Bharti Bhawan Library Allahabad

Boadh Sar 96

Narahari

PDF Proofread

Front matter

22497 E BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCE OF B.T. H. GRIFFITH, M. A.,C.I.E. AND G. THIBAUT, PH.D. No.96. Registered under 406 XV. f 1567 (At 1 बोधसारः। श्रीविद्वहर्यनरहरिविरचितः । तच्छिष्यश्रीदिवाकरकृतयाऽर्थदीप्त्या सहितः श्रीमदासीनवर्यवामिगोविन्दानन्दशिष्येण दयानन्दस्वामिना परिशोधितः । PLAYBODHSAR. TREATISE ON VEDANTA. ATH R POPUR । - पूरा Fe EEN पर R FORSE S HER SRI NARHARI, With a commentary by the author's pupil PANDIT DIVAKAR. BDITED BY SWAMI DATÄNAND. kasciculus IV. BENARESI Published by the Proprietor's Messrs. Braj B. Das & Co AND SOLD BY AD GUPTA, Secretary, Chowkhamba Sanskrit Book Depot. । Printed at the Vidya vilás Press, BENARES 1905 सूचीपत्रम् । भारती-भवन पुस्तकालय प्रयाग क्रमिक संख्या १६७२ विभाग ० ० ० ० ० . जातकतत्त्वम् तत्त्वदीप तर्कसंग्रह दत्तकमीमांसा धर्मशाखसंग्रहः धातुपाठः ( शिला -) धातुरूपावली नैषध चरित नारायणी टीका राइप परिभाषापाठ: पाणिनीयशिक्षा भाष्यसहिता प्रथम परीक्षा प्रथमपुस्तक हिन्दी प्रश्नभूषणम् ( प्रश्न विचार का बहुत उत्तम ग्रन्थ ) बीजगणितम् (म० म० पं० सुधाकरकृतटिप्पणीसहित) १ भट्टीकाव्य ५ सर्ग मनोरमा शब्दरत्नसहिता ( टाइप ) लघुकौमुदी टिप्पणीसहिता लक्षणावली लीलावती ( म० म० पं० सुधाकरकृतटिप्पणीसहित) १ वसिष्ठसिद्धान्तः वार्तिकपाठः विष्णुसहस्रनाम शदरूपावली गृङ्गार सप्तशती समासचक्रम समासचन्द्रिका सरखतीकण्ठाभरणम् साङ्ख्यचन्द्रिका टिप्पणीसहिता सालयतत्वकौमुदी सिद्धान्तकौमुदी सिद्धान्तमुक्तावली दिनकरीटिप्पणीसहिता उपसर्गवृत्ति a १ ४ १ १ १ mo 60yo ४८92 राजभूमिकाभेद ज्ञानसप्तमभूमिकानिर्णयः । ।। योगनिद्रेति सा प्रोक्ता परा काष्ठेति सा स्मृता । अनुत्तरं च सहजं स्वरूपस्थितिरित्यपि ॥ २ ॥ योगनिद्रेति । सैव सप्तम्येव योगनिद्रेयेवं नाम्ना पुराणे- वक्ता कथिता तथा सा सप्तम्यवस्था परा श्रेष्ठा काष्ठा स्थि- तिरित्येवं नाम्ना स्मृता चिन्तिता मुनिभिरितिशेषः, सहजं स्वा- भाविकमनुत्तरं नोतरं प्रतिवाक्यं यस्मितत्तथोक्तं सहजानु- त्तरनाम्न्यपि सैवोच्यत इत्यर्थः, तथा स्वरूपस्थितिः स्वेनैव रू- प्यते प्रकाश्यत इति स्वरूपा सा चासौ स्थितिरवस्थेत्येवं नाम्नापि सोक्ता कथिता ॥२॥ अत एवास्या निरूपणाविषयखरूपं लक्षणमाह । मौनमेवावलम्बन्ते यस्यां हरिहरादयः । सा तु वर्णयितुं शक्या न केनापि कदाचन ॥३॥ मौनमिति । यस्यां सप्तमभूमिकायामारुदाः सन्तो हरि- हरादयो हरिर्विष्णुर्हरः शिव आदी प्रमुखौ येषां ब्रह्मेन्द्रप्र- भृतीनां ते सर्वेपि मौनमेव मननफलभूतं स्वप्रकाशात्मस्वरूपं चिन्मात्रमेव केवलमवलम्बन्त अश्रयन्ते न तु वागादिव्या- पारं किञ्चिदपि कुर्वन्तीति भावः, कुत इत्यत आह सात्विति, सा तु सा सप्तमी भूमिका तुपदेनास्याः पूर्वभूमिकाभ्यो वैल- क्षण्यं श्रेष्ठत्वं च सूचितं, तदेवाह केनापि, सर्ववेदयोनिना ब्रह्म- णापीदं चोपलक्षणं हरिहरादीनां, कदाचन कस्मिन्नपि काले वर्णयितुं वर्णनविषयीकर्तुं न शक्या न संभाव्या, इदं च लक्षणं सप्तम्या ज्ञेयम् ॥३॥ सप्तम्यारूढस्य बोधेपि निरपेक्षरूपत्वे लक्षणान्तरमाह । चिदने कोमले लग्नो दैवादज्ञानकण्टकः। ३७ २९० बोधसारे। तं बोधकण्टकेनायं विनिवार्य सुखं स्थितः ॥ ४ ॥ चिदङ्ग इति । कोमल ईषदप्यज्ञानकण्टकासहे चिदङ्गे चिन्मात्ररूपेऽङ्गे स्वरूप दैवात्काकतालीयतोऽज्ञानकण्टको- ऽज्ञानमेव दुःखप्रदत्वात्कण्टक इव कण्टको लग्नः स्पृष्टोऽयं स- प्सम्यारूढः पुरुषो बोधकण्टकेन बोधस्तत्त्वमस्यादिवाक्यजन्य संशयविपर्ययरहितमहं ब्राह्मास्मीत्याकारकमपरोक्ष ज्ञानं जीव- ब्रह्मैक्यविषयं स एवाज्ञानलक्षणकण्टकनिष्कासनोपयोगात्कण्ट- कसादृश्यात्कण्टकस्तेन तमज्ञानकण्टकं विनिवार्य निष्कास्य सुख यथा भवति तथा स्थितस्तिष्ठतीसर्थः, सप्तम्यारूढस्याज्ञानमित्र ज्ञानमध्यनादरणीयमेतदपि लक्षणान्तरं सप्तम्यारूढस्ये. ति भावः॥४॥ इदानी सप्तम्यारूढस्य स्थितिं वर्णयति त्रिभित्तः । अमृतजलधौ यस्मिन्वार्ता न मीनतरंगयो- नं च परिचयः पारावारस्थितेरपि कुत्रचित् । समरसपरब्रह्मनिन्दप्रणुनविकल्पनः सहजगलितद्वैतज्वालः स भाति महामुनिः ॥ ५॥ अमृतेति । यथा कस्मिंश्चिद्यस्मिन्विलक्षणे प्रलयद्धेऽमृ- तजलधावमृतमिव मिष्टं जलमुकं धीयते ध्रियते यस्मिान्नति अमृतजलधिस्तस्मिन्मीनतरङ्गयोर्मीनो मत्स्यस्तरङ्ग मिस्तयो- वार्ता वृत्तान्तः समुद्रस्यागावत्वेने नास्ति च पुनः कुत्रचित्क- स्मिन्नपि भागे तस्मिन्समुद्रे पारावारस्थितेरपि पारा परतरा अ- वारा अर्वाचीना स्वदृग्गोचरा स्थितिः स्थानं तस्याः परिचयोपि अनुभवोपि न च नैव विद्यते केवलं तत्र समरसपरब्रह्मानन्दप्र- णुनविकल्पनः सम एकरूपो रसः सुखं यत्र स चासौ परं का-

राज भूमिकाभेद ज्ञानसप्तमभूमिकानिर्णयः ।
र्यकारणातीतं ब्रह्म देशादिभिरपरिच्छिन्नं भूमापरपर्यायं तद्रूप
आनन्दश्च सुखं तेन कृत्वा मणुन्नं निवारितं. बाधितमिसर्थः,
विकल्प्यते विपरीतत्वेन भाव्यतेऽनेनेति विकल्पनमज्ञानं का-
रणकार्योभयरूपं येन स तथाविधो विकल्पनमित्यत्र करणेल्युड्
अत एव सहजगलितद्वैतज्वाला सहज स्वभावेनैव गलिता
नष्टा द्वैतं नानात्वमेव ज्वालेव तापहेतुत्वाज्वाला यत्र स त.
थोक्तः स पुराणादौ प्रसिद्धो महामुनिब्रह्मा भाति प्रकाशते
स्वयमेवेत्यर्थः, प्रस्तुतार्थे तु यथाऽमृतं सुखमेक समुद्र जलमिव
पूर्ण धीयते ध्रियते यत्र सो ऽमृतजलाधरिति मुनि विशेषणं,
यद्वा-अमृतं सुखं जडमचलं स्थिरमित्यर्थः, डलयोरभेदाद्धीयते
त्रियतेऽस्मिन्निति स तथोक्तः स्थिरसुखाधारत्वेनोपलक्षित
इत्यर्थः, यस्मिंश्च महामुनौ मीनतरङ्गयोमीनो मीयत आवियत
इति मीनो जीवः शिष्यभावापन्नस्तरन्तारकं वाक्यजातं गायति
उपदिशतीति तरङ्गो महावाक्योपदेष्टा वेदोच्चार कश्चेश्वरो
गुरुभावापन्न ईश्वरश्वेयर्थः, तयोर्वार्ता कथनं न न विद्यते च
पुनर्यस्मिन्कुत्रचित्कस्मिन्नाप काले देशे वा पारवारस्थितेः पारा
कारणरूपा निर्गुणा वाऽवारा कार्यरूपा सगुणा बा या स्थि-
तिरवस्था तस्याः परिचयो भानपि न च न विद्यते तत्र हेतुः
समरसपरब्रह्मानन्दप्रणुनविकल्पनः सम एकरूपो रमः सुखं
यस्मिन्स चासौ परब्रह्मानन्दः कार्यकारणहीनं भूमशब्दवाच्यं
मुखं तेन कृत्वा प्रणुन्नं विकल्पनं विकल्पकारण मज्ञानं येन स
तथोक्तोऽत एव सहजगलितद्वैतज्वाला सहजै साभाविक यथा
तथा गलिता नष्टा द्वैतं भेद एव तापकत्वाज्ज्वालेव वाला य.
स्मिन्स सप्तम्यारूढो महामुनिर्मुनिश्रेष्ठो भाति प्रकाशते, इदं
च सप्तमीलक्षणं ज्ञेयम् ॥५॥

२९२
बोधसारे।
किञ्च।
बंधध्वंसमभीप्सुना सुमनसा जिज्ञासया तीव्रया ।
ज्ञाते ब्रह्मणि बाधिताक्षविषये बोधे चमत्कुर्वति ।
स्वान्तमन्तृविमानमान्यविवृतिव्यावृत्तिनिर्भङ्गको
भाति ज्ञानसुखात्मकः स्वयमयं योग्यापगानां पतिः॥६॥
बन्धेति । बन्धध्वंसं बन्धयतिं अवरोधयति नित्यमुक्तमप्या-
स्मानमिति बन्धोऽज्ञानं तस्य ध्वंसो नाशस्तमभीप्सत इत्यभी-
पसुरिच्छवांस्तेन सुमनसा साधनसंपन्नं यन्मनस्तेन का तीव्रया
दृढया जिज्ञासया ज्ञानेच्छया करणभूतया ब्रह्मणि अपरिच्छिन्ना-
त्मवस्तुनि ज्ञाते साक्षादनुभूते सति ततो बाधिताक्षविषये बा-
धिता निरस्ता अक्षविषया इन्द्रियगोचरा यस्मिन्स तथोक्तस्त-
स्मिन्बोधे ज्ञाने चमत्कुर्चति सर्वदा प्रकाशमाने सति स्वान्तः
स्वेऽन्तःकरणे मन्तृविमानमान्यवितिव्यात्तिनिर्भङ्गको मन्ताऽ-
धिष्ठानसहितबुद्धिस्थचिदागासः प्रमाता विपरीतं मन्यतेऽने-
नेति विमाना मतिः करणे पञ् मान्यं मन्तव्यमेतत्रिपुटीरूपा
या त्रितिनीन्तिस्तस्या गावृत्तिनिवृत्तिस्तया कृत्वा नि-
भंङ्गको निस्तरङ्गो विक्षेपरहित इत्यर्थः, अत एव ज्ञानसुखा-
स्मको ज्ञानं बोधस्तदभिन्नं सुखमानन्दः स एवात्मा स्वरूपं यस्य
स तथोक्ता स्वयं स्वतः सिद्धोऽयं सप्तम्यारूदो योग्यापगानां
योगिनोऽत्र पूर्वभूमिकापस्थिता ग्राह्यास्ते एवापगा नद्य इव
नयस्तेषामुत्तरोत्तरभूमिकाउ वृत्तेनंदीन सन्ततगमनवत्त्वान्न-
दीत्वं ताला पतिः पालकः आत्मलासर्वेषां पालकत्ल सप्तम्या-
रूढस्य स उक्तलक्षणो भाति स्वयं प्रकाशरूपेण विराजते ॥६॥

राज भूमिकाभेद ज्ञानसप्तमभूमिकानिर्णयः। २९३ किश्च। वाचा मौनमयी गतिः स्थितिमयी निद्रामयो जागरो निद्रा बोधमयी निशा दिनमयी नक्तंमयो वासरः । कर्म ब्रह्ममयं जगत्सुखमयं किञ्चिन्न किञ्चिन्मयं दुर्लध्यं गुणवर्म लकितवतो वार्ता कथं वर्ण्यताम्॥७॥ चाचेति । दुर्लयं दुःखनातियत्नेन लङ्गितुं योग्यं दु- लवयं गुणवमै गुणानां सत्वरजस्तमस वर्ल्स मार्ग लडिन्त- वतोऽतिक्रान्तवतः सप्तम्यारूढस्य वार्ता वृत्तान्तः कथं केन प्रकारेण वयुतां वर्णनीया न केनामि प्रकारेण वर्णनीया, उक्त- मवर्णनीयत्त्वमेव विशदयति वाचेत्यादिविशेषणैः तस्य वाचा वाणी मौनमयी मौनरूपा भवति 'नेह नानास्ति किञ्चने ति श्रु- त्या सर्वशब्दवाच्यप्रप्रश्वस्य बाधितत्वाद्वक्तृवचनवाच्यरूपप्रप- चमिथ्यात्वेन 'यद्वैतन्न वदति वदन्वै तन्न वदति न हि वक्तु- वैक्तेविपरिलोपो विद्यतेऽविनाशित्त्वान्न तु तद्वितीयमस्ति ततो न्यद्विभक्तं यद्वदेदिति श्रुत्या वचनस्य वक्तुः स्वरूपत्वप्रतिपा- दनात्ततः पृथगसत्त्वप्रतिपादनाच्च वाच्यस्यापि पृथगसत्वाच बागभावेन लोके प्रतीयमानाया वाचोपि पारमार्थिकत्वामा- वाच्च तस्या मौनत्वं सिद्धमिति भावः, तथा गतिर्गमनं लोके मतीयमानापि स्थितिमयी स्थैर्यरूपा भवति 'अपाणिपादो ज- वनो ग्रहीते' यादिश्रुत्या पादराहित्येपि गमनवत्त्वप्रतिपादना- पादराहित्येन गमनं यत्पतीयते तत्पारमार्थिकं न भवतीत्यतो गमनपि स्थैर्य संभाव्यमिति भावः, तथा तस्य जागरो जागर- णमपि निद्रामयो निद्रारूपो भवति लोके निद्रावस्थायां सर्व- त्रिपुटीलयप्रसिद्धेः सप्तम्यारूढस्य त्रिपुटीमिथ्यात्वप्रतीत्या जा- १वक्तव्यम्।

बोधसारे। गरस्यापि निद्रात्वमिति भावः, तथा सस्य निद्रा सुषुप्तिरपि बोधमयी जागररूपा भवति मुखमहमस्वाप्सं न किञ्चिददि- षमित्युस्थितस्मरणान्यथानुपपत्त्याऽज्ञानबोधस्य तत्र सत्त्वात्तद्विष- याज्ञानस्य च सत्तात्तत्र ज्ञातृज्ञानज्ञेयरूपत्रिपुठ्या विद्यमानत्वेन जाग्रल्लक्षणसत्त्वान्निद्राया जागरत्वमिति भावः, तथा तस्य निशा रात्रिर्दिनमयी दिवसरूपा भवति लोकदृष्ट्यान्धकारसत्त्वेपि निशायां सप्तम्यारूढस्य प्रकाश विनाऽप्रकाशप्रतीत्य तुपपत्त्या तत्प्रकाशकप्रकाशवत्वेन रात्रर्दिनत्वमिति भावः, तथा तस्य वा- सरो दिवसो नक्तंमयो रात्रिमयो भवति व्यवहारस्य मिथ्या- खेन तत्पतीतेरपि पारमार्थिकत्वाभावे तत्प्रकाशस्यापि तथा- त्वादन्धकारस्वरूपरात्रित्वं दिनस्य सम्भाव्यमिति भावः, तथा तस्य कर्म क्रियापि ब्रह्ममयं निष्क्रियब्रह्मरूपं भवति कर्तृकरण- कार्यरूपत्रिपुठ्याः सप्तम्यारूढदृष्ट्या परिमार्थिकत्वाभावान्नि- ष्क्रियब्रह्मरूपत्वं कर्मणः सिद्धमिति भावः, यद्वा 'ब्रह्मार्पणं ब्रह्म हविब्रह्माग्नौ ब्रह्मणा हुतं ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधि- ने ति भगवदुत्त्या कर्तृहविरग्नितदर्पणफलेषु नामरूपबाधेन पर्य- वशेषितब्रह्मरूपधारणया त्रिपुट्यभावेन ब्रह्मरूपत्वप्रतिपादना- स्कमर्ण एव समाधित्वप्रतिपादनानुमन्धानेन सप्तम्यारूढस्य कर्मणोपि निष्क्रियब्रह्मरूपत्वमिति भावः, तथा तस्य जगल्लो- कप्रसिद्धं दुःखमयं जगद्विश्वं मुखमयं सुखस्त्ररूपं ब्रह्मैव भवति सप्तम्यारूढदृष्ट्या जगतो मिथ्यात्त्वानुसन्धानेन तत्र प्रतीयमा- नस्यापि दुःखस्यात्यन्तासत्वाच जगद्गतमुखस्य च केवलब्रह्मसु- खाभिन्नत्वानुमन्धानेन च जगतः सुखमयत्वं सिद्धमिति भावः, तथा तस्य किञ्चिद्दग्विषयजातमेव न किञ्चिन्मयं न किञ्चिद- गगोचर आत्मा तन्मयं तद्रूपं भवति 'सर्व खल्विदं ब्रह्म नेह ना-

राज भूमिकाभेद ज्ञानसप्तमभूमिकानिर्णयः ।
नास्ति किञ्चने ति श्रुयां बाधसामानाधिकरण्यस्य ब्रह्मेदंशब्दयोः
प्रतीयमानत्वादृग्गोचरस्य सर्वपदवाच्यस्य जगतोऽयन्तासत्त्वेन
दृश्यं जगदेवादृश्यं ब्रह्मेति भावः, एवं च सप्तम्यारूढवात्तार्या
वर्णनस्य विरुद्धत्वेन प्रतीयमानत्वावर्णनासम्भव इति भावः ॥७॥
इदानी सप्तम्यारूढस्य प्रतापनिरूपणेन तल्लक्षणमाह ।
अत्यन्तहीनो बलपौरुषाभ्यामकिंचनो यो गलिताभिमानः।
तेनैव नीता रिपवो विनाशं न ये हतास्तात महेन्द्रमुख्यैः ॥८॥
अस्यन्तेति। लोके तावद्धलवान्धनी साभिमानी शत्रून्नाशयति
अत्र विदमाश्चर्य यः पुरुषो बलपौरुषाभ्यां बलं शरीरदाय
पौरुषमुद्योगस्ताभ्यामत्यन्तहीनोऽयन्तरहितः पुनश्शाकिश्चनो
निष्किञ्चनः पुनश्च गलिताभिमानो गलितो नष्टोऽभि-
मानो यस्य स तथोक्तो योऽस्ति तेनैव नान्येन पुरुषेण रिपत्रः
शत्रवो विनाशंलयं नीताः प्रापिताः, इदमाश्चर्य सप्तम्यारूढेऽस्तीति
भावः, ननु बलादिहीनेन ये नाशिताः शत्रवस्ते निर्बला एव भ-
वेयुरित्याशङ्याह नेति, हे तात हे शिष्य ये शत्रवः कामादयो म-
हेन्द्रमुख्यमहेन्द्रो मघवा मुख्यो आदिर्येषु ते तथोक्तास्तैन
हता न मारिताः प्रत्युत तैः कामादिशत्रुभिरेवेन्द्रादयो जित्वा
स्त्रवशे स्थापितास्तादृशाः प्रबला अपि शत्रवः सप्तम्यारूढेन पौ-
रुषादिहीनेनापि नाशिता इति भावः ॥ ८॥
रूपकेण सप्तम्यारूढस्थितिं बुध्यारोहायाह ।
ब्रह्मविब्रह्मविद्यायां भवान्यां पुत्रतां गतः ।
निजाङ्गे लालयत्येनं परमात्मा सदाशिवः ॥ ९॥
इति श्रीनरहरिकृतौ बोधसारे भूमिकाभेदभास्करे
ज्ञानसप्तमभूमिकानिर्णयः ॥ ८॥

बोधसारे। ब्रह्मविदिति । ब्रह्मविद्ब्रह्म देशतः कालतो वस्तुतश्चापरिच्छिन्न वस्तु वेत्ति जानाति स तथाभूतः पुरुषो ब्रह्मविद्यायां ब्रह्मणो देशादिपरिच्छेदरहितस्य वस्तुनो विद्या ज्ञानमेतन्नाम्न्यामि- त्यर्थः, भवान्यां पार्वत्यां पुत्रतां पुतभावं गतः प्राप्तो यदा तदे- त्यध्याहीये परमात्मा कार्यकारणातीत आत्मा सदाशिवः सर्व- दैव सुखरूपत्त्वाच्छङ्कर एनं ब्रह्मविदं सप्तम्यारूढमियर्थः, नि- जाङ्गे निज स्वीयमंशत्वादङ्ग शबलं ब्रह्म तस्मिन्नभेदेन लालय- तिप्रीत्या खेलयति ॥ ९ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्तौ भूमिकाभेदभास्करायप्रकाशे सप्तमभूमिकानिर्णयार्थ- प्रकाशोऽष्टमः ॥ ८॥ एवं सप्तविधां सलक्षणां ज्ञानभूमि प्रतिपादानी तास निर्णयाय भूमिकाशास्त्रार्थनिर्णयाख्यं सप्तदशश्लोकं प्रकरणं वक्तुं माह। अथ भूमिकाशास्त्रार्थनिर्णयः । अथेति । अथ सप्तभूमिकानिरूपणानन्तरं भूमिकाशास्त्रार्थ- निर्णयो भूमिकानां पूर्वोक्तसप्तभूमीनां शास्त्रार्थः शासकवाक्या- थस्तस्य निर्णयो निश्चयो निरूप्यत इति शेषः, तमेवाह । भूमिकात्रितयं जानञ्चतुर्थी स्वप्र उच्यते । तावती साधकावस्था तारतम्येन योगिनाम् ॥ १॥ भूमिकेति। पूर्व जिज्ञासा-विचारा-तनुमानसाख्यं भूमिकात्रि- तयं भूमिकानामवस्थानां त्रितयं जाग्रजागराख्यावस्थोच्यते क- थ्यते तथा चतुर्थी सत्त्वापत्याख्या भूमिः स्वमः स्वमावस्थो- राज भूमिकाभेदभूमिकाशास्त्रार्थनिर्णयः । ध्यते कथ्यते तावती चतुर्थभूमिपर्यन्ता योगिनां जिज्ञासूनां तारतम्येन न्यूनाधिकत्वेन साधकावस्था साधकत्वरूपाऽवस्था स्थितिरिति शेया॥१॥ तत उत्तरावस्थासु सिद्धाऽवस्थात्वं तारतम्येन दर्शयति । पञ्चमी तुं समारभ्य सिद्धावस्थैव सा त्रिधा । तिसृणामप्यत्रस्थानां दृष्टान्तोऽत्र निरूप्यते ॥२॥ पञ्चमीमिति । पञ्चमीमसंसक्तिनान्नी भूमिकां समारभ्य स- म्यगङ्गीकृत्योत्तरा सिद्धावस्थैव सिद्धस्थितिरेव ज्ञेयाऽऽत्मा- परोक्ष्यात् सा सिद्धावस्था त्रिधा त्रिप्रकारा ज्ञेया तद्भेदस्वरूपं द. शयितुं दृष्टान्तनिरूपणं प्रतिजानीते तिसृणामिति, तिस्मृणां त्रि- संख्यानामपि अत्रस्थानां भूमिकानामत्रास्मिन् प्रकरणे दृष्टान्तो युक्त्यपरपर्याय उदाहरणमित्यर्थः, निरूप्यते कथ्यते ॥२॥ प्रतिज्ञातमेव दृष्टान्तमाह द्राभ्याम् । सुषुप्तेः प्रथमावस्था तस्यां यत्सुखमाप्यते । सुषुप्ता धनावस्था तस्यामपि तदेव हि ॥ ३ ॥ सुषुप्तेरिति । सुषुप्तेर्लोकप्रसिद्धनिद्राया या प्रथमा शिथिला- ऽवस्था स्थितिस्तस्यामवस्थायां यत्सुखं यत्प्रकारकं सुखमा- प्यते लभ्यते तदेव तत्सुखमेव सुषुप्तेर्निद्राया या घनावस्था निविडा स्थितिरस्ति तस्यामप्यवस्थायामाध्यते प्राप्यते हि प्रसिद्धमिदं लोक इत्यर्थः ॥ ३ ॥ सुखं घनसुषुप्तौ तत्सुखं गाढसुषुप्तके । तुर्यायामपि सप्तम्यामानन्दानुभवः समः ॥ ४ ॥ मुखमिति । यत्सुखं शर्म घनसुषुप्तौ घना निविडा सुपुति- बोधसारे। Gamayan निंद्रा तस्यामस्ति तत्सुखमेवानन्दो गाढसुषुपके गाई दृढं य. तुषुप्तकं निद्रा तस्मिन्नति अतस्त्रिविधमुप्तौ शिथिलघनगाढत्व- भेदेन त्रिप्रकारायामाप निद्रायामानन्दानुभव आनन्दस्य सु- खस्यानुभवः प्रतीतिः सम एक एव स्याद्भवेधथा यदव ॥ ४ ॥ दान्तिके यो जयति । तथा य एव पञ्चम्यां षष्ठ्यामपि स एव हि । तुर्यायामपि सप्तम्यां ब्रह्मानन्दः स एव हि ॥ ५ ॥ तथेति । तथा तद्वद्य एवं विद्वत्मसक्षो ब्रह्मानन्दो भूयश- ब्दवाच्यं सुखं पञ्चम्यामसंसक्तिनाम्न्यां पञ्चमभूमिकायामस्ति स एव हि असावेव ब्रह्मानन्दः षष्ठ्यामपि पदार्थाभाविनीना- मन्नामप्यवस्थायामस्ति हि प्रसिद्ध तथा यो ब्रह्मानन्दः षष्ठ्या- मस्ति स एव हि असावेव प्रसिद्धो ब्रह्मानन्दस्तुर्यायां तुर्या- ख्यायां सप्तमभूमिकायामपि अस्ति अतस्तिसृष्वप्यवस्थासु ब्र- मानन्दस्वेक एवेति भावः ॥५॥ नन्वानन्दस्यैकत्वे कुतो भूमिभेदस्वत्राह । अभ्यासतारतम्येन तारतम्ये चिरस्थितौ । अपरोक्षानुभुतेस्तु तारतम्यं मनाङ्ग हि ॥ ६ ॥ अभ्यासेति । अभ्यासतारतम्येनाभ्यासो विवेकावृत्ति- रूपस्तस्य तारतम्यं न्यूनाधिकभावस्तेन चिरस्थितौ चिरं बहु कालं या स्थितिरवस्थानमानन्दाकारता तस्यां तारतम्ये सती त्यर्थः, अपरोक्षानुभूतेरपरोक्षा प्रत्यक्षा याऽनुभूतिरनुभव- स्तस्या मनागीषदपि तारतम्य न्यूनाधिक्यं न हि नैव विद्यते ॥६॥ अपरोक्षानुभूतेन्यूनाधिक्याभावे दृष्टान्तमाह ।

। राजभूमिकाभेदभूमिकाशास्त्रार्थनिर्णयः । नास्वादिता लिता यावत्तावन्नास्वादितैव सा। एकदास्वादिता चेत्सा नैव नास्वादिता भवेत् ॥७॥ नेति । सिता श्वेतखण्डं यावद्यत्कालपर्यन्तं नास्वादिता न भक्षिता भवति तावत्तत्कालपर्यन्तं सा सिता श्वेतखण्डं ना- स्वादिता नैव भक्षिता भवेत्स्यात् सा सितैकदास्वादितै- कस्मिन्समय एकवारमपि आस्वादिता खादिता स्याचद्भवेद्यदि सहि नास्वादिता न भक्षिता नैव भवेन्न स्यादेकदैव भ. क्षितायां तस्यां बहुवारं वा भक्षितायां च स्वादस्पैकरूपत्वं यथा यद्वत् ॥ ७॥ दान्तिकमाह । जाता चेत्सा तु जातैव जातु नाजाततां भजेत् । कथं भयो भ्रमत्येष भ्रान्तिरेव गता यदि ॥ ८ ॥ जातेति । तथा सा तु अपरोक्षानुभूतिश्च जाता चेदु उत्पन्ना यदि स्यात्तर्हि जातु कदाचिदपि अजाततामनुत्पन्नतां न भजेन ब्रजेव, कुतः इत्यत आह कथमिति, एष पञ्चम्यारूढो जातसाक्षात्करो जीवो यदि यहि भ्रान्तिरेव केवलं भ्रमोपि गता निवृत्ता तर्हि भूयः पुनः कथं केन प्रकारेण भ्रमति वि. क्षिप्यते न कथमपीयर्थः ॥८॥ एवमपरोक्षानुभवस्यैकरूपता तस्मिश्च सति पुरान्स्यिभावं च प्रदश्येदानी तत्रोपाधिकृतविशेष दर्शयितुमाह । अथ कश्चिद्विशेषः अथेति । अथेदानीमपरोक्षानुभूतौ कश्चित्कोपि विशेषो. भेदोऽस्ति स उच्यत इति शेषः, तमेव विशेषं दर्शयति सार्धाभ्याम्।

