Jayakar Library , Pune
Tantrik Texts
Front matter
TANTRIK
TEXTS
EDITED BY
ARTHUR AVALON
VOL. II
TVE
POONA
LIBRARY
ERSITA
--
SHATCHAKRANIRU PANA
AND
PADUKAPANCHAKA
EDITED BY
TĀRĀNĀTHA VIDYARATNA
.
CALCUTTA
LONDON
SANSKRIT PRESS DEPOSITORY
LUZAC & CO
go, CORNWALLIS STREET
46, GREAT RUSSEL STREET, W.C
1913
INTRODUCTION. This volume commences with the Shat-chakra-nirūpana, of Purnānanda Svāmī which forms the sixth chapter of the hitherto unpublished work of that author entitled Shrītattvachintamanī. The latter is a voluminous treatise in Twenty-five Chapters. The MSS. in the library of the Asiatic Society of Bengal covers some 400 pages of close writing on paper larger than foolscap. The first Chapter deals with Tattvabodha; the Second with the necessity of and different modes of Diksha ; the Third Chapter gives directions regarding the selection of the place of Diksha, Kūrmmachakra, Vāstuyāga and Vighnanāshaka Mandala (danger destroying circle ) : also as to the appropriate sacrifices and Mantras of the Devatās to be worshipped in the Mandala ; the Fourth Chapter is devoted to the rules relating to the erection of the Mandapa ; the Fifth Chapter speaks of the auxiliary Devatās and their places in Diksha ; and the rules relating to their Pūjā ; of the kumbha (jar); of the metals to be used in its making and its size and shape. The sixth chapter of it here published contains a description of the six centres, the so-called Mülādhāra, Svādishthāna, Manipura, Anāhata, Vishuddha, and Ajna Chakras or Lotuses (padma) a knowledge of which is essential for the understanding of the Yoga method dealt with in the Tantras. To this work there is a commentary, apparently written by Kāli-charana. Though there is no direct statement of such authorship yet the commentaries on the Shat-chakra and the Pādukā-panchaka are written in the same style, and under v. 43 of the Shat-chakra the Commentator says that he has made clear, the matter there referred to in the commentary (which was written by Kālīcharana) on the Pādukā-panchaka-stotra (pādukā panchaka stotre spashtī-krītam). Kālīcharana begins his commentary on ii . 1 the Pādukāpanchaka by saying that it is composed by himself (Kālicharanah prakāshayet). To the commentary of Kālīcharana are added 'notes by the Commentator Shangkara, who appears to have used a text slightly different from that of Kālicharana. The variant readings have been here noted. This work and its commentaries are followed by the Pādukā-panchaka with the commentary of Kālīcharana already referred to. The latter is a careful commentator, who has dealt with his subject in a thorough manner but the difficulties of both the text and his commentary are such that the reader will be glad to avail himself of the notes from the third commentary here referred to, by Vishvanātha on the second Patala of the Kaivalya-kalikā Tantra, which, (though so far as I am aware not now available) dealt, in this portion of it with the same subject and much on the same lines as Pūrnānanda's Shat-chakra. Rather, it should be said that, as the Kaivalyakalikā is held to have been an original Tantra, it is not unlikely that Pŭrnānanda was indebted to it for his own work. In some matters, Vishvanātha has explained things in his own way, simply and in a manner which goes straight to the point. The Shat-chakra contains fifty fives verses. To these is added another, here numbered 31 (1) and located at the end of the volume which though not noticed, by either Kālī-charana or Shangkara, is given by Baladeva's text. The work may be conveniently divided into eight sections, namely, (1) verses i to 3 which deal with the Nādīs, (2) verses 4 to 13 treating of the Mülādhāra Padma, (3) verses 14 to 18, which deal with the Svădishthāna, (4) verses 19 to 21 with Manipūra, (5) verses 22 to 27 with Anähata, (6) verses 28 to 31 with Vishuddha, (7) verses 32 to 38 with Ajnā, (8) verses 39 to 49 with the Sahasrāra, and (9) verses 50 to 54 with the passage of Kundalini from the Mülādhāra to Sāhasrāra piercing on her way thither the six chakras—a Tāntrika Yoga process known as Shat-chakra-bheda or as some call it Bhūtashuddhi. ..
11. It is not necessary to deal further with the subject matter here, as I have, in preparation for publication, an English translation of the text now given. The Shat-chakra-nirupana and the Pādukā-panchaka with notes of Kalīcharana were first published in Shakābda, 1778 (A. D. 1853) by the Suchāru Press, Calcutta, under the editorship of the late Anandachandra Vedāntavāgisha. This edition which is rare having been long out of print, has been used in the preparation of this volume. In 1276 (A.D. 1869) another edition of the Shat-chakra with the commentary of Rāmavallabha was published by Kālidas Bhattacharyya, along with the Pādukā-panchaka and its conmentary by Kālī-charana. Kālīprasanna Vidyāratna in 1294 (A.D. 1887) published the Shat-chakra together with a number of other books on Yoga. This edition of the Shat-chakra .contained the commentary of Rāma-vallabha though it is not acknowledged as such by the editor. There have been several other cheap publications on Yoga which contain the Shatchakra nirūpana. Some are provided with Bengali translations but none with notes. The commentaries of Vishvanātha and the notes from Shangkara are published for the first time. CALCUTTA. ARTHUR AVALON. January 1913.
षट्चकनिरूपणम्। कालीचरणकृतया श्लोकार्थपरिष्कारिण्या टीकया शङ्करकतया षट्- चक्रभेदटिप्पन्या विश्वनाथकृतया षट्चक्रविकृत्याख्यया टीकया च समेतम् । पादुकापञ्चकम्। कालीचरणकतया अमलाख्यटीकया सहितम् । श्रीआरएवेलनेन प्रवर्तितं पर्यवेक्षितञ्च । श्रौतारानाथविद्यारत्नेन सम्पादितम् । कलिकातानगों संस्कृतयन्त्र श्रीउपेन्द्रनाथचक्रवर्तिना मुद्रितम् । लण्डनराजधान्यां लुज्याक् एण्ड को कर्तृकेण प्रकाशितम् । . कलिकातानगयां ३० नं, कर्णीयालिसष्ट्रीटस्थसंस्कृतप्रेस- डिपजिटरीभवने प्राप्तव्यम् । '. खुः १९१३ ।
शुद्धिपत्रम् । अशुद्धम् पृ:-- अशुद्धम् सा देवा कर्णिका १४-१६ उम्मनी शुद्धम् शुद्धम् मृ:- सुपस्तिकेयम् सुपुस्तिकेयम् १-१४ | वृषमं वृषभ नाटोपरि नादोपरि ११-१८ | विभूषित विभूषितः ३८-१० पदे पाठे १२-१५ सुमुखसदने सुसुखसदने 8८-१ राकिनी राकिणी १३-११ अतिप्रयत्नः अतिप्रयत्नतः ५५-६ सा देवी १३-२२ भूलभूतात् मूलभूतात् ५६-४ कर्णिका उन्मनी ५८-२५ निवास विलास १७-११ वजाख्या- । वजाख्या ११२-१६ विद्यच्छ्रेणी विद्युच्छ्रेणी १८-२० | नाडीमाह) नाडीमाह तरङ्गिनी तरङ्गिणी २०-१४ बैश्यानर वैखानर १२०-१६ नानाहिन्दुः नादाहिन्दुः २२-८ शाकिन्यथ. शाकिन्यथे- अभिलषितं अभिलसितं २७-४ १२२-१६ हापि हापि २७-२२ स मनोमनी समनोन्मनी १३१-८ प्रकष्टोद्दाम) प्रकष्टोद्दाम- ३२-२४ मश्रियः । श्रियः दुःखजाल-) दुःखजाल- सङ्गल ) सङ्गुल पूणन्दुना पूर्णेन्दुना ३७-२४ १४१ कै० कृष्णाजी गपेल लिमये पुणे ४. यांच्या ग्रंथसंग्रहांतून. : न षट्चक्रनिरूपणम्। ceco अथ तन्वानुसारेण षट्चक्रादिक्रमोगतः । उच्यते परमानन्दनिर्वाहप्रथमाकुरः ॥ * ॥ kitanima ॐ . महायोगज्ञानात् परिचितषडम्भोजविभवः, स एवान्तस्तत्त्वप्रकटनसमर्थो न हि परः। बुधश्रेष्ठो ज्येष्ठोऽप्यमिलितकपानाथकरुणः, षडनान्तस्तत्वं षसहविभवं प्रस्फुटयितुम् ॥ अथ दुःखपङ्कमग्नं जगदुहिधीर्घः परमकारुणिकः पूर्णानन्दस्वामी मुक्तिसम्पादकतत्त्वज्ञानसिद्धये षट्चक्रे कुण्डलिनीयोगं वक्तु- मिच्छन् साधकावधानाय प्रतिजानौते अथेति । अथानन्तरं खलतीतत्त्व. चिन्तामण्यां षट्चक्रनिरूपनात् पूर्वप्रदर्शिततत्तत्कम्मकथनानन्तरमित्यर्थः । अस्यार्थः परमानन्दनिर्वाहप्रथमाङ्गुरः उच्यते इत्यन्वयः । परमानन्दो ब्रह्म, "नित्यं विज्ञानमानन्दं ब्रह्म” इति श्रुतेः । तस्य निर्वाहस्तत्साक्षात्काररूप- ॥ ओ नमः परमदेवतायै ॥ प्रणम्य शैलाधिपकन्यकायाः, पदाजमजासनविण पूज्यम् । प्रतन्यते श्रीयुतशङ्करण, षट्चक्रटीकाख्यसुमस्तिकेयम् ॥ ॥ * ॥ अथेत्यादि । यद्ययथशब्दो मङ्गलप्रश्नावर्थे वर्तते, तथापि आनन्तथि एव ग्टद्यते, यद्पन्धीय प्रस्तावस्तत्प्रस्तावस्थानन्तरत्वात् । मङ्गलार्थोऽयमिति केचित् । तन्त्रानुसारेण शिबोकतन्त्रीय प्रस्तावानुसारेणेत्यर्थः । षट्चक्रादिक्रमेण उगतो योऽर्थ इत्यर्थः । अत्रादिपदेन सहस्त्रदलपद्मादिकमुच्यते। परमानन्दो निरञ्जनस्तस्मिन् यो निर्बाहो ज्ञानप्राप्तिस्तस्य प्रथमा- ङ्कर इति यावत् । - ..
षट्चक्रनिरूपणम् । मेरोाद्यप्रदेश शशिमिहिरशिरे सव्यदक्षे निषसे, मध्ये नाड़ी सुषुम्ना चितयगुणमयौ चन्द्रसूर्याग्निरूपा। धूस्तूरस्मेरपुष्पग्रथिततमवपु: कन्दमध्याच्छिरःस्था, वजाख्या मेढ़देशाच्छिरसि परिगता मध्यमे स्याज्ज्वलन्ती ॥१॥ मया निष्यत्तिः तस्मै प्रथमाझुरस्तत्कारणभूतप्रथमप्रकाशमानकम्मस्वरूप: पूर्णानन्देनोच्यते इत्यर्थः सोऽङ्कुरः किम्भूत: ? तन्त्रानुसारेण षट्चक्रादि- क्रमोहत इति तन्त्रानुसारेण तन्त्रमतेन षट्चक्रादीनां मूलाधार-स्वाधिष्ठान- मणिपूरकानाहत-विशुद्धाज्ञाख्यानाम् आदिना तत्सम्बन्धिनाडीलिङ्गव्योम- पञ्चकशिवशक्त्यादौनाञ्च यः क्रमः, तच्चिन्तनकुण्डलिन्युत्थापनब्रह्मपद्मगमना- गमनशिवशक्तिमेलनादिविधानानुपूविकरूपः क्रमः, तेन उगतः प्राप्त: योग- साधनाद्यभिन्नः इत्यर्थः । ततश्च तन्त्रविहितषटचक्रघटितयोगसाधनाभिन्न- ब्रह्मसाक्षात्कारादिकारणीभूतकर्मखरूयोऽङ्गुरो मका उच्यते इति समुदया- नुगततात्पार्थः ॥ * ॥ अथ तादृशवक्ष्यमाणयोगः षट्चक्रनायोर्ज्ञानं विना न सम्भवतीत्यतः प्रथमं तदुपयुक्तनायो निरूप्यन्ते मेरोरित्यादित्रिभिः श्लोकः। मेरोमरु- दण्डस्य स च दण्डो मूलावधिग्रोवाषर्यन्तव्यापकपृष्ठास्थि इति स्फुटी- करिष्यामः। तबाह्यदेश शशिमिहिरशिरे इति । शशी चन्द्रः, मिहिर: mammawimwerimewwewwwmmmmmmmm (१) मेरोरिति-मेरोर्बहिःस्थाने शशिमिहिरशिरे इडापिङ्गलाख्ये स्तः इति । सव्यदक्षे वामदक्षिणयोः तत्र प्राण्यङ्गन्यात् समाहारः। निषसे सुप्ते इति यावत् । मध्ये मेरोरिति सम्बन्ध- नीयम् । वितयगुणमयी सत्त्वरजस्तमोगुणमयी। वितय इति अवयवार्थे तयट । यतश्चन्द्र- सूर्याग्निरूपा अतस्त्रितयगुणमयो । कन्दमध्यात् भूलाधारादिति यावत् | शिरःस्था शिर:- स्थिता। तदेव धूस्तूरपुष्पस्फुटितस्थेव प्रथिततमं प्रकृष्टं प्रसिद्धं वपुर्यस्याः। एतेन-उभयतो धस्तराक्षतिर्हिमुखीति फलितार्थः अपरा चास्या मध्ये बवानाम्नी नाड़ी, सा तु मेद्रदेशात् शिरसि परिणता सुषुम्नायाः किञ्चित् खर्जा सहस्रदलपङ्कजसुषुम्नास्थयोरुपय॑ धोभावेन सम्पुट- वात् । ज्वलन्ती देदीप्यमाना ।
षट्चक्रनिरूपणम् । ३ । सूर्यः, शिरा नाड़ी ततश्च चन्द्रसूर्यखरूपिण्यौ हे नायौ इडापिङ्गलाख्ये सव्यदक्षे वामदक्षिणे निषसे स्थिते इत्यर्थः । तदाह भूतशुद्धितन्त्रे,- भेगेमि इड़ा दक्षे पिङ्गला च स्थिते उभे ॥ इति ॥ अनयोश्चन्द्र सूर्यस्वरूपत्वमाह सम्मोहनतन्त्रे- वामगा या इड़ा नाड़ी शुक्ला चन्द्रस्वरूपिणी । शक्तिरूपा हि सा देवी साक्षादमृतविग्रहा ॥ दक्षे तु पिङ्गला नाम पुरुषा सूर्य विग्रहा। रौद्रामिका महादेवी दाडिमोकेशरप्रभा ॥ इति ॥ इमे नायौ मूलादृजुरूपेणाज्ञाचक्रान्तं प्राप्य नासारन्ध्रगते । तदुक्तं यामले- इड़ा च पिङ्गला चैव तस्य वामे च दक्षिणे । ऋज्वीभूते शिर ते च वामदक्षिणभेदतः । सर्वपद्मानि संवेध्य नासारन्ध्रगते शुभे ॥ अत्र "शिरे ते च” इत्यत्र “च"कारो “वा" र्थः, तेन सर्वपद्मानि संवेश्य “वामदक्षिणभेदतः” वामदक्षिणभेदेन वेणीबन्धक्रमेण सर्वपद्मानि संवेध्य वा नासारन्ध्रगते इत्यर्थः । एतेनानयोः स्थित्यां द्विविधः कल्पो दर्शितः। अन्य- बानयोधनुराकारण स्थितिरुता । तद्यथा- विद्धि ते धनुराकार नाड़ीड़ापिङ्गले परे ॥ इति ॥ धनुराकारप्रकारमाह-- या वाममुष्कसम्बन्धा सा निष्यन्ती सुषुम्नया । दक्षिणं जत्रुमाश्रित्य धनुर्बका हृदि स्थिता। वामांशजवन्तरगा दक्षिणां नासिकामियात् ॥ इति ॥ जत्रु स्कन्धभुजयोः सन्धिः । तथा दक्षिणमुष्कोत्था नासाया वामरन्धगा ॥ इति ॥ वामदक्षिणमुष्कोस्थिते ते भूमध्यपर्यन्तं प्राप्य तत्र इडापिङ्गलासुषुम्ना- नाड़ोत्रयाणां त्रिवेणीरूपेण ग्रन्थिभावमापन्ने नासारन्ध्रमिलिते इत्यर्थः । ॥ mins -- .
४ षट्चक्रनिरूपणम् । तदुक्तम्-इड़ायां यमुना देवी पिङ्गलायां सरस्वती। सुषुम्नायां बसे दगङ्गा तासां योगस्त्रिधा भवेत् ॥ सङ्गता ध्वजमूले च विमुक्ता भूवियोगतः । त्रिवेणीयोगः सा प्रोक्ता तत्र स्नानं महाफलम् ॥ इति ॥ मध्ये इति मेरुदण्ड मध्यरन्ध्र इत्यर्थः । तदुक्तं- "मेरुमध्ये स्थिता या तु मूलादाब्रह्मरन्ध्रगे” ल्यादि । तथा त्रिपुरासारसमुच्चये- “या मुण्डाधारदण्डान्तरविवरगते” त्यादि। अत्र यद्यपि-- मेरोवाम स्थिता नाड़ी इड़ा चन्द्रामृता शिवे । दक्षिण सूर्यसंयुक्ता पिङ्गला नाम नामतः । तबाह्ये तु तयोमध्ये सुषुम्ना वह्निसंयुता ॥ इति तन्त्रचूड़ामणिवचने सुषुम्नाया मेरोवाय स्थितिः प्रतीयते, तथापि तह चनं मतभेदेन, ग्रन्थकारमते तु “सकलसरसिजान् मेरुमध्यान्तरस्थान्” इत्युत्तरलोके षट्पझानां मेरुमध्यरन्ध्रस्थत्वकथनेन तदाधारभूताया: सुषुम्नाया मेरुमध्यरन्ध्रस्थत्वम् । त्रितयगुणमयोति त्रितयं गुणं सुषुम्ना वज्रा चित्रिणीति रूपभेदेन त्रिसूत्ररूपं तदात्मिकत्यर्थः । अथवा त्रितयगुणं सुषुम्नादिनाडोत्रयमपेक्ष्य इयमेकेयमेकेयमेकेति त्रितयावर्तनं यत्र, सा त्रितयगुणा तन्मयीत्यर्थः : । यहा त्रितयगुणाः सत्त्वरजस्तमोगुणा यस्यां तन्मयीत्यर्थः । ततश्च चित्रिणी सत्त्वगुणमयी, वजा रजोगुणमयी, सुघुना तमोगुणमयोति। चन्द्रसूया- ग्निरूपेति। चित्रिणी चन्द्ररूपा, तेन शुक्लवर्णा, वजिणी सूर्यरूपा, तेन दाडिमोकेशरप्रभा, सुषुम्ना वह्निरूपिणी तेन रक्तवर्णा इति। एतत्त्रिविध- व्याख्यानप्रमाणमाह सुषुम्नालक्षणमभिधाय भूतशुद्धौ- तदन्ताङ्गुलोढे तु वज्राख्या चित्रिणी तथा । अतः सुषुम्ना त्रिगुणा ललन्ती ललना यथा ॥ सत्त्वादित्रिगुणाधारा चन्द्रसूर्याग्निरूपिणी ॥ इति ॥ ।
५ षट्चक्रनिरूपणम् । कन्दमध्याच्छिरःस्था इति कन्दः सर्वनाड़ीनां मूलं तल्लक्षणमाह । -- गुदात्तु यङ्गलादूई मेट्ठात्तु यङ्गलादधः । चतुरङ्गुलविस्तारं कन्दमूलं खगाण्डवत् ॥ नाद्यस्तस्मात् समुत्पन्नाः सहस्राणां हिसप्ततिः ॥ इति । तद्रूपकन्दमारभ्य शिरःस्था शिरःस्थिताधोमुखसहस्रदलकमलकर्णिकावर्ति- हादश दलपङ्कजाधःपर्यन्तस्थितेत्यर्थः । "कुण्डलीविवरकाण्डमण्डितं, हाद- शार्णसरसोरुहं भजे” इति गुरुपादुकास्तोत्रस्मरणात् कुण्डलीविवरकाण्ड- रूपायाश्चित्रिणीनायाः तदवधिकले तदधिकरणसुषुम्नाया अपि तदवधि- कखम् । अन्यथा सहस्रदलोईपर्यन्तस्थायित्वे सहस्रदलपद्मस्य चत्वारिंशत्- लोके “शून्यदेशे प्रकाश मि” त्यनेन शून्यदेश स्थायित्वानुपपत्तेः। सुषुम्ना- वृतत्वे शून्यदेशत्वाभावात् । अत्र केचित्- “मेरोमध्यपृष्ठगतास्तिस्रो नाड्यः प्रकीर्तिता” इति निगमतत्त्वसारवचनं प्रमाणं दर्शयित्वा इडापिङ्गलासुषुम्नेति तिसृणां नाड़ीनां मेरुमध्यस्थितिं वदन्ति । तन्न इडापिङ्गलयोमरुवहिःस्थितेः सर्व्वतन्त्रवचनसिदत्वात् ग्रन्थकारणापि मेरोवाह्यप्रदेशे इत्यनेन तयो- वहिःस्थितेः स्पष्ट मुखेनाभिधानाच्च । किञ्च इडापिङ्गलयोर्मेरुमध्यस्थत्वे धनु- राकारभझ्या हृदयात् जत्रुसंलग्नत्वं न सम्भवति । निगमतत्त्वसारवचने तिम्रो नाड्य इति सुषुम्ना बजा चित्रिणीति तिस्रः, न विड़ापिङ्गलयोस्तदन्तर्भावः । अत्र सुषुम्नाया मूलादिमस्तकपर्यन्तस्थिति- प्रकारमाह- सुषुम्ना चव्यवल्लीव मेरुश्लिष्टा पुरोगता। ग्रीवान्तं प्राप्य गलिता तिर्यग्भूता वरानने । शजिनीनालमालम्बा गता सा ब्रह्मसादनम् ॥ इति ॥ तथान्यत्र- .' चापाकार स्थिते चान्ये सुषुम्ना प्रणवाकृतिः । पृष्ठास्थिघुण्टितो भिन्ना तिर्यग्भूता ललाटगा। भूमध्ये कुण्डली लग्ना मुखेन ब्रह्मरन्ध्रगा ॥ इति ॥
षट्चक्रनिरूपणम् ।
गलिता मेरुदण्डानिःसृता । तथा घुण्टितो भिन्ना इत्यस्याप्ययमर्थः ।
एतेन मेरुदण्डस्य ग्रीवापर्यन्तस्थितिः प्रतीयते ।
शसिनौनालमालम्बोति । शहिनीलक्षणमाह ।
ईश्वर उवाच ।-
सरस्वती कुहुश्चैव सुषुम्नापार्खयोः स्थिते ।
गान्धारी हस्तिजिह्वा च इड़ायाः पूर्वपार्खयोः ॥
तथा
गान्धारायाः सरस्वत्या मध्ये प्रोता च शसिनी ।
शजिनी नाम सा नाड़ी सव्यकर्णान्तमिष्यते ॥
तथान्यत्र-
वक्र-
-
.
1
शलिनी कण्ठविवरात् तिर्यग्भूता ललाटगा।
चित्रिणीसगाताश्लिष्टा यावच्छिरसमम्बिके ॥ इति ॥
ततश्च सरस्वतीगान्धार्योम्मध्ये कन्दमूलमारभ्य कण्ठपर्यन्तं गता
गल्या एकाग्रेण वामकर्णरन्ध्रमिलिता, अपराग्रेण मस्तकान्तं प्राप्तेति ।
अत्र केचित् -
पादादिब्रह्मरन्धान्तं यदस्थि कोलकोपमम् ।
चतुर्दशानां लोकानां मेरुदण्डः प्रचक्षते ॥
इति निगमतत्त्वसारवचनं प्रमाण दर्शयित्वा पदादिब्रह्मरन्धपर्यन्तं मेरु-
दण्डस्य स्थितिमाहुस्तञ्चिन्त्यम् । यः पृष्ठदण्डः स एव मेरुदण्डस्तस्य मूल-
कन्दादूविधि ग्रोवापर्यन्तस्थितेः प्रत्यक्षसिद्धत्वेन प्रत्यक्षसिद्धवस्तुनो वचन-
मन्यथा कर्तुं न शक्नोति । किञ्चाखण्डकास्थो मेरुदण्डस्य पादादिस्थितत्वे
पादयोराकुञ्चनप्रसारणादिक्रिया न स्यात्, तस्मान्मूलो वधिरेव मेरुदण्डः ।
निगमतत्त्वसारवचनस्य त्वयमर्थः । पादादिब्रह्मरन्धपर्यन्तं शरीरमधिकृत्य
यदस्थि कोलकोपमं कोलकवडारकमिति मेद्देशान्मूलकन्दाद्दयङ्गुलोर्डावधि
तदुक्तं भूतशुद्धौ-
तन्मध्ये
घङ्गलो तु बज्राख्या. चित्रिणी तथा ॥ इति ॥ १ ॥
षट्चक्रनिरूपणम् । ७ तन्मध्ये चित्रिणी सा प्रणवविलसिता योगिनां योगगम्या, लूतातन्सूपमेया सकलसरसिजान् मेरुमध्यान्तरस्थान् । भित्त्वा देदीप्यते तद्ग्रथनरचनया शुधबोधस्वरूपा, तन्मध्ये ब्रह्मनाड़ी हरमुखकुहरादादिदेवान्तसंस्था ॥ २ ॥ -- तन्मध्ये इति वज्रामध्ये इत्यर्थः । प्रणवविलसिता आज्ञाचक्रावच्छेदे तन्मध्ये प्रणवप्रकाशन प्रकष्टोद्दीप्यमाना ; अतएव अन्य कारण सप्तत्रिंशत्- लोके “तदनु च नवीनार्कबहुलप्रकाशं ज्योतिर्खा गगनधरणीमध्यमिलित- मि”त्युक्तम् । लूतातन्तूपमेया मर्कटसूनतुल्यसूक्ष्मा तद्ग्रथनरचनया भित्त्वा देदीप्यते इत्यर्थः । यत्तु- चित्रिणीशून्यविवरे संजाताम्भोरुहाणि षट् । तत् पत्रेषु महादेवी भुजङ्गो विहरन्ति च ॥ इति कल्पसूत्रचतुर्थकाण्डीयवचनं तत् एकवचनान्तभुजङ्गोकत्रया वहुवच- नान्तविहरन्तिक्रियान्वयायोगादमूलम् समूलत्वेऽपि तस्यायमर्थ:-विह- रन्तौति शिवोतत्वात् एकवचनार्थे वहुवचनम् । चित्रिणोरन्धविवरे इति कर- णार्थविषयाधार सप्तमी। ततश्च भुजङ्गी कुण्डलिनी महादेवी चित्रिणीशून्ये चित्रिणीनाड्या मध्यरन्ध्र यत् विवरम् इतस्ततो वहिर्गमनपथः, तेन पथा चक्रभेदक्रमेण षड़म्भोरुहाणि संजाता सम्प्राप्ता सती तत्पत्रेषु विहरति दीप्यते यद्दा यानि षड़म्भोरुहानि सुषुम्नान्तराले विहरन्ति प्रकाशन्ते, इत्यर्थः । (२) तन्मध्ये इति। तन्मध्ये वनामध्ये चिविण्याख्यनाड़ी प्रसिद्धत्वेन विलसति । प्रणव इक विलसिता प्रदीप्ता। योगिनां योगगम्या ( अतिसूक्ष्मत्वात् ) अतएव लूतातन्तपमेया। सकलसरसिजान मूलाधारादोन्। मेरुमध्ये सुषुम्नावज्ञानाद्यौ तयोरन्तरस्थान् मध्यस्थान्- भित्त्वा तेषां पद्मानां ग्रथनरचनया देदीप्यते भृशं दीप्निं कुर्वतीत्यर्थः । एतस्या मध्यवर्तिनी ब्रह्मनाड़ी कन्दस्यहरमुखच्छिद्रात् परमशिवान्तरस्थिता मध्ये आश्रिता शुद्धबुद्धीनां बोधो ज्ञानं यस्याः।
षट्चक्रनिरूपणम् । १ विद्यान्मालाविलासा मुनिमनसि लसत्तन्तुरूपा सुसूक्ष्मा, शुद्धज्ञानप्रबोधा सकलमुखमयी शुद्धबोधखभावा । ब्रह्मदारं तदास्ये प्रविलसति सुधाधारगम्यप्रदेश, ग्रन्थिस्थानं तदेतददनमिति मुषुम्नाख्यनाद्या लपन्ति ॥ ३ ॥ www प्रतीयते । भुजङ्गी चित्रिणोरन्ध्रविवरेण तत्पत्रेषु संजाता संस्थिता सती अनन्तरं सहस्रदले विहरतीति । न तु तद्दचनात् षट्पद्मानां चित्रिणी विवरे स्थितिः तन्मध्ये चित्रिणीमध्ये । ब्रह्मनाड़ीति अत्र नड़गताविति धातो- नद्यते गम्यतेऽनया पदव्या इति नाड़ी पदवी, ब्रह्मणो नाड़ीति व्युत्पत्त्या ब्रह्मनाड़ी ब्रह्मपदवी शब्दब्रह्मरूपायाः कुण्डलिन्याः परमशिवसन्निधि- गमनपथरूपचित्रिणीनाद्यन्तर्गतशून्यभाग इति यावत् । न तु चित्रिणीमध्ये नाड्यन्तरमस्तीति निष्कर्षः । हरमुखकुहरात् स्वयम्भुलिङ्गच्छिद्रात् आदिदेवः सहस्रदलकमलकर्णिकामध्यस्थपरं विन्दुरन्यत् सुगमम् ॥ २ ॥ श्लोकान्तरेण तां विशेषयति विद्युन्मालेति । लसत्तन्तुरूपैति । लसन्ती दीप्यमाना तन्तुरूपिणी अजतन्तुसदृशौ कुण्डलिनी यत्र सेत्यर्थः। सकलसुखमयी सानन्दमयीत्यर्थः । शुद्धबोधस्वभावेति शुद्धबोधाय तत्त्व- ज्ञानाय स्वस्य आत्मनो भावो भावना यत्रेत्यर्थः। तदास्ये ब्रह्मनायाः आस्थे हरमुखकुहरे ब्रह्महारं कुण्डलिन्या: शिवसन्निधिगमनाय प्रवेशनिगम- पथरूपमित्यर्थः। सुधाधारगम्यप्रदेशमिति । सुधाधारः परमशिवशक्ति- यस्याः । (३) विद्युन्मालेत्यादि । एतस्या ब्रह्मनाद्या एव विशेषणान्याह, विद्युन्मालेति । विद्युन्मालेव बिलासः प्रकाशो यस्याः। मुनिमनसि प्रकाशमृणाल तन्तुरूपा अतः सूच्या। शुद्धज्ञानस्य प्रकाशो अतः कलासहितानां सुखमयी, यहा सर्वेषां सुखमयी शुद्धभाव एवात्मभावो यस्याः, यहा शुद्धभावानां खे परमात्मनि भावो ज्ञानं यत् सा तथा । तस्या मुखे ब्रह्मद्दार प्रकाशते | अमृतस्य य आसारः शीकरस्तस्य गस्य प्रदेशो गमनप्रकृति यदास्वमिति यावत् । “प्रदेश- स्थानमायोः" इति विकाण्डशेषः। तदेतबदनं. सुषुम्नानाम नाया पन्थिस्थानम् । सुधियो बदन्तीति तत् तथा महास्थलग्नं मिलनं तत्रैवेति ॥ [ अत्रमते शुद्धभावखभावेति पाठः।]
षट्चक्रनिरूपणम् । अथाधारपद्मं सुषुम्नास्थलग्न ध्वजाधो गुदोड्ढे चतुःशीणपत्रम् । अधोवत्रामुद्यत्सुवर्णाभवणे- वकारादिसान्तैर्युतं वेदवणैः ॥ ४ 1 . 1 सामरस्यनिःसृतामृतधारो गम्यते मूलाधारस्थशिवशक्तिभ्यां लभ्यते येन हारेण तद्रूपप्रदेशमित्यर्थः। तदेतदिति तस्य हारस्य एतत्समीपवर्तिप्रदेश सुषुम्नाया ग्रन्थिस्थानं कन्दसुषुम्नयोः सन्धिस्थानं सुषुम्नाया वदनञ्च इति लपन्ति आगमज्ञा वदन्ति इति समुदायार्थः ॥ ३ ॥ * ॥ नाड़ों निरूप्य अङ्ग प्रत्यङ्गादिसहितं मूलाधार चक्रं निरूप्यते अथाधार- पद्ममिति नवभिः श्लोकः । सुषुम्नास्यलग्नं चतुष्याचे कन्दसुषुम्नयोः सन्धि- स्थानसंलग्नपत्रमित्यर्थः । ध्वजाधो गुदोड् लिङ्गमूलादधोऽवधि सुषुम्नापर्यन्तं । चतुःशोणपत्रं रक्तवर्णचतुर्द लम् । वकारादिसान्तैः व श ष स इति वेदवर्णंयुतम्। अत्र षट्चक्रेषु पद्मानां दलावच्छेदे दक्षिणावर्तेन वर्णयोग- श्चिन्तनीयः । तदुक्तं विश्वसारतन्त्रे- सर्बवर्णात्मकं पत्रं पद्मानां परिकीर्तितम् । दक्षिणावर्तयोगेन लिखनं चिन्तयेद्धिया ॥ इति ॥ ४ ॥ इत्यर्थः ज Kumar .. . (४) अथाधार इति । नाड़ीप्रस्तावनानन्तरं षट्पद्मानां यथाक्रमं मूलतः सङ्गतिः कथ्यते । अथाधारपद्मं बच्चे इति सम्बन्धः। सुषम्नाया पास्ये संलग्नं ध्वजाधो गुदशब्दोऽयं गुदखोर्द्ध अपानस्थाने तत्पद्मस्य अवस्थितिः। चतुःशोणपत्रं चत्वारि रक्ताकारपत्राणि यस्य । अधःस्थित वक्त्रं कर्णिकादिर्यस्येति। उद्यत् सुवर्णस्य या अाभा तथा इव वणं यस्य। एवम्भूतैरन्तस्थीय वकाराद्यैर्दलैः सकारान्त चतुर्वणैर्युतम् । एतेन एतदर्णोपलक्षितट्लान्यस्य वक्ष्यमाणखदलान्त- राल मध्यवर्ति तदभूतवर्णत्वात् ॥ . २ समुद्भासि maamamalene H षट्चक्रनिरूपणम्। अमुमिन् धरायाश्चतुष्कोणचक्र शूलाष्टकैरावतं तत् लसत्पीतवर्णं तडिल्कोमलाङ्गं तदङ्के समास्ते धरायाः स्ववीजम् ॥ ५॥ अमुमिन् धरायाश्चतुष्कोणचक्रमिति । एतत्पद्मकर्णिकायां चतुष्कोण- रूपं पृथ्वीमण्डलं समास्ते इत्यर्थः । मण्डलं विशेषयति समुद्भासीत्यादिना । तस्य मण्डलस्याष्टदिक्षु प्रकाशमानाष्टशूलैर्युक्त एतन्मण्डलं पौतवणं, स्पष्टमाह। मूलाधार धराचक्रं चतुष्कोणं प्रियम्बदे। पीतवर्ण परिवतञ्चाष्ट शूलैः कुलाचलैः ॥ इति ॥ शूलैः कीदृशैः कुलाचलैरिति कामिन्याः स्तनसदृशाग्रेरित्यर्थः । यहा-कुलाचलैरिति । नौलाचलं पर्वतं चन्द्रशेखरम् । हिमालयं सुवेलञ्च मलयञ्च सुपर्वतम् । चतुष्कोण वसेद्देवि एतत् सप्तकुलाचलम् ॥ इति निर्वाणतन्त्रवचनात् यथा पृथ्वीमध्ये सप्तकुलाचलास्तथात्राष्टशूलानि कुलाचलसदृशानि इति भावः। तदन्ते इति तस्य धरामण्डलस्य अन्ते मध्ये धरायाः स्ववीजं लकार: समास्ते । एतहीजमपि पीतवर्णं तद्यथा- वीजं तन्मध्यतश्चैन्द्रं पीतवर्णं चतुर्भूजम् वजहस्तं महावाहुमैरावतगजस्थितम् ॥ इति ॥ तेन लसत्पीतवर्णमित्युभयसम्बन्धः ॥ ५ ॥ मन्दरञ्च (५) अमुभिन् इति । असुमिन् पद्मे धरायाः पृथिव्याश्चतुष्कोणावच्छिन्नं चक्रं सम्यक्षकारेण उद्भासितुं शोलं येषां एवम्भूतैरष्टम्यूलैराहतं तच्चक्र इति श्रीमद्भगवद्धैरवीकलाविर्भूतडाकिन्यादि- निवासभूतत्वात् । पृथिव्याटिचक्रानां तत्राधिष्ठितत्वाच्च मूलाधारादीनां चक्रसंज्ञा प्रतीयते । भैरवीचक्रसंस्थितिरित्यादि यामलवचनात् । कोदृशं लसत्पीतवर्णं यस्य । विद्युदिव अङ्गं यस्य तञ्चक्रमध्ये पृथिव्याः खवीजमास्ते। सानुस्वारलकार इति ॥ :
षट्चक्रनिरूपणम् । चतुर्बाहुसूषं गजेन्द्राधिरूढ़ तदथे नवीनार्कतुल्यप्रकाशः । शिशुः सृष्टिकारी लसद्देदवाहु- मुखामोजलक्ष्मीश्चतुर्भागभेदः ॥ ६ ॥ Homwwwimmiem . धरावीजध्यानमाह चतुरित्यादि । यदेव धरावीजं तदेवेन्द्रवीजमित्य- विरुद्धम् । तद इति धरावीजस्याङ्के सृष्टिकारी ब्रह्मा वसेदित्यन्वयः। तदस धरावौजस्य विन्दुमध्ये इति बोध्यम् । तदुक्तं- मूलाधार धरावीजं तदिन्दौ ब्रह्मणः स्थितिः । तदझे शिशुरूपस्य गजारूढ़ोऽमराधिपः ॥ इति ॥ शिशुरूपस्य ब्रह्मणः स्थितिरित्यन्वयः । तदने धरावीजकोड़े अमराधिप इति तु मतान्तरम् । स्वमते धरावीन्द्रवीजयोरभेदात् “मन्त्रार्णा देवता प्रोक्ता देवता मन्त्र- रूपिणी” इति वचनाच्च तयोरभेदवर्णनम् । निव्वाणतन्त्रे- एन्द्रवीज वरारोहे लिङ्गस्य वामदेशके । सुसिद्धं ब्रह्मसदनं नादोपरि सुसुन्दरम् । तत्रैव निवसेब्रह्मा सृष्टिकर्ता प्रजापतिः ॥ इति ॥ न भ (६) चतुर्बाह्यभूषमिति | वीजस्य विशेषणं चत्वारो वाहवो भूषा अलङ्कारा दूव यस्य । गजेन्द्र अधिरूई गत्यर्था कर्मकेन्यादिसूत्रात् कर्तरि क्तः। तदङ्के तस्याङ्के वीजाकारमूर्तेरङ्के प्रातःकालीनस्सूर्य तुल्यदीप्तिः सृष्टिकारी शिशुर्विराजते। लसच्चत्वारो वाहवो यस्य । सुखा- म्भोजलच्योश्चतुर्भागो वेदो यस्य अर्थात् चतुर्मुखविशिष्टब्रह्मा इत्यर्थः । [ अत्रमते "चतुर्भागवेद" इति पाठः ।]
-- 3 '. १२ षट्चक्रनिरूपणम् । अत्र धरावीजस्योद्धे नादोपरि ब्रह्मास्थितिकथने नादोद्धे विन्दुमध्ये स्थितिरवगम्यते । लिङ्गस्य वामदेशके इति मतान्तरम् । अतएव सारदायां- आधारांश्च विदुस्तत्र मतभेदादनेकधा । इत्युक्तम् । स किम्भूतः ? लसद्देदवाहुरिति । अत्र केचित् ब्रह्मणो विभुजदर्शनेन लस- हाहुवेदा: सामवेदादयो वाही यस्येति व्युत्पत्तिं कृत्वा तदेव संस्थापयन्ति । तन्न ब्रह्मणो हस्ताभ्यां वेदधारणस्य कुत्राप्यदर्शनात् । किन्वत्र ब्रह्मा चतु- भुजत्वेनैव ध्येयः । तथा स्पष्टमाह भूतशुद्धौ- तदङ्के च चतुर्बाहुं रक्तवर्ण शिशुं शिवे । चतुर्वक्त्रं हंसपृष्ठे ब्रह्माणं विद्धि पावति ॥ इति ॥ मुखाम्भोजलक्ष्मीश्चतुर्भागभेदः इति अस्य ब्रह्मणश्चतुभिर्भागैर्यो भेदः अवय- वेषु विशेष: सैव मुखाम्मोजलक्ष्मीरित्यर्थात् ब्रह्मणश्चतुर्मुखत्वमायातम् । यहा - मुखे अम्भोजलक्ष्मीर्यस्य तथा चतुर्भिर्भागः अर्थात् मुखावच्छेदे भेदो यस्येति विशेषणहयम् । “चतुर्भागवेद” इति पदे अभेदरूपेण पूर्वप्रकारार्थः । अत्र ब्रह्मणो हस्तेऽस्त्रानभिधानेऽपि- दण्ड कमण्डलुधरां अक्षसूत्राभयन्तथा । ध्यायेत्तां रक्तवर्णाञ्च ब्राह्मी कृष्णाजिनोज्ज्वलाम् ॥ इति विश्वसारतन्त्रोक्तब्राझीध्याने ब्रह्मशक्तिहस्ते दण्डकमण्डल्वक्षसूत्रा- भयदर्शनादनापि तथा कल्पाते “यस्य देवस्य यद्रूपं” इत्यादिना सप्तशतीस्तोत्रे शिवशत्योरकास्त्रदर्शनात् इति वदन्ति । वस्तुतस्तु अभयवरदहस्तं कुण्डिकामक्षमालाम् । दधतममलभूषं चिन्तयेदादिमूर्तिम् ॥ इति यामलोतकम्मान्तरीयध्यानप्राप्ताभयवरादीनि ध्येयानि। स्पष्ट- मन्यत् ॥ ६॥ . 1 *- - षटवक्रनिरूपणम् । १३ . U ... " वसेदन देवी च डाकिन्यभिख्या लसदेदवाइज्ज्वला. रक्तनेवा। समानोदितानेकसूर्यप्रकाशा प्रकाशं वहन्ती सदा शुद्धबुद्धेः ॥ ७ ॥ आधारपद्मे डाकिनीशक्तिस्थितिमाह वसेदिति। अत्र पद्मे डाकिनी नानी देवी वसेदित्यन्वयः । सा किम्भूता ? सदा सर्जस्मिन् काले शुद्धबुद्धेस्तत्त्व- ज्ञानस्य प्रकाशं वहन्ती तत्त्वज्ञानसम्पादयित्रीत्यर्थः तथाच योगाङ्गत्वेनात्र तां ध्यात्वा तत्त्वज्ञानमाप्नोति इति भावः । इयं देवी चक्राधिष्ठात्री तदुक्तं- वक्त्रं वशषसोपेतं डाकिन्या समधिष्ठितम् ॥ इति ॥ -- तथा डाकिनी राकिनी चैव लाकिनी काकिनी तथा । शाकिनी हाकिनी चैव क्रमात् षट्पङ्कजाधिपाः ॥ इति ॥ अस्या ध्यानविशेषमाहान्यत्र- रक्ताक्षी रक्तवणां पशुजनभयकृत् शूलखवाङ्गहस्तां वामे खङ्गं दधानां चषकमपि सुधापूरितं चैकवताम् । अत्युग्रामुग्रदंष्ट्रामरिकुलमथनों पायसान्ने प्रसक्तां मूलाधारेऽमृतार्थे परिपतवपुषां डाकिनों चिन्तयेत्ताम् ॥ इति ॥ तथा सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् । कृष्णाम्बरपरोधानां नानाभरणभूषिताम् ॥ . (७) वसेदतेति। अवैव चक्रे डाकिन्यभिख्या नाम यस्याःसा वसेत् । “अभिख्या नाम- शोभयोः” इत्यमरः । लमद्भिः प्रकाशिचतुर्वाभिरुज्ज्वला रक्ताकारनेत्रा च सा देर्वा । समानो- दितेति; एककालीनोदितानों अनेकसूर्य्यानामिव प्रकाश उदयो यस्याः सा तथा। सर्वदा शुडबुद्धीनां प्रकाशं वहन्ती परमार्थविषयीभूता सदृशं विभावयन्ती तद्भावान्वितानां ज्ञानमेव ददातीत्यर्थः ।
१४ षट्चक्रनिरूपणम् । वजाख्यावनादेश विलसति सततं कर्णिकामध्यसंस्थं कोणं तत् पुराख्यं तडिदिव विलसत्कोमलं कामरूपम् । कन्दो नाम वायुर्निवसति सततं तस्य मध्ये समन्तात् जीवेशो बन्धुजीवप्रकरमभिहसन् कोटिसूर्यप्रकाशः ॥ ८॥ wrumake- PULA अल .. -- -- इत्यादि कम्मान्तरोतडाकिनीध्याने प्राप्ते कृष्णास्वरं ध्येयमिति । ब्रह्मादीनां षट्चक्रस्थसकलदेवानां भावभेदेनोधिोवक्त्रेण स्थितिचिन्तनमाह शाक्तानन्दतरङ्गिणीतमायातन्त्रे- पार्वत्युवाच । अधोवनस्थितिस्तत्र अधोभागे कथं भवेत् । इति प्रश्ने, महादेव उवाच । तत्सर्वं पङ्कजं देवि सर्वतोमुखमेव च । प्रवृत्तिभावचिन्तायामधीवक्त्राणि चिन्तयेत् । निवृत्तिभावमार्गेषु सदैवोईमुखानि च ॥ इति ॥ अन्यत् सुगमम् ॥ ७॥ मूलचक्रकर्णिकायां त्रिकोणं निरूप्यते वज्राख्यावत्रदेश इति । सुषुम्नाया पास्यात् ह्यङ्गुलो? लिङ्गमूलादधो वजावतम् । तत्तु मूलाधारकमलकर्णिका- मध्यस्थगह्वरान्तर्वति तत्र त्रिकोणं विलसति इत्यन्वयः । त्रिकोणं कीदृशं ? पुराख्यमिति । त्रिकोणगर्भस्थकामवीजघटकककारमध्ये त्रिपुरसुन्दर्य- Apnery musipurnearniyamaansuhamimi wmantrition (८) वज्जाख्येति । अस्यैव पद्मस्य कर्णिकामध्यस्थ पुराख्य त्रिपुरासम्बन्धीयं पुरं तदेवाख्या नाम यस्य। चतुष्कोणं बज्वाख्यनाद्याः समदेशे प्रकाशते । सर्चदैव विद्युदिव प्रकाशते कोमलं कामरूपपीठम् । यहा भन्नाभिलाषखरूपं तस्य कोणस्य मध्ये समन्ताच्चतुर्दिक्षु सर्वदैव कन्दर्पो नाम वायुर्विलसति काम एव वायुभूतोऽत्रास्ति इति गुरुचरणाः । तेनैव हेतुना जीवात्मनावि- भवतीति बाह जीवेश इति । किम्भूतः ? वधूकपुष्पसमूहं अत्यर्थं उपहसन्निव । ततोऽप्यत्यर्थ- रकाकारः अतो वायुः रूपवानित्यादि सांख्यसिद्धान्तमपि सङ्गच्छते । पुनः कीदृशः ? कोटि- सूर्याणां व प्रकाशो दीप्तिर्यस्येति । .
