Sringeri Sharada Peetham

Shraddha Mayukha

Nilakanth Bhatta · 2006/06/10

PDF Proofread

Front matter

VEDA SHASTRI GO: Tit;
THE FOURTH MAYUKHA
SHRADDHA MAYUKHA
BY
NILKANTH SFATTATHI TREPPE
ERI
BHARMIS
* K. K. SAMFAN!
MAHLQUIM
BATCAICFE-CC.
443
trebalo
EDITE
MAHADEVA GANGADHAR BAKR
AND
VYANKATESHA RAMACHANDRA LELE
Printed and Published by Manilal Itcharam Desai at
THE GUJARATI PRINTING PRESS
No. 8, SASSOON BUILDINGS, CIRCLE, FORT,
BOMBAY
V. 8. 1976
A. D. 1920
Price Rs. 1-2-0

भगवंतभास्करे
मीमांसकटरीनीलकण्ठभट्टविरचितः
श्राहमयूखः
(चतुर्थः)
ब्राक्रेइत्युपाड़महादेवशर्मणा लेलेइत्युपाहव्यंकटेशशास्त्रिणाच
संशोधितः।
मुम्बय्यां
फोट सर्कलाख्ये प्रविभागेऽटमसंख्याके सासूनभवने
'मणिलाल इच्छाराम देसाई' इत्यनेन स्वीये 'गुजराती'
मुद्रणयन्त्रालये मुद्रयित्वा तत्रैव प्रकाशितः ।
विक्रमसंवत् १९७६.
त्रिस्ताब्दः १९२०.
मूल्यं सपादरूपकः

श्राद्धमयूखस्थावषयाणामनुगमणिका. पृष्ठम् ६९ ६ ... ... ... ८३ ... ८४ " ... ८७ . ... ... ... ८८ विषयः मङ्गलम् श्राद्धलक्षणम् अष्टकाअन्वष्टकाः काम्यश्राद्धानि नक्षत्रश्राद्धानि तत्फलं च महालयः प्रतिपदादिश्राद्धानि । महालये निषिद्धकालः पित्ये देवताक्रमः भरणीश्राद्धे गयाफलम् त्रयोदशीश्राद्धम् मातामहश्राद्धम्... सांवत्सरिकम् श्राद्धे कालनिषेधः पिण्डदाने कालनिषेधः श्राद्धदेशाः श्राद्धाधिकारिणः गौणपुत्राणां विशेषः कालदेशकर्तृणामेश्ये ग्राह्यद्रव्याणि वानि ग्राह्यफलादि श्राद्धे मांसविचारः कुशनिरूपणम् तिलनिरूपणम् अर्धपात्राणि भोजनपात्राणि अनुकल्पः ... ... ९१ विषयः १/ सव्यापसव्यनिर्णयः २ विप्रनिमंत्रणादि ४ | अग्नौकरणम् १२ परिवेषणम् भोजयितृनियमाः १३ यजमानजप्यानि १४ | यजुर्वेदजप्यानि ... १७ | तैत्तिरीयजप्यानि १८ वाजसनेयिनां जप्यानि १९ मैत्रायणीयानाम् कठानाम् २२ छन्दोगजप्यानि... २३ भोक्तृनियमाः २९ आचमनदानम् विकिरेतिकर्तव्यता ३. पिण्डदानम् ३१ पिण्डदानदेशः ४१ पिण्डदानस्थानकल्पना ४६ पिण्डपरिमाणम् ... ४९ दक्षिणादानम् ५०कातीयानां प्रयोगः ५२ संस्रवग्रहणम् ५५ तर्पणम् ५६ वैश्वदेवकालनिर्णयः १८ साग्नेर्वैश्वदेवकाल: ५९ असमर्थस्य संकल्पश्राद्धम् ६० श्राद्धे आमहेमादिविधिः ६२ श्राद्धे ऊहविचारः ६३ : एकोद्दिष्टम् ६५ . सपिण्डनम् " ... ९३ ... ... ... ... ... ... ९९ १०१ ... १०६ ११३ ११६ ११७ ११८ ... ... १२० ... वा ब्राह्मणाः... विभक्तिनिर्णयः १२६ १२७ ... ...

पृष्ठम्
...
...
विषयः
वृषोत्सर्गः
मृतशय्यादानम्...
-उदकुम्भदानम्
सपिण्डनम्
पृष्ठम्
विषयः
१३२ आभ्युदयिकश्राद्धम्
१३७ नित्यश्राद्धम्
१३९ संन्यासाश्राद्धम्
जीवच्छ्राद्धम्
...
...
...
१५७
...
इति श्राद्धमयूखस्थविषयाणामनुक्रमणिका.
अस्य मुद्रणावसरे गृहीतान्यादर्शपुस्तकानि.
१ एकमस्मत्पुस्तकालयस्थम् ।
२ द्वितीयं अहमद 'नगरस्थमार्तंडराव रामचंद्र देशमुखानां सुवर्णपाठकी
इत्युपाहमहादेवशास्त्रिभिः प्रेषितम् ।
३ तृतीयं 'सावंतवाडी 'नगरस्थैरात्माराम विष्णु अळवणी इत्येतैः प्रेषितम्
४. चतुर्थ काश्यां शिलाक्षरैर्मुद्रितम् ।
मुद्रणार्थं पुस्तकानि प्रेषितवतामुपकारभारं वहामीति सविनयं निवेदयति
प्रकाशकः।

श्राद्धमयुसन चतुर्थः ४. श्रीगणेशाय नमः यो लीलया संतनुतेऽत्र विश्वं तत्पालयत्यात्मनि विश्वरूपे । लयं नयत्याशु च पूर्णरूपः शिवं तनोत्वाशु रविममासौ ॥ १॥ जज्ञे पितामहतनोः खलु कश्यपो य- स्तस्मादजायत मुनिस्तु विभाण्डकाख्यः । तं पुत्रिणां धुरमरोपयहष्यशृङ्ग- स्तस्यान्वयेऽप्यनि शृङ्गिवराभिधानः ॥२॥ तस्मिन्वंशे महति वितते सनराख्ये नृपाणां राजा कर्णः समजनि यथा सागरे शीतरश्मिः । की| यस्य प्रथिततरया श्रोत्रजातेऽभिपूर्णे कर्णस्यापि प्रविततकथा नावकाशं लभन्ते ॥ ३ ॥ विशोकाख्यदेवस्ततस्तत्तोऽभूद्विशोकीकृता येन सर्वा धरित्री। ततोऽप्यास राजाऽस्तशत्रुस्ततोऽभूद्रयाख्यो रयेणैव सर्वाहितनः ।।४।। बभूवाथ वैराटग़जस्ततोऽभून्नृपो मेदिनीवल्लभो वीढराजः ॥ नरब्रह्मदेवस्ततो मन्युदेवस्ततोऽभून्नृपश्चन्द्रपालाभिधानः ॥ ५ ॥ शिवगणाख्यनृपः समजन्यथो शिवगणाख्यपुरं प्रचकार यः । शिवगणेन समः सकलैर्गुणैः शिव शिव प्रथमो गणनासु यः ॥६॥ रोलिचन्द्र इति तत्तनयोऽभूत्कर्मसेननृपतिस्तमथानु । लोकपो नरहरिनुपराजो रामचन्द्र इति तत्तनुजातः ॥ ७ ॥ यशोदेवस्ततो जातस्ताराचन्द्रनृपस्ततः । चक्रसेनस्ततो राजा राजसिंहनृपो यतः ॥ ८॥ ततोऽप्यभूपतिसाहिदेवः स्वकीर्तिभिर्निर्जितदुग्धसिन्धुः । अभूत्तत: श्रीभगवन्तदेवः सदैव भाग्योदयवान्क्षितीशः ॥ ९ ॥ यहानद्रविणाद्रिनिर्जितवपू रत्नाचलो लज्जया दूरे स्तब्ध इलावृते निविशते नो यत्र पुसां गतिः।।

श्रादमयूखः किंच त्रस्यदरातिवामनयनानेत्राम्बुभिर्वर्द्धित- स्तेजोग्निर्वडवामुखोत्थहुतभुक्तुल्यः कथं नो भवेत् ।। १० ।। आज्ञप्तस्तेन राज्ञा विबुधकुलमणिर्दाक्षिणात्यावतंसो भट्टः श्रीनीलकण्ठः स्मृतिषु दृढमतिजैमिनीयेऽद्वितीयः । आज्ञामादाय मूर्धा सविनयममुना तस्य सर्वान्निबन्धा- न्दृष्ट्वा सम्यग्विविच्य प्रविततकिरणस्तन्यते भास्करोऽयम् ॥११॥ तिथेर्मयूखं प्रतिपाद्य सम्यगाराध्य धामाऽथ गिरामगोचरम् । श्राद्धं वदत्यत्र स नीलकण्ठः संप्रेरितः श्रीभगवन्तवर्मणा ।। १२ ।। प्रतारकैराहतमत्र किञ्चिन्मया तु निर्मूलतया तदुज्झितम् । ऊनोक्तितातो नहि तेन काचित्खपुष्पहीनाऽपचितिर्न हीयते ॥१३।। श्राद्धलक्षणम् । मृतोद्देश्यको विप्रस्वीकाराङ्गको द्रव्यत्यागः श्राद्धम् । जीवच्छ्राद्धे देवश्राद्धे च तत्पदं गौणं कौण्डपाय्यग्निहोत्रपदवत् । विप्रस्वीकारव- त्त्वोत्या तर्पणनिवृत्तिः । यत्तु केचित्' त्यागाभावादेव तर्पणनिवृ- त्तिमाहुः । तन्न । द्रव्यदेवतासंयोगेनेन्द्रऊर्वोवर इति आधार- माघारयति, इत्यादिवत्त्यागकल्पनाया आवश्यकत्वात् । न ममेत्यभि- लापः परं नास्ति आचाराभावात् । यत्रैव यागाग्निहोत्रादावमिलापा- चारस्तत्रैव तादृशश्रुत्यनुमानम् न सर्वत्र । त्यागस्तु मानसः सर्वत्राप्य- विशिष्टः। नच देवताभावेन द्रव्यदेवतासंयोगाभावः । “देवतास्तर्पयति, इत्याश्वलायनादिसूत्रस्थदेवतापदेन तत्समर्पणान्। अङ्गकत्वोत्तया च विप्र- स्वीकृतेः श्राद्धस्वरूपघटकता व्यावय॑ते तेन तद्भावेऽपि प्रधानसिद्धिर- विहता । पिण्डदानस्य च प्राधान्यसिद्धिः । अन्यथा तस्य विप्रस्वीक- रणान्तत्वाभावेन प्राधान्यं न स्यात् । एतेन विप्रस्वीकारान्तो द्रव्य- त्यागः श्राद्धं पिण्डदानाग्नौकरणयोश्च तत्पदशक्यत्वमिति विरुद्धं प्रलपन्तः केचिदपास्ताः । अत एवाऽऽपस्तम्बसूत्रे "पितरो देवता ब्राह्मण- स्त्वाहवनीयार्थः" इति विप्रस्वीकृतेस्त्यक्तद्रव्यप्रतिपत्तित्वमाबनीयाधि- करणकहोमवदुक्तं संगच्छते । या तु ब्रह्माण्डे "देशे काले च पात्रे च श्रद्धया विधिना च यत् । पितॄनुदिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतम्" इति भोज्यान्नप्रतिपादनांशेन दानरूपता "पितृन् यजेत" इत्यादिस्मृत्य- न्तरे च यागरूपता व्यवहृता सा गौणीति केचित् । यागव्याप्यत्वेऽपि -- श्राद्धलक्षणम्। ३ श्राद्धस्य न काचित् क्षतिः । गौण्यां मानाभावात् । श्राद्धे च पित्रुद्देश्य- कान्नत्यागरूपत्वाद्विप्रभोजनपिण्डदानयोरेव प्राधान्यम् । तादृशान- त्यागरूपस्य फलसम्बन्धित्वेन तत्र तत्र वक्ष्यमाणत्वात् । एवमेव कपर्दि- धूर्तस्वामिप्रभृतयः । यत्तु तैः अग्नौकरणमपि प्रधानमुक्तं तत्र मूलं मृग्यम् । यत्तु प्राच्याः केचित्सङ्क्रान्त्यादिश्राद्धेषु पिण्डनिषेधः पर्युदासो वा प्राप्तिमपेक्षते सा चातिदेशेन चाङ्गानामेव, न प्रधानस्यातः पिण्ड- दानमङ्गमित्याहुः । तन्न । नातिदेशिक्येव प्राप्तिनिषेधस्य पर्युदासस्य वोपजीव्या । प्रधानत्वे हि तस्यापि श्राद्धपदशक्यत्वात्तद्विधिनैव प्राप्ते निषेधपर्युदासोपपत्तेः । अत उक्तयुक्त्या तदपि प्रधानम् । यत्तु कर्कानु- यायिनः 'पिण्डदानमेव प्रधानं नान्योऽन्नत्यागः' इति तदपि न । पित्रुद्देश्यकान्नत्यागस्यापि फलसंवन्धाविशेपात् । निषिद्धपर्युदस्तपिण्डके सङ्कान्त्यादिश्राद्धे प्रधानाभावेनाङ्गमात्रानुष्ठानप्रसङ्गाचेति दिक् । तच्च श्राद्धं पार्वणमेकोदिष्टं च। पार्वणं च दर्शश्राद्धमेव 'पर्वणि भवम्' इति योगात् । न च पर्वशब्दस्य सङ्क्रान्त्यादावपि सत्वात्तन्निमित्तके श्राद्धे तथा पूर्णिमाश्राद्धे तथामावास्यायां विशेषेण इति निगमवचनेन कृष्णपक्षश्राद्धस्यामावास्याख्यपर्वयोगात्तत्राप्यतिप्रसक्तो योग इति वा- च्यम् । अमावास्यायां यस्क्रियते तत्पार्वणमुदाहृतम् ' इति रूढिबोधनेन योगरूढत्वात् । सङ्क्रान्त्यादौ पर्वशब्दस्य गौणत्वाच्च । एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रचक्षते । त्रीनुद्दिश्य तु यत्तद्धि पार्वणं मुनयो विदुः ।। इति कण्ववचसि तु ब्युद्देश्यकश्राद्धमात्रे पार्वणशब्दः कौण्डपायन- होमे 'मासमग्निहोत्रं जुह्वति' इत्यग्निहोत्रशब्द इव गौणः । न च त्रीनुद्दिश्य तु यत्तद्धि' इत्यस्यापि रूढिबोधकत्वमेव इति वाच्यम् । दार्शिकेऽप्येतेनैव रूढिसिद्धरमावास्यायामित्यस्याऽऽनर्थक्यप्रसङ्गात् अतः पार्वणशब्दो दार्शिकस्यैव नामधेयमिति दर्शश्राद्धप्रकरण एव च मन्वादिस्मृतिषु धर्मपाठात् तदेव प्रकृतिः । अन्येषु तु धर्मानुक्तेर्वि- कृतित्वम् । आश्वलायनसूत्रानुसारिणां तु 'अथातः पार्वणेश्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे च ' इति तत्सूत्रेण चत्वारि श्राद्धानि प्रक्रम्य धर्मानानात् चतुर्णामपि समानविधानता । कातीयापस्तम्बसत्यापाढ- सूत्रानुसारिणां कृष्णपक्षश्राद्धं प्रकृतिः । तत्रैव धर्माम्नानात् । तदापि प्रकृतित्वमन्त्रष्टकादीन्प्रत्येव यत्र 'तस्य मासिश्राद्धेन कल्पो व्या- श्रादमयूखः ख्यातः' इत्यापस्तम्बादिसूत्रमस्ति । न्यायेन सर्वश्राद्धप्रकृतित्वे प्राप्त एवमादिसूत्रस्य परिसङ्खथार्थत्वात् । एतत्सूत्रपरिसंख्यातानां तु वापिका- दीनां दर्शश्राद्धविकृतित्वमिति निरणायि मया विस्तरेण मासि- श्राद्धपद्धतौ । अतो वार्षिकादिश्राद्धान्तरेषु चोदनालिङ्गेन पूर्वोक्त- काण्ववचनोक्तपार्वणनाम्ना , 'सपिण्डीकरणात्पूर्वमेकोदिष्टं सुतः पितुः । अर्व पार्वणवत्कुर्यात्प्रत्यब्दमितरेणतु' इति लौगाक्षिवचनेन वा दाशि- कातिदेशः । श्राद्धकालानाह याज्ञवल्क्यः- अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम्- द्रव्यब्राह्मणसम्पत्तिर्विषुवत्सूर्यसङ्कमः ॥ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः ॥ इति । अत्र न श्राद्धानुवादेन कालविधिः । याज्ञवल्क्यस्मृतौ श्राद्धस्य वच- नान्तरेणाप्राप्तेः । आवश्यकश्चास्यां स्मृतौ श्राद्धस्य विधिरनुवादो वा। अन्यथेतिकर्तव्यताम्नानवैयर्थ्यप्रसङ्गात् । अतोऽत्रामावास्यादिविशिष्ट- श्राद्धविधायकान्येतावन्ति वाक्यानि कल्प्यन्ते । तत्रामावास्या निर्माता समयमयूखे । अष्टका। " हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीवष्टकाः” इत्याश्च लाय- नोक्ताश्चतस्रः। भाद्रकृष्णाष्टमी च पञ्चमी । तथा च पाझे 'वसुनामा पिता स्वकन्यां शशापानुजग्राह च साऽटकाल्वेनोत्पन्ना' इत्युक्तेः- प्रौष्ठपद्यष्टका भूयः पितृलोके भविष्यति । आयुरारोग्यदा नित्यं सर्वकामफलप्रदा ॥ इति । अत्राशक्तावनुकल्पमाहाश्वलायनः । “ अप्यनडुहो यवसमाहरेद.. ग्निना वा कक्षमुपोषेदेषा मेऽष्टकति नत्वेवानष्टक: स्यात् " इनि । यवसमाईतृणम् । कक्षं शुष्कतृणम् । उपोप्रेदहेन् ! अथान्वष्टकाः। अष्टका उक्त्वाऽऽहाऽऽश्वलायन: अपरेशुरन्वष्टक्यम् ” इति । अत्र च नवम्या अपराव्यात्या न निर्णयः । तस्या निमित्तत्वाश्रुतेः ।

अथान्वष्टकाः। - - सर्वसूत्रस्मृतिषु ' उत्तरेारपरेयुः श्वोभूत ' इत्यष्टकोत्तरदिनस्यैवान्वष्ट कानिमित्ततया अवणाञ्च । कात्यायन:- अन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतम् । पित्रादि मातृमध्यं च ततो मातामहान्तकम् ॥ इति । आग्नेये- अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि । अत्र मातुः पृथक् श्राद्धमन्यत्र पतिना सह ॥ इति । हेमाद्रौ छागलेयः- केवलास्तु क्षये कार्या वृद्धावादौ प्रकीर्तिताः । अन्वष्टकासु मध्यस्था नान्याः कार्यास्तु मातरः ।। इति । तत्रैव ब्रह्माण्डे- पितृभ्यः प्रथमं दद्यान्मातृभ्यस्तदनन्तरम् । ततो मातामहेभ्यश्चेत्यान्वष्टक्ये क्रमः स्मृतः ।। इति । दीपिकायां तु 'मातृयजनं त्वन्वष्टकास्त्रादितः । इत्युक्तं तज्जीव- पितृकविषयं तस्य पितृपार्वणाभावात् इति कश्चित् । तत्तुच्छम् । क्रमानुपपत्तेः । शाखाभेदेन तु व्यवस्था युक्ता । तत्राप्याश्वलायनादीनां पितृपूर्वकम् । तत्सूत्रे तथाम्नानान् । अन्येषां तु मातृपूर्वकम् । अत्र सुवासिन्यपि भोज्या। भर्तुरग्रे मृता नारी सह वा तेन या मृता । तस्याः स्थाने नियुञ्जीत विप्रैः सह सुवासिनीम् ॥ इति स्मृतेः । इदं च नित्यम् । अष्टकान्वष्टकास्तिस्त्रस्तथैव च नृपोत्तमम् । एवानि श्राद्धकालानि नित्यानाह प्रजापतिः ॥ श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते । इति हेमाद्रौ विष्णुधर्मोत्तरात् । अत एवेदं स्वतन्त्रप्रधानं नाष्टकाङ्गम् । पूर्वेदाः श्राद्धं त्वष्टकाङ्गम् , फलवत्संनिधावफलं तदङ्गमिति न्यायात् । एष एव पितामहचरणानामप्याशयः । इदं च शूद्रानुपेताभ्यामपि कार्य- मिति वक्ष्यतेऽधिकारिनिर्णये । जीवत्पित्राऽपीदं कार्यम् । आन्वष्टक्यं गयाप्राप्तौ सत्यां यच्च मृतेऽहनि । मातुः श्राद्धं सुतः कुर्यात्पितर्यपि च जीवति ॥

'श्राद्धमयूखः - का Sin इति मैत्रायणीयपरिशिष्टात् । अकरणे प्रायश्चित्तमृग्विधाने- एभिर्युभिर्जपेन्मत्रं शतवारं तु तदिने । आन्वष्टक्यं यदा शून्यं संपूर्ण याति सर्वथा ॥ इति । भाद्रपदान्वष्टकाश्राद्धमप्यावश्यकम् । सर्वासामेव मातृणां श्राद्धं कन्यागते रवौ । नवम्यां हि प्रदातव्यं ब्रह्मलब्धवरा यतः॥ इति स्मृतेः । अत्र सर्वासामितिवचनात्सापत्नमातुरपि श्राद्धम् । तत्र मातृसापत्नमानोर्देवतात्वे विशेषो नारायणवृत्तावुक्तः- अनेका मातरो यस्य श्राद्धे चापरपक्षिके । अयंदानं पृथक्कुर्यात्पिण्डमेकं तु निर्वपेत् ।। द्वयोर्बहीनां च नामैक्ये द्विवचनान्तं बहुवचनान्तं चेति । श्राद्ध आन्वष्टक्ये । यत्तु पठन्ति- तमिस्रपक्षे नवमी पुण्या भाद्रपदे हि या । चत्वारः पार्वणाः कार्याः पितृपक्षे मनीषिभिः ॥ इति । तत्राकरश्चिन्त्यः । इदं च सधवाया एव मातुर्मरणे भवति । इति केचित् । वस्तुतस्तु अविशेषाद्विधवाया अपि मृताया भवति । यत्तु- श्राद्धं नवम्यां कुर्यात्तन्मृते भर्तरि लुप्यति । इति वचस्तदनाकरम् । एतच्च मातृक्षयाहश्राद्धवदविशेषाजीवत्पितृ- केणापि सपिण्डं कार्यम् । यत्तु जीवत्पितृकनिर्णये- मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः। न जीवरिपतृकः कुर्याद्गुर्वीणीपतिरेव च ।। इति दक्षवाक्यत्वेनालेखि तहक्षस्मृतौ निबन्धान्तरे चादर्शनादना- करम् । इत्यस्तु प्रसक्तानुप्रसक्तम् । प्रकृतां याज्ञवल्क्यवचोव्याख्यामनु- सरामः । वृद्धिः, पुत्रजन्म । एतानि च श्राद्धानि नित्यानि, अमावास्याव्यतीपातपौर्णमास्यष्टकासु च । विद्वान् श्राद्धमकुर्वाणः प्रायश्चित्तीयते तु सः ॥ इति पितामहोक्तेः। श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः । इन्दुक्षये मासि मासि वृद्धौ प्रत्यब्दमेव च ।। - अथान्वष्टकाः। इति लौगाक्षिवाक्याच । कृष्णः सर्वमासीयः नतु भाद्रपदस्यैव । अयनद्वयं मकरकर्कटसंक्रमणे । विषुवत्तुलामेषसंक्रमणे । संक्रमादयन- विषुवतोः पृथनिर्देशः फलभूमार्थः । द्रव्यं पायसादि । ब्राह्मणो वक्ष्य- माणलक्षणः । तयोः संपत्ती इति द्विवचनान्तः पाठ इति केचित् । एकवचनान्तः पाठः । द्रव्यब्राह्मणयोः सम्पत्तियस्मिन्काल इति बहुव्री- हिरिति माधवस्मृतिचन्द्रिकाकारौ ॥ 'द्रव्यम्' इति 'असमस्तम्' इति मिताक्षरायाम् । व्यतीपातः प्रसिद्धो योगः। श्रवणाश्विधनिष्ठाा नागदेवतमस्तके । यद्यमा रविवारेण व्यतीपातः स उच्यते ॥ इति वृद्धमनूक्तो वा । नागदैवतमाश्लेषा । मस्तकं, मृगशिरः । अव- णादिपञ्चानां चतुर्थपाद इति हेमाद्रौ । शास्त्रान्तरेऽपि- पञ्चाननस्थौ गुरुभूमिपुत्रौ मेषे रविः स्याद्यदि शुक्लपक्षे । पाशाभिधाना करमेण युक्ता तिथियंतीपात इतीह योगः ॥ पञ्चाननः, सिंहः । पाशाभिधाना द्वादशी । करभं हस्तः । गज- च्छाया त्वपरार्के वायुपुराणे- हंसे हस्तस्थिते या तु मघाऽशुक्ला त्रयोदशी । तिथिवैवस्वती नाम सा छाया कुंजरस्य तु ॥ इति । - हंसे हंसस्थिते या तु अमावास्या करान्विता । सा ज्ञेया कुजरच्छाया इति बौधायनोऽब्रवीत् ॥ हंसः सूर्यः । तद्देवतावत्वाद्धस्तनक्षत्रमपि । चन्द्रसूर्ययोहस्तस्थयोरिति फलितोऽर्थ इति हेमाद्रौ । स्मृत्यन्तरे- यदेन्दुः पितृदेवत्ये हंसश्चैव करे स्थितः । याम्या तिथिर्भवेत्सा हि गजच्छाया प्रकीर्तिता ॥ इति । पितृदेवत्यं मघा । हंसः सूर्यः। करो हस्तः । याम्या तिथिस्त्रयोदशी हस्तच्छाया इति स्मृतिचन्द्रिकायाम् । “एतद्धयेव पितृणामयनं यद्धस्ति- श्राद्धं तस्माच्छायायां श्राद्धं दद्यात् " इति काठकोक्तेः । “गजछायासु आद्धमयूखः - कुर्वीत कर्णव्यजनवीजिता" इति भारतोक्तेश्च। श्राद्धकालाःप्रकीर्तिता? इति गजच्छायालक्षितकालग्रहणादविरुद्धम् । ग्रहणं स्पर्शकालः । त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस्तथा । मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः ।। इति वृद्धवसिष्ठोक्तेः । श्राद्धं प्रति रुचिः इच्छा । ब्राह्मे- आषाढ्यामथ कार्तिक्यां माध्यां मन्वन्तरादिषु । युगादिषु च दुःस्वप्ने जन्मः ग्रहपीडिते ।। प्रौष्ठपदासिते पक्षे श्राद्धं कुर्वीत यत्नतः। मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने ।। कृष्णपक्षे च पूर्वेारान्वष्टक्यं तथाऽष्टमी । इति । तिस्रोष्टकास्तासु श्राद्धं प्रकुर्वीतैव पार्वणम् ॥ इति । युगादयो विष्णुपुराणे- वैशाखमासस्य तु या तृतीया नवम्यसौ कार्तिक शुक्लपक्षे । नभस्य मासस्य तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे ॥ माघे पञ्चदशी अमावास्या । 'द्वे शुक्ले द्वे तथा कृष्णे' इति चक्ष्यमाणवचनात् । देवल:- तृतीया रोहिणीयुक्ता वैशाखस्य मता तु या । मघाभिः सहिता कृष्णा नभस्ये तु त्रयोदशी।। नवमी कार्तिकस्यापि शततारकसंयुता । तथा तेनैव ऋक्षेण माघे पञ्चदशी युता ॥ युगादयः स्मृता ह्येता दत्तस्याक्षयकारकाः । इति । इह च तत्र योगायुगादिषु शुक्लादिरेव मासो ग्राह्यः । कृष्णा दिपक्षे उद्योगाभावात् । यत्तु ब्रह्मपुराणे- माघस्य पौर्णमास्यां तु घोरं कलियुगं स्मृतम् । इत्युक्तं तत्कल्पभेदेन ज्ञेयम् । नारदीये- द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः । शुक्ले पूर्वाह्निके ग्राह्ये कृष्णे चापराह्निके ।। - -- अथान्वष्टकाः। - अस्मिंश्च गोभूमिहिरण्यवस्त्र- दानेन सर्व प्रविहाय पापम् । शूरत्वमिन्द्रस्य सुहृत्त्वमेति मयोधिपत्यं लभते मनुष्यः ।। मात्स्ये मन्वादयः- अश्वयुक्शुक्लनवमी कार्तिके द्वादशी तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ।। फाल्गुनस्य त्वमावास्या पुष्यस्यैकादशी सिता। आषाढस्यापि दशमी माघमासस्य सप्तमी ।। श्रावणस्याष्टमी कृष्णा तथा माघी च पूर्णिमा । कार्तिकी फाल्गुनी चैत्री ज्येष्ठी पञ्चदशी सिता ।। मन्वन्तरादयश्चैता दत्तस्याऽक्षयकारकाः । अत्र विशेपानिर्देशे शुक्ला तिथिाह्या । जातूकमे:- ग्रहोपरागे च तथैव जाते पित्र्ये गयायामयनद्वये च। नित्यं च शङ्ख च तथैव पो दत्तं भवेनिष्कसहस्रतुल्यम् ॥ इति । 'नित्यं भवेद्दत्तम्' इत्यन्वयेन नित्यतेति चन्द्रिकायाम् । पित्र्यं मघा सा च महालयस्था । शङ्खोऽमावास्या। पद्ममष्टका । तथा च स एव- शङ्ख प्राहुरमावास्यां क्षीणसोमां द्विजोत्तम । अष्टका च भवेत्पद्मं तत्र दत्तं तथाक्षयम् ।। इति । यदा विष्टिव्यतीपाती भानुवारस्तथैव च । पद्मकं नाम तत्प्रोक्तमयनात्तु चतुर्गुणम् ।। इति शङ्खोक्तो वा पद्मः । देवल:- इन्दुक्षयो गजच्छाया मन्वादिषु युगादिपु । एते कालाः समुद्दिष्टाः पितृणां प्रीतिवर्द्धनाः ॥ इति । चतुर्दशीमिन्नासु द्वादशकृष्णपक्षगासु तिथियु क्रमात्कलान्याह याज्ञवल्क्यः कन्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि । घृतं कृषिश्च वाणिज्यं तथैकद्विशफानपि । - श्रादमयूखः - . ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरौप्ये सकुप्यके । जातिश्रेष्ठयं सर्वकामानाप्नोति श्राद्धदः सदा ।। प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥ इति । कन्यावेदिनो जामातरः । द्यूतं तत्र विजयः । एकशफाः अश्वादयः। कुप्यं ताम्रादि । हेमाद्रौ नागरखण्डे. अपमृत्युभवेद्येषां शस्त्रमृत्युरथापि वा । उपसर्गमृतानां च विषमृत्युमुपेयुषाम् ।। वह्निना च प्रदग्धानां जलमृत्युमुपेयुषाम् । सर्पव्याघ्रहतानां च शृङ्गेरुद्धन्धनैरपि । तेषां श्राद्धं प्रकर्तव्यं चतुर्दश्यां नराधिप । ब्रह्मपुराणे- युवानः पितरो यस्य मृताः शस्त्रेण वा हताः । तेन कार्य चतुर्दश्यां तेषां तृप्तिमभीप्सता ॥ प्रचेता:- वृक्षारोहणलोहाद्यैर्वियुज्ज्वालाविषाग्निभिः । नखिदंष्ट्रिविपन्नानामेषां शस्ता चतुर्दशी ॥ इति । मरीचि:- विषशस्त्रश्वापदादितिर्यग्ब्राह्मणघातिनाम् । चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता ॥ इति । विषादिभिर्घातो येषां ते घातिनः । यत्तु शाकटायनेनोक्तम् । जलाग्निभ्यां विपन्नानां सन्यासे वा गृहे पथि । श्राद्धं कुर्वन्ति तेषां वै वर्जयित्वा चतुर्दशीम् ॥ इति । तद्वैधमृत्युपरम् । ज्ञातिश्रेष्ठयं त्रयोदश्यां चतुर्दश्यां तु सुप्रजाः । प्रीयन्ते पितरश्चास्य ये वै शस्त्रहता रणे ॥ इति सौमन्तवचनमप्यवैधमरणविषयम् । अत्र " कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ” इति मनूक्तेश्चतुर्दशीवर्जनं दशमीमारभ्य श्राद्धा- नुष्ठाने ज्ञेयम् । अन्यथा वक्ष्यमाणमहालयश्राद्धगता षोडशसङ्ख्या व्यान्येत । अत एव- - अथान्वष्टकाः। ११ , नभस्यापरपक्षे तु श्राद्धं कार्य दिने दिने । नैव नन्दादि वयं स्यान्नैव वा चतुर्दशी । इति कार्णाजिनिवचोपि सङ्गच्छत इति माधवादयः । तातचरणास्तु, शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते । इति इतरदेवताबाधेन शत्रहतानां देवतात्वविधानात्तदभावे लुप्यते । यथाऽभ्युदयेष्टौ प्राकृतदेवताबाधाद्देवतान्तरस्य वा विधानादुपांशुयाजः । मानवकार्णाजिनीये अपि शस्त्रहतपितृकं प्रत्येव सङ्गच्छेते । मानवे “दशम्यादौ' इत्यादिपदेन पक्षान्तराणामपि ग्रहणम् । जीवपितृकाजीव- पितृकरूपभिन्नाधिकारिकामावास्यान्ततिथितदुत्तरप्रतिपद्गतश्राद्धेष्विव शस्त्राशस्त्रमृतपितृकरूपभिन्नाधिकारिकश्राद्धेष्वेव श्राद्धगता पोडश- सङ्खयोपपद्यत इति । अतो देवताभावे चतुर्दशीश्राद्धं लुप्यत इति युक्तम् उत्पश्यन्ति । एतेन चतुर्दश्यां शस्त्रहतेभ्य एवेति देवतानियमोऽपि सिध्यति न तु चतुर्दशीकालनियमः । 'अन्येषां तु विगहितम् । इति पूर्वोक्तमरीचिवचनाञ्च । अतोऽन्यस्मिन्नपि दिने शस्त्रहतानामशस्त्रह- तानां च भवत्येव श्राद्धम् । इदं चैकोदिष्टमेव कार्यम् । न पार्वणम् । समत्वमागतस्यापि पितुः शस्त्रहतस्य वै । एकोद्दिष्टं सुतैः कार्य चतुर्दश्यां महालये ।। इति सुमन्तुक्तेः । समत्वमागतस्य कृतसपिण्डनस्येत्यर्थः । पित्रादि- त्रय्यां द्वयोः शस्त्रादिना मृतावेकोद्दिष्टद्वयं कार्यम् । 'एकस्मिन्द्वयो- बैंकोद्दिष्टविधिः' इति स्मृतेः । अत्र 'एकस्मिन्द्वयोर्वा' इत्युक्त्या पित्रा- दिषु त्रिष्वपि शस्त्रहतेषु पार्वणमेव । अत्र माधवदेवखामिप्रभृतयः- “एकस्मिन्द्वयोः' इत्यस्य यथाश्रुतत्वे वाक्यमेदापत्यैतस्योपलमणत्वेन त्रिष्वपि शस्त्रहतेष्वेकोद्दिष्टत्रयमेव कार्यम् । शस्त्रहनने निमित्ते एको- दिष्टमात्रविधिपरत्वाद्वाक्यस्य । 'एकस्मिन्द्वयोः । इति तु " एक वृणीते द्वौ वृणीते' इत्यादिवदनुवाद इत्याहुः । वस्तुतस्तु " शस्त्रेण तु हता ये वै" इति शस्त्रहतदेवताविधिनैवैकस्यद्वयोर्वा शस्त्रादिमरणे एकोद्दिष्ट- स्यान्यथानुपपत्त्या प्राप्तेत्रिपु मृतेषु तु 'ऊर्ध्व पार्वणं कुर्यात्' इति सपिण्ड- नोत्तरभावित्वेन सामान्यवचनप्राप्तस्यापि पार्वणविधेरवाधात्पार्वणमेव कार्यम् । अतः 'एकस्मिन् ' इत्यादि पूर्वोक्तसौमन्तवन्यायप्राप्तस्यैवार्थ- स्यानुवादकं न विधायकं कस्यचिदर्थस्य । अपरार्कस्मृतिचन्द्रिका- . श्राद्धमयूखः . हेमायादीनामप्ययमेवाशयो लक्ष्यते। दिनान्तरे तु शस्त्रादिहतानामपि पार्वणमेव । तथा च प्रजापतिः- सङ्क्रान्तावुपरागे च पर्वोत्सवमहालये । निर्वपेदन पिण्डांस्त्रीनिति प्राह प्रजापतिः॥ इति । अथ काम्यश्राद्धानि । विष्णुधर्मोत्तरे- अतः काम्यानि वक्ष्यामि श्राद्धानि तव पार्थिव । आरोग्यमथ सौभाग्यं समरे विजयं तथा । सर्वकामांस्तथा विद्यां धनं जीवितमेव च ॥ आदित्यादिदिनेऽप्येवं श्राद्धं कुर्यात्सदा नरः । क्रमेणैतान्यवाप्नोति नात्र कार्या विचारणा ॥ इति । अथ नक्षत्रश्राद्धानि तत्फलं च मार्कण्डेयः- कृत्तिकासु पितृनय॑ स्वर्गमाप्नोति मानवः । अपत्यकामो रोहिण्यां सौम्ये त्वौजस्वितां लभेत् ।। आर्द्रायां शौर्यमाप्नोति क्षेत्रलाभः पुनर्वसौ । पुष्टिः पुष्ये पितॄनर्च्य आश्लेषासु वरान् सुतान् ।। मघासु स्वजनश्रेष्ठथं सौभाग्यं फाल्गुनीषु च । प्रदानशीलो भवति सापत्यस्तूत्तरासु तु ॥ प्राप्नोति श्रेष्ठतां सत्सु हस्ते श्राद्धप्रदो नरः। रूपवन्ति च चित्रासु तथाऽपत्यान्यवाप्नुयात् ॥ वाणिज्यलाभदाः स्वात्यो विशाखाः पुत्रकामदाः । कुर्वतामनुराधासु दद्युश्चक्रप्रवर्तनम् ॥ ज्येष्ठास्वर्थाधिपत्यं च मूले चारोग्यमुत्तरम् । आषाढासु यशःप्राप्तिरुत्तरासु विशोकता ॥ श्रवणे च शुभान् लोकान् धनिष्ठासु महाधनम् । वेदविद्याऽभिजिति तु भिषसिद्धिस्तु वारुणे॥ अजाविकं प्रोष्टपदे विन्देद्भार्या तथोत्तरे । रेवतीषु तथा रौप्यमश्विनीषु तुरङ्गमान् ॥

महालयः श्राद्धं कुर्वस्तथाऽनोति भरणीष्वायुरुत्तमम् । तस्मात्काम्यानि कुर्वीत ऋक्षेष्वेतेषु तत्ववित् ।। सौम्यं मृगशिरः । चक्रप्रवर्तनं सर्वत्राज्ञामनाभावः । अथ महालयः। तत्र प्रौष्ठपदीश्राद्धं तावदुक्तं ब्रह्मपुराणे-- नान्दीमुखानां प्रत्यब्द कन्याराशिगते रवी । पौर्णमास्यां तु कर्तव्यं वराहवचनं यथा ॥ पिता पितामहश्चैव तथैव प्रपितामहः । त्रयो ह्य श्रुमुखा ह्येते पितरः संप्रकीर्तिताः ।। तेभ्यः परतरे ये तु ते तु नान्दीमुखाः स्मृताः ॥ इति । अस्मिंश्च श्राद्धे मातामहपार्वणं नाचरन्ति शिष्टाः । यत्तु कश्चिदाह- सर्वश्राद्धानां दर्शविकृतित्वात्तत्र च मातामहानामप्येवमिति माता- महत्रयसद्भावादिहापि प्राप्तिः स्यादेव । “पितरो यत्र पूज्यन्ते तत्र मातामहा अपि" इति धौम्यवाक्येन वा प्राप्तिः । न च प्रौष्ठपदीश्राद्धे पित्रभावान्मातामहाननुष्ठानम् । पितरो यत्र पूज्यन्ते " इत्यत्र हि पितृशब्दः सपिण्डीकरणान्तश्राद्धजन्यपितृभावपरो न जनकपरः। तत्र वय॑त्वानुपपत्तेः । 'पित्रपितृसमुदाये पितृशब्दः' इति लक्षणायाश्च शक्त्याऽर्थलामेऽनभ्युपगमादिति । दृष्टश्च तत्रापि प्रयोगः । “ पितृ पात्रेषु प्रेतपानं प्रसेचयेत्” इत्यादौ । तस्माद्नुष्ठेयं मातामहपार्वणमिति । तन्न । यद्यपि कचित् पितृशब्दः सपिण्डीकरणान्तश्राद्धजन्यपितृभावपर- स्तथापि इह न तथा लिङ्गसमवायन्यायात्तु पित्रपितृसमुदायपरत्वमेव । कर्पूसमन्वितं मुक्त्वा तथाऽद्यं श्राद्धपोडशम् । प्रत्याब्दिकं च शेपेपु पिण्डाः स्युः पडिति स्थितिः ।। इति परिशिष्टे पर्युदासानुपपत्तेः । पोडशश्राद्धेषु त्वदुक्तरीत्या माता- महानामप्राप्तेः । ननु पोडशश्राद्धानामेकोद्दिष्टत्वपक्षे त्वपरपक्षेऽपि कथं प्राप्तिरिति चेत् । न, पितृणामुद्देश्यत्वेन तद्तविशेषणस्याविवक्षित- त्वात् । न चैवं चतुर्दश्यामपि मातामहप्राप्तिः शङ्कया । “ श्राद्धं शस्त्र- हतस्यैव " इत्येवकारेणेतरव्यावृत्तेः । किञ्च- आन्वष्टक्यं गयाप्राप्तौ सत्यां यच्च मृतेऽहनि । मातुः श्राद्धं सुतः कुर्यात्पितर्यपि च जीवति ॥ २ श्राद्धमयूखः इति जीवत्पितृकस्यान्वष्टकाश्राद्धे मातामहप्राप्तिः केन वार्येत । मात्रादिषु सपिण्डनान्तश्राद्धजन्यपितृत्वस्य विद्यमानत्वात् । यदुक्तं 'दर्शश्राद्धान्मातामहानां प्राप्तिः' इति तन्न । देवतान्तरविधिना प्राकृत- देवताबाधात् । अतो यत्र न देवतोपदेशः सङ्क्रान्त्यादिश्राद्धेषु तत्रैव प्राकृतदेवताप्राप्तिः न विहितदेवताकेष्विति सिद्धं प्रौष्ठपदीश्राद्ध मातामहाननुष्ठानम्। अथ प्रतिपदादिश्राद्धानि । तत्र बृहन्मनु:- आषाढीमवधि कृत्वा पञ्चमं पक्षमाश्रिताः । काङ्क्षन्ति पितरः क्लिष्टा अणुमप्यन्वहं जलम् ।। आषाढीमवधिं कृत्वा यः पक्षः पञ्चमो भवेत् । तत्र श्राद्धं प्रकुर्वीत कन्यास्थोऽकों भवेन्न वा ।। अत्राऽऽद्यश्लोकोत्तरार्द्धान्नित्यता। आषाढ्याः पञ्चमे पक्षे यः श्राद्धं न करिष्यति शाकेनापि दरिद्रोऽपि सोऽन्त्यजत्वमुपेष्यति ॥ इति नागरखण्डाच्च । काम्यताऽपि- पुत्रानायुस्तथाऽऽरोग्यमैश्वर्यमतुलं तथा । प्राप्नोति पञ्चमे दत्वा श्राद्धकामांस्तु पुष्कलान् ।। इति कार्णाजिनिस्मृतेः । आदित्यपुराणे- पक्षान्तरेऽपि कन्यास्थे रवी श्राद्धं प्रशस्यते । कन्यागते पञ्चमे तु विशेषेणैव कारयेत् ॥ इति । गौतमः- अपरपक्षे श्राद्धं पितृभ्यो दद्यात्पञ्चमादि दर्शान्तम् । अधम्माटि नमाम्यादि सर्वस्मिन्वा ॥ इति । - आदी मध्येऽवसाने वा यत्र कन्यां रविव्रजेत् । स पक्षः सकलः पूज्यः श्राद्धषोडशकं प्रति ॥ ब्रह्माण्डे- नभस्यकृष्णपक्षे तु श्राद्धं कुर्यादिने दिने । त्रिभागहीनपक्षं वा त्रिभागं त्वर्द्धमेव च ॥ इति । - प्रतिपदादिश्राद्धानि। - त्रिभागहीनः षष्ठीप्रभृतिः । त्रिभागएकादश्यादि । “तुशब्देन त्रयोदश्यादिरपि' इति प्राच्याः । तेन तन्मते चतुर्थीपञ्चमीषठ्यष्टमी- दशम्येकादशीत्रयोदशीप्रभृतीति सप्त पक्षाः । त्रिभागहीनत्रिभागप- दाभ्यामल्पान्तरतया पञ्चमीदशम्याद्योरेव पक्षयोग्रहणमिति केचित् । वस्तुतस्तु पञ्चम्यादिदशम्यादिपदयोरतद्गुणसंविज्ञानबहुव्रीहिजैकमूल- कल्पनालाघवाय षठ्येकादशीपक्षावेव गृह्यते । एवमर्द्धपदेनाष्टम्यादिः । तुशब्दः पादपूरक इति । अत एव हेमाद्रौ विष्णुधर्मोत्तरे- उत्तरादयनाद्राजन् श्रेष्ठं स्याद्दक्षिणायनम् । याम्यायनाच्चतुर्मासं तत्र सुप्ते तु केशवे ।। प्रौष्टपद्याः परः पक्षस्तत्रापि च विशेषतः । पञ्चम्यूचं तु तत्रापि दशम्यूर्व ततो यथा ।। इति । मघायुक्ता तु तत्रापि राजन्नुक्ता त्रयोदशी ।। इति । श्लोकगौतमः- कन्यागते सवितरि यान्यहानि तु पोडश । ऋतुभिस्तानि तुल्यानि सम्पूर्णतरदक्षिणैः ॥ इति । एते च पक्षाः शक्तितो व्यवस्थाप्याः । 'तिथिवृद्धौ षोडश साम्ये पञ्चदश' इति माधवः । 'प्रौष्ठपद्या सह' इति हेमाद्रिः तत्वंतु देवलआह- अहःषोडशकं यत्तु शुक्लप्रतिपदा सह । चन्द्रक्षयाविशेषेण सापि दर्शात्मिका स्मृता ।। इति । अत्र-नभस्यस्यापरे पक्षे तिथिषोडशकं तु यत् । कन्यास्थार्कान्वितः श्रेयान् स कालः श्राद्धकर्मणि ॥ इति शाठ्यायनिवाक्ये 'संख्यायुक्तेपु समुच्चयःस्यात्' इति न्यायेन तिथीनां श्राद्धे समुच्चयावगमात् । तस्य च श्राद्धावृत्तिं विनाऽनुपपत्तरेक- स्यैव श्राद्धस्य सायंप्रातरग्निहोत्रहोमस्येवावृत्तिः । तेनानेकदिनसाध्य एक एव श्राद्धप्रयोगः तेन ब्राह्मणदेशदक्षिणानामैक्यमिति केचित्। वस्तुतस्तु आदौ मध्येऽवसाने वा यत्र कन्यां रविजेत् । स पक्षः सकलः पूज्यः श्राद्धषोडशकं प्रति ।। इति कार्णाजिनिवाक्यात् 'तिस्र आहुतीर्जुहोति' इतिवत्कर्मणां भेद एव । यदि वाक्यान्तरप्राप्तमेकं श्राद्धमनूद्य तिथिसमुच्चयो विधीयेत ततो न भेदः स्यात् , प्रत्युत क्वोत्पत्तिः क गुणविधिरिति विनिगमनाविर- श्रादमयूखः १ - हाच्छाठ्यायनिवाक्यस्याप्युत्पत्तिपरतया समुचितानेकतिथिविशिष्ट श्रा- द्धविधौ ‘यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतोभवति । इत्यत्रेव समुचितानेककालविशिष्टकर्मविधिकृतभेदवदिहापि भेद एव युक्तः । एवं च देशब्राह्मणादीनामपि भेदो भवतीति दिक् । पूर्वोक्त- पञ्चम्यादिपक्षेष्वशक्तस्तु एकस्मिन्नपि दिने कुर्यात् । आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे । यो वै श्राद्धं नरः कुर्यादेकस्मिन्नपि वासरे। तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो ध्रुवम् ॥ इति हेमाद्रौ नागरखण्डोक्तेः । यत्तु निर्णयदीपिकायाम्-- मृताहनि पितुर्यों वै श्राद्धं दास्यति मानवः ।। इति द्वितीयमर्द्धमलेखि, यच्च कातीयत्वेनालेखि- या तिथिर्यस्य तातस्य मृताहे तु प्रवर्तते । सा तिथिः पितृपक्षेऽपि पूजनीया प्रयत्नतः ॥ तिथिच्छेदो न कर्तव्यो विनाऽऽशौचं यहच्छया । पिण्डश्राद्धं च कर्तव्यं विच्छित्ति नैव कारयेत् ।। अशक्तः पक्षमध्ये तु करोत्येकदिने यदि । निषिद्धेऽपि दिने कुर्यात्पिण्डदानं यथाविधि । इति तन्महानिबन्धेष्वलिखनान्निर्मूलम् । अतोऽनिषिद्धे यस्मि- कस्मिन्नपि दिने कार्य न तु निषिद्धेऽपि मृताहनीति नियमः । तञ्च नित्यम्- आषाढ्याः पञ्चमे पक्षे यः श्राद्धं न करिष्यति । शाकेनापि दरिद्रो वा सोऽन्त्यजत्वमुपेष्यति । इति तत्रैवाकरणे दोषश्रवणात् । अत्रानुपपत्तौ पक्षान्तरमाह यमः- हंसे वर्षासु कन्यास्थे शाकेनापि गृहे वसन् । पञ्चम्योरन्तरे दद्यादुभयोरपि पक्षयोः । इति ।। पक्षमध्ये कथंचिच्छ्राद्धे न जाते तु सुमन्तुः- कन्याराशौ महाराज यावत्तिष्ठेद्विभावसुः । तस्मात्कालाद्भवेद्देयं वृश्चिकं यावदागतः । इति ।

