Ou

Kaashikaa Vivarand-a Panj-jikaa Bhaaga Iv Vol I

Buddhi Jinendra

PDF Proofread

Front matter

ไ963)

UNIVERSAL
LIBRARY
OU_184629
LIBRARY
UNIVERSAL

OSMANIA UNIVERSITY LIBRARY
Accesiidi Ww. S 1161
Call No. S491.25
J61k
Author
जितेन्द्र जूदित
काशिका विवरण पाण्जका
Title
१९१३
Vol.s. Part. l.
This book should be returned on or before the chier les marked bolulis

No text on this page.

No text on this page.

No text on this page.

न्यासापरतानी
काशिकाविवरणपञ्जिका।
श्रीबोधिसत्त्वदेशीयाचार्य जिनेन्द्रबुद्धिपादविरचिता ।
शास्त्रि श्रीश्रीशचन्द्रचक्रवर्तिभट्टाचार्येण संम्हाता ।
THE
KASIKA VIVARANA PANJIKA
OR THE NYASA.
A COMMENTARY ON TIIE KASIKA.
RY
TIE GREAT GRAMMARIAN JINENDRA BUDDHI.
FDITED
WITH OCCASIONAL NOTES.
BY
SRISH CHANDRA CHAKRAVARTI B. A.
SSOR OF SANSKRIT, RAJSHAHI COLLEGE, RAJSUAIII, BENGAL.
D BY THE VARENDRA RESEARCH SOCIETY OF RAJSHAHI
ICAT.

PRINTED BY M. BATTACHARYYA, AT THE BHARAT MUUR PRESS, 25, ROY BAGAN STREET, CALCU ITA.

न्यासापरनाम्नौ काशिकाविवरणपञ्जिका। । प्रत्याहारसूत्राणि। जयन्ति ते सदा सन्तः सवथा यैकपार्जितम् ।। गुणानां मुमहद् वृन्दं दोषाणां च विमार्जनम् ॥१॥ (A) अन्यतः (B) सारमादाय कृतैषा काशिका यथा । वृत्तिस्तसमा यथाशक्ति क्रियते पञ्जिका तथा ॥२॥ वृत्तावित्यादि । अथ किमर्थः काशिकारम्भे ऽस्य श्लोकस्योपन्यासः ? तस्यामगौरवपरिहारार्थी गौरवप्रतिपादनार्थश्च । अत्र ह्यसति प्रागन्यासु वृत्तिषु रचितासु पशादियं रचितति पुनरुक्ततादोषं सम्भावयतां तस्यामगौरवं स्यात् । नतु गौरवम् । अस्मिंस्तु सति न भवत्येष दोषः । यस्मादनेन स विशेष स्तस्या आख्यायतें सम्यगशेषशब्दव्युत्पत्तिहेतुर्यस्मिन् सति पुनरुक्तता- दोषसम्भावना ऽगौरवहेतु न भवति। गौरवं चोत्पद्यते । स पुनर्विशेषो वृत्त्या- दिषु विप्रकीर्णस्य तन्त्रस्य यः सारसंग्रहस्तद्युक्तता । नचासौ प्राच्यासु वृत्तिषु मम्भवतीति कुतः पुनरुक्ततादोषसम्भावना । तस्यां चासत्यां नागौरवं भवति । किं तर्हि ? पूर्वोक्ताद विशेषाद् गौरवमेव । तत्र च वृत्तिः पाणिनिप्रणीतानां (A) The Bengal MS. gives the stanza as:- जयन्ति ते सदा सन्त: स व्वोया येरुपाजितम् । गुणानां सुमहहन्द दोषाणान्त विवर्जितम् ॥ In which सचम्म हिता: मायाः is by the वार्तिक -"साम्मस्य वा वचनम्"--under the rule सबपुरुषाभ्यां गढी ( 5. I. I0). पण्डित वालशास्त्री quotes it, in the preface to his edition of the काशिका, as:-- जयन्ति ते मदा मन्तः सर्वोपायें पार्जितम् । गुणानां सुमहद वन्दं दोषाणां परिमार्जनम् ॥ (B) अन्यतः सारमादायेत्यव सर्वतः मारमावष्य ति पाठान्तरम् । .