षट्चक्रनिरूपणम् । १५ धिष्ठानात् पुराख्यमिति तात्पर्यम् । तदुक्तं शाक्तानन्दतरङ्गिण्यां ककार- तत्त्वकथनमुपक्रम्य- तेषां मध्ये स्थिता देवी सुन्दरी परदेवता । इति । कोमलं सुस्निग्धम् । तथा कामरूपं कामं निरूप्यतेऽनुभूयते येन तादृशं मदनागारात्मकमित्यर्थः । अतएव-- त्रिकोणं तत्तु विज्ञेयं शक्तिपीठं मनोहरम् । इत्युक्तम् । एतत् त्रिकोणं धरावौजस्योद्धे तदुक्तं सम्मोहने धरावीजमधिकृत्य- रामा ज्येष्ठा तथा रौद्री त्रिरेखा च तदूर्द्धतः । इति । तत्विकोणमध्ये कन्दर्पवायुस्थितिमाह कन्दप इति । समन्तात् त्रिकोण- व्यापकरूपेणत्यर्थः । जीवेश इति अस्य जीवधारकत्वाज्जीवेश इत्युक्तम्। तथा हि- . कन्ददेश वसेत् प्राणो ह्यपानो गुदमण्डले । इत्यादिवचने गुदमण्डलस्थवायोरपानवाभिधानात् तादृशगुदमण्डलस्थ- कन्दर्पवायोरप्यपानांशः। ततश्च- अपानः कर्षति प्राणं प्राणोऽपानञ्च कर्षति । रज्जुबद्धो यथा श्येनो गतोऽप्यावष्यते पुनः । तथा चैतौ विषम्बादे सम्बादे सन्त्यजेदिमम् ॥ इति ॥ विषम्वादे परस्परवैपरीत्यगमने एती प्राणापानवायू तथा कर्षाकर्षिणौ सम्बादे अविरोधिगमने इमं देहं सन्त्यजेदित्यर्थकतहचने कन्दर्यावान्तरनामकापान- वायोः प्राणाकर्षकत्वेन देहधारणत्वाज्जीवधारकत्वं प्रतीयते अतो जीवेश इत्युक्तिरिति भावः। अतएव ग्रन्यक्ता दशमलोके “खासोच्छासविभञ्जनेन जगतां जीवो यया धार्यते” इत्यनेन खासोच्छासरूपयोः प्राणापानयोर्जीव- धारक स्वयमेवोक्तम् । स्पष्टमन्यत् ॥ ८॥ . . १॥ "रामा" इत्यत्र “वामा" इति पाठान्नरम् । २। “अपानत्वविधानात्" इति वा पाठः।
१६ षटचक्र निरूपणम् । तन्मध्ये लिङ्गरूपी द्रुतकनककलाकोमलः पश्चिमास्यो ज्ञानध्यानप्रकाशः प्रथमकिशलयाकाररूपः स्वयम्भुः । विद्युत्पूर्णेन्दुविम्बप्रकरकरचयस्निग्धसन्तानहासी काशीवासी विलासी विलसति सरिदावर्तरूपप्रकारः ॥ ६ ॥ - द्रुतकनककला- सुखी त्रिकोणमध्ये स्वयम्भुलिङ्गस्थितिमाह तन्मध्य इति। विकोणमध्ये लिङ्ग- रूपी स्वयम्भुः स्वयम्भुनामक शिवलिङ्ग विलसतौल्यन्वयः । कोमलः तप्तकाञ्चनावयव इव स्निग्धभाव इत्यर्थः । पश्चिमास्योऽधोमुखः तदुक्तं कालीकुलामृते- तत्र स्थितो महालिङ्गः स्वयम्भुः सर्वदा अधोमुखः क्रियावांश्च कामवीजेन चालितः ॥ इति ॥ ज्ञानध्यानप्रकाश इति ज्ञानध्यानाभ्यां प्रकाशो यस्य तादृश इत्यर्थः । तथा च ज्ञानेन. निर्गुणरूपप्रकाशः ध्यानेन सगुणरूपंप्रकाशो यस्य स एवायं खयम्भुरिति भावः । दृष्टान्तेन विशेषयति प्रथमकिशलयाकाररूप इति अचिरोत्पन्नपत्राङ्कुर- वत् आकाररूपं यस्य तेन स्थूलमूलात् सूक्ष्माग्रपर्यन्तं चम्पककुसुममध्यस्थित- शलाकावदुन्नत: श्यामवर्णश्चेत्यर्थः। तदुक्तं शाक्तानन्दतरङ्गिण्याम्- खयम्भुलिङ्गं तन्मध्ये सरन्ध्र पश्चिमाननम् । ध्यायेच्च परमेशानि शिवं श्यामलसुन्दरम् ॥ इति ॥ ANDA क . ROHI (e) तन्मध्ये इति । तत्कोणस्य किञ्चित् उपरि लिङ्गरूपी खयम्भः भावरूपेण तिष्ठति । कीदृशः ? दूता या कनककला वगिलथीभूता तथा इव कोमलः। पश्चिमाखोऽधोमुखः । ज्ञानध्या- नाख्ययोगाभ्यां प्रकाश उदयो यस्य । नवीनपल्लवाकारस्येव रूपं यस्य । विद्युत्पूर्णेन्दुविम्बसमूहानां करन्दस्निग्धसमूहस्येव हास्य दुव सविशेषो यस्य। तत्स्थानमपि विलसितुं शोलं अस्य सरिदा- वर्तरूपप्रकार प्राकृतिर्यस्य अतिचञ्चलत्वात् एवम्भूतः सन् विलसति ॥
-
षट्चक्रनिरूपणम् ।
१७
.
-
यत्तु---
मूलाधार स्मरेदिव्यं त्रिकोणमतिसुन्दरम् ।
तस्यास्त्रिरेखामानीय अधअई व्यवस्थिताम् ।
नोलतोयदमध्यस्थां तडिकोटिसमप्रभाम् ॥
इति यामलवचने कुण्डलिन्या नौलतोयदमध्यस्थविशेषणेन खयम्भुलिङ्गस्य
नीलवर्णवमायातं तनौलश्यामयोरेकप-यत्वान्न विरुद्धम् ।
विद्युत्पर्णेन्दुविम्वप्रकरकरचयस्निग्धसन्तामहासौति। विद्युत्पूर्णचन्द्रबिम्बयो-
यः प्रकष्टकर: उत्तापरहितकिरणः तत्तुल्यकिरणसमूहेन मृदुप्रवाहविशिष्ट-
प्रकाशोऽस्यास्तीत्यर्थः । काशीवासी विलासौति अत्र काशीवासतुल्यवास-
विशिष्टः सन् विलासीत्यर्थ: तेन यथा काशीवासे सुखं भुनक्ति तहदनापीति
अथवा निवास उल्लासः कामप्रफुल्लभाव इति यावत् तविशिष्ट
इत्यर्थः । “कामवीजेन चालित” इति वचनात् अयं स्वयम्भुः काशीवासी
एतेनास्य विश्वेश्वरत्वं सूचितं इति । सरिदावर्तरूपप्रकार इति सरिदावर्ते
यद्रूपन्तत्प्रकार: ततश्च यथा भ्राम्यमाणनदीजले मध्यनिम्नस्तन्मध्ये किञ्चि-
दुन्नतं शङ्खमध्योन्नतवदिति भावः । अयं स्वयम्भुः कामबीजोपरिस्थितः तदाह
कालोकुलामृत-
किञ्जल्कोपरि शृङ्गाटः सरन्धः सुमनोहरः ।
तत्र स्थितो महालिङ्गः स्वयम्भुः सर्वदा सुखी।
अधोमुखः क्रियावांश्च कामवीजेन चालितः ॥ इति ।
भावः ।
तथान्यत्र
पूर्वोक्ता डाकिनी तत्र कर्णिकायां त्रिकोणकम् ।
यन्मध्ये विवरं सूक्ष्म रक्ताभं कामवौजकम् ।
तत्र स्वयम्भुलिङ्गचाधोमुखालतकप्रभम् ॥
इति मतान्तरम् ॥ ८ ॥
१८ षट व क्रानिरूपणम् । तस्योई विसतन्तुसोदरलसत्यूच्या जगन्मोहिनी ब्रह्मदारमुखं मुखन मधुरं संछादयन्ती खयम् । शङ्खावर्त्तनिभा नवीनचपलामालाविलासास्पदा मुप्ता सर्पसमा शिवोपरि लसत्साईत्रिवृत्ताकृतिः ॥ १० ॥ कूजन्तौ कुलकुण्डली च मधुरं मत्तालिमालास्फुटं वाचः कोमलकाव्यवधरचनाभेदातिभेद क्रमैः । श्वासोच्छासविभञ्जगेन जगतां जीवो यथा धाय्यते सा मूलाम्बुजगह्वरे विलसति प्रोद्दामदौहावलिः ॥ ११ ॥ PARAN खयम्भुलिङ्गे कुण्डलिनीशक्तिस्थितिमाह तस्यो. इति हाभ्याम् । अनयो- रथः । यहा कुण्डलिन्या श्वासोच्छासविभञ्जनेन प्रवर्त्तनेन जगतां जीवो जीवात्मा धार्यते देहावच्छेदे स्थाप्यते सा देवी मत्तालिमालास्फुटं यथा स्यात्तयाततिः एवं वक्ष्यमाणक्रमैबाचम् अर्थात् जनयन्ती सती अम्बुज- गहरे मूलाधारकमलकर्णिकामध्यत्रिकोणगह्वरे तस्य स्वयम्भुलिङ्गस्यो - भाग विलसतौति श्लोकद्दयस्य विशिष्टान्वितार्थः। विसतन्तुसोदरलसत्सूक्ष्मा मृणाल चूत्रतुल्य सूक्ष्मा इत्यर्थः । जगन्मोहिनी जगतां मायारूपिणीत्यर्थः । windinew (१०) तस्योद्धे इति । तस्य शिवस्य ज.ध इत्यर्थः। मृणालतन्तुसशी शरीरकला यस्याः एवम्भूना सा कूजन्नो कुलकुण्डलिनीति वक्ष्यमाणलोकेनान्वयः । यतः विस तन्तुसहशी अतः सूक्ष्मा जगतां मोहिनी महामायारूपेणेत्यर्थः । ब्रह्महारसुखं मुखेन मुखकमलेन स्वयमेव सञ्छा- दवन्तो सम्यकप्रकारेणाच्छादयन्तीत्यर्थः | एतेन अमृतवर्मसञ्छादनं कृत्वा अमृतं पिवतीत्यर्थः अतः तदमृतसंयोगेन तन्मुखं मधुरं शमस्य वेष्टनाकारल्या | नवीनविद्यच्छ्रणीप्रकाश एव स्थान यस्खास्तत्सहयोति यावत् । सुप्ता अतः सर्पल्या मो हि सप्ता कुण्डलाकारो भवति । शिवसो- परि उसत् प्रकाशत् साईतिवृत्त प्राक्कतिः शरीरं यस्याः । (१३) कूजन्तोति | सा कुण्डलिनी मधुरं यथा स्यात्तथा शब्दं कुर्वतीत्यर्थः । एतेन लब्धध्वन्या- अकशब्दो भवति । तत्र स एव शब्दः कण्ठतावाद्यभिघातेन वर्णात्मकत्वेन परिगण्यते इत्याह :। .
षट्चक्र निरूपणम् । १८ । - . ब्रह्माद्दारमुखं स्वयम्भुलिङ्गच्छिद्रं मधुरं मृदु यथा स्यात्तथा स्वमुखेन संछादयति इत्यर्थः । नवीनचपलामालाविलासास्पदेति सर्वेषां नवीनत्वे प्रकाशाधिक्यदर्श- नादत्र नवीनोल्कीर्तनमधिकप्रकाशप्राश्यर्थम् । ततश्चातिप्रकाशितविद्युन्मालानां विलासस्य स्थिरतर कौतूहलवामस्यास्पद इत्यर्थात् स्थिरतरातिप्रकाशितविद्युत्म- मूहप्रकाशतुल्य प्रकाशितवतीति पर्यवसितम् । वाक्यजननक्रममाह कोमल काव्यबन्धरचनाभेदातिभेदकमै रिति। कोमल- काव्यं मृदुशब्दघटितरूपगुणरसादिवर्णनात्मक कवाक्यम् । बन्धः पनबन्धाश्वबन्धा- दिचित्रकाव्यम् । रचना तदतिरिक्तगद्यपद्यात्मकवाक्यम् । भेदस्तेषां विशेषः । अतिभेदस्तदितरसंस्कृतप्राकृतवाक्य समुदायः । तयोयः क्रमः शास्त्रव्यवहारानुरू- परीतिः । तादृशीमीरीतिभिर्बाचं जनयन्तौति परिष्कृतार्थः । कुण्डलिन्याः संस्कृतप्राकृतविशेषाविशेषयावहाक्य जनयित्रीत्वात् । तदाह सारदायाम्- भिद्यमानात् पराबिन्दोरव्यतात्मा रवोऽभवत् । तत्प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् । वर्णात्मनाविर्भवति गद्यपद्यादिभेदतः ॥ इति । गद्यपद्यादीत्यादिपदात् यावहाक्यं रहते। व्यक्तमाह कादिमते- स्वामेच्छाशक्तिघातन प्राणवायुखरूपतः । मूलाधार समुत्पन्नः पराख्यो नाद उत्तमः ॥ स एव चोर्द्धतां नीत: स्वाधिष्ठानविजृम्भितः । पश्यन्त्याख्यामवाप्नोति तथैवोढुं शनैः शनैः ॥ अनाहते बुद्धितत्त्वसमेतो मध्यमोऽभिधः । तथा तयोरूर्द्धगतो विशुद्धौ कण्ठदेशतः ॥ . H कोमलकाब्यबन्धपथनाया यो भेदो नानाप्रबन्धः गौड़ी वैदौं पाञ्चाली कवितारीतिक्रमः तस्य भेदस्य श्टङ्गारादिवररसबन्धेन योऽतिभेट्स्तत्क्रमैः । मत्तभङ्गमालेव स्फुटं यथा स्यात्तथा वाचन कूजन्ती तय एव वैखरीत्वम् आयातमिति । यया देया च श्वासोच्छ्रास विभञ्जनेन जगतां जीवो धार्यते मा मूलाधारपद्मकुहरे प्रकाशते। प्रोद्दामदीप्तावलियस्याः दीप्तमिति भावे कः ॥
. . २० षट्चक्र निरूपणम् । वैखयाख्यस्ततः कण्ठशीर्षताल्वोष्ठदन्तगः । जिह्वामूलाग्र पृष्ठस्थस्तथा नासाग्रतः क्रमात् ॥ कण्ठतालोष्ठकण्ठस्थः कण्ठोष्ठहयतस्तथा । समुत्पन्नान्चक्षराणि क्रमादादिक्षकावधि ॥ इति ॥ अलं विस्तरेण । कुण्डलिनीध्यानान्तरमाह अन्यत्र- ध्यायेत् कुण्डलिनों देवौं स्वयम्भुलिङ्गवेष्टिनीम् । श्यामां सूक्ष्मां सृष्टिरूपां सृष्टिस्थितिलयात्मिकाम् । विश्वातीतां ज्ञानरूपां चिन्तयेदूर्द्धवाहिनीम् ॥ तथा- ध्यायेत् कुण्डलिनी देवीमिष्टदेवस्वरूपिणीम् । सदा षोडशवर्षीयां पीनोन्नतपयोधराम् । नवयौवनसम्पन्नां सर्वाभरणभूषिताम् । पूर्णचन्द्रप्रभा रतां सदा चञ्चललोचनाम् ॥ इति ॥ रतामिति सुन्दरीविषये ज्ञेयमिति शाक्तानन्दतरङ्गिनीकारः । वस्तुतस्तु सर्वदेवताविषये एव कुण्डलिनी रतवर्णत्वेन ध्येया न तु श्यामवर्णत्वेन प्रायः सर्वतन्त्रे सर्वसंग्रहं च कुण्डलिन्यास्तड़िदाकारत्वकथनात् । श्यामामित्यनेन- शीतकाले भवेदुष्णा चोष्ण काले च शीतला। प्रतप्तकाञ्चनाभासा श्यामा स्त्री परिकीर्तिता ॥ इत्येतद्दचनाकान्तत्वं ज्ञापितम्। न तु न तु श्यामवर्णत्वमत: सर्वशास्त्र- सामञ्जस्य मिति । चक्रभेदनात् पूर्व ब्रह्मदारमध्ये कुण्डलीध्यानमाह कङ्कालमालिन्याम्- कोटिचन्द्रप्रतीकाशां परब्रह्मस्वरूपिणीम् । चतुर्भुजां त्रिनेत्राञ्च वराभयकरान्तथा ॥ तथा पुस्तकवीणाञ्च धारिणी सिंहवाहिनीम् । गच्छत्तीं स्वासनं भीमा नानारूपधरामिकाम् ॥ इति ॥१०-११ ॥
- २१ षट्चक्रनिरूपणम् । तन्मध्ये परमा कलातिकुशला सूक्ष्मातिसूक्ष्मापरा नित्यानन्दपरम्परातिविगलत्पीयूषधाराधरा । ब्रह्माण्डादिकटाहमेव सकलं यद्भासया भासते सेयं श्रीपरमेश्वरी विजयते नित्यप्रबोधोदया ॥ १२ ॥ Ami - . स्वयम्भुलिङ्ग वेष्टितकुण्डलिन्यू? समसूत्रपातन्यायेन दण्डाकारण लिङ्गाग्र- पर्यन्तस्थितां परशक्तिमाह तन्मध्ये इति। अस्याथैः यद्भासया यस्याः शक्त्या दौस्या ब्रह्माण्डादि तत्कटाहश्च भासते प्रकाशते सेयं श्रीपरमेखरी तन्मध्ये स्वयम्भुलिङ्गे कुण्डलिनीवेष्टनोई विजयते सान् वशवर्तिन: कृत्वा तिष्ठती- त्यर्थः । सा किम्भता ? परमा अघटनघटनपटीयसी माया कलानादशक्तिरूपा कुण्डलिन्यभेदशरीरिणी। तदुक्तं शातानन्दतरङ्गिण्याम्- कला कुण्डलिनी सैव नादशक्तिः शिवोदिता। तथान्यत्र- तस्योपरि मनो ध्यायेत् चित्कलां ई-समाश्रिताम् । प्रदीपकलिकाकारां कुण्डल्यभेदरूपिणीम् ॥ इति ॥ तथा कालिकाश्रुती- तस्याः शिखाया मध्ये तु अध अर्द्धव्यवस्थिताम् । स ब्रह्मा स शिवः शूरः स एव परमेश्वरः ॥ स एव विष्णुः स प्राण: स कालाग्निः स चन्द्रमाः । इति कुण्डलिनी ध्यात्वा सर्वपापैः प्रमुच्यते ॥ इति ॥ भ- PAARAammm (१२) तन्मध्ये इति। तस्याः कुण्डलिन्या मध्ये परमा कला प्रास्ते परं परमात्मानं मीयते अनया इति परमा। अत्यर्थं कुशलं यतः सातिकुशला। सूक्ष्मा यतस्तस्या मध्ये परा पश्यन्ती, मध्यमा वैखरी समाधिरूपा नित्यं आनन्दपरम्परा यस्याः सा तथा। अत्यर्थविद्युन्मालेव लसत् प्रकाशत् दीधितिस्तेजो यस्याः ब्रह्माण्डस्य आदिकटाहपर्यन्तं यस्याः कलाया भासया सकलं भासते । यद्दा शरीरस्थापि ब्रह्माण्डसंज्ञा-"ब्रह्माण्डे ये गुणाः सन्ति ते हि सन्ति कलेवरे" इति प्रामाणिकोतत्वात् । सेयं श्रीपरमेश्वरी विजयते जयतीत्यर्थः । नित्यज्ञानस्योदयो यतः।
२२ षट्चक्रनिरूपणम् । ध्यात्वैतन्मूल चक्रान्तरविबरलसत्कोटिसूर्यप्रकाशां वाचामोशो नरेन्द्रः स भवति सहसा सर्व विद्याविनोदी। आरोग्यं तस्य नित्यं निरवधि च महानन्दचित्तान्तरात्मा सकलसुरगुरुन् सेवते शुद्धशीलः ॥ १३ ॥ वाक्यः काव्यप्रबन्धैः भावः । - तस्याः शिखाया मध्ये त्रिवलयस्योद्धे व्यवस्थितां परमां कलां नादरूपा- मित्यर्थः। इति ललितारहस्य कारः। अतिकुशला सृष्टिसम्पादनयोग्यता- रूपकौशलवतीत्यर्थः । नित्यानन्दपरम्परेति। नित्यानन्दात् परम्परा पर- परक्रमसम्बन्धो यस्या इत्यर्थः ततश्च नित्यानन्दो निर्गुणं ब्रह्म तस्मात् सगुणाविर्भाव: सगुणात् शक्ति: शतर्नादः नानाहिन्दुः विन्दोः कुण्डलिनी कुण्डलिन्यवान्तररूपेयं चित्कलेत्येवंप्रकारेण नित्यानन्दपरम्परेति यहा नित्यानन्दपरम्परातिविगलत्पीयूषधाराधरेत्येकविशेषणम् । नित्या- नन्दात्परम्परया नित्यानन्दात् परं विन्दुः तत्परमाज्ञाचक्र तत्परं विशुद्धचक्र एवं क्रमेण मूलाधारपर्यन्तं अतिविगलन्ती या पीयूषधारा सा ध्रियते रहते यया सेत्यर्थः स्पष्टमन्चत् ॥ १२ ॥ मूलाधार कुण्डलिनीचिन्तनफलमाह ध्यावेतदिति । मूलचक्रेति “मूल- माधारषटकानां मूलाधारं ततो विदुः” इति वचनात् मूलाधारचक्र तस्यान्तरे मध्ये यदिवरं गह्वरं तस्मिन् लसत्कोटिसूर्यप्रकाशामित्यर्थः । सकलसुरगुरू- निति । “सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः” इत्यमरोक्त्या सुरगुरु- वर्तिनः गुरुशब्देन सुरश्रेष्ठा ब्रह्मविष्णुशिवादयः प्रतीयन्ते । ततश्च तदादि- देवान् सेवते स्तवादिवाक्यैस्तोषयतीत्यर्थः । स्पष्टमन्यत् ॥ १३ ॥ * ॥ (१३) ध्यात्वैतदिति । एतत् मूलाधारस्यं सर्च ध्यात्वा नरः एवमेवं भवति तत्क्रमेणाह-वाचा- मीशो नरानामिन्द्रतल्यः सहसा सर्व विद्याविनोदी च भवति । तस्य नित्यमेव ब्रारोग्यं निरवधि अहर्निशमेव महानन्द ईश्वरः तच्चिन्ताविशिष्टः अन्तरात्मा यख एवं भवतीत्यर्थः । एतत् कीदृशं ? मूलाधारमध्यप्रकाशं कोटिसूर्यानां प्रकाशो यस्य तत्तथा। स जनः काव्यप्रबन्धैः वाक्यैः सकल- सुरगुरं शुद्धशीलः सन् सेवते वाक्पतिसदृशो भवतीत्यर्थः । [अत्र मते गुरुमिति पाठः।] .
षट्चक्रनिरूपणम् । २३ शि सिन्दूरपूररुचिरारुणपद्ममन्यत् सौषुम्नमध्यघटितं ध्वजमूलदेश । अङ्गच्छदैः परिवृतं तडिदाभवर्ग- द्यैिः सविन्दुलसितैश्च पुरन्दरान्तैः ॥ १४ ॥ तदयं महावाक्यार्थनिर्णयः । मूलाधारचक्रं चतूईलं रक्तवर्णं वशषस इति स्वर्णाभचतुर्वर्णयुक्तदलकर्णिकायां धरामण्डलं चतुष्कोणं अष्टशूलाहतं पीतवर्णं तन्मध्याधोधरावीजं चतुर्भुजं ऐरावतारूढं पीतवर्णं वजहस्तं चतु- भुजम् । धरावीजविन्दुमध्ये शिशुरूपब्रह्मा रक्तवर्ण: चतुर्भुजः दण्डकमण्ड- ल्वक्षसूत्राभयहस्त: चतुर्मुखः । तत्कणिकायां रक्त पद्मोपरि चनाधिष्ठात्री डाकिनीशक्तिः रक्तवर्णा चतुर्भुजा शूलखट्वाङ्गखागचषकहस्ता। कर्णिका- मध्ये विद्युदाकारत्रिकोणं तन्मध्ये कामवायुः कामवौजञ्च रक्तवर्णम् । तदुपरि स्वयम्भलिङ्गः श्यामवर्णः। तस्योड़े कुण्डलिनीशक्तिः साईत्रिवलयाकारा । तदूर्द्व लिङ्गाग्रे चित्कला दण्डाकारण स्थितेति ॥ इति प्रथमप्रकरणम् ॥ * ॥ मूलाधारचक्र निरूप्य स्वाधिष्ठानचक्र निरूपयति सिन्दूरपूरेत्यादि पञ्चभिः । प्रथमस्यायमर्थः । ध्वजमूलदेशे लिङ्गमूलस्थाने अन्यत् आधारचक्र भिन्न सिन्दूरपूररुचिरारुणपद्मं सिन्दूरस्य पूरणेन यथा मनोहररक्तवर्णं तहद्रक्तवर्ण- पद्मं आस्ते इति क्रियासमाहारणान्वयः । पद्म विशेषयति सौषुम्नमध्यघटित- मिति । सुषुम्नानाडीमध्ये निम्मितं तथा अङ्गच्छदैः परिवृतं षट्पन युक्तम् । पुरन्दरान्तैरिति । पुरन्दरो लकार: तदन्तर्वाद्यैस्तेन वभमयरलेति षभिः तडिदाभवणे दलवत्परिवृतः तेन दलावच्छेदे वर्णयोग: प्रतीतः । वर्णान् ॥ m (१४) सिन्दरेति । अन्यत् स्वाधिष्ठानाख्यं लिङ्गमूलसमदेशे आस्ते सुषुम्नामध्यघटकीभूतं सुषुम्नाशब्दात् स्वार्थे इन् इति केचित् । तदृष्यं वस्तुतस्तु सुषुम्नाया इदं ब्रह्मनाद्यादि तन्मध्यभूतं पद्मं तस्येदमित्यर्थे चण् कीदृशं सिन्दरुचिरतया इव अरुणवर्णम् । पुनः कीदृशं ? अङ्गच्छदैः घडूदलैराहतम् । कीदृशैः ? तडिदिवाभा वर्णो येषां तथोक्तः । पुरन्दरो लकारस्तदन्तैः विन्दना परिलसितैरेवम्भतैलैरित्यर्थः । एतेन वर्णानां सर्वपमेषु दलमध्यवर्तित्वमायातम् । ..
२४ षट्चक्र निरूपणम् । तस्यान्तरे प्रविलसदिशदप्रकाश- मस्मोजमण्डलमथो वरुणस्य तस्य । अर्द्धन्दुरूपलसितं शरदिन्दुशुभं वहारवीजममलं मकराधिरूढ़म् ॥ १५ ॥ तस्य विशेषयति सविन्दुलसितैरिति । विन्दुना सह वर्तमानाः सविन्दवः लसिताः प्रकाशिताः। सविन्दवश्व ते लसिताश्चेति तैरित्यर्थः । নন নি - विशेषणभावकल्पने विशेषणीभूतविन्दो लसितत्वकारणत्वम् लसितत्वकारणत्वम् प्रतीयते । “सुरापः पतती” त्यत्न कर्तृविशेषण सुरापाने पतनकर्तृत्ववदिति । यद्दा विन्दूनां लसितं विन्दुलसितं विन्दुप्रकाशः तेन सह वर्तमाणैः वाद्यैरित्यर्थः ॥ १४ ॥ एतत्पद्मकर्णिकायामम्भोजमण्डलस्थितिमाह तस्यान्तरे इति । पद्मस्य अन्तरे मध्ये अम्भोजमण्डलम् अम्भोजाकारमण्डलं प्रविलसत् प्रकाश- मानम् । तत् किम्भूतं ? विशदप्रकाशं शुक्लवर्णम् । पुन: किम्भूतम् ? अ.न्दुरूप- लसितम् अई चन्द्रयुक्तमित्यर्थः । इदं जलमण्डलं तदाह सारदायाम् अम्भोजमम्भसी भूमेश्चतुरस्रं सवचकम् । इत्यादि । एतन्मण्डललक्षणमाह राघवभट्टः । अई चन्द्रं कृत्वा तदुभयभागे सरोज- हयं कुर्यात् तदुक्तमाचार्यैः । अझोपेताडेंन्दुमहिम्बमिति। मण्डलमध्ये वरुणवीजस्थितिमाह अथो इति। तस्येति जलाधिष्ठाटत्वेन प्रसिद्धस्येत्यर्थः । मकराधिरूढ़मिति । पाशहस्तञ्च तदाह . Re- - . imes (१५) तस्थान्तरे इति । तस्य पद्मस्य मध्ये अम्भसि जातं वरुणस्य मण्डलमास्ते । अथो शब्दः सम्भावनायाम् । कीदृशं ? प्रकर्षेण विलसत् निर्मलप्रकाशो यस्य तत्तथा । तस्यैव वरुणस्य अर्बेन्द- रूपेण लसितं मनोज्ञम् अतएव वङ्कारवीजम् अमलं निर्मल शरच्चन्द्र दूब शुभम् । मकराधि- रूई मकरो जन्तुविशेषः बोङ्कार इति ख्यातस्तदधिरूढं कर्तरि क्तः, अतएव अम्भोजमण्डल- दर्शनात् कमपि मणिपूरे इति शङ्कराचार्यश्लोकस्य महीधारे इत्यत्र चानुपपत्तिः तत्तु तयष- सायिभिः प्रतिध्यातव्यम् । वयन्तु तत्र व्यस्तसमस्ततया व्याख्यां ब्रूमः ॥ - .
षट्च क्रनिरूपणम् । २५ तस्याइदेशकलितो हरिरेव पायात् नौलप्रकाशरुचिरश्रियमादधानः । पीताम्बरः प्रथमयौवनगर्बधारी श्रीवत्मकौस्तुभधरो धृतवेदवाहुः ॥ १६ ॥ तदन्तर्वारुणं वीज खेतं मकरवाहनम् । पाशहस्तं तदईञ्च हरिं श्यामं चतुर्भुजम् ॥ इति ॥ अयं वरुणवीजस्वरूपो वकारो यवर्गीय: कुलाकुलचक्र भूतलिपिमन्वे च तहकारस्यैव यलवर्णत्वेनाभिधानात् । स्पष्टमन्यत् ॥ १५ ॥ वरुणवीजस्याङ्के विष्णुस्थितिमाह तस्याङ्ग इति। अङ्के वीजमस्तकस्य विन्दु- मध्ये धरावोजविन्दौ ब्रह्मणः स्थितिदर्शनादत्रापि तथा दृष्टपरिकल्पनान्यायात् एवं वक्ष्यमाणं सर्वत्र बोध्यम् । कलितः स्थित इत्यर्थः । नौलप्रकाशरुचिरश्रियमा- दधान इति । नीलज्योतिषां या मनोज्ञा शोभा तां दधानः इत्यर्थः तेन नौल- तेजःपुञ्जशरीरीति यावत् । श्रीवत्सकौस्तुभधर इति, तड्यानमाह गौतमोये- कौस्तुभं हृदये रत्नं सूर्यायुतसमप्रभम् । तदधो वनमालाञ्च चन्द्रायुतसमप्रभाम् । कौस्तुभोद्धे च श्रीवत्सञ्चन्द्रायुतसमप्रभम् ॥ इति ॥ हरिहस्ते अस्त्रमाह तन्त्रान्तरे- पाशहस्तं तदङ्गे च हरि श्यामं चतुर्भुजम् । शङ्खचक्रगदापद्मधारिणं पीतवाससम् ॥ इति ॥ पाशहस्तं “वरुणम्” इति पूर्वेणान्वयः । अन्यत्र “पीताम्बरं शान्तमूर्ति वनमालाविभूषितम्” इति मूलाधारे हंसपृष्ठे ब्रह्मणः स्थितिदर्शनादत्र गरुड़ो- परि विष्णुश्चिन्तनीयः ॥ १६ ॥ . -- (१६) तथाङ्क इति । तस्य वीजस्य क्रोडदेशलसितः हरिर्विष्णुः त्रिभुवनं पायात् । कीदृशः ? नीलप्रकाशां मनोज्ञां कान्तिम् आधत्ते। पीतवस्त्रः, प्रथमयौवनगर्वम् उद्रेक धर्नु शीलमख तथोकः । श्रीवत्मचिन्नं कौस्तुभञ्च दधातीत्यर्थः। ताश्चत्वारो.बाहवो येन स तथा ॥ ४ mm षट्चक्र निरूपणम् । अत्रैव भाति सततं खलु राकिणी सा नीलाम्बुजोदरसहोदरकान्तिशोभा । नानायुधोद्यतकरैलसिताङ्गलक्ष्मी दिव्याम्बराभरणभूषितमत्तचित्ता ॥ १७ ॥ खाधिष्ठानाख्यमेतत् सरसिजममलं चिन्तयेद्यो मनुष्य स्तस्याहवारदोषादिकसकलरिपुः चीयते तत्क्षणेन । योगीशः सोऽपि मोहाद्भुततिमिरचये भानुतुल्यप्रकाशो- गौः पयैः प्रबन्धविरचयति सुधावाक्यसन्दोहलक्ष्मीः ॥१८॥ . MAHA एतत्पद्मे राकिणीशक्तिस्थितिमाह। अत्रैवेति स्पष्टम् । राकिणीध्यान- विशेषमाह- श्यामां शूलाअहस्तां डमरुकरयुतां तीक्ष्णटङ्गं वहन्ती- मुग्रां रक्तत्रिनेत्रां कुटिलसविलसद्दन्तदंष्ट्रप्रभाभिः । दीप्तां तां देवदेवों हितयकमलगां रक्तधारैकनासां शुक्लान्ने सक्तचित्तामभिमतफलदां राकिणों चिन्तयेत्ताम् ॥ अत्र पद्मान्तर राकिण्याः स्थितिदर्शनात् सर्वत्र रक्तपद्मान्तरोपरि षट्- शक्तीनां स्थितिरिति बोध्यम् ॥ १७ ॥ स्वाधिष्ठानपद्मादिचिन्तनफलमाह स्वाधिष्ठानाख्यमिति । तदुक्तं- स्वशब्देन पर लिङ्ग स्वाधिष्ठानं ततो विदुः ॥ इति ॥ " (१७) अवैवेति । अत्रैव पद्मे खल निश्चितं सर्वदेवस्य प्रसिद्धा राकिणी यास्ते। नीलपद्म- स्योदरतुल्यशोभा यस्याः नानास्लेणोद्यतकरैः प्रकाशमाना शोभा यस्याः सा तथा । दिव्याम्बरा- लङ्काराभ्यां भूषिता च मत्तं चित्तं यस्याः सा च इति तथा ॥ (१८) खाधिष्ठानेति । एतत् स्वाधिष्ठानाख्यं सरसिजं. यो मुनीन्द्रश्चिन्तयेत् तस्याहङ्कारादि- दोषरूपसकलरिपवः ज्ञानप्रतिबन्धकत्वात् शुद्धज्ञानपरिपन्थिनः तत्क्षगनैव क्षीला भवन्तीति।
২৩ षट्चक्रनिरूपणम् । तस्यो? नाभिमूले दशदललसिते पूर्णमेघप्रकाश नीलाम्भोजप्रकाशकपहितजठरे डादिफान्तः सचन्द्रः । ध्यायेदैश्वानरस्यारुणमिहिरसमं मण्डलं तत् त्रिकोणं तहाद्ये खस्तिकाख्यैस्विभिरभिलषितं तव वह्नः स्ववीजम् ॥१६॥ - . अहङ्कारदोषादीत्यादिना कामक्रोधादयो गृह्यन्ते तेन कामादिषड्पिवः क्षौयन्ते इत्यर्थः । मोहाद्भुततिमिरचये इति दुर्निवार्यमोहान्धकारसमूहे इत्यर्थः । ततश्च मायामोहरूपान्धकारनाशाय ज्ञानरूपसूर्यमाप्नोतीति भावः । स्पष्टमन्यत् ॥ १८ ॥ तदयं महावाक्यार्थनिर्णयः । स्वाधिष्ठानचक्रं सिन्दूरवर्ण,षड्दलं तड़िदाभसविन्दु व भ म य र ल इति षड्वर्णयुक्तदलम् । तत्कर्णिकायां मध्य- स्थलाईचन्द्रयुक्ताष्टदलपद्माकारमम्भोजमण्डलं शुक्लवर्णम् । तन्मध्ये वं इति वरुण- वीजं मकराधिरूढ़ पाशहस्तं तत्क्रोड़े विष्णुर्गरुडोपरिस्थितश्चतुर्भुजः शङ्खचक्र- गदापद्मधारी पीताम्बरः वनमालाश्रीवत्सकौस्तुभधारी युवरूपः । पद्मकर्णिकायां रक्तपद्मोपरि राकिणी शक्तिः श्यामवर्णा चतुर्भुजा शूलाबडमरुटङ्कधरा त्रिनेत्रा कुटिलदंष्ट्रा भयङ्करी शुक्लानरक्तधाराभिलाषिणीति ॥ इति द्वितीयप्रकरणम्॥४॥ मणिपूरचक्रं निरूपयति तस्योड़े इत्यादित्रिभिः । तस्य स्वाधिष्ठान- पद्मं कीदृशम् ? अमलं निर्मलम् । स योगीशश्च भवति। मोहाद्भुतान्ध कारचये भानुतुल्यप्रकाशश्च भवति । स च गद्यैः संस्कृतया वाचा पद्यैः श्लोकप्रवन्धैः नानावर्णादिभिः अमृतायमान काव्य- समूहं श्रिये विरचयति ॥ (१६) तस्योः इति । तस्य पद्मयोद्धे नाभिमूले दशदल कमले ललिते मनोजे पूर्ण मेघ दूब प्रकाशो यस्य एवम्भूते पद्मे वैश्वानरस्य वङ्गेः त्रिकोणं मण्डलं ध्यायेत् । कीदृशम् ? अरुणसूर्ययो- स्तुल्यम् । पुनः कीदृशं ? तहाटे त्रिकोणस्य वहिः विभिः स्वस्तिकाख्यैरभिलषितं, तवैव वह्नि- मण्डले बङ्गेः खवोजम् अास्ते। सानुखारो रेफ इति । पने किम्भते ? नीलाम्भोजस्य प्रकाशो येषाम् एवम्भतैः सचन्द्रः डकारादिफकारान्तरुपहिवजठरे एतैर्वणैरुपशोभितजठरे उपस्थित- मध्ये इत्यर्थः॥ शङ्करमते "दशदल-ललिते” इति पाठः । 14 २८ षट्चक्रनिरूपणम् । ध्यायेन्मेषाधिरूढ़ नवतपननिमं वेदवाइज्ज्वलाङ्गं तनोड़े स्ट्रमूर्तिनिवसति सततं शुद्धसिन्दूररागः । भस्मालिप्ताङ्गभूषाभरणसितवघुर्बुद्धरूपी त्रिनेत्रो लोकानामिष्टदाताभयलसितकरः सृष्टिसंहारकारी ॥२०॥ - ... --- ... स्येत्यर्थः । दशदललसिते इति दशदलैर्लसिते प्रकाशित पझे इति शेषः । पद्म किम्भूते ? पूर्णमेघप्रकाशे कृष्णवर्णे। तथा डादिफान्तैः ड ढ ण त थ द ध न प फेति दशवर्णं रूप हितं युक्तं जठरं मध्यं यस्य तद्रूपे इत्यर्थः । सचन्द्र- रिति । चन्द्रोऽर्द्धचन्द्रः युगलाध्ववाहित्वादिन्दुश्च ताभ्यां सह वर्तमानवणे- रित्यर्थः । वैश्वानरस्य वङ्गे । अरुणमिहिरसमं वालार्कसदृशमित्यर्थः । स्वस्तिकाख्यैरिति “खस्तिकं नाम मध्यमूर्द्ध विदिग्गतचतुवक्त्रं रेखाहयमिति राघवभट्टोक्त तत्प्रकारैस्त्रिभिः खस्तिकैः त्रिकोणावच्छेदे अभिलषितमित्यर्थः । अत्र वह्निमण्डले वह्निवीजं रं ॥ १८ ॥ ध्यायेदिति । भस्मालिप्ताङ्गभूषाभरणसितवपुरिति । भस्मलेपनाङ्गभूषा- भरणाभ्यां शुक्लीकतदेह इत्यर्थः । ध्यायेन्मेषेति । ध्याने विशेषमाहान्यत्र- मेषस्थं साक्षसूत्रञ्च शक्तिहस्तं स्मरेत्तत: ॥ इति ॥ विशेषानभिधानादन्यहस्तहये वराभयौ चिन्तनीयौ ध्यानान्तरे तथा दर्शनात् । लोकानामिष्टदाता वरदातेत्यर्थः । अभयलसितकरस्तेन वराभय- अत्र वृषोपरि रुद्रो ध्येयः । स्पष्टमन्यत् ॥ २० ॥ " धारीति भावः । Am- (२०) ध्यायेदिति । वङ्गिवीजं ध्यायेदिति पूर्वलोकेनान्वयः । कीदृशम् ? मेषं अधिकई प्रातःकालीनसूय तुल्यं चतुर्भिाहुभिरज्वलाङ्गम् । तस्य वीजकोषस्य अङ्के रुद्रमूर्तिनिवसति सततमेव । कोदृशः ? शुदसिन्दूरस्येव रक्काकारो यस्य । भस्मलिप्तमेवाङ्गभूषाभरणं तेन प्रकाश- वपुर्यस्य सुवाकारः त्रीणि नेवाणि यस्य स तथा। लिलोकवासिनामभीष्टदाता अभयलसित- करः सृष्टः संहारकारी च ।
२८ - षटवक्रनिरूपणम् । अवास्ते लाकिनी सा सकलशुभकरी वेदवाइज्जुलाङ्गी श्यामा पीताम्बरायैविविधविरचनालङ्कृता मत्तचित्ता । ध्यात्वैतन्नाभिपद्मं प्रभवति नितरां संहृतौ पालने वा वाणी तस्याननाजे निवसति सततं ज्ञानसन्दोहलक्ष्मीः ॥ २१ ॥ ." अनास्ते इति । विविधरचनेति विविधन मणिमुक्तादियोगेन चित्रविचित्र- घटनेन विरचना यत्र तादृशमलङ्कतं यस्या इत्यर्थः । यहा विविधविरचनया- अलसतं अलङ्कारो धार्यते यत्रेत्यर्थः । अत्र लाकिनीध्यानविशेषमाह- नीलां देवौं त्रिवक्त्रां त्रिनयनलसितां दंष्ट्रिणीमुग्ररूपां वजं शक् िदधानामभयवरकरां दक्षवामे क्रमेण । ध्यात्वा नाभिस्थपने दशदलविलसत्कर्णिके लाकिनों तां मांसाशौं गौररतासूक हृदयवतौं चिन्तयेत् साधकेन्द्रः । नाभिपद्मचिन्तनमाह ध्यात्वैतदित्यादि । नाभिपद्मं मणिपूराख्यम् । “तत्पध्र मणिवद्भिनं मणिपूरं तथोच्यते” इति गौतमौयात् । अन्यत् स्पष्टम् ॥ २१ ॥ तदयं महावाक्यार्थनिर्णयः नाभिप- मेघवर्णदशदलं तहलेषु नौलाभसविन्दु ड ढ ण त थ द ध न प फ इति दशवर्ण युक्तं तत्कर्णिकायां त्रिकोणाकारं त्रिकोणवहिः स्वस्तिकायुक्त रक्तवर्णं वह्निमण्डलम् । तमध्ये रं इति वह्निवीजं वक्तवर्ण मेषाधिरूढं चतुर्भुजं वजशक्तिवराभयधरम् । तत्क्रोड़े रुद्रः वृषारूढ़ो रक्तवर्णो विभुजो वराभयधारी भस्मलेपनशुल्लाभरणाभ्यां । (२१) अवास्ते इति । अत्र पद्मे मा प्रसिद्धा लाकिनी आस्ते। कीडशो ? सर्वेषामेव शुभ- करी। चतुर्भिर्वाहुभिरुज्ज्वलाङ्गी श्यामवर्णाः पीतवस्वाद्यैर्या नाना विरचना तया अलङ्कता। मत्तं चित्तं यस्याः सा तथा। एतन्नाभिपद्मं मणिपूरकाख्यं ध्यात्वा इत्यर्थः । संहारपालने च प्रभववि समर्थो भवति। तखाननाओ सततमेव वाणी विलसति । कोशी ? ज्ञानसमूहसंप्राप्तिः एतेन ब्रह्मविष्णुशिवतुल्यो. भवतीत्यर्थः ।
षट्चक्रनिरूपणम् । तस्योद्धे हृदि पङ्कजं मुललितं बन्धूककात्युज्जलं कादादशवर्णकैरुपहितं सिन्दूररागान्वितैः । नाम्नानाहतसंज्ञकं सुरतरं वाञ्छातिरिक्तप्रदं वायोमर्मण्डलमत्र धूमसदृशं षट्कोणशोभान्वितम् ॥ २२ ॥ HemininewmmamawoonawanAINManomitrakarminimmuniwriteHerma.TANE शुक्लौ कृतदेहः वृद्धरूपः । पद्मकर्णिकायां रक्त पझोपरि लाकिनीशक्तिः नीलवर्णा त्रिवत्रा त्रिनेत्रा चतुर्भुजा ववशत्यभयवरकरा घोरदंष्ट्रा रक्तयुक्तखेचरान्न- मांसाभिलाषिणीति ॥ इति तृतीयप्रकरणम् ॥ * ॥ हृदि पङ्कजं निरूपयति तस्यो? इत्यादि षड्भिः । हृदि पङ्कजमिति । एवम्भतं पङ्कजं हृदि ध्यायेदिति क्रियाध्याहारेणान्वयः । सुललितं सुस्निग्ध- मित्यर्थः । काद्यैरिति । क ख ग घ ङ च छ ज झ ञ ट ठ इति हादश- वर्णकैरिति बोध्यम् । तैरुपहितं युक्तमित्यर्थः । नाम्नानाहतसंज्ञकमिति । शब्दब्रह्ममयः शब्दोऽनाहतस्तत्र दृश्यते । अनाहताख्यं पद्मं तत् मुनिभिः परिकीर्तितम् ॥ इति वचनादनाहतनामपद्ममिति तात्पर्यम् । यतः सुरतरं कल्पतरु- स्वरूपमतो वाञ्छातिरिक्त फलप्रदमिति हेतुगर्भविशेषणमिति भावः । तत्पद्म- कर्णिकायां वायुमण्डलस्थितिमाह वायोरिति ॥ २२ ॥ 1 . wwwmaramatawwwmaste ? (२२) तस्योई इति। तस्य पद्मस्य उर्दू हृदि सुललितं मनोरम नाम्ना अनाहतसंज्ञक पद्ममास्ते । कीदृशम् ? बन्धूककान्तिवटुज्ज्वलं सिन्दराग इव अञ्चितैः प्राप्नैः ककाराद्यैः ठकारान्नै- दिशसंख्यकवगै लमध्यवर्तिभिरुपशोभितम् । पुनः कीदृशम् ? सुरतरुः कल्पवृक्षस्तत्तुल्यं अतो वाञ्छातिरिकप्रदं वाञ्छितस्याप्यतिदातीति तत्तथा । अयम्भावः- कल्पवृक्षाः पूर्णवाञ्छितफल दातारः, अयन्तु तदतिरितं मोचं फलञ्च ददाती- त्यर्थः । अत्रैव मण्डले वायोर्मण्डलं विद्यते । कीदृशम् ? धूमसदृशम् । पुनः कीदृशम् ? षट्कोण- कोणस्य या शोभा तया अन्वितम् । [एतन्मते “सिन्दूरागाञ्चितैः” इति पाठः।]
षट्चक्रनिरूपणम् । तन्मध्ये पवनाक्षरञ्च मधुरं धूमावलौधूसरं ध्यायेत्याणिचतुष्टयेन लसितं कृष्णाधिरूढं परम् । तन्मध्ये करुणानिधानममलं हंसाभमीशाभिधं पाणिभ्यामभयं वरञ्च विदधल्लोकत्रयाणामपि ॥ २३ ॥ अवास्ते खलु काकिनी नवतडित्यौता त्रिनेत्रा शुभा सर्वालङ्करणान्विता हितकरी सम्यग् जनानां मुदा। हस्तैः पाशकपालशोभनवरान् संबिभ्रती चाभयं मत्ता पूर्णमुधारसा,हृदया कङ्कालमालाधरा ॥ २४ ॥ . . - .. M - वायुमण्डलमध्ये वायुवीजमाह तन्मध्य इति । यवनाक्षरं यं इति वीज मधुरं मनोहरम् । धूमावलीधूसरमिति । धूमशेण्यातदेहत्वात् धूमधूम्रवर्ण- मिति भावः । कृष्णाधिरूढ़मिति कृष्णसाराधिरूढ़मित्यर्थः । वरुणहस्ते पाशदर्शनादत्र वायुहस्तेऽङ्गुशो ध्येयः । वायुवीजमध्ये ईशस्थितिमाह तन्मध्य इति स्पष्टम् । सर्वत्र शिवस्य त्रिनेत्रं शिवस्य त्रिनेत्रत्वादयं त्रिनेत्रः । एवं “ग्रेवेयाङ्गदहारनपुरयुतं क्षौमाम्बरं चिन्तयेत्” इत्यादिकम्मान्तरोक्तध्यानप्राप्त क्षौमाम्बरत्वमौशस्य। एवं “कान्तं कान्तशशाङ्ककोटिकिरणं प्रोद्यकपर्दो- ज्ज्वलम्” । इति ॥ २३ ॥ अत्र कर्णिकायां काकिनीशक्तिस्थितिमाह अनास्ते इति। मत्ता MA . : . (२३) तन्मध्ये इति । तस्य मण्डलस्य मध्ये पवनाक्षरं वायुवीजम् । अक्षरपदेन वीज- मुच्यते। एतत् प्रकारं यस्य मण्डलं तवैव वीजमिति दृष्टत्वात् । कीदृशम् ? मधुरं हृदयङ्गमम् । पुनः कीदृशम् ? दीपकलिकाकारं जीवात्मसम्बन्धिमी या धूमावली तया धूसरम् । पाणिचतुष्टयेन लसितं कृष्णाजिनाधिरूढ़ परं प्रहृष्टञ्च एवम्भतं बीजं ध्यायेत् । वल वायुमण्डले ईश एवा- भिधा नाम यस्य एवम्भूतं शूलपाणेवपुरास्ते । कीदृशम् ? करुणावारिधिखरूपम् अमलं निर्मलं हंसाभं सूर्य दून शोभा यस्य । पुनः कीदृशम् ? पाणिभ्यां करशाभ्यां अभयं वरञ्च लोकलयाणा- मपि विधत् । एतेन इयं मूर्तिः हस्तपादादिविशिष्टेति । (२४) अवास्ते इति। अत्रैव पद्म खलु निश्चितं काकिनी देवी आस्ते । नूतनविद्युदिन .
