Others
Miimam'saashaastrasavasve
Front matter
No text on this page.
Will the best me
regaris glas
C!
From the Journal of the Brhar and Orissa Research Society,
Vol XVII, 1931, Parts II-III
THERE
>
Mīmāṁsā-Šāstra-Sarvasva
By Halāyudha. Edited by Umesa Mısra, M A.
No text on this page.
हलायुधकृते मौमांसाशास्त्रसर्वस्वे प्रथमाध्याये प्रथमः पादः । १ धर्मशास्त्रारम्भप्रतिज्ञाधिकरणम् । ॐ नमो गणेशाय ॥ इह खलु साङ्गवेदाध्ययनानन्तरं विचार- कर्त्तव्यतार्थ गुरुग्रहवासावसाननिवृत्तिं प्रतिपादयितुं जैमिनिना श्राद्यसूत्रं प्रणीतम् । तत्र 'स्वाध्यायोऽध्येतव्य' इत्यनेन विहिताया भावनाया भाव्याकाङ्क्षायां किं विश्वजिन्यायात् स्वर्गः फल्लं. उताक्षरादिग्रहणद्वारा वाक्यार्थज्ञानमिति सन्देहः । तत्र यद्यप्यर्थज्ञानं दृष्ट' मुत्तरकर्मानुष्ठानोपयोगि च तथा- ऽप्यध्ययनस्य तत्साधनत्वं मानान्तरसिद्धमिति स्वर्गाद्यर्थवाध्ययनस्य युक्ता न चावधातादिवन्नियमविधिः । नियमो हि न ज्ञानस्वरूपे प्रमाणान्तरविरोधात् नापि क्रत्वपूर्व । अनारभ्य विहितस्याध्ययनस्य श्रुत्याद्यभावेन क्रत्वनङ्गत्वात् । अवघातादौनां तु क्रत्वङ्गतया तत्साधनरूपे नियमो युक्तः । एवञ्च स्वर्गार्थाध्ययनात् न शब्द- महिन्ना जायमानमपि ज्ञानं उपयुक्तमिति कदाचिद्विचारे सम्भवत्यपि अध्ययनानन्तरमवश्यकर्त्तव्यता तस्येति पूर्वपक्षः । १ दृष्टफल मित्यर्थ । २ वाक्यार्थज्ञानम्। ३ अध्ययनस्येति शेष । यथा तण्डलनिष्पत्तो अवधातस्य नियमस्तथाऽर्थज्ञाने. ध्ययनस्य नियमविधिरस्तौति भावः । ४ न हि ज्ञानव रूपे नियम सम्भवति तस्य खत' सिद्धत्वात् इत्याह-नियमो हौति।
228 मौमासाशास्त्रसर्वखे [J B.O.RS सिद्धान्तस्तु-दृष्टेऽप्यर्थज्ञानेऽध्ययनं नियम्यते । ज्ञानस्य हि उत्तरकर्मानुष्ठानाङ्गत्वे सामर्थ्यात् सिद्धे तदुद्देशेन' चाध्ययने विहिते तेनैव निराकाङ्क्षरुत्तरक्रतुविधिभिरुपायान्तरानाक्षेपे अध्ययन- जन्यज्ञाननियमस्यापशूद्राधिकरण वक्ष्यमाणस्याध्ययनविधिप्रसाद- लभ्यतया विधेः साफल्यात् । तेनार्थज्ञानावसानमध्ययनविधिना विधीयत इति विचारं विना तदनुपपत्तेः। अध्ययनविधिरेव विचार- माक्षिपस्तद्विरुद्धमधौत्य स्वायादिति स्मार्त्तस्नानं बाधत इति । एवञ्च वेदाध्ययनानन्तरं यतोऽध्ययनमर्थज्ञानार्थमतो हेतोस्तदुप- योगिविचारफलिका धर्मजिज्ञासा कर्त्तव्येति- अथातो धर्मजिज्ञासा ॥१॥ प्रथमसूत्रार्थः । धर्मग्रहणमुपलक्षणम् । अधर्मस्यापि हानाय जिज्ञास्यत्वात् । जिज्ञासा च चतुर्धा-धर्मस्वरूपप्रमाणसाधन- फलविषयत्वात् । २ धर्मलक्षणाधिकरणम् । तत्र को धर्मः कथं लक्षणक इत्येवं जिज्ञासाविषयौकृतयोर्धर्म- स्वरूपविशेषप्रमाणयोर्निरूपणाय द्वितीयं सूत्रम्- चोदनालक्षणोऽर्थो धर्मः ॥२॥ यद्यपिरंगोदोहनादिद्रव्यं यागादिक्रिया नौचैस्वादिगुणश्च फलसाधनत्वात् धर्मशब्देनोच्यते न त्वपूर्वादय इति श्रेयस्करभाष्ये २ अर्थाद्देशेन। २ अत्रानुरूपा' पतयः शास्त्रदीपिकाया (पृ. ७ निर्णयसागरसस्करणे) द्रष्टव्या' । ३ चत्राप्यनुरूपा पत्रय' शास्त्रदौपिकाया (ट० १७) द्रष्टव्या । ४ धनुदण्डादि।
VOL XVII PTS II-III ] प्रथमोऽध्यायः । 229 स्थितं तथापि तेषां' फलसाधनत्वेन रूपेण न प्रत्यक्षादिविषयत्वं किन्तु चोदनैव तत्र प्रमाणमित्यर्थः । उक्तञ्च वार्त्तिके द्रव्यक्रियागुणादौनां धर्मत्वं स्थापयिष्यते । तेषामन्द्रियकत्वेऽपि न ताद्रुप्येण धर्मता ॥ श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते । तालूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः ॥ अथ प्रामाण्यविचारः । प्रामाण्यं तु स्वत एव, अप्रामाण्यं तु परतः । अपौरुषेये च वेदे भ्रमप्रमादाद्यप्रामाण्यप्रयोजक नास्त्येव । तत्र श्येनादौ लोके धर्मव्यवहारदर्शनादिबोधितं अनिष्टाननुबंधौष्टसाधनमेव धर्मः। व्यव- हारानादरेण वाच्यलाघवे तु वेदबोधितेष्टसाधनमात्रम् । उकञ्च- यदि घेनेष्टसिद्धिः स्यादनिष्टाननुबन्धिना । तम्य धर्मत्वमिव्येत ततः श्वेनादिवर्जनम् ॥ यदा तु चोदनागम्यः कार्याकार्यानपेक्षया। धर्मः प्रौतिनिमित्तं स्यात्तदा श्येनेऽपि धर्मता ॥ इति ॥ ३ धर्मप्रमाणपरीक्षाधिकरणम् । तस्य निमित्तं परौष्टिः ॥३॥ तस्य धर्मस्य निमित्तं प्रमाणं चोदना तस्याः परौष्टिः परीक्षणा- मस्मिन् पादे क्रियते इत्यर्थः । दूषुगतावित्यस्मात् ‘दूषेरनिच्छार्थस्य १३ इति नित्ये युचि प्राप्ते ' परे'ति' विकल्पात् पक्षे निन् । १ द्रयादौनामित्यर्थ । २ श्लोकवार्तिके, चोदनासूत्रम्, कारिका १३-१५ । B ण्यासश्रन्यो युच् ३-३-१०७ इति पाणिनीयसूत्रस्थ वार्तिक, सख्या २२२० । ४ पाणिनौयसूत्रवार्तिक, स० २२२४ । .
230 मौमासाशास्त्रसर्वखे [J B.ORS तथा च ४ धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणम् । सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्ष- मनिमित्तं विद्यमानोपलम्भनत्वात् ॥ ४ ॥ चोदनैवेत्यस्यार्थस्य साधनाय प्रत्यक्षादौनामनिमित्तत्वमुच्यते । इन्द्रियाणां विद्यमानार्थसन्निकर्ष सति प्रत्यक्षमुत्पद्यते । असनिकृष्टानां जनकत्वे पो वार्जवावस्थानमेव संप्रयोगशब्दार्थः । वार्त्तिकम् - सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः । प्रयोग इन्द्रियाणाञ्च व्यापारोऽर्थेष कथ्यते । यदि वार्थार्जवे स्थानं संप्रयोगोऽत्र वर्ण्य ते । संख्यादौन् वा विनिर्जित्य प्राप्तिपक्षोऽत्र दूष्यताम् । तच्च भाविस्वर्गजनकत्वे न प्रमाणं वर्तमानार्थग्राहित्वादित्यर्थः । इन्द्रियाणि तु घाणरसनचक्षुःश्रोत्रत्वङ्मनोभेदात् षट्। श्रोत्रं तु कर्णशाकुल्यवच्छिन्ना दिक् “ दिशः श्रोत्र"मिति दर्शनात् । मनस्तु पृथिव्यादौनामेवान्यतमात्मकं तेभ्योऽन्यदा? सर्वथा तावदस्ति मनः । तञ्चात्मतद्गुणेष्वेव स्वतन्त्र प्रवर्त्तते न बाह्येषु रूपादिष्वित्यर्थान्तर- मित्युच्यते। तच्च चक्षुरादिभिरपि घटादौ ग्राह्ये सहकारि अन्य - मनस्केन रूपाद्यनुपलब्धः। इन्द्रियजज्ञानञ्चापरोक्षम्। ज्ञानजन्यो हि विषयगतः फलविशेषोऽयम्। अपरोक्षं नाम सर्वस्य संवेद्यः । यद्भावाभावाभ्यां लिङ्गाभ्यां पश्यामि न पश्यामौतिव्यवहारः । १ श्लोकवा. प्रत्यक्षसूत्र का० ३८, ४३ । २ अादर्श पुस्तके 'दुश्योग' इति पाठ । ३ मुद्रित पुस्तके 'प्राप्त' इति पाठ । ४ प्रत्यक्षम् । .
VoL XVII. PTS II-III] प्रथमोऽध्यायः । 231 अपरोक्षञ्च विविधम्-अविविक्रसामान्य विशेषविभागं सम्मग्धवस्तु- मात्रगोचरमालोचनात्मकमेकम्, सविकल्पकञ्चापरम् । प्रत्यभिज्ञा तु मृत्यनुभवरूपम् । तदनं वार्त्तिके - विविक्ता एव तेऽर्था हिर स्मृतिप्रत्यक्षगोचराः । एकमेव ज्ञानं संस्कारेन्द्रियाभ्यां जायमानमंश म्मरणमंशान्तरे प्रत्य तमिति' तयाख्यायां न्यायरत्नाकरः । . औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञान- मुपदेशोऽव्यतिरेकश्चार्थऽनुपलब्धे तत्प्रमाणं बादराय- णस्यानपेक्षत्वात् ॥५॥ प्रत्यक्षादौनां धर्म प्रामाण्यनिरासेन चोदनैवेत्यवधारणस्य मिद्धो चोदना प्रमाणमेवेत्यस्य माधनार्थमिदं मुम् । अस्यार्थः- त्पत्तिकोऽनित्यः शब्दार्थसम्बन्धः तस्य धर्मस्य निमित्तं पूर्वसूत्रे समासान्तर्गतो निमित्तशब्द दहानुषज्यते । तथा च सम्बन्धकर्ट- निमित्तदोषशङ्का नास्तौति भावः। कथं धर्म प्रमाणमित्य पेक्षायां उपदेशो विधिर्ज्ञानं ज्ञापको यत्र इत्युक्तम् । न च तत्र बाधक- प्रत्यय दूत्याह-अव्यतिरेकश्शेति। अनपेक्षत्वात् प्रमाणान्तरसम्बा- दानपेक्षत्वात् । आह च- उपदेशो हि भवति ज्ञानं तस्येति योज्यते । ज्ञायतेऽनेन तज्ज्ञानमेकाधिकरणत्वतः ॥ १ श्लोकवार्तिक, प्रत्यक्षसूत्रे २३० कारिका । २ तेहौत्यस्य स्थाने तेऽप्यर्था इति मुद्रितपुस्तकपाठ । ३ (क) प्रत्यक्षसूत्रे २३० कारिकाव्याख्याने । (ख) जायमानमित्यत पर शब्द तत्सम्बन्धयो स्मरण, मन्निकटे प्रत्यक्ष मिति पाठो मुद्रितपुस्तके । अर्थरूपे विन्द्रिय- 232 मौमांसाशास्त्रसर्वखे (J BORS औत्पनिकगिरा दोषः करणस्य हि वार्यते । अबाधोऽव्यतिरेकेण स्वतस्तेन प्रमाणता ॥ सर्वस्थानुपलब्धेऽर्थ प्रामाण्यं स्मृतिरन्यथा । चोदना चोपदेशश्च विधिश्चैकार्थवाचिनः१ ॥ उपवर्षस्तु तस्य निमित्तं परीष्टिरित्येवमादिसूत्रत्रयमष्टधा कृत्वा व्याचक्षाण: प्रत्यक्षादिप्रमाणानां धर्म असामयं वदन प्रसङ्गात् प्रमाणभासानपि व्युत्पादयामास । तत्र हेतुदोषास्त्रयः- असिद्धिरनेकान्तिको बाधश्चेति । असिद्धिः पञ्चधा-स्वरूपासिद्धिः, सम्बन्धासिद्धिः, व्यतिरेकासिद्धिः, आश्रयासिद्धिः, व्याप्यसिद्धिश्चेति । सर्वज्ञत्वखपुष्यादिः स्वरूपासिद्धिः । पक्षधर्मताविकलो द्वितीयः । पक्षमात्रवृत्तिर्धर्मिव्यतिरेकेणान्यत्रासत्वाद्व्यतिरेकासिद्धिरित्युच्यते । स्पष्टौ धौ। अनेकान्तिको द्विविधः-सव्यभिचारः, सप्रतिसाधनश्च । शब्दव्युत्पादनप्रसङ्गेन च वर्णानां वाचकता वाच्यस्य च गोत्वादि- सामान्यस्य साधनं तस्य व्यक्त्या सह भेदाभेदौ अवयवावयविनोर्गुण- गुणिनोश्चेत्यादिप्रपञ्चितम् । गुणेष्वयं विशेषः । घटः पटेन संयुको न तु घटेनेति प्रतौतेर्घटनिष्ठः संयोगः पटनिष्ठानिनः पट- प्रतियोगिकश्च । परमते अन्योन्याभाववत् । रूपादयोऽपि कारण- गुणप्रक्रमेणावयविन्दुत्पद्यन्त इति वैशेषिकादिप्रक्रिया नाभ्युपगम्यते रूपयाप्रतौतेः । गुरुत्वाद्याधिक्याभावाच्च । अवयवनिष्ठमेव रूपं तत्तादात्म्यापनेऽवयविन्यपि वर्त्तते । अत एव नानारूपसमाहार- श्चित्रम् । एतेन संयोगजसंयोगोऽपि निरस्तः । कर्म तु संयोग- विभागपरं परातिरेकेण नास्तौति यद्यपि भाष्यस्वरसस्तथापि १ श्लोकवार्तिक, सू. ५ कारिका -११ । .
VOL XVII PTS II-III.] प्रथमोऽध्यायः। 233 तदसमवायिकारणतया विप्रतिपन्नं प्रत्यनुमेयम् । वस्तुतः प्रत्यक्षमेव । भाष्यन्त्वन्यार्थकमिति वार्त्तिककाराः । अात्मा चानन्दरूपः, 'त्रानन्दं ब्रह्मेति' श्रुतेः । स च संसारे- णाभिभूतत्वादिदानौं नोपलभ्यते । मुनस्य तु वाह्येन्द्रियनिवृत्तावपि मनसोऽनुवृत्तेर्मानसप्रत्यक्षेण परमानन्दानुभवः । श्राह च- निजं यत्त्वात्मचैतन्यं श्रानन्दश्चेष्यते हि यः । यच्च नित्यविभुत्वादि तेनात्मा नेव मुच्यते ॥ यद्दा दुःखोच्छित्तिरेव मोक्षः । तथा च वार्त्तिकम् तस्मात्कर्मक्षया देव हेत्वभावे न मुच्यते । न ह्यभावात्मकं मुक्त्वा मोक्षनित्यत्वकारणम् ॥ दिक् तु स्वरूपेण यद्यपि न प्रत्यक्षा तथाऽपि शब्दविशेषणत्या श्रोत्रग्राह्या, प्राच्यां शब्द इत्यनुभवात् । कालोऽपि घटादिविपोषणतया षडिन्द्रियवेद्यः । ध्वनयश्च वायुगुणाः संयुक्ततादात्म्येन श्रोत्रग्राह्याः । वर्णास्तु नित्यविभवोऽपि संयोगेन श्रोत्रग्राह्याः । श्रानुपूर्वी तु ध्वन्यौपाधिका । उक्तञ्च- तद्वोन च वर्णानां व्याप्तित्वेऽपि क्रमग्रहः । एवं ध्वनिगुणान् सर्वान् नित्यनेन व्यवस्थितान् ॥ वर्णा अनुपतन्तः स्थरर्थभेदावबोधकाः ॥ एवञ्च क्रमरूपविशेषणानित्यत्वेऽपि वेदः प्रवाहनित्य एव। यद्यपि वर्णानां प्रवाहनित्यतयापि सम्बन्धनित्यत्वोपपत्तिस्तथापि वस्तुगति- मनुरुध्य कूटस्थत्वव्युत्पादनम् । आह च- २ ध्वनि । १ श्लोकवा० सू. ५, का० १०६-१०७। ३ श्लोकवा. अधिकरण ६ कारिका ३००-३०१ ।
234 मौमासाशास्त्रसर्वखे [J.B O.R.S. व्यक्त्याकृतिकृतो भेदो यद्यष्येकान्ततो भवेत् । वर्णेषु जैमिनेः पक्षस्तथापि न विरोत्स्यते ॥ तस्माच्छब्दार्थयोर्नित्यत्वे तत्सम्बन्धोऽपि नित्यः । स च तत्तदर्थ- ज्ञानानुकूलशक्तिरूपः । अन्त्यो वर्णों वाचक इति भाथ्याच्चरम- वर्णनिष्ठः । वार्तिकमते तु सर्ववर्णनिष्ठः । आह च- अन्त्यवर्णऽपि विज्ञाते सर्वसंस्कारकारितम् । स्मरणं योगपद्येन सर्वध्वन्ये प्रचक्षते ।। तदारूढ़ास्ततो वर्णा न दूरेऽर्थावबोधनात् । तस्मात्पदतदर्थसम्बन्धाय न पुरुषापेक्षेति स्थितम् । उत्पत्तौ वाऽवचनाः स्युरर्थस्यातन्निमित्तत्वात् ॥ २४ ॥ वाक्यार्थरूपे धर्म पुरुषसंकेतापेक्षायां सापेक्षत्वादप्रामाण्यम् । तदनपेक्षायां तु वाक्यार्थबोध एव न सम्भवतीति निर्मूलो धर्म इति प्राप्ते केचिदाहुः- वाक्येनैव हि वाक्यार्थः साक्षादेवाभिधीयते । उपलक्षणतश्चास्य सम्बन्धग्रहणोद्भवः ॥ वाक्यं गोपदयुक्तं यत् तत्मास्नादिमदन्वितम् । वाक्याथं वदतीत्येवं व्युत्पत्तिः सुकरैव हि ॥ सत्यं व्युत्पत्तिरेवं स्यात् तथापि तु न वाक्यतः । वाक्यार्थावगतियुक्ता तिरोभावेऽपि दर्शनात् ॥ पूर्वभागेषु वाक्यस्य विस्मृतेष्वपि दृश्यते । वाक्यार्थावगतिः पुंसां पदार्थस्मृतिशालिनाम् ॥ . १ श्लो० वा० सू० ५ स्फोटवाद, कारिका ६३, ४० ५२६ । २ 'पूर्व' इति पाठान्तरम् । ३ श्लोकवा० स्फोटवाद, सू० ५ का० ११२ । ४ श्लो० वा. स्फोटवाद, सू. ५ का० ११६ ।
VOL XVII PTS II-IIT] प्रथमोऽध्यायः। 235 तस्मात्यदोपस्थापितेभ्यः पदार्थभ्यः एव लक्षणया वाक्यार्थप्रति- पत्तिः । न त्वन्विते शक्तिरिति । वेदाँश्चैके सन्निकर्ष पुरुषाख्याः ॥ २७॥ वेदानां पौरुषेयं, वाक्यत्वात्, भारतादिवत् । काठकादिसमाख्यापि नित्यत्वे घटते न हि ॥ तस्मात्प्रेक्षामूलकत्वादप्रामाण्यमिति प्राप्ते आह सूबकारः- उक्तन्तु शब्दपूर्वत्वमाख्या प्रवचनात् ॥ अवश्यस्मर्तव्यस्य कर्तुरस्मरणादभाव एव निर्णेयते । अन्यथा हि मन्वादिरिव स्मर्यंत । किञ्च- वेदस्याध्ययन सर्व गुर्वध्ययनपूर्वकम् । वेदाध्ययनता साम्याद्यथेदानीन्तनं तथा ॥ तदिदमाह- उक्तन्तु शब्दपूर्वत्वमिति ॥ २८ ॥ शब्दः शब्दाध्ययनं काठकादिसमाख्या तु प्रवचननिमिना। तस्मादपौरुषेयत्वाच्चोदनानां प्रमाणताम् । चोदनेतिप्रतिज्ञार्थः पादेनानेन साधिता ॥ चोदनैवेत्यवधारणेन हि प्रत्यक्षादौनामप्रामाण्यं प्रतिज्ञातम् । तत्प्रत्यक्षमुत्रेण साधितम् । औत्पत्तिकस्त्वित्यादिना पादशेषेण तु प्रमाणमेवेत्यंशः साधितः । उत्तरपादत्रयं तु जिज्ञासासूत्रोक्त्या को १ मुद्रितपुस्तके एते द्वे सूत्रे । याख्या प्रवचनादित्यस्य द्वितीयत्वेन पाठ' । २ श्लो० वा० अधिकरण ७ कारिका ३६६। अत्र द्वितीयपादे वेदाध्ययन. वाचत्वादधुनाऽध्ययन यथा' इति मुद्रितपुस्तकपाठ 236 मौमासाशास्त्रसर्वखे [J BORS. धर्मः किं प्रमाणक इति प्रतिज्ञयैव संगच्छते । न चार्थवादादि- प्रामाण्ये चोदनैवेति प्रतिज्ञाव्याकोपः । चोदनैकवाक्यतया चोदना- मूलतया च प्रमाणौभवतां तेषां प्रत्यक्षादिवत्स्वातन्त्र्यविरहादिति दिक् ॥ दूनि तर्कपादः ॥ अथ द्वितीयः पादः । १ अकार्यबोधकवाक्यप्रामाण्याधिकरणम् । आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते ॥ १॥ वायुर्वै क्षेपिष्ठा देवतेत्यादिविषयः । धर्म प्रमाणमप्रमाणं वेति- संशयः । विधिभावनातदंशत्रयाप्रतिपादकत्वान्निराकानतया च विध्यैक- वाक्यताविरहान्नैतद्धर्म प्रमाणम् । तथा हि- अर्थवादा निराकाङ्क्षा भूतार्थप्रतिपादनात् । विध्युद्देशः समाप्यन्ते विशिष्टार्थविधानतः ॥ सिद्धान्तस्तु-विधिना ह्येकवाक्यत्वात् स्तुत्यर्थन विधीनां स्वाध्यायविधिर्हि फलवदर्थपर्यवसानं कृतस्वस्य वेदस्थ बोधयन् प्राशस्त्यपरतया विनाऽर्थवादानां तदनुपपत्तेस्तत्र तात्पर्य गमयति । विधिरपि पुरुषप्रवृत्तिप्रतिबन्धकोभूतालस्यभङ्गार्थ प्राशस्त्यज्ञानमपेक्षते ततश्चोभयाकाझ्या विध्यर्थवादयोरेकवाक्यत्वात् प्रमाणमर्थवादाः ।