२ न्यासः । सूत्राणां विवरणं चूनिभटिननुरादिविरचितम् (C) । भाष्थं कात्यायन- प्रणीतानां वाक्यानां विवरणं पतञ्जलिप्रणीतम् । तथेति समुच्चये । धातुनाम- पारायणादिषु चेत्यर्थः । अथवा सादृश्ये । यथा वृत्त्यादी विप्रकोणस्य तन्त्रस्य सारसंग्रहः क्रि । तथा धातुनाम पारायणादिष्विति यावत्। धातवो भूवादयः । नामानि प्रातिपदिकानि। तेषाम् पारं पर्यन्तं निष्ठामयन्ते गच्छन्ति याभ्यां शास्त्राभ्यां ते धातुनामपारायणे | पारायणशब्द: प्रत्येक मभिसम्बध्यते । धातु- पारायणं नामपारायणञ्चेति । ते आदी येषामिति बहुव्रीहिः । आदिशब्देन शिक्षादीनां ग्रहणम् । विप्रकीर्णस्येति । विक्षिप्तस्य विस्तारितस्येत्यर्थः । तन्त्रस्य व्याकरणशास्त्रस्येत्यर्थः । तद्धि तन्वमिव तन्त्रम् । दैयेण प्रसारि- तास्तन्तवस्तन्त्रमित्युच्यन्ते । यथा तदनकस्य तिरश्चीनस्य तन्तोरनुग्राहक तथेदमप्यनकस्य लक्ष्यम्येति । एतदस्य तन्वेण साधर्म्यम् । अथवा तन्वान्ते व्युत्पाद्यन्ते शब्दा अनेनेति तन्वं व्याकरणम् । अनेकार्थत्वाद्धातूनां तत्रि कुटुम्बधारण इत्येष धातुरत्र व्युत्पादने वर्तते। अथवा तन्वं मिद्धान्तः । तन्त्र प्रधाने सिद्धान्त इत्यमरः (D) सारसंग्रह इति । सारशब्दोऽयं नपंसकलिङ्गो न्यायादनपने वर्तते तथा चाचर्चा दषु २।४।३१। वक्ष्यति सारशब्द उत्कर्ष पुंलिङ्गो न्यायादनपते नपुंसक इति । समक् समन्ताद्दा रह्यते लक्ष्यं लक्षण- चाननेति संग्रहः । ग्रहट्टनिश्चिगमश्चेति । ३।३।५८ । करण ऽप् । सारज्जामौ संग्रहश्चेति सारसंग्रहः । म पुनरयमेव काशिका ख्यो वृत्तिविशेषः । अत्र सारशब्देन निर्दोषतोद्भाविता। नहि सदोषस्य शास्त्रस्य न्यायादनपतत्वमुपपद्यते । न्यायेन (C) चूनिभट्टिनिन रादिविरचितम् । भाष्यं वररुचिप्रणीतानां वाक्यानां विवरण मिति वङ्गीयपुस्तके पाठः। But who are these commentators ? श्रीपति, in his कातन्त्रपरिशिष्ट, often speaks of a grammarian of the name of चूर्णि। हरदत्तमिथ in his पदमञ्जरी explains सूत्रार्थप्रधानी ग्रन्थो वृत्तिः। सा चेह पावनिप्रणीतामा स्त्राणां कुणिप्रभृतिभिराचार्यविरचित विवरणम् ।” कैयट, in his commentary on the aphorism एङ् प्राचां देश ( १।११७५ ), also says भाष्यकारस्तु कुणिदर्शन मशिश्रियत्। Is चूल्लि of the Poona MS, चून्नि of the Bengal one, कुगि of हरदत्त and कैयट and चूर्णि of श्रीपति and others, the same ? Is भट्टि the poet दि who is renowned for his काव्य ? (D)[अथवा to इत्यमरः is found only in the Deccan MS. obtained from Poona and not in the Bengal one. -So it cannot safely be asserted that मिनेन्द्र quoted अमर. ---- ।

