University Library,gurukul Kangri Vishwavidyalaya
संस्कृतविहारः द्वितीय भागः
Front matter
"-
संस्कृतविहारः
द्वितीयो भागः
V. D. GOKHALE, M. A., B.T.
R. M. MARATHE, M. A.. LL. B., B.T.
पुस्तकालय
पकल कांगड़ी
८०
ल
८
FOREWORD
Principal K. S. VAKIL,
M. Ed.. F.R, G.s.. M. R. S. T., I.E.S (RETIRED).
9. เ
२-१.ro
SWASTIK PUBLISHING HOUSE
6, KELEWADI, BOMBAY 4.
Price Nine Apnas.
---
First Edition
May 1939
( All rights reserved by the Publisher)
Printed by R. D. Desai at New Bharat Printing Preos. 6. Kelewadi. Bombay.
Published by G. D. Khanolkar at Swastik Publishing House, 6, Kelewadi, Bombay 4.
FOREWORD Messrs Gokhale and Marathe deserve to be congratulated on their present adventure which seeks to make the teaching of Sanskrit in our Secondary Schools really interesting. Those acquainted with the result of the current methods will doubtless agree that they have failed to achieve this aim. I have therefore, no hesitation in recommending that the plan of work indicated by Messrs Gokhale and Marathe after a fairly long trial with it, be adopted by Schools and teachers concerned in the reform of Sanskrit-teaching. The plan steers clear of a good many of the difficulties and complexities of Sanskrit-teaching and shows a straight-forward way of dealing with it. It would be advisable for Schools which have more than one class in each High School Standard to try the plan indicated in this book in one class and the current plan in the other or others and note the progress of the pupils as well as their attitude towards the subject in each and determine for themselves the valuc and usefulness of each plan. Teachers College Kolhapur, 10-11-38. K. S. Vakil PREFACE. This part carries on the work of the First Part along the lines indicated in the preface of that Part. The Panchatantra, the Kadambari, The Ramayana, the Mahabharata, the Raghuvansha, and the classical dramas provide the literary material. Thé grammar portion covered is the declension of consonantal nouns (excepting the irregular ones) and the conjugations of roots of the second, third, fifth, seventh, eighth and ninth conjugations in the conjugational tenses and moods. A few easy compounds viz. the Dwanda. the Tatpurusha and a few varieties of the Karmadhara ya and the Bahuvrihi have been introduced. The few Sandhis that did not find place in the First Part have now been explained. Thus by the end of the Second Year's Course the student will have overcome one of the obstacles in the study of Sanskrit literature viz. 'Sandhis. He will also have made considerable headway in the interpretation of compounds another stumbling block in his path. Incidentally he will have read a number of literary pieces and become acquainted with not a few of the best known Sanskrit authors. He will, therefore, be able to face any unseen piece with some confidence, though the nonconjugational tenses and moods remain as yet closed ground to him. Variety and interest have been the guiding principles in the selection of literary pieces. Most of them have been adapted so as to suit the scheme of this series but without violence to the style or the spirit of the original. In style and vocabulary a distinct though gradual rise above the level of the First Part has been aimed at. An index of words used had been appended to the First Part. It was, however, suggested by some Sanskrit Teachers 3 that such an appendix was not very necessary and that the Second Part should rather have a list of useful verbal derivatives. That suggestion has been acted upon and we are very thankful to the kind friends who made this suggestion. It will be seen that as in the First Part, Dr. Bhandarkar's scheme of grammar teaching has been closely followed; the grammar portion in this part roughly corresponds to that in the last eight lessons of Dr. Bhandarkar's First Book and the first twelve lessons of his Second book. We have, however, thought it advisable to introduce a few easy compounds at this stage, because the knowledge of compounds is a necessary preliminary to the pleasurable reading of Sanskrit literature. Hence those who insist on the formal teaching of grammar can profitably use this book as a literary reader in conjunction with Dr. Bhandarkar's books. We can hardly find words to express our deep gratitude to our Guru, Principal K. S. Vakil, who has not only blessed this series with his Foreword, but also given us all possible encouragement in bringing it out. Mr. K. B. Bapat Shastri of Chiplun and Gurubandhu K. J. Dixit of Sangli have also obliged us by making invaluable suggestions. V. D. G. R. M. M.
अनुक्रमणिका १ २ ४ ५ ६ ८ १० १२ १ ध्रुवकथा २ ऋकारान्ताः शब्दाः ३ तारापीडस्य सन्देशः ४ सदुपदेशः ५ विध्यर्थः ६ मूढो बधिरः ७ चकारान्ता जकारान्ताश्चाशब्दाः ८ भुजङ्गमदष्टो विदूषकः ९ प्रशस्तो विवाहः १० नवमो गण ११ सीतानुनयः १२ शठं प्रति शाठयम १३ लक्ष्मीवर्णनम् १४ क्रोधान्धः कूर्मः १५ तकारान्ता दकारान्ता धकारान्ताश्च शब्दाः १६ रामस्तुतिः १७ कर्णस्यास्त्राधिगमवृत्तान्तः १८ वत्वन्ताः शब्दाः १९ विलासवत्याः सन्देशः २० धनलुब्धस्य मठाधिपतेः २१ ' अदस्' ' इदम् ' च २२ अशोकवनिकायां सीता २३ धूर्तः शृगालः २४ पञ्चमाष्टमगणौ २५ सौहृदविनाशकं दारिद्यम् २६ बुभुक्षितः किन्न करोति पापम् २७ इन्नन्ताः शब्दाः २१ २३ २४ २५ २७ २८ ३० ३३ ३५ ३ ३९ ४२ (२) ५० ५१ ५७ ६१ २८ दमयन्तीविलापः २९ परस्परमर्माणि गोपनीयानि ३० अनन्ताः शब्दाः ३१ नृपो वैशम्पायनवृत्तान्तं पृच्छति ३२ सीताविनोदनम् ३३ गानप्रियो गर्दभः ३४ द्वितीयो गणः ३५ देवस्याभिभवः ३६ सान्ताः शब्दा द्वितीयो गणश्च ३७ रावणाधिक्षेपः ३८ शुक्ष्यहृदया शकुन्तला ३.९ भगवाञ् जाबालिः ४० कृष्णस्तुतिः ४१ शशकरक्षकः शशाङ्क: ४२ सप्तमो गणः ४३ वैशम्पायन आत्मानं निर्भर्सयते ४४ अतिलोभो न कर्तव्यः ४५ तृतीयो गणः ४६ जयद्रथवधप्रतिज्ञा ४७ सफलः प्राणत्यागः .४८ वर्तमानकालवाचकानि ४९ विष्णुस्तुतिः ५० भृत्यगुणाः ५१ कूटानि y & w w w w w w ६९ ७० ७२ ७४ ७७ ८३ ८६ ८८ . -- द्वितीयो भागः प्रथमः पाठः ध्रुवकथा Con एकदा ध्रुवः पितुरुत्तानपादस्य सभां गतः। तत्र च भ्रातरमुत्तम पितुरङ्क उपविष्टमक्षत । अथ यावत्स समीपं गत्वा पितुरङ्गमारोहति तावदुत्तमस्य माता सुरुचिः सहसैवागत्य तं भर्तुरकादपावत्यरुष चाभाषत । तेन खिन्नो ध्रुवो मात्रे सुनीत्यै) सर्व वृतान्तं न्यवेवयन- वदन-मातः, पित्राप्येवमुपेक्षितोऽहं नातःपरमत्र स्थातुमिच्छामि। वनमाश्रित्य जगद्भर्तारं नारायणं च सन्तोष्य परमानन्दस्थानं च लब्धं यत इत्युक्त्वा स प्रस्थित एव । विरमैतस्मात्साहसादिति वारंवार । मात्रा निवारितोऽपि ध्रुवो न पितरि मातरि भ्रातरि वा मम स्नेह इत्युक्त्वा विपिनमभजत। तस्य तिग्मया तपश्चर्यया सन्तुष्टी विश्वस्य रक्षिता विष्णुस्तस्य पुर आघिरभवद्वरं वृणीष्वति चावदत् । विमात्रा पितुरङ्कादहम- पकृष्टः । अतस्ताहर्श स्थानं मां यच्छ यस्मान कोऽपि मामपक्रष्टं समर्थ इति प्रार्थनापरी ध्रुवो नारायणस्य चरणयोरपतत् । तथास्त्वि- त्युक्त्वा वराणा दात्रा विष्णुनातस्मै ध्रुवं स्थानं दत्तम् । सन्धिविवरणम् यस्मात्+न% यस्माद् न, स्वाध्यायः वियुज्य पदानि लिखत- न्यवेदयदवदच्च, पितुरङ्कादहमपकृष्टः, विरमैतस्मात्साहसादिति, सहसैवागत्य, यत इत्युक्त्वा. यस्मान्न वा वाक्यानि यत- - विरम (शोक इति ( कपिञ्जलः) अवदन्मुनिः । (राम) सीतायाः परमः स्लेहः । द्रोणेन ( पाण्डव.) शस्त्रविद्या ( दत्त) कृष्णः ( द्रौपदी) पुरः ( आविस्+भू ) द्वितीयः पाठः ऋकारान्तः पुंलिङ्गः 'पित' शब्दः द्विष. पिता पितरौ पितरः पितरम् पितरौ पितृन् . विभक्तिः प्रथमा द्वितीया . २ . -- पित्रोः विभक्तिः ए.व. द्विव. तृतीया पित्रा पितृभ्याम् पितृभिः चतुर्थी पित्रे पितृभ्याम् पितृभ्यः पश्चमी, पितुः पितृभ्याम् पितृभ्यः षष्ठी पितुः पित्रोः पितृणाम् सप्तमी पितरि पितृषु सम्बोधनम् पितर् पितरौ पितरः एवं भ्रातृ, जामात, देव, नृ, सव्येष्ट्र चैते शब्दाः । नृ शब्दस्य षष्ठीबहुवचनरूपे नृणाम् , नृणाम् । ऋकारान्तः पुंलिङ्गः 'दात' शब्द: प्रथमा दाता दातारौ दातारः द्वितीया दातारम् दातारौ दातृन् सम्बोधनम् दातर दातारौ दातारः शेषं पितृवत् । एवं रक्षित धात इत्यादयः । ऋकारान्तः स्त्रीलिङ्गः 'मातृ' शब्दः द्वितीया मातरम् मातरौ मातृः शेषं पितृवत् । एवं यात, दुहित, ननान्ड, इत्यादयः । ऋकारान्तः स्त्रीलिङ्ग: ' स्वस्' शब्दः प्रथमा स्वसा स्वसारौ स्वसारः द्वितीया स्वसारम् स्वसारौ स्वहः सम्बोधनम् स्वसर स्वसारी स्वसारः शेषं मातृवत् । .. ३ तृतीयः पाठः तारापीडस्य सन्देशः बलाहकश्चन्द्रापीडमुपसृत्य दार्शतविनयो, व्यशापयत् । कुमार, महाराजः समाज्ञापयति । पूर्णा नो मनोरथाः।अधीतानि शास्त्राणि। शिक्षिताः सकलाः कलाः। गतोऽसि सर्वायुधविद्यासु परां प्रति- ष्ठाम् । अनुमतोऽसि निर्गमाय विद्यागृहात्सर्वाचायः । उपगृहीत. शिसं पश्यतु स्वां जनः । ब्रजन्तु सफलतामतिचिरदर्शनोत्कण्ठितानि लोकलोचनानि । तनिर्गत्य दर्शनोत्सुकाभ्यो दत्त्वा दर्शनं मातृभ्योऽ। मिवाध च गुरुतगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि । सम्मानय राजलोकम् । पूजय द्विजातीन् । परिपालय प्रजाः । आन- न्दय बन्धुवर्गम् । एष च ते,त्रिभुवनकरत्नं महाजव इन्द्रायुधो नाम.. तुरङ्गमः प्रेषितो महाराजेन.द्वारे तिष्ठति । तदयमनुगृह्यतामधिरो- हणेन । इदं च राजकुलप्रसूतानां विनयोपपन्नानां शूराणामभिरूपाणां कुलक्रमागतानां राजपुत्राणां सहस्रं परिचारार्थमनुप्रेषितं, तुरङ्ग- माधिरूढं द्वारे प्रणामलालसं प्रतिपालयति । इत्यभिधाय वलाहको व्यरमत्। कादम्बर्याम् - समासविवरणम् दर्शितविनयः दर्शितः विनयः येन सः । तृतीयाबहुव्रीहिः उपगृहीतशिक्षः = उपगृहीता शिक्षा येन सः । अपगतनियन्त्रणः= अपगतं नियन्त्रणं यस्मात् सः। पञ्चमीबहुव्रीहिः ~ - स्वाध्यायः वियुज्य पदानि लिखत- तनिर्गत्य, गतोऽसि, महाजव इन्द्रायुधो नाम. वाक्यानि रचयत- (पितृ) तारापीडेन चन्द्रापीडाय सन्देशः (प्रेषित)
चन्द्रापीडस्य दर्शनेन ( मातृ) आनन्दिताः ।
ध्रुवो नानुमतः (वनगमन)( मातृ)
रामो भुवनेषु ( वीररत्न) अस्ति ।
बालानां (सहस्र) व्यायामारीक्षकस्याशां (प्रतिपालय् )
चतुर्थः पाठः
सदुपदेशः
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
AmanLवचनं चापमानं च माता नैव प्रकाशयेत ॥
7 परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियभाषणम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥
बृहस्पतेरपि प्राशो, विश्वास न व्रजेन्नरः।
य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ।
प्रत्त्या प्रत्यवेक्षेत तरश्चरितमात्मनः ।
किन्तु में पशुभिस्तुल्यं किन्नु सत्पुरुषैरिति,
वृत्य नातिन सा हि धात्रैव निर्मिता।
गर्भावुत्पतिते जन्ती,मातुः प्रत्रवतः स्तनौ ।।।
दृथित न्यसेत्पाद वस्त्रपूर्त पिबेजलम् ।
सत्यपूतां वदेवाणी मनःपूतं समाचरेत् ॥
सुभाषितरत्नभाण्डागारे
सन्धिविवरणम्
किम्+नु किं नु, किन्नु वा
प
ॐ
Pos
%3DD
स्वाध्यायः
वियुज्य पदानि लिखत
अजेयरापिवेजलम्, धात्रव.
५
विग्रहं कुरुत- अर्थनाशम् , प्रियभाषणम्. वाक्यांनि रचयत- ज्ञाता दीनमपि परुषं न (भाष ) [विध्यर्थः] पुत्रः (मातृ) आदरं ( दर्शय् ) [ विध्यर्थः] (धातू) योजनामुल्लङ्घयितुं कः समर्थः। [विध्यर्थः] (जगद्भर्तृ) नारायणाय नमः। अहम्, आवाम्. वयम् त्वम् - युवाम् यूयम् सः तौ वदेयम् वदेव वदेम वदेः वदेतम्' वदेत वदेत् वदेताम् वदेयुः पञ्चमः पाठः विध्यर्थः परस्मैपदम् कुप्येयम् क्षिपेयम् चिन्तयेयम् कुप्येव क्षिपेव चिन्तयेव कुप्येम क्षिपेम चिन्तयेम. कुप्येः क्षिपेः. चिन्तयेः कुप्येतम् क्षिपेतम् चिन्तयेतम् कुप्येत क्षिपेत चिन्तयेत कुप्येत् क्षिपेत् चिन्तयेत् कुप्येताम् क्षिपेताम् चिन्तयेताम् कुप्येयुः क्षिपेयुः चिन्तयेयुः विध्यर्थः आत्मनेपदम् विद्येय क्षिपेय चिन्तयेय विधेवहि : क्षिपेहि चिन्तयेवहि ते अहम् आवाम् लभेय लभेवहि ६ वयम् त्वम् युवाम् यूयम् सः तो लभेमहि विधेमहि क्षिपेमहि चिन्तयेमहि लमेथाः विद्येथाः क्षिपेथाः चिन्तयेथाः लभेयाथाम् विद्येयाथाम् क्षिपेयाथाम् चिन्तयेयाथाम् लभेध्वम् विद्येवम् क्षिपेध्वम् चिन्तयेध्वम् लभेत विद्येत क्षिपेत चिन्तयेत लभेयाताम् विद्येयाताम् । क्षिपेयाताम् चिन्तयेयाताम् लभेरन् विद्येरन् क्षिपेरन् चिन्तयेरन् ते षष्ठः पाठः मूढो बधिरः कोऽपि बधिर उपकर्तारमृत्विजं रुजा पीडितं श्रुत्वा तं द्रष्टुं गृहा- त्पस्थितः।मार्गे चैवमचिन्तयत्-ऋत्विजःसकाशं गत्वापिसह्योरुज आवेग इति तं पृच्छयम् । किंचिदिव सह्य इति स प्रतिवदेत् । ततः किमौषधं सेवस इति मम वाचं श्रुत्वैतदौषधं सेव इति स प्रति- भाषेत । अनन्तार कस्ते मिषगिति मया पृष्ट एष मम भिषगिति स प्रतिवदेत् । अथ तां तामनुरूपां वाचमाभाष्य मित्रमापृच्छ्य गृह- मागमिष्यामीति। एवं चिन्तयित्वविजप्राप्य सादरमपृच्छत्-मित्र, अपिसह्यो रुज आवेगः। तथैव वर्तत इति स समगृणात् । बधिरोऽवदत्-विधातुः प्रसादेन तथैव वर्तताम्। कीदृशमौषधं सेवसे। ज्वरातः प्रत्यभाषत- ममौषधं मृत्तिकैव । बधिरः पुनः समगृणात्-तदेव भद्रतरम् । कस्ते भिषक् । ज्वरातः सकोपमब्रवीत्-मम भिषग्यम एव । बधिरः प्रत्य- वदत्-स एव समर्थः।तं भिषजं मा परित्यज ।
