Scl

The Parijataharana Champu

Sesha_srikrishna

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

KAVYAMÂLÂ. 14.
THE
PÂRIJATAHARANACHAMPÛ
OF
S'ESHA SRIKRISHNA.
EDITED
BY
AAHÂMAHOPADHYAYA PANDIT DURGAPRASADA
AND
KÂS'INÂTH PANDURANG PARAB.
REVISED BY
WÂSUDEV LAXMAN S'ÂSTRI PANSIKAR.
Third Revised Edition.
PUBLISHED
BY
PÂNDURANG JAWAJI,
PROPRIETOR OF THE “NIRNAYA-SÂGAR” PRESS,
BOMBAY
1926.
Price % Asinas

[ All rights reserved by the publisher. ]
PUBLISHER:-Pandurang Jawaji,
'Nirnaya-sagar' Press,
PRINTER:-Ramchandra Yesu Shedge, 26-28, Kolbhat Lane, Bonnbay.
}26-1

काव्यमाला. १४. BIHarama JawanHAR महाकविशेषश्रीकृष्णविरचिता पारिजातहरणचम्पूः। जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्याय- पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह्व- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधिता, सा च पणशीकरोपाह्वलक्ष्मणशर्मात्मज- वासुदेवशर्मणा संस्कृता । तृतीयं संस्करणम् । मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्रकाशिता । १९२६. मूल्यं ७ आणकाः

No text on this page.

काव्यमाला। महाकविशेषश्रीकृष्णविरचिता पारिजातहरणचम्पूः। प्रथम उच्छ्वासः। सानन्दं मकरन्दबिन्दुनिकरप्रस्यन्दबन्दीभव- न्मन्दीभूतमिलिन्दतुन्दिलदलन्मन्दारमन्दादरम् । भूयः सौरभलोभसंभ्रमभराद्धृङ्गीभिरङ्गीकृते भामायाः किल पारिजातकुसुमे जीयात्सतृष्णं मनः ॥ १ ॥ कारुण्यामृतकुल्यास्तुल्याः संसारसागरतरीणाम् । स्फुरदधरजनीकल्याः कल्याणं ददतु मङ्गलापाङ्गाः ॥२॥ क्वचित्कनककुण्डलस्तबकमण्डिगण्डस्थलं क्वचित्कुटिलकुण्डलिप्रकटमण्डनाडम्बरम् । कचिकनकसंनिभं वचन शारदाभ्रप्रभ महो महदुपास्महे विहितताण्डवं शांभवम् ॥ ३ ॥ वन्देऽतिसुन्दरमुकुन्दपदारविन्दं मन्दाकिनीगलदमन्दमरन्दधारम् । इन्दिन्दिरीभवदमन्दपुरंदरादि- वन्दारुवृन्दमुरुमन्दिरमिन्दिरायाः ॥ ४ ॥ १. अयं कविः काश्यां निस्ताब्दीयषोडशशतकोत्तरभाग आसीदित्याद्युक्तमेव 'कंस- वध'नाटकप्रारम्भे (काव्यमाला. ६.) एतच्चम्पूपुस्तकं त्वेकमेव जयपुरराजगुरुमि- थिलाभिजनश्रीनरहरिशर्मणां संग्रहादधिगतम्. तत्तु १७४३ मिते विक्रमाब्दे लिखितं प्रायः शुद्धं मनोहरं चास्ति. प्रारम्भे पत्रत्रयं केवलं जलदोषेण मनाङ्म्लानिमुपगतं वर्तते. अस्य पत्राणि विंशत्यङ्गुलदैर्ध्याणि पञ्चाङ्गुलपरिणाहानि पञ्चचत्वारिंशत्सन्ति. प्रतिपत्रं ६ पतयः, प्रतिपति च ४४-५६ अक्षराणि वर्तन्ते. .

६ काव्यमाला। शारदा शारदाम्भोदविशदा भक्तसारदा । सा रदांशुहृतध्वान्ता पायात्सर्वविशारदा ॥ ५ ॥ नलिने पुलिने च वामलूरे कृतजन्मा कवितावतारबीजम् । अनपार्थवचोमनोभिरामो मम कामोपचयं मुनिस्तनोतु ॥ ६॥ सन्तः सन्ति महीतले ऽतिविपुले द्वित्राः पवित्राः परं यत्पादाजपरागपांसुकतकं पुंसामभिध्यायताम् । नैवाभ्येति सरस्वती विरसतां पारुष्यकालुष्यजां] स्फूर्जदुर्जयदुर्जनोल्मुकमषीपकं च नास्कन्दति ॥ ७ ॥ सदा सानुशयो नीचपरोपकृतिदीक्षितः । सत्समाधिविधानज्ञो निर्ममः किं खलो मुनिः ॥ ८ ॥ अस्तिश्रीमदमन्दमन्दरगिरिग्रावस्थलप्रस्खल- त्त्वङ्गत्तुङ्गतरङ्गभङ्गिसुभगवर्गापगारोधसि । श्रीगौरीशपुरीपुरःपरिसरे सत्संपदामास्पदं खःसाम्राज्यविडम्बि ताण्डवपुरं भूमण्डलीमण्डनम् ॥ ९ ॥ तस्मिंश्च अस्ति स्वस्तिसमस्तनिस्तुलगुणप्रस्तारविस्तारभू- विश्वप्रस्तुतनिस्तुषामलयशःस्तोमप्रशस्तिश्चिरम् । ध्वस्तापरिक्षतिपालमस्तकमणिः श्रीवास्तकाख्यो महा- वंशो वैरिवधूस्तनाद्रिघुसृणालेपारुणास्ताचलः ॥ १० ॥ लोके यं कलिकालकल्मषमपीवर्षप्रसङ्गोल्लल- जम्बालैः परिपिच्छिले प्रतिपदे धर्मोऽतिखञ्जः स्खलन् । दौर्बल्यादवलम्बते किमपरं यो वीरहाराङ्कुरो- द्वारः(१) स्फारयशःसिताम्बरधरो धीरो धरायां ध्वजः ॥ ११ ॥ तत्रोदारपवित्रचित्रचरिते सद्विश्वविश्वंभरा- लम्बे शम्बरवैरिघस्सरपरिध्यानादवाप्तोदये । १. वल्मीके. २. जलनैर्मल्यासंपादक ओषधिविशेषः. ३. नदीविशेषोऽपि.

१ उच्छासः ] पारिजातहरणचम्पूः। संभूताः कति वा नवा नवनवारम्भातिसंभावित- स्फूर्जच्छारदशीतदीधितिधृताहंकारकीर्तिच्छटाः ॥ १२ ॥ महेश्वरपरः समुन्नयनसिंहरूपोऽभव- द्रुहामभवकारणं युधि समन्ततो माधवः । ततः स्फुरितकीर्तिषु त्रिषु सुगीतगोविन्दतो वरः किल नरोत्तमो जयति काशिराजानुजः (१) ॥ १३ ॥ अस्ति समस्तसामन्तसीमन्तिनीसीमन्तसिन्दूरपूरसूरास्ताचलः, सकल- जलधिवेलावलयितेलावलयतिलकायमाननिखिलभूपालमौलिमालामिलन्मुकुट- तटनटन्मणिमरीचिमञ्जरीपुञ्जपिञ्जरितमञ्जुपादाम्बुजः, बहलमिलदलिकुल- कलकलाकुलगलदविरलमदजलविलुलितविपुलकपोलपालिशालितुङ्गमातङ्गसं- घवितरणगजपतीकृतावनीवनीपकः, प्रचण्डभुजदण्डचण्डिमाकर्णकुण्डलि- तकोदण्डहिण्डमानकाण्डप्रकाण्डताण्डवाडम्बरोद्दण्डखण्डितारिमुण्डपुण्डरीक- खण्डमण्डिताखण्डभूमण्डलः, विलसदनवद्यगद्यपद्याद्यनेकहृद्यविद्याविनोदो- क्ष्योतखद्योतीकृतविद्यापतिः, विद्याधरप्रमुखमुखोदीर्यमाणकीर्तिमधुरमदिरा- मोदमाद्यदमरनागरीस्मरापस्मारचिकित्सापरवशीकृतसुरसमाजः, प्रबलतररिपु- नृपतिवंशस्फुरदवन्ध्यविन्ध्याटवीदाहसमिद्धवैश्वानरो नरोत्तमो नाम । यश्च किल कमलोपलालितचरणयुगः, कमलोल्लसद्विलासचतुराननोपश्लोकितालौ- किकयशाः, विक्रमाक्रान्तदिक्चक्रपाणिः, यशोदयावर्धितः, नित्यसत्यानु- रक्तश्च, अनुशयःस्फीतपीताम्बरः, संमानितविबुधाधिराजः, क्षमोद्वहनधीर- ताधःकृतभुजगराजः, निकामकामनीयकोपचितसकलकामः, सकलपुरुषार्थ- सार्थसार्थवाही, पर्यायमात्रान्तरितः पुरुषोत्तमः पुनर्महीमण्डलमवातरत् । यश्च किल प्रथमः प्रथावताम् , द्वितीय इव कनकाचलस्य, तृतीय इवाश्चिनेययोः, चतुर्थ इव सप्तार्चिषाम् , पञ्चम इव पुरुषार्थानाम् , षष्ठ इव कुसुमशरशरा- णाम् , सप्तम इव ऋतूनाम् , अष्टम इव महर्षीणाम् , नवम इव वसूनाम् , दशम इव खण्डप्रवर्तकानाम् , एकादश इव दिगीशानाम् , द्वादश इव " १. इलावलयं भूमण्डलम्. २. निखिलमहीतलयाचकः.

८ काव्यमाला। , , रुद्राणाम् , त्रयोदश इवार्काणाम् , चतुर्दश इव स्नानाम् (2), पञ्चदश इव मनूनाम् । यश्च खलु विश्वविश्वंभराभरणव्यापारभारचिन्तानितान्तपरिश्रान्त- खान्तस्य भगवतस्त्रिविष्टपसृष्टिपरिक्लिप्टस्य विष्टरश्रवसोऽविश्रान्तविश्रान्ति- स्कन्धः, स्कन्द इव भूभृदप्रतिहतशक्तिः, पशुपतिजटाजूट इवोल्लसद्भोगि- संपन्नवसुधारकग्राही, गदाग्रज इवोदग्रभुजबलदलितकुवलयापीडः, कनक- गिरिशिखरोद्देश इव विमलकमलोदारमानसः, स्वर्वाहिनीप्रवाह इव विशुद्ध- पक्षपातपरैः श्रुतिमनोहारियाहारैः कृतचारुपदक्रमपरिश्रमैः सदाचरणोपा- ध्यायैरनेकराजहंसकुलैः सदोपास्यमानः, समानोऽप्यसमानमूर्तिः, समदोऽप्य- मदः, सुधर्माधिकृतोऽप्यवधीरितसुधर्माग्रहः, सुविग्रहोऽप्यविग्रहपरः, शशीव कुवलयाह्लादकारी, तुहिनगिरिरिव सर्वमङ्गलोद्भवः, भव इव विभूतिभूषितः, चण्डकर इव कराक्रान्तभूभृन्निवहः, पुरंदर इवानुरञ्जयति भुवनवलयम् । किं बहुना । शीतांशुर्भुवनं भ्रमन्भ्रमयते यत्कीर्तिलेशाकृति कृत्वा यत्तदमुं विधिः प्रतिनिशं यत्नात्परीक्ष्योज्झति । देवैरास्वदितं निशासु कषितं तारामिषात्खण्डितं दग्धं चण्डमरीचिरोचिषि ततो व्यक्तीभवच्छ्यामिकम् ॥ १४ ॥ अपि च । कीर्त्या पारं प्रयान्त्या चरममचरमं लम्भितेन प्रतापा- दब्धीनां शोषवार्ता खसदृशि निभृतं केनचित्वापि लीनम् । लक्ष्म्या कोषेऽहिनासौ वचसि च सुधया कामधेन्वा कटाक्षे कोपे क्ष्वेडेन शश्वद्यशसि [च शशिना वारिणा चारिनेत्रे ॥१५॥ स च सकलशिष्टोपजुष्टपादपीठः, समधिष्ठितोपायचतुष्टयः, कलितस- कलकलाकलापकौशलातिपेशलः, निखिललिपिलिखनशिल्पदेशभाषावि- शारदः, षाड्गुण्यप्रवीणः, निःशेषिताशेषकार्यभारः, कदाचिच्चतुरविव॑रवृन्द- मध्यमध्यासीनः, कविकुलकलितललितकविताविनोदमोदमानमानसः पद- २. विष्णोः. १. रत्नान्यपि चतुर्दश प्रसिद्धानि. विशेषोऽपि. ५. ज्ञातृसमूहः. ३. श्रीकृष्ण इव. ४. हस्ति- १ उच्छ्वासः] पारिजातहरणचम्पूः । वर्णमात्रारसभावादि रसयन् , कदाचिच्च वैणिकोपवीणितमविगीतगीतम- धुरबन्धबन्धुरं प्रबन्धमनुसंदधानः, कदाचिच्च त्रिचतुरचतुरपरिजनावृतो विजननर्मालापलीलामनुभवन् , कदाचिन्मृगयाविहारमनुसरन् , भूयांसमने- हसमतिवाहयन्कदाचिदचिन्तयत्--- 'राजोचिताचारविचारचुम्बनाच्चेतश्चिरादञ्चति चञ्चलत्वम् । तच्चक्रपाणेश्चरणैकचिन्तनान्न प्रच्युतं स्यादिह कः प्रकारः' ॥ १६ ॥ ततश्च । भूरिस्फुरन्मदगदाधिगताधिकाधि- चेतोगदीकरणमन्त्रमुपेन्द्रचर्चाम् । सन्नव्यकाव्यगुडजिहिकया चिकीर्प- नादिक्षदेप किल शेषनृसिंहसूनुम् ॥ १७ ॥ तस्यादेशवशान्नरोत्तमविभोर्भूपालभूषामणेः कर्तुं केशवकेलिकोमलकलालापादपापात्मताम् । प्रस्तौतीह नृसिंहसूरितनयः श्रीशेषवंशोद्भवः कृष्णः संप्रति पारिजातहरणं गद्यैश्च पद्यैः शुभैः ॥ १८ ॥ श्रीकृष्णप्रवणात्मतारसमये मद्वाङ्मये सर्वथा दोष हन्त हरिहरिप्यति यथा चेतःशरीरोद्भवम् । किं त्वाविवशात्मनामिह हठादोषं मृषा पश्यतां पैशुन्यादपकीर्तितो हरिकथाद्रोहाच नान्यत्फलम् ॥ १९ ॥ एवमनुश्रूयते -पुरा किल भगवान्वासुदेवः सकलमुनिमनुजवृन्दारक- वृन्दममन्दानन्दसंदोहतुन्दिलं कन्दलयिष्यन् , दलयिष्यंश्च मधुमुरनरककं- सकेशिमुखप्रखरखलनिवहम् , अहमहमिकाकलितललितलीलाकलेवरधरः, वयंवराहतया विदर्भसुभ्रुवा भीमभूपालसौभाग्यवलभीकीर्तिपताकया भीष्म- ककन्यया रुक्मिण्या सुश्रोण्या चापरया मुरवैरिणः शरीरमात्रान्तरजी- वशक्त्या सत्यभामया भामिन्या कुरुविन्दकन्दलीद्वन्द्वकन्दलित इवेन्द्रनी- तरुणतरणिकिरणपरम्परापरिणततुहिनमरीचिचन्द्रिकाभ्यामिव १० काव्यमाला। ७ प्रभातगगनाभोगः, तुहिनगिरिजझुकन्यकाभ्यामिवेभकृत्तिवासाः, प्रज्ञोत्सा- हशक्तिभ्यामिवैश्वर्यभारः, श्रुतिस्मृतिभ्यामिव धर्मः, भागीरथीतरणितन- याभ्यामिवान्तर्वेदिप्रदेशः, नित्यसंनिहिताभ्यां हृदयनिहिताभ्यां ताभ्यां सनाथीकृतसंसारसारः, तदितरैरपि सुन्दरीसहस्रैः परिवृतः, करिराज इव करेणुभिः, सागर इव सरिद्भिः, तरणिरिव मरीचिभिः, स्तनयित्नुरिव तडिद्भिः, परमात्मेव प्रकृतिभिः, अभिनववनविहारारामरामणीयकासु रैवत- काधित्यकासु ससुहृद्वन्धुपरिवारोऽभिरेमे । तथा हि । दरदलितकदम्बालम्बिरोलम्बसंप- त्प्रसृमरमधुधारासारसान्द्रासु तासु । अजवनपवनासु स्वैरमालिङ्गिताङ्गी- ररमयदयमुच्चैरङ्गना मङ्गलश्रीः ॥ २० ॥ तत्र च गिरौ परिमिलितमिलिन्दामन्दहिन्दोललीला- विसृमरमकरन्दस्यन्दिमाकन्दसान्द्रे । रुचिरचिकुरभाराः सुन्दरीः स्वर्णगौरी- मुंदिर इव मयूरीर्मोदयामास शौरिः ॥ २१ ॥ प्रतनुपवनवेल्लत्पल्लवा मल्लिवल्लीः पुलकमुकुलिताङ्गीरच्छवक्षोजगुच्छाः । अधरमधु वधूस्ता धूतहस्ताः सलीलं मधुप इव मधुद्विट् संविचिन्वन्विरेजे ॥ २२ ॥ प्रत्यापगं प्रतिवनं प्रतिशैलशृङ्गं प्रत्याश्रमं प्रतितरु प्रतिमञ्जुकुञ्जम् । प्रत्यङ्गनं प्रतिकलं कलयन्विलासां- स्तस्मिन्वसन्त इव कंसरिपुर्विरेजे ॥ २३ ॥ १. मन्दवातासु.