VOL. XVII PTS II-III प्रथमोऽध्यायः । 237 उडुम्बरः ऊपशवः ऊर्जेवास्या तदुक्क्रम्-स्वाध्यायविधिना वेदः पुरुषार्थाय नौयते । सर्वस्तेनार्थवादानां प्रापान्त्येन प्रमाणता ॥ इति एवञ्च पूर्वसूत्र एव मन्त्रनामधेययोरप्यप्रामाण्यं पूर्वपक्षीकृत्य स्वाध्यायविधिवशादेवार्थवत्तया भवितव्यमिति साधारण्येन सिद्धा- न्तयितव्यम् ॥ २ विधिवन्निगदाधिकरणम् । विधिर्वा स्यादपूर्वत्वाद्दादमा ह्यनर्थकम् ॥ १६ ॥ औडुम्बरो यूपो भवति ऊर्वा (स्मा) ऊर्ज पशूनाप्नोति ऊोऽवरुध्ये ' दूति विषयः । किमू|ऽवरुध्या इति फलमुतार्थवाद इति सन्देहः । तत्र तादर्थ्यचतुर्थ्या साध्यत्वं श्रुत्यैव लभ्यते प्रायशम्त्यं लक्षणया । न च मुख्यार्थसम्भवे लक्षणा युक्रेति फलविधिरयमिति पूर्वः पक्षः । वा - - सिद्धान्तस्तु–श्रीडम्बरताया' फल्ने विधौयमानाया अनेनेव वाक्येनाश्रयस्थापि समर्पणे वा भेदः न च दध्नेन्द्रियकामस्येत्यादा- विव प्रकरणादायलाभः। पशुयागो हौह प्रकृतः । स चायोग्यः । फले विधायमानो हि गुणौ यत्र कारकतामापद्यते स आश्रयः यथा होमो दध्नः। न चौडुम्बरता यागे कारकोभवितुं शक्नोति। पशु- नियोजनं तु यद्यपि यूपद्वारेण योग्यं तथापि तत्सहैव यूपेनाप्रकृतम् । न च प्रकृतिवच्छब्देन तत्मन्निधिः । स हि प्राकृतमित्थम्भावं सामान्येन सन्निधापयति। न तत्र यूपस्य स्वरूपेण विपरिवृत्तिः । सामान्यतस्तु जुकादौनामप्यस्तौति तेषामप्याश्रयत्वं स्यात् । तथा च यूपग्रहणानर्थक्यम् । तत्र वाक्येनेवाश्रयसम्बन्धे तु वाक्यभेदः। तस्मा- दौडुम्बरता यूपोद्देशेन विधीयते । ततः स्तुतिरियमू|ऽवरुध्या इति ॥
238 मौमासाशास्त्रसर्वस्खे [B O.R.S. ३ हेतुवन्निगदाधिकरणम् । हेतुर्वा स्यादर्थवत्वोपपत्तिभ्याम् ॥ २६ ॥ 'शूर्पण जुहोति तेन ह्यन्नं क्रियत' इति विषयः । किं शूर्पण होमे कर्त्तव्ये अन्नकरणता हेतुरुतार्थवाद इति संशयः । तत्र हि शब्दश्रुत्या हेतुत् गम्यते। लक्षणया तु प्राशस्त्यम् । अत एव च हेतु निर्देशात् व्याप्तिमन्तरेणानुपपद्यमानात् व्याप्तिवचनं कल्यम् येन येन अन्नं क्रियते तेन तेन होतव्यमिति। तेन व्याप्तिवचनेन सर्वान्नकरणविधायिना शूर्पस्यापि होमसाधनत्वसिद्धेः। शूर्पण जुहोतौत्यत्र अनुवाद इति प्राप्तेऽभिधीयते- शूर्पस्य हतीया श्रुत्या करणत्वं गम्यते । न तदानुमानिकैर्दों- पिठरादिभिर्विकल्पितुमर्हति । न च वेदेनोच्यमानं शूर्पस्य होम- साधनत्वं हेतमपेक्षते। अर्थवादस्त्वपेक्षितः प्ररोचनार्थम् । एवञ्चा- प्रसिद्धव्याप्तिवचनकन्यनाक्लेशोऽपि न भविष्यति तस्मादर्थवादत्वम् । ४ मन्त्रलिङ्गाधिकरणम् । तदर्थशास्त्रात् ॥ ३१॥ मन्त्रविदानों चिन्ता। तेषामानर्थक्यमाशय स्वाध्यायविधि- वशनार्थवत्तेत्यवसितमेवाद्याधिकरणे कथितम् । तत्पर्यवसानाये- दानौमर्थविशेषश्चिन्यते। तेषां क्रत्वङ्गत्वं भवेत् किं दृष्टेनेवार्थप्रकाशनद्वारेण किं वोच्चारणमात्रेणादृष्टं कुर्वतामिति संशयः । यदि दृष्टार्थतैव स्यान्मन्त्राम्नानमनर्थकम् । प्रत्यायनाददृष्टं चेत्तदुच्चारणतो वरम् ॥
VOL XVII PTS II-III ] प्रथमोऽध्यायः । 239 दूति प्राप्ते ब्रमः- यस्य दृष्टं न लभ्येत स्यात्तस्यादृष्ट कल्पना । अनुष्ठेयस्मृतेश्चेह मन्त्रोच्चारणमन्त्रवत् ॥ स्मरणच्च प्रयोगार्थ प्रयोगाच्च फलोदयः । एवं दृष्टार्थतालाभान्नादृष्टपरिकल्पना ॥ इति मौमांसाशास्त्रसर्वखे प्रथमस्याध्यायस्य द्वितीयः पादः । अथ तृतीयः पादः १ अथ स्मृतिप्रामाण्याधिकरणम् । धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् ॥ १॥ स्मृत्याचाराणां धर्म प्रामाण्यमुत नेति संप्रायः । प्रायेणानृतवादित्वात् पुंसां भ्रान्त्यादिसम्भवात् । चोदनानुपलब्धेश्च श्रद्धामात्रात्प्रमाणता ॥ इति प्राप्ते महे- वैदिकैः स्मर्यमाणत्वात् तत्परिग्रहदाय॑तः । सम्भाव्यवेदमूलत्वात् स्मृतौनां स्यात्प्रमाणतारे ॥ कथं तर्हि मूलभूतश्रुत्यनुपलब्धिरिति चेत्- १ ‘धनपेक्षे' इति भाम्बदौपिकात पाठ । २ 'वेदमूलता' इति शास्त्रदीपिकात पाठ । - 240 मौमासाशास्त्रसर्वखे [J.B O.R.s. उच्यते- शाखानां विप्रकीर्णत्वात् पुरुषाणां प्रमादतः । नानाप्रकरणस्थत्वात्स्मृतेर्मूलं न दृश्यते २ श्रुतिप्राबल्याधिकरणम् । विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम् ॥३॥ स्मृतिप्रामाण्यमुत्सृष्टं प्रसनं सर्वगोचरम् । सति वेदविरुद्धत्वे तदिदानौमपोद्यते ॥ प्रत्यक्षश्रुतिविरुद्धाः स्मृतौरुदाहृत्य चिन्यते-प्रमाणमप्रमाणम्वेति ? तत्र—पूर्वाधिकरणन्यायेन प्रमाणमिति पूर्वपक्षः । न च प्रत्यक्षश्रुतिविरोधात् स्मार्त्तश्रुतिकल्पना नवक्तृप्तिः । ब्रौह्यादिवदुभयसम्भवात् । तदुक्रम्- परस्परविरुद्धत्व श्रुतौनां न भवेद्यदि । स्मतेः श्रुतिविरुद्धायास्ततो मूलान्तरं भवेद् ॥ राद्धान्तस्तु- खातन्येण प्रमाणत्वं स्मृतेस्तावन्न संमतम् । वेदमूलानुमानञ्च प्रत्यक्षेण विरुध्यते ॥ यत्तूभयसम्भवादिति तन्न अष्टदोषदुष्टविकल्पापत्तेः । स हि ब्रोहियवयोरगत्यास्वीकृतः । न हि तत्रैकरूपत्वे चिकं किच्चियवस्थितम् । येनेकत्र प्रमाणत्वं स्यादन्यत्राप्रमाणता ॥ १ तन्त्रवार्तिक, ४० ७६ । २ तन्त्रवार्तिक, १०८२ । ३ तन्त्रवार्तिक, ४० ८४ । ४ तन्त्रवार्त्तिक, पृ० ८७ । ५ तन्त्रवार्तिक, पृ० १२ । , VOL. XVII PTS II-III ] प्रथमोऽध्यायः । 241 . , श्रुतिस्मृत्योः पुनः स्पष्टं व्यवस्थाकारणद्वयम् । येन श्रुतेः प्रमाणत्वं स्यात्स्मृतेश्चाप्रमाणता ॥ ३ दृष्टमूलकस्मृत्यप्रामाण्याधिकरणम् । हेतुदर्शनाच्च ॥ ४॥ वैसर्जनहोमौयं वासोध्वर्युर्टलाति,' 'यूपहस्तिनो दानमा- चरन्ति' इत्यादि प्रमाणमप्रमाणं वेति संपाये श्रुतिविरोधाभावात् प्रमाणमिति प्राप्तौ- उच्यते- लोभाख्यस्य हेतोर्दानात् नात्र श्रुतिमूलानमा । उपपन्नतरञ्चतघदवाक्यानुमानत । दृष्टे हि सत्यदृष्टस्य कल्पना निष्प्रामाणिका ॥ अतः श्रुतिविरुद्धं दृष्टकारणञ्च स्मरणमप्रमाणम् । अन्यत्तु प्रमाणमिति स्थितम् ॥ आचार्यास्तु-अनन्तशाखाप्रभेदभिन्नस्य वेदस्यास्मदादिभिः कायं- नानुपलम्भात् स्मृतिमूलवेदाभावो निश्चेतमशक्यः । तेनात्र यदि वा कर्मप्रयोगोऽयं निरूप्यते । यदि वा बाध्यमानत्वमुक्तं बाह्यं स्मृतीः प्रति ॥ एतद्धि जैमिनिना हितोपदेशिना जिज्ञासुभ्यः प्रतिपाद्यते । यावदेकं श्रुतौ कर्म स्मृतौ वान्यत्प्रतीयते । तावत्तयोविरुद्धत्वे श्रौतानुष्ठानमिष्यते ॥ १ तन्त्रवार्तिक, ४ . १२ । २ तन्त्रवार्त्तिक, पृ० १०४ । ३ तन्त्रवार्तिक, पृ० ११३ । ४ कारिकेय शास्त्रदीपिकायामपि (पृ. २६ ) यथा चाउरित्यादिना उड़ता , तन्त्रवार्तिक, पृ० ११ः।
242 मौमासाशास्त्रसर्वखे [J.B.O RS. 'अणुरपि विशेष ' इति न्यायात् । अतश्चैवं श्रुतिस्मृत्योर्विशेषोऽनेन दर्श्यते । नात्यन्तमेव बाध्यत्वं न चाप्यत्यन्ततुल्यता ॥ 'यदा यान्येतानि त्रयौविद्भिन परिग्टहौतानि सांख्ययोग- पाञ्चरात्रपाशुपतशाक्यनिर्ग्रन्थनिर्मितानि धर्मशास्त्राभासानि तेषा- मनेनाप्रामाण्यं, पूर्वोक्तसूत्रोतकर्तृसामान्यप्रत्युदाहरणत्वेन प्रामाण्यं प्रत्यक्षसूत्रे निराकृतम् । मन्वादिवदेव वेदमूलतया प्रामाण्यमिति तु दह निराक्रियते । सिद्धान्तस्तु—अविच्छिन्नवैदिकपरिग्रहानुपपत्त्या हि मन्वादि- स्मृतिष्वनुपलभ्यमानोऽपि वेदः मूलत्वेन कल्पितः । शाक्यादिम्चिद- मत्यन्तविपरीतं अवैदिकमप्रमाणञ्चेत्येव शिष्टानां स्मरणम् । वेद- विवेषिण एव च तेषां प्रमाणत्वं मनुते । दृष्टानुसारिणौ च कल्पना न तद्वैपरौत्येन। अतोऽत्र वेदकल्पना दवीयसौ। अतोऽप्रामाण्यमेव तेषामिति । ४ पदार्थप्राबल्याधिकरणम् । शिष्टाकोपेऽविरुवमिति चेन्न, शास्त्र- परिमाणत्वात् ॥ ५॥६॥ 'आचान्तेन कर्त्तव्यं' यज्ञोपवीतिना कर्त्तव्य मित्येवमादौनि क्रत्वार्थाङ्गस्मरणानि प्रमाणमप्रमाणं वेति संशयः । १ 'अणुरपि विशेषोऽध्यवसायकर ' इत्येष न्याय । २ तन्त्रवार्तिक, पृ० ११४ ।। ३ एता पड्तय शास्त्रदीपिकायामुपलभ्यन्ते, ४० २७ निर्णयमागर । ४ अत्र सूत्रद्वयमेकत्र पठितम् ।
VOL XVII PTS II-III ] प्रथमोऽध्यायः । 243 तत्र- यश्च श्रुत्युकानां क्रमादौनां स्मात्तैराचमनादिभिः । व्याकोपः स्यादतस्तावदिस्पष्टैव विरोधिता ॥ ततः श्रुतिबलौयस्त्वात् स्मृतेः स्यादप्रमाणता । पूर्वभाविप्रमाणस्थं प्रमेयस्थाबलाबलात् ॥ ज्यायस्तेनैव निर्णेते न पश्चादितरादरः । नैराकाझ्यात् प्रमाढणामतः स्मृत्यर्थबाधनम् ॥ वेदंर कृत्वा वेदि करोतीति' क्रमः । कालश्च यः प्रधाने- नाङ्गानामविप्रकर्षः प्रयोगप्राशुभावश्च प्रयोगवचनावगतः । पूर्वाहादिः। परिमाणञ्चाविस्मृतसमस्तपदार्थानुष्ठानसिद्धार्थ प्रयोग- विधिनैराकाशितं पदार्यविधिप्रचयावगतम्। तत्त्रितयमपि क्रम कालपरिमाणात्मकं प्रयोगमध्येऽनुष्ठीयमानैराचमनादिभिरन्यथात्व प्रतिपद्यते। विरोधे च श्रुतिबलौयस्त्वात् स्मार्त्तस्याचमनादेधिः । न च श्रुत्यर्थत्वेऽपि पदार्थगुणत्वात् क्रमादेदौर्बल्यम्। पूर्वभावि- प्रमाणबलाबलचिन्तयैव निराकाङ्गत्वात् । "पश्चादवगतं प्रमेयबला- बलस्थानादर्तव्यत्वात्। तस्मादाचमनादिस्मतौनामप्रामाण्यमिति पूर्वपक्षः । सिद्धान्तस्तु- पदार्थप्राप्यपेक्षत्वात् क्रमादेरविरोधिता । विरोधेऽपि च दौर्बच्छं पदार्थभ्यो गुणत्वतः ।। १ शास्त्रदौपिकायामुद्धृता' कारिका । २ वेदो नाम दर्भमय सम्मार्जनसाधनम् । ३ वेदिराहवनौयगार्हपत्यमध्यवर्तिनी चतुरनुलखाता भूमिरिति माधवः । ४ पचापि शास्त्रदीपिकानुरूपा' पद्धयो द्रष्टव्या' ।
244 मीमांसाशास्त्रसवखे (J BORS. सर्वेषु हि पदार्थषु प्रबलदुर्बलश्रुतिसमाख्याप्रमाणकेषु प्राप्तेषु प्रयोगवेलायां तद्विशेषणतया क्रम पाश्रीयते। तेन स्मार्तपदार्थान्त- र्भावणेव तत्तृप्तिः । एवं यावन्तः पदार्था अवधारितास्तेषामेव पूर्वाह्लादिकालसम्बन्धः प्रधानमन्निकर्षः प्रयोगप्राशुभावश्च कल्यते । परिमाणन्तु न कस्य चिच्छब्दस्यार्थः । तथात्वेऽपि वा प्रयोज्यपदार्थ- प्राण्यपेक्षत्वात् पाश्चात्यमेवेति न स्मार्त्तानां श्रुतिविरोधः । सत्यपि वा विरोधे क्रमादौनां पदार्थगुणत्वाद्दौर्बल्यम् । आचमनादौनां तु पदार्थत्वात् प्राबल्यम् । यत्तु प्रमाणबलाबलं पूर्वभावौति तन्न, स्वरूपेण प्रमाणयो- रविरोधात् प्रमेयविरोधद्वारको हि प्रमाणविरोधः। तथा च यदैव प्रमेययोर्विरोधो गम्यते तदैव तयोर्बलाबलमपौति तत एव निर्णये जाते नैराकाझ्यात् प्रमाणबलाबलमनादर्त्तव्यमिति तस्मादाच- मनादिस्मृतौनां अबाधात् प्रामाण्यम् । प्राचार्यास्तु-" यज्ञोपवीतादेः प्रत्यक्षश्रुतिविहितत्वेनानुदाहरण- त्वान्नेदमधिकरणान्तरं किन्तु पूर्वोक्तशाक्यादिग्रन्थाप्रामाण्यमेवाक्षिप्य समाधीयते। यद्धि तेष्वहिंसादिवचनं श्रुतिस्मृतिविशिष्टं न कोपयति तत्प्रमाणं भवत्विति चेत्- न, शास्त्रपरिमाणत्वात् ॥६॥ न खलु येन केनचित्प्रमितो धर्मः फलं साधयति । पुराणन्यायमौमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इत्यादिपरिगणितैरेव धर्मप्रमितेनियमात्" । १ शास्त्रदीपिका, ४० ३० । .
VOL XVII PTS II-III ] प्रथमोऽध्यायः। 245 " यत्तु तौयं सूत्रम्- अपि वा कारणाग्रहणे प्रयुक्तानि प्रतोयेरन् ॥ ७॥ तदधिकरणान्तरम् । अत्र वसन्तोत्सवादयः प्रमाणमप्रमाणं वेति संशयः । "तत्र स्मृत्यधिकरणे कर्तुमामान्यादाचाराणां स्मृतिवत्प्रति- पादितमपि प्रामाण्यं निर्निवन्धनतयार" वसिष्ठविश्वामित्रादौनां महतामपि “व्यतिक्रमदानाच्चाक्षिप्य समाधीयते । यदि वसन्तोत्सवादयोऽष्टकादिववेदमूलकाः स्युस्ततस्तद्वदेव मन्चा- दिभिर्निबध्येरन् । तथा वसिष्ठस्य पुत्रशोकार्तस्य जलप्रवेश- रूपात्मत्यागे विश्वामित्रस्य च चाण्डाच्या जले प्रवृत्तिदर्शनात् कथमचौनानामाचारे विस्रम्भः। तस्मानान्धादिमूलत्वात् अप्रमाए मा चार इति पूर्वः पक्षः । राद्धान्तस्तु-धर्मबुध्या वैदिकैरनुष्ठानमसति वेदमूल्नकत्वेऽनुप- पन्नम् । व्यतिक्रमस्तु रागद्वेषनिबन्धनो न तु धर्मबुद्धिनिबन्धनः । मन्वादिभिस्तु लाघवाथं श्टङ्गग्राहिकतया तत्तदाचाराननुप- निबन्धद्भिरपि शिष्टाचारः प्रमाणमिति सामान्यात्मनोपनिबद्धमेव । तस्मात् स्मृतिवदाचाराणामपि धर्म प्रामाण्यम् । ५ शास्त्रप्रसिद्धपदार्थप्रामाण्याधिकरणम् । तेवदर्शनादिरोधस्य समा विप्रतिपत्तिः स्यात् ॥८॥ यवमयश्चरुर्भवति,' वाराही उपानहौ,' वैतसे कटे प्राजा- . . १ शास्त्रदीपिका, पृ० ३०-३१ । २-४ शास्त्रदीपिका, ४० ३१ । ५ तेष्वदर्शनाविरोधस्येत्येवमुपक्रम वा सूमिति नन्त्रवार्तिककारा, पृ० १४५ ।
246 मौमासाशास्त्रसर्वस (J B.ORS पत्यान् सञ्चिनोतौति श्रूयते । तत्र यववराहवेतसशब्दाः किं प्रियङ्गुवायसजम्बूनां वाचकाः, किं वा दीर्घशूकसूकरवञ्जुलाना- मिति शिष्टानामेव मिथोऽभिधानविप्रतिपत्तेः सन्देहः । अविशेषादुभयार्थतेति प्राप्तेऽभिदधाहे-वाक्यशेषाद्दौर्घशूकादय एव वाच्याः। ‘यवमतौभिरभिवौडम्बर्याः प्रोक्षणे विधीयमाने वाक्यशेषोऽयम् । 'यत्रान्या औषधग्लानिः सर्वासामेव मोदनात् ।। एवं वराहवेतसशब्दावपि वराहं गावोऽनुधावन्ति,' 'अमुजो वेतस' इति वाक्यशेषानिर्गीयते । प्राचार्यास्तु- " नैवोच्यन्ते क्वचिद्देशे यवश्रुत्या प्रियङ्गवः । जम्बू न वेतसं प्राइवराहं नापि वायसम् ॥ अध्यारोग्य विचारेण किं मुधा खिद्यते मनः । सन्दिग्धेषु च सर्वेषु वाक्यशेषेण निर्णयम् ॥ वक्ष्यत्येव न तेनापि पृथक्कार्या विचारणा । तस्मादन्यदुदाहृत्य विचार्यमिदमौदृशम् ॥ यत्र विप्रतिपत्तिः स्यादार्यम्नेच्छप्रसिद्धिजा । तत्र किं तुल्यता युक्ता किमेकैव बलीयसौ" ॥ १ तन्त्रवार्त्तिक, पृ० १४७ । २ 'यत्रान्या चौषधयो स्वायन्ते, अथैते मोदमाना इवोत्तिष्ठन्ति' इति श्रूयते , तन्त्रवार्तिके- फाल्लानेऽन्यौषधीना तु जायवे पत्रशातनम् । मोदमानास्तु तिष्ठन्ति यवा' कणिशशालिन' पृ० १४८ । ३ कुमारिलभट्टाचार्थास्तु । ४-६ तन्त्रवार्त्तिक, ४० १४८ । ७ प्रयोगजेति मूलपुस्तकपाठः । मन्त्रवार्तिक, पृ० १४८ । .