३२ षट्चक्रनिरूपणम् । एतन्नीरजकर्णिकान्तरलसकक्तिस्त्रिकोणाभिधा विद्युत्कोटिसमानकोमलवपुः सास्ते तदन्तर्गतः । वाणाख्यः शिवलिङ्गकोऽपि कनकाकाराङ्गरागोज्जुलो- मौली सूक्ष्मविभेदयुङमणिरिव प्रोल्लासलक्ष्मयालयः ॥२५॥ MARWAIN ANApmanumbnameemaramme . अस्वभावस्था स्खलितभावा। पूर्ण सुधारसा हृदयेति । पूर्ण: सम्पूर्ण: दृप्ति- जनको यः सुधारसस्तेना, परोपकाराभिमतकोमलं हृदयं चित्तं यस्या इत्यर्थः । यहा पूर्ण: पूर्णानन्दजनको यः सहस्रदलकमलान्तविगलितपरमा- मृतरसस्तेना, परमानन्दोत्फुल्लशिथिलं हृदयं यस्या इत्यर्थः । अन्यत् स्पष्टम् । कृष्णाम्बरपरीधानां नानाभरणभूषिताम् । ध्यायेत् शशिमुखों नित्यां काकिनी मन्त्रसिद्धये ॥ इति ध्यानप्राप्तकष्णाम्बरत्वमस्या बोध्यम् ॥ २४ ॥ एतत्पद्मकर्णिकामध्ये त्रिकोणं निरूपयति एतदिति। त्रिकोणाभिधा त्रिकोणाकारा शक्तिरित्यनेन त्रिकोणस्याधोमुखत्वं ज्ञापितम्। सा पास्ते इत्यन्वयः। एतत्विकोणं वायुवीजस्याधीदेशे । तदाहान्यत्र तत्कोड़े ईशं तदधस्त्रिकोणे वाणलिङ्गकम् ॥ इति ॥ वाणाख्यलिङ्गं विशेषयति मौलौ सूक्ष्मविभेदः । शिवलिङ्गमस्तकेऽर्द्ध- " manuman ammmmmmmmmmmmmmmmon- पीतवर्णा । त्रीणि नेवाणि यस्याः सा। शुभाशुभदायिका, सर्वालङ्कारैराता, मुदा हर्षेण जनानां सम्यकप्रकारेण हितकरी। चतुर्भिहस्तैः कपाशूलशोभनवराभयान् संबिधती। मत्ता उन्मत्ता, कङ्कालमालाधरा अस्थिमाल्यधरा । (२५) एतन्नीरज इति । एतत्पद्मकर्णिकान्तरप्रकाशात् त्रिकोणाभिधा शक्तिरास्ते । प्रसिदत्वात्सेति । तदन्तर्गता सती अास्ते इति सम्बन्धः। यहा स एवं शिवः अन्तर्गतो यस्याः सा तथा । तस्याः शक्तः मौलावुपरि वाणाख्यः शिवलिङ्गकः समास्ते। स्वर्णाकारणारागेणोज्ज्वल: सूक्ष्मरूपेण विशेषभेदं युननीति । एवम्भूतो मणिरिव | पुनः कीदृशः ? प्रोद्दामलक्ष्मप्रालयः सूक्ष्मभेदकत्वात् तस्याः नरेव प्रकृष्टोद्दाममश्रियः तत्रालय इति। [अन मते "प्रोद्दामलक्ष्मया- लयः" पाठ:]
षट्चक्रनिरूपणम् । ध्यायेद्यो वृदि पङ्कजं सुरतरु शवस्य पौठालयं देवस्यानिलहीनदीपकलिकाहंसन संशोभितम् । भानोमण्डलमण्डितान्तरलसत्किञ्चकशोभाधरं वाचामीश्वर ईश्वरोऽपि जगतां रक्षाविनाशे क्षमः ॥ २६ ॥ -- - Mammam चन्द्रविन्दुयोगात् तदिन्दुमध्ये शून्यरूपो विभेदश्छिद्रं तेन युक्त इत्यर्थः तदाह यहा- त्रिकोणान्तवाणलिङ्ग कनकाभरणैर्युतम् । चन्द्राईमस्तकं देवं मध्ये रक्ताम्बुजं परम् ॥ इति ॥ मध्ये रक्ताम्बुजमिति हृत्पद्मस्य कर्णिकाधोदेश अड्डेमुखरक्तवर्णाष्टदलपद्म- मित्यर्थः । एतत्पद्मोपरि मानसपूजा काया। तदुक्तं यथा- तन्मध्येऽष्टदलं रक्तं तत्र कल्पतरं तथा । इष्टदेवासनं चारुचन्द्रातपविराजितम् ॥ तथा- -- . नानापुष्पफलैर्युक्तं मजुवाक्पक्षिशोभितम् । इत्याद्यभिधाय तत्र ध्यायेदिष्टदेवं तत्तत्कल्पोतमार्गतः ॥ इति ॥ अलं विस्तरेण प्रकृतमनुसरामः । वाणलिङ्गमस्तके विन्दुप्रकाशदृष्टान्तमाह मणिरिवेति । यथा सरन्ध्रमणि प्रकाशस्तथा शिवलिङ्गोपरि विन्दुप्रकाश इति भावः । प्रोल्लासलक्ष्मयालय इति प्रोल्लासः कामोहमः तच्छोभायुक्त इत्यर्थः ॥ २५ ॥ हृत्पद्मचिन्तनफलमाह ध्यायेदित्यादिद्दाभ्याम् । अस्यार्थः यो जनो हृदि (२६). ध्यायेदिति । य एतत् पगं कल्पहचतुल्यं हृदि ध्यायेत् सः एवमेवम्भवति । वाचा- भीश्वरः वृहसतितुल्यः जगतामीश्वर रक्षाविनाशक्षम अर्थात् जगताम्। कीदृशं? शर्बस्व देवस्थ ५ षट्चक्रनिरूपणम् । - पङ्कजं ध्यायेत् स जनो वाचामौखरो वृहस्पतिसमो भवति एवं सर्वत्र ईश्वर इत्यादिप्रथमान्तेन भवति क्रियान्वयो बोध्यः । अब पद्मकर्णिकायां हंसरूपजीवात्मस्थितिमाह अनिलहीनदीपकलिका- हंसेन संशोभितमिति। वायुरहिता या दीपकलिका तत्सदृशहंसेन संशो- भितमित्यर्थः । ततश्च पद्मकर्णिकायां वाताहतिरहितस्थिरतरदीपशिखा- कारहंसरूपः जीवात्मा वर्तते इति भावः । एतकर्णिकायां सूर्यमण्डलस्थितिं ज्ञापयति । भानोमण्डलमण्डि- तान्तरलसकिञ्जकशोभाधरमिति । भानोमण्ड लेन मण्डिता भूषिता ये अन्तरलसन्तः कणिकामध्ये प्रकाशमानाः किञ्जल्काः केशराः अथवा याः किञ्जल्कशोभास्ताधारयतीत्यर्थः । अत्र भानुमण्डलमण्डितत्वं किच- ल्कविशेषणं नत्वन्तरविशेषणं तथाले सर्वस्मिन् पद्मे किचल्कशोभाधर- त्वादत्र विशेषोपादानं व्यर्थ स्यात् । भानोम्मण्डलमण्डितत्वविशेषण- विशिष्टत्वे तादृशविशिष्टकिचल्कानामन्यनासत्त्वात् तदुपादानं सार्थक मिति । एवञ्च भानोमण्डलस्य कर्णिकारूपकत्वे तत्तेजसा सर्वेषां किञ्जल्कानां शोभाधिक्यरूपमण्डितत्वं सम्भवति न त्वेकदेशस्थितले । ततश्च तत्कणिकायामादौ कर्णिकाव्यापकं वायुमण्डलं तदुपरि तथा सूर्यमण्डलम् । तदुपरि वायुवीजत्रिकोणादिकं ध्येयम् । युक्तञ्चैतत् मान- साञ्चनायां “मं वह्निमण्डलाय दशकलात्मने नमः” इत्यादिना पूजायाम् उपर्युपरिक्रमेण वर्कचन्द्रमण्डलस्थितिदर्शनात् दृष्टपरिकल्पनान्यायावता- रात् । अलमति विस्तरेण । ईश्वर इति सृष्टिकर्ता इत्यर्थः । रक्षाविनाशे क्षमः स्थितिप्रलयकर्ता इत्यर्थः । तेन स जनः सृष्टिस्थितिप्रलयकति तात्पयार्थः ॥ २६ ॥ E पीठालयम् । पुनः कीदृशं ? अनिलहीनदीपकलिकारूपहंसेनात्मना संशोभितम् । भानोमण्डलेन मण्डिते अन्तरेलसत्प्रकाशमानः केशरमोभाभावो यस्य तत्तथा। -- षट्चक्र निरूपणम् । ३५ योगीशो भवति प्रियात् प्रियतमः कान्ताकुलस्यानिश ज्ञानौशोऽपि कृती जितेन्द्रियगणो ध्यानावधानक्षमः । गद्यः पद्यपदादिभिश्च सततं काव्याम्बुधारावही लक्ष्मीरङ्गणदैवतः परपुरे शतः प्रवेष्टुं क्षणात् ॥ २७ ॥ इत्यर्थः योगीश इति । प्रियात् प्रियतमः कान्ताकुलस्येति योषिहर्गस्य कम्म- कुशल: । जितेन्द्रियगण इति जितेन्द्रियाणां मध्ये गण्यते तुल्यत्वेन रसह्यते असावित्यर्थः । ध्यानावधानक्षम: ध्यान ब्रह्मचिन्तने अवधानाय स्थिरमनो- ऽभिनिवेशं कत्तुं क्षमः समर्थ । काव्याम्बुधारावह इति काव्यरूपाम्बूनां धारा अविच्छेदनिःसरणम् उह्यते धार्यते येन तादृशो भवतीति । लक्ष्मौरङ्गणदेवतः। विष्णुसदृश इत्यर्थः । यहा लक्ष्मीः सम्पत्तिः रङ्ग- णम् आनन्दानुभव: दैवम् अदृष्टं तत्समूहो देवता जनतावत् ततश्च लक्ष्मी- भौरङ्गणाय दैवता यस्येति बहुब्रौद्यर्थे णप्रत्ययेन तत्पदं सिद्धम् । अत- एवोक्तम् । इह भुक्त्वा वरान् भोगानन्ते मुक्तिपदं ब्रजेत् ॥ इति ॥ परपुरे शक्तः प्रवेष्टुं क्षणादिति दुर्गद्वारपालादिना दुर्गमौकृतायामपि परपुयां प्रवेष्टुं शक्त: प्रवेशकारणभूतादर्शनाकाशगमनादियोग्यतापनो भव- तीत्यर्थः । अत्र केचित् दैवतमिति विन्दन्तं पठित्वा यद्यपि जनविशेषणतया .. (२७) योगीश इति । एतत्पङ्कजध्यानपरोजनः एवम्भवति | योगीशः कान्ताकुलस्य सर्व- स्त्रीणां प्रियात् खामिनोऽपि प्रियतमो भवति । ज्ञानीशः कृती च मवति । जितं इन्द्रियं मनो येन स तथा । ध्यानेनावधाने क्षमो भवति। गद्यैः संस्कृतवाक्यैः पद्यपदादिभिः श्लोकादिप्रबन्धः गद्यपद्यरूपाम्बधारापहो भवति । अत्यन्तवर्षणशीलः मेघरूपो भवति इति यावत् । लक्ष्मीतत्- कुलदैवतमिति प्रशस्त लक्ष्मपाश्रयः कुलश्रेष्ठश्च भवति इत्यर्थः । यहा लक्ष्मोविशिष्टा कुलदेवता यस्य सः तथा स सत्कुलीनो भवतीति यावत् । दैवर्तामति स्वार्थे अण् । एवं सः क्षणादेव परपुरे अन्य शरीरे प्रवेष्ट समर्थो भवति। कुमारीतन्त्रे परपुरप्रवेशस्थाप्येतत्पद्मध्यानफलत्वेनाभि- धानात् । [ एतन्मते “लक्ष्मीतत्कुलदैवतम्” इति पाठः ] ।
षट्चक्रनिरूपणम् । धूमधूमावमासं विशुद्धाख्यं कण्ठे सरसिजममलं खरैः सबैः शोणेईलपरिलसितैर्दीपितं दीप्तबुद्धेः । समास्ते पूर्णेन्दुप्रथिततमनभोमण्डलं वृत्तरूपं हिमछायानागोपरि लसिततनोः शुक्लवर्णाम्बरस्य ॥ २८ ॥ RA mersamanartmntAMMEm HemantriterapeuARH .. दैवतमित्यस्य पुंस्त्वं भवितुं पार्यते तथाप्यजहल्लिङ्गत्वान्नपुंसकत्वमिति वदन्ति । तन्न “वृन्दारका दैवतानि पुंसि वा देवता स्त्रियाम्” इत्यमरकोषे दैवतशब्दस्य पुंनपुंसकत्वकथनात् दैवत इति विसर्गान्तपाठोऽपि साधुः। प्रदर्शितार्थे तु सुतरां तथेति । स्पष्टमन्यत् ॥ २७ ॥ * ॥ तदयं महावाक्यार्थनिर्णयः । हृत्पद्मं वन्धूकाभं सिन्दूराभसविन्दु क ख ग घ ङ च छ ज झ ट ठ इति हादशवर्णयुक्त हादशदलम् । तत्कर्णिकायां षट्कोणाकारवायुमण्डलं धूमाभम् । तदुपरि सूर्यमण्डलम् । तन्मध्ये विद्युत्कोटिनिभत्रिकोणम् । तदूर्ल्ड वायुवीजं कृष्णसाराधिरूढं धूमधूनाभ चतुर्भुजम् अङ्कुशहस्तम् । तत्क्रोड़े हंसाभ ईश: विभुजः वराभयकरः त्रिनेत्रः। अत्र कर्णिकायां रक्त पझोपरि काकिनी शक्ति: पीतवर्णा चतुर्भुजा पाशकपालवराभयकरा पीतवस्त्रा सोलरणान्विता सुधा हृदया कङ्काल- मालाधरा। मध्यत्रिकोण वाणलिङ्ग शिव: अर्द्धचन्द्रविन्दुरूपमस्तकः स्वर्ण वर्ण: कामोइमोल्लसितः। तदधः स्थिरतरदीपकलिकाकारहंसरूपी जीवात्मा । एतकर्णिकाधोरक्तवर्णोद्धमुखाष्टदलपद्मम् । तत्र तत्र कल्पक्षरत्नदीचन्द्रातप- पताकाद्यलङ्कतं मानसपूजास्थानम् ॥ इति चतुर्थप्रकरणम् ॥ * ॥ इदानों कण्ठदेशे विशुद्धचक्र निरूपयति विशुद्धाख्यमित्यादिचतुर्भि- विशुद्धाख्यमिति । - (२८) विशुवाख्यमिति । अन्यत् निर्मलं विशुद्धाख्यं परं कण्ठे आस्ते । किम्भूतं ? धूप्रेण या धूम्नाभा तस्या इव द्युतिर्यस्य तत्तथा । पुनः कीदृशं ? सबैः षोड़शस्खरै रक्ताकारैर्दलैः परिलसितै- दौपितं प्रकाशितम् । दीप्तबुझेर्दीपाकारबुद्धजनस्य ज्ञानविषयी भवतीत्यर्थः । तत्वैव पड़ो शुक्ल- षट्चक्रनिरूपणम् । विशुद्धिं तनुते यस्माज्जीवस्य हंसलोकनात् । विशुद्धं पद्ममाख्यातम् आकाशाख्यं महत् परम् ॥ इति ॥ अस्यार्थः कण्ठे विशुद्धाख्यं विशुद्धनामकं सरसिजं समास्ते इत्यन्वयः । पझं विशेषयति अमलमिति तेजोमयत्वात् मलरहितमित्यर्थः । स्वरैः सवैः अकारादिविसर्गान्तैः षोड़शस्वरैर्दीप्तबुद्धेः निरन्तरयोगाभ्यासेन विषया- नुरागरूपमलरहितत्वेन प्रकाशितबुद्धेः साधकस्य सम्बन्धे दौपितं प्रकाशित- मित्यर्थः । स्वरैः कीदृशैः ? दलपरिलसितैरिति । एतेन स्वराणां षोड़शत्वादे- तत् पद्मं षोड़शदलमिति सूचितम् । व्यतमाहान्यत्र- तदूर्द्ध षोड़शदलं पङ्कजं धूम्रवर्ण कम् । युक्तं शोणैः षोडशभिः स्वरबिन्दुविभूषितैः । आरक्तकिञ्जल्कयुतं व्योममण्डलमण्डितम् ॥ इति ॥ तथा पूर्णेन्दुप्रथिततमनभोमण्डलं पूर्णचन्द्रमण्डलवत् सम्पूर्ण शक्लवर्णञ्च अतएव “तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधा” इति सारदोक्त वचनेन मण्डलानां तत्तदैवतभूतसमानवर्णविधानात् नभसः शुक्लवर्णत्वात्तन्मण्डल- स्यापि शुक्लवर्णवं प्रतीयते । नभोमण्डलं वृत्तरूपं समास्ते एतत्पद्मकर्णि- कायामिति शेषः । शुक्लवर्णाम्बरस्येति नभोमण्डलस्य मध्ये शुल्लवर्णस्याम्बर- स्थाकाशस्याङ्के "सदापूर्बोदेवः शिव इति च समाख्यानसिद्धः” सदाशिवनाम्ना- ख्यातो देवः सततं निवसतीति हितोयश्लोकेनान्वयः । अम्बरस्य कीदृशस्य ? हिमच्छायानागोपरि लसिततनोः हिमच्छायया नाग: हिमच्छायानागः इति टतीयान्ततत्पुरुषेण हिमोपमाविशिष्टनाग इत्यर्थः । यद्दा हिमच्छाया- तुल्यो नाग इति शाकपार्थिवादित्वात् मध्यपदलोपे तत्पदसिद्ध्या शुक्लवर्ण नाग इत्यर्थः । अत्र नागो हस्ती व्यक्तमाह भूतशुद्धौ- तदन्तर्योमवीजञ्च शुक्लं हैमगजस्थितम् ॥ इति ॥ . वर्णाम्बरधरस्य विष्णोः पूर्णेन्दुरिव प्रथिततमं ख्यातं नभोमण्डलं समास्ते। यहा पूणन्दना- ख्याततमम् । “वियविष्णुपदम्" इत्यमरः। विष्णोः किम्भूतस्य ? हिमवर्णाभकान्तिर्विभा यस्य एवम्भतस्य नागस्योपरि लसिता तनुय॑स्य ।
३८ षट्चक्रनिरूपणम् । भुजैः पाशाभीत्यङ्कुशवरलसितैः शोभिताङ्गस्य तस्य मनोरङ्के नित्यं निवसति गिरिजाभिन्नदेहो हिमाभः । त्रिनेत्रः पञ्चास्यो ललितदशभुजो व्याघ्रचर्माम्बराढ्यः सदा पूर्वीदेवः शिव इति च समाख्यानसिद्धः प्रसिद्धः ॥२६॥ anwarupeshpanemunhemammumommmmmunism BAMADHAN हैमेति हिमस्यायमितीदमर्थतचितप्रत्ययेन हैमगजः शुक्लहस्ती इत्यर्थः । ततश्च शुक्लहस्त्यपरि परिलसिता प्रकाशमाना तनुर्य्यस्य तादृशस्येत्यर्थः ॥ २८ ॥ भुजैरिति । पुनः कीदृशस्य ? भुजैः पाशाभौत्यकुशवरलसितैः शोभिताङ्ग- स्थति पाशाङ्कुशवराभयहस्तस्येति फलितार्थः पुनः कीदृशस्य ? मनोरिति । हं इत्याकाशवीजं तदात्मकस्येत्यर्थः । तेनात्र कर्णिकान्तरे नभोवीजं स्थितं तत्तु उक्तरूपेण चिन्तनीयमिति तात्पर्यम् । सदाशिवं विशेषयति गिरिजाभिन्नदेह इति अर्द्धनारीखर इत्यर्थः । हिमाभः शुक्लवर्ण: ततश्चार्द्धनारीश्वरत्वाद्दामाईदेहं सुवर्णाभं दक्षिणाई शुक्लम् व्यतामाह- शुक्लाम्बरेण संवीतं तत्र देवं सदाशिवम् । गिरिजाभिन्नदेहाई रौप्यमशरीरकम् ॥ इति ॥ तत्र नभोवौजकोड़े इत्यर्थः । तथा सदा सुधास्त्राविचन्द्रमस: कला- धोमुखान्वितम् इति । इति । Deumoniahi - . - mp sammer-ISHAIN HINRImassnuskeporiRAMANAINAenilaval ImmaNamkenawaim - (२८) भुजैरिति । तस्य विष्णोर्मनोरङ्के वीजाकारमूर्तेरङ्गे पञ्चास्यः शिवो निवसति नित्यमेव । तस्य किन्भतस्य ? पाशाभीत्यङ्कशपरिलसितभुजैः शोभिताङ्गस्य । शिवः किम्भूतः ? गिरिजया पार्बयाऽभिन्नो देहो यस्य हरगौरीमूर्त्तिरित्यर्थः । पुनः कीदृशः ? हिमस्येव शोभा यस्य । विनेवः मनोज्ञा दशमुजा यस्य स तथा । व्याघ्रचमीम्बरैर्युतः। यहा व्याघ्रचर्मणा साम्बरेण च युक्तः हरगौर्यात्मकत्वात् सदाशिव इति समाख्यानसिद्धः नित्यस्वरूपप्रसिद्धः योगिनां मनसि प्रकाशः। ?
षट्चक्रनिरूपणम् । सुधासिन्धीः शुद्धा निवसति कमले शाकिनी पीतवस्त्रा शरं चापं पाशं शृणिमपि दधती हस्तपद्मश्चतुर्भिः । सुधांशोः सम्पूर्ण शशपरिरहितं मण्डलं कर्णिकायां महामोक्षदारं श्रियमभिमतशीलस्य शुद्धेन्द्रियस्य ॥ ३० ॥ - निर्वाणतन्त्रे विशुद्धचक्राधिकारे- यन्त्रमध्ये च वृषमं महासिंहासनन्तत: । तस्योपरि सदा गौरी दक्षभाग सदाशिवः ॥ त्रिनेत्रः पञ्चवक्त्रश्च प्रतिवक्त्रे त्रिलोचनम् । विभूतिभूषिताङ्गश्च रजताचलसोदरः । व्याघ्रचम्मधरो देवो फणिमालाविभूषित ॥ इत्यादि । "तस्योपरि सदा गौरी" इति शिवस्याहाङ्गरूपण स्थितेति । व्यक्तमाह तत्रैव- या गौरी लोकमाता च शम्भोरगिहारिणी ॥ इति ॥ ललितदशभुज इति। लावण्येन प्रशंसितदशहस्तयुक्त इत्यर्थः । देवस्य दशभुजेष्वस्त्रविशेषानभिधानात्- शूलं टङ्ककपाणवजदहनानागेन्द्रघण्टाङ्कुशान् पाशाभौतिहरं दधानममिताकल्पोज्वलाङ्गं भजे । इति ध्यानान्तर यान्यस्त्राण्युक्तानि तान्यस्य भुजेषु चिन्तनीयानौति ध्येयम् । प्रसिद्ध इति प्राधान्येन ख्यात इत्यर्थः । अन्यत् सुगमम् ॥ २८ ॥ एतत्पद्मकर्णिकायां शाकिनीशक्तिस्थितिमाह सुधासिन्धोरित्यादि। कमले विशुद्धचक्रकर्णिकायां शाकिनीनाम्नी शक्तिनिवसति इत्यन्वयः। तां विशेष- अत्र - (३०) सुधासिन्धोरिति । तल कमले पीतवर्णा शाकिनी निवसति। कोशी ?. सुधासिन्धो- चन्द्रात् राधसम्बन्धीययाऽमृतधारया शुद्ध इति यावत् । चतुर्भिहस्तपः शरं चापं पार्श श्राणिमपि दधती तस्स पद्मस कर्णिकायां सुधांशोचन्द्रस्य शशपरिरहितं सम्पूर्ण मण्डलम् अास्ते ।
षट्चक्र निरूपणम् । वर्तते । यति सुधासिन्धोः शुद्धा इति । सुधासमुद्रसदृशशुक्लवर्णा तथाच यथा सुधा- सिन्धोरमृतमयसुशीतलशुलत्वं तथा ज्योतिःस्वरूपायाः शाकिन्या उत्तापर- हितशुक्लकिरण इति भावः । ध्यानान्तरे शाकिनों विशेषयति- देवों ज्योतिःस्वरूपां त्रिनयनलसितां पञ्चवक्त्राभिरामां हस्तः पद्मश्च पाशं शृणिमपि दधतौं पुस्तकं ज्ञानमुद्राम् । ध्यायेत् कण्ठस्थपद्मे निखिलपशुजनोन्मादिनीमस्थिसंस्थां दुग्धान्ने प्रौतियुक्तां मधुमदमुदितां शाकिनी साधकेन्द्रः ॥ इति ॥ ज्योतिःस्वरूपां ज्योतिषां स्वभावतः शक्लवर्णवेनेयं शुक्लवर्णा । अत्र ध्यानये विविधास्त्रदर्शनादिच्छाविकल्पः । इयं देवी कर्णिकान्तश्चन्द्रमण्डले तदाह प्रेमयोगतरङ्गिण्याम्- तत्रास्ते शाकिनी शक्तिः शुधांशोमण्डले शुभे ॥ इति ॥ एतत्कर्णिकायां शुधांशोश्चन्द्रस्य शशपरिरहितं निष्कलङ्गं सम्पूर्ण मण्डल- मपि विलसतीति पूर्व क्रियायामन्वयः । मण्डलं विशेषणेन प्रशंसति महा- मोक्षेत्यादि। एतन्मण्डलं शुद्धेन्द्रियस्य जितेन्द्रियस्य महामोक्षदारं निर्वाण- मुक्तिमाहुः । एतचिन्तनादियोगमार्गमवलम्बा मुक्तिमाप्नोतीति भावः । श्रियमभिमतशीलस्येति । श्रियं योगलक्ष्मीमभिमन्यते आकाइतीति श्रिय- मभिमतम् । तादृशं शौलं स्वभावो यस्य तद्रूपस्य शुद्धेन्द्रियस्येति विशिष्टार्थः । अत्र कर्णिकायां चन्द्रमण्डलादिस्थितिप्रकारस्तु आदौ कर्णिकान्तनभोमण्डलं तन्मध्ये त्रिकोणं तदन्तश्चन्द्रमण्डलं तन्मध्ये नभोवीजादिकमिति । तद्यथा- कर्णिकायां त्रिकोणस्थं पूर्णचन्द्रन्तु चिन्तयेत् । हैमाभं गजमारूढ़माकाशं तत्र चिन्तयेत् । शुक्लाम्बरण संवीतं तत्र देवः सदाशिवः ॥ इति ॥ शुक्लाम्बरण संवीतमाकाशमिति ॥ ३० ॥ -" । कीदृशम् ? मोक्षदारं निर्वाणमुनिहारम् । पुनः कीदृशम् ? उल्वणबुद्धिशीलस्य जितेन्द्रियस्य श्रियं दधानम् इत्यर्थः ।
षट्चक्रनिरूपणम् । ४१ इह स्थाने चित्तं निरवधि विनिधायात्मसम्पूर्णयोगः कविग्मिी ज्ञानी स भवति नितरां साधकः शान्तचेताः । विकालानां दी सकलहितकरो रोगशोकप्रमुक्त- चिरञ्जीवी जीवी निरवधि विपदां ध्वंसहंसप्रकाशः ॥ ३१ ॥ प्रात्त ततश्च विशुद्धचक्रचिन्तनफलमाह इह स्थाने इति। आत्मसम्पूर्णयोग इति आत्मनि ब्रह्मणि सम्पूर्णो सर्वव्यापकत्वेन परिपूर्णो योगो ज्ञानं यस्य तादृशः । आत्तसम्पूर्णयोग इति पाठे आत्तः प्राप्तः सम्पूर्णयोगो येनेत्यर्थः । अतएवोक्तं श्रीमदाचार्येण-“पूर्णबोधात्मना तिष्ठेत् पूर्णाचलसमुद्रवत्” इति । यः साधक इह स्थाने निरवधि चित्तं विनिधाय आत्मसम्पूर्णयोगो भवति, स ज्ञानी उपदेशं विना सर्वशास्त्रार्थवेत्ता शान्तचित्तः शान्तिगुणाव- लम्बिचित्तः। दया भूतेष्वलोलुबमाईवं हीरचापलम् । तेजः क्षमा तिः शौचमट्रोहोऽनभिमानिता ॥ इत्यादिगुणोपहितचित्त इति यावत् । त्रिकालानां दर्शी ति । अत्र केचित् ज्ञानलक्षणात्मकाः लौकिकसन्निकर्षरूपयोगधर्मेण सव्वं पश्यन्तीति। अन्ये तु तादृशजनस्यात्मप्रत्यक्षे तत्र भासमानसर्चप्रमेयवस्तूनां प्रत्यक्षो भवतीति वदन्ति । रोगशोकप्रमुक्तः सिद्धमन्त्रत्वाद्रोगमुक्त चिरञ्जीवी छिन्नमायापाशत्वात् शोकरहित इत्यर्थः । स जीवी जनः नितरामतिशयकविर्भवति एवं सर्वत्र भवति क्रियान्वयः। निरवधि विपदां ध्वंस इति । अवधिः सीमा तद्रहित- विपनिरवधिविपत् आदिना पापपुण्यरूपकम्मबन्धे नानाविपत्तिरिति यावत् तेषां ध्वंसाय विपत्तिप्रागभावासमानकालीनविपत्तिनाथाय फलतो मोक्षाय (३१) इह स्थाने इति । इह विशुद्धे पद्म चित्तं यो निधायात् तस्य सम्पूर्ण योगविषये ज्ञान भवतीत्यर्थः। अथवा तत्सर्वमेव सम्पूर्णयोगत्वेनोपदिष्टं तदेवाह क्रमेण | कविः स जनः कवि- ग्मिोत्यादि। निरवधि नित्यमेव विपत्माप्तानां नाणे सूर्य इव तेजखी भवति ।
४२ षट्चक्र निरूपणम् । आज्ञानामाम्बुजन्तधिमकरसदृशं ध्यानधामप्रकाश हनाभ्यां वै कलाभ्यां परिलसितवपुर्नवपत्रं सुशुभम् । तन्मध्ये हाकिनी सा शशिसमधवला ववषटकं दधाना विद्यां मुद्रां कपालं डमरुजपवटौं बिधती शुद्धचित्ता ॥ ३२ ॥ mammam यस्य हंसस्य सहस्रदलकमलकर्णिकान्तर्गतहसरूपान्तरात्मनः प्रकाशो तादृशो भवतीति । स्पष्टमन्यत् ॥ ३१ ॥ * || तदयं महावाक्यार्थनिर्णयः । कण्ठमूले विशुद्धचक्रं षोड़शदलं धूमधूम्ररूपम् आरतकेशरं रक्तवर्णसविन्दुकषोड़शस्वरयुक्तम् । कर्णिकायां नभोमण्डलं वृत्तरूपं शुक्लवर्णम् । तन्मध्ये त्रिकोणं तत्र चन्द्रमण्डलम् । तदु- परि हं इति नभोवीजं शुक्लवर्णं शुक्लाम्बरपरोधानं शक्लगजारूढं चतुर्भुजं पाशा- मुशवराभयधरम् । तत्क्रोड़े वृषभोपरि स्थितमहासिंहासने सदाशिव: अर्द्ध- नारीखरत्वाद सुवर्णाभाडाङ्गशुक्लाभः पञ्चवक्त्रः त्रिनेत्रः दशभुजः शूलटङ्क- खड्गवज्रदहननागेन्द्रघण्टामुशपाशाभययुक्तदशहस्तः व्याघ्रचर्माम्बर: भस्मलिप्त- सर्वाङ्गः नागहारशोभित: सुधास्राव्यधोमुखाई चन्द्रशेखरः । एतत्कर्णिकायां चन्द्रमण्डलमध्ये अस्ल्युपरि स्थिता शाकिनी शक्तिः शुक्लवर्णा चतुर्भुजा पाशा- ङ्कुशधनु:शरकरा पीताम्बरा पञ्चवक्त्रा त्रिनेत्रेति ॥ इति पञ्चमप्रकरणम् ॥४॥ इदानों धूमध्यस्थिताज्ञाचक्रं निरूपयति प्राज्ञानामाम्बुजमित्यादि सप्तभिः । “आज्ञासंक्रमणं तत्र ध्रुवोराज्ञेति कीर्तितम्” । आज्ञानामति अत्र भ्रुवोराज्ञासंक्रमणादाज्ञानाम । ततश्च तन्नामकं तत्प्रसिद्धमम्बुजमास्ते इति क्रियाध्याहारणान्वयः । एतत् पद्मं भूमध्ये स्थितम् । ।' -- (३२) अाज्ञा इति । तत्प्रसिद्धं घूमध्ये आज्ञानाम पद्मम् आस्ते । कीदृशम् ? हिमकरसदृशम् अतः प्रशस्तशुभं ध्यानधामनि प्रकाशो यस्य तत् । हकारक्षकारोपलचितलाभ्यां परिलसितं वपुर्य्यस्य । कलाभ्यामिति केचित् पठन्ति । तम्मते हकारक्षकाररूपकलाभ्यां खरविशिष्टाभ्या- मिति । पुनः कीदृशम् ? नेत्रपत्रं हिपत्वमित्यर्थः। एतत्पद्ममा प्रसिद्धा हाकिनी निवसति कीशी ? शशिसमधवलवर्णा षण्मुखो च । हस्तैः करणैरेतान् विनती विद्याज्ञानमुद्राकपाल- ?
षट्चक्रनिरूपणम् RAN तद्यथा- तालुकण्ठं प्रविश्योद्धं भूयुगान्ते सितं शुभम् । द्विदलं हक्षवर्णाभ्यां मनोऽधिष्ठितमम्बुजम् ॥ इति ॥ पद्मं विशेषयति हिमकरसदृशमिति चन्द्रवच्छुक्लवर्णमित्यर्थः । तथा ध्यान- धामप्रकाशं ध्यानस्य धाम्रा तेजसा तेजोरूपशक्त्या प्रकाशो यस्येत्यर्थः । अत्र ध्यानशक्त्या धामवत् प्रकाशितावयवमित्यर्थः। वर्णानां कलावीजत्वात्तव कलापदप्रयोगः । नेत्रपत्रं द्विदलम् । सुशुभम् इति हक्षाभ्यां सुशुभ्रमित्यर्थः । तथाच स्वभावशुभ हक्षवर्णयोगेनातिशुश्चमिति भावः । एतेन हक्षवर्णयोरपि शुक्लत्वं सूचितं शुक्लयोगेणैव शुक्लस्यातिशय्यसम्भवात् । यहा आज्ञाचक्र हिम- करसदृशं चन्द्रस्यामृतमयशीतकिरणवत् शौतकिरणं तथा सुशुभच । हक्षाभ्यां कबूरवर्णाभ्यामिति बोदव्यम् । तदाह ईश्वरकार्तिकेयसम्बादे- आज्ञाचक्रं तदू? तु शुक्ल द्विदलमण्डितम् । कबूरहक्षलसितं मनोऽधिष्ठितरञ्जितम् ॥ इति ॥ एतत्कर्णिकायां हाकिनीशक्तिस्थितिमाह तन्मध्ये इति। सा हाकिनी नानी प्रसिद्धा। विद्यां पुस्तकमुद्रां वराभयरूपां तेनास्या भुजेषु षड्विधायुध- दर्शनात् षड्भुजेयम् । केचित्तु विद्यामुद्रामित्ये कविभक्त्यन्तं पठित्वा विद्यायै मुद्रां विद्यामुद्रां व्याख्यामुद्रामिति व्याख्यया अस्याश्चतुर्भुजत्वं वदन्ति । किन्तु नानापुस्तके पृथग्विभक्त्यन्तपाठो दृश्यते इति सुधीभिर्विवेच्यम् । ध्यानान्तरण हाकिनों विशेषयति- चक्रस्थां शक्लवणां डमरुकरयुताम् अक्षसूत्र कपाल विद्यां मुद्रां दधानां त्रिनयनविलसद्रक्तषड्वत्रयुक्ताम् । हारिद्रास्त्रे प्रसतां मधुमदमुदितां शुक्लमबं सुरुढ़ां देवी देवेन्द्ररत्नाकरमधुमुदितां भावयेत् हाकिनी ताम् ॥ इति ॥ स्पष्टमन्यत् ॥ ३२ ॥ । डमरजपवटीरिति । शुद्धं चित्तं यस्याः सा तथा। [ एतन्मते "कलाभ्याम्" इत्यत्र “लाभ्याम्' इति पाठ] ।'
४४ षट्चक्रनिरूपणम् । .. एतत्पशान्तराले निवसति च मनः सूक्ष्मरूपं प्रसिद्ध योनी तत्कर्णिकायामितरशिवपदं लिङ्गचिक्रप्रकाशम् । विद्युन्मालाविलासं परमकुलपदं ब्रह्मसूवप्रबोधं वेदानामादिवीज स्थिरतरतूदयश्चिन्तयेत्तत् क्रमेण ॥३३॥ एतत्पद्मे मनःस्थितिमाह एतत्पद्मान्तराले इति। सूक्ष्मरूपमतीन्द्रिय- मित्यर्थः । . ननु मनसोऽतीन्द्रियत्वात् तत्सत्तायां किं प्रमाणमित्याह प्रसिद्ध- मिति । अनादिपुरुषपरम्पराप्राप्तप्रत्यक्षकरणलेन प्रसिद्धम् । . . तथा- सङ्कल्पञ्च विकल्पञ्च कुर्बाणा तु मनो भवेत् । इत्यादिशास्त्र प्रमाणसिद्धञ्च । अत्र मानसस्थानं वक्ष्यमाणवेदादिवीजस्योद्ध- देशे वक्ष्यमाणवचनात् । अतएव शिवलिङ्गस्थितिमाह योनौ तत्कणिकायामिति कर्णिकान्त- स्त्रिकोणे इतरशिवपदं इतरनामकशवरूपं वस्तु निवसतीति पूर्व क्रिया- न्वयः । लिङ्गचितप्रकाशं लिङ्गरूपेण भासमानमित्यर्थः । इदं लिङ्ग शुक्लवर्ण तदाह भूतशुद्धौ- तदन्तस्थेतरं लिङ्गं स्फटिकामं त्रिलोचनम् ॥ इति ॥ लिङ्ग विशेषयति विद्युन्मालाविलासमिति । अत्र प्रणवस्थितिमाह परमेत्यादि। कर्णिकायां वेदादिवीज प्रणवोऽपि वसतीत्यन्वयः। वीजं विशेषयति परमकुलपदमिति। कुलं शक्तिस्तदव त्रिकोणाकारपदं स्थानं परमं विद्युदाकारादिना उत्कृष्टं कुलं पदं यस्य तादृश- मित्यर्थः । तथा च तहौज त्रिकोणमध्यवत्तीति पर्यवस्यति । (३३) एतदिति । एतत्पसूक्ष्मरूपेण प्रसिद्धं मनो निवसति । तस्य पझकर्णिकायां या योनिः तस्यामितराख्यः शिव आस्ते तख स्थानमित्यर्थः। लिङ्गचिड्रेन प्रकाशो यस्य । पुनः षट्चक्रनिरूपणम् । '४५ -: " व्यक्तमाह कर्णिकायां त्रिकोणस्थमात्मानं प्रणवाकृतिम् । ज्वलद्दीपनिभञ्चो नादरूपं मनोहरम् । विन्दुम्भकाररूपञ्च तदूई मानसालयः ॥ इति ॥ नन्वत्र परमकुलपदस्य प्रणवाधारत्वेनापृथक्त्वे- मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् । विशुद्धमाज्ञाचक्रञ्च विन्दुर्भूयः कलापदम् । निबोधिका तथाद्देन्दु दो नादान्त एव च । उन्मनी विष्णुचक्रञ्च ध्रुवमण्डलिकः शिवः । इत्येतत् षोड़शाधारं कथितं योगिदुर्लभम् ॥ इति वचने षोड़शाधारगणनायां कलापदस्य पृथगभिधानं कथं सङ्गच्छते ? इति चेन्न। तत्कलापदं नाज्ञाचक्रस्थं किन्तु वक्ष्यमाणमहानादोर्दै शून्यदेश स्थितमित्येतन्महानादप्रस्ताव स्फुटीकरिष्यामः । ब्रह्मसूत्रप्रबोधमिति। ब्रह्मसूत्रं चित्रिणी नाड़ी तस्याः प्रबोध: प्रकाशो येनेत्यर्थः । अतएव पूर्वमुक्तं “प्रणवविलसिता" इति। तदिति प्रदर्शित- हाकिनीमनइतरलिङ्गवेदादिवीजरूपं तत्सर्वं स्थिरतरहृदयः सन् क्रमेण चिन्तयेदित्यर्थः । क्रमोऽत्र न ग्रन्थकारोक्त पाठक्रम: किन्तु पाठक्रमाच्छाब्दक्रमस्य बलवत्त्वात् प्रदर्शितशाब्दक्रमो गृह्यते । एवञ्च पद्मकर्णिकायां हाकिनी शक्तिस्तदू? त्रिकोणे इतरलिङ्ग तदूर्द्धं त्रिकोणे प्रणवस्तदू? मन इत्येवं क्रमेण चिन्तये- दिति ॥ ३३॥ कीदृशम् ? विद्युन्माला इव प्रकाशो यस्य तत्तथा । परमञ्च तत् कुलञ्चेति परमकुलं मूलाधारपद्म तदेव पदं स्थानान्तरं यस्य । ब्रह्मसूत्रस्य प्रबोधो यस्मात् । तन्मनोनिवासभूतं ब्रह्मनाडीवमस्थि- तानां सर्वेषामेव तस्मादेव ज्ञानं भवतीत्यर्थः ।
घट्चक्र निरूपणम् । ध्यानात्मा साधकेन्द्रो भवति परपुरे शीघ्रगामी मुनीन्द्रः सर्वज्ञः सर्वदर्शी सकलहितकरः सर्चशास्त्रार्थवेत्ता। अद्वैताचारवादी विलसति परमापूर्वसिविप्रसिद्धो दीर्घायुः सोऽपि कर्त्ता त्रिभुवनभवने संहृतौ पालने च ॥३४॥ एतद्यानस्य फलमाह ध्यानात्मेति । उक्तरूपेण ध्यानपरायणः साधकेन्द्र परपुरे शीघ्रगामी भवतीति सर्वत्र क्रियान्वयः । मुनीन्द्रः मुनिान- योगादिसम्पन्नस्तदिन्द्रस्तत्श्रेष्ठः । सर्वज्ञः पूर्वोक्तरूपेण सर्वदर्शी शास्त्र- व्यवहाररीत्यनुरूपविवेकबुद्ध्या पूर्वापरदर्शी । अहैताचारवादीति- पादोऽस्य विश्वा भूतानीति तदिदं सबं ब्रह्म । इत्यादिश्रुतिवाक्येन अहं देवो न चान्योऽस्मि ब्रह्मवास्मि न शोकभाक् । इत्यादिवाक्येन च ब्रह्मवैकं सबस्तु तदन्यदसत् प्रपञ्चसमुदायस्तु ब्रह्मभास- तया भासते इत्यवधारणमद्दतम् । तादृशज्ञानेन यथाचार: जीवात्मपरमात्मनो- रैक्यचिन्तनादिरूपयोगस्तहादी तत्कथनशील: स जन: अताचारवादी भवतीति फलितार्थः । परमापूर्वसिद्दिमहासिद्धिस्तया प्रसिद्धः प्राधान्येन ख्यात इत्यर्थः । सोऽपि कर्ता त्रिभुवनभवने संहृतौ पालने चेति प्रशंसापरम् । अथवा तादृशसाधकस्य देहान्ते परमात्मनि लयात् यः सृष्टिस्थितिप्रलयकत्ता स एवायं भवतीति तात्पर्यम् ॥ ३४ ॥ -- (३४) ध्यानात्मेति । एतद्यानपरो जन एवं भवतीत्याह। ध्यानात्मा ध्याननिष्ठ इत्यर्थः स साधकेन्द्रः परपुरे शीघ्रगामी भवति। तत्तद्दिव्यभावविषये परपुरप्रवेशनं पूर्वमेवोक्तं तत्तु 'उदासोनानामेंब सम्भवतीति नान्येषाम् । अद्वैताचारं वक्तुं शीलमस्येति स तथा एव भवति । स साधकः कीदृशः? प्रकृष्टासु आदिसिद्धिषु समर्थो भवति अतो दीर्घायुर्भवत्येव | 'लिभवन- निवासिना उत्पत्तौ संहृतौ पालने वा स कर्ता । अतो ब्रह्मविणु शिवात्मको भवतीत्यर्थः । .
