Library
Gitpitvashnam
Front matter
गीतपीतवसनम्
[रागकाव्यम्]
रचयिता
श्रीश्यामरामकविः
सम्पादकः
श्रीप्रभातशास्त्री
प्रकाशक:
देवभाषाप्रकाशनम्
दारागंज-प्रयागः
प्रथमसंस्करणम्
संवत् २०३१ वि०
मूल्यम्-पञ्चमुद्राः
• मुद्रक:
देववाणी-मुद्रणालयः
दारागंज-प्रयागः
GITAPĪTAVASANAM
[RĀGA KĀVYAM]
Ву
SHRI SHYAMARAMA KAVI
Edited by
SRI PRABHAT SHASTRI
Published by
DEVABHASHA PRAKASHANAM
Daraganj, Allahabad
First Edition-1974
PriceRs-Five only
• Printed at
DEVAVANT MUDRANALAYA
Daraganj-Allahabad
काव्यविषये पाठकानां पुरतः प्रस्तुतकृतिसम्बन्धे कृतिकारविषये च किमपि कथनात् पूर्व प्रस्तुतकृतिप्राप्तिकथाकथनमसाम्प्रतन्नात्र। बाल्यकाला- देव गीतनिर्माणे गीतमयकाव्यपठने च आसीत् मदीया रुचिः । अनया मामकीनया प्रवृत्त्या परिचितेन स्वर्गीयमहामहोपाध्याय डा० उनेशमिश्र- महाभागेन एकदा कथितं 'यद् मम गृहे गीतमयमेकं लघुकायकाव्यं वरीवति, भवन्त: सस्कृतभाषानिबद्धगीतप्रियाः, अतः समागत्य मद् भवने तदवलोकयन्तु । इत्युदन्तं संश्रु त्य प्रसन्नमानसोऽहं तद्गृहं गतवान् । तेन विदुषा हस्तलिखिता प्रस्तुतकृति: प्रस्तुतीकृता मत्समक्षे। प्रपठ्य मोमुद्यमानमानसेन मया अस्य काव्यस्य प्रतिलिपिकरणाय कृता याच्या तं प्रति । तेन महाभागेन अनुमति: प्रदत्ता । यथामति कृता प्रतिलिपिः इयमेव प्रस्तुतरागकाव्यस्याऽवाप्तिकथा। प्रतिलिपिकरणसमये प्रस्तुत- काव्ये यत्र तत्र अक्षरैकस्य अक्षरद्वयस्य च त्रुटिरासीत् । तत्र यथामति- प्रसङ्गानुसारमंशपूर्ति कारं कारं कृता प्रतिकृतिः। किन्तु यत्र महती त्रुटिरासीत् तत् स्थानं ( ) कोष्ठान्तर्गतं विधाय परित्यक्तम् । अस्य रागकाव्यस्य रचयिता श्याम रामकविः कस्मिन् काले कस्मिन् प्रदेशे कस्मिन् जनपदे कस्मिन् ग्रामे जन्म लेभे इत्येतत् सर्वं कृतेऽपि प्रयत्ने सष्टप्रमाणाभावात् तमसाच्छन्नमेव दरीदृश्यते; इति संचिन्त्य चेखिद्यते चेतः। किन्तु प्रस्तुतकाव्यस्य अन्तिमसर्गस्थेन एकेन श्लोकेन एका प्रतीतिः सञ्जायते यदस्य कविवरस्य तत्र भवतः पितुर्मातुश्च नाम ६ क्रमशः दशरथः अन्नपूर्णा च आसीत् ।' एतस्मादधिकं कवि. विषयकं वृत्तजातं कृतेष्वपि शतप्रयत्नेषु नैवोपलब्धम् । दुर्भाग्यस्यायं विषयो यदस्य कविवरस्य चर्चा अप्रसिद्धानां कवीनां तथा संस्कृत- वाङमयस्य विभिन्न विषयलेखकानां परिचयप्रदायके परमप्रसिद्ध आफक्ट महाभागानां 'केटलागस् केटलागारम्' नामके ग्रन्थेऽपि न प्राप्यते। समासेन संस्तवोल्लेखस्य तु कथैवापास्ता। स्वरताललयबद्धं रागकाव्यमिदं दशसर्गात्मकं वरीवति । सर्वेऽपि सगाः प्रायः अल्पकायाः वर्तन्ते । कथासंयोजनकृते गीतप्रणयनानन्तरं मध्ये मध्ये सरसश्लोकानां संरचना कृता । काव्येषु शृंगाररसस्य प्राधान्यं वर्तते। कविवरेण पीयूषवर्षिमहाकविजयदेवस्य गीतगोविन्दकाव्यात् प्रेरणामवाप्य विहिता चाऽस्य सरसकाव्यस्य निर्मितिः। काव्येऽस्मिन् भगवतः श्रीकृष्णस्य तथा राधायाः पवित्रं चरित्र वर्णितमस्ति । भाषा चास्य कोमला सरला प्रसादगुणमण्डिता सहृदयहृदयाह लादिका च वर्तते । काव्यमिदं कविवरेण किमर्थं विरचितमेतत् सर्व काव्यारम्भे प्रतिपादितम्- हरिस्मरणसादरं यदि मनो मनोजन्मनः, कलासु विमलासु चेत् किल तदानुपदमुल्लसन्मधुरिमैकधु- सुधारससमां रसः शृणुत मामकी भारतीम् ।। प्रथमसर्गः, पृष्ठम् १। कमनीयां कलां प्रति कुतू हलशालिनः बुधाः पाठकाः भगवत्स्मरणेन साकं काव्याध्ययनस्यापि आनन्दमनुभवन्तु-एतदर्थमेव रमणोमिव रमणीयां १-माता यस्य धराधरेन्द्रतनयातुल्याऽन्नपूर्णा कृती, तातो यस्य महाशयो दशरथो निष्ठावशिष्ठाऽधिकः । राधामाधवकेलिकौशलकथां कान्तां कवीनां मुदे, काव्यं भव्यमिदं चकार स नव श्रीश्यामरामः कविः।। दशमसर्गः, पृष्ठम् ३६ । - कुत हलं वर्तते बुधाः!
- स्वकीयां भारती सुधारससमानां मन्यमानेन कविवरेण भक्तिभावना- भृतिः गीतपीतवसननामिका कृतिः कृता। एतत्प्रसङ्ग कविनोल्लिखित- स्यैकस्य श्लोकस्य ऐतिहासिकं महत्त्वमपि वरीवति। तद् यथा- गीत बुधैर्यदि स धासममेव पीत', श्रीकालिदासजयदेवकविप्रणीतम् । ताम्बूलतुल्यमपि ते मम मानयन्तु, श्रीगीतपीतवसनं मदनुग्रहेण ॥ प्रथमसर्ग: :पृष्ठम २। पद्येऽस्मिन् कविना जयदेवात् पूर्व कविकालिदासप्रणीतस्य गीतकाव्यस्य चर्चा स्पष्टरूपेण कृता । एतेन इत्यनुमीयते यत् कालिदासेन गीतकाव्यस्य रचना निश्चप्रचं विहिता । प्रस्तुतकृतिकारश्रीश्यामराम- कविना तस्य काव्यस्य अवलोकनमध्ययनञ्चापि विहितमित्यत्र नास्ति सन्देहलवः । अन्यथा अनधीतस्य कविकालिदासप्रणीतस्य गीतमयकाव्यस्य चर्चायाः का आवश्यकता। अद्यावधिप्रसिद्धमहाकविकालिदासप्रणीतस्य गीतमयकाव्यस्य प्राप्तिस्तु न सञ्जाता। तेन प्रतीयते समालोचकाचार्येण महाकविराजशेखरेण चचितेषु कालिदासत्रयेषु' प्रसिद्धात् रघुवंशादि- महाकाव्यलेखकात् कालिदासादन्यः कालिदासः गीतमयकाव्यस्य रचनां- विहितवान्; प्रस्तुतकाव्यरचयिता श्यामकविश्च तदधीतवान् । सांप्रत तत् काव्यं न सप्राप्यते, कालकवलितञ्चेति मन्यामहे। इति कृत्वा अस्य श्लोकस्य संस्कृतसाहित्यजगति ऐतिहासिकं महत्त्व वर्ततेतराम् । संस्कृतभाषाया बहवः कविगणाः गर्वोक्तिकथनचणाः आसन् । तेषु १--एकोऽपि जीयते हन्त ! कालिदासो न केनचित् । शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु ॥ राजशेखरस्य राजशेखरपण्डितराजजगन्नाथप्रभृतीनां' गर्वोक्तयः संस्कृतजगति परम- प्रसिद्धाः । प्रस्तुतरागकाव्यकर्ता श्यामरामकविः अनया गर्वोक्तिलेखन- पद्धत्या सर्वथा अप्रभावितः । प्रत्युत एतद्विपरीत कविरयं विद्याविनयेन शोभते' इत्याभाणकस्य मूर्तिमान् अवतार इव दरीदृश्यते। स्वकीयविनय- शीलता कविवरेण काव्यान्ते प्रकटीकृता- नाऽऽस्ते वाचि विदग्धता यदिह मे काव्ये न भव्या गिरो, न शृङ्गाररसस्य वा चतुरता रीतिर्नवाऽऽस्ते नवा। श्रीगोविन्दपदारविन्दयुगलध्यानावनद्धात्मन- स्तत्सव हि ममापराधमधुना शुद्धाः क्षमध्व बुधाः ! ॥ दशमसर्गः:, पृष्ठम् ३६॥ अस्य कविवरस्य कृतौ काव्यविषयिणी विदग्धता नूत्ना रीतिश्च नैव राजते। केवलं श्रीगोविन्दपदारविन्दयुगलध्यानजनिका पाठकानां कृते अमन्दानन्ददायिका शब्दावली शोभते काव्यस्य प्रारम्भः कविनाऽधिवृन्दावनं वसन्ते समायाते सति निकुञ्ज वभूव वल्मीकभवः कविः पुरा, ततः प्रपेदे भुवि भ मेण्ठताम् । स्थितः पुनर्यो भवभूतिरेखया, स वर्तते सं प्रति राजशेखरः । राजशेखरस्य आकूलाद् रत्नसानोर्मलयवलयितादा च कूलात् पयोधे- यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कवदन्तु । मृद्वीकामध्यनिर्यन्ममृणरसझरीमाधुरीभाग्यभाजाम्- वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ।। कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वांसः। नृत्यति पिनाकपाणी नृत्यन्त्यन्येऽपि भूतवेतालाः । पण्डितराजजगन्नाथस्य भ्रमरनिकुरम्बेषु गुञत्सु सत्सुवसन्तरागे मनोहरेण वसन्तवर्णनेन सह कृतः-- मधुरिपुरिह विहरति मधुमासे। माधविकासुमधुरमधुमादितमधुकरनिकरविलासे । ध्रुवपदम्। सुललितवञ्ज लकुसुमपरागपरागितमधुकरपुञ्ज कुसुमितकुन्दविदलवकुलावलिसुरभितमञ्ज निकुञ्ज ॥१ नवमलयजवनघनपरिरम्भणसुरभिपवनशुचिगन्धे । प्रियविरहानलविकलवधूजनगञ्जनमबलनिवन्धे ॥२ सरसरसालकुसुमरसतुन्दिलनवकोकिलकलरावे । मदनविनोदसमोदवधूजनविरचितबहुविधभावे ॥३ अतिनववरुणतरुणकरुणागुरुकिंशुकललितपलाशे । कुसुमितकाननपुञ्जमञ्जुरण (रज्जितन) वकमलाशे ॥४ तरुणतमालविमलनवदलरुचितुलितनरकरिपुशोभे मनसिजविशिखदूनयुवजनविरचितयुवतीजनलोभे ॥७ प्रथमसर्गः, पृष्ठम् ४१ । एतादृशेन सुन्दरेण भावनाभरेण प्रकृतिचित्रणपरेण कोमलपदा- वलिवलितेन ललितेन मधुरपदबन्धनिबद्धेन स्फीतेन गीतेन रञ्जितं रम्यं भव्यं प्रस्तुत रागकाव्यं राजतेतराम् । वसन्तवर्णनात्मकस्याऽस्य रागोऽपि वसन्तः । स्वर्णे सुगन्धयोगः । अत्र ध्रुवपदं विहाय सप्तपदानि एव वर्तन्ते । काव्येऽस्मिन् कविना सकलेषु गीतेषु सप्तपदानामेव संसृष्टि: विहिता। परम्पराअनुसारेण - अष्टपदानामेव संसृष्टि: समीचीना। महाकविजयदेवस्य प्रत्येकगीते पदाष्टकं प्राप्यते। अस्मात् कारणादेव सकलेऽपि सुधीसमाजे गोतगोविन्दस्य प्रत्येकगीतकृते अष्टपदीति सज्ञा- ऽस्ति । अस्यां दशायां प्रस्तुतरागकाव्यगोतस्य कृते सप्तपदी इति नामकरण- नासमीचीनम् । अयमाशय:-अष्टपदीति संज्ञा बोधकगीतिस्तु - । 'गीतपीतवसने' स्वल्पः एव प्राप्यते । प्राधान्यं बाहुल्यञ्चाऽस्मिन् रागकाव्ये सप्तपदात्मकगीतस्यैव दृश्यते । अस्तु, प्रकृतमनुसरामः । काव्येऽस्मिन् सहृदयहृदयहारिणः काव्यमाधुर्यधारिणः पाठकानां हृदयस्य पठनसमय एव सरलतरलकारिणः बहवः गीतनिवहाः राजन्ते । माधवस्य वियोगे कामबाणेन नितरां दन्दह्यमाना राधा भ्रमति विलपति विषीदति रोदिति अथ च शीतलसुगन्धिनं मलयाऽनिलमपि विषमिव कलयति सा--पुच्छति च स्वसखीं -'स्मरति न मामपि वत वनमाली' । एतादृशं गीत प्रपठ्य आनन्दमनुभवन्तु नाम अध्येतार:- माधव ! बहु विलपति तव राधा । मदनविशिखचयविरचितबाधा चटुलपटीरस रभिमतिधीरं कलयति विषमिव मलयसमीरम् ।। नयनसलिलकणकलिलनिचोलम् वहति विरहसितमपि च कपोलम् ॥ स्तिमितचलितविनिमीलितनयनम् श्रयति च नवनलिनीदलशयनम् ।। नवमलयजरसमपि मृगनाभिम् । गणयति विधुमपि गरलसनाभिम् ।। मामपि वदति समदमिति विविधम् । हरिमनुनय सखि ! नय मम सविधम् ॥ निगदति विरचितकरुणविरचनम् । हरिहरिहरिरिति हरिरिति वचनम् ।। चतुर्थसर्गः, पृष्ठम १७ । अत्र कविना राधायाः विरहजनितभावनायाः प्रकटीकरणाय अलङ्कत भाषायाः प्रयोगो नैव विहितः । विरहिण्याः राधायाः तादृशीमानस- भावनाऽभिव्यक्तये प्रसादगुणपूर्णभाषा प्रयुक्ता। तेन पठनसमय एव पाठक: भावविह्वलो भवति ।
मम देहम् । विज्ञानां काव्यमर्मज्ञानां मते सद्यः भावविह वलीकरणक्षमता- सहिता कविता एव उत्कृष्टकाव्यकोटौ परिगण्यते । एतद्रहिता केवल- समासबहुलशब्दपटलमात्रण संवलिता कविता तु अधमकाव्यकोटौ स्वीक्रियते । उत्कृष्टकाव्यनिर्माणनिपुणाः सिद्धसारस्वता: जनसमाजे समादरणीयाः कविगणाः अङ गुलिगणनीयाः एव भवन्ति । इत्थमलं प्रतिपलं 'हरिहरिहरिहरिरिति' विलपनशीलं राधिकया संगीतं गीतमुपरि चचितं वसन्तरागे ग्रथितं महितं वसन्तवर्णनञ्च पठितं पाठकैः । सम्प्रति विरहविधुराया राधायाः भवति च यत्र प्रतिक्षणं रस- चर्वणमेतादृशं मर्मस्पशिविरहवर्णनमपि पठ्यताम् यथा- कि करवाणि विधुरा। विरमति मधुरजनी मधुरा ॥ ध्रुवपदम् दहति विरहदहनो सखि ! कलयामि विपिनमिव गेहम् ।। वहति मलयमरुदहह !! निकामम् । बोधयतीव शयितमपि कामम् ॥ बलति वरुणदिशि शशधरबिम्बम् । हरिरधुनाऽपि करोति विलम्बम् ।। व्यथयति मामयमपि हिमधामा। रमयति हरिमिह काऽपि सकामा ।। स्मरति न मामपि वत वनमाली। जीवति न खलु कुसुमशरशाली। कमपि विहितमति गुरु किमु पापम् । प्रियदर्शनमपि दुरापम् ॥ किमिह वृथा विलपामि सखेदम् । जीवनमपि वरमिह न ममेदम् ।। सप्तमसर्गः, पृष्ठम् । २६-२७ । येन १२ गीतेऽस्मिन् कविना समासपूर्णपदानां प्रयोगो न विहित.। अथ च विरहभावनाव्यक्तीकरणाय विरभति, दहति, वहति, वलति, स्मरति प्रभृतीनां प्रसङ्गानुकूलभावोबोधिकानां क्रियाणां प्रयोगः कृतः । अनेन कारणेन गीतपठनसमय एव भावजगति विचरणशीला: पाठका: मोमुद्य- मानमानसाः भवन्ति । अयमेव कविप्रतिभायाः पटिमा अस्य गीतस्य गरिमा महिमा च। कथनस्याऽयमाशयः यदस्मिन् गीतेऽपि सहृदयानां पाठकानां हृत्तलस्य तरलीकरणक्षमता दध्वन्यते । गीतपीतवसनस्य सम स्तेषु गीतेषु महाकविजयदेवस्य गीतेष्विव गीतस्याऽन्तिमपदे कवेनाम न प्राप्यते । एतद्विपरीता स्थितिस्तु इयमस्ति यदद्यावधि प्रकाशितेषु समस्तेषु रागकाव्यषु गीतान्ते कवेर्नामप्रयोगस्य परम्परा दृश्यते। अस्मिन् रागकाव्ये कथासंयोजनकृते गीतानां मध्ये मध्ये विभिन्न- वृत्तषु निर्मिताः काव्यसौन्दर्यभृताः सरसा: श्लोकाः अपि सन्ति । श्लोकेषु कविवरेण संस्कृतकाव्यजगति प्रसिद्धानां मात्रिकवणिकवृत्ताना मेव प्रयोगो विहितः। अप्रसिद्धषु वृत्तेष्वेकस्मिन् स्थले नर्दटकवृत्तस्य प्रयोगः प्राप्यते काव्येऽस्मिन् । ' तेन इत्यनुमीमहे यदयं कविवरः सरस- मधुरतरगीतनिर्माणवद् विभिन्नवृत्तेषु श्लोकनिर्माणेऽपि निपुणः आसीत् । तेषु कतिपयश्लोकाः अध्येतृ णां मनोविनोदायाऽत्र उध्रियन्ते । आकाशे आखण्डलदिशि अखिलं जगद् श्रमश्रान्त कुर्वन् तमस्तोम विघटयन् सोमः उदेति । श्रीश्यामरामकविः तस्य वर्णनं कठिनोत्प्रेक्षया गभितेन कल्पनाकलितेन वृत्तजातेन विदधाति । यथा -- वलति विमलरङ कुश्यामलाङ्कः शुचिश्री- विदलकुमुदवृन्दाऽऽनन्दनोऽमन्दमिन्दुः । हरिहरिदबलायाः केशवेशस्समन्ता- द्वलयित इव दाम्नाऽमन्दकुन्दावलीनाम् ।। स्फुरति सुरवराऽऽशासारसस्यालिकेऽसौ, तिलक इव कलावान् कल्पतश्चन्दनेन । S १३ -- असितमृगमिषेणाप्यत्र मध्येऽतिशुद्ध, मृदुलमृगमदानां बिन्दवोऽमी वसन्ति । वलति वलभिदाशासुन्दरी कुन्दवृन्द प्रतिरचितमिवेन्दुः कन्दुकं सुन्दरश्रीः । यदिह मृगमिषेणापीदमापीय मन्द, निवसति मकरन्द वृन्दमिन्दिन्दिराणाम् ।। सप्तमसगः, पष्ठन २४-२५ अत्र कविः सौन्दर्यमन्दिरस्य चन्दिरस्य स्वरूपवर्णनसन्दर्भ 'विमलरङ- कुश्यामलाङ्कः' इति पदावले: प्रयोग विधाय दिशानायिकायाः क्रीडनार्थ निशानाथस्य इन्दो:तुलनां कोमलेन कुन्दकुसुमनिर्मितेन 'कन्दुकेन सह परिकल्प्य पण्डितानां पुरत: प्रकटयति स्वकीयप्रतिभापाटव स्मार- यति च वक्रोक्तिमिरिता नैषधकारश्रीहर्षस्य मनोमुग्धकारिणी कविता- कामिनीम् । अस्मिन् रागकाव्ये एतादृशाः भावभृताः काव्यसौन्दर्यधृताः अनेके: अपरेऽपि श्लोकाः वर्तन्ते। तेषु श्लोकसमूहेषु शब्दशास्त्रवैदुष्यपरि- चायकक्रियाविलसितैकस्य श्लोकस्य आस्वादोऽनुभूयताम्- समीर इह मालय: किल विधुश्च गरलायते मनसिजः कृतान्तायते । तदत्र विरहव्यथाव्यसनसन्निपातेऽथ सा, रथाङ्गधर ! सर्वथा क रु तथा यथा प्राणिति ! चतुर्थसर्गः, प.