VOL XVII PTS II-III ] प्रथमोऽध्यायः । 247 - तत्र पूर्वः पक्षः- आर्यास्तावद्विशिष्येरन्नदृष्टार्थेषु कर्मसु । दृष्टार्थषु तु तुल्यत्वमार्यम्नेच्छायोगिणाम् ॥ तस्मात् पौल्लादिशब्दानां वृक्षहस्त्यादिबोधने । समा विप्रतिपत्तिः स्वादार्यम्नेच्छप्रयोगतः१५॥ राद्धान्तस्तु- प्रतिपादकतामात्र म्लेच्छवष्यवगम्यते । अविलुतस्तु शब्दार्थ: शिष्टेम्वेवावधार्यते ॥ न तावदनेकार्थत्वं गौरवात् । • प्राब्दप्रयोगेऽप्यन्यतरस्याप्यनव- धारणेन कदा चिन्कस्य चिदुपादानेऽष्टदोषदुष्टविकल्यापत्तेः। तत्र यद्यणुरपि विशेषो नावधार्यत तदा गत्यभावात् द्वयोरप्यभिधेया. स्यात् । अस्ति त्वभियुकानभियुक्योर्विशेषः । शास्त्रस्था हि शब्दक- समधिगम्यधर्माधर्माविभुतिलिप्सया शब्दार्थतत्त्वं निगमनिरुकव्याकर- णादिभिर्विविच्य परिपालयन्ति । म्नेच्छास्तु दृष्टार्थव्यवहारम्य यथाकथंचित् सिद्धेः प्रयोजनाभावात् तस्मादार्यप्रसिद्धिरेव बलौयसौति । नाविप्लुतिसिद्धौ यतन्ते ४ , १ १ तन्त्रवार्तिक, पृ० १४९ । • शास्त्रदीपिकाकारेणाप्युद्धतेय कारिका, १० ३३ । ६ हस्तियक्ष योरुभयोरप्यर्थत्वकला नागन्तर पौलुशन्ट प्रयोगे यदा हस्तौ सद्यते नदा वृक्षार्थत्वग्राहक यत्यमाण तस्य प्राप्तप्रामाण्यपरित्याग प्राप्ताप्रामाण्यस्वीकारश्चेति दोषद्वयम् । पुन प्रयोगे यदा वृक्षो र द्यते तदा वृक्षार्थताग्राहकप्रमाणस्यैव परित्यक्त- प्रामाण्यवौकार स्वीकृताप्रामाण्यपरित्याग इति दोषद्वयमित्येव चत्वारो दोषा । तथा हत्यर्थताग्राहकप्रमाणस्य प्राप्तप्रामाण्यपरित्याग अप्राप्ताप्रामाण्यखौकार इति दोषद्दय, पुन प्रयोगे यदा हस्तौ यद्यते तदा हस्त्यर्थताग्राहकप्रमाणस्य खौकृताप्रामाण्य- परित्याग परित्यक्तप्रामाण्यखौकारश्चेति एव पर्यायत्रयेणैकैकस्मिन्पमाणे चत्वारश्चत्वारी दोषा इत्यष्टदोषदुष्टविकन्यापत्तिरिति मयूखमान्निका, ४० ३० । ४ शास्त्रदौपिका, पृ०३३ । 4 218 मौमांसाशास्त्रसवख [J B.O RS. यद्दा यत्र मातुलदुहिटपरिणयनादिषु स्मृत्याचारयोर्विरोधस्तत्र किं तुल्यकक्षत्वमुत स्मृतौनां बलौयस्त्वमिति संशयः । “ " " यथैव श्रुतिम्लत्वात् स्मरणानां प्रमाणता । आचाराणां तयवेति न विशेषो बलाबले "। एव प्राप्ते ब्रमः- सप्रत्ययप्रणौता हि स्मृतिः सोपनिबन्धना । तया श्रुत्यनुमानं हि निर्विघ्नमुपलभ्यते ॥ श्राचारात्तु स्मृतिं ज्ञात्वा श्रुतिर्विज्ञायते ततः । तेन घन्तरित तस्य प्रामाण्य विप्रकथ्यते 'प्रत्ययिततरा हि मन्वादयः स्मारः। तत्स्मरणं गुणवत्तर- कर्तृकत्वेनेतरजनचारियादिसम्भणौयतरम् । किञ्च आचरितॄणां जनानां स्वयमितस्ततो विप्रकौर्णपरप्रकर- गादिगतश्रुत्युद्धरणेनाथं प्रतिपत्तुं सामर्थ्याभावादवश्यमेते महर्षिभि- रेव ज्ञात्वा स्मृत्वा समर्पितमर्थमनुतिष्ठन्तीत्यङ्गीकार्यम् । अत- श्वाचारस्य स्मृतिकल्पनेन श्रुतिकल्पकत्वमिति यन्तरितं प्रामाण्यम् । अपि च कर्मस्वरूपमात्रमाचारेषु प्रत्यक्षम्, कर्त्तव्यता तु सुखादिहेत्वन्तरमालोच्य परिशेषात् कल्या! पश्चान्मूलभूतश्रुति- कल्पनम् । स्मृतिषु तु द्रागेव ग्रन्थतः कर्त्तव्यतावगतौ सत्यां मूलमा कल्यमिति महानविशेषः । न चात्र विकल्पः । वस्तुनि तद- - . १ सन्त्रवार्त्तिक, पृ० १५० ।। २ शास्त्रदीपिकायान्न कारिकायारुत्तरार्धन्विस्थ पश्यते तस्यास्तेन बलीयस्व माचारानिर्निबन्धनात्'। 'उपजायते' इति मूलपुस्तकपाठ' । ३ तन्त्रवार्तिक, पृ० १५० ।
VOL XVII PTS II-III] प्रथमोऽध्यायः। 249 सम्भवात्। न हि मातुलदुहित्परिणयन प्रत्यवायं जनयति चेति सम्भवति। तस्मात् ग्टह्यमाणकादिहेत्वन्तरस्याचारस्यैवाप्रामाण्यम् । अथवा" "त्रिवृच्चश्विबालादेर्लोकेऽन्योर्थः प्रतीयते । वेदे तदभियुक्तश्च तस्मादन्यो विलक्षणः । यथा त्रिवृच्छब्दस्य लोके त्रिगुणत्वमर्थः त्रिवद्रज्जुरिति, वेदे तु त्रिवहिष्यवमान’मित्युत्वा त्य॒चत्रयस्थानुक्रान्तत्वात् स्तोत्रीयानव- कमर्थः। चशब्दस्थापि लोके स्थालौ वाच्या, वेदे त्वादित्यः प्रापणीयश्वरु'रित्युत्वा · अदितिमोदनेने तिवचनादोदनोर्थः । 'माश्वबालः प्रस्तर' इति लोकप्रसिया अश्वजातीयबालमय इति गम्यते। वाक्यशेषात्तु काशमयः । “ऐतव्यो विधुतौ' इतौववय - वात्मिके लोकात् । वाक्यशेषात्तु काशमूलकेर ” । " तत्र लोकवाक्योषयोस्तुल्यवलत्वमुत वाक्यशेषस्था प्रतौति- बलौयसौति संशयः । एव- पदार्थपदसम्बन्धे तुल्यत्वं लोकवेदयोः । अदृष्टसाधनत्वे हि लोकादेदोऽतिरिच्यते " तस्मादिकल्पनार्थदयं ग्राह्यमिति पूर्वः पक्ष' । सिद्धान्तस्तु- वाक्यैकत्वं विधिस्तुत्योर्विषयेक्यादृते न हि । तेनात्र वाक्यशेषस्था प्रतिपत्तिबलौयसौ ॥ " १ शास्त्रदौपिका, ४० ३४ । २ तन्त्रवार्तिक, पृ० १५२-१५ ३ , शास्त्रदौपिका, पृ. ३५ ३ शास्त्रदौपिका, पृ० ३५ । .
250 मौमासाशास्त्रसर्वखे (J BOR.S तस्माद्यत्र वाक्यशेषः त्रिवृहिष्पवमानमित्यादिषु तत्र तावत्त- दनुगुण एवार्थः समाश्रयणीय इति तावदिह स्थितम् । यत्र तु वाक्येशेषो नास्ति त्रिवृदग्निष्टुदग्रिष्टोम इत्यादिषु तत्रापि रूढ़ि- वशादयमेवार्थ इति दशमे वक्ष्यते । चरुशब्दोऽपि स्थाल्यां लाक्षणिकः । तेनासत्यपि वाक्यशेधे · सौर्य चरु'मित्यादावोदन- वचनत्वमेवेति दामे वक्ष्यने । न च 'सन्दिग्धेषु वाक्यशेषा'दित्य- नेन गतार्थत्वम् । दूह वाक्यशेषात्मागर्थान्तरं निर्णीतं वाक्यशेषेण बाध्यते न तु प्रथमं सन्दिग्धं तेन निर्णीयत इति । ६ म्लेच्छपसिद्धार्थप्रामाण्याधिकरणम् । चोदितं तु प्रतौयेताविरोधात् प्रमाणेन॥१०॥ " ये शब्दा न प्रसिद्धाः स्युरार्यावर्त्तनिवासिनाम् । तेषां म्लेच्छप्रसिद्धोऽर्थः किर ग्राह्यो नेति चिन्त्यते ॥ पिक-नेम-सत-तामरसाब्दा हि आर्याणामप्रसिद्धार्थकाः, क्षेच्छानां तु कोकिलादिषु प्रसिद्धाः । तत्र यदि म्लेच्छप्रसिद्धि- रप्रमाणमेव ततो निरुता दिवशेनार्थः कल्यः। अथ मा प्रमाणं तर्हि सेव ग्रहीष्यते । १ तन्त्र- " निरुकव्याक्रियाद्वारा प्रतिपत्तिबलीयसी। शास्त्रस्या वेत्यनेनासौ कल्यापि हि बलीयसौ ॥ म्लेच्छा हि दृष्टार्थव्यवहारित्वात् न शब्दार्थाविप्लवे यतन्ते तस्मा- शास्त्रदीपिका, ४० ३५-३६ । + मूलपुस्तके 'कि' इत्यस्य न पाठ । • तन्त्रवानिक, पृ० १५५ । ४ तन्त्रवार्तिक, पृ० १५६ ।
VOL. XVII PTS II-III.] प्रथमोऽध्यायः । 251 . तेषु प्रसिद्धोऽप्यों न विस्तम्भणीयः । निस्तादिद्दारेण तु अर्थ- वत्ताकल्पने तेषामप्यर्थवत्ता भविष्यतीति पूर्वः पक्षः । उच्यते- " पदानि तावदेतानि वेदादिष्वेव दर्शनात् । अविप्लुतानि तेषाञ्च भाव्यमर्थन केन चित्१" ॥ स च म्लेच्छप्रसिद्धोऽपि ग्टह्यते । आर्यैः सहाविरुद्धत्वात् तस्य तैरप्यपेक्षणात्” । यत्तु शास्त्रस्था बलीयसौ ति तन्न । प्रसिद्धौ विद्यमानायां तद्दलीयस्त्वमिष्यते । असत्यां तु बलौयस्त्वं बन्ध्यासुतबलोपम्" ।। निरुतादिप्रसिद्धिस्तु- विक्षिप्ता बहरूया च या सन्देहप्रवर्तिनी। अनन्योपायतामा कचिदेव ग्रहीयते " ॥ तस्मान्लेच्छप्रसिद्ध एव पिक इति कोकिलः । नेमोऽर्धम् । सत इति दारुमयपात्रम्, वर्तुलं पातछिद्रम् । तामरस एनम् । दूत्येवमादिरों ग्राह्यः । ७ कल्पसूत्राणामस्वतःप्रामाण्याधिकरणम् । प्रयोगशास्त्रमिति चेत् ॥११॥ “ कल्पसूत्राण्यदाहृत्य संप्रत्येतद्विचार्यते । किमेतेषां स्वतन्त्राण प्रामाण्यं वेदवद्भवेत् ॥ १ ॥ . + शादीपिकायामुद्दतेय कारिका । • तन्त्रवार्तिक, ४० १५८ । • तन्त्रवार्तिक, पृ० १५८ । ४ तन्त्रवार्तिक, पृ० १५८ । ५ तन्त्रवार्तिक, पृ० १६० । चत्र 'प्रवर्तिनी'त्यस्य स्थाने प्रदायिनीति मुद्रित. पुस्तकपाठ।
252 मौमांसाशास्त्रसर्वखे [J.B O RS “ किम्वा वेदत्वमेवेषां मन्त्रब्राह्मणवन्मतम् । वैदिकार्थप्रबन्धाद्धि नेतेषां स्मृतितुल्यता ॥ २ ॥ सिद्धरूपः प्रयोगो यैः कर्मणामनुगम्यते । ते कल्पा लक्षणार्थानि सूत्राणौति प्रचक्षते' " ॥ ३ ॥ अथवा मन्वादिस्मृतयोऽप्यत्रोदाहरणम् । यद्दा अङ्गान्यत्रोदा- हरणम् । शाक्यादिग्रन्या वा। तदेतानि चत्वार्यपि विचार- स्थानानि समानन्यायानि सह विचार्यन्ते-किमेषां स्वातन्त्र्येण प्रामाण्यं नवेतिर " तत्र शाक्यादिव्यतिरिकानां प्रामाण्यं तावदवगौत- मेव । तत्किमेषामेवापौरुषेयत्वं वेदत्वं वा कल्यं उत वेदमूलकत्व- मिति संशये- " वेदं हि कल्पयित्वेभ्यः पुनस्तस्यापि नित्यता। वक्रव्यैव वरं तेन सा तेष्वेवावधारिता ॥ ४ ॥ सिद्धानां नित्यतैवैका सुबोधा वेदतापि वा। शाक्यादिग्रन्थेभ्योप्यवगतिस्तावज्जायते सा च स्वतः प्रमाणम् । न च तेषां पौरुषेयत्वम् । येनेवाकृतकत्वं हि वेदस्य प्रतिपाद्यते ॥ ५ ॥ न्यायेन तेन शाक्या दिग्रन्थस्थापि भविष्यति । शुद्धवाक्यसमाख्यापि प्रवकृत्वे निबन्धना ॥ ६ ॥ तच्छिष्टत्वनिमित्ता वा काठकाङ्गिरसादिवत् । तदुक्तः (कं) शाक्यैः-यथोत्पादादा तथागतानामनुत्पादादा स्थितैवैषा धर्मनित्यतेति । उत्पादिति प्रवाहनित्यत्वमभिप्रेत्य १ तन्त्रवार्तिक, पृ० १६१ । २ शास्त्रदीपिका, पृ० ३९ । ३ तन्त्रवार्तिक, ४० १६६ । ४ नन्त्रवार्तिक, पृ० १६८ VOL XVII PTS II-III ] प्रथमोऽध्यायः 253 “ अनुत्पादादिति कूटस्थनित्यत्वम् । तथागता बौद्धाः । तस्मात् स्वातन्त्र्यममौषामिति प्राप्तावाचमहे- नेतेषां पौरुषेयाणं स्वातन्यमुपपद्यते । विस्पष्टं पौरुषेयत्वं दृढ़कर्तृम्मृतेर्वशात् " ॥ पुरुषपरम्परयैव ह्येषु कर्तारः स्मर्यन्ते । न काठकादिवत् प्रवचनेन परिहत्तुं शक्यन्ते । तत्र हि समाख्यानमात्रम् ”। न च कल्पादौनामनित्यत्वे नित्यब्रह्मयज्ञाङ्गतया विधेयत्वानुपपत्तिः । ग्रन्थव्यतरनित्यत्वेऽपि सर्वकालमेवंविधकिञ्चियक्तिसत्वेन तदुपपत्तेः । तल्लादेदमूलकत्वनैव कल्पादीनां प्रामाण्यम् । शाक्यादौनां तु खरूपेण नित्यताभ्युपगमे सर्व क्षणिकमितिसिद्धान्तयाकोपः । प्रवाहनित्यत्वात्तत्र कजात्(?) परक(?)यत्किञ्चियक्तिसार्वदिकत्वरूपा अशक्याभ्युपगन्तुमपोहवा दिना। तस्मात् स्थितैव धर्मनित्यतेत्येतत् स्वसिद्धान्तविरुद्धमेव ॥ ८ सामान्यश्रुतिकल्पनाधिकरणम् । अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् ॥ १५ ॥ प्राच्यादिभिरेवानुष्ठीयमाना होलाकादयः छन्दोगादिभिरेव परिग्टहौता गौतमादिस्मृतयश्च किं तेषामेव धर्मा उत सर्व- साधारणा इति संशयः । तत्र- १ शास्त्रदौपिकाकारैर्धतेय कारिका, ४० २६ ! २ शास्त्रदीपिका, पृ० ३९ । ३ वसन्तोत्सवो होल्लाका चर्कवृक्षादिरूपखकुलक्रमागतस्थावरदेवताभ्यर्चनरूपा किनबुकादयो दाक्षिणात्यैदिगण पूजालक्षणयागादय प्रतीच्यैर्येष्ठपौर्णमास्यामचना- पूर्वकक्रियमाएषभधावनरूपा वृषभयज्ञादय उदीयरित्यादिशब्दार्थ -मयखमालिका - ४० ४१ ।
254 मौमासाशास्त्रसर्वखे [J BORS लिङ्गव्यवस्थया लिङ्गी व्यवस्था प्रतिपद्यते । धूमो हि यत्र तत्रैव वहिर्नान्यत्र मौयते " ॥ १ ॥ इत्येव प्राप्ते ब्रूयात्- " विशेषाभावमात्रेण प्रसिध्यत्मर्वधर्मता । विशेषणायवस्था स्यात्तच नेहोपपद्यते " ॥ २ ॥ न हि सर्वधर्मत्वे प्रमाणान्तरमपेक्षितम् । विधिनैव सामान्यतः प्रवृत्तेन तत्मिद्धेः । व्यवस्थावादिना तु विधेर्विशेषघटितत्व वाच्यम् । न च तत्र प्रमाणमस्ति, न वा सम्भवति सर्वेष्वाचरित्वषु अनु- गतस्यानाचरित्भ्यश्च व्यावृत्तस्य जातिगुणसंस्थानादेदुर्निरूपत्वात् । प्राच्यादिसमाख्यापि व्यभिचारिणी निर्देशस्थैरपि कैश्चिदनाचरणात् चिरविनिर्गतपुत्रपौत्राणां तदाचरणदर्शनाच्चेति । तस्माविशेषस्य निष्प्रमाणकत्वात् दुर्निरूपत्वाच्च सर्वधर्मत्वमाचाराणां स्मृतीनां रेति सिद्धम् । ६ साधुपदप्रयुक्त्यधिकरणम् । प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्दषु न व्यवस्था स्यात् ॥ २४ ॥ व्याकरणं प्रमाणमप्रमाणं वेति चिन्यते । तत्र- निर्मूलत्वादिगौतत्वान्नष्फल्यावेदबाधनात् । पूर्वापरविरोधाच्च नास्य प्रामाण्यसम्भवः३” ॥ नियमदयायं हि व्याकरणम् । साधूनेव प्रयुञ्जौतेति प्रयोग- नियम एकः । गवादय एव साधवो न गाव्यादय इति साधुत्व- १ शास्त्रदौपिकाकाईतेय कारिका, पृ० ४१ । २ शास्त्रदीपिका, पृ० ४२ । ३ शास्त्रदीपिकाकारैर्धतेय कारिका, पृ. ४३ ।
VOL. XVII PTS II-ILI ] प्रथमोऽध्यायः । 255 स्वरूपनियमोऽपरः । तत्राद्ये तावत् प्रत्यक्षादौनां न मूलत्वं, तेषां धर्माधर्मयोरप्रवृत्तेः । नापि वेदवाक्यानि मूलं, गवादिषु प्रतिपद- मनन्तवाक्यपाठासम्भवात् । अपठितानां च मूलत्वानुपपत्तेः। न च साधूनेव प्रयुचौत इति एकेनैव लक्षणेन सर्वसङ्ग्रहः । साधुत्वस्य दुर्वचत्वात् । वाचकत्वमेव तदिति चेत्-प्रयोगप्रत्ययानुपपत्त्या गाव्यादिवपि तत्सिद्धेः । अनादित्वं तदिति चेत्-गाव्यादिवपि सम्बन्धक रस्मरणेन तत्सिद्धेः । अदृष्टसाधनवं तदिति चेत् तस्य प्रत्यक्षाद्यविषयत्वात् । साधुभिर्भाषितेति वेदादेव तत्प्रमितावात्मा- श्रयापत्तेः। एतेन द्वितीयनियमोऽप्यपास्तः । तस्मान्मूलाभावा- दप्रमाणं व्याकरणम् । किञ्च सूत्रकारो हि “समर्थः पदविधि"रित्यादि सूत्राणि प्रणयति । भाष्यकारश्च प्रत्याचष्ट इति परस्परविगानम् । अपि च उनरोत्या निर्मूलत्वादेव निष्फलत्वम् । अपि च दृष्टं सामे'- त्यधिकृत्य ‘कलेढुक्', 'वामदेवाड्यड्या' वित्युक्तम् । वेदे तु 'यदकालयत्तत्काले यस्य कालेयत्वं ततो वसु वाम समभव'दित्युप- न्यस्य वामं वा इदं देवेभ्योऽजनि तस्माद्दामदेव्य मिति । वेदबाधः । अपि च- " ब्राह्मणार्थों यथा नास्ति कश्चिद्राह्मणकम्बले । देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः२” ॥ इत्यभ्युपगमादर्थवत्प्रातिपदिकं क्रियावाचको धातुरिति चाभ्यु- पगमात् पूर्वापरविरोधः । तस्मादप्रमाणं व्याकरणम् । गाव्यादयोपि गवादिवदेव प्रयोकव्या इति । . तथा च ततश्च १ पाणिनीयसूचम् । २ तन्त्रवार्तिक, पृ० २२० । .