षट्चक्रनिरूपणम् । तदन्तश्चक्रेऽस्मिन्निवसति सततं शुद्धबुद्धान्तरात्मा प्रदीपाभज्योतिः प्रणवविरचनारूपवर्णप्रकाश: तटूढ़े चन्द्राईस्तदुपरि विलसहिन्दुरूपी मकार- स्तदू. नादोऽसौ बलधवलसुधाधारसन्तानहासी ॥३५॥ mamta तदाज्ञाचक्र प्रणवयोगं विवक्षुरादी प्रणवं विशेषयति तदन्तरिति । अस्यार्थः अस्मिन् चक्रे तदन्तस्तस्य पूर्वोक्तत्रिकोणस्य अन्तम्मध्ये यः प्रणव- विरचनारूपवर्णप्रकाश: प्रणवस्य विरचनारूपेण अकारोकारयोः सन्धियोगेन यस्त्रयोदशखरसदृशवर्णप्रकाशः सततं निवसति स शुद्धबुद्धान्तरात्मा इत्यन्वयः । तं विशेषयति प्रदौपाभज्योतिरिति । ननु तहि किं त्रयोदशखरसदृशवर्ण- मात्र शुद्धबुद्धान्तरात्मा ? इत्याह तदूर्द्ध चन्द्राईस्तदुपरि लसहिन्दुरूपी मकार इति । तेन तादृशवर्णोपरि अईचन्द्रविन्दुयोगेन प्रक्कतप्रणवस्वरूपः पय॑वस्यति । तदूधै नादोऽसाविति प्रणवोढे अवान्तरनादोऽस्तीति । स तु बलधवल- सुधाधारसन्तानहासी बलदेवस्य धवलं सुधाधारसन्तानञ्च उपहसितुं शोलं यस्येत्यर्थात् अतिशयशक्लवणे नादः । केचित्तु तदाद्ये नादोऽसाविति पठन्ति तदाद्ये विन्दुरूपी मकारस्याये इति व्याख्यायन्ति च । तदसत् । तदुपरि विलसहिन्दुरूपी मकार इत्यनेन मकाराचे नादप्राप्तौ पुनस्तदुपादानं व्यथं स्यात् । परन्त्वसौ नादः प्रणव- घटकीभूतनादातिरितो भिद्यमानपरविन्दोरवयवविशेषः प्रणवोर्ल्ड वर्त्तते । यदि तु विशिष्टप्रणवनिरूपणे तदङ्गप्रत्यङ्गमेव वक्तुमुचितं कथं तदतिरिक्तनादो- 3 - (३५) तदन्तरिति। तदूई अस्मिन् चक्रे सततमेव प्रणवविरचना प्रणवं विरचयति येन ओकारेण तद्रूपाक्षरप्रकाशो निवसति । कीदृशः ? शुद्धबुद्धीनां अन्तरात्मस्वरूपः । यद्दा शुद्ध- जनैरवगत अन्तरात्मा अस्य । तथा प्रदीपख याभा एवं ज्योतिर्यस्य तस्य लोकारखोपरि चन्द्रार्द्धः तदुपरि प्रकाश हिन्दुरूपो मकारः। एतेन अाज्ञाख्यपद्मयोपरि प्रणवप्रकारसिद्धिः तस्योपरि असौ नादो वक्राशतिः। कोशः? जलस्य जलकणस्य धवलामृतश्रेणिरिव हासो होतिर्यखेति स तथा। [ एतन्मते "जलधवलसुधाधारसन्तानहासः” इति पाठः]।
४८ . S षट्चक्रनिरूपणम् । इह स्थाने लौने सुमुखसदने चेतसि पुरं निरालम्बां बड्डा परमगुरुसेवासुविदिताम् । तदभ्यासादयोगी पवनसुहृदां पश्यति कणान् ततस्तन्मध्यान्तः प्रविलसितरूपानपि सदा ॥ ३६ ॥ . ऽप्रस्तुत: प्रस्तू यते इति चेत्तहिं तदाद्ये नादोऽसाविति पाठोऽभिमन्यते । किन्तु तस्यायमर्थः । तदाद्य विन्दुरूपिमकाराद्ये प्रदर्शितोऽसौ नादः बलधवल- सुधाधारसन्तानहासोति पूर्वोतनादमनूद्य बलधवलेत्यादिविशेषणं विधीयते “न तु विशिष्टस्य विधानम्” अतो न पौनरुक्तिदोषः ॥ ३५ ॥ प्रणवं निरूप्य इदानों तद्योगं निरूपयति इह स्थान इति। अस्थार्थः योगी जन: पुरं बवा कुतुकेनान्तःपुरं संरुध्य तत्प्रकारेणान्तःपुररोधकावनी- भूतयोनिमुद्रां बवा इति यावत्। तेन पुःशब्देन योनिमुद्रा लक्ष्यते । तन्मुद्रां बवा इह स्थाने आज्ञाचक्रे तदभ्यासात् तस्य प्रणवस्य पुनः पुन- श्चिन्तनात् तत्र चेतसि प्रणवचतुर्दिक्षु लौने सति ततस्तदनन्तरं तन्मध्यान्तः- प्रणवाधारत्रिकोणमध्ये अन्तरन्तरीक्षे पवनसुहृदां वह्नीनां कणान् वह्निकणाव- उज्योतिःस्फुलिङ्गान् पश्यति तेषां मानसप्रत्यक्षो भवति इत्यर्थः पुरवन्धनं विना मनस: शुद्धस्थैय्यं न सम्भवतीत्यत: पुरं बड्वेत्युक्तम् । पुरबन्धन- कारणयोनिमुद्रालक्षणमाह- ततो गुह्ये वामपादपाणिन्तु विनिवेशयेत् । तस्योपरि महादेवि दक्षपाणिं निवेशयेत् ॥ ऋजुकायशिरोग्रौवसाकचञ्चपुटेन च । आकारण वहिर्वायुं जठरं परिपूरयेत् ॥ अल -- (३६) रह स्थाने इति। अत्यर्थसुखसदने रह स्थाने चेतसि ली ने सति परमगुरुसेवा- सुविदितां निरालम्बां मुद्रा बड्वा सर्वाभ्यासात्, योगी, सन् पवनसुहृदां जीवबुद्धीनां कलां षट्चक्रनिरूपणम् । अङ्गुलीभिटं बड्डा करणानि समाहितः । अङ्गुष्ठाभ्यामुभे श्रोत्रे तज्जनीभ्यां विलोचने ॥ नासारन्ध्रे च मध्याभ्यामन्याभिवदनं दृढ़म् । बडा मे प्राणमनसामकत्वं तन्मनं स्मरन् । धारयेन्मारुतं सम्यक योगोऽयं योगिवल्लभः ॥ इति एवं मुद्रया वायुरोधे मनसः स्थैर्यमाह श्रुतिः । एवं हंसवशान्मनो विच- यते इतस्ततो विषयेषु भ्रमति तत्संयमेन मन:संयमो जायते इत्यर्थः अथवा पुरं खेचरीमुद्रां बवा इत्यर्थः । तयापि मनःस्थैय्यं भवति । तदाह - चित्तञ्चरति खे यस्मात् जिह्वा चरति खे यतः । तेनेयं खेचरी मुद्रा सर्वसिद्धिनमस्कृता ॥ इति ॥ अत्र चित्तस्य खेचरत्वान्मनःसंयोगाभावेन विषयज्ञानरहितत्वादुन्मनी भवति । अतएवोक्तम्- उन्मन्या सहितो योगी न योगी उन्मनों विना ॥ इति ॥ प्रणवस्य ज्योतिःस्फुलिङ्गवेष्टितत्वं स्पष्टमाहान्यत्र- तदूर्ल्ड प्रणवाकारमात्मानं दीपसन्निभम् । स्फुलिङ्गज्योतिरिङ्गाभेर्वेष्टितं परित: शुभम् ॥ इति ॥ स्थान कीदृशे ? सुसुखसदने निरवच्छिन्नसुखस्य सदनं यत्र तादृशे। पुरं किम्भूतां निरालम्बां निर्गतोऽवलम्बो मनसो विषयसम्बन्धो यया तादृशी- मित्यर्थः । तथा परमगुरुसेवासुविदितामिति परमः गुरुपरम्पराप्राप्तयोगा- भ्यासनिपुणः तादृशगुरुः तस्य सेवाभिर्जातवपयोपदेशेन सुविदितामिति फलितार्थः । अतएवोतम्- गुरूपदेशात्तहम्यं नान्यथा शास्त्रकोटिभिः ॥ इति ॥ कणान् किम्भूतान् ? प्रविलसितरूपान् प्रष्टरूपेण भासमानान् इति ॥ ३६ ॥ पश्यति। अस्य स्थानस्य चेतोलीनत्वम् आश्चर्य महः यदि भवति तदैव निरालम्बा मुद्रा भवति। तदनुभवो योगिभिरेव ज्ञायते । ततस्तन्मयेऽम्बरे पदान् स्थलान् रूपान् पश्यति । ? . ।'
षट्चक्रनिरूपणम् । चुलहीपाकारं तदनु च नवीनार्कबहुल- प्रकाशं ज्योतिर्वा गगनधरणीमध्यमिलितम् । दूह स्थाने साक्षाद्भवति भगवान् पूर्ण विभवो- ऽव्ययः साक्षी वङ्गेः शशिमिहिरयोर्मण्डल इव ॥ ३७॥ PARARIA तादृशयोगिनां वह्निकणावान्तरप्रकारदर्शनमपि भवतीत्याह ज्वल- हीपाकारमिति । तदनु वह्निकणादर्शनमनु दर्शनान्तरं ज्योतिः पश्यतीत्यर्थः । ज्योतिर्विशेषयति ज्वलद्दीपित्यादि गगनधरणीमध्यमिलितमिति। गगनं "तदू. शजिन्या निवसति शिखरे शून्यदेशे विकाशम्” इत्यनेन प्रदर्शितशशिनी- नाड्यूशून्यरूपगगनं धरणी मूलाधारस्थधरामण्डलं तदुभयोर्मध्यमिलितं मूलाधारादिसहस्रारपर्यन्तव्याप्तं ज्योतिरिति विशिष्टार्थः। वेति वाशब्दः समुच्चयार्थः। आज्ञाचक्रे सहस्रारवत् परमशिवस्थितिमाह इह स्थाने इति । भगवान् परमशिवः इह स्थाने साक्षाद्भवति स्वयं वर्तते इत्यर्थः । भगवन्तं विशेषयति पूर्णविभव इत्यादि। पूर्ण: खात्मनि परिपूर्णः सृष्टिकर्तृत्वाद्यशेषयोग्यता- रूपविभवो यस्येत्यर्थः । अथवा विभवोऽनन्तसृष्टिप्रपञ्चसमुदायः पूर्ण: सर्वव्यापकत्वेन स्थितः तादृशविभवो यस्मादित्यर्थः । “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्यभिसंविशन्ति” इति श्रुतेः। यद्दा विभवो विभुत्वं पूर्णः सर्वव्यापकत्वेन स्थितस्तादृशः विभवो यस्येत्यर्थः । यद्दा पूर्णवं फलानुपहितविषयितानास्पदेच्छाकत्वं तादृशो विभवो (३७) ज्वलद्दीपाकारमिति । पदान् रूपान् किम्भूतान् ? ज्वलद्दीपस्येवाकारो येषां ते तथा । तवैव गगनधरणीवीजयोर्मथे स्थितं ज्योतिरास्ते। गगनधरणीमण्डलयोरन्तःस्थितं तहीजमिति यावत् । ज्योतिः कीदृशम् ? प्रातःकालीनसूर्यस्येव प्रकाशो यस्य तत् तथा । इह स्थाने अर्थात् चेतसि लीने श्रीभगवान् साक्षात् भवति । कीदृशः ? पूर्णः विभवः ज्ञानं यस्मात् । न व्ययति इयव्ययः । अतः सबैषां साक्षी एतेषां तत्स्थानाधिवासभूतत्वात् । वशिशिमिहिराणां मण्ड- लम् इत्र प्रकायते अत्यर्थतेजोमय त्यात् ॥ [ एतन्मते."ज्वल द्वीपाकारान्” इति पादः ]] ५१ षट्चक्रनिरूपणम् । यस्येति निगूढम् । आमातिरिक्तवस्तूनामनित्यत्वादाकाशादौना विभुलं न सर्वकालव्यापकमिति विशेषः । अत्र परमशिवस्थितिं विशेषण व्यनक्ति निर्वाणतन्त्रे- एतत्पद्मस्यो देशे ज्ञानपमं सुदुल्लभम् । पत्रदयसमायुक्त पूर्णचन्द्रस्य मण्डलम् ॥ तथा -- शम्भुवीजं हि तन्मध्ये साकारं हंसरूपकम् । तथा mumm PREumlom 2 एवं हंसो मणिदीप तस्य कोड़े परः शिवः । वामभागे सिद्धकाली सदानन्दस्वरूपिणी ॥ इति ॥ सस्य क्रोड़े हंसः इत्यस्य विन्दुइयरूपविसर्गमध्ये। तदाह सहस्रारमुपक्रम्य- बिन्दुद्दयन्तु तन्मध्ये विसर्गरूपमव्ययम् । तन्मध्ये शून्यदेश तु शिवः परमसंज्ञकः ॥ इति ॥ एवं सहस्रारे दर्शनादत्राप्याकानायां तथा इति । अत्रानयोः शिवशक्त्यो- मायावन्धनाच्छादनेन मकारात्मरूपपरविन्दुरूपण स्थितिर्बोध्या । तदुक्तं आज्ञाचक्रमुपक्रम्य- उत्कलादिमतेऽत्रैव चणकाकाररूपिणी सृष्टिं करोति भूतानि अत्र स्थित्वा सनातनी ॥ इति ॥ अत्र. चणकाकाररूपः परमशिवः सदा वर्तते । उत्कलादिमते तु अत्र स्थित्वा सृष्टिं करोतीत्यर्थः । दृष्टान्तमाह वङ्गेरित्यादि । यथार्केन्दग्नि- मण्डले भगवान् वर्तते तथानापौत्यर्थः । अर्कादिमण्डले भगवतोऽवस्थान प्रसिद्धम् । यहा वङ्गिशशिमिहिरमण्डले सहस्रकमलस्थान्दग्निमण्डले यथा चणकाकारेण भगवान् वर्त्तते तबदनापौति । सहस्रदलेऽर्केन्दग्नि- मण्डलानि प्रदर्शयिष्यन्ते। अतएव पीठपूजायामर्केन्दग्निमण्डलोपरि परमात्म- ज्ञानात्मनोः पूजा विधीयते । परमात्मा परमशिवः ज्ञानात्मा ज्ञानशक्ति- स्तदुभयाभिनशिवशक्त्यात्मकयणकाकारविन्दुरिति ध्येयम् ॥ ३७ ॥ .
५२ षट्चक्रनिरूपणम् । दूह स्थाने विष्णोरतुलपरमामोदमधुर समारोप्य प्राणं प्रमुदितमनाः प्राणनिधने । परं नित्यं देवं पुरुषमजमाद्यं त्रिजगताम् पुराणं योगीन्द्रः प्रविशति च वेदान्तविदितम् ॥ ३८ ॥ आज्ञाचक्रे योगन प्राणत्यागफलमाह इह स्थाने इति । अस्यार्थः योगीन्द्रो जन: प्राणनिधने प्राणवियोगकाले प्रमुदितमना: आत्मानन्देन दृष्टचित्तः सन् इह आज्ञाचक्रे विणोभंगवतः स्थाने उपदर्शितविन्दुरूपे प्राणं समारोप्य अथवा तहिन्दी प्राणं समारोग्य प्राणनिधने सति परं पुरुषं प्रविशतीत्यन्वि- तार्थः । पुरुषं विशेषयति नित्यमविनाशिनम् । देवं सृष्टिस्थितिप्रलयैः क्रीड़न्तम् । अजं जन्मरहितम् । त्रिजगतामाद्यं अनेन सर्वेषां पूर्ववर्त्तित्वात् सर्वकारणलं सूचितम् । पुराणं पुराणपुरुष इति कृत्वा यो निगद्यते स एवायमिति भावः । वेदान्तो ब्रह्मनिरूपक श्रुतिवाक्यादिः तज्ज्ञानज्ञाप्यमित्यर्थः ॥ ३८ ॥ * ॥ तदयं विष्णोः स्थाने प्राणारोपणप्रकारः। प्राणवियोगकालं ज्ञात्वा ब्रह्मणि लोनो भवतीत्यानन्दितमनाः योगासनमासौनः सन् कुम्भकेन वायुं संरुध्य हृदिस्थं जीवात्मानं मूलाधारमानीय गुदमाकुच्चा यथोक्तविधानेन कुण्डलिनीमुत्थाप्य मूलादिब्रह्मरन्ध्रान्तं तडिदाकारमानन्दं कुण्डलिनीमयं सूत्ररूपं नादं ध्यात्वा प्राणरूपखासपरमात्मकं हंसं तन्नादे विलाप्य जीवन सह चक्रभेदक्रमेणाज्ञाचक्रमानीय तत्र स्थितायां कुण्डलिन्यां स्थूलसूक्ष्मक्रमात् पृथिव्यादिप्रपञ्चसमुदायं विलाप्य तां पुनर्जीवात्मना सह तत्र स्थितशिवशक्ति- 1:- MARA (३८) इह स्थाने इति । विष्णोरवलपरमामोदमधुरे इह स्थाने योगी प्राणवियोमसमा- योगसमये प्राणान् मनश्च समारोप्य प्रकृष्टमुदितमनाः सन् परं पुरुषमेव प्रविशति निर्वाणमुक्ति प्राप्नोतीति शेषः। कीदृशं परम् ? सर्वेषामन्तर्भूतं नित्यं दैन्यम् । दिव्यतीति देवम् । न जायते इत्वजम् । विजगतामाद्यम् । पुराणं सृष्टिस्थितिप्रलयकारणम् । वेदान्तविहितं वेदान्तमतमेत- दिति । [ एतन्मते “वेदान्तत्रिहितम्" इति पाठः] | षट्चक्रनिरूपणम् । लयस्थानं वायोस्तदुपरि च महानादरूपं शिवाई सिराकारं शान्तं वरदमभयं शुद्धबुद्धिप्रकाशम् । यदा योगी पश्येद्गुरुचरणयुगाम्भोजसेवामुशील- स्तदा वाचां सिद्धिः करकमलतले तस्य भूयात् सदैव ॥३६॥ मयविन्दुनैकोभावमापाद्य तिष्ठेत् । ततो ब्रह्मरन्ध्रभेदेन देहं त्यक्त्वा ब्रह्मणि लौनो भवेदिति ॥ * ॥ तदयं महावाक्यार्थनिर्णयः । आज्ञाचक्रं द्विदलं शक्लवर्णं कबूर- वर्णहक्षद्वययुक्तपत्रम् । कर्णिकायां चक्राधिष्ठात्री हाकिनौ शक्तिः शुक्लवर्णा रक्त- षड़वक्ता त्रिनेत्रा षड्भुजा वराभयाक्षमालाकपालडमरूपुस्तकधरा शुक्लपद्मो- परि स्थिता। तदूर्द्ध त्रिकोण इतरलिङ्गः शुक्लवर्ण: विद्युदाकारः । तदूईत्रिकोण प्रणवाक्कतिरन्तरात्मा प्रदीपाभज्योतिः । तस्य चतुर्दिक्षु अन्तरीक्षे ज्योति:- स्फुलिङ्गविम्बैर्वेष्टितः ज्वलद्दीपसदृशेन स्वतेजसा मूलादिब्रह्मरन्ध्रान्तप्रका. शकः । तदूर्द्व सूक्ष्मरूपं मनः । तदूर्द्धं चन्द्रमण्डले हंसकोड़े परमशिव: सशक्तिक इति ॥ इति षष्ठप्रकरणम् ॥ * ॥ इदानीमाज्ञाचक्रो॰ सहस्रदलकमलाधःस्थानवर्तिकारणावान्तरशरीरं निरूपयितुमिच्छन्नाह लयस्थानं वायोरिति । अस्यार्थः यदा यस्मिन् काले योगी जनः गुरुचरणयुगाम्भोजसेवासुशील: गुरुचरणयुगाम्भोजस्य सेवया सुशोभनं दृढ़तरैकाग्रमनोऽभिनिवेशेन साङ्गसुन्दरं शौलं योगानुष्ठानरूप- सहत्तं यस्य तादृश: सन् तदुपरि आज्ञाचक्रोङ्के महानादरूपं महानादस्य रूपं पश्येत् तदा तस्य योगिनः करकमलतले सदा सर्वस्मिन् काले वाचा सिद्धिः वाक्यसिदि यादेवेत्यन्वितार्थः । (२८) लयस्थानमिति। एतत् स्थानं वायोर्बिरामभूतम् । तदुपरि महानादरूपं योगी जनो यदा पश्येत् तदा तस्य वासिद्धिरपि करपद्मतले सदैव भूयात् । कीदृशम् ? शिवो हकारः तदाकारं शिवदेव्योरर्खाङ्गखरूपं यस्य हरगौर्यात्मक वात्। शान्तं सौम्यमूर्तिम् । वरान् ददाति अभयमपि। सुबुड्वीनां प्रकाशो यस्मात् । ये गो कीदृशः ? गुरुचरणसेवासुशील इति गुरुचरण- बैतटुपदेश इत्यर्थः ।
५४
षट्चक्रनिरूपणम् ।
नादं विशेषयति लयस्थानं वायोरिति । अत्र महानादे वायोलयः
यस्मादुत्पत्तिः तत्र लयनियमात् । यद्यपि भूतशुद्यादौ स्पर्शतत्त्वे वायोर्लयस्त स्य
च व्योम्नि लयो दृश्यते तथापि कदाचित् नादेऽपि वायोर्लयो भवतीति । अत्र
"पृथिवीकाराट्रसवती रसादजायत
ककारात् सर्वाणि जलानि
तीथोनि रेफाहह्नितत्त्वं नादाहायुः सर्वप्राणमयः विन्दो गंगनं सर्वशून्यं शब्द-
मयं तेभ्यः पञ्चविंशतिगुणमयतत्त्वं सर्वमिदं विश्वं ब्रह्माण्डं कालिकामयम्"
इति श्रुतिवाक्येन कालीमन्त्रवर्णस्य सूक्ष्मे संहरणकाले नादे वायोलयो
भवतीति ध्येयम् । शिवाईमिति। शिवस्याईनारीवरत्वात् तदई शक्तिस्तद्रूपं
नादमित्यर्थः । सिराकारमिति दन्त्यादिसिरोलाङ्गलस्तदाकारमित्यर्थः ।
तदूर्द्ध तु महानादो लाङ्गलाकृतिरुज्ज्वलः ।
इति कार्तिकेयेश्वरसम्बादवाक्यात् । यद्यपि “कृषिको लाङ्गलं हलं गोदा-
रणञ्चसौरश्च” इत्यमरकोषे लाङ्गलवाचकसौरशब्दस्य चतुर्थस्वरयोगित्वं तथाप्यत्र
वचनान्तरैकवाक्यतानुरोधेन तौयस्वरयुक्तसिरः पदेनापि लाङ्गलः प्रतीयते
इति । अथवा शिवाकारमिति तेन शिवशक्तिमयोऽयं नादः ।
तदुक्तं प्रपञ्चसारे-
नादात्मना प्रबुद्धा सा निरामयपदोन्मुखी।
शिवोन्मुखी यदा शक्तिः पुंरूपा सा तदा स्मृता ॥ इति ॥
अतएव “तस्या एव शक्तेर्नादविन्दूपृषत्युपयोग्यरूपौ” इति राघवभट्टेना-
प्युक्तम् ।
अन्यत्र-
1
.
सातत्यसंज्ञा चिन्मात्रा ज्योतिषः सविधस्तथा ।
विचिकीर्षुर्घनीभूय क्वचिदम्येति विन्दुताम् ॥ इति ॥
तथा श्रीमंदाचार्यवाक्यम् । "नाद एव घनीभूत: क्वचिदभ्येति विन्दुताम्"
सकलवचनप-लोचनया शक्तिरेव नादविन्दुरूपणावि-
भूता सुवर्णकुण्डलमिव । नादविन्दुः पुनरेकाकारैव इति निष्कर्षः । वरदातार-
.
इति ।
अत्र
मित्यर्थः॥३८॥
षट्चक्रनिरूपणम्। 1 -- तटू? शजिन्या निवसति शिखरे शून्यदेशे प्रकाशं विसर्गाध: पद्म दशशतदलं पूर्णचन्द्रातिशुभम् । अधोवक्त्रं कान्तं तरुणरविकलाकान्तिकिञ्जल्कपुञ्जे ललाटायेवणैः प्रविलसितवपुः केवलानन्दरूपम् ॥४०॥ अथ समाधिरूपयोगानुशीलनसाधकानां समाधिकालात् प्रागैवं विचि- त्यातिप्रयत्नः स्थूलसूक्ष्मक्रमात् सबै चिदात्मनि विलापयेदित्याचार्यवचनेन समाधे: पूर्व स्थूल सूक्ष्मरूपसृष्टिप्रपञ्चसमुदायचिन्तनविधानात् तज्ज्ञानस्या- वश्यकत्वादत्र वदन्ति । तत्र तावत् पृथिव्यादि पञ्च स्थूलरूपाणि मूलादि- विशुद्धान्तचक्रे उक्तानि तदाश्रितत्वात् मूलाधार भूमण्डले पादघ्राणेन्द्रिय- गन्वंतत्त्वेति त्रिः । जलमण्डले पाणिरसनेन्द्रियरसतत्त्वेति त्रिः। वह्निमण्डले पायुचक्षुरिन्द्रियरूपतत्त्वेति त्रिः । वायुमण्डले उपस्थत्वगिन्द्रियस्पर्शतत्त्वेति त्रिः। नभोमण्डले वाक्थोत्रेन्द्रियशब्दतत्त्वेति त्रिरिति समुदायेन पञ्चदश- तत्त्वानि वर्तन्ते। पृथिव्यादिना मिलित्वा विंशतितत्त्वानि स्थूलानि बोद्ध- व्यानि । इदानी सूक्ष्मरूपाणि विधीयन्ते । तत्राज्ञाचक्रे सूक्ष्मरूपं मन: स्वयं प्रदर्शितम् । अपराण्याह कङ्गालमालिनौतन्त्र आज्ञाचक्रमुपक्रम्य- मनश्चात्र सदा भाति हाकिनोशतिरञ्जितम् । बुद्धिप्रकत्यहङ्कारालङ्गतं तैजसं परम् ॥ इति ॥ अत्र बुद्धिप्रकत्यहङ्कारात्मकसूक्ष्मरूपत्रयाणां स्थितिः प्रतीयते । न पाठक्रमात् स्थिति: मूलाधारादि सर्वत्र पृथिव्यादिजनकस्य तत्तहिलया- धारस्य च जन्यविलाप्ययोरध:स्थितिदर्शनात् पाठक्रमाच्छाब्दक्रमस्य बल- वत्त्वाचात्रापि तथा स्थिति: कल्पाते। तेन “अहङ्कारे हरेव्योम सशब्दं . तत्राहकारस्य (४०) तदूः इति । तस्य महानादस्य जड़े महाशखिन्याञ्च शिखरसमदेशे शून्यनिरालम्बे विसर्गस्याधः प्रकाशरूपं सहस्रदलपमं निवसति । अत्यर्थपूर्णचन्द्र दूब शुभ्र अधोवलं कान्तं तरुणरविकला व कान्तं किञ्जल्कपुझं यस्य । ललाटाद्यैर्ललाटादिविन्यस्तैर कारादिपञ्चाशहरें- विंशतिप्राकारेण परिलमिततनुः केवलानन्द खरूपमिति - 1.
५ ६ षटवक्रनिरूपणम् । तन्महत्यपि” इति वचनात् व्योम्नो विलयाथें तहिलयाधिकरणस्याहङ्कारस्य प्रथमोपस्थितं तदादावहङ्कारस्तदूर्ल्ड बुद्धिप्रकृत्योः स्थितिः । एतेषां जन्यजनक- भावमाह सारदायाम्- भूलभूतात्ततोऽव्यक्तात् विकृतात् परवस्तुनः । आसीत् किल महत्तत्त्वं गुणान्तःकरणात्मकम् । अभूत्तस्मादहङ्कारस्त्रिविध: सृष्टिभेदतः ॥ इति ॥ विकतादिति इदं परवस्तुनः प्रतिविम्बत्वेन विकृतिरूपं महत्तत्त्वादीनां प्रकृतित्वात् प्रकृतिनामकञ्च। अतएवोक्तम्- प्रकृति: परमा शक्तिबिकृतिः प्रतिविम्बता ॥ इति ॥ तथा परंब्रह्मात्मप्रकतिप्रतिविम्बस्वरूपिणीति प्रागुपदर्शितम् । सारदा- वचने महत्तत्त्वमिति । यदेव महत्तत्त्वं सैव बुद्धिः । तदाह ईशानशिवेन- बोद्धव्यलक्षणा सैव प्रकृतिः शक्तिजृम्भिता । बुद्धितत्वं भवेहातं सात्त्विकं गुणमाश्रिता। सैव बुद्धिम्महन्नाम तत्त्वं सांख्य प्रगौयते ॥ इति ॥ महत्तत्त्वन्तु गुणान्तःकरणात्मकम् । गुणाः सत्त्वरजस्तमोरूपाः । अन्त:- करणमाह सारदायाम् “अन्तःकरणमात्मनः मनोबुद्धिरहङ्कारश्चित्तञ्च परि- कोर्तितम्” इति । एतत्समुदायात्मकं महत्तत्त्वम् । ननु मनसो महत्तत्त्वान्त- गतत्वे तदन्तश्चक्रेऽस्मिन् प्रविलसति मन: सूक्ष्मरूपमित्यनेन पृथगभिधानं कथं सङ्गच्छते इति चेत्र तन्मनो न महत्तत्त्वान्तर्गतं किन्तु तदहङ्कार- जन्यमतिरिक्तम्। तदाह- “यतोऽपरं मनस्तत्त्वं ससङ्कल्पविकल्पकम् । तैजसादेव तज्ज्ञातम्” इति राघवभट्टः । एवञ्चाज्ञाचक्रस्थमन:पर्यन्तानां क्रमेण स्थितैर्विहितत्वात् तदूढेह- झारादीनां स्थितिर्बोध्या। ततश्चाज्ञाचक्र हाकिनी इतरलिङ्गप्रणवमनो- ऽहङ्कारबुद्धिप्रकृतीनामव्यवहितोो क्रमेण स्थितिनिरूपणात् स्थानविशेषा- नभिहितस्य पूर्वदर्शितचन्द्रमण्डलस्य तेषामूढ़े स्थितिरिति । ननु तेषामधः - . ।
- ॥ षट्चक्रनिरूपणम् । कथं न स्थीयते इति चेन्न । “इन्दुर्ललाटदेशे च तदूर्द्व बोधिनी स्वयम्” इति सम्मोहनतन्त्रवचनेन वक्ष्यमाणाज्ञाचक्रोर्द्धवर्त्तिन्योः समनियतयोरिन्दुबोधिन्यो- रधोभागे स्थितिबोधनात् तयोरव्यवधानाय सर्बो. एव तस्य स्थितिरिति । अथाज्ञाचक्रो. कारणरूपमाह सम्मोहनतन्त्रे- इन्दुर्ललाटदेशे च तदूधै बोधिनी खयम् । तदूर्दै भाति नादोऽसावईचन्द्रावतिः परः ॥ तदूर्ल्ड च महानादो लाङ्गलाकृतिरुज्ज्वलः । तदूर्द्धं च कला प्रोता आञ्जीति योगिवल्लभा। उन्मनी तु तदूर्द्धं च यद्गत्वा न निवर्त्तते ॥ इति ॥ तदूढे बोधिनीत्यत्र तदूर्ल्ड ललाटोळे आज्ञाचक्रोड्ढे इति .. यावत् । बोधिन्यधःस्थले विन्दुस्थितिमाह भूतशुद्वितन्त्रे- विन्दुम्मानाईतो देवि तदूई नादसंज्ञितम् । लयस्थानं तथा वायोमहानादं तदूतः ॥ इति ॥ मानार्दा शक्तिः। बालसूर्यप्रतीकाशमासीबिन्दुमदक्षरम् । तदूझैं चाईमात्रा तु गान्धाररागमाश्रिता ॥ इति वृत्ति विक्रमसंहितावचनेनाईमात्रायाः शक्तिवाचकत्वप्रतीतः । इयोर्वचनयोरेकवाक्यतया यादमात्रा सेव बोधिनीति बोध्यम् । विन्दु- बोधिनीनादेति त्रयं विन्दुमयपरशक्ते रूपविशेषः । तदाह सारदायाम्- सच्चिदानन्दविभवात् सकलात् परमेश्वरात् । आसोच्छक्तिस्ततो नादो नादादिन्दुसमुद्भवः ॥ परशक्तिमयः साक्षाविधासौ भिद्यते पुनः । विन्दुर्नादो वीजमिति तस्य भेदाः समीरिताः । विन्दुर्नादात्मको वीजं शक्तिर्नादस्तयोम्मिथः । समवायः समाख्यातः सर्बागमविशारदैः ॥ इति । अत्र । ८ ५८ . 1. षट्चक्रनिरूपणम् । परशक्तिमयः परः शिवेस्तेन शिवशक्तिमयो विन्दुः । अयं ललाटोद्धे स्थितो विन्दुर्नादात्मकः शिवात्मकः । वीजं शक्तिर्बोधिनीरूपमित्यर्थः। नादस्तयोः समवायः सम्बन्धः क्षोभ्य- क्षोभकरूपस्तेनायं क्रियाशक्तिरूपः एतत्चयोद्धे महानादः पूर्बोपदर्शितः । तदूर्ल्ड च कला प्रोक्ता इति । कला पंक्तिः । प्राञ्जीति तिर्यक् रेखारूप- मानाकारा इत्यर्थः । इयं शक्तिः सध्यादौ आविर्भूता। तदुक्तं पञ्चरात्रे- एवमालोक्य सर्गादौ सच्चिदानन्दरूपिणीम् । समस्ततत्त्वसंघातां सृष्ध्यधिष्ठाटरूपिणीम् । व्यक्तां करोति नित्यां तां प्रकृतिं परमः पुमान् ॥ इति ॥ %3- -- अन्यत्र 14 तल्लक्षणमाह---- -- M . . शिवशक्तिसमायोगादव्यतात् परमेश्वरात् । आद्या भगवती देवी सैव त्रिपुरसुन्दरी। आसोच्छक्तिस्ततो नादो नादाहिन्दुसमुद्भवः ॥ इति ॥ उन्मनी तु तदूझैं चेति । यत्र गत्वा तु मनसो मनस्त्वं नैव विद्यते । उन्मनी सा समाख्याता सर्वतन्त्रेषु गोपिता ॥ इति ॥ ततश्च मनोवृत्तिमहिषयावलम्बनचेष्टाकालीनविषयावलम्बनसामान्याभाव- सम्पादनं तत्त्वमुन्मनीत्वमिति । सा च द्विविधा सहस्राराधारा निर्वाण- कुलारूपा एतत्स्थानस्थिता वर्णावलीरूपा। तथा च कङ्गालमालिनीतन्त्रे- सहस्रारकर्णिकायां चन्द्रमण्डलमध्यगा। सर्वसङ्कल्परहिता कला सप्तदशी भवेत् । उन्मनी नाम तस्या हि भवपाशनिकन्तनी ॥ इति ॥ - -- तथा- उम्मनीञ्च मालावणे स्मरणात् मोक्षदायिनी ॥ इति । मालावर्ण वर्णावलीरूपमित्यर्थः ।।
षट्चक्रनिरूपणम् । .. - उन्मन्यधः समनीमाह भूतशुद्धी- ततो हि व्यापिका शक्तिराजीति यां विदुजनाः । समनौमूईतस्तस्या उन्मनीन्तु तदूर्द्धतः ॥ इति ॥ इदमपि परशक्तोरवान्तररूपम् । ततश्चाज्ञाचक्रोङ्के हितीयविन्दुः शिव- स्वरूपः। तदूळे अर्द्धमानाकारा बोधिनीशक्तिस्तदूढे शिवशक्तिसमवायरूपाऽर्द्ध- चन्द्राकतिर्नादस्तदूझैं लाङ्गलाकृतिमहानादस्तदूढ्ढे आञ्जीरूपा व्यापिका- शक्तिः तदूर्द्व समनौ तदूर्द्ध उन्मनौति क्रमेण सप्तकारणरूपाणि वर्तन्ते । अलमतिविस्तरेण प्रकृतमनुसरामः । सहस्रदलपद्मं निरूपयन्नाह तदूई इति दशभिः । तदूळे प्रागुपदर्शितसर्वेषामूढ़े पूर्वोपदर्शितशङ्गिनौनाड्याः शिखरे मस्तके शून्यदेशे नायनावतस्थाने तेन सुषुम्नाया अपि जड़े इति सूचितम् । विसर्गस्याधः दशशतदलं सहस्रदलं पद्मं निवसति इत्यन्वयः । विमर्गन्तु ब्रह्मरन्धस्योउँभागे- तस्मिन् रन्ध्र विसर्गच नित्यानन्दं निरञ्जनम् ॥ इत्यादि वक्ष्यमाणवचनात् । पद्मं विशेषयति पूर्णचन्द्रेत्यादि । ल-काराद्यैर्वणः प्रविलसितवपुरिति । अत्र ल-कारग्रहणं न विलोमेन वर्णचिन्तनाथ किन्तु ल-कारग्रहणं क्ष-कार- परित्यागार्थम् । तत्त्यागवीजं हि वर्णानां सहस्रदले स्थितिरावर्त्तनेणैव एवञ्च क्ष-कारसहितकपञ्चाशवर्णानां विशल्यावर्त्तने विंशत्यधिक- सहस्रसंख्या भवन्ति । जनविंशत्यावर्त्तने तु एकत्रिंशन्यूनसहस्रसंख्या भवन्ति । अतः क्ष-कारपरित्यागेन तत् समाधीयते । तेन अ-कारांदिल-का- रान्तपञ्चाशहर्णा अनुलोमेन विंशत्यावर्त्तनेन सहस्रदले चिन्तनीया इति ध्येयम् । अनुलोमेन वर्णचिन्तनं व्यक्तमाह कङ्गालमालिनीतन्त्रे- सहस्रारं महापद्मं शुलवर्णमधोमुखम् । अ-कारादि क्ष-कारान्तः स्फुरहर्णेविराजितम् ॥ इति ॥ अत्र क्ष-कारान्तरित्यत्रान्तशब्दस्यावसानार्थकत्वात् क्ष-कारोऽन्तेऽवसाने यस्येति बहुव्रीहिणा क्ष-कारं विहाय ल-कारान्तपञ्चाशवर्णयोगः । अथवा ल कारा- - घटते । ।
षट्चक्रनिरूपणम् । समास्तै तस्यान्तः शशपरिरहितः शुद्धसम्पूर्णचन्द्रः स्फुरज्जयोत्स्नाजालः परमरसचयस्निग्धसन्तानहासी। त्रिकोणं तस्यान्तः स्फुरति च सततं विद्युदाकाररूपं तदन्तःशून्यं तत् सकलसुरगणैः सेवितं चातिगुप्तम् ॥४१॥ शुलत्वेनैव बैरिति लकार-क्षकारान्तपञ्चाशवर्णानामकथादिविरेखावद्दामावर्तेन यथा- योग्यावर्तनेन विन्यासः । कङ्कालमालिनीवचनन्तु दक्षिणावर्तेन वर्णविन्यास- विधायकम् इति वचनदयोरविरोधः । अत्र पञ्चाशदर्णानां रूपविशेषा- नभिधानात्तवर्णमय्या माटकाया: शुक्लवर्णत्वदर्शनात्तेऽप्यन चिन्तनीया इति ध्येयम् । ललाटाद्यैर्वणैरिति पाठे तु ललाटशब्देन मालका- न्यासोक्तललाटवर्ण: अकारस्तदाद्यैर्वणरित्यर्थः । एतत्पक्षे लकारं विहाय अकारादिक्षकारान्तं पञ्चाशवर्ण योगो बोध्यः । सर्वत्र पञ्चाशवर्णग्रहणे अन्त्यलकारत्यागदर्शनात् । अत्र केचित् प्रविलसिततनुरिति पठन्ति । तत्र “वा पुंसि पद्मम्” इति दर्शनात् पुंसि विशिष्टस्य पद्ममित्यस्य विशेषणतया तनुरित्यस्यापि पुंस्त्व- मिति व्याख्यायन्ति च । तन्न एतत्श्लोकस्थनिवसतिक्रियायाः कर्तृत्वेन पद्ममिति विन्दन्त निर्देशात् लोवलिङ्गप्रयोग एव प्रतीयते न तु पुंलिङ्गप्रयोग- स्तथाले विसर्गान्तो भवितुमर्हति अतस्तविशेषणस्य तनुशब्दस्य लीवत्वमवश्यं वाच्यं तथात्वे विन्दन्तता न भवति निबिन्दुत्वे छन्दःपातस्तस्मादपुरित्येव पाठः । स्पष्टमन्यत् ॥ ४० ॥ सहस्रदलकमलकर्णिकायां चन्द्रमण्डलस्थितिमाह समास्ते इति। । MARA -- (४१) समास्ते इति । तस्य पद्मस्थान्तर्मध्ये शशरहितः अत्यर्थदीप्तिमान् सम्पूर्णचन्द्रः समास्ते। कीदृशः ? स्फु रंन्ति ज्योत्स्नाजालानि यस्य स तथा । परमरसचयेन शिवसम्बन्धाय षट्चक्रनिरूपणम् । pur तस्यान्तः तत्र पद्मे अन्तमध्ये शुद्धः निम्मलोदयविशिष्टः। चन्द्र विशेषयति स्फुरदित्यादि परमरसचयस्निग्धसन्तानहासौ इति । स्निग्धः आईसदृश- भावस्तस्य सन्तानो विस्तारो यत्र इत्यर्थः । ततश्च परमामृतरसंचयेन उत्ताप- हीनतया स्निग्धसन्तानयुत्तो हासवदानन्दमयकिरणविशिष्ट इत्यर्थः। अथ चन्द्रमण्डलस्याध अड़े अन्तरात्मादीनां स्थितिमाह कङ्कालमालिनीतन्वे सहस्त्रारमुपक्रम्य- तत्कणिकायां देवेशि अन्तरात्मा ततो गुरुः । सूर्यस्य मण्डलञ्चैव चन्द्रमण्डलमेव च ॥ ततो वायुम्भहानामा ब्रह्मरन्ध्र ततः स्मृतम् । तस्मिन् रन्ध्र विसर्गच नित्यानन्दं निरञ्जनम् । तदूच शलिनी देवी सृष्टिस्थित्यन्तकारिणी ॥ इति ॥ तत्रान्तः चन्द्रमण्डलमध्ये सततं निरन्तरं विद्युदाकाररूपं त्रिकोणं स्फुरतीति । तदन्तःशून्य मिति । अन्तममध्ये शून्यं यस्य तदन्तःशून्यं परं विन्दुशरीरं तस्मिन् त्रिकोणे अन्तःशून्यं तदन्तःशून्यं त्रिकोणमध्यवर्ति परंविन्दुरूपं शून्यं स्फरतीति क्रियान्वयः । यहा तदन्तस्त्रिकोणमध्ये यहा तदन्तस्त्रिकोणमध्ये शून्ये परं विन्दुरूपं स्फुरति । अतएवोक्तं तोड़लतन्त्र षष्ठोल्लासे- निराकारं परं ज्योतिविन्दुञ्चाव्ययसंज्ञकम् । विन्दुशब्देन शून्यं स्यात् तथा च गुणसूचकम् ॥ इति । "आहारनिहारविहारयोगाः सुसंवताः धर्मविदा तु काया” इति वचनात् योगस्य गोपनेनानुष्ठानविधानात् तदन्तःशून्यमतिगुप्तं यथा स्यात्तथा सकलसुरगणैः सेवितम् आराधितमित्यर्थः ॥ ४१ ॥ . १ স্বর . परमामृतसमूहेन अत्यर्थस्निग्धहासो दीप्तिर्यस्य तस्य चन्द्रस्य मध्ये त्रिकोणं सर्वदैव स्फुरति विद्युदाकार इव रूपं यस त्रिकोणान्तमध्ये तत् शून्याकारं विलसति। सकलसुरगणैः सेवितम् । शून्य त्वादतिगृह्यम् ।
६२ षट्चक्रनिरूपणम् । --- । सुगुप्तं तद्यन्नादतिशयपरमामोदसन्तानराशेः परं कन्दं सूक्ष्मं सकलशशिकलाशुद्धरूपप्रकाशम् । । इह स्थाने देवः परमशिवसमाख्यानसिद्धः प्रसिद्धः स्वरूपी सर्वात्मा रसविरसमितो ज्ञानमोहान्धहंसः ॥४२॥ . . -- ॥ कला 1. सुगुप्तमिति। अस्यायमर्थः वक्ष्यमाणकेशाग्रकोटिभागकरूपत्वादतिगुप्त तत् शून्यं यत्नात् चिरनिरन्तरध्यानाद्यनुष्ठानात् सकलशशिकलाशुद्धरूप- प्रकाशं कला निवाणकला तया सह वर्तमाना या शशिनश्चन्द्रस्य षोड़शी तया निम्मलरूपप्रकाशो यस्य तदित्यर्थः । तथा चातिसूक्ष्म- मपि त्रिकोणान्तर्वर्त्यमाकलानिर्वाणकलासहितपरविन्दुरूपान्त:शून्यं ध्यानेन प्रकाशितं भवतीति भावः । परमामोदसन्तानराशेर्मोक्षस्य परं कन्दं प्रधान- मूलमित्यर्थः । सुगुप्तमित्यत्र सुगोप्यमिति पांठे यत्नादित्यस्य उभयत्रान्वय इति ध्येयम् । केचित्तु त्रिकोणान्तःशून्यं शून्यस्थानं तत्तु कीदृशम् ? सकलशशि- कलाशुद्धरूपप्रकाशम् । : शशिनश्चन्द्रस्य सकलकलाः समस्तकला: षोड़श- कलाः तत् शुद्धं शुलं यद्रूपं तदेव प्रकाशो यस्य तादृशपूर्णचन्द्रप्रकाशमित्यर्थः इति व्याख्यायन्ति तच्चिन्त्यम् । तत्रिकोणस्य · पूर्णचन्द्रमण्डलमध्यवर्तित्व- कथनेनैव त्रिकोणमध्यस्थानस्य पूर्णचन्द्रतुल्यप्रकाशप्राप्तौ पुनस्तत्कथनं व्यर्थ स्यात् । किञ्च सकलसुरगणैः सेवितमित्यनेन शून्यस्थानस्य सेवनं न युज्यते किन्तु त्रिकोणान्तबिन्दोरेव सेव्यत्वमिति । यदि तु तत् शून्यस्थानस्य परं विन्दोरधिष्ठानात् सेव्यत्वमित्युच्यते तदा तु तत्शून्यस्थानस्य परं विन्दोरधि- (४२) सुगुप्तमिति। सुगोप्यं तत् शून्याकारशिवलिङ्गं यत्नात् गोप्यं गोपनीयं कस्मैचित् यावत्तावन्न कथनीयम् । कीदृशम् ? अतिशयपरमामोदसन्तानजनकामृतराशेः प्रकृष्ट मूलं तस्मादेव परमामृतं क्षरति । सूक्ष्मम् अलच्यं शशिनः सकल कलै वांशरूपं प्रकाशो यस्य । इह स्थान एव परमशिवत्वेन सिद्धः सबैर्विदितः प्रसिद्धः योगिनां हृदये प्रकाशनवरूपी शून्याकारः सर्वेषाम आत्मा रसविरसमितः परमरसेनाच्छादितः अज्ञानेन यो मोहान्धकारः तलमा सूर्यसदृशः .
. षट्चक्रनिरूपणम् । सुधाधारासारं निरवधि विमुञ्चन्नतितरां यतः खात्मज्ञानं दिशति भगवान् निर्मालमतेः । समास्ते सर्वेशः सकलमुखसन्तानलहरी- परीवाहो हंसः परम इति नाम्ना परिचितः ॥ ४३ ॥ . . mma ।। ठानात् सेव्यत्वमित्युच्यते तदा तत् शून्यस्थानमेव नो भवतीति सुधीभि- र्भाव्यम् । सहस्रदलकर्णिकायां परमशिवस्थितिमाह इह स्थाने इति । इह स्थान कर्णिकायामित्यर्थः । परमशिवसमाख्यानसिद्धः परमशिवनाम्ना ख्यातो देवो वर्तते इति शेषः । देवं विशेषयति स्वरूपौति ब्रह्मरूपी ब्रह्ममयमिति यावत् । सर्वात्मा सर्वेषां जीवानाम् आत्मा जीवात्मस्वरूप: जीवात्मपरमात्मनोवस्तुतो भेदाभावात् य आमा स एव जीवः अतएवोक्त- मध्यात्मरामायणे- जीवात्मा परमात्मा च पयायो नात्र भेदधीः । आचार्यशास्त्रोपदेशादैक्यज्ञानं यदा भवेत् । आत्मनोर्जीवपरयो मूला विद्या तदैव तु ॥ इत्युक्तम् । श्रुतिरपि “तत्त्वमसि” इति वाक्येन तत्त्वंपदयोरेकार्थत्वं दर्श- यति । रसविरसमित इति रसः परमानन्दरस: विरसस्तदैलक्षण्येन शिव- शक्तियोगजन्यसामरस्यानन्दरूपः । तदुभयरसमितः प्राप्त: इत्यर्थः । अथवा रसः प्रथमोपस्थितत्वेन विषयरसस्तस्मिन् विरसा हेयताबुद्धिर्येन रसेन स परमानन्दरसस्तमित इत्यर्थः अज्ञानमोहान्धहंसः. अज्ञानमोहान्धकार- नाशकत्वात् हंसः सूर्यरूप इत्यर्थः ॥ ४२ ॥ सुधाधारासारं निरवधि विमुञ्चन्नतितरामिति । निरवधि निरन्तरम् i . (४३) संधाधारामारमिति । स भगवान् शिवः निम्मलमतेर्योगिनो जनस्य आत्मविषयस्य परमात्मनि जानं दिशति । कीदृशम् ? सुधाधारासारम् अमृतधाराया श्रासारमिव । यहा षट्चक्रनिरूपणम् । यथा स्यात्तथा . अतितरामतिशयं सुधाधारारूपसारं वस्तु विमुञ्च- वित्यर्थः । अथवा सुधाया आधारश्चन्द्रस्तस्मादानियते नि:स्रियते यत् तत् सुधा. धारासारं शुक्लवर्णामृतकिरणं विमुञ्चन् प्रकाशयनित्यर्थः। एतविशेषणेन विशेष्यस्य चन्द्रवत् शुक्लवर्णवं सूचितम् । यहा आसार्यते नि:सार्यते उच्चार्यते इति यावत् तद्दाक्यं सुधाधारया सह आसारं सुधाधारासारं सुधामयवाक्यमित्यर्थः । ततश्च निरवधि सर्वस्मिन् काले अतितरां मोहनाशायातिप्रवलतरां सुधामयवाक्यं विमुञ्चन् उच्चरन् सन् यतेरुपास्यदेवतायां नियतमनसः स्वात्मज्ञानं स्वञ्जीवात्मा तेन सह आत्मा परमात्मा ज्ञायतेऽनेनेति । अनापृथक्साहित्येन जीवात्माभेदेन परमात्मज्ञान- कारणं तारकब्रह्ममन्त्रम् उपदिशतीति समुदायार्थः । अथवा सुधा कृपामृतं तद्धारया युक्तं सारं ब्रह्ममन्त्रात्मकसारवाक्यमुच्चरन् खात्मज्ञानं दिशतीत्यर्थः। एतद्दिशेषणेन तारकमन्त्रोपदेशकत्वज्ञापनात्तु विशेष्यगुरुत्वं सूचितम् । एवञ्चैतविशेषणं पूर्वश्लोकोतपरमशिवस्यैव गुरुत्वात्। अतएव ललितारहस्ये गुरुतत्त्वनिरूपणे- ख्यातोऽयं पुरुषश्रेष्ठः सर्वदात्मरतिप्रिय । इत्यादिना गुरुं वर्णयित्वा सेजोरूपा प्रिया तस्य ब्रह्मवमसुदुलभा । परमं ब्रह्म यत्पादपङ्कजद्युतिवैभवम् ॥ इत्युक्त्या शोभाधिक्येन पदपकजयोः परब्रह्मरूपपरमशिवस्य हृत्पद्मादिति व्याख्यातम् । तेजोरूपगुरुप्रियायाः पादद्दयारोहणं गुरुहृदय एव न वन्य- पुरुषस्येति । अतो यः परमशिवः स एव गुरुरिति तात्पर्यम् । ! अमृतधारासार निरवधि अतितराम् अत्यर्थ विमुञ्चन् इति भगवतो विशेषणम् एवंभूतः सर्वेश: शिवः सर्वेषां सुखसमूहलहरीवहिर्भूतः सन् समास्ते । कीदृशः ? नाम्ना परमहंस इति परिचितः। .
