Bharti Bhawan Library, Allahabad
Gurvawali
Front matter
.
श्रीजनयशोविनयधन्यवाला (१)
श्रीमुनिसुन्दरनरिचिरमिता
* गुर्वावली
काशीस्थश्रीयशाविजयजन पाठशालायाः
प्रकाशिता ।
काश्यां चन्द्रमभायन्त्रालये मुद्रिता ।
नी सम्वतसर १
YHUN
No text on this page.
WHAMAKHYAP ॥ अहम् ॥ श्रीमुनिसुन्दरसूरयः। सकलसंस्कृतभाषाभाषणचणाः श्रीमच्छेता- म्बरजैनधर्मनिजसूक्तिपीयूषधाराधरीकृतगीर्वाणधिष- णाः कालीसरस्वतीबिरुदोपवृंहितश्रीमुनिसुन्दरसूरयः कदा कतमं भूमण्डलं मण्डयामासुः कदा च किं कार्य चक्रुरिति पर्यालोचने प्रवृत्ते- 'व्यजिज्ञपद्विज्ञशिरोमणिश्च गच्छाधिपं स्वच्छमतिप्रसारम् । श्रीमरिदीव्यत्पदभूमिवित्त- व्ययस्य निर्मापणतः प्रसीद ॥ ततो गुरुः सौवविनेयवृन्दे ददौ सदौनत्यगुरुः स्वदृष्टिम् । श्रीवाचकेन्द्र मुनिमुन्दरादे विशेषतो योग्यतया तया च ॥ जल्पत्यनल्पं सविकल्पजालं सदाप्यनुस्यूतमतिप्रभूतम् । श्राक् संस्कृतं प्रोन्मदवादिन्द ननाश यस्मिन् किल काकनाशम् ॥ स्वसाध्यसिध्यै सति यत्र हेतूपन्यासमातन्वति वादभूमौ । पावादुकोन्मादभरः शरीरे स्वेदेन सार्द्ध किल जागलीति॥
. प्रस्तावना यनिर्मिता श्रीगुरुभव्यकाव्यविज्ञप्तिगङ्गा गुणसत्तरङ्गा। प्रक्षालयन्ती कलिकश्मलौघं हृष्टानकार्षीत्सुमनःसमूहान् ॥ येन प्रक्लुप्ताः स्तुतयः स्तवाश्च गाम्भीर्यभृन्नव्यसदर्थसार्थाः। श्रीसिद्धसेनादिमहाकवीनां कृतीमतीद्धा अनुचक्रिरेताः॥ सद्युक्तिभृत्संस्कृतजल्पशक्तिः सहस्रनाम्नांकथनैकशक्तिः। तात्कालिकी नव्यकवित्वशक्तिनयं विनान्यत्र समीक्ष्यतेऽद्य। विद्या न सास्ते निरवद्यताभृत्- कला न सा चाऽस्ति वरा धरायाम् । यस्यां न यस्याङ्गिगणार्चितस्य बुद्धिर्विशुद्धा प्रसरीसरीति ॥ मेधाविनः सन्ति परः सहस्रा अदृष्यवैदुष्यधरा धरायाम्। परं न यस्य प्रसरत्यकर्षप्रज्ञस्य विज्ञस्य तुलाभृतः स्युः ।। तं वाचकं मृरिपदाहमहन्मतोन्नतिस्फातिकरं विमृश्य । वचोऽनुमेने सुमना महेभ्यराट् श्रीदेवराजस्य गणाधिराजः॥ अगादसौ धाम निकाममन्तश्चित्तं प्रहृष्टः कृतिनां गरिष्ठः । श्रामाहिणोत्कुङ्कुमपत्रिकाश्च की. समं भूमितलेऽखिलेऽपि। समागमन् सङ्घजनाश्च तेनाडूताः प्रभूताः परिपूतचित्ताः। तदा च रूपाऽस्तसुपर्वगर्वैस्तैस्तत्पुरं स्वःपुरवद्विरेजे ॥ भेर्याद्यवाद्यानि जगर्जुरूर्जस्वलानि मङ्गल्यरवातुलानि । समं च तैः श्राक् सुकृतानि तानि पुराकृतानि प्रथितानि तस्य।। वातोर्मिवेल्लच्छुचिकेतनानि निकेतनानि व्यवहारिनेतुः ।
प्रस्तावना। ३ बभासिरे तस्य गुणान्वितस्य श्रद्धोज्ज्वलानीव लसन्मनांसि।। तदा च सुत्रामपुरस्य शोभा शुभां बिभात स्म पुरं तदुच्चैः। पदे पदे यत्प्रमदप्रदायी निरीक्ष्यते ऽखर्वसुपर्वराजिः ।। सर्वाङ्गचार्वाभरणाभिरामा रामाः सकामाः प्रददुस्तदानीम्। न केवलं सद्धवलानि सर्वश्रोतृश्रुतीनामपि च प्रमोदम् ।। महोत्सवेधु प्रथितेषु तेषु समंततः संततमद्भुतेषु । सोत्कर्षहर्षेण पुरात् पुराणः शोकस्तदानीं निरकासि सद्यः॥ मुहूर्त्तवस्त्रेऽथ रमासनाथयुगादिनाथस्य पृथूञ्चचैत्ये । अमण्डि नन्दिप्रुभिस्तदानीमुर्त्यां च गुया स्वयशःसमृद्धिः महामहोघे प्रसरत्यनल्पे मङ्गल्यजल्पे ऽखिलबन्दिनां च । श्रीवाचकानां वरमरिमन्त्रं प्रादान्मुदा श्रीतपगच्छनाथः ॥ सङ्घाधिप-श्रीयुतदेवराजः सदावदातैरवदातकीर्तिः। उत्कर्षतो दाननलं प्रवर्षन् प्रावृदयनामो ददृशे तदानीम् ।। माणिक्यरत्नैः प्रवरैश्च चीरैर्विभूषणैर्यक्कृतदूषणैश्च । प्रचक्रिरे तेन नरेन्द्रकल्पाः कल्पांहिपाभेनवनीपकौघाः मुक्ताफलैनिर्मलकान्तिकान्ताचिरत्नरत्नर्विशदाक्षतैश्च । वर्धापयामासुरसीमरूपाः स्त्रियः श्रियः सद्युतिभिर्गुरूस्तान्।। गर्जत्यूार्जितर्यतूर्यनिकरे दिक्चक्रकुक्षिभरि- ध्वाने सद्धवलध्वनौ च नितरां प्रोत्सर्पति स्त्रीमुखात् । हूहूतुम्बरुजैत्रगायनगणैर्विस्तार्यमाणे च सद् गीते श्रीगुरवो विनेयसहिताः श्रीधर्मशाला ययुः ।। %3D
प्रस्तावना।
पाश्चत्पेशलखण्डिकामृदुलसन्नर्मपातष्ठानिका
श्रीखण्डोज्वलपमुख्यसिचयैश्चञ्चत्मभासञ्चयः ।
रम्यश्रीयुतसोमसुन्दरमहामूरीश्वराणां व्यधात्
पूजां श्रीश्रितदेवराजमहिमा श्रीदेवराजस्तदा
पक्कान्नैविविधैः स धीरमुकुटः सद्गन्धकूरोत्करै-
लिस्फातिततैः ससौरभघृतै|लामृतैश्वामितैः ।
श्रीसङ्घ सकलं कलङ्करहितश्रीर्जेमयामास तत्
पूजां चीरचयैर्यधाच्च गणनातीतः प्रतीतैर्गुणैः ।।
श्रीमान् मूरिपदे पदेऽथ यशसां कारापिते श्रीगुरो-
रादेशान्मुनिसुन्दरत्रतिवरश्रीमरिणा संयुतः ।
युक्तः पञ्चशतीमितश्च शकटैरुधटैर्भूयसा
सझेनाप्यनघेन तूर्णमचलत् श्रीतीर्थयात्रां प्रति ॥
भेर्यार्जितहुधवाधनिनदैव्योमानणं गर्जयन
रङ्गतुङ्गतुरङ्गमक्रमखुरापातैः क्षितिं कंपयन् ।
चञ्चद्वर्णसुवर्णदण्डकलशैर्देवालयैरुन्नतैः
शोभा बिभ्रददभ्रशुभ्रयशसा शुक्लं सृजन् क्ष्मातलं।
श्रीशत्रुजयपर्वतेऽपि च गिरी श्रीरैवते दैवतं
श्रीनाभयजिनं निरस्तवृजिनं नेमीश्वरं भास्वरम् ।
नत्वा तत्र महोत्सवानवनवान् कृत्वा च दत्वा धनं
भूत्वा संघपतिः कृती निजगृहं चागात्ससङ्घोऽनघः॥
श्रीगच्छेन्द्रगिरा सुधारसकिरा शिष्योत्करैः संयुता
।
प्रस्तावना गर्वाखर्वकुवादिसिन्धुरघटा वित्रासपञ्चाननाः। पूर्णेन्दुपतिमाननाघनजनाल्हादप्रकर्षपदा: श्रीमन्तो मुनिसुन्दराहगुरवः क्षोणी विहारं व्यधुः ॥ .. श्रीसोमसुन्दरयुगोत्तममूरिपट्टे श्रीमान् रराज मुनिसुन्दरसूरिगजः। श्रीमरिमंत्रवरसंस्मरणैकशक्ति- र्यस्याभवद् भुवनविस्मयदानदक्षा ।। श्रीरोहिणीति विदिते नगरे ततीति पश्चात्कृतेः किल चमत्कृतहृत्पुरेशः ॥ ऊरीचकार मृगयाकरणे निषेधं पावर्त्तयन्निखिलनीवृत्ति चाप्यमारिम् ॥ प्रागेव देवकुलपाटकपत्तने यो मारेरुपद्रवदलं दलयांचकार । श्रीशान्तिकृत्स्तवनतो ज्वनतो- तमाङ्गभूपालमौलिमणिपृष्टपदारविन्दः।। श्रीमानदेवशुचिमानसमानतुङ्ग- मुख्यान् प्रभावकगुरून् स्मृतिमानयद्यः । श्रीशासनाभ्युदयदप्रथितावदातै- स्तैस्तैश्चमत्कृतिकरैः कुमुदावदातैः ॥ चतुर्विशत्यधिकपञ्चदशशततमे वैक्रमेऽन्दे ६ प्रस्तावना। श्रीप्रतिष्ठासोमगणिभिर्निमितात् सोमसौभाग्यनाम- काव्यात् तत्रभवतां महामहिमप्रभाजुषामुक्तसूरीणा- मिति कीर्तिकौमुदीकलितकृतिव्यावर्णनमुपलभ्यते, 'पट्टश्रियास्य मुनिसुन्दरसारिशके संप्राप्तया कुवलयप्रतिबोधदक्षे । कान्तेव पद्ममुहृदः शरदिन्दुबिम्बे प्रीतिः परा व्यराचि लोचनयोजनानाम् ॥१२४॥ योगिनीजनितमायुपप्लवं येन शान्तिकरसंस्तवादिह । वर्षणादिव तपर्तुतप्तयो नीरवाहनिवहेन जनिरे ॥१२५॥ वाल्येऽपि रश्मीन्सरसीजबन्धुरिवावधानानि वहन्सहस्रम्। अष्टोत्तरं वर्तुलिकानिनादशतं स्म वेवेक्ति धियां निधिर्यः।१२६ अलम्भि याम्यां दिशि येन काली सरस्वतीदंविरुदं बुधेभ्यः। रवेरुदीच्यामिव तत्र तेजोऽतिरिच्यते यत्पुनरत्र चित्रम् ,१२७ परमपूज्यपादपझैः श्रीदेवविमलगणिभिर्विर- चितात् हीरसौभाग्यनामकाव्यात सकलसंमान्य- माहात्म्यचमत्कृतचेतसामुक्तसूरीणां बाल्येऽप्यलौ- किककार्यकारित्वाद्युपलब्धिरित्यवसीयते । 'श्रीसोमसुन्दरमूरिपट्टे एकपञ्चाशत्तमः श्रीमुनिसुन्दरसूरिः प्रस्तावना येनानेकपासादपनचक्रषट्कारकक्रियागुप्तकाभ्रमस- र्वतोभद्रमुजसिंहासनाशाकभेरीसमवसरणसरोवराऽष्टमहा- पातिहार्यादिनव्यत्रिशतीबन्धतर्कप्रयोगाद्यदनेकचित्राक्षर- इयक्षरपञ्चवर्गपरिहारायनेकस्तवमयत्रिदशतरङ्गिणीविज्ञ- प्तिनामधेयाष्टोत्तरशतहस्तमितोलेखः श्रीगुरूणां प्रेषितः । चातुर्वैधवैशारद्यनिधिरुपदेशरत्नाकरप्रमुखग्रन्थकारकः स्तम्भतीर्थे दफरषानेन वादिगोकुलसण्डइति भणितः दक्षिणस्यां कालीसरस्वतीति प्राप्तबिरुदः । अष्टवर्ष- गणनायकत्वानन्तरं वर्षत्रिकं युगप्रधानपदव्युदयीति जनरुक्तः । अष्टोत्तरशत १०८ वर्तुलिकानादोपलक्षक: बाल्येऽपि सहस्राभिधानधारकः । सन्तिकरमिति समहिम- स्तवनकरणेन योगिनीकृतमायुपद्रवनिवारकः । चतुर्वि- शतिवार २४ विधिना सूरिमंत्राराधकः । तेष्वपि चतुर्दश १४ वारं यदुपदेशतः स्वस्वदेशेषु चम्पकराजदेयाधारादि- राजभिरमारि: प्रवर्तिता । सीरोहीदिशि सहस्रमल्लराजे- नाप्यमारिपरिवर्त्तने कृते सति येन तिड्डकोपद्रवो निवारितः। श्रीमुनिसुन्दरसूरेबि० पात्रिंशदधिके चतुर्दशशत १४३६ वर्षे जन्म । त्रिचत्वारिंशदधिके १४४३ व्रतं षषष्ट्यधिके १४४६ वाचकपदम् । अष्टसप्तत्यधिके १४७८ द्वात्रिंशत्सहस्त्र ३२०००टङ्कव्य येन वृद्धनगरीय सं० देवराजेन मूरिपदं कारितं त्र्युत्तरपञ्चदशशत १५०३ वर्षे का० शु० प्रतिपद दिने स्वर्गभाह, प्रस्तावना। महामहिमपरमोदारचरितसहृदयसभासभा- जनश्रीधर्मसागरोपाध्यायविरचिततपागच्छपट्टावली- नामग्रन्थान्चेमे आचार्या विशदस्वभावा लोकोत्तरका- यविधौ पटवोऽलौकिकज्ञानशालिनः सर्वजनतारा- ध्यपादपद्मा आजन्मतः परोपकारपारावारदृश्वानः सूरिमन्त्रमन्त्रितात्मानो बभूवुरिति निश्चीयते । अतस्तत् प्रणीतगुर्वावलीनामकमनन्तपुण्यानु- बन्धिनममुं ग्रन्थं सर्वेषां साधुश्रावकाणामत्यन्तोप- कारकत्वेन मुद्रणयन्त्रोपर्यास्थापयामः सानुनयं प्रार्थयामश्चैतत्ग्रन्थमुद्रणसमये महतायासेन पुस्त- कद्वयमेव संगृह्य शोधनार्थमत्यन्तं यत्नो विहितः परन्तु दृष्टिदोषवशात् स्यात् क्वचित् स्खलितं तत्प्रेक्षावद्भिः स्वयमाकलय्य परिशोधनीयमिति । श्रीयशोविजयजी जैनपाठशाला, बनारस।
श्रीमुनिसुन्दरसूरिविरचिता गुर्वावली। जयश्रियं रातु जिनेन्द्रचन्द्रमाः स वर्द्धमानप्रभुरहुतां सताम् । निजाभिधानानुगुणास्तनोति यः स्तुतक्रमः प्रार्थितसौख्यसम्पदः ॥१॥ पदारविन्दं सकलेष्टसाधक प्रणम्य तस्यैव जगत्प्रभोर्मुदा। तदीयसन्तानकियद्गुरुक्रम- स्तवेन कुर्वे स्ववशाःशिवश्रियः॥२॥ शिवानि तस्यादिमशिष्यनायक- स्तनोतु सङ्घाय स गौतमो गुरुः ।
श्रीमुनिसुन्दरसूरिविरचिता गणाधिपख्यातिधरोऽपि शङ्करो बभूव लोके पुरुषोत्तमश्च यः ॥ ३ ॥ जाते समं वीरजिनेन वादे विभावयामो जयमेव तस्य । अगोत्रजोऽप्येष यदस्य कोशं रत्नत्रयाचं ववशीचकार॥४॥ क्षमाधरेन्द्रस्तनुतां स पञ्चमः श्रीमान् सुधर्मा २ गणभृत् सुखश्रियम् । विभाति गडेव यदुत्थसन्ततिः पुरः पुरो विस्तृतिभाक्स्वपाविनी ॥ ५॥ शिष्योऽस्य जम्बू ३र्ददतां शिवं सता- मपश्चिमः केवलसम्पदः पतिः । न्ययुत यः पुण्यवसूनि रक्षितुं प्रभुर्विवेकी परिमोषिणोऽप्यहो ॥ ६ ॥ आरक्षकोवीरविभोर्न जम्बू- समोऽभवत्पञ्चशतानि चौरान् । चक्रे समं यश्वरणे नियम्य १ विस्तर इति च पाठः।
गुर्वावली।
शिवाध्वरक्षकरतान्मुमुक्षून् ॥७॥
प्रावाजीद्यो भगवान् परिहत्य द्रविणकोटिनवनवतिमा
सञ्जनितजनकजननीजायाचौरादिसम्बोधः॥८॥
प्रभुः सजीयात्प्रभवो ४ महामति-
जम्बूगुरोः कोशहरः सुचौरराट् ।
योरत्नकोटीः परिमुच्य गेहगा
रत्नत्रयं मानसभूस्थमप्यलात् ॥ ९ ॥
शय्यंभव ५स्तत्पदमण्डनः सतां
तनोतु तातो मनकस्य सम्पदः
अजीगमद्यो जिनराजदर्शनं
सुदर्शनं मुक्तिरमानिदर्शनम् ॥ १० ॥
सूर्यिशोभद्र ६ इति प्रसिद्धः
शिष्यस्तदीयः स ददातु भद्रम् ।
गजाब्धिचन्द्र १४८ प्रमिते गुरुयो
बभूव वर्षे जिनमोक्षकालात् ॥११॥
सम्भूतविजयनामा७ तस्य विनेयस्तनोतु शं प्रथमः।
यत्पदपद्मोपान्ते प्रव्रजितः स्थूलभद्रगुरुः ॥ १२ ॥
श्रीमुनिसुन्दरमरिविरचिता
अपश्चिमः पूर्वभृतां द्वितीयः
श्रीभद्रबाहुश्च ७ गुरुः शिवाय ।
कृत्वोपसर्गादिहरस्तवं यो
ररक्ष सङ्घ धरणार्चितांहिः ॥ १२ ॥
नि!ढसिद्धान्तपयोधिराप
खर् यश्च वीरात् खनगेन्दुवर्षे १७०।
तयोविनेयः कृतविश्वभद्रः
श्रीस्थूलभद्रश्च ८ ददातु शर्म ॥ १४॥
स्त्रीसङ्गवह्नावपि यस्य शील.