ष्ठम् १६॥ रूपकालङ्कारगभितस्यैकस्याऽन्यस्याऽपि श्लोकस्य रसास्वादो विधीयताम् । तद्म युग्मं कठिनधनुषी मार्गणास्तत्कटाक्षा. उच्चैर्नीसा वलति नलिक केशपाशोऽपि पाशः । - कृतान्तदूतायते, १४ अस्त्राण्येतान्यहह !! मदनाऽऽयासकारीणि तस्याः, शङ्क पङ्कहनयनया निज्जितोऽभून्मनोभू ॥ तृतीयसर्ग:, पष्ठम् १४ ॥ सुन्दरसूक्तिरञ्जितस्य रसिकजनमोहकस्यैकस्यान्यस्याऽपि श्लोकस्य भावनाभिः संस्तवः प्राप्यताम् + काञ्चीदामरसाद्विराममगमन्निश्वासकोष्णं मखं, निष्पन्दं नयनं च्युता विरचिताः कस्त रिकापत्रिकाः । कान्ता प्रीतिमवाप कामपि तथाप्याहो !! रहोरम्भिता, वामानां किल कामकुञ्चितधियां वामैव रीतिः परम् ॥ दशमसर्गः: पृष्ठम ३४॥ श्लोकेऽस्मिन् श्यामरामकविना कामशास्त्रसिद्धान्ताऽनुसारेण विपरीत- रतिवर्णन विहितम् । परं भगवद्विषयकत्वात् तन्न मह्यं रोचते। अत्र विषये निवेदनमस्ति-प्रकाशितेष्वप्रकाशितेषु स्वरताललयबद्ध षु प्राय: सर्वेषु रागकाव्येषु आचार्यवात्स्यायनप्रणीतकामसूत्र चितकामशास्त्रीय- सिद्धान्तानां पारिभाषिकशब्दावलीनाञ्च प्रयोगः निश्चप्रचमवाप्यते अत एव गीतगोविन्दे महाकविजयदेवेन विलासकलासु कुतूहलशालिनां कृते एव गीतगोविन्दस्य रचना मया कृता इत्युद्घोषणा काव्यारम्भे स्पष्ट- रूपेण विहिता। अतः तदीयपरम्परायां लिखितेषु रागकाव्येषु तस्य प्रभावः कथन्न स्यात् । एतत् सर्वं मया रामगीतगोविन्दस्य भूमिकायाँ प्रतिपादितत् । अतः अस्य काव्यस्याऽपि निर्मितिः ‘कान्तां राधामाधव- केलिकौशलकथां' पाठाकान् श्रावयितुमेव सञ्जाता । अस्मात् कारणादेव श्यामरामकविना विपरीतरते: चित्रण' विहितम् । अधिकं किं ब्रू मो- वयम् । काव्येऽस्मिन् ‘एकत: वसन्तवर्णनमस्ति अन्यतः गोपीपतिः युवती- निकरे न त्यति काऽपि त चुम्बति काऽपि त जल्पति काऽपि त परिरभ्य रमते' इति चित्रणमस्ति । पुनः एकस्मिन् स्थाने वृन्दावनविपिन गतया कयाऽपि गोपिकया 'नितान्त मधुरमुरलीवादयन्त मुरारिं मया सह रमय' इति प्रार्थना क्रियते; अन्यत्र एवं दृश्यते-परमकुपिता राधिका १५ निजधाम निजगाम; तत्र तां मलयाऽनिलोऽपि दहति, तुदति, मनसिजोऽपि विषशीकरं किरति, रजनीकरमनलमिव कलयतीत्यवलोक्यतेः । इत्थमन्यस्मिन् स्थले राधिकाप्रेमसाधिका सखी-हे मधुसूदन ! सा परितापं वहति, अनन्तगुण भवन्त प्रणमति इति वदति । तदनन्तर- मन्यत्र हे सखि ! वने वनमाली विलपति, मा कुरु विलम्बं वृन्दावनविपिन- मभिसर यौवन' विफलं मा गमय इत्यस्ति । कथनस्याऽयमाशय:- काव्येऽस्मिन् सर्वत्र शृंगाररसस्य प्राज्यं साम्राज्यं नयनगोचरीभवति । प्रस्तुतकृतिकारश्यामरामकविनाऽपि काव्यान्ते स्पष्टरूपेण उद्घोषितम् -- शृंगारसारतरमारकथासमेत', श्रीमन्मुकुन्दचरणस्मरणानुबन्धि । श्रीश्यामरामरचित मुखभूषणाय, श्रीगीतपीतवसन सुधियां सदास्तु ॥ दशमसर्ग: :, प.ष्ठम् ३३ । काव्येऽस्मिन् केचिन श्लोकाः कानिचिद् गीतानि च त्रुटितान्यासन् । त्रुटितगीतानां पूर्तिः मया यथामति कृता। यथासंभवं त्रुटितगीतांशंस्य पूति: गीतकारशैल्यामेव विहिता । श्लोकांशानां पूर्तिस्तु कारणवशान्न कृता। त्रुटितांशपूर्तिपदावली कोष्ठान्तर्गता। यथा तानि गीतान्यधो खिखितान्य वलोक्यन्ताम् अतिनववरुणतरुणकरुणागुरुकिंशुकललितपलाशे । कु सुमितकाननपुञ्जमज्जुरण (रञ्जितन) वकमलाशे ॥ प्रथमसर्गः:, पृष्ठम ४ । मधुरमधूकमधुरवनिताऽधरकलितिनिजाधरपानम् । शुचिहिमरुचिरुचिराननया कृतदृढपरि (चुम्बनदानम्) । (कनककलितकलमेखलया) ऽबलया परिकलितदुकुलम् । मदनविनोदरसैरनुरञ्जिततरुणतरुणतरुमूलम् ।। द्वितीयसर्ग:, पष्ठम ६ । - १६ १ सुमधुरपवने रतिपतिभवने सुरभिणि मञ्ज निकुञ्ज । वसति रसालरसाल(सतरुतल) विलसदधिकपिकपुञ्ज । पञ्चमसर्गः, पृष्ठम् २० । अस्य रागकाव्यस्य संपादनसम्बन्धे समये समये सुहृद्वर्य- श्रीतारिणीशझामहाभागेन महती सहायता प्रदत्ता। तत्कृते विद्वद्वर्याय झामहोदयाय अनेकान् धन्यवादान् विदद्मो वयम् । छन्दसां सूची- निर्माणे डॉ. शिवशङ्करत्रिपाठिमहोदयेभ्यः सहायताऽधिगता। सोऽपि धन्यवादाह: विजयतां । गोपीपतिः । गच्छतः स्खलन काऽपि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ।। गणेशचतुर्थी १६७४ प्रभातशास्त्री गीतपीतवसनम् क्रमः १-७ ८.११ १२-१४ १५-१८ १६-२१ भूमिका प्रथमसर्गः रमितरमाधवः द्वितीयसर्गः रसाधिकराधिका तृतीयसर्ग: विधुरमधुसूदनः चतुर्थसगः साऽऽनन्दनन्दात्मजः पञ्चमसगः सबाधमाधवः षष्ठसग: समानरमानाथ सप्तमसर्गः सोत्कण्ठवैकुण्ठः अष्टमसर्गः विक्षललक्ष्मीपतिः नवमसर्ग: साऽनुनयनन्दतनयः दशमसर्गः प्रमुदितमाधवः पद्यानामकाराद्यनुक्रमणिका समागतवृत्तलक्षणानि समागतरागाणां सूची २२-२३ २४.२८ २६-३० ३१-३२ ३७.४१ ४२-४३ ४४
*॥ श्रीगणेशाय नमः ।। *
॥ अथ गीतपीतवसनं प्रारम्यते ॥
-
बुधाः !
हरिस्मरणसादरं यदि मनो मनोजन्मनः,
कलासु विमलासु चेत् किल कुतूहलं वर्तते
तदानुपदमुल्लसन्मधुरिमैकधु-
सुधारससमा रसैः शृणुत मामकी भारतीम् ॥१
गीतं बुधैर्यदि सुधासममेव पीतं,
श्रीकालिदासजयदेवकविप्रणीतम्
ताम्बूलतुल्यमपि ते मम मानयन्तु,
श्रीगीतपीतवसनं मदनुग्रहेण ॥२
गीतपीतवसनम
वन्दनीयमिह नन्दनन्दनं, देवकीहृदयचारुचन्दनम्।
श्यामरामकविना प्रणम्य तं, गीतपीतवसनं वितन्यते ॥३
गुर्जरीरागेण गीयते
!
नन्दहृदयनवचन्दन !
कुलनन्दन ए!
यदुकुमुदावलिचन्द्र ! जय गोविन्द ! हरे!॥१
हतविबुधाधिपशासन ! भयनाशन ए !
धृतगोवर्द्धन ! धीर ! जय गोविन्द ! हरे ! ॥२
अशरशराशनदारण ! हतरावण ए
झटिति विहिसितकंस ! जयगोविन्द हरे ! ॥३
तातवचनहतरेणुक ! जितधेनुक ए !
दलितमहीसुतदम्भ ! जय गोविन्द ! हरे ! ॥४
ललितकपटपटुवामन ! जनपावन ! ए !
विशमितबलिसंरम्भ ! जय गोविन्द ! हरे !॥५
असितसरोरुहसुन्दर ! गुणमन्दिर ! ए !
