Allahabad University Allahabad

Sri Bhagwat Sandarv Mein Ist

Sri Madradha Mohan Goswami Bhattacharya · 2006/05/27

PDF Proofread

Front matter

पदसन्दात्मक- श्रीभागवतसन्दर्भ- प्रथमः तत्त्व-सन्दर्भः : श्रीमतश्रीकृष्णचैतन्यमम्प्रदायाचार्यक्र- श्रीमज्जीव-गोस्वामिचरणैः प्रणीतः। श्रीमद्वलदेवविद्याभूषण-कृत टीकया, पतितपावनावतार श्रोपवीत. कुलावतंस प्रभुपाद-श्रीमद्राधामोहन-गोस्वामिभट्टाचार्य- तटीकया च समेतः। प्रष्टटीकोपेत श्रीमद्भागवत-सम्पादकेन परमांसपरिव्राजकाचार्य- श्रीमत्स्वामिप्रकाशानन्दसरस्वती-पूज्यपाद शिष्यप्रवरेण श्रीनित्यस्वरूप ब्रह्मचारिणा सम्पादितम् । काशीमवाजाराधिपति मानणीय महाराज सर मणीन्द्रचन्द्र नदी विद्यारअन K.C.L.E. वाहादरस्य सम्पूर्ण अर्थसाहाय्येन श्रीनित्यस्वरूप ब्रह्मचारिणा प्रकाशितम् । कलिकातानगों "श्रीदेवकीनन्दनाख्य-वैद्युतिकयनतः" श्रीपलिनविहारिदासभक्तिरञ्जनद्वारा मुद्रापितः । श्रीचैतन्यादा:-४३३। [मुल्यं रौप्यकद्वयम् २]

No text on this page.

षट्सन्दर्भनामक- श्रीभागवतसन्दर्भ प्रथमः तत्त्वसन्दर्भः। श्रीकृष्णो जयति । कृष्णवर्ण विषाकृष्ण साङ्गोपाङ्गास्त्रपार्षदम् । यज्ञैः सङ्कीर्तनप्रायै र्यजन्ति हि सुमेधसः॥१॥ (भा०११.५.३२)। तत्त्वसन्दर्भटीका। श्रीमद्बलदेवविद्याभूषणविरचिता । श्रीकृष्णो जयति । भक्तयाभासेनापि तोषं द्धाने धर्माध्यक्ष विश्वनिस्तारिनास्नि । नित्यानन्दाद्वैतचैतन्यरूपे तत्त्वे तस्मिन्नित्यमास्तां रतिनः ॥ मायावादं यस्तमःस्तोमामुच्चै शं निन्ये वेदवागंशुजालः। भक्तिर्विष्णार्दर्शिता येन लोके जीयात् सोऽयं भानुरानन्दतीर्थः ॥ गोविन्दाभिधमिन्दिराश्रितपदं हस्तस्थरत्नादिवत् तत्वं तत्वविदुत्तमौ तितितले यौ दर्शयाञ्चऋतुः। मायावादमहान्धकारपटलीसन्पुष्पवन्तौ सदा तो श्रीरूपसनातनौ विरचिताश्चय्यौं सुवर्यो स्तुमः ॥

प सन्दर्भनामक- [प्रथमः NOTAmawware wwwome श्रीवलदेवविद्याभूपणकृतटीका । यः सांख्यपङ्केन कुतर्कपांशुना विवत्तगत्तेन च लुनदीधितिम् । शुद्धं व्यधान वाकसुधया महेश्वरं कणं स जीवः प्रभुरस्तु नो गति । आलस्यादप्रवृत्तिः स्यात् पुंसां पन्थविस्तरे। अतोऽत्र गूढ़े सन्दर्भ टिप्पन्यल्पा प्रकाश्यते ॥ श्रीमज्जीवेन ये पाठाः सन्दर्भऽस्मिन् परिष्कृताः। व्याख्यायन्ते त एवामी नान्ये ये तेन हेलिताः॥ श्रीबादरायणो भगवान् व्यासो ब्रह्मसूत्राणि प्रकाश्य तद्भाध्यभूतं. श्रीभागवतमाविर्भाव्य शुकं तद्ध्यापितवान् । तदर्थ निर्णतुकामः श्रीजीवः प्रत्यूहकुलाचलकुलिशं वाञ्छितपीयूषवलाहकं स्वेष्टवस्तु- निर्देशं मङ्गलमाचरति । कृष्णेति । निमिनृपतिना पृष्टः करभाजनो योगी सत्यादियुगा- वतारानुक्त्वाथ "कलावपि तथा ऋशिव"ति तमवधाप्याह-कृष्ण- वर्णभिति। सुमेधसो जनाः कलावपि हरि भजन्ति । ऊरित्याह-- सङ्कीर्तनप्रायैर्यझेरचनैरिति। कीदृशं तमित्याह-कृष्णो वर्णो रूपं यस्यान्तरिति शेषः। विपा-कान्त्या त्वकृष्णं- शुक्लो रक्तस्तथा पीत इदानीं कृष्ण तां गतः ॥ इति गर्गोक्तिपारिशेष्याद्विद्युद्गौरमित्यर्थः। अङ्गे-नित्यानन्दाढतो, उपाङ्गानि-श्रीवासादयः, अस्त्राणि-अविद्याच्छेत्तृत्वाद्भगवन्नामानि, पार्षदागदाधरगोविन्दादयस्तैः सहितमिति महावलित्वं व्यज्यते । गर्गवाक्ये "पीत" इति प्राचीनतदपेक्षया। अयमवतारः श्वेतबराह- कल्पगताष्टाविंशवैवस्वतमन्वन्तरीयकलौ बोध्यः। तत्रत्ये श्रीचतन्य एवोक्तधर्मदर्शनात् । अन्येषु कलिषु क्वचित् श्मामत्वेन, क्वचित् शुकपत्राभत्वेन व्यक्तेरुक्तेः। "छन्नः कलौ यदभव" इति, "शुक्लो रक्तस्तथा पीत" इति, "कलावपि तथा शृशिव"ति च । ये विमृशन्ति ते सुमेधसः। छन्नत्वञ्च-प्रेयसीविषावृतत्वं बोध्यम् । (अङ्काः पूर्वा- - - तत्वसन्दर्भः।] श्रीभागवतसन्दर्भ ३ अन्तः कृष्ण बहिौरं दर्शिताङ्गादिवैभवम् । कलौ सङ्कीर्तनाद्यैः स्मः कृष्णचैतन्यमाश्रिताः॥२॥ जयतां मथुराभूमौ श्रीलरूपसनातनौ । यौ विलेखयतस्तत्त्वं ज्ञापको पुस्तिकामिमाम् ॥३॥ - श्रीबलदेवविद्याभूषणकृतटीका । कृतोऽलान्ये टिप्पनीक्रमबोधकाः। द्विविन्दवस्ते विज्ञेया विषयांका- स्वविन्दवः॥ अत्र ग्रन्थे स्कन्धाध्यायसूचका युग्माङ्का ग्रन्थकृतां सन्ति । तेभ्योऽन्ये ये टिप्पनीक्रमबोधायास्माभिः कल्पितास्ते द्विविन्दु मस्तकाः। विषयवाक्येभ्यः परे येऽङ्कास्ते त्वविन्दुमस्तका बोध्याः)॥१॥ कृष्णवर्णपद्यव्याख्याव्याजेन तदर्थमाश्रयति-अन्तरिति स्फुटार्थः॥२ अथाशीनमस्काररूपं मङ्गलमाचरति-जयतामिति । श्रीलौ- ज्ञानवैराग्यतपःसम्पत्तिमन्तौ रूपसनातनौ-मे गुरुपरमगुरू जयतां- निजोत्कर्ष प्रकटयताम्। मथुराभूमाविति-तत्र तयोरध्यक्षता व्यज्यते । तयोर्जयोऽस्त्वित्याशास्यते। जयतिरत्र-तदितरसर्वसवृन्दोत्कर्ष- वचनः। तदुत्कर्षाश्रयत्वात्तयोस्तत्सर्वनमस्यत्वमाक्षिप्यते। तत्सन्ति:- पातित्वात् स्वस्य तौ नमस्याविति च व्यज्यते । तौ कीदृशावित्याह- याविमा सन्दर्भाख्यां पुस्तिकां विलेखयतः, तस्या लिखने मां प्रवर्त्त- यतः। बुद्धौ सिद्धत्वात् इमाम् इत्युक्तिः। तत्त्वं शापकौ- - - - श्रीराधामोहन-गोस्वामि-भट्टाचार्यकृतटीका । चैतन्यं परमानन्दमद्वैतं द्वैतकारणम् । श्रीकृष्ण राधया सार्द्ध प्रणमामि जगद्गतिम् ॥ अस्य ग्रन्थस्य मुख्याभिधेयश्रीकृष्णसङ्कीर्तनरूपमङ्गलं कुर्वन् तस्य मुख्योपास्यता प्रमाणयन्नेकादशस्थपद्यं दर्शयति विषाऽकृष्णमिति षट्सन्दर्भनामक- [प्रथमः water कोऽपि तदबान्धवो भट्टो दक्षिणद्विजवंशजः । विविच्य व्यलिखद्थं लिखिताद वृद्धवैष्णवैः॥४॥ तस्याद्यं ग्रंथनालेख कान्तव्युत्क्रान्तखण्डितम् । पालोच्याथ पर्यायं कृत्वा लिखति जीवकः॥५॥ श्रीवलदेवविद्याभूपणकनटीका। तत्वं वाद्यप्रभेदे स्यात् स्वरूपे परमात्मनि । इति विश्वकोषात् परेशं सपरिकरं ज्ञापयिष्यन्तावित्यर्थः। कर्त्तरि भविष्यति ण्युल् षष्ठीनिषेधस्तु "णकेनोभविष्यदाधमर्णयोः इति सूत्रात् ॥ ३॥ ग्रन्थस्य पुरातनत्वं स्वपरिष्कृतत्वञ्चाह-कोऽपीति । तद्वान्धवः- तयो रूपसनातनयोर्वन्धुः-गोपालभट्ट इत्यर्थः । वृद्धवैष्णवैः- श्रीमध्वादिभिलिखिताद् ग्रन्थात् तं विविच्य-विचार्य्य सारं गृहीत्वा अन्थमिमं व्यलिखत् ॥४॥ तस्य भट्टस्य श्राद्य-पुरातनं ग्रन्थनालेखं पालोच्य, जीवको- मल्लतणः पर्यायं कृत्वा-क्रमं निबध्य लिखति। "ग्रन्थ सन्दर्भ", चौरादिकः, ततो "ण्यासग्रन्थे"ति कर्मणि युच्, ग्रन्थना-ग्रन्थ- स्तस्य लेख-लिखनं, भावे घञ् । तं लेखं कीदृशमित्याह-क्रान्तं- क्रमेण स्थितं, व्युत्क्रान्तं-व्युत्क्रमेण स्थितं, खण्डितं-छिन्नमिति स्वश्रमस्य सार्थक्यम् ॥ ५॥ श्रीराधामोहनगोस्वामि-भट्टाचार्यकृतटीका। कनकमिवोज्वलम् । सुमेधस इति श्रीकृष्णकीर्तनं कलौ परमश्रेय- स्त्वेन शास्त्राचार्यविवेचितमिति सूचयति। स्वभजनस्य सम्प्रदाय- तत्त्वसन्दर्भः।] श्रीभागवतसन्दर्भ यः श्रीकृष्णपदाम्भोजभजनैकाभिलाषवान् । तेनैव दृश्यतामेतदन्यस्मै शपथोऽर्पितः ॥ ६ ॥ अथ नत्वा मत्रगुरून् गुरून् भागवतार्थदान् । श्रीभागवतसंदर्भ संदर्भ वश्मि लेखितुम् ॥७॥ यस्य ब्रह्मेति संज्ञां क्वचिदपि निगमे याति चिन्मात्रसत्ता- प्यंशो यस्यांशकैः स्वैविभवति वशयन्नेव मायां पुमांश्च। श्रीबलदेवविद्याभूषणकृतटीका । ग्रन्थस्य रहस्यत्वमाह-यः श्रीति । कृष्णपारतम्येऽन्येनानाहते तस्यामङ्गलं स्यादिति तन्मङ्गलायैतत्, न तु ग्रन्थावद्यभयात् । तस्य सुव्युत्पन्नैर्निरवद्यत्वेन परीक्षितत्वात् ॥ ६ ॥ अथेति ।-- गुढ़ार्थस्य प्रकाशञ्च सारोक्तिः श्रेष्ठता तथा । नानार्थवत्त्वं वेद्यत्वं सन्दर्भः कथ्यते बुधैः ।। इत्यभियुक्तोक्तलक्षणं सन्दर्भ लेखितुं वश्मि-वाञ्छामि । श्रीभागवतं संभ्यते अथ्यतेऽनेति "हलश्च" इत्यधिकरणे घञ् ॥ ७ ॥ अथ श्रोतृरुच्युत्पत्तये ग्रन्थस्य विषयादीननुबन्धान् संक्षेपेण तावदाह-यस्येति । स स्वयं भगवान् श्रीकृष्ण ईह जगति तत्पाद- श्रीराधामोहनगोस्वामि-भट्टाचार्यकृतटीका। प्रवर्तनायावतीर्ण गौररूपेण श्रीकृणं तदनुमतव्याख्यासम्पत्तये पुनः प्रणमति अन्तकृष्णमिति । आश्रिता इति वयमिति शेषः ॥१-७॥ वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मति परमात्मेति भगवानिति शब्द्यते ॥ इति श्रीभागवतीयश्लोकः (१.२.११) तात्पर्य पद्येन दर्शयति यस्येति। क्वचिदपि निगमे ब्रह्मसंहितादौ यस्य चिन्मात्रसत्ता aur षट्सन्दर्भनामक- [प्रथमः m एकं यस्यैव रूपं विलसति परमव्योम्नि नारायणाख्यं सश्रीकृष्णो विधत्तां स्वयमिह भगवान् प्रेमललावभाजा श्रीबलदेवविद्याभूषाकृतटीका । भाजां-तचरा पहनेविना स्ववियकं प्रेम विधत्तां-अर्पयतु। स कः? इत्याह, यस्य- - यस्य पानुमन्यानिश विभूतिविमित्येव श्रीकृष्णस्य चिन्मानसत्ता- अनभिव्यनत्तनियोषा ज्ञानरूपा विदामानता क्वचि- दपि निगमे-कस्मिंश्चित् "सत्यं ज्ञानमनन्तं ब्रह्मास्तीत्येवोपलब्धः" इत्यादिरूपे श्रुतिखण्डे ब्रह्मेति संज्ञां याति, तादृशतया चिन्तयतां तथा प्रतीतिमासीदतीत्यर्थः। भक्तिभावितमनसां तु व्यजिततत्तद्विशेषा सैव पुरुषत्वेन प्रतीता भवतीति वोध्यं, सत्यं ज्ञानमित्युपक्रान्तस्यैवा- नन्दमयपुरुषत्वेन निमरणात्। अत एवमुक्तं जितन्ते स्तोत्ने - न ते रूपं न चाकारो नायुधानि न चास्पदम् । तथापि पुरुषाकारो भक्तानां त्वं प्रकाशसे । इति । * न चैवं प्राचीनाङ्गीकृतमिति वाच्यम्, उक्तरीत्यां तस्याप्यनभीष्टत्वा- भावात्। यस्य कृगास्यांशः पुमान् मायां वशयन्नेव खैरंशकैर्विभवति । ame श्रीराधामोहनगोस्वामि-भट्टाचार्यकृतटीका । ब्रह्मेति संशां याति नियतमाश्रयतीत्यन्वयः। चिज्ज्ञानं तन्मात्रं तन्मयं स्वस्वरूपभूतज्ञानवद्रस्तुसत्ता स्वस्वरूपभूतसत्पदप्रवृत्तिनिमित्तवदि- त्यर्थः। सत्यं शानमनन्तं ब्रह्मेति श्रुतेः। तथाच श्रीकृष्णः स्वस्वरूपभूत- श्रीविग्रहधारिब्रह्मेति भावः। एवञ्च ब्रह्मपदं ज्ञानपरं शानिपरञ्च धर्मधर्मिणोरभेदात् प्रत्येकं तयोर्भेदाच। एवं शरीरशरीरिणोरपि भेदाभेदौ । एव तच्छरीरावशिष्टस्यापि वलत्वं विशिष्टस्य विशेप्यानति- * पंक्तयावल्या संशयोऽस्ति ।

तत्त्वसन्दर्भः।] श्रीभागवतसन्द ७ na Pawan vem-in- अथैवं सूचितानां श्रीकृष्णतद्वाज्यवादकता- लक्षणसम्बन्ध-तद्भजनलक्षणविधेय-सपर्यायाभिधेय- श्रीवलदेवविद्याभूषणकृतटीका । कारलार्ण यशानी सहस्रशीर्षा पुरुषः संकर्षणः कृष्णांशः प्रकृतेर्भर्ता, तां वशे स्थापयन्नेव स्ववीक्षणक्षुब्धया तयाण्डानि सृष्टा, तेषांगर्भेप्वम्बु- भिरर्द्धपूणेषु सहस्रशीर्षा प्रद्युम्नः सन् , स्वैरंशकैर्मत्स्यादिभिर्विभवति, विभवसंज्ञकान् लीलावतारान् प्रकटयतीत्यर्थः। यस्यैव कृष्णस्य नारा- यणाख्यमेकं मुख्य रूपम् आवरणाष्टकावहिःष्ठे परमव्योम्नि विलसति, स नारायणो यस्य विलास इत्यर्थः । अनन्यापेक्षिरूपः स्वयं भगवान्, प्रायस्तत्समगुणविभूतिराकृत्यादिभिरन्यादृक् तु विलास इति सर्वमेत- चतुर्थसन्दर्भ विस्फुटीभविष्यद्वीक्षणीयम् ॥ ६ ॥ अथैवमिति। सूचितानां व्यञ्जीतानां चतुर्णामित्यर्थः। श्रीकृष्णश्चं श्रीराधामोहनगोस्वामि-भट्टाचार्यकृतटीका । रेकात्। यस्यांशः पुमांश्च परमात्मा प्रथमपुरुषः मायां प्रकृति वशयन् तद्गुणयोगेण स्वैरंशकैः स्वस्वरूपभूतजीवात्मरूपधर्मविभवति विविधो भवति। श्रीवैकुण्ठनाथस्य विलासरूपत्वं दर्शयति एकमिति । रसामृतसिन्धावप्युक्तं सिद्धान्तस्त्वभेदेऽपि श्रीशकृष्णस्वरूपयोरिति । श्रीशेति श्रीराधयोरप्यैक्यं सूचयति। स्फुरदुर्विति भगवद्विशेषणं प्रेमविशेषणं वेति । अत्रायं विवेकः-यदा ज्ञानानन्दतात्पर्येण ब्रह्म- शब्दप्रयोगस्तदा धर्मत्वं, यदा ज्ञानादिमत्तात्पर्येण ब्रह्मशब्दप्रयोगस्तदा अंशत्वम् । यदा शरीरित्वेन ज्ञानादिमत्त्वेन च प्रबोधयितुं प्रयुक्तो ब्रह्म- शब्दस्तदासम्पूर्णभगवत्परः कृष्णशरीरादेरपि झानानन्दस्वरूपकृष्ण- स्वरूपतया सच्चिदानन्द इत्यादिप्रयोग इति ॥८॥ अथेति प्रमाणं विनिर्णीयत इत्यनेनास्यान्वयः। किमर्थ प्रमाण- पदसन्दर्भनामक- [प्रथमः तत्प्रेमलक्षणप्रयोजनाख्यानामर्थानां निर्णयाय तावत् प्रमाणं निर्णीयते। तत्र पुरुषस्य भ्रमादिदोषचतुष्टय , P श्रीबलदेवविद्याभूषणकृतटीका । अस्य ग्रन्थस्य विषयः। तद्वाच्यवाचकलक्षणश्च सम्बन्धः। तद्भजनं तच्छ्रवणकीर्तनादि, तल्लत्तणं यद्विधेयं, तत्सपर्यायं यदभिधेयं, तश्च।* तत्प्रेमलक्षणं प्रयोजनञ्च पुरुषार्थस्तदाख्यानाम्। एकवाच्यवाचकत्वं पर्यायत्वम् । समानः पर्यायोऽस्येति सपर्यायः। समानार्थकसह- शब्देन समासादस्वपदविग्रहो बहुब्रीहिः। "वोपसर्जनस्येति सूत्रात् । सहस्य सादेशः। सहशब्दस्तु साकल्ययोगपद्यसमृद्धिषु । सादृश्ये विद्यमाने च सम्बन्धे च सह स्मृतम् ॥ इति श्रीधरः। तत्रेति । पुरुषस्य व्यवहारिकस्य व्युत्पन्नस्यापि भ्रमादिदोषग्रस्तत्वा- त्ताकपारमार्थिकवस्तुस्पर्शानहत्वाच्च तत्प्रत्यक्षादीनि च सदोपाणीति योज्यम् । भ्रमः प्रमादो विप्रलिप्सा करणापाटवञ्चेति जीवे चत्वारो दोषाः। तेवतस्मिंस्तबुद्धिभूमः, येन स्थाणौ पुरुषबुद्धिः । अनवधान- तान्यचित्ततालक्षणः प्रमादः, येनान्तिके गीयमानं गानं न गृह्यते। श्रीराधामोहनगोखामि-भट्टाचार्यकृतटीका । विनिर्णय इत्यत आह, एवं सूचितानामिति । तत्र श्रीभागवतसन्दर्भ वच्मीत्यनेन श्रीकृष्णस्वरूपतद्भजनयोरभिधेयत्वं तयोर्वाच्यवाचकता- लक्षणसम्बन्धश्च सूचितः। प्रेमदद्याद्भजद्भ्य इत्यनेन भजनस्य विधेयत्वं प्रेम्णः फलत्वम् सूचितत्। श्रीकृष्णेति तद्भजनोपलक्षणं तेन कृष्णतद्भजनयोर्वाच्यताग्रन्थस्य वाचकतेति परस्परसम्बन्धो दर्शितः।। क * तलक्षणचाभिधेयम् । तच्च विधेयसपर्य्यायम् । इति पाठान्तरम् । + जायमानमिति पाठान्तरम् ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ दुष्टत्वात् सुतरामलौकिकाचिन्त्यस्वभाव-वस्तुस्पर्शा- योग्यत्वाच्च तत्प्रत्यक्षादीन्यपि सदोषाणि ॥६॥ श्रीबलदेव-विद्याभूषणकृत-टीका। वचनेच्छा-विप्रलिप्सा, यथा शिष्ये स्वज्ञातोऽप्यर्थो न प्रकाश्यते । इन्द्रिय-मान्य करणापाटवं, येन दत्तमनसापि यथावत् वस्तु न परि- चीयते । एते प्रमातृजीव-दोषाः प्रमाणेषु सञ्चरन्ति । तेषु भ्रमादि-त्रयं प्रत्यक्षे, तन्मूलकेऽनुमाने च ; विप्रलिप्सा तु शब्दे इति बोध्यम्। प्रत्यक्षा- दीन्यष्टौ भवन्ति प्रमाणानि। तत्रार्थ-सन्निकृष्टं चक्षुरादीन्द्रियं-प्रत्यक्षम्। अनुमितिकरण-अनुमानम्, अग्न्यादिज्ञान-अनुमितिः, तत्करणं- धूमादिज्ञानम् । प्राप्त-वाक्यं-शब्दः (तर्कसंग्रह-शब्द-प०पृ० ३६) । उप- मितिकरणं-उपमानं, गो-सदृशो गवय-इत्यादौ संज्ञासंज्ञिसम्बन्ध- ज्ञानं-उपमितिः (तर्कसंग्रह उपमान-प० पृ० ३८), तत्करण- सादृश्यज्ञानम् । प्रसिद्ध्यदर्थ-दृष्ट्यासाधकान्यार्थ-कल्पन-अर्थापत्तिः, श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। श्रीकृष्ण-सम्बन्धकथनात् तस्याभिधेयता-लाभः । भजनस्य विधेयतया- ऽभिधेयत्वमिति विशेषाय स्वातन्त्र्येण तत्कीर्तनम् । विधेय-पर्यायाभि- धेयेत्यस्य-विधेय-लक्षणाभिधेयेत्यर्थः। एवञ्च ; भागवतसन्दर्भमित्यस्य, भगवत इदं-श्रीकृष्ण-स्वरूप-तद्भजनं,-तस्य सन्दर्भ, तत्त्वतो निर्णायकवाक्य-जातमिति पर्य्यवसितोऽर्थः। वच्मीत्यस्य- कथयामीत्यर्थः। वस्तुतस्तु भागवत-सन्दर्भ-भगवद्भजनप्रतिपादक- श्रीभागवताख्यग्रन्थस्य सन्दर्भम, अर्थनिर्णायकवाक्य-जातं वच्मी- त्यर्थः । एवञ्च श्रीभागवतस्य प्रयोजनाभिधेयसम्बन्धा एवास्य ग्रन्थस्य प्रयोजनांभिधेयसम्बन्धा इति शेयम्। तत्रेति-प्रमाणेष्पित्यर्थः। तत्- प्रत्यक्षादीन्यत्रास्यान्वयः। तत्प्रत्यक्षादीनि-लौकिकपुरुष-प्रत्यक्षादीनि । काण्ड . २ १० पटसन्दर्भनामक- [प्रथम:- ततस्तानि न प्रमाणानीत्यनादिसिद्ध-सर्वपुरुषपर- म्परासु सर्वलौकिकालौकिकज्ञान-निदानत्वादप्राकृतnua-Amers श्रीबलदेव-विद्याभूपणकृत-टीका। यथा-दिवाऽभुञ्जाने पीनत्वं-रात्रि-भोजनं कल्पयित्वा साध्यते। अभावग्राहिका-अनुपलब्धिः, भृतले घटानुपलब्ध्या यथा घटाभावो गृह्यते। सहस्त्रे शतं सम्भवेदिति बुद्धौ सम्भावना-सम्भवः । अज्ञातवक्तृकं परम्परा-प्रसिद्धं-ऐतिां, यथेह तरौ यक्षोऽस्ति :- इत्येवमष्टौ ॥६॥ ततस्तानि न प्रमाणानीति। ततः-भ्रमादिदोपयोगात्, तानि-- प्रत्यक्षादीनि परमार्थप्रमा-करणानि न भवन्ति । माया-सुण्डावलोके 'तस्यैवेदं मुण्डम्' इत्यत्र प्रत्यक्ष व्यभिचारि । वृष्ट्या तत्काल-निर्वापित- वह्नौ चिरं धूम-प्रोद्गारिणि गिरौ 'वह्निमान् धूमात्' इत्यनुमानञ्च व्यभि- चारि दृष्टम् । प्राप्तवाक्यञ्च तथा, एकेनाप्तेन मुनिना समर्थितस्या- र्थस्यापरेण तादृशेन दूषितत्वात् । अत उक्तम् ;-"नासावृर्पियस्य श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । तेनेश्वर-प्रत्यक्षस्य सदोषत्व-व्यावृत्तिः। आदिना-अनुमानोपमानानु- पलब्धि-परिग्रहः । सदोवाणि-भ्रम-जनकतया सम्भावितानि । तेना- पुरुष-प्रत्यक्षादेः क्वचिद्वस्तु-साधकन्वे, अनुमानस्येश्वर-साधकत्वेऽपि च न क्षतिः । प्रत्यक्षादेः सदोषत्वे हेतुः-दुष्टत्वादिन्यन्तम् । भ्रमादी- त्यादिना-प्रमाद-विप्रलिप्सा-करणापाटव-परिग्रहः ॥ ६ ॥ ततः-पुरुष-प्रत्यक्षादेः सदोषत्वात् । तानि-पुरुष-प्रत्यक्षादीनि, न प्रमाणानि-नेश्वर-तद्भजनयोर्याथार्थ्येन साधन-समर्थानि । अत्रैव हेत्व- न्तरं-सुतरामचिन्त्यालौकिकवस्तु-स्पर्शायोग्यत्वाञ्चेति । अनुमानस्ये- श्वर-साधनत्वसम्भवेऽपि श्रीकृष्णरूप-तद्भजन-साधनायोग्यत्वम् । ननु तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ ११ वचनलक्षणो वेद एवास्माकं सर्वातीत-सर्वाश्रय-सर्वा- चिन्त्याश्चर्य्यस्वभावं वस्तु विविदिषतांप्रमाणम्॥१०॥ श्रीबलदेव-विद्याभूपणकृत-टीका। मतं न भिन्नम्" इति। एवं मुख्यानामेषां सदोषत्वात् तदुपजीविना- मुपमानादीनां तथात्वं सुसिद्धमेव । किञ्चाप्त-वाक्यं लौकिकार्थ-ग्रहे प्रमाणमेव, यथा--'हिमाद्रौ हिमम्' इत्यादौ । तदुभयनिरपेक्षञ्च तत्,- 'दशमस्त्वमसि' इत्यादौ। तदुभयागम्ये साधकतमञ्च तत्,-ग्रहाणां राशिषु सञ्चारे यथा। किश्चाप्त-वाक्येनानुगृहीतं तदुभयं प्रमापकम् । दृष्टचरमायामुण्डकेन पुंसा सत्येऽप्यविश्वस्ते तस्यैवेदं मुण्डमिति नभो वाण्यानुगृहीतं प्रत्यक्षं यथा। 'अरे शीतार्ताः पान्थाः! मास्मिन्नग्नि सम्भावयत, वृट्या निर्वाणोऽत्र स दृष्टः * किन्त्वमुष्मिन् धूमोद्गारिणि गिरौ सोऽस्ति' इत्याप्तवाक्येनानुगृहीतमनुमानं च यथेति । तदेवं प्रत्यक्षानुमानशब्दाःप्रमाणानीत्याह मनुः- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। वेद एवेत्येव-कारासङ्गतिः ? वेदार्थ-विवेकेऽनुमानापेक्षणात, "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादि श्रुतेः । अस्यार्थः ;-आत्मा वै-आत्मैव, द्रष्टव्यः-साक्षात् कर्त्तव्यः, कथ- मित्यपेक्षायामाह-श्रोतव्य इत्यादि त्रयम् । तत्र श्रवणं-वेदेतिहास- पुराणादिभ्यः कार्य ; "श्रोतव्यः श्रुति-वाक्येभ्यः” इति श्रवणात् । बहुवचनं-गणार्थ, तेन पुराणादि-परिग्रहः। वेदार्थ-प्रतीतावपि तंत्रार्थान्तरपरत्व-सम्भावनयाऽप्रामाण्यशङ्का; तस्याः सम्भवेनाह- मन्तव्य इति । मननं-बहुभिहेतुभिरनुमानं, “मन्तव्यश्वोपपत्तिभिः" इति श्रवणात्। तथा च तर्कानुगृहीतेन मननेन वेदादवगतमर्थ n - * "दृष्ट" इति पाठान्तरम्।

१२
षट्सन्दर्भनामक-
[प्रथम:-
श्रीवलदेव-विद्याभूषणकृत-टीका।
"प्रत्यक्षमनुमानञ्च शास्त्रश्च विविधागमम् ।
त्रयं सुविदितं कार्य धर्मशुद्धिमपीप्सता ॥” इति ।
मनु० १२. १०५ ।
एवमस्मवृद्धाश्च । सर्वपरम्परासु- ब्रह्मोत्पन्नेषु देव-मानवादिषु सर्वेषु
वंशेषु।
"परम्परा परीपाट्यां सन्तानेऽपि वधे क्वचित् ।" इति विश्वः ।
लौकिकशानं-कर्मविद्या, अलौकिकशानं-ब्रह्मविद्या । अप्राकृति-
"वाचा विरूपनित्यया” इति मन्त्रवर्णात्,
'अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः॥"
इति स्मरणाञ्च । स्फुटमन्यत् ॥ १० ॥
women
तत
mmmmm
श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका।
सम्यक्तयाऽवधार्य पुनः पुनानरूपनिदिध्यासनं कार्य,
आत्म-साक्षात्कार इति पर्यवसितार्थः । आत्मपदञ्चात्र परमेश्वरपर
"तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इत्यादि-
श्रुत्येकवाक्यत्वात् । न च-"न वा अरे पत्युः कामाय पतिः प्रियो
भवति, आत्मनस्तु कामाय पतिः प्रियो भवति" [वृ०, श्रा०,
२. ४.५.] इत्यादि जीवात्मानमुपक्रम्य "आत्मा वा अरे द्रष्टव्यः"
इत्युक्तत्वादात्मपदं जीवात्म-परमिति वाच्यं ; "न वा अरे पत्युः
कामाय" इत्यादिना स्वात्मोपाधिक-पत्यादिनिष्ट-प्रियत्वाख्यानेन स्वात्म-
सुखस्यैव परमप्रयोजनत्वमुक्त्वा, परमात्म-सुखस्य सर्वतोऽति-
शयस्य प्राप्तये सर्वथा यतितव्यमित्याशयेन आत्मा द्रष्टव्य इत्युप-
संहारात ॥१०॥

तत्त्व-सन्दर्भः ।। श्रीभागवत-सन्दर्भ तच्चानुमतं, "तर्काप्रतिष्ठानात्" [ब्र०, सू०, २. ११.] इत्यादौ, “अचिन्त्याः खलु ये भावा न तांस्तकेंण योजयेत्" [म०, भा०, भी०,५०, ५. २२.] इत्यादौ, “शास्त्र- योनित्वात्" [अ०, सू०, १. १. ३.] इत्यादौ, "श्रुतेस्तु शब्द- श्रीबलदेव-विद्याभूषणकृत-टीका । ननु कोऽयमाग्रहो वेद एवास्माकं प्रमाणं ? इति चेत्तत्राह, तच्चानु- मतमिति, श्रीव्यासाद्यैरिति शेषः। तद्वाक्यान्याह, -तत्यादीनि साध्यसाधनयोरपीत्यन्तानि । तर्केति-ब्रह्मसूत्र-खण्डः । तस्यार्थः- परमार्थ-निर्णयस्तर्केण न भवति, पुरुषबुद्धि-वैविध्येन तस्य नष्ट प्रतिष्ठत्वात् । एवमाह श्रुतिः- "नेषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ !" [ कठ० १. २. ६.] इति । - श्रीराधामोहन-गोखामिभट्टाचार्यकृत-टीका। "ब्रह्मविदाप्नोति परम्” इत्यादि श्रुतेश्चेति चेन्न, वेदनिरपेक्षस्या- नुमानस्य लोकातीतश्रीकृष्ण-तल्लीला-श्रवणादि-भजनासाधनत्वात् । तर्काप्रतिष्ठानादिति वेदान्तसूत्रस्य-शास्त्रविनाकृतानुमानस्य वस्त्व- साधकत्वादित्यर्थः। अचिन्त्याः-लोकातीततया दुर्घटत्वेन प्रतीयमानाः, भावाः-ईश्वर-गुणलीलादिरूपाः शास्त्र-प्रसिद्धाः। तर्केण-स्वमति- कल्पितानुमानेन। योजयेत्-मायिकत्वादिरूपेण कल्पयेदिति वच- नार्थः। शास्त्रं योनिः-प्रमाणमस्येति सूत्रार्थः, यद्वा शास्त्रस्य योनिः- कारणं तत्त्वात् । तथा च शास्त्रस्य परमकारुणिक-यथार्थसर्वार्थदर्शि- प्रतारणादिदोषरहित-परमेश्वर-प्रणीतत्वेन शास्त्रमेव गरीयः प्रमाण- मिति। ननु शास्त्रस्य परमेश्वर-प्रणीतत्वे किं मानं ?इत्यतो वेदान्त-सूत्रं षट्सन्दर्भनामक- [प्रथमः- - मूलत्वात्" [ ब्र, सू०, २. १. २७ ] इत्यादौ, "पित-देव- मनुष्याणां वेदश्चतुस्तवेश्वर ! श्रेयस्वनुपलब्धेऽर्थे साध्य- साधनयोरपि" [भा०, ११. २०. ४.] इत्यादौ ॥११॥ . श्रीबलदेव-विद्याभूषणकृत-टीका । व्याप्यारोपेण व्यापकारोपस्तर्कः :-'यद्ययं निर्वह्निः स्यात्तदा निधूमः स्यात्' इत्येवंरूपः, स च व्याप्ति-शङ्कां निरस्यन्ननुमानाङ्गं भवेदतस्तकेंणा- नुमान ग्राह्यमिति । “अचिन्त्याः" इत्युद्यमपर्वणि दृष्टम् । “शास्त्र"-ति ब्रह्मसूत्रम् । 'न' इत्याकृप्यम् । 'उपास्यो हरिरनुमानेनोपनिषदा वा वेद्यः' इति सन्देहे, “मन्तव्यः" [बृपा०४.४.५] इति श्रुतेरनुमानेन स वेद्य इति प्राप्ते, नानुमानेन वेद्यो हरिः। कुतः ? शास्त्रम्-उपनिषद्, श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका ! दर्शयति-"श्रुतेस्तु शब्दमूलत्वात्" इति। तु-कार:-अन्यप्रमाणतः प्रामाण्यसूचनाय । श्रुतेः-वेदस्य, शब्दमूलत्वात्-"अस्य महतो भूतस्य निश्वसितमेतद् ऋग्वेदो जायते" वृ० प्रा० १.४.१५ ] इत्यादि “यो ब्रह्माणं विदधाति पूर्व वेदांश्च तस्मै प्रहिणोति' इत्यादिश्रुतिरूपशब्दः, मूलं-परमेश्वर-प्रणीतत्वे प्रमाणं यस्याः,- तत्त्वात्। "पितृदेवे"-ति तव वेदचक्षुरिति समन्वयः। चक्षुः-शापकं, श्रेयः-उत्तमम् । अनुपलब्धे-प्रत्यक्षाद्यगोचरे, अर्थ त्वत्स्वरूपगुण- लीलादिरूपे। साध्यं-प्रेमरूपादिफलं,साधनं-तत्साधनं ; तयोरपी- त्यर्थः। श्रीमन्माध्वभाष्ये त्वेवं व्याख्या-"श्रुतेस्तु शब्दमूलत्वादिति । न चेश्वर-पक्षे अयं विरोधः। योऽसौ विरुद्धोऽविरुद्धोऽनुरागवानननु- रागवानिन्द्रोऽनिन्द्रःप्रवृत्तिरप्रवृत्तिः स परः परमात्मा"इति पैङ्गयादि- श्रुतेरेव शब्दमूलत्वाञ्च न विरोधः। “यद्वाक्योक्तं न तयुक्तिविरोद्धं शक्नुयात् कचित् । विरोधे वाक्ययोः क्वापि किंचित्साहाय्य- .

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ १५ श्रीबलदेव-विद्याभूषणकृत-टीका । योनिः-वेदन-हेतुर्यस्य तत्त्वात्। “औपनिषदं पुरुषं पृच्छामि" [वृ०, आ०, ३.६.२६] इत्याद्या हि श्रुतिः। “श्रुतेस्तु" इति ब्रह्मसूत्रम् । 'न'इत्यनुवर्त्तते ; ब्रह्मणि कर्तरि लोक-दृष्टाः श्रमादयो दोषा न स्युः। कुतः ? “सोऽकामयत बहु स्यां प्रजायेय” इति सङ्कल्पमात्रेण निखिल- सृष्टि-श्रवणात् । ननु श्रुतिर्वाधितं कथं ब्रूयादिति चेत्तत्राह,-शब्देति । अविचिन्त्यार्थस्य शब्दकप्रमाणकत्वात् । दृष्टञ्चैतन्मणिमन्त्रादौ । "पितृदेव"-इत्युद्धवोक्तिरेकादशे। हे ईश्वर ! तव वेदः पित्रादीनां श्रेयः-श्रेष्ठं चक्षुः। क्व ? इत्याह-"अनुपलब्धेऽर्थे" इत्यादि । तथा च वेद एवास्माकं प्रमाणमिति मद्वाक्यं सर्वसम्मतमिति नापूर्व मयोक्तम् ॥ ११॥ एव श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । कारणम्" इति पुरुषोत्तमतन्त्रे" इति। ननु वेदस्य प्रामाण्ये सिद्ध वेदावगत-परमेश्वर-प्रणीतत्वक-वेदस्य बलवत्त्व- मवधार्य, सम्भवति ; परस्पराश्रयादिति चेन्न । स्थावर-जगमप्राणिनां सुखदुःखादि-वैचित्र्येण मन्दमध्योत्तमयोनि- वैचित्र्येण च तेषां कर्म-वैचित्र्यमेव तद्वैचित्र्यकारणं वाच्यं, कारणान्तरादर्शनात् । तानि च कर्माणि शास्त्रतोऽवगम्य अनादि- शिष्ट-परम्परया क्रियमाणानि दृश्यन्ते, शास्त्रोक्तकर्मणां केषाञ्चित फलानि च दृश्यन्ते, ज्योतिरायुर्वेदादिशास्त्राणि दृष्टफलानि सुप्रसि- द्वानीति वेदस्य प्रामाण्यमवधार्यते। एवं 'वेदः पौरुषेयो वाक्य- त्वात्' इत्याद्यनुमानेनापि परमेश्वर-प्रणीतत्वं वेदस्य सिध्यति । तद- न्यस्यालौकिकवेदार्थानवगन्तृत्वादिति सिद्धं परमेश्वर-प्रणीतो वेदः प्रमाणम् । एवमनुमानेन वेद-प्रामाण्यसिद्धावपि वेदस्य नित्यनिर्दोष- परमेश्वर-प्रणीतत्वेन तदर्थस्यानुमानादिना बाधस्यायोगात् वेदस्य पदसन्दर्भनामक- [प्रथमः- तत्र च वेद-शब्दस्य सम्प्रति दुष्पारवाद दुरधि- गमार्थत्वाच्च तदर्थ-निर्णायकानां सुनीनामाथि परस्पर- विरोधाद वेदरूपो वेदार्थ-निर्णायकश्चेतिहास-पुराणा- त्मकः शब्द एव विचारणीयः। तत्र च यो वा वेद- शब्दो नारम-शिदितः सोऽपि तदृष्ट्यानुमेय एवेति सम्प्रति तस्यैव प्रमोत्पादकत्वं स्थितम् । तथाहि महाभारते मानवीये ;- "इतिहास-पुराणाभ्यां वेदं समुपयेत् ।। [म,भा,श्रा,१,२६७] श्रीबलदेव-विद्याभूषणकृत-टीका । एवं चेहगादिवेदेनास्तु परमार्थ-विचारः? तबाह,-तत्र च वेद- शब्दस्येति। तर्हि न्यायाधिशास्त्रैर्वेदार्थनिर्णेतृभिः सोऽस्तु ? इति चेत्तत्राह,--तदर्थनिर्णायकानामिति । तस्यैवेति-इतिहास-पुराणा- श्रीराधामोहनगोस्वामि-भट्टाचार्यकृत-टीका । प्रामाण्यम् । अनुमानस्य नानाविधत्वेऽपि अनुकूलतर्क-सहकृतस्य प्रामाण्यमवगन्तव्यम् । तथा वेदार्थ-विचार एव सदनुमानं विधेय. मित्यपि बोध्यमिति दिक् ॥ ११ ॥ दुष्पारत्वादिति-केपांचिद्वेदानामुच्छन्नत्वात् केषांचित् प्रच्छन्नत्वा- ञ्चेति भावः। नदर्थ-निर्णायकानां-वेदान्तसूत्रादिकारिणां मुनीनां व्यासकणादादीनाम् । वेदरूपः-गोण्या निरूढलक्षणया वेदशब्द- प्रतिपाद्यः, नात्मविदितः अप्रचरद्रूपत्वात् । तदृष्ट्या-इतिहास- पुराणदृष्ट्या। समुपद्व्हयेदिति-वेदयति-विहितनिषिद्धं परत- स्वस्वरूपं च ज्ञापयतीति वेदस्तम्, अभिधेय-प्रकाशकतया पूरयेत् इतिहासपुराणयोर्वेदशास्त्रान्तर्भूतत्वं जानीयादिति यावत् । नाम- तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ १७ इति, “पूरणात् पुराणम्” इति चान्यत्र। न चावेदेन वेदस्य बृंहणं सम्भवति, न ह्यपरिपूर्णस्य कनक-वलयस्य त्रपुणा पूरणं युज्यते । ननु यदि वेद-शब्दः पुराण- मितिहासञ्ोपादत्ते, तर्हि पुराण मन्यदन्वेषणीयम्। श्रीबलदेव-विद्याभूषणकृत-टीका । त्मकस्य वेदरूप इत्यर्थः । समुपद्व्हयेदिति-वेदार्थ स्पष्टीकुर्यादित्यर्थः। पूरणादिति-वेदार्थस्येति बोध्यम् । त्रपुणा-सीसकेन । पुराणेति- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। व्युत्पत्त्यापि वेद-समुपवृंहणमाह-पूरणादिति, वेदपूरणादित्यर्थः । पुराणमिति ह्रस्वः संज्ञायाम् । बृंहणं पूरणं, पुराणं-वेद-शब्देनो- पादीयमानं पुराणम् । अन्यवत्-उच्छन्नवेदवत, अन्वेषणीयमिति- इदानी प्रचरत्पुराणेतिहासयोर्वेद-व्यवहाराभावादिति भावः। पद- कदम्बस्येति-वेद-घटकस्य पुराणेतिहास-घटकस्य चेत्यादेः, अपौरुषेय- स्वात्-जीवाप्रणीतत्वात्, परमेश्वर-प्रणीतत्वादिति यावत् । अभेदेऽपि -वेद-शब्द-प्रतिपाद्यत्वेऽपि,स्वर-कम-भेदात्-स्वर-क्रमयोर्भेदात्, भेद- निर्देशः-वेद-पुराणयोर्भेदेन व्यवहारः। खरः-दान्तोदात्तादिरूपः ।। तथा च दात्तोदात्तादि-स्वरभेदेनाध्ययन-विधिविषयता वेदस्य । पुराणे- तिहासयोर्न दात्तादि-स्वरभेदेनाध्ययन-विधिविषयता, किन्तु ;- "इतिहास-पुराणानि श्रुत्वा भक्तया विशाम्पते ! मुच्यते सर्वपापेभ्यो ब्रह्महत्यादिभिर्विभो ! -- * 'पुराणादिकम्' इति पाठान्तरम्, तदन्ते “अन्यत्" इत्यत्र “अन्यवत्" इति पाठः श्रीमद्- गोस्वामिभदाचार्य-सम्मतः। + उदात्तानुदात्तादिभेद एव स्वरस्योपलभ्यते । अत स्लादर्शान्तराभावान्न टिप्पणीपाठश्चालितः । ३ [प्रथमः chana - पट्सन्दर्भनामक- यदि तु न, न तहीतिहास-पुराणयोरभेदो वेदेन । उच्यते ;-विशिष्टेकार्थ-प्रतिपादक--पद-कदम्बस्या- श्रीबलदेव-विद्याभूषणकृत-टीका । हासयोर्वेदरूपतायां कश्चिच्छकते-नन्वित्यादिना। तत्र समाधत्ते-... उच्यत इत्यादिना । निखिलशक्ति-विशिष्टभगवद्पैकार्थप्रतिपादकं यत् श्रीराधामोहनगोस्वामि-भट्टाचार्यकृत-टीका। ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरात् । श्रुत्वान्यवर्णजाद्राजन् ! वाचकानरकं व्रजेत् ॥" तथा,-"देवार्चामग्रतः कृत्वा ब्राह्मणानां निशेषतः । ग्रन्थिञ्च शिथिलं कुर्याद्वाचकः कुरुनन्दन पुनर्वघ्नीत तत्सूत्रं न मुक्त्वा धारयेत् क्वचित् । हिरण्यं रजतं गाश्च तथा कांश्योपदोहनाः । दत्त्वा च वाचकायेह श्रुतस्याप्नोति यत्फलम् ॥" कांश्योपदोहना:-कांश्यकोड़ाः। "वाचकः पूजितो येन प्रसन्नास्तस्य देवताः।" तथा,- "ज्ञात्वा पर्व-समाप्तिश्च पूजयेद्वाचकं बुधः। आत्मानमपि विक्रीय स इच्छेत् सफलं क्रतुम् ॥" तथा,-"विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा । कलस्वर-समायुक्तं रसभाव-समन्वितम् ॥ बुध्यमानः सदा हार्थ ग्रन्थार्थ कृत्स्नशो नृप ! ब्राह्मणादिषु सर्वेषु ग्रन्थार्थ चार्पयेन्नृप । य एवं वाचयेद्विद्वान् स विप्रो व्यास उच्यते ॥" तथा,-"सप्तस्वरसमायुक्तं काले काले विशाम्पते ! प्रदर्शयन् रसान् सर्वान् वाचयेद्वाचको नृप!" इति- तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ १६ पौरुषेयत्वादभेदेऽपि स्वरक्रम-भेदाभेद-निर्देशोऽप्युप- पद्यते । ऋगादिभिः सममनयोरपौरुषेयत्वेनाभेदो श्रीबलदेव-विद्याभूषणकृत-टीका । पद-कदम्बमृगादिपुराणान्तं तस्येति । ऋगादिभागे स्वर-क्रमोऽस्ति, इतिहास-पुराणभागे तु स नास्ति-इत्येतदंशेन भेदः। “एवं वा" इति श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । तिथितत्त्व-नयतकालिककल्पतरु-धृतभविष्यपुराणादि-वचनानुसारेणा- ध्ययन-विषयतेति विशेषादिति भावः। क्रम-भेदः-उपक्रमोपसंहार- विशेषनियमित आनुपूर्वी-विशेषः। ऋगाद्याख्यानुपूर्वी-विशेषवत्त्वं- वेद-पदप्रवृत्तिनिमित्तं,स्वरविशेषेणाध्ययन-विधिविषयतावच्छेदकं,शूद्र- स्याध्ययनश्रवणादिनिषेधविषयतावच्छेदकञ्च । पुराणाद्यानुपूर्वीमत्त्वञ्च -शूद्राद्यध्ययन-निषेधविषयतावच्छेदकं,श्रवण-विधिविषयतावच्छेदक- ञ्चेति वेद-पुराणाद्योरपौरुषेयत्वाविशेषेऽपि भेद-निर्देशः। विशिष्टैकार्थ- प्रतिपादकत्वापौरुषेयत्व-साम्येन गौण्या लक्षणया पुराणादौ वेदशब्द- प्रयोगः । वस्तुत एवं विधिनिषेधवाक्य-ब्रह्मप्रतिपादकवाक्य-कदम्बानां केनापि प्रमाणेन लोके प्रागनवगतार्थपराणामपौरुषेयाणां वेदत्वं, पुराणादीनां च परमदयालुना भगवता स्वयं स्त्रीशूद्रब्रह्मबन्धूनां श्रवणा- द्यर्थ वेदादनन्तरोक्तानां वेदादवगतार्थबोधकतया-न तत्र वेदशब्दस्य मुख्या वृत्तिः ; किन्तु गौणी वृत्तिः। तथा भेदेऽपि मुख्य-गौण-वेदशब्द- प्रतिपादितानां वेद-पुराणेतिहासानामेकग्रन्थत्वं ब्रह्मवेदनरूपैकप्रति- पत्तिरूपत्वात्, “सर्वे वेदा यत्पदमामनन्ति" इति श्रुतेः । वेद-पुराणेति- हासानामभेदेऽपि न वेदमपेक्ष्य पुराणेतिहासयोन्यूनत्वं, परन्तु तुल्य- प्रधानभावः ; अपौरुषेयत्वेन स्वतः प्रमाणतस्तौल्यात् । यद्वा ; वेद- शब्दस्य शक्तिद्वयी, एका-ऋगाद्यानुपूर्वी-विशेषरूपेण, अपरा- B

२०
पट्सन्दर्भनामक-
[प्रथमः
Gma-
MORE
Romam
माध्यन्दिनश्रुतावेव व्यज्यते, "एवं वा अरेऽस्य महतो
भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस
इतिहासः पुराणम्" [Z० आ०२, ४.१०] इत्यादिना ॥१२॥
अतएव स्कान्द-प्रभासखण्डे ;-
"पुरा तपश्वचारोग्रममराणां पितामहः ।
आविर्भूतास्ततो वेदाः सषडङ्ग-पदक्रमाः ॥
ema
श्रीबलदेव-विद्याभूषणकृत-टीका ।
मैत्रेयी पत्नी प्रति याज्ञवल्क्य-वचनम् । अरे-मैत्रेयि ! अस्य-
ईश्वरस्य । महतो-विभोः, पूज्यस्य वा। भूतस्य-पूर्वसिद्धस्य ।
स्फुटार्थमन्यत् ॥ १२॥
in
श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका।
चापौरुषेयत्वेन ऋगादि-वेदचतुष्टय-पुराणेतिहाससाधारणी इति
वृत्तिद्वयस्वीकारफलञ्चोक्तमेवावधेयम् । अत्र वेदपूरणं नाम-वेदो-
स्थापिताकाता-निवर्त्तनम् । तदुक्तम्,-
"प्रथैक्यादेकं वाक्यं साकाङ्क्षञ्चेद्विभागे स्यात् ।" इति ।
अर्थक्यं-तात्पर्य्यविषयार्थ-प्रतिपत्तरैक्यं, वेदस्थले तात्पर्य्यविषय-
प्रतिपत्तिब्रह्मतत्त्वनिर्णयः। एकं वाक्यम्-एको अन्थः, विभागे-
ग्रन्थयोः पृथगुपन्यासेऽपि। अत्राकाङ्क्षा-वेदादर्थ-प्रतीतो सत्यां
तत्रासम्भावनादिना कथमेतदर्थ-सङ्गतिः' ? इति शिप्य-जिज्ञासा, तन्नि-
बृत्तिश्च पुराणेतिहासाभ्यां क्रियत इति वेदमपेक्ष्य पुराणेतिहासयो-
रुत्कर्ष-प्रतीतिरिति वेद-पुराणयोरेकग्रन्थत्वे पुराणेतिहासयोर्वेदार्थ-
संग्राहकत्वेन पौनरुक्त्यदोष इति परास्तम् ; वेद-चतुष्टयार्थ-विवरण-
रूपत्वात्तयोरिति ॥१२॥

