S.P College, Srinagar

Prithviraj Chauchan Charitam

Shastar Pada · 2012

PDF Proofread

Front matter

B A T A P.
Р
ВА
LL E G E
JI
IUL ...dvle the
oct will be realised
LIB R AR Y.
Class No.
891.269
Book No.
PIAP
Accession No.
10337

पि N DA mantra n GO भारतवीररलमालायास्तृतीयरत्नम् + BOOR ROGRAM P चरमक्षत्रियदिल्लीश्वर- सार्वभौम- श्रीपृथ्वीराजचव्हाणचरितम् लेखकः onthoco हसूरकरोपाव्हः श्रीपादशास्त्री.

No text on this page.

PARO/ARO/AROD भारतवीररत्नमालायास्तृतीयंरत्नम् GDOG 200/000WER चरमक्षत्रियदिल्लीश्वर- सार्वभौम- श्रीपृथ्वीराजचव्हाणचरितम् काय लेखकः हसूरकरोपाव्हाश्रीपादशास्त्री न्यायतीर्थः, वेदान्ततीर्थः, मीमांसातीर्थः, सांख्यसागरः, होलकरसंस्कृतमहाविद्यालयस्य प्रधानाध्यक्षश्च. - LACy.. 0 eOrx SES SAID T. LANCER. एतच्च इंदूरनगरे श्रीगजानन प्रिंटिंग वर्कस, नाम्नि मुद्रणालये तदध्यक्षेण प्रकाशकस्य कृते मुद्रापितम्, ( अस्य पुनर्मुद्रणे सर्वथा प्रकाशकस्यैवाधिकारः ) मूल्यं सा|रूप्यकः (१॥) प्रेषणव्ययः पृथक्. -

२
बान्धवाः? इदं न कस्याप्येकस्य मानवस्य चरितं किन्तु सर्वोऽपि
संसार एवात्र संक्षेपेण लिखित इति यूयं पठित्वा वदेत ! यद्यस्य
चरितस्य पठनेन जीवत्सु बलाढ्येषु क्षत्रियकुलेषु कथं महंमदीया
अत्र समागत्य भारतवर्षमजयन् अस्मांश्चेदृशी दुरवस्थां प्रापयन्निति
सम्यगांजस्येन पाठका अवगच्छेयुः, तदाऽइमात्मानं कृतार्थं मन्ये.
अन्ते च सर्वानपि वो देशबान्धवानत्र दृष्टिक्षेपाय
सविनयं
विज्ञप्य विरमामि.
( विदुषां वशंवदः)
श्रीपादशास्त्री.

nwan GORATORSROO
मुख
यविषय
20SOMEO/RMROOM/AS
मानुक्रमः-
१-११
१ गुच्छः
२ गुच्छः
१२-२३
३ गुच्छः
२४-३४
४ गुच्छः
३५-४७
५ गुच्छः
४८-६४
६ गुच्छः
६५-७६
७ गुच्छः
७७-८८
::
८ गुच्छः
८९-१०४
९ गुच्छ
१०५-११९
१० गुच्छः
१२०-१३९
११ गुच्छः
१४०-१५७
१२ गुच्छः
... १५८-१८६

पृथ्वीराजचव्हाणचीरते तम्य 'ऊरु, पुरु' सूर्यवंशे राजा रामचन्द्रः प्रादुर्बभूव. अस्तु. तम्येक्ष्वाकोभगिनी 'इला' चन्द्रपुत्राय बुधराजाय प्रदत्ता. ततएव च प्रसिद्धश्चन्द्रवंशः प्रससार. तम्य बुधम्य पुत्रो ययाति म बलाढ्यो नरपतिबभूव. यदु ' नामानस्त्रयः पुत्रा आसन्. तत्र पुरोर्वशे समुत्पन्नो हस्ती नाम नरेशः सुप्रसिद्धं हस्तिनापुर वासयामास. हम्तिराजमारभ्य द्वाविंशः पुरुषः प्रसिद्धोऽजातशत्रु- युधिष्ठिरोऽभूत्. स च सुप्रसिद्धेऽनेकनरवीरसमलंकृते कुरुक्षेत्रसंग्रामे विजयं लब्ध्वा प्रसिद्धमिंद्रप्रस्थदुर्ग व्यरचयत्. एवं यदावेशेऽपि भगवान् कृष्णस्तथा बलरामश्च समभवताम्. तौ च स्वीयां राजधानी गुर्जरदेशे वर्तमानं द्वारकाक्षेत्रमकुरुताम्. साम्प्रतम् जैसल- मीराधीपास्तथा कच्छप्रांताधिपा आत्मानं कृष्णवंशजान् भावयन्ति. जयपूरजोधपूरोदयपुराधिपाश्च मूर्यवंशसंभवानात्मानं निवेदयन्ति. अम्तु, सुप्रसिद्धे युधिष्ठिरवंशे लब्धजन्मानस्त्रिंशा नृपाः म्वपैतृकं सिंहा- सनं प्राप्य धर्मेणावर्तन्त. एतेषु चरमः क्षेमराजः स्वकर्तव्यपरांमुखो विहारी स्त्रैणः सकलदोषभाजनं बभूव. राजानं च कुमार्गगामिनं विलोक्य तत्सेवका अपि तथैवावर्तन्त. तेन सर्वेऽपि प्रजाजना असन्तुष्टा राजशासनमत्यकामन्. प्रजासु राजशासनमतिकाम्यन्तीषु सतीषु प्रतिदिनं नानाविधा आपदः समापतन्. ईदृशीमव्यवस्थां वीक्ष्य तस्य क्षेमराजस्य प्रधानामात्योविसर्वे नाम स्वामिनं हत्वा हस्तिनापुराधिपत्यमात्मसादकरोत्. यद्यपि स्वामिवधेन लब्धराज्यः सोऽमात्यः प्रजानां नातिप्रियोऽभूत्तथापि कुमार्गगामिनः ३ प्रथमोगुच्छ क्षेमराजम्य दुराचारेभ्यो मोचितास्तास्तस्मै नात्यद्रुह्मन्. स च तद्वंशजाश्च न्यायेन वर्तमाना बहुकालपर्यंतमिंद्रप्रस्थराज्यमपालयन्. तम्य च वंशजो यदा राज्यमकरोद्राजपालोनाम, तदा परमविल्यातस्तुवरवंशीयोविक्रमा- दित्योनाम राजा प्रतापप्रवलो बभूव. स च शीघ्रमेव तस्य राजपालस्य घातकं सुखवंतनामानमिंद्रप्रस्थाधिपं हत्वा कृत्स्नमेव तद्राज्यं स्वायत्ती- चकार. जित्वा चंद्रप्रस्थराज्यं न्यायेन तत् परिपाल्य दिवंगतवति विक्रमादित्ये क्रमेण तदन्यूनाः पराक्रमशालिनः पुत्रपौत्रादय इन्द्रप्रस्थ- सिंहासनमधिवसानाः सर्व एव प्रजाः सम्यगपालयन्. वाचकाः ! यद्यपि अयं च क्षत्रियवंशस्येतिहासः परमसंक्षिप्त- स्तथाप्येतदन्यस्य समग्रस्य क्षत्रियवंशेतिहासस्याभावादत्रायमेव निरूपितः. दुर्दैवं भारतवासिनां यत्तेषां परमभाग्यशालिनां पूर्वानां चित्ताबादकर इतिहासः सम्यक् नोपलभ्यते! सज्जनाः ! सकलजगतीतलवासिनो जना यदाऽज्ञानगाढान्धकारमग्ना आसंस्तदानीमस्यामेव भारतभुवि ब्रह्मर्षयो राजर्षयश्च व्यराजन्. परन्तु तेषामितिवृत्तबोधकानां ग्रंथानां नाशाद्वाऽभावाद्वा साम्प्रतम् केवलं वयमीदृशी हीनावस्थां प्राप्ताः क्व सन्ति पुण्यश्लोकानां नः सम्राजां लोकोत्तरकर्तव्यप्रतिपादका इतिहास- ग्रंथाः ! साम्प्रतं च नष्टबुद्धयो वयं दीर्घपरिश्रमैः परकीयैः शोधकैः प्राकट्यं नीतेभ्य एवास्मत्पूर्वजेतिहासेभ्यः खल्पं ज्ञानं लभामहे. अस्तु. प्रकृतमनुसरामः २० पृथ्वीराजचव्हाणचरिते (२) उपरिकथितरीत्या विक्रमादित्यवंशजेषु हस्तिनापुरराज्यम् पाल- यल्सु सत्सु चरमोऽनंगपालनामा राजा बभूव. स च सकलगुणसंपन्नो धार्मिकः सदाचाररतो न्यायेन प्रजाः पालयन्नधर्मभीरुरासीत्. तस्मिन् राजनि पितृवत्प्रेम्णा प्रजाः पालयति सति सर्वेऽपि वर्णाः स्वस्खविहित- कर्मकारिणः सुखस्य परां काष्ठां प्रापुः. परकीया यवनादयोऽस्या भारतभुवः संपत्तिं वीक्ष्य नितरां व्यस्मयन्त. स्थाने स्थाने च कनकखनीः हीरकनिधीन् सूक्ष्माणि वस्त्राणि सर्वनित्यव्यवहारवस्तुसौलभ्यं च पश्यन्त इमां जेतुमैच्छन्. सुन्दररमणीरत्नपरिपूर्णान्तःपुरशालिनोऽपि तस्यानंगपालम्य सुतमुखकमलदर्शनसुखं दुर्लभमासीत्. सेोऽपि सतत- मीश्वरभक्तिमेव संसाराणवतरणे नौकां मन्यमानः सर्वदा परमात्मान- मभजत. वाचकाः ! अयं पुण्यश्लोकोऽनंगपालएवास्सच्चरित्रनायकम्य पृथ्वीराजम्य मातामहः. यद्यप्यस्य राज्ञो न तनय आसीत्तथापि सरस्वतीलक्ष्म्याविव द्वे कन्यके अस्ताम्. तयोर्मध्ये ज्येष्ठा कमलादेवी सुविख्यातायाजमीराधीशाय सोमेश्वरनाम्ने भूपालाय प्रदत्ता. अन्या च कन्नोजाधिपतये विजयपालाय प्रदत्ताऽसीत्. तत्र परमपतिव्रता कमलादेवी खल्वस्मच्चरित्रनायकम्य माता. तथैव कनीयम्या अपि पुत्रो जयचन्दो नाम. वाचकाः . पुण्यश्लोकम्य पृथ्वीराजम्यायं मातृवंशो वर्णितः. पितृवंशश्चेत्थम् ५ पृथ्वीराजचव्हाणचरिते च सुप्रसिद्धचव्हाणवंशजो वीसलदेवो नाम महाविक्रमशाली राजाऽजमीरक्षेत्रे राज्यमकरोत्. इदमेवाजमीरनगरं द्रोणगिरिशब्देनाऽपि निगद्यते. अस्तु. अस्मिन् राजनि खीयं राज्यं न्यायेन शासति सति बुभुक्षिता गृध्रा इवेमे महंमदीया इमां भारतभुवं जेतुं प्रायतन्त. तान्निराकर्तुमयं वीसलदेवः सर्वान् क्षत्रियवंशसंभवान् नृपान् साहाय्यार्थ- माव्हयत्. सर्वे च नृपास्तदाबानमंगीकृत्य तद्राजधानीमाजम्मुः, केवल गुर्जराधिपो भीमदेवो नाजगाम. तदानागमनं च देशद्रोहकरं मन्वानो वीसलदेवस्त भीमदेवमाक्रम्य रणांगणे जिगाय. यत्र च तेन समं वीसलदेवस्य युद्धं बभूव तस्मिन् स्थले स्वयशःस्मरणार्थ राजा वीसलदेवः स्वनामांकितं महन्नगरं 'वीसलनगरं' वासयामास. वाचकाः! अस्य वीसलदेवस्य संबंधिनीमाख्यायिकां चन्दनामा बन्दि- वर्यः स्वविरचिते रासाग्रंथे न्यरूपयत्. सा चेत्थम् - अयं वीसलदेव एकां नागकन्यां पर्यणयत्. तया नागकन्यया प्रेम्णा वीकृतः स वीसलदेवस्तस्यामेव परमनुरक्तोऽभूत्. तीक्ष्यान्याः सपल्यः परमद्रुह्यन्. सा च नागकन्या स्वविलासमन्दिरं जलपरिपूर्ण- तडागमध्यवर्ति निर्माय तत्र निभृतमागमनकारणमेकं मणिं राज्ञे ददौ. सोऽपि तं गृहीत्वा तन्मन्दिरं प्रतिदिनमगच्छत्. सपत्न्यश्च तत्र गन्तुम- शक्नुवन्त्यः कथं राजा गच्छतीति विचारयामासुः. अथ मणिं कारणत्वेन विज्ञाय सन्तुष्टास्तन्मणिं यत्नेन गोपयामासुः. राजा च मणिं विना तत्र गन्तुमशक्नुवंस्तद्विरहाकुल इतस्ततो मत्तवत् परि- बभ्राम. सविलापमितस्ततो विचरता तेन मार्ग काचन ऋषिकन्यका w प्रथमोगुच्छः स्पृष्टा. सा तु क्रुद्धा तस्मिन्नव क्षणे ' त्वं राक्षसो भव' इति तं शशाप. अचिरादेव राक्षसस्वरूपमापन्नः स वीसलदेवः सर्वांस्तन्नगर- वासिनो जनान् भक्षयामास. तद्भीत्याचावशिष्टा नागरिका अन्यान् देशान् जग्मुः. तेन तन्नगरं श्मशानमिव निर्मनुष्यमभवत्. तु अथ तस्य वीसलदेवस्य पुत्रः सारंगदेवः पितुरनन्तरं स्वीयं राज्यं पालयामास. तस्य च पुत्रोऽनहदेवो राज्य शासदजमीरनगरे महान्तमनहसागरनामकं तडागं व्यरचयत्. अनहदेवस्य तनयो जयपालस्तस्यानन्ददेवस्तस्य प्रतापी पुत्रः सोमेश्वरः क्रमेण द्रोणगिरिराज्यमकरोत्. वाचकाः ! अयमेव प्रतापसूर्यस्य पृथ्वी- राजस्य पिता. अस्मिन् राजनि स्वराज्यं शासति सति कश्चन ब्राम्हणः म्वपलीत्रासेनोद्विग्नस्तं वीसलदेवं शरणं गत्वा 'मां भक्षय' इति प्रार्थयामास. स तु वीसलदेवरूपी राक्षसः साश्चर्य 'किमितीत्थं निर्वि- प्रणोऽसीति' तं ब्राम्हणमपृच्छत्. स च दीनो विप्रः स्वीयां परिस्थिति तस्मै निवेद्य मम पत्नी मां परं त्रासयतीति कथयामास. राक्षसश्च तस्य विप्रस्य भाषणेन संजातकृपस्तस्मै विपुलं द्रव्यं वितीर्य- विप्रश्रेष्ठ । अहं च राक्षसोनिं प्राप्यात्यन्तमुद्विग्नोऽस्मि. तत्त्वमितो गत्वाऽजमीराधिपं सोमेश्वरं वद ! राजन् ? वीसलदेवराक्षसम्त्वां मन्मुखेन विज्ञापयति- मां हत्वा भक्ष ' इति. यद्यप्यस्मिन् रूपे मां हत्वा तेन राज्ञा भक्षणमशक्यं तथाप्यहं सूकररूपं धृत्वा परितोऽरण्ये विचरन् मृगयाथ समागतेन तेन राज्ञा हंतव्यः. योहि मन्मांस भक्षयत्सोऽ वश्यमेवालौकिकपराक्रमशालिनः सद्गुणाढ्य न् पुत्राँल्लभेत. ततोऽवश्यमेव S ७ पृथ्वीराजचव्हाणचरिते त्वं. मां हत्वाऽस्माद्धःखान्मोचयेति संदेशप्रापणाय प्रार्थयामास. स च ब्राह्मणस्तद्रव्यं गृहीत्वा सन्तुष्टः शीघ्रमेव सोमेश्वराय तं संदेशम- कथयत्. ततश्च स्वसामन्तमंडलेन समं मृगयाथ निर्गत्य स सोमेश्वरः क्षणात्तं सूकररूपधारिणं वीसलराक्षसं हत्वा तन्मांसं सर्वैः सममभक्षयत्. तस्मिन् भोजने कविराजस्य चन्दवन्दिनः पिताप्यासत्.ि अचिरादेव श्रीद्रोणगिरिनाथः सोमेश्वरः सम्राजं पृथ्वीराजं प्रासूत. लोकोत्तरवर्णना- निपुणं चन्दबन्दिनमपि तदीयः पिताऽपि. अन्ये च सामन्ताअपि म्वस्वयोम्यतानुरूपान् पराक्रमभासुरान् पुत्रानलभन्त. अम्मचरित्रनायकः पृथ्वीराजः भूतब्रह्मनेत्रब्रह्म-(१२१५) परिमिते विक्रमसंवत्सरेऽभूत्. [३] अथ राजाऽनंगपालः स्वयमपुत्रोऽपि स्वकन्ययोः पुत्रौ पृथ्वी- राजजयचन्दौ वीक्ष्य परममोदत. सत्वात्मानं प्रवयसं समीक्ष्यात्म- साधनं चिकीर्षुः स्वीयं राज्यं ज्येष्ठकन्यायाः पुत्राय पृथ्वीराजाय समर्पयितुं मनश्चक्रे. अलिखच्च स्वमनोरथं पत्रद्वारा पृथ्वीराजाय. तच्च पत्रमित्थम् स्वस्ति श्रीपृथिवीनृपाय सुधिये मातामहः सादरं । साश्लेषं परिगृह्य वक्ति अधुना मां विद्धि मोक्षार्थिनम् ॥ तत्तभ्यं सकलं समर्पितमिदं राज्यं सुकोशान्वितम् । प्रेम्णा पालय वर्धयस्व सुतरां न्यायेन वर्तस्व च ॥१॥ चाचकाः ! किमयं लेखो नास्ति स्वकर्तव्यताबोधकः ? अस्तु.

प्रथमोगुच्छः L पृथ्वीराजोऽपि मातामहम्येन्द्रप्रस्थाधीश्वरम्यानंगपालम्याज्ञां शिर- सांऽगीकुर्वाणः सर्वं हस्तिनापुरराज्यं स्वीचकार. राजाऽनंगपालोऽपि योग्यपुरुषे निहितराज्यभारतयः निश्चिन्तो बदरिकाश्रमं तपस्तप्तुं प्र- ययौ. स्वपितामहेन कृत्स्नं राज्यं पृथ्वीराजायैव समर्पितमवेक्ष्य नितान्तं क्रुद्धः कनोजाधिपतिरनंगपालस्य कनिष्ठकन्यापुत्रो जयचंदः पृथ्वीराजाय परमद्रुह्यत्. प्रकाशमब्रवीच-मातामहेनानंगपालेन कृत्स्नं राज्यं पृथ्वीराजायैव समर्पितमेतन्न सम्यक् कृतं. अहमपि ह्यनंगपालस्य दौहित्रः ! यथाऽनंगपालम्य पृथ्वीराजः प्रियम्तथाऽहमपि. शरीरसंबंध- तश्च समानावेवावाम्. तस्मादनंगपालस्य राज्येऽ| मदीयोऽशोऽस्त्येवेति. वाचकाः ! यद्यपि राज्ञाऽनंगपालेन यत्कृतं तत्साध्वेव शास्त्र- विहितं च. यतः सर्वाण्यपि शास्त्राणि पुत्रेषु ज्येष्ठपुत्रस्य राज्यभोगित्वं वदन्ति. तदभावे न्यायत एव ज्येष्ठकन्यायाश्च तनयस्तदंशभागिति वदन्ति. तथापि राजनीतौ न्याय्यान्याय्यविचारस्तावदेव जायते यावदु- भावपि पक्षौ समवलौ स्याताम्. यदा त्वेकः पक्षोऽधिकवलोऽन्यश्च हीनबलम्तदा सर्व न्याय्यान्याय्यविचारं विहाय सबलो हीनबलं नाशयत्येव. सज्जनाः? किमर्थमित्थं दूरान्वेषणा. ये खलु राजान इह जगति नानाविधान्नियमान्विधाय जनान् पालयन्ति तेऽपि परराज्या- पहारार्थं रात्रिंदिवं प्रयतन्ते. यदि कश्चन चौरो रात्रौ निभृतं कस्यापि गृहं प्रविश्य तद्र्व्यमपहरीत ज्ञायते च स तत्कर्मकारी राजपुरुषै- म्तदा स कारागारे स्थाप्यते. परन्त्विमे राजानः सुव्यवस्थितां सेना गृहीत्वा यदा सर्वजनानां समक्षं परराज्यान्याक्रम्य तत्स्थ जनानां पृथ्वीराजचव्हाणचरिते वित्तं स्वातंत्र्यमपहरन्ति तदा नैकोऽपि विद्वान् नैकमपि शास्त्रमेतां- चौरत्वेन व्यपदिशति. प्रत्युत प्रतापशालित्वेन तान् स्तुवन्ति. महा- भागाः! इदं सर्वं राजनीतिस्वरूपं क्षणभंगुरं वारांगनाप्रेमसमं वीक्ष्य निर्विण्णाः सज्जना विशेषतो राजनीतौ न्याय्यान्याय्यविचारचर्चार्या मुदासते. अस्तु. प्रकृतमनुसरामः. स च जयचन्दो बलाढ्यो रात्रि- दिवं पृथ्वीराजनाशाय प्रयतमानः स्वसेनादिकं वर्धयामास. अथ नागोरनगरम्य समीपे 'खटुपूर' नामकः कश्चन ग्रामो वर्तते. तत्रातिप्राचीनोऽपारधनपरिपूर्णो गुप्तः कोशो वर्तत इति किं- वदन्ती पृथ्वीराजः शुश्राव. श्रुत्वा च तं कोशमात्मसाच्चिकीर्षुः सु- कुशलमंत्रशास्त्रकोविदैस्तं कोशमन्वैषयत्. तेऽपि निपुणमन्विष्य प्रत्या- गत्य 'अस्ति तत्र महान् कोशः' इति कथयामासुः. ततः पृथ्वीराजो बुद्धिमता चतुरेण कयमाषनाना प्रधानामात्येन समं तत्स्थानं जगाम. अपश्यच्च तस्य कोशस्य प्रवेशद्वारे चतुरेण कोशस्य स्थापयित्रा स्थापितां मूर्ति. अपठच्च तस्याः शिरःप्रदेशे लिखितमिदं वाक्यं.- "शिरश्छित्वा धनं ग्राह्यं । अन्यथा दुर्लभं धनम्" चिन्तयामास च मनसि—यदि मदीयं शिरश्छित्वा धनं लभ्येत, तदा तस्य को- वोपयोगइति. एवंचिन्तापरे पृथ्वीराजे तचिन्ताकारणं ज्ञात्वा चतुरः क्यमाषोनामामात्यः सस्मितमब्रवीत्-‘स्वामिन् ! नायमस्य वाक्यस्यार्थः किंतु यावदस्या मूर्तेर्मस्तकं स्थिरमस्ति तावत्संपल्लाभोदुर्लभः परंतु यदा कश्चन साहसिकोऽस्या मूर्तेः शिरश्छिन्द्यात्तदा स तस्मिन्नेव क्षणे कृत्स्नमपि धनं लभेतेति. इदं च तस्य भाषणं निशम्य संतुष्टः पृथ्वी- ܘ 2 प्रथमोगुच्छः राजस्तस्मिन्नेव क्षणे स्वहस्तवर्तिना खड़ेन तस्या मूर्तेः शिरश्चिच्छेद. द्विधाभूते तस्या मूर्तेः शिरसि पश्चाद्वर्तमानं कपाटयुगलं स्वयमुद्घा- टितमभूत्. तेन च प्रविश्य पृथ्वीराजो सर्वतो सर्वत्र सुवर्णमुद्राराशीनेवापश्यत्. ततश्च तं कुशाग्रमतिं प्रधान- मभिनंद्य सैनिकैस्तं सर्व कोशं स्वराजधानीमानयत्. गणितासु तासु मुद्रासु सप्ततिलक्षसंख्या तासामजायत. यदा ददर्श तदा [४] तमेनं महाकोशं लब्ध्वा पृथ्वीराजः स्वसेनां तथा राज्यव्यवस्था सम्यगकरोत्. तामिमां वाती निशम्य कनाजाधिपतिस्तु परं चिन्तातुरो बभूव. तेन द्रव्येण पृथ्वीराजस्य प्रसृतां कीर्ति निशम्य खिन्नः स्वमि- त्रेण पट्टणाधिपेन समं निभृतं मंत्रयांचवे. तौ च तस्य पृथ्वीराजस्य नाशार्थ मंत्रयित्वा स्वस्य साहाय्यार्थ गिझनीदेशाधिपं महंमदीयधर्मा- नुयायिनं घोरीत्युपाढू शहाबुद्धीननामानं म्लेच्छं समाव्हयताम्. सोऽपि च केनापि निमित्तेनेमां सुसम्पन्नां भारतभुवं जेतुकामो महताऽनंदेन साहाय्यप्रदानं स्वीचकार. वाचकाः ! इदं खलु भारतवर्षस्य भारतवासिनां च परम् दौर्भाग्यम्. यत् परम्परं द्विषन्तस्ते कनोजाधिपतिसमाः क्षत्रियश्रेष्ठाः स्वकीयस्यैव देशबांधवस्य चक्रवर्तिनो नाशाय परकीयं विधर्माण- माजुहुवुः. कृत्स्नेऽपि भारतवर्षेतिहासे प्रायः सर्वत्रेदृश्येव रीतिदृश्यते. महंमदीयाश्च प्रथमतः कस्यापि नाशाय केनाप्येकेन पक्षणाहूतास्तं निर्मूलीकृत्य स्वम्य साहाय्यस्य याचितारं स्वसुहृदमपि निहत्यात्रैव ११ पृथ्वीराजचव्हाणचरिते ते राजानोऽभवन्. अधुनाऽपि अयं सर्वानर्थकारी परम्परद्वेषो न शाम्यति. अस्तु. प्रकृतमनुसरामः. 'अथ युद्धोद्यतौ तौ कनोजाधिपतिं पट्टणाधिपतिं च प्रेक्ष्य पृथ्वी- राजश्चितोडनराधीशं स्वभगिनीपतिं समरसिंहं स्वसाहाय्यार्थ प्रार्थयत. सोऽपि स्वश्यालं संकटपतितं वीक्ष्य सहसा महता सैन्येन समं द्रोण- गिरिं समाजगाम. ततोऽचिरादेव प्रवृत्ते भयंकरे समरे पृथ्वीराजः समरसिंहस्य साहाय्येन कनोजाधिपं पट्टणेश्वरं च पराजिम्ये. तयोश्च सैनिकाः कांदिशीका वनावनान्तरं भ्रमन्तो महता, दुःखेन स्वम्वनि- वासमयुः. स तु कपटी शहाबुद्दीनः पृथ्वीराजेन जीवग्राहं गृहीतो मासद्वयं कारागारे स्थापितो महता प्रयत्नेन ' न पुनरेवं करिष्यामि इतिशपथीकृत्य कथमप्यात्मानं मोचयामास. अदाच्चोपायनत्वेन पृथ्वी- राजाय ‘अष्टसहस्रसंख्याकानुत्तमानश्वान्.' पृथ्वीराजोऽपि बन्दिजनो- चारितजयजयशद्वः स्वराजधानी प्रविश्य सर्वाभिः प्रजाभिः सानन्द सत्कृतः स्वाश्रितेभ्यः परं धनमदात्. स्वसामन्तेभ्यश्च तांस्तान् प्रान्तान्. स्वसाहाय्यकारिणे भगिनीपतये समरसिंहायापि स महान्तं भूविभागं दातुमुद्यतोऽपि निस्पृहेन समरसिंहेन निषिद्धस्तूष्णीं तस्थौ. समरसिंहश्च सत्यमेव समरे सिंहोऽपि प्रकृत्याऽत्यन्तं विरक्त एवासीत्. स तु परमः शिवभक्तः सदैव रुद्राक्षमालास्तथा भम्म चाविभः. तेन जनास्तं योगीन्द्रमित्येवावदन्. आस्मिन् समये साहाय्यविधानात्त- मन् समरसिंहे राजा पृथ्वीपतिरपि परां प्रीतिं चकार. सोऽपि तम्मिन्. --

DOG
द्वितीयो गुच्छः।
१ महंमदीयानां प्रवेशः।
२ तैः समं क्षत्रियाणां युद्धं जयप्राप्तिश्च ।
३ पुनरपि तेषां युद्धार्थमागमनम् ।
४ संधिः. अजमीरत्यागः. इन्द्रप्रस्थवासः।
III
वा.
LEEV
[१]
वं गिझनीश्वरं शाहाबुद्दीनं तथा स्वप्रतिस्पर्धिनौ
कनोजपट्टणाधिपौ निर्जित्य प्रभूतं धनं भूविभाग
च लब्ध्वा प्रवृद्धयशा ग्रीप्मरविरिव प्रतापेनातप्यत्
राजा पृथ्वीपतिः. स नियमेन प्रतिमास कृप्णपक्षे
तारागडदुर्गे सर्वतो दीपमालाः प्रजज्वाल. तेन च
तत् तारागडदुर्गमक्षयेण श्रीपृथ्वीराजयशसा मण्डितमिव शत्रूणां
दुर्दर्शनमभूत.
अथैकदा प्रज्वालितानामसंख्यदीपावलीनां प्रकाशं वीक्ष्य
संतप्तो मक्कास्थो महंमदीयमुग्यो मीराखानः 'किंनिमित्तोऽयं प्रकाशः

द्वितीयोगुच्छः १३ इत्यन्वेषणार्थं वशिष्यं रोशनवल्लिमजमीरनगरं प्रेषयामास. सोऽपि क्रमेणाजमीरनगरं प्राप्य सर्वं वृत्तं ज्ञात्वा पृथिवीन्द्रस्य पृथ्वीराजस्य शवागम्यमैश्वर्यं प्रत्यक्षीकृत्य स्वदेशं गन्तुमियेष. स तु रोशनवल्लिरैन्द्रजालिकोऽजमीरनगरवासिभ्यः स्वागमनं निवेद- यितुकामोऽनहसागरतडागस्य तीरे गजचर्म परिधाय हस्तेन मणिमालां वहन्नतिष्ठत्. प्रभाते च जलानयनार्थमागता नगरवासिनो यवनाक्रान्तं स्वमार्गमवलोक्योद्विग्नाः सर्वं वृत्तं नगराधिकारिभ्यो न्यवेदयन्. अत्रान्तरे सुप्रसिद्धो भीमसेन इव वलिष्ठो भगवतीभक्तः चामुंडरायो नाम सामन्तः पृथ्वीराजस्य श्यालस्तडागमध्यवासिनी भगवती पूजयितुं दैनिकक्रमानुसारेण तत्राजगाम. स च तडागमार्ग- रोधिनं तं यवनं वीक्ष्य क्रुद्धः सकोपं-अरे यवनापसद! अत्र तडाग- प्रवेशद्वारमवरुध्य किमर्थं तिष्ठसि ? इत्यपृच्छत्. सोऽपि रोशन- वल्लिरैद्रजालिकः सहासं तं महाबलं चामुण्डरायं-रे नीच ! मूर्ति- पूजक ! त्वमधमोऽसि इति प्रत्यवोचत्. चामुण्डरायस्तु क्रोधरक्त- नयनस्तस्य यवनस्यापभाषितेन संतप्तस्तस्यैन्द्रजालिकस्य शिरच्छेत्तुं स्वखड्गं निप्कोषमकरोत्. स तु यवनस्तस्य चामुण्डरायस्य तेज- स्विनी भयंकरां मुद्रामवलोक्य भीतः सहसा तस्मात्स्थलादपससार. चामुण्डरायोऽपि विवेकवशीकृतमनाः किं क्षुद्रस्य कीटसमस्यैकस्य यवनस्य हननेन प्रयोजनमिति विचारयन् भगवती पूजयितुं ययौ. ततो द्वितीयदिने सधृष्टो रोशनवल्लिरैद्रजालिक आपणे पूर्ववद- तिष्ठत्. अपश्यच्च तेनैव मार्गेण गच्छन्तीमू; दधिभांडानि वहन्ती- १४ पृथ्वीराजचव्हाणचरिते श्चतुःशतसंख्याका गोपीः. अयाचत च तास्वन्यतमां गोपी दधि. तया प्रदत्तं दधि मधुरं वाऽऽम्लं वेति ज्ञातुं कनिष्ठिकया लिलेह. आम्लं तदनभिमतमिति वदस्तत्प्रत्याचख्यौ. गोपी च यवनस्पृष्टं तद्दधि अपवित्रं मन्यमानाऽगृहीत्वाऽग्रे जगाम. स तु यवनस्तेनापमानेन, संतप्तः स्वसामर्थेन तासां गोपीनां वस्त्राणि अंधःपातयामास. ताश्च लज्जाकुलाः स्वलज्जारक्षणार्थं युगपदध उपविविशुः. ततोऽखि- लान्यपि दधिभाण्डानि पतित्वा विदीर्णानि. दधि च मृत्तिकासाबभूव. तस्मिन्दिने राजप्रासादे दधिदुर्भिक्षमभूत. नागरिकैश्चैषा वार्ता न्यायालयं नीता राज्ञा श्रुता. प्रजापालनतत्परः पृथ्वीराजस्तस्मिन्नेव क्षणे स्वप्रजानां पीडकं प्रशास्तुं रामरायगुजरधीरपुंडीरनामानौ शूरै। द्वौ सामन्तौ प्रेषयामास. तौ च तत्रागत्य तं रोशनवलिं रज्जु- भिर्बध्वा पृथ्वीराजसमीपमानयताम्. राजा च ' ययांऽगुल्याऽनेन यवनेन दधि दूषितं सा च्छेत्तव्या ' इति स्वसेवकानादिशत्. स तु यवन इमां राजाज्ञां निशम्य कोपाकुल: 'राजन् ? त्वं ममांगुलिं यदि च्छिनत्सि तदा तवेदं तारागडदुर्गमप्यचिरादेव च्छिन्नं भविप्यति ' इत्युवाच.राज्ञा राजसेवकैश्च तीयमिदं भाषणमनादृत्य तम्यांगुलिः छिन्नैव. [२] अथ स रोशनवालियवनाश्छन्नांगुलिः क्रमेण स्वस्वमिनः सन्निधिं गत्वा सर्व वृत्तं न्यवेदयत्. प्रार्थयच्च-स्वामिन् ! यत्खलु तस्मै पृथ्वीराजाय — ममांगुलिं छिनत्सि परन्त्वचिरादेव तव तारागडदुर्ग द्वितीयोगुच्छः १५ छिन्नं भविप्यतीति अवदम् , तत्सत्यं करणीयमिति. स तु मीरा- नाम तत्स्वामी सर्वानपि स्वसाहाय्यकारिण आहूय सर्व वृत्तं कथ- यित्वा युद्धार्थमादिशत्. तेऽपि खजातीयस्यापमानं वीक्ष्य क्रुद्धाः खस्वामिनियोगं शिरसा धारयन्तो योद्धं समनह्यन्. सोऽपि मीराखान ऐन्द्रजालिकः खिंगनामांनमश्वं दिव्यामसिलतां च्छुरिकां च गृहीत्वा सर्वैः समं पृथ्वीराजं जेतुं निरगच्छत्. तस्मिन् समये तम्य मीराखानस्य विवाहार्थं मातुलः ख्वाजापीरोऽमूल्यानि वस्त्राणि गृहीत्वा तत्रैव समाजगाम. तं च समागतं प्रेक्ष्य मीराखानोऽ वदत्-मातुल ! वयं सर्वे धर्मयुद्धार्थ भारतवर्ष गच्छामः, तत्र यदि विजेप्यामहे तदा महताऽऽनन्देन विवाहं विधाय युष्मा- भिरानीतानि वस्तूनि ग्रहिष्यामः. अथ यदि विपरीतं वृत्तं चेदव- श्यमेवावशिष्टेन सैन्येन समं यूयं साहाय्यार्थमागच्छतेति. सोऽपि मातुलः सर्वमिदमंगीचकार. मी ततश्च कतिपयदिवसैस्ते सर्वेऽपि महंमदीया नौकासु स्थित्वेमां भारतभूमिमागच्छन्. अवतीर्य च समुद्रतीरे कल्पितनिवासः स मीराखानः समं स्वसहायैः— 'यदि वयं योद्ध्वेषेण गच्छामस्तदा ज्ञातवृत्तान्तः पृथ्वीराजः सावधानो युद्धार्थ साभिनिवेशं चेष्टेत. तद्वयं केनापि मिषेण निभृतं तद्राज्यं प्रविश्य तं विजेप्यामह इति मन्त्रयांचक्रे. अस्मिन्नर्थे तदनुयायिनः सर्वेऽप्यनुकूला अभवन् . अथ स मीराखानोऽश्वविक्रेता नाम भूत्वा सर्वान् स्वानु- यायिनः स्वसेवकान् प्रदर्शयन् क्रमेणाजमीरनगरमाययौ. राज्या- १६ पृथ्वीराजचव्हाणचरिते धिकारिणोऽपि तं सत्यमेवाश्चक्रेतारं मन्यमाना राजधानी गन्तुं न प्रत्यवध्नन् . अचिरादेव स मीराखानोऽजमरिनगरसमीपे स्वावासं कल्पयामास. पृथ्वीराजश्च — कोऽपि परदेशस्थो यवनोऽत्युत्तमानश्वान् गृहीत्वाऽत्र समायातस्तान्विक्रेतुमिच्छतीति ' किंवदन्ती निशम्य म्वामात्यं कयमाषमश्वानां निरीक्षणाय तथा क्रयणाय च प्रेषयामास. सोऽपि मीराखानस्य वासस्थानमागत्य सर्वानश्वान् रजतशृंगला- निबद्धान् जलपानार्थं पुरस्थापितरजतभाण्डानत्युत्तमान् वीक्ष्य सं- तुष्टस्तेषां मूल्यमपृच्छत् . स च मीराखानस्तस्यैकस्याश्वस्य मूल्यं लक्षमुद्रा अवदत् . एतादृशं तेषां महामूल्यत्वं निशम्य विस्मितः स कयमाषामात्यस्तान् केतुं न शशाक. ततः क्रमेण सर्वानप्यश्वान् पश्यन् खिंगमाम्नोऽश्वराजस्य शालामाजगाम . तं वीक्ष्य स प्रधानश्रेष्ठोऽत्यन्तं संतुष्टस्तस्याऽपि मूल्यं पप्रच्छ, मीरास्वानश्च कुटिलमतिः पृथ्वीराजस्य धनं हर्तुमनास्तस्य मूल्यं षटत्रिंशत्कोटि- मुद्रा अकथयत्. तन्निशम्याश्चर्यमग्नः सोऽमात्यः प्रत्यागत्य सर्व वृत्तं पृथ्वीराजाय न्यवेदयत् . पृथ्वीराजोऽपि तमश्वं समीक्ष्यात्य- न्तं सन्तुष्टः क्रयणार्थं निरचिनोत् . कृत्स्नं कोशागारस्थं द्रव्यं वितीर्य तस्मिन्नेव क्षणे सोऽश्वराजो महतोत्सवेन मन्दुरां नीत्वा निवद्धः महान्तं हेषारवं चक्रे पादैश्चाताडयद् भूमि. तदानीमेव तस्य हेषारवं श्रुत्वा श्रीपृथ्वीराजम्य वाजिशालास्थाः षट्त्रिंशत्सहस्र- संख्याका अश्वाः अश्वाः सहसा प्राणान{चन् . तारागडदुर्गमपि भूकम्पेन द्विधा बभूव. तान्येतानि दुश्चिन्हानि वीक्ष्य सर्वेऽपि स्वामिनिष्ठा नागरिकाः प्रजाजना अत्यन्तं बिभ्युः. स्वस्वामिरक्षणा- स द्वितीयोगुच्छः १७ येश्वरं प्रार्थयामासुश्च. एवं प्रचलिते कोलाहले स दुष्टो रोशनवाल्लि- श्छिन्नां स्वीयामंगुलिं प्रदर्शयन्–मदीयांगुलिच्छेदस्य फलं दर्शयितु- महमागत' इति वदन्नजमीरनगर इतस्ततः परिबभ्राम. अथ ते सर्वेऽपि यवनाः समं मीराखानेन वाजिविक्रेतृवेषां- स्त्यक्त्वा योदूं समनह्यन् . पृथ्वीराजोऽपि तान् युद्धोद्यतान्विज्ञाय स्वसेनां प्रेषयामास. सम्प्रवृत्ते युद्धे पृथ्वीराजस्य बहवः सैनिकाः समरांगणेऽशेरत. ततः स मीराखानः पृथ्वीराजमवदत्-राजन् ! किमर्थं सैनि- कानां वृथा क्षयः ! युप्माभिः कश्चनैको वरो निष्कासनीयः, तेन सममस्माकं वीरो युध्येत. अस्मिन् द्वन्द्वयुद्धे यत्पक्षीयो वीरो विजयेत स पक्षो यशस्वी संवृत्त इति वयं सर्वे वदामो यूयं चेति. पृथ्वीराजश्च तस्येदं भाषणमंगीकृत्य सर्वसामन्तानां महतीं सभा कारयित्वा समग्रमिदं वृत्तं निवेद्य सर्वानपि युद्धार्थ प्रोत्साहयामास. ते च सामन्ताः शूराअपि राज्ञा स्वयं प्रोत्साहिताअपि स्वपराभवेन राज्ञः पराभवं शंकमाना न शेकुस्तस्मिन् द्वन्द्वयुध्येऽभिनिवेष्टुंम्. शूरनरवीरश्चामुण्डरायः सर्वानपि सामन्तान् स्तब्धानवलोक्य खस्खाम्यपकीर्ति परिजिहीर्षुर्विधित्सिते साहसे स्वोपाम्यदेवताया भगवत्या अभिप्रायं जिघृक्षुस्तन्मन्दिरं गत्वाऽनन्यभावेन तामस्तोत्. परन्तु पूर्ववद्देवी प्रत्यक्षं नाभूत्. तेन च विस्मितश्चामुण्डरायो माहिषं वलिं कल्पयामास. ततोऽप्यसन्तुष्टां देवीं विलोक्य नितान्तं खिन्नः खयमात्मानं बलिं विधातुं खड़े यदा निप्कोषमकरोत् , १८ पृथ्वीराजचव्हाणचरिते तदा तु स्वशिरश्छेदनायोन्नमितं हस्तं स्वयं हस्तेन गृह्णन्ती देवी चामुण्डरायमवदत्-भक्तश्रेष्ठ ! प्रीताऽस्मि तवानेन भक्तिविशेषेण. परन्त्वम्मिन् भरतखण्डेऽतऊर्ध्वं यवनानां राज्यं भविष्यति. तेन युष्माकं यशःप्राप्तिन. यद्भावि तद्भाव्येव, न तत् कोऽप्यन्यथाकर्तुं समर्थः ! तथापि भाविनि युद्धे यदि त्वं योत्स्यसे तदा त्वामहं रक्षि- प्यामि इति. अन्तर्दधे च शीघ्रमेव. चामुण्डरायश्चेदं भगवत्या वचनं निशम्य सन्तुष्टो गृहमाजगाम. अथ द्वितीयदिने पृथ्वीराजः पुनरपि सर्वेषां सामन्तानां सभां कृत्वा द्वन्द्वयुद्धार्थं सर्वान्विज्ञापयामास. तदा चामुण्डरायः-मीराखानपक्ष्येण केनापि योध्रा योद्धं प्रतिजज्ञे. मीरा- खानोऽपि ‘उजवकफकीर' नामानं वीरं युद्धार्थमयोजयत् . ततः प्र- वृत्ते युद्ध चामुंडरायो भगवत्या रक्षितस्तं यवनवारं शिरसि चिच्छेद. तदानीं पृथ्वीराजस्तत्पक्ष्याश्च सर्वे सामन्ताः स्वविजयं मन्यमाना महताऽनन्देन शंखनादं चक्रुः. यवनास्तु पराजयेन क्रुद्धा नाना- विधान् दुराचारानकुर्वन् . स्वप्रतिज्ञां विस्मृत्य ते सर्वेऽप्ययुध्यन्त. अनहसागरतडागे गां हत्वा चिक्षिपुः. तेन क्रुद्धः स पृथ्वीराजः सर्वान् यवनान् हन्तुं स्वसैनिकानादिदेश. तेऽपि च प्रायः क्षत्रिया गोघातेन संतप्ताः सर्वानपि यवनान् स्वासिलताबलीनकार्षुः. स कपटी मीराखानोऽपि तस्मिन् समरदावानले शलभगतिमलभत. एवं पराजितास्ते यवना पृथ्वीराजयशोहरणाय समागतास्तदीयं यशोऽवर्धयन् .

द्वितीयोगुच्छः १९ [३] उपरिनिर्दिष्टो यवनमुख्यः स मीराखानो यदा भारतवर्ष- मागन्तुं प्रवृत्तस्तदा तस्य विवाहार्थं मातुल: ‘ख्याजापीरो' नाम यवनस्तत्रागच्छदिति पुरैव निवेदितं. सोऽपि मांत्रिकः स्वमंत्रसाम- येन मीराखानं मृतं ज्ञात्वाऽत्यन्तं संतप्तः स्वभागिनेयवधम्य प्रती- काराय क्रमेणाजमीरनगरमाययौ. सोऽपि अनहसागरम्य तीरे रोशन- वल्लिरिव तस्थौ. नागरिकाश्च रोशनवल्लियवनस्य वृत्तं जानन्तः परं भीतास्तस्मिन्नेव क्षणे पृथ्वीराजाय तद्वृत्तं न्यवेदयन् . सोऽपि रोशनवल्लिशासनं तन्मूलकं च भयंकरं समरं प्रत्यभिजानस्तं न पीडयितुं सर्वानादिदेश. तथाप्यपरं यवनं समागतं वीक्ष्य विस्मित- स्तस्मात्स्वस्य स्वराज्यस्य चानिष्टं शंकमानस्तस्य नाशार्थं क्षेत्रपालान् प्रार्थयत. तेऽपि प्रकटीभूय राज्ञा तस्य यवनसाधो शाय विज्ञप्ताः स्वानशक्तान् प्रदर्शयामामुः. ततश्च मंत्रिमंडलेन समं विचार्य पृथ्वीराजस्तस्य यवनसाधोमनोहरणाय सुन्दरी तरुणी प्रेषयामास. सापि तस्य यवनसाधोः समीपं गता तेनैव स्वमंत्रसामर्थेनापहृत- चित्ता तस्य दासी बभूव. पृथ्वीराजश्च सर्वमेतद्वीक्ष्यात्यन्तं विस्मितः किंकर्तव्यतामूढो बभूव. अथ स्वामिनं चिन्तातुरं वीक्ष्य खिन्नः स्वामिभक्तश्चन्दबन्दी स्वयं पृथ्वीराज ' स्वामिन् ? अहमेव गत्वा तस्य यवनसाधोः किमभिप्रेतमिति विज्ञाय प्रत्यागमिष्यामि ' इति कथयामास. पृथ्वी- राजस्तु दासीवृत्तेन तस्य यवनसाधोमंत्रसामध्ये जातविश्वासः स्वस्य २० पृथ्वीराजचव्हाणचरित द्वितीयं हृदयमिव, चंदबन्दिनं प्रेपयितुं साशंकोऽभूत्. ततश्च स्वामि- कार्यदक्षः स चन्दः पृथ्वीराजं भूयोभूयो निवेद्यापनीतशंकस्तदाज्ञया तं यवनसाधु ख्वाजापीरं द्रष्टुं ययौ. दृष्ट्वा च तं यवनं स्तुतिभिः अनुकूलं विधाय कविश्चन्दस्तं यवनमत्रागमनस्य करणं पप्रच्छ. एवं पृष्टः स ख्वाजापीरोऽवदत्-अहमस्मि तम्य मीराखानस्य मातुलः. यदा च मम भागिनेयः पृथ्वीराजं जेतुमत्रागतस्तदानीमेव ' यद्यहं पराजितः स्यां तदा भवता पृथ्वीराजो विजेय ' इति विज्ञप्तस्तथाकर्तुमागतः. वयं च सर्वे परमैन्द्रजालिकविद्यां जानीमः. अस्मिन् भूविभागे यस्मान्मम भागिनेयस्य तथा तदनुयायिनां शो- णितमपतत्तस्मादत्र पृथ्वीराजेनावस्थातुं नोचितम् . तेन चान्यत्र यत्रकुत्राऽपि स्वराजधानी कल्पनीया. किंवा तस्य मातामहेन प्रदत्तं दिल्लीनगरमेव राजधानीत्वेन कल्पनीयं. यदि पृथ्वीराजः स्वसेनाबल- म्याभिमानाद्वा स्वसामर्थ्यगर्वेण वा नेदमनुष्ठास्यति तदाऽवश्यं स मत्तो- ऽनिष्ट लप्स्येतत्यत्र नास्ति संशयः. वयं तु महंमदीयमतानुयायिनः प्रथमं किंचिदपि कार्यं त्वरया नारभामहे, परन्तु समारब्धस्य परि- समाप्तिमाविधाय न विरमामः. तत्त्वमितो गत्वा स्वम्वामिने सर्व मदीयं भाषणं कथयित्वा तं सन्मार्गवर्तिनं कुरु. यदि त्वमपि मदीयं भाषणं मिथ्या मन्यसे तदेतः पंचमे दिने राजा स्वप्नं द्रक्ष्यति. यदि मदीयामाज्ञां पृथ्वीराजः स्वीकरिष्यति, तदाऽहं तस्मै सुवर्णमुद्राणां चतस्रः कोर्टीदास्यामि इति. चन्दोऽपि तस्य यवनसाधोर्मधुरं दैविक- शक्तिप्रदर्शकमिदं भाषणं निशम्य सन्तुष्टः पृथ्वीराजाय सर्वं वृत्तं न्यवेदयत्.

द्वत,योगुच्छः २१ (४) पृथ्वीराजस्तु चन्दस्य भाषणं निशम्य दुःखितः सर्वसामन्तानाहूय किंकर्तव्यमिति विचारार्थं महतीं रजसभां चकार, यथासनमुपविष्टेषु सर्वेषु पराक्रमशालिषु क्षत्रियवीरेषु स प्रसादी चन्दबंदी सर्वं तस्य यव- नस्य भाषणं राजानुमत्या सर्वान् सभ्यानश्रावयत्. तच्चोग्रं भाषणं निशम्य संतप्ता अपि ते क्षत्रियश्रेष्ठास्तस्य यवनस्यद्रजालिकविद्यापाटवं स्मरन्तो भीतास्तूष्णीमतिष्ठन्. चन्दबन्दी तु पृथ्वीराजं तथा सर्वान् सभ्यानुद्दिश्येत्थमभाषत-क्षत्रियकुलावतंस ! सकलभूपालशिरोमणे ! पृथ्वीपते! स्वामिन्! सभ्या मद्देशवान्धवाः! अहं च स्वामिपादैरतत्का थिमेव तस्य यवनस्यान्तिकं प्रेषितः. अहं चेतोगत्वा क्रमेण तस्य मैत्री संपाद्य सर्व मनोगतमज्ञासिषम्. स च यवनसाधुः स्वसंबंधिनां घातेन क्रुध्दस्तच्छोणितांकितमिदं स्थानं जिघृक्षति. तास्मन् यव- नेऽस्ति काचन दैवी शक्तिरित्यत्र न संशयः. तदधुनऽऽग्रहं विहाय विचारः करणीयः. स तु यवनः केवलमिदं नगरमेव याचते. तदहं मन्ये वयं सर्वेऽपीतो गत्वा दिल्लीनगरमेव राजधानी कुर्मः. एतदर्थ स यवनोऽस्मभ्यं चतुष्कोटिपारमितं सुवर्णनिधिं ददातीति. इदं च चन्दकवाषणं श्रुत्वा पृथ्वीराजः सर्व तदीयं मित्रमण्डलं च तस्य यवनसाघोर्याचनां पूरयितुं निरणयन्. द्वितीयदिने पृथ्वीराजः समं मंत्रिमंडलेन तस्य यवनसाधार्दर्शनार्थमगच्छत्, विनयेन च तं प्रणनाम. स तु यवनसाधुर्विनयिनं पृथ्वीराजमवलोक्य संतुष्टः दिल्लीपते ! आगच्छ !' इत्युच्चैः स्वागतं व्यधात्. राजाऽपि तस्य यवनसाघोर्दैविकशक्तिमत्वे जातनिश्चयः परमादरेणावर्तत.