द्रुमोऽभवत्पल्लवपेशलश्रीः।
सूत्राच पूर्वाणि चतुर्दशापि
बभार यो दर्शितलब्धिलालः ॥ १५ ॥
विशेषकम् ।
तिथिद्विसङ्खये २१५ त्रिदिवं गतस्य
तस्याऽब्दके वीरजिनेन्द्रमुक्तः।
महागिरि ९स्तत्प्रथमो विनेयः
श्रियेऽभवद्यो जिनकल्पिकल्पः॥ १६॥
गुर्वावली। जीयात्सुहस्ती९ च गुरुर्द्वितीयो योऽबूबुधत्सम्प्रति भूविभुं तम् । अचीकरद्यो जिनसद्मरम्यां पृथ्वी त्रिखण्डाधिपतिः सुदाता॥१७॥ सगुरुविधुनिधिपाणि प्रमिते २९१वीराद्गतोऽब्दके वर्गम् । सुस्थितसुप्रतिबुद्धौ कोटिककाकन्दिकौशिष्यौ १० ॥१८॥ तस्याऽभूतां चोभौ कोटिकनामाऽभवच्च तद्गच्छः। कोटीशः श्रीवजं यावदभूत्सूरिमन्त्री यत् ॥ १९ ॥ तत्रेन्द्रदिन्नसूरिः११श्रीदिन्न११२वाभवत्पदे तस्य । सिंहगिरि१३स्तस्यापि हि वज्रखामी१४च तच्छिष्यः२० या प्रज्ञा यच्च सौभाग्यं यःप्रभावश्च या मतिः। श्रीमहज्रगुरावासंस्तानि नान्यत्र विष्टपे ॥२१॥ नभोगविद्याकृतसङ्घरक्षः सवज्रशाखाप्रभवस्य मूलम् । ददातु भद्रं दशपूर्व्यधीशो
श्रीमुनिसुन्दरमाविरचिता
बाल्येऽपि जातिस्मृतिमान् सुरायः॥२२॥
स्वर्वेददन्तीषुमिते ५८४ सवर्षे
यातो जिनात्प्रेष्य निजं विनेयम्
सोपारके श्रीमति वज्रसेनं
तदा चतुर्बन्धुविबोधहेतोः ॥ २३ ॥
श्रीवज्रसेना१५च्च ततो बभूवुः
कुलानि चत्वारि सुविस्तृतानि ।
नागेन्द्रचान्द्रे अथ नैर्वृतं च
वैद्याधरं वादिजसूरिनाम्ना ॥ २४ ॥
विचित्रशाखा कुलगच्छमूलं
नैके बभूवुर्गुरवश्व तेषु ।
प्रणम्य तांश्चान्द्रकुलेऽथ सूरीन्
स्तवीमि कांश्चिक्रमतो गणेन्द्रान् ॥२५॥
नख वर्षेऽथ६२० जिनादिवं स
श्रीवज्रसेनोऽधिगतः श्रियेऽस्तु ।
श्रीचन्द्रसूरि १६ श्च पदे तदीयेs
भवद् गुरुश्चन्द्रकुलस्य मूलम् ॥२६॥
गुर्वावली। "एवं क्रमेण गुरुवः प्रोक्ताः क्वचन क्रमान्तरेणापि । भव्यानां भवभीति हरन्तु तन्वन्तु च श्रेयः ॥२७॥ अथो गुरुश्चन्द्रकुलेन्दुदेव- कुलादिवासोदितनिर्ममत्वः सामन्तभद्रः१७ श्रुतदिष्टशुद्ध- तपस्क्रियः पूर्वगतश्रुतोऽभूत् ॥ २८ ॥ वृद्धस्ततोऽभूत्किल देवसूरिः १८ शरच्छते विक्रमतः सपादे १२५ ॥ कोरण्टके यो विधिना प्रतिष्ठां शङ्कोळधान्नाहडमन्त्रिचैत्ये ॥ २९ ॥ प्रद्योतनः सूरि१९ रभूत्पदेऽस्य ततोऽपि चासीद् गुरुमानदेवः २० । यस्यांसयोर्गी:कमले समीक्ष्य साक्षात्प्रतिष्ठासमये पदस्य ॥ ३० ॥ भ्रंशोऽस्य भावीति विचारणातो विखिन्नचित्तं गुरुमाकलय्य। तत्याज यो भक्तकुलाप्तभिक्षा- श्रीमुनिमुन्दरमरिविरचिता माजीवितान्तं विकृतीश्च सर्वाः ॥ ३१ ॥ युग्मम्। पद्मां जयां च विजयामपराजितांच साक्षाद्यदहिसमुपास्ति परां निरीक्ष्य । नारीवृतोऽयमिति निर्मितदुर्विकल्पं कञ्चिन्नरं लघुविमुग्धमशिक्षयस्ताः ॥३२॥ वर्षासु नड्डलपुरस्थितोऽपि शाकम्भरीनाम्नि पुरे प्रभूताम् । तदागतश्राद्धगणार्थनातः शान्तिस्तवान्मारिमपाहरद्यः ॥ ३३ ॥ यः संयमाढ्यमुनिपञ्चशतीगणेन्द्रः सर्वातिशायिमहिमागुणरत्नवार्डिः। निन्ये जिनेश्वरमतं परमां प्रतिष्ठां श्लाघ्यःस कस्य न गुरुः खलु मानदेवः२०॥३॥ आसीत्ततो दैवतसिद्धिऋडः श्रीमानतुङ्गोऽथ गुरुः२१ प्रसिद्धः । भक्तामराद्वाणमयूरविद्या-
SCARE
गुर्वावली।
चमत्कृतं भूपमबोधयद्यः ॥ ३५ ॥
भयहरतः फणिराज यश्वाकार्षीद्वशम्वदं भगवान्।
भक्तिभरेत्यादिनमस्कारस्तवदृब्धबहुसिद्धिः ॥३६॥
जज्ञे चैत्ये प्रतिष्ठाकृन्नेमे गपुरे नृपात् ।
त्रिभिर्वर्षशतैः३०० किञ्चिदधिकैरिसूरिराट् २२ ॥३७॥
क्रमाद्बभूवुर्जयदेव २३ देवा-
नन्दौ २४ गुरू विक्रमसूरिराट् २५ च ।
नरादिसिंहश्च गुरुर्नरादिसिंहे
पुरे बोधितहिंस्रयक्षः ॥ ३८॥
खोमाणभूभृत्कुलजस्ततोऽभूत
समुद्रसूरिः २७ स्ववशं गुरुयः ।
चकार नागहूदपार्श्वतीर्थ
विद्याम्बुधिर्दिग्वसनान् विजित्य ॥३९॥
अभूद् गुरुः श्रीहरिभद्रमित्रं
श्रीमानदेवः पुनरेव सूरिः २८ ।
यो मान्यतो विस्मृतसूरिमन्त्रं
लेभेऽम्बिकास्यात्तपसोज्जयन्ते ॥ ४० ॥
श्रीमुनिसुन्दरसूरिविरचिता जज्ञे श्रीविबुधप्रभो गुरु २९ रदः पट्टे च विद्यानिधि- विश्वानन्दकरोगुणैरथ जयानन्द ३० स्ततःसूरिराट् ।। नड्डूलाहपुरे प्रतिष्ठितवरश्रीनोमिचैत्यस्ततो ऽप्यासीहर्षशतैरविप्रभगुरुः३१श्रीविक्रमात्सप्त- भिः ७००॥४१॥ अजनिरजनिजानि गरब्राह्मणानां विपुलकुलपयोधौ श्रीयशोदेवसूरिः ३२ । प्रवरचरणचारी भारतीकण्ठनिष्का- भरणविरुदधारी शासनद्योतकारी ॥ ४२ ॥ प्रद्युम्नसूरिश्च ततो बभूव प्रद्युम्नदानलवारिवाहः। प्रणीतसद्युक्त्युपधानवाच्यः ग्रन्थश्च तस्मादपि मानदेवः॥४३॥ (केचिदिदं सूरिद्वयमिह न वदन्ति।) ततः प्रसिद्धोऽजनि चित्रकूटे सहेमसिद्धिविमलेन्दुसूरिः ३३ । अपूजयद्यं विषमेऽपि वादे
गुर्वावली
सद्योजिते गोपागरेनरेन्द्रः ॥ ४४ ॥
तत्पट्टभूषाकृभून्मुनीनां
त्रिभिः शतैः सेव्यपदः सदाऽपि ।
उद्योतनः सूरि ३४ रवद्यहीन-
विद्यानदीविश्रमासन्धुनाथः ॥ ४५ ॥
समस्त्यथो शैलकुलावचूलः
श्रीअर्बुदस्तीर्थपवित्रितात्मा।
नानापुरग्रामतटाकवापी-
धुनीवनभ्राजिततुङ्गमौलिः ॥ ४६ ॥
कथं भवेन्नो हिमधामभूभृत-
स्तनूभुवः क्षोणिधरेषु राजता।
नीच ठहिः किल यस्य सर्वतः
पादा निषेव्या विविधैः क्षमाधरैः॥ ४७ ॥
यन्मूर्ध्नि गोपीगणकेलिगीत-
श्रीमयुगादीशगुणामृतानाम् ।
ग्रहाः प्रयान्तश्विरपानलोलाः
सर्वेऽपि वाञ्छन्ति शनैश्वरत्वम् ॥४८॥
श्रीमुनिसुन्दरसूरिविरचिता यदुच्चशृङ्गेषु मृगैश्चरद्धि- मिलन्विधोरङ्कमृगः प्रयातः। हयैर्हयाश्वार्करथस्य युक्ताः स्वजातिजातिथ्यसुखं लभन्ते ॥ ४९ ॥ यदुच्चमौलिस्थितकाननेषु तमीषु सर्वासु विभान्ति वृक्षाः। शाखागणान्तर्गततारकौघा इवाऽखिलगतपुष्पगुच्छाः ॥ ५० ॥ विभाति नानाविधनन्दनाश्रितो यो भद्रशालावलिभिस्तथाचितः। परिस्फुरन्निष्पमपाण्डुकम्बलो बिभ्रत्सुमेरोरतिशायिनीं श्रियम् ॥५१॥ यन्मौलिमौलिः प्रभुरादिमोऽर्हता चकास्ति नागेन्द्रमुखैः प्रतिष्ठितः। उच्चैः पदं यान्ति निनंसयाऽपि मे पराङ्मुखाश्वाध इतीव दर्शयन् ॥ ५२ ॥ चतुर्नवत्याऽभ्यधिकैः शरच्छतैः गुर्वावली। श्रीविक्रमान्निवाभिः स सूरिराट् । पूर्वावनीतो विहरन्नथागमद् यात्राकृते तस्य गिरेरुपत्यकाम् ॥ ५३ ॥ टेलीखेटकसीमसंस्थितवटस्याधः पृथोस्तत्र सः प्राप्तः श्रेष्ठतम मुहर्तमतुलं ज्ञात्वा तदाऽतिष्ठिपत् । सूरीन सौचकुलोदयाय भगवानष्टौ जगुस्त्वेककं केचिद्वृद्धगणोऽभवहटगणाभिल्यस्तदादि९९४खयम्।। न्यग्रोधगच्छेऽथ बभूव तस्मिन् श्रीसर्वदेवः ३५प्रथमो मुनीन्द्रः। श्रीसूरिमन्त्रातिशयर्द्धिधारी विश्वोपकारी गणिसंपदाढ्यः ॥ ५५ ॥ चरित्रशुटिं विधिवन्जिनागमा- द्विधाय भव्यानभितः प्रबोधयन् । चकार जैनेश्वरशासनोन्नति यः शिष्यलग्थ्याऽभिनवो ऽनुगौतमः॥१६॥ नृपादृशाने शरदां सहस्रे १०१० यो रामसैन्याइपुरे चकार।
HEARTHREAZAALAYAPRA श्रीमुनिसुन्दरमूरिविरचिता नाभेयचैत्येऽष्टमतीर्थराज- बिम्बप्रतिष्ठां विधिवत्सदWः॥ ५७ ॥ चन्द्रावतीभूपतिनत्रकल्पं श्रीकुङ्कणं मन्त्रिणमुच्चऋद्धिम् । निर्मापितोत्तुङ्गविशालचैत्यं योऽदीक्षयत् शुद्धगिरा प्रबोध्य॥५८॥ एकोनविंशः प्रभुवईमानात् श्रीचन्द्रसूरिः१९र्गणनायकोऽभूत् । बभूव तस्मादनु चैकविंशः सूरीश्वरोऽयं किल सर्वदेवः ४०॥५९॥ श्रीप्रद्युम्नसारि सदुपधानग्रन्थकारकश्रीमानदेवसूरी केचिन्न वदन्ति तन्मते एकोनविंशः प्रभु० एकोनविंशश्च ततोऽपि जज्ञे। सूरीश्वरोऽयं किल सर्वदेवः३८ इति पाठः। श्रीसम्भूतविजयमूरि श्रीभद्रबाहुमारि श्रीआर्यमहा- गिरिपुरि श्रीसुहस्तिमरि २ श्रीसुस्थितसारि श्रीसुप्रतिबद्ध- सरि ३ रूपयुगलत्रये एकैकस्यैव सन्तानप्रवर्तकपट्टभृतः सुरेगणने-
PRASADHNAMASSADIVALHARETREERSITUNEALINAR
गुर्वावली।
श्रीवर्धमानादिह षोडशोऽभूत्
श्रीचन्द्रसूरिः खलु गच्छनेता।
एकोनविंशश्च ततोऽपि जज्ञे
सूरीश्वरोयं किल सर्वदेवः ३५ ॥
इति पाठः ३
अत्रैव श्रीमयुम्नसूरिसदुपधानग्रंथकर्तृ श्रीमानदेवसूरि-
गणने च-
श्रीवर्द्धमानादिह षोडशोऽभूत्
श्रीचन्द्रसूरिः १६ किल गच्छनेता।
बभूव तस्मादनुचैकविंशः
सूरश्विरोऽयं किल सर्वदेवः ३७ ॥ ५९ ॥
इति वा पाठः ४॥
अयं चात्र गण्यते, विशेषं तु विशेषज्ञा विदन्ति ।
गच्छश्च तस्य बहुसूरिमुनीश्वरायै-
राठ्यव्रतो भुवि दधौ क्रमतः प्रसिद्धिम्।
विज्ञैर्वृहद्गण इति स्तुतिमाप्यमानः
सर्वैर्वृहत्तरतया चरितैर्गुणैश्च ॥६॥
MAHARMEROLYATREENEReal
श्रीमुनिसुन्दरसूरिविरचिता
शिष्यस्तत्र बभूव सद्गुणानिधिः श्रीसर्वदेवप्रभोः
सूरिश्रीरिति भूपदत्तविरुदः श्रीदेवसूरिः३८प्रभुः।
जज्ञेऽस्मान्महिमोदधिः पुनरपि श्रीसर्वदेवो३९गुरु-
स्तस्मादिगहिरदोपमाः समभवन्नष्टौ च सूरीश्वराः६॥
आयो यशोभद्रगुरुर्वितन्द्रः४०
सूरितिीयः किल नेमिचन्द्रः४०।
ताभ्यामभूत् श्रीमुनिचन्द्रसूरिः ४१
खशेमुषीतर्जितनाकिसूरिः ॥ ६२ ।।
उक्तंच
"गुरुबन्धुविनयचन्द्राध्यापक-
शिष्यं सनेमिचन्द्रगुरुः।
यं गणनाथमकार्षीत्
स जयति मुनिचन्द्रसूरिगुरु रिति ॥३॥
यशोभद्रं च संप्राप्तो यशोभद्रगणाधिपः ।
चिन्तामणिमिव प्राप्य यं शिष्यं भुवनोत्तमम्॥६॥
श्रीविनयचन्द्रवाचकविन्ध्यगिरेस्ते जयन्तु किल पादाः।
भद्रगजकलभलीला श्रीमुनिचन्द्रो दधौ येषु ॥६५॥
ERRESTRAORAL PRONOUNT गुर्वावली। सौवीरपायीति तदेकवारि- पानाद्विधिज्ञो विरुदं बभार। जिनागमाम्भोनिधिधौतबुधि- यः शुद्धचारित्रिषु लब्धरेखः ॥६६॥ संविनमौलिविकृतीः समस्ता. स्तत्याज देहेऽप्यममः सदा यः । विद्वद्विनेयालिवृतप्रभावः प्रभागुणौधैः किल गौतमामः ॥ ६७ ॥ हरिभद्रसूरिचिताः श्रीमदनेकान्तजयपताकाद्याः। ग्रन्थनगा विबुधानामप्यधुना दुर्गमा येऽत्र ॥ ६८ ॥ सत्पञ्जिकादिपद्या विरचनया भगवता कृता येन। मन्दधियामपि सुगमास्ते सर्वे विश्वहितबुद्ध्या ॥६९।। षट्तर्कीपरितर्ककेलिरसिको यः शैववादीश्वरं प्रज्ञाऽधःकृतवाक्पतिं नृपसभे जित्वोनहेत्वाशुगैः । प्रत्यक्षं विदुषां चकार विजयश्रीभाजनं शासनं वन्द्योऽसौ मुनिचन्द्रसूरिसुगुरुः केघांन मेधाजुषाम्।७० आनन्दसूरिप्रमुखा मुनीश्वराः ।
श्रीमुनिसुन्दरमरिविरचिता श्लाघ्या न केषामिह तस्य बन्धवः। ये दीक्षिताः श्रीमुनिचन्द्रसूरिणा प्रतिष्ठिताः सूरिपदे च शिक्षिताः ॥७॥ अष्टहयेशमिते ११७८ ऽब्दे विक्रमकालादिवंगतो भगवान्। श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि सङ्घाय ॥ ७२ ॥ तस्मादभूदजितदेवगुरु ४२ गरीयान् प्राच्यस्तपःश्रुतनिधिर्जलधिर्गुणानाम् । श्रीदेवसूरिरपरश्च जगत् प्रसिद्धो वादीश्वरोऽस्तगुणचन्द्रमदोऽपि बाल्ये॥७३॥ येनार्दितश्चतुरशीतिसुवादिलीला- लब्धोल्लसज्जयरमामदकेलिशाली। वादाहवे कुमुदचन्द्रदिगम्बरेन्द्रः श्रीसिद्धभूमिपतिसंसदि पत्तनेऽस्मिन् ॥ स्थाहादरत्नाकरतर्कवेधा मुदे स केषां नहि देवसूरिः ।
गुर्वाचली। १९ यतश्चतुर्विशतिसूरिशाख यस्यैव नाम्ना विदितं बभूव ॥ ७५ ।। वेदमुनीशमितेऽब्दे ११७४ देवगुरुर्जगदनुत्तरोभ्युदितः। श्रीमुनिचन्द्रगुरोरिति शिष्या बहवोऽभवन् विदिताः॥ ७६ ॥ तेष्वादिमाद्विजयसिंहगुरु ४३र्बभासे विद्यातपोभिरभितः प्रथमोऽथ तस्मात् । सोमप्रभो ४४ मुनिपतिविदितःशतार्थी- त्यासीद्गुणीव मणिरत्नगुरुईितीयः॥७७॥ प्रज्ञापराभूतसुपर्वसूरिःश्रीसर्वदेवात्स किलाष्टमोऽभूत् । मुदं भदन्ता ददतां तदेवं वृहद्गणस्य प्रभवः क्रमेण॥७॥ इति श्रुतः सच्चरणश्रियः पदं न दीनताभाक् पुरुषोत्तमालयः अमेयभास्वद्गुणरत्नसङ्गतो वृहद्गणो वारिधिवबभूव सः ॥ ७९॥ अभूत्तदुल्लासनलालसोदयो Male ARMER RANI श्रीमुनिमुन्दरमरिविरचिता विनेयवृत्तिर्मणिरत्नसद्गुरोः। गवां विलासैरमृतं निदर्शयन् श्रीमान् जगच्चन्द्रगणेन्द्रचन्द्रमाः ॥८०॥ स सौम्यमूर्तिः सकलागमानां सूत्रेष्वधीती परिनिश्चितार्थः । संविग्नमौलिर्दधतेस्म सूरे- गुणान् समग्रान् गणिसम्पदश्च ॥८१ ।। अथ कलिघनदुर्दिनावतारे प्रसरदसज्जडसंचये समन्तात् । प्रतिहतजिनराजभानुतेजो- महिमभरेऽनवबोध्य मुक्तिमार्गः ॥ ८ ॥ निजगणसरणौ प्रसादपङ्के चरणरथं प्रविलोक्य गाढमग्नम् । गुरुरयमसमस्तमुद्दिधीर्घ- वृषभ इवाऽपरमीक्षते सहायम् ॥ ८३ ॥ युग्मम् । अथ चैत्रपुरे वीरप्रतिष्ठाकद्धनेश्वरः ।
गुर्वावली। चन्द्रगच्छेऽभवत्सूरिस्तस्माच्चैत्रगणोऽभवत् ॥ ८४ ॥ कालागुवनचन्द्रास्तत्र जज्ञे गुरुर्गुणी । शुद्धसंयमधीस्तस्माद्देवभद्रश्च वाचकः ॥ ८५ ॥ सम्वेगरङ्गाम्बुधिधौतबुद्धि जिनागमात्क्लुप्तचरित्रशुद्धिम् । विधीयमानार्हतधर्मवृद्धि शुद्धैर्गुणैः प्राप्तजगत्प्रसिद्धिम् ॥ ८६ ॥ अधीतिनं सारजिनागमानां सूत्रेषु चार्थेषु च वेदिनं च । आम्नातिनं साधुविशुद्धसामा- चार्या प्रवृत्तं च यथावदस्याम् ॥ ८७ ॥ श्रीदेवभद्राभिधवाचकेन्द्र तं श्रीजगञ्चन्द्रगुरुः प्रबुद्धः। अथोपसम्पद्विधिना प्रपद्य स तद्वितीयो धुरमस्य दुः ॥ ८८ ॥ विशेषकम् । समुद्धृतः सोथ वृषोत्तमाभ्यां २२ श्रीमुनिमुन्दरसारिविरचिता ताभ्यामभूत्सर्वधुरीणकाभ्याम् । स्वारूढनिस्सङ्ख्यमुमुक्षुमोक्ष- पुरेन्दिराप्रापणशक्तिशाली ॥ ८९ ॥ एवं रामगुणः स लक्ष्मणनतः शुद्धक्रियां स्वप्रियां प्रौढोद्यत्कलिना रिणाश्वनभुवः किञ्चित्प्रमादाद् हृताम् तीर्खा मोहमहाम्बुधिं रिपुमिमं जिलाऽधिलकं श्रय- नानिन्ये स्वगणालये किल जगच्चन्द्रो गणेन्द्रस्तदा।।९० कलौ युगान्तोपमितेऽवतीर्णे प्रमादपङ्काकुलमोहवाः। तथार्हतं शासनमुद्दधार स भूतलं त्वादिमहावराहः ॥ ९१॥ गुरुममलं न कदापि भेजे ग्रामे कुले वा नगरे च देशे। शरीरशय्योपधिषु प्रमादं स दूरयन् गां विजहार चाथ ॥ ९२ ॥ तुलारोहेऽत्र बोभोति नीचलं भास्वतोऽपि हि । इतीव जगति त्रैधे स तुलातिक्रमं व्यधात ॥१३॥ * पक्षेऽवनभुव इति बोद्धचम् ।