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ २१ ततः पुराणमखिलं सर्वशास्त्रमयं ध्रुवम् । नित्यशब्दमयं पुण्यं शतकोटि-प्रविस्तरम् । निर्गतं ब्रह्मणो वक्रात्तस्य भेदान्निबोधत ।। ब्राह्मय पुराणं प्रथमम्-" इत्यादि । अत्र शतकोटिसंख्या ब्रह्मलोके प्रसिद्धेति तथोक्तम् । तृतीयस्कन्धे च ;- "ऋग्यजुःसामाथाख्यान वेदान् पूर्वादिभिर्मुखैः ।" [भा० ३. १२. ३७।] m- श्रीवलदेव-विद्याभूषणकृत-टीका । पुरेत्यादौ वेदानां पुराणानाञ्चाविर्भाव उक्तः। ससृजे प्रावि- र्भावयामास । समानेति-यज्ञदत्त-पञ्चभान विमानामन्त्रयस्य इतिवत् । प्रत श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । समानजातीय-निवेशितत्वादिति--समानजातीय एव पूरकेऽन्वयात, स्वान्वयितावच्छेदक-धर्मावच्छिन्नेनैव पूरणादिति यावत् । वेद- गत-संख्याया अवेदेन पूरणं न भवतीति पर्य्यवसितम् । वेदानां वेदमिति-ऋगादिचतुर्णा वेदानामर्थावेदकं पुराणमित्यर्थः । एव-श्रुति-स्मृतिभिरितिहास-पुराणयोः पञ्चमत्व-निरुक्तेरेव । अन्त- भूतत्व-कल्पनयेति,-चतुर्णा वेदानामन्तर्भूतत्व-कल्पनम्-'अस्य महतो भूतस्य निःश्वसितम्-ऋग्वेदः प्रथमः, ततो यजुर्वेदः, ततः सामवेदः, ततोऽथर्वाङ्गिरसः-अथर्ववेदः, तेवितिहास-पुराणम्,- इति श्रुत्यर्थ-कल्पनात्। तत्राथमभित्रायः-"तस्मात्तपस्तेपानाञ्चत्वारो वेदा अजायन्त, ऋचः सामानि जज्ञिरे"-इत्यत्र सामान्यतो वेदचतु- टयत्वमुक्त्वा तद्विवरणम्-ऋच इत्यादि, तपस्तेपानात्-ईश्वरात् । and- २२ पदसन्दर्भनामक- [प्रथमः- me इत्यादिप्रकरणे,- "इतिहास-पुराणानि पञ्चमं वेदमीश्वरः। सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः" । [ भा० ३. १२. ३६ ] इति । अपि चात्र साक्षादेव वेद-शब्दः प्रयुक्तः पुराणे- तिहासयोः। अन्यतू च ;- "पुराणं पञ्चमो वेदः- इतिहासः पुराणश्च पञ्चमो वेद उच्यते । वेदानध्यापयामास महाभारतपञ्चमान् ॥” इत्यादौ । श्रीवलदेव-विद्याभूषणकृत-टीका। कार्णमिति, कृष्णेन-व्यासेनोक्तमित्यर्थः। अतएवेति-पञ्चमवेदत्व- श्रवणादेवेत्यर्थः। चतुर्णामेवान्तर्भूतत्वेति-भगवन्निःश्वसितभूते ये श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। तथा "महतो भूतस्य" इति श्रुतावपि वेदचतुष्टय-कथनानन्तरं तद्- घटकेतिहास-पुराणमाह । अन्यथा न वा* अस्य महतो भूतस्येति श्रुतौ इतिहासः पुराणमित्यनन्तरं 'विद्या उपनिषद्' इत्यादिश्रवणात् विद्योप- निषदामपि वेद-चतुष्टयानन्तर्गतत्वापत्तिः, प्रसिद्धभारतादीतिहास- ब्राह्मादिपुराणानां वेदार्थ-संग्राहकत्वेन व्यासादिकृतत्वेन च प्रसिद्धिर्न तेषामपौरुषेयत्वम्, तथा ऋगादिवेदमध्ये "संयुं प्रजापतिं देवा अब्रुवन्" इत्याद्युपक्रम्य, “यो ब्राह्मणायावगुरेत्तं शतेन यातयेत्" इत्यादिश्रुतेः, 'अवचनेनैव प्रोवाच” इति श्रुतेश्चेतिहासरूपत्वात्, "यतो वा इमानि भूतानि जायन्त" इत्यादिश्रुतेः “एतस्मादात्मन "न वा" इत्यस्य सङ्गतिः सुधीभिर्विचाऱ्यां।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ २३ अन्यथा-"वेदान्" इत्यादावपि पञ्चमत्वं नावकल्पेत, समानजातीय-निवेशितत्वात् संख्यायाः। भविष्य- पुराणे - - "कार्णञ्च पञ्चमं वेदं यन्महाभारतं स्मृतम् ।” इति । तथा च साम-कौथुमीयशाखायां, छान्दोग्योपनिषदि च;-"ऋग्वेदं भगवोऽध्येमि गजुचेदं सामवेदमाथर्वणं चतुर्थ- मितिहासं पुराणं पञ्चमं वेदानां वेदम्” [ ३.१५.७] इत्यादि । श्रीबलदेव-विद्याभूषणकृत-टीका । इतिहास-पुराणे ते चतुर्णामेवान्तर्गते । “तेप्वेव यत् पुरावृत्तम्, यञ्च पञ्चलक्षणमाख्यानम्, ते एव तद्भूते ग्राह्ये, न तु ये व्यास- - श्रीराधामोहनगोस्वामि-भट्टाचार्यकृत-टीका। आकाशः सम्भूत" इत्यादिश्रुतेः, "स ब्रह्मणा सृजति रुद्रेण विला- पयति हरिरादिरनादिः” इत्यादिश्रुतेश्च सर्गविसर्ग-निरोध-भगवदव- तारादि-कथनलक्षण-पुराणरूपत्वाञ्च केषाञ्चिदुच्छन्न-प्रच्छन्नतयाधुनि- कानां जनानामशातत्वात्, प्रचरदूपाणामपि दुरूहत्वात् व्यासेन तदर्थान् सङ्कलय्य भारतादीतिहासपुराणानि कृतानीति बोध्यम् । प्रसिद्ध- प्रत्याख्यान-प्रसिद्धानां भारत-ब्राह्मादीनां वेदत्वप्रत्याख्यानं निरस्त- मिति । इतिहास-पुराणयोः श्रुतौ क्रमिकजातत्वेन कथनादितिहासस्य पञ्चमत्वम्, पुराणस्य षष्टत्वं यद्यपि वक्तुमुचितम् , तथापीतिहास- पुराणयोर्वेदार्थ-विवरणरूपत्वेनैक्यमादृत्य पञ्चमत्वमुक्तम्, स्वतन्त्रेच्छ- त्वाद्भगवतः। श्रुतौ प्रागितिहासनिःसरणं ततः पुराणमिति क्रम- निर्देशात् व्यासेन तत्क्रमेणैव तयोराविर्भावनम् । तेन भारतानन्तर- मेव पुराण-संग्रहः कृत इति।

पट्सन्दर्भनामक- [प्रथम:- ARMIRRIENDLAMImamam marrianme अतएव "अस्य महतो भूतस्य” इत्यादावितिहास-पुराणयो- श्चतुर्णामेवान्तर्भूतत्व-कल्पनया प्रसिद्ध-प्रत्याख्यानं निरस्तम् । तदुक्तम् ; "ब्राह्मय पुराणं प्रथम" इत्यादि ॥ १३॥ पञ्चमत्वे कारणञ्च वायु-पुराणे सूत-वाक्यम् ; "इतिहास-पुराणानां वक्तारं सम्यगेव हि । माञ्चैव प्रतिजग्राह भगवान श्वरः प्रभुः ॥ Homen श्रीवलदेव-विद्याभूषणकृत-टीका । कृतत्वेन भुवि ख्याते शूद्राणामपि श्रव्ये' इति कर्मठैर्यत् कल्पितं तन्निरस्तमित्यर्थः॥ १३॥ Anurautendronme- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । "अष्टादशपुराणानि कृत्वा सत्यवती-सुतः। भारताख्यानमखिलं चक्रे तदुपबृंहितम् ॥"- इति वचनस्यार्थः; सत्यवती-सुतःअष्टादशपुराणं कृत्वा भारताख्यानं अखिलं-पूर्ण चक्रे, खिल'शब्दस्योणार्थत्वात् । तदुपवृंहितं-वेदार्थे- र्युक्तम् । यद्वा ;-अखिलं-तद्देव-लोकादिगतसर्व भारताख्यानम् । तदुपबृंहितं-तैः-पुराणैः, उपबृंहित-पूर्णञ्चके इत्यन्वयः, न तु अष्टादशपुराणानि कृत्वा भारतं चक्रे इत्यन्वयः, श्रुत्यादि-विरोधापत्तेः । अतएव वक्ष्यमाणगरुडपुराण-भागवतलक्षणे-"अर्थोऽयं ब्रह्मसूत्राणां भारतार्थ-विनिर्णय इत्युक्तम्"। तथोक्तमिति-प्रसिद्धपुराणस्य वेदत्व- मुक्तम् ॥ १३॥ meena * "तथोक्त" इति पाठः-गोस्वामिभट्टाचार्य-धृतः ।

तत्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ २५ एक आसीयजुर्वेदस्तं चतुर्द्धा व्यकल्पयत् । चातुहोत्रमभूत्तस्मिंस्तेन यज्ञमकल्पयत् ।। आध्वर्यवं यजुभिस्तु अभिर्होत्रं तथैव च । औद्गात्रं सामभिश्चैव ब्रह्मत्वञ्चाप्यथर्वभिः । आख्यानैश्चाप्युपाख्यानर्गाथाभिजि-सत्तमाः ! पुराण-संहिता-*श्चक्रे पुराणाथ-विशारदः॥ यच्छिधं तु यजुर्वेदे इति शास्त्रार्थ-निर्णयः ॥ इति । ब्रह्मयज्ञाध्ययने च विनियोगो दृश्यतेऽमीषाम्-- "यड्राह्मणानीतिहास-पुराणानि” इति । सोऽपि नावेदत्वे सम्भवति । अतो यदाह भगवान् मात्स्ये;- "कालेनाग्रहणं मत्वा पुराणस्य द्विजोत्तमाः ! व्यास-रूपमहं कृत्वा संहरामि युगे युगे ॥” इति । ms- श्रीवलदेव-विद्याभूषणकृत-टीका। पञ्चमत्वे कारणञ्चेति ;-ऋगादिभिश्चतुर्भिश्चातुर्होत्रं-चतुर्भि- त्विग्भिनिष्पाद्यं कर्म भवति, इतिहासादिभ्यां तन्न भवतीति श्रीराधामोहन-गोखामिभट्टाचार्यकृत-टीका । यजुर्वेदस्य वेद-सामान्यरूपत्वकथनं-ऋक्सामाथर्ववेदातिरिक्तस्य यजुर्वेदत्वलाभाय। अतएवोक्तं “यजुः सर्वत्र गीयत" इति चतुर्दा विभागनिमित्तमध्वर्युत्वादिकार्य-भेद इति भावः। “यच्छिष्टन्तु यजुर्वेदे" इति-अध्वर्युत्वलक्षण-वेदेभ्यः कांश्चिद्वेदानादाय यजुरादि- नाम-भेदेन विभागे कृते यदवशिष्ट,तदपि यजुर्वेदनामकमित्यर्थः। न च * "संहितां" इति वा पाठान्तरम् ।

[प्रथम:- २६ षट्सन्दर्भनामक- पूर्वसिद्धमेव पुराणं सुखसंग्रहणाय सङ्कलयामीति ततार्थः । तदनन्तरं ह्युक्तम् ;- "चतुर्लक्ष-पमाणेन द्वापरे द्वापरे सदा । तदष्टादशधा कृत्वा भूर्लोकेऽस्मिन् प्रभाष्यते ॥ अद्याप्यमर्त्य-लोके तु* शतकोटि-प्रविस्तरम् । तदर्थोऽत्र चतुर्लक्षः संक्षेपेण निवेशितः ॥" [५३.८-११.] इति । श्रीबलदेव-विद्याभूषणकृत-टीका । तद्भागस्य पञ्चमत्वमित्यर्थः। श्राख्यानैः--पञ्चलक्षणैः पुराणानि । उपाख्यानैः-पुरावृत्तः, गाथाभिः छन्दो-विशेषैश्च, संहिताः-भारत .4mment-- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। "अस्य महतो भूतस्य" इति श्रुतौ गादिक्रमेणैव जातत्वात् कथमेकस्य यजुर्वेदस्य ऋगादिभेदेन विभागो व्यासकृत इति वाच्यम्, ऋगादि- क्रमेण वेद उद्भूतः । तत्र यजुर्वेदस्य प्रचुरत्वेन समुदितस्य यजुर्वेद- त्वेनैकत्वेन च व्यवहारात्तथोक्तेः “प्राधिक्येन व्यपदेशा भवन्ति" इति न्यायात्, ऋगादिभेदेन वेदस्य चतुर्भाव्यवहारस्य प्राक् सत्वेऽपि तदधिकारिभेद-कार्यभेदव्यवस्थया व्यासेन व्यवस्थापनात्तस्य विभाग- कृत्त्वव्यपदेश इति भावः। आख्यानैरिति-प्रश्नोत्तरवचननिबन्धैः, सूतशौनक-सम्बादरूपैरित्यर्थः। उपाख्यानैः-प्राथमिक-ग्रन्थाभिधेय- प्रकाशकैः शुक-परीक्षित् सम्बादादिरूपैः। गाथाभिः-पुरावृत्तेतिहास- सम्बादास्याभिरिति। पुराण-संहितां-पुराणसंग्रहं चक्रे इति । तथा चाख्यानादिभिः सुसजीकृत्य पुराणानि प्रादुश्चकार । यथोक्तं गीता- . * "तत्" इति वा पाठः।

तत्त्व-सन्दर्भः। श्रीभागवत-सन्दर्भ अत तु * “यच्छिधुं तु यजुर्वेदे” इत्युक्तत्वात्तस्याभिधेय- भागश्चतुर्लक्षस्त्वत्र मर्त्य-लोके संक्षेपेण सार-संग्रहण निवेशितो, न तु रचनान्तरेण न ॥ १४ ॥ श्रीबलदेव-विद्याभूषणकृत-टीका । रूपाश्चके । ताश्च-"यच्छिष्टं तु यजुर्वेदे" तद्रूपा इत्यर्थः । ब्रह्मेति ;- ब्रह्मयशे-वेदाध्ययने, अमीषां-इतिहासादीनां विनियोगो दृश्यते, श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । व्याख्यायां स्वामिचरणैः-"प्रायेण भगवन्मुखनिःसृतानेव श्लोकान् व्यलिखत्, कांश्चित् तत्सङ्गतये स्वयञ्च व्यरचयत्" इति व्यक्तं प्रथमस्कन्धे ;- "स संहितां भागवती कृत्वानुक्रम्य चात्मजम् । शुकमध्यापयामास निवृत्ति-निरतं मुनिम् ॥” इति । व्याख्यातश्च प्रथमस्कन्ध-सन्दर्भ -"प्रथमतः सामान्यतः कृत्वा नारदोपदेशानन्तरमनुक्रम्य तत्सम्मत्याऽनुक्रमेण विशेषतः कृत्वा" इति। विनियोगः-अध्ययन-विषयत्वेन विधेयत्वं, नावेदत्वे सम्भवति-ब्रह्म- पदस्य वेद एव शक्तेरिति भावः। तदर्थ इति-तस्य-शतकोटि- प्रविस्तरस्यार्थ:-तात्पर्य्यविषयार्थोपसंहारो पत्र सः; चतुर्लक्ष इत्यर्थः । 'तदर्थः' इत्यस्य प्रकारान्तरेण स्वयमाह-'अत्र च' इत्यादि । पुराणेतिहासयोरपि 'यच्छिष्टम्' इत्यनेन ग्रहणं, तस्यापि यजुर्वेदा- न्तर्गतत्वादिति भावः । तस्य यजुर्वेद-भागस्याभिधेयभागो यत्र सः। 'त्र' इत्यस्यार्थमाह,-'मर्त्यलोक' इति । न तु वचनान्तरेणेति- यजुर्वेदाभिधेय-भागविशेषात्मके पुराणविशिष्टस्य चतुर्लक्षत्वा- श्रयस्यं स्वरूपेणैवाभिहितः, न तु वचनान्तररूपेणेति भाषः । , * "भत्र च" इति च पाठान्तरम् । + "रचनान्तरेण" इति पाठः-गोस्वामिभट्टाचार्यधृतः ।

पदसन्दर्भनामक- [प्रथम:- RANA तथैव दर्शितं वेद-सहभावेन शिवपुराणस्य वायवीय-संहितायाम् ;- "संक्षिप्य चतुरो वेदांश्चतुर्दा व्यभजत् प्रभुः ! व्यस्तवेदतया ख्यालो न वेदव्यास इति स्मृतः ।। श्रीवलदेव-विद्याभूषणकृत-टीका । सोऽपि विनियोगः-तेपामवेदत्वे न सम्भवति। कृत्वा-आविर्भाव्य। सङ्कलयामि-संक्षिपामि । अभिधेयभागः- सारांशः ॥ १४ ॥ व्यस्तेति ;-व्यस्ताः-विभक्ता वेदा येन ; तत्तया वेदव्यासः श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। वस्तुतः अभिधेयभागः-पुराण-तात्पर्य-विषयीभूतोऽर्थ इत्यर्थः, न तु बहुब्रीहिणा ग्रन्थ इत्यर्थः। चतुर्लक्षः-चतुर्लक्ष-श्लोकात्मक-ग्रन्थ- प्रतिपाद्यः, संक्षेपेण-सारसंग्रहेण, यजुर्वेदात्-शतकोटि-प्रविस्तरा- स्मक-यजुर्वेदभागात् सारार्थ-संग्राहक-तद्घटकवाक्येनेति यावत्, निवेशितः कृतः। अपौरुषेय -पुराण-वचनघटितश्चतुर्लक्षः पुराणमिति पर्य्यवसितम्। "अम्बरीष ! शुकप्रोक्तं नित्यं भागवतं शृणु।"- इत्यनेनांशविशेषस्यैव भागवतत्वेन निर्देशः, तद्युक्तत्वेनाष्टादश- साहस्त्रात्मकं भागवतमिति गीयत इति । एवञ्च भागवत-शब्दो- ऽपौरुषेय-पुराणभागविशेषपरः, “जन्माद्यस्य” इत्यादि "विष्णुरात- ममूमुचत्" इत्यन्तग्रन्थपरश्च ; यथा वेदशब्दोऽपौरुषेयत्वेन ऋग्वेदादि- पुराणान्तपरश्चंतुर्वेदपरश्चेति । एवं भारत-ब्राह्म-पाद्मादिपदं, पुराणे- तिहास-पदश्च बोध्यम् ॥ १४॥ तेनेति शेष इति,-तेन-व्यासेन । समाख्या:--संज्ञाविशेषाः। Namundragonwon | "लोके" इति वा पाठः ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ २६ पुराणमपि संक्षिप्तं चतुर्लक्षामाणतः । अद्याप्यमर्य-लोके तु शतकोटि-प्रविस्तरम् ॥" [१. २३-२४.] इति। संक्षिप्तमित्यत्र तेनेति शेषः। स्कान्दमाग्नेयमित्यादि- समाख्यास्तु प्रवचन-निबन्धनाः काठकादिवत् ; श्रीवलदेव-विद्याभूषणकृत-टीका । स्मृतः। स्कान्दमित्यादि, स्कन्देन प्रोक्तं ; न तु कृतमिति वक्तृहेतुका स्कान्दादिसंशा, 'कठेनाधीतं काठकम्' इत्यादिसंज्ञावत् । कठानां वेदः काठकः, "गोनचरणानु"-"चरणाद्धान्नाययोरिति वक्तव्यम्"- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। प्रवचन-निबन्धनाः-सर्गादौ प्रथमाध्यापक-नाम-निबन्धनाः। श्रानु- पूर्वीति-उपक्रमोपसंहार-पर्यन्तानुपूर्वी-विशेष- निर्माणेन निबन्धनाः -निबन्धाः, स्वतन्त्रेच्छेन भगवतैव कृत इति यावत् । एवञ्चेति- हासमध्ये पुराणलक्षण-सर्ग-प्रतिसर्गादि-वर्णनसत्त्वेऽपि, पुराणमध्ये पौराणिकसम्बादादि-सत्त्वेऽपि तयोर्नाम-भेदः स्वेच्छामयभगवत्कृतत्वा- दुपपन्न इति । यद्यपि चतुर्लक्ष-समुदित-वाक्यस्यापौरुषेयत्वं यथा- श्रुतैतद्ग्रन्थतो लभ्यते, तथापि नारदोपदेश-तद्धीन-वेदव्यास- ग्रन्थकरण-प्रस्तावादेः परमेश्वर-निःश्वसितत्वं न घटते, व्यासप्रणयन- पूर्व प्रतीत-पुराणादेः प्रच्छन्नत्वेनादर्शनात् नारदोपदेशानन्तरं व्यासेन पुनः प्रणयनादित्यादि-विवेचनेन प्रचरद्रूप-पुराणादिकं व्यासेन सजी- कृतं, तत्राभिधेयार्थ-संग्रहोऽपौरुषेण वाक्य-जातेन कृतः ; तत्सङ्गत्यर्थ प्रसङ्गतश्च वाक्यान्तराण्युक्तानीति तथा व्याख्यातम् । अनित्यत्व- श्रवणं-व्यासकृतत्व-श्रवणनिबन्धनम् । वेदत्वं सिद्धमिति अपौरुषेयत्व- ३० पदसन्दर्भनामक- [प्रथमः- - आनुपूर्वी- निर्माण-निबन्धना वा । तस्मात् क्वचिद- नित्यत्व-श्रवणं त्वाविर्भाव-तिरोभावापेक्षया । तदेव- श्रीवलदेव-विद्याभूषणकृत-टीका । इति सूत्र-वार्तिकाभ्याम् । ततश्च ‘कठेनाधीतम्' इति सुष्ठूक्तम् । अन्यथा जन्यत्वेनानित्यतापत्तिः। आनुपूर्वी-क्रमः, 'ब्राह्मंच' इत्यादिक्रम- निर्माणहेतुका वा सा सा संज्ञेत्यर्थः। ब्राह्मयादिक्रमेण पुराणभागो श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । रूपवेदत्वं सिद्धमित्यर्थः। 'व्यासरूपमहं कृत्वा' इत्यनेन व्यासस्थ भगवदवतारत्वकथनायासकृत-वेदपुराणादि-संग्रहस्य स्वतः प्रमाणत्व- मपि बोध्यम् । तथापि-पुराणादौ वेदत्वेऽपि, 'सूतादीनाम्' इति- सूतादेविशेषग्रहणान्न शूद्र-सामान्यस्याधिकारः । "अध्येतव्यं न चान्येन ब्राह्मणं तनिय विना। श्रोतव्यमिह शूद्रेण नाध्येतव्यं कदाचन ॥"- इति पुराणमधिकृत्य भविष्यपुराणवचनात् सूतस्य च ब्राह्मणानुग्रहा- दधिकारः। तथाहि प्रायश्चित्तविवेकधृत-पद्मपुराणे सूतवाक्यम् - "न हि वेदेष्वधीकारः कश्चिच्छूद्रस्य जायते । पुराणेष्वधिकारो मे दर्शितो ब्राह्मणैरिह ॥” इति । 'वेदेषु' इत्यत्र वेदपदम्,-ऋगादि-चतुर्वेदपरम् ; "स्त्री-शूद्र-द्विजबन्धूनां त्रयी न श्रुतिगोचरा।" इति प्रथमात् । तत्र त्रयोति-चतुर्वेदोपलक्षणम्। यथा शुक्राचार्याशया तत्कन्याया देवयान्या विवाहः क्षत्रियेणापि ययातिना कृतो न दोषाय जातः, तत् सन्तान-यदुप्रभृतीनामुत्तमत्वञ्च, "समयश्चापि साधूनां प्रमाणं वेदवद्भवेत् ।" इत्यादिवचनात्। समयः-प्रतिज्ञा, अतएव ब्राह्मण-वचनेन परशुराम- - तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ मितिहास-पुराणयोर्वेदत्वं सिद्धम्। तथापि रुतादीना- श्रीबलदेव-विद्याभूषणकृत-टीका । वोध्यः । तथापि सूतादीनामिति ;-इतिहासादेवेंदत्वेऽपि तत्र शूद्राद्यधिकारः-स्त्री-शूद्र-द्विजबन्धूनाम्' इत्यादिवाक्य-बलाद्बोध्यः। meva श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । भयाद्ब्राह्मण-सभायां गूढस्थितस्य कस्यचित् क्षत्रियस्य ब्राह्मणत्वं जातम्-इत्युक्तं महाभारते । "तत्र कीर्तयतो विप्रा विप्रर्षे रितेजसः। अहञ्चाध्यगमं तत्र निविष्टस्तदनुग्रहात् ॥"- इति प्रथमात् चतुर्वेद-पाठस्तु सूतादीनामप्यनधिकृतस्तत्र द्विजाना- मेवाधिकारात् । अतएव प्रथमे सूतं प्रति शौनक-वाक्यम, "मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ।” इति । छान्दसाद-वेदात्। तत्र हेतुवचनमुक्तं स्वामिचरणैः- "अत्रै- वर्णिकत्वात्" इति । तथाहि प्रथमे "अहो वयं जन्मभृतोऽद्यहास्म वृद्धानुवृत्त्यापि विलोमजाताः । दौष्कुल्यमाधि विधुनोति शीघ्नं महत्तमानामभिधानयोगः ॥ कृतः पुनम गृणतो नाम तस्य महत्तमैकान्तपरायणस्य । योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद्यमनन्तमाहुः॥" टीका च-"भागवत-व्याख्यानेन लब्ध-प्रसङ्गमात्मानं महत्तमादर- पातं श्लाघते द्वाभ्याम्,-अहो इति-आश्चर्ये, ह इति हर्षे । वयम्- शति बहुवचनं श्लाघायाम् । प्रतिलोमजाता अपि अद्य जन्मभृतः- सफलजन्मानः, पास्म-जाताः,वृद्धानां-शौनकादीनाम्, अनुवृत्त्या- श्रादरेण, ज्ञानवृद्धः--शुकस्तस्य सेवयेति वा। यश्च दुष्कुलत्वं त- निमित्तमाधिञ्च-मनःपीड़ा,महत्तमानामभिधानयोगः-लौकिकोऽपि - - ३२ पदसन्दर्भनामक- [प्रथमः- मधिकारः--सकल-निगमवल्ली-सत्फल-श्रीकृष्ण- नामवत् । यथोक्तं प्रभासखण्डे ;- "मधुर-मधुरमेतन्मङ्गलं मङ्गलानां सकलनिगमवल्ली-सत्फलं चित्-स्वरूपम् । सकृदपि परिगीतं श्रद्धया हेलया वा भृगुवर ! नरमात्रं तारयेत् कृष्ण-नाम ॥” इति । श्रीबलदेव-विद्याभूषणकृत-टीका। यथा रथकारस्याग्न्याधानाङ्गे मन्त्रे तद्वाक्यवलादिति बोध्यम् । भारत- - श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । सम्भाषण-लक्षण-सम्बन्धः, विधुनोति-अपनयति । कृतः पुनः-किं वक्तव्यं, तस्यानन्तस्य नाम गृणतः पुंसो महत्तमानामभिधानयोगो दौष्कुल्यमाधि विधुनोतीति । यद्वा ; नाम गृणतः कुतः पुनर्दीष्कुल्यम् । यद्वा गृणतः पुंसस्तस्य नाम दौष्कुल्यं विधुनोतीति किं वक्तव्यमेव । अनन्ताः शक्तयो यस्यातोऽनन्तः। किञ्च महत्सु गुणा यस्य महागुण- स्तस्य भावस्तत्त्वं-तस्मात्, गुणतोऽप्यनन्तमाहुः” इति । विलोमजातत्वं-"ब्राह्मण्यां क्षत्रियात् सूतः” इन्युक्तलक्षणम् । अतएव भगवन्नामकथनादिनाऽप्यधिकारो ज्ञापितः। एवञ्च-सूतादीनां -इति आदि पदेन भगवद्भक्तियोगादि-लक्षणगुणवतामन्येषां परिग्रहः। तथाहि भारते नहुषं प्रति युधिष्ठिर-वाक्यम्, "सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा। दृश्यते यत्र नागेन्द्र ! स ब्राह्मण इति स्मृतः ॥ * यतन भवेत् सर्प ! तं शूद्रमिति निर्दिशेत् ।" इति ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ यथा चोक्तं विष्णुधर्मे "ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः । अधीतास्तेन येनोक्तं हरिरित्यक्षर-द्वयम् ॥" इति । - श्रीबलदेव-विद्याभूषणकृत-टीका । व्यपदेशेनेति;-दुरूहभागस्य व्याख्यानात्, छिन्नभागार्थ-पूरणाश्च पुराणे श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । क्षत्रियादिरपि ब्राह्मणः-तत्तुल्यः, सत्त्व-स्वभावत्वात् । शूद्रः-शूद्र- तुल्यः,तमः-स्वभावत्वात्। तथा प्रायश्चित्तविवेक-धृतापस्तम्ववचनम्, "तेषां तेजः-प्रभावेन प्रत्यवायो न विद्यते । तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरजोऽबलः॥” इति । तेषां-पूर्वेषाम् । अवरजः-अर्वाचीनः, एवमत्र वक्ष्यमाणानि "न शूद्रा भगवद्भक्ताः" इत्यादि-बहुवचनानि तथाधिकारे द्रष्टव्यानीति। यत्तु-"विप्रोऽधीत्याप्नुयात् प्रशां राजन्योदधिमेखलाम् । वैश्यो निधि-पतित्वञ्च शूद्रः शुध्यति पातकात् ॥"- इति द्वादशस्कन्ध-वचनात् शूद्र-मावस्याधिकार इति वदन्ति ; तन्न,- "श्रोतव्यमिह शूद्रेण" इत्यादि-वचनविरोधात्, “सुगतिमाप्नुयात् श्रवणाच शूद्रयोनिः" इति हरिवंशीयाश्च । उदधिमेखला-पृथ्वी, सन्धिरार्ष इति। 'शूद्रोऽधीत्य' इत्यस्य चान्तमूतज्यन्तक्रियया 'पाठयित्वा' इत्यर्थः, 'पञ्चभिहलैः कर्षति गृही' इत्यादिवत् । भक्तिरत्र प्रेमलक्षणा। सामान्यभक्तिमभिप्रेत्य त्वाह-माध्वभाष्यधृत-व्योम- संहिता-वचनम्,- "अन्त्यजा अपि ये भक्ता नाम-ज्ञानाधिकारिणः । स्त्री-शूद्र-द्विजबन्धूनां तन्त्रज्ञानेऽधिकारिता। एकदेशोपरक्ते तु न तु ग्रन्थपुरःसरे । वर्णिकानां वेदोक्तं सम्यग्भक्तिमतां हरी ॥ - - me- षट्सन्दर्भनामक- [प्रथम:- * अथ वेदार्थ-निर्णायकत्वञ्च वैष्णवे ; "भारतव्यपदेशेन ह्याम्नायार्थः प्रदर्शितः । वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः॥” इत्यादौ। श्रीबलदेव-विद्याभूषणकृत-टीका । वेदाः प्रतिष्ठिता:-नैश्चल्येन स्थिता इत्यर्थः। किञ्चेति-वेदार्थ- - श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। "प्राहुरप्युत्तमस्त्रीणामधिकारन्तु वैदिके ॥” इति । तन्त्रपदं-वेदातिरिक्त-शास्त्रपरम् । एकदेशोपरक्ते मन्त्रपूजादौ। “वेद- मन्त्रवज शूद्रस्य” इति छन्दोगाह्निक-धृतस्मृतौ वेदेति विशेषणात् "मात शूद्रः समाचरेत्” इति मलमासतत्त्व-धृतपिपानकारिका- श्रवणात्। "चतुर्णामपि वर्णानां यानि प्रोक्तानि श्रेयसे । धर्मशास्त्राणि राजेन्द्र ! शृणु तानि नृपोत्तम ! विशेषतस्तु शूद्राणां पावनानि मनीषिभिः । अष्टादश पुराणानि चरितं राघवस्य च ॥ रामस्य कुरुशार्दूल ! धर्मकामार्थ-सिद्धये।" इत्यत्र मोक्षानुक्ति:--प्राग्वचने 'श्रेयसे' इत्यनेन मोक्षस्य प्रधानतया खातन्त्र्येण कथनात् । । एवञ्च स्त्री-शूद्रादीनां तन्त्रोक्तमन्त्र-पूजादिना लब्ध-भगवद्भावाः संसार तरन्तीति सूचनाय शूद्राण पुराणाधिकारे दृष्टान्तमाह-कृष्णनामवदिति ; कृष्णनाम्नो वेदोपरिभागत्वेऽपि तत्- कीर्तनादौ प्रमाण-वशानरमात्राधिकारः, तत्कीर्तनादिना नरमात्रस्य संसारतरणं ; तथा पुराणादौ प्रमाणवशात् सूतादेरध्ययनाधिकारः । * अत्र-"स्वरादिभेद-निर्देशस्तु पूर्वमुद्दिष्ट एव' इत्यधिकपाठो वहरमपुरमुदितपुस्तकतो लब्धः । । 'शूद्राणां इन्यत्र 'सूतानां' इत्येव समतं मन्येत, अन्य-द्वितीयाभान्न नथा कृतमिति । an तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ किञ्च ; वेदार्थ-दीपकानां शास्त्राणां मध्यपातिताभ्युप- गमेऽप्याविर्भावक वैशिष्ट्यात्तयोरेव वैशिष्ट्यम् । यथा पाझे;- M "द्वैपायनेन यबुद्धं ब्रह्मायैस्तन्न बुध्यते । सर्व-बुद्धं स वै वेद तबुद्धं नान्य-गोचरः" ॥१५॥ श्रीबलदेव-विद्याभूषणकृत-टीका। दीपकानां मानवीयादीनां मध्ये यद्यपीतिहास-पुराणयोः स्मृतित्वेना- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। शूद्रस्य पुराणायुक्तमन्त्रपाठ-तदुक्तभजनादिना संसारतरणश्च भवतीति शूद्रस्य शूद्रसदृशाचारानुलोमजातेश्च-"स्त्री-शूद्र-ब्रह्मबन्धूनां" इत्यत्र शूद्रपदेन ग्रहणं ; तदन्यस्य नाममात्राधिकार-कथनादिति । मधुरेति- मधुरं-सुखानुभावकं, मधुरेभ्यो मधुरं-निरतिशय-मधुरमित्यर्थः । नाम्नि कृष्णस्याविर्भावात् स्वरूपतोऽर्थतश्च नाम्नि कीर्तिते सुखोदया- दिति विषय-सौन्दर्यमुक्तम् । मङ्गलं-धर्मार्थदं, मङ्गलानामिति- श्रेष्ठमिति शेषः । यद्वा ; मङ्गलानामपि मङ्गलमित्यर्थः। एतद्विशेषणद्वयेन त्रिवर्ग-साधनत्वमुकं सकलनिगमवल्ली-पालोचनेन तस्याः सारतया समुद्धृतम् । चित्-स्वरूपं-नाम-नामिनोरभेदोपचारात् । हेलया- अश्रद्धया, तारयेदिति--प्रेमलक्षण-भक्तिद्वारेति शेषः । "भक्त्या सातया भक्तेः " अधीता:-अध्ययन-फलं प्राप्ता इति । तथा च * वेदेतिहास-पुराणश्रवणावगत-तदर्थ-याथार्थ्य-मननादिद्वारालब्धापरोक्ष- झानः संसारान्मुक्तो भवति, तथा कृष्ण-नामकीर्तनाद्यवगतप्रेमा संसारान्मुक्तो भवतीति भावः । पुराणेतिहासयोरर्थग्रन्थत्वे वेदार्थज्ञाना- वेदाध्ययनापेक्षा नास्तीत्यभिप्रायेणाह,-अथ वेदार्थ-निर्णायकत्वञ्चेति। - * अत्र 'यथा च' इति सुष्टनुभूयते, तस्तु चिन्त्यम् ।

घटसन्दर्भनामक- [प्रथम:-- स्कान्दे ;- "व्याप्त-चित्तस्थिताकाशादवच्छिन्नानि कानिचित् । अन्ये व्यवहरन्त्येतान्युरीकृत्य गृहादिव * ॥" इति । श्रीबलदेव-विद्याभूषणकृत-टीका । भ्युपगमस्तथापि व्यासस्येश्वरस्य तदाविर्भावकत्वात्तदुत्कर्ष इत्यर्थः । तत्र प्रमाणम्-द्वैपायनेनेत्यादि ॥ १५ ॥ - श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। न च-"श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । मत्वा च सततं ध्येयः” इति श्रवणात्, "स्वाध्यायोऽध्येतव्यः" इत्यादिश्रुतेश्च ; कथं पुराणेतिहाल-श्रवणादेव ब्रह्मवेदनमिति वाच्यम् ? 'श्रुतिवाक्येभ्यः' इति बहुवचनात् पुराणाशुपग्रहः, अतएवोक्तम्- "वेदानध्यापयामास महाभारत-पञ्चमान् ।" इति । स्वाध्यायपदेनापि वेद-पुराणाद्युपग्रहः । प्रतिष्ठिता:-निर्णीतार्थाः । वेदार्थ-दीपकानां-वेदार्थ-प्रकाशकानां,-वेदव्याख्यायक-भाष्यादीनां । सर्वबुद्धं-सर्वव्यस्तैर्मिलितैश्च पण्डितैर्बुद्धमिति । तद्बुद्धं-समुदित- मित्यर्थः। नन्वनेन वेद-व्याख्यातृमध्ये व्यासस्योत्तमत्वमुक्तं तथा च कथं वेदस्यापौरुषेयत्वमिति चेन्न, वेदार्थानुवाद-पुराणानां बाहुल्यात् तद्विवेकन यथा सारार्थ-वचन-संग्राहकत्वं व्यासस्य ; अन्वेषां न तथा योग्यता । एवमपौरुषेय-पुराणमेव विकृतमाकलय्य कानिचिद्वचनानि वेद-पुराणादि-तात्पर्य्यार्थ-प्रकाशाय स्वयं कृतानि, अत्र पुराणादौ वचन- तात्पर्य्यात् ॥ १५॥ * "गृहादिवत्" इति पाठान्तरम् ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ तथैव दृष्टं श्रीविष्णुपुराणे पराशर-वाक्यम् ; "ततोऽत्र मत्सुतो व्यासः अष्टाविंशतिमेऽन्तरे । वेदमेकं चतुष्पादं चतुर्द्धा व्यभजत् प्रभुः ॥ यथाऽत्र तेन वै व्यस्ता वेदव्यासेन धीमता । वेदास्तथा समस्तैस्तैासैरन्यैस्तथा मया ॥ तदनेनैव व्यासानां शाखाभेदान् द्विजोत्तम ! चतुर्युगेषु रचितान् समस्तेष्ववधारय । कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । कोऽन्यो हि भुवि मैत्रेय ! महाभारतकृद्भवेत् ॥" [३, ४.२.] इति । श्रीबलदेव-विद्याभूषणकृत-टीका । व्यासेति ।-बादरायणस्य ज्ञानं महाकाशम्, अन्येषां ज्ञानानि तु तदंशमूतानि खण्डाकाशानीति तस्येश्वरत्वात् सार्वशमुक्तम् । 'ततोऽत्र मत्सुतः' इत्यादौ च व्यासान्तरेभ्यः पाराशर्य्यस्येश्वरत्वा- m- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। व्यास-चित्तस्थिताकाशात्-व्यास हृदयाकाशात्, हृदयाकाशस्य वाक्यहेतुत्वात् अवच्छिन्नानि उत्पन्नानि यानि वाक्यानीत्यर्थः। अन्ये- मुनयः, व्यवहरन्ति-श्रा-पृथिवीगतलोका अध्ययनाध्यापनादि- सप-व्यवहारं कुर्वन्ति। गृहादिवत् इति-गृह-धर्मान् यथा नियतं सम्यक् कुर्वन्ति, तथा व्यासोक्त-शास्त्राध्ययनादि-तदुक्तानुष्ठानादिना व्यवहरन्तीत्यर्थः। गृहादिवेति पाठे-व्यास-चित्तस्थिताकाशस्य गृह- तुल्यत्वम् । गृहात्-स्व-गृहात् द्रव्याण्यादाय ते व्यवहरन्ति एवं व्यास-चित्ताकाशात् कानिचिच्छास्त्राण्यादायेत्यर्थः। ततोऽत्रेति,- - षट्सन्दर्भनामक [प्रथम:- -- स्कान्द एव;- "नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । किञ्चित्तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ।। गौतमस्य ऋषेः शापाज्ज्ञाने त्वज्ञानतां गते । सङ्कीर्णबुद्धयो देवा ब्रह्म-रुद्र-पुरःसराः ।। शरण्यं शरणं जग्युर्नारायणमनामयम् । तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ।। अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ।।" इति- श्रीबलदेव-विद्याभूषणकृत-टीका । न्महोत्कर्षः। 'नारायणात्'-इत्यादौ चेश्वरत्वं प्रस्फुटमुक्तम् । गौतमस्य शापात् इति;-'वरोत्पन्ननित्यधान्यराशिौतमो महति दुर्भिक्षे विप्रान- भोजयत्। अथ सुभिक्षे गन्तुकामान् तान् हठेन न्यवासयत् । ते च श्रीराधामोहन-गोवामिभट्टाचार्यकृत-टीका । ततः-दुर्मेधत्वादिना सकल-वेदाध्ययनाद्यसामर्थ्यात् । भूलॊके, अन्तरे-वैवस्वत मन्वन्तरीय-द्वापरयुगे। तथा-विभक्ता एव, तैः-प्रसिद्धः। व्यासैरिति-शिष्याभिप्रायेण बहुवचनम् । अन्यैः- मुनिभिः, मया च-पराशरेण च ; व्यवहृता इति शेषः। तत्- ततः, अनेनैव-दुर्मेधत्वादि-दर्शनेन व्यासानां रचितान् शाखाभेदान् व्यासरन्यैः-वेदव्यास-भिन्नासरित्यर्थः। वेदव्यासस्तु मत्सुतः कृष्णद्वैपायनाख्यः। अज्ञानतां-नास्ति शानं खरूपहेतुशानं यस्य तत्ताम् । सङ्कीर्णबुद्धयः-शुभाशुभ-विचारहीन-बुद्धयः। वेदशब्देन- 'उत्सवान् वेदान्' इत्यत्र वेदशब्देन । तदेवमिति-पुराणेतिहासयो- Im --

तत्त्व-सन्दर्भः।
श्रीभागवत-सन्दर्भ
३६
वेदशब्देनात्र पुराणादिद्वयमपि गृह्यते । तदेवमिति-
हासपुराण-विचार एव श्रेयानिति सिद्धम् । ततापि
पुराणस्यैव गरिमा दृश्यते। उक्तं हि नारदीये ;-
"वेदार्थादधिकं मन्ये पुराणार्थ वरानने !
वेदाः प्रतिष्ठिताः सच पुराणे नात्र संशयः ॥
पुराणमन्यथा कृत्वा तिर्यग्योनिमवाप्नुयात् ।
सुदान्तोऽपि सुशान्तोऽपि न गति कचिदाप्नुयात् ।।"
इति ॥ १६ ॥
श्रीबलदेव-विद्याभूषणकृत-टीका।
माया-निम्मिताया गोगौतम-स्पर्शन मृताया हत्यामुक्त्वा गताः। ततः
कृतप्रायश्चित्तोऽपि गौतमस्तन्मायां विज्ञाय शशाप, ततस्तेषां ज्ञान-लोपः'
इति वाराहे कथास्ति । अधिकमिति-निःसन्देहत्वादिति बोध्यम् ।
अन्यथा कृत्वा-अवज्ञाय ॥ १६ ॥
श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका ।
रपौरुषेयत्वावेदार्थ-निर्णायकत्वाञ्च, सुष्ठु-परमार्थ-शापकत्वे इत्यर्थः ।
इतिहास-पुराण-विचार एव श्रेयानिति इदानीन्तनानामित्यादि।
वेदानां दुरूहतया मन्दबुद्धीनां कलियुगीय-लोकानां यथार्थावधारणस्य
वेदतोऽशक्यत्वादित्येव-कारसङ्गतिः। यद्वा ; इतिहास-पुराणविचारः
श्रेयानेवेति योजना। तेन द्विजानां वेद-विचारोऽप्यावश्यकः, “तदेवं
वेदानुवचनेन ब्राह्मणा विविदिषन्ति" इति श्रुतेः, "श्रोतव्यः श्रुति-
वाक्येभ्यः" इति श्रुतेः। वेदार्थादिति-वेदार्थावधारणादित्यर्थः ।
यथावते वेदार्थ-पुराणार्थयोरेकत्वान्न्यूनाधिकभावानुपपत्तः ॥ १६ ॥

४०. पदसन्दर्भनामक- [प्रथमः m स्कान्द-प्रभासखण्डे च ;- "वेदवन्निश्चलं मन्ये पुराणार्थ द्विजोत्तमाः ! वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥ विभेत्यल्पश्रुताद्वेदो मामयं चालयिष्यति । इतिहास-पुराणैस्तु निश्चलोऽयं कृतः पुरा ॥ यन्न दृष्टं हि वेदेषु तदृष्टं स्मृतिषु द्विजाः ! उभयोयन दृष्टं हि तत् पुराणैः प्रगीयते ॥ यो वेद चतुरो वेदान् साङ्गोपनिषदो द्विजाः ! पुराणं नैव जानाति न च स स्याद्विचक्षणः ॥ इति । अथ पुराणामेवं * प्रामाण्ये स्थितेऽपि तेषामपि सामस्त्येनाप्रचरदूपत्वात् नानादेवताप्रतिपादकप्राय- श्रीबलदेव-विद्याभूषणकृत-टीका। वेदवदिति-पुराणार्थो वेदवत सर्वसम्मत इत्यथः। ननु पण्डितैः कृताद्वेद-भाष्यात्तदर्थों ग्राह्य इति चेत्तत्राह,--विभेतीति ; अकृते भाष्ये H .. श्रीराधामोहन-गोवामिभट्टाचार्यकृत-टीका। निश्चलः निश्चितप्रामाण्यकावधारणविषयीकृततात्पर्य्यविषयार्थकः। स्मृतिष्विति-तासामपि वेदार्थ-निर्णायकत्वात्, "श्रुति-स्मृती ममैवाने यस्ते उल्लंध्य वर्तते । श्राशाच्छेदी मम द्वेषी मद्भक्तोऽपि न वैष्णवः॥"- इत्याधुक्तत्वाचा 'न च स स्याद्विचत्तण' इति इतिहासादपि पुराणस्याधिक्यं दर्शयति, सम्यगावधारणरूपत्वादिति। नाना- - animaduate- * "पुराणानामेव" इति वा पाठः ।

नत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ PMAmit emama त्वादर्वाचीनैः क्षुद्रबुद्धिभिरर्थो दुरधिगम इति तदवस्थ एव संशयः। यदुक्तं मात्स्ये ,- "पञ्चाङ्गश्च पुराणं स्यादाख्यानमितरत् स्मृतम् । साचिकेषु च कल्पेषु माहात्म्यमधिकं हरेः ।। राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः। तदग्नेश्च माहात्म्य तामसेषु शिवस्य च ।। सङ्कीर्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते ॥” इति । अत्राग्नेस्तत्तदग्नौ प्रतिपाद्यस्य छ तत्तयज्ञस्येत्यर्थः। शिवस्य चेति चकाराच्छिवायाश्च । सङ्कीर्णेषु- सत्त्वरजस्तमोमयेषु कल्पेषु बहुषु । सरस्वत्याः श्रीबलदेव-विद्याभूषणकृत-टीका । सिद्धे किं तेन कृत्रिमेणेति भावः। अथेति ; असन्दिग्धार्थतया पुराणानामेव प्रामाण्ये-प्रमाकरणत्वे इत्यर्थः। अर्वाचीनः क्षुद्र- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । देवता प्रतिपादक-प्रायत्वात्-अतिमुख्यत्वेन नानादेवता-प्रतिपत्ति- प्रसञ्जकत्वादित्यर्थः। अर्थः-तात्पर्य्यार्थः। पञ्चाङ्गं- "सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम् ॥'-- इत्युक्त-विश्वसर्गादि-पञ्चवर्णनात्मकम् । इतरत्-पुराणभिन्नम् । श्राख्यानं-आख्यानाख्यं शास्त्रम् । यद्वा ; इतरत्-विश्वसर्गादि- पञ्चलक्षणातिरिक्तमपि प्रसङ्गादाख्यानम्-श्राख्यायकमिति पुराण- - * "सम्पाद्यस्य"-इति पाठान्तरम् ।

४२२ [प्रथमः पट्सन्दर्भनामक- नानावाण्यात्मक-तदुपलक्षिताया नानादेवताया इत्यर्थः । पितृणां--"कर्मणा पितृलोकः” इति श्रुते- स्तत्प्रापक-कर्मणामित्यर्थः ॥ १७ ॥ तदेवं सति तत्तत्कल्पकथामयत्वेनैव मात्स्य एव प्रसिद्वानां तत्तत्पुराणानां व्यवस्था ज्ञापिता। तार- तम्यन्तु कथं स्यात्, येनेतरनिर्णयः क्रियेत सत्त्वादि- , - श्रीवलदेव-विद्याभूषणकृत-टीका । बुद्धिभिरिति । यस्य विभूतयोऽपीदृश्यः, स हरिरेव सर्वश्रेष्ट इति तदैकार्थ्य- "वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च हरिः सर्वत्र गीयते ॥" इति हरिवंशोक्तमजानद्भिरित्यर्थः ॥ १७ ॥ तदेवमिति । मात्स्य एवेति-पुराणसंख्या-तद्दानफल-कथना- चितेऽध्याये इति बोध्यम्। तारतम्यमिति-अपकर्षोत्कर्षरूपम्, श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । विशेषणम् । शास्त्रस्य सात्त्विकत्वादिकं-सात्त्विकदेवतातदुपासकगुण- कम्मादि-वर्णनाधिक्येन सात्त्विकत्वादिना परिभाषितत्वम् । कल्पेषु--- पुराणादि-शास्त्रेषु । तद्वत्-ब्रह्मण इव । सरस्वत्या इति-देवता- न्तरोपलतकम् । उपलक्षणत्वं विवृणोति ;-नानावाण्यात्मकेति- वागधिष्ठातृरूपेत्यर्थः । सर्वत्र माहात्म्यपद-स्वरूपोत्कर्षपूजनादि- क्रियापरम् ॥ १७॥ तारतम्य-तत्तद्देवतानां न्यूनाधिक्यं, कथं स्यात्-कथं ज्ञातं येन-- तारतम्यनिर्णयेन, इतर-निर्णयः-भजनादि-निर्णयः । स्यात्, तत्त्व-सन्दर्भः। : श्रीभागवत-सन्दर्भ तारतम्येनैवेति चेत्, “सत्त्वात् सञ्जायते ज्ञानम्" इति “सत्त्वं यद्-ब्रह्मदर्शनम्" इति च न्यायात् सात्त्विकमेव पुराणा- दिकं परमार्थ-ज्ञानाय प्रबलमित्यायातम् । तथापि परमार्थेऽपि नानाभंग्या विप्रतिपद्यमानानां समा- धानाय किं स्यात् । यदि। सर्वस्यापि वेदस्य । पुराणस्य चार्थनिर्णयाय तेनैव श्रीभगवता व्यासेन ब्रह्मसूतं कृतं, तदवलोकनेनैव सर्वोऽर्थो निर्णेय इत्यु- च्यते, तर्हि नान्यसूत्रकारमुन्यनुगतैर्मन्येत । किञ्चा- श्रीबलदेव-विद्याभूषणकृत-टीका । येनेतरस्य-उत्कृष्टस्य पुराणस्य निर्णयः स्यादित्यर्थः। 'सात्त्विक- पुराणमेवोत्कृष्टं' इति भावेन स्वयमाह,-सत्त्वादिति । पृच्छति- तथापीति; परमार्थ-निर्णयाय सात्त्विक-शास्त्राङ्गीकारेऽपीत्यर्थः । नानाभङ्गेयति-'सगुणं निर्गुणं ज्ञानगुणकं जड़' इत्यादिकं कुटिल- युक्ति-कदम्बैर्निरूपयतामित्यर्थः । नान्यसूत्रकारेति-गौतमाद्यनुसारिभि- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । सत्त्वादि-तारतम्येनैवेति-इतर-निर्णयः क्रियत इत्यनेनास्यान्वयः। इति चेदिति-तदेति शेषः । इति च न्यायात्-इति न्यायाच, तथापि- सात्त्विक पुराणस्य परमार्थ-साधकत्वेऽपि । नाना-भङ्गया-शास्त्रान्तर- प्रदर्शितयुक्ति-निबन्धनचित्त-विभ्रमेण, विप्रतिपद्यमानानां संशय- विपर्यायवतां, समाधानाय-तत्त्व-निर्णयाय किं स्यादिति । अर्थ- निर्णयाय-अर्थ-निर्णये प्रामाण्य-सूचनाय । न मन्येत-मुन्यन्तरोक्त- * ."परमार्थापनाय" इति वा पाठः । + "च" इत्यधिकपाठः क्वचित् । * "वेदस्य" इत्यत्र "इतिहासस्य" इति क्वचित् ।

४४ प्रिथम:------ पसन्दर्भनामक- त्यन्तगूढार्थानामल्पाक्षराणां तत्सूत्राणामन्यार्थत्वं कश्चिदाचक्षीत. ततः कतरविवात समाधानम् ? तदेव समाधेयम् ;---अधकतममेव पुराणलक्षणमपौरुषेयं शास्त्रं सर्ववेदेतिहास-पुराणानामर्थसारं ब्रह्मसूत्रोप- जीव्यश्च भवद्भुवि सम्पूर्ण प्रचरद्रूपं स्यात् । सत्य- मुक्तम् ; यत एव च सर्वप्रमाणानां चक्रवर्तिभूत- मस्मदभिमतं श्रीमद्भागवतमेवोद्भावितं भवता ॥१८॥ यत् खलु सर्व पुराण-जानमाविर्भाव्य, ब्रह्मसूत्रञ्च प्रणीयाप्यपरितुष्टेन तेन भगवता निज-सूताणा- श्रीवलदेव-विद्याभूरणकृत-टीका । रित्यर्थः। ननु ब्रह्मसूत्रशास्त्रे स्थिते कापेक्षा तदन्यसूत्राणां ? इति चेत्तत्राह :-किचात्यन्तेति -पृष्टः माह :--लदेवेति । ब्रह्मसूत्रोप- जीव्यमिति-येन ब्रह्मसूत्रं स्थिरार्थ स्यादित्यर्थः । पृष्टस्य हृद्गतं स्फुटयति, सत्यमुक्तमित्यादिना ॥१८॥ श्रीभागवतं स्तौति ; यत् खल्वित्यादि,-अपरितुष्टनेति- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । युक्त्यन्तरेण विभिन्न-चित्ततया ब्रह्मसूत्र-निर्णीतार्थो न मन्येत । यदि च वेदान्त-सम्बादप्रबल-ब्रह्मसूत्रप्रदर्शितयुक्त्या मुन्यन्तर-सूत्रानुगता निरसनीया इत्युच्यते, तथापि सन्देहः ; इत्यत आह-किञ्चेति । अपौरुषेयमिति-परमेश्वर-प्रणीतत्वेन सन्देहागोचरमिति भावः । उद्भावितं-स्मारितम् ॥ १८ ॥ अकृत्रिमभाष्यभूतमिति-अकृत्रिमत्वेन निश्चित-प्रामाण्यकं व्याख्यान- सदृशमित्यर्थः । ब्रह्मसूत्रस्य वेदव्यास-कृतत्वेनापौरुषेय श्रीमद्भागवतस्य तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ swammemommen- मकृतिम-भाष्यभूतं समाधि-लव्धमाविर्भावितम् । यस्मिन्नेव सर्वशास्त्रसमन्वयो दृश्यते । सर्ववेदार्थ- सूतलक्षणां गायत्रीमधिकृत्य प्रवर्तितत्वात् । तथाहि तत्स्वरूपं मात्स्ये “यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः। वृत्रासुर-बधोपेतं तद्भागवतमिष्यते ॥ लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् । प्रौष्ठपद्यां पौर्णमास्यां स याति परमां गतिम् ।। अष्टादश-सहस्राणि पुराणं तत् प्रकीर्तितम् ।।"[५३.२०] इति। अत्र गायत्रीशब्देन तत्सूचक-तदव्यभिचारि-धीमहि'- पदसम्बलित-तदर्थ एवेष्यते । सर्वेषां मन्त्राणामादि- श्रीबलदेव-विद्याभूषणकृत-टीका । पुराणजाते ब्रह्मसूत्रे च भगवत्पारमैश्वर्य-माधुर्ययोः सन्दिग्धतया गूढ़तया चोक्तेस्तत्र तत्र चापरितोषः, श्रीभागवते तु तयोस्तशिलक्षण- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । तयाख्यान-रूपत्वासम्भवात् सदृशार्थकभूत-निर्देशः। सर्वशास्त्र- समन्वयः-सर्वशास्त्र-तात्पर्य-विषयीभूतोऽर्थः। शब्व-वेदानां तात्- पर्य-विषयीभूतोऽर्थः-परमेश्वरः “सर्वे वेदा यत्पदमामनन्ति।" इति श्रुतेः; तस्य सूत्रलक्षणां-संक्षेपेण वोधिकां, गायत्री-गायत्रीपद- घटक-धीमहीतिपदसूचित-तदर्थप्रकाशनपद्यम्, अधिकृत्य-स्वाभिधेय- मुख्यार्थ-संग्राहकतया सूचयित्वा । साक्षाल्लिखनानहत्वादिति-स्त्री- .