महालये निषिद्धकालः। - अथ महालये निषिद्धकालः। तत्र संग्रहश्लोकः । नन्दाश्वकामरव्यारभृग्वग्निपितृकालभे । गण्डे वैधृतिपाते च पिण्डास्त्याज्याः सुतेप्सुभिः॥ नन्दाः प्रतिपत्षठ्येकादश्यः । अश्वः सप्तमी । कामस्त्रयोदशी। आरो भौमः । अग्निपितृकालभानि कृत्तिकामघाभरण्यः । पातो व्यतीपातः । अत्र सप्तमीरविभौमभरणीगण्डवैधृतिव्यतीपातेषु मूलवचोऽन्वेष्यम् । वसिष्ठः- नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु । एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् ॥ त्रिजन्म जन्मभं ततो नवममेकोनविंशं चेति । यत्तु 'कर्तुश्च पुत्रदाराणां त्रिजन्माणि चिन्तयेत् । इति तत्राकरश्चिन्त्यः । नारद:- कृत्तिकायां च नन्दायां भृगुवारे त्रिजन्मसु । पिण्डदानं न कर्तव्यं कुलक्षयकरं यतः ॥ त्रिजन्मसु त्रिपादेषु नन्दायां भृगुवासरे । धातृपौष्णभयोः श्राद्धं न कर्तव्यं कुलक्षयात् ।। सकृन्महालये काम्ये पुनः प्राद्धेऽखिलेषु च । अतीतविषये चैवमेतत्सर्वं विचिन्तयेत् ॥ इति । वृद्धगर्ग:- प्राजापत्ये च पौष्णे च पित्रः भार्गवे तथा । यस्तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति ॥ इति । प्राजापत्यं रोहिणी । पौष्णं रेवती । पित्रः मघा । अस्यापवादो हेमाद्राविति प्रयोगपारिजाते- अमा पाते भरण्यां च द्वादश्यां पक्षमध्यके । तथा तिथि च नक्षत्रं वारं च न विचारयेत् ॥ इति । इदं च हेमाद्रिपुस्तकेषु न दृश्यते । महालयश्राद्धं चाधिमासे न कर्तव्यम्- नभो वाऽथ नभस्यो वा मलमासो यदा भवेत् । सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ।। इति नागरखण्डात् । पञ्चमसप्तमत्वे आषाढपूर्णिमातः । - - श्राडमयूखः - वृद्धिश्राद्धं तथा होममग्न्याधेयं महालयम् । राजाभिषेकं काम्यं च न कुर्यादानुलविते ।। इति भृगूक्तेश्च । तत्र विश्वेदेवास्तावद्धरिलोचनौ । तथा चादित्य- पुराणे- अपि कन्यागते सूर्ये काम्ये च धुरिलोचनौ ॥ कन्यागत इति कन्यासङ्कान्तिनिमित्तके श्राद्ध इति केचिन् । तदा तु महालये पुरूरवाईवावेव । पित्र्ये देवताक्रममाह बोपदेवः । ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं सस्त्रि स्त्रीतनयादि तातजननीस्वभ्रातरः सत्रयः। ताताम्बात्मभगिन्यपत्यधवयुग्जायापिता सद्गुरुः शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे ॥ इति । ताताम्बात्रितयं पित्रादित्रयं मात्रादित्रयं च । मातामहादित्रयं सस्त्रीति सपत्नीकमिति प्रयोज्यम् । अपत्यधवयुगिति सापत्यां सधवामि- त्यर्थः । अत्र पार्वणत्रयं कार्यम् । तथाच श्राद्धहेमाद्रौ- महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च । नवदेवत्यमत्रेष्टं शेष षाट्पौरुषं विदुः । इति समर्थस्य तु द्वादशदैवत्यम् । तथा च द्वैतनिर्णये निगमे- महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च । ज्ञेयं द्वादशदैवत्यं तीर्थे प्रौष्ठे मघासु च ॥ इति । क्रमान्तरं प्रघट्टके स्मृत्यन्तरे- आदौ पिता ततो माता सपत्नजननी तथा । मातामहाः सपत्नीकाः स्वपत्नी तदनन्तरम् ।। सुतभ्रातृपितृव्याश्च मातुलाश्व सभार्यकाः । दुहिता भगिनी चैव दौहित्रो भागिनेयकः ।। पितृष्वसा मातृष्वसा श्वशुरो गुरुरर्थिनः ॥ इति । क्रमान्तरं पारिजाते सङ्घहे- पितृमातृमातामहाः पितृव्यो भ्रातरः सुतः । पितृष्वसा मातुलश्च तद्भगिन्यः स्वजामयः ।। भार्याभगिन्यो दुहिता श्वशुरा भावुका स्नुपाः । - - भरणीश्राद्धम् १ - शालको गुरुराचार्यः स्वामी मित्रं यथाक्रमम् ॥ इति । स्वजामयः स्वभगिन्यः भावुका भगिनीपतयः । एतेषां क्रमाणामै- च्छिको विकल्पः । पित्रादिभिन्नानां तु महालये एकोद्दिष्टमेव, उपाध्यायोः गुरु श्वश्रूः पितृव्याचार्यमातुलाः । श्वशुरभ्रातृतत्पुत्रा ऋत्विशिष्यस्वपोषकाः । भगिनी स्वामिदुहितृजामातृभगिनीसुताः ।। इत्युपक्रम्य, सखिद्रव्यदशिष्याद्यास्तीर्थे चैव महालये । एकोद्दिष्टेन विधिना पूजनीयाः प्रयत्नतः ।। इति हेमाद्रौ पुराणोक्तेः । सुमन्तुरपि---- सपिण्डीकरणादूर्ध्वं यत्र यत्र प्रदीयते । भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च। मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम् ।। इति । सपत्नमातुरप्येकोदिष्टमेव । तथा तत्प्रक्रमे हेमाद्रौ जातूकमे:- सपिण्डीकरणादूर्ध्व पित्रोरेव हि पार्वणम् । पितृव्यभ्रातृमातृणामेकोद्दिष्टं न पार्वणम् । पार्वणं त्वभिनिवर्त्य एकोद्दिष्टं समापयेत् ।। पुलस्त्य:- महालये गयाश्राद्धे गतासूनां क्षयेऽहनि । तन्त्रेण अपणं कृत्वा श्राद्धं कुर्यात्पृथक् पृथक् ॥ इति । यत्तु- प्रदानं यत्र यत्रैषां सपिण्डीकरणात्परम् । तत्र पार्वणवत्कुर्यादेकोद्दिष्टं त्यजेद्धः ।। इति तदेतादृशैकोदिष्टविधिना बाधादेतब्यतिरिक्तविषयम् । बहुविप्रा- संभवे चतुर्विशतिमते- एकस्मिन्ब्राह्मणे सर्वानाचार्यादींस्तु पूजयेत् ॥ इति । अत्र भरणीश्राद्धे गयाफलम् । भरणी पितृपक्षे तु महती परिकीर्तिता। अस्यां श्राद्धं कृतं येन स गयाश्राद्धकृद्भवेत् ।। इति मात्स्यात् । महालये सप्तम्यादिपु त्रिदिनेषु माध्यावर्षाख्यं - श्राद्धयमयूखः -- श्राद्धम् । तथा चाष्टकान्वष्टकापूर्वेःश्राद्धान्युक्त्वाऽऽश्वलायन:- " एतेन माध्यावर्षे प्रौष्टपद्या अपरपक्षे" । इति । मध्ये वर्षासु भवं माध्यामित्यर्थः। हरदत्तस्तु माध्यावर्षमिति पपाठ। मघायुतवर्षासु भवं माव्यावर्षे ' मघाश्राद्धम् ' इति निर्णिनाय । अत्रत्या. टमीनवम्योरष्ठकान्वष्टकाश्राद्धे निर्णीते प्राक् । इयमेवान्वष्टकाऽक्षय. नवमी सौभाग्यनवमी तु व्यवह्रियते पामरैः । नत्वत्र कर्मभेदे प्रमाणं किंचिदस्ति । वैष्णवानां सन्यासिनां च महालय श्राद्धं द्वादश्यां कार्यम् । यतीनां च वनस्थानां वैष्णवानां विशेषतः । द्वादश्यां विहितं श्राद्धं कृष्णपक्षे विशेषतः ।। इति प्रतापमार्तण्डे संग्रहोक्तेः । सन्यासिनोऽग्यादिकादि पुत्रः कुर्याद्यथाविधि । महालये तु यच्छ्राद्धं द्वादश्यां पार्वणं भवेत् ।। इति तत्रैव वायवीयाच। अथ त्रयोदशीश्राद्धम् । मनु:-~यत्किञ्चिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् । तदप्यमय्यमेव स्यार्पासु च मघासु च ॥ इति । एतन्मधुदानं कलौ न कार्यम्- अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु । देवराञ्च सुतोत्पत्ति: कलौ पञ्च विवर्जयेत् ॥ इति निगमोक्तेः । एतच्च दिनान्तरगतास्वपि मघासु कार्य ' मघामु च' इति चकारात् । अत एव त्रयोदशीमघाश्राद्धयोर्भेदः । 'यदाने. योऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाऽच्युतो भवति' इत्यत्रेव चका- रादाग्नेययोर्भेदः । मघात्रयोदश्योोंगे तु फलाधिक्यम्- त्रयोदशी भाद्रपदी कृष्णा मुख्या पितृप्रिया। तृप्यन्ति पितरस्तस्याः स्वयं पञ्चशतं समाः॥ मघायुतायां तस्यां तु जलाद्यैरपि तोपिताः । तृप्यन्ति पितरस्तद्वद्वर्पाणामयुतायुतम् ॥ इति स्मृतिचन्द्रिकायां स्मृत्यन्तरात् । प्रौष्टपद्यामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्येत्युक्त्वा- - त्रयोदशीश्राद्धम् । - - प्रजामिष्टां यशः स्वर्गमारोग्यं च धनं तथा । नृणां श्राद्धे सदा प्रीताः प्रयच्छन्ति पितामहाः ॥ इति पारिजाते शङ्खोक्तेः । अत्र त्रयोदशीश्राद्धं नित्यमपि, प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी । इति कालानुक्त्वा- श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते । इति कालहेमाद्री विष्णुधर्मोत्तरात् । मघाश्राद्धे चाविभक्तानामपि पृथगधिकारः- विभक्ता वाऽविभक्ता वा कुर्युः श्राद्धं पृथक् पृथक् । मघासु च ततोऽन्यत्र नाधिकारः पृथग्विना ।। इति हेमाद्री स्मृतेः । इदं च गजच्छायेति निरणायि गजच्छाया- निर्णये प्राक् । मघात्रयोदशीयोगे विदं श्राद्धमधिमासेऽपि भवति । तथा च काठकगृह्ये- मघात्रयोदशीश्राद्धं प्रत्युपस्थितिहेतुकम् । अनन्यगतिकत्वेन कर्तव्यं स्यान्मलिम्लुचे । इति । केवलमघाप्रयुक्तं केवलत्रयोदशीप्रयुक्तं तु न भवति । शुद्धमासेऽपि तयोः संभवेन सगतिकत्वात् । अत एव 'प्रत्युपस्थितिहेतुकमनन्य- गतिकत्वेन ' इति च हेतुनिर्देशोऽपि सङ्गच्छते । यत्तु वामनपुराणे- त्रयोदश्यां तु वै श्राद्धं न कुर्यात्पुत्रवान् गृही ॥ इति । यञ्चाङ्गिराः- त्रयोदश्यां कृष्णपक्षे यः श्राद्धं कुरुते नरः। पञ्चत्वं तस्य जानीयाज्येष्ठपुत्रस्य निश्चितम् ॥ इति । तत्पुत्रवगृहस्थस्य मघायुक्तत्रयोदश्यां सपिण्डकश्राद्धनिषेधपरम् । अत एव प्रतापमार्तण्डे वृहत्पराशरः- मघायुक्तत्रयोदश्यां पिण्ड निर्वषणं द्विजः । ससन्तानो नैव कुर्यान्नित्यं ते कवयो विदुः ॥ इति । यत्तु हेमाद्रौ नागरखण्डे- असन्तानस्तु यस्तस्य श्राद्धे प्रोक्ता त्रयोदशी। सन्तानयुक्तो यः कुर्यात्तस्य वंशक्षयो भवेत् ।। इति । तदपि सपिण्डक श्राद्धनिपेधपरम् । यत्तु कार्यानिनि:- - श्राहमयूखः श्राद्धं नैवैकवर्गस्य त्रयोदश्यामुपक्रमेत् । न तृप्तास्तत्र ये यस्य प्रजां हिंसन्ति तस्य ते॥ इति । पितरो यत्र पूज्यन्ते तत्र मातामहा अपि। इति धौम्यवाक्येन मातामहप्राप्तावपि 'भ्रमप्राप्तकपार्वणनिषेधार्थम् । इति हेमाद्रिः । यत्तु ' भ्रमप्राप्तनिषेधे वचोवैयर्थ्याज्जीवन्मातृमातामह- वर्गकं प्रत्ययं निषेधस्तस्यैकवर्गयजनप्राप्तेरिति । तन्न, औत्तराद्धि- कार्थवादासङ्गतेः । युक्तं तु- यावत्किञ्चित्स्वगृह्योक्तं यस्य कर्म प्रचोदितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत्।। इति वाक्येन येषां सूत्रे मातामहा नानातास्तान्प्रति सामान्यतः प्राप्त- स्यैकपार्वणस्य निषेधार्थमिदमिति । अत्र मघात्रयोदशीयुगादिश्राद्वानां तत्रता महालयश्राद्धकरणपक्षे तु तेनैवैषां प्रसङ्गसिद्धिः । बहुदेवत्यत्वस- पिण्डत्वादिभिर्विशेषग्रहणात् महालयश्राद्धस्यापि तत्रलोक्तिस्तु कस्य चिन्मूर्खप्रलापत्वादुपेक्ष्या । इति महालयत्रयोदशी। अथात्र चतुर्दश्यामवैधमृतानामेकोदिष्टमुक्तं प्राक् । तत्र ‘विश्वेदेवा अपि भवन्ती' इति स्मृत्यर्थसारे प्रयोगपारिजाते च- प्रेतपक्षे चतुर्दश्यामेकोद्दिष्टं विधानतः । दैवयुक्तं तु तच्छ्राद्धं पितृणामक्षयं भवेत् । तच्छ्राद्धं दैवहीनं चेत्पुत्रदारधनक्षयः ।। इति । महालये चतुर्दशीश्राद्धं लुप्तं चेद्वृश्चिकदर्शनपर्यन्तं यस्मिन् कस्मिंश्चि- दिने एकोद्दिष्टविधिनैव कार्यम् । यथाप्राप्त एव गौणकालविधानान् । एतेन टोडरानन्दीया पार्वणोक्तिरपास्ता । अमायां रवी हस्तस्यौ चेत्सा गजच्छायेत्युक्तं प्राक् । मातामहश्राद्धम् । आश्विनसितप्रतिपदि मातामह श्राद्धमुक्तं हेमाद्रौ- जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले । 'कुर्यान्मातामहश्राद्ध प्रतिपद्याश्विने सिते ।। इति स्मृतेः । जातमात्रोऽधिकारी जात इत्यर्थः । "जायमानो वे ब्राह्मणस्त्रिभित्रणवा जायते " इत्यत्रेवाधिकारी जायमान इत्यर्थः । तेनोपनयनात्यागेतच्छ्राद्धानुष्टानमिदानीन्तनानां दुराचार एव । एतच सांवत्सरिकश्राद्धम् । २३ २ जीवत्पितृक एव कुर्यादिति साम्प्रदायिकाः । एतच्च सपिण्डकमेव कार्यम् । यत्तु- - - मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः । न जीवत्पितृकः कुर्याद्गर्विणीपतिरेव च ।। इति दक्षस्मृतिस्थमिति कश्चिल्लिलेख तदक्षस्मृतौ ग्रन्थान्तरे चाभावा- निर्मूलम् । यत्त्वस्याः सवव्यापित्वबोधकं वचः- प्रतिपद्याश्विने शुक्ले दौहित्रस्त्वेकपार्वणम् । श्राद्धं मातामहं कुर्यात्सपिता सङ्गवे सदा ।। इति तन्निर्मूलम् । सावत्सारकम् । क्षयाहस्य श्राद्धकालत्वमाह व्यास:- मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियतेऽहनि । प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुः ॥ इति । सन्यासिनां तु क्षयाहे पार्वणमेव नैकोदिष्टम् । तथा च प्रचेताः एकोद्दिष्टं यतेर्नास्ति त्रिदण्डग्रहणादिह । सपिण्डीकरणाभावात्पार्वणं तस्य सर्वदा ॥ इति । पातिथिविशेषतोऽपि पार्वणनियमो मिताक्षरायां स्मृतौ- अमावास्या क्षयो यस्य पितृपक्षेऽपि वा पुनः । पार्वणं तत्र कर्तव्यं नैकोद्दिष्टं कदाचन ।। इति । इदं च 'अनाकरम्' इति विज्ञानेश्वरः । शंखस्मृतिर्मूलमिति माधवः । शिष्टाचारोऽप्येतद्वाक्यानुसारी। अमावास्या महालयभिन्नक्षयाहे। संन्या-- सिभिन्नानां पार्वणैकोद्दिष्टयोर्विकल्पः । वचनद्वैविध्यात् । तथाच शातातप:- सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा । प्रतिसंवत्सरं विद्वान् छागलेयोदितो विधिः ॥ इति । यमस्तु- सपिण्डीकरणादूर्ध्व प्रतिसंवत्सरं सुतैः । मातापित्रोः पृथक् कुर्यादेकोदिष्टं क्षयेऽहनि ॥ इति । अत्र 'कुलाचाराव्यवस्था' इति मिताक्षरायाम् । आदिकादिपु मातामहपर्युदासमाह कात्यायन:- आडमयूखः। - कसमन्वितं मुक्त्वा तथाऽऽयं श्राद्धषोडशम् । प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडिति स्थितिः ॥ इति। कसमन्वितं सपिण्डनम् । तत्र कसंज्ञकगर्तविधानात् । इति श्राद्धकालाः। क्षयाहाज्ञाने तु क्षयाहश्राद्धं प्रकृत्याऽऽह बृहस्पतिः- न ज्ञायते मृताहश्चेत्प्रमीते प्रोषिते सति । मासश्चेत्प्रतिविज्ञातस्तद्दशैं स्यान्मृतानि ।। 'तद्दर्श एव मृताहनि' इति सामानाधिकरण्यम् । तदर्श एव मृताह इत्यर्थः । मरीचिस्तु- श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि । एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः ॥ इति । अमावास्यैकादश्योस्तु विकल्पः । 'विशेषतः' इत्युक्त्या शुक्लपक्षेऽपीति हेमाद्रिः । दिनाज्ञाने मासाज्ञाने च भविष्यपुराणे- दिनमेकं न जानाति मासं नापि कदाचन । कार्य तेन अमायां वै श्राद्धं माघेऽथ मार्गके ।। कदाचन न जानातीत्यनुषङ्गः । प्रस्थानमासतदिनज्ञाने तु तदेव ग्राह्यम् । तथा च बृहस्पतिः- दिनमासौ न विज्ञातौ मरणस्य यदा पुनः । प्रस्थानदिनमासौ तु ग्राह्यौ पूर्वोक्तया दिशा ॥ इति । प्रास्थानिकमासदिवसाज्ञाने तु भविष्योत्तरे " मृतवार्ताश्रुतेाद्यौ पूर्वोक्तक्रमेण तु ।" इति । मरणाश्रवणे तु जातूकर्ण्य:- पितरि प्रोषिते यस्य न वार्ता नैव वाऽऽगतिः। ऊ_ पञ्चदशाद्वर्षात्कृत्वा तत्प्रतिरूपकम् ॥ कुर्यात्तस्य च संस्कारं यथोक्तविधिना ततः । तदादीन्येव सर्वाणि प्रेतकार्याणि संचरेत् ॥ इति । अत्र प्रोषित इत्येव विवक्षितं तेन तद्विशेषणं पितरीत्यविवक्षितम् । अनुवाद्यविशेषणत्वात् । तदादीन्येव दाहदिनप्रभृतीन्येव संचरेत्कुर्या- दित्यर्थः । एवं च दाहदिनमेव क्षयाहस्थानापन्नमिति तात्पर्यम् । वृद्ध- बृहसतिः- - - सांवत्सरिकादम्। - यस्य न श्रूयते वार्ता यावहादशवत्सरम् । कुशपुत्रकदाहेन तस्य स्यादवधारणम् ॥ प्रेतक्रियोत्तरमागते विशेषो वृद्धमनुना दर्शित:- प्रोपितस्य यदा कालो गतश्चेद्वादशाब्दिकः। प्राप्त त्रयोदशे वर्षे प्रेतकार्याणि कारयेत् ॥ जीवन्यदि स आगच्छेत् घृतकुम्भे नियोजयेत् । उद्धृत्य नापयित्वाऽस्य जातकर्मादि कारयेत् ॥ द्वादशाहं व्रतं कुर्यात्रिरात्रमथवाऽस्य तु । स्नात्वोद्वहेत्ततो भार्यामन्यां वा तदभावतः । अग्नीनाधाय विधिवद्वात्यस्तोमेन वा यजेत् ॥ अथैन्द्राग्नेन पशुना गिरिं गत्वा च तत्र तु । इष्टिमायुष्मती कुर्यादीप्सितांश्च ऋतूंस्ततः ।। इति । आशौचेन श्राद्धप्रतिबन्धे विशेपः पत्रिंशन्मते- मासिकाब्दे तु संप्राप्ते अन्तरा मृतसूतके । कार्य वदन्ति शुद्धयन्ते दशैं वाऽपि विशेषतः ॥ इति । विशेषत इत्युक्त्या शुक्लपक्षोऽप्यनुज्ञायत इति हेमाद्रिः । अत्रिः- तदहश्चेत्प्रदुष्येत केनचित्सूतकादिना ॥ सूतकानन्तरं कार्य पुनस्तदहरेव वा ॥ इति । तदहरुत्तरमासगते तस्मिन्नेव दिन इत्यर्थः । अत्राशौचान्त आद्यः मुख्यकालप्रत्यासत्तेः । ततो दर्शः। ततः कृष्णैकादशी । ततः शुक्ला । तत उत्तरमासे तदहरिति हेमाद्रिः । केचित्तु पुनस्तदहरेव वेति पक्षो मासिकपरो न त्वनुमासिकपरोऽपि । एकोद्दिष्टे तु संप्राप्ते यदि विघ्नः प्रजायते । अन्यस्मिंस्तत्तिथौ तस्मिन् श्राद्धं कुर्यात्प्रयत्नतः ।। इति देवलेनैकोदिष्ट एव मासान्तरस्थतदहर्विधानात् । एकोद्दिष्टत्वं तु मासिकानामेव न त्वनुमासिकानामिति । अन्यस्मिन्मासान्तरे तत्तिथौ मरणतिथौ तस्मिन्कृष्णे शुक्ले वेत्यर्थ इत्याहुः । वस्तुतस्तु आब्दिकस्य पूर्वमेकोद्दिष्टरूपत्वमप्युक्तम् । अनुमासिकानामपि तानि प्रक्रम्य 'यो यथा वार्षिकं कुर्यात्तथा कुर्यात्स तान्यपि ' इतिवाक्येनैकोद्दिष्टरूपता स्पष्टा । अतो वार्षिकमासिकानुमासिकानि यदैकोद्दिष्टरूपाणि क्रियन्ते ३ २६. श्रादमयूखः तदा मासान्तरस्थतत्तिथौ कार्याणि । यदा तु पार्वणानि तानि तदा मृततिथिदर्शकृष्णशुक्लैकादश्यः कालाः । यदपि- देये पितॄणां श्राद्धे तु आशौचं जायते यदा । आशौचे तु व्यतिक्रान्ते तेभ्यः श्राद्धं प्रदीयते ॥ इति ऋष्यशृङ्गोक्तराशौचान्तमात्रपरत्वान्न तद्विपयो मासान्तरगत- तिथिरूपः काल इत्याहुः । तन्न, पूर्वोक्तात्रिवचने आशौचविने मासा- न्तरगततत्तिथिरूपकालोक्तिविरोधात् । यदपि माधवनृसिंहो 'मासिक- माशौचे सति तदन्ते आशौचभिन्नविने पुनस्तदहरेव । पत्रिंशन्मत- वचोगतमासिकपदं त्वनुमासिकपरम् । अत आशौचे सति तदनुमा- सिकमाब्दिकं वा, तदन्ते दर्शे कृष्णायां शुक्लायामेकादश्यां वा, इति चत्वारः पक्षा इत्यातुः । तदप्यनेनैव परास्तम् । प्रमाणाभावाच । हारीत:- श्राद्धविन्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् । आमावास्यादि नियतं माससंवत्सराहते ॥ इति माससंवत्सरान्मासिकसांवत्सरिकांत् । एतद्भिनं नियतं नित्य- मामावास्याद्यामेन कार्यमित्यर्थः। श्राद्धविन्नोऽत्र पत्नीरजोदर्शनम् , अपत्नीकः प्रवासी च भार्या यस्य रजस्वला । सिद्धान्नेन न कुर्वीत आमं तस्य विधीयते ।। इत्युशनोवाक्यात् । आमाभावे तु व्यास:- द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि । हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला । इति ॥ इदं चामान्नहेमविधानममावास्यादिश्राद्धविषयम् । क्षयाहश्राद्धं तु रजोदर्शनात्पञ्चमदिने कार्यम्- मृतेऽहनि तु संप्राप्ते यस्य भार्या रजस्वला । श्राद्धं तत्र न कर्तव्यं कर्तव्यं पञ्चमेऽहनि ॥ इति श्लोकगौतमोक्तेरेतदानुपूर्वीकस्मृत्यन्तराञ्च । यत्तु हेमाद्रिः-'भर्तुः पत्न्या सह श्राद्धाधिकाराद्रजोदर्शनेन तस्या अधिकारप्रतिवन्धे भर्नु रप्यनधिकारात्प्रतिबद्धं श्राद्धं कदा कार्यमित्याकाङ्कायां पञ्चमदिनवि. धिः । इत्याह । तन्न । यदा हि पत्युः पत्न्याश्चाऽहवनीयत्वादिकाम- नयाऽऽधानेऽधिकारः सिद्धस्तदा क्लमपतिविद्ययैव कर्मनिर्वाहे तस्या - सांवत्सरिकादम्। अक्लृप्तविद्याकल्पनपरिजिहीर्षया सहाधिकार उपपद्यते । तस्या आहव- नीयत्वाद्यकामनायां तु न सहाधिकारः । भधिकारिके केवलमाज्यावे- क्षणादौ कर्तृत्वमानं तस्या अध्वर्खादेरिव होमादौ । एवमाहवनीयादिसा- ध्येषु दर्शपूर्णमासादिष्वपि पत्न्याः फलकामनायां सहाधिकारः । तद्- भावे तु पत्युरेवाधिकारः। पत्न्यास्तु केवलमाज्यावेक्षणादौ कर्तृत्वमा- त्रं नाधिकारः । मण्डनोक्ते 'तुल्य एवाधिकारः स्यात् , अधिकारेऽपि वैषम्यम् इत्यधिकारगते साम्यवैषम्योक्ती अप्येतदभिप्राये एव । न च भर्तुः कामनाभावेनानधिकारे पत्न्याश्च तत्सत्त्वेनाधिकारे पति विना तस्या एव केवलं प्रयोगोऽस्त्विति वाच्यम् । अपूर्वविद्याकल्पनगौरवात् । पत्युस्तु रोगनाशेष्टयादाविव तस्या अधिकारं विनाऽप्यप्रतिषिद्धोऽधिकारः। फलस्वाम्यधिकारिपर्यायपतिशब्दादुत्पन्ननादेशङीप्प्रत्ययाभ्यां पत्नीशब्दसिद्धेर्यस्मिन् प्रयोगे तस्या आज्यावेक्षणादिकर्तृत्वं तनिरूपित एवोपस्थितिलाघवात्पत्नीशब्देनाधिकारो गम्यते इति वाच्यम् 'पत्नी भर्तुर्धनहरी, पत्नी दुहितरश्चैव, असुताश्च पितुः पन्यः' इत्यादिषु पत्नी- शब्दस्य फलस्वाम्ययोग्यतामात्रे दर्शनात्पत्यू रोगनाशेष्टयादौ च तस्याः फलोपधानासंभवेन योग्यतामात्रस्यावश्यमङ्गीकार्यत्वात्सर्वत्र योग्यत- यैव निर्वाहः । तदवच्छेदकं तूढात्वमेव । किंच-सर्वत्रापि भुज्यमान एव फले तत्स्वाम्यरूपाधिकारः फलोपहितः । क्रतुप्रयोगादौ तु तद्योग्य- तामात्रमेव न फलोपधानम् । योग्यतावच्छेदके परमननुगमः । यथा बृहस्पतिसवे ब्राह्मणत्वं राजसूये क्षत्रियत्वम् , एवमिहोढात्वमिति न कश्चिद्विशेषः । निरणायि चेदं मयाऽध्ययनवादे सप्रपञ्चमिति नेह विस्तरः । पत्यधिकारिकेषु तु तत्पितृमातृभ्रात्रादिदेवत्येषु तस्या अन- धिकारः। प्रतिसंवत्सरं कार्य मातापित्रोद॒तेऽहनि । पितृव्यस्याप्यपुत्रस्य भ्रातुज्येष्ठस्य चैव हि ॥ इति ससम्बन्धिकार्थकपितृमात्रादिपदगर्भदेवीपुराणादिवचसा तां प्रत्यप्रवृत्तेः । अधिकाराभावे च तद्गतं साहित्यं गर्भस्रावेणैव गलितम् । "पाणिग्रहणाद्धि सहत्वं कर्मसु तथा पुण्यफले च " इति स्मृतिस्तु दार्श- पौर्णमासिकादौ सहाधिकारमेवानुवदति नान्यत्र विधत्ते । अतः पूर्वो- क्तवचनेनैव क्षयाहदिनबाधः । पञ्चमदिनविधिश्च न सहाधिकारवलेन । अत्र कालादर्शानुयायिनः- श्राद्धमयूखः । .. -- - अपुत्रा तु यदा भार्या संप्राप्ते भराब्दिके । रजस्वला भवेत्सा तु कुर्यात्तत्पञ्चमेऽहनि ॥ इति कालादर्शलिखितश्लोकगौतमवाक्यस्य मृतश्राद्धाधिकारिणी भार्या प्रति प्रवृत्तेस्तदेकमूलकल्पनालाघवेन 'मृतेऽहनि' इत्यत्रापि यस्य की भार्येति व्याख्येयमित्याहुः । माधवस्तु मतद्वयमपि लिलेख न तु किञ्चिन्निर्णिनाय । तातचरणास्तु 'मृतेऽहनि । इति वचः पितृ. मातृभ्रातृपितृव्यादिमासिकाब्दिकोभयपरम् । ' अपुत्रा तु ' इति श्लोक- गौतमीयं तु भाब्दिकमात्रपरम् । अतो भिन्नविषयतया नैकमूलतासं- भव इत्याहुः । अयं च तेषामाशयः- श्राद्धविन्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् । अमावास्यादिनियतं माससंवत्सराहते ।। इति हारीतपर्युदस्तयोर्मासिकसांवत्सरिकयोरामश्राद्धाभावे निर्णया- काढायाम् 'मृतेऽहनि ' इत्येतदुभयविषयं नाब्दिकमात्रे श्लोकगौतमी- येनोपसंहर्तुं शक्यम् । मम तु प्रतिभाति-कालादर्शादावनयोर्द्वयोरपि वाक्ययोः श्लोकगौतमीयतया लिखनानोपसंहारो युक्तः, सामान्यवच- नानर्थक्यापत्तेः। ननु नेदं वाक्यद्वयं किंत्वेकस्मिन्नेव वाक्ये पाठद्वयमात्रम् । तत्र अपुत्रा तु यदा' इति पाठपक्षे 'मृतेऽहनि ' इत्येतत्पाठतुल्यानुपूर्वीक स्मृत्यन्तरवाक्यं कथं नोपसंह्रियते इति चेत् । शृणु । एतत्पाठद्वयमपि प्रमाणत्वात्समुच्चीयते संदिग्धत्वाद्विकल्प्यते वा ? नाद्यः, स्मृत्यन्तर- वाक्यस्योपसंहारेऽपि एतत्समानार्थकस्य मृतेऽहनीत्यादेः सामान्यप- ठेतस्याऽऽनर्थक्यापत्त्या तदयोगात् । नान्त्यः । स्मृत्यन्तरसंवादेन मृतेऽहनि' इत्येतत्पाठस्यैव प्रामाण्यनिश्चयात् ' अपुत्रा तु यदा' इत्यादेः पाठस्य त्वप्रामाणिकत्वात् । यत्तु लौगाक्षिः- पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः। अन्नेनैवाब्दिकं कुर्याद्धेम्ना वाऽऽमेन न कचित् ॥ इति । तद्दाराणां पुष्पवत्त्वे निमित्ते वाक्यान्तरप्राप्ते पञ्चमदिनरूपे काले- ऽन्नेनैव कुर्यादित्येवमामहेमपरिसङ्ख्यामात्रार्थ न मृततिथिरूपकाल- विध्यर्थम् । यच्चैतस्यैवार्थस्य संग्राहक पौरुषेयं वाक्यम्- विदेशगो वा विगताग्निको वा रजस्वलायामपि धर्मपत्न्याम् । - पिण्डदाने कालनिषेधः। - श्राद्धं मृताहे विदधीत पाकै- र्नामेन हेना न तु पञ्चमेऽह्नि ॥ इति । तदपि मृताहे रजस्वलायां धर्मपत्न्यां सत्यां श्राद्धं नामेन हेना न। पञ्चमेऽह्नि तु पाकैर्विदधीत, इत्येवं व्याख्येयम् । यत्तु पारिजातादौ- [ रजस्वलायां भार्यायां क्षयाहं यः परित्यजेत् । स वै नरकमाप्नोति थावदाभूतसंप्लवम् ॥] मासिकानि सपिण्डानि आमावास्यं तथाब्दिकम् । अन्नेनैव तु कर्तव्यं यस्य भार्या रजस्वला ॥ इति । तदप्यनापद्यामहेमपरिसंख्यामात्रार्थम् । आब्दिकं तु पञ्चमेऽह्नि अन्नेनैवेति सर्व शिवम् । ग्रहणे भोजननिषेधप्रयोजकवेधमध्ये ग्रहणकाले चाऽऽब्दिकश्राद्धप्राप्तौ भोक्तवाह्मणलाभेऽन्नेनैव कार्य तद्लामे आमेन हेना वा। तथाच गोभिल:- दर्शे रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम् । अन्नेनासंभवे हेम्ना कुर्यादामेन वा सुतः ॥ इति । अत्र ग्रहे प्रत्याब्दिकमुपस्थितमित्येवोद्देश्यसमर्पकम् । तेन रविन पित्र्यतिरिक्तस्यापि चन्द्रग्रहेऽपि पित्रादीनां सर्वेषामन्नादिभिर्यथासंभ विहितमेव कार्यम् । एवं मासिकमपि न्यायसाम्यात् । यत्तु पठन्ति, 'ग्रहणात्तु द्वितीयेऽह्नि रजोदोषात्तु पञ्चमे' इति तन्निर्मूलम् । अथ श्राद्धे कालनिषेधः। स्कान्दे-उपसन्ध्यं न कुर्वीत पितृपूजां कथञ्चन ॥ इति । विष्णु:- सन्ध्याराग्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः । तयोरपि च कर्तव्यं यदि स्यादाहुदर्शनम् ॥ इति । सन्ध्यामाह योगियाज्ञवल्क्यः- उदयात्प्राक्तनी सन्ध्या मुहूर्तद्वयमुच्यते । सायंसन्ध्या विघटिका ह्यस्तादुपरि भास्वतः॥ अथ पिण्डदाने कालनिषेधः । ब्रह्मपुराणे- यदा च श्रोत्रियोऽभ्येति गृहं वेदविदग्निचित् । तेनैकेन तु कर्तव्यं पिण्डनिर्वपणाहते ॥

३० श्राद्धमयूखः - - बृहत्पराशरः- युगादिषु मघायां च विषुवेऽप्ययनेऽथ वा । भरणीषु च कुर्वीत पिण्डनिर्वपणं नहि ।। इति । कृत्यरत्ने वृद्धगार्ग्य:- पौर्णमासीषु सर्वांसु निषिद्धं पिण्डपातनम् । वर्जयित्वा प्रौष्ठपदी यथा दर्शस्तथैव सा ॥ इति । अस्य समूलत्वं विमृश्यम् । ज्योतिःपराशरः- विवाहे विहिते मासास्त्यजेयुादशैव हि । सपिण्डाः पिण्डनिर्वापं मौजीबन्धे षडेव हि ॥ इति । क्वचित्प्रतिप्रसवमप्याह स एव- महालये गयाश्राद्धे मातापित्रोः क्षयेऽहनि । यस्य कस्यापि मर्त्यस्य सपिण्डीकरणे तथा । कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सदा ॥ इति । अपिण्डके स्वधावाचनमपि प्रतिषेधति वृद्धशातातप:- पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते । स्वधावाचनलोपोऽत्र ॥ इति । इति पिण्डदाननिषेधकालः । अथ श्राद्धदेशाः। विष्णुधर्मोत्तरे- दक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽपि वा। भूसंस्कारादिसंयुक्ते श्राद्धं कुर्याद्विचक्षणः ।। दक्षिणाप्रवणे दक्षिणतोऽवनते । भूसंस्कारो मार्जनलेपनादिः। शङ्कः- गोगजाश्वादिजुष्टेषु कृत्रिमायां तथा भुवि । न कुर्याच्छ्राद्धमेतेषु पारक्याशुचिभूमिपु ।। कृत्रिमायामट्टालिकादौ ।पारक्यासु परगृहीतासु ताश्व गोष्ठारामादयो न पुनस्तीर्थादिस्थानानि । तथाचादित्यपुराणे- अटवी पर्वताः पुण्या नदीतीराणि यानि च । सर्वाण्यस्वामिकान्याहुन हि तेषु परिग्रहः ॥ इति । श्राद्धस्य पूजितो देशो गया गङ्गा सरस्वती । कुरुक्षेत्रं प्रयागं च नैमिषं पुष्करं तथा ॥ - श्रादाधिकारिणः । १ - व्यास:-पुष्करेष्वक्षयं श्राद्धं जपहोमतपासि च । महोदधौ प्रयागे च काश्यां च कुरुजाङ्गले ॥ इति ब्रह्माण्डपुराणे श्राद्धकल्पे चतुर्दशेऽध्याये- त्रिशङ्कोर्वर्जयेद्देशं सर्व द्वादशयोजनम् । उत्तरेण महानद्या दक्षिणेन च कैकटम् ।। देशस्त्रैशङ्कवो नाम वज्यों वै श्राद्धकर्मणि । इति कचित्पाठः । महानदी फल्गूस्तस्यास्तीरे प्रत्येकं द्वादशयोजनानि कैकटमित्यर्थः । इति श्राद्धदेशाः। अथ श्राद्धाधिकारिणः। शङ्खकात्यायनी पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया। पुत्राभावे तु पत्नी स्यालन्यभावे तु सोदरः ।। पुत्रग्रहणं पौत्रप्रपौत्रयोरुपलक्षणम् । यथाह विष्णु:- पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः । सपिण्डसन्ततिर्वापि श्राद्धाही नृप जायते ।। इति । --- - - पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥ इति । पुत्रप्रतिनिधीन् दत्तकादीन् । क्रियालोपाक्रियालोपभयादित्यर्थः । औरसादीन द्वादशपुत्रानुपक्रम्य याज्ञवल्क्योऽपि- १ तेच- भौरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः । क्षेत्रजो क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥ गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः । कानीनः कन्यकाजातो मातामहमुतः स्मृतः॥ अक्षतायां शतायां वा जातः पौनर्भवस्तथा। दद्यान्माता पिता वाज्यं स पुत्रो दत्तकः सुतः॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः। दत्तान्मातुः स्वयं दत्तो गर्भ विनः सहोढजः॥ उत्सृष्टो गृह्यते यस्तु सोपविद्धो भवेत्सुतः ।। इति याज्ञवल्क्यस्मृतावुकाः ।

श्राद्धमयूखः पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः । इति । [अत्रं 'यद्यपि 'पुत्राभावे तु पत्नी स्यात्पन्यभावे तु सोदरः' इत्यौ- ग्सपुत्राभावे पत्नी तदभावे सोदर इति क्रमः प्रतीयते तथापि पुत्रपदस्य याज्ञवल्क्यवचसा द्वादशविधपुत्रोपलक्षणत्वेनौरसपुत्रपत्नीक्रमेऽवश्यं बा- विते, सकृत्प्रवृत्तायाः किमवगुण्ठनेनेतिन्यायेन 'पुत्रः पौत्रः प्रपौत्रो वा' इति विष्णूक्तयोः पौत्रप्रपौत्रयोरपि द्वादशविधपुत्रोत्तरं पल्याश्च पूर्वो निवेशः । पत्न्यभावे तु दुहिता । अपुत्रस्य तु या पुत्री साऽपि पिण्डप्रदा भवेन्' इति ऋष्यशृङ्गः। अत्र यद्यपि 'पुत्राभावे तु पत्नी स्यात्' इत्यनेन पुत्राभावे पत्न्याः 'अपुत्रस्य तु या पुत्री' इत्यनेन दुहितुरधिकारप्रतीतेः पुत्राभावे पत्नीकन्ययोर्नियामकाभावेन विकल्पप्रसक्तिः, तथापि 'यो- ऽर्थहरः स पिण्डदायी' इति विष्णुनोक्तस्य धनग्रहणवत्त्वस्य पिण्डदातृ- विशेषणस्यापीहशविषये नियामकत्वाङ्गीकारेण वक्ष्यति । धनग्रहणा- धिकारश्च 'पत्नी दुहितरश्चैव' इत्यादिना पूर्व पत्न्यास्तदभावे दुहितुः स्पष्ट एव । इदं चार्थहरत्वं सर्वेषां श्राद्धाधिकारिणां विशेषणम् । तथा सत्यविभक्तासंसृष्टसोदरसत्त्वे पत्न्या धनग्रहणेऽनधिकाराच्छ्राद्धेऽप्यन- विकारः स्यात् । स्याच दुहितृसत्वे तत्पुत्रादीनां मातृधनेऽनधिकाराच्छ्रा- द्वेजधिकार इति । नचेष्टापत्तिः । पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः । पुत्रेषु विद्यमानेषु नान्यं वै कारयेत्स्वधाम् ।। इत्यादिवचनैः पत्नीपुत्रयोरेवाधिकारस्येष्टत्वात् । दुहित्रभावे दौ- हित्रः । तथा च स्मृतिसङ्ग्रहे- पुत्रः कुर्यापितुः श्राद्धं पत्नी तु तदसन्निधौ । धनहार्यथ दौहित्रस्तद्धाता चाऽथ तत्सुतः ।। चशब्दादुहिता। भ्रातुः सहोदरो भ्राता कुर्याद्दाहादि तत्सुतः । ततस्त्वसोदरो भ्राता तदभावे तु तत्सुतः ॥ दौहित्रो ज्येष्ठ इत्यर्थः । तदाता कनिष्ठ इत्यर्थः । यत्तु भ्रातृशब्देना- सोदरभ्रातृव्याख्यानं तदाचारविरोधात्तत्सुतशब्देन च दौहित्रसपत्न- १ कुंडलितः पाठो ङ. पुस्तके दृश्यते ।

श्राद्दाधिकारिणः। - भ्रातृसुतग्रहणेन भ्रातृपुत्रादौ सत्यत्यन्तविप्रकृष्टस्य क्रियाप्रसक्तरुपेक्षणी- यम् । अत्र यद्यपि धनहारिण एव दौहित्रस्याधिकारः प्रतीयते तथापि केवलोऽपिण्डं कुर्यात् । तथाच भविष्यत्पुराणे- यथा व्रतस्थोऽपि सुतः पितुः कुर्यात्रियां नृप । उदकाद्यां महाबाहो दौहित्रोऽपि तथाऽर्हति ॥ इति । यथा व्रतस्थः सुतः पितुः क्रियां कुर्यादेवमधनहरोऽपि दौहित्रो मातामहस्य कुर्यादित्यर्थः । व्यवहितभ्रातृपुत्रस्याप्यभावे पिता । ततो माता । तदुक्तं तत्रैव- उत्सन्नबान्धवं प्रेतं पिता भ्राताऽथवाग्रजः । जननी वाऽपि संस्कुर्यान्महदेनोऽन्यथा भवेत् ।। इह क्रमो न विवक्षितः । तद्वोधकस्याथशब्दादेरभावात् । यस्तु कातीयनिषेधः- अपुत्रायाः पतिर्दद्यात्सपुत्राया न तु कचित् । न पुत्रस्य पिता दद्यान्नानुजस्य तथाऽग्रजः ।। इति स स्नेहविशेषाभावे बोध्यः अपि स्नेहेन कुर्यात्तां सपिण्डीकरणं विना । गयायां तु विशेषेण ज्यायानपि समाचरेत् ।। इति बौधायनोक्तेः । मातुरभावे स्नुषादयः । तथाच द्वैतनिर्णये स्मृतिसङ्ग्रहे- पत्नी भ्राता च तत्पुत्रः पिता माता स्नुपा तथा । भगिनी भागिनेयश्च सपिण्डः सोदकस्तथा ।। असन्निधाने पूर्वेषामुत्तरे पिण्डदाः स्मृताः ॥ इति भगिन्यां विशेषः कात्यायनेनोक्त:- अनुजा वाग्रजा वाऽपि भ्रातुः कुर्वीत संस्क्रियाम् । ततस्त्वसोदरास्तद्वत्क्रमेण तनयास्तयोः ॥ इति । तदभावे मातृसपिण्डो मातुलादिः । तदुक्तं विष्णुपुराणे- तेषामभावे पूर्वेषां समानोदकसन्ततिः । मातृपक्षस्य पिण्डेन सम्बद्धा याजनेन वा । कुलद्वयेऽपि चोत्सन्ने स्त्रीभिः कार्या नृप क्रिया ।। तत्सङ्घातगतैर्वाऽपि कार्या प्रेतस्य संस्कृतिः ।। - ३४ श्राहमयूखः - तदभावे शिष्यत्त्रिंगाचार्याः । यथाह गौतमः " पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश्च दास्तदभावे त्रिगाचार्यों तदभावे जामाता सखा च क्रमेण" । तदुक्तं मार्कण्डेये- सख्युरुत्सन्नबन्धोश्च सखा च श्वशुरस्य च ।। जामाता स्नेहतः कुर्यादखिलं पैतृमेधिकम् ॥ इति । तदभावे स्त्रीहारी धनहारी च । ' स्त्रीहारी धनहारी च कुर्यापिण्डो- दकक्रियाम्' इति काम जिनिवाक्यात् । पितुः पुत्रेण कर्तव्या पिण्ड- दानोदकक्रियेत्यत्र पुत्रशब्देनौरसा दिद्वादशविधपुत्रग्रहणं तथा पत्नी- शब्देनापि सकलविवाहोढाग्रहणमपि प्रतिभाति । जामात्रभावे स्त्रीहारी तदभावे धनहारी । यद्यपि तयोः क्रमबोधकमथशब्दादि नास्ति तथापि पाठक्रमादेव पूर्व स्त्रीहारी ततो धनहारी कार्णाजिनिवाक्यान् । यश्वार्थहरः स पिण्डदायीति विष्ण्वापस्तम्बस्मरणाच । धनहारी यदि न करोति तदा राज्ञा कारणीयः । सोऽपि सजातीयः । तदुक्तं मार्क- ण्डेयपुराणे- सर्वाभावे च नृपतिः कारयेत्तस्य रिक्थतः । सजातीयैर्नरैः सम्यक् दाहाद्याः सकलाः क्रियाः । सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः ।। अयं चात्र क्रमः । प्रथममौरसः पुत्रः स त्वनुपनीतोऽपि कुर्यात् । अन्ये तूपनीता एव- नाभिव्याहारयेद्ब्रह्म यावन्मौ जी निवध्यते । मन्त्राननुपनीतोऽपि पठेदेवैक औरसः ।। इति सुमन्तुस्मृतेः । ब्रह्म वेदः । अनुपनीतं विशिनष्टि स एव- अनुपेतोऽपि कुर्वीत मन्त्रवत्पैतृमेधिकम् । यद्यसौ कृतचूडः स्याद्यदि च स्या त्रिवत्सरः ॥ इति । यत्तु ‘कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च । स्वधाकारं प्रयुजीत वेदोच्चारं न कारयेत्' इति व्याघ्रप्रचेतसो वचनम् , यत्तु- कृतचूडोपनीतस्तु पित्रोः श्राद्धं समाचरेत् । उदाहरेत्स्वधाकारं न तु वेदाक्षराण्यसौ ।। इति स्मृत्यन्तरं तत्प्रथमवर्षकृतचूडविपयम् । यत्तु मनुवचनम्- -- श्राद्धाधिकारिणः। - - न ह्यस्मिन्युज्यते कर्म किञ्चिदा मौजिबन्धनात् । नाभिव्याहारयेद्ब्रह्म स्वधानिनयनाहते ॥ इति । तत्तृतीयवर्षकृतचूडविषयम् । यत्तु नव्यैर्व्याघ्रवचनं मनुवचनविरोधा- दनातमित्युक्त्वा प्रथमवर्षकृतचूडविषयव्याख्यानमपि उक्तसुमन्तुवचने यदि च स्यात्रिवत्सरः' इति पृथगुपादानाद्वर्षत्रयात्पूर्वमपि कृतचूडस्य मन्त्रवधिकारावगमायुक्तमित्युक्तं तदयुक्तम् । विधेयकर्तृविशेषणद्वय- स्यापि विवक्षितत्वेन त्रिवर्षकृतचूडस्यैव मन्त्रवत्यधिकारात् । त्रिवत्सरत्व- स्य पृथगुपादानं तु प्रथमादिवर्षव्यावृत्त्यर्थमिति स्पष्टमेव । प्रथमवर्षस्या- प्यग्निदानं समन्त्रकमन्यदमन्त्रकम् । तथाच कात्यायनः-- असंस्कृतेन यत्नाच ह्यग्निदानं समन्त्रकम् । कर्तव्यमितरत्सर्वं कारयेदत्यमेव हि ॥ इति । अत्र कारयेदिति मन्त्रपाठपरं न त्वौर्ध्वदेहिकपरम् । यद्वाऽशक्त- परम् । अत एव- यज्ञेषु मन्त्रवत्पत्नी कर्म कुर्याद्यथाविधि । तथौर्ध्वदेहिके सा हि मन्त्रार्हा धर्मतः स्मृता ॥ इति स्कान्दे सामान्यतो मन्त्रवदधिकारः सङ्गच्छते । अग्निदानेऽप्य- कृतचूडस्य नाधिकार:- पुनः स्वोत्पत्तिमात्रेण संस्कुर्यादृणमोचनात् । पितरं नादिकाचौलास्पितृमेधेन कर्मणा ।। (?) इति सुमन्तूक्तेः । कालादर्श च स्पष्टमुक्तम् । चौलादादब्दिकादर्वाङ्ग कुर्यात्पैतृमेधिकम् ।।(?) इति । एतादृशौरसपुत्राभावे तु पुत्रिकादयः । तद्भावे पौत्रस्तदभावे प्रपौत्रः। यदा तु दत्तकपुत्रौरसपौत्रयोः समवायस्तदा तु दत्तक एव कुर्यात् । गौ- णस्यापि तस्य पुत्रशब्देन ग्रहणात् । तदभावे पत्नी। तदभावे रिक्थग्राही दौहित्रः । यदि रिक्थग्राही न भवति तदा 'पल्ल्यभावे तु सोदरः' इति वाक्यात्सोदरः कनिष्टः । ततस्तत्सुतस्तदभावेऽसोदरः । ततस्तत्सुतस्तद्- भावेऽरिक्थग्राही दौहित्रः रिक्थग्रहाभावे उत्कृष्टदौहित्रस्य सोदरादीनां बद्धक्रमत्वेन मध्ये निवेशासंभवादन्ते निवेशः । यस्तु स्मृतिसङ्ग्रहीय- वाक्ये भ्रातृपुत्रोत्तरं पितुः पाठ', स दौहित्रस्य रिक्थग्राहित्वेऽत्र निवे- शाभावादुपपन्नो नावश्यं भ्रातृपुत्रोत्तरमरिक्थग्राहिणं दौहित्रं बाधते ।

आडमयूखः ततस्तत्पुत्रस्ततो यदि स्नेहस्तनो ज्येष्ठभ्रातृपितरौ क्रमेणाधिकारिणौ। ततो माता । मातुरभावे स्नुपा । ततः क्रमेण ज्येष्ठकनिष्ठे भगिन्यौ। ततस्तत्पुत्रः । ततो मातुलादिः । ततः सपिण्डाः समानोदकाः प्रत्या. सत्तिक्रमेण । ततः शिष्यत्विजौ । तदभावे सखा । तदभावे जामाता। अत्र 'कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्या नृप क्रिया' इतिवाक्ये स्त्रीग्रहणं भार्यापरमभिप्रेत्य मातुलाद्यभावे आसुरादिविवाहोढा क्रिया- कारिणीति तातचरणाः । [प्रमाणं त्वत्र 'सर्वाभावे स्त्रियः कुर्युः स्वभर्तृणाममन्त्रकम् ' इति कालादर्शलिखितस्कान्दवचनम् ।न चेदं ब्रामविवाहोढापरमिति वाच्यम् । ' यज्ञेषु मन्त्रवत्पत्नी' इत्यादि वचनैस्तस्याः समन्त्रककर्मणो विधानात् । किंच । 'पुत्राभावे तु पत्नी स्यात् । इत्यनेन तस्याः पुत्राभावे विधानेन सर्वाभावे विधानासंभ- वाञ्च । ] । किञ्च । यथा 'पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया, इत्यत्र पुत्रशब्देनौरसादिद्वादशविधपुत्रग्रहणं तथा पत्नीशब्दनापि सकल- विवाहोढाग्रहणमपि प्रतिभाति । जामात्रभावे स्त्रीहारी । तदभावे धनहारी । यद्यपि तयोः क्रमबोधकमथशब्दादि नास्ति तथापि पाठक्र. मादेव पूर्व स्त्रीहारी ततो धनहारी । दायाभावेऽपि पुत्रादयः कु:- रन्नेव । तदुक्तं मार्कण्डेयपुराणे- पुत्रो भ्राता च तत्पुत्रः पत्नी माता तथा पिता। वित्ताभावेऽपि शिष्यश्च कुर्वीरन्नौदैहिकम् ।। पुत्रग्रहणं द्वादशविधपुत्रोपलक्षणम् । भ्रातृग्रहणं सोदरासोदरोपल- क्षणम् । धनहारी तिवाक्यं पूर्वोक्तेष्वपि नियामकम् । यदा भ्रात्रोदा हि- त्रयोर्वा मध्ये एको धनग्राही परश्च न तदा धनग्राह्येव कुर्यादिति । यनु गुरुचरणैज्येष्ठस्यान्धपङ्ग्वादेरधनहारित्वात्कनिष्ठस्य तद्धारित्वेन क्रिया- दिप्रसङ्ग इत्युक्तं तदिष्टापत्त्या परिहर्तुं शक्यम् । नन्वेवं ज्येष्ठस्य संमृ. ष्टिनो धनहारित्वात्कनिष्टस्यासंसृष्टिनोऽधनहारिणः क्रियानधिकारः प्रसज्येतेति चेत् प्रसज्यतां नाम । तस्मिन् भ्रातृत्वं धनहारित्वं चेति निमित्तद्वयासाद्भावात्। तत्र क्रियाभेदेन कर्तृव्यवस्था विष्णुपुराण उक्ता- पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः । त्रिप्रकाराः क्रिया ह्येतास्तासां भेदान् शृणुष्व मे ।। १ ङ. कुण्डलितः पाठोऽधिकः । २ द्वयसद्भावादिति सर्वत्र पाठः । Rame-rem.

श्राद्धाधिकारिणः। आद्याहाहादशाहात्तु याः क्रिया मध्ययोगतः । पूर्वास्ता मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः ॥ प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु । क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ।। पितृमातृसपिण्डैस्तु समानसलिलैस्तथा । तत्सङ्घातगतैश्चैव राज्ञा वा धनहारिणा ॥ पूर्वाः क्रिया मध्यमाश्च पुत्राद्यैरेव चोत्तराः। दौहित्रैर्वा नरश्रेष्ठ कार्यास्तत्तनयैस्तथा ॥ इति । अस्यार्थः । एवं पूर्वासु राजान्तानां कर्तृत्वम् । मध्यमासु पुत्राद्या- नाम् । आद्यशब्देन पौत्रप्रपौत्रयोरपि । उत्तरासु पुत्रप्रभृतिभ्रातृसंतत्य- न्तानां दौहित्रतत्तनयानामपीति । वा शब्दोऽप्यर्थे । एवं च- एकादशाद्याः क्रमशो ज्येष्ठस्य विधिवक्रियाः। कुर्यादेकैकशः श्राद्धमाब्दिकं तु पृथक्पृथक् ।। इति । अनेनाप्यैकार्थ्यं भवति । तत्सङ्घातगतैरेकसार्थान्तर्गतैः । राज्ञा वा धनहारिणेत्यत्र मार्कण्डेयपुराणवाक्ये सजातीयैस्तस्य रिक्थतः कारये- दिति प्रयोजककर्तृत्वावगमादिहाऽपि तथैवाङ्गीकार्यम् । न च राजसजा- तीये मृते साक्षात्कर्तृत्वं विजातीये तु प्रयोजककर्तृत्वमिति वाच्यम् । एकस्मिन् शब्दे वैरूप्यापत्तेरिति । सपिण्डीकरणे तु पुत्रसद्भावे तदस- निधानेऽपि स एवाधिकारीति स एव कुर्यात् । श्राद्धानि पोडशादत्वा कुर्यान्न तु सपिण्डनम् । प्रोषितावसिते पुत्रः कालादपि चिरादपि । इति वायुपुराणे प्रोषितस्यापि पुत्रस्यैवाधिकारप्रतिपादनात् । यत्तु क्वचिदन्थे इदं च प्रेतश्राद्धसहितं सपिण्डीकरणमसंन्यासिनां पुत्रा- दिभिः कर्तव्यमित्यत्रादिशब्देनान्येषामपि कर्तृत्वं प्रतिभाति तत्पुत्रा- सद्भावे न तु तदसन्निधौ । अनेन च वायुपुराणस्थेन विशेषविधिना पुत्राभावे तु पत्नी स्यात् ' इत्यादि सामान्यशास्त्रं सपिण्डीकरण- विपये बाध्यते । तद्बाधनं विनाऽस्य गत्यन्तराभावात् । पुत्रेष्वपि ज्येष्ट एव कुर्यात् 'एकादशाद्याः क्रमशो ज्येष्ठस्य विधिवक्रियाः' इति मदनरत्ने प्रचेतोवाक्यात् । षोडशश्राद्धेष्वपि तस्यैवाधिकारः, 'श्राद्धानि पोडशापाद्य विदधीत सपिण्डताम्' इति समानकर्तृत्वस्मरणात् ।

आडमयूखः 'मध्यमाः पुत्राद्यैरेव च ' इत्यत्राद्यग्रहणं पौत्रादिप्राप्त्यर्थम् । तच्च ज्येष्ठा- दिनाशे न त्वसन्निधाने, वायुपुराणे प्रोषितग्रहणात् । यान्यपि- काश्यादिषु गयायां च प्रेतकार्य तु यत्कृतम् । सपिण्डैरसपिण्डैा पुत्रैरेव कृतं भवेत् ॥ इत्यादीनि वाक्यानि तान्यनाकराणि । साकरत्वेऽपि तीर्थमेवं प्रशस्तं यत्र येनकेनापि श्राद्धे कृते पुत्रकर्तृकश्राद्धफलं भवतीति प्रशंसाथै, न तु सपिण्डीकरणं कर्तव्यमित्येवंपरम् । नन्वेवं ज्येष्ठस्यै- वाधिकारे- यवीयसा कृतं कर्म, प्रेतशब्दं विहाय तु। तज्यायसापि कर्तव्यं सपिण्डीकरणं पुनः ।। इति वाक्ये प्रेतशब्दनिषेधानुपपत्तिः, त्वदुक्तरीत्या कनिष्ठस्यान- धिकारादनधिकारिणा च कृतेन सपिण्डीकरणेन प्रेततानपायात् । जातायां च प्रेतत्वनिवृत्तौ पुनरावृत्तिविधानवैयर्थ्यात् । अतः कथमेत- द्वाक्योपपत्तिरिति चेदुच्यते । पूर्वलिखितमदनरत्नवचनेन ज्येष्ठस्यैवाधि- कारः सिद्धः स यदि कनिष्ठ आहिताग्निवृद्धिवोपस्थिता तदाऽपोद्यते । तथाहि- नासपिण्ड्याऽग्निमान्पुत्रः पितृयज्ञं समाचरेत् । न पार्वणं नाभ्युदयं कुर्वन्न लभते फलम् ।। इति सपिण्डीकरणं विना पिण्डपितृयज्ञानधिकारात्पिण्डपितृयज्ञस्य च श्रौतसपिण्डीकरणेन बाधासंभवात् साग्निकस्य कनिष्ठस्यावश्यकर्त- व्यत्वात्तादृशं प्रति सपिण्डीकरणं विधीयते । तेनैव च प्रेतत्वनिवृत्ति- रूपे फले जाते ज्येष्ठस्य पुनरावृत्तिः केवलं वचनात् । न च ज्येष्टं प्रत्ये. वेदं विधानं भवति न कनिष्ठं प्रतीति वाच्यम् । यजमानोऽग्निमान् राजन् प्रेतो वाऽप्यग्निमान्भवेत् । द्वादशाहे तदा कार्य सपिण्डीकरणं सुतैः ।। इत्यनेनैव तं प्रति प्राप्तत्वादिदं कनिष्ठं प्रत्येव पिण्डपितृयज्ञ प्रयुक्तं सपिण्डीकरणं विधीयते । पत्न्यादीन् प्रति त्वेवमनन्यथासिद्धवचना- भावान्नाधिकारः । एवं च यद्यपि तैर्धमादिना कृतं तदा ज्येष्ठो यथा- विध्येवार्चयेन प्रेतशब्दत्यागेनेति । यद्वा ऋद्धिकामानां पुत्राणां पृथक पृथक्सपिण्डीकरणमुक्तं तत्र यदि कनिष्ठेन काम्यं तत्कृतं तदा तेनैव श्राद्धाधिकारिणः। ३९ - प्रेतत्वनिवृत्तौ प्रेतशब्दं विहायेति पुनर्विधानं युक्तमेव । वृद्धौ तु येन केनापि कृते नावर्तनीयम् । तथाच लघुहारीतः- भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा । सहपिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः ॥ इति । अत्र यस्य कस्यापि सगोत्रसपिण्डस्य सपिण्डनं तत्पुत्रे प्रोषितेऽपि व्यवहितोऽपि सपिण्डः कुर्यादिति केचित् । युक्तं तु यस्याभ्युदयिक- श्राद्धान्तर्गतदेवताभूतस्य सपिण्डनं विना न तन्निर्वहति तस्यैवेह वाक्ये सपिण्डनं विधीयते । आकाङ्कितविधानात् । अन्यथा भिन्नजातीय- गुरोरपि सपिण्डनं शिष्येण कार्य स्यात् । मासिकानामप्यपकर्षः पुन- रपकर्षणं च ज्ञेयम् । सपिण्डीकरणादर्वागपकृष्य कृतान्यपि । पुनरप्यपकृष्यन्ते वृद्धथुत्तरनिषेधनात् ॥ इति शाठ्यायनिस्मरणात् । अत्र यद्यपि वृद्धथुत्तरनिषेधनादिति हेतुस्तथापि 'सव्यं हि मनुष्याः प्रथममजते' इतिवदप्राप्तत्वाद्विधिः कल्पनीयः। कात्यायनेनापि स्पष्टीकृतः । 'निर्वयं वृद्धितन्त्रं तु मासि- कानि न तन्त्रयेत्' इति । वृद्धिं कृत्वा मासिकानि न कुर्यादित्यर्थः । तथाच कनिष्ठे साग्निके पिण्डपितृयज्ञार्थ कामनया तु तिष्ठासौ वा ज्येष्ठ- त्वमात्रापवादः वृद्धौ तु पुत्रस्यापीति निर्णयः । ननु पुत्राद्यभावे दौहि- त्रसत्त्वे पन्या अनधिकारः प्रसज्येतेति चेन्न । पुत्राभावे तु पत्नी स्यादि- त्यस्मिन् दौहित्रैर्वा नरश्रेष्ठ इत्यनेन बाधितेऽपि 'अपुत्रा पुत्रवत्पत्नी पुत्रकार्य समाचरेत्' इत्यनेनाधिकारिणी । न च 'पुत्राभावे तु' इत्यनेने- दमेकार्थ तस्य नाशासन्निध्योः प्रवृत्तत्वात् । 'अपुत्रा' इत्यस्य चा- सांनिध्येऽप्रवृत्तेः । अपुत्रायाः पत्न्याः पतिरौदैहिकं कुर्यात् । अतः पुत्राद्यभावे पत्नी तदभावे दौहित्रः एवं पितृव्यादीनामपि । यथाह जातूकर्ण्य:- पितृव्यभ्रातृमातृणामपुत्राणां तथैव च । मातामहस्यापुत्रस्य श्राद्धादि पितृवद्भवेत् ।। इति पितृवदित्यावश्यकत्वार्थ न तु पार्वणविधानार्थमिति हेमाद्रिः। मातृपदं सपत्नमातृपरम् । पितृव्यभ्रातृपुत्राणामेकोद्दिष्टं न पार्वणम् ।। - 3, ४० ४ श्राद्धमयूख:..: इति कात्यायनोक्तेः । भ्रातुरपि ज्येष्ठत्यैव । यथाह मनु:- प्रतिसंवत्सरं कार्य मातापित्रोद्धृतेऽहनि । पितृव्यस्याप्यपुत्रस्य भ्रातुर्येष्ठस्य चैव हि ॥ इति । अत्रिरपि- भ्रात्रे भगिन्यै पुत्राय श्वशुरे मातुलाय च । पितृव्यगुरवे श्राद्धमेकोद्दिष्टं न पार्वणम् । एकवचनं छान्दसम् । नचैवममावास्यादिष्वपि श्राद्धप्रसक्तिरिति वाच्यम् । पूर्वलिखितजातूकर्ण्यवाक्यस्य क्षयाहं प्रकृत्य पाठात् । अतश्च क्षयाहश्राद्धमावश्यकं नान्यत् । दौहित्रस्य त्वमावास्यादौ मातामहश्रा- द्धमावश्यकमेव, पितरो यत्र पूज्यन्ते तत्र मातामहा अपि । अविशेषेण कर्तव्यं विशेषान्नरकं व्रजेत् ।। इति धौम्योक्तेः । एवं पित्रादीनां पार्वणं पितृव्यादीनामेकोद्दिष्टमेव । दाक्षिणात्यास्तु पितृव्यभ्रातृसापत्नमात्रादिश्राद्धे पार्वणमाचरन्ति । तत्र मूलं पितृवदिति पार्वणत्वस्याप्यतिदेश इति केचित् । वस्तुतस्तु, पितृव्यभ्रातृमातृणां ज्येष्ठानां पार्वणं भवेत् । एकोदिष्टं कनिष्ठानां दम्पत्योः पार्वणं मिथः ।। इति श्राद्धदीपकलिकाधृतचतुर्विशतिमतवचनाज्ज्येष्ठानां पार्वर्ण कनिष्ठानामेकोद्दिष्टम् । एवं च पूर्वोक्तात्रिकात्यायनवचसी कनिष्ठ- पितृव्यादिपरे । यत्तु- 'भ्रातुज्येष्ठस्य कुर्वीत ज्येष्ठो भ्राताऽनुजस्य च । दैवहीनं तु तत्कुर्यादिति धर्मविदब्रवीत् ॥ दैवहीनमेकोद्दिष्टं कार्यम् । अनाद्यगर्भज्येष्ठोऽपि भ्राता सद्भिनिगद्यते । ऋते सपिण्डनात्तस्य नैव पार्वणमाचरेत् । इति तथा- प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः । तथा- सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं विधीयते । अपुत्राणां च सर्वेषामपत्नीनां तथैव च ॥ इति पृथ्वीचन्द्रोदयमात्रधृतवृद्धपराशरशातातपमार्कण्डेयप्रचेतोवच- सामाचारतो व्यवस्थेति' साप्यतिदेश इति तु सर्व शिवम् ।