१ उच्छासः]
पारिजातहरणचम्पूः ।
११
अपि च ।
खैरं तत्र सरोविहाररसिकः श्रीचन्दनालेपवा-
नन्वीतां मुहुरामृशन्मधुकरैर्माकन्दजां मञ्जरीम् ।
आचुम्बन्नपि पद्मिनीमभिनवामालिङ्ग्य वासन्तिकां
वासन्तोऽप्यथ भीतभीतवदमुं मन्दं सिषेवे मरुत् ॥ २४ ॥
एवमनवरतसुखसंदोहनिर्भरारम्भगम्भीरविभ्रमभरोदारेऽतिक्रामति कियति
समये कदाचिदुचितवचनचतुरा काचिदाचरितोपयाचितव्रतावसानमनुसंद-
घानाया भीमभूपालनन्दनायाः परा प्रतिकृतिरतिप्रणयपात्रं प्रियसखी
प्रथमोपनतप्रतीहाराधिगतागमना प्रविश्य सप्रश्रयमवनितलमिलदलककुललु-
लितधूलिना मौलिना प्रणम्य मस्तकन्यस्तहस्तसंपुटमविकटस्फुटाक्षरोत्तरमन-
तिलक्ष्यवैलक्ष्यलज्जाभिजात्यहाँत्सुक्यविस्मयमसृणमनतिदूरादेव वासुदेवम-
वादीत-'भगवन्भुवनभागधेय, विदर्भराजनन्दिनी तत्रभवन्तं सप्रणामप्रणय-
मिदं मन्मुखेन विज्ञापयति-
अद्यानवद्यचरितव्रतपारणायां
त्वत्संनिधि निधिमिवाधिहरं समीहे ।
त्वां खं मनोरथमिवाथ समाजयामि
पातिव्रतीर्जगति येन सभा जयामि ॥ २५ ॥
देवर्षिसिद्धनरकिंनरयक्षरक्षः-
क्षेत्रज्ञयज्ञफलदैवत दैवतं त्वाम् ।
हित्वान्यदस्ति कतरत्परितोषणीयं
तीर्थव्रतादिपु विशिष्य तु मादृशीनाम् ॥ २६ ॥
चासुदेवस्तु
आकर्ण्य वाचमुपकर्णवितीर्णचारु-
श्रीलोचनाञ्चलचलाचलकर्णपूरः ।
हर्षातिपीवरकलेवरपीतपर्व-
पाथोधिगर्वनिकरोऽधिकरोचमानः ॥ २७ ॥

१२
काव्यमाला।
स्मितसुभगकपोललोलमौलिः सरभससादरसानुरागचेताः ।
सपदि सदनमाससाद भैप्म्या द्रुतपदमुत्तरयन्फलेन दूतीम् ॥ २८ ॥ (युग्मम्)
मरकतमणिवेश्मरश्मिजालैः कवलितमण्डल एष चण्डरोचिः ।
परिणतकुरुविन्दकन्दलश्रीहसितविलक्ष इवेक्ष्यते स्म यस्मिन् ॥ २९ ॥
स्फटिकभवनभाभिर्यत्र मित्रेऽभिभूते
हरितशिखररोचिञ्चुम्बितादभ्रगर्भे ।
विधुरयमिति शङ्कां चक्रवाकी वराकी
परिहरति चकोरीचञ्चुमुद्रामुदीक्ष्य ॥ ३० ॥
प्रतिपथमथ पाथसाभिषिक्तं मृगमदनन्दनचन्दनोपलिप्तम् ।
कलितसुरभिधूपभूमधूमं घनघनसारपरागपूरगौरम् ॥ ३१ ॥
सरसकुसुमसंपदावकीर्णं भुवि पदमैन्द्रमिवात्मनावतीर्णम् ।
उपवनपवनोल्ललत्पताकाकुलकलितामलसौधतुङ्गशृङ्गम् ॥ ३२ ॥
अलिपिककुलकाकलीनिलीनस्वकलकलाकुलकामिनीकलापम् ।
द्विजगुरुसुरवन्धुतासपर्यापरपरिचारकसंभृतोपचारम् ॥ ३३ ॥
वलद्वलयवल्लरीपरिणमत्कणत्किङ्किणि-
प्रपञ्चितसुपञ्चमालपितगीतितालोत्तरम् ।
सलीलगतिसंभ्रमभ्रमिसुचारुचारिस्फुर-
त्प्रनृत्तपरिचारिकासहजचेष्टितैर्वेष्टितम् ॥ ३४ ॥
व्रतवेश्म विवेश केशवो निजशक्त्येव जयश्रियेव तत् ।
अधिदेवतयेव कुण्डिनाधिपपुव्या समधिष्ठितं चिरम् ॥ ३५ ॥
(सप्तभिः कुलकम् )
द्विजपूजनदेवसेवनादौ गुरुशुश्रूषणकर्मणि प्रसक्ताम् ।
परितः परिवारमादिशन्ती हृदयं कृष्णपदे निवेशयन्तीम् ॥ ३६॥
यदुवल्लभवल्लभासहस्रं परिवार परमप्यपारमारात् ।
विनयप्रणयोपदर्शनेनानुनयन्ती परमां मुदं नयन्तीम् ॥ ३७ ॥

१ उच्छासः] पारिजातहरणचम्पूः । परिचर्य शुभाश्चिरं चिरण्टीरुपगृह्याशिषमादरेण तासाम् । निजमागमनं प्रतीक्षमाणां स विदर्भोद्भवसुभ्रुवं ददर्श ॥ ३८ ॥ (त्रिभिर्विशेषकम्) सचकितमुदतिष्ठद्यावदेषा न तन्वी स्तनजघनभरार्ता नावृणोद्यावदङ्गम् । सरभसमभिसृत्याकस्मिकं सस्मितां तां गलवलयितबाहुागुपावेशयत्सः ॥ ३९ ॥ सोदस्थादथ पुलकोद्गमेन तस्मै खेदाद्भिः समुदितपाद्यमाद्यपुंसे । हृत्पद्मासनमधिरोप्य तं चिराय स्तम्भेनास्तमितरसान्तरं निदध्यौ ॥४०॥ आनन्दकन्दलितसान्द्रविसारिवारि- पारिप्लवोत्पलविकखरचारुतारम् । आकुञ्चिताञ्चलमुदञ्चितपक्ष्म किंचि- त्सा लोचनं हरिमभि न्यधिताय॑मर्घम् ॥ ११ ॥ अथ रथचरणायुधं विधानाबहुविधनव्यपदार्थसार्थभव्यैः । परिजनरचितैर्गुरूपचारैरुचितमसौ न चिरेण पर्यचारीत् ॥ ४२ ॥ तदनु दनुजवैरिणः प्रियाणां प्रणयभरात्प्रणिनाय सा प्रियाणि । अदित बहु मुहुर्मुदा तदानीं चिररचिताञ्जलि चास्थिताग्रतोऽस्य ॥४३॥ हुतहुतवहधूमश्यामलापाङ्गरिङ्ग- न्मसृणमुकुलरज्यन्नेत्रमास्यं स तस्याः । विलुलदलकमुद्यत्वेदबिन्दून्नमय्य स्मितसुभगममार्जीत्वोत्तरीयाञ्चलेन ॥ ४४ ॥ हरिकरपरिरम्भोज्जृम्भिलास्यं तदास्यं प्रतियुवतिमुखेषु न्यक्षिपत्स्वेदलक्ष्मीम् । किमिदमधृत खेदखेदमालिन्यनेत्रा- रुणिमविनिमयेनाशेषशोभाममीषाम् ॥ ४५ ॥ १. सुवासिनीः २ २. रुक्मिणीम्.

१४ काव्यमाला। परमपुरुषसेवालम्बते नो विलम्ब न च गिरमनुरुन्धे नैव वाम्यं फलन्ती । यदयमनवरोधः सावरोधोऽपि चैवं त्रिभुवनसुभगानां मूर्ध्नि तामभ्यषिक्त ॥ ४६ ।। एवमभिनवमहोत्सवपरम्परापरिचयपरिणतपरमपरितोषपोषिताशेषसुरनर- निकरे हुतहुतभुजि पूजितद्विजसमाजे सभाजितमुरजिति सुभोजितदीना- न्धबधिरमूकानाथपान्थसार्थकलकलाकुलितदशदिशावकाशेऽवशेषितातिथि- भागधेयेऽवसरे व्रतावसानशंसि मूर्तमिव विधिफलं भगवतो विधेर्विधेयाशे- घसुरासुरोरगनरनिकरस्यात्मसंभवः प्रकृत्या कलहवल्लभो ब्रह्मिष्ठो ब्रह्मर्षिर्नारदो- ऽम्बरतलादवततार। जटाजूटं मौलौ भसितधवलं पुण्ड्रमलिके दधानश्चैणेयीं त्वचमपि दधानोंऽसफलके । वसानोऽन्यां वार्सीमपि कटितटे स्कन्धनिहित- कणद्वीणाक्वाणश्रवणवलितापाङ्गमुकुलः ॥ १७ ॥ करकलितचलाक्षमालभारी स्फटिककमण्डलुदण्डमण्डनश्रीः । सुरवरनरकिंनरोपगीतः सुकनकपीतबहूपवीतवीतः ॥ ४८ ॥ मुनिरथ कलहप्रियः प्रकृत्या समुपससाद स सादरं सदारम् । मनुजमनुजमादितेयभर्तुर्विभुमवतीर्णमिहात्मनैव पूर्णम् ॥ ४९ ॥ अथ हरिरभिसृत्य तं ववन्दे लघु सहसा सह सापि तेन भैष्मी। पदकमलविलोलकुन्तलालीमिलदलिपालिभृता नतेन मूर्धा ॥ ५० ॥ ब्रह्मनिष्ठमकनिष्ठचेष्टितं विष्टपत्रितयशिष्टवरिष्ठम् । ब्रह्मसूनुमथ विष्टरश्रवा विष्टरे समुपविष्टमयष्ट ॥ ५१ ॥ धर्मधाममहसेऽयमनघं व्यातनोदनघमय॑तमाय । पाद्यमाद्यमुनये विनिवेद्य खाद्यमार्पिपदथो मधुपर्कम् ॥ ५२ ।। १. वृक्षसंबन्धिनी वचम्. २. अनेकयज्ञसूत्रपरिवेष्टितः. २. अनेकयज्ञसूत्रपरिवेष्टितः. ३. आदितेयभर्तुरिन्द्र- सानुजं श्रीकृष्णम्.

१ उच्छासः] पारिजातहरणचम्पूः । १५ मन्दगन्धवहचन्दनचर्चाचित्रमाल्यवसनाभरणाद्यैः । वर्त्मखेदमपनीय मुरारिस्तं जगाद विनयप्रणयाभ्याम् ॥ ५३ ॥ 'किं पुरा चकृम पुण्यमगण्यं कैव्रतक्रतुभिरी जिम देवान् । यन्मनोरथपथातिथिमद्य त्वां दृशा सकलया कलयामः ।। ५४ ॥ जन्म तन्मम जगन्महनीयं जीवनं भुवनपावनमुच्चैः । श्रीपतित्वमपि निश्चलमेवं यस्य मेऽद्य समभूः प्रतिसूस्त्वम् ॥ ५५॥ त्वत्समागमभवां मुदमन्तः संनियन्तुमपि न प्रभवामि । स त्वदागमफलं प्रतिकर्तुं प्रष्टुमूहितुमहो कथमीशे ॥ ५६ ॥ अद्य सा बहु मता मम तावद्भीष्मजात्रभवता भवतास्याः । वैधसव्रतविधेरवसाने यत्समर्थितमिहातिथिभूयम् ॥ ५७ ॥ कायवाङ्मनसशुद्धिसमृद्धैर्यस्तपोभिरघसंघमहार्षीः । त्वं सुरासुरसुरक्षणदक्षः पृच्छ्यसे स किमनामयमत्र' ॥ ५८ ॥ इत्युदीरितगिरं स गरीयान्व्याजहार बहुगौरवगर्भम् । निर्भयं भवति बिभ्रति विश्वं मादृशां कथमिवाशिवशङ्का ॥ ५९ ॥ त्वत्कोपवह्निपरिदग्धहिरण्यकेशि- लकेशशङ्खमुखदानववंशवीजा । द्विसुन्दरीनयननीरझराप्लुतापि दुःखाङ्कुरं कथमहो वसुधा तनोतु ॥ ६० ॥ अष्टाङ्गयोगश्रुतिशीलनाद्यैरधोक्षजं त्वामपरोक्षयन्तः । हर्ष व्रजामो न वयं यथेत्थमाराधयन्तोऽद्य सदारमारात् ॥ ६१ ॥ अद्याभिवाद्येन्दुकलाकिरीटं शैवात्पदात्प्रत्यभिवर्तमानः । सानन्दमिन्द्रं सुरसुन्दरीभिर्बद्धोत्सवं नन्दनसीन्यदर्शम् ॥ १२ ॥ विदर्भजां कल्पतरुप्रसूनफलोपदाभिः परिवर्धयन्तीम् । ससंभ्रमामिन्द्रवधूमपृच्छं दिवौकसां कारणमुत्सवस्य ॥ ६३ ॥ अथ सा ससंभ्रममतिदूरावनतिविस्रस्तकर्णावतंसेन शिरसा परमोन्नति- रमणीयपरिणाममभिप्रणम्य समुत्फुल्लपुण्डरीकप्रतिमल्लनयना सस्मितम- वादीत् ।

काव्यमाला बहुना। 'मद्देवरोपेन्द्रवधूः पतिव्रता व्रतावसानेऽद्य सुरद्विजव्रजान्' । आबालगोपालमसौ तनोति भोः प्रकाममानन्दरसेन तुन्दिलान् ॥ ६४ ॥ आकर्ण्य तां कर्णसुधासवर्णां वार्ती व्रतोद्यापनजामुपागाम् । अकुण्ठितोत्कण्ठमिहाहमैन्द्रं पूजाप्रतिच्छन्दनमप्रतीच्छन् ॥ ६५ ॥ 'नानोपचारार्चननिष्क्रयेण प्रादादनुद्रुत्य सुदूरमिन्द्रः । यत्स्वर्गसर्वस्वतया तयापि शच्यादरावेशवशाद्वितीर्णम् ॥ ६६ ।। अनन्यसामान्यगुणं वरेण्यं तत्पारिजातं क्षपितारिजात । तुभ्यं वितीर्य प्रतियातयामि त्वनिर्मितं प्रेममहार्घमय॑म् ॥६७॥(युग्मम्) किं नानापुष्परसेष्टगन्धवसनालंकारशृङ्गारस- चेष्टासौभगधर्मधर्मशिशिरान्सूते चिरं चिन्तितान् । ध्वान्तं हन्ति च बाह्यमान्तरमपि द्विदक्षुत्पिपासाजरा. जन्यं दैन्यमपाकरोति कुसुमं शौरे विधेः शासनात् ॥ ६८ ॥ इत्युदीर्य मुनिनामुनार्पितं पारिजातकुसुमं प्रणयेन । सादरं समभिसृत्य संदधे पाणिपल्लवयुगेन मुरारिः ॥ ६९ ॥ सुचिरमथ विचिन्त्य चक्रपाणिविरचयितुं रुचिराश्रयादशोच्यम् । व्यधित तदवतंसकं प्रियाया नयनचलाञ्चलचुम्बि कर्णमूले ॥ ७० ॥ मधुकररचिताधरोष्ठदंशव्यसन विधूनितपाणिपल्लवाया। विधृतविकचपारिजातपुष्पा परिशुशुभे सुशुभेव कल्पवल्ली ॥ ७१ ॥ अदरदलितकेसरारुणाङ्गैरलिभिरलम्भि चिराय तत्प्रसूनम् । सपदि च कुटिलैः पतिप्रियाणामुपचितरोषकषायितैरपाझैः ॥ ७२ ॥ ततश्च रुक्मिणी चक्रपाणिचक्षुरुत्क्षेपलीलासमुन्नीतभावा भूयोऽपि भग- वन्तं स्वयंभुवोऽङ्गसंभवमभिनवलावण्यलक्ष्मीनिक्षेपकलशेनेवाविरलतार- कानुकारिकुसुमनिकरकरम्बितालकावलीतिमिरभरातिसान्द्ररजनीप्रसङ्गसंकु- चितकमलमुकुलेनेव विरचितरुचिरसिन्दूरपूरपरिपूरितसीमन्तसीमोपसंजात- १. अस्वीकुर्वन्. २. पारिजाततरुप्रसूनम्.

१ उच्छासः] पारिजातहरणचम्पूः ।
१७
मञ्जुमाणिक्यमञ्जरीजरीजृम्भमाणशोणकिरणनिकुरुम्बेनेव
सर्वाङ्गीणलाव-
ण्यलतानूतनकिसलयेनेव शिरसि विनिहितेन करयुगलेन कथंकथंचिदुद-
ञ्चदुत्तरीयाञ्चला हरिणगृहिणीचक्षुराक्षेपदीक्षागुरुणा लक्ष्यमाणगतागतेन
दरवलितापाङ्गभङ्गिरिङ्गणालिङ्गितापराङ्गनाभूविभङ्गभीषणक्रूरकटाक्षवीक्षणप्रप-
ञ्चेन ईषदुन्मिषितापरभागपरभागेण स्मेरतरतरलतारकेण जाह्नवीनीरनिर्झरेणेव
धौतकर्पूरपूरेणेव स्नेहसुधासारेणेव ईर्ष्यावेशविवशकामिनीकुटिलकटाक्षपङ्क-
संकरप्रसङ्गकलुषितमिव वासुदेववदनं स्नपयता नयनयुगलेन मुनिमुखाभिमुख-
मूर्ध्वमुच्छ्रसितपक्ष्मणा नीहारगौरवैरिञ्चरुचिपरम्परापरिचयोल्लसन्नयननील-
नीरजप्रभापटलघटितसुरतरङ्गिणीतरणितनयासंगमालिङ्गितमिवान्तरालमावेद-
यन्ती तं मुनिं प्रणनाम । सोऽपि चैनां चतुर्वेदोदीरिताभिराशीभिरभ्यवर्ध-
यत्—'भद्रे, निःसीमसौभाग्यभाजनं भूयाः ।
शैलजेव तुहिनद्युतिमौले रोहिणीव किल शीतमरीचेः ।
त्वं शचीव नमुचिप्रतिहन्तुर्वल्लभासु सुभगा भव भर्तुः ।। ७३ ॥
भ्रूविभङ्गकुटिलान्यतुलेावेशरोषकलुषाण्यरुणानि ।
बिभ्रतु भ्रमरविभ्रममुच्चैस्त्वन्मुखेऽन्यवनितानयनानि ॥ ७४ ॥
वीतगर्वगरलास्तरलाक्ष्यः श्वासधूमपरिधूसरिताशाः ।
मन्युसंतमसनेत्रपयोदैरद्य दुर्दिनधियं जनयन्तु ॥ ७५ ॥
श्रीपतेर्निवससि त्वमेकिका चेतसीति सुचिरान्निरचैषम् ।
सर्वगर्वमतिखर्वयन्नयं यद्वतंसयति पुष्पमिदं ते ॥ ७६ ॥
कुसुमं ददतस्तवाद्य शौरेबहु मन्ये विषमे विवेचकत्वम् ।
पदमेतदनीदृशीषु कुर्वन्न कथं शोच्यतमां दशामधास्यत् ।। ७७ ॥
सौन्दर्यसौधवलभी त्वमिहासि नूनं
नेत्रोत्पलप्रकरतोरणवत्यनेन ।
कर्णे कृतेन हरिणा हरिणाक्षि यस्या-
मादीपि दीपकलिकाकृतिनानुरागः ॥ ७८ ॥
अलभ्यमेतत्सुरसुन्दरीभिर्लब्धं त्वया पुष्पमहो निशम्य ।
देव्यो निजं जाम्बवतीपुरोगा विनिग्रहीष्यन्ति कथं नु रोषम् ॥ ७९ ॥

१८ काव्यमाला। सात्राजिती सात्र जितत्रिलोकीसौभाग्यभाग्याद्य विनिन्ध रूपम् । उत्कर्षमीयाविवशा भवत्याः श्रुत्वा कथं वा सहसा सहेत' ॥ ८० ॥ इति विविधवचोभिस्तेजयिष्यन्सपत्नी- गुणगणगरिमाणं पारिजातस्य तस्य । अपरयुवतिदूतीकर्णकुम्भोम्भनीयं विदधदभिदधे तां भीष्मजां ब्रह्मसूनुः ॥ ८१ ॥ त्रिभुवनकमनीयं पारिजातप्रसून मुनिकथितमुदारं तत्प्रभावप्रकर्षम् । हरिविरचितमस्याः साधुसौभाग्यमुच्चै- रथ कथयितुमीषुश्चेटिकाः स्वामिनीभ्यः ॥ ८२ ॥ वैरिखैररणे परोपकरणे लोकापदां वारणे सद्धर्माचरणे वुधानुसरणे यः क्ष्माभृतां दीक्षितः । तस्यादेशवशान्नरोत्तमविभोः कृष्णस्य सन्निर्मिता- बुच्छ्रासः किल पारिजातहरणे पूर्वोऽप्यपूर्वोऽभवत् ।। ८३ ।। द्वितीय उच्छासः। अथ तथाविधान्योन्यविविधविरोधबन्धबन्धुराः कथाः कथयति विधि- तनूजे उपजापकुशलास्तत्कालकलितकोपकुटिलकंधरमालोकयन्त्यः स्खलच्च- टुलचरणविन्यासा मुहुर्मुहुर्मुनिकथाकर्णनवितीर्णकर्णा वजन्त्योऽन्तःपुरं परिचारिकाः समासेदुः । अथ ताः साभ्यसूयं सनिर्वेदं साधिक्षेपं सबाष्प- गद्गदं पारिजातप्रसूनवृत्तान्तावेदनेन सकलावरोधवधूरुत्तेजयांचक्रुः । ताश्च तद्वृत्तान्तगरलमापीय विलुप्तसकलसंस्काराः स्तिमिताखिलकरणाः सद्यः- स्खलत्कुसुभाम्बराभरणाः शोणदृशः सर्वाङ्गीणखेदसलिलकलिताः काश्चि- स्कषायिताशया जुधूणिरे । काश्चित्समुज्झितविभ्रमविहाराः सोष्मनिःश्वसि- तधूमधूसराः कलितबहलकोपकृशानुसमिद्धा विन्ध्यविपिनवीथय इव प्रज- ज्वलुः । काश्चिच चण्डनिःश्वसनसमुत्कम्पिपयोधरा बाष्पनीरधारासारहा- १.सत्यभामा.