अतिनन्दितयदुवृन्द ! जय गोविन्द ! हरे! ॥६
दशरथवंशधुरन्धर ! घनबन्धुर ए !
कलितमुदितसुग्रीव ! जय गोविन्द ! हरे ! ॥७
प्रथमसर्ग:
३
उद्धतविततवसुन्धर ! नतकन्धर ए !
वितर सुखं विबुधेश ! जय गोविन्द ! हरे ! ॥
.
राधापयोधरनखक्षतदानदक्षो,
वक्षोजकुङ कुमरसैरतिलोहितान्तः
व्याकोषकोकनदराजिविराजमानः,
पाणिः पुनातु विमलो मुरलीधरस्य ॥४
समायाते वृन्दावनमधिवसन्ते सहचरी-
सहस्रः सानन्दं सह विहरमानस्य' रहसि ।
निकुञ्ज गुञ्जत्सु भ्रमरनिकुरम्बेषु सरसं,
विलासः कंसारेः सखि ! बहुरसोऽयं विजयते ॥५
वसन्ते
विरहिणीनामतितरां,
दुरन्ते सामन्ते वितरति निजाज्ञामिति मुदा ।
पिकव्याजात् कान्ताः प्रियतममुपाश्लिष्य बहुशो.
रमन्तां कान्तारे प्रियसखि ! मुकुन्दो विहरति ॥६
कान्तानामथ
वसन्तरागण गीयते
मधुरिपुरिह विहरति
मधुमासे ।
माधविकासुमधुरमधुमादितमधुकरनिकरविलासे ।।
ध्रुवपदम् ।
१. विहरमाणस्येत्युचितः ।
गीतपीतवसनम
सुललितवञ्ज लकुसुमपरागपरागितमधुकरपुञ्ज
कुसुमितकुन्दविदलवकुलावलिसुरभितमजुनिकुञ्ज ॥१
नवमलयजवनघनपरिरम्भणसुरभिपवनशुचिगन्धे ।
प्रियविरहानलविकलवधूजनगञ्जनमबलनिबन्धे ॥२
सरसरसालकुसुमरसतुन्दिलनवकोकिलकलरावे ।
मदनविनोदसमोदवधूजनविरचितबहुविधभावे ॥३
अतिनववरुणतरुणकरुणागुरुकिंशुकललितपलाशे ।
कुसुमितकाननपुञ्जमञ्जुरण ( ) वकमलाशे ॥४
नवकुवलयनयनारतिसरभसयुवजनजनितविहारे ।
मत्तमधुपपटलीपटुतरझङ्कारमुखरसहकारे
सुरचितचम्पकचयकलिकावलिकलितमदनबलिदीपे।
वलितमनोभवधनुरनुपमपटुगुटिकायितनवनीपे
तरुणतमालविमलनवदलरुचितुलितनरकरिपुशोभे
मनसिजविशिखदूनयुवजनविरचितयुवतीजनलोभे ॥७
॥५
रसालरससालसभ्रमरविभ्रमभ्राजितान्,
करम्बितपिकीपिकप्रकरकूजितैःपूजितान् ।
नयन्ति पथिकाङ्गनाः प्रियकथाभिरस्तक्षणाः,
क्षणादिह हि सव्यथाः कथमपि स्मराद्वासरान् ॥७
प्रथमसर्गः
५
इह रसालरसालसकोकिलाकलरवेण रवेण बतालिनः ।
अबलया वलयायितमुद्रया, विरहितस्य हि कस्य न भूयते॥८
अभिनवकुरुविन्दसुन्दराणि,
स्फुटितमनोजकृशानुदारुणानि ।
अविरलमधुना वियोगिनीनां,
विदधति शोकमशोकपल्लवानि ॥
स्मेराम्भोरुहिणीवनीघनपरीरम्भातिसम्भावितो,
रेवावारिविसारिचारुलहरीसानन्दमान्दोलयन् ।
मन्दं मन्दमुपैति चन्दनवनीवृन्दादमन्दादरं,
नन्दावासविलासिनीजनमनोहारी वसन्तानिलः ॥१०
विदलितनवमल्लिकाऽऽदिवल्ली
बहलविलोचनचारुगन्धबन्धुः ।
इह मलयतटीसमीरणोऽयं,
प्रसरति पान्थनितम्बिनीकृतान्तः ॥११
अथ रथचरणाऽऽयुधं निकुञ्ज,
स्थितमवलोक्य वधूजनस्य पुञ्ज ।
मनसिजविशिखप्रवृद्धबाधां,
रहसि सखी निजगाद ( राधाम् ॥१२
गीतपीतवसनम्
वामकरीरागण गीयते
मधुरिपुरिह युवतीनिकरे।
विलसति सरसविलासपरे।
ध्रुवपदम्
मञ्जुलमलयजपङ्कविलेपितमधिकवलितमिदमङ्गम् ।
वहति च रमयति गोपवधूमतिबन्धुरनयनविभङ्गम् ॥१
काऽपि मनोजविनोदवशेन कुरङ्गगञ्चति कृष्णम् ।
चुम्बति काऽपि मुखे सुखसागरमच्युतमत्र सतृष्णम् ॥२
काऽपि निकुञ्जगुञ्जदलिपुञ्जमञ्जुतरमधुरविरावम् ।
अनुकलयति हरिणा सह दृढ़परिरम्भणसमुचितभावम् ॥३
कलयति काऽपि कुतूहल कृत्रिमकोपवती करमूले ।
माधवमिह कलयन्तमलं मदनप्रमदेन दुकूले ॥४
श्लिष्यति काऽपि हरिं प्रमदा बहु विहसति काऽपि सरागम् ।
रमयति काऽपि मुकुन्दमतीव च गमयति चिरमनुरागम् ॥५
जल्पति काऽपि हरिश्रवणे युवती हृदयेशयमन्त्रम् ।
रचयति तल्पममुं रमयितुमपरा विजितस्मरतन्त्रम् ॥६
काऽपि हरिं परिरभ्य चिरं रमते रभसेन च बाला।
गायति काऽपि मुकुन्दयशो बहुशो जितकोकिलमाला ॥७॥
प्रथमसर्ग: १ इह विहरति वल्लवाऽबलाभिः, सह मकरध्वजबाणविह्वलाभिः । मधुरिपुरधिवृन्दमिन्दुबिम्बोपमवदनो मदनोद्धरेण धन्यः ॥१३ वारं वारं कलयति मृगीलोचनानामुरोजं, हारं हारं मधुरवचनैनि ( मरुचिरस्मेरवक्त्रारविन्दः, पायं पायं मधुरमधरं नन्दति श्रीम कुन्दः ॥१४ रमयति वनमाली मन्दमिन्दीवराक्षी रभिनवघनतालीमूलकान्तिनितान्तम् मदयति मदिराक्षीकेलिसाक्षी मनोजः, प्रसरति सरसोऽयं मालयो गन्धवाहः ॥१५ नोलेन्दीवरसुन्दरस्य मुरलीमाधुर्यधुर्योल्लस- सन्धोरध्वनिधोरणीभिरचिरादेकान्तमानीतया। वृन्दारण्यनिकुञ्जमजुभवने सार्द्ध कुरङ गीदृशा, मन्दं नन्दनिकेतनन्दनरहःक्रीडाकलापं स्तुमः ॥१६ इति श्रीगीतपीतवसने रमितरमाधवो नाम प्रथमसर्गः॥
द्वितीयसर्गः
विलसति मधौ राधासर्वाऽनुरोधिनि माधवे,
प्रतिहतगुणोद्रेकादेका गता न चिराबहिः ।
मधुरिमसुधासध्रीचीनां गिरामथ वाचिका,
रहसि करुणं ह्रीणा दीना जगाद सखीजनम् ॥१
मालवरागण गीयते
मम
सखि ! हे विरचितरासविलासम् ।
स्मरति मधुरम रलीधरमिह हि;
मनो
सुललितहासम् ॥
ध्रुवपदम्
तरुणतमालविमलनवदलसकमलनवजलधरनीलम् ।
मदनवशीकृतनवयुवतीजनकृतमुखचुम्बनलीलम् ॥१
द्वितीयसर्गः
॥४
चटुलपटीरतिलकमभिनवपरिकलितवलितवनमालम् ।
पीतवसनरुचिविजितरुचिरविरुचिततडिदम्बुदमालम् ॥२
वलितविलोलविलसदङ्ग लिदलश्रुतिसुखरितवेणुम्
मनुजदनुजम निविबुधगणस्पृहणीयचरणगतरेणुम् ॥३
अमलकमलदलविमलनयनयुगलं रभसेन सलीलम् ।
चकितचमूरुरुचिरनयनारदनच्छदखण्डनशीलम्
बहलमहारजनैररुणानि युवतिवसनानि हरन्तम् ।
तरुणतपनतनयातटभुवि सह हरिण दृशा विहरन्तम् ॥५
मधुरमधूकमधुरवनिताऽधरकलितनिजाधरपानम् ।
शुचिहिमरुचिरुचिराननया कृतदृढपरि (चुम्बनदानम्) ॥६
(कनककलितकलमेखलया)ऽबलया परिकलितदुकूलम् ।
मदनविनोदरसैरनुरञ्जिततरुणतरुणतरुमूलम् ॥७
मन्दं मन्दं मधुरमुरली वादयन्तं नितान्तम्,
प्रातर्वेलाकुवलयदृशां ह्लादयन्तं मनांसि ।
स्मारं स्मारं युवतिहृदये हृद्यहारं मुरारि,
वारंवारं सखि ! मनसिजो वर्तते किं करोमि ॥२
१
०
गीतपीतवसनम्
मालवरागण गीयते
सखि ! हे संयुगशमितसुरारिम् ।
रतिपतिविशिखविषादितयाऽथ ;
मया सह रमय मुरारिम् ।।
ध्रुवपदम्
वृन्दावनविपिनं गतया गतमभिनवकुञ्जकुटीरम् ।
मृगमदपकविलेपितया परिलेपितचटुलपटीरम् ॥१
नवनिधुवनपरिलज्जितया सुमधुरवचसा छलयन्तम् ।
शिथिलितजघनवसनलतया कुचमण्डलमाकलयन्तम् ॥२
कुसुमशयनमधिशायितया हृदये मम सुचिरशयानम् ।
चुम्बितकृष्णवदनसरसीरुहया रचिताधरपानम् ॥३