एवं प्रतिकूलया वाचा कुपितः स ऋत्विक्परिजनमादिशत्-भोः किमेष एवं क्षते क्षारं प्रक्षिपति । निष्कास्यतामर्धचन्द्रदानेनेति । अथ स मूढः परिजनेन गलहस्तिकया बहिनिस्सारितः। सन्धिविवरणम् चिन्तयित्वा+ऋत्विजम् चिन्तयित्व ऋत्विजम् , चिन्तयित्वविजम् वा मम+औषधम् ममौषधम् समासविवरणम् ज्वरातः-ज्वरेण आर्तः । तृतीयातत्पुरुषः स्वाध्यायः वियुज्य पदानि लिखत-- सेव इति, रुज आवेगः, मृत्तिकैव. वाक्यानि रचयत- परिजनः (भर्तृ) आज्ञां ( अनुसृ ध्रुवः (विमातृ) (प्रतिकूल ) वाचा भृशं दुःखितः । (मातृ) आपृच्छय रामः वनवासाय ( अयोध्या) प्रस्थितः। ( उन्मत्त) नरः ( नाटयगृह ) गलहस्तिकया बहिः (निस्सारित) एतेषां रूपाणां प्रत्यभिक्षानं कुरुत- उपकर्तारम् , पृच्छेयम् , विधातुः, निष्कास्यताम् , आगमिष्यामि, प्रतिभाषेत. - सप्तमः पाठः चकारान्तः स्त्रीलिङ्गः 'वाच ' शब्दः द्विव. वाक्- वाची विभाक्तिः ब.व. प्रथमा वाचः ८ . . विभक्तिः द्विव. द्वितीया वाचम् वाचौ वाचः तृतीया वाचा वाग्भ्याम् वाग्भिः चतुर्थी वाचे वाग्भ्याम् वाग्भ्यः पञ्चमी वाचः वाग्भ्याम् वाग्भ्यः 'षष्ठी वाचः वाचोः वाचाम् सप्तमी वाचि वाचोः वाक्षु सम्बोधनम् वाक्-ग वाचौ वाचः जकारान्तः पुंलिङ्गः 'ऋत्विज्' शब्दः प्रथमा ऋत्विक्-ग ऋत्विजौ ऋत्विजः 'द्वितीया ऋत्विजम् ऋत्विजौ ऋत्विजः तृतीया ऋत्विजा ऋत्विग्भ्याम् ऋत्विग्भिः चतुर्थी ऋत्विजे ऋत्विग्भ्याम् ऋत्विग्भ्यः पश्चमी ऋत्विजः ऋत्विग्भ्याम् ऋत्विाभ्यः 'षष्ठी ऋत्विजः ऋत्विजोः ऋत्विजाम् सप्तमी ऋत्विजि ऋत्विजोः ऋत्विक्षु सम्बोधनम् ऋत्विक्-ग ऋत्विजौ ऋत्विजः एवं भिषज् । एवं चापि रुज्, सज् इत्यादयः स्त्रीलिङ्गाः शब्दाः ।
अष्टमः पाठः भुजङ्गमदष्टो विदूषकः विदूषकः-परित्रायतां परित्रायतां भगवान् । सर्पणास्ति दष्टः । नृपः कष्टं कष्टम् । क्व भवान्परिभ्रान्तः। विदूषकः-देवी द्रक्ष्यासीत्याचारपुष्पाणि ग्रहीतुं प्रमदवनं गतोऽस्मि। देवी -हा धिक् । हा धिक् । अहमेव ब्राह्मणस्य जीक्षितसंशय- निमित्तं जातास्मि । विदूषकः तस्मिन्नशोकस्तबकं ग्रहीतुं प्रसारिते दक्षिणइस्ते कोटरनिर्गतेन सर्परूपेण कालेन दष्टोऽस्मि । नन्वेते द्वे दन्तपदे । ( इति दंशं दर्शयति) परिवाजिकातन हि दंशच्छेदस्तावतिक्रयताम् । ६. नृपः-सम्प्रति विषभिषजा प्रयोजनम् । जयसेने, भुवसिद्धि क्षिप्रमानीयताम् । (निष्क्रान्ता जयसेना) विदूषकः-अहो पापेन मृत्युना गृहीतोऽस्मि । also -- नृपः-मा कातरो भव । अविषोपि कदाचिदंशो भवेत् । विदूषकः-कथं न भेष्यामि । सिमसिमायन्ति मेऽङ्गानि । देवी-दर्शितमशुभं रुजा । अवलम्बध्वं ब्राह्मणम् । (परिजनः ससम्भ्रममवलरबते.) विदूषकः-भो भवतो बाल्यादपि प्रियवयस्योऽहम् । तद्विचार्या- पुत्राया मे मातुर्योगक्षेमं वह । । । नृपः-मा कातरो भव । अचिरात्त्वां भिषक् चिकित्सते । स्थिरो भव। जयसेना-(प्रविश्य ) देव, आशापितो ध्रुवसिद्धिर्विज्ञापयति । इहैवानीयतां गौतम इति । नृपः तेन हि परिजनपरिगृहीतमेनं तत्रभवतः सकाशं नय । जयसेना-तथा। विदूषकः-भवति, जीवेयं वा न वा। यन्मयात्रभवन्तं सेव- मानेन् तेऽपराद्धं तन्मष्यस्व। देवी-चिरं जीव । (निष्कान्तौ विदूषकः प्रतिहारी च) मालविकाग्निमित्र सन्धिविवरणम् तस्मिन्+अशोकस्तबकम् = तस्मिन्नशोकस्तबकम् भोस्+भवतः = भो भवतः समासविवरणम् कोटरनिर्गतः = कोटरात् निर्गतः । पञ्चमीतत्पुरुषः स्वाध्यायः विग्रहं कुरुत - भुजङ्गमदष्टः, दंशच्छेदः, तन्मृष्यस्व. वाक्यानि रचयत- (7) रिक्तहस्तेन (भूभुज् ) न पश्येत् । Minor ११ gen (विधातृ) सर्वेषामपि जन्तूनाम् ( योगक्षेम) वहति । प्रतिकूलया ( वाच् ) बधिरः ( मित्र ) अपराधः । 'समासान् योजयत- नृपेण आदिष्टा जयसेना वैद्यम् आह्वातुं गता । दर्शितः विषादः यया सा देवी आक्रन्दत् । तपश्चरणेन सन्तुष्टः विष्णुर्धवस्य पुर आविरभवत् । anuary .. नवमः पाठः प्रशस्तो विवाहः अस्ति निषधेषु वीरसेनसुतो नलो नाम शूर उदारश्च महीपतिः। स कदाचिद्विहारार्थमन्तःपुरसमीपस्थं वनमयात् । तत्र जातरूप: परिष्कृतान् हंसान्वीक्ष्य स कौतुकादेकमगृह्णात् । ततो हंसो नृपति मानुषया वाचावदत्-भो महाराज, न हन्तव्योऽहम् । तवो- पकारं कुर्याम्। विदर्भाधिपतेर्भामस्य सुरैरपि स्पृहणीया विनया- न्विता च दमयन्ती नाम कन्यास्ति । तस्यास्त्वं सहशो भर्ता, साच तव सदृशी भार्या। युषयोस्तुल्यसंयोगे कामदूतो भवामीति । ततो निलस्तं गमनायान्वजानात् । विदर्भदेशं सम्प्राप्य सदमयन्तीमभाषत- दमयन्ति, नलो नाम निषधेष्वस्ति भूपतिः। तस्य त्वं यदि भार्या स्याः सफल जननं भवेत् ॥ त्वं चासि रत्नं नारीणां नराणां च नलस्तथा । विशिष्टाया विशिष्टेन प्रशस्तः सङ्गमो भवेत् । तच्छ्रुत्वा सा प्रावदत्-तस्य भूभुजोऽनन्यसुलभा गुणा मया पूर्व श्रुता एव । नलादन्यं न वृणे । तेन मां योजय। एवं ते महत्पुण्यं भविष्यतीति। ततो हंसोऽपि निषधाप्राप्यनलाय यथावृत्तमाख्यात्। अत्रान्तरे भीमो नृपो दमयन्त्याः स्वयंबरार्थ महीपालामाह्वयत्। तदेषा मां वृणीत मां वृणीतेति मन्यमाना मदनपीडिताः सर्वे १२ . - India Prim भूभुजः कुण्डिनपुरमायारङ्गं च प्राविशन् । ततो रङ्गं प्रविष्टा शुभा.. नना दमयन्ती नृपाणां नयनानि चित्तानि च स्वप्रभयामुष्णात् । तत्र सा नलतुल्याकृतन्पिश्च पुरुषानपश्यत् । सन्देहाश्च नलं नृपं नाभ्य- जानात् । समचिन्तयश्च-देवान्कथं जानीयां कथं च नलं नृपं विद्यामिति । एवं विचिन्त्य पुनः पुनश्च विचार्य देवान्प्रार्थयत- हंसानां वचनं श्रुत्वाहं नैषधमणि । यथा मयैतद् व्रतं नलस्याराध- नार्थ प्रारब्धं ततो देवा मे तमेव प्रदिशन्तु । स्वानि रूपाणि चावि- एकुर्वन्तु येनाहं नलं नृपमभिजानीयाम् । तस्या नले भक्तिमनुरागं च वीक्ष्य देवा यथोक्तमकुर्वन् । भैमी च नैषधं धर्मेणावृणीत । अनन्तरं नलो दमयन्ती च देवान्स्तुतिभिरप्रीणीताम्। देवाश्च तौ वरैरन्यगृछन् । नलोपाख्याने सन्धिविवरणम् हंसान+च =हंसांश्च समासविवरणम् शुभानना = शुभम् आननं यस्याः सा । षष्ठीबहुव्रीहिः स्वाध्यायः वियुज्य पदानि लिखत-- तवोपकारम् , निषधेष्वस्ति, सन्देहाच. विग्रहं कुरुत- मानुषभाषया, विनयान्विता, जातरूपपरिष्कृतान्, विदर्भाधिपतेः, वाक्यानि रचयत- दमयन्ती नलस्य स्कन्धे ( स्त्रज् ) व्यसृजत् । विष्णुर्भुवं ( ध्रुवपदै) अन्वगृह्णात् । भीमेन नलमाहातुं दूतः ( निषधं (प्रेषितः) hulran वर्तमानकालः भूतकालः आज्ञार्थः दशमः पाठः नवमो गणः पी परस्मैपदम् प्रीणामि प्रीणीवः प्रीणासि प्रीणीथः प्रीणाति प्रीणीतः अप्रीणाम् अप्रीणीव अप्रीणाः अप्रीणीतम् अप्रीणात् अप्रीणीताम् प्रीणानि ग्रीणाव प्रीणीहि प्रीणीतम् प्रीणातु प्रीणीताम् प्राणीयाम् प्रीणीयाव प्रीणीयाः प्रीणीयातम् प्रोणीयात् प्रीणीयाताम् आत्मनेपदम् प्रीणे प्रीणीवहे प्रीणीषे प्राणाथे प्रीणीते प्रीणाते अप्रीणि अप्रीणीवहि अप्रीणीथाः अप्रीणाथाम् अप्रीणीत अप्रीणाताम् प्रीणीमः प्रीणीथ प्रीणन्ति अप्रीणीम अप्रीणीत अप्रीणन् प्रीणाम प्रीणीत प्रीणन्तु प्रीणीयाम प्रीणीयात प्रीणीयुः विध्यर्थः वर्तमानकाल: प्रीणीमहे प्रीणीध्ये प्रीणते अप्रीणीमहि अप्रीणीध्वम् अग्रीणत भूतकालः आज्ञार्थः प्रीणै प्रीणावहै प्रीणामहै प्रीणीष्व प्रीणाथाम् प्रीणीध्वम् प्रीणीताम् प्रीणाताम् प्रीणताम् विध्यर्थः प्रीणीय प्रीणीवहि प्रीणीमहि प्रीणीथाः प्रीणीयाथाम् प्रीणीध्वम् प्रीणीत प्रीणीयाताम् प्रीणीरन् मूष् परस्मैपदम् वर्तमानकालः मुष्णामि मुष्णीवः मुष्णीमः मुष्णासि मुष्णीथः मुष्णीथ मुष्णाति मुष्णीतः मुष्णन्ति भूतकालः अमुष्णाम् अमुष्णीव अमुष्णीम अमुष्णाः अमुष्णात अमुष्णात् अमुष्णीताम् अमुष्णन् आज्ञार्थः मुष्णानि मुष्णाव मुष्णाम मुषाण मुष्णीतम् मुष्णीत मुष्णातु मुष्णीताम् मुष्णन्तु विध्यर्थः मुष्णीयाम् मुष्णीयाव मुष्णीयाम मुष्णीयाः मुष्णीयातम् मुष्णीयात मुण्णीयात् मुष्णीयाताम् मुष्णीयुः तृतीयपुरुषस्यैकवचनम् धातुः वर्तमानकालः भूतकालः आज्ञार्थः विध्यर्थः जानाति अजानात् जानातु जानीयात् जानीते अजानीत जानीताम् जानीत १५ अमुष्णीतम् भूतकालः अवृणीत आज्ञार्थः वृणीताम् धातुः वर्तमानकालः वृ वृणीते गृणाति गृह्णाति गृहीते अगृणात् गृणातु विध्यर्थः वृणीत गृणीयात् गृह्णीयात् गृहीत m ग्रह अगृहात् अगृहीत गृहातु गृहीताम् एकादशः पाठः सीतानुनयः प्रविश्योपवनं पापो रावणो राक्षसाधिपः । अपश्यद्राक्षसीमध्ये सीतां दुःखपरायणाम् ।। मृगयूथपरिभ्रष्टां मृगीमिव शुनीवृताम् । अधोगतमुखीं सीतामवदश्च निशाचरः ॥ यदिदं राज्यतन्त्रं मे त्वयि सर्व प्रतिष्टितम् । जीवितं च विशालाक्षि त्वं मे प्राणैगरीयसी॥ परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना । नैषा धर्षयितुं शक्या सेन्ट्रैरपि सुरासुरैः॥ राज्यभ्रष्टन दीनेन तापसेन पदातिना। किं करिष्यसि रामेण मानुषेणाल्पशक्तिना॥ दर्शने मा कृथा बुद्धिं राघवस्य वरानने। सुमार काऽस्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥ प्रयाणामपि लोकानां न तं पश्यामि शोभने । विक्रमेण नयेद्यस्त्वां मद्वाहुपरिपालिताम् ॥ रामायणे समासविवरणम् सुरासुराः सुराः च असुराः च । द्वन्द्वः मृगयूथपरिभ्रष्टा = मृगाणां यूथम् मृगयूथम् । ( ष. त.) मृगयूथात् परिभ्रष्टा मृगयूथपरिभ्रष्टा । पञ्चमीतत्पुरुषः: स्वाध्यायः विग्रहं कुरुत- राज्यभ्रष्टेन, शुनीवृताम् , वरानने, अल्पशक्तिना. वाक्यानि रचयत, दमयन्ती (नल) (प्राणः) (प्राण:) अपि गरीयसी। ( दर्पण किम् करिष्यति । पिन सुरुचिः ध्रुवस्य वनगमने (निमित्तं ) ( जाता) ( हनने ) बुद्धिं मा कृथा इति हंसो नलम् ( गृOVIRATI अन्धः मम द्वादशः पाठः शर्ट प्रति शाठ्यम् अस्ति कस्मिंश्चिदधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः। स च विभवक्षयाहेशान्तरं गन्तुमैच्छद् व्यचिन्तयच्च- यत्र देशेऽथवा स्थाने भोगान्भुक्त्वा स्ववीर्यतः। तस्मिन्विभवहीनो यो वसेत्स पुरुषाधमः ॥ तस्य गृहे लोहमारघटिता पूर्वपुरुषरुपार्जिता तुलासीत् । तां च कस्यचिद्वणिजो गृहे निक्षिप्य स देशान्तरं प्रस्थितः। सुचिरं कालं देशान्तरं भ्रान्त्वा पुनः स्वपुरमागत्य तं वणिजं समगृणात्-भो वाणिग, दीयतां सा मे निक्षेपतुला । स प्रत्यभाषत-भो नास्ति २ १७ सह सा त्वदीया तुला मूषिकास्तामाश्नन् । जीर्णधन आह-भो वणिग्, नास्ति दोषस्ते यदि मूषिकैक्षिता । ईदृश एव संसारः। न किंचि- दत्र शाश्वतमस्ति । परमहं नदीं स्नानार्थ गमिष्यामि तत्त्वमात्मीयं नप्तारं मया सह स्नानोपकरणं धारयितुं प्रेषयेति । सोऽपि चौर्य- भयासस्मात् परिशक्कितः स्वनतारमब्रवीत्-वत्स, पितव्य एष तव स्नानार्थ नदीं गमिष्यति । तदम्यतामेतेन साध स्नानोपकरण. मादायेति। अथैष शिशुः स्नानोपकरणमादाय तेनाभ्यागतेन प्रस्थितः। तथानुष्ठिते वणिग् नद्यामस्नात् । तं शिशुंच नदोगुहायां प्रक्षिप्य तवारं शिलयास्तृणात् । सत्वरं गृहमागतश्च तेन वणिजा पृष्टः-भो अभ्यागत, आचक्ष्व कुत्र मे नप्ता यस्त्वया सह नदी गत इति । सोऽब्रवीत्--नदीतटात् स ग्रेनेत हत इति । वणि- गाह-असत्यवाक्, किं क्वविच्छयेनो बालं हर्तुं शक्नोति । तत्सम- य मे नतारम् । अन्यथा राजकुले निवेदयिष्यामीति । स आचष्ट- भोः सत्यवाक्, यथा श्येनो बालं न नयति तथा मूषिका अपि लोह- भारघटितां तुलां नाश्नन्ति । तदर्पय मे तुलां यदि दारकेण प्रयोजनमिति। एवं तौ विवदमानौ द्वावपि राजकुलं गतौ । तत्र वणिक् तारस्व- रेणारौत्-भो अब्रह्मण्यमब्रह्मण्यम् । मम शिशुरेतेन चौरेणापहृत इति । अथ धर्माध्यक्षास्तं समगृणन्-भोः समर्म्यतांवणिक्शिशुः।स आह-किं करोमि । मम समक्षमेव नदीतटाच्छयेनेनापहृतः शिशुः । तच्छुत्वा ते वदन्-भो न सत्यमभिहितं भवता । किं क्वचिच्छ्येनः शिशुहर्तुं शक्नोति । स बाह-भो भोः श्रूयताम्- तुलां लोहसहनस्य यत्र खादन्ति मूषिकाः। बालं तत्र हरेच्छयेनो कर्तव्यो नात्र संशयः॥ तेऽषदन, कथमेतत् । ततो वणिक सभ्यानामग्न आदितः सर्वे ऋचान्तमावष्ट: । ततस्तैर्विहस्य द्वावपि तो परस्परं सम्बोध्य तुलाशिशुप्रदानेन सम्सोषितौ । पञ्चतन्त्रे नवमो गण: तृतीयपुरुषस्यैकवचनम् धातुः वर्तमानकालः भूतकाल: आज्ञार्थः অযু अश्नाति आश्नात् अश्नातु स्तृणाति अस्तृणात् स्तृणातु स्तु स्तृणीते अस्तृणीत स्तृणीताम् विध्यर्थः अपनीयात् स्तृणीयात् स्तृणीत स्वाध्यायः वियुज्य पदानि लिखत- कस्मिंश्चिदधिष्ठाने, द्वावपि, भो अब्रह्मण्यम्, क्वचिच्छयेनः. विग्रहं कुरुत- विभवक्षयात् , विभवहीनः, लोहमारघटिता, सत्यवाक्, तुलाशिशुप्रदानेन. समासान् योजयत- मुरैः स्पृहणीया दमयन्ती नलमवृणीत । नष्टः विभवः यस्य सः वणिग् देशान्तरं गतः । रावणात् भीता सीता मौनमभजत । -- त्रयोदशः पाठः * लक्ष्मीवर्णनम् आलोकयतु तावल्लक्ष्मीमेव भवान्प्रथमम् । अनार्या ह्येषा लब्धापि दुःखेन परिपाल्यते। न परिचयं रक्षति । नामिजनमीक्षते। न वैदग्ध्यं गणयति। न त्यागमाद्रियते। न विशेषज्ञतां विचारयति । म क्वचि- निर्भरमावघ्नाति पदम् । यथा यथा चेयं 'चपला दीप्यते तथा तथा दीपशिखेव कजलमलिनमेव कर्म केवलमुद्वमति । न हि तं पश्यामि यो परिचितयैनया न निर्भरमुपगूढो यो वान विपलब्धः। एवं- विधयापि चैनया दुराचारया कथमपि दैववशेन परिगृहतिा विक्लवा भवन्ति भूपतयः। सर्वाधिनयाधिष्ठानतां च गच्छन्ति । तथाहि । तेषां दाक्षिण्यं प्रक्षाल्यते । हृदयं मलिनीभवति । सत्यवादिताप- हियते। गुणाश्चोत्सायन्ते । केचित्लम्पद्भिः प्रलोभ्यमाना रागावेशेन बाध्यमाना विव्हलतामुपयान्ति । आसन्नमृत्यव इव बन्धुजनमपि नाभिजानन्ति । अदूरदर्शिनः पापेनाध्मातमूर्तयो भवन्ति। तदवस्थाश्च व्यसनशतशरव्यतामुपगता पतितमप्यात्मानं नावगच्छन्ति । कादम्बर्याम् सन्धिविवरणम् तावत्+लक्ष्मीम् तावल्लक्ष्मीम् समासविवरणम् अनार्या=न आर्या अनार्या । नञ्तत्पुरुषः अविनयः न विनयः अविनयः । " स्वाध्यायः वियुज्य पदानि लिखत- कचिनिभरमाबध्नाति, ह्यपरिचितयैनया. विग्रहं कुरुत-- आसन्नमृत्यवः, आध्मातमूर्तयः, तदवस्थाः. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- आवनाति, विप्रलब्धः, प्रक्षाल्यते, अभिजानन्ति, आत्मानम्, आलोकयतु, -- २० "0 4 चतुर्दशः पाठः क्रोधान्धः कूर्मः अस्ति मगधदेशे फु- ल्लोत्पलो नाम कासारः। तत्र चिरं संकटविकटौ नाम हंसौ निवसतः । तयोः सुहृत् कम्बुग्रीवो नाम कूर्मश्च तत्रैव प्रति- वसति । अथैकदा धीवरै- रागत्य तत्रोक्तम् । यद- त्राद्योषित्वा प्रातर्मत्स्य- कूर्मादीन्हनिष्यामः । त- दाकर्ण्य कर्मो हंसावाह -सुहदी, श्रुतैषा धीव- राणां वाक् । अधुना किं मया कर्तव्यमेतस्यामापदि। श्वेतगरुता अवदताम्-शायतां पुनस्ता- वत्प्रातर्यदुचितं तत्कर्तव्यम् । कर्मो ब्रूते-मा मैवम् । यतो दृऐषा- पदस्माभिः । उक्तं च- चिन्तनीया हि विपदामादावेव प्रतिक्रिया। न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ।। तद्यथाहमन्यं हृदमद्य प्राप्नोमि तथा क्रियताम् । हंसा आहतुः-जलाशयान्तरे प्राप्ते तव कुशलम् । मार्गे तु कस्ते विधिः । कूर्मोऽब्रवीत्-यथाहं भवद्भ्यां सह वियतो मार्गेण यामि स उपायो विधीयताम् । हंसो ब्रूतः कथमुपायः सम्भवति । कच्छपो वदति-युवाभ्यां चञ्चुधृतं काष्ठखण्डमहं मुखेनावलम्बेय । युवयोर्ग- - - २१ रुतोलेनाहमपि सुखेन गच्छेयम्। हंसौ चक्षाते-सम्भवत्येष उपाय: परमत्रापायोऽपि स्यात् । आवाभ्यां नीयमान त्वामवलोक्य लोकाः किञ्चिवदयुरेव । तदाकर्ण्य यदि त्वमुत्सरं दास्यसि तदा तन्मरणम् । तत्सर्वथात्रैव स्थीयताम् । कूर्मो ब्रूते-किमहमशः । नाहं किमपि वदेयम् । ततस्तथानुष्ठिते वियति नीयमानं कूर्ममालोक्य सर्वे गोरक्षका पश्चाद्धावन्ति दृशदः क्षिपन्ति वदन्ति च । तत्र कश्चिद्वदति-यथेष कूर्मः पतितो भवेत्तदात्रैव पक्वाश्नीमः । कश्चिद्वदति-अत्रैव दग्या भक्षयामः। कश्चिद् घूते-गृहं नीत्वा खादामः । तत्पूरुषवचनं श्रुत्वा स कूर्मः क्रुधा सन्तप्तः पूर्वसमयं विस्मृत्याब्रवीत्-मृदमश्नीत । उद्घाटितमात्रे च वदने स पतितो गोरक्षकैयापादितश्च । पञ्चतन्त्रे समासविवरणम् मत्स्यकूर्मादीन् = मत्स्याः च कूर्माः च मत्स्यकूर्माः । ( द्वन्दुः ) मत्स्यकूर्माः आदिः येषाम् ते मत्स्य कूर्यादयः, तान् । (प. ब. परुषवचनम् = परुषं च तद् वचनं च परुषचनम् । कर्मधारयः ) - स्वाध्यायः विग्रहं कुरुत- सङ्कटविकटौ, कूपखननम् , चञ्चुधृतम् . प्रयोगान्तरं कुरुत- गोरक्षकाः पाषाणान क्षिपन्ति । क्यं कूर्म भक्षयामः। एषा दुःखेन परिपाल्यते जनः । शिशुः श्येनेन अपाहियत । २२ by वाक्यानि रचयत- यथा यथा विषस्यावेगः ( वृध् ) तथा तथा वेदना ( असह्य) (भू). नलस्य (हंस) अपि प्रयोजनम् । (रुज् ) प्रतिक्रिया अविलम्बन (चिन्तनीय) सत्सप्तमी योजयत-- यदा ध्रुवो वनं गतः तदा सुनीतिरतीवदुःखिताभवत् । यदा गुरुभिरनुशा दत्ता तदा चन्द्रापीडो विद्यागृहानिर्गतः । यदा दमयन्ती रङ्गं प्राविशत् तदा नृपलोचनानि विकसितानि । . ब.व. . पञ्चदशः पाठः तकारान्तः पुंलिङ्गो ‘गरुत् ' शब्दः विभक्तिः द्विव. प्रथमा-सम्बो० गरुत्-द् गरुतो गरुतः द्वितीया गरुतम् गरुतौ गरुतः तृतीया गरुता गरुद्भ्याम् गरुद्भिः चतुर्थी गरते गरुद्भ्याम् . गरुद्भ्यः पञ्चमी गरुतः गरुद्भ्याम् गरुद्भ्यः षष्ठी गरुतः गरुतोः गरुताम् सप्तमी गरुति गरुतोः गरुत्सु एवं मरुत्, हरित् इत्यादयः । तकारान्तो नपुंसकलिङ्गो ' वियत् ' शब्दः प्र. वि. सम्बो. वियत्-द् वियती वियन्ति शेषं 'गरुत् ' वत् । एवं जगत् इत्यादयः ।
प्र. सम्बो. सुहृद्भिः इ. दकारान्तः पुंलिङ्गः 'मुहृद्' शब्दः सुहृत्-द् सुहृदौ सुहृदः द्वितीया सुहृदम् सुहृदौ तृतीया सुहृदा सुहृद्भयाम् एवं आपद्, विपद् दृशद्, मृद् इत्यादयः स्त्रीलिङ्गाः शब्दाः । धकारान्तः स्त्रीलिङ्गः 'क्रुध्' शब्द प्र. सम्बो. क्रुत्-द् क्रुधौ क्रुधः द्वितीया क्रुधम् क्रुधौ क्रुधः तृतीया क्रुधा क्रुद्भ्याम् एवं क्षुध् , समिध् इत्यादयः । - क्रुद्भिः इ. षोडशः : पाठः रामस्तुतिः रामो दाशरथिः शूरो लक्ष्मणानुचरो बली। काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः॥ .: आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिरामलिलोकानां रामः श्रीमान् स नः प्रभुः ॥ He माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखारामचन्द्रः। सर्वस्वं मे रामचन्द्रो दयालुनर्नान्यं जाने नैव जाने न जाने ॥ आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ।। लोकाभिरामं रणराधीरं राजीवनेत्र रघुवंशनाथम् । कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥ राम लक्ष्मणपूर्वज रघुवरं सीतापति सुन्दम् २४ काकुत्स्थं करुणार्णवं गुणनिधि विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ रामरक्षास्तोत्रे तद्धितवृत्तिविवरणम् दाशरथिः = दशरथस्य अपत्यं पुमान् भैमी = भीमस्य अपत्यं स्त्री कौसल्येयः = कौसल्यायाः अपत्यं पुमान् . स्वाध्यायः विग्रहं कुरुत- - करुणार्णवम् , शान्तमूर्तिम् , लक्ष्मणानुचरः. वाक्यानि रचयत- भक्तः ( आपद् ) राम ( स्मृ) [ विध्यर्थः ] ( राम ) स्निग्धो लक्ष्मणो वनगमनम् (वृ) [भूतकालः ] श्रीरामस्य मुखप्रभा भक्तानां नयनानि ( मुष् )[ वर्तमानकालः ] सप्तदशः पाठः कर्णस्यास्त्राधिगमवृत्तान्तः कर्णः-मद्रराज, श्रूयतां ममात्रस्य वृत्तान्तः । शल्यः-ममाप्यास्ति कौतूहलमेनं वृत्तान्तं श्रोतुम् । कर्णः-पूर्वमेव चाहं जामदग्न्यस्य सकाशं गतवानस्मि । -ततस्ततः। कर्णः-तं क्षत्रान्तकं भृगुवंशकेतुं गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि । ततस्तेन भगवताशीर्वचनं दत्त्वा पृष्ठोऽस्मि को भवान्, किमर्थमिहागत इति। शल्यः शल्य:-ततस्ततः। २५ 3m.ar भारला कर्णः-भगवन्, अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवा- नस्मि । तत उक्तोऽहं मगवता । ब्राह्मणेषूपदेशं करिष्यामि न क्षत्रियाणामिति । शल्यः-अस्ति खलु भगवतः क्षत्रियैः पूर्ववैरम् । ततस्ततः। कर्णः-ततो नाहं क्षत्रिय इत्यत्रोपदेशं ग्रहीतुमारब्धः। ततः कतिपयदिवसातिकमे कदाचित् फलमूलसमित्कुशकुसु- माहरणाय गतवता गुरुणा सहानुगतोऽस्मि । ततः स गुरुर्वनभ्रमणपरिश्रमान्मदके निद्रावशमुपगतः । शल्यः-ततस्ततः। कर्णः-ततो वज्रमुखेन नाम कृमिणा ममोरुद्वयं कृतम् । मया च गुरोनिद्राच्छेदभयात्सा वेदनासात । अनन्तरमुत्थाय क्षतजाप्लुतः स मां बुवा क्रोधादशपत्-कालविफला- in न्यत्राणि ते सन्विति । शल्यः-अहो कष्टमभिहितं तत्रभवता। कर्णः-परीक्षामहे तावदनस्य वृत्तान्तम् । (तथा कृत्वा ) एतान्यस्त्राणि निर्याणीव लक्ष्यन्ते । शल्यः-भोः कष्टं खल्वेतत् । कर्णः-शल्यराज, अलमलं विषादेन । हतोऽपि लभते स्वर्ग जित्वा तु लभते महीम् । उभे बहुमते लोके नास्ति निष्फलता रणे ।। अयोगान्तरविवरणम् न अहम् क्षत्रियः इति मया उक्तम् =न अहम् क्षत्रियः इति अहम् उक्तवान् शल्येन वृत्तान्तः श्रुतः = शल्यः वृत्तान्तम् श्रुतवान् एषा महाराजेन आनीता= एनां महाराजः आनीतवान् ध्यायः वियुज्य पदानि लिखत- अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवानस्मि, ब्राह्मणेषूपदेशम् , भगवताशीर्वचनम्. २६ विग्रहं कुरुतः भृगुवंशकेतुम् , फलमूलसमित्कुशकुसुमाहरणाय, क्षतजाप्लतः, तुमन्तानां स्थाने नामानि योजयत- ममाप्यस्ति कौतुहलमेनं वृत्तान्तं श्रोतुम् । कर्णोऽखिलान्यस्त्राण्युपशिक्षितुं जामदग्न्यसकाशं गतः । वणिक् स्नातुं नदीं गतः । नाम्नां स्थाने तुमन्तानि योजयत- कुसुमानामाहरणाय शिष्यः प्रेषितः । चन्द्रापीडस्य दर्शनायोत्कण्ठिता मातरः। कूर्मस्य रक्षणायोपायः कल्पितः । - अष्टादशः पाठः वत्वन्तः पुंलिङ्गो ' भगवत् ' शब्दः द्विव. ब.व. भगवन्तौ भगवन्तः भगवान् भगवन्तम् भगवन्तौ भगवतः भगवता भगवद्भ्याम् भगवद्भिः विभक्तिः प्रथमा द्वितीया तृतीया चतुर्थी पश्चमी षष्ठी सप्तमी सम्बोधनम् भगवते भगवतः भगवद्भ्याम् भगवद्भ्यः भगवद्भ्याम् भगवद्भ्यः भगवतोः भगवताम् भगवतोः भगवत्सु भगवतः भगवति भगवन भगवन्तौ भगवन्तः २७ नपुंसकलिङ्गे अ. वि. सम्बो. भगवत् भगवती भगवन्ति शेषं पुंलिङ्गवत् । स्त्रीलिङ्ग भगवती भगवत्यौ भगवत्यः शेषं टिटिभीवत् । एवं बलवत्, गुणवत्, श्रीमत् , धीमत्, गतवत्, उक्तवत् इत्यादयः शब्दाः । नवदशः पाठः विलासवत्याः सन्देशः कैलासः कृतप्रणामः समुपसृत्य क्षितितले दक्षिणकरं निधाय व्यज्ञापयत्-कुमार, महादेवी विलासवती समाज्ञापयति । एषा खलु कन्यका महाराजेन पूर्व कुलूतराजधानीमवजित्य कुलूतेश्वरदुहिता पत्रलेखा नाम बन्दीजनेन सहानीयान्तःपुरपरिचारिकामध्यमुपः नीता । सा मयानाथा राजदुहितेति च स्नेहेन दुहितेवेयन्तं काल- मुपलालिता संवर्धिता च । तदेषेदानीमुचिता भवतस्ताम्बूलकरङ्क- वाहिनीति कृत्वा मया प्रेषिता । न चैषायुष्मता सामान्यपरिजन इव द्रष्टव्या । बालेव लालनीया। स्वचित्तवृत्तिरिव चापलेभ्यो निवार- 'णीया। शिष्येव द्रष्टव्या। सुहृदिव सर्वविश्रम्भेष्वभ्यन्तरीकरणीया। दर्घिकालसंवर्धितस्नेहतया स्वसुतायामिव हृदयमेतस्यामस्ति मे। बलवानेतस्यां पक्षपातः । महाभिजनराजवंशप्रसूता चाहत्येषेवं- २८ विधानाचारान् । नियतं स्वयमेवैषाभिविनीततया कतिपयैरेव दिवसैः कुमारमाराधयिष्यति । केवलमतिचिरकालोपचिता बलवती मे प्रेमवृत्तिरतस्यामविदितशीलश्चैतस्याः कुमार इति सन्दिश्यते । सर्वथा तथायुष्मता प्रयतितव्यं यथातिचिरमेषोचिता परिचारिका. ते भवति । इत्यभिधाय कैलासो व्यरमत् । कादम्बाम् विध्यर्थवाचकानि एषा बाला इव लालनीया = त्वम् एनाम् बालाम् इव लालयेथाः । शिष्या इव द्रष्टव्या = त्वम् एनाम् शिष्याम् इव पश्येः । एषा चापलेभ्यः निवारणीया = त्वम् एनाम् चापलेभ्यः निवारयः। स्वाध्यायः विग्रहं कुरुत- कृतप्रणामः, क्षितितले, कुलूतेश्वरदुहिता. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- आयुष्मता, बलवान् , व्यरमत् , एतस्याम् , इयन्तम् , बलवती. - वाक्यानि रचयत- अशोकवने ( मृगयूथपरिभ्रष्ट ) ( मृगी) इव सीतां हनुमानपश्यत् । बालानां (क्रीडन) (बलवत् ) पक्षपातः । ( अल्प) एव (दिवस) कर्णोऽस्त्रविद्यामशिक्षत । विलासवती पत्रलेखां चन्द्रापीडाय (प्रेषितवत् ) २९ विंशः पाठः धनलुब्धस्य मठाधिपतेः Mulu Cam अस्ति करिमश्चिद्विविक्तप्रदेशे मठायतनम् । अमुष्मिन्देवदत्तो नाम परिवार प्रतिवसति स्म । अस्मै भक्तजनो नित्यं सूक्ष्मवस्त्राणि अच्छति । इमान्यसौ सुगुप्तं विक्रीणात धनसञ्चयं व करोति । एवमस्य महती वित्तमात्रा सजाता। ततोऽसौ न कस्यचिद्विश्व- सिति । नक्तंविवं कक्षान्तरादिमां मात्रां न मुञ्चति । अथवा साधु चेदमुच्यते। / अर्थानामर्जने दुःखमार्जितानां च रक्षणे । आये दुःखं व्यये कुःखं धिगर्थाः कष्टसंश्रयाः॥ अथाषाढभूतिर्नाम परवित्तहारको धूर्तो भूमर्थमात्रां तस्य कक्षा- न्तरगतां लक्षयित्वा व्यचिन्तयत्-कयं मयेयमर्थमात्रामुष्माद्धतव्या। अस्मिन्मठे ताषद हदशिलासञ्चयवशाद्धितिभेदो नास्ति । उस्त- ३० पाल - रत्वाच द्वारेण प्रवेशोऽपि न सम्भवति । तदमुं मायावाग्मिविश्वास्य छात्रतां बजामि येनासौ विश्वस्तः कदाचिद्विश्वासमागच्छति । एवं निश्चित्यामुष्यान्तिकमुपगम्य ॐ नमः शिवायेति प्रोचार्य साष्टाङ्गं प्रणम्य च सप्रश्रयमर्दत्-भगवन् , असारः संसारोऽयं गिरिनदीवेगोपमं यौवनं तृणाग्निसमं जीवितं शरदभ्रच्छाया- सदशा भोगाः,स्वप्नसहशो मित्रपुत्रकलत्रभृत्यवर्गसम्बन्धः । एवं मया सम्यक् परिक्षातम् । तत्कि करोमि येन मे संसाहोत्तरणं भवि- ष्यति । इदं श्रुत्वा देवदत्तः सादरमब्रवीत्-वत्स, धन्योऽसि यद्यो- वनेऽयं विरक्तिभावस्ते । यच मां संसारसागरोत्तरणोपायं पृच्छसि तच्छ्रयताम्--- शूद्रो वा यदि वान्योऽपि चण्डालोपि जटाधरः। दीक्षितः शिवमन्त्रेण भसिताङ्गः शिवो भवेत् ॥ तच्छ्रुत्वाषाढभूतिरस्य पादौ गृहीत्वा सप्रश्रयमिदमाचष्ट- भगवन्, तर्हि दीक्षया मेऽनुग्रहं कुरु। देवदत्त आह–अनुग्रहं ते करिष्यामि किन्तु रात्री त्वया मठमध्ये न प्रवेष्टव्यम् । यतो निःस- ङ्गता परिवाजां प्रशस्यते । तत्त्वया व्रतग्रहणानन्तरं मठद्वारे तुणकु. दीरके शयितव्यमिति । स आह-भगवन् , भवदादेश प्रमाणम् । परेत्र यमुनी मे प्रयोजनम् । अथ कृतशयनसमयं देवदत्तोऽनुग्रह कृत्वा शास्त्रोक्तविधिना तं शिष्यतामनयत् । अयमपि परिचर्ययेम 'परितोषममयत् । पुनस्तथापि मुनिः कक्षान्तरान्मात्रां न मुञ्चति । ६ अथ कालान्तरेणाषाढभूतिरचिन्तयत्-अहो न कथंचिदयं मे विश्वासमागच्छति । तत्किं दिवापि शस्त्रेण हन्मि किंवा विषं प्रय- च्छामि किंवा पशुमिव व्यापदयामीति । यावदसावेवं चिन्तयति तावदेव देवदत्तस्य शिष्यपुत्रः कश्चिद् प्रामादामन्त्रणाथै समायातो- अवीध-भगवन् , पवित्रारोपणस्य कृते मम गृहमायातु भवानिति ।