२ उच्छ्वासः] पारिजातहरणचम्पूः । रिण्यः साहंकारहुंकाररसिता विलक्षाननसुधांशवो वर्षानिशा इवान्धतमसे निममजुः । इतराश्च तत्र भूयो भूयः स्वदूतीः ससंभ्रमं पृच्छन्त्यः पर- स्परं मन्त्रयमाणाः कर्णाकर्णिकयोपवर्णयन्त्यस्तमुदन्तं सत्यभामाकर्णपथा- तिथीचक्रिरे । अत्रान्तरे सरसिजासनसूनुसेवा- संभावनामरवशां प्रसमीक्ष्य भैष्मीम् । ईर्ष्याकषायकलुषं परिभाव्य शौरिः शुद्धान्तमाशु परिसान्त्वयितुं जगाम ॥ १ ॥ निष्क्रम्य रम्यतरहर्म्यतलास भैष्म्या व्याजेन सम्यगुपगम्य नियम्य वाचम् । चित्राणि तत्र तरुणीगणचेष्टितानि खैरं चरन्सुचिरमाकलयांचकार ॥ २ ॥ तथा हि। अंसानमत्करतलार्पितपाण्डुगण्डा निःश्वासधूमकथितान्तरहव्यवाहाः। स्तम्भावलम्बितनवः स्खलदुत्तरीयाः काश्चिन्मुहुर्मुहुरलं मुमुहुर्विदग्धाः ॥ ३ ॥ उन्मीलिते मणिगृहे खमुखेन्दुबिम्बे काश्चिन्निरन्तरपरिस्रवदसनीराः । निःस्पन्दमन्दमतयः स्फुटचन्द्रकान्त- पाञ्चालिकातुलकलाः कलयांबभूवुः ॥ ४ ॥ काश्चिद्रुषा विचकरुर्मणिहारहीर- चीराणिनीरजदृशोऽथ विधूय धैर्यम् । वीरायितं किमपि तत्र रुषोपदिष्टां येनाचिरेण बिभिदुः प्रकृतिं निसृष्टाम् ॥ ५ ॥ काश्चिद्विचुक्रुशुरुपेन्द्रममृष्यमाणाः काश्चित्प्रदुद्रुवुरथ द्रुहिणाङ्गजाय ।

Parya २० काव्यमाला। काश्चित्क्रुधा विरुरुधुश्च विदर्भजातां दैवं च काश्चन निनिन्दुरनिन्दिताजयः ॥ ६ ॥ अन्योन्यमेनां प्रशशंसुरन्या धन्याद्य मान्या ननु भीष्मकन्या । अर्हा हि दाशार्हपतेः प्रियाणां सत्पुत्रमित्राभिजनप्रवन्धैः ॥ ७ ॥ का मुह्यतु द्रुह्यतु का प्रसह्य सह्यं त्विदं नह्यसमञ्जसं नः । दंदह्यते यत्किल कूपकुल्या तुल्यायते हन्त सुरस्रवन्त्या ॥ ८॥ काचाङ्कुरं काञ्चतु काञ्चनेन का वञ्जुलं मञ्जुलयेच्च मल्लया । का स्पर्धयेत्सौधसुधां सुधां वा ज्योत्स्नीं तमिस्रामपि रूपयेत्का ॥ ९ ॥ जाने जने तुल्यजनोपजन्यं जन्यं च सौजन्यमपोह्य मान्यम् । स्पर्धा तु का मेरुनमेरुरेण्वोः पिपीलिकापर्वतयोश्च मैत्री ॥ १० ॥ तथा कथाः कर्णपथातिथीनथ प्रियाजनस्योपनयन्नयन्नयम् । कचित्प्रकाशं क्वचिदप्रकाशवन्मुग्धावरोधं विचचार कौतुकात् ॥ ११ ॥ अथासां तथाविधोपनतकोपरूक्षाक्षरा अपि श्रुतिमनोहारिणीनि:- स्नेहा अपि सुधासारोद्गारिणीर्वाणीः शृण्वन्नमन्दानन्दसंदोहसागरावगाह- मन्वभूत् । चिन्तितवांश्च- 'मानुप्यस्य विभूषणं तरुणता तस्याः पुनर्वैभवं तस्यानामयमस्य चोन्नतकुचद्वन्द्वाङ्गनालिङ्गनम् । तस्याप्यश्रुकुलाकुलांसवलितग्रीवप्रतीपाङ्गना- वकालोकनमस्य च प्रणयिनीमानापनोदक्रमः ॥ १२ ॥ अपि च । उन्मीलकमनीयकोमलपदन्यासाः सहासाः स्फुर- च्छृङ्गारादिरसप्रपञ्चितसुधामाधुर्यधुर्याः परम् । सद्भावाः सदलंक्रियातिललिताः प्रौढाः प्रियासूक्तय- श्वेतः कस्य न मज्जयन्ति सहसा ब्रह्मप्रमोदार्णवे ॥ १३ ॥ तथा हि। अस्याः पद्मपलाशपेशलहशः शृङ्गारवारां भरैः कामः काममुरोजकुम्भयुगलं खैरं चिरादुम्भति ।

२ उच्छ्वासः] पारिजातहरणचम्पूः। २१ उत्सित्तादिह हन्त संतततरा तेषां यदुत्सर्पिणी धारा हारलतावितानकपटादुच्चैः समुन्मीलति ॥ १४ ॥ इयं च किंचित्कुञ्चितलोचनं विरचितद्भूतङ्गमभ्युन्नम- न्मध्यं वेल्लितबाहुवल्लि सरसव्याकोशवाम्बुजम् । प्रोदञ्चत्कुचमानमत्तनु गलद्वेणीमिलतलं सज्या कामधनुर्लतेव हरति व्याजृम्भमाणा मनः ॥ १५ ॥ अस्याश्च कुचगिरिमधिरुयोत्सर्पिणी भोगिनीव व्यथयति कबरीयं हारनिर्मोकमुक्ता । इह बहिरुपयान्त्या नाभिमूलाद्गभीरा- त्सरणिरुदयतेऽस्या रोमराजीमिषेण' ॥ १६ ॥ अत्रान्तरे सहचरीपरिचारिकाभ्यः साकूतकौतुकमवेत्य स सत्यभामाम् । सापत्यमत्सरचिरार्जितसैत्यभामां तामाससाद सहसा मुरजित्सशङ्कम् ॥ १७ ॥ अथ किंचिदवाञ्चितानना विमना मानवती विमानिता। हरिणा परिणाहिसंज्वरा ददृशे साश्रुमुखी सखीवृता ॥ १८ ॥ गुरुपीनपयोधरस्थलस्खलदच्छोच्छलदुष्णबाष्पवर्षेः । श्वसितैः परुषायतैश्चिरं परिवारं परतो निवारयन्ती ॥ १९ ॥ करतलकलितालकाकुलास्या बहलगलद्विमलाश्रुशून्यशून्याम् । जनमुपनतमन्तिके स्पृशन्तीमपि मुकुलामरुणां दृशं दधाना ॥ २० ॥ तरुणितकरुणाभिस्तामवष्टभ्नतीभि- श्चटुलचटुभिरश्रुक्षामरुद्धाक्षराभिः । अकृतककृतकाकुव्याकुलाभिः सखीभिः प्रतिपदमनुनीयोन्मृज्यमानाश्रुपूरा ॥ २१ ॥ १. सत्यकोधाम्.

२२ काव्यमाला। पाणिशोणिममुखारुणिमभ्यां क्लुप्तकोकनदकोमलकान्ति । पङ्कजं नखमुखैर्विलिखन्ती घ्रातुमात्तमपि मर्मरयन्ती ॥ २२ ॥ अनुहनु विनिविष्टपाणि जानुप्रणिहितबाहु मुखार्पिताङ्गुलीकम् । असकृदपि शिरो विधूनयन्ती धृतरुदितस्मितविस्मयस्मयोर्मिः ॥ २३ ॥ परिसरमपहायोपास्यमाना सुदूरा- सभयमनुचरीभिः साञ्जलि प्राञ्जलाभिः । किमपि मनसिकृत्य प्रोत्पतन्ती पतन्ती किमपि च बत भूतावेशमाबिभ्रती वा ॥ २४ ॥ कौसुम्भं सहसा विहाय मलिनं वासो वसाना सितं भालालेपितरक्तचन्दनरसा बद्धैकवेणी चिरम् । वासःखण्डमकाण्ड एव सरुजेवाबध्य मध्येशिर- श्चन्द्राभं प्रियरोषचिह्नमपरं संत्यज्य भूषाभरम् ॥ २५ ॥ तल्पेऽनल्पतरे मृगाङ्करुचिरे बाहूपधाने मुहु- स्तापात्पार्श्वविवर्तनव्यतिकरेध्वालम्बितालीकरा । क्लिश्यन्ती सरसैर्मृणालवलयैः श्रीखण्डचर्चाचयै- स्तोयार्दैनलिनीदलैः किसलयैः किं चानिलैः शीतलैः ॥ २६ ॥ त्यज मलयजपत भूरिभारं च हारं परिहर हरिणाझं सानुकम्पं पिधेहि । अयि मलयसमीरं प्राशय प्राशयामुं बिसविषधरसनित्यनुव्याहरन्ती ॥ २७ ॥ दृष्ट्वा च तां क्रमेण ऋशिमाक्रान्तकलेवरां प्रियसहचरीकरोपनीत- नूतनतरतरुकुसुमकिसलयोपकल्पितानल्पतल्पमध्यमधिशयानां पन्नगीमिव निःश्वसन्तीं निदाघदग्धदावहरिणीमिव कांदिशीकां नीरससरःशफरिका- मिव बहुशो विपरिवर्तमानां तथाविधमवस्थान्तरमनुभवन्ती नयनोपान्त- निपतद्वाष्पधारां सात्राजिती ग्रहग्रस्तामिव ग्रहिलामिव मत्तामिव व्या- ध्यभिभूतामिव सरापस्मारपरवशामिवाशङ्कमानश्चिरं चिन्तयांचकार mmam

२ उच्छासः ] पारिजातहरणचम्पूः ।
'एतस्याः कमनीयकोमलकलालीलानिधेर्वेधसः
कान्ताकल्पनशिल्पसंभृतपरीणामातिचित्राकृतेः ।
रम्यो यौवनवच्चिराय विकृति नव्यां समुन्मीलय-
न्भावः कोऽयमहो महोत्सवमयः प्रत्यङ्गमालिङ्गति ॥ २८ ॥
तथा हि।
दौर्जन्यं किमहो मनोजहतकस्यैतत्समुज्जृम्भते
किं वादृष्टचरो ग्रहव्यतिकरो घोरः समुन्मीलति ।
यद्दावानलदह्यमानदमनोदामापदा(?)लम्बिभिः
कप्टं भोः परिपेलवैरवयवैः कान्ता चिरं ताम्यति ॥ २९ ॥
अथवा कृतं संदेहेन ।
सूदनं सदनन्तानां गुणानामृषिणार्पितम् ।
पारिजातमिदं जातमलेरिव कलेः पदम् ॥ ३० ॥
तस्मिन्विचिन्तयत्येवं निभृतं पश्यति प्रिये ।
विषसादाधिकं भामा शयने निषसाद च ॥ ३१ ॥
अवगुण्ठ्य शिरस्तिरः शयानामतिमानामवगत्य सत्यभामाम् ।
स्मितगर्भमुखार्पिताङ्गुलीकं सशिरःकल्पितमुहन्व्यलीकम् ॥ ३२ ।।
उपचारपरालिनिर्विशेषं कलयन्पाणितलेन तालवृन्तम् ।
खनिवेदनतो निषिध्य दासीरथ पार्श्व हरिराससाद तस्याः ॥ ३३ ।।
अथ तथाविधे व्यतिकरे करकलितकान्ताकर्णावतंसीकृतचारुपारिजात-
कुसुमपरागवासनासंभवश्वटुलितमदकलमिलदलिकुलकलितमञ्जुगुञ्जारवस्ताल-
वृन्तान्दोलनोन्मीलदनिलबहलितोऽन्तःपुरान्तरालेऽननुभूतपूर्वः कोऽपि परि-
मल: समुल्ललास।
तमथ कमपि गन्धं बन्धुरं सोपलभ्य
प्रभवमिह समाना तस्य जिज्ञासमाना।
स्तिमितकरणवृत्तिागपावृत्य वक्त्रं
किमपि तरलिताक्षी विस्मयाब्धौ ममज्ज ॥ ३४ ॥

२४ काव्यमाला। 'कथयत कथमेव प्रादुरासीत्कुतो वा कलयत च किमीयः कर्षतीवेन्द्रियाणि' । प्रतिपदमिति वारंवारमाध्राय गन्धं मधुमथनमहेला सा सखीरन्वपृच्छत् ॥ ३५ ॥ अतरलसरलाङ्गुलीवृतास्यं कृतकरुषा हरिणोपरुध्यमानाः । मुहुरपि च तयानुयुज्यमानाः समदिहताधिहतास्तदा तदाल्यः ॥ ३६ ।। सचकितमितरेतरं दिशन्त्यस्तरलतराक्षि दिशो निरीक्षमाणाः । कृतकृतकविवादहेतुवादाः क्षणमथ तामतिवाहयांबभूवुः ॥ ३७ ॥ अकथयति तदा तदालिवर्गे स्वयमतियत्नसमुद्यतोर्ध्वकायम् । अलसवलितकंधरं समन्तादिशि दिशि साथ भृशं दृशं दिदेश ॥ ३८॥ खाधिकाधिपरिबाधितगात्रं सा विषादमिव मूर्तमुपेतम् । तं दृशा विकलया कलयापि प्राप्य रोषकलुषेण दिदीपे ॥ ३९ ॥ कोपपाटलितलोललोचनप्राञ्चलेन परिचुम्ब्य तमीषत् । द्राग्विवर्तितमुखी सखीजने भ्रूविभङ्गकुटिला दृशमूहे ॥ ४० ॥ रोषपोषितमुखाक्षिविकारा स्तम्भिताश्रुकुलसंकुलकण्ठा । नोपकल्पितमपि खहृदासौ मानिनी वचनचापलमाप ॥ ४१ ॥ यत्तया न बिभिदे मुखमुद्रापूर्य तद्वपुरमानिव मानः । कजलाविलगलजलदम्भागरिधारमवहन्नयनाभ्याम् ॥ ४२ ॥ अतिकृच्छ्रमुदस्य कण्ठकूपान्नयनद्रोणियुगप्रवर्तितेन । गलताश्रुजलेन सा तदानीं सहसापूरि शुभावुरोजकुम्भौ ॥ ४३ ॥ सहसानुचरीः परीतपार्थाः सुदिती सा नुदती सतीव्रतापम् । उदवेजयदश्रुमिश्रितास्या हृदयेशं ग्लपयांबभूव भूयः ॥ ४४ ॥ अयमवसर इत्युदीक्ष्य सख्यः समुपससाद ससाध्वसं मुरारिः । अथ करकलितं पटाञ्चलेनाननमपिधाय पुरश्चिरं रुदत्याः ॥ ४५ ॥ द्रुतपदमुपसृत्य स प्रियाया नयनजनीरमरैरपूरि पाणी । विलयमुपनिनीषिताय नूनं तदनुशयाय जलाञ्जलिं विधित्सुः ॥ ४६॥ १. संदेहं प्राप्ताः २ उच्छ्वासः] पारिजातहरणचम्पूः । २५ दयितानयनोदबिन्दुवृन्दव्यतिषङ्गी स तदञ्जलिर्जिगाय । स्फुटमौक्तिकपूर्णताम्रपर्णीजलपूरप्रविकीर्णशुक्तियुक्तिम् ॥ ४७ ।। ललनावदनानुबिम्बचुम्बी प्रजहासाञ्जलिरच्युतस्य नाभिम् । विगलन्मकरन्दबिन्दुधारानिकरोन्मीलदनिन्दितारविन्दम् ॥ ४८ ॥ तत्कालगलदमलललनाविलोलनयननीरधारासारैरापूरयन्नञ्जली- न्भूयो भूयः प्रतिक्षिपन्नन्यानन्यान्मुहुर्मुहुराददानस्तर्पयन्निवेष्टदेवता दयिता- प्रसादासादनायार्चयन्निवोपनतसमुदयां प्रसादपूर्वसंध्यामुपहरन्निव करकमल- कान्तिसंक्रान्तिरक्तीकृताम्बुधारारुधिरचषकान्कोपकरालकालिकायै समुप- शमयन्निवातिमानदावानलज्वालाकलापमासिञ्चयन्निव प्रतियुवतिसौभाग्यगर्व- कृशानुपरिशोष्यमाणां प्रियाप्रणयकल्पवल्ली तल्लीनमना मनागुन्मार्जयन्कठि- नकुचस्थलस्खलनसंचूर्णिताश्रुशीकरान्परामृशंश्च नयनयुगलमदरदरकलित- कम्पेनोत्तरीयाञ्चलावलम्बिना पाणिना करकलितचारुचिबुकमास्यमुन्नमयन्न- नुनयन्नेनां मानापनोददक्षाणि श्लक्ष्णानि वचांसि वक्तुमारे भे 'विरम विरम वामेऽमङ्गलादश्रुपाता- दलमलमतिमात्रं गात्रसंतापनेन । न खलु न खलु कान्ते कारणं तर्कयामः कथय कथय किं स्यादत्र बीजं गरीयः ॥ ४९ ॥ वपुषि विशदमेतत्संदधानाम्बरं त्वं किमिव सुमुखि शोभां शारदीमादधासि । यदिह विषमतापोत्रासमस्माकमित्थं वितरसि बहुधान्यैर्लक्षणैर्लक्ष्यमाणा ॥ ५० ॥ विलुलदलकजालः केशपाशो न शोभां कलयति कुचपीठे संलुठन्मुक्तमाल्यः । प्रणिहितसुमनस्कः स्नेहसंवर्धितोऽसौ कुटिलमलिनवृत्तिवन्धनस्यैव योग्यः ॥ ५१ ॥ तव शिरसि ललाटारोधि नोष्णीषखण्डं रमयति मम चेतः श्वेतमेतत्सुकेशि । -- ३