षट्चक्रनिरूपणम् । निवाणतन्त्रेऽपि- शिरःपझे महादेवस्तथैव परमो गुरुः । तत्समो नास्ति देवेशि पूज्यो हि भुवनत्रये । तदंशं चिन्तयेद्देवि वाह्य गुरुचतुष्टयम् ॥ इति ॥ अयं परमशिवः कर्णिकान्तस्त्रिकोणस्य वहिरधः कथ्यमानहंसः इत्य- स्योपरि वर्तते । पूर्बोतककालमालिनीतन्त्रवचने- तत्कणिकायां देवेशि अन्तरात्मा ततो गुरुः । सूर्यस्य मण्डलं तत्र चन्द्रमण्डलमेव च ॥ इत्यादिना क्रमेण महाशजिनीशक्तिपर्यन्तस्थितिमभिधाय तस्याधस्ताच्च देवेशि चन्द्रमण्डलमध्यगम् । त्रिकोणं तत्र सञ्चिन्त्य क्षयहीनामिका कला । तन्मध्ये कुटिला निवाणाख्यसप्तदशी कला ॥ इति वचनेन चन्द्रमण्डलान्तस्त्रिकोणऽमाकलादीनामेव स्थितेस्तत्वात् । गुरोस्तु तदधोऽन्तरात्मन उपरि स्थितिरुवाच । ननु कङ्गालमालिनीवचने- ऽन्तरात्मन उपरि गुरोः स्थितिरुता तत्कथं हंसस्य अड़े गुरोः स्थितिरुच्यते इति चेन्न हंसान्तरात्मनोरेकार्थत्वात् । तथा हि कालमालिनीतन्वे गुरुध्यानं यथा- सहस्रदलमध्यस्थमन्तरात्मानमुत्तमम् । तस्योपरि नादविन्दोम्मध्ये सिंहासनोज्ज्वलम् ॥ तस्मिन् निजगुरुं नित्यमित्यादि । तथाऽन्यत्र- हंसपीठे मन्त्रमये स्वगुरुं शिवरूपिणम् । अमुकानन्दनाथान्तं स्मरेत्तत्रामपूर्वकम् ॥ इति ॥ तथाऽबदाकल्पे- शिरः पद्मे शुक्ल दशशतदले केशरगते पतत्रीणां तत्पे परमशिवरूपं निजगुरुम् ॥ इति ॥ 2 षट्चक्रनिरूपणम् । । - .. एतेषां वचनानां पयालोचनया हंसान्तरात्मनोरभेदः प्रतीयते । एवं परम शिवरूपं निजगुरुमित्यनेन परमशिव एव गुरुरिति भाव्यम् । यत्तु सहस्त्रदलमुपक्रम्य- तन्मध्ये तु त्रिकोणं स्याद्विद्युदाकाररूपकम् । विन्दुहयञ्च तन्मध्ये विसर्गरूपमव्ययम् । तन्मध्ये शून्यदेशे तु शिव: परमसंज्ञकः ॥ इति वचनं परमशिवस्य त्रिकोणमध्ये स्थितिबोधकम् तन्मतभेदेन सहस्र- दलकमलाभिन्नतत्कर्णिकाधोवर्जूई मुखहादशदलकर्णिकान्तस्त्रिकोणे गुरु- स्थितिबोधकम् एतत्पादुकापञ्चकस्तोत्रे स्पष्टीकृतम्। न तूईसहस्रदलक सदलकर्णिका- त्रिकोण गुरुस्थितिबोधकम् । मध्यत्रिकोणस्याधस्तनत्रिकोणान्तरे तद्रूपेण स्थितः। अन्यथा कङ्कालमालिनीतन्त्रवचनविरोधात् । समास्ते सर्वेश इति । अत्र कणिकायां सर्वेषामौखरः समास्ते इत्यर्थः । नन्वत्र परमशिवस्थितिकथनेनैव ईश्वरस्थितिरुत्ता तत्कथं पुन: सर्वेश- स्थितिरुच्यते इत्यतः सर्वेशं विशेषयति हंस इति । अयं सर्वेशो हंसः हंस इत्यानुपूर्विकमन्त्राकारः। तदुक्तं प्रपञ्चसारे- सा तत्त्वसंज्ञा चिन्मात्रा ज्योतिषः सन्निधेस्ततः । विचिकीर्षुर्घणीभूय क्वचिदभ्येति विन्दुताम् ॥ कालेन भिद्यमानस्तु स विन्दुर्भवति विधा। विन्दुईक्षिणभागश्च वामभागो विसर्गकः ॥ तेन दक्षिणवामाख्यौ भागौ पुं-स्त्रीविशेषितौ । हङ्कारो विन्दुरित्युक्तो विसर्गः स इति स्मृतः ॥ विन्दुः पुरुष इत्युक्ती विसर्गः प्रतिः पुं-प्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥ इति ॥ सुव्यक्तमाह महाकालीतन्वे प्रथमपटले- सहस्रारान्तरे शून्ये दिव्यतोरणशोभिते । चन्द्रमण्डलमध्ये तु हंसवर्णहयोपरि। स्मृतः।
षट्चक्रनिरूपणम् । शिवस्थानं शैवाः परमपुरुषं वैष्णवगणा लपन्तीति प्रायो हरिहरपदं कचिदपरे । परं देव्या देवीचरणयुगलाम्भोजरसिका मुनीन्द्रा अप्यन्ये प्रकृतिपुरुषस्थानममलम् ॥४४॥ - शुद्धस्फटिकसङ्काशं शुद्धनौमविराजितम् ॥ इत्यादि ॥ हंसवर्णद्वयोपरीति सुव्यक्तम् । अथवा हंसः परम. इति नाम्ना हंस इति नाम्ना परम इति नाम्ना च परिचितो विख्यात इत्यर्थः । ग्रन्थकारण जनपञ्चाशच्छोके केचिइंसाख्यमेतदित्यनेन हंसनामकलं [। यहा हंसोऽन्ते यस्य स हंसोऽन्त: हंसोऽन्तश्चासौ परमश्चति कम्म- शाकपार्थिवादित्वात् मध्यपदलोपे हंसःपरम इति सिद्धम् । तेन इति नाम्ना परिचित इत्यर्थः । अतएवोक्तम् आगमकल्पद्रुमे असौ परमहंसाख्यो युक्तस्थावरजङ्गमः ॥ इति ॥ लसुखसन्तानलहरीपरीवाह इति । सर्वप्रकारसुखं सकलमुखं तस्य विस्तारः स एव लहरी श्रेणी परि सर्वतोभावेनोद्यते उत्तरोत्तर- येत्वेन प्रकाश्यते यस्मिन् इत्यर्थः । ततश्च श्रेयाकारण सर्व- वप्रकारसुखविशिष्ट इति यावत् । अयं हंसः परमशिवस्याधोवर्तीत्युक्तं १३ ॥ त् कर्णिकायां सर्वदेवतामयहंसादीनामधिष्ठानात् शैवशाक्तादि- सिकानामुपास्यदेवतास्थानमित्याह । शिवस्थानमिति । शैवाः शिवो- - शिवस्थानं इति । एतत् परमशिवस्थानं शैवा जनाः शिवस्थानमिति लपन्ति । मपुरुषं परा प्रकृष्टा मा लक्ष्मीर्यस्य एबम्भूतपुरुषं वदन्ति । अपरे केचित् प्रायो हरि- । लपन्ति | अन्ये देवीचरणयुगलानन्दरसिका देव्याः पदं लपन्ति । वस्तुतस्तु भावनाया एको निरञ्जन एवं निर्वाच्यः अतएव "जुकुटिल नानापथजुषां ऋणा- 'इति पुष्पदन्तोतं साधु संगच्छते॥
kur षट्चक्रनिरूपणम् । इदं स्थानं ज्ञात्वा नियतनिजचित्तो नरवरो न भूयात् संसार पुनरपि न बदस्त्रिभुवने । समग्रा शक्तिः स्यानियममनसस्तस्य कृतिनः सदा कत्तुं हत्तुं खगतिरपि वाणी सुविमला ॥ ४५ ॥ इत्युक्तम् । पासका एतत्पद्मं शिवस्थानं लपन्ति वदन्तीत्यर्थः। परमपुरुष परमपुरुषस्य विष्णोः स्थानं इदमर्थतद्वितप्रत्ययेन सिद्धम् । केचिंदिति ये हरिहरोपा- संकास्ते शैवा वैष्णवाश्च ते केचित् अपरे केवलशिवविष्णपासकेतरा हरिहरपदं लपन्ति । अतः सर्वे शैवा वैष्णवाः केवल शिवस्थानं केवल विष्णस्थानं न वदन्ति इत्यभिप्रायेण अन्ये युगलभजनशीला: यहा अन्ये हंसमन्त्रोपासका- मुनीन्द्राः प्रकतिपुरुषस्थानं हंसस्य प्रकृतिपुरुषोभयरूपत्वात् तदधिष्ठितस्थानं लपन्तीत्यर्थः । एतप्रदर्शनमात्रं तत्स्थाने सर्वदेवतामयपरंविन्दोरधिष्ठानात् यो यद्देवतोपासकः स तद्देवतास्थानं वदतीति बोध्यम् ॥ ४४ ॥ सहस्रारज्ञानफलमाह इदं स्थानमिति । साङ्गोपाङ्गरूपेणैतत्स्थानज्ञानं भवतीति भावः । नियतनिजचित्त इति नियतं तत्र नियुक्त निजचित्तं येन इत्यर्थः । न भूयात् संसारे मुक्तो भवतीति भावः यतः क्वचिदपि न बद्धस्त्रि- भुवने इति हेतुगर्भविशेषणम् । बदः पुण्यपापरूपमायापाशबद्धः । तदुक्तं भागवते- कम्मणि क्रियमाणे तु गुणैरात्मनि मन्यते । तदस्य संसृतिबन्धः पारतन्त्राञ्च तत् स्मृतम् ॥ इति ॥ भगवहीतायामपि- स्वभावजन कौन्तेय निरुद्धः स्खेन कम्मणा ॥ इति ॥ (४५), रहस्थानमिति । इह एवं शास्खे एतत्स्थानं ज्ञात्वानियतं संयतं निज़चित्तं येन सः परमात्मचिन्तापरो नरवरः संसारे न भूयात् कचिदपि त्रिभुवने बंदो न भवति। संयतमनस- तस्य षट्चक्रनिरूपणम् । ततश्च पुण्यपापभोगाथै शरीरधारणात् बन्धः। स च स्वर्गे पुण्यभोगाथें पाताले पापभोगार्थ मत्ये उभयभोगार्थ भवतीति । तत्त्वज्ञानिनान्तु बन्ध- हेतुभूतपुण्यपापानुदयात् सञ्चितपुण्यपापक्षयाच क्वचिदपि कस्मिन् कालेऽपि त्रिभुवने स्वर्गम_पाताले न बद्धः न शरीरी भवति। सोऽयं प्रारब्धकम्म- भोगपर्यन्तं जीवन्मुक्तः सन् तिष्ठति देहान्ते मुक्तो भवतीति भावः । पुण्यपापानुदयमाह कुलार्णव- अखमेधशतनापि ब्रह्महत्याशतेन च । पुण्यपापन लिप्यन्ते येषां ब्रह्म हृदि स्थितम् ॥ इति ॥ तथा भगवगीतायाम्- नैव तस्य कृते नार्थो नाकते नेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ इति ॥ तस्य प्रक्रान्ततत्त्वज्ञानिनः कृतेन कम्मणा पुण्यं नास्ति न चाहतेन नित्य- कर्मणा कश्चन प्रत्यवायोऽस्तीति सुबोधिनीव्याख्यानम् । सञ्चितपुण्यपापक्षयमाह श्रुतिः- तस्मिन् मनसि लौने गते सङ्कल्पविकल्ये दग्धे पुण्यपापे सदाशिवः शक्त्यात्मा शान्त इति । भगवहीतायामपि ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ इति ॥ तस्य समग्रा सर्वकार्यसाधिका शक्तिः स्यात् । शक्तिकार्य दर्शयति सदा कर्तुमिति अभीष्ट कार्य कत्तु तथा हर्तुम् अनिष्टं का संहत्तुं च शक्तिः खगतिराकाशपथगमनं सुविमला मधुरगद्यपद्यमयी वाणी स्यादिति सर्वत्रान्वयः ॥ ४५ ॥ 'स्तस्य कतिनः समस्ता शक्तिः स्यात् । तदेवाह सदैव कक्षुहर्तुं सक्षमो भवति । खगतिराकाश- गतिरपि भवति। अपि वाणी सर्वान्लादिनी सुविमल शक्तिरूपा भवतीतिः ।
षट्चक्रनिरूपणम् । अत्रास्ते शिशुसूर्य्यसोदरकला चन्द्रस्य सा षोडशी शुद्धा नीरजसूक्ष्मतन्तुशतधाभागैकरूपा परा। विद्युत्कोटिसमानकोमलतनूविद्योतिताऽधीमुखी पूर्णानन्दपरम्परातिविगलत्पीयूषधाराधरा ॥ ४६ ॥ अथात्र पूर्व तदन्तःशून्यन्तदित्यनेन संकलशशिकलाशुद्धरूपप्रकाश- मित्यनेन च सहस्रारकर्णिकान्तस्त्रिकोणे अमाकलानिर्वाणकलापरंविन्दू- नामधिष्ठानं छलेनाभिहितम् । इदानों तेषां खरूपेण इतरभेदकविशेषणेन च स्पष्टयितुमिच्छन्नादावमाकलास्वरूपमाह अनास्ते इति। शिशुसूर्य- सोदरमित्यनेन कलाया रक्तवर्णत्वं ज्ञापितम्। चन्द्रस्य या षोड़शीत्यनेनेय- ममा कलेति ज्ञापितम्। नौरजतन्तुर्मृणालसूत्रं तस्य शतभागो दीर्घकाले- नेति बोध्यम् । शुद्धा कलङ्करहिता पस चिच्छक्तिरूपा चिच्छतेरेवेदं रूपम् । अतएवोक्तं प्रभासखण्डे संस्थिता परमा माया देहिनां देहधारिणी ॥ इति अमाविशेषणम् । नित्यानन्दपरम्परति ब्रह्मपरम्परोत्पन्ना इत्यर्थः । अतिविगलत् पीयूषधाराधरा अतिशयामृतस्राविणीत्यर्थः । यहा नित्या- नन्दपरम्परातिविगलत्पीयूषधाराधरेत्येकविशेषणम् । अस्यार्थः परं विन्दु- रूपं शिवः परा प्रकृतिः शक्तिः आनन्देन समरसानन्देन परम्पराभ्यां शिव- शक्तिभ्यामतिविगलन्ती या पौयषधारा परामृतधारा नित्यं निरन्तरं तादृशधारामिव धारां धारयतीत्यर्थः । स्पष्टमन्यत् ॥ ४६ ॥ ॥ मृणाल- (४६) अवास्ते इति । अत्रैव पद्म चन्द्रस्य सा प्रसिवा अमानाम्नी षोड़शी कला आस्ते कीदृशी ? प्रातःकालीनसूर्यदेव कला दीप्तिर्यस्याः सा तथा। शुद्धा निर्विकारत्वात् । तन्तोः सूक्ष्मशतभागस्येव एकरूपं यस्याः परा प्रष्टा अथवा पश्यन्तीमध्यमावैखरीसमष्टिरूपा। पुनः कीदृशी ? विद्युद्दामसमानकोमला तनुर्यस्याः । नित्योदिता क्षयोदयरहितत्वात् । अधोमुखी -पूर्णानन्दपरम्परा अति प्रकाशमाना या पीयूषधारा तदाश्रया परम्पराक्रमेण शिवसम्बन्धि- पीयूषधाराधरेत्यर्थः ॥ [ एतन्मते "नित्योदिता" इति पाठः] ।
षट्चक्रनिरूपणम् । सा निर्वाणाख्यकला परा परतरा सास्ते तदन्तर्गता केशाग्रस्य सहस्रधा विभजितस्यैकांशरूपा सती । भूतानामधिदैवतं भगवती नित्यप्रबोधोदया चन्द्राहाङ्गसमानभङ्गुरवती साकंतुल्यप्रभा ॥ ४७ ॥ एतस्या मध्यदेश विलसति परमापूर्वनिर्वाणशक्तिः कोट्यादित्यप्रकाशा त्रिभुवनजननी कोटिभागैकरूपा। केशायस्यातिसूच्या निरवधि विगलयमधाराधरा सा सर्वेषां जीवभूता मुनिमनसि मुदा तत्त्वबोधं वहन्ती ॥४८॥ निर्वाण कलास्वरूपमाह निर्वाणाख्यकलेति । सा परा परतरा परमा कला अस्या अपि परतरा श्रेष्ठा । परादिति पाठे सर्वश्रेष्ठा इत्यर्थः । तदन्तर्गता अमाकलायाः कोड़े स्थिता । "तन्मध्ये कुटिला निर्वाणाख्य- सप्तदशी कला" इति पूर्वोक्तवचनात् । केशाग्रस्येत्यादि केशाग्रस्य सहस्र- भागेकभागरूपसूक्ष्मा सती आस्ते इत्यन्वयः । भूतानां सर्वप्राणिनामधिदैवतं हाईचैतन्यस्वरूपा इत्यर्थः । नित्यप्रबोधोदया तत्त्वज्ञानसम्पादयित्री । चन्द्रा- हङ्गसमानभङ्गुरवती चन्द्रा ङ्गरूपामाकलावत् कुटिलाकारेत्यर्थः । सर्वार्क- तुल्यप्रभा एकदा द्वादशसूर्योदये यादृक्प्रकाश: तादृशप्रकाशमाना रक्तवर्णा च॥४७॥ परं विन्दुस्वरूपमाह एतस्या इति । एतस्या निर्वाणकलायाः मध्यदेश क्रोड़े अपूर्वा सृष्टेरादावाविर्भूतत्वात् किञ्चिदपि नास्ति पूर्व यस्यास्तादृशौ । (४७) निर्वाणाख्येति । सा निर्वाणनाम्नी कला अमाकलान्तर्गता मती प्रास्ते । कीदृशौ ? परा प्रकृष्टादपि प्रष्टतरा। सहस्त्रप्रकारेण विभजितस्य केशायस्य एकांशरूपा सती शोभना । पुनः कीदृशी ? भूतानामधिदेवतास्वरूपा भगवतीखरूपा च । नित्यः प्रबोधोदयो यस्याः सा तथा । चन्द्रलेखेव भङ्गुरं वक्राकारं वपुर्य स्थाः सा तथा बाद शादित्यप्रभा इत्यर्थः । (४८) एतस्या इति । एतस्याः कलाया मध्यदेशे परमापूर्वनिवाणशक्तिविलसति । कीदृशो ? कोचादित्य इव प्रकायो यसाः । त्रिभुवनजननी सर्वेषां आधारभूतत्वात् । केशाय- 1 परमा षट्चक्रनिरूपणम् । परब्रह्मशक्तिरूपा निवाणशक्तिविलसतीत्यर्थः। निवाणशक्ति विशेषयति कोट्यादित्यप्रकाशति । त्रिभुवनजननी स्वर्गमर्त्यपातालादि- प्रपञ्चसमुदायस्योत्पत्तिस्थानरूपेत्यर्थः । यत: केशाग्रस्य कोटिभागेकभागरूपा अतोऽतिसूक्ष्मा । निरवधिविगलप्रेमधाराधरेति प्रेम आनन्दा भावप्रफुल्लता । सामरस्यानन्दादभावप्रफुल्लताजनिता या परामृतधारा निरवधि निरन्तरं विगलन्तों तादृशधारां धारयतीत्यर्थः। सर्वेषां जीवभूतेति । एतस्य अंश एव जीवः तदुक्तं यथा- ज्वलदग्नेयथा देवि स्फुरन्ति विस्फुलिङ्गकाः । तस्याश्चुयतं परं विन्दुर्यदा भूमौ पतत्यपि । तदैव सहसा देवि संज्ञायुक्तो भवत्यपि ॥-इति ॥ तस्याः शिवशक्त्यात्मकपरं विन्दन्तर्गतशक्त्या; संज्ञायुक्तो जीवनामा भवती- त्यर्थः । स्पष्टमन्यत् । इयं निर्वाणशक्तिः निर्वाणकलाध:स्थाने नादरूप- निबोधिकोपरि वर्त्तते । तद् यथा - निर्बाणाभ्यन्तरगता वह्निरूपा निबोधिका। नादाव्यक्ता तदुपरि कोट्यादित्यसमप्रभा । निवाणशक्तिः परमा सर्वेषां योनिरूपिणी ॥ तस्यां शक्ती शिवं ज्ञेयं निर्विकारं निरञ्जनम् । अत्रैव कुण्डली शक्तिविहरेत् परमात्मना ॥ इति ॥ निबोधिकाऽव्यक्तनादामिका वह्निरूया। तथा हि नादस्य त्रिविधावस्था "तमोगुणाधिक्येन केवलध्वन्यात्मकोऽव्यक्तनादः । रज आधिक्येन किञ्चिवर्ण- बदन्यासात्मकः । सत्त्वाधिक्येन विन्दुरूप” इति राघवभट्टः । ततश्च नादविन्दु- निबोधिकाः अर्केन्दुङ्गिरूपा: “ते ज्ञानेच्छाक्रियात्मानो वह्नौन्दर्कखरूपिणः” इति सारदावचनात् । तस्मादत्र वह्निरूपनिबोधिकोपरि स्थितिकथनात् - खापि कोटिभागैकभागमा अतिसूक्ष्मत्वात् अतो गुह्या । निरवधि विलसत्प्रेमधारा सा शक्तिः सर्वेषां जीवभूता सतो.सदा हर्षेण मुनिमनसि तत्त्वज्ञानं वहन्तीति ।
७३ षट्चक्रनिरूपणम् । तस्या मध्यान्तराले शिवपदममलं शाश्वतं योगिगम्यं नित्यानन्दाभिधानं सकलमुखमयं शुद्धबोधस्वरूपम् । केचिद्रह्माभिधानं पदमिति सुधियो वैष्णवं तल्लपन्ति केचिईसाख्यमेतत् किमपि सुकृतिनो मोक्षमात्मप्रबोधम् ॥४६॥ सूर्यचन्द्रवह्निमण्डलोपरि निर्वाणशक्त: स्थितिरिति सुधीभिर्भाव्यम् । व्यक्त- माह कुलार्णवोक्त परब्रह्मध्यान- विन्दुरूपं परं ब्रह्म सहस्रदलसंस्थितम् । इत्युपक्रम्य- कर्णिकान्तस्त्रिकोणान्तम्भण्डलत्रयमण्डितम् ॥ इति ॥ मण्डलत्रयेण सूर्यचन्द्रवह्निमण्डलेन मण्डितमित्यर्थः । इयं निर्वाण- शक्तिः परविन्दुरूपति स्फुटौकरिष्याम: ॥ ४८ ॥ निर्वाणशक्तिमध्ये परब्रह्मस्थानमाह तस्या मध्यान्तराले इति । तस्याः परंविन्दुरूपनिर्वाणशक्त्याः मध्यान्तराले मध्यस्थशून्ये अमलं मायामलरहितं शिवपदं ब्रह्मस्थानं लपन्ति तत्त्वज्ञा इति शेषः। योगिगम्यं सूक्ष्मातिसूक्ष्म- तमत्वात् वामनसोरंगोचरत्वाच्च योगिनां ज्ञानमात्रगम्यमिति भावः । - (४६) अस्या इति। अस्याः शक्तमध्यदेशान्तराले निर्मलं शिवपदमास्ते । नित्यानन्द शाश्वतम् अत्यन्तासनत्वात् । योगं प्राप्य अत्यन्तज्ञानसाध्यत्वात् सकलानां सुखमयं अथवा सकलं कलया सह वर्तमानं तत् सुखमयञ्चेति तत् तथा। शुद्धबुद्धीनां प्रबोधो ज्ञानं यस्मात् । एतत् पटं केचित् परब्रह्माभिधानमिति वदन्ति। अन्ये सुधियो वैष्णवं पदं लपन्ति । केचित् सुधियो मोक्षं मोक्षखरूपं हंसाख्यमिति वदन्ति । एतेन ब्रह्मविष्णु शिवशक्तिखरूपं तत्पदमित्यायातं हंसाख्यत्वात् । तथाच ज्ञानाणवे- हकारे विन्दुरूपेण ब्रह्माणं विद्धि पार्वति । सकारे सर्गविन्दुभ्यां हरिश्चाई महेश्वरि । अविनाभावसम्बन्धात् लोके हरिहराविति ॥ १० षट्चक्रनिरूपणम् । केचित् वैदान्तिका ब्रह्माभिधानं ब्रह्मेति नाम्ना लपन्ति अथवा हंसाख्यं हंसनामकमिति यथाश्रुतार्थः। अन्चे सुकृतिनः किमपि अनिर्वचनीयम् आत्मप्रबोधम् आत्मसाक्षात्कारस्थानं लपन्तीत्यर्थः। मोक्षमिति मुच्यते मायाप्रपञ्चाबहिर्भूयते यत्र तन्मोक्षरूपमित्यर्थः । अत्रेदमवधीयताम् । सहस्रदलकर्णिकान्तस्त्रिकोणे मायाबन्धनच्छादितप्रकृतिपुरुषात्मकपरंविन्दुः । तदुक्तम्- सत्यलोके निराकारा महाज्योतिःस्वरूपिणी । माययाच्छादितात्मानं चणकाकाररूपिणी ॥ हस्तपादादिरहिता चन्द्रसूर्याग्निरूपिणी । मायाबन्धनमुत्सृज्य विधा भित्वा यदोन्मुखो। शिवशक्तिविभागेन जायते सृष्टिकल्पना ॥ इति ॥ सत्यलोके सहस्रार इत्यर्थः । तथा निर्गुणो विन्दुरूपश्च सिद्धिकारणमेव हि । केचिद्ददन्ति स ब्रह्मा कैश्चित् विष्णुः प्रकथ्यते ॥ कैश्चित् रुद्रो महापूर्ण एको देवो निरञ्जनः । आद्या शक्तिर्यतो देवश्वणकाकाररूपकः ॥ इति ॥ अस्य विन्दोः केशाग्रकोटिभागकभागरूपसूक्ष्मतेजोऽशो निवाणशक्ति- मध्यशून्यभागो ब्रह्मपदमिति ग्रन्थकारमतम् । तथान्यत्र- तन्मध्ये परविन्दुञ्च सृष्टिस्थितिलयात्मकम् । शून्यरूपं शिवः साक्षात् विन्दुः परमकुण्डली ॥ खरं विना उद्घारितमशकात्वात् शक्तिरपि तल स्फुटा। कोहशम् ? आत्मनः परमात्मनः प्रवोधो यस्मात्तत्तथेति ।
षट्चक्रनिरूपणम् । ७५ तथा- वृत्तः कुण्डलिनीशक्तिर्गुणत्रयसमन्वितः । शून्यभागं महेशानि शिवशक्त्यात्मकं प्रिये ॥ इति ॥ अयं विन्दुः सर्वकारणरूप ईश्वर इति केचित् । पौराणिकास्तु महाविष्णु- रूपोऽयमिति वदन्ति। अन्ये तु ब्रह्मपुरुषोऽयम् । तदाह- नाहो न रात्रिन वियन्न पृथ्वी नासीत्तमो ज्योतिरभून्नवान्यत् । श्रोत्रादिबुद्यानुपलभ्यमिक प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥ इति ॥ निर्गुणः सगुणश्चेति शिवो जेयः सनातनः । निर्गुणः प्रकृतेरन्यः सगुण: सकलः स्मृतः ॥ इति सारदावचनात्तन्मध्येऽयं सगुणब्रह्मरूपः । वस्तुतस्त्वेकमेव मतभेदा- बानाविधनाम्ना गायन्तीत्यलं विस्तरेण ॥ ४० ॥ * ॥ तदयं महावाक्यार्थनिर्णयः। सुषुम्नानायूद्धे सहस्रदलपमं शक्ल- वर्णमधोमुखं रक्तकिझल्कशोभितम् अकारादिलकारान्तपञ्चाशहर्णैः शुक्लाभै- विंशत्यावर्त्तनेन सहस्रसंख्यकैर्युक्त सहस्रदलम् । एतत्कर्णिकायां हंसः ततः परमशिवरूपगुरुः । ततः सूर्यमण्डलं चन्द्रमण्डलं ततो महावायुः । ततो ब्रह्मरन्ध्रम् । ततो महाशङ्खिनी चन्द्रमण्डले विद्युदाकारत्रिकोणम् । तन्मध्ये मृणालसूत्रशतभागैकभागरूपसूक्ष्मा चन्द्रस्य षोड़शी कलाऽधोमुखी रतवर्णा । तत्कोड़े केशाग्रसहस्रभागेकभागरूपसूक्ष्मा निवाणकला रक्तवर्णाऽधोमुखी। तदधस्तात् अव्यक्तनादात्मक निबोधिकाख्यवह्निः। तदुपरि निवाणकला- कोड़े परंविन्दुः शिवशक्त्यात्मकः । अस्य केशाग्रकोटिभागेकभागरूपसूक्ष्म- तेजोहंसरूपा निर्वाणशक्तिः अस्या हंसो जीवः विन्दोम्मध्ये शून्यं ब्रह्मपद- मिति। आगमकल्पद्रुमपञ्चशाखादिमते सहस्रदलपद्मकर्णिकामध्ये चन्द्र- मण्डले अकथादित्रिकोणं तन्मध्ये त्रिकोणसमीपे त्रिविन्दुः तस्याधो विन्दु- षट्चक्रनिरूपणम्। हकारः पुरुषात्मकः। ऊईविन्दुइयरूपविसर्ग: सकार: प्रकृतिरूपः । एत- दुभयात्मको हंसस्त्रिविन्दुरूपेण प्रकाशते । तन्मध्ये अमाकला तत्कोड़े निर्वाण- शक्तिः तस्या मध्यशून्यं परंब्रह्म इति । तयथा- अथ शुभ्रसहस्रार पूर्णेन्दुमध्यविस्फुरत् । त्रिकोणं तडिदाभासमकथादिहलक्षयुक् ॥ तदन्तरे परं शून्यं विसर्गाधो व्यवस्थितम् । बालादित्यप्रभा तत्र कला षोड़श्यधोमुखी ॥ स्रवन्तौ सौधधारां वै चन्द्रार्धाङ्गविभङ्गुरा । तदन्तरे परा शक्तिः कोट्यादित्यप्रभामयौ ॥ विसतन्तुसहस्रांशभागरूपा चिदात्मिका। तदन्तः सच्चिदानन्दो वेदातीतो निरञ्जनः ॥ विन्दुः पुरुष इत्युक्तो विसर्ग: प्रकृतिमतः । पुं-प्रकृत्यात्मको हंसः स्वप्रकाशन भासते ॥ इति ॥ एतन्मतमाश्रित्य परंविन्दोरूड़े हंसघटक विसर्गोपरि गुरुस्थितिरिति वदन्ति । तन्न समीचीनम् । निर्वाणतन्वे परं विन्दुरूपशक्तिसमीपे तस्याः पूजाध्यान- प्ररायणस्य निजगुरोः स्थितिकथनात् । पूजार्थोपवेशनन्तु अधःस्थले सम्मुख एव युज्यते न तूर्द्धस्थले पश्चाद्देशे । तयथा। निर्वाण- सत्यलोके वीजकोषे चिन्तामणिग्राहे शुभे । ध्यायेन्निरञ्जनां देवौं रत्नसिंहासनोपरि। तस्यान्तिके निजगुरुं पूजाध्यानपरायणम् ॥ इत्यादि । किञ्च पूर्वप्रदर्शिते महाकालीतन्ववचने हंसवर्णहयोपरि गुरुस्थितिः सुव्यता। अत्र मूलादिसहस्रदलपर्यन्तोक्तप्रकारविपरीतप्रकारबोधकानि तथा तदतिरिक्तबोधकानि च यानि वचनानि दृश्यन्ते तानि मतभेदेन प्रकारान्तरविधायकानि इति बोध्यम् ॥ इति सप्तमप्रकरणम् ॥. * ॥
षट्चक्रनिरूपणम् । हङ्कारणैव देवी यमनियमसमभ्यासशीलः सुशीलो ज्ञात्वा श्रीनाथवक्त्रात् क्रममिति च महामोक्षवमप्रकाशम् । ब्रह्मद्वारस्य मध्ये विरचयति स तां शुद्धबुद्धिखभावो भित्त्वा तल्लिङ्गरूपं पवनदहनयोराक्रमेणैव गुप्तम् ॥ ५० ॥ अथेदानों सहस्रदलपर्यन्तं चक्रं निरूप्य तत्र कुण्डलिनीयोगं कथयिष्य- नादौ कुण्डलिन्युस्थापनप्रकारमाह हङ्कारेण ति। अस्यायमर्थः । योगित्वेन प्रसिद्धो जन: गुरुवनात् क्रमं ज्ञात्वा येन क्रमेण प्रकारेण हृदाद्या- कुञ्चनादिपवनदहनयोराक्रमणं कुण्डलिन्युत्थापनादिकं भवति तत्प्रकारक्रम श्रीनाथस्य गुरोर्बत्रात् ज्ञात्वा पवनदहनयोराक्रमेण इमिति कूर्चवीजो- चारणेन च कुण्डलिनीमुत्स्थाप्य तल्लिङ्गरूपं भित्त्वा स्वयम्भुलिङ्गच्छिद्रं प्रस्फोट- यित्वा तां देवौं कुण्डलिनौं ब्रह्मद्वारस्य मध्ये चित्रिणीनाडीमुखमध्ये विर- चयति प्रापयतीत्यर्थः । इङ्कारणेति । ततो हंसमुपस्मृत्य शनैराकुञ्चयेत् गुदम् । इत्याद्यागमकल्पद्रुमवचने हंसमन्वस्योच्चारणेन. कुण्डलिनीचालनविधानात् । (५०) हङ्कारेणेति । इदानीं भूतशुद्धिः कथ्यते । तां देवों कुण्डलिनी यमनियमसमभ्यासशील: स जनः श्रीनाथवक्तात् गुरुमुखात् महामोक्षपथप्रकाशं क्रमञ्च ज्ञात्वा हङ्कारेण तत् स्वयम्भूलिङ्गं भित्त्वा ब्रह्महारस्य मध्ये विरचयति । जनः कीदृशः ? शोभनं शीलं यस्य स तथा । शुद्धबेहेंतः प्रभावो यस्य स तथा । नन्वत्र सप्तां तां कीहकप्रकारेणाक्रम्य नयति ? इत्याह पवनदहनयोरिति तयोराक्रमणेन अर्थात् पवनयोगेन दहनस्य अर्द्धगतिस्ततः प्रबुद्धा सर्पाकृतिः सा अर्द्धगतिर्भवत्येव । तथाच- मूलाधारे स्मरेदिव्यं त्रिकोणं तेजसो निधिम् । तस्याग्निरेखामानीय अध अढव्यवस्थिताम् ॥ इत्यूर्धाम्नायवचनात् । प्रज्वलद्भुजगाकारा पद्मतन्तुनिभा राभा। सर्वेषां जननी प्रोक्ता सूर्यकोटिसमप्रभा। प्रबध्य वह्नियोगेन ममसामन्यता हता। सूचीव गुणमादाय व्रजत्यूई सघुम्नया।
- -- षट्चक्रनिरूपणम् । हूं हंस इति मन्त्रः कुण्डलिनीचालने विनियुक्त इति ललितारहस्य कारः । किन्तु हंसस्मरणपूर्वकतदाकुञ्चनविधानात् हंस इति मनुमनुस्मृत्य जीवा- मानं हृदयस्थं दीपकलिकाकारं मूलाधारमानीय तेन साई कुण्डलिनी चालयेदित्यभिप्रायः। अतएवागमकल्पद्रुमे- आरोप्यारोप्य शक्ति कमलजनिलयादात्मना साधकेन्द्रः । इति परवचने आत्मना जीवात्मना सा चालनमुक्तम् । कालीकुलामृतेऽपि- हृदयासमनुना नोवा जीवं मुखाम्बुजे । हङ्कारेण समुत्थाप्य कुण्डली परदेवताम् ॥ इति ॥ कङ्कालमालिनीतन्वे- आकृष्ण प्रणवेणैव जीवात्मानं नगेन्द्रजे। कुण्डलिन्या सह प्राणं गन्धमादाय साधकः । सोऽहन्तु मनुना देवौं स्वाधिष्ठाने प्रवेशयेत् ॥ इति ॥ ततश्च हंसेन प्रणवेन वा हृदयाज्जीवं मूलाधारमानीय केवलकूर्चवौजेन कुण्डलिनीमुत्थापयेत् इति सुधोभिर्भाव्यत् । स जनः कीदृशः ? यमनियमसमभ्यासशीलः यमनियम इति योगप्रति- बन्धककामक्रोधादिनाशकतदनुकूलशरीरान्तर्वायुरेचनमनःस्थैर्थ्यादिसाधकाङ्ग- योगप्रदर्शक तैरेव प्रकृतयोगनिष्पत्तेः न तु केवलयमनियममात्रेण । ग्रन्थकता चतुःपञ्चाशच्छ्लोके 'योगी यमाद्यैर्युत' इत्यत्र यमाद्यैरिति बहुवच- नान्तत्वेन प्रयुक्तम् । अयन्तु यमाद्यभ्यासः कामाद्याकुलितचित्तानामेव । यदि तु जन्मान्तरीयादृष्टवशात् स्वभावतो वा क्रोधकामादिरहितः तदा तद्योगा- भ्यासं विनापि प्रकृतयोगे शतो भवतीति बोध्यम् । अतएव उहाटयेत् ककाटन्तु यथा कुञ्चिकया हठात् । कुण्डलिन्था तथा योगी मोचदार प्रभेदयेत् ॥ इति गोरचसंहितोत्रत्वाच ॥ [ एतन्मते "राजवुद्धिप्रभावः” इति पाठः । ।
षट्चक्रनिरूपणम् । ७६ . ।' স্মথ। ." सुशील इति यतः यमाद्यभ्यासशीलः अतएव सुशील इति। श्रीनाथ- वक्तादिति । गुरूपदेशं विना क्रमज्ञानं न भवतीति भावः । अतएवोक्तम्- गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थकोटिभिः ॥ इति ॥ क्रमं विशेषयति महामोक्षवमप्रकाशमिति। मोक्षवम चित्रिणी- नाडीमध्यच्छिद्ररूपवर्म तस्य प्रकाश: प्रस्फोटनं येन क्रमेणेत्यर्थः । शुद्धबुद्धि- खभाव इति शुद्धबुद्धौ ब्रह्मणि खभावो यस्य अथवा शुद्धबुद्धया स्वस्मिन् आत्मनि भावी यस्येत्यर्थः। सुगुप्तं यथा स्यात्तथेति क्रियाविशेषणम् । तल्लिङ्गरूपं सुगुप्तं मुद्रितमुखत्वेनाव्यक्तम् अप्रकाशितमुखमिति यावत् । अथात्र कुण्डलिन्युत्थापनप्रकारं विशेषेणाह । आगमकल्पद्रुमपञ्चमशाखायाम्- पद्मासने निवेश्याङ्क ततः पाणिवयं न्यसेत् । शनैः सङ्कोच येहुदम् ॥ वायुमुत्तोलयेत्तेन वमना स पुनः पुनः । उत्तोल्य भेदयेच्चकं तस्यानुष्ठानमुच्यते ॥ मूलाधारसरोजे तु त्रिकोणमतिसुन्दरम् । कामो भवति तन्मध्ये बालार्क कोटिसन्निभम् । तदूर्द्ध कुण्डलीशक्ति स्वयम्भूलिसवेष्टिनीम् ॥ तथा- कामाग्निना कूञ्चयोगात् परं हंसाभिलाषिनीम् ॥ इति । तथा भूतशुद्धी- हृदिस्यां कुञ्चिकां कस्वा गत्वा तदुदरे शिवे । कण्ठाद्यं समनुप्राप्य हारं कुञ्चिकया हठात् ॥ उद्दाव्य परमेशानि पवनेन प्रदीपयेत् । हुताशनप्रतप्तां तु तापन भृशमूई ताम् ॥ ततो हंसमुपस्मृत्य ।
षट्चक्रनिरूपणम्। भित्त्वा लिङ्गवयं तत्परमरसशिवे सूक्ष्मधानि प्रदीप सा देवी शुद्धसत्ता तडिदिव विलसत्तन्तुरूपखरूपा । ब्रह्माख्यायाः शिरायाः सकलसरसिज प्राप्य देदीप्यते त- न्मोक्षाख्यानन्दरूपं घटयति सहसा सूक्ष्मतालक्षणेन ॥५१॥ " प्रसुप्तां नागिनों लिङ्गे योनिववे प्रबोधयेत् । ततः प्रचालयेहायुं यावत्राद्यन्तरेषु च ॥ गुरुदृष्टेन मार्गेण स कृत्वा कुम्भकेन वै । आक्रम्यैवं ततो जीवं सुगुप्तेन पथा भृशम् ॥ अझैच्छासैरूर्द्धमुखान् कारयेत् पसजान् शिव । प्रबोधयन् शनैर्भानु मेरुशृङ्ग नयेत् सुधीः ॥ इति ॥ तदयं सकलवचनपालोचनसिद्धः क्रमोऽवधीयताम् । योगी जन: विहितासने उपविश्य स्वाङ्के उत्तानो करौ कृत्वा खेचरीमुद्रया स्थिरचित्तः सन् देहान्तर्वायुमापूर्य कुम्भकं कृत्वा हृदयमाकुञ्चयेत् । तेन अझैच्छासोत्- सरणनिवृत्तिः। ततो देहान्तरस्थवायोरुदरकण्ठादिव्यापकतया नाड़ी- च्छिद्रप्रस्फोटनेनाधोगमनमनुभूय गुदमाकुच्चयापानं संरुध्य वायुमुत्तोल्य मूलाधारकमलकर्णिकान्तस्त्रिकोणस्थकामं वाममावर्तयेत् । तेनोद्दीप्तेन तत्र स्थितेन कामाग्निनोत्तप्तां कुण्डलिनों हङ्कारण चेतयित्वा परमशिव- सामरस्याभिलाषिणों तां स्वयम्भूलिङ्गमुखं स्फोटयित्वा तच्छिद्रेण चित्रिणी- नाड़ीमुखमध्यं प्रापयेदिति समुदितार्थः ॥ ५० ॥ इदानों कुण्डलिनीयोगप्रकारमाह भित्त्वेति । संरुद्धवर्मनि वर्मकरणं भेदः। अस्यार्थः सा देवी कुण्डलिनी तल्लिङ्गवयं स्वयम्भूवाणेतराख्यलिङ्गस्वयं (५१) भित्त्वेति । इदानी तथा गतिप्रकारमाह सा देवी तल्लिङ्गत्रयं खयम्भूवाणेतराख्य- लिङ्गान् भित्त्वा ब्रह्माख्यनाद्याः सकलसरसिजान प्राप्य परमरसशिवे देदीप्यते भृशं दीप्ति कुर्थती सहसा सूक्ष्मतालक्षणेन मोक्षानन्दरसं घटयति च अर्थात् शिवलिङ्गस्य । सा कीदृशी ?
षट्चक्रनिरूपणम् । ८१ - शिवान् भित्त्वा तैलिङ्गैः संरुद्धबर्मनि वम कृत्वा ब्रह्माख्यायाः शिरायाः चित्रिणीनाड़ी- सम्बन्धि तद्ग्रथितमिति यावत् । ग्रथितं तत् सकलसरसिज प्राप्य तत्र देदीप्यते ततः सूक्ष्मतालक्षणेन सूक्ष्मभावस्वरूपेण सूक्ष्मभावनेति यावत् । तेन भावन विलसत्तन्तुरूपवरूपा सती परमरस शिवे परमरसः परमानन्दः तन्मये शिवे सहस्रदलकर्णिकास्थपरंविन्दुरूपशिवसमीप अर्थाइत्वा मोक्षाख्यानन्दरूपम् अर्थात् साधकस्य नित्यानन्दरूपमुक्तिं सहसा घटयतीत्यर्थः। लिङ्गत्रयमिति तत्पूर्वोक्तं षट्चक्रं पञ्चशिवञ्चेति चतुर्दशग्नन्थीन् भित्त्वेति बोध्यम् । तदुक्तं शाक्तानन्दतरङ्गिण्याम्- गच्छन्ती ब्रह्मरन्ध्रण भित्त्वा ग्रन्थोंश्चतुर्दश ॥ इति ॥ सत्र लिङ्गशिवयोर्भेदप्रकारमाह स्वतन्त्रतन्त्रे- षट्चक्रस्थान् भित्त्वा देवी गच्छति निष्कलम् । चक्राधिष्ठानतो रूपं कृत्वा तत्तन्मनोहरम् ॥ मोहयित्वा महेशानमानन्दाप्लुतविग्रहम् । रमित्वा तत्र तत्रैव यावत् प्राप्नोति शाश्वतम् । मोहितः परया यस्मात्तस्माद्भिव उदाहृतः ॥ इति । तथा मायातत्वे- भित्त्वा लिङ्गत्रयं देवी शक्तिमार्गेण गच्छति । तत्तद्रूपेण चक्रेषु निष्कलं प्राप्य निर्वता ॥ इति ॥ तत्तद्रूपेणेति वैखरी मध्यमा पश्यन्तीभावेन तदुक्तम्- प्रथम वैखरीभावी मध्यमा हृदये स्थिता । भूमध्ये पश्यन्तीभावः पराभावस्त हिन्दुनि ॥ अस्यार्थः परा पश्यन्ती मध्यमा वैखरीति चतस्त्रः शब्दोत्पादिकाः शतायः कुण्डलिन्यभेदरूपाः। ततः सहस्रार कुण्डलिनीगमनकाले प्रथमे स्वयम्भ- राजसत्ता चतुर्विंशतितत्त्वसम्बन्धा । पुनः कीदृशी ? विद्युदिव प्रकाशतन्तुरूपमिव खरूपं यथा सा तथा । शिवे किम्भते ? सूक्ष्मधाम्नि सूक्ष्म धाम यस्स। प्रदीप्ते प्रकष्टदीप्तिं कुर्बति । ११ -- ८२ षट्चक्रनिरूपणम् । लिङ्गसमीपे वैखरीभावेन तं मोहयित्वा एवं हृदये वाणलिङ्ग मध्यमाभावेन भूमध्ये इतरलिङ्गं पश्यन्तीभावेन मोहयित्वा परंविन्दुनिकटे पराभाव- माप्नोतीत्यर्थः । चक्रभेदप्रकारमाह- चित्रिणीविवरे रक्तमेदपकसमुद्भवान् । सव्यदक्षपार्खयोश्च नालस्थान् वाहयेच्च तान् ॥ पद्मान्नाडीमध्यवमरोधितान् परमेश्वरि । नालं वामम्बिशेत् पद्मन्तेन भेदः प्रजायते ॥ यथा शिल्पवतों रश्मिवाही लाययति प्रभुः । भेदयित्वा तथा चक्रं षड्जीवेन नयेच्च ताम् ॥ इति ॥ तथा- - षटचक्रसन्धिमार्गेण सुषुम्नावमना तथा । हंसेन मनुना देवीं सहस्रारं समानयेत् ॥ इति ॥ परमरसशिवं विशेषयति। सूक्ष्मधानि सूक्ष्मधानि प्रदीप इति । सूक्ष्मधाम निबाणशक्त्यात्मकपरविन्दोस्तेजो हंसः तन्मध्ये दीप्यमान इत्यर्थः । देवौं विशेषयति । शुद्धसत्त्वेति । सत्त्वातिसत्त्वपरमसत्त्वशुद्धसत्त्वविशुद्ध- सत्त्वेति पञ्चविधं शरीरावच्छिन्नचैतन्यमुत्तरोत्तरप्रकष्टं तत्रेयं शुद्धसत्त्वा तुरीयेति यावत् । केन प्रकारेण मोक्षाख्यानन्दं घटयतीत्याकाङ्क्षायामुच्यते । परविन्दौ तां कुण्डलिनों विलाप्य केषाञ्चित् साधकानां शिवात्मनोरभेदेन तहिन्दुचिन्तनेन केषाञ्चित् तथा शत्यात्मकचिन्तनेन केषाञ्चित् परमपुरुष- मयचिन्तनेन तथा केषाञ्चित् केवलशिवशक्तिसामरस्य चिन्तनेन सा देवी मोक्षं घटयतीति । तदुक्तं मायातन्त्रे- ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः । शिवात्मनोरभेदेन प्रतिपत्तिं पर विदुः ॥ तत्र षट्चक्रनिरूपणम् । शक्त्यात्मकं तथा ज्ञानं जगुरागमवादिनः । पुराणपुरुषस्यान्ये ज्ञानमाहुविशारदाः ॥ शिवशक्त्योः सामरस्यात्मकं प्रकृतिनोऽपरे ॥ इति ॥ ऐक्यं जीवात्मनोरिति समाधिविषयम्। योगमिति युज्यते परमात्मना एकीभूयते अनेनासौ योगः। तं योगमित्यर्थः । समाधिमुक्त्वा ध्याने योग- भेदमाह। शिवात्मनोरित्यादि। सामरस्यात्मकमिति । स्त्रीपुंयोगे तु यत् सौख्यं सामरस्यं प्रकीर्तितम् । तचिन्तनप्रकारमाह वृहच्छ्रीक्रमे- कलां कलङ्करहितां चिदानन्दमुपेयुषीम् । विम्बरूपनिदानञ्च शुद्धस्फटिकसन्निभम् ॥ पराविराजिवामोरुमदालसवपुःस्त्रियम् । नादोपरि महादेवं पश्यन्ति ज्ञानचक्षुषा ॥ इति ॥ कलां कुण्डलिनीम् । चिदानन्दं विन्दुरूपशिवमुपेयुषौं प्राप्तवतीमित्यर्थः । विम्बरूपनिदानं परशिवम् । ma- तथान्यत्र- - शून्यरूपं परशिवं प्रापयित्वा तु कुण्डलीम् । ततः सामरसौभूतां पाययित्वा परामृतम् । पुनस्तेन पथा देवी प्रापयेत् कुलगह्वरम् ॥ इति ॥ यथा- --- साङ्गत्यन्तु तयोः कृत्वा सामरस्यं विभाव्य च । तदुद्भूतरसेनैव तर्पयेहेहदेवताम् ॥ इति ॥ प्रकारान्तरमाह गन्धर्वमालिकायाम् - सहस्रारं शिवपुरं रम्यं दुःखविवर्जितम् । सर्वतोऽलङ्गतैर्दिव्यं नित्यपुष्पफलद्रुमैः ॥ सदाशिवपुरं रम्यं कल्पवृक्षसुशोभितम् । पञ्चभूतात्मकं वृक्षं गुणत्रयसमन्वितम् ॥
८४ षट्चक्रनिरूपणम् । चतुर्वेदचतुःशाखानित्यपुष्यसमन्वितम् । पोतं खेत तथा कृष्णं रक्तपुष्पञ्च पार्वति ॥ हरितञ्च विचित्रञ्च नानापुष्पमनोहरम् । एवं कल्पद्रुमं ध्यात्वा तदधो रत्नवेदिकम् ॥ तत्रोपरि सुपय ङ्क्ष नानावस्त्रोपशोभितम् । मन्दारपुष्पसहितं नानागन्धानुमोदितम् ॥ तत्रोपरि महादेवः सदा तिष्ठति सुन्दरि। ध्यायेत् सदाशिवं देवं शुद्धस्फटिकसन्निभम् ॥ बद्धरत्नसमाकीणं दीर्घबाहुं मनोहरम् । सुखप्रसन्नवदनं स्मेरास्यं सततं प्रिये ॥ श्रवणे कुण्ड लोपंतं रत्नहारेण शोभितम् । गले पद्मसहस्रेण मालया शोभितं वपुः ॥ अष्टबाहुं त्रिनयनं शिवं पद्मदलेक्षणम् । पादयो पुरं रम्यं शब्दब्रह्ममयं वपुः ॥ एवं स्थूलवपुस्तस्य भावयेत् कमलेक्षण । पद्ममध्ये स्थितं देवं निरीह शवरूपवत् । शवरूपो महादेवः कृत्यं नास्ति कदाचन ॥ + M लथा. :- R . R ध्यायेत् कुण्डलिनों देवौं स्वयम्भूलिङ्गवेष्टिनीम् । हंसेन मनुना देवौं सहस्रारं समानयेत् ॥ सदाशिवो महादेवो यत्रास्ते परमेश्वरि। देवौं रूपवतों कामसमुल्लासविहारिणीम् ॥ मुखारविन्दगन्धेन मोदितं परमं शिवम् । प्रबोध्य परमेशानि तत्रैवोपविशेत् प्रिये ॥ शिवस्य मुखपमं हि चुचुम्बे कुण्डली शिवे। सदाशिवेन देवेशि क्षणमात्रं स्मेत् प्रिये ॥ .