प्रत्याहारः। my तस्य बोध्यमानत्वात्। संग्रहशब्देनापि गुणवत्ता ख्याप्यते । नधन्यथा सम्यक् सर्व लक्षणं लक्ष्यचानेन शक्यते संग्रहीतुम् । के पुनरत्र गुणाः । इष्ट्युपसंख्या- नवत्त्वम् । शुद्धगणत्वम् । विवतगूढसूत्रार्थत्वम्। व्युत्पनरूपसिद्धित्वञ्च । तथाच वक्ष्यति शास्त्रान्ते- इध्युपसंख्यानवती शुद्धगणा विवतगूढ़सूत्रार्था । वुत्पन्नरूपसिद्धि त्तिरिय काशिका नाम ॥१॥ (E) इति । अथवा संग्रहशब्दोऽयं भावसाधनः । संग्रहणं संग्रहः संक्षेपः शास्त्रभेदेन विप्रकीर्णस्य तन्त्रम्य पिण्डीकृत्य कत्रावस्थापनमिति यावत् । सारशब्दस्तु प्रधानवचनः । यावता ग्रन्थमन्दभंगा परिपूर्णता शब्दवात्पत्तेर्भवति स सारः । सारस्य संग्रह: मारसंग्रहः । तम्य करणं सुखोद्ग्रहणार्थम् । एकत्र हि व्यवस्थितस्य सुकरमुद्ग्रहणं भवति । दुष्करन्तु विप्रकीर्णस्य । सारग्रहणं परिकरबन्धनिरासार्थम् । स हि तस्योपकारकत्वादङ्गमप्रधानम्। इतरस्तु तेनैवोपकार्यत्वादङ्गि प्रधानम् । अर्थत्यादि। अथ शब्दोऽधिकारार्थः । अधिकारः प्रस्तावः। शब्दानुशासन- शास्त्र प्रस्तूयत इत्यममर्थमथशब्दो द्योतयति। शब्दानुशामनमित्येतावति ह्यभिहित संदेहः स्यात् किं शब्दानुशामनमारभ्यते पठ्यत श्रूयते वेति । शब्दप्रयोगे त्वर्थान्तरव्यवच्छेदेन प्रम्तयत इत्येषोऽर्थी निश्चीयत । अनुशिष्यते संस्कियन्ते वात्पाद्यन्तेऽनेन शब्दा इत्यनुशासनम्। शब्दानामनुशासनं शब्दानु- शासनम् । अत्र केचिच्चोदयन्ति । उभयप्राप्ती कर्मणीत्यननात्र (२।३।६६) षष्ठी। सतश्च कर्मणि चेत्यनेन । २।२।१४ । ममामप्रतिषेधन भवितव्यमिति । एतच्चा- युक्तम् । यत्र हुभयो: प्राप्ति स्तनानन कर्मणि षष्ठी विधीयते । क्क चोभयोः प्राप्तिः । यत्र सामर्थ्यप्राप्तमुभयोः कर्तृकर्मणो रुपादानम् । यथाऽश्चर्यो गां दोहोऽशिक्षितेनागोपालकेनेति । एवं नाम दुदीहानां गवामशिक्षितनागोपाल- केन दोह इत्याश्चर्य्यभूतोऽत्र गवां दोहः प्रतिपादयितुमिष्टः । स च यदि (E) In the printed काशिका, three stanzas मृत्ती &c. इष्टुपम खान &c...and व्याकरणस्य शरीरम् &c...occur in the beginning. But the न्यासकार appears to reject the third and to place the second at the end of the Book.