२३ गुर्वावली। समानपदयोगेऽपि तत्प्रभा नापुरन्यके । मेषयाने समानेऽपि भाखानुचोऽमितोऽन्यथा ॥१४॥ यावज्जीवितमाचामाम्लतपोभिग्रही व्यधात्तानि। द्वादशवर्षाण्यङ्गेप्यममोऽसौ श्लाघ्यधीभगवान्।९५॥ तदादिबाणहिपभानुवर्षे १२८५ श्रीविक्रमात्माप तदीयगच्छः । वृहद्गणाहोऽपि तपेतिनाम श्रीवस्तुपालादिमिरच॑मानः ॥ १६ ॥ वीराच्छरेष्वश्वधरामितेऽब्दे १७५५ श्रीचन्द्रगच्छस्य ततो बभूव । तादृक्तपस्कर्मत एव तस्य गुरोस्तपानाम जगत्प्रसिद्धम् ॥ ९७ ॥ श्रीचन्द्रगच्छोऽथ वृहद्गणश्च तपागणश्चेत्यधुना स वाच्यः । चान्द्रं कुलं कोटिकनाम्नि गच्छे वाजी च शाखेति पुरा प्रसिद्धिः ॥९॥ गणं प्रमादो न न जाड्यमेषणा- NAMAPANY.BIPI २४ - श्रीमुनिसुन्दरमरिविरचिता दोषा न तस्मिन् गणनायकेऽवति । न वादिनो वा तमिहोपदुद्रुवुः सुरक्षक क्षेत्रमिवाण्डजब्रजाः । ९९ । कलिद्विषा भग्नपदस्थितिस्त्रसन् परासुतासन्नदशोऽपि तं गणम् । दुर्गनु लब्धा ऽस्य विभोः समाश्रया- चरित्रधर्मः पुनरुजिजीव सः ॥ १० ॥ श्रीदेवेन्द्रमुनीन्द्रो गच्छे विजयेन्दुनामकश्चापि । श्रीदेवभद्रवाचकमुख्या भूषाकृतस्तस्य ॥ १॥ चारित्रोद्धरणसखे ऽभ्यधिकं श्रीदेवभद्रगणिराजे बहुमानं वहमानो गुरुवद्गणनां चकारैषः ॥ २ ॥ देवभद्रगणीन्द्रोऽपि संविग्नः सपरिच्छदः । गणेन्द्र श्रीजगञ्चन्द्रमेव भेजे गुरुं मुदा ॥ ३ ॥ जात्यज्ञानतपस्तेजा हीरवत्सगुरुष्वऽभात् । तेन हीरजगच्चन्द्रसूरिरित्यभवत् श्रुतः ॥४॥ ॥विशेषश्चैवं श्रूयते॥ देव्या गिरो भवनगं स्वधियाऽधिगम्य गुर्वावली। २५ सारस्वतं किमपि यन्त्रमगम्यमन्यैः । तस्याः प्रसादवशतो नृपतेः सभाया- माधाटनामनि पुरे चतुरङ्गवादे ॥ ५॥ द्वात्रिंशतं विकटदिक्पटवादिराजान् द्राग् सार्ववैद्यविदुरानजयत् क्रमात्सः । भग्नोन हीर इव कैश्चिदिति प्रसिद्ध भूपात्तदाऽऽप विरुदं किल हीरलेति ॥६॥ ॥ युग्मम् ॥ तेन स्वस्य पदे न्यस्तौ देवेन्द्रविजयेन्द्रको । सूरीन्द्रौ शासने भातौ जबूहीपे रवी इव॥ ७ ॥ शिष्येऽन्यदा सार्वधुरीणवृत्तौ देवेन्द्रसूरौ सगणस्य भारम् ॥ विन्यस्य विश्वस्य हराविवेन्द्रः स्वःशर्म भेजेऽथ शिवाय वोऽस्तु ॥ ८ ॥ अथो जगच्चन्द्रमुनीन्द्रपट्टभृत् श्रीमान् स देवेन्द्रगुरुः ४६शमाम्बुधिः । नाम्ना गुणैरप्यभवद्गुरोःसमो HalNNN २६ श्रीमुनिसुन्दरमूरिविरचिता महाप्रभाभूः शिवभूतिदायकः ॥९॥ स दिद्युते बालसुधाकरप्रभः प्रभुभवाधाकृतिकर्मनिर्मितौ। सदर्चनीयो विबुधालितुष्टिकृ- निरञ्जनैकोदितपुण्यसत्कलः ॥ १० ॥ समग्रविद्यातपसां प्रणेतृता- प्रणीतसन्मानसविस्मयाऽद्वयः। स जग्रसेऽन्याखिलसूरिमण्डली- महांसि माद्यन्महिमैककान्तिभिः ॥११॥ सोऽभूद्गुरुः कोऽपि नवः कविस्तुतो मित्रारमाध्यस्थधरो बुधप्रियः। तत्वोक्तिभिनास्तिकदर्शनं क्षिपन् शिवङ्करो मार्गयुतोऽपि देहिनाम् ॥१२॥ किं सर्वागमदुग्धवारिधिभवाः स्फारा लहर्यो ह्यमूः किं मोहाहिविषोमिमूञ्छितजगज्जीवातवोग्यः सुधाः। किं वा शासनसौधभासनचणा दीप्राः प्रदीपश्रियो भावध्वान्तभिदः सतामिति मतिं तेनुस्तदीया गिरः।१३ गुर्वावली। श्रीस्तम्भतीर्थकुमर- प्रासादे सर्ववेदनिणेतुः। व्याख्याने ऽस्याऽष्टादश- शतानि मुखपोतिका आसन् ॥ १४ ॥ वाचकपदं द्विधापि च द्धति सुघोषाढ्यहेमकलशगणी। सभ्येषु वस्तुपालादिषु नौविचद्विजादिषु च ॥१५॥ षट्दर्शनिसाधारणबोधकृतस्तस्य सद्गुरोर्वाचः सौभाग्यमाहिमभारं तदाऽभजन कंचनाऽमेयम्॥१६॥ सारवृत्चिदशाः कर्मग्रन्थदीपास्तमोहराः। तस्य प्रवचनावासे भान्ति प्रेष्ठार्थदर्शकाः ॥१७॥ नानास्तवनप्रकरणरत्नानि समुद्धृतानि समयाब्धे। पुरुषोत्तमेन तेनाऽलङ्कृतये शासनस्यासन् ॥१८॥ पञ्चाशिकासिविचारवाच्या भाष्याणि वृत्तं च सुदर्शनायाः । उपासकानां दिनकृत्यसूत्र- वृत्तीच टीकाऽपि च धर्मरत्वे ॥ १९ ॥ देवेन्द्राङ्का श्राद्धयामोद्यभाङ्गि- २८ श्रीमुनिसुन्दरसूरिविरचिता ग्रन्थाद्याऽन्याप्यस्त्यनेकाऽ स्य सृष्टिः । एवं नानाग्रन्थसोपानपश्या स्वारोह तन्मुक्तिसौधं व्यधात्सः ॥ २० ॥ । युग्मम् । योऽभूत्तदीयोऽथ लघुः सतीर्थ्य- स्तदाग्रहादाप्तपदप्रतिष्ठः। सूरिः सुविद्वान् विजयेन्दुनामा प्रावतयत्सोऽथ पृथक् स्वशाखाम् ॥२१॥ इति चेह तत्सम्बन्धः श्रूयते तथाहि- पुरा विजयचन्द्रोऽभूद्वस्तुपालस्य मन्त्रिणः । सचिवो लेख्यके देये क्षिप्तः कारागृहेऽन्यदा||२२|| देवभद्रगणीनां स द्विधा शिक्षाकृतेर्पितः। नाम्ना विजयचन्द्रोऽभूत् प्राक् तदाप्याप्तशास्त्रवित्६२३ श्रीजगच्चन्द्रगच्छेशैः शिष्यवात्सल्यशालिभिः । न्यस्तः सूरिपदे देवभद्रगण्युपरोधतः ॥२४॥ साहाय्यायापि देवेन्द्रः सूरीन्द्राणां गणावने । अहंयुत्वान्निषिद्धोऽपि वस्तुपालन मन्त्रिणा॥२५॥ * देवभद्रगणीन्द्रः स बोधितो मन्त्रिराजतः ॥ विमोच्य श्रीजगच्चन्द्रसूरिपार्थेऽग्रहीव्रतमित्यपि पाठः ।
गुर्वावली। श्रीजगञ्चन्द्रसूरीन्द्रे स्वर्गतेऽसावनेहसम् । कियन्तं विनयी जज्ञे श्रीदेवेन्द्रगणेश्वरे ॥२६॥ विहरत्यन्यदा तस्मिन् गणेन्द्रे मालवे चिरम् । तस्थौ श्रीस्तम्भतीर्थे ऽसौ पूजितः पूर्वसंस्तुतैः॥२७॥ चैत्यादिद्रव्यसंस्कारदूषिता वृहतीति या । प्रसिद्धा तत्र शालाऽ भूद् वृद्धगच्छगुरुस्थितेः॥२८॥ पार्थस्थाऽवस्थता भुक्ता त्यक्ता शुद्धक्रियाहतौ । श्रीजगञ्चन्द्रसूरीन्द्रदेवेन्द्रगुरुणाऽपि सा ॥२९॥ तस्यां लोकानुरोधेन नित्यवासप्रमादभाक् । आत्मसात्कृतलोकोऽसौ तस्थौ द्वादशवत्सरीम्॥३०॥ सामाचारी स दुष्पालां किंचिच्छिथिलयन्नपि । गच्छमावर्जयामासानुकूलाचरणादिभिः ॥३१॥ गुर्वादेशं विना दीक्षादीनि कार्याणि चाऽसृजन् । आगतेऽथ गणाधीशे विनयं नाकरोत्तथा॥३२॥ नोदितो नित्यवासेऽपि निर्ममेत्यादि सोऽपठत् । आचारभ्रंशभीरुस्तत् श्रीदेवेन्द्रगणाधिपः ॥३॥ संविमपरिकराठ्यो बोधानह प्रमादिनं ज्ञात्वा ।
३० श्रीमुनिमुन्दरमरिविरचिता पुस्तकशालादियुतं तं मुक्त्वा ऽस्थात्पृथग्वसतौ॥३४॥ । युग्मम् । देवेन्द्रसूरिसुगुरोः ख्याताः शिष्यास्तु वृद्धशाखाया संविग्नत्वाच्च गुरुर्विज्ञैरर्च्यः स एवासीत् ॥३५॥ विजयेन्दुविनेयाश्च ख्याता मुग्धेषु वृद्धशालायाः। विज्ञाः पुनर्जगुस्तान् लघुगुरुशालाभवान् युक्तम्३६ संग्रामसौवर्णिकपूर्वजस्तदा पार्थक्यमालोक्य गुरुद्वयस्य तत्। श्रयामि के नन्विति संशयाकुलः सदैवतं बिम्बमुपास्थिताऽर्हतः ॥ ३० ॥ देवेन्द्रसूरिभरतोत्तमोगुरु- युगोत्तमाभो भविता महान्वयः । तमेव सेवस्व यदीहसे शिवं तमादिदेशेति च देवता निशि ॥ ३८ ॥ दत्तशुद्धवसतिस्ततोऽभज- तं गुरुं स बहुनैगमान्वितः। दापितस्वजनसंयमो मुदे- गुर्वावली। ३१ तीभ्यभीमप्रमुखाः परेऽपि च ॥ ३९ ॥ श्रीदेवेन्द्रमुनीन्द्रोविद्यानन्दादयोऽभवन् शिष्याः । लघुशाखायां तु गुरोविजयेन्दोश्च त्रयःपट्टे ॥४०॥ श्रीवज्रसेनसूरिः पद्मेन्दुः क्षेमकीर्तिसूरिश्च । रदविश्वमिते१३३२ वर्षे विक्रमतःकल्पटीकाकृत ॥४१॥ अथहेमकलशसूरिस्तत्पदमौलिगुरुयशोभद्रः। रत्नाकरस्ततोऽपि च शिष्यो रत्नप्रभश्वाऽस्य ॥४२॥ मुनिशेखरस्तदीयः शिष्यः श्रीधर्मदेवसूरिरपि । श्रीज्ञानचन्द्रसूरिः सूरिःश्रीअभयसिंहश्च ॥४३॥ अथहेमचन्द्रसूरिजयतिलकाः सूरयस्ततो विदिताः। जिनतिलकसूरयोऽपि च सूरिमाणिक्यनामा च ४४ कालानुभाववशतःशाखापार्थक्यचेतसाह्यधुना । सर्वे ते गुणवन्तो ददतां भद्राणि मुनिपतयः॥४५॥ अथ वृद्धगुरोः शाखा प्रस्तुता स्तूयतेऽग्रतः । विनयातिक्रमो नास्ति यस्यां काले कलावपि ॥४६॥ देवेन्द्रसूरिः सगुरुर्गुणोत्तरो बभूव संवेगरमानिकेतनम् ।
श्रीमुनिसुन्दरत्रिविरचिता समुद्धरन् धीरतयोग्रदुःषमा- पडाघसंपाति जिनेन्द्रशासनम्॥४७॥ विश्वकस्पृहणीयरूपसुभगां त्रैलोक्यकुक्षिभरि तत्कीर्ति सुविधाय शेषदलकैश्चके विधातोज्वलान् । कैलासं भुजगेश्वरं हरमिभं वाहं च नाकिप्रभोः क्षीराम्भोनिधिमिन्दुकुन्दकुमुदप्रालेयशङ्खादिकान्।४८॥ किं त्रातुं समवातरत्सुगतवद् वीक्ष्याऽदित शासनं खं सर्पकलिनागतोऽपि हि शिवं श्रीमान् सुधर्मा भुवि किं वाऽयं गुरुगौतमः किमथवा श्रीवीरनेता स्वयं तस्मिन्नित्यभवन् युगोत्तमगुणाधारे विकल्पाःसताम्४९ निश्शेषस्वपरागमार्थनिलयः षट्तय॑भिज्ञाग्रणीः कोशः सद्गाणिसंपदां त्रिजगतः सारैरिवात्तैः कृतः। भारत्याश्च रणश्रियश्च भरतोत्कृष्टः पतिःसोऽभव- नान्यस्त्वाहतशासनोपनिषदस्तस्योपमानं गुरोः॥५०॥ प्रायेण वंशाः पृथकोऽपि मूलतः परे तनुत्वं दधते पुरः पुरः अमुष्य वंशस्तु दधौ विशालतां STARSHURAIN गुर्वावली। ३३ मूले तनीयानपि चाग्रतोऽग्रतः ॥ ५१ ॥ तथाहि । अथागमत्सूरिरयं विदूरयं- स्तमस्तति मालवमण्डलावनौ। तत्रोजयिन्यां जिनचन्द्रसंज्ञया- भवन्महेभ्यो जिनसाधुभक्तिभृत् ॥ ५२ ॥ अस्ति वीरधवलाहयस्य स स्वाङ्गजस्य करपीडनोत्सवम्। कारयन्नसमरूपया समं यावदिभ्यगजपालकन्यया ॥५३॥ तावदेव स गुरोः समागमं संनिशम्य नतये ऽगमत्सुतः । संनिपीय च सुदेशनासुधां मोहतापविलयात्प्रबुद्धवान् ॥ ५४ ॥ भीतोभवात्तस्य गुरोः पदान्ते समानयित्वा पितरौ प्रवीणः ततः प्रवव्राज विहाय जम्बू- श्रीमुनिमुन्दरमरिविरचिता रिव स्वबन्धून् रमणी वृतां च ॥ ५५ ॥ विद्यानन्दाभिधः पाणिखविश्वान्दे१३०२स दीक्षितः। क्रमाद्विद्याम्बुधिर्जज्ञे गणिसंपत्पद मुनिः ।। ५६ ॥ भीमसिंहोऽनुजोप्यस्य गुरुणा तेन बोधितः। दीक्षितो धर्मकीर्त्याहो मुनिरासीद्गुणोदधिः॥५७॥ धरासारतरे तुङचङ्गचैत्यालिशालिनि । प्रह्लादनपुरेऽथागात् स गुरुर्विहरन् क्रमात॥५८॥ श्रीकरीयुतसुखासनयानाः कुर्वते चतुरशीतिमितेभ्या तत्र तद्गणपतरुपदेशाद्धर्मकर्म विविधं जनताश्च॥१९॥ प्रह्लादनविहारे तु सौवर्णकपिशीर्षके। तदा मूढकमानाश्वाक्षताःप्रत्यहमागमन्॥६०॥ प्रतिगोणि तु देवस्य दायं पूगीफलं जनाः ददतो ददिरे प्रायो मणान्यहनि षोडश॥१॥ भोगं पाश्चशतीसंख्यवीसलप्रियिकं तथा । प्रत्यहं ससृजुः श्राद्धाः पूजामित्यपरामपि ॥६२॥ अथान्यदा प्रौढविचित्रपुण्य- प्रवीणसङ्घप्रथितार्थनाभिः।
गुर्वावली। ३६ गणाधिनेताऽभिमतं स विद्यानन्द मुनीन्द्रं गुणलक्ष्मिपात्रम् ।। ६३ ।। श्राधैर्महेन्द्ररिव निर्मितोत्सवैः प्रमोदि विश्व स्वपदे न्यवीविशत् । प्रह्लादनोर्वीपतिचैत्यमण्डपे त्रिदन्तभूमीमितवत्सरे१३२३नृपात् ॥६॥ केचित् १३०४ पाहुः तथा च घेदाऽभ्रवनिक्षितिवत्सरे १३०४ नृपादिति पाउ: विशेषनिर्णयं तु विशेषज्ञा विदन्ति । गुरोविनेयस्य च तैर्गुणैस्तदा सुरैः प्रष्टैमहिमा व्यधीयत् । यत्कुङ्कुमाम्भः स ववर्ष मण्डप- स्तदाचिलीनं वसनेषु कोविदैः ॥ ६५ ॥ अम्बा पात्रावतीर्णावक महिमानं सुरैः कृतम्। तज्जनेभ्यस्तदा प्रीता गुणैस्तद्गुरुशिष्ययोः ॥६६॥ विन्यस्य तं शासनभासनेन्दु- मिव प्रबोधाय गतः स भास्वान् ।
श्रीमुनिसुन्दरसूरिविरचिता क्षेत्रान्तरं स्वर्गमिषाच्छिवं च संघस्य देवेन्द्रगुरुस्तनोतु ॥१७॥ तादृग् गुणस्य स गुरोः खगतिमवगत्य सत्यभक्क्याऽस्मिन् । सङ्घाधिपभीमोऽन्नं वर्षाणि द्वादशात्याक्षीत् ॥ ६८ ॥ तत्पट्टे ऽथो स प्रसिद्धप्रभावः श्रीमान् विद्यानन्दसूरिः४७श्रिये स्तात् । नव्योद्भिन्नं यं द्विषं वीक्ष्य मोह- श्छन्नश्छन्नः क्वापि भीतश्वचार ॥ ६९ ॥ विद्यानार्यों हृदयभवने ऽस्यास्तसंख्याः समन्ता- दालिङ्ग्यताः कथमपि गुणास्तद्वराश्चाप्यवात्सुः । तत्सम्भूतास्त्वतिबहुतया सद्यशोऽपत्यसङ्घा- वैधेऽप्यस्मिन् जगति न ममुःस्थानयोगाद्विवृद्धिः।७० ॥ विद्यानन्दाभिधं तेन कृतं व्याकरणं नवम् । भाति सर्वोत्तमं स्वल्पसूत्रं बहुर्थसंग्रहम् ॥ ७१ ॥ वेलेवोल्लासिनी तद्गीस्पैविद्यापारसागरे ।
गुर्वावली। चिक्षेप प्रोन्मदान् दूरं वादिनः कर्करानिव ॥७२॥ शिष्योऽथ देवेन्द्रगुरोईितीयकः श्रीधर्मघोषः ४७ सुकृताब्धिपोषक: शोषं नयन्नन्ययशःसरखती- ोगान् बभौ पल्लवयन् वसन्तवत् ॥ ७३ ॥ दैवाचयोदशदिनान्तरतोगते स्वः शैलद्विविश्वशरदि १३२७ स्वगुरुद्वयेऽपि ॥ यो वाचकोऽधिगतसूरिपदः स्वगोत्रि. सूरजघान किल मत्सरिणाङ्कदाशाः ॥७॥ स च श्रीधर्मकीर्त्याः श्रीविद्यानन्दबान्धवः । जिला मत्सरिणः शन्याछ भविश्वान्देऽ १३२८ भवद्गणी ॥ ७५ ॥ तपस्कियोत्कर्षितसद्गुणश्रिया प्रकृष्टसौभाग्यरमानिकेतनम् । समृडयोऽष्टावपि तं युगोत्तम समंश्रिता निर्मितकार्मणा इव ॥ ७६ ॥ * षण्मास्या स्वगुरुस्वर्गादिति वा पाठः ।
श्रीमुनिमुन्दरमरिविरचिता अथान्यदा मालवमण्डलावने- विभूषणे मण्डपदुर्गनामनि। पुरे स पृथ्वीधरसाधुमार्हतं प्राबूबुधद्धर्ममुदारधीगुरुः ॥ ७ ॥ त्रिकालवेत्ता भगवान् स पञ्चम- व्रतेऽपि लक्षा द्रविणस्य मुत्कलाः। अनाढ्यमप्येतमचीकरत्प्रभुः प्रपन्नसम्यक्त्वचतुस्त्रिकवतम् ॥ ७८ ॥ स च क्रमान्मालवमण्डलेशितुः प्रजाभिरर्च्य सचिवलमाश्रितः बभूव ऋच्या धनदोपमो हि कि नज्ञानिनां भाग्यवताञ्च गोचरे ॥७९॥ भुवं स चैत्यैर्हदयानि सद्गुणै- मनीषिणां व्याप च कीर्तिभिर्दिशः । घनैश्च कोशान् प्रशशास च प्रभू- नपि क्षमाया विदितोरुषड्गुणः ॥८॥ स षट्सहरूयाधिकजीर्णटङ्का- NOTION गुर्वावली। युतत्रयस्याथ मुदा व्ययेन । श्रीधर्मघोषे स्वगुरौ समेते ऽन्यदा प्रवेशोत्सवमाततान ॥ ८१॥ प्रसेदुषाऽसौ गुरुणाऽर्पितक्रमः क्रमाऽबबुद्भविणव्ययास्पदः । अचीकरचैत्यचतुष्टयाधिका- शीतिं स्फुरच्छारदवारिभ्रमाम् ॥ ८२ ॥ अनुत्तरैस्तैः किल चिन्तनातिगै- रुदारधीरैश्चरितैरसस्मरत् । चिरायतीतं हरिषेणचक्रिणं ससम्प्रति चापि कुमारभूपतिम् ॥८॥ मौक्तिकश्रीसमायुक्तजिननायकमण्डिताः । हारा इव विहारास्ते भान्ति भूभामिनी हृदि॥८॥ कोटाकोटिरिति प्रसिद्धमहिमा शान्तेश्च शत्रुञ्जये श्रीपृथ्वीधरसंज्ञया सुरगिरौ श्रीमण्डपाद्रौ तथा । प्रासादा बहवः परेऽपि नगरपामादिषु प्रोन्नता म्राजन्ते भुवि तस्य मुक्तिवलभीनिःश्रेणिदण्डा इवा८५!