काव्यमाला।
उपनमति किमिन्दुः सेवितुं त्वन्मुखेन्दं
ग्रसितुमुत तमस्त्वत्केशपाशापदेशम् ॥ ५२ ।।
अयमपि तव भाले चन्दनालेपपङ्कः
कलयति बत बाले कं न रक्तो विरक्तम् ।
चिकुरनिकरराहुग्रस्यमानानुरज्य-
परिसरमुखचन्द्रभ्रान्तिमुच्चैर्ददानः ।। ५३ ॥
किमिति किल कपोले लोलबाप्पाम्बुधारा-
व्यतिकरहतकान्ति वासनामात्रशेषाम् ।
मदुपरचितचित्रां पत्रवल्लीमतल्ली
ग्लपयसि धिगधीरे मन्मनो निर्विशेषम् ॥ ५४ ॥
अधरितमधुसिन्धुः साधुबन्धूकबन्धु-
वलितकमलगन्धो बन्धुरस्तेऽधरोष्ठः ।
प्रथमगलितराजत्साञ्जनाश्रूदबिन्दुः
कलयति किल गुञ्जापुञ्जम त्वमेषः ॥ ५५ ॥
बदनमदनदिव्यस्यन्दनालोलचक्रे
रतिरतिपतिदूराकृष्टकोदण्डबिम्बे ।
कुसुमविशिखलक्ष्याभ्याससंधानयन्त्रे
कथय कथमहासीः कुण्डले मण्डने ते ॥ ५६ ॥
सुमुखि शिशिररोचिर्वक्रमेतद्यदीया-
श्रितनयनचकोरद्वन्द्वमन्तर्मयूखैः
जडमतिसुहितत्वादुद्वमत्यश्रुदम्भा-
दमृतमिव कलङ्कस्यन्दपङ्कप्रसङ्गम् ॥ ५७ ॥
अयि वदनमिदं ते स्त्यानपीयूषपात्रं
द्विरदरदनखण्डापाण्डुगण्डस्थलथि ।
अविरतपरितापात्प्रस्रवद्भूरिधारं
यदसकृदहहापक्षीयते पक्ष्मलाक्षि ॥ ५८ ॥

२ उच्छासः] पारिजातहरणचम्पूः।
करकिसलयशय्याशायि निःश्वासतापा-
दविरलगलदश्रु त्वन्मुखं मां दुनोति ।
द्विजपतिमभिभूयोद्भूतपापानुतापं
कुचशिवमभिषिञ्चत्खं किमेतत्पुनीते ॥ ५९ ।।
किं खिद्यसे मलयजैर्मलयानिलैर्वा
किं वा मृणालवलयैर्नलिनीदलैर्वा ।
संशीलितापि
ननु शीतलसंविधान-
हां हन्त हन्त हृदयं मम दन्दहीषि ॥ ६० ॥
अयि विमुञ्च रुषं मयि कोपने वद कमप्यथवा मम दुर्नयम् ।
किमिति राञ्जन () मञ्जनवारिभिः सुमुखि संजनयस्यसमञ्जसम् ॥६१॥
हृदि कदापि च कापि चकास्ति चेत्त्वदपरा तदवैषि यथातथम् ।
मम हृदेव परं भवती यतः सकलवृत्तिषु साक्षितया स्थिता ॥ १२ ॥
प्रतियुवतिमुखादनार्यमार्ये किमपि वचस्तव गोचरः किमासीत् ।
कथय मम कयात्मनानुरागे वचनमयेऽपि कृतो बतान्तरायः ॥ ६३ ।।
कपटविकटचेटिकावचोभिर्गमयितुमर्हसि नो मनोविकारम् ।
रचयितुमितरेतरं वियोगं कलिकुतुकग्रहिलाः खला भवन्ति ॥ ६४ ॥
त्वमसि मम मनोविनोदभूमिः परमपरा मुखरागमात्रपात्रम् ।
वद वदनविनिर्जितेन्दुरन्या जयतितमां कतमातिमानयोग्या ॥ ६५ ।।
खमेऽपि चेद्वेषमुपाचरं ते द्वेषं न किं जीवितमात्मरूपे ।
तद्वैशसं सुन्दरि मां दुनोति त्वद्वेषमातन्वदतीव शोच्यम् (१) ॥ ६६ ॥
किं च ।
त्वं चन्द्रिका चेत्तदहं चकोरस्त्वं दीपिका चेत्तदहं प्रकाशः ।
कादम्बिनी त्वं यदि चातकोऽहं मामन्यथा मानिनि मा स्म बुद्धः ॥६७॥
नित्यं प्रियं मामवगत्य सत्यं सत्ये द्वितीयं त्वदभिन्नरूपम् ।
आरोपयस्यद्य वरोरु वाच्यं नूनं तदज्ञानवशंवदं ते ॥ ६८ ॥

२८ काव्यमाला। किं बहुना। उदञ्चय विलोचनं रचय पद्मसंकोचनं समालप विकखरं ननु पिकवरं नीचय । स्मितं रचय विन्दतां सपदि मन्दतां चन्द्रमा विधेहि परिरम्भणं त्यजतु जृम्भणं चन्दनम् ॥ ६९ ॥ तापं मुञ्च विमुञ्च कञ्चुक चिरावक्लेदि (१) बाष्पायितं संयच्छालकमस्तु वस्तुनि मया ख्याते मनागादरः । सान्द्रप्रेमपरम्पराभृति मयि प्राप्तेऽपि हन्त प्रिये नन्तुं मन्तुमहो न मन्तुमुचितं क्षन्तुं परं भामिनि' ॥ ७० ॥ ततश्चेत्थमनुनयति भगवति रथाङ्गपाणौ शिरःसंजिताञ्जलौ कुञ्जराधी- शकुम्भदम्भप्रतिपक्षवक्षोजचुम्बिचामरचारुचिकुरनिकरा बाष्पबिन्दुवृन्दतार- कोपास्यमानास्यतुहिनकिरणा मुहुर्मुहुर्विनिःश्वसन्ती कथंकथंचिन्निरुध्यमा- नाश्रुमिश्रकण्ठगुनु (2) गद्गदं सोपालम्भं सत्यभामा क्षामाक्षरोत्तरमिद- मवादीत्- 'अलमलं कमलाधिपते ब्रज व्रजजनप्रिय नाथ नमोऽस्तु ते । अपि कृतं कितव श्रितकैतवैरनुनयैर्ननु यैरवहस्यते ॥ ७१ ॥ ऋजुतया स्वतयाहमबोधिषं ननु भवन्तमियन्तमनेहसम् । कपटनाटितके घृतपाटवं चिरमभुत्स्यधुना मधुनाशन ॥ ७२ ॥ निरणयं प्रणयं तव माधव ध्रुवमबोधमहं तव शुद्धताम् । बहिरिवान्तरपि प्रथयस्यहो परिजनेऽरिजनेऽपि च कृष्णताम् ॥ ७३ ॥ अपि बलिच्छलनात्कुहनानटी विकटवामनतां तु तवामनन् । यदि जनस्त्वयि विश्वसिति स्फुटं महदहो ननु मोहविजृम्भितम् ॥७४।' नरहरे भवतः प्रथिता परं दितिजनिर्दलनाय कठोरता । सपदि मादृशि तामबलाजने न कृपणेऽप्यवलम्बितुमर्हसि ॥ ७५ ॥ ऋजुमृदुप्रकृतौ कृतसंश्रये मयि जने जनयन्ननयं खयम् । विदधदीदृशमच्युत वञ्चनं फलमहो मनसीह किमीहसे ॥ ७६ ।।

३ उच्छवासः] पारिजातहरणचम्पूः । २९ श्रव्यं श्रुतं दृश्यमपीह दृष्टं लब्धं फलं माधव जीवितस्य । द्रष्टास्मि भूयः कियदद्य कष्टं येनासवो नाशु बहिर्भवन्ति ॥ ७७ ।। नाथामि नाथामितमेतदेकं दास्यस्मि तावद्यदि दास्यसि त्वम् । तपः सपत्नीविजिताद्य कुर्या येनानुकुर्यां तव वल्लभायाः' ॥ ७८ ॥ उपचितगुरुमन्यूत्पीडवाष्पार्धरुद्धा- क्षरमिति हरिमुक्त्वा भूरि भूयो रुरोद । वदनमैपिदधाना तस्य पीताम्बरेण प्रसभमुपहसन्ती सा तडित्वन्तमुच्चैः ॥ ७९ ॥ वैरिखैररणे परोपकरणे लोकापदां वारणे सद्धर्माचरणे बुधानुसरणे यः क्ष्माभृतां दीक्षितः । तस्यादेशवशान्नरोत्तमविभोः कृष्णस्य सन्निर्मिता- वुच्छासः किल पारिजातहरणे जातो द्वितीयः परः ॥ ८० ॥ तृतीय उच्छ्वासः। अथ तथा विपरिदेवमानां तत्कालकरुणार्णवप्लवमानमानसो वासुदेवो- ऽप्येनां ससंभ्रममतिस्नेहं भुजाभ्यां परिरभ्य प्रेमनिर्भराणि वचांसि वक्तु- मारेभे—'देवि सात्राजिति, कथमनवबोध्यैवापराधमुपालम्भवाक्शरप्रहा- रैरित्थं कदर्थ्यतेऽयं जनः । येनैतास्तव तरलनयननीरधाराः परिक्लेदय- न्तितमा मन्मनोवृत्तिम् । एते च निःश्वासानिला वरविषधरफूत्कारविषमा मर्मभेदिनो जर्जरयन्ति मे हृदयम् । न चात्यन्तमसंस्तुतं तवातिकोपका- रणमिदमुत्प्रेक्षितुं क्षमम् । तत्कथय कोऽत्र हेतुः । कया विरोषितासि । कयावज्ञातासि । कयासूचितासि । शापितासि मे जीवितेन । न खल्वप- राधमनवबोध्यैव प्रभवः प्रभवन्ति परिजनानुपालब्धुम् । तदावेदय निर्वे- दकारणम् । अनुगृहाण माम्' इत्यभिदधानमियमप्यपमृज्य लोचनजल- मवनताननं सगद्गदमिदमवादीत्- १. अपिदधाना पिदधती.

काव्यमाला। 'सैषापरा मम नृशंस विडम्बनान्यै- रुद्धोप्यमाणमपमानमहो मदीयम् । भूयोऽनुवादयसि यत्किल मन्मुखेन जानन्नपि स्वकृतिमज्ञ इवाकृतज्ञः ॥ १ ॥ विश्वंभरं भुवनसाक्षिणमामनन्ति त्वां तद्भवानथ कथं स विदांकरोतु । मद्वेदनां बत शठा न हठात्प्रयान्ति वायत्ततामकरुणास्तरुणा भवन्ति ॥ २॥ यत्त्वं मम प्रियतमा चलचित्तदन्ति- संदानमित्यभिहितं यदि विस्सरेस्त्वम् । चित्रं न तत्र मदवद्यमिहाद्य कृत्वा जातिस्मरोऽपि लघु विस्मृतवानसीत्थम् ॥ ३ ॥ अयि मयि खयमेव यदर्पितं जगति सौभगवैभवमद्भुतम् । अपहृतं यदि हन्त न नः क्षतिर्निजपरिश्रम एव वृथा कृतः ॥ ४ ॥ तदपहार्यमभूद्यदि ते हृदि प्रिय किमित्यहहामि विडम्बिता । त्रिचतुराहमुदुह्य समुन्नतं प्रतिजनं विनमधती शिरः ॥ ५॥ यन्नारदस्तेऽदित पारिजातं तत्वप्रियायै ददता त्वयाद्य । मानोऽभिमानोऽपि मनोऽपि किं वा नादायि नाहारि ममेह किं वा ॥६॥ वाचाटतां स्पष्टयतो द्विजाच्चिरादाकर्णयंस्तद्गुणवर्णनानि चेत् । सुदुर्भगोऽयं परिहासभाजनं जनः किमर्थं तदिहाभिभाषितः ॥ ७ ॥ त्वामाश्रवं स्वाश्रयमाप्य सर्वा गर्वात्पराभूय पराः सपलीः । खप्नेऽपि नाशङ्किषि मानभङ्गं यमङ्ग संप्रत्यहमन्वभाविषि ॥ ८ ॥ शृन्वन्गृणन्विप्रियमाचरन्मे त्वं धूर्त चेन्नात्रपथास्तथापि । सात्राजिती सा त्रपया खमास्यं किं दर्शयेद्धृत्यसुहृत्समाजे ॥ ९॥ धिक्तं निजे यो विदधाति कैतवं निजं च धिग्यः सहसा न दीर्यते । अलं वचोभिर्विदितोऽसि संप्रति प्रिय प्रतिप्रेयसि गच्छ सत्वरम् ॥१०॥ १. 'वचने स्थित आश्रवः'.

३ उच्छ्वासः ]
पारिजातहरणचम्पूः।
३१
इति निशम्य गिरं गुरुगद्गदां स दयितां निजगाद गदाधरः ।
विधुरतामधरक्षरदक्षरद्रव सुधाभिरथ प्रशमं नयन् ॥ ११ ॥
'अयि निधेहि विधेयजने दृशं भृशममुं च विमुञ्च शुचां चयम् ।
न खलु भामिनि भामिनि भालय(?) त्वदवधीरणया विधुरीकृतः ॥१२॥
यदि रुषा परुषा] क्षरमात्थ मा यदि कलं कलकण्ठि समालपेः ।
तदपि मामवगच्छ वशंवदं किमधिकं प्रभवेऽद्य निवेद्यते ॥ १३ ॥
यदि विदर्भभुवे स नतभ्रुवे स्वयमदात्कुसुमं मुनिरादरात् ।
प्रणयदक्षिणतादि निरीक्ष्य तन्न खलु मामनुयोक्तुमिहार्हसि ॥ १४ ॥
यदववर्णददो गुणगौरवं न कलयापि किलाशृणवं तदा ।
त्वदवतंसविधावुचितं परं सुरतरुप्रसवं परिचिन्तयन् ॥ १५ ॥
यदि ददत्कुसुमं स मुनिर्गुणानभिदधच्च निवारयितुं क्षमः ।
अयि हृदापरुषा परिभावयेनिरनुरोधतमा हि तपोधनाः ॥ १६ ॥
सुरतरुप्रसवं तु यदीहसे तदियदर्थमियत्किमु खिद्यते ।
अपि हरिं परिभूय तरुं दिवस्तव चिरादचिरेऽपि निवासये' ॥ १७ ॥
सत्यभामा तु तदाकर्ण्य घुणाक्षरन्यायागतमिव रभसवादमिममाशङ्क-
माना मनागभिनवजलदजलधारोपसिक्ता क्षितिरिवोच्छ्रसन्ती प्रभातवेलेव
विगलन्मोहतिमिरपटला उत्तरसं (व) ध्येवावन्ध्यरागशिथिलपरितापा समु-
पसन्नतरणिसमुदया सरोजिनीवेषदुल्लसितमुखाम्बुजा निजाशयातिशायिभु-
जगशायिवचनमेव ससंभ्रमं द्रढयन्ती भूयोऽपि तमेवमावभाषे-'आर्य,
यद्येतदपि वाङ्मात्रमेव तदलमायास्य वाग्देवताम् । नैतावतापि प्रत्याख्या-
तप्रकृतिः परप्रत्ययोत्पादनाय प्रभवसि । हृदयमुखसंवादितां तु तावकीनां
सदनुसारिणी कृतिरेवावेदयिष्यति । वाङ्मूला हि व्यवहारा महीयसाम् ।
तथा हि।
वाचमेव परां देवीं भूतानि समुपासते ।
सुरासुराः सृष्टिलयौ सत्यासत्ये.श्रुतिस्मृती ॥ १८ ॥
धर्मस्तेन हतः सर्वो येन वागुपहन्यते ।
अयं चासौ च लोकौ द्वौ द्वे कुले चाकुले कृते ॥ १९ ॥