गौणपुत्राणां विशेषः। अथ गौणपुत्राणां विशेषः । तत्र- दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः । इति कलिनिषिद्धेषु पाठात् दत्तातिरिक्ता गौणाः पुत्रा निषिद्धाः। दत्तकस्तु द्विविधः, केवलो व्यामुष्यायणश्च । दानकाले दातृप्रतिगृही- तृभ्यामावयोरसाविति संविदोऽकरणे केवलः, तत्करणे व्यामुष्यायणः । तत्र केवलः प्रतिग्रहीतुरेव श्राद्धादि कुर्यान्न जनकस्य । 'पुत्रं प्रति- ग्रहीष्यन् । इत्यादिके प्रतिग्रहविधौ भाव्याकाङ्क्षायां जन्यपुंस्त्वाख्यस्य पुत्रत्वस्य भाव्यत्वासंभवाच्छ्राद्धादिपुत्रकार्यप्रयोजक प्रतिग्राह्यगतमदृष्टं भाव्यममीकर्तव्यम् । गोत्ररिक्थे जनयितुर्न भजेद्दत्रिमः सुतः । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा । इति मनूक्तेश्च । दत्रिमो दत्तकः। गोत्ररिक्थे अनुगच्छतीति गोत्र- रिक्थानुगः प्रायस्तत्समनियत इति यावत् । पिण्डं सापिण्ड्यम् । स्वधा श्राद्धम् । विवेचयिष्यते चेदं व्यवहारमयूखे । व्यामुष्यायणस्य श्राद्धे विशेषमाह देवल:-- व्यामुष्यायणका दार्टाभ्यां पिण्डोदके पृथक् । पण्णां देयास्तु घट् पिण्डा एवं कुर्वन्न मुह्यति ।। आपस्तम्बः- यदि द्विपिता स्यादेकैकस्मिन्पिण्डे द्वौ द्वावुपलक्षयेत् ॥ इति । इदमापस्तम्बपरम् । पिण्डशब्दश्च श्राद्धोपलक्षणम् । अत एव प्रव- गध्याये- द्वे श्राद्धे कुर्यादेकश्राद्धं वा पितॄनुद्दिश्यैकपिण्डे द्वावनुकीर्तयेत् । प्रतिग्रहीतारं चोत्पादयितारं चातृतीयात्पुरुषात् ।। इति । व्यामुष्यायणपुत्रस्य पिण्डभेदे अमावास्यायामेकः पित्रे द्वौ द्वावितर- योरिति पञ्च । व्यामुष्यायणपौत्रस्य प्रपितामह एव द्वौ पिण्डौ इति चत्वारः । केचित्त्वेकस्मिन्पिण्डे द्वौ द्वाविति कुण्डगोलकपरं वर्ण- यन्ति तत्तु न स्मृत्यन्तरसंवादि । शूद्रानुपेतयोरप्यमावास्यादिश्राद्धे- ऽधिकारो मात्स्ये- अमावास्याष्टकाकृष्णपक्षे पञ्चदशीषु च । - श्राद्धमयूखः . इत्युक्त्वा, एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु । श्राद्धं साधारणं नाम सर्वकामफलप्रदम् । शूद्रोऽप्यमन्त्रवत्कुर्यादनेन विधिना बुधः ॥ इति । अमावास्याष्टकादौ होमस्तु पाण्यादिषु लौकिकाग्नौ वा कार्यः । तु श्राद्धविवेकेऽलेखि । केषुचित्पुराणपुस्तकेषु नोपलभ्यते । जीवरिपतृकस्यापि कचिदधिकारो मैत्रायणीयपरिशिष्टे- उद्वाहे पुत्रजनने पियेट्यां सौमिके मखे। तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः । इति । उद्धाहे द्वितीयादौ । प्रथमे पितुरेवाधिकारः । 'नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः । अत ऊर्ध्व सुतः कुर्यात्स्वयमेव तु नान्दि- कम्' इति मदनरत्नधृतस्मृत्यन्तरात् । सौमिके इति सोमयागकर्माना श्राद्धस्य तार्तीयसवनिकपिण्डदानस्य चोपलक्षणार्थम् । उपलक्षणं चैतज्जीवपितृकाधिकारिककर्माङ्गाभ्युदयिकमात्रस्य । अन्यथाऽऽधानाले तस्मिन्नधिकारो दुर्घटः स्यात् । काम्येऽधिकारविधेः प्रयोगविध्यनु सारित्वादन्ततः काम्य आधानेऽप्यसौ दुर्घटः स्यात् । श्रुतसोम यागान्यथानुपपत्त्यैवाधानेऽसौ कल्प्यत इति चेत्सत्यम् । 'यागेनापूर्व कृत्वा स्वर्ग कुर्यात् ' इतिवच्छ्रुतानुपत्तिमूलकशब्दकल्पनामपेक्ष्य सौमिके मख इत्यत्र लघीयस्या लक्षणयेवाधिकारसमर्थनं ज्यायः । षडिति न परिसङ्घया । अत एव- आन्वष्टक्यं गयाप्राप्तौ सत्यां यच्च मृतेऽहनि । मातुः श्राद्धं सुतः कुर्यात्पितर्यपि च जीवति ॥ इत्यन्वष्टकादावधिकारः सङ्घच्छते । मैत्रायणीयपरिशिष्टेऽपि- महानदीषु सर्वासु तीर्थेषु च गयामृते । जीवत्पिताऽपि कुर्वीत श्राद्धं पार्वणधर्मवत् ॥ इति । 'गयामृते ' इति तदुद्देश्यकवैधयात्रापूर्वकश्राद्धपर्युदासार्थम् । अवैध- गमने तु पितुर्देवता उद्दिश्य श्राद्धं कार्यमेव । तत्रापि मृतमातृकश्चे- पितृपत्नीत्वेन तामुद्दिश्य पिण्डादि दत्त्वा मातृत्वेनाप्युद्दिश्य दद्यान 'गयां प्रसङ्गतो गत्वा मातृश्राद्धं समाचरेत् ' इतिवाक्यादिति केचित् । तत्त्वं तु 'गयामृते ' इति पर्युदस्तं गयाश्राद्धं जीवत्पितृकस्य मृतायां गौणपुत्राणां विशेषः। मातरि तदुद्देश्यकमेव प्रतिप्रसूयते । वाक्ये तथैव श्रवणात् । पर्युदास- वाक्ये यात्रानुपादानेन तत्पूर्वकश्राद्धपर्युदासे मानाभावाच्च । 'गयां प्रसङ्गतो गत्वा' इति तु पित्राद्युद्देश्यकगयायात्रायां जीवपितृकं प्रत्य- प्राप्तेरनुवादकमेव(?) । एष एव च कालादर्शस्मृतिदर्पणादीनामप्याशयः। अत्र देवता आह कात्यायन:- वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः । इति 'ताते सति' इति वृद्धितीर्थसन्यस्तपतितपदैः प्रत्येकं सम्ब- ध्यते । तत्राप्याद्याभ्यां वैयधिकरण्येनोत्तराभ्यां सामानाधिकरण्येन । वृद्धौ तीर्थे च ' इत्यनेकनिमित्तसमावेशे वाक्यभेदापत्तेः । 'अर्द्ध- मन्तर्वेदिमिनोत्य? बहिर्वेदि' इत्यन्तर्वेदिबहिर्वेदिपदे इव सन्धिदेशस्य जातपुत्रः कृष्णकेशोऽमीनादधीत ' इति जातपुत्रादिपदानीव वयो- विशेषस्य वृद्धितीर्थपदे जीवत्पितृकाधिकारिकश्राद्धमात्रोपलक्षके । उक्त- प्रकारेण तेष्वपि जीवपितृकस्याधिकारस्य समर्थितत्वात्तेषां देवता- कावासद्भावात् । जीवत्सन्यस्तपतितपितृकस्य तु दर्शश्राद्धादावप्यधि- कारः। उत्तरार्द्धन पितृदेवता एवैनं प्रत्युपदिश्यन्ते । अत एव जीव- पितृकस्य मातरि मातामहे च मृतेऽपि न स्वनिरूपितमातृमातामह- पार्वणयोः प्राप्तिः । किं तु पितृनिरूपितयोरेव । पितामहेऽपि जीवति तन्निरूपिता एव देवताः । पौत्रस्य पितृनिरूपितत्वसम्बन्धेनैतद्वचना- देव प्राप्तेः । 'अत्र ह्येवावपन्ति' इतिवदेवकारेण शब्दतस्तासां परि- सङ्ख्यातत्वात् । सुमन्तुहारीतौ- जीवत्पितरि वै पुत्रः श्राद्धकालं विवर्जयेत् । येभ्यो वाऽपि पिता दद्यात्तेभ्यो दानं प्रचक्षते । इति । पितुः पितृभ्यो वा दद्यात्सपितेत्यपरा श्रुतिः ॥ गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्माद्यपत्यसंस्कारेषु त्वाश्वलाय- नानां प्रतिप्रसूयन्ते प्रयोगपारिजाते आश्वलायनगृह्यपरिशिष्टे- 'जीवत्पिता सुतसंस्कारेषु मातृमातामहयोस्तस्यां जीवन्त्यां माता- महस्य कुर्यात् । इति । अनयोरन्यतरजीवने तु पितृनिरूपितः स वर्ग इत्युभयोर्जीवने तु वर्गत्रयमपि पितृनिरूपितमेव । ये त्वेतद्वचसा स्वी- यमातृमातामहपार्वणे एव भवतो न पितृपार्वणमित्याहुः, तन्न । - - आदमयूखः अग्निहोत्रे मान्त्रवर्णिकाग्निसूर्ययोः पृष्ठभावेन प्रजापतिविधाविव तयो 'पितरो यन्त्र पूज्यन्ते तत्र मातामहा अपि ' इति पितृप्राप्तेर्मातामह प्राप्तावुपजीव्यत्वेन तद्वाधायोगान्मानाभावाच्च । यत्तु कौण्डिन्यः- दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षिकम् । न जीवत्पितृकः कुर्यात्तिलैः कृष्णैश्च तर्पणम् ॥ इति तत्प्रतिनिधीभूयैतानि श्राद्धानि न कुर्यादित्यर्थः । एतेन- अष्टकादिषु सङ्क्रान्तौ मन्वादिषु युगादिषु । चन्द्रसूर्यग्रहे पाते स्वेच्छया पूज्ययोग्यतः । जीवत्पिता नैव कुर्याच्छ्राद्धं काम्यं तथाऽखिलम् ।। इति ऋतुवचोऽपि व्याख्यातम् । एतैर्वाक्यैर्जीवपितृकाधिकारि कविधिप्राप्तश्राद्धनिषेधे तु' न तौ पशौ करोति । इतिवद्विकल्पापत्तिः । किञ्च - जीवत्संन्यासिपतितपितृकयोरपि निषेधप्रवृत्तेः श्राद्धाधि- काराभावेन तत्र देवताविधेरनुपपत्तिः। ननु भवत्पक्षे तयोः कथं श्राद्धे. ऽधिकारः १ 'वृद्धौ तीर्थे च ' इति कातीयेनैव देवताविशिष्टश्राद्धविधौ दार्शिकाद्यपेक्षया कर्मान्तरापत्तिः , एतौ प्रति विशिष्टविधिरिवरजीव 'पितृकं प्रति विवाहादिश्राद्धे देवतामात्रविधिरिति वैरूप्यापत्तिश्चेति चेछृणु-सर्वेऽप्यमावास्याष्टकादिश्राद्धविधयो जीवत्पितृकमृतपितृक साधारण्येनैव प्रवर्तन्ते; तत्र जीवति पितरि दर्शश्राद्धप्रधानपित्रादिपाव गदेवताभावादभ्युदितेष्टावुपांशुयागवल्लुप्यते । एतस्यैवानुवादकम्- सपितुः पितृकृत्येषु अधिकारो न विद्यते । न जीवन्तमतिक्रम्य किञ्चिद्दद्यादिति श्रुतिः ॥ इति कातीयम् । वैधदेवताप्राप्तौ तु पुनः प्रवर्तन्ते । मृते पितरि पितामहे प्रपितामहे च जीवति तु प्रकारमाह विष्णु:-'पितरि जीवति यः श्राद्धं कुर्याद्येषां पिता कुर्यात्तेषां कुर्यापितरि पितामहे च जीवति येषां पितामहः पितरि पितामहे प्रपितामहे च जीवति नैव कुर्याद्यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्पराभ्यां द्वाभ्यां दशा- द्यस्य पिता पितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्वा पितामह- पितामहाय दद्याद्यस्य पितामहः प्रेतः स्यात्स तस्मै पिण्डं निधाय प्रपिता. महात्पराभ्यां द्वाभ्यां दद्याद्यस्य पिता प्रपितामहश्व प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्वा पितामहपितामहाय दद्यात् ।

गौणपुत्राणांविशेषः। मातामहानामप्येवं श्राद्धं कुर्या द्विचक्षणः । मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ इति मातामहादीनामेकद्वित्रिषु जीवत्सु एवं पितृपार्वणवदित्यर्थः । मात्रादिष्वप्येवं न्यायसाम्यात् । 'मन्त्रोहेन' इत्यादि व्याख्यास्यत उहप्रकरणे । स्त्रीणामपि पूर्तमहादानकन्योद्वाहादिप्रधानेऽधिकारात्तदङ्गे नान्दीश्राद्धेऽप्यसौ स्पष्ट एव । तत्र जीवदर्तृकायाः पूर्तव्रतमहादाना दिषु तावत्पुरुषस्येव स्वीयमातृपितृमातामहपार्वणानीति । भत्रसन्निधानेन तस्याः कन्योद्वाहे स्वीया भर्तुर्वा पार्वणत्रयदेवताः । अयं च विकल्पः 'स्वपितृभ्यः पिता दद्यात्' इति श्लोकव्याख्यानेन नान्दीश्राद्धप्रकरणे स्पष्टीभविता । विधवायास्तु पुत्राभावे तद्वदेवाधिकारः । तस्याः, अपुत्रा पुत्रवत्पत्नी पुत्रकर्म समाचरेत् । इति वचनात् पुत्रवदिति वतिना प्रकरणानुरोधाच्छ्राद्धक्रियातुल्य- तोक्त्या पुत्रकर्तृकश्राद्धवदेव देवताः । उद्देश्यत्वं तु पित्रादीनां भर्तृत्वा--- दिना तन्मातामहानां च पितृत्वादिना । यं प्रति येन रूपेण संब.. न्धिता तं प्रति तेनैव रूपेणोद्देश्यत्वात् । अत एव स्मृतिदर्पणे- स्वभर्तृप्रभृतित्रिभ्यः स्वपितृभ्यस्तथैव च । विधवा कारयेछ्राद्धं यथाकालमतन्द्रिता ।। इति तथैव त्रिभ्य एवेत्यर्थः । इदं च षट्दैवत्यदर्शश्राद्धादिविषयम् । अत्र 'स्वपितुरपुत्रपौत्रत्वएवं तत्पार्वणम्' इति दिवोदासीये । तन्न । अपु-- त्राणामेवेतिविशेषवचनाभावात् । स्वपितरि जीवति द्वारलोपात्तत्पार्वण लोप एव । मृतश्वश्वादेस्तु श्वश्वादिपार्वणमपि कृताकृतमिति नवदैवत्यम् । केचिन्मृतमातृकायाःस्वमात्रादिपार्वणमपीति द्वादशदैवत्यमाहुः। अपरे स्वमातामहपार्वणेन पञ्चदशदैवत्यम् । अपरे स्वमातामह्यादिपावणेन सहाष्टादशदेवत्यम् तत्राप्याद्याद्यजीवने द्वारलोपालोप इति च । एतत्रय- मपुत्रविषयं युक्तमिति पितामहचरणाः। यत्तु स्मृतिसङ्ग्रहे- चत्वारः पार्वणाः प्रोक्ता विधवायाः सदैव हि । स्वभर्तृश्वशुरादीनां मातापित्रोस्तथैव च ।। ततो मातामहानां च श्राद्धदानमुपक्रमेत् ॥ इति । तथा-श्वश्रूणां च विशेषेण मातामह्यास्तथैव च ॥ इति । एतन्मूलं मृग्यम् । श्वश्वादिमात्रादिपार्वणयोरकरणे भर्तृपितृपार्वण- श्राद्धमयूखः योरेव यथायोग्यं सपत्नीकानामिति वाच्यम् । अन्येषां तु यथासंभव- मेकोद्दिष्टानीति । इदं च महालयादिश्राद्धविषयम् । यत्तु- भर्तुः श्राद्धं तु या नारी मोहात्पार्वणमाचरेत् । न तेन तृप्यते भर्ता कृत्वा तु नरकं ब्रजेत् ।। इति वचनं तत्क्षयाह एकोद्दिष्टप्रशंसाथै न तु सर्वथा पार्वणप्रति- षेधार्थमिति दिक् । इति श्राद्धाधिकारिणः अथ कालदेशकर्तृणामैक्ये । तत्र प्रसङ्गावापविचारः । तत्राङ्गप्रधानानां तुल्यत्वेनागृह्यमाण- विशेषत्वे भिन्नप्रयोगविधिपरिगृहीतानामपि कर्मणां प्रधानानामङ्गानां च तन्त्रेणानुष्ठानम् । यथा सङ्क्रान्तियुगादिमन्वादिव्यतीपातश्राद्धा- नाम् । न च 'सौर्याचित्रादिष्वपि तथापत्तिः' प्रधानभेदात् । न चा- झानामेव दर्शपूर्णमासयोरिव तथास्तु । द्वयोरपि प्रयोगप्राशुभाव- भनेन वैगुण्यापातात् । दर्शपूर्णमासयोस्तु 'पौर्णमास्यां पौर्णमास्या यजेत' 'अमावास्यायाममावास्यया यजेत' इति वाक्याभ्यां प्रति- त्रिकं प्रयाजाद्यङ्गानां तन्त्रतेति । तथाहि अनयोर्वाक्ययोवि- धेयकालगतैकवचनस्योपादेययागगतसाहित्यस्य च विवक्षितत्वात्तृतीया- न्तत्वेन च साङ्गभावनोपादानादेकस्यां पौर्णमास्याममावास्यायां च साङ्गानि सहितानि त्रीणि प्रधानानि कार्याणीत्यर्थप्रतीतेः । साहि- त्यस्य च स्वरूपतः प्रधानेऽसंभवादङ्गद्वारा तदुपपत्तिरिति युक्ता तन्त्रता । न तु भिन्नप्रयोगविधिपरिगृहीतेषु चित्रासौर्यादिषु तथा किंचित्प्रमाणमस्ति प्रयोगप्राशुभावभङ्गबोधकम् । येषु त्वमावास्यासट्टा- न्त्यादिनिमित्तकेषु श्राद्धेषु प्रधानानामङ्गानां चाल्पत्वबाहुल्यकृतं विशेषग्रहणं तेषु महताल्पस्य प्रसङ्गेन सिद्धिः । यथा अमाश्राद्धेन सङ्क्रान्तियुगादिमन्वादिव्यतीपातश्राद्धानाम् । तत्र सर्वेषां तन्त्रिणां सङ्कल्पवाक्ये उल्लेखः । सङ्क्रान्तियुगादिश्राद्धं तन्त्रेण करिष्ये इति । प्रसङ्गे तु महातन्त्रवतोऽमाश्राद्धादेरेवोल्लेखः, न प्रसशिनः सान्त्यादि- श्राद्धस्य । एतेनामासङ्क्रान्तिव्यतीपातश्राद्धानां तन्त्रेण सङ्कल्पं वदन् हेमाद्रिरपास्तः । अमाश्राद्धस्य महत्त्वेन विशेषग्रहणात्प्रसङ्ग एवात्रो- चितः । यत्तु कालादर्श युगादिश्राद्धेन मन्वादिश्राद्धेन च दर्शश्राद्धस्य सिद्भिरुक्ता- - कालदेशकर्तृणामैक्ये । नित्यदार्शिकयोश्चोदकुम्भमासिकयोरपि दार्शिकस्य युगादेश्व दार्शिकालभ्ययोगयोः । दार्शिकस्य च मन्वादेः संपाते श्राद्धकर्मणाम् ।। प्रसङ्गादितरस्यापि सिद्धरुत्तरमाचरेत् ॥ इति । तन्न । दार्शिकस्य बहुलविधानत्वेन तेनैव युगादिमन्वादिश्राद्धसिद्धे- र्युक्तत्वात् । कचिद्देवताभेदेन तन्त्रापवादमाह स एव- नित्यस्य चोदकुम्भस्य दर्शमासिकयोरपि । नित्यस्य चाब्दिकस्यापि दार्शिकाब्दिकयोरपि ।। युगाद्याब्दिकयोश्चापि मन्वाद्याब्दिकयोरपि । प्रत्याब्दिकेषु चालभ्ययोगेषु विहितस्य च ॥ संपाते देवताभेदाच्छ्राद्धयुग्मं समाचरेत् ॥ इति । अत्र नित्यदर्शयुगादिमन्वाद्यलभ्ययोगश्राद्धेषु सपत्नीकाः पितरो देवताः। उदकुम्भमासिकाब्दिकेषु त्वपत्नीका इति देवताभेद इत्याशयः । यत्र त्वान्वष्टक्यादौ नवदैवत्यविधानान्मासिकाब्दिकयोस्तु केवलानामेव पित्रादीनां देवतात्वं तत्रान्वष्टक्यादिना मासिकाब्दिकयोरपि प्रसङ्गतः सिद्धिः । नन्वस्त्वयं प्रसङ्गः, सपिण्डकेन दार्शिकेन तु तदभावाङ्गकस्य सङ्कान्त्यादिश्राद्धस्य न प्रसङ्गो विरोधादितिचेन्न । पिण्डदानादीनां पर्यु- दासेन तदभावस्य सङ्क्रान्त्यादावङ्गत्वाभावेन विरोधाभावात् । न च पिण्डदानप्राप्तिः प्रकृती, अयनद्वितये श्राद्धं विषुवहितये तथा । सङ्क्रान्तिषु च सर्वासु पिण्डनिर्वपणाहते ॥ इत्यादिनिवर्तकवाक्यं तु विकृताविति सन्निधानाभावादेकवाक्यत्वा- भावेन पर्युदासाभावात् 'न तौ पशौ करोति ' इतिवन्निषेधाङ्गीकारेण विकल्प इति वाच्यम् । पिण्डदानप्राधान्यस्य प्राक् प्रतिपादितत्वेन सङ्कान्तौ श्राद्धं कार्यमित्यादिविधिनैव तत्प्राप्तौ निषेधसन्निधानेन पर्युदासोपपत्तेः । यदा त्वेकपुत्रजननोत्तरं स्नानादौ क्रियमाणे द्विती- यपुत्रोत्पत्तिस्तदा जातकर्मभेदेऽपि वृद्धिश्राद्धं तन्त्रेण । अगृह्यमाणविशे- पत्वात् । यत्र तु निमित्तपौर्वापर्य नैमित्तिकयोर्वा विरोधस्तत्र निमि- त्तक्रमानुरोधेन नैमित्तिकानि कार्याणि । तथाच कात्यायनः- द्वे बहूनि निमित्तानि जायेरन्नेकवासरे । - श्राहमयूख: नैमित्तिकानि कार्याणि निमित्तोपत्त्यनुक्रमात् ।। इति । पतितिथावन्वारूढायाः पत्न्याः क्षयाहश्राद्धं तन्त्रेणेति निर्विवादम् । तत्र ब्राह्मणपिण्डयोरैक्यमिति हेमायनुसारिणः । 'ब्राह्मणपिण्डयो- भेंद: विश्वेदेवादीनां त्वारादुपकारकाणां तन्त्रता' इति माधवप्रयो- गपारिजातकारादयः।' भिन्नतिथावन्वारूढाया भिन्नमेव श्राद्धमिति निबन्धकाराः। पतितिथावेव वैश्वदेवाचारादुपकारकाङ्गतन्त्रता । ब्राह्म- णभोजनपिण्डदानयोः पार्थक्यमित्येव दाक्षिणात्यानुष्ठानम् । युक्तं चैतत्- या समारोहणं कुर्याद्भवृचित्यां पतिव्रता । तां मृताहनि संप्राप्ते पृथपिण्डे नियोजयेत् । प्रत्यब्दं च नवश्राद्धं युगपत्तु समापयेत् ॥ इति भृगूक्तेः । मृताहनि मासिके संप्राप्ते पृथपिण्डे नियोजयेञ्च- कारात्प्रत्यब्दं वार्षिकेपीत्यर्थः । एकचित्यां समारूढौ दम्पती निधनं गतौ । पृथक् श्राद्धं तयोः कुर्यादोदनं च पृथक् पृथक् ।। इति गार्योक्तेश्च । अनत्यश्राद्धशब्दस्य ब्राह्मणभोजनपिण्डदान- रूपप्रधानवचनत्वात्तन्मात्रपृथक्त्वोक्त्याऽन्येषामारादुपकारकाङ्गानां त- 'न्त्रता । ओदनपदं पिण्डदानलक्षकमिति हेमाद्रिः । तन्न । श्राद्धपदे- नैव प्रधानभूतपिण्डदानोपादानसिद्धेः । मृताहनि समासेन पिण्डनिर्वपणं पृथक् । नवश्राद्धं तु दम्पत्योरन्वारोहण एव तु ।। इति लौगाक्षिवाक्येऽपि सामान्यतस्तिथिभेदे तदभेदे वाऽन्वारोहणे सति दम्पत्योः मृततिथिनिमित्तके श्राद्धे समासो विधीयते । अविशेष- प्रवृत्तस्यैकतिथिगतानुगमनमात्रविषयत्वरूपसङ्कोचे प्रमाणाभावात् । लघुभूतमृताहश्राद्धत्वरूपोद्देश्यतावच्छेदकसंभवे गुरुभूतैकदिनमृताह- श्राद्धत्वरूपस्यायुक्तत्वाच्च । न च भिन्नतिथिनिमित्तिकयोरेकाहाप्राप्तेः कथं तत्र साहित्यविधिरिति वाच्यम् । अभ्युदितेष्टौ — सहअपयति' इति वाक्ये सहत्वमात्रविधौ दध्यंशे अपणस्याप्राप्तस्यार्थादाक्षेपवत् साहित्यविधानान्यथानुपपत्त्यैककालताक्षेपात् । न चैककालताक्षेपे वि- निगमनाविरहात्पत्नीमृताह एव भर्तुः श्राद्धं स्यादिति वाच्यम् । -- ग्राह्यद्रव्याणि। . अन्वारूढाया भर्तृमरणसमकालीनमरणप्रतिपादकार्थवादैः संदिग्धार्थ- निर्णयात् । अथवा- :- यस्य न श्रूयते वार्ता यावहादशवत्सरम् । कुशपुत्रकदाहेन तस्य स्यादवधारणम् ॥ इत्यत्र दाहदिने आहार्यमरणनिश्चयवदर्तृमृताहे मरणमाहार्यमर्थवा- देभ्यः । वस्तुतस्तु 'शंय्वन्ता प्रायणीया सन्तिष्ठते' इत्यत्र प्रथमोप- स्थितेराद्यशंयुवाकान्तत्ववर्तृमृततिथेः प्राथम्यात्तत्रैव साहित्यम् । ननु मृताहनीति वाक्ये पिण्डनिर्वपणमिति विवक्षितत्वात् पिण्डसमास एवाऽऽपदि विधीयते न तु श्राद्धसमास इति चेन्न । नवश्राद्धमिति श्राद्धपदोपादानेन पिण्डनिर्वपणपदस्यापि श्राद्धपरत्वेन भूगुगार्ग्यवा- क्यसमानार्थकत्वस्यैवोचितत्वात् । एकचित्यां समारुह्य मृतयोरेकबर्हिषि । पित्रोः पिण्डान्पृथग्दद्यापिण्डं त्वापत्सु तत्सुतः ॥ इत्यग्निस्मृतिवाक्यं त्वापत्परम् । इदं च समासविधानमाब्दिकविष- यमिति हेमायनुसारिणः । तन्न 'तां मृताहनि संप्राप्ते पृथपिण्डेनियो- जयेत् । प्रत्यब्दं च ' इत्यत्र मृताहनीत्यस्य मासिकपरत्वेन गोबलीवर्द- न्यायेन च सर्वविषयत्वात् । नवश्राद्धमात्रं तु पृथक् लौगाक्षिवाक्यात् । एतद्विरुद्धम् ' नवश्राद्धं युगपत्तु समापयेत्' इति भृगुवाक्यं त्वापत्परम- ग्निस्मृतिवाक्यवत् । 'विस्तरस्तु तांतचरणकृते द्वैतनिर्णये बोध्यः । कार्णाजिनिः- पित्रोः श्राद्धे समं प्राप्ते नवे पर्युषितेऽपि वा । पितृपूर्व सुतः कुर्यादन्यत्रासत्तियोगतः ।। पर्युषिते चिरन्तने । अन्यत्र मातृपितृव्यतिरिक्तविषये । अथ ग्राह द्रव्याणि। तत्र मनु:- तिलैबीहियवैर्माषैरद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम् ॥ कालशाकं महाशल्कः खड्गं लोहाऽऽमिषं मधु । आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ।।

। -बालशोक कालिका । महोशल्कः शल्यकः । मत्स्या इत्यन्ये । खङ्गो गण्डकः । लोहो रक्तच्छागः, कृष्ण इति हेमाद्रिः । लोहपृष्ठनामा शकुनि- रित्यन्ये । मधु माक्षिकं अन्यन्नानि नीवारादीनि । तथा- मुन्यन्नानि यः सोमो मांसं यच्चानुपस्कृतम् । अक्षारलवणं चैव प्रकृत्या हविरुच्यते ॥ अबुपस्कृतमविकृतमप्रतिषिद्धं च । अक्षारलवणमूषरमृत्तिकाकृतालक- प्पादिनम् । प्रचेताः- कृष्णसाषास्तिलांश्चैव श्रेष्ठाः स्युर्यवशालयः । महायना बीहियवास्तथैव च मधूलिकाः ॥ कृष्णाः श्वेताश्च लोहाच ग्राह्या स्युः श्राद्धकर्मणि । मधूलिकाः यावनालविशेषाः शालिविशेषा वेति हेमाद्रिः। अत्रिः अगोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेत् । तेलमाषण धर्मवणकस्तथा। सतपातीतन्मदः श्यामाकै संषेपद्वैः ॥ साक 'प्रिंयङ्गुभिरथार्चयेत् । Mystori नीवारापौष्कराश्चैव वन्यानां पितृतृप्तये । प्रियङवः कोविदारा नियावाच्या सोभना पौष्कराः पद्मबींजानि। निष्पावा वल्लाः । विष्णुधर्मोत्तरे गोधूमैरिक्षुभिर्मुरैः सतीनैश्वणकैरपि । से मासमेकं पितामहाः॥ सतानाः कलायाः। अथ वानि। वायुपुराणे- अकृताग्रयणं धान्यजातं वै परिपाटलाः । राजमाषानणूंश्चैव मसुरांश्च विवर्जयेत् ॥ परिपाटलाः स्थूला राजमाषाः । तानेवाणूंश्च । षड्विंशन्मते- कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्मणि । न वर्जयेत्तिलांश्चैव मुद्दान्माषांस्तथैव च ।। e वानि । . - भरद्वाजः " मुद्गाढकीमाषवर्जे द्विदलानि न दद्यात् ।। आढकी तुवरी । सुमन्तुः " बीजपूरान् माषांश्च न दद्यात्"। बीजपूरकं मातु- लिङ्गं, माषाः राजमाषाः । चतुर्विंशतिमते- कोद्रवा राजमाषाश्च कुलत्था वरकास्तथा । निष्पावाश्च विशेषेण पञ्चैतांस्तु विवर्जयेत् ।। वरका वनमुद्गाः। निगमः- यावनालानपि तथा वर्जयन्ति विपश्चितः । तैलमप्यापदि प्राज्ञाः संप्रयच्छन्ति याज्ञिकाः॥ तैलमपि वर्जयन्ति । आपदि तूभयमपि प्रयच्छन्ति ' इत्यन्वयः। पदिशन्मते-“वा मर्कटकाः श्राद्धे" इति । मर्कटका लङ्काः । वर्जये- दित्यनुवृत्तौ । मरीचिः- कटुकानि च सर्वाणि विरसानि तथैव च । कटुकानि पिप्पल्यादीनि । शङ्खः- लोहितान् वृक्षनिर्यासान् श्राद्धकर्मणि वर्जयेत् ।। महाभारते- अश्राद्धे यानि धान्यानि कोद्रवाः पुलकास्तथा पुलकास्तुच्छधान्यानि । पाने-कोद्रवोद्दालवरककुसुंभमधुकातसीः ॥ एतानि नैव देयानि ' इति । मधुकं ज्येष्ठीमधु । वान्यधिकृत्य मात्स्ये- कोद्रवोद्दालवरककपित्थमधुकातसीः । वैष्णवे च-मसूरक्षारवार्ताककुलत्थशणशिप्रवः ।। शिग्रुः सौभाजनः । ब्रह्माण्डे सर्वश्राद्धेऽजनं पुष्पं कुसुम्भं राजसर्षपाः । वज्यै चापक्रियं सर्व निशि यत्त्वाहृतं जलम् ।। अञ्जनपुष्पमञ्जनद्रुमपुष्पम् । मार्कण्डेयः- वाश्चाभिषवा नित्यं शतपुष्पं गवेधुकम् । अभिषवाः संधानानि । कौमें-- आढकीकोविदारांश्च पालंक्यां मरिचं तथा ॥ - - श्राद्धमयूखः . वर्जयेत् । इति । कोविदारः कांचनारः । मरिचान्यााणि न शुष्काणीति हेमाद्रिः । पालङ्कया मुकुन्दाख्यो गन्धद्रव्यविशेषः । अथ ग्राह्यफलादि । आम्रान्पालेवतानिक्षून मृद्वीकाभव्यदाडिमान् । वेदाश्चि भरुण्डांश्च श्राद्धकाले प्रदापयेत् । द्याच्छ्राद्धे प्रयत्नेन शृंगाटविसकेबुकान् ।। जम्बीरानुकारि। मृद्वीका द्राक्षा ।भव्यं कर्मरङ्गम्। विदार्यान् कन्दान् भरुण्डाः काश्मीरे प्रसिद्धाः शृङ्गाटकं जलजं त्रिकं- पद्मिनीमूलम् । केबुकं कवकम् । माम्रमानातकं बिल्वं दाडिमं बीजपूरकम् । वीणाकं लकुचं जंबु भव्यं भूतं तथाऽऽरकम् ॥ गाचीनामलकं क्षीरं नालिकेरं परुषकम् । गरं च सखजूरं द्राक्षा नीलकपित्थकम् ।। टोलं च प्रियालं च कर्कन्धूबदराणि(?)च । कंकतं वत्सकं च एवारुर्वारुकानि च । तानि फलजातीनि श्राद्धे देयानि यत्नतः ।। के कपीतफलम् । चीणाकमेरिकानुकारि । लकुचं लकुचफ- कर्णाददेशे प्रसिद्धम् । आरुकमारण्यैर्वारकम् । प्राचीनामलक कम् । क्षीरं राजादनफलम् । परूषकं कोङ्कणे प्रसिद्धम् । टाल स्वादुपटोलीफलम् । प्रियालं चारवृक्षफलम् । कर्कन्धर्बदरीफलम् । वैकंकतं सुवद्रुमफलम् । वत्सकं कुटजफलम् । एर्वारुः स्वादुकर्कटी । वारुकानि वारकीफलानि । तथा- कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा । शाकमारण्यकं चैव दद्यात्पुष्पाण्यमूनि च ।। तन्दुलीयोऽल्पमारिषः । वास्तुकं कटवास्तुकम् । मूलं कन्दम् । तथा- दाडिमं मागधी चैव नागराईकतिन्तिणीः । आम्रातकं जीरकं च कुम्बरं च नियोजयेत् ।। मागधी पिप्पली । नागरं शुण्ठी । कुम्बरं कुस्तुम्बरम् । - वानि। - कौमें-बिल्वामलकमृद्वीकपनसाम्रातदाडिमम् । भव्यं पारावताक्षोटखर्जूराम्रफलानि च । कसेरु कोविदारं च तालकंदस्तथा बिसम् । मांसं शाकं दधि क्षीरं चुञ्चुर्वेत्रांकुरस्तथा। कट्फलं काङ्कणी द्राक्षा लकुचं मोचमेव च । पारावतं पालेवतम् । तालकन्दस्तालमूलीकन्दः । चुञ्चुश्चूचुरिति प्रसिद्धः । मोचकं कदलीफलम् । अथ वानि । वायुपुराणे- लशुनं गृञ्जनं चैव पलाण्डु पिण्डमूलकम् । पिप्पली मरिचं चैव पटोलं बृहतीफलम् ॥ वांशं करीरं सुरसमर्जकं भूस्तृणानि च । अवेदोक्ताश्च निर्यासा लवणान्यूखराणि च ॥ श्राद्धकर्मणि वया॑नि याश्च भार्या रजस्वलाः। पिण्डाकृतिमूलं पिण्डमूलकम् । पिप्पल्य आर्द्रा न शुष्काः । तथा मरिचं च । सुरसं निर्गुण्डीपत्रम् । अर्जकं श्वेतकुबेरकपत्रम् । भूस्तृणो भूतिकाख्यः शाकः । विष्णुः न प्रत्यक्षं लवणं दद्यात् ' इति । . ब्राझे- सैन्धवं लवणं चैव तथा मानससंभवम् । पवित्रे परमे ह्येते प्रत्यक्षे अपि नित्यशः ।। विष्णु-' भूस्तृणशिग्रुसर्षपकूष्माण्डालाबुवार्ताकपालङ्कयातण्डुलीयक- कुसुम्भमहिषीक्षीराणि वर्जयेत्' इति । शिग्रुः सौभाजनः रक्तपुष्पः न श्वेतपुष्पः। सर्पयो राजसर्षपो न गौरः । अलाबु तुम्बीफलं वर्तुलम् । वार्ताकं क्षुद्रवार्ताकीफलम् । उशनाः- नालिकाशणछत्राककुसुम्भालाबुविड्भवान् । कुम्भीकम्बुकवृन्ताककोविदारांश्च वर्जयेत् ।। वर्जयेगुञ्जनं श्राद्धे काक्षिकं पिण्डमूलकम् । करंजं च इति । 'छत्राकं शतपुष्पा' इति 'हेमाद्रिः । कवकमित्यन्ये । कुम्भी श्रीपर्णिका । कंबुकं वृत्तमलाबु । वृन्ताकं श्वेतम् । 'कण्डूरं श्वेत- वृन्ताकं कुम्भाण्डं च विवर्जयेत्' इति देवलोक्तेः । कण्डूरं प्रावृषेणी- - फलम् । कुम्भाण्डं वृत्तालाबुसहशम् । कानिकमारनालम् । का नक्तमालफलम्। भारद्धाजः- नक्तोद्धृतं तु यत्तोयं पल्क्लाम्बु तथैव च । शल्यं तु कूष्माण्डफलं. बनकन्दश्च पिप्पली ।। कुलत्थशणजीराणि करम्भाणि तथैव च । अब्जादन्यद्रक्तपुष्पं शिग्रुः क्षारस्तथैव च ।। एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि । वज्रकन्द आरण्यसूरणः । जीरकं कृष्णंजीरकम् । करम्भाणि दधिस- तवः । क्षारों यवक्षारादिः । ब्राह्म- गृञ्जनं चुक्रिकां चुकं गाजरं पोतिकां तथा । हिङ्गन्धा पनसं भूनिम्बं निम्बराजिके । कुस्तुम्बरं कलिङ्गोत्थं वर्जयेदम्लवेतसाम् ।। गृजनं लशुनानुकारी 'सूक्ष्मनालः कन्दविशेषः' इति विज्ञानेश्वरः । श्वेतकन्दः पलाण्डुविशेषः, गृञ्जनम् इति श्राद्धप्रकरणे माधवः । प्रा. यश्चित्तप्रकरणे तु गृजनं पत्रविशेषः यदीयं चूर्ण गायकाः कण्ठशुद्धयर्थं भक्षयन्ति ' इति । तत्र- गन्धाकृतिरसैस्तुल्यं गृञ्जनं तु पलाण्डुना । सूक्ष्मनालाग्रपत्रत्वाद्भिद्यते तु फ्लाण्डुतः । इति वाग्भट्टीयटीकायां हेमाद्रौ बाष्पचन्द्रवचन विनिगमकम् । यत्तु माद्रिः गृञ्जनं गाजरम् इति । माधवोपि प्रायश्चित्तप्रकरणे मूल- विशेषो वा गाजरापरपर्यायः इति व्याचष्टे तदनेन गृजनगाजरयो: पृथगुपादानेनापास्तम् । यत्तु हिमुनो ग्राह्यत्वमुक्तमादित्यपुराणे- मधूक रामठं चैव कर्पूरं मरिचं गुडम् । श्राद्धकर्मणि शस्तानि सैन्धवं त्रपुसं तथा ।। इति । तद्विहितप्रतिषिद्धत्वाद्वैकल्पिकमानुकल्पिकं वेति ज्ञेयम् । राम; हिङ्गुः । एवमन्येष्वपि विहितप्रतिषिद्धेषु । मनु:- लोहितान् वृक्षनिर्यासान् ब्रश्चनप्रभवांस्तथा । शेलं गव्यं च पीयूषं प्रयत्नेन विवर्जयेत् ॥ शेलुः श्लेष्मातकः । अनिर्दशाहं पयः पीयूषम् ।

श्रादेमांसविचारः। अथ श्राद्धे मांसविचारः। मांसविचार:- तत्र कचिच्छाद्धाङ्गत्वेन श्रुतं नित्यम् , कचित्तु फलार्थत्वेन श्रुतम् 'मांसं वाीणसस्य च ' इति । तत्र व्यवस्थोक्ता मनुना- मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः । मधु प्रधानं शूद्रस्य सर्वेषां चाविरोधि यत् ॥ इति । अत्र हि 'सप्तदश वैश्यस्य सामिधेन्यः' इतिवत् 'क्षत्रियवैश्ययो- रेव मांसम्' इति वचनव्यक्त्या ब्राह्मणस्य श्राद्धे न मांसदानम् । सर्वेषां मांसदानविधीनां क्षत्रियवैश्यपरत्वात् । न च मुन्यन्नमेव ब्राह्मणस्य मांसमेव क्षत्रियवैश्ययोरिति वचनव्यक्तिः । सर्ववर्णानां मुन्यन्नादिद्रव्यनियमेनान्यद्रव्यप्रतिपादकानां वाक्यानामानर्थक्यप्रसङ्गा- त् । न च प्रधानशब्दस्य पूर्वत्रानुषतः । प्रमाणाभावात् । यदि हि या ते अग्नेरजाशया' 'इपएकपाजेंद्विपदी' इत्यादिवदनुषङ्गं विना साका स्यात् यदि वा 'चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनातु' इत्यत्रेव तेनैव पदेनाग्रे वसोः सूर्यस्य रश्मिभिः' इत्यस्ये- वान्वयः स्यात्तदानुषङ्गः। न त्वेवमिहोभयमप्यस्तीति नानुषङ्गः । अतः पूर्वोक्तव व्यवस्था युक्ता। ननु-अस्तु नामैवं व्यवस्था । तथापि काम्यमांसदानं केन वार्येत । अङ्गीकृतमेव हि वैश्यं प्रत्यपि 'एकविंशतिसा मिधेन्यनुवचनम् ' इति ।। सत्यम् । अस्तु नामैवं कृतयुगादिषु कलौ तु सर्ववर्णानां मांसं प्रतिषि- द्धमेव । तथायुक्तं श्राद्धदीपकलिकामदनपारिजातयोनिगमे- 'अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु ॥ देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥ इति । बृहन्नारदीये द्वाविंशेऽध्याये समुद्रयानस्वीकारः इत्युपक्रम्य मध्ये मांसदानं तथा श्राद्धे वानप्रस्थाश्रमस्तथा' इत्युक्त्वा 'एतान् धर्मान् कलियुगे वर्ध्यानाडुर्मनीषिणः' इत्युक्तम् । नच 'श्राद्धे मांसम्' इति श्राद्धार्थस्यैव प्रतिषेधो न फलार्थस्येति वाच्यम् । एतादृशव्यव- स्थायां मानाभावात् । किंच । एतस्य वाक्यस्य सर्ववर्णान्प्रति प्राप्ते- स्तत्र च ब्राह्मणस्य नित्यमांसाभावेन काम्यमांसनिषेधपरत्वम् , क्षत्रि- यवैश्ययोस्तु श्राद्धार्थप्रतिषेधपरत्वम्' इति वैरूप्यापत्तिः । अतः श्रा- श्राद्धमयूखः । - द्धसम्बन्धि मांसं यस्य येन रूपेण प्राप्तं तत्सर्वमत्र प्रतिषिध्यते दीक्षि- तस्येव दीक्षितो नजुहोति' इत्यादिना नित्यानामग्निहोत्रादीनां काम्यानां चतु)तृहोमादीनां प्रतिषेध इति । बृहत्पराशरेणाप्युक्तम्- यस्तु प्राणिवधं कृत्वा मांसेन तर्पयेत्पितॄन् । सोऽविद्वांश्चन्दनं दग्ध्वा कुर्यादङ्गारविक्रयम् ।। क्षित्वा कूपे यथा किंचिद्वालः प्राप्तुं तदिच्छति । पतत्यज्ञानतः सोऽपि मांसेन श्राद्धकृत्तथा ॥ इति । इदमप्येकमूलकल्पनालाघवात्कलिपरमेव । अन्ययुगपरत्वे मांसवि- धीनां सर्वेषामानर्थक्यात् । तथा भागवतसप्तमस्कन्धे पञ्चदशाध्याये- न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्ववित् । मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया इति । यथा मुन्न्यन्नैः तथा न पशुहिंसयेति । अत्र दानभक्षणयोनिषेधः कलावेव । अन्यथा 'यथाविधि नियुक्तस्तु यो मांसं नात्ति मानवः । इत्यादीनामानर्थक्यं स्यात् । अत एवं शास्त्रार्थे स्थितेऽपि ये केचन स्मृतिज्ञमन्या मांसभक्षणलोलुपाः श्राद्धे मांसं ददति तान् , गवयस्य तु मांसेन तृप्तिर्मासान्दशैव तु । मासानेकादश प्रीतिः पितृणां माहिषेण तु । गव्ये तु दत्ते श्राद्धेषु संवत्सरमिहोच्यते ॥' इत्यादि व्यासवाक्यमालोक्य श्राद्धे गोमांसं ददतः स्वतन्त्रान्को वारयेदिति दिक् । अथ कुशनिरूपणम् । तेषामुत्पत्तिः शतपथश्रुतौ 'या वै वृत्राद्वीभत्समाना आपो धन्वदभन्त उदायंस्ते दर्भा अभवन् यद्दभन्यं उदायंस्तस्मादर्भास्ता हैताः शुद्धा मेध्या आपोऽवृत्राभिक्षरिता यदर्भाः' इति । अवृत्राभिक्षरिता वृत्रेण कालुण्यमप्रापिताः। गोभिल:- कुशमूले स्थितो ब्रह्मा कुशमध्ये तु केशवः । कुशाग्रे शङ्करं विद्यात्सर्वे देवाः समन्ततः॥ विधिमाह कौशिकः- शुचौ देशे शुचिर्भूत्वा स्थित्वा पूर्वोत्तरामुखः । ॐकारेणैव मन्त्रेण कुशाः स्पृश्या द्विजोत्तमैः ॥ - - कुशनिरूपणम् । - उत्पाटनमत्रः- विरश्चिना सहोत्पन्न परमेष्ठिनिसर्गज । नुद सर्वाणि पापानि मम स्वस्तिकरो भव ।। तमेव मन्त्रमभिधाय स्मृत्यन्तरे- एवं मन्त्रं समुच्चार्य ततः पूर्वोत्तरामुखः । हुंफट्कारेण मन्त्रेण सकृच्छित्वा समुद्धरेत् ।। कालानाह हारीतः- मासे नभस्यमावास्या तस्यां दर्भोच्चयो मतः । अयातयामास्ते दर्भा नियोज्याः स्युः पुनः पुनः॥ अयातयामा उपयुक्ता अप्यपवादं विहायान्यत्र प्रयोज्याः । यत्तु गृह्य- परिशिष्टे- दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविरग्नयः। अयातयामान्येतानि नियोज्यानि पुनः पुनः ।। इति सामान्यवचनं तत्पूर्वकालगृहीतविषयम् । पवित्रे मार्कण्डेय:- सपवित्रेण हस्तेन कुर्यादाचमनक्रियाम् । नोच्छिष्टं तत्पवित्रं तु भुक्तोच्छिष्टं तु वर्जयेत् ॥ आचमनाङ्गत्वमाह कात्यायन:- सपवित्रः सदों वा काङ्गे पितृकर्मणि । अशून्यं तु करं कृत्वा सर्वत्राचमनं चरेत् ।। पवित्रशब्देन प्रन्थिमत् । सर्वकर्माङ्गत्वं शातातपेनोक्तम्- जपे होमे तथा दाने स्वाध्याये पितृकर्मणि । सव्यापसव्यौ कुर्वीत सपवित्रौ करौ बुधः ॥ इति । अत्रि:- ब्रह्मयज्ञे जपे चैव ब्रह्मग्रन्थिविधीयते । भोजने वर्तुलः प्रोक्त एवं धर्मों न हीयते ॥ इति । द्विगुणीकृतानां दर्भशिखानां पाशः प्रदक्षिणमावेष्टनं विधाय पश्चाद्भागेन यदा प्रवेश्यते तदा वर्तुलो ग्रन्थिः स एव यदा प्राद- क्षिण्येन समवेष्टनं विधाय पुरोभागेन प्रवेश्यते तदा ब्रह्मप्रन्थिः' इति हेमाद्रिः। पवित्रलक्षणं कात्यायनेनोक्तम्- अनन्तर्गर्भितं साग्रं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्रकुत्रचित् ।। - श्राहमयूखः - . तत्प्रकारमापस्तम्ब आह 'समौ सानो दौं प्रादेशमात्री पनि कुरुते पवित्रे स्थो वैष्णवी वायुवा मनसा पुनात्विति तृणं काष्ठं वाऽन र्धाय छिनत्ति न नखेन । इति । पवित्रदर्भसङ्ख्या गारुडे- सप्तभिर्दर्भपिञ्जूलैः कुर्याद्रामं पवित्रकम् । पञ्चभिः क्षत्रियस्यैव चतुर्भिस्तु तथा विशः ।। द्वाभ्यां शूद्रस्य विहितमन्तराणां तथैव च । मार्कण्डेयस्तु- चतुर्भिर्दर्भपिञ्जूलैाह्मणस्य पवित्रकम् । एकैकन्यूनमुद्दिष्टं वणे वर्णे यथाक्रमम् ।। सर्वेषां वा भवेद्वाभ्यां पवित्रं प्रन्थितं न वा। त्रिभिस्तु शान्तिके कार्य पौष्टिके पञ्चभिस्तथा । चतुर्भिश्वाभिचाराख्यं कुर्वन्कुर्यात्पवित्रकम् ॥ इति । दर्भलक्षणमाह कौशिक:- सप्तपत्राः शुभा दर्भास्तिलक्षेत्रसमुद्भवाः । अप्रसूनाः स्मृता दर्भाः प्रसूनास्तु कुशाः स्मृताः ।। समूलाः कुतपाः प्रोक्ताश्छिन्नापास्तृणसज्ञिताः । अथ तिलनिरूपणम् । मत्स्यपुराणे- विष्णोदेहसमुद्भूताः कुशाः कृष्णास्तिलास्तथा । धर्मस्य रक्षणायालमेतत्प्राहुर्दिवौकसः ।। सत्यवतः जर्तिलास्तु तिलाः प्रोकाः कृष्णवर्णा वनोद्भवाः । जतिलाश्चैव ते ज्ञेया अकृष्टोत्पादिताश्च ये ॥ -- आपस्तम्बः- अटव्यां ये समुद्भूता अकृष्टाः फलितास्तथा । ते वै श्राद्धे पवित्राः स्युस्तिलास्ते न तिलास्तिलाः ।। अनाकृष्टभूमौ जाताः जतिलाः प्रशस्ततराः । तदभावे क्षेत्रोत्पन्ना- स्तेषाम् 'अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वाः । इतिवत् प्रशंसार्थः प्रतिषेधः । पुष्पाण्याह वृद्धमनु:- " अर्घपात्राणि । ६९ शुक्लाः सुमनसः श्रेष्ठास्तथा एद्मोत्पलानि तु । गन्धरूपोपपन्नानि ऋतुकालोद्भवानि च ।। वान्याह स एव- जपादिकुसुमं झिण्टि रूपिका सकुरण्टिका । पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ।। रूपिकाऽर्कपुष्पम् । उग्रगन्धीन्यगन्धीनि दुष्टान्यपि च वर्जयेत् । चंदनागुरुणी चोभे तथैवोशीरपद्मकम् ।। तुरुष्कं गुग्गुलुं चैव घृताक्तं युगपद्दहेत् । घृतं न केवलं दद्यादुष्टं वा तृणगुग्गुलम् ॥ इति । 'तुलसीपत्राण्यपि देया नि' इति स्मृत्यर्थसारे । अथार्घपात्राणि । हारीत:--'कांस्यपार्णराजतताम्रपानाण्यघोंदकधारणानि सर्वाण्युप- कल्प्यानि'। वैजवाप:- खादिरौदुम्बराण्यपात्राणि श्राद्धकर्मणि । अथाश्ममृन्मयानि स्युरपि पर्णपुटास्तथा ॥ इति । पर्णपुटा यज्ञियवृक्षपर्ण निर्मिताश्चमसाकृतयः । यत्तु कात्यायनेन मृन्मयवर्ज यानि वाविद्यन्ते' इत्युक्तं तदन्यलाभे मृन्मयनिषेधार्थम् नात्यन्तिकनिवृत्त्यर्थमिति हेमाद्रिः । अपकमृन्मयनिषेधार्थमित्यन्ये । वि- कल्पार्थमित्यपरे । मत्स्यपुराणे पर्णमयपात्रमभिधायोक्तम्-- जलजं वाऽपि कुर्वीत तथा सागरसंभवम् । सौवर्ण राजतं तानं पितृणां पात्रमुत्तमम् ।। इति । राजतैीजनैदेयमपि वा रजतान्वितैः । इति च । पात्रविशेषेण फलविशेषो ब्रह्मवैवर्ते- पालाशे ब्रह्मवर्चस्वमश्वत्थे राज्यभागिता । सर्वभूताधिपत्यं च प्लक्षे नित्यमुदाहृतम् ।। पुष्टिः प्रजाश्च न्यग्रोधे बुद्धिः प्रज्ञा धृतिः स्मृतिः। रक्षोन्नं च यशस्यं च काश्मर्याः पात्रमुच्यते ।। सौभाग्यमुत्तमं लोके मधूके समुदाहृतम् । फल्गुपात्रेण कुर्वाणः सर्वान्कामानवाप्नुयात् ।। - - श्राद्धमयूखः फल्गुः काकोदुंबरिका। परां द्युतिमथार्के च प्राकाम्यं च विशेषतः । बिल्वे लक्ष्मीस्तपो मेधा नित्यमायुष्यमेव च ॥ वर्षत्यजस्रं तत्रैव पर्जन्यो वेणुपात्रतः। एतेषां लभते पुण्यं सौवर्णे राजतेऽपि वा ॥ पुण्यं फलम् । अत्र च योगसिद्धयधिकरणन्यायेन पर्यायेणैव फल- प्राप्तिन युगपदिति । इत्यर्धपात्रनिर्णयः ॥ अथ भोजनपात्राणि। वायुपुराणे- पात्रं वै तैजसं दद्यान्मनोज्ञं श्राद्धभोजने । राजतं काञ्चनं चैव दद्याच्छ्राद्धेषु यः पुमान् ।। दुत्वा च लभते दाता प्राधान्यं धनमेव च । व्यवस्थामाहात्रि:- भोजने हैमरौप्याणि दैवे पित्र्ये यथाक्रमम् । हारीत:-राजतकांस्यपर्णताम्रपात्राणि ब्राह्मणभोजनार्थानि महा. न्ति । भोजनार्थोपकल्पितसन्निधारणपर्याप्तं महत्वं ग्राह्यम् । कांस्ये विशेषमाहात्रिः- पञ्चाशत्पलिकं कांस्यं ब्यधिकं भोजनाय वै ॥ इति । वाराहे- अन्यान्यपि तु पात्राणि दारुजान्यपि जानता। यथोपपन्नं कार्याणि मृन्मयानि न तु क्वचित् ।। नायसान्यपि कुर्वीत पैत्तलानि न चैव हि । न च सीसमयानीह शस्यन्ते पुजान्यपि ॥ इति । अंगिराः 'न जातीकुसुमानि दद्यान्न कदलीपत्रम् । इति । इति भोजने भाजनविधिः । 7 - - अथ श्राद्धे प्रशस्ता ब्राह्मणाः। वसिष्ठः-'पितृभ्यो दद्यात्पूर्वेचुर्ब्राह्मणान् संनिपात्य यतीन् गृहस्थान श्रादे प्रशस्ताप्रामणाः । - साधून परिणतवयसोऽविकर्मस्थान् श्रोत्रियानशिष्याननन्तेवासिनः । इति । अन्तेवासी शुश्रूषकः । कात्यायन:--स्नातकानेके यतीन् गृह- स्थान् साधून्वा श्रोत्रियान् वृद्धाननवद्यान्सकर्मस्थानभावेऽपि शिष्या- न्सदाचारान् ' इति । मनुः यत्नेन भोजयेच्छ्राद्धे बढचं वेदपारगम् । शाखान्तगमथाध्वर्यु छन्दोगं वा समाप्तिगम् ॥ इति । वा शब्दोऽपिस्थाने । शातातपः- भोजयेद्यद्यथर्वाणं दैवे पित्र्ये च कर्मणि । अनन्तमक्षयं चैव फलं तस्येति वै श्रुतिः ।। अत्र केचित् 'यथा कन्या तथा हविः' इति कन्यासाधम्र्येण स्वशा- खीयमेव श्राद्धे नियोजयन्ति । तन्न । कन्यायामिव स्वशाखीयनियमे मानाभावात् । वचनं तु कुलीननियमपरं युक्तमिति । बृहस्पति:- यद्येकं भोजयेच्छ्राद्धे छन्दोगं तत्र भोजयेत् । मचो यजूंषि सामानि त्रितयं तत्र विद्यते ॥ यमशातातपौ- छन्दोगं भोजयेच्छ्राद्धे वैश्वदेवे च बहृचम् । पुष्टिकर्मणि वाऽध्वर्यु शान्तिकर्मण्यथर्वणम् ।। ब्रह्मवैवर्ते- विप्रान्गृहस्थान्वेदार्थविदो निरभिमानिनः । पत्नीपुत्रसमायुक्तान् श्राद्धकर्मणि भोजयेत् ॥ नन्दिपुराणे- चत्वार आश्रमाः पुण्याः श्राद्धे दैवे तथैव च ।। इति । कूर्मपुराणे- असमानप्रवरको ह्यसगोत्रस्तथैव च । असम्बन्धी च विज्ञेया ब्राह्मणाः श्राद्धसिद्धये ।। नक्षत्रतिथिपुण्याहान मुहूर्तान्मङ्गलानि च । नं निर्दिशन्ति ये विप्रास्तैर्भुक्तं ह्यक्षयं भवेत् ।। - - - यम:- ६ भारमयूखः - अथानुकल्पः। ब्रह्माण्डपुराणे- अलामे सति भिक्षूणां भोजयेद्धयानिनः शुमान् । असंभवेऽपि तेषां वै नैष्ठिकान् ब्रह्मचारिणः ।। तदभावेऽप्युदासीनं गृहस्थमपि भोजयेत् । भिक्षवो यतयस्ते च त्रिदण्डिन एव भोज्याः इति हेमाद्रिः । अत्र मानं तु चिन्त्यम् । ध्यानिनो वानप्रस्थाः । गारुडे-उदासीनेष्वलब्धेषु भोज्याः सम्बन्धिनोऽपि हि । मातुलपयालयावावशिष्याचार्यादयोऽपि च ।। गौतमः-'शिष्यांश्चैके सगोत्रांश्च भोजयेदूर्व त्रिभ्यो गुणवत: च. द्धयेन याज्यसमानायग्रहणम् । मनु:-मातामहं मातुलं च खस्रीयं श्वशुरं गुरुम् । दौहित्रं विट्पति बन्धुमृत्विग्याज्यात मोजयेत् ।। 'विट्पतिर्जामाता' इति हेमाद्रिः । अतिथिरि ति मेधातिथि- माधवौ । गार्ग्य:- नैकगोत्रे हविद्याद्यथा कन्या तथा हविः । अभावे ह्यन्यगोत्राणामेकगोत्रांस्तु भोजयेत् ।। असमप्रवराभावे समानप्रवरानपि ॥ बौधायन:- तस्मादेवंविधं सपिण्डमप्याशयेत् ॥ इति । तत्र विशेषमाह गौतमः- भोजयेदूर्व त्रिभ्यो गुणवन्तम् ' इति । अत्रिः-पिता पितामहो भ्राता पुत्रो वाऽथ सपिण्डकः । न परस्परमर्हाः स्युर्न श्राद्धे ऋत्विजस्तथा।। ऋत्विक्पुत्रादयो ह्येते सकुल्या ब्राह्मणाः स्मृताः । वैश्वदेवे नियोक्तव्या यद्येते गुणवत्तराः॥ इत्यनुकल्पः। शातातपः-संन्निकृष्टमधीयानं ब्राह्मणं यस्त्वतिक्रमेत् । भोजने चैव दाने च दहत्यासप्तमं कुलम् ।। भविष्यत्पुराणे- अतिक्रान्ते न दोषोऽस्ति निर्गुणं प्रति कर्हिचित् ।

वा ब्राह्मणाः। ६ - महाभारते- गायत्रीमात्रसारोऽपि ब्राह्मणः पूजितः खग। गृहासन्नो विशेषेण न भवेत्पतितः स चेत् ।। भविष्यत्पुराणे- यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतिताहते । दूरस्थं भोजयेन्मूढो गुणाढ्यं नरकं ब्रजेत् ।। महाभारते- यदि स्यादधिको विप्रो दूरे वृत्तादिभिर्वृतः । तस्मै यत्नेन दातव्यमतिक्रम्यापि सन्निधौ ॥ - अथ वा ब्राह्मणाः। वायुपुराणे- न भोजयेदेकगोत्रान्समानप्रवरांस्तथा । मनु:- नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्विजम् । ब्रह्माण्डे- न भोज्या योनिसंवद्धा गोत्रसम्बधिनस्तथा । मन्त्रान्तेवासिसंवद्धा श्राद्धे विप्राः कदाचन ।। ब्रह्मवैवर्ते- शिष्याश्च ऋत्विजो याज्याः सुहृदः शत्रवस्तथा । श्राद्धे तु श्वशुरः श्यालो न भोज्या मातुलादयः ।। कौर्मे-यस्य वेदश्च वेदी च विच्छियेते त्रिपौरुषम् । स वै दुर्ब्राह्मणो नाहः श्राद्धादियु कदाचन ।। याज्ञवल्क्य:- रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा । अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ।। भृतकाध्यापकः क्लीवः कन्यादृष्यभिशस्तकः । मित्रध्रुक पिशुनः सोमविक्रयी परिविन्दकः ॥ मातापित्रोणुरोस्त्यागी कुण्डाशी वृपलात्मजः । परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः ॥ इति । दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।