न्यासः । ? दुदीहानां गवामुपादानं क्रियतेऽशिक्षितस्यागोपालकस्य च कर्तुरेवं शक्यः प्रति- पादयितुमाश्चर्यशब्दः । नान्यथेति सामर्थ्यप्राप्तमुभयोरुपादानम्। शब्दानुशासन मित्यत्र तु शब्दानामिदमनुशासनं नार्थानामित्येतावतोऽर्थस्य विवक्षितत्वात् तस्याचार्यस्य कर्तुरुपादानमन्तरेणापि प्रतिपादयितुं शक्यत्वादाचाव्योपादान- मकिञ्चित्करम् । तस्मान्नानास्ति इयोरपि कर्तृकर्मणो: सामर्थ्यप्राप्त मुपा- दानम् । ततश्चोभयप्राप्तिरपि नास्त्येव । असत्याञ्च तस्यां नोभयप्राप्ती कर्मणी- त्यनेन षष्ठी। केन तर्हि ? कर्तृकर्मणोः कृतीत्यनेन (२।३।६५ । ततश्चेभाप्रव्रश्चन- वत् समासो भविष्यति । अथवा शेषलक्षण वेयं षष्ठीत्यचोद्यमेतत् । व्याकरणस्य चेदमन्वथं नाम शब्दानुशासन मिति । अत स्तेनैव सूचितत्वात् प्रयोजन- स्यानभिधानम् । येन हि शब्दा अनुशिष्यन्ते तस्य तदुद्देशे प्रवृत्तिः । यस्य च यदुद्दिश्य प्रवृत्ति स्तत् तस्य प्रयोजनं भवति । तदेतदुक्तं भवति । शब्दानु- शिष्टिरस्य प्रयोजनमिति । एतच्च साक्षात् प्रयोजनम् । पारम्पर्येण तु वेद- रक्षणादीनि प्रयोजनानि भाष्यादवधााणि । सम्बन्धस्तु साध्यसाधनभाव- लक्षण: । शब्दानुशिष्टे: साध्याया व्याकरणस्य साधनस्य च यः सम्बन्धः स प्रयोजन एवान्तर्भूतः । केषां शब्दानामिति । कथं पुनरनुशासने गुणीभूतानां शब्दानां किंशन्देन प्रत्यवमर्शी भवति ? नैष दोषः । प्रधान ह्यन्तभूतस्याप्युप. सर्जनस्य बुद्धया प्रविभज्य किंशब्देन प्रत्यवमर्शी दृष्टः । यथा राजपुरुषोऽयम् । कस्य राज्ञ इति। कः पुनरत्र प्रष्टुरभिप्रायः ? एवं मन्यत शब्दानुशासनमित्यत्र शब्दशब्द: सामान्यवचनः । नच सामान्यशब्द: प्रकरणादिरहितो विशेष वर्तितुमुत्सहते । मन्ति च समुद्रघोषादयोऽपि बहवः शब्दाः । अतस्तेषामपि वुधत्पादनं प्राप्नोतीति। इह तु व्याकरणं प्रस्तुतम्। तच्च वेदाङ्गम् । अङ्गचोप- कारकं भवति । एवञ्च तद् वेदस्योपकारकं भवति। यदि तेनैव वैदिकाः शब्दाः संस्कियन्ते लौकिकाश्च तदुपकारिणः । वैदिकोपकारित्वं तु लौकिका- नाम् । तैस्तदर्थस्याख्यानात् । तस्माच्छब्दानुशासनाधिकाराद् विशिष्टा एवात्र शव्दा वुत्पादयितुमभीष्टाः । नतु समुद्रघोषादयोऽपि । तथाविधशब्दप्रत्- पादने हि व्याकरणस्यावेदाङ्गतापि स्यादिति मन्यमान आह लौकिकाना- मित्यादि। लोके विदिता लौकिकाः । तत्र विदित इत्यनुवर्तमाने लोकसर्व- प्रत्याहारः। लोकाट (५।