४६ पटसन्दर्भनामक । प्रथम:---- PawarmEWA रूपायास्तस्याः साक्षात्कथनानहत्वात् । तदर्थता च. "जन्माद्यस्य यतः" "तेने ब्रह्म हृदा" इति सर्वलोकाश्रयत्व- बुद्धिवृत्ति-प्रेरकत्वादिसाम्यात् । धर्मविस्तर इत्यत्र धर्मशब्दः परमधर्मपरः, "धर्मः पोज्झिनकेतवोऽत्र परमः" इत्यत्रैव प्रतिपादितत्वात् ।। स च भगवद्धथानादि- लक्षण एवेति पुरस्ताव्यक्तीभविष्यति ॥ १६ ॥ श्रीवलदेव-विद्याभूषणकृत-टीका । तयोक्तेस्तत्र परितोष इति बोध्यम् । तदर्थता-गायव्यर्थता । भगवद्ध्यानादिलक्षण इति विशुद्धभक्तिमार्गवोधक इत्यर्थः ॥ १६ ॥ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। शूद्राद्यधिकार-श्रवणयोग्यग्रन्थादौ गायत्रीस्वरूप-लिखनस्यायोग्यत्वा- दित्यर्थः। इदमुपलक्षणं गायत्र्या अन्यार्थपरताभ्रम-निरासायापि तदर्थप्रकाशन-पद्यारम्भ इति । अष्टादश-सहस्राणि-श्लोकाः। तत्- भागवतम् । "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।" इति श्रुत्या, पर-ब्रह्मणो भगवतः साक्षात्कारस्यैव मोक्ष-हेतुनया समीप्सितं, तत्कारणार्थ निदिध्यासन-पदमिति वाच्यं, ध्यानमेव मुख्य कारणं, तदेव प्रतिज्ञातं-'धीमहि' इति । तत्फलञ्च--ध्यान- कारणश्रवण-मननयोरनेन पुराणेन सम्पत्तिरिति सूचनेन ग्रन्थाध्ययने प्रवर्तनमिति भावः। “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः।"-इति श्रुतेः। साम्यादिदि,-तथा च गायत्री- शब्दो गौण्या गायत्रीसमानार्थक-पद्यपर इति ॥ १६ ॥ * "साक्षाल्लिखनानहत्वात्" इति पाठः श्रीमद्गोरखानिभाचार्य्यमन्मतः । क्रमसन्दर्भेऽप्येवं पाठो दृश्यते। | "इति तत्रैव प्रतिज्ञातत्वात" इनि वा पाठः ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ ४७ - एवं स्कान्दे प्रभासखण्डे च ;- “यत्राधिकृत्य गायत्रीं" इत्यादि । "सारस्वतस्य कल्पस्य मध्ये ये स्युनरामराः । तद्वृत्तान्तोद्भवं लोके तच्च भागवतं स्मृतम् ।। लिखित्वा तच्च-" इत्यादि। "अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितम् ।"- इति पुराणान्तरञ्च । "ग्रन्थोऽपादशसाहस्रो द्वादशस्कन्ध-सम्मितः । हयग्रीव-ब्रह्मविद्या यत्र नबधस्तथा ॥ गायत्र्या च समारम्भस्तद्वै भागवतं विदुः॥” इति । अत्र "हयग्रीव-ब्रह्मविद्या” इति वृतूबध-साहचर्येण नारायण-वर्मैवोच्यते। हयग्रीव-शब्देनाताश्वशिरा श्रीबलदेव-विद्याभूषणकृत-टीका। 'ग्रन्थ' इत्यादौ हयग्रीवादिशब्दयोर्भान्ति निराकुर्वन् व्याचष्टे ;- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । गायत्रीमित्यादीति–इत्याद्यनन्तरमित्यर्थः । तद्वृत्तान्तस्योद्भवं प्रकटनं यस्मात्तत्.। हेमसिंह-समन्वितं हेमसिंहासनमारूढं, पुराण-राजत्वा- दिति । तस्या विद्यायाः प्रसिद्धमिति-तथा च हयग्रीवेण प्रवर्तितत्वा- द्विद्याया अपि हयग्रीवत्वेन प्रसिद्धिरिति भावः। ब्रह्मविद्यात्वञ्च- , पट्सन्दर्भनामक- [प्रथमः - दधीचिरेवोच्यते । तेनैव च प्रवर्तिता नारायण- वर्माख्या ब्रह्मविद्या। तस्याश्वशिरस्त्वञ्च षष्ठे,-- "यदै अश्वशिरो नाम" [ भा० ६. ६. ५२.] इत्यत् प्रसिद्धं, नारायणवर्मणो ब्रह्मविद्यावश्च ;-- "एनछुन्ना तथावाच झ्याथर्वणस्तयोः । भवयं ब्रह्मविद्याञ्च सन्कृतोऽसत्यशङ्कितः ॥"--- इति टीकोत्थापितचनेन चेति । श्रीमद्भागवतस्य भगवत्रियत्वेन भगवताभीष्टत्वेनन परमसात्विकत्वम्। यथा पाने अम्बरी प्रति गौतम-प्रश्नः ;- "पुराणं त्वं भागवतं पठसे पुरतो हरेः । चरितं दैत्यराजस्य प्रहादस्य च भूपते !" -numan श्रीवलदेव-विद्याभूषणकृत-टीका । अत्र हयग्रीवेत्यादिना । एतत् श्रुत्वेति । दध्यङ्-दधीचि । प्रवर्दी- मिति-प्राणविद्याम् । ननु पाझादीनि सात्त्विकानि पञ्च सन्ति, तेरस्तु विचार इति चेत्तत्राह :-श्रीमदिति-एतस्य परमसात्त्विकत्वे tweenak श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। ब्रह्मविद्यात्वेन प्रसिद्धिश्च, सारखत-कल्पाभिधेयाभिधातृत्वेनास्यापि सारखतकल्पत्वं सूचितम् । तच गायच्याख्य-सरस्वतीमुपक्रम्या- रब्धत्वेन व्यक्तमने इति । एतदिति-अश्विभ्यामुक्तं प्रागुक्तववन- मित्यर्थः। इति टीकोत्थापितवचनेन चेति-चकारात् भागवते तस्या विद्यात्वेन ब्रह्मत्वेन च कथा-लाभः। केचित्तु ; हयग्रीवः-हयग्रीवा- वतारः, ब्रह्मविद्या ब्रह्मतत्त्वञ्च इत्याहुः। हरेः सन्तोष-कारणमिति-

तत्त्व-सन्दर्भः।]
श्रीभागवत-सन्दर्भ
४६
NAREASURANO-
MADAMISHRAMMARRI
--
ततैव वजुलीमाहात्म्ये तस्य तस्मिन्नुपदेशः ;-
"रात्रौ तु जागरः:कार्यः श्रोतव्या वैष्णवी कथा ।
गीता नाम-सहस्रश्च पुराणं शुक-भाषितम् ।
पठितव्यं प्रयत्नेन हरेः सन्तोपकारणम् ॥"
ततैवान्यत्र;
"अम्बरीप ! शुक-प्रोक्तं नित्यं भागवतं शृणु ।
पठस्व स्व-मुखेनापि यदीच्छसि भव-क्षयम् ।।"
स्कान्दे प्रहादसंहितायां द्वारकामाहात्म्ये :-
"श्रीमद्भागवतं भक्त्या पठते हरि-सन्निधौ ।
जागरे तत्पदं यालि कुलबन्द-समन्वितः ॥२०॥
गारुड़े च ;-
"पूर्णः सोऽयमतिशयः।
अर्थोऽयं ब्रह्मसूत्राणां भारतार्थ-विनिर्णयः ।।
गायत्री-भाष्यरूपोऽसौ वेदार्थ-परिवृहितः ।
पुराणानां सामरूपः साक्षाद्भगवतोदितः ।।
Ma
श्रीबलदेव-विद्याभूषणकृत-टीका ।
पामादि-वचनान्युदाहरति पुराणं त्वमित्यादिना। कुलवृन्देति-
तत्कर्तृकश्रवणमहिना तत्कुलस्य च हरि-पदलाभ इत्यर्थः ॥ २० ॥
श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका ।
अनेन भगवत्प्रियत्वमुक्तं, भवत्तयमिति तत्पदं यातीति च-भागवतानां
भगवद्भक्तानामभीष्टदत्व-सूचकम् ॥ २०॥

पट्सन्दर्भनामक- । द्वादशस्कन्धयुक्तोऽयं शतविच्छेद-संयुतः। ग्रन्थोऽष्टादशसाहस्रः श्रीमद्भागवताभिधः ॥” इति । ब्रह्मसूत्राणामर्थस्तेषामकृत्रिम-भाष्यभूत इत्यर्थः । पूर्व सूक्ष्मत्वेन मनस्याविर्भूतम्, नदेव संक्षिप्य सूत्रत्वेन पुनः प्रकटितम्, पश्चाद्विस्तीर्णत्वेन साक्षात् श्रीभागवतमिति । तस्मात्तद्भाष्यभूते स्वतःसिद्ध तस्मिन् सत्यर्वाचीनमन्यदन्येषां न स्वस्वकपोल-कल्पितं तदनुगतमेवादरणीयमिति गम्यते । "भारतार्थविनिर्णय:- निर्णयः सर्वशास्त्राणां भारतं परिकीर्तितम् ।। श्रीवलदेव-विद्याभूपणकृत-टीका । गारुड़वचनैश्च परमसात्तिकत्वं व्यञ्जयन् ब्रह्मसूत्राद्यर्थ-निर्णायकत्वं गुणमाह ;-अर्थोऽयमिति । गारुड़वाक्यपदादि व्याचष्टे--ब्रह्मसूत्राणा- मित्यादिना । तस्मात्तद्भाप्येत्यादि, अन्यद्वैगावाचार्य-रचितमाधुनिक - Amarnevaalaamanarth श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । अर्थः-अर्थयति बोधयतीति व्युत्पत्त्याऽर्थबोधकः। विवृणोतीदं- तेषामकृत्रिमभाप्यभूत इति। सूक्ष्मत्वेन--सकल-वेदतात्पर्य्य-विषय. परमार्थ-संग्राहकत्वेन गूढतया स्थितत्वेन च यत् पद्यं मनस्याविर्भूतं गायत्रीसमानार्थकं, तदेवेत्यर्थः। सूत्रत्वेन-उपक्रमरूपत्वेन, विस्तीर्ण- त्वेन-सदृष्टान्त-युक्त्युपन्यासेतिहासादिना गायव्यर्थ-तत्तात्पर्य- विस्तारकत्वेन । तस्मिन्-भागवते। तदनुगतं-भागवतार्थ-सम्वादि * “आविर्भावितम्" इति वा पाठः। + "अन्यदन्येषां" इत्यत्र "यन्यदन्यद्भाष्य" इति क्वचित् ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ Des- भारतं सर्ववेदाश्च तुलामारोपिताः पुरा । देवैर्ब्रह्मादिभिः सर्वैषिभिश्च समन्वितैः॥ व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् । महत्त्वाद्भारवत्त्वाच्च * महाभारतमुच्यते ॥”- इत्याद्युक्तलक्षणस्य भारतस्यार्थ-विनिर्णयो यत्र सः । श्रीभगवत्येव तात्पर्य हि तस्यापि । तदुक्तं मोक्षधर्मे नारायणीये श्रीवेदव्यासं प्रति जनमेजयेन ;- "इदं शतसहस्राद्धि भारताख्यान-विस्तरात् । आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ।। नवनीतं यथा दध्नो मलयाचन्दनं यथा । आरण्यं सर्ववेदेभ्य ओषधीभ्योऽमृतं यथा ॥ श्रीबलदेव-विद्याभूपणकृत-टीका। भाष्यं तदनुगतं श्रीभागवताविरुद्धमेवादर्तव्यं, तद्विरुद्धं शङ्करभट्ट- भास्करादि-रचितं तु हेयमित्यर्थः। भारतार्थेति पदं व्याकुर्वन् भारतवाक्येनैव भारतस्वरूपं दर्शयति ;-निर्णयः सर्वेति । भारतं - श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । न तु तद्विपरीतार्थकम् । विनिर्णयः-विशेषेण निर्णायकः। यद्वा- 'विशिष्य निर्णयो यत्र तद्भागवतम्' इति यत्तत्पदपूरणेनार्थो ज्ञेयः । अत्यरिच्यतेति-सकलवेदार्थानां सहेतुकं विवृत्याविर्भावकत्वात् । तदेवाह ;-महत्त्वादिति-पष्टिलक्ष-श्लोकात्मकत्वेन सकल-वेदार्थ- संग्राहकत्वात् । भारतत्वात् परतत्त्वस्मारक-परमभागवत-भरत-वंश- पसन्दर्भनामक [प्रथम :- ....... समुद्धृतमिदं ब्रह्मन् ! कथामृतमिदं तथा । तपोनिधे ! त्वयोक्तं हि नागा-कथाश्रयम् ॥” इति ॥२१॥ तथा च तृतीये "मुनिर्विवक्षुर्भगवद्गुणानां सखापि ते भारतमाह कृष्णः । यस्मिन्नृणां ग्राम्य-कथानुवादैर्मतिर्गहीता न हरेः कथायाम् ॥" [भा० ३.५.१२.] इति। ar भारतस्य श्रीवलदेव-विद्याभूषणकृत-टीका । किंतापर्यकमित्याह : -श्रीभगवत्येवेति, तस्य भारतस्यापीत्यर्थः । भगवत्तात्पर्य्यकत्वं नारायणीय-वाक्यमुदाहरति :-इदं शतेत्यादि ॥ २१ ॥ ननु श्रीभागवतख्य भारतार्थ- निर्णायकत्वं कथं प्रतीतमिति चेत्तत्राह ;-तथा तृतीये इति। मुनिरिति-मैत्रेयं प्रति विदुरोक्तिः। श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । प्रसङ्गात्। भारताख्यान-विस्तरात्---भारताख्यान-विस्तारमालोच्य तत्र स्थितं ज्ञानोदधिमामन्थ्य तस्मादिदं कथामृतं समुद्धृतमित्यन्वयः। कथाया अमृतत्वे हेतुः-नारायणकथाश्रयमिति। एतेन यथा नारायणस्य भगवदपरनामकस्य स्वरूप-गुणलीलावर्णनस्य सर्व- शास्त्र-सारत्त्वात्तदाख्यानाश्रय-भारतमुत्तमं, तथा भगवद्गुण-वर्णन- प्रधानत्वेन श्रीभागवनमुत्तममिति दर्शितं, दर्शितं, भारतस्यान्य-वर्णन- सम्वलितस्य नारायणीयाख्यानांशस्य उद्धृतसारत्व-कथनात्ततोऽधिक- भगवत्स्वरूपगुणादि-वर्णनमानात्मकस्य भागवतस्य भारतादाधिक्यञ्च सूचितम् ॥ २१ ॥ तदेवाह--तथा चेति। कृष्णो-वेदव्यासः, मुनिः-मननेन नत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ ५३ - AMORNO तस्मात् * गायत्रीभाष्यरूपोऽसौ. -तथैव हि विष्णु- धर्मोत्तरादौ तद्व्याख्याने भगवानेव विस्तरेण प्रति- पादितः। अत्र "जन्माद्यस्य” इत्यस्य व्याख्यानश्च तथा दर्शयिष्यते। वेदार्थ-परिबृंहितः–वेदार्थस्य परिबृंहणं यस्मात् । तच्चोक्तम् ;-"इतिहास-पुराणाभ्याम्" इत्यादि। पुराणानां सामरूपः-वेदेषु सामवत् स तेषु श्रेष्ठ इत्यर्थः । अतएव स्कान्दे ;- "शतशोऽथ सहस्त्रैश्च किमन्यैः शास्त्रसंग्रहैः। न यस्य तिष्ठते गेहे शास्त्र भागवतं कलौ ॥ कथं स वैष्णवो ज्ञेयः शास्त्र भागवतं कलौ ।। गृहे न तिष्ठते यस्य स विप्रः श्वपचाधमः ॥ श्रीबलदेव-विद्याभूषणकृत-टीका। ते-मैत्रेयस्य गुरुपुत्रत्वात् सखा, कृष्णो -व्यासः । ग्राम्या-गृहि- धर्म-कर्तव्यतादि-लक्षणा व्यवहारिकी मूषिक-विड़ाल-गृध्र-गोमायु- दृष्टान्तावना च कथा। तत्तत्स्वार्थकौतुककथा श्रवणाय भारत- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। सर्वदर्शी । भगवद्गुणानां-भगवद्गुणान् , विवतुः-नारायणोपाख्यानेन वक्तुमिच्छुः सन् भारतमाह। यस्मिन् -भारते, ग्राम्यसुखानुवादैाम्य- सुखान्यनूद्य तत्प्रसङ्गेन हरेः कथायां मतिर्गृहीता-नीता, हरिकथाया- मेव तात्पर्य्य दर्शितं, ग्राम्यसुखानुवादस्तु-प्रथमतः कामिनामपि प्रवृत्त्यर्थ, ततश्च तत्रैव ग्राम्यसुखनिन्दया भगवत्तत्त्वमावेदितं श्रेयसे । * "तस्मात्" इति पाठः क्वचिन्नास्ति। 1 "विना" इति वा पाठः ।

पदसन्दर्भनामक- [प्रथमः- - mummmmmm यत्र यत्र भवेद्विम ! शास्त्र भागवतं कलौ । तत्र तत्र हरियाति त्रिदशैः सह नारद ! यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने ! अष्टादशपुराणानां फलं प्राप्नोति मानवः ।।" इति । शतविच्छेदसंयुतः--पञ्चत्रिंशदधिकशतवयाध्याय- विशिष्ट इत्यर्थः, स्पष्टार्थमन्यत् । तदेवं परमार्थ- विवित्सुभिः श्रीभागवतमेव साम्प्रतं विचारणीय- मिति स्थितम् । श्रीबलदेव-विद्याभूषणकृत-टीका । सदसि समागतानां नृणां श्रीगीतादि-श्रवणेन हरौ मतिर्गृहीता स्यादिति तत्कथानुवाद एव, वस्तुतो भगवत्परमेव भारतमिति श्रीभागवतेन निर्णीतमित्यर्थः। सामवेदवदस्य श्रेष्ठेच स्कान्दवाक्यम्- शतशोऽथेत्यादि,-प्रकटार्थमिति। तदेवमिति-उक्तगुणगणे सिखे सतीत्यर्थः॥ २२॥ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । एवञ्च भारत-तात्पर्य्यविषयस्य भगवत एव सामस्त्येन वर्णनमय- भागवतस्य भारतादुत्तमत्वं दर्शितम् । एवं भगवत इदं-भागवतमिति व्युत्पत्तिसिद्ध-नामापि तदुत्कर्ष दर्शयति । यद्यपि ब्रह्मत्व-परमात्मत्वाभ्या- मपि परतत्त्वं भागवते दर्शितं, तथापि भगवत्तत्त्वेन शानस्य संसार-निवृत्तये प्राधान्यात्तदाधिक्येन वर्णनात् "अधिकेन ध्यपदेशा भवन्ति" इति न्यायेन भागवताख्यत्वमस्य ग्रन्थस्येति । भगवत्वेनो- पासनायाःप्राधान्यं, भगवद्गीतायां भगवद्वाक्यं यथा- "मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥” इति ।

तत्त्व-सन्दभः।] श्रीभागवत-सन्दर्भ - man (हेमाद्रेर्वतखण्डे- "स्त्री-शूद्र-द्विजबन्धूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारतमाख्यानं कृपया मुनिना कृतम् ॥" इति वाक्यं श्रीभागवतीयत्वेनोत्थाप्य भारतस्य वेदार्थ-तुल्यत्वेन निर्णयः कृत इति तन्मतानुसारेण त्वेवं व्याख्येयं ;--भारतार्थस्य विनिर्णयः–वेदार्थ- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । तथा,-"तेषामहं समुद्धर्ता मृत्युसंसार-सागरात् ।" इति । गायत्रीभाष्यरूपोऽसाविति । एवञ्च भगवत्परैर्द्विजैरवश्यं गायत्रीसमु- पास्येति । स्त्री-शूद्र-ब्रह्मवन्धूनां पौराणिकमन्त्रेणोपासना कार्या! न च-"नानातन्त्रविधानेन कलावपि तथा शृणु।"- इत्येकादशोक्त-जायन्येयवचनात्, “य प्राशु हृदय-ग्रन्थि निर्जिहीर्षुः परात्मनः । विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम् ॥"- इत्येकादशीयभगवद्वचनात्, "प्रागमोक्तविधानेन कलौ देवान् यजेत् सुधीः । न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः॥". इति तन्त्रसारधृत-वचनाच तान्त्रिकोपासनैव कार्येति वाच्यं तत्तद्वचनानां कलौ प्राधान्येन तात्रिकोपासनायाः कर्त्तव्यतापरत्वात्, "वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगतः।"- इति तन्त्रसारधृत-वचनादिना वैदिक-तान्त्रिकभजनसमुच्चयशापनात्, "वैदिकी तान्त्रिकी दीक्षा मदीयवतधारणम् ।'- . m तुल्यत्वेन विशिष्य निर्णयो यत्रेति। यस्मादेवं भगवत्- परस्तस्मादेव “यत्राधिकृत्य गायत्रीम्-इति कृतलक्षगा- श्रीमद्भागवतनामा ग्रन्थः श्रीभगवत्वया गायच्या भाष्यरूपोऽसौ। तदुक्तं- "यनाधिकृत्य गायत्री"-इत्यादि। तथैव हि अग्निपुराणे तस्य व्याख्याने विस्तरेण प्रतिपादितः। तत्र तदीयव्याख्या-दिग्दर्शनं यथा :- "तज्ज्योतिः परमं ब्रह्म भर्गम्तेजो यतः स्मृतः ।। श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। इत्येकादशीय-भगवचनाच्च । न च द्वापरयुगोपासनायां "यजन्ति वेदतन्त्राभ्यां" इत्युक्त्वा- "नानातन्त्र-विधानेन कलावपि तथा शृणु ।".... इत्यादिवचनात् द्वापरयुगोपासनायां वैदिक-तान्त्रिक-समुञ्चयः : न तु कलाविति वाच्यम् । द्वापरे वेदस्य प्राधान्यं, कलौ च तन्त्रस्य प्राधान्य- मिति समुच्चयस्तु युगपद्धय पवेति विशेषात्, अन्यथा नानाश्रुति- स्मृति-पुराणादि-विरोधापत्तेरिति । दिग्दर्शनं संक्षिप्तार्थ-वचनम्, दिशो दर्शनं यत इति व्युत्पत्तेः, दिशं दर्शयतीति वा । तत् ज्योतिः- चेतनम्, इदं भर्गशब्दार्थः। तस्य भर्गशब्दार्थत्वे हेतुमाह, भगः- भर्गशब्दः, यतस्तेजः-तेजोवाचकः स्मृतः। तेजः स्वपरप्रकाशकन्या- चैतन्यम् ; चैतन्य-तदाश्रययोरभेदाचेतन एव तात्पर्याप्तः । कि नचेतन- मित्याकाङ्क्षायां तात्पर्य निर्दिशति,-परमं ब्रह्मेति । "प्रणव-व्याहृतिभ्याश्च गायत्र्या त्रितयेन च । उपास्यं परमं ब्रह्म यात्मा यत्र प्रतिष्ठितः ॥" *- 1 तत्त्व-सन्दर्भः।] श्रीभागवत-सन्द. ५७ इत्यारभ्य पुनराह "तज्ज्योतिभगवान् विष्णुर्जगज्जन्मादिकारणम् । शिवं केचित् पठन्ति स्म शक्तिरूपं वदन्ति च ।। केचित् सूर्य केचिदग्नि देवतान्यग्निहोत्रिणः । अग्न्यादिरूपी विष्णुहि वेदादौ ब्रह्म गीयते ॥” इति । अत्र "जन्माद्यस्य" इत्यस्य व्याख्यानश्च तथा दर्शयिष्यते। श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। इति योगि-याशवल्क्यवचनमपि तथा बोधयति । पाने च नारद प्रति ब्रह्मवाक्यं,- "कृष्णाख्यन्तु परं ब्रह्म भुवि जातं न संशयः॥” इति । जातम्-श्राविर्भूतम् । एवञ्च भर्गशब्देन कृष्ण एव निर्धारितः। तदेव स्फुटयति,-"तज्ज्योतिर्भगवान् विष्णुः" इति, स्वयंभगवत्त्वस्य कृष्णे निरुक्तत्वादत्र भगवच्छब्द-सहचरितत्वेन विष्णु-शब्द:---श्रीकृष्णपरः । “जगजन्मादिकारणम्" इत्यभेदार्थक-षष्ठ्यन्त-सवितृपद-लभ्यम् ; सवितुः-प्रसवितुरित्यर्थात् । 'देवस्य' इति विशेषणेन क्रीडायुक्तत्वं लभ्यते, क्रीड़ा च शरीरं विना न-इति शरीरित्वं भगवत्त्वञ्च लब्धम् ; तश्च शरीरं स्वाभाविकमिति सात्वतैर्व्यवस्थापितम् । “धियो यो नः प्रचोदयात्" इत्यनेन बुद्धिवृत्ति प्रवर्तकत्वलक्षणपरमात्मत्वं ब्रह्मणे दर्शितम्-इति ब्रह्म-परमात्म-भगवदाख्यानकं वस्तु गायत्री-प्रतिपाद्यम् । यद्वा-"तत्सृष्ट्वा तदेवानुप्राविशत्" इति श्रुत्या जगत्त्रष्टुरेव जगद- न्तर्वतितया बुद्धिवृत्ति-प्रवर्तकत्वात् "धियो यो नः प्रचोदयात्" इत्यनेन जगत्कारणत्वमपि दर्शितम् । “देवस्य सवितुः" इति सूर्य्यपरं, षष्ठ्या अन्तर्गतत्वरूपसम्बन्धो भर्गपदार्थान्वयी लभ्यत इति । "शिवं केचित्" इत्यादिकमपि विष्णुपरमेवेत्याह-“श्रन्यादिरूपी विध्साहि" इति ।

पट्सन्दभनामकworrordPrevNEmmome vavPrernmuRTAN Pram. mymber "कम्मै येन विभापितोऽयम्' इत्युपसंहास्वाक्ये व "तच्दमा इत्यादि-समानमेवाग्निपुराण तव्याख्यानम । "नित्यं शुद्धं परं ब्रह्म निन्यभामधी वरम् । अहं ज्यातिः परं ब्रह्म ध्यायेम हि विमुक्तये ॥” इति । श्रीराधामोहन-गोस्वामिभट्टाचायकाला टीका । अत्र---गायत्रीव्याख्याने। तथा विपरतयः। नमियादि- समानमिति. "कस्म येन विभाषितोऽयमतुला ज्ञानप्रदीपः पुग तपेण च नारदाय मुनये कृष्णाय तदृपिणा । योगीन्द्राय तदात्मनाऽथ भगवद्राताय कारुण्यत- स्तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥"- भा०११.३.१४ इति द्वादशस्कन्ध-शेषीय-तच्छुद्धमित्यादि-समानार्थकमित्यर्थः । अग्नि- पुराणीय-तयाख्यानञ्च दर्शयति----"नित्यम्" इत्यादि । अत्र पद्यटीका, "कस्म---ब्रह्मग, अयं - श्रीभागवतरूपः, पुरा कल्पादौ, नपेगा. ब्रह्मरूपेण, तपिणा-नारदरूपिणा, योगीन्द्राय-शुकाय, तदात्मना । शुकरूपेण, तत् परं सत्यं-श्रीनारायणाख्यं धीमहीति। धीमहीनि गायत्र्यैव यथोपक्रममुपसंहरन गायव्याख्यब्रह्मविद्ययमिति दर्शयनीति। शुद्धं--प्रकृत्यतीतं, विमलं-रागादिरहितं, विशोकं दुःखगहितम, अमृतं निन्यम् । अग्निपुराण-वचने गायत्रीजपे तदर्थ-ध्यानपञ्चकन्वं मन्त्रलिनेनावगतमिति दर्शयन् ध्यानाकारमाह : -भर्ग धीमहि ध्यायेमहीति मन्त्र योजना। तत्र भगशब्द-प्रतिपाद्यतावच्छेदकमण ध्यान-पर्यवसानं दर्शयति; नित्यं-अविनाशि, शुद्ध----प्रकृतेः पर, परं-निरतिशयं, नित्यं सर्वदासमं, अधीश्वरं सर्वेश्वर ब्रम ध्यायेम । अधीश्वरं ब्रह्मति---भर्गशब्देन, शुद्धमित्यादि - वरंगय- शब्देन बोध्यत इति वा। प्रात्मनः स्वरूपमाह...'अहं ज्योतिः' .

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दभ ५६ MARDamander तत्राहं ब्रह्मेति---"नादेवा देवमर्चयेत् इति न्यायेन योग्यत्वाय स्वस्य तादृक्त्वभावना दर्शिता। ध्यायेमेति- अहं तावत् ध्यायेयं, सर्वे च वयं ध्यायेमेत्यर्थः । तदेतन्मते तु मन्त्रेऽपि भर्गशब्दोऽयमदन्त एव स्यात् । "सुपां सुलुक्” इत्यादिना छान्दमसूत्रेण तु द्वितीयैक- वचनस्य 'अमः' 'सु'भावो ज्ञेयः । यत्तु द्वादशे---- नमस्ते” इत्यादिगयेषु तदर्थत्वेन अत्र , । श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । इति, देहात्मता-व्यावर्तनाय यज्योतिः.. चैतनं परं ब्रह्मति । प्रमाण-- -"तत्त्वमसि श्वेतकेतो! अहं ब्रह्मास्ति' इत्यादि श्रुतिः । इदन्तु ब्रह्माभेदेन स्वात्म-चिन्तनं-मुमुक्षुपक्षे अतएव 'विमुक्तये' इति वचने दर्शितम् । “नादेवो देवमञ्चयेत्” इति न्यायेन तत्वमस्यादि- श्रुतितात्पर्यावधारगोन 'लादेव'न्यत्र देवपद- स्वाभीष्टदेव-स्वरूपत्वेन स्वात्म-भावनारहित इत्यर्थः । शद्धमानान्तु-.. 'संगवहासोऽस्मि' इत्यादिचिन्तनं, “तत्त्वमस्या-"दिश्रुतीनां तथैव तात्पर्य्यकल्पनादिति । योग्यत्वाय--ध्यानयोग्यत्वाय । 'ध्यायेम इत्यत्र बहुत्वमविवक्षितम् । बहुवचनप्रयोगोऽपि 'छान्दसः इति द्योतयन्नाह ---अहं ध्यायेयमिति, इदञ्च वयं ध्यायेम इत्यर्थ-विवरणम् । ननु भर्गपदस्य धीमहीति- क्रिया-कर्मतया भर्गमित्येव भवितुमर्हति । न च नपुंसक-सान्तभर्गः- शब्दप्रयोगोऽयमिति वाच्यम, अग्निपुराणीयवचने भर्गमधीश्वरमिति निर्देशासङ्गतेरित्यत आह,-एतन्मते विति, 'तु'शब्देन सान्नभर्गशब्द- प्रयोगो मतान्तरे बोध्यः । "30 नमस्ते' इत्यादिगोष्यिति "go नमस्ते भगवते आदित्यायाखिलजगतामान्म-स्वरूपेण काल- १ [ प्रथमः- षट्सन्दर्भनामक- सूर्यः स्तुतः, तत्परमात्म-दृष्ट्यैव ; न तु स्वातन्त्रेणे- त्यदोषः । यथैवाग्रे श्रीशौनक-वाक्यम् :-- "ब्रूहि नः श्रद्धधानानां व्यूहं सूर्यान्मनो हरेः।" इति । श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। खरूपेण च चतुर्विधभूत-निकायानां ब्रह्मादि-स्तम्बपर्य्यन्तानामन्तहृदयेषु वहिरपि चाकाश इवोपाधिनाऽव्यवधीयमानो भगवानेक एव क्षणलव- निमेषावयवोपचित-सम्वत्सरगणेनापामादानविसर्गाभ्यामिमां लोक- यात्रामनुवहति" -इत्यादि गद्येष्वित्यर्थः। अन "ॐ नमो भगवते" इत्यादि पाठः क्वचित् । तदर्थत्वेन ! गायत्रीप्रतिपादितार्थत्वेन । तथाहि भगवत्वाखिलात्मकत्वाकाशवत्- सर्वगतत्व-लक्षणब्रह्मत्व-कालाख्यशक्तित्वादिना एषु गद्येषु सूर्य्यस्य प्रतिपादनात् गायत्री-प्रतिपादितः सूर्य एवेति विरोधः। 'सवितुः' इत्यत्र षष्ठ्या अभेदार्थ-विवक्षणाञ्च । गद्ये 'अपामादान-विसर्गाभ्यां' इत्यादिना सूर्यस्य वृष्टिद्वारा लोकपालत्वमुक्तम् । विरोधं परिहरति- तत्परमात्मदृष्ट्यैवेति। तत्-सूर्य्यस्तवनं, परमात्मदृष्ट्या----अन्तर्यामि- भगवदैक्यबुद्ध्या, सूर्य्यस्य भगवदधिष्ठान-विशेषत्वेनाधिष्ठात्यधिष्ठाना- भेदबुद्ध्या च वैराजस्य तदन्तर्यामि-भगवदैक्यबुद्ध्या तदुपासनमुक्तं द्वितीयस्कन्धे, तथाच सूर्यस्य भगवदावेशावतारताभिप्रायेण तथोक्त- मिति भावः। एतदेव स्पष्टयति,-"व्यूहं सूर्यात्मनो हरेः” इति । व्यूह-अवतारं, सूर्यात्मनः-सूर्य प्रात्मा--अधिष्ठानत्वेन स्वरूपी यस्य सः; सूर्यात्मा-तस्य । अन्यथा “भीपाऽस्मादुदेति सूर्यः' इत्यादि श्रुति विरोधः स्यादिति भावः । एवञ्च जगत्कारणस्वरूपं सबितृत्वमुपचयं सूर्येऽपि सवितृपदप्रयोग इति । अत एव गद्येप्वपि तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ ६१ न चास्य भर्गस्य सूर्यमण्डलमात्राधिष्ठानत्वम् । मत्रे वरेण्यशब्देनात्र च ग्रन्थे परशब्देन परमै- श्वर्यपर्यन्तताया दर्शितत्वात्। तदेवमग्निपुराणे- ऽप्युक्तम्- "ध्यानेन पुरुषोयश्च द्रष्टव्यः सूर्य-मण्डले । सत्यं सदाशिव ब्रह्म तद्विष्णोः परमं पदम् ॥” इति । अतएव श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । 'परमात्मना' इत्यनुक्त्वा ‘परमात्मस्वरूपेण' इत्युक्तम् । परमात्म- स्वरूपत्वेनेति तदर्थः। एवमन्यत्रापि कचित् सूर्य्यस्य परमात्मत्वमुक्त- मेतदभिप्रायेणैवेति । अत्र च श्रीभागवताग्निपुराणादौ दर्शितत्वादिति । तथा च यथाऽन्त-गादौ हृत्पन्ने, वहिःपूजाही श्रीवृन्दावनादौ भगवद्पध्यानं विधेयतयोक्तं तथा गायत्रीजपादौ सूर्यमण्डले तद्ध्यानं सन्ध्यायामपि गायत्रीजपमन्त्रजपयोरपि सूर्य-मण्डले भगवद्ध्यानमुक्तम्. अन्यदा तु,- "सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥” इत्यादि कथितम् । यत्र यदा यद्भावनया भगवदुपासनमुक्तं तत्र तथैव कार्यम्, अन्यथा- "श्रुति-स्मृती ममैवाने यस्ते उल्लङ्घय वर्तते। श्राक्षाच्छेदी ममद्वषी मद्भक्तोऽपि न वैष्णवः॥" इत्यायुक्तदोषप्रसङ्गात्। तदेवमिति । सूर्यमण्डले यन्यानं-तत्, एवं-विधेयमुपासनरूपम् । ध्यानेन इति 'द्रष्टव्यः' इति-द्वाभ्यां पदाभ्यां ध्यानात्मकदर्शन कार्यमिति विधेयता लभ्यते । पुरुषः-अन्तर्यामी । । ध्यानमाह- सत्यमिति, सदाशिवं-सत्कल्याणदं शान्तञ्च, पदं स्वरूपं, इदञ्च - पटसन्दर्भनामक- । प्रथम:- त्रिलोकीजनानामुपासनार्थ प्रलयविनाशिनि सूर्य- मण्डले चान्तर्यामितया प्रादुर्भूतोऽयं एमपो ध्यानेन द्रष्टव्यः--उपासितव्यः । यलु विगोम्तव्य महा- वैकुण्ठरूपं परमं पदं तदेव सत्यं---कालत्रयाव्यभिचारि. सदाशिवं--उपद्रवशून्यं. यतो ब्रह्मस्वरूपमित्यर्थः । । - श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। यथाश्रुतं व्याख्यातम्। ग्रन्थकारस्तु - पूर्वाद्ध प्रकृताभिप्रायकमिति । तस्य तात्पर्य्यमुपसंहरति-त्रिलोकीजनानामिति। प्रलयविनाशिनि- इत्युक्त्वा मण्डलात्मकस्य सूर्य्यस्य जगत्कारणत्वादिलक्षण-गायव्यर्थता- विरहेण न सूर्योपासने तात्पर्य, किन्तु तदन्नरयामिपुरुषम्योपासन- मिति दर्शितम् । वचन द्वितीयार्द्धमन्य-तात्पर्यकमिति । तयाख्यान- माह ;-यत्त्विति-पूरणेन । तथा च विष्णोर्यन्महावैकुण्ठाख्यं परमं सर्वोत्कृष्टं पदं स्थानं ; तत् तदेव। सूर्यमण्डलात्मकाधिष्ठानस्या नित्यत्वं मनसि विचार्य "भगवतः किमधिष्टानं नित्यं' इति प्रष्टु- जिज्ञासायां यद्विशेषस्यैव नित्यावे वक्तुस्तात्पर्य्यस्य कृप्ततयाऽवगमात तदेव---इत्येव-कारपूरणमिति भावः। अत्र महावराटरूपमिति यदुक्तं : तन्महावैकुण्ठादि-परम्, अन्यथा मथुगदीनां नित्यधाम्नां सत्त्वात तदेवेत्येव-कारासङ्गतिः स्यान् । न च-विगोर्धामसु तदेव सत्य- मित्यर्थे तात्पर्यमिति वाच्यं, विष्णुपदेनात्र भगवत्त्वेन कृष्णम्यापि ग्रहणात्। अन्यथा गायत्र्यर्थत्वेन तस्याऽप्राप्तौ गायत्रीतात्पर्य्यार्थ विवरणरूपश्रीभागवतप्राधान्येन तत्परता न स्यादिति, सिद्धान्ततस्त्व- भेदेऽपि श्रीश-कृष्णस्वरूपयोः” इति रसामृतसिन्धु-कारिकया तयोरक्याञ्चेति । ब्रह्मस्वरूपत्वं ब्रह्माख्यभगवन्नित्याधिष्ठानत्वेन ।

नरसिदभः। श्रीभागवत-सन्दर्भ तदेतद्गायत्री प्रोच्य पुराणलक्षण-प्रकरणे यताधिकृत्य गायती पित्यादप्युक्तमन्निपुरागो । तस्मात् ;- "अग्नेः पुराणं गायत्री समेत्य * भगवत्पगम् । भगवन्तं तत्र अन्धा जगजन्मादि-कारणम् ॥ गायत्रीमिति लक्षणपूर्वकम् । श्रीमद्भागवतं शश्वत् पृथव्यां जयति मर्वतः ॥" तदेवमस्य शास्त्रस्य गायतीमधिकृत्य प्रवृत्तिर्दर्शिता । यत्तु सारखतकल्पमधिकृत्येति पूर्वमुक्तं तच्च गायच्या भगवत्प्रतिपादकवाग्विशेषरूपसरखतीत्वादुपयुक्तमेव । यदुक्तमग्निपुराणे ;- news श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । तदेतद्गायत्रीमिति ----सा सर्ववेदसारभूता या एषा तज्योतिः परमं ब्रह्मेत्यादिना व्याख्यामहिता या गायत्री तां प्रोच्येत्यर्थः। अग्नि- पुरागो. . “यत्नाधिकृन्य' इत्याद्यप्युक्तम् ; अर्थात् मुनिना इत्यर्थः । अपिना-शमशान्तरात्कर्षसूचकं विशेषणान्तरमुक्तमिति । यद्वा,- प्राच्य--व्याख्याय, तत्र व्याख्यानक्रियाविशेषणं-तदेतदिति । तत्- सर्ववेन्द-तात्पर्य्य-विएयपरं एतत्तज्योतिरित्यादि-वाक्यात्मकमिति । तस्माल- -निरुक्तगायत्र्याकर्षकथनपूर्वकनिरुक्तभागवतलक्षणकथनात्। मम्मत्य-निरुक्तव्याख्यानेन प्रदय, तत्र--गायच्यां, मत्वा-निर्णाय । जयतिसारार्थवर्णनमयन्वेनोन्कर्षेण वर्त्तते। उपसंहरति-तदेव- मिति, क्रियाविशेषणं, एवं दर्शनेन भागवतस्य सर्वशास्त्राधिक्यं ६४ पदसन्दर्भनामक- [ प्रथमः Ameria "गायत्युक्थानि शास्त्राणि भर्ग प्राणांस्तथैव च । ततः स्मृतेयं गायत्री सावित्री यत एव च । प्रकाशनी सा सवितुर्वागरूपत्वात् मरम्वती ॥" इति । अथ क्रमप्राप्ता व्याख्या:-- वेदार्थपरिहित इति--वेदार्थानां परिबृंहणं यस्मात्, तञ्चोक्तमितिहासपुराणाभ्यामिति। पुराणानां सामरूप इति-वेदेषु सामवत्पुराणेषु श्रेष्ठ इत्यर्थः । पुराणान्तराणां केपाश्चिदापाततो रजस्तमसी जुष- माणैस्तत्परत्वाप्रतीतत्वेऽपि वेदानां काण्डत्रयवाक्यैक- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका ! दर्शितमिति भावः। मायत्युक्थानीति,-उधानि-वैदिकमन्त्रात्मक- शास्त्राणि, गायति-प्रकाशयति, सर्वमन्त्राणामादिभूतां गायत्रीमुप- जीव्यैव मन्त्रान्तराणामाविर्भावात् । अथवा 'देवस्य' इति-गायत्रीस्थ- पदेन-वेदमन्त्रकरणकहविस्त्यागोद्देश्यत्वरूपदेवत्वावच्छिन्नस्य बोधनात् यज्ञादिकात्मकोक्थप्रकाशकत्वं, सवितृ'पदेन- जगत्कर्तुरिव वेदादि- शास्त्रकर्तृकत्वावच्छिन्नस्यापि बोधनात् शास्त्रप्रकाशकत्वं गायत्र्या इति । भर्ग-भर्गाख्यं ब्रह्म, तथा प्राणान्-इन्द्रियाणि, 'धियः' इति गायत्रीस्थ-धी'-पदेन इन्द्रियमात्रग्रहणात् । यद्वा, प्राणान्-- बुद्धिवृत्तीः, वस्तुतस्तु भर्ग एव प्राणास्तान्, “अन्योऽयमन्तर आत्मा प्राणमय" इति श्रुतेः, 'प्राणस्य प्राणश्चक्षुषश्चतुः" इत्यादिश्रुतेश्च प्राणस्य प्राणत्वं, तद्योक्तृत्वं तत्प्रेरकत्वञ्च--"को ह्येवान्यात् कः प्राण्यात् यदेष आकाश-आनन्दो न स्यात्" इत्यादि श्रुतेः । 'गायन्तं त्रायते' इति व्युत्पत्तिरपि द्रष्टव्या, 'गायति नायति च' इति गायत्रीति पर्य्यवसितम्। तत्परत्वाप्रतीतत्वेऽपिसाक्षात् स्वयं भगवत्परत्वा- - तत्व-सन्दर्भः ।। श्रीभागवत-सन्दर्भ mom- वाक्यतायां * यथा साम्ना तथा तेषां श्रीभागवतेन प्रतिपाये श्रीभगवत्येव पर्यवसानमिति भावः । तदुक्तम् ; "वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च हरिः सर्वत्र गीयते ॥" इति- प्रतिपादयिष्यते च तदिदं परमात्मसन्दर्भे । साक्षाद्भगवतोदित इति :--'कस्मै येन विभाषितो- ऽयं' इत्युपसंहारवाक्यानुसारे ज्ञेयम् । शतविच्छेद- संयुत इति--विस्तरभिया न विवियते । तदेवं श्रीमद्भागवतं सर्वशास्त्रचक्रवर्तिपदमाप्तमिति स्थिते 'हेमसिंहसमन्वितं' इत्यत्र हेमसिंहासनारूडमिति टीकाकारैर्यव्याख्यातं तदेव युक्तम् । अतः श्रीमद्भागवतस्यैवाभ्यासावश्यकत्वं श्रष्ठत्वञ्च स्कान्दे निर्णीतम् ;-- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। प्रत्ययेऽपि, काण्डत्रयवाक्यतायां-कर्मकाण्ड-ज्ञानकाण्ड-देवता- काण्डात्मकार्थ-परतायाः साक्षात्प्रतीतत्वेऽपि, यथा साना प्रति पादिते भगवति सकलवेदानां पर्यवसानं, तथा तेषां सकलपुराणानां पर्यवसानं साक्षात् परम्परया स्वप्रयोज्यबोधविषयतेति। "हरिः , "काण्डवयवाक्यतायां" इति पाठः श्रीमद्गोस्वामिभट्टाचार्यसम्मतः । "अत्यावश्यकवं” इति श्रीगोस्वामिभट्टाचास्य-सम्मतः । T पट्सन्दर्भनामक- [प्रथमः-- MRAPARASHAN'war "शतशोऽथ सहसंश्व किमन्यैः शास्त्रसंग्रहैः । -- तदेवं परमार्थ विवित्सुभिः श्रीभागवतमेव साम्प्रतं विचारणीयमिति स्थितम् * ) ॥ २२ ॥ अतएव सत्स्वपि नानाशान्त्रेप्वेतदेवोक्तम् :-- "कलौ नष्टदृशामेप पुराणार्कोऽधुनोदितः ॥" [भा० १.३.४५.] इति । अर्कतारूपकेण तद्विना नान्येषां सम्यग्वस्तु- प्रकाशकत्वमिति प्रतिपाद्यते। यस्यैव श्रीमद्भागवतस्य भाष्यभूतं श्रीहयशीर्षपश्चराने शास्त्रप्रस्तावे गणितं श्रीवलदेव-विद्याभूषणकृत-टीका । अतएवेति वर्णितलक्षणादुत्कर्षादेव हेतोरित्यर्थः। पुरातनाना- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। सर्वत्र गीयत इति साक्षात्परम्परया बोध्यत इति । तदिदमिति- निरुक्तं श्रीभागवतप्राधान्यमित्यर्थः । ज्ञेयं-कर्तृवैशिष्टेयन वैशिष्ट्य- मपि शेयम् । अतः श्रीभगवत्परत्वात्तत्कृतत्वाच्च ; अत्यावश्यकत्व- मत्यावश्यकाध्ययनादिविषयत्वं तत्प्रयोजकतया श्रेष्ठत्वञ्चेत्यर्थः ॥ २२ ॥ तद्विना नान्ये इति विशेषेण परमप्रयोजन-तत्साधन-परमोपास्य- * ()-एतद्वन्धनीमध्यस्थितो मूलांशस्तु कस्मिंश्चित् सनशिदिताः पीनाम्त के बहरमपुरभुद्रित- सन्दर्भ च दृष्टः, व्याख्यातश्च श्रोमदगोस्वामिभट्टाचार्यः, अतोऽरमाभिरत्र मूले सन्निवेशिनः । नायं क्वचित् क्वचित् पाश्चात्यपुस्तके वसद्भावादानलीयः, तदंशोकाग्निपुरागाव नानां च- "एवमग्निपुराणे गायत्र्यर्थः श्रीभगवानेवाभिमतः, तद्वचनानि तत्त्वसन्दर्भ दृश्यानि" इत्यनेनैत- द्वन्थकृद्भिः श्रीमज्जीवगोस्यामिचरणः क्रमसन्दर्भेऽङ्गीकृतत्वात् सुतरामादरणीय एव । ramme तत्त्व-सन्दर्भः। श्रीभागवत-सन्दर्भ ६७ तत्रभागवताभिधं तत्रम् । यस्य साक्षात् श्रीहनुम- द्भाष्य-वासनाभाष्य-सम्बन्धोक्ति-विद्वत्कामधेनु-तत्त्व- दीपिका-भावार्थदीपिका-परमहंसप्रिया-शुकहृदयादयो व्याख्याग्रन्थाः, तथा मुक्ताफल-हरिलीला-भक्तिरत्ना- वल्यादयो निबन्धाश्च विविधा एव तत्तन्मतप्रसिद्ध- महानुभावकृता विराजन्ते। यदेव च हेमाद्रि- ग्रन्थस्य दानखण्डे पुराणदानप्रस्तावे मत्स्यपुराणीय- तल्लक्षणधृत्या प्रशस्तम् । हेमाद्रिपरिशेषखण्डस्य कालनिर्णये च कलियुगधर्मनिर्णये,-"कलिं सभा- जयन्त्या-:-इत्यादिकं यद्वाक्यत्वेनोत्थाप्य यत्प्रति- पादितधर्म एव कलावङ्गीकृतः। अथ यदेव कैवल्य- Bom श्रीबलदेव-विद्याभूषणकृत-टीका । मृषीणामाधुनिकानाञ्च विद्वत्तमानामुपादेयमिदं श्रीभागवतमित्याह : यस्यैवेति । विराजन्ते-सम्प्रति प्रचरन्तीत्यर्थः। धर्मशास्त्रकृताञ्चो- पादेयमेतदित्याह ;-यदेव च हेमाद्रीत्यादि। तत्प्रतिपादितो धर्मः श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। वस्त्वप्रकाशका इति शेषः। यस्यैव-श्रीभागवतस्यैव, 'एव'कारेण तद्विरुद्धवर्णनराहित्यम् । भाष्यभूतं-अर्थप्रकाशकं, यस्य व्याख्याग्रन्था इत्यनेनान्वयः। यथा (हनुमद्भाप्यादयः) व्याख्यानन्था विराजन्ते तथा यस्य निबन्धाश्च विराजन्ते इत्यर्थः। निबन्धः-तत्तात्पर्य्यवर्णनात्मक- तदेकदेशसंग्रहः। यदेवेति प्रशस्तमित्यत्रान्वितम् । यद्वाक्यत्वेन- श्रीभागवतवचनत्वेन, यत्प्रतिपाद्यधर्मः-भागवत-प्रतिपाद्यधर्मः, ६८ पदसन्दर्भनामक- [प्रथम:- मप्यतिक्रम्य भक्तिसुखव्याहारादिलिङ्गेन निजमतस्या- प्युपरि विराजमानार्थं मत्वा यदयौपेयं वेदान्त- व्याख्यानं भयादचालयतैव शङ्करावतारतया प्रसिद्धेन वक्ष्यमाण-खगोपनादिहेतुक-भगवदाज्ञाप्रवर्तिताद्वय वादेनापि तन्मात्र-वर्णितविश्वरूपदर्शनकृतवजेश्वरी- विस्मय-श्रीवजकुमारी-वसनचोर्यादिकं गोविन्दा- टकादौ वर्णयता तटस्थीभूय निजबचःसाफल्याय स्पृष्टमिति ॥ २३ ॥ श्रीबलदेव-विद्याभूपणकृत-टीका । कृष्णसङ्कीर्तनलक्षणः। ननु चेदीदृशं श्रीभागवतं. तर्हि शङ्कराचार्यः कुतस्तन्न व्याचष्टेति चेत्तत्राह :-अथ यदेव कैवल्यमित्यादि । अयं भावः -प्रलयाधिकारी खलु हरेभक्तोऽहमुपनि पदादि व्याख्याय तत्सिद्धान्तं विलाप्य तस्याज्ञां पालितवानेवास्मि । अथ तदतिप्रिये श्रीभागवतेऽपि चालिते स प्रभुमयि कुप्येदतो न तच्चाल्यम्, एवं सति मे सारज्ञता सुखसम्पच्च न स्यादतः कथञ्चित्तत् स्पर्शनीयमिति श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। अङ्गीकृतः-आवश्यकत्वेन निर्णीतः, यदेव-भागवतमेव, विराजमानार्थ --विराजमानार्थकं मत्वेति । अत्र हेतुः-भक्तिसुख-व्याहारादिलिङ्गे- नेति । ब्याहारः-समुत्कर्षप्रकाशकत्वं, तदात्मकन लिङ्गेन हेतुनेत्यर्थः। यदपौरुषेयं--यदात्मकमपौरुषेयम । अचालयता--यथाश्रुतार्थपरित्यागेन स्वमतानुसारेण व्याख्यायता। ननु कथं यथाशुतार्थपरतयैव शङ्करा- चार्येण भागवतं व्याख्यातमित्यत आह,-वक्ष्यमाणेति-"प्रकाशं - * "तन्महापुराणमात्र" इति पाठस्तु बहुत्र ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ ६३ यदेव किल दृष्टा श्रीमध्वाचार्य्यचरणैर्वैष्णवा- न्तराणां तच्छिष्यान्तरपुण्यारण्यादिरीतिकव्याख्या- प्रवेशशङ्कया तत्र तात्पर्य्यान्तरलिखभिवर्मोपदेशः कृत इति च सात्वता वर्णयन्ति । तस्मादयुक्तमुक्तं तत्रैव प्रथमस्कन्धे %;- "तदिदं ग्राहयामास सुतमात्मवतां * वरम् । सर्ववेदेतिहासानां सारं सारं समुद्धृतम् ॥ [भा०१.४.४१.] श्रीबलदेव-विद्याभूषणकृत-टीका । तन्मात्रोक्तं विश्वरूपदर्शनादि स्वकाव्ये निबबन्धेति तेन चाहतं तदिति सर्वमान्यं श्रीभागवतमिति ॥ २३ ॥ श्रीमध्वमुनेस्तु परमोपास्यं धीभागवतमित्याह ;-यदेव किलेति, शङ्करेण नैतद्विचालितं किन्त्वाहतमेवेति विभाव्येत्यर्थः। किन्तु नच्छिप्यैः पुण्यारण्यादिभिरेतदन्यथा व्याख्यातं, तेन वैष्णवानां निर्गुणचिन्मात्रपरमिदमिति भ्रान्तिः स्यादिति शङ्कया हेतुना तद्भान्ति- च्छेदाय तत्र तात्पर्यान्तरं भगवत्परतारूपं ततोऽन्यत्तात्पर्य लिखद्भि- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । कुरु चात्मानमप्रकाशश्च मां कुरु" इति "मायावादमसच्छास्त्रम्" इत्यादिरूपेत्यर्थः । तटस्थीभूय-श्रीभागवतवर्णितमित्यनुल्लिख्य ॥२३॥ दृष्ट्वेत्यस्य-वैष्णवमतप्रवेशे हेतुत्वम् । तच्छिष्यतां-शङ्कराचार्य- शिप्यतां वर्णयन्तीति। यस्यैवेत्यादौ यत्पदानामुत्तरवाक्यस्थतया न तत्पदापेक्षेति । तस्मादितिः-एतैर्बहुतरप्रेक्षावद्भिरातत्वेन निर्णीत- समुत्कर्षादित्यर्थः । अात्मविदां-ब्रह्मविदाम् । सारं सारमिति वीप्सया । * "अात्मविदां" इति पाठः श्रीगोस्वामिभट्टाचार्यधृतः ।