६४ भादमयम्बः परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ इनि । प्रपंचितं चेदं संस्कारमयूखे । तथा-कुशीलवोऽवकीर्णी च वृपलीपतिरेव च ॥ इनि । वर्ण्य इत्यर्थः। विष्णुःन वार्यपि प्रयच्छेत बिडालबतिके द्विजे।। ब्रह्मपुराणे- भोक्तुं श्राद्धे न चाहन्ति देवोपहतचेतसः । पण्ढो मूकश्च कुनखी खल्वाटो दन्तरोगवान् ।। श्यावदन्तः पूतिनासः छिन्नाश्वाधिकाङ्गुलिः । गलरोगी च गडमानस्फुटिताङ्गश्च सम्वरः ।। खजतूवरमण्ठाश्च ये चान्ये हीनरूपिणः । गलरोगी गण्डमाली । गडुमान् कुजः । यौवने व जातःमश्रुम्सूबरः मण्ठा वक्रजङ्घाः । स्कान्दे- काणाः कुण्ठाश्च मण्ठाश्च मूकान्धवधिरा जडाः । कुनखाः कुष्ठिनश्चैव दुर्नमा विद्धमेनाः ।। अतिदीर्घा अतिहखा अतिस्थूला भृशं कृशाः । निलामा नातिलोमानो गौराः कृष्णा अतीव ये॥ एतान्विवर्जयेद्विप्रान् प्राज्ञः श्राद्धेष्वश्रोत्रियान् । दुर्नग्मा दुश्चर्माणः। विद्धमेहना विद्धशिश्ना इति हेमाद्रिः। मरीचि:- अविद्धकर्णः कृष्णश्च लम्बकर्णस्तथैव च । वर्जनीयः प्रयत्नेन ब्राह्मणः श्राद्धकर्मणि । लम्बकर्ण वर्णयति गोभिल:- हनुस्थलादधः कर्णो लम्बौ तु परिकीर्तिती । व्यङ्गुलव्यङ्गुलौ शस्तौ तेन शातातपोऽब्रवीत् ।। पूर्वोक्तसर्वापवादमाह सुमन्तु:- काणाः कुण्ठाश्च मण्ठाश्च दुश्चर्माणः कबिना। सर्वे श्राद्धे नियोक्तव्या मिश्रिता वधारगः ।। काश्यपेन तु मिश्रणे विशेष उक्त: काणादीन् भोजयेदेवे श्राद्धे दाने तु वर्जयन् । तथा-न ब्राह्मणं परीक्षेत देवे कर्मणि धर्मवित ।। पित्र्ये कर्मणि संप्राप्ते प्रयत्नेन परीक्ष्या इति । - विभक्तिनिर्णयः - कालिकापुराणे- अनाश्रमी तु यो विप्रो जटी मुण्डी वृथा च यः। वृथा काषायधारी यः श्राद्ध तं दूरतस्त्यजेत् ॥ चिकित्सका देवलका वृथा नियमधारिणः । सोमविक्रयिणश्चैव राजन्नाहन्ति केतनम् ।। केतनं श्राद्धीयनिमन्त्रणम् । होतारो वृषलान्ना ये वृषलाध्यापकास्तथा । तथा बृषलशिष्याश्च श्राद्धे नाहन्ति केतनम् ।। अनमयश्च ये विप्रा मृतनियातकाश्च ये। स्तेनाश्च पतिताश्चैव राजन्नाहन्ति केतनम् ।। सौरपुराणे- अङ्गबङ्गकलिङ्गांश्च सौराष्ट्रान् गुर्जरांस्तथा । आभीरान्कोकणांश्चैव द्राविडान्दक्षिणापथान् ।। आवन्त्यान्मागांश्चैव ब्राह्मणांस्तु विवर्जयेत् ॥ इति । अथ विभक्तयो निर्णीयन्ते । नागरखण्डे- विभक्तिरहितं श्राद्धं क्रियते यद्विपर्ययात् ॥ अकृतं तद्विजानीयापितणां नोपतिष्ठति । तस्मात्सर्वप्रयत्नेन ब्राह्मणेन विजानता ।। विभक्तिभिर्ययोक्ताभिः श्राद्धं कार्य त्रिभिः सदा । विपर्ययाद्धान्तेः । तिसृभिरिति एकोदिष्टे आवाहनाभावेन द्विती- चाया अभावात्तिमृणां श्राद्धमात्रसम्बन्धाभिप्रायम् । व्यासः-चतुर्थी त्वासने नित्यं संकल्पे च विधीयते । प्रथमा तर्पणे प्रोक्ता सम्बुद्धिमपरे जगुः ।। नित्यमित्यस्य संकल्प इत्यनेन सम्बन्धः । आसने पष्टया अपि वक्ष्यमाणत्वात् । धर्मः- पृच्छाक्षय्यासने षष्टी चतुर्थी चासने मता। अर्ध्यावनेजनं पिण्डं तथा प्रत्यवनेजनम् ।। सम्बुद्धयैतानि कुर्वीत सर्वशास्त्रविशारदः । पृच्छा ब्राह्मणानुज्ञाग्रहणार्थ श्राद्धारम्भे प्रश्नवाक्यम् । भृगुः- - श्राद्धमयूखा . आसने तु भवेत्षष्ठी तथैवाक्षय्यपृच्छयोः । आवाहने द्वितीया स्यादेष शास्त्रविनिश्चयः ।। गन्धं माल्यं च धूपं च दीपमन्नं सदक्षिणम् । अपृथक्त्वेन दातव्यं चतुर्ध्या भूतिमिच्छता ।। अत्रासने चतुर्थीषष्ठयोर्यथाशाखं व्यवस्थितो विकल्पः । एता पत्र विभक्तयो गोत्रपदे शर्मपदे च योज्याः। स्त्रीलिङ्गेऽपि विभक्त्यन्तपदा- योगः प्रदर्शितो नागरखण्डे- मातर्मात्रे तथा मातुरासने कल्पने क्षणे । गोत्रे गोत्रायै गोत्रायाः प्रथमाद्या विभक्तयः ।। देवि देव्यै तथा देव्या एवं मातुश्च कीर्तयेत् । गोभिलोऽपि- गोत्रायाश्चासने कुर्याद्गोत्रे चैवायपिण्डयोः॥ गोत्रायाश्चाक्षय्यकाले गोत्रायै त्याग एवं च । गोत्रामावाहने कुर्यात् स्त्रीलिङ्गे तु न संशयः ॥ अथ व्यापसव्यनिर्णयः॥ चतुर्विधं कर्म। किञ्चित्पित्र्यैकसम्बधित्वात्पित्र्यं यथा स्वधानिन- यनादि । किञ्चिद्देवैकसम्बन्धित्वावं यया विश्वेदेवाः प्रीयन्तामिति- वाचनम्। किश्चिदुभयसम्बन्धादुभयात्मकं यथा पाकप्रोक्षणादि । किञ्चिञ्च देवपितृसम्बन्धरहितत्वाल्लौकिकमेव यथा स्वागतप्रश्नादि । तत्र पित्र्यमुभयात्मकं च प्राचीनावीतिना कार्यमित्याह मनुः- प्राचीनावीतिना सर्वमपसव्यमतन्द्रिणा । पित्र्यमा निधनामार्ग विधिवदर्भपाणिना ।। . समाप्तिः । अत्र पित्र्ये विहितं प्राचीना- पतृसाधारणेऽपि कर्मणि भवति विप्रतिषिद्धप्रधानाप्रधानधर्म- वाय प्रधानधर्मस्य बलीयस्त्वात् । दैवं तूपवीतिनैव कार्यम् । तदुक्तं गरखण्डे- एवं सर्वाः क्रियाः कार्या दैविक्यः सव्यपूर्विकाः । पैतृक्यश्चापसव्येन मुक्त्वैकं स्वस्तिवाचनम् ।। स्वस्तिवाचनं 'स्वस्तीति ब्रूत ' इति प्रैषः । रागतः प्राप्तपुरुषार्थभो- जनाश्रितनिरामिषत्वादिनियमस्य कर्मार्थत्वेऽपि भोजनस्य प्राधान्या- सव्यापसव्यनिर्णयः। द्यज्ञोपवीतमेव । अथवा पित्र्यत्वेन प्राप्तस्य प्राचीनावीतस्य ' कृताप- सव्यः पूर्वेयुः पितृपूर्व निमंत्रयेत्' इत्यनेन संकल्पप्रभृतिनिमन्त्रणे पुनर्विधानात्तत्पूर्वकृत्यनिरामिषभोजनादौ प्राचीनावीतं परिसङ्ख्यायते अतो यज्ञोपवीतम् । देशकालसंकीर्तनादि युष्मदनुज्ञया करिष्य इति वाक्यं प्राचीनावीती उच्चारयेत् । प्रचेता:- अपसव्यं ततः कुर्याज्जत्वा मन्त्रं तु वैष्णवम् । गायत्री प्रणवं चापि ततः श्राद्धमुपक्रमेत् ।। ततः ब्राह्मणोपवेशनोत्तरं प्राणायामं कृत्वा उपक्रमेत् । संकल्पयेत्' इति हेमाद्रिः । नीवीबन्धश्चापसव्येन । 'पितृदेवत्या वै नीवीः' इति श्रुतेः । बृहस्पति:- अजून्सव्येन वै दद्यादेवे दर्भान्प्रदक्षिणम् । एतच्च सव्यमाच्छादनान्तेपु दैवपदार्थेषु । अत एव वैश्वदेविकाच्छा- दनान्तं पदार्थकाण्डमुक्त्वाऽऽह याज्ञवल्क्यः- अपसव्यं ततः कृत्वा पितृणामप्रदक्षिणम् । द्विगुणांस्तु कुशान्दत्वा ह्युशन्तस्त्वेत्यूचा पितॄन् । 'आवाहयेत् ' इति वक्ष्यमाणेन सम्बन्धः । एतच्चापसव्यं दर्भास- नदानाद्याच्छादनान्तम् । अग्नौकरणे तु कात्यायनानामनुज्ञाभ्यर्थनात्प्र- भृति प्राचीनावीतित्वम् । आश्वलायनानां तु अनुज्ञाभ्यर्थनात्प्रभृति तदुत्तरभाविपदार्थप्रभृति वा प्राचीनावीतित्वम् । अथवा सर्वेषामेवा- दितः प्राचीनावीतित्वं यज्ञोपवीतित्वं वा । हुतशेषप्रतिपत्तिस्तु ' प्राची- नावीतिनैव कार्या इत्याह शौनकः- हुत्वाऽग्नौ परिशिष्टं तु पितृपात्रेष्वनन्तरम् । निवेद्यवापसव्येन परिवेषणमाचरेत् ।। अत्रापसव्येनेत्यस्य न परिवेषणेन सम्बन्धः । अपसव्येन यस्त्वन्नं ब्राह्मणेभ्यः प्रयच्छति । विष्टामभन्ति पितरस्ते च सर्वे द्विजोत्तमाः । इति कार्णाजिनिवचनात् । पात्रालम्भनाङ्गुष्ठनिवेशनान्नत्यागभो- जनप्रैषाः सव्येन देवे, पित्र्ये त्वपसव्येन । अतिथेः सर्व यज्ञोपवीतेन । भोजनप्राक्कालीनः गायत्रीमधुमत्यादिजपश्चापसव्येन ।

श्राहमयूखः। कृतापसव्यः कुर्वीत मुक्त्वायं त्वग्नतां जपः ।। (?) इति वृद्धशातातपवचनात् । अपोशानार्थमुदकदाने तु यज्ञोपवीतम् । पित्र्यत्वाभावात् । भुजानेषु पित्र्यसूक्तजपोऽप्युपवीतिना । तथाच म- रीचि:- प्रदक्षिणं शिवा आपो जपाशी:स्वस्तिवाचने । विप्रेषु दक्षिणादानं षट् सव्येन प्रचक्षते ॥ प्रदक्षिणं विसर्जनानंतरं ब्राह्मणप्रदक्षिणीकरणम् । “शिवा आपः ' इतिमन्त्रेण क्रियमाणं कर्म । अदृष्टार्थे मत्रोचारणं जपः। आशीः 'दा- तारो नोभिवर्द्धन्तामित्यादिका । 'स्वस्ति भवन्तो ब्रुवन्तु ' इति स्व- स्तिवाचनम् । साङ्गं विकिरदानमपसव्येन । 'तृप्ताः स्थ । इति प्रश्न: शेषान्नविनियोगश्च दैवपित्र्यसाधारण्यादपसव्येन । साङ्गं पिण्डदानमपस- व्येन- अपसव्येन दर्भेषु पिण्डा देयास्त्रयस्तु वै । इति काष्णाजिनिवचनात्। सुप्रोक्षितमस्त्विति श्राद्धदेशप्रोक्षणं कमैं- कसम्बन्धात्प्राचीनावीतिनैव । अत्र कर्क:-आचान्तेषूदकपुष्पाक्षतदा- नं तच्च दैवपूर्वं ततोऽपसव्यं पित्र्ये, केचित्तु सव्येनेच्छन्ति तन्न दानसंयोगात् 'पिण्डपितृयज्ञवदुपचारः पित्र्ये' इति च दर्शनादिति; तत्पूर्वोक्तमरीचिवचनविरोधात्पित्रााद्देशमन्तरेण क्रियमाणत्वाच्चोपे- क्ष्यम् । अक्षय्योदकं दैवे सव्येन पित्र्ये चापसव्येन । अघोराः पितरः , इत्याधुपवीतेन । आशीः सव्येन 'जपाशी:स्वस्तिवाचनम् ' इति मरी- च्युक्तेः । स्वधावाचनं तु साङ्गं पित्र्यत्वात्प्राचीनावीतेन । पात्रस्थार्घसंस्त्र- वमोचनं न्युजपात्रोत्तानीकरणं च प्राचीनावीतिना । तदाहात्रिः- अपसव्यं ततः कृत्वा पिण्डपाचें समाहितः । क्षित्वा दर्भपवित्राणि मोचयेत्संस्रवांस्ततः ॥ इति । पिण्डाथै कल्पिते देशे इत्यर्थः । जमदग्निः- सर्व कर्मापसव्येन यत्किञ्चिदिह कीर्तितम् । विहाय दक्षिणामेकां तथा विप्रविसर्जनम् ।। अपसव्यं तु तत्राऽह मात्स्ये तु भगवान्मुने । इति । इदं च व्यवस्थितम् । ब्राह्मणानामानंत्यर्थत्वपक्षे सव्येन । पितृभ्य एव १'यस्वन्नतां, मध्वश्नता' इति पाठौ. .

विप्रनिमन्त्रणादि - दानमिति पक्षेऽपसव्येन । विश्वेदेवाः प्रीयन्तामित्युपवीतेन । भोजन- पात्रचालनं दैवे सव्येन पित्र्येऽपसव्येन । स्वस्तिवाचनं तूपवीतेन मरी- चिवचनात् । विसर्जनं प्रदक्षिणीकरणं च सव्येनेत्युक्तम् । अनुव्र- जनमपसव्येन । ब्राह्मणदत्तपुष्पाक्षतग्रहणादि, अद्य मे सफलं जन्म- इत्यादि च, उच्छिष्टोद्वासनं च लौकिकत्वादुपवीतेन । यजमानकर्तृकस्य पत्न्यै पिण्डदानस्य पितृसम्बन्धराहित्यादुपवीतेन। 'पिण्डांस्तु गोजवि- प्रेभ्यः' इत्यादिका प्रतिपत्तिस्तु पित्र्यत्वात्प्राचीनावीतिनेति दिक् । अथ विप्रनिमन्त्रणादि। कौमें- श्वो भविष्यति हि श्राद्धं पूर्वेारभिपूजयेत् । असंभवे परेधुर्वा ब्राह्मणांस्तान्निमत्रयेत् ॥ इति । नागरखण्डे- पूर्वेयुः सायमासाद्य संयुतानां द्विजन्मनाम् । गृहं गत्वा शुचिर्भूत्वा संयतांस्तानिमन्त्रयेत् ॥ यम:- प्रार्थयीत प्रदोषान्ते भुक्तानशयितान द्विजान्। इति । निमन्त्रणं स्वयमेव कार्यम् । ' दाता विप्रान्निमत्रयेत्' इति हेमाद्रौ देवलोक्तेः । असंभवे तु पुत्रादयोऽपि । स्वयं शिष्योऽथवा सुतः इति तत्रैव बृहस्पत्युक्तेः । कांश्चिन्निषेधति नारायणः- अभोज्यं ब्राह्मणस्यानं क्षत्रियाद्यैर्निमत्रितम् । तथैव क्षत्रियादीनां वृषलेन निमत्रितम् ॥ यमः-अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमत्रितम् । तथैव वृषलस्यान्नं ब्राह्मणेन निमत्रितम् । नागरखण्डे- कुलाचारसमोपेतान् गृहीत्वा चरणौ ततः । प्रसादयेच्च सव्येन विश्वेदेवार्चने पुरा । युग्मानेव यथाशक्त्या मत्रमेतमुदीरयेत् ॥ आगच्छन्तु महाभागा विश्वेदेवास्तनौ तव । भक्त्याहूतो मया चैव त्वं चापि व्रतभाग्भव ।। एवं युग्मान्समामन्त्र्य वैश्वदेवकृते द्विजान् । अयुग्मानपसव्येन पित्रथै चाभिमत्रयेत् ॥

७० श्राद्धमयूखः ब्राह्मणांश्च यथाशक्त्या एकैकस्य पृथक् पृथक् । एकैकं वा त्रयाणां वाऽप्येकमेव निमन्त्रयेत् । द्विजं मातामहानामप्येष एव विधिः स्मृतः ।। ततः पादौ परिस्पृश्य द्विजस्येदमुदीरयेत् । श्रद्धापूतेन मनसा पितृभक्तिपरायणः ।। पिता मे तव कायेऽस्मिन् तथैव च पितामहः । स्वपित्रा सहितोऽभ्येतु त्वं च ब्रतपरो भव ।। एवं पितॄन्समाहूय तथा मातामहानथ । सव्यं कृत्वा नमस्कृत्य तान्विप्रान्स्वगृहं ब्रजेत् ।। तत्रैव- ब्राह्मणानां गृहं गत्वा तान्प्रार्थ्य विनयान्वितः । अमुकस्य त्वया श्राद्धे क्षणो वै क्रियतामिति ॥ वदेदभ्युपगच्छेयुर्विप्राश्चैव तथेति च । भूयोऽपि व्याहरेत्कर्ता तं प्राप्नोतु भवानिति ॥ द्विजस्तु प्राप्नवानीति विधिरेष निमन्त्रणे । प्रचेता:- कृतापसव्यः पूर्वेयुः पितृपूर्व निमन्त्रयेत् । भवद्भिः पितृकार्य वः संपाद्यं नः प्रसीदत ॥ याज्ञवल्क्य:- द्वौ दैवे प्राक् त्रयः पित्र्ये उद्गैकैकमेव वा । मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् ।। वसिष्ठः- द्वौ देवे त्वथ पित्र्ये त्रीनेकैकमुभयत्र वा । भोजयेत्सुसमृद्धयाऽपि विस्तरं तु विवर्जयेत् ।। इति । विस्तरम् ‘नवावरान् भोजयेदयुजो वा यथोत्साहम् ' इति गौत- मोक्तम् । तस्य त्वत्यन्तसमृद्धोऽधिकारीत्यर्थः । अनेकविप्राभावे त्वेक- मपि भोजयेत् । 'भोजयेदथवाऽप्येकं ब्राह्मणं पतिपावनम् इति । शंखोक्तेः । अत्र वैश्वदेवप्रकारमाह स एव- यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु । - विप्रनिमन्त्रणादि १ - देवतायतने कृत्वा यथाविधि निवेदयेत् ।। प्रास्येदन्नं तदग्नौ तु दद्याद्वा ब्रह्मचारिणे ॥ इति । चतुर्विंशतिमतेऽपि- विप्राभावे वृथा न स्याद्दद्यादग्नौ जलेऽपि वा ॥ इति । अत्र विशेषो मात्स्ये- पठन्निमन्त्र्यनियमान् श्रावयेत्पैतृकान् बुधः । अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः ।। भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥ इति । जातूकर्ण्य:- निरामिषं सकृद्भुक्त्वा भुक्तसर्वजने गृहे । निमन्त्रयीत पूर्वारुपगम्य द्विजोत्तमान् ॥ आदित्यपुराणे- तदहस्तु शुचिर्भूत्वाऽक्रोधनोऽत्वरितो भवेत् । अप्रमत्तः सत्यवादी यजमानोऽथ वर्जयेत् ॥ अध्वानं मैथुनं चैव श्रमं स्वाध्यायमेव वा । अत्राहःशब्देन निमन्त्रणप्रभृतिभुक्तानपरिणामावधिः कालो गृह्यते- स्यादन परिणामान्तं ब्रह्मचर्य द्वयोस्ततः ।। इति प्रचेतःस्मरणात् । वृद्धमनुः- निमन्त्र्य विप्रांस्तद्र्वर्जयेन्मैथुनं क्षुरम् ॥ क्षुरं क्षुरकर्म एतच्च नखनिकृन्तनादेरप्युपलक्षणम् ' इति हेमाद्रिः । जाबालि:- ताम्बूलं दन्तकाष्ठं च स्नेहसानमभोजनम् । रत्यौषधपरान्नानि श्राद्धकर्ता तु वर्जयेत् ॥ प्रचेताः- श्राद्धभुक् प्रातरुत्थाय प्रकुर्याद्दन्तधावनम् । श्राद्धकर्ता न कुर्वीत दन्तप्रक्षालनं बुधः ।। विष्णु:- कोपं परिहरेन्नाश्रु पातयेन्न त्वरां कुर्यात् । निमन्त्रितद्विजपरित्यागे दोषं प्रायश्चित्तं चाऽऽह नारायण:- केतनं कारयित्वा तु यो निर्वास्यति दुर्मतिः। ब्रह्महत्यामवाप्नोति शूद्रयोनौ च जायते ॥ एतस्मिन्नेनसि प्राप्ते ब्राह्मणो नियतः शुचिः । - - श्राद्धमयूखः - यतिचान्द्रायणं कृत्वा तस्मात्यापात्प्रमुच्यते ॥ कतनमामन्त्रणम् । हारीतः दैवे वा यदि वा पित्र्ये निमन्त्र्य ब्राह्मणं यदि । तर्पयेत्न यथान्यायं स तत्तस्य फलं हरेत् ।। प्रमादाद्विस्मृतं ज्ञात्वा प्रसाद्यैनं प्रयत्नतः । तर्पयित्वा विशेषेण सर्व तत्फलमाप्नुयात् ॥ गौतमः-सद्यः श्राद्धी शूद्रातल्पगस्तत्पुरीषे मासं नयते पिनन । श्राद्धं करिष्यमाणं कृतं वास्य विद्यते इति श्राद्धी दाता सद्यम्नत्क्षण- मारभ्य । एते च नियमा आवश्यकाः । तदुक्तमग्निपुराणे- अमैथुनादयः सर्वे नियमाः श्राद्धकारिणा । अप्रमत्तेन कर्तव्याः प्रमाद्य निरयं व्रजेत् ।। अशक्तावन्येन क्रियमाणे श्राद्धे उभाभ्यामपि कर्तव्याः इत्युक्त चाराहपुराणे- न शक्नोति स्वयं कर्तुं यथा हानवकाशतः। श्राद्धं पुत्रेण शिष्येण तदान्येनापि कारयेत् ।। नियमानाचरेत्सोऽपि विहितांश्च वसुन्धरे । यजमानोऽपि तान् सर्वानाचरेत्सुसमाहितः ।। ब्रह्मचर्यादिभिर्भूमे नियमैः श्राद्धमक्षयम् । अन्यथा क्रियमाणं तु मोघमेव न संशयः । इति ॥ कात्यायन:-अनिन्द्येनामन्त्रितो नापकामेत् । अनिन्द्येन भोज्यानन निमन्त्रितो निमन्त्र्यमाणः नापक्रमेत् न नेच्छेत्। किन्त्वभ्युपगच्छेदेव । तथा च शतपथे-'तस्मादु हानिन्द्यस्य वृतो नापकामेत् । इति गौतमः- 'अनिन्द्येनामन्त्रिते शक्तेन न प्रत्याख्यानं कर्तव्यम् । इति । अनेनार्थी- निन्द्यामंत्रणे भोक्तुमसामर्थ्य च प्रत्याख्येयमिति गम्यते । पष्ट्रिशन्मते- विद्यमानधनो विद्वान् भोज्यानेन निमन्त्रितः । कथंचिदप्यतिक्रामन्पापः शूकरतां व्रजेत् ।। अनेन निर्धनस्य बहुदक्षिणादिलाभलोभात्कदाचिदतिक्रमे न दोष इति गम्यते । कात्यायनः-आमन्त्रितोऽन्यदन्नं न प्रतिगृण्हीयान् । 'अन्यदीयश्राद्धोपक्टसं तण्डुलादिरूपमप्यन्नं न प्रतिगृण्हीयान् ' इति कर्कः। श्राद्धीयव्यतिरिक्तस्यापि निषेध इत्यन्ये । ~ विप्रनिमन्त्रणादि ७३ क - यमः-अहिंसा सत्यमक्रोधो दूरे च गमनक्रिया। अभारोद्वहनं क्षान्तिः श्राद्धस्योपासने विधिः ।। दूरे सीम्नः परस्तात् । तथाच ब्रह्माण्डपुराणे- न सीमानमतिकामेच्छ्राद्धार्थ वै निमत्रितः । पर्यटन् सीममध्ये तु न कदाचित्प्रदुष्यति ।। यमः- पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । सन्ध्यां प्रतिग्रहं होमं श्राद्धभुग्वर्जयेत्सदा ।। होममन्येन कारयेत्' इत्याह कात्यायनः- सूतके च प्रवासे च अशक्तौ श्राद्धभोजने ॥ एवमादिनिमित्तेपु हावयेदिति योजयेत् । अन्यस्य होतुरलाभे भविष्यत्पुराण उक्तम्- दशकृत्वः पिबेदापो गायच्या श्राद्धभुग्विजः । ततः सन्ध्यामुपासीत जपेञ्च जुहुयादपि ।। मण्डलमुक्तं मत्स्यपुराणे- भवनस्याग्रतो भुवि गोमयेनानुलिप्सायां गोमूत्रेण तु मण्डले । इति । लिप्तायामिति सामान्यतः सर्वकर्माङ्गतया प्राप्तमनूद्यते । गोमूत्रसहि- तेन गोमयेन मण्डले कार्ये इति शेषः । शम्भुः- उदप्लवमुदीच्यं स्यादक्षिणं दक्षिणाप्लवम् ॥ इति । मण्डलमिति शेषः । तत्र 'उदीच्यमुदतवं दैवं, दक्षिणं दक्षिणाप्लवं पित्र्यम्' इति व्यवस्था । बौधायन:- प्रदक्षिणं तु देवानां पितृणामप्रदक्षिणम् । देवानामृजवो दर्भाः पितृणां द्विगुणाः स्मृताः ।। इति । शातातपः- उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः ।। कात्यायन:- दक्षिणं पातयेजानुं देवान्परिचरन्सदा । पातयेदितरज्जानुं पितृन्परिचरन्सदा ।। इति । मण्डलयोविशेषमाह शम्भुः- उत्तरेऽक्षतसंयुक्तान् पूर्वाग्रान्विन्यसेत्कुशान् । दक्षिणे दक्षिणामांस्तु सतिलान्विन्यसेद्रुधः ॥ इति । - श्रादमयूखः - - मात्स्ये- नाम गोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः ॥ इति । तथा- पाद्यं चैव तथा चार्य देवमादौ प्रयोजयेत् ।। शन्नो देवीति मत्रेण पाद्यं चैव प्रदापयेत् ॥ आदित्यपुराणे- विप्रौ तु प्राङ्मुखौ तेभ्यो द्वौ तु पूर्व निवेशयेन् । उत्तराभिमुखान् विप्रान् त्रीन् पितृभ्यश्च सर्वदा ।। इति । सुमन्तु:- दर्भपाणिर्द्विराचम्य लघुवासा जितेन्द्रियः । परिश्रिते शुचौ देशे गोमयेनोपलेपिते ॥ दक्षिणाप्रवणे सम्यगाचान्तान्प्रयतान् शुचीन् । आसनेषु सदभेषु विविक्तेषूपवेशयेत् ॥ मरीचि:- तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् । कुर्वीत भक्तिसंपन्नस्तत्रं वा वैश्वदेविकम् ॥ इति । अत्र पितृमातामहपार्वणयोरेका प्रयोगः पृथग्वा, इति पक्षद्वयम् आद्यपक्षे वैश्वदेविकतन्त्रता, द्वितीय आवृत्तिः, इति माधवादयः। उपवेशनोत्तरं विप्राणां धर्मानाह भृगुः-- आमश्रितो जपेद्दोग्ध्रीमासीनस्तु निषङ्गिणः । भुक्त्वा तु वामदेव्यं च श्राद्धभोक्ता न दुष्यति । आसीन आसन उपवेशितः । दोग्ध्रीम् 'उपह्वये सुदुधाम्' इति gण्वती' इति वा । यत्तु हेमाद्रिः-'आब्रह्मन्ब्राह्मण' इत्या. दीनि यजूंष्यपि दोहनपदोपेतानि जपेत्' इति । तन्न। स्त्रीलिङ्गानि- देशेन च उपादानात् । साऽप्येका काचित् । एकवचनान् । निषद्धि णस्तु त्रयः । यजूंष्यपि तत्र जप्यानि । निषङ्गिणः 'इन्द्रदृद्ययाम' इति । स इषुहस्तैः' इति च ऋक् । 'नमः कृत्सवीताय 'नमोवश्चते। इत्यादीनि च । गोभिल:- आमन्त्रितो जपेद्दोहां नियुक्तस्त्वृषभान जपेत् । अनिषङ्गांश्च तत्रैव जप्त्वाऽश्नीयाद्विजोत्तमः ॥ ऋषभानि षडङ्गादीनि छन्दोगेषु प्रसिद्धानि । मरीचि:- पवित्रपाणयः सर्वे ते च मौनव्रतान्विताः॥ इति ।

विप्रनिमन्त्रणादि यमः-ब्रह्मोद्याश्च कथाः कुर्युः पितृणामेतदीप्सितम् ॥ इति । स एव- - -- - भिक्षुश्च ब्रह्मचारी च भोजनार्थमुपस्थितः । उपविष्टेष्वथ प्राप्तः कामं तमपि भोजयेत् ॥ इति । विप्रोपवेशनोत्तरकृत्यं पुराणे- श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं जनार्दनम् । ताभ्यां चैव नमस्कृत्य ततः श्राद्धं प्रवर्तयेत् ॥ वस्वादींश्च पितन् ध्यात्वा' इति वा तृतीयः पादः । तथा- उभौ हस्तौ समौ कृत्वा जानुभ्यामन्तरा स्थितौ । स प्रयतश्चोपविष्टान् सर्वान्पृछेहिजोत्तमान ।। श्राद्धं करिष्य इति पृच्छेदित्यर्थः । ततो विप्राः 'कुरुष्व ' इत्यभ्य- नुज्ञां ब्रूयुः । एतदनन्तरकृत्यं ब्रह्माण्डपुराणे- देवताभ्यः पितृभ्यऽश्च महायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ।। आयेऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदा । इति । अयं च जपः सङ्कल्पोत्तरमाज्ञादानोत्तरं वा कार्यः। शिष्टास्त्वाज्ञोत्तरमेव कुर्वन्तिाततः कर्तव्यं निगमे-'अपहता' इति तिलान् विकिरदिति । एतच विकिरणं जपात्याकार्यमिति केचित् । अनन्तरकृत्यमाह याज्ञवल्क्यः- पाणिप्रक्षालनं कृत्वा विष्टरार्थान् कुशानपि ।। इति । पुराणे- आसने चासनं दद्याद्वामे वा दक्षिणेऽपि वा। पितृकर्मणि वामे वै देवे कर्मणि दक्षिणे ।। देवे दर्भाः सयवाः । देवानां सयवा दर्भाः' इति काठकोक्तेः । ततः सधर्मकं द्वितीयनिमन्त्रणमुक्तं संग्रहे-ततः पुनरपो दत्वा निमन्त्र- येत् 'दैवे क्षणः क्रियतां । ततः 'तथा' इति विप्रो ब्रूयात् । 'प्राप्नो- तु भवान् ' इति कर्ता पुनर्ब्रयान् । 'प्राप्नवानि ' इति विप्रः पुनर्ब्रयात् । अत्र विशेषः पुराणे- निरङ्गुष्ठं गृहीत्वा तु विश्वान्देवान् समाह्वयेत् ।। गृहीत्वा' इत्यस्यानन्तरं निमन्त्र्य' इति शेषः, इति माधवः । आवाहने विशेषमाह यमः- यवहस्तस्ततो देवान् पृष्ठाऽप्यावाहनं प्रति । - .

आदमयूखः आवाहयेदनुज्ञातो विश्वेदेवास इत्युचा । विश्वेदेवाः शृणुतेति मन्त्र जप्त्वा ततोऽक्षतान् ।। ओषधय इति मन्त्रेण विकिरेत्तु प्रदक्षिणम् । पादादिमस्तकान्तमक्षतानारोपयेदित्यर्थ इति माधवः । अत्र श्राद्धभेदेन विश्वेदेवव्यवस्थामाह शङ्खः- इष्टिश्राद्धे ऋतुर्दक्षः संकीत्यौँ वैश्वदेविके । नान्दीमुखे सत्यवसू काम्ये च धुरिलोचनौ । पुरूरवाईवौ चैव पार्वणे समुदाहृतौ । नैमित्तिके कामकालावेवं सर्वत्र कीर्तयेत् ॥ इति । धुरिरोचनाविति कचित्पाठः । अत्रेष्टिश्राद्धशब्देन पारिभाषिकं कर्माङ्गश्राद्धमुच्यते । तच्चाह पारस्करः- निषेककाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने श्राद्ध कर्माङ्गं वृद्धिवत्कृतम् ॥ इति । निषेको गर्भाधानम् । तथा च “आधानसोमयागनिषेकादित्रय- संस्कारादिभूतश्राद्धे क्रतुदझौ' इति हेमाद्रिमाधवौ । अत्र भ्रातृचरणाः, 'इष्टिश्राद्धशब्देन कर्माङ्गश्राद्धग्रहणे प्रमाणाभावाद्वाक्यसाफल्याच भाष्य- कारमते पावमानेष्टीनां समप्राधान्यपक्षे आधानाङ्गमेव श्राद्धं गृह्यते । तस्यापि कथंचिदिष्टिजन्याहवनीयादिप्रयोज्यत्वेनेष्टिश्राद्धत्वात् । यद्वा, प्रयोगपारिजाते- यस्य जाताः प्रमीयेरन् पुत्रा नैव भवन्ति वा । ऋतुकाले दिने षष्ठे दम्पती समलङ्कृतौ ।। कृत्वाऽभ्युदयिकं श्राद्धं स्वस्तिवाचनपूर्वकम् ॥ इत्यादिना विहितपुत्रकामेष्ट्यङ्गभूतं श्राद्धं गृह्यते । अस्मिन्पक्षे आधा- नाङ्गश्राद्धे नान्दीमुखवत्सत्यवसू एव विश्वेदेवाः' इति युक्तमुत्पश्य- न्ति । नैमित्तिकं च नवान्नलाभनिमित्तकम् । ' नवान्नलाभे द्वौ देवी कामकालौ सदैव हि' इत्यादित्यपुराणीयेनोपसंहारात् । तेन ‘नवा- नलाभः । इति निमित्ताधिकारक्रियमाणराहूपरागादीनामुपलक्षणम् । इति हेमाद्रिमतं निरस्तम् । 'पितृभक्त्या नवान्नभोजनात्पूर्व क्रियमाणं नैमित्तिकम् ' इति तु स्मृतिचन्द्रिकायाम्- 'एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते । इति परिभाषितत्वेऽपि विप्रपूजा - तस्य देवहीनत्वान्न ग्रहणम् । अत एव सपिण्डीकरणश्राद्धस्यैकोद्दिष्ट- पावणोभयरूपत्वेन विश्वदेवसत्वात्तहणमिति केचित् । एकोद्दिष्टस्था- ने पार्वणरूपेण क्रियमाणं सांवत्सरिकमित्यपि केचित् । पितृपक्ष- चतुर्दश्यामेकोद्दिष्टे विश्वदेवसत्वाचस्य ग्रहणमिति तु युक्तं प्रतिभाति । आदित्यपुराणे- अपि कन्यागते सूर्ये काम्ये च धुरिलोचनौ । कन्यागतसूर्य निमित्तीकृत्य विहिते भाद्रपदापरपक्षे ' इति हेमा- द्रिः । कन्यासक्रान्तिनिमित्तके एवेति युक्तम् । आसनदानोत्तरं चार्घ- पात्रासादनं कार्यम् । तदाह याज्ञवल्क्य:- यवैरन्ववकीर्याथ भाजने सपवित्रके । शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा ।। इति । मात्स्ये- विश्वान्देवान् यवैः पुष्पैरभ्यासनपूर्वकम् । पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रके ॥ इति । अर्घ्यदानमधिकृत्य कात्यायनः-'सौवर्णराजतौदुंबरखड्गमणिमयानां पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्रपुटके वा' इति । यानि कांस्यादीनि । अत्र राजतं पित्र्य एव न दैवे- शिवनेत्रोद्भवं यस्मादतस्तपितृवल्लभम् । अमङ्गलं तद्यत्नेन देवकार्येषु वर्जितम् । इति स्मृतेः । प्रतिपात्रं च पवित्रद्वयं स्थाप्यम् । तथाच चतुर्विंश- तिमते- द्वे द्वे शलाके देवानां पात्रे कृत्वा पयः क्षिपेत् ।। योगयाज्ञवल्क्यः- पवित्रे स्थ इति मन्त्रेण द्वे पवित्रे च कारयेत् । गाय:-'स्वाहेति चैव देवानाम् ' इति । ' अर्घ्यपात्रस्थापनेऽसौ मन्त्रो न तु दाने' इति माधवः । स एव- दत्त्वा हस्ते पवित्रं तु संपूज्यायै विनिक्षिपेत् ।। इति । याज्ञवल्क्यः-या दिव्या इति मन्त्रेण हस्तेष्वध्य विनिक्षिपेत् । इति । अर्घ्यदानोत्तरकृत्यमाह स एव- दत्त्वोदकं गन्धमाल्यं धूपदानं सदीपकम् । अत्र 'गन्धादिग्रहणं वाससोऽप्युपलक्षणम् ' इति माधवादयः । - श्रांदमयूखः - एवमासनादीन्वासोन्तान् वैश्वदेविकपदार्थान् काण्डानुसमयेन कृत्वा पिन्येऽपि तथैव तान् कुर्यात् । तथा च याज्ञवल्क्यः- अपसव्यं ततः कृत्वा पितृणामप्रदक्षिणम् । इति । अत्र 'ततः' इत्यनेन वैश्वदेविकपदार्थकाण्डोत्तरं पित्रर्चनविधानात् काण्डानुसमयो गम्यते' इति माधवविज्ञानेश्वरादयः । आसनादि- दानेतिकर्तव्यतामाह स एव- द्विगुणांस्तु कुशान्दत्वा घुशंतस्त्वेत्यूचा पितॄन् । आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ।। पूर्वमनन्तरं चाऽऽपो देयाः । 'अपः प्रदाय दर्भान् द्विगुणभुग्नान् । आसनं प्रदाय अपः प्रदाय'इत्याश्वलायनोक्तेः । कुशैः सह तिला अपि देयाः। तथाच काठके 'पितॄणां द्विगुणांस्तिलैः' इति । सहार्थे तिलैरिति तृतीया । आवाहने तिलविकरणे विशेषमाह प्रचेताः- शिरःप्रभृति पादान्तं नमो व इति पैतृके । इति ।। चतुर्विंशतिमते च- अर्घ्यपात्रं विधायैवं ब्राह्मणान् पूजयेत्ततः । विश्वान्देवांस्तु पादादि शिरआदि पितामहान् ।। इति । जपानन्तरं विशेषः पुराणे- जपेदायन्तु न इति मन्त्रं सम्यगशेषतः । रक्षार्थ पितृसत्रस्य त्रिःकृत्वः सर्वतो दिशम् ।। तिलांस्तु प्रक्षिपेन्मत्रमुच्चार्यापहता इति ॥ अर्घ्यदानाद्याह याज्ञवल्क्यः- यवार्थास्तु तिलैः कार्याः कुर्यादादि पूर्ववत् । दत्वाऽध्ये संत्रवांस्तेषां पात्रे कृत्वा विधानतः ॥ पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यथ । इति । अर्घ्यपात्राणामासादनप्रकारमाह विष्णुः-'दक्षिणाग्रेषु दक्षिणापव- र्गेषु चमसेषु त्रिष्वप आसिञ्चेच्छन्नो देवीः' इति । अयंपात्रेषु पवित्रान्त- हितेषु जलं प्रक्षिप्य तत्र तिला मत्रेण प्रक्षेप्याः। तथाचाऽऽश्वलायनः- 'पात्रेषु दर्भान्तर्हितेषु अपः प्रदाय शन्नोदेवीरभिष्टय इति मन्त्रितासु तिलानावपति । तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वधया पितृनिमाल्लोकान् प्रीणयाहि नः स्वधा नमः' इति । 'अ- स्मादेव सूत्रात् 'शंनो' इति मन्त्रोऽभिमन्त्रण एवाऽऽश्वलायनीयानाम् । , 'ताः . विप्रपूजा अन्येषां तु जलप्रक्षेपे करणम् । अर्घ्यपात्राणि पितृसङ्ख्ययैव न तु विप्र- सङ्ख्यया। तेन पित्रादीनामेकैकस्यानेकविप्रपक्षेऽपि त्रीण्येवाय॑पात्राणि । स्तीर्खा पितॄणां त्रीण्येव कुर्यात्पात्राणि धर्मवित् । एकस्मिन्वा बहुषु वा ब्राह्मणेषु यथाविधि । इति बैजवापोक्तेः । स्तीवा, कुशानास्तीर्येत्यर्थः । अर्घ्यपवित्राणि कार्याणि । ' तिस्रस्तिस्रः शलाकाः स्युः पितृपात्रेषु पार्वणे' इति चतु- विशतिमतात् । ब्रह्मपुराणे-'अर्ध्याः पुष्पैश्च गन्धैश्च ताः प्रपूज्याश्च मत्र- वित् ' इति । अर्ध्या आपः । अर्घ्यदानप्रकारमाहाश्वलायन:- प्रतिग्राहयिष्यन्स्वधाऽर्ध्या इति ता आपो ब्राह्मणहस्तेषूदकपूर्वकं दुर्भान् प्रदायोदकपूर्वमध्ये दद्यात् । इति । 'यादिव्या' इत्युक्त्वाऽसावेतत्तेऽध्यो- दकमिति अप उपस्पृश्यैवमेवेतरयोः' इति । याज्ञवल्क्यः- दत्वाध्यैs संस्रवांस्तेषां पाने कृत्वा विधानतः । पितृभ्यः स्थानमसीति न्युजं पा- त्रं करोत्यथ ' इति । एवं विप्रहस्तेष्वव्य दत्त्वा तेभ्यो हस्तेभ्यः पात्रा- न्तरेपु च्युतान् तान्संस्रवान् प्रथमेऽर्घ्यपात्रे गृहीत्वा तत्पात्रं न्युब्ज- मधोमुखं 'पितृभ्यः स्थानमसि ' इति मन्त्रेण कृत्वा तथैव स्थापयेदि- त्यर्थः । श्रीदत्तस्तु 'संस्रवत्यस्मादिति व्युत्पत्त्या पात्रस्थानामपां ग्रह- णम् । इत्याह । अत्राचाराव्यवस्था। न्युजपात्रस्थापनानन्तरं विशेषमाह बैजवाप:- तस्योपरि कुशान्दत्वा प्रदद्यादेवपूर्वकम् । गन्धपुष्पाणि धूपं च दीपं वस्रोपवीतकम् ।। इति । व्यासः सपवित्रकरो गन्धैर्गन्धद्वारेति पूजयेत् । धूपं तु धूरसीत्युक्त्वा दीपो ज्योतिरिदं च ते ॥ - - - ललाटे पुण्ड्रकं दृष्ट्वा स्कन्धे माल्यं तथैव च । निराशाः पितरो यान्ति दृष्ट्वा च वृषलीपतिम् ॥ इति । तद्वर्तुलाभिप्रायमिति हेमाद्रिः । माल्यमपि शिखायां धार्य न स्कन्धे । विष्णुः- घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः ।। अत्रिः-'युवंवस्त्राणीत्यनेन दद्याद्वासांसि शक्तितः' । शातातपः- युवासुवासा इति वस्त्रं दद्यादभावे यज्ञोपवीतम् ' इति । अत्र दैव- ८० श्राद्धमयूखः - - पूर्वकमित्यनेन गन्धादीनां दैवे पित्ये च पदार्थानुसमयेनानुष्ठानं गम्यते । 'आसनादीनामाच्छादनान्तानां सर्वेषामेव पदार्थानुसमयः काण्डानुस- मयो वा' इत्युक्तं स्मृत्यर्थसारे माधवीये च । अथानौकरणम् । याज्ञवल्क्य:- अग्नौ करिष्यन्नादाय पृच्छेदन्नं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुत्वाऽग्नौ पितृयज्ञवत् ।। घृतपदेन शाकादिपरिसङ्खयेति विज्ञानेश्वरः । पितृयज्ञवत् । इत्य- नेन अग्निमुपसमाधाय चळं अपयित्वा मेक्षणेनाऽवदाय ' सोमाय 'पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नमः' इति हुत्वा मेक्षणं च जुहुयादित्येतावदतिदिश्यते । ततः शेषमन्नं पितृपात्रेषु दद्यान्न तु वैश्वदेवपात्रेषु । रौप्येषु' इत्युक्तत्वात् । अत्रामावास्याश्राद्धे साग्ने- दर्शयागार्थविहृतदक्षिणाग्निसद्भावात्तत्रैवाग्नौकरणम् । अन्यश्राद्धेषु तद्- र्ध्वाधानिनः केवलस्मार्ताग्निमतश्चौपासने । तथा च विष्णुधर्मोत्तरे- आहिताग्निस्तु जुहुयाद्दक्षिणेऽग्नौ समाहितः । अनाहिताग्निश्चौपसदे अग्न्यभावे द्विजेऽप्सु वा ॥ इति । आहिताग्निः सर्वाधानी, औपसदो गृह्याग्निः । कात्यायनः- अग्नौकरणहोमं तु कुर्यादप्स्विति यन्मतम् । स यदाऽपां समीपे स्याच्छ्राद्धे ज्ञेयो विधिस्तदा ॥ इति । केचित्तु श्राद्धस्य गृह्यत्वात् ' कर्म स्मार्तं विवाहाग्नौ ' इत्युपदे- शेन पितृयज्ञवदित्यतिदेशबाधादक्षिणाग्निसद्भावेऽप्यौपासन एव ' इत्या- हुः । तन्न । उपदेशस्यौपासनहोमादिषु सावकाशतया विरोधाभावेनान्य- गतिकबाधस्यान्याय्यत्वात् । वाचनिकातिदेशस्योपदेशस्य तुल्यत्वाच्च । अपरार्कस्तु-'पितृयज्ञवत् ' इत्यतिदेशसामान्यवचनं कर्म स्मार्तमि- त्युपदेशसामान्यवचनानुरोधेन दक्षिणाग्निव्यतिरिक्तप्राकृतपदार्थविष- यम् । अतोर्धाधानेन गृह्यसद्भावे तत्र होमः । अभावे तु दक्षिणाग्नौ । तथाच वायुपुराणे- आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः । अग्न्यथै लौकिके वाऽपि जुहुयात्कर्मसिद्धये ॥ इति । यर्थमित्यनेन गृह्याग्निकार्य दक्षिणाग्निविधानेन गृह्याभावे - अनौकरणम् ८१ दक्षिणाभिर्बोध्य इति । तन्न । कार्ये विधौ फलचमसेनेव सोमस्य शरैरिव च कुशानां गृह्याऽग्निसत्वेऽपि दक्षिणाग्निना तदाधस्यैवोचितत्वात् । वस्तुतस्तु 'अग्न्यर्थमित्यनेनैकवाक्योपात्तदक्षिणाग्निकार्य एव लौकिको विधीयते इति युक्तम् । यदपि 'स्मात कर्म विवाहानौ' इत्यस्याबाधाय 'आहिताग्निस्तु जुहुयात्' इति वचनं सर्वाधानेन गृह्यान्यभावे दक्षिणा- निविधानपरमिति तदप्ययुक्तम् । विशेषविषयेऽपवादविषये वोत्सर्ग- शास्त्रस्याप्रवृत्तेः । लौकिकपदेन गृह्याग्निरेव । 'न पैतृयज्ञियो होमो लौकिकेऽनौ विधीयते इत्यसंस्कृतस्य निषिद्धत्वादिति हेमाद्रिः । तन्न । पैतृयज्ञियपदस्य पिण्डपितृयज्ञाङ्गभूताग्नौकरणहोमपरत्वात् । तत्र चेदं न्यायप्राप्तस्याग्निप्रतिनिध्यभावस्यानुवादकं, वायुपुराणादिवचनप्राप्तस्य निषेधकं वा । अनग्निकस्य सर्वाधानिनश्चासंस्कृते लौकिक एव । 'हस्तेऽ- मौकरणं कुर्यादग्नौ वा साग्निको द्विजः' इति पराशरवचनादिति वृत्तिका- रादयः। परे त्वेतद्वचनमन्यसन्निधानपरमित्याहुः । यत्तु धूर्तस्वामी आप- स्तम्बानां मासिश्राद्धस्यापूर्वत्वेन पितृयज्ञाद्दक्षिणाग्नेरप्राप्तत्वात्स्मार्तस्य वाऽभावेन सर्वाधानिनोऽधिकरणाभावाद्धोमलोप इति । तन्न । पितृय- ज्ञधर्मकत्वाभावेऽपि स्मृतिवचनेन दक्षिणाग्नेः पाणिलौकिकाग्न्यादेश्च प्राप्तिसंभवात् । आश्वलायनानाम् , 'अन्वष्टक्यं च पूर्वेगुर्मासि मास्यथ पार्वणम् । काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥ चतुर्वायेषु साग्नीनां वह्नौ होमो विधीयते । पित्र्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्वपि । इति परिशिष्टाद्विहृतदक्षिणाग्न्यभावे विहृत्य होमः कार्यः, इति हेमाद्रिः । अनेनैव न्यायेन सर्वश्राद्धेषु दक्षिणाग्निविहरणं कर्तव्यमिति युक्तमुत्पश्यामः। मनु:- अन्यभावे तु विप्रस्य पाणावेवोपपादयेत् । यो ह्यग्निःस द्विजो विप्रेमन्त्रदर्शिभिरुच्यते ।। अत्राभावो भार्यापरिग्रहाभावेन तदुत्तरकालिकाग्निस्वीकाराभावेन स्वीकृतो च्छेदेन अग्न्यसन्निधानेन च । केचित्तु भार्यापरिग्रहाभावेनैव' इति वदन्ति- अग्न्यभावे तु विप्रस्य पाणौ दद्यात्तु दक्षिणे । अन्यभावः स्मृतस्तावद्यावद्भार्या न विन्दति ॥

८२ श्राद्धमयूखः - - - इति गार्योक्तेः । संभवत्येवाग्निसम्बन्धेऽप्यभाव इति वक्तुं शक्यमि- ति मत्वा साग्नेरेव कदाचिदन्यसन्निधाने पाणिविधिः, इति जयन्त- स्वामी । शूद्रस्यामश्राद्धे 'तेनाग्नौकरणं कुर्यात् ' इत्यनेनाग्नौकरण- विधानात्तं प्रत्येवाश्यभावे पाणिविधिरिति केचित् । वस्तुतस्तु 'पाणा- वेव' इत्येवकारेण यल्लौकिकाग्निजलायधिकरणान्तरनिराकरणं तद्भा- र्यापरिग्रहाभावकृतेऽग्यभावे नान्यस्मिन् , अन्यत्र तु पाणिरपीति गार्य- वचनार्थः। विप्रश्वाऽग्नेय्यधिकरणन्यायेन प्रकृत एव । काश्यपः- अनग्निको यदा विप्रः श्राद्धं कुर्यात्तु पार्वणम् । अग्नौकरणवत्तत्र होमो देवकरे भवेत् ॥ 'उपवीतस्वाहाकारादिदैविकधर्मेण जुह्वतामिदम्' इति हेमाद्रिः । देवस्य कर इति समासः । विवक्षितैकवचनत्वादेकस्यैव । तदुक्तं वायुपुराणे- वैश्वदेवे यदैकस्मिन् भवेयुर्बहवो द्विजाः । तदैकपाणौ होतव्यं स्याद्विधिर्विहितस्तथा । स्वधाकारादि पित्र्यधर्मिणां तु कात्यायनः- पिव्ये यः पत्रिमूर्द्धन्यस्तस्य पाणावनग्निकः । हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत् ।। यत्तु हेमाद्रौ- अग्नौकरणवत्कुर्याद्विजातौ वैश्वदेविके । पाणावेव तु तद्दद्यान्न तु पित्र्ये कदाचन ।। इति । तद्देवपाणिस्तुत्यर्थम् । अथवा देवे कृत्वा न पुनः पित्र्ये कर्तव्यमित्येत- दर्थम् । यत्र चामावास्याश्राद्धादिष्वनेकपार्वणतन्त्रता तत्र पार्वणान्तरसा- गुण्यार्थ भेदेनानुष्ठानम् । ब्राह्मणैक्ये तु तन्त्रेणैव । देवेऽप्येवमेव । तदाह कात्यायन:- मातामहस्य भेदेऽपि कुर्यात्तन्त्रेण साग्निकः ॥ इति । मत्स्यपुराणे- अग्न्यभावे तु विप्रस्य पाणावथ जलेऽपि वा। अजकर्णेऽश्वकर्णे वा गोष्ठे वाथ शिवान्तिके ॥ शङ्कः-अप्सु चैव कुशस्तम्बे अग्निं कात्यायनोऽब्रवीत् । रजते च सुवर्णे च नित्यं वसति पावकः ॥ सौरपुराणे- - - - परिवेषणम् । - महादेवस्य पुरतो गोष्ठे वा श्रद्धयाऽन्वितः ॥ इति । स्मृत्यर्थसारे तु-'पाणिहोमे इध्ममेक्षणविप्राभ्यनुज्ञा न सन्ति पित्र्य- विप्रपाणिं परिसमूह्य पर्युक्ष्य वामेनोपस्तीर्य दक्षिणेनावदाय जुहुयात् । इति। कर्कस्मृतिचन्द्रिकाकारौ तु विप्रानुज्ञायां विरोधाभावात् , अनग्नि- श्वेदाज्यं गृहीत्वा भवत्स्वेवाग्नौकरणमिति पूर्ववत्तथास्तु इति शौनकोक्ते- विप्रानुज्ञा ग्राह्या, मेक्षणमप्युपादेयमवदानरूपकार्यसत्वात् कार्येऽन्यस्य विध्यभावाच्च । परिसमूहनपर्युक्षणे तु न भवतः, पांशुनिरसनलक्षणदृष्ट- कार्यस्य लोपान्नियमादृष्टमात्रस्य चाप्रयोजकत्वात् , इति न्यायमाह- तुः । हेमाद्रिस्तु मतद्वयमपि लिलेख न तु किञ्चिनिर्णिनाय । पाणौ इतस्य पृथग्भक्षणं निषेधन्ति गृह्यकाराः- अन्नं पाणितले दत्तं पूर्वमनन्त्यबुद्धयः । पितरस्तेन तृप्यन्ति शेषान्नं न लभन्ति ते ॥ यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ॥ इति । स्मृत्यर्थसारे तु 'सर्वाधानी दक्षिणाग्नौ जुहुयाद्विप्रपाणौ वा ' इति विकल्पमभिधाय पाणिहुतं तदैव प्राश्याऽऽचम्योपविशेत् । अथवा भाजने क्षित्वाऽऽचम्योपविशेत् । विधुरादिभिरग्निहीन तं पूर्व नानी- यादोजनकाले एव स्वनीयात् । त्यक्ताग्निहतं तु नाश्नीयादिति । अथ परिवेषणा। परिवेषणं यथालाभं कार्यम् । तदुत्तरकृत्यमाह याज्ञवल्क्य:- दत्वाऽनं पृथिवीपात्रमिति पात्राभिमत्रणम् । कृत्वेदं विष्णुरित्यन्ते द्विजाङ्गुष्ठं निवेशयेत् ॥ मनुः-'विष्णो हन्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमात् । याज्ञवल्क्य:- सव्याहृतिकां गायत्री मधुवाता इति तृचम् । जत्वा यथासुखं वाच्यं भुजीरंस्तेऽपि वाग्यताः ॥ इति तथा-गायत्रीं त्रिः सकृद्वाऽपि जपेद्व्याहृतिपूर्विकाम् । मधुवाता इति तृचमध्वित्येतत्रिकं तथा ॥ इति । स्मृत्यन्तरे- सङ्कल्प्य पितृदेवेभ्यः सावित्रीमधुमजपः । - - - श्राद्धमयूखः - - श्राद्धं निवेद्यापोशानं जुषप्रैषोऽथ भोजनम् ।। अथ भोजयितृनियमाः । याज्ञवल्क्यः- अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽत्वरः । इष्टं ब्राह्मणानाम् । मनु:- यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः। ब्रह्मोद्याश्च कथाः कुर्यात्पितृणामेतदीप्सितम् ॥ इति । निगमः- अपेक्षितं यो न दद्याच्छ्राद्धार्थमुपकल्पितम् । अधः कृच्छ्रातिकृच्छ्रासु तिर्यग्योनिषु गच्छति ॥ शङ्ख:-श्राद्धे नियुक्तान् भुजानान् न पृच्छेल्लवणादिपु । उच्छिष्टाः पितरो यान्ति पृच्छतो नात्र संशयः ।। दातुः पतति बाहुवै जिव्हा भोक्तुस्तु भिद्यते । देवल:- नाश्रु संपातयेच्छ्राद्धे न जल्पेन्न हसेन्मिथः ॥ न विभ्रंशेन्न संक्रुध्येन्नोद्विजेन्नात्र कुत्रचित् । प्राप्ते हि कारणे श्राद्धे नैव क्रोधं समुच्चरेत् ।। आश्रितः खिन्नगात्रो वा न तिष्ठेपितृसन्निधौ । आश्रितस्तम्भभित्त्यादिषु निहितशरीरः । विष्णुः- नान्नमासनमारोपयेन्न पदा स्पृशेन्नावक्षुतं कुर्यात् । आसनग्रहणमाधारोपलक्षणम् । ततश्चान्नपात्रमाधारोपरि न स्थाप- येदित्यर्थः। - अथ यजमानजप्यानि । तत्र ऋग्वेदजप्यानि, शङ्खलिखितौ-'दर्भेष्वासीनो मधुवाता ऋचो जपेत् । अमुं च पाठमुपवीत्येव कुर्यात्। 'कुशपाणिः कुशासीन उप- वीती जपेत्ततः' इति ब्रह्माण्डात् । मनु:- स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि । आख्यानानीतिहासांश्च पुराणानि खिलानि च ॥ आख्यानानि सौपर्णादीनि । पौराणानि च रामनलसावित्र्युपा- यजमानजप्यानि । . ' - ख्यानादीनि । इतिहासो महाभारतम् । खिलानि परिशिष्टानि श्रीसू. क्तादीनि । श्रावणानुवृत्तौ मात्स्ये- ब्रह्मविष्ण्वर्करुद्राणां स्तोत्राणि विविधानि च ॥ इति । श्रावणानुवृत्तौ निगमे-'राक्षोनी: पावमानीरुदीरतामवरमध्वन्न- वतीश्व मत्रान्द्वादशाष्टाक्षरप्रभृतीन् । राक्षोत्रीः 'कृणुष्व पाजः' इति पञ्चदश । 'रक्षोहणम् । इति पञ्चविंशतिः। 'इन्द्रासोमा तपतम्' इति पञ्चविंशतिः । ' अग्नेहंसिन्यत्रिणम् ' इति नव । पावमान्यः 'पुनन्तु मापितरः' इत्याद्याः षोडशः । 'तरत्समन्दीति वर्गः' । 'पवस्व वि. श्वचर्षणिः' इति द्वात्रिंशहचः । त्वं सोमासि ' इति द्वात्रिंशत् । 'उदी- रतामवरः' इति चतुर्दश । अन्नवती: ' पितुं नुस्तोषम् ' इत्येकादश । हारीत:-' पुनन्तु मा पितर इति षोडश पावमानीर्जपेदादितस्त्रीन् । षोडशानां मध्ये आद्यान् त्रीन् विशेषत इत्यर्थः । प्रचेताः- यजूंषि चैव रुद्रांश्च राक्षोन्नी ऋच एव च । रुद्रान् शतरुद्रियादीन् जपेदिति शेषः । शङ्खलिखितौ-'अप्रतिरथं मध्ये गायत्रीमनुश्राव्य ' इति । अप्रति- रथम् ' आशुःशिशान' इति द्वादशर्चम् , सामविशेष इति भाष्ये । सौरपुराणे- धर्मशास्त्रं पुराणानि तथाऽथर्वशिरस्तथा । ऐंद्रं च पौरुषं सूक्तं ब्राह्मणान् श्रावयेत्ततः ।। इति । 'सुरूपकृनुमूतये' इत्यादीनि त्रीणि सूक्तानि प्रत्येकं दशर्चानि । 'इन्द्रमिद्राथिन' इत्यादीनि त्रीणि सूक्तान्येन्द्राणि । मात्स्ये- इन्द्रेशसोमसूनि पावमानीश्च शक्तितः ।। इति । ईशसूक्तानि रुद्रसूक्तानि स्पष्टानि ।' स्वादिष्ठया' इत्यादीनि च- त्वारि सूक्तानि सौम्यानि । भविष्ये- पावमान्यश्च कूष्माण्ड्यः शुद्धवत्यस्तरत्समाः । राक्षोन्नानि च सूक्तानि पितृसूक्तान्यथापि वा ॥ इति । श्रावयेदिति शेषः। - याज्ञवल्क्य:- आ तृप्तेस्तु पवित्राणि जप्त्वा पूर्व जपं ततः ॥ इति । पवित्राणि पुरुषसूक्तपवमानादीनि । पूर्व जप: व्याहतीगायत्री मधुवा- श्राहमयूखः - ता इति तृचः मधुमध्वितित्रिः । तथा-'अग्निमीळे ' इति नवर्चम् । 'वायवायाहि' इति च । 'अश्विनायज्वरीरिषः' इति द्वादशर्चम् । गायन्ति त्वा इति च । ' इंद्र विश्वाः' इत्यष्टौ ऋचः । 'अस्य वामस्य ' इति पञ्चाशदृचः । सांख्यायनीयास्तु 'अग्निमीळ ' इत्यादीन्येकादश सूक्ता- नि । न वा उ देवा' इति नवचं पठन्ति, आचारादिति हेमाद्रिः । अथ यजुर्वेदजप्यानि । हारीत:- अत्र पितर इति यजुर्नमो वः पितर इति यजुः स्मान्तं मधुवाता इति तिस्रः पुनन्तु मा पितर इत्यनुवाकः । त्वं सोम प्रचि- कित इति चैषा पित्र्या संहिता । एतां जपन् पितॄन् प्रीणाति' इति । मान्तं ' वसिष्ठा भूयास्म, इत्येतदन्तं यजुः । बौधायन:- राक्षोन्नानि च सामानि स्वधावन्ति यजूंषि च । राक्षोन्नानि देवव्रताख्यानि । स्वधावन्ति 'पितृभ्यः स्वधा पितृभ्यः' इत्यादीनि । मात्स्ये- तथैव शान्तिकाध्यायं मधुब्राह्मणमेव च । मण्डलब्राह्मणं तद्वत्प्रीतिकारि च यत्पुनः ।। विप्राणामात्मनश्चापि तत्सर्व समुदीरयेत् । भारताध्ययनं कार्य पितॄणां परमं प्रियम् ।। शान्तिकाध्यायः 'शन्नोवात' इत्यादिः । “इयं पृथिवी' इत्यादि मधुब्राह्मणम् । ' यदेतन्मण्डलंतपति' इत्यादि मण्डलब्राह्मणम् । प्रीति कारि, इतिहासाख्यानादि वीणावेणुध्वन्यादिकं वा । तथाच ब्राह्मे वीणावंशध्वनि चाथ विप्रेभ्यः सन्निवेदयेत् ।। इति । अन्यान्यप्याचाराजप्यानि' इति हेमाद्रौ । तत्र तैत्तिरीयाणां तावजप्यानि । 'दिवो वा' इत्यादि विष्णव ' इत्यन्तानि यजूंषि 'अग्नउद्ध' इ- त्यादि वन्यः पञ्चमः' इत्यन्तानि च । ' रक्षोहणो वलगहन ' इत्य- नुवाकः । ' इन्द्रो वृत्रं हत्वा' इत्यनुवाकः । वैश्वदेवेन वै प्रजापतिः। इत्याद्यनुवाकद्वयम् । 'अयं वा वयः पवत' इत्यनुवाकत्रयम् ' । ऋचां प्राची' इत्यनुवाकः । ' अमृतोपस्तरणमसि' इत्याद्यनुवाकपञ्चकम् । 'ब्रह्ममेतु माम् ! इत्यनुवाकत्रयम् । अणोरणीयान् ' इत्यनुवाकः 'मेधां छन्दोगजप्यानि। ८७ म इन्द्रो ददातु इत्यादयश्चत्वारोऽनुवाकाः । 'नकंचन ' इत्यादि उपनिषत् । इत्यन्तं खण्डम् । अथ वाजसनेयिनां जप्यानि । कात्यायन:-अभत्सु जपेद्ध्याहृतिपूर्वा गायत्री सप्रणवां सकृस्त्रिा राक्षोन्नं पुरुषसूक्तमप्रतिरथं पितृमन्त्रानन्यानि च पवित्राणि । अथ मैत्रायणीयानाम् । ' इषे त्वा सुभूताय त्वा वायवस्थ देवो वः सविता' इत्यादयः पश्चानुवाकाः। अथ कठानाम् । 'सोमाय पितृमते त्याज्यं पितृभ्यो बर्हिषयः' इत्याद्यनुवाकः । उशन्तस्त्वा हवामह' इत्याद्यनुवाकः । न प्राक्तिन्या पितृयज्ञः' इत्याद्यनुवाकः। अथ छन्दोगजप्यानि । गोभिल:--अनत्सु जपेत् व्याहृतिपूर्वी सावित्रीं तस्यां चैव गायत्री पित्र्यां च संहितां मधुच्छन्दसं च स्वर्गे लोके महीयत इह चास्याक्षयं भव- ति ।। वरतन्तु:-'प्राणायामपूर्वकं पञ्चसत्यान्तं कृत्वा गायत्री सप्रणवां सव्याहृतिं पठेत् । इति । भूः भुवः ॐ स्वः ॐ तपः ॐ सत्यं इति पञ्चसत्यान्तं कृत्वा । ॐ भूर्भुवः स्वः' इति सप्रणव- व्याहृतिकां गायत्री जपेदित्यर्थः । मात्स्ये-'बृहद्रथन्तरं तद्वज्जेष्ठसाम सरौस्वम् । अपेदिति शेषः । गायत्रं बृहद्रथन्तरादीनि छन्दोगानां प्रसिद्धानि । प्रचेताः-'पुरुषव्रतानि ज्येष्ठसामानि विविधानि च । पुरुषव्रतानि पुरुषसूक्तगीयमानानि पञ्च सामानि । ब्रह्माण्डे--- आदित्यब्रह्मणोश्चैव विष्णो रुद्रस्य चैव हि । सामानि श्रावयेच्छ्राद्धे तथाऽन्यान्यपि भूरिशः ।। आदित्यसामान्यादित्यव्रताख्यान्येकविंशतिः । ब्रह्मसाम ' ब्रह्मज- ज्ञानं प्रथमम् । इतिप्रस्तावम्। विष्णुरुद्रयोः सामनी छन्दोगानां पुष्पग्रन्थे प्रसिद्धे । कौथुमशाखीयैः । यद्वाउपविश्यति । इत्यादीनि पञ्चदश सामानि ‘असौ वा आदित्य । इत्यध्यायश्च श्रावणीयः। राणायनीयैर्म- हानाम्नीसाम शिष्टाचाराच्छ्रावणीयम् ' इति हेमाद्रिः । अथर्ववेदिनां तु , - आदमयूखः - आइन्द्रस्य बाह्वः इत्यप्रतिरथं सूक्तं 'प्राणाय नमः' इत्यादीनि त्री- णि सूक्तानि ।' सहस्रबाहुः पुरुषः' इति पुरुषसूक्तम् । 'कालो श्वो वहतु सप्तरश्मिः' इति कालसूक्तम् । उपनिषदमध्यात्मम् । प्राणामिहोत्रम- होपनिषदम् । एतत्सर्वासंभवे तु मात्स्ये-' अभावे सर्वविद्यानां गाय- त्रीजपमारभेत्' इति । अथ पौराणजप्यानि । विष्णुधर्मोत्तरे- देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ।। आद्यावसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदा । तथा-पिण्डनिर्वपणे वाऽपि जपेदेनं समाहितः ।। पितरस्तृप्तिमायान्ति राक्षसाः प्रद्रवन्ति च । गारुडे- यो विष्णुहृदयं मन्त्रं श्राद्धेषु नियतः पठेत् । पितरस्तर्पितास्तेन पयसा च घृतेन च ॥ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनाभ्यां स मे विष्णुः प्रसीदतु ।। यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यून संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ आदिमध्यावसानेषु श्राद्धस्य नियतः शुचिः । जप्यं विष्णुहृदयं मन्त्रं विष्णुलोकं समभुते । चतुर्मिरिति शतपथे 'आश्रावयाइति चतुरक्षरम् । अस्तु औषडिति चतुरक्षरम् । 'यज'इति द्वयक्षरम् । येयजामहे इति पञ्चाक्षरम् । यक्षरो 'वषट्कारः एष सप्तदश प्रजापतिरधिदैवतम्' इति । विष्णुधर्मोत्तरे- अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् । नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम् ।। इत्यादिसप्तार्चिस्तोत्रजपोऽप्युक्तः । अथ भोक्तृनियमाः। प्रचेताः-पीत्वाऽपोशानमनीयात्पात्रे दत्तं विगर्हितम् । सवेंन्द्रियाणां चापल्यं न कुर्यात्पाणिपादयोः ।। मनु:-अभ्युष्णं सर्वमन्नं स्याद्भुजीरंश्चैव वाग्यताः । न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान् ।