१।४४) ठजिति ठञ् । अथवा लोके भवा लौकिकाः । अध्यात्मादि- त्वाट् ठत्र ४।३१६०, वा) । एवं वैदिक': । वैदिकानां लौकिकेभ्यः पृथगुपादानं प्राधान्य ख्यापनार्थम् । यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति । अत्र ब्राह्मणत्वादेव वशिय म्याग्यागमने सिद्धे प्राधान्य ब्यापनाथं तस्य पृथगुपादानम् । प्राधान्य ख्यापनन्तु वेदिकानां यत्नेनापभ्रंशनिरासार्थम् । तेषां ह्यपदंशे याने कर्मणि महान् प्रत्यवायो दृष्टो हलयो हेलय इति । अथवा ये लोकयात्राहे- तवो भाषाशब्दा स्तरेव लौकिकत्वं प्रमिद्ध मिति वैदिकानां पृथगुपादानम् । तत्र लोकिका अनियतवर्णानुपूर्वोका गौरव: पुरुषो हस्तीत्येवमादयः । वैदिकास्तु नियतानुपूर्वोकाः शनी देवीरभिष्टय इत्येवमादयः । इह ह्यन्वा- ख्याने प्रतिपदपाठोऽभ्य पयः । तम्यापि त्रयः प्रकाराः । शब्दापशब्दोभयो- पदेशभेदेन । आनन्त्याच शब्दानां म मर्वयाप्यसम्भवः । एवं हि श्रूयते वृहस्पतिः किलेन्द्राय दिव्यं वर्षमहस्रं प्रतिपदविहितानां शब्दानां पारायणं प्रोवाच नचान्तं जगामति । तदीग वक्तय्यध्येतर्यध्ययनकाले च नान्तगमनमभूद् यस्य तस्य कुतोऽद्यत्वे भविष्यति स्वल्पायुषि प्रजायाम् । न चान्योऽभ्युपायोऽस्तीति मन्यमान आह कथमित्यादि । कथमनुशासनम् । न केनचित् प्रकारण शब्दानां व्याकरणमनशासनमित्यर्थः । अथवा भावमाधनोऽत्रानुशासनशब्दः । अनुशिष्टिरनुशामनं संस्कारः । न कथञ्चिच्छब्दानां मंस्कारः मम्भवतीति यावद येनाल्पेनैव प्रयत्नेन महतः शन्दाघान् प्रतिपद्यत । दर्शयितु माह प्रकृत्यादिविभागपरिकल्पना येत्यादि। प्रत्ययात् प्रथमं क्रियत इति प्रक्रतिः। प्रकृतिरादियां तं प्रकृत्यादयः । आदिशब्दः प्रत्ययादीनां परिग्रहाय । तेषां विभागो ऽमंकीर्णरुपता ! तम्य कल्पना परिकल्पिकया बुद्धया परिकलानम् । तथा परिकल्पनया राज्यानामनुशामनं व्याकरण मनु- शिष्टिा । हेतावियं तृतीया। नहि तया विना व्याकरणमनुशासनं भवति नापि तेन विनानुशिष्टिः शब्दानां शक्यत कर्तुम् । परिकल्पनयेत्यनतत् प्रतिपादयति । कल्प नामात्र प्रकत्यादिविभागपरमार्थवस्तुप्रत्यम्तमित (?) प्रक- त्यादिविभागः समुदाय एव कस्यचिदर्थस्य वाचक इति । सामान्य विशेषवता लक्षणेनेति । करण एषा तृतीया । सामान्यञ्च विशेषश्च सामान्यविशेषौ तो तदुपायान्तरं --- न्यासः। यस्मिल लक्षणे स्त स्तत् सामान्य विशेषवलक्षणम् । तत्रोत्सर्गलक्षणं सामान्य- वत् । यथा कर्मण्यणिति (३।