यवहारात्पुरापीप्टः सद्भावः स्वयमात्मनः ॥ १०२।।
श्रुतमात्रेणेति ॥ यथोकन्यायेन वाक्यस्य श्रुतमात्रेण चेदुक्तफलं
विज्ञानं न स्यात्तत्रं तदा कार्य कल्प्यं ध्रुवमवश्यं भवेदन्यथाऽर्थवा-
दादिवाक्यवत्स्वार्थे प्रामाण्यानुपपत्तेः । इह तु तथा कल्प्यमस्ति
फलस्य सद्य एवानुभवसिद्धत्वादित्यर्थः । स्वयं ज्योतिर्नहिद्रष्टुरितिश्लोके
पूर्वमश्लोकोऽधिकः स्थित इह वायमर्ध एव श्लोक इति सहगणनी-
यम्। किंच सिद्धे ब्रह्मात्मनि शास्त्रस्याप्रामाण्यं नाम विपर्यासलक्षणं वा
निष्फलत्वं वा संशयलक्षणं वाऽनुत्पत्तिलक्षणं येति विकल्पान्क्रमेण
दूपयति-व्यवहारादित्यादिना । नाधः । यस्माध्यवहारादहं ब्रह्मासी-
ति शास्त्रोपदेशव्यवहारात्पुरा पूर्वमप्यात्मनः खयमेव सद्भाव इष्टो
बाधकामावात्तस्माद्यथावस्थितात्मस्वरूपस्यैव श्रुत्या निवेदनान्न शुक्ति-
रूप्यज्ञानवदनामाण्यमित्यर्थः ॥ १०२ ॥
न द्वितीयोऽनुभव विरोधादित्याह-
अशनायादिनिर्मुक्त्यै तत्काला जायते प्रमा।
तत्त्वमस्सादिवाक्यार्थे निपु कालेऽप्यसंशयः॥१.३॥
अशनायादीति ॥ ताकालाप्तवास्यश्रयणकाल एव कालो यस्याः
सा तत्काला प्रमा अशनायाद्युपलक्षितसंसारस्य निमुक्त्यै निवृत्त्यर्थ
जायते, विदुषां प्रत्यक्षमेवैतदित्यतो न निष्फलत्वशङ्कावकाश इत्यर्थः ।
तृतीयमप्यनुभवविरोधेन निराकरोति तत्त्वमसीति ॥ असंशयः
सशयो नास्तीत्यर्थः ॥ १०३ ॥
२५६ उपदेशसाहसी। [ तत्त्वमसि- चतुर्थ प्रत्याह- - प्रतिवन्धविहीनत्वात्स्वयं चांनुभवात्मनः । जायेतच प्रमा तत्र स्वात्मन्येव न संशयः ॥ १०४ ॥ प्रतिवन्धेति ॥ पदार्थाज्ञानं हि वाक्यार्थज्ञानोत्पत्तिप्रतिबन्धस्त- द्विहीनत्वादवगतपदार्थस्य पुंसवन तमिन्नेव वाक्ययणकाले आत्म- न्येव प्रमा जायेतैव न संशय इति योजना । आकाशपुष्पमस्तीत्या. दिवाक्यार्थवदनुभवायोग्यार्थत्वशको वारयति-वयंचेति । अनुम- वखरूपत्वात्स्वयमात्मनः प्रत्याख्यातुमशक्यत्वादित्यर्थः । अतो हुंफ- डादिशब्दवदनुत्पतिलक्षणमप्यप्रामाण्यं नास्तीति सिद्धं सिद्धे ब्रह्मा- स्मनि वाक्यस्य प्रामाण्यमित्यर्थः ॥ १०४ ॥ एवं प्रमाणवरूपनिरूपणेनाहंब्रह्मास्मीति ज्ञानगुपपायेदानी प्रति- पतव्यार्थस्वभावनिरूपणेनापि तदुपपादयितुं विकल्पयति- किं सदेवाहमसीति किंवान्यत्प्रतिपद्यते । सदेव चेदहंशब्दः सता मुख्यार्थ इप्यताम् ॥१०५॥ किं सदेवेति ॥ तत्त्वमसीति वाक्यश्रवणसमनन्तरं प्रतिपत्ताव- हममोति किं सदेव प्रतिपद्यते किंवान्यदिति विकल्पार्थः । आद्यम- नूध तत्र परस्यानिष्टापत्तिरित्याह-सदेव चेदिति । सता सच्छब्दार्थ- नाहंशब्दो मुख्यार्थ इप्यतां तदा सच्छब्दाहंशब्दयोरेकार्थपर्यवसाना- दैकात्म्यमेव यार्थो न संसर्ग इत्यपरोक्षज्ञानसिद्धिरित्यर्थः ॥१०५|| द्वितीये दोपमाह- अन्ययेत्सदहंग्राहप्रतिपत्तिर्मुपैव सा । तस्मान्मुख्यग्रहे नास्ति वारणायगतेरिह ॥ १०६ ॥ अन्यच्चेदिति ॥ प्रत्यगात्मनोऽन्यच्चेत्सत्तदाहंग्राहप्रतिपत्तिम॒षैव प्रकरणम् १८] पदयोजनिकान्याख्यायुता। २५७ सा भवेत्संपदादिज्ञानवत् । तन्न वाक्यस्याप्रामाण्यमेव प्रसज्येतेत्यर्थः । प्रमाणप्रमेयस्वभावपर्यालोचनयां वाक्यादेवापरोक्षं फलवदात्मतत्त्व- विज्ञानमुत्पद्यत इत्युपपन्नमित्युपसंहरति-तस्मादिति । इह वाक्ये मुख्यग्रहेसति अवगतेर्यथार्थानुभवस्य वारणा निवारणं नास्तीत्यर्थः ॥ नन्वात्मनः कूटस्थत्येन प्रतिपत्तृत्वानुपपत्तौ फलसंबन्धो नोपपद्यत इत्यस्त्यात्मग्रहे निवारणेत्याशङ्कयाह- प्रत्ययी प्रत्ययश्चैव यदाभासौ तदर्थता । तयोरचितिमत्त्वाच चैतन्ये कल्प्यते फलम् ॥१०७॥ प्रत्ययीति ॥ प्रत्ययी परिणाम्यन्तःकरणं तत्परिणामश्च यदाभा- सौ यस्य चिदात्मन आभासो ययोती यदाभासौ तयोस्तदर्थता । तच्छेपभूततेतियावत् । तस्मिंश्चैतन्ये चिदात्मनि तटागासद्वारा फलं कल्प्यते । किंच तयोः प्रत्ययिप्रत्यययोरचितिमत्त्वाजडत्वादपि फल- संवन्धायोगात्कलस्यात्मसंवन्यः स्यादित्यर्थः ।। १०७ ॥ निर्व्यापारस्यापि फलसंबन्धे दृष्टान्तमाह- कूटस्थेऽपि फलं योग्यं राजनीय जयादिकम् । तदनात्मत्वहेतुभ्यां क्रियायाः प्रत्ययस्य च ॥१०८॥ कूटस्थ इति ॥ ननु राजतनृत्ययोः सस्वामिमावसंबन्धोऽस्ति राजनि जयादिसंबन्धनिमित्चमिहत्वध्यक्षाध्यक्षयोम्तादशस्यादर्शनात्क- थमयं दृष्टान्तः प्रकृते संगतः स्यादित्याशङ्कयात्राप्यस्त्यधिष्ठानाधिष्ठे- यभावः फलसंवन्धहेतुरित्याह-तदिति । हेतुभ्यामित्यत्र हेतुत्वा- भ्यामिति भावप्रधानता योज्या । क्रियाहमात्मिका वृत्तिः । प्रत्यर्थमय- तीति व्युत्पत्तेः प्रत्ययोऽन्तःकरणसाभास उच्यते साभासवृत्तिवृत्तिगतो. रिति यावत् । आत्मत्वं च हेतुत्वं चात्महेतुत्वे तस्स फलस्य न उ.सा. १५ - २५८ उपदेशसाहस्री। [तत्त्वमसि- आत्मत्वहेतुत्वे तदनात्महेतुत्वे ताभ्यां तदनात्मत्वहेतुत्वाभ्यामिति योजना । तथाच क्रियाप्रत्यययोर्जडयोः फलस्वरूपत्वाभावात्फलोपा. दानत्वाभावाच्च तव्यापारनिवन्धनं फलं तदधिष्ठान एव निर्व्यापारेऽपि कूटस्थे योग्यमित्यस्ति दृष्टान्तदाान्तिकसंगतिरित्यर्थः ॥ १०८ ॥ शुद्धस्यात्मना प्रमातृत्वं नास्तीत्यभिप्रेसेदं विशिष्टप्रमातृकृतं फलं कूटस्थे उपचर्यत इति राजदृष्टान्तेनोक्तं, वस्तुतस्तु चित्प्रतिविम्बस्सैव खोपाधिव्यापारेण खात्मन्यध्यस्तेन विद्यत एव प्रमातृत्वमिति चिदा- स्मन एवाविकृतस्य प्रतिविम्वभावनिवन्धनः फलसंवन्ध इति सदृष्टा- न्तमाह आदर्शस्तु यदाभासो मुखाकारः स एव सः । यथैवं प्रत्ययादों यदाभासस्तदा ह्यहम् ॥१०९ ॥ आदर्शस्त्विति ॥ येन मुखाकारेण विशिष्टतया आभासत इति यदाभासः सन्नादों मुखाकारः स एव ग्रीवास्थ एव स न ततोऽन्यो यथा निम्नप्रतिबिम्पयोरैक्यं लोके प्रसिद्धमित्यर्थः । एव प्रत्ययाद- ऽिहकारो यदाभासो गेन चित्प्रतिविम्येन आभास्यत इति यदाभासः स चित्प्रतिविम्बपरमात्मैव न ततोऽन्योऽहकारेऽहमरमासगोचरस्त- थासत्यहं ब्रह्मेति वाक्यार्थधीर्घटतेऽध्यस्तांशापोहमात्रेण विना नात्मनः कर्मत्वमित्यर्थः ॥ १०९॥ अयगेव पक्ष आदरणीय इत्याह- इत्येवं प्रतिपत्तिः स्यात्सदस्मीति च नान्यथा । तत्वमित्युपदेशोऽपि द्वाराभावादनर्थकः ॥ ११० ॥ इत्येवमिति ॥ एवंसति चिदाभासाभ्युपगमेसति सदहमसि चकारादहं सदस्सीत्येवमाकारा प्रतिपतिः स्यान्नान्यथा आत्मन एवं - मकरणम् १८] पदयोजनिकाव्यात्यायुता। २५९ वाहंकारस्यैव या प्रमातृत्वाभ्युपगमे इति यतोऽतोऽयमेव मार्गोऽनि- च्छद्भिरप्यादरणीय इति योजना ! एवमनभ्युपगमे न केवलं प्रति- पत्त्यनुपपत्तिरपि तूपदेशस्याप्यनुपपत्तिरित्याह-तत्त्वमिति । त्वमों- ऽनुवादद्वारेण हि तदर्थभाव उपदेष्टव्यस्तुबानूद्यमानस चित्प्रतिबि- म्बस्थामावस्तदर्थोपदेशो निरालम्बनोऽनर्थकः स्यादित्येतदाह- द्वाराभावादिति ॥ ११०॥ एतदेव विशदयति- श्रोतुः स्यादुपदेशश्चेदर्थवत्त्वं तथा भवेत् । अध्यक्षस्य न चेदिष्टं श्रोतृत्वं कस्य तद्भवेत् ॥१११॥ श्रोतुरिति ॥ तथा सतीत्यर्थः । तच्च श्रोतृत्वमध्यक्षादन्यत्र संभवतीत्याह--अध्यक्षस्येति । न कस्यापीत्यर्थः ॥ १११ ॥ यद्यप्यध्यक्षस्य नोपदेशस्तथापि न चैयर्यमिति शङ्कते- अध्यक्षस्य समीपे स्साझुद्धेरेवेति चेन्मतम् । न तत्कृतोपकारोऽस्ति काष्ठाद्यद्वन्न कल्प्यते ॥११२॥ अध्यक्षसेति ।। तत्र वुद्धेः श्रोतृत्व किमध्यक्षसंनिधिसत्तामात्रा- पेक्षमाहोसितत्कृतोपकारापेक्षमिति विकल्प्याचं प्रत्याह--न तदिति। तत्कृतः सनिहिताध्यक्षकृत उपकारोऽतिशयो बुद्धर्नास्त्येव यद्वकाठा- दिन्धनादेः संनिहिताहृद्धावतिशयोन कल्प्यते तद्वदित्यर्थः ॥११॥ द्वितीयमुत्थाप्य दूपयति- बुद्धौ चेत्तत्कृतः कश्चिन्नन्येवं परिणामिता। आभासेऽपि च को दोपः सति श्रुत्साद्यनुग्रहे ॥११३॥ बुद्धौ चेदिति ॥ एवंसति आभासानभ्युपगमेऽध्यक्षस्य परिणामि- ता ननु निश्चितं प्रसज्येतेत्यर्थः । अतो 'रूपरूपं प्रतिरूपो बभूव' ।
- २६० उपदेशसाहस्री। [ तत्त्वमसि- 'एकधा बहुधा चैव दृश्यते जलचन्द्रव' दित्यादिश्रुतिस्मृत्यनुगृहीत आभासपक्षो निर्दष्ट उपादेय इत्यभिप्रेत्याह-आभासेऽपि चेति । यद्वाऽस्तु परिणामिताध्यक्षस्येति चेत्तर्वाभासेऽपि च प्रमाणसिद्धेऽभ्यु- पगम्यमाने तव को दोपो भविष्यतीत्याह-आभासेऽपीति ॥११॥ आभासपक्षे चिदात्मनः परिणामप्रसङ्गाभावं वक्तुं शङ्कामुत्थाप- यति- आभासे परिणामश्चेन्न रज्वादिनिभत्ववत् । सादेच तथायोचमादर्श च मुखत्यवत् ॥ ११४ ॥ आभासे परिणामश्चेदिति ॥ नैवमाभासस्य मृपात्वोपपत्तेरिति परिहारमाह-न रज्ज्यादीति । रज्ज्वज्ञानकल्पितस्य सादे रज्जु- निमत्ववदनिदगात्मकस्य रजतादेरिदमात्मरुत्ववच चिदात्माज्ञानक- ल्पितस्य बुद्ध्यादेमपैव चिन्निमत्व चकारादभोक्तृखरूपस्यात्मनो भो- क्तृत्वाभासो मृपैवेति सूच्यते । यथैवं मृषात्वं तथा पूर्वमवोचमादर्श च मुखत्ववन्मुखाकारत्ववदिति दृष्टान्तप्रणयनेनेत्यर्थः । चकारान्मु. खस्येवात्मनोऽविकृतत्वमप्यवोचमित्यर्थः ॥ ११४ ।। अहकृतेरेवात्मत्वमिति मन्यमानस्तस्य चिन्निभरमाक्षिपति- नात्माभासत्वसिद्धिश्चेदात्मनो ग्रहणात्पृथक् । मुखादेश्च पृथक्सिद्धिरिह त्वन्योन्यसंश्रयः ॥११५ ॥ नात्मेति ॥ आत्मनः फेवलस्य ग्रहणादवगासनात्पृथगेवात्माभा- सत्वस्य सिद्धिश्चेन्न भवेदाभासावभासेनैवात्मभासो भवेत्तदा इह मसिन्मतेऽन्योन्यसंश्रय इति योजना ॥ दृष्टान्तश्च विषम इत्याह- मुसादेरिति । दर्पणादिगताभासव्यतिरेकेण ग्रीवास्थत्वेन मुखस्य सदा सिद्धिरस्तीति न तनान्योन्यसापेक्षतेत्यर्थः ।। ११५॥
प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २६१ अन्योन्याश्रयमेव स्पष्टयति- अध्यक्षस्य पृथक्सिद्धावामासस्य तदीयता। आभासस्य तदीयत्वे बध्यक्षव्यतिरिक्तता ॥११६॥ अध्यक्षसेति ॥ तथाचाहमिति प्रतीयमानोऽहंकृत्यात्मक एवं चेतन आत्मेति युक्तमित्यभिप्रायः ॥ ११६ ॥ अहंकृत्यात्मकस्यान्तःकरणस्य स्वमे दृश्यत्वेनैव व्यवस्थितत्वाचदा- भासनिरपेक्ष एवात्मा तत्र सिद्ध इति नोक्तदृष्टान्तासंगतिरिति परि- हरति- नैवं स्वप्ने पृथक्सिद्धेः प्रत्ययस्य दृशेस्तथा । रथादेस्तत्र शून्यत्वात्प्रत्ययस्यात्मना ग्रहः ॥ ११७ ॥ नैवं स्वप्न इति ।। प्रत्ययस्यान्तःकरणस्य दृशेरात्मनश्च स्वप्नाव- स्थायां तथा मुखतत्प्रतिबिम्बवत्पृथगन्योन्यनिरपेक्षतयैव सिद्धेरित्यर्थः । कुत एतदित्यपेक्षायामाह-रथादेरिति । 'न तत्र रथा न रथयोगा न पन्थानो भवन्ती'त्यादिना स्वमे रथादिदृश्यराहित्यस्य श्रूयमाणत्वा- स्पत्ययस्यैव स्थायाकारमापन्नस्य तत्रात्मना स्वप्रकाशचैतन्येन ग्रहः । तथाचारमा प्रत्ययसंवलनविनिर्मुक्तः स्वप्रकाशतया भासमान एव स्वप्ने विपयाकाराकारितप्रत्ययसाक्षी सिद्ध इत्यर्थः ।। ११७ ॥ समपालोचनया चिदात्मनः प्रत्ययाद्विवेकं दर्शयित्वा जाग्रत्व- भावालोचनयापि तमाह--- अवगत्या हि संव्याप्तः प्रत्ययो विषयाकृतिः। जायते स यदाकारः स बाह्यो विपयो मतः ॥११८॥ ।। विषयस्याकृतिरिवाशतिर्यस्याथवा विषयस्याकृतिरेवाकृतिर्यस्य स विषयाऋतिरिति विग्रहः । आत्मचैत- अवगत्या हीत्यादिना २६२ उपदेशसाहस्री। [तत्त्वमसि- न्यव्या विपयाकारे प्रत्यये जायमाने तलिन्यो विपयाकारः स बाह्यो विषय इष्ट इत्यर्थः ॥ ११८ ।। किंच सवाखो विषय ईप्सिततमत्वाकर्तुः साध्यतयोदेश्यत्वेनेष्ट- तमत्वाकर्म भवति, तद्वांस्तद्विपयेच्छावान्का नियुज्यते कुर्विति प्रेर्यते यत इत्यध्याहारः । आकारसमर्पकस्य कर्मकारकतया विषय- त्वमुक्त्वा प्रत्ययस्य करणत्यमाह- कमप्सिततमत्वात्स तद्वान्कार्ये नियुज्यते । आकारो यत्र चापर्यंत करणं तदिहोच्यते ॥ ११९ ॥ आकारो यत्रेति ।। यत्र बुद्धिपरिणामे विषयेण आकारोऽप्येत अर्यते तदिह विपयाभिव्यक्ती करणमुच्यते तत्तद्वाहोन्द्रियविशेपिता ततदर्थाकारा बुद्धिवृत्तिर्विषयप्रमिति प्रति करणमित्यर्थः ॥ ११९ ।। विपयकरणे व्युत्पाद्य कर्तारं व्युत्पादयति- यदाभासेन संव्याप्तः संज्ञातेति निगद्यते । नयमेतद्विविच्यात्र योजानाति स आत्मवित् ।।१२०॥ यदामासेनेति ॥ यस्य चित्प्रतिविम्यस्याभासेन संव्याप्तोऽहं- कारः परिणमते स चिदात्मप्रतिबिम्बो ज्ञातेति निगद्यते कथ्यते । एवं साक्ष्यं निर्दिश्य ततः साक्षिणं पृथगुपलम्भयति-त्रयमिति । एतत्रयं ज्ञाता ज्ञानं ज्ञेयं चेति विविच्यासाधारण्येनावगम्यात्र त्रये परस्परापेक्षसिद्धिके आगमापायिनि वर्तमानं खतःसिद्धं तदवधि- भूतमनागमापायि साक्षिणं यो जानाति सम्यगवगच्छति स आत्म- वित् त्वंपदलक्ष्यप्रत्यगात्मविदिति योजना 'एकमेफतराभावे यदा नोपलभामहे । त्रिस्यं तत्र यो वेद स आत्मा स्वाश्रयाश्रय' इति ॥ १२० ॥ तदुक्तं श्रीभागवते - - प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २६३ विवेकप्रकारमेव विशदयति- सम्यक्संशयमियोक्ताः प्रत्यया व्यभिचारिणः । एकैवावगतिस्तेपु भेदस्तु प्रत्ययार्पितः ।। १२१ ॥ सम्यगिति ॥ १२१ ॥ भेदस्तु प्रत्ययाति इत्येतदृष्टान्तेन स्पष्टयति- आधिभेदाद्यथा भेदो मणेरवगतेस्तथा। अशुद्धिः परिणामश्च सर्व प्रत्ययसंश्रयात् ॥ १२२ ॥ आधिभेदादिति ॥ मगेः स्फटिकादेः प्रत्ययसंश्रयादहंकारप्र- तिविम्बकृताभाससंश्रयानिमिचादित्यर्थः ॥ १२२ ॥ ननु ग्राह्यग्रहणग्राहकातिरिक्तात्मसिद्धौ किं प्रमाणमुक्तमेतायता भवतीत्यपेक्षायां तदाह- प्रथनं ग्रहणं सिद्धिः प्रत्ययानामिहान्यतः। आपरोक्ष्यात्तदेवोक्तमनुमानं प्रदीपवत् ॥ १२३ ॥ प्रथनामिति ॥ प्रत्ययानां विषयाकाराणा जाग्रत्वमावस्थानां प्रथनं स्फुरणं ग्रहणमुपादानं स्थितिर्वा व्यवहारो वा सिद्धिः स्वरूप- लाभश्चेह व्यवहारभूमौ अन्यतोऽन्यसादापरोक्ष्यादपरोक्षस्वभावादवि- तुमर्हति अचित्स्वभावत्वात् । अचित्खभावत्वं चागमापायित्वात्प्रदीपव- दित्येतदेवानुमानमिहोक्तमित्यर्थः । विमताः प्रत्ययाः स्वविलक्षणान्या- धीनप्रथनग्रहणसिद्धिका अचित्खभावत्यात्मदीपादिवदिति प्रयोगः । एवं सामान्यतो दृष्टानुमानेन 'अत्रायं पुरुषः वयंज्योतिरात्मैवास्य ज्योतिः' 'तस्य भासा सर्वमिदं विभात्ति' इत्यादिश्रुतिप्रसिद्धवप्रकाश आत्मनि सभावना दर्शितेति द्रष्टव्यम् ॥ १२३ ।।
उपदेशसाहस्री। [तत्त्वमसि- एवमनुगानगात्मन्युपन्यस्य विधिमुखेन प्रमाणेनात्मसिद्विरुक्ता तत्र केचिन्निपेधमुसेनैव प्रमाणेनात्मसिद्धिर्न विधिमुसेनापीति मन्यन्ते तन्मतनिराकरणाय विकल्पयति- किमन्यवाहयेत्कश्चित्प्रमाणेन तु केनचित् । विनय तु प्रमाणेन निवृत्त्यान्यस्य शेषतः ॥ १२४ ।। किमन्यदिति ।। प्रथमस्तुशब्द एवकारार्थः । द्वितीयस्तु वाश- ब्दार्थः । किं कश्चिद्वादी केनचित्प्रमाणेनेय देहादिभ्योऽन्यदात्मतत्त्वं ग्राहयेरिकवा प्रमाणेन विनैवान्यस्य निवृत्त्या परिशेपित इति विकल्पार्थः ॥ १२४ ॥ प्रथमपक्षे विधिमुखेनैव प्रमाणप्रवृत्तिः सिद्ध्यतीतीप्टहानिः स्पष्टे- त्यभिप्रेत्य द्वितीयं प्रत्याह- शब्देनैव प्रमाणेन निवृत्तिश्चेदिहोच्यते । अध्यक्षस्याप्रसिद्धित्वाच्छून्यतैव प्रसज्यते ॥ १२५ ॥ शब्देनैवेति ॥ शब्देन प्रमाणेनानात्मनिवृत्तिरेव चेदिहोच्यते इति संबन्धः । तदाध्यक्षस्य अध्यक्षसद्भावस्यान्यतोऽप्रसिद्धत्वात्परि- शेपासिद्धेः शून्यतैवावशिष्येत नात्मेत्यर्थः ।। १२५ ।। ननु चेतनानेतनयोविरुद्धरूपत्वकथनेनान्यनिवृत्तिः शब्देन क्रि- यते तथाचाचेतनविरुद्धश्वेतनः परिशिष्यत इति न शून्यताप्रसङ्ग इत्याशय परिहरति- चेतनस्त्वं कथं देह इति चेन्नाप्रसिद्धितः। चेतनस्यान्यतः सिद्धावेवं स्यादन्यहानतः ॥ १२६ ॥ चेतनस्त्वमिति ॥ अप्रसिद्धितो नैवमित्युक्त साधयति-चेत- नस्येति । अयमर्थः-सिद्धे हि धर्मिणि प्रतियोगिनि चायमयं न २६५ प्रकरणम् १८] पदयोजनिफाल्याख्यायुता। भवतीति तादात्म्यनिषेधेन विरुद्धरूपत्वोपदेशः स्यान्न चाद्यापि चेतन- पदार्थः पृथसिद्ध इत्यनेनैव तत्साधनेऽन्योन्याश्रयः स्यादिति ॥१२६॥ आत्मा नात्यन्तमप्रसिद्धस्तस्य खतःसिद्धत्वादित्याशङ्कते- अध्यक्षः खयमस्त्येव चेतनस्यापरोक्षतः । तुल्य एवं प्रबोधः स्यादन्यस्यासत्त्ववादिना ॥१२७॥ अध्यक्ष इति ॥ चेतनस्य खतोऽपरोक्षत्वादित्यर्थः । दूपयति- तुल्य इति । एवं सत्यन्यस्यासत्त्ववादिना शून्यवादिना तुल्यः समः प्रयोधः स्याद्यथा शून्यवादिनः प्रमाणं विना खतःसिद्ध शून्यमात्मेति न प्रबोधसिद्धिस्तथाध्यक्षस्यापि तवेत्यर्थः॥ १२७ ॥ इदानी स्मृत्तिवलेन लतःसिद्धाध्यक्षसिद्धिं शङ्कते- अहमज्ञासिपं चेदमिति लोकस्मृतेरिह । करणं कर्म कर्ता च सिद्धास्त्वेकक्षणे किल ॥१२८॥ अहमज्ञासिपमिति || अहमिदमज्ञासिपमितीह व्यवहारे लोकस्य युगपत्स्मृतिदर्शनादननुभूते स्मृत्यभावात्करणकर्मकर्तारस्त्रयोऽप्येकक्षणे प्राग्येन सिद्धाः सोऽस्त्यध्यक्षः खतःसिद्ध इति गम्यते । किलेत्यनभि- मतत्वद्योतनात्पूर्वपक्षताद्योतितेत्यर्थः ॥ १२८ ॥ एतन्निराकरोति- प्रामाण्येऽपि स्मृतेः शैम्याधौगपचं विभाव्यते। क्रमेण ग्रहणं पूर्व स्मृतेः पश्चात्तथैव च ॥ १२९ ॥ प्रामाण्येऽपीति ॥ स्मृतेः पूर्वानुभवगमकत्वेन प्रामाण्येऽपि न युगपत्रितयसिद्धिगमकत्वं यतः पूर्वं क्रमेण कादीना ग्रहणमभूत्तथैव च पश्चादुत्तरकालं स्मृतेः संभवोऽतः शैत्र्यानरन्तर्येणाविलम्बायोगपचं विभाव्यते मृपैवेत्यक्षरार्थः । अर्थत्रयत्वैकस्मृत्यवभास्यत्वे निश्चित .. २६६ उपदेशसाहसी। [तत्त्वमसि- सत्येवं स्थानतु तन्निश्चेतु शक्यते, यतोऽहमिदं जानामीति क्रमेण व्यपदिश्यतेऽतो ग्राह्यस्फुरणस्य ग्राहकाणाकारतासभवातकाले तयोन भान सभवति, एवंग्राहकस्य प्रतीचः स्फुरणसमये अाबस्य पराचो नास्ति स्फुरणं विरुद्धाकारद्वयस्यैकसिन्प्रमाणज्ञाने स्फुरणास- भवाचथा ज्ञानस्यापि विषयकाकारत्वातस्फुरणेन ज्ञातृस्फूर्तिरिति क- मेणैव ज्ञानादिसिद्धि. प्रागुन्नेया। तस्मादुत्पलपत्रशतभेदनयोगपद्यामि मानवयुगपत्स्मृतिरित्यभिमानः शैघ्यनिवन्धन इति भावः ॥ १२९॥ स्मृतेर्योगपद्याभावे कारणान्तरमाह- अज्ञासिपमिदं मां चेत्सपेक्षा जायते ध्रुवम् । विशेपोऽपेक्ष्यते यत्र तत्र नैवैककालता ॥ १३० ॥ अज्ञासिपमिति ॥ इदमित्याकारो हि प्रत्यगपेक्षयोल्लिख्यते । तथा मामिति परागपेक्षया धीर्जायते । तथाच यत्र विशेपोऽन्यप्रतियोगि- कोऽपेक्ष्यते तत्रैककालतायौगपयं नैव घटत इत्यर्थः ॥ १३० ॥ स्मृतेविषयतः खरूपतश्य योगपद्यासमवात्कादिसिद्ध्यैक्यानुमा- पकत्वानुपपत्तिरित्युक्त, सप्रति कर्नादीना युगपदनुभवसाधनाभावादपि न युगपत्तत्सिद्धिसभावनेत्याह- आत्मनो ग्रहणे चापि त्रयाणामिह संभवात् । आत्मन्यासक्तकर्तृत्वं न स्यात्करणकर्मणोः ॥ १३१॥ आत्मन इति । अयमर्थः यथा विषयस्य ग्रहणे कर्ता करण कर्म चेति त्रितयमपेक्षते एव प्रत्येक कादिग्रहणेऽपि त्रितयमपेक्ष- णीय, तथाचात्मन. प्रमातुश्चकारात्प्रमेयस्य प्रमाणज्ञानस्य च ग्रहणेऽपि त्रयाणा कादीनामिहापेक्षासमवात्तत्तलादिस्फुरणमन्तरेण तत्त- दर्थस्य तदनुभूतत्वनियमासिद्धेः कायनवस्था प्रसज्येतेत्यर्थः । तैरेव - .प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २६७ कादिभिः स्वस्वरूपसिद्धिसंभवात्किमित्यनवस्थेति शङ्कां वारयति- आत्मनीति । आत्मन्येकस्मिन्नेव खसिद्धावासक्तमुपक्षीणं यत्कर्तृत्वं तदेव करणकर्मणोः सिद्धौ न स्यादित्यर्थः । तथाचैकसिन्नवभासे कादिभावेनान्वीयमानानां तदैवावभासान्तरसाधनत्यान्वयायोगान्न कादित्रितयस्य युगपदनुभयसाधनसंभावनेति तदसिद्धिस्तदवस्थे- त्यर्थः ।। १३१ ॥ कादीनां युगपरिसच्यभ्युपगमे व्याकरणविरोधोऽपि स्यादित्याह- व्याप्नुमिष्टं च यत्कर्तुः क्रियया कर्म तत्स्मृतम् । अतो हि कर्तृतन्त्रत्वं तस्येप्टं नान्यतब्रता ॥१३२ ॥ व्यामिति ॥ कर्तुः क्रियया यव्याप्तुमिष्टतमं तत्कर्म स्मृतम् । 'कर्तुरीप्सिततमं कर्मेति' पाणिनिना स्मृतमित्यर्थः । हि यस्मादेवम- तस्तस्य कर्मणः सकलकारकप्रयोक्तृखतन्त्रकर्तृतन्त्रत्वमिष्टं न तव्यति- रिक्ताध्यक्षतन्त्रता उक्तन्यायेन तत्साधकासिद्धेरित्यर्थः ॥ १३२ ॥ तसाद्विधिरूपेण प्रवृत्तादेव प्रमाणादभिमतवस्तुसिद्धिर्नान्यनिषेध- मात्रावसानादिति निर्णीतमित्युपसहरति- शब्दाद्वानुमितेर्वापि प्रमाणाद्वा ततोऽन्यतः । सिद्धिः सर्वपदार्थानां स्थादशंप्रति नान्यथा ॥१३३॥ शब्दादेति ॥ अन्यतोऽन्यस्मात्प्रत्यक्षादेवेत्यर्थः ॥ १३३ ॥ जडानां प्रवृत्तप्रमाणादेव सिद्धिरस्तु न स्वयं चेतनस्येत्याश- कयाह-- अध्यक्षस्थापि सिद्धिः स्थायमाणेन विनय या। विना स्वस्थ प्ररिद्धिस्तु नाझं प्रत्युपयुज्यते ॥१३४॥ अध्यक्षस्यापीति ॥ येयमध्यक्षस्य सिद्धिरजस सा प्रमाणाधीना - उपदेशसाहसी । [ तत्त्वमसि- नवेति विकल्प्यान्त्ये स्वरूपप्रकाशमात्रस्य विनाप्रमाणेन सिद्धावपि ज्ञानं प्रत्यध्यक्षता तस्य सिद्ध्यतीति दूपयति-विना सस्पेति ॥१३४॥ अध्यक्षस्वरूपमपि विकल्प्य प्रमाणाधीनसिद्धिमतां तस्य दर्शय- न्नाद्यं पक्षमभ्यनुजानाति-- तस्यैवाशत्वमिष्टं चेज्ज्ञानत्वेन्या मतिभवेत् । अन्यस्यैवाज्ञतायां च तद्विज्ञाने ध्रुवा भवेत् ॥ १३५॥ तस्यैवेति ॥ तस्यैव ज्ञानसरूपस्य चेतनस्यैवाज्ञसमिष्टं चेत्तदा तस्य ज्ञानत्वे चेतनत्वेऽन्या प्रमाणजन्या मतिरपेक्षणीया भवेत् , अन्यस्सैवाचेतनस्याहंकारस्यैवाज्ञतायां तद्विज्ञानेऽध्यक्षाविज्ञाने चान्या मतिqया भवेदिति योजना । उभयथापि विधिमुखप्रमाणाधीनाध्य- क्षसिद्धिरित्यर्थः ॥ १३५ ।। अध्यक्षस्य सिद्धवरूपत्वान्मानापेक्षा नास्तीत्याशक्य सिद्धिश- व्दार्थ एव तर्हि वक्तव्य इत्याह--- ज्ञातता खात्मलाभो वा सिद्धिः स्यादन्यदेव वा । ज्ञातत्वेऽनन्तरोक्तौ त्वं पक्षौ संस्मर्तुमर्हसि ॥१३६ ॥ ज्ञातवेति ॥ किं ज्ञानं सिद्धिः खरूपलाभो वा स्यादन्यदेव वोभयान्यप्रकारो वेति विकल्पार्थः । तत्राये दोपमाह-ज्ञातत्वे इति । अनन्तरोक्तौ तस्यैवाज्ञत्वमिष्टं चेदित्यादिना पूर्वश्लोकोक्तो पूर्वोक्तविकल्पदूपणप्रसरानायः कल्प. साधुरित्यर्थः ॥ १३६ ॥ द्वितीयमनूध दूपयति- सिद्धिः स्यात्वात्मलाभश्चेद्यनस्तत्र निरर्थकः । सर्वलोकप्रसिद्धत्वात्स्वहेतुभ्यस्तु वस्तुतः ॥ १३७ ।। सिद्धिः स्यादिति ॥ निरर्थकत्वे हेतुमाह-सर्वलोकेति ।
प्रकरणम् १८] पढ़योजनिकान्याख्यायुता। २६९ वस्तुनः सर्वस्य स्खहेतुभ्यः खात्मलाभरूपासिद्धिरिति सर्वलोकप्रसिद्ध. त्वात्तत्र प्रमातृप्रमाणप्रयासो व्यर्थः स्यादित्यर्थः ।। १३७ ॥ तृतीयं पक्षमप्रसिद्धिपराहतं मत्वा वक्ष्यमाणपक्षविशेषज्ञापनार्थ- मुक्तं पक्षं निगमयति- ज्ञानज्ञेयादिवादेऽतः सिद्धिातत्वमुच्यते । अध्यक्ष्याध्यक्षयोः सिद्धियित्वं नात्मलाभता॥१३८॥ ज्ञानज्ञेयादीति ॥ ज्ञानं ज्ञेयं ज्ञाता चास्तीति यस्य वादस्तस्मि- न्वादे ज्ञातत्वमेव सिद्धिरुच्यते, अध्यक्ष्याध्यक्षयोस्तु पुनशेयत्वमेव सिद्धिर्न त्वात्मलाभतेत्यर्थः । अध्यक्षत्यापीत्यादेरपरा योजना- अहमजासिपं चेदमित्यारभ्येयता ग्रन्थेन कर्तृकर्मकरणानां विधिमुखेन प्रवृत्तप्रमाणादेव सिद्धिर्नान्यथेति प्रासनिकमुपपादितमुपसंहृत्याध्य- क्षस्यापि वस्तुत्वाविशेषात्प्रवृत्तप्रमाणादेव सिद्धिरिति प्रकृतमनुसरन्ना- ह---अध्यक्षस्यापीति । वाशब्दः कटाक्षे । अध्यक्षम्यापि द्रष्टुरपि प्रमाणेन विनय सिद्धिः स्याद्वेति योजना । नैव स्यादित्यर्थः । चेतन- स्वादध्यक्षस्य प्रमाणेनविना कथं न सिद्धिरित्यत आह-विनेति । प्रमाणेन विना स्वस्य वस्तुनः प्रसिद्धिस्तु ज्ञानं प्रमिति प्रत्युपयुज्यते, ज्ञानस्यैव वरूपस्फुरणे प्रमाणानपेक्षा न ज्ञातुरध्यक्षस्येत्यर्थः । कथ- मितिचेतत्र वक्तव्यं अध्यक्ष एवाज्ञः सन्प्रमाणेन विनार्थसिद्धिं साथ- यिप्यति किं वान्योऽन्तःकरणादिरिति । तत्राद्यमनूध दूषयति-- सैवेति । चेतनस्याध्यक्षसैवेत्यर्थः । ज्ञानत्वेऽहमध्यक्ष इति । ज्ञा- नवत्त्वेऽन्या मतिः प्रवृत्तप्रमाणजन्या मतिरपेक्षिता भवेदागन्तुकसि- धेरन्यनिमिचत्वादित्यर्थः । द्वितीयमन्य दूपयति-अन्यस्यैवेति । तद्विज्ञान इति । तस्यान्यस्यान्तःकरणादेरध्यक्षविषयविज्ञानेऽन्या ।
२७०
उपदेशसाहस्री।
[तत्त्वमसि-
प्रमाणजन्या मति(वा भवेदिति योजना ! उभयथापि विधिमुखेन
प्रवृत्तप्रमाणादेवाध्यक्षसिद्धिरित्यर्थ । ज्ञाततेति । ज्ञातता ज्ञानवत्ता
सिद्धिरिति पक्षे तस्यैवाजत्वमिष्ट चेदिति पूर्वश्लोकोक्तविकल्पदूपणप्र-
सरणमनिवारण स्यादित्याह । ज्ञातत्वेऽनन्तरोक्ताविति । यथा च्या-