- - भोक्तृनियमाः। दात्रेत्यविवक्षितम् । अत्रिः- हुकारेणापि यो ब्रूयाद्धस्ताद्वापि गुणान्वदेत् । भूतलाञ्चोद्धरेत्पात्रं मुञ्चेद्धस्तेन वा पिबेत् ॥ प्रौढपादो बहिःकच्छो बहिर्जानुकरोऽथवा । अंगुष्ठेन विनाऽभाति मुखशब्देन वा पुनः ।। पीत्वाऽवशिष्टतोयानि पुनरुद्धृत्य वा पिबेत् । खादितार्द्ध पुनः खादेन्मोदकानि फलानि वा ।। मुखेन वा धमेदन्नं निष्ठीवेदोजनेऽपि वा। इत्थमनन् द्विजः श्राद्धं दत्त्वा गच्छत्यधोगतिम् ।। बौधायन:- पादेन पादमाक्रम्य यो भुतेऽनापदि द्विजः । नैवासौ भोज्यते श्राद्धे निराशाः पितरो गताः ॥ शङ्खलिखितौ-'ब्राह्मणा अन्नं गुणदोषैर्नाभिवदेयुर्नानृतं ब्रूयुःअन्यो- न्यं न प्रशंसेयुः, अन्नपानं न प्रभूतमिति ब्रूयुरन्यत्र हस्तसंज्ञया । नाधिकं दद्यान्न प्रतिगृह्णीयात् । वृद्धशातातपः- अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् । न याचते द्विजो मूढः स भवेत्पितृघातकः ।। यत्तु-कृच्छ्रद्वादशरात्रेण मुच्यते कर्मणस्ततः। . तस्माद्विद्वान्नैव दद्यान्न याचेन च दापयेत् ।। इति मनुवचनं तदनुकल्पितवस्तुविषयम् । मनु:-यद्वेष्टितशिरा मुते यद्धके दक्षिणामुखः । सोपानत्कश्च यद्यते तद्वै रक्षांसि भुजते । अत एव निषेधादनवकाशे दक्षिणेतरदिङ्मुखभोजनमनुमतमिति ज्ञायते । बढचपरिशिष्टे- यञ्च पाणितले दत्तं यच्चान्नमुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ॥ पाणितले दत्तमग्नौकरणान्नम् । निगमः- मांसापूपफलेक्ष्वादि दन्तछेदं न भक्षयेत् । ग्रासशेष न पात्रं स्यात्पीतशेषं तु नो पिबेत् ।। प्रमादादितरेतरस्पर्शे तु कर्तव्यमाह शङ्खः- श्राद्धपतौ तु भुजानो ब्राह्मणो ब्राह्मणं स्पृशेत् । - - श्राद्धमयूखः - तदन्नमत्यजन् भुक्त्वा गायत्र्यष्टशतं जपेत् ।। उशना-भोजनं तु न निःशेषं कुर्यात्प्राज्ञः कथंचन । अन्यत्र दन्नः क्षीराद्वा क्षौद्रासक्तुभ्य एव च ॥ इति । आश्वलायनः-'सृष्टदत्तमृध्नुकम्' इति । सृष्टं बहुतरम् ' ऋभुकं ऋद्धि- करमित्यर्थः । उच्छिष्टस्य दासभागतामाह मनुः- उच्छेषणं भूमिगतमजिह्मस्याशठस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ।। ततः सर्ववर्णमन्नं गृहीत्वा 'तृप्ता:स्थ' इति विप्रान्पृष्ट्वा 'तृप्ताः स्म इति तैरुक्ते 'शेषमप्यन्नमस्ति किं क्रियताम्' इति पृष्वा 'इष्टैः सह भुज्यताम्' इत्यनुज्ञातः पितृस्थानविप्रोच्छिष्टसन्निधौ दक्षिणाग्रेषु दर्भेषु तिलोदक प्रक्षिप्य ' ये अग्निदग्धा' इत्यनयर्चा तदन्नं प्रक्षिप्य विप्रहस्तेषु गण्डूषार्थ सकृत्सकृदुदकं दद्यात्। हेमाद्रौ धर्म:- केषांचिद्विकिरः पूर्वं तृप्तिप्रश्नस्तथापरः । प्रश्नः पूर्वमथान्येषां विकिरस्तदनन्तरम् ।। अमृतापिधानात्पूर्व केषांचिद्विकिरः स्मृतः । अन्येषां तु ततः पश्चाद्विदुषामिति संमतम् ।। गायत्र्यादिजपात्पूर्व केषांचित्तदनन्तरम् । कात्यायनः-तृप्तान ज्ञात्वाऽनं प्रकीर्य सकृदपो दत्वा पूर्ववद्गायत्री जप्त्वा मधुमतीमधुमधु इति च तृप्ताः स्थः इति पृच्छति तृप्ताः स्म इत्यनुज्ञात: शेषमन्नमनुज्ञाप्य इति । प्रचेताः-तृप्ताः स्थ तृप्ताःस्मप्रभूतं प्रभूतमित्युक्तवन्तः' इति । विष्ण्वाश्वलायनौ संपन्नं पृष्ट्वाऽन्नं विकीर्य' इति । विष्णुधर्मोत्तरेत्वनयोः प्रश्नोत्तरयोः समुच्चयो जानुपातनं च दर्शितम्। प्रष्टव्या ब्राह्मणा भक्त्या भूनिविष्टेन जानुना। तृप्ता भवन्तः संपन्नं भवतो कच्चिदेव तु ॥ तृप्ताः स्मेति च तैरुक्ते संपन्नमिति चाप्यथ । यादाचमनं भत्तया श्रद्दधानः समाहितः ।। श्राद्धविशेपे प्रश्नोत्तरविशेपमाह विष्णुः- पिव्ये स्वदितमित्येवं वाच्यं गोष्ठेषु सुश्रुतम् । संपन्नमित्यभ्युदये देवे रोचत इत्यपि ॥ -- विकिरेतिकर्तव्यता। - हारीतः-तृप्ताः स्वदितमिति पृच्छेत्स्वदितमिति प्रत्याहुः स्मृतमिति दैवे त्वायुष्यमिति खैरे वाचान्तेषु भूमौ विकिरं निनयेत् । अथाचमनदानम् । विष्णुः-'उदङ्मुखेष्वाचमनमादौ दद्यात्ततः प्राङ्मुखेषु' इति । उदङ्मुखेषु पित्र्यविप्रेषु । प्राङ्मुखेषु दैवविप्रेषु । हस्तमप्रक्षाल्यैव गण्डूष- ग्रहणं कर्तव्यम् । अन्यथा दोषमाह मरीचिः- हस्तं प्रक्षाल्य गण्डूषं यः पिबेदविचक्षणः । आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ।। गोभिल:- भुक्त्वाऽऽचम्य पदस्तोमान जपेत्तत्र समाहितः। गोसूक्तं चाश्वसूक्तं च मध्ये तस्य समीनरम् ।। भुक्त्वासन्नः शुचौ देशे वामदेव्यं ततो जपेत् । एवं सामभिराच्छन्नो भुञ्जानस्तु द्विजोत्तमः । श्राद्धभोजनदोषैस्तु महद्भिर्नोपलिप्यते ॥ अन्यथैव हि भुजानो हव्यकव्येष्वमन्त्रवित् । आत्मानमन्नदातारं गमयत्यासुरी स्थितिम् ॥ इति । अथ विकिरेतिकर्तव्यता। पाद्ममात्स्ययोः-- तृप्तान ज्ञात्वा ततः कुर्याद्विकिरं सार्ववर्णिकम् । सोदकं चान्नमुद्धृत्य सलिलं प्रक्षिपेद्भुवि ॥ ब्रह्माण्डपुराणे- उच्छिष्टे सतिलान् दर्भान दक्षिणायान्विधापयेत् । उच्छिष्टे उच्छिष्टसन्निधौ । विष्णु:-'भुक्तवत्सु ब्राह्मणेषु तृप्तिमाग- तेषु मामेक्षेष्टा इत्यन्नं सतृणमभ्युक्ष्यान्नविकिरणमुच्छिष्टाग्रतः कुर्यात् ' इति । मन्त्रस्तु 'मामेक्षेष्ट बहुते पूर्तमस्तु ब्राह्मणो मे जुषतामत्रानं सह- नधारममृतोदकं मे पुरतस्त्वेतत्परमे व्योमन् ' इति । वैश्वदेविकविकि- रमन्त्रमाह गोभिल:- असोमपाश्च ये देवा यज्ञभागविवर्जिताः। तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविकम् ॥ इति । पित्र्यविकिरमन्त्रमाह कात्यायनः- श्रादमयूखः - - ये अग्निदग्धा येऽनग्निदग्धा जीवा जाताः कुले मम । भूमी इलेन तृप्यन्तु तृप्ता यान्तु परां गतिम् । वृहस्पति:- अनग्निदग्धा ये जीवा येऽग्निदग्धाः कुले मम । गोभिल:- अग्निदग्बास्तु ये जीवा येऽप्यदग्धाः कुंले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् । उभयत्र भूमौ दत्तेनेति शेषः पानमात्स्ययो:- 'अग्निदग्धान्तु ये जीवा येप्यनग्निदग्धाः कुले मम । भूमौ दत्तेन तुष्यन्तु तृप्ता यान्तु परां गतिम् । येषां न माता न पिता न बन्धु- नचान्नासिद्धिर्न तथाऽन्नमस्ति । तत्तृप्तयेऽनं भुवि दत्तमेत- त्ययान्तु लोकाय सुखाय ते तु ॥ येऽस्मत्कुले तु पितरो लुप्तपिण्डोदकक्रियाः। ये चाप्यकृतचूडास्तु ये च गर्भाद्विनिःमृताः ।। येषां दाहो न क्रियते अग्निदग्धाश्च ये परे । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् । अपग तु- असंस्कृतप्रमीता ये त्यागिनो याः कुलस्त्रियः। दास्यामि तेभ्यो विकिरं पित्र्यं भूमौ जलेन तु । इत्यपि मन्त्र उक्तः । विकिरस्य प्रतिपत्तिमाह गौतमः-'विकिर- मुच्छिौः प्रतिपादयेत् ।। उच्छिष्टैरिति सहार्थे तृतीया । भार्गवः- पिण्डवत्प्रतिपत्तिः स्याद्विकिरस्येति तौल्वलिः । इंदं चोच्छिष्टसन्निधौ विकिरदाने तैः सह प्रतिपादनम् । पिण्डस- निधी चेपिण्डवदिति व्यवस्थितमिति केचित् । पिण्डसन्निधौ विकि- ग्दानमाह धूम्रः- कपित्थस्य प्रमाणेन पिण्डं दद्यात्समाहितः । तत्समं विकिरं दद्यात्पिण्डान्ते तु षडङ्गुले ॥ इति ।

पिण्डदानम् । - अथ पिण्डदानम्। साङ्ख्यायनगृह्ये-'भुक्तवत्सु पिण्डान्दद्यात्पुरस्तादेके' पुरस्तादिति पक्षे ब्राह्मणार्चनानन्तरमाह देवल:- 'अथ संगृह्य कलशं सदर्भ पूर्णमम्भसाम् । पुरस्तादुपविश्यैषां पिण्डावापं निवेदयेम् ।। इत्यादिना । अग्नौकरणानन्तरमाह मनु:- अपसव्यमग्नौ कृत्वा सर्वमावृत्परिक्रमम् । अपसव्येन हस्तेन निर्वपेदुदकं शुचि ॥ त्रींस्तु तस्माद्धविःशेषात्पिण्डान्कृत्वा समाहितः । इत्यादि । आश्वलायनगृह्य-भुक्तवत्स्वनाचान्तेषु पिण्डान्निध्या- दाचान्तेषु इत्येके ' इति । कात्यायनोऽपि कृतगण्डूषेषु सम्यगाचा- न्तेषु ब्राह्मणेषु पिण्डदानमुक्त्वाऽह 'अनाचान्तेषु इत्येके ' इति । के-- चित्तु 'भुक्तवत्स्वनाचान्तेष्वेव विकिरं दत्वा स्वधां वाचयित्वा पिण्डदानं कुर्वन्ति । तथा च शङ्खलिखितौ-'गायत्रीं समनुश्राव्य तृप्तान ज्ञात्वा स्वदितमिति पृष्ट्वा शेषमन्नमनुज्ञाप्य कृतादनाद्विकिरं कुर्यात्स्वधां वाचयित्वा विष्टरांस्त्रीन्निध्यात्' इत्यादि । विष्टराः पिण्डाधस्तना दर्भाः । बृहस्पतिना 'आचान्तेषु पिण्डदानमनाचान्तेषु विकिरः' इत्यु- तम् । आचान्तेष्वपि कुर्वाणाः केचित् अभिरमणानुज्ञावचनस्वधावाच- नादिपदार्थमकृत्वैव पिण्डदानं कुर्वन्ति । एतदुत्तरकालतां त्वाह यमः- आचान्तांश्चानुजानीयादभिवाद्य कृताञ्जलिः । भवन्तो रमन्तामत्र ज्ञात्वाऽनुज्ञातलक्षणम् ।। स्वधेति च वक्तव्यं प्रीयन्तां पितरस्तथा । अक्षय्यमन्नदानं तु वाच्यं प्रीतैर्द्विजातिभिः । ततो निर्वपणं कुर्यापिण्डानां तदनन्तरम् । इति । हारीतस्तु-' वाजेवाजेत्यनुव्रज्येत्यन्तं भोजनोत्तरं तत्तद्भुक्तहविःशे- षस्य पिण्डान् पिण्डपितृयज्ञवन्निध्यात् ' इत्याह । एते च पिण्डदान- कालाः स्वस्वगृह्यानुसारेण व्यवस्थिता ज्ञेयाः । भोजनात्पूर्वकालोत्तर- कालत्वयोर्व्यवस्थामाह लौगाक्षिः- अप्रशस्तेषु यागेषु पूर्व पिण्डावनेजनम् । भोजनस्य प्रशस्ते तु पश्चादेवोपकल्पयेत् ॥ - - श्रादमयूखः अप्रशस्तेषु सपिण्डीकरणपूर्ववर्तिषु प्रेतश्राद्धेषु । अवनेजनम् अवा- चीनपाणिना निर्वपणम् ' इति स्मृतिचन्द्रिकाकारः । 'अवनेजनं दा- नम् । इति हेमाद्रिः। प्रशस्तं सपिण्डीकरणादिश्राद्धम् । इयं व्ययस्था के- षांचिदेव । मन्वादिस्मृतिषु मत्स्यादिपुराणेषु च भोजनपूर्वकालतैवोक्ता। स्वगृह्ये विशेषानुक्तौ तु 'आचान्तेष्वेके ' इति पक्षो ग्रहीतुं न्याय्यः । , अथ पिण्डदानदेशः। देवल:-हुत्वैवमग्निं पिण्डानां सन्निधौ तदनन्तरम् । पक्कान्नेन बलिं तेभ्यः पिण्डेभ्यो दापयेहिजः ।। अत्राग्नौ होमस्य पिण्डसन्निधानं वदतार्थात्पिण्डदानमप्यग्निस- निधावुक्तं भवति ' इति हेमाद्रिः । अग्नयन्तराभावे तु याज्ञवल्क्या. दिवचनेभ्य उच्छिष्टसन्निधौ पिण्डान्दद्यात् । अत्र विशेषमाह व्यास:- अरनिमात्रमुत्सृज्य पिण्डांस्तत्र प्रदापयेत् । यत्रोपस्पृशतां वाऽपि प्राप्नुवन्ति न बिन्दवः ।। पारस्करः-विप्राणां बाहुमात्रेण पिण्डदानं विधीयते ॥ 'पात्राणाम् ' इति वा पाठः। अत्रि:-पितॄणामासनस्थानादग्रतस्त्रिध्वरनिषु । उच्छिष्टसन्निधानं तन्नोच्छिष्टासनसन्निधौ । जातूकमे:- व्याममात्रं समुत्सृज्य तत्र पिण्डान्प्रदापयेत् । ब्राह्मणभोजनात्पूर्वकालप्रदेयान्पिण्डान् प्रस्तुत्य देशविशेषमाह देवल:- अभ्यज्य मधुसर्पिया तान्वपेत्कुशसञ्चये । छायायां हस्तिनश्चैव हस्तदौहित्रसन्निधौ ।। 'श्राद्धसन्निधौ हस्तिसत्त्वे तच्छायायां दौहित्राद्धस्ताद्यन्तरालदेशे वा' इत्यर्थः । देवल:- अथ संगृह्य कलशं सदर्भ पूर्णमम्भसा । पुरस्तादुपविश्यैषां पिण्डावापं निवेदयेत् ॥ ततस्तैरभ्यनुज्ञातो दक्षिणां दिशमेत्य सः । कलशसङ्घहस्तु, 'ततः पानीयकुम्भेन तर्पयेत्प्रयतः पितन् । इत्या- दिना कलशेनैव येषां कृत्यं विहितं तेषामेवान्येषां त्ववनेजनादिक , पिण्डदानस्थानकल्पना - श्राद्धीयेनैवोदकेन । अत एव तत्सङ्घहमन्तरेणाह शालङ्कायन:- पिण्डावापमनुज्ञाप्य यतवाक्कायमानसः । सतिलेन ततोऽनेन पिण्डान्सर्वेण निर्वपेत् ॥ अथ पिण्डदानस्थानकल्पना । देवल:- उपलिसे शुचौ देशे स्थानं कुर्वीत सैकतम् । मण्डलं चतुरस्रं वा दक्षिणावनतं महत् ॥ एतच्च सैकतस्थानकरणं केषांचिदेव । अत एवं उपलिप्ते महीपृष्ठे' इति मत्स्यपुराणे महीपृष्टमेव पिण्डाधारत्वेन विहितम् । देवल:-“एक- दर्भेण तन्मध्यमुल्लिखेत्रिश्च तं त्यजेत् । तन्मध्यं मण्डलमध्यम् ' त्रिः' इति मातृमातामहादीनां पिण्डदानपक्षे । अन्यथा सकृदेव । कण्डनं पेषणं चैव तथैवोल्लेखनक्रिया। सकृदेव पितृणां स्यादेवानां तदनन्तरम् । इति ब्रह्माण्डपुराणात् । एतच्च स्क्याभावे 'वत्रेण वा कुशैर्वाऽपि उल्लिखेत महीं द्विजः' इति ब्रह्माण्डपुराणात् । वज्रः स्फ्यः । 'वज्रो स्फ्यः' इति श्रुतेः तत्रैव-'सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजः । सव्यः वामः उत्तरः ययोस्तौ सव्योत्तरौ । एतच्च सर्वमाग्नेयी- दिगभिमुखम् । आश्वलायनेन दक्षिणप्राची प्रस्तुत्य ' सर्वकर्माणि तां दिशम्' इत्युक्तत्वात् । 'दक्षिणा दिक् पितृणाम् ' इति श्रुतेः । दक्षिणा दिगपि विकल्पेन । कर्ताऽपि सौकर्यादाग्नेय्यभिमुखो दक्षिणाभिमुखो वा । लेखाकरणे मन्त्र उक्तो ब्रह्मपुराणे- निहन्मि सर्व यदमेध्यमत्र हताश्च सर्वेऽसुरदानवा मया । रक्षांसि यक्षाश्च पिशाचसङ्घा हता मया यातुधानाश्च सर्वे ॥ एतेन मन्त्रेण सुसंयतात्मा दर्भेण वेदि विलिखेत्रिः' इति । पिण्ड- पितृयज्ञे कात्यायन:-' दक्षिणेनोल्लिखत्यपहता इत्यपरेण वा ' अग्न्य- पेक्षया दक्षिणत्वमपरत्वं च । उल्लिख्य चाभ्युक्षणम् । 'तामभ्युक्ष्य ' इत्याश्वलायनवचनात् । उल्लिख्योल्मुकनिधानमाह कात्यायन:-'उल्मुकं परस्तात्करोति ये रूपाणि' इति । आश्वलायन:-'सकृदाच्छिन्नैरवस्तीर्य' श्राइमयूखः इति । ' अथ सकृदाच्छिन्नान्युपमूलं दितानि भवन्ति ' इति शतपथे। यत्समूलं तत्पितृणाम् ' इति तु तैत्तिरीये। यमः-विष्टरांस्त्रीन्वपेत्तत्र नामगोत्रसमन्वितान् । अनिरभ्युक्ष्य विधिवत्तिलैरभ्यवकीर्य च ॥ नामगोत्रसमन्वितान् 'अमुकगोत्रस्याऽस्मत्पितुरमुकशर्मणोऽयं विष्टर' इत्युच्चारणपूर्वमित्यर्थः । दर्भास्तरणानन्तरमाह देवलः- अथ साञ्जलिरुत्थाय स्थित्वा चावाहयेत्पितॄन् । पितरो मे प्रसीदन्तु प्रयान्तु च पितामहाः ।। इति संकीर्तयंस्तूष्णीं तिष्ठेरक्षणमनुश्वसन् । आवाहयित्वा दर्भाप्रैस्तेषां स्थानानि कल्पयेत् । तेष्वासीनेषु पात्रेण प्रयच्छेन्मार्जनोदकम् ।। प्रक्षाल्य विकिरेत्तत्र नानावर्णास्तिलानपि ।।' इति । दर्भास्तरणानन्तरमाह सुमन्तुः- असाववनेनिक्ष्वेति पुरुषं पुरुषं प्रति । त्रिस्त्रिरेकेन हस्तेन विदधीतावनेजनम् ।। असाविति गोत्रनानामपि ग्रहणम्- पिण्डोदकप्रदानं तु नित्यनैमित्तिकेष्वपि । आलप्य नामगोत्रेण कर्तव्यं सर्वदैव हि ॥ इति व्यासोक्तेः । कात्यायनेन तु बहिस्तरणात्पूर्वमक्नेजनमुक्तम् । अनयोर्विकल्पो यथाशाखं व्यवस्था वा । इदं चोदकं सतिलमित्याहो. शना-तिलोन्मिश्रेणोदकेनासिच्य ' इति । मार्कण्डेयपुराणे- पिततीर्थेन तोयं च दद्यात्तेभ्यः समाहितः ।। इति । दिभिस्तु अवनेजनार्थमुदकपात्रमुक्तम् । - । नेपात्यैव भूमौ पिण्डान्प्रयत्नतः । निर्वपेपितृतीर्थेन स्वधाकारमुदाहरन् ।। मरीचि:- पात्राणां खड्गपात्रेण पिण्डदानं विधीयते । राजतौदुम्बराभ्यां वा हस्तेनैवाऽथवा पुनः ॥ इति । खड्डाख्यश्वापदविशेषललाटास्थिसंभवपात्रं खलपात्रम् । औदुम्बर ताम्रमयम् । सन्यपाणिसंयोजनं शङ्खलिखिताभ्यामुक्तम्-पिण्डानि- पिण्डपरिमाणम् । - दध्यात्सव्येन पाणिना दक्षिणं पाणिमुपसंयोज्येति । देवल:-'अपस- व्यमपाङ्गुष्ठम् । इति । ब्रह्माण्डपुराणे- उत्तानेन तु हस्तेन निर्वपेद्दक्षिणामुखः । इति । पितृतीर्थावनमनं चाहापस्तम्बः-'सव्यं जान्वाच्यावाचीनपाणिः इति । उत्तान एवाधरीकृतपितृतीर्थः पाणिरवाचीनः । अवाचीनमेव पराचीनशब्देनाहाश्वलायन:-'तस्यां पिण्डान्निपृणीयात्पराचीनपाणिः' इति । अग्नौकरणात्पूर्व पिण्डदानपक्षे तदर्थेन चरुणा पिण्डाः, ततश्चरुमुपादाय सपवित्रेण पाणिना' इत्यादिना देवलेनोक्ताः । अग्नौ- करणोत्तरमिति पक्षे तु तच्छेषादित्याह मनुः- त्रीस्तु तस्माद्धविःशेषात्पिण्डान् कृत्वा समाहितः । ओदनेनैव विधिना निर्वपेद्दक्षिणामुखः ।। इति । भोजनोत्तरकालीने तु कात्यायन:- सर्वमन्नमेकत उद्धृत्य' इति । सर्वशब्दः प्रकृतान्नजातिसर्वत्वार्थः । इदं चाग्नौकरणशेषेण मिश्रणीय- मित्याहाश्वलायन:-'यद्यदन्नमुपभुक्तं तत्तत्स्थालीपाकेन सह पिण्डार्थ- मुद्धृत्य पिण्डान्निध्यात्' इति। यत्तु पठन्ति- माषाः सर्वत्र वै ग्राह्या न ग्राह्यास्त्वग्निपिण्डयोः । ब्राह्मणेषु यथा मधं तथा माषोऽग्निपिण्डयोः।। इति । तन्निर्मूलम् । तेन माषा अपि ग्राह्या एव इति । वायुपुराणे- मधुसर्पिस्तिलयुतान् त्रीन् पिण्डान्निर्वपेद्बुधः ।। नात्र मध्वादित्रयनियमः क्रियते, किंत्वतिशय एव । अत एव तिल- मधुद्वययुक्तता बृहस्पतिनोक्ता- सर्वस्मात्प्रकृतादन्नात्पिण्डान्मधुतिलान्वितान् ।। इति । तिलमात्रयुक्तता तु 'सर्वमन्नमुपादाय सतिलं दक्षिणामुखः' इति याज्ञवल्क्येनोक्ता । तेन त्रयं न नियतमिति केचित् । वस्तुतस्तु त्रय- नियमेऽपि कलौ मधु न देयम् । अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु । देवराञ्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ।। इति श्राद्धदीपकलिकायां निगमोक्तेः । अथ पिण्डपरिमाणम् । व्यास:-द्विहायनस्य वत्सस्य विशत्यास्ये यथासुखम् । - ।

श्राहमयूखः - तथा कुर्यात्प्रमाणं तु पिण्डानां व्यासभाषितम् ॥ द्विहायनः द्विवर्षः । ब्रह्माण्डपुराणे- त्रीपिण्डानानुपूर्येण साङ्गुष्ठमुष्टिवर्द्धनात् ।। मुष्टौ निवेशिते पिण्डे यथा साङ्गुष्ठमुष्टिवृद्धिर्भवतीत्यर्थः । अङ्गिरा:- कपित्त्थबिल्वमात्रान्वा पिण्डान्दद्यात्समाहितः। कुक्कुटाण्डप्रमाणान्वा यदि वाऽऽमलकैः समान् ।। बदरेण समान्वाऽपि दद्याच्छ्रद्धासमन्वितः ।। इति । एषां च शक्तिभेदेन व्यवस्था । व्यवस्थायुक्तानि परिमाणान्याह मरीचिः आमलकमात्रांस्तु पिण्डान्कुर्वीत पार्वणे । एकोद्दिष्टे बिल्वमानं पिण्डमेकं तु कारयेत् ।। नवश्राद्धे स्थूलतरं तस्मादपि तु निर्वपेत् । तस्मादपि स्थूलतरमाशौचे प्रतिवासरम् ॥ अत्राऽऽमलकमात्रानेव पार्वणे इति न नियमः, किंतु आमलकमा- त्रान्पार्वण एवेति । अतश्वाधिकपरिमाणपिण्डाचारो न विरुध्यते । नव- श्राद्धं च स्मृत्यन्तरे- प्रथमेऽह्नि तृतीयेऽह्नि. पञ्चमे सप्तमे तथा । नवमैकादशे चैव तनवश्राद्धमुच्यते ॥ इति । मैत्रायणीये त्रयाणां यथोत्तरं परिमाणाधिक्यमुक्तम् । पितामहस्य नाम्ना स्थवीयांसं मध्यमम् । प्रपितामहस्य नाम्ना स्थविष्ठं दक्षिणमि- ति। आवाहनादिपिण्डदानान्तं कर्मोक्त्वाऽऽह याज्ञवल्क्यः- मातामहानामप्येवं दद्यादाचमनं ततः । एवमित्युक्तवक्ष्यमाणपदार्थातिदेशः । पितृमातामहपार्वणयोश्चैक- प्रयोगविधिपरिग्रहात्सहक्रियमाणयोमिथःप्रत्यासत्त्यनुग्रहाय पदार्थाना- मेवानुसमयो न काण्डयोः । अनन्तरकृत्यमाह स एव- स्वस्तिवाच्यं ततः कुर्यादझय्योदकमेव च । इति [ सह सर्ववर्णमन्नमुपादायाग्निसन्निधौ पिण्डान् दद्यात् । तदभावे ब्राह्मणाथै सार्ववर्णिकमन्नमुपादायोच्छिष्टसन्निधौ पिण्डपितृयज्ञकल्पेन पिण्डान्दद्यात् ।मातामहानामप्येवमेव वैश्वदेवावाहनादिप्रदानान्तं कर्म कृत्वा ब्राह्मणानामाचमनं दद्यात् । ] ततः 'स्वस्तीति ब्रूत' इति ब्राह्म- णान् स्वस्ति वाचयेत् । तैश्च 'स्वस्ति' इत्युक्ते 'अक्षय्यमस्त्विति वत' - ।

दक्षिणादानादि। - - इति ब्राह्मणहस्तेषूदकदानं कुर्यात् । 'अस्त्वक्षय्यम्' इति ते ब्रूयुरित्यर्थः । अथ दक्षिणादानम् । तहिविधम् । विप्रोद्देश्यकं पित्रुद्देश्यकं च । आद्यमाह देवल:- आचान्तेभ्यो द्विजेभ्यस्तु प्रदद्यादथ दक्षिणाम् ॥ इति । द्वितीयमाह पारस्करः -'हिरण्यं विश्वेभ्यो देवेभ्यो रजतं पितृभ्यः' इति । तत्राचं सव्येन, तथा च जमदग्निः-'अपसव्यं कर्म सर्वदक्षिणा- दानवर्जितम् , इति । द्वितीयं त्वपसव्येन । तथा च दक्षिणादानं प्रक्रम्य स एव-'अपसव्यं तत्रापि' इति। तत्रापि पित्र्यदक्षिणादानेऽपीत्यर्थः । दक्षिणादाने क्रममाह देवल:- दक्षिणां पितृविप्रेभ्यो दद्यात्पूर्व ततो द्वयोः । द्वयोः द्वाभ्यां वैश्वदेविकब्राह्मणाभ्यामित्यर्थः । दक्षिणा च विप्रगुणा- नुरोधेन विषमाऽपि देया- एकपतधुपविष्टानां विप्राणां श्राद्धकर्मणि । भक्ष्यभोज्यं समं देयं दक्षिणा त्वनुसारतः ॥ इति स्मृतेः । दक्षिणां दत्त्वा स्वधां वाचयिष्ये इत्युक्त्वा तैाह्मणैः वाच्यताम्' इति प्रत्युक्तः 'पित्रादिभ्यः स्वधोच्यताम् । इति वदेत् । अस्तु स्वधा' इति विप्राः । ततो भूमावुदकमासिच्य' विश्वे देवाः प्रीयन्ताम्' इति वदेत् । प्रीयन्तां विश्वे देवाः' इति विप्रैरुक्ते 'दातारः इति मनं जपेत् । पितृणां न्युजं पात्रमुत्तानं कृत्वा “वाजे वाजे' इति मत्रेण पितृपूर्व विसर्जयेत् । तदेतत्सर्वमाह याज्ञवल्क्यः- दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् । वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ श्रूयुरस्तु स्वधेत्युक्ते भूमौ सिश्चेत्ततो जलम् । विश्वेदेवाश्च प्रीयन्तां विश्वोक्त इदं जपेत् ।। दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव नः । श्रद्धा च नो मा व्यगमद्वहु देयं च नोऽस्तु ।। इति । इत्युक्त्रोक्त्वा प्रिया वाचः पितृपूर्व विसर्जयेत् । वाजे वाज इति प्रीतः पितृपूर्व विसर्जनम् ॥ यस्मिस्ते संत्रवाः पूर्व पितृपात्रे निवेशिताः । पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ।। इति । - श्राडमयूखः - - पिण्डप्रतिपत्तिमाह स एव- पिण्डांस्तु गोजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा । पत्न्याः पुत्रकामनायां तु वायुपुराणे- परन्यै प्रजार्थी दद्यात्तु मध्यमं मत्रपूर्वकम् ॥ इति । मनस्तु मत्स्यपुराणे- आधत्त पितरो गर्भ मन्त्रः सन्तानवर्द्धनः ॥ इति । मध्यमपिण्डप्राशनं च केवलं काम्यमेव न नित्यमिति द्वैतनिर्णय तातचरणाः । इतरत्पिण्डद्वयं कामनाभावे त्रयमपि गवादौ प्रतिपाद्यम् । बृहस्पतिः- अन्यदेशगता पत्नी गर्भिणी रोगिणी तथा । तदा तं जीर्णवृषभइछागो वा भोक्तुमर्हति ॥ तीर्थश्राद्ध प्रतिपत्यन्तरं विष्णुधर्मोत्तरे- तीर्थश्राद्धे सदा पिण्डान् क्षिपेत्तीथें समाहितः। दक्षिणाभिमुखो भूत्वा पिच्या दिक् सा प्रकीर्तिता । इति । उच्छिष्टमार्जने विशेषमाह याज्ञवल्क्यः- सत्सु विप्रेषु सर्वेषु द्विजोच्छिष्टं न मार्जयेत् । इति । सत्स्विति अपराहतोपलक्षणार्थम्- भृत्यवर्गवृतो भुङ्क्ते हव्यं कव्यं स्वगोत्रजैः । आसायं श्राद्धशालायां द्विजोच्छिष्टं न मार्जयेत् ।। इति प्रचेतोवचनात् । मात्स्ये- ततश्च वैश्वदेवान्ते सभृत्यः सहबान्धवः । भुजीतातिथिसंयुक्तः सर्व पितृनिषेवितम् ॥ इति । श्राद्धशेषभोजनं तु दिवैव कार्यमित्याह जातूकर्ण्यः- अहन्येव तु भोक्तव्यं कृते श्राद्धे द्विजन्मभिः । अन्यथा ह्यासुरं श्राद्धं परपाके च सेविते ॥ देवल:- श्राद्धं कृत्वा तु यो भुङ्क्तेन भुङ्क्तेऽथ कदाचन । देवा हव्यं न गृह्णन्ति कव्यानि पितरस्तथा ॥ तहिने नित्योपवासप्राप्तौ तु श्राद्धशेषावघाणमेवेत्युक्तं समयमयूखे । - - कातीयानां प्रयोगः। ततः कर्ता अथ कातीयानां प्रयोगः ।। तत्र कर्ता पूर्वेयुः सद्यो वाऽऽचम्य प्राणानायम्य मासपक्षाधुल्लिख्य प्राचीनावीती सव्यं जान्वाच्यास्मपितृपितामहप्रपितामहानां माताम- हप्रमातामहवृद्धप्रमातामहानां वाऽमुकामुकशर्मणाममुकगोत्राणां वसुरु- द्रादित्यस्वरूपाणां सपत्नीकानां सदैवं सपिण्डमपिण्ड वा पार्वणवि- धिना श्वोऽद्य वा दर्शश्राद्धमहं करिष्ये' इति संकल्पयेत् । क्षयाहे अपत्नीकानां पित्रादीनामेव । महालये तु यथासंभवं सर्वेषामिति विशेषः । ततः कर्ता दक्षिणं जान्वाच्योपवीत्युदङ्मुखोऽस्मत्पित्रादीनां दर्शश्राद्धादौ विश्वेदेवस्थाने त्वामहं निमन्त्रये इत्येकं द्वौ चतुरो वा प्राङ्मुखान ब्राह्मणान् प्रत्येकं दक्षिणं जानुं स्पृष्ट्वा निमंत्र्य दैवे क्षणः क्रियतामिति ब्रूयात् । ॐतथेतीतरः प्रतिब्रूयात् । 'प्राप्नोतु भवान् ' इति ब्रूयात् । ‘प्राप्नवानि ' इतीतरः। ततः कर्ता दक्षिणामुखः सव्यं दक्षिणं वा जान्वाच्य प्राचीनावीती 'अस्मिन् दर्श- श्राद्धादावस्मत्पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य सपत्नीकस्य स्थाने त्वामहं निमन्त्रये इत्युदङ्मुखमेकं त्रीन् नव वा ब्राह्मणान् प्रत्येकं सव्यं दक्षिणं वा जानुं स्पृष्ट्वा निमन्त्रयेत् । एवं पितामहस्य रुद्ररूपस्य प्रपि- तामहस्यादित्यरूपस्य ' इति । एवमेव मातामहादीनपि प्रत्येक नि- मन्त्रयेत् । ततः 'पित्र्ये क्षणः क्रियताम् । इति वदेत् । ॐ तथा" इत्यादि पूर्ववत् । ततः कोंपवीती- अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्व मया च श्राद्धकारिणा । सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः । भवितव्यं भवद्भिर्नः श्वो भूते श्राद्धकर्मणि ॥ इति । भवद्भिर्नोऽद्यत इति वा तान् श्रावयेत् । ततो द्विराचम्य पवित्रं धृत्वा सौवर्णराजतखड्याङ्गुलीयानि वाऽनामिकातर्जनीकनिष्ठिकासु · धृत्वा संकल्पपूर्व श्राद्धाधिकारसिद्धयर्थ सहस्रशीत्यादिपवित्रमन्त्रान् जपित्वा द्विराचम्य विप्राग्रतो ब्रह्मदण्डाथै सतिलं हिरण्यं कुशं वा निक्षिप्य- समस्तसम्पत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः । अपारसंसारसमुद्रसेतवः - १०२ श्रादमयूखः त पुनन्तु मां ब्राह्मणपादपांसवः ।। आपद्धनध्वान्तसहस्रभानव: समीहितार्थार्पणकामधेनवः । समस्ततीर्थाम्बुपवित्रमूर्तयो रक्षन्तु मां ब्राह्मणपादपांसवः ॥ विप्रौघदर्शनाक्षिप्रं क्षीयन्ते पापराशयः । दर्शनान्मङ्गलावाप्तिरर्चनादच्युतं पदम् ।। इति तानस्तुत्वा प्राचीनावीती ' अमुकश्राद्धं कर्तु ममाधिकारसम्प- दस्तु ' इति भवन्तो ब्रुवन्तु ' इति तान्संप्रार्थ्य 'तथास्तु' इति तैरनु- ज्ञातो यज्ञोपवीती तिथ्यादि संकीर्त्य दक्षिणामुखः प्राचीनावीती सव्यं जान्वाच्य तिलान् गृहीत्वाऽस्मत्पित्रादीनां मातामहादीनां च पूर्वोपक्रांत श्राद्धं युष्मदनुज्ञया करिष्य इति संकल्प्य 'कुरुष्व ' इति तैरनुज्ञातो ब्रा- ह्मणान् 'स्वागतम् ' इति पृष्ट्वा सुस्वागतम् 'इति प्रत्युक्त उपवीती आगच्छन्तु महाभागा विश्वे देवा महाबलाः। ये अत्र विहिताः श्राद्धे सावधाना भवन्तु ते ।। इति वैश्वदेविकद्विजान्संप्रार्थ्य प्राचीनावीती- ये मयाऽऽमन्त्रिताः पूर्व पितरो मातृपक्षजाः । आश्रित्य पितृकार्येषु सावधाना भवन्तु ते ॥ इति पितृद्विजान् संप्रायोपवीती सर्वान्प्रदक्षिणीकृत्यैकस्मिन्नपात्रे चन्दनयवकुसुमोदकं सम्भृत्य 'अयमेनम् इति सकृत्पठित्वा द्विजपादयो- निमन्त्रणक्रमेणाय निनीयोदङ्मुखो द्विराचामेत् । ततः श्राद्धपूर्वदेशे देवे द्विहस्तं दीर्घचतुरस्रमुदक्प्लवं मण्डलं गोमूत्रगोमयाभ्यां कृत्वा तत्र यवान् प्रागनं कुशद्वयं च निक्षिप्य तद्दक्षिणतः षडङ्गुलं विहाय प्राचीनावीती पि- त्रथै चतुर्हस्तं समचतुरस्रं दक्षिणाप्लवं मण्डलं गोमूत्रगोमयाभ्यामेव कृत्वा तिलान्दक्षिणायं कुशत्रयं च निक्षिप्योपवीती पितृदेवमण्डलात्पूर्वे प्रत्य- ङ्मुख उपविश्य देवतार्थब्राह्मणमेकैकं प्राङ्मुखमुपवेश्य पवित्रकरो नि- मन्त्रणक्रमेण गन्धपुष्पयवकुशमिश्र जलालिं विश्वेभ्यो देवेभ्य इदं पाद्यम् । इत्युक्त्वा ' शन्नो देवीः' इति मन्त्रान्ते देवतीर्थेन ब्राह्मणपा- दयोनिनीयाभिवन्द्य पवित्रं वित्रस्यान्यजलेन पादौ प्रक्षाल्य दक्षिणपा- दादिमूर्द्धान्तं गन्धपुष्पाक्षतैः सहस्रशीर्षा ' इति संपूज्य साक्षतगन्ध- पुष्पकुशजलपूर्णपात्रेण विश्वेदेवा एष वोऽयं इत्यध्यै निवेदयेत् । एव- - कातीयानां प्रयोगः। १०३ मितरत्र कृत्वा ब्राह्मणान् द्विराचमय्य स्वयं पवित्रं धृत्वा सकृदाचम्य प्राचीनावीती दक्षिणामुखो विप्रानुदङ्मुखानुपवेश्य द्विगुणभुमकुशति- लगन्धपुष्पमिश्रं जलांजलिं 'अस्मत्पितरोऽमुकशर्माणोऽमुकगोत्रा वसुरूपा इदं वः पाद्यम्' इत्युक्त्वा ‘शन्नो देवीः' इति मन्त्रेण पित्रर्थब्राह्मण- पादयोः पितृतीर्थेन निषिच्याभिवन्द्यान्यजलेन पादौ प्रक्षाल्य शिरः- प्रभृतिपादान्तं वामानपूर्वक 'पितृभ्यः स्वधायिभ्यः' इति तिलचन्दन- पुष्पैरभ्यर्च्य 'अस्मत्पितरोऽमुकशर्माणोऽमुकगोत्रा वसुरूपा एष वोऽर्घः इत्युक्त्वा सतिलगन्धपुष्पकुशजलपूर्णपात्रेणार्धं ब्राह्मणपादयोर्निनयेत् । एवमस्मत्पितामहा रुद्ररूपाः प्रपितामहा आदित्यरूपाः इत्युक्त्वा प्रत्येकं पाद्याद्यर्घान्तं कृत्वा मातामहादीनामपि तथैव कुर्यात् । तत- स्तान् द्विराचमय्य स्वयं च पवित्रपाणिर्दक्षिणामुखो द्विराचम्य द्वि- जान् भोजनस्थले नीत्वा प्राचीनावीती ' अमुकश्राद्धसिद्धिरस्तु' इति भवन्तो ब्रुवन्तु इत्युक्त्वा 'अस्त्वमुकश्राद्धसिद्धिः' इति तैः प्रत्युक्त आसनान्युपकल्प्योपवीती प्रागग्रयुग्मकुशयवसहितवस्त्राद्यासनं सव्य- हस्तेन स्पृष्ट्वा वैश्वदेविकब्राह्मणदक्षिणहस्तं निरङ्गुष्ठं धृत्वा प्राङ्मुखं ॐभूर्भुवः स्वः यूयं समाध्वम् ' इति उपवेश्य 'सुसमास्महे ' इति प्रत्युक्तोऽपरमप्येवमुपवेश्य प्राचीनावीती दक्षिणाप्रयुग्मकुशतिलयुक्तासने तथैव पित्रादिब्राह्मणमुदङ्मुखमुपवेश्य तिलतैलदीपिका प्रत्येकं शक्त्यो- पकल्प्योपवीती स्वासने प्राङ्मुख उपविश्य ' अपवित्रः पवित्रो वा' इति विष्णुं स्मृत्वा ॐवैष्णव्यै नमः जयायै नमः काश्यप्यै नमः । मेदिनी लोकमाता त्वं क्षितिरुवी घरा मही । भूमिः शैला शिला त्वं च स्थिरा तुभ्यं नमोऽस्तु ते ॥ धरणी काश्यपी क्षोणी रसा विश्वंभरा च भूः । जगत्प्रतिष्ठा वसुधा त्वं हि मातर्नमोऽस्तु ते ।। वैष्णवी भूतदेवी च पृथिवि त्वां नमोऽस्तु ते ॥ इति पृथिवीं स्तुत्वा श्राद्धदेशं गयात्मकत्वेन तत्स्थं च गदाधरात्मकत्वे- न ध्यात्वाऽऽचम्य प्राचीनावीती वैष्णवं मन्त्रं गायत्री प्रणवं मधुवाता ' इति तृचं जत्वोपवीत्याचम्य प्राणानायम्य तिथ्यादि संकीर्त्य प्राचीना- वीतिना' प्रक्रान्तं श्राद्धकर्म युष्मदनुज्ञयाऽहं करिष्ये ' इति संकल्प्य कुरुष्व ' इति तै रनुज्ञात: ' सप्तव्याधाः' इति श्लोकद्वयं देवताभ्य' इति सप्ताचिमन्त्रं चतुर्भिश्च ' इति 'यस्यस्मृत्या' इति च पठित्वा श्राद्धमयूखः 'निहन्मि ' इति नीवीं बद्धा 'अपहता' इत्यप्रदक्षिणं सर्वतस्तिलैः सर्वपै- श्वावकीर्य 'तिला रक्षन्तु' इति तिलकुलान्दार क्षित्वा 'निहन्मि' इति 'अपहता ' इति च प्रदक्षिणं दिक्षु विदिक्षु च दक्षिणसंस्थं परित- स्तिलैरवकीर्य ' यद्देवा ' इति तृचेन जलमभिमन्व्य तेन पाकमुपहा- रांश्च प्रोक्ष्य ' सर्वे पाकाः शुचयः श्राद्धयोग्या भवन्तु दुष्टदृष्टिदोषामु. पहतिर्नश्यतूपहाराणां च पवित्रताऽस्तु ' इत्युक्तोपवीत्युदङ्मुखो वैश्वदेवि- कविप्रसन्निधौ दक्षिणं जान्वाच्य तद्दक्षिणहस्तं सव्येन धृत्वा दक्षिणहस्तेन यवजलयुक्तमजुदर्भद्वयमादाय विश्वेषां देवानां विश्वेभ्यो देवेभ्य इति वो. क्त्वा 'इदमासनम् ' इत्युच्चार्य तद्धस्ते तदुदकमासिच्य तद्दक्षिणतः प्राग कुशद्वयं प्रक्षिप्य 'स्वासनम्' इत्युक्ते 'आस्यताम्' इत्युक्त्वा तेन 'धर्मोऽस्मि विशि राजा प्रतिष्ठितः' इति मनसैवासने प्रतिगृहीते पुनस्तद्धस्तेऽपो दत्त्वा सर्भेण दक्षिणहस्तेन निरङ्गुष्ठं विप्रदक्षिणहस्तं धृत्वा 'पुरूरवा- वसञ्जकविश्वदेवस्थाने क्षणः क्रियताम्' इत्युक्त्वा ॐ तथा' इति तेनोक्तः 'प्राप्नोतु भवान्' इत्युक्त्वा प्राप्नवानीति तेनोक्त इतर- त्राप्येवमुदक्संस्थं कृत्वाऽपो दद्यात् । ततः प्राचीनावीती दक्षिणामुग्वः सव्यं जान्वाच्यायुग्मान् सजलतिलान् द्विगुणभुनान्कुशानादाया- ऽस्मत्पितॄणाममुकशर्मणाममुकगोत्राणां वसुरूपाणां सपत्नीकानामिद- मासनम् । इति सव्यहस्तधृते द्विजदक्षिणहस्ते तज्जलमासिच्य द्विजवाम- भागे दक्षिणापानिक्षिप्य 'वासनम् ' इति प्रत्युक्ते 'आस्थताम् । इत्युक्त्वा तेन 'धर्मोऽस्मि विशि राजा प्रतिष्ठितः' इति मनसैवाऽऽसने प्रतिगृहीते । एवं यथालिङ्गं सर्वत्र कृत्वा क्रमेणाऽपो दत्त्वा सकुशेन दक्षिणहस्तेन विप्रदक्षिणाङ्गुष्ठमेव गृहीत्वा 'अमुकश्राद्धे क्षणः क्रिय- ताम्' इत्यादि सर्वत्र कृत्वापो दद्यात् । एवं मातामहब्राह्मणानामपि । तत उपवीत्युदङ्मुखः कुशयवपुष्पाण्यादाय तिष्ठन् ' आगच्छन्तु महा- भागा विश्वेदेवाः ' इत्यादि पठित्वा वैश्वदेवविप्रदक्षणहस्तं निरगुट धृत्वा विश्वान्देवान्भवत्स्वावाहयिष्ये' इति पृष्ट्वा आवाहय' इत्य. नुज्ञाते 'विश्वे देवास ' इत्यनया सकृत्सर्वत्रावाह्य विप्रदक्षिणजानु वामहस्तेन संगृह्य दक्षिणपादादिमूर्द्धान्तं प्रदक्षिणमग्रे यवान् कुशांश्च विकीर्य · विश्वे देवाः शृणुतेमम्' इति सकृजपेत् । कर्कस्तु तिलरेव दैवावाहनमिच्छति प्रकरणानुग्रहात्' इति । ततः प्राचीनावीती दक्षि- णामुखोऽपः प्रदाय तिलान् द्विगुणकुशानादाय ' अस्मत्पितन् पिता- .