बोधसारे तुरीया प्रथमाभासे विद्युदाभासलक्षणा । ततश्चञ्चलदीपाभा ततो निश्चलदीपवत् ॥ ९॥ तुरीयेति । तुरीया जाग्रदाद्यवस्थालयाऽपेक्षयाऽपरोक्षा- नुभूतिः पञ्चम्यादिभूमिकात्रयरूपा तुरीया चतुर्थी ज्ञेया सा प्र- थमाभासे प्रथमः पञ्चमभूमिकायामामासोनुभवस्तस्मिन् विद्युदा- भासलक्षणा विद्युतस्तडित आमाला प्रकाशः स एव लक्षणं चिहं यस्यां सा तादृशी ज्ञेया ततोऽनन्तरं षष्ठभुमिकाया आरम्भे चञ्चलदीपाभा चश्चलो वायुचालिलो यो दीपस्तस्याभेवामा कान्तिर्यस्याः सा तादृशी भवति । ततस्तदनन्तरं षष्ठ्यामेव प- रिणामेन निश्चलदीपवत्सापरोक्षानुभूतिनिश्चलः स्थिरो यो दीपस्तद्वस्तस्य प्रभवेयर्थः, सा भवति ॥ ९ ॥ सूर्यप्रभावच ततः सप्तमी चिरवर्तिनी । उदयास्तविहीना सा दिनपक्ष वत्सरम् ॥ १० ॥ सूर्यति । ततोनन्तरं सप्तम्यां साऽपरोक्षानुभूतिः सूर्यप्रभा- वत्सूर्यस्यादियस्य प्रभा प्रकाशस्तद्वत्तत्तुल्या भवति च पुनः स- समी तुर्याख्याऽपरोक्षानुभूतिश्विरवर्तिनी चिरं वर्तितुं शील- मस्याः सा तथोक्ता भवति बहुकालस्थिरेयर्थः, सा च सप्तम्य- ऽपरोक्षानुभूतिः परिणता सती दिनपक्षवत्सरं दिनं दिवसः, पक्षश्च शुक्लकृष्णभेदेन पञ्चदशदिनसमूहात्मकः, ऋतुश्च मासद्वया- त्मको वसन्तादिवत्सरश्च द्वादशमासात्मकः प्रभवादिः काल ए- तेषां समहारद्वन्द्वैकवद्भावोऽत्यन्तसंयोगे द्वितीया तेष्वित्यर्थः॥१० पुष्कला निश्चला पूर्णा परमानन्दसुन्दरी ॥ ११ ॥ निश्चला स्थिरेत्यर्थः, अत एव पुष्कला परिपुष्टा पूर्णा सर्वत्र

राज भूमिकाभेदभूमिकाशास्त्रार्थनिर्णयः ।
परिपूर्णा तथा परमानन्दसुन्दरी परमानन्दो निरतिशयमुख
तेन सुन्दरी सर्वेषां कमनीया ॥ ११ ॥
एवमपरोक्षानुभवे तारतम्यं मदर्येदानीमपरोक्षानुभववता
सामर्थ्य निरूपयति ।
येषां ध्यानकलायां च लीयन्ते गुणपश्यः !
येषां कृपाकटाक्षण सद्यो मुक्तिरवाप्यते ॥ १२ ॥
येषामिति । येषामपरोक्षानुभविनां जिज्ञासुभिरन्यैः कृतं
यद्ध्यानं तस्य कलांशस्तस्यां गुणपतयो गुणानां सत्त्वरजस्तमसा
तत्कार्याणां कामादीनां च पतयः समूहा लीयन्ते लीना भ-
वन्ति तथा येषामपरोक्षानुभववतां कृपाकटाक्षेण कृपया दयया-
यः कटाक्ष नेत्रैकदेशेनावलोकनं तेन जिज्ञासूनां सद्यस्तत्का-
लमेव मुक्तिर्मोक्षोऽवाप्यते प्राप्यते, इदमप्युत्तर मित्रयारूद-
लक्षणं ज्ञेयम् ॥ १२॥
पञ्चभ्यादिभूमित्रयारूढस्य पुनर्जन्माभावमाह ।
पञ्चमीमथवा षष्ठी सप्तमी वा समाश्रिताः।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ १३ ॥
पञ्चमीमिति । ये पुरुषाः पञ्चमीमसंसक्तिनानी भूमिका-
मथवा यद्वा षष्ठी पदार्थाभाविनीनानी सप्तमी या तुर्याख्या
सप्तमभूमिकां वा समाश्रिताऽऽश्रित्य स्थिताः सन्ति तेषां पुरु.
पाणां कल्पकोटिमातैरपि कल्पानां ब्रह्मादिनानां ब्रह्मायुष्यरूपाणां
महाकल्पानां वा शतानि अनन्तानि तैयतीतैरपि पुनरात्तिः
पुनः पश्चान्मुक्तेरनन्तरमात्ति जन्ममरणरूपा संमृतिन न
भवति ॥ १३ ॥

बोधसारे। एवमुत्तरावस्थात्रये स्थितानां सिद्धावस्थात्वं मुक्तत्वं च प्रतिपायेदानी पूर्वावस्थाचतुष्कस्थितानामपि मरणादिना केन- चित्मतिबन्धेन तत्त्वज्ञानानुत्पत्तौ मुत्यभावेपि जन्मान्तरे पूर्वव- दभ्यासेन मुक्तिमाप्तिमाह सार्धेन । पूर्वावस्थाचतुष्के ये स्थिता देहं विहाय ते । पुनर्देहान्तरं प्राप्य ब्रह्माभ्यासं प्रकुर्वते ॥ १४ ॥ पूर्वेति । ये मुमुक्षवः पूर्वावस्थाचतुष्के पूर्वाः प्रथमा या अ- वस्था भूमयो जिज्ञासा विचारा तनुमानसा सत्त्वापयाख्यास्तासां चतुष्कं चतुष्टयं तस्मिन् केन चित्पतिबन्धेन तत्त्वसाक्षात्कारा- लाभेन स्थिता वर्तमाना भवन्ति ते पुरुषा देहं शरीरं वि. हाय त्यक्त्वा पुनर्भूयो जन्मान्तरमन्यजन्म प्राप्य लब्ध्वा ब्र- माभ्यासं । तचिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ।। इत्युक्तलक्षणं ब्रह्मप्राप्तिसाधनभूतं यत्नं प्रकुर्वते प्रकर्षणानुशी लयन्ति ॥१४॥ ननु पूर्वभूमिकाचतुष्कस्थितानामन्यजन्मनि मोक्षो भव- तीति स्वकपोलकल्पितमिसाशयाह । योगभ्रष्टास्त उच्यन्ते क्रमेण ब्रह्मगामिनः । योगिनो योगसिद्धाश्च दत्ताद्या जनकादयः॥१५॥ योगभ्रष्टा इति । ते पूर्वभूमिकाचतुष्कस्थिता योगभ्रष्टा योगभ्रष्टनामका उच्यन्ते कथ्यन्ते गीतादाविति शेषः, तथा च गीता।

राजभूमिकाभेद भूमिकाशास्त्रार्थनिर्णयः । ३०३ 'प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोभिजायते ॥ अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ त्रत ते बुद्धिसंयोग लभते पौर्वदैहिकमिति । ते च श्रुतिषु क्रमेणोत्तरोत्तरलोकप्राप्तिक्रमेण ब्रह्मगामिनी ब्रह्मप्राप्ता भविष्यन्तीत्युक्तास्तथा च श्रुतिः,। 'वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धसत्त्वाः। ते ब्रह्मलोकेषु परान्तकाले परामृता परिमुच्यन्ति सर्वे' इति ॥ एवं पूर्वभूमिकाचतुष्टयस्थितानां जन्मान्तरे मुक्ति सम्भा- व्येदानी सिद्धानपि कांश्चिदुत्तरभूमित्रयारूढानुदाहृत्य दर्श- यति योगिन इति, ब्रह्मादयस्तु स्वत एव योगिनो योगशब्द- वाच्यजीवब्रह्मैक्यज्ञानवन्तः स्वत एवेत्यर्थस्तथा दत्ताद्या दत- नामाऽत्रिपुत्र आयो मुख्यो येषां ते तथोक्तास्तथा जनका- दयो जनको मैथिलः स आदिमुख्यो येषां ते तथोक्तास्ते सर्वे योगसिद्धा योगेन हठादिना वा तत्फलभूतजीवब्रह्मैक्यज्ञानेन था सिद्धा मुक्ता जाता इत्यर्थः ॥ १५॥ तथा। ईश्वरानुग्रहं प्राप्ता अर्वाचीनाश्च के चन । स्वरूपानुभवं प्राप्ता मुक्तास्ते सर्व एव हि ॥१६॥ ईश्वरेति । केचन कति चित्पुरुषा अर्वाचीनाश्चेदानी- अपि ईश्वरानुग्रहमीश्वरस्येशनादिशक्तियुक्तस्यानुग्रह- मनुग्रहः कृपा तदुपलक्षितं सद्गुरुप्राप्तिसच्छास्त्रसेवनरूपं माता लब्धास्तत्माप्त्या मोक्ष प्राप्ता इति भावः, तदुक्तं । का ।

बोधसारे। 'यावन्नानुग्रहः साक्षाज्जायते परमेश्वरान् । तावन्न सहरु कश्चित्सच्छास्त्रमपि नो लभेदिति ॥ सर्व एव त उक्ताः समस्ता अपि पञ्चम्यादिभूमित्रयारूढा इत्यर्थः, मुक्ता मोक्ष प्राप्ता भवन्ति हि विद्वत्स्वेतत्मसिद्धमित्यर्थः, तत्र हेतुमाहं स्वरूपेति, स्वरूपानुभवं स्वस्यात्मनो रूपं स- चिदानन्दघनत्वं तस्यानुभवः साक्षात्कारस्तं माता लब्धा अतो मुक्ता इमर्थः ॥ १६ ॥ एवं सिद्धान्मदश्यैदानी तेषां भूमिकाभेदसत्चपि मुक्तरेक- रूपलं दर्शयति । सुषुप्तौ केचिदाश्वस्ताः केचिढ़नसुषुप्तके । केचिगाढंसुषुप्तौ च सर्वेषाममृतं समम् ॥ १७ ॥ इति श्रीनरहरिकृतौ बोधसारे भूमिकाभेदभास्करे भूमिकाशास्त्रार्थनिर्णयः॥९॥ मुषुप्ताविति । केचित्सनत्कुमारनारदमभृतयो व्यवहारीव कदाचित्प्रवृत्तत्वात्सुषुप्तौ शिथिलसुषुप्त्याख्यायां पञ्चम्यामि- त्यर्थः, आश्वस्ता विश्वस्ताः, इयमेव परा कोष्टेति निश्चित्य तत्रैव स्थिता इति भावः, केचिद्धनसुषुप्तके केचियासहस्पतिप्रमुखाः परेच्छया वासनोबोधन व्यवहारे भवर्तमाना दृश्यन्तेऽतस्ले घनमुचुप्तके निविडमुषुप्तौ षष्ठ्यामित्यर्थः, आश्वस्ताः कृतार्थत्वं निश्चित्य स्थिता इत्यर्थः, तथा केचिद्रह्मविष्णुप्रभृतयः परमा- थतो व्यवहाराप्रवृत्तेगाढसुषुप्तौ गाढा दृढा सुषुप्तिर्निद्रा प. रकृतबोधेनापि व्युत्थानानहीं सप्तमी भूमिस्तस्यामाश्वस्ता वि- त्रिस्य स्थिताः, अयं भावः, पञ्चम्यारूढानां कदाचित्स्वत एव प्रपञ्चसत्त्वदृष्ट्या व्यवहारपत्तिः, षष्ठ्यारूढानां परकृतबोधनेन मपञ्चसत्त्वबुद्ध्या कदाचियवहारप्रवृत्तिः, सप्तम्यारूढानां तु स्वतः EARN . राज भूमिकाभेद भूमिकाशास्त्रार्थनिर्णयः। धरतोपि प्रपञ्चसत्त्वबुद्ध्या व्यवहाराप्रवृत्तिारति भेदः, मिथ्यात्व- बुद्ध्या तु सर्वेषां व्यवहारप्रवृत्तिस्तुल्यैवेति, तथा सत्यपि अमृतं मोक्षसुखं सर्वेषां भूमित्रयस्थितानां सममेकरूपमस्ति अत: पञ्चम्यादिभूमित्रयं सिद्धावस्थैवेति भावः ॥ १७ ॥ इति श्रीनरहरिशियं दिवाकरविरचितायां बोधसारार्थदीप्तौ भूमिकाभेदभास्करार्थप्रकाशे सप्तमभूमिकानिर्णयार्थ- प्रकाशो नवमः ॥९॥ समाप्तं चेदं प्रकरणम् । एवं ज्ञानाज्ञानभूमीश्चतुर्दश सलक्षणाः प्रदश्येदानी प्रद- र्शितमेत्र पूर्वप्रकरणार्थ विशदीकर्तुं प्रकारान्तरेणावस्था व्य- वस्थापयितुं चावस्थाव्यवस्थाभिधं पत्रिंशच्लोकं प्रकरणं प्रवक्तुमाह। अथावस्थाव्यवस्था अथेति । अथ भूमिकाभेदभास्करनिरूपणानन्तरमवस्था- व्यवस्थाऽवस्थानां वक्ष्यमाणानां जाग्रदादीनां व्यवस्था व्य- वस्थितिमर्यादेसर्थः, तनिरूपकत्वादवस्थाव्यवस्थाख्यं प्रकरण- मिति भावः, निरूप्यत इति शेषः । प्रतिज्ञातमेव प्रकरणं निरूप- यितुं तच्छ्रवणे शिष्यं प्रेरयति । अथावस्थाव्यवस्थाख्यं किश्चित्प्रकरणं शृणु। यस्मिन्परीक्षिते सम्यक्परीक्ष्यं नावशिष्यते ॥१॥ अथेति । हे शिष्य त्वमथातः परं किञ्चित्स्वल्पं सं. क्षिप्तमित्यर्थः, अवस्थाव्यवस्थाख्यमवस्थानां वक्ष्यमाणलक्ष- णानां व्यवस्था मर्यादास्ति यस्यामिति अर्शआधज् अत एतदाख्यमेतनामकं प्रकरणं मया वक्ष्यमाणं भृणु अव- बोधसारे। धारय, नन्वेतच्छ्रवणे किं फलं तत्राह यस्मिन्प्रकरणे सम्यग्य- थार्थ परीक्षितेऽवलोकिते सति पुनः पुढं विचार्य धृते सती- त्यर्थः, परीक्ष्यमवलोकनीयमन्यन्नावशिष्यतेऽवशिष्टं न वि- घते सर्वत्र परीक्ष्यवस्तुन एतत्प्रकरणप्रतिपाद्यवस्तुमात्रत्वा- दिति भावः ॥ १ ॥ प्रतिज्ञातप्रकरणनिरूपणायैव तत्प्रतिपाद्या अवस्था नाम- सङ्ख्याभ्यां निर्दिशति । जाग्रत्स्वप्नः सुषुप्तिश्च तथा मूढसमाधिता। मूर्छा मृत्युस्तुरीयञ्चेत्यवस्थाः सप्त कीर्तिताः॥२॥ जाग्रदिति । जाग्रजागरनाम्न्येकावस्था स्वमः स्वम- नाम्नी द्वितीया तथा सुषुप्तिः मुप्तिनाम्नी तृतीया तथा त- द्वन्मूढसमाधिता मूढसमाधिनाम्नी चतुर्थी तथा मूर्छा मूर्छा- नाम्नी पञ्चमी तथा मृत्युमरणमेतन्नाम्नी च षष्ठी तथा तुरीयं च तुर्यनाम्नी सप्तमी-इति एवं प्रकारेणावस्थाऽन्तःकरण- स्थितयः सप्त सप्तसङ्ख्याः कीर्तिता कथिता विद्वद्भिार- ति शेषः ॥२॥ ता एव विशदयति । जाग्रत्स्वप्नः सुषुप्तिश्च व्यक्ता मूढसमाधिता मूर्छा मृत्युस्तुरीयं च व्यक्ता नित्यानुभूतितः ॥३॥ जाग्रदिति । जाग्रदिन्द्रियैरर्थोपलब्धिर्जागरितमित्युक्तल- क्षणावस्था, स्वमो लीनेष्विन्द्रियेषु जागरसंस्कारजो विषया- भासः स स्वम इत्युक्तलक्षणा स्वप्नावस्था, सुषुप्तिश्च निद्रा वि- पयाभानरूपा, एतास्तिस्रोवस्थाः सर्वत्रोक्तत्वात्सर्वानुभवसिद्ध- त्वाच व्यक्ताः सर्वेषामाबालगोपं प्रकटा एव भवन्त्यतस्तनि- राज भूमिकाभेदभूमिकाशास्त्रार्थनिर्णयः । रूपणं न क्रियत इत्यर्थः, मूढसमाधिता मूढसमाधिनाम्यवस्था मूर्छा मुग्धेऽर्धसम्पत्तिरिति सूत्रोपदर्शिता मूीवस्था मृत्युमर- णावस्था तुरीयं च तुर्याख्यावस्था चैताश्चतस्त्रोवस्था नि- त्यानुभूतितो नित्यानुभवरूपेणात्मचैतन्येनैव व्यक्ताः प्रकाशिता भवन्तीति ज्ञेयाः॥३॥ सूढसमाध्यवस्था तु पूर्वमेवोक्ताऽतो नोच्यत इसाह । उक्तं मृढसमाधानं भवप्रत्ययसंज्ञकम् । पुराऽसंप्रज्ञातनामसमाधेर्मेदवर्णने ॥ ४ ॥ उक्तमिति । पुरा योगदीक्षाचिन्तामण्याख्यप्रकरणेऽस- प्रज्ञातसमाधेरसंप्रज्ञातनामसमाधेर्मेंदवर्णने भेदनिरूपणप्रसङ्गे भू- घप्रत्ययसंज्ञकं भवस्य संसारस्य प्रत्ययोनुभवो बीजरूपेणास्मि- बस्तीति भवमत्यय इत्येवं संज्ञा नाम यस्य तत्तथोक्तं मूढस- माधानं मूढ ममाधिरुक्तं कथितमतः पुनर्नोच्यत इति भावः ॥४॥ तदेव बीजरूपेणावस्थानं प्रपञ्चस्य तत्स्थव्यवहारोदाहरणे- न विशदयत्यर्धेन । तत्समाधिस्थिता जित्वेन्द्रादीस्वर्गेशतां ययुः मृत्युर्मुर्छा प्रसिद्धति तुरीयमभिधीयते ॥ ५ ॥ तदिति । तत्समाधिस्थिताः स एव भवप्रत्ययनामा समाधिस्त- समाधिस्तस्मिनिस्थताः स्थिरीभूता ये हिरण्यकशिप्वादयस्ते समाधिव्युत्थानादनन्तरमिन्द्रो मरुत्त्वानादिः प्रथमो येषाम- नियमादीनां ते तथोक्तास्ताञ्जित्वा युद्धे पराभूय स्वर्गेशतां स्व गैस्येशतामीश्वरत्वं ययुः मापुरतो मूढसमाधौ बीजरूपेण संसार प्रत्ययो विद्यत इति भावः, ननु तर्हि मृत्युमुळे एव निरूप्येतामि- त्याशङ्ग्य ते अपि प्रसिद्धत्वान्मुमुक्षूगाामनादरणीयत्वाच्च न नि रूप्येते इत्याशयेनाह मृत्युरिति, मृत्युमरणं मूर्छाऽर्धमृत्तिनाम्ना बौघसारे। प्रसिद्धाऽनुभूतैवेति अतो हेतोस्ते अपि परित्यज्य प्रथम मुमुक्षू- शामादरणीयत्वात्तुरीयं तुर्याख्यैवावस्थाऽभिधीयते निरूप्यत इत्यर्थः ॥ ५॥ प्रतिज्ञातामेव तुर्यावस्थां निरूपयति । वेदान्तसंप्रदायेन निदिध्यासनदायतः । परमात्मनि चित्तस्य लयस्तु तुर्यमुच्यते ॥ ६ ॥ वेदान्तेति । वेदान्तसंप्रदायेन वेदान्तस्योपनिषदादिन- न्थस्य संप्रदायः परिपाटी तेन तदनुकूलतयेत्यर्थः, निदिध्यास- नदायतो निदिध्यासनस्याखण्डैकब्रह्मविषयमत्ययात्तिरूपस्य दायतो दृढत्वेन परमात्मनि कार्यकारणातीत आत्मनि चित्त- स्यान्तःकरणस्य लयस्तद्रूपेणावस्थानं यत्तत्तु तदेव तुर्य तुरी- यनामकमुच्यते कथ्यते विद्वद्भिरिति शेषः॥६॥ तस्मिश्च सति किं फलं तदाह । तत्र साक्षात्कृतं ब्रह्म मलाविद्याविनाशकृत् । तत्र प्रश्नः । स्वप्नजागरयोस्तुल्यः संसाराडम्बरो मुने ॥ ७ ॥ तत्रेति । तत्र तुर्यावस्थायां ब्रह्म देशकालवस्तुकृतपरिच्छेद- शून्यं वस्तु स्वस्मिन्नेव साक्षात्कृतं स्वाभिन्नमनुभूतं सन्मूला- विद्याविनाशकृन्मूलाविद्या स्वस्य ब्रह्मणश्चैक्याज्ञानं मूलाविद्या सस्या विनाशः क्षयस्तस्य कृत्कर्तृ भवतीति फलं तुर्यप्राप्तौ ज्ञेयम्, एवं सझेपतोवस्थाः समापि प्रदर्थेदानी ता एव विस्तरतो वक्तुं प्रश्नावतरणं प्रतिजानीते तत्रोत, तत्रावस्थासु मध्ये प्रश्नोऽनु- योगः क्रियत इति शेषः, तमेवाह स्वप्नेति, हे मुने मननशील हे गुरो संसाराडम्बरः संसाररूपो घटाटोपः स्वमजागरयोः स्वमे राज भूमिकामेदभूमिकाशास्त्रार्थनिर्णयः । स्वमावस्थायां च जागरे च जाग्रदवस्थायां तुल्यः सम एवं मुखदुःखप्रतीतिः समैवोभयत्रेति भावः ॥ ७ ॥ तर्हि केन विशेषेण संज्ञा भेदस्तयोर्वद । अत्रोत्तरम् । जानीहि प्रथमं तात भेदं विस्मृतिबोधयोः ॥८॥ तहीति । तर्हि तदा केन विशेषेण केन बैलक्षण्येन तयोः स्वमजागरयोः संज्ञाभेदः संज्ञयोरभिधानयोर्भेदः पृथक्त्वं तत्कारणं वद ब्रूहीति प्रश्नार्थः ।अस्योत्तरं वक्तुमाह । अत्रेति । अत्रोक्तप्रश्न उत्तरं प्रतिवाक्यमुच्यत इति शेषः, संदेवाह जानीहीति, हे तात हे शिष्य त्वं प्रथमं पूर्व विस्मृतिबो- धयोविस्मृतिश्च विस्मरणं बोधश्च ज्ञानं तयोर्भेदं पृथक्त्वं जा- नीहि विद्धि पश्चादनन्तरं स्वमजागरयोः स्वमश्च जाग्रद्विषयवा- सनावासितबुद्धौ विषयानुभवाभासलक्षणो जागरश्च जागृति- रिन्द्रियैरोपलब्धिर्जागरितमित्युक्तलक्षणा तयोर्भेदं पृथक्त्वं ज्ञास्यसि वेत्स्यसि अतः पूर्व तं विस्मृतिबोधभेदं शृणु अ- वधारय ॥ ८॥ एवं शिष्य निरूप्यमागभेदश्रवणे संमुखीकृत्येदानी प्रति- ज्ञातमेव भेदं दर्शयति । स्वप्नजागरयोभेदं पश्चाज्ज्ञास्यीस तं शृणु। विस्मृतियन्न भासेत बोधो मिथ्यात्वनिश्चयः॥९॥ जागरानन्तरं निद्रा तत्र स्वप्नो यदा भवेत् । स्वप्ने स्याज्जागरामानं न तु जागरबोधनम् ॥१०॥ विस्मृतिरिति । यत्पदार्थजातं किमपि न भासेत न प्रती- way उक्त जाग्रता बौथसारे। येत सा विस्मृतिविस्मरणं ज्ञेया तथा मिथ्यात्वनिश्चयः पदा- र्थानां मिथ्यात्वस्यासत्त्वस्य निश्चयोऽध्ववसाय: स बोधो ज्ञानमित्युच्यत इदमेव विस्मृतिबोधयो(लक्षण्यं ज्ञेयमिति भावः, एवं विस्मृतिबोधलक्षण्यं प्रदर्यैदानी प्रस्तुतजाग्रत्त्व- मयोभदं दर्शयति जागरेति, जागरानन्तरं जागरो जागृति- स्तस्या अनन्तरं पश्चानिद्रा मुषुप्तिर्भवतीति स्पष्टमेवाबालगोपं तत्र तस्यां सुषुप्तौ यदा यस्मिन्काले स्वमः प्रातिभासिकवि- षयस्फुरणरूपो भवेत्स्यात्तदा तस्मिन्काले स्वमे स्वप्नावस्थायां जागराभानं जाग्रदशाया अमानं विस्मृतिर्भवेत्स्याजागरबोधन जागरस्य जाग्रदवस्थाया बोधनं भान जागरमिथ्यात्वनिश्चय इत्यर्थः, न तु भवेनैव स्यात् ॥ ९ ॥१०॥ एतदेव स्पष्टमाह । जागरोऽयं तु मिथ्येति बुद्धिः स्वप्ने न वर्तते किन्तु जागरविस्मृत्या स्वप्ने स्वप्नार्थदर्शनम्॥११॥ जागर इति । अयं प्रसक्षतया दृश्यमानो जागरो जागृति- प्रपञ्चो मिथ्या भ्रान्तिरूप इसे प्रकारा बुद्धिनिश्चयरूपान्त:- करणत्तिः स्वमे स्वमावस्थायां न तु नैव वर्तते नैव विद्यत इत्यर्थः, किन्तु किं तर्हि स्त्रमे स्वमावस्थायां जागरविस्मृत्या. जागरस्य जागरणस्य विस्मृतिरभानं तया स्वमार्थदर्शनं स्व- मे स्वभावस्थायां ये प्रातिभासिका अर्थास्तेषां दर्शनं प्रतीति- रस्ति विद्यते जाग्रन्मिथ्यात्वनिश्चयाभावो जागरामानं च स्वमे जागृतिता वैलक्ष्यण्यं ज्ञेयमिति भावः ॥ ११ ॥ स्वप्नस्यैतन्निजं रूपं जागरस्याधुना शृणु। स्वप्नस्यानन्तरं तात जागरो हि यदा भवेत् ॥१२॥ ।

राज भूमिकाभेदभूमिकाशास्त्रार्थनिर्णयः । स्वमस्येति । एतदिदमुक्तलक्षणं स्वमस्य स्वप्नावस्थया निजं स्त्रीय रूपं ज्ञेयम, एवं जाग्रदशातः स्वमस्य वैलक्षण्यं प्रदर्येदानी जागरस्यापि स्वमतो वैलक्षण्यं श्रोतुं शिष्यमभिमुखीकरोति जागरस्येति, हे शिष्य अधुनेदानी जागरस्य जागरणस्य स्वरूपं शृणु श्रोतव्यं, प्रतिज्ञातमेव जाग्रस्वरूपनिरूपणं करोति स्वम- स्येति, हे तात हे शिष्य स्वमस्य स्वभावस्थाया अनन्तरं पश्चा- घदा यस्मिन्काले हि प्रसिद्धो जागरो जागरणं भवेत्स्यात् ॥१२॥ स्वप्नमिथ्यात्वबुध्यात्मस्वप्नबोधस्तदा भवेत् । अन्यच । स्वप्ने तु यादृशी तात भवेज्जागरविस्मृतिः ॥१३॥ स्वमेति । तदा तस्मिन्समये स्वामिथ्यात्वबुद्ध्या स्वमस्य सविषयस्वमावस्थाया मिथ्यात्वमसत्त्वं तस्य बुद्धिनिश्चयात्मि- कान्तःकरणवृत्तिस्तयाऽऽत्मस्वप्नवोध आत्मनः स्वमद्रष्टुः स्वस्यैव स्वभावस्थाया बोधो ज्ञानं भवेत्स्याज्जागरे स्वमा- विस्मरणं स्वमबोधश्चेति स्वमतो जागरस्य वैलक्षण्यं सिद्धमिति भात्रः, अन्यदपि वैलक्षण्यं वक्तुमाहान्यच्चेति, अन्यच लक्ष- णान्तरमपि उच्यत इति शेषः, तदेवाह स्वमे विति, हे तात हे शिष्य स्वमे स्वमावस्थायां जागरविस्मृतिस्तु जागरविस्मृति- जोगराभानमपि यादृशी यद्भवेत्स्यात् ॥ १३ ॥ जागरे तादृशी नास्ति स्वप्नसंसारविस्मृतिः । जागरे स्मर्यते स्वप्नस्तस्य मिथ्यात्वदर्शनम् ॥१४॥ जागर इति । जागरे जाग्रदवस्थायां स्वप्नसंसारविस्मृतिः स्वमे स्वमावस्थायां यः प्रतीयमानः संसारः सुखदु:खजन्ममर- णादिरूपस्तस्य विस्मृतिरभानं तादृशी तन्नास्ति न विद्यत बोधसारे। इदं च वैलक्षण्यं स्पष्टमेवेति भावः, अन्यदपि वैलक्षण्यान्तरमाह जागर इति, जागरे जागरावस्थायर्या स्वमः सविषया स्वभाव- स्था स्मयतेऽनुसन्धीयते तस्य स्वमस्य मिथ्यात्वदर्शनं मिथ्या- स्वस्यासत्वस्य दर्शनं भानमस्तीति शेषः ॥१४॥ स्वप्ने न स्मर्यते जाग्रन्न तन्मिथ्यात्वदर्शनम् अनेनातिविशेषेण स्वप्नजागरयोभिदा ॥ १५ ॥ स्वम इति । यथा तथेअध्याहार्य स्वप्ने स्वभावस्थायां जा- प्रत्सविषया जाग्रदवस्था न स्मयते नानुसन्धीयते तन्मिथ्यात्व- दर्शनं तस्या जाग्रदवस्थाया मिथ्यात्वमसत्वं तस्य दर्शनम पी सध्याहार्य, न नैव विद्यते, उक्तं स्वप्नजाग्र दनिरूपणमुपसंह- रति अनेनेति, अनेनोक्तेनातिविशेषेण त्रिप्रकारेणाप्यतिवैल- क्षण्येन स्वमजागरयोः स्वमश्चोक्तलक्षणा स्वप्नावस्था जागरश्च जागृतिस्तयोभिदा भेदः सिद्ध इति भावः ॥ १५ ॥ एवं सप्तावस्थासु मध्ये पूर्वमवस्थाद्वयं भेदेन प्रदर्थेदानीमु. तराः पञ्चाप्यवस्था भेदेन प्रदर्शयितुं प्रश्नोत्थापनमवतारयति । अथप्रश्नान्तरम् । अथेति । अथ पूर्वावस्थाद्वयभेदज्ञानानन्तरं प्रश्नान्तरमन्यो द्वितीयः प्रश्नोनुयोगः प्रश्नान्तरं पूर्वप्रश्नापेक्षया द्वितीयः प्रश्न इ- त्यर्थः, क्रियत इति शेषः । तमेवाह ननु मढसमाधौ च मर्छामृत्युसषप्तिषु । तुरीये च न दृश्यश्रीस्तर्हि तेषां भिदा कुतः ॥१६॥ नन्विति । नन्विति शङ्कायामियं ममाशङ्का जाता मू. इसमाधौ पूर्वोक्तलक्षणे मूढसमाधाने भवप्रययनामके पु- नश्च मूर्छामृत्युसुषुप्तिषु मूर्छा चार्धमृतिरूपा मुग्धेधसम्प- तिरितिसूत्रोपदर्शिता मृत्युश्च प्राणादिवियोगेन देहपत-