RKI [प्रथमः पट्सन्दभनामक- Me marakNOMARWAANTaaraman. wmuman R- द्वादशे "सर्ववेदान्नसारं हि श्रीभागवतमिष्यते । तद्रसामृततप्तस्य नान्यत्र स्यादतिः कचित् ॥” [भा० १२.१२.१५.] तथा प्रथम 3;- निगमकल्पतरोलिलं फलं शुक्रमुखादमृतद्रवसंयुतम् । पिवत भागवतं रसमालयं मुहरहो रसिका भुवि भावुकाः॥" [भा० १.१.३.] अतएव तत्रैव “यः स्वानुभावमखिलश्रुतिसारमेक- मध्यात्मदीपतितितीर्पतां तमोऽन्धम् । संसारिणां करुणासाट पुराणगुहां तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥" [भा० १.२.३.] इति। श्रीबलदेव-विद्याभूषणकृत-टीका । स्तस्य व्याख्यानवोपदिष्टं वैष्णवान् प्रतीति। मध्वाचार्य्यचरण- रिति-अत्यादरसूचकवहुत्वनिर्देशः, स्वपूर्बाचार्य्यत्वादिति बोध्यम् । वायुदेवः खलु मध्वमुनिः सर्वज्ञोऽतिविक्रमी यो दिग्विजयिनं चतुर्दशविद्यं चतुर्दशभिः क्षणैर्निर्जित्यासनानि तस्य चतुर्दश जग्राह, स च तच्छिष्यः पद्मनाभाभिधानो बभूवेति प्रसिद्धम् । तस्मादिति- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। सकलसारोद्धारो बोध्यते । सारश्च-भगवन्माहात्म्यं तद्भजनश्च। तत्सारत्वं विना मुक्तस्यापि शुकस्य कथमन प्रवृत्तिरिति भावः । फलमिति-सकलवेदादिशास्त्र-तात्पर्य्यार्थावगमलक्षितार्थरूपमित्यर्थः। गुरुं मुनीनामिति-गुरुत्वं-ज्ञानातिशयत्वं, न तूपदेष्टुत्वं मुनीना- तत्त्व-सन्दर्भः । श्रीभागवत-सन्दर्भ InHRDARIme HYPHeartRamPramreweran speat ANTEERTHI mamNames +4 श्रीभागवतमतं तु सर्वमतानामधीशरूपमिति सूचकम्। सर्वमुनीनां समामध्यमध्यास्य उपदेष्टुत्वेन तेषां गुरुत्वमपि तस्य तत्र सुव्यक्तम् ॥ २४ ॥ यतः, "तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः । प्रायेण तीर्थाभिगमापदेशः स्वयं हि तीर्थानि पुनन्ति सन्तः।। अत्रिर्वशिष्ठ च्यवनः शरद्वानरिष्टनेमि गुरङ्गिराश्च । पराशरो गाधिलुतोऽथ राम उतथ्य इन्द्रामदेध्यवाही ।। मेधातिथिदेवल आष्टिषेणो भरद्वाजो गौतमः पिप्पलादः। मैत्रेय और्वः कवपः कुम्थयोनिद्वैपायनो भगवान्नारदश्च ।। अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्ध्या अरुणादयश्च । नानायप्रवरान् समेतानभ्वर्य राजा शिरसा वन्दे ।। श्रीवलदेव-विद्याभूषणकृत-टीका । प्रोक्तगुणकत्वाद्धेतोरित्यर्थः । प्रालयमिति-मोक्षमभिव्याप्येत्यर्थः । य इति-अन्धं तमोऽविद्याम् अतितितीर्पतां संसारिणां करुणया यः पुराणगुह्यं श्रीभागवतमाहेत्यन्वयः । स्वानुभावम् असाधारणप्रभाव- मित्यर्थः ॥ २४॥ मुनीनां गुरुमित्युक्तं, तत् कथमित्यत्राह-यत इति, यत इत्यस्य इत्युक्तमिति परेण सम्बन्धः। और्व इति-विप्रवंशं विनाशयद्भ्यो श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। मिति सामान्यतो निर्देशात् । एवञ्चोपदेष्टुत्वेन इत्यस्य--परीक्षित प्रत्युपदेष्टुत्वेनेत्यर्थः * ॥ २४-२५ ॥ * एतटिप्पणी दृष्ट्या कतिपयपाठान्तरमनुभूयते तन्नाकलितमस्मदवलम्बितेषु ग्रन्थेषु ।

पदसन्दर्भनामक- थम:-- -- सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् । विज्ञापयामास विविक्तचेता उपस्थिताग्रं निगृहीतपाणिः ।। [भा० १.१६.१२.] इत्याद्यनन्तरम् ; "ततश्च वः पृच्छ्यमिदं विपृच्छे विश्रभ्य विप्रा इतिकृत्यतायाम् । सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धञ्च तत्रामृशताभियुक्ताः ॥" [भा० १.१६.२४.] इति पृच्छति राज्ञि;--- "तत्राभवद्भगवान् व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्षः । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च वालैरवधूतवेषः ।।" [भा० १.१६.२५.] ततश्च,-"प्रत्युत्थितास्ते मुनयः स्वासनेभ्यः" [भा० १.१६.२८] इत्याद्यन्ते ;- "स संवृतस्तत्र महान्महीयसां ब्रह्मर्षि-राजर्षि-सुरपिवय्यैः। व्यरोचतालं भगवान् यथेन्दुग्रहक्षतारानिकरैः परीतः ॥" [भा० १.१६.३०.] इत्युक्तम् ॥ २५ ॥ श्रीबलदेव-विद्याभूषणकृत-टीका। दुष्टेभ्यः क्षत्रियेभ्यो भयाद्गर्भादाकृप्योरौ तन्मात्रा स्थापितस्ततो जातः क्षत्रियांस्तान् स्वेन तेजसा भस्मीचकार इति भारते कथास्ति। निगृहीत- पाणिः-योजिताञ्जलिपुटः। एवं कर्तव्यस्य भावः--इतिकर्तव्यता तस्यां विषये सर्वावस्थायां पुंसः किं कृत्यं, तत्रापि नियमाणैश्च कि कृत्यं, तच्च शुद्ध हिंसाशून्यं तत्रामृशत यूयम् । गां-पृथिवीम् । अनपेक्षः-निस्पृहः । निजस्य-शुद्धिपूर्तिकर्तुः स्वस्वामिनः कृष्णस्य लाभेन तुष्टः। तत्र-सभायाम् ॥ २५॥ ..

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ अत्र यद्यपि तत्र श्रीव्यास-नारदौ तस्यापि गुरु-परमगुरू, तथापि पुनस्तन्मुखनिःसृतं श्रीभागवतं तयोरप्यश्रुतचरमिव जातमित्येवं श्रीशुकस्तावप्युप- दिदेश देश्यमित्यभिप्रायः । * यदुक्तम्-“शुकमुखादमृतद्रवसंयुतम्" इति । तस्मादेवमपि श्रीभागवतस्यैव सर्वाधिक्यम् मात्स्यादीनां यत् पुराणाधिक्यं श्रूयते, तत्त्वा- पेक्षिकमिति। अहो किंबहुना ? श्रीकृष्ण-प्रतिनिधि- रूपमेवेदम् । यत उक्तं प्रथमस्कन्धे ;- श्रीबलदेव-विद्याभूषणकृत-टीका । वक्तव्यं योजयत्यत्न यद्यपीत्यादिना । तस्मादेवमिति, तद्वक्तुः- श्रीशुकस्य सर्वगुरुत्वेनापीत्यर्थः। श्रापेक्षिकमिति-एतदन्यपुराणा- पेक्षयेत्यर्थः। अथ परमोत्कर्षमाह-अहो किमिति। अतएवेति- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । अश्रुतचरमिवेति-तदानीमस्मृतत्वादिति भावः । तावप्युप. दिदेशेति, तापि-ध्यास-नारदावपि । 'अपि'कारात्-राम- भृग्वाङ्गिरो-वशिष्ठ-पराशरादीनां ग्रहणं, तेषामपि वेदपुराणवेत्तृत्वात् । उपदिदेश-स्मारयामास। यद्वा, देश्य-मधुरव्याख्यानकौशलं, उप- दिदेशैवेत्यर्थः, 'अश्रुतचरमिव' इत्युक्तत्वात् । तथा च तयोरपि तथा- व्याख्यानकौशलयोग्यत्वेऽपि शुकदेवं प्रति तथानुपदेशादिति भावः । *- * "तदुक्तम्" इति वा पाठः । अत्र "तु" इत्यधिकपाठः कचित् ।

७४ षट्सन्दर्भनामक- [प्रथम:- - "कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह । कलौ नष्टदृशाप पुराणार्कोऽधुनोदितः ॥" [ भा० १. ३. ४५] इति । अतएव सर्वगुणयुक्तत्वमस्यैव दृष्टं, "धर्मः पोज्झितकैतबोऽत्र" इत्यादिना,- "वेदाः पुराणं काव्यञ्च प्रभुर्मित्रं प्रियेव च । बोधयन्तीति हि पाहुनिटद्भागवतं पुनः॥"- इति मुक्ताफले हेमाद्रिकारवचनेन च * । तस्मान्मन्यन्तां वा केचित् पुराणान्तरेषु वेद- सापेक्षत्वं, श्रीभागवते तु तथा सम्भावना वयमेव निरस्तेत्यपि + स्वयमेव लब्धं भवति । अतएव परमश्रुतिरूपत्वं तस्य । यथोक्तम् ;- ----.antar श्रीबलदेव-विद्याभूषणकृत-टीका। कृष्णप्रतिनिधित्वात् कृष्णवत् सर्वगुणयुक्तमित्यर्थः। प्रियेब-कान्तेव । त्रिबृत्-वेदादित्रयगुणयुक्तमित्यर्थः। तस्मादिति, वेदसापेक्षत्वं- - " श्रीराधामोहन गोस्वामिभट्टाचार्यकृत-टीका। आपेक्षिकमिति-भागवतान्यपुराणापेक्षिकमित्यर्थः। धर्म-ज्ञानादिभिः सहेति, आदिना-भक्त्यादिपरिग्रहः, यथोत्तरमुत्तमत्वमेषाम् । कलौ नष्टदृशां नष्टज्ञानादीनां सम्बन्धे धर्म-ज्ञानादिभिः सह एष Nashinine "हेमादिकारस्य बचनेन च" इति गोस्वामिभट्टाचार्य्यतः पाठः। 1 "परास्तेत्यपि" इति वा पाठः।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ ७५ "कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह । सम्बादः समभूत् तात ! यत्रैपा सात्वती श्रुतिः॥" [ भा० १. ४. ७] इति । अथ यत् खलु सर्व पुराणजातमाविर्भाव्ये- त्यादिकं पूर्वमुक्तं, तत्तु प्रथमस्कन्धगत-श्रीव्यास- नारदसम्बादेनैव प्रमेयम् ॥ २६ ॥ श्रीबलदेव-विद्याभूषणकृत-टीका । वेदवाक्येन पुराणप्रामाण्यमित्यर्थः । अतएवेति-परमार्थावेदकत्वाद- वेदान्तस्वेष भागवतस्य परमश्रुतिरूपत्वमित्यर्थः । यल-संवादे। सात्वती-वैष्णवीत्यर्थः । अथेति 'इदं भगवता पूर्व' इत्यादिद्वादशोक्ते. ब्रह्मनारायणसम्वादरूपमष्टादशसु मध्ये प्रकटितं, व्यासनारदसम्बादरूपं तत्रैव प्रवेशितं, तदुभयस्य लक्षण-संख्ये तु मात्स्यादाबुक्ते इति योध्यमित्यर्थः। एवमेव भारतोपक्रमेपि दृष्टम् । आदावाख्यानैर्विना चतुर्विशतिसहस्रं भारतं, ततस्तैः सहित पञ्चाशत्सहस्रं. ततस्तैस्ततोऽ- प्यधिकमितोऽप्यधिकमिति, तद्वत् ॥ २६ ॥ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । पुराणार्कोऽधुना उदित इत्यन्वयः। चर्मचक्षुर्यथा सूर्यांशस्तथा ज्ञानचक्षुः श्रीभागवतांश इति द्योतनाय श्रीभागवतस्यार्कतया रूपक- मिति भावः। वेदा इति,-वेदाः-प्रभुरिव बोधयन्तीत्यन्वयः। प्रभुपदेन 'राजा'इत्युच्यते ; तथा च-राजा यथाशापयति, तथैवा- मात्यादयः कुर्वन्ति, न तु तद्वाक्यं 'भद्रमभद्रं वा' इति विचारयन्ति, तथा वेदवचनेन विहितं कर्म विद्वांसो यथा यथाऽभिहितं प्रमाण- निरपेक्षं तथैव कुर्वन्ति। पुराणं मित्रमिव प्रमाणयुक्तिसापेक्ष बोधयति, विभक्तिविपरिणामेनान्वयः। काव्यं-काव्यशास्त्रं, प्रियेव- - ७६ [प्रथम:- पसन्दर्भनामक- तदेवं परमनिःश्रेयस-निश्चयाय श्रीभागवतमेव पौपिOविरोधेन विचार्य्यते । तत्रास्मिन् सन्दर्भ- षट्कात्मके ग्रन्थे सूत्रस्थानीय -अवतारिकावाक्यं, विषयवाक्यं-श्रीभागवतवाक्यम् । भाष्यरूपा तद्- व्याख्या तु सम्प्रति मध्यदेशादौ व्याप्तानद्वैतवादिनो नूनं भगवन्महिमानमवगाहयितुं तद्वादेन कवुरित- श्रीबलदेव-विद्याभूषणकृत-टीका। नदेवमिति ;-ननु वेद एवास्माकं प्रमाणमिति प्रतिज्ञाय पुराण- मेध तत् स्वीकरोतीति किमिदं कौतुकमिति चेन्मैवं भ्रमितव्यम्, "एवं वा अरेऽस्य महतो भूतस्य" इत्यादिश्रुत्यैव पुराणस्य वेदत्वाभि- धानात् । वेदेषु वेदान्तस्येव पुराणेषु श्रीभागवतस्य त्रैष्ठ्यनिर्णयाच्च- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। कान्तेव सरसतामापादयद्बोधयति । भागवतं-भागवताख्यशास्त्र, त्रिवृत्-प्रभुमित्रकान्तासहक, वेद इव-प्रमाणनिरपेक्षतया प्रभुरिव, इतरपुराणमिव-प्रमाणयुक्ति-सम्बलितत्वेन हितबोधकत्वेन च मित्र- मिव, कान्तेव-सरसतापादनञ्चेति सर्वोत्तममित्यर्थः। हेमाद्रि- कारस्य-वोपदेवस्य, हेमाद्रिकारत्वेन तदुपादानं-युक्तिशास्त्रदर्शिन्व- लाभाय । सात्वती-भागवती ॥ २६ ॥ परम-निःश्रेयसनिश्चयाय-परम-निःश्रेयस-तत्साधननिश्चयाय । श्रीभागवतमेवेति-पुराणादिवचनान्यत्र श्रीभागवतवचनव्याख्या- सम्वादार्थमेवोकानीति बोध्यम् । विचार्य्यते–वास्तवतत्त्वार्थकतया ज्ञाप्यते, ज्ञापनं-ज्ञानानुकूलव्यापारः; स च व्यापारः-शास्त्रान्तरं "अवतारणिकावाक्यम्” इति गोस्वामिभट्टाचार्यतः पाठः ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ ७७ लिपीनां परमवैष्णवानां श्रीधरस्वामिचरणानां शुद्ध- वैष्णवसिद्धान्तानुगता चेत्तर्हि यथावदेव विलिख्यते। कचित्तेषामेवान्यनदृष्ट-व्याख्यानुसारेण द्रविड़ादि- देशविख्यातपरमभागवतानां, तेषामेव बाहुल्येन तत्र वैष्णवत्वेन प्रसिद्धत्वात्, श्रीभागवत एव,- "कचित् कचिन्महाराज द्रविड़ेषु च भुरिशः।"- [ भा० ११.५.७८] - Jeremi--- in द श्रीबलदेव-विद्याभूषणकृत-टीका। तदेव प्रमाणमिति किमसङ्गतमुक्तमिति । अथ ब्रह्मसूत्रभाष्यरीत्या सन्दर्भस्यास्य प्रवृत्तिरित्याह;-तत्रास्मिन्निति, विचारार्हवाक्यं- विषयवाक्यम् । भाष्यरूपा तव्याख्येति। अयमर्थः ;-श्रीधर- स्वामिनो वैष्णवा एव, तट्टीकासु भगवद्विग्रहगुणविभूतिधाम्नां तत्पार्षदतनूनाञ्च नित्यत्वोक्तेः, भगवद्भक्तेः सर्वोत्कृष्टमोक्षानुवृत्त्यो- रुक्तेश्च। तथापि क्वचित् क्वचिन्मायावादोल्लेखस्तद्वादिनो भगवद्भक्तो श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । युक्तिवाक्यञ्च। तत्रेति-विचारात्मकेऽस्मिन् ग्रन्थे इत्यर्थः । यद्वा, तत्रेत्यस्य- सूत्रस्थानीयमित्यनेन विषयवाक्यमित्यनेन चान्वयः। सूत्र- स्थानीयं- मूलस्थानीयम् । अवतारणिकावाक्यं-भागवतवचनोत्था- पकाकाजोत्थापकवाक्यम् । विषयवाक्यं-विचारवाक्यम् । तद्- व्याख्या-भागवतव्याख्या। अवगाहयितुं-बोधयितुं, तत्सम्प्रदाया- न्तर्गतत्वादिति । तद्वादेन-अद्वैतवादिमतबोधनत्वेन, कवुरितलिपीनां -शुद्धवैष्णवमत-तात्पर्य्यकत्वेन विचित्रवाक्यानां, परमवैष्णवाना- ज्ञानमपेक्ष्य कृष्णभक्तेरौत्कर्ण्यबोधकव्याख्यातृतया वैष्णवत्वेन , [प्रथमः- षट्सन्दर्भनामक- इत्यनेन प्रमितमहिम्नां साक्षात् श्रीप्रभृतितः प्रवृत्त- सम्प्रदायानां श्रीवैष्णवाभिधानां श्रीरामानुजभगवत्- पादविरचितश्रीभाष्यादिदृष्टमतप्रामाण्येन मूलग्रन्थ- स्वारस्येन चान्यथा च । अद्वैतव्याख्यानन्तु प्रसिद्धत्वा- नातिवितायते ॥ २७ ॥ mommanue यथा श्रीबलदेव-विद्याभूषणकृत-टीका। प्रवेशयितुं बड़िशामिषार्पणन्यायेनैवेति विदितमिति । शुद्धवैष्णवेति- सांख्यादिशास्त्राणामविरुद्धांशः सबै स्वीकृतस्तदिदं वोध्यम् । क्वचित्तेषामेवेति-क्वचित् स्थलान्तरीयस्वामिव्याख्यानुसारेण श्रीभाण्यादिष्टमतप्रामाण्येन मूलश्रीभागवतस्वारस्येन चान्यथा च भाष्यरूपा तद्व्याख्या मया लिख्यते ; इति मत्कपोलकल्पनं किञ्चि. दपि नास्तीति प्रमाणोपेतात्र टीकेत्यर्थः । ननु पूर्वपक्षज्ञानाद्वैतश्च व्याख्येयम् ? इति तत्राह-अद्वैतेति ॥ २७ ॥ है श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । प्रसिद्धानां, वैष्णवसिद्धान्तानुगतेति-व्याख्येति शेषः। चेदिति- यदि दृश्यत इत्यर्थः। एतेन यत्र शुद्धाद्वैतवादमतानुवादव्याख्या सा नात्र ग्राह्येति अाह,-क्वचिदिति, अन्यथा 'इत्यनेनास्यान्वयः। तेषामेव-श्रीधरस्वामिचरणानामेव, अन्यत्र-वचनान्तरव्याख्याने, दृष्टव्याख्यानुसारेण दृष्टशुद्धवैष्णवमतार्थानुसारेण । तत्र-द्रविड़ादौ, श्रादिना-कार्णाटतैलङ्गादिपरिग्रहः । 'द्रविड़ेषु' इति बहुवचनेन कार्णाटादिपरिग्रहः । 'श्री-वैष्णवाभिधानाम्' इत्यस्य 'मता' इत्यनेना. न्वयः। श्रीभाष्येति-वेदान्तसूत्रभाष्येत्यर्थः । मतप्रामाण्येन प्रागुक्त- युक्त्या निर्णीत-प्रामाण्यकमतानुसारेण, मूलविरुद्धत्वेऽसङ्गतं स्यात् ? इत्यत आह;-मूलस्वारस्येनेति। एतेन क्वचित् तत्तन्मत-परित्यागेनापि तत्त्व-सन्दर्भ।] श्रीभागवत-सन्दर्भ ७६ ग्रत च स्वदर्शितार्थविशेष-प्रामाण्यायैव, न तु श्रीमद्भागवतवाक्य-प्रामाण्याय प्रमाणानि श्रुतिपुराणादिवचनानि यथादृष्टमेवोदाहरणीयानि ; क्वचित् स्वयमदृष्टाकराणि * च तत्त्ववादगुरूणा- मनाधुनिकानां प्रचुरप्रचारितवैष्णवमतविशेषाणां दक्षिणादिदेशविख्यातशिष्योपशिष्यीभूतविजयध्वज- श्रीबलदेव-विद्याभूषणकृत-टीका । अनेति । इह ग्रन्थे यानि श्रुतिपुराणादिवचनानि मया ध्रियन्ते, तानि स्वदर्शितार्थविशेषप्रामाण्यायैव, न तु श्रीभागवतवाक्यप्रामाण्याय, तस्य स्वतःप्रमाणत्वात् । तानि च यथादृष्टमेवोदाहरणीयानि- १ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। व्याख्येयमिति सूचितम् । अन्यथा चेति-'लिख्यते' पूर्वेणान्वयः, स्वामिचरणमताननुसारिमतेनेत्यर्थः ॥२७॥ यथादृष्टमिति-उदाहरणक्रियाविशेषणम् । स्वयमदृष्टचराणीत्यस्य परिगृहीतानीति परेणान्वयः। स्वयमदृष्टचराणीत्यनेन मतस्यैतस्य गौरवं सूचितम् । तत्त्ववादगुरूणां-तत्त्वविचारगुरूणां श्रीमच्छङ्करा- चार्यशिष्यतां लब्ध्याऽपीत्यनेन तस्य तस्य ज्ञातस्यापि त्यागे तस्य " * "अदृष्टचराणि" इति गोस्वामिभट्टाचार्यकृतः पाठः । + "श्रीशङ्कराचार्यशिष्यतां लब्ध्वापि श्रीभगवत्पक्षपातेन ततो विच्छिद्य' इत्यधिकपाठः क्वचिदृश्यते, सम्मतश्चापि श्रीमगोस्वामिभट्टाचार्याणाम् । * मूले “संगृहीतानि" इत्येवमस्ति, तदेव सुगमं मन्यामहे, न कृतमिदं मूलानुरूपं, साहायकग्रन्थान्तराभावाद, सुतरां पाठान्तरत्वेवोपन्यस्तं मलेष्विति .

पट्सन्दर्भनामक- [प्रथमः म . RATOuruaama-.. व्यासतीर्थादिवेदवेदार्थविद्वद्वराणां श्रीमध्वाचार्य- चरणानां भागवततात्पर्य्य-भारततात्पर्य ब्रह्मसूत्र- भाष्यादिभ्यः संगृहीतानि । * तैश्चैवमुक्त भारत- तात्पर्ये "शास्त्रान्तराणि संजानन वेदान्तस्य प्रसादतः । देशे देशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्विधान् ।। यथा स भगवान् व्यासः साक्षान्नारायणः प्रभुः । जगाद भारतायेषु तथा वक्ष्ये तदीक्षया ॥" इति । श्रीवलदेव-विद्याभूषणकृत-टीका । मूलग्रन्थान् विलोक्योत्थापितानीत्यर्थः । कानिचिद्वाक्यानि तु मददृष्टाकराण्यस्मदाचार्यश्रीमध्वमुनिदृष्टाकराण्येव क्वचिन्मया नियन्ते इत्याह-क्वचिदिति। मव्याख्याने क्वचिदर्थविशेषे प्रामाण्याय श्रीमध्वाचार्यचरणानां भागबत-तात्पादिभ्यो ग्रन्थेभ्यः संगृहीतानि श्रुतिपुराणादिवचनानि ध्रियन्त इत्यनुषङ्गः। अत्रास्य ग्रन्थकर्तुः सत्यवादित्वं ध्वनितम्। 'कौमारब्रह्मचर्यवान्नैष्ठिको यः सत्यतपोनिधिः श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। तस्य सदोषत्वं सूचितम् । मतस्यैतस्य प्रमाणसिद्धत्वं दर्शयति-- तैश्चैवमुक्तमिति । तैः-श्रीमाध्वाचार्यचरणैः । ज्ञेयमिति अनेदमवधेयं-महानुभावश्रीधरस्वामिप्रभृतिमतेषु यदयुक्तिशास्त्र- निर्णीतं, तत्तदेव मतं सङ्कलय्य स्वमतमाविष्कृतं, न त्वेतेषां कस्यापि सम्प्रदायान्तर्गतोऽयं ग्रन्थकार इति दर्शितम्। तत्र निर्विशेष ब्रह्मोपासक- मायावादि-श्रीमच्छङ्कराचार्य्यमतमुपेक्षितं स्वमतभक्तिशास्त्रविरुद्धत्वात्. * “परिगृहीतानि" इति गोस्वामिभट्टाचार्यतः पाठः । in तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ ८१ तत्र तदुद्धृता श्रुतिः--चतुर्वेदशिखाद्या; पुराणश्च-गारुड़ादीनां सम्प्रति सर्वताप्रचरद्रूपma श्रीबलदेव-विद्याभूषणकृत-टीका । स्वप्नेऽप्यनृतं नोचे च' इति प्रसिद्धम् । तेषां कीदृशानामित्याह, तत्त्वेति । 'सर्व वस्तु सत्यम्' इति वादस्तत्त्ववादस्तदुपदेष्मृणामित्यर्थः । अनाधुनिकानां-अतिप्राचीनानां, * 'केनचित् शाङ्करेण सह November श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । किंन्तु तस्य हृद्गतं निगूढं भागवतमतमपि गोपी-वस्त्रहरणवर्णनादि- द्वारा निर्णीय तच्छिष्यपरम्परालु भक्तिप्रधानमतमाश्रित्य सम्प्रदाय- भेदो जात इति 'भागवतः' 'स्मार्तः'-इत्यद्वैतवादिसम्प्रदायद्वयम् । तत्र भागवतसम्प्रदायान्तर्गतः-श्रीधरस्वामी, तस्य वैकुण्ठनाथ- प्रधानतया भागवतव्याख्यानेऽपि तद्याख्यातभगवद्रूप-तद्भक्तिप्राधान्य- मेवातं, न तु सर्व तन्मतम् । तथा श्रीमद्रामानुजाचार्य:- विशिष्टाद्वैतवादी स्वयंभगवत्त्वेन लक्ष्मीनाथं संस्थाप्य तदुपासको जगदुपादानतया प्रकृतिमनङ्गीकृत्य परमेश्वरस्वरूप-तद्धर्मजड़ांश- परिणामेन जगदुत्पत्तिं स्वीकृतवान् ; तन्मतमपि सर्व श्रीभागवत- तात्पर्यविषयः। किन्तु मायावादनिरास-जीवतत्त्व-जगत्सत्यत्वादि- तद्वर्णितांशमादाय स्वव्याख्यापोषणमत्र ग्रन्थे कृतम्। तथा श्रीमाध्वा- चार्य्यस्य द्वैतवादिनोऽपि न सर्व मतं गृहीतं, तन्मतेऽपि- स्वयं भगवान् श्रीविष्णुरेव, लक्ष्म्या एव प्रधानशक्तितया ब्रजलीला- तत्परिकराणां सर्वतो मुख्यता न तदभिप्रेता। एवं तेन 'ज्ञान- प्राधान्यं, मुक्तिः-प्रधानपुरुषार्थः' इति च भाष्ये दर्शितं, परन्तु तन्मतसिद्धं-'भगवतः सगुणत्वं, नित्या प्रकृतिः, तत्परिणामो जगत् .. . "शङ्करसमसमयानां, शङ्करेण" इति पाठान्तरमपि दृश्यते ।

पदसन्दर्भनामक- [प्रथमः- - opm मंशादिकं : संहिता च–महासंहितादिका; तन्त्रञ्च- तत्रभागवतादिकं ब्रह्मतर्कादिकमिति ज्ञेयम् ॥ २८ ॥ श्रीबलदेव-विद्याभूपणकृत-टीका। विवादे मध्वस्य मतं व्यासः स्वीचक, शकरस्य तु तत्याज' इत्यैतिहा- मस्ति । प्रचारितेति---'भक्तानां विप्राणामेव मोक्षः देवा भक्तपु मुख्याः, विरिश्चन्यव सायुज्यं, लक्ष्म्या जीवकोटिन्वं' इत्येवं मत- विशेषः । दक्षिणादिदेशेति-तेन गौड़ेऽपि माधवेन्द्रादयस्तदुपशिष्याः कतिचिहभूवुरित्यर्थः । शास्त्रान्तराणीति-तेन स्वस्य दृष्टस करता व्यज्यते, दिग्विजयित्वञ्चेत्युपाद्घातो व्याख्यातः ॥२८॥ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। सत्यं, ब्रह्मतटस्थांशा जीवास्ततो भिन्नाः'-इत्यादिकं मतं गृहीतम् । प्रकृतेर्ब्रह्मस्वरूपता तेन नङ्गीकृता इति स्वमताद्विशेषः। किन्तु द्वैताद्वैतवादिभास्करीयमतं-'ब्रह्मस्वरूपशक्त्यात्मना परिणामो जगत्, सा च शक्तिः त्रिगुणा प्रकृतिः' इति तदेव स्वानुमतमिति लभ्यते । परञ्चैतत् सर्वमतमेव साधु.-"बह्वाचार्य-विभेदेन भगवन्त- मुपासते" इत्युक्तत्वादिति। तथा च श्रीमन्महाप्रभुचरणानां मतं सर्वतो महत्, सर्वमत-सारसंग्रहरूपत्वात् । एवं श्रीमन्मध्वाचार्यो यथा श्रीमच्छङ्कराचार्याशियोऽपि ब्रह्मसम्प्रदायमाश्रित्य ब्रह्मसूत्र- भाज्यादिकं कृत्वा स्वातन्त्र्येण सम्प्रदायप्रवर्तकः, तथा स्वयंभगवद- वतारोऽपि श्रीकृष्णचैतन्यः-स्वमतमेव तत्सम्प्रदायान्तर्गतत्वं गुर्वाश्रयणस्यावश्यकत्वमङ्गीकृत्य प्रवर्तितवान्-स्वस्वरूपश्रीमदद्वैता- चार्यादिद्वारेति, तदनुज्ञया च गोस्वामिभिस्तत्प्रकटीकृतम् । ब्रह्मसूत्रस्य भाष्यान्तरमकृत्वा भगवता नारायणेन ब्रह्मणे उपदिष्टं श्रीमद्भागवतरूपभाध्यमेव व्याख्यातुमयमारम्भः। यद्यपि- , तल तत्त्व-सन्दर्भः । श्रीभागवत-सन्दर्भ ma अथ नमस्कुर्वन्नेव तथाभूतस्य श्रीमद्भागवतस्य तात्पर्य तद्वक्तुहृदयनिष्ठाप-लोचनया संक्षेपत- स्तावन्निर्धारयति ;- "स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावो- ऽप्यजितरुचिरलीलाकुसारस्तदीयम् । व्यतनुत कृपया यस्तत्वदीपं पुराणं तमखिलजिनघ्नं व्याससूनुं नतोऽस्मि ॥"[भा०१२.१२.६८] श्रीबलदेव-विद्याभूषणकृत-टीका । अथ 'यस्य ब्रह्म'इति पद्योक्तं सम्वन्धि कृष्णतत्त्वं,तद्भक्तिलक्षणमभिधेयं, तत्प्रेमलक्षणं पुमर्थञ्च निरूपयता पद्येन तावग्रन्थं प्रवर्तयन अन्थ- कृदवतारयति ;-अथेति मङ्गलार्थम् । यस्मिन् शास्त्रवक्तुहृदयनिष्ठा in श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। “यो ब्रह्माणं विदधाति वेदांश्च प्रहिणोति तस्मै प्रीणाति" (श्वेताश्व० ६. १८) इत्यादिश्रुत्या प्रारदर्शितश्रुतिभिश्च सर्गादौ ऋगादिपुराणाद्यात्मकवेदसमुदायं ब्रह्मणे भगवान् उपदिदेश, तथापि तदुपदेशोऽन्तर्यामिरूपेण हहि प्रवर्तनरूप इति वेदानां तात्पर्य दुरूहं मत्वा पृच्छते ब्रह्मणे साक्षान्नारायणेन तदवधारणाय श्रीभागवतमेव स्फुटमुपदिष्टमिति भागवतव्याख्यानमेवोचितमिति॥२८ एतावता प्रबन्धेन शिष्यप्रवर्तनायाभिधेयप्रकर्ष प्रदर्श्य ग्रन्थ- मारभते-अथेति । तद्वक्तुः-श्रीभागवतवक्तुः शुकस्य हृदयनिष्ठा- श्रीकृष्ण-तद्भजनादिषु समाधिः,-तत्-प-लोचनया पूर्वापर-तद्वचनेषु तत्-प-लोचनया। स्वसुखेति-अस्य ब्रह्मात्मक- तया स्वात्मक-स्वप्रकाशसुखेनैव इत्यर्थः। यद्वा-स्वस्य यत् सुखं, m मनसः ८४ पट्सन्दर्भनामक- [प्रथम:- टीका च श्रीधरस्वामिविरचिता :- "श्रीगुरुं नमस्करोति । स्वसुखेनैव निभृतं पूर्ण चेतो यस्य सः। तेनैव व्युदस्तोऽन्यस्मिन भावो भावना यस्य नयाभूतो- ऽप्यजितस्य रुचिराभिर्लीलाभिराकृधः सारः स्वसुखगतं धैर्य यस्य सः। तत्त्वदीपं परमार्थप्रकाशकं श्रीभागवतं यो व्यतनुत, तं नतोऽस्मि” इत्येषा। एवमेव द्वितीये तद्वाक्यमेव,* "प्रायेण मुनयो राजन्" इत्यादिपद्यनयमनुसन्धेयम् । अनाखिलवृजिनं तादृशभावस्य प्रतिकूलमुदासीनश्च ज्ञेयम् । तदेवमिह सम्बन्धितत्त्वं ब्रह्मानन्दादपि . ar श्रीबलदेव-विद्याभूषणकृत-टीका । प्रतीयते ; तदेव शास्त्रप्रतिपाद्यवस्तु, न त्वन्यदित्यर्थः। स्वेति,- तदीयम्-अजितनिरूपकं पुराणमित्यर्थः। टीका चेति ;-स्वसुखे- नेति-स्वमसाधारणं जीवानन्दादुत्कृष्टं, गुड़ादिव मधु, यदनभिव्यक्त- संस्थानगुणविभूतिलीलमानन्दरूपं स्वप्रकाशं ब्रह्मशब्दव्यपदेश्यं वस्तु. तेनेत्यर्थः। रुचिराभिरिति--पारमैश्वर्यसमवेतमाधुर्य्यसंभिन्नत्वा- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । "आनन्दं ब्रह्मणो रूपं तञ्च भीक्षे प्रतिष्ठितम्" इति श्रुतिसिद्धं तेनैवेत्यर्थः । अस्यां श्रुतौजीवपरं ब्रह्मपदं-"द्वे ब्रह्मणी वेदितव्ये परश्चा- परमेव च"(मैत्र०६.२२.) इति श्रुतेः । यद्यपि सात्वतमते जीवस्याणुत्वं, तथापि वृहत्त्वांशं परित्यज्य चेतनत्वेन जीवस्य ब्रह्मपदेन निर्देशः- आत्म-पदेनेवेति । अत उक्तं-“इतरेग्वात्मशब्दस्तु सोपचारो विधीयते' * "तद्वाक्य एव' इति श्रीमद्गोस्वामिभट्टाचार्य्यतः पाठः। + अत्र "सव" इत्यधिकपाठः क्वचित् । " ..

तत्त्व-सन्दर्भः । श्रीभागवत-सन्दर्भ ८५ तथा प्रकृष्टो रुचिरलीलाविशिष्टः श्रीमानजित एव । स च पूर्णत्वेन मुख्यतया श्रीकृष्णसंज्ञ एवेति श्रीवादरायणसमाधौ व्यक्तीभविष्यति । प्रयोजनाख्यः पुरुषार्थश्च तादृशतदासक्तिजनकं तत् प्रेमसुखमेव । ततोऽभिधेयमपि तादृशतत्प्रेमजनकं तल्लीलाश्रवणादिलक्षणं तद्भजनमेवेत्यायातम् । अत्र 'व्याससूनु' इति ब्रह्मवैवर्तानुसारेण श्रीकृष्ण वरा- जन्मत एव मायया तस्यास्पृष्टत्वं सूचितम् । १२।१२। श्रीसूतः श्रीशौनकम् ॥ २६ ॥ श्रीबलदेव-विद्याभूषणकृत-टीका। न्मनोशाभिरानन्दैकरूपाभिः पानकरसन्यायेन स्फुरदजित-सत्परि- करादिमिर्लीलाभिरित्यर्थः । अत्राखिलेति । प्रतिकूल-प्रत्याख्यायकम् । उदासीनं त्याजकमित्यर्थः। (अङ्कयुग्मं स्कन्धाध्याययोझापकम् )। श्रीसूतः श्रीशौनकं प्रति निर्धारयतीत्यवतारिका-वाक्येन सम्वन्धः । एवमुत्तरत्र सर्वत्र बोध्यम् ॥ २६ ॥ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । इति माध्वभाष्ये। यद्वा, स्वं-असाधारणं ब्रह्मानुभवजनितं सुखं तेनैवेत्यर्थः। पूर्ण-तृप्तं, तेनैव-ब्रह्मलुखतृप्तचेतस्त्वेनैव, स्वसुखेने- त्यर्थः। अजितस्थ-कृष्णस्य । धैर्य-ब्रह्माकारे मनसो धारणम् । अथवा, धैर्य-निरुक्ततृप्तत्वं, इदश्च श्रीमद्भागवतचर्चायां हेतुः । एवमेव-शुकस्यैतादृशमनोवृत्ति-प-लोचनमेव, तद्वाक्य एव- * "प्रकृष्टः' इति पाठस्तु गोस्वामिभट्टाचार्यसम्मतः ।

५६ पट्सन्दर्भनामक- [प्रथमः- .. ------ तादृशमेव तात्पर्य करिष्यमाणतद्ग्रन्थप्रति- पाद्यतत्त्वनिर्णयकृते तत्प्रवक्तृ-श्रीवादरायणकृते समाधावपि संक्षेपत एव निर्धारयति "भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले । अपश्यत् पुरुषं पूर्ण मायाश्च तदपाश्रयाम् ।। श्रीबलदेव-विद्याभूषणकृत-टीका । ग्रन्थवक्तुः शुकस्य यत्न निष्ठावधारिता, तत्रैव ग्रन्थकर्तुळसस्यापि निष्ठामयधारयितुमवतारयति ;-तादृशमेवेति । निवृत्तिनिरतं--- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । शुकवाक्येऽपि। तादृशभावस्येति-मुक्कानामप्याकर्षकस्य भगवद- आवस्येत्यर्थः। सम्बन्धितत्त्वं-श्रीभागवतप्रतिपाद्यतत्वम् । प्रकृष्ट- रुचिरा-प्रकृष्टसुखमयी या लीला---श्रीमद्वृन्दावनादिधामक्रीड़ा लद्विशिष्टः। पूर्णत्वेन-स्वतःसिद्ध-ज्ञानशक्त्यादिमत्त्वेन, वादरायण- समाधौ-व्याससमाधिलब्धार्थबोधक-.-"कृष्णस्तु भगवान् स्वयम्" इत्यादिवाक्ये । तदासक्तिजनकं-श्रीकृष्णसंलग्नचेतस्त्वप्रयोजकं, प्रेम- सुख-प्रेमाख्यभक्त्या सुखानुभवः। ततः-श्रीकृष्णाख्यमुख्याभिधेया- सत्त्यर्थ प्रेमसुखप्रयोजनत्वात्, तद्भजनमेव-तद्भजनमपि कृष्ण-तत्- प्रेमसुखादेरप्यभिधेयत्वात् । श्रीसूतः शौनकं प्रतीति-अस्य 'अथ नमस्कुर्वन्नेब' इत्यादि चूर्णिकावाक्यस्वेन 'निर्धारयति' इत्यनेनान्वयः। एवमुत्तरत्र निर्धारयति' इति पदेन 'श्रीसूतः शौनकं प्रति इत्यस्यान्वयः॥२६॥ तनिर्धारणमेत्र दर्शयति-भक्तियोगेनेत्यादिना । मनसोऽमलत्वं- विषयपरित्यागः, तथा च प्रत्याहृते चेतसि भक्तियोगेन पूर्ण पुरुष- स्वयंभगवन्तं श्रीकृष्णं । तदपाश्रयां तदहिभूताम् । १ तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् । परोऽपि मनुतेऽनर्थ तत्कृतश्चाभिपद्यते । अनर्थोपशमं साक्षाद् भक्तियोगमधोक्षजे । लोकस्याजानतो व्यासश्चक्रे सात्वतसंहिताम् ।। यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंसः शोक-मोह-भयापहा ।। स संहितां भागवतीं कृत्वानुक्रम्ध चात्मजम् । शुकमध्यापयामास निवृत्तिनिरतं मुनिम् ॥" [ भा० १.७. ४-८]। तत्र "स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः । कस्य वा महतीमेतामात्मारामः समभ्यसत् ।।" [भा० १.७.६] श्रीबलदेव-विद्याभूपणकृत-टीका । ब्रह्मानन्दादन्यस्मिन् स्पृहाविरहितम्। कस्येति-संहिताभ्यासस्य किं फलमित्यर्थः। अध्यगात् अधीतवान् । मुक्तप्रग्रहयेति- मुक्तप्रग्रहयेति-यथाश्वः 5 श्रीराधामोहन-गांस्वामिभट्टाचार्यकृत-टीका। "ह्लादिनी सन्धिनी सम्वित्त्वय्येका सर्वसंश्रये। हादतापकरी मिश्रा त्वयि नो गुणवर्जिते” इति विष्णुपुराणात् । सर्वसंश्रयत्वञ्च तस्य “अस्य प्रशासने गार्गि! सूर्याचन्द्रमसौ विधृते तिष्ठतः" इत्यादिश्रुत्या तदिच्छया सर्वधृतिनिवन्धनं गगणवत् सर्वसम्वन्ध- रूपश्च, माया च तदिच्छया जीवं मोहयतीत्याह-ययेति । मोहनश्च- भगवत्तत्त्वावरणरूपं, त्रिगुणात्मकं देहं मनुते-स्वाभेदेन मन्यते पट्सन्द दर्भनामक- [प्रथमः- : इति श्रीशौनकप्रश्नानन्तरश्च :-- "आत्मारामाश्च मुनयो निर्ग्रन्था अग्युरुक्रमे । कुर्वन्त्यहैतुकी भक्तिमित्थम्भूतगुणो हरिः ।। हरेर्गुणाक्षिप्तमतिर्भगवान् वादरायणिः । अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः ॥" [ भा० १.७.१०-११.] । भक्तियोगेन-प्रेना "अस्त्वेवमङ्ग! भजतां भगवान्मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्तियोगम् ।" [भा०५.६.१८] श्रीबलदेव-विद्याभूषणकृत-टीका । प्रग्रहे मुक्ते बलावधि धावत्येवं पूर्णशब्दः प्रवृत्तः पूर्णत्वावधि प्रवत्ततेति वक्तुं, तदवाधिश्च स्वयंभगवत्येवेति तथोच्यते इत्यर्थः ॥ ३० ॥ w- AMR- श्रीराधामोहन-गोखामिभट्टाचार्यकृत-टीका। अनर्थ-सुख-दुःखादि, तत्कृतं तेन निमित्तीभूतेन लिङ्गदेहेन कृतं, अभिपद्यते--प्राप्नोति। सात्वतसंहितां-श्रीभागवतं, शोक-मोह- भयापहेति-माया-निवृत्तिद्वारेति शेषः । मुनिः-ब्रह्ममननशीलोऽपि ।' कस्येति-हेतोरिति-शेषः । आत्माराम इति, तथा च ब्रह्म- विचारात्मकमनने परतत्त्वं निविशेषं ब्रह्म निर्धाऱ्या प्रत्याहारेणात्मना ब्रह्मानुभवसुखेन मग्नः कथमेतत् समभ्यसदिति भावः। निर्ग्रन्थाः- देहाभिमानरूपग्रन्थिशून्यतयेतरनिरपेक्षाः। भक्तिं-कृष्णभक्तिं, अहै- तुकी-मुमुक्षादिहेतुरहिताम् । इत्थम्भूताः-ब्राह्मानन्दादप्याकर्षका गुणा रूपमाधुर्य्यादयो यस्य सः। हरिरिति-मनोहरति सर्वस्मा- दिति-तदर्थः। प्रेग्नेति-तस्यैव श्रीकृष्णानुभावकत्वादिति । मुक्ति- तत्त्व-सन्दभः।] श्रीभागवत-सन्दर्भ ८९ - इत्यत्र प्रसिद्धेः । प्रणिहिते -समाहिते, "समाधिना- नुस्मर तद्विचेष्टितम्"। [ भा० १.५.१३.] इति तं प्रति श्रीनारदोपदेशात् । पूर्णपदस्य मुक्तप्रग्रहया वृत्त्या, "भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । वर्तते निरुपाधिश्च वासुदेवेऽखिलात्मनि ॥"- इति पाद्मोत्तरखण्डवचनावष्टम्भेन, तथा- "कामकामो यजेत् सोममकामः पुरुषं परम् ।" "अकामः सर्वकामो वा मोक्षकाम उदारधीः ।। तीत्रेण भक्तियोगेन यजेत पुरुषं परम् ॥" [भा० २.३.९-१०] स श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । ब्रह्मसाक्षात्काररूपाम् । अतो हरेर्गुणेन-श्रवणविषयीभूतेन, आक्षिप्ता-ब्रह्मानन्दानुभवात्मकसमाधितोऽप्याकृष्टा मतियस्य सः । भगवान-"वेत्ति विद्यामविद्याश्च वाच्यो भगवान् इत्युक्तलक्षणः। विष्णुजनप्रिय इति । परीक्षितासङ्गे हेतुतयोक्तम् । पूर्णपदस्येति ; मुक्तप्रग्रहया-वाधकरहितया मुख्यया वृत्त्या पूर्णोऽत्र स्वयम्भगवान् उच्यते इत्यन्वयः। तत्र पूर्णः-पूर्णपदवोध्यः, तथा च निविशेषणपूर्णपदस्य सर्वसुखपरिपूर्णपरतयाऽन्यत्र वाधेन स्वय- म्भगवानेवान श्लोके उच्यते इत्यर्थः। पुरुष इत्यपि-पुरुषशब्दोऽपि । निरुपाधिः-अन्य-तात्पर्य्यग्राहकपदादिसमभिव्याहाररहितः । वचना- वष्टम्भेन-वचनावगतमुख्यवृत्त्या,-अस्य, 'टीकानुसारेण च' इत्यस्य च 'पुरुषोऽन स्वयम्भगवानेवोच्यते'-इत्यनेनान्वयः। तत्र, पुरुषः- पुरुषपदवोध्यः, प्रकृत्युपाधिमिति-पुरुषपदेन वैराजस्यापि वोधनात् १२ १० प्रथम:- षट्सन्दर्भनामक- इत्यस्य वाक्यद्वयस्य पूर्ववाक्ये “पुरुषं-परमात्मानं प्रकृत्येकोपाधिम्”, उत्तरवाक्ये "पुरुष–पूर्ण निरुपाधि" इति टीकानुसारेण च, पूर्णः पुरुषोऽत्र–स्वयम्भगवाने- वोच्यते ॥३०॥ पूर्वमिति पाट "पूर्वमेवाहमिहासम्” इति “तत् श्रीवलदेव-विद्याभूपणकृत-टीका । पाठान्तरेणापि स एवार्थ इति व्याख्यातुमाह-पूर्वमिति : .. तन्त्र श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । परशब्दसमभिव्याहृत-पुरुषपदेनान प्रकृत्युपाधेरीश्वरस्य ग्रहण मिति भावः। कामनाभेदेन अधिकारिभेदेन भजनीयभेदस्य प्रमत्वात् पूर्ववाक्यस्थपुरुषपदार्थभेदाय तदुत्तरवाक्यस्थपुरुषपदार्थविवरणं टीकाकारोक्तं दर्शयति–'पुरुषं पूर्ण निरुपाधिम्' इति । पुरुषमिति–उत्तरवाक्यस्थपुरुषपदविवरणं, तद्वाक्यस्थपरशब्दस्यापि ग्राहकं तेन 'परम्' इत्यस्यार्थ:--'पूर्णम्' इति, 'पुरुषम्' इत्यस्यार्थः-'निरुपाधिम्' इति । उपाधिः-प्रकृतिः,-तद्रहितम् । तत्र पुरुषपदार्थतावच्छेदकं न निरुपाधित्वं, किन्तु पुरुषत्वं-"पुरि शेते पुरुषः" इति व्युत्पत्या शरीरविशेषावच्छिन्नचेतनत्वरूपं, शरीरञ्च प्रकृति- प्राकृताप्राकृत-भेदेन त्रिविधमिति । त्रिविध एव पुरुषपदार्थः, तत्न च पूर्णार्थक पर'पदसमभिव्याहारेणाप्राकृतशरीरः स्वयम्भगवान् लब्ध इति सूचनाय 'निरुपाधि' इत्युक्तम् । न च-निरुपाधिमिति टीका निविशेषब्रह्मपरेति वाच्यं, 'यजेत इत्यनुपपत्तेः। निविशेयस्य “यजि देवपूजायाम्" इत्युक्तयजनासम्मवादिति भावः ॥ ३०॥ "तत् पूर्वमेवाहमिहासम्" इति श्रुतिप्रतीतिकस्य पूर्व-सृष्टेः .