२२ पृथ्वीराजचव्हाणचरिते अथ पृथ्वीराजस् य यवनसाधोनिदेशमनुसृत्याजमीरनगरं त्यक्त्वा दिल्लीनगरं प्रति प्रस्थातुं मनश्चक्रे. यद्यपि पृथ्वीराजः स्वपितृपि- तामहादिभिः पूर्वजैरुपभुक्तं सर्म पविराजमानपुष्करक्षेत्रमजरिनगर विहातुमत्यन्तमदुःखायत, तथापि चन्द्रकविप्रभृतिभिर्दिल्लीनगरम्य निवेदितां राजधानीत्वयोग्यतां निशम्य कथमपि अजमीरनगरवियोग- दुःखमसहत. ततः सुमुहूर्ते सर्वान् स्वकोशांस्तथा सेनाविभागान् गृहीत्वा सर्वमजमीरनगरं तारागडदुर्ग यवनाधीनं विधाय दिलं नगर- वासार्थमुत्सुकैः प्रजाजनेः सममिंद्रप्रस्थ गन्तुं प्रतस्थे. अलभत चाचिरात्तेन यवनसाधुना कथितं चतुष्कोटिमुद्राशालिनं सुवर्णनिधि तेन च तम्मिन् यवनसाधौ जातविश्वासः पृथ्वीराजोऽजमीरवियोग- दुःख व्यस्मरत् . क्रमेण गच्छन् मार्गे समरपतितानां स्वसैनिकानां मोक्षार्थं गयाक्षेत्रे सर्वेषां श्राद्धानि चकार. ततः कतिपयदिवसः स भाग्यशाली पृथ्वीराजः समं स्वमंत्रि- मंडलेन कौरवपाण्डवाधिष्ठितं निर्मलनीलजलशालिन्या यमुनया समाश्लिष्टं, प्राचीनचन्द्रवंशसंभूतैराजर्षिभिः स्थापिताश्वमेधकनक- दण्डमण्डितं, आश्चर्यकारिशिल्पविद्याप्रवीणैः शिल्पिभिः विरचितासं- ख्यमहासौधावलीमण्डितं, स्वसंपत्त्या तुच्छीकृतकुबेरैरिभ्यैर्नागरिकैः सुशोभितं, समीपतरविराजमानकुरुक्षेत्रं दिल्लीनगरं प्राप. सुमुहू- ते च नगरं प्रविश्य मातृशीयेनूपैः पवित्रीकृतं सिंहासनमधिरुरोह. च द्वितीयोगुच्छः २३ सर्वे च नगरवासिनः स्वराजसिंहासनं रिक्तं वीक्ष्य दुःखायमानाः संप्रति स्वस्वामिदौहित्रेण प्रतापशालिना पृथ्वीराजेन समलंकृतं तत्सिंहासनं विलोक्य सर्व प्राचीनं दुःखं व्यस्मार्पः. वाचकाः ! इत्थं पृथ्वीराजोऽजमीराधिपत्यं विसृज्य दिल्लीपतित्वं स्वीचकार. यवनाश्चाजमीरप्रान्ते बद्धमूला अभवन् .

DAccep
0ADAR
ప్రభdararararararararararararar
तृतीयोगुच्छः।
V000
VoOVOVDOV
otosvcoy
१ पट्टणाधीशस्य अबूनराधीशेन समं युद्धप्रसंगः.
२ अबूनराधीशेन पृथ्वीराजस्य साहाय्ययाचनं.
३ युद्धं. पृथ्वीराजस्य विजयः.
४ इच्छिनीकुमार्याः पृथ्वीराजेन समं विवाहः.
(१)
ELAMMAAZ
MO
पुरा खल गुर्जरदेशे चालुक्यवंशीयो महाप्रतापी
भोलाभीमदेवो नाम राजा राज्यमकरोत् . तस्य च
राजधानी पट्टणं नाम अतिसुन्दरं नगरमासीत् .
यद्यपि स प्रकृत्यैव शृंगारप्रियो विलासी तथापि
दुर्गमण्डलस्याजय्यसैन्यस्य च साहाय्येन दुर्जयो-
ऽभवत् . तस्य बहवः सामन्ता आसन् . स बहून्विदुषोऽपालयत् .
प्रसिद्धोऽमरकोशस्य कर्ताऽमरसिंहो नाम जैनपण्डितस्तस्यैवाश्रित
आसीत् . स चेकदा स्वान्तःपुरसहायैः समं विविधान्विलासान्
कुर्वन्निदं वृत्तमशृणोत् .

तृतीयोगुच्छः २५ अबूप्रदेशे जैतप्रमारनामा राजा यथानियमं स्वप्रजाः पालयन् राज्यं करोति. तस्य सलखनामा पितृभक्तः पुत्रः, इच्छिनीकुमारी नाम कन्येत्यपत्यद्वयमास्त. तत्रच्छिनीकुमारी साम्प्रतं षोडशवर्षदेशीया परमलावण्यखनिः पृथिवीवातनो तिलोत्तमेव भाति. तस्याश्च मयूरपिच्छभारगर्वहारी केशकलापः, सुवर्णपट्टविशदं ललाट- पटलं, मदनशरासनापमानकारिण्यौ ध्रुवौ, जितशुकचंचुर्नासिका, अधरांकृतविम्बफलोऽधरोष्ठः, कम्युरिव मनोहारिणी ग्रीवा, विसतन्तू इव कोमले वाहुलतिक, नूतनविकासिकमलकुड्मलद्वयमिव मूर्ति- मल्लावण्यनिधिद्वयामिव, द्विधाभूतं मूत भोक्तुर्भाग्यमिव नूतनं कुच- युगलं, परमसूक्ष्मं त्रिवलीसमलंकृतमुदरं, रंभासौंन्दर्यप्रवर्धके सक्थिनी मंजुलमंजीरसमलंकृतौ गुल्फौ, नवकिसलयमृदुनी प्रपदे, कोकिल- विभ्रमकारी मधुरो स्वः; किंबहुना सर्वमेव गात्रं विधात्रा स्वकौशल- प्रदर्शनायैव निर्मितम् . साम्प्रतं तु सा संचारिणी रतिरिव लीलयैव तरुणानां राजपुत्राणां मनांस्याकर्षति. न जाने तस्या अलौकिक- सौन्दर्यस्य भोक्तारमिह भारतवर्षे कमजनयद्धगवान्विधातेति. श्रुत्वा चेदं वृत्तं स भीमदेवः कामाकुलम्तां याचितुं स्वाश्रितम- मरसिंहपण्डितं जैतप्रमारराजस्य समीपे प्रेषयामास. न्यवेदयच्च तन्म- खेन राजन् ! तव कन्या विवाहा॑ लावण्यशालिनीत्यस्माभिः श्रुतम्. वयमपि बलाढ्या अनेकसामन्तपरिवृतास्तया सह विवाहं कर्तुमि- च्छामः. तदस्मान् संबंधयोग्यान् ज्ञात्वा यदि स्वकन्यामस्मभ्यं समर्प- यिप्यसि तदा तव कुशलं भविप्यति, अन्यथा तु अस्माभिराक्रान्तो २६ पृथ्वीराजचव्हाणचरिते राज्यं जीवनं च हास्यसि. तत्त्वया युक्तायुक्ते विचार्य यदीष्टं तत्करणीयमिति. सत्वमरसिंहः स्वस्वामिसंदेशं गृहीत्वा तस्य जैत- प्रमारस्य राजधानीमबूनगरं प्राप्य राज्ञे खागमनं निवेदयामास. सोऽपि विद्वदादरपरः प्रमारराजस्तं सत्कार्यागमनकारणमपृच्छत् . अमरसिंहोऽपि स्वस्वामिनिदेशं कथयामास. स तु प्रमारराजस्तस्य भीमदेवस्य संदेश निशम्य कोपाकुलः पुत्रीयाचनेन स्वापमानं मन्य- मानः सहसैव तां याचनां निषिध्य अब्रवीत्-पंडितराज ! अमरसिंह! त्वमितोगत्वा स्वस्वामिनं वद-भीमदेव ! त्वं हि वार्धक्यनष्टप्रज्ञोऽसि. यतः कः खलु षोडशवर्षदेशीयां तरुणीमात्मनः कन्यां त्वादृशाय जरठाय पलितशुक्लशिरसे वृद्धाय व्याघ्राय वत्सतरीमिवोपहारीकुर्या- दिति नातयः. अस्मिज्जगतीतले राज्यं पुत्रकलत्रादिकं सर्वमेव नश्वरं. केवलं चन्द्रधवलं यशो गाढान्धतमसमलिनमयशो वा द्वयमेव शाश्वतं. तन्नश्वरस्य राज्यस्य वा देहस्य वा लोभेन । स्वराज्यलोभेन स्वात्मजां जरठाय प्रादात्'इति मलिनं चिरस्थाय्ययशः संपादयितुं नेच्छामि. त्वं च मत्तो बलिष्ठोऽसीत्यहमपि जानामि, तथापि केवलं सैन्यबलभीतस्तुभ्यं न स्वकन्यां वलिं करोमि. यस्खलुः भाग्यायत्तं तद्ब्रह्माऽपि अन्यथाकर्तुं न प्रभवतीति सत्यं विद्धि. प्रमारराजः न इति. स चामरसिंहस्ततोनिर्गतः सर्वं वृत्तं तथैव स्वस्वामिने निवेद- यामास. श्रुत्वा च तत्प्रत्युत्तरं मानी भीमदेवः कोपाकुलः स्वसेना- पति सेनासन्नाहार्थमादिशत् तृतीयोगुच्छः २७ (२) स च परमारजैतश्चारमुखेन भीमदेवस्य कोपं तथा सेनासन्नाहं च ज्ञात्वा स्वसेनामपि समनह्यत्. स स्वमंत्रिमण्डलमाहूयैतत्संकट- निवारणार्थ मंत्रयामास. मंत्रिमण्डलमपि भीमदेवस्य याचनामन्याय्यां मन्यमानं तेन योध्दु सन्नध्दमभवत्. राजा प्रमारजेतः स्वम्य बलं भीमदेवबलादतिन्यूनं मन्वानः कस्यचिदलिष्ठस्य साहाय्यं याचितु- मिच्छन् सकलभूपालरत्नं न्याय्यान्याय्यविचारदक्षं पृथ्वीराजमेव समर्थ भावयंस्तमेव साहाय्यार्थमयाचत. औषयच्च दूतं स्वहस्तलेखेन समं. स च लेख इत्थम् - राजाधिराज! सकलभूपालचूडामणे ! सकलसामन्तनक्षत्रमंडल- सुधांशो ! दिल्लीपते ! चक्रवर्तिन् ! पृथ्वीराज ! अबूपतिजैतप्रमार- स्तुभ्यं नमस्कृत्य प्रार्थयते. एष गुर्जराधिपो भीमदेवो बलोन्मत्तो वृद्धो- ऽपि तरुणवत्कामाकुलो मदीयां दुहितरं याचते. अन्यथा राज्यहरण- मपि करिप्यामीति वदति. अहं तु तादृशाय वृद्धाय कन्यायाः प्रदा- नमनुचितं मन्यमानः स्वशीलरक्षणाय प्राणानपि त्यक्ष्यामि. तद्यदि मदीयं कृत्यं न्याय्यं भवान् मन्यते तदा भविष्यति युद्धे साहाय्यं करोतु इति. स तु दूतस्त्वरया दिल्लीनगरं गत्वा स्वागमनं निवेद्य द्वारपालैः प्रवेशितः पृथ्वीराजाय तं लेखमदात् . पृथ्वीराजोऽपि स्वमित्रमण्डलं मंत्रिमण्डलं चाहूय सर्वं वृत्तं निवेद्य किमत्र विधेयमित्यपृच्छत् . ते अपि सम्यग्विचार्य प्रमारजैतराजस्य साहाय्यविधानेऽनुमति प्रादर्शय- ते २८ पृथ्वीराजचव्हाणचरित ताम् . पृथ्वीराजोऽपि जैतप्रमारस्य साहाय्यविधाने लाभान्तरमपि ददर्श. तच्चेद-पुरा खलु पृथ्वीराजस्य पिता सोमेश्वरो गुर्जराधिपेन भीमदेवेन सममयुध्यत. तत्र भीमदेवः स्वयमेव सोमेश्वरं जघान. तेन तं भीमदेवं पितृघातकं पृथ्वीराजः परं वैरायतेस्म. अस्मिन् समये मित्रसाहाय्यविधानेन कीर्तिलाभोऽपि भविता वैरनिर्यातनमपि. तदिदं सर्वं विचिन्त्य पृथ्वीराजो भीमदेवशासनार्थ गुर्जरदेश गन्तुं मनश्चक्रे. अचिरादेव जंगमसागरोपमं चतुरंगमण्डितं सैन्य दिल्लीनगराद् गुर्जरदेशमभिलक्ष्य प्रतस्थे. पृथ्वीराजश्च महान्तं गज- राजमारुह्य बन्दिजनोच रितजयजयकारः, अविरतोद्धयमानचामरयुगल- तया सततं निपतन्मन्दाकिनीप्रवाहद्वयविराजमानस्य हिमालयस्य सादृश्यं विभ्रत् , शारदज्योत्स्नाधवलं, प्रजाजननेत्रानन्दकरं श्वेतच्छत्रं पुरतो वहन् महतोत्साहेन जैतप्रसारराजस्य साहाय्यार्थं निर्जगाम. तदानीं तम्य सेनायां कयमाषामात्यः चन्दकविः चन्दपुण्डिरचामुण्ड- रायनीरधररायराठोडकुंभदेवजामय दवबलिभद्रप्रभृतयः शूराः सामन्ता हाहुलीरायलंगडीरायप्रभृतीनि मित्राणि पृथ्वीराजस्य पितृव्यः कन्ह- चव्हाणोऽपि अन्ये च बहवः शूरा व्यराजन् . गुर्जराधिपति मदेवोऽपि प्रमारजैतं युद्धसंन्नाहोद्यतं वीक्ष्य- तत्साहाय्यार्थमागच्छन्तं दिल्लीपतिं निशम्य स्वसेनां सयत्नं समनह्यत्. अथ पृथ्वीराजो युद्धन,तिमनुसृत्य सामोपायेन तं भीमदेवं युद्धात् प्रतिनिवर्तितुं स्वस्य परमं मित्रं लोकोत्तरप्रज्ञाशालिनं चन्द- २९ तृतीय गुच्छः कविं दूतत्वेन प्रेषयामास. सोऽपि च गत्वा राजसभां सिंहासना- धिष्ठितं भीमदेवं-गुर्जराधिपते ! भीमदेव ! दिल्लीपतिः पृथ्वीराजम्त्वा- मुपदिशति युद्धान्निवर्तस्व इति. यतस्त्वयैव प्रथमतोऽधर्म कृत्वा तम्य प्रमारजैतस्य कन्या विवाहार्थ याचिता. ततश्च तुभ्यं वृद्धाय स्वात्म- जां दातुमनिच्छता तेन समं युद्धार्थ प्रवृत्तोऽसि. स च प्रमारतो यस्मै कस्माअपि स्वकन्यां ददातु. तत्र हठस्य कोऽवकाशः. तद्यदि वृथाऽऽग्रहं परित्यज्य युद्धान्न निवर्तथास्तदा महदनिष्टं भविष्यतीति. जगाद. स तु गुर्जराधिपस्तचन्दकवेमुखान्निगतं पृथ्वीराजसंदशं नि- शम्य क्रुद्धः सकोपं-रे बन्दिपुत्र ! चन्द ! किमिति प्रलपसि. त्वमिता गत्वा राजानं वद-न्याय्यान्याय्यविचारं वयं क्षत्रियाः शत्रणव कुर्मा न ब्राह्मणवत् पुस्तकमालोच्य. अहं तु पश्यामि मम कन्यायाचना न्याय्यैवेति. यतः सर्वरत्नानां भाजन राजेति सर्वशास्त्रकरा वदन्ति. " जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते" इतिन्यायेन जैतप्रमारम्य कन्याऽपि नारीरत्नं. तेन मया सा राज्ञा भोक्तुं याचितेति. तत्त्वं स्वत्वा- मिनं सम्यक्प्रबोध्य कथय-भीमदेवः कथयति-पृथ्वीराज ! अद्यापि युद्धारंभान्निवर्तस्व. अन्यथा स्वपितृदशामचिरादेव लप्स्यस इति चन्दकविश्च स्वस्वामिनिन्दामाकर्ण्य क्रुद्धाऽपि दूतत्वभंगभिया न किं- चिदप्युवाच. आगच्छच्च पृथ्वीराजम्य विस्तीर्ण स्कन्धावारम् . (३) न पृथ्वीराजश्च स्वदूतस्य चन्दकवेर्मुखात् सर्वं भीमदेवसंदेशं निशम्य रुष्टस्तस्मिन्नेव क्षणे युद्धप्रारंभार्थं स्वसेनापतिमादिदेश.

३० पृथ्वीराजचव्हाणचारते अचिरादेव भीमदेवोऽपि स्वीयमाश्विकदलं पदातिदलं च गृहीत्वा पृथ्वीराजसेनाभिमुखो बभूव. एवं कुरुक्षेत्रे प्रबलयोः कौरवपांडवयोः सेनेइव तयोरपि सेने साभ्रमत्या नद्या उभयकूलयोरतिष्ठताम्. पृथ्वी- राजसेनां च सम्यक् व्यवस्थाप्य भीष्मसमो युद्धकुशलो वृद्धः पृथ्वी- राजम्य पितृव्यः कन्हचव्हाणः शत्रुभिदुर्भेद्यान् सेनाव्यूहान् कल्पया- मास. पृथ्वीराजश्च स्वसेनाया आधिपत्ये महाप्रतापिनं द्वितीयमर्जु- नमिव शरसंधाने स्वामिभक्तं कर्तव्यपरायणं नीरधररायराठोडमभिषिच्य म्वहस्ते तदीयं हस्तं गृहीत्वा प्रेम्णाऽवदत्. सेनापते ! एतेषां सर्वेषां सैनिकानां प्राणा मम च प्राणा यशश्च सर्वमेव त्वदायत्तं. एष ह्यवसरो युद्धशास्त्रचातुर्यप्रदर्शनम्य. तत्त्वं शस्त्रविद्यापाटवप्रदर्शनेन रिपून्विजित्य म्बम्बामियशो धवलीकुरु ' इति. स तु स्वामिभक्तः सेनापतिः साक्षात् पृथ्वी राजस्येदं समुत्तेजकं भाषणं निशम्य सन्तुष्टः सावशं तं प्रत्युत्तरयामास-स्वामिन् ! नास्त्यत्र किमपि चिन्ताकारणं ! म्वामिना मम सैनिका युद्धमानाः कीदृशानि शौर्यकृत्यानि कुर्वन्ति तत्केवलमवलोकनीयम्. सामन्तवर्ग- श्वाचिरादेवास्मच्छर्छ कांदिशीकं करिष्यति. अनुभूतानेकयुद्धाः खा- मिनां पितृव्यचरणाः सर्वथाऽस्मान् साहाय्ययिष्यन्ति. तेन निःसंशय- मस्माकमेव विजयो भवेदिति. राजा च तम्य सेनापतरिदं भाषणमाकर्ण्य सन्तुष्टस्तम्मा एक मुक्तामालां ददौ. ततश्च स्वयं महान्तं सुलक्षणं सुशिक्षितमश्वमारु पितृव्यसेनापतिभ्यां समं सर्वं सैन्यं निरीक्षमाण इतस्ततः परिवभ्राम तृतीयोगुच्छः ३१ अचिरादेव चोभयसैनिकाः परस्परानाक्रम्य सावेशमयुध्यन्त. खडिनश्च खखडप्रहारैः शत्रुपक्ष्याणां खड़िनां गात्राणि शकलयामासुः. धानुष्का- श्च खबाणैर्दूरवर्तिनामपि धन्विनां प्राणानहरन्. मत्ता इभाश्चतस्ततः संचरन्तः खपादाघातैः सहस्रशो मानवानचूर्णयन्. सादिनश्च स्व- भल्लोपैः परेषामुदराणि विदारयामासुः अथोभयसैनिकेषु परं युद्धकौशलं प्रकटयत्सु दोलायमानां विजयलक्ष्मी वीक्ष्य पृथ्वीराजश्चिन्तातुरो बभूव पितृव्यः कन्हचव्हाणः खभ्रातुप्पुत्रस्य मुखकमलं म्लानं वीक्ष्य चिन्तापरिहारार्थं सोत्साहम- वदत्-तात! पृथ्वीराज ! किमित्यस्मासु जीवत्सु त्वं युद्धविजयस्य चिन्तां वहसि. वयं चानेकयुद्धेषुः संपादितविजया अस्मिन्युद्धविजये न संशयमपि कुर्म इति. पृथ्वीराजश्च स्वपितृव्यस्योत्साहप्रदं भाषणं श्रुत्वा सस्मितवदन- कमलः 'पितृव्यचरणाः ! सत्यमेवेदं. नात्राणीयानपि संशयः. अहमपि युप्मासु युप्मयुद्धकौशले च सर्वथा विश्वसिमि. तथापि समय एव सर्वेभ्योऽपि बलीयान्. कथमन्यथा प्रबलोऽपि सुग्रीवः केवलं स्व- जायामपि रक्षितुं न प्राभवत् ? साक्षादीश्वरस्यावतारो रावणारिरपि रामचन्द्रो दण्डकारण्ये स्वपत्नी सीतादेवीमपि त्रातुमसमर्थो बभूव ! पंचसु पांडवेषु जीवत्सु भीष्मद्रोणादिषु योधृषु द्रोपदी स्वलज्जारक्षणाय भगवन्तं यशोदानन्दनमेव प्रार्थयामास ? तत् वयं तु केवलं म्वकर्तव्य- विधाने दक्षा भविष्यामः. अतःपरं सर्वं दैवायत्तमित्यब्रवीत्.

३२ पृथ्वीराजचव्हाणचरिते सोऽपि वृद्धस्तपितृव्यः पृथ्वीराजस्य सर्वमिदं वचनं सत्यमि- त्यंगीचकार. अथ पृथ्वीराजसैनिका अतिशौर्येण युध्यमानाः प्रवलानपि स्वशत्रूनत्यक्रामन् . गुर्जराधिपसैनिकाः पृथ्वी राजसैनिकमहारानस- हमानाः पलायितुमारभन्त. वीरो भीमदेवस्तु पलायमानान् कांदिशी- कान् स्वसैनिकानवेक्ष्य खिन्नः क्रोधसंतप्तः स्वयमेवाग्रेसरो भूत्वा प्रवलं युद्धं प्रावर्तयत् . शीघ्रमेव च सोऽपि खड्गप्रहारप्रसरदूधिर- स्रावदिग्धः प्रफुल्लपलाशवृक्ष इव समरभूमावशेत. गुर्जराधिपं समर- निपतितं वीक्ष्य पृथ्वीराजः स्वसैनिकान् युद्धान्निवर्तयितुं नियतं शंखनादमकरोत् . निशम्य च तं शंखनिनादं सर्वेऽपि पृथ्वीर जसै- निकाः खविजयं मन्यमाना आनन्देन सिंहनादान्विसस ः. मोदेन च यद्यपि पृथ्वीराजपक्ष्या अपि अगणिता वीराः समरदावानलेऽपतन्, परन्तु गुर्जर धिपस्य भीमदेवम्य पतनेन निप्प्रति- बंधा विजयश्रीः पृथ्वीराजमाश्लिषत् . पृथ्वीराजोऽपि दयासागरो युद्ध परिसमाप्य सर्वानपि सैनिकान्विद्वान् पारितोषिकवितरणैरनुजग्राह. यथेच्छमनृत्यन् . ( ४ ) अथ प्रमारजेतो विजयश्रिया समलंकृतं स्वसाहाय्यकारिणं पृथ्वीराजं परमादरेण स्वयमागत्य स्वराजधानी निनाय. पृथ्वीराजो- ऽपि अतिसुन्दरं, गगनविहारिणीभिश्चित्रविचित्राभिः पताकाभिः समलंकृत, प्रतिगृहविराजमानतोरणाबलीमनोहरं, प्रतिस्खलस्थापितपूर्ण- तृतीयोगुच्छः ३३ घटसुशोभितं. अविरतध्वनत्पटहढक्कादिवाद्यजातसुरम्यं. संस्कृतवी- थ्याकं, राजधानीमबूनगरं प्रविश्य स्थानेस्थाने नागरिकमुग्व्यः कृतं सत्कारविशेषं गृह्णन्नतिमनोरमं, विविधकुसुमितलताकुंजमयं. सहका- रादिवृक्षजातनिवारितातपं, राजाराममागत्य कल्पिते राजप्रसादकल्प निवासेऽवसत् . वृद्धः प्रमारजेतः स्वसाहाय्यं विधाय स्वराज्यरक्षणेन च कृतज्ञस्तथा पृथ्वीराजमसेवत यथा पृथ्वीराजस्तत्सामन्ता मित्रमं- डलं च परं मुमुदे. ततः कतिपयदिवसः प्रमारजेतः म्वमंत्रिमण्डलमाहूय विचारय- ति स्म. इदानीं चाहं वृद्धः. मदीयः पुत्रः सलखम्तु वालएव. कन्या तु इच्छिनीकुमारी लावण्यवती विवाहार्दा संवृत्ता. तत्पुनरपीदृशी विपत्तिर्मागच्छत्विति तम्या विवाहः शीघ्रमेव करणीयः. अहं च या- वत्पश्यामि तावत्पृथ्वीराजादन्यं सुयोग्यं वरं नावधारयामि. पृथ्वीरा- जेन चास्मिन्युद्धे साहाय्यविधानेन वयं सर्वेऽप्युपकृताः. मदीया कन्याऽपि दिल्लीपते राज्ञी भवितुं सर्वैर्गुणैरहँव. तदस्मै दुर्लभाय गुण- वते पृथ्वीराजाय कन्यां दत्वा युवराजं च राजासनेऽभिषिच्य चरम- वयोयोग्यमात्मसाधनं कर्तुमिच्छामीति. अयमर्थश्च सर्वेषां मंत्रिणां सम्मतो बभूव. ततः शुभलग्ने प्रमारजैतः पृथ्वीराजाय साहाय्यविधानपारि- तोषिकमिव, मूर्तं युद्धयशइव, खड्गार्जितां विजयश्रियमिव तां ला- वण्यखनिमिच्छिनीकुमारी समl कृतकृत्यो बभूव. पृथ्वीराजोऽपि ३४ ४ पृथ्वीराजचव्हाणचरिते तां सकलस्त्रीललामभूतां सौन्दर्यखनि लब्ध्वाऽऽत्मानं कृतकृत्यं मन्य- मानः कतिपयदिवसांस्तत्रोषित्वा स्वराजधानी प्रययौ. दिल्लीनगरवासिनस्तु स्वस्वामिनं समरविजयिनं स्वामिनीयुक्तं श्रुत्वाऽनन्दसागरपारगामिनो हर्षातिरेकेण कृत्स्नं नगरं सुशोभयित्वा नानाविधैरुपचारैः स्वराजनिष्ठां प्रीतिं च प्रदर्शयामासुः. पृथ्वीराजोऽपि स्वराजधानी प्रविश्य म्वप्रजानां म्वस्मिन्नकृत्रिम निरतिशयं प्रेम वीक्ष्यात्मानं धन्यममन्यत.

RURASOICOLONOCOMSOLDIEROLOGOLO SONGS चतुर्थोगुच्छः। SURG 1037010 १ पद्मावतीपरिणयः. २ महोबाधिपेन समं कलहोद्भवः. ३ पृथ्वीराजस्य महोबाराज्याक्रमणं. ४ युद्धं महोबाधिपस्य पलायनं. ५ महोबाराज्ये स्वाधिकारः- (१) कदा पृथ्वीराजे स्वमंत्रिभिः समं विविधानि राज्य- कार्याणि कृत्वा विश्रान्त्यर्थं राजोपवनं प्रविश्य कस्यचिन्महतश्चूतांकुरशालिनः सहकारस्याधस्ता- स्थिते सत्यकस्मादतिमनोहरः शुकः स्वचंचुविधृतं पत्रं तस्य पुरस्तादक्षिपत् . दिल्लीपतिरपि विस्मित- स्तदुद्घाट्यापठत्-तञ्चेत्थं- KAAAC सकललोकपालक ! नृपतिकुलतिलक ! शत्रुकण्ठनालविदार- णमृगेन्द्र ! दिल्लीपते ! मामसहायामपरिणीतां त्वद्गुणानुरक्तां त्वदन्य 'सत्वरमाग- ३६ पृथ्वीराज चव्हाणचरित पुरुष पितरं मन्यमानां पूर्वस्यां दिशि वर्तमानम्य समुद्रशिखरराजधा- नीकस्य यदुकुलोत्पन्नम्य विजयसुरनाम्नो भूपस्यैकाकिनी पद्मावती कन्यामवेहि. अहं च विविधदेशपर्यटनतत्पराणां वन्दिजनानां मुखा- त्संचरन्ती तव शारदज्योत्स्नासहचरी कीर्ति निशम्य संजातप्रमोदया त्वामेव वरीतुं निरचिनवम् . तद्यदि दीनकृपालुता स्यात्तदा त्यन्मार्ग- निहितनेत्रां मां रुक्मिणी यशोदानन्दन इव सत्वरमागत्य गान्धव- विवाहेन परिणीय गृहीत्वा गच्छ. नचेदहमचिरादेव भारभूतानिमान् प्राणान्विसृज्य स्वर्गे त्वदागमनं प्रतिपालयन्ती म्थाम्यामीति. पृथ्वीराजश्चेमां प्रणयपत्रिकामनुवाच्य सन्तुष्टः च्छामि ' इत्यर्थबोधकं प्रत्युत्तरं लिखित्वा तस्यैव शुकम्य मुखे निधाय तं प्रेषयत् . सोऽपि च गत्वा म्वस्वामिन्ये तत्पत्रं ददो. अथ पृथ्वीराजो महत्या सेनया समं तम्य विजयसुरम्य राज- धानी समुद्रशिखरनगरं ययौ. ततश्च तत्र पद्मावती गान्धर्वविवाहेन परिणीय प्रतिनिवर्तमानो मार्ग पूर्व जितेन गिझनीश्वरेण शहाबुद्धीनना- म्ना यवनाधिपेन सह महायुद्धं व्यतानीत् . तस्मिन्युद्धे ते महंमदीया यवना अतिक्रूरा विकरालरूपाः संचारिणस्तालवृक्षाइव क्रव्यादा अतिक्रराणि कृत्यान्यकुर्वन् . तथापि लोकोत्तरशोर्याः क्षत्रियश्रेष्ठाः. पृथ्वीराजसैनिकामतान् सर्वानपि ययनान्विजित्य कांदिशीकांश्चक्रुः स तु गिझनीश्वरो धृष्टः शहाबुद्धीनः स्वयं पुनरपि जीवग्राहं गृहीतः पृथ्वीराजेन कारागृहे स्थापितोऽष्टसहस्रसंख्याकानश्वान्वितीय पुनरप्या- त्मानं मोचयामास. पृथ्वीराजश्च विजयश्रिया मूर्तया लक्ष्म्या पद्या- वत्या समाश्लिष्टः स्वराजधानी ययौ.

चतुर्थोगुच्छः ३७ (२) पृथ्वीराजे महंमदीयेन शहाबुद्धीनघोरिणा सह युद्धमाने तदी- याः केचन सैनिकाः क्षतशरीरा दिल्लीमार्ग विस्मृत्यान्यमार्गेण प्रव- सन्तो भ्रान्त्या चन्देलप्रान्तस्य राजधानी महोबानगरं प्राप्ताः. ते च श्रान्ता विश्रान्त्यर्थं राज्ञ उपवनं प्रविष्टास्तदधिकृतेन निषिद्धास्तं हत्वाऽन्तः प्राविशन् . तस्यारामपालकस्य पत्नी भर्तृवधदुःखाकुला सर्वं वृत्तं राज्ञे परमालाय न्यवेदयत् . परमालराजश्च स्वसेवकवधेन संतप्त उदलनामानं खसामन्तमाय तेषां प्रमत्तानां सैनिकानां शास- नायादिदेश. सोऽपि स्वामिनियोगमनुसृत्य तानाक्रम्य सर्वेषां तेषां शिरश्च्छेदमकरोत् . परमालराजस्तु कुजनपरिवृतस्तं विजयशालिनं कृतकार्य सेवक- मनभिनंद्य तस्य सुन्दरमश्वमेवायाचत. तस्योदलम्य ‘अलह ' नामा बन्धुरासीत् . स च जात्या क्षत्रियः स्वाश्वयाचनेनात्मनोऽपमानं तां याचनां निषिषेध. राजा च स्वयाचनां निषिद्धां वीक्ष्य कुपितस्तौ द्वौ बन्धू स्वराज्यादत्यवासयत् . तावपि शूरौ मूर्खस्यास्य राज्ञो राज्येऽवस्थानापेक्षया सुराज्येऽवस्थानमुचि- तमिति मन्वानौ कनोजाधिपस्य गुणग्राहिणो जयचन्दस्य राज्यमाज- ग्मतुः. राजा जयचन्दोऽपि श्रुततत्कीर्तिस्तौ सादरमानीय स्वराजस- भायां परमे प्रतिष्ठापदेऽस्थापयत् . तावप्यानन्देन तमसेवेताम् . अथ पृथ्वीराजः स्वदूतमुखान्महोबाधिपस्य स्वसेवकशिरश्छेद- रूपं दुष्कर्म निशम्य संतप्तस्तस्य प्रमत्तस्य महोबाधिपस्य शासनाय मन्यमानो मातरमापृच्छय ३८ पृथ्वीराजचव्हाणचरिते मतिमकरोत्. अचिरादेव च सर्वतः स्वसामन्तानाहूय तेभ्योऽपि महोबाधिपस्य दुष्कर्म निवेद्य तानपि स्वमतवर्तिनो व्यधात्. ( ३ ) च एवं सर्वां सेनां तथा शूरान् स्वसामन्तान् सनाह्य महता जवेन पृथ्वीराजः परमालराजस्य राज्यं प्रविश्यासंख्यानि नगराणि विजित्य सर्वान् शत्रुपक्ष्यानवधीत्. सीमारक्षकाश्च यथाशक्ति युध्वा तं पृथ्वीराजसेनासागरं रोध्दुमशक्नुवाना रणांगणेऽशेरत. अन्ये च भीत्या पलायमाना इदं वृत्तं स्वराजाय परमालाय न्यवेदयन्. परमाल- राजोऽपि सम्यक्ज्ञातपृथ्वीराजसामर्थ्यः परं भीतः किंकर्तव्यतामूढः सर्वानपि स्वसामन्तानेकत्रीकृत्य साम्प्रतं किंकर्तव्यमिति विचारया- मास. तेऽपि सर्वे सामन्ता पृथ्वीराजसामर्थ्यापेक्षया स्वसामर्थ्य हीनं मन्वानास्तूष्णीं तस्थुः. केचन 'नास्ति साम्प्रतमस्मासु सर्वेषु सामन्तेषु पृथ्वीराजेन समं योध्दं समर्थः कोऽपि. तदितः केनापि कारणेन निर्वासितं, अतुलशौर्यशालि, कनोजाधिपाश्रयि — अलह' 'उदल' नामकं वन्धुद्वयं पुनरपि प्रार्थनया स्वराज्यमानयनीयं. तच्चेदत्राग- त्यास्मदनुरोधेन युध्येत तदाऽवश्यं पृथ्वीराजः पराजप्यत इत्यवदन्. युवराजश्च तारुण्यसंपन्नस्तेषामिदं निरुत्साहकारि वचनं निशम्य क्रुद्धः-भो क्षत्रियश्रेष्ठाः ? इदं खलु वचनं वः क्षत्रियकुलोत्पन्नानां न शोभते. येषां च पूर्वजाः शत्रुभिराक्रान्ताः पुष्पराशाविव मह- ताऽनन्देन समरभूमावशेरत तेषां वंशजानां मुखेभ्यः इमानि भय- विव्हलानि वाक्यानि कथं निर्गच्छन्तीति न जाने. यद्यपि बलवान् न न चतुर्थोगुच्छः ३९ पृथ्वीराजस्तथापि यथाशक्ति प्रकटितशौर्या हताः स्वर्ग लप्स्यामहे. यदि च कोऽपि तेन पृथ्वीराजेन समं योध्दुमस्मत्सामन्तेषु न शक्नोति तदाऽहमेकाकीतो निर्गत्य तेन समं युध्वा पुण्यां गतिं प्राप्नुयाम् ? इत्यवदत्. युवराजस्य कोपकलुषमुत्तेजकं वाक्यं निशम्य समाविष्टपौरुषाः प्रकटितशौर्यभावास्ते सर्वेऽपि सामन्ताः स्वस्वसैन्यं गृहीत्वा पृथ्वी- राजेन समं योध्दं मतिमकुर्वन्. तेषु च परमालसामन्तेषु प्रमुखाः मलखान,अििसंह,वरसिंह,नरसिंह,जयसिंहनामानः पंच सामन्ता आसन्. तेच खामिकार्यार्थं स्वप्राणानपि तृणीकृत्य स्वसेनां गृहीत्वा पृथ्वीराजेन समं योध्दं प्रातिष्ठन्त. अचिरादेव 'सिरसवा' नानो ग्रामस्य समीपे कृतनिवासां पृथ्वीराजसेनामालोच्य महता त्वेषण तामाक्रम्य युद्धं प्रावर्तयन्त. अस्मिन् युद्धे उभयपक्षसामन्ता व्यक्तिशोऽयुध्यन्त. परमाल- पक्ष्यो मल्लखानः स्वशत्रोः पक्ष्यं कयमाषप्रधानमाचक्राम. एवमेव पृथ्वीराजपक्षीयश्चन्दपुण्डीरः स्वप्रतिस्पर्धिनं नरसिंह, चामुण्डरायश्च प्रतिपक्ष्यं जयसिंह महता सावधानेनाचक्रमतुः. ते सर्वेऽपि स्वामि- भक्ताः स्वस्वामिकासिध्यर्थं परां काष्टां चक्रुः. एवं प्रवृत्ते प्रलयकालसहोदरे, भयंकरसिंहनादसंकलितधनु- ष्टकारघोषबधिरितजनश्रवणपुटे, यमलोकस्थकारागारसदृशे संग्रामे 'बहवः शूरा वीराः छिन्नकण्ठनालप्रवद्रुधिरधाराभिर्मृत्युलोके परम- ४० पृथ्वीराजचव्हाणचरिते प्रवृद्धं द्वेषाग्निं शमयितुमिच्छन्तइव धरणीतले पेतुः. अन्ये च युद्धमदोन्मत्ताः शत्रुद्वेषपरिपूर्णाः छिन्नेप्वपि मस्तकेषु कवंधतां प्राप्य शत्रुपक्षीयान् सैनिकानघ्नन्. च अथ पृथ्वीराजपक्षीयः पराक्रमी चन्दपुण्डीरः स्वप्रतिपक्षीयस्य नरसिंहस्य शिरोऽच्छिनत्. तेन च तस्य सेनां पलायमानां वीक्ष्य शीघ्रमेव वरसिंहो नाम परमालसामन्तस्तत्स्थानं समलंचकार. अचि- रादेव सोऽपि नरसिंहगतिमेवालभत. एवं कृतान्तसमो भगवती- प्रसादशाली चामुण्डरायोऽपि जयसिंहं विजयतेस्म. स्वप्रतिस्पर्धिनो जयसिंहस्य सेनां तच्छरीरेण समं जर्जरितामकरोत्. ततश्च सर्वतः पृथ्वीराजसामन्तैः पराभूतां निहतप्रमुखां स्वसेनां वीक्ष्यावशिष्टाः सर्वेऽपि परमालसामन्ता भीतिसमानान्तहदयाः पलायमानाः कांदि- शीका बभूवुः. विजयश्रीरपि संतोपेण दिव्यपारिजातपुप्पमण्डितां विजयमालां पृथ्वीराजकण्ठे समर्पयत्. ४ अथ दूतसमानीतं स्वसेनापराजयवृत्तं निशम्य दुःखाकुलो वृद्धः परमालराजः किंकतव्यतामूढः सर्वानप्यवशिष्टान् मंत्रिणः समाहूय युवराजेन ब्रह्मजिता राज्या च समं मंत्रयाचक्रे. महाराज्ञी पतित्रताधुरीणा स्वपति-स्वामिन् ? या खलु पृथ्वीराजविजया- शाऽस्माकमासीत् सा च साम्प्रतं समूलमुच्छिन्ना, सम्प्रति नास्ति कोऽपि पृथ्वीराजेन समं युद्धार्हः. तच्छीघ्रमेव दूतं प्रेषयित्वा निर्वासितौ 'अलह' 'उदल' नामानौ सामन्तौ केनापि प्रकारेण प्र- चतुर्थोगुच्छः ४१ त्यानेयो. तौ च यदि प्रत्यागमिप्यतम्तदाऽवश्यमम्मांस्तथेदं राज्यं कृत्स्नमपि रक्षिप्यतः. अन्यथाऽशक्यमेव राज्यरक्षणमिति जगाद. राजा परमालस्तु मन्दधीरनन्यगतिकत्वेनेदं म्वपत्नीभाषणमं- गीकृत्य पृथ्वीराजं मासद्वयपर्यन्तं युद्धशान्त्यर्थमयाचत. सोऽपि च जात्या क्षत्रियस्तस्य विज्ञप्तिमंगीकृत्य मासद्वयं तृप्णीमतिष्ठत्. अ- त्रान्तरे परमालराजः स्वाश्रितं चतुरं जनकनामानं बन्दिनं तयोः सामन्तयोरानयनाय कनोजाधिपम्य जयचन्दम्य समीपे प्रेषयामास. सोऽपि स्वामिभक्तस्तयोरन्तिकं गत्वा सखेदं-सामंतशिरोमणी? यदा- प्रभृति राज्ञा दुर्जनवचनं श्रुत्वा युवां राज्यान्निसारितावित्यशृणो- देवी तद्दिनमारभ्य रात्रिंदिवं नेत्रकमलाभ्यामश्रूणि विसृजति. तद्यदि युवां प्रत्यागत्य महोबानगरमलंकरिप्यथस्तदेव राज्ञी सन्तुष्टा भविष्यति' इत्यगदत् ये तावपि-अस्मत्पूर्वजैस्तथाऽस्माभिश्च ये खलु पराक्रमाः कृ- तास्तेषामिदं देशनिर्वासनरूपं पारितोषिकं राज्ञा परमालेन वितीर्ण. अस्माभिश्च तत्परमानन्देन गृहीतमिति सकोपं प्रत्युत्तरयामासतुः. च- तुरो जनकोऽपि तयोः कोपं योग्यमेव मन्वानः पुनरपि चातुर्येण तयोः मनसी स्वानुकूले अफरोत्. अथ तौ सामन्तवन्धू परमालराजस्य विज्ञप्तिं स्वमात्रे निवेदयामासतुः. साऽपि वीरमाता पश्चात्तापप्रदर्शकं राज्ञः पत्र- मनुवाच्य संजातदयाभावा स्वपूर्वजैः सयत्नं रक्षितस्य परमालराज्यस्य ४२ पृथ्वीराजचव्हाणचरिते नाशमवलोक्य दुःखायमाना सत्वरं स्वपुत्रौ तस्य परमालम्य रक्ष- णार्थं गन्तुमादिदेश. तावपि मातुरनुमितिं गृहीत्वा सन्तुष्टौ नूतन- स्वामिनः कनोजाधिपस्य जयचन्दस्यानुमितिं ग्रहीतुं तत्समीपं जग्मतुः. स तु तौ वीरश्रेष्ठौ जिगमिषन्तौ वीक्ष्य स्वस्य महतीं हानि मन्यमानो नानाविधैरुपायैस्तयोर्मनसी प्रत्यावर्तयितुं प्रायतत, परंतु तयोराग्रहं वीक्ष्य नानाविधानि उपायनानि ताभ्यां वितीय सत्कार्य च सादरं प्रेषयामास. तावपि परमसन्तोषेण कनोजा- धिपमभिनंद्य निर्गतौ महोवानगरमाययतुः. حی महोबाधिपोऽपि तौ स्वापमानजन्यं दुःखं विस्मृत्य पुनरपि स्वसाहाय्यार्थमागतौ सामंतौ वीक्ष्य सन्तुष्टः सर्वैः समं प्रत्यु- जगाम. राज्ञी राजानं च प्रत्यागच्छन्तं वीक्ष्य स्वामिभक्तौ तौ सा- मन्तौ भूमाववतीय पद्भ्यां गत्वा तयाः चरणकमलयोः स्वशिरसी स्थापयामासतुः. राजाऽपि संतुष्टः सुमधुरैः कृतज्ञताबोधकैः स्वो पतापप्रदर्शकैर्वचनैरवशिष्टमपि अपमानशल्यं तद्धृदयाद्रीचकार. ततश्च ताभ्यां सह महोबानगरं प्रविश्य सर्वैरपि प्रजाजनैः सादर संसेव्यमानः स परमालराजस्तौ 'अल्हउदल' नामानी सामन्तौ परं समानन्दयत् अथ च तो सामन्तौ लब्ध्वा संजातधैर्यो महोबाधिपः परमालराजः पृथ्वीराजाय युद्धसंदेशं प्रेषयत्. पृथ्वीराजोऽपि तं संदेशं निशम्य सन्तुष्टः स्वसेनां गृहीत्वा महोबानगरसपिमाज- गाम. तं चागणितसैनिकसमन्वितं पृथ्वीराजं वीक्ष्य परमालराजो चतुर्थे गुच्छ ४३ मीतिविव्हलस्तेन सह संधातुं मनो व्यधात्. स्वस्वामिनं संधिविधान- मानसं समीक्ष्य तो सामन्तबन्धू राजपुत्रो ब्रह्मजिच्च परं निषिषेध. राजाऽपि जनलज्जापरिहाराय कथमपि तत्रातिष्ठत्. ततश्व भेरीपटहढक्कादिवाद्यघोषपुरःसरं तयोः पृथ्वीराजमहोबा- धिपयो|रं युद्धं प्रावर्तत. पृथ्वीराजश्च स्वसेनाधिपत्ये स्वपितृव्यं नानायुद्धविजयशालिनं शूरं कन्हचव्हाणं स्थापयामास. अचिरादेव स वृद्धः कन्हो महोबाधिपस्य सेनां तथा सामन्तबन्धद्वयेन समं समागतां कनोजाधिपसेनां सहसा आचक्राम. प्रावर्तत च घोरं समरं. तत्र नीलधररायो नाम पृथ्वीराजसामन्तः परमशूरः स्वप्रतिपक्षीयं तालखापठाणनामानं शत्रुसेनापतिं जघान. तस्मिन्निहते सर्वाऽपि शत्रुसेना सर्वतः पलायनपरा बभूव. स्वसेनां पलायनोन्मुखीमालोच्य क्रोधान्यो 'लाखनसी' नाम महान् शूरो महोबाधिपसामन्तः सर्वानपि सैनिकान् प्रोत्साहयन् अग्रेसरो भूत्वाऽयुध्यत. परमचातुर्येण युध्य- मानं तं लाखनसीसामन्तं गदाप्रहारेण पृथ्वीराजपक्षीयः कश्चन साम- न्तश्चूर्णितोत्तमांगमकरोत्. भीष्मइव महाप्रतापी कन्हचव्हाण एकाकी शत्रुपक्षीयस्त्रिभिः शूरैः सामन्तैः समं युध्यमानस्तान् सर्वानपि स्वर्गम् गमयामास. तदानीं तो सामन्तबन्धू प्रायः स्वपक्षीयान् समरभूमि- पतितान् वीक्ष्य संतप्तौ कुंकुमाक्तवस्त्राणि धृत्वा महताऽनन्देन समर- मवतेरतुः. तौ च समरांगणं प्रविश्य महाप्रतापिनं पृथ्वीराजपक्षीयं संजमरायनामानं सामन्तमाक्रम्यावधिष्टाम्. ततश्च उदलनामा सामन्तः कन्हचव्हाणमाक्रम्य घोरं युद्धं प्रावर्तयत्. उदलसामन्ते स्वगदया कन्हचव्हाणशिरसि प्रहारं कुर्वति सति तं प्रहारं दैवादागतः कयमावा- पृथ्वीराजचव्हाणचरिते मात्यो विफलीचकार. स्वप्रहारं विफलीभूतं प्रेक्ष्य क्रुद्धः स उदल- सामन्तस्तयैव गदया कयमाषामात्यं प्राहरत्. तदानीमेव सोऽमात्यो मूच्छितो धरणीतलेऽपतत्. कयमाषामात्यं मूर्छितमालोक्य पृथ्वीराज- पक्षीयो नन्हपडियारनामा सामन्त उदलसामन्तेन सममयुध्यत. तदानीमेव प्रकृतिमापन्नौ कन्हचव्हाणकयमाषामात्यौ तस्य साहाय्यार्थ- मागच्छताम्. ते सर्वेऽपि संघीभूय शूरस्य — उदल 'सामन्तस्य मस्तकं चिच्छिदुः. सोऽपि वीरो सोऽपि वीरो यथाशक्ति विहितस्वामिकार्यों वीरलोकं जगाम. अथ स्वबन्धोः शिरश्च्छेदं निशम्य क्रोधान्धः प्रियवन्धुः अहः सर्वानपि पृथ्वीराजपक्षीयान् मोहनास्त्रेणामोहयत्. मोहनिद्रा- व्याकुलांम्तान् स्वसैनिकान् वक्ष्यि पृथ्वीराजश्चिन्तान्तुरश्चन्दबन्दिनं कर्तव्यमपृच्छत्. सोऽपि कृतम्नमस्यास्त्रम्य प्रभावं कथयित्वा तत्परिहा- हारोपायं शंकरगणं आतताईनामकं प्रार्थयामास. स च गणः प्रकटीभूय घोरैः सिंहनादैमूर्छितान् सर्वानपि पृथ्वीराजसैनिकानजा- गरयत्. क्रुद्धश्चाल्हम्तन शंकरगणेन समं युयुधे. तो द्वावपि परस्परप्रहारहतो मुमूर्च्छतुः. अत्रान्तरे पृथ्वीराजो महता प्रयत्नेन कुमारं ब्रम्हजितं स्वर्गातिथिं चक्रे. अह्रश्च पुनरपि प्रकृतिमापन्नो योध्दुमारभत. तदानीं रामगुरुपुरोहितश्चन्दवन्दी च युयुधाते. अह्रश्च स्वगुरु गोरखनाथं ध्यात्वा तदभिप्राय पप्रच्छ. सोऽपि स्वयं प्रकटीभूय एतावत्पर्यन्तं त्वया क्षत्रियोचितं कर्म कृतं. परन्तु ब्राम्हणवन्दिभ्यां सह युध्वा विजयो लब्धुमशक्य इति विरम साम्प्रतमस्माद्व्यापारात्.