অনলাম
नरूपः प्रसिद्धः सर्वेषु, सुषुप्तिश्चान्तःकरणेन्द्रियादीनां कारणा-
हानमात्ररूपेणावस्थानं निद्रापरपर्याया तासु तुरीये च तुर्या-
वस्थायामपि दृश्यश्रीदृश्यस्य त्रिपुटीरूपप्रपञ्चस्य श्रीः शोभा न
न विद्यते दृश्यामानं पञ्चावस्थास्वपि तुल्यमिति, तदा तर्हि तेषां
मूर्छादितुर्यान्ताऽवस्थालक्षणानां भिदा भेदः कुतः कुतः का-
रणादस्त्रि वैलक्षण्याभावान कुतोपि
भेद: सम्भवतीति
भावः ॥ १६ ॥
एवं प्रश्नं निरूप्योत्तरं वक्तुं प्रतिजानीते ।
अनोत्तरम् ।
अत्रेति । अव द्वितीये प्रश्न इत्यर्थः, उत्तरं प्रतिवाक्यमुच्यत
इति शेषः । तदेवाह ।
सिद्धिकामनया यैस्तु तप उग्रं कृतं महत् ।
देहोपि विस्मृतस्तैस्तु क्रिमिकीटादिभक्षितः ॥ १७॥
सिद्धीति । यैस्तु संसाररसिर्हिरण्यकशिप्वादि-
भिः सिद्धिकामनया सिद्धीनामिन्द्रादिपदप्राप्तिरूपाणां का-
मनेच्छा तया महदहूग्रं त्रैलोक्यसन्तापकं तपः शीतो-
ष्णादिक्लेशसहनेन ब्रह्माराधनरूपं कृतमाचीर्ण तैस्तूक्तैर्हि-
रण्यकशिप्वादिभिर्देहोपि कायोपि विस्मृतो न ज्ञातः, ननु तैर्दै-
हो विस्मृत इति कुतो निश्चितं तत्राह क्रिमिकीटेति, क्रिमिकीटा-
दिभक्षितः क्रिमयश्च पिपीलिकाः कीटास्तद्विशेषा एव त आदयो
येषां ते तथोक्तास्तैक्षितो जग्धः स न ज्ञातोऽत एव तेषां
भानं देहे नास्तीति निश्चीयत इति भावः ॥ १७ ॥
नेयं मूर्छा न रोगोयं न मृत्युर्जीवनादयम् ।
सुषुप्तानन्दविरहान्न सुषुप्तिरिति स्फुटम् ॥ १८॥

३१४ बोधसारे। नेति । इयं विस्मृतिस्तपःपूर्विकाऽतो मूर्छाऽर्धमृत्याऽख्या- वस्था न न भर्वात कुतो न मूर्छात्वमस्यास्तत्राह नेति, अयं तपाक्लेशो रोगो व्याधिन न विद्यते, नन्वस्या मूर्छा मास्तु मृत्युत्वं कुतो न स्यादियाशङ्ख्याह नेति, इयं वि- स्मृतिर्मत्युर्मरणं न न भवति, कुतो नास्या मृत्युत्वं तत्राह जी- वनात्याणधारणादियर्थः, प्राणवियोगस्यैव मृत्युत्वप्रसिद्धेरिति भावः, नन्वस्य समाधेमूर्छात्वं मृत्युत्वं च मा भूतां सुषुप्तत्वमस्तु तत्राह सुषुप्तेति, सुषुप्तानन्दविरहात्सुषुप्तं निद्रा तस्मिन्य आ- नन्दः सुखमस्ति उस्थितस्य पुरुषस्य मुखमहमस्वाप्समिति स्मृ- त्यन्यथानुपपत्त्यानुमेयं यत्सुखं तेन विरहाद्वियोगान सुषुप्तिन निद्रा सुप्तौ हि सर्वैः सुखमनुभूयतेऽतस्तद्रहितत्वान्नास्य सुषुप्ति- त्वमिति भावः, इति एतत्स्फुटं प्रकटमस्ति अत्र न कस्यापि सन्देह इति भावः ॥ १८ ॥ नन्वस्या विस्मृतेर्मास्तु सुषुप्तिसं तुर्यत्वमस्त्वित्याशमाह । स्वरूपलाभविरहान्मूढत्वान्न तुरीयकम् । दृश्यभानं तु नास्त्यासु तावता न कृतार्थता ॥१९॥ स्वरूपेति । इयं विस्मृतिस्तुरीयकं तुरीयावस्थापि न न भवति, नन्यस्याः कुतो न तुर्यात्वं तत्राह स्वरूपति, स्वरूपस्थ स्वप्रकाशचिन्मात्रस्वभावस्यात्मनो लाभः साक्षादनुभवस्तेन विरहो वियोगस्तस्माद्धेतोः स्वप्रकाशात्मलाभ एव तुर्यशब्द- वाच्यः सर्वशास्त्रेषु प्रसिद्धोऽतः परिशेषान्मूढत्वाच्च मूढभावा- दस्या विस्मृतेमूढसमाधित्वं सिद्धमिति ज्ञेयम् । अयं भावः, मौढ्य- शेषेण तपःक्लेशेन च देहादिविस्मृतिर्मूढसमाधिरित्युच्यते, रोगा- दिपीडापूर्विका देहादिविस्मृति , प्राणादिवियोगपूर्विका देहादिविस्मृतिमृत्युरित्युच्यते, सुखानुभव पूर्विका मौढ्यविशिष्टा অনুষি। देहादिविस्मृतिः सुषुप्तिरुच्यते स्वयं प्रकाशात्मलाभपूर्विका मौ- ब्यहीना तुर्येति विवेकः, ननु मूढसमाध्यादितुर्यान्तावस्थापञ्चके दृश्यभानाभावमात्रेणैव मौढ्यशेषेपि मुक्तिसिद्धिः कुतो नेत्या- शङ्य तदर्धाङ्गीकारेण शेप समाधत्ते दृश्यभानमिति, आसु तू. क्तपञ्चावस्थास्वपि दृश्य भानं दृश्यस्य जगतो भानमनुभयो नास्ति न विद्यते सत्यमेतत्परन्तु तावता दृश्यभानाभावमात्रेणैव केवलं न कृतार्थता कृतकृत्यत्वलक्षणा नियतृप्तिन न भवेत् ॥ १९ ॥ कुत इसत आह। व्युत्थानानन्तरं तेषां संसारोपि यदास्थितः । यदात्मदर्शनं नास्ति संसारोऽबाधितस्ततः ॥२०॥ व्युत्थानेति । तेषां मूढसमाध्यादिसुषुप्त्यन्तावस्थाचतु- कस्थितानां व्युत्थानानन्तरं तत्तदवस्थातो व्युत्थानं देहादि- व्यापारप्रवृत्तिस्तस्मादनन्तरं पश्चात्संसारोपि सुखदुःखजन्म- मरणादिरूपा संसृत्तिरपि यद्यतः कारणादास्थितोऽभि- व्याप्यान्तःकरणं स्थितो विद्यमान इत्यर्थः, दृश्यते इति शेषः । ननु मूढसमाध्यादिसुषुप्त्यन्तास्ववस्थाविव व्युत्थानानन्तरं दृश्यप्रतीतिस्तुयेपि समानैवेति पूर्वावस्थाचतुष्कतुर्ययोः को वि. शेषो येन तुर्यस्य मुक्तिरूपत्वमन्यासां नेत्युच्यत इत्याशक्य व्यु- स्थानकाले संसारप्रतीतो समायामपि दृश्यसंसारबाधितावाधित- वलक्षणं तयोर्वैलक्षण्यं दर्शयति यदिति, यद्यतः कारणान्मूढस- माध्यादिसुषुप्त्यन्तावस्थाचतुष्क आत्मदर्शनमात्मनः सच्चिदा- नन्दघनस्य स्वस्य दर्शनं ज्ञानं नास्ति न विद्यते ततस्तस्मा- कारणात्तास्ववस्थासु संसारो जन्मादिरूपोऽबाधितोऽसत्त्व- दृष्ट्या नावलोकितः स्थितो वर्त्तत इति शेषः, अतः पूर्वावस्था- चतुष्के संसारभानाभावमात्रेण न तु सिद्धिः, तुर्ये च तत्सत्त्वेपि ३१८ बोधसारे। पुनर्भूयः समागाति आगच्छति तदा तस्मिन्समये तस्माद्रज्वाव- तसादसौ देवदत्ताद्यभिधः पुरुषो बिभेति भीतिं पामोति ॥२५॥ नायं सर्प इति ज्ञात्वा यदि देशान्तरं गतः । यदा पुनः समायाति तदा तस्माद्विभेति न ॥२६॥ नायमिति । स देवदत्तायभिधः पुरुषो रज्जुसर्पभ्रान्ति- स्थले स्थित्वा दीपादिकमानीय रज्जुं दृष्ट्वाऽयं मदृष्टिगोचर: सर्पः सर्पो न भवति किन्तुरज्जुरेवेयमित्येवं ज्ञात्वाऽनुभूय यदि यहि देशान्तरमन्यस्थानं गतः प्राप्तः, तत्र च कार्य कृत्वा यदा यस्मिन्समये पुनर्भूयः समायाति आगच्छति तदा तस्मिन्काले सर्पस्य बाधितत्वान्मिथ्यात्वेनावलोकितत्वान्मिथ्यात्वेनापि स्मृ. तिमायाते सर्प प्रतीयमाने मसपि तस्मात्सन्नि बिभेति भयं न प्राप्नोति यथा यद्वत् ॥ २६ ॥ दान्तिकमाह द्वाभ्याम् । तथा मूढसमाधानाद्गतः संसारविस्मृतिम् । यदा व्युत्थानमाप्नोति तदा संसारजं भयम् ॥२७॥ तथेति । तथा तद्वन्मूढसमाधानान्मूढत्वपूर्वकं यत्समाधानं भवप्रत्ययसंज्ञकं तस्माद्धेतोः संसारविस्मृति संसारस्य जन्ममर- णादिरूपप्रपञ्चस्य विस्मृति विस्मरणमभानमित्यर्थः, गतः प्राप्तो भवति, स पुरुषो यदा यस्मिन्समये व्युत्थानं प्रपञ्चस्फुरणरूपं जागरणं ततः समाधेरामोति आयाति तदेत्यध्याहार्य तदा तस्मिन्काले संसार संसाराज्जन्ममरणादिरूपाज्जातं भयं भीति प्रामोति ॥ २७॥ किश्च। यदि विद्वत्समाधानाद्गतः संसारविस्मृतिम् ।

अवस्थाव्यवस्था। यदा व्युत्थानमाप्नोति बाधितत्वाहिभेति न ॥२८॥ यदीति । स पुरुषो यदि यहि विद्वत्समाधानाज्ज्ञानपूर्व यत्समाधानं समाधिस्तस्माद्धेतोः संसारविस्मृति संसारस्य ज- न्ममरणसुखदुःखादिरूपस्य प्रपञ्चस्य विस्मृतिमभानं गतः प्राप्तो भवति, स च यदा यस्मिन्समये ततः समाधेयुत्थानं प्रपञ्चस्फुर- णरूपं जागरणमाप्नोति आयाति तदेसध्याहार्य तदा तस्मि- न्समये प्रपञ्चस्य पूर्वसंस्कारेण प्रतीतापि बाधितत्वादसत्त्वेन निश्चितत्वान्न बिभेति भयं न प्राप्नोति ॥ २८ ॥ ननु प्रपञ्चविस्मरणादेव कृतार्थता न बाधितत्वेनावलोक नादित्याग्रहं कुर्वाणं प्रत्याह । यदि विस्मरणादेव मुक्ति विति देहिनः । सुषुप्तिर्जायते नित्यं तया मुक्तो न किं भवेत्॥२९॥ यदीति । यदीति सम्भावनायां देहाभिमानिनो जीवस्य विस्मरणादेव प्रपञ्चभानाभावादेव केवलं ज्ञानं विना मुक्ति- मोक्षो भवेदिति सम्भाव्यते, तर्हि तदा नित्यं सर्वदैव सुषुप्तिर्निद्रा जायते भवति तत्र प्रपञ्चविस्मृतिसत्त्वेपि विना बोधतया सुषुप्त्या मुक्तो मोक्ष प्राप्तो न किं भवेत्कुतो न भवेन्न स्याद्यदि विस्मृ. सैव कृतार्थना स्यात्तह्यलं गुरुसेवादिप्रयनैरितिभावः ॥ २९ ॥ तस्मात्तुरीया सर्वासामुत्तमा च विलक्षणा । षडप्यवस्था एतस्याः कलां नार्हन्ति षोडशीम्॥३०॥ तस्मादिति । तस्मात्कारणात्सर्वासां सर्वावस्थानां मध्ये तु- रीया तुर्यावस्थोत्तमा श्रेष्ठा विलक्षगा लक्षणैरपि भिन्नास्ति, तदेवोक्तं तुर्यश्रौष्ठ्यं पुनढयति षडपीति, षडपि षड्संख्याका ।

बोधसारे। अपि जाग्रत्स्वमसुषुप्तिमूर्छामृत्युमूढसमाध्याख्या अवस्था ए- तस्यास्तुरीयाया अवस्थायाः षोडशी षोडशसंख्याकां कलामंशं नाईति नाप्नुवन्ति अतस्तुर्यावस्था सर्वावस्थासु श्रेष्ठेति ज्ञेया॥३०॥ सा च श्रद्धादिसाधनविना कर्मभिस्तत्साध्येषु लोकेषु न लभ्यत इत्याशयेनाह। आब्रह्मकल्पं गरुडो यदि धावेत्सवेगतः । न चाप्नोति तथाप्येनं दूराद्र्रतरैव सा ॥ ३१ ॥ आब्रह्मेति। गरुडो वैनतेय आब्रह्मकल्पं ब्रह्मणो विरिश्चेः कल्पं नाशमाऽभिव्याप्येसाब्रह्मकल्पं द्विपराधकालपर्यन्तमित्यर्थः, सवे- गतः स्वसंभ्रमेण सह धावेत शीघ्रं गच्छेद्यदि यहि तथापि तोप सा तुर्यावस्थैनं गरुडं न चाप्नोति नैव प्राप्नोति च पुनरारतरैव दूरतोपि दुरा भवति विना ज्ञानादिसाधनैर्न माध्यत इति भावः । तर्हि कैः साधन प्राप्यत इसाशक्य तानि दर्शयति । श्रद्धा यद्यस्ति वेदान्ते तीव्रा यदि मुमुक्षुता । ध्यानाभ्यासस्तथा गाढः सर्वत्र सुलभैव सा ॥३२॥ श्रद्धेति । कस्यापि पुरुषस्य वेदान्ते वेदान्तशास्त्रे श्रद्धा वि. श्वासरूपान्तःकरणवृत्तिर्यदि यहि स्याद्भवेत्तथैव तद्वदेव तीत्रा- ऽनवच्छिन्ना दृढेत्यर्थः, मुमुक्षुता मोक्षेच्छुत्वं यदि यहि स्याद्भ- वेत्तथा तद्गाढो दृढो निरन्तर इत्यर्थः, ध्यानाभ्यासो ध्यानं विजातीयमत्ययानन्तरितसजातीयात्ममययप्रवाहरूपं तस्मिन्न- भ्यासः पुनः पुनरावर्त्तनरूपो यदि यहि स्याद्भवेत्तर्हि सा तुर्या- वस्था सर्वत्र स्ववासस्थानेऽन्यत्र ब्रह्मलोकादिनरकान्तस्थाने- अवस्थाव्यवस्था। , , ध्वपि, यद्वा सर्वत्र स्वस्य जाग्रदादिषडवस्थास्वपीत्यर्थः, मुलभैव मुखेन लब्धुं शक्यत्यर्थः, स्वरूपत्वादिति भावः ॥ ३२ ॥ उकावस्थासु मध्ये तिमृणां निष्फलतामाह । मृत्युमूर्छासुषुप्तिश्च न तपस्तेन निष्फलाः । रूढमूढसमाधानं तप उग्रं महाफलम् ॥३३॥ मृत्युरिति। मृत्युमरणावस्था पीडादिना देहाद्यज्ञानरूपा मूर्छा- वस्था मुषुप्तिश्च निद्रापि लोकप्रसिद्धा-एतास्तिस्रोऽवस्था न तपः। तप इत्युपलक्षणं पारलौकिककर्माद्यभावेनैहिकसुखसाधनकर्माध- भावाच तेन कारणेन निष्फला निष्पयोजना भवन्ति अत- हतासु अतीवानादरः कर्तव्य इति भावः, सांसारिकफलेप्मुभिस्तु मूढसमाधावेवादरो विधेयो न मुमुक्षुभिरित्याशयेनाह रूटेति, रू- ढमूढसमाधानं रूढं प्राप्तं मूढत्वपूर्वकं समाधानं समाधिरुग्रं शापानुग्रहसामर्थ्यजनकमतो महाफलं महच्छ्रेष्ठं फलं राज्यादिकं यस्मात्तत्तथोक्तं तपस्तपो भवति अतस्तत्र सांसारिकफलेप्मुभिरे- वादरो विधेयो न मुमुक्षुभिरिति भावः ॥ ३३ ॥ मुमुक्षुभिस्तु तुर्यायामेवादरो विधेय इत्याशयेन तुर्यास्व- रूपं तत्फलं च निरूपयति । विद्या विद्वत्समाधिस्तु तेन मोक्षप्रदो हि सः । सप्तानामप्यवस्थानामेवंरूपा व्यवस्थितिः ॥३४॥ विधेति। विद्वत्समाधिस्तु विदुषां ज्ञानिनां समाधिः समं ब्र- माऽऽधीयते साक्षाक्रियतेऽस्मिन्निति समाधिस्तुर्यावस्था तु- पदेन मूढसमाधेरस्यातिवैलक्षण्यं सूचितं, विद्या ज्ञानमेवास्ति स विद्वत्समाधिस्तेन विद्यारूपत्वेन मोक्षमदो मोक्षस्य मुक्तः प्रदो दाता भवति हि प्रसिद्धमेतद्विद्वत्सु अतो मुमुक्षुभिरत्रैवादरो बोधसारे। विधेय इति भावः, उक्तमवस्थानिर्णयमुपसंहरति सप्तानामिति, हे शिष्य सप्तानामपि सप्तसंख्याकानामपि अवस्थानां स्थितीनां व्यवस्थितिय॑वस्या मर्यादेत्यर्थः, एवंरूपैवमीदृशं रूपं स्वरूपं यस्याः सा तथोक्ता ज्ञेया ॥ ३४ ॥ एवं सप्ताप्यवस्था निरूप्येदानीमेतत्सप्तावस्थानिरूपणं सप्तावस्थावच्चित्तसाक्षिचिन्मात्रज्ञानार्थनिरूपितमिति द्योतयति । सप्तावस्था इमाः सन्ति चित्तस्यैव चितेस्तु न । अवस्थाभवनं चित्तमवस्थासाक्षिणी तु चित् ॥३५॥ सप्तेति । इमा निरूपिताः सप्त सप्तसंख्या अवस्था भू- मयश्चित्तस्यैवान्तःकरणस्यैव सन्ति विद्यन्ते, चितस्तु अवस्थासा- क्षिचिन्मात्रस्यात्मवस्तुनस्तुपदेनात्मनोऽन्तःकरणान्मदैलक्षणं सूचितं, नैव सन्ति । कुतः इत्यत आहावस्थेति, अव- स्थाभवनमवस्थानां जाग्रदादितुरीयान्तानां स्थितीनां भवनं क्षेत्रं गृहं बोतत्पादकत्वानिवासत्वाच्च चित्तमन्तःकरणमस्ति चिच्चैतन्यं तद्विलक्षणाऽस्ति, तदेव वैलक्षण्यमाहाऽवस्थेति, अवस्थासाक्षिण्यवस्थानां सप्तानां भूमीनां साक्षिण्यव्यवधानेन प्रकाशिका ऽस्ति ॥ ३५॥ एतत्प्रकरणाभ्यासफलमाह । अवस्थानां व्यवस्थेयं यदि भूयो विभाव्यते । अवस्थानां तदा साक्षी साक्षात्प्रत्यक्षमीक्षते ॥३६॥ अवस्थानामिति । यदि यहीयं निरूपिताऽवस्थानां सप्त संख्याकानां स्थितीनां व्यवस्था व्यवस्थितिमर्यादेत्यर्थः, भूयः पुनः पुनर्विभाव्यते विचार्यते तदा तर्हि अवस्थानां जाग्रदा- दीनां सप्तावस्थानामेतद्विचारकः साक्षी साक्षादव्यवधानेन प्र- अवस्थाव्यवस्था। " काशकश्चिन्मात्ररूपोऽहमस्मीति साक्षात्मसक्षमेव स्वयं प्रत्य- क्षमपरोक्षं यथा तथेक्षते पश्यति जानातीत्यर्थः, अतो मुमु- क्षुभिः सर्वदेवेयं विचार्येति भावः ॥ ३६ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायांबोधसारार्थदीप्ता- वस्थाव्यवस्थार्थप्रकाशः पञ्चदशः ॥ १५ ॥ अथमुनीन्द्रदिनचर्या । एवमवस्थाव्यवस्था निरूप्येदानी तत्फलभूतचिन्मात्रस्व- रूपेऽवस्थाऽवस्थातत्साक्षिणि मनःस्थिरतासिद्ध्यै मुनीन्द्रदिनच- यामिषेण तत्स्वरूपं निरूपयिष्यन्मुनीन्द्रदिनाख्यं साध्यशीत्यु- त्तरशतश्लोकं प्रकरणमारभते, तत्र चावान्तरमकरणानि जाग- रण शौच प्रातःस्मरण स्नानकाल स्नान वस्त्रधारण पवित्रादि- धारणाचमन प्रातःसंध्या प्राणायामार्घदान गायत्रीजपोपस्था- न सहोमाङ्गहोम यज्ञशालादिमायश्चित्ताग्न्शुद्धरणहोमाहुत्यन्त- ब्रह्मयज्ञ तर्पण देवपूजा देवपूजोपयुक्तशास्त्रार्थ पञ्चमहायज्ञोपयज्ञ दान मध्यान्हसंध्या वैश्वदेव बलिदान भोजन ताम्बूलग्रहण- वामकुक्षिशयन पुराण सायंसंध्या रात्रिकृत्य दिनचर्याफल- निर्णयाख्यानि क्रमेण त्रि चतुः पञ्च त्र्यैकैक साधयेक सार्वत्रि षोडश त्रि चतुर्द्वि पञ्चदश पञ्चैक चतुर्दश सप्तक त्र्यैकैकैकै- कैकैक द्वि सार्द्धदासप्तति द्विद्वि त्रीणि श्लोकानि क्रमेणोपन्य- स्तानि, तत्र तावत्तां मुनीन्द्रदिनचर्या प्रतिज्ञातां निरूपयितुं भतिजानीते। अथ मुनीन्द्रदिनचर्या । अथेति । अथावस्थाव्यवस्थानिरूपणानन्तरं मुनीन्द्रदिनचर्या मुनयो मननवन्तस्तेषामिन्द्राः श्रेष्ठास्तेषां दिनं वक्ष्यमाणमहस्तस्य AN बोधसारे। सम्बन्धिनी चर्याऽऽचारो मुनिसम्बन्धिदिवसे मुनीनामेवाचार इयर्थः, निरूप्यत इति शेषः। एवं प्रकरणनिरूपणं प्रतिज्ञायेदानी मुनीन्द्रदिनचर्यानिरूपणे स्वप्रयोजनमाह । विचित्राक्षरविन्यासैः पवित्रार्थकथारसैः पावयामि निजां वाणी मुनीन्द्रदिनचर्यया ॥१॥ विचित्रेति । अहं विचित्राक्षरविन्यासैविचित्रा अक्षराणां विन्यासा वर्णस्थापना येषु पदेषु तैस्तथा पवित्रार्थकथारसैः प- वित्रोऽर्थो यासां कथानां तास्तथोक्ताः कथास्तासां कथानां रसाः मुखविशेषा यत्र विद्यन्ते तथाभूतैः पदैर्युक्तयेति शेषः, मुनीन्द्रादिनचर्यया मुनीन्द्रा मुनिश्रेष्ठाः पश्चपभूमिकाधारूढा- स्तेषां दिनं स्वात्मनः साक्षात्मकाशरूपं तत्र या चर्याऽऽचार- स्तया तत्प्रतिपादकेन प्रकरणेनेत्यर्थः, निजां स्वीयां वाणी भाषा पावयामि पवित्रां करोमि, एतदेव स्वप्रयोजनमिति भावः॥१॥ एवं स्वप्रयोजनमभिधायेदानीमेतत्प्रकरणम्य भामाण्यायै- तत्संप्रदायज्ञानाय च गौरीमहेश्वरसंवादेनैतत्प्राकट्यं दर्शयति । गौरी महेश्वरः प्राह चिदानन्दमयी स्थितिम् । वदामि तन्मतच्छायां दिनचर्यापदेशतः ॥ २ ॥ गौरीमिति । महेश्वरो महान्ब्रह्मादिष्वांतश्रेष्ठः स चासा: वीश्वरः सर्वनियन्ता सदाशिव इयर्थः, गौरी पार्वती प्रति चि. दानन्दमयीं चिच्चेत्यरहितं चिन्मात्रं तदभिन्नो य आनदस्तद्रूपां स्थितिमवस्था प्राधान्ये मय माहोक्तवानहमपि अत्र प्रक- रणे दिनचर्यापदेशतो दिनस्य मुनीन्द्रसम्वन्धिदिवसस्य चर्या मुनीन्द्राणामेवाचारस्तस्या अपदेशो व्याजं तेन कृत्वा सार्ववि- भक्तिकस्तांसः, तन्मतच्छायां तस्य शिवस्य यन्मतं चिदभिन्नमुः मुनीन्द्र प्रातर्जागरणनिर्णयः । खनिरूपकाभिप्रायस्तस्य च्छायामंशमात्रमियर्थः, वदामि कथयामि अत एतत्प्रकरणनिरूप्यार्थस्य प्रामाण्यमिति भावः ॥ २॥ इदानी मुनीन्द्राणां दिनचर्या निरूपयितुं मुनीन्द्रदिनबो- धनाय तत्मातर्जागरणं लक्षयति । यस्मिञ्जागरणे प्राप्ते पुनर्निद्रा न जायते । सुमङ्गलं मुनींद्राणां प्रातर्जागरणं हि तत् ॥ ३ ॥ इति बो० मुनीन्द्र प्रातर्जागणनिर्णयः प्रथमः ॥१॥ यस्मिन्निति । लौकिकार्थस्तावद्यस्मिन्मसिद्धे लौकिके जागरण इन्द्रियैरर्थोपलब्धिर्जागरितमित्युक्तलक्षणे जागरिते प्राप्ते लब्धे सति पुनर्भूयस्तादने निद्रा सुषुप्तिरिन्द्रियैः सहा- न्तःकरणस्य कारणाज्ञानमात्रस्थितिः सुषुप्तिरित्युक्तलक्षणा न जायते न भवति तदुक्तलक्षणं मुनीन्द्राणां श्रेष्ठकर्मशास्त्रज्ञा- निनां विधिनिषेधज्ञानवतामित्यर्थः, पातर्जागरणं सूर्योदयात्मा- गुपलक्षिते प्रातः प्रभाते जागरणं जागृतिज्ञेयं हि प्रसिद्धमेत- सर्वजनेष्वित्यर्थः, प्रकृतेर्थे तु यस्मिन्प्रपञ्चप्रसिद्धविलक्षणे जा- गरणे स्वस्वरूपस्फुरणलक्षणे जागरिते 'यो जागार तमृचः का- मयन्ते यो जागार तमु सामानि यन्ति यो जागार तमयं सोम आह तबाहमस्मि सख्येन्योकाः, इति श्रुतेः। 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशापश्यतो मुने' ॥ इति। स्मृतेश्च, प्राप्ते लब्धे सति सोहमिति स्वात्मन्यनुसं- हिते सतीसर्थः, पुनर्भूयो निद्रा स्वरूपास्फुरणरूपा मु- प्तिर्लोकप्रसिद्धा निद्रापि न जायते न प्रादुर्भवति सत्त्ववनी न भवतीत्यर्थः, मुनीन्द्राणां मननशीलेषु श्रेष्ठानां पञ्चम्याद्या- ३२६ बोधसारे। सदानामित्यर्थः, सुमङ्गलं शोभनं मङ्गलं मोक्षरूपं यत्र तदुक्तल- क्षणं प्रातर्जागरणं चिदादित्योदयोपलक्षिताहं ब्रह्मास्मीति वृत्तौ भवं प्राभातिक जागरणं जागृतिर्भवति हि एतद्विद्वत्सु प्रसि- दमित्यर्थः ॥ ३॥ इति श्रीनरहरिशिष्यदि० बोधसारा० मुनीन्द्रदिनचर्यार्थ- प्रकाशे प्रातर्जागरणार्थप्रकाशः प्रथमः॥१॥ amasomamme अथ शौचनिर्णयः। एवं मुनीन्द्राणां जागरणं निर्णीयेदानी तेषामेव शौचं निर्णतुं मुनीन्द्रशौचनिर्णयाख्यं चतुःश्लोकं प्रकरणमारभते, त- त्रादौ मुनीन्द्राणां शौचं प्रदर्शयितुमशौचकारणमाह। देहेन्द्रियमनःप्राणबुद्ध्यहङ्कारचेतसि । अशुचावात्मभावोसावशुचित्वस्य कारणम् ॥७॥ देहोति । देदेन्द्रियमनःप्राणबुद्ध्यहङ्कारचेतसि देहश्च कायः, इन्द्रियाणि च श्रोत्रत्वक्चर्रसनघ्राणाख्यानि पञ्च शब्दस्प- शरूपरसगन्धज्ञानकरणानि, वाक्पाणिपादपायूपस्थाख्यानि पञ्च वचनादानगमनविसर्गानन्दाख्यक्रियासाधनानि, मनश्च संशय- रूपान्तःकरणवृत्तिः, बुद्धिश्च निश्चयात्मिकान्तःकरणवृत्तिः, अह- कारश्चैतेषु तादात्म्यभ्रमरूपान्तःकरणवृत्तिः, चेतश्च स्मृतिप्रत्य- भिज्ञानुभवकरणरूपान्तःकरणत्तिः, एतेषां समाहारे द्वन्द्व एक- वद्भाव एकवचनान्तमयोगः, एतस्मिन्समूह आविद्यकत्वेन म- लिनत्वादशुचावशुद्ध य आत्मभाव आत्मानं विस्मृसात्मनः सत्तां तत्रारोप्य तस्मिन्नात्मप्रतीतिरसौ सोऽनात्मन्यात्म- भावोऽशुचित्वस्य परमशुद्धात्मन्यशुद्धतायाः कारणं निमित्तं मुनीन्द्रदि० प्रातःशौचनिर्णयः। भवति अतः शौचमपेक्षितमिति भावः, लोके तावदेहे विड्मू- त्रादिना मलिनद्रव्येण लिप्से सति अशुचित्वं यत्पतीयते, इन्द्रियेषु चाशुचिशब्दादिश्रवणादिनाऽशुचित्वस्फूर्त्याऽशुचित्वं, मनसि माणे च तेषामशुचित्रसङ्कल्पादिनाऽशुचित्वं, बुद्धौ च तेषाम- शुचित्वनिश्चय एवाशुचित्वम्, अहङ्कारे च तेषु आत्मतादात्म्ये- नाहमशुचिरियशुचित्वं, चेतसि तु तेषामहङ्कारादिदेहान्तानाम- शुचित्वानुसन्धानरूपमशुचित्वम, इदमेव सर्वमशुचित्वस्य कारणं भवति अत एवैतदनुसन्धानाभाव आवालगोपमाशौचविध्य- भावोपि दृश्यत इति भावः ॥१॥ एवमशुचित्वकारणं निरूप्येदानीं शौचं विधत्ते । साक्षित्वभावनातोयैस्तथा वैराग्यमृत्स्नया । गन्धलेपक्षयकरं शौचं कुर्यादतान्द्रतः ॥ २ ॥ साक्षित्वेति । यथा लोके निर्मलोदकेन शुद्धमृदा च मलमू- त्रादिधावनपूर्वकं तद्न्धनित्तिपर्यन्तं गुदहस्तपादादिप्रक्षालनरूपं शौचमालस्यं परित्यज्य क्रियते तद्वदत्र अतन्द्रितोऽनलसो भूत्वीत शेषः, आलस्यं परित्यज्य प्रवर्त्तमान इत्यर्थः, एतादृशो मुनिः साक्षित्वभावनातोयैदेहादिचित्तान्तेषु यत्साक्षित्वं सा. क्षादव्यवधानेन प्रकाशयितृत्वं स्वस्य तस्य भावना चिन्तन- मखण्डसच्चिदानन्द आत्माहमितिअनुसन्धानमित्यर्थः, तदेव स- वमलक्षालकत्वात्तोयानि जलानि तैः कृत्वा तथा तद्वैराग्य- मृत्स्नया विगतो रागो यस्मात्स विरागो ब्रह्मलोकान्तसर्व विष. येषु विरसस्तस्य भावो वैराग्यं देहादिचित्तान्तेष्वनात्म- पदार्थेषु विरसत्वामित्यर्थः, तदेव तेषु स्वस्य वासनारूपगन्धनि- वर्तकत्वान्मृत्स्ना प्रशस्ता मृत्तया 'प्रशस्ता तु मृत्स्ना मृत्सा च मृ.