४० श्रीमुनिसुन्दरसूरिविरचिता अत्र श्रीपृथ्वीधरसाधुकारितप्रासादस्थानसंख्यामूल- नायकजिननामादि वाच्यम्। पूज्य गुरुश्रीसोमतिलकसूरिपाद. कृतं स्तोत्रमवतार्य पठनीयम् ॥ । तच्चेदम् । श्रीपृथ्वीधरसाधुना सुविधिना दीनादिषूदानिना भक्तश्रीजयसिंहभूमिपतिना खौचित्यसत्यापिना । अर्हडक्तिपुषा गुरुकमजुषा मिथ्यामनीषामुषा सच्छीलादिपवित्रितात्मजनुषा प्रायःप्रणश्यद्रुषा ।८६॥ नैकाः पौषधशालिकाः सुविपुला निर्मापयित्रा सता मन्त्रस्तोत्रविदीर्णलिङ्गविवृतश्रीपार्श्वपूजायुजा । विद्युन्मालिसुपर्वनिर्मितलसद्देवाधिदेवाहय ख्यातज्ञाततनूरुहप्रतिकृतिस्फूजसपर्यासृजा ॥७॥ त्रिकाले जिनराजपूजनविधि नित्यं हिरावश्यक साधौ धार्मिकमात्रकेऽपि महती भक्तिं विरक्तिं भवे। तन्वानेन सुपर्वपौषधवता साधर्मिकाणां सदा वैयावृत्यविधायिना विदधता वात्सल्यमुच्चैर्मुदा॥८॥ श्रीमत्संप्रतिपार्थिवस्य चरितं श्रीमत्कुमारक्षमा-
गुर्वावली।
पालस्याप्यथ वस्तुपालसचिवाधीशस्य पुण्याम्बुधेः ।
स्मारं स्मारमुदारसंमदसुधासिन्धूर्मिषून्मजता
श्रेयःकाननसेचनस्फुरदुरुप्रावृटु भवाम्भोमुचा।।८९॥
सम्यङ्न्यायसमर्जितोजितधनैः सुस्थानसंस्थापितै-
येये यत्र गिरौ तथा पुरवरे ग्रामेऽथवा यत्र ये।
प्रासादानयनप्रसादजनका निर्मापिताः शर्मदा-
स्तेषु श्रीजिननायकानभिधया साई स्तुवे श्रद्धया९०
पञ्चभिः कुलकम् ।
श्रीमद्विक्रमतस्त्रयोदशशतेष्वन्देष्यतीतेष्वथो
विंशत्याभ्यधिकेषु मण्डपगिरौ शत्रुञ्जयभ्रातरि ।
श्रीमानादिजिनःशिवाङ्गजजिनः श्रीउज्जयन्तायिते
निम्बस्थूरनगेऽरथ तत्तलभुवि श्रीपार्श्वनाथः३श्रिये९१
जीयादुज्जयिनीपुरे फणिशिराः श्रीविक्रमाख्ये पुरे
श्रीमान्नेमिजिनो जिनौ मुकुटिकापुर्या च पार्धादिमौल
मल्लिः शल्यहरोस्तु विन्धनपुरे ८ पार्श्वस्तथाऽऽशापुरे ९
नामेयो वत घोषकीपुरवरे१०शान्तिर्जिनोऽर्यापुरे१११९२
श्रीधारानगरेऽथ वर्द्धनपुरेऽश्रीनेमिनाथः पृथक्१२,१३
श्रीमुनिसुन्दरसूरिविरचिता
श्रीनाभेयजिनोऽथ चन्द्रकपुरीस्थाने१४स जीरापुरे१५॥
श्रीपार्थो जलपद्र१६ दाहडपुरस्थानद्वये १७ संपदम्
देयाहीरजिनश्च हंसलपुरे१८मान्धात्मूलेऽजितः१९९३
आदीशोधनमातृकाभिधपुरे२० श्रीमङ्गलाख्ये पुरे २१
तुर्यस्तीर्थकरोऽथ चिक्खलपुरे श्रीपार्श्वनाथः श्रिये २२
श्रीवीरो जयसिंहसंज्ञितपुरे२३नेमिस्तु सिंहानके २४
श्रीवामेयजिनःसलक्षणपुरे२५ पार्श्वस्तथैन्द्रीपुरे२६/९॥
शान्यै शान्तिजिनोस्तु ताहणपुरेऽ२७रो हस्तनाद्येपुरे२८
श्रीपार्श्वः करहेटके२९ नलपुरे३०दुर्गे च नमीश्वरः३१॥
श्रीवीरोऽथ विहारके३२स च पुनः श्रीलम्बकर्णीपुरे३३
खण्डोहे किल कुन्थुनाथ३४ऋषभःश्रीचित्रकूटाचले३५
आद्यः पर्णविहारनामनि पुरे
३६ पार्श्वश्व चन्द्रानके ३७
वयामादिजिनो३८थ नीलकपुरे
जीयात् द्वितीयो जिनः ३९।
आयो नागपुरे ४०ऽथ मध्यकपुरे
गुर्वावली। श्रीअश्वसेनात्मजः ४१ श्रीदर्भावतिकापुरेऽष्टमजिनो ४२ नागहदे श्रीनमिः ४३॥९६ ।। श्रीमल्लिर्धवलकनामनगरे ४४ श्रीजीर्णदुर्गान्तरे ४५ श्रीसोमेश्वरपत्तनेच फणभृल्लक्ष्मा४६जिनो नन्दताता विंशः शङ्खपुरे जिनः४७ स चरमः सौवर्तके ४८वामन- स्थल्यां नेमिजिनः४९शशिप्रभजिनो नासिक्यनाम्न्यां पुरि ५० ॥ ९७ ॥ श्रीसोपारपुरेऽ५१थरूणनगरे- S५२थो रुङ्गलेऽ५३थ प्रति- ष्ठाने पार्श्वजिनः५४शिवात्मजजिनः श्रीसेतुबन्धे ५५ श्रिये। श्रीवीरो वटपद्र ५६ नागलपुरे ५७ ष्टक्वारिकायां ५८ तथा श्रीजालन्धर५९देवपालपुरयोः६० श्रीदेवपूर्वे गिरौ ६१ ॥९॥ चारूप्ये मृगलाञ्छनोजिनपति६रनेमिःश्रिये द्रोणते RETINATION श्रीमुनिमुन्दरमरिविरचिता नेमीरत्नपुरे ६४ जितोबुकपुरे६५ मल्लिच कोरण्टके। पार्थो ढोरसमद्रनीवृति ६७ सरस्वत्याह्वये पत्तने कोटाकोटिजिनेन्द्रमण्डपयुतः६८ शान्तिश्च शत्रुञ्जये श्रीतारापुर ७७ वईमानपुरयोः७१ श्रीनाभिभूमुबतौ नाभेयोवटपद्र ७२ गोगपुरयो७३श्चन्द्रप्रभः पिच्छने७४। ओङ्कारेऽद्भुततोरणं७५जिनगृहं मान्धातरि त्रिक्षणं ७६ नेमिर्विकननाम्नि ७७ चेलकपुरे श्रीनाभिभू ७८- भूतये १५ ॥ १० ॥ इत्थं पृथ्वीधरेण प्रतिगिरिनगरामसीमं जिनाना- मुच्चैश्चैत्येषु विष्वग् हिमगिरिशिखरैः स्पर्द्धमानेषु यानि।। बिम्बानि स्थापितानि क्षितियुवतिशिरःशेखराण्येष वन्दे तान्यप्यन्यानि यानि त्रिदशनरवरैः कारिताऽकारि- तानि १६ ॥ १॥ इति पृथ्वीघरसाधुकारितचैत्यस्तोत्रं १६ काव्यम् ॥ पूज्यश्रीसोमतिलकसूरिकृतम् ।
दुर्वावकी। नभोगङ्गां रङ्गध्वजसितपतत्रालिकलितां सवञ्चन्द्राश्माद्भिः स्फटिककलशेन्दुं च विशदः । शिरःकोटौ बिभ्रन्मरकतमणीनीलितगल: श्रयेत्तस्य ज्योत्स्ना हरविलसितं चैत्यनिकरः॥२॥ किं वर्ण्यतेऽसौ मुहुरेकविंशते- द्ययाद्धटीनां कनकस्य यो मुदा । अचीकरडैममयादिमप्रभोः शत्रुञ्जये सद्म सुमेरुशृङ्गवत् ॥ ३ ॥ उदारमाख्यां त्वथवा मितंपचं तदङ्गजं झण्झणदेवमुत्तमाः। शत्रुञ्जये रैवतके प्यहो ददौ सुवर्णरूप्यध्वजमेकमेव यः ॥ ४॥ केचिदाहुः सुवर्णस्य सषट्पञ्चाशतं धटीः । व्ययिला लीलयाऽपीन्द्रमालां परिदधौ मुदा ॥५॥ दिशां त्रये कूर्मवराहशेषाः पृथ्वीं दधाना बहुकष्टभाजः। तस्याश्चतुर्थ्यां दिशि धारकंतं
धीमुनिमुन्दरमरिविरचिता
पृथ्वीधरं प्राप्य मुदं दधुस्ते ॥ ६ ॥
कैवल्यदानप्रतिभूजिनोक्त-
समग्रशास्त्रावलिलेखनेन।
अबीभरत्सप्त स सारकोशान्
सरखतीकेलिगृहानिवोचैः॥७॥
श्रीस्तम्भतीर्थे निवसन् प्रभावको
वेषं स भीमः प्रजिघाय सङ्घराट् ।
पृथ्वीधरस्याप्युचितं समर्चयन
शीलप्रपत्तौ निखिलान् सधर्मकान् ॥८॥
युतः सुपत्न्या प्रथामिन्यभिख्यया
तथैव साधर्मिकतां विभावयन् ।
हात्रिंशवर्षोऽपि भटोजितस्मरः
प्रपद्य शीलं तमथो सपर्यधात् ॥ ९॥
प्रियापि साऽस्य प्रथामिन्यभिख्या
ख्याता सतीषु प्रथमात्तरेखा ।
कदापि या क्वापि न पुण्यकृत्यै-
रहीयताऽस्माद्गुरुदेवभक्ता ॥ १० ॥
TheJRATI । गुर्वावली। नित्यं त्रिजिनपूजनं गुरुनतिः सामिकाभ्यर्चनं दीनाद्युद्धरणं सुशास्त्रपठनं पर्ववथो पौषधः । कृत्यानीति गुरूपदेशवशगः स द्विः प्रतिक्रान्तिकृत् भूपालार्पितमालवावनमहाचिन्तोप्यहो निर्ममे ॥११॥ अनुत्तरोदारसमग्रसद्गुणः स षड्विधावश्यकतत्परः सदा । नृरत्नमर्हद्गुरुभक्तिभाग्मत- प्रभावकोऽलङ्करणं भुवोऽभवन् ॥ १२ ॥ प्रबोधकोऽथास्य गुरुः सचाऽन्यदा दुष्टाङ्गनाभिर्वटकान् सकार्मणान् । विहारितान् साधुजनैरतत्यजन् प्रगे शिलाखण्डमयाश्च तेऽभवन् ॥ १३॥ ततोऽभिमन्त्र्याप्पितपट्टकासना- स्ताः स्तम्भयित्वा दययाऽमुचन्नताः । तथैव विद्यापुरकेशगुल्मकृत् स्त्रियोऽथ संघार्थनया मुमोच सः ॥ १४ ॥ क्वचित् पुरे द्वार्निशि शाकिनीभिया श्रीमुनिसुन्दरसूरिविरचिता ऽभिमन्त्र्य दीयेत ततोऽस्मृतेऽन्यदा । गुरुस्तदुत्पाटितपट्टिवीक्षणे संस्तभ्य वाचा वशिता मुमोच ताः ॥१५॥ श्रीशारदालब्धवरोनिशैकया- ऽष्टभिः स कृत्वा यमकैरलङ्कृताः। स्तुतीर्जिनानां ज्ञमदज्वरौषधी- रखूबुधद्गुर्जरराजमन्त्रिणम् ॥ १६ ॥ सोमेशपत्तनगतः स्मरणानुभावा- सोऽध्यक्षतागमितजीर्णकपर्दिराजम् । मिथ्यावतोभवगमी चिरमेष माभू- रेवं प्रबोध्य विदधे श्रितजैनबिम्बम् ॥ १७ ॥ शिष्यार्थनाविहितमन्त्रनुतिप्रभावा- द्रनाकरोप्यकृत मण्युपदां तरङ्गैः। स्थानेऽस्य तत्तदतिथेः पुरुषोत्तमस्य गम्भीरताभिभवनाल्लुठतः पदाग्रे ॥१८ ॥ । अथच । बल्गदेतालमालाविदलनकुशलः सिद्धझोटीङ्गवृन्द- गुर्वावली। स्तन्त्रैर्मन्त्रैरमात्रैः समजनि विकटैश्चेटकैश्चोत्कटो यः। आकर्षोच्चाटवक्ष्यादिभिरपि स तदा शक्तिभिः कोपि योगी, कंप्रीकुर्यात्रिलोकी गिरिमपि चलयेच्छोष- येद्वारिधिं वा ॥ १९॥ निषिद्धसाधुस्थितिकोज्जयिन्यां श्वमूषकोत्वादिविकुर्वणायैः। तं भापयन्तं स्वमुनीन् निबध्य प्रपीड्य मन्त्रैरमुचत् स नम्रम् ॥ २० ॥ ॥ युग्मम् । संक्षेपोऽयम् । व्यासावदातस्त्वेवम् ॥ बल्गबेतालमालाविदलनकुशलः सिद्धझोण्टीङ्गवृन्द- स्तन्त्रैर्मन्त्रैरमात्रैः समजनि विकटैश्चेटकैश्चोत्कटोऽथ। योगीकोप्युज्जयिन्यांनृपसचिवमुखैःपूजितः सर्वलोकै- नाशिष्यैः परीतोदधदणिभवशित्वे शताद्याश्च शक्तीः ॥ २१ ॥ वर्णादि शिरसा भिनद्मि निखिलानाकर्षयामि ग्रहान् फूत्कृत्यादिवमुत्क्षिपामि च गिरीन् संशोषयाण्यम्बुधीन् त्रैलोक्यं स्ववशीकरोमि विदधे वर्भूर्भुवोव्यत्ययं
3000
श्रीमुनिसुन्दरमरिविरचिता
देवेन्द्रैःसह लोठयामि पदयोर्ब्रह्मेशनारायणान्॥२२॥
भोभोदनिनः समस्तिपटुता कस्यापि चेत्तन्मया
साई वादरणं करोत्वभिमतं कृत्वा पणं सोऽधुना।
नोचेत्त्यक्तमदा मदीयमखिलाः सेवध्वमंद्वियं
दूरं यात पलाय्य वाऽपि सकलान्नोचेद्गिलाम्येष वः२३
इति प्रतिज्ञां प्रवदन्मदात्तदा
जगत्त्रयेऽप्यप्रतिमल्लतां विदन् ।
वित्रासितान्याखिलदर्शनिवजो
नैवाज्जयिन्यां स ससाह संयतान् ॥२४॥
श्रीधर्मघोषः प्रभुरन्यदाऽगमत्
स तत्र धात्र्यां विहरन्महर्षियुक् ।
अमुष्य शिष्याश्च स वीक्ष्य वर्त्मनि
क्रुधाक्रुधीर्दष्टरदच्छदोऽवदत् ॥ २५ ॥
इहागताः किं नु पुरे सिताम्बरा
विहाय मूढा विपुलं धरातलम् ।
मुमूर्षुगोधानुनिषादपाटकं
न वीक्षितश्चेत्तदहं श्रुतोऽपि न ॥ २६ ॥