चतुर्थीगुच्छः ४५ आगच्छ मया सह तीर्थानि सेवितुमित्यवदत. तभ्येदं भाषणं निशम्य शस्त्रं निक्षिप्य वीरोऽल्हो वनान्तरं जगाम. राजा परमालश्च प्रथमतएव योध्दुमनिच्छन् कथमपि ताभ्यां सामन्तबन्धुभ्यां समरांगणमानीतस्तयोर्दुरवस्थां वीक्ष्य पलायितः कलिंजरनाम्नि महादुर्गे निभृतमतिष्ठत्. (५) अथ धृतवैराग्येऽल्हसामन्ते स्वगुरुणा समं वनं प्रति गते सति सर्वेप्यवशिष्टा अन्ये महोबाधिपपक्षीयाः सैनिकाः सामन्ताश्च शरणमाजग्मुः. तान् शरणागतान् वीक्ष्य वृथा रक्तपातं परिहरन् पृथ्वीराजसेनापतिः स्वसैनिकानपि युद्धव्यापारान्निवर्तयामास. ते सर्वेऽपि विस्मृतवैरभावाः स्वस्वपक्षीयान् वान्धवानन्वेषयामासुः. पृथ्वीराजसामन्तास्तु स्वस्वामिनमनभिलक्ष्य चिन्तातुरा महता प्रयत्नेन शोधयन्तस्तं शस्त्राघातविव्हलं विविधशस्त्राघातक्षतशरीरसैनिकसमुदाय- पतितं रुधिरप्रस्रावहीनशक्तिकमलभन्त. स्वामिनः पृथ्वी राजम्येदृशीं दशामवलोक्य शोकव्याकुलाः सत्वरं तमुपचारैः प्रकृतिमापयितुं प्रायतन्त. अलभन्त च तत्र शीघ्रमेव यशः. चामुण्डरायोऽपि कलिंजरदुर्ग जित्वा परमालराजं बन्दीकृत्यानयत्. तम्माच्च दुर्गा- दगणितं द्रव्यराशिं. ततश्च महोबानगरं महतोत्सवेन प्रविश्य राजा पृथ्वीराजो दुष्टानां शासनार्थं तथा कृतपरिश्रमाणां सेवकानामनुग्रहार्थ महती ४६ ४ पृथ्वीराजचव्हाणचरिते राजसभां चकार. तत्र चोचं सिंहासनमासीनः सर्वान् सभ्यानुद्धि- श्येदमभाषत. भो भो सभ्याः सामन्ताः शूराः सैनिकाः ? वयं चेशकृपयाऽस्मिन् महायुद्धे विजयश्रिया समलंकृताः. ये खलु राजानः म्वनिविशेष स्वानुयायिषु वर्तन्ते तेऽवश्यमेव यस्मिन् कस्मिन्नपि कायें यशस्विनो भवन्त्येव. योहि राजा स्वसुतनिर्विशेषं स्वाश्रितान् पालयति तमिस्ते ऽपि निर्विशेष प्रेम कुर्वन्ति. अहं चास्मिन् युद्धे ब्रम्हजिता राजकुमारेण समं युयुधे. तत्र मदीयप्रहारेण पराक्रमी राजपुत्रः म्वर्गमलभत. तदीयप्रहारेणाहं मूच्छा. मूच्छितश्च मृतसैनिकसमु- दायेऽपतम्. अत्रान्तरे महानेके गृध्रो म मृतं मन्यमानो मांस- लोलुपो मदक्षिणी विदारयतुमचेष्टत. तं भयानकं गृधं वीक्ष्य प्रतिकारासमर्थः केवलमहमीश्वरमेव प्रार्थयम्. अत्रान्तरे मम समीप एव पतितः सामन्तः संजमरायः शस्त्राघातव्याकुलस्तम्माद्गृध्रान्भमा- निष्टं शंकमानः म्वदेहमांसखण्डं छुरिकया निकृत्य तस्य गृध्रस्य पुरस्ताच्चिक्षेप. सोऽपि अनायासप्राप्तं तं खण्डं गृहीत्वा कृतकृत्यो ऽन्यत्र ययौ. संजमरायश्च स्वार्जितान् पुण्यलोकान्. सभ्याः ? अहं यावज्जीवं तस्य पुण्यश्लोकस्य संजमरायम्येदं कर्म न विस्मरामि, प्रत्युत तं प्राणदातारं देववत् पूजयामि. अस्तु. अयं च महोबाधिपः परमशूरो स्वाश्रितौं अलहउदलनामानौ सामन्तौ निर्वास्य युद्धसमये महतीमापदं, लेभे. योहि राजा कार्याकार्ये न विजानाति तस्य सेवका अपि परमुदासीना न सम्यक् कार्याणि कुर्वन्ति. तदम्मिन् राज्येऽय- न तं चतुर्थोगुच्छः भनधिकारी. तदेनं निष्कास्य परमचतुरं शौर्यादिगुणसमन्वितं मदीयं सामन्तं पंजूनकच्छवाहं स्थापयामि. स च न्यायेन प्रजाः पालय- त्विति. इदं च पृथ्वीराजस्य भाषणं निशम्य परमालश्च दुःखा- कुलोऽभूत्. सर्वे च प्रजाजनास्तादृशदुष्टराजत्रासान्मुक्ताः पृथ्वीराजम- स्तुवन्. तदानीमेव शुश्रूषया स्वसामन्तानक्षतान्विधाय समागतं रामगुरुपुरोहितं पृथ्वीराजः प्रणनाम. ततश्च महोबानगरे कतिपयान्दिवसान् यापयित्वा महतोत्सवेन दिल्लीनगरं प्रति प्रातिष्ठत. प्रविश्य च तत्प्रजाजनैरभिनंद्यमानः परं सुखमलभत महाराजः पृथ्वीराजः. A DOG पञ्चमोगुच्छः। १. कनोजाधिपस्य राजसूययज्ञविधानेच्छा, पृथ्वीराजस्य तत्र प्रातिकूल्यम्. ३. युद्धं. कनोजाधिपस्य पराभवः. ४. कनोजाधिपकन्यायाः संयोगिताया पृथ्वी- राजेऽनुराग ५. कनोजाधिपस्य तस्यामप्रीतिः प्रतिबन्धश्च. [१] ORCLUORO वं सर्वत्र विजयशालिनि चव्हाणवंशसागरचन्द्रे पृथ्वीराजे न्यायेन स्वप्रजाः पालयति सति तत्सदृश एवापरो राठोडवंशभूषणं पराक्रमशाली, अगणित- सेनाभारसमन्वितः, सकलसामन्तमण्डलवन्दितः, राजा जयचन्दो नाम कनोजनगरे राज्यमकरोत्. स च जयचन्दः पृथ्वी राजमपेक्ष्य बलाढ्यः संपन्नश्चासीत्. तम्य भागीरथीपरिवेष्ठिता सुसंपन्ननागरिकसमलंकृता, विविधशिल्पकार्यचतुरैः शिल्पिभिनिर्मित पञ्चमोगुच्छः ४९ सौधसंघविभूषिता पंचदशक्रोशायामा. कनोजनाम्नी सुविख्याता नगरी राजधान्यासीत्. तस्यां च वसन् स जयचन्द आत्मानं स्वर्गाधिपादपि श्रेष्ठममन्यत. तस्य मंत्रिमण्डलमपि राज्यकर्मणि कुशलं स्वमतिप्रभावेण बृहस्पतिमपि समतिचक्राम. कोशाश्च सतत- मागतैः प्रजाकरद्रव्यैः, सामन्तप्रदत्तैरुपायनैः, परिपूर्णा एवासन्. सेना च युद्धकुशलैः सेनापतिभिः सुशिक्षिता सर्वशस्त्रास्त्रशालिनी संख्ययाऽशीतिलक्षपरिमिताऽसीत्. यदा च स कनोजाधिपो राज- सभायां सिंहासनमलमकरोत्तदा. समस्ततारागणमण्डितस्य चन्द्रस्य शोभामपहरति स्म. एवं प्रतापी स कनोजाधिपो जयचन्दः प्रवर्धमानां शुक्क- पक्षज्योत्स्नासहचरी दिल्लीपतेः पृथ्वीराजस्य कीर्ति निशम्य संजात- द्वेषस्तदपमानमतिः किमपि कारणमचिन्तयत्. अत्रान्तरे मध्यान्हसमये पुराणकथनाथ विद्वान् पौराणिकः समाययौ. राजाऽपि नित्यक्रमानुरोधेन पुराणं श्रोतुमतिष्ठत्. तस्मिन्दिने स पौराणिको महाभारतान्तर्गत राजस्ययज्ञप्रकरणं सम्यगकथयत्. तत्र च नानाविधदेशाधिपैर्विहितानि सेवाकर्माणि निशम्य राजा परम- तुप्यत्. रात्रौ च स्वामात्यं मुमतिनामानमाडूय जयचन्दोऽवदत्- मंत्रिवर ! दिल्लीपतिः पृथ्वीराजो नानाविधान् देशान्विजित्यापारं यशो लब्ध्वाऽस्मान् न्यूनीकर्तुमिच्छति. तत्केन प्रसंगेन स आक्रम्य परा- जित्य स्वसामन्ततां प्रापणीय इति चिन्तामनोऽहं मध्यान्हे राज- सूययज्ञविधानमश्रौषम्. तदहं राजसूययज्ञ विधास्यामि. तत्र ५० पृथ्वीराजचव्हाणचरिते चेतरराजवत्सेवार्थमाहूतः पृथ्वीराजो यदि नागच्छेत्तदाऽस्माभिः सहसाऽक्रम्य स सुजेयो भविष्यति. तदत्र किं भवतोऽनुमतमिति. स च मंत्री स्वस्वामिनो राजसूययज्ञविधानेच्छां निशम्य परं विस्मितः-स्वामिन्! अस्मिन् कलियुगे नास्ति कस्यापि राज्ञो राजसूय- विधानाधिकारः. स तु यागराजो धर्मराजप्रभृतिभिः प्राचीनै राजर्षि- भिरेव कर्तव्यः. नास्मादृशैर्लोभसंकुलैमानवाधमैः तद्विहाय राजसूययाग- विधानेच्छां पृथ्वीराजाक्रमणे वयमन्यत्कारणमन्वेषयिष्याम इत्यगादीत्. जयचन्दस्तु महामानी स्वमंत्रिण इदं प्रतीपं भाषणं निशम्य क्रुद्धस्तं प्रत्यगदत्-रे मंत्रिमूढ ! नास्ति कस्यापि क्षत्रियराजस्य कलियुगे राजसूयाधिकार इति वदता त्वया कथमिदं कलियुगं ज्ञातं ? अस्ति किं मदीये राज्ये कलियुगस्य लक्षणं किंचित् ? अहं च द्वितीयो धर्मराज इव न्यायेन सर्वान् पालयामि. सर्वाः प्रजा अपि स्वस्वधर्माचरणं चरन्त्यो धर्मेणैव वर्तन्ते. सर्वेऽपि प्रजाजनाः स्व- स्वविहितोद्यमान्विधाय पर्याप्तं लौकिकं सुखं मुंजते. समस्त- भारतवर्षवासिनो भूपालाः मदीयां सामन्ततां लब्ध्वा धन्यमन्याः शत्रुभीतिलेशेनाऽपि विहीनाः सुखमासते. तत्कथय साम्प्रतं किमपि कलियुगम्य चिन्हमस्ति वेति ! स्वस्वामिन इदं गर्वोष्टब्धं भाषणं निशम्य खिन्नः स सुमतिमंत्री पुनरपि शनैर्जगाद. स्वामिन्! सत्यमेव यूयं सम्यक् न्यायेन प्रजाः पालयथ. परंतु समग्रभारतवर्षे ये खलु राजानः सन्ति ते न धर्मणैव प्रचरान्त. रात्रिंदिवं परद्रव्यपरकान्तापहारमिच्छन्तः प्रायः पंचमोगुच्छः ५१ साधारणाअपि जना दृश्यन्ते किमुत सेनाबलसमन्विता राजानः ! पूर्व तु मनसैव पापविमुखाः सदाचरणपरा जना आसन्, अधुना राज- दण्डभयेन क्वचित्तथा वर्तमानाअपि मनसा पापाचरणोत्सुका एव. पूर्व परमेश्वरभिया परराज्यानि नाक्राम्यन् भूपालाः, अधुना तु परा- भवभीत्या. तदस्मिन् स्पष्टतरे कलियुगचिन्हे परिदृश्यमाने सत्यपि यदि स्वामीदं सत्ययुगमेव मन्यते तदा केवलमिदं वाक्यं राजाज्ञे- त्येवास्माभिः स्वीकर्तव्यमिति. कनोजाधिपो जयचन्दस्तस्य सुमतेर्भाषणं सत्यमिति मन्वानोऽपि मानधनतयाऽहं राजसूययज्ञं करिष्याम्येवेति प्रतिज्ञाय सर्वान् स्व- राज्ये तथाऽघोषयत्. मंत्र्यपि स्वामिभक्तो राजाज्ञापालनं स्वकर्तव्य मन्वानः स्वाधिकारकार्यमकरोत्. अचिरादेव राजा जयचंदः सर्वान् मारतवासिनो भूपालानुद्दि- श्येदं प्रसिद्धिपत्रं निरकासयत्. सर्वे भारतवासिनो भूपालाः ! कनोजाधिपतिर्जयचन्दोऽहं राज- सूययागविधानेच्छुरस्मि. तदस्मिन् यागे नियुक्तानि स्वस्वकर्माणि विधातुं सर्वैरपि युष्माभिरत्रोपस्थातव्यं. ये खलु बलमदाद्वोन्मादाद्वा नोपस्थास्यन्ति तानहमचिरादेव प्राणदण्डेन वा राज्यहरणदण्डेन वा, देशनिर्वासनदण्डेन वा, येन केनापि करेण दण्डेन योजयिष्यामीति. तदिदं प्रसिद्धिपत्रं दूतद्वारा समागतं वीक्ष्य सर्वेऽपि भारतभूपालाः कनोजाधिपस्य सामर्थ्य जानन्तः सत्वरमेव ससैन्यं कनोजनगरमागत्य ५२ पृथ्वीराजचव्हाणचरिते जयचन्दस्य चरणारविन्दं प्रणेमुः. तदानीं जयचन्दम्य राजधानी कनोजनगरं द्वितीयं भूतलमिवाशोभत. राजापि सकलसामन्तमंडल- मध्यवर्ती नक्षत्रगणपरिवेष्टितः पूर्णिमाशशांक इव. अथ सर्वां राजसूययागसामग्री परिपूर्णामवलोक्य तत्प्रारंभ चिकीर्षन्पो जयचन्दः केवलं दिल्लीपति पृथ्वीराजं तथा चितोडाधिपं समरसिंहमनागतं वीक्ष्य कोपाकुलः पुनरपि पृथ्वीराजाय दूतद्वारा संदेशं प्रेषयत्. स चेत्थम्.. दिल्लोपते ! पृथ्वीराज ! अस्माभिरत्र राजसूययागः समारब्धस्त- दर्थं निमंत्रणमपि पूर्वमेव प्रेषितं. तदनादृत्य नागतो भवान्. तत्पु- नपि त्वां कथयामि यदि तुभ्यं स्वीयाः प्राणाः प्रियाः स्युः, यदि वा राज्यमपि; तदा सत्वरमागत्येतरसामन्तवदहं सेवनीयः. त्वदर्थ चास्माभिरपालकम निर्णीतमस्ति. इति. शासनार्थ तं च दूतेनानीतं संदेशं निशम्य क्रोधसंतप्तसागः पृथ्वीराजः सर्वानपि स्वसामन्तानेकत्रीकृत्य तस्य जयचंदस्य मंत्रयामास. (२) ततः सर्वैः कुशलैमत्रिभिश्च समं संमंत्र्य पृथ्वीराजो जय- चन्दाय-कनोजाधिप! जयचन्द! त्वं बलमदोन्मत्तो राजसूययज्ञरूपं दुष्करं कर्म कतु वाच्छसि. परन्तु राजसूयविधानेऽयोग्यतामात्मनो न विभावयसि. पुरा खलु सत्ययुगे बलिराजेनायं यागः कृतस्तदा पञ्चमोगुच्छः ५३ साक्षान्नारायणाय कृत्स्नेयं भूः प्रदत्ता. त्रेतायुगे रामचन्द्रेणायं यागः कृतस्तत्र साक्षात्कुबेरएव तत्साहाय्यार्थमागतः. द्वापरयुगे युधि- ष्ठिरेणायं यागः कृतस्तत्र साक्षाद्देवकीनन्दनः सहाय आसीत्, अलब्ध्वा चेदृशं साहाय्यं अकृत्वा च पौरुषकर्माणि अजित्वा च समग्रां पृथ्वी केवलमहं राजसूययागं करोमीति कथनं नाम बालिश- भाषितं. वस्तुतस्त्वस्मिन् समग्रभारतवर्षे यदि कश्चन राजसूययाग- विधानेऽधिकार्यस्ति चेत् सोऽहमेव. मया खलु परमकरो महंमदीय- धर्मानुसारी गिझनीपतिः शहाबुद्धीनःत्रिः पराजितः. बलोन्मत्ता विख्यातो भीमदेवो नाम गुर्जराधिपतिरपि जित्वा राज्यान्निर्वासितः. दुराचारी महोवाधिपः परमालोऽपि मया लीलयैव शासितः. सर्वेऽपि स्वल्पबला भूपा बलिभिरन्यैः नृपराक्रान्ता मत्त एव साहाय्यं याचन्ते. सकलबन्दिजनमुखकमलसंचारिणी चंद्रपुण्डरीकसहचारिणी मदीयां कीर्तिं निशम्य न केवलं दुर्वृत्तनृपप्रजा एव मां स्वाधिपं विधातुं कामयन्ते किंतु विविधभूपालकन्यका अपि. तदेवं सकलगुणमण्डितो- ऽप्यहमात्मानं राजसूययागाधिकारिणं न भावये तदा त्वादृशान् क्षुद्रान् जन्तून् कथं भावयिष्य इति त्वमेव विचारय. तद्यदीदृश- मपमानकारकं संदेश पुनरपि प्रेषयिष्यसि तदाऽयं शत्रुकण्ठनाल- विदारणलब्धख्यातिः पृथ्वीराजहस्तकमलविराजमानः खड्गो न मर्षिष्यतीति जानीहि इति प्रत्युत्तरं प्रेषयामास. मानवतामग्रेसरो जयचन्दो दूतसमानीतं तत्प्रत्युत्तरं समाकर्ण्य- क्रोधसंतप्तो रक्ततरनयनयुगलस्तस्मिन्नेव क्षणे सर्वानुद्दिश्येदं जगाद- पृथ्वीराजचव्हाणचरिते " समुपस्थितेषु भूपालेषु यः कोऽपि मां सेवितुमिच्छति चेत् स प्रथमं पृथ्वीराजं बन्दीकृत्यात्रानयतु. अहं च तं सर्वथा साहाय्य- यिप्यामीति." अनवसित एवास्मिन् जयचन्दवाक्ये तदीयः कनीयान् बन्धु- लुकरायः सत्वरमुत्थाय रजसिंहासनं नमस्कृत्य-अहं हि तं मदो- न्मत्तं पृथ्वीराज पराजित्य बन्दीकृत्यात्रानेप्यामि-इति प्रतिजज्ञे. जयचन्दोऽपि स्वभ्रातुर्वालुकरायम्यदं भाषणं निशम्य सन्तुष्टस्तत्साहा य्यार्थ खुर्शानखानवंदातमारनामानौ द्वौ सामन्ती षष्टिसहस्रपरिमिता सेनां च दत्वा स्वकार्यविधानाय प्रेषयामास. तावत्पर्यन्तं राजसूययाग- द्वारे पृथ्वीराजस्य सुवर्णमयी प्रतिमा स्थापयित्वा पृथ्वीराजो द्वारपाल: कृतः. बालकरायोऽपि स्वकार्य शीघ्रं विधातुं त्वरमाणो राजसूययागे विघ्नविधानार्थ समागामिप्यतः पृथ्वीराजस्य पराजयाय मार्गे खोकंद- नगरसमीपे क्लृप्तम्कंधावारोऽवसत्. दिल्लीपतिः पृथ्वीराजः. सर्वतः प्रसू तचारमुखेन यागद्वारे स्थापितां स्वप्रतिमां तथा स्वशासनार्थं प्रेषितं वालुकरायं च निशम्य क्रुद्धः सत्वरमेव कृस्नं सामन्तमण्डलं च मंत्रि- मण्डलं चाहूय किंकर्तव्यमिति विचारयामास. तत्र केचनावदन् नास्ति संप्रति विचारम्यावसरः. सत्वरं गत्वा स मतो जयचन्द आक्रम्य पराजेय इति. अन्येतु-अशक्यमिदं जयचन्दाक्रमणं. यतः स स्वीयां महती सेनां पालयन् नूतनागतानां विविधभूपालानां सैन्यान्यपि विभर्ति. तत्कथ- पंचमोगुच्छः ५५ मेकाकिना स्वामिना स आक्रमणाहः तस्मादन्यया कयापि युक्त्या तम्य राजसूययज्ञे विघ्नः कर्तव्य इत्यगदन्. पृथ्वीराजम्य परमचतुरः कुशाग्रमतिरमात्यः कयमापोऽब्रवीत- स्वामिन्यत्खलु क्षत्रियकुलोत्पन्नरुक्तं तत्करणीयमेवेति नः पूर्वजैराच- रितो धर्मः, परन्तु केवल पतंगवत् प्रज्वाले वन्ही निपत्य मरणमपि न श्रेयः. तदधुनाऽम्मत्स्वामिशासनाय समागतो जयचन्दबन्धुरेवाक्रम्य हन्तव्यः. तस्मिन्निहते राजसूययज्ञोऽपि प्रतिवद्धो भविष्यति, तत ऊर्ध्व जयचन्दः स्वयमेव योध्दुमागमिप्यति चेत्तदा वयमपि द्रक्ष्याम इति दिल्लीपतिः पृथ्वीराजः सर्व मंत्रिमण्डलं च तस्य कयमाषप्रधा- नम्य भाषणमाकर्ण्य तथैव कर्तु निर्णयौ. , (३) अथ पृथ्वीराजः सर्वान् स्वसामन्तानाहूय सर्वां सेनां सन्नाह- यासास. तदाधिपत्ये च स्वपितृव्यं कन्हचव्हाणं नियुज्य महता साव- धानेन वालुकरायाक्रमणार्थं चचाल. सा च सेना सप्ततिसहस्रपरिमिता शनैः शनैर्दिल्लीनगरान्निर्ययौ. तदानी च सर्वेऽपि सज्जना ईश्वरं विजयार्थं प्रार्थयन्त. तेषामाशीर्वादान् गृहीत्वा कन्हचव्हाणो महतोत्सा- हेन खोकंदनगरमनुलक्ष्य चचाल. वालुकरायोऽपि ज्ञातवृत्तान्तः स्वसेनां गृहीत्वा पृथ्वीराजेन समं पृथ्वीराजचव्हाणचरिते योध्दं पुरत आययो. अचिरादेव तौ सेनासमूह। परम्पर वीक्ष्य महा- प्रलयवातप्रचालितौ समुद्राविव क्षुब्धौ परस्परमाक्रम्य महता क्रोधेना- युध्येताम्. पदातिविभागश्च स्वशत्रुपक्षीयान् पदातीनाक्रम्य निष्कोषी. कृतैः खड्गैस्तेषां कण्ठान् फलानीव लुलाव. भल्लक्षेपनिष्णातः सादि- विभागोऽपि स्वहस्तलाघवं प्रदर्शयन् स्वप्रतिपक्षीयाण!मुदराणि विदा- य मांसपेशीराविश्चक्रे. कुंजराश्च रणमदोन्मताः प्रतिपक्षवीराणां मस्त- कानि कपित्थफलानीव चूर्णयामासुः. तदिदं युध्दं प्रबहदुधिरशोणितनदीक सर्वतः पतितांगविकलसैनिककलेवराच्छादितं भयंकरमभूत्. निष्कोषीकृतखड्गः अथ वालुकरायः स्वसैन्यं पृथ्वीराजसेन्येनाक्रान्तं प्रतिनिवर्तमान वक्ष्यि क्रुद्धः स्वयमेवाग्रेसरो भूत्वा सेनापति कन्हचव्हाणमेवाचक्राम. कनोजसेनाऽपि स्वस्वामिन इदं धैर्य प्रेक्ष्य सानन्दा पुनरपि महता जवेन पृथ्वीराजसेनामक्रमीत्. वालुकरायश्च महता सावधानेन कन्हचव्हाणम्यापरि खड्गाघातमकरोत्. परमवीरः कन्हचव्हाणोऽपि तस्य वालुकरायस्य तीक्ष्णं खडगप्रहार स्वचर्मफलके गृहीत्वा तीक्ष्णाग्रं भल्लं तथा चिक्षेप यथा स भल्लः क्षणादेव बालु- करायम्य कण्ठदेशं निर्भिद्य कतिपयशूराणां शिरांसि चिच्छद. वालुक- रायश्च तस्मिन्नेव क्षणे विजीवो भूत्वा समरभूमौ निपपात. तं स्व- सेनापतिं समरपतितं वीक्ष्य सर्वमवशिष्टं कनोजाधिपसैन्यं गलितधैर्य सर्वतः पलायतेस्म. कन्हचव्हाणस्तु विजयीभूत्वा महतानंदेन दिल्ली- नगरमाययो.

पञ्चमोगुच्छः ५७ कनोजाधियो जयचन्दश्च भ्रातृवधदुःखाकुल: संप्राप्तमरणाशौचः कथमपि राजसूययज्ञं कर्तुं न पारयामास. तथा तदनुषंगिस्वकन्यायाः संयोगितायाः स्वयंवरं च. (४) वाचकाः! कनोजाधिपम्य कन्यायाः संयोगितायाः परिचयार्थ प्रथमतस्तद्वृत्तं लिखामि. पुरा खलु हिमालये कश्चन् तपस्वी घोरं तपश्चचार. तदानीं तत्तपस्याभीतैर्देवैः काचन् देवांगना तत्तपस्यायां विघ्नविधानार्थ प्रेषिता. सा च स्वनियोगमनुतिष्ठन्ती तेन क्रुद्धेन मुनिवरेण-त्वं हि मर्त्यलोके कनोजाधिपम्य जयचन्दम्य कन्या भूत्वा विवाहसमय उभयकुलघातं करिप्यसि' इति शप्ता. साऽपि देवांगना स्वभाग्य निन्दन्ती कनोजाधिपगृहे प्रादुर्बभूवः कनोजाधिपो जयचन्दोऽपुत्रस्तां सर्वांगसुन्दरी कन्यां लब्ध्वा कृतकृत्यं मन्यमानः पुत्रवत् पालयामास. साऽपि चंद्रकलेव वर्धमाना प्रतिदिनमधिकमेव लावण्यं वहन्ती पित्रोरनल्पमानन्दमजनयत्. अथ संप्राप्तयौवनां दिव्यलावण्यखनि स्वकन्यां संयोगिता प्रेक्ष्य जयचन्दस्तदनुरूपं वरमन्वैषयत्. समग्रभारतवर्षे ये खलु राजपुत्रा- स्तदानीमासंस्तेप्वेकोऽपि तस्याः कन्याया वरणयोग्यतां नाविभः. सर्वे ५८ पृथ्वीराजचव्हाणचरित च राजपुत्रास्तां मूर्तिमती रतिमिव मन्यमानास्तत्संप्राप्तये प्रायतन्त. जयचन्दोऽपि तदनुरूपं वरमलब्ध्वा खिन्नः कथमपि कहरकण्ठीरनाम्न राजपुत्राय तां दातुं निरचिनोत्. संयोगिता तु प्रतिदिनं सकलमुखसंचारिणी सकलसज्जनलोक- सुखदायिनी गंगासलिलपावनी हिमालयहिमानीविमलां पृथ्वीराज- स्य कीर्ति श्रावं श्रावं तस्मिन्निभृतं बद्धप्रेमभावा तं पित्रा योजितं तरुणं राजपुत्रं स्वपतित्वेन निषिषेध. स तु जयचन्दः स्वकन्याया अभिलषितं जिज्ञासुः पुनः पुनः परमलावण्यसंपन्नान् राजपुत्रान् पतित्वेन वरणार्थ स्वकन्यामपृच्छत्. परन्तु सा दृढनिश्चया संयोगिता नैकमपि राजपुत्रं स्वपतिमकरोत्. राजा जयचन्दश्च स्वकन्याया ईदृशं वृत्तमवलोक्य विस्मितः तन्मनोगतं ज्ञातुमिच्छुः समवयस्कां चतुरां दासीमस्मिन् कर्मणि न्ययुक्त. सा च दासी निभृतं देवीं संयोगितां सेवमानाऽचिरादेव तस्या द्वितीयं हृदयपात्रमासीत्. संयोगिता च सर्वास्वपि दासीषु तामेव दासी स्वसखीं मन्वाना सविशेषं स्वमनोगतमकथयत्. साऽपि तस्या गूढाशयं ज्ञातुकामा सादरं तां परिचचार. एकदा-अभिनवपल्लवमण्डितेषु, निद्रिचूतांकुरविगलन्मकरंद- पाननिपतद्भमरावलिझकारमनोहरेषु, कलकंठकूजितमनोरमेषु सहकार- तरुषु, अतिगाढप्रहारिमदनधानुप्कवाणप्रहारनिर्गतैः पिशितैरिव लोहितः शुकचंचुवकैः पुष्पैः समलंकृतेषु पलाशवृक्षेषु, विवाहाथ पञ्चमोगुच्छः ५९ , - समुद्यतासु तरुणीप्विव परमसुन्दरमौक्तिकमालाभिरिवअविरलकोरकावलि- भिःसमाच्छादितासु माधवीलतासु, कामातुरमृगेण शृंगणापनीतकण्डुषु सुविश्रब्धं स्थितासु मृगीषु; विविधपरिमलवहनपरिश्रमादिव मन्दमन्द- वाहिना मलयानिलेन कम्पितासु तरुणीप्विव विविधलतासु, म्फटिक- विमलजलपरिपूर्णतडागक्रीडाश्रान्तेषु सुप्तेषु हंसमिथुनेषु, चंपककुसुम- परिमलसामोदासु दशसु दिशायु सतीषु सा दासी वसन्तोत्सवं निमित्तीकृत्य तां संयोगितां परमसुन्दरे राजेोपवने क्रीडितुं गृहीत्वाऽ गच्छत्. सापि तत्र गत्वा सहकारं जातीलतया कोमलपल्लवांगुलिभिः करशाखाभिः समाश्लिष्टं कोकिलकूजितमनोहरं; विकचकुसुमसौरभ- हृदयहारिणं, भ्रमरावलिश्यामलं, रतिविवाहमण्डपमिव, माधवीमण्डपं; प्रफुल्लकमलकोरकविगलत्परागधूसरं, असंख्यकुसुमितलतानिवारितातपं. क्रीडद्धंसमिथुनप्रणयकलहसमुत्पन्नतरंगकभासुरं, रतिमन्मथस्नानस्थान- मिव स्फटिकोपनिबद्धं तडाग; निसर्गनिर्मितासु लतादोलासु स्थित्वा क्रीडन्ति प्रणयिमिथुनानि पश्यन्ती चकितेव मुषितेव सभयं सर्वत्र मृगलोचनलावण्यहारिणी चटुले नयने प्रेषयन्ती कथमपि क्षणमात्रम- तिष्ठत्. अचिरादेव च तां स्वकांतापेक्षया समधिकलावण्यां प्रेक्ष्य द्वेषादिव वा, स्वापेक्षयाऽधिकसुन्दरे पृथ्वीराजे भावबन्धनाद्वा क्रुद्धो मनोभूरविरतं सुतीक्ष्णैः पंचभिः शरैरपि ताडयामास. सा च क्षत्रिय- कन्यकाऽपि असहायकाकिनी तेन समं यो ध्दुमशक्नुवन्ती शीघ्रमेव जर्जरितांगी मुमूर्छ. सखीगणश्च राजकोपभीतः सत्वरं तां तन्निवास- मन्दिरमानीय शीतलोपचारैः सिषिवे.

६० पृथ्वीराजचव्हाणचरिते अथ प्रकृतिमापन्नां तां संयोगितां सा दासी रहस्यवोचत्- सखिः कथय मां किन्निमित्तमियं तेऽवस्था संवृत्ता. किं पित्तप्रकोपो वा संवृत्तोऽथवा पिशाचबाधा वेति न जानामि. वयं च निसर्गत एव मूढा वाचा कथितमपि न जानीमहे किमुत चेष्टितनिवेदितं. तत्कथय सखि 'किमर्थमित्थं त्वं संतप्यसि. अहं च यथाशक्ति त्वदाभिलषित- पृत्य यावर्जवं प्रयतिप्य इति. इदं च करुणामयं सरवीवचनं निशम्य सकरुणं विलपन्ती सा संयोगिता सगद्गदं-सावि 'अहमम्मि परमभाग्या. अहं च यदि कम्य- चित्साधारणम्य मानवम्य कन्याऽभविष्यं तदा स्वाभिलषितं लब्ध्वा सानन्दा कृतार्था चाभविष्यम्. हले 'किं कथयामि. दुर्लभो मे मनोरथः. केवलं तं निशम्य त्वमप्यहमिव दुःखाकुला भविष्यसि. तद्विरम त्वमम्माद्व्यापारात्. अहमेव पूर्वजन्मसंचित पापफलं भुजे- इति वदन्ती मुक्तकण्ठमरोदात् सा च दासी तावतैवातृप्ता पुनरपि शनैः सदयमवोचत्. तेन च जातविश्रभा सा संयोगिता विरहदुःखं सोढुमशक्नुवन्ती कथंकथ- मपि लज्जया म्वमन वासिनं दिल्लीपतिं पृथ्वीराजमदर्शयत. अगढच्च- सखि ! यद्यप्यहं नाम्मि योग्या तादृशम्य पृथिवीन्द्रम्य पत्नीत्वे, तथापि यथा मूवीं बाल आकाशगतं चन्द्रमपि वांच्छति तथैव मामपि जानीहि. हले! नास्ति मनोरथानामगतिः, परन्तु केवलं मनो- रथेनैव कार्याणि न सिध्यन्ति. असाध्यश्च मनोरथः प्राणिनं परं पंचमोगुच्छः ६१ दुःखाकरोतिः विशेषतस्तु मनोभूः. एष च संकल्पजन्मा सहकारसंपा- दितयुद्धसाधनो वसन्ते मत्त इव मां प्रहरति. परन्तु तथा गाढं मां न प्रहरति यथाऽहं दुःखमुक्ता स्वर्गवासिनी स्वामिनामागमनं प्रति- मालयन्ती स्थास्यामि. किन्तु सततं तद्वियोगानौ पतिता यथा सम्यक् दुःखं भोक्ष्ये तथा शनैः शनैर्माणि विध्यति. तत् सखि ! यदि शक्यं तदा कथमपि मम प्राणप्रियमानीय संजीवय मां. त्वां चाहं प्राणप्रदायिनी देवतामिव मन्ये. अथ यद्यशक्यमिदं मन्यसे तदा कालकूटसदृशं त्वरितं प्राणहारि विषमपि मे देहि. तच्च पीत्वा शान्त- व्यथा हं सुखभाक् स्यामिति. सा च दासी तस्याः प्रलापतस्तन्मनोगतं प्रियकर ज्ञात्वा कृतकृत्या शीघ्रमेवागत्य महाराज कनोजाधिपं जयचन्दं सर्वमकथयत्. स तु शिरसि वज्रेण हतइव नितान्तं विस्मितोऽभवत्. प्रथमं तु स तामेव दासी मिथ्यावादिनी मेने. परन्तु भूयोभूयः सशपथं बोषितः सत्यं मैने. (५) अथ तद्वृत्तं निशम्य दुःखभारममः स कनोजाधिपः स्वयम- चिन्तयत्-अहमस्मि परमभाग्यः. राजसूययज्ञं चिकीर्षुणा मया पृथ्वी- राजविजयाय प्रेषितो वीरो बन्धुर्वालुकराय एव निहतः. इयं च सकलगुणमण्डिता संचारिणी रतिरिव सौन्दर्यशालिनी देवांगनेव ६२ पृथ्वीराजचव्हाणचरिते तु सकलादरपात्रीभूता ममैकाकिनी पुत्री संयोगिताऽपि तमेव कामयते. परन्तु वृथा शोकेन किंवा स्यात्. यथाशक्ति मानवेन प्रयत्नः करणीयः? फलं तु दैवायत्तं. तच्च दैवं यद्यनुकूलं म्यात्तदा स प्रयत्नः सफलो भवति विपरीते तु विफल इति. इत्थं विचार्य तामेव दासी- मवदत्-दासि ?त्वमसि परमचतुरा. त्वयैव महता चातुर्येण प्रकटीकृत- मिदं तस्या मनोगतं. साम्प्रतं तु तस्य पृथ्वीराजस्य दोषदर्शनेन वा पितृद्रोहपातककथननेन वा येन केनापि प्रकारेण तस्या मनः पृथ्वी- राजान्निवर्तय. यदि त्वमिदं मदभिलषितं करिप्यसि तदा यदिच्छसि तद्दाम्यामांति. साऽपि स्वामिभक्ता तथेत्यंगीकृत्य ययौ. अथैकदा रहसि सा मुग्धां संयोगितामवोचत्-राजकन्ये ? योऽसौ त्वया मनसा वृतः पुरुषः स च केवलमलौकिकः सकलभूपालरत्न- मित्यत्र न संशयः. तादृशं पुरुषमनेकजन्मसंचितपुण्यशालिन्य एव कन्यका लभन्ते, तथापि स तव पितुः शत्रुरित्यवश्यं विचारणीयम्. पिता हि यथा जन्मदो योग्याय वराय कन्यां दत्वाऽत्मजायै समुपा- करोति न तथा भर्ता. भता च केवलं यज्ञयागादिधार्मिकक्रियासु अंशतः पुण्यभाजं पत्नी करोति. तस्मात्सर्वेऽपि शास्त्रकाराः पितरमे वाधिकं मन्यन्ते. तद्यदि त्वं पितृद्रोहिणं पृथ्वीराज वरिप्यसि तदा सर्वेऽपि लोकास्त्वां निन्दिप्यन्ति. च किंच-यद्यपि पितृद्रोहमगणयित्वा त्वया पृथ्वीराजोवृतस्तथापि तव पिता बलाढ्योऽवश्यमेव तेन समं योत्स्यत तदा कदाचिदम्त्य- पञ्चमोगुच्छ ६३ निष्टस्यापि संभावना. तस्मादहं वदामि पृथ्वीराजं विहायान्य एव कश्चन तरुणो राजपुत्रस्त्वया वरणीय इति. न सा च चतुरा संयोगिता सख्या इदं भाषणं निशम्यानुमित- पितृहृदया स्पष्टमेवोत्तरं दातुमिच्छन्ती सहासमवदत्-सखि ? सत्यमेव त्वं मामनुकम्पसे. न कोऽपि मामीदृशमुपादिशत्. अहमपि तस्मा- त्प्रियतमात् मन्मनो निवर्तयितुं प्रयते परन्तु योग्यायोग्यपरीक्षाकुशलं- तदेव ततो न निवर्तते. सर्वे हि जना लौकिकं वाऽलौकिकं वा विषयं मनसैव योग्यमयोग्यं वेति निश्चिन्वन्ति. तद्यदि निप्पापं मदीयहित- कारि मनो मां तमेव योग्य निबोधयति तदा परेषां का कथा. यदवोचः पितैव भर्तुरपेक्षया श्रेष्ठ इति तन्न सम्यक्-यत इह जगति सर्वेऽपि जन्तवो यथा यदृच्छया समुत्पद्यन्ते तथैव मानवाअपि ? उत्पन्नाश्च बुद्धिमत्ताशालिनो जन्तवो मनुप्या भवन्ति. सर्व हि मानवजातिकार्य स्त्रीणां भर्तुःसाहाय्यन, न स्वातंत्र्येणेति शास्त्राणि वदन्ति. तत्कथय पश्वादिसाधारणजन्मदायिनोऽपेक्षया दुर्लभमानुषत्व- प्रापकस्य भर्तुः श्रेष्ठत्वं नवेति. यदगदः-मम पितुः प्रियकरविरोधित्वात्तेन समं युद्धप्रसंगे कदाचिदनिष्टमपि स्यादिति तत्क्षत्रियकन्यकानां साधारणमेव. अद्याव- धि यानि खलु मत्पित्रा युद्धानि कृतानि तत्र च ये हताः क्षत्रियास्तेषां ६४ पृथ्वीराजचव्हाणचरिते स्त्रीणामपि का गतिरभवत्. तस्मात् क्षत्रियकन्यका ईदृशादानष्टात् न बिभ्यति. मम त्वयं निश्चयः यस्य कुले गृहीतं जन्म स पूज्यः पिता दुराचरणैर्न लोकापवादास्पदतां प्रापणीयः. अतः परं स्वजन्मनः साफल्यं स्वयमेव करणीयं न तत्र पितुरपेक्षेति. सा च जडमतिदासी राजकन्याया इदं भाषणं निशम्य मूढा शनैः शनैः समागत्य सर्वं कनोजाधिपाय न्यवेदयत्. सोऽपि परं खिन्नः पुनः पुनरपि नानाविधैरुपायैस्तां तस्माद्व्यवसायान्निवर्तयितुं प्रयतमानोऽपि यदा न लेभे यशस्तदा रुष्टस्तां संयोगितां गंगातीरे नूतनं प्रासादं विरचय्य तत्रास्थापयत्. परितश्च नग्नखड्गधारिणो निरीक्षकान् स्थापयित्वा तदध्यक्षाय 'ममाज्ञां विना कोऽपि पुरुषो न प्रवेशनीय ' इति सम्मादिशत्. साऽपि राजकन्या संयोगिता नष्टे- ऽपि स्वातंत्र्येऽखिन्ना परमेश्वरे निहितभारा कथमपि कालप्रतीक्षां चक्रे.

षष्ठोगुच्छः। ष १ पृथ्वीराजस्य सहायरत्नानि, २ चामुण्डरायस्य शस्त्रत्यागः. ३ कयमाषामात्यस्य मृत्युः ४ गिझनीपतेः पुनः पराभवः. (१) हापराक्रमी कनोजाधिपतिर्जयचन्दोऽपि येन म राजसूययज्ञविधाने विनितः स पृथ्वीराजः कीदृशान् सहायानलभतेति निरूपयितुं वयमुपक्रान्ताः. वाचकाः? अतिवुद्धिमानपि राजा सहाय- साहाय्यं विना कदापि लोकं न्यायेन शासितुं न प्रभवति. असंख्याः खलु जना जगतीतले नानाविधान् दुरुद्यमान् कुर्वन्तो जीवन्ति. तांश्च कुमार्गतो निष्कास्य साधुमार्गे स्थापनमति- ६६ पृथ्वीराजचव्हाणचरिते. दुष्करं कर्म. तत्र चैकार्की कदाऽपि न प्रभवति. अतो मतिमता राज्ञा यथाशक्ति समीचीनाः सहायाः संपादनीयाः. संपादितेषु तेषु विश्वस्य राजकार्यमपि करणीयं. एवंस्थिते सर्वासु प्रजासु अन्य यो दूरीभवेत्. अस्तु. तस्यास्य न्यायेन सर्वाः प्रजाः परिपालयतः पृथ्वीराजम्य चत्वार : सहाया मुख्या आसन्. ते च यथा कयमापो नाम मुख्य- मात्यः, चन्दबन्दीनाम कविः, पितृव्या वृद्धः कन्हचव्हाणः . श्यालश्चामुण्डरायश्च. शूराः समय त एतेऽलौकिकबुद्धिमत्ताशालिनः समये पृथ्वीराज दुष्करे कर्मणि साहाय्ययन्तस्तदीयां कीर्तिं विस्तारयामासुः. (२) तदानीं श्रीपृथ्वीराजस्य समीपे चन्दपुण्डीरनामा कश्चन क्षुद्र- बुद्धिः सामन्त आसीत्. स तु पृथ्वीराजम्य चामुण्डराये प्रेमविशेष बीक्ष्यासूयान्वितः प्रतिदिनं कुकल्पनाभिः पृथ्वीराजम्य मनोऽदूषयत. पृथ्वीराजस्तु तस्य वाचमनादृत्य तथैव प्रीतिमकरोत्. एकदा तु स दुष्टमतिस्तमवदत्--स्वामिन् ? चामुण्डरायः म्वभागिनये युवराजे रेणसीकुमारे निरतिशयां प्रीतिं करोति तत्र कारणमिदमेव-यत्-सिंहास- नाद्युप्मान्निष्कास्य स्वभागिनेयः स्थापनीय इति. पृथ्वीराजम्नु तदसत्यं मन्यमानम्तमेव निरभर्स्यत्.

षष्ठागुच्छः ६७ एकदाऽद्वितीयधनुर्धारी द्रोण इवापश्चामुण्डरायोऽरण्य म्यभा गिनेयं कुमारं धनुर्विद्यां शिक्षयितुं गृहीत्वाऽगच्छत्. शिक्षयित्वा च ततो निवर्तमानो दिल्लीनगरे यथेच्छं धावन्तं मदोन्मत्तं शृंगारहार- नामकं राजप्रियं हम्तिनमद्राक्षीत्. स च कुमारं रिरक्षिषुम्तं हस्तिनं परिहत्यापेरण मागंण राजप्रासादमागन्तुं प्रचचाल. परन्तु दुर्दैवतः स च मत्तो गजः प्रजाजनानां गृहाणि पातयन्नापणिकानामापणा- न्विध्वंसयम्तमेवोदिश्याक्रन्तुमधावत् चामुण्डरयस्तु भीष्म इव निर्भीकः सहसा स्वाश्वं तथा चोदयामास यथा सांऽश्वः म्वाग्रपादे। हस्तिदन्तयोरारोप्य तस्थौ. चामुण्डरायऽपि लघुहस्तः खगेन शुण्डादण्डं समूलमच्छिनत्. वामहस्तेन च गदाप्रहारं कृत्वा तं यमालयं प्रेषयास. स च हस्ती मृतः सन् यदा भूमावपतत्तदा परितः पण्यगृहेषु वर्तमानानि दुग्धभाण्डानि अधस्तान्निपेतुः. रुधिर- प्रवाहश्च दुग्धप्रवाहमिश्रो विचित्रामेव शोभा बभार. तं शृंगारहारनामा हम्ती सामन्तेन चामुण्डरायण निहत इति सर्वत्र प्रसृतां वार्ती श्रुत्वा पृथ्वीराजः सुतरां विसिप्मिये. अत्रान्तरे सूचकैश्च निवेदितकल्पितावास्तववृत्तः स पृथ्वीराजश्चामुण्डरायेण हस्तिहननमिषणाहमेव हत इति मन्यमानः परं चुकोप. कोपविनष्ट- मतिस्तदानीमेव रामगुरुपुरोहितद्वारा तं चामुण्डरायं बन्दीकर्तुमादिदेश. तादृशमनिष्टमादेशमाकर्ण्य सर्वेऽपि सामन्ताः पृथ्वीराज तथा न कर्तुं विज्ञापयामासुः, परन्तु क्रोधातिरेकनष्टसदसद्विवकमतिनीगृहात्त- द्विज्ञापनाम्.

६८ पृथ्वी राजचव्हाणचरिते. अथागतिः श्रीरामपुरोहितः खामिनियोगानुष्ठान य शृंखलां गृहीत्वा चामुण्डरायम्य पुरत आजगाम. अश्रावयच्च तं स्वामिनियोग. स तु प्रकृत्यैव धीरः प्रशान्तान्तःकरणेन स्वामिनो नियोगं श्रुत्वा- ऽवदत्-पुरोहितराज? त्वमितो गत्वा स्वामिनं पृथ्वीराजं वद-चामुण्ड- रायः पृच्छति म्यामिना शृंखलाग्रहणायाज्ञा प्रदत्ता. सा च स्वीकृता- ऽपि. परन्तु शस्त्रत्यागं विना शृंखलाग्रहणमशक्यं, तत्किं मया शस्त्रं त्यक्त्वा शृंखला धार्या? त्यक्तं शस्त्रं चामुण्डरायः पुनर्नगृहातीति जानात्येव म्वामीति. तु पृथ्वीराजस्तु तेन पुरोहितेन पृष्टोऽपि कोपप्रनष्टप्रज्ञः-नाम्त्या- वश्यकता तव साहाय्यम्य. तत्त्वमद्यप्रभृति शृखलामेव धारय-इति पुनरपि कथयामास. स तु स्वामिभक्तश्चामुण्डराय इभं नियोगं श्रुत्वा प्रहसन् परमादरेण शस्त्रं निक्षिप्य लोहशृंखलां हम्ताभ्यामुवाह. तद्वीक्ष्य सर्वेऽपि सामन्ताः प्रजाजनाश्च परं दुः खाकुलाः पृथ्वीराज निनिन्दुः वाचकाः यद्यपि पृथ्वीराजः परं बुद्धिमानासीत्तथापि क्षत्रियाणां बुद्धेरजे गुणप्रधानतया तम्यां सर्व एव विकाराः प्रबला भवन्ति. यथाहि तेषां प्रसादो भयंकरम्तथैव कोपोऽपि. सत्यप्रकृतावपि यद्यपी- मे विकारा जायन्त्येव तथापि सत्वम्य, अविचार्य कस्यापि कार्यम्या- विधानम्वभावत्वेन न तत्रैदृशो हानयो जायन्ते. अतएव रजो- गुणापेक्षया सत्वगुणम्य श्रेष्ठयं. अम्तु.

पष्ठोगुच्छः [३] एवं चामुण्डरायं बन्दिनं विधाय शान्तकोपः स पृथ्वीराज पक्काकी स्वयं विचारयन्निदमात्मनो महत्स्खलितं मेने. सर्वेषामपि प्रजाजनानां तथा सामन्तानां च संलापान्निशम्य पृथ्वीराजो नतराम- खिद्यत. तं चेमं खेदं बहिरप्रदयितु कामो मानसिकव्यथापरिहाराय च पृथ्वीराजो मृगयाभिषेण वनान्तरं जगाम. पश्चात्सर्वमपि राजकार्य मुख्यामात्यः कयमाष एवाकरोत्. स तु पर स्व.मिभक्तो बृहस्पतिरिव कुशाग्रमतिर्भीष्म इव प्रतिस्पर्धिभयंकरो द्रोणइव सकलशस्त्रास्त्रविद्या- कुशलो न्यायेन प्रजा अप्रालयत्. पृथ्वीराजो मृगयार्थ वनं गतोऽपि- स्वामात्यः कथं राज्यकार्य करोतीति ज्ञातुं निभृतं स्त्री दिल्लीनगर मागत्य सर्वमपश्यत्. वाचकाः ! इदं खलु संसारचक्र विचित्ररचनमलौकिकमस्ति. यदा हि एतत्संसारचक्रारुढम्य कस्यापि जीवस्य भाग्यमुदयोन्मुखं वर्तत तदा तस्य तादृशा एव सहाया भवन्ति. बुद्धिरपि तस्य सन्मार्ग- वर्तिनी सदैव कर्तव्यदक्षा भवति. अथ यदा स पतनोन्मुखो भवति तदा तस्य ते प्राचीनाः सहाया एव शत्रवो जायन्ते. सदसद्विवेक शालिनी तस्य बुद्धिरपि प्रतीपा संजायते. किंबहुना स यावच्छक्ति सर्वाणि कार्याणि पूर्ववद्विचार्य कुर्वाणोऽपि अनिष्टमेव फलं लभते. तस्मात्सज्जना महाभागाः यो हि परां काष्ठामेश्वर्यस्य समारूढस्तेन हर्षोऽपि न कार्यः, यश्चाधोगति प्राप्तस्तेन खेदो न करणीयः, यथा घटीयंत्रनिबद्धा घटकाश्चालकप्रयत्नमनुस्मृत्योपर्योगच्छन्ति तथैव पृथ्वीराजचव्हाणचरिते. देवेन प्रचालितं संसारचक्रमारूढा वयमपि नीचेोत्तमां गतिं लभामह इति. अस्तु. प्रकृतमनुसरामः. एकदा कयमाषो राजकार्य विधान र्थ र जसभा गच्छन् मा- गंऽलौकिकलावण्यश लिनी सुमनोहरले चनां, मयूरपाशसमकेशपाशां. कुसुमगुच्छसमलंकृतधम्मिलां, अतिशुभ्रमल्लिकाकुड्मलसुन्दरदन्ताव लिमनोहरवदनकमलां, लावण्यनिजिते चन्द्रकले इव हीरकमय कुण्डले कर्णभ्यां वहन्ती, अत्युन्नतकुचयुगललुण्ठन्मुक्ताहारहृदयहा- रिणी, कामातुरेणेव नपुंसकेनापि कौशेयवस्त्रेण समाश्लिष्टगात्र, ताम्बूलसेवनरक्ततराधरोष्ठनिपतद्दिव्यसुधां भूमिगतामुर्दशीमि। विकि क्तवातायनास्थितां कांचन गणिकामपश्यत्. तस्मिन्नेव क्षणे स विद्वानपि विचार लोऽपि कामदेवस्य वशो बभूव. स तु कथमपि जनलज्जाभीतो महता प्रयत्नेन चित्तमवधार्य राज्यकार्याणि विधाय म्वगृहमागतः परमस्वस्थचित्तो बभूव. स च तस्या गणिकाया वृत्तं ज्ञातुकामः स्वीयां विश्वस्तां दासी प्रेषयामास. सा च निभृतं स- वमन्विप्य तां पृथ्वीराजम्य गणिकां कर्नाटकीनाम्नी निवेदयामास अमात्यः कयमाषो राजनीतिचतुरो राजगणिकाभिलाषमन्याय्यं मानन्नपि काममूढचेतास्तस्याः समीपे गातुं मनश्चक्रे. नमोऽस्तु तस्यै प्रवलायै कामवासनाय. या च विद्वांसमपि वशीकृत्य स्वदासं करोति! अस्तु. ततश्च स कयमाषः पुनरपि स्वानुरागबोधिकां पत्रिकां तदन्ति- के प्रेषयामास. साऽपि जात्या गणिका राजाश्रिताऽपि मूलस्वभाव- मविम्मरन्ती तदनुमतमुत्तरं प्रेषयामास. कयमाषश्च तल्लब्ध्वा स्वर्ग पष्ठोगुच्छः ७१ हस्तगतं मन्यमानः संध्यासमयमनुपालयन् कथमपि संततपातिनो मारशरानसहत. अथ स्वनाथं देशान्तरं गतं प्रेक्ष्य परपुरुषेण चन्द्रेण समं रममाणायाः प्रादिग्गमिकाया मुखे सुरम्यहासमनोहरे, सूर्यसेवकेषु सकलपक्षिगणेषु स्वस्वामिन्याः प्रागदिशाया अविनयं वीक्ष्य स्तव्धेषु, मन्दमन्दमकरन्दकणवाहिनि चन्दनतरुगणा श्लेषसुगन्धौ अभिसारिका- मार्गप्रदर्शके सेवक इव प्रवहति समीरे, सुविकचमुखकमलमनहरासु कमलिनीलतासु, सालंकृतासु परपुरुषागमनमार्गदत्तनेत्रासु गाणिकासु, यथाशक्ति प्रवृद्धांधकारनिराकरणपरेषु दीपेषु प्रज्वलत्सु सत्सु, स कामातुरः कयमाषो महताऽऽनन्देन समलंकृतशरीरः केवलं दासी- सहायो वेषान्तरमास्थाय तस्या गणिकाया भवनं गन्तुं प्रतस्थे. साऽपि च गणिका प्रधानामात्यं पृथ्वीराजम्य परमसुहृदमागच्छ- तं निशम्य सन्तुष्टा सर्वमपि विलासभवनं सश्रीकं विधायोत्तमोत्तम- मद्यपरिपूर्णाश्चषकांस्तथा मांसमयं च भोजनं विधाय तदागमनं प्रति- पालयन्ती तस्थौ. कयमाषश्च तस्या भवनं प्रविश्य भुक्त्वा रुचिरं भोजनं मद्य- चषकं प्रेम्णा गाणकाया मुखे यावद्ददाति तावत्पृथ्वीराजः स्वराज्य- वृत्तं ज्ञातुकामो निभृतं राखौ दिल्लीनगरमागत्येच्छिनीकुमार्याः प्रासादं प्रविवेश. प्रविश्य च कुशलं पृच्छन् समीपवर्तिनि स्वकर्णा- टकीवेश्याया भवने महान्तमुत्सवं वीक्ष्य तत्कारणं जिज्ञासमानः ७२ पृवं राजचव्हाणचरिते. कयमाषप्रधानागमननिमित्तोऽयमुत्सव इति ज्ञातवान्. ज्ञात्वा चेत्थं कोपकलुषोऽपि विवेकावधृतमनाः 'वेश्यैवेयं तत्र का वा स्वकीयता इति जगाद. राज्ञी इच्छिनीकुम री च स्वपतेः पृथ्वीराजस्येदं भाषण निशम्य सरोष-एष च कयमाषः साम्प्रतं प्रमत्त इव लक्ष्यते. कथ- मन्यथा कर्णाटकी वस्वामिगणिको ज.नन्नपि तया सह रन्तुं मनश्चक्रे स चैवं कुर्वन्नप्युपेक्षितश्चेदमादृशा राजपत्नीरपि परामृशेत् इति बभाषे तस्या इदं वचनमाकर्ण्य मूनि वज्रेण निहत इव नष्टविवेकमति कोपातिरेकरक्तलोचनः स्वीयं धनुर्गृह त्वा तीक्ष्ण ब.णं तस्य कयमाष- प्रधानस्योरोऽभिलक्ष्यामुंचत्. स च बाणः कालसर्प इव महता जवेन गच्छन् पर्यंकाव स्थितं विलासमन कयमापं हृदये द्विधा ऽकरोत्. तदा- नीमेव ज्ञातपृथ्वीराजागमनः पश्चातापदग्धः स कयमाघ,मात्यः 'सदृशं मया कुकर्मणः फलं लब्धमिति वदंस्तस्मिन्नेव क्षणे धरिणीतले पपात कर्णाटकीवेश्याऽपि राजकोपीता तस्यामेव रात्री दिलीनगरादपमृत्य कनोजनगरं गत्वा तदधिपस्य कन्यायाः संयोगितायाःदासीभूत्वा तस्थौ. पृथ्वं राजश्च लोककोपभीतस्तस्य कयमापस्य शवं स्वसेवकैनिभृतं भूमि- सात्कारयामास. स्वयं च पुनरपि मृगयार्थमरण्यं ययौ. अथ प्रभातेऽपि न समागतं स्वपति प्रेक्ष्य चिंतातुराऽनिष्टमाशं कमाना साची कयमापस्य पत्नी भगवतीसहाय चन्दकविं सर्वं वृत्तं न्यवेदयत्. स तु भगवतीप्रसादात् सकलं वृतांतं ज्ञात्वा शोकाकुलस्ता कयमाषपत्नी सत्यं वृत्तं निवेदयामास. निशम्य तच्छोकसागरमन्ना सा पतिव्रता खपतेर्गुणान् म्मार म्मार सरोद. अन्ते सहगमनोद्यता स्वपत षष्ठो गुच्छः ७३ मित्रं चन्दकवि -- भ्रातः! यदि मयि स्वल्पोऽपि कृपालेशः स्यात्तदा त्वं शीघ्रमेव मह्यं मम प्रियपतेमूर्धानं देहि. अहं च तं गृहीत्वा चितां प्रविष्टा म्वर्गे पतिं लभेय इति सांजलिबन्धं प्रार्थयामास. तं चन्दकविरपि तां करुणामयीं स्वपित्रस्य कयमाषम्य पत्न्या वाणीं निशम्य दुःखाकुलः सत्वरं वनाद्राजधानी प्रत्यागतम्य पृथ्वी- राजस्याज्ञां गृहीत्वा तम्य कयमापस्य शिरस्तम्यै साध्यै ददौ. तच्चा- दाय महताऽऽनन्देन सा सती वहिं प्रविष्टा देवलोकमगात्. सर्वेऽपि नागरिका अकस्मादेव मुख्यामात्यस्य भयंकर मृत्युं निशम्य भीताः सयत्नं तत्क रणज्ञानार्थं प्रयतमानाः पृथ्वीराजमेव तत्कारणं ज्ञात्वा सुद्धाः परमसंतुष्टाअभवन्. राजाऽपि स्वापराधं घोरं मन्यमानो नितान्तमखिद्यत. तं च प्रधानघातेन खिद्यमानं प्रेक्ष्य चिंतातुराः सर्वेऽपि सामंतास्तदीयखदापनयनाय मृगयामेव चमं सुलभमुपायं मन्यमाना मृगयाथै राजानं विज्ञापयामासुः. सोऽपि च किमपि चित्त- विनोदकारणमन्वेषयन्ननायासप्राप्तमिदमन्वमन्यत. (४) अथ ते सर्वेऽपि सामंता महतानंदेन पृथ्वीराजसमेता मृग- याथ मह.रण्यं ययुः. तत्र च नानाविधान् क्रूरान् पशून् हत्वा प्रक- टितौर्य : कतिपय दिनानि तस्थुः. ततश्च ते क्रमेण नानारण्यानि पर्य- टन्त. पनिपतरणक्षेत्रमाययुः . तत्र परमपवित्रभागीरथ्यास्तारे क्लुप्त- निवासा सानंदामतस्ततो विहरन्तस्ते सर्वेऽपि सामन्ताः पृथ्वीराज संतोषय,मासुः. तदानी च दुर्गाकेदारो नाम विद्वान्नानादेशसंचार.