२।१ ) : तत्र हि धातोरित्येतत् कर्मणीत्येतच्च सामान्यम् । अपवादलक्षणं विशेषवत् । यथाऽतोऽनुपसर्गे क (३१२३) इति । अत्रात इत्येतदनुपसर्ग इति च विशेषः । तत्र सामान्यवता लक्षणेन प्रकृत्यादि- विभागपरिकल्पनया कुम्भकारः काण्डलाव: शरलाव इत्येवमादिकं महान्तं शब्दोघं प्रतिपद्यते । विशेषवता तु पार्णित्रो गोदः कम्बलद इत्येवमादिकम् । एवमन्यत्रापि वेदितव्यम् । अथेत्यादि । एवं मन्यते । शब्दानुशासनमधि- कृतम् । तत्र येन शब्दा अनुशिष्यन्ते तस्यैवोपदेशो युक्तः । न चैषामुपदेशेन कस्यचिच्छन्दस्य संस्कारः क्रियते । ततथाप्रस्तुताभिधानमिति प्रश्नस्याभिप्रायः । वर्णानामिति । वर्णा अकारादयः । तेषामाद्युच्चारणमुपदेशः । प्रत्याहारार्थ इति । प्रत्याहारः अइउणित्येवमादिको विशिष्टानुपूर्वीको विशिष्टानुबन्धक- श्चाक्षरसमानायः प्रत्याड्रियन्ते संक्षिप्यन्ते व अस्मिन्निति तत्वा। स यथा- स्थादित्येवमर्थी वर्णानामुपदेशः। स्यादेतत् । तस्यापि प्रकृतानुपयोगित्वात् सदवस्थ एवष दोष इत्यत आह प्रत्याहारो लाघवेनेत्यादि। लघोर्भावो लाघवम् । सत् पुनरल्पप्रयासः । अल्पप्रयाससाध्यं हि वस्त्वल्पप्रयत्नयोगालघूच्यते । तेन लाघवेन शास्त्रस्य ढलोप पूर्वस्य दीर्घाऽण ( ६।३।१११ ) इत्येवमादेः प्रवृत्त्यर्थी- ऽभिनित्त्यर्थ इत्यर्थः । सति हि प्रत्याहार आदिरन्येन (१।१।७१) सहतेत्येतत् प्रवर्तते । तत्प्रवृत्ती चाकारादीनामणित्येवमादिका: संज्ञा: सिध्यन्ति । ततश्च यत्राकारादीनां ग्रहणमिष्टं तत्राणित्येवमादिकयैव संजया बहवोऽपि त निर्दि- श्यन्त इति लाघवेन शास्त्रस्याभिनितिर्भवति । तस्मिंश्चासत्यादिरन्तेन (१।१।७१) सहेतेत्येवमादेः शास्त्रस्य प्रवृत्तिर्न स्यात् । श्राद्यन्तयोरभावात् । नवसति सन्निवेशविशेष तावुपपद्यते। असत्याञ्च तत्प्रवृत्ती पूर्वोक्ताः संज्ञा न स्थः। ततश्च यत्र यत्र सूत्रे ऽकारादीनां यावतां ग्रहणमिष्ट सत्र ते तावन्तः स्वरूपणैव निर्दिश्येरनिति लाघवेन शास्त्रस्य प्रवृत्तिनं स्यात् । तदेवं प्रकृतस्यैवाल्पप्रयामेन निष्पादनार्थ त्वान्न भवति पूर्वदोषावसरः । १। अउण। अथ कस्मादिहादगुणादिक (६।१८७) मचकाव्यं न भवति ? प्लुतप्रग्या प्रत्याहारः। अचीति । ६।१।