SHARAPE गुर्वावली। पलाय्य तद्गच्छत मर्षयाम्यह सरङ्ककाणामपराधमेककम् । भूक्षेपमात्रादपि कम्पितामरो- ऽन्यथा पतङ्गिष्यथ मे रुषानले ॥ २७ ॥ जगुर्मुनीन्द्राः प्रभवन्ति दुर्मते सर्वज्ञपुत्रेषु न ते बिभीषिकाः । मृगेषु सिंहस्य यथा हि विक्रमः स्फुरेत्तथा नो शरभार्भकेष्वपि ॥ २८ ॥ न योगिराजन्यकुदर्शनिवजैः समानतां बिभ्रति सूनवोऽहंतः। करैरपि ध्वान्तरिपोविलुप्यते न तारकाणामुदितैः किमु प्रभा ॥ २९ ॥ प्रभुः किमद्यापि न नः श्रुतोजयी गुरुर्भवदर्पतमोदिवाकरः। यमेव विद्या निखिलाः समं श्रिताः सरित्पति सिन्धुगणा इवाधुना ॥ ३० ॥ गतं गजेन्द्रस्य यथा न जम्बुकै- श्रीमुनिसुन्दरमरिविरचिता नवा मृगैः शौर्यविजिम्भितं हरेः। नभाप्लुतिं नो मशकैर्गरुत्मतो रखेर्न खद्योतकरैढितां भरम् ॥ ३१ ॥ नगर्न गाड्न्यगिरेर्यथोच्चतां जलाशयों जलधेरगाधताम् । द्रुमैः प्रभावं न च कल्पशाखिनो न दुर्गतैः श्रीस्फुरितं च चक्रिणः ॥३२॥ यथा न भूतैर्ललितं सुरेशितु- न तीर्थकस्तर्थिकृतोऽर्थदेशनाम् । समग्रविद्याविदुरैर्न नो गुरो- स्तथाऽनुकत चरितं प्रगल्भ्यते ॥ ३३ ॥ ततो मुधा गर्जसि गर्वपर्वतो मन्यामहे त्वां न तृणाय दुर्मते । अस्मद्गुरोर्मन्त्रसमीरणोद्धुतो न तूलकल्पः स्थिरतां प्रधास्यसि ॥३॥ मृगस्य सिंहस्तमसश्च भानुमा- नसि{णालस्य तृणस्य चा ऽनलः।
गुर्वावली। अहेर्गरुत्मानिव लीलयाऽप्यलं तवापहर्तुं मदजीवितं गुरुः ३५ ॥ निशम्य योगीति रुषा स लब्धा जान्वायतस्थूलरदास्यभीष्मम् । विधाय रूपं विकृतं जिघत्सु- रिवाभ्यधावच्चलयन् भुवं तान् ॥३६॥ मुमुक्षवस्तद्दपातसूचिनी कफोणिमुद्भर्य पलाय्य च द्रुतम् सकम्पगात्रास्तरलेक्षणा भया- गुरं वसत्यां शरणं प्रपेदिरे ॥ ३७ ॥ मा भैष्ट मा भैष्ट कुतो नु वो भयं मयि प्रभौ त्रातरि हे विनेयकाः । इतीरिता श्रीगुरुणाथ संभ्रमा- दाश्वस्य वृत्तं मुनयोऽपि तज्जगुः ॥३८॥ यावत्वदाकर्ण्य करोति रोषतो ध्रुवं ललाटप्रणयोद्धुतां गुरुः । तावत्प्रदोषे विचकार दूरगो- श्रीमुनिसुन्दरमरिविरचिता प्यहो सयोगीह विभीषिका इमाः ॥३९॥ तथाहि । स्फारैः स्फूत्कारवारै- भरितसुरपथा भूमिपीठे समन्ता- श्रीष्मा भोगीन्द्रभाराः फणमणिकिरणै?तिताशाः प्रसनुः । शालान्तः पुस्तकाद्यो- पकरणवलकस्तम्भमुख्याऽखिलार्थान् खादन्तो वज्रतुण्डा- भयदपृथुवपुर्मूषकाश्चोपरिष्टात् ॥४०॥ फेत्कारान् स्फोरयन्तो बहिरथ वसतेश्चण्डफेरण्डसङ्घा बल्गन्मार्जारवाराः पृथुरदवदनामण्डलाश्चाप्यसङ्ख्या। antanden दृष्ट्वा तान् भीभरेणो- त्तरलितनयनाः कम्प्रगात्रा न नष्टुं स्थातुं वा ऽशक्नुवन्तो
KAYPARANANER NONE
गुर्वावली।
निजगुरुमवदन् पाहिपाहीति शिष्याः॥४१॥
त्रातायं वोस्मि विश्व-
प्रकटमहिमभृद्भेष्ट मा भैष्ट मा भो
आश्वास्यवं विनेयान्
गुरुरपि विगतक्षोभशङ्कः सदापि ।
यावद्ध्यानावलम्बी जपति
जयकर सिद्धमन्त्रं स तावत्
सर्पाचाः क्वापि जग्मुः
प्रमुदितमनसः साधवश्चाप्यभूवन ॥४२॥
योगी सोप्युग्रबन्धै-
रविषयिविषयैर्हा नियरे म्रियरे
शिष्या बद्धाखिलाङ्गः
कुरुतकुरुत भोः कांश्चनाऽऽशूपचारान् ।
आस्तावद् यत्नासिद्धा
अपिहि विफलतां भेजिरे चेटकाद्याः
सर्वे मन्त्राश्च दैवं
धिगहह किमभूडीरियं मे ऽधुनाऽधैः॥ ४॥
श्रीमुनिसुन्दरमरिविरचिता क्रन्दन्नित्युग्रकष्टः सकलपुरजनैदृश्यमानो विमानो धावद्भिर्व्याकुलैः स्वै- निखिलपरिजनैश्चापि हाहारवाढ्यैः । आकृष्टो जैनमन्त्रैः स्मृतिमपि गमितैश्चेटकाचैरशक्य- स्त्रातुं व्योम्ना समागा गुरुपदकमलोपान्तमानम्रमौलिः ॥४४॥ उवाच योगी भगवन् दयानिधे ऽपराधमेकं मम मर्षयाधुना। विमुञ्च मामेष पतामि पादयो- नवो विरुद्धं विदधे ह्यऽतः परम् ॥१५॥ जगुर्जनाश्चापि न धर्तुमर्हसि प्रभो प्रकोपं प्रणते दयास्पदे । व्यधादथ खक्रमरेणुना गुरुः शमी खभावस्थमिमं लसद्दयः॥ ४६ ॥ लं शङ्करः सर्वजनेष्टकती SATARRANGERane गुवावली। ब्रह्मा त्वमेवाखिलब्रह्मनिष्ठः। वमेव सत्यं पुरुषोत्तमोऽसि त्वमेव बुद्धः सकलार्थवेदिन् ॥ १७ ॥ अबुद्धतत्वस्य मुधाऽभिमानिनो ममासि बुद्धः सुचिराज्जगद्गुरुः त्वदीयपादाऽब्जरजोऽणुनाऽपि चे- तुलां लभे तर्हि भजे कृतार्थताम् ॥१८॥ समग्रविद्याविभवात्मकस्य ते पुरोऽणवत्येष सुसिद्धिभागपि । बित्ति यस्माल्लविमानमुच्चकैः पुरः सुमेरोनिखिलोऽपि भूधरः।।१९॥ इति खनिन्दामुखरः सविस्मयः सुभक्तिभाक् सर्वजनस्य पश्यतः। स्तुवन्मुदाऽऽनम्य गुरुं सहानुगै- जगाम विद्वान् खपदं स योगिराट् ॥५०॥ अहो जयत्याऽहंतशासनं प्रभु- गुरुः स यस्येदृशशक्तिमानयम् ।
५८ श्रीमुनिसुन्दरसूरिविरचिता इति स्तुवन्तो ऽपि जना यथागतं गता व्यहार्षीद् गुरुरप्यथाऽन्यतः ॥५१॥ दष्टोऽन्यदाऽथ स गुरुः फणिना विषेण मूर्छन्नुपायविधुरं निशि सङ्घमूचे । प्रातः समेष्यति लता विषहृत् प्रतोल्यां पुमौलिकाष्ठभरबन्धनकृाहिशुद्धा॥५२॥ देयास्त दंशवदने मम तां प्रघृष्ये- येवं च तेन विहिते पटिमानमाप्तः । संत्यक्तसर्वविकृतिर्भगवांस्तदादि चक्रे जिनप्रवचनोन्नतिमुग्रतेजाः॥५३॥ तत्कीर्त्या धवलाइयेऽपि भुवने त्रैधे कृते शङ्करे दुर्लक्षे विहिते हिमाद्रितनयाचेतस्तदाऽतूतुषत् । नोगाङ्गं सलिलं विधुर्न न वृषो नैवापि चक्षुःश्रवः खामी किन्तु गरोविनीलितगलाङ्काविर्भवहर्तृक:५४॥ चित्राणि सिद्धान्तपथानुगानि स्तोत्राणि सङ्घाचरणं च शास्त्रम् । इत्याद्यनाकृतिरस्य कस्या-
HTOTTIMES
गुर्वावली।
ज्ञानज्वरच्छेदमहौषधीन ॥ ५५
यः स्वर्गमापत्तुरगेषुविश्व
मितेऽ१३५७ ब्दके विक्रमतः क्षितीन्द्रात्।
श्रीधर्मघोषः कृतपुण्यपोषः
स रातु सङ्घाय विभुः सुखानि ॥ ५६ ॥
तदीयपट्टाम्बरभासनोद्यतः
सोमप्रभः सूरिवरो ४८ बभूव सः।
यो दीयमानां गुरुणाऽपि न ग्रही-
चारित्रशुन्यै किल मन्त्रपुस्तिकाम्।। ५७॥
ये मोदन्ते कृपणमतयः क्लेशभाजो धनाढ्यैः
शास्त्रैर्वादिद्विपमदहरैश्चाप्यधीतैः कियद्भिः।
प्राप्ताभिर्वा लघिमवशिताकर्षमुख्यद्धिभिर्ये
सर्वे साम्यामृतरसभुजस्ते ऽनुकम्प्या हि तस्य॥५८॥
भास्वान् सञ्चरणश्रिया विशदया विश्वोत्तरप्रोल्लस-
चातुर्वैधरमाविलासनिलयः श्रीचित्रकूटाचले ।
कृलाऽऽशु हिजराजमण्डलमसौ छन्नप्रभं गोभरैः
सर्पदर्पमजीजनजिनमतानन्तप्रकाशोदयम् ॥ ५९॥
श्रीमुनिसुन्दरसूरिविरचिता
तथाहि ।
शर्वशैलशिखरोपरिस्फुर-
चन्द्रमौलिमुकुटेन्दुरश्मिभिः।
पूरिते सरसि मानसेऽभितः
कैरवाणि विकसन्ति वासरे ॥ ६ ॥
विना विचारस्खलनेन शीघ्र-
मेतत्समस्यापदपूरणेन।
साहित्यवादे विजितहिजोधः
श्रीचित्रकूटे शमबोधयत्सः॥ ६१ ॥
सर्वाङ्गपाठी निखिलागमार्थान्
विनापि वृत्त्यादि हि सोऽययादत् ।
केऽप्यन्यके नैपुणधारिणो ऽपि
विद्यासु सर्वास्खपि नाततादत् ॥ ६२ ॥
श्रुतातिशायी पुरि भीमपल्ल्यां
वर्षासु चायेऽपि हि कार्तिकेऽसौ।
अगात् प्रतिक्रम्य विबुध्य भावि
भङ्गं परैकादशसूर्यबुद्धम् ॥ ६३ ॥
गुर्वावली। भक्तेष्वपि श्रावकपुङ्गवेषु ममत्वमुत्केवलसंयमार्थी। शुद्धाम्ब्वलाभाम्बुविराधनाभ्यां सोऽमूमुचत स्वैर्मरुकुङ्कुणेर्याम्॥६४ ॥ यतिजीतकल्पयत्रा- खिलादिजैनेन्द्रसंस्तुतिप्रमुखा । विपुलमतेस्तस्य कृति- हरते हृदयानि विबुधानाम् ॥ ६५ ॥ दिगविश्ववर्षे १३१० जननं कुपाणि- विश्वं १३२१वतं प्राप्य रत्रिचन्द्रे १३३२॥ पदप्रतिष्ठां च गुरुजंगाम त्रिसप्तविश्वे १३७३ च स देवधाम ॥६६॥ ददात्वसौ मञ्जुलमङ्गलाली जगत्पवित्रीकरणाभिधानः । श्रुतासु यडर्म्यकथास्वपीह भवेत्सतां साम्यरसानुभूतिः ॥ ६७ ॥ चत्वारस्तस्य गुरोः
श्रीमुनिसुन्दरसूरिविरचिता
शिष्याः ख्यातेः पदं च सकलदिक्षु ।
आसन् जिनपतिशासन-
सौधोद्धाराय तु स्तम्भाः ॥ ६८ ॥
श्रीमानिहाद्यो विमलप्रभो ऽभवत्
प्रबोधलब्ध्योद्धृतवान् दयाम्बुधिः ।
खदेशनावाणिगुणान् वितत्य यो
मिथ्यात्वकूषागृहिणां शतत्रयम् ॥६९॥
श्रीमत्परमानन्दः परमानन्दप्रदः खमूर्त्यापि ।
गुरुरद्वितीयभाग्यो जज्ञे शिष्यो द्वितीयस्तु ॥७॥
आसीत्सुविहितमुकुटः
स्फुटसंयमशुद्धिरिडगुणजलधिः ।
श्रीपद्मतिलकसूरि-
स्ता यीकस्तु तच्छिष्यः ॥ ७१ ॥
श्रीसोमतिलकनामा ४९
सूरिविश्वोत्तमश्च तुर्योऽभूत् ।
महिमाम्बुधौ यदीये
लीनास्त्रिजगन्मनोमीनाः ॥७२॥
गुर्वावली। स बाणबाणत्रिकुवर्ष १३५५ माघे जातः पदाभ्यामनुकूलखेटैः। नन्दाङ्गविश्वे १३६९ व्रतमाप्य भेजे वन्ह्यश्वविश्वे१३७३ऽपि पदप्रतिष्ठाम्॥७३॥ सूरीन्द्रसोमप्रभपट्टभास्करो बालोप्यसौ प्राप्तपदप्रभोदयः । क्षमाभृतां मौलिनिघृष्टपादभृत् विदिद्युते स्फारयशः प्रतापवान् ॥ ७४ ॥ अयं निजैः सूरिगुणैरनुत्तरैः सूरिन कैरप्युपमामशिश्रियत् । येनोपमीयेत सरोऽम्बुराशिना न चाम्बुराशिः सरसाम्बुऋद्धिभिः॥७५॥ अल्पायुष्वात्सूराित्रतयस्यैकोप्यसावपाद्गच्छम् । रक्ष्यत्येकोऽपि वनं सिंहो न तु लक्षशोऽपि मृगा७६ न कैर्गजः सङ्घपतिःप्रशस्यते स जवरालाव्यवहारिमण्डनः । यष्टङ्कसा युतयामल २५००० व्यया-
श्रीमुनिसुन्दरमरिविरचिता
दचीकरत्तत्पदमद्भुतोत्सवैः ॥ ७७ ॥
क्षोणीभूषणजङ्घरालनगरालङ्कारवीरालये
प्राप्ताचार्यपदस्य तस्य सुमहोभाग्यस्य दृष्टयाप्यहो।
भूतप्रेतकशाकिनीच्छलरिपूच्चाटस्फुरत्कार्मणा-
द्युत्थोपद्रवमण्डलानि निखिलान्याशुप्रणेशुर्नृणाम्७८
नो दुष्टाः पशवः स्वभावरिपवः प्राबोभुवुर्नोखला.