ख्यातौ स्वपक्षावित्यर्थ । अन्यत्समानम् ॥ १३८ ।।
ननु ज्ञाततात्मलाभातिरिक्ताप्यस्ति स्पष्टता नाम सिद्धिरतो नाम-
सिद्ध पक्षान्तरमिति भट्टमतमाशङ्कय परिहरति-
स्पष्टत्यं कर्मकादेः सिद्धिता यदि कल्प्यते ।
स्पष्टताऽस्पष्टते स्यातामन्यस्यैव न चात्मनः ॥१३९॥
स्पष्टत्तमिति ॥ स्पष्टत्व प्राकट्य कर्मकादे , स्पष्टतास्पष्टतेप्य-
न्यस्येव कादिपिलक्षणस्य साक्षिणश्चिदाभासजननेन स्याता नत्यात्म-
न , कादिस्वरूपस्य जडत्यादित्यर्थ ॥ १३९ ॥
एतदेव व्यतिरेकपदर्शनेन स्पष्टयति-
अद्रष्टनैव चान्धस्य स्पष्टीभावो घटस्य तु ।
कादेः स्पष्टतेष्टा चेष्टुताऽध्यक्षकर्तृका ॥ १४ ॥
अद्रष्टुरिति । अन्धस्य दर्शनवृत्तिरहितस्य ज्ञातुर्विषयीभूतस्य घटस्य
य स्पष्टीभाव स नेव ज्ञानविषयतातिरिक्तो भट्टमते सभवतीत्यर्थ ।
एवसति भट्टमतानुसारिणा कादे स्पष्टता प्राकट्यरूपेष्टा चेत्तदा
द्रष्टता तद्विरक्षणाध्यक्षकर्तृकावश्यमेष्टव्या, तस्मारकर्मादेडस्य स्पष्ट-
ताया प्रकाशापरपर्यायाया असभवान प्रष्टता सिद्धिशब्दार्थ किंतु
ज्ञानविपयतैवेति कादिगतचिदाभासनद्वारा तदधिष्ठानभूतश्चिदात्मा
विधिमुखेनैव प्रदीपादिदृष्टान्तानुमानादिना प्रमाणेनानगन्तव्य इति
भाय ॥ १४०॥
- मकरणम् १८] पदयोजनिकान्याख्यायुता। २७१ अत्र कर्तृकर्मविहीन एव प्रत्ययः स्वमहिम्ना भासत इति वदन्धि- ज्ञानवादी वौद्धः प्रत्यवतिष्ठते- अनुभूतेः किमन्यमिन्स्याचवापेक्षया बद । अनुभवितरीष्टा सात्सोऽप्यनुभूतिरेव नः ॥१४१ ॥ अनुभूतेरिति ॥ अनुभूतेः संवेदनस्यान्यसिन्कादायपेक्षया तव किं फलं स्याचद्वद, न किंचित्फलं तस्याः स्वप्रकाशत्वादित्यर्थः । अनुभवितरि आश्रयभूते सैप्टव्या स्यात्तस्यास्तदधीनत्वदर्शनादिति चेत् त्वं ब्रूयास्तर्हि सोऽप्यनुभविता नोऽसाकं गतेऽनुभूतिरेव न ततः पृथक् तत्सत्त्वे प्रमाणाभावादित्यर्थः ॥ १४१ ॥ कथं तर्हानुभूतिरनुभवितानुभाव्य इति भेददर्शनमित्यत आह- अभिन्नोऽपि हि बुद्धात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ १४२ ॥ अभिन्नोऽपि हीति ।। बुद्ध्यात्मा बुद्धिस्वभावोऽभिन्नोऽप्येकोऽपि विपर्यासितदर्शनैान्तिबुद्धिभिः पुरुषैाग्राहकसंवित्तिमेदवानिव ल- क्ष्यते प्रतीयते । संवित्तिशब्दो ग्रहणशब्दपर्यायः ॥ १४२ ॥ बुद्धेः कारकत्वानगीकाराच न कर्नाद्यपेक्षतेत्याह- भूतिर्यपां क्रिया सैव कारकं सैय चोच्यते । सत्वं नाशित्वमस्याश्चेत्सकर्तृत्वं तथेप्यताम् ॥१४३॥ भूतिरिति ॥ येषां मते या मृतिरनुभूतिः सैव क्रिया सैव कारकमुच्यते क्षणगडुरत्वेन विरम्यव्यापारायोगापा मते कस्तस्याः खव्यतिरिक्तोऽपेक्षणीयः स्यादित्यर्थः । प्रथममनुभूतेरन्यानपेक्षत्वं निराकरोति सिद्धान्ती--सत्त्वमिति । अनुभूतेरस्याः सत्त्वं स्वरूप . - २७२ उपदेशसाहस्री। [ तत्त्वमसि- सत्त्वं नागित्वं क्षणभङ्गुरत्वमिष्टं चेत्तव तर्हि तथा सकर्तृत्वमपीप्य- तामनुभवस्यात्रापि सद्भावादित्यर्थः ॥ १४३ ॥ अथ सत्त्वादिरपि धर्मो नेप्यते इति मतं तदा क्षणिकत्वपक्षस्या- प्यसिद्धिरित्याह- न कथिचेप्यते धर्म इति चेत्पक्षहानता। नन्यस्तित्वादयो धर्मा नास्तित्वादिनिवृत्तयः । न भूतेस्तर्हि नाशित्वं स्वालक्षण्यं मतं हि ते ॥१४॥ न कश्चिदिति ॥ ननु नास्माभिर्विज्ञानस्य क्षणिकत्वादयो धर्मा इप्यन्ते कित्यक्षणिकत्वाद्यपोहरूप एव क्षणिकत्वादिरिप्यतेऽतो नोक्त- टोप इति शङ्कते-नन्विति । निराकरोति-नेति । एवं चेत्तर्हि भूतेरनुभूते शित्वं न सिद्ध्येत् । हि यस्माचे तव भूतेः खालक्षण्यं मतं खेनैव लक्ष्यते ज्ञायते इति स्वलक्षणं तस्य भावः स्वालक्षण्यं निर्विकल्पमात्रमिति यावत् । ततः सविकल्पत्वादक्षणिकत्यासत्त्वान्ना- शिवाज्ञत्वादिव्यावृत्तेरनुभूतेश्च सविकल्पकज्ञानागोचरत्वान सत्त्वना- शवत्वादिधर्मसिद्धिरित्यर्थः ॥ १४४ ॥ एतदेव स्फुटयति- स्खलक्षणावधिर्नाशो नाशोऽनाशनिवृत्तिता । अगोरसत्वं गोत्वं ते नतु तद्गोत्वलक्षणम् ॥ १४५ ॥ स्वलक्षणेति ॥ अयमर्थः-कार्य विनश्यन्न निरवधि नश्यति इदमन नास्ति इदमिदानी नास्ति नष्टमिति या नाशो व्यवयिते यस्मात्तस्मास्किमप्यस्ति विनाशावधिभूतमविनश्यदनुत्पन्नं स्वतःसिद्धं चेत्यभ्युपेयं तदेतदाह-खलक्षणावधिर्नाश इति ॥ स्वरूपमेव लक्षणं प्रमाण धर्मों वा यस्य स खलक्षणः सोऽवधिः सीमा यस्स प्रकरणम् १८] पदयोजनिकान्याख्यायुता। २७३ विनाशस्य स तधेति विग्रहः । तथाच त्वन्मते आविर्भावतिरोभाव- योरवधिभूतस्य स्थिरस्याभावान्न सत्त्वविनाशयोः सिद्धिरित्यर्थः । किंचापोहपक्षेऽन्योन्याश्रयश्च प्रसज्येतेत्याह -नाश इति । सिद्धे नाशे तद्विरोधिनोऽनाशस्य सिद्धिस्तसिद्धौ तदपोहरूपनाशसिद्धि- रित्यर्थः । यत्तु सामान्यमनभ्युपगच्छता बौद्धनागोव्यावृत्तिलक्षण- मित्यभ्युपगम्यते तदनुपपन्नं, अन्योन्याश्रयस्य ताटवस्थ्यादित्यभि- प्रेत्याह-अगोरिति । गोरन्यस्याश्वत्वादेरगोपदाभिधेयस्यासत्त्वं निव- चिरभावो गोत्वमिति ते मतं नत्तु न गोत्वलक्षणं सिध्यति अश्वत्व- स्यापि गोत्वव्यावृत्तिलक्षणतया परस्परापेक्षसिद्धित्वादित्यर्थः ॥१४५|| अपोहवादे दोपान्तरमाह- क्षणयाच्योऽपियोऽर्थः स्यात्सोऽप्यन्याभाव एव ते १४६ क्षणवाच्योऽपीति ॥ अन्याभावोऽक्षणिकामाव क्षण इति ते प्रसज्यते अतः स्थिरोऽपि क्षणिकताविरोधी त्वयाभ्युपगत. स्यादि- त्यर्थः ॥ १४६ ॥ नन्वभावो नाम न सतो निवृत्तिरिप्यते येनातिप्रसङ्गः स्याकिंतु निरूपाख्य एवान्यव्यावृत्त्यात्मनाभिलप्यत इति शङ्कते- भेदाभावेऽप्यभावस्य भेदो नाममिरिष्यते। नामभदैरनेकत्वमेकस स्यात्कथं तव ॥ १४७ ॥ भेदाभावपीति ॥ अभावस्य स्वरूपतो भेदाभावेऽपि अगोत्वम- श्वत्वं अनश्चत्वं गोस्वमित्यादिनामभिः सरूपभेद इप्यत इत्यर्थः । दूपयति-नामभेदैरिति । एकस्य निःस्वभावस्थामावस्य नामभेदैनिरर्थ- कसज्ञाभेदैरनेकत्वमनेकपार्थासाधारणतया व्यावृत्त्यात्मत्वं तक घटेतेत्यर्थः ।। १४७॥ ४.सा. १८ २७४ उपदेशसाहस्री। तत्त्वमसि- किंच मिन्नानां व्यावृत्तिरपोहोऽभिन्नानां वा तत्राधमन्ये दूपयति---- अपोहो यदि भिन्नानां वृत्तिस्तस्य कथं गवि । नाभावा भेदकाः सर्वे विशेषा वा कथंचन ॥१४८॥ अपोहो यदीति ॥ भेदप्रतियोगिनामानन्त्याचदवगममन्तरेण तदपोहानवगमात्तस्यापोहस्य गवि वृत्तिः कथं सियेदिति शेषः । तदसिद्धौ च किंचिदभावस्य कचित्सुलभत्वाव्यवहारानियमप्रसङ्ग इति भावः । द्वितीये दोषमाह-नाभावा इति । सर्वेऽप्यमाचा अजत्वा- श्वत्वाद्यपोहरूपा न भेदका न गोरितरेतरव्यावृत्तत्यबुद्धिजनकाः स्युस्तथा विशेषा वा भावरूपाः खण्डमुण्डत्वादयो भेदका न स्युः, भेद्यभेदकयोर्भेदासिद्धरित्यर्थः ॥ १४८ ॥ एवंचापोवादे खण्डा गौनीलमुत्पलमित्यादिविशिष्टव्यवहारासि- द्विरिय गौरित्याद्यधारणखरूपव्यवहारासिद्धिश्च स्यादित्यभिप्रेत्यापोह- निराकरणमुपसंहरति- नामजासादयो यद्वत्संविदस्तेऽविशेषतः ॥ १४९ ॥ नामजात्यादय इत्यर्धेन ॥ ते तव मते संविदोऽपिशेपत्तो निर्विशेषत्वान्नामजात्यादयो यद्वन्न विशेषणं एवं गवादीनां अगवा- दिव्यावृत्तयः खण्डादयो या न विशेपणमिति विशिष्टव्यवहारलोप एवेत्ति जीवनमपि ते दुर्लभमिति भावः ॥ १४९ ॥ . यदुक्तं भूतियेषां क्रिया सेवेत्यत्र सविदः क्रियाकारकभेदापेक्षा नास्तीति तत्प्रत्यक्षगनुगानं चेति प्रमाणद्वयाभ्युपगमविरुद्धमित्याह- प्रत्यक्षमनुमानं या व्यवहारे यदीच्छसि । क्रियाकारकोदेसदभ्युपेयं ध्रुवं भवेत् ॥ १५० ॥ - है - प्रकरणम् १८] पदयोजनिकाव्याल्यायुता। २७५ प्रत्यक्षमिति ॥ स्पष्टार्थः ॥ १५० ॥ तथाच संवेदनातिरिक्तवेद्यवेदितृस्वरूपमनिच्छताप्यभ्युपेयमिति चौद्धमतनिराकरणमुपसंहरति- तस्मान्नीलं तथा पीतं घटादि विशेषणम् । संविदस्तदुपेयं साद्येन चाप्यनुभूयते ॥ १५१ ॥ तसादिति । येन चाप्यनुभूयते सोऽपि ज्ञाताभ्युपेयः स्यादि- त्यर्थः॥ १५१॥ संवित्साक्षिण्यनुमानं प्रमाणमाह-- रूपादीनां यथान्यः स्याद्राह्यत्वाद्राहकस्तथा । प्रत्ययस्तत्तथान्यः स्याद्यअकत्वाप्रदीपयत् ॥ १५२ ॥ रूपादीनामिति ॥ यहाह्यं तत्स्वान्यग्राह्यं यथा रूपादिग्राह्या च संविदिति बौद्धं प्रति प्रयोगो योज्यः । तथावभासकोऽवभा- स्यादन्यो व्यञ्जकत्वाद्धटादेः प्रदीपवदिति । आस्तिकान्मति प्रयो- क्तव्यमित्यर्थः । यथा रूपादीना ग्राह्यत्वाद्राहकोऽन्यः स्यात्तथा प्रत्ययस्य ग्राह्यत्वाद्वाहकोऽन्यः स्तात्तथा ग्राहकश्च ग्राह्यादन्यः स्याब्यञ्जकत्वात्प्र- दीपवदिति श्लोकयोजना ॥ १५२ ॥ कस्तर्हि प्रत्ययाध्यक्षयोः सबन्ध इत्यपेक्षायामाह- अध्यक्षस्य दृशेः कीटक्संवन्धः संभविष्यति । अध्यक्षेण तु दृश्येन मुक्त्वान्यो द्रष्टदृश्यताम् ॥१५३॥ अध्यक्षेण कृता दृष्टिदृश्यं व्यामोत्यथापि वा। नित्याध्यक्षकृतः कश्चिदुपकारो भवेद्धियाम् ॥१५॥ अध्यक्षस्पेति ॥ अष्टदृश्यसंमन्याभ्युपगमे बलादाभासोऽभ्युपग- न्तव्य इति विकल्पयति-अध्यक्षणेति । अध्यायेण प्रग - २७६ उपदेशसाहस्री। [तत्त्वमसि- रात्मनः कीहक्संबन्धो भविष्यति पारमार्थिको वाऽपारमार्थिको वेति विमर्शार्थः । तत्राद्यो दृशे परिणामादिविकारप्राप्तिप्रसङ्गात्साक्यय इत्यभिप्रेत्य द्वितीयमशीकरोति-नित्याध्यक्षेति ॥ १५३ ॥ १५४ ॥ कोऽसावुपकार इत्यपेक्षायामाह- स चोक्तस्तन्निभत्वं प्रासंन्याप्तिश्च घटादिपु । यथालोकादिसंव्याप्तिय॑जकत्वाद्धियस्तथा ॥१५५ ॥ स चोक्त इति ॥ सच नित्याध्यक्षकृतो बुद्धेपकारस्तन्निभत्त प्राक् पूर्वमेय मुखप्रतिबिम्बदृष्टान्तेनोक्त इत्यर्थ । उक्ताभासद्वारा- त्मनो दृश्यबाह्यविषयसबन्ध वक्तु साभासाया बुद्धेविषयव्याप्तिं सह- सान्तमाह-सव्याप्तिश्चेति । यथा घटादिप्वालोकादिसव्याप्तिर्व्यञ्ज- कत्वातथा धियो दृश्यघटादिव्यातिरित्यर्थ ॥ १५५ ॥ उक्तमेव स्फुटयति- आलोकस्थो घटो यदुधारूढो भवेत्तथा । धीव्याप्तिःस्साद्धटारोहो धियो व्याप्ती क्रमो भवेत्१५६ आलोकस्थ इति ॥ यद्वद्यथालोकनिविष्टो घर आलोकारूढी भवेत्तथा बुद्धिनिविष्टो बुद्ध्यारुढो भवेत् । आरूढ इत्युक्ते पुरुषाश्चयो- रिवोपर्यधोभाव इति शङ्का वारयति-धीव्याप्ति स्यादिति । यद्येव विषयव्याप्तिमात्रमेव धियो विषयव्यजकत्व तर्यात्मनो बुद्धेश्च को विशेष इत्याशङ्कय विशेपमाह--धियो व्याप्तौ क्रमो भवेदिति ॥ १५६ ।। धियो विषयव्याप्तौ क्रमो भवेन्नात्मन इत्यर्थादुक्त विशेष विश- दयति- पूर्व सातत्यन्यालिस्ततोऽनुग्रह आत्मनः । कृत्लाध्यक्षस्य नो युक्तः कालाकाशादिवत्क्रमः १५७ प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २७७ पूर्वमिति ॥ थियो विषयव्याप्तिः पूर्व प्रथममिव प्रथमं साचतो विपयाकारतायां सिद्धायामात्मनोऽनुग्रहस्तदाकारे प्रतिविम्बभावस्त- द्वलाच विषयव्यञ्जकत्वमिति क्रमद्रष्टुत्वमन्यशेपत्वं च घियः सिध्य- ति न तथात्मन इत्याह-कृत्लाध्यक्षस्येति । प्रत्यर्थ परिणामभेदेन व्यजकत्वाइद्धेरेव क्रमो युक्तः कृत्लाध्यक्षस सर्वविक्षेपास्पदतया सर्वदा सर्वत्रानुगतप्रकाशरूपस्यापरिच्छिन्नस्यात्मनो न युक्तः स क्रम इत्यर्थः । देशतः कालतो वा क्रमाभावे दृष्टान्तः-कालाकाशा- दिवदिति ॥ १५७ ॥ नन्वध्यक्षस्यापि भोग्यविषयावभासकत्वाहुद्धेरिव परिणामः प्राप्नो- तीत्याशङ्कयाह- विपयग्रहणं यस्य कारणापेक्षया भवेत् । सत्येव ग्राह्यशेपे च परिणामी स चित्तवत् ॥ १५८ ॥ विपयग्रहणमिति ।। कारणापेक्षया कादिकारकापेक्षया ग्राह्य- शेपे वासंसृष्टविषयान्तरावशेषे च सति यस्य विषयग्रहणं भवेत्स परिणामी स्याचित्तवन्नैवमात्मनो विषयावभासनं किंतु नित्यसिद्धप्र- काशस्वभावेन युगपरखाध्यस्तसमस्तावभासनमित्यतो न वस्मिन्परि- णामशङ्कावकाश इत्यर्थः ॥ १५८ ॥ यद्यपि तस्योक्तरीत्या भोग्यविषयाकारपरिणामो नास्ति तथापि ब्रह्मज्ञानाकारेण परिणामः स्याद्ब्रह्मणः खात्मत्वे सत्यपि तदाकाराव- भासस्यागन्तुकज्ञानसापेक्षत्वादित्याशङ्कयाह-~- अध्यक्षोऽहमिति ज्ञानं बुद्धरेव विनिश्रयः । नाध्यक्षस्थाविशेषत्वान्न तस्सास्ति परो यतः ॥१५९॥ अध्यक्षोऽहमितीति ॥ तत्त्वमस्यादिवाक्यादध्यक्षः परमात्मैवा-
२७८
उपदेशसाहस्री।
[तत्त्वमसि-
हमिति यज्ज्ञानं जायते तन्नाध्यक्षस्य साक्षिणः परिणामस्तस्याविशे.