बोधसारे। त्तिके समरसिंहः, गन्धलेपक्षयकरं गन्धस्याहङ्कारचित्तादिदेहा- न्तेषु अनात्मभूतेषु वासना एवं गन्धवत्तदाश्रयद्रव्यस्मारकत्वा- द्वन्धस्तस्य लेपः सम्बन्धः स्वस्मिन्तेषां साक्षिभूते पूर्वकालिक- तादात्म्याध्याससंस्कारेण स्फुरणात्तद्वत्त्वप्रतीतिरूपस्तस्य भयो नाशस्तस्य करं कारकमिति शौचविशेषणं शौचमनात्मभूतदेहा- दिचित्तान्तपदार्थानां सत्त्वपूर्वकस्फूर्तिनिरासरूपं शुद्धात्मस्फूर्ति- रूपं वा कुर्यात्सम्पादयेद्, यद्वा गन्धलेपक्षयकरमिति क्रियावि- शेषणं तस्मिश्च पक्षे गन्धलेपक्षयकरं यथा भवति तथा शौचं सम्पादयेदियर्थः ॥ २॥ एवं पादादिप्रक्षालनरूपशौचवन्मुनीनां पूर्वाङ्गभूतं शौचं निरूप्येदानी मङ्गलपदार्थदर्शनस्पर्शनलक्षणशौचवच्छौचं मुनि- सम्बन्धि दर्शयति अर्धन एवं विधेन विधिना यत्सर्व मंगलार्जनम् । एतदेव मुनीन्द्राणां प्रातःशौचं विशुद्धिकृत ॥३॥ एवमिति । एवं विधेनोक्तप्रकारेण विधिना शौचानुष्ठा- नेन यद्यादृशं सत्र सर्वशब्दवाच्यं द्वैतजातं व्यवहारकाले स- माधिकाले च तद्बाधेन ब्रह्मैव प्रतीयते तत् 'सर्व खल्विदं ब्रह्मे- तिश्रुतिदृष्ट्या ब्रह्मैवेति मङ्गलार्जनं मङ्गलस्य शुभस्यार्जनं सम्पा- दनमेव ज्ञेयं, उक्तं शौचमुपसंहरति एतदेवेति, मुनीन्द्राणां श्रेष्ठमु- नीनां पञ्चम्यादिभूमिकारूढानामियर्थः, विशुद्धिकदेहादिम- लनिरासकत्वादत्यन्तशुद्धिकारकं प्रातःशौचं लौकिकपात शौ- चवत्मातर्ज्ञानसूर्योदयोपललितपञ्चम्यारोहणलक्षणे काले शौचं शुद्धिकारणं कमैतदेवोक्तलक्षणमिदमेव क्षेयं ना- न्यल्लोकमसिद्धं गुदहस्तपादादिप्रक्षालनरूपं दर्पणधेनुसूर्यादि दर्शनरूपमङ्गलार्जनरूपं वा तत्तु सर्व लौकिकमात्रमिति भावः॥३॥ भात:- मुनीन्द्र० प्रातःस्मरणनिर्णयः। एवं हस्तपादादिप्रक्षालनशौचवच्छौचं मङ्गलपदार्थदर्शन- स्पर्शनं च मुनीनां निरूप्येदानी मुखप्रक्षालनं मुनीनामाह । ज्ञानयोगप्रसन्नानां मुमुक्षा मुखमुच्यते । श्रद्धाजलेन तच्छुद्धिर्मुखप्रक्षालनं हि तत् ॥ ४ ॥ ज्ञानयोगेति । लोके तावत्मसिद्धमुखस्यैव प्रसिद्धजल- इन्तमार्जनचूर्णादिना शुद्धिः प्रसिद्धा, ज्ञानिनां त्वेतद्विलक्षणा ज्ञानयोगमसन्नानां ज्ञानमेव जीवब्रह्मैक्यप्रमारूपं महावाक्यजन्यं शानमेव जीवब्रह्मयोगकारणत्वाद्योगस्तस्मिन्तेन वा प्रसन्नानां शुद्धान्तःकरणानां वैराग्यपूर्वकतदभ्यासनिष्ठानामित्यर्थः, मुमुक्षा तोत्रा मोशेच्छा प्रथमभूम्यारूढचित्तवृत्तिरेव मुखं भोजनसाधनं मुखमिव 'चेतो मुख' इति श्रुतेः, मुक्तिसुखभोजनसाधनत्वान्मुख- मुच्यते कथ्यते विद्वद्भिरिति शेषः, एवं ज्ञानिनां मुखं पदये- दानी मुनीन्द्राणां तत्प्रक्षालनमाह श्रद्धेति, श्रद्धाजलेन मुमुक्षा- ख्यभूम्युत्तरभूमिका विचारणादिकास्तदभ्यासे श्रद्धा विश्वासः सैव मोक्षेच्छानिवृत्तिक्रमेण मोक्षप्राप्साऽत्यन्ततत्मक्षालकत्वाज- लमिव जलं तेन तच्छुद्धिस्तस्य मुमुक्षाख्यमुखस्य शुद्धिर्मल- निवृत्तिर्भवतीति शेषः, नित्यमुक्तत्वनिश्चयेन स्वस्मिन्मुक्तीच्छा- भाववत्वं भवतीयर्थः, तदुक्तलक्षणं मुखप्रक्षालनं मुखधावनं हि ज्ञानिषु प्रसिद्धं ज्ञेयं, प्रसिद्धमुखमक्षालनं तु व्यवहारयोग्य- तामात्रापादकमिति भावः ॥ ४ ॥ इति श्रीनरहरिशिभ्यदि० मुनीन्द्रदिनचर्यार्थप्रकाये शौचनि. र्णयार्थप्रकाशो द्वितीयः॥२॥ अथ प्रातःस्मरणम्। एवं मुनीन्द्राणां प्रातःशौचं निर्णीयेदानीं तेषामेव प्रातःस्मरणं ४२२ बोधसारै। निणे तुं प्रातः स्मरणनिर्णयाख्यं प्रकरणं पञ्च श्लोकमभिदधान आहा प्रातः स्मरन्ति मुनयो देवस्य सवितुर्महः । वरेण्यं तद्धियः साक्षि तदेवास्मीति संततम् ॥१॥ अथेति । अथ प्रातःशौचनिर्णयानन्तरं प्रातःस्मरणं मुनी- न्द्राणामेव प्रातः प्रभाते ज्ञानसूर्योदयायागुपलक्षिते पञ्चमभूम्यु- दये तदारूढवृत्तौ स्मरणं चिन्तनं कथ्यत इति शेषः, लोके हि देव- ताग्रहपुण्यकर्मपुरुषादिस्मरणं क्रियते यथा तथा मुनीनामपि स्म- व्येष्टदेवतास्वरूपं निरूपयिष्यन्तत्स्मरणाय श्लोकानुदाहरति, तत्रादौ गायव्यर्थद्वारा तत्प्रतिपाद्यसर्वजगत्कारणत्वाद्युपलक्षित- ब्रह्माभिन्नात्मस्मरणमनुसन्धापयति प्रातरिति मुनयः पञ्चम्या- घारूढा जातसाक्षात्कारा इयर्थः, प्रातः स्वात्मयोदयोपलक्षित- कालात्याकाल: प्रातःकालत्तस्मिन्पञ्चम्यारोहणसमय इत्य- थः, सवितुर्मायोत्पादनशीलस्य सर्वजगत्कारण स्येत्यर्थः, देवस्य- स्वतो द्योतमानस्य स्वयं प्रकाशस्येत्यर्थः तस्यचिन्मात्ररूपस्यात्म- नस्तत्रुतिभिः परोक्षतेन निर्दिष्टं वरेण्यं वरणमङ्गीकारस्तद्योग्य मुखरूपत्वात्सर्वजनप्रार्थनाविषयमियर्थः, महश्चिद्रूपत्वात्मकाश- रूपं तेज इत्र तेजः कर्मभूतं धियः समष्टिबुद्धेः साक्षि अव्यवहितम. काशकं तदेव सर्वजगत्प्रकाशकलादिलक्षणरुपलक्षितमेवातः स- बुद्धिमाक्षित्वात्तस्य स्वस्य च व्यष्टिबुद्धिसाक्षित्वेन साक्षियात्र- खस्योभयत्रैक्यात्तत्पदलक्ष्यं ब्रह्मचैतन्यमेवाहम्पदलक्ष्यं कूटस्थ- चैतन्यमस्मि भवामीति एवं प्रकारेण स्मरन्ति अनुसन्दधतीति विद्वत्पक्षेऽर्थः, उपासनापक्षे तु मुनय उपासनाशास्त्रद्वारोपासना- ज्ञानवन्त इयर्थः, प्रातः सूर्योदयात्मागुपलक्षिते प्रभाते तद् 'येनमू- यज्योतिषा बाधसे तमो जगच्च विश्वमुदियर्षि भानुने ति श्रुत्या तमो- बाधनसर्वजगत्प्रकाशकत्वादिगुणविशिष्टं निरूपितं वरेण्यं सर्वै- मुनीन्द्र प्रातःस्मरणनिर्णयः । र्व्यवहारिजर्व्यवहारोपयोगितयेष्टव्यं यतो धियः साक्षि धियो ज्ञानेद्रियविशेषस्य चक्षुषः साक्षि साक्षादव्यवधानेन प्रका- शकं सवितुः सूर्यस्य देवस्य प्रकाशरूपस्य महस्तेजस्तदेवोक्तलक्ष- णमेव तेजोऽहं चक्षुःक्रियाभिमानी द्रष्टा चक्षुषः पृथगसत्त्वेन द्रष्टु- रपि तथात्वात्सूर्यतेजोमात्ररूप एव द्रष्टाहमस्मि भवामीत्येवं स्म- रन्ति चिन्तयन्ति तेषां फलं मूर्यत्यमाप्तिरूपं श्रुतिषूक्तं, ज्ञानिनान्तु पूर्वोक्तलक्षणेन स्मरणेन ब्रह्मत्वप्राप्तिरूपं फलं च भवतीति- ज्ञेयम् ॥१॥ इदानीं जाग्रत्स्वमसुपुप्त्याख्येऽवस्थात्रयेऽभिन्नत्वेन लक्षि- तेऽहम्पदलक्ष्येऽहम्पदवाच्यचिदाभासैक्यानुसन्धानलक्षणं प्रात:- स्मरणं विदुषामाह। अन्वयव्यतिरेकाम्या जाग्रत्स्वप्नसुषुप्तिषु । यदेकं केवलं ज्ञानं तदेवाहमहं हि तत् ॥२॥ अन्वयेति । जाग्रत्स्वमसुषुप्तिषु जायचेन्द्रियैरर्थोपलब्धि- र्जागरितमित्युक्तलक्षणा जागरावस्था, स्वप्नश्च जाग्रदृष्टश्रुता- नुभूतविषयसंस्कारवासनावासितबुद्धौ प्रपञ्चाभासरूप इत्यु- क्तलक्षणा स्वप्नावस्था, सुषुप्तिश्च जाग्रत्स्वप्नविषयाकारवृत्तिभिः सहत्र बुद्धेलयेन कारणाज्ञानमात्रात्मतया स्थितिरित्युक्तलक्षणा निद्रा, एतासु तिसृष्ववस्थासु अन्वयोऽनुवृत्तिानस्य व्यतिरेको व्यावृत्तिरवस्थानां परस्परं ताभ्यां कृत्वा ज्ञानं विनाऽवस्थापका- शाभावाज्ज्ञानस्यान्वयोऽवस्थासु अन्योन्यस्यामवस्थाऽभावद- शेनादवस्थानां व्यतिरेक इति विवेकस्ताभ्यामेव लक्षितं यत्के- वलमभिन्नं ज्ञानमस्ति तदेवावस्थात्रयेण तद्तत्रिपुटीभिश्चा- स्पृष्टत्वादभिन्नमत एव सजातीयविजातीयस्वगतभेदरहितं ज्ञानं कूटस्थचैतन्यमस्ति तदेवोक्तलक्षणं कूटस्थचैतन्यमेवाहमहम्प- बोधसारे। दवाच्यो देहद्वयविशिष्टश्चिदाभासोऽस्मि भवामि उपाधिवि. विक्तस्य चिदाभासस्य कूटस्थज्ञानाभिन्नत्वमुभयोर्लक्षणैक्या- दिति भावः, अन्वयमुखेनोक्तं कूटस्थचिदाभासयोरैक्यं व्यतिरे- कमुखेनाप्याहाऽहमिति, अहमहम्पदवाच्यश्चिदाभासस्तत्कूटस्थ- चैतन्यमस्मि भवामि हि एतच्चिदाभासकूटस्थचिदात्मनोरैक्यं यदुक्तं तद्विद्वत्सु श्रुतिष्वपि प्रसिद्धमिति घोतितं हिपदेन । 'न पृथ्वी न जलं नामिर्न वायुधौने वा भवान् । एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये, ॥ इत्यादिश्लोकैरयमेवार्थो विद्वद्भिः प्रदर्शितः । श्रुतयश्च, 'जाग्रत्स्वप्नसुषुप्यादिप्रपञ्च यत्प्रकाशते । तब्रह्माऽहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते । इत्यादयश्चास्मिन्नर्थेऽनुसन्धातव्याः॥२॥ इदानी ज्ञानाज्ञानादिसर्वप्रपञ्चप्रकाशयितृत्वेन सस्मिन्नेव- ज्ञाने ब्रह्मलक्षणसम्भावनेन स्वस्मिन्नहम्पदवाच्ये चिदाभासे तदभिन्नत्वानुसन्धानरूपं विदुषां प्रातःस्मरणमाह । ज्ञानाज्ञाने तद्विषयौ तदहङ्कार एव च । प्रकाश्यन्ते येन भूम्ना तदहं ह्यहमेव तत् ॥ ३॥ ज्ञानाज्ञाने इति । ज्ञानाज्ञाने ज्ञानं च घटपटादिप्रतीतिरूप- मज्ञानं च पटाद्यभानरूपं ते उभे तद्विषयौ च तयोर्ज्ञानाज्ञानयो- विषयौ ज्ञानविषयो ज्ञानप्रकाश्यो ज्ञातघटोऽज्ञानविषयोऽज्ञाना- वृतोऽज्ञातघटस्तौ च च पुनस्तदहकारस्तयो नाशानयोरह- ङ्कारो ज्ञान्यहमज्ञान्यहमित्यपि एते सर्वे येन स्वयं प्रकाश- त्वेन प्रसिद्धेन भून्ना व्यापकेन चैतन्येन प्रकाश्यन्ते प्रकाशिता भवन्ति ज्ञानाज्ञानयोस्तत्सन्धौ च ज्ञाताज्ञातविषययोस्तत्सन्धौ मुनीन्द्र प्रातःस्मरणनिर्णयः। च ज्ञानाज्ञानाहम्भावयोस्तत्सन्धौ च तेषां सर्वेषां प्रकाशयित- त्वेन विद्यमानत्वात्सत्त्वं ज्ञात्रादित्रिपुटीनां तत्सन्धौ च भान- रूपेणानुवृत्तत्वाद्यापकत्वं च तस्य ज्ञेयं, तमाख्यं चैतन्य- महमहम्पदवाच्यं साधिष्ठानमाभासचैतन्यं समष्ट्यहम्पदवाच्य- चैतन्यतल्लक्ष्यसर्वजगत्प्रकाशक चैतन्ययोरैक्येन तस्य व्यष्ट्यह- कारादिसाक्षिचैतन्यस्य च प्रकाशमानलक्षणैक्यादभिन्नत्वं सा- क्षिचैतन्याहम्पदवाच्यचैतन्ययोरपि उपाधिनिरसनेन वास्तव- मभिन्नत्वमिति भावः, अस्मि । अन्वयमुखेनोक्तं व्यतिरेकमुखे- नाहाऽहमिति, अहमेव तदहम्पदवाच्याभिन्नतल्लक्ष्यः कूट- स्थमात्र तमाख्यचैतन्यमस्मि हि प्रसिद्धमिदं विदुषा- मिसर्थः ॥ ३ ॥ इदानीं बारीरत्रयतदभिमानित्रयप्रकाशककूटस्थचैतन्यस्य शारीरत्रयनिरासेन तत्स्थचिदाभातस्य चक्पानुसन्धानरूपं वि- दुषां प्रातःस्मरणमाह। विश्वश्व तैजसः प्राज्ञो नास्म्यहं सत्स्वरूपतः । यतस्ते तु प्रकाश्यन्ते तदहं नास्मि चेतरत् ॥ ४ ॥ विश्व इति । विश्वः स्थूलदेहतादात्म्यापन्नो जाग्रदभिमानी विश्व इत्युच्यते सोऽहं नास्मि न भवामि, तथा तैजसस्तेजोम- यान्तःकरणरूपलिङ्गशरीरतादात्म्यापन्नः स्वप्नाभिमानी तैजस इत्युच्यते सोऽहं नास्मि न भवामि, तथा प्राज्ञश्च कारणशरी- राभिमान्यहमज्ञ इत्यनुभववान्प्राज्ञ इत्युच्यते स च सोप्यह नास्मि न भवामि, तत्र हेतुमाह सदिति, सत्स्वरूपतः सत्काल. त्रयाबाध्यं स्वं स्वीयं रूपं यस्य स तथोक्तो, यद्वा सत्कालत्र- १शहमेव तत्।

बोधसारे। याबाध्यं स्वं स्वतः सिद्धं स्वयमेव रूप्यत इति रूपः प्रकाशो यस्य स तथोक्तस्तादृशरूपत्वान्ममाऽतोऽहं ते न भवामीति योज्य, विश्वादीनामन्योन्यस्मिन्व्यात्तत्वात्तत्सन्धौ च तेषाम- भावात्तदसत्वं मम तु तज्ज्ञत्वेन तेष्वनुस्यूतत्वात्तत्सन्धौ च स- धिमकाशकत्वेन विद्यमानत्वात्सत्चमित्युभयो_लक्षण्य स्यानु- भूयमानतात्तेऽहं न भवामीति भावः, प्रकाश्यप्रकाशकत्वरूपं वै- लक्षण्यमप्यनुसन्धत्ते यत इति, ते विश्वतैजसपाज्ञा उक्तलक्षणा थतो यस्मानिर्विकारचैतन्यात्प्रकाश्यन्ते प्रकाशिता भव तत्तु सर्वदेहादिज्ञानविलक्षणं चैतन्यं ब्रह्म विश्ववैश्वानरयोस्तदु- पाध्योः समष्टिव्यष्टिस्थूलदेहयोश्च वनवृक्षयोस्तदवच्छिन्नाकाश- योजैक्यमिक्याजसहिरण्यगर्नयोश्च तदुपाध्योरपि समष्टिव्य- ष्टिलिङ्गशरीरयोर्वनवृक्षयोस्तदवच्छिन्नाकाशयोरैक्यवदैक्यात्तथा प्राज्ञेश्वरयोस्तदुपाध्योः समष्टिव्यष्टिकारणशरीरयोरपि तथै- क्यात्याज्ञादीनां प्रकाशक कचैतन्यस्यैव वैश्वानरादीनामपि प्रका- शकत्वाब्रह्मतमतो ब्रह्माभिन्नं तद्विश्वादिप्रकाशकं कूटस्थ- चैतन्यमहमहम्पदवाच्यार्थनिरासेनास्मि भवामि, इतरस्कूट- स्थचैतन्यादितरद्भिन्नं चिदाभासरूपं विश्वादिरूपं वा तदुपा- धिजातं वा तद्भिन्नं ब्रह्म वा ततश्च भिन्नं कूटस्थचैतन्यं वा ब्र- मप्रकाश्यमीश्वरादि चैतन्यं तदुपाधिभूतं समष्टिशरीरत्रयं वा- ऽहं नास्मि किन्तु सच्चिदानन्दाखण्डैकरस एवाहमस्मीति भावः, पाठान्तरे व्यतिरेकेणाहम्पदलक्ष्य कूटस्थस्य तत्पदलक्ष्यब्रह्मण- श्चाभेदोऽनुसन्धातव्यः ॥ ४ ॥ इदानीं ज्ञानाज्ञानप्रपञ्चतल्लयसाक्षित्वेन सर्वदा स्वसच्चिद्रू- पत्वानुमन्धानरूपं विदुषां प्रात:स्मरणमाह । ज्ञानाज्ञानप्रपञ्चेऽस्मिज्ञानाज्ञानेन नाशिते ।

मुनीन्द्रदि० मानकालनिर्णयः। यत्सच्छिष्टं परं ब्रह्म ह्यहं तन्नेतरत्स्मरेत् ॥ ५॥ ज्ञानेति । अस्मिञ्चैतन्यात्मनो मम प्रकाश्यत्वेन प्रत्यक्षे ज्ञानाज्ञानप्रपञ्चे ज्ञानं च साभासान्तःकरणत्तिरित्युक्तलक्षण- मज्ञानं च ज्ञानविरोधिभावरूपमज्ञानमित्युक्तलक्षणं तयोः प्र- पञ्चः ज्ञाताजातरूपस्तस्मिज्ञानाज्ञानेन ज्ञानं च साभासान्त:- करणवृत्तिरूपं तेनाऽज्ञानं च चिदाभासव्यक्तिहीनं ज्ञानविरोधि- भावरूपं तेन च समाहारे एकवद्भाको नाशिते नाशं प्रापिते सति ज्ञानाज्ञानयोः परस्परं विरोधाज्ज्ञानेन साज्ञानाज्ञातप्रप- चलयोऽज्ञानेन सज्ञानतत्पपञ्चलय इति विवेकस्तदा घटादि- ज्ञानाज्ञानभावाभावावस्थायां घटादिभावाभावावस्थायां दीप इव यदनिर्वचनीयं चित्स्वरूपं शिष्टमुर्वरितं तत्सत्कालत्रया- बाध्यमात्मचैतन्यं तदुक्तलक्षणमहमहङ्कारवृत्तिप्रतिविम्बित- चैतन्यरूपोऽहमस्मि अहङ्कारसाक्षिचैतन्यस्याहङ्कारप्रतिबिम्बि- तचैतन्यस्य च घटावच्छिन्नाकाशस्य तत्स्थजलप्रतिबिम्बिता- काशस्य चैत्यवच्चैक्यस्य पारमार्थिकत्वादिति भावः, अन्वयोक्तं व्यतिरेकेणापि दर्शयति हीति, अहमवृत्तिप्रतिबिम्बितश्चिदा- भासस्तदुपाध्यहङ्कारासत्त्वेनाभासस्य च पृथगसत्त्वेन तत्सद्रूपं ब्र- माभिन्न कूटस्थ चैतन्यमेवाऽस्मि भवामीतरत्कूटस्थचैतन्यावन्य- किमपि न नास्ति सत्यं न भवतीत्यर्थः, इसेवं स्मरेदऽनुस- न्दध्याद् हि एतत्कूटस्थचैतन्यचिदाभासचैतन्ययोरैक्यं विद्वत्सु प्रसिद्धीमति ह्यर्थः ॥५॥ इति श्रीनरहरिशिष्यदि० मुनीन्द्रदिनच० प्रातःस्मरणनिर्ण- यार्थप्रकाशस्तृतीयः ॥३॥ ROMANORAMA अथ स्नानकालनिर्णयः। एवं मुनीन्द्राणां प्रात:स्मरणं निरूप्येदानी तेषामेव ना.