पृथ्वीराजचव्हाणचरिते. चतुरः कविवरः पृथ्वीराजस्य संनिधिमागत्य स्वविद्यापरिचयं दर्श- यितुं तथा सुप्रसिद्धन भगवतीप्रसादशालिना चन्दकविना सम विवदितुं च मनीषां प्रदर्शयामास. पृथ्वीराजोऽपि विद्वज्जनादरपरः काव्यरसिकस्तदनुनुमुदे. अचिरोदव चन्दम्य तथा दुर्ग:केदारस्य साहित्यविद्याको शलं मतिनैपुण्यं च वीक्ष्य सन्तुष्टस्तं दुर्गाकेदार- मपारद्रव्यस्वामिनं विधाय स्ववासगमनाय विसजयामास. स च दुगाकेदारो विद्वान्नान देशान पर्यटन गिझर्न श्वरम्य कीर्ति निशम्य तं द्रष्टुकामो गिझनीनगरं जग.म. मार्गे च सोनपूरनगरम्य समीपे गिझनीश्वरः शहाबुद्दीनः स्वसेनया सह क्लप्तनिवास आसीत. तत्र च गत्वा गिझनीनाथमाशीर्वादेरभिनंद्य मोहव्यतखाननाम्नो बल ट्यम्य प्रधानामात्यम्य निवासेऽतिष्ठत्. अचिरादेव तत्र पिंग- लजटाकलापधारी भस्माविलनिखिलगात्री व्याघ्रांबर. कश्चन तपस्वि- वषधारी दूतः समायातः . स च तं मोहब्बतखानमबदत-अमात्य- श्रेष्ठ ! साम्प्रतं भवद्भिनिःसंशयं दिल्लीपतिः पृथ्वीराज आक्रमणीयः. अम्मिन्नाक्रमणऽवश्यमेव यूयं यशम्बिने भविप्यथ. यतो याऽयं प्रसिद्धश्चामुण्डराया भीम इव बल, ट्यः सामंता दिलीपतिश्यालकश्चा- सीत् स - पृथ्वीराजनैव शस्त्राग्रहाय शपथं कारयित्वैव बंदीकृतः. तथैव च बृहस्पतिरिव कुशाग्रमतिः प्रधानामात्यः कयमाषा राज्ञा म्वयं निहतः. साम्प्रतं तु पानिपतग्रामसमीपेऽरण्ये किमपि राज्यकार्य न पश्यति दिल्लीपतिः. तदम्मिन् समयेऽकम्माद्गत्या ऽऽकान्तो वश्यमेव पराजप्यत इति. प्र मृगयार्थं गतः मृग पष्ठो गुच्छ: ७५ मोहबतखानस्तु तम्य गृढचारम्यद भाषणं निशम्य सानन्दः सत्वरमेव तवृत्तं स्वामिन शहाबुई नाय निवदयितुं जगाम. दुगा- केदारस्तु तं मुनिवपधारिणं यवनचार ज्ञात्वाऽम्वचित्तः स्वयमवेदं सर्व वृत्तं पत्रमारे,प्य पृथ्वीर जाय निवेदयितुं कमप्योष्ट्रिकं प्रेषयामास. पृथ्वीर,जस्तु तेनोप्टिकेण समानीतं वृत्तमाकर्ण्य सावधानः सर्वान् सामन्तानकत्रीकृत्य शहाबुद्दीनस्यागमन प्रतिपालयंम्तम्यौ. अचिरादेव च स गिझनीपतिः ह बुईनो महता यवनसैन्यन समं तं पृथ्वीराजमाचक्राम. अ.क्रम्य च घार संहारं प्र.वर्तयत. दिली- पतिः पृथ्वीराजेऽपि युद्धकुशल: वृद्धम्य स्वपितृन्यम्य कन्हचव्हाण- भ्यानुमत्या म्वसैन्यव्यहान व्यरचयत्. क्षत्रियसीनकाश्च संख्यया न्युना अप महतः प्रवल न् यवनसैनिकानजयन. भृयो भूयो लब्धः पराभवः खिन्नः शह बुई नाऽस्मिन युद्ध स्वप्रयत्नम्य परा काठाम- करोत्तथापि स पृथ्वीराज जतु न प्रभवत. शीघ्रमेव च पूर्ववत क्षत्रियसिंहः पराजितास्त यवनगजा गिझनीनगरमभिलक्ष्य पलायि- तुमारभन्त. तैः समं पलायमानः शहाबुई नोऽपि केनचित्पृथ्वीराज- सामन्तेन बन्दकृत्यानीतः पृथ्वीराज प्रणिपपात. तं च प्रणिपतन्तं- चीक्ष्य स्मेरमुखः पृथ्वीराजस्तमाह-यवनपते ! भूयो भूयः परा- जितोऽपि त्वमार्यावर्ताक्रमणान्न विरासि : किमर्थं वृथा सैनिकहल्यां करोषि. किमर्थ च दीनानां नः प्रजाजनानां शापान गृह्मासि. किमर्थ च प्रभूतैरुपायनैः म्वकोशान रिक्तान् करोषि ! तद्विरमाम्मात भारत- विजयरूपयापारात. अहं त्वां सत्यमेव कथयामि-यावदमम्यां भारत भुवि क्षत्रियकुलमवशिष्यते तावत् दुप्करो भारतविजयो भवतेति.

७६ पृथ्वीराजचव्हाणचरित. पुरुषाधीनो शहाबुद्दीनम्तु तम्य पृथ्वीराजम्येमां गर्वोक्ति निशम्य मनसि नितांतं कु पतोऽपि स्वस्थितिं विभाव्य शनैरवदत्- राजन? प्रयत्नश्च नतु फलं. तत्तु देवायत्तं. परन्तु फलं न लभ्यत इत्येता वता प्रयत्नादुपरमणं कापुरुषम्य लक्षणं. यदि मानवोऽनलसः सन सततं प्रयत्नं कुर्यात्तदाऽवश्यमेव स फलं लभेतैवेति. पृथ्वीराजश्च तस्य त्तरे मनोऽदत्वोच्चैहास. पूर्ववञ्च अष्टसहस्र- संख्या कानुत्तमानश्वानुप यनत्वेन तम्माहीत्वा तं मुमोच. ततश्च महताऽऽनन्देन दिल्लीनगरमागत्य विजयोत्सवमकरोत्.

जा सप्तमो गुच्छः। १ कनोजाधिपाक्रमणे विचार:. २ चन्दकोः सत्कारः. ३ पृथ्वीराजशोधने जयचन्दस्य प्रयत्नो यश- स्विता च. । लंगडीरायस्य सैनापत्यम्. [१] एवं प्रबलं गिझनीपतिं शहाबुद्धीनं विजित्य लब्ध- ख्यातिः पृथ्व.गजः परेषां दुर्दर्शनोऽभूत्. सर्वे च तद.याः प्रतिस्पर्धनस्तस्य सर्वत्र प्रसृतं यशो वीक्ष्य खिन्नाः प्रतिकारासमर्था दिवाभीता इव तूष्णी- मतिष्ठन्. KA पृथ्वीराजचव्हाणचरिते. एकदा पृथ्वीराजे राज्यक र्याणि विधाय स्वसहायैः समं मंत्र- स्थानमुपविष्टे सति कने जनगर समागतः कश्चन गूढचारी चारो द्वारपालनिवेदितागमनः सरभसमागत्य प्रणिपपात अब्रवीच- स्वामिन् ! अहं खलु नानादेश न् पर्यटन् कनेजनगरमगच्छम्. तत्र च कृतस्थितिर्निभृतं चरनिदमश्रौषम्-राजा जयचन्दो राजसूयया विघ्नविधानात् परं रुष्टः स्वामिपादेभ्यः परं द्वेष्टि. परन्तु तम्यैक किनी कन्या भूतलवासिनी देवांगनेव मूर्तमती रतिरिव ब्रह्मणः कृतिक शल- सर्वस्वमिव षोडशवर्षदेशीया भगवतो मन्मथदेवस्य विजयपत,केव कनोजनगरललामभूता वर्तते. सा तु सकलचारणमुखमण्डलवासिनी शारदज्योत्स्न,धवलां प्रतिभटहृदयकमलविदारिणी स्वामिनां कीर्ति समाकर्ण्य हंसीव लुब्धा परमनुरक्ता स्वामिपादानेव वरिप्यामीति कृतनिश्चया स्वामिद्वेपणा तत्पित्रा जय वेदेन भूयो भूयो निबोधिताऽपि स्वाग्रहं न मुंचीत. तेन च कुपितस्तस्याः पिता कनोजाधिपो गंगा- तोरे नूतनं प्रसादं निर्माय तत्र तां प्रतिबंधे न्यधात्. तत्र च स्यानुज्ञां विना कस्यापि प्रवेश नि.पषेध च. साम्प्रतं च सा सौन्दर्यखनिः केवलं कतिपयदासीभिः समेता दुःसहं कारागारवासदुःखं भजत इति. पृथ्वीराजस्तद कर्ण्य क्रुद्धः स्वसह,यमण्डलाय किंकर्तव्य- मित्यपृच्छत्. अवदच्च-' नाहं खलु संयोगितानुराग द्रवीमि किंतु क्षत्रियस्वीकृतव्रताभिम.न त्. नः क्षत्रियाणां हीदं परम व्रतं, यच्छर- णागतानां परिपालनं. अनेन व्रतनैवेह जगति क्षत्रियजातिः सर्वेषा- मादरपात्रं संवृत्ता. तद्यदि मदनुरागापराधात् स्वकन्यां संयोगिता राजा जयचंदः स्वद्रोहिणी मन्यमानः प्रतिबन्धे स्थापयति तदा मया सप्तमो गुच्छः ७९ साऽवश्यं मोचनीया अ.त्मप्राणानपि तृण कृत्य रक्षणं येति मन्ये. अस्मिन्विषये भवतां को वाऽभिप्र.य इति ज्ञ.तुमिच्छ.मीति ते सर्वे सामन्ताः पृथ्वीराजस्य प्रश्नमाकर्ण्य सानन्दं तदनुकू- लमेवावदन्. पितृव्यः कन्हचव्हाणस्तु यद्यपीदं सर्व सत्यं तथापि स कने,जाधिपः बलाढ्य इति न विस्मरणीयम्. यथैव स बलाढ्यस्तथैव स धन ढ्योऽपि सांप्रतं तु राजसूययज्ञार्थमाहूतैवविधैर्भूपालैरान.तैरुपायनैः तस्य कोशाः परिपूर्णाः सन्ति. तद्यत्किचिदपि कर्तव्यं सविचारमेव कार्यमिति. अहं तु पश्यामि-यथाऽस्माभिर्युक्त्या राजसूययज्ञे विघ्नं विधाय स यागः प्रतिबद्धस्तथैव कयापि युक्त्या संयोगिताऽपि हरणीया. वयं च तस्य संपदं भूमिं च न वांछामः . तस्मात् कृष्णवत् केनाऽप मिषेण पृथ्वैर जेन संयोगिता दिल्ली नगरमानेया. वयं च सर्वथा तं साहाय्ययिप्याम इति जगाद. चन्दकविस्तु तूप्णी स्थित्वा सर्वेषां भाषणानि शृण्वन्नुवाच- स्वामिन् ! अयमर्थोयुक्त्यैव साधनीयो न शक्त्या. सा च युक्तिरित्थम् -अहं च तस्मै जयचंदायाशीर्वाददानमिषेण कनोजनगरं गच्छामि. तत्र सर्वेऽपि सामन्तास्तथा पृथ्वं राजश्च मदीयाः परिचारका नाम भूत्वा मयैव सममागच्छन्तु. वयं च सर्वे निभृतं तद्राज्यं प्रविश्य तदीयं बलमवले,क्योचितकाले योग्यमेव करिष्याम इति. दिल्ली पतिः पृथ्वीराजस्तथा सर्वेऽपि तदीयाः सामंताः चंदकवि. कथितामिमां युक्तिं निशम्य सन्तुष्टास्तथैव वर्तितुमनुकूला अभवन्.

८० पृथ्वी राजचव्हाणचरिते. अथ सुमुहूर्ते सर्वेऽपि पृथ्वीराजप्रभृतयः सामन्ताः चन्दक- विराजम्य सेवका नाम भूत्वा दिल्ली नगरात् कने जनगरं प्रति प्रत. स्थिरे. चन्दकविश्चैकादशसहस्रपरिभितां सेनां जग्र ह. मार्गे च बहू- न्य तुम वेह न्यभवंस्तथापि निश्चयः पृथ्वीराजः सर्वैजनैः समं कने,जनगरमाजगाम. दृढ [२] सा सेनां तथा स्वसेवकान् बहिर्नगरात् स्थापार्यत्वा चन्दकविः सेवकद्वरा स्य गमनं कनोजाधिपाय निवेदयामास. सोऽपि तदागमनं निशम्यातिन तुष्टः परमादरेण तं राजसभागमनाय विज्ञापयामास. चन्दक वे तु तद व्ह.नभंग कृत्य पृथ्वीराजं जलकुंभधारकसेवामिषेण स्वन स सभामण्ड निनाय. जयचन्दोऽपि चन्दकविमागतं निशम्य प्रत्युद्गम्य सादर सभा- मानीये चेतर आसने समुपवेशयित्वा कुशलमपृच्छन्. चन्दकविरी स्वकुशलं निवेद्य राजानमाशीर्वादेन ॥ दुर्गा ते विद्धातु भव्यमखिलं कन्नोजपृथ्वीपते । । निष्प्रत्यूहपसी समाप्तिमयतां यानेश्वरस्त्वत्कृतः ॥ ॥ एमिः क्षत्रियवंशजेहिभुजैः संतव्यमानोऽधुना । ।सा वगपतेः सुदुभतरं शूरैः परं प्रापितः ॥ १ ॥ समनुजग्राह. सकौतुकमपृच्छच्च- यागार्थ च निमंत्रिता महिभुजः सर्वेऽपि प्राप्ता अमी। तेन त्वं परिशोभसे सुनृपते ! नक्षत्रमालान्वितः ॥

सप्तमो गुच्छः ८१ रात्रीनाथवदत्र किंतु सुमतिः सम्राट् च दिल्लीपतिः । पृथ्वीराट् परिदृश्यते न च कुतो मान्यश्चितोडेश्वरः ॥२॥ इति. राजा जयचन्दश्च प्रथमश्लोकोक्तां स्वस्तुतिमवलोक्य नितान्तं हृष्टोऽपि द्वितीयश्लोकोक्तां स्वन्यूनतामाकर्ण्य रुष्टः सरोषमवदत्. मो चन्तकवे! अखण्डं खलु बन्दिजनवंशस्य दारियं कोवा दूरीकर्तुं समर्थः? यूयं हि बन्दिनः सदैव दारिद्यनरके निवसथ ? युष्मांश्च तत उद्धतुं शक्रोऽपि न शक्तः, त्रैलोक्याघःशो भगवान्नागयणोऽपि दरिद्रस्य दारिद्यं दूरीकंतु यदि न समर्थस्तदा के वयं? इति. चन्दकविस्तु तदानीमेव-राजन् वयं यद्यपि दारिद्यगीडिता- स्तथापि त्वादृशाः सम्पन्ना राजानः समागतानस्मान् यदि प्रत्युद्गम्य सत्कुन्ति तदा तत् दारिद्यं न दोषः प्रत्युत गुण एव. एतादृशं दारिद्यं युष्मादृशा लक्ष्मीपतयोऽपि याचन्तत्यिहं मन्य इति सहासं प्रत्यवदत. कनोजाधिपस्तु तस्य चन्दकवेनिस्पृहतां तथोक्तिचातुर्य च वीक्ष्य सन्तुष्टः परमानन्देन तं कविराजमादरातिशयेन सिषवे. अथ जयचन्दस्तं चन्दं कवि-कविश्रेष्ठ! त्वादृशेषु मित्रवरेषु सत्सु पृथ्वी- राजो मह्यं कुतो द्रुह्यति ! मम तातपादानां पृथ्वीराजजनकस्यानंग- पालस्य च महान् स्नेह आसीदिति सर्वेऽपि जना जानान्त, यदाs- नंगपालः सोमेश्वराय स्वकन्या प्रादात्तदाऽस्माभिरेव धनसाहाय्यं कृतं. यदापि तेनानंगपालेन पृथ्वीराजो दिल्लीपतिः कृतस्तदाऽपि अस्माभि- ८२ पृथ्वीराजचव्हाणचारते. विरोधो न कृतः. एवं स्थिते पृथ्वीराजेन मदारब्धो राजसूययज्ञो विनितः, सर्वे च समागता भूपालाः समं मया वृथा कोपिताः. मम बंधुर्व लुकरायश्च समरे निहत इति किं समीचीनं कृतं! इत्यपृच्छत्. चन्दकविश्व जयचन्दस्यमं प्रश्नं निशम्य- राजन्! कनोजपते! यथा त्वं मन्यसे 'पृथ्वीराजो मह्यं द्रुयति' इति तन्न समचिीनं. यथा तव पितामहोऽनंगपालः कने.जाधिोन समं स्नेहेनावर्तत तथैव पृथ्वी- राजोऽपि वर्तते. कथमन्यथा त्वयि दक्षिणां दिशं विजेतुं गते सति पश्चात् त्वद्राज्याक्रमणाय समागतं गिझनीपतिं शहाबुद्धीनं पराजित्य पृथ्वीराजस्तव .राज्य रक्षितवान्. राजसूययागस्तु कलियुगे शास्त्रनि- षिद्धतयाऽधर्मप्रवृत्तिनिरोधाय विनितो न त्वसूयया. यदि त्वाद्वशो राजाऽधर्माचरणं कुर्यात्तदा सर्वेऽपि त्वदीया वा परकीया वा प्रजाजना अधर्ममेवाचरेयुः. राजन्! यदि कश्चिद्धनाढ्यो वाणगपि राजस्ययज्ञं कुर्यात्तदा तात्कं न्याय्यं भवेत् ? तस्मात्त्वमपि 'पृथ्वीराजेन ममाय यागः प्रतिवद्ध इति दुराग्रहंस्त्यक्त्वा द्वेषं च मानसिकं विहाय पूर्व- वरस्नेहेन वर्तस्व. युष्मासु क्षत्रियराजेषु परस्परं स्नेहेन वर्तमानेषु सत्सु कः खलु मन्दधीभारतं जेतुं शक्नुयात्. महंमदीयधर्मानुसारी शहाबुद्धीनः अपि परस्परद्वेषपरान्नः प्रेक्ष्य भारतमाक्रन्तुमिच्छति. भगवती चण्डी युष्मान् सर्व नपि प्रेम्णा वर्तमानान् चिरंजीविनो विदधातु इति साशीर्वचनमगादीत. जयचन्दस्तु चन्दकवेरिदं भाषणं सत्यं मन्वानोऽपि गर्विष्ठ उच्चैर्जगाद-अस्मिन् समवेते राजमण्डले पृथ्व राजममः कोप्यस्ति सप्तमो गुच्छ ८३ वा नवेति: अनवसित एव तदीये वाक्ये क्रुद्धश्चन्दकविः समुत्थाय सेवकवेषगतं पृथ्वं राजमुद्रिश्याचैरवदत्-सकलगुणमण्डितो वयसा षण्मासाधिकषट्त्रिंशद्वर्षो दुर्जनानां शास्ता भारतभूपतिलकश्चव्हाण- कुलोत्पन्नः सर्वैरायर्यावर्तवासिभिर्नमस्कृतः सम्राट पृथ्वीराजसमः पृथ्वी- राज एव नात्य इति. (३) राजा जयचंदश्च कोपकलुषस्य तस्य स्वामिभक्तस्य चन्दकवेरिद भाषणमभिनयं तथा पश्चास्थितस्य जलकलशधारिणः सेवकस्य । राजकीयं तेजो वक्ष्य विस्मितस्तं सेवकमेव पृथ्वीराजममन्यत. अक रोच्च मनसि 'अयमत्र छद्मना समांगत इदान मेव बन्दीकर्तव्य इति. राजानं च विचारमनं विलोक्य चन्दकविर्मनसि नितान्तं भीतोऽपि निश्चिन्त इवातिष्ठत्. राजा च यदि मयाऽयं सेवकः पृथ्वी राज इति बन्दीकृतः सत्यमेव सेवकः स्यात्तदा सर्वेपि जना मा हसेयुः. वयुश्च दुर्बलाय जयचन्दाय प्रबलः पृथ्वीराजो यत्रकुत्रापि भासत इति. तत्कथमयं सेवकः पृथ्वीराजो नवेति निर्णेयमिति स्वयमेव विचारयन् पृथ्वीराजविज्ञान यैका युक्तिमलभत- साचेत्थम्. येयं राजकन्याया दासी कर्णटकी नामास्ति, या च पूर्व पृथ्वी- राजसमीप आसीत्. तस्या अयं नियमः-सा च सर्वामिन जग- तीतले पृथ्वीराजमेव पुरुषं मन्वाना तं वीव स्वमुख पटेनावृणोति नात्यया. तयदि सभामाहता सा द्वासी स्वमुखमावृणुयात्तदा अयं मुथ्वीराज इत्ति ज्ञातव्योऽन्यथा साधारणः कश्चन सेवक इति. क्षुद्र ८४ पृथ्वीराजचव्हाणचरिते. विचार्य चैवं संजातानदः सत्वरं सेवकमाहूव कर्णाटकी दासी सभामा. व्हयत्. सा च राजाज्ञामनुसृत्य सभ.मागता दूरत एव पृथ्वीराज प्रत्यभिज्ञाय लज्जया मुखं प्रवृणोत्. तां मुखावरणोद्यतां वक्ष्य कविश्चन्दो नेत्रसंकेतेन तां-वयमिह कपटेन समागताः, यदि त्वं पृथ्वीराजोऽयमिति मुखप.वरणेन दर्शयिष्यसि तदा वयं सर्वे कन्दिनो भविष्यामः. किंच-राजा जयचन्दः प्रथमत आरभ्य पृथ्वीराज द्वेष्टि. तदधुनाऽनायासेन स्वहस्तगतं तमवश्यमेव स प्रणैवियुज्या- तदा स्वामिघातपातकमपि लप्स्यसे. तत्कयमःषामेव सम्राज पृथ्वीराजे म्वकर्मणा मा मारयेति सूचय,मास. सा प्रकृत्यैव स्वी तत्रापि गणिका सहसैव तस्य चन्दस्य मनो- गतं जानन्ती तस्मिन्नेव क्षणे मुखावरणं दूरीचकार. तां च स्वीकृत- दूरीकृतमुखावरणां वीक्ष्य जयचंदो विस्मितोऽजातनिश्चयो जिज्ञासया तामेवपृच्छत्-गणिके ! त्वं हि प्रथमं स्वमुख किमिति प्रावृणो:- पश्चाच्चोदघाटयः? तत्सर्वं सत्यं कथयेति. दासी तु परमचतुरा राजानं साञ्जलिबन्धमवदत्. स्वामिन् ! अस्यां सभागां कविवरश्चन्दः समायातः स च पृथ्वीराज इव मम मान्यः. तत्तत्य सन्मानार्थ प्रथम मया मुखमावृतं पश्चात्कारणभावादेव तदुदघाटयमिति. तदेतत् कर्णाटक्या वचनं निशम्य चन्दकविः परं सन्तुष्टस्तामाशीर्वचनै ममतोषयत्. सेवकवेषधारी पृथ्वीराजश्च स्वकपटाचरणप्राकट्यतः कण्ठगतप्राणस्तत्प्रतिवचनं निशम्य स्वजीवितं प्रत्यागतं मेने. जय- चन्दस्तु तस्य सेवकस्य तेजो विलोक्य प्रान्तचित्तः कर्णाटकविचनं न सत्यमिति मन्यमानोऽपि प्रकट तथा वक्तुमनीश्वरस्तूष्णीं तस्थौ.

सप्तमो गुच्छः ८५ अथ जयचन्दस्तं चन्दकविं क्लप्तनिवासे विश्रांत्यर्थं व्यसर्जयत्. तम्य सेवार्थ सोजताधिपं रावणं नियोजयित्वा तं निभृतं 'चन्दकवि- निवासः शस्त्रिकैर्निरीक्षणीयः, अज्ञातस्य कस्याऽपि पुरुषस्य प्रवेशस्त- स्मिन्निषेधनीय इत्यशात्. सोऽपि चाशरश इमां म्वामिन आज्ञां पालयामास. ततश्च सावधानेनावस्थित चन्दकविं राजा जयचन्दो बहु- मूल्यैरुपहारैः परं सत्कारयामास. चन्दकविरपि राजरीतिमनुजानन्नुप- हारहारकान् सेवकान् समतोषयत्. तथा दर्शनार्थमागतं मुख्यामात्य सुमतिं तथा राजपुरोहितं श्रीकण्ठं सन्मानेनापश्यत. निर्गतेषु जय- चन्दराजसेवकेषु लावण्यवतीना, षोडशवर्षीयाणां, हस्तयुगलधृतकन- कपात्रविराजमानोपहाराणां, अप्सरसामिव समानवयस्कानां, दासीनां दलं चन्दकावीनवासस्य पुरत आजगाम. तद्वीक्ष्य सर्वे निरीक्षणार्थ नियुक्ताः सैनिका हृतचित्ता चित्राणीव स्तब्धं तस्थुः. मुख्येन सेना- धिकारिणा पृष्टा तदप्रेसरा दासी जगाद—वयं हि सर्वा दास्यो राजकन्यायाः संयोगितायाः. तदाज्ञयैव कवीश्वर चन्दं द्रष्टुं वयमा- गता इति. द्वारपालेन च निवेदितागमना अनुमितिं लब्ध्वा प्रवे- शिताः सादरं सर्वानप्युपहारांस्तस्मै कविराजाय समर्पयामासुः. चन्दस्तु सस्मितं तानुपहागन् स्वीकृत्य ताभ्यः समीचीनं पारितोषिक वितीर्य · अचिरादेव भगवानेकलिंगेश्वरो राजकन्याया अभिलषितं पूरयिष्यति' इति साभिप्रायमाशीर्वचनं प्रेषयत्. ता अपि सानंदा- स्तदाशीर्वचनं स्वस्वामिन्यै निवेदयागासः.

८१ पृथ्वीराजचव्हाणचरिते. कनोजाधिपश्च पृथ्वीराजसंनिधानशंकाकुलश्चन्दसेवानियुक्तान स्वसेवकान् पृथ्वीराजशोधार्थमादिशत्. तेऽपि सदैव चन्दकविं मुख्यासनासीनं तत्समीप एव स्थितं जलकलशकधारकं तं सेवकवेष- धारिणं पृथ्वीराजं पश्यन्तश्चिरादपि न तं प्रत्यभिजानन्. एकदा रहसि किमपि संलपन्तौ चन्दपृथ्वीराजौ वीक्ष्य कश्चन सेवकः पृथ्वीगजोऽत्रास्तीति जातनिश्चयः सत्वरं गत्वा तद्वृत्तं जयचन्दाय निवेदयामास. जयचन्दोऽपि सत्वरमागत्य-तं सेवक मुख्यासनस्थितं चन्दकविं चाश्रितमिव समीपस्थमवलोक्य जात- निश्चयस्तस्य गुप्तवेषधारिणः पृथ्वी राजस्य बंदीकरणाय निश्चयमकरोत्. तु पृथ्वीराजोऽपि सेवकवेषधारणेन निर्विणस्तं चंदकविमवदत्-- मित्र! चन्दकवे! श्वः प्रभृत्यहं सेवकवेषं त्यक्त्वा सत्यं वेषं धरिप्यामि जयचंदस्य तु सर्व सामर्थ्यमस्माभिमा॑तमेव. पूर्वं खल्वज्ञानतस्तद्गयः मासीदधुना च लेशतोऽपि तन्नावशिष्टमिति. चंदकविस्तु पृथ्वीरा जम्यद भाषणमाकर्ण्य सहासं--पृथ्वीराजो जयचंदाकियद्विभतीत्येषोऽ चेतनोऽपि कथयतीत्युक्त्वा पृथ्वीराजमुखमपश्यत्. पृथ्वीराजोऽपि यदा श्वोऽहं प्रकटीभविप्यामि तदा तव शौर्य कियदस्ति तदपि दक्ष्यामीति प्रत्युत्तरयामास. एवं तयोः प्रीतिविवादं श्रुत्वा समीपस्थ वृद्धः कन्हचव्हाणश्चंदकविं जगाद-कविराज ! त्वं तु शत्रुभिराक्रांत आशीर्वादं दत्वाऽऽत्मानं मोचयिष्यसि, परन्तु नः क्षत्रियाणां शिरः कमल र्पणं बिना मोक्षो न भवेदिति जानासि वेति. पितृव्यवचन- मिदभाकर्ण्य सर्वेऽपि परिहासं विहाय कर्तव्यं विचारयामासुः. न सप्तमो गुच्छः ८७ [ ४ ] अथैकाकी पृथ्वीराजश्चन्दादीन् स्वसहायान् बहिर्गत!न्विलो- क्याऽनभ्यस्तसेवकवेषधारणखिन्नः स्ववेषं गृहीत्वा प्रजवनमश्वमारुह्य सायंकाले गंगातीरे पर्यटितुमगात्. स च विमलपवित्रभागीरथीसलिल- कणवाहिना, वसन्तसमयकुसुममितासंख्यलताश्लेषसामोदेन मन्दमन्दं संचारिणा संध्याप्रवातेनापनीतमनःक्लेशः, अतिमृदुलपुलिनेषु कीडन्ति हंसमिथुनानि पश्यन्, रसमयपरिपक्वफलभारनम्राणां सहकाराणां पंक्तीरवलोकयन् चिरमरमत. राजा जयचन्दश्च प्रत्यक्षीकृतपृथ्वी- राजस्तं बन्दिनं कर्तुं स्वसेनापतिमादिदेश. सेनापतिरपि सत्वरमेवा- नेकशूरसैनिकं सैन्यमादाय तं चन्दकवेः सेनानिवेशं प्रतिरुरोध सर्वेऽपि चन्दकविप्रभृतयोऽकस्मात् महता सैन्येन परिवेष्टितं स्वनि- वेशं वीक्ष्य विस्मिताः क्षणमात्रं कर्तव्यमूढा अजायन्त. तदानीमेवा नेकयुद्धविजयशाली वृद्धः कन्हचव्हाणः स्वसामन्तं लंगडीरायमाहू याब्रवीत्-वत्स ? लंगडीराय ! वयं चाकम्मादनेन कपटिना जय- चन्देनाक्रान्तास्तदिदानीं त्वमग्रेसरा भूत्वा रक्ष स्वस्वामिनं. त्वमसि दिवंगतस्य स्वामिजीवरक्षणार्थं स्वमा वितरतः संजयरायम्य पुत्रः ! तदलौकिकस्वामिभक्ति प्रदर्श्व समुज्वालय पितुः कीर्तिमिति. सोऽपि तदाज्ञां शिरसा कुर्वन् स्वसैन्यमादाय प्रबलमपि शत्रसैन्यमाचक्राम. प्रावर्तत चोभयपक्षयोर्महान् समरः. तत्र च महाप्रतापिनं लंगडीराय कृतांतमिव पश्यंतः सर्वेऽपि कनोजाधिपसैनिकाः पलायनपरा अभ वन्. स्वसैन्यस्यमां दुर्दशां विलोक्य क्रुद्धो जयचन्दस्तम्य साहायार्थ रावणनामकं नगरक्षकं महता सैन्येन प्रेषयत्. सोऽपि समागत्य ८८ पृथ्वीराजचव्हाणचरिते. त्वेषेण युद्धमानम्तान भीतिविव्हलान् पलायनोत्सुकान् न प्रतिरो- दुमशकत. कनोजाधिपः कनोजदुर्गमारुह्येदं युद्धं पश्यन् महाप्रतापस्य पृथ्वीराजसनापतैलंगडीरायम्य शौर्य वीक्ष्य भीतः कथमपि स हन्तव्य एवेति विचार्य स्वदुर्गे वर्तमाना भयंकरध्वनि किलकिला- नाम्नी शतघ्नी पूरयित्वा तद्गोलकस्य लक्ष्यमकरोत्. तस्मिन्नेव क्षणे स स्वामिभक्तो लंगडीरायस्तस्य लोहगोलकम्य लक्ष्यता प्राप्तश्चूर्णी- भावं प्राप. तं लंगडीरायं स्वसेनापतिं समरभूमिपतितं प्रेक्ष्य धैर्यविगलित पृथ्वीराजसैन्यमितम्ततो धावितुमारभत. तदानीमेव वृद्धः कन्हचव्हा- नम्तदग्रेसरो भृत्वा पुनरपि युद्धं प्रावर्तयत्. अस्मिन् संग्रामे जयचंदम्य सैन्यक्षयो महानभूत्. तेन दुःखी स पृथ्वीराजमलब्ध्वा संतप्ते निशायां स्वस्थानं ययौ. ते च सैनिकाअपि म्वनिवेशं गत्वाऽतिष्ठन. कन्हचव्हाणप्रभृतयः सर्वेऽपि पृथ्वीराजसामन्ता लंगडीरायम्य शोकेन विव्हलाः पृथ्वीराजचिंतयाऽपि व्यापृताः कथमपि कालं यापयामासुः.

अष्टमो गुच्छः। १ पृथ्वीराजस्य संयोगितायाश्च परस्परं दर्शनम् २ तस्या अन्तपुरे प्रवेशा. ३ गान्धर्वविवाह ४ संयोगिताया दिल्लीगमने संमतिः. (१) प्रजापान पृथ्वीराजश्च स्वनिवेशस्थानादेकाकी निर्गतः क्रमणेतस्ततः पर्यटन् मृगयार्थ चकमे. त्वरितमेव कनोजनगरस्य नातिदूरे भयंकरश्वापदपरिपूर्णे गगन- चुम्बिमहावृक्षावलीच्यावृते संततगर्जत्केसरिकुलवि सृष्टींसंहनादभीतगजयूथचीत्कारव्याकुले, इतस्ततः संचरन्मृगगणनय- नलहरीमनोहरे, महावने कृतप्रवेशः, क्रूरेषु व्याघ्रादिपशुषु प्रस्थापि- तस्वशौर्यचिन्हः प्रभूतानि श्वापदानि हत्वा श्रान्तः क्रमेण तस्माद्व- नाहिराजगाम. नदानी निर्मलरजतरसप्रवाहमिव, महामूल्यघन- , पृथ्वीराजचव्हाणचारते. सारवर्षमिव, हिमानीसंपातमिव, सुधाऽऽसारमिव, सर्वत्र निपतिता स्थाने स्थाने समीरणप्रचलितवृक्षच्छायाश्यामलां दृष्टिमनोहरां पार्वण चन्द्रज्योत्स्ना निरीक्ष्य; निलीनपक्षिगणां ज्योत्स्नामयशुभ्रवस्त्रावृता विकचकुसुमस्तबकालंकृतां, निद्रितां तरुणीमिव पृथ्वीमालोक्यः अतिमूदुलशाखाबाहुबलयाश्लिष्ट वृक्षकान्तं, प्रफुलकुसुमगुच्छालंकार समलंकृतं, मन्दवाहिना दक्षिणानलेन चालितं कामाकुलमिव लतात रुणीगणं समीक्ष्य; मन्दमारुतसंपर्कसंजाततरंगेषु महातडागेषु क्रीडारतं विकसितकमलकोरकपतितपरागधूसरं, विसच्छेदनासक्तं हंसमिथुन- जातमवेक्ष्यः रात्रिंदिव भक्तगणोद्धारतत्पराया भागीरथस्य मूर्तिमत्या कीरिव भागीरथ्या प्रवाह वनिं निशम्य सानन्दचेता अश्वादवतीय पयामेव शनैः शनैश्चरन् गंगातीरमागच्छत्. तत्र च विशुद्धचंद्रिका नादात्म्य प्राप्त अतिचपलधावमानमरम्यगणसंपादितभेदं, गोधूमचण कादिसस्यभारविनफ्रेहरितैः क्षेत्रलंकृताभ्यां पिपतिषुकूलमुतिकापात- भयंकराभ्यां तीराभ्यामलंकृत, अन्तःपतितचंद्रप्रतिबिंबच्छेलनासंख्य देवांगनामुखकमलशोभमानं गंगाप्रवाहं प्रेक्ष्य प्रसन्नः श्रमापनयनाया अश्वं जलं पाययित्वा स्वयमपि पर्याप्तं मधुरं शीतं च गंगाजलं पपौ. । अथ प्रतितीरवर्तिन, सुरम्यशुभ्रपाषाणमयं, चन्द्रिका निर्मितमि- व गगनांगणविहरच्छिखरं, कनककलशमण्डितं, सुव्यवस्थितरचनम अनेकवातायनविराजमानोशारजवनिकामधुरं, प्रदीपप्रकाशप्रदीप्त अनन्तशस्त्रिकगणरक्षितं, दिसधपरिसुप्तदासीगणसंकुलं प्रासादराज म्वदृष्टिविषयम करत. तं सम.क्ष्य संजातकुतूहल: पृथ्वी राजः परमा दरण निरुप्यमाणम्तास्मिन्-सकलत्रिलोकीलावण्यव्ययेननिर्मितं.

अष्टमो गुच्छ ९१ शताप्सरसांगणभिव. मदनवाणरक्षकमिव, षोडशवर्षदेशीय, स्त्रीसमु. दायमपश्यत्. स च तस्मिन् प्रदेशेऽकस्माच्छस्त्रिकगणरक्षिते प्रसादे निवसन्तं स्त्रीगणं वीक्ष्य विस्मितो विशेषजिज्ञासया सविशेषमपश्यत. तत्र च सकलक सीगणमध्ये मरकतमणिभासुरसुवर्णपके श यानां, शय्यासंसर्गविकीर्णकेशपाशाच्छादितमुखकमलां. शेवलप्रावृत- कमलां कमलिनीमिव, सर्वतःप्रकाशमानप्रर्दापप्रतिबिंबभासुरकपोल- युगलां हृदयस्थकामप्रदीज्वालाव्याप्तामिव. उपधानीकृतहस्ताग्रकनिष्ठि- काविराजमानोमिकानीलमणिच्छविमनोहारिवदनां, अतिसुंदरबिसतन्तु पमभुजतालंकृतनितम्बमण्डलाम् शासकम्पमानकुचकुड़मलहृदयहा- रिणी, त्रिवलीदर्शनानुमितोदरभागां, रंभारुचिरोरुद्वयां मुग्धां हंस- तूलमये शब्यान्तरे निममैकभागां विश्रद्धं सुप्ता भीषणभुजंगमपरि वेष्टितां चन्दनलतामिव शस्त्रिकगणरक्षितां तां सुंदर मद्राक्षीत. तेनाऽपि विवृद्धाश्चर्यः कावेयं कोऽयं स्त्रीगणः । किमर्थमत्र वसति ! शस्त्रिकगणश्च किमनुकूलो वा प्रतिकूलावेति ज्ञातु स्वाश्वेन सम तत्स्थलमागच्छत्. आगत्य च तम्य सोधस्य पुरतः किमपि विचारयंस्तस्थौ. तस्मिन्नव समये साऽपि तरुणी किमपि स्वमनोरथानुकूलं स्वप्नं पश्यन्ती संतुष्टा जागर्तिस्म. प्रतिबुद्धा च सा तं स्वप्नं स्वप्रिय- सस्यै निवेदयितुकामा तामपि त्वरया समबोधयत्. प्रबुद्धां तां प्रियसखी तं स्वमं निवेद्यान्तः पुरप्रदीपमालेकासंतापक्लेशान् परिजि- हीर्षस्तया सह गंगातरंगसंगशीतलवातनिवासं वातायनमायत्यातिष्ठत्.

९२ पृथ्वीराजचव्हाणचरिते. तदानीमेव-गंगाशोभादर्शनासक्तं, अतिचपलबाजिराजसमीपस्थं, अतिगौरपादतलाभ्यां घृतोपानहं, सुर्वणशृंखलासनाथसत्यप.दं, परम- प्रियया शत्रुकण्ठनालच्छेदनदक्षया हीरकांकितसुवर्णकोशस्थितयाऽसि- लतया समलंकृतकृशमध्यं, सत्यहम्तविराजमानबृहच्चापं. कपाटविशा- लोरस्क, मौक्तिकहारसमलंकृतीवं, इपुधिनिपंगमांसलितस्कन्धं, सुप्रसन्नवदनकमलं, सुदीर्घराजतेजःशालिनयनयुगलहृद्यं, अखण्ड- सुदीर्घशिरोरुहभासुरं, सुवर्णललाटपट्टसुदरं मन्मथमिव स्वशत्रु शंकर प्रसादयितुं भागीरथी शरणागतं, कनोजाधिपैश्चर्यदिदृक्षया स्वर्गादा- गतमिद्रमिव, तं तरुणं पृथ्वीराज निनिमेषं पश्यन्ती मुहूर्त निश्चल- मतिष्ठद्राजकन्या संयोगिता. पृथ्वीराजं च गंगायां विहातां मत्स्यानां लीलादर्शन बद्धमनसं वीक्ष्य स्वागमनं ज्ञापयितुकामा नपुरध्वनि- मकरोत्. पृथ्वीराजश्च सहसैव श्रवणमनोहरेण नृपुरध्वनिना समाकृष्ट- मानसः सरंभण मुखमुन्नमय्य-विगलितधनीभूतां ज्योत्स्नामिव, घनावस्थायिनी सौदामिनीमिव विविक्तदेशवासिनी, कमलामिव, तप- म्यन्ती देवांगनामिव, शंतनुवियोगोद्विग्नां गंगामिव, शीतलसुरसरि- न्मरुत्संगकम्पमानमृदुलमूर्धजां, मस्तकस्थापितकुसुममालागंधलोभ- समागतभ्रमरकुलनीलरत्नशिरोभूषणां, मौक्तिकभूषणभूषितमनोहर कर्णपाशां, लावण्यसर्वम्वसौभाग्यतिलकदर्शनीयभालप्रदेशां, यमुनानदी- तरंगानिव सर्वतो नयनकमलाभ्यां विमृष्टैष्टिक्षेपैरुत्पादयन्ती, स्पष्टतर- प्रतिबवितगंगाप्रवाहतटवृक्षसंपादिताविशेषकृत्यरमणीयकपोलां, अधरी- कृतविवाधरां, कम्वुकण्ठी, अतिनिर्मले लावण्यस्रोतसी इव विगलित- , अष्टमो गुच्छः सूक्ष्मतरवसनपरिघानेन बाहुभुजलतिकां, मदनदुर्जयदुर्गाभ्यामिव, तारुण्यागमचिन्हाभ्यामि- वातिनिविडाभ्यां कुचाभ्यां हृदयहारिणी, परिदृश्यमाननूतनरोमावलीसमलंकृतत्रिवलीमाण्डतोदरलतिका, अति- पीवरोरुयुगा, सुन्दरमंजीरसंगरुचिरगुल्फयुगलभासुरपदयुगलाम्, किसलयच्छविप्रप्रदां, तत्प्रतिविंबरूपया सख्या सहिता, कांचन तरुणी वीक्ष्य विगलितधैर्यो खिलीकृतनयनयुगलश्विरमतिष्ठत्. पृथ्वीगजश्च तदानीं मनसीत्थं व्यचिन्तयत्-कथमिमां दृष्टवतो मे धैर्यमेव विनष्टं ? मन्मनश्च पुनरपि न प्रत्यागच्छति. अहं तु सदा नीत्यैव वर्तमानः कथमिमामवेक्ष्याविचार्य चानुरक्तः ? इति. सापि राजकन्या पृथ्वीराजं निरीक्ष्य तत्समावस्थाऽभवत्. (२) चतुरा दासी च स्वप्रियसख्याः संयोगितायास्तादशीमवस्थां वीक्ष्य संतुष्टा झटिति सौधादवतीर्य गंगातीरमगात्. गत्वा च विनयेन तन्मुखासक्तदृष्टिं तन्मुखचन्द्रज्योत्स्नापाननिरतनयनचकोरं पृथ्वीराजं जगाद. भो मदनसुन्दर ! सकलभूपालचूडामणे ! यां राजकन्यां त्वं पश्यसि सैव त्वां स्वकोमलचरणनिक्षेपेण स्वप्रासादं सनाथीकर्तुं प्रार्थयते, नान किमप्यत्याहितं. इयं हि सकलसामन्तनाय- कस्य कनोजाधिपस्य कन्या संयोगिता नाम. सा च तव सर्वत्र प्रसृतां सकलगुणनिधेः कीर्ति निशम्यानुरक्ता त्वदागमनार्थ परमात्मानं पार्थयन्ती वराक्यद्य तेनानुगृहीता. मां च जानात्येव स्वामी कर्णाटकी नाम गणिका. अहं च कुतश्चित् कारणादिल्लीनगरं विहायात्रागता ९४ पृथ्वीराजचव्हाणचारते. - त्वय्यनुरक्तां तत एव त्वद्वेषिणा तत्पित्राऽत्रैकान्ते प्रतिबन्धे स्थापि- तामिमां राजकन्यां संयोगितां विदित्व युष्मत्सेवाविधानेच्छयाऽहमत्र दासी अभवम्. साऽपि सर्वगुणमंडिता कल्याणी मां सखीं मन्यते न दासी. एतादृशी गुणरवनिः पृथ्वीपतिकन्या युप्मभ्यमेव योम्या नान्यस्मै. यथादि कृष्णाय रुक्मिणी, तथैव भवतेऽपीय. इयं च सततं त्वद्गुणगणश्रवणधृतजीविता स्वपितरमपि न बहु मन्यते. पित्रा जयचन्देन त्वत्तो मनो निवर्तयितुं चिरं प्रायति, परन्तु स्वल्पं यशो न लब्धं प्रत्युत स यथायथा नानाविधैरुपायैस्तथा कर्तुं प्रायतत तथातथाऽस्या मनस्त्वयि परमासक्तमभवत्. सांप्रतं तु त्वद्वियोगदुः- खाकुला सम्प्रवृत्तं वसन्तं वीक्ष्य परं दुःखायते. कदाचित् मन्दं शीतलं च दक्षिणानिलं स्पृशन्ती सद्य एव मूर्च्छति. कदाचिदिम प्रफुल्लं सहकारं मदनशरेषुधिं भावयन्ती वातायनानि पिधाय तूष्णी- मेकाकिनी विलपति. कदाचित् कुसुमितमाधवीलतामण्डपं वन्हिमय- मिव मन्यमाना गन्तुं नोत्सहते. कदाचित्-चूतांकुरपरिपूर्णेषु सहकारेषु स्थितस्य कोकिलस्य मनोरमानालापान् श्रवणदाहकान् मन्यमाना स्वकावेव पिधत्ते. किंबहुना चन्दनगंधवाहिनः शीतलाद्दक्षिणानिला दिल्लीतःसमागतमत्युप्णमपि वातं संभावितत्वदंगस्पर्श बहु मन्यते. मां च प्रत्यक्षीकृतपृथ्वीराजां देवतां मन्यते. साम्प्रतं तु त्वत्प्रतिमां रात्रिंदिवं ध्यायन्ती संततनिपतदश्रुसमाकुलनेत्रा जाग्रती कालं यापयति. पितृकोपभिया मनोगतं स्पष्टं वक्तुमशक्नुवाना पुटपाकावस्था बिभर्ति. तद्यदि पृथ्वरािज ! तस्यामनुरागो वा, अनुकंपा वा, वात्सल्यं वा, प्रेम वा लेशतोऽप्यवशिष्टं स्यात्तदाऽविचारं त्वया- ऽगत्योज्जीवनीया सेति प्रार्थयामीति.