पत्वात्स्वतः परतो वा निरवयवस्थासङ्गस्य विशेषासंभवाकिंतु बुद्धेरवं
साभासाया विनिश्चयोऽवस्थाविशेष इत्यक्षरार्थः । एतदुक्तं भवति-
अनेकजन्मानुष्ठितयज्ञादिकापहृतादृष्टदोषनिवृत्तिसंस्कारवत्याः सगुण-
ब्रमोपासनानिराकृतचाञ्चल्यायाः सांप्रतं विवेकवैराग्यशमादिगुणसंस्कृ-
तायाः पदार्थद्वयपरिशोधनज्ञानाहितहढसंस्कारायाश्च बुद्धेस्तत्त्वमस्या-
दिवाक्यश्रवणसमनन्तरशोधितपदार्थगतकल्पितभेदांशतिरोधानेनाख-
ण्डाकारा काचिदवस्था जायते तस्यां प्रतिविम्बितश्चिदात्मा ताव-
त्यविविक्ताकारणाहमिति परामृश्येत, अतो विविक्ताकारमेवोपाध्यं-
शापोहेन खमेव रूपं ब्रह्मेति प्रतिपद्यत इति न तस्मिन्कोऽपि विशेष
उपजायत इति चिदात्मनः परिणामाभ्युपगमे परिणामिनश्चित्तवत्वा-
न्यवेद्यत्वनियमादात्मनोऽप्यन्यः साक्षी कल्प्येत, तदनुपपन्नमनवस्था-
नादप्रमाणकत्वाचेत्यभिप्रेत्याह-न तस्यास्ति परो यत इति ॥१५९।।
यदाप्येवमन्तःकरणस्यैव ज्ञानाकारपरिणामस्तथापि तस्य न ज्ञान-
फलमागिता कित्वात्मन एवेत्यभिप्रेत्याहंकर्तुः फलसंबन्धे दोपमाह-
का चेदहमित्येवमनुभूयेत मुक्तता।
सुखदुःखविनिर्मोको नाकर्तरि युज्यते ॥ १६० ॥
का चेदिति ।। का विकारिणा चेदहं मुक्त इति मुक्ततानु-
भूयेत तदा नाहं कर्तेति कर्तृत्वोपमर्दनेन सुखदुःखविनिमोकोऽसंब-
न्धतसिन्न युज्यते कर्तुः सुखादिमत्त्वानुभवविरोधादित्यर्थः ।
कर्तुरपि क्रियया सह तदा विलीयमानत्वांन तस्स फलसंबन्ध इति
भावः ॥ १६०॥
. . प्रकरणम् १८] पदयोवनिकाव्याख्यायुता। २७९ आत्मन्यपि कथं फलसंबन्धस्तस्य कूटस्थनित्यत्वादित्याशङ्कय तत्त्वज्ञानोदयान्नान्तरीयकतया वाध्यमानाध्यस्तानात्मसंभेदावभासस्य फलत्वोपचारातस्य चात्मन्येवोपपत्तेरित्यभिप्रेत्याह- वाध्यते प्रत्ययेनेह विवेकेनाविवेकवान् । देहादावभिमानोत्थो दुःखीति प्रत्ययो भुवम् । कुण्डलीप्रत्ययो यद्वप्रत्यगात्माभिमानिना ॥ १६१॥ देहादाविति ॥ दुःखीत्युपलक्षणम् । सुखी कृशः स्थूलः कामी क्रोधीत्यादयः कुण्डलस्य स्वसंवन्धित्वागिमानकृते तत्संयोगवियोगयोः सुखदुःखे यद्वदिति दृष्टान्तार्थः । एवं वाध्यस्याध्यस्तत्वमुक्त्वा तस्य वाधमाह-प्रत्यगात्माभिमानिनेति । अविवेकवानाभिमानिकः प्रत्ययो विवेकेन प्रत्यगात्माभिमानिना शुद्धत्वंपदार्थात्माभिमानिना प्रत्ययेन वाध्यत इत्यन्वयः। प्रत्यगात्माभिगामिनेति पाठान्तरे सुगमम् ॥१६॥ अत्र प्राग्वृद्धेनार्धेन सह गणनयेह वृद्धमर्धमेकीकृत्य अविवेकवता विवेकीप्रत्ययः करसान्न बाध्यते विरोधस्य समत्वादित्यत आह- विपर्यासे सदन्तं स्यात्प्रमाणस्याप्रमाणतः ॥ १६२ ॥ विपर्यास इति । वैपरीत्ये प्रमाणस्याप्रमाणतापातात्सर्वमसदन्तं शून्यान्तं स्यात् । प्रामाणिकस्यार्थस्यासत्त्वे प्रतिभासस्य निरालम्ब- नत्वापत्तौ निरवधिको बाध इति शून्यान्तताप्रसङ्ग इत्यर्थः । अयम- घोप्येकः ॥ १६२ ॥ विवेकेनाविवेकवाधो मवतीति पूर्वमुक्तं प्रपञ्चयति- दाहच्छेदविनाशेपु दुःखित्वं नान्यथात्मनः । नैव धन्यस्य दाहादावन्यो दुःखी भवेत्वचित् १६३ दाहच्छेदेति ॥ दाहादिदेहोपघातनिमित्वं हि दुःखमनुभूयते २८०. उपदेशसाहस्री। [ तत्त्वमसि- नान्यथा तच देहामिमाननिबन्धनमन्यथासुपुप्तावपि प्रसङ्गात् , आत्मा .च देहादेरन्य इति प्रमाणसिद्धमतोऽन्यगतदाहादिनान्यस्य दुःखेति- प्रसङ्गादध्यासनिवन्धनं दुःख्यहमसीति ज्ञानमित्यर्थः ॥ १६३ ।। आत्मनः सतो दाहादिसंबन्धाभावे प्रमाणमाह- अस्पर्शवाददेहत्वान्नाहं दाह्यो यतः सदा । तस्मान्मिथ्याभिमानोत्थं मृते पुत्रे मृतिर्यथा ॥१६॥ अस्पर्शत्वादिति ॥ फलितं सदृष्टान्तमुपसंहरति-तस्मा- दिति ॥ १६४ ॥ प्रागुक्तं दृष्टान्तं विवृण्वन् विवेकीप्रत्ययेनाविवेकी बाध्यत इत्यु- पपादितमुपसंहरति- कुण्डल्यहमिति ह्येतद्वाध्येतैव विवकिना। दुःखीति प्रत्ययस्तद्वत्केवलाहंधिया सह ॥ १६५ ॥ कुण्डलीति ।। केवले शुद्धे ब्रह्मण्येवाहंधीः केवलाहंधीस्तयेति विग्रहः ॥ १६५ ॥ नन्वदुःखिनो मोक्षोपदेशानुपपत्तेरात्मनोऽपि दुःखित्वमवगम्यते ततस्तत्सिद्धये शक्तिमत्त्वं गम्यतेऽतो नान्यगतेन निमित्वेनैव दुःखी किंतु स्वतोऽपीति सुषुप्त्यादावपि शक्तिमत्त्वमनिवारितमिति चेत- सिद्धे दुःखित्व इष्टं स्यात्तच्छक्तिश्छन्दसात्मनः । मिथ्याभिमानतो दुःखी तेनार्थापादनक्षमः ॥१६६॥ सिद्ध इति। कस्याचिदप्यवस्थायां यद्यात्मनः केवलस्य दुःखित्वं प्रमाणसिद्धं स्यात्तथासति छन्दसा इच्छयां तच्छक्तिर्दुःखित्वशक्तिः कल्प्येत, न सा कल्पयितुं शक्यते दुःखदर्शनस्यान्यथोपपवेरित्याह-
-
प्रकरणम् १८] पदयोजनिकाव्याख्यायुता।
२८१
मिथ्येति । अत्र छन्वयव्यतिरेको दर्शितो तेन मिथ्याभिमाननिबन्ध-
नत्वेनार्थापादनक्षमो दुःखित्वानुभव इति योजना । अर्थादनुपपत्त्या
यतः दुःखित्वशक्तिमत्वापादनं तस्य क्षमः समर्थोऽयमनुभव इत्यन्यथो-
पपतिरित्यर्थः । तथाच यथादर्शनं दुःखशक्तिमत्त्वमपि मिथ्यैवेति
भावः ॥१६६॥
तामेवान्यथोपपनि साधयति-
अस्पर्शोऽपि यथा स्पर्शमचलवलनादि च ।
अविवेकात्तथा दुःखं मानसं चात्मनीक्षते ॥ १६७ ॥
अस्पर्शोऽपीति ॥ निरवयवस्य पूर्णस्यात्मनो यथा स्पर्शचलना-
दिदर्शनमविवेकादेव । आदिशब्दाच्छयनोत्थानोपवेशनादि गृह्यते ।
चकारात्परिच्छिन्नत्वाभिमानः । तथा मानसं मनःकल्पितं च दुःख-
मविवेकादेवात्मनीक्षत इत्यर्थः ॥ १६७ ॥
अविवेकादेव दुःखदर्शनमात्मनीत्येतदन्वयव्यतिरेकाभ्यामुपपा-
दयति-
विवेकात्मधिया दुःखं नुद्यते चलनादिवत् ।
अविवेकखभावेन मनो गच्छत्सनिच्छतः ॥ १६८॥
विवेकेति ॥ विवेकरूपयात्मधियेत्यर्थः । यसास्थूलदेह विवे-
फात्मज्ञानेन चलनादिस्थूलदेहसंवन्धिमिथ्याध्यस्तमात्मनि निवर्यते
तथा सूक्ष्मदेहाविवेकनिमित्तं दुःखं ब्रह्मात्मज्ञानेन समूलं निवर्त्यत
इत्यर्थः ॥ १६८॥
अनिच्छतोऽप्यविवेकखभावान्मनश्चलतीति निमित्तमुक्त्या नैमि,
चिकमाह--
तदानुदृश्यते दुःखं नैश्चल्येनैव तस तत् ।
प्रत्यगात्मनि तस्मात्तदुःखं नैवोपपद्यते ॥ १६९ ॥
- २८२ उपदेशसाहस्री। [ तत्त्वमसि- तदेति ॥ नैश्चल्यैसति तस्यात्मनस्तदुःसं नैवेत्यन्वयः । उपसंहर- ति-प्रत्यगात्मनि तस्मादिति ॥ १६९ ॥ एवं युक्तितः प्रत्यगात्मनो निर्दःखखामाव्ये सिद्धे वाक्यादेव ब्रह्मास्मीत्यपरोक्षज्ञानं भवतीत्याह- त्वंसतोस्तुल्यनीडत्वान्नीलाधवदिदं भवेत् ॥ १७० ॥ त्वंसतोरित्यर्धेन । इदं वाक्यमखण्डार्थनिष्ठं भवेत्त्वंसतोस्त्वं- सत्पदयोस्तुल्यनीडत्वादेकार्थवृत्तित्वान्नीलाश्वपदवदित्यक्षरार्थः । नीलो- ऽश्व इति पदयोर्यद्यपि गुणगुणिरूपेण संस्टष्टार्थविषयत्वं तथाप्येकद्र- व्यपर्यवसायित्वेन सामानाधिकरण्ये दृष्टान्त इति द्रष्टव्यम् ॥ १७० ।। कथं पदयोरेकार्थनिष्ठत्वं तदर्शयति-- निर्दुःसवाचिना योगात्त्वंशब्दस्य तदर्थता । प्रत्यगात्माभिधानेन तच्छन्दस्य युतेस्तथा ॥ १७१॥ निदुःखेति ॥ निर्दःखवाचिना सच्छब्देन योगात्सामानाधिक- रण्यात्त्वंशब्दस्य तदर्थता तथाप्रत्यगात्मामिधानेन वंशब्देन तच्छ- ब्दस्य सच्छब्दस्य युतेर्योगारसामानाधिकरपयादपरोक्षात्मता सिध. तीत्यर्थः ॥ १७१ ॥ वाक्यमप्यपरोक्षवस्तुप्रतिपादकमित्यत्र दृष्टान्तमाह- दशमस्त्वमसीत्येवं वाक्यं स्यात्प्रत्यगात्मनि ॥१७२॥ दशमस्त्वमसीति ।। स्पष्टम् ॥ १७२ ॥ ननु तत्त्वंपदयोरेकार्थनिष्ठत्वे पर्यायत्वापत्तौ सहप्रयोगोऽनुपपन्न इति चेन्नास्ति पर्यायत्वं प्रवृत्तिनिमित्तभेदादित्यभिप्रेत्याह- सार्थस्य ह्यप्रहाणेन विशिष्टार्थसमर्पको । प्रत्यगात्मावगत्यन्तौ नान्योऽर्थोर्थाद्विरोध्यतः १७३ - नन्वेवमखण्डार्थनिष्ठत्वेऽपि वाक्यस्य न तावन्मात्रे पर्यवसानं प्रकरणम् १८] पदयोजनिकाव्याल्यायुता। २८३ स्वार्थस्य हीति ॥ प्रत्यक्षत्वपरोक्षत्वलक्षणखार्थस्य खवाच्यार्थ- स्याप्रहाणेनैवापरित्यागेनैव त्वंसच्छब्दौ विशिष्टार्थसमर्पकौ । अतो चाच्यभेदान्न पर्यायतेत्यर्थः । एवं तर्पखण्डार्थत्वेन स्यादित्याशङ्कया- ह-प्रत्यगात्मेति । प्रत्यगात्मनः शुद्धसाक्षिणोऽवगतिस्तत्त्वावग- तिरन्तोऽवसानं ययोस्तौ । तथा श्रूयमाणं पदयोः सामानाधिकरण्यं मिथो विरुद्धवाच्यार्थसंसर्गेऽन्यतरविशिप्टेऽन्यतरे वा पर्यवसानमग. च्छत्कल्पितभेदपरामर्शेन लक्षणया विगतपरोक्षत्वाचंशे स्वरूपमात्रे सोयं देवदत्त इतिवदखण्डे पर्यवस्यतीति प्रत्यगात्मावगत्यन्तौ तत्त्व- शब्दावुक्तावित्यर्थः । ननु तत्त्वंपदयोः सामानाधिकरण्यमंशांशित्वा- दिविषयतयाप्युपपत्स्यते किमित्यखण्डार्थतापक्षपात इत्यत आह- नान्योऽर्थ इति । अतोऽसादुक्तादखण्डार्थादेकरसाद्विरोधी अन्योऽर्थों न वेदान्तेषु प्रतिपाद्यत इत्यर्थः । तदिदं विवक्षितं तत्त्वमर्थयोः सुवर्णकुण्डलमितिवन्न कार्यकारणभावेन संसर्गः संभवति 'अन्यत्रा- सात्कृता दिति श्रुतिविरोधात् , नापि भूम्यशरादिवदंशाशिभावेन 'निष्कलं निष्क्रियमित्यादिकूटस्थैकरसप्रतिपादकश्रुतिविरोधात् , नापि गुणगुणिमावेन नीलमुत्पलमितिवन्निर्गुणत्यश्रुतिविरोधात् , नापि जातिव्यक्तिविशिष्टस्वरूपादिप्रकारेण संसर्गः 'एकमेवाद्वितीयं' 'अस- गो ह्ययं पुरुप' इत्यादिश्रुतिविरोधात्, तस्माद्विशिष्टसंसर्गविरोधिवस्तु- मात्रनिष्ठत्वं वाक्यस्याखण्डार्थत्वमिह विवक्षितम् । तथाच विमतम- खण्डार्थनिष्ठमुपापिपरामर्शमन्तरेणाविमान्यमानं भेदवस्तुनिष्ठत्वात्सो- ऽयं देवदत्तः खं छिद्रमित्यादिवाक्यवदिति ॥ १७३ ॥ युक्तं बोधमात्रात्फलासिद्धेर्यलान्तरमैष्टव्यमिति क्रियापर्यवसायिता - २८१ उपदेशसाहस्री। [ तत्त्वमासे- करमान्न फल्प्यत इत्याशङ्कय मुमुक्षोजिज्ञासितमर्थ विहायार्थान्तरप- रत्वकल्पनेऽबुभुत्सितार्थपरत्वेन वाक्यस्याप्रामाण्यप्रसङ्गान्मैवमित्य भिमेत्य ज्ञानमात्रादेव फलसिद्धिं दृष्टान्तेनोपपादयति- नवबुद्धपहाराद्धि खात्मानं दशपूरणम् । अपश्यञ्ज्ञातुमेवेच्छेत्स्वमात्मानं जनस्तथा ॥ १७४ ॥ नवयुद्धीत्यादिना || नदैव वयमिति बुद्ध्या भ्रमरूपयापहारा- चिरोहितत्वातिरोधानमात्रनिवृत्तिफलतया दशत्वसंख्यायाः पूरणं खात्मानमपश्यन् ज्ञातुमेवेच्छेनतु किंचित्कर्तुमित्यर्थः । यथायं दृष्टा- न्तस्तथा जनो मुमुक्षुरपि स्वमात्मानं केनापि हेतुना विस्मृतं ज्ञातु- मेवेच्छति भ्रमनिवृचिफलायैवातः क्रियापरत्वकल्पना नावकाशं लभत इत्यर्थः ॥ १७ ॥ प्रकृते खात्मनः केनापहारः कृत इत्यपेक्षायां दान्तिक विवृ- ण्वंसदाह- अविद्यावद्धचक्षुष्वात्कामापहृतधीः सदा। विविक्तं दृशिमात्मानं नेक्षते दशमं यथा ॥ १७५ ॥ अविद्याबद्धति ॥ अविद्यानायज्ञानं तया बद्धमाच्छादितं चक्षु- विवेकदर्शनं यस्य स जीवस्तथा तस्य भावस्तत्त्वं तस्मादिति विग्रहः । आवरणमुक्त्वा विक्षेपमाह-कामापहृतधीरिति बहिर्विक्षिप्तचित्त इत्यर्थः । सदा सर्वदा दृश्यसंघाताद्विविक्तमेव परमार्थ दृमात्मतत्त्वं नेक्षते न पश्यति यथा नवलेव विक्षिप्तचितो दशमं नवभ्यो वस्तुती विविक्तं नेक्षते तथेत्यर्थः ॥ १७५॥ कथं तात्मानं जानातीत्यपेक्षायां शास्त्राचार्योपदेशान्निमित्तमात्रा- जानातीति सदृष्टान्तमाह- प्रकरणम् १८] पदयोजनिकान्याख्यायुता। २८५ दशमस्त्वमसीत्येवं तत्त्वमस्खादिवाक्यतः। खमात्मानं विजानाति कृत्लान्तःकरणे क्षणम् १७६ दशमस्त्वमसीत्येवमिति ॥ कृत्वान्तःकरणेक्षणमहंफर्तुरपि वि- विक्तं तत्साक्षिणमित्यर्थः ।। १७६ ॥ ननु यच्छन्दयोगः प्राथम्यमित्याद्युद्देशलक्षणम् । तच्छन्द एव- कारश्च स्यादुपादेयलक्षण' मिति न्यायेन प्रथमनिर्दिष्टमुद्देश्यं चरमनि- र्दिष्टमुपादेयमिति नियमो वक्तव्यः स इह नोपपद्यते यतस्तत्त्वमि- त्यत्र तदर्थस्स प्राथम्यं श्रूयते । 'अहं ब्रह्मासी'त्यत्र स्वमर्थस्स एवं तत्रतत्रान्यथान्यथा श्रूयमाणत्वात्कथमिहोद्देश्यविधेयनियम इत्याश- कय वेदपदानामर्थवशादेव संवन्धो न पाठवशादाहर पात्रं पात्रमा- हरेतिवदर्थनियम विवक्षन्नाह- इदं पूर्वमिदं पश्चात्पदं वाक्यं भवेदिति । अन्वयव्यतिरेकाभ्यां ततो वाक्यार्थबोधनम् १७७ इदं पूर्वमिति ॥ पाठस्यानियमेऽपि प्रसिद्धमुद्दिश्यानूयाप्रसिद्धो योध्यत' इति न्यायादिदं प्रसिद्धार्थकं त्वमहमादिपदं पूर्वमिदमप्रसि- द्धार्थकं ब्रह्म सदादिपदं पश्यादित्येवं पदं विन्यस्तं वास्यं भवेदित्य- न्वयव्यतिरेकाम्यागवधार्य ततो वाक्यार्थबोधनं समर्थस्य तदर्था- दमत्वप्रतिपत्तिरूपं मवेदित्यर्थः ॥ १७७ ॥ उक्तेऽर्थे हेतुमाह-- चाक्ये हि श्रूयमाणानां पदानामर्थसंस्मृतिः। नियमो नैव वेदेऽस्ति पदसांगत्यमर्थतः ॥ १७८ ॥ वाक्ये हीति ।। स्पष्टम् ॥ १७८ ॥ आचार्येण ब्रह्मासीत्युपदिष्टः खलु शिष्यः कथमहं ब्रह्म स्यामिति २८६ उपदेशसाहस्री। [तत्त्वमसि- पृच्छति । तदन्यथानुपपत्त्या वाक्य साक्षाद्बोधजननसमर्थ न भव- तीति गम्यते इत्याशङ्कयाह-- यदा नित्येषु वाक्येषु पदार्थस्तु विविच्यते । वाक्यार्थज्ञानसंक्रान्त्यै तदा प्रश्नो न युज्यते ॥१७९॥ यदा नित्येष्विति ॥ नित्येप्वर्थाव्यभिचारिप्वित्यर्थ ॥१७९॥ पदार्थतत्त्वानभिज्ञस्यैव प्रश्नो घटत इत्युक्त स्पष्टयति- अन्धयव्यतिरेकोक्तिः पदार्थस्मरणाय तु । स्मृत्यभावेन वाक्यार्थो ज्ञातुं शक्यो हि केनचित् १८० अन्वयेति ॥ अन्वयव्यतिरेकोक्तिशब्देनावान्तरवाक्यैस्तदनुकू- लैश्च तकरात्मानात्मविवेचनमुच्यते । पदार्थस्मृति पदोपस्थापितवा क्यार्थज्ञानकारणमित्यत्र लोकप्रसिद्धिमाह-स्मृत्यभाव इति ॥१८०॥ तत्रापि वपदार्थविवेकेऽतीव प्रयत कार्य इत्यभिप्रेत्याह- तत्त्वमस्यादिवाक्येपु त्वंपदार्थाविवेकतः। व्यज्यते नैव वाक्यार्थो नित्यमुक्तोऽहमियतः १८१ तत्वमस्यादीति ॥ त्रिभि श्लोके ।। १८१ ॥ विचारप्रयोजन द्रढयति-- अन्वयव्यतिरेकोक्तिस्तद्विवेकाय नान्यथा । त्वंपदार्थविवेके हि पाणावर्पितबिल्ववत् ॥ १८२॥ चाक्यार्थी व्यज्यते चैवं केवलोऽहं पदार्थतः । दु.सीत्येतदपोहेन प्रत्यगात्मविनिश्चयात् ॥ १८३ ॥ अन्वयव्यतिरेकोक्तिरिति । अत इति पूर्वश्लोकगत पदमस्ति- न्योज्यम् । तद्विवेकाय स्वपदार्थविवेकायेत्यर्थ । पदार्थविवेकफल स्पष्टयति-त्वंपदार्थविवेके हीति । केवलो भेदससर्गशून्यो वाक्यार्थ - प्रयाजे कृष्णलं जुहोतीति वद्गह्मज्ञाने संस्कृतस्यात्मनोऽन्यत्र विनि- रागमन्तरेण खत आत्मनि दुःखित्वादिधर्मसंबन्धस्य निराकृतत्वादतः 'प्रत्यक्षायामासैरेतैः प्रमाणभूतवाक्यबाधनं कथं स्यात् । नैवस्यादित्यर्थः । प्रकरणम् १८] पदयोनिकाव्याख्यायुता। २८७ इत्यन्वयः । तत्र हेतुमाह-अहंपदार्थतो दुःखीत्येतदपोहेनेति । अहमिति प्रतीयमानात्पदार्थाद्दुःखीत्येतस्पेदमंशस्यापोहेन प्रत्यगात्मनः साक्षिणो विशेषेण निश्चयादित्यर्थः ॥ १८२ ॥ १८३ ॥ एवमुक्तेन न्यायेन वाक्यादेवापरोक्षाखण्डब्रह्मात्मज्ञानमुपपाये. दानी पूर्ववादिकल्पनाया निर्मूलतामाह- तत्रैवं संभवत्यर्थे श्रुतहानाश्रुतार्थधीः। नैव कल्पयितुं युक्ता पदवाक्यार्थकोविदः ॥१८४॥ तत्रैवमिति ॥ स्पष्टम् ॥ १८४ ॥ यथाव्याख्यानं वाक्यस्य यथाश्रुतार्थे संभवति सति श्रुतहान्या- दिकल्पनमनवकाशमित्युक्तमयुक्तं, 'प्रत्यक्षादिविरुद्धेथें वाक्यस्याबाघ- दर्शनादिति पूर्ववादी दृष्टान्तेन शङ्कते- प्रत्यक्षादीनि बाघेरन्कृष्णलादिपु पाकवत् । अक्षजादिनिभैरेतैः कथं स्याद्वाक्यबाधनम् ॥१८॥ प्रत्यक्षादीनीति ।। यथा कृष्णलान्धपये दिति कृष्णलशब्द- वाच्यसुवर्णमयकणेषु श्रुतोऽपि पाकः प्रत्यक्षेण बाध्यते, तेषु विक्ति- तेरदर्शनात्किंत्वदृष्टार्थ एव संस्कारस्तत्र पाकक्रियासाध्यः एवमिहा- प्यखण्डार्थतां वाक्यस्य प्रत्यक्षादीनि प्रमाणानि भेदग्राहकाणि याधे- रन् । श्रुतेऽप्यात्मनो ब्रह्मत्वेपूर्णत्वादर्शनादतः प्रसंख्यानेनात्मसंस्का- रार्थता वाम्यस्येति चेत्तत्रोत्तरमाह-अक्षजादीति । भवेदेवं यदि कर्तृ. त्यादिप्रतिमासस्य प्रत्यक्षप्रमाणता स्यान्नैतदस्ति, अध्यस्ताहंकाराचुप- ૨૮૮ उपदेशसाहसी । [ तत्त्वमसि- योगादर्शनादिह न संस्कारार्थत्वं वाक्यस्योपपद्यते सद्यो ब्रह्मत्यादर्शनं तु पदार्थमतिदााभावादित्युक्तमेवेति भावः ॥ १८५ ॥ नन्येवंविरोधिता न क्षणाप्रामाण्याभावेऽपि स्यादनुत्पचिलक्षणमप्रा- माण्यं वाक्यस्येति पूर्ववादी शकते- दुःख्यस्मीति सति ज्ञाने निर्दुःखीति न जायते । प्रत्यक्षादिनिभत्वेऽपि वाक्यान्न व्यभिचारतः १८६ दुःख्यसीति सतीति ।। दुःखित्वादिभानस्योक्तरीत्या प्रत्यक्षा- धाभासत्वेऽपि दुःख्यसीति विरोधिगन्धिनि ज्ञाने सति वाक्यान्निर्दुः- खीति विज्ञानं न जायत इति योजना । पूर्वसिद्धतया प्रत्यक्षस्या- संजातविरोधित्वेन प्राबल्यमस्तीत्यभिप्रायः । दूपयति-न व्यभिचारत इति ॥ १८६॥ तमेय व्यभिचारमाह- खप्ने दुःख्यहमध्यासं दाहच्छेदादिहेतुतः । तत्कालभाविभिर्वाक्यैर्न वाधः क्रियते यदि ॥१८॥ खम इति ॥ स्वप्ने दाहच्छेदादिहेतुतो निमित्तादहं दुःख्यासं सदाप्तोपदेशानिर्दुःखोऽभूवमित्यनुभवसिद्धत्वासात्मभी दुःखित्वादी- ' त्यर्थः । तत्र पराभिनिवेशमनुभवति-तत्कालेति ॥ १८७ ॥ तथापि दुःखमात्मव्यभिचारीत्याह- समाप्तहि दुःखस्य प्राक्क तद्वाध इष्यताम् । न हि दुःखस्य संतानो भ्रान्तेर्वा दृश्यते क्वचित् १८८ समाप्तरिति ।। दुःखस्य समातेरूतबाधो दुःखबाध इप्यते एवं प्राक पूर्वमपि दुःखं नाभूदिति तद्वार्थ इप्यतां मध्ये दृश्यमा- नस्य शुक्तिरूप्यवन्मिथ्याव्यभिचारादित्यर्थः । कुतो बाध इष्यत -- प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २८९ इत्यत्र हेतुमाह--नहीति । भ्रान्तति दृष्टान्तार्थो वाशब्दस्तस्मात- दुःखित्वादेरात्मनि सति व्यभिचारादागन्तुकस्य चाविकारिण्यात्मन्य- नुपपत्तेरारोपितत्वसिद्धी प्रमाणज्ञानं शुक्तितत्त्वज्ञानमिव रजतादिवा- धनेन दुःखित्वादियाधनं कुर्वदेव वाक्यादुदेतीति न वाक्यस्यासा- मर्थ्यशकावकाश इति तात्पर्यार्थः ॥ १८८ ।। इतश्च वाक्यं न प्रत्यक्षाहर्वलमित्याह- प्रत्यगात्मन आत्मत्वं दुःख्यस्मीत्यस्य बाधया। दशमं नवमस्येव वेद चेदविरुद्धता॥ १८९ ॥. प्रत्यगात्मन इति ॥ स्पष्टार्थः ॥ १८२ ॥ विस्तरेणोक्तं न्यायार्थ संक्षिप्याह श्लोकचतुष्टयेन- नित्यमुक्तत्वविज्ञानं वाक्याद्भवति नान्यतः । वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ॥१९०॥ अन्वयव्यतिरेकाभ्यां पदार्थः स्मयते ध्रुवम् । : . एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते ॥ १९१ ॥ नित्यमुक्तत्वेत्यादिना ॥ १९० ॥ १९१ ॥ सवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा, भवेत् । दशमस्त्वमसीत्यस्माद्यथैवं प्रत्यगात्मनि ॥ १९२ ॥ प्रबोधेन यथा स्वानं सर्वदुःखं निवर्तते । प्रत्यगात्मधिया तद्वहुःखित्वं सर्वदात्मनः ॥ १९३ ॥ प्रमा स्फुटतरा अपरोक्षा। निगदव्याख्याताःश्लोकाः॥१९२॥१९३॥ पुरोक्त कृष्णलादिषाकदृष्टान्तवैपम्यं स्फुटयति- कृष्णलादौ प्रमाजन्म तदन्यार्थाऽमृदुत्वतः । तत्त्वमस्यादिवाक्येपु न त्वेवमविरोधतः॥ १९ ॥ . उ.स.१९ उपदेशसाहसी । [ तत्त्वमसि- कृष्णलादाविति ॥ प्रमाया अजन्म यकृष्णलादौ तयुज्यते यतस्तत्तत्रान्यार्था प्रमा दृष्टार्था न पाकार्थाऽमृदुत्वतो मृदुत्वात्कृष्ण- लानामिति योजना । कृष्णलपाके पुरुषस्यानैश्वर्यादशक्यार्थे च नियोगानुपपत्तेरित्यर्थः ॥ १९ ॥ प्रकृते न तथाविधो विरोधोऽस्तीत्याह- वाक्ये तत्त्वमसीत्सस्मिन्ज्ञाताथै तदसिद्वयम् । समर्थे सत्यसाहाय्याद्वाक्यं नोत्पादयेत्नमाम्॥१९५॥ वाक्य इति ।। 'तत्त्वमस्यादिवाक्येषु त्वंपदार्थाविवेस्तः।न्यज्यते नैव वाक्यार्थ' इत्युक्तं प्रपश्चयंस्त्वंपदार्थविवेचने यलाधिक्यं सूचयति- वाक्ये तत्त्वमिति । पदत्रयात्मकेऽस्मिन्वाक्ये तत्पदमसिपदं चेति द्वयं ज्ञातार्थ प्रसिद्धार्थ त्वमर्थे त्वंपदार्थे सत्यविज्ञातेऽसाहाय्यात्साहाय्यशू- न्यत्वात्सहकारिविरहाद्वारयमेतत्पमा नोत्पादयेदपरोक्षनिश्चयरूपामि- त्यर्थः ।। १९५॥ असिपदम्योपयोगमाह- तत्त्वमोस्तुल्यनीडार्थमसीत्येतत्पदं भवेत् ॥ १९६ ॥ तत्त्वगोरिति । तुल्यनीडार्थ कुरु चिन्तयेत्यादिझियाकालानिवा- रणेन सामानाधिकरण्यसिधैक्यालम्पनत्वस्पष्टीकरणार्थमस्ससीत्यादि- पदमुपयुज्यत इत्यर्थः ॥ १९६ ।। निराका सामानाधिकरण्ये सति को लाभ दत्यपेक्षायागाह- तच्छन्दः प्रत्यगात्मार्थस्तन्छन्दार्यस्त्वमलया दुःखित्वाप्रत्यगात्मत्वं पारयेतागुभावपि ॥ १९७ ॥ तरउन्द इति || मत्यमारमाया यस'ग मत्यागारमार्थपरः गावंपदेन सागानापिफरण्यादिति योग्यम् । तथा समापदत ।
- प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २९१ तच्छब्दाथोंऽर्थों भवेतत्पदेन सामानाधिकरण्यादिति योजना । तदा वा को लाभ इति तमाह-दुःखित्वेति । उभावपि शब्दौ त्वमर्थस्य दुःखित्वांशं तदर्थस्याऽनात्मत्वं परोक्षत्वांशं च वारयेतामित्यर्थः।।१९७॥ एवं वाक्यार्थवर्णनेऽद्वितीयत्वपरश्रुत्याविरोधः सिद्यतीत्यभिप्रेल्यो- पसंहरति-- एवं च नेतिनेत्यर्थं गमयेतां परस्परम् ॥ १९८ ॥ एवं चेति ।। नेतिनेतिवाक्यसिद्धमर्थमित्यर्थः ॥१९८॥ पूर्वपक्षे श्रुतहान्यश्रुतकल्पना निःप्रामाणिकेत्युक्तमुपसंहरति- एवं तत्त्वमसीत्यस्य गम्यमाने फले कथम् । अप्रमाणत्वमस्योक्ता क्रियापेक्षत्वमुच्यते ॥ १९९ ॥ एवमिति ॥ कथंशब्द आक्षेपार्थः ॥ १९९ ।। यस्मादेवं विचार्यमाणे क्रियाया अनवकाशस्तस्मादित्युपसंहरति- तस्मादाद्यन्तमध्येपु कुर्वित्येतद्विरोध्यतः। न कल्पामोऽश्रुतत्वाच श्रुतत्यागोऽप्यनर्थकः ॥२०॥ तसादिति ॥ आदौ तत्त्वमसीति प्रथमोपदेशे मध्ये पदार्थपरि- शोधनान्वयव्यतिरेकग्रहणकालेऽन्ते च निर्विचिकित्सब्रह्मानुभवकाले कुर्वित्येतदनुष्ठानकल्पनं तत्तदर्थप्रतिपत्तिविरोधि यतोऽतो न कल्पाम: न कल्पयामः क्रियामिति शेषः । किंच अश्रुतत्वादपि न कल्पयामः । न केवलमश्नुतत्वाक्रिया त्याज्या श्रुतत्यागस्यानर्थकरत्वादपीत्याह- श्रुतेति । नहि तत्त्वमर्थयोः स्वरूपमप्राप्त चिन्वनीयतया विधातुं शक्यते तत्माप्तेश्चान्यतोऽसेभवाइमादेव तत्प्राप्तिमाशंसतो वाक्यभेदा- दिदोपप्राप्तिरपरिहार्या स्यारत्त्वमोस्तत्त्वंसिद्धमनपेक्ष्यैव यमाकथंचिनि- - २९२ उपदेशसाहस्री। [ तत्त्वमसि- न्तनविधानाभ्युपगमे चिन्त्यब्रह्मसाक्षात्कारस्याप्रमात्वादविद्यानिवृत्तिफ- लासिद्धेर्निरर्थकः प्रसंख्यानविधिरिति भावः ॥ २०० ।। उक्तार्थानभिज्ञः पुनराक्षिपति- यथानुभूयते तृप्ति जेर्वाक्यान्न गम्यते । वाक्यस्य विधृतिस्तद्वद्गोशकृत्पायसीक्रिया ॥२०१॥ यथेति ।। 'भुजेर्भोजनात्तृप्तिः फलं वाक्याद्वाक्यार्थज्ञानमात्रान्न गम्यते । मोक्षफलमिति शेषः । तस्माद्यथा गोशकृतो गोमयात्पायसी- क्रिया पायसकरणं नोपपद्यते तस्य तदसायनत्वात्तद्वद्वाश्यस्य विधृति- विधारणमर्थतोऽवधारणं न वाक्यार्थापरोक्षसाधनमित्यर्थः ॥ २०१॥ उत्सर्गतो वाक्यं नार्थापरोक्ष्यार्थमित्येतदङ्गीकुर्वन्प्रकृते तस्यापया- दकमाह सिद्धान्ती- सत्यमेवमनात्मार्थवाक्यात्पारोक्ष्ययोधनम् । प्रत्यगात्मनि न त्वेवं संख्याप्राप्तिवदध्रुवम् ॥२०२॥ सत्यमिति ॥ प्रत्यगात्मनि तु नैवमध्रुवगनिश्चितं किंतु संत्या- प्राप्तिवद्दशमसंख्यावदपरोक्षजानसाघनत्वं वाक्यस्य धुवमेवेत्यर्थः२०२॥ कुत इत्यपेक्षायां खतोऽपरोक्षप्रत्यगात्मन एष ब्रह्मत्वोपदेशादि- त्याह- खयंवेद्यत्वपर्यायः खप्रमाणक इप्यताम् । निवृत्तावगमः सिद्धः सात्मनोऽनुभवश्व नः ॥२०३॥ स्वयंवेद्यत्वेति । स्वप्रमाणमः प्रमाणनिरपेक्षप्रकाशमानताखमाव आत्मप्यतां स्वयंज्योतिष्यादिश्रुतेरित्यर्थः । तथाच वाक्यादहमोऽइंका- रस्य ब्रह्ममेदानिवृत्ती स्वात्मनोऽनुभवश्व सिद्ध एवं नोडला कमिति न किंचिदनुपपनमित्यर्थः। विगतं परोक्षानानजनक चास्यत्वात्ममतयदि- प्रकरणम् १८] पदयोजनिकाव्याख्यायुता। २९३ त्यादिप्रयोगेप्यनात्मविषयत्वमुपाधिदशमस्त्वमसीत्यादौ व्यभिचारश्चे- त्युक्तं भवति ।। २०३॥ अत्र दुःखानुभवविरोधशङ्का न कार्या दुःखस्य व्यभिचारित्वेनात्म- धर्मत्वस्य निरस्तत्वाद्विषयधर्मत्वाचेत्यभिप्रेत्याह- बुद्धीनां विपयो दुःखं नो यस्य विषया मताः । कुतोऽस्य दुःखसंवन्धो दृशेः स्यात्प्रत्यगात्मनः॥२०४॥ बुद्धीनामिति ॥ दुःख्यहमस्मीति दुःखधर्मवत्वेनाहकर्तुरेवानु- भवाचस्य विषयभूतं दुःखं न बुद्धिवृत्याश्रयाकर्तृसाक्षिण आत्मनो धर्मः संभवतीत्यर्थः ॥ २०४ ॥ सर्वधर्मरहितश्चेत्पत्यगात्मा कथं तस्यानुभव इत्यत आह- दृशिरेवानुभूयेत खेनैवानुभवात्मना । तदाभासतया जन्म धियोऽस्यानुभवः स्मृतः॥२०५॥ दृशिरेवेति ॥ शेरनुभवखभावत्वाचस्प स्वरूपे कोनामान्योऽनु- मयोऽपेक्षतेत्यर्थः । तहिं कथं तस्य विशेषानुभव इति तत्सरूपमाह- तदाभासतयेति । चैतन्याभासव्याप्ततया धियो जन्मैवात्मन आगन्तु- कोऽनुभयः स्मृतो विद्वद्भिरित्यर्थः ॥ २०५ ॥ प्रकारान्तरेण प्रसंख्यानप्राप्ति निराकरोति- अशनायादिनिर्मुक्तः सिद्धो मोक्षस्त्वमेव सः। श्रोतव्यादि तवेत्येतद्विरुद्धं कथमुच्यते ॥ २०६ ॥ अशनायादीति ॥ सर्वसंसारनिर्मुक्तो नित्यसिद्धो मोक्षो ब्रह्मत्व- मेवेत्याचार्योपदेशे सति तुव श्रोतव्यायनुष्ठेयं विद्यत इति कथं विरु- द्वमुच्यते । नद्यविक्रियं ब्रह्मत्वं कर्ता चेति वचः प्रमाणं स्यादि- त्यर्थः । २०६॥
२९४
उपदेशसाहस्री।
[तत्त्वमसि-
अथ तत्त्वम्-
सेत्स्यतीत्येव चेत्तत्स्याच्छ्रवणादि तदा मवेत् ।
मोक्षस्यानित्यतैवं स्थाद्विरोधे नान्यथा वचः ॥२०७॥
सेत्स्यतीति ॥ विपरिणाम उपदेशवाक्यस्माभ्युपेयत इति शङ्का-
मनूद्य तत्रैकं संधिसतोऽपरं प्रच्यवत इति न्यायेन मोक्षानित्यत्वप्रस-
अदोपमाह-सेत्स्यतीति । एवमुभयथाविरोधे सति वचो वाक्यं
नान्यथा न विपरिणामवद्युक्तमित्यर्थः ॥ २०७ ।।
इतश्च प्रसंख्यानवादोऽनुपपन्न इत्यत आह-
प्रोतृश्रोतव्ययोर्भेदो यदीष्टः स्याद्भवेदिदम् ।
इष्टार्थकोप एवं स्थान युक्तं सर्वथा वचः ॥ २०८ ।।
श्रोतृश्रोतव्ययोरिति ॥श्रोत्रादिभेदो यदीष्टः स्यात्तदैवं प्रसंख्यानं
भवेत्कर्तृकर्मभेदाभावे कार्यानुपपरित्यर्थः । अस्तु भेद इति चेत्त-
वाह-इप्टार्थेति । जीवस्य ब्रह्मभावो हीप्टार्थः सोऽन्यस्यान्यभावा-
योगाद्विहन्येतातः सर्वथा वचो वाक्यं न युक्तमयुक्तप्रमाणमेव प्रसं-
ज्यानपक्षे भवेदित्यर्थः ॥ २०८॥
न युक्तं वच इत्येतत्मकटयति-
सिद्धो मोक्षोऽहमित्येव ज्ञात्वात्मानं भवेद्यदि ।
चिकीपुर्यः स मूढात्मा शास्त्रं चोद्घाटयत्सपि ॥२०९॥
सिद्ध इति ।। उक्तप्रकारेणात्गानं ज्ञात्वा यो चिकीर्षुर्भवेत्स
मूढात्मेत्यन्वयः । उद्घाटयत्युत्सादयतीत्यर्थः ॥ २०९ ॥
मूढात्मत्वं प्रकटयति-
नहि सिद्धस्य कर्तव्यं सकार्यसन सिद्धता ।
उभयालम्बनं कुर्वन्नात्मानं वञ्चयत्सपि ॥ २१०॥