षट्चक्र निरूपणम् । ८५ सुधी- नीत्वा तां कुलकुण्डलौं लयवशात् जीवन साई मोक्षे धामनि शुद्धपद्मसदने शैव पर खामिनि । ध्यायेदिष्टफलप्रदां भगवती चैतन्यरूपां पर योगीन्द्रो गुरुपादपद्मयुगलालम्बी समाधौ यतः ॥ ५२ ॥ . memap . . अमृतं जायते देवि तत्क्षणात् परमेश्वरि । तदुद्भवामृतं देवि लाक्षारससमायुतम् ॥ तेनामृतेन देवेशि तर्पयेत् परदेवताम् । षट्चक्रदेवतास्तत्र सन्तामृतधारया ॥ आनयेतेन मार्गेण मूलाधारं पुन: सुधीः यातायातक्रमणैव तत्र कुऱ्यान्मनोलयम् ॥ एवमभ्यस्यमानस्तु अहन्यहनि पार्वति । जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् ॥ एवम्प्रकारान्तरस्तन्वान्तरे अनुसन्धेयः ॥ ५१ ॥ कुण्डलिनीध्यानयोगमुक्त्वा समाधियोगमाह नौवेति । अस्यायमर्थः। समाधौ यतः योगीन्द्रः सुधीः तां पूर्वोत्तोत्थापनक्रमेण ब्रह्महारं प्राप्तवतों भगवतौं कुण्डलिनी जीवन साई लयवशात् लयक्रमेण शुद्धपद्मसदने सहस्रार- मध्ये परे परंविन्दुरूपे शिवे शिवपदे स्वामिनि स्वामिनिकटे नीत्वा इष्टफल- प्रदाम् इष्टदेवतारूपां तां खामिरूपपरंविन्दुना सहकीभावं प्रापयित्वा परां । .. (५२) नीत्वेति । तस्यास्तु साधकाय प्रोमित्याह नीत्वेति । सुधीः जनः तां कुलकुण्डलिनी जीवेन जीवात्मना साई लयवशात् लीनां कृत्वा शैवे शिवसम्बन्धीयमोक्षे धामनि नीत्वा ध्याये- दिति। “अपानः कर्षति प्राणं प्राणोऽपानञ्च कर्षति" इत्येतत्क्रमेण यदा प्राणो जीवम् आकष- यति तदैव जीवात्मना साई तथा आनयनम् कीडशे ? शुक्लपझे सहस्त्रारपदो सदनं स्थान ८६ षट्चक्रनिरूपणम् । परविन्दुखरूपां ध्यायेत् । चैतन्यरूपामिति । तदनन्तरं परंविन्दुमपि तम्मध्य- शून्यमध्ये चिदात्मनि विलाप्य शुद्धचैतन्यरूपां ध्यायेदिति समुदायार्थः। ततः सोऽहम्भावेन जीवात्मनोरक्यं ज्ञात्वा तत्र चित्तं विलाप्य सर्वव्यापक- सम्पूर्णज्ञानात्मना स्थिरचित्तः सन् तिष्ठेदिति शेषः । तदुक्तं श्रीमदाचार्यस्वामिना मकारं कारणं प्राज्ञश्चिदात्मनि विलापयेत् । चिदात्माहं नित्यशुद्धबुद्धमुक्तसदद्दयः ॥ परमानन्दसन्दोहं वासुदेवोऽहमोमिति । ज्ञात्वा विवेचकं चित्तं तत्साक्षिणि विलापयेत् ॥ चिदात्मनि विलीनञ्चत्तच्चित्तं नैव चालयेत् । पूर्णबोधात्मना तिष्ठेत् पूर्णाचलसमुद्रवत् ॥ इति ॥ मकारमिति प्रणवपक्षे। अत्र कारणं परंबिन्दुः। वासुदेवोऽहमिति "वैष्णवं तलपन्ति” इत्यनेनैकवाक्यतया वैष्णवपक्षे। तेन यो यद्देवतोपासकः, स सोऽहमिति ज्ञात्वा । ॐ इति प्रणवोपासनायाम् । अन्यत्र तत्तन्मन्त्रमय- कुण्डलिनीस्वरूपं ज्ञात्वा इति बोध्यम् । तन्त्रान्तरे- किरणस्थं तदग्निस्थं चन्द्रभास्करमध्यगम् । महामूल्यमयं कृत्वा पूर्णस्तिष्ठति योगिराट् ॥ इति ॥ जीवेन साई नौत्वेति पूर्वप्रदर्शितवचनात् हंस इति जीवात्मानं हृदयस्थं दीपकलिकाकारं हंस इति मन्वेण मूलाधारमानीय तेन साई कुण्डलिनी नयेत् । i. AN -- m यस्य । परे उत्कृष्ट अथवा परे स्थानखामिनि सर्वेषामधिकारिणि संहारकारणत्वात् । तां कोशीम् ? इष्टफलं प्रददाति इति. इष्ट फलप्रदां भगवती श्रीकाममाहात्मयवतीं चैतन्यरूपां चेतनाखरूपां परां प्रकष्टां गुरोः पादपद्मयुगलालम्बी योगोशः एवंक्रमेण भावयेदिति सम्बन्धः । समाधौ ध्यानधारणादौ यतः । [एतन्मते "शुक्लपद्मसदने” इति पाठः] ।
101 षट्चक्र निरूपणम् । लयवशादिति । लयक्रममाह- त्रिकोणाख्ये तु देवेशि लङ्कारं चिन्तयेत्ततः । ब्रह्माणन्तत्र सञ्चिन्त्य कामदेवञ्च चिन्तयेत् ॥ जीवं तत्रैव निश्चित्य प्रणवोच्चारणेन च । पदे च गमनं पत्यौ विसर्गनाशकामिनी ॥ घ्राणं सञ्चिन्त्य देवेशि महेशि प्राणवल्लभ । डाकिनों परमाराध्यां शक्तिञ्च भावयेत्ततः ॥ एतानि गिरिजे मात: पृथ्वों नीत्वा गणेश्वरि ॥ तथा- Irrih . ततश्च पृथिवौं धन्यां गन्धं नीत्वा महेश्वरि । प्राकृष्य प्रणवेनैव जीवात्मानं नगेन्द्रजे ॥ कुण्डलिन्या सह प्राणं गन्धमादाय साधकः । सोऽहं तु मनुना देवि स्वाधिष्ठाने प्रवेशयेत् ॥ तथा- तत्कर्णिकायां वरुणं तत्रापि भावयेत् हरिम् । पुराणकारिणीं शक्तिं चिन्तयित्वा वरानने ॥ एतानि गन्धञ्च शिवे रसं नीत्वा वरानने। जीवात्मानं कुण्डलिनों रसञ्च मणिपूरके ॥ तथा तत्कर्णिकायां सुश्रीणि वहिं सञ्चिन्त्य साधकः । तत्र रुद्रः स्वयं का संहार सकलस्य च ॥ लाकिनीशक्तिसंयुक्तं भावयेत्तं मनोहरम् । ततश्चक्षुरिन्द्रियञ्च ध्यात्वा तेजोमयं शिवे ॥ एतट्रमानि सुभगे रूपं नीत्वा महाभगे। जीवात्मानं कुण्डलिनी रूपञ्चानाहते नयेत् ॥
: षटचक्रनिरूपणम् । নথ तत्कर्णिकायां वायुञ्च जीवस्थाननिवासिनम् । तत्र योनिमण्डलञ्च वाणलिङ्गविराजितम् ॥ राकिणीशक्तिसंयुक्त तत्र वायुवगिन्द्रियम् । एतानि रूपं संयुज्य स्पर्श त्वमलकारिणि । जीवं कुण्डलिनी स्पर्श विशुद्धे स्थापयेत्ततः ॥ तथा- तत्कर्णिकायामाकाशं शिवञ्च शाकिनीयुतम् । वाचः श्रोत्रच आकारी संस्थाप्य नगनन्दिनि । एतानि स्पर्श शब्दे वै नीत्वा शङ्करि मप्रिये । जौवं कुण्डलिनों शब्दञ्चान्नाचक्रे निधापयेत् ॥ इत्यन्तं कङ्कालमालिन्याम् । त्रिकोणाख्ये प्रक्रान्तमूलाधारत्रिकोणे । तन्मध्ये लङ्कारचिन्तन मिति । एवं प्रणवोच्चारणेन जीवानयनमिति मतान्तरम् । विसर्गनाशकामिनौति । विसर्ग उपसर्ग: कामोद्वेग इति यावत् । तन्नाशयितुं शोलं यस्याः सा कुण्डलिनी पत्यौ पदे सहस्रदलकमलस्थविन्दुमयशिवे गमनं साधकेन कार्येति शेषः । एतानि लङ्कारब्रह्म कामदेवडाकिनीशक्ति- घ्राणेन्द्रियाणि पृथ्वों नौवा पृथ्वयां विलाप्य पृथिवौं गन्धतत्त्वे विलाप्य जीवात्मानं कुण्डलिनों गन्धतत्त्वं प्रणवेनाकष्य सोऽहमन्त्रेण स्वाधिष्ठान समानयेत् इति शेषः । एवं सर्वत्र बोध्यम् । जीवं कुण्डलिनी शब्दतत्त्व- माज्ञाचक्रे नीत्वा शब्दतत्त्वं तत्रस्थाहकार अहङ्कारं महत्तत्त्वे महत्तत्त्वं हिरण्य- गर्भाख्यसूक्ष्मप्रकृतौ प्रकृतिं परविन्दौ विलापयेत् । तदुलं मन्त्रतन्त्रप्रकाशे- अहङ्कार हरेघोम सशब्दं तन्महत्यपि । महञ्च सर्वशक्तीनामव्यक्त कारणे परे ॥ सच्चिदानन्दरूपं यत् वैष्णवं कारणं परम् । पृथिव्यादिकमात् सर्व तत्र लोनं विचिन्तयेत् ॥ इति ।
षट्चक्र निरूपणम् । ८ सर्वशक्तिमव्यक्ते हिरण्यगर्भाख्यसूक्ष्मप्रकृतौ महवरेत् प्रकृतिञ्च परे पर- विन्दुरूपकारणे हरीदित्यर्थः । अत्र- समाधिकालात् प्रागेवं विचिन्त्यातिप्रयत्नतः । स्थूलसूक्ष्मक्रमात् सर्वं चिदात्मनि विलापयेत् ॥ इत्याचार्यविधानात् स्थूलानां सूक्ष्मे लयः। पृथिव्यादिकमनाहतपर्यन्तं तेषामुक्तक्रमण लये पृथिव्याश्रितलेन पादघ्राणेन्द्रिययोः पृथिवीप्रपञ्चसमुदा- यस्य च पृथिवीस्थाने विलापनम् । एवं जलस्थाने पाणिरसनेन्द्रियजलप्रपञ्चानां वहिस्थाने पायुचक्षुरिन्द्रियवङ्गिप्रपञ्चानां वायुस्थाने उपस्थत्वगिन्द्रियवायु- प्रपञ्चानाम् आकाशस्थाने वाक्थोवेन्द्रियाकाशप्रपञ्चानां लयः। आज्ञाचक्र सूक्ष्ममहदहङ्कारादिकं तेषामुक्त क्रमेण कारणे लयः । रान्तवर्णान् विलोमेन विलाप्य स्थूलसूक्ष्मक्रमात् सर्वमित्यत्र सर्वमित्युपादा- नात् ब्रह्ममानावस्थितये आज्ञाचक्रोर्द्धस्थितपूर्बोपदर्शितविन्दुबोधिन्यादिसकल- कारणशरीरमपि विलोमनादिकारणे परविन्दौ विलापयेदिति । तबकारमाह- सङ्कल्पैरवं ततो न्यासस्थानादणांश्च संहरेत् । प्रतिलोमे लक्षलयो लकारस्य हकारके || हलयश्च सकारे च सलयश्च षकारके । क्रमेणैवमपर्यन्तं लयमुत्पाद्य यत्नतः ॥ इति ॥ ततः क्षकाराद्यका- तथा- तदर्थों संहरे हिन्दौ कलायान्तं नियोजयेत् । तां नादेनान्तरं नादं नादान्ते संहरेत् पुनः ॥ तमुन्मन्यां समायोज्य विष्णुवो नयेच्च ताम् । तं पुनर्गुरुवक्ते तु योजयेत् साधकोत्तमः । ततश्च योजयेदर्णानिलयेत् परमे शिवे ॥ इति ॥ विष्णुवन विन्दौ। सूर्यविन्दुर्मुखं प्रोक्तमधस्तादिन्दुपावको । इत्यादि । १२ । षट्चक्रनिरूपणम् । विन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिः स्मृतः । इत्यादिवचनयोरेकवाक्यतया तस्यैव वत्रत्वात् । नौत्वा तां पुंसि विन्दात्मनि तमथ परात्मन्यथो कालतत्त्वे तहै शक्ती चिदात्मन्यपि च नयतु तां केवले धानि शान्ते । इति केशवाचार्यवचनैकवाक्यत्वाच्च । अत्र स्वखकारणे संहरणदर्शनात् नादान्तस्य व्यापकशतो तामुन्मन्यां तां समन्यां तां विष्णुवक्ते इति बोध्यम् । एवंप्रकारेण वर्णानां संहरणे षट्चक्राणां संहारः पद्मदलानां वर्णमयत्वात् । तदुक्तं विखसार- आदिवर्णात्मक पत्रं पद्मानां परिकीर्तितम् ॥ इति ॥ अथ वर्णपद्मोभयसंहरणप्रकारमाह सम्मोहनतन्त्रे- वादिसान्तान् दलस्थार्णान् संहरेत् कमलासने । तं षट्पत्रमये पद्मे बादिलान्ताक्षरान्विते । स्वाधिष्ठाने समायोज्य बोधयेदान्जया गुरोः ॥ इत्यादि। हिपत्रे हक्षलसिते योजयित्वा ततः सुधीः । तदर्थों संहरे हिन्दी तं कलायां नियोजयेत् ॥ इत्यन्तवचनम् । ततश्च मूलकमले चतुर्वर्णं संहृत्य तत्पद्मं खाधिष्ठाने संहरेत् । एवं- क्रमणाज्ञाचक्रस्थहक्षपर्यन्तं संहृत्य तत्पद्मं विन्दौ विन्दु बोधिन्याम् एवं पूर्ववत् सर्च परविन्दौ विलापयेदिति । एवञ्चाज्ञाचक्रसंहरणे तत्कर्णिकास्थ- हाकिनीतरलिङ्गप्रणवादीनां निराधारस्थित्यसम्भवात् प्रकृतिपर्यन्तसंहरणा- नन्तरं तानपि परविन्दौ संहरेत् । शुद्धपद्मसदने किम्भूते ? मोक्षे धामनि मुक्तिसम्पादकस्थान इत्यर्थः । योगीन्द्रं विशेषयति गुरुपादपद्मयुगलालम्बीति । गुरूपदेशेनैव सबसिद्धिरित्यतस्तत्पदाश्रितः सबिति भावः । समाधौ यत इति । समाधिलक्षणमाह कुलार्णवे- यदत्र नात्र निर्भासः स्तिमितोदधिवत् स्मृतम् । स्वरूपशून्यं यद्यानं तत् समाधिविधीयते । १ षट्चक्रनिरूपणम् । ८१ लाक्षाभं परमामृतं परशिवात् पौत्वा पुनः कुण्डली नित्यानन्दमहोदयात् कुलपथान्मूले विशेत् सुन्दरी। तद्दिव्यामृतधारया स्थिरमतिः सन्तर्पयेदैवतं योगी योगपरम्पराविदितया ब्रह्माण्डभाण्डस्थितम् ॥ ५३ ॥ MARATHI- तथान्यत्र- - समत्वभावना नित्यं जीवात्मपरमात्मनोः । समाधिमाहुमुनयः प्रोक्तमष्टाङ्गलक्षणम् ॥ इति ॥ "योगश्चित्तवृत्तिनिरोधः” इति पातञ्जलमूत्रम् । तस्मिन् यतः तदभ्यास- युक्त इत्यर्थः ॥ ५२ ॥ उक्त प्रकारसकलयोगचिन्तनानन्तरं यत्कर्तव्यं तदाह लाक्षाभमिति । अस्यार्थः । कुण्डलिनी सुन्दरी परशिवात् परमामृतं पीत्वा नित्यानन्दमहो- दयानिःसृत्य कुलपथात् चित्रिणीनाडीमध्यस्थब्रह्मपथं प्राप्य मूले मूलाधार पुनः प्रविशेदित्यन्वयः । पौत्वेति पूर्वोक्ततत्तयानानन्तरं शिवशक्त्योः सामरस्यं विभाव्य सामरस्यानन्देन परशिवादुत्पन्नपरमामृतेन कुण्डलिनी तर्पयेत् । तत्तर्पणामृतं पौवेत्यर्थः । साङ्गत्यन्तु तयोः कृत्वा पाययित्वा परामृतम् ॥ इति पूर्वोक्तवचने पाययित्वेत्यनेन पानकायंप्रेरणबोधनात् । अमृतं विशेषयति लाक्षाभमिति। अलतरसवद्रताभमित्यर्थः । नित्या- नन्दमहोदयादिति नित्यानन्दस्य महोदयो महाप्रकाशो यत्र तस्मादित्यर्थः । मूले विशेदिति । येन प्रकारणोत्ताननं पुनस्तेन प्रकारेण मूलाधार आन- यनम् । तेन यदा लिङ्गादिभेदक्रमेणोड़ गच्छति तदा तद्रूपेणैव पुनराधार- मायाति । (५३) लानाभमिति । इदानीमस्या आगमनं स्वस्थाने इति तदाह सा कुण्डलिनी पूर्णा- भन्दस्य महान् उदयो यस्मात्तस्मात् परमशिवात् सदाशिबात् परमामृतं पीत्वा तेनैव कुलपथेन .
२
षट्चक्रनिरूपणम् ।
.
.
३
तदुक्तं श्रीमदाचार्यस्वामिना-
सुधाधारासारैश्चरणयुगलान्तविगलितः
प्रपञ्चं सिञ्चन्ती पुनरपि रसानायमहसा ।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कूहरिणी ॥ इति ॥
अत्र श्लोके रसाम्नायमहसेति । आम्नायते कथ्यते विधीयत इति
यावत् । तेनानायो विधानम् । महः प्रकाश: पुनरित्यनेन पूर्वरूपरस-
विधानप्रकाशेन स्वां भूमिं मूलाधारमवाप्य इत्यर्थात्तथा प्रतीयते। लयक्रमण
गमने तु पुनः सृष्टिक्रमेणागमनम् । तदुक्तं यथा-
ततः सा कुण्डली शक्तिर्मुद्राकारा सुरेश्वरी।
पुनस्तेन प्रकारेण गच्छत्याधारपङ्कजे ॥ इति ॥
तथा भूतशुद्धिप्रकरणे
परात्मनः पृथिव्यादितहत्तत्त्वानि च क्रमात् ।
जीवं कुण्डलिनी चापि स्वस्थानं प्रापयेत् क्रमात् ॥ इति ।
विशेषस्तु-
प्रकाशमाना प्रथमप्रयाणे
प्रतिप्रयाणेऽप्यमृतायमाना ॥ इति ।
तदनन्तरं तद्दिव्यामृतधारया पूर्वदर्शितशिवशक्तिसामरस्योत्पन्नपरमा-
मृतस्य ब्रह्मरन्ध्रान्मूलाधारपर्यन्तगलितधारया। अतएवोक्तं तृतीयश्लोके--
"ब्रह्मदारं तदास्ये प्रविलसति सुधाधारगम्यप्रदेशम्" इति। स्थिरमतिः
स योगी दैवतम् इष्टदैवतं षट्चक्रस्थडाकिन्यादिदैवतञ्च सन्तर्पयेदित्यर्थः ।
तेनामृतेन देवेशि तर्पयेत् परदेवताम् ।
षट्चक्रदेवतास्तत्र सन्तामृतधारया ॥
.
.
-
मूले मूलाधारपझे। सा कीदृशी ? सुन्दरी। अमृतं कोडशम ? लाक्षाभं रजःसम्बन्धात् रदृशी
भावनैव कर्त्तव्या महाग्रन्थोक्लत्वात्। अतो योगी ध्यानपरम्पराक्रमेण ज्ञातया तद्दिव्या-
मृतधारया स्थिरमतिः सन् ब्रह्माण्डभाण्डस्थितं सर्बदैवतं सन्तर्पयेत् ॥ ५३ ॥
षट्चक्रनिरूपणम्। ज्ञात्वैतत् क्रममुत्तमं यतमना योगी यमाद्यैर्युतः श्रीदीक्षागुरुपादपद्मयुगलामोदप्रवाहोदयात् । संसारे न हि जन्यते न हि कदा संक्षीयते संचये नित्यानन्दपरम्पराप्रमुदितः शान्तः सतामग्रणीः ॥ ५४॥ इति पूर्वोक्तवचनात् । अमृतधारां विशेषयति। योगपरम्पराविदितयेति । योगस्य गुरूपदेशपरम्पराप्राप्तत्वात् योगपरम्परेत्युक्तिरिति भावः । तेन गुरूपदेशपरम्पराविदितयेति फलितार्थः । अमृतं विशेषयति ब्रह्माण्ड - भाण्डस्थितमिति ब्रह्माण्डस्य भाण्डं आधारपात्रं कुण्डलिनी तस्याः सर्वेषां योनिरूपत्वात्। तत्र स्थितं कुण्डलिनीपात्रस्थितमित्यर्थः ॥ ५३ ॥ उक्तयोगक्रमज्ञानफलमाह ज्ञात्वैतदिति । श्रौदीक्षागुरुपादपद्मयुगला- मोदप्रवाहोदयादिति । आमोद आनन्दः तस्य प्रवाहोऽविच्छिन्नोत्तरी- तरसम्बन्धस्तेन नित्यानन्द इति यावत् तस्योदयो यस्मात्तादृशपादपद्म- युगलाजज्ञावेत्यर्थः। दीक्षागुरुरिति प्रथमोपस्थितत्वेन गौरवातिशयेन च तगृहणम् । तदभाव अन्यगुरोरपि ज्ञातव्यम् । अतएवोक्तम्- मधुलुब्धो यथा भृङ्गः पुष्यात् पुष्पान्तरं व्रजेत् । ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुब्वन्तरं व्रजेत् ॥ इति ॥ नित्यानन्दपरम्पराप्रमुदित इति। नित्यानन्दधारारूपहर्षयुक्त इत्यर्थः । सतां योगिरूपप्रशस्तजनानामग्रगण्य इत्यर्थः ॥ ५४ ॥ . RA (५४) ज्ञात्वैतत् । एतत् उत्तम क्रम ज्ञात्वा संयतमनाः सन् योगी जनः यमाद्यभ्यासेषु श्रीदीक्षागुरुपादपद्मयुगलामोहप्रवाहोदयात् संसारे न हि जन्यते । न हि कदा संक्षये संक्षीयते । प्रलयेऽपि तख चयो नास्तीत्यर्थः । सः कीदृशः ? पूर्णानन्दपरम्परया प्रमुदितं खान्तं यस्य सः तथा। सतामयणीरपि भवति। [अब मते "पूर्णानन्दपरम्पराप्रमुदितखान्तः" इति पाठः।]
षट्चक्रनिरूपणम् । योऽधीते निशि सध्ययोरथ दिवा योगी खभावस्थितो मोक्षजाननिदानमेतदमलं शुद्धञ्च गुप्तं परम् । श्रीमत् श्रीगुरुपादपद्मयुगलालम्बी यतान्तर्मना- स्तस्यावश्यमभीष्टदैवतपदे चेतो नरीनृत्यते ॥ ५५ ॥ षट्चक्रश्लोकाध्ययनफलमाह । योऽधीत इति । स्वभावे स्थित आत्म- भावे नियुक्त इत्यर्थः । यतान्तम्मना इति यतं योगाभ्यासेन स्थिरीकृतम् अन्तरात्मनि मनो येन तादृश इत्यर्थः। स्पष्टमन्यत् ॥ ५५ ॥ * ॥ . इति श्रीपूर्णानन्दयतिविरचितीतत्त्वचिन्तामण्यन्तर्गत- षट्चक्रविवरणश्लोकार्थपरिष्कारिण्याम् अष्टमं प्रकरणं समाप्तम् ॥ * ॥ . amod (५५). योऽधीते इति । अथैतत् सगुप्तक्रमं यः स्वीयभावस्थितः मन् निशि सध्ययोः दिवा अधीते तस्यावश्यमेव अभीष्टदैवतपदे चित्तं मुडर्नृत्यति । यतं निश्चलम् अन्तम्मनो यस्य स तथेति। इति षट्चक्रभेदटिप्पनी समाप्ता ।
पादुकापञ्चकम्। शिवीतम्। ब्रह्मरन्धसरसौमहोदरी नित्यलग्नमवदातमङ्गुतम् । कुण्डलीविवरकाण्डमण्डितं द्वादशार्णसरसोरहं भजे ॥ १ ॥ - पञ्चवक्त्रकृतपञ्चपादुकास्तोत्रमंहसमुदायनाशकम् । तस्य रोचिरमलाख्यटीकया कोऽपि कालीचरण: प्रकाशयेत् ॥ अथ त्रिलोकोद्धारकर्ता सदाशिव: स्तोत्ररूपेण श्रीगुरुध्यानयोगं कथयिष्यन् तदर्थं प्रथमतो गुरोरधिवासस्थानं निरूपयति ब्रह्मरन्ध्रति । अस्यार्थः ब्रह्मरन्ध्रसरसोरहस्य ब्रह्मरन्ध्रविशिष्टं यत् सरसोरुहं सहस्रदल- कमलं तस्योदर तन्मध्ये तत्कर्णिकायामिति यावत् । हादशार्णसरसोरुहं हादशवर्णविशिष्टं पद्मं भजे सेवे इत्यर्थः । अत्र भजे इति क्रियया अस्मत्क- खोपस्थिते: शिववाक्यात् शिवेन स्वीयभजनौयत्वं दर्शयता सर्वेषां शिवोक्ता- मन्त्रीपासकानां भजनीयत्वं सूचितम् । एवं सर्वत्र बोध्यम् । ब्रह्मरन्ध्रस्थानमाह कङ्गालमालिनीतन्त्रे सहस्रदलपद्ममुपक्रम्य- तत्कणिकायां देवेशि अन्तरात्मा ततो गुरुः । सूर्यस्य मण्डलं तत्र चन्द्रमण्डलमेव च । ततो वायुमहानामा ब्रह्मरन्ध्र तत: स्मृतम् ॥ इति ॥ ', ८६ पादुकपञ्चकम् । केचित्तु तादृशपद्मोदर तत्कर्णिकास्थत्रिकोणोदरे इति वदन्ति । तन्न अत्रोदरशब्दस्य मध्यवाचकत्वात् पद्ममध्यं कर्णिकैव प्रतीयते न तु कर्णिका- मध्यत्रिकोणमध्यम् अनुपस्थितेः । व्यक्तमाह श्यामासपाधृतवचनम्- शिरःपद्मे सहस्रार शुलवणे वधोमुखे । तरुणारुणकिञ्जल्के सर्ववर्णविभूषिते । कर्णिकान्तःपुटे तत्र हादशार्णसरोरुहे ॥ इत्यादि ॥ अत्र कर्णिकान्तःपुटे इति सुव्यक्तम् । हादशाणेति हादशवर्णाः सह- ख. हसक्षमलवरयम् इति गुरुमन्त्रात्मकद्दादशवर्णाः तद्दिशिष्टपद्ममिति तन्त्रज्ञाः । केचित्तु हादशवर्णो वाग्भववौज तयुक्तपद्ममिति वदन्ति । तत्र तथावे- कर्णिकान्तःपुटे तन हादशार्णसरोरुहे। तेजोमये कर्णिकान्तश्चन्द्रमण्डलमध्यगे ॥ अकथादित्रिरेखीये हलक्षत्रयभूषिते । हंसपौठे मन्त्रमये स्वगुरु शिवरूपिणम् ॥ इति वचने मन्त्रमये वाग्भववीजरूपगुरुमन्त्रमये इत्यनेन हादशाणे त्यस्य पौनरुत्यापत्तेः। हादशाणेति हादश अर्णा: वर्णाः यत्र तदिति व्युत्पत्त्या सरोरुहे हादशवर्णयोगः प्रतीयते । यद्यप्यत्र हादशवर्णानां विशेषाभिधानं तद्योगस्थानञ्च नाभिहितं तथापि- हंसाभ्यां परिवृत्तपत्रकमले दिव्यजगत्कारणे- विखोत्तीर्णमनेकदेहनिलयं स्वच्छन्दमात्मेच्छया। इति गुरुगीतायां हंसाभ्यां परिवृत्तपत्रेत्यनेन तादृशसरोरुहस्य हंसयुक्तापत्र प्रतीयते। तयोरेव षड़ावृत्त्या हादशवर्णा भवन्ति तद्युक्तं पत्रम् । पत्रावच्छदे वर्ण योगकथनात् पत्रस्यापि हादशसंख्यकत्वं व्यक्तीभूतमिति सुधीभिर्भाव्यम् । हादशार्णसरोरुहं विशेषयति नित्येति । नित्यलग्नमविना- भावसम्बन्धेन सहस्रदलपद्मन मिलितम् अवदातं शुक्लवर्ण मद्भुतं ब्रह्मतेजो- मयत्वादिनात्याश्चर्यम् । कुण्डलीविवरकाण्डमण्डितमिति। कुण्ड ल्या विवरं স্বর पादुकापञ्चकम् । प्र , । तस्य कन्दलितकर्णिकापुटे कृप्तरेखमकथादिरेखया। कोणलक्षितहलक्षमण्डली- भावलक्ष्यमवलालयं भजे ॥ २ ॥ " A mmmmmmwww- . तद- MAIN . सहस्रदलकमलकर्णिकास्थशिवसमीप कुण्डलीगमनपथरूपं छिद्रम् । धिकरणभूतकाण्डं नालं चित्रिणी नाड़ी तेन भूषितम् । यथा मृणालोपरि पद्मस्थितिस्तहत् चित्रिणीनाड़ीरूपमृणालभूषितमित्यर्थः ॥ १ ॥ उक्तपद्मकर्णिकायामकथादित्रिकोणमध्ये गुरुश्चिन्तनीयः अतस्तना- नार्थं त्रिकोणं निरूपयिष्यन्नाह तस्येति । अस्यार्थः कन्दलितकर्णिका- पुटे इति। कन्दलं: परस्पराक्रमणपूर्वकं वाग्विवादः । वाग्विवादः । अत्र लक्षित- लक्षणया परस्पराक्रमणमात्रं गृह्यते । पुटम् आधारभूतस्थानम् । ततश्च तस्य पूर्वोत्तसहस्रदलकमलहादशदलकमलोभयस्य कन्दलिते परस्पराक्रान्ते कर्णिकापुटे कर्णिकामकाधारस्थाने अवलालयं भजे सेवे इत्यन्वयः । केचित्तु तस्य द्वादशदलस्येति व्याख्यायन्ति । तन्न तथाले श्रीनाथस्य सहस्त्रदलकमल- हादशदलकमलोभयस्थले स्थितिविधायकवक्ष्यमाणवचनानामसङ्गत्यापत्तेः । अवला शक्तिः सा चात्र विन्दुवयागुरभूतरामाज्येष्ठारौद्रीनामक- त्रिशक्तिरूपरेखात्रयमिलितत्रिकोणरूपा कामकला. तद्रूपालयमित्यर्थः । कामकलायास्तद्रूपत्वमाह यामले- अथ कामकलां वक्ष्ये तहेवतात्मरूपकम् । इत्युपक्रम्य- त्रिविन्दुः: सा त्रिशक्तिः सा त्रिमूर्तिः सा सनातनी । इत्याद्युक्तम् । सा कामकला पूर्वदर्शितत्रिशक्तिरूपा इत्यर्थः । ... ... १३ पादुकापञ्चकम् । अवलालयं विशेषयति क्लृप्तरेखमकथादिरेखयेति । अकारादिषोड़शखरै रामा रेखा ककारादिषोडशवर्णैर्येष्ठा रेखा थकारादिषोड़शभी रौद्रौ रेखा इति रेखात्रयेण लुप्ता चिह्निता रेखा यत्र तादृशावलालयमित्यर्थः । तदुक्तं वहच्छ्रीक्रमे कामकलाप्रकरण- विन्दोरङ्कुरभावेन वर्णावयवरूपिणी ॥ इति ॥ पुन: किम्भूतम् ? कोणलक्षितहलक्षमण्डलीभावलक्ष्यमिति । कोणेषु उक्तत्रिकोणस्यान्तरालेषु सम्मुखदक्षिणवामकोणेषु लक्षितैः प्रकाशितैः हलक्ष- वर्ग: मण्डलोभावेन तत्तदर्णानितस्थानरूपण लक्ष्यते ज्ञायते असौ तादृश- मित्यर्थः । अत्र त्रिकोणस्य विशेषज्ञानं विना सम्यगध्यानं न भवतीत्यतः प्रमाणान्तरण त्रिकोणं विशेषयति । अत्र त्रिकोणं वामावर्त्तन लेख- नीयम् । तदुनं शातानन्दतरङ्गिण्याम्- वामावर्तेन विलिखेदकथादित्रिकोणकम् ॥ इति ॥ काल्यूानाये- त्रिविन्दं परमं तत्त्वं ब्रह्मविष्णुशिवात्मकम् । वर्णमयं त्रिकोणन्तु जायते विन्दुतत्त्वतः ॥ इति ॥ - तथा- अकारादिविसर्गान्ता ब्रह्मरेखा प्रजापतिः । ककारादितकारान्ता विष्णुरेखा परात्परा । थकारादिसकारान्ता शिवरेखा त्रिविन्दुतः ॥ तन्त्रजीवन-- रजःसत्त्वतमोरेखा योनिमण्डलमण्डिता ॥ तथा- उपरिष्टात् सत्वरेखा रजोरेखा खवामतः । तमोरखा दक्षभागे रेखात्रयमुदाहृतम् ॥ एतद्दचनपालोचनयापि अकथादौनां वामावर्तत्वमायातम् ।
पादुकापञ्चकम् । तत्पुटे पटुतडित्कड़ारिम- स्पईमानमणिपाटलप्रभम् । चिन्तयामि हृदि चिन्मयं वपु- र्नादविन्दुमणिपीठमण्डलम् ॥ ३ ॥ स्वतन्त्रतन्वे- । अकथादित्रिपंक्त्या तु हलक्षमध्यमण्डितम् ॥ इति ॥ एतेन हलक्षवर्णानां त्रिकोणमध्ये स्थितिरित्युक्तम् । अलं विस्तरेण ॥ २ ॥ उक्त त्रिकोणमध्ये मणिपोठोपरि गुरुस्थितिरित्यतस्तत्र मणिपीठं वर्ण- यति तत्पुट इति। अयमर्थः। तत्पुटे उक्त त्रिकोणमध्ये नादविन्दुमणि- पीठमण्डलं हृदि मनसि चिन्तयामीत्यन्वयः। नादविन्दुमणिपीठमण्डल- मिति । नादविन्दुभ्यां सह मणिपीठमण्डलम् अथवा नादश्च विन्दुश्च मणिपीठमण्डलञ्च तदित्यर्थः । केचित्तु नादविन्दुरूपमणिपीठमण्डलमिति वदन्ति । तन्न तथावे नादस्य शुक्लवर्णत्वात् विन्दो रक्तवर्णत्वात् पटुतड़िकड़ा- रिमेत्यादिविशेषणस्यासंलग्नापत्तेः । तथाहि- परशक्तिमयः साक्षाविधासौ भिद्यते पुनः । विन्दुर्नादो वीजमिति तस्य भेदाः समीरिताः ॥ इति सारदावचनस्य परशक्तिमयो विन्दुः ते वीजनादविन्दवः वङ्गौन्दर्क- खरूपिणः इत्यर्थकत्वे नादस्य चन्द्रस्वरूपत्वात् शक्लवं विन्दोः सूर्यस्वरूपत्वात् रक्तत्वमायातम् । व्यक्तमाह षट्चक्रवर्णने पूर्णानन्दः- तदूर्द्ध नादोऽसौ बलधवलसुधाधारसन्तानहासी ॥ इति ॥ वहफ्रीक्रमे- वालसूर्यप्रतीकाशमासीविन्दुमदक्षरम् ॥ इति ॥ - ॥
पादुकापञ्चकम् । अर्द्धमस्य हुतभुक्शिखात्रयं तदिलासपरिहणास्पदम् । विश्वघस्मरम होच्चिदोत्कटं व्यामृषामि युगमादिहंसयोः ॥ ४ ॥ 7 I क M एवञ्च तयोः शुक्लरताले मणिपाटलप्रभत्वं सर्वथाऽसम्भवम् । प्रदर्शितार्थ एव साधीयान् । एवञ्चाधो नादः अर्द्ध विन्दुः मध्ये मणिपीठमण्डलं चिन्तनीयमिति व्यवस्था । व्यक्तमाह कङ्कालमालिनीतन्त्रे गुरुध्यान- सहस्रदलपद्मस्थमन्तरात्मानमुत्तमम् । तस्योपरि नादविन्दोम्मध्ये सिंहासनोज्वलम् ॥ तस्मिन्निजगुरुं नित्यं रजताचलसन्निभम् ॥ इत्यादि । मणिपोठमण्डलं विशेषयति पटुतडिल्कड़ारिमस्पर्द्धमानमणिपाटलप्रभ- मिति । स्वकार्यसम्पादनयोग्यत्वं पटुत्वम् । ततश्च स्वप्रकाशरूपस्वकार्य- सुसम्पादनविरोधिदोषराहित्येन सर्वव्यापकातिप्रकाशमानानां तड़िता कड़ारिम्ना सदृशकड़ारिमा पिङ्गलवणेन स्पईमानमणिभिः पाटलप्रभ- मित्यर्थः मणिपीठस्य मणिमयसाङ्गत्वात् । अस्य नादविन्दुमणिपीठमण्डलस्य वपुश्चिन्मयं ज्ञानमयमित्यर्थः । अन्ये तु चिन्मयं वपुः हादशखरस्वरूपं वाग्भव- वीजं गुरुमन्त्रं वपुश्चिन्तयामीति वदन्ति । तन्मन्दम् गुरोः शुक्लवर्णत्वात् तहीजस्थापि शुक्लत्वेन मणिपाटलप्रभवविशेषणं न सङ्गच्छते ॥ ३ ॥ हंसपीठोपरि नादविन्दुमध्यस्थमणि पौठो त्रिकोणे गुरोरधिवासः । अत- स्तयोर्जानार्थ हंसत्रिकोणयोः स्वरूपं ज्ञापयिष्यवाह अर्द्धमिति । अस्यार्थः । अहम् आदिहंसयोयुगं व्यामृषामि। एवमस्य मणिपीठस्योई हुतभुक्- शिखात्रयं व्यामृषामि । तहिलासेन हुतभुक्शिखात्रयस्य सुग्नकाशेन परिहणास्पदम् उद्दिश्यमानमणिपौठरूपास्पदं व्यामृषामोति तत्प्रति- .
पादुकापञ्चकम् । १०१ । बन्धक विषयचिन्तादित्यागन “स्वस्वस्थाने स्थिरतरं भावयामीति प्रत्येक क्रियान्वयः । हुतभुशिखात्रयमिति। हुतभुक्शिखादित्रयं. हुतभुशिखात्रयम् । शाकपार्थिवादित्वात् मध्यपदलोप तत्पदसिद्धिः । हुतभुक् वह्निस्तच्छिखा वह्निविन्दोरङ्गुरभूतदक्षिणादीशपर्यन्तगता रामा रेखा। आदिना ईशान- कोणस्थचन्द्रविन्दोरङ्गुरभूतेशानादिमरुकोणपर्यन्तगता ज्येष्ठा रेखा। मरु- कोणस्थसूर्यविन्दोरङ्गुरभूततदादिवह्निविन्दुसङ्गता रौद्री रेखा । एवं त्रिविन्दु- त्रिरेखामिलितत्रिकोणं कामकलारूपम् तदुक्तं वृहच्छ्रीक्रम- विन्दोरङ्गुरभावेन वर्णावयवरूपिणी । विन्डग्रे कुटिलोभूता यस्मादीशानमागता ॥ मनोरमा शक्तिरूपा सा शिखा चित्कला परा। शक्तीशानगता रेखा प्रत्यगाग्नेयमात्रगा। ज्येष्ठा सा परमेशानी त्रिपुरा परमेश्वरि । व्यक्तीभूय पुनवामे प्रथमाङ्गुरमागता। इच्छया नादसंलग्ना रौद्री शृङ्गाटमागता ॥ इति ॥ सा शिखेति आग्नेयमानगा वह्निसम्बन्धिनी मात्रा सा शिखा वह्नि- शिखेत्यर्थः । माहेश्वरीसंहितायाम्- सूर्यश्चन्द्रस्तथा वह्निरिति विन्दुवयं भवेत् । ब्रह्मा विष्णुस्तथा शम्भुरिति रेखात्रयं मतम् ॥ इति ॥ एतत्विकोणमध्ये गुरुस्थिति स्पष्टमाह प्रेमयोगतरङ्गिणीकृतवचनम् सहस्रदलमुपक्रम्य तन्मध्ये तु त्रिकोणन्तु विद्युदाकारमुत्तमम् । विन्दुद्दयञ्च तन्मध्ये विसर्गरूपमव्ययम् । तन्मध्ये शून्यदेशे च शिवः परमसंज्ञकः ॥ इति ॥..... AN '... . -- पादुकापञ्चकम् । केचित्तु - अतएव शङ्कराचार्येणापि आनन्दलहयाम् इदं सुव्यतामभिहितम् । श्रीनाथस्य विसर्गारूढ़त्वात् इति ललितारहस्यकारेणोक्तञ्च । विसर्गस्तु त्रिको- णोईवर्तिचन्द्रसूर्यरूपविन्दुइयमिति । आदिहंसयोयुगमित्यत्रादिनान्तरात्मसंज्ञकपरमहंस एव गृह्यते न तु दीपकलिकाकारजीवामहंसः । अयं हंसः प्रकतिपुरुषरूपः । तदुक्तमागमकल्पद्रुमे पञ्चशाखायाम्- हङ्कारो विन्दुरित्युत्तो विसर्गः स इति स्मृतः । विन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिः स्मृतः ॥ 'प्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥ इति ॥ अस्य मणिपीठस्योईम् आदिहंसयोर्युगं व्यामृषामोति व्याख्यायन्ति । तन्मन्दं पूर्वोतकङ्गालमालिनीवचनबोधितहंसोई नाद- विन्दुमध्यस्थमणिपोठे नादविन्दोरधःस्थहंसस्थिते: सर्ववासम्भवात्। एतेन हुतभुशिखासखमिति केषाञ्चित् कल्पितपाठो निरस्तः । तथात्वे अर्द्ध- मस्येत्यस्य वैयर्थ्यापत्तेः । यहा अस्य मणिपीठमण्डलस्योड्डे आदिहंस- योयुगं व्यामृषामि। कङ्गालमालिनीवचने नादविन्दुमध्यस्थितमणि- पीठाधःस्थले हसस्थितिः प्राप्ता । अत्र मणिपौठो स्थितिकथने महान् विरोध: अतस्तयोरविवादाय हंसं विशेषयति हुतभुशिखात्रयमिति। ततश्चाधः- स्थले हंस इत्यानुपूर्बिकस्य स्थितिः। जड़ें पूर्वोक्तत्रिकोणाकारकामकला- रूपेण तस्य स्थितिरित्यविरोध: कामकलाया हंसरचित- मूर्तिकत्वात् । पुनर्विशेषयति विश्वघस्मरमहोच्चिदोत्कटमिति । ङभलघसौ चाथ घसिङक्षरणे व्युसक् । परिणतस्य :- . तथाच- । देज्याचे चिदिवादे दीप्तौ च्युदकनुदिच्छिदि वा । इति धातुपाठात् घसधातोर्भक्षणार्थत्वम्। चिदोर्दीत्यर्थत्वम् । ননস্ব .
पादुकापञ्चकम् । १०३ तत्र नाथचरणारविन्दयोः कुङ्कुमासवपरीमरन्दयोः । इन्द्रमिन्दुमकरन्दशीतलं मानसं स्मरति मङ्गलास्पदम् ॥ ५ ॥ Humom तनेति दाभ्याम् । . न . विश्वानां घस्मरा भक्षिका अर्थात् संहारिका या महोच्चित् महाप्रकाशस्तया उत्कटं दूरतरं सर्वाधिकबलवदित्यर्थः ॥ ४ ॥ श्रीनाथचरणारविन्दचिन्तनाधिकरणपीठं निरूप्येदानों तवयानयोगं सूचयंस्तौति अस्यार्थः तत्र मणिपीठस्थत्रिकोणमध्ये नाथचरणारविन्दयोइन्हें मानसं स्मरति ध्यायते इत्यन्वयः । चरणहन्दं विशेषयति कुङ्कुमासवपरीमरन्दयोरिति वीसेस्थम्भावचिङ्गेषु तेषु भागे परिप्रती ॥ इति वोपदेवीयात् पर गार्थत्वम् । ततश्च कुखुमासवानां लाक्षा- रसाभपरमामृतानां यः परिर्भागः स एव मरन्दो मकरन्दो ययोस्तादृशयो- रित्यर्थः । “झरीमरन्दयोः” इति पाठे झरी भरणं निःसरणमिति यावत् ! ततश्च “कदभिहितभावो द्रव्यवत् प्रकाशते” इत्युक्तोः कुङ्कुमासवानां झरी अर्थात् झरणाश्रयकुङ्कुमासवो मरन्दो ययोरित्यर्थः । हन्दं कीदृशम् ? इन्दुमकरन्दशीतलम् इन्दोश्चन्द्रस्य यो मकरन्दः अमृत- किरणरूपः तहत् शीतलम् । यथा चन्द्रामृतकिरणन उत्तापनिवृत्तिस्तथा पदबन्दसेवनेन दुःखतापशान्तिरिति भावः । मङ्गलास्पदम् अभिप्रेतार्थसिद्धिस्थानम् । तच्चरणस्थाने मनोऽभिनिवेशे सर्वाभीष्टसिद्धिरिति तात्पर्यम् ॥ ५॥. - १०४ पादुकापञ्चकम् । निशक्तमणिपादुकानियमिताघकोलाहलं स्फुरत्किशलयारुणं नखसमुजसञ्चन्द्रकम् । परामृतसरोवरोदितसरोजसद्रोचिषं भजामि शिरसि स्थितं गुरुपदारविन्ददयम् ॥ ॥६॥ . निशक्तति। अस्थार्थः अहं शिरसि स्थितं पूर्वोक्तपीठोपरिस्थितं गुरु- पदारविन्ददयं भजामि ध्याये इत्यन्वयः । पदारविन्ददयं विशेषयति । निशक्तमणिपादुकानियमिताधकोलाहलमिति । निशक्तमणिपादुकया सेवितमणिपादुकाद्वारा नियमितः निरस्तीकृत: अघकोलाहल: पापानां प्रादु- आँवो येन तादृशमित्यर्थः । यहा निशक्तो निबद्धो मणियंत्र पादुकायां सा मणिपीठमण्डलरूपपादुका तया नियमितः अघकोलाहल: येनेत्यर्थः तत्पा- दुकोपरि गुरुचरणचिन्तनेन पापनाशात् । अथवा निशक्त आरुद्धो मणिर्गुरु- चरणरूपचिन्तामािसु पञ्चपादुकासु ताभिनियमिताधकोलाहलमित्यर्थः । ततश्च पञ्चपादुकाध्यानपूर्वकं तदुपरि गुरुचरणचिन्तनेनैव पापनाशात् पापनाशे पञ्चपादुकानां ध्यानरूपव्यापारसाध्यत्वेन हारत्वमिति । स्फुरकिशलयारुणम् । स्फुरतां किशलयानां पल्लवानामरुणतुल्यमरुणं यनेति । आम्रकेन्टुकादिपल्लवानां प्रथमोहमे रक्तवर्णत्वात् तत्रैव दृष्टान्तः । नखसमुल्लसच्चन्द्रकं नखा एव समुल्लसच्चन्द्राः निम्मलप्रकाशमानचन्द्रवरूपा यवेत्यर्थः । परामृतसरोवरोदितसरोजसद्रोचिषम् परामृतसरोवरे उदितं यत्- सरोजं पद्मं तहत् सद्रोचिषं निम्मलप्रकाशो यस्येति । अयम्भाव: श्रीनाथस्य चरणाभ्यां निरन्तरं परमामृतं निःसरति । अतएवोक्तं पूर्णानन्देन- सुधाधारासारं निरवधि विमुञ्चन्नतितरां यते: स्वात्मज्ञानं दिशति भगवानिमलमतेः ॥ इति ॥ *- - - - 6 . पादुकापञ्चकम् । १०५ एवं परामृतं सरोवरखरूपं तदुपरिस्थितं चरणं पद्मवत् प्रकाशते इति । ननु उक्तपद्मयकर्णिकापुटे गुरुस्थितिबिधीयते। तकिमधःस्थितहादश- दलकमलकर्णिकायां किंवा अईस्थसहस्रदलकर्णिकायामित्याकाझायामन वदन्ति । वृहच्छौक्रमे- सर्वोपरि ततो ध्यायेत् पश्चिमाननपङ्कजम् । सवन्तममृतं दिव्यं देव्यङ्गे कमलान्तरे ॥ इति ॥ देव्यते गुरुशक्त्यङ्गे। यामले- छत्रं मूट्टि सहस्रपत्र कमलं रक्तं सुधावर्षिणम् ॥ इति ॥ गुरुगीतायाम्- हंसाभ्यां परिहत्तपत्रकमले दिव्यजगत्कारणे- विखोत्तीर्णमनेकदेवनिलयं स्वच्छन्दमात्मेच्छया। तत्तयोग्यतया स्वदेशिकतवें भावैकदौपाङ्गुरं प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेविवाहुं गुरुम् ॥ इति ॥ श्यामासपातवचनम्- शिरःपझे सहस्रारे शुलवणे वधीमुखे । तरुणारुणकिचल्के सर्ववर्णविभूषिते ॥ कर्णिकान्तःपुटे तत्र हादशाणसरीरहे। तेजोमये कर्णिकान्तश्चन्द्रमण्डलमध्यगे । अकथादित्रिरेखीये हलक्षवयमण्डिते । हंसपीठे मन्त्रमये स्वगुरु शिवरूपिणम् ॥ इति ॥ एवमादिवचनैर्दादशदलकमलकर्णिकायां गुरोरधिष्ठानं विहितम् । कालमालिनीतन्वे- सहस्रदलपनस्थमन्तरात्मानमुत्तमम् । तस्योपरि नादविन्दोम्मध्ये सिंहासनोज्ज्वलम् । तस्मिनिजगुरु नित्यं रजताचलसबिभम् ॥ इत्यादि । १४ . .