३२ काव्यमाला। तदिह यदि कथंचित्पारिजातद्रुमः क्षमा- मवतरति विधातुं सुन्दरं मन्दिरं मे । प्रतियुवतिषु धन्या विश्वमान्या मुरारे सपदि विगतशोका पूर्णकामा भवेयम् ॥ २० ॥ तदाकर्ण्य वासुदेवोऽपि 'देवि सात्राजिति, परमनुगृहीतोऽस्मि यदिय- न्मात्रेणैव कर्मणा मामानृण्यमुपनिनीषसि । किं बहुना भाषितेन, सुदुर्ल- भेऽपि तवाभिलषिते न विषण्णतामेति मच्चेतः, किं पुनर्दृक्पातमात्रवित्रा- सित्रिदिवपतिविततपतन्निःश्वासवात्यापातनीये पारिजाततरौ । तन्निवारय नेत्रवारि वारिजाक्षि । धारय धैर्यम् । नाशय शोकमशोककिसलयशये । परिहर सितवसनमसितनयने । परिगृहाण मय(?)मण्डनानि चण्डरोषे । अनुजानीहि मामहंकारमिव महेन्द्रस्य दिव्यतरुमवतारयितुम् । अवजा- नीहि पुरंदरसुन्दरीम् । अयमहमक्रमविक्रमाक्रान्तशक्रः सुरतरुमाहरामि । तदुत्तिष्ठ । संभावय द्विजदेवपूजोपकरणनियोजनेन परिजनम्' इत्यभिद- धानस्तत्कालसमुल्लसितवदननयननीरजां शरदमिव पूर्णकामां सत्यभामामा- लिङ्गय करकिसलयेनालम्बमानोऽहायाहिककरणायोदतिष्ठत् । च ससंभ्रमोपनतपरिचारिकाकृतोत्कर्षकीर्तनाकर्णनापूर्णकर्णकलशगौरवादि- वेषदवनमितशीर्षया सुरतरुहरणवितर्कभङ्गुरभ्रूलतया तयानुगतो नितान्त- कान्तं निशान्तमाविवेश । प्रविश्य च विश्वात्मा विविधसंविधानं ध्याना- वधानाह्वानसद्यःसमुपनतमत्यादरेण सत्यभामया सह साधु सत्कृत्य [कृत्य]- विदशेषविश्ववन्दनीयचरणनीरोऽपि तदीयपादप्रक्षालनसलिलसंग्रहपुरःसर- मुपचारचतुरश्चतुराननतनयमनल्पकल्पितैराकल्पैरलंकृत्य रस्यलेह्यचोष्यपे- यभक्ष्यभोज्यकल्पनाविकल्पितैरन्नैः परमात्मा हेममये भाजने समभोजयत् । अथ जगद्गुरुणा हरिणादरादनुमतं बुभुजेऽभिमतं मुनिः। अशनजातमजातपरिश्रमः क्रमविदेष ददेऽथ शुभाशिषः ॥ २१ ॥ स च ततोऽनुमतो मुनिनामुना हरिरभामनया सह भामया । समघसद्विघसं परया मुदा जगदघौघविघातविशारदः ॥ २२ ॥ समनुभूय चिरं स सुखासिकामथ परस्परमिष्टसुखादिभिः । जिगमिषुस्त्रिदिवं मुनिपुंगवस्तमनुदारमुदारमुदाहरत् ॥ २३ ॥ उत्थाय ३ उच्छासः] पारिजातहरणचम्पूः । 'आपृच्छे त्वाममरनगरीं गन्तुकामो महेशं सोमं सोमोज्ज्वलमनुमतास्तत्र वृत्रस्य हन्त्रा। उद्गास्यन्ति त्रिदशसमितावद्य गन्धर्वसंघा- स्तद्गान्धर्वाकलनकुतुकेनाहमामन्त्रितोऽस्मि' ॥ २४ ।। तदाकर्ण्य चाकर्णितत्रिपुरहरणपरिचरणानुस्मरणक्षणस्तिमितसकलेन्द्रि- यवृत्तिः सद्यः सतन्द्रनयनमुकुलगलदमलहर्षबाष्पशीकरासारसंसपितह- दयपीठः परमेष्ठितनयविरहवेदनामिवावेदयन्नविकखरविखरां गिरमुदा- हर्तुमारे भे-'भगवन्महर्षे, प्रत्यूहव्यूहबहलानि श्रेयांसीति सत्योऽयं प्रवादः, यदनेककालकल्पितानल्पसंकल्पजालकलनया कथंकथंचिदुपाकृष्टो- ऽपि स भगवान्सुरपुरपुरहरमहोत्सवालोकनकुतूहलेन दूरमपहियसे । तद्व- रमीश्वराराधनान्तरायाचरणाद्विरहवेदनानुभव एव मादृशाम् । तद्गच्छ खच्छन्दमिन्द्रसदनम् । ममापि महेन्द्रपादपद्मदिदृक्षोत्तरलयति मान- सम् । तदनुज्ञापेक्षा तु क्षपयति समयम् । किं तु सदनमुपगतेन श्रीमताद्यामराणां दनुतनुभववंशोदामदावानलौजाः । प्रणयविनयपूर्वं पूर्वमुक्त्वा प्रणामा- निदमथ मम वाच्यो वाचिकं नाकपालः ॥ २५ ॥ किं च। न हारे नाहारे न च वनविहारे न च हरे न शस्त्रे नो शास्त्रे न परिचरणे नापि च रणे । मनागप्यासङ्गं कलयति कदाचिच्चिरभव- द्भवत्पादाम्भोजाकलनकुतुकोत्कं मम मनः ॥ २६ ॥ अपि च । अवति भवति विश्वं क्रीडतो वीतचिन्तं मम मनसि कदापि कापि केनापि नापि । पदमिह कलुषेण प्रायशस्त्वाधयो मां विधति दुरवस्थं संप्रतीमे प्रतीपाः ।। २७ ।।

काव्यमाला
तथा हि।
एकेनानेककामान्कलयितुमनसा याचितः प्रागदित्या
सद्यस्तुष्टेन सृष्टस्त्रिभुवनसुभगंभावुकः कश्यपेन ।
शच्या रुच्यास्पदं यो व्यरचि तरुवरोऽदायि दानं वधूमि-
देवानां पुण्यकाख्यव्रतचरणविधौ पारिजातोऽभिजातः ॥ २८॥
श्रुत्वैतद्भातृपत्न्यस्तव चिरममराधीश काङ्क्षन्ति वृक्षं
कर्तुं पुण्यव्रतं तत्कतिचन दिवसान्द्वारवत्यामुपेत्य ।
सत्याया निर्मिमाणः सुरपुरमजिरं राजतां पारिजात-
स्तात प्रातः किलाथ व्रतचरण विधेः स्वर्गमभ्येतु भूयः ॥ २९ ॥
अपरमपि तथा तथा यतेथाः स मयि दयेत यथा ददेत वृक्षम् ।
अहमिह परिभाव्यपौरुषं ते मुनिवर दूत्यविधौ नियोजयामि' ॥ ३० ॥
नारदस्तु तदाकर्ण्य सद्यः स्मितसुधाधोरलिधवलितगदाधरकलेवरो
नासाग्रविनिविष्टदृष्टिः क्षणमनुध्यायन्किचिदाधूतमूर्धा विमनायमान इव
वासुदेवमिदमवादीत् -
'अयि केशिनिषूदन व्रजेयं कथयेयं तव वाचिकं मघोने ।
तदपीह विधेयसिद्ध्यसिद्धी मनसि खे विमृशाथ संदिशाशु ॥ ३१ ॥
महतामहताशिषां परस्मात्फलसिद्धिर्यदि नाधिकः प्रकर्षः ।
अथ मर्म भिनत्त्यसिद्धिपक्षे मरणादप्यतिदारुणोऽपकर्षः ॥ ३२ ॥
अवयन्नरिदन्तिदन्तकुन्तक्षतवक्षःकिणसंक्ष्णुताशनिं तम् ।
कथमर्थयितुं रथाङ्गपाणे सुरराजं तरुमीहसे हृदापि ॥ ३३ ॥
अमुमर्थितवान्पुरा पुरारिः किल गौरीपरितोषणाय यत्नात् ।
अनुनीय शचीकृते गिरीशं समरक्षि द्युतरुः पुरंदरेण ॥ ३४ ॥
सबलः स बलस्य निग्रहीता बलदेवानुज जातु पारिजातम् ।
अनुलोमतमं पुलोमजायास्तव नो दास्यति जीवनिर्विशेषम् ॥ ३५ ॥
तदिदं प्रथमं प्रथावतस्ते प्रथताद्धन्त न लाघवं मघोनः ।
समुपक्षिप पङ्कजाक्ष साक्षान्न सहस्राक्षमहो विपक्षपक्षे ॥ ३६॥

३ उच्छासः] पारिजातहरणचम्पूः। ३५ अथ वासुदेवोऽपि तत्कालतरल इव कलहमुनेः सुनासीरगौरवादरस- मृद्धानि समिध्यमानापमानसूचिताभिमानवैश्वानराणि सविनयोपहासलेश- पेशलानि वचनानि निःशेषमवगत्याभ्याशवर्तिसत्यभामासौहित्योपहिताम- हितापिताकरीमापातमधुरां विधुरपरिपाका गिरमुदाजहार- 'न जहार हरः सुरेन्द्रपत्याः प्रियमेतं यदि नाम पारिजातम् । उचितं तु तदस्य भूतभर्तुः स किल ज्येष्ठतमः सुरासुराणाम् ॥ ३७ ॥ अहिहन्तुरहं तु यत्कनीयाननहंकारपरोऽपरोपितारिः । सदयं स जयन्तवन्ममोच्चैस्तदयं लालनमहतीह कर्तुम् ॥ ३८ ॥ प्रभवन्विषमेक्षणः शचीच्छामनुरुन्धन्यमुदास्त तं महेन्द्रः । न कथं तरुमेव याचमानाः ववधूय खवधूरपत्रपेत ॥ ३९ ॥ स भवान्बहुधा दधातु यत्नं तरुरत्ने स्तनयित्नुवाहनाये। वितरिष्यति सोऽपि मे हितैपी न सपत्नं सहसा स मां विदध्यात् ॥४०॥ सत्याः पुरस्तात्कृतमप्यसत्याकृत्याद्य वृक्षाहरणं दिवस्तत् । सत्यप्रतिज्ञत्वभवं त्रिलोक्यां यशो यशोदाङ्गभुवोऽवसीदेत् ॥ ४१॥ न चेदयं दास्यति याच्यमानो विमानया नः प्रभुताभिमानात् । तदा गदा मेऽद्य गदाग्रजस्य सद्यः समानेष्यति पारिजातम् ॥ ४२ ॥ न देवदैत्या न च सिद्धसाध्या न यक्षरक्षांसि मम क्षमन्ते । विहन्तुमाज्ञामिह हन्तु किं तु संकोचयत्यत्र गुरोविरोधः ॥ ४३ ॥ ब्रज मुनिवर नाकं मन्त्रयेन्द्रेण साकं शमय विषमपाकं वैरमस्माकमुद्यत् । यदपरमुचितं स्यादत्र गोत्रप्रहर्ने तदुपदिश महर्षे वेत्सि नो तारतम्यम्' ॥ ४४ ॥ गिरमिति मुरहन्तुस्तामुदारां निशम्य प्रणयविनयशौर्यक्रौर्यसद्भावगर्भाम् । कलहमुनिरथोच्चैरासनादुच्चचाल द्विजपतिरिव पूर्वक्ष्माधरादम्बरान्तः ॥ ४५॥ १. अहितापि शक्रः.

काव्यमाला। वैरिखैररणे परोपकरणे लोकापदां वारणे सद्धर्माचरणे बुधानुसरणे यः क्ष्माभृतां दीक्षितः । तस्यादेशवशान्नरोत्तमविभोः कृष्णस्य सन्निर्मिता- वुच्छासः किल पारिजातहरणे जातस्तृतीयः शुभः ॥ ४६ ॥ चतुर्थ उच्छ्वासः। अथ नारदोऽप्यमरपुरपरिसरसरणिमनुसरन्सरभससमुपनतानतसुरसिद्ध- विद्याधरकिंनरनिकरचिरविरचितपरिचर्योपचारपरम्परापराभूयमानयानवेगो विमानयानैः सरभसमपसरद्भिरभितो वितीर्णपद्यः सद्यः समुद्यताहिकाने- कमहर्षिविततकुशकुसुमतिलशबलपुलिनसमृद्धां सिद्धाङ्गनाकुचकलशकुङ्कु- माङ्गरागपङ्कपिञ्जरितनीरपूरोच्छलच्छटाछलादखिलभुवनवलयकलुषचुलुक- नाय प्रतिक्षणोत्क्षिप्तजिह्वासहरिव वचिद्विविधमधुगन्धलोभमिलदलिकु- लाकुलितललितकमलमालावलीतरलसलिलभङ्गिरिङ्गणोज्जृम्भमाणमोक्षलक्ष्मी- कटाक्षभङ्गरफ़ैरिव तरङ्गैः समुद्भासितपरिसरां गीर्वाणतरङ्गिणीमुपस्पृशं- स्त्रिदशपरिषदमुपाससाद । तत्र च परिनृत्यत्सुरतरुणीसहस्र सगर्वगन्धर्व- मेलकालपितपञ्चमोद्गीतगीतप्रबन्धबन्धुरे धमधमायमानमधुरमुरजे विविधवि- कीर्णनन्दनोद्यानसमुद्भूतकुसुमामोदमोदितमधुरमधुकरपटलगुञ्जानिनादमञ्जुले निखिलभुवनसमुद्घोप्यमाणजयजयारवे पुरहरमहोत्सवे दत्तावधानं विवुध- परिषन्मध्यमध्यासीनं सुनासीरमद्राक्षीत् । क्रमेण चातिक्रान्ते त्रिपुरान्तकाराधनसमारम्भे सभाजितेषु द्विजातिषु विसर्जितेषु देवर्षिसिद्धविद्याधरप्रभृतिषु स्वसदस्यैत्रिभित्रैः समुपास्यमानं देवराजमुपाजगाम । शतक्रतुरपि ब्रह्मिष्ठं ब्रह्मसूनुमभ्यागतं विभाव्य सद्यः ससंभ्रममभ्यु- त्थाय प्रश्रयातिशयशालिना मौलिना विकटमुकुटशिखरशिखोल्लिखितच- रणनखप्रेक्षन्मयूखं प्रणम्य निजासन्नोच्चासने कुशान्तरिते समुपविष्टं मधु- पर्कादिभिरपनीतवमखेदं प्रीतमना मनाङ्मनसानुचिन्त्य प्रियालापगोष्ठीर- न्वतिष्ठत्- 'भगवन्नम्भोजसंभवोद्भव, १. दत्तमार्गः.

४ उच्छ्रासः] पारिजातहरणचम्पूः।
३७
के देशाः कान्यरण्यानि के शैलाः के तपोधनाः ।
पुण्यभाजः सम्राजस्त्वयातिथ्येन सत्कृताः ॥ १॥
किमद्राक्षीः किमप्राक्षीः किमश्रौपी ऋषीश्वर ।
अपूर्व पूर्वदेवेषु देवेष्यन्येषु वा नृषु ॥ २ ॥
नारदस्तु तदाकर्ण्य 'कथं प्रस्तुतमेवेन्द्रेण, यदस्माभिः प्रस्तावनीयम्'
इत्यभिसंदधानः सविस्तरं पारिजातप्रसूनजातवृत्तान्तं सत्यभामाभामान्त-
मावेदयन्वासुदेववाचिकमवादीत्-
'इन्द्रोपेन्द्रः प्रणमनमतिप्रीतिपूर्व तु पूर्व
संदिश्य त्वां कुशल कुशलप्रश्नमाशु प्रयुज्य ।
कंसध्वंसी शतमखमथो वाचिकेनाययाच-
उद्देवेश प्रणयविनयोपेतमेतन्निबोध ॥ ३ ॥
त्वत्तो लब्धं प्रसूनं यददित स मुनिर्भीष्मजायै तदद्य
श्रुत्वा सा सत्यभामा समजनि सहसान्वर्थनामा तदर्थम् ।
त्वत्तः संभाव्यलभ्यं तरुमपि तदिह प्रातिभाव्यं समर्थ्य
ग्रन्थिं प्रामुमुचं तद्धृदि निहितमहं हन्त मानग्रहस्य ॥ ४ ॥
अदितिरदित यस्मिन्कश्यपं पश्य बद्धवा
निधिपतिमपि ऋद्धी रोहिणी चापि चन्द्रम् ।
अपि च किल शची त्वां मोचितं निष्क्रयेण
द्रुममिममिदमर्थं याचतेऽद्य स्नुषा ते ॥ ५ ॥
अहमपि तव वध्वा तत्र बद्ध्वा वितीर्ण-
स्त्वमिव तु कलयेयं विक्रयं निष्क्रयेण ।
समनुभवतु सापि त्वत्प्रसादादिहापि
त्रिदशभवनभोगांस्त्वत्प्रियानिर्विशेषान् ॥ ६॥
तनुजवदनुजस्ते लालनीयोऽस्मि शश्व-
त्परिचरणपरात्मा विक्रमश्लाघनीयः ।
सुरतरुमनुरुध्य प्रार्यमानं वधूभि-
ने खलु समुचितं ते तत्र वैमुख्यरौक्ष्यम्' ॥ ७ ॥

काव्यमाला।
जम्भारिरपि निजानुजानुस्मरणमसृणमना मनागार्भ(?)वत्सदयहृदया-
नुक्षणक्षणक्षरत्नेहरसद्रवैरिवाश्रुशिशिरनीरशीकरैरलंकृतनयनकमलसहस्रः क्षणं
विचिन्त्य विरञ्चितनुसंभवं प्रत्युवाच-
'मुनिवर परमः प्रियंकरस्त्वं नृहरिकथासुधयासिचो यतो माम् ।
स्मरति मम चिरात्पुरा मुरारिर्विषयरसैर्विषमैर्वशीकृतात्मा ॥ ८ ॥
तमनु(?) मनुजरूपं मेऽनुजन्मानमित्थं
कथय कुशलपृच्छापूर्वमुर्वी प्रयातः ।
उचितमयमयाचत्पारिजातं धुजातं
यदिह स वसुजातं सर्वमहत्युपेन्द्रः ॥ ९ ॥
खयमिह हि पुराणः पूरुषो विश्वभर्ता-
भजत मदनुजत्वं गौरवं वर्धयन्मे ।
स किल सकललोकाधीशिता मामयाच-
द्यदि किमधिकमन्यज्जीविताद्यन्न दद्याम् ॥ १० ॥
मुनिवर परमेतत्तत्र चित्रं करोति
त्रिभुवनजनसीमां संविधायात्मनैव ।
कथमिव स विदग्धो मुग्धनारीगिरा मा-
मखिलभुवनसाक्षी भङ्गुमादेक्ष्यतीति ॥ ११ ॥
खोकसारान्विभवैरुदारानगण्यपुण्योपचयावरे यान्(?) ।
अमर्त्यभोग्यान्स वितीर्य मर्ये नरामराणां नियति भनक्ति ॥ १२ ॥
मुनेऽमुनेत्थं भुवि दिव्यभोगैः संभाविते हन्त जने चिराय कः ।
पराङ्मुखः स्वर्गसुखे मखेच्छां करोतु कल्पावधि नो घिनोतु कः॥१३॥
याते भुवं संप्रति पारिजाते जातेऽद्य नामान्तरिते धुलोके ।
पुरेव को देवपुरेऽनुरंस्यते प्रियापि मामद्य तृणाय मंस्यते ॥ १४ ॥
निवर्त्य मत्र्येप्ववतारकार्यमार्य सभार्य तमिहोपयातम् ।
संभावयिष्यामि सुरोपचारैः सभाजनाभाजनमात्मबन्धुम् ॥ १५ ॥
चित्राणि वस्त्राण्यनणीयसो मणींश्चिरत्नरत्नानि निजं गजं हयम् ।
दास्येऽपरं चापि परं मुरारये न हापयिष्ये तु तरुं भुवं दिवः ॥ १६ ॥