स्तस्योत्कृष्टयशःप्रतापसुगुणा व्यापुश्च सर्वादिशः।
तत्तन्निर्जितका इवापरमहासूरीश्वराणां च ते
दूरं क्वापि पलायिता बुबुधिरे कैश्विद्यथा नो पुनः७९॥
षट्तर्कीपरितर्ककर्कशमतिप्रोत्सर्पिदर्पोत्कर-
स्फूर्जदुर्दमवादिसंमदमदापस्मारविस्मारके।
एतस्मिन्नवति प्रभौ जिनमतं तद्देषिणः क्वाप्यगु-
श्छिन्नोत्साहमतिप्रभावरुचयः कष्टं जिजीवुःपरम्।।८०॥
विश्वव्यापिनि तस्य विश्रुतयशःपद्माकरे सर्वतः
कम्पाङ्कोत्पतदम्बुशीकरतुलारूढोडुमालाचितम् ।
नीलाम्भोजति तावदम्बरतलं स्फेष्ठाष्टकाष्ठादलं
सूर्याचन्द्रमसौ मरालतुलनादोलामथारोहतः॥८॥
गुर्वावली।
तस्याखिलश्वेतपटाधिपस्य
शक्नोति कः श्वेटपटान् प्रमातुम् ।
एको यशःश्वेतपटो यदस्य
दिगङ्गनाङ्गाऽऽवरणं विधत्ते ॥ ८२ ॥
किं बहुना।
ध्वस्ता वादिमदा हतः कलिमलो मिथ्यात्वमुग्रं तम-
श्छिन्नं मण्डलमण्डलप्रसृमरं प्राप्तं नृपेभ्योऽर्चनम् ।
क्लुप्ता शासनभा युगोत्तमगुणैराऽऽप्ता तुला गौतमी-
त्युद्यल्लब्धिगुणप्रभावचरितैः सूरिः समोऽन्योऽस्य न८३
वृद्धक्षेत्रसमाससप्ततिशतस्थानादिशास्त्रैर्नवैः
पात्रैराऽऽगमवारिधेरतिगुरोः पूर्णैः स्वधीगाहितात् ।
उद्धृत्यार्थसुधारसान् सुमनसः संसारतापापहान्
सोऽपीप्यत पुरुषोत्तमः स्वतिशयप्रौढिश्रिया संश्रितः८४
शिष्यास्त्रीन् समतास्थपन्निजपदे प्राज्ञान् स तेष्वादिमः
ख्यातः श्रीगुरुचन्द्रशेखर इति त्रैवैद्यवारां निधिः।
प्रौर्णोनोत किल चन्द्रशेखरमहो नाम्नाऽपि पास्पर्द्धतं
यो ऽसोढा भुवने स्वकीर्चिपटलर्निर्माय शौक्ल्याइ-
यम् ॥ ८५॥
KAHAN श्रीमुनिसुन्दरसूरिविरचिता अभिमन्त्रितरजसा ऽपि हि गृहहरिकादुईरश्च मृगराजः। दूरं नेसूर्यस्मात सपरिकारान्महिमवारिनिधेः ॥ ८६ ॥ न धीरं गोक्षीरं न मधु मधुरं किं तु विधुरं मनः साक्षाद्राक्षा न हरति सुधा साऽपि हि मुधा । न सान्द्रा वा चान्द्रा नच मरुचयः साधुशुचयः श्रुताचेद्यहाणी भवरिपुकृपाणी नवरसा ॥ ८७ ॥ वासिकभोज्यकथानकशत्रुञ्जयरैवतस्तुतिप्रमुखा । चित्राकृतिर्यदीया कविकुलमोदप्रदा जयति ॥ ८ ॥ अग्न्यश्ववहीन्दुमिताब्दजातः १३७३ शरेभविश्वे १३८५ यमितामवाप्य । हिनन्दविश्वे १३९२ च पदप्रतिष्ठां त्रिदोर्मनुष्वा १४२३ ऽऽप च यः सुरौकः ॥ ८९ ॥ शिष्याध्यापनकौशलं निपुणता सा सार्ववैये गिरी माधुर्य प्रशमादयो जनाहितं चारित्रमप्युज्वलम्। विश्वाप्यायकदेशनातिसुषमा चैवं परो विश्रुतै- HAND गुर्वावली। यस्याभूत् सदृशो गुणैर्न स गुरुः सङ्घाय देयात्सुखम्९० श्रीसोमतिलकसूरि- स्तस्य गुरुस्तदनुचैकवर्षेण । जिनभुवने १४२४ स्वर्गमित- स्तनोतु सङ्घाय कल्याणम् ॥ ९१ ॥ तस्य स्वर्गतिसमये सुरकृतखोद्योतनादिमहिमानम् । वीक्ष्य जनाःप्रोचु- रहो विमानमागाद्गुरोस्य ॥ ९२ ॥ पात्रावतीर्णदेवी जगौ सुरेभ्यः श्रुतं मया मेरौ । सौधर्मेन्द्रसमाना जजुरिमे श्रीतपाचार्याः ॥ ९३ ॥ शिष्यो द्वितीयस्त्वभवत्तदीयः श्रीमान् जयानन्दगुरुः स योऽभूत् । कलिद्विषः क्लुप्तजयाद्विधाया- नन्दं सतां सार्थकनामधेयः ॥ ९४ ॥ ।
६८ श्रीमुनिसुन्दरमरिविरचिता जातोऽन्तरिक्षद्विपविश्ववत्सरे १३८० द्विनन्दवहीन्दुषु१३९२ यो ऽभवद्वती। स्नेहान्निषेधप्रवणे ऽग्रजन्मनि प्रबोधिते देवतया प्रभावकः ॥ ९५ ॥ पदं श्रितः सोत्तरसूरिरभ्रदो- मनुष्व १४२०मेयातिशयश्रियां निधिः । चकार रम्यं शकटालजन्मनो वृत्तं गमी द्यां कुयुगाब्धिगोषु१४४१यः।९६। यदेशनाशैवलिनीनिलीनाः प्रौज्झन् हिजोघा अपि कल्कपङ्कम् । तदेकलीना जनचित्तमीना- स्तथा परोद्यद्वकवृत्तिभीतिम् ॥ ९७ ॥ यदीयविद्याविभवादकोविदं शेषंस्म सर्व प्रतिभाति विष्टपम् । दधाति यदुर्विधता विधि पुरो महेन्द्रभूतेः सनरामरं जगत् ॥ ९८ ॥ युगोत्तमाभो जगदुत्तरो गुणै- प्राव्रजन् जलधिखाब्धिमहीषु १४०० गुबली। यो भारतीभारतसंयमश्रियोः। आधारभूतः समभूत् प्रभावभू- स्तनोतु सङ्घस्य स सातसन्ततिम् ॥१९॥ श्रीदेवसुन्दरयुगोत्तमसूरिराजाः ५० शिष्या जगत्त्रयदृशो जयिनस्तृतीयाः। यैीस्वरः स गणराट् पुरुषोत्तमोऽपि भूत्येशतामभृत सोमललामसूरिः॥ ३०॥ षनवाग्निविधुवत्सर १३९६ जाताः ये महेश्वरपुरे नखरत्ने १४२० पत्तेन च पदसम्पदमापुः ॥१॥ येषां जगद्विस्मयमोदकारिणं गजर्डिकडो विदधे पदोत्सवम् । सौवर्णिकः सङ्घपतिर्नुपप्रमः सिंहोऽर्हतो ज्ञानमहं नु वासवः ॥ २॥ अथ तेषामबदातैतिह्यप्रकटनं किञ्चित्क्रमात् ॥ बाल्ये ऽपि येषां किलमञ्चिकाजुषां ७० श्रीमुनिसुन्दरमूरिविरचिता सुलक्षणैः लक्षणवेदिनः पदौ । समीक्ष्य केचिहिबुधा जगुः परां चिरं भवित्री महनीयताम्भुवः ॥ ३॥ कोटीनाराहपुरे गणभृच्छीसोमतिलकसूरिणाम् । गणभारोद्धरणपटुं पात्रं जिज्ञासमानानाम् ॥ ४॥ सुध्यानलीनमनसां विशदगुणै विनो युगवराभाः। क्षुल्लवे ऽपि च कथिता येऽम्बिकयानन्तभाग्ययुजः॥ ५॥ ॥ युग्मम् ॥ अभूत् त्रिशत्या वरयोगिनां वृतोऽ न्यदोदयीपाभिधयोगिनायकः। कृतस्थितिः पत्तनगुङ्गडीसर- स्यनेकमन्त्रादिसमृद्धिमान्दरम् ॥६ हरन् गरान् स्थावरजङ्गमानयं जलानलव्यालहरीभभीहरः। अनागतातीतविद्भुतास्पदं
MARUTINENTERACHAURAHAPA
७१
।
गुर्वावली।
नृपेभ्यमन्च्याद्यखिलप्रजार्चितः॥७॥
निरीक्ष्य दूरादपि यानरियूतो
मुदाशु दण्डव्रतकृत् सहानुगैः
अवन्दत व्यञ्जितभक्तिडम्बरः
प्रजासमक्षं बहुधास्तुवनगुरून् ॥ ८ ॥
सङ्घाधिपनरियाद्यैः
पृष्टो नमनादिहेतुमाख्यच्च ।
गुरुरादिदेश दिव्य-
ज्ञानद्धिः कणयरीपामाम् ॥ ९॥
पद्माख्यदण्डपरिकर-
चिह्नरुपलक्ष्यसूरयो वन्द्याः
भवता युगप्रधानाः
शिवदा इत्यादि तधनमम् ॥१॥
धाराभिधश्रावकपुङ्गवेन
पक्षोपवासैर्वशितःसुपर्वा ।
प्रपृच्छय सीमन्धरसार्वमाख्यत्
त्रिभिर्भवैर्मुक्तिपदं हि येषाम् ॥ ११ ॥
श्रीमुनिसुन्दरसूरिविरचिता सारङ्गमन्त्री वटपद्रवासभाक् द्विषन् जिनोक्तीरपि पूर्वजक्रमात् । निबुध्य देवस्य गिरा युगोत्तमा- नभिग्रहात् सिद्धपुरे ऽभिगम्ययान् ॥१२॥ वेदादिशास्त्रैः कृतनैकनोदनः सप्रत्ययैर्यहचनामृतैर्मुदा। विधूय मिथ्यात्वगरं नतिस्तुती: सृजन प्रबुद्धो जिनधर्ममग्रहीत् ॥१३॥ महाधनः श्राडवरः प्रभावकः सुदर्शनाणुव्रतभृत्सुशास्त्रवित् । दिने चतुष्पासुकद्रव्भयोजन- व्रतोऽस्ति नानाद्भुतपुण्यकर्मठः ॥ १४ ॥ गुणर्द्धिसंवादिसुपर्वभाषितै- रपीति तेष्वेव युगप्रधानताम् । निश्चित्य युक्तं गुरुधीनिवेशनं- शिवाय विज्ञैरधुना प्ररूप्यते ॥ १५ ॥ * सद्यौवनेऽप्येकमुतो अपि शीलवानित्यापि पाठः।
HomHRIRANJHANTERASHARPAIKeyawww ARMAntarnadounlodindin गुर्वावली। देवानां खलु सुन्दरो गुरुरिमामास्थाय नव्यां तनूं दृष्ट्वा शासनमार्दतं कुकलिना तच्चिन्तकेन्द्रार्थितः । अर्हक्ततयात्र तत्सुखयितुं गच्छे ऽवतीर्णस्तपा संज्ञे ततकिलदेवसुन्दरगुरुष्वाहापि तेष्वित्यसौ ॥१६॥ विद्याभरो ऽसंख्यमुनीन्द्रवृन्दै- निपीयमानोऽपि हि वईमानः । कथं तुलां यातु पयोधिनैषां निःशेषमेकोऽपि पपी मुनिर्यम् ॥ १७ ॥ तेषां त्रैवैद्यपाथोधेरूर्म्युल्लासितशीकरान् । पिबन्ति गुरुशुक्रज्ञास्तकिलैतेऽपि पण्डिताः॥१८॥ सर्वतः प्रसरभाञ्जि यशांसि क्षीरनीरनिधयन्ति यमिनाम् । तानि तत्र परसूरिततीनां शीकरावलिरिवाथ विभान्ति ॥ १९ ॥ तेषां परेषामथ सूरिराजां चिकीर्षिता विश्वकृता यशांसि । उन्मानबीजानि विचिक्रिरे प्राक् ।
श्रीमुनिसुन्दरमरिविरचिता पूर्णेन्दुबिम्ब किल तारकाश्च ॥ २० ॥ उत्कल्लोल्लैढिरदरदनच्छेदकुन्दावदातैः शुक्लाद्वैतं त्रिजगति गमिते तैर्यशोभिः प्रपूर्य । अन्येषां चेहरिवृतति तदा तल्लवानैव लभ्याः सत्ता यस्माद्विरमति सरितां सिन्धुना सङ्गतानाम्॥२१॥ को वेदयिष्यत्तुलना मतीतान् श्रीगौतमादीन् गणिनो व्यतीतान् । युगोत्तमास्ते यदि नाभविष्यन् निदर्शयन्तः स्वगुणश्रिया तान् ॥ २२ ॥ वीरेण ये शासनधारका महा- चार्याः स्वनिर्वाणपदादनूदिताः । एते ऽवगम्याः खलु ते गुणोच्चयै- राज्ञैतदीयैव शिवाय तत्कृता ॥ २३ ॥ नालं यस्या हि नेता हरगिरिरमलः कार्णकाबन्धबन्धु- माद्यदिग्दन्तिदन्ता- दलततिरतुला पूर्णचन्द्रश्च कोशः।
WATNANAM गुर्वावली। ज्योत्स्नापूरः परागः सितकरकिरणाः केसरालीव भाति स्फीतं तत्तद्यशोऽब्ज त्रिभुवनसरसि व्योमभृङ्गानुषङ्गि ॥ २४ ॥ न विद्यया नैव तपोभिरग्रिमै- नवा महिना न च भाग्यसम्पदा । गुणदिभिर्वाप्यधिकः समोऽथवा न कोऽपि तेषामधुनेह वीक्ष्यते ॥ २५ ॥ तदीयपट्टे गुरवो जयन्ति ये ये चापुरिन्द्रातिथितां विधेर्वशात् । तन्नामसङ्कीर्तनपुण्यवारिभि- गिरं पवित्रां विदधे ऽधुना मुदा ॥ २६ ॥ श्रीज्ञानसागरगुरुप्रभवो ५१ बभूवु- राधा यदीक्षकबुधा इति चिन्तयन्ति । मुक्तोऽपि गौतमगुरुः समवातरत्स्वं वीक्ष्यान्वयं सुगतवत्किलदुःस्थमेषः ॥२७॥ अन्तः साम्यसुधाहृदप्रसृमराः किं प्रोच्चवीचीचया श्रीमुनिसुन्दरमरिविरचिता हेलापीतजिनागमाम्बुधिभुवः प्रोद्गारमालाः किमु । किं वा वक्तुसुधाधुतेर्युतिभराः पीयूषदिग्धाः सता- मेवं स्मोदयते विकल्पनिकरो यद्देशनागीहो॥२८॥ संमील्याखिलसाम्यकाम्यकणकान् विश्वस्य किं योगिनां सारान् कांश्चन् वा निचित्य जगतां पीयूषवीचीकणान्। सर्वद्वीपसुधांशुमण्डलमिलत सौम्यत्वलक्ष्मीलवान् किं वादाय विनिर्मिते यमिति यन्- मूत्तिर्बुधैर्तर्किता ॥ २९ ॥ शरणं समसूरिसम्पदां हरणं कल्मषसंहतेस्सताम् । वरणं खलु निर्वृतिश्रियां न मुदे कस्य यदीयदर्शनम् ॥ ३० ॥ असमा जगति श्रुतश्रियो न पथे संयमशुद्धता गिराम् ।
SAIRAHTENAMANNAR ७७ गुर्वावली। समतीततुला च सौम्यते- त्यमवंस्ते जगदुत्ता गुणैः ॥ ३१ ॥ किं मूर्ति नवमः श्रितो रसपतिः सिद्धान्ततत्वश्रियां कोशाः किं गुणसम्पदामिति मुचां चन्द्रधुतां किं निधिः। जीवातुः कलिविद्विषा प्रतिहतः श्रीजैनधर्मस्य किं दुर्गः किं भवभीतजन्तुनिवहस्येत्यूहितास्ते बुधैः॥३२॥ न ग्रामे न कुले तनौं नन मुनौ तेषां मनो बन्धभाक् शप्यान्नौषधपानकादिनितरां तैः शुद्धमेवाहतम् । चातुर्वैद्यरमाह्यधारि भुवनोत्कृष्टा न चैतन्मदः तत्त्वं तेन वदाम्यहो जिनमतस्याऽसूपमास्ते ऽभवन्३३ धन्यो धनः सङ्घपतिः पदोत्सवान् श्रीस्तम्भस्तीर्थे विविधाद्भुतप्रथम् । तेषां महोस्तम्भनकेशापार्श्व- चैत्ये महाराजबलादचीकरत् ॥ ३४ ॥ ते लेभिरे जन्ममनुप्रभाऽब्दशतेषु यातेष्वधिकेषु बाणैः१४०५ हयेन्दुभिः १४१७ संयममिन्दुवेदैः १४४१ पदं श्रीमुनिसुन्दरसूरिविरचिता खतकैस्त्रिदिवं १४६० च तुर्यम् ॥ ३५ ॥ खमायुरन्ते खयमाकलय्य ते मिषिध्यभक्तं बहुसङ्घसाक्षिकम् । संवर्मितां साम्यसुधारसोर्मिभि- र्यद्योगिमुद्रां विशदां दधुस्तदा ॥ ३६ ॥ यच्छ्वासकासौ च कफान्वितौ दुतं व्यनेशतां कोटिगयोगविद्रुतौ । तेषां हि गम्या तदनुत्तरागतिः संवादमात्रं त्रिदशोक्तयः पुनः ॥ ३७ ॥ ताश्माः। खरतरपक्षश्राद्धो मन्त्रिवरो गोवलः सकलरात्रिम् । अनशनसिद्धौ भत्त्या गुरुकर्पूरादिभोगकरः ॥ ३८ ॥ ईषन्निद्रामाप्या- पश्यत्स्वप्ने सुदिव्यरूपधरान् । तानिति वदतस्तुर्ये ना गुर्वावली। कल्पेस्मः शक्रसमविभवाः ॥ ३९ ॥ ॥ युग्मम् ॥ श्रीगुणरत्नगुरून ये स्वप्ने स्वरराजरूपिणौ दृष्टाः । शिष्टाशिष्टविशेषा- धुपलम्भं लम्भयामासुः ॥ ४० ॥ नैमित्तिको ऽपि वीरो पश्यत्तुर्यस्खरिन्द्रसमविभवात् । तदनुत्तरगतिलाभाद् युगोत्तमांस्तान् विनिश्चिनुमः ॥ ४१ ॥ तेषां निखातैर्धवमुत्तमैर्गुणैः सताम्प्रपूर्णानि मनांस्यहो तथा यथात्र केषामपि तेषु ते ऽधुनाऽ वकाश मायांत्यणुरूपिणोऽपि न ॥ ४२ ॥ तेषां गुणानामचिरस्य चायुषः प्रमोदखेदाश्रुभरः स्मृतेर्मम । यः स्यात्समं सैषनिदानभेदतः
८०
श्रीमुनिसुन्दरमरिविरचिता
कार्ये भिदैकान्तमतं निरस्यति ॥ ४३ ॥
विधेर्जराविक्लवताखलायितं
कले वोभाग्यविपर्ययोऽथवा ।
पूतीबुभूषा त्रिदिवस्य वाभज.