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ ११ पुरुषस्य पुरुषत्वम्" इति श्रौतनिर्वाचनविशेषपुरस्कारेण च स एवोच्यते । तमपश्यत् श्रीवेदव्यास इति स्वरूपशक्तिमन्तमेवेत्येतत् स्वयमेव लब्धम् ; 'पूर्ण ७ चन्द्रमपश्यत्' इत्युक्ते 'कान्तिमन्तमपश्यत्' इति लभ्यते। अतएव- "त्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः। मायां व्युदस्य चिच्छत्या कैवल्ये स्थित आत्मनि ॥" [ भा० १. ७. २३] इत्युक्तम् । श्रीबलदेव-विद्याभूषणकृत-टीका । ईश्वरस्यैव पूर्ववर्तित्वात् पुरुषत्वमित्यर्थः । स एवेति-स्वयम्भगवानेव। स्वरूपक्तिमत्त्वे प्रमाणमाह-त्वमिति। श्रुतिश्चात्रास्ति :-- "परास्य शक्तिर्विविधैव श्रूयते। स्वाभाविकी ज्ञानवलक्रिया च" (श्वेताश्च० ६.८) इति ॥ एषैव "हादिनी सन्धिनी' इत्यादिना मर्य्यते । इत्युक्तमिति- श्रीराधामोहन-गोवामिभट्टाचार्यकृत-टीका । पूर्व, प्रलयेऽहमेवासमित्यर्थः। तत्-पृष्टिपूर्वकालसत्त्वं, पुरुषत्वं- पुरुषपदप्रवृत्तिनिमित्तं पुरुषसम्बन्धीत्यपरश्रुतिप्रतीतिकार्थः। तथा च सृष्टिप्राक्कालसत्तावद्रूपावच्छिन्नः स्वयम्भगवानेव पुरुषपदमुख्यार्थः, तत्रैव "पुरि शरीरे शेते” इति “पुरा आसीत्” इति व्युत्पत्तिद्वयसिद्ध- पुरुषपदप्रवृत्तिसत्त्वादिति । स्वरूपशक्तिमन्तमिति- "ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्यशेषतः। भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥". "अतएव पूर्ण" इति वा पाठः। RAM - - षट्सन्दर्भनामक- [प्रथमः - अप- अतएव, “मायाञ्च तदपाश्रयाम्" इत्यनेन तस्मिन् अपकृष्ट आश्रयो यस्याः, निलीय स्थितत्वात् ; इति मायाया न तत्स्वरूपभूतत्वमित्यपि लभ्यते । वक्ष्यते च ;- "माया परैत्यभिमुखे च विलज्जमाना" इति । स्वरूपशक्तिरियमव व्यक्तीभविष्यति- "अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे" इत्यनेन "आत्मा- रामाश्च” इत्यनेन च । पूर्वत्र हि भक्तियोगप्रभावः श्रीबलदेव-विद्याभूषणकृत-टीका। कण्ठतः पठितमर्जुनेनेत्यर्थः। मायातोऽन्येयं बोध्येत्याह--अत- एवेत्यादिना। मूलवाक्येन स्वरूपमूता चिच्छक्तिरियं वोधितास्ती- त्याह-स्वरूपेत्यादिना, ‘पट्टमहिषीव स्वरूपशक्तिः, वहिार-सेविकेव श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । इत्युक्तेस्तस्य शक्तिमत्त्वस्य स्वाभाविकत्वात् प्रत्यक्षात्मकतज्ज्ञाने स्वाभाविकशक्त्यादेरप्यवश्यभानादिति भावः। प्रकृतेः पर इति- प्रकृतेरन्तर्वहिर्वर्तमानोऽपि प्रकृत्याश्रयोऽपि च प्रकृत्यनासङ्गः, 'पद्म- पत्रजलमिव'इत्यर्थः । कथमसङ्गत्वम् ? इत्यत आह-"मायां व्युदस्य" इति; आवरणशक्तिनिराकरणेन तटस्थीकृत्य, चिच्छत्या-चिन्मय- शक्या, कैवल्ये-सुखमये, आत्मनि-स्व-स्वरूपे देहे स्थित इति । तथा च-जीवा मायाकृताधरणेन तिरोहितज्ञानाः प्रकृत्यासक्ताः, न त्वयं तथेत्यर्थः । परैति-निलीय तिष्ठति । पूर्वत्र-'अनर्थोपशमं' इति श्लोके, असौ-अनर्थोपशमत्वरूपभक्तिः, स्वरूपशक्तिवृत्तित्वेनैव- भक्तेः स्वरूपभूतचिच्छक्तिसारांशत्वेनैव । परन-'आत्मारामाश्च' इति तत्त्व-सन्दर्भः ।] श्रीभागवत-सन्दर्भ खल्वसौ मायाभिभावकतया स्वरूप-शक्तिवृत्तित्वेनैव गम्यते, परन च ते गुणा ब्रह्मानन्दस्याप्युपरिचर- तया, * स्वरूपशक्तः परमवृत्तितामेवाहन्तीति। माया- धिष्ठातृपुरुषस्तु तदंशत्वेन, ब्रह्म च तदीयनिविशेषा- विर्भावत्वेन, न तदन्तर्भावविवक्षया * पृथकू नोक्ते इति ज्ञेयम् । अतोऽत्र पूर्ववदेव सम्बन्धितत्त्वं निर्धारितम् ॥ ३१ ॥ श्रीबलदेव-विद्याभूषणकृत-टीका । मायाशक्तिः' इत्युभयोर्महदन्तरं बोध्यम् । भगवद्भक्तेर्भगवद्गुणानाञ्च स्वरूपशक्तिसारांशत्वं सयुक्तिकमाह-पूर्वत्र हीत्यादिना, ब्रह्मानन्द- स्येति--अनभिव्यक्तसंस्थानादिविशेषस्येति वोध्यम् । ननु परमात्म- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । श्लोके, ब्रह्मानन्दस्य-ब्रह्माकारमनोवृत्तिविषयसुखस्य, उपरिचरतया- तदधिकसुखविषयतया, परमवृत्तिता-सारांशवृत्तितां अर्हतीति । तथा चैतादृशभक्त्यधिष्ठित-मनोवृत्तिरेव प्रेमाख्या भक्तिभगवन्तं विषयीकरोति । मनोवृत्तिश्च-मनःपरिणामविशेषात्मकं ज्ञानमात्म- निष्ठधर्मः, मनः सहकृतात्मजन्य आत्मनिष्ट एव वा धर्मः। * "उपरिवर्तितया" इति च पाठान्तरम् । + "आविर्भावरूपत्वेन" इति श्रीगोस्वामिभट्टाचार्य-सम्मतः पाठः। * “तदन्तर्भावेणाटयग्दृष्टत्वात् पृथग्नोक्ते' इत्येवं पाठोऽन्न श्रीमगोस्वामि- भट्टाचार्य-सम्मततयोपलभ्यते । $ “तदेतद्वितीय-तृतीयसन्दर्भयोः सुष्टु प्रतिपत्स्यते” इत्यधिकपाठः क्वचिद्- दृश्यते।

१४ षट्सन्दर्भनामक- [प्रथमः अथ प्राक्प्रतिपादितस्यैवाभिधेयस्य प्रयोजनस्य च स्थापकं जीवस्य स्वरूपत एव परमेश्वराद्वैलक्षण्य- मपश्यदित्याह—ययेति। यथा मायया सम्मोहितो श्रीवलदेव-विद्याभूषणकुन-टीका । रूपस्तारशब्रह्मरूपश्चाविर्भावः कुतो व्यामेन न दृष्टः ? इति चेत्तत्राह--- मायाधिष्ठाविति ॥ ३१ ॥ जीवो येनेश्वरं भजेत् भत्त्या च तस्मिन् प्रेमाणं विन्देत्ततो मायया विमुक्तः स्यातमीश्वराजीवस्य वास्तवं भेदभपश्यदिति व्याचष्टे ;- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। उक्तञ्च रसामृतसिन्धौ- "आविर्भूय मनोवृत्तौ ब्रजन्ती तत्स्वरूपताम् । कृष्णादिकर्मकाखादहेतुत्वं प्रतिपद्यते" इति । तदीय-निविशेषाविर्भाव-रूपत्वेन- शरीरानवच्छिन्न-स्वरूपभूत-शान- सुखादिमत्त्वेन । तदन्तभावेण तद्रूपत्वेन, अपृथग्दृष्टत्वात्-अभिन्न- त्वात्, विशेष्यनिविशेषं शरीरादिविशेषाविषयकमाविर्भवतीति निविशेषप्रकाशं ज्ञानसुखात्मकं यद्रूपं स्वरूपं,तदीयं-भगवदीयं। तद्वि- नेति. अपृथग्दृष्टत्वात्-पृथग्दर्शनाभावात्, विशेष्यस्य शरीरिणः शरीरमपुरस्कृत्य,ब्रह्मपदवाक्यत्वादिति भावः। यद्वा-निविशेषेवि- र्भावो यस्य सःतदीयो विशेषस्तत्त्वेनेति। अथवा-निविशेषो विशेषाकार- रहितो य आविर्भावः ज्ञानं, तदात्मको यस्तदीयो विशेषस्तत्त्वेनेति । सम्वन्धितत्त्वं-एतद्ग्रन्थतात्पर्य्यविषयप्रतिपत्तिविषयतत्त्वम् * ॥३१॥ अभिधेयस्य-साधनभक्तः। प्रयोजनस्य-प्रेमसेवायाः स्थापक- मिति, जीव परमेश्वरयोरभेदे तयोरनुपपत्तरिति भावः। चिद्रूपं- * एतटिप्पनीदृष्ट्या पाठान्तरमनुभूयते, तत्तु सुधीभिश्चिन्त्यम् ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ १५ matern- जीवः स्वयं चिद्रूपत्वेन त्रिगुणात्मकाजड़ात् परो- ऽप्यात्मानं त्रिगुणात्मकं जड़ देहादिसङ्घातं मनुते, तन्मननकृतमनर्थ संसारव्यसनञ्चाभिपद्यते। तदेवं जीवस्य चिद्रूपत्वेऽपि, “यया सम्मोहितः” इति “मनुत” इति च स्वरूपभूतज्ञानशालित्वं व्यनक्ति, प्रकाशैकरूपस्य तेजसः स्वपरप्रकाशनशक्तिवत्,- "अज्ञानेनातं ज्ञानं तेन मुह्यन्ति जन्तवः [भा०५.१५.] श्रीवलदेव-विद्याभूपणकृत-टीका । अथ प्रागित्यादिना। जीवस्येति, वैलक्षण्यमिति–सेवकत्व- सेव्यत्वाणुत्वविभुत्वरूपनित्यधर्महेतुकं भेदमित्यर्थः । ननु “चिन्मानो जीवो यो विज्ञाने तिष्ठन् विज्ञानं यज्ञं तनुते' इत्यादौ चिद्धातुत्व- श्रवणात्, न तस्य धर्मभूतं नित्यं ज्ञानमस्ति, येन मोहमनने वर्णनीये? तस्मात्,-"सत्त्वात् सञ्जायते ज्ञान" इत्यादिवाक्यात् सत्त्वे या चैतन्यस्य (जीवस्य) छाया, तदेव सत्वोपहितस्य तस्य ज्ञानं, येन मोह- मनने व्यासेन दृष्टे स्याताम् ? इति चेत्तत्राह,-तदेवमित्यादिना । छाया- भावाञ्च न तत्काल्पनं युक्तमिति भावः। ननु स्वरूपभूतं ज्ञानं कथमिति श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । चेतनं, * परोऽपि-भिन्नोऽपि । मनुते-आत्मत्वेन जानाति, तज्ज्ञाने भ्रमरूपे दोषविशेषतया मायैव हेतुरिति भावः। अनर्थ- रूपादिविषयग्रहणं, संसारव्यसनं-पुनःपुनःशरीरसम्वन्धे हेतुः धर्माधर्मसुखदुःखादिकम् । स्वरूपभूतज्ञानशालित्वमिति-एतेन विषयसम्बन्धरहितस्य परमेश्वरसाक्षात्कारसुखानुभवो भवतीति सूचितम् । तत्-तस्मात्, आत्मन एव सुखदुःखादिमत्तादिति * “चिदूपं चेतनं” इति व्याख्यातः पाठान्तरमनुभूयते, तत्तु चिन्त्यं सुधीभिः । m- .

६६ घट्सन्दर्भनामकhattime [प्रथम:- maa इति श्रीगीताभ्यः। तदेवं 'उपाधेरेव जीवत्वं, तन्नाशस्यैव मोक्षत्वम्' इति मतान्तरं परिहृतवान् । अत्र “थया सम्मोहित” इत्यनेन तस्या एव तत्र कर्तृत्वं, स्तत्रोदासीनत्वं मतम् । वक्ष्यते "विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया। विमोहिता विकत्थन्ते ममाहमिति दुर्धियः" [ भा० २. ५. १३ ] इति । भगवत - श्रीबलदेव-विद्याभूपणकृत-टीका । चेत्तत्राह, प्रकाशैकेति । अहिकुण्डलाधिकरणे भाषितमेतद्रष्टव्यम् । तृतीयसन्दर्भे विस्तरीण्याम एतत् । तदेवमुपाधेरिति,–'अन्तःकरणं जीवः, अन्तःकरणनाशो जीवस्य मोक्षः' इति शङ्कर-मतं दूषितम् । तथा सति 'परोऽपि'इत्यादि-व्याकोपादिति भावः। अत्नेति-तत्र B श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । यावत् । जीवत्वं-ज्ञान-सुख-दुःखादिमत्त्वं, मोक्षत्वं-प्रात्यन्तिक- दुःखनिवृत्तिसाधनत्वं ; न मोक्षपदवाच्यत्वम् । परिहतवानिति- नित्यसुखसाक्षात्कारस्य स्वतःप्रयोजनतया मोक्षत्वात् तस्य नित्य- चेतनात्मन्येव सम्भवात् तादृशमोक्षकामे दुःखनिवृत्तेरप्यबश्यम्भावात दुःखनिवृत्तौ सुखस्यावश्यम्भावात् न दुःखनिवृत्तेः स्वतः प्रयोजनत्वं, उपाधिनाशस्यापि स्वतो नेच्छाविषयत्वमिति, आत्मनि नित्यसुखाभ्यु- दयस्यैव मोक्षत्वम्, उपाधेश्चानित्यत्वात् तदसम्भव इति भावः। ब्रह्मणः कृष्णस्वरूपत्वञ्च। तस्या एव-प्रकृतेरेव, कर्तृत्वं-जीव- सम्मोहकत्वम् । तत्र-जीवसम्मोहने। वक्ष्यते चेति-मायाया , * "भगवतस्तु" इति वा पाठः।

नत्त्व-सन्दभः । श्रीभागवत-सन्दर्भ ७ - अत्र 'विलजमानया' इत्यनेनेदमायाति ;- तस्या जीवसम्मोहनं कर्म श्रीभगवते न रोचते इति यद्यपि सा स्वयं जानाति, तथापि- "भयं द्वितीयाभिनिवेशतः स्यादीशाहपेतस्य।" [भा०११.२.३७] इति दिशा जीवानामनादिभगवदज्ञानमयवैमुख्यम- सहमाना स्वरूपावरण-* मस्वरूपावेशश्च करोति॥३२॥ श्रीबलदेव-विद्याभूषणकृत-टीका । जीवमोहने कर्माणि । तस्याः-मायायाः। विलजेति-ब्रह्मवाक्यम् । अमुया-मायया। असहमानेति, दास्या उचितमेतत् कर्म, यत् स्वामिविमुखान् दुःखाकरोतीति। ईशवैमुख्येन पिहितं जीवं माया पिवत्ते, घटेनावृतं दीपं यथा तम आवृणोतीति ॥ ३२ ॥ , श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। एव मोहकत्वं, न तु भगवत इति शेषः । विलजमानयेति, यस्य भगवत ईक्षापथे स्थातुं विलजमालया अमुया मायया विमोहिता जीवा विकत्थन्ते इत्यन्वयः। किम्भूताः ?-पुत्रादौ 'मम' इति शरीरे 'अहं' इति दुर्धियः सन्तः, विकथनं-संसार- व्यसनेनेति । लजा च-भगवत्सङ्गिचिच्छक्तिमपेक्ष्य निकृष्टत्वेन, तथा च भगवदनुमति विनव जीवलम्मोहः क्रियत इति भावः । भावार्थमाह-अत्रेति, स्वयं जानातीति--जीवसम्मोहने भगवदनभि- रुचिम् । भयं-वाध्यवाधकतानिवन्धनं, द्वितीयाभिनिवेशतः- देहाभिमानतः, ईशादपेतस्य-ईशविभुखस्य । इति दिशा-इति- दिग्दर्शनेनेति। अस्वरूपावेशं-देहावेशम् ॥ ३२ ॥ * "अस्फुरणं" इति वा पाठः ।

पदसन्दर्भनामक- [ प्रथम: श्रीभगवांश्चानादित एव भक्तायां प्रपञ्चाधि- कारिण्यां तस्यां दाक्षिण्यं लचितुं न शक्नोति । तथा तद्भयेनापि जीवानां जीवानां स्वसाम्मुख्यं वाञ्छ- न्नुपदिशति ;- "दैनी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥" [ गीता ७. १४ ] - श्रीबलदेव-विद्याभूषणकृत-टीका। नन्वीश्वरः कथं तन्मोहनं सहते ? तत्राह--भगवांश्चति । तर्हि कृपालुताक्षतिः ? तत्राह-तथेति, तद्भयेनापीति-सायातो यजीवानां श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका ' प्रपञ्चाधिकारिण्यां–प्रपञ्चसृष्ट्यादौ नियुक्तायाम्, दाक्षिण्यं- साक्षादनुग्रह, जोवसम्मोहने स्वातन्त्र्यं न शक्नोतीति ! करुणया भगवता स्वयं जीवसम्मोहनाशने मायायाः अद्यनाभङ्गो * भवतीति न तत्कृतमिति भावः। ननु यदि जीवसम्मोहने भगवदनभिप्रायस्तदा कथं प्रपञ्चसृष्ट्यादौ नियोगः ? जीवभोगार्थमेव तन्नियोगादिति चेन्न,- "बुद्धीन्द्रियमनःप्राणान् जनानामसृजत् प्रभुः । मात्रार्थश्च भवार्थश्च आत्मनेऽकल्पनाय च ॥” (भा० १०.८७.२) इति दशमोक्तपद्येन जनानां धर्मार्थकाममोक्षार्थ भगवतः प्रपञ्चसृष्टि- बोधनात्, न तु जीवानां सम्मोहनार्थमपि नियोग इति भावः । तद्भयेनापि-मायाभयेनापि । यद्वा, जीवानां मायाकृतभयेनापि * इदमेतदवस्थमेवादशें दृश्यते । - .

तस्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ "सतां प्रसङ्गान्मम वीर्यसम्बिदो भवन्ति हत्कर्णरसायनाः कथाः । तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिभक्तिरनुक्रमिष्यति ॥ इति । [ भा० ३. २५. २५ ] लीलया श्रीमव्यासरूपेण तु विशिष्टतया तदुपदिष्ट- - श्रीबलदेव-विद्याभूषणकृत-टीका । भयं तेनापि हेतुनेत्यर्थः । ततश्च न तत्क्षतिरित्यर्थः । दैवीति प्रपत्तिश्चेयं सत्प्रसङ्गहेतुकैव तदुपदिष्टा, यया साम्मुख्यं स्यात्, "तद्विद्धि प्रणिपातेन" इत्यादि तद्वाक्यात्, “सतां प्रसङ्गात्' इत्याध- ग्रिमवाक्याञ्च। लीलयेति-लीलावतारेण । विशिष्टतयेति- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । मायाकृतदर्शनेनापि इति यावत् । स्वसाम्मुख्यं वाञ्छमित्यर्थः * । उपदिशतीति-करुणयेत्यादिः। व्यासोपदेशं दर्शयति,-अनर्थोपशम साक्षादितीति-अनर्थोपशमं साक्षादित्यादीत्यर्थः । तस्मात्-भजनो- पदेशात्, द्वयोरेव-माया-जीवयोरेव, समञ्जसं-समानं, मायाया अधिकारस्थापनेन जीवस्य भयनिवृत्त्या चेति भावः। एवं-मायाया धर्मत्वे, भगवतीत्याधारे सप्तमी; तथा च भगवनिष्ठानां तासां शक्तीनामित्यर्थः। सम्वाद इति-मायाया अधिष्ठातृदेव्यभावे तया सहेन्द्रस्य मिथः-कथनरूपसम्वादासम्भव इति भावः । "विष्णोर्माया भगवती यया सम्मोहितं जगत् ।” (भा० १०.१, २५) इति । "प्रकृतिस्त्वञ्च सर्वस्य जगत्रयहितैषिणी ।" . * एतव्याख्या-दृष्ट्या मूले 'वाग्छन्' इत्यस्यासद्भावोऽवमीयते किन्तु पाठोऽयं बहुत दृश्यते च।

पट्सन्दर्भनामक- [प्रथमः- वानित्यनन्तरमेवायास्यति, अनर्थोपशमं साक्षादिति। तस्माद्वयोरपि तत्तत् समञ्जसं शेयम् । ननु माया श्रीबलदेव-विद्यालयमा कृत-टीका । प्राचार्य्यरूपेणेत्यर्थः। तस्मादिति, द्वयाः-~-माया-भगवतारपि । तत्त- दिति-मोहनं साम्मुख्य-वाञ्छा चेत्यर्थः । ननु मायाया मोहन- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। इत्यादि बहुतरं प्रमाणं अस्तीति बोध्यम् । अथ जड़ानां क्षित्यादि- कार्याणामुपादानतया जड़ायाः प्रकृतेः सिद्धिरिति तस्या जड़त्वेन स्वतोऽक्षमतया नववर्तकस्य चेतवपरमेश्वरस्य सिद्धिः, तदुलं- "स पेक्षत" (ऐत. १. १. १) 'बहु स्याम्" ( छान्दो० ६. २. ३ ) इत्यादि श्रुतिभिस्तत्या अधिष्ठातृदेवी स्वीकारे तयैव सृष्ट्यादिसम्भवे किमीश्वरकल्पनयेति, “कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः" इत्यादिवचनविरोधश्च इति चेत् ? म :- "अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानाः सरूपाः । अजो होको जुपमाणोऽनुशेते जहात्येनां भुकभागामजोऽन्यः ॥ ( श्वेताश्व० ४.५) इति सर्वप्रमाणावरीयस्या श्रुत्या प्रकृतिभाक्तुरात्मनोऽजत्वेन प्रति- पादनात् । प्रकृतिवैशिष्ट्यपुरस्कारेणात्मबोधकतायामेव स्त्रीलिङ्ग- प्रयोगात् श्रासनात्रवोधको . 'अजः' इति पुंलिङ्गप्रयोगः ; अन्यः अजः-परमेश्वरः सर्वव्यापकतया प्रकृत्यन्तरस्थोऽपि भुक्तभोगां- कृतनियमलक्षणभोगां तां जहानि-नान्मत्वेनाभिमन्यते । एतद्- भोगाभिप्रायेणैव श्रीमच्छङ्करावार्थचरणैरानन्दलह- दुर्गायाः " नत्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ खलु शक्तिः, शक्तिश्च कार्यक्षमत्वं, तच्च धर्मविशेषः, तस्याः कथं लज्जादिकम् ? उच्यते; एवं सत्यपि श्रीबलदेव-विद्याभूषणकृत-टीका । लजनकर्तृत्वमुक्तं, तत् कथं जड़ायास्तस्याः सम्भवेत् ? इति शङ्कते- ननु मायेति ; धर्मविशेष:- उत्साहादिवदित्यर्थः । सिद्धान्तयति- . श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। परमब्रह्ममहिषीत्वमुक्तम् । अन्तर्यामितया प्रकृत्यौ प्रवेशाभिप्रायेणैव कारणोपाधिरीवर इत्युक्तं, सुखदुःखमोहस्वभावसत्त्वरजस्तमो- गुणमयप्रकृत्यभिमानिदेवतायाः स्वतन्त्रतानुपपत्त्या-शुद्धसत्त्वाख्य- चिन्मय-सुखमयशरीरस्वतन्त्रस्य लोकवत्तु लीला-कैवल्यन्यायेन नित्य- लीलास्पदस्य सर्वनियन्तृतया सिद्धिः, लीलानुरोधेन नित्यधाम- तत्परिकराणां सिद्धिः, तादृशधामादिकं चिच्छत्याख्यपरशक्तिविलास एच, विच्छत्यधिष्ठात्री देव्यपि वर्तते, सा च राधाद्या सञ्चिदानन्दमयी अचिन्त्या भगवल्लीलोपयोगिनीति भगवद्भक्तानां भजनसिद्धानां नित्य- सिद्धानां च चिच्छक्तिविलासरूपाणि शरीराणीति दिक् । अत्रायमद्वैतवादिनां सात्वतानां निष्कर्षः :-अद्वयं ज्ञानं ब्रह्म, तदेव प्रन्युपाथिरीश्वरः परमात्मा च। प्रकृतिश्च सत्त्वरज- स्तमोगुणमयी सत्वप्रधाना, तस्याः समग्रसत्त्वांशोपाधिर्वासु वः, समुदितरजोगुणोपाधिब्रह्मा, तमोगुणोपाधिः शिव इति मूर्तित्रयम् । तदुक्तम्-'मत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः” (भा० १. २. १३) इत्यादि। परः पुरुषः-प्रकृत्युपाधिरीश्वरः । नत्र च वासुदेवस्य सङ्कर्षणाख्यपुरुषः प्रथमोऽवतारः, सङ्कर्षणस्य प्रद्युम्नः, नस्य चानिरुद्ध इति व्यूहचतुष्टयम् । "तस्य" इति वा पाठः ।

१०२ षट्सन्दर्भनामक- [प्रथम:- - भगवति तासां शक्तीनामधिष्ठातृदेव्यः श्रूयन्ते, यथा केनोपनिषदि महेन्द्र-माययोः संवादः। तदास्तां ; प्रस्तुतं प्रस्तूयते ॥ ३३ ॥ श्रीबलदेव-विद्याभूषणकृत-टीका। उच्यत इति । अधिष्ठातृदेव्य इति विन्ध्यादिगिरीणां यथाधिष्ठातृ- मूर्तयस्तद्वत् । केनेति---तस्या, "ब्रह्म ह देवेभ्यो विजिग्य" इत्यादि- वाक्यमस्ति । 'तत्राग्निवायुमघोनः सगर्वान् वीक्ष्य तद्गद्धमपनेतुं परमात्माविरभूत् । तमजानन्तस्ते जिज्ञासयामासुः। तेषां वीर्य परीक्षमाणः स तृणं निदधौ। सर्व दहेयमित्यग्निः, सर्वमाददीयेति श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। तदुक्तम्-"एकमेवाद्वयं ब्रह्म मायया नचतुष्टयम्" इति । वासुदेवस्य लीलावित्रहो वैकुण्ठनाथो नारायणो भगवानिति । स च वासुदेवः सङ्कर्षणाख्येनांशेन प्रकृतिक्षोभेण महत्तत्त्वादिक्रमेण विश्वं समजे। "स एवेदं ससर्जाग्रे भगवानात्ममायया । सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः ॥" तत महत्तत्त्वादिक्रमेण हिरण्यगर्भः सूक्ष्मसमट्यान्मकः, ततः स्थूलरूपो वैराजः-रजोगुणप्रधानतया ब्रह्मणः स्थूल-सूक्ष्मरूपावेतो, ब्रह्मणो लीलाविग्रहश्चतुराननः, शिवस्य च लीलाविग्रहा एकादश विज्ञेयाः, वासुदेवस्य च लीलाविग्रहा:-“स एव प्रथमं देवः कौमारं सर्गमास्थितः" ( भा० १. ३. ६.) इत्यादिना दर्शिताः। तेषु च केचित् सङ्कर्षणस्य चांशाः, केचिच्च तत्कलाः, कृष्णस्तु भगवान स्वयं नारायण एवावतीर्णः, तदुक्तम्- . -- तत्त्व-सन्दभः ।] श्रीभागवत-सन्दर्भ तत्र जीवस्य तादृशचिद्रूपत्वेऽपि परमेश्वरतो . श्रीवलदेव-विद्याभूषणकृत-टीका। वायुश्च ब्रुवंस्तनिर्दग्धुमादातुञ्च नाशकत् । ज्ञातुं प्रवृत्तान्मघोनस्तु स तिरोधत्त। तदाकाशे मघवा हैमवतीमुमामाजगाम, किमेतदिति पप्रच्छ। सा च-'ब्रह्मतत्' इत्युवाच ; इति निष्कृष्टम्" ॥ ३३ ॥ तत्र जीवस्येति ;-"मायाञ्च तदपाश्रयाम्” इतीश्वरस्य माया- नियन्तृत्वं “यया सम्मोहितो जीवः" इति जीवस्य मायानियम्यत्वञ्च । तेन स्वरूपत ईशाजीवस्य भेदपर्यायं वैलक्षण्यं दृष्टवानिति प्रस्फुटम् । 'अपश्यत्' इत्यनेन कालोऽप्यानीतः। तदेवमीश्वर-जीव-माया-काला- ख्यानि चत्वारि तत्त्वानि समाधो श्रीव्यासेन दृष्टानि । तानि नित्यान्येव । श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। "एते चांशकलाः पुंसः कृष्णास्तु भगवान् स्वयम् ।” (भा० १.३.२८) इति । अत्र स्वामिटीका-"तत्र मत्यादीनामवतारत्वेन सर्वज्ञत्व- सर्वशक्तिमत्वेऽपि यथोपयोगमेव ज्ञानक्रियाशक्त्याविष्करणं, कुमार- नारदादिवाधिकारिकेषु यथोपयोगमंशकलावेशः, कृष्णस्तु भगवा- नारायण एव, आविष्कृतसर्वशक्तिमत्त्वात्" इति। प्रकृतिश्च मायाशक्ति- विश्वावरिका तदुपाधिर्दुर्गा, लक्ष्मीस्तु शुद्धसस्वांशोपाधिरिति ॥ ३३॥ जीवेश्वरयोदेहसम्बन्धे वैलक्षण्यं द्वितीयस्कन्धे नवमाध्याये टीकायामाह,-"अयं भावः-जीवस्याविद्यया मिथ्यादेह-सम्बन्धः, ईश्वरस्य तु योगमायया चिद्धनलीलाविग्रहाविर्भाव इति महान् विशेषः" इति । मायाकृतावरणेन मिथ्यादेहसम्बन्धः कार्य्यदेहाभिमानं, योगमायया चिच्छत्या तिरस्कृतमायया चिद्धनलीलाविग्रहे आविर्भावी १०४ पटसन्दर्भनामक- [प्रथमः- वैलक्षण्यं—'तदपाश्रयां' इति, 'यया सम्मोहितः' इति दर्शयति ॥ ३४॥ श्रीबलदेव-विद्याभूषणकृत-टीका । “अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा कालः इत्येवं भाल्लवेयश्रुतेः। "नित्यो नित्यानाउचेतनश्चेतनानामेको वहनां यो विदधाति कामान्" ( कठ० ५, १३) इति काठकात् । "अजामेकां लोहितशुक्लकृष्णां वह्वीः प्रजाः सृजमानां स्वरूपाः ।" 'अजो थेको जुम्लाकोऽनुशेते जहान्येन भुक्तभोगामजोऽन्यः" (श्वेत. ४.५) इति श्वेताश्वतराणां मन्त्राच्च । श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । न तु तदभिमान, विग्रहस्य चिन्मयत्वं--शुद्धसत्त्वरूपत्वेन नियतज्ञाना- विर्भावकत्वभिति। यद्वा, योगमायया-योगाख्यमायया, स्वेच्छयेति यावत् । तदुक्तं-"स्वेच्छामयस्य” इति, स्वेच्छा--स्वीयेच्छा, तन्मयस्य-तदनुरूपशरीरस्य ; न त्वदृष्टाकृष्टशरीरस्येति । "श्राममाया तदिच्छा स्यात् गुणमाया जड़ात्मिका' इति वचनाञ्च । एवं “अक्षय्यं हि * चातुर्मास्ययाजिनः सुकृतं भवति" इत्यादिश्रुतौ यथाऽक्षय्य- पदस्य-"इह कर्मजितो लोकः क्षीयते अभुत्र पुण्यजितो लोकः क्षीयते' इत्यादिन्यायानुगृहीतश्रुत्या बलवत्या वाधेन कल्पपर्यन्त स्थायिपरता, तथा-"यत् सावयवं तदनित्यं” “यददृश्यं तदनित्यम्' इत्यादि न्यायानुगृहीतया बलवत्या- "चिन्मयस्याद्वितीयस्य निष्कलस्थाशरीरिणः । उपासनार्थ लोकानां ब्रह्मणी रूपकल्पना ॥" * "ह वै" इति वा पाठः ।

तत्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ १०५ श्रीबलदेव-विद्याभूषणकृत-टीका। "अविकाराय शुद्धाय नित्याय परमात्मने। सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ प्रधानं पुरुषञ्चापि प्रविश्यात्मेच्छया हरिः। क्षोभयामास सम्प्राप्ते सर्गकाले ब्ययाव्ययौ ॥ अव्यक्तं कारणं यत्तत् प्रधानमृषिसत्तमैः । प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मकम् ॥ अनादिर्भगवान् कालो. नान्तोऽस्य द्विज ! विद्यते । अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥” इति श्रीवैष्णवाञ्च । तेष्वीश्वरः शक्तिमान् स्वताः, जीवादयस्तु तच्छक्तयोऽस्वतन्त्राः । "विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥” इति श्रीवैष्णवात् । श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। "आकाशवत् सर्वगतं सुसूक्ष्म, अपाणिपादो जवनो ग्रहीता, अरूप- मस्पर्श निष्क्रियं निरञ्जनं, सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादिश्रुत्या वाधेन, - -- "नित्यां मे मथुरां विद्धि विद्धि वृन्दावनं तथा ।" "साक्षाब्रह्मगोपालपुरी", "नित्यावतारो भगवान् नित्यमूर्तिर्जगत्पतिः।" "सर्वे नित्याः शाश्वताश्च देहास्तस्य महात्मनः॥" "अनादिरादिगोविन्दः सच्चिदानन्दविग्रहः।"- इत्यादिवचनानामन्यार्थपरता कल्प्यत इति । अत्रोच्यते ; यथा प्रपञ्चोपादानत्वेन सिद्धा प्रकृतिरनिर्वचनीया सावयवा नित्या प्रत्यक्षगम्या सिद्ध्यति, अनित्यत्वे तदुपादानस्यावश्यकत्वे पुनरनवस्था स्यात्, निरवयवत्वेन परिणामा- - , तस्या षट्सन्दर्भनामक- [प्रथम:- श्रीबलदेव-विद्याभूषणकृत-टीका। "स यावदुर्व्या भरमीश्वरेश्वरः स्वकालशक्त्या क्षपयंश्चरेदभुवि" [ भा० १०. १. २२ ] इति श्रीभागवताच्च । तत्र विभुविज्ञानं- ईश्वरः, अणुविज्ञान-जीवः। उभयं-नित्यज्ञानगुण कम् । सत्त्वादि- गुणत्रयविशिष्टं जड़ द्रव्यं माया। गुणत्रयशून्यं भूतवर्तमानादि- व्यवहारकारणं जड़ें द्रव्यं तु कालः। काप्यनादि विनाशि चास्ति ; “न कौविभागादिति चेन्नानादित्वात्" [ ७० २.१.३५ । इति सूत्रादिति वस्तुस्थितिः श्रुतिस्मृतिसिद्धा वेदितव्या ॥ ३४॥ . - , श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । सम्भव इति, तथा प्रकृतिप्रवर्तकतया सिद्धस्य चेतनस्याशरीरत्वे इष्टत्वानुपपत्तिरिति । तच्छरीरस्यानित्यत्वे तत्कारणशरीराङ्गीकारे पुनरनवस्था स्यादिति नित्यशरीरसिद्धिः, तथा “लोकवस्तु लीला- कैवल्यम्" [ब्र० २.१.३३] इति न्यायेन तद्धामादिकमप्राकृतं सिध्यतीति । वैकुण्ठधाम्नस्तथात्वमाह द्वितीयस्कन्धे,- "तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास पदं न यत् परम् । व्यपेतसंक्लेशविमोहसाध्वसं स्वदृष्टवद्भिः पुरुषैरभिष्टुतम् ॥ प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वश्च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः" ॥ इति । तस्मै-ब्रह्मणे। एवं वृन्दावनादिकमपि नित्यधाम-कृष्ण- सन्दर्भादौ वक्तव्यम् । परमानन्दस्य भगवतो यथा प्रयोजनमनपेक्ष्य सृष्टि-लीलादौ प्रवृत्तिः, तथा निजपरिकरैः सह क्रीड़ादौ प्रवृत्तिः । तथोक्तं मावभाष्ये ;- "देवस्यैव स्वभावोऽयमाप्तकामस्य का स्पृहा" इत्यादीति दिक। वैलक्षण्यं-विरुद्धधर्माध्यासेन भेदं :-इदं दर्शनक्रिया-कभ, "मायाञ्च तदपाश्रयाम्" इत्यादि द्वयं-कन्तु ॥ ३४॥ - - in ar तत्त्व-सन्दर्भः। श्रीभागवत-सन्दर्भ १०७ यद्येव यदेकं चिद्रूपं ब्रह्म मायाश्रयतावलितं विद्यामयं, तधैव तन्मायाविषयतापन्नमविद्यापरि- भूतश्चेत्युक्तमिति जीवेश्वर-विभागोऽवगतः। ततश्च , श्रीबलदेव-विद्याभूषणकृत-टीका । यत्तु-"एकमेवाद्वितीयं" [छान्दोग्य० ६. २. १] "विज्ञान- मानन्दं ब्रह्म" [वृ० प्रा० ३. ६. २८ ] "नेह नानास्ति किश्वन" [वृ० आ० ४. ४. १६ ] इत्यादि श्रुतिभ्यो निविशेषचिन्मात्राद्वैतं ब्रह्म वास्तवं, अथ सदसद्विलक्षणत्वादनिर्वचनीयेन विद्याविद्यावृत्तिकेना- शानेन सम्बन्धात्तस्माद्विद्योपहितमीश्वरचैतन्यमविद्योपहित जीव- चैतन्यञ्चाभूत्, स्वरूपज्ञानेन निवृत्ते त्वज्ञाने न तत्रेश्वरजीवभावः, किन्तु निविशेषाद्वितीयचिन्मात्ररूपावस्थितिर्भवेदित्याह मायी शङ्करः । तत्राह-ययैव यदेकमिति, विस्फुटार्थम् । इत्युक्तमिति । युगपदेवा- कस्मादेवाज्ञानयोगादेकस्य भागस्य विद्याश्रयत्वमन्यस्याविद्यापराभूति- -- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । तत्र “मायाञ्च तदपाश्रयाम्" इत्यनेन परमेश्वरस्य मायाकृत- मोहराहित्यं, “यया सम्मोहितो जीवः” इत्यनेन जीवस्य माया- मोहितत्वमित्युक्तमिति मोहितत्व-तदभावरूपविरुद्धधर्मयोरेकस्मिन्न- सम्भवादीश्वर-जीवयोर्भेदः सिद्ध इति दर्शयति-यदेकं चिद्रूपं ब्रह्मेति । मायाश्रयतेति-मायाश्रयो हि मायामपेक्ष्य व्यापकतया मायाकृतमावरणरूपं तद्विषयत्वं नाहति, अतो विद्यामयं-अप्रति- रुद्धज्ञानं, तेन देहाभिमानरूपाऽविद्याकृतविषयभोगादि पराभवञ्च नाप्नोतीति भावः। जीवेश्वर-विभाग:-जीवेश्वरयोमिथो भेदः । ततश्चेति-मायाश्रयत्वादि-मायामोहिताद्योमिथो-विरोधाजीवेश्वर-- १०८ पटसन्दर्भनामक- [प्रथम:- खरूपसामर्थ्यवैलक्षण्येन तद्वितयं मिथो विलक्षण- खरूपमेवेत्यागतम् ॥ ३५ ॥ न चोपाधि-तारतम्यमयपरिच्छेद-प्रतिविम्वत्वा- दिव्यवस्थया तयोविभागः स्यात् ॥ ३६ ॥ श्रीबलदेव-विद्याभूषणकृत-टीका । रिति किमपराद्धं तेन ब्रह्मणा, येन विविधविक्षेपक्लेशानुभवभाजनता- भूत् ? पुनरण्याकस्मिकाज्ञानसम्बन्धस्य शक्यत्वाद्वक्तुमिति न तदुक्त- रीत्या तद्विभागो वाच्यः, किन्तु श्रीव्यासदृष्टरीत्यैव सोऽस्माभिरवगत इत्यर्थः॥ ३५॥ यत्तु “इन्द्रो मायाभिः पुरुरूप ईयते" [ वृ० प्रा० २. ५, १६ इत्यादिश्रुतेस्तस्याद्वितीयस्य ब्रह्मणो मायया परिच्छेदादीश्वरजीव- विभागः स्यात् । तत्र विद्यया परिच्छिन्नो महान् स्खण्ड 'ईश्वरः', श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । विभागाच्चत्यर्थः। स्वरूपसामर्थ्यवैलक्षण्येन,-स्वरूपयोः-स्वाभा- विकयोः मायानियन्तृत्वप्रयोजकसामर्थ्यमायाकृतावरणनिवर्तनाक्षम- स्वसामर्थ्ययो_लक्षण्येन, मिथो-विलक्षणस्वरूपमेव तत् द्वितयं- ईश्वर-जीवोभयमित्यागतमित्यर्थः। भगवद्भजनकृतशक्तया जीवानामपि मायानिरासात्-‘स्वरूप'-इत्युक्तम् ॥ ३५ ॥ अद्वैतवादिमतं निरस्यति, नचेति । उपाधिः-लिङ्गशरीरं,- तस्य तारतम्यं-धर्माधर्मविशेषकृतसुखदुःखादिवैचित्र्यं,-तन्मयं, तदध्यासेन विलक्षणत्वप्रयोजकं, यत् परिच्छेद-प्रतिविम्वत्वादि, तद्यवस्थया-ब्रह्मणि तत्-कल्पनया। तयोः-जीवेश्वरयोः, विभागः स्यात्-भेदव्यवहारः स्यादित्यर्थः । आदिना-अपरिच्छिन्नत्व. - तस्व-सन्दभः ।। श्रीभागवत-सन्दर्भ १०६ DESIRamanuaHamarmersSAAHERSITASABHA श्रीबलदेव-विद्याभूषणकृत-टीका । अविद्यया परिच्छिन्नः कनीयान् खण्डस्तु 'जीवः।' यथा घटेना- बच्छिन्नः शरावेणावच्छिश्चाकाशखण्डो महदल्पताव्यपदेशं भजति । "यथा ह्ययं ज्योतिरात्मा विवस्वानपो भित्त्वा बहुधैकोऽनुगच्छन् । "उपाधिना क्रियते भेदरूपो देवः क्षेत्रेवेवमजोऽयमात्मा ॥"-- इत्यादिषु ब्रह्मणस्तस्य प्रतिविम्वश्रवणात्तद्विभागः स्यात् । विद्यायां प्रतिविम्व ईश्वरः, अविद्यायां प्रतिविम्बस्तु जीवः। १ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। विम्वत्वयोर्ग्रहः। अत्रैव 'न च' इत्यस्यान्वयः । एतन्मतपोषक द्वादशस्कन्धवचनं यथा- "न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते । नानात्वं छिद्रयोर्यद्वज्योतिषोर्वातयोरिव ॥" [भा० १२.४.२६] इति । अत्र · स्वामि-टीका,-"ननु सत्यस्याप्यात्मनो जीवब्रह्मरूप- नानात्वमस्त्येव ? तत्राह; यद्येवं नानात्वं मन्यते तहविद्वान् । कथं तहि तयोर्मेदव्यवहारः ? उपाधिकृतः, इत्याहनानात्वमिति, तत्र छिद्रयोः घटाकाश-महाकाशयोरिवेति परिच्छेदापरिच्छेदे दृष्टान्तः । ज्योतिषोः -जलस्थाकाशस्थसूर्ययोरिवेत्युपाधिकृत--विकार--सद्भावे, वातयोः वाह्य-शरीरस्थयोः वाय्वोरिवेति क्रियाभेदे दृष्टान्तः।" श्रुतिश्च- “यथा ह्ययं ज्योतिरात्मा विवस्वानपो भित्त्वा बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा ॥” इति । अयमर्थः, --ज्योतिर्मयो विवस्वान्-सूर्य्यः, एकः-गगने स्वितः सन्नपि अपो भित्त्वा अनुगच्छन, बहुधा-नानारूपः प्रतीयते। कथं? उपाधिना-तत्तजलवृत्तित्वादिना, भेदरूपः-भिन्न इव क्रियते । एवं-एवंरूपेण, क्षेत्रेषु-स्थूल-सूक्ष्मदेहेषु अजोऽय- मात्मेति । एतेनात्मन ऐक्यं श्रुतिसिद्धं, नानात्वमौपाधिकमिति च । MARA

११०
षट्सन्दर्भनामक-
[प्रथमः-
श्रीबलदेव-विद्याभूषणकृत-टीका ।
सरसि रवेः प्रतिविम्वः, यथा च घटे प्रतिविम्बो महदल्पत्वव्यपदेश
भजते, तद्वत्-इत्याह शङ्करः। तदिदं निरसनाय दर्शयति-न चेति,
अनया रीत्या तयोविभागो न च स्यादित्यन्वयः ॥ ३६ ॥
.
.
,
श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका ।
तत्र च मत-द्वयं ;-यथा घटायुपाधिना महाकाशविभागेनेव
घटाकाशः क्रियते; एवं देहेनात्मनो विभागेनेव जीवः पृथगिव
क्रियते-इत्येकं मतम् ।
मतान्तरश्च-सूर्य्यस्य जलवृत्तित्वरूप-
विलक्षणसम्बन्धेन प्रतिविम्वत्वं, गगनवृत्तित्वेन विम्वत्वम् । न च
तत्र विम्व-प्रतिविम्वयोर्भेदः-पारमार्थिकः ; गगनस्थसूर्य्यस्यैव
जलवृत्तित्व-स्वीकारात् जले सूर्यान्तरकल्पने गौरवान्मानाभावाच ।
न च-जले चतुःसंयोगे कथं प्रतिविम्व-प्रत्यक्षं, सूर्ये चतुःसंयोगा-
भावात् ? इति वाच्यम् । जलस्य स्वच्छतया तत्र चक्षुषः संयोगे
चतुरुच्छलितं गगनस्थशूर्ये लगति, तेन दोषवशान्मिथ्याजलवृत्तित्व-
मवगाह्य सूर्यप्रत्यक्षं जायत इति सिद्धान्तादिति । एवमन्तःकरण-
रूपोपाधौ ब्रह्मणः प्रतिविम्वलक्षण एकः सम्बन्धः-तेन जीवत्वं,
विम्वत्वलक्षणसम्बन्धश्चापरः-तेन परमात्मत्वमिति विलक्षणसम्वन्ध-
द्वयं श्रुतिवलात् कल्प्यते। न च तन्मते ईश्वरपरिगृहीतशरीरेऽपि
एतादृशसम्वन्धद्वयस्यावश्यकतया ब्रह्म-विष्णु-शिवादीनामपि जीवत्वं
स्यात्-इति वाच्यं, प्रतिविम्वत्वलक्षणदेहसम्वन्धं प्रति धर्माधर्म-
सम्वलितलिङ्गशरीरस्य हेतुतया तदभावादेव शरीरिणोऽपीश्वरस्य
जीवत्वाभावात् । ब्रह्मादीनाश्च स्थूलं सूक्ष्मञ्च शरीरं विलक्षणं, न तु
स्वादृष्टपरिगृहीतं किन्तु लोकादृष्टसहकारेण स्वेच्छया तत्तद्गुण-
मयमाविस्कृतं, तत्र च केवलं विम्बवत् सम्बन्ध इति ते न संसारिण
इति संक्षेपः ॥ ३६॥

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ १११ तत्र यद्यपाधेरनाविद्यकत्वेन वास्तवत्वं, तीविषयस्य तस्य परिच्छेदविषयत्वासम्भवः । निर्धर्मकस्य व्यापकस्य निरवयवस्य च प्रतिविम्बत्वा- श्रीबलदेव-विद्याभूषणकृत-टीका । कुतो न वाच्य इति चेदनुपपत्तेरेवेत्याह,-तत्र यद्यपाधेरिति, परिच्छेदपक्षं निराकरोति-अनाविद्यकत्वेन, रज्जुभुजङ्गवदज्ञान- रचितत्वाभावेन वस्तुभूतत्वे सतीत्यर्थः। अविषयस्येति-"प्रगृह्यो न हि गृह्यते” इति [ वृ० आ० ३. ६. २६ ] श्रुतेः सर्वास्पृश्यस्य तस्य-ब्रह्मण इत्यर्थः । इदमत्र बोध्यम् ;-न च टङ्कच्छिन्नपाषाण- खण्डवद्वास्तवोपाधिच्छिन्नो ब्रह्मखण्डविशेष ईश्वरो जीवश्च, ब्रह्मणो- ऽच्छेद्यत्वादखण्डत्वाभ्युपगमाञ्च, आदिमत्त्वापत्तेश्चेश्वर-जीवयोः, यतः—'एकस्य द्विधा त्रिधा विधानं छेदः, नाप्यच्छिन्न एवोपाधि- an तहि- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। एतन्मतद्वयोरपि क्रमेण दोषमाह-तत्रेति, परिच्छेदपक्षे इत्यर्थः। —तदा, अविषयस्य-निर्गुणत्वेन प्रमाणागोचरस्य, एरिच्छेद- विषयत्वासम्भवात् आकाशस्य सादिद्रव्यत्वेन परिणामित्वेन च उपाधिपरिच्छेदसम्भवः । यथा ब्रह्मणोंऽशभेदरूपवास्तवपरिच्छेद- परिणामित्वापत्तिः, परिच्छिन्नांशस्य मध्यमपरिमाणत्वेनानित्यत्वा- पत्तिः, अद्वैतविरोधश्चेति । व्यापकस्येति-जलदर्पणादौ जलदर्पणादि- गतवस्तूनां प्रतिविम्वत्वादर्शनात् सर्वव्यापकत्वेन तत्तदुपाधौ विम्ववस्थितस्य ब्रह्मणस्तत्र प्रतिविम्ववत् तत्प्रतिविम्वितत्वं आरोपिततद्वृत्तित्वं, वास्तव-तवृत्तिपदार्थस्यारोपित-तवृत्तित्वं वक्तुमशक्यमेवेति । न च-निरुक्तश्रुतिबलात् सम्बन्धद्वयकल्पनेन- ११२ षट्सन्दर्भनामक- [प्रथम:- - योगोऽपि ; उपाधिसम्वन्धाभावात्, विम्व-प्रतिविम्ब- भेदाभावात्, दृश्यत्वाभावाच्च । उपाधिपरिच्छिन्ना- श्रीवलदेव-विद्याभूषणकृत-टीका । संयुक्तो ब्रह्मप्रदेशविशेष एव स सः, उपाधौ चलत्युपाधिसंयुक्त- ब्रह्मप्रदेशचलनायोगात् प्रतिक्षणमुपाधिसंयुक्तब्रह्मप्रदेशभेदादनुक्षण- मुपहितत्वानुपहितत्वापत्तेः। न च कृत्स्नं ब्रह्मैवोपहितं स सः, अनुपहितब्रह्मव्यपदेशासिद्धः । नापि ब्रह्माधिष्ठानम्, उपाधिरेवस सः, मुक्तावीशजीवाभावापत्तेरिति तुच्छः परिच्छेदवादः। प्रतिविम्वपक्षं निराकरोति-निर्धर्मकस्येत्यादिना, निर्धर्मकस्योपाधिसम्बन्धाभावात्, व्यापकस्य विम्ब-प्रतिविम्बभेदा- भावात्, निरवयवस्य दृश्यत्वाभावाच्च, ब्रह्मणः प्रतिविम्ब ईश्वरो जीवश्च नेत्यर्थः । रूपादिधर्मविशिष्टस्य परिच्छिन्नस्य सावयवस्य च सूर्यादे- अथ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका ! एकसम्बन्धेन वास्तवोपाधिवृत्तित्वं, अन्यसम्बन्धेनावास्तवोपाधि- वृत्तित्वं ब्रह्मणः कल्प्यते ; इत्यत आह-निरवयवस्येति । न च-- स्फटिकादौ जवालौहित्यस्य निरवयवस्य प्रतिविम्बत्वदर्शनान्निर- वयवस्य ब्रह्मणोऽपि प्रतिविम्वत्वसम्भवः-इति वाच्यम, स्फटिकादौ सन्निहितजवादेरेव प्रतिविम्वितत्वस्वीकारात् । एतदस्वरसेनैव वाह-उपाधिसम्बन्धाभावादिति । ब्रह्मण इत्यादि * ब्रह्मणो- ऽसङ्गत्वश्रुतिबलादिति । ननु ब्रह्मणोऽसङ्गत्वं वास्तवसम्बन्धशून्यत्वं अवान्तरसम्बन्धश्च स्वीक्रियते ; तत्र मूलाविद्याकृतविलक्षणः अवास्तवसम्बन्धमादाय विम्बत्वं, अदृष्टविशेषाधीनावास्तवसम्बन्ध- "ब्रह्मण इत्यादि" इत्यस्य ग्रहणेन पाठान्तरमनुभूयते, तत्तु सुधीभिश्चिन्त्यम् ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ JNOR काशस्थज्योतिरंशस्यैव प्रतिविम्यो दृश्यते, न त्वाकाशस्य, दृश्यत्वाभावादेव ॥ ३७॥ श्रीवलदेव-विद्याभूषणकृत-टीका। स्तद्विदूरे जलायुपाधौ प्रतिविम्बो दृष्टः, तद्विलक्षणस्य ब्रह्मणः स न शक्यो वक्तुमित्यर्थः। नन्वाकाशस्य तादृशस्यापि प्रतिविम्ब- दर्शनाब्रह्मणः स भविष्यतीति चेत्तत्राह उपाधीति, ग्रह-नक्षत्र-प्रभा- १ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। विशेष प्रतिविम्बत्वनियामकः * इत्यत आह-दृश्यत्वाभावाचति । जले चतुःसंयोगे चतुरुच्छलितमाकाशस्थज्योतिषि लग्नं जलवृत्तित्वेना- काशस्थज्योतिरंशं दर्शयति, वस्तुनोऽदृश्यत्वे चतुषोऽसवृत्तित्वेन तद्वस्तुबोधनासम्भवात् लिङ्गदेहस्याप्यदृश्यतया तद्वृत्तितया ब्रह्मण- श्चक्षुषा बोधनायोगात् न हि चक्षुरन्तरेण प्रतिविम्वे मानान्तरमस्ति । अदृश्यस्य प्रतिविम्बत्वायोगे दृष्टान्तं दर्शयति-उपाधिपरिच्छिन्नेति। ननु निरुक्तश्रुतिरेव ब्रह्मप्रतिविम्बे मानं मायानियन्तृत्व-माया- नियम्यत्वादिविरुद्धधर्मनिबन्धनेश्वरजीवभेदकसाधकन्यायानुगृहीतया बलवत्या- "द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिसस्वजाते, तयोरन्यः पिप्पलं स्वाद्वत्ति, अनश्चन्नन्योऽभिचाकसीति ।" [ मण्डक० ३.१] इत्यादि श्रुत्या । "जो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः।" [ श्वेताश्व० ४.५] इत्यादि श्रुत्या । "एवं हैवमपस्येनाविनिमुक्तः स सामभिरुन्नयते ब्रह्मलोकं, * अत्र 'तत्र' इत्यारभ्य---'नियामकः' इत्यन्ता-पक्तिश्चिन्तनीया।

११४ षट्सन्दर्भनामक- - [प्रथम:- श्रीवरदेव-विधागाकर-टीका । मण्डलस्येत्यर्थः। अन्यथा वायु-काल-दिशामपि स दर्शनीयः । यत्तु ध्वनेः प्रतिध्वनिरिक ब्रह्मणः प्रतिविम्बः स्यादिल्याह, तन्न चारू, अर्थान्तरत्वादिति प्रतिविम्बबादोऽप्यतितुच्छः ॥ ७ ॥ श्रीराधालोहन-मांगाशिवाचार्यकृत-टीका। अत्र तस्माजीवधनात् परात्परं पुरिशयं पुरुषमीक्षते' [प्रश्न० ५.५] इत्यादि श्रुत्या च विरोधात् “यथा ह्ययं ज्योतिरात्मा विवस्वान्" इत्यादि श्रुतेरर्थान्तरपरत्वात्, तथाहि-'अजोऽयमात्मा स्वगत- चित्कण-जीवाख्यांशवृन्दद्वारा क्षेत्रेषु बहुरूपः प्रतीयते, तेषां जीवानामपि चेतनत्वेनात्मत्वेन प्रतीतेरात्मन एव नानात्वप्रवादः'-- इति श्रुतिसिद्धमात्मैक्यं सङ्गच्छते। श्रुतौ 'ब्रह्मलोकम्' इत्यस्य ब्रह्मैव लोकम्-आलोचनीयमित्यर्थः । तथाहि माध्वभाष्यधृतपद्मपुराणवचनम् ;- "चेतनस्तु द्विधा प्रोक्तो जीव आत्मेति च प्रभो। जीवा ब्रह्मादयः प्रोक्ता प्रात्मैकस्तु जनाईनः ॥ इतरेष्वात्मशब्दस्तु सोपचारो विधीयते।' इति । सोपचार:-चेतनत्वलक्षणसादृश्येन लाक्षणिकः। "श्राततत्वाञ्च मातृत्वादात्मा हि परमो हरिः।" इत्युक्तव्यापकत्वलक्षणयोगस्य जीवेष्वसम्भवात्, तेषां सूक्ष्मत्वेन श्रुतिसिद्धत्वात् । तथा हि श्रुति "यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति, एवमेवात्मानी व्युञ्चरन्ति ।" [६० २.१.२० ] इति। "केशानशतभागस्य शतधाकल्पितस्य च । भागो जीवः।" इति च, जले तत्स्वभावेन सूर्योद्याकारेण परिणतसूर्यांशप्रभाविशेषस्य प्रतिबिम्बत्वमते निरुक्तश्रुथार्थतासम्भवोऽपि ॥ ३७ ॥ thani तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ तथा वास्तवपरिच्छेदादौ सति सामानाधि- न तत्यागश्च भवेत् । 'तत्सदार्थ- प्रभावस्तत्र कारणम्' इति चेदलाकमेव मत- सम्मतम् ॐ ॥३८॥ श्रीबलदेव-विद्याभूपणकृत-टीका। 'ब्रवाहम्' इति ज्ञानमात्रेण तद्रूपावस्थितिः स्यादिति यदभिमतं, तत् खलु उपाधेर्वास्तवत्वपक्षे न सम्भवतीत्याह ;-तथा वास्तवेति, आदिना प्रतिविम्बो ग्राह्यः । न खलु निगडितः कश्चिद्दीनः 'राजैवाहम्' इति ज्ञानमात्राद्राजा भवन् दृष्ट इति भावः। ( ननु) श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। वास्तवपरिच्छेदपक्षे दूषणान्तरमवास्तवापरिच्छेदादौ सतीति । सामानाधिकरण्यज्ञानमात्रेण इति-"तत्त्वमसि' इति श्रुत्या तत्पदार्थ- परमेश्वर-त्वम्पदार्थजीवयोरैक्यग्रहमात्रेणेत्यर्थः । तत्त्यागः-वास्तव- परिच्छेदनाशः, परिच्छेदकारणस्य वास्तवोपाधिसम्बन्धस्य ब्रह्ममात्र- साक्षात्कारेऽपि नाशासम्भवात् ब्रह्मणि उपाधेरारोपितत्व एव तत्साक्षात्कारेण तन्नाशो भवेदिति भावः। तत्पादार्थप्रभाव इति- श्रुतिघटक-तत्पदार्थपरमेश्वरस्य प्रभावः; स्वस्मिन् जीवैक्यसाक्षा- कारः, तत्र-वास्तवोपाधिसम्बन्धनाशद्वारा परिच्छेदकनाशे, कारणं श्रुतिसिद्धमिति भावः। अस्माकमेवेति ;-श्रुतौ तत्पदेन परमेश्वर- * "मतं सम्मतं" इति वा पाठः । + “वास्तवपरिच्छेदादौ सति" इति मूनपाठः, अत्र विकृतस्त्वादर्शान्तराभावान चालितः।.