९५ अष्टमो गुच्छः पृथ्वीराजश्वाकस्मादन्धोदृष्टिमिव तृषितः सरितमिव क्षुधातुरः पाकशालामिव' मुमूर्षुः संजीवनीमिव स्वाभिलषितपुरकां तां काम- धेनुमिव मन्वानः सानन्दमुवाच -सखे. प्रियकारिणिक महं वदामि ईदृशमलौकिकमुपकार विधाय त्वया सर्वथा वाचा मुपेताऽस्मि. क खल्वयं साधारणो जनः क्व च भूतलवासिनी देवांगनेव सुन्दरी संयोगिता? दासि? मदर्थ क्लेशाननुभवन्ती प्रियतमा संयोगिता पूर्वमव त्वया कुतो न निवेदिता ! अस्तु. सम्प्रति वृथाकालयापनं विहाय शीघ्रं गत्वा प्रियतमा संयोगिता क्षमा याचनीयेति वदन्नेव रोमांचित- सर्वगात्रः सत्वरगमनस्वलितगतिस्तया दास्या प्रदर्शितेन मार्गेण तस्याः कनोजाधिपकन्याया हृदयामिवान्तःपुरमाजगाम, अचिरादेव अतिसुंदरसुगंधितैलप्रदीपभासुरे, सर्वतः स्थापितबृहद्दर्पणप्रातीबींबत- जने, चित्रविचित्रपट्टवस्त्रसमाच्छादितभूतले, निन्द्रिकुसुमगुच्छसहस्र सामोदे, इतस्ततोधावमानदासीगणनूपुरशिंजितहृद्ये, व्यजनसंचालन- नियुक्तदासीगणकरकंकणध्वनिरम्ये, विविधक्रीडाखगमधुरभाषणरम- णीये, नानाक्रीडासाधनमये, अनेकविलासिजनसुन्दरप्रतिकृतिमनोरमे, दासीगणमध्यदेशाविराजमानमेखलानिखातहीरककिरणव्यापृते, तांबूल- वल्लीवीटिकापरिपूर्णसुवर्णमांडसंकुले, मन्मथनिवास इव तस्या अंतः- पुरे कृतप्रवेशस्तां मूर्त स्वभाग्यमिव स्वाभीष्टदेवतामिवापश्यत्. तदानीं सा संयोगिता तं रतिविरहितमेकाकिनमेव समागतं मदनं मन्यमाना लज्जया किमपि स्वागतं विधातुं नो प्राभवत् केवलमुत्थाय तिष्ठत्याः स्वसख्याः संयोगिताया मनोगतं जानन्ती सा कर्णाटकी दासी सत्वरमग्रेसमुपसृत्य 'सुस्वागतं महाराजस्य पृथ्वी- , पृथ्वीराजचव्हाणचरिते तं राजस्य ' इत्युक्त्वा तं हस्तेधृत्वा कांचनमये महासने समुपावेशयत्. संयोगितामपि रोषादनिच्छंतीमिव बलादानीय तत्समीप एव न्यवेशयत्. अथ लज्जानुरोधाद्वा कन्यासमयपालनाद्वा मूकवत्तिष्ठन्ती राज- कन्यां वीक्ष्य सा दासी पुनरपि स्वयमेवावदत्. पृथ्वीराज ? सामन्त- चक्रवालाधिपते ! इयं हि कनोजाधिपस्य जयचंदस्य कन्या संयोगिता नाम .नुरागमयी दुष्टेनाहंमन्येन मदनेनेदृशीमवस्थां प्रापिता. वयं च सर्वाअपि दास्योऽस्या ईदृशीमवस्थामवेक्ष्य नितान्तचिंताव्याकुला अभवाम. संप्रति परमेश्वरकृपया त्वां समागतं वीक्ष्य कृतार्थाः सर्वथा वयमनुगृहीता इति. तदानीं च सा संयोगिता कोकिलकूजितानुकारिणा स्वनेन 'सखि ! युष्मदपेक्षयाऽहमेव सर्वथा महाभागेनानुगृहीताऽस्मि' इत्यवदत्. तानि चामृतमयानीव वाक्यानि श्रवणपुटाभ्यां निपीय सन्तुष्टान्तःकरणः प्रफुल्ललोचनं आनन्दातिरेकोल्लसन्मानसः सरभ- समाह. प्रिये! मया समागतेन न त्वमनुगृहीता नापि त्वदीया चातुर्य- खनिरियं दासी, किंतु स्वयमात्मैवानुगृहीतः, यद्यपि चिराखल्यहमस्यां त्वत्सहचर्या बद्धानुरागस्तथापि कार्यानुरोधाद्वा कनोजाधिपकोपभयाद्वा नागन्तुं प्राभवम्. तदर्थ क्षमादानेनायं दासोऽनुकम्पनीय इति. (३) अथ कालयापनं वृथा मन्वाना संयोगितया स्वनेत्रसंकेतेन सूचिता सा कर्णाटकी दासी प्रगल्भा सस्मितं जगाद-राजन् ?

अष्टमो गुच्छः ९७ यद्यपि युवयोः परस्परमनुरागः प्रत्यक्षएव. तथापि सखीस्नेहो मां वाचालयति-इयं सत्यमेव त्वदर्थं पितृकोपपात्रतां लब्ध्वाऽत्यन्तं दुःख.न्यसहत. तथापि लोकमर्यादाऽस्माभिः पालनीयैव. अन्यथा खलोऽयं लोकः शुद्धमनुरागमपि अन्यथा भावयते. नहि त्वदनुराग- वशाऽपीयं स्वपितृकुलं कलंक यतुमिच्छति. तस्मादियं नः सखी वया गान्धर्वेण विवाहेन विवाहनीया. पश्चाच्च लौकिको विवाहो- सवो यथावसरं विधेयः. बह्यो हि राजर्षिकन्यका अनेन विवाहेन महद्भिः पराक्रमशालिभिभूपालैः स्वीकृता एव. तत्कृपया त्वं गांधर्व- विवाहसामग्रीसंपादनार्थमनुमोदस्वेति. राजाचेमाममृतवाणीं निशम्य परं सन्तुष्टः सानन्दमाह. भद्रे ! अवश्यं भवतीभिः स्वसखीकल्याणं चिन्तनीय. सखि ! यत्त्वं गांधर्व- विवाहविषयेऽवदस्तत्सर्व तथैव नात्र संशयः. अहं तु मन्ये यदा च प्रियया स्वमनो मह्यं समर्पितं तदैव मयाऽपि तद्गृहीतं. तेन च तदानीमेवावयोर्विवाहः संवृत्तः. विवाहोनाम परस्परमनुरुक्त्तयो!नोः कयापि नियमरीत्या संमेलनं. तच्च वैदिकरीत्या वाऽवैदिकरीत्या वेत्यन्यदेतत्. एषा रीतिश्च गौणी, विवाहे मुख्य कारणं परस्परानुराग एव. स चेद्विद्यते तदा लोकलज्जारक्षणार्थ लौकिकी रीतिः करणीया. स चेन्नास्ति तदा केवलेन लौकिकेन विवाहविधिनाऽनुरागो नोत्पद्यते. तद्यथा युष्माकमभिमतं तथैव भवतु. अहं च सर्वथा युष्माकं युष्मात्सख्याश्च वशंवद इति ज्ञातव्यमिति. इमां चानुमिति लब्ध्वा कृतकृत्या सानन्दा सा दासी त्वरित- मुत्थाय सर्व विवाहसाहित्यं-द्वे महत्यौ पुष्पमाले, कुंकुम, नीराजन- ९८ पृथ्वीराजचव्हाणचरिते. मित्यादिकं गृहीत्वा महत्या त्वरया समाययौ. सा च प्रथमं महति हेमा- सने पृथ्वीराजं समुपावेशयत्. तदाभिमुख्ये च संयोगिता. ततश्च संयो- गिताहस्ते मालां दत्वा-'इमां मालां मदीयहृदयेन समं सदा प्रज्वलित मदनाग्निं साक्षीकृत्य त्वत्कण्ठे समर्पयामि. इयं च मदीयं हृदयं तव हृदयेन समं मेलयती चिरं तिष्ठतु' इत्युच्चारयित्वा पृट राजकंठेऽदात्. पृथ्वीराजोऽपि स्वयमेव द्वितीयां मालां गृहीत्वा-मदीयं हृदयं त्वयि कियंतमनुराग विभर्तीति ज्ञानायानया मालया समं प्रेषयामि. तच्च यावच्चंद्रदिवाकरं कोमलेऽनुरागपरिपूर्णे प्रियाया हृदय एव तिष्ठतु- इत्युक्त्वा संयोगितायाः कण्ठे मालां समर्पयत्. संयोगिताऽपि स्वप्रिय- करम्य पृथ्वीराजस्य भाषणं समाकात्यंत संतुष्टाऽत्मानं कृतकृत्यं मेने. तावपि महता अथ सा दासी तावुभौ सुवर्णमये पात्रे भोजनार्थमुपावेशयत्. मोदेन रुचिरपक्वान्नग्रास न् परस्पर भ्यां वितीर्य स्वानु- रागं प्रकटीचक्रतुः. विचितभोजनौ तौ ताम्बूलमादाय स्वस्वस्थाने तिष्ठन्तौ विविक्तताल,भार्थं सा दासी जग.द. सखि! तावदत्र तिष्ठ ! अहं च यावत्सारिकया सहेमं शुकं मेलयित्वाऽगच्छामीति. ताम- पसृतां वीक्ष्य खिन्नामिव तां स्वप्रेयसी चतुरः पृवं राजः स्वांकमा- रोप्य शनैः शनैस्तद्भयमपनीय नानाविलासांश्चक्रे. ( ४ ) अथ संप्रवृत्ते कुक्कुटार, वे, प्रज्वलिते प्राग्दिशाया मुखे, अस्त;चलशिखरसंगते रात्रीपतौ, सूर्यप्रवेशजवनिकायामिव संध्यावां अष्टमो गुच्छः ९९ सर्वत्र प्रसृतायां, लुप्तासु तारासंहतिषु, दिनकरागमननिवेदनार्थ सर्वतो धावमानेषु विहंगमेषु, रात्रि जागरणरक्त तरनेत्रेषु निरीक्षणसे- वकेषु, प्रलुप्यमानतेजस्केषु प्रदीपगणेषु, प्रभातकालिकेन मन्दवातेन प्रबोधितः पृथ्वीराजेो दूरतो वीराणामाकोशांस्तथा वाजिनां देषारवान- शृणोत्. स च तदानीं स्वसेनायाः सामन्तमण्डलस्यच वृत्तमविज्ञाय नितान्तं खिन्नः सत्वरं जिगमिषुः प्रियाया गमनाज्ञाग्रहणार्थं ययौ. सा च सकंलनिशायां विलसना खिन्न। प्राभातिकमरुता कपोल्योश्चुम्बिता किंचित्सुप्वाप. तां च प्रसुप्तां समीक्ष्य निद्राभंगभीतस्तथैव तस्थौ. अत्रान्तरे किलकिलानामिकायाः शतध्न्या ध्वनिं महान्त- माकये संभावितहानिः सत्वरमेव प्रयासुस्तामतिगाढमालिलिंग. आश्लेषनष्टनिद्रा सा संयोगिता स्वकान्तं पृथ्वीराज चिरदेव जाग्रतं मन्वाना 'किमिति निद्रा नागता ' इति प्रपच्छ. स च सर्व वृत्तं निवेद्य गमनानुज्ञामयाचत. सा च वियोगदुःखाकुला दुःखाश्रु- परिपूर्णनेत्रकमला पुनरपि रात्रवागमनवचनं गृहीत्वाऽनुज्ञां ददौ. महता कप्टेन च तस्मात् संयोगिताहृदयादिव तस्माद्भवनान्निर्गत्य स्वाश्वसमीपमाययौ. आगत्य च तस्मिन् तमश्वमारोहति सति निप्को- शासिलताधारिभिर्महंमद यैनिरीक्षकैः संशयादाक्रान्त एव. पृथ्वीराजो- ऽपि युद्धकुशलस्तानाक्रम्य स्थितानवलोक्य स्वासिमपि निष्क, पीकृत्य तथाऽयुद्धत यथा ते सर्वेऽपि यवनाः स्वस्वलोकं जग्मुः. अथ खप्रियकरं रक्षकैरकान्तं युध्यमानं प्रेक्ष्य चिन्तातुरायाः प्रियायाः संयोगित.यास्तं विजयिनं दृष्ट्वा सन्तुष्टाया विजयपारितो १०० पृथ्वीराज चव्हाणचरिते षिकमिव स्मेरवदनदर्शनं कटाक्षप त गृहीत्वाऽतिजवेन स्वसेनानिवेश प्राप. तत्र च जयचन्दसेनासागरं निर्जित्य पृथ्वीराजादर्शनेन चिन्ता- तुरान् सकलान् सामन्तान् वीक्ष्य समतुप्यत्. स्वपितृव्यस्य कहच. बाणस्य पादयोरपतत्. स तु वृद्धः स्वभ्रातुप्पुत्रं राजाधिराज पृथ्वीराज कुंकुमतिल- कांकितभालप्रदेशं विवाहकंकगमंडितकरं वीक्ष्य विम्मितः सहासम- पृच्छत्. राजाधिराज ! किमिदं ! कुतः संपादितमिदं कंकणं कुंकम- तिलकश्च ! मन्ये संयोगिताहरणमनुष्ठितमत्रभवताऽऽयुप्मता. यदि सत्यमेव कनोजाधिपकन्या विवाहिता तदा तां पुनरपि ब्राह्मण इव वा वैश्य इव वा श्वशुरगृह एव त्यक्त्वा कथमागतः ! इति. पृथ्वी- राजोऽपि संभूतं सर्व वृत्तं निवेद्य कनोजाधिपेन सह युद्धप्रसंगे निश्चतकल्ये प्रत्यवायो माभूदिति मन्यमानेन मया नानीता सेति जगाद. अथ सर्वेऽपि सामन्ताः सर्वमपि स्ववृत्तं निवेदयामासुः. तत्र लंगडीरायस्य निरतिशयं शौर्य तथा तद्वधं च निशम्य पृथ्वीराजो- ऽपि परं दुःखायतेस्म. ततश्च दुःखं विहाय पृथ्वीराजः सर्वान, स्वसामन्तांस्तथा खपितृव्यं कहचहाणं किंकर्तव्यमित्यपृच्छत्. ते सर्वेऽपि- पृथ्वीराजेन संयोगितां गृहीत्वा दिलीनगरं प्रति गन्तव्यं. अनुधावतश्च कनाजाधिपस्य सैन्यं स्थाने स्थानेऽवस्थितैरस्माभिश्चा- क्रम्य पराजेयं. सर्वथा वयं यथाशक्ति जयचन्दसेनां प्रतिबन्धन्तः पृथ्वीराजं दिलंगमने साहाय्यायप्याम इति.

अष्टमो गुच्छः १०१ पृथ्वीराजश्च-वयं सर्वेऽपि मिलित्वा जयचन्देन समं युध्वा तं पर जित्य सोत्सवं संयोगितां दिल्लीनगरं नेप्याम इति प्रत्युवाच. अथ दिल्ली नगरगमने सर्वेषामेवाग्रहं समीक्ष्य पृथ्वीराजः स्वमतं विहाय तन्मतानुवर्ती बभूव. ततः सर्वानपि सामंतान् सेनया समं स्थाने स्थाने कनोजाधिप- प्रतिबंधार्थ संस्थाप्य पृथ्वीराजः सूर्यमस्ताचलगतं प्रतिपालयामास. ततश्च सकलदिनकर्मसाक्षिणि, अखिलभवनसंक्रमणश्रांत इवापरदिक्- प्रेमाकृष्ट इव भगवति मरीचिमालिनि अस्ताचलशिखरेपु स्वपादान्नि- वेशयित्वा शनैः शनैरवतरति सति, प्रकाशेऽपि स्वस्वामिमार्गानुसरणं कुर्वति सति, सर्वेषु विहंगमगणेषु स्वस्वकोटराभिमुखं धावत्सु सत्सु, अन्धकारेऽपि विवेकविधुराण्यज्ञजनान्तःकरणानीव प्रदीपप्रकाशहीनानि गृहाणि प्रविशति सति, सर्वसामन्तैः समं विरचितसंध्योपासनः पृथ्वीराजः स्वाश्वसन्नाहार्थं सेवकमादिशत्. अथ समुदिते पूर्वदिशो धमिल्लगते कमल इव, रजतकुंभ इव, कन्दुक इव, फेनपुंज इव, जातीकुसुमस्तबक इव मृगलांछने, राज- पुरुषैरिव तत्करैरज्ञानमिवान्धक रमपनीय प्रदर्शितेषु न्यायमार्गेप्विव गमनमार्गेषु, सर्वत्रपतितां शारदी पूर्णिमाज्योत्स्नां संयोगितया प्रेषितां सखीमिव मन्वानः सः सानंदमश्वमारुह्य समं सर्वैः स्वसामन्तैर्जवेन तन्मदिरं प्रति प्रचचाल. संयोगिताऽपि स्वप्रियकरस्य वचनमनुस्मरन्ती चंद्रोदयदर्शन- मक्षुब्धानंगसंतप्तोपवनसमीपं व्रतायने तिष्ठती तदागमनमार्गासक्तदृष्टि- १०२ पृथ्वीराजचव्हाणचरिते रविरतमतप्यत् यथायथा च वेलायतेस्म पृथ्वीराजस्तथा तथा नाना- निष्टकल्पनाकुलमतिः सा राजकन्या संये गिता स्वनेत्रकमलाभ्यां सततमश्रुमुक्तासंतति मुमोच. अत्रान्तरेऽश्वस्य खं श्रुत्वा संप्राप्तचेतना स्वप्रियकरं प्राप्त वीक्ष्य नष्टखदा सत्वरं धावमाना तमानयितुं तामेव दासी प्रेषयामास. अन्याश्चोपहारस्य, शय्या गृहस्य, क्रीडागृहस्य, स्नानगृहस्य, सन्नाहे- ऽत्वरयत्. सा च दासी पुरतो गत्वा पृथ्वीराज तत्सहायांश्चानयत्. संयोगिता च. पृथ्वीराजेन सह समागतान् दश पुरुषानवलोक्य चिंता- क्रांता भीतिविह्वलाऽभवत्. पृथ्वीराजश्च तदवस्थामवेक्ष्य स्वयमेव सर्व वृत्तमवदत्. प्रिये ! एतानकस्मादगत न् वीक्ष्य त्वं शांकप्यसे परन्तु नेते परकीयाः किंतु मदीयाः सहाया एव. एते च पितृव्यचरणास्तव श्वशुरा एवेति. स्वप्रियस्येदं भाषणं निशम्य लज्ज कुला सा तस्मै कहचव्हाणाय परमविनयेन नमश्चक्रे. अथ सर्वेषां तेषां सामन्तानां सेवासु स्वदासीनियुज्य स्वयं पृथ्वीराजेन समं विलासमंदिरं प्राप्तां तां प्रियकरी पृथ्वीराजोऽवोचत् -प्रिये ! अद्य खलु त्वया सहास्मिन्विलासमंदिरे विलसितु नागतः किंतु त्वां स्वराजधानी दिल्ली नगरं नेतुं. अस्मिन् कर्मणि च मम सहाया एते सर्वेऽपि सामन्ताः. तत्किं मन्यसे त्वमिति. सा चेषां वाव निशम्य विस्मिता प्रथममुपहासमेव मेने. ततश्च पृथ्वीराजेन भूयो भूयो निवेदिताऽवदत्-प्राणेश्वर! इमे प्राणाः पूर्वमेव युप्मचरणयोरपिता एव. पुनरपि भवद्भिः स्वयमागत्य सार्थकी- अष्टमो गुच्छः १०३ कृताः. तथापि अविचार्य यत्किंचिदनुष्ठितं पश्चात्पश्चात्तापं सूते. प्रसिद्ध खलु भवद्भिः समं मम पितुर्वैरम्. स च राजसूययागे विघ्नविधाने- नात्यन्तं संतप्तो वैरनिर्य तनसमयं प्रतिपालयति. यद्यपि भवन्तोऽपि न बलतो वा शौर्यतो वा सम्पत्तितो वा गुणतो वा न्यूनास्तथापि ममा पिता सेनाबलाढ्यएव. स च युप्मभिरपहृतां स्वसुतां निशम्य क्रोधान्धः ससैन्यमनुधावेच्चेत्तदा महदनिष्टं स्यात् तस्माद्यूयं दिल्ली- नगरं गच्छत. मां च गांधर्वविवाहेन व्यूढां निशम्य क्रुद्धोऽपि जन- लज्जाभयादवश्यमेव युष्मदन्तिकं प्रेषयिप्यति. तदनायाससाध्येऽस्मिन् कर्मणि किं साहसविधानेनेति. पृथ्वीराजस्तु तस्या इदं भाषणमाकर्ण्य सविचारमभाषत. राजकन्ये? यो हि तव पिता त्वां गृहीत्वा गच्छतो ममानिष्टं कुर्यात् स मया व्यूढां त्वां निशम्य तवानिष्टं न कुर्यादिति कथं खलु श्रद्धार्हम्. त्वदनिष्टे जातेऽहं तु न जीवामि. तदनयोरुभयोरावयो- जीवयोमध्ये कं विहाय को वा नेय इति न जानामि. तद्यद्भावि तद्भवतु. आवां सहैकत्रैव तिष्ठावः. तत्र यद्यनिष्टं वा स्यादिष्टं वा तदुभयोरेव स्यादित्यहं मन्ये. किंच यद्यपि तावत्तव पिता सेनयाs- धिकवलस्तथापि मदीयसामन्तान् स न पराजेतुं शक्नोति. स तु कोपे- नानुधावमानो मदीयैः सामन्तैः स्थाने स्थाने आक्रम्य क्षपितबलो भग्नदन्तो नाग इव न किंचित्कर्तुं पारयेत् इति. अत्रान्तरे वृद्धः कन्हचव्हाणः सावेशं जगाद-वत्से ! संयो- गिते ! कामपि चिन्तां मा कुरु. त्वदीयः पिता कोपाकुलस्तव पति

१०४
पृथ्वीराजचव्हाणचरिते
बन्दीकर्तुमनुधावेच्छेदस्मान्निहत्यैवाने गच्छेन्न न्यथा. तद्यथा पितर
त्यक्त्वा स्वेच्छया दिल्ली पतिवृतस्त
थैवेदानी दिल्लीगमनाय सन्नद्धा
भवेति. अन्ये सामन्ताअपि तथैवावदन्. तदानीं साऽपि संयोगिता
भतुर्देवतायाइवाज्ञां शिरसा स्वीकृत्य दिल्लीनगरगमनाथ सन्नद्धाऽभवत्,

COM . Vaon नवमो गुच्छः। PAGE १ संयोगितापृथ्वीराजयोः प्रयाणम्. २ जयचन्दस्य पृथ्वीराजानुधावनम्. ३ आतताईकहरकण्ठीरयोः संग्रामे पतनम् ४ उभयसेनयोस्तुमुलं युद्धम्. (१) अथ दिल्लीनगरगमनाथ कृतनिश्चया सा राजकन्या संयोगिता प्रथमतः स्वीयं परमप्रेमास्पदं सखी- मण्डलमपृच्छत्. तच्च स्वसख्या मनोरथस्य साफल्यमवलोक्य संतुष्टं रतिमन्मथयोरिव सर्वथा- ऽनुरुपयोः संयोगितापृथ्वीराजयोर्विलासान् द्रष्टुं बद्धकुतूहलं सां संयोगितावियोगवा मकस्मात्समागतां निशम्य विस्मितं मुहूर्त नष्ट- चेतनमिवाभवत्. ततः कथमपि महता विवेकेनावधृतशोकं तव संयो- गितायाः सुखं विलोक्य स्वदुःखमजहाव. विज्ञापयास च सखि !

१०६ पृथ्वीराजचव्हाणचरिते पूर्वार्जितैः सुकृतस्त्वं द्वितीयं मन्मथमिव सुंदरं पुरंदरमिव प्रतापशालिन सम्राजं पृथ्वीराजं पतिमलभथाः. त्वं च दिल्लीपतेः शचीवेन्द्रस्यार्ध- भागिनी संवृत्ता. तदिममैश्वर्यातिशयं प्राप्यास्मान् मा विस्मर ! वयं तु भवत्या विस्मृता अपि रात्रिंदिवं सीतापतिं त्वत्कल्याणायैव प्रार्थ- यिष्याम इति. राजकन्या संयोगिताऽपि चिरसहवासिनीनां सखीनां वियोग- दुःखेन व्याकुला तासां प्रेममयी पाथेयमिव विज्ञप्तिमाकर्ण्य संतुष्टाऽश्रु- परिपूर्णनेत्रकमला सादरं सर्वाअपि परिष्वज्य सगद्गदमवदत्-सख्यः ! अहं च यद्यप्यधुना दिल्ली पतेरंशभागिनी संवृत्ता तथापि आत्मानम् युष्माभिः समं नानाविधक्रीडारतां कनोजपतेः कन्यामेव भावयामि. ये खलु संपत्तिं विपत्तिं च नदीप्रवाहस्य वृद्धिक्षयाविव स्वावस्थां भन्यते न ते कदापि स्वात्मानं स्वकीयान् वा विस्मरन्ति. ये तु हीनमतयः संपदागममदोन्मत्तास्ते स्वात्मानमेव विस्मरन्ति तदा च का कथा स्वकीयानां स्मरणस्य. सख्यः ! तावत्कालमेव भवतीभिर्मदीयं दुःखं सह्यं यावन्मम भर्तरि पृथ्वीराजे वर्तमानस्तातस्य कोपो न शाम्येत्. शान्ते च तस्मिन्नहं युष्मान्दिल्लीनगरं समानाययिप्यामीति. अथ राजकन्या कथमपि तासामनुज्ञां गृहीत्वा स्वदासीमण्डल- माप्रष्टुं समागच्छत्. तच्च दयालुम्वामिन्या वियोगदुःखेन व्याकुलं सततनिपतदश्रुजलबिन्दुनयनोत्पलं सर्वमपि गमनसन्नाहमकरोत्. राज- तनया संयोगिताऽपि तत्समावस्था धैर्य समवलंब्य जगाद-दास्यः! अधारभ्याहं युष्मद्वियुक्ता भविष्यामि. महं यथाशक्ति शीघ्रमेव नवमो गुच्छः १०७ तातं प्रसाद्य सर्वाअपि युष्मान् मम भर्तृगृहं नेप्यामि. तावत् अत्रैव प्रसादे निवसन्त्यो भवत्यो मदीयं प्रियवस्तुजातं पालयन्तु. इदं च सारिकाशुकामिथुनं कदापि नोपेक्षणीयम्. अयं च मनुष्यवत् सकल- कर्मकुशलो वानरः समय एव भोजनीयः. अयं च स्वयं मया वर्धितो मयूरो नान्यहस्तेन जलं पिबति अन्नं वा भक्षयति, तथापि मम प्रिय- भगिनीव कल्याणदक्षा कर्णाटकी द्वितीयं जीवितमिवेमं पालयतु. अयं च सारिकाक्रीडापटो यत्नेन रक्षणीयः. एतेन द्या. नाहं भत्री सहाक्रीडम्. वयं च सर्वा मिलित्वा प्रियकरण नाथेन समं क्रीडि- ष्यामः. एषा च वीणा प्रियवादिनी सखीव शोकसमये प्रियालापै- र्मदीयं शोकमपनयन्ती समतोषयत्. साऽपि सावधानेन रक्षणीया. अस्याः साहाय्येन प्रणयकुपितं प्राणनाथं स्ववशं करिष्ये. एषा च जातीलता कुसुमस्तबकाच्छादिता वराकीहैव तिष्ठतु. आसीन्मे मनसि परं यदस्याः सुकुमारैः कुसुमैर्नानाविभूषणानि कृत्वा तैः प्राणप्रियोऽलंकरणीय इति. अस्तु. यदा च तातस्य कोपो विनं. स्यति. तदा समये समये तेनाहूता प्राणनाथेन सममागत्यनामपि संभावयिष्ये. एतच्च क्रीडासरो मद्वियोगदुःखादिव मीनपरिवर्तनो- त्यतुषारक्षेपव्याजेनाश्रूणि मुंचति. तदिदमपि संभविष्यत्सत्करं साव- धानेन मनसा रक्षणीयम्. एनां च मत्प्रियकरस्य प्रतिकृतिं परं प्रेमास्पदं नानाशोकसमयेषु धैर्यदायिनीमहं सह नेष्यामि. यद्यपि सति प्राणनाथे नास्ति तत्प्रतिकृतेरावश्यकता तथापि कृतज्ञाऽहं प्राणात्ययेऽप्येनां न विस्मरिष्यामि. दोषमाक्च न भविष्यामि.

१०८ पृथ्वीराजचव्हाणचारते. एवं सर्व व्यवस्थाप्य गृहीतसर्वानुज्ञाया अपि संयोगितायाः पादयुगुलं तस्मान्नियासात् सहसा निर्गन्तुं नाशकत्. यद्यपि सा स्वयंवृतेन हृदयवल्लभेन समं गन्तुमुत्सुकैवासीत्तथापि कन्यायाः पितृगृहमोहो बलवत्तरएव. स चैनामस्मिन् समये स्ववशां चक्रे. अथ वेलायमानां स्वकान्तां संयोगितां वीक्ष्य पृथ्वीराजः पुन- रपि जगाद-प्रिये ! निर्गमनवेलाऽतिक्रामति. अस्माभिश्च सूर्योदया- त्पूर्व महान् पंथा आक्रमणीय एव. अन्यथाऽनुधावंस्तव पितांऽवयो- रनिष्टं कुर्यात्. यद्यपि अत्र चिरं वसन्त्यास्तव वियोगदुःखं दुष्परि- हरं तथापि मदर्थं त्वया यदा स्वजनकस्नेहोऽपि समुज्झितस्तदाऽस्य स्थानस्य तद्वर्तिनां वस्तूनां स्नेहत्यागे का क्षतिः. तत्क्षणिकमिमं मोहं विहाय मया सह गन्तुं सन्नद्धा भवेति. बुद्धिमती संयोगिताऽपि स्ववल्लभस्येदं भाषणमाकर्ण्य निर्धत- मोहपटला सत्वरं स्वदासीमश्वमानेतुमादिदेश. पृथ्वीराजश्चाश्वानयनो- द्यतां तां दासी प्रतिषिध्य संयोगितामवदत्-प्रिये ? गच्छतोरावयोर्मार्गे विघ्ना अवश्यं भविप्यन्ति. तदस्मिन् समये भिन्नमासनमनुचितं. यत्खलु इष्टं वाऽनिष्टं वा स्यात्तदुभययोरेव स्यान्नैकस्य. मार्गे चातिवेगेन धावता मया सह त्वं धावितुं न शक्ष्यसि. तद्विरम भिन्नाश्वारोहणव्यापारात्. त्यक्त्वा च लज्जां मम पृष्ठत एनमेवाश्व- मारुह. एष मम विश्वासपात्रं कुलीनोऽश्वः शीघ्रमेवावां स्वराजधानी नेष्यतीति. साऽपि संयोगिता युक्तमेवेदमिति मन्यमाना दासीजनस्य प्रणामान् गृहीत्वा तस्मै नानाविधं पारितोषिकं वितीर्य स्वकण्ठगतां नवमो गुच्छः १०९ मुक्तामालां कर्णाटकीकण्ठे निक्षिप्यागदत्-सखि ! त्वयैव खलु अहं दिल्लीपतेः सहचारिणी कृता. त्वयैव च मम प्राणवल्लभोऽपि प्रत्यु- ज्जीवितस्तत्तुभ्यमहं किं पारितोषिकं ददामि. अयं देहोऽपि यदा नास्य जनस्य तदा राज्यादीनां का वा कथा ! तत्केवलं मम म्मर- णार्थमहमिमां मदबादत्तां मुक्तामालां त्वत्कण्ठे स्थापयामि. इमामेव मालां मां मन्वाना अभ्यश्च तरलं द्वौ विभागौ यथाक्रमं मदीयं हृदयं हस्तौ च मन्यमाना कथमपि मदीयं वियोगदुःख सहस्वेति. ततश्च प्रथममारुढेन पृथ्वीराजेन दत्तहस्तावलंबा तस्य पृष्टभागेऽ- श्वमारुरोह. पृथ्वीराजश्च परमसूक्ष्मेण कौशयवस्त्रेण परम्परमबध्नात्. तौ च तदानीं श्वेतमश्वम रुढी वस्त्रेणाभिन्नतां गती महोक्षारूढी पार्वतीशंकराविवाशोभेताम् अथ दिल्लीपतिः कालयापनं वृथाऽयोग्यं भयावहं च मन्यमानः समीपवर्तिनं चंदकविं- कविराज ! मद्वचनात्स राजा जयचंदस्त्वयेत्थं वक्तव्यः-'कनोजाधिपते! तव भ्रातरं निहत्य त्वदारब्धो राज- सूययज्ञोऽपि मया विनित एव. अधुना मयि स्वयमनुरक्तां तव कन्यां हृत्वा त्वदीयं यशइव श्वेतमश्वमारुह्य पृथ्वीराजोऽयं स्वराज- धानी गच्छति. तद्यद्यस्ति शक्तिस्तदाऽनुधाव्य मां बन्दीकुरु अन्यथा स्ववदनमपमानमलिनं गृहीत्वा तूप्णी तिष्ठेति ! निगद्यचे- त्यमश्वरश्मीजग्राह. सोऽप्यश्वः स्वामिनियोगं शिरसाकुर्वाणः सत्वरं दिल्लीनगरमभिलक्ष्य प्रतस्थे. A ११० पृथ्वीराजचव्हाणचरिते ( २ ) अथ रात्रीपतिः पृथ्वीराज इव स्वपत्नी संयोगितामिव रात्री गृहीत्वा स्वनिवासमगच्छत्. सर्व अपि त रकाः संयोगित दास्य इव स्वस्वामिनीवियोगदुःखाकुलाः प्रासादइव काशे लीना अभवन्. सर्वे. ऽपि पक्षिणो जयचंदाय कन्याहरणं कथयन्त इव सर्वत्र व्यचरन्. पृथ्वीराजमार्गप्रर्दशनार्थीमव भगवान् सविता पूर्व चलमारुरोह. सर्वे- ऽपि प्रजाजना अविदितरात्रिवृत्ता यथानियमं स्वस्वव्यापारमन्वतिष्ठन्. तदानी कविराजश्चन्दः स्वीयमाहिकं सर्व विधाय देवी भग- वतीमुपास्य कनोज धिपस्य दर्शनार्थमगच्छन्. राजा च तदानीं राज- सभायां स्थित्वा राजकार्याणि सामन्त हृतान्युपायनानि अपश्यत्. चंदकविश्च स्वसेवकाद्वारा स्वागमनं राज्ञे कथयितुं द्वारपालाय न्यवे- दयत्- -सोऽपि श्रुततत्कीर्ति वैज्ञातराजन्नेहः सहसा गत्वा तदागमनं निवेदयामास. राजा जयचंदोऽपि कविराजस्य प्रातरागमनकारणं जिज्ञासमान्योऽप्यन्ततोऽलब्ध्वा सचिन्तः शीघ्रमेव तत्प्रवेशनार्थमादि- देश. सोऽपि द्वारपालः सत्वरमागत्य कविराज प्रवेशयित्वा राजदर्शन- मकारयत्. जयचंदोऽपि सादरं विहितसत्कार उच्चासने तं निस्पृहं चन्दकविमुपावेशयत्. चन्दकविश्व संप्रदायानुरूपं शुभैराशीर्वचनै- स्तं कनोजाधिपतिमनुजग्राह. कनोजाधिपश्च वृत्तकुशलप्रश्नः सादर- मपृच्छत्--कविश्रेष्ठ ! अयं च समयो भवतो भगवती सेवायाः ! तदद्य कथं भगवत्युपासनानुष्ठानं विहाय भवान् प्रातःकाल एव मम सभामलमकरोत् ! इति.

नवमो गुच्छः १११ चन्दकविरपि स्वागमनकारणं शनैःकथयितुमिच्छुराह. राजन्! यद्यपि मे भगवत्युपासनमतिरोचते तथापि नित्यव्यवहारार्थ स्वामी दिल्लीपतिः सेवनीय एव. अस्तु. स च प्रतापी सकलभूपालचूडामणिः पृथ्वीराजो चन्द्रज्योत्स्नाधवलितायामतीतायां रात्रौ मामाहूयावदत्.- कविश्रेष्ठ ! त्वं महति प्रत्यूषे राजसभां गत्वा मद्वचनाद्राजानं जयचन्दं ब्रूहि--त्वदीयां कन्यां गोधर्वविवाहविधिना विवाह्य तामद्य गृहीत्वा दिल्लीनगरं गच्छामि. तद्यद्यस्ति शक्तिस्तदाऽनुधाव्य मां बंदीकुरु इति. राजन् ? मया तु स्वामिनियोगोऽनुष्ठितः, इदानीं किंवा कर्तव्यमिति त्वं विचारयति. कनोजाधिपश्च श्रुत्वाऽमुं वृत्तान्तं विस्मितः परिहासमेव मेने. परन्तु कविराजेन सशपथं सत्यत्वेन निवेदितं तमाकर्ण्य कोपातिरेकेण सद्यएव मुमूर्च्छ. तं मूच्छितमव- लोक्य सर्वेऽपि सामन्तास्तथापरिचारकाश्चेतस्ततो धावमानाः शीत- लोपचारैः संज्ञां लंभयित्वा सान्त्वयामामः. जयचंदस्तु स्वप्रकृतिमापन्नः प्रथमतः संयोगिताप्रासादरक्षका- णामधिकारिणं राजपुरुषमाव्हयातस्म. स च परिचारकस्तं सैनिक- निवासमध्ये मृग्यन्निदं वृत्तमानिनाय-दिनद्वयात् पूर्व यथानियम स्वानुचरैः समं संयोगिताप्रासादं निरीक्षमाणः स राजपुरुषोऽकस्मा- देव तस्मात्प्रासादान्निर्गतं तरुणं पुरुषमवलोक्य विस्मितस्तं बन्दीका प्रयतमानः सानुचरस्तेन निहतः स्वर्ग जगामेति. कविराजश्च तद्वृत्तं निशम्य स्मेरवदनः कनोजाधिपं जगाद-राजन् ! स च तरुणः कोवेत्ययं न जानातिः ' अहं तु जानामि स च तरुणः पृथ्वीराज एव. यदा च संयोगितामंदिरं प्रविश्य तां गांधर्वविवाहेन ११२ पृथ्वीराजचव्हाणचरिते स्वीकृत्य चिरं विलस्य प्रभातकाले स्वनिवासं गन्तुं निर्गतम्तदा स एकाकी निरीक्षकाध्यक्षेण समं युध्वा सर्वानपि तान् यमालायतिथी- नकरोत्. इति. निशम्य च स्वसेवकघातं तथा स्वदुहितृहरणं राजा जयचन्दः कोपसंतप्तः सेनापतिमाहूय--सेनापते ! अहं च मध्यान्हेऽद्यैव तं कन्याचौरं पृथ्वीराजमनुधाव्य बंदीकर्तुं निर्गच्छ मि. तत्सर्वा सेना सन्नाह्य त्वमपि मया सहागच्छेत्यादिशत्. सर्वान् सामन्तानपि तथैव न्यवेदयत् अथ कथमपि स्नातभुक्तः जयचन्दः सेनापतिनिवेदितसेना- सन्नाहो महत्या त्वरया सामन्तमण्डलवृतस्तं पृथ्वीराजमनुदधाव. तं च स्वजामातुः शासने समुद्यतं जयचंदं वीक्ष्य कोपाकुलो भगवान् सहस्ररश्मिः प्रखरैः किरणैः संतापयामास. वातश्च रविसंतापसंतापितः प्रतीपं वहन् सैनिकान् सामन्तानत्यन्तं केशयामास. गृध्रादयो मांसलोलुपाः पक्षिणश्च भयसूचकैः शब्दैस्तमस्मा- ध्व्यापारादुपरन्तुं बोधयन्त इव सेनां परितो विचेरुः. जलाभावात्त- प्णासमाकुलाः सैनिका रविसंतापमसहमाना भूमितले निपत्य प्राणान्विससर्जुः. अन्ये च बलवता प्रखरसूर्यसंतापेन संतप्ता रुग्णा एवाभवन्. एवं स्वविरोधीनि पंचभूतान्यवलोक्याऽपि अखिन्नः कोपाति- रेकप्रनष्टमतिस्तथैव महता जवेनानुदधाव.

नवमो गुच्छः ११३ ल अथ तदापतत्-अग्रेसरमत्तेभराजिसंकुलं, असंख्यदुर्दातवाजि- हेष रवव्यापृतं, प्रतिफलितसूर्यप्रकाशदुर्दशभल्लभीपणं, सकलमध्य- भागविराजमानखड्गलतिकाभयंकरसादिकुलं, तीवविषदिग्धफलक- बाणसंचयविराजमानं, अनेकशूग्धानुष्कगणभूषितं, मध्यभागे शनैः प्रचलच्छतघ्नीमंडलमंडितं, अनेकलोहपेटिकारक्षितकोशं, तत्पश्चादश्व. शकटस्थापितभक्ष्यसंग्रह, सेनामध्यविराजमानसेनापतिकरधृतराजवैज. यंतीसुन्दरं, महागजारूढकनोजाधिषानुमृतं सैन्यमवलोक्य रोक्षुकामो गोविंदरायगेहलोट' नामा पृथ्वीराजसामंतः स्वसैन्यं स्वामिभक्त- सैनिकभूषितं गृहीत्वा गंगाप्रवाहम्य पर्वत इव तस्य सैन्यस्य मार्गेऽ- तिष्ठत् , तच्चाकस्मादागतं प्रतिबंधकारणं विलोक्य क्षणमात्रं स्तब्धं कनोजाधिपसैन्यमभूत् . जयचंदस्तु प्रतिबंधकं तत्पृथ्वीराजसैन्यं वीक्ष्य क्रुद्धः सहसा तदाक्रमणाय सेनापतिमादिदेश. गोविंदरायस्तु तं कनोजाधिपस्यागाधमनन्तं सेनोदधिं प्रेक्ष्य तद्रोध आत्मानमशक्तं मन्यमानोऽपि सामिहितदक्षः पृथ्वीराजस्य निर्विघ्नं दिल्लीगमने साहाय्यं चिकीर्षुर्महतोत्साहेन तेन समं योद्धं प्रचक्रमे अथ सम्प्रवृत्ते तीव्रत्वेषाहतखड्गसंपातध्वनिभीषणे सावेशं युध्यमानवीरसममनोहरे युद्धप्रसंगेऽल्पबलोऽपि गोविंदरायः कनो- आधिपसैन्यं जर्जरितमकरोत् . जयचंदस्तु तम्य शौर्य स्वामिभक्तिमव- लोक्य विस्मितः परमभिननन्द. ततश्च तं गोविंदरायमपि स्वर्ग प्रेष- यित्वा कनौजाधिपो जयचन्दोऽग्रे प्रयाणमकरोत् . अचिरादेव चन्द- ११४ पृथ्वीराजचव्हाणचरिते पुण्डीरनामा सामन्तस्तं सेनासमुद्रं प्रति प्रतीपोऽभूत् . तत्रापि बहुलं सैन्यं क्षपयित्वा तमपि निहत्य महता वेगेन जयचन्दोऽग्रे प्रययौ. (३) अथ क्रमेण प्रतिरोधार्थ समागतान् पृथ्वीराजसामन्तानिहत्य ससैन्यं कनोजाधिपे जयचंदे दिल्ली नगरमाभिलक्ष्य पृथ्वीराजमनुधावति सति परमशूरोऽतिशूरैः सैनिकैः समं ' आतताई ' नामा सामंतः पुनरपि प्रतिकूलो भूत्वा रोद्धं मार्गेऽतिष्ठत्. वाचकाः ! अस्य सामं- तस्य संबंधिनी कापि विचित्राऽऽख्यायिकाऽस्ति. सा चेत्थम्- पुरा खलु पृथ्वीराजस्य सामंतश्चौरंगीचव्हाणनामा कोऽपि भूप आसीत्. स च परमस्वामिभक्तः स्वधर्मनिरतः सज्जन आसीत्. बहिषु भार्यासु सतीप्वपि स चिरात्तनयं न लेभे. अथ स्वराज्ञीपु मध्ये कांचनापन्नसत्वां निशम्य सन्तुष्टो महताऽनन्देन प्रसूतिसमयं प्रत्यपालयत्. सम्प्राप्ते तु प्रसूतिसमये पारितोषिकलोभेनेतस्ततो धाव- मानमिथ्यैव कथितपुत्रजन्मा स चौरंगीचव्हाणो महता प्रमोदेन- पुत्रोत्सवमकरोत् . ततश्च ज्ञातसत्यवृत्तोऽपकीर्तिभयाञ्चिन्तातुरः कथ- मपि तत्सत्यं तृत्तं गोपायामास. अथ गतेषु केषुचिन्मासेषु प्रवर्धमानां तां कन्यकां वीक्ष्य दुष्कीर्तिभीतः स भूपालस्तां निभृतं गृहीत्वा संभोर्देवालयमगच्छत् . आगत्य च तां कन्यकां शंभवे समात्मान- मपि तद्वलिं विधित्सुः स चव्हाणः शंकरमध्यायत्. तस्य भक्ति तथा दृढनिश्चयं च विलोक्य संतुष्टो भक्तवत्सलः शंकरस्तां कन्यकां पुमांसं विधाय तस्मै समर्पयामास. समर्प्य च जगाद-राजन् !

नवमो गुच्छः ११५ अहं च तव भक्तिमालोक्य संतुष्ट एनां पुत्रमकरवम् . एष च तव पुत्रः प्रतापशाली वैभवमाण्डितश्च भविष्यतीति. राजाऽपि तं पुत्रं गृहीत्वाऽऽत्मानं धन्यं मन्यमानः स्वगृहमागच्छत्. अस्तु. राजा जय- चंदस्तु तं देवतानुग्रहशालिनं वीरं युद्धार्थमुपस्थितं प्रेक्ष्य प्रमार- कुलोत्पन्नं कहरकण्ठीरनामानं शूरं वीरपुरुषं सेनाधिपत्येऽभ्यषिंचत् . तद्विषयिण्यपि आख्यायिकेल्थम् . पुरा खलु प्रमारकुलोत्पन्नः कश्चन राजा संजातवैराग्यः कृत्स्नां भूमि स्वसामन्तेभ्यो विभज्य दत्वा स्वयमात्मसाफल्यं कर्तुं वनं जगाम. तत्र च तीव्र तपश्चरति तस्मिन् कश्चन् राक्षसो गां हत्वा भक्षयामास. धार्मिकः स प्रमारराजो गोवधपातकपरामृष्टमात्मानं मन्यमानोऽमिकाष्ठभक्षणेन प्राणांस्त्यक्तुमैच्छत् . तदानीं च सर्वत्र- संचारी नारदमुनिस्तमग्निकाष्ठभक्षणोद्यतं वीक्ष्य परं निषिषेध, जगाद च-राजन् ! त्वमसि जात्या क्षत्रियस्तुभ्यं च विप्रवदेतादृशं मरणमनु- चितं. त्वया हि युद्धे सम्मुख युद्धमानं प्रतिभटं हत्वा तेन च निहतेन स्वर्गलोकः संपादनीयः. तद्विरमास्मात्कृपणादात्मत्यागव्यापारात् . अचिरादेव दिल श्वरकनोजाधिपयोमहान् संग्रामो भविष्यति तत्र च त्वं सुसमयं लप्स्यस इति. स एव कहरकण्ठीरः प्रमारराजो महतानंदेन जयचंद सेवमानः स्ववेलामपालयत्. अस्तु. एवं तौ द्वावपि वीरौ दैविक शक्तिसंपन्नौ महतोत्साहेन युद्ध प्रावर्तयताम् . तत्र कहरकंठीरवस्तु अगणितसेनासहायः केवलं सहस्रशङ्खचादकसमन्वितो मयूरपिच्छमण्डितशिरोभूषणाधारी, महता ११६ पृथ्वीराजचव्हाणचरिते शौर्येण पृथ्वीराजसेनापतिमातताईवीरमाक्रम्य तदीयां सेनां द्विधाचक्रे. अन्वधावत च महता जवेन दिल्लीनगरमभिलक्ष्य. मानौ अचिरादेव च सोऽपश्यन्महता वेगेन धावन्तौ, श्वेतेनाश्वनोह्य- भल्लखडधारिणौ संयोगितापृथ्वीराजौ. तौ वक्ष्यि जातानंदः स कहरकण्ठीरोऽतित्वस्या पृथ्वीराजमाक्रम्य स्वहस्तगतया ज्यया तं पृथ्वीराज कण्ठदेशआचकर्ष. साध्वी संयोगिता स्वपतिं स्वपितृ- सेनापतिना समाकृष्टं विलोक्य क्रुद्धा तस्मिन्नेव क्षणे स्वमध्यविराज- मानां तीक्ष्णां छुरिकां निष्कास्य तया तां ज्यां चिच्छेद. कहर- कण्ठीरस्तु तदलौकिकं संयोगितायाः शौर्य पतिनिष्ठं प्रेम च वीक्ष्य विस्मितोऽनुधावनान्निवृत्तः कनोजाधिपसमीपमाजगाम. अगदच्च- राजन् ! एष दिल्लीपतिः पृथ्वीराजः संयोगितां न हरति किंतु संयोगिता स्वात्मानमेव हास्यति यदा च स्वकन्यैव शत्रु साहाय्ययति तदा विजयस्याशा दुर्लभा. अस्तु. अस्माभिश्च समारब्धं कार्य समापनीयमेवेति. कनोजाधिपश्चेदं वृत्तं निषम्यात्यन्तं समतप्यत् . अथ पुनरपि स आतताईसामन्तः स्वसैन्यं व्यवस्थाप्य महता वेगेन कनोजाधिपसेनामाचक्राम. कहरकण्ठीरोऽपि तदाक्रमणं शौर्येण विफलीकुर्वन् युयुधे. अचिरादेव संमुखमागतौ तौ द्वावपि वीरौ स्वयुद्ध- चातुर्येण सैनिकानां विस्मयं जनयंती परम्पराघातेन प्राणं तत्यजतुः. राजा जयचंदः प्रतापशालिनः कहरकंठीरम्य स्वर्गगतिं निशम्य- खिन्नोऽपि अभमोत्साहः पुनरपि जवेन ग्रे प्रचचाल. ततश्चाने गच्छन्तीं कनोजसेनां रोड़े काशीराजो नाम पृथ्वीराजसामन्तोऽग्रे- नवमो गुच्छः ११७ ऽभूत्.. जयचन्दपक्षीयस्तु हमीरहाडानामा क्षत्रियश्रेष्ठस्तेन समं योद्धं पुरतो बभूव. (४) तौ च महता चातुर्येण युध्यमानौ सर्वमपि सैन्यमाश्चर्येण व्याकुलं चक्रतुः. काशीराजोऽल्पबलोऽपि युक्त्या युध्यमानः कनोजा- धिपसेनामाधिक्येनानाशयत् . अचिरादेव दिल्लीनगरादागतं नूतनं सैन्यं लब्ध्वा संजातर्धयः पुनरपि पूर्ववदेव कनोजसेनामरुणत् . कनाजोधिपपक्षीया अपि अवशिष्टाः सामन्ताः स्वस्वामिनिरोधमाकर्ण्य तत्साहाय्यार्थं तत्रैवागच्छन् . तांश्च साहाय्यविधानाय समापततो निशम्य स्वस्वामिरक्षणेच्छया पृथ्वीराजसामन्ता महता जवेन तत्र वेगेनाधावन् . एवं समागतानामुभयपक्षीयाणां शूराणां समागमात्तत्खलु क्षेत्रं रणदेवताया मूर्तिमन्निवासस्थानमिवादृश्यत. अथ काशीराजे स्वकर्मार्जितं लोकं गतवति सति क्रमेण हरि- सिंहकनकगुर्जरनीरथररायप्रभृतयः सामंतश्रेष्ठा अलौकिकं शौर्य प्रदर्श्य सूर्यलोकं जग्मुः. ततश्च वृद्धः पितृव्यः कन्हचबाणों गृहीतसेनापति- पदो महता शौर्येण युयुधे. तस्य च वृद्धस्य कन्हचव्हाणस्य दिव्यं पराक्रममवलोक्य विस्मिता उभयपक्षीयाः सैनिकास्तं भीष्ममेवामन्यन्त. अथ तस्मिन्नपि महावीरेऽगणितान् सैनिकान् हत्वा लोकान्तरमुपगते सति' पृथ्वीराजस्य भागिनेयः । अहनकुमारपरमारः सेनापतिर्षभूव. अयं च कुंमारो यथा प्रकृत्यैव शूर आसीतथा दैविकशक्तिसंपन्नोऽपि.