250 मौमांसाशास्त्रसर्वखे [J BORS - " ॥ तन ब्रम- " चव तुल्यपाण्यादिरूपत्वावर्णसङ्करम् वदतः स्मृतिबाधः स्यात् तथा वाचकसङ्करम् यत्तु स्मृतिर्निमूलेति तन्न । प्रयोगनियमे मन्वादिवत् वेदमूल- त्वात् । प्रत्यक्षमेव च वाजसनेयादिषु वचनम्-' तस्मात् ब्राह्मणेन न म्नेच्छित' इति । द्वाभ्यामेव च वाक्याभ्यां साधून प्रयुञ्जौत नासाधूनिति समस्तशब्दापशब्दविधिप्रतिषेधसिद्धेर्नानन्तवाक्यकल्प पत्तिः। अनादित्वं वाचकत्वं अनपभ्रष्टत्व व्याकरणाभ्यासजनित- संस्कारव्यङ्ग्यो जातिविशेषो वा साधुत्वम् । तदभावश्चासाधुत्वम् । च गाव्यादौनामशक्कत्वेऽबोधकतापत्तिः । साधुशब्दस्मृतिद्वारा प्रबलतरशनिभ्रान्तिबलाद्वा तदुपपत्तेः । एवञ्च- “ यथा रत्नपरोक्षायां साध्वसाधुत्वलक्षणम् । तथा व्याकरणात् सिद्धं साधुशब्दनिरूपणम् एवञ्च वरूपनियमेऽपि उदातादिविभाग व प्रत्यक्षं मूलम् । तस्मा देकस्यैव वाचकत्वे दूतरेव तदशक्रिजाः' इति नाष्टदोषदुष्ट- विकल्पापत्तिः । "या तु हस्तः करः पाणिरित्यत्रानेकशब्दता । अनन्यगतिकत्वेन सा दृढ़स्मरणेन च " ॥ यदपि विगीतत्वादिति तन्न। सूत्रप्रत्याख्यानादेरवेदमूलत्वे केन उपायमात्रतया उपेयांश अविगानात्। समूलवादेव च वैफल्यमपि निरस्तम् । १ अत्र 'यथा चेत्यादि मुद्रितपुस्तकपाठ । २.३ तन्त्रवार्त्तिक, पृ० २३२ । ४ तन्त्रवार्तिक, १० २२६ ।
VOL. XVII. PTS. II-III ] प्रथमोऽध्यायः। 257 " यदपि वेदबाधना दिति तदपि न । धर्मसाधनतांशे हि विगानं नैव विद्यते । अन्वाख्यानविगान तु लक्ष्यभेदान्न दृष्यति' " ॥ यदपि पूर्वापरविरोधादिति तदपि न । प्रकृतिप्रत्ययविभागस्य कल्पितत्वेन निरवयवस्फोटव्युत्पादन एव तात्यर्थमिति वैयाकरण- सिद्धान्ते तात्पर्यविषयोभूतांश अविरोधात् । आपातप्रतीतिविरोधस्तु अर्थवादेब्धिव न दोषमावहति । तस्मात् याकरणं प्रमाणमिति सिद्धम् । १० आकृतिशक्त्यधिकरणम् । प्रयोगचोदनाभावादकत्वमविरोधात् ॥ ३० ॥ गवादयो वाचका न तु गाव्यादय इति निर्णेते वाचकप्रसङ्गा- द्वाच्यविशेषश्चिन्तयिष्यते-किमाकृतिरुत व्यकिरिति । तदुपोहातत्वेनेदं चिन्यते-किं लोकवेदयोः शब्दार्थो भिन्नावुता- भित्राविति । तथा हि-भेदपक्षे लोकव्यवहाराननुपातिनां वैदिकमब्दानां शक्तिरेव दुर्ग्रहा। उपायाभावात् । अतो नारम्भणीयमाकृत्यधि- करणम् । अभेदपक्षे तु लोके वृद्धव्यवहारानुसारेण कृतः शब्दार्थनिर्णयो वेदे फलिय्यति । तेनाकृत्यधिकरणस्यायमुपोद्दातः । तत्र सत्यपि कतिपयवर्णाभेदे खरच्छान्दसवर्णागमलोपविकारविपर्यायादिधर्मभेदेन लोकवेदयोः पदानां भेदः । स्वरूपादिशब्दसाहचर्याच्च । तथा १ तन्त्रवार्त्तिक, पृ० २३८ । २ विभागादिति मुद्रित पुस्तकपाट ।
258 मौमांसाशास्त्रसवखे [J BORS. 'उत्ताना वै देवगवा वहन्तौ'त्यादिदर्शनादर्थोऽप्यन्य इति प्राप्ते - “ “ प्रत्यक्षप्रत्यभिज्ञानाद्वर्णकत्वं प्रतिष्ठितम् । वर्णात्मकं पदं तच्च तदभेदान्न भिद्यते " ॥ ननु स्वरादिभेदात्यदभेदो वाक्याधिकरणे दर्शितः । पदावधारणोपायान् बहनिच्छन्ति सूरयः । क्रमन्यूनातिरिक्तत्वस्वरवाक्यश्रुतिस्मृतौः२ " ॥ इति सत्यम् । यो ह्यर्थप्रतीत्यौपयिको धर्मस्त देन भिद्यत एव पदम् । यथा पूर्वपदप्रकृतिस्वरत्वे बहुव्रौद्यर्थत्वम् । अन्तोदात्तत्वे स्वार्थ- वृत्तिता स्मरणादवगम्यते । ब्रह्मब्राह्मणादिषु तु न्यूनातिरिक्तत्वात् जराराजादिषु क्रमान्यत्वात् । चैवं लोकवेदयोरौँपयिकधर्म- भेदोऽस्ति । यदि हि अनियतस्वराणामन्योऽर्थः, नियतस्वराणां चान् इति स्यात्तदा स्थादेव पदभेदः । पद्यते गम्यतेऽनेनेति हि पदम् । अतो गमकस्वरूपस्य भेदे सत्येव भिद्यते । न तु धर्ममात्रभेदात् । एवं देवासः त्मनेत्यादिषु लौकिकेन्यो न्यूनातिरेककृतस्वरूपभेदे सत्यपि अर्थान्तरानवगमात् सत्यपि वा केषांचित् भेदे अग्नि- मित्रादौनां भेदस्याप्रमाणकत्वात् सिद्धमेकत्वं लोकवेदयोः पदानाम् । पदैक्ये चार्थानामप्येकम् । उत्तानादिवचनं त्वन्यपरम् ॥ एवं स्थिते विचार्यते–किमाकृतिः शब्दार्थ उत व्यकिरिति । दौ च पक्षावुपन्यस्तौ भाष्यकारेण यद्यपि । व्याख्यातारस्तथाप्यत्र ब्रूयुः पक्षान्तराण्यपि ॥ नियोगेन विकल्पेन दे वा सह समुच्चिते । सम्बन्धः समुदायो वा विशिष्टा वैकयेतरा ॥ १.२ शास्त्रदीपिकाकारैरडते कारिके ।
VOL XVII. PTS. II-III ] प्रथमोऽध्यायः। 259 १ ॥ एते पक्षाः पुनर्योज्या व्यतिकीर्णः परस्परम् । लिङ्गकारकसङ्ख्याभिः संहतासंहतात्मभिः ॥ पुनर्जात्यादिपक्षाणां तादृश्येवात्र योजना । एवं शब्दस्वरूपस्य पुनर्जात्यादिभिः सह " गोशब्दार्थः किमाकृतिरेव, अथ व्यकिरेव, उताकृतिर्वा व्यकिर्वा । अथाकृतिश्च व्यक्तिश्च । किं वोभयोः सम्बन्धः । उत समुदायः । किमाकृतिविशिष्टा व्यक्तिः, उत व्यक्तिविशिष्टा प्राकृतिरिति । एषैव चाष्टपक्षी लिङ्गादिभिर्व्यस्तसमस्तैोज्या । एवञ्च यद्यप्यनेकपक्ष- सम्भवेत् तथाप्याकृतिरेवेति दृढ़ः पक्षोऽयमेकतः । इत्यन्यतः सर्व व्यतिपक्षानुपातिनः । तस्मात्- दर्शितेष्वपि सर्वेषु विचारः क्रियते द्वयोः । का शब्देनाकृतिव्यक्त्योरुच्यते काऽनुगम्यते " -४ " ॥ प्रयोगचोदनाभावाड्यक्तरेवाभिधेयता । न ह्याकृतिरमूर्त्तवाड्यवहारोपयोगिनी न हि प्राकृताववहननास्लम्भनादौनि सम्भवन्ति। न चाक्षिप्तव्यक्तौ तदन्वयः। आक्षेपो हि अनुमानमर्थापत्तिर्वा । तथा चाशब्दार्थत्वा- यक्रः पदार्थान्तरान्वयो न स्यात् । उक्त्रं हि तङ्गताधिकरणे- गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । शब्दान्तरैर्विभक्त्या वा धूमोऽयं ज्वलतौति वत् ॥ इति अथ लक्षणयेवाक्षेपः तथापि तस्याः शक्यान्वयानुपपत्तिज्ञाना- धौनतया प्रथमं सामान्यबोधस्यानुभवविरुद्धस्यापातात् । तस्मा- १-२ तन्त्रवार्तिक, ४० २४५-२४७ । ३ तन्त्रवार्तिक, ४० २४८ । ४ भास्वदौपिका, ४० ५० ।
260
मीमांसाशास्त्रसर्वखे
(J B O.RS
यः
यतिरेवार्थः । कथं तर्हि व्यक्त्यन्तरे प्रयोगः । या एवमाकृतिका
सा गौरिति सामान्यमुपलक्षणोकन्य शतिग्रहादित्यवेहि ।
शुक्लवासाः स देवदत्त इतिवत् । यथा चोपलक्षणभूतं वासो न
शाक्यकोटिनिविष्टं तथेह जातिरपि । अस्तु वा जातिविशिष्टव्यक्ति-
रेव वाच्येति पूर्वः पक्षः ।
सिद्धान्तस्तु-
विशेष्यं नाभिधा गच्छेत् हौणानिर्विशेषणे ।
व्यकावापलब्धायामवघातादिसम्भवः ॥
यत्तूतमनुपपत्तिज्ञानाधौना लक्षणेति तन्न । निरूढलक्षणाया
अतथात्वात् ।
वस्तुतस्तु जातिव्यक्त्योरभेदादेव लक्षणाप्यनावश्यकी।
“ तेन तन्नक्षितव्यक्तः क्रियासम्बन्धचोदना ।
जातिव्यक्त्योरभेदो वा वाक्यार्थेषु विवक्षितः ” ॥ इति
अस्मिंश्च पक्षे यद्यपि व्यायः सामान्यात्मना वाच्या एव तथापि
विशेषरूपेण वाच्यत्वं नास्तीति प्रतिपादयितुमिदमधिकरणम् ।
अत्र च नामाख्यातयोरेव विचार्यता । न तु निपातोपसर्गयोः ।
तदुक्तम्-
चतुर्विधे पदे चात्र द्विविधस्यार्थनिर्णयः ।
क्रियते संशयोत्पत्तेर्नोपसर्गनिपातयोः ॥
तयोरर्थाभिधाने हि व्यापारो नैव विद्यते ।
यदर्थद्योतकौ तौ तु वाचकः सविचार्यते " ॥ इति
१ शास्त्रदौपिका, ४० ५९ ।।
२ तन्त्रवार्तिक, पृ० १६०-२६१ ।
VOL. XVII PTS II-III] प्रथमोऽध्यायः । 261 नानामपि मध्ये जातिशब्द एवोदाहरणम् । न तु गुणक्रिया- द्रव्ययदृच्छासर्वनामशब्दाः । प्रयोजनन्तु पूर्वपक्षे सामान्यविशेष- शब्दयोरेकविषयतया सामान्यशिष्टस्य विशेषशिष्टेनाबाधः। सिद्धान्ते तु बाध इति । इति मौमांसाशास्त्रसर्वखे प्रथमाध्यायस्य हतीयः पादः । प्रथमाध्याये चतुर्थः पादः। १ उद्भिदादिशब्दानां यागनामतया प्रामाण्याधिकरणम् । उक्तं समाम्नायैदमर्थ्य तस्मात् सर्वं तदर्थ स्यात् । दह सम्भवदाख्यातसामानाधिकरण्यानुद्भिदभिजिच्चित्राज्यपृष्ठ बहिष्यवमानाग्निहोचण्येनादिशब्दानुदाहृत्य चिन्यते किमेते धर्म प्रमाणमुक्त नेति । तत्र विधिभावना तदंशत्रयाप्रतिपादकत्वेन विधिबहिर्भावात् स्तावकत्वाभावेन चार्थवादे बहिर्भावान्मन्त्रत्व- प्रसिद्धभावेन चामन्त्रत्वान्नाममात्रस्य च प्रवृत्तिविशेषकत्वाभावेनान- र्थकत्वादप्रसिद्धार्थकत्वाच्चाप्रमाणमेवंजातीयकमिति प्रापय्य स्वाध्याय- विध्यध्यापितस्यानर्थक्यासम्भवात्त्वदुतमार्गण मन्त्रार्थवादत्वा- सम्भवाद्विध्युद्देशान्तर्भावनैव प्रामाण्यमेषामावश्यकमित्यपर्य्यवसितमेव सिद्धान्तयितव्यम् । तदेतदर्थवादप्रस्तावेऽभिहितमपि अनेकविचार- व्यवहितत्वात् विशेषविचारायोपस्थापितम् ।
262 मौमासाशास्त्रसर्वखे [J.B ORS. २ उद्भिदादिशब्दानां यागनामधेयताधिकरणम् । अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायक- त्वात्॥२॥ नामधेयानि प्रमाणमिति स्थितम् । तत्रोभिदादिषु यौगिकेषु चिन्यते-गुणविधिः कर्म नामधेयं वेति । " तबावयवयोगेन खनित्रादौ प्रसिद्धितः । प्रवृत्त्यौपयिकत्वाच्च गुणो यागे विधीयते " न च मत्वर्थलक्षणा यागानुवादात् । उनं हि- करणेषूपदिष्टेषु यार्थात्साध्यत्वकल्पना । तस्यां गुणविधानेन नास्ति मत्वर्थलक्षणा" ॥ " यदि ह्यत्र यागो विधौयेत ततस्तस्य करणत्वात् उभिदादेरपि करणस्य करणान्तरसम्बन्धायोगात् सामानाधिकरणनिर्वाहायोनि- च्छब्देन तदन्तं यागं लक्षयित्वा उभिदता यागेनेति वर्णनौयं स्यात् । यदा तु यागभाव्यकायां भावनायां करणत्वेन गुणो विधीयते तदा वैयधिकरण्येनेवान्वयान्नोकदोषः । न चैवं ज्योतिष्टोमवाक्ये- ऽपि गुणविधानं न तु यागविधिरिति क्वाप्यविहितस्य यागस्य कथमनुवाद इति वाच्यम्, प्रकृतकर्माभावेनागत्या ज्योतिष्टोमवाक्ये मत्वर्थलक्षणमाश्रित्य गुणविशिष्टकर्मविधानात् । उभिदादयस्तु तत्रैव गुणविधयः । न चोत्पत्तिशिष्टज्योतिष्टोमगुणावरुद्धे उद्भिदादि- गुणविधानासम्भवः । काम्यत्वेन तेषां बाधकत्वात् । प्रकृतं , १ शास्त्रदीपिका, पृ० ५५ । २ तन्त्रवार्त्तिक, पृ० २९८ । ३ शास्त्रदीपिका, ४० ५६ । ४ 'न चौत्पत्तिकच्योतिष्टोमादिगुणावरुद्धे' इत्यादि शास्त्रदौपिकापाठ', पृ०५७।
VOL. XVII. PTS II-III] प्रथमोऽध्यायः । 263 “ ज्योतिष्टोममाश्रित्योद्भिद्गुणः पश्चर्थत्वेन विधीयत इति वास्तु । तस्माद्गुणविधिरिति प्राप्तेऽभिधीयते- धातोरत्यन्तपारार्थ्यादिप्रकृष्टविधेस्तथा । फले कर्मणि वा नेह गुणो वाको विधीयते " ॥ " फले विधीयमाने गुणे परपदसम्बन्धविधानाद्धातोरत्यन्त- पारायं विप्रकष्टार्थविधिश्च । अथ तु कर्मण्येव गुणो विधीयते तथापि विप्रकृष्टार्थविधानं, धातोश्च किञ्चित्पारार्थमस्त्येव फलपदं चानर्थकं स्यात् । दध्यादौ गत्यभावेन सर्वमेतत्ममाश्रितम् । उभिदादिषु तन्नैवं नामधेयत्वसम्भवात् ३ " ॥ " दध्नेन्द्रियकामस्य जुहुयात्,' बौहिभिर्यजेतेत्येवमादिषु दधिवौह्यादिपदानामर्थान्तरे निरूढत्वान्न सामानाधिकरण्येन यजि- नामत्वम् । अप्रसिद्धार्थ हि प्रसिद्धपदसामानाधिकरण्येन निर्णय न त्वत्यन्तनिरूढमपि तदुताम् पदमज्ञातसन्दिग्ध प्रसिद्धरपथक्श्रुति । निर्गीयते निरूढं तु न स्वार्थादपनीयते " ॥ इति तथा च गत्यभावाध्यादौ धातुपारायं विप्रकृष्टार्थविधानं चाश्रितम् । उद्भिदादयस्तु यथैवावयवदारेण खनित्रादौ वर्तन्ते तथैव स्वफलोद्भेदनकारित्वाद्यागेऽपौति धात्वर्थविधानं बाधितव्यम्- ४" " १ शास्वदौपिका, पृ. ५७ । २ शास्त्रदीपिकाया 'समञ्जस'मिति पाठ । ३ शास्त्रदीपिका, ४० ५७-५८ । ४ शास्त्रदीपिका, ४० ५८। ५पत्र सम्बन्धमिति पाठान्तरम् । ६ तन्त्रवार्तिक, पृ० २८६ ।
- 264 मौमांसाशास्त्रसर्वखे [J BORS. " “ . विशिष्टविधिपक्षे तु भवेन्मत्वर्थलक्षणा । सोमादौ गत्यभावात्मा न त्वत्र गतिसम्भवात् " ॥ प्रयोजनञ्च नाम्नां व्यवहार एव सर्वत्र न ह्यनन्तरेण नाम- धेयं ऋत्विग् वरणादिध्वनेनाहं यक्ष्य इति लघुराख्यानोपायः । क्वचिच्च गुणफलोपबन्धेनार्थवत्ता। दर्शपूर्णमासावारश्यमानोऽन्वा- रम्भणीयामिष्टिं निर्वपेदिति गुणोपबन्धः । ‘दर्शपूर्णमासाभ्यां स्वर्ग- काम' इति फलोपबन्धः । क्वचित्कर्मभेदकतयाऽर्थवत्वम्-यथा- ऽत्रैवो निदा यजेते तिर"। क्वचिच्चानिर्देशकत्वेन यथा कुण्ड- पायिनामयने मासमग्निहोत्रं जुहोतौति । ३ चित्रादिशब्दानां यागनामताधिकरणम् । यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः ॥३॥ 'चित्त्रया यजेत पशुकामः,' 'पञ्चदशान्याज्यानौ'त्युदाहृत्य चित्यते-किं चित्त्राज्यशब्दौ विधेयगुणसमर्पको उत नामधेयमिति । तत्र चित्त्रयेत्यग्रौषोमोये गुणविधिः । तथाहि- " चित्तवस्त्रौत्वयोगो हि प्राणिजातौ स्वभावतः । तेनैते प्राणियागाङ्गं प्रकृति देक्षमाश्रिते३ " ॥ स्त्रौत्वादिविभागो हि प्राणिव्यतिरिक्तऽर्थ शब्दानुकारमात्रेण विज्ञायते। पश्वादिषु तु वास्तवः । प्रकृतञ्च दधि मधु घृतं पयो धाना उदकं तण्डुलास्तत्मसृष्टं प्राजापत्यमितिदध्यादिद्रव्यकं कर्म तच्च स्त्रीत्वान्वयायोग्यमिति प्रकरणादुल्टष्यमाणे वाक्याद्यागमात्र- सम्बन्धिनौ प्रसक्ने सामर्थ्यात् प्राणियागमाकान्तौ प्रकृतौ वा . १ शास्त्रदीपिका पृ० ५८ । २ शास्त्रदीपिका, पृ. ५९ । ३ तन्त्रवार्तिक, पृ० २८८ ।
VOL. XVII PTS II-III] प्रथमोऽध्यायः । 265 ब्रमः- द्विरुक्तवादित्यनेन न्यायेन सर्वप्राणियागपरमप्रकृतिमनीषोमौर्य चित्त्रत्वस्त्रौत्वे गच्छतः१११ ।। न चोद्भिन्यायः निरूढत्वात् नापि मत्वर्थलक्षणा। " उत्पत्तिवाक्यावगतकरणत्वेनाक्षिप्तं यद्यागस्य साध्यत्वं तदनुवादेन वैयधिकरण्येन गुणविधानात् । नापि वाक्यभेदः । एकपदोपात्तत्वाच्चित्त्रत्वस्त्रौत्वयोरुभयविशिष्टककारक- विधानात् पशुकामपदमपि साधनकामनानुवादः । अस्ति हि पशुयागं कुर्वतः पशौ कामना। एवं पञ्चदशान्याज्यानौत्यत्रापि सङ्ख्या विशिष्टाज्यविधानान्न वाक्यभेदः । तस्माहुणविधिः। एवञ्चाज्यैः स्तुवत इत्याद्युत्पत्तिवाक्येऽप्याज्यादिपदं गुणवाक्यप्राप्तगुणानुवादकं न नामधेयमिति प्राप्ते" " वाक्यभेदप्रसङ्गेन सामानाधिकरण्यतः । अन्वाख्यानार्थवादाच्च नामतैवोपपद्यते “चित्त्रत्वं स्त्रीत्वं च नैकेन वाक्येन विधातुं शक्यम् । उभय- विशिष्टकारकविधानेऽपि गौरवम् । कामपदं च फले मुख्यं साधने तु गौणम् । प्रकृतफलाकाइदध्यादिद्रव्यकयागातिक्रमश्च न न्याय्यः । तस्मात् तस्यैव फले विधानम् । चित्तापदं च सामानाधिकरण्येन नामधेयम्"। दध्यादिचित्रद्रव्यकत्वाच्च यागेऽपि चित्र- शब्दोपपत्तिः। पञ्चदशान्याज्यानौत्यत्रापि समासाभावान्न विशिष्ट- द्रव्यविधिः। द्रव्यसङ्ख्ययोर्विधाने तु वाक्यभेदः । न वा क्रिया- विशेषणं विधीयते । विधायकस्य नामपदैः सह साक्षादसम्बन्धात् । " १ तन्त्रवार्तिक, पृ० २८८ । शास्त्रदीपिका, पृ० ३१ २ शास्त्रदीपिका, पृ० ६२ । ३ शास्त्रदीपिका, पृ० ६२ ।। ४ तत्रैवेति शास्त्रदीपिकासम्मत पाठ । ५ शास्त्रदीपिका, पृ० १२ । .