४ उच्छासः] पारिजातहरणचम्पूः । मुने न किं वेत्ति भवान्प्रियायै भवोऽन्वभूत्प्रार्थ्य तरुं पराभवम् । सुदुर्लभं वस्तु समीहमाना न किं महान्तोऽपि वृथा प्रयान्ति' ॥१७॥ नारदस्तु तदाकर्ण्य सस्मितमिदमाचचक्षे- 'भगवन्नमरनिकरमौलिमाल्य, यथार्थमाह भवान् । न परं त्वद्य तवाज्ञा(?) । एतच्चान्याश्चात्यमाख्यायिकास्ते न्यायप्राया भ्रातुरग्रे किलाहम् । मानामतः पारिजातासारे दुर्मोच्योऽस्य त्वाग्रहग्रन्थिबन्धः ॥ १८ ॥ देवाधीश प्रायशः कामचारं निर्दाक्षिण्यं निणं निर्विवेकम् । द्विष्टात्मीयं पूरुषं संविधत्ते नूनं खल्पोऽपीश्वरत्वाभिमानः ॥ १०॥ पृष्टोऽपृष्टो वापि शिष्टो निजेष्टं ब्रूयात्तथ्यं पथ्यमित्यामनन्ति । तत्त्वां वच्मि खस्तरं प्रेषयास्मै यावत्कोपो नास्पृशत्तस्य चेतः ॥ २० ॥ क्षोणी वृक्षं विश्वनेता स नेता देवानेतान्धीरचेतावजेता। नूनं जिष्णोऽवव्यभव्ये तदस्मिन्मा स्साकस्मात्सद्यशस्तेऽवसीदेत् ॥२१॥ अनाख्येयमप्येतदाख्यामि सद्यो यथाधोक्षजो वाचिकं ते जगाद । सुखोदर्कमापाततिक्तं विविच्य प्रवक्तुं प्रभुभ्यो हिता नोद्विजन्ते ॥ २२ ॥ न दाता बिडौजा यदा पारिजातं तदा मे गदा द्यावदातावदाता(?) । शचीचन्दनालेपविक्षोभदक्षं वलक्षं यशोभिः सहस्राक्षवक्षः ॥ २३ ॥ न देवा न दैत्या न सिद्धा न साध्या न यक्षा न रक्षांसि नागा न नागाः। न वा किंनरा वा नरा वानरा वा मदीयां प्रतिज्ञा क्षमन्ते विहन्तुम् ॥२४॥ यथेत्थं प्रकृत्यासि धीरोऽपि वीरो बभाषे बभासे तथात्याहितं मे । नियोद्धा विरोद्धाबुधानुग्रधामा स मानी समानीयतां नारिपक्षम् ॥ २५ ॥ इति व्याहरन्तं तमव्याहताज्ञः स्फुटं वृत्रशत्रुर्मुनि व्याजहार । रुषारक्तनेत्रव्रजव्याजहारस्रजा पूजयन्वृत्रशस्त्रप्रहारान् ॥ २६ ॥ न मे विस्मयोऽनेन लोकेशयोने स्मयोऽनेकधा यद्ध्यधाय्यच्युतेन । खवाचालमाबालगोपालसिद्धो निसर्गप्रसिद्धोऽस्य वाचालभावः ॥ २७ ॥ समर्पणापालनलालनार्थापित्रोरथाज्ञाग्रहगौरवाच्च । स्नेहाहजुत्वादपि चाग्रजत्वादागांसि भूयांसि सहेऽस्य भूयः ॥ २८ ॥ १.न-अगा:.

काव्यमाला। स्मरस्यदः पाण्डवसारथिर्भवनखण्डधारं धनचण्डमण्डलम् । आखण्डलोद्योजितमाशु खण्डयन्स खाण्डवाग्निं ज्वलयिष्यति क्षणात् ॥२९॥ स्मरस्यदो मद्विमुखे व्रजेस्त्रे (1) वृष्ट्या मया विप्लवमानिनीषिते । तत्रान्तरायं सहसान्तरा यं प्रोद्धृत्य गोवर्धनमाचरिष्यति ॥ ३०॥ स्मरस्यदो वृत्रवधे सहायः वयं मयामायमयं पुरार्थितः । उपेक्षमाणो यदहं समानः सर्वेषु भूतेष्विति मां वदिष्यति ॥ ३१ ॥ यद्वास्तवोऽप्यात्मगुणः स्तुतः खयं महाजनानां विरुणद्धि धर्मम् । तथापि लब्धेऽवसरे नियन्त्रितुं शक्या रसज्ञा न कदापि कैश्चित् ॥ ३२ ॥ विगस्तु तृष्णां विषयेषु कृष्णो जिष्णुं गुरुं भ्रातरमात्मतत्परम् । स्त्रिया जितः कामवशोऽवशात्मा मुनेऽशृणोस्त्वं यदधिक्षिपत्यसौ ॥ ३३ ॥ यदि हृदि स गदां मे मोक्तुमिच्छत्यवश्यं तदलमिह विलम्बेनैतु संनह्य शौरिः । प्रहरतु मयि पूर्वं सर्वशस्त्रैस्ततोऽहं यदि सहजदया मां विक्लवं नो करोति ॥ ३४ ॥ ब्रज वजावर्जनदक्ष..."मं वदावदं तं वद संगराहते । न मायया नो दयया न या."मत्तोऽद्य पत्रार्धमपीह लप्स्यसे' ॥ ३५ ॥ नारदस्तु तदाकर्ण्य 'देव संक्रन्दन, नैतदात्मनीनमामन्त्रयसे । परवशा हि खलु संप्रति ते रोषावेशस्य बुद्धिः, न दूरदर्शिनी । अवश्यभाविनी चार्थेऽलं तवाप्यत्याग्रहेण, यदवजानासि प्राकृतमिव मनुष्यमात्रमेनम् । किं न जानासि तव मातुरदितेस्तपःप्रभावात्प्रसन्नं वैष्णवं ज्योतिरात्मनावतीर्ण त्वत्प्रीतयेऽनुजत्वं प्रपेदे । देवपक्षपातेन चामरवैरिणो निहन्तुमात्मना मही- मवततार । तदस्तु खस्ति देवेभ्यः । संपालय त्रिदशालयम् । लालयात्म- जान् । शीलय वर्गभोगान् । भ्रातृणामन्योन्यभेदो हि न श्रेयसे । किं न पश्यसि ज्ञातिभेदादामूलमुन्मूलितं शितिकण्ठपालितमपि लङ्केश्वरम् । तन्निवर्तख दुर्विपाकादस्मादारम्भात्' इत्यवादीत् । अथ 'मुने, जानाम्ये- ७ १. 'अभिज्ञावचने लद'.

४ उच्छासः] पारिजातहरणचम्पूः । ४१ नमेवंप्रभवमुदात्तहृदयम् । अत एवाल्पकेन पारिजातेन हेतुना महाप्रभावो भगवान्भ्रात्रा ज्यायसा न विरोत्स्यते । तद्द्वच्छ । आवेद्यतां द्वारकाधीशो मद्वाचिकम्' इतीन्द्रेण विसृष्टः स्रष्टुः सुतः समेत्य वासुदेवाय सर्वमिद- मावेदयांचक्रे । सोऽप्यशेषमिदमाकलय्य मनसोपहूतं गरुडमारूढः प्रद्युम्नसात्यकिसनाथेनान्तरिक्षगामिना रथेनानुगम्यमानो विमानयानव- मावजगाहे । ततश्च अनिमिषपुरमीयुषा निमेषादथ मिषतां द्विषतां खगेश्वरेण । समगमि वसुदेवनन्दनस्तं तरुमधिनन्दनमेष पारिजातम् ॥ ३६ ॥ विविधविबुधयोधैरुह्यदुद्दामशस्त्रैः प्रतिपथमथ रुद्धं कल्पवृक्षोपरुद्धम् । अचिरमुदमुमूलत्पारिजातं धुजातं यश इव बलभर्तुर्मूर्तमुच्चैः प्ररूढम् ॥ ३७ ।। तनुमतनुमवस्थितं विधाय द्युतरुममुं परिसान्त्व्य भीतमेषः । खगपतिमधिरोप्य संप्रतस्थे दिवमभिमण्डलयन्प्रदक्षिणेन ॥ ३८ ॥ वियति विहगवेगाद्धीरधारायमाणै- विततकनकपक्षोक्षिप्तभासां वितानैः । सुरपुरमनुचके तत्र बाणासुरीयां पुरमनलकलापाक्रान्तदिक्चक्रवालाम् ॥ ३९ ॥ सपदि विपिनपाला विस्मयत्रासमाजः किमिह महदकस्मादेतदौत्पातिकं नः । हरति भुवनरत्नं प्राकृतः कोऽप्ययना- दिति चकितमुपेत्य द्राङ्मघोने शशंसुः ॥ ४० ॥ सपदि समुदभूदभूतपूर्वः सुरनरकिंनरसिद्धचारणानाम् । वियति कलकलः स कोऽपि कृष्णं प्रसभमभिद्रवतां तरुं हरन्तम् ॥४१॥ वैरिखैररणे परोपकरणे लोकापदां वारणे सद्धर्माचरणे बुधानुसरणे यः क्ष्माभृतां दीक्षितः । १. कुङ्कुमद्रवतुल्यैः.

४२ काव्यमाला। तस्यादेशवशान्नरोत्तमविभोः कृष्णस्य सन्निर्मिता- वुच्छ्रासः किल पारिजातहरणे तुर्यः स धुर्यप्रियः ॥ ४२ ॥ पञ्चम उच्छ्वासः । अथोद्यानपालबजान्नाकपालः समाकर्ण्य कृष्णं तरं तं हरन्तम् । विचक्राम चक्रायुधेनाभियो« भृशं तत्वरे तत्त्वरेः प्रेक्ष्य रौक्ष्यम् । जयन्तं जयन्तं विपक्षाननेकान्सहादाय साहायकाय प्रतस्थे । समारुह्य चैरावणं वृत्रशत्रुः पुरद्वारि च द्वारकेशं ददर्श ॥ २॥ स कृष्णं प्रति प्राह तुष्टो न शिष्टोपजुष्टो 'हरे सेवितः सैष पन्थाः । यदस्मान्विमत्याविजित्यापि कान्तानुरोधान्ममाचूचुरः पारिजातम् ॥ ३॥ अशेषस्य विश्वस्य भर्तुः प्रहर्तुर्द्विषां भ्रातुरीड्यस्य विस्रम्भिणो मे । अयं राजसर्वस्वचौर्यापहारो न ते भूयसे श्रेयसे नायुषे च ॥ ४ ॥ बल्लवीवल्लभोल्लासयन्मल्लतां तुल्यपल्लीजने हारिहल्लीसकः । अप्यषानं भवन्नित्यभोगेष्वहो देवसेव्यं कथं वृक्षमाकाङ्क्षसि ॥ ५ ॥ यदि हृदि परमास्ते शूरवंशाभिमानः किमिति समिति शूरंमन्य तन्मामजित्वा । तमपहरसि चौरंकारमारा वितोऽपि प्रकटय सुभटत्वं मा स्म भोः कातरोऽभूः ॥ ६ ॥ गृहाण शस्त्रं विगृहाण जिष्णुना गदाभिघातैर्निगृहाण वक्षसि । वचो निजं चानुगृहाण शाखिना सार्धं गृहांश्चाथ निजान्गमिप्यसि ॥७॥ इति कुधा विस्फुरिताधरेण गदाधरो वज्रधरेण तेन । प्रोक्तः प्रतिप्राह हसन्प्रणम्य तं प्रश्रयानम्रतरेण मूर्धा ॥ ८ ॥ भवद्वधूटीकरणीयपुण्यकव्रतावताराय तरुं नयामि । न तेऽत्र जिष्णोरसहिष्णुतोचिता नालोचिता धर्मनियोजकस्य ॥ ९ ॥ यन्मां रणायाह्वयसे महेन्द्र कथं गुरोस्ते सुशकोऽभियोगः । किं तु त्वदाज्ञानतिवर्तनाय प्रवर्तये संगररङ्गकेलीः ॥ १० ॥ १. हल्लीसकं रासनाम्ना प्रसिद्धं स्त्रीनां मण्डलिकानृत्तम्. २. चौरंकारं चौरशब्द- मुच्चार्य.

: ५ उच्छवासः] पारिजातहरणचम्पूः। ४३ इति गिरं स गृणन्गरुडासनो बलभिदो बिभिदे करिणं शरैः । हरिहयोऽप्यथ विष्णुरथं रुषा भृशमपीडयदाशु तमाशुगैः ॥ ११ ॥ रुन्धानावितरेतरं गुरुतरैः शस्त्रैरथास्त्रैः शितै- श्छिन्दानौ धनुषी ध्वजं प्रहरणान्यन्योन्यमेकैकशः । भिन्दानौ च परस्परं तनुमनु प्रोद्ययाविक्लवा- विन्धानौ निजतेजसा समहतां शार्दूलविक्रीडितौ ॥ १२ ॥ धनतरघनघोषभीषणेन प्रतिनददद्रिदरीविदारकेण । अमुहदिह मुहुर्मुहुस्त्रिलोकी हरिधनुषो गुरुणा गुरुणारवेण ।। १३ ॥ क्षुभ्यत्क्षोणि विदीर्यदद्रि निपतत्तारावलि प्रज्वल- दम्भोलि ध्वनदुद्धतोदधि चलच्चण्डांशुशीतयुति । कुप्यत्पत्रिपति सत्सुरतति स्विद्यद्दयुलीलावति स्पर्धेद्धं मुरवैरिभूधरभिदोर्युद्धं तदाभून्महत् ॥ १४ ॥ व्यासक्तं हरिमवलोक्य शक्रसूनुर्मुद्राव द्रुतममरद्रुमं हरिप्यन् । रक्षन्तं तमथ चिराय रौक्मिणेयं तीक्ष्णाग्रैरभियुयुजे भुजे शरौधैः ॥ १५ ॥ प्रद्युम्नोऽप्यथ विशिखैरवाकिरत्तं तं चास्त्रैः प्रसभमथावतस्तरेऽन्यः । प्रत्यस्त्रं प्रतिविधिमाशु संदधानौ तेनाते युधि कुशलत्वमैन्द्रिकाष्र्णी ॥ १६ ॥ विचकार शराशरासनं तद्यदलक्ष्यानधिलक्ष्यमाशु लक्षम् । न तदद्भुतमस्य लब्धकोटिद्वितयो राजति चेद्गुणो गरीयान् ॥ १७ ॥ समरः समभूदभूतपूर्वः सुचिरेणानिधनावहस्तयोः सः । यमुदीक्ष्य दधुर्विमानवाहा निर्जबाहाबलगर्वखर्वणानि ॥ १८ ॥ अथ वासवभूरतिक्रमिष्यन्हरिसूनुं तपसा तमुग्रमस्त्रम् । समधत्त धनुष्यधृष्यतेजःस्फुरदुल्काशतदीपितान्तरिक्षम् ॥ १९ ।। क्षुधितोपकरालकालजिह्वानिवहाहायकमांपतत्तदस्त्रम् । क्षयकालघनाघनातिघोरैर्घनघोषैर्बधिरीचकार विश्वम् ॥ २० ॥ अथ सत्वरमेतदित्वरं तरसा शम्बरवैरितेजसा । हतवीर्यमुपेत्य मन्थरं रथमेवास्य बलादजिज्वलत् ॥ २१ ॥ १. देवाः. २. निजभुजबलगर्वसंकोचम्.

काव्यमाला। ज्वलतोऽथ रथान्नभो निपत्य प्रहसन्भानुनिभो विभोस्तनूजः । अवदद्वदतां वरो वरौजाः स जयन्तं द्विषतं सदा जयन्तम् ॥ २२ ॥ 'अपि दर्शय सर्वशस्त्रविद्याभ्यसनोच्चव्यसनोपयोगमद्य । परिदह्य नु मायिकं रथं मे ननु मा म स्मयथा वृथास्तशस्त्रः ॥ २३ ॥ कुतुकं महदेव तन्ममासीद्भवदस्त्रागमकौशलं निशम्य । विदितोऽसि तदद्य धेहि धैर्य न किमद्यापि समावृतोऽस्त्रशस्त्रान् ॥ २४ ॥ तदरंतुदवाक्शरप्रहारैस्त्रिदशेशप्रभवो यथा व्यथिष्ट । न तथायमयोमयास्त्रवर्षेरचिकित्त्यं हृदि वाङ्मयं हि शल्यम् ॥ २५ ॥ अजनि जनिजुषां भयंकरं प्रतिकृतसंकृतशस्त्रसंकरम् । अविरतशरसंचरत्करं प्रधनमतीव विलुप्तभास्करम् ॥ २६ ॥ प्रवरःप्रवरः प्रभाविणामथ शक्रस्य सखा द्विजोत्तमः । सहसोपससाद सादरं समरायामरपादपाशया ॥ २७ ॥ समुपस्थितमाततायिनं शिनिपौत्रोऽथ निहन्तुमीहमानः । 'अयि मारय मा निवारणामुं' द्विजमित्थं जगदे गदाग्रजेन ॥ २८ ॥ प्रवरस्य च सात्यकेस्तदाभूदतुलं तत्तुमुलं यशोनुकूलम् । शरजर्जरितेतरेतराङ्गक्षरदुष्णक्षतजोक्षितक्षमाङ्कम् ॥ २९ ॥ अवधीरितजीवितव्यतृष्णौ शरधीभूततनू अनूनवीर्यो । यदुविप्रवरौ लघुक्रियौ तौ रुरुधाते किल रोदसी शरौघैः ॥ ३० ॥ विशिखैः परिविध्यतोऽस्य चापं शिनिपौत्रः स्वशरैस्त्रिभिश्चकर्त । अपरैस्तमरुंतुदैरनेकस्तिलशः संतुतुदे प्रतिप्रतीकम् ॥ ३१ ॥ प्रवरोऽप्यथ सात्यकेर्धनुर्ध्या विशिखैरच्छिनदुच्चकर्त चाङ्गम् । धनुरन्यदुपाददानमेनं गदयासावदयान्तरो जघान ॥ ३२ ॥ अथ सोऽप्यचिरेण लब्धसंज्ञस्तमधावद्विधृतासिचर्मवर्मा । प्रवरः परिहृत्य तत्प्रहारं हृदि विव्याध रुपा तमात्मशक्त्या ॥ ३३ ॥ विकलं कलयशिनेः स पौत्रं तरुमाहर्तुमुपाजगाम ताय॑म् । सरथंतमथो विधूतपक्षानिलविक्षोभजवान्निरास्थदुच्चैः ॥ ३४ ॥ १. तथा-अयं-अयोमय(लोहमय)-अस्त्रवर्षेः. २. सात्यकिः.