११८ पृथ्वीराजचव्हाणचरिते एकदाऽयं नापितेन स्वकेशान् कर्तयन् कुतश्चित् कारणात्क्रुद्धेन राज्ञा पृथ्वीराजेन कोपभाषितेन ताडितस्तेन च कोपाकुलो भूत्वा खड्ग निष्कोषीचक्रे. राजा च तं क्रुद्धमवलोक्य सोपशमं ' वत्स ! अल्हन! यत् खलु वीरस्य मस्तकं न तत्तस्य किंतु राज्ञ एवेति मन्वानोऽह- मित्यं त्वामवदम्' इति जगाद. स तु नि कस्तदानीमेव 'राजन् ! न खलु वीरस्य मस्तकमेव राज्ञः किंतु शरीरमपि तस्यैव. वस्तुतस्तु अत्यल्पमिदमुच्यते. वीरस्य बुध्यादिकमपि स्वामिनएवेति प्रत्यु- त्तरयामास. अस्तु. यदा च तं कनोजाधिपरोधाय मार्गे पृथ्वीराजः स्थापयित्वाऽग्रे गन्तुं प्रचचाल तदा स स्वामिभक्तो वीरः स्वमस्तकं खड्गेन च्छित्वा तस्मै दत्वाऽवदत् . राजन् ! अहमस्मि देवतानुग्रहशाली. मदीयोपास्यदेवता मह्यमिमं वरमदात् . यावत्तव शिरो भूमौ न पते- शावत्त्वं न मरिष्यसीति. तदिदं मदीयं शिरो गृहीत्वा त्वं जवेन दिल्लीनगरं गच्छ. अहं च सर्वथाऽनुधावन्तं कनोजाधिपं रोत्स्यामि. परन्तु मदीयं शिरो भूमौ मा स्थापयेति. पृथ्वीराजोऽपि तन्मस्तकं हस्तेन धृत्वा जवेन गच्छन् प्रखर- संतापविव्हला संयोगितां वीक्ष्य कस्यचिन् महावृक्षस्य शीतलच्छायायां विश्रान्त्यर्थमेवातरत् . राजकन्या संयोगिताऽपि प्रकृत्यैव कोमलांगी घोटकधावनेन पीडितसंधिर्महता कष्टेन भूमाववतीर्य तस्थौ. अचिरा- देव ग्रीष्मकालरविकरसंतापजानिता पिपासा तामपीडयत्. तां च पिपासाकुलां वीक्ष्य पृथ्वीराजः कूपाजलं निष्कास्व तस्यै ददौ. सा च प्रबलपिपासा व्याकुलाऽपि स्वप्रियभर्तुर्हस्ते विराजमानं विगल- द्रुधिरं रुण्डं विलोक्य संजातघृणा तज्जलं पातुं न शशाक. सर्व न नवमो गुच्छः ११९ वृत्तं निवेद्याऽपि जलपानविमुखी प्रबलमू क्रान्तां कान्तां संयो- गितां प्रेक्ष्यागत्या तन्मस्तकं भूमौ निक्षिप्य हस्तौ प्रक्षाल्य नूतनं जलमानीय तस्याः पिपासां दुरीचकार. पतित एव तस्मिन् मस्तके युध्यमानः कधरूपः कुमारोऽपि धरणितले पपात. तं च कुमारं पतितं समीक्ष्य निष्प्रतिबन्धं तत्कनोजराज- सैन्यं पुनरपि अन्वधाबत् . मार्गे पृथ्वीराजपक्षीयैर्यथाशक्ति कृतान् प्रतिबंधान्दूरीकृत्य गंगौध इव दिल्लीनगरमागच्छत्. अत्रान्तरे पृथ्वीराजः समं संयोगितया. हाइलीरायहमीरराम- गुरुपुरोहितचन्दकविनामकैखिभिः सामंतश्च दिल्लीनगरं प्राविशत् . स्वस्वामिनं च सुरक्षितमागतं वीक्ष्यानन्दसंकुला जना दुर्गाधिकारिणः सैनिकाश्च महान्तं हर्षनादं चक्रुः. तदानीमेवान्वागतं प्रलयकालिकमेघपटलमिव दुर्निरीक्ष्य कनोजराजसैन्यं वीक्ष्य चिंतातुराः सत्वरं दुर्गद्वारं पिधाव महता सावधानेन स्वस्वविभागं परिपालयतस्ते दुर्गपालाः शत्रोरागमन प्रतिपालयामासुः. कमोजाधिपतिर्जयचन्दो दिल्लीनगरं समीपमागतं वक्ष्यि सानंदो महता वेगेन नगरे प्रविशन्तं पृष्टतः स्थितसंयोगितां पृथ्वीराज विलोक्य खिन्न इन्द्रप्रस्थदुर्ग रुरोध.

Q दशमी गुच्छः। १ कनोजाधिपस्य पृथ्वीराजाय स्वकन्यासमर्पणम्, २ दिल्लीनगरे विवाहोत्सवः. ३ पृथ्वीराजस्य संयोगितया समं विलासा:. ४ चन्दकवर्हाहुलीरायेण समं संवादः. ५ हाहुलीरायस्य गिझनीपतिना समं दिल्लीनगरा क्रमणम् . ( १ ) क मोजाधिपो जयचन्द इन्द्रप्रस्थदुर्गमवरुध्य स्थितः स्वयमचिंतयत्-इदानी दिल्लीनगररोधेन किंवा लभ्यं? यथाशक्ति च पृथ्वीराजसामता अवशिष्टा योत्स्यन्त एव. अहं तु सेनाबलसमन्वितः सर्वानपि तान् हत्वा दिल्लीनगरं विजेप्यएव. अत्र न संशयः. पृथ्वीराजश्च याव- दशमो गुच्छः १२१ जीवं युध्येतैव. तं च निहत्य मम को वा लामः ? संयोगिता तु वैधव्यदुःखमसहमाना सहगमनं कुर्यादेव. एवं चानेन व्यापारण जामा- तृवधः कन्याघातः समग्रदिल्लीनगरजनस्वास्थविनाशो मया लभ्यः. पूर्व च राजसूययज्ञोऽपि न संवृत्तःः अधुना कन्याघातेन जामातृवधेन स्वमुखं कलंकयिष्यामि. तदधुनेदमुचितमाभाति-तस्मै पृथ्वीराजायैव प्रीतिपूर्वकं संयोगिता समर्पणीया. यद्यपि मदीयाः शत्रयो मां हीन- बलं मत्वाऽपहसेयुस्तथापि संयोगितावैधव्यदुःखापेक्षया तस्सह्यं भवि- प्यति. नचेह तादृशः कोप्यस्ति यस्य सर्वेऽपि कामा निर्विघ्नं सिद्धाः. मानवो हि स्वभावत एव नानाविधान् मनोरथान् करोति परंतु सर्वज्ञ ईश्वरः सर्वमेव संचितं कर्म वीक्ष्य तस्य कामान् पूरयति. तदस्मिन् परतंत्रे कामपूरणे केनाऽपि मानवेन खेदो न कर्तव्य इति सत्यं तत्वम् . किंच-अद्यावधि मार्गे ये ये युद्धप्रसंगा जातास्तेषूभयपक्षीया वीरा जना अगणिता एव निपतिताः. तेषां संबन्धिनां च वृथैव मया शापो गृहीतः. तदधुनाऽपि भावी सेनाक्षयो रक्षणीय इति. एवं चिंतयन्नपि राजा जयचंदोऽपकीर्तिभीतो दोलायमानचित्तस्तूष्णीं तस्थौ. अथ तस्मिन्नेव समये चन्दकविः समागतमात्मानं द्वारपाल. मुखेन न्यवेदयत्. राजाऽपि कर्तव्यनिश्चये तस्य साहाय्यं जिघृक्षुः सादरमानीयासने समुपावेशयत्. चन्दकविश्व दत्ताशीर्वचनो राज्ञो दोलायमानं मनो निरीक्ष्य संतुष्टः प्रकटमुवाच-राजन् ! कनोजाधिपते ! साम्प्रतं त्वयाऽनेन युद्धेन किं वा लभ्यं ? यदि दिल्लीनगरं, तदा बलान्यस्त्वमचिरादेव तत् स्वायत्तं करिष्यसीत्यत्र न संशयः. परन्त्वहं तु न १२२ पृथ्वीराजचव्हाणचरिते मन्ये दिल्लीनगरविजयेन न तवाभीष्टं सिध्येत्. त्वदभिष्टं तु कन्यां हरतः पृथ्वीराजस्य शासनं. परंत्वेतदशक्यं-यतो जीवतः पृथ्वीराजस्य बंदीकरणं खपुष्पसदृशं. सोऽपि च वीरश्रेष्ठो यथाशक्ति युध्वैव स्वर्ग- मलंकरिप्यति नेतरजनवत्तव कारागृहं ! सती संयोगिताऽपि तमेवानु- सरिष्यति. एवं स्थिते स्वकन्यायास्तथाजामातुर्यातजन्यं पातकमेव त्वं लप्स्यसे. किमेतदेव त्वदभीष्टं ? यद्येतत्तदा प्रवर्ततां घोरं युद्ध. अहं तु मन्ये-त्वादृशाः सात्विका राजान ईदृशाभीष्टसाधनार्थं न कदापि युध्यन्ते किंतु परपीडापरिहारार्थमेव. तामसा यवनादयो जनाः परेषां घातमेव स्वाभीष्टं मन्यते युध्यते च. तद्विरमास्मादपकीर्तिकारिणः संग्रामात्. यथा हि प्राचीना राजर्षयः स्वकन्यास्तरुणै राजकुमारै- गांधर्वविवाहेन व्यूढा अभिननंदुस्तथैव पृथ्वीराज संयोगितां चाभि- नंद्य लोकेऽखण्डवासां कीति संपादय. यथाहि स्वकन्यां हरन्तं श्रीकृष्णं तदीयः पिताऽभिननंद तथैव त्वमपि कुरु. न तावद्रुक्मिणी- बंधुरिव तस्मै विद्रुह्यापयशो गृहाण. राजन् ! त्वं हि क्षत्रियकुला- लंकार ईदृशैः क्रूरैः कमभिः कुलांगारो माभूः. कनोजभूपाल ! पृथ्वीराजेन न तव कन्या हृता किंतु तयैव स्वयमात्माऽपहारितः. किं न श्रुतानि त्वया तद्वन्दीकरणार्थमनुधावतां त्वत्सामंतानां वचांसि. एवं स्थिते सकलक्षत्रियगणाहतो मुनिवरैरंगीकृतोऽयं गांधर्वविवाहः. तमनंगीकृत्य स्वस्य क्षत्रियत्वं गमयसि तद्विचार्यातः परं युद्धस्व ! केवलं युध्वा बंदीकृत्य च पृथ्वीराजं सकान्तं केवलं क्षणमात्रं स्वमनसः सन्तोषो वा श्रेयानुत परमानन्देन योग्याय पृथ्वीराजाय प्रियां कन्यां समर्प्य सकलजनसंतोषो यशश्च श्रेय इति स्वयमेव दशमो गुच्छः १२३ विचारय. त्वं ही राजनीतिकुशलः कुशाग्रमतिरेतावदपि विचारयितुं न शक्नोषीति नाहं मन्य इति. क्षीणसैन्योत्साहः कनोजाधिपः परममान्यस्य विदुषश्चन्दकवे- रिदं परमोजस्वि भाषणं निशम्य समुप्तन्नमतिः कर्तव्यविचारणार्थ स्वसामंतानां सभामकरोत् . तत्रापि मिलितास्ते सर्वेऽपि व्यवहार- कुशला वृद्धाः सामन्ताः सन्तोषेण पृथ्वीराजाय कन्यां समर्पयितुमेवा- वदन् . तमेतं सर्वेषाममिप्र यं ज्ञात्वा राजा जयचंदोऽपि त्यक्ताग्रहः स्वमनोगतं पृथ्वीराजाय निवेदयितुं स्वहस्तलेखं दूतेन समं प्राहिणोत् . पृथ्वीराज! दिल्लीपते ! त्वं हि बलादस्मान् परिभाव्य मम कन्यां संयोगिता तरुणीमपाहर इति मत्वा कोपेन मयाऽनुद्रुतोऽसि शासनार्थ. अत्रागतो- ऽहं त्वयि सत्यमेव बद्धानुरागां मम कन्यां संयोगितां त्वया सह गांधर्वविवाहेन बद्धप्रेमग्रंथिमश्रौषम् . यथाहि वीरश्रेष्ठाः क्षत्रिय- राजाः स्वयमनुरक्तां कन्यां परीक्ष्य गांधर्वविवाहेन परिणयंते तथैव क्षत्रियकन्यका वीरश्रेष्ठान् स्वयं वृणते. त्वं हि शूरवीरमुकुटमणि- दिल्लीनरेशः परं जामातृत्वेनाभ्यर्हितः. तल्लौकिकविवाहविधिविधाना- र्थमनुमोदस्व मा. अहं हि प्रीत्या सकललोकसाक्षिकं तुभ्यं कन्यां समर्प्य स्वराज्यं गन्तुमिच्छामि. तदविलंबेन मदीयामभ्यर्थनां सफलीकुरु इति. पृथ्वीराजश्च तमिममकल्पितप्राप्तं सन्देशं निशम्यानुवाच्य चेम लेखं विस्मितः सहसैवान्तःपुरं गत्वा तं लेख स्वप्रियाय संयोगितायै प्रादर्शयत्. साऽपि विस्मयसागरनिममा पुनःपुनस्तं लेखमपठत् . दिल्लीपतिश्च तथाऽवस्थां स्वप्रियामवलोक्य सहासं जगाद. प्रिये !

१२४ पृथ्वीराचव्हाणचरिते एष तव वृद्धः पिताऽधुना त्वां मह्यं दातुमिच्छति. मया तु प्रथमत एव भगवता मन्मथेन प्रदता त्वं गृहीता. यद्यपि लौकिक- विवाहविधेर्नावश्यकताऽस्मिन्विषये तथापि लोकाचारोऽनुपालनीय एव. तत्कथं मन्यस इति. संयोगिता तु स्वपितुमनोरथ पूरयितुमिच्छन्ती सर्व तदाज्ञानुरुप वर्तितुमन्वमोदत. अचिरादेव तां संयोगितां दासीगणैः समं पृथ्वी- राजो जयचंदस्य निवासं प्रेषयत्. न्यवेदयच्च दूतमुखेन राजन् ! युष्म- त्सन्देशोऽस्माभिर्लब्धः. यथैव भवान् मन्यते तथैव भवतु. केवलं दुराग्रहेण त्वया मय्यनुरक्ता संयोगिता कारागारे स्थापिता. तन्मोच- नार्थमेव मया प्रायति. लब्धं च यशः. तदसहमानेन त्वया पुनरपि युद्धं प्रारब्धं. इदानीं च भवानेव मखं तामपर्यति तदाऽतिसमीचीनं संवृत्तमिति मन्य इति. राजा कनोजाधिपोऽपि स्वयमागतां स्वकन्यां संयोगितां महान- देनाभिननंद. सर्वैः स्वस्वामन्तैः समं प्रत्युद्गम्य स्वस्कंधावारमानयत्. संयोगिताऽपि कुलशालिनी स्वापराधक्षमायाचनाय स्वहस्तकमल,भ्यां वृद्धस्य पितुः पादौ जग्राह. जयचन्दोऽपि स्वस्थमना महता मोदेन सर्वानपराधानाक्षाम्यत् (२) अथ जयचन्दो वृहस्पतिसमेन विदुषा स्वपुरोहितेन समं विदुषां सभा कारयित्वा स्वकन्याविवाहमुहूर्त निर्णयौ. जयचंदस्तदै- कापत्यः सर्वानपि स्वाधिकारिणोऽस्मिन्विवाहोत्सवे न्यूनतापरिहारार्थ- दशमो गुच्छः १२५ माज्ञापयत् . दिल्लीनगरवासिनोऽपि स्वप्रभोः प्रतापशालिनः पृथ्वीरा- जस्य परममान्यस्य कनोजाधिपस्य जय वदस्य परमलावण्यवत्या पुत्र्या समं विवाहं निशम्य सानंदा यथाशक्ति स्वस्वगृहाणि भूषयामासुः. तदानी च तदखिलं दिल्लीनगरं स्थानस्थाने नददसंख्यपटहं, संगीत- गोष्ठीषु गायद्वारांगनासहस्रकंठमधुरध्वनिसमाकुलं, इतस्ततः ससंभ्रम धावमाननागरिकपुरंध्रीगणचरणकमलनूपुरशिञ्चितग्रहणव्यग्रहंसगणव्या- कुलम् , अगणितालंकृतबालिकापादपद्मनिर्गलितलाक्षारसरंजितराजमार्ग, पूर्णकुंभसंकुलदेहलीप्रतिगृहं, मंगलगानासक्तवैश्यांगनामनोहरं, सुव्य- स्थितासंख्याश्विकगणपरिबाधं, गगनांगणविहरच्चित्रपटमयीभिः पताका- भिराच्छादितम् , प्रतिचतुष्कनिबद्धसुगन्धिकुसुममालानिपतत्पराग- धूसरनृपवीथ्याकं, आरामोपवनविलसत्सरसीरुहसुगन्धलोभधावन्द्रमर- अंकाररवमनोरम, स्वस्वकर्मव्यग्रराजसेवकं, हस्तधृतकनकदण्डराज. पुरुषसुरक्षितं नूतनमन्यदिवाभवत् . यत्खलु सततं निपतद्भयंकर- लोहगोलकभयंकर, पिहितकप टराजद्वारं, अनवरतयुध्यमानवीरगण- सिंहनादव्याकुलं रणक्षेत्रमिव दिनद्वयात्पूर्वमासीत्तदेवाधुनाऽगाधानन्द- विलासमनं स्थानेस्थाने स्थापितसत्कारमण्डपं विवाहानंदनिममं वीक्ष्य को वा न विस्मयेत. को वा कालस्य माहात्म्यं लोकातीतं न यात्. इयं सर्वा हि अलौकिकशक्तिशालिनः परमात्मनो लीलेति कोवा न वदेत् ! अस्तु. जयचंदस्तु खकन्याविवाहाथ दिल्लीनगराबहिरत्युत्तमं विस्तीर्ण, नानाजातीयपुष्पवीथिकासनाथं, सततं मंदमंदवाहिकुल्यांभःशीतलं, प्रतिस्थानं विराचितकृत्रिमरमणीयजलयंत्रसुमनोहरम् , कुसुमितानेक- १२६ पृथ्वीराजचव्हाणचरिते , विचित्रलताविहितनिकुञ्जसहस्रभासुरं, महदुपवनं विधाय तन्मध्ये ज्योतिर्विद्विरचितस्थापनं अनेककाचगोलकप्रभाविचित्रं, सुंदरप्रकाश- मानदीपावलीप्रकाशितम् , संघीभूयवेदपाठिब्राम्हणमुखरं, शास्त्रिक- गणरक्षितम् विवाहमण्डपं व्यचरयत्. एवं सर्व सन्नाथ विवाहदिवसे स्वयं पृथ्वी राजमानेतुं समं स्वसा- मन्तैः समं च सर्वैश्वर्येण जयचंदः कनोजाधिपः पृथ्वीराजप्रासादमभि- लक्ष्य ययौ. तदानीं च दिल्लीनगरवासिनः सर्वेऽपि जनास्तदलौकिक भूमिगतस्य कुबेरस्येवैश्वर्यं विलोक्य विस्मिताः परमतुष्यन्. सेना च सम्यक्परिष्कृतसैनिका क्रमेण गच्छंती गंगेव दुर्निरीक्ष्याऽभवत् सेनागजाश्च सततस्रवन्मदभारमलिनगण्डाः सुवर्णालंकारमंडिता मधुर- कणघंटायुग्मभासुराः पर्वता इव मंदं मंदं चेलुः, सुवर्णततुवीत- कौशेयपट्टवस्त्रविभूषितपृष्टा अश्वश्च सव्यपादविलसत्सुवर्णमयकटक- भूषिताः कौशेयरज्जुबद्धाः साटोपं पादान्भुवि निदधतो जग्मुः. क्रमेल. कमण्डलमपि सुसंस्कृतं सामोदं कण्ठस्थक्षुद्रघण्टिकानादलुब्धं प्राया- सीत्. शतन्नीविभागाअपि सुनेपथ्यधारिवीरमण्डिताः शनैःशनैः- प्रययुः. एवं क्रमेण सर्वे सामंताः स्वस्वसैन्यैः समं प्रायुः. जयचंदोऽपि कनकवाहनधारिणं महांतं गजमारुढः सर्वाभिः पृथ्वीराजप्रजाभिः कृतान् प्रणामान् गृण्हन् पृथ्वीराजप्रासादस्य पुरत आगत्य हस्ति- ग्कंधादवाततार. तत्र च पृथ्वीराजामात्यैस्तथा तर्द येन पितृव्येन सहचहाणेन सादरं सत्कृतः सभास्थानमागत्य सर्वान् सत्काराख्नग्राह. अचिरादेव च भालप्रदेशविराजमानमौक्तिकमयपट्टबन्धः, को- शेयमंगलवस्त्रवेष्टितशिराः, कण्ठभागविराजमानहरिकालंकारप्रभाभासुर- दशमो गुच्छः १२७ विस्तीर्णोरस्कः, सव्यभुजमध्यबद्धकेयूरकप्रदीप्तः, हीरकमयदेदीप्य- मानमध्यबंधविनाजच्छुरिकः मध्यबंधबद्धहीरकमयकोशसुप्ततीक्ष्ण- खड्गदुर्निरीक्ष्यः, सुवर्णकरकरूपधारिण्या लक्ष्म्येव समलंकृतसव्य- पादः, शौर्यप्रतापाभ्यामिव तेजस्विभ्यां निष्कोषखड्गधारिभ्यां द्वाभ्यां सामन्ताभ्यामनुगतः पृथ्वीराजस्तामेव सभामाजगाम. तदा- नीमेव सर्वैः सभ्यैः समं जयचन्दः प्रत्युत्थाय तं स्वहस्तेन गृहीत्वा सिंहासने समुपावेशयत् . पृष्टकुशलो वधूमण्डपं गंतुमुत्तस्थौ. अथ अग्रेसरनानाविधवाद्यभासुरवादकगणः शनैः संचरत्तदनुगामिभूषित- मत्तगजकुलः, दीर्घहेषारचकारिवलमदोन्मत्तोत्माश्वारूढसादिकुलानु- गतः, विचित्रराजचिन्हपताकाधारिसादिकुलभूषितः, अगणितजन- संकुलः, राजसमूहानुयातो दिल्लीश्वरः सम्राट पृथ्वीराजो बंदिजनो- चारितबिरुदघोषणः शनैः शनैः स्वप्रासादान्निर्गत्य सीमन्तिनीकृतनी- राजनः क्रमेण वधूनिवासमाजगाम. तदानीमेव सकलवैदिकगण- परिवेष्टिते, पुरोधसाऽधिष्ठिते, लमवेदिस्थले स्थित्वा वध्वागमनं प्रतिपालयामास. अचिरादेव मौक्तिकमयकौशेयवस्वप्रावृतसर्वांगी, विवाहालंका- रालंकृता, अलक्तकरागरंजितपादयुगला, मध्यप्रदेशविराजमानरशना- क्षुद्रघंटिकानादमधुरं भूवि चरणौ क्षिपन्ती हस्तकमलधृतपुष्पमाला, संचरन्ती प्रेममूर्तिरिख दासीजनैरनुगम्यमाना तरुणी संयोगिता वेदिस्थानमलंचक्रे. तदानीं प्रावर्तन्त चोच्चदिकानां वधूवरयोः शुभ- कारिण आशीर्वादमया वैदिकमंत्राः. अवसितेषु तेषु वैदिकमंत्रेषु राजा जयचंदः परमप्रेग्णा यावकरसेन मूर्तेन प्रेम्णेव नितं किसलव- १२८ पृथ्वीराजचव्हाणचरिते प्रदत्ता. च्छविभासुर संयोगितायाः कराग्रं स्वकराग्रेण धृत्वा पृथ्वीराजस्य हस्ते तन्निधाय सगद्गदं-क्षत्रिय२४ : राजन् ! पृथ्वीपते ! अयं हि हस्तस्तुभ्यं संयोगिताहृदयवासिना मनोभुवा पूर्व प्रदत्त एव. साम्प्रतं तु इमं लौकिकविवाहेऽग्निविप्रसाक्षिकं तेऽहं समर्पयामि. एषा संयोगिता त्वया स्वगुणैः संपादिता. न खलु मया न खलु सागराहत्तेऽन्यः कश्चन नदीनां पतित्वेऽर्हः अयं हि करो रत्नगणमण्डितकंकमभूषितोऽन्येषां दुष्पापः. एषा संयोगिता हि करदानमिषेण त्वयि बद्धानुरागं हृदयमेव ते समर्पयति. तदात्मवदिमं पालय. त्वया सह मीलितेयं मम कन्या विष्णोर्लक्ष्मीरिव चिरमलंकरोतु दिल्लीराजसिंहासनमिति जगाद. पृथ्वीराजोऽपि प्रदत्तोचितोत्तरस्तस्य श्वशुरस्य पादावभिवंद्य सर्वेभ्यो विप्रेभ्यो भूयसी दक्षिणां वितीर्य मूर्तया कीत्येव तया नूतन- वध्वा समं स्वावासमागमत् . जयचंदोऽपि विस्मृतपूर्ववृत्तः स्व- योग्यतानुरूपं सम्पदं दासीगणं भविभागांश्च दिल्लीश्वराय जामात्रे ददौ. अभोजयश्चागणितान्विप्रान् . सत्कारयामास सर्वानपि पृथ्वीराज- सामंतान् . विविधरुपचारैः स्वजामातुर्मनोऽरंजयत् . मृगयादिभिरपि सर्वेषां सामंतानां मनांसि समतोषयत् . राजा पृथ्वीराजोऽपि स्वप्रजा- स्तथा कनोजाधिपतिसामंतानसेवत. अथ कतिपयदिनान्युषित्वा गृहीतस्वदेशगमनानुज्ञो कनोजाधिपः स्वदेशमाजगाम.

दशमो गुच्छः १२९ (३) इत्थं महता सायासेन महता युद्धेन च कनोजाधिप विजित्य संयोगितां लब्ध्वा स पृथ्वीराज आत्मानं कृतकृत्यं मन्यमानोऽद्वितीयेन तारुण्यसहायेन संयोगिताया लावण्येन मोहितमतिर्विलासैकसक्तो बभूव. स च कदाचित् प्रभाते स्नात्वा विरचितसंध्योपासनः क्षणमात्रं राजसमां गत्वा राज्यकार्याण्यपश्यत्. संयोगिता तु तावत्कालमपि पतिविरहमस- हमाना भूयोभूयो विज्ञप्य राजसभागमनात्तं न्यवर्तयत्. प्रधानामात्याश्च परं विश्वासपात्राणि कृत्स्नमपि राज्यकार्य सम्यगकुर्वन्. पृथ्वीराजशत्र- वस्तु तं विलासनिमग्नं शृण्वन्तोऽपि तत्प्रजानां राजनिष्ठां तदीयं शौर्य च जानन्तो न किमप्यकुर्वन्. पृथ्वीराजश्व संयोगितया समं तेषु तेषु ऋतुषु नानाविधान्विलासांश्चक्रे. न अचिरादेव मदमत्तकोकिलालापमधुरः, सर्वतः प्रफुल्लकुसुमि- तागणितवनलतामोदान्धभ्रमरझंकाररम्यः, मदनबाणैरिव सुतीक्ष्णरुप- गन्धैराम्रकारकैाप्तानेकसहकारः, चन्दनगन्धवाहितडागजलसंगिम- लयवातहृयः, निर्निद्रसुवर्णचंपककलिकाकिंजल्काच्छादितभूविभागः, प्रफुल्लपारिजातकुसुमविरचितभूशय्यः, तारुण्यमदोन्मत्ततरुणीभिरिव कुसुमस्तबकावनम्रमल्लिकालताभिराक्रान्तसकलारामः, सप्रियकरसं- चरतरुणीगणकृतस्वागतः, मानिनीमानविषेसनमहावैद्यः, ऋतुराजो वसंतसमयस्तयोविलासे साहाय्यविधित्सयेव समाजगाम. तावपि श्रृंगारशास्त्रपारगौ शरीरसंपत्समन्वितौ तारुण्यमदशा- लिनौ तं समागतं वसन्तसमयं सत्कर्तुं समारमेताम्.

१३० पृथ्वीराजचव्हाण चरिते कदाचित् सततनिपतत्परागाच्छादितासु, परभृतालापनादितासु, निर्निद्रचूतकलिकामोदमधुरासु सहकारीथिषु कृतनिवासी संगी- तकथाभिः, वारांगनानृत्यैः, नानविधयौवनविलासैरात्मानमरमयताम्. कदाचित्- अतिचपलासु, नानाविधवर्णरंजितासु, मन्दवात- संगोत्थतरंगचंचलासु नौकासु स्थित्वा परस्परकण्ठगतबाहुपाशौ चिरं मदनशरपीडितयोहसयोलीलामपश्यताम्, अन्यदा तु--सततनिपतत्कुसुमास्तृतभूमिषु बकुलवीथिकासु चं- पकलतासंमिश्रासु विरचितकृत्रिमदोलामु स्थितौ सुखमयीः क्रीडाश्चक्राते. कदाचित्-प्रफुल्लकुसुममयीनां, बालपल्लवमधुराणां माधवी- लतानां निकुञ्जषु अतिमधुरगन्धचन्दनसिक्तैश्चषकवकुलसहकाराशोक- कुसमैविरचितासु पुप्पशव्यामु रतिबिलासानकुरुताम्. एवं वसन्तसमयं निर्विशेषमुपभोगेनादृत्य प्राप्मसमयं सेवितु- मारेभाते. कदाचित्--अनेकयंत्रमुक्तैः सुगन्धिजलसेकैराद्रकृते, घनसार- चूर्णसिकते, मन्दगन्दवाहिकुल्याजलशीतले, अनेकपल्लवमयलतासमा- च्छादिते धारागृहे समारब्धसंगीतौ सुखेन समयमयापयताम्. कदाचित्-अतिनिर्मलजलासु, कमलसहस्रदुज्ञेयतरुणीमुख- चन्द्रासु, हंसमिथुनशब्दमुखरासु, लतानिवारितातपासु गृहदीर्घिकासु वा सरसीषु वा तौ स्नान प्रिपेण विहन्तौ चिरमरमेताम्.

दशमो गुच्छ: १३१ कदाचित्--निर्मलचन्द्रिकारमणीयासु, उशीरजवनिकासंगशीत- लासु, अगरुचन्दनजलसिक्तासु, स्फटिकमाणमयीषु, व्यजनवात- शीतलितासु प्रासादाट्टालिकासु शारफलक्रीडाश्चक्राते. ततश्च गर्जश्चपलालंकृतमेघावृतगगनतलो वर्षासमयोऽपि तं सेवितुं सामन्त इवाजगाम. तदानीं तु--कुसुमस्तबकालंकृतानां कदम्बवृक्षाणामधस्तात्, पारिजातवृक्षवीथिकासु, जलभरातिक्रान्तकूलानां सुनदीनां तीरेषु अनवरतजलपातमनोहरासु कदलीराजिषु चिरं विलेसतुः. कदाचित्- अत्युन्नतपर्वतशिखरामवर्तिराजप्रासादवातायनेषु स्थित्वा प्रबलवातनुन्नसजवघनघटाः, मन्दं मन्दं चपलविलसितानि, महता वेगेनाघस्तानिपततो जलप्रवाहान् पश्यन्तौ क्षणमिव सकलं दिवसमगमयताम्. कदाचित्-- जलपरिपूर्णेषु बीजांकुरहरितेषु पंकमयेषु क्षेत्रेषु प्रधावनश्रान्तहरिणमिथुनविहारदर्शनेनात्मानममोदयताम्. एवं चिरवास वर्षासमयमभिलक्ष्य संजातवैतृप्ण्यं तं पृथ्वीराज प्रेक्ष्य नूतना संयोगितायाः सखीव शरत्तं सेवितुमारभत. तत्र च-सूक्ष्मनिर्मलसलिलप्रवाहानां, तीराविराजमानमृदुलपंक ना, काशस्तबकालंकृतोभयतीराणां नदीनां पात्रेषु हंसमिथुनानि वीक्ष्य नितम्बबिम्बानुकारीणि पुलिनजातानि समालोक्य परं रेमाते. , १३२ पृथ्वीराजचव्हाणचरिते कदाचित्-- अतिनिर्मलपरागधूमरसलिलमण्डितासु, चक्रवाक- युगलचंक्रमणसंजातलहरीषु, गृहदीर्घिकासु स्वयमवतीर्य कृतजल- क्षेपविलासौ परमप्रफुल्ल नि सहस्रपत्रमंडितानि लक्ष्मीनिवासभवनानी- वातिरमणीय नि कमलानि विलय तन्मालाभिः परस्परमलंकुर्वन्त। समतुष्यताम्. कदाचिन्मृगयामिषेण जनसमदं परिहरन्तौ सस्यपरिपाक- पिशंगानि, क्वचिद्धतघासश्यामलानि क्वचित्संस्कृतभूमिकृष्णानि क्षेत्राणि पश्यन्तौ, स्थाने स्थाने समुत्पन्नानां वन्यलतानां स्वादूनि फलानि भक्षयन्ती चिरमेकान्तवाससुखमसेवेताम्, तदानीमेव तं सम्राजं संयोगिताविलासमग्नमवलोक्य हेमन्त- तुर्विलासानिधिरागच्छत्. तत्र च- तुहिनकणमौक्तिकमालालंकृतान् लताभिः स्वकोमल. शाखाप्रैराश्लिष्ठान् वृक्षान् , हिमानीपीडापरिहारायेव स्वस्तिकीकृतकर- जालं सूर्य, शीतवातकम्पमानगाढाश्लेषतत्परमिथुनगणं, निरीक्ष्य तूल- शय्यामये निधूमांगारपूर्णलोहपात्रे, अगरुचन्दनधूपधूमचुम्बितविताने, गर्भगृहे चिरमस्वपताम्. कदाचित्-- अनुदित एव भगवति मरीचिमालिनि, मौक्तिक- भस्मस्वादूनि, आमलकरसपाकव्यंजनानि, बातामदाडिमादिपौष्टिक- पदार्थरुचिराणि, पक्वान्नानि भुंजानौ, कस्तूरिकाप्रचुरगंधविरचितांग- लेपनो, ऊर्णावस्त्राणि परिधाय पाशक्रीडामकुरुताम्. कदाचित्-- प्रबलतुहिनान्धकारव्याप्ते, अदृश्यमान चोत्तम- प्रदेशे, अगणिततुषारकणमौक्तिकराजिसमलंकृतभूप्रदेशे, प्रभाते समु दशमो गुच्छः १३३ त्थायातिकोमलरावीकरणापनीतहिमौ सर्वत्र पर्यटनेन हेमन्तश्रियं पश्यन्तौ चिरं मुमुदाते. एवमेवापगते हेमन्ते शिशिर्तुः शनैस्तं सेवितुं प्रचक्रमे. तत्र तु-- विरलीभवद्धिमजवनिके, सुखकरसमशीतोष्णवाते, कुसुमितकुन्दलतापुष्पामोदमधुरे, प्रजववातोत्थापितधूलीषदधूसरदिगन्ते सायंकालेऽश्वाभ्याम् पर्यटन्तौ हिमकृतां जातीलतादुर्दशां विलोक्य खिन्नौ नूतनकिसलयमण्डितान् सहकारादीन्विलोक्य सममेव सुखदुःखे अन्वभूताम्. कदाचित्-- प्रबलवातजर्जरीकृतशुष्कपत्रध्वनिषिणः नयन- पीडाकारिधूलिधूसरव्याप्तदिगन्तः, सकललतावल्लीदलवस्त्रलुण्ठकः, नानावृक्षगणपत्राच्छादनापहरणदक्षः शिशिरः कदाचिदतिलावण्यवत्याः प्रियायाः संयोगितायाः स्वस्य च शरीरं पीडयेदिति मन्वानी गर्भगृह एव स्थित्वा क्रीडां चक्रतुः. एवं रात्रिंदिवं विलसतोस्तयोः संयोगितापृथ्वीराजयोर्मनसि स्वराज्यचिंता नैव पदं लेभे. नापि कामवासनाऽशाम्यत्. सा च प्रत्यर्पितघृता वन्हिज्वालेव प्रतिदिनं ववृधे. यद्यपि राजनिष्ठाः प्रधानामात्याः स्वस्य कार्याणि दाक्षिण्येनाकुर्वंस्तथापि स्वामिनं राज- कार्यविमुखमुपलभ्य कुमार्गगामिनो नीचा जना राजकार्यविनानुत्पाद- यामासुः. एकस्मिन्दिने मृगयार्थ निर्गतं पृथ्वीराज निशम्य सर्वे तदीया मृगयासहाया अपि तत्साहाय्यार्थमागच्छन् . अचिरादेवाटविकैः १३४ पृथ्वीराजचव्हाणचरिते 'अस्यां गुहायां सिंहो वसति' इति वार्ता समानीता.. तां वार्ता निशम्य सर्वे मृगयवो महान्तं कोलाहलं कुर्वन्तस्तत्रैवाजग्मुः. निर्जगाम च ततोऽचिरादेव सिंहचर्मप्रावरणो जटाकलापमण्डितशिराः क्रोधरक्त- तरनयनयुगलो महांस्तापसः. स तु बहिरागत्यांच्चैः- नृपाधम! पृथ्वीराज! अहं चात्र निभृतं स्थितस्तीनं तपश्चरामि. तुभ्यं च तस्य नवममंशं वितरामि. वृथैव मदान्धेन त्वया मदीया तपस्या विनिता. तदचिरादेव त्वदीयः शत्रुस्त्वां वन्दीकृत्य त्वदीये अक्षिणी काचेन विदारयिष्यतीति शशाप. तमिमं शापं सुलभकोपस्य दुर्वाससः शिष्येण चक्षुःश्रवसा प्रदत्तं निशम्य खिन्नः पृथ्वीराजः स्वयमागत्य तस्य मुनेः पादयोः पपात. दयानिधे! मुनिवर! अज्ञानतः कृतोऽयं दासस्यापराधः क्षन्तव्य इति व्यजिज्ञपञ्च. स तु कृद्धो मुनिः 'राजन् ! न ममायं शापो मृषा भविष्यति. किंतु अयमित आरभ्य वर्षादूर्ध्व भविष्यतीति प्रलपस्तिरोदधे. राजाऽपि लब्धधैर्यः संयोगितया समं विलासनिमग्नो बभूव. यद्यपि परीक्षिदेव पृथ्वीराजेनावशिष्टे वर्षे देहसाफल्यं कर्तव्यमासीत्तथापि प्रकृतित एव रजे गुणाधिक्येन संयोगितालावण्य- लुब्धो न किंचिदपि उचितं चिन्तयामास. प्रत्युत पुनरपि पशुवद्वि- पयकर्दमासक्तो बभूव. (४) एवं विलासपरे दिल्लीश्वरे क्रमेणाधमा जनाः सर्वत्र स्वव्यव- सायानारभन्त. शत्रवोऽपि निभृतं गूढचारैतिवृत्तान्तास्तस्य राज्य- न

दशमो गुच्छः
१३५
स्यापहरणाय प्रायतन्त. परोत्कर्षासाहप्णवोऽमात्याः परस्परद्वेषपरा अभ-
वन् सैनिकाश्च स्वस्ववेतनमलभमाना युद्धाभावात्रस्ता अन्यनृपाणां
सेनां प्राविशन्. महंमदीयः शहाबुद्धीनश्च भूयोभूयः पृथ्वीराजेन
पराजितोपि पुनरपि दिल्लीराज्याक्रमणार्थ प्रायतत. तदानी चेमां
स्वराज्यस्य दुर्दशां विलोक्य सर्वेऽपि वृद्धा नागरिका मिलित्वा
किंकर्तव्यताविचारार्थ सभां चक्रुः. तत्रच मिलितास्ते कृत्स्नां राज्य-
व्यवस्थां विलासमनाय राज्ञे पृथ्वीराजाय निवेदयितुं चन्दकवि
विज्ञापयामासुः.
चन्दकविश्च तेषां राजनिष्ठानां प्रजामुख्यानां विज्ञप्तिमाकर्ण्य
परं खिन्नो जगाद- नागरिकमुख्याः! यद्यपि युष्मदर्थमहं पृथ्वी-
राजस्य विलासमंदिरं गत्वा सर्व वृत्तं तस्मै निवेदयिप्यामि तथापि
संयोगिताप्रेमपाशबद्धः स पृथ्वीराजस्तन्न श्रोप्यतीति निश्चितमेव.
कथं खलु विषयानुरागकलुषेऽन्तःकरणे कर्तव्यजिज्ञासा प्रादुर्भवेत् ?
अयं हि हाहुलीरायः सामन्तः पृथ्वीराजस्य परमं मित्रम्. संयोगिता-
हरणेऽयमेव प्राधान्येन पृथ्वीराजमसहाययत् परन्तु साम्प्रतं विषयलुब्धः
स स्वसाहाय्यकारिणमपि न पृच्छति कुतो मां विप्रं! तथाप्यावां
विलासमान्दिरं गत्वा यथाशक्ति सर्व वृत्तं निवेदयितुं प्रयतावह
इति.
अथ चन्दकविः समं हाहुलीरायेण विलासमन्दिरद्वारं गत्वा
दासीनां मुख्याया दास्या हस्त इदं पत्रं ददौ.
राजन्विलासममस्त्वं । गौरांग्या राजकन्यया ।।
इतो माहंमदः शत्रुः । तव राज्यं जिघृक्षति ॥ १ ॥

१३६ पृथ्वीराजचव्हाणचरित न सा तु दासी क्रमेणागणितान् दासीनां संघानुलंध्य राज्ञः समीपे तत् पत्रं चिक्षेप. तस्मिन् समये राजा पृथ्वीपतिरन्यत्रमना अभूत्. तदानीमेव तत्पत्रं कुशाग्रमत्या संयोगितया पठितं. प्रपठ्य चोच्चैः सा राजानं जगाद--- नाथ ! क एष पापी. युष्मान् मया सह विलास- कारिणो वीक्ष्यासूययति. अनेकजन्मसंपादितैः सुकृतैरहमनयोश्चरण- योर्दास्यभवम्. साम्प्रतमपि यदि न मनारथं सफलयिष्यामि तदाऽहम- भाग्या स्याम्. तस्मादिदं चूर्णीकृत्य वन्हौ निक्षिपाामे इति. राजा च स्त्रणमतिर्न किमपि प्रत्युवाच. प्रत्युत सलीलं जहास. तेन च समु- तेजिता राज्ञी संयोगिता सर्वाअपि स्वदासीः 'येनेदं पत्रमानीतं यश्च तस्य साहाय्यकारी तावुभावपि वेत्रैः पृष्टे ताडयत. येन भीतोऽन्यः कोपीदृशं पत्रं नानयेदित्यशात्. राज्या इमामाज्ञां कर्णेकृत्वा सर्वा- अपि संयोगितादास्यो वेत्रहस्ताः स्वामिन्या नियोगमनुष्ठातुमहमहमि- कयाऽधावन्, तौ च चन्दकविहाहूलीरायौ महतोत्सुक्येन राजाज्ञाश्रवणे सोत्कण्ठौ महता वेगेनागच्छन्तं दासीगणं वीक्ष्य संमुखमभवतां. तदानीमेव तयोः पृष्टयोर्वेत्राघाताः समापतन्. तौ तु कारणम- विज्ञाय संभ्रान्तौ मुहुर्त निश्चलमतिष्ठताम्. यद्यपि तासां दासीनां शासने पर्याप्तबलौ तौ तथाप्यचलानामुपरि हस्तक्षेपो वीराणां नोचित इति मन्वानौ कथमपि राजद्वारकपाटे पृष्ठाभ्यां धृत्वा वेत्राघातान् पर्यहरन्. अत्रान्तरे स्वदासीप्रतापस्य तथा स्वशत्रुशासनदुःखस्य दिदृक्षया तत्रैव पृथ्वीराजेन समं संयोगिता समाजगाम. सा च दशमो गुच्छ १३० वेत्राघातपरिहाराय पृष्टेन कपाटं धृत्वावस्थिती स्वदासीगणपरिवेष्टिती चन्दकविहाहुल राय वीक्ष्य चैहास. तस्मिन्नेव क्षणे क्रोधरक्तनयनकमल: स क्षत्रियश्रेष्ठस्तं हास कर्णेकृत्वाऽऽ त्मानमपमानितं मन्वानो विधूय तत्कपाटं तासां दासीनां पुरतस्तथौ. अवदच्च – दाम्यः ! कृत्स्नमपि युप्मत्कविशिष्टया राजप्रीत्या सोढं. साम्प्रतं तु सा समूल नष्टा. तद्यदि या खलु दासी यमालयं द्रष्टुमिच्छेत्तयैव वेत्राधातः करणीय इति. तम्य तदुग्रं भाषणं निशम्य सर्वा अपि दाम्यः पलायिताः स्वस्वस्थ नं जग्मुः. दा।पु च निवृत्त सु कोपतिरेकपस्फुरदधरोष्ठः स चन्दकविमाह- कविश्रेष्ठ ! एत वकालपर्यन्तं कृतायाः सेवाया इदं पारितोषिकं पृथ्वी- राजेन वितीर्ण. एतावावां संयोगितया सम्यक् सत्कृतो. अयं हि संयोगिताया लाभेनात्मानं धन्यं मन्यमानः सर्वानपि नो दीनान् मन्यते. एप। संये गिताऽपि नः क्षुद्रान्मन्यमाना दासीहस्तेन ताडयति. तद्यावदिमां मदोमत्तां संयोगितां वैधव्यपंकमग्नां न करिप्यामि तावत्पर्य न्तमहमस्मिन्दिल्लीनगरे जलं न पास्यामि. भ्रातः ! चन्द्रकवे ! किं ते रोचते? इति. चन्दकविन्तु श्रवणकटु हाहुलीरायम्येदं भाषणं निशम्य खिन्नोऽवदत्-हाहुलीशय ? त्वदीयाः सर्वे पितरो यावज्जीवं स्वस्वामि- चरणाराधनपराः स्वर्गमगच्छन्. तेषामेव कुले जनित्वा किमि- दमसंबद्धं प्रलपसि! कदाचिदस्वस्थमनाः स्वामी सेवकान्पीडयतीति सेवकैः क्रोधात् स्वाम्येव हन्तव्यः ? कदाचिदुग्धमदत्वा पादाघात करोति गौरिति किं गौरेव हन्तव्या. तात ! हाहुलीराय ! इत्थं कोप- १३८ पृथ्वीराजचव्हाणचरिते कलुषितमनाः पापभाजनं माभूः. अयमपि नः स्वामी शीघ्रमेव प्रकृ- तिस्थो भविष्यतीति. हाहुलीरायश्च रजोगुणा धिक्यशाली — यूयं हि खलु बन्दिनः! मानापमानयोः कथैव भवद्र्नि ज्ञायते. यथाकथंचिद्राजस्तुतिः कर- णीया. रुचिराणि पक्वान्नानि भोक्तव्यानि, एवं श्ववत् कालं याप- यन्तः कथं मानापमानवाता ज्ञास्यथ. तिरस्कृतः श्वाऽपि न पुनस्तं सेवते किमुत मानधनोमानवः! तत्तिष्ठत यूयमस्य मदमत्तस्य राज्ञा ऽपमानपरितोषिकाणि गृहन्तः अहं चेतो गत्वा गिझनीपतिं शहा- बुद्धीनमाहूय पृथ्वीराजं बन्दिनं कृत्वा संयोगितागर्वमपनेप्यामि इति- वदन्नेव प्रजवमश्वमारुह्य गिझनीनगरमभिलक्ष्यागात्. (५) भीष्मप्रतिज्ञं हाहुलीगय कोपकलुषं यवनराजमानतुं गतं निशम्य सर्वेऽपि दिल्लीनगरवासिनो जना अत्यन्तं चिन्त तुग अभवन्. ये स्खलु प्रधानामात्या राज्यकार्यभारधुरंधरा आसंस्तऽपि अपमानभिया सर्व वृत्त निवेदयितुं राज्ञे नाशकन्. ये च धनिका आसस्ते स्वधनरक्षणचिन्तामग्नाः शनैः शनैनंगरादपासरन्. ये खलु कुलीनास्ते स्वशीलरक्षणाय स्वकान्ताः कन्यकाश्चान्यत्रप्रेषयन्. ये च धामिकास्ते राजसंकटपरिहाराय नानाविधान् धार्मिकानुपायाना- तिष्टन्त. हाहुलीरायश्च सकोपं दिल्लीनगराग्निर्गतो गिझनीनगरमागत्य तदधिपं शहाबुद्धीनमपश्यत्. तेन कृतसत्कारम्तमुवाच. राजन् ? एष दशमो गुच्छः १३९ न हि उचितोऽवसरो दिल्लीनगराक्रमणम्य. यतो पृथ्वीराजः संयोगि- ताविलासमग्नो न किंचिदपि राजकार्य पश्यति. प्रत्युत सर्वानपि सा- मन्तानपमानयति. यो हि भीष्म इव प्रतापशाली चामुण्डरायः सोऽधुना बन्दीकृतः शस्त्रं त्यक्त्वा तृप्णी तिष्ठति. बृहस्पतिरिव बुद्धिमान्कयमाषामात्यस्तु स्वयमेव तेन निहतः. अवशिष्टाः शूराश्च संयोगिताहरणसमये समरांगणे पतिताः, तदिदानीमव सत्वरं दिल्ली- नगरमाक्रम्य चिरमभिलषितं सफलीकरोत्यिति. धूर्तः शहाबुद्धीनो हाहुलीरायं शत्रुपक्ष्यं जानन्न सहसा तस्मिन् व्यश्वीत्. प्रेषयामास च स्वविश्वासप्रत्रं कंचन सामन्तं पृथ्वीराजगज्यस्थितिनिरीक्षणाय. सोऽपि गत्वा हाहुली रायकथितं सर्व प्रत्यक्ष कृत्य प्रतिनिवृत्तः स्वस्वामिने सर्व वृत्तान्तं न्यवेदयत्. शहाबुर्द्धनश्च तं श्रुत्वा सन्तुष्टश्चिरवांच्छितं मनोरथं पूरयितुमुल्सुकः स्वसेनां समनह्यत्. क्रमेण दिल्लीनगराक्रमणाय स्वराजधान्याः सकाशात् प्रतस्थे च. तं DOG एकादशो गुच्छः। १ चिनोडाधिपस्य दिल्लीरक्षणार्थमागमनम् . २ उभयोः परस्परं मीलनं सत्कारश्च. ३ वीरभद्राविर्भावो भविष्यकथनम्. पृथ्वीराजस्य स्वप्नं च. ४ सेनासन्नाहः. ५ संयोगितापृथ्वीराजयोश्चरमं मीलनम्. 20MMUDC तं अतिकरसैनिकं मूर्तिमन्तं यममिव तं शह बुद्धीनं समागच्छन्तं निशम्य सर्वेऽपि दिलीनगरवासिनो जनाः परं दुःखाकुलाश्चिन्तासागरे न्यमज्जन्. र प्रजाश्च ज्ञातयवनस्वभावाः स्वशीलरक्षणाय तथा स्वधनस्य पालनाय सहसा तन्नगरं विहायान्यत्र गन्तुमारभन्त. तेन च यत्खलु दिल्लीनगरं विविधकलागारं रत्नापणाट्यमनेकशिल्पसं- कुलमासीत्तदेव सम्प्रति ग्रामटिकासादृश्यमभजत. राजपुरुषाश्च किंकर्तव्यतामूढाः स्वस्व कार्याणि कथमपि कुर्वन्तः प्राधान्येन स्वार्थ- एकादशो गुच्छः १४१ परा अभवन्. तेन चावशिष्टाः प्रजाजना अपि सत्वरमन्यत्रागच्छन्. विशेषतश्चास्मिन् प्रसंगे राजानं विलासमग्नमवलोक्य सर्वेऽपि नाग- रिका दुःखाकुला अजायन्त. अथ सर्वेऽपि मान्या अधिकारिणो महान्तो नागरिकाः सर्वे मिलिचा कर्तव्यं विचारयामासुः. ते च सर्वेषां सभ्यानां महती सभा विधाय पृथ्वीराजस्य कर्तव्यताबोधार्थ तस्य परमं मित्रं चितोडा- धिपः समरसिंहः समाव्हयनीयः. स च निवेदिताखिलवृत्तः सत्वर- मेव स्वश्यालस्य साहाय्यार्थमागमिप्यतीति निरणयन्. प्रैपयंश्च दूतं तदन्तिके. स तु चितोडाधीशः समरसिंहो दूतमुखात् कृत्स्नं पृथ्वी- राजवृत्तं निशम्य विस्मितः स्वधर्मस्य तथा स्वसंबंधिनश्च रक्षणार्थ त्वरितं दिल्लीनगरं गन्तुमैच्छत्. अचिरदेव च प्रतस्थे-मदमलिनमातंगघटामलिनीकृतमेदिनी- मार्गः, अगणितवाजिह्वेषारवबधिरितसकलदिशः, क्रमेलककण्ठघंटा- जातवाचालितसीमान्तभागः, अनन्तशूरसैनिकगणमुक्तसिंहनादवि- दारितसकलश्रवणपुटः, स सकलसौभाग्यशाली मूर्तिमान् धर्म इव सदाचारसम्पन्नः सनातनधर्मानुयायी चितोडनराधीशः समरसिंहः. प्रतिस्थानं च विदितवृत्तान्ताः सनातनधर्मरक्षणाय बद्धपरिकराः शत्रुकण्ठनालरुधिरपानतृष्णाव्याकुलाः क्षत्रियश्रेष्ठाः साहाय्यकारिण- स्तममीलन्. सोऽपि तान् सर्वानपि प्रेम्णा सत्कृत्य स्वधर्मरक्षणाय स्वसेनायां स्थापयामास. एवं क्रमेण चितोडनगरान्निर्गता सा क्षत्रियसेना क्रमेण मार्गे समागतैः क्षत्रियश्रेष्ठैः सह मिलिता गंगेवातिविस्तीर्णा बभूव. राजा १४२ पृथ्वीराजचव्हाणचरिते समरसिंहश्च दिल्लीनगरमागत्य पृथ्वीराजस्व प्रधानामात्यैः कृतस्वागतो बहिरेव क्लप्तस्कंधावारो न्यवसत्. सर्वत्र संचारिभ्यो गूढचारेभ्यः सर्वं गिझनीपतेः शहाबुद्धीनस्य चेष्टितमजानात्. अथ दिल्लीनगरमागत्य निवसतः श्रीचितोडाधिपस्य दश दिनानि संवृत्तानि. तावत्कालं पृथ्वीराजस्य वार्ताऽपि तेन न श्रुता. तेन सचिन्तः स मनसि विचारयामास. अहो ! पृथ्वीराजस्य राज- नत्यिदाक्षिण्यं, मौख्य, अनवधानता. यदहमत्र ससैन्यमागत्य निव- सामि. परन्तु मदागमनं स न जानात्येव. मादृशां ज्ञाने यर्द दृश्य- वस्था तदा को वा शत्रुसंबंधी निभृतमत्रागत्य किंकरोतीति ज्ञातुं कथं स शक्नुयात्. एवंस्थिते शहाबुद्धिनोऽकस्मादागत्य दिल्ली- नगरमाक्रम्य पृथ्वीराज वन्दिनं कुर्यात्तदा महदनिष्टमापतेत्. तदय- मवसर एव बोधनीय इति. विचार्यचैवं समरासिंहः कंचनातिचतुर- मन्तःपुरप्रवेशोचितं सेवकमाहूयावदत्-त्वं हि महता चातुर्येण संयोगिताविलासमन्दिरं प्रविश्यकाकिनः पृथ्वीराजस्य हस्त इदं पत्रं क्षिति. तच्च पत्रमित्थम्. पृथ्वीराज ! क्षत्रियश्रेष्ठ ! सर्वत्र संचरतां दूतानां मुखेभ्यो दिल्लीनगराक्रमणाय समागच्छन्तं शहाबुद्धीनमवगम्य तव साहाय्य- विधानायानाहूतोऽपि समागत्य तिष्ठामि. अत्रागत्य तिष्ठतो मे दश दिनानि संवृत्तानि. तथापि मदागमनं न जानाति भवान्. यदि मादृशो मित्रस्येयमवस्था तदा गुप्तमागच्छतः शत्रुसैन्यस्य वाती कथं जानीयात्. त्वां हि विषयासक्तमविभावितराजकार्य प्रभुमयोग्य एकादशो गुच्छ:. १४३ मन्वानाः प्रजास्त्यक्त्वाऽन्यत्र गच्छन्ति. संयोगितापि लावण्यवती तारुण्यसम्पन्ना स्यान्नाम तथापि विषयोपभोगस्तदासक्तिश्च न नः क्षत्रियाणां प्रधानं कर्म. क्षत्रियजातिः खलु दीनानां पालनाय धर्मरक्षणायाऽस्मिञ्जगति भगवता परमात्मना निर्मितेति सर्वाणि शास्त्राणि वदन्ति. यद्यपि सन्ति नाम धर्मार्थकाममोक्षाख्याश्चत्वारः पुरुषार्थास्तथापि धर्मादीनां त्रयाणामविरोधेन सेव्यमानः कामः पुरुषार्थतां भजते न विरोधेन. अन्यथा कामासक्ताः पशवोऽपि पुरुषार्थकारिणः स्युः. तद्विरमास्मादनर्थकारिणः कामोपभोगात्, पश्य च दीनानां प्रजानां दुर्दशां. एष केवलं कृतान्त इव सत्वरमागच्छति तव राज्यमपहर्तुं यवनाधिपः. तत्सन्नाहय सेनां. न खलु तव पूर्वजा- स्त्वमिव विषयपंके लुठन्तः पार्वणचन्द्रधवलां कीर्ति संपादयामासुः. तद्विषयोपभोगलालसां विहाय सत्वरमागत्य कर्तव्यं विचारयेति. स तु स्वामिभक्तश्चतुरः सेवकोऽन्तःपुरनीतिं सम्यक् जानन् दासी नाम भूत्वा संयोगिताविलासमन्दिरमविशत्. क्रमेण परमचा- तुर्येण संयोगितायाः प्रिया दासी बभूव. एकस्मिन्दिने पाटलीपुप्पपरि- मलामोदिते निर्मले जले चिरं विहृत्य तौ श्रान्तौ शुकरंभासंवाद शृण्वन्तौ द्रोण्यामतिष्ठताम्. अत्रान्तरे प्रकृष्टं शीतमसहमाना संयोगिता ततो निर्गत्य वस्त्रान्तरं परिधातुं स्वविलासमन्दिरं जगाम. पृथ्वीराजश्व सुखेन शीतं सहमानस्तत्रैव तस्थौ. तदानीमेव सा चतुरा दूती तत्पत्रं पृथ्वीराजसन्निधावक्षिपत् अवदच्च-स्वामिन् ? इदानीमेवेतो महता वेगेन धावतः शुकस्य मुखाद्गलितमिदं पत्रामिति. पृथ्वीराजो- १४४ पृथ्वीरजचव्हाणचरिते न ऽपि तत् सत्यं मन्वान उद्धाट्य यावत्पश्यति तावत् सर्वमेव वृत्तमवागच्छत्. सा च दासी कृतकृत्या संयोगितायाः कोपं परिजि. हीऍस्तस्मिन्नैव क्षणेऽन्तर्दधे, पृथ्वीराजश्च सर्वं तत्पत्रमनुवाच्य खिन्नो मनस्यकरोत्-अहो ! मौढ्यं मे. रात्रिंदिवं विषयकर्दमे लुठता मया कर्तव्यमेव न कृतमिति न किंतु सुहृदोऽपि विमनी कृताः. मदीयैः पितृपितामहैः पुत्रवत् परिपालिताः प्रजा मदीयं दुर्वृत्तमवलोक्य भीता अन्यत्राश्रयार्थं गच्छन्ति. तदेतत् मदीयं वृत्तं पश्यन्तः स्वसुकृतैः संपादितेषु दिव्यलोकेषु तिष्ठन्तो मदीयाः पूर्वजाः किं मां वदन्ति ? एष चाकृत्रिमस्नेहशाली द्वितीयं हृदयमिव मे सुहृत् समरसिंहो मदीयराज्यरक्षणार्थ ससैन्यप्रागत्य द्वारि दशदिनपर्यन्तं तिष्ठति, तथाप्यहं पापी तद्वाती न जानामि. धिङ्मा मित्रावमानिनं. विषयविषोपभोगमूढमतिरहं स्वकर्तव्यमपि व्यस्मरम्. तदिदानीमेवाह मौलान् प्रधानामात्यानाहूय चितोडाधिपं सत्कर्तुं प्रयतिप्ये. ततस्तद- नुमत्याऽन्यत्र गतान् प्रजाजनानाश्वास्य तान् स्वस्थानापन्नान्विधाय मदोन्मत्तं तं भूयोभूयः पराभूतं यवनराजं समूलमुन्मूलयिप्यामीति. एवं विचिन्तयत्येव सति राजनि सकलालंकारालंकृतशरीरा संयोगिता सलीलमागत्य-नाथ ? किं न सुखयति एष प्राभातिको मलयवातः ? किमद्य न स्पृहयसि गण्डूषजलं मदंगे त्यक्तुं ? किं नोत्सहसे परिहासर्मा कोपयितुः किमिति अगाधचिन्तामग्नो लिखित- इवाभासि? प्राणनाथ ? केन पापिनाऽसौ मम विहारः कलुषीकृतः? किमिति प्रतिदिनमिवाद्य हृदयग्राहिभिः प्रेमरसमयैर्भाषणैनार्नुगृहासि एकादशो गुच्छः १४५ भवान् ? मदीयेन स्खलितेन कुपितः किं? यद्येवं तदा शिरसा प्रसादयामि ! एषा संयोगिता त्वदेकजीविता त्वदीयप्रेमालापानं विना न जीविष्यतीति सार्वजनीनं. किमतावदेव मे भाग्यमिति वदन्ती अश्रुपूर्णलोचना तं तिर्यक्पश्यन्ती तस्थौ. पृथ्वीराजश्च तां प्राणप्रियामस्थाने दुःखाकुलां वक्ष्य दुःखितः सजवं हस्ताभ्यामाश्लिप्य कौशेयवस्त्रेण नत्रे परिमृज्य वदत्-कन्ते ! अहं चान्यचिन्तासक्त आसम्. त्वया सह चिरं विलसता मया त्रागत्य दशदिनपर्यन्तं निवसन् राजा सारसिंहो न ज्ञ तः. इदं च महदनिष्टं संवृत्तं. स च महंमदधर्मानुसारी गिझनीपतिमा विलासमग्न- मवगम्य मदीयं रज्यमपहर्तुमागच्छति. तदधुना विलासा नोचिताः. सखि ! नाहं त्वया सह विलासे संजातोद्वेगः, किंतु शत्रुषु राज्यापहारे- च्छया समागच्छत्सु सत्सु विषयविलासा नोचिताः. तत्कानि दिनानि विलासांस्त्यक्त्वा शत्रवः पराजेयाः. पश्चात्पुनरपि पूर्ववदानन्देन निःशंकं विलसिप्य वह इति. संयोगिताऽपि क्षत्रियकन्यका सर्वमिदं न्याय्यं मन्वाना तमन्व- मोदत. अचिरादेव पृथ्वीराजो द्वारपाल नाहूय मौलानां प्रधानामात्या- नामाव्हायनाय तान् प्रेषयामास. (२) द्वारपालैनिवेदितागमननिदाना राजाज्ञामनुसृत्य ते प्रधानामात्याः पृथ्वीराजसन्निधावागच्छन्. तानवेक्ष्य पृथ्वीराजोऽवदत्-प्रधानामा- १४६ ४ पृथ्वीराजचव्हाणचरिते त्याः! एतावत्कालपर्यन्तं यदभूत्तत्सर्वमपि विस्मृत्यातः परं किंकर्तव्यं तद्विचार्यताम् अहं हि मन्ये-प्रथमतः सर्वेभ्यः प्रजाजनेभ्यो विश्वासोत्पादनाय सर्वेषां नागरिकाणां महती सभा करणीया. तत्र मदीयमकृत्रिम मित्रं चितोडाधिपः समसिंहः सत्करणीयः. ततस्तत्रैव कर्तव्यविचारणाऽपि कार्येति. तदेतद्यदि भवतामनुमतं तदा शीघ्र. मेव भविप्यत्सभावृत्तं सर्वत्र घ,पकैघोषयत. अहं च प्रमत्तः सभा- समयं प्रतिपालयस्तिष्ठामीति. ते चाकस्मादेव पृथ्वीराजम्य कर्तव्यदक्षतां विलोक्य विस्मिताः प्रतिहतताम्तथैव सर्वमकुर्वन् पृथ्वीगजश्च कतिपयसामन्तसमन्वितः प्रजवमश्वमारुह्य स्वयमेव समर सिंहस्य स्कघ बारमगच्छत्. तत्र द्वारपाल निवेदितागमनः सत्वरमधे पादाभ्यां गत्वा तं राजप कर्तव्यदक्षं धर्मशीलं समरसिंहं गाढमाश्लिषत्. सोऽपि च परं विस्मितस्तं पृथ्वीगजं विषयलालसापिशाचिकामुक्त पुनर्जतं मन्वान ईश्वर मनसैवास्तोत्. निजगाद च-वयस्य ! पृथ्वीराज ! अद्यापि भारतवर्षस्य भागधेयं समीचीनमेवास्त. अद्यापि रजपूतरमणीनां पातिव्रत्याग्निर्न शान्तः, नापि धर्मशीलानां मुनानां तपांसि नष्ट नि, यतो विषयमागरतलमग्नो भवान् म्वकर्तव्यविधानाय पुनरपि पूर्ववद- वस्थितः. पृथ्व.राज! त्वादृशम्य पुरुषपुंगवम्य यद्योग्यं तदेव कुरु. अन्यथा कीटका अपि विल सोपभोगान् कुर्वन्तः किं न स्तुत्यह अधुना चास्माभिरप्रमत्तः सम्यक् सेनां सन्नाह्य व्यूहरचना क या. इदानीमेवागतो मदीयश्चारः समीपमागतं शत्रु निवेदयति. पृथ्वीराजोऽपि तदीयमिममुपदेशममृतमेव मन्वानः सत्यत्वेन जग्राह.