266 मौमांसाशास्त्रसर्वखे [J B O R.S न चेह क्रिया काचिदुपाया विधीयमानार्थादनेकमपि गुणमा- क्षिपेत् । श्राह च- अर्थादनेकमप्यर्थ विधापयति भावना । विशेषणविधिस्त्वन्यन्न ग्टह्णाति विशेषणम् ॥ ॥ इति " न चैषां स्तुतिप्रयोगवचनेन ग्रहणम् । अक्रियात्मकत्वात् । नावान्तरक्रियायोगादृते वाक्योपकल्पितात् । गुणद्रव्ये कथ भावैर्टहन्ति प्रकृताः क्रियाः२ " आज्यस्य संसर्गिद्रव्यत्वेन साक्षात्पञ्चदशत्वानुपपत्तौ अश्रुतफलादि- परिमाणकल्पनापत्तिश्च । तस्मादाज्यानुवादेन सङ्ख्यामा विधीयते । अतः पञ्चदशानौति शब्दोऽपि स्थात् समञ्जसः ॥ 'स्तोमे डविधिः पञ्चदशाद्यर्थ' इति हि स्तोमे डप्रत्ययः स्मर्य्यते । स्तु तेश्च मानस्तोमः स्तुतिसाधकतमस्तोत्री पापविच्छेदक इत्यर्थः । तस्मात् गुणवाक्यवशेन नामधेयत्वम् । सामानाधिकरण्याच्चाज्यैः स्तुवत इति वाक्यशेषाच्च । यदाजिमौयुस्तदाज्यानामाज्यत्व- मिति” । ४ यागनामधेयताधिकरणम् । तत्प्रख्यं चान्यशास्त्रन् ॥ ४॥ 'श्राधारमाघारयति,' अग्निहोत्रं जुहोतो त्याघारशब्दोऽग्नि- होत्रशब्दश्च गुणविधिः कर्म नामधेयं वेति संशयः । १ तन्त्रवार्तिक, पृ० २६१ । २ तन्त्रवार्तिक, पृ० २९३ । ३ तन्त्रवार्तिक, पृ० २९४ । , VOL. XVII PTS. II-III] प्रथमोऽध्यायः । 267 " तत्र " प्रसियादिभिर्गुणविधिः । न च मत्वर्थलक्षणा। अग्निहोत्र- शब्दे बहुबौहिणेवाग्नये होत्रमस्मिन्निति मत्वर्थस्योकत्वात् । उपसर्ज- नार्थोऽग्निर्दवता विधीयते " । आह च- सर्वत्राख्यातसम्बद्धे श्रूयमाणे पदान्तरे । विधिशक्त्युपसंक्रान्ते स्थाद्धातोरनुवादिता " ॥ इति नामधेयत्वे चारूपत्वं स्यात् । यद्यपि च दध्यादिवाक्यै व्यं लभ्यते तथापि देवताभावादरूपत्वम् । न च यदग्नये च प्रजापतये च सायं जुहोति', 'यत् सूर्याय च प्रजापतये च प्रातरिति देवता- लाभः अनेकगुणोपपादनेन विशिष्टकर्मविधायकत्वात् अन्यथा वाक्य- भेदात्"। यदाह- " प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयेरन् बहवोऽप्येकयत्नतः ॥ इति आधारशब्देनापि क्षरणसमर्थ श्राज्यपयःप्रभृतिद्रव्यमभिधीयते । तच्च द्वितीया निर्देशादाधारणसंस्कार्यत्वेनावगम्यते । निष्प्रयोजनस्य च संस्काराभावात् प्रयोजनापेक्षायां प्रकृतद्रव्यापेक्षोपांशयाजार्थता विज्ञायते। प्रकरणेन च गुणे विधीयमाने नास्ति मत्वर्थलक्षणा। मतुप्पत्यययुक्तस्यैव वाक्यस्य कल्पनात्" । श्राह च- श्रूयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने । लक्षणावाक्यभेदादिदोषो नानुमिते त्वसौ इति । तस्मात् गुणविधिः । " “ " ॥ १ शास्त्रदौपिका, पृ. ६३ । २ तन्त्रवार्त्तिक, ४० २९० । ३ शास्त्रदीपिका, ४० ६३-६४ । ४ तन्त्रवार्तिक, ४० ४७६ ॥ ५ शास्त्रदौपिका, ४०६४-६५ । ६ तन्त्रवार्त्तिक, पृ० २९१ ।।
268 मौमासाशास्त्रसर्वखे [ B O.RS. ॥ ॥ " एवच्चाघारस्थ संस्कारत्वात् द्वितीयानिर्देशोप्युपपद्यते। अग्नि- होने चाक्षिप्तसाध्यत्वानुवादेनोपसर्जनार्थविधानात् । नामधेयत्वे तु कमैव विधेयम् । तच्च करणमिति हतौयान्तं स्यादिति प्राप्तावुच्यते- "विधित्मितगुणप्रापि शास्त्रमन्यद्यतस्विह । तस्मात्तप्रापणं व्यर्थमिति नामत्वमिष्यते " किञ्च- " वाक्यार्थो न विधातव्यो धात्वर्थविधिसम्भवे । पदान्तरं न चानन्दगतिनामत्वसम्भवात' "किं पुनः शास्त्रान्तर यदस्य गुणस्य प्रख्यापक, उच्यते- अग्नेस्तावद ग्निोतिर्योतिरग्निः स्वाहेति सायं जुहोति सूर्यो ज्योतिर्योतिः सूर्यः स्वाहेति प्रातरिति वाचनिकमन्त्रवर्णात् प्राप्तिः । ' यदनये च प्रजापतये साय जुहोतो त्येतत्तु मन्त्रवर्णप्राप्ताग्निसूर्यानु- वादेन प्रजापतिसमुच्चयविधानम् । अतो न वाक्यभेदः। आधार- वाक्येप्याघारसंज्ञके कर्ममात्रे विहिते 'चतुर्ट होतं वा एतदभूत्त- स्थाघारमाघार्यत्यनेनैवाज्यप्राप्नेः क्षरणात्मकत्वं प्राप्तमिति तन्निमित्त- नामधेयत्वसम्भवात् कर्मविधानमेव युक्तम् । दृष्टं हि • अाघार- यतौति मान्त्रवर्णिकेन्द्रदेवतावत्वाद्यागत्वसिद्धेः। अतो नामत्वम् ।” कथ पुनर्दितीयानिर्देशः । न चाक्षिप्तसाध्यांशाभिप्रायकः सः । अशाब्देनानध्याहृतेन च शब्दस्यानन्वयात् । न च भावनान्तरा- ध्याहारः अग्निहोत्रहोमं कुर्याद्धोमेन च फलमिति वाक्यभेदप्रसङ्गात् उच्यते-"अस्ति तावदार्थिकं धात्वर्थस्य साध्यत्वम् । अतः साध्य- १ शास्त्रदौपिका, ४० ६५ । २ तन्त्रवार्तिक, पृ० २६६। ३-४ शास्त्रदीपिका, पृ. ६६.६८ ।
VOL XVII. PTS. II-IIT ] प्रथमोऽध्यायः। 269 साधनदयोरेकार्थसमवायात् साध्याभिधायिनौ द्वितीया साधनत्व- मेव लक्षयन्ती धातुसामानाधिकरण्यं प्रतिपद्यते इत्यविरोध:१" । ५ श्येनादिशब्दानां यागनामधेयताधिकरणम् । तद्यपदेशञ्च ॥५॥ "दूह रूढ़शब्दा एव वाक्यभेदरहितास्तव्यपदेशवन्त उदाहरणम् । यथा-'श्येनेनाभिचरन्यजेते'त्यादिषु श्येनादिशब्दाः तेषु गुणविधिः कर्मनामधेयं वेति संशयः । अत्यन्तनिरूढत्वाद्गुणविधियॊतिष्टोमादिषु काम्यत्वाच्च नित्य- मुत्पत्तिशिष्टमपि सोमं बाधते । यदा गुणविशिष्टकर्मविधानं अप्र- सिद्धार्थकल्पनातो वरं मत्वर्थलक्षणा सोमादिवत् । न च गौणवृत्त्या कर्मवचनत्वं युक्तं लक्षणातो गौणत्वस्य जघन्यत्वात् । लक्ष्यमाण- गुणैर्योगात् वृत्तिगौणौति हि वक्ष्यतिर"। अपि च गौणत्वे श्रौतार्थ- परित्याग एव स्यात् । “लक्षणायां तु तइत्यपि वर्तमानः श्येनशब्दो लोहितोष्णोषादिवदुपसर्जनौभूतश्येनविधिपर एव करणीभूतेन तु यागेन करणीभूतस्यैकवाक्यता नान्तरेण मत्वर्थलक्षणां लभ्यत इत्येक- वाक्यत्वार्थ लक्षणाश्रयणम् । तात्पर्य तु श्रुत्यर्थ एवेति न श्रुतिबाधः । उच्यते- गुणविधौ तावत् स एव स्तोतव्यः । तस्य चात्मनवोपमानमनुप- पत्रमिति"। वैश्येनो निपत्यादत्त एवमयं द्विषन्तं भ्राव्यं निपत्यादत्त इति "तड्यपदेशात्मकवाक्यशेषानुपपत्तिः। विशिष्ट- विधिस्तु गौरवादेवायुक्तः । न च सोमादिवत् पदान्तरस्थानन्य- गतिकत्वम् । उक्तवाक्यशेषानुसारात् गौणत्वेन नामत्वसम्भवात्" । यथा १.४ शास्त्रदीपिका, ४० ६६.६८ .
270 मौमांसाशास्त्रसर्वखे [J BORS वाक्यशेषबलादेव च लक्षणातो दुर्बलाऽपि गौण समाश्रयणीया । प्राह च- " गौणं लाक्षणिकं वापि वाक्यभेदेन वा स्वयम् । वेदो यमाश्रयत्ययं को नु तं प्रतिकूलयेत्” ॥ इति " तस्मान्नामधेयम् । एवं यौगिकवाक्यभेदतत्प्रख्यतयपदेशेश्चतुर्भि- नामवं साधितम् । एतैरेव च सर्वत्र नामधेयत्वमिति द्रष्टव्यम्"। ६ वाजपेयादिशब्दानां नामधेयताधिकरणम् । नामधेये गुणश्रुतेः स्याद्दिधानमिति चेत् ॥६॥ वाजपेयेन स्वारज्याकामो यजेते ति वाजपेयशब्द गुणविधिः कर्मनामधेयं वेति चिन्यते । तदर्थमिदं विचार्यते- यजेतेत्याख्यातं गुणफलाभ्यां तन्त्रेण सम्बटुं क्षमते न बेति सर्वाणि चोनिदादौन्यत्रोदाहर्त्तव्यानि । सर्वव्याख्यातशब्देषु तन्त्रसम्बन्धसम्भवात् । मत्वर्यलक्षणादोषो नास्तीत्याक्षिप्यतेऽधुना ॥ कर्मत्वं करणत्वं वा नाख्यातेनाभिधीयते । यागादेः किन्तु सम्बन्धमा साधारणं हि तत् ॥ यदि हि यजेतेत्यनेन यागस्य कर्मत्वमुच्यते ततः साध्यदया- समवायान्न फलं सम्बध्येत । गुण एव तु साधनतया सम्बध्येत । अथ तु करणत्वमेव यागस्य ततः करणयासमवायान्न गुणः सम्बध्येत । फलमेव तु सम्बध्येतेति न स्यात्तन्त्रत्वम् । इह तु १ तन्त्रवार्तिक, पृ० १५५ । शास्त्रदीपिका, पृ०६९।
VOL XVII PTS II-III ] प्रथमोऽध्यायः । 271 . प्रकृत्या यागमाचमुळे प्रत्ययेन तु भावना । तयोस्तु समभि- व्याहारात् सम्बन्धमात्रं गम्यते। तच्च कर्मत्वकरणत्वयोः साधारण्या- द्यागकर्मिका यागकरणिका चेति द्विरुपाभावना भवति। सा च यागकर्मत्वांशेन गुणसम्बन्धं तत्करणकत्वांशेनरे फलसम्बन्धं तन्त्रेणेव लभते । अतो विनैव मत्वर्थलक्षणया यागे गुणविधानमुपपन्नमिति । अत्रोच्यते- सम्बन्धमात्रतात्पर्य नेकस्याप्यन्वयो भवेत् । तद्विशेषपरत्वे तु स्यादन्यतरसङ्गतिः ॥ रूपदयपरत्वन्तु विनाऽऽवृत्त्या न लभ्यते । तस्मानाख्यातशब्दस्य तन्त्रसम्बन्धसम्भव: " "यद्याख्यातेन धात्वर्थभावनयोः सम्बन्धमात्रमवगत ततः फल- गुणयोर्मध्ये एकस्यापि तदन्वयो न स्यात् । फलस्य साधनापेक्ष- त्वात् यागकरणिकैव भावना फलसम्बन्धमर्हति । तथा गुणस्य साध्यापेक्षत्वाद्यागकर्मिकयैव भावनया सह सम्बन्धः । अनिर्धारि- तोभयरूपा तु नैकेनाप्यन्वीयते । अयोग्यत्वात् । तस्मात् लक्षणया विशेषपरता। तत्र कर्मपरत्वे गुणस्यैव सम्बन्धः करणपरत्वे तु फलस्यैव । उभयपरत्वं त्वावृत्तिं विना दुर्लभम् । एवं गुणप्रधानत्वोद्देश्योपा- दान विध्यनुवादत्वकृतमपि वैरूप्यमतो न तन्त्रता । श्राह च- " तन्त्रत्वमैकरूप्येण भवेत्तुल्योपकारतः । उपकारान्यथात्वे तु भवेदावृत्तिलक्षणम् " ॥ इति १ 'यागकर्मिकाशेने ति शास्त्रदीपिकासम्मत पाठ । २ 'करणिकांशेने ति च शास्त्रदौपिकासम्मत' पाठ । ३ शास्त्रदीपिका, पृ० ६९-७० | 'गुणप्रधानत्वोद्देश्योपादेयत्वे'ति शास्त्रदीपिकाभिमत पाठ । ५ नन्त्रवानिक, पृ० ३०० । .
272 मीमांसाशास्त्रसर्व [J BORS “न तु यथा भावनाकर्मकरणत्वादिरूपभेदमन्तरेणैव साध्या- दिभिः सम्बध्यते दूदमनेनेत्थं कुर्यादिति तथा यागोऽपि कर्मकरण- त्वादिरूपमनादृत्यैव गुणफलाभ्यां सम्बध्यत इति न वैरूप्यमिति चेत्- न । भावना हि क्रियारूपा सर्वकारकसाधारणरूपैवेति युक्तं पद- वैक्रयेणानेकसम्बन्धं लभते। यागस्त्वक्रियारूपः कथमिव कारकरूपै- गणादिभिः सम्बध्यते । तदसौ भावनाद्वारेणैव प्रारुल्कहायनौवद्गुण- फलाभ्यां सम्बध्यत इति वक्रव्यम् । भावनासम्बन्धोऽपि चास्य न स्वरूपेण सम्भवति। कारकं हि क्रियया सम्बन्ध्यते न वस्तुस्वरूपम् । अतोऽवश्यं कर्मात्मना करणात्मना वा धातुना यागः प्रतिपादनौयः । तथा चोकरीत्या न तत्र सम्बन्धः । तेन गुणविधिपक्षे मत्वर्थलक्षणा स्थादेव । तदरं वाजं पेयं सुराद्रव्यमस्मिन्निति सुराग्रहविधानात्त- प्रख्यतया नामधेयत्वम्" । एवमुद्भिदादौनामिति स्थितम् । ७ आग्नेयादौनामनामताधिकरणम् । तगुणास्तु विधीयेरन्नविभागाद्दिधानार्थे न चेदन्येन शिष्टाः स्युः ॥६॥ यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवती'त्यत्राग्नेयशब्दो गुणबिधिर्नामधेयं वेति विचारः । “तत्रानेकगुणविधाने वाक्यभेदादष्टाकपालद्रव्यकं कर्ममात्र विधीयते । तस्य च स्थानक्रमादग्निदेवत्यं याज्यानुवाक्यायुगलमङ्गं अतो मान्त्रवर्णिकोऽग्निरग्निहोत्रवत्याप्त इति तहदेव तत्प्रख्यन्यायेन नामधेयत्वमित्येवं प्राप्ते ब्रूमहे- भवति । १ शास्त्रदीपिका, पृ० ८१-७३ ।
VOL XVII PTS II-III ] प्रथमोऽध्यायः । 273 मन्त्राकाङ्क्षा न त्रास्ति सत्यामपि न योग्यता । मन्त्रस्य नास्ति वचनमग्निहोत्रेऽस्ति तत्त्रयम् ॥ न ह्यष्टाकपालो भवतीत्येतावता पुरुषव्यापारः कश्चिदुको योऽनुष्ठानाय स्मारकं मन्त्रमपेक्षेत । सत्यामपि तु मन्त्राकांक्षायां पुरोडाशमात्रविषयस्य व्यापारस्य देवतावाचिमन्त्रसम्बन्धायोग्यत्वान्न सम्बन्धः । न च वाचनिको मन्त्रः । येनाघारवदलान्मान्त्रवर्णिको देवता स्यात् । अग्निहोत्रे तु होमस्य पुरुषव्यापारत्वादस्ति मन्त्रा- काङ्क्षा। योग्यश्च होमो देवताभिधायिना सम्बन्धुं वाचनिकश्च तत्र मन्त्रः । तेन युक्त मान्त्रवर्णिकदेवताकल्पनम् । इह तु सम्बन्धस्याकाङ्कायोग्यतावशेन कल्प्यत्वान्न यागात्यासिद्धिरस्तौति न वाक्यभेद: " ८ बर्हिरादिशब्दानां जातिवाचिताधिकरणम् । बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः ॥ १० ॥ नामधेयप्रसङ्गेन द्रव्यनाम्नां बर्हिराज्यपुरोडाशशब्दानां संस्कृतेषु शास्त्रस्यैः प्रयुज्यमानानां असंस्कृतेऽपि जातिमात्रे कैश्चिदशास्त्रस्यैः प्रयुक्तानां किं यूपादिशब्दवत् संस्कारनिमित्तता उत जातिशब्दतेति चिन्यते । "तत्र पोल्वादिवदश्ववालादिवच्च शास्त्रस्थयाज्ञिकप्रसिद्धिः । सार्वलौकिकौं जातिमपहाय केचिदेतान् प्रयुञ्जतेरे ”। संस्कारत्व- मपहाय जातिमात्रे लौकिकाः प्रयुञ्जते । तेनेषामव्यभिचाराज्जाति- वाचिता। “न च जातिमात्रे शास्त्रस्थानामप्रयोगादतवचनत्वम् । १ भास्त्रदीपिका, पृ० ७३-७४ । २ शास्त्रदीपिका, पृ० ७५ ।।
274 मौमांसाशास्त्रसर्वखे [J.B 0 Rs. तस्मा- न हि यो यत्र शक्तः स तत्मर्वैः प्रयोक्तव्य इति नियमः । ज्जातिशब्दः१"। ६ प्रोक्षण्यादिशब्दानां यौगिकताधिकरणम् । प्रोक्षणीधर्थसंयोगात् ॥ ११॥ “ प्रोक्षणौशब्दस्थापि पूर्ववत् संस्कारनिमित्तत्वं प्राप्तमपोद्यासंस्कृते- ऽपि क्वचित् प्रयोगादव्यभिचाराच्च जातिनिमित्तता प्राप्ता । न चावयवार्थता युक्ता समुदायप्रसिद्धेबलौयस्वात् । अवयवद्वारेण हि विशिष्टार्थप्रतौतिक्यिादिव वाक्यार्थप्रतीतिः पदार्थनिमित्ता लाक्षणिकौ समुदायप्रसिद्धौ तु श्रुत्या प्रतीतिरिति सैव बलौयसौ। उच्यते- रूढिलधात्मिका योगं बाधते न त्वलब्धिका । तत्रैव चात्मलाभोऽस्था यत्र नावयवार्थतारे " " यथा वृक्षेऽश्वकर्णस्य सत्सु त्ववयवार्थेषु तत एवोपपन्नत्वा- दर्थापत्तिः परिक्षोणा। नादृष्टा समुदायशक्ति कल्पयति"। ॥ " भवेतां यदि वृक्षेषु वाजिकौँ कथञ्चन । अदृष्टां समुदायस्य कः शक्ति जातु कल्पयेत् " ॥ " दुह च सन्न्यवयवार्थाः प्रकृष्टोक्षणहेतुत्वात् । स्त्रीलिङ्गत्वाच्च । तेनात्र नात्मानं लभते रूढ़िः वाक्यार्थ वाक्यवत् । तस्माद्यौगिकः प्रोक्षणौशब्दः "। , १.२ शास्त्रदीपिका, ४० ७५-७६ । ३ शास्त्रदौपिका, ४० ७६ । ४ तन्त्रवार्तिक, पृ. ३०६ । ५ शास्त्रदीपिका, ४० ७७ । .
VOL XVII PTS II-III ] प्रथमोऽध्यायः। 275 १० निर्मन्थ्यशब्दस्य यौगिकताधिकरणम् । तथा निर्मन्थ्ये ॥ १२ ॥ “निर्मन्थ्यशब्दस्यापि शास्त्रप्रयोगात् संस्कारवाचित्वे अव्यभि- चाराद्वा जातिनिमित्तत्वमुद्भाव्य प्रसिद्धाऽवयवार्थत्वात्पूर्ववद्यौगिकत्वं साधनीयम्। विशेषस्त्वयं-प्रोक्षणी शब्दो हि सेचनसाधनत्वनिमित्तः । अस्ति चापां प्रोक्षणमाधनत्वं सर्वदेति युक्तं यौगिकत्वम् । निर्मन्थ्यशब्दस्तु मन्थनकर्मत्वनिमित्तः । न च निष्पन्नस्यारोमन्थन- कर्मत्वमस्ति । निष्पन्ने चानावयं शब्दो लोके वेदे च प्रयुज्यते । निर्मन्थ्यमानय पक्ष्यामह इति। निर्मन्थ्येनेष्टकाः पचन्त्वव्यभिचारा- ज्जातिनिमित्त इति शङ्कां निवर्तयितुमतिदेशः क्रियते । भूत- पूर्वमपि योगं निमित्तौकृत्य सन्तानाभिप्रायेणापि प्रयोगोपपत्तेन रूढ़िः कल्या? "। तस्माद्योगः प्रयोजनं तु- पाकेनाग्नेरुपात्तत्वाविशेषणपरा श्रुतिः । तच्च पाकाङ्गभूतत्वात्तद्देशादौ करिष्यते ॥ यथैव लोहितोष्णोषादिविधिषु विशेष्याणां प्राप्तत्वाविशेषण- परत्वं एवमिहापि विशेष्यानुवादेन विशेषणभूता निर्मन्थनक्रियेव पाकाङ्गत्वेन विधीयते। अङ्गानाञ्च प्रधानेन एकदेशकालकर्तृत्वं वक्ष्यते। तेनाचिरनिर्मथितेनादूरनिर्मथितेनानन्यकर्तृनिर्मथितेने"- ष्टकाः पनव्या इति । ११ वैश्वदेवादिशब्दानां नामधेयताधिकरणम् । वैश्वदेवे विकल्प इति चेत् ॥ १३ ॥ चातुर्मास्येषु प्रथमे पर्वणि अष्टौ यागाः समानाताः- “ , १ शास्त्रदीपिका, पृ० ७७ । २ तन्त्रवार्तिक, पृ. ३०६-३०७ ।
276 मौमासाशास्त्रसवखे [J BORS. आग्रेयमष्टाकपालं निर्वपति। सौम्यं चर सावित्रं द्वादशकपालं सारस्वतं चर्स पौषणं चर्स मारुतं सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेकादेशकपाल मिति । तत्सन्निधाविदमानायते- वैश्वदेवेन यजेतेति । तत्र संशयः । किं यजेतेत्यनूदितानां यागानां वैश्वदेवशब्देन गुणविधिः किम्वा तेषामेव नामधेयमिति । तत्र नामत्वपक्षे स्थादाक्यमेतदनर्थकम् । देवतातो विधेया स्यागत्याभावाद्विकल्यते ॥ नामत्वपक्षे हि तस्थाविधेयत्वाद्यागस्यारूपत्वेनाविधेयत्वात् समस्त- वाक्यानर्थक्यप्रसङ्गः । तस्माद्गुणविधिः । अन्याद्यवरुद्धेषु यागेषु देवतान्तरमनवकाशमिति चेत्-न । विकल्पसम्भवात् । न चाद्यापि सूत्रभाष्यकाराभ्यामुत्पत्तिशिष्टप्रावन्यं कथितं, इति तुल्यबलतां मन्यते । गुणाधिकरणे बलाबलं वक्ष्यते तेन गतार्थमिति चेत्-न । पानर्थक्याच्च। वक्ष्यति हि- श्रुतिलिङ्गाधिकरणे भानर्थक्यप्रतिहतानां बलाबल इति वाक्य- स्थानर्थक्यं माभूदिति देवतैव विधेया। सा च गत्यभावादुत्पन्न- शिष्टायुत्पत्तिशिष्टैरग्यादिभिर्विकल्पयिष्यत इति प्राप्तावाचत्महे-- तत्त्वनुवादत्वेऽपि समुदायोकरणेनार्थवत्" । एकशब्दोपादाने हि सत्येकप्रतीत्यारूढ़ानामाग्नेयादीनां सामानाधिकरण्यादेकसंज्ञा- सम्बन्धो लभ्यते । " ततश्च प्राचीनप्रवणे वैश्वदेवेन यजेतेत्यादौ वैश्वदेवमामकस्याग्नेयादिसमुदायस्य ग्रहणं सिध्यति”। दूतरथा वामिनायागस्यैव ग्रहणं स्यात् । एवञ्चैकदेशदेवतात्वेन विश्वेषां देवानां समवायात्तत्प्रख्यन्यायेन नामधेयं वैश्वदेवशब्दः" । " १-३ शास्त्रदीपिका, ४० ७८.८० ।