बोधसारे। नकालनिर्णयपूर्वकं स्नानविधि निर्गतुं द्विश्लोकं स्नानकालीन- र्णयाख्यं प्रकरणमारभते, तत्र तावत्स्नानकाल एवं स्नानकर्त- ध्यतावश्यताया बौधायनस्मृतिमुदाहरति । अरुणकिरणग्रस्तां प्राचीमवलोक्य मायादिति वचनात्स्नानम् । अरुणेति । अरुणकिरणग्रस्तामरुणस्य सूर्यसारथेः कि- रणाः करास्तैर्ग्रस्तां व्याप्ती माची पूर्वी दिशमवलोक्य प्र- दय स्नायास्नानं कुर्यादिदेवं बौधायनवचनात्स्नानं कुर्यादि- ति शेषः ॥१॥ तथा मुनीनां स्नानयोग्यमरुणोदयकालं निर्णेतुमाह । तथाहि । तथाहीति । तथा हि स एव स्नानकालः प्रदीत इयर्थः । तमेवाह । नश्यन्त्या मोहनिद्रायामन्धकारे गलत्यथ । आरोहति विचारदिशिखरे ज्ञानभास्करे ॥२॥ मोहनिद्रायामिति । लौकिकार्थे तावत्सर्वप्रपञ्चविस्मारकत्वा- स्वात्मविस्मारकमोह इव निद्रायां मुप्तौ नश्यन्त्यां नाशं प्रा. नुवां सत्यां अथानन्तरमन्धकारे ध्वान्ते गलति नश्यति सति तथा ज्ञानभास्करे ज्ञानस्य रूपविशेषज्ञानकरणस्य चक्षुषः भास्करे प्रकाशके सूर्ये विचारादिशिखरं विचारवद् दिमोह- निवर्तकोऽद्रिः पूर्वाचलस्तस्य शिखरं शृङ्गमारोहति आरो- हणं कुर्वति सति, प्रकृतेर्थे तु मोहनिद्रायां मोह एव स्वात्मवि- स्मारकत्वात्सपञ्चस्वमकारणत्वानिद्रा मुतिस्तस्यां नश्यन्त्यां मुनीन्द्र खानकालनिर्णयः । नाशं मानुवत्यां सत्यामथानन्तरमन्धकारेऽन्धं स्वात्मदर्श- नहीनं करोतीति अन्धकार आत्मदर्शनवृत्तिचक्षुहीनकर्तेत्यर्थः, तस्मिस्तादृशेऽज्ञाने गलात नश्यति सति तथा ज्ञानभा- स्करे ज्ञानमेव सर्वप्रपञ्चप्रकाशकत्वाद्भास्करः सूर्य इत्र भास्करः सूर्यस्तस्मिन् विचारादिशिखरं विचारो विवेक एवादिरिवा- भ्यासेन स्थिरीभूतत्वात्पर्वतो, यद्वा विचार आत्मानात्मविवेक एवात्तीति सर्वानात्मनाशकत्वादद्रिस्तस्य शिखरं पञ्चमषष्ठसप्त- मभूमिकारूपं शृङ्गमारोहति आरोहणं कुर्वति सति, यद्वा विचा- राख्यस्याद्रेरभ्यासेन स्थिरीभूताया द्वितीयभूमिकायाः शिखरमिव तृतीयचतुर्थभूमिकाख्यमिति व्याख्येयं ततः परं साक्षात्कारादिति भावः ॥२॥ किश्च । दिक्षु किंचित्प्रकाशासु दिङ्मोहे गलिते सति । संदेहकौशिके नष्टे जाते प्रागरुणोदये ॥ ३ ॥ इति श्रीनरहरिकृती बोधसारे मुनीन्द्रदिनचर्यायां स्नानका- लनिर्णयश्चतुर्थः ॥४॥ दिक्ष्विति । लौकिकार्थस्तावद् दिक्षु पूर्वादिदिशामु किं- चित्स्वल्पं यथा भवति तथा प्रकाशासु प्रकाशो विद्यते यामु तथा भूतासु सतीषु ततो दिमोहे दिग्भ्रमे गलिते नष्टे सति ततः सन्देहकौशिके सन्देहः संशय इवामङ्गलरूपः कौशिक उलूक- स्तस्मिन्नष्टे नाशं प्राप्ते सति गमनाशक्तनया कापि लीने सती- त्यर्थः, पागरुणोदये प्राग्सूर्योदयात्पूर्वमरुणस्य सूर्यसारथेरु- दये उभंगमने जाते भवति सतीत्यर्थः । प्रकृते तु दिक्षु दिश्यते ।

बोधसारे।
अमाऽऽभिरिति ब्रह्मानुभवकारणभूता दिशो गुरूपदेशपूर्वकमहा-
वाक्यजन्याई ब्रह्मास्मीति प्रमारूपा वृतयस्तासु किश्चित्प्रकाशासु
किञ्चित्स्वल्पः प्रकाशोऽलौकिको ब्रह्मापारोक्ष्यरूपो यामु तासु
पञ्चम्यारूढवृत्तिषु सत्स्त्रित्यर्थः, अत एव दिमोहे दिश्यते ब्र-
माभिस्ता दिशः प्रमारूपा वृत्तयस्तासां मोह आत्मब्रह्मै-
क्यास्फूर्तिरूपस्तस्मिन्गलिते नष्टे सति, यद्वा दिक्षु अन्तःकरण-
वृत्तिषु किञ्चिद्ब्रह्मस्फुरणरूपामु सत्तीष्वित्यर्थः, दिमोहे लो-
कि पूर्वादिदिग्ज्ञानं मोहकार्यत्वान्मोहो भ्रम एनेसर्थः, तस्मिन्
गलिते नष्टे सति । उपासनापक्षे तु विवेकः पूर्वा दिगविवेक
पश्चिमा दिगुभयत्र चिदादित्योदयास्तमतीतेः कर्मज्ञानं दक्षिणा
दिगुपासनाज्ञानमुत्तरा दिपितृलोकदेवलोकमाप्तिसाधनत्वात
'कर्मणा पितृलोको विद्यया देवलोक' इति श्रुतेः, एतज्ज्ञानेन
लोकमसिद्धदिग्ज्ञानमेव दिग्भ्रमस्तस्मिन्नष्टे सतीसर्थः, ततः स.
न्देहकौशिके सन्देहः संशयोऽहं देहादिभ्यो भिन्नो वाऽभिन्नः,
देहादिभिन्नोपि सविकारो वा निर्विकारः, निर्विकारोपि ब्रह्मा-
भिन्नो वा भिन्न इत्यादिरूप स एव कौशिक इवान्धकारचा-
रित्वादमङ्गलरूपत्वाचोलूकस्तस्मिन्नष्टे निवृत्ते सति । उ-
पासनापक्षे तु तत्तदुपास्यज्ञानगतसंशय एवोलूकोऽमङ्गल-
रूपत्वात्ततः मागरुणोदये. चित्सूर्योदयात्प्रागुपलक्षितकालेऽ.
रुणोदयो यथा सूर्योदयोपलक्षकस्तद्वञ्चित्सूर्योदयोपलक्षणभू-
तायां पञ्चम्यारूढबुद्धौ किश्चित्साक्षात्कारप्रकाशोदये सति । उ-
पासनापक्षेपि उपास्यविषये किश्चित्प्रकाश आविर्भूते सती-
ति योज्यम् ॥ ३ ॥
इति श्रीन मु० धप्रकाशे मानकालनिर्णयार्थप्रकाशश्चतुर्थः ॥ ४॥

मुनीन्द्र० स्वाननिर्णयः। ঋথ বালান। एवं मुनीनां स्नानकालं निर्णायेदानी तेषामेव स्नानं नि- णेतुं स्नाननिर्णयाख्यमेकश्लोकं प्रकरणमारमते । अथ स्नाननिर्णयः । अथेति । अथ स्नानकालनिर्णयानन्तरं स्नाननिर्णय स्ना- नस्यावगाहनस्य निर्णयो विचारः क्रियत इति शेषः, तमेवाह । ज्ञानगङ्गाहदे शुद्धे मनो नखशिखावधि । यः स्नाति मूलमंत्रेण सर्वदेव स निर्मलः ॥१॥ इति श्रीनरहरिकृतौ बोधसारे मुनीन्द्रदिनचर्यायां माननि- र्णयः पञ्चमः ॥५॥ ज्ञानेति । लौकिकपक्षे तावदुक्तलक्षणप्रसिद्धारुणोदयकाले ग- खेति शेषः, शुद्ध निर्मले ज्ञानगङ्गाइदे ज्ञानमिव 'न हि ज्ञानेन सदृशं पवित्रमिह विद्यते' इति स्मृतेः, ॐ अस्नाविरं शुद्धमपापवि- दमिति श्रुतौ च ज्ञानस्य शुद्रत्वमुक्त द्रष्टव्यं, गङ्गापास्तु पाप- निवर्तकत्वं प्रसिद्धमेव पुराणादौ स्वतः पवित्ररूपत्वात्पवित्रका. रकत्वाच गङ्गा भागीरथ्यस्ति तस्या हृदोऽगाधजलोवयव. स्तत्र नखशिखावधि नखानि अफ्रिकरजानि शिखा च चूडा ते अ- वधी मर्यादे यस्यां क्रियायां भवतस्तत्तथाऽऽनवमाशिखमि- स्यर्थः, मनः सदेहं जले प्रविष्टः सन्यः कर्मविशेषज्ञानवान्कर्म- का कश्चित्पुरुषो मूलमन्त्रेण मूलं स्मृतिपुराणादीनां श्रुति- स्तद्रूपमन्त्रेणाक्षरसमूहात्मकवाक्येन 'इमं मे गङ्गे' इत्यादिकेन गा- यत्रीरूपेण मन्त्रेण वा 'गङ्गागङ्गे'त्यादयः पुराणोक्ताश्च मन्त्रा ग्राह्यात नातित्वादेकवचनं सर्वदैव सर्वकालमेव प्रतिदिन- मित्यर्थः, स्नाति अवगाहते स पुरुषो निर्मलः शुद्धोस्तीति ज्ञा- तव्यः । प्रकृते तु यः पञ्चमभूम्याधारूढो मुनीन्द्रः शुद्ध ज्ञातृज्ञा- नज्ञेयाख्यत्रिपुटीरूपमलरहिते ज्ञानगङ्गाइदे ज्ञान महावाक्यज-

बोधसारे।
न्यमहं ब्रह्मास्मीत्यपरोक्षं तदेव सर्वाविद्यादिमलनिवर्तकलाद-
ड्रेव गङ्गा सन्ततमत्तं तस्या ह्रदोऽमाधजल: स इव निर्विक-
पाख्यः समाधिस्तस्मिन् नखशिखावधि न विद्यन्ते खानी-
न्द्रियाणि तज्जन्यज्ञानानि तद्विषयाश्च तेषामपीन्द्रियमात्रत्वा-
त्वमात्रत्वं शिखा वक्ष्यमाणाऽर्थर्वशीर्षार्थज्ञानरूपा यस्मिन्क-
मणि तद्यथा भवति तथा मग्न आत्माकारतामापन्नः सन् मूलम-
न्त्रेणाऽहं ब्रह्मास्मि सोहमोङ्कारादिमन्त्रैर्जातित्वादेकवचनं स-
वजगत्कारणभूतब्रह्मतत्वप्रतिपादकलादेषां मूलमन्त्रत्वं तेन च
तदर्थानुसन्धानपूर्व स्वस्य ब्रह्मभावानुसन्धानेनेसर्थः, स्नाति
अवगाहते तत्स्वात्ममुखमेवानुसन्धत्त इयर्थः, स ज्ञानी सर्वदैव
सर्वकालमपि निर्मलोऽविद्यादिमलरहित एवास्तीति निश्चे-
तव्यम् । उपासना पक्षे तु यः कोप्युपासकः शुद्ध सिद्धिकामना-
रूपमलहीने ज्ञानगङ्गाहदे ज्ञानमत्र परोक्षमुपास्यब्रह्मविषयं त-
देव सन्ततमुपास्यब्रह्मविषयसन्मुखप्रवाहवत्वेन गङ्गेच तस्या
ह्रदोऽगाधजलवात्स्थरीभृतत्वाद्रद इत्र ध्यानरूपेण परि-
णतं तस्मिन् नखशिखावधि प्रत्यक्षनखशिखापर्यन्तं यथा भ-
वति तथा मनो लीनः सन् स नखशिखदेहास्फुरणवाञ्जातः स-
नित्यर्थः, यद्वा न न विद्यन्ते खानीन्द्रियाणि शिखाश्चाथर्वशी-
पज्ञानरूपा यस्मिन्तन्नखशिखं तदवधिः सीमा यस्मिकर्मणि
तद्यथा भवति तथा मनो लीन: सनित्यर्थः, मूलमन्त्रेण सोहमिति
मन्त्रेण सर्वदैच नित्यमेव स्नाति अवगाहते ध्यानेन ध्येयाकारो
भवतीत्यर्थः, स उपासको निर्मलः शुद्ध एव ज्ञेयः ॥ १ ॥
इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्तो
मुनीन्ददिनचर्यार्थ प्रकाशे माननिर्णयार्थप्रकाशः
।
पञ्चमः ॥५॥

मुनीन्द्र वस्त्रधारणनिर्णया।
एवं मुनीन्द्राणां स्नानं निर्णीयेदानी तेषामेव वस्त्रधारण-
निर्णयपूर्वकं पूर्वाभिमुखस्थिति निर्णेतुं वस्त्रधारणनिर्णयाख्यमे-
कश्लोकं प्रकरणमारममाण आह ।
अथ वस्त्रधारणम् ।
अथेति अथ स्नानानन्तरं वस्त्रधारणं निर्णीयत इति शेषः।
तदेवाह ।
अथ भक्तिप्रसादाख्ये परिधायांशुके मुनिः ।
यत्रोदयः सैव पुर्वा काष्ठा तस्याश्च सन्मुखः ॥ १॥
इति श्रीनरहरिकृतौ बोधसारे मुनीन्द्रदि० वस्त्रधारणनिर्णयः॥६॥
अथेति। अथ स्नानानन्तरं मुनिर्मननशीलो मुनीन्द्र इत्यर्थः,
भक्तिमसादाख्ये भक्तिः प्रेमलक्षणा वृत्तिः प्रसादो रागादिरा-
हित्येन निर्मलत्वं ते आख्ये आहे ययोस्ते तथोक्ते ते यथा ज्ञा-
नसाधने तथा कर्मसाधने इत्यर्थः, अंशुके वस्त्रे परिधाय परि-
धानं कृत्वा यत्र यस्यां दिशि उदयः सूर्याविर्भावो भवति सैव
नान्या पूर्वी प्राची काष्ठा दिग् भवति तस्याश्च प्राच्याश्च सन्मुखो-
ऽभिमुखो भवेत् । प्रकृते तु अथोक्तलक्षणस्नानानन्तरं मुनिर्मनन-
वान् पञ्चम्यायारूढ इत्यर्थः, भक्तिः प्रेमलक्षणा जीवब्रह्मैक्यवि-
पपान्तःकरणवृत्तिः प्रसादश्च रागादिमलनिवृत्तिपूर्वकद्वैतास्फु-
रणलक्षणा चित्तस्थिरता ते आख्ये आहे ययोस्ते अंशूके वस्त्रे
परिधाय सन्धाय
यत्र वृत्तावुदयश्चित्सूर्योदयश्चिन्मात्रस्व-
रूपात्माविर्भावो भवति सैव सा वृत्तिरेव पूर्वा प्रथमा काष्ठा
स्थितिरवस्थेयर्थः, तस्याश्च स्थितेः सन्मुखोऽभिमुखो भवे-
दिति शेषः ॥ १ ॥
इति श्रीन मुनी० वस्त्रधारणनिर्णयार्थप्रकाशः षष्टः॥ ६ ॥

बोधसारे। अथ पवित्रादिधारणनिर्णयः । एवं मुनीनां वस्त्रधारणनिर्णयं निरूप्येदानीं तेषामेव पवित्रा- दिधारणं निर्णेतुं पवित्रादिधारणनिर्णयाख्यं सार्धतिश्लोक प्र- करणं वक्तुमाह । अथ पवित्रादिधारणनिर्णयः अथेति । अथ वस्त्रधारणनिर्णयानन्तरं पवित्रादिधारणं प. वित्रमादि मुख्यं येषां तिलकादीनां ते पवित्रादयस्तेषां धारण- मङ्गीकरणं तन्निीयत इति शेषः । तत्रादौ कुशनिर्णयमाह । पवित्राः सुक्ष्मशास्त्रार्थास्तीक्ष्णाग्रा हरिताश्च ये । शातना कुत्सितस्यैते कुशा इति निरूपिताः॥१॥ पवित्रा इति । तत्र तावल्लौकिकपक्षे पवित्राः शुद्धिकारण- त्वात्स्वतः पूतास्तथा सूक्ष्मशास्त्रार्थाः शस्त्राण्येव शास्त्राणि स्वार्थेण् मूक्ष्माणि सूक्ष्मधाराणि क्षुरादीनि तेषामर्थः प्रयोजन येभ्यो जायते ते तथोक्ताः क्षुगदिभ्यश्छेदनमिव कुशेभ्योपि जायमानत्वादित्यर्थः, अत एव तीक्ष्णाग्रास्तीक्ष्णानि तीव्राणि अ- ग्राणि येषां ते तथोक्ता हरिताश्च हरितवर्णाश्चैतादृशा ये प्र. सिद्धा भवन्ति त एते कुत्सितस्य पापस्य विघ्नादिरूपस्यामङ्ग- लस्य शातनाश्छेदका यतो भवन्ति अतः कुशा इत्येवं नाना निरूपिताः कथिताः। प्रकृते तु पवित्रा अज्ञानसंशयादिनिवृत्तिपू. बकवेदान्ताविरोधेन निर्णीतत्वात्पूता इयर्थः, सूक्ष्मशास्त्रार्थाः सू- क्ष्माणि सूक्ष्णार्थानि शास्त्राणि तेषां स्थूललौकिदृगगोचरत्वात्सूक्ष्मा ये शास्त्राणामी उपदेशकवाक्यानां निर्णीतार्थास्तेषां तात्पर्यरूपा इत्यर्थः, अत एव तीक्ष्णाग्रास्तीक्ष्णानि तीव्राणि अज्ञानभेदने स- मर्यानि अग्राणि तात्पर्य पर्यवसानानि येषां ते तथोक्तास्तथा हरिताच हरिता नवीनाः सदा बुद्धौ स्फुरिता इयर्थः, त एत उ-

मुनीन्द्रदि० पवित्रादिधारणनिर्णयः ।
क्तलक्षणाः कुत्सितस्य बन्धक चादशुभस्य संसारस्य शातना
नाशका यतो भवन्ति अतस्ते शास्त्रार्थी एवं कुशा इत्येवं नाम्ना
निरूपिताः कथिता ज्ञेया नान्ये लौकिकाः कुशा इत्यर्थः ॥१॥
यदर्थ कुआनिर्णयः कृतस्तदाह ।
तत्पवित्रकरो भुत्वा मुनिः सव्येन वर्त्मना ।
वेदान्तसुत्रं यत्सूत्रं यस्याथर्वशिखा शिखा ॥ २ ॥
तदिति । तत्पवित्र करस्तेषां कुशानां पवित्र करयोर्हस्तयोर्यस्य
स तथोक्तस्तथा विधो भूला मुनिः कर्मज्ञानी सव्येन वर्त्मना
वामस्कवतो दक्षिणकुक्षौ स्थितन वेदान्तसूत्रं यथा ज्ञानसाधनं
तद्वत्कर्मसाधनं सूत्रं यज्ञोपवीतं तत्सूत्रं धृत्वा तथा तद्वदथ-
वैशिखाऽथर्वशीर्षवच्छिखा शिखा चूडा कर्मठपक्षेयमर्थः । प्रकृते
तु मुनिानी पञ्चम्याद्यारूढ इत्यर्थः, तत्पवित्रकरस्तैश्चोक्तः शा-
स्वार्थरूपैः कुशैः पवित्रौ वेदान्तार्थाविरुद्धौ करौ साङ्ख्ययोगा-
ख्यौ हस्तौ यस्य वेदान्तनिष्ठावसो ज्ञानिनः स तादृशो भूत्वा
सव्येन वर्मनाऽद्वैततात्पर्य रूपेण शङ्करोक्तरीत्यर्थः, यत्प्रसिद्धं वे.
दान्तसूत्रं वेदान्ता उपनिषदस्तेषां सूत्राणि उपनिषदर्थसंग्राह-
काणि व्यासप्रणीतानि शारीरकमूत्राणि जातावेकवचनं तदर्थ
धारणमेव यज्ञोपवीतधारणमित्यर्थः, शिखामाह यस्येति, यस्य
ज्ञानिनोऽथर्वशिखाऽथर्वशीर्षाणां मन्त्राणामर्थः शिखा चूडा-
ऽस्ति ॥२॥
तिलकनिर्णयमाह ।
जिज्ञासा दीर्घतिलको ब्रह्मकर्म समारभेत् ।
इति श्रीनरहरिकृती बोधसारे मुनीन्द्रदिनचर्यायां पवित्रा.
दिधारणनिर्णयः ॥ ७॥

३४४ बोधसारे। जिज्ञासेति । कमिपक्षे जिज्ञासा ज्ञानच्छेत्र दीर्घस्तिलको यस्य स तथोक्तो ब्रह्मकर्म ब्रह्म वेदस्तदुक्तं कर्म संध्यादि कर्म समारभे- स्कुर्याद् । ज्ञानिपक्षे जिज्ञासा ऽऽत्मज्ञानेच्छैव दीर्घो लम्बायमान- स्तिलको यस्य स तथोक्तो ब्रह्मकर्म 'ब्रह्मार्पणं ब्रह्म हविरिति स्मृत्युक्तं कर्म समारभेत्कुर्यादित्यर्थः॥३॥ इति श्रीन० दि० बो० मुनीन्द्रदिन० पवित्रादिधारणनिर्णयार्थ- प्रकाशः सप्तमः॥७॥ अथाचमननिर्णयः। एवं पवित्रादिधारणं निर्णीयेदानी मुनीनामाचमनं वक्तु. माचमननिर्णयाख्यं प्रकरणमेकश्लोकमभिदधान आह । अथाचमननिर्णयः। अथेति । अथ पवित्रादिधारणनिर्णयानन्तरमाचमनं मुनी- न्द्राणामाचमनमाचामो निर्णीयत इति शेषः । तदेवाह । जडं करतले कृत्वा समुद्रमिव कुंभजः । यदाचामति योगीन्द्रस्तदाचमनमुत्तमम् ॥ १॥ इति श्रीनरहरिकृतौ बोधसारे मुनीन्द्रदिनचर्यायामाचमन- निर्णयोऽष्टमः॥८॥ जडमिति। योगीन्द्रो युज्यते संयोगं प्राप्यतेकर्मफलेन सयोगः कर्म स येषामस्तीति योमिनस्तेषामिन्द्रस्तेषु श्चेष्ठ इत्यर्थः, कर्मठो जडं डलयोरभेदाज्जलं करतले करस्य हस्तस्य तलमुपरिभागस्तस्मिन् कृत्वा सन्धार्य कुम्भजः कुम्भात्कलशाज्जातः कुंभजोऽगस्त्यः समुद्र सागरमित्र यत्प्रसिद्धमाचामति पिबति तत्तादृशमाचमन- माचाम उत्तमं श्रेष्ठमित्यर्थः । प्रकृतेर्थेतु योगीन्द्रो योगो जीवन- बक्यं तज्ज्ञानं च तद्वेषामस्ति ते योगिनः प्रथमादिचतुर्थ्यन्तभू- मुनीन्द्र दिन आचमनप्रातःसन्ध्यानिर्णयः । मिकासु आरूढास्तेषामिन्द्रस्तेषु श्रेष्ठ इत्यर्थः, पञ्चम्याद्यारूढो जा- साक्षात्कार इति भावः, जडं तदेतज्जडं मोहात्मकं मायामात्र- मिति श्रुतेः, मायारूपं तत्कार्यं च करतले करोति आत्मानात्म- विवेचनमिति करः सांख्यं स एव साज्यद्वैतत्यामसाधनत्वाद्- हस्त इवेयर्थः, तस्य तलमित्र तलं करोपरितनभागस्तद्वत्पुरुषोपि साङ्ख्यहस्तोपरितनभागत्वात्करतलं तस्मिन् कृत्वा तद्भोग्यत्वेन जगतः 'आत्मनस्तु कामाय सर्व प्रियं भवतीति श्रुतेः, स्वप्नपदा- र्थभोक्तरि स्वप्नपदार्थजातमिव तदभिन्नत्वेनालोक्येत्यर्थः, कुम्भ- जोगस्यः समुद्रं सागरमिव पुरुषमात्रावशेष यथा भवति तथा यद्यादृशं मुनिप्रत्यक्षमाचामति पिवति तत्तादृशमाचमनमाचाम उत्तमं श्रेष्ठमित्यर्थः । जगत्करतले-इति पाठे कर्मठपक्षे ग- च्छति व्रजति पुनः पुनः स्वक्रियायामिति जगत्तल्लक्षणः करो हस्तस्तस्य तले जलमिसध्याहार्य । ज्ञानिपक्षे तु 'अम्भो मरीची- रिमाप इति श्रुतेः,जलकार्यत्वप्रतिपादनात्कार्यकारणयोरभेदाच जगदेव जलमन्यत्तु पूर्ववत् ॥ १॥ इति श्रीनरहरिशिष्यदिवा बोध० मुनीन्द्रदि आचमन- निर्णयार्थप्रकाशोष्टमः॥८॥ अथ प्रातःसन्ध्यानिर्णयः । एवं मुनीनामाचमनं निरूप्येदानी मुनीनां प्रातःसन्ध्या- निणेतुं प्रातःसंध्यानिर्णयाख्यं सार्धत्रिश्लोकं प्रकरणमाह । अथ प्रातःसंध्यानिर्णयः । अथेति । अथाचमननिर्णयानन्तरं प्रातःसंध्यानिणयः प्रभाते या संध्या तस्य निर्णयो विचारः क्रियत इति शेषः । तमेव प्रतिजानीते।

बोधसारे। अथोपयुक्तः क्रियते प्रातःसन्ध्याविनिर्णयः । मनोजन्म जगज्जन्म मनोनाशो जगलयः ॥ १॥ अथेत्यर्धेन। अथाचमननिर्णयानन्तरमुपयुक्तः प्रातःसन्ध्यो- पयोगी प्रातःसन्ध्याविनिर्णयो मुनीनां प्रातः प्रभाते या संध्या कम तस्या विनिर्णयो विचारः क्रियते निरूप्यत इत्युभयत्रा- प्येक एवार्थः, प्रतिज्ञातामेव मुनीनां प्रातःसध्या निर्णेतुं प्रात:- संधिमाह मन इति, कर्मठानां तु प्रातःसन्धिः स्पष्ट एवेति तमुप- क्ष्य मुनीनामेव तं निर्णीय दर्शयांत मनोजन्मेति, मनसः संकल्प- विकल्पात्मकान्तः करणवृत्तेर्जन्माविर्भावः स एव तत्संकल्पितम्य जगतो जन्माविर्भावो मन:कल्पितस्य जगतो मनोमात्रत्वान्मनो- जननमेव जगज्जननमिति भावः, अन्वयमुखेनोक्तं व्यतिरेकमु- खेनाप्याह मनोनाशो मनसः संकल्पविकल्परूपांत:करणवृत्तेर्ना- शो लयः स एव जगल्लयो जगतो विश्वस्य लयो. नाशः सुषुत्यादौ मनोलये सति सर्वप्रपंचलयदर्शनाजाग्रति च मनस उदयनैव सर्वप्रपंचोदयदर्शनाचेति भाव ॥ १ ॥ तत्र हेतुमाह । तस्योन्मेषनिमेषाभ्यामुदयप्रलयौ यतः । समाध्यभ्यासशीलस्य पूर्वसंस्कारकारणात् ॥२॥ तस्यति । यतो हेनोस्तस्य मनस उन्मेषनिमेषाभ्यामु- न्मेषः संकल्परूपेणप्रपञ्चसन्मुखत्वं निमेषश्च संकल्पयागेन प्र- पञ्चावमुखत्वं ताभ्यां जगत उदयालयावुदय उत्पतिः प्रलयो ना- शस्तौ भवत्तोऽनो मनस आविर्भावे जगत आविर्भावस्तल्लये च तल्लय इति भावः। तत्र समाधिरूपप्रपञ्चलयस्य जाग्रदादिरूपप्रपञ्चोद्भवस्य च मनोलयमनोजन्मनोः संधिरेव संध्याकालो मुनीनामित्याह ।

मुनीन्द्र दिन प्रातःसन्ध्याप्राणायामनिर्णयः ।
समाधीति । समाध्यभ्यासशीलस्य मनोजन्ममनोलयसा-
सिचैतन्याकारपरिणामो मनमः समाधिस्तस्य योऽभ्यास पुनः
पुनस्तत्र वृत्तेः स्थिरीकरणं तदेव शीलं स्वभावो यस्य तस्य पुरु-
पम्य मनसो वा पूर्वसंस्कारकारणात्पूर्व प्राग्यत्प्रपञ्चाकार-
त्तित्वं तस्य संस्कारो वासनारूपः स एव कारणं निमित्तं
व्युत्थाने तस्माद्धेतोः ॥ २॥
यदुत्थानं समाधानात्स सन्धिः सन्धिरत्र हि ।
तत्रापि प्राप्ततत्त्वानां गुरूणामुपदेशतः ॥ ३ ॥
समाधानात्समाधितो यत्प्रसिद्धमुत्थानं प्रपञ्चे जागरणं जायते
स प्रपञ्चलयस्य प्रपञ्चाविर्भावस्य च मनोलयस्य मनआविर्भा-
छम्य च वा मध्यरूपो सन्धिः सम्यरधीयते चिन्त्यते निरुपा-
धित्तेनात्मा यत्र स संधिशब्दवाच्यः कालोऽत्र मुनीन्द्रसंध्याक-
मणि विहितः काल: संधिः संधिनामको ज्ञेयः, हि सिद्धश्चायं
शास्त्र उक्तः, तथोक्तं।
'निद्रादौ जागरस्यान्ते निद्रान्ते जागरोदये ।
लयो भवति चित्तस्य कार्य तत्रात्मचिन्तनमिति ॥ ३ ॥
एवं संधिमुक्त्वा संध्यामाह ।
खण्डितं नानुसन्धानं सा सन्ध्येत्युच्यते बुधैः॥४॥
इति श्रीनरहरिकृती बोधसारे मुनीन्द्रदिन० मुनीन्द्रप्रातःसन्ध्या-
निर्णयो नवमः ॥९॥
तत्रापीति । गुरूणां महावाक्यार्थद्वारा स्वस्मिन्ब्रह्मत्वो-
पदेष्ट्टणामुपदेशत उपदेशेन सार्वविभक्तिकस्तसिः, प्रामतत्तानां
प्राप्तं लब्धं तत्त्वमनारोपितात्मस्वरूपं यैस्ते तथोक्तास्तेषां
तत्रापि उत्थाने जातेपि ॥३॥

बोधसार। अनुसंधान स्फुरणं स्वात्मस्फुरणमित्यर्थः, न खण्डितं न भग्नं यदि तर्हि सा स्वात्मानुसंधानरूपा संध्येति प्रपञ्चसाक्षण: प्रपञ्चोद्भवस्य च सन्धिभवत्वात्स्वात्मानुसन्धानवृत्तेः सन्ध्या- स्वमिसेवं बुधैर्विवेकिभिरुच्यते कथ्यते ॥ ४ ॥ इति श्रीन मुनी० मुनीन्द्रप्रातःसन्ध्यानिर्णयार्थप्रकाशो नत्रमः ॥९॥ HERIORamaasathe अथ प्राणायामनिर्णयः । एवं मुनीन्द्राणां सन्ध्यां निर्णायेदानी तेषामेव प्राणायाम निर्णेतुं प्राणायामनिर्णयाख्यं षोडशश्लोकं प्रकरणमारभमाण माह। अथ प्राणायामनिर्णयः । अथेति । अथ प्रातःसन्ध्यानिरूपणानन्तरं प्राणायामो मुनीन्द्राणां प्राणायामो निर्णीयत इति शेषः। तमेव निर्णयमाह। शरीराभ्यन्तरो वायुः प्राणापान इतीरितः । स एव गतिभेदेन संज्ञादशकमागतः ॥ १॥ शरीति । शरीराभ्यन्तरः शरीरस्य वषुषोऽभ्यन्तरः श- रीरावच्छिन्नो वायुर्मारुतः प्राणापानः प्रकर्षणानिति जीव- यति देहेन्द्रियादिसंघातं स प्राणोऽपानिति निःसृत्य बहिः पारयति देहेन्द्रियादिसंघातं सोऽपान इत्येवं नान्नेरित: कथितः, ननु शारीरस्य वायोर्दशविधत्वं तत्र तत्र शास्त्रेषु दृष्टं तत्कथमत्र द्वैविध्यमेवोच्यते तत्राह स एवेति, स एव प्राणापाना- ख्यः शारीरो वायुरेव गतिभेदेन गतिर्गमनं तस्या भेदेनोधि इत्यादिस्थानैश्चलनभिन्नत्वेन संज्ञादशकं संज्ञानां नाम्नां द. शकं दशत्रमागतः प्रातः प्राणापानव्यानोदानसमाननागकू- १ मारयतीति वा पाठः ।