कातीयानां प्रयोगः। १०५ महान् प्रपितामहानमुकशर्मणोऽमुकगोत्रान् वसुरुद्रादित्यरूपान् भव- स्वावाहयिष्ये' इति पृष्ट्वा आवाहय इत्यनुज्ञात 'उशन्तस्त्वा इत्यावाह्य विप्रवामजानुं संगृह्य मूर्धादिदक्षिणपादान्तं दक्षिणसंस्थं तिला- न्विकीर्याो दत्त्वा कृताञ्जलिः 'आयन्तु नः पितरः' इत्युपस्थायाऽपो दत्त्वा 'नमो वः पितर इथे' इत्यादि 'जीवन्त इह सन्तस्याम' इत्यन्तेन शिरोंऽसजानुपादेष्वप्रदक्षिणमभ्यया॑ऽपो दद्यात् । एवं मातामहानां ततो ' अपहताः' इति ब्राह्मणान्परितो दिग्विदिक्ष्वप्रदक्षिणं तिला- विकिरेत् । अथोपवीती देवद्विजाग्रतः प्रोक्षितायां भुवि प्रागनी कुशौ निधाय तयोर्दै अर्घ्यपात्रे निधाय तयोर्से द्वे पवित्रे निधाय प्राचीनावीती पित्रादिविप्राग्रतः प्रोक्षितभूमौ दक्षिणाप्रदर्भेषु प्रतिवर्ग त्रीणि त्री- ण्यपात्राणि दक्षिणसंस्थान्यासाद्य तेषु च प्रत्येकं द्विगुणभुमानि दक्षि- णापाणि त्रीणि त्रीणि पवित्राण्याधायोपवीती प्राङ्मुखो दैवपात्रयोः 'शन्नो देवीः' इति प्रत्येकं शन्नोमन्त्रेण जलं देवतीर्थेनाऽऽसिच्य “यवोसि' इति यवान् ‘गन्धद्वाराम्' इति चन्दनं 'ॐ ओषधयः प्रति इति पुष्पं प्रक्षिप्य 'देवार्धपात्रसम्पत्तिरस्तु' इत्युक्त्वा प्राचीनावीती पैत्रार्धपात्रेषु ' शन्नो देवीः' इति प्रत्येकं पितृतीर्थेन जलमासिच्य तेनैव 'तिलोऽसि ' इति तिलान् क्षिप्त्वा प्राग्वद्गन्धपुष्पं क्षित्वा ‘पैत्रार्घ- पात्रसम्पत्तिरस्तु' इत्युक्त्वोपवीती देवविमानतः स्वाहाऽर्धाः' इत्यर्थ- पात्रे प्रत्येक निधाय प्राचीनावीती पैत्रविप्राग्रतः 'स्वधा अर्घा इति तदर्ष- पात्राणि प्रत्येकं न्यस्योपवीत्युस्मुखो दैवविप्रपाणावपो दत्त्वा तस्मि- न्प्रागले अर्घस्थपवित्रे निधाय प्राग्वत्तदनं संपूज्य हस्ताभ्यामर्घपात्र- मुवृत्य 'या दिव्याः ' इत्युक्त्वा विश्वेदेवा एष वोऽर्घः इत्यर्घोदकं विप्रदक्षिणहस्ते क्षित्वा पुनरपो दत्त्वाऽर्घपात्रमधो निध्यात् । ततो द्विजः 'स्वर्घः' इत्युक्त्वा पवित्रे अर्धपात्रोपरि निध्यात् । ततः कर्ता प्राग्वदितरत्राप्यर्घान्तरं दद्यात्तत्रैकविप्रपक्षेऽर्घद्वयमपि तत्रैव दत्त्वा प्राची- नावीती दक्षिणामुखः पैत्रद्विजहस्तेऽपो दत्त्वा तस्मिन्नप्रस्थपवित्राणि दक्षिणापाण्याधाय प्राग्वन्मूर्द्धादिपादान्तं संपूज्य हस्ताभ्यामर्धपात्र- मादाय 'या दिव्याः' इत्युक्त्वा 'अस्मत्पितः अमुकशर्मनमुकगोत्र वसुरूप सपत्नीक एष तेऽर्घ इत्युक्त्वा पितृतीर्थेना?दकं विप्रहस्ते क्षित्वाऽपो दत्त्वा । अस्मत्पितामह रुद्ररूप प्रपितामहादित्यरूप' इत्यागुत्तरत्राप्येवमेवाघ दत्त्वा मातामहादीनामपि तथैव दद्यात् । वर्गद्व- श्राद्धमयूखः येऽप्येकैकविप्रपक्षे त्वेकैकस्यैव हस्ते त्रीन् त्रीनान् दद्यात् । वर्गद्वयेऽप्ये- कविप्रपक्षे तद्धस्त एव षडपि दद्यात् । एकैकस्यानेकविप्रपक्षेऽप्येकमेव पित्राद्ययं तावद्विगृह्य दद्यात् । संस्रवग्रहणम् । अथाऽद्यार्घपात्रे सर्वार्घसंस्रवानासिच्योत्तरतः 'शुन्धन्ताम्' इति भूमि प्रोक्ष्य पितृसदनमसि' इति दक्षिणायकुशैरास्तीर्य तत्र "पितृभ्यः स्थान- मसि' इत्याद्यपात्रं दक्षिणानं न्युब्जीकृत्य गन्धपुष्पधूपदीपैस्तदर्यो- पवीती प्राङ्मुखो मुखमार्जनादिकां पात्रान्तरस्थापितसंसवप्रतिपत्ति कृत्वोदङ्मुखो दैवद्विजहस्ते अपो दत्त्वा गन्धद्वाराम्' इति मन्त्रमुक्त्वा पुरूरवावसज्ञका विश्वे देवा अमी गन्धा वः स्वाहा इति प्रतिद्विजं द्विवारं चन्दनं दत्त्वा पुनरपो दत्त्वा 'ओषधयः प्रति ' इति पूर्ववत्पुष्पं दत्त्वा अपो दत्त्वा 'धूरसि' इति धूपं दत्त्वा अपो दत्त्वा 'उद्दीप्यस्व' इति दीपं दत्त्वा अपो दत्त्वाऽऽच्छादनं दत्त्वा अपो दत्त्वा यथाविभवमल- कारपादुकोपानच्छत्रजलपात्रादीनि नाममन्त्रेण यवोदकपूर्व पदार्थानु- समयेन दत्त्वा ‘सुचन्दनं सुपुष्पम्' इत्येवं प्रत्युक्ते ' वैश्वदेविकम- चनं सम्पूर्णमस्तु सङ्कल्पसिद्धिरस्तु इति चोक्त्वा प्राचीनावीती द- क्षिणामुखः पैत्रद्विजहस्ते अपो दत्त्वा 'गन्धद्वाराम् ' इति मन्त्रं पठित्वा अस्मत्पितरः अमुकशर्माणः अमुकगोत्रा वसुरूपाः सपत्नीका अमी गन्धा वः स्वधा इति 'एकवचनेन वा गन्धं दद्यादेवमितरत्र यथालिङ्गम् । ततः पूर्ववदोषधयः प्रति इति पुष्पं दत्त्वा 'धूरसि ' इति पाददेशे धूपं त्त्विा' उद्दीप्यस्व ' इति मुखदेशे दीपं दत्त्वा 'युवं वस्त्राणि ' इत्याच्छाद- दत्त्वा यथाशक्त्यलङ्कारादि नाममन्त्रेण दद्यात् । सुगन्धा इत्यादि- विप्रोक्तिः पूर्ववत् । एवं पितामहप्रपितामहमातामहानाम् । ततः कर्ता 'पित्र्यमर्चनं सम्पूर्णमस्तु सङ्कल्पसिद्धिरस्तु । इत्युक्त्वा तैः 'तथास्तु' इति प्रत्युक्ते 'चतुर्भिश्च ' इति ' यस्य स्मृत्या' इति च वदेन । अथोपवीती वैश्वदेविकविप्रान्तिकभूमि संशोध्य गोमयेन नैती दिश. मारभ्यशानीपर्यन्तं प्रादक्षिण्येन चतुरसं चिन्हमुपलिप्य पुनस्तथैवोप- लिप्य तत्र प्रागर्ग कुशयवानिक्षिपेत् । एवमितरत्र । ततः प्राचीनावीती पित्रर्थविप्रान्तिकभूमिं संशोध्य गोमयेनशानी दिशमारभ्य नैरृतीदि- क्पर्यन्तं वृत्तं चिन्हं कृत्वा पुनस्तथैव कृत्वा तत्र दक्षिणामकुशतिला- , संसवग्रहणम् । १०७ निक्षिप्य दशवारं भस्मादिमार्जिततैजसादिभोजनभाजनानि निधाय जलेन प्रक्षाल्य तज्जलंसतिलदर्भ पैत्रद्विजपादक्षालनमण्डले निनयेत् ।तत उपवीती देवद्विजाग्रतस्तथैव भाजनानि निधाय अलेन प्रक्षाल्य तदुदकं सयवकुशं दैवद्विजपादक्षालनमण्डले निनयेत् । तत आचारात्सर्वत्र पात्राण्यभितो भस्मना मर्यादां कृत्वा द्विजानां करशुद्धिं पात्रे निधाय तज्जलं सतिलकुशं मण्डलोपरि निक्षिपेत् । ततोऽपहता असुराः इति यज्ञोपवीती देवपात्रोपरि, प्राचीनावीती पितृपात्रोपरि च तिलान्विकीर्य जलमुपस्पृशेत् । ततः पात्रे अन्नमुद्धृत्याभिघार्याग्नौकरिष्ये इति पृष्ठा कुरुष्व' इति तैरनुज्ञातः स्मार्ताग्निं परिस्तीर्य तत्र तिस्रः समिध आधायोपवीती ' अग्नये सोमाय ' इति आहुतिद्वयं मेक्षणेन हुवा प्राचीनावीती मेक्षणमग्नौ प्रक्षिप्याग्नौकरणशेष पितृविप्रभाजने परि- विष्यान् न देवपात्रेषु । तत उपवीती देवपात्रे प्राचीनावीती पितृपात्रेषु घृतमुपस्तीर्योपवीती स्वयं पत्नी वा दैवपूर्व परिवेषणं कुर्यात् । ततः कर्तोपवीत्युदङ्मुखो दभैः पात्राण्युपस्तीर्य यवान्विकीर्य दक्षिणं जान्वा- च्य देवपात्रे परिविष्टमन्नं सावित्र्या अभ्युक्ष्य तूष्णीं पर्युक्ष्य वामोपरि दक्षिण इत्येवं स्वस्तिकाकाराभ्यामनुत्तानाभ्यां हस्ताभ्यां पात्रमधोऽमि- गृह्य 'पृथिवी ते पात्रम्' इत्यादि 'खाहान्तं' : ब्राह्मणानां त्वा' इत्यादि च जपित्वा 'इदं विष्णुर्वि' इति मन्त्रान्ते 'विष्णो हव्यं रक्षस्व इत्युक्त्वा दक्षिणहस्तेन विप्रदक्षिणकराङ्गुष्ठमधोमुखमन्नेऽवगाह्य 'अपहता' इति प्रदक्षिणं यवान्विकीर्य यवोदकमादाय इदमन्नममृतरूपं परि- विष्टं परिवेक्ष्यमाणं चातृभोजनपर्याप्तं तत्सर्वं विश्वेदेवा वः स्वाहा नमो न मम' इत्युक्त्वा वामोपरिदक्षिणकरेण विप्रदक्षिणतस्तज्जलं क्षिपेत् । एवमितरत्र कृत्वा प्राचीनावीती दक्षिणामुखः सव्यं जान्वाच्य पितृ- पात्रस्थमन्नं सावित्र्याऽभ्युक्ष्याद्भिः पात्रेषु तिलान्विकीर्य तूष्णीं पर्युक्ष्य दक्षिणोपरि वाम इत्येवं स्वस्तिकाकाराभ्यामुत्तानाभ्यां पाणिभ्यां पितृ- पात्रमालभ्य 'पृथिवी' इत्यादि 'खधान्तं ब्राह्मणानां त्वा' इत्यादि च जत्वा 'इदं विष्णुर्वि ' इति मत्रान्ते विष्णो कव्यं रक्षस्वेत्युक्त्वा दक्षिणहस्तेन विप्रदक्षिणहस्ताङ्गुष्ठमुचानमन्ने निवेश्य स्वस्थाने कृत्वा सतिलकुशोदकं खड्डपानं दक्षिणहस्तेन गृहीत्वा वामहस्तेन पात्रमालभ्य इदमन्नम् ' इत्यादि ' तत्सर्वम् ' इत्यन्तं पूर्ववदुक्त्वा ' अस्मत्पितरः अमुकशर्माणः अमुकगोत्रा वसरूपाः सपत्नीका वः स्वधा नमो न मम' " श्राद्धमयूखः इत्युक्त्वा वामाधोनीतदक्षिणकरेण विप्रवामभागे जलं क्षिपेत् । एवं सर्वेभ्यो यथालिङ्गं दत्त्वा- ब्रह्मार्पणं ब्रह्महविब्रह्मानौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॥ येषामुद्दिष्टं तेषामक्षय्या तृप्तिरस्तु पितृरूपी जनार्दनः प्रीयताम् , इत्युक्त्वोदकं भूमौ क्षित्वा नमस्कृत्वा- ईशानविष्णुकमलासनकार्तिकेय- वन्हित्रयार्करजनीशगणेश्वराणाम् । क्रौञ्चामरेन्द्रकलशोद्भवकाश्यपानां पादान्नमामि सततं पितृमुक्तिहेतून् ।। अन्नहीन क्रियाहीनं भक्तिहीनं द्विजोत्तमाः। श्राद्धमच्छिद्रमस्त्वेतत्प्रसादाद्भवतां मम । " इति विप्रान्संप्रार्थ्य 'तथास्तु' इति तैः प्रत्युक्तः पितृपूर्व विप्रकरेषु चलं - दद्यात् । विप्राश्च तेन जलेनान्नं प्रोक्ष्य त्रिर्गायत्र्याऽभिमन्त्रयरन् । कर्ता पुनः पितृपूर्वकमेवापोशानार्थमुदकं दत्त्वा ' अमृतमस्तु ' इत्यु- । 'सप्रणवव्याहृतिपूर्वा गायत्री मधुवाता इति तृचं च जत्वा मधु. धु इति च त्रिरुक्त्वा 'ये देवासः' इति देवद्विजाग्रतः सयवकुशं ; निषिच्य सङ्कल्पसिद्धिरस्तु' इत्युक्त्वा 'ये चेह पितरः इति व्यद्विजाग्रतः सतिलकुशं जलं निषिच्य ‘संकल्पसिद्धिरस्तु' इत्युक्त्वा ॐतत्सत्' इति 'यथासुखं भुजीध्वम् । इति च त्रिरुक्त्वा प्रणम्य ' पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु वै भक्त्या यदिदं श्राद्धमाहृतम् ।। मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता च योऽन्यः । विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ।। तथा- सप्तव्याधा० येस्मजाता० अमूर्तानां च । चतुर्भिश्च० ' तथा-- यज्ञेश्वरो हव्यसमस्तकव्य- भोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र । तत्सन्निधानादपयान्ति सद्यो सस्त्रवग्रहणम् । C आशुः शिशान रक्षांस्यशेषाण्यसुराश्च सर्वे ॥ त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च याज्ञिकरः। हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ।। गयायां पितृरूपेण स्वयमेव जनार्दनः । तं दृष्ट्वा पुण्डरीकाक्षं पितॄणामनृणो भवेत् ॥ इत्यादि पठेत् । ततो विप्रा नित्यभोजनवत्परिषेचनं कृत्वा बलि- दानमकुर्वन्तोऽपः पीत्वा का 'श्रद्धायां प्राणे निविष्ठोऽमृतं जुहोमि शिवोमाविशा प्रदाहाय प्राणाय स्वाहा' इत्यादिमन्त्रेपूच्यमानेषु प्रा- णाहुती: पृथक् हुत्वा पुनः श्रद्धायाम्' इत्यादि पञ्चयजुःपु 'ब्रह्मणि म आत्माऽमृतत्वाय' इति चोच्यमानेषु ता आहुतीराप्याय्य कृतमौ- नाः भूमौ पादौ निक्षिपन्तः सशेषमनीयुः। कर्ता प्राणाहुतिमन्त्रपा. ठानन्तरं ' यथासुखं जुषध्वम्' इत्युक्त्वा 'सप्रणवां सव्याहृतिका गायत्रीं त्रिः सकृद्वोक्त्वा' कृणुष्वपाजः' इति पञ्चदश 'अग्नये कव्यवा- हनाय' इत्यादि च 'सहस्रशीप' इति पोडश' इति सप्तदश रुद्रप्रभृतीन्यन्यानि च पवित्राणि ब्राह्मणान् श्रावयेत् । ततस्तृप्तान ज्ञात्वा वैश्वदेविकमुख्यविप्रसन्निधौ प्रोक्षितभूमौ यवकुशं निधाय तत्र हस्ते घृतप्लुतमन्नमादाय- असोमपाश्च ये देवा यज्ञभागविवर्जिताः । तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविक्रम् ।। इति क्षिवा प्राचीनावीती पितृसन्निधिभूमिं प्रोक्ष्य तत्र दक्षिणाया- न्कुशानास्तीयं तिलमिश्रोदकं तूष्णीमासिच्य तिलघृतप्लुतमन्नमादाय जलेनाप्लाव्य 'अग्निदग्धा' इति पितृतीर्थेन क्षित्वा- येऽग्निदग्धाः कुले जाता येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ।। इति तस्योपरि पितृतीर्थेन तिलाम्बु निषिच्य त्रिराचम्य पितृपूर्व वि- प्रेभ्यः सकृजलं दत्त्वा 'सप्रणवां सव्याहृतिकां गायत्री मधुमती: म इति च ' त्रिः श्रावयित्वा "तृप्ताः स्थ' इति विप्रान् पृष्ट्वा 'तृप्ताः स्म तैरुक्तः । श्राद्धं संपन्नम् ' इति पृष्ठा 'सुसंपन्नम् ' इत्युक्त: । शेषोऽ किं क्रियताम्' इत्युक्त्वा विप्रैः 'इष्टैः सह भुज्यताम् ' इत्युक्तो है भ्यः' इति त्रिर्जवा विप्रेष्वनाचान्तेष्वेव पिण्डाथै माषवर्ज सर्वर नात्किञ्चित्किञ्चिदुद्धृत्य पिण्डानिर्वपदाचान्तेपु वा । तद्यथा द्विराच - - वाग्यतो दक्षिणामुखः प्राचीनावीती पित्र्यब्राह्मणान्तिक उत्तरत उपविश्य अपहता असुरा रक्षांसि वेदिषदः' इति मन्त्रावृत्त्या सव्योत्तरपाणि- द्वयगृहीतेन कुशमूलेन दक्षिणसंस्थं पश्चिमापवर्ग लेखाद्वयमुल्लिख्य तत्प्रत्ये- कमद्भिरभ्युक्ष्य 'ये रूपाणि' इति मन्त्रेणाग्नौकरणाधिकरणभूतस्य दक्षि- णाम्यादेरुल्मुकं रेखादक्षिणतो निधाय रेखां सकृदाच्छिन्नैः कुशैराच्छाद्य वामं जान्वाच्य पितृपिण्डार्थमास्तीर्णबर्हिषि त्रिषु स्थानेष्वाग्नेय्यपवर्ग 'पितरमुकशर्मन्नमुकगोत्र वसुरूप सपत्नीकावनेनिक्ष्व' इति मन्त्रैः सतिलं जलं पितृतीर्थेन निनीय मातामहार्थमास्तीर्णबर्हिषि त्रिषु स्थानेषु 'मातामहामुकशर्मन्नमुकगोत्र वसुरूप सपत्नीकावनेनिक्ष्व' इति मत्रैः सतिलजलं पितृतीर्थेन निनीय- शुक्लाम्बराः शुक्लगन्धाः शुक्लयज्ञोपवीतिनः । आत्मनोऽभिमुखासीना ज्ञानमुद्रा निरायुधाः ।। वसवः पितरो ज्ञेया रुद्रास्तत्र पितामहाः। पितुः पितामहाः प्रोक्ता आदित्या बर्हिषि स्थिताः ।। इति तत्रस्थान्वस्वादिदेवान् ध्यात्वा तिथ्यादि संकीर्त्य 'पितृप्री. त्यर्थ पिण्डदानं करिष्ये' इति सङ्कल्प्य 'कुरुष्व' इति तैः प्रत्युक्तः पिण्डार्थमुद्धृतस्यान्नस्याऽऽर्द्रामलकप्रमाणं मधुसर्पिस्तिलसमन्वितं वर्तुलं पिण्डषट्कं कृत्वा प्रत्येकमभिघार्यकं पिण्डमादाय 'एतत्ते अस्म- पितरमुकशर्मन्नमुकगोत्र वसुरूप सपत्नीक विष्णो ये च वामत्रानु तेभ्यश्च' इत्युक्त्वाऽऽद्यजलसेचनस्थाने पितृतीथेनाभिक्षिप्य 'अस्म- पित्रेऽमुकशर्मणेऽमुकगोत्राय वसुरूपाय सपत्नीकायायं पिण्डः स्वधा मो न मम ये च त्वामत्रानु तेभ्यश्च गयायां श्रीरुद्रपदे दत्तमस्तु युञ्चरेत् । एवं सर्वेभ्यस्तत्तज्जलसेचनस्थानेषु यथालिङ्गं दद्यात् । ततः (ण्डपात्रं न्युब्जीकृत्य निराचम्य ' अत्र पितरो मादयध्वं यथाभागमा- वृषायध्वम् । इति जत्वाऽऽचम्याप्रदक्षिणमुदङ्ङावृत्य प्राणानायम्य प्रत्यावृत्य 'अमीमदन्त पितरो यथाभागमावृषायीषत' इति जावा पूर्ववत्पित्रादिपिण्डेषु 'पितरमुकशर्मन्नमुकगोत्र वसुरूप सपत्नीक प्रत्यव- नेनिक्ष्व! इति मन्त्रैः तिलोदकं निषिच्य पूर्वबद्धनीवीं विस्रस्य दर्भेण तैलमादाय 'अस्मत्पितरमुकशर्मन्नमुकगोत्र वसुरूप सपत्नीक अभ्यदव' इति तैलं निक्षिपेत् । एवं यथालिङ्गं सर्वत्र निक्षिप्याप उपस्पृश्य दर्भेणा- जनमादाय पूर्ववदुक्त्वा 'अश्व' इति द्विरावृत्तेन मन्त्रेणांजनं निक्षि- संस्रवग्रहणम्। १११ . प्याप उपस्पृश्य 'नमोवः' इति षण्मन्त्रान् 'गृहान्नः' इति जावा मधु- घृततिलोदकयुक्तपात्रेण पिण्डेष्वधैं दत्त्वा 'एतद्वः पितरो वासः मानो- तोऽन्यत्पितरो युङ्गथ्वम् ' इति प्रतिपिण्डं मन्त्रावृत्त्या वासो व्यङ्गुलां नववासोदशां त्रिगुणसूत्रमूर्णास्तुकान्वा दद्यात् । पञ्चाशद्वर्षताया उर्व चेद्धृदयस्थं प्रकोष्ठस्थं वा लोम वासोथै दद्यात् । ततो गन्धादिभिः पिण्डानभ्यर्च्य पुनः पितृपूर्व विप्रेभ्यः प्रत्येकमाचमनजलं दद्यात् । ततो विप्रा भुक्तशेषमन्नं भोजनपात्रेभ्यो बहिःकृत्य 'अमृतापिधानमसि.. इत्यर्द्धजलं पीत्वाऽर्द्धम्- रौरवे पूयनिलये पद्मार्बुदनिवासिनाम् । अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु ।। इति भूमावासिच्य तत्रस्था एव पात्रान्तरे हस्तादीन्संशोध्य द्विरा- चमेयुः । ततः कर्ता त्रिराचम्य पिण्डान्नमस्कृत्य 'सुप्रोक्षितमस्तु' इति भूमिमासिच्य पितृपूर्व द्विजहस्तेषु प्रदक्षिणं प्रत्येकं 'शिवा आपः सन्तु इत्युदकं दत्त्वा तथैव 'सौमनस्यमस्तु' इति पुष्पाणि दत्त्वा 'अक्षतं चारिष्टं चास्तु' इति यवान तथैव दत्त्वा "विश्वेषां देवानां यहत्तं श्राद्धं तदक्षय्य- मस्तु' इत्युक्त्वा 'अस्त्वक्षय्यम् । इति प्रत्युक्तः प्राचीनावीती 'अस्मत्पि- तुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य सपत्नीकस्य यद्दत्तं श्राद्धं तदक्षय्य- मस्तु' इति प्रत्येकं प्रत्येकमुक्त्वा ' अस्त्वक्षय्यम् । इति तैरुक्तो 'येषामु- दिष्टं तेषामक्षरदमस्तु ' इत्युक्त्वोपवीती 'अघोराः पितरः सन्तु इत्युक्त्वा सन्त्वघोराः पितरः' इत्युक्तः 'अमुकगोत्रोऽहमभिवादये' इत्यभिवाद्य अस्मदोत्रं वद्धताम् । इत्युक्त्वा 'स्वस्ति वर्द्धतां वो गोत्रम् । इति तैः प्रत्युक्तो दक्षिणामुखः ' दातारो नोऽभिवर्द्धन्ताम् । इति श्लोकद्वयमुक्त्वा विप्रैः दातारो वोऽभिवर्द्धन्ताम् । इत्येवं श्लोकद्वयमुक्त्वा- आयुः प्रजां धनं विद्यां स्वर्ग मोक्षं सुखानि च । प्रयच्छन्तु तथा राज्यं प्रीता नृणां पितामहाः ॥ 'एताः सत्या आशिषः सन्तु' इति पठित्वाऽक्षतपुष्पे दत्ते स्वस्य तिलक कृत्वा तदक्षतपुष्पं शिरसि निक्षिप्य कुशपवित्राणि पिण्डोपरि क्षिप्त्वा 'स्वधां वाचयिष्ये' इति पृष्ट्वा 'वाच्यताम् ' इत्यनुज्ञातः ' अस्मत्पित्रादिभ्यो मातामहादिभ्यश्च तत्तन्नामगोत्ररूपेभ्यः सपत्नीकेभ्यः स्वघोच्यताम्' इत्युक्त्वा — अस्तु स्वधा' इति तैरुक्त: ' स्वधाः संपद्यन्ताम् ? इत्युक्त्वा 'संपद्यन्तां स्वधा' इत्युक्तः पवित्रान्तर्हितपिण्डोपर्यवनेजनोदकशेषम् .

आदमयूखः . 'ऊजै वहन्ति' इति सर्व निनीय प्राङ्न्युजीकृतमद्यपात्रं पिण्डपात्रं चोत्तानं कृत्वा पित्रर्थविप्रेभ्यो नामगोत्ररूपोक्तिपूर्वकं श्राद्धसाद्गुण्यार्थ दक्षिणां संप्रदे इत्युक्त्वा पितृतीर्थेन सतिलां दक्षिणां दत्त्वा ' दक्षिणाः पान्तु ' इत्युक्त्वा 'पान्तु दक्षिणाः' इति तैः प्रत्युक्त एवं देवस्थानोप- विष्टविप्राभ्यां दैवतीर्थेन सयवोदकसुवर्णवस्त्रधान्यादिध्वन्यतमां दक्षिणां शक्त्यनुसारतो दत्त्वा · विश्वे देवाः प्रीयन्ताम् । इत्युक्त्वा दैवद्विजहस्ते यवोदकं क्षिप्त्वा 'प्रीयन्तां विश्वे देवाः' इत्युक्तः प्राचीनावीती 'पितरः प्रीयन्ताम्' इत्युक्त्वा तिलोदकं पित्र्यद्विजहस्तेषु क्षित्वा "प्रीयन्तां पितरः' इति तैरुक्तः 'पितृभ्यः स्वधायिभ्यः' इति पित्र्यपिण्डान् 'नमो वः? इति मातामहपिण्डानभ्यर्च्य- पिता पितामहश्चैव तथैव प्रपितामहः । तृप्ति प्रयान्तु पिण्डेन मयादत्तेन भूतले ॥ मातामहस्तत्पिता च पिता तस्यापि तृप्यतु । द्विजानां तर्पणाद्धोमात् पिण्डदानाञ्च मे सदा ॥ इति जत्वा 'क्षेमध्वम् ' इति पिण्डान् चालयित्वोपवीती हस्ताभ्यां पिण्डानादायावत्रायाऽऽचम्य प्राचीनावीती पिण्डार्थदर्भानावसथ्ये क्षित्वा स्वयं सुतः शिष्यो वा पितृपात्रं चालयित्वोपवीती दैवपात्रं प्रक्षाल्य संचरमभ्युक्ष्य प्राचीनावीती ' पित्रादिभ्यो मातामहादिभ्यः स्वस्तीति ब्रूत ' इत्युक्त्वा 'स्वस्ति' इति तैरुक्त उपवीती विश्वभ्यो देवेभ्यः स्वस्ति भवन्तौ ब्रूतम् ' इत्युक्त्वा स्वस्ति' इति ताभ्यामुक्तो अन्यूनं यदतिरिक्तं तत्सर्व संपूर्णमस्तु' इत्युक्त्वा 'संपूर्णमस्तु' ते तैरुक्ते- मन्त्रहीनं क्रियाहीनं संपद्धीनं द्विजोत्तमाः। श्राद्धं संपूर्णतां यातु प्रसादाद्भवतां मम ॥ 'चतुर्भिश्च ' इति 'यस्य स्मृत्या' इति च जप्त्वा · देवताभ्यः' इति त्रिः पठित्वा 'आमावाजस्य' इति कनिष्ठपूर्वकं विप्रान त्रिः प्रदक्षिणीकृत्य नमस्कुर्यात्ततस्ताविप्रान् सुखासन उपवेश्य ताम्बूलादिकं दत्त्वा- अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् । अद्य मे वंशजाः सर्वे याता वोऽनुग्रहादिवम् ।। पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः । तत्क्लेशमिह संजातं विस्मृत्य क्षन्तुमर्हथ ।।

तर्पणम्। ११३ इत्यादि संप्रार्थ्य जानुभ्यामवनिं गतः प्रणिपत्य विसृज्य गच्छतो द्विजाननुव्रज्य तैरनुज्ञातः प्रत्यागत्य हस्तेन दीपान् प्रशमय्य द्विराचम्य ग्रहबलीन्कृत्वा बन्धुभिः सहानुमोदितो मुजीत, इति दिक् । इति श्राद्धप्रयोगः । अथ तर्पणम् । गर्ग:- पूर्व तिलोदकं कृत्वा अमाश्राद्धं तु कारयेत् । प्रत्यब्दे न भवेत्पूर्व परेऽहनि तिलोदकम् ॥ पक्षश्राद्धे हिरण्ये च अनुव्रज्य तिलोदकम् ।। इति । कारयेत्' इत्यत्र 'एतयाऽन्नाद्यकामं याजयेत्' इतिवणिजविवक्षा । हिरण्ये हिरण्य श्राद्धे । अत्र चत्वारि वाक्यानि । प्रत्यब्दे न भवेत्पूर्वम् ' इत्यस्यानुवादत्वात् । पूर्ववाक्ये तिलोदकविशिष्टममावा- स्याश्राद्धं विधीयते । न चामावास्याश्राद्धे तर्पणोत्तरकालो विधीयते । स ह्येकविधिपरिगृहीतानां 'पुरस्तादुपसदां प्रवग्र्येण चरन्ति' इत्या- दीनां, स्वतन्त्राणां ' दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत ' इत्यादीनां वा दृष्टः । नचान्यानोत्तरकालता कस्यचित्प्रधानस्य दृष्टा । ननु 'एत- या पुनराधानसम्मितयेष्ट्येष्वाऽमिहोत्रं जुहोति' इत्यत्र ज्योतिष्टोमाङ्गभू- तोदवसनीयोत्तरकालताऽग्निहोत्रस्य दृष्टा' इति चेन्न, तत्रावभृथोत्तरं दीक्षोन्मोकेऽग्निहोत्रे प्राप्ते उदवसानीयोत्तरत्वमवधिमात्रं समय॑ते न तदुत्तरकालोङ्गम् । अन्यथा यथाशत्त्युपबन्धेनोदवसानीयायामकृता- यामनुपादेयकालस्यात्याज्यत्वादग्निहोत्राननुष्ठानप्रसङ्गात् । यदि काप्य- दृष्टमेवाङ्गीक्रियेत तदा दूरस्थश्राद्धानुवादेन कालस्य विधातुमशक्तेः प्रकरणान्तरेणामावास्याश्राद्धं भिद्येत । अतो गर्गस्मृतौ अमावास्या- श्राद्धमत्र विधीयते तस्यां स्मृतावमावास्याश्राद्धविधायकं वाक्य- मस्तीति चेन तादृशस्यानुपलम्भात् । सत्त्वे वाऽस्य प्रयोगविधिपर- त्वात् । अतः पूर्वोक्तमेव युक्तम् । ततश्च तस्य प्रकृतित्वेन प्रत्यब्दे प्राप्त तिलोदके पैरेऽहनि इति कालमात्रविधिः। 'आग्निमारुतादूर्ध्वमनुया. जैश्चरन्ति' इतिवत् । एवमग्रेऽपि । तथा चानन्यगतिकं लिङ्गं बृहन्नार- दीये दृश्यते- १ अनुव्रज्येति पाठः ।

११४ श्राद्धमयूखः - वृद्धिश्राद्धे सपिण्ड्यां च प्रेतश्राद्धेऽनुमासिके । संवत्सरविमोके च न कुर्यात्तिलतर्पणम् ॥ इति । अयं च निषेधः प्राप्तौ सत्यां घटते । कालाथै सम्बन्धे हि प्राप्त्य- भावादन्यस्य चाविधेयत्वाद्वाक्यं व्यथै स्यात् । सप्तमी चाहत्व एव दृष्टा, 'येन कर्मणेर्सेत्तत्र जयाजुहुयात्' इत्यादिपु । एतदभिप्रायेण सङ्ग्रहकृताऽप्युक्तम् 'प्रत्यब्दाङ्गं तिलं दद्यात्' इति । तथा बृहन्नारदीय एव वार्षिक प्रक्रम्य- परेयुः श्राद्धकृन्मयो यो न तर्पयते पितॄन् । तस्य ते पितरः क्रुद्धाः शापं दत्त्वा ब्रजन्ति हि॥ इति निन्दा दृश्यते । न चेयं नित्यतर्पणाकरणनिन्दा अन्य- प्रकरणेऽन्यस्याकरणनिन्दाया अयोग्यत्वात् । पक्षश्राद्धाङ्गतर्पणे विशेषो गर्गेणोक्तः- कृष्णे भाद्रपदे मासि श्राद्धं प्रतिदिनं भवेत् । पितृणां प्रत्यहं कार्य निषिद्धाहेऽपि तर्पणम् ।। इति । प्रत्यब्देऽपि विशेषः स्मृत्यन्तरे- नैव श्राद्धदिने कुर्यात्तिलैस्तु पितृतर्पणम् । श्राद्धं कृत्वा परेऽहयेव तर्पणं तु तिलैः सह ॥ इति । अत्र पूर्वार्द्धमुत्तरार्द्धस्य स्तावकम् । उत्तरार्द्धन पूर्वार्द्धार्थस्य प्राप्तेरे- कवाक्यत्वलाभाच्च । तदयं निर्णयः । श्राद्धस्य व्यहकालत्वे नित्यतर्प- णस्य तन्त्रमध्यपातित्वात्तेनैव प्रसङ्गसिद्धिः । सद्यस्कालपक्षेऽप्येवम् । अन्याङ्गैरन्याङ्गानां प्रसङ्गसिद्धेः पशुपुरोडाशादावभ्युपगमात् । यत्तु यदा त्वनायत्त्या नित्यतर्पणोत्तरं श्राद्धसंकल्पस्तदा पृथक्कार्य, नित्यस्य प्रयोगानन्तःपातित्वादिति तन्न, क्त्वाप्रत्ययेन प्रयोगवहिर्भूतानानुष्ठा. नस्यारम्भणीयाबृहस्पतिसवादावभ्युपगमात् । अतः इदमपि प्रयोगब- हिर्भूतमेवाङ्गं पूर्व कार्यम् । अतश्च प्रसङ्गानुष्ठानमविरुद्धम् । अतो न पृथक्तर्पणं दशे । यदा तु सप्तम्यादौ नित्यतर्पणं तिलरहितं क्रियते तदा तन्त्रप्रसङ्गयोरभावादिदं तिलसहितं पृथक्कार्यमेव इति । वार्षिकदिने विशेष स्मृतिरत्नावल्यां वृद्धमनुराह- सप्तम्यां भानुवारे च मातापित्रोः क्षयेऽहनि । तिलैयस्तर्पणं कुर्यात्स भवेत्पितृघातकः ॥ इति ।

तपणम्। - इदं च तर्पणं प्रस्तरप्रहरणे देवताकीर्तनवत् सन्निपत्योपकारकम् । अत एव यदैवत्यं श्राद्धं तदैवत्यमेव भवति । वार्षिके विधिरुक्तः सङ्घहे-- स्नात्वा तीरं समागत्य उपविश्य कुशासने । संतर्पयेपितृन्सर्वान् स्नात्वा वस्त्रं च धारयेत् ।। इति । अत्र स्नानोत्तरं सन्ध्यामकृत्वैव तर्पणं कार्यमिति केचित् । तच्चिन्त्यम्, सन्ध्याहीनोऽशुचिनित्यमनहः सर्वकर्मसु' इति वाक्यात् । नच तर्पणपर्यन्तं श्राद्धप्रयोगानुवृत्तेमध्ये सन्ध्या नानुष्ठेयेति वाच्यम् । श्राद्धदिने सायंसन्ध्याननुष्ठानप्रसक्तेः । ततश्च स्नानसन्ध्यादीनां सर्व- कर्मार्थत्वेन प्राप्तेरुपवेशनस्यापि सामान्यतः प्राप्तः कुशासनं तर्पणोत्तरं स्नानं च विधीयते इति युक्तम् । पक्षश्राद्धे हिरण्ये च ब्राह्मणविसर्ज- नोत्तरं तर्पणं कार्य, सकृन्महालये तु वार्षिकवत्परे युरेव । 'सकृन्महालये श्वः स्यादृष्टकास्वन्त एव हि' इति वाक्यात् । अन्ते विसर्जनान्ते । अष्टकाविकृतिभूतमाध्यावर्षादिश्राद्धेऽप्यन्त एव । अष्टकाश्राद्धामसप्त- म्यान्वष्टक्ययोर्दर्शविकृतित्वात्पूर्वमेव तर्पणं तद्विकृतित्वानङ्गीकारे तु तर्प- णाननुष्ठानमेव तीर्थादावपि दर्शवदेव । यत्तु वाक्यम्- विवाहबतचूडासु वर्षम? तदर्द्धकम् । पिण्डदानं मृदा सानं न कुर्यात्तिलतर्पणम् ।। इति । तन्महालयाष्टकाव्यतिरेकेण द्रष्टव्यम् । तीर्थे तिथिविशेषे च गयायां प्रेतपक्षके। निपिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम् ।। इति वचनात् । तिथिविशेषोऽष्टकादिः । यत्तु- पित्रोः क्षयाहे संप्राप्ते यः कुर्यानित्यतर्पणम् । आसुरं तर्पणं ज्ञेयं तत्तोयं रुधिरं भवेत् ॥ सर्वदा तर्पणं कुर्याद्ब्रह्मयज्ञपुरस्सरम् । मृताहे नैव कर्तव्यं कृतं चेन्निष्फलं भवेत् ॥ इति पठन्ति तन्निर्मूलमेव । समूलत्वेऽपि सतिलतर्पणनिषेधपरम पूर्वलिखितवाक्यानुरोधात । अन्योऽपि विशेषः । दक्ष:- ज्येष्टभ्रातृपितृज्येष्ठसपनीमातरस्तथा । एतेषां च मृताहे न व्यपोद्दनि तिन्लोदकम् ॥ १ 'तुमृताहे तु परेपनि ' इति पाटः ।

श्राद्धमयूखः - - कपिलः- मन्वादिषु युगाद्यासु दशैं संक्रमणेषु च । पौर्णमास्यां व्यतीपाते दद्यात्पूर्व तिलोदकम् ॥ अर्होदये गजच्छाये षष्ठ्यां चैव महालये । भरण्यां च मघाश्राद्धे पिण्डान्ते तर्पणं भवेत् ॥ इति । शौनक:- मातापित्रोः क्षयाहे तु परेऽहनि तिलोदकम् । कारुण्यश्राद्धविषये सद्यो दद्यात्तिलोदकम् ॥ इति । एतानि च 'पूर्व तिलोदकं दत्त्वा' इत्यादीनि सर्वाणि वाक्यानि महाग्रन्थेष्वदर्शनान्न विस्तरेण विचारविषयीकृतानि कैश्चित्तु शिष्टैराह तत्वात्किञ्चिद्विचारितानि' इति दिक् । अथ वैश्वदेवकालनिर्णयः। तत्रानमेस्तावत्कालत्रयम्, ब्रह्माण्डपुराणे- वैश्वदेवाहुतीरग्नावब्रिाह्मणभोजनात् । जुहुयाद्भूतयज्ञादि श्राद्धं कृत्वा तु तत्स्मृतम् ॥ इत्येकः कालः 'अब्रिाह्मणभोजनात् । इत्यनेनाग्नौकरणानन्तरं वैश्वदेवाहुतीर्जुहुयादित्युक्तमिति हेमाद्रिः। द्वितीयो भविष्यत्पुराणे- पितृन्सन्तर्प्य विधिवद्वलिं दद्याद्विधानतः । वैश्वदेवं ततः कुर्यात्पश्चाद्राह्मणवाचनम् ॥ इति । बलिशब्दार्थस्तत्रैवोक्तः- येअग्निदग्धामन्त्रेण भूमौ यन्निक्षिपेद्बुधः । जानीहि तं बलिं वीर श्राद्धकर्मणि सर्वदा ॥ इति । नृतीयोऽपि तत्रैव- कृत्वा श्राद्धं महाबाहो ब्राह्मणांश्च विसय॑ च । वैश्वदेवादिकं कर्म ततः कुर्यान्नराधिप ॥ इति । नच 'अग्निमदनग्निमद्विषयं पक्षत्रयमविशेषात्' इति वाच्यम् । वैश्वदेवमकृत्वैव श्राद्धं कुर्यादनग्निकः । लौकिकाग्नौ हुते शेषः पितॄणां नोपतिष्ठति ॥ इति वासिष्ठे विशेषाभिधानात् । - ...

साग्नेवैधदेवकालः। अथ साग्नेर्वैश्वदेवकालः। तत्राह लौगाक्षिः- पक्षान्तं कर्म निवयं वैश्वदेवं च साग्निकः। पितृयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ॥ इति । पक्षान्तं कर्माग्यन्वाधानम् । अन्वाहार्य दर्शश्राद्धम्। पक्षान्तपिण्ड- पितृयज्ञयोर्मध्ये विधानादेव वैश्वदेवस्य साग्निककर्तृकत्वावगमे वैयर्थ्या- पातात् । 'साग्निकग्रहणमौपासनाग्निमतो निवृत्त्यर्थम् । इति हेमाद्रिः। उक्तरीत्यैवाविशेषेण श्रौतस्मार्ताग्निमतोरुभयोरपि वैश्वदेवकर्तृकत्वाव- गमात्साग्निपदस्यानुवादकत्वमेव न तु स्मार्ताग्निमन्निवर्तकत्वम् । श्रोता- ग्निमत एव निवर्तकत्वेन वैपरीत्यस्यापि सुवचत्वात् । अतोऽनुवाद- कत्वमेव युक्तम् । एतच्चैकदिनप्रसक्तानामन्वाधानादीनां क्रमाकाङ्क्षायां तन्मात्रमेव विधत्ते न कमपि पदार्थ, तेन कदाचित्सद्यस्कालीनदर्शयाग- पक्षे वन्वाधानस्य पिण्डपितृयज्ञस्योत्तरदिनकर्तव्यत्वेऽपि न कदाचि- क्षतिः । कचिच्छ्राद्धे साग्निकस्यापि पश्चादेव वैश्वदेवः । परिशिष्टे- संप्राप्ते पार्वणश्राद्धे एकोद्दिष्टे तथैव च । अग्रतो वैश्वदेवः स्यात्पश्चादेकादशेऽहनि ॥ शालकायन:- श्राद्धात्प्रागेव कुर्वीत वैश्वदेवं च साग्निकः । ऐकादशाहिकं मुक्त्वा तत्र ह्यन्ते विधीयते ।। इति । तत्रानः श्राद्धशेषेणैव वैश्वदेवः श्राद्धान्नेन तु वैश्वदेविकमनुश्राद्धं चरेद्धार्मिक इति हेमाद्यादिसिद्धान्तात् । 'साग्निकस्य तु पूर्व पृथक्- पाकेनैव' इति । यदि पृथक्पाकाद्यदि वा श्राद्धशेषाद्वैश्वदेवः क्रियते उभयथाऽपि भोजनं श्राद्धशेषस्यैव ‘भुजीतातिथिसंयुक्तः सर्व पितृ- निषेवितम् । इति पूर्वोक्तान्मात्स्यवाक्यात्, 'प्रदक्षिणमनुव्रज्य भुजीत पितृसेवितम्' इति याज्ञवल्क्यीयाच्च । न चात्र रागप्राप्तभोजनानु- वादेन श्राद्धपविधिः । भोजनस्य रागतोऽपि नित्यमप्राप्तेनित्यवच्छ्र. वणायोगान् । अतः प्रकरणाच्छ्राद्धाङ्गत्वेन भोजनक्रियैव विधीयते 'पयोत्रतं ब्राह्मणस्य' इतिवत् । अन्यथा तत्रापि व्रतानुवादेन पयस एव विधिः स्यात् । इदं च भोजनं यद्यपि 'पितृसेवितम् ' इति द्वितीया- श्रुतेः प्रतिपत्तिकर्म, तञ्च प्रतिपाद्याभावे लुप्यते न्यायात् । तथापि - , श्राद्धमयूखः - श्राद्धदिन उपवासे दोषश्रवणाददृष्टाथै पुनः पक्त्वाऽपि कार्यमेव स्विष्ट- कृद्याग इव शेषनाश आज्येन ' यस्य सर्वाणि हवींषि नश्येयुर्दुष्येयु- रपहरेयुर्वा आज्येनैता देवताः परिसङ्घयाय यजते' इति वचनात् । अत एव देवल:- श्राद्धं कृत्वा तु यो विप्रो न भुङ्क्तेऽथ कदाचन । देवा हव्यं न गृहन्ति कव्यानि पितरस्तथा ।। इति । वैधोपवासप्राप्तौ स्मृत्यन्तरे-- उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् । उपवासं तदा कुर्यादाघ्राय पितृसेवितम् ॥ इति । 'नित्यः' इत्यविवक्षितम् । अनुवाद्यविशेषणत्वात् । अतः काम्यो- पवासप्राप्तावप्यालेयमेव । मात्स्ये- पुनर्भोजनमध्वानं यानमायासमैथुनम् । श्राद्धकृच्छ्राद्धभुक्चैव सर्वमेतद्विवर्जयेत् ॥ स्वाध्यायं कलहं चैव दिवास्वापं तथेच्छया । इति । वृहस्पतिः- तां निशां ब्रह्मचारी स्याच्छ्राद्धभुक्शाद्धिकैः सह ॥ इति । यमः- पुनर्भोजनमध्वानं भारमायासमैथुनम् । सन्ध्यां प्रतिग्रहं होमं श्राद्धभुक् त्वष्ट वर्जयेत् ॥ इति । सन्ध्याहोमयोर्विशेषो माधवीये पुराणे- दशकृत्वः पिबेच्चापो गायत्र्या श्राद्धभुक् द्विजः । ततः सन्ध्यामुपासीत जपेच्च जुहुयादपि ॥ इति पार्वणश्राद्धम् । अथ ब्रह्मार्पणं प्रयागमाहत्म्ये- पादौ प्रक्षाल्य विधिवत्पीठादावुपवेश्य च । परिविष्य त्यजेदन्नं ब्रह्मार्पणविधिः स्मृतः ॥ इति ब्रह्मार्पणम् । अथासमर्थस्य सङ्कल्पश्राद्धम् । - तत्र स्मृत्यन्तरे- अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् । सङ्कल्पश्राद्धमेवासौ कुर्यादादिवर्जितम् ॥ इति ।

सङ्कल्पश्रादम्। - पितृयज्ञोऽत्र श्राद्धं न पिण्डयज्ञः, अर्घ्यपिण्डादिवर्जनासङ्गतेः । नहि पिण्डयज्ञेऽध्योऽस्ति नापि तत्र पिण्डदानमङ्गम् । श्राद्धे च यद्यपि तत्प्रधानं तथाप्यङ्गपदं तदप्युपलक्षयति । अतो न विरोधः । अत एव संवर्त:- समग्रं यस्तु शक्नोति कर्तुं नैवेह पार्वणम् । अपि सङ्कल्पविधिना काले तस्य विधीयते । पात्रभोज्यस्य चानस्य त्यागः संकल्प उच्यते ॥ तत्र युक्तो विधिर्यस्तु स तेन व्यपदिश्यते । तावन्मात्रेण संबद्धं साङ्कल्पश्राद्धमुच्यते ॥ छागलेय:- पिण्डं यत्र निवर्तेत मघादिषु कथंचन । साङ्कल्पं तु तदा कार्य नियमाद्ब्रह्मवादिभिः ।। साङ्कल्पिकप्रकारमाह व्यास:- सङ्कल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणम् । नावाहनानौकरणे पिण्डांश्चैव न दापयेत् ।। इति । स्मृविसङ्घहे- अग्नौकरणमयं च विकिरावाहने स्वधा । पिण्डयुक्ते प्रकुर्वीत पिण्डहीने विवर्जयेत् ।। इति । पारिजाते वृद्धशातातपः पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते । स्वधावचनलोपोऽत्र विकिरश्च विलुप्यते ।। अक्षय्यदक्षिणास्वस्तिसौमनस्यं यथास्थितम् ॥ इति । यत्तु स्मृतिचन्द्रिकाप्रयोगपारिजातादौ-'आवाहननिषेधेऽमन्त्रकमा- वाहनं कार्यमन्यथा देवताया असन्निधानप्रसङ्गात् ' इति तन्न । आगमन- रूपस्य देवतासान्निध्यस्य देवताधिकरणे निराकृतत्वात् । पितृतृप्तिस्तु यद्यपि देवतातृभित्वेन तदधिकरणे निराकृता तथापि रात्रिसत्राधिकर- णन्यायेन विध्यपेक्षया श्राद्धफलत्वेनाङ्गीकार्या । धर्माधर्मफलभोगान्य- थानुपपत्त्या च उत्कृष्टोऽपकृष्टो वा विग्रहोऽप्यङ्गीकार्यः । न तु सान्निध्यं मानाभावात् । अत एव प्रसादफलदातृत्वे अपि न । यद्यपि- वसुभद्रादिनिसुनाः पितरः श्राद्धदेवताः । -

ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।। इति ।
आयुः प्रजां धनं विद्यां स्वर्ग मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नणां पितामहाः ।।
शनि च फलदानृत्वं श्रुतम् तथापि तदर्थवादगतत्वाद्विध्यनपेक्षणाच
नाङ्गीकिरन । वियनपेक्षितानां वहस्तसहस्राक्षत्वादीनामप्यङ्गी
कामपनः । इसापत्नी वपोत्सननादीनामपि तदापत्तिः । अतः प्रामाणिको
गतिविग्रहावलोकनन्यौ न तु सांनिध्यफलदातृत्वादीनि इति दिक् ।
-
अथ श्राद्धे आमहेमादिविधिः ।
लघुहारीत:-
एकोहिष्टं तु कर्तव्यं पाकेनैव सदा स्वयम् ।
मभावे पाकपात्राणां तदहः समुपोपणम् ।। इति ।
SAN
तीर्थ श्राद्धं प्रकुर्वीत पकानेन विशेषतः।
आमानन हिरण्येन कन्दमूलफलैरपि ।
पामभावं कुर्याच श्रद्धयाऽपि जलेन वा ॥ इति ।
भापानमा तीर्थं च प्रवासे पुत्रजन्मनि ।
आमश्राद्धं द्विजः कुर्याज्ञारजसि संक्रमे ॥
मापदाननी नीय च ग्रहणे चन्द्रसूर्ययोः।
मामश्राद्धं द्विभः कार्य शूद्रेण तु सदैव हि ।। इति ।
द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हमा प्रकुर्वान यम्य भायी रजस्वला ।।
#1 'अननी पनि भावनानो निर्देश: । 'अनग्नित' इत्यर्थः
मानि यावत । न विद पाकादाथै लौकिकामिपरम्
निरपवावमानान । व्याभावद्विजाभावाभ्य
.:::. परिपनाशं देशान्तरस्थत्वादिना श्रौतस्माती
नति । आपाप्रवास पुत्रजन्मग्रहण

श्राद्धे आमहेमादिविधिः। - भार्यारजोदोषेषु तु साग्निकोऽप्यामेनैव' इति कर्कस्मृतिरत्नावल्याद्यनु- चायिनः । 'यथाशिष्टाचार कार्यम् ' इति मदनपारिजातदिवोदासा- द्याः । प्राच्या अप्येवम् । तीर्थजलसमीपे आमेन हेना वा गृहादौ त्वन्नेनैव, इति युक्तम् । सदैव हि जलान्तेषु आमश्राद्धं प्रशस्यते । गृहाद्दशगुणं पुण्यं लभेत्तीर्थनिवापकृत् ।। इतिवचनादिति भट्टचरणाः । दाक्षिणात्यास्तूभयं कुर्वन्ति । पक्का- नेन विशेषतः' इति वाक्यात् । अत्र यथादेशाचारं व्यवस्था । सुमन्तु:- सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः । न पक्कं भोजयेद्विप्रान् सच्छूद्रोऽपि कदाचन ॥ व्यास:- आमं ददत्तु कौन्तेय दद्यादन्नचतुर्गुणम् ।। इति । आमं ददद्धि कौन्तेय आमं तु द्विगुणं भवेत् ।। इति तु अशक्तौ । हिरण्यं त्वष्टगुणं चतुर्गुणं द्विगुणं वा दद्यात् । धान्याच्चतुर्गुणेनैव हिरण्येन सुरोचिषा । इति मरीचिवचनात् । आमं तु द्विगुणं प्रोक्तं हेम तद्वच्चतुर्गुणम् ।। इति धर्मवचनाच । अशक्तौ सममप्यामं हेम वा दद्यात् । द्वैगुण्यादि च पुरुषाहारापेक्षया । उशना- सिद्धाने तु विधिर्यः स्यादामाद्धेऽप्यसौ विधिः । आवाहनादि सर्व स्यात्पिण्डदानं च भारत ॥ दद्याचापि द्विजातिभ्यः शृतं वाऽशृतमेव वा । तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् ।। इति । हस्तेऽग्नौकरणं कुर्याद्राह्मणस्य विधानतः । इति च । पत्रिंशन्मते- आमश्राद्धं प्रकुर्वीत पिण्डदानं कथं भवेत् । गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वा ॥ पिण्डदानमिति शेषः । आमगृहपाकसक्तुषु यथालाभं व्यवस्था । यत्तु- आमेन पिण्डं दद्याचेद्विप्रान्पक्केन भोजयेत् ।

१२२ श्राद्धमयूखः - - पक्केन कुरुते पिण्डमामानं यः प्रयच्छति ॥ तावुभौ मनुजौ प्रोक्तो नरकाहौँ न संशयः ।। इति । 'तदमावास्यादिपरम्' इति प्रघट्टके पितामहचरणाः । अत्र भोजन- संबद्धाः पदार्थाः 'यथासुखं जुषध्वम् , तृप्ताः स्थ' इत्यादयो द्वाराभावा- निवर्तन्ते इति पारिजाते, कृष्णलेष्ववघातवत् । तदुक्तं तत्रैव- तृप्तिप्रश्नोऽवगाहश्च जुषप्रश्नो यथाविधि । आमश्राद्धे भवेन्नैतदपोशानं च पञ्चमम् ॥ अवगाहोऽङ्गुष्ठनिवेशनम् । तीर्थनिमित्तामश्राद्धे एते, अर्ध्यमावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् ।। तृप्तिप्रश्नं च विकिरं तीर्थश्राद्धे विवर्जयेत् ।। इत्यादयश्च न । पाकश्राद्धे त्वया॑दय एव न भवन्तीति विवेकः । 'हेमश्राद्धे पिण्डनिवृत्तिरपि' इति दिवोदासः। स्मृत्यर्थसारे तु विकल्पः । मरीचिः- आवाहने स्वधाकारे मना ऊह्या विसर्जने । अन्यकर्मण्यनूह्याः स्युरामश्राद्धविधिः स्मृतः ।। पितॄन् हविषे अत्तवे इत्यत्र स्वीकर्तवे इति । 'नमो वः पितर इषे' इत्यत्र 'आमाय ' इति । 'तृप्तायात ' इत्यत्र क्तप्रत्ययस्थाने 'तृप्यत इति लोट् इति भट्टचरणाः । 'तमंत' इति लडन्तमूह्यमिति पारि- जाते । 'इदमन्नम्' इत्यादौ 'इदमामम् ' इत्यादि । अन्यकर्मणि 'विष्णो हव्यं रक्षस्व ' इत्यादावनूहः । यद्यपि प्रकृतावूहो न्यायेन न प्राप्नोति तथापि वचनेनानेन विधीयते । तथा 'पूयति वा एतचोऽक्ष यदेनदूहति तस्माचं नोहेत्' इति सामान्यश्रुतिरप्यनया विशेष- स्मृत्या बाध्यते । इत्यपि ते । युक्तं तु न्यायप्राप्तबाधकत्वेनोपपन्नस्य वाक्यस्य न श्रौतनिषेधबाधकत्वमिति । अतो 'अनृङ्मनेष्वेवोहः' इति । आमश्राद्धे कालमाह शातातपः- आमश्राद्धं तु पूर्वाहेऽपराहे पार्वणं भवेत् । एकोद्दिष्टं तु मध्याह्ने प्रातवृद्धिनिमित्तकम् ॥ इति । अन्नासंभवनिमित्तक आमश्राद्धेऽयं कालः । शूद्रं प्रति नित्यप्राप्ते तु स्मृत्यन्तरे- - श्राद्धे आमहेमादिविधिः। १२३ - - मध्याह्नात्परतो यस्तु कुतपः स उदाहृतः । आममात्रेण तत्रैव पितॄणां दत्तमक्षयम् ॥ इति । हेमाद्रावपराके च पाकाभावनिमित्तके शूद्राधिकारिके चामश्राद्धे प्रातमध्याह्नोत्तरकालयोर्विकल्प इति केचित् । बहूनां ब्राह्मणानामलामे एकेनापि कार्यम्- अन्नाभावे द्विजाभावे तीर्थरूपे महालये । एकस्मिन्दीयते चान्नमान्पिण्डान्पृथक्पृथक् ॥ इति वचनात् । एकस्याप्यलाभे देवल:- पात्रालाभेऽखिलं कृत्वा पितृयज्ञविधि नरः । निधाय वा दर्भबटून् आसनेषु समाहितः ।। प्रैषानुप्रैषसंयुक्तं विधानं प्रतिपादयेत् । सर्वाभावे क्षिपेदग्नौ गवे दद्यादथाऽप्सु वा ।। नैव प्राप्तस्य लोपोऽस्ति पैतृकस्य विशेषतः । 'श्राद्धं संपन्नम् ' इत्याद्याः प्रैषानुप्रैषाः । तान्स्वयमेव वदेदित्यर्थः । आमहेमपक्षयोः कालान्तरे ब्राह्मणाय दानम् । सर्वश्राद्धाशक्ती देवलः- पिण्डमानं प्रदातव्यमभावे द्रव्यविप्रयोः। श्राद्धाहनि तु संप्राप्त भवेनिरशनोऽपि वा ।। देवीपुराणे- सक्तुभिः पिण्डदानं च संयावैः पायसेन वा । कर्तव्यमृषिभिः प्रोक्तं पिण्याकेनेमुदेन वा ॥ गुडेन वा' इति वा पाठः। संयावो गोधूमविकारः पिण्याकस्तिलकल्कः इमुदं तापसतरुफलम् । अविरा:- कपित्थबिल्वमात्रान्वा पिण्डान्दद्याद्विधानतः । कुक्कुटाण्डप्रमाणान्वा केषां चामलकैः समान् ।। बदरेण समान्वाऽपि दद्याच्छ्रद्धासमन्वितः । पिण्डदानेऽप्यशक्तौ तर्पणमवश्यं कर्तव्यम् ।। तिलैः सप्ताष्टभिर्वाऽपि समवेतं जलाञ्जलिम् । भक्तिनम्रः समुद्दिश्य मुव्यस्माकं प्रदास्यति ।। - ८ - . श्राद्धमयूखः - यतः कुतश्चित्संप्राप्य गोभ्यो वाऽपि गवाह्निकम् ॥ इत्यपिशब्दयुक्तपितृवचनात् । स्मृत्यन्तरे- तृणानि वा गवे दद्यात्पिण्डान्वा विधिपूर्वकम् । तिलोदकैः पितृत्वाऽपि तर्पयेत्स्नानपूर्वकम् ।। अग्निना वा दहेकक्षं श्राद्धकाले समागते । तस्मिंश्योपवसेदह्नि जपेद्वा श्राद्धसंहिताम् ॥ इति । स्मृत्यन्तरे- श्राद्धानुकल्पं यः कुर्याज्जात्यवस्थाद्यपेक्षया । श्राद्धांशेनाप्यवाप्नोति मुख्यश्राद्धफलं नरः ।। इति । अथ श्राद्धे उहविचारः । तत्र 'मातामहानामप्येवं तत्रं वा वैश्वदेविकम् । ' इति वचनापितृ- पार्वणातिदेशे मातामहपार्वणे प्राप्तेऽपूर्वप्रयुक्तत्वान्मत्राणामूहः प्राप्नोति । आतिदेशिकस्य मन्त्रसंस्कारान्यतरस्यान्यथाभाव ऊहः । सानः प्रयो- जनाभावादनुद्देशः । तत्र च 'पितॄन् हविषे अत्तवे ' 'आयन्तु नः पितरः इत्यादिमंत्रगतपितृशब्दस्य प्रकृतिवन्मातामहश्राद्धेऽपि समवेतार्थत्वा. दर्थान्तराभावानोहः । तथाहि, द्विधा हि पितृशब्दः प्रयुज्यते, कचि- जनकत्वोपाधिना 'पिता यस्य तु वृत्तः स्यात्' इत्यादिपु, कधि- त्सपिण्डीकरणान्तश्राद्धजन्यपितृत्वोपाधिना यथा 'प्रेते पितृत्वमापन्न सपिण्डीकरणात् ' इति, 'ततः प्रभृति वै प्रेत: पितृसामान्यमश्नुत । इत्यादिषु । अत एव सर्वत्र पितृशब्दः प्रयुज्यते 'षड्भ्यः पितृभ्यस्तदनु भक्त्या श्राद्धमुपक्रमेत् , पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ' इत्यादिषु । एवं च पूर्वोक्ते मन्त्रजाते पितृशब्दस्य सपिण्डीकरणान्तश्राद्धजन्य- पितृत्वपरत्वात्तस्य च मातामहादिष्वपि सद्भावानोहः । तथा 'पूयति वा एतहचोऽक्षरं यदेनदूहति तस्माचं नोहेत्' इति प्रतिषेधादपि नोहः । तथा अनृयूपेष्वपि मन्त्रेषु 'एतद्वः पितरो वासोऽमीमदन्त पितरः' इत्यादिष्वपि पूर्वोक्तन्यायान्नोहः । प्रतिपेधस्त्वभ्युच्यमात्रमत्र । तस्यासाधारणविषयस्तु 'व्रीहीणां मेधसुमनस्यमानः' इत्यादिरवग- न्तव्यः । यत्तु विष्णुवाक्यम्- मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः । मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ इति ।