VOL XVII PTS II-III ] प्रथमोऽध्यायः। 277 द्वादशसु प्राप्ने । १२ वैश्वानरेष्टत्वाद्यर्थवादताधिकरणम् । पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्य समाम्नाये॥१७॥ "वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते” इत्युक्त्वा यदष्टाकपालो भवति गायत्र्येवेनं ब्रह्मवर्चसेन पुनाति यन्नवकपाल इत्येवमादिश्रूयते । तत्र विचार:-किमष्टाकणलादिशब्दाः प्रकृत- वैश्वानरयागस्य नामधेयं उत तत्रैव गुणविधिः उत फले गुणविधिः उत अर्थवाद दृति। तत्र वैश्वानरसामानाधिकरण्यादष्टत्वादीनां तत्प्रख्यन्यायेन च नामधेयत्वमाशय द्रव्य- वचनत्वात् यागसामानाधिकरण्याभावात् तत्प्रख्यत्वाभावाच्च गुण- विधिः । तथा हि यद्यपि द्वादशस्वष्टौ सन्ति तथापि न द्वादश- कपालेऽष्टाकपालः सम्भवति । यो ह्यष्टसु कपालेषु संस्कृतः पुरो- डाशः सोऽष्टाकपालः। न च पुरोडाशान्तरमस्ति पुरोडाशे। न च द्वादशकपाल एवाष्टसु संस्कृत इति शक्यते वकुम् । अष्टभिश्चतुर्भिश्च संस्कृतोऽसौ न केवल्लेरष्टभिः । ततश्चासामर्थ्यात्तद्धि हितानुपपत्तिः । तस्मात् प्राण्यभावान्न तत्प्रख्यत्वम् । अस्तु तर्हि गुणविधिः। अष्टा- कपालद्रव्यं वाष्टत्वसंख्या वा वैश्वानरयागे विधीयते न चोत्पत्ति- शिष्टद्वादशकपालविरोधादविधानम् । सर्वेषामुत्पत्तिशिष्टत्वात् । एक हौदं वाक्यं वैश्वानरमित्यादि यस्मिन् जात इत्यन्तं एकोप- क्रमावसानत्वात् तन्मध्ये च श्रुताष्टत्वादयः सर्वेऽप्युत्पत्तिशिष्टाः । यद्वा सर्व एवोत्पन्नभिष्टाः वैश्वानरं द्वादशकपालमिति देवता- विशिष्टयागविधानात् । तत्र तु यदष्टाकपाल इत्यादिवाक्यान्तरै- वैकल्पिकद्रव्यविधानम्। उपक्रमे तु द्वादशकपालशब्दो गुणवाक्य- प्राप्तद्रव्योपलक्षणार्थ इति । उच्यते- 278 मौमासाशास्त्रसर्वस्खे (J BORS उत्पत्तिवाका शिष्यत्वं न तावदपपद्यते । सर्वेषामभेदेन वाक्यं तत्र हि भिद्यते ॥ अर्थवादत्वे ह्येकवाकत्वं सिद्ध्यति । त्वत्पक्षे तु नानागुणविधा - नेनार्थभेदादाकम्भेदः । किञ्च निर्भय तिनार कर्मविधान स च द्वितीयान्तेन द्वादशकपालेनैव सम्बध्यते न तु प्रथमान्तैरष्टा- कपालादिभिः । द्वाद प्रात्वमुत्पत्तिवाक्यगतत्वादितरेभ्यो वाक्यान्तरगतेभ्यो बलवत् स्यात् । न चाप्युत्पन्नशिष्टत्वं सर्वेषामुपपत्तिमत् । न द्वादशकपालस्य ह्यविवक्षोपपद्यते ॥ वैश्वानरसामानाधिकरण्या द्वितीयान्तं द्वादशकपालपदं निर्वपति- संयुक्त नाविवक्षितं तस्मादुत्पत्तिशिष्टं द्वादशकपालत्वम् " ! अस्तु तर्हि ब्रह्मवर्चमादिफलार्थत्वेन वैश्वानरयागमाश्रित्याष्ट- त्वादिगुणविधानकाम्यत्वाच्चोत्यत्तिशिष्टबाधेनापि निवेशः। तथा हि- पुरुषार्थसमासे तु काम्यं नित्यस्य बाधकम् । विशेषतश्च सामान्ये पूर्वप्राप्ने प्रवर्तनात् ॥ एवं प्राप्तेऽभिधीयते- फलार्थषु गुणेषु स्याहाकभेदोऽर्थभेदतः । उपक्रमोपसंहारसाम्याच्चाकवाक्यता ॥ वैश्वानरं द्वादशकपाल मिति यैवेष्टिरुपक्रान्ता तामेव यस्मिन् जात एतामिष्टिं निर्वपतीत्युपसंक्रियमाणामन्ते पश्यन्तो न तन्मध्ये वाक्यान्तरमुपगन्तुमौश्महे । फलेभ्यस्तु गुणे विधीयमानेऽर्थभेदा- द्वाक्यभेदः स्यात् । तस्मादर्थवादत्वम् । अवयवदारेणावयविस्तुतिः । , १ शास्त्रदीपिका, पृ० ८१-८२ । २ कारिकेय तन्त्रवार्तिके नोपलभ्यते, शास्त्रदीपिकाकारैरपि नोड़ता।
VOL XVII PTS 11-111 ] प्रथमोऽध्यायः । 279 यो ह्यवयवोऽष्टासु कपालेषु संस्कृतः सोऽष्टाकपालपुरोडाशसादृश्या- गोण्या वृत्त्याष्टाकपाल इत्युच्यते स्तोतुम्” । १३ यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थत्वाधिकरणम् । तत्सिद्विजातिसारूप्यप्रशंसाभूमलिङ्गसमवाया इति गुणाश्रयाः ॥ २३-२७॥ यजमानः प्रस्तरः,' यजमान एककपाल' इत्यत्र गुणविधि- र्नामधेयमर्थवादो वेति संशयः । तत्र प्रस्तरशब्दो यजमानस्य यजमानशब्दो वा प्रस्तरस्य सामानाधिकरण्यान्नामधेयमिति प्राप्ते भिन्नार्थत्वेन प्रसिद्धत्वान्न नाम- धेयमिति निराकार्य तस्माद्गुणविधिः । तत्रापि यजमानस्य मुख्य - त्वात् ' मुख्यं वा पूर्वचोदनात् लोकव'दिति न्यायेन प्रस्तरलक्षिते तत्कायें मुग्धारणादौ कार्य यजमानो विधौयन इति गुणविधि- रिति प्राप्तम् । तदपि न मुग्धारणे विनियुक्रस्य यजमानस्य स्वपदार्थकरणविरोधात् । प्रस्तरवच्च मूकवाकेन प्रहरणादेककपाल- वच सर्वहुतकरणात् सर्वतन्त्र विलोप: स्यात् । तस्मादर्थवादः । गुणाच्च सामानाधिकरण्यं यजमानशब्दाभिहितो ह्यर्थः स्वसमवेतं स्वकार्यकरत्वं सम्बन्धाबोधयति । तच्च प्रस्तरेऽस्तौति तत्प्रकारकः प्रस्तरबोधः। एवञ्च स्वार्थसदृशे तद्गुणशालिनि तात्पर्यभाक् शब्दो गोण इत्युच्यते, गुणादागतत्वात् ; यथा सिंहो देवदत्त इति। श्राह च- अभिधेयाविनाभूते प्रवृत्तिलक्षणेष्यते । लक्ष्यमाणगुणैर्योगातृत्तेरिष्टा तु गौणता" " ॥ इति १ भास्वदौपिका, पृ०८२-८३ । २ तन्त्रवार्तिक, पृ० ३१८।
280 मौमासाशास्त्रसर्वख [J BORS । यत्तु आरोपितार्थवृत्तित्वं गौणत्वमिति तन्न। शाब्दबोधस्य भमत्वापत्तेः वेदे श्रारोपयितुरभावाच्च । गुणविवक्षया श्रावश्यक- सिंहत्वाद्यारोपकल्पने प्रमाणाभावाच्च । कथं तर्हि 'खपुष्प भरद्धान्त इत्यादिप्रयोगेषु खपुष्पादिशब्दानां गौणत्वं इति । ---खपुष्पशब्दस्य हि आरोपितत्वविशिष्टं पुष्पमर्थः। तद्गुण- शारोपितत्वं तथा च यथा वे पुष्पमारोपितं तथा जगत्कार परमाण्वादौ सुखदःखमोहात्मकमारोपितं तनिष्ठा अत्यन्ताभावप्रति- योगौति यावत् । प्राह च- परमाणशरीरादिकारणामादिवादिभिः । ततोऽन्यादृक् प्रधानात्मरूपं नास्तीति वर्ण्यते " ! इति तस्माद्यजमानवत् कार्यकारित्वात् प्रस्तरस्य प्रशंसेयम् । प्रस्तरमुत्तर वर्हिषः सादयतौति विधेः शेषः । एवं यजमान एक कपाल दूत्यपि एककपालं सर्वहन करोतीतिविधेः पोषः । १४ आगेयादिशब्दान ब्राह्मणादि- स्तुत्यर्थताधिकरणम् । जातिः ॥ , 'अग्निर्वे ब्राह्मण' इत्यादिव्वपि प्राग्वद्गुणविधित्व च निराकृत्यार्थ- वादत्वं साधनीयम् । पूर्वत्र पर पशब्दस्य परबत्तौ तसिद्धिकरत्वं निमित्तमुक्तमिह तु जातिर्जननमिति यावत् । प्रजापतिरकामयते ह्यर्थवादे हि अग्निब्राह्मणी धावपि सृष्टिकाले ब्रह्मणो मुखाज्जाता- वित्युक्तम् । अनेन निमित्तेनानिशब्दो ब्राह्मणे प्रवर्तते स्तोतुम् । १ तन्त्रवार्तिक पृ. ३१८ - VOL. XVII PTS II-IIT ] प्रथमोऽध्यायः । 281 . १५ यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणम् । सारूप्यात् ॥ श्रादित्यो यूपो यजमानो यूप इति । अत्र सारूप्यं प्रवृत्ति- निमित्तम् । यद्यपि सादृश्यमा सर्वत्रास्ति तथाऽपौह चक्षुर्गाद्यं तद्विवक्षितम् । चानुषं हि यूपस्य यजमानसारूप्यमूर्धत्वं, आदित्य - सारूप्यमञ्जननिमित्तं तेजस्वित्वम् । तहारेण यजमानादित्य- शब्दाभ्यां यूपः स्वयते । १६ अपश्वादिशब्दानां गवादिप्रशंसार्थत्वाधिकरणम् । प्रशंमा ।। 'अपशवो वाऽन्रे गो अश्वेभ्यः पावो गो अश्वाः इत्यत्र पशुकार्य गवाश्वव्यतिरिकानां प्रतिषेधप्रतोतेर्गुणविधित्वेन पूर्वपक्ष. सिद्धान्तस्तु-तत्र तत्राजादीनां विहितत्वात् प्रतिषेधोऽनुपपन्नः न च विकल्पो वैषम्यात् कल्यो ह्यत्र विधिः । अन्यत्र क्लृप्तस्तम्मादर्थ- वादः। प्राब्दप्रतिनिमित्तं तु प्रशंसा। तथा हि-अपशव दूति नसमासगतेन पशुशब्देन गवाश्वगतं प्रापान्त्यमुपादाय पश्चात्तदभावो नञा पश्वन्तरेषु कथ्यते । आह च- गवाश्वादिगतां पूर्वमुपादाय प्रशास्तताम् । तदभावोऽन्यपश्वादौ नसमासेन कथ्यते " || इति गवाश्वेषु यत्प्राशस्त्यं न तदन्येष्वस्तौति । सोयं गवाश्वगत- प्राशस्त्याभावः पश्वन्तराणामपशूनाञ्च तुल्य इत्यनेन सादृश्येन घटादिवचनस्यापशुशब्दस्थाजादिष्वपि प्रयोगः । तस्मादप्रशस्तास्ते गवाश्वमेव प्रशस्तमिति प्रशंसैव फलं यद्यपि न सियादावपि १ तन्त्रवार्तिक, पृ० ३२६ ।
282 मौमासाशास्त्रसर्वखे (1 BORS प्रशंसाफलकत्वमविशिष्टं तथापि तत्र प्रशंसा न प्रतिनिमित्त- मिति शेषः । १७ भूमाधिकरणे बाहुल्येन सृष्टिव्यपदेशाधिकरणम् । भूमा॥ सृष्टीरुपदधातौ'ति श्रूयते । दह च अ(च?)यनेनार्थग्टहीत- मप्युपधानं अध्वर्यकर्टकत्वसिद्ध्यर्थं विधीयते तदाहु:- कृप्तवन्य पि वक्रव्या पुनरेवंविधा क्रिया। प्राध्वर्यवसमाख्यानं तथा हि प्रतिपद्यते किञ्च संहतस्यायनेनापि चयनोपपत्तेन नियमत उपधानप्राप्तिः न चैवमपि संहतानामेवोपधानं किन्न स्यादिति वाच्यम् । तस्येष्टकाः प्रत्युपधानतया प्रतिप्रधानमादत्ते । तस्मादुपधानमात्रं विधेयम् । सृष्टौरिति तु लिङ्गप्राप्तमन्त्रानुवादमात्रमिति भाष्यकारः । केचित्तु मन्त्रोऽपि विधेयः। अविशिष्टसामर्थ्यतया हि ग्रहणा- दावपि प्राप्तः सः । ॥ इति अपि च- " प्रत्यक्षब्राह्मणोकानां मध्यमा चितिराश्रयः । तदर्थमपि सम्बन्धः कार्यों मन्त्रोपधानयोः" ॥ तस्माद्विशिष्टविधिर्गुणविधिर्वत्याहुः । न चास्मिन् सूत्रे सृष्टौनां विधानमादर्त्तव्यम् । गुणवृत्तिनिमित्तकथनमात्रपरत्वात् । गुणश्चेह भूमा। सृश्यसृष्टिसमुदायेऽप्ये ' कया स्तुवते' इत्यनुवाके सृष्टि (भूमास्तीत्यनेन सादृश्येन सृष्टिशब्दः । ) १ अत्र ‘प्राप्नुवन्त्यपौ'ति वार्तिकपाठ । २ तन्त्रवार्तिक, पृ० ३२८ । • इन पर प्रथमाध्यायग्रन्थ वादणे नोपलभ्यते ।
अथ द्वितीयोऽध्यायः १ अपूर्वस्याख्यातप्रतिपाद्यत्वाधिकरणम् । भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतौयेतैष द्यर्थो विधीयते ॥१॥ सम्बन्धमात्र प्रतीतम् । न तु करणत्वं कर्मत्वं वा। तदुक्तम्- " सम्बन्धमात्रमुकं च श्रुत्या धात्वर्थभावयोः । तदेकांशनिवेद्यो तु व्यापारोऽस्या न विद्यते' " ॥ इति तत्र साध्यान्तरसम्बन्धे धात्वर्थस्य योग्यत्वात् करणत्वमेव श्रुति- वशाद्भवति। नामार्थस्य तु ग - - य करणत्वं दुर्वलम् । यागश्च साधननिष्पादितः सन् फल साधयिष्यति। न हि शास्त्रप्रवृत्तेः प्राक् तन्निष्पत्तिः क्वचिदपपद्यते। तस्माद्धात्वर्थस्य फलभावना- करणत्वमिति। यस्य च फलसाधनत्वं म धर्म इति। तद्भेदस्य सापवादस्य शब्दान्तरादिभिर्निरूपयिष्यमाणस्योयोट्वानोऽयम् । केचित्तु-शास्त्रभेदमेव द्वितीयाध्यायार्थमाहुः। प्रथमे हि शास्त्र- प्रामाण्ये निरूपिते तदेव शास्त्रं कुत्र भिन्नं कुत्र नेति जिज्ञासा संभवति। ननु कर्मभेदगोचरेति। तन्न । शास्त्रभेदस्यानुष्ठानानौप- यिकत्वेनाचिन्यत्वात् । वक्ष्यमाणशेषोषिभावाद्यनुपयोगाच्च। चोदना- प्रामाण्यबलेन सिद्धस्य चेत्यवन्दनादिव्यावृत्तस्य धर्मस्वरूपस्य कुत्र भेद दृति जिज्ञासासम्भवात्। पोषोषित्वादिविचारोपयोगाष्टभेद- स्थेति दिक् । तदेवं समानप्रत्ययोपात्तविधिबलात् धात्वर्थस्य फल- भावनाकरणमिति स्थितम् । १ तन्त्रवार्मिक, पृ. ३५६ ।
284 मौमासाशास्त्र मर्वखे [I BORS - न अथ भावनानिरूपणम् । का पुनर्भावना कश्च विधिः । उच्यते- करोत्यर्थामिका उत्पादनापरपाया परोत्पत्त्यनुकूलव्यापाररूपा भावना। सा चाख्यातवाच्या। पाख्यातार्थस्य करोतिना विवरणात् । उक्तञ्च- सिद्धकर्तक्रियावाचिन्याख्यातप्रत्यये सनि । सामानाधिकरण्येन करोत्यर्थोऽवगम्यते? "॥ दृति अयं भावः। अभवतो गगनादरक्रियमाणत्वात् भवतश्च घटादेः क्रियमाणत्वान् भवत्यर्थकत्तः करोति कर्मत्वम् । नथा च करोत्यर्थ- कर्त्तर्भविदप्रयोजकतया भवः प्रयोजकन्यापारे गिजुत्पद्यमानः करोत्यर्थमवलम्ब्यते : तेन स भावना। श्राइच- " करोतिः क्रियमाणेन न कश्चित्कर्मणा विना । भवत्यर्थस्य कर्ता च करोतेः कर्म जायते ॥ करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः । भविता तमपेच्याय प्रयोज्यत्वं प्रपद्यते ॥ प्रयोज्यकर्त्तकैकान्तव्यापारप्रतिपादकाः । ण्यन्ता एव प्रयुज्यन्ते तत्प्रयोजककर्मसु । तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः । प्रयोजकक्रियामाहुर्भावना भावनाविदः " ॥ इति स्थादेतत् । भावना धातुवाच्चैव । भोकव्यमित्यादावाख्यात विनापि तत्प्रतौतेः। तथा च तत्रापि कारकापेक्षा दृश्यते । अस्ति च तत्रापि करोतिसामानाधिकरण्यम् । किं कर्त्तव्यम् । १.२ तन्त्रवा बार्तिक पृ. ३४२-३४४ TOL XIII PTS II HI | द्वितीयोऽध्यायः 235 भोकव्यम्। किं कृतवान् । भुक्तवानिति। धातुत्वेन भावना- वाचकत्वाविशेषेऽपि पचित्यादिप्रातिस्विकरू पेण विक्लेदनादौ प्रक्रिः । न चैव पचतिविल्लिद्यत्योः सकर्मकत्वाकर्मकत्व विभागानुपपत्तिः । पचतीत्यस्य हि विक्लितिविशिष्टं करोतीत्यर्थः । तेन विनित्याख्य - फलव्यधिकरणस्यैव देवदत्तादिनिष्ठम्य फलानुकूलव्यापारस्य पचि- वाच्यतया परसमवेतक्रियाफलशालित्वरूपं कर्मत्वं तण्डुलादौनां न विरुध्यते। विक्लौद्यन्तीत्यस्य तु विक्रिति कुर्वन्तीत्यर्थः । तेन फलसमानाधिकरणव्यापारवाचकतया क्रियाफलम्य परसमवेतत्वा- भावात् । विलिदिरकर्मकः। एतेन घटो जायने घट करोत- त्याद्यपि व्याख्यातम् । जनेरुत्पत्याख्यफलसमानाधिकरणतदनुकून्न- व्यापारवाचित्वात् । उकञ्च- " अवादावपि को भाव्येऽस्त्येव हि भावना । अन्यत्ताशेषभावात्तु तथा सा न प्रकाशने' " ॥ इति कर्तुत्वं च निष्पन्नावयवाभेदात् सूक्ष्मरू पेल वेत्यन्य देतत् : प्रत्युत त्वन्मत एवोक्र विभागानुपपत्तिः। किञ्च भावयति घटमिनि- वत् भवति घटमित्यपि प्रयुज्येत । तुल्यार्थत्वात् । एकत्र हि कर्तुः कुम्भकारस्य व्यापार णिजाचष्टे अन्यत्र त्वाख्यातप्रत्यय इति । ननु प्रयोजकव्यापारो णिजयः । कर्तृव्यापारस्वाख्यातार्थ इति भेद इति चेत्- न। कारकचक्रप्रयोः कर्तृत्वे घटस्थातथात्वात् । यदि तु " धातुनोतं क्रियेन्नित्यं कारके कर्त्ततेव्यते इति वैयाकरणोतरीत्या प्राधान्येन धावपात्तव्यापारवत्त्वं कर्तृत्व तवापि सम्मतम् । १ तन्त्रवार्तिक, पृ० ३४९ 286 मौमांसाशास्त्र सर्वस्खे [J BORS आख्यातार्थनिरूपणम् । कस्तोदानौमाख्यातार्थः । व्यापारस्य धातुनवाभिहितत्वात् । अपि च ज्योतिष्टोमयाजोत्यादौ धावपात्तभावनां प्रति ज्योति- ष्टोमयागरूपस्यांशान्तरस्य धावपात्तस्यैव करणत्वे यज इति णिनिः संगच्छते। न चैवं प्रयोत स्वास्थयमित्यादिप्रयोगापत्तिः। शयनस्य भाव्यतयैवान्वयात् । तथैव व्युत्पत्तेः। त्वत्पक्षेऽपि साम्याच्च । एवं च क्रियावाचको धातुरितिव्याकरणस्मृतिर्नान्यथयितव्येति । उच्यते- प्रत्ययार्थ सह ब्रतः प्रकृतिप्रत्ययौ सदा । प्राधान्यानावना तेन प्रत्ययार्थोऽवधार्यते ॥ तथा क्रमवतोर्नित्यं प्रकृतिप्रत्ययांशयोः । प्रत्ययश्रुतिवेलायां भावनात्माऽवगम्यते " ॥ प्राधान्यबलेन तदागमे हि तदृश्यत इति न्यायेन च भावनायाः प्रत्ययार्थत्वं निश्चीयत इत्यर्थः । यत्तु कृदन्तेष्वपि भावना प्रतीयत इति तत्सत्यम्, किन्तु धात्वर्थे रेव तदाक्षेपः । श्राह च- धात्वर्थकारकैरेव गुणभूतोऽवगम्यते । भावनात्मा कृदन्तेषु तस्मान्नवाभिधीयते " ॥ " यथैव भावप्रधानत्वादाख्याते तत्सम्बन्धादेव गुणभूतकारक- प्रतौतिसिद्धेर्न कर्तृकर्मणोरभिधानं एवं कर्नाद्यभिधानादेव तद- न्यथानुपपत्त्यारे" वा धात्वर्थाव्यभिचाराद्या भावनालाभः । “तथा- भूतयैव च भावनया कारकसम्बन्धोप्यपपद्यते” । एतेन करोति- %3D १ तन्त्रवार्तिक, ४० ३४८ । २.४ तन्त्रवार्तिक, ४० ३५८ ।
FOL XVII PTS II-III] द्वितीयोऽध्यायः 237 सामानाधिकरण्यं व्याख्यातम् । न चवं धातोः सकर्मकाकर्मकत्व - विभागानुपपत्तिः । “अन्यदेव हि धात्वर्थप्राप्यं कर्मसकर्मके । अन्य देव च सर्वत्र प्रत्ययार्यनिबन्धनम् ॥ ओदनं पचति ग्रामं गच्छतौति धात्वर्थापवर्गलभ्यमेकं कर्म अपरं पुनर्भावनाकर्म। तत्र कदा चिद्धात्वर्थकमव भावनाकर्मत्वमपि प्रतिपद्यते पाकेन प्रोदनं भावयतीति। कदा चित् पुनः स्वकर्म- विशिष्टधात्वर्थयुक्ता भावना कर्मान्तरेण युज्यते ग्रामगमनेन स्वार्थ भावयेदिति शोहनपाकेन चेति। तच्च प्रायेण एवं कामशब्देन सम्बध्यते । सुखकाम आसीत् स्वास्थ्यकामः शायौ तेति । अत्र हि धात्वोरकर्मकल्वेऽपि प्रत्ययार्थभावनां प्रति कर्मत्वेन स्वादौन्यवधार्यन्ते । आस्ते पोत इत्यादौ तु धात्वर्थ एव कर्मतया संबध्यते । तस्मात्- साक्षादव्यभिचारेण धात्वर्थो यत्र कर्मभाक् । सकर्मकः स धातुः स्यात् पारम्पर्य त्वकर्मकः ॥ श्रासनशयनादौ हि अानन्तर्येण नियमेन वा कर्मविशेषो न निरूप्यत इत्यकर्मकत्वम्। पचिगम्यादीनां तु विक्लिद्यत्तत्संयुज्य- मानसाक्षात् सम्बन्धिकर्माव्यभिचारात् सकर्मकत्वं न तु भावना- विशेषणत्वे कश्चिविशेषः१ ”। अस्तु वा त्वदुक्करौत्या फलभावनयोः सामानाधिकरण्यवैयधिकरण्याभां विभागः । एतेन भवति घट- मित्यादि प्रयोगापादानमपि प्रत्युक्तम् । तत्र धात्वर्थसमानाधि- करणस्यैव व्यापारस्य व्युत्पत्तिवलात् प्रतीतेः । ज्योतिष्टोमयाजौ- त्यादौ तु धात्वर्थनव भावनाक्षेप इति दिक् । तस्मात् प्रत्यय- वाच्यैव भावना। भावनाशब्दोऽप्यदूरी रविप्रकर्षण तहाचकः । १ तन्त्रवार्तिक, ४० ३५४-३५५ ।
288 मौमासाशास्त्रसर्वस्वे (J BORS “ यादृशौ भावनाऽऽख्याते धात्वर्थश्चापि यादृशः । नासौ तेनैव रूपेण कथ्यतेऽन्यः पदैः क्वचित् ॥ इति भावनाशब्दो हि निष्पन्नात्मिकां सत्त्वरूपापन्नां लिङ्गसंख्या- योगिनौं अभिधत्ते। आख्यातं तु लिङ्गसंख्यारहितरूपेण "। अत ण्वानन्याख्येयो भावार्थ इति सिद्धान्तः । तदेवं भावना निरूपिता। विधिनिरूपणम् । विधिस्तु पुरुषप्रवर्त्तनात्मकः । शब्दनिष्ठप्रेरणाख्यः शब्दभावने - त्युच्यते । अभिधा भावनेति च । मा च लिङादिवाच्या । अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते " ॥ इति तस्था अप्यंशत्रयमुक्तमभियुक्तः- लिङ्गोभिधा सेव च शब्दभावना भाव्यं च तस्याः पुरुषप्रवृत्तिः । सम्बन्धबोधः करणञ्च तस्यां प्ररोचना चाङ्गतयोपयुज्यते ॥ इति कथमप्रसिद्धायां तस्यां शकिग्रह इति चेत्-उच्यते- प्राब्दश्रवणानन्त प्रवृत्तिमुपलभ्य तद्धेतुभूतप्रेषणाध्येषणादि- व्यापारानुवृत्तप्रवर्त्तनासामान्ये शनिग्रहः । अपौरुषेये तु वेदे पुरुष- धर्मस्य प्रेषणा देरसम्भवात्तयतिरिक्तस्य विशेषस्य तर्कितस्य लक्षण- मालिङादिर्बोधकः । तदाहु:- १ तन्त्रवार्तिक, ४० ३५२ । २ यस्तु शब्दगत प्रयोजकव्यापार' यत्र पुरुषप्रति माध्यता प्रतिपद्यते सा शब्दभावनेति न्यायमञ्जरौकाराः, पृ० ३४३ । २ तन्त्रवार्तिक, पृ० ३४४-४५ ।
VoL XVII PTS II-III ] द्वितीयोऽध्याय' । 289 अस्ति प्रवर्त्तनारूपमनुस्यूत चतुर्वपि । तत्रैव लिड विधातव्यः किं भेदस्य विवक्षया ॥ न्यायव्युत्पादनार्थं वा प्रपञ्चार्थमथापि वा । विध्यादौनामुपादानञ्चतुर्णामादितः कृतमिति || कृत्यानां तु षवाचित्वेऽपि प्राप्तविषयप्रवर्तनात्वरूपप्रेषस्य वेदे- ऽसम्भवात् । प्राप्तविषयत्वाख्यविशेषणत्यागेन लक्षणया विशेष- परत्वमेव । तदाऊः- " प्रवर्त्तनम्मृतिः प्राहे प्रेष इत्यभिधीयते । अप्राप्तप्रेषण सई विधित्वं प्रतिपद्यते सा च शक्तिशक्तिमतोरभेदात् शब्दात्मिकेत्युच्यते । सा च यद्यपि समानप्रत्ययोपात्ततयाऽर्थभावनयैव सह विशेषणतया सम्बध्यते तथापि दना जुहोतोत्यादौ तात्पर्यतो गुणांशे पर्यवस्यति । श्रेयः- साधनता तु लिङादेः प्रवर्तकत्वानुपपत्तिलभ्येत्याचार्याः । सैव लिङादिवाच्येति तु मण्डनप्रभृतयः । ॥ इति २ अपूर्वस्यास्तिताधिकरणम् । चोदना पुनरारम्भः ॥५॥ अपूर्व सिद्धं कृत्वा तज्जनकं किमिति चिन्तितम् । अपूर्वमेव तु निष्प्रमाणकमिति पूर्वपक्षः । सिद्धान्तस्तु- " फलाय विहितं कर्म क्षणिकं चिरभाविने । तत्मिद्धिर्नान्यथेत्येवमपूर्व प्रतिगम्यते " ॥ १ तन्त्रवार्तिक, पृ० ३५१ । २ नन्त्रवार्तिक, पृ० ३६० .