विरचितदृढपरिरम्भणया कृतदृढपरिरम्भमुदारम् ।
शिथिलितसकुसुमकुन्तलया नखलिखितपयोधरभारम् ॥४
श्रमविनिमीलितनयनसरोरुहयाऽतिपुलकितशरीरम्
श्रमसलिलाऽऽकुलकोमलतनुलतया कृतचीरसमीरम् ॥५
मृदुतरमधुरसुभाषितयाधिकसमुदितमुदितमनोजम्
मदधरशीधुरसैरनुरञ्जितसुन्दरवदनसरोजम् ॥६
सुरतरसैरतिसालसया तमनीहितरतिसुखशेषम् ।
स्तिमितनयननवखञ्जनया जनिताधररदपदरेखम् ॥७
द्वितीयसर्गः
कीडवीडितवल्लवप्रणयिनीनेत्राञ्चलैश्चञ्चलै-
स्सानन्दं सकुतूहलं सचकितं सस्मेरमुद्वीक्षितम् ।
स्मारं स्मारमपारमोहसुमहाकुपारनीरोदरे,
मज्जाम्यालि ! तमालनीलमधुना दामोदरं सुन्दरम् ॥३
शिशिरसुगन्धबन्धुमलयाऽनिलबन्धुरता-
मदकलकोकिलस्य कलहैविलसन्मदनाः ।
कथमथ यापयेयमधुना बलदिन्दुमती-
नवधनसुन्दरस्य विरहे ऋतुराजनिशाः ॥४
प्रोदश्चन्नयनाञ्चलेन सचमत्कारं कुरङ्गीदृशा,
सस्नेहं सरसादरं सरभसं सावस्मितं विस्मितम् ।
सानन्द समुदीक्षितो नवघनश्यामाऽभिरामाकृतिः,
कामं कामकलाकलापकुशलः कृष्णो वितृष्णोऽवतु ॥५
-
इति श्रीगीतपीतवसने रसाधिकराधिको
नाम द्वितीयसर्गः॥
तृतीयसर्गः
अथ
गतासु कुरङ्गविलोचना-
स्वधिगृहाणि मुहुविरहादितः।
मधुरिपुः समचिन्तयदुच्चकैः,
स विलपन् विपिने वत राधिकाम् ॥१
मालवरागण गीयते
हन्त मे दलति हृदयं चिरमसमशरबाधया।
ध्रुवपदम्
अहह !! निजगाम निजधाम किमु राधिका।
परमकुपितैव सुरतेकसुखसाधिका ॥१
वहति मलयानिलो दहति च कलेवरम् ।
तुदति हृदयेशयो हृदयमपि मे परम् ॥२
तृतीयसर्गः
१३
३
विफलमिह याति ऋतुराजमधुरा निशा।
अहमहह !! वञ्चितो हरिणरमणीदृशा ॥३
किरति मनसिजोऽपि मे मनसि विषशीकरम् ।
अनलमिव हन्त ! ! कलयामि रजनीकरम् ॥४
कलितबहुवेदनं वलितगिरिशारिणा।
विफलमिह जीवनं मृगनयनया विना ॥५
किमिह विलपामि मुषितोऽस्मि विधिना चिरम् ।
हत हृदय ! नो कथं दलसि वत माऽचिरम् ॥६
हा !! हन्त ! मान्दहति नियमेव कामः,
सन्तापजितमथाप्यतिनिष्ठुरोऽयम् ॥१
कि वाऽचरामि विलपामि किमत्र धातः !
कुत्राऽथ यामि विरहादिह हा !! हतोऽस्मि ॥२
स्मारं स्मारं दलति हृदयं बाधते मां मनोभू-
स्तां तां चेष्टां सुरतरचनासाधिका राधिकायाः ।
दृष्ट्वा यां यां भवति सुदृशः सन्निधाने सुधाभि-
दिग्धां स्निग्धां प्रमदमदनोन्मादसान्द्रो विनोदः ॥३
कटाक्षः पद्माक्ष्याः प्रथममथ चन्द्रेण यमदिक्-
समीरेणाऽभीक्ष्णं तदनु च ततः कोकिलरवैः ।
मनो मे सन्तप्तं मनसिशय ! सन्तापयसि कि,
वृथा धिक् त्वां बाणान् धिगपि तव धिक् पौरुषमपि ॥४
गीतपीतवसनम्
इन्दुबिम्बमिदमम्बरस्थित',
कामकुन्दकृतकन्दुकयुति।
मारयत्यपि च जीवयत्यपि,
स्मेरतद्वदनबन्धुरद्युति ॥५
तभ्रू युग्मं कठिनधनुषी मार्गणास्तत्कटाक्षा,
उच्चैर्नीसा वलति नलिक केशपाशोऽपि पाशः ।
अस्त्राण्येतान्यहह !! मदनाऽऽयासकारीणि तस्याः,
शङ्क पङ्कहनयनया निजितोऽभून्मनोभूः ॥६
स्वैरं नाभीविवरकुहरादुत्थिता रोमराजी,
राजीवाझ्या वलति कुपिता काऽपि किं कालसपी ।
यस्मादस्या विषमविषमालोकनादेव सर्वे,
मूर्छामृच्छन्त्यधिकमधुना धूतधैर्या युवानः ॥७
इति श्रीगीतपीतवसने विधुरमधुसूदनो
नाम तृतीयसर्गः॥
चतुर्थसगः
कलकूजपिकीसालतमालतलमास्थितम् ।
उवाच राधिकाप्रेमसाधिका माधवं सखी॥
कार्णाटरागण गीयते
केशव ! कलयति ! विविधविलापम् ।
सम्प्रति सा मधुसूदन ! सुदृढ़महह ! वहति परितापम् ।।
ध्रुवपदम् ।
कलय निलयगरलाऽऽयुधमुखभवमिव पवमानम् ।
चन्दनवनभवनं पवनं विधुमपि चिरमनलसमानम् ॥१
गहनविरहदवदहनशमाय वहति बिसकिसलयहारम् ।
शिशिरसरसमपि विकिरति हृदि नलिनीनवदलपरिवारम् ॥२
गीतपीतवसनम्
प्रतिपलविगलितनयनकमलदलसलिलकलिलमुखचन्द्रम् ।
उषसि तुपारकलाचितविमलकमलमिव वहति सतन्द्रम् ॥३
भवदभिसरणमनोजविनोदमनोरथपुलकिशरीरा।
रचयति सरसकुसुमशरशरनिकरैरपि शयनमधीरा ॥४
दिशि दिशि निशि शिशिरापगमीयशिशिरकरवदनमुदारम् ।
पश्यति रहसि भवन्तमहह ! विहसति विलपति सविकारम् ॥५
मृगमदरसनिचयेन चिरं मृगनाभिसनाभि शरीरम् ।
लिखति भवन्तमनन्तगुणं प्रणमति सपुलकमतिधीरम् ॥६
प्रतिपदमिदमिह वदति समदमदनस्य मदेन सशोषम् ।
कुवलयवपुषि सरुषि मनुपलगति' सुखदमपि वस्तु सदोषम् ॥७
समीर इह मालयः किल कृतान्तदूतायते,
विधुश्च गरलायते मनसिजः कृतान्तायते ।
तदत्र विरहव्यथाव्यसनसन्निपातेऽथ सा,
रथाङ्गधर! सर्वथा कुरु तथा यथा प्राणिति ॥२
देशाषरागण गीयते
माधव बहु ! विलपति तव राधा।
मदनविशिखचयविरचितवाधा।
ध्रवपदम्
१ चिन्तनीयः पाठः
चतुर्थसर्गः १७ चटुलपटीरसुरभिमतिधीरं। कलयति विषमिव मलयसमीरम् ॥१ नयनसलिलकणकलिलनिचोलम् । वहति विरहसितमपि च कपोलम ॥३ स्तिमितचलितविनिमीलितनयनम् । श्रयति च नवनलिनीदलशयनम् ।।४ भ्रमति विषीदति रोदिति सुचिरम् । ध्यायति तव मुखविधुमतिरुचिरम् ॥५ नवमलयजरसमपि मृगनाभिम् । गणयति विधुमपि गरलसनाभिम् ॥ ६ मामपि वदति समदमिति विविधम् । हरिमनुनय सखि ! नय मम सविधम् ॥७ निगदति विरचितकरुणविरचनम् । हरिहरिहरिरिति हरिरिति वचनम् ॥८ हे नन्दनन्दन ! निशामय वाम एष, कामस्तनौ वरतनोवितनोति बाधाम् त्वन्देव ! वैद्यसमहृद्य ! तदद्य सद्य- स्सञ्जीवयाऽधरसुधानिकरेण राधाम् ॥५ २ ॥ गीतपीतवसनम वंशीर्मुकुन्द ! शिशवोऽप्यधुनाऽधिवृन्दम्, चेद्वादयन्ति मधुरध्वनयस्तदीयाः । रोमाञ्चयन्ति चकितेन चलाचलाक्षी. मानन्दयन्ति मदयन्ति विषादयन्ति ॥६ क्षणमधुना मधुनाशन ! नाशनविधिकौतुकी कुपितः । अभिसर तनुजितमन्मथ ! मन्मथ इह तां मुहुर्दहति ॥७ मानं कृष्ण ! विमुञ्च सञ्चर मनाग् वृन्दावनं साम्प्रतम्, राधानेत्रचकोरिकाऽपि सचमत्कारं समाचामताम् । त्वद्वक्त्रेन्दुसुधारसं निपुणया सख्येति सन्देशित- स्सानन्दो जगतां सदाऽस्तु बहुलानन्दाय नन्दात्मजः ।।८ इति श्रीगीतपीतवसने साऽऽनन्दनन्दात्मजो नाम चतुर्थसर्गः ।।
पञ्चमसर्गः
मम निवसतः कुञ्ज सख्ये निवेदय वेदना-
मनुनय सखीङ्गत्वा रामां समानय मा चिरम् ।
इति निगदिता गोविन्देन स्मरातुरचेतसा
मनसिजवलद्बाधां राधां जगाद सखी वचः ॥१
गमय सफलतां वयोऽद्य बाले !