श्राद्धे अहविचारः। तदपि न पूर्वोक्तेषु मन्त्रेषु ऊहं विदधाति 'यथान्यायम् । इत्यनेन न्यायप्राप्तानुवादप्रतीतेः । अतो यत्र 'शुन्धन्तां पितरः शुन्धन्तां पिता- महाः शुन्धन्तां प्रपितामहाः' इत्यादिषु पितामहप्रपितामहोपादानेन पितृशब्दस्य जनकपरत्वान्मातामहादिमातृवर्गादिषु 'शुन्धतां मातामहाः शुन्धन्तां मातरः' इत्यादिरूपेण प्राप्तोहस्यानुवादः । नच प्रकृता- वेकस्मिन्पितरि बहुवचनस्यासमवेतत्वाद्विकृतावेकवचनान्त एव प्रयोज्य इति वाच्यम् 'प्रकृतौ बहुवचनस्यासमवेतार्थत्वे विकृतावप्यविकृतस्यैव प्रयोगः' इति नवमे पाशाधिकरणे स्थितत्वात् । एवं च 'शुन्धन्तां मातामहाः' 'शुन्धन्तां मातरः' इत्याद्येवोह्यम् । येषां च 'पितृभ्यः स्वधोच्यनां पितामहेभ्यः स्वधोच्यतां प्रपितामहेभ्यः स्वघोच्यताम् । इति शुन्धनमन्त्रास्तेषामपि पूर्वोक्तन्यायेन भवत्येवोहः । नन्वस्त्वेवमत्र एतद्वः पितरः' इत्यादिमन्त्रेषु पितृशब्दगतबहुवचनेन पितृशब्दो ज. नकपरोऽपि लिङ्गसमवायात्पित्रपितृसमुदाये वर्तते तादृशस्य च विकृतौ मातामहादिश्राद्धेऽसमर्थत्वात्प्रकृतिवदेव मातामहामातामहेषु मातामहा इत्यूहः, ऋङ्मन्त्रेषु वाक्यानिषेधोऽनृङ्मन्त्रेषु कथं न प्राप्नोति' इति चेत् । उच्यते-पितृशब्दस्तावदुभयोर्वाचक इत्युक्तं तत्र जनकपरत्वे. ऽङ्गीक्रियमाणे गौणीप्रसक्तेरितरपरमेव गृह्यते । एवं च बहुवचनमण्यु- पपन्नं भवति । एवं च प्रकृतौ यादृशः शास्त्रार्थस्तादृश एव विकृती इति नोहप्रसङ्गः। अत्र पितामहचरणा:-'पितरेतत्तेऽय॑म् ' इत्यादि- पूहानूहविचारानवकाशः एतस्याभिलापमात्रत्वेन मन्त्रत्वाभावात् । अन्यथा ‘शेषाणां मन्त्रवर्जितम् । इत्युक्त्या शूद्रादीनां तथाभिलापा- प्रसक्तेः । अतोऽपौरुषेये वैदिकप्रसिद्ध मन्त्रशब्दो मुख्योऽन्यत्र गौणः । अत एव भावार्थपादे 'उहप्रचरनाम्नाममन्त्रत्वम् ' इत्याह भगवान्सूत्र- कारः, तेषां लोकैः प्रयुज्यमानत्वादित्याहुः । एकोद्दिष्टेऽपि ' शेषं पूर्व- बदाचरेन्' इति पार्वणातिदेशात् 'पितृनिमाल्लोकान् ' इत्यादिक्षु प्राप्त ऊहो वचनाद्वाधितस्तथा 'शुन्धन्तां पितरः' इत्यादिषु न्याया- देव बाधित ऊह 'एकवन्मन्त्रानूहेतैकोद्दिष्टे' इति विष्णुवाक्येन प्रति- प्रसूयते । अस्यार्थः । एकोद्दिष्टे श्राद्धे क्षयाहादौ क्रियमाणे मन्त्रा- नेकवद्यथा भवति तथा ऊहेत इति क्रियाविशेषणम् । एतद्वः पितरः इत्यादिपु तु न्यायादेव प्राप्त हो न वाक्येन विधीयते । इदं च पुराण- प्रेतकोदिष्टसाधारणम् । प्रेतकोद्दिष्टे तु आश्वलायनगृह्यपरिशिष्टे पितृपद- - भाडमयूखः १२६ निवृत्तिरेवोका । वैष्णवे तु एकवचनविधानम् । एवं च 'एतद्वः पितरः। इत्यादौ 'एतत्ते प्रेत ' इत्यूहः। यत्तु कैश्चिदुक्तम् 'पुराणैकोद्दिष्टं पार्व- णवदेव' प्रेतैकोद्दिष्टे तु विष्णुवाक्येन प्रेतशब्दैकवचनयोरुहो विधी- यते । तत्र सपिण्डीकरणाभावेन पितृत्वानुत्पत्तेः । अत एवाऽऽश्वलायनेन पितृपदनिवृत्तिरुक्ता' इति । तन्न । अस्य वाक्यस्य प्रेतैकोद्दिष्टविषयत्वे प्रमाणाभावात् प्रेतशब्दोहाप्रतीतेः । उभयविधाने वाक्यभेदात् । पुराणैकोद्दिष्टे वचनस्य सार्थक्याच्च । तस्मादस्मदुक्त एवाऽर्थों न्याय्यः । एवं मुख्यदृष्टार्थतास्वार्थसमवेतार्थतादिभिर्मन्त्राणामूहनिर्णयः । ' शेषाणां मन्त्रवर्जितम् ' इति पूर्वोक्तविष्णुवचनशेषः । एवं पितृव्यायेकोद्दिष्टे उहयोग्यपितृपयुक्तमन्त्रपर्युदासार्थ इति शूलपाणिः । 'पितृव्याघेकोद्दिष्ट एवाऽऽवाहनादिमन्त्राणां पर्युदासार्थः । इति कल्पतरौ । उभयमप्येत- प्रमाणशून्यम् । भोगस्त्रीणां शूद्रापुत्रस्य चैकोद्दिष्टे मन्त्रपर्युदासार्थम् , इति पितामहचरणाः। स्त्रीणाममन्त्रक श्राद्धं तथा शूद्रासुतस्य च । प्रारिद्वजाश्च व्रतादेशात्ते च कुर्युः सदैव तत् ॥ इति मरीचिस्मरणात् ।' खीणां सुतस्य च ' इति संप्रदाने षष्ठी। द्विजा उपनयनात्प्राक् ते च खीशूद्रासुता अमन्त्रकं कुर्युरित्यर्थः । अत्र- स्त्रीणामित्यकृतविवाहस्रीपरम्' इति हेमाद्रिः। अमन्त्रकमिति वै- दिकमन्त्रनिषेधो न तु पौराणानाम् , इति दिक् । इत्यूह विचारः । अथैकोद्दिष्टम् । तत्स्वरूपमाह याज्ञवल्क्य:- एकोद्दिष्टं दैवहीनमेका(कपवित्रकम् । आवाहनानौकरणरहितं ह्यपसव्यवत् ॥ उपतिष्ठतामित्यक्षय्यस्थाने विप्रविसर्जने । अभिरम्यतामिति वदेद्युस्तेऽभिरताः स्म ह ॥ इति कात्यायनः । 'स्वदितम्' इति तृप्तिप्रश्नः ‘सुस्वदितम् । इत्य- नुज्ञा' इति । आश्वलायनसूत्रानुसारिणां तु 'एकोद्दिष्टेऽप्यग्नौकरणा- दयो धर्माः पार्वणवद्भवन्ति । तत्सूत्रे 'अथातः पार्वणे श्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे वा ' इति चत्वारि श्राद्धानि उपक्रम्याग्नौकरणा- दिधर्माणां समानविधानतयोक्तत्वात् । अत एव गृह्यकारिकायाम्- - - सपिण्डनम् । १२७ - आन्वष्टक्यं च पूर्वेटुर्मासिमास्यथ पार्वणम् । काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् ।। चतुवाद्येषु साग्नीनां वह्नौ होमो विधीयते । पित्र्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्वपि ।। इत्येकोद्दिष्टे पाणिहोम उक्तः संगच्छते । 'सपिण्डीकरणान्तर्गते एकोद्दिष्टे पाणिहोमोऽन्यत्र होम एव न भवति' इति केचित् । तत्रि- विधम् । नवं नवमिश्र पुराणं च ' इति । तत्र नवमाहाङ्गिराः- प्रथमेऽह्नि द्वितीयेऽह्नि पञ्चमे सप्तमे तथा। नवमैकादशे चैव तन्नवश्राद्धमुच्यते ॥ इति । वसिष्ठः- सप्तमेऽह्नि तृतीयेऽह्नि द्वितीये प्रथमे तथा । एकादशे पञ्चमे स्युर्नव श्राद्धानि षट् सदा ॥ इति । पण्णां नवश्राद्धानामनन्तरं कर्तव्यं मासिकं नवमिश्रं तदाहा- ऽऽश्वलायनः 'नवमिश्रं षडुत्तरम् । इति । प्रत्याब्दिकादि पुराणम् । चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मासिके । एकाहस्तु पुराणेषु प्रायश्चितं विधीयते ॥ इति हारीतेन मासिकोत्तरभाव्याब्दिकादेः पुराणपदेन व्यवहृत- स्वात् । एवं पार्वणमेकोदिष्टं चोक्तम् । अथ सपिण्डनम् । संप्रत्युभयरूपं सपिण्डनमुच्यते । लौगाक्षिः- श्राद्धानि षोडशाऽऽपाद्य विदधीत सपिण्डनम् ॥ इति । पोडशश्राद्धान्याह जातूकमे:- द्वादश प्रतिमास्यानि आद्यं पाण्मासिकं तथा । त्रैपक्षिकाब्दिके चेति श्राद्धान्येतानि षोडश ॥ इति । आद्यम् , उनमासिकम् । एवं च पाण्मासिकाब्दिकशब्दावपि ऊन- पाण्मासिकोनादिकपरौ द्वादशमासिकानां भिन्नतयोक्तत्वात् । तेषां तु कालमाह याज्ञवल्क्यः- मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ॥ इति ।

श्राद्धमयूखः १२८ सत्यप्याशौचे क्षत्रियादिनैकादशेऽह्नि श्राद्धं कार्यम् , आचं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ।। इति शङ्खस्मृतेः। एकादशेऽह्नि यच्छ्राद्धं तत्सामान्यमुदाहृतम् । ['सूतकं तु पृथक्पृथक् ' इति पैठीनसिवचनादाशौचान्ते । ततः पिण्डदानं समाप्यते । ततः श्राद्धं प्रदातव्यं सर्ववर्णेष्वयं विधिः । इति तत्सर्ववर्णानां दशाहाशौचपरम् । ] पैठीनसिः- मासिकानि स्वकाले तु दिवसे द्वादशेऽपि च ॥ इति आद्यमासिकं मरणदिने प्राप्तमेकादशेऽयुत्कृष्यते । एवं सांवत्स- 'रिकमपि, मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियतेऽहनि । प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुः ।। इति स्मृत्या मरणतिथौ प्राप्तमेकादशेऽयुत्कृष्यते । संप्रति कयां चिद्वितीयवर्षाद्यतिथौ क्रियमाणे प्रथमाब्दिकव्यवहारस्तु भ्रमात् । न च 'अब्दान्ते भवमाब्दिकम् ' इति व्युत्पत्त्या व्यवहारोपपत्तिः । 'मास- पक्षतिथिस्पृष्टे' इतिवाक्यस्य प्रथमवर्षीयमृततिथौ प्रवृत्तौ बाधकामा- वात् । मासिकेषु ‘मासादौ भवं मासिकम् ' इत्याद्यद्वितीयादिमासिक- व्यवहारस्य सर्वैरविप्रतिपत्त्याङ्गीकाराच्च । यत्तु लौगाक्षि वचनं- मासादौ मासिकं कार्यमाब्दिकं वत्सरेऽगते । आद्यमेकादशे कार्यमधिके त्वधिकं भवेत् । तदप्यगत इति व्याख्येयम् । केचित्तु मासिकस्योत्कर्षों वार्षिकस्या- पकर्षानेन वचनेन विधीयते इति । एतेन यन्माधवादिभिर्द्वितीयाव्दाद्य- दिनक्रियमाणस्याब्दिकत्वभ्रमात् 'मलमासे प्रथमाब्दिकं कार्यम्। इति वाक्यानुसारेण मलमासे कर्तव्यत्वमुक्तं तदप्यपास्तम् । - - १ कुण्डलितो ग्रंथो न त्रिष्वपि लिखितपुस्तकेषु दृश्यते । २ यस्येति पाठः। ३ च. अत एव गोभिल:-ब्राह्मणं भोजयेदाये होतव्यमनलेऽथवा । प्रनह्य (? पुनर्न) भोजयेद्विप्रं द्विरावृत्तिभवेदिति । इदं चाद्यमासिकाद्यसिद्धयर्थमिति (?) पितामहच- रणाः। इत्यधिकम् । N सपिण्डनम् । १२९ - - आब्दिकं प्रथमं यत्स्यान्न कुर्वीत मलिम्लुचे। त्रयोदशे तु संप्राप्ने कुर्वीत पुनराब्दिकम् । इति मलमासे प्रथमाब्दिकं विधाय मवाक्ये (2) संप्राप्त इति पदस्वार- स्यात् । अन्यथा संप्राप्तपदस्यातीतपरत्वव्याख्यानक्लेशः स्यात् । पुनरा- ब्दिकं द्वितीयाब्दिकं त्रयोदशे मासि प्राप्ते कार्यमित्येतदपि मासपक्ष- वाक्यप्राप्तमेवानूद्यत इति । यत्त- प्रत्यब्दं द्वादशे मासि कार्या पिण्डक्रिया सुतैः । कचित्रयोदशेऽपि स्यादाद्यं मुक्त्वा तु वत्सरम् ॥ इति वचः 'द्वादशे मास्यतीते प्रत्यब्दं पिण्डक्रिया श्राद्धं कार्यम् । कचिन्मलमासवति वर्षे तु आद्यं वत्सरमाद्याब्दिकं मुक्त्वा त्रयोदशे मास्यतीते कार्यम् । आद्याव्दिकं तु त्रयोदशमासमध्य एव कार्यमिति यावत्' इति व्याख्यायाऽत्र साधकमुक्तम् । तदपि न। एतद्वचने हि मल- मासवति वर्षे सति त्रयोदशेऽतीते आब्दिकं कार्यमित्येव विधीयते । नान्यत्किञ्चित् । अन्यत्तु मासपक्षवाक्येन प्राप्तम् । प्रत्यब्दं द्वादशे मासीत्येतच्चान्तराधिमासपाताभावे । तत्सद्भावे तु त्रयोदशेतीत एव तदुक्तं विष्णुधर्मोत्तरे- संवत्सरस्य मध्ये तु यदि स्यादधिमासकः । तदा त्रयोदशे मासि क्रिया प्रेतस्य वार्षिकी ।। इति । त्रयोदशेऽतीते वार्षिकी ऊनादिकाब्दिकसपिण्डीकरणरूपा । मलमा- समृतस्याऽऽद्याब्दिकं तु सत्यपि मलमासे प्रथमदिन एव कार्यम् । दाहादि- सपिण्डनान्तकृत्यस्य मलमासेऽपि प्रतिप्रसूतत्वात् । यत्तु मिताक्षरायाम् , आद्यमेकादशेऽहनि' इत्यत्राऽऽद्यपदेनैकोद्दिष्टान्तरप्रकृतिभूतमेकोदि- यमुच्यते' इति तत्र प्रमाणं चिन्त्यम् । अत आद्याब्दिकमाद्यमासिकं चैकादशेऽह्नि महकोदिष्टेन सह तन्त्रेण कार्य द्वितीयान्दाद्यदिनकार्य- तया विहितं च शुद्धमास एवेति दिक् । एकादशाहकर्तव्यैकोद्दिष्टप्रक्रमे कौम- एकादशेऽह्नि कुर्वीत प्रेतमुद्दिश्य भावतः । द्वादशे वाऽथ कर्तव्यमनिन्द्येऽप्यथवाऽहनि ।।

१३० श्रादमयूखः - - तत्क्रम एव बौधायनः- तदेकोद्दिष्टमेव स्याहादशेऽहनि वा पुनः ।। अथवोर्ध्वमयुग्मेषु कुर्वीताहस्सु शक्तितः । अर्धमासेऽथवा मासे ऋतौ संवत्सरेऽपि वा।। इति । ऊनमासिककालमाह श्लोकगौतमः-- एकद्वित्रिदिनैरूने त्रिभागेनोन एव च । श्राद्धान्यूनाब्दिकादीनि कुर्यादित्याह गौतमः ।। इति । एकद्वित्रिदिनैत्रिभागेन वाऽऽद्य षष्ठे द्वादशे च मास्यून' इत्यर्थः । केचित्तु एकदिनन्यूनतापक्षमाश्रित्य षठ्यादौ मृतस्य पञ्चम्यादावून- मासिकाद्याचरन्ति तहममूलकम्। षष्ठयां मृतस्य पश्चम्यां मासपक्षयोः समाप्तिरेव भवति नत्वेकदिनन्यूनताऽस्ति तेन षष्ठयादी मृतस्य चतु- •दावेव कार्य न तु पञ्चम्यादाविति । अतः- एकाहेन तु षण्मासा यदा स्युरपि वा त्रिभिः । न्यूनः संवत्सरश्चैव स्यातां पाण्मासिके तदा ॥ इति जातूकण्येन एकाहन्यूनतोक्ता संगच्छते यत्तु- पाण्मासिकाब्दिके श्राद्धे स्यातां पूर्वेरेव ते। 'मासिकानि स्वकीये तु दिवसे द्वादशेऽपि वा ।। इति पैठिनसिवचनं तदपि माससमाप्तेः पूर्वेारित्येव व्याख्येयं न तन्मृताहात्पूर्वेद्युरिति, एकाहेन त्वित्यादिविरोधात् । यत्तु कैश्चिदहः पदं तिथिपरं व्याख्यातं तदपि प्रमाणाभावादुपेक्ष्यम् । उनमासिके काला- न्तरमाह गालव:- मरणाहादशाहे स्यान्मास्यूने वोनमासिकम् ।। इति । ऊनेषु कंचित्कालं निषेधति गार्ग्य:- नन्दायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे । ऊनश्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् ।। इति । त्रिपुष्करादियोगमाह वसिष्ठः- रविरविजभौमवारे भद्रायां विषमपादऋक्षं चेन् । त्रिपुष्कराख्ययोगोऽयं त्रिगुणफलदो यमलभैर्द्विगुणम् ।। १ घ. एकोद्दिष्टं च एव स्यात् पाठः; ग. एकोद्दिष्टं श्व एव स्यात् पाठः अयमेव पाठ: निर्णयसिंधावपि दृश्यते । ङ. एकोद्दिष्टं तु एवस्यात् पाठः ।

सपिण्डनम्। १३१ - - त्रितयं च गवां दद्यात्तदोषस्यापनुत्तये विद्वान् । द्वितयं द्विपुष्करेऽपि च तिलपिष्टैविप्रमुख्येभ्यः ।। इति । पुराणे- सपिण्डीकरणादाकुर्याच्छ्राद्धानि षोडश । एकोदिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥ इति । षोडशश्राद्धेष्वाहिताग्नेविशेषमाह जातूकर्ण्य:- ऊव त्रिपक्षाद्यश्राद्धं मृताहन्येव तद्भवेत् । अधस्तु कारयेद्दाहादाहिताग्नेर्द्विजन्मनः ॥ इति । एतानि च षोडशश्राद्धानि यदा सपिण्डनाथै ततः प्रागू , वृद्धयर्थ मुत्तरं चैकदिनेऽपकृष्यन्ते । मासिकं चोदकुम्भं च यद्यदन्तरितं भवेत् । तत्तदुत्तरसातन्त्र्यादनुष्ठेयं प्रचक्षते ।। इतिवाक्यात्पूर्वमुत्तरेण सहोत्कृष्यते वा तदा दार्शिकादिपितृमाता- महादिपार्वणादिवत्सर्वेषामारादुपकारकाणां संभवतां पाकादिसन्निपा- तिनां च तन्त्रं निर्विवादम् । देशकालक…क्यात् । ढुण्ढूपद्धतौ तु सान्नाय्यप्राजापत्येष्विव संप्रतिपन्नदेवताकत्वात्प्रधानरूपविप्रभोजनपि. ण्डदानानामपि तत्रता' इत्युक्तम् । भ्रातृचरणास्तु 'सङ्ख्थान्यशब्दा. न्तरादिना * सप्तदशप्राजापत्यान् । इत्यादिद्रव्यसमानाधिकरणसङ्ख्यया वाक्गतभेदानां कर्मणां देशकालाबैक्ये यद्यपि तत्रताऽस्ति तथापि कर्म- समानाधिकरणसङ्ख्यावगतभेदानां न, शास्त्रे कापि तथानङ्गीकारात् ' इत्याहुः । अयं च तदाशयः, औत्पत्तिककर्मसमानाधिकरणसङ्ख्याश्रुतौ 'पृथक्त्वनिवेशात्सङ्ख्यया कर्मभेदः स्यात्' इति सूत्रानुसारात् पृथक्त्व- गुणविशिष्टान्याक्षिमपृथक्त्वानि सङ्ख्यामात्रविशिष्टान्येव वा कर्माणि विहितानि । तत्रतायां तु तद्बाधः स्यात् । अभ्यासादिभिस्तु कर्मवैजात्य- मात्रावगतेस्तत्रत्वे न कस्यचिद्वाधः । 'सप्तदशप्राजापत्यान्पशून् ' इत्या. दिद्रव्यसमानाधिकरणसङ्ख्यावगतभेदेषु तु कर्मसु पृथक्त्वस्य सङ्ख्याया वाऽश्रुतत्वान्न तद्वाधः । श्रुता पश्वादिद्रव्यगता सप्तदशादिसङ्ख्या तु यागतन्त्रत्वेऽपि नैव बाध्यते । अतः प्रधानभूतान्नत्यागपिण्डदानानि पृथगेव सर्वाण्यारादुपकारकाणि, संभवन्ति पाकादीनि सन्निपातीनि वाऽङ्गानि तन्त्रेण ' इति दिक् । , श्रादमयूखः अथ वृषोत्सर्गः। तत्कालः षट्रिशन्मते- एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः । पिशाचत्वं स्थिरं तस्य दत्तः श्राद्धशतैरपि ।। कालान्तरं भविष्योत्तरे- कार्तिक्यामथवा माध्यामयने वा युधिष्ठिर । चैच्यां वाऽपि तृतीयायां वैशाख्यां द्वादशेऽह्नि वा । विष्णुधर्मोत्तरेपि- अश्वयुकशुक्लपक्षस्य पश्चदश्यां नराधिप । कार्तिकेप्यथवा मासि वृषोत्सर्ग तु कारयेत् । कारयेदिति णिजविवक्षा । ग्रहणे द्वे महामुख्ये तथा चैवायनद्वये विषुवद्वितये चैव मृताहे बान्धवस्य च । उत्सृजेन्नीलकण्ठं वै कौमुद्याः समुपागमे । नीलकण्ठो नीलवृषः तल्लक्षणं वक्ष्यते । कौमुदी, आश्विनकाति- कयोः पूर्णिमा । अकरणे निन्दा मत्स्यपुराणे- न करोति वृषोत्सर्ग तीर्थे वाऽपि जलांजलिम् । न ददाति सुतो यस्तु पितुरुच्चार एव सः ।। पुरीपोत्सर्गतुल्य इत्यर्थः । तद्देशः कालिकापुराणे- अरण्ये चत्वरे वाऽपि गोष्ठे वा मोचयेद्बषम् । न गृहे मोचयेद्विद्वान्कामयन्पुष्कलं फलम् ॥ ब्राह्मेऽपि- प्रागुदक्प्रवणे देशे मनोज्ञे निर्जने वने ॥ कार्य इति शेषः । वृषलक्षणं ब्राह्मे- वृषभः कृष्णसारस्तु प्रत्यक्षस्तु निहायनः । मनोज्ञो दर्शनीयश्च सर्वलक्षणसंयुतः ।। विष्णुरप्याह-तत्रादावेव वृषभं परीक्षेत जीववत्सायाः पुत्रं सर्वलक्ष- णोपेतं नीलं लोहितं वा पुच्छपादेषु सर्वशुक्लं यूथस्याच्छादकम् । नील- लक्षणं रेवाखण्डे ब्रह्माण्डपुराणे- लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । - - वृपोत्सर्गः। . श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ।। चरणाश्च मुखं पुच्छं यस्य श्वेतानि गोपतेः । लाक्षारससवर्ण च तं नीलमिति निर्दिशेत् ।। वृषः स एव मोक्तव्यो न स धार्यों गृहे भवेत् । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां ब्रजेत् ॥ यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ।। इदं त्वर्थवादमात्रम् । अथ विधिर्भविष्योत्तरे कृष्णः- साण्डं नीलं शङ्खपादं सपौण्डूं श्वेतपुच्छकम् । गोभिश्चतुर्भिः सहितमुत्सृजेत्तं विधि शृणु ॥ मातरः स्थापयित्वा च पूजयेत्कुसुमाक्षतैः । मातृश्राद्धं ततः कुर्यात्सदाऽभ्युदयकारकम् ।। अकालमूलं कलशमश्वत्थदलशोभितम् । तत्र रुद्रान् जपित्वा तु स्थापयेद्रुद्रदेवतम् ।। रुद्रान नद्राध्यायं जत्वा रुद्रदैवतं कलशं स्थापयेदित्यर्थः । सुसमिद्धं ततः कृत्वा वह्नि मत्रपुरस्सरम् । आज्येन जुहुयात्पतिः पृथगाहुतिसंस्कृतैः ।। पौष्णमन्त्रैस्ततः पश्चाद्धृत्वा वह्नि यथाविधि । एकवण द्विवणे वा लोहितं श्वेतमेव वा ।। चतस्रो वत्सतर्यश्च ताभिः सार्द्धमलंकृतम् । तासां कर्णे जपेद्विप्रः पतिं वो बलिनं शुभम् ।। ददामि तेन सहिताः क्रीडध्वं हृधमानसाः। ततो वामे त्रिशूलं च दक्षिणे शङ्खमालिखेत् ।। अङ्कितं शङ्खचक्राभ्यां चर्चितं कुसुमादिना । पुष्पमालावृतग्रीवं श्वेतच्छत्रैश्च छादितम् ।। विमुंचेद्वत्सिकाभिश्च चतसृभिबलिनं वृषम् । देवालये गोकुले वा नदीनां संगमे तथा ।। इति । नप विशपो विष्णुधर्मोत्तरे रुद्रजपमुक्त्वा- तथैव पौरुष सूक्तं कूष्माण्डानि तथैव च ॥ इति । रोम्पं 'सहस्रशीति पोडशर्चम् । यद्देवा देवहेडनम्' इति माण्डाः । आदित्यपुराण- - १३४ श्रादमखः mote सावित्री च जपेत्तत्र तथा चैवाऽऽधमर्पणम् । इति । पारस्करोऽपि विशेषमाह- अथालंकृत्य तान् सर्वान् रुद्राध्यायं समाहितः । श्रावयेत्यौरुष सूक्तं तथाऽप्रतिरथानि च ॥ इति । अप्रतिरथानि आशु:शिशानः' इति द्वादश ऋचः । विष्णुधर्मोत्तरे- ऽपि । 'मन्त्रं पितावत्स इति प्रतीतं जपेदसव्ये वृपभस्य कर्णे' असव्ये दक्षिणे । ' पितावत्स ' इति मन्त्रोऽथर्ववेदे । वत्सतरीसङ्ग्यायां विशेष आदित्यपुगणे' ' अष्टौ वाथ चतस्रो वा यथालाभमथापि वा' इति । " यथालाभं द्वे एका वा' इति । तथा च देवीपुराणे- चतस्रो वरिसका भद्रे द्वे वा संभवतोऽपि वा। वत्सः सर्वाङ्गसंपूर्णः कन्यका वन्सिका भवेत् ।। एका इत्यर्थः । विवाहस्त्वेकवत्सर्या नीलेन भवता सदा ।। इति । एकवत्सरी एकवर्षा । तथा तत्रैव 'निहायनीभिर्धन्याभिः मुरूपाभित्र शोभितः' इति । एवं 'यदेका वत्सतरी तदा एकवर्षा । यदा द्वे वयो वा तदा बिहायन्यः' इति विवेकः, ताश्चागुर्विण्यः, 'विसय॑स्याप्य. गुर्विण्यो देया गावो वृपस्य च ' इति सौरपुराणोक्तेः । होमे विशेष विष्णुराह 'गवां मध्ये सुसमिद्धमग्निं परिस्तीर्य पौष्णं चरुं श्रपयित्वा पूषा गा अन्वेतु नः इहरतिः' इति च हुत्वा वृषभमानीयायस्कार- मावायेत्' इति । होमानन्तरकृत्यं सौरपुराणे- ततो वृषं समानीय अग्नरुत्तरतः स्थितम् । सव्यस्फिजि लिखेच्चक्रं शूलं बाहौ तु दक्षिणे ।। कुमेनायित्वाऽऽदौ ब्राह्मणः सुसमाहितः ।। स्फिजि वामकटिभागे। तप्तेन धातुना पश्चादयस्कारोङ्कयेद्वपम् ।। कुखमेनाङ्ककरणं ग्राह्मणस्य तप्तलोहेनायस्कारस्य इति भेदः । तदु- त्तरकृत्यं विष्णुधर्मोत्तरे- अङ्कितं स्थापयेत्पश्चात्स्थाने तस्य तथा पठेन । हिरण्यवर्णेति च ऋचश्चतस्रो मनुजेश्वर । । - m- १ ग. स्फिचीति पाठः।

हषोत्सर्गः। - - आपोहिष्ठेति तिस्त्रश्च शन्नोदेवीरिति च श्रावयेत् ॥ इति विष्णूक्तेः । हिरण्यवर्णाः' इति ऋचोऽथर्ववेदे प्रसिद्धाः । एते च करणमन्त्राः । हिरण्यवर्णा' इति चतसृभिः शन्नो देवीरिति च सापयेत् । इति । स्नाने जलमाह पारस्करः-- अकालमूलान्कलशानष्टौ स्रग्दामवेष्टितान् । सरन्नांश्च सवस्त्रांश्च चूतपल्लवशोभितान् ।। स्थापयित्वा चतुर्भिस्तु संस्नाप्यो वृषभस्ततः । । चतुर्भिर्वत्सिकाः स्थाप्यास्ततः सर्वान्विभूषयेत् ।। ऋचः समुद्रज्येष्ठाद्याः कीर्तयेदभिषेचने ।। इति । अनन्तरकृत्यं विष्णुधर्मोत्तरे- अलंकुर्यात्ततः पश्चाद्गन्धमाल्यैश्च शक्तितः । किङ्किणीभिश्च रम्याभिस्तथा चीनांशुकैः शुभैः ।। आदित्यपुराणेऽपि- घण्टां लोहकृतां दद्याच्छृङ्गे च पटलं शुभम् ।। पटलं सुवर्णादिनिर्मितः कोशः । शिवधर्मोत्तरे- रक्तपीतैश्च कुसुमैः कुङ्कुमाद्यैश्च वर्णकैः । यथाशोभं समालम्य विभवैः पूजयेद्वृषम् ।। अष्टाङ्गुलिप्रविस्तीर्णा हेमपट्टविनिर्मिताम् । राजती चर्मणो वाऽपि मालामुरसि विन्यसेत् ।। तद्विषां पृष्ठमालां च पुच्छान्तिकमुदञ्चिताम् । घण्टां कांस्यमयीं शुद्धां गले बन्नीत सुस्वनाम् ॥ खुरैः सौवर्णरौप्यैश्च केयूराङ्गदभूषितम् । पट्टवस्यैर्विचित्रैश्च यथाशोभमलङ्कृतम् ।। उत्सृजेत्' इत्यर्थः । अतः श्राव्याणि जप्यानि च सूक्तानि । विष्णुधर्मोत्तरे- ततोकिते जपेन्मत्रमिमं प्रयतमानसः । वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ।। वृणोमि तमहं भक्त्या स मां रक्षतु सर्वतः । इति प्रार्थ्य वृषेन्द्रं तं गृहीतकुसुमाञ्जलिः ।। त्रिः प्रदक्षिणमावृत्य नमस्कुर्याद्यथाविधि । ।

श्रादमयूखः प्रत्यङमुग्वीनां तु गवामेतावान्विधिगिन्यते ।। अधेशान्याभिमुखतः कुर्याद्गावो वृषं तथा । गावो वृपस्योभयतो वृपं मध्ये निवेश्य च ।। सर्वेषां कण्ठवस्त्राणि लेपयेत्तु परस्परम् । अयं हि वो मया दत्तः सर्वासां पतिरुत्तमः ।। तुभ्यं चैता मया दत्ताः पल्यः सर्वा मनोरमाः। संयोज्येति वृपं गोभिः पितृभ्यस्तं निवेदयेत् ।। सव्येन पाणिना पुच्छं समालभ्य वृपस्य तु । दक्षिणेनाप आदाय सकुशाः सतिलास्ततः ।। ततो गोत्रं समुच्चार्य अमुकरमा इति ब्रुवन् । वृप एप मया दत्तस्तं तारयतु सर्वदा ।। सहेम सलिलं भूमावित्युच्चार्य विनिक्षिपेत् । अत्रायं हि वो मया दत्तः इति मन्त्रो बहुगोपक्षे समवेतः स एक- द्विपक्षे ऊहनीय इति केचित् । अन्ये तु बहुगोयुक्तप्रयोगस्यैकद्विगोयुक्तप्र- योगस्य च प्रकृतिविकृतिभावाभावात् 'बीहीणां मेध' इत्यस्येव यवप्रयोगे बहुमत्रस्य लोपमाहुः । युक्तं चैतत् । 'अमुकस्मा' इत्यत्रैकोद्देशेन क्रिय- माणे एकस्य नाम ग्राह्यं बहुपित्रुद्देशेन तु क्रियमाणे बहूनां नाम इति । अनन्तरकृत्यमाह विष्णुः 'वृषं वत्सतरीयुक्तभैशान्यां कालयेदिशि । कालयेत्प्रणोदयेत् । तत्र मन्त्रमाह स एव- एनं युवानं पति वो ददामि तेन क्रीडन्तीश्वरथ प्रियेण । माहास्महि इत्यादि कात्यायनस्तु माहारमहि इत्यादेः स्थाने 'मानः साप्त जानुपा सुभगा रायस्पोषेण समिया मदेम इति पपाठ । ब्राह्म- अथ वृत्ते वृपोत्सर्गे दाता वक्रोक्तिभिः पदैः। ब्राह्मणानाह यत्किञ्चिोनोत्सृष्टं तु निर्जने ॥ तत्कश्चिदन्यो न नयेद्विभाज्यं न यथा क्रमम् । इति ।। निर्जने केन चिद्यक्रिश्चिदुत्सृष्टं तदन्येन न नेयं न च विभाज्यम् इति ब्राह्मणान्प्रति दाता वदेदित्यर्थः । पारस्करः- बहुतोयतृणेऽरण्ये क्षेपणीयः स गोपतिः । वत्सतर्यश्च ताः सर्वास्तेनैव सह कालयेत् ।। अथवा गोकुले क्षेप्या बहुगोधनसङ्गुले । - - मृतशय्यादानम्। - शिवधर्मोत्तरे- निर्गते गोपतौ तत्र ब्राह्मणान् स्वस्ति वाचयेत् । दद्याच्च दक्षिणां तेषां ब्राह्मणान्भोजयेत्ततः ।। संहिरण्यं रुद्रकुम्भं तथा स्नानघटानपि । होत्रे प्रदद्यात्तत्सर्वं धेनुं चैव पयस्विनीम् ॥ मुक्तवृषस्य धारणादि निषेधति पारस्करः- विधारयेन्न तं कश्चिन्न च कश्चन वाहयेत् । न दोहयेच्च ता धेनून च कश्चन बन्धयेत् ॥ इति । ब्राह्मे- नासौ वाह्यो न तत्क्षीरं पातव्यं केनचित्कचिन् ।। इति । वृषोत्सर्गफलमुक्तं देवीपुराणे- एवं कृत्वा ह्यवाप्नोति फलं वाजिमखोदितम् । यमुद्दिश्य सृजेद्वत्सं स लभेताविचारणात् ॥ इति । तत्रैव- एवं वृषोत्सर्गविधिं नरो यः करोति भक्त्या निजपूर्वजानाम् ।। उद्धृत्य तान्दुर्गतिपङ्कमग्नान स्वयं स लोकं समुपैति शम्भोः ।। इति वृषोत्सर्गविधिः । - मृतशय्यादानम् । अथ मृतशय्यादानविधिः । स च जीवच्छय्यादानेतिकर्तव्यतातिदे- जापरिपूर्ण इति तत्पूर्वकमुच्यते । हेमाद्रौ भविष्ये- तस्माच्छय्यां समासाद्य सारदारुमयीं दृढाम् । दन्तपत्रचितां रम्यां हेमपादैरलङ्कृताम् ॥ हंसतूलीप्रतिच्छन्नां शुभगण्डोपधानिकाम् । पीठिकाच्छादनयुतां धूपदीपाधिवासिताम् ।। तस्यां संस्थापये?मं हरिं लक्ष्म्या समन्वितम् । अत्र हरिस्थाने प्रेतं तच्छीर्षके धनभृतं कलशं परिकल्पयेत् । ९ प्रच्छादन स्टीगन्ध ' इति पाठ; ।

१३८ प्राइमरखः ताम्बूलकुङ्कुमक्षोदकर्पूरागरुचन्दनम् । दीपकोपानहच्छत्रचामरासनभाजनम् ।। पार्श्वेपु स्थापयेत्या सप्त धान्यानि चैव हि । शयानस्यापि भवति यदन्यद्रुपकारकम् । शृङ्गारकरकाद्यं तु पञ्चवर्णविनानकम् ॥ मन्त्रस्तु- यथा न कृष्ण शयनं शून्यं सागरजातया । शय्या ममाप्यशून्याऽस्तु तथा जन्मनि जन्मनि ।। यत्स्यादशून्यं शयनं केशवस्य शिवस्य च । शय्या ममाप्यशून्याऽस्तु तथा जन्मनि जन्मनि । दत्त्वैवं तस्य सकलं प्रणिपत्य विसर्जयेत् । एकादशाहेऽपि तथा विधिरेप प्रकीर्तितः ।। विशेषश्चात्र राजेन्द्र कथ्यमानं निशामय । तेनोपयुक्तं यत्किञ्चिद्वलवाहनभाजनम् ।। यद्यदिष्टं च तस्यासीत्तत्सर्व परिकल्पयेत् । तमेव पुरुष हैमं तस्यां संस्थापयेत्सदा ॥ पूजयित्वा प्रदातव्या मृतशय्या यथोदिता। पद्ममात्स्ययो:- मृतकान्ते द्वितीयेऽह्नि शय्यां दद्यात्नुलक्षणाम् । काञ्चनं पुरुषं तद्वत्फलपुप्पसमन्वितम् ।। संपूज्य द्विजदाम्पत्यं नानाभरणभूषितम् । उपवेश्य तु शय्यायां मधुपर्क तदा वदेत् ।। वृपोत्सर्ग च कुर्वीत देया च कपिला शुभा ॥ इति । शय्यादानफलं भविष्ये- स्वर्गे पुरन्दरपुरे सूर्यपुत्रालये तथा । सुखं स्वपित्यसौ जन्तुः शय्यादानप्रभावतः ।। ताडयन्ति न तं याम्याः पुरुषा भीपणाननाः । न यमेन न शीताचुर्बाध्यते स नरः कचित् ।। अपि पापसमायुक्तः स्वर्गलोकं स गच्छति । विमानवरमारूढः सेव्यमानोऽप्सरोगणैः ॥ - सपिण्डनम्। - - आभूतसंप्लवं यावत्तिष्ठत्यन्तकवर्जितः ॥ इति । अथोदकुम्भश्राद्धम् । हेमाद्रौ स्मृतिसमुच्चये- एकादशाहात्प्रभृति घटस्तोयान्नसंयुतः । दिने दिने प्रदातव्यो यावत्संवत्सरं सुतैः ।। सपिण्डीकरणानन्तरमपि वत्सरपर्यन्तं देय इत्याह याज्ञवल्क्यः- यस्य संवत्सरार्वाक् सपिण्डीकरणं भवेत् । तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः ।। इति । अत्र विशेषमाह मदनरत्ने गौतमः- अदेवं पार्वणश्राद्धं सोदकुम्भं सधर्मकम् । कुर्यात्प्रत्यान्दिकाच्छ्राद्धात्सङ्कल्पविधिनाऽन्वहम् ।। पिण्डदानं चात्र वैकल्पिकम् । तथाच पारस्कर:- अहरहस्तमस्मै ब्राह्मणायोदकुम्भं च दद्यात् पिण्डमप्येके पृणन्ति ' इति । अथ सपिण्डनम् । एवं वृपोत्सर्गसहितानि षोडशश्राद्धानि कृत्वा ततः सपिण्डीकरणं कुर्यात् । सपिण्डीकरणस्याष्टौ कालाः- भारते-सपिण्डीकरणं कुर्याद्यजमानस्त्वनग्निमान् । अनाहिताग्नेः प्रेतस्य पूर्णेऽब्दे भरतर्षभ ।। द्वादशेऽहनि षष्ठे वा त्रिपक्षे वा त्रिमासि वा । एकादशे वाऽपि मासे मङ्गलं स्यादुपस्थितम् ।। एते च सप्तकाला उभयोरनग्नित्वे इच्छया विकल्प्यन्ते । 'पष्ट' इत्यत्र व्यवहितमपि 'मासि' इत्यनुषज्यते । सन्निहितपक्षपदानुषते 'त्रिमासि ' इत्यनेन पौनरुत्त्यापातात् । 'त्रिपक्षे त्रिमासि' इत्यादौ घूरणप्रत्ययार्थविवक्षया तृतीये पक्षे तृतीये मासे पूर्णे इत्यर्थः । हेमाद्रौ तु 'त्रिमासं विहाय षडेवानाहिताग्नेः कालाः ' तत्रापि 'अब्दान्ते अभ्यु- दयागमे च ' इति द्वौ मुख्यावन्येऽनुकल्पा इत्युक्तम् । बौधायन:-अथ संवत्सरे पूर्णे सपिण्डीकरणं त्रिपक्षे वा तृतीये वा मासि षष्ठे वैकादशे १ येषु पुस्तकेषु वृषोत्सर्गमृतशय्यादानोदकुम्भश्राद्धप्रकरणानि न संति तेषु दृश्यत इयं पंनिः। २ न. कालादर्श महाभारते माधवीये भविष्ये चेति पाठः ।

दिमावः । - वा द्वादशे वैकादशाहे वेति । पैठीनसिः-संवत्सरान्ते विसर्जनं नवममा- स्यामित्येक इति । विष्णु:-मासिकार्थवहादशाह श्राद्धं कृत्वा त्रयोदशेहि श्राद्धं कुर्यान्मन्त्रवर्ज शूद्राणां द्वादशेहि संवत्सराभ्यन्तरे यद्यधिमासो भवेत्तदा मासिकार्थदिनमेकं वर्धयेदिति । अयमर्थ:-आशौचोत्तरं द्वादशस्वहस्सु द्वादश मासिकानि तेष्वेवाद्यद्वितीयपष्टद्वाहादिननमा- सिकपक्षिकोनषाण्मासिकोनादिकानि कृत्वा त्रयोदशऽह्नि सपिण्डी- करणं कुर्यात् । तथा च मरणदिनात्त्रयोविंशतिमे चतुर्विशतिमे वा दिवसे विप्रस्य सपिण्डीकरणम् । यदा प्रेतोऽग्निमान्कर्ता च न तदा लघुहारीत:- अनग्निस्तु यदा वीर भवेत्कुर्यात्तदा गृही। प्रेतश्चेदग्निमांस्तु स्यात्रिपक्षे वै सपिण्डनम् ।। इति । ताशस्त्रिपक्ष एव कुर्यान्नान्यत्र इति नियमः । उत्सृष्टाग्मण्येवम् । यदा दंपत्योरन्यतरस्य पूर्वमरणेनामयः प्रतिपादितास्तदेतरस्य साग्नि- वाभावात्कालान्तरे तन्मरणे न त्रिपक्षनियमः । विच्छिन्नामेस्तु आत्म- न्यग्निसद्भावात्तस्य साग्नित्वे त्रिपक्ष एव । अत्र हेमाद्रिणा पूर्ण संवत्सरे पण्मासे त्रिपक्षे वा इति गोभिलवाक्ये पूर्णपदं पण्मासादिष्वन्वेती. युक्तम् , तदनुपने प्रमाणाभावादुपेक्ष्यम् । पूर्णेऽन्दे इत्यत्र तूत्तरेऽन्हि, ततः सपिण्डीकरणं वत्सरादूर्ध्वतः स्थितम् । इति नागरखण्डोक्तेः, पितुः सपिण्डीकरणं वार्षिके मृतवत्सरे। इत्युशनःस्मृतेश्च । अत्र पठादिमासाश्चान्द्रा एवं ग्राह्याः- आब्दिके पितृकार्ये च चान्द्रो मासः प्रशस्यते ।। इति गक्तेिः । ते च त्रिंशत्तिथिस्वरूपा एव न शुल्लादिदर्शान्ता:- मस्यन्ते परिमीयन्ते स्वकलावृद्धिहानितः । स एमाते स्मृता मासाविंशत्तिथिसमन्विताः ॥ इति सिद्धान्तशिरोमणिवचनात् । तेन पटमासादिपु चिकीपिते सपिण्डीकरणे यदि मध्ये मलमासो गतः स्यात्तदा तमादायैव गणना कर्तव्या न तु षष्टिदिनात्मैको मासः । यत्तु- षष्टयादिदिवसैमासः कथितो बादरायणैः । पूर्वमध परित्यज्य कर्तव्या चोत्तरे क्रिया ।। - । - सपिण्डनम् । - तत् 'श्रावणे वर्जयेच्छाकम् ' इत्यादिचातुर्मास्यादिगतव्रतविषयम् । यदपि ' चान्द्रः शुक्लादिदर्शान्तः' इति ब्रह्मसिद्धान्तवचनम् , तदपि मासविशेषपुरस्कृतमघादिश्राद्धविषयम् । अन्यथा कृष्णाष्टम्यादौ मृतस्य मासिकोनमासिकद्वितीयमासिकत्रैपक्षिकतृतीयमासिकचतुर्थमासिकेत्या- दिहेमाद्रयुदाहृतसूत्रे मासिकाद्यनन्तरं विहितस्योनमासिकस्य दर्शात्पूर्व त्रयोदश्यादावनुष्ठानमापद्येत । दशैं चान्द्रमासस्य समाप्तत्वात् । एवमून- पाण्मासिकोनाब्दिके पाण्मासिकद्वादशमासिकोत्तरं त्रयोदश्यादावापाये- याताम् । नचैतदिष्टम् । कृष्णचतुर्दश्यां मृतस्य कृष्णत्रयोदश्यादावूनषा- मासिकोनाब्दिकापत्त्योदाहृतसूत्रविरोधः स्यादिति । स्वयं साग्निको निरग्निकस्य सपिण्डनं द्वादशाहे कुर्यात् । तथाच भविष्यत्पुराणे- यजमानोऽग्निमान् राजन प्रेतश्चानग्निमान् भवेत् । द्वादशाहे तदा कार्य सपिण्डीकरणं सुतैः ।। कात्यायन:- एकादशाहं निवर्त्य पूर्व दर्शाद्यथाविधि । प्रकुर्वीताग्निमान्विप्रो मातापित्रोः सपिण्डताम् ।। हारीत:- या तु पूर्वममावास्या मृताहादशमी भवेत् । सपिण्डीकरणं तस्यां कुर्यादेव सुतोऽग्निमान् ॥ इति । दशमी रात्रिस्ततः परा यामावास्या तस्यामित्यर्थः । अतः साग्निक-. कर्तृके सपिण्डीकरणे द्वादशाहो दशाहात्परतो यत्किञ्चिद्दिनं दशाहा- त्परतोऽमावास्या च, इति त्रयः कालाः इति हेमाद्रौ । कालादर्शमाध-. वयोस्तु 'मृताहादूर्ध्व दिनमारभ्य दशमी ' इति व्याख्यानादेकादशाहा- मावास्येति द्वावेव कालौ, इति । उभयोः साग्निकत्वे द्वादशाह एव, साग्निकस्तु यदा कर्ता प्रेतश्चाप्यग्निमान् भवेत् । द्वादशेऽह्नि तदा कार्य सपिण्डीकरणं पितुः ।। इति विज्ञानेश्वरमाधवाभ्यां स्मरणादित्युदाहृतत्वात् । हेमाद्रिणा विदं नाले खि। अत्र च सान्यनग्निपदान्याहिताग्न्यनाहिताग्निपराणि । प्रेतश्चेदाहिताग्निः स्यात्कर्ताऽनग्निर्यदा भवेत् ।' इति सौमन्तवा- क्यात । एवं चौपासनाग्निमतो न नियमेन द्वादशाहे किन्तु यस्मिन्क- मिश्चिकाले इति । तदा पिण्डपितृयज्ञो लुप्यते दशाहमध्यवर्तिवत् । * श्राद्धमयूखः नथा पितृव्यतिरिक्तस्य साग्नेः सपिण्डीकरणे साग्नेः कर्जुन द्वादशाहनि- यमः । वाक्ये पितृग्रहणात् । एवमपुत्राहिताग्नेर्यदा पत्नी की तदाऽपि नायं नियमः । एवमाधाने सहाधिकृतायाः पत्न्याः पतिः करोति तदा- ऽपि न त्रिपक्षनियमः । सर्वेषु वाक्येषु कचित् ' पितुः कचित् पुत्रैः 'क्वचिन् ' पित्रोः' इति श्रवणात् । अतो न तत्र नियमः । अन्त्येष्टिपद्धतौ व्यासः- आनन्त्यात्कुलधर्माणां पुंसां चैवाऽऽयुषः क्षयात् । अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ॥ इति । कुलधर्माणां सपिण्डीकरणं विनानुष्ठातुमशक्यानां प्रथमतृतीयवर्षाद्य- नुष्यचूडाकरणादीनामन्येषां वाचारप्राप्तानां वृद्धिश्राद्धानङ्गकानामपि ग्रहणं शिष्टाचारान् । इदं वचनं कर्तृप्रेतयोरुभयोरनग्नित्वे साग्नित्वे कलमात्रस्य वा साग्नित्वे द्वादशाहस्य पूर्वोक्तवचनैः प्राप्तत्वात् प्राशस्त्यं बोधयति । प्रेतमात्रस्य साग्नित्वे तु त्रिपक्ष एव नियतः पूर्वोक्तवच- नामामो न तत्र द्वादशाहप्राशस्त्यम् । एते च कालास्वर्णिकान्प्रति । शुद्रस्य इशाहाशौचपक्षे तु द्वादशाह एव । तथा च सपिण्डनमधिकृत्य विष्ण:- मन्त्रवजै तु शूद्राणां द्वादशेऽहनि कीर्तितम् ॥ इति । अब्दान्तात्पूर्वमेव सपिण्डने क्रियमाणे षोडशश्राद्धानि स्वकालकृता- वशिष्टानि वाऽपक्रष्टव्यानि । तथाच वृद्धवसिष्ठः- श्राद्धानि षोडशाकृत्वा न तु कुर्यात् सपिण्डनम् ।। इति । सपिण्डीकरणोत्तरे च स्वकाले तान्यावर्तनीयानि- यस्य संवत्सरादाग्विहिता तु सपिण्डता । विधिवत्तानि कुर्वीत पुनः श्राद्धानि षोडश ॥ इति गोभिलोक्तेः । तानि तु वार्षिकवत्कार्याणि- सपिण्डीकरणादाकुर्याच्छ्राद्धानि षोडश । एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु ।। सपिण्डीकरणादृय यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि । इति पैठीनसिस्मृतेः । सपिण्डीकरणप्राग्भाविनां तु नाऽऽवृत्तिः- - - - सपिण्डनम्। - अर्वागब्दाद्यत्र यत्र सपिण्डीकरणं कृतम् । तदूर्घ मासिकानि स्युर्यथाकालमनुष्ठितिः ॥ इति कार्णाजिनिस्मृतेः । सपिण्डीकरणोत्तरकर्तव्यान्येव चानुमा- सिकसज्ञानि तान्यपि वृद्धिप्राप्तावपक्रष्टव्यानि । तथा च माधवीये शाट्यायनि:- सपिण्डीकरणादागपकृष्य कृतान्यपि । पुनरप्यपकृष्यन्ते वृद्ध्युत्तरनिषेधनात् ॥ इति । निषेधस्तु 'निर्वयं वृद्धितन्त्रं तु मासिकानि न तन्त्रयेत् ' इति । " अयातयामं मरणं न भवेत्पुनरस्य तु" इति कात्यायनोक्तेः । शाट्यायनिः- प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा । अपकृष्यापि कुर्वीत कर्ता नान्दीमुखं ततः ॥ वृद्धिव्यतिरेकेणापकर्षे प्रत्यवायमाहोशना- वृद्धिश्राद्धविहीनस्तु प्रेतश्राद्धानि यश्चरेत् । स श्राद्धी नरके घोरे पितृभिः सह मजति ॥ इति यत्तु मिताक्षरायाम्-'अब्दान्तः सपिण्डने षोडश श्राद्धानि सपि- ण्डनोत्तरं कार्याणि " इति मुख्यः पक्षः 'प्राक् ' इति तु गौण इत्यु- क्तम् । तन्न । पूर्वोक्तवृद्धवसिष्ठशाट्यायन्यादिवचोविरोधात् । वर्षोंत्तर- दिनेऽप्यकृते सपिण्डने गौणकालानाह कालादर्श ऋष्यशृङ्गः सपिण्डीकरणश्राद्धमुक्तकाले न चेत्कृतम् । रौद्रे हस्ते च रोहिण्यां मैत्रभे वा समाचरेत् ॥ इति । रौद्रमार्दा मैत्रमनुराधा । सपिण्डीकरणप्रकारमाह याज्ञवल्क्यः- गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । अार्थ पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ येसमानाइति द्वाभ्यां शेषं पूर्ववदाचरेत् ॥ इति । प्रेतपात्रोदकं सावशेषं त्रिष्वपि पितृपात्रेष्वासिच्य प्रेताय॑पात्रोद- कावशिष्टेन प्रेतस्थानविप्रहस्तेऽयों देय इति पितामहचरणाः । कात्या- यनोऽपि 'ततः संवत्सरे पूर्णे चत्वारि पात्राणि सतिलगन्धोदकैः पूरयि- त्या त्रीणि पितृणामेकं प्रेतस्य प्रेतपात्रं पितृपात्रेष्वासिञ्चति येसमाना- इति द्वाभ्यामेतेन पिण्डो व्याख्यातः' इति । चतुर्विशतिमते- - -- १४४ श्राद्धमयूखः - चत्वारीहार्यपात्राणि अर्चयेत्पूर्ववच्छुचिः । प्रेतपात्रं पितृणां तु पात्रेषु निर्वद्भुवः ।। मधुवाता ऋचं जम्बा संगच्छध्वमिति ग्रुवन् । ये समाना इति द्वाभ्यां कंचिदिच्छन्ति सूरयः । एवं पिण्डेपु कर्तव्यं चरमं तु विसर्जयेत् ।। इति । व्युत्क्रममृतस्य गोब्राह्मणादिहतस्य च सपिण्डनं नास्ति- व्युत्क्रमाच्च प्रमीतानां नैव कार्या सपिण्डता ॥ इति मिताक्षरोदाहृतस्मृतः । व्युत्क्रममृतपुत्रेण दर्शादौ पितामहादी- नामेव पार्वणं कार्यम्- ब्राह्मणादिहते ताते पतिते संगवर्जिते । व्युत्क्रमाच मृते देयं येभ्य एव ददात्यसौ ॥ इति कात्यायनोक्तेः । यत्तु मनुः-- पिता यस्य तु वृत्तः स्याजीवचापि पितामहः । पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम् ।। इति । तन्न पितृप्रपितामहवृद्धप्रपितामहोद्देश्य कपार्वण विध्यर्थे किन्तु पितुः पितामहप्रपितामहवृद्धप्रपितामहेभ्यः इति प्रयोगनियमाथै पितुर्नाम गृहीत्वा तत्सम्बन्धित्वेन स्वप्रपितामहाद्या उद्देश्या इत्यर्थः । एतादृश- पार्वणेन च सह पितुरेकोद्दिष्टमपि कार्यम् । यस्य पिता प्रेतः स्या- त्स पित्रे पिण्डं निधाय पितामहात्पराभ्यां दद्यात् " इति विष्णूक्तेः । एतस्यायमर्थः--पितामहे ध्रियमाणे प्रेते च पितरि पितुरेकं पिण्डम- कोद्दिष्टविधानेन विधाय पितुर्यः पितामहस्तत्पराभ्यां द्वाभ्यां दद्यान, पितामहस्त्वात्मनः प्रपितामहः संप्रदानभूतः स्थित एवेति प्रतितामहाय पराभ्यां द्वाभ्यां च दद्यादिति मिताक्षरायाम् । ' एताभ्यामेत्र ष्णुवचोभ्यां व्युत्क्रममृतादीनामपि सपिण्डनं भवति' इति स्मृ- न्द्रकादिषु । 'पितुर्नाम संकीर्य पितरं देवतात्वेनोदिश्य प्रपितामह दिकांस्त्रीनुदिशेत्' इति तन्मते मानवस्यार्थः । · पित्रे पिण्डं निधाय जामहात्पराभ्याम् ' इति 'तृतीयस्याप्युपलक्षणम् । इति वैष्णवन्यार्थः। त्यर्थसारे तु एतद्वयमप्युक्तम् । विभक्तैरप्येतन्न पृथक्कार्य किन्नु ज्येष्ठनैव- नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च पोहा । एकेनैव तु कार्याणि संविभक्तधनेष्वपि । " . .