५ उच्छासः] पारिजातहरणचम्पूः । ४५ उपसृत्य सत्वरमथाक्रमं हरी हरिविक्रमौ भृशममू विमूर्छितौ । परिरभ्य निर्भरमुभौ यथोचितं प्रतिचक्रतुः सपदि तीव्रवेदनौ ॥ ३५ ॥ श्रान्तं रणेन सुचिरेण निरीक्ष्य पुत्रं मित्रं च विश्रमयितुं विनिवेश्य पार्थे । भूयो मृधं विदधतुर्विविधं हरीन्द्रा- वालोकिनाकिकुलमाकुलतां नयन्तौ ।। ३६ ॥ तत्रोल्लसद्भुजगभोजिविधूतपक्ष- विक्षोभजानिलजवात्परिधीयमानम् । शक्रप्रयुक्तशरचक्रजचक्रवालं चक्रायुधस्य सहसावरणत्वमाप ॥ ३७॥ ऐरावणोऽथ रभसादभिपत्य पत्या नुत्तस्तुतोद पददन्तकरेण ताय॑म् । तार्थोऽपि तं क्रकचचण्डिमचञ्चुचञ्चू- संचारणैरपि खरैर्नखरप्रहारैः ॥ ३८ ॥ आस्फोटनैर्विकटपक्षपुटाभिघातै- झम्पानिपातमभिपत्य चपेटपातैः । चञ्चप्रतोदकरजावकिरैः करीन्द्र पारीन्द्रवत्स विददार विहंगराजः ॥ ३९ ॥ भूरिक्षरद्रुधिरधोरणिधौतविश्वः फुल्लत्पलाशधरभूधरशृङ्गशोभः । भ्रश्यन्नधश्चपलचीत्कृति पारियात्रे तेनाचिराद्विच करे च करेणुराजः ॥ ४० ।। तस्मिन्गिरावनुनिपत्य हरी करीन्द्र खस्थीभवन्तमसुमन्तमवैक्षिषाताम् । भूयोऽधिभूधरमभूदथ विष्णुजिष्ण्वो- स्तद्दारुणप्रहरणाभरणो रणोऽसौ ॥ ११ ॥ २. पारीन्द्रः सिंहः. ३. पर्वतविशेषे. १. प्रेरितः. :

काव्यमाला। स गिरिगुरुसंगरे विमर्दादविशत्क्ष्मामथ शाणपादतुल्यः() । अनिवार्यमनार्यमार्यवैरं स्वयमालोक्य विलीयते हि साधुः ॥ ४२ ॥ मदनः सदनं रथाय पित्रा प्रहितोऽसौ सहितोऽथ दारुकेण । सहसोपजगाम कामरूपः सरथस्तं किल पारियात्रदेशम् ॥ ४३ ॥ अथ पतगपतेर्नभोविभागे रुचिरशरीररुचां चयैर्विभाति । असहन इव तं निकारमारात्परिपतति स्म पयोनिधौ पतङ्गः ॥ ४४ ॥ अपि च । त्रिभुवनभरभङ्गारम्भसंभाव्यशक्त्योः समरममरलोकातकशङ्काकरं तम् । कथयितुमिव सून्वोस्तप्यते कश्यपाय द्रुततरमथ सिन्धुं लोकबन्धुर्विवेश ॥ ४५ ॥ मन्दाक्षमन्दमुकुलन्नयनारविन्द- मम्भोजिनीभिरभितोऽभिनिरीक्ष्यमाणः । व्यस्तांशुकोऽस्तगिरिमस्तकतः पपात क्षीवः स्खलन्निव तमः प्रविशन्दिनेशः ॥ ४६॥ वियदपगतरोचिर्मन्दमम्भोजवृन्दं हतगतिरपि पान्थः कोकलोकः सशोकः । गतवति परलोकं लोकबन्धौ महान्धौ पतितमिव तमोऽन्धं प्राविशजीवजातम् ॥ ४७ ।। कोकीनिःश्वासधूमः स्मरकरटिघटारात्रिनीलीनिचोलं संध्यावहेरलातं बहिरिव विसरन्मानिनीमानजालम् । मीलत्पद्मालिमाला पथिककुलवधूमूर्छितं खैरिणीनां स्रोतः सिद्धाञ्जनस्य प्रसरति सहसा सान्द्रबन्धं तमोऽन्धम् ॥ ४८॥ अपि च । कर्षन्हर्षातिरेकादधरमथ दिशां ध्वान्तनीलीनिचोलं कुर्वन्विद्राणनिद्राः सपदि कुमुदिनी रञ्जयन्पौरहूतीम् । २. दारुकः श्रीकृष्णसारथिः. ३. महति कूपे, १. प्रद्युम्नः.

५ उच्छ्रासः] पारिजातहरणचम्पूः । चुम्बन्नुच्चैश्चकोरीवदनमपि करैर्मुद्रयन्नजिनीनां नेत्राम्भोजानि भानौ प्रवसति रभसादिन्दुराविर्बभूव ॥ ४९ ॥ करैरिव परामृशन्कुमुदिनी वियोगार्दितां सृजन्निव दिगङ्गनाकुचतटीपटीरस्रुतिम् । किरन्निव यशः सितं जगति दृष्टिदानार्जितं हसन्निव मनखिनीस्तुहिनभानुरुज्जृम्भते ॥ ५० ॥ एवमुदयति सकललोकलोचनानन्दसंदोहनिःप्यन्दे श्वेताद्वैतमापाद- यति कुमुदिनीपतौ विरमत्यपरव्यापारपारवश्ये निःशेषितोचितसकलसां- ध्यविधिर्वासुदेवो, देवगुरूपवर्णिततनूजविग्रहाग्रहवैशसः सलिलराशिरो. वस्यनुबद्धतपस्यः कश्यपश्च खे खे सद्मनि सममेव भगवन्तं भवानी- वल्लभमस्ताविष्टाम् । ततश्च विविधैर्वेधैः स्तोत्रप्रबन्धैरभिष्टुतो न चिरादेव देवदेवः प्रीतमनाः स्वयमुपेत्य ताविच्छातिशायिवरप्रदानैरभिवर्धयांचके। अत्र चान्तरे अथ सुरगुरुणा निवेदितौ द्रागदितिमरीचिसुतौ सुतौ निषेद्भुम् । सुरमुनिसहितौ हितं त्रिलोक्या रचयितुमीयतुराशु पारियात्रम् ॥ ५१ ॥ अधिरजनि चिराय तत्र चित्राः खपरकथा विरचय्य तौ तनूजौ । नयविनयहिता हितोपदेशैः समरपराङ्मुखतां शनैरनैष्टाम् ॥ ५२ ॥ अथ विलुलिततारा मन्दचन्द्रप्रचारा विरतरतविहारा लुप्तगुप्ताभिसारा । विरहविकलवामा भामिनीत्यक्तभामा रजनिरजनि यामायामिनी यातयामा ।। ५३ ॥ ततश्च । पीतः कैरवकोरकैरवचितश्चञ्चचकोरीचयैः क्रोधाताम्रमनुद्रुतारुणकराकृष्टापसृष्टांशुकः । शप्तः पान्थवधूभिरुज्झितरुचिः श्रान्तो निशान्तोत्सवै- राक्रुष्टः कुलटाकुलैर्द्विजपतिः प्राप्यापतद्वारुणीम् ॥ ५४ ॥ मानवती. २. मरीचिसुतः कश्यपः. १. ३. कृष्णेन्द्रौ.

काव्यमाला। किं च। उच्छासैरथ चक्रयारुपचिता(?) विश्लेक्ष्यमाणाङ्गना- निःश्वासैरतिसान्द्रिता विरहिणीप्राणैरुपष्टम्भिताः । वारस्त्रीवदनारविन्दमदिरामोदातिमेदखिनः खेदाम्भःकणतस्कराः परिववुर्वैभातिका वायवः ॥ ५५ ।। क्रमेण च उदयगिरिमुरोजं रञ्जयन्पौरहूत्याः खयमरुणकरा]रेष काश्मीररागैः । उदगमदथ कोकप्राणनिर्याणविघ्नः परिणतकुरुविन्दामन्दकान्तिर्दिनेशः ॥ ५६ ॥ अपि च । कमलमुकुलकुम्भोज्जृम्भिरज्यत्पराग- प्रचुरमधुरसौधैः नापितः पद्मिनीभिः । गगनमभिवहद्भिः पिच्छिलं तैरिवासौ यदुपसरति मन्दं मन्दमम्भोजबन्धुः ॥ ५७ ।। निवर्त्य कृत्यमथ सांध्यमुवाच तातः प्राप्तः सुतौ ननु कुतोऽद्य युधं व्यधत्तम् । गीदनर्थफलकात्कलहात्खगृह्या- दस्माद्विरा विरमतं कुरुतं मतं नौ ॥ ५८ ॥ संभाव्य एष भवतो भगवान्यवीयां- ल्लीलाकलेवरधरः पुरुषः पुराणः । यद्भविभङ्गमनुरुध्य विधातृमुख्या विख्यापयन्त्यधिकृता विविधाधिकारान् ॥ ५९ ॥ देवः स एष नरवेषधरो धराया- मस्मत्तपः परवशोऽवरजस्तवास्ते ।

४९ ५ उच्छासः] पारिजातहरणचम्पूः। संमानयैनमिदमीयविभूतिभोग- स्तन्मा नय क्रुधममुं न विमानयावाम् ॥ ६० ॥ दारान्पुरातिचरतो भवतो महर्षे- रेष स्वतः परिभवो विधिनैव दृष्टः । तत्पुत्र वृत्रजयजङ्गमकीर्तिमूर्ते द्विक्षः खगोत्रमिह मा हृदि मावरुक्षः ॥ ६१ ॥ प्रापय्य शक्रतरुमेष हरिः पुरीं वां प्रत्यर्पयिप्यति पुनर्भवते जवेन । सौभात्रमस्तु युवयोः सवयोभिरामं भामं जहीतमहितं न हतं हितं नः ॥ ६२ ॥ इति जनकगिरा चिरान्निषिद्धौ गुरु गुरुसान्त्वनमेव मानयन्तौ । सपितृमुनिसुरं सपारिजातं पुरमथ जग्मतुरच्युताधिदैवम् ॥ ६३ ॥ ततश्च। सुरविजयसमेतं खप्रतिज्ञातमेतं मधुमथनमुपेतं पारिजातेन सार्धम् । सपदि समवगत्य प्रत्यगारं गरीयः किमपि नगरनार्यश्चक्रिरे मङ्गलानि ॥ ६४ ॥ तथा हि। जगुर्नगरयोषितः प्रननृतुश्च वाराङ्गना गणाश्च वणिजां निजापणपथानलंचक्रिरे । विरेणुरचिरेण सन्मुरजवेणुवीणानका न का मलयजद्रवैरिह विरेणुरासीत्स्थली ॥ ६५ ॥ ततश्च। स्मितसुभगकपोला लोलसस्नेहतारा सपदि फलितकामा सत्यभामाभिरामा। सहकुलसुभगाभिर्दीप्ररत्नप्रदीपै- रकृत सुकृतकीर्तेस्तस्य नीराजनं सा ॥ ६६ ॥ १. एतदीयविभूतिभोगैः.

काव्यमाला। : अमरमुनिसमाजे तत्र सात्राजिती सा गुरुभिरथ नियुक्ता नारदायार्चयित्वा । अदित विदितपुण्ये पुण्यके पारिजातं विधिवदखिलभा वासुदेवेन सार्धम् ॥ ६७ ॥ आत्मारामेऽभिरामे विरचितकुहनाविग्रहे निग्रहीत- युन्मार्गप्रस्थितानां त्रिभुवनशरणे भक्तगृह्ये वितीर्णे । सानन्दं पुष्पवृन्दैः सपदि सुरपुरान्नन्दनीयैर्निपेते नेदे वाद्यैरथाद्यैः सुरमुनिमनुजैस्तुष्टुवे साधुवादैः ॥ ६८ ॥ जयजयजयवादैर्वेणुवीणानिनादै- नंगरयुवतिगीतैः शान्तिघोपैर्द्विजानाम् । अशनवसनभूषापुष्पवर्षादिभिस्त- पुरमजनि जनानामुत्सवायोत्सवानाम् ॥ ६९ ।। तनिष्क्रयाय भुवनान्यनलं विचिन्त्य सान्तःपुराः सुरनरोरगकश्यपाद्याः । प्रासीसदन्स्तुतिशतैर्मुनिमीश्वरं च प्रामुमुचन्नखिलबन्धविमोक्षदक्षम् ॥ ७० ॥ तं सत्यासखमृषयोऽथ कश्यपाद्या मङ्गल्यैश्चिरमभिषिच्य तीर्थतोयैः । आशीभिर्भृशमखिलागमोदिताभिः सत्याभिर्हरिमभिवर्धयांबभूवुः ॥ ७१ ॥ चिरमथ परितोष्य कश्यपादीन्व्यसृजददूरमनुव्रजन्विनीतः । तरुमपि सुचिराद्विसृज्य नाकं मधुमथनः कलयांचकार कामान् ॥ ७२ ॥ वैरिखैररणे परोपकरणे लोकापदां वारणे सद्धर्माचरणे बुधानुसरणे यः माभृतां दीक्षितः । तस्यादेशवशान्नरोत्तमविभोः कृष्णस्य सन्निर्मिता- वुच्छासः किल पारिजातहरणे पूर्णोऽभवत्पञ्चमः ॥ ७३ ।। इति [श्रीमन्महाराजाधिराजश्रीमन्नरोत्तमादिष्टशेषनरसिंहसूरिसूनु- कृष्णविरचिता पारिजात[हरण]चम्पू: संपूर्णा ।