१२५! प्रकृतिभावात् । प्रग्य्ह्यत्वं तु तेषां निपात एकाजनाङिति ( १।१।१४ ) प्रगृह्यसंज्ञाविधानात् । निपातत्वन्तु चादिषु पाठात् । अतएव निपातत्वादर्थवत्तेऽनर्थवत्त्वे चोत्पनाया विभनेः थवर्ण न भवति । इहानर्थवत्त्वे विभक्त्युत्पत्तिरनर्थकस्यापि निपातस्य प्रातिपदिकभज्ञोपमख्यानाद वैदितव्या । अनेन क्रमेणेति । अनयाऽनुपूर्व्या । किं पुन: कारणमयमव क्रम आश्रीयत । न क्रमान्तरम् । तदुच्यते । इहाण्ग्रहणेन त्रयाणामप्येषामकारादीनां ग्रहण- मिष्यते । इणग्रहण त्वकारस्य ग्रहणं नष्यते। उपग्रहण पुनरकारकारयोई यो रपि । एतच्च कमान्तराश्रयण न मम्पद्यत इत्येष्वेवं क्रम आयीयत । वर्णात् कार (३।३।१०८, वा इति कारप्रत्ययस्योपसंख्यानादिह च तदकरणात वर्णा अपितु तच्छायानुकारिणोऽन्यएव सन्ध्यतरादिवर्ण कदेशा इति कस्यचिदाशङ्गा स्यात् । अतम्तनिराकरणायाह वर्णानिति । कारप्रत्ययम्त रोगाख्यायां ग्वुल (३।३।१०८) बहुलमित्यत्रोपमंव्यायत । तेन बहुलवचनात् मत्यपि वर्णत्वे न भवतीति भावः । गकारस्य पूर्वोत्तरवर्णान्तःपातित्वान् मध्यभावः । नान्त्यत्वम् । अत इत्मंजया न भवितव्यम् । अथापि कर्याचदन्त्यत्वं स्यात् ? एवमपि वक्ष्यमाणेन न्यायेनाप्रधानत्वाद् यथा तवाचकार्यमम्य न भवति तथत्मज्ञापि न भवेदिति यस्य भ्रान्ति: स्यात् तं प्रत्यन्त इत्युक्त मितमिति च । यद्यपि पूर्वोत्तरवर्णापक्षयास्य मध्यमभावम्तथापि पूर्ववर्णापक्ष यान्त्यत्वमस्त्येव । मति च तस्मिन्नप्रधानन्यापीत्मजया भवितव्यम् । उपदेशमामात् । अन्यथा हि तदुपदेशवयथ्यं स्यात् । आदिरन्तेन (१।१।७१ : महतत्यननाणित्येवमादिकाः संज्ञा यथा स्युरित्येवमों णकारादीनामनुबन्धानामुपदेशः । सच तदाऽम- त्या मित्संज्ञायां न स्यादित्यभिप्रायः । तस्येत्यादि । एकैनति महायोगे हतीया। तस्येति कर्माण षष्ठी। तस्य णकारस्य प्रदेशवाक्येषु संजिप्रत्यायनार्थ- मेकेनैवाकारण महोपादानम् भवति । स ाकारादीनां वर्णानामकारसहित एव संज्ञा न केवलः । नापि वर्णान्तरमहितः । तम्मात् प्रत्यायनाथं तनैव महोपादीयते । न केवलो नापि वर्णान्तरहितः। अन्ये वाहुः । तम्येति कर्तरि षष्ठी। एकैनेति च महयोग हतीया। तेनायमर्थः । प्रादिवर्णसहितो णकारोऽन्येषां मध्यपातिनां वर्णानां ग्राहको भवत्यादिवर्गस्य चेति । अपर न्यासः । । आहुः । अनेकार्थवादातूनां गृह्णातिरत्रोच्चारण वर्तते ग्रहणवता प्रातिपदि- कैनेति यथा । तेनायमर्थः । तम्य केन सहोच्चारणं भवतीति । अथेण: (८३१७८ षीध्वमित्यत्रेकारेणास्य ग्रहणां न भवतीति कुतोऽवसितम ? अचि श्रुधातुभ्रुवां ( ६।