पदसन्दर्भनामक- [प्रथमः- -- उपाधेराविद्यकत्वे तु तत्र तत्परिच्छिन्नत्वादे- रप्यघटमानत्वादाविद्यकत्वमेवेति घटाकाशादिषु वास्तवोपाधिमय-तदर्शनया न तेषामवास्तवस्वान- रक्षामोपजीनिनी सिद्धान्तः सिध्यति, घटमाना- श्रीवलदेव-विद्याभूपणकृत-टीका। ब्रह्मानुसन्धिसामर्थ्याद्भवेदिति चेत्तत्राह-तत्पदार्थेति, तथा च त्व(त)-मतततिरिति ॥ ३८ ॥ अथोपाधेराविद्यकत्वपक्षे परिच्छेदादिवादद्वयं निराकरोति- उपाधेरिति, आविद्यकत्वे-रज्जुभुजङ्गादिवन्मिथ्यात्वे सतीत्यर्थः । तत्र उपाधिपरिच्छिन्नत्वतत्प्रतिविम्बत्वयोः,अनुपपद्यमानत्वान्मिथ्यात्वमेवेति हेतोः, घटाकाशादिपु-घटपरिच्छिन्नाकाशे घटाम्बुप्रतिविम्बाकाशे च * वास्तवोपाधिमय-तदुभयदृष्टान्तदर्शनया तेषां चिन्मात्राद्वैतिना- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । तटस्यांशलक्षणया तदंशत्वमित्यभेदवोधः । 'स्थूलसूक्ष्मदेहसम्बन्धनाशे जीवानां मुक्तिहेतुः' इति श्रुतिसिद्धमस्माकं मतमेव भवतामपि सम्मतमापद्यतेत्यर्थः ॥ ३८ ॥ अघटमानत्वात्-वास्तविकत्वासम्भवात्, उपाधिमयेति-वास्त: वोपाधिकृतेत्यर्थः। तदर्शनया-परिच्छेददृष्टान्तेन । यद्यपि तन्मते घटादे- राकाशस्य तत्परिच्छेदस्य चावास्तवत्वात् तदृष्टान्ततासम्भवः, तथापि मिथ्याभूतानामपि ब्रह्मातिरिक्तानां द्विविधं सत्त्वं, कषाञ्चिद्यावहारिक घटादिदेहादीनां, केपाञ्चिञ्च प्रातिभासिकं यथा रज्जुसदेरिति । * “घटाम्बुप्रतिविम्बाकाशे च" इत्यत्र “घटप्रतिविम्बे च" इत्येव पाव साधीयान् मन्येत, सुधीभिश्च चिन्तनीयः ।

तत्त्व-सन्दभः।] श्रीभागवत-सन्दर्भ ११७ घटमानयोः सङ्गतेः कर्तुमशक्यत्वात् । ततश्च तेषां तत्तत् सर्वमविद्याविलसितमेवेति ॐ स्वरूपमप्राप्तेन तेन तेन (च) तत्तव्यवस्थापयितुमशक्यम् ॥३६॥ श्रीबलदेव-विद्याभूषणकृत-टीका । मेकजीववादपरिनिष्ठत्वादवास्तवस्वप्नदृष्टान्तोपजीविनां सिद्धान्तो न सिति । उपाधेमिथ्यात्वे तेन परिच्छेदः प्रतिविम्बश्च ब्रह्मणो मिथ्यैव स्यात्, अतो मिथ्योपाधिदृष्टान्तत्वेन सत्यघटघटाम्बुनोः प्रदर्शनमसमञ्जसमेव । घटघटाम्बुदृष्टान्त-प्रदर्शनं-घटमानं, विद्या- ऽविद्यावृत्तिरूपदार्टान्तिक-प्रदर्शनं त्वघटमानम् । तयोः सङ्गतिः- सादृश्यविलक्षणा करतुमशक्यव, सादृश्याभावात् । ततश्चेति, तत्तत् सर्व-परिच्छेदप्रतिविम्बकल्पनं, अविद्याविलसितं-अज्ञान- विजृम्भितमेव, इति–एवमुक्तरीत्या, स्वरूपमप्राप्तन-असिद्धन, श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। तथा चाकाशस्य सावयवत्वेन विकारित्वेन च व्यावहारिकस्य तत्- परिच्छेदस्योपाधिकृतस्य घटमानत्वं, ब्रह्मणश्च निरवयवत्वेन निर्विकार- त्वेन तदुपाधेराविद्यकत्वेन च तत्परिच्छेदकस्य व्यावहारिकस्याघट- मानत्वमिति प्रातिभासिकपरिच्छेद एवाङ्गीकार्य इति न घटाकाशस्य दृष्टान्ततासम्भवः, घटाकाशपरिच्छेदस्य तद्वास्तविकत्वमुक्त तद्या- वहारिकस्य सत्त्वमेवेति भावः। स्वप्नस्य दृष्टान्तता च तन्मते सम्भवः । तथाहि 'देहादि-तत्कृतब्रह्मपरिच्छेदो मिथ्या स्वमदेहा- दिवत्' इत्येवं स्वप्नदृष्टान्तोपजीविनां सिद्धान्तः-व्यावहारिक ब्रह्म- परिच्छेदो न सिध्यतीत्यर्थः। अत्र हेतुमाह-अघटमान-घटमानयो- * 'अविद्याविलास एवेति" इति श्रीमद्गोस्वामिभट्टाचार्यकृतः पाठः ।

[प्रथमः ११८ षट्सन्द दर्भनामक- इति ब्रह्माविद्ययोः पर्यवाने सनि यदेव ब्रह्म-चिन्मालत्वेनाविद्यायोगस्यासन्तामानास्पदवा- श्रीबलदेव-विद्याभूषणकृत-टीका । तेन-परिच्छेदवादेन, तेन-प्रतिविम्बवादेन च तत्तद्यवस्थापयितुं--- प्रतिपादयतुमशक्यम् । ततश्च हन्तृहतन्यायेन व्यासदृष्टप्रकारक- स्तद्विभागो ध्रुवः ॥ ३६॥ ननु परिच्छेदादिवादद्वयेनास्माकं तात्पर्य्य, तस्याज्ञवोधनाय कल्पितत्वात्, किन्वेकजीवबाद एव तदस्ति । "स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्बम् । स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत् परितुष्टिमेति ॥" [ कैवल्य० १२]- इत्यादि कैवल्योपनिषदि तस्यैवोपपादितत्वात् । तद्वादश्चेत्थम् ; "एकमेवाद्वितीयम्" इत्याद्युक्तश्रुतिभ्योऽद्वितीयश्चिन्मात्री ह्यात्मा । स चात्मन्यविद्यया गुणमयीं मायां तद्वैषम्यजां कार्यसंहतिञ्च कल्पयन्न- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । रिति, * सङ्गतेरेति-तुल्यतया सिद्धरित्यर्थः, ततश्चेति-देहाधु- पाधिकृतब्रह्मपरिच्छेदस्य प्रातिभासिकत्वाञ्चेत्यर्थः। अविद्याविलास एव-खपुष्पादिवदारोपविषय एव । स्वरूपमप्राप्तेन-व्यावहारिकसत्व- मप्राप्तेन, तेन तेनेति-तत्तदुपाधिकृतपरिच्छेदविशिष्टब्रह्मण इत्यर्थः, तत्तदिति-संसारवैचित्र्यमित्यर्थः ॥ ३६ ॥ दूषणान्तरमाह-ब्रह्माविद्ययोरिति । पर्यवसाने-विचारेण स्वरूपनिर्णये सतीति,-'विरोधस्तदवस्थ एव' इत्यग्रेणास्यान्वयः। चिन्मात्रत्वेन स्वप्रकाशसुखात्मकत्वेन, अविद्यायोगस्य-अविद्याया * शब्दद्वयमिदं मूलाद्विपर्ययेणोक्तं, अंथस्त्वेक एव ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ ११६ । च्छुद्धं, तदेव तद्योगादशुद्धया * जीवः, पुन- स्तदेव जीवाविद्याकल्पितमायाश्रयत्वादीश्वरस्तदेव च तन्मायाविषयत्वाज्जीव इति विरोधस्तदवस्थ एव स्यात् । तत्र च शुद्धायां चित्यविद्या, तद्विद्या- श्रीबलदेव-विद्याभूषणकृत-टीका । स्मदर्थमेकं युष्मदर्थांश्च बहून् कल्पयति । तत्रास्मदर्थ:-स्वस्वरूपः पुरुषः। युष्मदर्थश्च-नहदादीनि भूभ्यन्तानि जड़ानि, स्वतुल्यानि पुरुषान्तराणि, सर्वेश्वराख्यः पुरुषविशेषश्च-इत्येवं त्रिविधः । "जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति ।" [ नृसिंह०६] इति श्रुत्यन्तराच- गुणयोगादेव कर्तृत्व-भोक्तृत्वे तत्रात्मन्यध्यस्ते, स्वप्ने कश्चिद्राजधानी राजानं तत्प्रजाश्च कल्पयति, तन्नियम्यमात्मानश्च मन्यते, तद्वत् । जाते च ज्ञाने जागरे च सति, ततोऽन्यन्न किञ्चि- दस्तीति चिन्मात्रमेकमात्मवस्त्विति । तमिमं बादं निराकर्तुमाह- इति ब्रह्मेति । इति–एवं, पूर्वोक्तरीत्या परिच्छेदादिवादद्वयस्य प्रत्याख्याने जाते, 'ब्रह्म च अविद्या च'---इति द्वयोः पर्यवसाने सतीत्यर्थः। अत्यन्ताभावास्पदत्वादिति-'अगृह्यो न हि गृह्यते" - यथा - श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । निरासेन तत्कृतमोहादेः। तट्या गादिति-अविद्यायोगेन परिच्छिन्नत्वात् प्रतिविम्बरूपत्वाद्वा इत्यर्थः । अशुद्ध्या-मुग्धतया, रागद्वेषादिमत्त्वेन जीवा इति। तथा च मोहामोहयोः सङ्गासङ्गयोश्च विरोधः। विरोधान्तरमाह-पुनरिति, तथेत्यर्थः । जीवाविद्याकल्पितेति- m * "तद्योगादशुद्धः" इति वा पाठः।

१२० पट्सन्दर्भनामक- [प्रथम: कल्पितोपाधौ * तस्यामीश्वराख्यायां विद्येति, तथा विद्यावत्त्वेऽपि मायिकत्वमित्यसमञ्जसा च कल्पना स्यादित्यायनुसन्धेयम् ॥ ४०॥ श्रीबलदेव-विद्याभूषणकृत-टीका । [वृ० आ० ३. ६. २६ ] इत्यादि श्रुतेरेवेत्यर्थः। विरोधस्तदवस्थ इति-विरोधत्वादेवाशक्यव्यवस्थापयितुमित्यर्थः । । तत्र च शुद्धाया- मिति–'शुद्धे ब्रह्मण्यकस्मादविद्यासम्बन्धस्तत्सम्बन्धात्तस्य जीवत्वम्। तेन जीवेन कल्पिताया मायाया आश्रयो भूत्वा तद्ब्रह्मैवेश्वरः । तस्येश्वरस्य मायया परिभूतं ब्रह्मैव तज्जीवः।' इत्यादि विप्रलापो- ऽयमविदुषामेव, न तु विदुषामिति भावः। मायिकत्वं-प्रतारकत्व- मित्यर्थः। “स एव माया" इति श्रुतिस्तु ब्रह्मायत्तवृत्तिकत्व. ब्रह्मव्याप्यत्वाभ्यां ब्रह्मणोऽनतिरिक्तो जीव इत्येव निवेदयन्ती गतार्था, "जीवेशौ" इति श्रुतिस्तु मायाविमोहिततार्किकादि- परिकल्पितजीवेशपरतया गतार्थेति न किञ्चिदनुपपन्नम् ॥ ४० ॥ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । तथा च जीवभावं विना न मायाश्रयत्वमीश्वरस्य, तथा ईश्वराश्रित- मायाकृतमोहं विना न जीवभावः-इत्यन्योन्याश्रय इति भावः। शुद्धायां चितीति-निरुपाधौ ब्रह्मणीत्यर्थः। तस्यामिति-चिती- त्यर्थः। तथा चैकस्याविद्या-विद्ययोर्विरोधः स्फुट:-इति दर्शयति,- विद्यावरवेऽपीति ॥ ४०॥ * "अविद्या तद्वियाकल्पितोपाधौ” इत्यत्र "अविद्याकल्पितोपाषौ” इति पाठान्तरम्। + "अशक्यव्यवस्थापन इत्यर्थः" इति वा पाठः । * "मातिरिक्तः" इति वा पाठः । $ "निवेदयद्रतार्था" इति वा पाठः। - तस्व-सन्दर्भः। श्रीभागवत-सन्दर्भ १२१ किञ्च, यद्यलाभेद एव तात्पर्य्यमभविष्यत्तषेक- मेव ब्रह्माज्ञानेन भिन्नं, ज्ञानेन तु तस्य भेदमयं दुःखं विलीयत इत्यपश्यदित्येवावक्ष्यत् । तथा श्रीभगवल्लीलादीनां वास्तवत्वाभावे सति श्रीशुक- हृदय-विरोधश्च जायते ॥४१॥ श्रीबलदेव-विद्याभूषणकृत-टीका । अनुपपत्त्यन्तरमाह ;-किञ्चेति । अन-श्रीभागवते शास्त्रे। इत्येवेति,- 'पूर्णः पुरुषः कश्चिदस्ति, तदाश्रितया मायया जीवी विमोहितोऽनर्थ भजति, तदनोपशमनी च पूर्णस्य तस्य भक्तिः इत्यपश्यत्-इत्येवं नावक्ष्यदित्यर्थः॥४१॥ श्रीराधामोहन-गोखामिभट्टाचार्यकृत-टीका। यद्यत्रेति, अत्र-श्रीभागवते,-"अपश्यत् पुरुषं पूर्ण मायाञ्च तदपाश्रयाम्" इति वचने। अपश्यदिति-व्यास इत्यादिः, अवक्ष्य- दिति-सूत इत्यादि, तथोक्तावेव स्पष्टार्थः स्यादिति भावः। सूत- स्थाद्वैतमतस्वीकारस्तद्गुरु-शुकसम्मति विना न' इति विभाज्य दूष- णान्तरमाह, तथेति-अद्वैतवादस्य सूतसम्मतत्वे इत्यर्थः। वास्त- वत्वाभावे-अद्वैतभाभिया वास्तवत्वास्वीकारे, शुकहृदयविरोधश्चेति -शुकहृदयग्रन्थे श्रीभगवल्लीलाया वास्तविकत्वेन कथनादिति भावः । तथा च सर्वतोऽतिशयमानस्य शुकस्याद्वैतवादखीकारेण तन्मतं न समीचीनमिति भावः॥४१॥ १६ । प्रथम:- - १२२ पट्सन्दर्भनामक- तस्मात् परिच्छेद-प्रतिविम्वत्वादि-प्रतिपादक- शास्त्राण्यपि कथञ्चित्तत्सादृश्येन गौण्यैव वृत्त्या श्रीबलदेव-विद्याभूषणकृत-टीका । तस्मादिति - तत्सादृश्येन-परिच्छिन्नप्रतिविम्बतुल्यत्वेनेत्यर्थः । 'सिंहो देवदत्तः' इत्यत्र यथा गौण्या वृत्त्या सिंहतुल्यत्वं देवदत्तस्या- च्यते, न तु सिंहत्वं, तद्वदित्यर्थः। नन्वेवं केन निर्णीतम् ? इति चेत्, 'सूत्रकृता श्रीव्यासेनैव' इति तत् सूत्रद्वयं दर्शयति । तत्रैकेन तद्वादद्वयमसम्भवान्निरस्यति,श्र वुवदिति ; यथाम्बुना भूखण्डस्य परिच्छेदः, एवमुपाधिना ब्रह्मप्रदेशस्य स स्यात् ? न, अम्बुना भूखण्डस्येव उपाधिना ब्रह्मप्रदेशस्य ग्रहणाभावात् । “अगृह्यो न हि गृह्यते" (वृह०, ३, ६, २६ ) इति हि श्रुतिः। अतो न तथात्वं, ब्रह्मण उपाधिपरिच्छिन्नत्वं न इत्यर्थः। यद्धा, अम्बुनि यथा रवेः प्रतिविम्वः परिच्छिन्नस्य गृह्यते, एवमुपाधौ ब्रह्मणः प्रतिविम्बो श्रीराधामोहन गोखामिभट्टाचार्यकृत-टीका । "अम्बुवदग्रहणात्" इति पूर्वपक्षवेदान्तसूत्रम् । अस्यार्थः- परमात्म-जीवात्मनोरैक्यं, अग्रहणात्-भेदस्याग्रहणात् अभेदस्य श्रवणादिति यावत्, “सर्व एकीभवन्ति" (प्रश्न० ४,२) इति श्रुतेः, “स ऐक्षत" "वहु स्याम्" इत्यादि श्रुतेश्च। तथा चैकमेव ब्रह्म तत्तदुपाधिभेदेन भिन्नमिव, तत्तदुपाधिविगमे पुनरैक्यं-- अम्बुवत् , एकरमाजलादुद्धृतं जलं पुनस्तत्रैव जले निहितमेकी- भवतीति-तद्वदिति। अत्र सिद्धान्तसूत्रम्-"वृद्धिहासभाक्स्वमन्त- र्भावादुभयसामञ्जस्यादेवम्" इति । जलादुद्धतं जलं अवयवविभागेन पूर्वजलनाशेन जलान्तरं उत्पन्नं, न तु तयोरैक्यं तदाधारभूतंजलस्य तत्त्व-सन्दर्भः। श्रीभागवत-सन्दर्भ १२३ प्रवर्तेरन् । "अम्बुवदग्रहणात्तु न तथात्वम्" (ब्र० सू० ३, २, १६ ) "वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्" (. श्रीबलदेव-विद्याभूषणकृत-टीका । व्यापकस्य न गृह्यते ; तो न तथात्वं-तस्य प्रतिविम्बो न इत्यर्थः । तर्हि शास्त्रद्वयं कथं सङ्गच्छते ? तत्राह ;-वृद्धीति द्वितीयेन । तद्वयं न मुख्यवृत्त्या प्रवर्तते, किन्तु वृद्धिहासभाक्त्वं गुणांश- मादायैव, यथा महदल्पौ भूखण्डौ, यथा च रवितत्प्रतिविम्बौ वृद्धि- हासभाजौ, तथा परेशजीवौ स्यानाम्। कुतः ? अन्तर्भावात्, एतस्मिनशे शास्त्रतात्पर्य्यपूर्तः । एवं सत्युभयोः-दृष्टान्तदा न्तिकयोः, सामञ्जस्यात्-सङ्गतेरित्यर्थः । पूर्वन्यायेन परिच्छेदादिवादद्वयस्य - श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। हासात् । पुनस्तत्र निक्षिप्तं तज्जलं मिलितमुभाभ्यां जलान्तरमुत्पन्नं, वृद्धिदर्शनात् । तदाह,-"वृद्धिहासभाक्त्वम्" इति । वृद्धिह्रासभाक्त्वं यतो भवति, अतो मिलितजलयोर्मेंदः परमार्थः। ननु कथं तदा मिलितजलयोरेकत्वप्रतीतिः? इत्यत आह- "अन्तभावात्" एकस्मिन् जलेऽपरजलस्यान्तर्भावात् विलक्षण- सम्बन्धादुभयसामञ्जस्यात् तयोर्भेदस्य तयोरैक्यप्रतीतेश्च, इति द्वयोरुपपत्तिरित्यर्थः। तथा चाभेदप्रतीतिर्न पारमार्थिकी, परिमाण- भेदेन द्रव्यभेदस्य सर्वसिद्धत्वात्। एवं जीवात्म-परमात्मनोरपि भेदः पारमार्थिकः, प्रागुक्तविरुद्धधर्माध्यासात्। अभेदप्रतीतिस्तु- अन्तर्भावात् उपाधिविगमे विलक्षणसम्बन्धापायात् । श्रुतिः-"यथोदकं शुद्ध शुद्धमासिक्तं ताहगेव भवति" (कठ०४, १५) इति । - [प्रथम:- - १२४ षट्सन्दभनामक- सू० ३, २, २० ) इति पूर्वोत्तरपक्षमयन्यायाभ्याम् ॥४२॥ एवाभेदशास्त्राण्युभयोश्चिद्रूपत्वेन ७ जीवसमूहस्य दुर्घटघटनडीयया स्वाभाविक- तत श्रीबलदेव-विद्याभूषणकृत-टीका। खण्डनम् , उत्सरन्यायेन तु गौणवृत्त्या तस्य व्यवस्थापनमिति । 'ब्रह्मणः खयडः प्रतिविम्बो वा जीव एव' इति सूत्रकृतां मतम्, 'ईशोऽपि ब्रह्मणः खण्डः प्रतिविम्बो वा'इति मायिनामीशविमुखाना मतमिति वोव्यम् ॥ ४२ ॥ तत इति-परिच्छेदादिशास्त्रद्वयस्य तत्सादृश्यार्थकत्वेन नीतत्वा- देव हेतोः “त्वं वा अहमस्मि भगवो देव ! अहं वै त्वमसि तत्त्वमसि" श्रीराधामोहन-गोखामिभट्टाचार्यकृत-टीका। स्कान्डे च-"उदके तूदकं सिक्तं मिश्रमेव यथा भवेत् । न चैतदेव भवति यतो वृद्धिः प्रदृश्यते । एवमेव हि जीवोऽपि तादात्म्यं परमात्मना । प्राप्नोति नासौ भवति स्वातन्त्र्यादिविशेषणात्" इति । तादात्म्यं-मिश्रा। नासौ भवतीति-न परमात्मा भवति । स्वातन्त्र्यादीति,-ग्रादिना-निविकारत्वादिपरिग्रहस्तेन तयोमिलने पदार्थान्तरतापत्तिरपीति ॥ ४२ ॥ तत एव-गौयया लक्षणया प्रवर्तितत्वादेव, अभेदशास्त्राण- योजनीयानीत्यन्वयः। 'सादृश्ये लक्षणा गौणी, इति तां प्रदर्शयति, - * "चेतनत्वेन" इति श्रीमद्-गोस्वामिभाचार्य-अतः पाठः।

तस्व-सन्दर्भः। श्रीभागवत-सन्दर्भ १२५ तदचिन्त्यशक्तया स्वभावत एव तद्रश्मिपरमाणु- गणस्थानीयत्वात्तव्यतिरेकेणाव्यतिरेकेण च विरोध श्रीबलदेव-विद्याभूषणकृत-टीका । इत्यादीन्यभेदशास्त्राणि तदेतद्व्याससमाधिसिद्धान्तयोजनाय मुहुरप्यग्रे योजनीयानीति सम्बन्धः। केन हेतुना ? इत्याह-उभयोः-ईश- जीवयोश्चिद्रूपत्वेन हेतुना। यथा गौर-श्यामयोस्तरुणकुमारयोर्वा विप्रयोविप्रत्वेनैक्यम् । ततश्च जात्यैवाभेदो, न तु व्यक्त्योरित्यर्थः । तथा जीवसमूहस्य दुर्घटघटनापटीयस्या तदचिन्त्यशक्तत्या स्वभावत एव तद्रश्मिपरमाणुगणस्थानीयत्वात्तद्व्यतिरेकेण, अव्यतिरेकेण च हेतुना विरोधं परिहत्येति । परेशस्य खलु स्वरूपानुवन्धिनी पराख्या श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । उभयोः-ईश-जीवयोः 'चेतनत्वेन' इत्यस्य 'जीवसमूयस्य तदेक- त्वेऽपि' इत्यनेनान्वयः *। 'चेतनत्वेन' इत्यभेदे तृतीया। तथा च चेतनत्वरूपैकधर्मत्वमेव ईश्वरजीवयोरेकत्वमित्यर्थः । यद्यपि तयो के चेतनं, ईश्वरस्य नित्यसविषयमेकं चैतन्यं, जीवानाञ्चा- नित्यमसर्वविषयकं नानाविधं, तथापि तदुभयोरेकं चैतन्याश्रयत्व- मङ्गीकृत्य समाधेयम् । स्वभावत एव कारणं विना नित्यदैव तद्रश्मिपरमाणु-गणस्थानीयत्वात् तस्येश्वरस्य रश्मिपरमाणुगणतुल्य- धर्मत्वात् रश्मितुल्यता च, प्रकाशमयत्वेन निरवयवस्य ब्रह्मणस्तेज- स्वितानुपपत्त्या न वास्तवरश्मिता तेषाम् । ननु निरवयवत्वे ब्रह्मणः कथं जीवाश्रयत्वम् ? इत्यत श्राह-स्वाभाविकतदचिन्त्य- शक्त्येति। तथा च यथैकस्य सूर्य्यस्य तेजोमयस्य वहिर्निगच्छन्तो * एतदंश-दृष्ट्या मूले “तदेकत्वेऽपि" इति पाठस्य सत्तादभूयते, सम्भवेदेव कस्मिश्रित पुस्तके। .

षट्सन्दर्भनामक- [प्रथमः - परिहृत्याग्रे * मुहुरपि तदेतद्व्यासलमाधिलब्ध- सिद्धान्तयोजनाय योजनीयानि ॥ ४३ ॥ श्रीबलदेव-विद्याभूपणकृत-टीका। शक्तिरुष्णतेव रवेरस्ति- 'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी शानवलक्रिया च" इति मन्त्रवर्णात् , “विष्णुशक्तिः परा प्रोक्ता" इति स्मरणाञ्च। सा हि तदितगान्निखिलानियमयति । यस्मात् तदन्ये सर्वेऽर्थाः स्व-स्वभावमत्यजन्ती वर्तन्ते। प्रकृतिः कालः कर्म च स्वान्तःस्थितमपीश्वरं स्पष्टुं न शक्नोति, किन्तु ततो विभ्यदेव स्वस्वभावे तिष्ठति । जीवगणश्च तत्सजातीयोऽपि न तेन संपचितुं शक्नोति किन्तु तमाश्रयन्नेव वृत्तिं लभते, मुख्यप्राणमिव श्रोत्रादिरिन्द्रियगण इति। तथा च “यवृत्तिर्यदधीना स तद्रूपः" इत्यभेदशास्त्रस्यापि भेदशास्त्रेण सार्द्धमविरोधोऽयं श्रीव्याससमाधि- लब्धसिद्धान्तसव्यपेक्ष इति । तथा चात्रेश-जीवयोः स्वरूपाभेदी नास्तीति सिद्धम् ॥ ४३ ॥ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । रश्मिगणाः सूर्यमण्डले पुनः प्रविशन्तोऽपि न दृश्यन्ते, सूर्य- मण्डलाद्भिन्ना अभेदेनोपर्य्यन्ते, तथाऽदृष्टादिवशाद् ब्रह्मणः सका- शानिःसरन्तो देहसङ्गेन संसारिणः कदाचिद्विद्योत्पत्त्या देहसङ्ग- निर्मुक्ता ब्रह्मणि पुनः प्रविशन्तो ब्रह्मतो भिन्ना अपि अभेदेनोप- चर्य्यन्त इत्यर्थः। ननु ब्रह्मतो यदि जीवा निःसरन्ति, तदा ब्रह्म परिच्छिन्नम् ? इत्यत अाह-तव्यतिरेकेणेति । यद्यपि तद्व्यति- रेकस्थलमप्रसिद्धं, तथापि जीवानां देहसम्बन्धदशायामपि ब्रह्म * “परिहस्यैवाये" इति वा पाठः।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ १२७ तदेवं मायाश्रयत्व-मायामोहितत्वाभ्यां स्थिते द्वयोर्भेदे * तद्भजनस्यैवाभिधेयत्वमायातम् ॥४४॥ अतः श्रीभगवत एव सर्वहितोपदेष्टुत्वात्, सर्वदुःखहरत्वात्, रश्मीनां सूर्यवत् सर्वेषां परम- श्रीबलदेव-विद्याभूषणकृत-टीका । तदेवमिति स्फुटार्थम् । तद्भजनस्य-मायानिवारकस्येत्यर्थः॥४४॥ मायामोह-निवारकत्वाद्यस्य भजनमभिधेयं, स भगवानेव भजतां प्रेमयोग्य इत्यर्थादागतमित्याह ;-अत इति । अतः-मायामोह- निवारकभजनत्वाद्भगवत एवं परमप्रेमयोग्यत्वमिति सम्बन्धः । जीवात्मा प्रेमयोग्यः, परमात्मा भगवांस्तु परमप्रेमयोग्य इत्यर्थः । कुतः ? इत्यपेक्षायां हेतुचतुष्टयमाह-सर्वेति । रश्मीनामित्यादि- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। सम्बन्धित्वादित्यत्र तात्पर्य्यम् । यद्वा, तस्य-ब्रह्मणः, व्यतिरेकेण- व्यतिरिक्तदेहसम्बन्धकृतभेदेन, अव्यतिरेकेण- देहसम्बन्धाभावे तदैक्यप्रायेण, विरोधं परिहत्य-भेदाभेदवोधकश्रुति-स्मृति-न्यायादि- विरोधं परिहृत्येत्यर्थः। तथाच क्वचिञ्चतनत्वेनैक्यविवतया, क्वचिच धर्मम्मिणोरभेद-विवक्षयाऽभेदवचनानि व्याख्येयानीति भावः ॥४३॥ तदेवं-निरुक्तैतत्प्रकारेण, तयोर्भेदे इति-सिद्धे सतीति शेषः । अभिधेयत्वमिति-श्रीभागवते इत्यादिः॥४४॥ सूर्यवत्-सूर्य्यस्येव, सर्वेषां-जीवानां, परमस्वरूपत्वादिति- अत्रैव सूर्यदृष्टान्तः, परमत्वात् स्वरूपत्वाञ्चेत्यर्थः। परमत्वञ्च- * " "तयोभंदे" इति वा पाठः।

१२८ पट्सन्दर्भनामक- खरूपत्वात्, सर्वाधिकगुणशालित्वात्, परमप्रेम- योगत्वमिति प्रयोजनश्च स्थापितम् ॥ ४५ ॥ तवाभिधेयश्च तादृशत्वेन दृष्टवानपि, यत- स्तत्प्रवत्त्यर्थं श्रीभागवताख्यामिमां सात्वतसंहिता प्रवर्तितवानित्याह,-अनर्थेति । भक्तियोगः- Mom- श्रीबलदेव-विद्याभूषणकृत-टीका। सूर्यो यथा रश्मीनां स्वरूपं न, किन्तु परमस्वरूपमेव भवति एवं जीवानां भगवान् इति स्वरूपैक्यं निरस्तम्। अन्तर्यामि- ब्राह्मणात् सौवालब्राह्मणाच 'जीवात्मानः परात्मनः शरीराणि भवन्ति, स तु तेषां शरीरी' इति भेदः प्रस्फुटो शातः। सर्वाधिकेति ॥ ४५ ॥ तत्राभीति, तादृशत्वेन मायानिवारकत्वेन । दृष्टवानपि श्रीव्यासः । अनुष्ठानं-कृतिसाध्यम् । तत्प्रसादेति-भगवदनुग्रहेत्यर्थः। तस्य- श्रतः - n श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। निरतिशयसुखमयत्वं प्रात्मनः स्वतः प्रेमास्पदत्वं ततोऽप्यधिक- प्रेमास्पदत्वसूचकमिदमिति वोध्यम् । प्रयोजनमिति-भगवत्प्राप्ति- रूपमित्यर्थः। चकारात् तत्प्रेमापि तत्प्रयोजनम् । यद्वा ; इति- भगवतः प्रेमयोग्यत्वात् तत्सूचनेन प्रागुक्तं प्रेमाख्यप्रयोजनं सुष्टुत्वेन स्थापितमित्यर्थः ॥ ४५ ॥ तत्र-समाधौ, अभिधेयं-भक्तियोग, ताशत्वेन-परमप्रेमास्पद- भगवत्प्राप्तिहेतुत्व-पुरस्कारेण । यतस्तत्प्रवृत्त्यर्थ-भजनरूपाभिधेय- प्रवृत्यर्थ प्रवर्तितवान् , अतो दृष्टवानपीत्यर्थः। श्लोकस्थ 'चक्र' तत्त्व-सन्दर्भः। ] श्रीभागवत-सन्दर्भ १२६ श्रवणकीर्तनादिलक्षणः साधनभक्तिः ; न तु प्रेम- लक्षणः। अनुष्ठानं ह्युपपदेशापेक्षं, प्रेम तु तत्- प्रसादापेक्षमिति । तथापि तस्य तत्प्रसादहेतो- स्तत्प्रेमफलगर्भत्वात् साक्षादेवानर्थोपशमनत्वं, * न त्वन्य - सापेक्षत्वेन, “यत् कर्मभिर्यत् तपसा ज्ञानवैराग्यतश्च यत्" इत्यादौ, (भाः ११,२०,३२,) श्रीबलदेव-विद्याभूषणकृत-टीका । श्रवणादिलक्षणस्य । अन्यसापेक्षत्वेन-कांदिपरिकरत्वेन । ज्ञाना- देस्त्विति-ज्ञानमत्र “यस्य ब्रह्म" इत्युक्तब्रह्मविषयकम् । सम्मोहा- ? श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । इत्यस्य विवरण-प्रवर्तितवानिति । आहेति-सूत इति शेषः । अनुष्ठानं-साधनक्रिया, तत्प्रसादसापेक्षं-साधनाधीनभगवदनुग्रह- सापेक्षम् । ननु साधनभक्तेन साक्षादनर्थोपशमनत्वम्, इति कथं 'अनर्थोपशमं' इत्युक्तम् ? इत्यत आह, तथापीति,- भजनस्य भगवत्प्रसादव्यवधानेनानर्थोपशमत्वेऽपि । तस्य-भजनस्य, तत्प्रसाद- हेतोः-भगवत्प्रसादहेतोः, प्रेमभलगत्वात्-प्रेमफलतात्पर्य्यकत्वात् ; तथा च व्यापारेण व्यापारिणो नान्यथासिद्धिरिति भावः । अनर्थों- पशमत्वं-मायोपशमत्वम् । स तु-प्रसादलभ्यप्रेमा। अस्य- भजनस्य सापेक्षत्वेनेति । तथाच भजनं विना नानर्थशमनं, प्रसादः "अनर्थोपशमत्वम्" इति श्रीमद्गोस्वामिभट्टाचार्यकृतः पाठः । + “न त्वन्य" इत्यत्र “स त्वस्य” इति पाठान्तरं श्रीमद्गोस्वामिभट्टाचार्य- - षट्सन्दर्भनामक- प्रथमः “सर्व मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्गम्" (भाः ११, २०, ३३) इत्यादेः ज्ञानादेस्तु भक्ति- सापेक्षत्वमेव, "श्रेयःमृति भक्तिम्” (भाः १०,१४, ४) इत्यादेः। अथवा ; अनर्थस्य-संसारख्यस- नस्य तावत् साक्षात् अव्यवधानेनोपशमनं, सम्मो- हादिद्वयस्य तु ® प्रेमाख्यखीयफलद्वारेत्यर्थः । अतः पूर्ववदेवालाभिधेयं दर्शितम् ॥ ४६ ॥ श्रीबलदेव-विद्याभूषणकृत-टीका। दीत्यादिपदादात्मनो जड़देहादिरूपतामननं ग्राह्यम् । अत्र-अनर्थेति वाक्ये ॥४६॥ अत इति । श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । प्रेमा च द्वारमेवेति भावः। प्रेमा च स्वतःसिद्ध एव, साध्यता च तस्य प्राकट्यमात्रम्- इति निरपेक्षकत्वकथनं तस्येति । तत्र हेतुमाह-'यत् कर्मभिः' इत्यादि । तथा च-"सर्व मद्भक्ति- योगेन मद्भक्तो लभतेऽञ्जसा" इत्यनेन भक्तीनादिनिरपेक्षेण सर्व- फलजनकत्वोक्त्याऽनर्थोपशमनत्वमिति भावः। 'ज्ञानादिकं भक्ति विना निरर्थकम् 'इति नादरः' इत्याह-शानादेस्त्विति । ननु साक्षात्- साधनत्वं द्वारानपेक्षम् इति सिद्धान्तः इत्यत आह,-अथवेति, मोहादिद्वयस्य तु-इत्यस्य 'उपशमम्' इत्यनुषङ्गेणान्वयात् 'तुकारेण वाताधवच्छेदः, 'मोहादि' इति 'पादि'पदेन देहाभिमानपरिग्रहः॥४६॥ * "मोहादिद्वयस्य तु" इति श्रीमद्गोस्वामिभट्टाचार्यतः पाठः !

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ अथ पूर्ववदेव प्रयोजनश्च स्पष्टयितुं, पूर्वोक्तस्य पूर्ण- पुरुषस्य च श्रीकृष्णवरूपत्वं व्यञ्जयितुं, ग्रन्थफलनिर्देशद्वारा तत्र तदनुभवान्तरं प्रतिपादयन्नाह,-यस्यामिति । भक्ति:- प्रेमा, श्रवणरूपया साधनभक्त्या साध्यत्वात् । उत्पद्यते- आविर्भवति । तस्यानुषङ्गिकं गुणमाह-शोकेति, अत्रैषां संस्कारीऽपि नश्यतीति भावः । "प्रीतिन यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत्" उति ( भाः ५, ५, ६) श्रीऋषभदेववाक्यात् । परमपुरुषे पूर्वोक्त- पूर्णपुरुषे। किमाकारे ? इत्यपेक्षयामाह, कृष्णे-"कृष्णस्तु श्रीबलदेव-विद्याभूषणकृत-टीका । अथेति-प्रयाजनं भगवत्प्रेमलक्षणम्। तत्रेति,-तत्र समाधौ श्रीव्यासस्यान्यमनुभवमित्यर्थः। आविर्भवतीति-प्रेतः परासारांश- त्वेनोत्पत्यसम्बवादित्यर्थः। अस्येति-प्रेग्नः। अत्र-अम्नि सति । श्रीराधामोहन-गोवामिभट्टाचार्यकृत-टीका । प्रीतिः-प्रेमा, श्रीकृष्णविशेषणपरमपुरुषपदस्य पूर्वोक्तपूर्णपुरुष- परत्वं वर्णनीयत्वेन समाधिलब्धपूर्णपुरुषोपक्रमेण व्यक्तीकृतप्रन्थ- स्थाभिधेयभजनसम्बन्धित्वेन श्रीकृष्णस्य कथनात् सुखगम्यमेवेति । ननु कृष्णपदार्थ एव कः ? इत्याकाङ्क्षायामाह, कृष्णस्त्वित्यादि, यनाममात्रेणेति-कृष्णोति नाममात्रेणेत्यर्थः। प्रथमप्रतीतिविषयः स्यादिति-ौत्सर्गिकप्रतीतिविषयो भवतीत्यर्थः। श्राभिमुख्याय- अभिमुखीकरणाय । तदाकार इति–स प्राकार:-स्वाभाविक- शरोरविशेषविशिष्ट-ब्रह्मकृष्णपदार्थ इत्यर्थः । यशोदा-स्तनन्धये- पट्सन्दर्भनामक- [प्रथमः- Mppmmmamta भगवान् स्वयम्" इत्यादि बास्त्रसहस्रभावितान्तःकरणानां पर- म्परया जलसिद्धि कानोकानां तन्नामश्रवणमात्रेण* यः प्रथमप्रतीलिविषयः स्यात्, तथा तन्नानः प्रथमाक्षरमात्र मन्त्राय कल्पमानं यस्याभिमुख्याय स्यात्-तदाकारे इत्यर्थः । आहुश्च नामकौमुदीकाराः - "कृष्णशब्दस्य तमालश्यामलविषि यशोदायाः स्तनन्धये परब्रह्मणि रूढ़िः" इति ॥ ४७ ॥ श्रीबलदेव-विद्याभूषणकृत-टीका । "कृष्णस्तु भगवान" इति-श्रीसूतादीनां श्रीजयदेवादीनाञ्चासंख्य- लोकानामित्यर्थः। 'तन्नाम' इति, 'तन्नान्नः' इति चोभयत्र कृष्णेति नाम बोध्यम् । रूढ़िरिति, प्रकृतिप्रत्ययसम्बन्ध विनैव यशोदासुते प्रसिद्धिर्मण्डपशब्दस्येव गृहविशेषे इत्यर्थः ॥ ४७ ॥ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । यशोदास्तनपानकर्तरि, रूढ़िः-मुख्यावृत्तिः प्रसिद्धा, वृष्णिवंशा- वतीर्णमुपक्रम्य “कृष्णस्तु भगवान् स्वयम्" इत्युक्तत्वाद् वासुदेवेति नामान्तरमस्यैवेति भावः। यशोदास्तनन्धय इति-शरीरपरिचयाय, न तु तद्घटितं कृष्णपद-प्रवृत्तिनिमित्तं, किशोरमूती यशोदा-स्तन- पानाभावात् यशोदाविशेषेणापरिचयाच । स्वयं भगवता कृष्णेन यस्याः स्तनपानं कृतं, तत्त्वेनोक्तौ परस्पराश्रयात् । न च यशोदाख्य- स्वेनैव यशोदानिवेश इदानीन्तनयशोदातनयवारणाय नवतमालेति विशेषणमिति वाच्यम् , कृष्णपदेन यशोदास्तनपातृत्वेनानुपस्थितेः, * “यनाममात्रेण" इति श्रीमदगोस्वामिभट्टाचार्यधतः पाठः ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ भूतवान् । - अथ तस्यैव प्रयोजनस्य ब्रह्मानन्दानुभवादपि परमत्वमनु- यतस्तादृशं शुकमपि तदानन्दवैशिष्ट्यलम्भनाय तामध्यापयामासेत्याह,—स संहितामिति । कृत्वानुक्रम्य चेति- प्रथमतः स्वयं सक्षेपेण कृत्वा, पश्चात्तु श्रीनारदोपदेशादनु- क्रमेण विवृत्येत्यर्थः। अतएव श्रीमद्भागवतं भारतानन्तरं यदत्र श्रूयते, यचान्यनाष्टादशपुराणानन्तरं भारतमिति, तद्यमपि समा- श्रीबलदेव-विद्याभूषणकृत-टीका । अथेति ;-ब्रह्मानन्दात्-यस्य ब्रह्मेत्युक्तवस्तुसुखादपि। पर- मत्वं-उत्कृष्टत्वमनुभूतवान् श्रीव्यासः। तादृशं तदानन्दानुभविन- मपि। तदानन्देति कृष्णप्रेमानन्दप्रापणायेत्यर्थः। अत एवेति । यदत्रेति ; अत्र-श्रीभागवते। अन्यत्र मात्स्यादौ ;- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका ! 'पपौ यस्याः स्तनं हरिः' इत्यादौ कृष्णपर्यायहरिपदेन तथोपस्थिती 'पपौ यस्याः स्तनम्' इत्यनेन पौनरुक्क्यापत्तेः, “कृषिवाचकं शब्दो- णश्च निवृतिवाचकः। तयोरैक्यं परं ब्रह्म भुवि जातं न संशयः' इत्यादि शास्त्रलिङ्गव्युत्पत्त्या विरोधापत्तेश्चेति वोध्यम् ॥४७॥ अनुभूतवानिति-सूत इति शेषः। तादृशं ब्रह्मानन्दानुभव- शालिनम् । अतएवेति-आदौ संक्षेपेण कृतस्य भागवतस्यानन्तरं विवृत्य कृतत्वादेव । अत्र-श्रीभागवते, अन्यत्र,-"अष्टादशपुराणानि कृत्वा सत्यवतीसुतः। भारताख्यानमखिलं चक्रे वेदोपहितम्" इति वचने। समाहितम्-अविरुद्धं, तथाच-भागवतं पूर्व संक्षेपेण कृतं, भारतानन्तरं विस्तरतः-इति भावः। केचित्तु- पदसन्दर्भनामक- प्रथम:- हितं स्यात् । वनानुभवनिममन्यात निवृत्तिनिर—सर्वतो निवृत्तौ निरतं, अभि किया पीथः ।। ४८ ।। तमेतं श्रीवेद-व्यासस्थ मावि-जातानुभव श्रोशौनक- प्रश्नोत्तरत्वेन विशदयत् सर्वात्मागमानुभवेन सहेतुकं संवादयति, -~ग्रामारामाश्चेति। निर्यन्याः-विधिनिषेधातीताः, निर्गता- हडूनरग्रन्थयो वा। अहैतुकी-फलानुसन्धिरहिताम् । सर्वाक्षेपपरिहारार्थमाह;-इत्थम्भूतः आत्मारामाणामप्याकर्षण- भावो गुणो यस्य स इति । तमेवार्थ श्रीशुकस्याप्यनुभवेन संवादयति, हरेर्गुणेति । श्रीव्यासदेवाद् * यत्किञ्चित् श्रुतेन अत्र श्रीबलदेव-विद्याभूपणकृत-टीका। "अष्टादशपुराणानि कृत्वा सत्यवतीसुतः। चक्रे भारतमाख्यानं वेदार्थैरुपबृंहितम्" इत्यनेनेत्यर्थः । तत्रेति-निवृत्तावित्यर्थः ॥ ४८॥ समाधिदृष्टस्यार्थस्य सर्वतत्त्वझ-सम्मतत्वमाह,- तमित्यादिना । निर्गताहङ्कारेति, महतत्त्वाजातोऽयमहङ्कारः, न तु स्वरूपानुसन्दिनीति maem.- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । अनुक्रम्य अनुक्रमेण कृन्वेति व्याख्यानं - अष्टादशपुराणानि कृत्वा भारताख्यानं अखिलंपूर्ण चक्रे इति निरुक्तवचनार्थः, “मन्ये तद्दर्शनं खिलम्" इत्यत्र खिलशब्दस्योणार्थकत्वादिति भारतानन्तर- मेघाष्टादश पुराणानील्याहुः ॥४८॥ तं-ब्रह्मानन्दादप्यधिकतया कृष्णविषयकं, एवं-शुकमध्यापया- मासेति वचनसूचितं, सर्वात्मारामानुभवेन- तादृशानुभवमूलक- * "श्रीव्यासादेव" इति वा पाठः।

तत्त्व-सन्दभः।] ततः स्वनि- श्रीभागवत-सन्दर्भ गुणेन पूर्वमाक्षिप्ता मतिर्यस्य सः, पश्चादध्यागात् महद्विस्तीर्ण- मपि। ततश्च तत्संकथासौहार्देन नित्यं विष्णुजनाः प्रिया यस्य तथाभूतो वा, तेषां प्रियो वा स्वयमभवदित्यर्थः । अयं भावः ब्रह्मवैवर्तानुसारेण पूर्व तावदयं गर्भमारभ्य श्रीकृष्णस्य स्वैरितया मायानिवारकत्वं ज्ञातवान् । योजनया श्रीव्यासदेवेनानीतस्य तस्यान्तर्दर्शनात्तनिवारणे सति, कृतार्थम्मन्यतया स्वयमेकान्तमेव गतवान् । तत्र श्रीवेद-व्यासस्तु तं वशीकर्तुं तदनन्यसाधनं श्रीभागवतमेव ज्ञात्वा, तद्गुणाति- शयप्रकाशमयांस्तदीयपद्यविशेषान् कथञ्चित् श्रावयित्वा, तेन तमाक्षिप्तमतिं कृत्वा, तदेव पूर्ण तमध्नापयामासेति श्रीभागवत- महिमातिशयः प्रोक्तः। तदेवं दर्शित-वक्तुः श्रीशुकस्य वेदव्यासस्य च समानहद- यम् । तस्माद्वक्तुहृदयानुरूपमेव सर्वत्र तात्पर्य्य पालोचनीय, श्रीबलदेव-विद्याभूषणकृत-टीका । वोध्यं, द्वितीये सन्दर्भ एवमेव निर्णष्यमाणत्वात् । तदीयपद्य- विशेषानिति-पूतनाधात्रीगतिदान-पाण्डवसारथ्य-प्रतीहारत्वादिप्रदर्श- कान् कतिचित् श्लोकानित्यर्थः। ब्रह्मवैवर्त शुको योनिजातः, श्रीराधामोहन-गोखामिभट्टाचार्यकृत-टीका। हरिभजनेन, सहेतुकं कृष्णोत्कर्षरूपतद्धेतुवोधकं वचनं,संवादयति- ज्ञापयति । प्राक्षिता-शिथिला। निष्टङ्कित-ज्ञापितं,'तस्मात्' पट्सन्दभनामक- [ प्रथम:- नान्यथा । यद्यत्तदन्यथा पर्यालोचनं. तत्र तत्र कुपथगामित- वेति निष्टडिन्तम् ।।१७ श्रीसूतः ॥ ४६ ।। अथ क्रमेण विम्तरतस्तथैव तात्पर्य निर्णतुं सम्बन्धा- भिधेयप्रयोजनेषु पडभिः सन्दर्भेनिणेप्यमाणे प्रथमं यस्य वाच्यवाचकतामम्बन्धीदं शास्त्रं, तदेव--धर्मः प्रोमितकैतवः" इस्यादिपये सामान्याकारतस्तावदाह ; "वेद्यं बास्तवमल वस्तु" (भाः १, १, २) इति ।। टीका च,-"अत्र श्रीमति सुन्दरे भागवते वास्तवं परमार्थ- भूतं वस्तु वेद्य, न तु वैशेषिकादिवद् द्रव्यगुणादिरूपम्" इत्येपा || श्रीवेदव्यासः ॥५०॥ 4- श्रीबलदेव-विद्याभूपणकृत-टीका । भारते त्वयोनिजातः कथ्यते, दारग्रहणं कन्यासन्ततिश्चति । तदेतत् सर्व कल्पभेदेन सङ्गमनीयम् ॥ ४६॥ संक्षेपेणोक्तं लम्बन्धादिकं विस्तरेण दर्शयितुमुपक्रमते अथेत्यादि । तथैवेति श्रीशुकादिहृदयानुसारेणेत्यर्थः । सामान्यत इति अनिर्दिष्ट- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । इत्यनेनास्यान्वयः। श्रीसूत इति-सम्बादयतीति प्राक्तनेनान्वयः ॥४६॥ सम्बन्धः-वाच्यवाचकतालक्षणः, तत्र वाच्यतासम्बन्धि अभि- धेयं तच्च द्विविध-वास्तवतत्त्वं वस्तुतत्त्वञ्च, वाचकतासम्बन्धि शास्त्रमिति विशेषतः सूतप्रोत, सामान्यतो व्यासेनोक्तमित्याह---- अथेति। नथैव-निरुक्तैतत्प्रकारेणैव, निर्णतु–झापयितुं, अस्य .