तच्छ्रुत्वा देवदत्त आषाढभूतिना सह प्रहृष्टः प्रस्थितः । अथास्य मार्गे काचित्सरित्समायाता। इमां दृष्टवा मात्रां कक्षान्तरादवतार्य वस्त्रपुटे सुगुप्तां निघायाषाढभूतिमाह-भो, अषाढभूते, यावदहं । पुरीपोत्सर्ग कृत्वा समागच्छामि तावदियं कन्थी योगेश्वरस्य साव- धानतया रक्षणीया। इत्युक्त्वा गतः। आषाढभूतिरप्यमुहिमनदर्श- नीभूते मात्रामादाय सत्वरं प्रस्थितः । देवदत्तःपुनरागत्य यावदाषाढ- भूतिं न पश्यति ततश्चौत्सुक्येन यावत्कन्थामवलोकयति तावन्मात्रां न पश्यति। ततश्च हा हा मुषितोऽस्मीति पृथिवीतले मूर्छया न्यपतत्। रारापा पञ्चतन्त्रे सन्धिविवरणम् अमुष्मात्+हर्तव्या = अमुष्माद् हर्तव्या, अमुष्माद्धर्तव्या वा समासविवरणम् कक्षान्तरगता= कक्षान्तरं (कक्षायाः अन्तरम् ) गता कक्षान्तरगता द्वितीयातत्पुरुषः स्वाध्यायः विग्रहं कुरुतः e- विविक्तप्रदेशे, कष्टसंश्रयाः, स्वनसदृशः, मित्रपुत्रकलत्रभृत्यवर्गसम्बन्धः, कृतशयनसमयम्. वाक्यपूरणं कुरुत- रामः सुग्रीवस्य मित्रता प्राज्ञः न विश्वस्यात् । तव कामदूतो भवामीति हंसो नलेन सह -अकरोत् । रामस्य दर्शने त्वया बुद्धिः न -इति रावणः सीताम्- दीक्षया अनुग्रहं कृतवान् । - ३२ - एकविंशः पाठः अदस्' पुंलिङ्ग द्विव. असी व अमू विभक्तिः ब.व. . प्रथमा अमी अमुम् अमू अमून् अमीभिः द्वितीया तृतीया चतुर्थी पश्चमी षष्ठी अमीभ्यः अमीभ्यः अमीषाम् अमीषु सप्तमी - - अमुना अमूभ्याम् अमुष्मै अमूभ्याम् अमुष्मात् अमूभ्याम् अमुष्य अमुयोः अमुष्मिन् अमुयोः अदस् ' स्त्रीलिङ्ग असौ अमू अमूम् अमू अमुया अमूभ्याम् अमुष्यै अमूभ्याम् अमुष्याः अमूभ्याम् अमुष्याः अमुयोः अमुष्याम् अमुयोः प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी अमू: अमूः अमूभिः अमूभ्यः अमूभ्यः अमूषाम् अमूषु प्र. द्वि. अद: अदस्' नपुंसकलिङ्ग अमू शेषं पुंलिङ्गवत् । अमूनि my इमे इमान्-एनान् एभिः प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी एभ्यः एभ्यः एषाम् एषु इदम् ' पुंलिङ्गे अयम् य इमौ इमम्-एनम् इमौ-एनौ अनेन-एनेन आभ्याम् अस्मै आभ्याम् अस्मात् आभ्याम् अस्य अनयोः-एनयोः अस्मिन् अनयोः-एनयोः इदम् ' स्त्रीलिङ्ग इयम् इमे. इमाम्-एनाम् इमे-एने अनया-एनया आभ्याम् अस्यै आभ्याम् अस्याः आभ्याम् अस्याः अनयोः-एनयोः अस्याम् अनयोः-एनयोः इदम् ' नपुंसकलिङ्गे इदम् इमे इदम्-एनत् इमे-एने शेषं पुंलिङ्गवत् । ग्रथमा द्वितीया तृतीया चतुर्थी पश्चमी षष्ठी सप्तमी इमाः इमाः-एनाः आभिः आभ्यः आभ्यः आसाम् आसु प्रथमा द्वितीया इमानि इमानि-एनानि
द्वाविंशः पाठः
अशोकवनिकायां सीता
ततो मलिनसंवीतां राक्षसीभिः समावृताम् ।
उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः ॥
अपश्यग्छुक्लपक्षादौ चन्द्ररेखामिवामलाम् ।
मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम् ॥
सपङ्कामनलङ्कारां विपनामिव पद्मिनीम् ।
वीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम् ॥
ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् ।
अश्रुपूर्णमुखीं दीनां कृशामनशनेन च ॥
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् ।
प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षलीगणम् ॥
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् ।
प्रभा नक्षत्रराजस्य कालमेधैरिवावृताम् ।
दुःखेनातर्कयत्सीतां हनुमाननलङ्कृताम् ।
संस्कारेण यथा हीनां वाचमर्थान्तरं कृताम् ॥
रामायणे
समासविवरणम् सपङ्का= पङ्केन सहिता । सहबहुव्रीहिः अर्थान्तरम् = अन्यः अर्थः अर्थान्तरम् । कर्मधारयः (नित्यसमासः) स्वाध्यायः वियुज्य पदानि लिखत- अपश्यम्छुक्लपक्षादौ, ग्रहेणाङ्गारकेणेव, कालमेधैरिवावृताम्.. विग्रहं कुरुत-- - उपवासकृशाम् , शुक्लपक्षादौ, रुचिरप्रभाम्, अश्रुपूर्णमुखीम्. वाक्यपूरणं कुरुत- सधनम् परिव्राजम् असेवत- र --अपश्यन्ती दमयन्ती -अभवत् । गुरोः अभिभूतानि कर्णस्य शस्त्राणि-- अभवन् । कूर्मः स्वमरणम् अकारयत् । - त्रयोविंशः पाठः धूर्तः शृगालः अस्ति कस्मिंश्चिद्वनोद्देशे महाचतुरको नाम शृगालः। स कदाचि- दरण्ये स्वयं मृतं गजं समामोत् । तत्समन्तानमति परं कठिनां त्वचं भेत्तुं न शक्नोति । अत्रान्तरे तंत्र कन्धिा समायात् । तं दृष्ट्वा स संयोजितकरः सादरमवक्-भर्तः, त्वदीयोऽहं लाकुटिकस्त्वदर्थे गज- मिमं पामि । तदेतं जसितु भर्ता । तं दृष्ट्वा पञ्चानन आचष्ट-भो नाहमन्यहत सत्त्वं कदाचिजक्षिमि । तन्मया प्रसादीकृत एष ते गजः।
GOKHALE.C.. तच्छ्रुत्वा शृगालः सानन्दमप्रवीत्-युक्तमिदं भर्तुनिजभृत्येषु । तन्निशम्य सिंहोऽयात् । ram याते तस्मिन्कश्चिद्याघ्रः समायातः। तमपि दृष्टासौ व्यचिन्तयत्- एकस्तावदुरात्मा प्रणिपातेनापवाहितः । तत्कथमिदानीमेनमति- चाहयिष्यामि । नूनं शूरोऽयम् । न खलु भेदं विना साध्योभविष्यति। एवं सम्प्रधार्य तस्याभिमुखो भूत्वोन्नतकन्धरः ससम्भ्रममवक्- माम, कथं भवानत्र मृत्युमुखे प्रविष्टः । एनं गजं साम्प्रतं सिंहोऽहन् । स च मां रक्षपालं निधाय स्नानार्थमयात् । तेन च मम समादिष्टम्- यदि कश्चिध्याघ्रः समैति तन्मम सुगुप्तं कथनीयम् । येन वनमिदं निर्व्याघ्रं करोमि । तच्छ्रुत्वा व्याघ्रः सन्त्रस्तस्तमाह-भोभगिनीसुत, प्राणदक्षिणां वन्चे । मदीयां कामपि वार्ता तस्य माख्याहि । एवमु. चाता अथ तस्मिन्याते तत्र कश्चिश्चित्रकः समायातः। तमपि दृष्ट्वा व्यांच- न्तयत्-दृढदंष्ट्रोऽयम् । तदस्य पार्थाद्गजचर्मच्छेदं सानोमि । एवं निश्चित्य तमवदत्-भो भगिनीसुत, फिमिति चिरदृष्टोऽसि । कथं च बुभुक्षित इव भक्ष्यं विचितोषि । तदतिथिरसि मे । एष गजः सिंहेन इतस्तिष्ठति । अहं चास्य तदादिष्टो रक्षपालः। यात्सिहो न समायाति तावदस्य मांसं यथेष्टं भुक्ष्व । स आह-माम, यद्येवं क्त्वा प्रनष्टः।
तन्न कार्य मे मांसाशनेन । न धृष्णोमि सिंहम् । अहमितोऽपयामि। शृगाल आह-भो अधीर, विश्रब्धं भक्षयतिस्यागमनं दूरतोऽहं ते निषेदयिष्यामि । अथ चित्रण तथानुष्ठिते चर्मभेदं जातं विशाय तेनाभिहितम्-भो भगिनीसुत, गम्यतां गम्यताम् । एष सिंहः समायाति। तच्छ्रुत्वा चित्रकोऽपि दूरं प्रनष्टः | TOR अथ यावदसौ तत्कृतद्वारेण किंचिन्मांसंभुङ्क्ते तावदपरः शृगाल: सङ्क्रुद्धः समायातः । तं तुल्यपराक्रमं दृष्ट्वाचिन्तयत्- Syam उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समशक्तिं पराक्रमैः॥ तदहं धृष्णोम्येनम् । ततस्तदमिमुखो भूत्वा तं दंष्ट्राभिरक्षिणोत् । दिशोभाजं चाकरोत् । अनन्तरं सुखेन तन्मांसमभुङ्क्त । पञ्चतन्त्रे , स्वाध्यायः वियुज्य पदानि लिखत- कस्मिंश्चिद्वनोद्देशे, तनिशम्य, भूत्वोन्नतकन्धरः, सन्त्रस्तस्तमाह, धृष्णोम्येनम् . विग्रहं कुरुत- संयोजितकरः, मृत्युमुखे, दृढदंष्टः, चिरदृष्टः, अन्यहतम्. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत त्वचम्, भर्तः, गम्यताम्, योजयेत्, अस्य. वाक्यानि रचयत- चतुरः (बलवत् ) न धृष्णोति । ( हनुमत्) लङ्कायां (सीता) व्यचिनोत् । (बुद्धिमत्) शृगालेन व्याघ्रचित्रको (वश्चित) न (इदम् ) ( राजदुहित) कुमारेण अनादरः कर्तव्यः इति विलासवती समादिशत् । - ३८
।
चतुर्विंशः पाठः
पञ्चमो गणः
चि
परस्मैपदम्
वर्तमानकालः चिनोमि चिनुवः-चिन्वः चिनुमः-चिन्मः
चिनोषि चिनुथः चिनुथ
चिनोति चिनुतः चिन्वन्ति
भूतकालः अचिनवम् अचिनुव-अचिन्व अचिनुम-अचिन्म
अचिनोः अचिनुतम् अचिनुत
अचिनोत् अचिनुताम् अचिन्वन्
आज्ञार्थः चिनवानि चिनवाव चिनवाम
चिनु चिनुतम् चिनुत
चिनोतु चिनुताम् चिन्वन्तु
विध्यर्थः चिनुयाम् चिनुयाव चिनुयाम
चिनुयाः चिनुयातम् चिनुयात
चिनुयात्
चिनुयाताम् चिनुयुः
आत्मनेपदम्
वर्तमानकालः चिन्वे चिनुवहे-चिन्वहे चिनुमहे-चिन्महे
चिनुषे चिन्वाथे चिनुचे
चिनुते चिन्वाते चिन्वते
भूतकालः
अचिन्वि अचिनुवहि-अचिन्वहि अचिनुमहि-अचिन्महि
अचिनुथाः अचिन्वाथाम् अचिनुध्वम्
अचिनुत अचिन्वाताम् अचिन्वत
आज्ञार्यः चिनवै चिनवावहै चिनवामहै चिनुष्य चिन्वाथाम् चिनुध्वम् चिनुताम् चिन्वाताम् चिन्वताम् विध्यर्थः चिन्वीय चिन्वीवहि चिन्वीमहि चिन्वीथाः चिन्वीयाथाम् चिन्वीध्वम् चिन्वीत चिन्वीयाताम् चिन्वीरन् आप् परस्मैपदम् वर्तमानकालः आप्नोमि आप्नुवः आप्नुमः आप्नोषि आप्नुथः आप्नुथ आप्नोति आप्नुतः आप्नुवन्ति भूतकालः आप्नवम् आप्नुव आप्नुम आप्नोः आप्नुतम् आप्नुत आप्नोत् आप्नुताम् आप्नुवन् आज्ञार्थः आप्नवानि आमवाव आप्नवाम आप्नुहि आप्नुतम् आप्नुत आनोतु आप्नुताम् आप्नुवन्तु विध्यर्थः आप्नुयाम् आप्नुयाव आप्नुयाम आप्नुयाः आप्नुयातम् आप्नुयात आप्नुयात् आप्नुयाताम् आप्नुयुः तृतीयपुरुषस्य एकवचनम् धातुः वर्तमानकालः विध्यर्थः श्रु शृणोति अशृणोत् शृणोतु शृणुयात् शक् अशक्नोत् शक्नोतु शक्नुयात् साथ् सानोति असानोत् सानोतु साध्नुयात् धृष् धृष्णोति अधृष्णोत् धृष्णोतु धृष्णुयात् भूतकालः आज्ञार्थः शक्नोति ४० अष्टमो गण: कुर्मः कुरुथ कुर्वन्ति अकुर्म अकुरुत अकुर्वन् करवाम परस्मैपदम् वर्तमानकालः करोमि कुर्वः करोषि कुरुथः करोति कुरुतः भूतकालः अकरवम् अकुर्व अकरोः अकुरुतम् अकरोत् अकुरुताम् आज्ञार्थः करवाणि करवाव कुरु कुरुतम् करोतु कुरुताम् विध्यर्थः कुर्याम् कुर्याव कुर्याः कुर्यातम् कुर्यात् कुर्याताम् आत्मनेपदम् वर्तमानकालः कुर्वे कुर्वहे कुरुषे कुर्वाथे कुर्वाते भूतकाल: अकुर्वि अकुर्वहि अकुरुथाः अकुर्वाथाम् अकुरुत अकुर्वाताम् कुरुत कुर्वन्तु कुर्याम कुर्यात कुर्युः कुरुते कुर्महे कुरुध्ये कुर्वते अकुहि अक्रुरुध्वम् अकुर्वत
आज्ञार्थः करवै करवावहै करवामहै
कुरुष्व कुर्वाथाम् कुरुध्वम्
कुरुताम् कुर्वाताम् कुर्वताम्
विध्यर्थः
कुर्वीय कुविहि कुर्वीमहि
कुर्वीथाः कुर्वीयाथाम् कुर्वीध्वम्
कुति कुर्वीयाताम् कुरिन्
तृतीयपुरुषस्य एकवचनम्
धातुः वर्तमानकालः
भूतकाल:
आज्ञार्थः विध्यर्थः
क्षिण क्षिणोति अक्षिणोत् क्षिणोतु क्षिणुयात्
वन् वनुते
अवनुत वनुताम् वन्वीत
पञ्चविंशः पाठः
सौहदविनाशकं दारिद्यम्
विदूषकः-भोः किमिदं चिन्तयसि ।
चारुदत्तः-वयस्य,
सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम् ।
सुखात्तु तु याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति ।।
विदूषकः-भो वयस्य, मरणाहारियाद्वा कतरत्ते रोचते ।
चारुदत्तः-वयस्य,
दारिद्यान्मरणाद्वा मरणं मम रोचते न दारिद्यम् ।
अल्पक्लेशं मरणं दारिद्यमनन्तकं दुःखम् ॥
विदूषकः-भो वयस्य, अलं सन्तापितेन । प्रियजनसङ्क्रामितवि-
४२
है।
। Ca . भवस्य सुरजनपीतशेषस्य प्रतिपश्चन्द्रस्येव परिक्षयोऽपि तेऽधिकतररमणीयः। चारुदत्तः-वयस्य, न ममार्थान्प्रति दैन्यम् ।। सत्यं न मे विभवनाशकृतास्ति चिन्ता भाग्यक्रमेण हि धनानि भवन्ति यान्ति । एतत्तु मां दहति नष्टधनाश्रयस्य यत्सौहृदादपि जनाः शिथिलीभवन्ति । मृच्छकटिक जाते है स्वाध्यायः वियुज्य पदानि लिखत- दुःखान्यनुभूय, घनान्धकारेष्विव, प्रतिपच्चन्द्रस्येव. विग्रहं कुरुत- अल्पक्लेशम्, विभवनाशकृता, नष्टधनाश्रयस्य. समासान् योजयत-- मरणात् दारियात् च कतरत्ते रोचते । परिचर्यया संतुष्टः अपि देवदत्तः न शिष्यस्य विश्वासमागच्छत् । अपहृता मात्रा यस्य सः परिव्राड् मूर्छितः अभवत् । आचारात् प्रमत्साः नराः परिचयं न गणयन्ति । वाक्यपूरणं कुरुत- वनवासात्. पितृवचनभङ्गाद् वा एव रामाय अरोचत । रावणेन अपहृतायाः सीतायाः अपि अधिकतरवन्दनीयः- आसीत् । धनानि आप्नोति । कर्तुं न शक्रोति । दद्धिः सुहृत्सु षड्विंशः पाठः का बुभुक्षितः किन करोति पापम् अस्ति कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम केसरी। तस्यानुजी- विनस्त्रयः काको द्वीपी जम्बुकश्च । अथ तैः सादिष्टः कश्चिदुष्ट्रो दृष्टः पृष्टश्च । कुतो भवानागतः । सोऽप्यात्मवृत्तान्तमकथयत् । तत. स्तैर्नीत्वा केसरिणेऽसौ समर्पितः। केसरी तमभयवाचान्वगृवात्तस्य च चित्रकर्ण इत्याख्यां कृत्वा स्वसमीपं तं स्थापितवान् । अथ कदा- चित्केसरिणः शरीरवैकल्याद्भरिवृष्टिकारणाचाहारो दुर्लभोऽभवत् । ततस्तैरनुजीविभिरालोचतम्-चित्रकर्णमेव यथा स्वामी व्यापाद- यति तथानुष्ठीयताम्।द्वीपिनोक्तम्-असौ स्वामिनाभयवाचं दत्त्वा- नुगृहीतः । तत्कथमेतत्सम्भवति ।काको द्वीपिनं ब्रूते-इह समये परिक्षीणः स्वामी पापमपि कुर्यात् । यतः- त्यजेत्क्षुधार्ता महिला स्वपुत्रं खादेत्क्षुधार्ता भुजगी स्वमण्डम् । बुभुक्षितः किन्न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ।। इति संचिन्त्य सर्वे सिंहान्तिकमगच्छन् । सिंहेनोक्तम्-आहारार्थ किंचित्प्रामुत किम् । तैरुक्तम्-यत्नादपि न किंचिदानुम । केसरी पृच्छति-कोऽधुना जीवनोपायः । काकश्चष्टे-स्वामिन् , स्वाधीना- हारपरित्यागात्सर्वनाशोऽयमुपस्थितः । सिंहेनोक्तम्---अत्राहारः का स्वाधीनः । काकः कर्णे कथयति-चित्रकर्ण इति । सिंहो भूमि स्पृष्टा कर्णो स्पृशति । अभयवाचं दत्त्वा धृतोऽयमस्माभिः।तत्कथमे- तत्सम्भवति । काको ब्रूते-नासो स्वामिना व्यापादयितव्यः । किन्त्व- स्माभिरेव तथा कर्तव्यं यथासौ स्वदेहदानमङ्गीकरोति । सिंहस्त- च्छुत्वा तूष्णीं स्थितः। ततोऽसौ लब्धावकाशो बलि छुटं कृत्वा सर्वानादाय केसरिणः समीपं गतः। अथ बालभुजोक्तम्-देव, यत्नादप्याहारो न प्राप्तः । अनेकोपवासखिन्नः स्वामी । तदिदानी स्वामिने स्वदेहदानं कर्तुमि- च्छामि।मदीयं मांसमुपभुज्यताम् । केसरिणोक्तम्-परंप्राणपरित्यागी न पुनरीदृशे कार्ये प्रवृत्तिः। जम्बुकेनापि तथैवोक्तम् । ततः सिंहे.