प्रकरणम् १८] पदयोजनिझाव्याख्यायुता। २९५ नहीति ॥ स्पष्टम् ॥ २१० ॥ . ननु किमित्यमानिन्दथामदभिप्रायमज्ञात्वैवेति पूर्ववादी स्वाभि- प्रायमाविष्फरोति- सिद्धो मोक्षस्त्वमित्येतद्वस्तुमात्र प्रदर्श्यते । श्रोतुस्तथात्वचिज्ञाने प्रवृत्तिः स्यात्कथं त्विति ॥२१॥ सिद्धो मोक्षस्त्वमिति ॥ मुमुक्षोरात्मविज्ञाने प्रवृत्त्यर्थ सिद्धब्रह्म- रूपो मोक्षस्त्वमसीति वस्तुमात्रकथनपरमिदं वाक्यं न तत्त्वे पर्यवसि- तमित्यर्थः ॥ २११ ॥ उक्तमेव विवृणोति- कर्ता दुःख्यहमस्मीति प्रत्यक्षेणानुभूयते । कर्ता दुःखी च माभूवमिति यलो भवेत्ततः ॥२१२॥ कति ॥ स्पष्टम् ।। २१२ ।। वास्यश्रवणानन्तरं मन्तव्य इति श्रुत्या कर्तव्यविधानादप्येवमेवा- भ्युपेयमित्याह - तद्विज्ञानाय युक्त्यादि कर्तव्यं श्रुतिरत्रयीत् । कर्तृत्वाद्यनुवादेन सिद्धत्वानुभवाय तु ॥ २१३ ॥ तद्विज्ञानायेति ।। त्वमिति कर्तृत्वमनूद्य वस्तुगत्या त्वं सिद्धमो- क्षब्रह्मरूपोऽस्यतस्तज्ञानाय यतखेति यास्यतात्पर्यमित्यर्थः ॥२१॥ नेयं कल्पना श्रुत्यनुसारिणीति सिद्धान्ती दूषयति---- निर्दुःखो निष्क्रियोऽकामः सिद्धो मोक्षोऽहमित्सपि। गृहीत्वैव विरुद्धार्थमादध्यात्कथमेव सः ॥ २१४ ॥ निर्दुःख इति ॥ निर्दुःखादिविशेषणो मोक्ष एवाहमिति गृही. लापीत्यन्वयः । वाक्याद्वाक्यार्थज्ञानं न जायत एवेति न वक्तुमुचि- -
२९६
उपदेशसाहसी।
[तत्त्वमसि-
-
तमप्रामाण्यप्रसादनुभवविरोधाच । तथाचोत्पन्ने ज्ञाने तद्विरुद्धप्रति-
पत्तिर्न संजापटीतीत्यभिप्रायः ॥ २१४ ॥
यदि वाक्यादेव निर्दुःखादिलक्षणमोक्षात्मसाक्षात्कारः कथं तर्हि
तदा तद्विरुद्धाकारानुभव इति, पृच्छति-
सकामः सक्रियो सिद्ध इति मेऽनुभवः कथम् ।
अतो मे विपरीतस्य तद्भवान्यकुमर्हति ॥ २१५ ॥
सकाम इति । अतः सकामत्वादिरूपाद्विपरीतस्य मे ब्रह्मभूत-
स्वेत्यर्थः ॥ २१५॥
अन्यखभावस्य सतो ममान्यस्वभावानुभवः कथमित्यसिमर्थे सक-
छुतवाक्यस्य पुंसः प्रश्नो घटते युज्यते । ननु कथमहं निर्दुःखादि-
रूप इति मुक्तत्वानुभवार्थे इति प्रभविपयं विविच्य प्रतिवक्ति-
इहैव घटते प्रक्षो न मुक्तत्यानुभूतये ।
प्रमाणेन विरोधी यः सोऽत्रार्थः प्रश्नमर्हति ॥२१६॥
इहैवेति ॥ सप्टम् ॥ २१६ ॥
अज्ञातज्ञापनस्वभावेन प्रमाणेनापूर्थेि बोधिते तद्विरोधी यः
प्रमाणाभासगृहीतोऽर्थः स प्रश्नमर्हतीत्युक्तं प्रपञ्चयति-
अहं निर्मुक्त इत्येव सदसीत्यन्यमानजः ।
प्रत्यक्षाभासजन्यत्वादुःखित्वं प्रश्नमर्हति ॥ २१७ ॥
अहं निर्मुक्त इति ।। सदसीति यदन्यन्मानं तज इत्यर्थः ।।२१७॥
इदानीं शिप्याकाद्धावशेनापि कार्यकल्पनं न घटत इत्याह-
पृष्टमाकाङ्कितं वाच्यं दुःखाभावमभीप्सितम् ॥२१८॥
पृष्टमिति ।। किं तदाकाद्भितं तदाह-दुःखामावमभीप्सितमिति ।
दुःखस्यामावो यसिंस्तदुःखाभावं ब्रह्मरूपं मोक्षलक्षणमित्यर्थः ॥२१८॥
प्रकरणम् १८] पदयोजनिकाव्यात्यायुता। २९७
प्रश्नस्वरूपमुपन्यस्य तदनुरूपत्वं प्रतिवचनस्य निगमयति--
कथं हीदं निवर्तत दुःखं सर्वात्मना मम ।
इति प्रश्नानुरूपं यद्वाच्यं दुःखनिवर्तकम् ॥ २१९ ॥
कथं हीति ॥ स्पष्टम् ॥ २१९॥
ननु पृष्टमेवोच्यते प्रसंख्यानद्वारेण तव्यतिरेकेण श्रुतेःखापनय-
नसामर्थ्यागावादित्याशङ्कच प्रमाणस्य प्रमेयावबोधनमेव कार्य न कार्या-
न्तरमस्तीति परिहरति---
श्रुतेः खात्मनि नाशङ्का प्रामाण्ये सति विद्यते ।
तस्मादात्मविमुक्तत्वं प्रत्याययति तद्वचः ।
वक्तव्यं तत्तथार्थ खाद्विरोधेऽसति केनचित् ॥२२०॥
थुतेरिति । श्रुतः स्वतःसिद्धे प्रामाण्ये सति स्वात्मनि स्वप्रमेये
नाशङ्का विद्यते । सप्रमेयावभाससामर्थ्याभावाशङ्का न विद्यत इत्यर्थः।
किं ततः सिद्धं तदाह--तस्मादिति । मुक्तत्वप्रत्ययं प्रति कारणत्वं
यातीत्यर्थः । विरोधपरिहारस्य कृतत्वादिति भावः ॥ २२० ॥
वाक्यस्योक्तार्थानुभवहेतुतां विहाय गत्यन्तरं नास्त्यनुभवमार्गगत-
मित्याह---
इतोऽन्योऽनुभवः कश्चिदात्मनो नोपपद्यते।'
अविज्ञातं विजानता विज्ञातारमिति श्रुतेः ॥२२१॥
इतोऽन्य इति ।। प्रकारान्तरकल्पना चात्रानुपपन्ना श्रुतिविरो-
धादित्याह-अविज्ञातमिति ॥ २२१ ॥
यदुक्त पूर्वपक्षिणा प्राक् 'चर्या नो शास्त्रसंविद्या सादनिष्टं तथा-
सति' इति तदन्यथैवोपपत्तेर्न प्रसंख्यानकल्पकमित्याह-
लंपदार्थविवेकायं संन्यासः सर्वकर्मणाम् ।
साधनत्वं व्रजसेव शान्तो दान्तानुशासनात् ॥२२२॥
२९८ उपदेशसाहस्री। [तत्त्वमसि- त्वं पदार्थेति ॥ 'शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यतीति श्रुतेरुपरतिशब्दनिर्दिष्टस्य संन्यास- स्यात्मज्ञानं प्रति साधनत्वावगमान्न तस्याशास्त्रसंवेद्यतया परित्यागप्र- सङ्ग इत्यर्थः । तथाच वाक्यार्थज्ञानस्य पदार्थज्ञानपूर्वकत्वात्पदार्थाव- धारणपर्यन्तमेवाश्रमधर्माणां विधितोऽनुष्ठानं ततः परं तु वाक्यादव- गतब्रह्मात्मतत्त्वस्य 'मयेदमस्मै कर्तव्यमिति नियोज्यविषयप्रयोजनबु. हेरनुत्पत्तेर्न तस्य कापि विधितः प्रवृत्तिः किंतु साधकावस्थायामभ्य- तस निवृत्तिरूपस्याश्रमधर्मस्य ज्ञानाविरोधिनः संस्कारमात्रेणानुवृत्ति- र्भवति, ततश्च न यथेष्टचेष्टाप्यवकाशं लमत इति सर्वमवदातमेवा- सन्मत इति भावः ॥ २२२ ।। एतदेव प्रपञ्चयिप्यन्वाक्यार्योदयप्रकारं श्रौतं व्युत्पादयति- त्वमर्थ प्रत्यगात्मानं पश्येदात्मानमात्मनि । वाक्याथ तत आत्मानं सर्व पश्यति केवलम् ॥२२३॥ त्वमर्थमिति ॥ शान्त्यादिसाधनसंपन्नो भूत्वात्मन्येवात्माभास- व्याप्ते खकार्यकारणसंघातपवनवहिरात्मानं प्रत्यकूचेतयितारं पश्येदिति श्रुत्यर्थः प्रथमानोक्तः । सर्वमेनं पश्यतीति श्रुत्यर्थमुत्तरार्धेनाह--- तत इति । एवं शोधितं प्रत्यगात्मानं सर्व ब्रह्म पश्यतीति श्रुत्यर्थो दर्शित इति द्योतयति-वाक्यार्थमिति ।। २२३ ॥ एवं विज्ञानवाक्यार्थस्य विधिगोचरता नैव संभवतीत्याह- सर्वमात्मेति वाक्यार्थे विज्ञातेऽस्य प्रमाणतः। असत्त्वे ह्यन्यमानस्य विधिस्तं योजयेत्कथम् ॥२२॥ सर्वमात्मेति ॥ स्पष्टम् ।। २२४ ।। वाक्यार्थविज्ञानात्मागेव विधयोऽवकाशं लभन्ते नोर्ध्वमित्युपसंह- - रति- -प्रकरणम् १८ पदयोजनिकाव्याल्यायुता तस्माद्वाक्यार्थविज्ञानातोय कर्मविधिर्भवेत् । नहि ब्रह्मास्मि कर्तेति विरुद्ध भवतो धियो ॥२२५॥ तसादिति ॥ अव विध्यसंभवे हेतुमाह--नहीति ॥२२५॥ नन्वैक्यज्ञानेन मेदज्ञानमेव किमिति बाध्यते विपरीतमेव कि न स्यादित्यत आह- ब्रह्मास्मीति च विद्येयं नैव कर्तेति चाध्यते । सकामो वद्ध इत्येवं प्रमाणाभासजा तया ॥ २२६ ॥ ब्रह्मासीति चेति ॥ प्रमाणामासाज्जाता प्रमाणामासजातयेति विग्रहः ॥ २२६ ॥ स्वभावप्रवृत्ताया बुद्धेः प्रमाणजातया बाध्यत्वं दृष्टान्तेनोपपाद- यति-- शाखाद्ब्रह्मास्मि नान्योऽहमिति बुद्धिर्भवेढा । यदा युक्ता तदैवं धीर्यथा देहात्मधीरिति ॥ २२७ ॥ शास्त्रादिति ॥ दृढा यदा भवेत्तदैवंधीः कर्ताहमित्येवं धीरयुक्तेत्य- न्वयः । यथा देहात्मधीमनुष्योऽहमित्यादिरूपा शास्त्राद्विदितात्मतत्वस्य न भवति तथेत्यर्थः ॥ २२७ ।। विदितात्मतत्त्वस्य कर्ता कामीत्यादिधीरनवकाशेत्युक्तेऽर्थे दृष्टान्ता- स्तरमाह- सभयादभयं प्रातस्तदर्थ यतते च यः। स पुनः सभयं गन्तुं सतत्रश्चन्न गच्छति ॥ २२८ ॥ सभयादिति ॥ लोकप्रसिद्धार्थानुवादिलोकः स्पष्टार्थः ॥२२८॥ यदुक्तं नियोगाभावे ज्ञानिनो यथेष्टचेष्टापाप्तिरिति तनाह-- .
उपदेशसाहस्री। [तत्त्वमसि- यथेष्टाचरणप्राप्तिः संन्यासादिविधौ कुतः। पदार्थाज्ञानयुद्धस्य वाक्यार्थानुभवार्थिनः ॥ २२९ ॥ यथेरेति ॥ आदिपदाच्छ्वणादिविधियते । पदार्थयोरासम- ताज्ज्ञानं पदार्थाज्ञान पदार्थखरूपालोचनं तेन बुद्धस्य देहायभिमान- शून्यस्येति यावत् । पदार्थाज्ञानाहुद्धस्य प्रतिबुद्धस्येति वा । वास्यार्था- नुभवमर्थयमानस्य तत्रैव लग्नचित्तस्य कुतो यथेष्टाचरणप्राप्तिर्निमित्ताभा- वादवसराभावाञ्चेत्यर्थः । प्रबुद्धवाक्यार्थस्य तु मिथ्याज्ञानलेशस्याप्य- भावाचन्मूला यथेष्टचेष्टा नोन्मिपतीति भावः ।। २२९ ।। प्रकरणार्थमुपसहरति- अतः सर्वमिदं सिद्धं यत्रागस्माभिरीरितम् ॥ २३० ॥ अतः सर्वमिदमिति ॥ स्पष्टम् ॥ २३० ॥ मुमुक्षोरपि नास्ति यथेटचेष्टा कुतः सा मुक्तस्य स्यादिति कैमुति- कन्यायमाह- यो हि यस्माद्विरक्तः स्यानासौ तस्मै प्रवर्तते । लोकत्रयाद्विरक्तत्वान्मुमुक्षुः किमितीहते ॥ २३१ ॥ यो हीति ॥ २३१ ॥ विदुषो नियोगपारतन्याभावेऽपि भिक्षाटनादिप्रवृत्तवद्विपयान्त- रेऽपि प्रवृत्तिः कदाचित्स्यादिति चेत्तत्राह- क्षुधया पीड्यमानोऽपि न विपं यन्तुमिच्छति । मृष्टान्नध्वस्ततृड् जाननामूढस्त जिघत्सति ॥ २३२ ।। क्षुधयेति ॥ विपयाणा दुःखसाधनतावधारणपूर्वकं प्रागेव विपव. त्यकाना न पुनरुपादानममूढस्य संगवति । भिक्षाटनादेस्तु माननि.
प्रकरणम् १९] पदयोजनिफाव्याल्यागुता। ठाविरोधाभावाच्छरीरसितिमानहेतुत्तयावश्यकत्वेप्यपूर्वापचयहेतुत्वा- भावाच संस्कारवशादनुवृत्तिरिति न दोष इति द्रष्टव्यम् ॥ २३२॥ उत्पन्नतत्त्वज्ञानस्य यद्यपि किमपि कृत्यं नास्ति तथापि गुरुशाले माननीये एवेति शिप्यान् शिक्षयन्निव गुरुपणामं निवनाति- वेदान्तवाक्यपुप्पेभ्यो ज्ञानामृतमधूत्तमम् । उजहारालियद्यो नस्तस्मै सद्गुरवे नमः ॥ २३३ ॥ वेदान्तवाक्येति ।। स्पष्टम् ।। नोऽस्मदर्थमित्यर्थः ।। २३३ ।। इत्यष्टादशं तत्त्वमसिप्रकरणम् ।। १८ ॥ - अथात्ममनःसंचादप्रकरणम् १९ तदेवं सक्षेपविस्तराभ्यां तत्त्वंपदार्थपरिशोधनपूर्वकं ब्रह्मात्मैक्यल- क्षणवाक्यार्थज्ञानं सफलं सर्ववेदान्तप्रत्ययं प्रमाणयुक्तिभ्यामुपपादितं, नित्यशुद्धबुद्धमुक्तसत्यज्ञानानन्तानन्दस्वभावस्य प्रत्यगात्मनो भेदविप- र्यासाद्यनेकानर्थहेतुश्चाहंकारमनोबुद्धिचित्तवाच्यमन्तःकरणमिति च तत्र तत्रोक्तम् । इदानी प्राधान्येन मनोध्यासनिबन्धन एवात्मनः संसा- रोऽतो मनःस्वरूपतः चेष्टानुसधानेन तद्विलापने यतः कार्य इत्यभि- प्रायेणात्ममनःसवादरूप प्रकरणमारममाणो.भगवान्भाष्यकारः प्रकर- णप्रयोजनं तावदाह- प्रयुज्य तृष्णाज्वरनाशकारणं चिकित्सितं ज्ञान- चिरागभेपजम् । न याति कामज्वरसन्निपातजां शरीरमालां शतयोगदुःखिताम् ॥ १ ॥ प्रयुज्येति । चिकित्सित चिकित्सा । भावे निष्ठा । ज्ञानं विवेकरूपं विरागरूपं विराग औदासीन्यं मनोवृत्तिविषयेप्वनासक्तिलक्षणं च . ।
३०२ उपदेशसाहस्री। [ आत्ममनःसंवाद- भेषजं यस्मिंस्तचिकित्सितं तृष्णारूपज्वरनाशकारणं प्रयुज्य दुःखितां दुःखित्वं न याति पुमानिति योजना । काम एव ज्वरस्तनिमित्तः संनिपातो मूर्छा आत्मानात्मविवेकलक्षणा ततो जातां शरीरपरम्परा- शतयोगैः संबन्धैर्दुःखितामित्यर्थः । यद्वा चिकित्सितमिति भेषजविशे- पणं योज्यम् । सम्यग्यथाशास्त्रं साधितमित्यर्थः ॥१॥ भेषजप्रयोगप्रकरणमात्ममनःसंवादेन प्रपञ्चयति- अहं ममेति त्वमनर्थमीहसे परार्थमिच्छन्ति तवान्य ईहितम् । न तेऽर्थवोधो न हि मेऽस्ति चार्थिता ततश्च युक्तः शम एव ते मनः ॥२॥ अहं ममेत्यादिना ॥ हे मनः, अहंममेति इदमित्यपि द्रष्टव्यम् । त्वमनर्थं व्यर्थमीहसे चेष्टसे । ननु त्वदर्थमेवाहं चेप्टेऽतः कथमान- र्थक्यमिति चेन्नाह सांख्यो यंप्रत्येवाभिमानस्तवेत्युत्तरमाह-परार्थ- मिच्छन्तीति । तवेहितं परार्थ पुरुषस्य भोगापवर्गार्थमन्ये सांख्या इच्छन्ति न वयं वेदान्तसिद्धान्तवेदिनः । विचार्यमाणे तन्मनीपित- मपि मुधा । यतस्तेऽर्थबोधो न संभवत्यचेतनत्वान्नापि मे त्वय्यर्थितास्ति ततश्च ते शमो लय एव युक्त इत्यर्थः॥२॥ आत्मनोऽर्थित्वाभावं साधयति-- यतो न चान्यः परमात्सनातनात्सदैव तृप्तोऽहम- तो न मेऽर्थिता । सदैव तृप्तश्च न कामये हितं यतख चेतः प्रशमाय ते हितम् ॥ ३॥ यत इति ॥ सनातनात्पूर्णानन्दरूपात्परमादविकारात्परमात्मनो- ऽन्यो नाहं यतोऽतः सदैव तृप्त इत्यादिरूपंखस्माद्धे चेतः, ते प्रशमाय यतल। मुमुक्षुणा मनोविलयने यत्नः कार्य इत्यमिप्रायः ॥ ३ ॥ ।
-
।
प्रकरणम् १९]
पदयोजनिकान्याख्यायुता।
परमात्माभेदेन खस्यार्थित्याभाव उक्तस्तमेवाभेदमुपपादयति-
पद्धर्मिमालाभ्यतिवृत्त एव यः स एव चात्मा जग-
तश्च नः श्रुतेः। प्रमाणतश्चापि मया प्रवेद्यते
मुधैव तस्साच मनस्तवेहितम् ॥ ४ ॥
पडर्मिमालेति ॥ अशनाया पिपासा शोको मोहो जरा मृत्युरिति
प्राणमनोदेहधर्माः पडूमय इवाविर्भावतिरोभावरूपास्तेषां माला अवि-
च्छिन्नाः परम्परास्ता अभ्यतीत्य सर्वात्मना पृथकृत्य वृत्तः सिद्धो
निष्प्रपञ्च इति यावत् य एवंविधः स एव जगतः सर्वस्यात्मा। चका-
रातवाहमेवात्मा । श्रुतेः 'यत्साक्षादपरोक्षाब्रह्म', 'य आत्मा सर्वान्तर'
इत्यादौ श्रवणादित्यर्थः । 'अहमात्मा गुडाकेश सर्वभूताशयस्थित'
इत्यादिस्मृतिप्रमाणतोऽपि । चकारात्कार्यकारणोपाधिद्वयपरामर्शमन्त-
रेण खतो भेदानिरूपणादित्यादिन्यायाद्विद्वदनुभवाच मया प्रवेद्यते
सम्यक् ज्ञायते मुधैवेति सुगमम् ॥ ४ ॥
प्रत्यगात्मनः परमात्मामेदं प्रामाणिकमुक्त्वा भेदप्रतिभासस्य मन:-
कल्पितत्वेनाभासतामुपपादयति-
त्वयि प्रशान्ते नहि चास्ति भेदधीर्यतो जगन्मोहः
मुपैति मायया । ग्रहो हि मायाप्रभवस्य कारणं
ग्रहाद्विमोके नहि सास्ति कस्यचित् ॥५॥
स्वयीति ॥ यतो भेदधियो जगत्याणिजातमोहमाकुलीभावमकृ-
सार्थताभिमानलक्षणया मायया उपैति नित्यं संवध्यते साभेदधीस्त्वयि
मनसि प्रशान्ते नचास्ति । सुषुप्तौ त्वदभावे तदभावदर्शनादित्यर्थः ।
अन्वयव्यतिरेकाभ्यां भेदग्रहस्यानर्थहेतुतानुपपादयति-ग्रहो हीति ।
सुपुट्यादौ भेदग्रहामा मायामोहयोरदर्शनादित्यर्थः ॥ ५ ॥
३०४
उपदेशसाहसी। [ आत्ममनःसंवाद-
इतश्च मनश्चेष्टितं वृथेत्याह-
न मेऽस्ति मोहस्तव चेष्टितेन हि प्रवुद्धतत्त्वस्त्य-
सितो ह्यविक्रियः । न पूर्वतत्त्वोत्तरभेदता हि नो
वृथैव तस्माच मनस्तवेहितम् ॥६॥
न मेऽस्तीति ।असितो बन्धरहितः प्रबुद्धतत्त्वस्वभावमसितत्वम-
विक्रियत्वं च व्युत्पादयति-न पूर्वेति । पूर्वतत्त्वं पूर्वावस्था पूर्व-
तत्त्वादुत्तरभेदता उत्तरकाले तत्त्वभेदता नोऽसाकं नास्ति तत्त्वप्रयो-
धात्पूर्वोत्तरकालयोन मे विशेषोऽस्तीत्यर्थः। हि यस्मादेवं तस्मात् । त्व.