290 मौमासाशास्त्रसर्वस्खे (J B.ORS कृतस्य कर्मभ्यः प्रागयोग्यस्य कर्मण: पुरुषस्य वा । योग्यता शास्त्रगम्या या परा सापूर्वमिष्यते ॥ श्रुतार्थापत्तिरेवैका प्रमाणं तस्य चेत् फलमेवोपजायते । एषात्र प्रक्रिया । यागेन स्वगं कुर्यादिति प्रथमं बोधः। " कथं विनश्वरेण फलं कर्त्तव्यमित्यपेक्षायां अपूर्व कृत्वेति । कथमपूर्व क्रियत इत्यपेक्षायामङ्गानुष्ठानेनेति । ततः पूर्वापरकालौनेरङ्गरूप- यागस्य फलापूर्वसाधनत्वं साक्षान्न सम्भवतीत्युत्पत्त्यपूर्व कल्प्यते। तत्र सनिपत्योपकारकाङ्गापूर्वाणि यागस्यैव शक्त्यतिशय- मादधानानि उत्पत्त्यपूर्वनिष्पत्ती व्याप्रियन्ते ( तदारेण फलापूर्वम् )। पारादुपकारकाणि औत्पत्त्यपूर्वेभ्यः फलापूर्वनिष्पत्तौ। दर्शपूर्ण- मासयोस्तु पक्षद्वयवर्त्तिभ्यां समुदायाभ्यां युगपत् फलापूर्वारम्भायोगात् प्रतिसमुदायभेकैकमपूर्व कल्प्यते । तत्कथं भावापेक्षायामग्न्यन्वा- धानाद्यङ्गोपदेशः। ततः पूर्वोत्तराङ्गसहितेभ्यः साक्षात्तदुत्पत्त्ययोगा- त्प्रतित्रिकं त्रीणि त्रीण्यपूर्वाणि कल्यन्ते " इति न वा पूर्वपक्षः सिद्धान्तसम्मतः । ३ कर्मणां गुणप्रधानभावविभागाधिकरणम् । तानि वैधं गुणप्रधानभूतानि ॥६॥ श्राख्यातभेदादपूर्वभेद इति स्थितम् । तदपवाद - - - - नेद- मधिकरणमारभ्यते । दर्शपूर्णमासयोः श्रूयते–'ब्रोहीनवहन्ती'ति । तत्र किमवघातादपूर्वमस्ति उत नेति संशयः । तत्र श्रुतार्थापत्तिरेवैका प्रमाण तस्य वेष्यते । भान्टैकदेशभावाच्च स्वार्थेष्वागम एव न" | इति तन्त्रवार्तिकपाठ , पृ० ३६६ । २ शास्त्रदीपिका, पृ० १०५-१०६ । .
VoL XVII PTS II-III ] द्वितीयोऽध्यायः । 291 " श्राख्यातत्त्वाविशेषेण भूतैर्भव्यार्थजन्मनः । सिद्धे च साध्यता शक्रः सर्वाख्यातप्रधानता " तस्मात् ब्रौह्यपेक्षयावघातः प्रधानम् । ततश्चापूर्वमिति प्राप्ते ब्रमः- " नामाख्यातार्थसम्बन्धे यदल्लुप्तप्रयोजनम् । तस्यादृष्टार्थता युक्ता नेतरस्याप्रमाणिकार " || स्थादेवं यद्यदृष्टं कल्येत । इह तु तृप्तमेव ब्रौहोणां याग- निवृत्तिरूपं प्रयोजनम् । अवघातस्य च ब्रौह्यर्थत्वे तुषविमोकादि दृष्टमेव इति नादृष्टं कल्प्यम् । यत्तु नियमात् पूर्व तत् क्रियाकृतं न भवतीति न तया व्यपदिश्यते किच्च अवघातस्यादृष्टार्थत्वपक्षेऽपि द्रव्यनियमात् कल्प्यमेव तदिति वरम्, दृष्टार्थावघातनियमादेकमेव तत्कल्पितम् । तेन यत्र द्रव्यं प्रति क्रियाणां प्राधान्यं तत्रैवापूर्वभेदः । अस्य विवेकार्थे गुणत्वप्रधानलक्षणं हतौयासिद्धमेव । सिद्धवत् कृत्यदृष्टार्थलाभा- लाभावेव परिचायकतया सूत्रकारः । यैस्तु द्रव्यं न चिकीर्घ्य ते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् ॥ ७॥ यः कर्मभिर्द्रव्यं धर्मतः स्वरूपतो वा न संस्कर्तुमिष्यते तानि प्रयाजादौनि स्वसाधन प्रति प्रधानभूतत्वाददृष्टार्थानौत्यर्थः । यैस्तु द्रव्यं चिकीर्ण्यते गुणस्तत्र प्रतौयेत तस्य द्रव्यप्रधानत्वात् ॥८॥ यैरवघातादिभिर्द्रव्यं ब्रौह्यादि चिकौर्यत इति उत्पाद्यते १.२ तन्त्रवार्तिक, पृ० ३८३ । • अत्र टिदृश्यते । ४ अन्यत्र 'तु'शब्दप्रयोगो न दृश्यते । .
292 मौमासाशास्त्रसर्वखे [J BORS. विक्रियते श्राप्यन्ते संस्क्रियते वेत्यर्थः । प्रयोजनं तु प्रेयङ्गवेपि चरावतिदेशप्राप्तो बौहिसाधनकोऽवघातः पूर्वपक्षे। कुतः । " प्रधाने हि श्रुतं द्रव्यं नाङ्गद्रव्यस्य बाधकम् । प्रयाजेज्याज्यवत्तेन हन्तौ स्यात् व्रौह्यबाधनम् ॥ सिद्धान्त तु बाध्यन्ते कुतः । प्रधानौपयिक द्रव्यं सस्कारैरपि युज्यते । तेन हन्यादिभिः सर्वैः संस्कर्त्तव्याः प्रियङ्गवः१५ ॥ ४ संमार्जनादौनामप्रधानताधिकरणम् । धर्ममात्र तु कर्म स्यादनित्तेः प्रयाजवत् ॥ ६ ॥ यद्यपि पूर्वाधिकरणे द्रव्यचिकौर्षा गुणकर्मलक्षणतया नोक्ता । उपकारकत्वलक्षणशेषत्वप्रसङ्गात् । तादर्शलक्षणं हि श्रुत्यादिप्रमाणकं शेषत्वम् । न तु प्रत्यक्षाद्युपकारनिमित्तमिति वक्ष्यमाणत्वात् किन्तु- " अन्यतः सिद्धपोषाणां येषां दृष्टोपकारिता । तेषां नापूर्वमस्तौति हन्यादौनामुदाहृतिः२ " ॥ तथापि तदैव गुणकर्मलक्षणमिति भान्या प्रत्यवतिष्ठमानस्य भ्रम- निरासार्थमिदमधिकरणम् । 'सूचः संमा 'त्यादिषु चिन्यते । समार्गादयः प्रधानकर्म उत गुणकर्मति । तत्र दृष्टप्रयोजनाभावान्न गुणकर्म न च द्वितीयया खुचां साध्यत्वम् । 'सनन् जुहोति' इत्यादौ व्यभिचारात् । " अतः सुगादिसाधनकसमार्गविधानात् प्रधान- कमवेति प्राप्ते नमः स्मृत्या साध्याभिधायित्वं द्वितीयायाः प्रतीयते । कर्तुर्यदीप्सितं यच्च तथायुक्तमनौमितम् ॥ . १ तन्त्रवार्तिक, पृ० ३८४ । २ तन्त्रवार्निक, पृ० ३८६ । .
VoL XVII. PTS II-III ] दितीयोऽध्यायः । 293 " ॥ तत् कर्म तद्वितीयार्थ इत्येवं पाणिनेः स्मृतिः । बलौयसौ च साचारात् प्रयोगश्चास्ति तादृशः ईमितानौमितानुवर्ति साध्यरूपं कर्म तच द्वितीयार्थ इति व्याकरणादवगतम्। समौहितभाव्यापेक्षायां च भावनायां क्रतु- साधनत्वेन समौहिताः स्रुच एव द्वितीयाबलात् साध्यत्वेन सम्बध्यन्ते । सक्तूनां तु भूतभाव्युपयोगाभावेन भाव्यत्वान्वयायोगात् । साधनत्वं द्वितीयया लक्ष्यते । आह च- भूतभाव्युपयोगं हि संस्कार्य द्रव्यमिय्यते । सक्तवो नोपयोक्ष्यन्ते नोपयुक्राश्च ते क्वचित् ॥ प्राधान्यमेव नवापि द्वितीया वदति स्वतः । विरोधात्तेन सम्बन्धो गणभावस्तु लक्ष्यते " प्रयोजनं तु पूर्वपक्षे प्रकृती सक्समार्गस्य बहुसाधनत्वात् कपिचलन्यायेन त्रित्वस्थ शास्त्रीयत्वात् पात्राविवृद्धावपि पशु- चातुर्मास्येषु तिस्र एव संमार्टव्याः पूर्वपक्षे । सिद्धान्ते तु सर्वाः३" प्रतिप्रधानं संस्कारावृत्तः । ५ स्तोत्रादिप्राधान्याधिकरणम् स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभि- धानत्वात् ॥ १३॥ स्तोत्रशस्त्राण्युदाहरणम् । " स्तुतिरेव स्तोत्रम्। शास्त्रमपि सेवा- प्रगौतमन्त्रसाध्या । गुणगुणिसम्बन्धकीर्तनं स्तुतिः । सा च गुण- गुणिभ्यां निवर्तते । तत्र गुणानामकर्माङ्गतया निष्प्रयोजनत्वात् ।' १ शास्त्रदीपिका, पृ० १०६ । २ तन्त्रवार्त्तिक, पृ० ३८८ । ३-४ तन्त्रवार्त्तिक, पृ० ३८४ ।
294 मौमामाशास्त्रसर्वखे [J.B O Rs. " स्तुत्यर्थत्वमसंदिग्धम्। स्तुतिस्तु स्तुत्यां देवतां प्रति किं स्मारकत्वेन गुणभूता किं वा देवतां प्रति प्रधानभूता सत्यदृष्टार्था इति संशयः । तत्र-“देवतास्मरणं दृष्टमुज्झित्वाऽदृष्ट कल्पनम् । न युक्तं तेन तादर्थ्यात् स्तोत्रादेमुणकर्मता'" ॥ इति प्राप्ते उच्यते- " सत्यं दृष्टार्थता युक्ता श्रुतिश्चेन्न विरुध्यते । देवतास्मरणार्थत्वे स्तुतिरूपं विहन्यते ॥ श्रुतस्य हि प्रयोजनकल्पनम् । स्तुतिश्चेह कर्त्तव्यतया श्रूयते । श्राज्यैः स्तुवते,' 'प्रउगं शंसतो'ति । यदा च मन्त्रवाक्यं गुण- सम्बन्धाभिधानपरं तदा स्तुतिर्भवति। यदा तु गुणद्वारेण गुणि- प्रकाशनार्थ न तदा स्तुतिः । न हि लोके योऽयं वक्रकेशान्त- स्तमानयेति परिचायकत्वेन गुणोको स्तौतौति व्यवहरन्ति । तस्मात् स्तौतिशंसत्योः प्रकाशनलक्षणायां मानाभावात् श्रुतिबलाददृष्टार्थ- त्वम् । एवञ्च माहेन्द्रग्रहयाज्याभ्याससनिधावन्द्री स्तुतिरुपपद्यते । तथा हि- यां काञ्चिदप्युपादाय देवता साधिता स्तुतिः । अदृष्टं यागमात्राथं करोत्यारादवस्थितम् ॥ त्वत्पक्षे तु यत्रेन्द्रस्तवेन्द्रौ स्तुतिरूत्कृष्येत । श्रुतिसमवायित्वाद्देव- तायाः। यदि तु मनोतास्थानिशब्दोऽमिषोमाविवेन्द्रशब्द एव महेन्द्रं लक्षयेतहि लक्षणेव दोषः । . १ शास्त्रदीपिका, ४० १११ । २ अत्र ‘श्रुतरूप'मिति मुद्रितपुस्तकपाठ । ३.४ शास्त्रदीपिका पृ० १११ । ५ अग्नीषोमीयपशो 'त्व ह्यग्ने प्रथमों मनोते ति मनोतामन्त्रे श्रुतोऽग्निशब्दो लक्षणया यथाग्नीषोमौ प्रतिपादयति तथा इन्द्रशब्दोऽपि लक्षशया महेन्द्र प्रकाशये- दित्यर्थ -मयूखमालिका, पृ० १११ ।
VOL. XVII. PTS II-III ] द्वितीयोऽध्यायः । 295 ६ मन्त्राविधायकत्वाधिकरणम् । विधिमन्त्रयोरक्यार्थ्यमैकशब्द्यात् ॥ ३० ॥ द्विविधमाख्यातमुक्तम्-प्रधानकर्मणां विधायकं गुणकर्मणाञ्च । किमेतदेव प्रकारदयमुतान्योऽप्यस्तौति प्रसङ्गात् प्रतिपाद्यते । तत्र देवांश्च याभिर्यजते ददाति चेत्येवमादौनि यच्छब्दा- मन्त्रणोत्तमपुरुषादिसंयुकान्याख्यातानि। 'यस्योभयं हविरार्त्ति- माईदित्यादीनि च निमित्तादिप्रतिपादनेनाख्यातान्तरेरेकवाक्यता गतानि उदाहरणम् । तानि च प्रायेण मन्त्रेष्वेवेति मन्त्रोपन्यास । अविधायका मन्त्रा इति प्रसिद्धिश्च । न तु मन्त्रत्वस्य कश्चित् न्यायोपयोगः । तानि विधायकानि न बेति संशयः । तत्र- विधायकत्वमेतेषामाख्यातत्वाविशेषतः । सत्यपि प्रकृते कर्मण्यभ्यासात् कर्मभेदधौः१५ ॥ “प्राप्तत्वाद्यदि चेष्येत मन्त्राणामनुवादता । तैरेव विहितं कस्मान्न स्मारयति चोदनारे यत्तु मन्त्रम्वादविधायक इति तन्न । वसन्ताय कपिञ्जलाना- लभत इत्यादौ व्यभिचारात् । तस्मादग्टह्यमाणविशेषत्वाद्राह्मण- वन्मन्त्रोपि विधायकः । अभ्यासाच कर्मभेद दूति प्राप्तेऽभिधीयते- यच्छब्दादिभिरेतेषां विधिशक्तिविहन्यते । न हि याभिर्यजेतेति कथञ्चिद्विधिसम्भवः । तथा दामि ग्टह्लामौति नात्मनात्मा विधातुं शक्यः । अनौदग्रौन् विहरेत्यादावामन्त्रणेन विधिशकिलोपः । अभिमुखा- “ " तथा १ शास्त्रदीपिका, पृ० ११२ । २ तन्त्रवार्तिक, पृ० ४१२ । ३ शास्त्रदीपिका, पृ. ११२ ।
296 मौमासाशास्त्रसर्वस्खे [J BORS. - नभिमुखपुरुषसाधारणत्वादिधेः। आमन्त्रणस्य च तद्विरुद्धखभाव- त्वात् । तस्मादेवमादौनां प्रयोगमध्ये पुरुषान्तरेण पुरुषे स्मारयितव्ये सामर्थ्यम् । न तु विधाविति सिद्धमभिधायकत्वम् । श्राह च- " अनुष्ठाने पदार्थानामवश्यं भाविनी स्मृतिः । अनन्यसाधनाऽनन्य कार्यमन्त्रः प्रसाध्यते ॥ एवञ्च मन्त्रैरेव स्मृत्वा कर्त्तव्यमिति नियमादृष्टमपि कल्प्यम् । यत्र तु मन्त्राभावस्तत्र ब्राह्मण मेव विधायकं स्मारकञ्च। तदुक्तम्- "विधायकं सदप्यथं ब्राह्मणं म्मारयिष्यति । मन्त्रतस्तु विरोधे स्थादित्यत्रतइदिव्यते” ॥ दूति ७ मन्त्रनिर्वचनाधिकरणम् ॥ तच्चोदकेषु मन्त्राख्या ॥ ३२ ॥ न्यायानौपयिकेनापि मन्त्राब्देन पूर्व व्यवहृतमिति तत्प्रसङ्गात् मन्त्रलक्षणमुच्यते । तत्पूर्वोक्रमभिधानन् । चोदकं प्रयोजकं येषां तेषु मन्त्राख्येति । प्रायिकमिदम् । यत्राभियुक्तानां मन्त्रत्वप्रसिद्धः स मन्त्र इति विवक्षितम् । प्रयोजनन्तु-अहे बुधिय मन्त्रं मे गोपाय। यमृषयस्त्रयिविदा विदुः। ऋचः सामानि यजूंषि' दृति वेदवाक्यार्थबोधः । ८ ब्राह्मणनिर्वचनाधिकरणम् । शेषे ब्राह्मणशब्दः ॥ ३३॥ मन्त्राभिन्नं ब्राह्मणमिति। एतदपि प्रासङ्गिकम् । फलं तु 'एतद्ब्राह्मणान्येव पञ्च हवौं षि' इति वाक्यार्थबोधः । . १ तन्त्र वार्तिक, ४० ४१४ . २ तन्त्रर्तिक, पृ० ४६३ VOL XVII PTS II-III] द्वितीयोऽध्यायः । 297 है जहाद्यमन्त्रताधिकरणम् । अनाम्नातेधमन्त्रत्वमानातेषु हि विभागः स्यात् ॥ ३४ ॥ जहप्रवरनामधेयानां मन्त्रत्वमुत नेति संशये मन्त्रैकवाक्यत्वेन तन्मध्ये निवेशात् मन्त्रैकार्यकरत्वाच्च मन्त्रत्वमिति प्राप्त उच्यते- अभियुक्तप्रसिध्या हि मन्त्रत्वमवकल्पते । स्वाध्यायकाले तेषाञ्च समाम्बातेषु मन्त्रधौः” । तस्मादभियुक्रप्रसिद्ध्यभावादमन्त्रत्वम् । मन्त्रैकवाक्यत्वं त्वायो- जकम् । मन्त्रकार्यकरत्वं तु रथघोषेण माहेन्द्रं स्तोत्रमुपाकरोतौति विहिते रथघोषे व्यभिचारि । प्रयोजनन्तु ऊह्यमाने सूयाय इत्यादि पदे भ्रष्टेऽपि मन्त्रभेषनिमित्तप्रायश्चित्तत्वमस्त्येव । यतः- प्राकृतौनामभिव्यनिर्या कथं चिनिरूपिता । नासाववयवाधिक्यविनाशेऽपि विनश्यति" ॥ तेन तत्र छान्दसप्रयोगादिकमप्युपपद्यत इति सिद्धम् । १० ग्लक्षणाधिकरणम् । तेषामुग्यवार्थवशेन पादव्यवस्था ॥ ३५ ॥ 'अहे बुधियेत्यादिपूर्वोदाहृतवाक्यार्थोपयोगौ मन्त्राणामवान्तर- विभागः ऋगादिरूपः लक्षणेन व्युत्पाद्यते। यत्र ( अर्थवशेन ) पाद- व्यवस्था सा ऋगिति । व्यवस्था च यद्यपि वृत्तलक्षणाधौना तथापि क्वचिदर्थोऽपि पादेन समाप्यत इति प्रायिकं तत्सूत्रेऽनुदितम् । न तु लक्षणघटकम् । १ शास्त्रदीपिका, पृ० ११४ । २ तन्त्रवार्तिक, पृ. ४१८ ! अब विनाशेष' इति बहुवचनान्त पाठ 298 मौमासाशास्त्रसर्वखे [J B O.RS ११ सामलक्षणाधिकरणम् । गौतिषु समाख्या ॥३६॥ प्रगौतो मन्त्रः सामेति सूत्रार्थः। तत्रापि नाग्टहीतविशेषण- न्यायेन 'कवतीषु रथन्तरं गायौत'त्यादिदेशोपपत्तेश्च गौतिरेव सामेति सप्तमे वक्ष्यते। इह तु मन्त्र विभागमात्र विवक्षितमिति न पौनरुतम् । १२ यजुर्लक्षणाधिकरणम् । शेषे यजुःशब्दः ॥ ३७॥ क्सामाभ्यां भिन्न मन्त्रजातं यजुरित्यर्थः । १३ निगदानां यजुष्ट्वाधिकरणम् । निगदो वा चतुर्थं स्यात् धर्मविशेषात् ॥ ३८॥ शेषे यजुः शब्द इत्यस्याक्षेपेण इदमारभ्यते । अपरसम्बोधन- रूपाः प्रोक्षणोरासादयेत्येवंरूपा मन्त्रा निगदाः । ते किं यजूंथ्येव उत भिन्ना दूति संशयः । व्यपदेशभेदादुपांशु यजुषा उच्चैर्निगदेनेति विरुद्धधर्माध्यासाच्च भिन्ना इति प्राप्त उच्यते- नितरां गद्यन्त इति व्युत्पत्त्या यजुःय्येव उच्चैस्त्वधर्मयोगान्निगद- व्यपदेशो ब्राह्मणपरिव्राजकवदुपपद्यते। विरुद्धधर्मोपि सत्येव यजुष्वे परप्रत्यायनरूपकार्यविरोधेन निगदेषूपांशुत्वाप्राप्तेरर्थवशाच्चोच्चैस्वसिद्धेर्न यजुर्यो भेदमावहति। तस्मात् यजुर्लक्षणयोगात् यजुव्येव निगदाः । श्राक्षेपेवपवादेषु प्राप्यां लक्षणकर्मणि । प्रयोजनं न वक्रव्यं यच्च कृत्वा प्रवर्तते ॥ १ पूर्वस्माद्वन्यादसम्बद्धेय कारिका लेखकप्रमादादन्यस्माद्दा हेतोरत्रास्या निवेशो जान ।
VOL. XVII PTS. II-III] द्वितीयोऽध्यायः । 299 . १४ एकवाक्यत्वलक्षणाधिकरणम् । अर्थैकत्वादेकं वाक्यं साकाङ्क्ष चेदिभागे स्यात् ॥ ४६॥ विधैव मन्त्रा इत्युक्तम् । तत्र ऋक्सामानां भेदो न वक्रव्यः अध्येटप्रसिद्धत्वात् । यजुषां तु प्रनिष्टपठितत्वात् न लक्षणादिना भेदज्ञानमिति परिमाणलक्षणमुच्यते। यावदेकप्रयोजन विभागे च साकाझं पदजातं तावद्यागसाधनत्वात् यजुर्वक्रव्यत्वाच्च वाक्यम् । अन्यत्तु यजुरन्तरवाक्यान्तरं चेदर्थादुक्तम् । तदुदाहरण तु 'देवस्य त्वा सवितुः प्रसवे ति। अत्र हि सर्वाणि पदानि निर्वाप- प्रकाशनार्थानि विभागे च माकाङ्कगणि। यद्यपि 'भगो वां विभजत पूषा वां विभजतु' इति सर्व एकार्थी: विभागप्रकाशकत्वात् । तथापि न साकासा दूति भिन्न्वाक्यत्वम् । अत एव विभागे विकल्पः । तथा 'स्योनन्ते सदन कृणोमि घृतस्य धारया सुशेवं कल्प- यामि । तस्मिन् सौदामृते प्रतितिष्ठ ब्रोहीणां मेघ सुमनस्यमान' इति यद्यपि विभागे साकाङ्गं तथापि प्रयोजनभेदान्नैकं वाक्य किन्तु दे-तत्र पूर्व सदनकरणे नियुज्यते परं पुरोडाशप्रतिष्ठापने । १५ वाक्यभेदाधिकरणम् । समेषु वाक्यभेदः स्यात् ॥ ४७॥ येषामदृश्यमानकर्मसमवेतार्थत्वेन लैङ्गिकविनियोगाभावाचा निको विनियोगः परस्परनैराकायञ्च स्वरूपतोऽवगम्यते । तत्र किं यदेकं यजुरिति चिन्यते-किं प्राक्दृष्टार्थमन्त्रावधेरेकमन्त्रत्वं उत यावदेव मिथःसम्बद्धमिषेत्वेति श्रायुर्यज्ञेन कल्पतामिति च तावदेकं यजुः । ऊर्जेवेति प्राणो यज्ञेन कल्पतामिति यजुरन्तरमिति ।
300 मौमांसाशास्त्रसर्वखे (J B.O.RS तत्र-"अदृष्टार्थत्वमेतेषामनुष्ठेयाप्रकाशनात् । तच्चैकं तत्र साकासाः सर्व दूत्येकवाक्यता" ॥ अदृष्टं हि लाघवादेकमेव कल्प्यम् । तत्र च संभूयकारित्वात् विभज्यमानाः साकाङ्क्षा एवेत्येकवाक्यता । यद्यपि प्रतौकभेदेना- नेकत्र विनियोगः दूषत्वेति शाखां छिनत्ति ऊर्जात्यनुमाति तथापि यावदिनियोगं सकल श्रावर्त्तिव्यने । श्रादिप्रतीकेन मध्य- प्रतीकेन च सर्वस्योभयत्र विनियोगादिति प्राप्ते ब्रमः- “ यद्यप्येषामदृष्टोऽर्थस्तथापि न तदेकता । रूपतो हि निराकाङ्क्षा भिन्नत्वेनावधारिताः ॥ अन्योन्यानादरेणैव प्रार्थयन्ने प्रयोजनम् । यथापेक्षमतस्तेषां भिन्नादृष्टप्रकल्पना ॥ यथा विश्वजिदादौनां भेदेन फलकल्पना । यथा च समिदादौनामपूर्व भिन्नमिष्यते ॥ तवदत्र न चात्रैषामदृष्टार्थत्वसम्भवः । छेदनादिप्रकाशेन दृष्टार्था हि विधेरमौ " ।। तेन विधिवशादेषां प्रकाशनार्थत्वे स्थिते अगत्या छिनौत्याद्य- ध्याहार्यम् । तत्रैकेन छेदन प्रकाश्यते अन्येनानुमार्जनमित्यर्थभेदा- न्मन्त्रभेदः। तथा 'आयुर्यज्ञेन कल्पता'मित्यादौनामपि स्वरूपतो निराकाङ्क्षत्वात् 'क्लृप्तौर्वाचयतो ति च बहुक्तृप्तिवचनस्य चोदित- त्वात्तत्संपत्त्यर्थमायुरादिविशिष्टस्तृप्तिभेदप्रकाशनपरत्वादर्थभेदेन मन्त्र- भेदः । एतेन निर्वापवत् विभागवदा अभेदो विकल्पश्च प्रत्युक्तः । १ शास्त्रदौपिका, . ११७ । २ प्रकल्पनमिति पाठान्तरम् । ३ शाखाच्छेदप्रकाशेनेति पाठान्तरम् । ४ शास्त्र दीपिका, पृ. ११७ । .