मुनीन्द्र दिन प्राणायामनिर्णयः । ३४९ । मैककरदेवदत्तधनंजयाख्यां प्राप्त इत्यर्थः ॥ १॥ ननु तयत्र द्वैविध्यमेव कुत उक्तं तत्राह । ऊर्ध्वाधोगतिमुख्यं द्विरूपं तस्य गतिद्वयम् । ऊर्ध्व गच्छन्भवेत्प्राणस्त्वपानः स्यादधश्वलन्॥२॥ ऊर्ध्वाध इति । तस्य शारीरस्य वायोरूज़ चाधश्चोर्धाध ऊर्ध्वाधश्च ते गती च गमने ते मुख्ये प्रधाने यस्य तत्तथोक्तं ग- तिद्वयं गत्योर्गमनयोयं युग्मं द्विरूपं द्वयो रूपयोः समाहारो द्विरूपमस्तीति शेषः, ननु कया गया कि नाम तस्येत्यत आहो- यमिति, ऊर्ध्वमुपरि गच्छञ्चलन सन् स शारीरो वायुः प्राणः प्राणनामा भवेदुपरितनभागे नासाग्रसमवर्तिषोडशा- न्तस्थाने चलन्प्राणो भवेदित्यर्थः, तथा स एव शारीरो वायु- रधः षोडशान्तादधो हृदयकमलान्तं चलन्गच्छन्सन्नपानो- ऽपाननामा स्याद्भवेत् ॥२॥ ननु प्राणरूपेणापानरूपेण वा शरीर एव कुतस्तिष्ठति बहिः कुतो न गच्छति तत्राह । अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति । अनयोः शृङ्खला देहे तेन जीवो न निश्चलः ॥३॥ अपान इति । अपानोऽधोगत्युपलक्षितः शारीरो वायु- विशेषः माणमूर्ध्वगमनशीलं शारीरं वायुं कर्षति आकर्षति ततः प्राणः प्राणनामा वायुरपानमपाननामानं वायुं चापि कर्षति आकर्षति, नन्वधऊर्ध्वगतिमतोर्वाय्वोः परस्परमाकर्षणं परस्पर- कृतं कथं सम्भवतीत्याशङ्याहानयोरिति, अनयो प्राणा- पानयोदेहे शरीरे शृङ्खला शृङ्खलेव परस्परं बन्धनं ग्रन्थिरि- बोधसारे। त्यर्थः, अस्तीति शेषः, तयोः परस्परं शृङ्खलासत्त्वे चिन्हमाह ते- नेति, तेन प्राणापानशृङ्खलासत्त्वेन जीवो जीवोपाधिश्चित्तं न- निश्चलो न स्थिरो भवति अतः माणापानयोर्बन्धनमस्तीति निश्चेतव्यमिति भावः, अतः प्राणापानावरोधं विना चितस्थैर्य न स्यादिति भावः ॥३॥ तत्रापि मतभेदमाह । - चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । चित्ते चले चलः प्राणो निश्चले निश्चलो भवेत्॥४॥ चल इति । त्राते प्राणवायौ चले चञ्चले सति चित्तमन्त:- करणं जीनोपाधिभूतं चलं चञ्चलं भवेत्स्यात्तस्मिन्नेव प्राणवायौ निश्चले स्थिरे सति चित्तमन्तःकरणं निश्चलं स्थिरं भवेत्स्यादिति केषां चिन्मतं । तथा केषां चिन्मते चल इति, चित्ते जीवोपा- धिभूत्तेऽन्तःकरणे चले संकल्पविकल्परूपेण चलायमाने सति प्राणः शरीरावच्छिन्नो वायुश्चलश्चञ्चलो भवेत्स्यात्तस्मिन्नेक जीवोपाधिभूतेऽन्तःकरणे निश्चले संकल्पविकल्पत्यागेन स्थिरी- भूते सति स एव शारीरो वायुनिश्चलः स्थिरो भवेत्स्यादियेवं केषां चिन्मतं ज्ञेयम् ॥४॥ मतभेदमेव किंचित्स्पष्टीकुर्वन्नाह । कश्चित्प्राणजयेनैव मनोनिश्चलतां भजेत् । कश्चिन्मनोजयेनैव प्राणनिश्चलतां भजेत् ॥ ५ ॥ कश्चिदिति । कश्चित्कोपि हठयोगीत्यर्थः, प्राणजयेनैव माणः शरीराभ्यन्तरो वायुस्तस्य जयः स्थैर्येण स्वाधीनीकरणं तेनैव केवलं मनोनिश्चलतां मनसोन्तःकरणस्य निश्चलतां स्थैर्य भजेत्या- प्नुयात्तथाऽन्यः सांख्यः पातञ्जलश्चेत्यर्थः, मनोजयेनैव मनसो मुनीन्द्रदि० प्राणायामीनणयः। । ऽन्तःकरणस्य जयः स्थैर्यसम्पादनं तेनैव केवलं प्राणनिश्चल- तां पागा स्य शरीरावच्छिन्नस्य चायोनिश्चलतां स्थिरत्वं भजे- माप्नुयात् ॥ ५॥ अन्यदपि मतमाह । कश्विवयजयेनैव मनोनिश्चलतां भजेत् । इति योगगतिज्ञानां त्रिविधा योगिनां गतिः॥६॥ कश्चिदिति । कश्चित्कोपि मुनिर्मननवान्वेदान्तीयर्थः, द्वय- जयेनैव द्वयं मनःप्राणयोर्द्वयं युग्मं तस्य जयः खाधीनीकरणं स्थैर्यसम्पादनमियर्थः, तेनैव निश्चलता स्वात्मनि स्थैर्य भजेत्या- प्नुयाद्, उक्तं मतभेदमुपसंहृत्य निगमयतीतीति, इत्येवं प्रकारा योगगतिज्ञानां योगस्य जीवब्रह्मैक्यज्ञानस्य गतिः प्राप्तिस्तां जानन्ति विदन्ति ते तथोक्तास्तेषां योगिनां योगवतां गतिर्गमनं योगमापकं साधनमित्यर्थः, त्रिविधा त्रिप्रकाराऽस्तीति शेषः, अन्तःकरणशुद्धिद्वारा जीवब्रह्मैक्यकारणं त्रिप्रकारं ज्ञेयमिति भावः॥६॥ नन्वेतानि केषां मतानीति ज्ञानापेक्षायामाह । प्राणद्वारा मनः साध्यं मतं हि हठयोगिनाम् । मनसैव मनः साध्यमिति विज्ञानयोगिनाम् ॥७॥ प्राणद्वारेति।प्राणद्वारा प्राणावरोधनद्वारभूतेन प्राणायामा- दिरूपेण हठेन मनः स्वान्तं साध्यं स्थिरत्वेन स्वाधीनं कार्य हि एतद् हठयोगिनां हठयोगवा मतं निश्चितमस्तीति शेषः, तथा मनसैव विवेकरूपेण मनोशेनैव केवलं मनः संकल्पविकल्परूपो मनोंशः साध्यं संकल्पविकल्पलयेन स्थिरं कार्यमिति एवं रूपं मतं निश्चितं विज्ञानयोगिनां पातञ्जलसांख्यादीनामस्ति । तत्र बोधसारे। केवलविवेकनैव मनःस्थैर्य न भवति किन्तु प्राणावरोधेनैव योगि- वेव तत्स्थैर्यस्य दृश्यमानत्वादिति हठमतं, केवलप्राणायामादिना कृतेपि पाणावरोधे मनोमौढ्यावशेषाद्वीजरूपेण मनोवशिष्टमिति मुप्तिमीदिष्विव न मनोलयरूपः पुरुषार्थः सिद्ध्यतीति विवे- केनैव केवलं मन्तव्यमिथ्यात्वप्रतीतो दृढततरायां सत्यां मनसः शैथिल्येन क्रमाल्लयरूप पुरुषार्थः सिद्ध्येदिति ज्ञानिनां मतमिति विवेकः ॥ ७॥ वेदान्तमतमाह। मनःप्राणहूययुजस्ते तु श्रेष्ठतराः स्मृताः । चेच्छुकहठिनो मूढास्ते भण्डा न तु योगिनः॥८॥ मनःमाणेति । ये तूक्तोभयविलक्षणा इति तुपदार्थः, तदेव वैलक्षण्यमाह मन इति, मनश्चान्तःकरणं प्राणश्च शारीरो वायुस्तयोयं युग्मं ताञ्जन्ति लीनं स्वात्मनि कुर्वन्तीति ते त- थोक्तास्ते श्रेष्ठतरा अतिश्रेष्ठा इत्यर्थः, स्मृता उक्ता मुनिभिरि ति शेषः, विनैव गुरुदीक्षा स्वबुद्ध्या हठे प्रवृत्तानिन्दति चेदिति, मूढा हठक्रियाज्ञानशून्या गुरुशिक्षारहिता इत्यर्थः, अत एव शुष्कहठिनो निष्फलहठाभ्यासरताश्चेद्यदि भवन्ति तर्हि ते शु- कहठाभ्यासिनो भण्डा हठक्रियाविनोदिन एव ज्ञेयाः, तु पुन- स्वे योगिनो हठयोगाभ्यासिनो न न भवन्ति हठमिषेण ते लोक- वञ्चका ज्ञेया इति भावः ॥ ८॥ इदानी सिद्ध्यनादरेण मुक्तावादरं विधातुं सिद्धिकामेन इठेप्रवृत्तानां क्षुद्रत्वं दर्शयति । ते त्वधयोगिनः प्रोक्ताः क्षुद्रसिद्ध्यर्थयोगिनः । पिङ्गलेडा सुषुम्णा च मुख्यास्तिस्रस्तु नाडिषु॥९॥ , मुनीन्द्रदिन प्राणायामनिर्णयः । प्रधानफल- ते विति । ये तु तुपदेन गुरुशिक्षया हठाभ्यामिषु पूर्वेभ्यः श्रेष्ठ्यं सूचितं, क्षुद्रसिद्ध्यर्थयोगिनः क्षुद्रास्तुच्छाः परकाया- वेशाकाशगमनादिका मोक्षांवनभूना याः सिद्धयस्ता एवार्थः प्र- योजनं तस्मै नत्याप्तुं योगिनो योगाभ्यासिनो भवन्ति तेऽर्थयो- गिनोऽलौकिकसिद्धिकारणयोगवत्त्वाद्योगिनोपि भूतमोक्षाभावात्तेषां क्षुद्रत्वाच्चाधियोगिनः प्रोक्ताः कथिता मु- मुक्षुभिस्तत्रादरो न कर्तव्य इति भावः, अत्र पतञ्जालरप्याह 'ते समाधावुपसर्गा व्युत्थाने सिद्धय' इति । अस्याः, याः सिद्धयो ऽन्तर्धानादयस्ते समाधौ मुक्ताबुपसर्गा विघ्नभूता भवन्ति, ननु समाधावन्तकरणलये सति कथं सिद्ध्यनुभवस्तत्राह व्युत्थान इति, समाधितो व्युत्थानेन प्रपंचेोद्भवे सति य एव सिद्धयः सिद्धिशब्दवाच्योर्थ इत्यर्थः, स एव विघ्नभूनो ज्ञेय इति, अतः सिद्ध्यादरं परित्यज्य मुक्तिहेतुकं योगमभ्यसितुं योगाभतं प्राणायामं निरूपयिष्यन्तदुपोद्धातत्वेन नाडीभेदमाह पिंगलेनि, नाडिपु द्वासप्ततिसहस्रमंख्यासु देहान्तर्वर्तिनीषु नाडिषु मध्ये मु- ख्याः प्रधानास्तित्रस्तु त्रिसंख्याका नाड्यो भवन्ति तदधीन- तात्मर्वासामिति भावः, तुपदेन द्वामप्ततिमहस्त्रनाडीभ्यस्तिस्रो- ऽतिविलक्षणा इति सूचितं, ता एव नामतो निर्दिशति पिङ्गलेति, पिङ्गला पिङ्गलानाम्न्येकेडेडानानी द्वितीया मुषुम्णा- च सुषुम्णानाम्न्यपि तृतीया भवति ॥ ९ ॥ स्थानतोपि ता निर्दिशति । इडा वामा पिङ्गलान्या सुषुम्णा मध्यवर्तिनी । वामदक्षिणमार्गेण सदा वहति मारुतः ॥ १० ॥ इडेनि । वामा वामभागे प्रवर्तमानेडेडानाम्नी ज्ञेया, अन्या दक्षिणा दक्षिगाभागे प्रवर्तमाना नाडी पिङ्गला पिङ्गला- । ।

बोभसारे। नाम्नी भवति, तथा मध्यवर्तिनी मध्ये प्रवर्तमाना नाडी सुषुम्णा सुपुम्णानाम्नी ज्ञेया, यदर्थं नाडीभेद उक्तस्तमाह वामेति, मा- रुतः शारीरो वायुर्वामदक्षिणमार्गेण वामः सव्यो दक्षिणोऽ- पसव्यो मागों नाडीच्छिद्रं तेनेडापिङ्गलानाडीभ्यामित्यर्थः, सदा निसं वहति चलति ॥१०॥ तहि सुषुम्णायां कदा चलतीत्यत आह । यदा हावपि रुध्येते प्राणमार्गों सुयोगिना । तदान्यत्सर्पवत्प्राणो रन्ध्रमाविशति स्वयम् ॥११॥ यदेति । सुयोगिना सम्यग्योगाभ्यासवता पुरुषेण द्वावपी- डापिङ्गलानामानावुभावपि प्राणमार्गों प्राणस्य शरीरावच्छि- अस्य वायोर्मा! पन्थानौ रुद्धयेते रुद्धौ भक्तो यदा यस्मि- न्काले तदा तस्मिन्काले प्राणः शारीरो वायुः सर्पवद्यथा सर्पः सर्वेषु च्छिद्रेषु रुद्धेषु सत्सु तदन्यत्सूक्ष्ममपि च्छिद्रं प्रविशति त- द्वदन्यदिडापिङ्गलाभ्यां भिन्नं रन्ध्र छिद्रं तृतीयं सुषुम्णाख्यं स्वयं स्वत एवाविशति प्रविशति, इडापिङ्गलारोधनमेवापेक्षित न तु ततोन्यः सुषुम्णायां वायोः प्रवेशने प्रयत्नोऽपेक्षित इति भावः ॥११॥ मुषुम्णाप्रवेशनक्रममेवाह । स्थिता कुण्डलिनी मूले जीवशक्तिरनुत्तमा । तामुत्थाप्य तया सार्ध सुषुम्णां प्राण आविशेत् ॥१२॥ स्थितेति । मूले मूलाधाराख्यचक्रे गुदस्थान इत्यर्थः, अनुत्तमा न विद्यत उतमा श्रेष्ठा यस्याः सा तथाभूताऽतिश्रेष्ठे- त्यर्थः, जीवशक्तिीवस्य साधिष्ठानबुद्धिस्थचिदाभास- स्येत्यर्थः, शक्तिः सामर्थ्यरूपा कुण्डलिनी कुण्डलिनीनाम्नी मुनीन्द्रदिन प्राणायामनिर्णयः । नाग्रदादिमोक्षपर्यन्तजीवसंसारजनयित्रीत्यर्थः, स्थिता वर्तमाना- ऽस्तीति शेषः, अस्तु किं तत इत्यत आह तामिति, पाण: शारीरो वायुः प्राणायामाभ्यासेनावरुद्धस्तां कुण्डलिनी- मुस्थाप्यान्तर्मुखी कृत्वा जीवस्य यत्पारमार्थिकं शिवस्वरूपं तदभिमुखीं कृत्वेसर्थः, तया जीवशत्त्या साध सह सुषु- म्णां ब्रह्मनाडीमाविशेमवेशं कुर्यादेवं प्राणस्य मुषुम्णा- प्रवेशक्रमो ज्ञेयः ॥ १२ ॥ ततः किमित्यत आह । सुषुम्णावाहिनि प्राणे ब्रह्मरन्ध्र गते सति । तत्र निश्चलतां याते मनो निश्चलतां ब्रजेत् ॥१३॥ सुषुम्णेति । प्राणे प्राणवायौ सुषुम्णावाहिनि सुषुम्णा ब्रह्मनाडी तस्यां वाहिनि प्रवेशवति सति ततस्तया नाड्या ब्र- ह्मरन्ध्र भ्रमरगुहानामकं स्थानं शनि गते प्राप्ते सति ततश्च तत्र ब्रह्मरन्ध्र निश्चलता स्थिरतां याते प्राप्ते सति ततो मनः सङ्क ल्पविकल्पात्मकं जीवोपाधिभूतमन्तःकरणं निश्चलतां स्थैर्य व्रजेत्माप्नुयात् ॥ १३ ॥ एवं हठक्रमेण मनोलयप्रकारमुक्त्वेदानी ज्ञानक्रमेणापि तमाह । मनो यदि निरुध्येत केवलं ज्ञानयोगिना। प्राणापानौ नश्यतस्तु मनोनाशेन तत्क्षणात् ॥ १४ ॥ मन इति । ज्ञानयोगिना ज्ञानयोगाभ्यासवता केवलं प्रा- गोपाधितो विविक्तं सद्यदि यहि विवेकेन मनः सङ्कल्पवि. कल्पात्मकमन्तःकरणं सङ्कल्पविकल्परूपांशं संसाज्य निरुध्येता- वरुन्ध्यात्तर्हि तदा मनोनाशेन सङ्कल्पविकल्पांशमनसो नाशेन लयेन तत्क्षणात्सद्य एव प्राणापानौ प्राणापाननामानौ वाय

बोधसारे।
नश्यतो नष्टौ भवतो निद्रामूच्छदौ मनोलये मति प्राणापान-
प्रवाहस्य विद्यमानत्वेपि बाधादर्शनादिति मनोलयेनैव तयोनीश
इति भावः ॥१४॥
एवमुभयमतं निरूप्येदानी मुमुक्षुग्राह्यं वेदान्तमतमाह ।
तस्मात्सिद्धान्त एवैको हठविज्ञानयोगिनोः ।
शास्त्रोक्तमिति विज्ञाय निर्णयं प्राणचेतसोः ॥१५॥
तस्मादिति । हठविज्ञानयोगिनोहठयोगज्ञानयोगाभ्या-
सवतोस्तस्मान्मनोलयस्यैवोभयत्र साध्पत्वाद्धेतोः सिद्धान्तो
निश्चय एक एन सम एव भवतीत्येवं शास्त्रोक्तं वेदान्तशा-
स्त्रोक्तं प्राणचेतसोः शरीरावच्छिन्नस्य वायोर्मनसश्च निर्णयं सि-
द्धान्तं विज्ञाय ज्ञात्वा ॥ १५ ॥
प्राणायाम मुनिः कुर्यान्मनोलयसमन्वितम् ॥ १६ ॥
इतिश्रीन बो० मुनीन्द० प्राणायामानर्णयो दशमः ॥ १०॥
मुनिर्मननवान् सन् विवेकपूर्वकमित्यर्थः, प्राणायामं प्रा-
णानां शारीरवायूनामायाममवरोधनं मनोलयममन्विनं म-
नमः सङ्कल्पविकल्पात्मकवृत्तेर्लयो नाशस्तन समन्वितं स.
हिनं यथा भवति तथा कुर्यात्क्रियतामित्यर्थः, केवलप्राणाया-
मेन प्राणस्थैर्योपि विवेकाभावेन बीजनाशाभावान्मनोनाशाभावः
केवलविवेकेन मेनोनिरोधे प्राणायामाभावात्पुनः पुनस्तदुद-
यान्मनोनाशाभाव इति मनोमलनिस्सै प्राणायामोपेक्षितस्ततो
विवेकेनोत्पन्नेन मनोलयो भवतीति निश्चयोयं मुमुक्षुभिग्राह्य
इति भावः ॥ १६॥
इति श्रीनरहरिशिष्यदिवाक० बो० मुनीन्द्रदिनचर्यार्थप्रकाशे
प्राणायामनिर्णयार्थप्रकाशो दशमः ॥ १० ॥

AURANETRINANGIKHNAAGIRAINRITE मुनीन्द्रदिन अर्घदाननिर्णयः । अथार्घदाननिर्णयः। एवं प्राणायामनिर्णयमभिधायेदानी मुनीनामर्षदानं नि- तुमर्घ्यदाननिर्णयाख्यं प्रकरणं त्रिश्लोकमारभमाण आह । अथाघदानम् । पूर्णाञ्जलिमयास्यर्घा भावनागाङ्गबारिणा । सर्वपापविशुद्धयर्थ प्रदेयाः कर्मसाक्षिणे ॥ १॥ अथेति । अथ प्राणायामनिर्णयानन्तरमर्घदानमीणां दानं समर्पण निर्णीयत इति शेषः, तत्र लौकिकाघदाने तु प्र- सिद्धजलपूर्णेनाञ्जलिना प्रसिद्धेनैव त्रयोर्घा दीयन्ते । ज्ञान्यपदाने तु जलं किमञ्जलिश्च कः प्रयोजनं च किं कस्मै देयश्च तत्स- माह पूर्णेति, मुनिना पूर्णाञ्जलिमयाः पूर्ण ब्रह्म तदेव जल- स्थानीयं रसरूपत्वाद् ‘रसो वैस' इति श्रुतः, अअलिश्चोभयक- रमंहतिरूपः प्रसिद्धो लोके, अत्र तु वक्ष्यमाणसाङ्ख्ययोगाख्य- करयोगविरोधज्ञानरूपोऽञ्जलिः पूर्णस्य ब्रह्मगोञ्जलिः सा- ङ्ख्ययोगयोरविरोधोररूपस्तन्मयास्तत्प्रचुराः 'एकं साङ्ख्यं च योगं च यः पश्यति स पश्यनीतिगगवढुक्तत्वात, सङ्ख्यामाह यर्या इति, त्रिसङ्ख्याका अर्घाः, जलमाह भावनेति, भावना. गाङ्गवारिणा साङ्ख्ययोगयोरविरोधस्य भावना चिन्तनं तदेव- गाङ्गं वारि गङ्गाजलं तेन, फलमाह मति, सर्वपापविशुद्ध्यर्थं सर्व सर्वपदनाच्यं द्वैतमेव पापं दुःखकारणत्वात्तम्य विशुद्धिः 'सर्व खल्विदं ब्रह्मेति श्रुसर्थबोधेन सर्वपदवाच्यद्वैतवाधनाद्र- मत्वप्रतीतिरूपा तदर्थ तादृशप्रयोजनाय देवनामाह प्रदेया इति, कर्ममाक्षिणे लोके तावत्सूर्याया| दीयते, एते त्वर्धाः कर्ममा- क्षिणे कर्मणः क्रियायाः साक्षिणे साक्षात्मकाशकाय चिदादि- যাই? त्याय प्रदेयाः समाः ॥१॥ प्रतिज्ञातमत्रित्वं स्पष्टयति सार्धेन । इदं दृश्यमहंद्रष्टा प्रथमो? मनीषिणाम् ब्रह्म सत्यं जगन्मिथ्या द्वितीयोर्घस्ततः परः ॥२॥ इदमिति । इदमहङ्कारादिदेहान्तं स्वम्पदलक्ष्यकूटस्थचैत- न्यभास्यं तथा देहादिमायान्तं सर्व तत्पदलक्ष्यब्रह्मचैतन्यभास्य तयोर्ब्रह्मचैतन्यकूटस्थचैतन्ययोघंटाकाशमहाकाशयोरिव वास्त- वाभेदात्तत्सर्व ब्रह्माभिन्नकूटस्थस्य मम दृश्यं प्रकाश्यमस्ति अहं ब्रह्माभिन्नः कूटस्थोहं तस्य सर्वस्य दृश्यजातस्य द्रष्टा भा- सकोऽस्मीत्येवं बोधो मनीषिणां विवेकिनां प्रथम आद्यो- ऽ? ज्ञेयः, द्वितीयं दर्शयति ब्रह्मेति, ब्रह्मदेशकालवस्तुकृतपरि- च्छेदशून्यं वस्तु भूमशब्दवाच्यं सत्यं कालत्रयेप्यवाधितत्वात्प- रमार्थरूपमस्ति जगच्चञ्चलस्वभावं मायातकार्य चान्योन्य- स्मिन्व्यावृत्तत्वान्मिथ्याऽससमित्येवं बोधस्तत: प्रथमादर्घात्परो ऽन्यो द्वितीय इत्यर्थः, अर्घोऽयमस्तीति ज्ञेयः ॥ २॥ एवं द्वितीयम निरूप्येदानीं तृतीयमर्घ निरूपयति । नेदमस्त्यहमेवास्मि तृतीयोर्घः परात्परः । एवं विधार्घदानेन चिदादित्यः प्रसीदति ॥ ३ ॥ इति श्रीनरह. बो० मुनीन्ददिनचर्यायामधदाननिर्णयः ॥११॥ नेदमिति । इदं सर्व दृश्य जातं नास्ति नैव विद्यते किं तु अहमेव ब्रह्माभिन्नः कूटस्थचैतन्यरूपस्त्वम्पदलक्ष्य एव केवल- मस्मि भवामि 'नेहनानास्ति किञ्च नेति श्रुतेद्वैतजातस्य बा- धिनत्वादिति भावः, इत्येवं बोधः पराद्वितीयात्परोऽन्य- स्तृतीयो?ऽयं ज्ञेयं, फलमाईवमिति, एवं विधार्घदानेनैवं- मुनीन्द्रदि० गायत्रीजपनिर्णयः । विधानामुक्तलाणानामर्घाणामानां दानेनात्मनः पृथ- गसत्त्वनिश्चयरूपसमर्पणेन चिदादित्य श्चेत्यरहितश्चित्मात्र आ- स्मैत्रादित्यः सूर्यः सर्वजगत्प्रकाशकत्वात्प्रसीदति निर्मलः स- न्स्वयं प्रकाशते ॥३॥ इतिश्रीनरहरिशिष्य दि० बोधसारार्थदीप्तौ मुनीन्द्र दिनचर्यार्थप्रकाशे. धंदाननिर्णयार्थप्रकाश एकादशः॥ ११ ॥ अथ गायत्रीजपनिर्णयः। एवं मुनीन्द्राणामर्घदानं निर्णी येदानीं तेषामेव गायत्रीजपं निर्णेतुं गायत्रीजपनिर्णयाख्यं चतुःश्लोकं प्रकरणं वक्तु काम आह । अथ गायत्रीजपनिर्णयः । अथेति । अथार्घदाननिर्णयानन्तरं गायत्रीजपो मुनीन्द्राणां गायच्या गायत्रीमन्त्रस्य जपो निर्णीयत इति शेषः । तमेवाह । अखण्डमण्डलाकारं देवं ज्योतिर्मयं स्मरन् । उपदेशात्सदाऽऽवृत्तिरिति वेदान्तसूत्रतः ॥१॥ तिष्ठेञ्जपेच्च गायत्रीमष्टोत्तरशतत्रयम् । गायन्तं वायत्ते यस्माद्गायत्री तेन सा स्मृता ॥२॥ अखण्डेति । मुनिरखण्डमण्डलाकारमखण्डमेकरसं म- ण्डलं बिम्बमाकार आकृतिर्यस्य स तथोक्तस्तं देवं ज्योतिर्मयं चिन्मात्रस्वरूपं देवं स्वप्रकाशमात्मानं स्मरन्ननुसन्दधानः सन् तिष्ठेदासीत, अत्र प्रमाणमाहोपदेशादिति, 'उपदेशात्सदा- त्तिरिति वेदान्तसूत्रत उपदेशादुपदेशादारभ्य सदा नियमा- वृत्तिरावर्तनमुपदिष्टार्थस्य जीवब्रह्मैक्यरूपस्यातुसन्धानपूर्वक बोधसारे। मुपदेशकवाक्य जातस्य पुनः पुनः श्रवणाद्यावर्तनमित्यर्थः, कर्त- व्येति शेषः, इत्यवं वेदान्तसूत्रप्रामाण्याद्धेतोर्गायत्री च ज- पाख्यां जपेदावर्तयेद्, जपमंख्यामाहाष्टोत्तरशतत्रयमष्टावष्टौ चो- त्तराणि अधिकानि येषु शतेषु तेषां त्रयं त्रिकं यथा तथा जप- चतुर्विशत्यधिकानि त्रिशतानी यर्थः, उपलक्षणमेतत् षट् शताधि- कैंकविंशतिसहस्रमङ्ख्याया अजपायाः, नित्यं गायत्रीजपस्य च- तुर्विंश यधिकत्रिशतसंख्याकस्य नियकर्मलेन पापनिवृत्तिफल- कत्वाद्, अजपाया अपि षट्शताधिकैकविंशनिसहनाया अपि आत्मानुसन्धायकत्वेनान्त:करणशोधकत्वात्सर्वदैतरूपपापनि वृत्त्या सर्वदुःखनिवर्तकत्वाद् नित्यकर्मत्वाच्च चतुर्विंशयधिक- त्रिशतसंख्यगायत्रीजपस्य षट्शताधिकैकविंशतिसहस्त्रजपस्य च साम्यत्वमात्मानुसन्धायकत्वेनाजपाया एव जाप्यत्वं मुनी- न्द्रागाां, ननु अजपाया गायत्रीत्वं कुत इत्यत आह गायन्त- मिति, गायन्तमात्मानुसन्धानपूर्वकं स्वमुच्चरन्तं यस्माद्यतः का- रणात्रायते रक्षति साऽजपा तेन कारणेन गायत्री गायत्री. नान्नी स्मृतोक्ता मुनिभिरिति शेषः ॥ १ ॥ ननु गायत्र्यर्थस्याजर्थिस्य च भिन्नत्वात्कथमजपाया गायत्रीत्वमिसाशा गायव्यर्थमजपायां सम्भावयितुं गाययर्थं तावदाह । अन्तर्यामिस्वरूपेण सर्वधीवृत्तिनोदकम् । सवितृमण्डले ध्येयं गायव्यर्थपरं महः ॥ ३ ॥ अन्तर्यामीति । अन्तर्यामिस्वरूपेण यः पृथिव्यां तिष्ठन्नि'यादि यः सर्वेषु तिष्ठन्सर्वान्यमयती श्रुत्या सर्वान्तर्याम्युक्तः स स्वरूपं यस्य तत्तथोक्तं तेन कृत्वा सर्वधीवृत्तिनोदकं सर्वपदनाच्यं यद्वैतजातं तदाकारा या धीटतयो बुद्धिवृत्त यस्तासां नोदकं में- मुनीन्द्र गायत्रीजनिर्णयः। रकं गायत्र्यर्थपरं 'तत्सवितुरिति प्रसिद्धगायत्रीमन्त्रार्थतात्पर्य- भूतं महस्तेजः सर्वप्रकाशकं चिन्मात्रमित्यर्थः, सवितृमण्डले स- वितुर्मायातकार्यप्रसवितुः शबलाख्यस्य जगत्कारणभूतस्य ब्रह्मणो मण्डले बिम्बभूते चिन्मात्रे ततः पृथगसत्वाद्विम्बभूतमेव तद्ध्येयं चिन्तनीयम् । अजपायामपि तदहंशब्दवाच्यस्य तच्छ- ब्दवाच्यस्य च परोक्षप्रत्यक्षादिविरुद्धांशत्यागेन भागलक्षणया लक्षितं जीवब्रह्मैक्यं लक्षयन्त्यां गायत्र्यर्थवत्त्वेन गायत्रीत्वं सं- भाव्यमिति भावः ॥ ३ ॥ ननु यक्षराया अजपाया गायत्रीत्वे लोकमसिद्धगायत्र्यां चतुर्विशयक्षरपाठगौरवं किमर्थमित्याशङ्याह । चतुर्विशत्यक्षरया गायच्या ब्रह्मविद्यया । चतुर्विंशतितत्त्वानां लयकृद्राह्मणः शुचिः॥ ४ ॥ इनि श्रीनरहरिकृती बोधसारे मुनीन्द्रदिनचर्यायां गायत्री- जपनिर्णया द्वादशः ॥ १२ ॥ चतुर्विशतीति । चतुर्विंशत्यक्षरया चतुर्विंशतिसंख्यान्यक्षराणि वर्णा यस्यां सा तथोक्ता तया ब्रह्मविद्यया ब्रह्मोपासनाङ्गमन्त्र- रूपया, यद्वा ब्रह्मज्ञानार्थवत्त्वाब्रह्मविद्यात्वं गायत्र्यास्तथा चतु- विंशतितत्त्वानामष्टौ प्रकृतयः षोडशविकाराश्चेत्येवं चतुर्विंशति- संख्यानां सांख्योक्ततत्त्वानां लयकृन्नाशकृत्मकृतितत्कार्यलये कृते सति पुरुषस्यासङ्गसच्चिदानन्दब्रह्मलक्षणवत्त्वज्ञानेन स्वस्यापि ब्रह्माभिन्नत्वज्ञाने सति ब्राह्मणो ब्रह्मविद्भवति अत एव स शुचिनिर्मलो जायत इति शेषः, इदमेव प्रयोजनं चतुर्विंशत्य- क्षरप्रयोगे ज्ञेयम् ॥ ४॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्ती मुनीन्द्रदिनचर्यार्थप्रकाशे गायत्रीजपनिर्णयार्थ- प्रकाशो द्वादशः ॥ १२ ॥ ४६ KHAN