तस्व-सन्दर्भः। श्रीभागवत-सन्दर्भ १३७ अथ किंरूपं तद्वस्तुतत्त्वमित्यत्राह ;- "वदन्ति तत्तत्वविदस्तत्त्वं यज् ज्ञानमद्वयम्" (माः १,२,११) इति ॥ श्रीबलदेव-विद्याभूषणकृत-टीका। स्वरूपगुणविभूतिकथनायेत्यर्थः । वैशेषिकादिवदिति-कणादगौत- मोक्तशास्त्रवदित्यर्थः ॥ ५० ॥ स्वरूपनिर्देशपूर्वकं तत्त्वं वक्तुमवतारयति-अथ किमिति, स्वयंसिद्धति-प्रात्मनैव सिद्धं खलु स्वयंसिद्धमुच्यते। "स्वयं- दासास्तपस्विनः' इत्यत्र तपस्विदास्यमात्मना तपस्विनैव सिद्धं प्रती- यते, तद्वत् । तादृशञ्च-परेशवस्त्वेव, न तु तादृशमपि जीवचैतन्यं, श्रीराधामोहन-गोवामिभट्टाचार्यकृत-टीका । 'निर्णेष्यमाणेषु' इत्यनेनान्वयः। यस्य वाच्यवाचकतासम्बन्धीति- यनिष्ठवाच्यतानिरूपितवाचकतासम्बन्धीत्यर्थः। श्राहेति-श्रीवेदव्यास इति परेणान्वयः॥५०॥ चिदेकरूपमिति-चिता ज्ञानेन एकरूपं स्व-स्वरूपभूतज्ञानव- दित्यर्थः। तदुक्तं-"गुणैः स्वरूपभूतैस्तु गुण्यसौ हरिरीश्वरः" इति । अद्वयत्वञ्च-अद्वयपदवाच्यत्वञ्च, स्वतःसिद्धताहशतत्त्वान्तरा- भावादिति-तथा च ताशतत्त्वनिष्ठभेदाप्रतियोगित्वमेवाद्वयत्वमिति भावः। ननु प्रकृत्यादिशक्तीनामपि तत्त्वता श्रूयते इति कथमद्वय- त्वम् ? इत्यत आह, स्वशक्त्येकसहायत्वादिति स्वाश्रितशक्तिरूप. त्वात् प्रकृत्यादीनामपि तत्स्वरूपत्वात् प्रकृतेर्वहिरङ्गत्वेऽपि तस्या- नित्यतया धर्मतया च ब्रह्मणैक्यमिति भावः। ननु प्रकृतेः कथं धर्मत्वम् ? इत्यत आह, परमाश्रयं तं विनेति, अखिद्धत्वात्- - [प्रथम:- षट्सन्दर्भनामक ज्ञान-चिदेकरूपम् । अद्यन्वञ्चास्य स्वयंसिद्धतादृशा- साहशतवान्तराभावात , * खशक्त्येकसहायत्वात्, परमाश्रयं तं विना तासामसिद्धत्वाच्च । 'तत्त्वम्' इति परमपुरुषार्थतायोतनया श्रीबलदेव-विद्याभूषणकृत-टीका । न स्वतादृशं प्रकृतिकातलक्षणं जड़वस्तु : तभावादद्वयत्वम् । तयोः स्वयंसिद्धत्वाभावः कुतः ? इत्यत्राह,-परमाश्रयं तं विनेति । स्वशक्त्येकमहायेऽप्यद्वयपदं प्रयुज्यते,-'धनुर्द्वितीयः पाण्डुः' इति । मनु वेदान्ते 'विज्ञानमानन्दं ब्रह्म' इति, विज्ञानानन्दस्वरूपं ब्रह्म , श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। अचेतनत्वेन कार्याक्षमत्वादिति भावः। तत्त्वमितीति--तत्पदप्रति- पाद्यं जगत्कर्तृरूपं वास्तवं वस्तुतत्त्वपदार्थः, वास्तवत्वं नित्यसत्त्वम् आत्मपदवोध्यमपि तदेव । तस्य परमप्रेमास्पदत्वमाह श्रुतिः-"न वा अरे पत्युः कामाय पतिः प्रियो भवति अात्मनस्तु कामाय पतिः प्रियो भवति" (वृ० प्रा० २, ४, ५) इत्युपक्रम्य "आत्मा वा अरे द्रष्टव्यः श्रोतव्यः” (वृ० आ० २ ४, ५) इत्यादिका । चात्रोपक्रमे श्रात्मपदं जीवपरमिति वाच्यं, आत्मपदेनात्मत्वेन वोधनात् परमप्रेमास्पदपरमात्मांशजीवात्मनोऽपि प्रेमास्पदत्वेन वोधनात् । तदभिप्रायेणैव दशमे-"ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत्" इति परीक्षित्-प्रश्नोत्तरतया शुकदेव अाह,-"सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः' इत्युक्त्वा - कृष्णमेनमवेहि त्वमा- त्मानमखिलात्मनाम्" इत्युक्तं, संसारिणां परमात्मानुभवविरहेणैव * "स्वयंसिद्धतादृशातादृशतत्वान्तराभावात्" इत्यत्र-"स्वतःसिद-ताशतत्वा- स्तराभावाम्" इति श्रीमद्-गोस्वामिभष्ट्राचार्यरुक्तम् ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ परमसुखरूपत्वं तस्य * वोध्यते । अतएव तस्य नित्यत्वञ्च दर्शितम् ॥ १।२। श्रीसूतः ॥५१॥ श्रीबलदेव-विद्याभूषणकृत-टीका । पठ्यते, इह ज्ञानमिति कथं ? तत्राह,-तत्त्वमिति । इदमत्र तत्त्व- मित्युक्ते सारे वस्तुनि तत्त्वशब्दो नीयते । सारश्च सुखमेव, सर्वेषा- मुपायानां तदर्थत्वात् , तथा च सुखरूपत्वमपि तस्यागतम्। ननु ज्ञानं सुखश्चानित्यं हष्टुं ? तत्राह ;-अतत्रवेति स्वयंसिद्धत्वेन व्याख्यानान्नित्यं तदित्यर्थः । “सदकारणं यत्तन्नित्यम्” इति हि तीर्थ- एवञ्च तादृशब्रह्मसम्बन्धीदं शास्त्रमित्युक्तम् ॥ ११ ॥ in काराः। - श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । तथाप्रियताननुभवात्। तथा प्रियतावीजञ्च परमानन्दमयत्वेनेत्यभि- प्रायं दर्शयति, परमपुरुषार्थद्योतनायेति । परमसुखत्वं-निरतिशय- स्वाभ विकसुखवत्त्वं, तस्-शानस्य स्वाभाविकज्ञानवतः। एवञ्च ब्रह्मगतज्ञान-सुखयोः ब्रह्मस्वरूपतया तयोरैक्यप्रवादः । श्रतएव- ब्रह्मणो ज्ञानकरूपतया कथनादेव तस्य-ज्ञानस्य सुखस्य च नित्य- त्वम् । न च तज् ज्ञानसुखयोरैक्यं वास्तवं 'जानामि' इत्यनुव्यवसाय- सिद्धज्ञानस्य प्रात्मधर्मस्य 'अहं सुखी' इत्यनुभवसिद्धात्मधर्मसुखस्य च मिथो वैलक्षण्यावगमात् । न चात्मधर्मत्वं तयोरारोपितं, मानाभावात् । एवञ्च स्वाभाविकज्ञानसुखवत्स्वरूपत्वं तत्त्वस्य सिद्धम् । निरुक्तज्ञाने ज्ञानपदस्य निरुक्तसुखे सुखपदस्य शक्तः सुप्रसिद्धतया- "सत्यं ज्ञानमनन्तं ब्रह्म" इति (तैत्ति० २, १, १) "श्रानन्दं ब्रह्म" इति (सर्वोप० ३) श्रुतावपि तादृशज्ञानसुखयोर्शानानन्दपदाभ्यां mala- . "ज्ञानस्य" इत्यधिक पाठः क्वचित् ।

पदसन्दर्भनामक- [प्रथम:- ननु नी मालामामार अणिकमेव ज्ञानं दृष्टं, पुनरद्वय नित्यं ज्ञानं कथं लक्ष्यते, निष्ठनि शास्त्रम् ? इस्त्राः .. श्रीबलदेव-विद्याभूषणकन-टीका। आर्थिक नित्यत्वं स्थिरं कुर्खन शास्त्रस्य विशिष्टब्रह्मसम्बन्धित्व- माह :-ननु नीलेत्यादिना । अनेन---जीवेनेत्यादि । तदीयोक्तौ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । वोधनात् तयोरात्मर्मत्वानुभवादीश्वरेऽपि तयोर्धर्मत्वमेव--- “यः सर्वशः' इत्यादिश्रुतौ- "ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च" इति भगवद्वचने च वोधितमिति । ब्रह्म- पद-शानपदानन्दपदानां सामानाधिकरण्यानुपपत्त्या ज्ञानपदानन्दप- दयोः स्वाभाविक-ज्ञानवत्-स्वाभाविकानन्दवत्परत्वावगमात् । पदयोरिवेति 'ब्रह्मणो हिं' इत्यत्र ब्रह्मपदं धर्मपरं, तेन ज्ञानस्येत्यर्थः । नीलकण्ठकृतटीकायां 'ब्रह्मपदमन वेदपरम्' इति व्याख्यातम् । केचित्तु-"मम योनिमहब्रह्म तस्मिन् गर्भ दधाम्यहम्' (गीता० १४, ३) इति बचने ब्रह्मपदश्रवणात् "ब्रह्मणो हि" इत्यत्र ब्रह्मपदं प्रकृतिपरं, सर्वत्र श्रुतौ श्रीभागवते च ब्रह्म-कृष्णपदार्थयोरेक्याव- गमात्-इत्याहुः॥५१॥ इत्याहेति-'श्रीसूतः' इति पूर्वेणान्वयः। 'इस्यत श्राह'-इति तदर्थः। 'तनिष्ठम्'इत्यन्तमस्य कर्मत्वेनान्वितम्। सर्ववेदान्तसारं -सर्ववेदान्तेषु मूख्यत्येनाभिहितं, ब्रह्मणा सहात्मनो जीवस्य यदेकत्वं-तल्लक्षणं साधकतम यस्य तत्-ब्रह्मात्मैकत्वलक्षणं, . "इत्याह" इति गोस्वामिभट्टाचार्यकृतः पाठः । ..

sEO तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ १४१ -"सर्ववेदान्तसारं यमात्मैकत्वलक्षणा ! वस्त्वद्वितीयं तन्नि- ठम्। ( भा० १२, १३, १२) इति ।। "सत्यं ज्ञानमनन्तं ब्रह्म" ( तैत्ति० २, १, १) इति यस्य खरूपमुक्तम्, “येनाश्रुतं श्रुतं भवति" ( छान्दो० ६, १, ३) श्रीबलदेव-विद्याभूषणकृत-टीका । परदेवतावाक्ये । तदात्मांशविशेषत्वेन-तद्विभिन्नांशत्वेन, न तु मत्स्यादिवत् स्वांशत्वेनेत्यर्थः। जीवात्मनो यदेकत्वमिति, जीवस्य चिद्रूपत्वेन जात्या यद् ब्रह्मसमानाकारत्वं, तदेव तस्य ब्रह्मणा सहेक्यमिति व्यक्तिभेदः प्रस्फुटः। एवमेव यथेत्यादिदृष्टान्तेनापि दर्शितः। तदेतदिति,-उपनिषदः “सोऽकामयत वहु स्याम्" इत्याद्याः। निरंशत्वोपदेशिकेति,- "सत्यं ज्ञानमनन्तं,” ( तैत्ति० २, १) "निष्कलं निष्क्रिय शान्तं - , श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । अद्वितीयं ब्रह्मनिष्ठाभावाप्रतियोगि, तनिष्ठमिति-तत्परमिदं शास्त्र- मित्यर्थः । तथा च-ब्रह्मनिष्ठत्वमेवाद्वयत्वं, न तु ज्ञाननिष्ठमिति प्राग् व्याख्यातार्थ एव सूताभिप्रेत इति भावः। सूतोक्तवचनं विशेषेन व्याकरोति, सत्यमित्यादि। येन-अचिन्त्यशक्या, ब्रह्मणा श्रुतेन शब्दतः साक्षादश्रुतमपि सर्व जगत् तात्पर्यवृत्या श्रुतं भवतीति "येन" इत्यादि श्रुतेरर्थः । अन दृष्टान्तश्रुतियथा,-"सौम्यकेन मृपिण्डेन सर्व मृन्मयं विज्ञातम्" (छान्दो० ६. १.४.) इत्यादि- अत्र तदृष्टान्तेन जगदुपादानत्वं लभ्यते, उपादानधर्मस्यैव कार्ये रश्यते, न तु कारणधर्मस्येति । न च-ब्रह्मणश्चेतनस्य निरवयस्य निर्विकारस्य कथमचेतनजगदाकारेण परिणामः १ इति रूपा।

- १४२ पदसन्दर्भनामक- [प्रथमः इति "यद्विज्ञानेन सर्व विज्ञान प्रतिज्ञातं" "सदेव सैम्भेदमय आसीत्। (छान्दो० ६, २. १ ) इत्यादिना निखिलजगदेक- कारणता, “नदक्षत बहु स्याम्" (छान्दो० ६, २, ३ ) इत्यनेन सत्यम इल्पता च यस्य प्रतिपादिता, तेन ब्रह्मणा स्वरूप- श्रीबलदेव-विद्याभूषणकृत-टीका । निरवा निरञ्जनम् ।" ( श्वेता० ६ १६ ) इत्याद्या श्रुतिस्तु-केवान- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । वाच्यं, तादृशस्यापि ब्रह्मणो जगहुपादान-प्रकृत्याख्यशक्त्याऽभेदस्यापि तादृशश्रुया शापनात् शक्ति-शक्तिमतोरभेदात्। न च तादृशशक्तेः परिणामितयाऽनित्यत्वादचेतनत्वाश्च तम्या न ब्रह्मणा सहैक्यमिति पाच्यं, यथैकस्मिन् शरीरे करचरणादि-तत्तदवयवभेदः-पारमार्थिकः, तथा मिथोविलक्षणसम्वन्धकरचरणाद्यवयवसमुदायाभेदोऽपि ; समु- दायस्य प्रत्येककाऽनतिरेकात् । एवं प्रत्येकारयवे शरीरभेदो वर्तते, न तु समुदाये इति प्रतियोगितावच्छेदकानुयोगितावच्छेदकभेदेनाभेद- भेदयोरेकत्र सत्त्वात्, तथा चेतनाचेतनत्वाभ्यां मिथो ब्रह्म-तच्छत्यो- भैदेऽपि धर्म-धम्मिभावापन्नयोस्तयोरैक्यमव्यभिचारि-सम्वन्धादिति । प्रकृतेनित्यत्वमपि,-"पुरुष पर प्रकृतिरेष प्रात्मैष ब्रह्मैप नाक पालोको योऽसौ हरिरादिरनादिरनन्तोऽन्तः परमः पराद्विश्वरूपः" इति माध्वभाष्यधृतश्रुत्या ब्रह्मणाः प्रकृतिरूपतावोधनात् “परास्यशक्ति- विविधैव श्रूयते । स्वाभाविकी ज्ञानवल क्रिया च" (श्वेताश्व० ६.८.) इति श्रुतेश्च । तत्र स्वाभाविकत्वं-स्वरूपभूतत्वम् । यद्वा ; ब्रह्मणो जगदुपादानप्रकृतिभिन्नैव, अभेदप्रत्ययस्त्वौपचारिकः । तथा च माध्व- भाष्यभूतवचनम् तस्व-सन्दर्मः। श्रीभागवत-सन्दर्भ शक्तिभ्यां सर्ववृहत्तमेन सार्दम् , अनेन जीवेनात्मना इति तदीयोक्ताविदन्तानिर्देशेन तता भिन्नत्वेऽप्यात्मलानिर्देशेन तदा- स्मांशविशेषत्वेन लब्धस्य वादरायणसमाधिदृष्टयुक्तेरत्यभिन्नतार- हितस्य * जीवात्मनो यदेकत्व, “तत्त्वमसि" (छान्दो० ६, श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । "अविकारो हि भगवान् प्रकृति तु विकारिणीम् । अनुप्रविश्य गोबिन्दः प्रकृतिश्चाभिधीयते” इति । "अथैय आमा प्रकृतिमनुप्रविश्यात्मानं वहुधा चकार तस्मात् प्रकृतिरिति व्याचक्षते” इति माध्वभाष्यधृतभाल्लवेयश्रुतिश्चेति । “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रत्यभिविशन्ति ; तद् ब्रह्म विजिज्ञासस्व" (तैत्ति० ३. १. १.) इति श्रुतौ यद्ब्रह्मनित्तयश्रवणं-तद्विश्वलयाश्रयप्रकृतिलयाभिप्रायेण । "अक्षरं तमसि लीयते, तमः परे देव एकीभवति" इति श्रुतेः। "एकोऽविभक्तः परमः पुरुषो विष्णुरुच्यते । प्रकृतिः पुरुषः कालस्त्रय एते विभागतः। चतुर्थश्च महान् प्रोक्तः पञ्चमोऽहतिस्तथा । तद्विभागेन जायन्ते श्राकाशाद्याः पृथक् पृथक् । यो विभागी विकारः सः सोऽविकारी हरिः परः। अविभागात् परानन्दो नित्यो नित्यगुणात्मकः ॥" इति माध्वभाप्यधृतवृहत्संहितावचनाच्च । एवञ्च-"येनाश्रुतं श्रुतं भवति" (छान्दो० ६. १. ३.) इति प्रतिज्ञातश्रुति-तदृष्टान्तश्रुतिभ्यां * "अत्यन्ताभिन्नतारहितस्य" इति वा पाठः । अत्र "तद्वाक्यैकवाक्यतया" इति पाठाधिक्यं श्रीमद्-गोस्वामिभट्टाचार्य- टिप्पणीहव्याजमीयते।

१४४ पट्सन्दर्मनामक- ८,७) इत्यादौ * ज्ञाता न तदंशभूतचिद्रुपत्वेन समानाकारता, तदेव लक्षणं प्रथमतो ज्ञाने साधकतमं यस्य ; तथाभूतं यत् मनवेदान्तसारमद्वितीयं वस्तु, तनिष्ठं -तदेकविषयमिदं श्रीभाग- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। साक्षादनिर्देश्य--परब्रह्मोपासनायामुपास्यतावच्छेदक--रूप-जिज्ञासायां तादृशरूपप्रदर्शनम् । तथाहि "माया विश्वं सृजते" इत्यादिश्रुति- सहकारेण निरुक्तप्रतिज्ञाश्रुत्या जगदुपादानत्वेन ब्रह्मवोधने साक्षात्तद्वाधात् 'शिखी विनष्टः' इत्यादिवद् विशेषणीभूतमायायां जगदुपादानत्वं वोध्यते। तेन जगदुपादानमायाश्रयत्वेन ब्रह्मोपास्यं, सर्बाधारत्वेन शानसुखमयत्वेन सर्वनिमित्तकारणत्वेन ब्रह्मैव नित्यमुपादेयं, मायाया अचेतनत्वेनासुखत्वेन तत्कार्य्यस्य जगतस्तथा- भूतत्वेनानित्यत्वेन चानुपादेयत्वञ्च आयातमिति। "मायाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्" इत्यनेन ब्रह्मणो निमित्तता, प्रकृतेश्ची- पादानतावोधनात् “इन्द्रो मायाभिः पुरुरूप ईयते" (वृ० प्रा० २.५.१३.) इति श्रुतेश्च सर्व खल्विदं ब्रह्म" (छान्दो, ३. १४. १.) इत्यादि- अतिरपि ब्रह्माधिष्ठितत्वेन ब्रह्मशक्तिमयत्वेन चोपपद्यते । स देवेति,- इदं जगत्, अग्रे सदेवासीत्सद्रूपे लीनमासीत् इत्यर्थः। तेन जगत्कारणतापि लक्ष्यते, उपादानकारण एव कार्यालयश्रवणात् । श्रादिपदेन-"यता वा इमानि भूतानि जायन्ते" (तैत्ति, ३. १. १.) इत्यादि श्रुतिपरिग्रहः। सत्यसङ्कल्पतेति-अप्रतिरुद्धशानवत्त्वेत्यर्थः । यस्येति-यत्पदद्योतितं परामृश्य तदर्थ विवृणोति तेन ब्रह्मणेति । * "इत्यादिश्रुतौ” इति गोस्वामिभट्टाचार्यधृतः पाठः । + - "शाता" इति "समानाकारता" इत्यस्यान्ते पठितम्, तस्तु विद्वद्भिरव- घेयर।

तत्त्व-सन्दभः।] श्रीभागवत-सन्दर्भ १४५ वतमिनिपातरपदारलानुरः । यथा * जन्मप्रभृति कश्चिद्- गृहगुहावरुद्धः सूर्य विविदिषुः कथञ्चिद्वाक्षपतितं, सूर्याशुकणं " श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । स्वरूपं-शानसुखादि। शक्तिः-जगदुपादानमायादि ताभ्यां सर्व- वृहत्तमेन-सर्वत उत्तमेन, सार्द्धमित्यस्य यदेकत्वमिति घरेणान्वयः । अनेन जीवेनात्मनेत्यादि तदीयोक्तौ-"अनेन जीवनात्मनाऽनुप्रविश्य नामरूपे व्याकरणानि" (छान्दो० ६. ३. २.) इत्यादिश्रुतिवचने, इदन्तानिर्देशेन-'अनेन' इति 'इदंपेदेनापरोक्षत्वनिर्देशन, ततो भिन्नत्वेऽपि-परोक्षब्रह्मसकाशाद्भिन्नत्वसिद्धावपि, प्रात्मतानिर्देशेन- 'श्रात्मना' इत्यात्मपदेन चेतनत्वनिर्देशेन, इदश्चात्मांशविशेषत्वे हेतुः। तदात्मांशविशेषत्वेन ब्रह्मांशविशेषत्वेन अनुप्रविश्य "नामरूपे व्याकरणानि" इति वाक्यं समभिव्याहृतात्मपदेन, कर्तृभूतब्रह्मण एवात्मीयत्वरूपांशत्ववोधनादिति लब्धस्येति-'जीवन' इति शुतिपदेनेत्यादिः 'जीवात्मनः' इति परेणास्यान्वयः । ब्रह्म- जीवथो)दे प्रागुक्तयुक्तिमपि स्मारयति-वादरायणेति, अत्यभिन्नत्वेति धर्म-धम्भिभावतया, भेदोऽप्यतिशब्देन सूचितः। तदेकत्वमिति- ब्रह्मनिष्ठैकत्वस्य जीवात्मनि वाधितत्वात् । तद्वाक्यैकवाक्यैकतया- इत्यादौ एकपदस्य समानाकारकता-परत्वस्य सर्वमतसिद्धतयाऽ- त्राप्येकपदस्य समानाकारपरतामाह, तदंशचिद्रूपत्वेनेति-अभेदे तृतीया ; तदंशचिद्रूपत्वरूपसमानाकारतेतर्थः। तदंशत्वं-तद्धर्मत्वं, तत्पदं-ब्रह्मपरं, चिद्रूपत्वं चेतनत्वम् । तथा च तद्धमत्वे सति चेतनन्वं-एकपदेन विवक्षितम्। यद्वा ; तदंशत्वं--तन्निष्टभेद- भावः । B * तथा" इति गोस्वामिभट्टाचार्यकृतः पाठः ।

१४६ पटसन्दर्भनामक- [प्रथम:- दर्शयित्वा केन चिदुपदिश्यते 'एप सः' इति, एतत्तदंशज्योतिः- समानाकारतया तन्महाज्योतिर्मण्डलमनुसन्धीयता-* मित्यर्थ- एप श्रीराधामोहन-गोस्वामिभट्टाचार्यकृन-टीका। प्रतियोगितावच्छेदकाणुत्वम् । तथा च ब्रह्मनिष्ठभेदप्रतियोगिताव- च्छेदकाणुत्वे सलि चेतनत्वमत्र समानाकारत्वं सादृश्यपर्य्यवसितम् । अत्र श्रुति सम्वादयति---"तत्त्वमसि' इत्यादिश्रुतौ शातेति, 'तत्-पदमत्र “येनाश्रुतं श्रुतं भवति" इत्यादि प्रागुपदर्शितब्रह्मसदृशे लाक्षणिकं ब्रह्माभेदस्य त्वं'पदवाक्यवाधितत्वात् । 'सोऽयं गकारः । 'तदौषधमिदं' इत्यादौ 'तत्'पदस्य प्राग्बुद्धिस्थ-सदृशपरत्वदर्शनाच्च । साधक-तममिति - ज्ञापक-मित्यर्यः। सर्व-वेदान्त-सारं । प्राग- दर्शितोपनिषत्प्रतिपाद्यम्। साधकतमत्वं दर्शयति-तथेति । स इति-एष सूर्य्यांशतेजोमय इत्यर्थः । तथा चैतज ज्ञानमुपमान- विधया 'सूर्य एतादृशो महान्' इति ज्ञानं जनयति । एवमत्रापि 'त्वं ब्रह्मांशचिद्रूपः' इति ज्ञानमुपमानविधया ब्रह्मत्वं-'सहशम्' इति शानजनकमित्यर्थः । त्वन्सादृशयञ्च-चिद्रूपत्वे सति सर्ववृहत्तमत्व- मिति । यद्वा,-'अनुसन्धीयते' इत्यनेन 'अनुमीयते' इत्यर्थः । अनुमानाकारश्च ; सूर्य:-एतत्सदृशमहाज्योतिर्मण्डलरूपः, दंशित्वे सति ज्योतिर्मयत्वादित्यादिरूप इति । तद्वदिति,जीवस्य यद् ब्रह्मसादृश्यं तदपि ब्रह्मज्ञापकं, यथा ब्रह्म निरतिशयचेतनं त्वम्पपद- वाच्यत्वांशित्वे सति 'चेतनत्वात्' इत्यादिरूपमनुमानमित्वर्थः । ननु ब्रह्मणो निरवयवस्य सर्वव्यापकस्यैकस्य जीवे कथमंशत्वसम्भवः ? इत्यत आह,-'तदंशत्वञ्च'इति । तदचिन्त्यशक्तिविशेषसिद्धत्वेनेति-- अचिन्त्यशक्तिविशेषो योगमायादिः, तसिद्ध वेनेत्यर्थः। तथाच,- * "अनुसन्धीयते” इति गोस्वामिभट्टाचार्य्यतः पाठः । एत- तत्त्व-सन्दभः । श्रीभागवत-सन्दर्भ स्तद्वत् । जीवस्य तथा तदंशत्वञ्च तच्छक्ति-* विशेषसिद्धत्वे- नैव परमात्मसन्दर्भ स्थापयिष्यामः। तदेतज्जीवादिलक्षणांश- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। 'अचिन्त्यशक्त्याऽनन्तजीवाश्रयः' इति जीवानामपि शक्तित्वात् तद्विशिष्टब्रह्मणोऽपि परमात्मपदवाच्यत्वात् तद्विशेषेण जीवानामपि परमात्मत्वमुपचर्य्यते इति जीवस्य सर्वशक्तिविशिष्टपरमात्मांशत्वं, 'एच' कारेण-केवलब्रह्मांशत्वव्यवच्छेद इति । तथा च-"सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः, सति विशेष्ये वाधे" इति न्यायेन विशेषणीभूतशक्तीनामेकस्य जीवस्य,-"ममैवांशो जीव"- इति भगवद्वचनादौ तदंशत्वेन वोधनं, यथा साधारणधनानां प्रत्येक धनस्य लोकेशत्वेन व्यवहारः ; न तु चिद्घनानन्दस्वरूपैकदेशत्व- रूपमशत्वं तन वाध्यते, असम्भवादिति भावः। एवं योगमायादि- शत्तीनामपि शक्तिविशिष्टनिरूपितमेव अंशत्वं वोध्यम् । तदिति- जीवानां जीवाख्यशक्तिविशिष्टब्रह्मनिरूपितांशत्वादेवेत्यर्थः । ब्रह्मणोऽपि जीवादिलक्षणांशविशिष्टतयैव-तद्वैशिष्ट्यावच्छेदेनैव, तस्य-ब्रह्मणः, अंशित्वमुपनिषदः कविदुपदिशन्तीत्यर्थः । केवलतनिष्ठेति- शक्यनवच्छिन्नब्रह्मनिष्ठेत्यर्थः । अत्र केचित् "ब्रह्मात्मैकत्वलक्षणम्" इत्यस्य द्वन्द्वोत्तरत्वप्रत्ययेन ब्रह्मत्वात्मत्वैकत्वानि लभ्यन्ते ; तानि लक्षणानि विशेषणानि यस्य तदित्यर्थः । तल ब्रह्मत्वं-सत्यं ज्ञान- मनन्तं ब्रह्म" (तैत्ति० २.१.१.) "विज्ञानमानन्दं ब्रह्म" (वृ० प्रा० ३. १. २८.) इत्यादिश्रुत्या स्वावाविकज्ञानसुखादिमत्त्वरूपं बोध्यम् । आत्मत्वं--"एप आत्माऽन्ताम्यमृतम्" (वृ० आ०३. ७.३.) इत्यादि श्रुत्या- --" इत्यत्र "तदचिन्त्यशक्ति" इति गोस्वामिभट्टाचार्यकृतः पाठः । ..

घटसन्दर्भनामक- [प्रथमः- - विशिष्टतयैवोपनिषदस्तस्य सांशत्वमपि कचिदुपदिशन्ति । निरं- शत्वोपदेशिका श्रुतिस्तु केवलतनिष्ठा । अत्र 'कैवल्यैकाया- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका “अहमात्मा गुड़ाकेश ! सर्वभूताशये स्थितः । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः” (गीता० १०.२०. ) इत्यादिश्रुत्या सर्वनियम्तृत्वादिरूएम् । एकत्वश्व-मूख्यत्वं निरतिशयत्वमिति यावत् ; “एकमेवाद्वितीयम्" इत्यादि श्रुतेः। अद्वयत्वञ्च-असमत्वं, अद्वयत्वञ्च-असमत्वं, “स्वयन्त्वसाम्यातिशयस्य- धीशः" इत्यादि श्रीभागवतात् “वस्तु वसत्यस्मिन् सर्वम्" इति व्युत्पत्त्या सर्वाधारमिति समुदितार्थः । यद्वा, --ब्रह्मेति विशेप्यं, आत्मैकत्वलक्षणं, “सर्व एकीभवन्ति" इति "ब्रह्म वेद ब्रह्मैव भवति" इति श्रुतेः, तत्रेकत्वं-वास्तवमिति । द्वैताद्वैतवादिनस्तेषां संसारिता* भेदः, मुक्तत्वदशायां भेदाभावः-इति कालविशेषावच्छेदेनैकत्रैव जीवानां भेदस्वीकारात्' वस्तुतः--"निरञ्जनः परमं साम्यमुपैति" इत्यादि श्रुत्यन्तरैकवाक्यतया युक्त्या च साम्यरूपमेकत्वं ब्रह्मणि जीवानां मुक्ततादशायां स्वीकारः, साम्यञ्च-स्वरूपावस्थानात्यन्तिक- दुःखाभाव-नित्यसुखसाक्षात्काररूपम् । एवं ब्रह्मणि जीव- वैशिष्ट्यमपि नाधाराधेयभावरूपसम्बन्धः ; किन्तु गगने भूतसम्बन्ध- वत् सम्बन्धमात्रं वोध्यते, “आकाशवत् सर्वगतं सुसूक्ष्मम्" इति श्रुतेः। स च सम्बन्धः पुष्करपलाशे जलसम्बन्धवत् एकतानापादक इति । ब्रह्मणोऽसङ्गत्वश्रुतिसङ्गतिः -सङ्गशब्देन सम्यक् सम्बन्ध- * अत्र 'संसारिता' इत्यस्यान्ते "दशायां" इति पाठे सति अर्थः प्रस्फुटः स्यात, अस्माकमादर्श तदसद्भावानात्र सनिवशितः।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ १४६ कैवल्यपदस्य जनम्' इति चतुर्थपादश्च शुद्धत्वमात्रवचनत्वेन, शुद्धत्वस्य च शुद्धभक्तित्वेन पर्यवसानेन प्रीतिसन्दर्भ व्याख्या- स्यते । १२।१३। श्रीसूतः ॥ ५२ ॥ तत्र यदि त्वम्पदार्थस्य जीवात्मनो ज्ञानत्वं नित्यत्वञ्च प्रथमतो विचारगोचरः स्यात्तदैव तत्पदार्थस्य * तादृशत्वं सुवोधं श्रीबलदेव-विद्याभूषणकृत-टीका। तनिष्ठाः विशेष्यमात्रपरेत्यर्थः । अनभिव्यक्तसंस्थानगुणकं ब्रह्म वद- तीति यावत् ॥ ५२॥ जीवात्मनि झाते परमात्मा सुज्ञातः स्यादित्युक्तं, तदर्थ जीवा- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । स्यैकतापादकस्य विलक्षणस्य वोधनात् निम्विकारस्य ब्रह्मणस्तद- सम्भवाच्च। तत्त्वमस्यादिवाक्यानि च "अहं ब्रह्मास्मि' इति भाव- नामयोपासनातात्पर्यकाणि, तथोपालकानां “कीटपेषस्कृत्" न्यायेन निरुक्तब्रह्मैक्यलाभी भवतीति प्राहुः। अत्रेति-"सर्ववेदान्तसारम्" इत्यादिसूतवचने इत्यर्थः। कैवल्यशब्दस्यैकत्वे ब्रह्मैकत्वपर्यवसन्ने जीवस्य मायाकृतोपाधित्यागेन स्वरूपावस्थानरूपशुद्धत्वे च मूख्यतया मुक्तिपरत्वमेव यद्यप्यायाति : तथाप्यस्मिन् मुक्तेरष्यधिकतया प्रेमाख्यभक्तरुक्ततया तत्परतामाह, कैवल्यपदस्येत्यादि । शुद्धभक्तत्व- दशायामपि मायाराहित्यरूपशुद्धसत्त्वेन सामान्यशब्दविशेषपरत्वाभि- प्रायेण तत्पर्यवसानमुक्तं, मूख्याथकैकपदस्वरसात् मुक्तिप्रयोजनकत्व- मपि वाध्यम् ॥ ५२ ॥ ज्ञानत्वं-चिद्रूपत्वं, चेतनमिति यावत् । नित्यत्वं विना ब्रह्मां- * श्रीमद्गोस्वामिभट्टाचार्यटिप्पण्यां "तस्य" इति पाठाधिक्यं- "तत्- पदार्थस्य" इत्यस्यान्त एव सम्भवेत् ।

१५० षट्सन्दर्भनामक- [प्रथमः- स्यादिति तद्वोधयितुं "अन्यर्थश्च परामर्शः" * ( ० सू० १ ३, २० ) इति न्यायेन जीवात्मनस्तद्रूपत्वमाह ; "नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद्यभिचारिणां हि । सवत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियवलेन विकल्पितं सत् ॥” (भा० ११, ३, ३८) आत्मा-शुद्धो जीवः, न जजान-न जानः जन्माभावादेव तदनन्तरास्तिता-1 लक्षणो विकारोऽपि नास्ति । नघते न वर्द्धते श्रीबलदेव-विद्याभूपणकृत-टीका । त्मानं निरूपयिष्यन्नवताययति :-तत्र यदीत्यादिना, अन्यार्थश्चेति ब्रह्मसूत्रम् । दहरविद्या छान्दोग्ये पठ्यते ; “यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वे. ष्टव्यम्” (छान्दो० ८, १, १ ) इति । अनोपासकस्य शरीरं ब्रह्मपुरं, तत्र हृत्पुण्डरीकस्थो दहरः परमात्मा ध्येयः कथ्यते, तत्रापहत- पाप्मत्वादिगुणाष्टकमन्वेष्टव्यमुपदिश्यते इति सिद्धान्तितम् । तद्वाक्य- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । शत्वं न निर्वहतीत्यभिप्रायेणाह-नित्यत्वमिति । तस्य-ब्रह्मणः, तादृशत्वं-निरुक्तजीवतुल्यत्वं तद्वोधयितुमिति । अन्यार्थः- तदन्यार्थः, परामर्थ्यः-'परामृश्यते' इति व्युत्पत्त्या–परामर्शविषयः : निरूपणविषय इति यावत् । नात्मेति-शरोरविशिष्टस्य जन्यत्व- * "परामर्यः" इति गोस्वामिभट्टाचार्य्यतः पाटः । + "अस्तित्व" इति गोस्वामिभट्टाचार्याः ।

तत्त्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ पलान् , व्यभि- . ROM अत आहे, - वृद्ध्यभावादेव विपरिणामोऽपि निरस्तः हि-लात् , चारिणां-बागनापायिनी, कारदेहानां वा, सवनवित्-तत्तत्कलद्रष्टा ; नह्यवस्थावतां द्रष्टा तद वस्थो भवतीत्यर्थः। निरवस्थः कोऽसावामा ? उपलब्धिमात्रं-ज्ञानकरूपम् । कथम्भूतम् ? सर्वत्र-देहे, शश्वत्-सर्वदा अनुवर्तमानमिति। ननु नीलज्ञानं नष्टं, पीत- ज्ञानं जातम्, इति प्रतीतेन ज्ञानस्यानपायित्वम् ? तत्राह, श्रीबलदेव-विद्याभूषणकृत-टीका। मध्ये--"स एवं सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुप- सम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः” इति वाक्यं पठितम् । तत्र सम्प्रसादी-लब्ध-विज्ञानो जीवस्तेन यत् परं ज्योतिरुपपन्नं स एव पुरुषोत्तम इत्यर्थः । दहरवाक्यान्तराले जीव- परामर्शः किमर्थम् ? इति चेत्तत्राह,-अन्यार्थ इति । तत्र जीव- परामर्शोऽन्यार्थः। यं प्राप्य जीवः स्वस्वरूपेणाभिनिष्पद्यते . स श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । व्यवहारेणाह-शुद्ध इति । तदनन्तरास्तित्वलक्षणेति, नामपि जन्मपूर्व सत्ता-नामास्तित्वाभावादाह-तदनन्तरेति, विपरिणामः-रूपान्तरापत्तिः ह्रासश्च, ज्ञानकरूपमिति स्वावाविक- ज्ञानवत्। एतेन जीवज्ञानस्यापि नित्यत्वं, जीवस्य महत्त्वं नास्तीति ब्रह्मतो भेदः। ज्ञानस्यानपायित्वमिति-ज्ञानस्यापायित्वे नित्यस्य जीवश्य न झानस्वभावतासम्भव इति भावः। विविध कल्पितमिति - इन्द्रियाणां विषयसम्बन्धेन जायमानविषय-विशेषाकारमनोवृत्ति- वैशिष्ट्यन विविधं कल्पित, न तु वास्तवम् । विशेषेण जन्म- १५२ षट्सन्दर्भनामक- [प्रथमः - इन्द्रियो नेति, सदेव झालोमिन्द्रियान विविधं कल्पितम् । नीलाद्याकारा वृत्तय एव जायन्ते नश्यन्ति च, न ज्ञानमिति भावः। अयमागमापायि-तदवधिभेदेन प्रथमस्तर्कः *। दृश्यभेदेन द्वितीयोऽपि तर्को ज्ञेयः। व्यभिचारिष्ववस्थितस्या- व्यभिचारे दृष्टान्तः-प्राणों यथेति ॥ ५३॥ द्रष्ट्र श्रीवलदेव-विद्याभूपणकृत-टीका । परमात्मेति,-परमात्मज्ञानार्थ इत्यर्थः । न जजानेति,-'जायतेऽस्ति वर्द्धते विपरिणमते अपक्षीयते नश्यति च' इति भावविकाराः षट् पठिताः ते जीवस्य न सन्ति इति समुदायार्थः। ननु नील- ज्ञानमित्यादिज्ञानरूपमात्मवस्तु ज्ञातृ भवति, प्रकाशवस्तु सूर्यः प्रकाशयिता यथा । ततश्च स्वरूपानुवन्धित्वाज् शानं तस्य नित्यं, तस्येन्द्रियप्रणाल्या , नीलादिनिष्ठा या विषयता-वृत्तिपदवाच्या, सैव नीलाद्यपगमे नश्यतीति ॥ ५३॥ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । विनाशाभिप्रायेण विशिष्टज्ञानजन्यनाश इति नीलाद्याकारा इति । देहस्यागमापायधर्मः ; आत्मनश्च तद्वाधः। तदभावः-इति विरुद्ध- धर्मयोरेकत्र समावेशाभावरूपस्तर्कस्तयोर्भेदसाधक इत्यर्थः। द्रष्टुत्वं -स्व-परप्रकाशकज्ञानवत्त्वं, दृश्यत्वं अन्यनिष्ठज्ञानप्रकाश्यत्वम् । अचेतनत्वमिति तयाविरीधनिवन्धनस्तयोर्भेदसाधको द्वितीयस्तर्कः इति श्लोकेनानेन सूचित इति भावः ॥ ५३॥ mamaline- * अत्र तर्कद्वयात्मके वाक्ये श्रीमदोस्वामिभट्टाचार्य्यटीकाप्ट्या पाठवलनग्य- मनुभूयते, तत्तु सुधीभिश्चिन्त्यम् । + "प्रणाल्या" इत्यत्र "प्रणाल्पा" इति वा पाठः।

तस्व-सन्दभः ।। श्रीभागवत-सन्दर्भ दृष्टान्तं विटण्वन्निन्द्रियादिलयेन निर्विकारात्मोपलब्धि दर्शयति; "अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवभुषधावति तत्र तत्र। सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिनः।" ( भा० ११, ३, ३६) श्रीबलदेव-विद्याभूषणकृत-टीका । दृष्टान्तमिति, प्राणस्य नानादेहेवैकरूप्यानिर्विकारत्वमित्यर्थः । तस्मिन्-अात्मनि । उपाधेः-लिङ्गशरीरस्य, अभावात्-विश्लेषा- दित्यर्थः। तदाप्यतिसूक्ष्माया वासनायाः सत्त्वान्मुक्तरभाव इति श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । सविकार इवेति-मनोवृत्तिसम्बन्धेन सविकार इव प्रतीयते, न तु तत्प्रतीतिर्वास्तविकीति भावः । वास्तवविकाराभावं दर्शयितुमाह,--. यदा तु प्रसुप्तमिति । निर्विकार इति-तथा च तदानीं विकार- हेतोरभावात् स्वाभाविकज्ञानेनैव परमात्मानुभवी वक्तव्य इति तज्- शानस्यैव जाग्रत्स्वप्नदशायां मनोवृत्तिवैशिष्ट्येन विषयप्रकाशकत्वं, न तु तदानीमात्मनि ज्ञानं जायत इति निविकारत्वमात्मन इति भावः । सुषुप्तिसाक्षिणः-सुषुप्तिदशायां जीवं खसुखमनुभावयितुर्ब्रह्मणः। श्रुतौ पश्यन्निति 'परमात्मानम्' इत्यादिः। सुखं-ब्राह्मचं सुखम् । सुखान्तरस्य सामग्रीविरहेण तदानीमभावात्, आनन्दं ब्रह्मणो रूपं तश्च मोक्षे प्रतिष्ठितम्" इति श्रुतेः । “सता सौम्य तदा सम्पन्नो भवति, प्राज्ञेनात्मना संपरिष्वक्तो न वाह्य किञ्चन वेद नान्तरम्" ( वृ० प्रा० ४. ३. २१.) इति । अत्र सुषुप्तस्याधारतया प्रसिद्धो जीवादर्थान्तर- मृतः। "प्राज्ञः परमात्मा” इति रामानुजभाष्यम् । अस्य परमात्मन- स्तदानीं जीवसुखानुभव-स्तुत्वात् तदानीं श्वासहेतुप्राणसञ्चार- हेतुत्वात् पुनर्जागरण हेतु-शब्दशवणादिवोध-हेतुत्वाञ्च साक्षित्वं, जीवस्य च तनियम्यत्वेन साक्ष्यत्वमिति तयीविरोथनिवन्धनस्तर्कः परमात्मजीवात्मनोर्भेदसाधकः। अत्रेदमवधेयम, सुषुप्तौ देहेन्द्रि- यादेर्लयोऽद्वैतमतं, वस्तुतस्तेषां लयोत्थापने गौरधान्मानाभावाच ।

षट्सन्दर्भनामक- बम:- अण्डेषु अण्डजेषु । पेशिषु-जरायुजेषु । तरुषु-उद्भिज्जेषु । अविनिश्चितेषु-स्वेदजेषु उपधावति-अनुवर्तते । एवं दृष्टान्ते निर्विकारत्वं प्रदर्य दान्तिकेऽपि दर्शयति,-कथं ? नदेवात्मा सविकार इव प्रतीयते, यदा जागरे इन्द्रियगणः यदा च स्वप्ने श्रीबलदेव-विद्याभूषणकृत-टीका । ज्ञेयम् । प्राकृताहङ्कारे लीनेऽपि स्वरूपानुवन्धिनोऽहमर्थस्य सत्त्वात्तन 'सुखमहमस्वाप्सम्' इति विमर्शो भवतीति प्रतिपादयितुमाह : - .. श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका ! एवञ्च 'सन्ने' इत्यस्य क्रियारहिते इत्यर्थः, तक्रियाहेत्वात्ममनो योगविरहात् । अहमि-अन्तःकरणे, मनसीति यावत् । प्रसुप्ते पुरी-तन्नाड्यां गत्वा निश्चलयता स्थिते । "अथ सुषुप्तो भवति यदा न कस्यचन वेद हितानाम नाड्यो दासप्रतिसरत्राणि हृदयात् पुरीत- तमभिप्रतिष्ठन्ने ताभिः प्रत्यवसृत्य पुरीतति शेते, स यथा कुमारी वा महाराजो वा महाब्राह्मणों वातिघ्नीमानन्दस्य गत्वा शयीतवमेवेष एतच्छेते" (वृ० आ० २. १. १६. ) इति वृहदारण्यकोपनिषदः । तदानीं मनसात्म-संयोगाभावान ज्ञानसुखादिरूपमनोवृत्त्युत्पत्तिरिति तदानीं ब्रह्म-सुखानुभवः, तद्विरोधिमायाकृतावरणाभावात् , एवं सूर्य्यस्य प्रकाशात्मत्वं न प्रकास्यत्वं, प्रकाशप्रकाशिनाभेदप्रतीतेः, किन्तु पृथिव्यादेनं स्वतःप्रकाशः किन्तु तैजसालोकसम्बन्धात् काचित्कः । सूर्यादेस्तु स्वतःप्रकाशः सार्वदिकः-इत्येवं स्वाभाविकप्रकाशप्रचुरः सूर्य इति । तथा च जीवस्यापि न ज्ञानरूपता, ज्ञानस्य निष्क्रियतया "प्रात्मनो व्युच्चरन्ति" इति श्रुतिसिद्धव्युच्चारणासम्भवात् किन्नु स्वाभाविकज्ञानवत्ता यथा ब्रह्मणः, तत्र ब्रह्म-जीवयोर्नकं ज्ञानं-“यस्य भासा सर्वमिदं विभाति यः सर्वज्ञः” ( मुण्ड० २. २. १. ) इत्यादि श्रुत्या "जीवाऽल्पशक्तिरल्पज्ञः" इत्यादि श्रुत्या च तयोर्शानवलक्षण्याव- गमात् । एवं ब्रह्मज्ञानस्याप्रतिरुद्धत्वं ; जीवस्य च मायाप्रतिरुद्ध- मानत्वं, "तज्ज्योतिषां ज्योलिः" (सु. आ४. ४. १६.) इत्यादि , तत्व-सन्दमः। श्रीभागवत-सन्दर्भ १५५ तत्संस्काग्वानहङ्कारः। यदा तु प्रसुप्तं, तदा तस्मिन प्रसुप्ते, इन्द्रियगणे सन्ने लाने, अहमि-अहङ्कगरे च मन्ने-लीने, कुटायः-निर्विकार एवात्मा । कुतः ? आशयमृते-लिङ्गशरीर- मुपाधि विना, विकारहेतापाधेरभावान् इत्यथः । नन्वहङ्कार- श्रीबलदेव-विद्याभूषणकृत-दीका। नन्वित्यादि । शून्यमेवेति -अहंप्रत्ययं विनामनाऽप्रतीतेरिति भावः । अखण्डान्मन इति --अणुरूपत्वाद्विभागानहम्येत्यर्थः । ननु स्वापादु- त्थितस्यात्मनोऽहङ्कारेगा योगात् 'सुखमहमस्वाप्सम्' इति विमों अथ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । श्रुत्या ब्रह्माधीनज्ञानत्वश्चेति जीवानामपि मिथा विभिन्नशानत्वं सकल- झानसाधारणमेकं ज्ञानत्वमादाय ब्रह्म-जीवयोः साजात्यं वर्णनीयम् । जीवात्मनः किं वाह्यविषयकमनः-परिणाम-विशेषवृत्त्याख्या- कल्पनेनात्मन्येवात्ममनःसंयोगादिना ज्ञानोत्पाद एवं स्वीक्रियते न चात्मनो विकारित्वापत्तिरिति वाच्यम् । प्रतिविम्बपत्तस्यावच्छेदक- पत्तस्य च दूषितत्वात् मनोवृत्तिपक्षेऽपि जीवात्मनि तत्सम्बन्धस्वीकार आवश्यकः कथमन्यथा तदुपहितत्वं जीवमानस्येति तत्सम्बन्धस्यापि जन्यतया जन्यधर्मानाश्रयत्वरूपं निविकारत्वं वक्तुमशक्यं, किन्तु जन्म-मरण-हास-वृद्धि-रूपान्तरापत्ति-रुप-विकार-शून्यत्वं वक्तव्यम् । तश्चात्मनि शान-सुखाद्युत्पादेऽपि न क्षतिः। सुषुमिदशायाश बानोत्पादकसामग्रीविरहे नित्यशानान्तरमति स्वीकार्य, संसारिता- दशायां तत्सत्वेऽपि झानान्तरोन्पत्तौ वाधकाभावात्तदानीं मायाया अमत्कल्पत्वान् । सुषुप्तिदशायां मुक्ततादशायाञ्च नानाजन्यज्ञान- कल्पने गौरवात् । संसारितादशायां मानस्य कादाचित्कतया प्रामाणिकत्वात् नानाकल्पनं न दूषणम्, न च जीवस्य ब्रह्म-साक्षात्कार- शान-स्वप्रकाशताभङ्ग इति वाच्यम्। जीवस्य तदधीनज्ञानत्वेनापि स्वप्रकाशतोपपत्तेः-"भक्तयाऽहमेकया ग्राह्यः" इति वचनवला तथा कल्पनान् । एवं जीवस्य जन्यज्ञानानभ्युपगमे संस्काराना- पदसन्दर्भनामक- - १५६ [ प्रथम:- पर्यन्तस्य सर्वस्य लये शून्यमेवावशिष्यते, क नदा कूटस्थ आत्मा ? अत आह, तस्य-अरवगडात्मनः सुषुप्तिसाक्षिणः स्मृतिः नः-अस्माकं जायदृष्ट्टणां जायते "एतावन्तं कालं सुखमहमस्वाप्स, न किञ्चिदवेदिपम्" इति । NIOR -लदनुस्मृतिनः 3 श्रीबलदेव-विद्याभूषणकृत-टीका। जागरे सिध्यति, सुषुप्तौ तु चिन्मात्रः सः ? इति चेत्तत्राह,- अतोऽननुभूतस्येति। अनुभव-स्मरणयोः सामानाधिकरण्यादित्यर्थः । श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। श्रयत्वमप्यात्मनो वाच्यम् इति, सूषुप्तौ ब्रह्मानुभवेन कुत्र संस्कारो जननीयः ? संस्काराजनने सुषुप्त्यनन्तरं "सुखमहमस्वासम्" इति स्मरणानुपपत्तिः, स्मृतेः संस्कारजन्यत्वात् , न च सुषुप्तौ माया- वृत्तिभिरतिसूक्ष्माभिरावरकज्ञाननिवृत्त्यात्मसाक्षात्कार इति वाच्यम्, मायावृत्तिजनितसंस्कारस्य विद्यायामेव सम्भवेन, मनसि तदसम्भवेन च जाग्रहशायां "सुखमहमस्वाप्सम्" इति स्मरणस्य मनस्यसम्भवात् । न च-सुषुप्तौ मनोवृत्तिरप्यस्ति' संस्कारोऽपि मनस्येव कल्पनीयः, मुक्तौ ब्रह्मसुखानुभवानुरोधेन नित्यज्ञानस्याप्यङ्गीकारादिति वाच्यम् , सुषुप्तौ तु शुद्धज्ञानेनैव ब्रह्मसुखविषयीकरणस्य श्रुतत्वात् , अन्तः- करणवृत्युपहितचैतन्येन तद्विपयीकरणे वृत्तरपि तत्र झानस्वीकारे द्वैतभानापत्तेः । यदि च सुषुप्तौ न मनसो लयः, अभिमानच्यापार- काहङ्कारस्यैव लय इति, तदानीं स्थूलसूक्ष्मदेहाभिमानविरहेणेतर- विययाग्रहणं ब्रह्माकारा वृत्तिर्मनसो जायते इत्युच्यते ; तदापि निरुक्त- ज्ञानाद्युत्पत्तिस्वीकारे यथाश्रुतसंसारिता-मुक्तयोरुपपत्तः इति किं मनोवृत्तिवैशिष्ट्यकल्पनया तयोरुपादानस्यायुक्तत्वापत्तेरिति, "मनसो वृत्तयो नः स्युः कृष्णपादयुगाश्रयाः" ( मा० १०.४८.६७ ) इत्यादौ वृत्तिपदस्य जन्यज्ञानपरत्वान्न मनः-परिणामरूपवृत्तिकल्पनं, मनसा आत्मनि भानस्यैव जननात्-इति कल्पनागौरवम् इति ।

नत्त्व-सन्दर्भः।। श्रीभागवत-सन्दर्भ १५७ - अतोऽननुभूतस्य तस्यास्मरणादस्त्येव सुषुप्तौ तागात्मानुभवः, विषयसम्बन्धाभावाच न स्पष्ट इति भावः। अतः स्वप्रकाशमात्र- वस्तुनः मूर्यादेः प्रकाशवदुपलब्धिमात्रस्याप्यात्मन उपलब्धिः स्वाश्रयेऽन्त्येवेत्यायातम् । तथा च श्रुतिः ;- श्रीबलदेव-विद्याभूषणकृत-टीका । तस्मात्तस्यामपि -'अनुभवितैवात्मा' इति सिद्धम्। ननूपलब्धिमात्र- मित्युक्तं, तस्योपलब्धृत्वं कथं ? तबाह, अत इत्यादि। यद्वै इति श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। एवञ्च श्लोकद्वयव्याख्यायां-सदेव नित्यमेव शानमेकं, एवकारेण -'नित्यान्यज् शानमनेकम्' इत्यस्य लाभः । अत्र तात्पर्य्यवशादेव- कारादिकं पूरितं, विविधं नानाविधज्ञानवृत्त्येकधर्मवत् जन्यज्ञानानां नित्यैकज्ञानस्य च सविषयकत्वसाम्यात् 'जानामि' इस्यनुव्यवसायाश्च तेषु ज्ञानत्वमेकं सिद्धमिति भावः। वृत्तय एवेति-इन्द्रियवृत्ति- सापेक्षाण्येव ज्ञानानीत्यर्थः । न निरुक्तं ज्ञानं कथमित्यादिसंस्कार- वानहङ्कार इत्यन्तं पूर्वपक्षः। यद्वा-कथमिति कथं निर्विकारत्वम् ? हर्ष-शोकादिविकारदर्शनादित्यर्थः। शङ्कां भावार्थद्वारा निवर्तयन्नाह तदैवेति। विकारहेतोपाधेरभावादिति-विकाराश्रयस्योपाधेरभावा- दित्यर्थः। यथाश्रुतासङ्गतेः। जाग्रत्स्वप्नदशायां विकारहेतुसत्त्व- प्रतीतेर्विकार एव प्रतीयते, न सविकार इवेति । तथाच,-जाग्रत्- स्वप्नदशायामुपाधिविकार अात्मनि प्रतीयते इति भावः। अयं यथाश्रुतोऽर्थो मायावादमत एव सङ्गच्छते, स्वमते तु- 'आत्मा कथं निम्विकारः, लिङ्गशरीरस्य स्वाभाविकत्वेन लिङ्गशरीर- रूपत्वात् ? इत्यत आह-सन्न इत्यादि, आशयमृते कूटस्थः काल- व्यापी आत्मा वर्तत इत्यर्थः। तथाच लिङ्गशरीरं नात्मनः स्वाभाविकं, सुषुप्तौ व्यभिचारादिति भावः। ननु तदानीमात्मसत्त्वे किं मानम् ? इत्यत आह, तदनुस्मृतिर्न इति । श्राख्यार्थो विवृत एवेति अथ शानं जीवस्यैकं नित्यं, विकाराभिमानात्मनो जन्यं ज्ञानं मन्यते किन्तु ?