दमय चिरं विरहानलं मुरारे: ।
शमय सुवदने ! मनोऽभिमानं,
रमय मुकुन्दममन्दमम्बुजाक्षि ! ॥२
गुञ्जरीरागण गीयते
तरुवरपालीमधिगुणशाली।
सखि ! विलपति वनमाली।
ध्रुवपदम्
२०
गीतपीतवसनम
सुमधुरपवने रतिपतिभवने सुरभिणि मञ्जुनिकुञ्ज ।
वसति रसालरसाल ( ) विलसदधिकपिकपुळे ॥१
विरचय गमनं रमय च रमणं गमय मनो न विरामम् ।
लोचननलिनं मा कुरु मलिनं नयनजलैरभिरामम् ॥२
तव सखि ! सरलं कलयति तरलं विरचितदिवसविरामम् ।
निधुवनरुचिरं वनमथ सुचिरं सीदति सुदति! निकामम् ॥३
विलपसि विफलं यौवनमफलं मा कुरु तरुणि ! विलम्बम् ।
अभिसर विपिनं हरिरतिनिपुणं गमय हर्षमविलम्बम् ॥४
न वदसि मधुरं कलयसि विधुरं किमिति मनो न विरामम् ।
न नयसि हृदयं हरिमधि सदयं मदनविहितबहुबाधम् ॥५
कुरु हितवचनं परिमितवचनं रचय रचय हृदि हारम् ।
कुवलयनयने ! नवदलशयने रोचय रुचिरविहारम् ॥६
गुरुमभिमानं चिरमनिदानं परिहर विहर सकामम् ।
चल सखि ! चपलं सुखमतिविपुलं कलय कमलमुखि कामम् ॥७
सुललितलताकुञ्ज गुञ्जन् दुनोति मनोऽधुना,
ध्वनयति मधुध्वंशी वंशीमसौ मधुराकृतिः ।
पञ्चमसर्ग:
काष्ठां,
मानः।
वरतनु ! तव प्रोद्बोधाय त्वरापरमानसो,
रमणिरमणः क्लान्तस्वान्तः कथञ्चन वर्तते ॥४
जनय खञ्जनगञ्जनमञ्जनैर्नयनमञ्जय रञ्जय माधवम् ।।
अपि च किञ्चिदुदञ्चितपञ्चमं, सखि ! विपञ्चय मुञ्च रुषं वचः ॥५
सहचरि ! चरमाचगाम
दिनकर एष न ते नतोऽपि
रचयति करुणं रथाङ्गरामा,
सखि ! वचनेऽसि तथाऽपि किन्नु वामा ॥६
ममेयं कल्याणी नयनपथमायास्यति न वा,
निरानन्दं चेतो मनसिजमुदं धास्यति न वा, ॥
चिरं मे राधाया मधुरमधरं' पास्यति न वा,
वदन्नेवन्देव: कलयतु मुद' वो मधुरिपुः ॥७
इति श्रीगीतपीतवसने सबाधमाधवो
नाम पञ्चमसर्गः ॥
१. अधरमधुरः पाठस्तु मूले।
षष्ठसर्गः
ताङ्गन्तुमलसां राधामाधाय विटपोदरे
सादरं सा दरं हित्वा निजगाद रमाधवम् ॥१
लाठरागण गीयते
-
कुवलयनयना सीदति चिरविरचितशयना
ध्रवपदम्
कलयति कमलनयन ! तव वदनम् ।
शुचिहिमरुचिरुचिरं
सुखसदनम् ॥१
वहति महति विरहे बहुवारम् ।
शुचिहिमरुचिरुचिरं घनसारम् ॥२
रचयति रुचिरनयन ! मणिहारम् ।
त्वयि चिरयति तिरयति सविकारम् ॥३
पथि निदधाति नयनमतिविमलम् ।
तव पदखेदशमनमिह कमलम् ॥४
षष्ठसर्ग:
२३
३
स्रजमभिनवकुसुमैरपि तनुते ।
तामपि सितभुजगीमिव मनुते ॥५
कलयति सरससरसबिसवलयम् ।
घनवनमिव वृणुते रतिनिलयम् ॥६
विरमति सुरभिरजनिरिति सकला।
चिरयति भवति विषीदति विकला ॥७
स्तिमितनयनमन्तर्मीलितस्वान्तमीष
न्मुखरितमदनानि स्वान्तरानन्दनानि ।
कुवलयदलदामश्यामलध्यानसिद्धद्याऽ.
नुभवति हरिणाक्षी त्वन्मुखालोकनानि ॥३
ताम्बूलं नवकुङ कुम मलयजक्षोदाम्बुसिक्त चिरा.
दुन्मीलनवमालिकाविरचितां मालां विशालामथ ।
तल्पं सा परिकल्प्य तूर्णमधुनाऽनल्पव्यथा मन्दिरे,
सस्मेरस्मरविह्वला वरतनुस्त्वन्मार्गमालोकते ॥४
सरसरासरसेन स नासिकातलमिलन्म रलीतरलीकृतैः ।
मृगदृशां नयनरवलोकितो, जयति नन्दनिकेतननन्दनः ॥५
इति श्रीगीतपीतवसने समानरमानाथो
नाम षष्ठसर्गः ॥
सप्तमसर्गः
स्फुरत्ताराहारावलिवलितसन्नायकमणिः,
श्रमश्रान्त कुर्वन् जगदखिलमाखण्डलदिश: ।
तमःस्तोमसोमः प्रविरलमथोस्र विघटयन्,
मुदा वृन्दारण्यं विमलमिव कर्तुं बहिरभूत् ॥?
वलति विमलरङ कुश्यामलाङ्कः शुचिश्री-
विदलकुमुदवृन्दाऽऽनन्दनोऽमन्दमिन्दुः ।
हरिहरिदबलायाः केशवेशस्समन्ता-
द्वलयित इव दाम्नाऽमन्दक न्दावलीनाम् ॥२
स्फुरति सुरवराऽऽशासारसास्यालिकेऽसौ,
तिलक इव कलावान् कल्पतश्चन्दनेन ।
असितमृगमिषेणाप्यत्र मध्येऽतिशुद्ध,
मृदुलमृगमदानां बिन्दवोऽमी वसन्ति ॥३
वलति वलभिदाशासुन्दरी कुन्दवृन्द
प्रतिरचितमिवेन्दुः कन्दुकं सुन्दरश्रीः ।
-
सप्तमसर्गः
२५
यदिह मृगमिषेणापीदमापीय मन्द,
निवसति मकरन्द वृन्दमिन्दिन्दिराणाम् ॥४
समुदितमथ वीक्ष्य
सुचि रविलम्बिनि
माधवे विषण्णा।
वनमधि विललाप
शशधरवर्णनमेवमाचरन्ति
चन्द्रबिम्ब,
राधिका सा,
वसन्तरागेण गोयते
देहम् ।
किं करवाणि विधुरा।
विरमति मधुरजनी
मधुरा॥
ध्रुवपदम्
दहति विरहदहनो मम
सखि ! कलयामि विपिनमिव गेहम् ॥१
वहति मलयमरुदहह !!
निकामम् ।
बोधयतीव शयितमपि
कामम् ॥२
वलति वरुणदिशि शशधरबिम्बम् ।
हरिरधुनाऽपि करोति विलम्बम्
व्यथयति मामयमपि हिमधामा ।
रमर्यात हरिमिह काऽपि सकामा ॥४
गीतपीतवसनम
स्मरति न
मामपि वत वनमाली।
जीवति न खलु कुसुमशरशाली ॥५
कमपि विहितमति गुरु किमु पापम् ।
प्रियदर्शनमपि येन
सखेदम् ।
जीवनमपि वरमिह न ममेदम् ॥७
दुरापम् ॥६
किमिह
वृथा विलपामि
वासन्ती रजनी वनी कुसुमिता धीरः समीरः पुनः,
कालिन्दीजलबिन्दुतुन्दिलतमो मन्दं समुन्मीलति ।
एतेनाऽपि स केशवो यदि समायातो न केलीगृहम्,
तन्मन्ये मदनो मृतोऽस्ति यदि वा नायंऽधुनीते धनुः ॥७
आगतामथ वीक्ष्यैषा विषादविमुखीं सखीम् ।
आशङ्कय रमित' कृष्णं कयाऽपीदमुवाच सा॥८
विहरति हरिणा सहैव कापि,
स्मरसमरोचितवेशपेशलाऽन्या ।
मखरितरसनाऽऽवली
हरिपरिरम्भणसम्भृताऽऽत्मजन्मा ॥
मुकुन्दः कालिन्दीतटनिकटवाटीपरिसरे,
सरोजाक्षी वक्षोरुहि मदनलेखां विलिखति ।
सलीलं कस्तुरोसुललितमसीभिस्सपुलक
ललाटे पत्राली मृगमदविचित्रां रचयति ॥१०
सलीलं,
सप्तमसर्ग:
२७
परिहर सखि ! मूकतामयञ्च,
त्वदनुनयादपि नाऽऽगतो मुकुन्दः ।
तदिह
तमनुनेतुमद्य
सद्यः,
स्वयमपि हन्त !! ममासवः प्रयान्तु॥११
देशाषरागेण गोयते
सखि ! सह विहरति नवकविना।
ध्रुवपदम्
चकितच मूरुरुचिरवदना।
विरचितबिसकिशलयशयना ॥१
विदलितविमलकमलवदना ।
हरिपरिरम्भवलितमदना ॥२
घनतरतरलवलितवसना।
शिथिलितनीविगलितवसना ॥३
कोमलविमलपीनजघना।
विलसिततनुजितसजलघना ॥४
अरुणनलिनसमकरचरणा।
आलिङ्गिततरथचरणा ॥
विशदशिखरसमरुचिरदना।
चुम्बितनन्दतनयवदना ॥६
२८
गीतपीतवसनम
कृतककलहकलुषितहृदया।
पदयावकभृतहरिहृदया ॥७
मार! मारय न मां शिलीमुखै --
माधवोऽस्ति हृदयेऽथ सारय।
त निधाय हृदि यामि
संक्षयं,
यद्भवामि
पुनरस्य वल्लभा
उत्पत्तिम लये बभूव
भवतः पाटीरवाटीतटे,
क्रीडा साधुमधुः सखा सहचरी गङ्गातरङ्गावली।
सर्व शीतलमेव ते सहजतो जात वसन्ताऽनिलः ।
त्वं वढेरपि दारुणा कथमहो !! धिग्दैववच्चेष्टितम् ॥१४
राधिकाहृद्यतरहारविहार (
) भाका
सरोजास्यस्स नो देयादानन्दं नन्दनन्दनः ॥१५
इति श्रीगीतपीतवसने सोत्कण्ठवैकुण्ठो
नाम सप्तमसर्गः॥
अष्टमसर्गः
समागत प्राथरथ' प्रकुप्ता, मनोजबाणवणविह्वलाक्षी।
त सामवाचाऽनुनयन्तमने, जगाद नीलाम्बुदसन्निभं सा ॥१
-
भैरवीरागण गीयते
मा कुरु केशव ! कैतवमवगतमिव तव वञ्चनशीलम् ।
तामनुनय कुवलयनयनामिह रमयसि यामनिमीलम् ।।
ध्रुवपदम्
रजनिरजनि वितता रतिरभसरसेन कितव ! तव कामम् ।
मामथ वञ्चयसीह किमिति कुलिशोपमहृदय ! निकामम् ॥१
कुड कुमकलितललितकुचसङ्गतिसङ्गतशोणिमरूपम् ।
तुलयति निर्दय ! हृदयमिद तव नवधनगतचिररूपम् ॥२
चरणगलितनवयावकवलितमिद वपुरधिकमुदारम् ।
कलयति तब कुरविन्दकरम्बितकज्जलशैलनिकारम् ॥३
१. प्रातरित्युचितः ।
गीतपीतवसनम्
वलति च भवदधरे
मधुसूदन
! रदपदमिदमतिनीलम् ।
अभिनवविभ्रमशकलवलितमिव विमलपुरन्दरनीलम् ।।४
कथयति नखपदमुरसि ललितमिदमिह तव सुरतचरित्रम् ।
मामथ विविधवचनरचनैरनुनयसि सुचिरमिति चित्रम् ॥५
अति मधुरं वचनं तव माधव ! हृदयमदयमतिवामम् ।
कथमथ विनिहतवानसि किल निजमातुलमहह !! निकामम् ॥६
भ्रमवचननैरपि निगदसि नाम तदीयमहह ! ! कमनीयम् ।
हीरपि हृदि न भवति तव केशव ! कैतवमतिरमणीयम् ॥७
प्रियापादालक्त: कितव ! तव रक्तीकृतमिह,
स्फुटं वक्षो विक्षोभितमिव मनो नेत्रमरुणम् ।
तथाऽपि श्रीजाने ! वचनरचनैर्वञ्चयसि मा-
महो !! धन्यः कोऽयं विलसति वधूवञ्चनविधिः ॥३
राधे ! मा धेहि चित्ते रुषमति परुषं वाचिकं मञ्च कान्ते !