निदानतामत्र चिरं तदस्थितौ ॥४४॥
श्रीसोमसुन्दरगुरुप्रमुखास्तदीयं
त्रैवैद्यसागरमगाधमिहावगाह्य ।
प्राप्योत्तरार्थमणिराशिमनर्घ्यलक्ष्मी-
लीलापदं प्रधते पुरुषोत्तमत्वम् ॥ ४५ ॥
न स्थैर्य सुमनः पथे प्रविदधन्नैवापि वर्णोज्वलः
प्रोद्यच्चापलउल्लसज्जडतया यो निम्नगोल्लासकृत् ।
यद्गर्जत्यपि मादृशो जलदवत्सोच्चैः पदं संश्रितः
तत्रैवैद्यमहाधिशीकरकणादानस्य तज्जृम्भितम्॥४६॥
सारस्वते प्रवाहे
तेषां शोषंगते ऽधुना कालात् ।
शिष्यैरुपक्रियन्ते
विद्याम्भः कूपकैर्लोकाः ॥ १७ ॥
। गुर्वावली। दीनायुद्धरणात्पदोत्सवकृतेस्तीर्थेषु यात्रादिभिः सत्रैर्दुस्समये गुरुप्रणमनैर्भक्या सदावश्यकैः। चैत्योद्धारविधापनैर्वितरणैःक्षेत्रेषु सप्तस्वपि प्रौढैः पुण्यभरैः प्रभावपदवीं येनाऽऽप्यते शासनम्४८ सर्वेभ्यमालामुकुटस्य तस्य श्रीपातसाहोच्छ्रितमाननस्य । कर्णावतीमण्डनचाचसूनोः सङ्घाधिपेन्दोर्गुणराजनाम्नः ॥ १९ ॥ बन्धुः प्रबुद्धो वचनैर्गुरूणां तेषां महामोहतमोवृतोऽपि । आम्रः प्रवत्राज विमुच्य पत्नी- पुत्रादिकानद्भुतभाश्च लक्ष्मीः ॥५०॥ श्यामलनाममहेभ्यस्तेभ्यो बुद्धश्व नव्यरूपवयाः। प्रावाजीत्परिमुच्याऽनुरागरूपोत्तरां जायाम् ॥५१ ॥ मुनीशितारोऽर्द्धचतुर्थवंशाः प्राबोध्य चाऽन्ये ऽपि हि। दीक्षितास्तैगुणाईपात्राणि विचित्र- ६ ८२ श्रीमुनिमुन्दरसूरिविरचिता चञ्चज्ज्ञानादिसम्पत्पदवी भजन्ते॥१२॥ मेदपाटपतिलक्षभूमि- भृद्रक्ष्यदेवकुलपाटके पुरे। मेघवीसलसकेहहेमसद्धी- मनिम्बकटुकाद्युपासकैः॥ ५३॥ श्रीतपागुरुगुरुत्वबुद्धिमिः कारितं तदुपदेशसंश्रुतेः। तैः प्रतिष्ठितमथाऽऽदिमाहतो मन्दिरं हरनगोपमं श्रिया ॥ ५४॥ ॥ युग्मम् ॥ कान्ता या गणिसंपदो गणभृतस्तत्पूर्वजस्या ऽभवं- स्तस्मिन् सिद्धिमिते सतीव्रतजुषो यानो कमप्यस्पृशन् ता योगातिजरा बलाजगृहिरे तैः कीर्तिकन्याश्चतत् संयोगे जनितास्तथापि चरितं तेषामहो श्लाध्यते५५ किञ्चिच्छान्तमपि प्रमाणपठनैर्जाड्यं पुरावादिनां भैषज्यैरिव लघ्वऽलर्कविषवहादे पुनः प्रास्फुरत् । नव्याब्देष्विव तेषु दुर्द्धरतरस्याहादगर्जास्वं गुर्वावली। वर्षत्स्वाप्तमहोन्नतिष्वनुपमोपन्यासपूरामृतम् ॥५६॥ पीला विनाशिताम्भोधि पीताब्धि का प्रशंसति । पीतस्याब्धेर्न यस्याऽस्थादुदरे बिन्दुरप्यहो । ५७ ॥ चन्द्रशेखरसूरीणां ज्ञानाधिस्तैस्त्वशेषतः। पीला हदिधृतःसर्वः स्वादुर्दत्तोऽप्यवर्द्धत ॥५॥ ॥ युग्मम् ।। स्त्रीपुंसाद्याकृतिभिरुदिते बाह्यरूपैरविद्या- शच्या भातैस्तदपगमतचिन्मयैकात्मलीनम् । सचामात्रं न यदुपगतं तत्त्वतोऽस्मिन् विवर्चे चित्तं तेषांतदपि विषयग्रामबद्धं कथं स्यात्॥५९॥ साम्यारामे स्थिरतरलयात्सर्वदोन्मीलदेका- नन्दावादेऽपसृतसकलोपाधिजव्याकुलले । शान्त्याश्लेषप्रणयिनि यदात्मन्युदेतीह सौख्य रम्भाभोगोद्भवमिव हरिस्तत्तएवान्वभूवन् ॥६॥ मूलग्रन्थचतुर्दिक्षुशासनौकार्थदीपिकाः। दीपिका इव राजन्ते तत्प्रणीताऽवचूर्णयः ॥ तत्कृतिवेला जल्पति पीतत्रैवैद्यवार्डिगाम्भीर्यम् ।
श्रीमुनिसुन्दरमूरिविरचिता
भृगुपुरघोघातीर्थस्तोत्रमुखा विहितचित्तसुखा।६२॥
ते सत्पदोन्नतिभृतः सुगभीरघोषाः
निर्वापिताखिलजनाऽघनिदाघतापाः।
प्राप्ता धनागमरमाममृतं ददाना
घोस्था भवन्तु भुवि मङ्गलवल्लिपुष्पैः ॥३३॥
सूरीश्वराः श्रीकुलमण्डनाहा-
स्तेषां विनेया अभवन् द्वितीयाः।
भाग्यं यदीयं पुनरद्वितीयं
ख्यातं यशश्च त्रितयेऽपि लोके ॥ ६ ॥
संवित्तिरेव सततं हृदि वावसीति
नो ऽसंवृतिस्तु लभते ऽपि पदप्रवेशम् ।
क्रुद्देति साऽऽप्य परवादिततीविरुद्धा-
स्तेषांजधान किल जल्पजकलिशर्म ॥६५॥
तदीयचातुर्यरमावलोककैः
सम्भाव्यते ऽपीन्द्रगुरोः स्म मूचिमा ।
शेश्रीयते गोष्पदतां यतः सरो
महाम्बुराशेः पुरतो ऽपि मानसम् ॥ ६ ॥
गुर्वावली।
अहो नवः कश्चन बोधदीप-
स्तेषां जगद्भासनशक्तिशाली।
निःश्वासवातैर्जितवादिनां यः
प्रगल्भतेस्माऽस्तभवाहिदपः॥ ६७ ॥
जन्माङ्कखैरभ्यधिकेषु शके-
ध्व१४०९श्वौषधीशैर्बत१४१७ मक्षिवेदैः ।
१४४२ सूरेः पदं चाप शरेषु भि१४५५स्ते
चैत्रे
ययुः
खर्जगतामभाग्यात् ॥६॥
विधेर्जरा० ॥ ६९॥
निजतीर्थिकपरिकल्पित-
कुमतोहरशैलदलनशतधारः।
तन्निर्मितो विजयते
सिद्धान्तालापकोढारः ॥ ७० ॥
अष्टादशारचक्रं तेषां हारश्च सपदि भापयते ।
विबुधानामपि हृदयं चञ्चवर्णस्फुरद्भाभृत् ॥ १ ॥
क्षमाधरगणाकीर्णगच्छभूभारधारिणः ।
दिग्नागफणिनाथायैः स्पइन्ते ते स्म सन्ततम्॥७२॥
८६ श्रीमुनिसुन्दरमरिविरचिता उभावेतौ गुरू यातौ नेत्रेतु चरणश्रियः । स्खलत्येषा ततः सम्प्रत्यतिचारैः समेष्वपि ॥७३॥ तेषां च सूरिगुणरत्नसमन्वितानां श्रीस्तम्भतीर्थनगरालिगसहसत्याम् । सौवर्णिको लषमसिंह इति प्रसिद्ध- श्रके पदोत्सवततीवरसङ्घनेता ॥ ७ ॥ गुरुत्तमाः श्रीकुलमण्डनास्ते प्रख्याततेजः प्रचयप्रभावाः । जगत्पवित्रीकरणाभिधाना- स्तन्वन्तु मङ्गल्यसुखानि सङ्के ।। ७५ ॥ देवसुन्दरगुरुक्रमपद्मोपास्ति- विस्तृतसमस्तगुणा ये। तद्विनेयवृषभा विजयन्ते कीर्त्तयामि ततकीर्तिततीस्तान् ॥७६॥ आद्या जयन्ति गुणरत्नमुनीन्द्रचन्द्राः सूरीश्वराः सुगुणरत्नविभूषणैः। सा काप्यवापि सुभगत्वरमा यया तान् ८७ गुर्वावली। श्लिष्यन्ति सर्वबुधमानसवृत्तिनार्यः ॥७७॥ तेषां निर्जितवादिराजिकुयशोजम्बालजालाविले भ्रान्त्वा भूवलये ऽखिलेऽथ चलिता खं खर्गदण्डाध्वना स्नान्ती श्रान्तिहतीच्छयेन्दुसरसि बैंर सुधाशीकरान् कीर्तिर्यान् विकिरत्यमी प्रतिनिशं दृश्या ग्रहादिच्छ- यज्जाता हिमभूभृतः पशुपतेः पत्नीति कः प्रत्यय- स्तत्कीतिर्जनिताऽमुनेति तु सतां नूनं प्रतीते पथः। एषा यद्धवला हिमाऽपि जनयेन् म्लानिञ्जवाद्वादिना वत्ताम्भोजगणेषु निर्दहति च प्रोदामदर्पद्रुमान।।७९।। ग्रन्थेषु येषु न परस्य धियां प्रवेशो ऽप्येतेष्वऽपि प्रसरतीह तदीयबुद्धिः वेलाययत्यपि तटाश्रितमन्यमब्धि. यः सोऽपि दैत्यरिपुणा किमु नो ममन्थे ॥८॥ जगदुत्तरो हि तेषां नियमोऽवष्टम्भरोषविकथानाम् । आसन्न मुक्तिरमा वदति चरित्रातिनैर्मल्यात्॥८॥ सिद्धत्वात्सार्ववैद्यस्य ते सिद्धपुरुषोत्तमाः।
श्रीमुनिसुन्दरमारीविरचिता तदाप्ततत्कणाः शिष्याः यहशीकुर्वते जगत् ॥२॥ सर्वव्याकरणावदातहृदयाः साहित्यसत्यासवो गम्भीरागमदुग्धसिन्धुलहरीपानकपीताब्धयः। ज्यायोज्योतिषनिस्तुषाः प्रदधतस्तर्केषु चाचार्यकं वादेतेऽत्र जयन्त्यशेषविदुषां स्वैद्यदर्पोष्मलान्॥८॥ उत्कल्लोलं दिशि दिशि बुधाः कर्णपात्रैः पिबन्तः स्फीतं गीतं सुकृतिततिभिस्तद्यशःक्षीरपूरम् । तेषां शुद्धां चरणकमलां बिभ्रतां श्रीगुरूणां सृष्टया स्रष्टा जगदुपकृतं मन्वते सांप्रतं वै ॥४४॥ परमेष्ठिमन्त्रतत्त्वाम्नायस्मरणेन देवतादेशैः। पारत्रिकैहिकीस्ते प्रायो जानन्ति कार्यगतीः॥ ८५॥ खदर्शने वा परदर्शनेषु वा ग्रन्थः स विद्यासु चतुर्दशखऽपि । समीक्ष्यते नैव सुदुर्गमेऽप्यहो यत्र प्रगल्भा न तदीयशेमुखी॥ ८६ ॥ या ज्ञानाद्युद्यमप्रौढिर्या च नित्याप्रमादिता । या चैषा स्मरणाशक्तिः साऽन्यत्र श्रूयते ऽपि ना८७) HEAshiaaug00 ८१ गुर्वावली। चक्रुष्टीकाशलाका ते षट्दर्शनसमुच्चये। ज्ञाननेत्राञ्जनायेव सतां तत्त्वार्थदर्शिनीम् ॥८॥ उद्धृत्य ये व्याकराणाम्बुराशितो विलोड्य बुद्धिप्रसरामराद्रिणा । शुद्धक्रियारत्नसमुच्चयं सता- माश्चर्यभूतं विबुधालये ददुः ॥ ८९ ॥ लोकोत्तरां सचरणश्रियं मुदा सदाभजन्तश्च सरखती प्रियाम् । दुष्कर्मदैत्यव्यथका जयन्तु ते गुरुप्रवेकाः पुरुषोत्तमाश्विरम् ॥ ९० ॥ ॥ युग्मम् ॥ बिभ्रतेऽथ नवतां जायिनः श्री- सोमसुन्दरगुरुक्रमपद्माः ५१ । संस्मृता अपि विध्युरनन्तं शीतिमानमघतापहृतेर्ये ॥ ११ ॥ सरस्वतीमाऽऽगमवार्डिसङ्गता- मवाप्य येषां सुरसोर्मिवर्मिताम् ।
श्रीमुनिसुन्दरमूरिविरचिता पुपूष या खस्य तु सन्मनोगण- स्त्यज्जेन्न तीर्थ प्रियमलकं विदन् ॥१२॥ न नाममात्रादपि तु स्फुरत्प्रभै- गुणप्रभावनरसिंह एव सः। महोत्सवैर्यः कलिदैत्यहिंसनात क्षमाभृतोऽमून सुपदे १४५७ न्यवीविशत्॥१३॥ तान् दूत्येवात्मकी. विशदसुभगताख्यापनादुत्सुकत्वं दवा नीता भजन्ते सकलसुमनसां यन्मनोवृत्तिनार्यः । लब्ध्वागस्तद्गुरूणां निजनुतिसमयावाङ्मुखवावलोकाः क्रुद्धाः प्रोद्यद्गुणौघा निगदितुमिव तत्कर्णपकौ विशन्ति ॥९॥ सौभाग्यतस्तेऽभ्यधिका हरेः पितु. बैंताट्यविद्याधरसेव्यताजुषः। भजन्ति वामा न परं क्षमाभृतां गुर्वावली। ध्यायन्ति यत्तान् सुमनो ऽबला अपि ॥१५॥ तैः पाल्यमाने जिनशासनेऽधुना नेशा विधातुं कुमतव्रजा व्यथाम् । प्रकाशितं पद्मवनं विवखता पराभिभूयेत तमोभरैन यत् ॥ ९६ ॥ अराध्य देवानपि या दुरापा वाणी परैस्तेषु निसर्गतः सा। दुरासदान्यैर्विविधैरुपायै- या श्रीहरेः सानुचरी खभावात् ॥१७॥ कि मोहाऽहिविषोमिमूछितजगज्जीवातवो ऽमूः सुधा- धाराः स्वागमदुग्धवारिधिभवाः स्फारालहर्यः किमु । किंवा शासनसौधभासनचणा दीप्राः प्रदीपश्रियः सर्वध्वान्तभिदासतामिति मतिं तद्देशनास्तन्वते||९८॥ त एव धर्तुं जिनशाशनं पतत तदुःषमापङ्कभरे ऽधुनेशते। युगान्तवातोद्भुतवाहिविप्लुतां महावराहान्नपरो दधाति गाम् ॥ ९९ ।।
९२ श्रीमुनिसुन्दरहरिविरचिता क्षमापराइत्यपि साहसिक्यात समारतो जेज्यति ते प्रवादान् । दन्दह्यते वा शिशिरेति बुद्ध्या- प्यालिङ्गिताब्जानि न किं हिमानी॥४००|| उपतदमपि संश्रिते विनेये विलसति वाग् सुमनोमनोऽपही । गुणवति रमणे तदाश्रिते वा भवति रतिः किल योषितां समाना ॥१॥ प्रभवति महिमा यथा तदीयो जगति न कस्य च नापरस्य तद्वत् । प्रसरति तरणे मरीचिचक्र वियति यथा न तथाहि तारकाणाम् ॥२॥ नित्यं विवृद्धिगकलाः सदखण्डवृत्ताः प्राप्तोदयाः स्मरहतो ऽस्तकुरङ्गसङ्गाः। भ्रान्त्युज्झिता विदलयन्ति तमस्तथापि श्रीसोमसुन्दरतया प्रथिता अहो ते ॥ ३ ॥ ते शीतिमानमतुलं दधते भवस्या- PLORERYINHINE गुर्वावली। धः कारकारककलावरवृत्तताव्याः । सन्दर्शितामृतरसा निजगोविलासैः श्रीसोमसुन्दरतया प्रथिताः सुयुक्तम् ॥ ४ ॥ नानागोचरमारवस्थलततिभ्रान्त्युत्थतापोत्तृ षः सौख्येच्छामृगतृष्णिकांभसि न केताम्यन्ति चेतो मृगाः खेलत्यात्मवने लयी स परमानन्दादिदूर्वाङ्करा- खादी साम्यसुधाहदे प्लवनकृत्तुष्यंस्तदीयः पुनः॥५॥ जितद्राक्षाव्याख्यावचनललितं साम्यकलितं गुरुस्फूतिमूर्ति वणिमकलादोषविकला । अहो येषां पोषांकितसुचरणं सिद्धिवरणं विमुद्रं ते भद्रं ददतु भवतां धीधनवताम् ॥ ६॥ श्रीसाधुरत्नगुरुविस्तृतभाभरो ऽयं श्रीगच्छमौलिरमलः समलंकरोति । श्रीजैनशासननृपं निहतारिवर्ग- स्फूर्जप्रतापमहिमाप्तजगत्प्रभुत्वम् ॥७॥ वेलेवोल्लासिनी तद्गीस्त्रैवैद्याऽपरसागरे । * स्त्वयं इत्यपि पाठः।
श्रीमुनिसुन्दरसूरिविरचिता दूरं विक्षिपते दृप्यद्वादिनः कर्करानिव ॥ ८॥ आकौशलधरः काव्योप्यानैपुणधरो गुरुः । तेषां विद्यासु नैपुण्यादाचतुर्यमयं जगत् ॥ ९॥ प्रभावकाणां प्रथमः प्रसिद्धिभाग स सङ्घनेता प्रथमः प्रशस्यते । अचीकरद्योऽद्भुततत्पदोत्सवं श्रीपत्तनेऽष्टेन्द्रियरत्नवत्सरे १४५८॥१०॥ आहेमचन्द्रत्रिदिवं विधाय प्रभावकोत्पत्तिकथादरिद्रम् । स्रष्टयानुसृष्टया पुनरेव तेषां जैनेश्वरं शासनमन्वकंपि ॥११॥ वर्षत्सून्नतवारिदष्विव मुहुर्वादेषु तर्कामृतम् तैषूच्चैः पदसङ्गतेषु भुवि या कीर्तिः सरिज्जायते । सम्पूर्योत्तममानसानि विदुषामुन्मूल्यदर्पगुमान् मिथ्यालोरुदवोपशान्तिमपि सा कृत्वाब्धिमालिङ्गति१२ कलन्दिकासारभभृत्पदाम्बुजा- * धर्मोपदेशामृतमिति वा पाठः।
श्रेयः श्रेणी ददतु जगते ते जयश्रीपरीताः ॥१५॥ गुर्वावली। ९५ श्रितस्य तेषां व्यथते न मूर्खिमा । न नैशमन्धातमसं प्रगल्भते विलेप्तुमुष्णांशुकराम्बुजं यतः ॥ १३ ॥ यतिजीतकल्पवृत्तिवृत्तिरिव चारित्रकल्पवृक्षस्य । तन्निर्मिता विजयते ऽतिचारचौरादिचारहरा ॥१॥ उत्फुल्ला:स्तनुलवणिमालोकनात् स्मेरचित्त- ानाहाग्यार्पितगुणततेर्वाश्रुतेः प्रीतकर्णैः । ये मन्यन्ते विबुधनिकरेगौतमस्याऽवतारः श्रीदेवसुन्दरगुरुप्रभवो गणेशा अप्याश्रयन्ति गुरुभिस्त्रिभिरेभिरेवम् । सूक्ष्मार्थबोधरतिकान्तहतिप्रगल्भै- नेत्रवि त्रिभुवनेऽपि हि शङ्करत्वम् ॥१६॥ श्रीमद्गच्छहिमालये लवणिमोत्कल्लोलपद्महद- स्ते नूनं गुरुवः सरित्ततिरिवैतेभ्यो विनेयावली। उद्भूता भुवनेऽभितः प्रसृमरा वादिद्रुविद्राविणी पावित्र्यं तनुते हरत्यथ मलं मिथ्यात्वतापापहा||१७||
श्रीमुनिसुन्दरमूरिविरचिता
लसन्ति तेषां गणरत्नसिन्धौ
मुनीन्द्ररत्नानि महाप्रभाणि ।
क्षमाधराणामपि मौलिमाला
शोभाखिलाशासु विधीयते तैः ॥ १८ ॥
॥ तथा हि॥
श्रीदेवशेखरगणिप्रथिताभिधानाः
श्रीवाचकाबलिशिरोमुकुटायमानाः ।
तेषां विशुद्धगुणसंयमभासमानाः
शिष्या जयन्ति विगलत्कलिशत्रुमानाः१९
शिष्यस्तदीयोऽयमपीति मन्यते
श्रीवाचकेन्द्रेष्वगुणोऽपि मादृशः।
ग्रहप्रभोः पुत्रइति ग्रहावलौ
न पूज्यते पङ्गुरपीह किं शनिः ॥ २० ॥
अहो तेषां कराम्भोजवासानां सुप्रभावता ।
जातो यैौलिगैर्योग्योप्यहकं मुनिसुन्दरः ॥ २१ ॥
श्रीश्रुतसुन्दरवाचकवर्याः श्लाघ्या न कस्य गुणनिधयः
यद्गीःस्पर्डीपापान्मन्ये श्वभ्रे सुधापप्तत् ॥ २२ ॥
RAMESSAMANARARTHA
गुर्वावली।
जयचन्द्रवाचकैः किल जित्वा विद्याबलेन लघिमानम्।
नीता गुरुबुधशुक्राः स्थमानं दधति न क्वापि॥२३॥
श्रीभुवनसुन्दरा अपि वाचकवर्या न कस्य हर्षाय ।
सत्यपि येषां वाणी प्रतिचतुरं लीयते हृदये ॥२४॥
श्रीजिनसुन्दरवाचकहृदयगृहेऽ दोषवैर्यविषयतया।
विनयो गुरुभक्त्या सह विलसति निश्शङ्कमनवरतम्२५
सम्यकपरिहृतसप्ताऽधिकदशभिदऽसंयमा विशदचिचाः।
कण्ठस्थाऽऽगमसूत्रस्फुरदर्थाः संवृतास्रवणाः ॥ २६ ॥
जयवर्मनामविबुधाः स्थविरा गच्छेशबन्धवः कस्य ।
श्लाघ्या नैतत्काला ऽनुत्तरगुणचरणकरणाढ्याः ॥२७॥
॥ युग्मम् ॥
नानाऽनार्यप्रायान् देशान् दूरेऽप्यबूबुधन धीराः।