पादुकापञ्चकम् । A A यामले सहस्रदलपङ्कजे सकलशीतरश्मिप्रभ वराभयकराम्बुजम्-इत्यादि। पुरश्चरणरसोल्लासे- श्रीमहादेव उवाच सहस्रार ततो नित्ये पसजे परमाद्भुते । पद्मस्य वीजकोषे तु भावयेत् खगुरु सदा ॥ श्रीपार्वत्युवाच सहस्रार महापद्मे सदा चाधोमुखे प्रभो। गुरुस्थितिः कथं देव सततं वद निश्चयम् ॥ श्रीमहादेव उवाच शृणु प्रिये प्रवक्ष्यामि यदेतत् पृष्टमुत्तमम् । सहस्रारं महापद्मं सहस्रदलसंयुतम् ॥ सदाशिवपुरं तत्तु नित्यानन्दमयं सदा। नानागन्धयुतं पद्मं सहजानन्दमन्दिरम् ॥ सदा चाधोमुखं पद्मं वीजमूर्द्धमुखं सदा। त्रिकोणाकाररूपण कुण्डलीसंयुतेन च ॥ इत्यादि । बालाविलासतन्वे- श्रीदक्षिणामूर्तिरुवाच प्रातरुत्थाय धवले सहस्रार गुरुं स्मरेत् । अधोमुखे महापद्म सर्ववर्णविभूषिते ॥ अकथादित्रिरेखाब्यहलक्षत्रयभूषिते । तदन्तश्चन्द्रविम्बस्थहंसपौठे स्मिताननम् ॥ श्रीदेव्युवाच : अधोमुखे गुरुस्तत्र कथं तिष्ठति च प्रभो। .. - M पादुकापञ्चकम् । १८ पादुकापञ्चकस्तोत्रं पञ्चवक्त्रादिनिर्गतम् । षड़ानायफलप्राप्तं प्रपञ्चे चातिदुर्लभम् ॥७॥ - . . श्रीदक्षिणामूर्तिरुवाच अधोमुखस्य पद्मस्य कर्णिकामध्यसंस्थितम् । चन्द्रविम्बचोर्द्धवक्त्रं तत्र हंसस्ततः स्थितिः ॥ इति ॥ एतदादिभिवचनैः सहस्रदलकर्णिकायां गुरोरवस्थितिविधीयते । एव- चोभयकल्पे विहिते श्रीनाथस्य आज्ञया तयोरकतरम् अवधायानुष्ठातव्यमिति सिद्धान्तः । अतएवोक्तं कुलार्णवे एकादशोल्लासे- पारम्पऱ्यांगमाम्नायं मन्त्राचारादिकं प्रिये । सर्व गुरुमुखाल्लब्ध सफलं स्यान्न चान्यथा ॥ इति ॥ ६ ॥ स्तोत्रफलश्रुतिमाह । पादुकापञ्चकस्तोत्रमिति । पदरक्षणाधारः पादुका तासां पञ्चकम् । पद्मम् ॥ १ ॥ .. तत्कर्णिकास्थले अकथादित्रिकोणम् ॥ २ ॥ तदन्तर्नादविन्दुमणिपीठमण्डलम् ॥ ३॥ तदधःस्थहंसः ॥ ४ ॥ पीठोपरि त्रिकोणम् ॥ ५ ॥ समुदायेन पञ्चसंख्यकम् । अथवा पद्मम् ॥ १ ॥ त्रिकोणम् ॥ २ ॥ नादविन्दु ॥ ३ ॥ मणिपीठमण्ड- लम् ॥ ४ ॥ तदूर्ख स्थत्रिकोणाकारकामकलारूपेण परिणतो हंसः ॥ ५ ॥ इति पञ्चसंख्यकम् । तस्य स्तोत्रम् । फलश्रुतिसहितसप्तश्लोकात्मकमित्यर्थः । पञ्चवक्त्रादिनिर्गतमिति । शिवस्य पञ्चवक्त्राणि यथा लिङ्गार्चनतन्त्रे सद्योजातं पश्चिमे तु वामदेवं तथोत्तरे । अघोरं दक्षिणे ज्ञेयं पूर्वे तत्पुरुषं स्मृतम् । ईशानं मध्यतो ध्येयं चिन्तयेद्भक्तितत्परः ॥ इति ॥ तेभ्यो विनिर्गतं तैरुतम् । 10 १०८ पादुकापञ्चकम् । षड़ानायफलप्राप्तमिति । षड्मुखानि यथा पूर्वोत्तानि पञ्च । षष्ठवतन्तु पूर्ववक्त्रस्याधस्तात् गुप्तं तामसम् । एतत्तु शिवतन्त्रे सद्योजातादिषड्वक्त्र- न्यासे “ॐ हं हों औं ह्रीं तामसाय स्वाहा” इत्यनेन तत्रोक्तध्याने "नौल- कण्ठमधोवक्त्रं कालकूटखरूपिणम्” इत्यनेन च प्रकटितम् । मिलित्वा षड्वत्राणि भवन्ति । एभिः षड्वरामायते कथ्यतेऽसौ इति षड़ानायः शिवोक्तस्तोत्रसमुदायः। तस्य फलं तत्तन्मन्त्रसमुदायविहितकम्मफलं प्राप्यते येनेत्यर्थः। प्रपञ्चे लिङ्गाद्याब्रह्मपर्यन्तमायाप्रकटितसंसारे। अतिदुर्लभमिति अति- दुःखेन लभ्यते यत्तदतिदुर्लभं तल्लाभकरणपुण्यपुञ्जजनकजन्मान्तरीयतपसः क्लेशखरूपत्वात् दुःखलभ्यत्वमिति भावः ॥ ७ ॥ इति श्रीकालीचरणकृता पादुकापञ्चकस्तोत्रस्य अमलानामटिप्पनी समाप्ता। ॥ * ॥ ॐ तत् सत् ॥ * ॥ --
षट्चकविवृतिः ।
।
( विश्वनाथकृता।)
रा
ॐ श्रीगुरवे नमः।
:
टीका श्रीविश्वनाथेन नत्वा सन्तन्यतेऽम्बिकाम् ।
कैवल्यकालिकातन्त्र दितीयपटलस्य च ॥
वृतरूपी परमेश्वरः वशिष्ठाय कुलभावमुक्ता कुलाचारं विना तस्मिन्
नाधिकारः अतस्तदुपदेष्टुं गुरुसम्मानपूर्वकमाह यज्ञातेनेत्यादि। तथाच
कालिकापुराणे-
यः पूजयेहान्यभावेन तस्य ऋणशोधनम् ।
पिटदेवनरादीनां जायते न कदाचन ॥
सोऽभ्यस्य त्रिपुरायोगं तेन योगेन संयुतः ।
जायते यदि सुप्राज्ञस्तदा मोक्षमवाप्नुयात् ॥
त्रिपुरायोगं कुण्डलिनीयोगं कुण्डलिन्याः सर्वदेवात्मकत्वात् ।
उक्तं “सर्वदेवमयी सा हि" इति ॥ * ॥
मेरोमेरुदण्डस्य बाह्यप्रदेश कोड़े शशिमिहिरशिरे इडापिङ्गलानायौ ।
"मेरुदण्डवहिःपाखें चन्द्रसूयात्मके” इति मायातन्त्रात् । तयोः स्थिति-
प्रकारमाह टीकाकारततन्वे-
वाममुष्कात्तु सम्भूता नाड़ी दक्षिणगामिनी।
सुषुम्राकलिता जाता वामभागं समाश्रिता ॥
११० षट्चक्रवितिः । . . हृगता दक्षभागस्था जत्रुमध्यं समाश्रिता। वामन्तु नासिकाहारं प्राप्नोति गिरिजऽमले ॥ नाड़ी दक्षिणमुष्कात्तु सञ्जातोत्तरगामिनी। सुषुम्नाकलिता जाता भागं दक्षिणमाश्रिता ॥ हृद्गता वामभागस्था जत्रुमभ्यं समाश्रिता । दक्षिणं नासिकाहारं प्राप्नोति गिरिजेऽमले ॥ चापाकृतिर्भूत्वा दक्षिणगामिनी उत्तरगामिनीति ध्येयम् । मध्ये नाड़ी सुषुम्नेति । मध्ये मेरुदण्डस्य मध्यस्थ विवरे । मेरुदण्डवहिःपाखें चन्द्रसूयात्मिके शिरे । मध्ये सुषुम्ना-इंति मायातन्त्रात् । स्पष्टमाह सारसमुच्चये- या मुण्डाधारदण्डान्तरविवरगता हारनीहारगौरी ... . सौधौं धारां नभोऽम्भोरुहकुहरविधोः संस्रवन्तों वहन्ती। । तस्या वज्राख्यनाड्या खगमुदरदरीमध्यगं यो विदध्यात् तस्या ब्रह्माण्डभाण्डप्रलयमपघनं स्याधनं मृत्युमृत्योः ॥ सा कीदृशी ? हारनौहारगौरी मुक्ताहारनौहारगौरी। “गौरोऽरुण सिते पीते" इत्यमरः । एतेन सुषुम्नान्तर्गतायाः वजाया मेरुदण्डान्त- विवरगतात्वकथनेन: सुषुम्नाया अपि मेरुदण्डान्तविवरगतात्वसिद्धिः । यहा या मुण्डाधारदण्डे यदन्तरं विवरं तत्र विवरगता अर्थात् सुषुम्नाया विवरगता। अन्तरं अवकाशावधिपरिधानान्तईिभेदतादर्थ्य छिद्रात्मीय विना वहिरवसरमध्ये अन्तरात्मनि च ॥ इत्यमरः । एवञ्च सुषुम्नाकलिता इति परम्परया आश्रिता इत्यर्थः । यद्दा तत्र तत्र स्थाने मेरुदण्ड भित्त्वा सुषुम्राकलिता इत्यर्थः । गौतमीयेऽपि- विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं मुने । चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मक्यरूपकम् ॥ ? - . ।
षट्चक्रविशतिः।
१११
M
तिस्रः कोव्यस्तंदर्द्धन शरीरे नाड़यो मताः ।
तासु मुख्या दशप्रोक्तास्तासु तिस्रो व्यवस्थिताः ॥
प्रधाना मेरुदण्डेऽत्र चन्द्रसूयाग्निरूपिणी ।
इड़ावामे स्थिता नाड़ी शुक्ला चन्द्रस्वरूपिणी ॥
शक्तिरूपा तु सा नाड़ी साक्षादमृतविग्रहा।
दक्षिणे या पिङ्गलाख्या पुंरूपा सूर्यविग्रहा।
सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी ॥
मेरुदण्डे मेरुदण्डान्तरविवरे । सारदायामपि-
षणवत्यमुलायाम शरीरमुभयात्मकम् ।
गुदध्वजान्तरे कन्दमुत्सेधावाङ्गलं विदुः ॥
तस्माद्विगुणविस्तारं वृत्तरूपेण शोभितम् ।
तत्र नाड्यः समुत्पन्ना मुख्यास्तिस्रः प्रकीर्तिताः ॥
इडावाम स्थिताःनाड़ी दक्षिणे पिङ्गला मता।
तयोम्मध्यगता नाड़ी सुषुम्ना वंशमाश्रिता ॥
पादाङ्गुष्ठहयं याता शिफाभ्यां शिरसा पुनः ।
ब्रह्मस्थानं समापना चन्द्रसूर्याग्निरूपिणी ॥
भट्टाः शिफाभ्यां मूलाभ्याम् । . शिरसा अग्रभागेन । वंशं पृष्ठवंशम्
आश्रित्य । विवरगतात्वमुक्तम् । या मुण्डाधारदण्डान्तरविवरगतेत्यनेनाहुः ।
तन्त्रान्तरे तु-
व्योम प्रोद्भिद्य नासाग्रे गतौ चन्द्रदिवाकरौ ।
अधोवक्त्रं महापद्मं क्रोडीकृत्य सुषुम्नया ।
व्याघुव्य नासिकामध्यं गतं चित्रा तु तहता।
अई भित्त्वा तु लिङ्गं वै इतरान् पुष्करान् तथा ॥
वहिरुगमनाकाहाकाङ्गिनी मोक्षदायिनी ।
जीवनाहतसम्बन्धात् स्थिता सप्तमसंविधौ ॥
तहता सुषुम्नान सा तु तत्समदेशं गता लिखिष्यामः न विरोधात् ।
.
११२ षट्चक्रवितिः। MARI -- अतएव सप्तमसंविधौ इत्युक्तम् । नासिकामध्यं नासिकाइयमध्यस्थानं न तु नासिकायमध्यं गता तत्र इडापिङ्गले गते । अतएव “कुम्भयेच्च सुषुम्नया" इति सङ्गच्छते । त्रितयेति । यतः सोमसूर्याग्निरूपा अतस्त्रितयगुणमयौ । सुषुम्ना कीदृशी ? स्मेरं प्रस्फुटितं तथाच प्रस्फुटितकनकधूस्तूरपुष्पमिव ग्रथितं वपुर्यस्याः सा तथा । यथा कनकधूस्तूरपुष्पस्य मध्ये अन्यत् पुष्पम् एवम्भूत- ग्रथिततमवपुरिति भावः । केचित्तु प्रथिततमवपुरिति पाठमाहुः । कुतः सुषुम्ना उत्पन्ना तदाह कन्दमध्यादिति । कन्दरूपमाह सारदायाम्- गुदध्वजान्तरे कन्दमुत्सेधायगुलं विदुः । तस्य हिगुणविस्तारं वृत्तरूपेण शोभितम् ॥ तत्र नायः समुत्पन्नाः । इत्यादि । गोरक्षसंहितायान्तु- जड़े मेदादधी नाभः कन्दयोनिः खगाण्डवत् । तत्र नाद्यः समुत्पत्राः सहस्राणां हिसप्ततिः ॥ इत्युक्तम् । कन्दयोनिः कन्दरूपोत्पत्तिस्थानम् नाडीनामित्यर्थः । वजा- ख्यानाडीमाह वजाख्येति। मेदेशात् लिङ्गमूलात् शिरःपर्यन्ता इत्यर्थः । कुत्र सा ? तदाह । अस्या मध्ये सुषुम्नायामध्ये ज्वलन्ती उज्ज्वलन्तीत्यर्थः । “मध्यमञ्चावलग्नञ्च मध्योऽस्त्री" इत्यमरः। मायातन्त्रेऽपि मध्ये सुषुम्ना तन्मध्ये वजाख्या लिङ्गमूलतः ॥ इति ॥ * ॥ चित्रानाडौमाह तन्मध्य इत्यादिना । तन्मध्ये वजामध्ये । विलसिता आज्ञाचक्रस्थप्रणवाधारत्वात्। सा कोदृयो ? सकलसरसिजान् भित्त्वा एतत् पद्मं ग्रथनरचनया देदीप्यते । पद्मं किम्भूतम् ? मेरुमध्यान्तरस्थं मेरुमध्ये यदन्तरं विवरं परम्परया तत्स्थम् । मध्ये सुषुम्ना तन्मध्ये वजाख्या लिङ्गमूलतः । तन्मध्ये चित्रिणी सूक्ष्मा विसतन्तु सहोदरा । मूलमूलात् सहस्रारस्तदन्तर्बधनाडिका ॥ . प्रणव- .
षट्चक्रविशतिः । -: 16 1 तथा- मूलादिषट्सरोजातं चित्रिणीग्रथितं प्रिये । लिङ्गाधोड़नाभिवुक्ककण्ठभूमध्यदेशजम् ॥ इति मायातन्त्रात् । मूलमूलात् सहस्रारस्तन्मूलाधारमूलात् सहस्रार तथाच सहस्रारं चित्रिण्या ग्रथितम् । अत्र च- तस्या मध्ये विचित्राख्या अमृतस्राविणी शुभा। सर्वतेजोमयो सा तु योगिनीहृदयङ्गमा । विसर्गाहिन्दुपर्यन्तं व्याप्य तिष्ठति तत्त्वतः ॥ इति गौतमीयवचनस्य विन्दुपर्यन्तं इन्दुपय॑न्तमिति वा पाठः। ललाटस्थ- विन्दुपर्यन्तं इन्दुपर्यन्तं वा व्याप्य सहस्राराधोदेशपर्यन्तगा तहतीत्यर्थो बोध्यः । ... केन चित्रायां पद्मानि सन्ति तदाह तन्वचूडामणी- तयैव ग्रथितं पद्मं मूलादिपद्मपञ्चकम् । कलिकाकाररूपेण डाकिन्याद्यवलम्बितम् ॥ तयैव चित्रयैवः पद्मं मूलादिषडिति शेषः। पद्मपञ्चकं स्वाधिष्ठानादि- पञ्चकं कलिकाकाररूपेण ग्रथितमिति सामान्यत उक्त्वा विशेषरूपेणोक्तम् । एतेन मूलाधारपद्मं विकसितं एवं समस्तपद्मान्यधोमुखान्येव । तदुक्तं कौलिकतन्त्रे ताराकल्पे- सप्तपनं मयैवोक्तं सुषुम्नाग्रथितं प्रिये । अधोवत्रादिमान्तञ्च नाख्येयं यस्य कस्यचित् ॥ येन तस्याश्चित्रात्वं तदाह श्रीक्रमे तस्याश्चान्तर्गता तिष्ठेत् चित्राख्या. योगिबल्लभा । पञ्चवर्णोज्ज्वला देवि पञ्चभूतप्रकाशिनी। पञ्चदेवाः पर्वलग्नाः सप्तान्या नाड़यो मताः ॥ अन्यत्रापि- ब्रह्मा जनाईनो रुद्र ईखरच सदाशिवः । चित्राख्यनाद्यन्तरस्थाः पञ्चभूताधिदेवताः ॥ 1- । 8 १५ ११४ षट्चक्रवितिः। अत्र पञ्चभूतानां पञ्चाधिदेवता उताः। भूमध्ये तु परशिवोऽस्ति लिखिथमानवचनात् ॥ ब्रह्मनाडीमाह तस्यान्तरिति । तस्यां चित्रायां तब्रह्मन नाड़ी प्रसिद्ध- ब्रह्मनाड़ी। हरमुखकुहरात् मूलाधारस्थखयम्भूलिङ्गमुखविवरात्। आदि- देवान्तसंस्था ब्रह्मपर्यन्ता । मायातन्त्रेऽपि “शिरा स्यात् ब्रह्मपर्यन्तम्" इत्यादि। विद्युन्मालेव विलासो यस्याः सा। पद्मसूत्रतुल्या अतः सूक्ष्मा। शुद्धज्ञानिनः प्रबुध्यन्ते ज्ञायन्ते यया सा तथा। अमृतस्राविणोत्वात् सकल- सुखयुता। भावो मनोधमः स्वभावः आत्मधर्मः शुद्धो भावः खभावो सा इति पञ्चम्यन्तबहुव्रीहिः । “भावो हि मानसो धमः" यस्याः इत्युक्तः । ..... .. । येन हारेण कुण्डलिन्या ब्रह्मणि गमनं तत् बारमाह ब्रह्महारमिति । तदास्ये ब्रह्मनाया पास्ये । मूलाधारात् सहस्रारस्तदन्तब्रह्मनाडिका । शिरा स्यात् ब्रह्मपर्यन्तं तदन्तरिमुत्तमम् ॥ इति मायातन्त्रात् । . ब्रह्मदारमुखं नित्यं मुखेनावृत्य तिष्ठति येन हारेण गन्तव्यं ब्रह्मस्थानं निरामयम् । मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेखरी ॥ इति गोराक्षसंहितावचनाञ्च । सुधेति सुधाकणासुतिप्रदेशं ग्रन्थिस्थानम् एतद्दारं सुषुम्नाया नाद्या वदनं धीरा वदन्ति ॥ * ॥ आधारपद्ममाह अथेत्यादिना । षमवत्यङ्गुलायामं शरीरमुभयात्मकम् । गुदध्वजान्तरे कन्दमुत्सेधाद्दयङ्गुलं विदुः । तस्य दिगुणविस्तारं वृत्तरूपेण शोभितम् ॥ इति सारदोतकन्द एव मुख्यनाड़ी एव प्रन्थिस्तदूधे ध्वजाधः सुषुमास्य- लग्नम् ।
षट्चक्रवितिः। ११५ . . ॥ . . NA- । -- तथा च मायातन्ले- मुख्यनाडीत्रयं ग्रन्थेरूई वजाध ईखरि !। रक्तपर्णो वेदवर्णो मूलाधारोऽप्यवाङ्मुखः ॥ इति ॥ उद्यत् प्रस्फुटितम् । तयैव ग्रथितं पद्मं मूलादिपद्मपञ्चकम् । कलिकाकाररूपेण डाकिन्याद्यवलम्बितम् ॥ इति वचनात् । पूर्वमेव व्याख्यातं तत् । सुवर्णाभवणैरिति। तथाच दक्षिणामूर्ती- आधार स्वर्णवर्णेऽस्मिन् वादिसान्तानि संस्मरेत् । द्रुतसौवर्णवर्णानि वर्णानि परमेश्वरि ॥ इति ॥ सारसमुच्चये षट्सुः पद्मेषु वर्णा: विन्दुयुक्ता उता ग्रन्थगौरवभिया नात्र प्रकटिताः । चतुष्कोणचक्रमिति । तथाच मायातन्वे- तत्कर्णिकान्तर पृथ्वी चतुष्कोणा सुपीतभा ॥ इति ॥ तथा तन्त्रान्तरे- भूग्रहं चतुरस्रं स्थादम्भोवनविभूषितम् ॥ इति । धराया: खवीजमिति तथाच सारदायाम्- वृत्तं दिवस्तत् षड़विन्दुलाञ्छितं मातरिश्मनः । त्रिकोणं स्वस्तिकोपेतं वङ्गेरडेंन्दुसंयुतम् ॥ अम्भोजमम्भसो भूमेश्चतुरस्रं सवजकम् । तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधाः । वर्ग: खैरञ्जितान्यासन् खखनामावृतान्यपि ॥ तत्तद्भूतसमवर्णानि मण्डलानि तथा स्वैवर्णै: ह य र व ल वर्णैर्युक्तानि । तथा स्वखनामावतानि पृथिव्यादीनां वस्त्रनामावृतानीत्यर्थः। एतदनुसारण सर्वेषु पत्रेषु स्वखवीजानि नेयानि ॥ * ॥ चतुर्बाहुः इति। अत्र पद्मे ब्रह्मास्तीत्याह तदतइत्यादिना । नवीनार्क- . -- ।
षट्चक्रविशतिः। " -- 4 तुल्यप्रकाश: रतवर्णः सृष्टिकारी ब्रह्मा चतुर्बाहुयुक्तः चतुर्भागवेदी मुखाम्भोजलक्ष्मीर्यस्य स तथा ॥ * ॥ अत्र डाकिनी शक्तिरस्ति इत्याह वसेवेति । तथाच भवततन्त्रे- मूलाधारं ब्रह्मस्थानमेतत् सौवर्णाभं डाकिनी देवी तत्रेति । एषा डाकिनी अनेकसूर्यप्रकाशा। अतिशयरता इत्यर्थः । तन्वान्तरे- रता रतत्रिनेत्रां पशुजनभयवच्छूलखट्वाङ्गहस्तां वामे चैकं दधानां चषकमपि सुधापूरितं चैकवताम् । इति । शुद्धबुडेः प्रकाशं वहन्तीत्यन्वयः ॥ * ॥ मध्ये अवान्तरदेवंतादिकमभिधाय प्रकृतमाह वजाख्येति । वजाख्याया वत्रदेश सामीप्ये सप्तमी अधोभागे इति यावत् । मुख्यनाडीत्रयं ग्रन्थरूड़े वज्जाध ईखरि!। इति मायातन्त्रात् । कर्णिकामध्यसंस्थं पुराख्यं त्रिकोणं एतत् काम- रूपाख्यं त्रिकोणं तत् कामरूपाख्यं कन्दर्पो वह्निः समन्तात् भ्रमति । नाम प्रकर्षे जीवेशो वायुश्च निवसति । तथाच मायातन्वे- तत्कर्णिकान्तरे पृथ्वी चतुष्कोणा सुपीतभा । तन्मध्ये योनिमध्ये च वह्निवायोः समाश्रये ॥ इति ॥ श्रीक्रमेऽपि कर्णिकायां स्थिता योनिः कामाख्या परमेखरी । अपानाख्यं हि कन्दर्पम् आधार तत्रिकोणके । स्वयम्भूलिङ्गं तन्मध्ये पश्चिमाभिमुखं प्रिये ॥ रुद्रयामलेऽपि- भ्रमद्योनिगतं ध्यायेत् कामं बन्धूकसन्निभम् । ज्वलकालानलप्रख्यं तडिकोटिसमप्रभम् । तदेवाह जीवेश इत्यादिनाः। बन्धूकपुष्पसमूहमभिहसन् तदधिकरतवर्ण इति भावः। “बन्धूकः बन्धुजीवकः" इत्यमरः 'आधारे तत्रिकोणके" इत्युक्तावात्। ma- . - - m- .. - .
षट्चक्रवितिः। ११७ L तथा- .... मूलाधारे त्रिकोणाख्ये इच्छाजानक्रियात्मिके । मध्ये स्वयम्भूलिङ्गस्तु कोटिसूर्यसमप्रभः । इति गौतमीयात् । तथाः- अधोमुखो लिङ्गरूपी हेमाभो भ्रमणे रतः । इति ॥ * ॥ पुनरपि मायातन्त्राचाह. तन्मध्ये इति। त्रिकोणमध्ये लिङ्गरूपि स्वयम्भूलिङ्गम् । द्रुतसुवर्णकला इति कोमलः सुवर्णवर्णयोगित्वात् कोमलत्वाच्च तथाभिहितम् । पश्चिमास्यः अधोमुखः । ज्ञानध्यानाभ्यां प्रकाश्यते. यः स तथा। प्रथमकिसलयाकाररूप: नूतनपल्लवाङ्गुराकारः भिद्यते इति। तथाच पूर्ण- चन्द्रादधिकरससमूह इत्यर्थः । स्निग्धं सन्तानं स्निग्धसमूहं हसतौति स्निग्ध- सन्तानहासी , काशीवासीत्यादिविशेषणम्। सरितां : आवतः चक्रवत् जलानां भ्रमणं तद्रूपप्रकाशो यस्य स तथा। "स्थादावर्तोऽम्भसां भ्रमः" N इत्यमरः ॥*॥ यस्याः सा तथा। तल्लिङ्गं साईत्रिवलयेनावेध्य कुण्डलिनी शक्तिरस्ति इत्याह तस्यो. इत्यादिना। विसतन्तुसोदरतुल्या सा चासौ कला प्रकृतिश्चेति सा तथा । अतः सूक्ष्मा। नवीनचपलामाला तस्या विलासनशोभया सह प्रास्पदं पास्पा यस्याः सा तथा । “तडित् सौदामिनी विद्युत् चञ्चला चपलापि च" इत्यमरः। सुप्ता निद्रिता शिवोपरि लसत् साईत्रिहत्ता प्राकृतिः शरीरं सा तु अधोवता। यथा श्रीक्रम- अधोवत्रा स्थिता देवी जड़े पुच्छातिशोभना। अत्र विद्युल्लताकारा कुण्डली परदेवता । परिस्फुरति सर्वामा सुप्ताहि भुजगावतिः । ब्रह्महारमुखं नित्यं मुखेनावृत्य तिष्ठति ॥ येन हारण गन्तव्यं ब्रह्महारं मनोमयम् । मुखेनाच्छाद्य तबारं प्रसुप्ता परमेखरी ॥
.. -- ११८ षट्चक्रविति। मस्तके मणिवद्भिन्ना स्वयम्भूलिङ्गवेष्टिनी ॥ योगान्तरेऽपि- मुखेनाच्छाद्य तहारं कुण्डलीशक्तिरज्ज्वला। निद्रावशगता देवी प्रसुप्तभुजगोपमा ॥ : तथा मायातन्त्रेऽपि- साईत्रिवलयानन्दा नन्दिता भास्करप्रभा ॥ इति ॥ * ॥ कूजन्तीति। उत्थिता सतीति शेषः । तथा च तन्त्रान्तरे- झिल्लीराव्यक्तमधुरा कूजन्ती सततीस्थिता ॥ इति ॥ कोमलवाक्यैवाचं कूजन्तीत्यर्थः । तत् प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् । वर्णान्तराविर्भवति गद्यपद्यादिभेदतः ॥ इति सारदोतः तत् चैतन्यम् । खासोच्छासविभञ्जनेन वायुना यया जगतां जीव: जीवात्मा हंसः धार्यते । विभत्ति कुण्डली शक्तिरात्मानं खं समाश्रिता। हंसः प्राणाश्रयो नित्यं प्राणो नाडीपथाश्रयः ॥ आधारादुगतो वायुर्यथावत् सर्वदेहिनाम् । देहं प्राप्य खनाडीभिः प्रयाणं कुरुते वहिः । हादशाङ्गुलमानेन तस्मात् प्राण इतीरितः ॥ भट्टाः कुण्डली पात्मानं परमात्मानं विभर्ति तद्योगिभासिनीत्यर्थः । कीदृशी ? स्खं जीवात्मानम् आश्रिता जीवाधिष्ठाना सतीत्यर्थः । हंस: प्राणा- श्रयः प्राणवायुसमाश्रयः प्राणः नाडीपथाश्रयः। कथं प्राणस्य नाडीपथा- श्रयत्वम् ? इत्यत आह आधारति। प्रयाणं कुरुते इति प्राणः इति प्राणपदव्युत्पत्तिरपि दर्शितेत्यन्तेनाहुः । दक्षिणामूर्ती तु- उच्छासे चैव निखासे हंस इत्यक्षरयम् । तस्मात् प्राणस्तु हंसाख्य आत्माकारेण संस्थितः ॥ है. ~4 . .
षट्चक्र विकृतिः। Ju " . - षट्शतान्यधिकान्यत्र सहस्राण्येकविंशतिः । अहोरात्रं चरेहायुः स जपो मोक्षदायकः ॥ अन्यत्रापि- स:कारेण वहिर्याति हंकारेण विशेत् पुनः ॥ इति । प्रौद्दामदीप्तश्रेणौ ॥ * ॥ तस्याः कुण्डलिन्या मध्ये परमा नाम्नी शक्तिरुच्यते तन्मध्ये इत्यादिना। परमा उत्कृष्टा परापरानाम्ना अतिसूक्ष्मा । तथाच भवततन्त्रे सूक्ष्मा कुण्डलिनीमध्ये ज्योतिमाया परा मता । इति । सा एव परमात्मवरूपा। तथा च श्रुतिः- तस्याः शिखाया मध्ये तु परमा सा व्यवस्थिता । इति । नित्या ध्वंसप्रागभावरहिता । आनन्दपरम्परा आनन्दसमूहयुक्ता। प्रति- चपलायमाना विद्युल्लता इव लसत् दीधितिर्दीप्तिर्यस्याः सा तथा। यस्याः कलायाः प्रभया ब्रह्माण्डादिकटाहान्तं जगत् शरीरं भासते सा विजयते । नित्यज्ञानस्य उदयो यस्यां सा। काव्यबन्धैाक्यैः वृहस्पतीन् सेवते. गौरव बहुवचनम् ॥ * ॥ स्वाधिष्ठानाख्यपद्ममाह सिन्दूरेत्यादिमा। अङ्गच्छदैः षट्पनैः विद्युत्- प्रकारवाद्यः पुरन्दरान्तर्वादिलान्तः सविन्दुकं परिवृतं पद्मम् । तथा च मायातन्त्रे- तदूद्धे तु महेशानि स्वाधिष्ठानमृतुच्छदम् । रक्तवर्ण कर्णिकायामनमर्डेन्टुसंयुतम् । मण्डलं वारुणं देवि तदू. मणिपूरकम् ॥ इति । दक्षिणामूत्तौ- स्वाधिष्ठाने विद्रुमाझे वादिलान्तानि संस्मरेत् । विद्युत्युञ्जसमाभानि विद्युद्भासितमस्तके ॥ इत्यादि । सारदायां विशदप्रकाशं शुक्लवर्णं तत्तद्भूतसमाभानीति प्रागुक्तम् । -- . .
षट्चक्रविकृति । १२० अम्भो षड्दलपमं अर्द्धचन्द्रयुतम् । वं वीज मकराधिरूढ़े स्वाधिष्ठानं विणुगेहं प्रदिष्टम् । बालाभिं राकिणी देवतात्र ॥ इति वचनात् ॥ * ॥ तस्याङ् इत्यादि । नौलद्युतिरूपो मनोजश्रियं शोभाम् आदधानः । गौतमीये- खशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः । नीलाम्बुजे देवसदृशकमनीयता शोभा यस्याः सा! नानायुधेति । तदुक्तं तन्त्रान्तरे- श्यामां शूलाञहस्तां डमरुकसहितां तीक्ष्णटङ्गं वहन्तीम् .... देवौं रक्तत्रिनेत्रां हितयदललसइंष्ट्रदन्तप्रभाभिः। इति । स मोहाड्तान्धकारसमूहे भानुतुल्यः तवाशको भवतीति । मुधेति महत्तुषकाव्यसमूहसम्पत्तिं भजन्ते। अत्र पश्यन्ती शक्तिरस्ति प्रमाण विशुद्धपद्मव्याख्याने लिखिष्यते ॥ * ॥ मणिपूरपद्ममाह तस्योड़ें इत्यादिना । मणिवद्भिवं तत् पद्मं मणिपूरं तथोच्यते । नीलवर्णे नोलवणंडादिफान्तवर्णैर्युते । तथा च दक्षिणामूत्तौ- सुनीले मणिपूरक डफान्तानि महानीलमभानि परिचिन्तयेत् । वङ्गेमण्डलं बीजं चाह वैश्यानरस्येत्यादिना। वैश्यानरस्य वहुमण्डलं रक्तवर्ण त्रिकोण तबाहो त्रिभिः स्वस्तिकैहकाराकारैर्युक्तम् । मायातन्ले- दशपत्रं पयोजातं कर्णिकायां महेखरि। वायं मण्डलं र त्रिकोणं स्वस्तिकान्वितम् ॥ खबीजं रेफः । “वणे: खै रञ्जितान्यासन्" इति प्रागुक्तः प्रातःसूर्यसम- रतवर्णम्। मणिपूरन्तु नौलं रुद्रस्थानं लाकिनी देवतात्रेति वचनात् । तामाह रुद्रमूर्तिरित्यादिना । शुद्धसिन्दूररागः अतिशयरक्तवर्णः। वेद- बाइब्वलाङ्गीत्यादि। . . -- षट्चक्र विवतिः । १२१ . -- हादशवणैः -- तदुक्तं तन्वे- कृष्णां देवीं त्रिवक्तां त्रिनयनसहितां कुजिनोमुग्ररूपां वजं शक्तिं सदण्डामभयवरकरां दक्षवामे दधानाम् । इत्यादि । ज्ञानेति । ज्ञानसमूहेन सह लक्ष्मीस्ताम् ॥ * ॥ अनाहतपद्ममाह तस्योद्धे इत्यादि। बन्धूकपुष्पकान्तिस्वरूपरतवर्ण कादिठान्तः सिन्दूरवर्णैः युक्तम् । तथाच दक्षिणामूर्ती पिङ्गवणे महावनिकलिकामानि संस्मरेत् । कादिठान्तानि वर्णानि चतुर्थेऽनाहते प्रिये ॥ तन्मध्ये षट्कोणपद्मं वायुमण्डलम् । तथाच मायातन्वे- अनाहतं. हादशारं रताभं हृदि सुव्रते। । तन्मध्ये पावनं पद्म षट्कोणं धूम्रवर्णकम् ॥ * ॥ : वायुबोजमाह तन्मध्ये इत्यादिना। पवनाक्षरं यं। प्रमाणं आधारपद्म- व्याख्याने उक्तम् । धूसरं ईषत् पाण्डुरम् । हस्तचतुष्टययुक्त कृष्णसाराधिरूढ़म् । रक्तमनाहतमोखरगहन्तु काकिन्यपोहोक्ता इति वचनात् । तदेवाह तन्मध्ये करुणानिधानमित्यादिना । ईश्वराभिधं ईश्वरनामानम् । हंसाभं सूर्यप्रभम् । अभयवरदपाणिद्दययुक्तम् । तत्र काकिनी नवतडित्पीता गौरवर्णा । त्रिनेत्रा। पाशकपालवराभयान् चतुर्भिर्भुजैः विधती। कङ्गाल इति अस्थिमालाधरा । "स्यात् शरीरास्थिकङ्कालः” इत्यमरः। तथाच सन्चे- काकिनी मेघसंस्थाम् पाशं शूलं कपालं डमरुमपि करैर्धारिणौं पीतवणीं 'दध्यन्ने सक्तचित्तां स्ववयवनमितां वारुणीमत्तचित्ताम् । शूलडमरुस्थाने वराभयं तथा अस्थिमाला तन्त्रान्तरे उत्तम् । वाणलिङ्गं तु तन्मध्येऽधोमुखे शक्तिके इति । निस्त्रिकोणयुक्त इति क्रमात् । तथा- तन्मध्ये बाणलिङ्गन्तु मूर्यायुतसमप्रभम् । शब्दब्रह्ममयः शब्दो न हेतुस्तदहेतुकः ॥ . + '. . OM : १६ षट्चक्रवितिः। १२२ अनाहताख्यं तत्पद्मं पुरुषाधिष्ठितं परम् ॥ पुरुषेण जीवात्मना इति गौतमीयाच्च । त्रिकोणं बाणलिङ्गं जीवात्मान- चाह एतबीरजे इत्यादिना। कनकं बन्धूकपुष्पसदृशं बन्धूकः पुष्यविशेषः तहदङ्गरागोज्ज्वलः । हेमबन्धूककुसुमशरच्चन्द्रनिभानि च । इति योगिन्येकवाक्यत्वात्। स्वयम्भूबाणलिङ्गेतरलिङ्गविशेषणं हेमादि । मौलौ मस्तके सूक्ष्मविभेदयुक्तो विवरयुक्तो मणिरिव दीप्तचिह्नालयः। शवस्य देवस्य पीठालयं निवातदीपशिखाकारहंसेन जीवात्मना शोभितम् । माया- तन्वेऽपि-- "आत्मा तत्र प्रदीपाभ:" इति । भानोरित्यस्य मण्डलपदेनैकदेशन सहावयः । तेन मण्डलमण्डितं अन्तरं मध्यं यस्य स चासौ लसत्किजल्कश्चेति स तथा । तस्य शोभाधरम् । “किचल्कः केशरोऽस्त्रियाम्" इत्यमरः ॥ * ॥ विशुद्धपद्ममाह विशुद्धाख्यमिति । हिमच्छायायुक्तस्योपरिलसितशरीरस्य चतुर्भिर्भुजैः पाशाङ्कुशादिलसितैः शोभितशरीरस्य दीप्तबुद्धेः उद्दीप्तज्ञानस्य। हिमाभ: शुक्लः सदाशिव इल्याख्यायुक्तः सिद्धः प्रसिद्धः । तथा तन्त्रान्तरेऽपि सदाशिवस्थानमिदं विशुद्ध शकिन्यथहापि च धूम्रवर्णा । सुधासिन्धोः शुद्धा शुक्ला। तथाच तन्त्रान्तरे- देवी ज्योतिःवरूपां त्रिनयनविलसत्पञ्चवक्त्वां. सुदंष्ट्रीं हस्ताम्भोजषु चापं शूलमपि दधतीं पुस्तकं ज्ञानमुद्राम् । इति । पुस्तकज्ञानमुद्रामिति शरं पाशम् इति तन्वान्तर उक्तम् । सुधांशोश्चन्द्रस्य मण्डलम् । तथाच खच्छन्दसंग्रहे- अमृताद्यास्तथाकाशं चन्द्रविन्दं तदूर्द्धतः । कण्ठोड़े परमेशानि लम्बिका चतुरङ्गुले ॥ मतिशीलस्य ज्ञानशीलयुक्तस्य शुद्धेन्द्रियस्य जनस्य महामोक्षदारसम्पत्तिं दधत् मण्डलमित्यर्थः । स जीवी विपदां अन्धकारस्वरूपाणां ध्वंससूर्य- प्रकाशः । अत्र वैखरी शक्तिरस्ति । " १... . ... UA
षट्चक्रवितिः ।
१२३
॥
तथाच भट्टकृततन्ले-
सूक्ष्मा कुण्डलिनीमध्ये ज्योतिम्माना परा मता।
अश्रोत्रविषयात् तस्मात्
किञ्चिदेवोडगामिनी
स्वयंप्रकाशा पश्यन्ती सुषुम्नानाभिमाश्रिता ।
सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी ॥
तत: संजल्पमात्रा स्यादविभत्तोड़गामिनी ।
सैवोरुकण्ठतालुस्था शिरोघ्राणवदाश्रिता ॥
जिह्वामूलोष्ठनिष्ट्रयता कतवर्णपरिग्रहा।
शब्दप्रपञ्चजननी श्रोत्र ग्राह्या तु वैखरी ॥ * ॥ :
आज्ञाचक्रमाह आज्ञानामत्यादिना। गौतमौथे-“आज्ञासंक्रमणं तत्र
गुरोराज्ञेति कौर्तितम् ।” चन्द्रतुल्यक्लेदजनक ध्यानस्थानं प्रकाशस्वरूपम् ।
हक्षाभ्यां विशुद्धाभ्यां कलाभ्याम् अक्षराभ्यां युक्तं विपत्रम् अतीवशुभम् ।
मायातन्वेऽपि-“आज्ञाख्यं द्विदलं शुभम्” इति ।
दक्षिणामूर्तावपि-
आज्ञायां विद्युदाभायां शुधौ हक्षौ विचिन्तयेत् ।
हाकिनौति । तन्त्रान्तरेऽपि-
अाज्ञापुरं शारदचन्द्रशमं हाकिन्यथोक्ता शिवगेहमेतत् ।
विद्या पुस्तकम् । मुद्रा ज्ञानमुद्रा अङ्गुष्ठतर्जनौमिलिता । तन्वे-
प्राज्ञास्थां शुक्लवणां डमरुकसहितामक्षसूत्रं कपालं
विद्यां मुद्रां दधानां त्रिनयनविलसदुक्तषटकोणयुक्ताम् । इति ।
सूक्ष्मञ्च तप्रकाशवरूपञ्चेति तत् तथा ।
मायातन्वेऽपि-
आज्ञाख्यं द्विदलं शुभं कर्णिकायां मनोलयम् । इति ।
• सिद्ध नित्यं सिद्धशब्दो नित्यार्थः इति वैयाकरणाः । इतरशिवपदं इंकाल
तरति इति इतरं शिवस्य परशिवस्य पदं इतरञ्च तत् शिवपञ्चेति तत् ।
..
षट्चक्र विवृतिः। mmmmmmmmm अतएव लिङ्गचिङ्गेन लिङ्गाकारण प्रकाशो यस्य तत् । विद्युन्मालेव प्रकाशो यस्य तत्। योगिनीहृदये- इतरञ्च पुनस्तथा शरच्चन्द्रनिभं सदा । इति । आनन्दलहयामपि- तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं परं शम्भुं वन्दे परिमिलितपाखं परचिता । ताराषोढ़ान्यासाधिकारतन्वे- ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । ततः परशिवो देवि षट शिवा: परिकीर्तिता: मूलाधारादिविशुद्धपद्मेषु पञ्चशिवन्यासमभिधाय आज्ञाचक्रे च देवेशि हक्षवर्णसमन्वितम् । परं शिवं ब्रह्मरूपं हाकिनीसहितं न्यसेत् ॥ इत्युक्तम् ॥ स च सहस्रारनिर्गुणपरशिवस्यांशस्वरूपी अपरः शिवो ज्ञेयः । ब्रह्मशिवत्वात् ब्रह्मस्वरूपमित्युक्तम् । न तु ब्रह्म इत्युक्तम् । परमकुलपदम् एतत् पर्यन्तं परमकुलपदमित्युपसंहारेणोक्तम् । तथाच श्रीमते- तवैतद्दक्षिणं षट्कमाज्ञापूर्व कुलोद्भवम् । इति । आनन्दलहयामपि- महौं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि । मनोऽपि भूमध्ये सकलमपि भित्त्वा कुलपथं सहस्रार पद्म सह रहसि पत्या विहरसि । अत्र कं जलं स्वाधिष्ठाने मणिपूरे हुतवहमिति व्यत्ययेनान्वयः । सूत्रेति ब्रह्मसूत्रस्य ब्रह्मनाद्याः प्रबोधी यस्मात् तत् । वेदानामादिवीज प्रणवः तदन चिन्तयेत् । विलसितपरमोऽपूर्वसिद्धप्रसिद्धो यस्य अत्रान्तरात्मा अस्तीत्याह शुद्धबुद्धेत्यादिना। शुद्धबुद्धः शुद्धस्वभाव: स चासो ब्रह्मा- सः।
ग . षट्चक्रविकृतिः । १२५ अन्तरामा चेति सः। प्रदीपस्येव आभा दीप्तिर्यस्य ज्योतिषः एवम्भूत ज्योतिःप्रणवाभ्यां विरचितौ वरूपवौं यस्य स वर्णशब्दः । श्रीक्रमेऽपि- भूमध्ये अन्तरात्मानमरूपं सर्वकारणम् । ॐकारज्योतीरूपन्तु प्रदीपाभं जगन्मयम् ॥ अतएव प्रकाश: ज्योतिःस्वरूपः। तदूर्दै पूर्वोत्तान्तरात्मोद्धे अडचन्द्रः चन्द्रार्द्ध विन्दुरूपी मकार: तदुपरिनाद इति व्यत्ययेनान्वयः । एवं नाद- प्राग्वोधिनी लिखिष्यमाणयोगिनीहृदयात् जेया। असौ नादः अतीव शुक्ल इत्याह वनेत्यादिना। वनं जलं तहत् धवलवर्ण: यश्च पीयूषाधारश्चन्द्रः तत समूहहासी तदधिकशुक्ल इति भावः । योगिनीहृदयेऽपि- इन्दौ तद? बोधिन्यां नादे नादान्त एव च । इति । इन्दौ विन्दौ तद? अर्धचन्द्र । खच्छन्दसंग्रहेऽपि तत्र विन्दोर्यथा विन्हावरणे स तदूर्द्धतः । सूर्यकोटिप्रतीकाशम् अतिदृप्तं महद्गुणम् ॥ तन्मध्ये दशकोटीनां संख्या योजनपञ्चकम् । तत्कर्णिकायामासीनः शान्त्यतीतेखरः प्रभुः ॥ पञ्चवक्त्रो दशभुजो विद्युत्युञ्जनिभाततिः । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिरनुक्रमात् ॥ परिवायं स्थिताश्चित्राः शान्त्यतीतेखरस्य च । वामभाग समासीना शान्त्यतीता मनोन्मनी पञ्चवक्तधरा: सवा दशवाह्विन्दुभूषणाः । विन्दुतत्त्वं समाख्यातं कोव्यर्बुदशतैब्व॒तम् ॥ अड़चन्द्रं तदूईन्तु बोधिनी तस्य चोपरि । ज्योत्स्ना ज्योत्स्नावती कान्तिः सुप्रभा विमलापि च ॥ A 1. १ । -- . . -- १२६ षट्चक्रविकृतिः । अईचन्द्रोत्थिता ह्येताः कलाः पञ्च प्रकीर्तिताः । वन्धती बोधिनी बोधा ज्ञानबोधा तमोपहा ॥ निबोधिताः कलाः पञ्च कण्ठिताः सुरसुन्दरि । ब्रह्मादिपरमेशानां परप्राप्तिनिबोधनात् । निबोधिकेति सा प्रोता तस्या भेदावरानने ॥ बोधिन्याख्यं यदुनं ते नादस्तस्योपरिस्थितः:। पद्मकिचल्कसङ्काश: कोटिसूर्यसमप्रभः || पुरैः परिवतोऽसंख्यैम्मध्ये पञ्चकलाकृतः । इन्धिका दीपिका चैव रेतिका मोचिका तथा ॥ अर्द्धगा मध्यगा नासा पञ्चमी परमा कला। चन्द्रकोटिसमप्रख्यं तन्मध्येऽर्बुदयोजनम् ॥ । पद्ममध्ये समासोनमूर्द्धगामिनमीश्वरम् । चन्द्रायुतप्रतीकाशं पञ्चवक्त्रं त्रिलोचनम् ॥ ऐन्दवाद्यैरावृतं च शूलपाणिं जटाधरम् । तस्योत्सङ्गगतामूर्द्धगामिनी परमां कलाम् ॥ ध्यायेदिति शेषः । निरालम्बामिति तहक्ष्यमाणात् । टीकाकारततन्वे- स्यजेत् शैथिल्यसङ्गानां नासाग्रे रोपयेहशी मुखं विवृणुयात् किञ्चित् दन्तैईन्तान् न संस्पृशेत् ॥ रसनामन्तरा कुर्यादनङ्गे धारयेन्मनः । इयं सा परमा मुद्रा निरालम्बेति पञ्चमी । इह स्थाने एवं मुद्रां वड्वा सदाभ्यासात् धृतपवनात् पवनसुहृदां वह्नीनां कलाः पश्यति । तदनन्तरं तन्मध्यान्तःप्रविलसितरूपान् ज्वलद्दीपाकारान् पश्यति । पश्चात् नवीनसूर्यप्रकाशाकारं गगनभूमध्यमिलितं पश्यति । इह स्थाने भगवान् साक्षात्कारविषयो भवति । ननु सर्वव्यापित्वात् अपरिच्छिवस्य ईखरस्य कथं परिच्छित्तिस्थाने अभिव्यक्तिरित्यत आह राहुरिति । यथा अम्बरगतो राहुन दृश्यते किन्तु - .
षट्चक्रविकृतिः । १२७ शशिमूर्ययोमण्डलमेव दृश्यते तथायं चिदात्मा एवम्भूतकम्मविशेषकरणात् अत्रैव साक्षाद्भवति । प्राणनिधने मरणकाले इह स्थाने प्राणान् वायून् अर्द्ध- गामिन्या नाद्या समारोप्य वेदान्तविदितं "नित्यं विज्ञानमानन्दं ब्रह्म” इति श्रुतिविदितं परं नित्यं देवमित्यादिविशेषितं पुरुषं प्रविशति । तथा गीतायामपि- प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगवलेन चैव । भुवोम्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ - इति ॥ * ॥ लयस्थानं वायोरिति। तदुपरि पूर्वोक्तनादोपरि चकारात् नादस्यापि लयस्थानम् । यत्र वायु दश्च अथैनं जगदधरीकृत्य ब्रह्मरन्ध्रस्यादिस्थाने प्रलीयते तत् वायो दस्यापि लयस्थानं नादान्तमिति यावत् । अत्र अर्द्धनारीखरी- ऽस्तोत्याह महानन्दमित्यादिना । महान् आनन्दो यत्र तं महानन्दस्वरूपम् । शिवाई शिवाया अर्द्ध शिवस्याकारम् अर्द्धनारीश्वरमित्यर्थः । तथा च श्रीक्रमे चेतसा संप्रपश्यन्ति नादान्ते वृषभध्वजम् । तम देहं वरदं कारणत्रयमातरम् । पुटहयविनिष्क्रान्तो वायुयंत्र प्रलीयते ॥ खच्छन्दसंग्रहेऽपि- :: हलाकारस्तु नादान्ते भित्त्वा सर्वमिदं जगत् । अध:शक्त्या विनिर्भेद्य ऊर्द्धशक्त्यवसानकम् ॥ नाद्या ब्रह्मविले लीनस्त्वव्यतो ध्वनिलक्षणः । अतो ब्रह्मविलं ज्ञेयं रुद्रकोट्यर्बुदैर्युतम् ॥ तत्र ब्रह्मशिवो जेयः शशासशतसबिभः । दशवाहुस्त्रिनेत्रश्च पञ्चवक्वेन्दुशेखरः ॥ ब्रह्माणी खपरा शक्ति ब्रह्मणोत्सङ्गगामिनी। द्वारं सन्मोक्षमार्गस्य रोधयित्वा व्यवस्थिता ॥ . .