३६२
बोधसारे।
अथोपस्थाननिर्णयः ।
एवं गायत्रीजपनिर्णयं निरूप्येदानी मुनीन्द्राणामुपस्थान
निर्णीय प्रदर्शयितुमुपस्थाननिर्णयाख्यं द्विश्लोकं प्रकरणं क-
थयन्नाह।
,
-
उपतिष्ठेत भास्करम् ॥ १॥
अथोपस्थाननिर्णयः ।
अथेति अथ गायत्रीजपनिर्णयनिरूपणानन्तरमुपस्थान-
निर्णयः क्रियत इति शेषः, तमेव निरूपयितुं हस्तौ निीय
दर्शयति ।
मुनिः प्रसार्य सरलौ प्रलम्बौ सपवित्रको
सांख्ययोगौ निजी
बाहू
मुनिरिति । लोके तावत्प्रसिद्धावेच करौ प्रसिद्धकुशपवित्रस-
हितावुपरि लम्बायमानौ कृत्वा प्रसिद्धसूर्यसन्मुखं स्थित्वा
'मित्रो जनान्यातयती'यादि मन्त्रैरुपस्थानं क्रियते । अत्र तु ह.
स्तादिविशेषसहितमुपस्थानविशेषमाह मुनिमननशीलो ज्ञानी-
त्यर्थः, सरलौ प्रकृतितत्कार्यसत्त्वजीवानेकत्वेश्वरताटस्थ्यरूपवि.
रोधत्यागेन वेदान्तानुकूलौ प्रलम्बौ जीवब्रह्मैक्यवोधपर्यन्तौ स
पवित्रकाबुक्कसर्वसूक्ष्मशास्त्रार्थरूपकुशपवित्रसहितौ सांख्ययोगी
सांख्यशास्त्रयोगशास्त्राख्यौ निजावात्मीयौ वाहू हस्तावना-
स्मत्यागस्यात्मग्रहणस्य च साधनत्वात्मसार्य वेदान्तादरेण
तयोरादरशैथिल्येन शिथिलौ कृत्वेत्यर्थः, भास्करं भा जगत्म-
काशस्तस्य करं कर्तारं 'तस्य भासा सर्वमिदं विभाती ति.
श्रुतेश्चिदात्मानमित्यर्थः, उप समीपे पारमार्थिकात्मस्त्ररूपेण
व्यावहारिकचिदाभासस्य बाधितत्वदृष्ट्या व्यवहारनिर्वाहक-
वात्समीपवर्तित्वमिति ज्ञेयं, तिष्ठेत स्थिति कुर्यात् ॥ १॥

मुनीन्द्रदिन उपस्थाननिर्णयः ।
मन्त्रमाह।
नमः सवित्रे जगदेकचक्षुषे
जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे
विरिञ्जिनारायणशङ्करात्मने ॥ २ ॥
इति श्रीनरहरिकृती बोधसारे मुनींद्रदिनचर्यायामुयस्थान-
निर्णयस्त्रयोदशः ॥ १३॥
नम इति । सवित्रे मायायास्तकार्यस्य च जनकायति
तटस्थलक्षणलक्षितायेसर्थः, स्वरूपलक्षणेन लक्षयति जगदिति,
जगदेकचक्षुषे जगतो द्वैतजातस्यैकं मुख्यं चक्षुर्दर्शनसाधन-
भूतं चक्षुरिव चक्षुश्चिन्मानं तस्मै जगत्प्रकाशकायेत्यर्थः, पुनस्त-
टस्थलक्षणेन लक्षयति जगदिति, जगत्मसूतिस्थितिनाशहेतवे ज-
गतो द्वैतजातस्य प्रसूतिरुत्पत्तिः स्थितिः स्थानं नाशो लयस्तेषां
हेतुः कारणं तस्मै यं विना जगदुत्पत्तिस्थितिलया न भवन्ती-
अर्थः, पूर्वत्र मायातकार्ययोरधिष्ठानत्वेन कारणत्वमत्र तूपादा-
नकारणत्वमिति विवेकः, अत एव त्रिगुणात्मधारिणे त्रयो गुणा:
सत्वरजस्तमोभिधास्तानात्मनि धारयतीति तच्छीलायाऽत
एव विरिश्चिनारायणशङ्करात्मने विरचिब्रह्मा नारायणो
विष्णुः शङ्करो रुद्रस्तेषामात्मनेऽन्तर्यामिरूपिणे, यद्वा वि.
रश्चिर्ब्रह्मा नारायणो विष्णुः शङ्करो रुद्रस्त्रयाणां गुणानां र-
जःसत्त्वतमसामभिमानिनस्त एवात्मानो देहा यस्य तथा वि-
पायेसर्थः, अत एव त्रयीमयाय त्रयी वेदत्रयी तन्म-
याय तद्योनित्वेन सर्वज्ञत्वादिलक्षणलक्षिताय, यद्वा त्रयी वेद-
त्रयी तन्मयाय वेदत्रयप्रतिपाद्यायेत्यर्थः, तथाहि सूत्रं 'शास्त्रयो-
नित्वादिति ॥२॥

बोपसारे। इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसा मुनीन्द्रदिना- यार्थप्रकाश उपस्थाननिर्णयार्थप्रकाशस्त्रयोदशः ॥१३॥ Wamanand अथ सहोमागहोमनिर्णयः । एवमुपस्थाननिर्णयं निरूप्येदानी होमागसहितं होमं नि- तुं सहोमागहोमनिर्णयाख्यं सार्धचतुर्दशा श्लोकं प्रकरणमार- भमाण आह। अथ सहोमागहोमनिर्णयः । एवं समाप्प विधिना प्रातः संध्याविधि मुनि । होमस्यावसरं ज्ञात्वा यज्ञशालां ततो विशेत् ॥१॥ अथेति । अथोपस्थाननिर्णयानन्तरं सहोमागहोमनिर्णयो होमस्य हवनस्याङ्गानि यज्ञशालाप्रायश्चित्तादीनि तैः सहितस्य होमस्य हवनस्य निर्णयः सिद्धान्तः क्रियत इति शेषः, तत्रादा- वितिकृसमाहैवमिति, एवमुक्तमकारेण विधिना विधानेन मा- तःसन्ध्याविधि प्रातःकालीना या सन्ध्योक्तलक्षणा सन्ध्या- ख्या क्रिया तस्या विधिमनुष्ठानं समाप्य समाप्तं कृत्वा मुनिर्म- ननवान होमस्य वक्ष्यमाणलक्षणहोमस्यावसरं समयं यत्र का. लेऽहन्ताममते बाधकत्वेन स्फुरतस्तं कालमियर्थः, ज्ञात्वाऽवगस ततोऽनन्तरं यज्ञशालामिज्यते पूज्यत आत्मानेनेति यज्ञः स- माधिस्तस्य शाला स्थानं वक्ष्यमाणमाविशेत्मविशेत् । लौकिक- पक्षे तु मुनिः कर्मकाण्डविवेकवानेवमनेन प्रकारेण विधिना विधानेन प्रातःसन्ध्याविधि प्रातःकालीना या सन्ध्या सन्धिभवा क्रिया तस्या विधिमनुष्ठानं समाप्य समाप्तं कृत्वा ततः स- ध्याकानन्तरं होमस्य गाईपसहोमस्यावसरं समयं सूर्योदय- मुनीन्द्रदिन सहोमागहोमनिर्णयः । " कालमित्यर्थः, ज्ञात्वाऽवलोक्य यज्ञशाला यज्ञस्य यजनस्य शालां गृह विशेत्पविशेत् । प्रकृते तु यज्ञशाला वक्ष्यमाणा ज्ञेया ॥१॥ लोके तावत्मसिद्धा यज्ञशालाऽत्र तु विशिष्टां तामेवाहार्थेन । यज्ञशाला भूमिका स्यात्तृतीया तनुमानसा । सव्यान्सिव्यतः कुर्यादसव्यानिसव्यतः । संचरत तथा नैव प्रायश्चित्तीयते यथा ॥२॥ यज्ञशालेति । तृतीया भूमिका भूमिस्तनुमानसा तनुमा- नसा तनुमानसानाम्नी तनवः सूक्ष्मा मानसा मनोधर्माः स- कल्पविकल्परागद्वेषेच्छाकामादयो यत्रेति तन्नान्नीत्यर्थः, यज्ञशाला ज्ञानियज्ञस्य शाला विशिष्टं गृहं स्याद्भवेत्तां प्रविशदिति पूर्व- त्रान्वयः, ततः किंकर्यादित्यत आह सव्याहानिति लोके ताव- दयमर्थः, सव्यान्मिव्ये वामाङ्गेऽहान्योग्यान्पदार्थान्होमसामग्री- भूतान्सव्यतः सव्ये वामभागे कुर्यात्स्थापयेत्तथाऽसव्याही- नसव्येऽपमव्ये दक्षिणभाग इत्यर्थः, अन्यिाग्यान्पदार्थान्हो- मसामग्रीभूतानसव्यतोऽसव्येऽपसव्ये दक्षिणभाग इत्यर्थः, उभयत्र सप्तम्यन्तात्तसिः, यथा येन प्रकारेण प्रायश्चित्तीयते प्रा- यश्चित्ती भवति तथा तेन प्रकारण नैव सञ्चरेत नव वर्ततेत्यर्थः। प्रकृते तु सव्यानिऽद्वैतं मोक्षसाधनत्वात्सव्यं तत्राहीन्योग्या- विवेकादीन् सव्यतोऽद्वैतात्मस्वरूपप्राप्तिप्ताधनवादात्मनः पृथ- क्सत्त्वरहितत्वाचाद्वैत आत्मनि कुर्यात्स्थापयेदद्वैतात्मवत्ता- नपीष्टत्वेनाङ्गीकुर्यादिनि भावः, भाषः, तथाऽसव्यानिसव्येऽप- सव्यवपितृलोकप्राप्तिकारणत्वेन कर्मनिर्वाहक द्वैतं तत्राहीन. योग्यान्यज्ञादिधर्मान्साधनैः सहितानमव्यतोऽपसव्ये द्वैत- रूपसंसारे कुर्यात्तत्कारणत्वेन विभाव्य तत्रोपेक्षां कुर्यादित्यर्थः, बोधसारे। एवं साधनानि दैनाद्वैतोपयोगेन विविच्य यथा येन प्रकारेण प्रायो बहुशश्चित्तीयते चित्तं द्वैतकार्यसाधनरतमन्तःकरणं त- स्याचरणमिवाचरणं क्रियते यथा तथा तेन प्रकारेण नैव स. श्वरेत संप्रवर्तेत केवलाद्वितीवात्ममाप्तिसाधनेषु विवेकादिष्वेव प्रवर्ततेति भावः ॥२॥ तथापि पूर्ववासनया कदाचिच्चित्तस्य चित्तधर्मेषु प्रवृत्ती सत्यां तन्निवर्तकचित्तधर्माङ्गीकाररूपं प्रापश्चित्तं विधत्ते । अथ कर्मातिपातः स्यादुर्गत्वाद्ब्रह्मकर्मणः । प्रायश्चित्तविधिं ज्ञात्वा तच्च सद्यः समाचरेत् ॥३॥ अथेति । अथऽथापि चित्तधर्मेषु चेतः प्रस्तौ रुद्धायामपी सर्थः, ब्रह्मकर्मणो ब्रह्मस्वरूपभूतकर्मणः समाधिरूपस्येत्यर्थः, दुर्गत्वाद्दुःसाध्यत्वात्कर्मातिपातः कर्मणो ब्रह्मस्वरूपभूतस्य क- मणः समाधेरित्यर्थः, अतिपातो नाशः प्रपञ्चव्युत्थानरूप इ- त्यर्थः, स्याद्भवेत्तदा प्रायश्चित्तविधि भायो बहुशश्चित्तविधि चित्तनाशविधिं वक्ष्यमाणं ज्ञात्वाऽवलोक्य निश्चित्येसर्थः, तच्च तदपि चित्तधर्मनिवर्तकचित्तधर्मविशेषाङ्गीकरणरूपं पायश्चित्त- मिसर्थः, सद्यस्तत्कालमेव नोपेक्षया विलम्बः कर्त्तव्य इति भावः, समाचरेत्कुर्वीत । लौकिकार्थस्तावदयाथापि सावधा- नतया प्रवृत्तौ सयामपीयर्थः, ब्रह्मकर्मणो ब्रह्म वेदस्तदुक्तस्य कर्मणो दुर्गत्वाद्दुःसाध्यत्वात्कर्मातिपातः कर्मणः क्रियाया अतिपातो विघातः स्याद्भवेत्तदा प्रायश्चित्तविधि प्रायश्चित्तानां कमांतिपातजन्यदोषनिवर्तककर्मणां विधि प्रकारं ज्ञात्वा निश्चित्य तच प्रायश्चित्तमपि सद्यस्तत्कालं समाचरेत कुर्वीत नतूपेक्षां कु- दिति भावः ॥ ३॥ सद्यः प्रायश्चित्तकर्तव्यतायां बोधायनस्मृतिमुदाहति । " . " मुनीन्द्रदिन सहोमाङ्गहोमनिर्णयः । 'कर्मातिपाते प्रायश्चितं तत्कालमिति वचनात्प्रायश्चित्तानि ॥ ४५ ॥ कर्मेति । कर्मातिपाते कर्मणो विघाते सति प्रायश्चित्तं कर्मा- तिपातजन्यदोषनिवर्तककर्मरूपं तत्कालं तदानीमेव कर्तव्य- मितिशेषः, इति वचनादियेवं बौधायनवाक्याद्धेतोः ॥ ४ ॥ लौकिकमायश्चित्तविलक्षणानि मुनीनां प्रायश्चित्तानि व- क्तुमाह। अथ प्रायश्चित्तानि । अथेति । अथ प्रायश्चित्तकर्तव्यतायां प्रमाणनिरूपणानन्तरं प्रायश्चित्तानि मुनीनां कर्मातिपातजन्यदोषनिवर्तकानि चित्तध- माङ्गीकरणरूपाणि उच्यन्त इति शेषः, तान्येवाह । क्षमयैव जयेत्क्रोधं सत्येनैवानृतं जयेत् । अश्रद्धां श्रद्धया जित्त्वा दानैः कृपणतां जयेत् ॥५॥ समयेति । क्षमयैव क्षान्त्यैव केवलं नान्येनोपायेन क्रोध कोपं जयेन्नाशयेत्तथाऽश्रद्धा गुरुवेदान्तवाक्येष्वश्रद्धारूपं कर्मातिपातजं दोषं श्रद्धया गुरुवेदान्तवाक्येषु विश्वासेनैव जये- नाशयेत्तथा दानरुदारचित्ततया सत्पात्रसमर्पितैरथैः कृत्वा कृ- पणतामनुदारतारूपं समाधिरूपब्रह्मकर्मातिपातजं दोषं जयेन्ना- शयेत् ॥५॥ अत्रोक्तेर्थे प्रमाणतां साधयत्यर्धेन । इतीमे सेतुसामोक्ताश्वत्वारः सेतवो दृढाः । उपलक्षणमेवैतदन्यानपि तथा जयेत् ॥ ६ ॥ इतीति । इत्येवामम एते चत्वारश्चतुःसंख्या बढा बलिष्ठाः - बोधसारे। सङ्कल्पवर्जनात् सेतवो मार्गाः सेतुसामोक्ताः सेतवो मार्गास्तत्प्रतिपादकं साम'सेतूं- स्तरेदि'त्यादिगीतिरूपं तस्मिन्नुक्ताः कथिता ज्ञेयाः, अत एतद- प्रामाणिकं न मन्तव्यमिति भावः, नन्वेते किश्चत्वार एव नेत्याहो- पलक्षणीमति, एतच्चतुःसेतुनिरूपणमुपलक्षणमुपलक्षकमन्येषा- मपि एव निश्वेतव्यं तथा तथासति उपलक्षणत्वे सतीत्यर्थः, अ. न्यानपि कातिपातजान्दोषाश्रयेनिवारयेत् ॥६॥ तानेर दर्शयति । उत्थानेन जयेन्निद्रां कामं सन्तोषेण जयेल्लोभं मोहं बोधदृशा जयेत् ॥ ७॥ उत्थानेनेति । उत्थानेनोत्थानं निद्रानिकृत्यै स्थानान्त- रगमनादिकं तेन निद्रां सुषु जयेन्नाशयेत्तथा सङ्कल्पवर्जना- सङ्कल्पस्य गुणबुद्ध्या चिन्तनरूपस्य वर्जनं सागस्तस्मात्कार्म मनसोभिलाषरूपां वृत्ति जयेन्नाशयेत्तथा लोभ लोभरूपां वृत्ति सन्तोषेण सन्तोषोऽलंबुद्धिस्तया जयेन्नाशयेत्तथा बोधशा बोधो ज्ञान सैव दृष्टिः स्वात्मस्मृतिरिसर्थः, तया मोहमात्म- साक्षात्कारसाधनानवधानरूपं स्वात्मविस्मृतिरूपं वा जयेन्ना- शयेत् ॥७॥ मदमत्सरमुख्यांश्च सर्वभूतात्मभावनात् । अन्यानपि जयेद्दोषान्नित्यानित्यविचारणात् ॥८॥ मदेति । मदमत्सरमुख्यांश्च मदः सर्वगुणैः स्वस्मिन्नाधि- क्यबुद्धिमत्सरः परोत्कर्षासहनं तौ मुख्यौ येषां कामादीनां ते तथोक्तास्तानपि सर्वभूतात्मभावनात्सर्वाणि समस्तानि यानि भूतानि पृथिव्यादीनि तत्कार्याणि च तेषु आत्मनोऽस्ति- भातिषियरूपेण स्वस्य भावनं नाम चिन्तनं नामरूपासवप्र- " मुखस्य चेतसो लयसन्मुखत्वे हेतवः कारणानि निद्राशेषो नि- मुनीन्द्रदिन सहोमागहोमनिर्णयः । तीतिपूर्वकं सच्चिदानन्दरूपेण चिन्तनं ततस्तेनेयर्थः, जयेना- शेयत्तथाऽन्यानपि उक्तदोषेभ्योतिरिक्तानपि दोषान्स्वसा- क्षात्कारविघ्नरूपान्नित्यानिसविचारणान्नित्यमात्मरूपं सच्चिदा- नन्दरूपेण सर्वत्र नामरूपात्मकेषु स्थितमनित्यं चानात्म- रूपमसज्जडरूपं दुःखरूपं च माया तत्कार्य चानयोर्विचार- णाद्विविच्य दर्शनाज्जयेन्नाशयेदात्मानात्मविचारणादिति पा- ठेपि स एवार्थः ॥ ८॥ लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ ९॥ लय इति । लये सुषुप्तौ लीने सति चित्तं मनः प्रबोधये- योगेन समाधौ निरुध्यमानं चेतो विषयेभ्यो व्यावृत्तमपि ल- याभिमुखं चेत्तदानीमुत्थापनप्रयत्नेन, यद्वा लयकारणनिरासेन तत्सम्यगुत्थापयेद् , लयकारणानि पातञ्जल उक्तानि 'लयहेतवो निद्राशेषोऽजीर्णवह्वशनश्रमा' इति । अस्यार्थः, लयस्य लयाभि- द्राया अपूर्णतैकः, अजीर्ण भक्षितानस्योदरे परिपाकाभावो द्वितीयो, बह्वशनं स्वाहारादधिकान्नभक्षणं तृतीयः, श्रमश्च च. तुर्थ इत्येवंरूपाश्चत्वारो हेतवो भवन्ति तन्निवारणेन जान- दभिमुखं कृत्वा ततः समाधौ निरन्ध्यादिति भावः। ततो लया. दुत्थापितं चिचं यदि विक्षिप्तं स्यात्रियं जाग्रद्विषयप्रतीत्य. भ्यासवशात्कामभोगेषु विक्षिप्तं विक्षेपं प्राप्तं भवेच्चञ्चलं भ- वेदित्यर्थः, तर्हि पुनर्भूयोपि शमयेद्विवेकिप्रत्यक्षभोग्यवस्तुस्थि- तसर्वप्रकारदुःखानुसन्धानेन शास्त्रार्थानुसन्धानेन जन्मादि- विकाररहिताद्वितीयात्मानुसन्धानेन वा भोग्यावस्तुत्वनिश्चयेन बोधसारे। " वा शमयेनिर्वासनं कुर्यात्ततश्च तच्चित्तं सकषायं कषायस्ती- चित्तदोषस्तीवरागद्वेषादिवासना तया ग्रस्तं यदि भवेत्तर्हि तद्विजानीयात्कदाचित्समाधिस्थितमिव लयविक्षेपशून्यं दुःख- काग्रमवतिष्ठते तादृशं चित्तं विजानीयात्समाहितचित्ताद्विविच्य जानीयादित्यर्थः, असमाहितमिदमिति निश्चिय कषायप्रतीकार कुर्यादिति भावः, तथा समप्राप्त समं ब्रह्म 'समं सर्वेषुभूतेष्वि'त्या- दिस्मृतेः, तत्माप्तं तदाकारं यदि भवेत्तर्हि तच्चित्तं कषायलय- ग्रस्तत्वभ्रमेण ततो न चलितं कुर्यात्समे ब्रमणि चित्ते स्थापि ते सति तत्रैव स्थिरं तत्कुर्यादिति भावः ॥९॥ ततोपि किं कार्यमित्यत आह । नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत् । विशेदेकाग्रया बुद्ध्या सिद्धिमेवमवाप्नुयात् ॥१०॥ नेति । तत्र समे ब्रह्मणि चेतसि स्थापिते सति परमानन्दा- विर्भावः स्यात्तत्र तस्मिन्परमानन्दाविर्भावे सति रसमानन्दं ना- स्वादयेन्नानुभूयाद् 'रसो वै स' इति श्रुतेः, । ननु 'सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियमिति स्मृतेः । समाधिनिधूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत्। न शक्यते वर्णयितुं तदा गिरा स्वयं तदन्तःकरणे न गृह्यते॥ इति श्रुतेश्च, समाधावाविर्भूतस्य ब्रह्मानन्दस्य श्रुति- स्मृतिभ्यां बुद्धिग्रावत्वमुक्तं भवता तु तद्विरुद्धं बुद्ध्यना- ह्यत्वं कथमुच्यत. इति चेन्नायं दोषः समाधिविरोधि- व्युत्थानकारणभूतवृत्तिविषयक सुखास्वादनिषेधाद्, यथा ग्री- ध्मदिनेषु मध्यावे जाह्नव्यादिनदीजलनिमग्नेनाप्यनुभूयमानं शै- त्यमुखं तदा वक्तुमशक्यं पश्चात्ततो निःसृतेनोच्यते, यथा वा मुनीन्द्रदिन सहोमागहोमनिर्णयः। । मुषुप्तावविद्यातिभिरतिसूक्ष्माभिरनुभूयमानमपि स्वरूपमुखं न- दानी सविकल्पेनान्त:करणेन गृहीतुमशक्यमपि प्रबोधकाले तु स्पष्ट तत्परामृशति, तथा समाधौ वृत्तिरहितेन संस्कारमात्रशे- पतया सूक्ष्मेण चित्तेन सुखानुभवः श्रुतिस्मृतिविवक्षितः, अस्मा- भिस्तु महदिदं समाधिमुखमन्त्रभून मिति व्युस्थितस्य स्मृति- विषयः सविकल्पो रसास्वादशब्देना नन्दोभिहितः स च प्रति- षिध्यतेऽतो न विरोधः। एतदभिप्रायं विशदयितुमाह नि:- सङ्ग इति, प्रज्ञया प्रकृष्टं सविकल्पकं ज्ञानं प्रज्ञा तया निःसङ्गः सङ्गः सम्बन्धस्तद्रहितो भवेत्स्याद् यद्वा धृतिगृहीता बुद्धिः प्रज्ञा नया निःसङ्गः समाधिसुखनिरूपणाचासक्तिरहितो भवेत्स्या- दियर्थः, यद्वा प्रज्ञया समाधिरूपवृत्त्या निःसङ्गस्ताचिकसम्बन्ध हीनः शुद्धचिन्मात्री भवेदित्यर्थः, एतदभिप्रायेणाच्याह विशेदिति, एकाग्रयैकं स्वगतादिभेदरहितमग्रं पर्यवसानं यस्याः सा त- थोक्ता स्वलयेन ब्रह्ममात्ररूपयेसर्थः, बुद्ध्या निश्चयात्मिकान्त:- करणवृत्त्या विशेल्लीनो भवेब्रह्माकारो भवेदित्यर्थः, ततः किं तत्राह सिद्धिमिति, एवं प्रकारेण सिद्धि मुक्तिमवाप्नुयात्मा- नुयानान्यथोक्तलक्षणब्रह्मकर्मफलसिद्धिरिति भावः ॥ १० ॥ एवं होमविघातकानि प्रायश्चित्तानि निरूप्येदानी होमा- हेतिकर्तव्यतामाह । उद्धृते गार्हपत्याग्नौ तत्तत्संस्कारसंस्कृते । सत्यरूपः स्वयं यज्वा श्रद्धा पत्नी पतिव्रता॥ ११ ॥ उद्धृत इति । गार्हपत्यानौ कक्ष्यमाणे गार्हपबनामन्यग्नावु- दृते वक्ष्यपाणलक्षणेनोद्धरणेनोद्धृते बहिनिष्कासिते सति तत- स्वत्तत्संस्कारसंस्कृते ते ते तच्छुद्धिकारणभूताः संस्कारा जीव-- स्य ये विवकिमसिद्धाः शान्त्यादयस्तैः संस्कृत शोधिते सति बोधसारे। जीवरूपेऽनौ सत्यरूपस्त्वंपदलक्ष्यः शुद्धीवः स्वयमात्मा यज्वा होमका भवति पतिव्रता पत्युरात्मनो व्रतं स्वमुखचित्सन्मात्र- स्थितिरूपं व्रतं यस्याः सा तथोक्ता श्रद्धा गुरुवेदान्तवाक्येषु विश्वासरूपा वृत्तिः सा पत्नी यज्वपत्नी भवति ॥ ११ ॥ लोके तावद्गार्हपत्योग्निः प्रसिद्ध एवात्र तु गार्हपत्यशब्दनि- रुत्स्या तं विशिष्ट लक्षयति । गृहं देहः पतिर्जीवश्छादितो मोहभस्मना । जीवस्य गार्हपत्याग्नेस्तदुद्धरणमुत्तमम् ॥ १२ ॥ गृहमिति । देहः शरीरं गृहं गृह्यत आत्मभ्रान्साङ्गीक्रियत इति गृहं मन्दिरं जीवो जीवयति शरीरमिति जीवः, यद्वा जी- वति प्राणान्धरतीति जीवः पतिः पाति रक्षतीति पतिः शरीरस्य जीवकत्वात्मागधारकत्वाचास्ति स मोहभस्मना मोहोऽज्ञानं जीवारन्याच्छादकत्वाद्भस्मेव भस्म तेनाच्छादित आत्तो भवति तत्ततो मोहभस्मतो जीवस्य जीवरूपस्य गार्हपत्याने शरीरय- हपालकस्य तत्प्रकाशत्वाचाग्नेः । यद्वा तत्त्वज्ञानेन शरीरगृहदा- हकत्वेनानेस्तस्य च सत्त्वसमर्पणेन पालकस्य चोद्धरमु- दार उत्तमं श्रेष्ठमतिश्रेष्ठमित्यर्थः, नान्यल्लौकिकमग्न्युद्धरण श्रेष्ठमिति भावः ॥ १२ ॥ हे आहुती जुहोत्येते अग्निहोत्रविधानतः । ममतां प्रथमं हुत्वाहन्तां च जुहुयात्ततः ॥ १३ ॥ दे आहुती जुहोतीति । श्रुति प्रामाण्येन लौकिके गाई- पत्यानी द्वे आहुती प्रक्षिप्येते अतोत्राप्येतत्यामाण्येनैतदाहुतिद्वय- विलक्षणमाहुतिद्वयमाह द्वे इति, अग्निहोत्रविधानत उक्तलक्षणे- नाग्निहोत्रविधानेनैते वक्ष्यमाणे द्वे विसङ्ग्ये आहुती मुनिर्म-

SARAIPURaiapMAGEAN
HTTA
मुनीन्द्रदिन सहोमानामानर्णयः ।
ननवाजुहोति प्रक्षिपति ते एवार्धन दर्शयति ममतामिति,
प्रथममादौ ममतां ममत्वं हुवा प्रक्षिप्य ततोऽनन्तरमहन्तां
चाहन्त्वमपि जुहुयात्पक्षियेद्बुद्ध्यादौ शरीरान्तेषु आत्मन-
स्तादात्म्यबुद्धिं सजेदित्यर्थः ॥ १३ ॥
नन्वेतदाहुतिद्वयं जीवस्वरूपे गाहयत्याग्नौ प्रक्षिप्यते चे-
ततः किं फलं भवेत्तत्राह ।
हुते चेदाहुती एते सर्वमेततं भवेत् ।
श्रद्धापत्नीसमेतानां मुमुक्षागृहवासिनाम् ॥१४॥
अग्निहोत्रमिदं नित्यमकृत्य प्रत्यवैति यत् ।
इ० न० बो० मु० होमांगसहितहोमनिर्णयः ॥१३॥
हुते चेदिति । एते उक्तप्रकारे आहुती हुते चेदुक्तलक्षणे
गार्हपत्यानौ प्रक्षिप्ते यदि ततस्तर्हि एतत्सत्रं दृश्यमानं सर्व ज-
गद्धतमन्नावुक्तलक्षणे प्रक्षिप्तं भवेत्स्याद्, नन्विदमग्निहोत्रं न
काप्युक्तमिसाशक्य तैतिरीयकोपनिषदि 'तस्यैवं विदुषो यज्ञ-
स्यात्मा यजमानः श्रद्धा पनी त्या दिनोक्तत्वान्मैवमित्याह श्र-
देति, श्रद्धापनीसमेतानां गुरुवेदान्तवाक्यषु विश्वासबुद्धिरेव
श्रद्धा सैव पत्नी भार्या तया समेतानां संयुक्तानां मुमुक्षा गृह-
वासिनां
मुमुक्षा
मोक्षेच्छा
सैव गृहं मन्दिरं तत्र वस्तुं वासं कर्तु
शीलं येषां तेषां 'मुप्यजातौ णिनिस्ताच्छील्ये' इति णिनिः, इद-
मेतदुक्तविधमियर्थः, अग्निहोत्रमग्निहोत्राख्यं कर्म कार्यमवश्य-
कर्तव्यं विहितमित्यर्थः, यदिदं प्रसिद्ध ज्ञान्यग्निहोत्रमकृत्य प-
रियज्य प्रत्यवैति प्रयवायी भवति अतोग्निहोत्रमिदं नित्यं क-
तिव्यमिति भावः ॥ १४ ॥ १५ ॥
इति श्रीनरहरिशिध्यदिवाकरविरचितायां वोधसारार्थदीप्तौ मु.
नीन्द्रदिनचर्यार्थप्रकाशे होमाङ्गसहितहोमनिर्णयार्थप्रका-
शखयोदशः ॥ १३॥