दृप्रान्तेनाऽपि मान्ते चरणनिपतित पश्य चण्डि ! प्रसीद !
यज्जात तद्धि जातं पुनरपि भविता नेदृशं कम शम,
श्रीकृष्णः संविदध्यादनुनयवचनान्येवमाभाषमाणः ॥४
इति श्रीगीतपीतवसने विलक्षलक्ष्मीपति-
र्नामाऽष्टमसर्गः
नवमसर्गः
तामथ विरहविखिन्नां,मनसिजविशिखैरहन्निशं विभिन्नाम् ।
परिचिन्तितहरिचरितां, सुललितचरितां जगाद सखी ॥१
गुञ्जरोरागण गीयते
राधिके ! विहर सुरतसुखसाधिके !
ध्रुवपदम्
कलय कमलमुखि ! रुषिरविरामम् ।
करुणमुरीकुरु तरुणि ! निकामम् ॥१
विमलकमलदलकोमलशयने ।
मधुरिपुमनुसर सरसिजनयने ! ॥२
निगदसि किमिति
वचनमति परुषम् ।
किमिह करोषि दयितमति सरुषम् ॥३
किमिति युवति ! बहु विलपसि विफलम् ।
यौवनमिदमिह कुरु सखि !
सफलम् ॥४
३२
३
गीतपीतवसनम्
जनय मनागपि नयनविकासम् ।
हरिमधि सुदति ! घटय भुजपाशम् ॥५
विरचय विधुमुखि ! सुललितहासम् ।
कुरु हरिणा सह सरसविलासम् ॥६
अत्रैव नैव कति सन्ति नवीननेत्रा-
स्तत्रारविन्दनयने रतिसाऽभिलाषाः ।
तत्कि विचारयसि कोपिनि ! गोपकन्ये !
धन्याऽसि यत्पुनरसौ त्वयि सानुरागः ॥३
राधे ! विधेहि परिरम्भणमेष वामः,
कामः कृतान्त इव मां कवलीकरोति ।
तन्वि! प्रसीद तदिहैति चिरं मुरारिः,
श्रीराधिकामनुनयन् मुदमातनोतु ॥४
इति श्रीगीतपीतवसने
साऽनुनयनन्दतनयो
नाम नवमसर्गः॥
दशमसर्गः
विषाद ( ) श्रीराधां मुदैत्यथ रमाधवः ।
प्रदोषे प्राह सव्रीडमिद सुमधुरं वचः ।।१
ह्रीणा वीणा भवतु दयिते ! मामकीना नवीना,
मूकीभावं भजतु च शुकी कोकिला व्याकुलाऽस्तु ।
वीची नीचीभवतु च सुधावारिधेः किञ्च वाचो-
वीची ले! विरचय चिरं चारुचामीकराङ्गि !॥२
समीरोऽयं धीरो मलयनिलयस्तन्वि! हृदये,
विसर्पत्कन्दर्पज्वलनमविलम्ब
ज्वलयति ।
अतो वीणावाणि ! स्नपय कृपया मां निजवच:-
सुधाधाराऽऽसारैस्तमपि परिनिर्वापय चिरात् ॥३
इत्यच्युतस्तामनुनीय
विवेश केलीशयनं रसाऽधिकाम् ।
ह्रिया विनम्रीकृतबन्धुराऽऽननां,
वनान्तरे काऽपि जगाद तां पुनः ॥४
राधिका,
३४ गीतपीतवसनम वासन्ती रजनी चकास्ति वलते राकानिशानायको, मन्दं मन्दमुपैति चन्दनवनीरन्ता वसन्तानिलः । तत् कि कोपिनि ! गोपयस्यविरतं लोभोदयं लज्जया, सार्धं श्रीमधुवैरिणा निधुवनारम्भः समुज्जृम्भताम् ॥५ स्फुटवचनमिदं निशम्य सम्यक, चतुरसखीचरितं विचारयन्ती। शयनमधिजगाम कामबाण- 'प्रहितमना नयनाभिरामनेत्रा ॥६ अथ मनोजमनोरथलुब्धयोर्मुदितयोर्युवतीयदुनाथयोः । अधितमिस्रमजस्रमभूत्तदा, निधुवनं मधुरे विपिनाऽन्तरे ॥७ काञ्चीदामरसाद्विराममगमन्निःश्वासकोष्णं मुखं, निष्पन्द नयनं च्युता विरचिताः कस्तूरिकापत्रिकाः । कान्ता प्रीतिमवाप कामपि तथाप्याहो !! रहोरम्भिता, वामानां किल कामकुश्चितधियां वामैव रीतिः परम् ॥८ रतिक्लान्त तत: कान्त सा विभूषणवाञ्छ्या। राधा स्वाधीनपतिका जगादाऽम्बुदसुन्दरम् ॥ वामकरीरागण गीयते तमुवाच सा रतिमन्दिरे, विलसति नवधनसुन्दरे। ध्रुवपदम् १. प्रसङ्गदृष्ट्या प्रहतमनाः समीचीनः ।
दशमसर्ग:
३५
पटुतरचटुलपटीररसैरनु रञ्जय मम कुचमण्डलम् ।
श्रु तिमण्डलमधिमण्डनमुपनय कनकघटितनवकुण्डलम् ॥१
श्रमविगलितजलविलुलितकज्जलममलकमलदलगञ्जनम् ।
युवजनरञ्जनमञ्जनकैरनुरञ्जय लोचनखञ्जनम् ॥२
घनचयचारुनिकरसमघनमदनध्वजचामरम् ।
रचय विकचविचकिलचयचम्पकरुचिरमचिरमतिडामरम् ॥३
मम सदये हृदये हृदयेशय ! पाशविलासविधायकम् ।
कुरु मुरलीधर ! हारमधिकरुचिरं गलमङ्गलदायकम् ॥४
निधुवनजनितपरिश्रमसलिलमतिललितमुरोभवम् ।
विमलकरेण हरे ! परिशोधय बोधय शयितमनोभवम् ॥५
मम नसि रसिकमनसि सुखजनककनककलित कुरु भूपणम् ।
विदलिततिलकलिकाम क लितमिव चम्पकम क लमदूषणम् ।।६
इव ॥७
हारं हारि समर्पयोरसि नसि स्वर्णस्य मद्रां श्रु तो,
ताटङ्क पटुहाटक स्तनतटे
कस्तूरिकापत्रिकाः।
काञ्चीः किन्न नवीनपीनजघनाऽऽलम्बे नितम्बे मम,
श्रीपीताम्बरसम्बराऽरिनृपतेर्वीणा नवीना
इति निगदितवत्यां केलिकुञ्ज युवत्यां,
निजरुचिजितवत्यां वाञ्च्या भूपणानाम् ।
वपुषि विशदभूषां सादरं राधिकाया,
लघुविनिहितपाणिश्चक्रपाणिश्चकार ॥१२
गीतपीतवसम् एकस्मिन् शयने विशद स्वपतोाजादरं रुष्टयो- र्व्याजान्मीलितनेत्रयोमधुवने राधामधुढे षिणोः । अन्योन्याऽनुनयेच्छ्या विदधतोर्लोभस्य सङ्गोपनं, रात्री जागरणवत शिवशिव श्रेयांसि देयान्मम ॥१३ नाऽऽस्ते वाचि विदग्धता यदिह मे काव्ये न भव्या गिरो, न शृङ्गाररसस्य वा चतुरता रीतिर्नवाऽऽस्ते नवा। श्रीगोविन्दपदारविन्दयुगलध्यानावनद्धात्मन- स्तत्सर्वं हि ममापराधमधुना शुद्धाः क्षमध्वं बुधाः ! ॥१४ माता यस्य धराधरेन्द्रतनयातुल्याऽन्नपूर्णा कृती, तातो यस्य महाशयो दशरथो निष्ठावशिष्ठाऽधिकः । राधामाधवकेलिकौशलकथां कान्तां कवीनां म दे, काव्यं भव्यमिदं चकार स नवं श्रीश्यामरामः कविः ॥१५ शृङ्गारसारतरमारकथासमेत श्रीमन्मुक न्दचरणस्मरणानुबन्धि । श्रीश्यामरामरचित म खभूषणाय,श्रीगीतपीतवसनं सुधियां सदास्तु ॥१६ इति गीतपीतवसने प्रम दितमाधवो नाम दशमसर्गः समाप्तः॥ ॥ॐ श्रीरस्तु॥