१२८ षट्चक्रविततिः। -- हलाकारो लाङ्गलसदृशः । देवीस्थानं सहस्रारं प्रविशेदकुलं प्रिये । शब्लिन्या इति श्रीक्रमादकुलाख्यसहस्रारपद्ममाह तदूर्ल्ड इत्यादिना । नाद्याः शिखरे अग्ने शून्यदेशे चित्रिण्या मेरुदण्डस्य च शून्यदेशे तेन सहस्रारं न मेरुदण्डस्य मध्ये न चित्रिण्या ग्रथितम् । मायातन्वेऽपि- मूलादिषट्सरोजातं चित्रिणीग्रथितं प्रिये । लिङ्गाधोड़नाभिवक्षःकण्ठभूमध्यदेशजम् ॥ अतएव स्वच्छन्दसंग्रह- हादशाण ललाटोई रूपेणार्डावसानकम् । बङ्गुलोईशिरोदेशं परं व्योम प्रकीर्तितम् ॥ श्रीक्रमे- आसव्यकर्णात् देवेशि शलिनी च शिरोपरि । हलाद्यनन्तरम् । शखिनौनालं संप्राप्य चास्थिशून्यं विभर्ति यः । अमृतं यत् त्रिकूटस्थं परमानन्दलक्षणम् ॥ सहस्रारं महापद्मं रतकिञ्जल्कशोभितम् । द्रुतहेमाम्बुजं जातधारपातप्रवर्षणम् ॥ विसर्गाधः पद्ममिति सर्ग: शक्तिनिशाकरः ॥ इति ॥ नारदोतेन विसर्गस्य सहस्रारपद्मधारिया अईस्थितायाः शतरधः- पद्मम् । निर्वाणपद्धत्यामपि- कुलरूपं भवेत् शक्तिः विसर्गमण्डल प्रिये । सहस्रारं महापगं रक्तकिञ्जल्कशोभितम् ॥ सारसमुच्चयेऽपि “सहस्रारपनं विसर्गादधस्तात्” । पूर्ण पूर्णेन्दु शुभं पूर्ण पीयूषपूर्ण तन पूर्णेन्दुशुधञ्चेति तत् । वालसूर्यरश्मिसमकेशरसमूहो यस्य तत्। पद्मन्तु शुलवर्णम् ।
षट्चक्र विततिः । १२८ .4 .i - यथा मायातन्ले- महाशून्ये सहस्रारं निशाकरसहोदरम् । अधोवक्त्रं कणिकायाः चन्द्रोद्धे शक्तिरूपिणी ॥ ... ललाटाद्यैरकाराद्यैः समस्तमाटकाक्षरैः युक्तम् । तन्मध्ये पूर्णचन्द्रः स्निग्ध- सन्तानं हसतौति स्निग्धसन्तानहासी। तस्यान्तश्चन्द्रमण्डलस्य मध्ये त्रिकोणं तत्तु अकथादित्रिरेखात्मकं तत्रिकोणे हलक्षवर्णत्रयम् । तदन्तस्त्रिकोणमध्ये शून्यं परलिङ्गं परलिङ्गस्य तेजोवर्णत्वात् शून्यं शून्याकारमिति यावत् । तथाच गौतमौये- सहस्रारे हिमनिभे सर्ववर्णविभूषिते । अकथादित्रिरेखासु हलक्षत्रयभूषिते । तन्मध्ये परविन्दुञ्च सृष्टिस्थितिलयात्मकम् ॥ योगिनीहृदये- सूक्ष्मरूपं समन्तात्तु हतं परमलिङ्गकम् । विन्दुरूपं परानन्दकन्दं नित्यं पदोदितम् ॥ व्याख्यातच अमृतानन्दस्वामिना यथा परलिङ्गस्य तेजोवर्णः हादशवर्णो हंसः अत: सूक्ष्मरूपम् अतएव विन्दुरूपं नित्यञ्च माटकात्वादुत्पत्तिविनाश- रहितम् । पदात् पदं प्राप्य उदितं प्रकाशितम् । तदेवाह परमामोद- सन्तानराशेः परं कन्दं सूक्ष्ममिति । शशिसमस्तकलाशुद्धरूपम् । “नित्यं विज्ञानमानन्दं ब्रह्म" इति श्रुतिबोधितो यः परशिवः स विधा भूत्वा परम- शिवाख्यः सगुण: शिवः प्रकाशामा अत्र परविन्दुचक्रे निवसति इत्याह इह स्थाने इत्यादिना। परशिवसमाख्यानसिद्धप्रसिद्ध यस्य सः । तदुक्तं सतपदत्याम्- अकारः सर्ववर्णाग्रे प्रकाशः परमः शिवः । हकारी नित्यकला प्रोतो विमर्षाख्यः प्रकीर्तितः । अनयोः सामरस्यं यत् परस्मिन् महसि स्फुटम् ॥ तत्र अमृतानन्दस्वामिनः अ इति ब्रह्मश्रुत्या अकारवाच्यः परशिवः - षट्चक्रविकृतिः। १३० तस्यांशिवेन परमशिवोऽप्यकारवाच्यः प्रकाशरूपब्रह्मांशिवात् । विमर्षाख्यः विमर्षिणी सशक्तिरित्यन्तेनाहुः “सामा पुरुष एवेदं सव्वं यद्भूतं यच्च भाव्यम्" इति श्रुतेः। रसो द्रव्यविशेषः पर इति प्रसिद्धस्तस्य विसर: समूहस्तद्- वसित: शुक्लः। "सन्दोहविसरव्रजा:” इत्यमरः । अज्ञानमोहान्धस्य हंसः सूर्यः सुधाधारासारं अतितरां विमुञ्चन् यते: स्वात्मज्ञानं स्वस्य शिवाभेदज्ञानं दिशति । भगवान् ऐश्वर्यादियुक्तः स परमशिवः परमहंस इत्याह समास्ते इत्यादिना। सकलसुखसमूहस्य लहरी. तरङ्गः तस्य परीवाहः । "जलो- च्छासाः परीवाहा:" इत्यमरः । परम इति नाम्ना समुचित: परमहंस इत्यर्थः । स च मायावच्छिन्नः । तथाच तन्त्रान्तरे सरोरुहमधोमुखं प्रविलसत् सहस्रच्छदं क्रमादरुणकेशरप्रकरभावरनिम्मलम् । तदन्तरपि चिन्तयेदमृतरोचिषो मण्डले पुराणपुरुषं परं परिगतं महामायया ॥ इति ॥ मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते । मायासम्बन्धतश्चेशो जौवोऽविद्यावशस्तथा ॥ इति वेदान्तोक्तेः। शिव इत्यादि स्पष्टम् । परमपुरुषमिति भारते- अव्यक्तं मन इत्याह शरीरं परमुच्यते । अव्यक्तके पुरे शेते पुरुषस्तेन चोच्यते ॥ खगतिः खेचरः स्यात् । यद्दा खे ब्रह्मणि गतिः स्यात् । “खं ब्रह्म” इत्या- द्युपनिषत्। . अर्द्धशक्तिरूपां कलामाह तवास्ते इत्यादिना। प्रातःसूर्य- तुल्या चन्द्रस्य षोड़शकला अमानानौति यावत् । अमा षोड़शभागेन देवि प्रोता महाकला । संस्थिता परमा माया देहिनां देहधारिणी ॥ इति वचनात् । सूक्ष्मत्वात् शतधाविभक्त मृणालतन्तुभागैकरूपा क्षयो- दयरहितत्वानित्या अधोमुखी सृट्युन्मुखी। पूर्णानन्दसमूहो यस्याम् । या अभिगलत्पीयूषधारा तस्या धरा। . --- m- Na 1. .
षट्चक्रावितिः। १३१ . स्वच्छन्दसंग्रह- ब्रह्माणी त्वपराशक्तिः ब्रह्मणोत्सङ्गगामिनी । हारं सुमोक्षमार्गस्य रोधयित्वा व्यवस्थिता ॥ तां भित्त्वा तु वरारोहे अर्द्धशक्तिं परां शिवाम् । शक्तितत्त्वात्मिकां देवी प्रसुप्तभुजगाकतिम् ॥ शक्तितत्त्वं समाख्यातं भुवनराश्रितं महत् । शक्ति तत्त्वात्मिकामूर्द्धशतरुपरि संस्थिताम् ॥ योगिनीहृदयेऽपि- शती पुनववापिकायां स मनोन्मनौगोचरे ॥ इति ॥ व्यापिनीतत्त्वं शक्तितत्त्वस्वरूपमाह निवाणाख्य इत्यादिना। सूक्ष्मत्वात् सहस्रधाविभजितस्य केशभागस्यैकभागतुल्या अईचन्द्रवत् कुटिला सार्क- तुल्यप्रभा द्वादशादित्यप्रभा। परात् षोड़श्याः कलायाः परतः। तदन्तर्गता चन्द्रमण्डलान्तर्गता न तु षोड़श्याः कलायाः अन्तर्गता। यथा सारसमुच्चये षोड़शौं कलामभिप्रेत्य एतस्याः परतः स्थिता भगवतो भूताधिदेवाधिपा निर्वाणाख्यकलाई चन्द्र कुटिला सा षोड़शान्तर्गता। वालाग्रस्य सहस्रधा विगलितस्यैकन भागेन या सूक्ष्मत्वात् सदृशी त्रिलोकजननी या हादशार्कप्रभा ॥ इति । स्वच्छन्दसंग्रहे- षोड़शान्तमिति ख्यातं व्योमस्थानेन्दुमण्डलम् ॥ इति । तत्रैव आंधारं भावनानाच प्रवक्ष्यामि समासतः । सूक्ष्मा चैव सुसूक्ष्मा च तथाचैव मृतामृता ॥ चतुर्दिक्षु स्थितास्तासां मध्यस्था व्यापिनी स्मृता पञ्चवक्त्रा त्रिनेत्रा च सतेजाख्या च पञ्चमी ॥ इति ॥ समनापदमाह एतस्या इत्यादिना। परं उत्तरकालं मातीति परमा ।
" --- १३२ षट्चक्रविकृतिः । बंसरहिता नित्येत्यर्थः। सूक्ष्मत्वात् केशाग्रस्य कोटिभागेकभागरूपा अत: अतिगुह्या। निरवधि विलसन्तो या अमृतधारा तस्था धरा। मुनिमनसि लसिततत्त्वबोधं शिवाभेदज्ञानं वहन्ती। इदन्ते तु तयोरैक्य मिति विद्या निगद्यते ॥ इति परापञ्चशिकावचनात् ब्रह्मणोऽतिनैकव्येन तथोक्तम् । तथा- समनान्तवरारोहे पाशजालमनन्त कम् । इति वचनात् अत्रापि पाशजालम् । एतस्या निर्वाणकलायाः मध्यदेश इति सामीप्ये सप्तमी। तथाच मध्यदेशसमीपे किञ्चिदुपरीत्यर्थः । तथाच स्वच्छन्दसंग्रहे- चिदानन्दस्वरूपा तु परा शक्तिस्तदूर्द्धतः । समना नाम सा शक्तिः सबकारणकारणम् ॥ सबान्तानि विभौयं शिवेन समधिष्ठिता। अत्र रूढ़ः स भवने शिवः परमकारणम् । शिवः सर्वस्य कत्तयं शक्ति: कारणमुच्यते ॥ उन्मनीपदमाह तस्या मध्यान्तराले इत्यादिना । तस्याः समनाया: मध्या- न्तराले अत्र सामीप्ये सप्तमी। शिवपदं शिवतनुप्राप्तिस्थानम् उन्मनीति यावत् । स्वच्छन्दसंग्रहे- शिवत- समाख्यातं तदूवं शक्तितनुतः । इति । तथा तत्रैव- शिवशक्तिहयञ्चैव शिवतनुं प्रकीर्तितम् । सूक्ष्मार्थशक्त्यवच्छिन्नं शिवतनुमित्यर्थः । तथाच तत्रैव- यावत् सा समना शक्तिस्तदूधै उन्मनी स्मृता । नात्र कालकलाभानं न तनुं न च देवताः ॥ अनिर्वाणं परं शुई रुद्रवत्र तदुच्यते । शिवशक्तिरिति ख्याता निर्विकल्पा निरञ्जना ॥ -- । १ H " . . -- -- -- षट्चक्रवितिः । १३३ ७ तत्त्वातीतं वरारोहे- इत्यादि अग्रे लिखिष्यते। मनःसहितत्वात् समना। "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” इति श्रुत्या मनोऽतीतत्वान्मना इत्यमृतानन्दस्वामिनः । शक्तिमध्यगतो नादः समनान्तं प्रसर्पति ॥ इति स्वच्छन्दसंग्रहात् नात्र कालकलांशस्य भानम् । परमकुलपदमिति परं उन्मन्याः परं अकुलपदम् अकुलाख्यपरशिवात्मकपदं विश्वस्य विश्राम- स्थानत्वात् । पदमिति अमलं सत्त्वादित्रिगुणयुक्तम् । शाखतं नित्यम् । योगेन प्राप्तं नित्यानन्दमभिधानं यस्य तत् । “नित्यं विज्ञानमानन्दं ब्रह्म" इति श्रुतेः। शुद्धबोधस्य शुद्धज्ञानस्य प्रकाशो यस्मात् । तथाच टोका- कारततन्ले “उन्मन्यन्ते परशिवः" इति। स्वच्छन्दसंग्रहे उन्मनीमभिधाय- तत्त्वातीतं वरारोहे वान नो नैव गोचरम् । "यतो वाचो निवर्तन्ते” इत्यादि श्रुतेः । तत्त्वं “तत्त्वमसि” इति श्रुतेः । वाभाविक पर धानि विवरं तत्त्वसंज्ञकम् ॥ इति शिवतन्त्रात् । श्रीमते- अकुलेखरदेवस्य सम्बन्धः प्रथम: स्थितः । रूपातीतः परो विन्दुः शक्त्या वेष्टितभाखरः । अतो नादो विरोधी च अड़चन्द्रसमुत्क्रमात् ॥ एतत्तु पञ्चमप्रोक्तं ज्ञानरत्नं महोदयम् । तत्र तद्दक्षिणं षट्कमानापूर्व कुलोद्भवम् ॥ इति ॥ नियतनिजचित्त इति । गौतमोये- अहिंसा सत्यमस्तेयं ब्रह्मचर्य दयाज्जवम् । क्षमा तिम्भिताहारः शौचञ्चेति यमा दश ॥ तपः सन्तोषमास्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणञ्चैव होम्मतिश्च तपो हुतम् । दशैते नियमाः प्रोता योगशास्त्रविशारदैः ॥ इति ॥ R- ॥ . .IN ततः सा १३४ षट्चक्रवितिः । तथाच एतद्दयाभ्यासशील: श्रीनाथवक्त्रात् गुरुवनात् मोक्षवमप्रकाशं क्रम ज्ञात्वा हुङ्कारण मूलाधारस्थितवहिपवनयोराक्रमेण तप्तां कुण्डलिनों कृत्वा निद्रितां तां बोध्य तल्लिङ्ग स्वयम्भूलिङ्गं भित्त्वा कुण्डलिनीवेष्टनस्य भेदं कृत्वा ब्रह्महारस्य मध्ये तां रचयति । रुद्रयामले- हुङ्कारेण समुत्थाप्य शक्ति स्वाधारसंस्थिताम् । ततः सा प्रबोधिता तल्लिङ्गत्रयं वयम्भूवाणेतरलिङ्गत्रयं भित्त्वा भेदं कृत्वा तच्छिद्रेण ब्रह्माख्याया इति ल्यवलोप पञ्चमी ब्रह्मनाडीमारुह्य सकल- सदनं प्राप्य परमरसयुक्त शिवे परमशिवे प्रदीपाभे देदीप्यते । शुद्धस्वभावा सूक्ष्मतालक्षणेन तडिदिव तत्तन्तुरूपा तन्मोक्षानन्दं घटयति । नयवशात् नीतिवशात् । समाधौ यतो योगीश: तां कुलकुण्डलिनी जीवात्मना साई मोक्षधानि परमशिवे सच्चिदानन्दरूपे भगवती चैतन्यरूपां ध्यायेत् । तन्त्रान्तरे- ध्यै चिन्तायां स्मृतो धातुश्चिन्तातत्त्वेन निश्चला । एतयानमिह प्रोक्तं सगुणं निर्गुणं विधा। सगुणं वर्णभेदेन निर्गुणं केवलं तथा । अन्यत्रापि-- मज्जीवब्रह्मणोरेक्यं सोऽहं स्यादिति वेदनम् । तन्निर्गुणमिदम् । इत्यादि। ततो लाक्षाभं रक्तवर्णं परमामृतं कुण्डलिनी पौत्वा पूर्णानन्दमहोदयात् परशिवात् शिवसकाशात् प्राक्पादितोन्मन्यादिसृष्टिमार्गेण कुलपथात् कुल- पथमारुह्य ब्रह्म रुह्य मूलाधारे स्वस्थाने प्रविशेत् । ततो योगी तद्दिव्यामृत- धारया योगपरम्पराप्राप्तया ब्रह्माण्ड स्थितं शरीरस्थं दैवतं डाकिन्यादिक तर्पयेत् प्रोणयेत् । श्रीनाथववादिति यदुक्तं तत् गोरक्षसंहितादौ स्पष्टीकतम् । ~ ग . " . यथा- प्रबुद्धा वह्नियोगेन मनसा मारुता हुता। शुचीव गुणमादाय व्रजत्यूई सुषुम्नया ॥
षट्चक्रवितिः ।
i
ज्वलन्ती भुजगाकारा पद्मतन्तुनिभा शुभा।
उद्घाटयेत् कवाटञ्च यथा कुञ्चिकया दृढम् ।
कुण्डलिन्या तथा योगी ब्रह्महारं प्रभेदयेत् ॥
कत्वा संपुटितौ करौ दृढ़तरं बड्वा तु. पद्मासनं
गाढ़ वक्षसि सबिधाय चिवुकं ध्यानञ्च तच्चेतसि |
वारंवारमपानमूर्द्धमनिशं प्रोत्सारयन् पूरयन्
प्राणं मुञ्चति मोक्षमेति शनकैः शक्तिप्रभावात् यतः ॥
कुञ्चिकया कुलुपकारीत्याख्यया। निवाणपद्धत्यामपि-
आदौ पूरकयोगेन स्वाधार योजयेन्मनः ।
गुदमेट्रान्तरे योनिस्तामाकुच्चा प्रबोधयेत् ॥
भ्रमद्योनिगतं ध्यायेत् कामं वधूकसन्निभम् ।
ज्वलत्कालानलप्रख्यं तडिकोटिसमप्रभम् ॥
तदू. तु शिखा सूक्ष्मा चिद्रूपा परमा कला ।
तया सहितमात्मानमेकीभूतं विचिन्तयेत् ॥
गच्छन्ती ब्रह्ममार्गेण लिङ्गभेदक्रमेण तु ।
अमृतं यहिसर्गस्थं परमानन्दलक्षणम् ॥
द्रुतरक्तं सतेजाब्यं धारापातप्रवर्षणम् ।
पोत्वा कुलामृतरसं पुनरेव कुलं विशेत् ॥
सा च प्राणः समाख्यातस्तन्वेऽस्मिन् परमेश्वरि ।
एवमभ्यस्यमानस्य अहर्निशनिबन्धनात् ।
चतुर्बिधा तु या सृष्टिरस्यां योनौ प्रजायते ॥
पुनः प्रलीयते तस्यां कालाग्न्यादिशिवान्तिकम् ।
योनिमुद्रा परा सा तु बन्धस्तस्याः प्रकीर्तितः ॥
चतुर्विधेति नैयायिकमते पुरुषात् । सांख्यमते प्रकृतिपुरुषाभ्याम् ।
पातालमते प्रतितः। मीमांसामते अदृष्टात् सृष्टिः । तत्र योगी
विविधः।
.
१३६
षट्चक्रविवतिः ।
यथा सारदायाम्-
पिण्डं भवेत् कुण्डलिनी शिवात्मा पदञ्च हंसः सकलान्तरात्मा ।
रूपं भवेत् विन्दुरमन्दकान्तिरतीतरूपं शिवसामरस्यम् ॥
पिण्डादियोगं शिवसामरस्यात् सवीजयोग प्रवदन्ति सन्तः ।
शिवे लयं नित्यगुणाभियुक्त निर्वीजयोगं फलमव्यपेक्षम् ॥ इति ॥
तथान्यत्र
दिक्कालादिविवर्जिते परशिव चैतन्यमात्रात्मिके । इत्यादि।
खच्छन्दसंग्रहऽपि
पिण्डं कुण्डलिनी शक्तिः पदं हंसः प्रकीर्तितः ।
रूपं विन्दुरिति ख्यातं रूपातीतस्तु चिन्मयः ॥
तत्रान्तरेऽपि-
---
-
पिण्डे युक्ताः पदे युक्ता रूपे युक्ताः षडानन । .,
रूपातीते तु ये युक्तास्ते मुक्ता नात्र संशयः ॥
मतभेदे अनेकानि पद्मान्याह स्वच्छन्दसंग्रहे-
अधश्चोड़े सुषुम्नायाः सहस्रदलसंयुतम् ।
रक्त खेतञ्च साहस्रदलस्थं शक्तिसंयुतम् ॥
अधिो मुखमूलन्तु कर्णिकाकेशरान्वितम् ।
शक्तिरूपं महादेवि कुलाकुलमयं शुभम् ॥
पङ्कजदयमीशानि स्थितं शाखतमव्ययम् ।
तयोम्मध्ये सुषुम्नान्तस्त्रिंशदाधारपङ्कजम् ॥
शक्तिरूपं शिवाकारं सर्बाध्यासं निजालयम् ।
नौवेति शेषः । तथा कियत् कियदूधै पङ्कजानि ।
.
तदाह तत्रैव
आधारपङ्कजस्योड़े साईयङ्गुलकोपरि ।
तेजसं साष्टपत्रञ्च पीतकर्णिकया युतम् ॥
षट्चक्रविकृतिः ।
.
हृल्लेखा कर्णिकामध्ये स्थिता लिङ्गादिदेवता ।
एतस्मात् घगुलस्योद्धे स्वाधिष्ठानं घड़स्रकम् ॥
आप्यञ्च राकिणीशक्तिः पूर्वाभिः शक्तिभिर्युतम् ।
ततश्च भावयेद्देवि नाभिमष्टाङ्गुलोपरि ॥
तत्पध्र मणिपूरञ्च दशपत्रं सुशोभितम् ।
लाकिनीमध्यगं तच्च तामर्थादाभिरावृतम् ॥
चतुर्दशाङ्गुलादूर्दै मणिपूराख्यपङ्कजात् ।
पझ- काकिनीमध्यं वायव्यं हादशारकम् ॥
तत्रस्थकालरानयादिशक्तिभिश्च समावृतम् ।
तत्रस्थसूर्यविम्बे च नादो यानादिपीठकम् ॥
एकादशाङ्गलादूई विशुद्ध षोडशच्छदम् ।
मध्यगा शाकिनी वाद्यपत्रेषु परमेश्वरि ॥
अमृताद्यक्षरान्तस्था चन्द्रविम्ब तदूचगा।
कण्ठोड़े परमेशानि लम्बिका चतुरङ्गुली ॥
आज्ञाचक्र दिपत्रांचं हक्षद्विदलसंयुतम् ।
हंसवती क्षमा पाखंड्ये मध्ये तु हाकिनी ॥ * ॥
तन्त्रान्तरे ब्रह्मणः स्वाधिष्ठानमुक्तं यथा-
खाधिष्ठानं षड्दलोपेतमुद्यतविद्युत्प्रेक्षं वादिलान्तैश्च वर्णैः ।
युक्त सावित्रीसहितं विरिञ्चिं ध्यायेदस्मिन् राकिणों देवताञ्च ॥
योगिनी हृदये-
एताश्चतस्रः शत्यस्तु का पूजा तु इति क्रमात् ।
पौठाकन्दे पदे रूप रूपातीते क्रमाद्दिदुः ॥
एतास्तत्र पूर्वोक्ता अम्बिकादयः चतस्रः कामरूपादिपीठखेन परिणताः ।
तथा च मूलाधारे कामरूपं हृदि पूर्णगिरिः भूमध्ये जालन्धरः सहस्रारे
उड्डीयानः । न च “एकमेवाद्वितीयं ब्रह्म" इत्यादि श्रुत्या ब्रह्मण एकत्वमभि-
हितम् । शक्तिस्तावत् केति चेत् तद्ब्रह्मशिवशक्तिसामरस्यपरत्वमेव ।
१८
षट्चक्रविकृतिः ।
१३८
यथा कुलार्णवे-
अद्वैत केचिदिच्छन्ति हैतमिच्छन्ति चापरे ।
मम तत्त्वं न जानन्ति द्वैताद्वैतविवर्जितम् ॥
खच्छन्दसंग्रहऽपि-
अनयोः सामरस्यं यत् परस्मिन् महसि ध्रुवम् ।
कूर्मपुराणे ईखरगीतायां शिववाक्यम्-
एकया मम सायुज्यमनादिनिधनस्फुटम् ।
पुंसोऽभूदन्यया भूतिमन्यया तत्तिरोहितम् ॥
एकया मायात्मिकया शक्त्या विशिष्टस्य मम अनादिनिधनं सायुज्यं
सहयोगं अईनारीखरामकमभूत् । अन्यया आद्यया जानामिकयेति यावत्
विशिष्टपुंसो भुति उत्पत्तिं जानीहि अन्यया चित्णतया तत् तिरोहितम् ।
तयैव क्षणे तिरोहितम् । ब्रह्माविनाभूतम् ।
अतएव तैत्तिरीयवाक्यम्-
यत्तु मे निष्कलं रूपं चिन्मानं केवलं शिवम् ।
सर्बोपाधिविनिर्मुक्तमनन्तमपरं परम् ॥
कालिकापुराणेऽपि-
चितिशक्ति विनाकारां परं ब्रह्मवरूपिणीम् ॥
नमखण्डे राधिका प्रति कृष्णवाक्यम्-
यदा तेजःखरूपोऽहं तेजोरूपासि त्वं तदा ।
न शरीरी यदाहच तदा त्वमशरीरिणी ॥
तन्वेऽपि-
."
ना
न शिवेन विना शक्तिः न शक्त्या रहितः शिवः ।
अतस्तयोरभेदश्च चन्द्रचन्द्रिकयोरिव ॥
वेदान्तेऽपि “चिच्छतिब्रह्माश्रिता।" तथा-
मायोपाधिविनिम्मुक्तं शुद्धमित्यभिधीयते ।
मायासम्बन्धतश्चेशो जीवोऽविद्यावशस्तथा ॥
षट्चक्रविशतिः ।
१३८
इत्युक्तम् । तदेव सामरस्यं परं ब्रह्म सगुणशिवं शत्यादिनानारूपेण
परिणमते। यथा विखसारे
कालेन प्रेरयेन्मायां सृष्टेरुत्पत्तिहेतवे ।
या मूलप्रकृति: प्रोता सा माया परिकीर्तिता।
योऽयं सदाशिवः प्रोतः स एव पुरुषः परः ।
एकं ब्रह्म विधा भूत्वा सृष्टिरेषा विधीयते ॥
अ.न वनिता
भूखा
अर्द्धन पुरुषस्तथा ।
तावुभौ च समौ कत्वा सृष्टिव्यक्तिं नयेत् सुधीः ।
मायावच्छिन्नेखरस्य षड़गाण्याह कूम्मपुराणादौ-
सर्वज्ञता दृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्व विभोबिधिज्ञाः षड़ाहुरङ्गाणि महेश्वरस्य ॥ * * ॥
नारायणो वैदिकच भट्टाचार्यः समीरितः ।
तस्यात्मजो वामदेवभट्टाचार्यस्तथैव च ।
तस्यात्मजो विखनाथस्तेनेयं रचिता मुदा ॥
-
T
इति षट्चक्रविकृतिटीका
सम्पूर्णा।
A
--
.
[ १४० ]
१
वलदेवटीकाकारतः षट्चक्रनिरूपणस्याधिकः श्लोकः ।
इह स्थाने चित्तं निरवधि निधायात्तपवनो
यदि क्रुद्धी योगी चलयति समस्तं विभुवनम् ।
न च ब्रह्मा विष्णुनं च हरिहरी नैव खमणि-
स्तदीयं सामर्थ्य शमयितुमलं नापि गणपः ॥ ३१ ॥ (१)
.
इह स्थान इति। इहस्थाने विशुद्धाख्यपद्मे निरवधि प्रतिक्षणं चित्तं
मनो निधाय सम्बध्य प्रात्तपवनः ग्रहीतवायुः सन् कुम्भकं कृत्वेति यावत् ।
योगी जन: यदि क्रुद्धो भवति तदा समस्तं त्रिभुवनं चलयति । तदीयं
सामर्थ्य योगेन एतादृशत्रिभुवनचालनबलं शमयितुं ब्रह्मा सृष्टिकर्ता विष्णुः
पालनकर्त्ता हरिहरः हरिहरात्मक ईश्वरः खमणिः सूर्य: गणपः गणेशः एते
नालं न समर्था इत्यर्थः ॥
[ १४१ ] ॐ श्रीश्रीगुरवे नमः । . M . सरोजमधु सादरं सरसि मानसे सर्चदा. यथाददति षट्पदा नतु कदापि शैवालकम् । तथैव गुणिनो बुधा वचसि दूषणल्यागती ममाददतु साम्प्रतं यदि गुणस्तमित्यर्थये ॥ इह खलु दुःखजालसङ्कलसंसारलब्धजनुषां परमपुरुषध्यानैकनिष्ठचेतसा- मपि मानुषाणां स्वाभ्यन्तरवर्तिषट्चक्रनिरूपणभेदादिज्ञानं विना मोक्षोपायः कोऽपि नास्तीति परमकारुणिको भगवान् परमेश्वरः दुःखसमवायात्तानु- द्दिधौर्षः पर्वतराजपुत्त्रीप्रश्नानुसारेण स्वप्रोक्ततन्त्रशास्त्रमहोदधीनन्तरान्तरा षट्चक्रनिरूपणं तद्भेदादिसङ्घतञ्च उपदिदेश । किन्तु तदुपदिष्टतन्त्र- शास्त्राणामतीव बाहुल्यादशक्यबोधत्वाचाधुनिकाः स्वल्पायुषो जनाः परम- पुरुषप्रोक्ततन्त्रशास्त्राणां सारांशमायत्तीकर्तुमनीशा: सन्तो नियतं निरयमेव गच्छन्तीति परपरित्राणपरायणः परमपुरुषसमाहितचेताः श्रीमत्पूर्णानन्द- यतिः निखिलतन्त्रशास्त्रसारमुद्धृत्य तदर्थाविरोधिभिः स्वकल्पितपञ्चपञ्चाश- च्छोकैः षट्चक्रस्थितिस्थाननिरूपणत दस तसन्दर्भितं षट्चक्रनिरूपणं स्व- रचित श्रीतत्त्वचिन्तामण्यां कृतवान् । तस्य च पूर्वापेक्षया सहजबोधगम्यत्वेऽपि सारांशप्रकाशकटीकाया अभावात् अशक्यार्थबोधोऽयं ग्रन्थ इति प्रायश एव उपेक्षित आसीत् । इदानीन्वस्माभिस्तत्परिजिहीर्षया प्रचुरतरार्थव्ययेन साधनासिद्धबोधविहद- ग्रगण्यश्रीमत्कालीचरणप्रणीता निगूढार्थप्रकाशिनी कापि टीका संगृह्य पण्डितमण्डलीपरिशोधिता कृत्वा पुस्तकेऽस्मिविवेशिता) साम्प्रतवनया . - [ १४२ ] विहांसो यदि कथञ्चिदप्यानुकूत्यभागिनो भवन्ति तदैवास्माकमर्थव्ययं परि- अमच सफलं मन्यामहे । किञ्च बहुलविस्तृतथीकालीचरणप्रणीतटोकावलोकनेन कियदपि काल- क्षयं कर्तुमनौशानां विषयासक्तचेतसां झटिति मूलवृत्तान्तपरिज्ञानार्थ विद्वत्कुलचूड़ामणिशङ्करविरचिता मूलतत्त्वार्थविकृतिकारिकाऽपरापि टौका सबिवेशिता। . यस्त . इह स्थाने चित्तं निरवधि निधायात्तपवनी यदि क्रुद्धो योगी चलयति समस्तं विभुवनम् । न च ब्रह्मा विष्णुनं च हरिहरी नैव खमणि- स्तदीयं सामर्थ्य शमयितुमलं नापि मणपः ॥ " . .. इति श्लोकः विहत्कुलशिरोभूषणश्रीमहलदेवविद्याभूषणकृतटीकासम्ब- लितमुद्रितषट्चक्रनिरूपणनामकपुस्तकान्तरे एकत्रिंशच्छोकात् परमधिको दृश्यते स तु अस्मदुपजीव्यश्रीमत्कालीचरणशङ्कराभ्यामुपेक्षितत्वात् नैव पुस्तकाङ्गवेन निवेशितः किन्तु पुस्तकस्य समास्यनन्तरं श्रीमद्दलदेवविद्या- भूषणविरचितया टीकया सह सत्रिवेशित इति । अपरश्च विश्वोत्तारणकारणश्रीमन्महेखरवदनपङ्कजविनिर्गतकैवल्य कलि- कानामधेयतन्त्रस्य षट्चक्रनिरूपणामकहितीयपटलेन साई सिद्धाचार्यवयं- श्रीमत्पूर्णानन्दयतिविरचितषट्चक्रनिरूपणात्मकश्लोकसमूहानां प्रायशो- ऽभिवत्वेऽपि क्वचित् क्वचित् पाठवैषम्यस्य कैवल्यकलिकातन्त्रहितीयपटल- टोकांवच्छ्रीमदिखनाथसूरिवाक्येनानुमीयमानत्वात् तत्प्रणीतषट्चक्रविकृत्या- ख्यया टोकयापि पुस्तकमिदमलङ्कतकलेवरमासीत् । . .
[ १४३ ] किन्तु दुःखं पुनरेतदनुभूयते यहहुतरार्थव्ययं परित्रमञ्च स्वीकुर्वद्भिः कुवापि कैवल्यकलिकातन्त्रं नोपलवं नापि दृष्टं सुतरामेव कैवल्यकलिका- तन्त्रमलभमानैरनन्योपायैरस्माभिः कैवल्य कलिकातन्त्रेण श्रीमत्पूर्णानन्दयति- विरचितस्य षट्चक्रनिरूपणात्मकश्लोकसमूहस्य पाठादिवैषम्यं परिदर्शयितु- मनीयद्कर्भूयते इति । अन्यच्च आर्यधर्मावलम्बिनां सर्वेषामेव श्रीगुरुराराधनीय इति पूर्व- पूर्वाचार्यशिष्टाचारपरम्पराप्राप्तत्वात् जगद्गुरुरपोखरः श्रीगुरुपादुकापञ्चक- स्तोत्रव्याजेन श्रीगुरोः खोयाराध्यतां दर्शयन् सर्वानुपदेष्टुं पादुकापञ्चकं नाम स्तोत्रमकार्षीत् तदपि विनवरीमत्कालीचरणविरचितया गूढभावार्थ- प्रकाशिकया अमलाख्यटीकया षट्चक्र विवृतेः प्राक् अन्येऽस्मिन् सत्रिवेशित- मिति । सम्पादकस्य निवेदनम् ।
सूचीपत्रम् । अ। विषयः। पृष्ठायां। पंक्ती। | विषयः । पृष्ठायां। पंक्ती। आत्मप्रबोधः ७३,७४। अकथादित्रिकोणम् ७६,८७,८८। अात्मसाक्षात्कारस्थानं ७४॥ अकुलपदम् १३३॥ आत्मा तत्र प्रदीपाभः १२२॥ अनाहतपझं ३०,३३-३६,१२१,१२२ । आत्मानं प्रणवाकृतिं नादरूपं४५,४६ । अन्तरात्मा आदिदेवः ६१,१२४ । ७८। अपराशक्तिः आदिहंसयोयुगं १३१ । १००,१०२। आद्याशक्तिः अपान: १५,११६ । अमाकलादीनां अधिष्ठानं ६२,७० । आधारपद्म ८,१८। अमृतानन्दस्वामिनः परलिङ्गस्य डू। व्याख्या १२९,१३० । १०१,११७। अम्भोजमण्डलं २४॥ इड़ा ३,४,५,१०८। अर्केन्दग्निमण्डलानि ४५,५६,८०। अर्द्धचन्द्रः ४४॥ अर्द्धनारीश्वरः ३८,३९,१२७। इतरपदस्य व्याख्या १२३। अर्द्धमात्रा इन्धिका ५७ । १२६ । अन्दुः ४५। 13 ५१ । | इतरलिङ्ग १२५ / इतरशिवपदं ८ + ई . अवलालयः 20 ch: अहङ्कारः ५५ । ईश्वरः ७५,१२१ । आ। उ उन्मनी आज्ञाचक्रं ४२,४३,४७,१२३, २२ । आञ्जीकला ५७,५८। ४५,४८,५७,५८,५९, १३२,१३३ ।
. विषयः। विषयः। पृष्ठायां। पंक्तो। पृष्ठायां। पंक्तौ। उन्मन्यन्ते परशिवः १३३ । कौस्तुभः २५. ख। " जागा १२६। "खं ब्रह्म खेचरीमुद्रा ऐ। ४८,८०! . ६ । ऐन्द्रवीज ११ । ग। गान्धाररागः को। गान्धारी कन्दम् ११२ । गुरुः कन्दमध्यं ६१,६५,६६,७६,८७,८८, २,५। कन्दर्यो नाम वायुः १००,१०१,१०५,१०६ । १४ । कला ५७,४८,६५,७६,१२५,१२६ गुरुचरणाभ्याम् परमामृतं निःसरति कलापदं (भूयः) १०४,१०५। ४५। काकिनी गुरुध्यानयोग: ३१,१२१ । काकिनीध्यानं गुरुवात् ब्रह्मज्ञानं १.३४ । ३२,१२१ । कान्ति: १२५। कामरूपं १४,१५,११६ । चक्रमिदप्रकार: ८२ । कामकला ८७,१०१,१०२। चणकाकाररूपः ५१,७४। कारणावान्तरशरीरम् ५३,१२५,१२६ । चन्द्रमण्डलं ६०,६१,६५,७३ ॥ कुण्डलिनी १,७,१८,२०,२१,२२,२३, ,२२,२३, चन्द्रविन्दुः १०१ । ७४,७५,७७,७८,८०,८२,८५,८६, चन्द्रस्य षोड़श कला: ६२। ८१,८२,१०८,११७, ११८, ११८, चित् काला १०१ । १२३,१३४,१३५,१३६ । चित् शक्तिः २१ । कुण्डलीविवरं ८६,८७ चित्रा ११२। है। चित्रिणी ३,५,७,४५,७७,७८,८१, कैवल्यकालिकातन्त्र टीका १०८। .
विषयः। पृष्ठायां । पंक्तौ। विषयः । पृष्ठायां। पंक्लौ। वासा .. ज। ३२। . त्रिविन्दुः . . १२६ । जीवः त्रिकोणं १४,६०,६५,११७॥ ११८। जीवन्मुल: त्रिकोणशक्तिः ६८ । जीवात्मना सह कुण्डलिनौनयनं१३४। त्रिपुरसुन्दरी ५८॥ जीवात्मा ( दीपकलिका- त्रिपुरा १०१1 त्रिपुरायोग: कारः) १०६ । ७८,११८। जीवात्मनः मूलाधारे पानयनं ७८ । ७५ 1 जीवात्मनोरैक्यं त्रैपुराख्यं कोणं १४ । ८३,८६। जीवन साई कुण्डलिनीचालनं ८६ । द। ज्ञानबोधा १२६ । दशशतदलपनं ज्ञानात्मा-ज्ञानशक्तिः ५१ । दीपकलिकाहंसः ज्ञानेच्छाक्रियात्मान: नादविन्दु दीपिका १२६ । निबोधिका: ७२। हादशाणपझं ८५। ज्येष्ठा १५,८७,१०१ । १२५। धरायाश्चतुष्कोणचक्र १०॥ ज्योत्स्नावती १२५॥ धरावीज १०॥ ड। ध्यानं ( सगुणं निर्गुणञ्च) १३४ । डाकिनी १३,११६ । ध्रुवमण्डलम् ४५। डाकिनीध्यानं ५ 1 -- " ध। ... ज्योत्स्ना मा A न त तत्त्वज्ञानं तत्त्वबोध: नभीमण्डलम् ३६ । ७१ । नाड़ौत्रयाणां वेणौबन्धक्रमत्वम् ३,४। ७१। नादः ४५,५७,५८,५८,७२.१२६ । १३३ । नादविन्दू ६५,७२,८८,१०० १२६ । नादशनि: २१,१३३॥ "तत्त्वमसि" -- तमोपहा ' : परमकुण्डली ६७ विषयः। पृष्ठायां। पंजौ। विषयः । पृष्ठायां। पती ४५। नादान्तः परं विन्दुरूप:शिवः ८५ । "नित्यं विज्ञानमानन्दं ब्रह्म' १३३ । परमकुलपद ४४ । नित्यानन्दः = निर्गुणब्रह्म २२। ७४। नियमा दश १३३ । परमःपुमान् ५८। निवाण कला६२,७०,७१,७५,१३१ । परमः पुरुषः निबाणशक्तिः ७१,७२,७३ । परमरसशिवः ८०.८१ । निरालम्बपुरं ४८,४८ परमब्रह्म ७०,७३। निरालम्बा मुद्रा १२६ । परमशिवः १२४ । निबोधिका ४५,७२,१२६ । परमशिवस्थितिः निवृत्ति: १२५॥ ( निवीणतन्त्रोक्ता) परमहंस: १०२। प। परमा १२६ । पञ्चभूताधिदेवतानां घरमात्मा परशिक: ५१। चिनान्तरस्थत्वम् ११३। परमात्मज्ञानात्मनो: पूजा ५१ । पञ्चवक्त्राणि १०७॥ परमाशक्तिः ११५ । पञ्चविधं चैतन्यम् ८२। परमेश्वरः ५८ पद्मानां अवामुखत्वं ११५ । परविन्दुः ७४। पद्मानां स्थानानि १३६,१३७) परशक्ति २१,५८॥ पद्मानां पत्रं वर्णात्मक e.। परशिवः ५१,६२,६५,६६,८३ । परवस्तु परा १८,२१,१२३॥ परं कन्दं ६२। परलिङ्गम् १२८,१३० । परं ज्योति: पराशक्तिः परं देव्याः पदं ६७ पश्यन्ती १८,२१,८१,१२३ । परं लिङ्ग १२० । पश्चिमात्यः परं विन्दुः ६१,६२,७०,७४,८२,८०। पादुकानां पञ्चक . ०६ विषयः । विषयः । पृष्ठायां। पंतौ। पृष्ठायां। पंक्तौ। पादुकापञ्चकस्तोत्रं ८५,१०७ ब्रह्मपदं पिङ्गला ३,४,१०८। ब्रह्मरन्ध्र ६१ ॥ पुराणपुरुषस्थान १३० । ब्रह्मा २३,७३॥ पृथ्वी चतुष्कोणा पीताभा ११५ । ब्रह्माणी १२७,१३१। पौराणिकमतम् ७५ । ब्रह्माण्डादिकटाहः २१ । प्रकृतिः ५५,५६,५८ ।। ब्राह्मीध्यानं १२॥ प्रकतिपुरुषः ६७,६८,७४। भ। प्रजापतिः ११ । भगवत्साक्षात्कारस्थानं प्रणवः ५०॥ १२४ । प्रणवाकति: भानुमण्डलम् ३३,३४। ५॥ भुजङ्गी प्रतिष्ठा १२५। भूतशुद्धिः प्राणः ७७,७८ । १५। म। ब। मणिपीठमण्डलं ८८,१०० । २,५,७,११०,११२ । मणिपूरं (वैश्वानरस्य मण्डलं वा ) बद्धः ६८। २७,१२० । बन्धः ६८ मध्यका १२६ । बधती १२६॥ मध्यमा ८१,१२३ । बुद्धिः ५५,५६। मनोन्मनौ १२५ बुद्धितत्त्वं १०। मनः ४३,५५,५६ । बोधा बोधिनी ५७,५८,५८,१२६ । मन्त्रार्णा देवता प्रोता ब्रह्मणः स्वाधिष्ठान महत्तत्त्वं ५६ । ब्रह्महारमुखं १८॥ महानादः ( लाङ्गलाकृतिः) ५८ ब्रह्महारं ( सुषुम्नाया वदनं ) ८, सहानादरूपम् ५३,५४ । . म १२६ । मन्त्रसिद्धिः -100 ६५ । विषयः । पृष्ठायां । पंक्ती। विषयः । पृष्ठायां। पंतो। रूपातीत: परोविन्दुः महावायुः १३३,१३६ । महाशजिनीशक्तिः रेतिका मात्रादी शक्तिः ५७ । रौद्री १०११ मालावर्ण: ५८। ल। मुक्तषुरुषाः ६८,१३६ । लकारादिवर्ण: ५८ मूलचक्रध्यानफलं २२॥ लयक्रम: ८७,८८,८८ । मूलाधारः १८। ललाटादिवर्ण: मूलाम्बुजगह्वरं १८। लाकिनी मेरुः २९,१२०,१२१ । २,४,६। लाकिनीध्यानम् मोक्षं ७३,७४। लिङ्गत्रयं ८० ॥ मोचिका १२६ । य। व । वरुणवौज ( वं). यमा दश २४,२५ । योगः वर्णसंहरणप्रकारः ८२,८१ ॥ योगज्ञानफलं वशिकणा ४८। ८२। योगस्य गोपनेनानुष्ठानं वह्निवौज (२) योगभेदः वङ्गिविन्दुः ८२,८३ । १०१ । योनिमुद्रा वह्नि शशिमिहिरमण्डलानि ४८ ५१ । योनिमुद्रालक्षणं ५३ । ४८। वाणलिङ्गम् ३२,८०,१२१ । र। वायुमण्डलं ३०॥ राकिणी २६,१२० । वायुवीजं ( यं) ३१ । राकिणीध्यानम २६ । वायोः लयस्थानं ५३,५७,१२७॥ रामा १५,८७,१०१। विकृतिः = प्रतिविम्बता २८ । विद्या ४२,१२५॥ 2 वाक्शुद्धिः । - विषयः। पृष्ठायां । पंक्ती। विषयः । पृष्ठायां। पंक्तो। विन्दुः ४५,५७,५८.६१,७४,७५, शब्दब्रह्म ८,१२१ । ७६,११८ । शब्दोत्यादिकाः शक्तयः ८१॥ विन्दुतत्त्वम् १२५ । शाकिनी विन्दुरूपी मकारः १२५॥ शाकिनीध्यानं ४०,१२२ । विमला १२५। शान्तिः १२५ । विन्दुसमुद्भवः ५८॥ शान्त्यतीतेखरः १२५ । विशुद्ध: ३६,३७,३८ । शिवः ४५,७४। विष्णुचक्र ४५। शिवगेहम् विष्णोः वने पुं विन्दुः ८८ शिवपदम् ६८,१२३ । विष्णोः स्थान प्राणारोपणप्रकारः शिवश्य पञ्चवक्त्राणि १०७.1 ५२,६८|| शिवस्थान ६७ विसर्गः ५५,५९,६१,६५,६६,७६ । शिवाई १२७॥ वीज ५७,५८,५९ । शून्यं ६१,६२,७४,७५,१२८ । वृत्तः कुण्डलिनीशक्तिः ७५। शूलाष्टकं वेदानामादिवीजं ४४,१२४,१२५ । श्यामा २०॥ वैखरी २०,२१,१२३ । श्रीवत्सः व्यापिका ५८ । व्यापिनीशक्तिः १३१ । षट्कोणम् ब्रह्मनाड़ी षटचक्रलोकाध्ययनफलं ६४ । श। षट्पद्मानां चित्रिणीग्रथितत्वम् ११३ । शक्तिः ५७,५८,५८,६८। षड़ानायः १०८॥ মস্কি লুম্মিন ५६ । षोड़शाधाराः 8५। शक्तीनां षट्पनजाधिपत्वत् १३ । षोड़शोकला १३१ । शजिन्नी ६,५५,६१,१२८ । स। सवस्य पौठालयं ३३ ।। सकलोपासकानां देवतास्थानं६७,६८। . . . " ६ A स्वयम्भूः ह विषयः पृष्ठायां। पंतौ। विषयः । पृष्ठायां। पंतो। समाविमावः २२ । सूर्यविन्दुः १०१। सच्चिदानन्दः ७६ । | सृष्टिःचतुर्विधा १३५ । सदाशिवः ३८,१२२ । सोऽहं ८६,१३४ । सप्तदश कलाः ५८। स्थूलानां सूक्ष्मे लयः ८८। समनापदम् १३१,१३२,१३३ । स्वगुरुशिवरूपः ६५ । समनी ५८,१३२ । १६,८०। समाधिः ८०,८१। स्वाधिष्ठानं १८,२३,२६,११८ । समनोन्मनीगोचर १३१ । सरस्वती ६ । हंसः १२,६२,६३,६५,६६,७३,७४, सर्वदेवतामयः परं विन्दुः ६८। ७६,७८,११८,११०। सर्ववर्णात्मक पत्रं हंसपीठः ६५ । सवात्मा ६२,६३ ।। हंसः प्रकृतिपुरुषरूप: १०२॥ ६६ । हंसमन्वं ७७। सहस्रदलं ७,५९ । हरमुखकुहर ११४ । सहस्त्रारः १०,८५,१२८। ७६,८७। सामरस्य चिद्गुणप्रकार ८३,८४,८५। हरिः २५। सिराकारं शिवाकारं व ५४। हरिहरपदं सुप्रभा १२५ / हस्ति जिह्वा ६। सुषुब्रा २,७,५ ११०,१११, हाकिनी ४२,१२३ । ११४ । हाकिनीध्यानान्तरं ४३ ॥ सुषुम्नाया: त्रिगुणात्मकत्वम् ४। हुतभुक् शिखात्रयं १००,१०१ । सूर्यमण्डलम ६१,६५,७० । इङ्कारः सर्वेश: ७ 1 सूचीपत्रं सम्पूर्णम् ।