स्थविराश्च देवमङ्गलविबुधा गुरुगच्छकार्यकृतः॥२८॥
अन्येऽपि श्रुतसागरदेवप्रभरत्नसुन्दरा विबुधाः ।
अथ सर्वशेखराहाः ख्याताः क्षेमङ्कराहाश्च ॥२९॥
संविनकमलचन्द्राः सदाश्रवा ज्ञानकीर्तयश्वाऽपि ।
बुधसाधुसुन्दराऽभयसुन्दरमिश्रा यशःश्रीद्धाः ॥३०॥
९८ श्रीमुनिमुन्दरसूरिविरचिता आनन्दवल्लभाह्रा विशद्गुणाः सहजधर्मनामानः । विबुधेन्द्रशीलकुम्भा विख्याताः शान्तिमूर्तिबुधाः ३१ निस्सङ्गतैकरङ्गा बनवासे सोमशेखरा लीनाः । गुर्वादेशधुरीणा विमलादिकमूर्तयश्वाऽपि ॥ ३२ ॥ सर्वसमुद्राद्या अपि बहवो लुप्तान्यगणकतारकभाः । गच्छेशार्ककरा इव दिशि २ निम्नन्ति मोहतमः॥३३॥ पञ्चभिः कुलकम् । प्रायो भान्ति गणेऽस्मिन् पदान्यहो चतुरशीतिसङ्ख्यानि । इव तावतां गणानां सारैर्विहितानि विधिनात्तैः ॥३४॥ गुरुर्विनयो गणभक्तिर्ज्ञानचरित्रादयश्च निईन्डाः। आसन्महत्चरायां सुगुणाश्चारित्रचूलायाम् ॥ ३५ ॥ यस्याः समयार्थमणीविडूरभूमेः पुरः श्रयेद्ब्राह्मी । आकोशलं प्रशस्या महत्तरा भुवनचूला सा ॥३६॥ प्रवचन १धर्मकथाज्ञौ २ वादी ३ नैमित्तिक ४ स्तपस्वी ५ च ।
गुर्वावली। ९९ विद्यावित ६ सिद्ध कवी ८ प्रभावकाश्चाऽष्ट तद्गच्छे ॥ ३७॥ तथाहि । आचार्योपाध्याया गणेऽत्र वादाद्यशेषलब्धिजुषः । प्रायोऽष्टधाऽपि सर्वे शासनमुद्भासयन्त्यभितः॥३८॥ विभागतोऽपि च । आचार्यादिपदस्था यतयः साध्व्यो महत्तराद्याश्च । श्राद्धाचतारतम्यात् प्रवचनकुशला विभान्त्यत्र ॥३९॥ श्रीजिनसुन्दरवाचकमनुमितशरदुदयरनमुन्याद्याः। हरिरिव भुवनान्युदरे बिभ्रत्यङ्गानि निखलानि॥४०॥१ सर्वपदस्थाः प्रायो यतयः श्राद्धाश्च मन्त्रिहेमाद्याः । धर्मकथालब्धिभृतःकरन्ति जिनधर्मसाम्राज्यमा शर श्रीसूरिवाचकेन्द्रविद्याधनयाचकीभवद्विषणैः । ध्रियतेऽत्र वादलब्धिर्विबुधैर्यतिभिश्च बहुभिज्ञैः॥४२॥३ संवृतसर्वास्रवणप्रबुद्धवरसर्ववल्लभप्रमुखाः। अवितथनिमित्तविज्ञा गणरक्षणदक्षिणा बहवः॥४३॥४ गुरुगच्छबालवृद्धप्रमुखमहानेककार्यनिष्णाताः ।
श्रीमुनिसुन्दरमरिविरचिता
सर्वधुरीणप्रवरा माध्यस्थ्यारिनन्यसमाः॥४४॥
द्वादशधातपसि रता गुणवईनसाधुसागरप्रमुखाः।
लोकोत्तरगुणचरिता निवसन्ति मनस्सु नो केषाम् ४५
येषां तपःशक्तिहत प्रभावाः
सप्तर्षयः शून्यमहो भ्रमन्तः।
शास्पैनिषिद्धामपि रात्रिचर्या
चरन्त्यदृश्याः किल लज्जयाऽह्नि॥ ४६ ॥
मासहयोपवासप्रमुखैः संसारतारणमुखैश्च ।
त्रिदिनोत्सर्गाद्यैरपि विविधैर्बाह्यान्तरतपोभिः॥४७॥
ते सर्वदेवादिमुनीश्वराश्च
निस्तन्द्रसंवेगसुधाऽभितृप्ताः।
प्रत्याययन्तः किल धन्यमेघ-
श्रीशालिबाहुप्रमुखान् जयन्ति ॥४८॥
श्रीवीरभच्या मदमुन्दशोनं
षण्मासिकं यो विदधे तपोग्यम् ।
महातपस्कर्मसु नित्यलीनं
तं शान्तिचन्द्रं गणिराजमीडे ॥४९॥५॥
ARNAMEANING गुर्वावली। १०१ जानाना गुरुविहितं स्खलिते शकटालजन्मनो दण्डं। गुप्तधना विद्याढ्या बहवःसिद्धाश्च सन्त्यत्र ॥५०॥६७ किंवाच्यं कविसम्पदि बाला अपि यत्कवित्वगुणललितः बुधगुरुकविभिः स्प_गई गच्छेऽत्र बाभजति ॥५१॥ किं बाणः को मुरारि- न कविकुलकलः सोऽचलो नाऽमरो वा नाश्वासः कालिदासे विलसति न गिरांचाऽपि हर्षे प्रकर्षः। भोजः सौजःप्रभो नो- न च हरति मनो भारविनैव माघः । प्रेक्ष्यन्ते ऽस्मिन् विचित्रा विशदमतिजुषः शंपुषश्वेत कवीन्द्रा ५२॥८॥ अथ प्रभावककवित्वानि । अत्र खप्रतिभाप्रकर्षपदवीप्रास्तप्रवीणप्रभा बुध्वा पारगतागमेष्ववितथं सूक्ष्मार्थसार्थप्रथाम् । तत्त्वज्ञानलसत्प्रदीपनिहतध्वान्ताभमिथ्याधियो- ऽनूचानादिमुनीश्वराः प्रवचनप्रावीण्यमाबिभ्रति ५३।१
श्रीमुनिमुन्दरमरिविरचिता
अस्मिन् धर्मकथाप्रथास्ववितथप्रावीण्यलुभ्यत्प्रभा-
भ्राजन्ते निजदेशनानवरसैः पीयूषयूषोपमैः ।
कुर्वाणाः स्मृतिगोचरे सुमनसां श्रीसूरिमुख्यामहा-
लब्धीः पूर्वमुनीश्वरेषु विदिताः क्षीरास्रत्वादिकाः५४ार
तर्कव्यासविलाससाधुविविधोपन्यासवात्याबलात्
प्रोद्धृतदमदप्रवादिविदुरप्रोत्तालतूलबजा।
भूपादिप्रकटप्रभावविभवा वादेषु लब्धप्रभा
भ्राजन्ते प्रतिभाऽभिभूतधिषणा नैकेन वादीश्वराः।५५॥
भौमाभ्रादिभवन्निमित्तविदुराः सम्यक्श्रुताभ्यासतः
केचित् केऽपि च पात्रतामधिगताः सन्मन्त्रयन्त्रश्रियाम्।
सिद्धाभिस्त्वनवद्यहृद्यविलसद्विद्याभिरन्येऽधिका
नानाऽऽम्नायसमृद्धिभिस्तदऽपरे चूर्णादिसंवेदिनः॥५६॥
क्षीरांभोनिधिजिद्गभीरहृदये गूढस्वशक्तिश्रियः
प्रौढे च प्रविदयमानविभवाः सङ्घादिकार्यबजे ।
अस्मिन् शासनभासनैकनिरताः स्वाचारसंचारिणो
द्योतन्ते मुनिनायका भवभिया सावद्यमुक्तक्रियाः॥५७॥
गुर्वावली। । ॥ युग्मम् ॥४।५।६॥ दुष्टादृष्टजकष्टपिष्टपटुभिः षष्ठाष्टमाद्यैः सदा सन्मासक्षपणादिकैश्च मुनयो बायैर्विचित्रक्रमैः । एकाहं यहकं त्र्यहं च विहितोत्सर्गादिभिश्चान्तरै- रस्मिन् शासनभासनं विदधते प्रौढेस्तपःकर्मभिः५८१७ सत्काव्यादिकलाकलापकुशलं संश्रुत्य येषां वचः कारुण्यं दधते गुरौ सुमनसां प्राज्ञाः कवौ ज्ञेऽपि च । राजन्यावलिमौलिमौलिगमणीदप्तिाहृयः सूरय- स्तेनैकेऽत्र विभान्ति कोविदसभालङ्कारहारोपमाः५९।८। प्रभावकैरेवमनुत्तरप्रभैरयं समग्रैरपि राजते गणः । न रत्नजाति खलु सा प्रजायते रत्नाकरं या समतीत्य- वर्त्तते ॥६० ॥ गणे भवन्त्यत्र न चैव दुर्मदा- नहि प्रमत्ता न जडा न दोषिणः । विडूरभूमिः किल सोषवीति वा कदापि किं काचमणीनपि क्वचित् ॥६१॥ कस्मात् कस्मादिनिर्गत्य हेतुभिर्विशदेतरैः।
१०४ श्रीमुनिसुन्दरसूरिविरचिता कलौ प्रशाखा प्रतिमा बभूवुर्बहवो गणाः॥२॥ प्रौढावदाततोऽयं तु प्राप्तोऽप्याहां नवां नवां । श्रीसुधर्मगणाधीशादारभ्याऽखण्डसन्ततिः ॥ ६॥ आज्ञाभङ्गान्तरायोत्थाऽनन्तसंसारनिर्भयैः । सामाचार्योऽपि पाश्चात्यैः प्रायःस्वैरं प्रवर्तिताः॥६४॥ उपधानप्रतिक्रान्तजिना दिनिषेधतः । न्यूनिता दुःषमादोषात् प्रमत्तजनताप्रियाः॥६५॥ यत्तत्प्रासुकमिष्टाम्बुप्रवृत्त्यादिसुखावहाः । वीक्ष्यन्तेऽन्यगणेष्वत्राऽऽचरणा लक्षणाज्झिताः६६। त्रिभिर्विशेषकम् । या श्रीवीरसुधर्माद्यैः प्रणीतास्वाऽऽगमानुगा । आचीर्णा स्थविरैः कालानुरूपयतनाश्रिता ॥६७ ॥ सामाचारी गणेऽस्मिस्तु शुद्धा सैवारत्यखण्डिता। परपम्परागता सर्वगणान्तरगताऽधिका ॥ ६८॥ ॥ युग्मम् ॥ विनयानीहताक्षन्तिनैर्ग्रन्थ्यप्रमुखा गुणाः। दुर्लभा ये कलौ सर्वे तेऽपीक्ष्यन्तेऽत्र निर्मलाः॥६९॥ * वीक्ष्यन्ते चाऽन्यगच्छेष्वाचरणालक्षणास्थिताःइत्यपि पाठः गुर्वावली। अत एव मिथोधर्मस्नेहः सूरिवरादिषु । संविग्नेष्वाऽऽगमज्ञेषु गणबन्धोऽपि निस्समः॥७० ॥ न स्वः कोऽपि परो वाऽत्र नैहिकोपक्रियापि च । तथाप्येनं भजन्ति ज्ञाः सर्वे ज्ञानक्रियोत्तरम्।।७।। अयमेव तदा सेव्यो मध्यस्थैः स्वहितैषिभिः । उपेक्ष्य कुलगुर्वादिकदाग्रहहतान् जडान् ॥७२॥ मेयः कथं महिमवार्डिरयं गणेश- श्रीदेवसुन्दरयुगोत्तमसूरिराजाम् । यत् पारगाणि न चिरादपि सन्मनांसि यानि प्रयान्ति सुरशैलशिरोऽपि वेगात् ॥७३|| एषां प्रभावकवरा विलसन्ति गच्छे यहत्तथा नहि परेष्वपि शिष्यमात्राः । आबद्धमौलिमुकुटा इव चक्रिपुर्या पुंष्ठकुरा अपि न कर्बटकेषु दृश्याः॥७॥ अहो रत्नत्रयीसैषामना काऽपि विष्टपे । रत्नकोटीरपि त्यक्त्वा यत्तामाददते बुधाः ॥७॥ एषां शुद्धवचःप्रबुद्धहृदया मन्त्रीशहेमादयो NEXI श्रीमुनिसुन्दरमरिविरचिता निस्सङ्गाः स्वजनादिषूज्झितगृहारम्भानवद्यक्रियाः । तैस्तैः वैश्चरितैरुदारललितैर्द्धर्मोपदेशामृतैः प्रौढिं सङ्गमयन्त्यहो तदभयानन्दादिवच्छासनम् ॥७६॥ तदवाप्तधर्मदायसङ्घपतिर्लल्लसूनुनाथाः । गणधर्माऽऽधारकरः प्रभावको भाति नृपमान्यः।।७७॥ एषां नानागुणमणिनिचिते ऽपारगच्छाम्बुराशी दूरक्षिप्तातिचरणविलुठत्सङ्करे श्रीजयाये । उत्कल्लोले नवनवमहिमश्रीशिष्यावदातैः सर्वेप्यन्ये प्रद्घति गणका कण्ठकूपोपमानम् ॥७८॥ चन्द्रलेखाच्छन्दः। सर्वतः प्रससरभांजि यशांसि क्षीरनीरनिधयन्ति यमीनां । तानि तत्र परसूरिततीनां शीकरावलिरिवाथ विभान्ति ॥ ७९ ॥ एषां परेषामथ सूरिराजां चिकीर्षता विश्वकृता यशांसि । उन्मानबीजानि विचक्रिरे प्राक् गुर्वावली। १०७ पूर्णेन्दुबिम्बं किल तारकाश्च ॥ ८०॥ एभिः स्फीतैः शशधरकिरणक्षीरडिण्डीरगौरैः शुक्लाद्वैतं त्रिजगति गमिते स्वैर्यशोभिः प्रपूर्य । अन्येषां चेहरिवृतति तदा तल्लवानैव लभ्याः सत्ता यस्माद्विरमति सरितां सिन्धुना सङ्गतानाम्८१ चन्द्रलेखाच्छन्दः। को ऽवेदयिष्यत् तुलनामतीतान श्रीगौतमस्वामिमुखानतीतान् । युगोत्तमाभा यदि नाभविष्यन् निदर्शयन्तः स्वगुणैरिमे तान् ॥ ८२ ॥ वीरेण ये शासनधारका महा- चार्याः स्वनिर्वाणपदादनूदिताः। एतेऽवगम्याः खलु ते गुणोच्चयै- राहतदीयैव शिवाय तत्कृता ॥८३॥ एतच्च काव्यपञ्चकं प्राक् लिखितमप्याधिकार- सौष्ठवात् पुनरिहापि लिखितमिति । श्रीवीरतोऽभूद्गणराट् ससप्त-
१०८ श्रीमुनिसुन्दरसूरिविरचिता
त्रिंशो वृहद्गच्छपसर्वदेवः।
तस्माज्जगञ्चन्द्रगुरुस्तपाहा
मूलं गणेन्द्रो नवमश्व४५ जज्ञे ॥ ८४॥
तस्माज्जयन्ति गुरवो गुरवोऽत्र षष्ठाः
श्रीदेवसुन्दरगणप्रभवोऽ ५० ऽधुनेमे ।
स्युदशा१२श्व निखिलानधिकृत्यसूरी-
नेभ्योऽपि पञ्चकिलसप्तदशेति सर्वे॥ ८५ ॥
एवं श्रीवीरजिनात् सन्ततिकृद्गच्छनाथगुरुगणने
एते स्युः पञ्चाशा५ आसन् बहवोऽन्तराले च॥८६॥
त्रिपञ्चाशचतुष्पञ्चाशत्वाद्यपि भजन्त्विमे
श्रीसम्भूतजयानन्दादिगणेशक्रमाश्रयात् ।। ८७ ॥
विश्वातिशायिमहिमाम्बुधयो जयन्तु
श्रीदेवसुन्दरयुगप्रवराश्चिराय ।
श्रीशासनोद्धरणधीरतमाः क्रियासुः
श्रेयःश्रियं सुविपुलां विपुलाङ्गभाजाम् ॥८॥
श्रीवीरतीर्थकमले प्रवचनमातृप्रबुद्धदलकलिते।
सूरैर्युगप्रधानैः प्रकाशिते महिमसौरभ्ये ॥ ८९॥
गुर्वावली। विलसन्ति राजहंसा यावत् श्रीसङ्घलोकमधुपाश्च । दुष्प्रसहान्ता तावत् सन्ततिरेषां चिरं जयतु ॥९॥ युगोत्तमानां गुणसिन्धुबिन्दू- नादाय वाणीति कृता पवित्रा। मयार्जितं यत्किल तेन पुण्यं ततोऽस्तु मे ज्ञानचरित्रशुद्धिः ॥ ९१ ॥ आमूलतः सुविहितावलिमौलिमौलि- श्रीमत्तपागणनभोऽर्कगुरूत्तमानाम् । श्रुत्वा गुरुप्रमुमुखाइथितेति किंचि- दैतिधपतिरमला गुरुगच्छभक्त्या॥ ९२॥ रसरसमनुमितवर्षे१४६६ मुनिसुन्दरसूरिणा कृता पूर्वम् मध्यस्थैरवधार्या गुर्वालीयं जयश्रीद्धा ।। ९३ ॥ प्रायो गुरूणां मुखतोऽधिगम्या- इन्यतोऽपि किंचिच्च विनिर्मितेयम् । यच्चाऽत्र किंचिद्वितथं बुधैस्त- च्छोध्यं च मिथ्याऽस्तु च दुष्कृतं मे ॥९॥ जगत्त्रयख्याततपागणस्य श्रीमुनिमुन्दरसूरिविरचिता शाखास्तुतेयं वृहती मयति। किञ्चिच्च लघ्वी सकला अपीमाः श्रीवीरमार्गानुगमा जयन्तु ॥९५॥ मूलं यस्य जिनेश्वरो गणभृतां स्कन्धोपमं मण्डलम् शाखाः सन्ततयस्ततश्च यतीनां साध्व्यः प्रशाखाः पुनः श्राद्धाः पत्रगणाश्च मञ्जरितुलारूढाश्च सुश्राविकाः सर्वाभीष्टफलप्रदः स जयति श्रीसङ्घकल्पद्रुमः॥४९६॥ इति श्रीयुगप्रधानावतारश्रीमचपागच्छाधिराजबृहद- छनायकपूज्याराध्यपरमाप्तपरमगुरुश्रीदेवसुन्दरसूरिंगण- राशिमाहमाऽर्णवानुगामिन्यां तद्विनेयश्रीमुनिमुन्दरगणि- हृदयहिमवदवतीर्णश्रीगुरुषभावपबहूदप्रभवायां श्रीमहा- पर्वाधिराजश्रीपर्युषणापर्वविज्ञप्तित्रिदशतरङ्गिण्यां तृतीये श्री गुरुवर्णनस्रोतसि गुर्वावलीनाम्नि महाहदेऽनभिव्यक्तगणना एकषष्टिस्तरङ्गाः॥ सम्पूर्णश्चायं श्रीगुर्वावलीनामा महाहूदः । इतिवृहत्तपागच्छश्रीगुर्वावली वृहती श्रीमुनिसुन्दरसूरिकता।
॥ श्रीः॥ INDIA श्रीजैनयशोविजयग्रन्थमाला आ ग्रन्थमालामां प्रगट थयेला संस्कृतपुस्तको:- (१)प्रमाणनयतत्त्वालोकालङ्कार आ पुस्तक न्यायनो एक अमूल्य ग्रन्थ छ, तथा जैन न्याय नी अन्दर प्रवेश करवामां तेमज पदार्थनुं यथा तथ्य स्वरूप समजाववामां आ ग्रन्थ एक अद्भुत भोमियो छे. माटे न्यायनी शरुआत करनार दरेक अभ्यासीने अत्यन्त उपयोगी थाय ते- टला माटे ते सुन्दर ग्रन्थनी किंमत मात्र आना ८ राख्यामा आवी छे. पोस्टेज जर्नु । (२) हैमलिङ्गानुशासन (अवचूरि सहित) आ पुस्तक श्री हेमचन्द्राचार्य विरचित छे, अने संस्कृत माधाना अति कठिन शब्दोचें तेमन तेना लिंग सम्बन्धीनु ज्ञान, आ पुस्तक ना थोडा श्लोको अध्ययन करवाथी, स्वय- मेव थइ जाय तेम छे. उपरान्त ते ग्रन्थनी रचना श्लोकमय होवाथी कंठाग्र करनारने सुगम थइ पडशे. एकंदर आ पुस्तक घj उमदा छे. छूटक किंमत आना ५ पोस्टेज जूq.
(३) श्रीसिद्धहेमशब्दानुशासन (लघुवृत्ति) धातुपाठ सहित । कलिकाल सर्वज्ञ श्रीमद् हेमचन्द्राचार्य महाराजनो बनावेलो, महा चमत्कारी अने अल्प प्रयासथी अति बोधदायक आ व्या- करणनो ग्रन्थ खरेखर, संस्कृत विद्याना दरेक अभ्यासीने आशिर्वाद रूप छे. आ व्याकरणनो ग्रन्थ सर्व व्याकरणमां शिरोमणि छे, तेमज तेना अभ्यासकने बीजा कोइ व्याकरणनी अपेक्षा रहेती- नथी तेनी खातरी आ ग्रन्थनो अनुभव लेवाथी थया विना रहे- शे नहि. विद्यार्थिने सुगम थाय तेटला सारु धातुपाठनुं प्रक- रण पण आपवामां आव्युं छे, आ ग्रन्थ अमूल्य छे छतां तेना कदना प्रमाणमा किंमत मात्र रु० २-८-० राखवामां आवी- छे ते जुन छे, अने ते उपरान्त तेना ग्राहकने हैमलिंगानुशासन भेट आपवामां आवे छे। (४) गुर्वावली चरिम तीर्थंकर श्री महावीर स्वामीथी लइने दरेक तपाग- च्छना आचार्योनी क्रमवार पट्टावली अति मधुर भाषामां वर्णव- वामां आवेली छे. विद्वद्वर्य श्रीमन्मुनिसुन्दरसूरि विरचित आ ग्रन्थ संस्कृत श्लोकबद्ध छे. अने तेनो अभ्यास करवाथी दरेक पवित्र आचार्योना गुण, तथा चरित्रनो बोध थवा साथे काव्यर्नु ज्ञान पण सहेज थइ शकशे. माटे ते ग्रन्थ दरेक जैन साधर्मि भाइए पठन करवा लायक तेमज खास संग्रह करवा लायक छे. किंमत आना ८ पोस्टेज जूहूँ । इत्यलम् ।। मलवानुं ठेका' श्रीयशोविजयजी जैनपाठशाला बनारस सीटी। पोस्टेज जूहूँ ।