पद्यानामकाराद्यनुक्रमणिका पद्यानि पृष्ठसंख्याः पद्यानि पृष्ठसंख्याः अ ३ २८ १३ ३ ३० ह १५ अतिनववरुणतरुण अतिमधुरं वचनं अत्रैव नैव कति अथ गतासु कुरङ्ग अथ मनोजमनोरथ अथ रथचरणाऽऽयुधं अभिनवकुरुविन्द अमलकमलदल अरुणनलिन अशरशरासनदारण असितसरोरुहसुन्दर अहह !! निजगाम आ आगतामथ वीक्ष्यैषा इ इति निगदितवत्यां इत्यच्युतस्तामनुनीय इन्दुबिम्बमिदमम्बरस्थित इह रसालरसालस इह विहरति ४ उद्धृतविततवसुन्धर ३० उत्पत्तिर्मलये बभूव ए १२ एकस्मिन् शयने ३४ क ५ कटाक्षः पद्माक्ष्याः ५ कथयति नखपदमुरसि है कनककलितकलमेखलया २७ कमपि विहितमति २ कलकूजपिकीसालतमाल २ कलय कमलमुखि १२ कलयति कमलनयन कलयति काऽपि २६ कलयति सरस कलय निलयगरलाऽऽयुध ३५ कलितबहुवेदनं ३३ काञ्चीदामरसाद्विराम १४ काऽपि निकुञ्ज ५ काऽपि मनोजविनोदवशेन काऽपि हरि परिरभ्य ३ २२ ६ २३ १३ ३४ ६ ६ ७ पृष्ठसंख्याः पद्यानि किं करवाणि किमिति युवति किमिह विलपामि पृष्ठसंख्याः पद्यानि २५ ल ३१ चटुलपटीरसुरभि १३ चरणगलितनव २६ चिरं मे राधाया २६ किमिह वृथा २१ ६ १४ ३४ ४ किरति मनसिजोऽपि कुकुमकलितललित कुरु हितवचनं कुबलयनयना कुसुमशयनमधिशायितया कृतककलह केशव ! कलयति । कोमलविमल क्रीडवीडित क्ष क्षणमधुना मधुनाशन ! ग गमय सफलतां गहनविरहदवदहनशमाय गीतं बुधैर्यदि गुरुमभिमानं २६ जनय खञ्जनगञ्जन २० जनय मनागपि २२ जल्पति काऽपि त २८ तद्भूयुग्मं कठिनधनुषी १५ तमुवाच सा २७ तरुणतमालविमल ११ तरुणतमालविमल तरुवरपाली तव सखि ! सरलं ताङ्गन्तुमलसां १६ तातवचनहतरेणुक तामथ विरह विखिन्ना १ ताम्बूलं नवकुङ्कुमं २० द दशरथवंशधुरन्धर २६ दहति बिरहदहनो ३५ दिशि दिशि निशि १६ २० २२ २ ३१ २३ २ २५ घनतरतरल घनचयचारुनिकर च २ चकितचमू... चटुलपटीरतिलकमभिनव २७ नन्दहृदयनवचन्दन है नयनसलिलकण १७ पद्यानि & नवकुवलय न वदसि मधुरं नवनिधुवनपरिलज्जितया नवमलयजरसमपि नवमलयजवनघन नाऽऽस्ते वाचि विदग्धता निगदति विरचित निगदसि किमिति निधुवनजनितपरिश्रम नीलेन्दीवरसुन्दरस्य १ ७ पृष्ठसंख्याः पद्यानि पृष्ठसंख्याः ४ मधुरिपुरिह विहरति ६ २० मञ्जुलमलयजपङ्क ६ १० मधुरमधूकमधुर १७ मन्द-मन्दं मधुरमुरली ४ मम नासि ३५ मम निवसतः कुञ्ज मम सदये हृदये ३५ ३१ ममेयं कल्याणी ३५ मा कुरु केशव । २६ माता यस्य माधव बहु ! विलपति ३५ मानं कृष्ण ! विमुञ्च सञ्चर १८ २२ मामपि वदति समदमिति १७ मार मारय २८ १६ मुकुन्दः २६ १६ मृगतरमधुरसुभाषित १० ३० मृगमदरसनिचयेन ११ र रचयति करुण २१ है रचयति रुचिरनयन २२ रसालरससालसभ्रमर १६ रजनिरजनिवितता २६ १७ रतिक्लान्तं ततः कान्तं ३४ ३० रमयति वनमाली राधापयोधरनखक्षतदान ३ ३ राधिकाहृद्यतरहार २८ पटुतरचटुल पथि निदधाति परिहर सखि ! प्रतिपदमिदामह प्रतिपलविगलितनयनकमल प्रियापादालक्तः प्रोदञ्चन्नयनाञ्चलेन ब बहल महारजनैररुणानि मुकुन्दः कालिन्दी भवदभिसरणमनोज भ्रमति विषीदति भ्रमवचननैरपि म मधुरिपुरिह युवती ४० पृष्ठसंख्या: ३२ पद्यानि राधिके । विहर राधे! माधेहि चित्ते राधे ! विधेहि २० ललितकपटपटुवामन २७ वंशीम कुन्द २५ ! तव ११ पृष्ठसंख्याः पद्यानि ३१ विरचय विधिमुखि! ३० विरचितदृढपरिम्भणया ३२ विरमति सुरभि विलपसि विफलं २ विलसति मधौ विशद शिखरसम १८ विषाद ( ) श्रीराधां २ व्यथयति मामयमपि २१ विहरति हरिणा श २४ शिशिरसुगन्धबन्धु २५ श्लिष्यति काऽपि २४ है शृगारसारतरमारकथा ३ श्रमविगलितजल १२ श्रमविनिमीलितनयन २२ स सखि ! सह विहरति ३४ सखि ! हे विरचित २६ सखि ! हे संयुग समागतं प्रातरथ ५ समायाते वृन्दावन २७ समीर इह मालयः १३ समीरोऽयं धीरो ३१ समुदितमथ वीक्ष्य २० सरसरसालकुसुमरस ३ वन्दनीयमिह वरतनु वलति च भवदधरे वलति बलभिदाशा वलति वरुणदिशि वलति विमलरङ्क वलितविलोलविलसद वसन्ते कान्तानामथ वहति मलयानिलो वहति महति वारं वारं कलयति वासन्ती रजनी वासन्ती रजनी वनी वृन्दावनविपिन विदलितनवमल्लिका विदलितविमल विफलमिह याति विमलकमलदल विरचय गमनं । २७ २६ ३३ ४१ पृष्ठसंख्याः १३ ५ २३ १४ पद्यानि पृष्ठसंख्याः पद्यानि सरसरासरसेन २३ स्मारं स्मारं दलति सहचरि ! चरमाजगाम २१ स्मेराम्भोरुहिणी सुमधुर २० स्रजमभिनव सुरचितचम्पक ४ स्वरं नाभीविवर सुरतरसैरतिसालसया १० ह सुललितलताकुञ्ज २० हतविबुधाधिप सुललितवजुलकुसुम ४ हन्त मे दलति स्तिमितचलित १७ हरिस्मरणसादरं स्तिमिततनयन २३ हारं हारि समर्पयोरसि ३४ हा !! हन्त ! मान्दहति स्फुरति सुरवरा २४ हे नन्दनन्दन ! स्फुरत्ताराहारावलि २४ ह्रीणा वीणा भवतु स्मरति न मामपि २६ २ १२ १ ow स्फुट वचनमिदं १३ १ ३ ३ समागतवृत्तलक्षणानि गः। मन्दाक्रान्ता Ans- अनुष्ट्रप- श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुष्पादयोह्रस्वं सप्तम दीर्घमन्ययोः ॥ ५/१।६/१,८, १५॥ १०/१,६॥ आर्या- यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ।। ४/७४/१॥ वसन्ततिलका उक्ता वसन्ततिलका तभजा जगो १/२,४१ ३/१३४/५,६१/३-४।१०/१६ मन्दानाताम्बुधिरसर्नगर्मोभनौ तौ गयुग्मम । १/१४।२/२१/३,६-७।१०।२ शिखरिणी- रसै रुद्वैश्छिन्ना यमनसभला गः शिखरिणी। १/५.६।३/४।५/७। ७/१,१०। ८/३॥ १०३। शार्दूलविक्रीडितम् -सूर्याश्व यदि मः सजो सततगा: शार्दूलविक्रीडितम् । १/१०,१६। २/३,५॥ */11६/४७/७,१४।१०/ ५,८,९,११-१३॥ पृथ्वी- जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः । १/१,७। ४२ मालिनी- ननमयययुतेयं मालिनी भोगलोकः । १/१५॥ ६/३। ०/२-४। १०/१२ रथोद्धता- रान्नराविह रथोद्धता १/३॥ २/५ am- - लगी।
द्रुतविलम्बितम
पुष्पिताना-
-
.
हरिणी-
स्त्रग्धरा
द्रुतविलम्बितमाह
नभौ भरौ।
१/८। २/११ ६/५। ६/७
अयुजि न युग रेफतो यकारो।
युजि च नजो जरगाश्च पुष्पिताना ॥
१/६ ११,१२,१३॥ १३॥ ५/२,५। ७/५,११
नसमरसलागः षड्व देहयह रिणी मता
२/१। ५/१,४
नभ्नर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम ।
८१४
तचेन्द्रबशा प्रथमाक्षरे गुरौ ।
८/१
वदन्ति व शस्थविलं जतो जरौ ।
१०/४
यदि भवतो नजौ भजजला गुरु नर्दटकम् ।
२/४
इन्द्रवंशा-
-
वंशस्थविल
नर्दटकम -
---
समागतरागाणां सूची
रागनाम
पृष्ठसंख्याः
गुर्जरीरागः
वसन्तरागः
वामकरीरागः
२
३,२५
९,१०,१२
१५
१६.२७
मालवरागः
कार्णाटरागः
देशाषरागः
गुजरीरागः
लाटरागः
भैरवीरागः
१६,३१
२२
२३