नोक्तम्-मैवम् । अथ व्याघेणोक्तम्-महेहेन जीवतु स्वामी । सिंहोऽ- ब्रवीत्-न कदाचिदेवमुचितम् । अथ चित्रकर्णोऽपि जातविश्वास- स्तथैवात्मदानमाह । तन्मुखानिर्गतायामेव वाचि द्वीपिनासौ कुक्षिं विदार्य व्यापादितः सर्वैश्च भक्षितः । अत उच्यते--: :: नदीनां शस्त्रहस्तानां नखिनां शृङ्गिणां तथा। विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ पञ्चतन्त्रे समासविवरणम् आहारार्थम् = आहाराय इदम् । चतुर्थांतत्पुरुषः (नित्यसमासः ) स्वाध्यायः वियुज्य पदानि लिखत- जम्बूकश्च, सार्थाद्धृष्टः, ततस्तैनीत्वा, द्वीपिनोक्तम् , किन्न, किन्त्वस्माभिरेव. विग्रहं कुरुत- स्वाधीनाहारपरित्यागात्, लब्धावकाशः, जातविश्वासः, क्षुधार्ता, शरीर- वैकल्यात्. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- अभयवाचा, आवगृह्णात्, प्राप्नुत, जीवतु, वाचि. समासान् योजयत सार्थात् भ्रष्टः उष्ट्रः काकेन जम्बूकेन च दृष्टः । म्लानं मुखं यस्याः सा सीता हनुमता वीक्षिता । काकेन कल्पितया युक्त्या उष्ट्रः वञ्चितः । वाक्यानि रचयत- वरं स्वसुखनाशः न पुनर् (परपीडन ) प्रवृत्तिः । सिंहस्य अनुजीविनः आहारम् (वि+चि ) केसरी उष्ट्राय अभयम् (प्रति+श्रु) क्षुधार्ताः सेवकाः सिंहात् उष्ट्रम् ( वन् ) - ए.व. सप्तविंशः पाठः इन्नन्तः पुंलिङ्गः 'स्वामिन्' शब्दः विभक्तिः द्विव. ब.घ. प्रथमा स्वामी स्वामिनी स्वामिनः द्वितीया स्वामिनम् स्वामिनौ स्वामिनः तृतीया स्वामिना स्वामिभ्याम् स्वामिभिः चतुर्थी स्वामिने स्वामिभ्याम् स्वामिभ्यः पश्चमी स्वामिनः स्वामिभ्याम् स्वामिभ्यः 'षष्ठी स्वामिनः स्वामिनोः स्वामिनाम् सप्तमी स्वामिनि स्वामिनोः स्वामिषु सम्बोधनम् स्वामिन् स्वामिनौ स्वामिनः एवं केसरिन्, अनुजीविन्, नखिन्, शृङ्गिन् इत्यादयः । नपुंसकलिङ्ग प्र. दि. स्वामि स्वामिनी स्वामीनि सम्बोधनम् स्वामि-स्वामिन् स्वामिनी स्वामीनि शेषं पुंलिङ्गवत् । एवं भाविन् , गुणिन् इत्यादयः । " , अष्टाविंशः पाठः दमयन्तीविलापः अपक्रान्ते नले साध्वी दमयन्ती गतलमा। अबुध्यत वरारोहा सन्त्रस्ता विजने वने ॥ अपश्यमाना भर्तारं शोकदुःखसमन्विता। प्राक्रोशदुवैः सन्त्रस्ता महाराजेति नैषधम् ॥
, छाउजर हा नाथ, हा महाराज, हा स्वामिन्कि जहासि माम् । हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ॥ ननु नाम महाराज, धर्मशः सत्यवागसि । कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य मां गतः ॥ पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ । भीताहमतिदुर्धर्ष, दर्शयात्मानमीश्वर ॥ नृशंस बत राजेन्द्र यन्मामेवं गतामिह । विलपन्ती समागम्य नाश्वासयसि पार्थिव ॥ना न शोचाम्यहमात्मानं न चान्यदपि किंचन । कथं तु भवितास्येक इति त्वां नृप शोचिमि ॥ कथं तु भूभृत्तृषितः क्षुधितः श्रमकर्षितः। सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ।। ततः सा तीव्रशोकार्ता प्रदीप्तेष च मन्युना इतश्चेतश्च रुदती पर्यधावत दुःखिता। नलोपाख्याने । शोध स्वाध्यायः विग्रहं कुरुत- गतक्लमा, शोकदुःखसमन्विता, तीव्रशोकार्ता. चाक्यपूरणं कुरुत- नष्टविभवः नरः कारणं भवति । दुर्भाग्यम् अनुजीविषु अधिकतरं सर्वनाशे अर्धे जहाति पण्डितः। नलम् अपश्यन्ती शोकावेगं धारयितुं न जनयति । ४७ नवविंशः पाठः परस्परमर्माणि गोपनीयानि IN अस्ति कस्मिंश्चिन्नगरे देवशक्तिर्नाम राजा । तस्य राज्ञः पुत्रो जठरवल्मीकाश्रयेण फणिना प्रतिदिन प्रत्यङ्गंक्षीयते । अनेकोपचारैः सद्धिषग्भिश्चिकित्स्यमानोऽपि न स्वास्थ्यमाप्नोति । अथासौ राज- पुत्रो निर्वेदाद्देशान्तरं गतः । कस्मिंश्चिन्नगरे भिक्षाटनं कृत्वा नग- रस्य सीमनि वर्तमाने महति देवालये कालं यापयति । अथामुष्मिनगरे बलिनामा राजास्ते । तस्य च द्वे दुहितरी यौव- नस्थे तिष्ठतः । ते च प्रतिदिवसमादित्योदये पितुः पादान्तिकमागत्य नमस्कारं कुरुतः। तत्र चैकाब्रवीत्-विजयस्व महाराज, यस्य प्रसादात्सर्वे सुखं लभ्यते । द्वितीया तु विहितं भुक्ष्य महाराजेति प्रवीति । तच्छ्रुत्वा प्रकुपितो राजाब्रवीत्-भो मन्त्रिणः, एतां दुष्ट- भाषिणी कुमारिकां कस्यचिद्वैदेशिकस्य प्रदत्त येन निजविहितमि- यमेव भुङ्क्ते । अथ तथेति प्रतिपद्याल्पपरिवारा सा कुमारिका मन्त्रिभिस्तस्य देवकुलाश्रितराजपुत्रस्य प्रतिपादिता। सापि प्रहष्टमानसा तं पतिं देवपत्प्रतिपद्य प्रेम्णादायान्यविषयं गता । ततोऽनल्पमध्यानं गत्वा वर्त्मनि तडागतटे राजपुत्रमावासर- क्षायै निरूप्य स्वयं घृततैललवणतण्डलादिक्रयनिमित्तं सपरिवारा गता । कृत्वा च क्रयविक्रयं यावदागच्छति तावत्स राजपुत्रो वल्मी- कस्योपरि मूर्धानं निधाय प्रसुप्तः। तस्य च मुखाबृजगः फणां निष्काम्य वायुमश्नाति । तत्रैव च वल्मीकेऽपरः फणी निष्क्रम्य तथैवासीत्। अथ तयोः परस्परदर्शनेन क्रोधसंरक्तलोचनयोर्मध्यावल्मीकस्थेन सर्पणोक्तम्-भो भो दुरात्मन् , कथं सुन्दरसर्वाङ्गं राजपुत्रमित्थं दुनोषि । मुखस्थोऽहिराचष्ट-भो भोस्त्वयापि दुरात्मनास्य वल्मी- कस्य मध्ये कथमिदं दूषितं हेम्ना पूर्ण कलशयुगलम् । इत्येवं परस्प- रस्य मर्माण्युदाटितवन्तौ । पुनर्वल्मीकस्थोऽहिरब्रवीत्-भो दुरात्मन् , भेषजमिदं ते कोऽपि न जानाति यजीर्णोत्कालितकञ्जिका. राजिकापानेन भवान्विनाशमुपैति । अथोदरस्थः फण्यववीत्तवा- प्येतद्भेषजं किं कश्चिदपि न वेत्ति यदुष्णतेलेन महोष्णोदकेन वा तव विनाशः स्यादिति। एवं सा राजकन्या विटपान्तरिता तयोः परस्परालापान्मर्मम- यानशृणोत्तथैव चान्वतिष्ठत् । विधायाव्यङ्गं नीरोगं भर्तारं निधिं च परममासाद्य स्वदेशाभिमुखं प्रायात् । पितृमातृस्वजनैः प्रतिपूजिता विविधोपभोगं प्राप्य सुखेनावस्थिता । अत उक्तम् । परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः। त एव निधनं यान्ति वल्मीकोदरसर्पवत् ॥ पञ्चतन्त्रे - स्वाध्यायः वियुज्य पदानि लिखत- ककरणवीत, मन्त्रिण एताम्, वल्मीकस्योपरि. विवई इरत- मिबाटनम, सपरिवारा, क्रोधसंरकलोचनयोः, उष्णतैलेन, पितृमातृस्वजनैः.
एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- फाणिना, आमोति, अमुष्मिन् , दुहितरी, मन्त्रिणः, अश्नाति, स्यात्, अशृणोत्. वाफ्यानि रचयत-- (नल) निर्वेदात् दमयन्तीम् ( त्यज् ) कन्यायाः अप्रियां ( वाच् ) श्रुत्वा भूपः कोपम् धारयितुम् न ( शक् ) ( सुहृद् ) विमुखता चारुदत्तम् भृशम् (दु) ( फणिन् ) कलहः राजकन्यायाः (हित) अभवत् । अन्तर्भेदाकुलम् गृहम् ( विनश्) त्रिंशः पाठः ब. व. अन्नन्तः पुंलिङ्गो 'राजन् ' शब्दः विभक्तिः द्विव. प्रथमा राजानौ राजानः द्वितीया राजानम् राजानौ राज्ञः तृतीया राज्ञा राजभ्याम् राजभिः चतुर्थी राशे राजभ्याम् राजभ्यः पञ्चमी राजभ्याम् राजभ्यः षष्ठी राज्ञः राज्ञोः राज्ञाम् सप्तमी राशि-राजनि राज्ञोः राजसु सम्बोधनम् राजन् राजानौ राजानः एवं मूर्धन् , बलिनामन् इत्यादयः । ५० अनन्तः नपुंसकलिङ्गः 'हेमन् ' शब्दः प्रथमा हेम हेमनी-हेम्नी हेमानि द्वितीया हेम हेमनी-हेम्नी हेमानि सम्बोधनम् हेमन् , हेम हेमनी-हेम्नी हेमानि तृतीया हेम्ना हेमभ्याम् हेमभिः शेषं पुंलिङ्गवत् । एवं नामन् , प्रेमन् इत्यादयः । अन्नन्तः नपुंसकलिङ्गः 'वर्मन् ' शब्दः म वर्मनी वानि तृतीया वर्त्मना वर्मभ्याम् चतुर्थी वर्मने वर्त्मभ्याम् वर्मभ्यः पश्चमी वर्त्मनः वर्मभ्याम् षष्ठी वर्त्मनः वर्मनोः वर्मनाम् सप्तमी वर्त्मनि वर्मनोः वर्मसु सम्बोधनम् वर्मन् , वर्त्म वर्मनी वत्मानि एवं मर्मन् , कर्मन् इत्यादयः । प्र. द्वि. वर्मभिः वर्मभ्यः एकत्रिंशः पाठः नृपो वैशम्पायनवृत्तान्तं पृच्छति इत्यभिधाय गते च तस्मिन् कञ्चुकिनि राजा वैशम्पायनम- पृच्छत्-कश्चिदभिमतमास्वादितमभ्यन्तरे भवता किंचिदशनजात- मिति । स प्रत्यवदत् । देव, किं वा नास्वादितम् । कषायमधुरः प्रकाममापीतो जम्बूफलरसः । खण्डितानि दाडिमीवीजानि । नलिनीदलहरिन्ति द्राक्षाफलस्वादूनि च दलितान्यामलकीफलानि स्वेच्छया। किं वा प्रलपितेन. बहुना । सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायत इति । एवंवादिनो वचनमाक्षिप्य नर- पतिरब्रवीत् । आस्तां तावत्सर्वमेवेदम् । अपनयतु नः कुतूहल- माख्यातु भवानादितः प्रभृति कात्स्न्येनात्मनो जन्म । कस्मिन्देशे भवान्कथं जातः । केन वा नाम कृतम् । का माता। कस्ते पिता। कथं वेदानामागमः । कथं शास्त्राणां परिचयः। कुतः कलाः समासा- दिताः । किं जन्मान्तरानुस्मरणमुत वरप्रदानम् । अथवा विहगवेष- धारी कश्चिच्छन्नो निवससि । क वा पूर्वमुषितम् । कथं पञ्जरबन्धः। कथं चाण्डालहस्तगमनमिह वा कथमागमनमिति । कादम्बर्याम् समासविवरणम् नलिनीदलहरिन्ति = नलिन्याः दलानि नलिनीदलानि । (ष. त. नलिनीदलानि इव हरिन्ति तानि । कर्मधारयः द्राक्षाफलस्वादूनि = द्राक्षायाः फलानि द्राक्षाफलानि । ( ष. त.) द्राक्षाफलानि इव स्वादूनि तानि । कर्मधारयः स्वाध्यायः विग्रहं कुरुत- करतलोपनीयमानम्, जन्मान्तरानुस्मरणम्. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- कञ्चुकिनि, नलिनीदलहरिन्ति, एवंवादिनः, जन्म. वाक्यानि रचयत- ( राजन् ) वैशम्पायनं पितुः मातु च ( नामन् ) पृष्टवान् । वैशम्पायनस्य वेदशास्त्रपरिचयादिना ( महिमन् ) नृपस्य ( महत् ) विस्मयः जातः । कथं त्वया (भर्तृ) नीरोगः कृतः इति श्वारेण ( राजदुहित) पृष्टा ।
.
द्वात्रिंशः पाठः
सीताविनोदनम्
लक्ष्मणः-जयत्वार्यः । आर्य, तेन चित्रकरणास्मदुपदिष्टमार्यस्य
चरितमस्यां वीथिकायामभिलिखितम् ।तत्पश्यत्वार्यः।
रामः-जानासि वत्स दुर्मनायमानां देवीं विनोदयितुम् । तत्कि-
यन्तमवधि यावत् ।
लक्ष्मणः-यावदार्याया हुतभुजि विशुद्धिः।
रामः-शान्तम्।
उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः ।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः॥
देवि, देवयजनसम्भवे, प्रसीद । एष तेजीवितावधिःप्रवादः।
कष्टं जनः कुलधनैरनुरञ्जनीयः
तन्नो यदुक्तमशिवं न हि तत्क्षम ते ।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥
सीता-भवत्वार्यपुत्र, भवतु । एहि । प्रेक्षामहे तावत्ते चरितम् ।
( इत्युत्थाय परिकामतः)
लक्ष्मणः-इदं वदालेख्यम् । एष मिथिलावृत्तान्तः।
रामः-द्रष्टव्यमेतत् ।
जनकानां रघूणां च सम्बन्धः कस्य न प्रियः ।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः ।
सीता-एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारोऽपि भ्रातरो
विवाहदीक्षिता यूयम् । अहो जानामि तस्मिन्नेव प्रदेशे
तस्मिन्नेव काले वर्ते।
लक्ष्मणः-इयमार्या । इयमप्यार्या माण्डवी । इयमपि वधूः
श्रुतकीर्तिः।
सीता-वत्स, इयमप्यपरा का।
. लक्ष्मणः--(सलज्जस्मितम् । अपवार्य) अये ऊर्मिलां पृच्छत्यार्या। भवतु। अन्यतः सञ्चारयामि । (प्रकाशम्) आर्ये, दृश्यतां द्रष्टव्यमेतत् । अयं च भगवान्भार्गवः । सीता-(ससम्भ्रमम् ) कम्पितास्मि । रामः-ऋषे, नमस्ते। लक्ष्मणः-आर्ये, पश्य पश्य । अयमसावार्येण- रामः-(साक्षेपम्) अयि वत्स, बहुतरं द्रष्टव्यम् । अन्यतो दर्शय। सीता-(सस्नेहबहुमानं निर्वर्ण्य ) सुष्टु शोभसे आर्यपुत्र, एतेन विनयमाहात्म्येन। लक्ष्मणः-एते वयमयोध्यां प्राप्ताः । रामः-(सास्रम् ) स्मरामि हन्त स्मरामि । जीवत्सु तातपादेषु नवे दारपरिग्रहे । मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥ उत्तररामचरिते स्वाध्यायः वियुज्य पदानि लिखत- जयत्वार्यः, इत्युत्थाय, तस्मिन्नेव, अयमसावार्येण. विग्रहं कुरुत- उत्पत्तिपरिपूतायाः, पावनान्तरैः, जीवितावधिः, विवाहदीक्षिताः, कुलधनैः. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- कियन्तम् , हुतभुजि, सुरभिणः, मूर्भि, जानासि, ग्रहीता, दृश्यताम्, भार्गवः. प्रयोगान्तरं कुरुत- तेन चित्रकरण आर्यस्य चरितम् अभिलिखितम् । ( अभिलिखितवत् ) प्रेक्षामहे तावत्ते चरितम् । आर्य, दृश्यतां द्रष्टव्यमेतत् । hendra त्रयस्त्रिंशः पाठः गानपियो गर्दभः Pm GOK HALE -- कस्मिंश्चिदधिष्ठान उद्धतो नाम गर्दभ आस्ते । अथ तस्य कदाचिच्छृगालेन सह मैत्री सञ्जाता। स च पीवरत्वाद् वृति । भङ्गं कृत्वा कर्कटिकाक्षेत्रे शृगालसहितः प्रविशति । एवं तौ स्वेच्छया चिर्भटिका जक्षित प्रत्यहं प्रत्यूषे स्वस्थानं यातश्च! अथ कदाचित्स मदोद्धत क्षेत्रमध्यस्थितो रासभः शृगालमवक्--भो भगिनीसुत, पश्य पाय । अतीव निर्मला रजनी । तदहं गीतं करि- ष्यामि । तदाचक्ष्व कतमेन रागेण करोमीति । स आह-किमनेन वृथानर्थप्रचालनेन । यतश्चौरकर्मप्रवृत्तावा- वाम् । निभृताश्च चौराः स्युः । अपरं त्वदीयं गीतं न मधुरम् । शङ्खशब्दानुकारं दूरादपि श्रूयते । जनास्तवू गीतं द्विषन्ति । तदा क्षेत्र रक्षापुरुषाः स्वपन्ति । तव विरावं श्रुत्वा ते जाप्रति प्रन्ति बध्नन्ति वावाम । तजक्षिहि तावदमृतमयीश्चिर्भटीः। मा त्वमव्या- पारपरो भव। तच्छुत्वा रासभ आह-भो न वेत्सि गीतरसं बनाश्रयत्वात् । तेनैतद्ब्रवीषि । उक्तंच , शरज्ज्योत्स्नाहते दूरं तमसि प्रियसन्निधौ । धन्यानां विशति श्रोत्रे गीतकारजा सुधा । शृगाल आह-माम, अस्त्येतत्परं न वेत्सि त्वं गीतम् । केवलं विरौषि । तत्किं तेन स्वार्थभ्रंशकेन । रासम आह-धिर धिङ् मूर्ख, किमहं न वेभि गीतम् । जानाम्यस्य भेदानपि । गृगाल आह-माम, यद्येवं तदहं तावद्वतेद्वारे स्थितः क्षेत्रपम- वलोकयामि । त्वं पुनः स्वेच्छया गीतं कुरु । तथानुष्ठिते रासभर टनमार्ण्य क्षेत्रपः क्रोधात् प्रधाषितः । यावद्रासभो दृष्टस्तावल्ल. कुटप्रहारैस्तथा हतो यथा प्रताडितो भूपृष्ठे पतितः। पञ्चतन्त्रे समासविवरणम् चौरकर्मप्रवृतौ = चौरस्य कर्म चौरकर्म । (ष. त.) चौरकर्मणि प्रवृत्तौ । सप्तमीतत्पुरुषः क्षेत्रमध्यस्थितः = क्षेत्रस्य मध्यम् क्षेत्रमध्यम् । (ष. त.) क्षेत्रमध्ये स्थितः । सप्ततित्पुरुष. गीतझङ्कारजा = गीतस्य झङ्कारः गीतझङ्कारः । (ष. त.) गीतझङ्कारात् जाता । उपपदतत्पुरुषः क्षेत्रपः =क्षेत्रं पाति इति । उपपदतत्पुरुषः स्वाध्यायः वियुज्य पदानि लिखत- कस्मिंश्चिदधिष्ठान उद्धतो नाम, यतश्चौरकर्मप्रवृतावावाम्, तजक्षिहि, दृष्टस्तावलकुटप्रहारैस्तथा. विग्रहं कुरुत- गानप्रियः, मदोद्धतः, रक्षापुरुषः, द्धतः, रक्षापुरुषः, शरज्ज्योत्स्नाहते. वाक्यानि रचयत- यदा लक्ष्मणः भार्गववृत्तान्तम् अदर्शयत् तदा रामः अवदत् किम् ( अदस्) (दृष्ट) - - सीतायाः अभिशुद्धिस्मरणेन रामः तथा (दुःखित) (भू) यथा (चित्र- पटदर्शन) अपि (असमर्थ) जातः । (धन्य) ते ( यद् ) बालानाम् अङ्गरजसा ( मलिनीभू) सुभद्रार्जुनयोः विवाहेन (यादव) (पाण्डव) च सम्बन्धः जातः । चतुस्त्रिंशः पाठः द्वितीयो गणः 'या' परस्मैपदम् वर्तमानकालः भूतकालः यामि यावः यामः अयाम् अयाव अयाम यासि याथः याथ अयाः अयातम् अयात याति यातः यान्ति अयात् अयाताम् अयान्-अयुः आज्ञार्थः विध्यर्थः यानि याव याम यायाम् यायाव यायाम याहि यातम् यांत यायाः यायातम् यायात यातु याताम् यान्तु यायात् यायाताम् यायुः एवं, पा, ख्या, स्ना इत्यादय आकारान्ता धातवः । 'स्वप्' परस्मैपदम् वर्तमानकालः भूतकालः स्वपिमि स्वपिवः स्वपिमः अस्वपम् अस्वपिव अस्वपिम स्वपिषि स्वपिथः स्वपिथ अस्वपी:-अस्वपः अस्वपितम् अस्वपित स्वपिति स्वपितः स्वपन्ति अस्वपीत्-अस्वपत् अस्वपिताम् अस्थपन् स्वप्याव स्वप्याम स्वप्याः आज्ञार्थः विध्यर्थः स्वपानि स्वपाव स्त्रपाम स्वप्याम् स्वपिहि स्वपितम् स्वपित स्वप्यातम् स्वप्यात स्वपितु स्वपिताम् स्वपन्तु स्वप्यात् स्वप्याताम् स्वप्युः एवं, श्वस्, अन् , जक्ष्, रुद्, च । 'जक्ष्' 'रुद्' इत्यनयो धात्वोः निम्नलिखितानि विशिष्टानि रूपाणि आलक्षयितव्यानि । जश् वर्त. तृ. पु. ब. व. जक्षति भूत. तृ. पु. ब. व. अजक्षुः आ. तृ. पु. ब. व. जक्षतु रुद् वर्त. ए. वचनानि रोदिमि, रोदिषि, रोदिति. भूत. ए. वचनानि अरोदम्, अरोदीः-अरोदः, अरोदीत्-अरोदत्. आ. प्र. पु. रोदानि, रोदाव, रोदाम. तृ. पु. ए. व. रोदितु. अस्' परस्मैपदम् आज्ञार्थः विध्यर्थः असानि असाव असाम स्याम् स्याव स्याम एवि स्तम् स्त स्याः स्यातम् स्यात अस्तु स्ताम् सन्तु स्यात् स्याताम् स्युः - 'आस्' आत्मनेपदम् वर्तमानकालः भूतकालः आसे आस्वहे आस्महे आसि आस्वहि आस्से आसाथे आध्ये आस्थाः आसाथाम् आस्ते आसाते आसते आस्त आसाताम् आस्महि आध्वम् आसत ५८ ऐः आज्ञार्थः विध्यर्थः आसै आसावहै आसामहै आसीय आसीवहि आसीमहि आस्स्व आसाथाम् आध्वम् आसीथाः आसीयाथाम् आसीध्वम् आस्ताम् आसाताम् आसताम् आसीत आसीयाताम् आसीरन् 'इ' परस्मैपदम् वर्तमानकालः भूतकालः एमि इव: इमः आयम् ऐव ऐम एपि इथ: इथ ऐतम् ऐत एति इतः यन्ति ऐत् ऐताम् आयन् आज्ञार्थः विध्यर्थः अयानि अयाव अयाम इयाम् इयाव इयाव इहि इतम् इत इयाः इयातम् इयात एतु इताम् यन्तु इयात् इयाताम् इयुः 'चक्ष् ' आत्मनेपदम् वर्तमानकालः भूतकालः चक्षे चवहे चक्ष्महे अचक्षि अचक्ष्वहि अचक्ष्महि चक्षे चक्षाथे चड्वे अचष्ठाः अचक्षाथाम् अचड्वम् चष्टे चक्षाते चक्षते अचष्ट अचक्षाताम् अचक्षत आज्ञार्थः विध्यर्यः चक्ष चक्षावहै चक्षामहे चक्षीय चक्षीवहि चक्षीमहि चक्ष्व चक्षीथाः चक्षीयाथाम् चक्षीध्वम् चष्टाम् चक्षाताम् चक्षताम् चक्षीत चक्षीयाताम् चक्षीरन् . चक्षाथाम् चड्वम् पञ्चत्रिंशः : पाठः देवस्याभिभवः एकदा स्वर्गपतिरिन्द्रो मरुतां सभायां भगवतः श्रीमहावीरस्य महिमानमस्तोत् । सर्वदेवानां मध्यादेकेन सुमनसा नाम मरुता तन्ना- भिनन्दितम् । यतः परगुणश्रवणेन सर्वःप्रीणातीति नास्ति नियमः। स देवस्तु शङ्कितहृदयो भगवतो जिनवरस्य बलतेजसी परीक्षितुं निश्चयमकरोत् । अमरराजमनापृच्छ्यैव च स तदर्थ गतः । तदा श्रीभगवान्महावीरो बाले वयसि वर्तते समवयोभिर्मित्रैश्च सह क्रीडति । तत्र गत्वा प्रथममसौ सुमना महासर्पस्य रूपं धारयित्वा समीपस्थं वृक्षं वेष्टित्वा स्थितः। तं महाफणिनं दृष्ट्वा सर्वे क्रीडारता बालाःप्रगुता भयव्याकुलमनसः। ततः सुमना देवस्तुल्यवयसो बालस्य रूपं धारयित्वा क्रीडायां निमग्नः। तस्यां क्रीडायां पराजिता बाला जयिनः शिरसि धृत्वा गच्छन्ति । असौ देवोऽप्यात्मानं पराजितं दर्शयित्वा भगवन्तं महा- वीरं शिरस्यधारयत्स्वं रूपं च सप्ततालोपमं कृत्वा गन्तुं प्रवृत्तः। तदृष्ट्वा भगवन्तं च नीयमानं प्रेक्ष्यान्ये बाला भीता इतस्ततः प्राद- वन् । तान्विषण्णां ज्ञात्वा श्रीभगवानात्मनस्तेजस्तस्मै देवाय दर्श- यितुं मनस्यकरोत् । एकेनैव मुष्टिना स कारुणिको भगवान्सुमनसः शिरसि प्राहरत् । तेनासौ निश्चेष्टो भूत्वा भूमावपतत् । कथं कथ- मप्युत्थायातीव लजितोऽसौ स्वस्थानं गतः । समासविवरणम् अमरराजः- अमराणाम् राजा अमरराजः । (ष. त.) स्वाध्यायः विग्रहं कुरुत- परगुणश्रवणेन, शहितहृदयः, समवयोभिः, महाफणिनम् , भयव्याकुलमनसः.
- एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत मरुताम् , भगवतः, अस्तीत् , महिमानम् , प्रीणाति, परीक्षितुम् , जयिनः, प्राद्रवन्. समासान् योजयत- सुमनसा क्रीडायां निमनाः बालाः दृष्टाः । देवस्य सप्ततालोपमात् रूपात् भीताः बालाः प्राद्रवन् । अतुला शक्तिः यस्य सः महाबीरः सुमनसं पराजयत । षटत्रिंशः पाठः सान्तः पुंलिङ्गः 'सुमनस्' शब्दः विभक्तिः द्विव. प्रथमा सुमना: सुमनसौ सुमनसः द्वितीया सुमनसम् सुमनसौ सुमनसः तृतीया सुमनसा सुमनोभ्याम् सुमनोभिः चतुर्थी सुमनसे सुमनोभ्याम् सुमनोभ्यः पञ्चमी सुमनसः सुमनोभ्याम् सुमनोभ्यः षष्ठी सुमनसः सुमनसोः सुमनसाम् सप्तमी सुमनसि सुमनसोः सुमनस्सु सम्बोधनम् सुमनः सुमनसौ सुमनसः सान्तः नपुंसकलिङ्गः 'तेजस्' शब्दः प्रथमा तेजः तेजसी तेजांसि द्वितीया तेजः तेजसी तेजसि चक्षुषी सम्बोधनम् तेजः तेजसी तेजांसि शेषं पुंल्लिङ्गवत् । एवं वयस् , शिरस् , ओजस् इत्यादयः सान्तः नपुंसकलिङ्ग: ' चक्षुस्' शब्द: प्र. द्वि. सम्बो. चक्षुः चक्षूषि तृतीया चक्षुषा चक्षुाम् चक्षुभिः चतुर्थी चक्षुषे चक्षुाम् चक्षुर्म्यः पञ्चमी चक्षुषः चक्षुाम् चक्षुर्व्यः षष्ठी चक्षुषः चक्षुषोः चक्षुषाम् सप्तमी चक्षुषि चक्षुषोः चक्षुःषु एवं धनुस् , हविस् , आयुस् इत्यादयः द्वितीयो गणः स्तु परस्मैपदम् वर्तमानकालः आत्मनेपदम् स्तुमः स्तुवे स्तुवहे स्तुमहे स्तवीमि. स्तुवि स्तुवीमः स्तुवीवहे स्तुवीमहे स्तुथ स्तुषे स्तुवाथे स्तुवे स्तवीषि स्तुवीथः स्तुवीथ स्तुवीथ स्तुवीषे स्तुवीचे स्तुवन्ति स्तुते स्तुवाते स्तुवते स्तवीति स्तुवीतः स्तुवीते भूतकालः अस्तवम् अस्तुव अस्तुम अस्तुवि अस्तुवहि अस्तुमहि अस्तुवीव अस्तुवीम अस्तुवीवहि अस्तुवीमहि ६२ स्तौमि स्तुवः स्तौषि स्तुथः (स्तौति स्तुतः RAN
स्तवाम स्तवै
अस्तौः
अस्तुतम् अस्तुत अस्तुथाः अस्तुवाथाम् अस्तुध्वम्
अस्तवीः अस्तुवीतम् अस्तुवीत अस्तुवीथाः अस्तुवीध्वम्
अस्तौत् अस्तुताम् अस्तुवन् अस्तुत अस्तुवाताम् अस्तुवत
अस्तवीत् अस्तुबीताम् अस्तुवीत
आशार्थः
स्तवानि स्तवाम
स्तवावहै स्तवामहे
(स्तुति स्तुतम् स्तुत स्तुष्व स्तुवाथाम् स्तुध्वम्
स्तुवीहि स्तुवीतम् स्तुवीत स्तुवीष्य
स्तुवीध्वम्
(स्तीतु
स्तुताम्
स्तुवन्तु स्तुताम् स्तुवाताम् स्तुवताम्
स्तवीतु स्तुवीताम् स्तुवीताम्
विध्यर्थः
स्तुयाम् स्तुयाव स्तुयाम स्तुवीय स्तुवीवहि स्तुवीमहि
स्तुवीयाम् स्तुवीयाव स्तुवीयाम
इ
.
इ
.
एवं रू परस्मैपद एव ।
सप्तत्रिंशः पाठः
रावणाधिक्षेपः
तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः।
आर्ता दीनस्वरा दीनं प्रत्यभाषत तं शनैः ॥
निवर्तय मनो मत्तः स्वजने प्रीयतां मनः ।
न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् ॥
साधु धर्ममवक्षस्व साधु साधुवतं चर। यथा तव तथान्येषां रक्ष्या दारा निशाचर ॥ इह सन्तो न वा सन्ति सतो वा नानुवर्तसे । यथा हि विपरीता ते बुद्धिराचारवर्जिता ॥ अकृतात्मानमासाद्य राजानमनये रतम् । समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ तथैव त्वां समासाद्य लङ्का रत्नौघसङ्कला। अपराधात्तवैकस्य न चिराद्विनशिष्यति । शक्या लोभयितुं नाहमैश्वर्येण धनेनं वा। अनन्या राघवेणा भास्करेण यथा प्रभा ।। साधु रावण रामेण मां समानय दुःखिताम् । प्रसादयस्व त्वं चैनं शरणागतवत्सलम् ॥ एवं ते च भवेत्स्वस्ति सम्प्रदाय रघूत्तमे। अन्यथा त्वं हि कुर्वाणः परां प्राप्स्यसि चापदम् ॥ रामायणे स्वाध्यायः विग्रहं कुरुत- दीनस्वरा, पापकृत्, निशाचर, रत्नौघसङ्खला, रघूत्तमे. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- रक्षसः, निवर्तय, मनः, प्रीयताम्, अवेक्षस्व, विनशिष्यति, सम्प्रदाय. पूर्वकालवाचकानां स्थाने क्रियापदानि योजयत- रावणस्य वचनं श्रुत्वा सीता प्रत्यभाषत । सततालोपमं रूपं कृत्वा सुमना गन्तुं प्रवृत्तः । तान्विषण्णाञ् ज्ञात्वा देवः सुमनसेऽकुप्यत् । आपदं प्राप्य त्वं विनश्यसि । ६४ अष्टात्रिंशः पाठः शून्यहृदया शकुन्तला RAISE (नेपथ्ये) आः अतिथिपरिभाविनि, tamil विचिन्तयन्ती यमनन्यमानसा तपोधनं घेत्सि न मामुपस्थितम् । स्मरिष्यति त्वा न स बोधितोऽपि सन् 330 AAgfanकथां प्रमत्तः प्रथमं कृताभिव ॥ प्रियंवदा-हा धिक् । हा धिक् । अप्रियमेव संवृत्तम् । कस्मिन्नपि पूजाहेऽपराद्धा शून्यहृदया शकुन्तला ( पुरोऽव- लोक्य ) न खलु यस्मिन्कस्मिन्नपि । एष दुर्वासाः सुलभकोपी महर्षिः। तथा शप्त्वा वेगबलोत्फुल्लया 37 दुर्वारया गत्या प्रतिनिवृत्तः। अनसूया-कोऽन्यो 'हुतवहाहग्धुं प्रभवति । गच्छ । पादयोः प्रणम्य निवर्तयनं यावदहम?दकमुपकल्पयामि। ५ MIN प्रियंवदा-तथा ( इति निष्क्रान्ता ) अनसूया-(पदान्तरे स्खालेतं निरूप्य ) अहो, आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम् । (प्रविश्य) प्रियंवदा-प्रकृतिवक्रः सः कस्यानुनयं प्रतिगृह्णाति । किमपि पुनः सानुक्रोशः कृतः। अनसूया-तस्मिन्बह्वेतदपि । कथय प्रियंवदा-यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । भग- वन् । प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहित- जनस्य भगवतैकोऽपराधो मर्षितव्य इति । अनसूया-ततस्ततः प्रियंवदा-ततो न मे वचनमन्यथा भवितुमर्हति । किन्त्वभि- शानाभरप्रादर्शनेन शापो निवर्तिष्यत इति मन्त्रय- माण एवान्तर्हितः। अनसूया-शक्यमिदानीमाश्वासयितुम् । अस्ति तेन राजर्षिणा सम्प्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीय- मिति स्वयं पिनद्धम् । तस्मिन्स्वाधीनोपाया शकु- न्तला भविष्यति। प्रियंवदा-सखि, एहि । देवकार्य तावनिर्वतयावः । ( इति परिक्रामतः) -प्रियंवदा-(विलोक्य ) अनसूये, पश्य तावत्। वामहस्ते वदन- Mohanian मुपदधानालिखितेव प्रियसखी । भर्तृगतया चिन्तया- त्मानमपि नैषा विभावयति । किं पुनरागन्तुकम् । hom अनसूया-प्रियंवदे, द्वयोरेव ननु नौ मुख एष वृत्तान्तस्तिष्ठतु। रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी। प्रियंवदा--को नामोष्णोदकेन नवमल्लिका सिञ्चति । 'अभिज्ञानशाकुन्तले ६६ । स्वाध्यायः विग्रहं कुरुत- शून्यहृदया, अनन्यमानसा, तपोधनम् , अर्घोदकम्, प्रकृतिवक्रः, सानुक्रोशः, राजर्षिणा, भर्तृगतया. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- वेसि, दुर्वासाः, प्रतिगृह्णाति, भगवता, पिनद्धम्. वाक्यानि रचयत- (सुमनस् ) नाम देवः ( महावीर ) अपराद्धः । रावणं हन्तुम् (राम) कः अन्यः (प्र+भू ) ( शकुन्तला ) अनवधानेन (दुर्वासस् ) तथा क्रुद्धः यथा तां सहसैवाशपत् । सीतायाः अग्निदिव्यमपि (लोकप्रवाद ) अन्यथा (कृ) न प्रभवति । देवाः अपि ( अस्मद् ) धर्षयितुं न ( शक् ) किं पुनः ( राम ) इति रावणः सीता ( वद् ) नवत्रिंशः पाठः भगवाञ् जाबालिः आलोक्य चाहमचिन्तयम् । अहो प्रभावस्तपसाम् । इयमस्य शान्तापि मूर्तिरुत्तप्तकनकावदाता परिस्फुरन्ती सौदामिनीव चक्षुषः प्रतिहन्ति तेजांसि। सततमुदासीनापि भयमिवोपजनयति प्रथमो- पगतस्य । नित्यमसहिष्णु तपस्विनां प्रतनुतपसामपि तेजः प्रकृत्या दुःसहं भवति । किमुत दर्शनानि । धन्यमिदमाश्रमपदमयमधिपति- यंत्र । एष प्रवाहः करुणारसस्य । सन्तरणसेतुः संसारसिन्धोः । आधारः क्षमाम्भसाम् । परशुस्तृष्णालतागहनस्य । सागरः सन्तो- षामृतस्य । उपदेष्टा सिद्धिमार्गस्य । अनवकाशो विषयाणाम् । अनभिमुखः सुखानाम् । अस्य भगवतः प्रसादादेवोपशान्तवैरमपग- ६७ तमत्सरं तपोवनम् । अहो प्रभावो महात्मनाम् । अत्र हि शाश्वतिक- मपहाय विरोधमुपशान्तान्तरात्मानः पशुपक्षिणोऽपि तपोवनवसति- सुखमनुभवन्ति । कादम्बर्याम् द्वितीयो गणः हन्' परस्मैपदम् वर्तमानकालः भूतकालः हन्मि हन्त्रः अहनम् अहन्व अहन्म हंसि हथः हथ अहन् अहतम् अहत हन्ति हतः घ्नन्ति अहन् अहताम् अघ्नन् आज्ञार्थः विध्यर्थः हनानि हनाव हनाम हन्याम् हन्याव हन्याम जहि हतम् हत हन्याः हन्यातम् हन्यात हन्तु हताम् घ्नन्तु हन्यात् हन्याताम् हन्युः समासविवरणम् संसारसिन्धुः संसारः सिन्धुः इव । कर्मधारयः संसारः एव सिन्धुः। सन्तोषामृतम् = सन्तोषः अमृतम् इव । कर्मधारयः सन्तोपः एव अमृतम् । स्वाध्यायः विग्रहं कुरुत उत्तप्तकनकावदाता, प्रतनुतपसाम् , सन्तरणसेतुः, अनवकाशः, उपशान्त- वैरम्, तपोवनवसतिसुखम्. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- वपसाम्, इयम्, चक्षुषः, प्रतिहन्ति, तपस्विनाम् , उपदेष्टा, महात्मनाम्, } : ६८ चत्वारिंशः पाठः । कृष्णस्तुतिः स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेधं च परं च धाम त्वया ततं विश्वमनंतरूप ॥ वायुर्यमोऽग्निवरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्यः पुनश्च भूयोऽपि नमो नमस्ते ॥ नमः पुरस्तादथ पृष्ठतस्ते नमोस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्व समाप्नोषि ततोऽसि सर्वः॥ पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्तमोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभावः॥ तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोदुम् ॥ श्रीमद्भगवद्गीतासु स्वाध्यायः वियुज्य पदानि लिखत- लोकत्रयेऽप्यप्रतिमप्रभावः, पितेव, प्रियायाहसि. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- रक्षांसि, धाम, समाप्नोषि, ततम्, ईडयम्, सोढुम्. वाक्यानि रचयत- स्थाने खलु ( दमयन्ती) नलो ( वृत) अस्थाने खलु ( दुर्वासस् ) कोपः । सीता (राम) परं (निधानम् ) महावीरः ( सुमनस् ) अपराध क्षन्तुम् ( अ ) - एकचत्वारिंशः पाठः शशकरक्षकः शशाङ्क: कदाचिद्वर्षास्वपि वृष्टेरभावात्तुषार्त गजयूथं यूथपतिमाह-नाथ, कोऽभ्युपायोऽस्माकं जीवनाय । नास्त्यत्र क्षुद्रजन्तूनां निमजनस्था- नम् । वयं तु निमजनाभावादन्धा इव । क्व यामः । किं कुर्मः । ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु निमजनार्थमागच्छन्तो गजाः पादाहृतिभिस्तत्तीरावस्थि- तान् क्षुद्रशशकान्क्षुन्दन्ति । अनन्तरं शिलीमुखी नाम शशको चि- न्तयत्-अनेन गजयूथेन निमजनोत्सुकेन प्रत्यहमत्रागन्तव्यम् । अतो विनश्यत्यस्मत्कुलम् । ततो विजयो नाम वृद्धशशकोऽभ्यदधात्मा विभीत । मयात्र प्रतीकारः कर्तव्यः । ततोऽसौ प्रतिज्ञाय चलितः। मार्गे च तेनालो- चितम्-कथमहं गजयथसमीपे हस्तिराजमनुयुञ्जीय । अतोऽहं पर्वतशिखरमारुह्य यूथनाथमभिदधामि । तथानुष्ठिते यूथनाथोऽब्रवीत्-कस्त्वं । कुतः समायातः। स ब्रूते-शशकोऽहम् । भगवांश्चन्द्रमा मां भवदन्तिकं प्राहिणोत् । यूथपतिराह-कार्यमु च्यताम् । विजयो ब्रूते उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा । संदेवावध्यभावेन यथार्थस्य हि वाचकः ॥ तदहं भगवतो चन्द्रमस आशया ब्रवीमि । शृणु । यदेताञ् चन्द्रसरो- रक्षकाञ् शशकांस्त्वमतृणेट तन्न युक्तं कृतम् । यतस्ते शशकाश्चिर- मस्माकं रक्षिता अत एव मे शशाङ्क इति प्रसिद्धिः । एकमुक्तवति दूते यूथपतिर्भयादिदमाह-इदमशानतः कृतम् । पुनर्न गमिष्यामि । दूतोऽब्रवीत्-यद्येवं तदत्र सरसि कोपात्कम्पमानं भगवन्तं शशिनं प्रणम्य प्रसाद्य गच्छ । ततो रात्रौ यूथपतिं नीत्वा जले चञ्चलं चन्द्रविम्बमदर्शयत् । यूथपतिश्च प्रणामं कृत्वावदत्- देव, अज्ञानान्मयापराधः कृतः । ततः क्षम्यताम् । नैवं वारान्तरं विदधामि । इत्युक्त्वा प्रस्थितः पञ्चतन्त्र - स्वाध्यायः वियुज्य पदानि लिखत- निमजनाभावादन्धा इव, भगवांश्चन्द्रमा माम् , स्त्वम् , अज्ञानान्मयापराधः. चन्द्रसरोरक्षकांञ् शशकां- विग्रहं कुरुत- - निमजनस्थानम् , हस्तिराजः, तत्तीरावस्थितान् , निमजनोत्सुकेन. समासान् योजयत- वनस्य राजा अन्येन हतं सत्त्वं न कदापि भक्षयति । गजयूथं चन्द्रमसः भयेन अन्यं तडागं गतम् । विषयः एव कान्तारम् महात्मना छिद्यते । कासारस्य तटे स्थिताः शशकाः करिभिः क्षुद्यन्ते ।
द्वाचत्वारिंशः पाठः सप्तमो गणः परस्मैपदम् आत्मनेपदम् वर्तमानकालः क्षुणद्मि क्षुन्द्वः क्षुन्नः क्षुन्दे क्षुन्दुहे शुन्हे क्षुणसि क्षुन्थः क्षुन्थ क्षुन्से क्षुन्दाथे क्षुन्छे क्षुणत्ति क्षुन्तः क्षुन्दन्ति क्षुन्ते क्षुन्दाते क्षुन्दते भूतकालः अक्षुणदम् अक्षुन्द्व अक्षुन्न अक्षुन्दि अक्षुन्द्वहि अक्षुन्नहि अक्षुणः-त्-द् अक्षुन्तम् अक्षुन्त अक्षुन्थाः अक्षुन्दाथाम् अक्षुन्दम् अक्षुणत्-द् अक्षुन्ताम् अक्षुन्दन् अक्षुन्त अक्षुन्दाताम् अक्षुन्दत आज्ञार्थः क्षुणदानि क्षुणदाव क्षुणदाम क्षुणदै क्षुणदावहै क्षुणदामहै क्षुद्धि क्षुन्तम् क्षुन्त क्षुन्स्त्र क्षुन्दाथाम् क्षुन्द्वम् क्षुणत्तु क्षुन्ताम् क्षुन्दन्तु क्षुन्ताम् क्षुन्दाताम् क्षुन्दताम् विध्यर्यः क्षुन्धाम् क्षुन्धाव क्षुन्धाम क्षुन्दीय क्षुन्दीवहि क्षुन्दीमहि इ. इ. एवं भिद् , खिद् , छिद् इत्यादयः । युज परस्मैपदम् आत्मनेपदम् वर्तमानकालः युनज्मि युज्वः युज्म युञ्जे युञ्वहे युमहे ७२ युनक्षि युतः युद्धे युञ्जाथे युङ्गध्ये युनक्ति युतः युञ्जन्ति युङ्क्ते युञ्जाते युञ्जते भूतकालः अयुनजम् अयुव अयुझम अयुजि अयुज्यहि अयुज्महि अयुनक्-ग् अयुङ्क्तम् अयुक्त अयुङ्कथाः अयुञ्जाथाम् अयुङ्वम् अयुनक्-ग् अयुताम् अयुञ्जन् अयुत अयुञ्जाताम् अयुञ्जत আঙ্গার্থঃ युनजानि युनजाव युनजाम युनजै युनजावहै युनजामहै युधि युङ्क्तम् युक्त युव युञ्जाथाम् युङ्ग्ध्वम् युनक्तु युङ्क्ताम् युञ्जन्तु युङ्क्ताम् युञ्जाताम् युञ्जताम् विध्यर्थः युद्भ्याम् युञ्ज्याव युद्ध्याम युञ्जीव युञ्जीवहि युअीमहि इ० एवं भुज् । तृह ' परस्मैपदम् वर्तमानकाला तृणेह्मि तृतः तूंम अतृणहम् तृणेक्षि तृण्ढः तृण्ड अतृणेट्-ड् तृणेदि तृण्डः तूंहन्ति अतृणेट्-ड् आज्ञार्थः तृणहानि तृणहाव तृणहाम तुंह्याम् तृण्डि तृण्ढम् तृण्ड तुंह्याः तृणेदु तृण्ढाम् तुंहन्तु तूंद्यात् भूतकालः अतुंब अतुंझ अतृण्ढम् अतृण्ड अतृण्ढाम् अतुंहन् विध्यर्थः तूंह्याव तूंह्याम तूंह्यातम् तुंह्यात तुंह्याताम् तूंयुः ७३ त्रयश्चत्वारिंशः पाठः वैशम्पायन आत्मानं निर्भर्सयते अनुपजातपक्षतया नातिस्थिरचरणसंचारस्य मुहुर्मुहुरधोमुखे- नापततो ममाभवन्मनसि । अतिकष्टासु दशास्वपि जीवितनिरपेक्षा न खलु भवन्ति जगति प्राणिनां वृत्तयः। नास्ति जीवितादन्यदभि- मततरमिह जगति जन्तूनाम् । एवमुपरतेऽपि ताते यदहमविकले- न्द्रियः पुनरेव प्राणिमि । धिङ्मामकरुणमतिनिष्ठुरमकृतज्ञम् । खलं हि खलु मे हृदयम् । यतो लोकान्तरमुपगतायामम्बायां नियम्य शोका- वेगमाप्रसवदिवसात्परिणतवयसापि तातेन तेस्तैरुपायैर्यदहं परि- पालितस्तत्सर्वमेकपदे मया विस्मृतम् । अतिकपणाः खल्वमी प्राणा यदुपकारिणमपि तातमद्यापि गच्छन्तं नानुगच्छन्ति । सर्वथा न कंचिन्न खलीकरोति जीविततृष्णा यदीगवस्थमपि मामायासयति जलाभिलाषः। अद्यापि दुरत एव सरस्तीरम् । तथा हि जलदेवता- नूपुररवानुकारि दूरेऽद्यापि कलहंसविरुतम् । अस्फुटानि श्रूयन्ते सारसरसितानि । सीदति मे हृदयम् । अन्धकारतामुपयाति चक्षुः। अपि नाम खलो विधिरनिच्छतोऽपि मे मरणमयैवोपपादयेत् । कादम्बर्याम् स्वाध्यायः विग्रहं कुरुत- - अविकलेन्द्रियः, अकरुणम्, लोकान्तरम्, ईदृगवस्थम, जलदेवतानू- रपुरवानुकारि. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- मनसि, प्राणिनाम् , प्राणिमि, परिणतवयसा, अमी, उपयाति, उपपादयेत्. युक्तानि अव्ययानि योजयत- गजवञ्चकं शशकम् । मरणम् एतद् दुःखोपहतं जीवितम् । - - - धन्य:. जाबालेः आश्रमः। वृद्धशशकः गजयूथप्रतीकारे नियुक्तः । रामभद्रः इदं वनं पुनरपि अलङ्कुर्यात् । खलु, स्थाने, धिक्, अपि नाम, वरम्-न. चतुश्चत्वारिंशः पाठः अतिलोभो न कर्तव्यः अस्ति कस्मिंश्चिदधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिकर्म सदैव निष्फलं भवति । अथैकस्मिन्दिने स ब्राह्मण उष्ण- कालावसाने धर्मार्तः स्वक्षेत्रमध्ये वृक्षच्छायायां प्रसुप्त आसीत् । उत्थितश्च नातिदूरे वल्मीकोपरि प्रसारितं बृहत्फटायुक्तं भीषणं भुजङ्गमं दृष्ट्वाविभेदचिन्तयश्च-नूनमेषा क्षेत्रदेवता मया कदाचिदपि न पूजिता । न मे कृषिकर्म विफलीभवति । तदस्या अहं पूजामद्य विदधामि । इत्यवधार्य कुतोऽपि क्षीरमानीय सः शरावमपिपः।" वल्मीकान्तिके शरावं न्यदधादभ्यदधाच-भोः क्षेत्रपाल, मयता- वन्तं कालं न शातं यत्त्वमत्र वससि । तेन पूजा न कृता । तत्साम्प्रतं क्षमस्व । विधेहि मे कल्याणमिति । एवमुक्त्वा दुग्धं च निवेद्य गृहमजिहीत । अथ प्रातर्यावदागत्य पश्यति तावद्दीनारमेकं शरावे दृष्टवान् । एवं च प्रतिदिनमेकाकी समागत्य तस्मै क्षीरं ददाति । एकैकं च दीनारं गृहाति । अथैकस्मिान्दवसे ब्राह्मणो वल्मीके क्षीरनयनाय पुत्रं न्ययुक्त ग्रामान्तरमजिहीत च । पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर्गृहं समायातः। दिनान्तरे तत्र गत्वा दीनारमेकं च दृष्ट्वा गृहीत्वा च चिन्तितवान्-नूनं सौवर्णदीनारपूर्णोऽयं वल्मीकः । तदेनं हत्वा सर्वमेकवारं ग्रहीष्यामि । इत्येवं सम्प्रधार्यान्येााह्मणपुत्रेण सर्पो लगुडेन शिरसि ताडितः । ततः स सर्पः कथमपि देवादमुक्तजीवित एव रोषात्तमेव तीवविषदशनैस्तथादशद्यथा ब्राह्मणपुत्रः सद्यः पश्चत्वं गतः। अथ द्वितीयदिने तस्य पिता समायातः । स्वजनेभ्यः सुत- विनाशकारणं श्रुत्वा स आह-यो भूतान्नानुगृहाति तस्य भूतार्था नश्यन्त्येव । पुनरपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तारस्वरेण सर्पमस्तोत् । तदा सर्पश्चिराद्ब्राह्मणमभ्यदधात्-त्वं लोभादत्रागतः पुत्रशोकमपि विहाय । एवं कुर्वन्न जिह्वेषि किम् । अतः परं तव मम च प्रीतिौविता । तदेनं वल्मकि जहामि । इत्युक्त्वा बहुमूल्यं हीरकमणिं तस्मा अददात्क्षेत्रं चाजहात् । ब्राह्मणोऽपि मणिं गृहीत्वा दुःखितो गृहमागतः। पञ्चतन्त्रे समासविवरणम् , प्रतिदिनम् = दिने दिने प्रतिदिनम् । अव्ययीभावः स्वाध्यायः प्रयोगान्तरं कुरुत- एषा क्षेत्रदेवता मया न पूजिता । हरिदत्तः शरावे दीनारं दृष्टवान् । ब्राह्मणपुत्रेण सो लगुडेन शिरसि ताडितः । ब्राह्मणः सर्प तारस्वरैणास्तीत् । ब्राह्मणः प्रतिदिनमेकैकं दीनारं गृह्णाति । अस्फुटानि श्रूयन्ते सारसरसितानि मया । गतवयसापि तातेन तैस्तैरुपायैरहं परिपालितः ।
पञ्चचत्वारिंशः पाठः तृतीयो गणः धा परस्मैपदम् आत्मनेपदम् वर्तमानकालः दध्वः दध्मः दधामि. दधासि दधाति धत्थः धत्थ दधति दधे धत्से धत्ते दध्वहे दधाते दधाते दध्महे धद्ध्वे दधते धत्तः अदधाम् अदधाः भूतकालः अध्य अदध्म अदधि अदध्वहि अदध्महि अधत्तम् अधत्त अधत्थाः अदधाथाम् अधद्धम् अधत्ताम् अदधुः अधत्त अदधाताम् अद्धत आज्ञार्थः अदधात् दधानि धेहि दधाव दधाम दधै दधावहै दधामहै धत्तम् धत्त धत्स्व दधाथाम् धद्ध्वम् धत्ताम् दधतु धत्ताम् दधाताम् दधताम् विध्यर्थः दधातु दध्याम् दध्याः दध्याव ध्याम दधीय दधीवहि दधीमहि दध्यातम् दध्यात दधीथाः दधीयाथाम् दधीध्वम् दध्याताम् दध्युः दधीत दधीयाताम् दधीरन् एवं दा। ध्यात् : 'हा' ( त्यागे ) परस्मैपदम् वर्तमानकाला भूतकाल जहामि जहिवः जहिमः अजहाम् अजहिव अजहिम जहीवः जहीमः अजहीव अजहीम जहासि जहिथः जहिथ अजहाः अजहितम् अजहित जहीथः जहीथ अजहीतम् अजहीत जहाति जहितः जहति अजहात् अजहिताम् अजहुः जहीतः अजहीताम् आज्ञार्थः विध्यर्थः जहानि जहाव जहाम जह्याम् जह्याव जह्याम जहाहि, जहिहि जहितम् जहित जह्याः जह्यातम् जह्यात जहीहि जहीतम् जहीत जहातु जहिताम् जहतु जह्यात् जह्याताम् जाः जहीताम् हा' (गमने ) आत्मनेपदम् वर्तमानकालः भूतकालः जिहे जिहीवहे जिहीमहे अजिहि अजिहीवहि अजिहीमहि जिहीषे जिहाथे जिहीध्ये अजिहीथाः अजिहाथाम् अजिहीध्वम् जिहीते जिहाते जिहते अजिहीत अजिहाताम् अजिहत आज्ञार्थः विध्यर्थः जिहै जिहावहै जिहामहै जिहीय जिहीवहि जिहीमहि जिहीष्य जिहाथाम् जिहीध्वम् जिहीथाः जिहीयाथाम् जिहीध्वम् जिहीताम् जिहाताम् जिहताम् जिहीत जिहीयाताम् जिहीरन् 'भी' परस्मैपदम् वर्तमानकालः भूतकाल: बिभमि बिभिवः बिभिमः अबिभयम् अबिभिव अबिभिम बिभीवः विभीमः अबिभाव अबिभीम बिभेषि बिभिथः बिमिथ अबिभेः अबिभितम् अबिभित बिभीथः बिभीथ अबिभीतम् अबिभीत बिभेति बिभितः बिभ्यति अबिभेत् अबिभिताम् अबिभयुः बिभीतः अबिभीताम् आज्ञार्थः विध्यर्थः बिभयानि बिभयाव बिभयाम बिभियाम् बिभियाव बिभियाम बिभिहि बिभितम् बिभित बिभीयाम् बिभीयाव बिभीयाम बिभीहि बिभीतम् बिभीत विभेतु बिभिताम् बिभ्यतु बिभीताम् 'ही' परस्मैपदम् वर्तमानकालः भूतकाल जिहेमि जिह्रीवः जिहीमः अजिह्वयम् अजिह्रीव अजिहीम जिहेषि जिहीथः जिहीथ अजिहेः अजिह्रीतम् अजिहीत जिहति जिहीतः जिह्रियति अजिहेत् अजिहीताम् अजिहयुः आज्ञार्थः विध्यर्थः जिहयाणि जिह्रयाव जिह्रयाम जिहीयाम् जिहीयाव जिहीयाम जिह्रीहि जिह्रीतम् जिहीत इ०. जिहतु जिह्वीताम् जिहियतु :
षट्चत्वारिंशः पाठः जयद्रथवधप्रतिज्ञा (प्रविश्य ) प्रतीहारी-( सोद्वेगमुपसृत्य ) जयतु जयतु महाराजः। महाराज, एषा खलु जामातुः सिन्धुराजस्य माता दुःशला च प्रतीहारभूम्यां तिष्ठति। दुर्योधनः-(स्वगतम् ) किं जयद्रथमाता दुःशला चेति । कश्चि- दभिमन्युवधकुपितैः पाण्डुपुत्रैर्न किश्चिदत्याहित. मावेष्टितं भवेत् । (प्रकाशम् ) गच्छ प्रवेशय शीघ्रम् । प्रतिहारी-यन्महाराज आशापयति । ( इति निष्क्रान्ता ) ( ततः प्रविशति सम्भ्रान्ता जयद्रथमाता दुःशला च) उभे-( सासं दुर्योधनस्य पादयोः पततः) माता-परित्रायतां परित्रायतां कुरुनाथः । दुःशला--(रोदिति) राजा-( ससम्भ्रममुत्थाय ) अम्ब, समाश्वसिहि । किमत्याहितम् । अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य । माता-जात, कुतः कुशलम्। राजा-कथमिव । माता-(साशङ्कम् ) अद्य खलु पुत्रवधक्रुद्धेन गाण्डीविनाऽनस्त- मिते दिवसनाथे तस्य वधः प्रतिज्ञातः। राजा-(सस्मितमात्मगतम्) इदं तदश्रुकारणमम्बाया दुःशलायाश्च। पुत्रशोकसन्तप्तस्य किरीटिनः प्रलपितैरेवमवस्था । अहो मुग्धत्वमबलानाम् । (प्रकाशम् ) अम्ब, कृतं विषादेन । वत्से दुःशले, अलमभुपातेन । कुतश्चायमस्य धनअयस्य प्रभावो दुर्योधनबाहुरक्षितस्य महाराजजयद्रथस्य नाश- मुत्पादयितुम् । माता-असमानप्रतिशस्यात्मवधोऽस्य प्रतिज्ञातः ।
राजा-यद्येवमानन्दस्थानेऽपि ते विषादः । मातः, शक्तिरति धनञ्जयस्यान्यस्य वा कुरुशतरक्षितस्य महाविक्रमस्य नामापि ग्रहीतुं ते तनयस्य । भानुमती -आर्यपुत्र, यद्यप्येवं तथापि कृतप्रतिको धनञ्जयो निदानं खलु शङ्कायाः। माता-जाते, साधु कालोचितं त्वया मन्त्रितम् । राजा-आ, ममापि नाम दुर्योधनस्य शङ्कास्थानं पाण्डवाः । कः कोऽत्र भोः। जैत्रं मे रथमुपपादय तावत् । यावदहमपि तस्य प्रगल्भपाण्डवस्य मरणमुपपादयामि । (इति निष्क्रान्ताः सर्वे) वेणीसंहारे स्वाध्यायः विग्रहं कुरुत- महाराजा, अभिमन्युवधकुपितैः, अनस्तमिते, दुर्योधनबाहुरक्षितस्य, असमाप्तप्रतिशस्य, आत्मवधः, कालोचितम्. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- जामातुः, रोदिति, समाश्वसिहि, गाण्डीविना, किरीटिनः, अम्ब, मातः. सप्तचत्वारिंशः पाठः सफल: प्राणत्यागः एकस्मिन्नगरे कोऽपि विप्रो महापण्डितः परं पूर्वजन्मयोगेन चौरो वर्तते । स तस्मिन्पुरेऽन्यदेशादागतांश्चतुरो विप्रान् बहूनि वस्तूनि विक्रीणानान् दृष्ट्वा चिन्तितवान्–अहो केनोपायेनैतेषां धनमा- नोमि । इति विचिन्त्य तेषां पुरोऽनेकानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पस्तेषां मनसि विश्वासमुत्पाद्य सेवां कुर्वन्नास्ते । अथवा साध्विदमुच्यते- ६ असती भवति सलज्जा क्षारं नीरं च शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥ अथ तस्मिन्सेवां विदधति तैर्विप्रैः सर्ववस्तूनि विक्रीय बहु- मूल्यानि रत्नानि कीतानि । ततस्तानि जङ्घामध्ये तत्समक्षं प्रक्षिप्य स्वदेशं प्रति गन्तुमुद्यमो विहितः। ततः स धूर्तस्ताम्वि- प्रान्गतुमुद्यतान्प्रेक्ष्य चिन्ताव्याकुलितमनाः सातः। अहो धनमतन्न किंचिन्मम चटितम् । अथैभिः सह यामि । पथि क्वापि विषं दत्त्वैता- निहत्य सर्वरत्नानि गृणामि । इति विचिन्त्य तेषामग्रे सकरुणं विलपन्निदमाह-भो मित्राणि, यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः। तन्मे मनो भवद्भिः सह स्नेहपाशेन बद्धं भवद्विरहनाम्नैव तथा व्याकुलं सातं यथा धृति कापि न धत्ते । यूयमनुग्रहं विधाय सहायभूतं मामपि सहैव नयत । तद्वचः श्रुत्वा ते करुणाचित्ता- स्तेन सममेव स्वदेशं प्रति प्रस्थिताः। अथाध्वनि तेषां पञ्चानामपि पल्लीपुरमध्ये व्रजतां ध्वाङ्क्षाः कथयितुमारब्धाः-रे रे किराताः, धावत धावत । सपादलक्ष- धनिनो यान्ति । एतानिहत्य धनं नयत । ततः किरातर्ध्वाक्ष- वचनमाकर्ण्य सत्वरं गत्वा ते विप्रा लगुडप्रहारैर्जर्जरीकृत्य वस्त्राणि मोचयित्वा विलोकिताः। परं धनं किंचिन्न लब्धम् । तदा ते किराता अभ्यदधुः-भोः पान्थाः, पुरा कदापि ध्वाङ्गवचनमनृतं नासीत् । ततो भवतां सन्निधौ धनं कापि विद्यते । तदर्पयत । अन्यथा सर्वेषा- मपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः । AAMI ८२ S(68 . तदा तेषामीशं वचनमाकर्ण्य चौरविप्रेण मनसि चिन्तितम्- यदेतेषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति तदा मामपि हनिष्यन्ति । ततोऽहं पूर्वमेवात्मानमरलं समप्यतान्मुश्चामि । उक्तंच- मृत्योर्बिभेषि किं बाल न स भीतं विमुञ्चति । अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ इति निश्चित्याभिहितम्-भोः किराताः, यद्येवं ततो मां पूर्व निहत्य विलोकयत । ततस्तैस्तथानुष्ठिते तं धनरहितमालोक्यापरे चत्वारोऽपि मुक्ताः। पञ्चतन्त्रे स्वाध्यायः वियुज्य पदानि लिखत- अन्यदेशादागतांश्चतुरो विप्रान् , कुर्वन्नास्ते, जयंस्तेषाम् , समप्यतान् . समासान् मधुरैः वचनैः सः विश्वासम् उदपादयत् । स्नेहपाशेन बद्धम् मां मा जिहीत । वणिजः देशे देशे अटन्ति । जवायां प्रक्षिप्तम् धनं चौराः न अलभन्त । किरातभ्यः भीताः विप्राः चौरविप्रेण रक्षिताः । योजयत- - गणः धातुः अष्टाचत्वारिंशः पाठः वर्तमानकालवाचकानि वर्तमानकालः वर्तमानकालवाचकं धातुसाधितम् परस्मैपदम् आत्मनेपदम् परस्मैपदम् आत्मनेपदम् गच्छन्ति गच्छत् रमन्ते बोधन्ति बोधन्ते बोधत् बोधमान तृ०ब०व० १ गम् रम् रममाण " " बुध ८३ २ स्वपन्ति स्वपत् चक्षाण चक्षते स्तुवते " स्तुवान स्तुवत् बिभ्यत् ३ जिहान " जिहते ददते ददान ददत् पुष्यत् ४ " युध्यमान युध्यन्ते नान्ते नह्यमान नात् आमुवत् " स्वप् चक्ष स्तु स्तुवन्ति भी बिभ्यति हा (गतौ) दा ददति पुष् पुष्यन्ति युध नह नह्यन्ति आप् आनुवन्ति अश् चि चिन्वन्ति विशन्ति तुद तुदन्ति तृह तूंहन्ति खिद् युज युअन्ति क्षिण क्षिण्वन्ति वन् कृ कुर्वन्ति अश् अश्नन्ति ज्ञा जानन्ति अश्नुवते चिन्वते. अश्नुवान चिन्वान ६ विश् चिन्वत् विशत् तुदत् तुंहत् तुदन्ते सुत् तुदमान खिन्दान खिन्दते युसते क्षिण्वते वन्वते कुर्वते युअत् क्षिण्वत् युञ्जान क्षिण्वान वन्वान कुर्वाण or कुर्वत् अश्वत् जानत् जानान १० मन्त्र मन्त्रयमाण जानते मन्यन्ते पीडयन्ते ८४ पीड पीडयन्ति । पडियत् पीडयमान १. “ ददत् "पुंलिङ्गे प्र. सम्बो० ददत् ददता ददतः द्वि० ददतम् ददतौ ददतः शेष " गरुत्" वत्। ददत् ” नपुंसकलिङ्गे प्र० द्वि० सम्बो० ददत् ददती ददति-न्ति एवं तृतीयगणस्य परस्मैपदिनां वर्तमानकालवाचकानि । एवं चापि 'जक्षत्' 'जाग्रत् 'शासत्' 'चकासत्' 'दरिद्रत्' च । गच्छत् " पुंलिङ्गे प्र० सम्बो . २. गच्छन् गच्छन्तौ गच्छन्तः द्वि० गच्छन्तम् गच्छन्तो गच्छतः शेषं 'भगवत् वत् एवं तृतीयगणं विहायान्यगणानां वर्तमानकालवाचकानि । ३. " गच्छत् " नपुंसकलिङ्गे प्र० सम्बो० द्वि. गच्छत् गच्छन्ती गच्छन्ति शेष पुंलिङ्गवत् एवं चतुर्थदशमगणयोर्वर्तमानकालवाचकानि । ४" विशत् ” नपुंसकलिङ्गे प्र. सम्बो. द्वि. विशत् विशती-न्ती विशन्ति शेषं पुंलिङ्गक्त् एवं षष्ठगणस्य वर्तमानकालवाचकानि । एवं चापि 'यात्', ख्यात्' इत्यादीनि द्वितीयगणगतानामा- कारान्तधातूनां वर्तमानकालवाचकानि। ८५ .