१५८ षट्सन्दर्मनामक- [ प्रथम:- "यदै तन्न पश्यति पश्यन् वै द्रव्यान्न पश्यति, न हि द्रष्टु- दृष्टेविपरिलोपो विद्यते" ( वृ० प्रा० ४. ३. २३ ) इति । अयं साक्षि-साक्ष्यविभागेन तृतीयस्तर्कः । दुःखि-प्रेमास्पदत्व- विभागेन चतुर्थोऽपि तर्कोऽवगन्तव्यः ।। ५४ ।। श्रीबलदेव-विद्याभूषणाकृत-टीका । तदात्मचैतन्यं कर्तृ सुषुप्तौ न पश्यतीति यदुच्यते, नत् खलु द्रष्टव्य- विषयाभावादेव, न तु द्रदृत्वाभावादित्यर्थः । स्फुटमन्यत् ॥ ५४ ॥ श्रीराधामोहन-गोवामिभट्टाचार्यकृत-टीका । मनःपरिणामवृत्तिविशेषस्य परस्परासम्बन्धेन नित्यशानविशेषणतया तद्विशिष्टस्य घटादिभासकत्वम् । एवं कृतीच्छाद्वेषदुःखसंस्काग अपि मनोविकारविशेषाः स्वरूपसम्बन्धेनात्मनि वर्तन्ते । शानमिव सुखमप्यान्मनो नित्यधर्मः: ब्रह्मांशत्वात्, ‘स्वसुखनिभृतचेताः" इत्यादि वचनाञ्च । नच्च सुखं ब्रह्मानुभवादेव प्रकाशते, अन्यदा त्वात्मनो मायामलिनतया न तत् प्रकाशः, अतएव तत्सुखानुभवरूप- मुक्तिमपेक्ष्य भगवत्सेवासुखस्याधिक्यं, संसारितादशायाश्च मनोवृत्ति- विशेषसहकारेण तत्सुखांशाविर्भावस्वीकारात्-इति चेत्, 'जानामि' इत्याद्यनुभवेन ज्ञानविशेषानवगाहनात् निरुक्तयुक्त्यैवोपपत्तौ कि निरुक्तनानाविधकल्पनेनेति । जीदात्मनि नित्यसुखाङ्गीकारेऽपि शानवजन्यसुखस्यापि स्वीकारात्. एवंभगवच्छरीरस्य तदिन्द्रिय- दीनाञ्च नित्यतया निम्विकारतया-“वीक्ष्य रन्तुं मनश्चक्रे" ( भा० १०. २६.१.) इत्यादिषु भगवतो जन्यज्ञानस्यापि श्रवणात् तत्र कुत्र तज्जननीयं तस्य तन्मनसश्च निविकारत्वादिति निरुक्तक्रमेण जन्यज्ञानादिस्वीकारेऽपि विकारित्वाभाव इति । अत्रेदं वोभ्यम्-ब्रह्मणो ज्ञान-सुख-महत्तैकत्वानि चत्वारि स्वरूप- भूतगुणाः, संयोग-विभागौ तटस्थौ सर्वमतसिद्धौ. इच्छा-कृत्योः कार्यानुकूलयोस्तटस्थत्वमद्वैतवादिनः प्राहुः । द्वैतवादिना · मते तस्व-सन्दर्भः।। श्रीभागवत-सन्दर्भ १५६ mero तदुक्तम् । "अन्वयव्यतिरेकाख्यस्तर्कः स्याच्चतुरात्मकः । आगमापायि-तदवधिभेदेन प्रथमो मतः ।। द्रष्ट्टदृश्यविभागेन द्वितीयोऽपि मतस्तथा । साक्षिसाक्ष्यविभागेन तृतीयः सम्मतः सताम् ।। दुःखिप्रेमास्पदत्वेन चतुर्थः सुखबोधकः । ११।३ । इति श्रीपिप्पलायनो निमिम् ॥ ५५ ॥ श्रीबलदेव-विद्याभूषणकृत-टीका। पद्योाख्याने चत्वारस्तो योजितास्तानभियुक्तोक्ताभ्यां सार्द्ध- कारिकाभ्यां निर्दिशति :-अन्वयेति। तर्कशब्देन तर्काङ्गकमनुमानं वाध्यम्। आगमापायिनी दृश्यात् साक्षाद् दुःखास्पदाच देहादेरात्मा भिद्यते । तदवधित्वात् , तद्रष्ट्रवात, तत्साक्षित्वात् प्रेमास्पदत्वाश्चेति क्रमेण हेतवा नेयाः। व्यतिरकश्चोह्यः ॥ ५५ ॥ in श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । तयारपि स्वरूपसद्गुणः, "स्वाभाविकी ज्ञानवलक्रिया च" इति श्रुतेः । तत्र वलं-इच्छा तस्या अप्रतिहतत्वेन वलत्वोपचारात् । क्रिया-कृतिः, कृ-धातुनिष्पन्नत्वात्, “गुणैः स्वरूपभूतैस्तु गुण्यसौ हरिरीश्वरः" इति माध्वभाप्यधृतवचनाच। अन्ये च गुणा भगवत्त्व- निरूपणे विवरणीया इति । जीवात्मनस्तु नित्यसुखे मानाभावः, सुषुप्तौ मुक्तौ च ब्रह्मसुखानुभवस्य श्रुतत्वात् "ब्रह्म वेद ब्रह्मैव भवति" ( मुण्ड० ३. २. ६. ) इति श्रुत्यान्तु तथैव तात्पर्य्यावगमात्, "सिद्धा ब्रह्मसुख मग्ना दैत्याश्च हरिणा हताः" इति रसामृतसिन्धुधृतववनाश्च । "स्वसुखनिभृतचेतास्तव्युदस्तान्यभावः" इत्यादौ यत् 'स्वसुख' इत्युक्तं, तत्तस्य मुक्तस्य शुकस्य ब्रह्माध्यानावस्थितम्य ब्रह्मसुखे स्त्रीयत्वोपचारादिति ॥ ५४-५५ ॥

षट्सन्दर्भनामक- [प्रथमः - एवम्भूतानां जीवानां चिन्मात्रं यत् स्वरूपं, तयैवाकृत्या तदंशित्वेन च, तदभिन्नं यत् तत्त्वं तदत्र वाच्यम् इति व्यष्टिनिर्देश- द्वारा प्रोक्तम् । तदेव ह्याश्रयसंज्ञकम् । महापुराणलक्षणरूपैः सर्गादिभिरथैः समष्टिनिर्देशद्वारापि लक्ष्यते ; इत्यत्राह द्वाभ्याम् :- "अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ।। दशमस्य रिशुद्ध्यर्थ नवानामिह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥" (भा० २,१०,१२) मन्वन्तराणि चेशानुकथाश्च मन्वन्तरेशानुकथाः। अत्र सर्गादयो दशार्था लक्ष्यन्त इत्यर्थः। तत्र च दशमस्य विशुख्यर्थ- तत्त्वज्ञानार्थ, नवानां लक्षणं स्वरूपं वर्णयन्ति । नन्वन नैवं श्रीबलदेव-विद्याभूषणकृत-टीका। ईश्वरज्ञानार्थ जीवस्वरूपशानं निर्णीतम्। अथ तत्साश्येनेश्वर- स्वरूपं निणेतुं पूर्वोक्त योजयति :-एवम्भूतानामित्यादिना । चिन्मानं यत् स्वरूपमिति-चेतयितृ चेति वोध्यं, पूर्वनिरूपणात्। तयैवा- कृत्येति-चिन्मात्रत्वे सति चेतयितृत्वं याकृतिर्जातिस्तयेत्यर्थः। "प्राकृतिस्तु स्त्रियां रूपे सामान्यवपुषोरपि" इति मेदिनी। तदं- शित्वेन-जीवांशित्वेन चेत्यर्थः। तदभिन्न-जीवाभिन्नम्, यद्- ब्रह्मतत्त्वम्। अंशः खलु अंशिनो न भिद्यते, पुरुषादिव दण्डिनो दण्डः। व्यष्टीति ; समुदायः-समष्टिः, तदेकदेशस्तु-व्यष्ठिः श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। प्राकृत्या-चेतनरुपया, तदभिन्नं तदभिन्नत्वेन प्रतीतम्, तत्त्वं- सर्वकारणत्वेन सर्वाधारत्वेन च मूख्यं वस्तु। व्यष्टिनिर्देशद्वारा- व्यथिनिर्देश-तात्पर्य्यवृत्त्या । समष्टिजीधः-राजस्तन्निर्देशद्वारा । - Hanimuave तत्त्व-सन्दर्भः ।। .. श्रीभागवत-सन्दर्भ प्रतीयते ? अत आह, -श्रुतेन-श्रुत्या कण्ठोक्त्यैव स्तुत्यादि- स्थानेषु, अञ्जसा-साक्षाद्वर्णयन्ति, अर्थेन-नायेच्या च तत्तदाख्यानेषु ।। ५६ ॥ तमेव * दशमं विस्पष्टयितुं तेषां दशानां व्युत्पादिकां मप्त- श्लोकीमाह "भूतमात्रेन्द्रिय-धियां जन्म सर्ग उदाहृतः ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः" । ( भा० २, १, ३) भूतानि खादीनि, मात्राणि च-शब्दादीनि, इन्द्रियाणि च । धी-शब्देन महदहङ्कारौ। गुणानां वैषम्यात्-परिणामात् । ब्रह्मणः-परमेश्वरात् कर्तुर्भूतादीनां जन्म--सर्गः। पुरुषो वैराजो ब्रह्मा, तत्कृतः--पौरुषः ; चराचरसर्गों विसर्ग इत्यर्थः । : malaman - श्रीबलदेव-विद्याभूषणकृत-टीका । इत्ययः। जीवादिशक्तिमद्ब्रह्म-समष्टिः, जीवस्तु राष्टिः। तादृश- जीवनिरूपणद्वारा शास्त्रस्व ब्रह्मसम्बन्धित्वमुक्तम् । अथ जीवादि- शक्तिविशिष्ठसमष्टिब्रह्मनिरूपणेन तस्य तथात्वं वक्तव्यमित्यर्थः । दशमस्य चेश्वरस्य। अवशिष्टः स्फुटार्थः ॥ ५६ ॥ सर्गादीन् दश व्युत्पादयति-तदेवमित्यादिना । ब्रह्मणः परमेश्वरादिति । कारणसृष्ठिः-पारमेश्वरी, कार्यसृष्टिस्तु- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । मन्वन्तरेशानुकथेति लक्षणद्वयं, अन्यथा दशलंख्यापूर्त्यनुप- पत्तेः॥५६॥ दशाना-सर्गादिपदार्थानां, व्युत्पादिकां-विशेषार्थपरतावोधि- काम् । गुणानां प्रकृतिगुणानां,सत्त्वरजस्तमसाम्, भूतादीनां जन्म- * "तदेवं" इति वा। पाठः w- [ प्रथम:- १६२ षट्सन्दर्भनामक- "स्थितिवैकुण्ठविजयः पोषणं तदनुग्रहः । मन्वन्तराणि सद्धर्म ऊतयः कर्मवामनाः ।। अवतारानुचरितं हरेश्वास्यानुवर्तिनाम् । पुंसामीशकथाः प्रोक्ता नानाख्यानोपबृंहिताः ॥" ( भा०२, १०, ४-५ ) वैकुण्ठस्य भगवतो विजयः-- मष्टानां तत्तन्मर्यादापालनेनोत्कर्षः, स्थितिः--स्थानम् । ततः स्थितेषु स्वभक्तेषु तस्यानुग्रहः- मन्वन्तराणि तत्तन्मन्वन्तरस्थितानां मन्त्रादीनां तदनुगृहीतानां सतां चरितानि, नान्येव धर्मस्तदुपासनाख्यः सद्धर्मः। तत्रैव स्थितौ नानाकर्मवासना--ऊतयः। स्थिता- वेव हरेरवतारानुचरितं अस्यानुवर्त्तिनाश्च कथा:--ईशानुकथाः प्रोक्ता इत्यर्थः। "निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः । मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः ॥" ( भा० २, १०, ६) स्थित्यनन्तरश्चात्मनो जीवस्य शक्तिभिः स्वोपादिभिः सहास्य हरेरनुशयनं, हरिशयनानुगतत्वेन शयनं निरोध इत्यर्थः । पोषणम् । तत्र श्रीबलदेव-विद्याभूषणकृत-टीका । वैरिश्चीत्यर्थः। मुक्तिरिति-भगवद्वैमुख्यानुगतयाऽविद्यया रचित- मन्यथारूपं देवमानवादिभावं हित्वा, तत्साम्मुख्यानुप्रवृत्तया तद्भक्त्या विनाश्य, स्वरूपेणापहतपाप्मत्वादिगुणाष्टकविशिष्टेन जीवस्वरूपेण श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । हिरण्यगर्भ-वैराजयोः सूक्ष्मस्थूलशरीराजन्मेति यावत् । स्थानशब्दं विवृणोति---स्थितिरिति । तदनुग्रह इत्यस्यादौ पूरयति-तन-

त्त्वि-सन्दमः।
श्रीभागवत-सन्दर्भ
हरेः शयनं--प्रपञ्च प्रति दृष्टिनिमीलनं, जीवानां शयन---तत्र लय
इति ज्ञेयम् । तत्रैव निरोधेऽन्यथारूपमविद्याध्यस्तमज्ञत्वादिकं
हित्वा स्वरूपेण व्यवस्थिति:--मुक्तिः ॥ ५७ ॥
'आभासश्च निरोधश्च यतोऽस्त्यध्यवसीयते ।
स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥"
( भा०२, १०, ७)
आभासः-सृष्टिः, निरोधः-लयश्च यतो भवति, अध्यवसी-
यते-उपलभ्यते जीवानां ज्ञानेन्द्रियेषु प्रकाशते च, स ब्रह्मेति
परमात्मेति प्रसिद्ध आश्रयः कथ्यते । इति शब्द:-प्रकार
तेन भगवानिति च। अस्य वितिरग्रे विधेया॥५८॥
कारार्थः,
श्रीबलदेव-विद्याभूषणकृत-टीका ।
जीवस्य व्यवस्थितिविशिष्टा पुनगवृत्तिशून्या भगवत्सन्निधौ स्थिति-
मुक्तिरित्यर्थः ॥ ५७॥
अथ नवभिः सर्गादिभिलक्षणीयमाश्रयतत्वमाह ;-प्राभास-
श्चेति । यत इति हेतौ पञ्चमी ॥ ५८ ॥
.
श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका ।
स्थितेषु भक्तेष्विति । अस्य-जीवस्य, अनुगतत्वेन-पश्चाद्भावित्वे-
ऽतिशयेन नियतत्वेन वा। दृष्टिनिमीलनं-सृष्टिविषये इतणाभावः।
लयः-ऐक्यम् । तत्रैव निरोध इति-निरोधान्तर्गतमित्यर्थ । सप्तम्या
अन्तर्गतत्वस्य विवक्षणादिति ॥ ५७ ॥
अस्तीत्यर्थः-भवतीति। भवतीति पूरणं वा । अस्तीत्यस्य
तिष्ठतीत्यर्थः यतः स्थितिरिति पर्य्यवसितम् । अभ्यषसीयत
इत्यत्रापि यत इत्यस्यान्वयः : तथाच, झानेन्द्रियप्रवर्तक इति ॥५६॥

पट्सन्दर्भनामक- [प्रथमः- स्थितौ च तत्राश्रयस्वरूपमपरोक्षानुभवेन व्यष्टिद्वारापि स्पष्टं दर्शयितुमध्यात्मादिविभागमाह :- “योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः । यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः ।। एकमेकतराभावे यदा नोपलभामहे । त्रितयं नत्र यो वेद म आत्मा स्वाश्रयाश्रय । ( भा०२, १०, ८-६) योऽयमाध्यात्मिकः पुरुषश्चक्षुरादिकरणाभिमानी द्रष्टा जीवः, स एवाधिदैविक्रश्चनुराधधिष्ठाता मूर्यादिः । देहसृष्टेः पूर्व करणानामधिष्ठानाभावेनाक्षमतया करणप्रकाशकर्तृत्वाभिमानि-तत्- सहाययोरुभयोरोपे तयोवृत्तिभेदानुदयेन जीवत्वमात्राविशेषात् । श्रीबलदेव-विद्याभूषणकृत-टीका। ननु करणाभिमानिनो जीवस्य करणप्रवर्तकसूर्यादित्वमन कथं ? -तत्राह,-- देवसृष्टेः पूर्वमिति करणानामिति,- अधिष्ठाना- भावेन-चक्षुर्गोलकाद्यभावेनेत्यर्थः। उभयोरपि तयोवृत्तिभेदानु- दयेनेति-करणानां विषयग्रहणं वृत्तिः, देवतानान्तु तत्र प्रवर्तकत्वं वृत्तिः। अयमत्र निष्कर्षः।-देहोत्पत्तेः पूर्वमपि जीवेन सार्द्ध- श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका ! द्रष्टा-प्रकाशकः। अक्षमतयेत्यस्य सहायतायां हेतुताकरण- प्रकाशकर्तृत्वामानीति करणविषयदर्शनकर्तृत्वयोरभिमानीत्यर्थः । तत्सहायपदेन करणप्रकाशकर्तृत्वाभिमानि-जीवसहायसूर्यादिलाभः । वृत्तिभेदानुदयेनेति-देवतासृष्टेः पूर्वमित्यनेनावृत्र्याऽन्वयः, वृत्ति- भेदः-विषगतचनुरादिपरिणामविशेषः । जीवत्वमात्राविशेषादिति -'उभयोरपि तयोः' इत्यनेनास्यान्वयः । इदश्च स एवाधिदैविकः' इत्यत्र हेतुः। 'जीवत्वमात्रविशेषात्' इत्यस्य उपाधिकैशिष्ट्यरूप- जीवत्वांशेऽविशेषादित्यर्थः । तथाच 'ल एवं' इत्यस्य जीवत्वेन तत्व-सन्दिमः।] श्रीभागवत-सन्दर्भ ततश्चोभयः-करणाभिमानि-तदधिष्ठातृदेवताम्पो द्विरूपो विच्छेदो यस्मात, म आधिभौनिकश्चक्षुर्गोलकागुपलक्षितो दृश्यो देहः पुरुष इति-पुरुषस्य जीवम्यागाधिः । "म वा एप पुरुषोऽन्न- रममयः" ( तैत्ति० २, १. १, ) इत्यादिश्रुतेः ।। ५६ ॥ 'एकमेकतराभाव' इत्येषामन्योन्यमापेक्षसिद्धवे नानाश्रयन्वं दर्शयति :-तथाहि दृश्यं विना नत्प्रतीत्यनुमेयं तत्प्रतीत्यनुमेयं करगां न सिध्यति, नापि द्रष्टा, न च नदिना करगाप्रवृत्यनुमेयस्तदधिष्ठाता मूर्यादिः, न च तं विना करणं प्रवर्तते, न न तद्विना दृश्यम्- इत्थेकतरस्याभावे एक नोपलभामहे । नव-तदा, तत त्रिनय- मालोचनात्मकेन प्रत्ययेन यो वेद-माक्षिनया पश्यति, म श्रीवलदेव-विद्याभूषणकृत-टीका । मिन्द्रियाणि तद्देवताश्च सन्येव, तदा तेषां तेराञ्च वृत्त्यभावानीगे. ऽन्तर्भावो विवक्षितः। उत्पन्न तु देहे तयोविभागो यद्भवतीत्याह ततश्चोभय इति ॥ ५ ॥ आध्यात्मिकदीनां त्रयाणां मिथः सापेक्षत्वेन सिंगमनेपामाश्रयन्त्र नास्तीति व्याचप्टं : एकमेकनरेत्यादिना । त्रितयं-प्राध्यामिकादि- .. श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । तत्तुल्य इत्यर्थः । तत्पदस्य तन्तुल्यार्थकत्वे तापयंग्रारक एव शब्दः 'स पवायं गकारः' इत्यादी तथा दर्शनात् । तत्र तत्र सय्यादेः करा- क्रियाजननद्वारा, करगणाभिमानिनश्च तद्दर्शनप्रवृत्तिद्वारा करवृत्ति भेदजनकत्वेन तयारुपयोग इति दर्शिनम् ॥ ५ ॥ अन्यसापेक्षसिद्धवेन अन्यसापेन्यानुपपत्तिानकमिनि वन, अनामवं---स्वप्रकाशनन्येकरूपान्ममितत्वम। नापि दृष्टा नापि तदभिमानी.साक्षी चेत्यथः । दृश्यं देवादि घटादि न। नापानमा महे इति-स्वतः प्रकाशी नास्तीति मुचितम। पालोचनात्मकेन पदसन्दर्भनामक- [ प्रथम:- - m परमात्मा आश्रयः। तेषामपि परस्परमाश्रयत्वमस्तीति नद्यावच्छे- दार्थ विशेषणम् --स्वाश्रयः--अनन्याश्रयः, स चासावन्येषा- माश्रयश्चेति । तत्रांशांशिनोः शुद्ध जीव-परमात्मनारभेदांश-स्वीकारे- णैवाश्रय उक्तः । ततः “परोऽपि मनुतेऽनर्थम्" इति । "जाग्रत्स्वमसुषुप्तञ्च गुगातो बुद्धिवृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विवक्षितः" || ( भा० ११, १३, श्रीबलदेव-विद्याभूषणकृत-टीका। त्रयम्। ननु शुद्धस्य जीवस्य देहेन्द्रियादिसाक्षित्वाभिधानेनान्यान- पेक्षसिद्धेस्तस्याश्रयत्वं कुतो न ब्रूषे ? तत्राह-अ शांशिनोरिति, श्रीराधामोहन-गोवामिभट्टाचार्यकृत-टीका। अपरोक्षानुभवेन । साक्षितया-उपाध्युपलक्षिततया, न तु विशिष्ट- तया, पश्यतीति दर्शनक्रियायां प्रत्ययेनेति तृतीयार्थाभेदान्वयो वोध्यः। स परमात्मेति-मूलस्थात्मपदस्य परमात्मपरतया वर्णनं- जीव-परमयोरभेदलाभायेति । अत्रायंभावः-- उपाधेः स्हुलसूक्ष्म- देहस्य जड़तया विषयानवभासकतया तद्विशिष्ठस्यापि न तद्भासकत्वं, विशेषणे तद्वाधादिति । उपाध्युपलक्षितचैतन्यमात्रस्य प्रकाशकत्वं आलोचनात्मकशानमेव, अभेदेऽपि यो वेदेति । वेदनक्रियाश्रयत्व- रूपकर्तृत्वमंशांशिभावोपगमेन वोध्यम्, तथाच 'अयं घट' इति शानं स्वप्रकाशतया 'घटमहं जानामि' इत्याकारकमपि विषय-घटादिकमव- भासयत् शरीरमात्मांशे स्थुल-सूक्ष्मदेहाभेदघटाद्याकारमनोवृत्तिविशिष्ट- चैतन्यस्वरूपश्चावगाहमानमपरोक्ष परमात्मशोधकमिति भावः । दृश्यवस्तुभाने इन्द्रियमनोवृत्त्यपेक्षावृत्तिभानेन वृत्त्यन्तरापेक्षाऽनवस्था- भयात् । ननु चैतन्यस्य वृत्त्यपेक्षणे कथं स्वप्रकाशकता, इति चेत् ? नहि विषयभासकत्वे वृत्त्यपेक्षा किन्तु विषयावरकतमोऽभिभवार्थ- मित्युपगमात् विषयावरकतमसोऽस्वीकारे चैतन्यस्य निरपेक्षतया सर्वदा विषयभानप्रसङ्गादिति पर्यवसितम् । ननु तथाप्यद्वैत- तत्र श्रीभागवत-सन्दर्भ १६७ इति "शुद्धो विचष्टे ह्यविशुद्धकर्तुः" ( भा०५, ११, १२) इत्याद्युक्तस्य साक्षिसंज्ञिनः शुद्धजीवस्याश्रयत्वं न शकुनीयम् । अथवा ;-जन्वाध्यात्मिकादीनामप्याश्रयत्वमस्त्येव ? सत्यम्; नथापि परस्पराश्रयत्वान्न तवाश्रयताकैवल्यमिति ते त्वाश्रयशब्देन मुख्यतया नोच्यन्ते इत्याह-एकमिति । तर्हि साक्षिण एवास्ता- माश्रयत्वम् ? तबाह,-त्रितयमिति । स आत्मा साक्षी जीवस्तु, श्रीबलदेव-विद्याभूषणकृत-टीका । --अशिनांशोऽपीह गृहीत इत्यर्थः। असन्तापाद्वाख्यान्तरं अथवेति । श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। वादमते व्यष्ट्युपहितचैतन्यस्य परमात्मत्वसम्भवे स्वमते व्यष्ट्यात्मना भिन्नत्वात् कथं परमात्मत्वम् ? इत्यत आह ; -अत्रांशांशिनोरिति, अभेदांशस्वीकारेणेति-तुल्यताभिप्रायेणेत्यर्थः । तथाच-यो वेद स आत्मा स्वाश्रयाश्रय इत्यन्वयेनापरीक्षविषयीभूतात्मनाऽनन्याश्रय सश्रियम्य परमात्मनः तुल्यतात्मकैक्येन तादृशपरमात्मनो वोध इति भावः। अतः परमात्माभेदविवतयाऽत्र जीवात्मन आश्रयत्व- कथनात् । श्रासां-जामदादिवृत्तीनां, साक्षित्वेन-साक्षादर्शित्वेन, विलक्षणः-शुद्धचैतन्यैकरूपः । न शङ्कनीयमिति-तत्र पदमात्म- तात्पर्योधकपदाभावेन शुद्धजीवमात्रपरत्वादिति भावः। ननु परमात्माभेदविवक्षयाऽपि शुद्धस्याश्रयत्वं न घटते ? इत्यत पाह- अथवेति। एकमितीति--तथा चैतेषां निराश्रयत्वाभावान मूख्या- श्रयत्वमिति भावः। 'स प्रात्मा'इति तस्य मूख्याश्रयत्वाभावे हेतुभूतविशेषणमाह - स्वाश्रयाश्रय इति । तथाच तस्याश्रयः परमात्मा, स एव निराश्रय श्राश्रयपदेनात्र विवक्षितः, न तु तदाश्रितो जीव इति भावः। परमात्मनस्तथात्वं, न तु जीवस्य इति दर्शयितुमाह,- वक्ष्यते चेति। अन्ये तु एकमिति एकतया भाने एकं निरुक्तत्रयाणां तदन्यमपरं नेत्युपलभामहे-अनुमानेन जानीम इति जीवानां न

[प्रथमः-
-
.
१६८
षट्सन्दर्भनामक-
यः स्वाश्रयोऽनन्याश्रयः परमात्मा, स एवाश्रयो यस्य तथाभूत
इति । वक्ष्यते च हंसगुह्यस्तवे ;-
"सर्च पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे"
( भा० ६, ४, २५ ) इति । तस्मात् 'आभासश्च' इत्यादिनोक्तः
परमात्मैवाश्रय इति । २।१०। श्रीशुकः ।। ६० ।।
श्रीबलदेव-विद्याभूषणकृत-टीका।
साक्षिण:- -शुद्धजीवस्य ।
सम्वमिति: पुमान्---
तहि इति :
जीवः॥६०॥
..
श्रीराधामोहन गोस्वामिभट्टाचार्यकृत-टीका ।
साक्षादर्शित्वम्। नच-जीवानां स्वात्मसाक्षात्कारोऽस्तीति वाच्यं,
तत्साक्षात्कारस्य देहाभेदेनैव ; न तु स्वरूपेणेति । स्वरूपग्रहस्य च
जीवस्य संसारितादशायां अनुमानाधीनत्वादिति । साक्षात्
तत्रितयदर्शी सर्वज्ञः परमात्मैवाश्रयनीय इत्याह---त्रितयं तत्र यो
वेदेति । यञ्चोक्तं देहवैशिष्टयोपहितवैलक्षण्यं जीवस्य : तन अद्वैत-
वादिनां मतं, देहसम्बन्धमात्रस्यैव जीवानां संसारिताप्रयोजकता,
न तु तद्वैशिष्ट्यस्यापीति । अद्वैतवादिनामेव देहवैशिष्ट्यस्य ब्रह्मांश-
परिच्छेदेन ब्रह्मणोऽशेन च जीवत्वव्यवस्थापकत्वात्, एवं जीवात्मनी-
ऽणुतया युगपत् प्राणेन्द्रियादिसमुदायात्मक-लिङ्गशरीरवैशिष्ट्या-
सम्भवः, सम्बन्धस्तु साक्षात्परस्परासाधारण सम्भवतीति न तेन
संसारिता। एवं जीवात्मनो देहविशिष्टस्य स्थुलसूक्ष्मदेहाभिमान-
सत्कृतानों देहाद्युपहितस्य तस्यैष तदभाव इति मायामोहितत्व-
सदभावयोरेकत्र स्वीकारे पर्य्यवसिते कथं परात्म-जीवयो भेद-
स्वीकारः ? उपलक्षितस्य शुद्धजीवस्य गृह-गृहान्तप्रतिघटाकाशयोर-
भेदवत् मायोपहितचैतन्यात्मकादीश्वरादमिश्रलया मायाश्रयत्वा.
विरोधात् ॥ ६॥

तस्व-सन्दर्भः।] श्रीभागवत-सन्दर्भ १६३ अस्य श्रीभागवतस्य महापुराणत्वव्यञ्जकलक्षणं प्रकारान्त- रेण च वदन्नपि तस्यैवाश्रयत्वमाह, द्वयेन :- "सर्गोऽस्यार्थ विसर्गश्च वृत्ती रक्षान्तराणि च । वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ।। दशभिलक्षणैर्युक्तं पुराणं तद्विदो विदुः । केचित् पञ्चविधं ब्रह्मन् ! महदल्पव्यवस्थया ।।" ( भा० १२, ७,८-६) अन्तराणि-मन्वन्तराणि । पञ्चविधं- "सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंश्यानुचरित- श्चेति पुराणं पञ्चलक्षणम्" इति केचिद्वदन्ति । स च मतभेदो महदल्पव्यवस्थया-महापुराणमल्पपुराणमिति भिन्नाधिकरणत्वेन । यद्यपि विष्णुपुराणादावपि दशापि तानि लक्ष्यन्ते, तथापि पञ्चानामेव प्राधान्येनोक्तत्वात्-अल्पत्वम् । अत्र दशानामर्थानां स्कन्धेषु यथाक्रमं प्रवेशो न विवक्षितः, श्रीबलदेव-विद्याभूषणकृत-टीका । अस्येति । प्रकारान्तरेणेति-कचिन्नामान्तरत्वादर्थान्तरत्वाचे- त्यर्थः। एतानि दश लक्षणानि केचित्तृतीयादिषु क्रमेण स्थुलधियो योजयन्ति, तानिराकुर्वन्नाह-द्वितीयस्कन्धोक्तानामिति । अष्टादश- सहस्नित्वं द्वादशस्कन्धित्वञ्च भागवतलक्षणं व्याकुप्येत, अध्यायपूर्ती श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। तस्यैवेति ब्रह्मण एवेत्यर्थः, तद्विदः पुराणविदः। महापुराणाल्प- पुराणभिन्नाधिकरणेनेति-महापुराणाल्पपुराणयोर्भेदेन भित्रमधि- करणं ययोस्तत्वेन दशलक्षण-पञ्चलक्षणेति लक्षणद्वयमित्यर्थः। तेषां स्कन्धानाम् । मनु द्वितीयस्कन्धशेषे लक्षणान्युक्तानि, ततः क्रमेण तृतीयादिषु किमुक्तानि ? इत्याशङ्कयाह,-द्वितीयस्कन्थोक्तानामपि, तेषामिति-तेषां दशलक्षणानाम्, तेषामपि मतं-श्रीधरस्वामिनामपि तस्तु निरोधो "दशम कशासकीर्तित्रितालायोपर्यते । इति, प्रतादिच यो निरोधः स तु वर्णितः" इति । अतोऽत्र स्कन्धे श्रीकृष्णारूपस्याश्रय- स्यैव वर्णनप्राधान्यं तर्विवक्षितम् । उक्तञ्च स्वयमेव : दशमे दशम तत्वमाश्रिताश्रय-विग्रह" इति । एवमन्यत्राप्युन्नेयम् । अतः प्रायशः सर्वेऽर्थाः सर्वष्वेव स्कन्धेषु गुणत्वेन वा मुख्यत्वेन वा निरूप्यन्त इत्येव तेपामभि- मतम् । “श्रुतेनार्थेन चाञ्जसा" इत्यत्र च तथैव प्रतिपन्नं, सर्वत्र तत्तत्सम्भवात् । ततश्च प्रथम-द्वितीययोरपि महापुराणतायां प्रवेशः स्यात् क्रमो न गृहीतः ॥ ६१ ।। श्रीवलदेव-विद्याभूषणकृत-टीका । भागवतत्वोक्तिश्च न सम्भवेदिति च वाध्यम् । शुकभापितञ्चेद्- भागवतं ; तर्हि प्रथमस्य द्वादशशेषस्य च तत्त्वानापत्तिः। तस्मादष्ठा- दशसहनि तपितुराचार्याच्छुकेनाधीतं कथितञ्चेति साम्प्रतं, संवादास्तु तथैवानादिसिद्धा मिवद्धा इति साम्प्रतम् ॥ ६१ ॥ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। मतम् । प्रायशः स्यादिति-तृतीयादिषु क्रमेणैव दशलक्षणवर्णनेनेति द्वितीय-तृतीययोस्तल्लक्षणाक्रान्तपुराणता न स्यादिति भावः । तस्मात् क्रमवर्णनस्यासम्भवात् क्रमो न विवक्षित इति। तथा चाश्रयस्य परब्रह्मणः कृष्णस्य मूख्यत्वेन वर्णनीयतया उपक्रमे तस्यैवादौ वर्णन- मुपंक्रान्तं, मध्ये मध्ये अन्ते च तस्यैवं वर्णनं कृतं, तत्प्रसङ्गात् तदाधिक्यतात्पर्य्याद्वा यथायोगमितराणि लक्षणानि वर्णितानीति तत्व-सन्दनः । mmuDAPN-samve Redmanthan meimes -- श्रीभागवत-सन्दर्भ अथ सर्गादीनां लक्षणमाह "अव्याकृतगुणक्षामान्महतस्वितोऽहमः । भूतमात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते ।।" ( भा० १२, ७, ११) प्रधानगुणक्षोभान्महान् , तस्मात्रिगुणोऽहङ्कारः, तस्मादूत- मात्राणां भूतसूक्ष्माणां इन्द्रियानाञ्च, स्थूलभूतानाच, तदुपलनित- तदेवतानाञ्च सम्भवः सर्गः ; कारणसृष्टिः सर्ग इत्यथः । "पुरुषानुगृहीतानामेतेषां वासनामयः । विसर्गोऽयं समाहारो वीजादीजं चराचरम् ॥" ( भा० १२, ७, १२) पुरुषः-परमात्मा । एतेषां~-महदादीनां, जीवस्य पूर्व- कर्मवासनाप्रधानोऽय समाहार: कार्य्यभूतश्चराचरमाणिरूपो वीजाद्वीजमिव प्रवाहापन्नो निसर्ग उच्यते ; व्यष्टिसृष्टिविसर्ग इत्यर्थः । अनेनोतिरप्युक्ता। "वृत्तिर्भूतानि भूतानां चराणामचराणि च । कृता स्वेन नृणां तत्र कामाचोदनयापि वा ।" ( भा० १२, ७, १३) श्रीबलदेव-विद्याभूषणकृत-टीका । उद्दिष्टानां सर्गादीनां क्रमेण लक्षणानि दर्शयितुमाहू अथेत्यादि । अव्याकृतेति-त्रिवृत्पदं महतोऽपि विशेषणं वोध्यम् । श्रीराधामोहन-गोवामिभट्टाचार्यकृत-टीका । तथोक्तं-"उपक्रमोपसंहारावभ्यासोऽपूर्वता अर्थवादोपपत्ती च लिङ्ग तात्पर्य्यनिर्णये” इति क्रमेण श्रीकृष्णापरमिदं शास्त्रमिति भावः॥ ६१ ॥ । अव्याकृतशब्दः-प्रधानपर इत्यभिप्रायेण व्याचष्टे, प्रधानगुण- शोभादिति। गुणः-सत्त्वादिः, क्षोभः-किया, महान् महत्तत्त्वम्, in .

wo-
१७२
घट्सन्दर्भनामक-
[प्रयमः-
चराणां-भूतानां सामान्यतोऽचराणि च-काराचराणि च
कामाद्
वृत्तिः।
तत्र तु नृणां स्वेन खभावेन कामाचोदनयापि
वा या नियता वृत्ति विका कृता, सा वृत्तिरुच्यते इत्यर्थः ।
"रक्षाच्युतावतारेहा विश्वस्यानुयुगे युगे ।
तिर्यअर्त्यषिदेवेषु हन्यन्ते यैस्त्रयीद्विषः ॥"
( भा० १२, ७, १४)
यैः-अवतारैः। अनेन-ईशकथा, स्थानं, पोषणच-
इति त्रयमुक्तम् ।
"मन्वन्तरं मनुर्देवा मनुपुत्रा सुरेश्वराः ।
अषयोऽशावताराश्च हरेः षड्विधमुच्यते ॥
( भा० १२, ७, १५)
मन्वाद्याचरणकथनेन सद्धर्म एवान विवक्षित इत्यर्थः ।
ततश्च प्राक्तनग्रन्थेनैकार्थ्यम् ।
"राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः ।
वंश्यानुचरितं तेषां वृत्तं वंशधराश्च वे ॥"
भा० १२. ७. १५.)
तेषां राज्ञां ये च वंशश्ररास्तेषां वृत्तं वंश्यानुचरितम् ॥ ६२ ॥
श्रीबलदेव-विद्याभूषणकृत-टीका ।
"सात्त्विको राजसश्चैव तामसश्च विधा महान्" इति श्रीवैष्णवात् ।
पुरुषः-परमात्मा विरिश्चान्तःस्थः" इति वोध्यम्। स्फूटार्थानि
शिष्टानि ॥६२॥
श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका ।
वासना-संस्कारः, तत्प्रधानः-तदधीनः, 'तेन' इत्यस्य स्वभावेन
इत्यर्थः। मन्वन्तरं षड़विधनित्यर्थः। त्रैकालिकोऽन्वयः 'सन्तानं
वशः, वंशपदेनेह विवक्षितः ॥ ६२॥

तत्त्व-सन्दर्भः ।] श्रीभागवत-सन्दर्भ १७३ . नैमित्तिकः प्राकृतिको नित्य प्रात्यन्तिको लयः । संस्थेति करिभिः प्रोक्तश्चतुर्दास्य खभावतः ॥" ( भा० १२.७. १७.) अस्य-परमेश्वरस्य । स्वभावतः-क्तितः । 'प्रात्यन्तिक' इत्यनेन मुक्तिरप्यत्र प्रवेशिता । "हेतुर्जीवोऽस्य सर्गादेरविचाकर्मकारकः । यश्चानुशयिनं पाडुरव्याकृतमुतापरे ॥' ( भा० १२. ७.१८.) हेतु:-निमित्तम्, अस्य-विश्वस्य, यतोऽयमविद्यया कर्म- कारकः। यमेव हेतुं केचिचैतन्यप्राधान्येनानुशयिनं प्राहुः । अपरे उपाधिप्राधान्येनाव्याकृतमिति । श्रीबलदेव-विद्याभूषयकृत-टीका। पूर्वोक्तायां दशलक्षणयां मुक्तिरेकलक्षणम्, अस्यान्तु चतुन्धि- धायां संस्थायां प्रात्यन्तिकलयशब्दिता मुकिरानीतेति! बचानु- श्रीराधामोहन-गोखामिभट्टाचार्यकृत-टीका । वादापणेति-तत्समाधिलब्धब्रह्मजीवभेदेन विरोधादित्यर्थः । जाग्रदादिषु जीववृत्तिषु मायामयेषु देहादिषु जीवस्वरूपस्योपाध्युप- हितस्योपाधिव्यतिरेकोऽस्ति; तेन शुद्धस्य तस्य विषयावभासकत्वं, उपाधौ तस्य विलक्षणसम्बन्धरूपान्वयोऽपि जाग्रदादिकालेऽस्ति तेन तदानीमभिमानितेति। शुद्धजीवोऽपि श्लोकेऽत्र तात्पर्य्यविषयो भवितुमर्हति, तथापि तस्य ब्रह्मत्व न घटते ; प्रागुक्तसमाधिलन्धार्थ- विरोधात् सुषुप्ते निरुक्तान्वयासत्त्वाचन जीवपरतया न्याख्यायते इति भावः। केवल-स्वस्वरूपेण निरुपाध्यसेन व्यतिरेक इति; तेन ब्राह्मणेस्तुरीयत्वं परमसाक्षितया शुद्धजीवस्य साक्षादर्शनशक्त्युबोधक- तयाऽन्वयश्चेति, "शिवमद्वैतं चतुर्थ मन्यन्ते" (नृसिंह० पु. ४.२.) इति, श्रुतेः तुरीयं त्रिषु सन्ततम्" इति स्मृतेश्च, "एकादशात् जीवोऽल्पशक्तिरल्पक्षः" इत्यादिशुस्या जीवस्य स्वतःसिद्धवानाभावात, मेवाश्रयत्वेन न किन्तु अयमेवार्थ:-जायदादि प्ववस्थासु, मायामयेषु-मायाशक्तिकल्पितेषु महद्यादिद्रव्येषु च, केवलस्वरूपेण व्यतिरेकः परमसाक्षितयान्वयश्च यस्य तद् ब्रह्म जीवानां वृत्तिषु-शुद्धखरूपतया सोपाधितया च वर्त्तनेषु स्थिति- ध्वपाश्रयः, सर्वमत्यतिक्रम्याश्रय इत्यर्थः । 'अप' इत्येतत् खलु वर्जने, वर्जनश्चातिक्रमे पर्यवस्यतीति । तदेवमपाश्रया- भिव्यक्तिद्वारभूतं हेतुशब्दव्यपदिष्टस्य जीवस्य शुद्धस्वरूपज्ञानमाह, द्वाभ्याम् : श्रीवलदेव-विद्याभूषणकृत-टीका । शयिनमिति-भुक्तशिष्टकर्मविशिष्टो जीवः 'अनुशयी' इत्युच्यते । रूपेति-मूर्त्या संशया चोपेतेग्वित्यर्थः । कार्यदृष्टिमिनि · घटा- श्रीगधामोग्न-गोवामिभट्टाचार्यकृत-टीका बुद्धे चोदयिता यश्च विदामा पुरुषो विगट् ।" इति गायत्रयर्थ- विवरणायाज्ञवल्क्यवचनात् । “को होवान्मात् कः प्राण्यात् यदेव आकाश प्रानन्दो न स्यान्. एव शेवानन्दयति जीवान” इति रामानुज- भाष्यधृतश्रुतेश्व, जीवस्य सुननादशायां दशात्रयातीतत्वेऽपि न तदानी दशात्रयान्वय इति तड्यावृतिः। पनामान्मकेषु-अपनातेषु । पञ्चता-मरणं, द्रव्यम्य----पृथिव्यादेः यदादाहुपाशाननया व्यापकस्य योगायोगौ सम्भवतः। जीवस्यागातयाऽनुपादानतया च कथमकदा देहा-योगायोगौ सम्भवतः ? इत्यत श्रादौ पूरयति-अविद्ययेति, देहवैशिष्ट्यावच्छेदेनाविधया मोहनं ; तदुपहिते मोहनाभाव इति पर्ववसितम्। दृष्टान्तुस्तु योगयोगांशमात्रे । स्वतस्तु देहादि- श्रीबलदेव-विद्याभूषणकृत-टीका । दिभ्यः पृथगपि पृथिव्यादेः प्राप्तेरित्यर्थः। अपाश्रयेति-ईश्वर- ध्यानयोग्यो भवतीत्यर्थः । स्वयमिति-वामदेवः खलु गर्भस्थ एव परमात्मानां बुबुधे, योगेन देयहूतीत्यर्थः ॥ ६३ ॥ श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका । विशेषणान्तर्भावेन अयुतमिति । एतेन जीवस्य न स्वाभाविको- विद्यासम्बन्ध येन न तत्त्यागः स्यात्, किन्त्वौपाधिक इति, ज्ञानं वैराग्योपयोगि-तत्तरणसाधनप्रवृध्युषयोगीति तद्दर्शितमिति भावः । यदा चित्तं विरमेत, वियुक्तं सदात्मनिष्ठं भवति। स्वतो योगेन वा वृत्तित्रयं-जायदाद्यवस्थात्रयं हित्वा प्रात्मानं-परमात्मानं वेद-- पश्यति, तत ईहायाः-इतरसाधनानिवर्तते इत्यर्थः। “यदात्मानं विजानीयादयमस्मीति पुरुषः। किमिच्छन कस्य कामाय संसार- मनुसंसरेत्” (वृ० प्रा० ४. ४. १२. ) इतिश्रुतेः। अयमस्मि- देहादिव्यतिरिक्तब्रह्मांशचिढूपोऽस्मीति, “भिद्यते वृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। श्रीयन्ते बास्य कर्माणि तस्मिन् दृट परावरे ।"

: in ष्ठितेन योगेन वा । ततश्च ईहायाः तदनुशीलनव्यतिरिक्तचेष्टायाः । ११७ श्रीसूतः। उद्दिष्टः सम्बन्धः । ६३ ।। इति कलियुगपावन-स्वभजनविभजनप्रयोजनावतार श्रीश्रीभगवत्- कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभा-सभाजन- भाजन-श्रीरूप-सनातनानुशासनभारतीगर्ने श्रीभागवतसन्दर्भे “तत्वसन्दर्भो" नाम प्रथमः सन्दर्भः ॥ श्रीबलदेव-विद्याभूषणकृत-टीका । इति कलीति ; कलियुगपावनं यत् स्वभजनं, तस्य वितरण प्रयोजनं यस्य, तादृशः अवतारः प्रादुर्भावो यस्य, तस्य श्रीभगवत्कृष्णा- चैतन्यदेवस्य चरणयोरनुचगै विश्वस्मिन् ये वैष्णवराजास्तेषां सभासु यत् सभाजनं सत्कारस्तस्य भाजने प्रात्रे च यो श्रीरूप-सनातनौ, तयोरनुशासनभारत्य उपदेशवाक्यानि गर्ने मध्ये यस्य तस्मिन || ०॥ टिप्पनी तत्त्वसन्दर्भे विद्याभूषणनिम्मिता। श्रीजीवपाठसंपृक्ता सद्भिरेषा विशाध्यताम् ॥ इति श्रीमद्वलदेवविद्याभूषण-विरचिता- तत्त्वसन्दर्भ-टिप्पनी समाप्ता। श्रीराधामोहन-गोस्वामिभट्टाचार्यकृत-टीका। इति श्रवणात्- "ब्रह्म वेद ब्रह्मैव भवति, निरञ्जन परमं साम्यमुपैति" इत्यादि श्रुतेश्च जीव-परयोरेव शानं श्रेयःसाधनमिति पर्य्यवसितम् । इत्याचा पुराणलक्षणे आश्रयपदं सर्वाधारं सर्वकारणं सर्वान्तामि तुरीयचैतन्यैकर पदिष्परमिति नियूद्ध, "एको वशी सर्वगः कृष्ण ईव्यः' इत्यादि गोपालतापन्यादिश्रुतेरिति । सम्बन्ध इति- श्रीभागवत-तदभिधेय-तत्प्रयोजनानां मिथः सम्बन्ध इत्यर्थः ॥ ६३ ॥ इति कलियुगपा नावतार-श्रीमदद्वैततकुलोद्भध-श्रीराधा- मोहनगोस्वामि-भट्टाचार्य-कृता तत्त्वसन्दर्भ: टिप्पनी सम्पूर्जा।

Sri Bhagwat Sandarv Mein Ist

Author
Sri Madradha Mohan Goswami Bhattacharya
Title
Sri Bhagwat Sandarv Mein Ist
File name
Sri Bhagwat Sandarv Mein Ist
Text
OCR done
Published
2006/05/27
Publisher
Sri Nitswarup Bramhacharn Pakashitam
Language
Sanskrit
Pages
178
Library
Allahabad University Allahabad
Classification
Literature
DLI number
487390
Barcode
5990010097049.00
Scanning centre
IIIT, Allahabad
VMLT id
bhRyiczlWZa
Download PDF

Sri Bhagwat Sandarv Mein Ist