स्कृतातिशयाभावादित्यर्थः ॥ ६ ॥
सर्वदृश्यातिवर्तित्वाच्चात्मन आगन्तुकातिशयायोगं साधयति-
यतश्च नित्योऽहमतो न चान्यथा विकारयोगे हि
भवेदनित्यता । सदा प्रभातोऽहमतो हि चाद्वयो
विकल्पितं चाप्यसदित्यवस्थितम् ॥ ७ ॥
यतश्चेति ॥ अन्यथा अनित्यता । ननु कुतोऽनित्यताप्राप्तिर्या
निपिध्यते तत्राह-विकारेति । परिस्पन्दपरिणामादिरूपविक्रिया-
भावेऽपि प्रकाशाप्रकाशसंसर्गरूपविक्रिया स्थादित्याशङ्कयाह-सदेति।
'सकृद्विभातो खेवैप ब्रह्मलोकः', 'पश्यन्वै तन्न पश्यती'त्यादिश्रुतेरि-
त्यर्थः । सति दृश्यभेदे कथमद्वयत्वमत आह–विकल्पितमिति।
रज्जुसर्यादिवदागन्तुकत्वादसदित्यवस्थितं निश्चितमित्यर्थः ॥ ७ ॥
मनसैव सद्वितीयत्वमात्मन इत्याशपयाह-
अभावरूपं त्वमसीह हे मनो निरीक्ष्यमाणे न हि
युक्तितोऽस्तिता । सतो घनागादसतोऽप्यजन्मतो
द्वयं च चेतस्तव नास्तितेप्यते ॥८॥
. प्रकरणम् १९] पदयोजनिकान्याख्यायुता। ३०५ अभावरूपमिति ॥ यद्वा भेदकल्पकस्य मनसोऽभावरूपादपि सदाद्वयत्यमात्मन इत्याह-अभावरूपमिति । युक्तितो निरीक्ष्यमाणे तवास्तिता नहीत्युक्तां युक्तिमाह-सतो हीति । तथाचाह भगवान् 'नासतो विद्यते भावो नाभावो विद्यते सत' इति द्वयं जन्मविनाशाख्यं तव । अतस्तव नास्तितेप्यते परमार्थसत्त्वं नेप्यत इत्यर्थः ॥ ८॥ बीजाभावे कुतः फलमिति न्यायेनाद्वैतलमात्मनो विशदयति- द्रष्टा च दृश्यं च तथा च दर्शनं भ्रमस्तु सर्वस्तव कल्पितो हि सः। शेश्च भिन्नं न हि दृश्यमी- क्ष्यते खपन्यवोधेन तथा न भिद्यते ॥९॥ द्रष्टा चेति ॥ तव कल्पितस्त्वत्कृतः । किंचागन्तुकस्याविज्ञातस- त्त्वाभावादप्यात्माद्वय इत्याह-दृशेश्चेति । जडस्य खतः स्फुरणाभा- वादस्फुरतश्च सत्त्वे प्रमाणाभावादित्यर्थः । तथासति स्वपन्नात्मा प्रबो- धेन जाग्रदादिना न भिद्यते । यथा खापावस्थायामद्वितीय एव तथावस्थान्तरेऽपीत्यर्थः । खापे चाद्वितीयत्वं 'सलिल एको द्रष्टाऽद्वैतो भवति । अथास्मिन्प्राण एवैकघा भवति तदेवं वाक् सर्वैर्नामभिः सहाप्येती'त्यादि श्रुतिसिद्धम् ॥ ९॥ एवं विकल्पाभावेऽपि विकल्पना सत्यास्तीति पुनरद्वैतानुपपत्तिरि- त्याशङ्कयाह-- विकल्पना वापि तथाद्वया भवेदवस्तुयोगात्तदला- तचक्रवत् । न शक्तिभेदोऽस्ति यतो न चात्मनां ततोऽद्वयत्वं श्रुतितोऽवसीयते ॥१०॥ विकल्पना वापीति ॥ तथा दृश्यवदेव विकल्पनापि न भिद्यत ति पूर्वश्लोकगतानुकर्षणार्थो वाशब्दः । किंत्ववस्तुयोगादवस्तुविप- उ.सा.२०
उपदेशसाहस्री।
[ आत्ममनःसंवाद-
यकतया तन्निरूप्यत्वादद्वयाधिष्ठानातिरिक्तखरूपरहिता भवेत्तत्र लोके
त्वलातचक्रवद्रमदुल्मकस्य चक्राकारत्ववदिति योजना | यथा भ्रम-
तोऽलातस्य चक्राकारता न पृथग्वस्तु तथा विकल्पनापि चिदात्मा-
तिरेकेण पृथग्वस्तुसती न भवतीत्यर्थः । तथापि नात्मनोऽद्वयत्वं
दृष्टिश्रुतिमत्यादिशक्तिरूपस्य स्वगतभेदस्य सत्त्वात्तथा प्रतिशरीरमात्म-
भेदपथनात्सजातीयभेदोपपत्तेश्चेत्याशङ्कय श्रुतिविरोधान्मैवमित्याह---
न शक्तिभेद इति । तथाच श्रुतिः 'अकृत्लो हि सः माणन्नेव प्राणो नाम
भवति वदन्यापश्यश्चक्षुः शृण्वश्रोत्रं मन्यानो मनस्तान्यस्यैतानि
फर्मनामान्येवेति चिदात्मनो दृष्ट्यादिभेदस्योपाधिकता दर्शयति ।
"एको देवो बहुधा निविष्ट.' 'एकं सन्तं बहुधा कल्पयन्ति' 'एकस्तथा
सर्वभूतान्तरात्मे'त्यादिश्रुतिरात्मन. सर्वत्रैकत्वमाह । तथा भेदनिषेध-
श्रुतिस्मृतयोऽप्यत्रोदाहार्याः ॥ १० ॥
आगमबाहानामात्ममेदकल्पना युक्त्या निराकरोति--
मिथश्च भिन्ना यदि ते हि चेतनाः क्षयस्तु तेषां
परिमाणयोगतः। ध्रुवो भवेद्भेदवतां हि दृष्टतो
जगत्क्षयश्चापि समस्तमोक्षतः ॥ ११ ॥
मिथश्चेति ॥ चेतना आत्मानो यदि मियो भिन्नाः स्युस्तहि ये भि-
नास्ते परिमिता यथा मूलाडुरादयो ये च परिमितास्ते विनाशिनस्तद्वदे-
वेत्यात्मनां विनाशित्वप्रसङ्ग इति समुदायार्यः । परिमाणयोगतम्तेपां
क्षयस्तु ध्रुवो भवेत् । भेदवतां हि दृष्टतो विनाशदर्शनादिति योजना।
किंच भेदपक्षे एकैकलिन्कल्पे एकैफमुक्तावप्यनन्तेपु गतफल्सेप्यनन्ता.
ना जीवानां मुक्तिसंभवादिदानी समसामोक्षतो मोक्रमावे तदर्याना
मोग्यानां जगतां क्षम्यापि भवेदतो भेदपमो दुर्यतिफ इत्यर्पः ॥१३॥
प्रकरणम् १९] पदयोजनिकाव्याख्यायुता। ३०७ ननु तथापि जगजीवेश्वरादिभेदस्य विद्यमानत्वात्कथमुक्तदोपपरि- हार इत्याशङ्कयाह- न मेऽस्ति कश्चिन्न च सोऽस्मि कस्यचिद्यतोऽद्वयो- ऽहं न हि चास्ति कल्पितम् । अकल्पितश्चास्मि पुरा प्रसिद्धितो विकल्पनाया द्वयमेव कल्पितम् १२ न मेऽस्तीति ॥ यतोऽहमद्वयो वस्तुतो मे गुणभूतः प्रधानभूतो वान्याशो वा न कश्चिदस्ति । यस्यापि कस्यचिदहमस्मि सोऽपि न चास्तीति संवन्धः। यच्च कल्पितं जगत्तच्च न धस्ति । तथाच जीवेश्व- रजगद्धेदस्य मय्यद्वये कल्पितत्वात्कल्पितस्य प्रमाणासहिष्णुताया अलंकारत्वान्नास्त्यसमादुक्तदोपप्रसङ्ग इत्यर्थः । ननु द्वैतवदद्वैतस्थापि पदार्थत्वाविशेषात्कल्पितत्वं तदवस्थमित्याशङ्कय निरधिष्ठानकल्पना- योगान्निरवधिकबाधायोगाच सर्वकल्पनायाः प्रागेव सिद्धकल्पितबा- धावधितया पश्चादप्यवशिष्यमाणं न कल्पितं किंतु स्वतःसिद्धं वस्त्व- द्वयशब्देनोच्यत इत्याह-अकल्पित इति । विकल्पनाया. पुरा प्रसिद्धितोऽहमकल्पितोऽस्मि चकारामप्यवधिभूतत्वान्मध्ये च तत्साक्षित्वादकल्पित एवास्मीति गृह्यते । परिशेषात्सापेक्षं द्वयमेव कल्पितमित्यर्थः ॥ १२ ॥ उक्तमेव स्पष्टीकुर्वन्नात्मनो विकल्पनाद्यविषयत्वमाह- विकल्पना चाप्यभवे न विद्यते सदन्यदित्येवमतो न नास्तिता । यतः प्रवृत्ता तव चापि कल्पना पुरा प्रसिद्धेर्न च तद्विकल्पितम् ॥ १३ ॥ विकल्पना चापीति ॥ नास्ति मव उत्पत्तिर्यस्य तदभव तस्मिन्न- भवे नित्ये सदन्यत्सतोऽन्यदसदित्यपि विकल्पना नच विद्यते । अतए- . उपदेशसाहस्री। [ आत्ममनःसंवाद- वंसति न नास्तिता । आत्मनो नित्यत्वादित्यर्थः । किंचामनस्कस्स कल्पनानुदयान्मनसवागन्तुकतया खरूपसत्ताभावाचदपि सविलासं यत्र कल्पितं तन्न कल्पनालम्बनं किंतु सर्वकल्पनासाक्षित्वेन पूर्वापर- कालकलनाकलितं कूटस्थमेवात्मतत्त्वमित्याह-यत इति । तव मनस इत्यर्थः । त्वत्कल्पनाया अपि पुरा प्रसिद्धरित्यर्थः ॥ १३ ॥ ननु यदुपलभ्यते तदस्तीत्यभ्युपगम्यते तन्नास्तीत्युपलभ्यते च द्वैतं नाद्वैतमित्याशङ्कय दर्शनादर्शने न वस्तुसत्त्वासत्त्वयोः कारणे किंत्वन्य एव तन्निश्चयहेतुरिमभिप्रेत्याह--- असवयं तेऽपि हि यद्यदीक्ष्यते न दृष्टमित्येव न चैव नास्तिता। यतः प्रवृत्ता सदसद्विकल्पना विचारवद्वापि तथाद्वयं च सत् ॥ १४ ॥ असद्यमिति ।। हे मनः, ते तव गोचरीभूतं यद्यदीक्ष्यते तत्तयं द्वैतं दृष्टमप्यसत् । समवदृष्टनष्टस्वरूपत्वात् । तथा न दृएं न श्यत इत्येवमेतावता वस्तुतो नास्ति । नहि नीरूपस्य वायोश्चक्षुपानु. पलम्भेऽपि नास्तिता भवति कित्यस्तितैव । सतोऽपि वस्तुनो द्रष्टुरसा- माद्वा दर्शनायोग्यत्वाद्वाप्यदर्शनसंभवादित्यर्थः । नन्यदृष्टमपि नास्तीति शशशृङ्गादिप्रसिद्धम्।सत्यम्।तथापिलव्यरूपं कचित्किंचिना- हगेव निषिध्यते । विधानमन्तरेणातो न निषेधस्य संभव' इति न्यायेन द्वैतमस्ति नातीति विप्रतिपत्त्यालम्पनं किमप्यास्यमेव, अन्यथा विकल्पप्रसरायोगादित्यभिमैत्याहयतः प्रवृत्ता सदराद्विकल्पनेति । यतो यस्मिन्नधिष्ठाने प्रतीयगाना विकल्पना तदात्याल्पितरूपमित्य- र्थः । विकल्पालम्बनत्वेनाधिष्ठानरागगुबत्योऽवधित्वेनापि तत्सत्वमा- ह-विचारवटेति । चाशब्दश्वार्थः । यथा विचारो निर्णयमन्तरेण न प्रकरणम् १९] पदयोजनिकाल्याख्यायुता ३०९ पर्यवस्यति तथा सदद्वयं विना न विकल्पः प्रशाम्यति । अतः सर्प- धारादण्डमालादिविकल्पेष्वनुगम्यमानतया अधिष्ठानत्वेन पुनः सर्व- विकल्पनिषेधावसानतयावधित्वेनानुवर्तमानाऽविकल्पिता निपिद्धरज्जु- खरूपवदध्यात्मादिविकल्पाधिष्ठानसन्मात्रत्वेन तनिषेधावधित्वेन चा. विकल्पितमनपोचं चात्मतत्त्वमद्वयमस्तीत्येवोपलव्यमिति तात्पर्या- र्थः ॥१४॥ किंचोक्तविधया दर्शनमात्रात्सत्यासत्त्वनिश्चयासंभवाद्विचारोऽभ्यु- पेयस्तश्चि क्रियमाणे सदेवाद्वयमवशिष्यत इत्यभिप्रेत्याह- सदभ्युपेतं भवतोपकल्पितं विचारहेतोर्यदि तस्य नास्तिता । विचारहानाच तथैव संस्थितं न चे- त्तदिष्टं नितरां सदिप्यते ॥ १५ ॥ सदभ्युपेतमिति ।। सद्वस्तु नास्तीति वदता तन्निर्णयाय विचारोs- भ्युपगम्यते न वा। यदिसोऽभ्युपगम्यते तदा भवता सद्वस्वभ्युपेतं,यतो विचारहेतोर्विचारसिद्धयर्थमुपकल्पितमुपस्थापितं किमपि वस्तु सर्वि- चारकैरिति योजना | विचारो हि प्रमाणव्यापारस्य फलावसानत्व- निश्चयहेतुस्तर्कः । सच न प्रमेयमन्तरेण प्रसरमुपलमते प्रमितं च न बाध्यत इति सद्धस्तुसिद्धिरित्यर्थः। विपक्षे वाधकमाह-यदीति। यदि तस्य सद्वस्तुनो नास्तिता तदा प्रमाणप्रमेयप्रमातृनिरूप्यस्य विचारस्य हानादप्रवृत्तेश्चकारात्सदभावनिर्णयहानाच तथैव संस्थितमनिर्गीतमेव संस्थितं । तथाच वस्तुतत्त्वानवधारणादैहिकामुष्मिकार्थप्रवृत्तिहानिः स्यादिति भावः। एतेन विचारानभ्युपगमपक्षे च दोप उक्तो वेदितव्यः । अथाविचारितमनिर्णीतं च तकिमपि नेष्टं चेचर्हि विचारनिर्णययोः सदवसानमन्तरेण पर्यवसानाभावानितरां सदिप्यते । सदस्त्विष्यत,
(आत्ममनःसंवाद-
उपदेशसाहस्री।
एवेत्यर्थः । यद्वा हे मनः,भवतोपकल्पितं द्वैतजातं विचारसिद्ध्यर्थ
सदभ्युपेतम् । आत्मतत्त्वनिश्चयफलविचारप्रवृत्तयेऽस्तीति द्वैतमङ्गीकृत.
मित्यर्थः । यदि पुनस्तस्य नास्तिता शून्यतैव द्वैतस्य स्यात्तदा विचार
हानाद्विचाराप्रवृत्तेश्चकारात्परमार्थनिर्णयाभावाच, तथैवाविचारितम-
निणीतं च तवं संस्थितं स्यात् । अथ तत्त्वानिर्णये पुरुषार्थासिद्धे
स्तदनितिखभावमिष्टं न चेत्स्याचाहिं नितरां सदिप्यते । विचार्यनिर्णये
सति सर्वस्य सदवसानत्वाव्यभिचारादित्यर्थः । कोट्यन्तरस्फुरणंविना
न संशयायतारस्तेन विना न विचारप्रवृत्तिस्तामृते न वस्तुतत्यनिर्ण-
यस्तेन च विना न पुरुषार्थलाम इति विचारार्थतया यथाप्रतिपन्न
द्वैतमभ्युपगतं न प्रामाणिकत्वेन । तथाच भुजंग रज्जुत्वेन व्यवहरत
इवातत्वं तत्त्वबुद्धा व्यवहरतोऽनर्थप्राप्तिसंभवाचत्परिहाराय विचारे-
ऽवश्यमाविनि क्रियमाणे सर्वेषु विशेषेप्वस्तिताया अव्यभिचाराद्विशेष-
णाव्यभिचारान्मियो व्यभिचारिणां चानृतत्वात्सन्मानमेव, सत्य न
द्वैतरूपो विशेषाकार इतिं नितरा सिध्यतीति भावः ॥ १५ ॥
भवत्येव विचारान्यथानुपपत्त्या सद्वस्तुसिद्धिस्तदर्थक्रियां करोति
न वा । आये क्षणिकत्यापचिरित्यभिप्रेत्य द्वितीये तस्य नरशृङ्गादेर-
विशेष इति बौद्धः शङ्कते-
असत्समं चैव सदित्यपीति चेदनर्थवत्त्वान्नरशृङ्ग-
तुल्यतः। अनर्थवत्त्वं त्वसति कारणं न चैय
तस्मान्न विपर्ययेऽन्यथा ॥ १६ ॥
२.