सपिण्डनम् । इति स्मृतेः । ज्येष्ठे प्रवसति तु तद्भिन्नेन येन केनापि दशाहान्तम- वश्वं कार्यम् । कनिष्ठपुत्रपौत्रप्रपौत्रदौहित्रादिभिस्त्वेकादशाहिकमपि कार्यम् । यत्त्वन्त्येष्टिपद्धती- कनीयसा कृतं कर्म सपिण्डीकरणं पुनः । तज्ज्यायसाऽपि कर्तव्यं प्रेतशब्दं विहाय तत् ।। इति तत्, प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु । आहितान्नेः सिनीवाल्यां पितृयज्ञः प्रवर्तते ॥ इति मनुवचसा सानिककनीयांसं प्रति पिण्डपितृयज्ञानुरोधेन स- पिण्डनापविधानात्तं प्रति बोध्यम् । इदं हि वचः पितृयज्ञस्य प्रमा- जान्तराप्राप्तसपिण्डनत्रयोजकत्ववोधनेनैवार्थवन्न प्रकारान्तरेण, अन्य- स्यैतद्वाक्योपात्तस्यार्थस्य प्रमाणान्तरैः प्राप्तत्वादिति केचित् । तन्न । सत्यमेवमर्थवदेतद्वाक्यम् परन्तु क्लृप्ताधिकार ज्येष्ठं प्रत्येव चरितार्थ जालनं कनीयसोऽधिकारमपि कल्पयति, गौरवात् । अतः, भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव च । सहपिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः ॥ इति पूर्वलिखितवाक्येन भ्रातृपुत्रादिपदैः 'अर्द्धमन्तर्वेदिमिनोति । इत्यादिवल्लक्षणयाऽऽभ्युदयिककर्तृमात्रस्य सपिण्डनाधिकारबोधेन कनी- सोऽपि प्राप्तेस्तद्विषयं कनीयसेति वाक्यम् । ऋद्धिकामस्य कनीयसोपि स्मृत्यर्थसारे पृथगधिकारबोधनात्तद्विषयं वा । परन्तु कनीयसेत्या- दिवाक्ये मूलं मृग्यम् । 'न गिरागिरेति ब्रूयादैरं कृत्वोदेयम्' इति वद्य- तीनामेकोद्दिष्टस्थाने पार्वणमाहोशना- एकोद्दिष्टं न कुर्वीत यतीनां चैव सर्वदा । अहन्येकादशे प्राप्त पार्वणं तु विधीयते ।। इति । ब्राह्मदेवार्पप्राजापत्यान्यतमविवाहोढायास्तु सपिण्डनं तच्छुत्रवादि- भिः सह । आसुरगान्धर्वराक्षसपैशाचान्यतमोढायास्तु मातामहादिभिः सह इति मिताक्षरादिपु स्पष्टम् । सहगमने तु विवाह दमतन्त्रीकृत्य भर्ना सह कार्यम- भी चकन कर्तव्यं सपिण्डीकरणं पुनः । सा मृताऽपि हि तेनैक्यं गता मन्त्राहुतिव्रतैः ।। इति स्मृतः । नत्र सहगमनभिन्नप्रकारेण मरणे पुरुषवदेव संयोजना - श्रादमयूखः सहगमने तु विश्वदेवस्थाने एकं विप्रं द्वौ वोपवेश्य भर्तुः स्थान एक तस्याश्च स्थाने परं पितामहादीनां च त्रीनेकं वोपवेश्य द्वयोः प्रेतयो- द्वैयं पितामहादीनां च त्रयमिति पञ्चाय॑पात्राण्यासाद्य जलेनापूर्य पत्नीपात्रोदकं सशेषं भर्तृपात्र आसिच्य भर्तृपात्रोदकं च सशेषं पिता- महादिपात्रेष्वासिच्य भर्तृपात्रशेषेण भने पत्नीपात्रशेषेण पत्न्यै पिताम- हादिपात्रोदकैश्च पितामहादिभ्योऽयं दद्यात् । एवं भत्रे तत्पत्न्यै पि. तामहादिभ्यश्चेति पञ्च पिण्डान् दत्त्वा पत्नीपिण्डं संपूर्ण भर्तृपिण्डेन संपूर्णेन संयोज्य संयोजितं च संपूर्ण त्रेधा विभज्य शकलत्रयं पितामहा- दिपिण्डेषु योजयेत् । न च पितृभावापन्नेनैव सपिण्डनं न प्रेतेन इति नियमो मानाभावादिति सङ्केपः । यदि मृतस्य भिन्नमातृका अनेके पुत्राः स्युस्तदा सर्वज्येष्ठ एव पितुरोर्वदेहिकं कुर्यात् । अन्वारूढाया- स्तु कनीयानपि साक्षात्पुत्र एव सर्व पृथक्कर्यात् न सपत्नीपुत्रो ज्येष्ट एव । तस्मिंस्तन्निरूपितपुत्रत्वाभावात् । दाहस्त्वेकस्यामेव चितौ । सपि- ण्डनं तु ज्येष्ठेन पितुरेव केवलं पितामहादिभिः । कनिष्ठन तु मातु: पितृसपिण्डनदिन एव दिनान्तरे वा कार्यम् । अत्र एकदिनसपिण्डन- पक्षे दिनान्तरपक्षे वा पितृसपिण्डनोत्तरमेव । संभवति पितृभावापन्नेन संयोजने प्रेतसंयोजनायोगादिति केचित् । तत्रापि मातुः पितुश्चेत्येको- द्दिष्टद्वयमेव । मातुरेकोद्दिष्टं पित्रादीनां पार्वणमिति तु साम्प्रदायिकाः । अयं सर्वोऽपि सपिण्डनविधिरमन्त्रकः शूद्राणामपि भवति । इति सपिण्डनम् । अथाभ्युदयिकश्राद्धम् । मार्कण्डेयपुराणे- नैमित्तिकमथो वक्ष्ये श्राद्धमभ्युदयात्मकम् । पुत्रजन्मनि तत्काय जातकर्मसमं नरैः ।। नैमित्तिकजातकर्मपदाभ्यां पुत्रजन्मनिमित्तकमेव श्राद्धं न तु जातकर्मालमित्युच्यते । अत एव कर्मप्रदीपे- नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते । न सोष्यन्तीजातकर्मप्रोषितागतकर्मसु । सुखप्रसवार्थ सोष्यन्तीकर्म । प्रोषितागते च पुत्रे पितुः कर्म छन्दो- गसूत्रे प्रसिद्धम् । यत्तु हेमाद्रौ- आभ्युदयिकश्राद्धम् । - - वृद्धिश्राद्ध तु कर्तव्यं जातकर्मादिकेषु वै ॥ इति । तत्राप्यतद्गुणसंविज्ञानो बहुव्रीहिः । अतः पुत्रजनने केवलनैमित्तिक- मेव श्राद्धं न जातकर्माङ्गम् । अन्येषु तु कर्मस्वङ्गम् । तथाच हेमाद्रौ जाबालि:- यज्ञोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः । पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत् ॥ इति विष्णुपुराणे- कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः । नामकर्मणि बालानां चूडाकर्मादिके तथा । सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणमर्चयेत्प्रयतो गृही ।। इति । तत्रैव कालादर्श लौगाक्षिः- नामानचौलगोदानसीमोपनयपुंसवे । स्नानाऽऽधानविवाहेषु नान्दीश्राद्धं विधीयते ॥ वृद्धगाय:- अग्याधानाभिषेकादाविष्टापूर्ते स्त्रिया ऋतौ । वृद्धिश्राद्धं प्रकुर्वीत आश्रमग्रहणे तथा । जातस्य जातकर्मादि क्रियाकाण्डमशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥ जातकर्मादिक्रियाकाण्डमपत्यसंस्काराः । पुत्रस्येति पुंस्त्वमविव- क्षितम् । अनुवाद्यगतत्वात् । अतः कन्याया अपि भवति । तच्च समत्रकमेव । मनबाधे मानाभावात् । यत्तु जातकर्मादिसंस्कारानुक्त्वा याज्ञवल्क्यः-तूष्णीमेताः क्रियाः स्त्रीणाम् , इति तत्प्रधानाङ्गमत्रबा- धार्थम् । यदि हि 'अप्सवभृथेन चरन्ति' इतिवत्तृतीयान्तेन साङ्गभावना- मुक्त्वा तस्यां तूष्णीत्वं विधीयेत ततः स्यादङ्गमन्त्रबाधः । इह तु 'यज्ञा- थर्वणं वै काम्यइष्टयस्ता उपांशु कर्तव्याः' इत्यत्रेष्टीनामिव क्रियाणां प्रथमान्तपदोपात्तत्वात् प्रधान एव कन्याजातकर्मादौ वृद्धिश्राद्धं समत्र शातातपः- नानिष्वा तु पितॄन् श्राद्धे कम् १४८ श्राद्धमयूखः इति तद्यत्र प्रातिस्विकवाक्यैर्नान्दीश्राद्धमुक्तं तत्रैवोपसंहियते । अथवा वाक्यान्तरप्राप्तकर्माङ्गत्वे एतत्पूर्वकालतामात्रमेव बोधयति न कर्माङ्गता- मपि । अतो न सन्ध्यावन्दनादावतिप्रसङ्गः । पक्षद्वयेऽपि 'नाष्टकासु भवे- च्छ्राद्धम् ' इत्यादि पूर्वोक्तं कर्मप्रदीपवचो नित्यानुवादकमेव न निषेध प्रात्यभावात्।प्रधानावृत्त्या प्राप्ताया नान्दीश्राद्धावृत्तेरपवादःकर्मप्रदीपे- असकृद्यानि कर्माणि क्रियेरन् कर्मकारिणः । प्रतिप्रयोग नैताः स्युर्मातरः श्राद्धमेव च ॥ आधानहोमयोश्चैव वैश्वदेवे तथैव च । बलिकर्मणि दर्शे च पौर्णमासे तथैव च ।। नवयज्ञे च यज्ञज्ञा वदन्त्येवं मनीषिणः । एकमेव भवेच्छ्राद्धमतेषु न पृथक् पृथक् ॥ इति । असकृत्पुनःपुनरित्यर्थः । प्रतिदिनं प्रतिमासं प्रत्यब्दं चेति यावत् । नवयज्ञ आग्रयणेष्टिः ॥ 'आधान' इत्यादिश्लोकद्वयं पूर्वोक्तकर्मणा- मेव विवरणार्थं न पृथम्वाक्यम् । अतो ज्योतिष्टोमादिषु प्रतिप्रयोग भक्त्येव वृद्धिश्राद्धम् । होमादिनवयज्ञपर्यन्तेषु न पृथक्त्राद्धं किन्तु आधानादौ कृतमेकमेव श्राद्धमुपकरोतीति नारायणः । यदा तु नामकर्मान्नप्राशनचौलोपनयनकर्माण्येकस्य शिशोरेककाले क्रियन्ते तदा वृद्धिश्राद्धं तन्त्रेणैव कार्यम् । तथा च तत्रैव- गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत् । सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु ।। यत्र यत्र भवेच्छ्राद्धं तत्र तत्र च मातरः ।। पूज्या इति शेषः । 'अनेकेषां पुंरूपाणां स्त्रीरूपाणां वाऽपत्यानां सजा- नीयविजातीयानकोपनयनोद्वाहादिसंस्कारे देशकालक.क्याद्वृद्धिश्राद्धं श्रेणेति कश्चित् , तत्तुच्छम् । यथा योगसिद्धाधिकरणे सर्वफलार्थतया द्धस्यापि ज्योतिष्टोमादेरेकस्मात्प्रयोगादेकमेवफलं नानेका नि, एकया सामग्र्या एकमेव कार्य जन्यत इति नियमादित्युक्तम् ; तथेहाप्युपनयन- विवाहादिजन्यपरमापूर्वाणामनेकतत्तत्संस्कार्यनिष्ठत्वेन तदङ्गाभ्युदयिक- श्राद्धजन्यानामङ्गापूर्वाणामपि तनिष्ठतापत्तः, न च तत्संभवति पूर्वो- क्तनियमविरोधात् । अतः पृथगेव वृद्धिश्राद्धमिति दिक् । तत्रैव- कर्मादिषु च सर्वेषु मातरः सगणाधिपाः । पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ।। ।

आभ्युदयिकाइम्। ताश्च विशिष्य स्मृत्यन्तरे उक्ताः- गौरी पद्मा शची मेधा सावित्री विजया जया देवसेना स्वधा स्वाहा मातरो लोकमातरः। धृतिः पुष्टिस्तथा तुष्टिः कुलदेवतया सह । विनायकेन सहिताः पूजनीयाः प्रयत्नतः।। इति । अत्र विशेषः कर्मप्रदीपे- प्रतिमासु च शुभ्रासु लिखित्वा वा पटादिषु । अपि वाऽक्षतपुजेषु नैवेद्यैश्च पृथग्विधैः ॥ कुड्यलग्नां वसोर्धारां सप्तवारं घृतेन तु । कारयेत्पञ्चवारान्वा नातिलम्बां नचोच्छ्रिताम् ।। आयुष्याणि च शान्त्यर्थे जप्त्वा तत्र समाहितः । षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत् ॥ वसोर्टागसु च-ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराहीन्द्राणी चामुण्डाख्या देवताः पूजयन्ति शिष्टाः । 'षड्भ्यः' इति गोभिलीया. प्रति, तत्सूत्रे पार्वणद्वयाम्नानादिति नारायणवृत्तिकृत् । कातीयानाम- 'येवमिति केचित् । मत्स्यपुराणे- उत्सवानन्दसन्ताने यज्ञोद्वाहादिमङ्गले । मातरः प्रथम पूज्याः पितरस्तदनन्तरम् ॥ ततो मातामहाः पूज्या विश्वेदेवास्तथैव च । चतुर्विशतिमते- मातामहीस्ततः केचिद्युग्मा भोज्या द्विजातयः ॥ इति । ततो मातामहपार्वणानन्तरम् । अत्र बहुवचनान्तैः शब्दैस्तदाद्या- खयउच्यन्ते। मात्रादयश्च मनुष्यपितरः प्राधान्येनोद्देश्याः । 'ऊर्ध्व- वास्तु ये तत्र ते नान्दीमुखसंज्ञिताः' इति । नान्दीमुखा दिव्य- पितरस्त्वभेदविवक्ष्योदेश्यस्वरूपेन्तर्भावनीयाः । कर्माङ्गाभ्युदयिकेऽप्येता एव देवता:- निपेककाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने श्राद्धं कर्माकं वृद्धिवत्कृतम् ।। इति वचनेन गर्भाधानाद्यङ्गभूतपारिभाषिककर्माङ्गश्राद्धे वृद्धिश्राद्ध- देवनातिदेशात् । प्रौष्टपदपौर्णमासीश्राद्धे तु विशेष उक्तो ब्रह्मपुराणे- ..

१५० श्राद्धमयूखः - -- पिता पितामहश्चैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा ह्येते पितरः संप्रकीर्तिताः। तेभ्यः पूर्वे त्रयो ये तु ते तु नान्दीमुखाः स्मृताः ।। इति । अन्यकर्तृके तु कात्यायनः- खपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु । पिण्डानोद्वाहनात्तेषां तस्याभावे तु तत्क्रमात् ।। 'अत्र पितामहादिः कन्याप्रदः स्वपितृभ्य एव दद्यात् । तस्याभावे तु तत्क्रमात् ' इत्यत्र स्वपितृभ्य इत्यस्यानुषङ्गात् । इति हेमाद्रिः । तं पित- रमारभ्य यः संस्कार्यस्य पितॄणां क्रमस्तेन क्रमेण दद्यात् न तु स्वकीयेभ्यः पितृभ्यः इति वाचस्पतिमिश्राद्याः। ये पुनराहत्यवचननानुक्ताधिकारास्ते तदीयेभ्य एव पितृभ्यो दद्युः । कालादर्श हारीत:- अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि । येभ्य एव पिता दद्यात्तानेवोद्दिश्य पार्वणम् ॥ अतश्च साग्निकस्यैव जीवपितृकाधिकारबोधके वाक्ये साग्निक- ग्रहणमुपलक्षणम् । वसिष्ठः- पूर्वेद्युर्मातृकं श्राद्धं कर्माहे पैतृकं तथा । उत्तरेयुः प्रकुर्वीत मातामहगणस्य तु ॥ वृद्धशातातपः- पृथग्दिनेऽप्यशक्तश्चेदेकस्मिन्पूर्ववासरे । श्राद्धत्रयं प्रकुर्वीत वैश्वदेवं तु तान्त्रिकम् ।। वृद्धमनु:- अलाभे भिन्नकालानां नान्दीश्राद्धत्रयं बुधः ॥ पूर्वेावै प्रकुर्वीत पूर्वाहे पितृपूर्वकम् । छागलेयः- एकैकस्य तु वर्गस्य द्वौ द्वौ विप्रौ समर्चयेत् । विश्वदेवे तथा द्वौ च न प्रसज्येत विस्तरे ।। भविष्ये- पूर्वाह्ने भोजयेद्विप्रानष्टौ सर्व प्रदक्षिणम् । तथा च नवमं विप्रं चतुरस्त्रे खगेश्वर ॥ - - १ न. इत्यन्ये । हेमाद्रिस्तु तं "पितृभ्यःइति । ये पुनराहत्येति पाठः ।

आभ्युदयिकश्रादम्। चतुरस्र पाद्याथै मण्डलं तदुपलक्षितं पायं तस्मिन्क्रियमाणे योऽति- थिरागच्छेत्तं नवमं भोजयेदित्यर्थः । तत्रैव पक्षान्तरम् । नान्दीमुखान्समुद्दिश्य पितृन्पञ्च द्विजोत्तमान्- भोजयेद्विधिवत्प्राज्ञ वृद्धिश्राद्धे प्रदक्षिणम् ।। वृद्धवसिष्ठः मातृश्राद्धे तु विप्राणामलामे पूजयेदपि । पतिपुत्रान्विता भन्या योषितोऽष्टौ मुदान्विताः ।। कात्यायन:- - सदा परिचरेद्भक्त्या पितृनप्यत्र देववत् । निपातो नहि सव्यस्य जानुनो विद्यते कचित् ।। मधुमध्विति यस्तत्र निर्जपोऽशितुमिच्छताम् । गायत्र्यनन्तरः सोऽत्र मधुमन्त्रविवर्जितः ॥ अल्प एव जपः कार्यः सोमसामादिकः शुभः । यस्तत्र विकिरोऽन्नस्य तिलवान्यववांस्तथा । उच्छिष्टसन्निधौ सोऽनं तृप्तेषु विपरीतकः।। 'देवपात्रान्तिके तिलवान् पितृपात्रान्तिके यववान् ' इत्यर्थः । पद्मपुराणे- तिलार्थस्तु यवैः कार्यः सव्येनैवानुपूर्वशः ।। ब्रह्माण्डे- स्वाहाशब्दं प्रयुञ्जीत स्वधास्थाने च बुद्धिमान् । वृद्धिश्राद्धे सदा सव्यं यज्ञसूत्रं च कारयेत् ।। कुशस्थाने च दूर्वाः स्युर्मङ्गलस्याभिवृद्धये । प्राङ्मुखो देवतीर्थेन वृद्धौ परिचरेपितॄन् । सन्येनैवोपवीतेन क्षिप्रं देशविमार्जनम् ।। पार्वणवदासायं न प्रतीक्ष्यमुच्छिष्टदेशमार्जनमित्यर्थः। कात्यायन:- प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा । उपविश्य कुशान् दद्याहजुनैव हि पातितान् ।। उभयतः प्राङ्मुखानुदङ्मुखांश्च । तथा च भविष्यपुराणे- प्राङ्मुखांश्चतुरश्चैव चतुरश्च उद्ङ्मुखान् ॥

१५२ श्राद्धमयूखः - । छान्दोग्ये ' चत्वार्येवाघपात्राण्याभ्युदयिके' इति । ब्रह्मपुराणे- नान्दीमुखान् पितन भक्त्या साञ्जलिश्च समाह्वयेत् । पठेत्पवित्रं मन्त्रं तु विश्वे देवास आगतः ॥ कात्यायन: पात्राणां पूरणादीनि देवे'नेह तु कारयेत् । ज्येष्ठोत्तरवरान्युग्मान्कराग्रामपवित्रकान् ।। युग्ममध्ये ज्येष्ठस्य करो द्वितीयविप्रकरस्योत्तरो येषु ते तथा करा- ग्रेऽयं पवित्रस्य येषु । आश्वलायनगृह्यपरिशिष्टे 'सोपयामानि चत्वारि पात्राणि शन्नोदेवीरित्यनुमत्रितासु यवानावपति यवोऽसि सोमदेवत्यो गोसवे देवनिर्मितः प्रत्नवद्भिः प्रत्तः पुष्ट्या नान्दीन लोकान् प्रीण- याहि नः स्वाहा विश्वेदेवा इदं वोऽयं, नान्दीमुखः पितरः इति यथा- लिङ्गमयंदानं पितरः प्रीयन्तामिति अपां प्रतिग्रहणं चैवमुत्तरयोरपि पितामहप्रपितामहयोः' इति । सोपयामानि सहायभूतपात्रान्तरसहि- तानीत्यर्थः । सर्वं द्विह्निः इति । गन्धादिकमेकैकत्र द्विदियम् । नित्यं वाऽग्नौकरणं स्वाहाकारेण होमश्च । अग्नौकरणमित्यस्याग्रे पाठान्तरम 'पाणौ होमोऽग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहा इति । तथा पृषदाज्यमिश्र ओदनो हविः सर्वत्र, तस्याद्धे द्वे द्वे आहुती जुहुयात् ' इति । सर्वत्र अन्नकार्य, दधिमिश्रमाज्यं पृषदाज्यम् । भविष्य- त्पुराणे- पृषदाज्येन संयुक्तं दद्यादोदनमादितः । पायसं च तथा भव्य मोदकादिरसोत्तरम् ।। मधुरं भोजनं दद्यान्न चाऽम्लं परिवेषयेत् । चन्द्रिकायां प्रचेताः- न जपेत्पैतृकं जप्यं न मांसं तत्र दापयेत् । प्राङ्मुखो देवतीर्थन क्षिप्रं देशनिमार्जनम् ।। इति आश्वलायनगृह्यपरिशिष्टे-'अतो देवा अवन्तुनइत्यङ्गुष्ठग्रहणम् ' इति 'पावमानीः शंवती रौद्रीं चाप्रतिरथं च श्रावयेत् । इति च । वृद्धवसिष्ठः- तृप्तिप्रश्ने तु संपन्नं देवे रोचत इत्यपि । - " १ ग. देवेनेव हि पाठ..

आभ्युदयिकादम्। संपन्नं पित्र्ये इति शेषः । दधिकर्कन्धुसहिताः पिण्डाः कार्या यथाक्रमम् ।। इति च । वृद्धशातातपः- प्रदद्यात्प्राङ्मुखः पिण्डान् वृद्धौ नाना स बाह्यतः॥ स श्राद्धकर्ता बाह्यतः भोजनशालाया बहिः न तूच्छिष्टसमीपे । वृद्धवसिष्ठः- प्राङ्मुखो देवतीर्थेन प्राकूलेषु कुशेषु च । दत्त्वा पिण्डान्न कुर्वीत पिण्डपात्रमधोमुखम् ॥ भविष्योत्तरे- पिण्डनिवपणं कुर्यान्न वा कुर्यान्नराधिप । वृद्धिश्राद्धे महाराज कुलधर्ममवेक्ष्य वै ।। ब्रह्मपुराणे- योऽनौ तु विद्यमानेऽपि वृद्धौ पिण्डान्न निर्वपेत् । पतन्ति पितरस्वस्य नरके स तु पच्यते ॥ चतुर्विंशतिमते- द्वौ द्वौ चाभ्युदये पिण्डावेकैकस्मै चै निर्वपेत् । एक नाम्ना परं तुष्णीं दद्यापिण्डान्पृथक् पृथक् ॥ ब्रह्मपुराणे- प्राङ्मुखांस्त्वथ दर्भास्तु दद्यात्क्षीरावनेजनम् ।। मार्कण्डेय:- नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् । प्राजापत्येन तीर्थेन यच्च किञ्चित्प्रजापतेः ॥ पण्डानधिकृत्योक्तं ब्रह्मपुराणे- अर्धे पुष्पं च धूपं च प्रशस्तमनुलेपनम् । वासः साध्वहतं शुद्धं देयं च सदशं समम् ॥ द्राक्षामलकमूलानि यवांश्चाथ निवेदयेत् । तान्येव दक्षिणार्थ तु दद्या द्विप्रेषु सर्वदा ।। अथाश्य्योदकस्थाने दत्त्वा क्षीरयवादिकम् । नान्दीमुखेभ्यश्चाक्षय्यमिदमस्त्विति संजपेत् ॥ - - १ ग. विनिक्षिपेत् पाठान्तरं ।

श्रादमयूखः कात्यायन:- अक्षय्योदकदानं च अर्घदानवदिष्यते । षष्ठयैव नियतं कुर्यान्न चतुर्थ्या कदाचन ।। प्रपितामहसंज्ञाश्च नान्दीमुख्यश्च मातरः । मातामह्यः पितामह्यः प्रपितामह्य एव च ॥ मातामहेभ्यश्च तथा नान्दीवक्रेभ्य एव च । प्रमातामहसंज्ञेभ्यो भवद्भिश्च स्वघोच्यताम् ।। अस्तु स्वधेति ते तं च जल्पन्ति प्रहसंति च। स्वाहाशब्दं प्रयुजीत स्वधास्थानेषु बुद्धिमान् ॥ इति त्वेतव्यतिरिक्तविषयम् । शातातपः- नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत् । ब्रह्मपुराणे- विश्वेदेवाश्च प्रीयन्तामिति दाता ऽवीदिमान् । प्रीता भवन्तु ते तं च वन्दति मधुराक्षरम् ।। नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत् । चतुर्विशतिमते- प्रीयन्तामिति च ब्रूयात्पिण्डान्स्वाहेति च क्षिपेत् ।। ब्रह्मपुराणे- त्यमूषुवाजिनमिति पठंस्तांश्च विसर्जयेत् ॥ 'दातार' इति प्रार्थनातः पूर्वप्रयोज्यं श्लोकान्तरमुक्तं भविष्य- पुराणे- माता पितामही चैव तथैव प्रपितामही । मे प्रीताः प्रयच्छन्तु च मङ्गलम् ।। [पिता पितामह श्चैव तथैव प्रपितामहः । मातामह स्तत्पिता च प्रमातामहकस्तथा ॥ एते भवन्तु०] चतुर्विशतिमते- शेषमन्नमनुज्ञाप्य वैश्वदेवक्रियां ततः। श्राद्धाह्रि श्राद्धशेषेण वैश्वदेवं समाचरेत् । पद्मपुराणे- एता भवन्तु - १ग. घ. तृप्यन्तां पाठान्तरं.

नित्यनादम्। - एवं शूद्रोऽपि सामान्य वृद्धिश्राद्धं तु सर्वदा । नमस्कारेण मन्त्रेण कुर्याद्देवादि वै बुधः॥ इत्याभ्युदयिक श्राद्धम्। अथनित्यश्राद्धम् । मनु:- पयोमूलफलैर्वाऽपि पितृभ्यस्तृप्तिमाहरन् । कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।। पितनुद्दिश्य विप्रांस्तु भोजयेद्विप्रमेव वा । एतच्च पञ्चमहायज्ञान्तर्गतम् । एकमप्याशयेद्विप्रं पितृयज्ञार्थसिद्धये ॥ इति कात्यायनोक्तेः । एकस्यापि विप्रस्य भोजनपर्याप्तस्यान्नस्यालामे कात्यायनः अदैवं नास्तिचेदन्नं भोक्ता भोज्यमथापि वा । अभ्युद्धत्य यथाशक्त्या किञ्चिदन्नं यथाविधि ॥ पितृभ्य इदमित्युक्त्वा स्वधाकारमुदाहरेत् । एतच्च ब्राह्मणाय देयम्, उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः । वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ।। इति कूर्मपुराणात् । इदं च षड्दैवत्यम् , एकमप्याशयेद्विप्रं षण्णामप्यन्वहं गृही। इति व्यासोक्तेः । पार्वणश्राद्धमुक्त्वा देवल:- अनेन विधिना श्राद्धं कुर्यात्संवत्सरं पृथक् । द्विश्चतुर्वा यथाश्रद्धं मासे मासे दिने दिने । हारीत:- नित्यश्राद्धमदैवं स्यादर्घपिण्डादिवर्जितम् । प्रचेता:- नामंत्रणं न होमं च नाव्हानं न विसर्जनम् । न पिण्डदानं न सुगन्नित्ये कुर्याहिजोत्तमः ।। - - १ ग. अप्युदृश्य पाठः।

श्राद्धमयूखः na भविष्योत्तरे- आवाहनस्वधाकारपिण्डाग्नौकरणादिकम् । ब्रह्मचर्यादिनियमो विश्वेदेवास्तथैव च ॥ नित्यश्राद्धे त्यजेदेतान् भोज्यमन्नं प्रकल्पयेत् ॥ भोज्यमन्नं 'स्वस्य' इति शेष:- मध्याह्ने वेदविदुषे दक्षिणा पिण्डवर्जितम् । नित्यश्राद्धे ततो दद्याद्भुते यत्स्वयमेव हि ॥ इति ब्रह्माण्डपुराणात् । अनेन तैलाद्यनुज्ञाऽपि कृता भवति । देवल:- अघृतं भोजयन्विप्रं स्खे गृहे सति सर्पिषि। परत्र निरयं घोरं गृहस्थ प्रतिपद्यते । मिष्टमन्नं स्वयं भुक्त्वा पश्चात्कदशनं लघु ॥ ब्रह्माणं भोजयन्विप्रो निरये चिरमावसेत् । स एव- उपवेश्याऽऽसनं दत्त्वा संपूज्य कुसुमादिभिः । निर्दिश्य भोजयित्वा तु किञ्चिद्दत्त्वा विसर्जयेत् ।। भविष्योत्तरे- प्रदद्याद्दक्षिणां शक्त्या नमस्कारैर्विसर्जयेत् ॥ 'दक्षिणापिण्डवर्जितम् । इति ब्रह्माण्डपुराणाद्विहितप्रतिपिद्धत्वा- इक्षिणाविकल्पः । इति नित्यश्राद्धम् । अथ संन्यासाङ्गश्राद्धम् । बौधायनीये 'संन्यासं संकल्प्य पूर्वमष्टम्या आरभ्य श्राद्धाष्टकं कुर्यात् पूर्णमास्यन्तममावास्यान्तं वा '। शौनकः पूर्वार्नान्दीमुखश्राद्धं कुर्यात् ' इति । देवश्राद्धे ब्रह्मविष्णुमहेश्वराः । ऋषिश्राद्धे देवर्षिग्रह्म- क्षिषत्रियर्षयः। शौनके तु । देवर्षिक्षत्रर्षिमनुष्यर्षय इत्युक्तम् । दिव्यश्राद्धे वसुरुद्रा- दित्याः । मनुष्यश्राद्धे सनकसनन्दनसनातनाः । भूतश्राद्धे पृथिव्या- १ ग. अष्टश्राद्धेषु देवता उक्ताः शौनकेन इत्याधिक ।

जीक्याडम् । दीनि भूतानि चक्षुरादीनि करणानि चतुर्विधो भूतमामः । पित्रादित्रयं पितृश्राद्धे । मात्रादित्रयं मातृश्राद्धे । आत्मश्राद्धे आत्मपितृपितामहाः । इत्यष्टौ श्राद्धानि । अनन्तरं पुण्याहं वाचयेदिति । एतानि च अग्निमान पार्वणविधिना कुर्यात् । अनग्निमानेकोद्दिष्टविधिना । अत्र संन्यासिपद्धतौ विशेष:--सर्वेषु श्राद्धेषु युग्मविप्रभोजनम् । देवश्राद्धे 'भवद्भ्यां क्षणः क्रियताम् ' इत्यादिः प्रयोगः । तिलार्थे यवाः। सर्व सव्येन प्रदक्षिण्येन कार्यम् । ततो ब्रह्मार्पणान्तं कृत्वा ' यस्य स्मृत्या ' इति जपित्वा 'अमृतमस्तु' इत्युक्त्वा भोजनसमाप्तिपर्यन्तं विष्णुं स्मरन्पुरुष- सूक्तादीनि जपेत् । विप्रास्तृप्तान ज्ञात्वा प्राङ्मुखः प्रागन्ता उदगपवर्गा नव रेखा लिखित्वा तासु प्रागग्रान्दर्भानास्तीर्य देवतादिपञ्चस्थानेषु तूष्णीं पितृमात्रात्ममातामहानां स्थानेषु मार्जयंतां मम पितरः इत्यु- दकं निषिञ्चेत् । देवादिपञ्चस्थानेषु तत्तन्नामान्युच्चार्य प्रागपवर्गान् पिण्डान् दद्यात् । पित्रादिपु त्रिपु प्रतिस्थानं स्वगृह्योक्तविधिना पिण्डान् दद्यात् । पितरि मातरि मातामहे वा जीवति तत्पार्वणलोपः । सर्वत्र पूर्ववदक्षय्योदकं दद्यात् । ततो ' यस्यस्मृत्या ' इत्युक्त्वा ब्राह्मणान्वि- सर्जयेदिति । अथ जीवच्छ्राद्धम् । आदित्यपुराणे- देशकालधनश्रद्धाव्यवसायसमुच्छ्रये । जीवते वाथ जीवाय दद्याच्छ्राद्धं स्वयं नरः ।। कन्तराभावे स्वयमेव स्वस्य श्राद्धं कर्तव्यम् इति हेमाद्रिः । बौधा- यनीये तु “अथाप्युदाहरन्ति- जीवन्नेवाऽऽत्मनः श्राद्धं कुर्यादन्येषु सत्स्वपि । यथाविधि प्रवृत्त्याऽऽशु सपिण्डीकरणाहते ॥' इति । कृतोपवासः सुस्नातस्त्रयोदश्यां समाहितः । अत्र यद्यपि त्रयोदशीसामान्यमुक्तं तथापि 'अपरपक्षे त्रयोदशी- मुपेत्य ' इति बौधायनोक्तेः कृष्णपक्षस्था ग्राह्या । १ षष्ठे पितृश्राद्धे पित्रादित्रयं मातामहाश्चेति शौनकवाक्यादत्रापि मातामहा- दिवयमावश्यकम् । तेनोपरिष्टादुदकनिषेचने तत्कीर्तनं नानुपपन्नमेवं मातामहे जीवति तलावणलोप इति च । ----- १५८ श्रादमयूखः कर्तारमथ भोक्तारं विष्णुं सर्वेश्वरं यजेत् । जले स्थलेऽम्बरे मूत्तौं कलशे पुष्करे रवौ ॥ रवौ रविप्रतिमायाम् । चन्द्रार्कगुरुगोविप्रमातापितृषु सर्वगम् । सदक्षिणास्तु सजलास्तिस्रस्तु जलधेनवः ।। निवेदयेपितृभ्यश्च तद्ने तु समाहितः ।। एवं संपूज्य पितुरुद्देशेन तिस्रो जलधेनूर्दद्यात् । तत्र मत्रानाह- सोमाय त्वा पितृमते स्वधा नमः इति ब्रुवन् । अग्नये कव्यवाहनाय स्वधा नम इयि स्मरन् ।। दक्षिणेन निध्याच तृतीयां दक्षिणायुताम् । यमायाङ्गिरसे वाथ स्वधा नम इति स्मरन् । जलधेनुविधिनिमयूखे द्रष्टव्यः । तयोर्मध्ये तु निक्षिप्य विप्रान् पञ्चोपवेशयेत् ॥ प्रथमामुत्तरतः द्वितीयां दक्षिणतः तृतीयां मध्ये निक्षिप्येत्यर्थः । आवाहनादिना पूर्व विश्वान्देवान्प्रपूज्य च । वसुभ्यस्त्वामहं विप्र रुद्रेभ्यस्त्वामहं ततः ।। सूर्येभ्यस्त्वामहं विप्र भोजयानीति तान्वदेत् । आवाहनादिकं सर्वं कुर्याञ्च पितृकर्मवत् ॥ वसुभ्यस्त्वामहं विप्रभोजयानीति । एवं रुद्रेभ्यः सूर्येभ्यः इत्यु- क्त्वाऽऽवाहनादिश्राद्धविधिना भोजयित्वा वस्खादिभ्यस्त्रीन् पिण्डान द्यादित्यर्थः । सौम्या धेनुस्ततो देया वासवाय द्विजाय तु ॥ वासवाय च रक्षोदेशेनोपवेशिताय । आग्नेयीवाऽथ रौद्राय याम्या सूर्यद्विजाय तु । विश्वेभ्यश्चाथ देवेभ्यस्तिलपात्रं निवेदयेत् ।। तिलपात्रं कांसस्य इति केचित् । खस्त्युदकमथाक्षय्यं जलं दत्त्वाऽथ तान् द्विजान् । विसर्जयेत्स्मरन् विष्णुं देवमष्टाक्षरं विभुम् ।। 'ॐ नमो नारायणाय' इत्यष्टाक्षरः । ततः कामकुलेशानं निशि नारायणं स्मरेत् ।।

जीवादम्। । कीमकुलेशानविशेषणकं नारायणमित्यर्थः । चतुर्दश्यां ततो गच्छेद्यथाप्राप्तां सरिद्धराम् । पूर्वेण विप्रः सौम्येन राजा वैश्योऽपरेण च । दक्षिणेन तथा शूद्रो मार्गेण विकिरन्यवान् ॥ 'गच्छेत् । इति शेषः । सौम्यमुत्तरम् । वस्त्राणि लोहखण्डानि जितं ते इति संस्मरन् । जितं ते पुण्डरीकाक्ष जितं ते विश्वभावन ।। नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ इति । ततो नदीतीरे दक्षिणामुखः स्मात लौकिकं वाऽग्निं स्वयं प्रज्व- ल्य चित्यर्थ गर्त्तखननभूमिप्रार्थनादि प्रत्यक्षमरणवत्सर्वं कुर्यात् । जीवच्छ्राद्धे सर्वत्र प्रेतशब्दो न प्रयोज्यः । ततः प्रत्यक्षशववद्दाहे कर्त्तव्यं स्वशाखोक्तं पूर्णाहुत्यन्तं होमं कृत्वा प्रधानहोमस्थाने निरग्नि- भूम्यै यमाय रुद्राय च स्वाहा, इति संस्कृताज्येनाहुतित्रयं हुत्वा पञ्चाशत्कुशरात्मप्रतिकृतिमन्येन 'क्रव्यादमग्निम्' इत्यादिना स्वस्वमन्त्रेण दाहयेत् । ततो 'वातास्त इत्यादि शवदाहवत् । ततो मुद्गमिश्रं तिल- मिश्रं च तण्डुलचरुद्धयमन्यस्मिन्नग्नौ सपवित्रकं श्रपयेत् । तदग्निसमीपे कर्पूत्रयं कृत्वा प्रत्येकं मधुक्षीरघृतोदकैः पूरयेत् । तथान्ते मुद्गपूरि- तानि त्रीणि शरावाणि ॐ पृथिव्यै नमस्तुभ्यम्, नमस्तुभ्यम्, रुद्राय श्मशानपतये नमस्तुभ्यम्' इति प्रत्येक निवेदयेत् । ततो दीप्तं प्रतिकृतिदाहार्थमग्निं 'ॐ क्रव्यादवह्नितप्तायै भूम्यै नमः' इति पठन् क्षीराक्तजलकुम्भजलेन निर्वापयेत् । ततः स्नात्वा नाभिमात्रे जले स्थित्वा यमादिभ्यः सप्त तिलाञ्जलीन् दद्यात् ॥ तत्रायं क्रमः :-ॐ यमाय स्वधा नमः' एवं 'मृत्यवेन्तकाय वैव- स्वताय धर्मराजाय कालाय सर्वप्राणिहराय ' इति । ततः 'ॐ नमो रुद्राय श्मशानपतये नमः इति मन्त्रेण लाजोदकपूर्णकुम्भं भुवि विकि- रेत् । ततो दक्षिणापु द यु 'स्वधाऽमुकगोत्रामुकतत्तिलोदकं तुभ्चम- स्त्विति तिलोदकं दद्यात् । शूद्रे स्वधास्थाने नमः । ततः पूर्वकृतचरुभ्यां पञ्च पञ्च पिण्डान् प्रत्येकं इत्येवं दश पिण्डान्स्वोद्देशेन पिण्डदानविधिना दत्त्वाऽयं गन्धपुष्पधूपदीपबलीन् दत्त्वा प्रत्येकं सर्वेपाम — अक्षय्यमस्तु १ क्षीरातजलकुम्भ जलेनेति सर्वत्र पाठः । यमाय श्राद्धमयूखः -- इति ब्रूयात् । ततो विष्णुं सौम्यमुखं स्मरेत् । पिण्डानामूष्मणि निवृत्ते एकैकं पिण्डं जलपूर्णकुम्भे निधाय नाभिमात्रे जले प्रविश्यैकैकं सकुंभ जलमध्ये क्षिपेत् । तत एकैकं जलपूर्णकुम्भमेकैकं च तिलजला- अलिमित्येवं पञ्चपञ्चाशत् कुम्भा जलाजलयश्च देयाः । ततः स्नात्वा गृहे आगत्य गृहद्वारोपान्ते पात्रद्वये क्षीरं जलं च क्षिपन् 'जीवात्र नाहि' इति जलं निवेद्य 'इदं दुग्धं पिब ' इति दुग्धं निवेदयेत् । तस्मिन्दिने आशौचम् । ततो रात्रौ दक्षिणामुखदर्भेषु उदङ्मुखः स्वपेत् । प्रातरमावास्यायां स्नात्वा ‘जीवच्छ्राद्धं करिष्ये' इति सङ्कल्प्य सपिण्डकं स्वस्यैकोद्दिष्टं श्राद्धं कुर्यात् । सर्वत्र जीवच्छ्राद्धे प्रेतशब्दोच्चारणं नास्ति । अत्रोक्तजलधेनुविधिर्विष्णुधर्मोत्तरे- जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया । देवदेवो हृषीकेशः सर्वेशः सर्वभावनः । जलकुम्भं नरव्याघ्र सुवर्णरजतान्वितम् ॥ रत्नगर्भमशेषैस्तु याम्यैर्धान्यैः समन्वितम् । सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम् ।। कुष्टमांसीमुरोशीरवालकामलकैर्युतम् । प्रियङ्गुपत्रसहितं सितवस्त्रोपवीतिनम् ॥ सच्छत्रं सउपानकं दर्भविष्टरसंस्थितम् । चतुर्भिः संवृतं भूप तिलपात्रैश्चतुर्दिशम् ॥ स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखे । उपोषितः समभ्यर्च्य वासुदेवं जलेशयम् । पुष्पधूपोपहारैश्च यथाविभवमाहतः॥ सङ्कल्प्य जलधेनुं च कुम्भं तमभिपूज्य च । पूजयेद्वत्सकं तद्वत्कृतं जलमयं बुधः॥ एवं संपूज्य गोविन्दं जलधेनुं सवत्सकाम् । सितवस्त्रधरः शान्तो वीतरागो विमत्सरः ।। दद्याहिजाय राजेन्द्र प्रीत्यर्थ जलशायिनः । जलशायी जगद्योनिः प्रीयतां मम केशवः ॥ इति चोच्चार्य भूनाथ विप्राय प्रतिपाद्य ताम् । अपक्कान्नाशिना स्थयमहोरात्रमतः परम् । 1

जीवाडम् ।
अनेन विधिना दत्त्वा जलधेनुं नराधिप ।।
सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः ।
शरीरारोग्यमाबाधाप्रशमः सार्वकामिकः ।।
नृणां भवति दत्तायां जलधेन्वां समाहितः ।
अत्र जलकुम्भे शक्या परिमाणम् । सुवर्णाद्यन्वितत्वं च-सुवर्ण
शृङ्गाकृति, रजतं खुराकृति, तिलपात्रं कटिगतं ताम्रमयादि, दधिपात्रं
कांस्यमयम् , धान्यानि पार्श्वद्वयम् , कुष्टादीनि ब्राणदेशे, प्रियङ्गुपत्रं
श्रवणे, यज्ञोपवीतं शिरसि, वत्सश्चतुर्थाशेन, दक्षिणा च सुवर्णमारभ्य
यथाशक्ति । एतच्चेतरधेनुवत् 'अविरोधात्सामान्यात इतरेषु तथात्वम्'
इति न्यायेन ज्ञेयम्।
इति श्रीमीमांसकशङ्करभट्टात्मजभट्टनीलकण्ठकृते भगवद्भास्करे
श्राद्धमयूख समाप्तः।

'गुजराती' मुद्रणालयस्थानि क्रय्यसंस्कृतपुस्तकानि । मूल्यं मार्गव्ययः 8 CO11111 १ श्रीमद्भगवद्रीता।प्रथमो गुच्छ: Bhagavat- Geeta with 7 commentaries >MATES राचार्यविरचितं भाष्यम्, आनन्दगिरिकृतं शाङ्क- रमाभ्यव्याख्यानम् , आनन्दतीर्थीय (मध्य) भाष्यम् , जयतीर्थविरचिता प्रमेयदीपिका टीका, रामानुजभाष्यम्, पुरुषोत्तमजीप्रकाशिता अमृ- ततरङ्गिणी, नीलकण्ठविरचितो भावप्रदीपः, एतैः समेता मञ्जुलैरायसाक्षरैर्मुद्रिता पृष्ठान्यष्टशतपरि- मितानि सुचिकणानि । मू० रू. २ श्रीमद्भगवद्गीता । द्वितीयो गुच्छ: vatGeeta wiki निम्बार्कमतानुयायिश्रीकेशवकादमीरिभट्टान णीता-तत्त्वप्रकाशिका,' श्रीमधुसूदनपत्ता- कृता-'गूढार्थदीपिका,' श्रीशङ्करानन्दप्रणीता 'तात्पर्यबोधिनी,' श्रीधरस्वामिकृता-'सुबो- धिनी, श्रीसदानन्दविरचितः- :-'भावप्रकाश, श्रीधनपतिसूरिविरचिता-'भाज्योत्कर्षदीपिका,' देवापण्डितश्रीसूर्यविरचिता-'परमार्थप्रपा, पूर्णप्र- क्षमतानुसारिश्रीराघवेन्द्रकृतः-'अर्थसंग्रहः इत्येता- भिर्व्याख्याभिः सहिता। अत्र श्लोकाः स्थूलतमाक्षरेष्टी- काश्च स्थूलाक्षरैर्मुद्रिताः, वृद्धा मा क्लेशिषवेति । मूरू. १०.०.० ०-१५--. ३ उत्तरगीता Uttara-Geeta with Gandapadiya commentary गौडपादीयदीपिका. ख्यव्याख्यायुता भगवत्पादश्रीशंकराचार्याणां परमगु- रुभिः श्रीशुकाचार्याणां च शिष्यैः श्रीगौडपादाचार्यैः प्रणीतेयं व्याख्येत्येतावत्कथनमलमस्या महिमान- मवगमयितुम् । मूल्यम् रू. ४ श्रीमद्वाल्मीकिरामायणम् । Va Ramayana with 3 well-known commentaries सर्वतन्त्रस्वतन्त्रप्रतिभेन शब्देन्दु- शेखरादिनानानिबन्धप्रणेत्रा श्रीमन्नागेशभटेन स्व- ...

२ मूल्यं मार्गव्ययः । शिष्यस्य सतो जीविकाप्रदातुः शृङ्गबेरपुराधीशस्य चीरमणेः श्रीरामराजस्य नाम्ना प्रणीतया रामायण- तिलकाख्यया टीकया, पण्डितश्रीवंशीधर-शिव- सहायाभ्यां प्रणीतया रामायणशिरोमण्याख्यया टीकया, श्रीगोविन्दराजप्रणीतया भूषणाख्यया टीकया च सह मुद्रयितुमारब्धमस्माभिः । तच्च सप्तभिः खण्डैः समापयिष्यामः ।हालकाण्डम् । प्रथम खण्डम् Bal Kand उपरिनिर्दिष्टटी. कात्रयोपेतम् । मूल्यम् रू.... अयोध्याकाण्डम्। द्वितीयखण्डम् Ayodhya Kand ऊर्ध्वनिर्दिष्टटीकात्रयोपेतम् । मू.रू. ५-०-० ०-७-. अरण्यकाण्डः । तृतीयखण्डम् । Aranya Kand उपसिनाटीमात्रयोपेतम् । मू. ८. ... २.१२-० ०-४-० किष्किन्धाकाण्डम् । चतुर्थखण्डम् । Kishkindha Kand उपरिनिर्दिष्टटीकात्रयो- पेतम् । मू.रू.... सुन्दरकाण्डम् । पञ्चमखण्डम् । Sundar Kand उपरिनिर्दिष्टटीकात्रयोपेतम् । मू. रू. ३-०-० ०-४-० युद्धकाण्डम्।षष्ठं खण्डम् Yuddhakand उपरिनिर्दिष्टटीकात्रयोपेतम् । मू.रू.... ८-०-० ०.११.० उत्तरकाण्डमा सप्तमखण्डम् Uttara Kand उपरिनिर्दिष्टटीकात्रयोपेतम् मू. रू. ५ स्तोत्रमुक्ताहारः-Stotra-Muktahar containing 256 stotras अस्मिन् २५६ स्तोत्राणि संगृहीतानि । यद्यपि सन्ति भूरीणि स्तो. त्रपुस्तकानि मुद्रितानि भूरिभिस्तथापि न तेष्वियतां स्तोत्ररत्नानां संग्रहः । अस्माभिः पूर्वममुद्रितानां स्तोत्राणां पुस्तकानि काश्यादिक्षेत्रेभ्यो भूयसा प्रयासेन दविणव्ययेन च समासाद्य तेभ्यश्च प्रसादगुणयुक्तानि स्तोत्राणि संकलय्य संशोध्य च तानि भाविकजनानां कृतेत्र समावेशितानि तदाशास्महे श्रद्धावन्तो जनाः सफलयिष्यन्ति प्रयत्नमस्माकममुमिति । मूल्यम् रू. ६ स्तोत्रमुक्ताहार:-Stotra-Muktahar ३ ... 2nd part containing 159 stotras fantait मूल्यं मार्गव्ययः भागः । स्तोत्रसंख्या २५७-४१६ मूल्यम् रु. ०-८-००-२-० ७ संस्कारमयूस्त्रः-Samskar Mayu. kha मीमांसकनीलकण्ठभसुतशंकरभट्टकृतः । अत्र संस्काराणां स्वरूपं काल: इतिकर्तव्यता वर्णधर्मा आश्रमधर्माश्च विस्तरतो मूलवचनोपन्यासपुरःसरं नि- रूपिताः। मूलवचनानि चाप्रतिपत्तिविप्रतिपत्तिसं. भावनास्थलेषु क्रमेण पर्यायशब्दप्रदर्शनेन मीमांसका- भिमतन्यायानुसरणेन च व्याख्यातानि।अन्ते काती. यसूत्रानुसारिप्रयोगाश्च दत्ताः। पूर्व वाराणस्यादिषु मु- द्वितोऽप्ययं वर्णपदवाक्यभ्रंशविपर्ययादिदोषप्रचुरतया- अविभक्तविषयतया च भृशं दुर्बोधो विपरीतबोधक- रश्वासीत् । अस्माभिस्तु ग्रन्थकृतैव पुनः शोधितस्य वर्धितस्य चास्य ग्रन्थस्य पुस्तकमासाद्य विषयांश्च प्रवि- भज्य शोधने च महान्तमायासमास्थाय मुद्रितः। मू.क. ०.१२-० ०-१-० ८ आचारमयूख:-Achara Mayukha नीलकंठभट्टकृतप्रातः स्मरणादिशयनान्तस्याहिक- क्रियाकलापस्य निरूपणपरो ग्रन्थः । मूल्यम् 6. ९ समयमयूख:-Samaya Mayukha नीलकंठभट्टकृतः विहितकर्मणां कालस्य निर्णायक: : मू. १० श्राद्धमयूखः नीलकंठभट्टकृतः Shraddha- Mayukha १-४-..-१-० ११ व्यवहारमयूखः"-Vyavahar Mayu. kha in the press १२ मनुस्मृतिः-कुल्लुकभट्टकृतटीकया Manu. Smriti with a commentary by Kul. luka Bhatta प्रन्थान्तरेषु मनुनानोल्लिखितरिदा- नींतनमनुस्मृतिपुस्तकेष्वनुपलभ्यमानैः श्लोकः, पद्यानां वर्णानुक्रमकोशेन, विषयानुक्रमेण च सहिता सूक्ष्मे- क्षिकया संशोधिता च ।मू. रू. १-८-० ०-३-० $3 fagcaifa:--Vidura-Niti with a commentary संस्कृतटीकोपेता नीतिशास्त्राभ्या- सिनां विद्यार्थिनामतीवोपयोगिनी । मू. रू. ... ... ... ०-४-० ... .. ... १४ वेदान्तरहस्यम्-Vedanta Rahasya मूल्यं मार्गव्ययः वेदान्तवागीशभट्टाचार्यविरचितम् । अत्राद्वैतमतसि- द्धान्तो निरूपितः । उपपत्तिश्च प्रदर्शिता । भाषा- ऽतिसरला प्रौढा च । मूल्यम् रू. ०-१-० ०-६-० १५ विशिष्टाद्वैतमतविजयवाद:-~-vishisht. Advaita-Mata-Vijaya-Vada नरहरिपण्डितकृतः। अत्र विशिष्टाद्वैतमते परेषामा- क्षेपानिराकृत्य विशिष्टाद्वैत एवोपनिषदां तात्पर्य व्यवस्थापितम् । मू. रू. ... १६ रघुवंशमहाकाव्यम्-Raghuvamsha with Mallinatha's commetary statis- दासकृतम् मल्लिनाथकृतसंजीविन्याख्यटीकासहितम्।मू.रू.०-१०-० ०-३-. १७ रघुवंशमहाकाव्यं-Only First Five Sargas of the same with a commentary by Mallinatha मल्लिनाथकृतटीकोपेतम् । सर्गाः १-५ मूल्यम् रू. ०-४-००-१-. १८ कुमारसंभवं महाकाव्यम-Kumarsambhav with 3 known commentaries कविवरश्रीकालिदासविरचितमिदं सप्तमसर्गपर्यन्तं मल्लिनाथकृतसंजीविन्या चारित्र्यवर्धनकृतशिशु- हितैषिण्या च संवलितं, तत आसमाप्ति सीतारा- मकृतसंजीविन्याऽलंकृतं सुललितैरायसाक्षरैर्मु- द्रितमतीव दर्शनीयमस्ति । मू. ८. १-४-० ०-२-० १९ कारिकावली सिद्धान्तमुक्तावलीसहिता-- Karikavalee withSiddhanta Muktavali and other notes Pra- शेषिकदर्शनयोयुत्पित्सूनां कृते प्रणीतेषु प्रकरणग्रन्थेषु सिद्धान्तमुक्तावलीसमुद्भासिता कारिकावली मूर्धाभि- षिक्तेत्यत्र न विदुषां वैमत्यं किंतु तत्र दीधितिकृदुप- सृतया विवेकसरण्या संक्षेपतः सूक्ष्मतमानामर्थानामुप- निबद्धतया प्रायः खिद्यन्ति नव्याश्छात्राः, इति तेषामुपकारायास्माभिः प्रायः सर्वेषु विषमस्थलेष्व- तिविस्तृतां सरलां सुबोधां च टिप्पनी पण्डितजी- वरामशास्त्रिभिः कारयित्वा तया सहेयं दृढतरेषु ... -- ५ ... सुचिक्कणेषु पत्रेषु स्थूलाक्षरैर्मुद्रिता । सार्घशताभ्य- मूल्यं मार्गव्ययः धिकपत्रयुतामपीमां सर्वसौलभ्यायाल्पीयसा मूल्येन वितरामः।मू.रू. ०-७-००-१- २० वैशेषिकदर्शनम्-Vaishes hi ka Darshana with several cominen“ taries श्रीशंकरमिश्रकृत-वैशेषिकसूत्रोपस्कार- जयनारायणतर्कपञ्चाननभट्टाचार्यप्रणीत-विवृति- चन्द्रकान्तभट्टाचार्यप्रणीत-भाष्यसहितम् । मू. रू. २-०-० ०-३-० वादार्थसंग्रहः ( प्रथमो भागः)-Vada. rtha-Samgraha First Part अत्र शेषकृष्णकृतं स्फोटतत्त्वनिरूपणं, श्रीकृष्णमौ. निकृता स्फोटचन्द्रिका, गोडबोलेकृतः प्रातिपदिकसं- ज्ञावादः, वाक्यवादः, हरियशोमिश्रकृता वाक्यदी- पिकेति पञ्च ग्रन्थाः संकलिताः । पण्डितानां प्रौढ- च्छात्राणां च बहुतरमुपकारकः । मू. रू. ०-६-००-०-६ २२ वादार्थसंग्रहः (द्वितीयो) भाग:-Second Part अत्र भवानन्दसिद्धान्तवागीशकृतं षदारकविवेचनम्, जयरामभट्टाचार्यकृतः कारकवादः समासवादश्च, एव- कारवादश्चेति चत्वारो ग्रन्थाः सन्ति । मू... ०-६-० ०-०-६ २३ वादार्थसंग्रहः (तृतीयो भाग:)-Third Part अत्र कृष्णाचार्यकृतः 'वादसुधाकरः मौनिश्रीकृष्ण- कृतः 'लघुबिभत्त्यर्थनिर्णयः' रामकिशोरकृता- शाब्दबोधप्रकाशिका' चेति शाब्दिकानां त्रयो ग्रन्थाः सन्ति । मू... ०-८-००-१-० २४ न्यायबिन्दुः-Nyayabindu with a commentary by Vaidyanatha gentai- सायाः अधिकरणार्थसंग्राहको ग्रन्थः । तत्सदु- पाख्यभट्टवैद्यनाथकृतः। टिप्पनीसहितः । मू. रू..... १-४-०-०२-० २५ महाभागवतम्-Maha Bhagavata देवीपुराणम् । अस्मिन् भगवत्या ब्रह्मस्वरूपिण्या महाकाल्या दाक्षायणी-गङ्गा-पार्वती जीयो त्यवतारचतुष्टयचरितानि, महाकाल्या मूलस्थान प प्रधानतयोपवर्णितानि।प्रसङ्गादामचरितं स्कन्दचरितं पाण्डवचरितं गणेशोत्पत्तिर्गङ्गावतरणं भगवतीगीता ... ... ललितासहस्रनाम शिवसहस्रनामादयश्च विषया निरू मूल्यं मार्गध्ययः पिताः । सार्धपञ्चसाहली संहितेयम् । मू.रू. २६ तैत्तिरीयोपनिषत्-Taittiriya-Upa. nisbat with Bhashya and acou. mentary by Anandgiri श्रीमच्छङ्करभगव. त्पादकृतभाष्येणानन्दगिरिकृतटीकायुतेन तैत्तिरीय- विद्याप्रकाशेन च सहिता । मूल्यम् रू. २७ दशरूपकम्-Dasha Rupaka with commentaries नाट्यशास्त्रं धनञ्जयविरचितमव- लोकसहितं पञ्चनदीयपण्डितसुदर्शनाचार्यप्रणीतप्रभा- ख्यव्याख्यासहितं च । मू. 5. २८ ब्रह्मसूत्रवृत्तिः-Brah masutra vritti अद्वैतमजरी। भगवत्पाद (आद्यशंकराचार्य) शिष्यकृता । मूल्यम् ६. २९ चन्द्रालोकः-Chandraloka with a commentary श्रीपीयूषवर्षजयदेवकविविरचितो- ऽलंकारग्रन्थः। पायगुण्डोपाहवैद्यनाथ (बाळंभट ) विर- चितरमाख्यव्याख्यासहितः । मूल्यम् रू. ... ३० श्रीमहाभारतविराटपर्व-Mahabhara. ta Virata Parva with eight commentaries नीलकण्ठकृतभारतभावदीप- अर्जुनमिश्रकृतदीपिका-चतुर्भुजमिश्रकृतप्रकाश- सर्वज्ञनारायणकृतभारतार्थप्रकाश-विमलबोधकृत दुर्घटार्थप्रकाशिनी-रामकृष्णकृतविरोधार्थभ- अनी-विषमपदविवरण-वादिराजतीर्थविरचित- लक्षाभरणेत्यष्टटीकोपेतं विपुलपाठभेदसहितं च । मूरू. ३-८-० ०-६-० ३१ श्रीमहाभारत उद्योगपर्व-Udyoga Parva with numerous commentaries. ३२ चम्पूभारतम्-Champubharata with a commentary by Narayanasuri श्रीखण्डे इत्युपाढनारायणसूरिविरचितटीकासहितम्।मू.क. २-०-०-३-१० ३३ उपदेशसाहस्री-Upadeshasahasri with a commentary श्रीमच्छंकराचार्यकृता रामतीर्थकृतपदयोजनिकाटीकासहिता। विषयानुक्रम- - - मूल्यं मार्गव्ययः १-८-००-२-० णिकया, श्लोकानुक्रमणिकया, नैष्कर्म्यसिद्धिधृतश्लोक- प्रदर्शनेन, अत्रोदाहृतग्रन्थान्तरस्थवाक्यानुक्रमणिकया, शुद्धिवृद्धिभ्यां च सहिता । मू. 6. ३४ पारस्करगृह्यसूत्रम्-Paraskar Gribya-Sutra with numerous Bhashyas some of which were either not published or unavailable, as well as Sutras etc. श्रीकर्कोपाध्याय-जयराम- हरिहर गदाधर-विश्वनाथप्रणीत-भाष्यपञ्चकसमलं- कृतम्-कामदेवभाष्यसहितवाप्यादिप्रतिष्ठाकण्डिका- शौचसूत्र-हरिहरभाष्योपेतस्नानसूत्र-कर्क-गदाधरकृ- तभाष्य-कृष्णमिश्रकृतश्राद्धका शिकोपेतश्राद्धसूत्र- भोजनसूत्ररूपपरिशिष्टसहितं च ३५ कुट्टिनीमतम-Kuttini Mata in ... ... the press हिन्दी-HINDI ३६ चन्द्रकान्त-Chandrakanta (Hindi) (First Part) ( वेदान्त ज्ञानका मुखग्रन्थ ) प्रथम भाग.यह वह ग्रन्थ है कि,जो नितान्त निन्ति वेदान्त सिद्धान्तका एकांत प्रतिपादक " चन्द्रकान्त मणि बम्बई प्रान्तके प्रसिद्ध साप्ताहिक 'गुजराती' पत्रके मुख्य-आद्य संपादक गुजराती भाषाके सुविख्यात लेखक, अनेक ग्रन्थोंके निर्माता देशभक्त- धुरीण, सारासारविवेकप्रवीण, वैश्यकुलभूषण श्रीमान् शेठ इच्छाराम सूर्यराम देसाईके शुद्ध हृदयमें दैदीप्यमान प्रबोधरत्नभाण्डागारका . चमचमाता हुआ एक अमूल्य रत्न है. किं. रू. ... ३७ चन्द्रकान्त-Chandrakanta(Hindi) 2nd part ३८ युक्तिप्रकाश-Yukti Prakasha ( Hindi ) विचारसागरका कर्ता साधु श्रीनिश्चल- दासजीने किया हुआ यह ग्रन्थ हिन्दुस्तानी भाषामें है. इसमें वेदान्तके ३९ सिद्धान्त बहुत अच्छीतरहसे सिद्ध किये गये हैं. निश्चलदासकी २-८-००-४-० - ... ... वाणी सब जिज्ञासुलोकोंको ज्ञात होनेसे विशेष मूल्यं मार्गव्ययः निरूपणकी कुछ जरूरत है नहीं. और जिज्ञासुलोकोंको ये ग्रन्थ बहुत उपयुक्त हैं. पक्की जिल्द और अच्छा कागज. मूल्यं रू. मराठी-MARATHI: ३९ चन्द्रकान्त-Chandrakanta ( Marathi ) या सुप्रसिद्ध गुजराती पुस्तकाच्या गुजराती भाषेमध्ये आजपर्यंत आठ आवृत्ति प्रसिद्ध झाल्या आहेत. आणि हिन्दीभाषा जाणणारे रसिकलोक याच्या प्रथम भागाचा रसास्वाद घेत असून दुसऱ्या भागाचा आस्वाद घेण्याकरिता अत्यंत उत्सुक झाले आहेत. हा ग्रन्थ "गुजराती" साप्ताहिकाचे प्रसिद्ध सद्गत् तंत्री इच्छाराम सूर्यराम देसाई यांनी लिहिलेला आहे. अशा या ग्रन्थाचे मराठीभाषा जाणणाऱ्या मुमुक्षुजनांकरितां रा. रा. एस्. आर. चाब्रेकर यांनी मराठी भाषान्तर केले असून त्यांत- ठिकठिकाणी मूळपन्थाला अनुसरून प्रमाणरूप असलेली सत्पुरुषांची वचने देऊन. या पुस्तकाची योग्यता व उपयुक्तता वृद्धिंगत केली आहे. या पुस्तकाच्या वाचनाने हिन्दी व गुजराती लोकांच्या जीवनकमांत फारच सुधारणा झाली आहे. सरळ व सुबोध उपदेश, गोष्टी यांच्या द्वाराने वेदान्तशास्त्र, ज्ञान, कर्म, व भक्तिमार्ग यांच्या प्राप्तीला याशिवाय दुसरा योग्य असा ग्रंथ मराठी भाषेमध्ये कचितच मिळेल. किंमत रु. ३० चन्द्रकान्त-Chandrakanta (Marathi) 2nd part in the press नोंध-सब पुस्तकका ह्री. पी. खर्च जुदा पडेगा. 'गुजराती' मुद्रणालयाधिपतिः । कोट सर्कल सासूनबिल्डिंग-मुंबई हमारा गुजराती पुस्तकके सूचीके लिये पत्र भेजना. मराठी भाषेमध्ये केचितच ... ...

Shraddha Mayukha

Author
Nilakanth Bhatta
Other authors
Mahadeva Gangadhar Bakre
Title
Shraddha Mayukha
File name
Shraddha Mayukha
Text
OCR done
Published
2006/06/10
Publisher
The Gujarati News Printing Press Bombay
Language
Sanskrit
Pages
173
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
496543
Barcode
1990030083653.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Avaailable
VMLT id
b56NX2oHtdg
Download PDF

Shraddha Mayukha