५ " चिन्बत् ” नपुंसकलिङ्गे
प्र. सम्बो. द्वि.
चिन्वत् चिन्वती चिन्वन्ति
शेषं पुंलिङ्गवत्
एवं द्वितीयपञ्चमसप्तमनवमगणानां वर्तमानकालवाचकानि ।
६ स्त्रीलिङ्गे
प्र. ए.व.
गच्छन्ती, विशती-न्ती, चिन्वती
शेषं टिट्टिभी' वत्
दती,
नवचत्वारिंशः पाठः
विष्णुस्तुतिः
नमो विश्वसृजे पूर्व विश्वं तदनु बिभ्रते।
अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ।।
अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः ।
अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥
सर्वशस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः ।
सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥
अजस्य गृहतो जन्म निरीहस्य हतद्विषः।
स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव ।।
शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः ।
पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम् ।।
प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिमहिमा तव ।
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥
अनवाप्तमवाप्तव्यं न ते किंचन विद्यते ।
लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः ॥
उधेरिव रत्नानि तेजांसीव विवस्वतः ।
स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते।
८६
.
महिमानं यदुत्कीर्त्य तव संह्रियते वचः श्रमेण तदशक्तया वा न गुणानामियत्तया । रघुवंशे स्वाध्यायः विग्रहं कुरुत- विश्वसृजे, मितलोकः, अनीशः, शब्दादीन् ,आप्तवागनुमानाभ्याम् , जन्मकर्मणोः. एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- बिभ्रते, संहत्रे, गृह्णतः, हतद्विषः, तपः, विवस्वतः, संह्रियते, इयत्तया. वाक्यानि रचयत- अरण्ये (वसत्) रामः राक्षसान् अहन् । मार्गेण (गच्छत् ) नरैः चौरः दृष्टः । (विलपत् ) दुःशलाम् दुर्योधनः समाश्वासयत् । दीनारम् ( ददत् ) अपि सर्प ब्राह्मणपुत्रः प्राहरत् । राज्यधुराम (वहत्) अपि तस्य मनसि दर्पः पदं न अकरोत् । पञ्चाशः पाठः भृत्यगुणाः भृत्या अपि त एव ये स्वामिनं सम्पत्तेविपत्ती सविशेष सेवन्ते । समुन्नम्यमानाः सुतरामवनमन्ति । आलाप्यमाना न समालापाः संजायन्ते । स्तूयमाना नोत्सिच्यन्ते । क्षिप्यमाणा नापराधं गृहन्ति । अनादिष्टा विदधति । कृत्वा न जल्पन्ति । पराक्रम्य न विकत्थन्ते । विकत्थ्यमाना आप जिहियति । महाहवंग्रतो ध्वजभूता लक्ष्यन्ते । दानकाले पलायमानाः पृष्ठतो निलीयन्ते । धनारनेहं बहु मन्यन्ते । गृहादपि स्वामिपादमूले सुखं तिष्ठन्ति । येषां च तृष्णा चरणपरि- चर्यायाम, संतोषो हृदयाराधने, व्यसनमाननावलोकने, वाचालता गुणग्रहणे, कापर्ण्यमपरित्यागे भर्तुः । ये च विद्यमानेऽप्यात्मनि न स्वाधीनसकलेन्द्रियवृत्तयः पश्यन्तोऽप्यन्धा इव शृण्वन्तोऽपि बधिरा इव वाग्मिनोऽपि मूका इव जानन्तोऽपि जडा इवानुपहतकरचरणा अपि पाव इक क्लीबा इवाकिञ्चित्कराः स्वात्मना स्वामिचित्तादर्शे प्रतिबिम्बवद्वर्तन्ते । कादम्बर्याम् स्वाध्यायः एतेषां रूपाणां प्रत्यभिज्ञानं कुरुत- विपत्ती, स्तूयमानाः, विदधति, जिहियति, विद्यमाने, पश्यन्तः, शृण्वन्तः. सत्सप्तमी योजयत- यावत् सूर्यः तपति तावत् तमः कथम् आविर्भविष्यति । यावत् रावणः जीवति तावत् रामस्य कुतः स्वास्थ्यम् । यावत् अहं जयद्रथं रक्षामि तावत् न कारणं भयस्य । यदा सूर्यः अस्तम् गतः तदा दिशः तमोवृताः अभवन् । यदा विपदः आगच्छन्ति तदा सेवकाः सविशेष स्वामितं मेवन्ते । एकपञ्चाशः पाठः कूटानि कस्त्वं, शूली मृगय भिषजं नीलकण्ठः प्रियेऽहं केकामेकां कुरु, पशुपतिनैव दृश्ये विषाणे । स्थाणुर्मुग्धे न वदति तर्जीवितेशः शिवाया गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥ सन्ध्यावन्दनवेलायां तडागान्ते द्विजोत्तमैः । अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः ॥ अहं च त्वं च राजेन्द्र लोकनाथावुभावपि । बहुवीहिरहं राजन्षष्ठीतत्पुरुषो भवान् ।। अन्तरालापाः कस्तूरी जायते कस्मात् को हन्ति करिणां कुलम् । ८८
किं कुर्यात्कातरो युद्धे
मृगासिंहः पलायनम् ॥
का शम्भुकान्ता किमु चन्द्रकान्तम्
कान्तामुखं किं कुरुते भुजङ्गः ।
कः श्रीपतिः का विषमा समस्या
रीमुखं चुम्बति वासुदेवः ॥
व्रजन्ति पानि कदा विकासम्
प्रिया गते भर्तरि किं करोति ।
रात्रौ च नित्यं विरहाकुला का
सूर्योदये रोदिति चक्रवाकी ॥
बहिरालापाः
आनन्दयति कोऽत्यर्थ सजनानेव भूतले।
प्रबोधयति पद्मानि तमांसि च निहन्ति च ।।
को दुःखी सर्वकार्येषु
किं भृशार्थस्य वाचकम् ।
यो यस्माद्विरतो नित्यं
ततः किं स करिष्यति ॥
सततं श्लाघते कस्मै
नीचो, भुवि किमुत्तमम् ।
कर्तर्यपि रुचादीनां
धातूनां किं पदं भवेत् ॥
किमिच्छति नरः काश्यां
भूपानां को रणे हितः।
को वन्द्यः सर्व देवानां
दीयतामेकमुत्तरम् ॥
सुभाषितरत्नभाण्डागारे
८९.
व.का.वा. वि. वा. धातुः अद् ( अत्ति) अर्ह ( अर्हति) प्र+अर्थ ( प्रार्थयते) अश् ( अभाति) अस् ( अस्यति) अदत् अर्हत् प्रार्थयमाण अमत् अस्यत् धातुसाधितसंग्रहः भू.का. वा. पू. का. जग्ध ( अन्नम् ) जग्ध्वा अर्हित अर्हितुम् अर्हित्वा प्रार्थित प्रार्थयितुम् प्रार्थ्य अशित अशितुम् अशित्वा अस्त असितुम् असित्वा अस्त्वा आप्त आप्तुम् आप्त्वा ( प्राप्य) आसित आसितुम् आसित्वा इत इत्वा (एत्य) एषितुम् एषित्वा एष्टुम् इष्टवा कुपित कोपितुम् कुपित्वा कोपित्वा कृत कर्तुम् कृत्वा अत्तव्य-आद्य अर्हितव्य-अझ प्रार्थयितव्य-प्रार्थ्य अशितव्य असितव्य आस्य आत्तव्य आपनीय-आप्य आसितव्य एतव्य-एय-इत्य एषितव्य . आप् ( आप्नोति ) आप्नुवत् आस् (आस्ते) इ ( एति) इष् ( इच्छति) आसीन यत् इच्छत् एष्टव्य-एष्य कुप् ( कुप्यति) कुप्यत् कोपितव्य-कोपनीय कृ (करोति) (कुरुते) कुर्वत् कुर्वाण कर्तव्य-करणीय कार्य-कृत्य भू. का. वा. पू. का. वि. वा. व. का.वा. क्रीणत् क्रीणान क्रीत क्रेतव्य-क्रयणीय केय-ऋय्य क्षणितव्य क्षण्वत् क्षत धातुः क्री (क्रीणाति) (क्रीणीते) क्षण् ( क्षणोति) (क्षणुते) क्षम् (क्षाम्यति) क्षमते) खन् ( खनति) क्षज्वान क्षान्त क्षममाण क्रेतुम् क्रीत्वा (विक्रीय) क्षणितुम् क्षणित्वा क्षत्वा क्षमितुम् क्षमित्वा क्षन्तुम् क्षान्वा खनितुम् खनित्वा खात्वा (उत्खाय-उत्खन्य) गत्वा (आगम्य-आगत्य) ग्रहीतुम् गृहीत्वा क्षमितव्य-क्षम्य क्षन्तव्य खनितव्य-खेय खनत् खात गम् ( गच्छति) गच्छत् गत गृहीत ग्रह (गृह्णाति) (गृहीते) चि (चिनोति) (चिनुते) जि ( जयति) गृहत् गृह्णान चिन्वत् चिन्वान गमनीय-गम्य गन्तव्य ग्रहीतव्य-ग्राह्य गृह्य-ग्रहणीय चेतव्य-चेय चयनीय जेतव्य-जेय चित चतुम् चित्वा (संचित्य) जित्वा जयत् जित जेतुम् जय्य.
व. का. वा. भू.का. वा. तु. पू. का. वि. वा. ज्ञात ज्ञात्वा ज्ञातव्य-शेय. धातुः शा (जानाति) (जानीते) तुष् (तुष्यति) दृश् (पश्यति) जानत् जानान तुष्यत् तोष्टुम् तुष्ट्वा द्रष्टुम् दृष्ट्वा दृष्ट तोष्टव्य-तोषणीय द्रष्टव्य-दर्शनीय दृश्य त्यक्तव्य-त्याज्य दग्धव्य-दाह्य दातव्य-देय ज्यजत् दग्ध त्यज् (त्यजति) दह ( दहति ) दा ( ददति ) ( ददते ) धाव् (धावति) त्यक्तुम् त्यक्त्वा दग्धुम् दातुम् दत्त्वा १२. धावत् धावित धौत हित धा (दधाति) ( दधते ) नम् दधत् धान ( नमति) नमत् नत धावितुम् धावित्वा धावितव्य धौत्वा धातुम् हित्वा धातव्य-धेय (निधाय) नन्तुम् नत्वा नंतव्य-नम्य (प्रणम्य-त्य) नमनीय नष्टुम् नाशत्वा नष्ट्वा-नंष्ट्वा नशितव्य (प्रणश्य) नाश्य नश (नश्यति) नश्यत् नष्ट नष्टव्य (प्रनष्ट) व.का.वा. धातुः नी (नयति) भू. का. वा. नीत नयत् नेतुम् पू. का. वि. वा. नीत्वा नेतव्य-नेय ( आनीय) नयनीय नर्तित्वा नर्तितव्य-नृत्य नर्त्य नृत् (नृत्यति) नृत्यत् नृत्त नर्तितुम् पक्त्वा पक्तव्य पक्क पीत पीत्वा पातव्य-पानीय-पेय पातव्य पात पक्तुम् पातुम् पातुम् प्रष्टुम् प्रेतुम् पात्वा प्रष्टव्य-प्रच्छय पच् ( पचति ) पा (पिबति) पा (पाति) प्रच्छ (पृच्छति) प्री (प्रीणाति) (प्रीणीते) बन्ध ( बध्नाति) बुध् ( बोधति) ( बोधते) RU पचत् पिबत् पात् पृच्छत् प्रीणत् प्रीणान बन्नत् बोधत् बोधमान प्रीत प्रीत्वा प्रेतव्य-प्रेय बद्ध बुधित बन्दुम् बोधितुम् बोद्धम् बंधव्य-बंध्य-बंधनीय बोधितव्य-बोध्य बोद्धव्य बवा बुधित्वा बोधित्वा बुवा भीत्वा भुक्त्वा भीत भी (बिभेति) भुज् ( भुनक्ति) ( भुङ्क्ते) बिभ्यत् भुञ्जत् भुञ्जान भेत्तम् भोक्तुम् भेतव्य-भेय भोक्तव्य-भोज्य-भोग्य भुक्त व.का.वा. भू. का. वा. तु. वि. वा. यजत् धातुः यज् ( यजति) युज् (युनक्ति) (युङ्क्ते) आ+रम् (आरभते) रम् ( रमते) युक्त युञ्जत् युआन आरममाण रममाण आरब्ध रत रुध् (रुणद्धि) रुह् (रोहति) रुन्धत् रोहत् रूद यष्टुम् इध यष्टव्य-याज्य योक्तुम् युक्त्वा योक्तव्य-योज्य योग्य-योजनीय आरब्धुम् आरभ्य आरब्धव्य-आरम्य रन्तुम् रत्वा रन्तव्य-रम्य (विरम्य-त्य) रमणीय रोद्धम् रुद्ध्वा रोद्धव्य-रोध्य रोदुम्. रुवा रोढव्य-रोह्य ( आरुह्य ) रोहणीय वक्तुम् उक्त्वा वक्तव्य-वाच्य वचनीय वदितुम् उदित्वा वदितव्य-वदनीय वस्तुम् उषित्वा वस्तव्य-वास्य वोढुम् ऊवा वोढव्य-वहनीय वह्य-वाह्य वेष्टुम् विष्ट्वा वेष्टव्य-वेश्य (प्रविश्य ) वच् ( वक्ति) वदत् वद् ( वदति) वस् ( वसति) वढ् ( वहति ) उदित उषित वसत् ऊढ विश् (विशति) विशत् विष्ट व. का.वा. धातुः शक् (शक्नोति) सह ( सहते) शक्नुवत् सहमान स्तु (स्तौति-स्तवीति ) स्तुवत् ( स्तुते-स्तुवीते ) स्तुवान स्था (तिष्ठति) तिष्ठत् भू.का. वा. तु. पू. का. वि. वा. शकित-शक्त शकितुम्-शक्तुम् शकित्वा-शक्त्वा शक्तव्य-शकितव्य सोढ सोढुम् सोवा सह्य-सहनीय सहितुम् सहित्वा सोढव्य-सहितव्य स्तुत स्तोतुम् स्तुत्वा स्तोतव्य-स्तवनीय स्तुत्य स्थित स्थातुम् स्थित्वा स्थेय-स्थातव्य (उत्थित) (उत्थातुम् ) ( उत्थाय) स्प्रष्टुम् स्पृष्ट्वा स्प्रष्टव्य- स्पष्टुंम् स्पष्टव्य-स्पृश्य स्वातुम् सुप्त्वा स्वतव्य-स्वप्य हत हन्तुम् हत्वा हन्तव्य-हननीय घात्य-वध्य हीन हातुम् हित्वा हातव्य-हेय हान हातुम् हात्वा हातव्य-हेय आहूत आह्वातुम् आहूय आह्वातव्य-आराय स्पृश् (स्पृशति) स्पृशत् स्वप् (स्वपिति हन् ( हन्ति ) हा (जहाति) हा (जिहीने) आ+हे(आह्वयति) स्वपत् नत् जहत् जिहान आह्वयत्
No text on this page.