बोधसारे। अथ ब्रह्मयज्ञनिर्णयः। एवं होमनिर्णय परिसमाप्यदानी ज्ञानिनां ब्रह्मयज्ञ नि- णेतुं ब्रह्मयज्ञनिर्णयाख्यं प्रकरणं पञ्चश्लोकमभिदधान आह । अथ ब्रह्मयज्ञनिर्णयः । अथेति । अथ होमनिर्णयानन्तरं ब्रह्मयज्ञो विदुषां ब्रह्म- यज्ञो निरूप्यत इति शेषः, तत्र तावल्लौकिकब्रह्मयज्ञे प्रसिद्धह- स्तयोः सम्पुटीकरणं विहितं तद्वदत्र ज्ञानिविहितब्रह्मयज्ञे लौ- किकहस्तविलक्षणहस्तयोलौकिकसम्पुटीकरणविलक्षणं सम्पु- टीकरणमाह। आहेसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । इति पर पञ्चाङ्गुलिमयो यमनामा तु सत्करः॥१॥ अहिंसेति । अहिंसा हिंसात्यागः, सत्यं सत्यवचना- दिग्रहः, यद्वाऽसद्वस्तु त्यागेन सदस्तुग्रहः, अस्तेयं स्तेयं चौर्य त- त्यागः, ब्रह्मचर्यापरिग्रही ब्रह्मचर्यमष्टाङ्गमैथुनत्यागरूपम, अपरि- ग्रहश्च योगप्रतिकूलविषयासंग्रहः, एतेषां फलान्यपि मृत्रितानि पतञ्जलिना 'अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः, त्यप्रतिष्ठायां क्रियाफलाश्रयखम, अस्तेयप्रतिष्ठायां सर्वरत्नोप- स्थानं, ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः, अपरिग्रहस्थैर्ये ज. न्मकथन्ता सम्बोध' इति पञ्चयमफलानि क्रमेण प्रतिपादिता- नीत्येवं पञ्चाङ्गुलिमयः पञ्च पञ्चसङ्ख्या अगुलयस्तन्मय- स्तत्प्रचुरो यमनामा यमानामयति स्वाङ्गमुख्यत्वेन प्रगट यतीति यमनामा साङ्खयाख्यः सत्करः सन्मोक्षार्थोपयोगी करो मुनीन्द्रदिन ब्रह्मयज्ञनिर्णयः । " हस्तो यमानां साङ्ख्य एव प्रधानत्वात्तुपदेन लौकिकहस्ततोऽस्य हस्तस्य वैलक्षण्यं मूचितम् ॥ १ ॥ द्वितीयं करं निर्दिशति । शौचं संतोषः स्वाध्यायस्तप इश्वरधारणा । इति पञ्चाङ्गुलिमयो नियमो नाम सत्करः ॥२॥ शौचमिति । शौचं बाह्य स्नानादि आन्तरं रागादित्याग- रूपमुभयं, सन्तोपो यथालब्धेषु भोगेष्वलंबुद्धिः, स्वाध्यायः स्वा- स्मनिरूपकवेदांतग्रन्थानां विवारपूर्वकः पाठः, तपः स्वस्ववर्णाश्रम- विहितकर्माचरणनिमित्तं शीतवातादिक्लेशमहनरूपं स्वरूपप्राप्तिमा- धननिमित्तं क्लेशसहमिति च द्विविधम्, ईश्वरधारणा सर्वत्रास्ति- भातिप्रियरूपेण सच्चिदानन्देश्वरप्रतीतिरूपा तद्व्यतिरिक्तनाम- रूपासत्त्वनिश्चयपूर्विका, इत्येवं पञ्चाङ्गुलिमयः पञ्च पञ्चसङ्ख्या अङ्गुलय इवाङ्गुलयः करशाखास्तन्मयस्तत्प्रधानो नियमो नाम नियम इति प्रसिद्धो योग नियमानां प्राधान्यानियमप्र. धानाङ्गैरुपलक्षितो योग इत्यर्थः, सत्करः सन्मोक्षरूपार्थसाधन- भूतः करो हस्तोऽस्ति । एतेषामपि फलानि मूत्रितानि पतञ्ज- लिना 'शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः, सत्त्वशुद्धिः सौमनस्यैका- ग्ग्रेन्द्रियज यात्मदर्शनयोग्यत्वानि चेति; संतोषादनुत्तममुखलाभः, कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः, स्वाध्यायादिष्टदेवतामंप्र- योगः, समाधिसिद्धिरीश्वरमणिधानादिति क्रमेण नियमानां फलानि ज्ञेयानि ॥२॥ एवमङगुलिभिरुपलक्षितौ हस्तौ निर्णीय तयोः सम्पुटी- करणं विशिष्टमाह। संपुटीकृत्य हस्तो द्वौ मुनिनियमसंयमौ ।

बोधसारे। ब्रह्मस्तुतिमयं साक्षाब्रह्मयज्ञं समाचरेत् ॥ ३ ॥ सम्पुटीकृत्येति । मुनिर्ज्ञानी नियमसंयमौ नियमाः पञ्च प्रोक्तास्तदुपलक्षितो योगः संयमश्चोक्तपञ्चयमोपलक्षितश्च सा- यस्तौ द्वौ द्विसङ्ख्यौ हस्तौ करौ द्वैतत्यागाद्वैतग्रहणसाधनौ स- मपुटीकृयान्योन्यानुकूल्येनाखण्डैकरसवस्तुपर्यवसितौ कृत्वा साक्षाद्वाच्यार्थत्यागेन प्रत्यक्षं यथा भवति तथा ब्रह्मस्तुतिमयं ब्रह्मणः सच्चिदानन्दरूपस्य स्तुतिः प्रशंसा यत्र वाक्ये तन्मयं तत्प्रधानं वाक्यार्थावृत्तिरूपं ब्रह्मयज्ञं ब्रह्मज्यतेऽनेनेति ब्रह्मा- यज्ञो बेदान्तपाठस्तं चरेत्कुर्यात् ॥ ३ ॥ नन्चीदृशब्रह्मयज्ञनिरूपणे किंप्रमाणमित्याशङ्याह । तदुक्तं पातंजले। तदिति । तद्ब्रह्मयज्ञाख्यं कर्म पातञ्जले पतञ्जलिप्रणीते योगशास्त्र उक्तं कथितं केन वाक्येनेत्यपेक्षायां तद्वाक्यमुदाहरति । 'स्वायाद्योगमासीत योगात्स्वाध्यायमामनेत् । योगस्वध्यायसंपत्या परमात्मा प्रकाशत' इति॥४॥ खाध्यायादिति । स्वाध्यायात्स्वस्यात्मनोऽध्यायः पति- पादको ग्रन्थो वेदान्तशास्त्रं तत्पाठः कर्तव्यस्तस्मिंश्चित्तस्यौदा- सीन्यमालक्ष्य ततः योग चित्तवृत्तिनिरोधमासीताभ्यसेत्तत्रापि चित्तस्यौदासीन्यमालक्ष्य योगायोगाभ्यासाचितं निवर्त्य स्वा- ध्यायं स्वस्यात्मनः प्रतिपादकं शास्त्रमामनेद्विचारयेत्कामा- दिवत्तीनामवसरं न दद्यादिति भावः ॥ १० ॥ एवं कृते किं स्यात्तदाह । वेदशास्त्रपुराणेषु यद्यत्युण्यफलं स्मृतम् मुनीन्द्रदिन० तर्पणनिर्णयः । सर्वस्मादपि संप्रोक्तं ब्रह्मयज्ञफलं महत् ॥ ५ ॥ इति श्रीनर० बोध मुनीन्द्र ब्रह्मयज्ञनिर्णयः ॥ १५ ॥ योगेति । योगवाध्यायसंपत्त्या योगश्चित्त वृत्तिनिरोधलक्षणः स्वाध्यायश्च विचारपूर्वकं वेदान्तपाठस्तयोः सम्पत्त्या सिद्ध्या सम्पादनेनेयर्थः, परमात्मा कार्यकारणातीत आत्माऽखण्डै- करस आत्मा प्रकाशते स्वयमेव प्रकाशितो भवतीतीत्थं पाताले प्रोक्तमस्तीसर्थः ॥ ४॥ एतस्य विद्वह्मयज्ञस्य फलमाह । वेदेति । वेदशास्त्रपुराणेषु वेदः सतः प्रमाणत्वेनान्यत्र- माणनिरपेक्षोऽपौरुषेयवाक्य कदम्बरूपः शास्त्राणि मुनिप्रणी- तानि वेदार्थप्रतिपादकानि वेदान्तमीमांमादीनि पुराणानि च व्यासादिप्रणीतानि भागवतादीनि सेतिहाससयुक्तिकवेदशा- स्वार्थसंग्राहकाणीत्यर्थः, तेषु विचारपूर्व पठितेषु सत्सु यन- तत्र तत्रोक्तं पुण्यफलं पवित्रकारकं फलं प्रयोजनं स्मृतं कथितं तस्मात्सर्वस्मादपि फलात्समूहीभूताब्रह्मयज्ञफलमेतस्य विद्वद्वि- हितब्रह्मयज्ञस्य फलं प्रयोजनमात्मप्राप्तिरूपत्वान्महच्छष्ठं संमोक्तं कथितमतोयमेव ब्रह्मयज्ञः कर्तव्यो विद्वद्भिरिति भावः ॥५॥ इति श्रीनरहरिशिध्यदिवाकरविरचितायां बोधसारार्थदीप्ती मुनीन्द्रदिनचर्यार्थप्रकाशे ब्रह्मयज्ञनिर्णयार्थप्रकाशः पञ्चदशः॥१५॥ R अथ तर्पणनिर्णयः। एवं मुनीनां ब्रह्मयज्ञ निरूप्येदानी तत्मसङ्गातेषामेक- श्लोकं तर्पणनिर्णयाख्यं प्रकरणं निरूपयन्नाह । अथ तर्पणनिर्णयः । अथेति । अथ ब्रह्मयज्ञनिर्णयनिरूपणानन्तरं तर्पणनिर्णयस्तर्प- Maina बोधसारे। णस्य मुनीन्द्रतर्पणस्य निर्णयो निश्चयः क्रियत इति शेषः, तमेवाह। देवर्षिपितृभूतेभ्यो दत्तो येन जलाञ्जलिः । ब्रह्मैवास्मीतिमंत्रेण तर्पणं तत्सुतर्पणम् ॥ १ ॥ इति श्रीनरहरिकृतौ बोधसारे मुनींद्रदिनचर्यायां तर्पणनिर्णयः ॥१६॥ देवर्षीति । देवर्षिपितृभूतेभ्यो यथा लोके देवर्षिपितृभू- तेभ्यो जलाञ्जलिर्दीयते तद्वदत्रापि देवा इन्द्रियाधिष्ठातारः स- मष्टिव्यष्टिरूपा ऋषयश्च ब्रह्मादयः पितरश्चाग्निष्वातादयः स्वपितरश्च भुतानि वियदादीनि भौतिकाः प्रेतादयश्च सर्वे प्राणिनस्तेभ्यो ब्रह्मैवास्मीनिमन्त्रणाहं सच्चिदानन्दलक्षणस्यो- भयोरविशिष्टत्वाब्रह्मास्मि भवामि नान्योऽहंपदवाच्यो जीवो- स्मीत्यर्थानुमन्धानपूर्वकमनेन मन्त्रेण कृत्वा जलाञ्जलिर्ज- डस्य जडभागस्योभयोः पदयोर्वाच्यांशस्य विरुद्धस्याधेया- धारत्वेन सम्बन्धरूपोञ्जलिः साङ्ख्ययोगहस्तयोरेकार्थपर्यव- सानरूपोऽञ्जलिदत्तः समर्पितः स्वसम्बन्धं परित्यज्य देवर्षि- पितृभूतसम्बन्धत्वेनानुभूत इत्यर्थः, तन्निषेधस्यापि तत्सम्बन्ध- वत्त्वमेवेति भावः, तदेतदज्ञानिनां परोक्षमपि ज्ञानिनां वप. रोक्षमित्यर्थः, तर्पणं तृप्तिजनकं कर्म सुतर्पणं नित्यतृप्तिजनक नान्यन्नियतृप्तिजनकमतो विद्वद्भिरेतदेव कर्तव्यमिति भावः ॥१॥ इति श्रीनरहरिशियादवाकरविरचितायां बोधसारार्थदीप्तौ मुनी. न्द्रदिनचर्यार्थप्रकाश तर्पणनिर्णयार्थप्रकाशः षोडशः ॥ १६ ॥ अथ देवपूजानिर्णयः। एवं तर्पणं निरूप्येदानी मुनीनां देवपूजां वक्तुं देवपूजा- निर्णयाख्यं चतुर्दशश्लोकं प्रकरणं निरूपयन्नाह ।

मुनीन्द्रदिन देवपूजानिर्णयः । । अथ देवपुजाचतुर्दशीः । अथेति । अथ तर्पणनिरूपणानन्तरं देवपूजाचतुर्दशी देवपूजायाश्चतुर्दशी चतुर्दशश्लोकसमाहाररूपं प्रकरणं निरूप्यत इति शेषः । तत्र तावज्ज्ञानिनां पूजां निरूपयितुं तत्पूज्यदे- बतातत्यानुसन्धानं कृत्वा पूज्यपूजानिरूपणं प्रति जानीते । मायाशक्तिविलासतो नगणितब्रह्माण्डभाण्डोदरे क्रीडाकौतुकसंभ्रमात्मकमपि प्रत्यक्प्रकाशात्मकम् । ध्यात्वा किंचिदचिन्त्यचिद्धनरसं स्वानदसत्ताद्वयं सिद्धांतस्वरसेन पूजन विधि वक्ष्यामि विश्वात्मनः॥१॥ मायेति । मायाशक्तिविलामतो मायानाम्नी शक्तिर्जग- जननमामर्थ्यरूपा तस्या विलासतो विलासरूपे सप्तम्यन्तात्त- सिल, नगणितब्रह्माण्डमाण्डोदरे नगणितानि अनन्तानि यानि ब्रह्माण्डरूपाणि भाण्डानि पात्राणि तेषामुदरे जठरे क्रीडाको- तुकसंभ्रमात्मकमपि क्रीडायां विलामे यत्कौतुकमाश्चर्यं तस्य संभ्रम आवेशः स एवात्मा स्वरूपं यस्य तत्तादृशमपि लौ- किकदृष्च्या तादृशं प्रतीतमपी सर्थः, प्रसवप्रकाशात्मकं प्र- स्यक्सर्वप्रकाशकत्वेनान्तश्चित्प्रकाशः स आत्मा स्वरूपं यस्य तत्तथोक्तमस्तीति शेषः, तस किञ्चित्सच्चामत्त्वादिना केनापि प्रकारेण निर्देशानहमचिन्त्यचिद्धनरसं स्त्रानन्दसत्ताद्वयं न चिन्त्यश्चिन्तनस्य ध्यानस्य विषयो भवितुमर्हः स चासौ चि. देव चिन्मात्रं तद्रूपेण धनः सघनो निविड इयर्थः, रसः सारी यत्र स तादृश आनन्दः स्वरूपभूत आनन्दस्तस्य सत्ता भाव- स्तयाऽद्वयं भेदरहितमिष्टदेवतास्वरूपं ध्यात्वा चिन्तयित्वा त. देवाहमित्यनुभूपेत्यर्थः, अहं सिद्धान्तस्वरसेन सिद्धान्तः सर्व- बोधसारे। वेदान्तलक्ष्यो य स्वरस आत्मस्वरूपसुखं तेनैव केवलं वि- श्वात्मनः सर्वाल्मशिवस्य पूजनविधि पूजनस्यार्चनस्य विधि प्रकारं वक्ष्यामि कथयिष्यामि ॥१॥ एवं प्रकारनिरूपणं प्रतिज्ञायेदानी विशिष्टमावाहनं लक्षयति । सेव्यः श्रीगुरुवेदवाक्यजनितश्विद्वोध आवाहनं सर्वव्यापकताविनिश्चयमतिः पर्ण पवित्रासनम् । त्वत्तोनान्यदवैमि किंचिदिति तत्पुण्याम्बु पादोदकं त्वय्येवास्त्वचला ममेश मतिरित्योस्तु ते सुंदरः॥२॥ सेव्य इति । श्रीगुरुवेदवाक्यजनितः श्रीगुरोर्वैराग्याथै- श्वर्ययुक्तस्य गुरोर्दैशिकस्योपदेशवाक्यैर्वेदवाक्यैः कृत्वा ज- नित उत्पन्नश्चिद्रोधश्चितश्चिन्मात्ररूपस्यात्मनो बोधो ज्ञान सेव्योऽङ्गीकार्यः सोङ्गीकार एवात्र ज्ञानिपूजायामावाहन- मावाहनरूपोपचारो भक्नीति शेषः, एवमावाहनमुक्त्वा ऽऽसन- माह सर्वेति, सर्वव्यापकताविनिश्चयमतिस्तस्यैवात्मशिवस्य सर्वत्र व्यापकताऽस्तिमातिप्रियरूपेण विद्यमानता तस्या विनिश्चयो- ध्यवसायस्तद्रूपा मतिर्मननरूपान्तःकरणक्तिः पूर्ण तत्र स्था- तुर्देवस्यात्मशिवस्य योग्यं पवित्रासनं पवित्रं निर्मलमासनं ज्ञेयं, पाद्यमाह त्वत्त इति, स्वतः सच्चिदानन्दरूपादात्मनोऽन्यद्भिन्नं किश्चित्किमपि नामि न जानामीत्येतद्यज्ज्ञानं तदेतस्यां पू- जायां पुण्याम्बु अन्तःकरणोपाधिमलनिवर्तकत्वात्पुण्यं पवित्र- मम्बु जलं पादोदकं पादाभ्यामङ्किभ्यामुदकं जलं पाद्यमि- त्यर्थः, ज्ञेयम, अयमाह त्वयीति, हे ईश हे शिव ममान्तःकरणा- वच्छिन्नस्य साधिष्ठानचिदाभासस्य मतिर्मननरूपा वृत्तिस्त्वय्येको पाधि निरस्याखण्डैकरसे भवतु केवलमस्तु स्यादिति मुनीन्द्रदिन देवपूजानिर्णयः । एवं प्रकारा प्रार्थनरूपा वृत्तिः सुन्दरः मुखजनकत्वात्कम- नीयस्ते स्वात्मशिवार्थमोऽय॑मस्तु भवतु ॥ २ ॥ मधुपर्कमपिं विशिष्टभाह। शीतोष्णं कटुतिक्तमम्लमधुर क्षार विचित्र रसै यत्तस्यास्य समत्वभावमधुना पर्कः कृतश्चेद्यदि । मुख्योयं मधुपर्क उत्तमरसस्तैनामुना सादरं पूज्यानामपि पूज्य एष परमो देवः सदा पूज्यताम्॥३॥ शीतोष्णमिति । रसैः सुखविशेषैः शीतोष्णं शीतं शीत- गुणवदुष्णं च तापकं समाहारे एकवद्भावस्तथा कटुक- पायरसवत्तिक्तं तीक्ष्णरसबदम्लमपुरमालगम्लरसन्मधुर मधुररसवद्गुडादिकमत्रापि समाहारैकवचनं क्षार क्षाररसबद- यत्पदार्थजातं तदाकारमन्तःकरणं च विचित्र विचित्ररसब- प्रतीयते. तस्योक्तस्यानेकरससहितस्यान्तःकरणस्यास्य क्षिणो मम प्रकाश्यस्य समत्वभावमधुना समत्वमस्तिभ ति- प्रियरूपेण समत्वान्नामरूपयोरपि पृथगमत्त्वाच्च सर्वत्रस्तुनस्तदा- कारान्तःकरणस्य च समत्वं तस्य भावो भावना तदेवोत्कृष्ट पारमार्थिकरसरूपवान्मधु तेन पर्कः लपः स्वात्मशिः कृतः सम्पादितो यदि चेद्यदि भवेत्तर्हि अयं विवकिनां प्रसिद्ध उ- तमरस उतम उद्गतं निहतं तमोऽज्ञानं तत्कृतमाकरणं च य- स्मात्तथाभूतो रसः सुखं यत्रात एवं मुख्यः प्रधानो मधु- पर्कः मधुना पर्को लेपो भवति तेनोक्तलक्षणेनामुना मम सा- क्षिणः प्रत्यक्षेण मधुपर्केण पूज्यानामपि पूज्याः सर्वजगत्पूज्या ब्रह्मादयस्तेषामपि पूज्यः पूजा परिचर्या तदह एष प्रयक्प- रोक्षरहितो ब्रह्माभिन्नपत्यगात्मरूप परम कार्यकारणरहितो ૨૮૨ बोघसारे। देवश्चित्स्वरूप आत्मा सदा सर्वावस्थासु निरन्तरमियर्थः, पू- ज्यना पूज्यः ॥ ३ ॥ एवं मधुपर्क निरूप्य स्नानमाह । सर्वाङ्गीणसुखावहं मुहुरहो यजन्मनो मज्जनं शुद्धे बोधसुधाम्बुधौ शुचितरे स्नानं विशुद्धिप्रदम् । आभानं स्फुरति द्वितीयमिव यत्तत्सर्वमाचम्यता मित्युक्तो गुरुभिस्तदेष विधृतश्चित्ते स एवाचमः॥४॥ सर्वाङ्गीणति । यत्प्रांसद्धं ज्ञानिनां जन्मनः जन्मकारणा- दज्ञानात्तस्कार्यान्जीवत्वाच निःसृसेनि शेषः, शुद्ध कार्यकारगा- तीते शुचितरऽन्तःकरणस्यातीवशोधकस्वारस्वतश्च मायावि- धामलरहितत्वाचातीव शुद्ध 'न हि ज्ञानेन सदृशं पवित्रमिह विद्यत' इति स्मृते बोधसुधाम्बुधौ बोधो जीवात्मैक्यज्ञानं महा- वाक्यजन्यमहं ब्रह्मास्मीतिसाक्षात्काररूपं स एव सुधाऽमृतं सुखरूपं जलस्थानीयं तस्याम्बुधिः समुद्र इवाधारः स्वरूपान- न्दस्तस्मिन्मानमवगाहनं मुहुर्भूयो भूयस्तत्सर्वाङ्गीणमुखा- वह सर्व सर्वपदनाच्यं द्वैतं तदेवाझं शरीरं तत्र भवं सर्वाङ्गीणं यत्सुखं तस्यावहं प्रापकं द्वैतजातेपि आत्मसुखप्रतीतिकारकमि- सर्थः, अहो इत्याश्चयें, स्याद्भवेद्विशुद्धिप्रदमन्तःकरणम वृसात्यन्तशुद्धिकरं भवति, आचमनमाह आभानमिति, द्विती- यमिवात्मभानादन्यदिव यत्प्रसिद्धमाभानमा-ईषद्भानं चिदा- भासरूपं जगत्प्रकाशकं स्फुरति भासत तत्सर्वमाचम्यतां त. त्सकलमपि प्राश्यतामात्मनः पृथङ्गास्ती येवं बाध्यतामि- यर्थः, इत्येप्रकारेण गुरुभिर्महावाक्यार्थोपदेष्टभिरुक्त उप दिष्टस्तदा उक्तलक्षण उपदेश श्चित्ते चेतसि विधृतोऽङ्गीकृतः उप- ॥ मुनीन्द्रदिन देवपूजानिर्णयः । स एवास्यां पूजाया माचम आचमनं भवति ॥ ४ ॥ वस्त्रायलङ्कारांश्वाह । श्रद्धा निर्ममता विरागशुचिता निःसङ्गता पूर्णता भक्तिप्रेमरसप्रसादपरमानन्दादयो ये गुणाः । वस्त्रालङ्करणानि तत्र विदुषा दयानि विश्वम्भरे सोहंभावमनोहरेण विधिना यद्यद्यथा रोचते ॥५॥ श्रद्धेति । श्रद्धा गुरुवेदान्तवाक्येषु विश्वासबुद्धिनिर्ममता ममत्तराहिसं विरागशुचिता विरागेण वैतृष्ण्येन सहिता शु. चितान्तःकरणनिर्मलत्वं निःमङ्गताऽलिप्तत्वं पूर्णता व्यापक- स्वनिश्चयो भक्तिप्रेमग्सप्रमादपरमानन्दादयो भक्तिः साकारध्या- नसेचादिरतिः प्रेमरसो निरतिशय मुखात्मविषयकनिरतिशय- स्नेहसुखं प्रसादः प्रसन्नता परमानन्द आत्मसुखानुभव एत- दादयो ये योगिषु प्रसिद्धा गुणाः सत्सगुगातयः सन्ति ते सर्वे विदुषा ज्ञानिना वस्त्रालङ्करणानि वस्त्राणि अलङ्काराश्च तत्र तस्मिन्विश्वम्भरे जगदाधारे आत्मनि यद्यस्त्रिं वाऽल- करणं वा तदन्यत्किमपि सुगन्धादि द्रव्यं वा यथा यद्रोचते प्रियं भवति तत्तत्तथा सोहंभावमनोहरेण स इति परोक्षः प- रमात्मा ऽहमहंपदलक्ष्यः प्रत्यक्ष आत्मा तयोः प्रसक्परोक्षता- यागेन भागलक्षण या लक्षित मखण्डैकरसात्मानुभवपूर्वकं त- दर्थप्रतिपादकेन सोहमितिमन्त्रेण मनोहरेण मनःप्रीतिकरण विधिना विधानेन देयानि समाणि ॥५॥ चन्दनमाह। अद्वैतप्रतिपत्तिरात्मविषया सा सामरस्याञ्चिता गात्रालेपनचारुचन्दनमिदं देवस्य देयं प्रियम् ।

बोधसारे। शान्तिः क्षान्तिरलोलता सरलता निर्मत्सरत्वादयः शास्त्रार्था यदि न क्षताश्व वितुषाः शुद्धास्त एवाक्षताः॥६॥ अद्वतेति । आत्मविषयाऽऽत्मा ब्रह्माभिन्नः प्रत्यगात्मा विषयो गोचरो यस्याः सा तथोक्ताऽद्वैतप्रतिपत्तिरखण्डै. करसात्मानुभूतिः सोक्तलक्षगा सामरस्याञ्चिता सामरस्य द्वैताद्वैतभेदनिरासेनैकरस्येनाञ्चिता युक्ता चेद्भवति तींद- मुक्तलक्षणं विद्वत्तसक्षं गात्रालेपनचारु गच्छति लयमिति गा जगदृष्टिस्तां त्राति रक्षतीति गात्रं सच्चिदानन्दघनं तस्याले- पनं लक्ष्यलक्षकत्वेन किञ्चित्सम्बन्धार्ह तेन चारु सुन्दरं च- न्दनमाल्हादकं देवस्य चित्स्वरूपस्य प्रियमिष्टं देयं समर्पणी- यम्, अक्षतानाह शान्तिरिति, शान्तिरन्तःकरणनिर्वासनता क्षान्तिः सहनताऽलोलतान्तःकरणस्य स्थैर्य सरलता निष्का- पट्यं निर्मत्सरत्वमीारहितत्वमादि प्रथमं येषां तेऽक्रो- धादयस्ते शास्त्रार्थाः शास्त्राणां वेदान्तादीनामास्तात्पर्याणि यदि यहि न क्षता वेदान्तानुकूल्येनाखण्डमनुसन्धिताः स्यु- श्चेत्तर्हि ते एवात्रास्यां पूजायां वितुषा भेदतुपरहिता अत एव शुद्धा निर्मला अक्षता अबाधितत्वादक्षता ज्ञेयाः॥६॥ पुष्पाण्याह । संफुल्लैर्निजभावशुद्ध कुसुमैः सहासनासुन्दरैः संपज्यो हि महेश्वरः सुमनसां सा धन्यता वर्णिता । कर्मज्ञानमयो यदिन्द्रियगणः क्षिप्तो विरागानले देवस्यास्य दशाङ्गदाहसुरभिधूपः सदा वल्लभः॥७॥ संफुल्लैरिति । संफुल्लैः प्रसन्नतासहितैः सद्वासनामुन्दरैः NHSNOHARATTIMEStaunee विज्ञापनम् । धनारससंस्कृतसीरीजनाम्नी वाराणसेयसंस्कृतयुस्तकावली । सा १ इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयन्ति । येना- हकमहाशयैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदे- कैकस्य खण्डस्य 10 मूल्यं प्रापणव्ययश्च = दियः । अन्यैर्म- हाशययः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येक खण्डानां मूल्यं प्रापणव्ययश्च देय इति ॥ तत्र मुद्रिता ग्रन्थाः। सिद्धान्ततत्त्वविवेकः खण्डानि ६ अर्थसङ्ग्रहः अंग्रेजीभाषानुवादसहितः तन्त्रवात्तिकम खण्डानि १३ १३.. कात्यायनमहर्षिप्रणीतं शुक्लयजुःप्रातिशाख्यम् सभाष्य ख०६६ सांख्यकारिका चन्द्रिकाटीकागौडपादाय संहिता वाक्यपदीयम खण्डानि ४ (प्रथमभागः प्रथमद्वितीयकाण्ड पुण्यराजटीकासहित खण्ड ३ ।। द्वितीयभागः तृतीयाका- ण्डम् हलाराजटीकासहित खण्ड २ रसगडमधरः खण्डानि परिभाषावृत्तिः खण्डे २ वैशेषिकदर्शन किरणावलीटीकासवलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्डे २ शिक्षासङ्ग्रहः खण्डानि १ ने कम्यसिद्धिः खण्डानि । महषिकात्यायनप्रणीतं शुक्लयजुस्सवानुक्रमसूत्रस सभाध्यम ३ ऋग्वेदीयशीतकप्रातिशाख्यं समाप्यम खण्डानि ४ (बृहत) वैयाकरणभूषणम पदार्थदीपिकासहितम् खण्डानि । विवरणपन्यासः सटीकचाक्यसुघासहितः खण्डे २ ST

Boadh Sar 96

Author
Narahari
Title
Boadh Sar 96
File name
Boadh Sar 96
Text
OCR done
Citation
1905
Publisher
Vidya Vilas Press Benares
Language
Sanskrit
Pages
97
Library
Bharti Bhawan Library Allahabad
DLI number
273001
Barcode
5990010894121.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
bXNflOLspaG
Download PDF

Boadh Sar 96