एकादशो गुच्छः १४७ वृत्तकुशलप्रश्नः सायं सभागमनार्थ चितोडाधिपमामंत्र्य पृथ्वीराजः स्वनिवासं प्रत्यागच्छत्. च अचिरादेव च भोभी सभ्या नागरिकाः ! युप्मस्व मी पृथ्वीराजो युप्मानाज्ञापयति-एप सप्तकृत्वः पराजितः शहाबुद्धीननामा यवनराजः पुनरपि योध्दुमागच्छति. अस्मदीयाश्च केचन तस्य सहायाः. तत्साम्प्रतं किं विधयमिति विचा-यितं सायंकाले महती सभा क्रियते. तदर्थच सर्वैरपि भवद्भिरागन्तव्य मति. निशम्य चेमा घोषणां स्वेऽपि नागरिका आश्चर्यमग्ना आनन्दोल्लसद्वृत्तयः प्रस्फुरद्वाहवो विहित.दनकृत्यास्तं सभासमयं प्रतिपालयामासुः. अचिगदेव चानन्तबन्दिजन तुतकीर्तिः सकल- सामन्तचक्रवालमध्यवर्ती तारागणमध्यगतो विधुरिव प्रकाशमानो हस्तिस्कन्धगतः पृथ्वीराजः स्वनिवामपासादानिर्गत्य सर्वेषां प्रजाजनानां प्रणामान् गृहन् क्रमेण सभास्थ नमाजगाम. तदानी समरसिंहोऽपि सभामागतस्तेन पृथ्वांगजन सममेकासने समुपाविशत्. तौ च महाप्रबलौ केसरिणाविव नराधीशावेकतोपविष्टों वीक्ष्य दिल्लीनगरवासिन आनन्देन सिंहनादान्विमसर्जुः. पृथ्वीराजोऽपि स्वयं समरसिंहस्य सत्कारान्विधाय कृतज्ञतां प्रादर्शयत्. स्वसना- पतिमाहूय सेनासन्नाहार्यमाज्ञापयत्. सवेऽपि प्रजाजनास्तेन राजदर्श- नेन संतुष्टाः स्वस्वगृहेषु महोत्सवांश्चक्रुः. आनन्दसूचकान् पटहान् सर्वत्रावादयन्. तेन च महान् कोलाहलोऽभवत्.

१४८ पृथ्वीराज चव्हाणचरिते (३) एवं महोत्सवव द्यानां महति कील हले प्रचलते सति राजप्रासादस्य मध्यचतुष्कवर्तिनी महती शिला द्विधाऽभवत्. ततश्च जटाभारधारी, रुद्राक्षमालाभारी, रक्ततरनयनः, हस्ताग्रेविलसत्क- रालनग्नखड्गः, नरकपालभूषिताद्वतीयहस्तः, शंकरनामघोषकारी वीरभद्र आविर्वभूव. तं च भयंकरस्वरूपं वक्ष्य पृथ्वीराजः साष्टांगं प्रणिपपात. परन्तु स न पृथ्वीराजं किंचिदप्यभाषत. ततः शिवभक्तः समर- सिंहस्तमनमत्. स्वीकृत्य च तदभिव दनं तूणीस्थितं तं वीरभद्रं देवाकृप शाली चन्दकविः · अस्ति कश्चन विशेषः' इत्यपृच्छत्. तदानीमव स घोरघोष उच्चैः-अहमस्मि वीरभद्र.. परमेश्वण सदाशिवेन दक्षयज्ञविध्वंसार्थमुत्पादितः. तं च यज्ञं ध्वंसयित्वा कृतकृत्यः सदाशिवात् 'यो हि तत्व निद्रां भेत्स्यति तस्य कुलक्षयो भविष्यति' इति वरं लब्ध्वाऽत्र सुखेन शेय. प्राभातिकेन वाद्यकोलाहलेन मम निद्रा भिन्ना. तेन च तव राज्यं नक्ष्यति नैतावदेव किंन्तु तव कुलक्षयोऽपि भविष्यति. योऽयं शहाबुद्धीनां अवनस्तव राज्यमपहर्तुमागच्छति स च विजयाभूय वां बन्दिनं करिष्यति. ततः स क्रूरकर्माऽस्य दिल्लीनगरस्य राजा नाम भूत्वा भयंकराणि कृत्यानि करिष्यति. तं च जित्वाऽन्य एव मांगलकुल- संभवो यवनो राजा भविष्यति इति एकादशो गुच्छः. १४९ इमं भाविनमनर्थ वीरभद्रमुखान्निशम्य संजातदुःखः स पृथ्वीराजः स्वप्रजानां दुःखं भविप्यतीति मनसि कुर्वन्नश्रृण्य मुञ्चत्. तमश्रूणि मुचन्तं वीक्ष्य वीरभद्रः सहापमाह-राजन् ! अद्यावधि ये खलु रामचन्द्रादयः परमात्मावताररूपा राजानः संवृत्तास्तेषु कम्य हस्ते खलु इयं पृथिबी नियमेन स्थिता ? न कस्यापीति प्रत्यक्षं ! तदवश्यं भाविन्यर्थे दुःखविधानमनुचितं. मानवो हि क्षणिकान्विषयान् नित्यान् मन्वानस्तेषां क्षये वृथा शोचति. स शोक एव मानवस्यायुन्यूनीकरोति. तद्विरमास्मादकार- णदुःखकरणात्. एषा हि जगतो रीतिः. यदेकम्य विषयस्यापहारे यस्य स विषयः स शोचति येन च लब्धः स मोदते. तस्मादु- दासीना एव विद्वांसोऽस्मिन्विषये इति. उक्त्वा चेत्थं स वीरभद्रस्ति- रोदधे. राजा च खिन्नः स्वमन्दिरमगात्. सर्वऽपि प्रजाजनास्तस्य वृत्तस्य श्रवणेनात्यन्तं दुःखाकुला वालका इव भुवि निपत्य रुरुदुः. अन्ये धनिकाश्च स्वधनम्य रक्षणाय नानाविधानुपायानुपायुञ्जत. कुलीना जनाः स्वस्त्रीणां तथा भगिनीनां शीलरक्षणाय स्थलान्तरमकुर्वन्. स दुःखितस्तां एवं व्यग्रेपु सकलनागरिकेपु अस्वस्थचित्तः पृथ्वीराजः परं दुःखाकुलः शयनमंदिरं प्रविवेश. तत्र च प्राणप्रियां स्वसंकटम्लान- कमलमुखी चिन्ताक्रान्तां संयोगितामवेक्ष्य सहसाऽऽश्लि- प्य सलील जगाद. प्रिये! अवश्य भाविनो भावा भवन्त्येव तत्र नास्ति मानवस्य प्रतीकारसामर्थ्य. न खल्वस्मिन् मर्त्यलोके कश्चन चिरंजीवी, नापि सर्वदा सुखोपभोगीः ये खलु भगवत्सहाया नीति- १५० पृथ्वीराजचव्हाणचारते प्राप्तेऽपाराणि मूर्तयो नलादय आसस्तेऽपि समये दुःखान्यनुबभूवुः तदा नः क्षुद्राणां का कथा. तस्मादगणयित्वोदकं यावच्छक्ति सत्कर्मचरणायमेव. फलं तु दैवाधीनमिति. साऽपि सती तदीयमिदं भाषणं निशम्य शान्तोद्वेगा सुखेन सुप्व प. अचिर द३ च नाचोत्तमभ वरहिता भगवती सुषुप्तिस्तामा- त्मवशां चक्रे. पृथ्वं राजस्तु नानाविधकल्पनाभिः संतप्तमस्तको न चिरादपि निद्रां लेभ. ततश्च प्राभातिकेनानिलेन शिरसि स्पृष्टः स्वल्पां निद्रा लेभे. तदानीमेव भयंकरं स्वमं वीक्ष्य भीतः साक्रोश जागर्तिस्म पृथ्वीराजः. तस्य च महताऽऽक्रोशेन प्रथमं प्रवुद्धा सती संयोगिता तं जागरय तस्म. तं चाश्रपूर्णनयनं शुष्कवदनं धर्मकणांकितगात्रं भीतमिव सर्वतः कातरीभावेन पश्यन्तं स्वकान्तं पश्यन्ती संयोगिता- ऽपृच्छत्. नाथ! किमिति त्वमुच्चैराक्रोशः कुतोऽयं त आकुलीभावः इति. सोऽपि चेदानी लब्धस्वास्थ्यः शनैःशनैरब्रवीत्-प्रिये ! अद्य खलु मया महान् भयंकरः स्वप्नो दृष्टः. स चेत्थम् . अहं च त्वया सह सुरम्ये महत्यारामे समुपविष्टोऽतिसुन्दरी तरुण मपश्यम्. सा च सहासं किंचित्कालं त्वया सह संलपन्ती तस्थौ. अत्रान्तरे संचारी पर्वत इव स्थूलवपुः कृष्णः रोषकषायितनेत्रयुगलो हस्ती मां तिर्यक् प्रहृत्य तां सुन्दरी गृहीत्वाऽन्यत्र ययौ. तस्य च तीक्ष्णन दन्तप्रहारेणाहं मृतोऽशाचम्. इति.

एकादशो गुच्छः १५१ प्रकृतिसरला भारुः सा संयोगिता तं स्वप्नमनिष्टदर्शक मन्वाना मुक्तकण्ठं स्लोद प्रभाते च राजपुगेहितमाहूय राजा सर्व स्वप्नं न्यवेदयत्. स तु यथाशास्त्रं तम्य शान्तिमकरोत्. स्वयमपि विद्वद्भिः पण्डितः समं जयार्थमनुष्ठानमारभत. (४) पृथ्वीराजश्च तं शहाबुद्धिनं गिझर्न पतिं समीपमागतं निशम्य दुःस्वप्ननिहतोत्सादोऽपि ज त्या क्षत्रियतया महान्तमुत्माहमवलंब्य स्वसेनास नाहमाग्मत. प्रथमतो ये खलु परमामादेन स्वम तृभूमेस्तथा स्वभगिनीनां स्वातंत्र्यशीलयो रक्षणाय स्वयवद्धपरिकगः समागच्छं- स्तान् महत्या पीत्या स्वसेनायामस्थापयत्. ततश्च सर्वानपि पदा- तीन स्वयं वीक्ष्य तेभ्यः समीचीनान्यस्त्राणि पारितोषिकाणि च विततार. सादिमण्डलं च युद्धेऽत्युपयोगीति मन्वानः कुशलिभ्यः सादिभ्योऽत्युत्तमानश्वांस्तथा सुतीक्ष्णान् भल्लान् खड्गांश्च ददौ. एवं शतघ्नी विभागानपि सुव्यवस्थितानकरोत्. एवं सेनां सन्नाह्य तस्या विभ.गान्विधाय तेषु परं विश्वास- पात्राणि युद्धविशारदान् व्यूहरचनाकुशलान् मौलानधिकारिणो, न्य- युंक्त. तेभ्योऽप्यतिमूल्यानि पारितोषिकाणि वितीर्य तान् स्वामि- भक्तानकरोत्. एवं सेनां व्यवस्थाप्य स्वराजधानीरक्षणव्यवस्थामप्यकरोत्. प्रथमतो राजधानीनगररक्षणाय स्थाने स्थानेऽतिशूरन् सैनिकान् १५२ पृथ्वीराजचव्हाणचरिते अथापयत्. तथैव प्रवेशद्वारेषु द्विगुणितान् यामिकान्विधायाज्ञातम्य परकीयस्य प्रवेशं सर्वथा न्यषेधयत्. एव नगरमध्ये निवासिजनभो- जन थं महान्तं धान्यसंचयमकरोत् अन्येषामप्यावश्यकानां वस्तूनां सर्वाग्यपि क्रीडास्थानानि निकनिवासार्थ कल्पयामास. ये खलु नटादयः सकललोकचित्तरजका जना आसंस्तान्नगराद्हनिकास- यामास. याश्च वारयोषितस्ता अपि. रात्रिंदिवं नूतनेभ्यः शूभ्यो युद्धकलाशिक्षणं ददौ. ये खलु महान्तो जलसंचया आसंस्तान् शत्रुपक्ष्यः कश्चन गूढश्चरो मा दूषयविति तत्रापि निरीक्षकान् स्थापयामास. सर्वेभ्यश्च नागरिकेभ्यो धान्यस्य व्ययं मितं विधतुं समुपदिदेश. स्वयं चाश्चमारुह्य सर्वाण्यपि मर्मस्थानान्यपश्यत्. ततश्च भीममिव सत्यप्रतिज्ञ, द्रोणमिव शस्त्रास्त्रविद्याकुशलं भीममिव महावलं, अर्जुनमिवामोघवाणं, श्यालं चामुण्डरायं प्रणि- पत्य जगाद. तात ! चामुण्डराय ! मया च महदपराद्धं. दुष्टजनो- क्तिविषमगरलदूषितमतिना मया न किंचिदपि विचारितं. त्वं च बंदिशालायां स्थापितो महतः क्लेशाननुभावितोऽसि. तदेतत्पर्य शल्य मिव मां पीडयति. धन्यस्त्वं. यतो मदीयैरीदृशैवतनैः पीडितोऽपि न हाहुलीरायवन्मन्नाशाथमचेष्टथाः. नापि मदीयशत्रूणां सहायोऽभूः. क्षत्रिय श्रेष्ठ! चामुण्डराय! एप समयो भयंकर इवाभाति, तदव- शिष्टं कोपं विहाय साहाय्यं कुरु. एताश्च कन्यका यवनैराक्रांताः प्राणांस्त्यक्ष्यन्ति. तव भगिनी तत्पुत्रो रेणसी मां विहाय न स्थास्यतः, तत्त्वां शिरसा प्रसादयामि अम्मिन् युद्धे साहाय्यं विधातुमिति.

एकादशो गुच्छः. १५३ चामुण्डरायस्तु प्रकृत्यैव सरलो निष्पापस्तस्य पृथ्वीराजस्य विज्ञप्तिमाकर्ण्य सन्तुष्ट उवाच-राजन् ! एताः खलु दैवस्य विचित्रा लीलाः. न तत्र केनाऽपि आदरः करणीयः नापि द्वेषः. किंतु समा- गतानां सहनं. अस्तु. यद्यपि च यावज्जीवमहं लोहशस्त्रं न धरि- प्यामीति प्रतिज्ञामकरवम् तथापि अन्येनैव शस्त्रेणाहमस्मिन् युद्धे तव साहाय्यं करिष्यामि. नैतावदेव किंतु यावजीवं योत्स्ये, न पराङ्मुखो भविष्यामि. नापि शत्रोः सहायो भूत्वा नरकातिथिरिति. ५ एवं सर्वं व्यवस्थाप्य पृथ्वीराजः शहाबुद्धीनेन समं योद्धं स्थलं निणेतुं स्वसामन्तानां महती सभामकरोत्. तत्र च चामुण्ड- रायप्रभृतयः सर्वेऽपि सामन्तास्तथा चितोडनराधीशप्रभृतीनि मित्रा- ण्यपि स्वस्वस्थानमलमकुर्वन्. तत्र पृथ्वीराजः सर्वान् सामन्तान्नु. द्दिश्य जगाद. सामन्तश्रेष्ठाः! गिझनीपतिः शहाबुद्धीनः प्रतिदिनं समीपमागच्छति. स च यद्यकस्मादागत्यास्मान्नस्मिन् दुर्गे प्रतिरुन्ध्या- तदा महदनिष्टं भवेत्. यतो बलिष्ठोऽपि राजा नियंत्रितो हस्तपादं प्रसारयितुमप्यशक्नुवन् सुजेयो भवति. यद्यपि नाम दुर्गाश्रयः कर्तव्य इति शास्त्राज्ञाऽस्ति. तथापि सा हीनबलस्य परान् जेतुमश- क्नुवतः कृते. नतु विजयिनः. अस्माभिस्तु सप्तकृत्वः पराजितः शहा- बुद्धीनः. क च ते गोमांसभक्षणपापमलिना यवनाः, क्वच मदीयाः शूराः क्षत्रियाः. तदुर्गरक्षणार्थ किंचित्सैन्यं निघायावशिष्टं कृत्समपि १५४ पृथ्वीराजचव्हाणचरिते सैन्यं गृहीत्वा सुस्थले क्लप्तस्कन्धावारा वयं तं प्रतिपालयिष्यामः. दुर्दैवतः पराजितानपि नोऽवेक्ष्य क्षत्रियरमणीनां स्वकर्तव्यपालनाय पर्याप्तोऽवसरोऽपि प्रदत्तो भवेत्. तद्यदि सर्वेषामिदमनुमतं तदा महति प्रत्यूषे सर्वेरपि सामन्तैः स्वसेनया समं यमुनातीर आगन्तव्यं. सप्तघटिकासमये शुभो मुहतों राजपुरोहितेन दत्तोऽस्ति. तस्मिन् समये राजपटहध्वनिर्भविष्यति तदानीं वयं सर्वे गमिप्याम इति. इदं च तद्भाषणं निशम्य सन्तुष्टाः सर्वेऽनुमोदन्तेस्म. राजा च सभां विसर्जयित्वाऽन्या अपि पत्नीमिलित्वा प्राणप्रियायाः संयो- गिताया मंदिरमाजगाम. संयोगिता च क्षत्रियकन्यकाऽपि स्वप्राण- प्रियस्य युद्धार्थ प्रयाणमवलोक्य नितान्तं दुःखाकुला बभूव. सा च कुतश्चिदपि कारणादिदं पतिदर्शनं चरममेव मन्वानाऽत्मानमधन्य- मशोचत्. तथापि सती सा प्रभाते प्रयास्यन्तं सकलगुणमण्डितं सम्राजं पतिं रात्रौ नानाविधैर्विलासैः सिषवे. प्रथमतः सा तदर्थ नानाविधानि सुरुचिराणि पक्वान्नानि स्वहस्तेन निर्माय तमभोजयत्. पृथ्वीराजोऽपि स्वप्राणप्रियायाः संयोगितायाः परिश्रमं सफलीकर्तु- मिच्छुः पर्याप्तमभुंक्त. भुक्तवते तस्मै हस्तप्रक्षालनार्थ पाटलीपुप्प- जलं वितीर्य स्वयंविरचितां ताम्बूलवीटिकां ददौ. स्वयमपि किंचि- द्भुक्त्वा तत्सेवार्थं शीघ्रमेवागच्छत्. अतिकोमलाभ्यां स्वहस्तकमलाभ्यां तस्य पादांबुजे मर्दयन्ती खिन्नवदनां संयोगितां स्वसमीपमाकृष्य तदधरामृतं पिबन् जगाद पृथ्वीराजः-कान्ते ? इदं तेऽमृतादपि मधुरं देवानामपि दुर्लभमध- एकादशो गुच्छा. १५५ रामृतपानं चरमं वेति संदिहानो महति दुःखसागरे निक्षिप्तोऽस्मि. तदागच्छ. अलं सेवया. अहं चेदं पर्याप्तं पीत्वाऽत्मानं वितृष्णं करोमीति. अचिरादेव तौ चिरविलसनखिन्नौ निद्रादेवी अनुजग्राह. अथ विकसितकुसुमगंधपरागधूसरेषु तडागलहरीसहचरघु मन्दमन्दवाहिषु पवनेषु; विरलप्रकाशेषु प्रदीपेषु; स्वस्वकर्मव्यग्रेषु विद्वत्सु भक्तगणेषु; कलंकलांछने, अपरदिगंगनासंगपाण्डुरे भगवति चन्द्रमसि दूरमपसरति; क्षीणतेजस्कासु तारासंहतिषु; अर्धविकचकोर- कगुच्छालंकृतासु लतासु; साधुजनाधिष्ठितेषु नदीतीरेषु; जनदर्शन- भीतेषु चौरकुलेप्वपसरत्सुः परस्परवियोगदुःखाकुलेषु तरुणयुग्मेषु; यमुनातरंगसंगिताभातिकपवनपरिपूतेषु सकलेन्द्रप्रस्थनागारकेषु; संध्या- रागरक्ते प्रादिशो वदने; पूर्वसंकेतमनुसृत्य प्राथमिको युद्धप्रमाण. पटहध्वनिराबभूव. तं च सकलभुवनाण्डविस्तृतं, बधिरितसकलश्रवणपुटं ध्वनि निशम्य तौ संयोगितापृथ्वीराजावजाग्रताम्. त्वरितमेव च स पृथ्वी- राजः स्नात्वा कृतान्हिको युद्धोचितं वेषं परिधातुमुपचक्रमे. संयो- गिताऽपि तत्र सहकारिणी बभूव. अतिप्रेमवशादनिष्टमाशंकमा- नायाः सत्याः संयोगिताया नेत्रकमलाभ्यामणि पृथ्वीराजपादयो- रपतन्. समरकेसरी पृथ्वीराजोऽपि तत्समावस्थः समभवत्. अत्रान्तरे पुद्वितीयो राजपटहध्वनिरभूत्. तं च निशम्य पृथ्वीराजो विवेक- न्यूनीकृतशोकः सलीलमुत्थाप्य हस्ताभ्यां संयोगितां गाढमाश्लिषत्.

१५६ पृथ्वीराजचव्हाणचरिते अवदच्च-प्रिये ! त्वमसि क्षत्रियकन्यका. न केवलं वीरसुता किंतु वीरपत्न्याप. तद्विहाय शोकमानन्देन युद्धगमनार्थमनुमोदस्व. नह्य- स्मिन्समये वीरांगना इतरवदOणि मुंचन्ति किंतु स्वपतीन् मधुरैर्भा- घणैरुत्तेजयन्ति. तदुत्तिष्ठ. त्वं हि यशस्विनी आराध्यदेवता. त्वं हि मे स्वामिनी. त्वमेव मे राज्यलक्ष्मीः. त्वया प्रदत्तेन खड्गेनाह- मवश्यं यशस्वी भविष्यामि. तदुत्थाय मदीयं खडं मदीयपट्टबन्धे स्थापयेति. पृथ्वीराजस्येदं भाषणं निशम्य साऽपि क्षत्रियकन्यका सत्वर- मुत्थाय स्मेरमुखी स्वहस्तेन खड़लतिकामादाय तीये पटबन्धे ऽबध्नात्. अभाषत च-प्राणनाथ ! यद्यप्यहमस्मि वीरकन्या वीरपत्नी च तथापि अद्यापि अपक्वुद्धिः संसारविषयोपभोगेऽवितृष्णा नाथं युद्धार्थ प्रस्थितमवलोक्य प्रेम्णाऽनिष्टमाशंकमाना किंचिदस्वस्थचि- ताऽभवम्. वस्तुतस्तु सांसारिकविषयोपभोगेन न पुरुषार्थः सेत्स्यति. तांश्च यथाशक्ति पश्चादयोऽपि सेवन्त एव. अस्मिन् मृत्युलोके वलप्रधाना क्षत्रियजातिः केवलं पशुवद्यथेच्छं विषयभोगायैव न निर्मिता किंतु न्यायेन प्रजापालनार्थ. एते च दैत्या इव मदान्धा यवनाः दुर्बलान् पीडयित्वा स्वविषयवासनां पूरयन्ति. तत्तेषां दण्ड आवश्यकः. एतादृशपवित्रकार्यार्थ मे पातर्गच्छति. तत्प्राणनाथ! इदं पवित्रं कार्य सम्यगनुष्ठेयं. तत्र च स्वर्गगमनं श्रेयो न पुनरननुष्ठीय वाऽकीर्तिमधिगम्य वा प्रत्यागमनं. तस्मिन् समये मदीया चिन्ता न कार्या. या खलु युप्मदीयैः परमपवित्रैर्गुणैराकृष्टा पितरमपि न एकादशो गुच्छः १५७ त्यक्त्वा समागता साऽहं युष्मान् स्वर्गतानिशम्याऽपि अत्र स्थास्या- मि, किंवा सुरांगनाभिः समं युष्मान्विल सयिष्यामीति कल्पनमे- वाशक्यं. मदीयदुर्दैवतो यदि यूयं स्वर्ग गन्तुमारप्स्यध्वे तदाऽर्धमार्ग एव समागत्य युप्माकं यावच्चन्द्रदिवाकर सहचारिणी भक्प्यिामि. मयाऽपि चेतो दूतद्वारा शीघ्रमेव साहाय्यार्थं विज्ञप्तः पिता त्वरितमे- वागमिप्यतीति मन्ये. तदस्मिन् युद्धे यशोलाभायेश्वरं ध्यात्वा यश- स्विनीमिमामसिलतां बध्नामि, प्रतिजानामि च -यावदितो युद्धार्थ गतो मदीयः प्राणनाथो विजयीभूत्वा न प्रत्यावर्तेत तावदहं केवलं प्राणधारणार्थं पयो निपीयोपवासं करिप्यामि. निवृत्तेन च त्वया सममन्नं ग्रहिप्यामीति इति, पृथ्वीराजश्च परमप्रियं स्वादु पाथेयमिव हृदयहारि तत्संयोगि- ताया भाषणं निशम्य सन्तुष्टस्तां स्वबाहुवलयेन गाढमालिलिंग. अत्रान्तरे तृतीयोऽपि पटहध्वनिरभवत्. तं च निशम्य पृथ्वीराजः इदानीमनुजानीहि मां गमनाय ' इति जगाद. संयोगिताऽपि गच्छतु नाथः शत्रुविजवाय. सर्वाअपि कुलदेवतास्त्वां रक्षन्तु इति कथमपि अस्फुटाक्षरमनुमुमुदे. पृथ्वीराजस्तुहिनजलकणावसिक्तं कमलमिव नेत्रांभःक्लिन्न मुखमाचुम्व्याश्वमारुरोह. क्षणात्तत्स्थलं प्राप.

movie द्वादशो गुच्छः १ उभयोः सेनयोर्युद्धम्. २ पृथ्वीराजस्य बन्दिवासः ३ जयचन्दस्य स्वर्गवासः ४ आर्यभूमौ दुःखदाः प्रसंगाः ५ चन्दकवेर्गिझनीगमनम् ६ शब्दवेधः, गिझनीपतेर्मृत्युः ७ उपसंहारः (१) ए वं संयोगिताया आज्ञां गृहीत्वा पृथ्वीराजो यदा स्वसेनानिवेशमागच्छत्तदा सर्वेऽपि सामन्ताः सहर्षा अभवन्. ते च साञ्जलिबन्धं तस्मै नमस्कृत्य नियोगं प्रतिपालयामासुः. पृथ्वीराजश्च स्वमंत्रिभिस्तथा चितोडाधिपेन समरसिंहेन समं संमंत्र्य गंगायमुनयोर्म- ध्यगतं पानपताख्यं सुप्रसिद्धं रणक्षेत्रं युद्धभूमिं निरणयत्. निणीय सेनापतिमाज्ञापयामास. च तत्र सेनानयनाय द्वादशो गुच्छ:. १५९ अचिरादेव सा सेना भगीरथरथानुसारिणी गंगेव पृथ्वी. राजानुगामिनी निश्चितं स्थलं प्राप. आगत्य च क्लृप्तनिवासा तस्थौ. अत्रान्तरे विदितसर्ववृत्तः कनोजाधिपतिर्जयचन्दोऽपि स्वजामा- तृसाहाय्यार्थं स्वकीयां कृत्स्ना सेनां गृहीत्वा तत्रागन्तुं निरगात्. एवं स्वामातृभूमेस्तथा स्वस्वातंत्र्यस्य तथा स्वधर्मस्य रक्षणार्थ मिलितैर- खिलैः क्षत्रियैस्तथा समरसिंहपृथ्वीराजप्रमुखैः क्षत्रियकुंजरैः सा सेनाऽद्वितीयाऽभात्. सर्वे च यथायोग्यस्थानापन्ना अप्रमत्ताः सर्वाणि कार्याणि कुर्वन्तः शहाबुद्धीनागमनं प्रतिपालयामासुः शीघ्रमेव स मूर्तिमान् यमराज इव भयंकरश्मश्रुलमुखैः, तीक्ष्णखड्गभीषणकरैः, विचित्रवेषैः, ज्ञाननाम्नाऽपि विहीनः, अनाघ्रातभूतदयैः, अनास्वादितमानवपशुभेदैः, सुरापायिभिः, पर- कान्ताकनकलोलुपैः, विशालाश्वविराजिभिः, क्रोधरक्ततरनयनैः, भक्ष्यलोलुपैारिव, मनुष्यसंहारार्थमवतीर्णयमकिंकरैरिव सैनिकैः समं भारतवर्षस्य धूमकेतुरिव भारतस्वातंत्र्यदेव्या अपहारको राहुरिव, मूर्तिमांल्लोभइव, आर्यधर्मस्य भक्षकः काल इव स महंमदधर्मानुयायी गिझनीपतिः शहाबुद्धीनोऽक्षिपात्रमभूत्. तं च वीक्ष्य सर्वे क्षत्रिया योध्, परमुत्सुका अभवन् . स तु शान्तमनसा स्वसेनानिवेशं यमुनाया अपरतीरे कल्पयामास. तदानीं तौ द्वौ सेनानिवेशौ यमुनोभय- तीरवर्तिनौ यमुनालाभार्थं कलहायमानी पूर्वापरसमुद्राविवाशोभेताम्. श्वो युद्धं भविप्यतीति मत्वा सुप्तेषु क्षत्रियवीरेषु धर्मशीलेषु अधर्म- शीलः स शहाबुद्धीनस्तूप्णी रात्रौ घनान्धतमसप्रावृते सकलभूवि- तु १६० पृथ्वीराजचव्हाणचारते भावे कृत्स्नेन सैन्येन समं परतीरमायय. तत्र कृप्तनिवासा कृत्रनम्य सैन्यस्य दुर्भेद्यान् व्यूहान्विरचयामास. . अथ सकललोककर्मसाक्षिणि भगवति मरीचिमालिनि पूर्वा- चलमारुढे सति, सर्वेष्वपि पक्षिगणेषु इदमलौकिकं युद्धं द्रष्टमनि- च्छत्स्विवान्यत्रगतेषु, विहितसकलान्हिककर्मा गोब्राम्हणान्नमस्कृत्य पृथ्वीराजः स्वहस्तिनमारोढुं प्रचचाल. तदानीमेव तर्द यमपसव्यमक्षि अस्फुरत्. तच्चाशुभं मन्यमानः पृथ्वीराजः सचिन्तो बभूव. पुन- श्वाग्रे शिवामप सव्यगामिनी रुदतः कुकुरांश्च समीक्ष्य स युद्धविजये संदिग्धमतिरभवत्. तदानीमकस्मादेव सूर्यमण्डलं निस्तेजस्कमिवा- भूत्. तदेतन्महदशुभचिन्हं मन्वानाः सर्वेऽपि क्षत्रियाश्चिंतातुरा अभवन्. पृथ्वीराजः शंकाकुलितचेताअपि महता धैर्येण जगाद. क्षत्रियश्रेष्ठाः! एभिरशुभलक्षणैर्जयः संदिग्ध इव मे भाति. तथापि प्रयत्नो न त्याज्यः, नः क्षत्रियाणामशुभं कुतः. यतो यदि जेप्याम- स्तदा पृथिवीं पालयिष्यामः अन्यथा स्वर्गसुखं भोक्ष्यामहे. तत्सर्वे युप्माभिर्महता शौर्येण योद्धव्यमिति. मे एवमुक्वा स्वहस्तिनमारुढेऽपरसूर्यइव तेजस्विनि पृथ्वीराजे सर्वे बान्दिन उच्चैः पूर्वजानां पितॄणां यशस्तोमानपठन्. सहस्रशश्च पटहांस्तथागंभीरध्वनीभैरीरवादयन्. स शब्दस्तुमुलः सर्वानपि क्षत्रि- यवीरान् योध्दुमुत्साहयामास.

द्वादशो गुच्छ:. १६१ - प्रावर्तत च तीक्ष्णखड्गाघातनिपतद्रण्डसहस्राच्छादितग्वि- भागः, भयंकरोभयपक्षभटमातिमुक्तसिंहनादवधिस्तिश्रवणपुटः भल्ल- क्षेपविदारितप्रतिभटोदरनिर्गतमांसपेशलः, प्रलयकाल इव परस्पराक्र- मणनिहतानेकभटप्रेतमयः, शौनिकांगणमिव मांसपंकिलभूतलः, प्रफु- लपलाशमयीं वनस्थलीमिव रुधिराक्तशरीरवीरव्यापृतः, स्वस्वधर्मा- भिमाननिर्गत 'जयजयमहादेव ' ' दीन दीन' इतिवीरघोषणा- भयंकरः, अनवरतनिपतच्छतघ्नीलोहगोलवृष्टिनृत्यत्कंबंधसंकुलः, उन्मत्ताश्विकनिहन्यमानस्वपक्षजनः, निहतस्वामिमुक्तघोटकसाबा- धोभयपक्षः, तीक्ष्णबाणाहतगंडस्थलप्रवहद्रधिरधारासिक्तगजचंक्रमणः, मध्यभागविराजमानहस्तिराजस्कंधप्रस्फुरत्सूर्याचन्हांकितराजवैजयं- तीकः, प्रतिभटशस्त्राघातनिहतजनोत्थापनव्यग्रसेवकजनः, जलपायि- पिपासुयोध्दृगणसंकटितप्रपास्थानः, मृत्युलोक इव क्षणभंगुरदेहः, मोक्ष इवाविज्ञातदेहाभिमानः, सांख्यसिद्धांत इव पुरुषमयः, अवि- रलनिपतवाणभस्त्रायितवीरदेहः, स्वामिरक्षणतत्पराश्वगणः, अगणित- स्वकीयपरकीयः, युध्यमानजनसंमर्दोत्थधूलिध्मरसूर्यमंडलः, महान् संग्रामः. तत्र चातिचपलवाजिभिः सुलभक्षेपभल्लमण्डितैः, सुशिक्षित- खनक्षेपैः, लक्ष्यवेधातिकुशलैः, शौर्यखनिभिः, स्वधर्मरक्षणतत्परै- र्जायत्स्वकुलाभिमानैः स्वातंत्र्यदेव्या निर्व्याजमुपासकैः, क्षत्रियश्रेष्ठै- राक्रान्तास्ते यवनाः प्रथमतोऽत्यन्तं कातरा अमवन्. किंच-यथाहि एते क्षत्रियाः स्वस्वातंत्र्यस्य तथा स्वस्त्रीणां पातिव्रत्यस्य कृतेऽयुध्यन्त न तथा ते यवनाः. ते च केवलं लोभिनः .

१६२ पृथ्वीराजचव्हाणचरिते परद्रव्यस्य परस्वातंत्र्यस्य चापहरणाय प्रयतमानस्य राज्ञः शहा- बुद्धीनस्याज्ञामनुसृत्य. वाचकाः ! योहि मानवो यत्कर्म स्वेच्छया करोति तस्य तद्यथा श्रेयस्करं भवति न तथा केवलं नियुक्तस्य तस्य तत्. क्षत्रियेषु यथा युद्धमस्माकमावश्यकं कर्तव्यं कर्मेति बुद्धिरासीत् तथा न महंमदीयानां. ते तु वेतनस्य तथा परद्रव्यापहार- स्य च लोभेनानीताः तस्मादेव कारणादतितत्रेिण प्रथमाक्रमेणेन भीतास्ते महंमदीयाः. किंचित्पराजिता एव अभवन्. तांश्च पश्चा- निवर्तमानिरीक्ष्य वर्धितोत्साहास्ते सर्वेऽपि क्षत्रियाः सिंहनादैः परस्परमुत्साहयन्तो महता शौर्येणायुध्यन्त. तु (२) एवं बलिनः शौर्येण युध्यमानान् क्षत्रियानवेक्ष्य भीतः स शहाबुद्धीनः परं क्रुद्धो मनस्यचिन्तयत्-एते क्षत्रिया अधुनाऽपि पूर्ववदेव युध्यन्ते. एष च पापी हाहुलीरायो मामकथयत् विलासी पृथ्वीराजः प्रजाभ्यो नातिरोचत इति, तन्मिथ्येति भाति. यद्यस्मिन् समयेऽप्यहं पराजितो भविष्यामि तदाऽहं न जीवि- प्याम्येव. मदीयाः सामन्ताश्च मां निरर्थक प्रजाहत्याकारिणं मन्य- माना घातयिष्यत्येव. तदधुना येन केनाऽपि प्रकारेण विजयः संपादनीय एवेति. मत्वा चेत्थं स शहाबुद्धीनो महता क्रोधेन प्रतिनिवर्तमान् सैनिकानेव घातयामास. ते चेतोऽपि भीताः स्वप्राण- रक्षणे निराशाः पुनरपि सधैर्यमयुध्यन्त. अत्रान्तरे कृतान्त इव महं- मदीयानां अमोघशरसंधानः देवीभक्तश्चामुण्डरायो हस्तिस्कन्धगतः ते द्वादशो गुच्छ:. १६३ मन्ये तं स्वसमीपवर्तिनं पृथ्वीराजमवदत्-स्वामिन् ! कः खलु मम बाणस्य प्रथमं लक्ष्यीकर्तव्यः. अहं तु एष पापी यवनः शहाबुद्धीनः प्रथमं हन्तव्य इति. राजोवाच. तं शहाबुद्धीनं पश्चाद्धनिष्यसि. एष राजद्रोही हाहुलीरायः प्रथमं हन्तव्यः. तेन राजद्रोहस्य किं फलं? कथं बा तल्लभ्यत इति सर्वोऽप जनो जानीयादिति. अनवसित एव पृथ्वीराजभाषणे स 'तथाऽऽस्तु' इत्युक्त्वा हाहुलीरायस्य हृदयमभि- लक्ष्य तक्ष्णिं शरममुंचत्. तेन गाढं हृदये निहतः स हाहुलीराय- स्तस्मिन्नेव क्षणे भूमौ निपपात. प्रभूतं रुधिरं च ववाम. अजहाच्च प्राणान्. ययौ च स्वामिद्रोहेण कृतघ्नतादोषेण च संपादितानशुमां- श्लोकान्. हाहुलीरायस्यमां दुर्दशामवेक्ष्यात्यन्तं भीतः शहाबुद्धीनः स्व- जीवनेऽपि वितृष्णो महता धैर्येणायुध्यत. पृथ्वीराजोऽपि शहाबुद्धी- नस्य कण्ठदेशमालक्ष्य तीक्ष्णं शरं मुमुश्च. चामुण्डरायवत् सोऽपि अमोघबाणःकिन्त्वस्मिन् समये भारतवर्षस्य दुर्दैवतो वाऽस्माकमाभाग्य- तोवा, परमेश्वरेच्छया वा स बाणश्च्युतलक्ष्यस्तस्य शहाबुद्दीनस्यो. प्णीषं गृहीत्वा सार्थको बभूव. यवनराजश्च तावतैवात्मानं बहु मेने. अमोघशरक्षेपस्य धन्विनः पृथ्वीराजस्य शरं लक्ष्यच्युतमवलोक्यात्मनो जयममन्यत. पृथ्वीराजोऽपि स्ववाणस्य लक्ष्यच्युतिमवलोक्य खिन्नः स्वविजये सुतरां संदिदेह. न एवं संदिग्धोऽपि पृथ्वीराजो न युद्धोद्यमादुपरतः किंतु धैर्येण तथैवायुध्यत.

१६४ पृथ्वीराज चव्हाणचरिते एवं सततं युध्यमानयोः क्षत्रियमहंमदीयसेनयोद्धे दिने व्यतीते. तृतीये दिने भगवान् भास्कर आरक्तमण्डलो मध्यनिपतितमहागतः कथमपि स्वव्यवसायमनुष्ठातुं पूर्वाचलमारुरोह. शहाबुद्धीनश्च रात्री सर्वान् स्वसामन्तानेकत्रीकृत्य तैः समं अद्य विजयो वा संपादनीयो. ऽथवा समरे देहावा विसर्जनीयाः इति निर्णीय युद्धभूमिमागच्छत्. पृथ्वीराजप्रभृतयः सर्वे क्षत्रियराजा अपि तथैव निर्णीय समागच्छन्. तेन तस्मिन्दिने युद्धमलौकिकं बभूव. मध्यान्हकाले सर्वेऽपि यवना मिलित्वा क्षत्रियसेनामाचक्रमुः.तत्र चितोडनराधीशः समं कल्याणनाम्ना पुत्रेण समरभूमिमशेत. तथैव त्रयोदशसहस्रसंख्याकाः क्षत्रिया अपि. इमां वार्ती निशम्य पृथ्वी- राजो मूनि वज्रण निहत इव मुमूर्छ. तं च मूर्छितमवलोक्य सर्वे- ऽपि सामन्ताश्चिंतातुराः संज्ञालंभने प्रायतन्त. तदानीं तस्य पृथ्वी- राजस्य भगिनी पृथादेवी स्वपतेस्तथा स्वपुत्रस्य समरपातं निशम्य शोकविव्हला तद्वियोगदुःखं सोढुमात्मानमसमर्थ भावयन्ती चितामा- रुरोह. सर्वेऽपि सनातनधर्मानुयायिनः परधर्मानुसारिणश्च तत् खलु अगाधं स्वपतिप्रेम, अतुलशीलानामार्यस्त्रीणां पातिव्रत्यं विलोक्य सहसा तां प्रणिपेतुः. सा च कल्याणी पृथादेवी स्वपतिशरीरेण समं वन्हिमयीं चितां हंसतूलशयनमिवाधिरुह्य स्वर्ग जगाम. परकान्तो. पभोगेन धन्यंमन्या अपि महंमदीयाः पृथादेव्या अलौकिकं पातिव्रत्यं विलोक्य विस्मयसागरे न्यमज्जन्. एवं किंचित्कालं विस्मृतवैरभावास्ते वीराः पुनरपि स्वव्यवसायं पर्यपालयन्.