LOL XVII PTS II-III] द्वितीयोऽध्यायः । 301 " ॥ १६-१७ अनुषङ्गाधिकरणम् । अनुषङ्गो वाक्यपरिसमाप्तिः सर्वेषु तुल्ययोगित्वात् ॥४८॥ ' या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गहरेष्ठोग्रं वचो अपावधीत्वेष वचो अपावधीत् स्वाहा। याते अग्ने रजाशया याते अग्ने हराशया' इति श्रूयते । तत्रोत्तरौ मन्त्रावुदाहरणम् । किमनयोलौकिकः शेषोऽध्याहार्यः किम्वा तनूर्वर्षिष्ठेत्याद्यनुषतव्यमिति । तत्र- एकत्रैव निबद्धो हि समाम्नायेन वैदिकः । शोषोऽन्यत्र न नेतव्यो लौकिकस्त्वनिबन्धनः१ " लौकिको हि यत्र प्राब्दो यत्र कार्य तत्र नियुज्यमानो न विरुध्यते। वैदिकस्तु यदर्थमान्नातस्तेनैव निबद्धो नान्यत्र नेतु शक्य । यदि तु रचयितव्यान्नौकिकात् रचितत्वेन लघुतरमिति डेदिक- मप्यन्यत्र नौयेत तथापि समाम्नाय बहिर्भावात् लौकिकमेव स्यात् । तथा हि- " तानेव वैदिकान् मन्त्रान् भारतादिनिवेशितान् । स्वाध्यायनियमं हित्वा लोकबुध्या प्रयुञ्जते " ॥ तस्मादवैदिकः शेष दूति प्राप्तेऽभिदद्महे- विमुक्तव्याप्ती वेदे लौकिकावसरस्थितिः । तयापारविमोकश्च सकलान्वेषणक्षये तत्र-“अदृष्टः प्रकृतावर्थः प्रत्ययेऽन्विष्यते यतः । पदे स्वस्मिन्नलब्धस्तु प्रार्थनौयः पदान्तरे ॥ ३" . १ शास्त्रदीपिका, पृ० ११८ । २-३ तन्त्ववार्तिक, पृ० ४३६ । ४ वार्तिके अत्र पुन'रिति पाठ । , 302 मीमांसाशास्त्रसर्वखे [J BORS स्वस्मिन् वाक्येऽपि न स्यान्चेन्मृग्यो वाक्यान्तरे ततः । वाक्यान्तरेऽपि न स्यान्चेन्मृग्यः प्रकरणान्तरे ॥ सर्वत्र च- सन्निकृष्टो न लब्धश्चेत् विप्रकृष्टोपि वैदिकः । स एवावैदिकस्तु स्यात् प्राप्तः सन्निहितो यदा ॥ तदिह रजाशयाहराशयावाक्ययोः शेषः स्वपदस्खवाक्ययो- रल"वत्वाद्याक्यान्तरेऽन्विष्यते । ततश्च- "यथापेक्षितरूपो हि वाक्यशेषे समर्थिते । वेदेन लौकिकः पोषो न मृग्यो निष्पमाणकः२" ॥ सर्वार्थोऽप्ययं “ सकृदाम्नायमानः सर्वेषामौमिते देणे नानातं शक्यत इति एकस्य यथाक्रममानातः । इतराभ्यां अप्याकांक्षितः पूर्वत्र परस्तानावितया दृष्टसामर्थ्यः परस्तादेव निवेक्ष्यते। आह च- प्रतौतिमाचलाभाथं तत्प्रदेश स पद्यते । योग्यत्वात् सन्निवेशस्तु पूर्वमन्त्रवदिव्यते चित्पतिस्त्वा पुनातु । वाक्पतिस्त्वा पुनातु । देवस्त्वा सविता पुना त्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति श्रूयते । तत्राच्छिद्रणेत्यादिः शेषः किं पूर्वयोरनुषज्यते उत नेति संशयः । ॥ तत्र- " अनन्तरेण सम्बध्य शेषस्येष्टा कृतार्थता । शेषिणश्च निराकाङ्क्षाः किं निमित्ताऽनुषङ्गधीः " ॥ , १ तन्त्रवार्त्तिक, पृ० ४३६-४३७ । २ शास्त्रदीपिका, पृ० ११६ । ३ तन्त्रवार्त्तिक, पृ० ४३७ ४ तन्त्रवार्तिक, पृ० ४४० ।
VOL XVII PTS II-III ] द्वितीयोऽध्यायः 303 इति प्राप्ते ब्रूमः- “ अनन्तरस्य वाक्यस्य यदि शेषो भवेदयम् । तत एवं भवेदेष त्वाख्यातार्थन सर्वभाक् " ॥ " पुनात् शब्दकवाक्यतामुपगतो ह्ययमच्छिद्रादिः करणद्वारेण यजमानपावनक्रियाप्रकाशनार्थः । सेव च क्रिया पूर्वाभ्यामपि मन्त्राभ्यां प्रकाश्यते । तदर्थश्च वाक्यपोषः प्रधानवशात्तत्राकथ्यत इत्यनुषङ्गसिद्धिः"। १८ व्यवेताननुषङ्गाधिकरणम् । व्यवायान्नानुषज्येत ॥ ४६ ॥ प्रत्युदाहरणत्वेन सन्निधेरेवमुच्यते । असम्बन्धतिरोधाने वैषम्यान्नानुषज्यते " 'सं ते वायुर्वातेन गच्छता सयजत्रैरङ्गानि संयज्ञपतिरार्षि'त्यत्र गच्छतामितिशब्दः संयजरित्यनेन बहुवचनान्तेन त्वयोग्यत्वान्न सम्बध्यते । अतो बुद्धिविपरिवृत्तिभङ्गाद्यज्ञपतिना सह योग्यत्वेऽपि नानुषज्यते। अतो वैदिकशेषासम्भवात् गच्छन्ती गच्छामिति चाध्याहारः । अनुसन्धानमात्रमिति के चित् । प्रयोजनन्तु अनुषङ्ग मन्त्र- त्वात् प्रायश्चित्तम् । लौकिकत्वे मन्त्रत्व इति। आह च- "श्राम्नायमानं ह्यनुषज्यमानमन्तर्गतं मन्त्रनिरूपणायाम् । ऊहादिसाम्ये ननु लौकिकानाममन्त्ररूपप्रतिपत्तिसिद्धिः४॥दति इति मौमांसाशास्त्रसर्वखे द्वितीयाध्यायस्य प्रथमः पादः ॥ १ तन्त्रवार्तिक, पृ० ४४० । २ शास्त्रदीपिका, ० १२१ । ३-४ तन्त्रवार्तिक, ४० ४४२ ।
304 मीमांसाशास्त्रसर्वस्खे [J BORS द्वितीयाध्याये द्वितीयः पादः । “ १ अङ्गापूर्वभेदाधिकरणम् । शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् ॥ १ ॥ उपोहातप्रसकानुप्रसनादौ गतेऽधुना। शब्दान्तरादिभिर्भेदालक्षणार्थोऽभिधीयते ॥ तत्र शब्दान्तरसहकृतोत्पत्तिविधिप्रमाणको भेदस्तावनिरूप्यते । ज्योतिष्टोमे श्रूयते । सोमेन यजेत । दाक्षिणानि जुहोति । हिरण्यमात्रेयाय ददाति । स्तृणाति स्तौति शंसती'त्यादि । तत्र किं स्वर्गकामो यजेतेत्यनेन वाक्येन विहितायां भावनायां अव- छेदकत्वेन सर्व धात्वर्था विधीयते उत प्रतिधात्वर्थ भावनाभेद इति संशयः । “ भिन्नासु भावनासु स्यादनेकापूर्वकल्पनम् । एकक्लृप्युपपन्नेऽर्थ नानेकं तत्र कल्यते ॥ किच्च- भावना प्रत्ययार्थत्वात्तदेकत्वान्न भिद्यते । गुणभृता हि धात्वर्था न तां भिन्द्युः कथञ्चन२” । फलापवर्गित्वान्न क्रियाणां फलभेदं विना भेदायोगात् । न भावना भेदवादिपक्षे भाव्यमपूर्वमाभिद्यते तथा च गौरवम् । यदि च धात्वर्थान् प्रति गुणभूता भावना स्यान्न (?) तदा तान् १ तन्त्रवार्तिक, ४० ४४२ । २ शास्त्रदौपिका, पृ० १२१ । ७ VOL XVII PTS II-III] द्वितीयोऽध्यायः । 30) प्रत्युपादौयमाना भिद्येतापि। न त्वेतदस्ति। श्राकासा तस्य क्रिया- प्रधानत्वात् अतः संहत्यैव धात्वर्थास्तां विशिंषन्ति । प्रातिपदिकार्था व सुबर्थी आरुणिमादय व क्रयमित्येवं प्राप्तेऽभिधीयते- प्रकृतिप्रत्यययोः पौर्वापर्यनियमात् । तत्तत्प्रकृतिपरप्रत्ययेन निर- पेक्षतत्तत्प्रकृत्यर्थानुरकभावनाप्रतौतेरवच्छेदकान्तरस्थाकाङ्गाभावेन धात्वर्थान्तरविधानायोगात् धात्वर्थभेदेन भावनाभेद इति । तथा च पर्यायभूतधातुरूपशब्दान्तरबलेन सर्वेषामज्ञानतत्तद्धात्वर्थावच्छिन्न- भावनारूपकर्मज्ञापकत्वारूपोत्पत्तिविधित्वावगमात् कर्मक्ये च तद- नुपपत्तेः । शब्दान्तरस्योत्पत्तिविधित्वज्ञापनेन कर्मभेदोपयोगः । उतञ्च- धात्वर्थभेदे सर्वत्र विज्ञेयं भावनान्तरम् । उत्पत्त्येकानुरता हि नान्येनाप्यनुरज्यते दृष्टान्तस्तु विषमः तथा हि- " निष्पधेत समस्तेभ्यो धातुभ्यः प्रत्ययो यदि । ततः सर्वविशिष्टा स्याद्वन्दोत्पन्न बर्थवत् ॥ यदि वा प्रत्ययः शुद्धः सर्वधातुपृथकृतः । श्रूयेत क्रयवत् सर्वैर्विशिष्येत स धातुभिः अग्नौषोमादिहि पदश्रूत्या सुबर्थन सम्बध्यते । प्रारुण्यादिश्च क्रयेण सह वाक्यांशत्रय () एकेन प्रमाणेन युगपत्सम्बन्धः । दूह तु श्रुत्या यागसम्बद्धवायां भावनायां याग होमो वाक्यप्रकरणाभ्यां निविशेयाताम् । ते च श्रुतितो दुर्बले न तु ददातौति पदेऽपि भावना श्रवणात् श्रुतिरेवेति चेत्-न । यागानुरक्तवेयमित्यत्र श्रुति- ॥ १ तन्त्रवार्तिक, पृ० ४४६-४४७ । २ शास्तदीपिका, पृ. १२३ । .
306 मौमासाशास्त्रमबख [J BORS. व्यापारविरहात् करणांशोपनिपाताच्चास्ति विरोधः । समुच्चये च नरपेक्ष्यबाधः । तस्मात् धात्वर्थभेदात् भावनाभेद इति सिद्धम् । २ समिदाद्यपूर्वभेदाधिकरणम् । एकस्यैवं पुनः श्रुतिरविशेषादनर्थकं हि स्यात् ॥ २॥ 'समिधो यजति,' 'तनूनपातं यजति,' 'दूडो यजति,' बहिर्यजति,' 'स्वाहाकारं यजतौति श्रूयते । तत्र किमेकं कर्म उत पञ्चेति संप्रायः । एकमिति प्राप्तम् । तया हि- प्रत्ययार्थः समानोपि धातुभेदन भिद्यते । धातोरपि समानत्वे केन भेदोऽवधार्यताम् ॥ न चैवमेकेनैव विधाने वाक्यान्तरानर्थकात् । तत्त्वमसौति नवकृत्वोऽभ्यासवत्तात्पर्यग्रहार्थत्वात् । तनूनपादादिदेवताविधानार्थ- त्वादा। शाखान्तरोयाग्निहोत्रविधिवदेकस्यैव कर्मण: कदाचित् केन विधिसम्भवादा । एवं प्राप्ते ब्रमः- सर्वत्र हि श्राख्यातप्रत्ययस्य कर्मविधायकत्वमौत्सर्गिकम्। विधे- यान्तरोपादाने तु गौरवभिया तदनुवादाकाङ्क्षा । तस्याञ्च सत्यां पूर्वकर्मप्रत्यभिज्ञा तां शमयति । यदा तु न पदान्तरोपात्तं विधेयं तदा कर्मप्रत्यभिज्ञानस्य नानुवादकारणत्वम् । न च प्रकृते विधे- यान्तरोपादानमस्ति । समिदादिदेवतानां मन्त्रादेव प्राप्तेः । अत एव तत्प्रख्यन्यायेन समिदादि नामधेयम् । द्वितीयायां तस्य देवता- विधायकतायाः सति गत्यन्तरे कल्पनायोगाच्च । समित्पदस्थापि देवताविधायकत्वे तदवरुद्धे कर्मणि देवतान्तरविधानायोगाच्च । १ तन्त्रवार्तिक. ४.४५१।
VOL XVII PTS II-III ) द्वितीयोऽध्याय । 307 यतः- तथा त्र- तस्मादनन्यपरिधाय (2) पुनः श्रवणरूपाभ्यासेन कर्मोत्पत्तिविधित्वाव- गमात् । अभ्याससहायेन विधिना कर्मभेदः । तदुक्तम्- "पाख्यातप्रत्ययः पूर्व विधत्ते कर्मशक्रितः । अन्येनाक्षिप्तशनिस्तु तदाकाङ्गत्यनूदितम्” । न च बलीयस्याप्रत्यभिज्ञयक्यम् । " श्रुतेः कर्मान्तरज्ञान सन्निधेरेककर्मधीः । तत्र श्रुतिबलौयस्त्वं जानतां कथमेकतार" न चात्र यजिश्रुत्यैवेकतापि बुद्ध्या रूढ़ेतिवाच्यम् । यतः “यागोयमिति विज्ञानं यजित्योपजन्यते । स एवेत्यन्य एवेति व्यापारोऽस्या न विद्यते३" । न तु सर्वत्र नामपदं गुणविधिपरं नामधेयं वा । संज्ञागुणान्यन्तरेण एव भेदसिद्धेः । क्वाभ्यासो भेद एकः । तथा हि- गुणो वा नामधेयं वा समिदादिपदं भवेत् । ताभ्यामेव च भेदोऽत्र किमभ्यासः करिष्यति ॥ किञ्च–“ प्रयुज्यते हि वेदेषु नाख्यातं केवलं क्वचित् । नाम किञ्चित् प्रयुक्त चेत् तत्र चोतं गतिदयम्" ॥ उच्यते- नामार्थनिर्णयस्याख्यातनिर्णयाधीनत्वेन तदर्थविचारात् प्राक् भेदाभेदयोरुदासौनमेव। नाम्नः पाख्यातार्थ हि विधेये ज्ञाने तत एव भेदसिद्धिः। अनुवाद्ये तु नैव भेद इति। न चैवं संज्ञागुणयोः क्वापि भेदकत्वं न स्यादिति वाच्यम्। पाख्यातव्यापाराभाव एव , १-३ तन्त्रवानिक, ४० ४५३, ४५४, ४५५ । ४ तन्त्रवार्तिक, पृ० ४५० ।
308 मौमासाशास्त्रसर्वखे (J BORS तयोरुंदकत्वात् । यथा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्, अथैष ज्योतिरिति । कल्पस्याख्यातस्य कल्पकपारतन्व्यात् । ज्योतिरादौ च एतेन सहस्रदक्षिणेन यजेतेत्यस्य गुणान्वयव्याप्तत्वात्। एतेन मृद्धिकामो यजेतेत्यस्य फलान्च यव्यापृतत्वात् । प्रकृते बनन्य परोधि- रिति विशेष' । उच्च- " प्रायेणाख्यातसम्बन्धि नामष्टं पारतन्व्यभाक् । तस्यैव प्रथमं तेन भेदाभेदनिमित्तता'" ॥ इति ३ आघाराद्यानेयादीनामङ्गाङ्गिभावाधिकरणम् । प्रकरणं तु पौर्णमास्यां रूपावचनात् ॥ ३ ॥ अभ्यासस्थापवादोऽयम् । यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाचुतो भवति तावतामगोषोमावाज्यस्यैव तावुपांशु पौर्णमास्यां यजन् ताभ्यामेतमग्नौषोमौयमेकादशकपालं पौर्णमासे प्रायच्छदैन्द्रं दध्यमावास्यायां ऐन्द्रं पयोऽमावस्याया'मिति काल- सम्बन्धानि श्रूयन्ते। तथा 'समिधो यजति' 'श्राज्यभागौ यजतौ'- त्यादौनि अकालसंयुतानि । तेषां सन्निधौ ‘य एवं विद्वान् पौर्णमासौं यजते । य एवं विद्वानमावास्यां यजत' इति वाक्यद्वयं श्रूयते। तथा 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'ति फलं श्रुतम्। (To be continued ) १ नन्नवार्तिक, ४० ४५०
No text on this page.