पारिजातहरणश्लोकानां सूची । उ० श्लो पृ० उ० श्लो० पृ० अंसानमत्करतलार्पितपाण्डु २ । ३ । १९ अन्योन्यमेनां प्रशशंसुरन्या २ । ७ । २० अकथयति तदा तदालिवर्गे २ । ३८ । २४ अपरमपि तथा तथा यतेथाः३ । ३० । ३४ अजनि जनिजुषां भयंकरं ५। २६ । ४४ अपि दर्शय सर्वशस्त्रविद्या० ५। २३ । ४४ अतरलसरलाङ्गुलीवृतास्यं २ । ३६ । २४ अपि बलिच्छलनात्कुहनान २ । ७४ । २८ अतिकृच्छ्रमुदस्य कण्ठकूपा २ । ४३ । २४ अमरमुनिसमाजे तत्र सा० ५। ६७ । ५० अत्रान्तरे सरसिजासन २। १।१९ अमुमर्थितवान्पुरा पुरारिः ३ । ३४ । ३४ अत्रान्तरे सहचरीपरि २। १७ । २१ अयमपि तव भाले चन्द०२। ५३ । २६ अथ किंचिदवाञ्चितानना २। १८ । २१ अयमवसर इत्युदीक्ष्य... २ । ४५ । २४ अथ जगद्गुरुणा हरिणादराद३ । २१ । ३२ अयि केशिनिषूदन व्रजेयं ३ । ३१ । ३४ अथ पतगपतेनभोविभागे ५। ४४ । ४६ अयि निधेहि विधेयजने ३ । १२ । ३१ अथ रथचरणायुधं विधाना०१ । ४२ । १३ अयि मयि स्वयमेव यद० ३। ४ । ३० अथ वासवभूरतिक्रमिष्य० ५। १९ । ४३ अयि वदनमिदं ते स्त्यान० २। ५८ । २६ अथ विलुलिततारा मन्द० ५ । ५३ । ४७ | अयि विमुब रुषं मयि ... २।६१ । २७ अथ सत्वरमेतदित्वरंतरसा ५ । २१ । ४३ अलस्यमेतत्सुरसुन्दरीभि० १॥ ७९ ॥ १७ अथ सुरगुरुणा निवेदितौ ५। ५१ । ४७ अलमलं कमलाधिपते अथ सोऽप्यचिरेण लब्ध० ५ । ३३ । ४४ अलिपिककुलकाकलीनिली०१। ३३ । १२ अथ हरिरभिसृत्य तं ववन्दे । ५० । १४ अवगुण्ठ्य शिरस्तिरः... २।३२ । २३ अथोद्यानपालबजान्नाकपालः५ । अवति भवति विश्व क्रीडतो३ । २७ । ३३ अदरदलितकेसरारुणाझैरलि १ । ७२ । १६ अवधीरितजीवितव्यतृष्णौ ५। ३० । ४४ अदितिरदित यस्मिन्कश्यपं ४ । ५। ३७ अवयन्नरिदन्तिदन्तकुन्त० ३ । ३३ । ३४ अंद्य सा बहु मता मम... १ । ५७ । १५ अशेषस्य विश्वस्य भर्तुः... ५। ४ । ४२ अद्यानवद्यचरितव्रतपार १ । २५ । ११ | अष्टाङ्गयोगश्रुतिशीलनाद्यैर०१। ६१ । १५ अद्याभिवाद्येन्दुकलाकिरीटं १ । ६२ । १५ अस्ति श्रीमदमन्दमन्दरगि०१। अधरितमधुसिन्धुः साधु० २ । ५५ । २६ अस्ति स्वस्तिसमस्त निस्तुल०१ । १०। ६ अधिरजनि चिराय तत्र ५। ५२ । ४७ अस्याः पद्मपलाशपेशलश:२ । १४ । २० अनन्यसामान्यगुणं वरेण्यं १।६७ । १६ अहमपि तव वध्वा तत्र अनाख्येयमप्येतदाख्यामि ४ । २२ । ३९ अहिहन्तुरहं तु यत्कनीया० ३ । ३८ । ३५ अनिमिषपुरमीयुषा निमे० ४ । ३६ । ४१ आकर्ण्य तां कर्णसुधासव० १ । ६५ । १६ अनुहनु विनिविष्टपाणि... २ । २३ । २२ । आकर्ण्य वाचमुपकर्णवि० १।२७ । ११ १.४२ ६ २ ८ श्लो० '० पृ० उ० श्लो० पृ० आत्मारामेऽभिरामे विर० ५। ६८ । ५० करतलकलितालकाकुलास्या २ । २० । २१ आनन्दकन्दलितसान्द्रवि० १ । ४१ । १३ करैरिव परामृशन्कुमुदिनी ५ । ५० । ४७ आपृच्छे वाममरनगरों...३ । २४ । ३३ कर्षन्हर्षातिरेकादधरमथ...५ । ४९ । ४६ आस्फोटनैर्विकटपक्षपुटा० ५। ३९ । ४५ / काचाङ्कुरं काञ्चतु काञ्चनेन २ । ९। २० इति क्रुधा विस्फुरिताधरेण ५। ८। ४२ का मुह्यतु द्रुह्यतु का प्रसह्य २ । ८ । २० इति गिरं स गृणन्गरुडास० ५। ११ । ४३ कायवाङ्मनसशुद्धिसमृद्ध० १ । ५८ । १५ इति जनकगिरा चिरानि० ५। ६३ । ४९ कारुण्यामृतकुल्यास्तुल्याः १। इति निशम्य गिरं गुरुग० ३ । ११ । ३१ काश्चिद्रुषा विचकर्मणिहा०२ । इति विविधवचोभिस्तेज. १ । ८१ । १८ काश्चिद्विचुक्रुशुरुपेन्द्रममृ० २॥ ६। १९ इति व्याहरन्तं तमव्याह० ४ । २६ । ३९ किं खिद्यसे मलयजैमलया० २। ६० । २७ इत्युदीरितगिरं स गरीया० १ । ५९ । १५ किंचित्कुञ्चितलोचनं विर० २ । १५ । २१ इत्युदीर्य मुनिनामुनार्पितं १।६९ । १६ । किमद्राक्षीः किमनाक्षी.... ४ । २। ३७ इन्द्रोपेन्द्रः प्रणमनमतिप्री०४ । ३। ३७ किमिति किल कपोले लोल०२ । ५४ । २६ उच्छ्वासैरथ चक्रयारुपचिता ५। ५५ । ४८ | किं पुरा चकृम पुण्यमगण्यं १ । ५४ । १५ उदञ्चय विलोचनं रचय...२ । ६९ । २८ कीर्त्या पारं प्रयान्त्या चर० १ । १५ । उदयगिरिमुरोजं रजय० ५। ५६ । ४८ कुचगिरिमधिरुह्योत्सर्पिणी २। १६ । २१ उन्मीलत्कमनीयकोमलपद २ । १३ । २० कुतुकं महदेव तन्ममासी० ५ । २४ । ४४ उन्मीलिते मणिगृहे स्वमु० २। ४ । १९ कुसुमं ददतस्तवाद्य शौरेबहु १ । ७७ । १७ उपचारपरालिनिर्विशेष २। ३३ । २३ के देशाः कान्यरण्यानि के ४ । उपचितगुरुमन्यूत्पीड०... २ । ७९ । २९ | कोकीनिःश्वासधूमः स्मरक० ५ । ४८ । ४६ उपसृत्य सत्खरमथाक्रम हरी ५। ३५। ४५ कोपपाटलितलोललोचन० २। ४० । २४ ऋजुतया वतयाहमबो २ । ७२ । २८ | कौसुम्भं सहसा विहाय ... २ । २५ । २२ ऋजुमृदुप्रकृतौ कृतसंश्रये २ । ७६ । २८ क्वचित्कनककुण्डलस्तवकम०१। ३। ५ एकेनानेककामान्कलयितु. ३ । २८ । ३४ क्षुधितोग्रकरालकालजिह्वा०५ । २० । ४३ एतच्चान्याश्चाख्यमाख्या. ४ । १८ । ३९ क्षुभ्यत्क्षोणि विदीर्यददि ...५ । १४ । ४३ एतस्याः कमनीयकोमल. २ । २८ । २३ क्षोणी वृक्षं विश्वनेता स ऐरावणोऽथ रभसादभिपत्य ५ । ३८ । ४५ गिरमिति मुरहन्तुस्तामुदा०३ । ४५ । ३५ कथयत कथमेष प्रादुरासी० २ । ३५ । २४ गुरुपीनपयोधरस्थलस्खल० २ । १९ । २१ कपटविकटचेटिकावचोभि०२ । ६४ ॥ २७ गृहाण शस्त्रं विगृहाण जि० ५। ७ । ४२ कमलमुकुलकुम्भोज्जृम्भि० ५ । ५७ । ४८ घनतरघनघोषभीषणेन... ५ । १३ । ४३ करकलितचलाक्षमालभारी १ । ४८ । १४ | चित्राणि वस्त्राण्यनणीयसो ४ । १६ । ३८ करकिसलयशय्याशायि... २। ५९ । २७ / चिरमथ परितोष्य कश्य. ५। ७२ । ५० तं .. ... उ० श्लो. पृ० उ० श्लो० पृ० जगुर्नगरयोषितः : प्रननृतुश्च ५। ६५ । ४९ वत्कोपवह्निपरिदग्धहिर० १।६०। १५ जटाजूटं मौलौ भसितधवलं १ । ४७ । १४ खत्तो लब्धं प्रसूनं यददित ४ । ४ । ३७ जन्म तन्मम जगन्महनीयं १ । ५५ । १५ वत्समागमभवां मुदमन्तः ११५६ । १५ जयजयजयवादैर्वेणुवीणा० ५। ६९ । ५० त्वमसि मम मनोविनोदभू०२ । ६५ । २७ जयन्तं जयन्तं विपक्षान० ५। २। ४२ त्वामाश्रवं खाश्रयमाप्य... ३। ८।३० जाने जने तुल्यजनोपजन्यं २ । १० । २० दयितानयनोदबिन्दुवृन्द० २ । ४७ । २५ ज्वलतोऽथ रथानभोनि० ५। २२ । ४४ दरदलितकदम्बालम्बिरोल०१।२० । १० सत्यासखमृषयोऽथ... ५ । ७१ । ५० दारान्पुरातिचरतो भवतो ५। ६१ । ४९ तत्रोदारपवित्रचित्रचरिते. १ । १२। ६ देवर्षिसिद्धनरकिंनरयक्ष. १।२६ । ११ तत्रोल्लसद्भुजगभोजिविधूत०५ । ३७ । ४५ | देवः स एष नरवेषधरो... ५ । ६० । ४८ तथा कथाः कर्णपथातिथी०२ । ११ । २० देवाधीश प्रायशः कामचारं ४ । १९ । ३९ तदनु दनुजवैरिणः प्रियाणां १ । ४३ । १३ दौर्जन्यं किमहो मनोजह० २ । २९ । २३ तदपहार्यमभूद्यदि ते हृदि ३ । ५। ३० द्रुतपदमुपसृत्य स प्रियाया २ । ४६ । २४ तदरंतुदवाक्शरप्रहारैत्रि. ५ । २५ । ४४ द्विजपूजनदेवसेवनादौ गुरु० १ । ३६ । १२ तदिदं प्रथमं प्रधावतस्ते...३ । ३६ । ३४ धर्मधाममहसेऽर्थ्यमनर्घ १। ५२ । १४ तदिह यदि कथंचित्पारि० ३ । २० । ३२ धर्मस्तेन हतः सर्वो येन ३ । १९ । ३१ तनुजवदनुजस्ते लाल०... ४ । ७ । ३७ धिक्तं निजे यो विदधाति ३ । १० । ३० तनुमतनुमवस्थितं विधाय ४ । ३८ । ४१ घिगस्तु तृष्णां विषयेषु... ४ । ३३ । ४० तनिष्क्रयाय भुवनान्यनलं ५। ७० । ५० न चेदयं दास्यति याच्य० ३। ४२ । ३५ तमथ कमपि गन्धं बन्धुरं २ । ३४ । २३ न जहार हरः सुरेन्द्रप० ३।३७ । ३५ तमनु (१) मनुजरूपं मेऽनु० ४ । ९ । ३८ न दाता विडोजा यदा पारि०४ । २३ । ३९ तरुणितकरुणाभिस्तामव. २ । २१ । २१ न देवदैत्या न च सिद्धसा० ३ । ४३ । ३५ तल्पेऽनल्पतरे मृगाङ्करुचिरे २ । २६ । २२ न देवा न दैया न सिद्धा ४ । २४ । ३९ तव शिरसि ललाटारोधि २ । ५२ । २५ न मे विस्मयोऽनेन लोके० ४ । २७ । ३९ तस्मिन्गिरावनुनिपत्य हरी ५ । ४१ । ४५ नरहरे भवतः प्रथिता... २ । ७५ । २८ तस्मिन्विचिन्तयत्येवं २ । ३१ । २३ नलिने पुलिने च वामलूरे १। ६। ६ तस्यादेशवशान्नरोत्तमविभो०१।१८। ९ न हारे नाहारे न च वन ३ । २६ । ३३ तापं मुञ्च विमुञ्च कञ्चक...२ । ७० । २८ नाथामि नाथामितमेतदेकं २ ७८ । २९ त्यज मलयजपर्क भूरिभारं २ । २७ । २२ नानापुष्परसेष्टगन्धवसनालं १ । ६८ । १६ त्रिभुवनकमनीयं पारिजा० १। ८२ । १८ नानोपचारार्चननिष्कयेण १। ६६ । १६ त्रिभुवनभरभजारम्भसंभा०५ । ४५ । ४६ नित्यं प्रियं मामवगत्य सत्यं २ । ६८ । २७ त्वं चन्द्रिका चेत्तदहं च० २। ६७ । २७ । निरणयं प्रणयं तव माधव २ । ७३ । २८ उ० श्लो० पृ० उ० श्लो० पृ० निवर्त्य मत्र्येष्ववतारकार्य० ४ । १५ । ३८ महतामहताशिषां परस्मा० ३ । ३२ । ३४ निर्वत्यै कृत्यमथ सांध्यमु० ५ । ५८ । ४८ महेश्वरपरः समुन्नयनसिंह १ । १३ । निष्क्रम्य रम्यतरहर्म्य... २। २। २ । १९ मानुष्यस्य विभूषणं तरुणता २ । १२ । २० परमपुरुषसेवालम्बते नो...१ । ४६ । १४ मुनिरथ कलहप्रियः प्रकृत्या १ । ४९ । १४ परिचर्य शुभाश्चिरं चिरण्टी १ । ३८ । १३ मुनिवर परम प्रियंकरस्त्वं ४ । ८। ३८ परिमिलितमिलिन्दामन्दाहि १ । २१ । १० मुनिवर परमेतत्तत्र चित्रं ४ । ११ । ३८ परिसरमपहायोपास्यमाना २। २४ । २२ मुने न किं वेत्तिभवान्प्रिया ४ । १७ । ३९ पाणिशोणिममुखारुणिम... २ । २२ । २२ मुनेऽमुनेत्थं भुवि दिव्यभोगैः४ । १३ । ३८ पीतः कैरवकोरकैरवचित० ५। ५४ । ४७ यत्तया न बिभिदे मुखमुद्रा २ । ४२ । २४ पृष्टोऽपृष्टो वापि शिष्टो... ४ । २० । ३९ यत्त्वं मम प्रियतमा चल० ३। ३ । ३० प्रतनुपवनवेल्लत्पल्लवा मल्लि १ । २२ । १० यथेत्थं प्रकृत्यासि धीरोऽपि ४ । २५ । ३९ प्रतिपथमथ पाथसाभिषिक्तं १।३१ । १२ यदववर्णददो गुणगौरवं न ३ । १५। ३१ प्रतियुवतिमुखादनार्यमार्ये २ । ६३ । २७ । यदि ददत्कुसुमं स मुनिर्गु० ३ । १६ । ३१ प्रत्यापगं प्रतिवनं प्रति ... १। २३ । १० यदि रुषा [परुषा]क्षरमा० ३ । १३ । ३१ प्रद्युम्नोऽप्यथ विशिखैरवा० ५। १६ । ४३ यदि विदर्भभुवे स नतध्रुवे ३ । १४ । ३१ प्रभवन्विषमेक्षणः शची० ३ । ३९ । ३५ यदि हृदि परमास्ते शर ६। ४२ प्रवरः प्रवरः प्रभाविणामथ ५ । २७ । ४४ यदि हृदि स गदां ४ । ३४ । ४० प्रवरस्य च सात्यकेस्तदा० ५। २९ । ४४ यदुवल्लभवल्लभासहस्रं परि० १। ३७ । १२ प्रवरोऽप्यथ सात्यकेर्धनुर्ध्या ५ । ३२ । ४४ | यद्वास्तवोऽप्यात्मगुणः स्तुतः४ । ३२ । ४० प्रापय्य शक्रतरुमेष हरिः ५। ६२ । ४९ यन्नारदस्तेऽदित पारिजातं ३ । ६ । ३० बल्लवीवल्लभोल्लासयन्मलतां ५। ५। ४२ यन्मां रणायाह्वयसे महेन्द्र ५। १० । ४२ ब्रह्मनिष्ठमकनिष्ठचेष्टितं वि० १ । ५१ । १४ याते भुवं संप्रति पारिजाते ४ । १४ । ३८ भवद्वधूटीकरणीयपुण्यकत्र० ५। ९ । ४२ राजोचिताचारविचारचुम्ब १।१६। ९ भूरिक्षरद्रुधिरधोरणिधौतवि ५ । ४० । ४५ रुन्धानावितरेतरं गुरुतरैः ५ । १२ । ४३ भूरिस्फुरन्मदगदाधिगता १॥ १७ ॥ ९ रोषपोषितमुखाक्षिविकारा २ । ४१ । २४ भूविभङ्गकुटिलान्यतुलेावे १ । ७४ । १७ ललनावदनानुबिम्बचुम्बी २ । ४८ । २५ मदनः सदनं रथाय पित्रा ५। ४३ । ४६ लोके यं कलिकालकल्मषम १ । ११ । मद्देवरोपेन्द्रवधूः पतिव्रता १ । ६४ । १६ वदनमदनदिव्यस्यन्दनालो०२। ५६ । २६ मधुकररचिताधरोष्ठदंशव्यस १ । ७१ । १६ वन्देऽतिसुन्दरमुकुन्दपदार १ । मन्दगन्धवहवन्दनचर्चाचित्र१।५३ । १५ वपुषि विशदमेतत्संदधाना २ । ५० । २५ मन्दाक्षमन्दमुकुलन्नयनार ५। ४६ । ४६ वललयवल्लरीपरिणम०...१ । ३४ । १२ मरकतमणिवेश्मरश्मिजालैः १ । २९ । १२ वाचमेव परां देवीं भूतानि ३ । १८ । ३१ لاره उ० श्लो ० पृ० tur उ० श्लो. पृ० वाचाटतां स्पष्टयतो द्विजा ३ । ७ । ३० सचवितमितरेतर दिशन्य २ । ३७ । २४ विकलं कलयशिनेः स... ५ । ३४ । ४४ सचकितमुदतिष्ठद्यावदेषा १।३९ । १३ विचकार शराशरासनं... ५ । १७ । ४३ स च ततोऽनुमतो मुनिना ३ । २२ । ३२ विदर्भजां कल्पतरुप्रसूनफ० १। ६३ । १५ सत्याः पुरस्तात्कृतमप्यस०३ । ४१ । ३५ वियति विहगवेगाडीर० ४ । ३९ । ४१ सदनमुपगतेन श्रीमता० ३ । २५ । ३३ वियदपगतरोचिर्मन्दमम्भो ५ । ४७ । ४६ | सदा सानुशयो नीचपरो० १। विरम विरम वामेऽमङ्गला २॥ ४९ । २५ सन्तः सन्ति महीतलेऽति १ । विलुलदलकजालः केशपाशो२ । ५१ । २५ सपदि विपिनपाला विस्म० ४ । ४० । ४१ विविधविबुधयोधैरुद्यदुद्दा० ४ । ३७ । ४१ सपदि समुदभूदभूतपूर्वः ४ । ४१ । ४१ विशिखैः परिविध्यतोऽस्य ५। ३१ । ४४ सवलः स बलस्य निग्रहीता ३ । ३५ । ३४ विश्वंभरं भुवनसाक्षिणमा० ३। २।३० स भवान्बहुधा दधातु यत्नं ३ । ४० । ३५ वीतगर्वगरलास्तरलाक्ष्यः १।७५ । १७ समनुभूय चिरंस सुखासि० ३ । २३ । ३२ वैरिस्वैररणे परोपकरणे... १ । ८३ । १८ समरः समभूदभूतपूर्वः... ५ । १८ । ४३ वैरिखैररणे परोपकरणे... २ । ८० । २९ समर्पणापालनलालनार्था० ४ । २८ । ३९ वैरिस्वैररणे परोपकरणे... ३ । ४६ । ३६ समुपस्थितमाततायिनं ५। २८ । ४४ वैरिखैररणे परोपकरणे... ४ । ४२ । ४१ संभाव्य एष भवतो भगवा ५ । ५९ । ४८ वैरिस्वैररणे परोपकरणे... ५। ७३ । ५० सरसकुसुमसंपदावकीर्ण भुवि । ३२ । १२ व्रज मुनिवरनाकं मन्त्रये० ३ । ४४ । ३५ सहसानुचरीः परीतपााः २ । ४४ । २४ व्रज वजावर्जनदक्ष...मं ४ । ३५ । ४० सात्राजिती सात्र जितत्रि. १ । ८० । १८ व्रतवेश्म विवेश केशवो... १ । ३५ । १२ सानन्दं मकरन्दबिन्दुनिकर । ५ व्यासक्तं हरिमवलोक्य ५ । १५ । ४३ / सुचिरमथ विचिन्त्य चक्र० १ । ७० । १६ शारदा शारदाम्भोदवि... १। ५। ६ सुमुखि शिशिररोचिर्वक्र० २ । ५७ । २६ शीतांशुर्भुवनं भ्रमभ्रमयते १ । १४ । ८ ८ सुरतरुप्रसवं तु यदीहसे... ३ । १७ । ३१ शृण्वन्गृणन्विप्रियमाचरन्मे ३ । ९।३० सुरविजयसमेतं स्वप्रति० ५। ६४ । ४९ शैलजेव तुहिनद्युतिमौले १ । ७३ । १७ । सूदनं सदनन्तानां गुणाना २ । ३० । २३ श्रव्यं श्रुतं दृश्यमपीह ... २ । ७७ । २९ सैषापरा मम नृशंस विड० ३ । १।३० श्रान्तं रणेन सुचिरेण ५। ३६ । ४५ सोदस्थादथ पुलकोद्मेन १।४० । १३ श्रीकृष्णप्रवणात्मतारसमये १।१९। ९ सौन्दर्यसौधवलभी त्वमि० १। ७८ । १७ श्रीपतेर्निवससि त्वमेकिका १।७६ । १७ स्फटिकभवनभाभियंत्र... १।३० । १२ श्रुत्वैतद्भातृपत्न्यस्तव चि० ३ । २९ । ३४ स्मरस्यदः पाण्डवसारथि० ४ । २९ । ४० स कृष्णं प्रति प्राह तुष्टो न ५। ३ । ४२ स्मरस्यदो मद्विमुखे ब्रजेस्त्रे ४ । ३० । ४० स गिरिगुरुसंगरे विमर्दाद०५ ॥ ४२ ॥ ४६ / स्मरस्यदो वृत्रवधे सहायः ४ । ३१ । ४० उ० श्लो० पृ० उ० श्लो. पृ० स्मितसुभगकपोललोलमौलिः१। २८ । १२ खाधिकाधिपरिबाधितगात्रं २ । ३९ । २४ स्मितसुभगकपोला लोलस० ५। ६६ । ४९ खैरं तत्र सरोविहाररसिकः १ । २४ । ११ स्वप्नेऽपि चेद्वेषमुपाचरं ते २। ६६ । २७ हरिकरपरिरम्भोज्जृम्भिला०१। ४५ । १३ वय मिह हि पुराणः ... ४ । १० । ३८ हुतहुतवहधूमश्यामलापाङ्ग १ । ४४ । १३ खलॊकसारान्विभवैरुदारा० ४। १२ । ३८ | हृदि कदापि च कापि... २ । ६२ । २७

No text on this page.

No text on this page.

No text on this page.

The Parijataharana Champu

Author
Sesha_srikrishna
Other authors
Ccl
Title
The Parijataharana Champu
File name
The Parijataharana Champu
Text
OCR done
Citation
1926
Publisher
Panduranga_jawaji
Language
Sanskrit
Pages
62
Library
Scl
DLI number
326608
Barcode
2020010008731.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
amY6PKGQvxf
Download PDF

The Parijataharana Champu