द्वादशो गुच्छः १६५ अत्रान्तरे तार्तरखाननामकः कश्चन शहाबुद्धीनस्य परमप्रियः सामन्तः स्वसैनिकैः समं घोरं युद्धं व्यतानीत्. स च महता जवेन पृथ्वीराजं रक्षतः सामन्तानिहत्य पृथ्वीराजसमीपमागच्छत्. स्वस्वामिन इमां दशामवलोक्य सर्वेऽपि क्षत्रियवीराः स्वामिरक्षार्थमा- गच्छन्. महंमदीया अपि तस्य सामन्तस्य साहाय्यार्थ. अति- समीपमागतान् यवनांस्तथा क्षीयमानवलान् क्षत्रियानवेक्ष्य खिन्न आत्मनो दैवं प्रतिकूलं मन्यमानोऽन्तिमं प्रयत्नं चकार पृथ्वी- राजः. पुनरपि महता वेगेन प्रचचाल युद्धवडवानलः. तार्तरखान- श्व क्षीणवलान्निहतसैनिकान् सामन्तान् - वीक्ष्य तीक्ष्णेन खड्गेना- वशिष्टान् स्वामिभक्तान् स्वर्ग प्रेषयित्वा प्रजविनाऽश्वेन त्वरितं समीपमागत्य पृथ्वीराजाश्वं प्राहरत्. सोऽपि स्वामिभक्तोऽश्वो भाविनी स्वस्वामिनः पृथ्वीराजस्य दुर्दशां द्रष्टुमसमर्थ इव तस्मिन्नेव क्षणे धरणितले निपपात. पृथ्वीराजोऽपि तेनोग्रेण यवन- सामन्तेन राहुणा सूर्य इव जग्रसे. एवं पृथ्वीराजं शत्रुसैनिकाक्रान्तं बन्दिनं निशम्यावशिष्टाः सर्वे क्षत्रिया यथाशक्ति युध्यमानाः समरान्न्यवर्तन्त. स च तार्तर- खानो महताऽनन्देन तं बन्दीकृतं संध्यासमयसूर्यमिव हीनतेजस्कं पृथ्वीराज स्वस्वामिनः शहाबुद्धीनस्य पुरतः स्थापयामास. शहा- बुद्धीनस्तु आत्मनो जन्म सार्थकं मन्यमानस्तं सामन्तं परं प्रशशंस. पृथ्वीराजस्तु सरलहृदयस्तं शहाबुद्धीनमाह. यवनपते ?अद्य खल्वहं दुर्दैवतो हीनशक्तिस्त्वदीयसामन्तेन धृत्वा बन्दीकृतः. त्वमपि मदीयैः सामन्तरेवमेव सप्तकृत्वो बन्दीकृतो मयैव मोचितः. तत्त्व- १६६ पृथ्वीराजचव्हाणचरिते मपि मां मुंच. अहं च पुनरपि स्वबलं वर्धयित्वा त्वया सह योत्स्ये. यदि त्वं मत्तः किंचिदपेक्षसे वित्तं तदा तदपि तुभ्यं प्रभूतं दास्यामि. इमौ तु जयपराजयो केवलं दैवस्य देवस्य वा लीलाविलासौ. यदा तदनुकूलं भवति तदा हीनवलोऽपि विजयते. यदा प्रतिकूलं तदा स पराजीयते. तत्सदैव परतंत्रेण मानवेन यथाशक्ति धर्मेणैव वर्तनीयं, एष च धर्मो वीराणां यच्छरणागतस्य मोचनं. उपकृत- वतश्च तादृशोपकारविधानेन स्वस्यानृण्यविधानं. तद्यथाहं त्वयि धर्मशीलोऽभवम् तथा त्वं मयि भवितुमर्हसि, इति. असमाप्तएव पृथ्वीराजस्य भाषणे स मूर्तिमानधर्मः शहाबुद्धीन आह राजन्? वयं च राजनीतिचतुराः. राजनीतिश्च तत्वज्ञानादत्यन्तं भिन्ना. पश्य-यदा हि कश्चन चौरः परस्य गृहं प्रविश्य तद्धनम- पहरति तदा सर्वेऽपि तं निंदन्ति. राजाऽपि तदाचरणं निन्द्यं मन्य- मानस्तं दण्डयति. परन्तु यदा कश्चन राजा सकलां स्वसेनामादाया- न्य देशमाक्रामति. तत्स्थांजनान् लुण्ठति तत्स्थाः प्रजा दासी- करोति तदा तं राजानं न कोऽपि चौरत्वेन व्यपदिशति. नापितं कोऽपि दण्डयति. प्रत्युत पराक्रमित्वन व्यपदिशन्तः स्तुवन्ति. यथाहि तत्वज्ञाने तथा न व्यवहारे वर्तनं श्रेयस्करं कस्याऽपि ! यूयं हि युद्धेऽपि धर्माचरणमावश्यकं मन्यमाना अस्माभिः पराजिताः. यदाहि अहं पराजितोऽभवम् तदानीमेव यदि त्वं राजनीतिमनुसृत्यावर्तिप्यथा- स्तदा नैवं प्रसंगमलप्म्यथाः. युष्माकं धर्मस्तदनुसारिणो यूयमपि मूढा एव. यथा च त्वं मां मुक्त्वाऽधुना शोचसि न तथाहं शोचिप्यामि. युद्धं स्यान्नाम युप्माकं धर्मो नास्माकं. वयं तु वणिज इव हिताहित- द्वादशो गुच्छा. १६७ विचारकुशला अन्यदेशाक्रमणार्थमेव योत्स्यामहे. तदधुना त्वां निनेत्रं विधाय मदीयं देशं नेप्यामि. इत्युक्त्वा च स कृतघ्नो यवनस्तस्य महानुभावस्य पृथ्वीराजस्याक्षिणी विदारयामास. वाचकाः? पश्यत खलु दैवस्य लीलां. योहि पृथ्वीराजः सम्राट् परमविख्यातं दिल्लीश्वरसिंहासनमशोभयत् सोऽयमधुना शत्रु. विदारितनयनो दीनवत् पटगृहे भूमितले निपपात. योहि शहाबुद्धीनः सप्तकृत्वोऽनेन पराजितः स तु धर्माचरणं तिरस्कृत्वोपकर्तुरेव नेत्रे विदारयामास. महाभागाः? एवं सर्व राज्यादिकं क्षणिकमिति प्रत्यक्षं पश्यन्नपि जीवोऽधर्ममाचरत्येव. अद्य तु पृथ्वीराजोऽपि नास्ति स शहाबुद्धीनोऽपि नास्ति. नापि तावस्माभिः प्रत्यक्षं दृष्टौ? केवलं वयं तैस्तैः प्रामाणिकैरितिहासकारैलिखितान् वृत्तान्तानेव पठामः, परन्तु तान् पठित्वा निःपक्षपातिनो वयं किं वदामः-इदमेव! यत्- कृतघ्नः शहाबुद्धीनः, उदारः खलु पृथ्वीराज इति. इदमेव पार्वण- चन्द्रमरीचिधवलं, सकलजनमुखसंचारि यावच्चन्द्रदिवाकरस्थायि, यशो लब्धं पृथ्वीराजेन. परिवर्तिनि जननमरणमये अस्मिन् संसारे यत् खलु सारं तदेतदेव. तन्मन्ये योहि शहाबुद्धीनो गर्वेण यदीयं धर्मा- चरणं निनिन्द तेनैव धर्माचरणेन शाश्वतं यशो लेभे पृथ्वीराजः. तस्मात्पृथ्वीराजेनैव कृत्स्नं लब्धमिति सत्यमेव. एतेन व्यवहारे राजनीतिचातुर्य प्रकटयन्तस्तत्वज्ञानेन नास्ति प्रयोजनमिति वदन्तो मानवापसदा निरस्ताः. तस्माद्येन केनापि मानवेन यस्यां कस्यामप्य- वस्थायां धर्माचरणं न हेयमित्येव सिद्धं. योहि सम्यगितिहासं पठेत् स एव जानीयादिदं सत्यं नवेति. आस्तामधुना किं गतशोचनेन. न १६८ पृथ्वीराजचव्हाणचरिते प्रकृतमनुसरामः. राजा जयचन्दोऽपि सत्वरं स्वजामातुः साहाय्यार्थ- मागच्छन् मार्गे सर्वं वृत्तमश्रृणोत्. स च प्रथमतः शहाबुद्धीनेन सदाविजयी पृथ्वीराजः पराजित इति न श्रद्धत्तेस्म, परन्तु समर- भूमेनिवृतैः पृथ्वीराजसेवकैरेव निवेदितकृत्स्नवृत्तः स्वकन्यायास्तथाऽ- न्यासां पृथ्वीराजस्य पत्नीनां क्षत्रियस्त्रीणां दुर्दशा माभूदिति सत्वरं दिल्लीनगरमभिलक्ष्य प्रचचाल. न तत्र तु स्वस्वामिनः पराजयं तथा बन्दिवासं निशम्य शोका- कुलाः सकला अपि पृथ्वीराजपत्न्यः समदुःखाभिरन्यक्षत्रियांगनाभिः समं वन्हिप्रवेशं कतु कामयमानाः सर्वं व्यवस्थापयामासुः. संयोगिता च स्वपतेन्दिवासं निशम्य वज्रेणेव मूनि निहता विगतचैतन्येव भ्रमपरा न किंचिदप्यचेष्टत. अत्रान्तरे राजकीयप्रासादे लाक्षाकर्पूरादीनां प्रज्वालकानां वस्तूनां राशीनिक्षिप्य सर्वेऽपि अवशिष्टा जना लुण्ठनेच्छया समा- गच्छतो यवनान् रोदुमग्रेसरा अभवन्. संयोगिता तु दासीभिर्बो- धितकर्तव्या सर्वासां स्त्रीणामग्रेसरा नाम भूत्वाऽवदत्. क्षत्रियकन्यकाः? अस्माकं रक्षकाः सर्वेपि क्षत्रियाः स्वकर्तव्यपालनपराः समरभूमौ त्यक्तदेहाः स्वर्गे युष्मान्प्रातिपालयान्त. यथा हि तैः स्वकर्तव्यं कृतं तथा वयमपि स्वकर्तव्यं कुर्मः. नारीणां हि परमं व्रतं पातिव्रत्यं. पति- व देवता नान्या देवता स्त्रीणामिति सर्वाणि शास्त्राणि वदन्ति. तद्यदि सा देवताऽस्मान्विहाय परलोकं गता तदा किमर्थमस्माभिर- त्रावस्थातव्यं? किंच- यथा हि क्षत्रिया अपरान् क्षत्रियान् वाऽन्यान् द्वादशो गुच्छः. १६९ वा विजित्य न तद्दारानाभिमृशन्ति न तथेमे मानवपशवो यवनाः. इमे हि गोमांसभक्षका अस्मान् दासीकृत्य भुज्या करिष्यन्ति. तत् क्षत्रियांगना यवनानां भुज्यात्वं स्वीकृत्य जीवन्तीति प्रवादमपहर्तु त्रैलोक्यपालक पवित्रस्याऽस्मद्विवाहस्य साक्षिणं वैश्वानरमेवाऽस्मत्पा- तित्रत्यरक्षणार्थमाश्रयामहे. अयं चाश्रयार्थ समागता नो न दूषयि- प्यतीति. तदानीमेव राजा जयचन्दः स्वसैनिकसमवेतो महता जवेन तत्राजगाम. तं च वीक्ष्य साध्वी संयोगिता नेत्रकमलनिपतदश्रु- क्लिन्नमुखकमला सकलसौभाग्यालंकारमण्डिता सत्वरमग्रे गत्वा पितुः पादकमले अभिननाम. बभाषे च. तातचरणाः? अहमस्म्य- भाग्या संयोगिता. जातमात्राया मम माता दिवमगच्छत्. ततश्च मातृस्थानापन्नैर्भवद्भिरेवाहं वर्धिता पालिता शिक्षिता च. अथ यौवनं प्राप्ता युप्माकं शत्रुभूतेषु दिल्लीश्वरेषु बध्दानुगगा युष्मानक्लेशयम्. निभृतं च गान्धर्वविवाहेन विवाह्य नाथन समं दिल्लीनगर- मागन्तुं प्रायते. तत्रापि बहवो वीराः पंचत्वमगमन्. अंते च तस्मिन्नपि वैरानले शांते विलासमग्नान् नाथान्विधाय राज्यरक्षणे सालसानकरवम्. ततोऽपि मान्यं हाहुलीरायं तथा विद्वांसं चंदकविं च दासीभिरताडयम्. ततएवेयमापत्तिः प्राप्ता. मया तु केवलं यूयमेव न पीडिता किंतु पतिचरणा अपि दुःखसागरे निक्षिप्ताः. तत्सर्वान्नपि युप्मान् क्षमायाचनपुरःसरमापृच्छामि.अहमस्मि वीरपत्नी वीरकन्या. तत्पवित्रयोर्ममोभयकुलयोर्योग्यमेवाचरिष्यामि इति. उक्त्वा चेत्थं स्वयं हस्तेन तस्मिन् स्फोटकद्रव्यराशौ वन्हि निक्षिप्य स्वयं तत्र प्रविवेश.

१७० पृथ्वीराजचव्हाणचरिते अचिरादेव स भगवान् वैश्वानरस्ताः सर्वाअपि क्षत्रियकन्यका आत्म- सात्कृत्वा दुष्टेभ्यो यवनेभ्यो ररक्ष. राजा जयचन्दः कन्यायास्तथा जामातुः पृथ्वीराजस्य स्थिति- मवलोक्य दुःखसागरमग्नोऽपि स्वराजधानी पालयितुं ययौ. शहाबुध्दीनस्तु पृथ्वीराजं विजित्य द्वितीयं क्षत्रियराज कनोजाधिपं जेतुं तमेव तार्तरखाननामानं सामन्तं प्रायुक्त. सोऽपि च महत्या त्वरया तं जयचन्दमनुधावन्नचिरादेव तं कनोजाधिपं मार्ग एव जग्राह. जयचन्दस्तु जामातुदुरवस्थां वीक्ष्य खिन्नः कन्यावियो- गानलदग्धः कथं कथमपि प्रायुध्यत. परन्तु तादृशोत्साहाभावात्सद्य एव पराजितः इत्थं सर्वत एव समागच्छन्तीनामापदां परंपरामवेक्ष्य दैवं प्र- तिकूलं मन्वानो जयचन्द आत्मानं गंगाजलेऽपातयत्. तस्मिन्नेव क्षणे सकलजनपावनी सा गंगा तं स्वोदराभ्यन्तर्व- तिनमकरोत्. एवं न केवलं दिल्लीनगरवासिनोऽनाथा अभवन्किन्तु कनोजनगरवासिनोऽपि. वाचकाः? ये खलु जगदिदं सत्यं मन्यन्ते तैरिदमुदाहरणं सम्यग्विचारणीयम्. स्वप्ने च जागृतौ च न कोऽपि भेद इति सर्वे -पि विचारशीला वदन्त्येव. जागृति म महास्वप्नः. अस्तु. एवं च निहतक्षत्रियराजेयं भारतभूईतपुत्रा विधवेव शोचनीयाऽभवत्.

द्वादशो गुच्छः १७१ इत्थं शहाबुद्धीनः स यवनराजस्तौ महापराक्रमशालिनौ पृथ्वीराज- कनोजाधिपौ निर्जित्य हर्षाकुलः स्वसेनासन्तोषार्थ दिल्लीप्रभृतीनि राजधानीनगराणि लुण्ठितुमादिदेश. ते च यवनसैनिकाः-स्वस्वा. मिन इमामाज्ञां निशम्य सानन्दा बुभुक्षिता वृका इव सुसंपन्नां, धनाढ्यवश्यकुलसपा तागाणतिद्रव्यशशि, दिल्लीनगरी प्रविश्य सर्वा- नपि दीनाननाधानगरवासिनो जनानसिलताबलीन्विदधतः सर्वत्र प्रलयमकुर्वन्. दयालेशविरहितास्ते ऽगणितान् मानवान् हत्वा- ऽवशिष्टान् सर्वान् हन्तुमशक्नुवन्तो दासांश्चक्रुः तत्रापि याः कुली- नास्तरुण्य आसंस्तास्तु बलात्कारेण पातिव्रत्यशीलाद्भशयन्तः स्वभु- ज्या अकुर्वन्. बहवश्च स्वकुलाभिमानिनो जनाः स्ववधूनां शील- हरणभिया प्रथमतस्ताभ्यो विषं वितीर्य स्वयमपि विषमयांश्चषका- नगृहन्. तेन च ते बहुषु स्थलेषु प्रेतानेवापश्यन्. क्वचिच्च मानि- जनैः प्रवर्तितयुद्धान् महाप्रसादानवलोक्य क्रोधान्धा वन्हिना तान् प्रसादान् प्रज्वालयामासुः. तेन च तेऽतरेव पुटपाकदशां प्राप्य जीवितं व्यसृजन्. क्वचिच्च निहतं कान्तमवलोक्य शोचन्ती तरुणी क्षत्रियकन्यकां बलात्कारेण दासकिर्तुं प्रयतमानास्ते यवनाः परस्पर- मेव हत्वा सर्वे यमालयं जग्मुः. क्वचिदर्धदग्धशरीराः, लावण्यपुत्त- लिका इव क्षत्रियकन्यकाः शीलभ्रंशमिया वन्हिं प्रविष्टा अवलोक्य सुतरां व्यस्मयन्त. क्वचिच्च नगरत्यागसमये स्वयं नेतुमशक्तैः प्रजाजनैरितस्ततः क्षिप्तान् सुवर्णालंकारानेव प्रेक्ष्य लोभाकुला भिक्षव इव तानगृहन्. वाचकाः! या खलु दिल्लीनगरी दिनद्वयात्पूर्व हीरक- परिपूर्णपणस्थितवणिक्, सकलधान्यपरिपूर्णविपणीका, राजसेवक- रक्षितसकलभागा, अनेकदेशागतव्यवहारिंजनसंकुला, सालंकृता १७२ पृथ्वीराज चव्हाणचरिते सनाथा वधूरिवाभात्, साऽधुना अनेकप्रेतराशिसमाच्छादितराज- रथ्याका, प्रज्वलत्प्रासादततिका, रोदनप्रचुरकल्लोला, रक्तस्रावसिक्त- सकलहा, निर्मनुष्यराजवीथ्याकः, सशस्त्रशत्रुजनसंकुला, भस्माव- शिष्टराजपत्नीसमूहा, अन्येव दीनबालेव, शौनकक्रीता धेनुरिव, अराजका यमपुरीव, भयंकरनिवासाऽभूत्. एवमेव ते यवनाः सुव्यवस्थितरचनं, अनेकबकुलपाटलीचंपकपा- रिजातादिवृक्षमण्डितारामसहस्र लंकृतं, विविधचित्रमण्डितागणितनौ- काविराजमानभागीरथीभूषितं. सुगंधितैलामोदप्रचुरं, कस्तू रकापरि- मलान्धभ्रमरगुंजास्ववाचालितं, उशीरादिसुगंधिद्रव्यमयापणं, सुवर्णा- लंकारालंकृतसकलशूद्रादिजनं, हीरकादिरत्नजातप्रभाभासुरं, कनोजा- दिकं नगरजातं विलुण्ठय यमनगरीसादृश्य प्रापयन्. एवमस्यां सकलसुखसम्पन्नायां भूमिगतस्वयमाणायां भार- तभुवि दैत्या इव घोराणि वर्तनानि विधायागणितां सम्पदं गृहीत्वा विजयीभूय स शहाबुद्धीनस्तं दुर्दैवव्याप्तं प्रज्ञानेत्रीकृतं क्षत्रियकेसरिणं पृथ्वीराज बन्दिनं गृहीत्वा महताऽनन्देन स्वदेशं ययौ. तत्र च स्वनगरे तं भारतवर्षसम्राजं सर्वेभ्यः स्वप्रजाजनेभ्यः प्रदर्य तस्य पादयोर्तिकठिना दृढा आयसीलोहशृंखला निधाय सूर्यकिरणैरस्पृष्टे, जलसंबंधक्लिन्नभूमिके, अतिविशालकुड्यपरिवृते, नग्नखड्गधारिभिर्विश्वासपात्रनिरीक्षकैःपरिपालिते कारागृहे लज्जारक्षण- पर्याप्त वस्त्रं वितीर्य तं पृथ्वीपतिं पृथ्वीराज न्यधात्.

द्वादशो गुच्छ:. १७३ पृथ्वीराजोऽपि धैर्यखनिर मनो दैवं प्रतीपं मन्यमानः सर्वमप्य- पमानजातं महता सन्तोषेणासहत. सर्वेऽपि परकीयाअपि सज्जनाः सार्वभौमस्य तस्य पृथ्वीराजस्येदृशी दुर्दशामवलोक्य सुतरामदूयन्त. परन्तु शहाबुद्धीनस्य क्रौर्यं जानन्तस्तूष्णीमतिष्ठन्. समये समये चातिखिन्नः स्मृत्वा कृत्स्नं पूर्ववैभवं समुत्पन्नवैराग्य आत्मानमपि हन्तुमैच्छत् परन्तु सकलकर्तव्याकर्तव्यसाक्षिणी सदसद्विवेकबुद्धिरेव तादृशात् घोरात् पापातं न्यवर्तयत्. (५) एवं गतसकलैश्चर्य क्षत्रियकुलमुकुटमणौ पृथ्वीराजे दोनवनि- झनीनगरे बन्दिशालायां निवसति सति ततआगतैर्व्यवहारार्थगतैर्व- णिग्भिनिंबोधितसकलराजवृत्तान्तः कविराजश्चन्दः सुतरां दुःखाय- तेस्म. यदा च पृथ्वीराजः समं चामुण्डरायप्रभृतिभिः सामन्तः शहाबुद्धीनेन समं योध्दुमगात्तदाऽयं चन्दकविर्भगवतीभवनं प्रविश्य तत्र भविष्यज्ज्ञानार्थ तपोऽतप्यत. तदानीं च भगवती स्वयमाविर्भूय सर्वमपि भाविवृत्तं कथयामास. तेन च दुःखाकुलः स चन्दकविः प्रथमतः कृतनमपि पृथ्वीराज- चरितं रसमय्या वाण्याऽलिखत्. स च ग्रंथो यद्यपि प्राकृतभाषायां लिखितोऽस्ति तथापि गीर्वाणवाणीग्रंथानप्यतिक्रामति. अस्तु. एवं पुण्यश्लोकस्य तस्य दिल्लीश्वरस्य चरितं लिखित्वा समा- तकृत्यः सर्वत्र प्रचरन् दिल्लीनगरस्य तथा तन्नागरिकाणां च दुरवस्था- मवलोक्य खिन्नो मनस्यकरोत्-अहो कालमहिमा : योहि केवलं १७४ पृथ्वीराज चव्हाण चरित खनाम्नैव शत्रनकम्पयत्. यस्य नाम श्रुत्वैव सर्वे रिपवः कांदि- शीका अभवन् , स च सम्राट पृथ्वीराजोऽधुना क्षुद्रस्याधर्मशीलम्य सप्तकृत्वः पराजितस्य गिझनीपतेः शहाबुद्धीनस्य बन्दी नाम भूत्वा कारागारमधिवसति. एतेनेदं सुनिश्चितं यत् कालप्रभावादेव हि सर्वे विजयन्ते पराजयन्ते च. एष एव शहाबुद्धीनः सप्तकृत्वः पराजितो. ऽपि पुनरपि दिल्लीश्वरं विजेतुं प्रयतमानो विजयी बभूवैव. तत्सर्वदा मानवेनोद्यमः करणीय एव. फलदाने च दैवमेव कारणं. साम्प्रतं तु अहमेकाकी न शहाबुद्धीनं जित्वा स्वामिनं मोचयितुं प्रभवामि. अधुना तु दिल्लीश्वरं मोचयित्वा पुनरपि सिंहासने तस्य स्थापना खपुप्पायते. अयं चावतारसमाप्तिकाल एवेति निश्चितं. भगवती- वचन नुरूपमस्मिन् भारतवर्षे क्षत्रियशासनं विनाश्य यवनशासन- मेव भवेदित्यत्र न संशयः. ममापि नास्त्यधुना जीवनस्यावश्यकता. तथापि यावत्पर्यन्तं मम स्वामी पृथ्वीराजः कारागारवासदुःखमनु- भवति तावत्पर्यन्तं मदीयाः प्राणा नोक्रामिप्यन्ति. तस्मादधुना गिझनीश्वरदर्शनाय मया गिझनीनगरं प्रति गन्तव्यं. तत्र गत्वा यदु. चितं तदेव कर्तव्यम्. कुटिलमतिर्गिझनीश्वरो मां हि पृथ्वीराजस्य परमं मित्रं जानन् कदाचिन्मामाप कारागृहे वासयेत् ? तदितो निर्गतेन मया पुनरपि दिल्लीनगरदर्शनाकांक्षा न करणी या. यत्खल्वत्र कर्तव्यं तत्कृत्वैव गिझनीनगरं प्रति गन्तव्यमिति. एवं विचार्य कृतनिश्चयः स चन्दकविः प्रथमं स्वोपास्यदेवतां भगवतीं संपूज्य दिव्यैस्तोत्रैस्तुष्टाव. सा तु प्रसन्ना स्वयमाविर्भूय चन्दकविमवदत्. वत्स चन्दकवे ! तुष्टास्मि. गच्छ गिझनीनगरं.

द्वादशो गुच्छः १७५ -- त्वदीष्टं सर्वमपि परिपूर्ण भविष्यतीति. भगवतीभक्तश्चन्द- कविर्भगवत्या इदं भाषणं निशम्य सन्तुष्टः परमादरेणावोचत्- मातः ! अत उर्ध्वमस्मिन् भारतवर्षे म्लेंच्छस्य शासनं भविष्यति. तत्त्वमपि अन्तर्हिता भव. एष चन्दकविश्च स्वामिचरणैः समं स्वर्ग- मागतस्त्वां पुनरप्यर्चयिष्यतीति वदन्नश्रुसिक्तपादकमलं प्रणिपत्य भगवतीमन्दिरस्य कपाटे पिधाय बहिराययौ. बहिरागत्य गिझनी- नगरं जिगमिषुः प्रथमतः संयोगिताप्रासादमाजगाम तदभिवादनार्थ चन्दकविः. आगत्य च तत्र भस्मावशेषां संयोगितां समीक्ष्य दुःखा- कुलो भूमौ निपत्य परमरोदीत्. विललाप च राज्ञि ! संयोगिते ! यद्यप्यहं त्वया दासीभिस्ताडितस्तथापि नाहं क्रुद्धः किंतु भगवति ! त्वां भूतलवासिनी देवतां मन्वानः सदैव नमस्कारोमि. राजकन्ये ! संयोगिते ! विरोधिनं पितरमप्यगणयित्वा त्वया खलु भारतललाम- भूतः पृथ्वीराजो वृतः. तत्र च बहवः क्लेशा अजायन्त. परन्तु धैर्यखनिस्त्वं तानसहथाः. ईदृशैः प्रयासैलब्धेन भूपतिना समं न चिरं विलाससुखान्यन्वभूः. परमात्मना चाकाल एव त्वं स्वर्गलोकं नीता. देवि संयोगिते ! त्वया तु प्रज्वालेऽग्नौ निक्षिप्य स्वशरीरं योगिनामाप दुर्लभो मोक्षः संपादितः परन्तु परममान्येन दिल्लीश्व- रेण विना कथमेकाकिनी स्वर्गेऽपि स्थातुं शक्नुयाः ! अयं चाद्यापि असमाप्तदेवभोगस्त्वदीयसंगतिलाभार्थमेवात्महत्यामकुर्वाण इहैव नार- कीर्यातना अनुभवति. ताभ्यस्तं मोचयितुमहं प्रयते. तन्मातः संयोगिते! असह्यमाप स्वपतिवियोगं किंचित्कालपर्यन्तं सहस्व! मदीयं आरंभे त्वं यशोदायिनी भवेति. विलप्य चैवं मूर्ध्नि निहिततत्स्थ- १७६ पृथ्वीराजचव्हाणचरिते भस्मा स चन्दकविर्महता जवेन कृत्स्नां दिल्लीनगरावस्थां विलोक्य संजातरोषस्तं गिझनीश्वरं शासितु कृतप्रतिज्ञो गिझनीं गन्तुं प्रच. चाल. मार्गे च स आत्मानं यवनमेव ख्यापयन् परिवर्तितवेषः सर्व बादरातिशयमनुभवन् कतिपयर्दिवसगिझनीनगरमाजगाम. गिझनीश्वरः शहाबुद्धीनोऽपि तस्य सर्वतोमुखी पुप्यस्य गन्ध- मिव प्रथममेव समागतां कीर्ति निशम्य तदर्शने संजातकुतूहलस्तं सादरं राजसभामा हयामास. चन्दकविश्च तावतैव सन्तुष्टस्तां राज- सभां गत्वा स्वविद्यया तं परमतोषयत्. सर्वेऽपि तत्रत्या विद्वांसस्तं चन्दकविं परमस्तुवन्. राजा शहाबुद्ध नोऽपि तेन सहकान्ते बहु समलपत्. ६} ग एकदाऽतिविस्तीर्णप्रवाहाया नद्यास्तीरे महति प्रासादे सुखे- नोपविष्टं विविधदेशवासिजनशौर्यमुद्धिश्य प्रलपन्तं तं यवनाधिप- मुवाच चन्दकविः-यवनराज ! युष्मदीया अत्रत्या जनाः शूरा एव तत्र न कस्यापि संशयः. परन्तु ते खडप्रहार एवं कुशला न तु बाणैर्लक्ष्यवेधने. तत्र तु क्षत्रिया एव कुशलाः. द्रोणाचार्यप्रभृतयो भारतवर्तिनः सर्वेऽपि बाणैलक्ष्यभेदने परं विख्याता आसन्निति महाभारतादिग्रन्थेभ्य एव ज्ञायते. इदानीमपि सन्ति सहस्रशः शब्दवेधिनः. ये खलु पिधायापि स्वनेत्रे केवलं शब्दं श्रुत्वा लक्ष्य- भेदं कुर्वन्ति. अहं तु मन्ये एतदलौकिकं बुद्धिकौशलमिति. तु द्वादशो गुच्छः १७७ यवनाधिपतिश्च तस्य भाषणं निशम्य समुत्पन्न कुतूहलस्ता- दृशं वीरपुरुषमानीय तस्य हस्तलाघवं द्रष्टुमुत्को बभूव. चन्दकविश्च पुनरपि जगाद-राजन् ! नास्ति त दृशवीरपुरुषस्य सौलभ्यं. परंतु किमर्थं दूरान्वेषणा ! मया तु श्रुतं 'बन्दीकृतः पृथ्वीराजो ऽत्र निवसति ' इति. स चाद्वितीयो धनुर्धर इति समस्तभारतवर्षे विख्यातं, तत् स एवाव्हनीयः. स चार्जुन इवादृष्टचरं वेधकौशलं दर्शयिष्यतीति. अथ शहाबुद्धीनं तु पृथ्वीराजनामश्रवणमलिनकान्ति चिन्तातुरमवेक्ष्य चन्दकविः सत्वरमवदत्-यवनाधिप ! स आहूत आगच्छेन्नवेति न शंकनीयम्. क्षत्रियाणामेष नियमो यत्ते समाहूताः शरक्षेपार्थं कदापि न निवर्तन्ते. किंच-स एतावान् बली यदेकेनैव बाणेन दशातिस्थूलानि लोहपात्राणि भिनत्ति. यदि भवान् स आहूतोऽपि नागच्छेदिति मन्यते तदाऽहं तमत्रागन्तुं विज्ञापयिप्यामि. अस्ति तु मम वाक्सामर्थ्यमिति. शहाबुद्धीनस्तु तत् सर्वमंगीकृत्य तथाकर्तुं तं चन्दकविमन्व- मोदत. चन्दकविस्तु तावतैव सन्तुष्टस्तस्य कारागारवासिनःपृथ्वी- राजस्य दर्शनार्थं ययौ. न तु - अचिरादेव दृढायसयष्टिपिहितवातायने, प्रस्तरमयभूतले अति- विरलप्रकाशे, निर्मनुष्ये, शस्त्रिकगणरक्षिते, भोजनमृण्मयभाण्ड- मण्डिते, मलमूत्रविसर्जनार्थं स्थापितापरलोहभाण्डे, यमागार इव कारागृहे निवसन्तं, अतिकृशगात्रयटिं, असंस्कृतकेशपाशप्रवृद्धयूका- सहस्रसाबाधं, अतिप्रवृद्धरोमभीषणं, नाशितदृष्टितया कुड्याघातविषम- १७८ पृथ्वीराजचव्हाणचरिते विशालभालफलकं, पादनिहितशृंखलासंबंधिशृंखलान्तरव्याप्तकण्ठं, अतिमलिनोर्णाम यवस्त्रयुगलं वसानं, अतिगंभीराकृतिं सुप्तं सिंहमिव महाराज पृथ्वीराजमपश्यत् चन्दकविश्च तादृशीं तस्य सार्वभौमस्य स्वामिनो दुरवस्था- मवलोक्य सततनिपतद धाराक्रान्तलोचनो दूरीभूते एव निरीक्ष- काध्यक्ष सति तत्पादकमले स्वहस्ताभ्यां धृत्वा प्रणिपपात. जगाद च सगद्गदं-नृपराज ! पृथ्वीपते ! अहमस्मि नीचो भवतो दास- श्चन्दकविः. वयं च परमपापिनो यदस्मासु जीवत्सु स्वामीदृशं दुःख- मनुभवति. नाथ ! क्व चायं ते बन्दिवासः, कव च दिलं श्वर- सिंहासनं. स्वामिन् ! किमपराध्दमस्माभियदित्थमम्मदुपरि परमात्मा कुपितः! क्षत्रिय कुलमुकुटमण? त्वयैव स्खलु सप्तकृत्वोऽयं यवनराजो जितो मुक्तश्च, परन्तु दुर्दैवतः प्राप्तपराजयं त्वामयमेव कृतघ्नः पापी शहाबुद्धीनः कथं वर्तयति. अयं च प्रमत्तो गिझनीपति- रवश्यमवास्य दुराचरणस्य फलं मोक्ष्यत एवेति. पृथ्वीराजश्च तं प्रत्यभिज्ञाय महतोत्सुक्येन प्रसारितभुजयुगलः परमानन्देनाश्लिषत्-उवाच च कविश्रेष्ठ ! नात्र शोकस्यावसरः. मानवो हि परमात्मना प्रचालितस्य संसारघटीयंत्रस्य भाण्डायित उन्नतिं लब्ध्वा मोदतेऽधोगतिं प्राप्य शोचति, वस्तुतस्त्वयं परतंत्र एव. अहं चास्मिन् म्लेंछदेशे स्थित्वा निर्विष्णोऽस्मि. नात्र कोऽपि मामकीनः. ईश्वरेच्छया मम सुखसाधने नेत्रे अप्यपहृते. तेनैव करुणात्मनाऽधुना त्वं प्रेषितः. तत्कथय किमर्थमत्रागतो भवान्. किमाश्रयाभावाद्मिनीपति सेवितुमिति.

द्वादशो गुच्छ:. १७९ पृथ्वी राजस्येदं साकूतं भाषणं निशम्य क्रुद्धश्चन्दकविः सत्वर- भाह-राजन् ! यद्यप्यस्मि अहं निराश्रयस्तथापि परमात्मानं विहाय नान्यं सेवितुमिच्छामि, नहि मानससरोविहारी हंसः पल्वलं प्राप्य जीवति मोदते वा! अहं तु अत्रागतः स्वामिनो दुरवस्थां दूरीकर- णाय. तदिदं क्लेशदूरीकरणं न तस्य यवनराजस्य कृपां संपाद्य किंतु वैरनिर्यातनेन. तच्चेत्थं-राजा शहाबुद्धीनो बाणेन लक्ष्यवेधं द्रष्टुमिच्छति. तत्र च पारंगतः स्वामी. श्वः खलु स्वामिनो हस्त- लाघवं द्रष्टुं प्रासादवातायने सर्वेः सामन्तैः सममासनमुपविष्टः शहाबुद्धीन उच्चैः स्वामिनं प्रोत्साहयेत्. तदानीमेव शब्दवेधकुशलः स्वामी वैरं निर्यापयतु. आवामपि तदानीमेव स्वर्ग गमिप्याव इति. राजा च चन्दकवरिदं भाषणं निशम्य विस्मितोऽवदत्-कविवर्य ! यत्त्वयोक्तं तत्सर्वं योग्यमेव तथाप्ययावधि ये खलु युद्धप्रसंगाः कृतास्तेषु कोऽपि अनवधानो न हत इति न रोचते मह्यमेष वैरनि- यातनमार्गः. कोहि जानाति कियकालमहं जीवामि. क्षणभंगुरेऽस्मिन् संसारे मानवेन सदाचरणमेव कार्य. किं न स्मरसि मयैव राज्यमदां- धमतिना कृतानि कयमाषवधादीनि कुकृत्यानि. तदिदमकृत्यं कतु न मे शक्तिरस्तीति. चन्दकविश्च तस्य मुनिवरस्येवेदं भाषणं निशम्य सन्तुष्टोऽपि पुनर्जगाद-राजन्! किमिदानीं त्वं संन्यासी संवृतः! त्वं हि न क्षत्रियः! स्ववैरनिर्यातनाय नाहमित्थं ब्रवीमि किंतु जगति पापप्रवृत्ति रोएं. त्वयि पराजिते सति पश्चाद्विजयमदमत्तैर्यवनः कीदृशमाचरितं तन्न जानाति भवान्. इयं हिं शान्तिर्विप्रस्य शोभते नतु क्षत्रियस्य. अन्यथा १८० पृथ्वीराज चव्हाणचरिते मृगयाकरणमपि पापमेव स्यात्. तस्माजगति अधर्मपतिबंधार्थ निर्मि- तया क्षत्रियजात्याऽवश्यमेव स्वकर्तव्यं करण यमेव. किं त्वं नानुभवसि स्वयमेव शहाबुद्धीनस्य कैय. इमे अक्षिणी एव तं निर- तिशयं पापिनमधार्मिक दर्शयतः. तदवश्यं स्वामिनेदमनुष्ठयमेवेति. पृथ्वीराजश्च क्लेशखिन्नः शारीरिकी व्यथामसहमानस्तदीय भाषणमंगीचकार. चन्दकविश्च तदाज्ञां गृहीत्वा स्वस्थानमाजगाम, परेधुरातिविस्तीर्ण, अनेराजपुरुषनिवारित जनसमूह, अतिविशालम्य राजप्रासादस्यांगणं सर्वोऽपि जनसमूहम्तत्पृथ्वीराजस्यालौकिक हस्तलाघवं दिदृक्षुः प्रचचाल. शह बुद्धीनोऽपि स्न त्वा भुक्त्वा च विस्तीर्णायामट्टालिकयां परिस्थापिते नग्नासिलताभूषितकरैभाषणैः सेवकैः सुरक्षिते राजसिंहासने सभं सामन्त चक्रयालेन शीघ्र- भवागत्योपाविशत्. अथ भयंकरैः सादिभिः परिवेष्टितः, गोयुगव ह्ये शकटे स्थितो नेत्रविहीनो वन्यगजइवोत्पाटितदंष्ट्रः सिंह इव गदाविहीनो भीम इव सम्राट पृथ्वीराजस्तस्थलमाजगाम. सर्वे च द्रष्टारो जनान्तं नरशार्दू प्रेक्ष्य विस्मता विष तदर्शनेनादुःख यन्त. समल- पंश्च परस्परं ' नैष महाभागो राजेश्वर ईदृशी विपदमह त ' इति अस्तु. पृथ्वीराजश्च राजाज्ञानुसारेण भूमावयतारितः स्वयोग्यं धनु- इन्वेषयति स्म. बहुषु चापेषु ज्याबन्धनमप्राप्यैव त्रुटितेषु सत्सु द्वादशोगुच्छः १८१ पाध्यक्षो राज'नुमत्या नदीयमेव धनुस्तस्मै ददौ तच्च गृहीत्व सन्तुष्टः । पृथ्वीराजः शृंखलाभारमसहमानः कथंकथमप्युत्थाय तस्थौ. न चन्दकविश्च तदानीं गिझनीपतिमाह-राजन् ! एष पृथ्वीराजो यद्यपि तव शत्रुस्तथाप्यधुना केवलं तदीयं हस्तलाघवं द्रष्टुमसाव- त्रानीतः तदधुना शृंखलाबन्धनं किमर्थं ! अनेन महता शृंखला- भारेणभुग्नग्रीवः स लक्ष्यवेधमपि न सम्यक् कर्तुं शक्नोतीति मन्ये. तदपनयनाय शृंखलाभारस्य स्वसेवकानाज्ञापयेति. शहाबुद्धीनस्तु तदीयं वलं तथा भव्यामाकृतिं विलोक्य भीतः कपटमतिराह-कविश्रेष्ठ ! अलं भीत्या. एष महावल: पृथ्वीराज. स्तावन्तमपि भारं वहल्लीलया लक्ष्यं विध्यात्तदधुना लक्ष्यवेधार्थ तमाज्ञापयामीति. चन्दकविपि कुटिलमिदं तस्य प्रत्युत्तरं निशम्य संतप्तोऽपि बहिः सन्तापमप्रदर्शयन् राजानमुवाच यवनराज ! अयं पृथ्वीराजः कृशः संवृत्तस्तेन सम्यक् न श्रृणोति. तदहं तस्य समीपे तिष्ठामि. शहाबुद्धीनोऽपि तमनुमुमुदे. अथ सज्जीकृतचापं तं पृथ्वीराजमवलोक्य शहाबुद्धीनः सोत्साहमाह. भो पृथ्वीराज! एष तव सेवकश्चन्दकविस्त्वमद्वितीयो धानुष्क इति त्वां स्तैति. अहं तु न विश्वसिमि. नैवं चेन्मदीयं कण्ठनालमालक्ष्य त्वया मुक्तः शरो विफलः कथमभूत्. तस्मात् सर्वेषां प्रेक्षकाणां पुरत एव पकटय हस्तलाघवं. इमे च लोहमयाः खण्डा इति. पृथ्वीराजस्तु रणधुरंधरो - दैवविपरीतगतिस्तदीयमिदं १८२ पृथ्वीराजचव्हाणचरिते भाषणं निशम्य क्रुद्धः प्रथमतो ज्याध्वनिमकोत्. तेन भयंकरेण ध्वनिनैव सर्वे प्रेक्षकाःसशस्त्रा निरीक्षकाश्च बिभ्युः. शहाबुद्धीनस्तु तं धनुषो भयंकरं ध्वनिं स्वप्राणानपहरतः कालस्याट्टहासध्वनि- मेवामन्यत. अथं पृथ्वीराजः क्षणादेव विपरिवर्तितमुखो ध्वनिश्रवणादनु- मितराजस्थानस्तस्य दुगत्मनः स्वशत्रोः कण्ठदेशमभिलक्ष्यातितीक्ष्णं विषदिग्धमुखं बाणं व्यसृजत्. सर्वे च प्रेक्षका लोहपात्रनिहितनेत्रा अज्ञातपृथ्वीराजविपरिवर्तना आसन्. स च वाणो निमिषार्धा- दुच्चसिंहासनाधिवासिनः शहाबुद्धीनस्य कण्ठदेश भित्वा दूरं ययौ. अपतच्च तस्मिन्नेव क्षणे स्वकर्मार्जितलोकं गतस्य तस्य यवनराजस्य शरीरं धरणीतले. अकस्मादेव तं सिंहासनात्परिपतन्तमवलोक्य मूढा जनाः केवलं तं मूच्छितमेवामन्यन्त. परिचारकरोदनध्वनि- माकर्ण्य विदितस्वराजदेहपाताः सर्वेऽपि ते यवना अत्यन्तपक्रुध्यन्. स्वासन्निप्कोष कृत्य तं पृथ्वीराजं तस्य साहाय्ययितारं चन्दकविं च हन्तुमघावन्. चन्दकविश्च सावधानस्तं निपतन्तं शहाबुद्धीनमव- लोक्य कृतकृत्यं मन्वानः पृथ्वीराजस्य सन्निधिं गतस्तदीयकर्णे शनै- रात्मोद्यमस्य साफल्यं बोधयित्वा तं समतोषयत्. त्वरितमेव त वुभावपि वैरनिर्यातनन जन्मनः साफल्यं मन्वानौ नग्नाभ्यामसिभ्यां परस्परं प्रहृत्य देहावत्यजताम्. तास्भिन्नेव क्षणे स्वर्गादवणे विमाने कृत- प्रवेशौ तौ मर्त्यलोकनिवासं विहाय परलोकमगच्छताम्. केचन यवनराजपक्षपातिनो जनास्तावनिन्दन्. केचन दाक्षिण्येन तावस्तुवन्. केचनार्याणां भारतवासिनां बाणक्षेपे हस्तलाघवमभ्यनन्दन्.

द्वादशो गुच्छा. १८३ (७) वाचकाः! महाभागाः! इदानीं समाप्तमेव पुण्यश्ले कस्य पृथ्वीराजस्य चरितम्. सम्प्रति तु अवसरप्राप्तं गुणदोषविवेचनं संक्षेपतः करोमि. तद्धयत्यावश्यकं. यतो यानीमानि आख्यायिका- रुपेण वेतिहासरूपेण वा लिखितानि पुण्यमानवानां चरितानि सन्ति, तेषामुद्देशो लोकशिक्षैव. एवंरीत्या महतः क्लेशांल्लब्ध्वापि अन्ते सुखी बभूव स धार्मिको नृप इतीतिहासपटनेन नवीनानां मनसि विश्वासो जायते. स्खलितप्रदर्शनेन तानि नूतनो जनो यत्लेन परिहरति गुणांश्च गृहाति. सज्जनाः ! अस्मिज्जगतीतले के वा न समुत्पन्नाः के वा न मृताः ! इह भारतवर्षे बहवः खलु साधवः शूरा अलौकिकानि कर्माणि कृत्वा दिवं गता इति सत्य, तथापि पृथ्वीराजचरितमन्या- दृशमेवाभाति. तथाहि अस्मिन्नलपीयसि चरिते सर्वा अवस्थाः प्रतिबिंबिताः, ता विलोक्य सर्वं खल्विदं मानवजीवितं दैवायत्त- मिति मन्वानो मानवो न पापाचरणे प्रवर्तेत. स्वावस्थासु अखण्डा- त्मविचारणैव मानवस्य पापाचरणरोधिका. सा चास्मिन्चरिते प्राधा- न्येन दरीदृश्यते. कथं चैतत्तद्वयं पश्यामः-- अस्मच्चरित्रनायकः पृथ्वीराजः खलु अजमीरापरनामधेयस्य द्रोणगिरिराजस्य पुत्र इति मया पूर्वमेव कथितं. तच्च राज्यं नाति. प्रबलमिति तत्त्यागादेव ज्ञायते. एवं च पृथ्वीराजो हि न कस्य- चित् क्षुद्रस्य कुले लब्धजन्मेति यद्यपि सत्यं, तथापि स जन्मत ९८४ पृथ्वीराजचव्हाणचरिते एव कस्यचित्सार्वभौमस्य पुत्र इत्यपि न. ततश्च जन्मतः स साधारण एवासीदित निर्णीतम्. अथ यदा तदायो मातामहो दिल्लं श्वरोऽनंगपालः स्वयमनपत्यस्तस्मै दौहित्राय दिल्लं राज्यं समर्प- यामास तदा स बभूव. तावत्पर्यन्तं स महानि कण्य. करोदित्यपि मया पूर्व निवेदितमेव. अयं च कालः पृथ्वीराजस्यो- दयकालः. यथाहि प्रभाते सूर्य उदेति तथैव पृथ्वीराजः सोमेश्वराल्ल- व्धजन्मा क्रमण वर्धमानो दिल्लीराज्यं प्राप. सार्वभौमो अथ दिल्लीराज्यप्राप्तिप्रवर्धितैश्वर्यः पृथ्वीराजो यानि परा- क्रमकृत्यानि चक्रे संयोगिताहरणविलासपर्यन्तानि सोऽयमस्य मध्य- कालः. अस्मिन् समये चैश्चर्येण समं तस्य मदोऽपि ववृधे. स्वाभाविकमपीदं. रजोगुणप्रधाना हि क्षत्रियजातिः. अतएव स स्वमित्रमपि चामुण्डरायं तथा कयमाषामात्य स्वयमेवादण्डयत्. केवलं संयोगितासंपादनार्थ सहस्रशो मानवानघातयत्. यदा हि शहाबुद्धीनेन समं युध्वा लब्धपराजयः पृथ्वीराजो नानाविधा आपत्तीरनुभाव्य वैरनिर्यातनं विधाय दिवं जगाम सोऽयं कालस्तस्य चरितस्य चरमकालः, चरमसमये स स्वस्थचित्तोऽपगत- मदः स्वात्मनिष्ठोऽभूत स एवं चोपरिदर्शितरीत्या पृथ्वीराजचरिते सर्वा एवावस्था दृश्यन्ते. पृथ्वीराजे प्राधान्येन गुणः सरलता निष्कापत्यमासीत्. स चैतावानासीद्यद्योभूयः प्रकटितशत्रुभावं गिझनीपतिं शहाबुद्धीनं जित्वाऽमुंचत्. न प्राणैर्व्ययोजयत्. अयं सरलतागुण एव दोषो- द्वादशो गुच्छः. १८५) ऽभूत. अस्तु. अपरो गुणो दीनदयालुता. इच्छिनीकुमायः कृपा- याचकं पत्रं वीक्ष्य तस्मिन्नेव क्षणे स तस्याः साहाय्यमकरोत्. तस्मिन् शौर्यमपि निरतिशयमासीत्. तदेतत्संयोगितानिवास- भवनान्निर्गतेनैकाकिना तेन सर्वे निरीक्षका निहता इत्यादिभ्यः कथाभ्यः स्फुटमेव. वाचकाः ! प्रायः इदं जगतीतले दृश्यते यद्ये खलु शूग विद्वांसो वा सन्ति न ते विलासिन इति परन्तु पृथ्वीराजः खलु परं शूरोऽपि विलासी आसीत्. बहव्यो राजकन्यका स्तस्य विलासकौशलेन मोहितास्तमकामयन्त. तथैव स दानशूरोऽपि. सज्जनाः ! बहुधा जना स्वदोषमपन्हुवाना गुणानेव प्रदर्श- यन्ति तेन सहसा दोषा लोकलोचनपथं नायान्ति. परन्तु लोकशि- क्षणार्थ प्रयतमानेन प्रथमतो हानाथ दोषाः कथनीयास्ततश्च गुणाः. अत्र तु प्रथमतो मया श्रीपृथ्वीराजस्य गुणा एव निरूपितास्तत्र कारणमादरातिशयः. तथाप्यधुना दोषा निरूपणीया एव. पृथ्वीराजे प्राधान्येन दोषः--विषयासक्तिगया च. तत्र तस्य विषयासक्त्या कियती हानिरभूदित्यत्र हाहुलीरायवृत्तान्त एव प्रमाणं. राज्ञो हि विषयोपभोग आवश्यकः परन्तु नात्यन्तं. स एव प्राधान्येन सेवितो राजधर्म दूषयति. एवं मृगयाऽपि. पृथ्वं राजश्व यदा दुर्वाससः शिष्येण चक्षुःश्रवसा शप्तस्तदा तेन द्वादशमासेभ्य ऊर्ध्व अयं शापस्ते फलदो भविष्यतीत्युक्तोऽपि न किमपि मनसि वैराग्यं धृत्वा स्वकर्तव्यपालने तत्परोऽभूत् प्रत्युत संयोगितया समं चिरं विललास.

१८६ पृथ्वीराज चव्हाणचरित द्वितीयो दोषोऽविचारिता. पृथ्वीराजश्च कुतश्चिदपि कारणात्सं- तप्तो नष्टसदसद्विवेकबुद्धः सहसा नाना कुकर्माण्यकरोत्. अत्र च प्रमाणं-चामुण्डरायस्य शस्त्रत्यागः. चामुण्डरायस्तु महाबलः पृथ्वी- राजस्य श्याल एवासीत्. तथापि कोपातिरेकेण स शस्त्रं त्याजित एव. कयमाषामात्यस्य तु कथा हृदयविदारणी निःसंशयमुपरि कथितं दोषमेव द्रढयति. महाभागाः ! पाठकाः ! एवंरीत्या तस्यास्मचरित्रनायकस्य दोषा गुणाश्च कथिताः. सम्प्रति उपसंहरामि. यद्यप्येते स्युर्नाम तस्मिन् क्षत्रियमुकुटमणौ पृथ्वीराजे दोषाः. एकान्ततो हि दोषाभावः परमात्मन्येव नतु मानवे, तथापि पृथ्वीराजसमयेऽस्मत्पूर्वजाः सुतरां सुखिन आसन्नित्यत्र न संशयः. अधुना वयं गुणवत्याप राजनि भारतवर्ष शासति सति दुःखयामहे. अस्य वैषमस्य कारणं देवो वा दैवं वा यत्स्यात्तत्प्रणम्य पुनरप्यस्मिन् भारतवर्षे भारतवासिजनेषु पृथ्वीराजस्य धैर्य, चामुण्डरायस्य शौर्य, कयमाघस्य दाक्षिण्यं साव- धानता च, संयोगिताया गुणानुगगित्वं, चन्दकवेः स्वामिभक्ति. विद्वत्ताचेत्यादयः सर्वे गुणाः प्रकटीभवन्तु इति परमात्मानं याचित्वा विरमामि. H

No text on this page.

Prithviraj Chauchan Charitam

Author
Shastar Pada
Title
Prithviraj Chauchan Charitam
File name
Prithviraj Chauchan Charitam
Text
OCR done
Published
2012
Publisher
Prabakar Sadashiv Chiney, Shree Gajanana Printing Works , Indore
Language
Sanskrit
Pages
192
Library
S.P College, Srinagar
Classification
Language. Linguistics. Literature
DLI number
242023
Barcode
99999990879671.00
Scanning centre
Allama Iqbal Library, University of Kashmir
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
c9uRAMQw6Sz
Download PDF

Prithviraj Chauchan Charitam