A
--
प्रकरणम् १९] . पदयोजनिकान्याख्यायुता ।
प्रयोजकं न भवति । समावसत्त्वसंभवादित्यर्थः । अनर्थक्रियाकारि-
खस्सासत्त्वव्याप्ती संदिग्धानकान्तिामुक्त्वाऽर्थक्रियाकारित्वस्य सत्य-
व्याप्तावनैकान्तितामाह-न चैव तस्मादिति । तस्मादर्थकियाकारि-
त्वान्नैव सत्त्वं पदन्यासाद्यर्थक्रियाकारिणि कण्टकाद्यभावे सत्तव्यमि-
चारादित्यर्थः । हेतुनिरसनमुपसंहरति-न विपर्ययेऽन्यथेति । विप-
र्ययेऽर्थक्रियाकारित्वामानान्यथा असत्त्वं न संभवति क्रियोत्सत्तेः
पूर्वमुदासीनवस्तुदर्शनादन्यथासत्त्वार्थक्रिययोरन्योन्याश्रयापातादित्य-
र्थः ॥१६॥
असिद्धश्चायं हेतुरित्याह-
असिद्धतश्चापि विचारकारणाद्वयं च तस्मात्मस-
तिं च मायया । श्रुतेः स्मृतेश्चापि तथा हि
युक्तितः प्रसिद्धतीत्थं न नु-युज्यतेऽन्यथा ॥ १७ ॥
असिद्धतचापीति ॥ न केवलमनैकान्तिकत्वादेरेवानुमानमप्र-
माणमपि त्वसदभिमत आत्मनि पक्षासिद्धेश्चैत्यपेरर्थः । अर्थक्रियाका-
रित्वामावमात्रं हेतुः परमार्थविशेपिततदभावो वा। आयेऽसिद्धिमाह-
विचारकारणादित्यादिना । कूटसस्यापि सतो धर्मित्वेन विचारप्रवृ-
विकारणत्वात्, माययाद्वयशब्दवाच्यभेदप्रपञ्चप्रसरणहेतुत्वाचेत्यर्थः।
गायया जगद्धेतुत्वं साधयति-श्रुतेरिति । 'मायां तु प्रकृति विद्या-
न्मायिनं तु महेश्वरमि'ति श्रुतिः, 'मयाध्यक्षेण प्रकृतिः सूयते सचरा-
चरमि'त्यादिस्मृतिः । कार्यस्य वाचारम्भणत्वप्रतिपत्तिसापकत्वन्यायो
युक्तिः । इत्थं कूटस्थस्याप्यर्थकियाकारित्वं प्रसिध्यत्यतो हेत्वसिद्धिरि-
त्यर्थः। द्वितीयं दृष्टान्तासिद्ध्या दूपयति नविति। अन्यथा परमार्थतो-
ऽभक्रियाकारित्वं स्थिरस्थ क्षणिकस्य वा न युज्यते अक्रियस्याकारकल्या-
लियाकार्य प्रत्यपि क्रियावत्वापत्तावनवस्थाप्रसङ्गादिति दिक् ॥ १७ ॥
. ३१२ उपदेशसाहस्री । [ आत्ममनःसंवाद- ननु सर्वविकल्पहेतुत्वादद्वयस्य सर्वविकल्पयुक्तत्वमित्याशकचाह- विकल्पनाचापि विधर्मकं श्रुतेः पुरा प्रसिद्धेश्व विकल्पतोऽद्वयः। न चेति नेतीति यथा विक-. ल्पितं निपिध्यतेऽत्राप्यवशेषसिद्धये ॥ १८ ॥ विकल्पनाचापीति ॥ विधर्मकं विरुद्धखभावमित्यर्थः । 'निष्कलं निष्क्रियमित्यादिश्रुतेः विकल्पतः पुरा प्रसिद्धेरिति युक्तेश्चेत्यर्थः । अद्वयमिति च्छेदः । 'नेदं यदिदमुपासते' 'नेतिनेती' ति निषिध्यमा- नचेतनाचेतनविकल्पावसानप्तिद्धयेऽत्रापि निषेधवाक्येप्वविकल्पवि. धर्मकमद्वयं निर्विशेष सिद्धमित्याह-नचेतीति । यथा विकल्पितं नेतिनेतीति निषिध्यते, नच तथाऽद्धयमात्मतत्त्वं निषिध्यंत इति ' योजना ॥ १८ ॥ यथोक्त श्रुत्यर्थे ये विकल्पयन्ति तेऽनर्थ प्रामुवन्तीत्याह- अकल्पितेऽप्येवमजेऽद्वयेऽक्षरे विकल्पयन्तः सद- सच जन्मभिः । खचित्तमायाप्रभवं च ते भवं जरा च मृत्युं च नियान्ति संततम् ॥ १९ ॥ अकल्पित इति ॥ कूटस्थे भेदविकारसंसर्गशून्ये श्रुतिसिद्धे इति यावत् । सदसदस्ति नास्ति चकारात्कर्ता सविशेषो निर्विशेप · इत्या- दिप्रकारैः खचित्तमायाप्रभवं यथा स्यात्तथा विकल्पयन्तः येते जन्ममिस्तिर्यड्मनुष्यजातिभिर्भवमुद्भवं जरां मृत्यु मरणं च संततं निरन्तर निर्यान्ति नितरां गछन्तीति योजना । खचित्तमायाप्रभव- मिति मवविशेषणं या बुद्धिनमकल्पितमित्यर्थः ॥ १९॥ सद्वस्तुनः कूटस्थाद्वयत्वं श्रुत्यादिप्रमाणसिद्धं तदन्ययाविकल्पनं पुरु- पापराधनिबन्धनमित्युकमिदानीं तदेव युक्तितो दयितुमुपक्रमते-- . तदभाव- प्रकरणम् १९] पदयोजनिकान्याख्यायुता। भयाभवत्वं तु न चेदवस्थितिनं चाय चान्यस्थि- तिजन्म नान्यथा । सतो ह्यसत्त्वादसतश्च सत्वतो न च क्रियाकारकमित्यतोऽप्यजम् ॥ २० ॥ भवाभवत्वमिति॥तुश्वार्थः किंचेत्यर्थे । द्वैतमुत्पद्यमानस्वभावम- नुत्पद्यमानखभावमुभयखभावं वा । मायः । तदा सापेक्षत्वेन शुक्तिरज- तादिवन्मिथ्यात्वापातात् । न द्वितीयः । सदातनत्वापत्ती व्यवहारानुदयप्रसङ्गात् । न तृतीयः । एकस्य विरुद्धोमयस्वभावत्वायो- गादित्यभिप्रेत्य चतुर्थमनूय दूषयति-भवाभवत्वमिति । भवश्चाभवश्च भवामवौ.तयोर्भावः भवामवत्वम् । अस्य द्वैतस्य भवाभवत्वं चेद्विरो- घानेप्यते तदावस्थितिरवस्थानं सत्त्वं नच स्यादिति शेषः । नाभय- खभावविलक्षणं कचित्सदुपलब्धमस्तीत्यर्थः । चापरं यदि द्वैतस्य जन्मेप्यते तदा खतएव जन्मासंभवादन्यस्माचद्वक्तव्यं तदपि सत्व- मावमसत्वमा वा यतोऽद्वैतस्य जन्मेत्याकालायां सर्वथापि नोपपद्यत इत्याह---अन्यस्थितिजन्म नान्यथेति । अन्यस्मिन्स्थितौ सति न जन्म सतो न जन्मेत्यर्थः । अन्यथान्यस्थितौ जन्म नेत्युपरज्यते असतोपि न जन्मेत्यर्थः । पक्षद्वयेऽपि दूषणमाह–सत इति । सत उपादानत्वे विकारित्वापत्तौ विनाशादसत्त्वप्रसङ्गादसतश्चोपादानवे सत्वतः सत्त्वापतेः । नहि शून्यमुपादानं स्यात्तस्य कार्यप्वननुगमादि- त्यर्थः । तथाच वस्तुनः स्वभाववैपरीत्यायोगान्न सत्कार्य द्वैतात्मना जायते नाप्यसदित्युत्पत्तिपक्षोऽपि दुर्निरूप इति भावः । एवमुत्पा- योत्पादकयोः समावनिरंपणे सत्युत्पचितत्कारकविशेषयोः सुतरा- मनिरूपिताकारता सिद्धेत्याह- -नच क्रियाकारकमिति । उपसंह- ३१४ उपदेशसाहस्री। [ आत्ममनःसंवाद- रति-अतोऽप्यजमिति । उक्तयुक्तितोऽप्यजं निर्विशेषमयमात्मत- त्वमित्यर्थः ।। २०॥ नच क्रियाकारकमित्युक्तमेव स्फुटयन्नजत्वं वस्तुनः साधयति- अकुर्वदिष्टं यदि वास्य कारकं न किंचिदन्यन्ननु नास्त्यकारकम् । सतो विशेपादसतश्च सच्युतो तुलां तयोर्यद्वदनिश्चयान्न हि ॥ २१ ॥ अकुर्वदिति ।। अस्य द्वैवजन्मनः कारकमकुर्वदिष्ट निर्व्यापार कारकमिष्टं चेदित्यर्थः । अन्यदिति द्वितीयपादस्य पदमादाय यदि- वान्यत्कुर्वदिष्टं वेत्यर्थः । तत्रायेऽतिप्रसङ्गदोपमाह-न किंचिदन्य- ननु नास्तीति । ननु निश्चितं किंचिदपि कारकं नास्तीति न अपितु सबै सर्वस्य सर्वदा कारकं स्यादित्यर्थः। द्वितीये कारकत्वानुपपचि- दोपमाद-अकारकमिति । अक्रियस्य कुर्वत्त्वायोगास्क्रियायत्त्वे नित्ये सदा कार्यप्रसद्भादनित्ये च क्रियापदन्तरापेक्षायामनवस्थामसगा- तदनपेक्षायामात्माश्रयापत्तेः कुर्वत्त्वपक्षे कारकत्यासिद्धिरित्यर्थः । अथवा प्रथम विकल्पे न किंचिदकारकमिति निराफ- रणपदान्वयः । सर्वमेव कारकं स्यादित्यर्थ. । द्वितीयदूपणं ननु नास्तीति कुर्वतः कारकत्वानिरूपणादित्यर्थः । कथमनिरूपणमिति चेत्तत्र वक्तव्यं किं सदवसं कुर्वदसदवस्यं वा नोमयथापीत्याह- सतोऽविशेषादसतश्चेति । असतश्चाविशेपादिति संबध्यते । विशेष- वत्त्वे वैरूप्यापचरविशेषे च सदाकार्य स्यान्न वा स्यादित्यर्थः । अथ सतोऽसतो वा पूर्वसत्त्वासत्त्वप्रच्युत्यवस्थायां कार्य स्यादिति मवेत्का- रकत्वमिति मतं तत्रावसापच्युतिकार्ययोर्योगपद्यमभिमतं फमो वा । नाय इत्याह-सश्युताविति । व्यवस्थाया कार्यमिति उपलक्षणम् ।
प्रकरणम् १९] पदयोजनिकान्याख्यायुता। असच्युतौ च तुलाया अन्तयोः कोटयोर्यद्वन्नमनोन्नमनमनुभवतोः कार्यकारणभावो न निश्चीयते, तथा कार्यकारणस्वरूपभेदो नहि निश्चीयत इत्यर्थः । द्वितीयेऽनवस्थाप्रसङ्गोऽवस्थापच्युतेरपि कार्यतया तस्या अपि तथाविधपूर्वकत्वापेक्षणादिति द्रष्टव्यम् ।। २१ ॥ वस्सुनोऽवस्थान्तरापत्तिमभ्युपगम्यैतदवोचाम वस्तु सतोसतो वाऽ- वस्थान्तरं नोपपद्यत इति न कस्यापि कार्यत्वं कारणत्वं वा विद्यत इत्याह- न चेत्स इष्टः सदसद्विपर्ययः कथं भवः स्यात्सद- सद्यवस्थितौ । विभक्तमेतद्यमप्यवस्थितं न जन्म तस्माच मनो हि कस्यचित् ॥ २२ ॥ न चेदिति । एवमुक्तदोषपरिहारात्सदसद्विपर्ययश्चेन्नेष्टस्तदा सद- सतोः स्वरूपव्यवस्थितौ भवः कथं स्यात् । कुतः यत एतद्द्वयमपि सच्चासच विभक्तं परस्परसंसर्गशून्यं व्यवस्थितं न पूर्वापरीभावोऽ- नयोमिथो वान्यापेक्षया वेत्यर्थः । हे मनः, हि यस्मादेवं तस्मान्न कस्यचिदपि जन्म विद्यत इत्यवधारयेत्यर्थः ॥ २२ ॥ भवतु वा जन्म यस्यकस्यापि तथापि न मे ब्रह्मभूतस्य काचित्क्ष- तिवृद्धिःत्याह- अथाभ्युपेत्यापि भवं तवेच्छतो ब्रवीमि नार्थस्तव चेष्टितेन मे । न हानवृद्धी न यतः स्वतोऽसतो भवोऽन्यतो वा यदि वास्तिता तयोः ॥२३॥ अथाभ्युपेत्यापीति ॥ मनसश्चेष्टितेनात्मनो नार्थोऽस्तीत्येव तत्प्रपञ्चयति-न हानयुद्धी इति । मे त इति योज्यम् । कुत इत्यत आह-न यत इति । यतो यसादसत आत्मन्यविद्यमानस्य हाना उपदेशसाहस्री। [ आत्ममनःसंवाद- वृद्धेर्वा भव उद्भवः सतोऽन्यतो वा हेवन्तराद्वा न संभवतीति योजना । यदि वा तयोर्हानवृद्ध्योर्यद्यात्मन्यस्तिता तथापि तब चेष्टितेन मे नार्थ इति संबन्ध. । सिद्धेऽर्थे त्वचेष्टाया अकिंचित्कर- स्वादित्यर्थः ॥ २३ ॥ हीयमानोपचीयमानयोरात्मनि सबन्धानिरूपणाच न हानवृद्धी स्त इत्याह- धुवा सनित्याश्च न चान्ययोगिनो मिथश्च कार्य न च तेषु युज्यते । अतो न कस्यापि हि किंचि- दिष्यते खयं च तत्त्वं न निरुक्तिगोचरम् ॥ २४ ॥ ध्रुवा इति ॥ ध्रुवाः स्थिराः कूटस्था अनित्याः क्षणिकाश्च पदार्थी हि निश्चितमन्ययोगिनो न भवन्ति, स्थिराणामविकारित्वाक्ष- णिकानामन्यसंवन्धकालपर्यन्तमवस्थानासमवादित्यत्यर्थः । मिथश्चा- न्योन्यमपि स्थिरास्थिरयोर्न सबन्धित्वं सभवति, सबन्धस्य संबन्धिसं- बद्धत्वविकल्पासहलादित्यर्थः । अतएव तेषु न कार्य किमपि युज्यते घटते । संबन्धिताविकारभेदसत्त्वनिराकरणमुपसंहरति- इति । न किमपि कस्यापि संबन्धि परमार्थत इयत इत्यर्थः । ननु कथमात्मनोऽन्यसंबन्धामावो वेदान्तवाक्यप्रमाणं प्रति प्रमेयत्वोपग- मादित्यत आहसंयं चेति । तत्त्वमात्मखरूपं स्वयं निरुपाधिक न निरुक्तेर्वाक्यस्य मुख्यया वृत्त्या गोचरो विपयः शब्दप्रवृनिनिमि- तधर्मामावास्किंतु लक्षणया शब्दस्य तत्र पर्यवसानमपेक्ष्य वेदान्तप्र- मेयत्वं तस्साझीकृतमिति न विरोध इत्यर्थः ॥ २४ ॥ तदेवं दुर्निरूपद्वैतसाक्षिणोऽसताद्वयानन्दरूपस्य खप्रकारातया --अत प्रकरणम् १९] पदयोजनिकाव्याख्यायुता। 3- प्रकाशमानं स्वरूपं श्रुतियुक्तिभ्यां निश्चित्य पुमान् कृतकृत्यो भवतीति द्वैताभासनिराकरणफलमुपसंहारव्याजेनाह- समं तु तस्मात्सततं विभातवद्वयाद्विमुक्तं सदस- द्विकल्पितात् । निरीक्ष्य युक्त्या श्रुतितस्तु बुद्धि- मानशेपनिर्वाणमुपैति दीपयत् ॥ २५ ॥ समं त्विति ॥ सत्त्वासत्त्वाभ्यां विकल्पिताद्वयाद्वैतावभासात्सततं विमुक्तमिति संवन्धः। सततं समं विभातवत्प्रकाशमानमिति योजना। दीपवत्सहसैवाशेपस्य बन्धस्य निर्वाणं परिसमाप्तिमुपैति निरीक्षण- निर्वाणयोर्न व्यवधानं किमप्यस्तीत्यर्थः ॥ २५ ॥ उक्तलक्षणस्यात्मतत्त्वस्य निरीक्षणं किं विषयत्वेनाविषयत्वेन वेति जिज्ञासायामविपयत्वेनैवेत्याह- अवेद्यमेकं यदनन्ययेदिनां कुतार्किकाणां च सुवे- धमन्यया । निरीक्ष्य चेत्थं त्यगुणग्रहोऽगुणं न याति मोहं ग्रहदोपमुक्तितः ॥ २६ ॥ अवेद्यमिति ॥ सर्वसाक्षिप्रत्यगात्मनोऽन्यन्न भवत्यद्वयं ब्रह्मेति ये चेदिनस्तेषामनन्यवेदिनामवेद्यम् । अन्यथा भेदेन विषयतया वेदिनां कुताकिाणां सुवेद्यं परिच्छिन्नतया सुज्ञेयम् । शास्त्रयुक्तिविचारप्र- यासंविना खमत्यनुसारेण सुखबोघमित्यर्थः । गुणेषु सत्त्वादिषु सवि- कारेषु ग्रहोऽभिनिवेशो यस्य स गुणग्र) न गुणग्रहोऽगुणग्रहः पुमान्दे- हायभिमानहीन इति यावत् । अगुणं निर्विशेषमात्मतत्त्वमित्थमवेद्य- मित्यायुक्तरूपं निरीक्ष्यालोच्य चकारादपरोक्षतयानुभूय मोहं न याति । तत्र हेतुमाह-ग्रहदोपमुक्तित इति । महरूपाद्दोपान्मुक्तितो मुक्तः मोहहेत्वज्ञानतत्कार्यवाधादित्यर्थः ॥ २६ ॥ V उपदेशसाहस्री। आत्ममन संवाद- कलादेवं महता मयतेनाविषयतया ब्रह्मात्मनो वेदनमिप्यते तत्राह- अतोऽन्यथा न ग्रहनाश इष्यते विमोहबुद्धेग्रह एव कारणम् । ग्रहोऽप्यहेतुस्त्वनलस्त्वनिन्धनो यथा प्रशान्तिं परमां तथा ब्रजेत् ॥ २७ ॥ अतोऽन्यथेति ॥ अत उक्तविधादात्मज्ञानादन्यथान्यस्माद्धेत्व- न्तरात्प्रकारान्तराद्वा न ग्रहनाशो मिथ्याज्ञाननिवृत्तिरिप्यते । 'नान्यः पन्था विद्यतेऽयनाये ति श्रुतेः । मास्तु तर्हि ग्रहनाश इत्यत आह-विमोहेति । प्रहे सकारणे सति विमोहबुद्धेर्देहगेहादावहम- मेत्याधभिनिवेशधिय सर्वानर्थवीजभूताया अनिवृतिः स्पादित्यनिर्मो- क्षप्रसङ्ग इत्यर्थः । ननु भवतु महनाशान्मोहनाशो ग्रहनाश एव कुत ब्रह्मात्मज्ञानादितिचेन ज्ञानादज्ञानस्यैव निवृत्तिसभवादहनिवृत्तिकार- णमन्यदेष्टव्यमित्याशङ्कयाज्ञानकार्यत्वाद्रहस्य तन्निवृत्तौ स्वयमेव निव- तत इति सदृष्टान्तमाह--ग्रहोऽपीति । अहेतुर्निरुपादानः उपादान- निवृत्तौ पुनः प्ररोहहेत्वभावात्परमा निरतिशया शान्तिमुपशान्ति मोक्षलक्षणा ब्रजेदित्यर्थः ॥ २७ ॥ प्रकरणसमाप्तौ गुरुनमस्काररूपं मङ्गलमाचरति- विमथ्य वेदोदधितः समुद्भुतं सुरैर्महाब्धेस्तु यथा महात्मभिः ॥ तथाऽमृतं ज्ञानमिदं हि यैः पुरा नमो गुरुभ्यः परमीक्षितं च यः ॥ २८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पूज्य शिष्यस्य श्रीशकरभगवतः कृतिः सकलदो. पनिषत्सारोपदेशसाहस्री समाप्ता ।।
प्रकरणम् १९] पदयोजनिकाव्याख्यायुता। विमथ्येति ॥ यथा सुरैर्देवैर्महात्मभिर्महाब्धेः क्षीरसागरादमृतं समुद्धतं पुरा पूर्व तथा यैर्महात्मभिः गुरुभिर्वेदरूपादुदधितो विम- य्यालोख्येदं प्रकरणरूपेण मया प्रकाशितं ज्ञानामृतं समुद्धृतं पुरा पूर्व तथा यैः परं परमात्मतत्त्वं चेक्षितमपरोक्षीकृतं तेभ्यो गुरुभ्यो नम इति योजना । अथवा यैर्गुरुभिर्निमित्तभूतैर्मया परंचेक्षितमिति योज- ना । 'तसादात्मजं वर्चयेद्भूतिकाम' इत्यादिश्रुतेः । 'निरपेक्षं मुनि शान्तं निर्वैरं समदर्शनम् । अनुव्रजाम्यहं नित्यं पूयेयमधिरेणुमि' रिति भगवद्वचनाच युक्तमत्र गुरुसुज्ञपूजनमित्यर्थः ॥ २८॥ उपदेशसहस्रीय विवृता हि महात्ममिः । श्रद्धावेशान्मयाप्यस्याः पदयोजनिका कृता ॥ १ ॥ समस्तवेदार्थरहस्यगद्य- पद्यप्रबन्धार्थतयाववोधः। कथं नु माड्मतिबिम्बितः स्या- दथापि भत्तयाहमिहामि नुन्नः ॥ २ ॥ ह्यन्तराविष्कृतराममूर्ते- तथा गुरूणां विपुलप्रसादात् । यथाकथंचिदचितेन विष्णु- रनेन तुप्यत्वखिलान्तरात्मा ॥ ३ ॥ इति श्रीमच्छकराचार्यकृतोपदेशसाहुख्या: पदयोजनिकानामटीका कृष्णतीर्थशि- प्यरामतीर्थविरचिता समाप्ता।