४।७७ ) योरितीकारोकारयोः संमृज्य निर्देशात् । यदीकारणास्य ग्रहणं स्यात् ततो लाघवार्थमिणित्येव निर्दिशेत् । योरिति संसृज्य निर्देशेऽर्धचतस्रो मात्रा भवन्ति । इणिति निर्देश तिस्रः । तत्र लघीयसा न्यामेन सिडे यद गरीयांसं प्रयत्नमारभते ततो जायते नास्य गकारस्येकारण ग्रहणम् भवतीति इह तर्हि कवापाजिमिस्खदिसाध्य शूभ्य उण (उणादि, ११) णित्यु कारण ग्रहण कस्मान्न भवति । उकारादन्यस्य ग्राह्यस्याभावात् । तस्य च स्वरूपणैव निर्देशात्। हस्वमवर्णमित्यादि । प्रयुज्यत इति प्रयोगो धात्वादिः । तत्र हस्खमवणं प्रयोग संवृतम् । संवतगुणयोगात् संवृतम् । यथा शुक्लगुणयोगाच् शुक्लः पट इति । दीर्घ- प्लुतयोस्तु विवृतत्वमिति। वित्तगुणयोगित्वमित्यर्थः । तथाचाहु: शिक्षा- कारा विकृतकरणा: स्वरा स्तेभ्य ए ओ वितततरी। ताभ्यामपि ऐ ओं। एताभ्या मायाकारः संवृतोऽकार इति । तषामित्यादि। तेषां इस्वादोनां तुल्यास्यप्रयत्नं सवर्णमिति (१।१।८ सवर्गसंज्ञा यथा म्यादित्येवमर्थमिह शास्त्रे ह्रस्वोऽकारो विवतगुणोऽभ्युपगम्यते । अन्यथा हि भिन्नत्वात् प्रयत्नस्यासति सावये दण्डाढ़ कमित्यादावकः सवर्ण दीर्घ इति ६।१।१०१ दीर्घवं न स्यात्। ननु च सत्यपि विवृतत्वप्रतिज्ञानेनैव हस्वप्नुतयोरकः सवर्ण दीर्घत्वं प्राप्नोति तस्मिन् कर्तव्य प्लुतस्यासिद्धत्वात् नैष दोषः । सिद्ध : प्लुतः स्वरसन्धिष्विति F) स्वरसन्धिषु प्लुतस्य सिद्धत्वात् । इतरथा हि प्लुतप्रगृह्या ( ६।१।१२५) अचीति प्रकृतिभावविधान मनर्थकं स्यात् । अत्र च यद्यपि विकृतः प्रतिज्ञायत इत्युक्तं तथापि तेषां सावर्ण्यप्रसिद्ध्यर्थमिति वचनाद् विकृततर इति गम्यते । नहि विवृतस्य विवृततरण सावर्ण्यमुपपद्यते। प्रयत्नभेदात् । विवृतत्वप्रतिज्ञान- सामाहा। अविकृततरस्यापि विवृततरण सावण्यं भविष्यति । यदीहत्येता- वदेवोच्थेत तदा प्रत्याप्तत्तेः प्रकृतत्वाच्चाक्षरसमानायिक एव विवतः प्रतिज्ञायत इति विज्ञायेत । न धातुप्रातिपदिकप्रत्ययनिपातस्थः । -~- । ततः (F) ६।१।११३ सूत्रस्थभ ष्यम् प्रत्याहारः । -- प्रयत्नभेदादसति सावण्ये आक्षरसमानायिकेन तस्याग्रहणादच्त्व न स्यात् । तस्मिंश्वासति शाम्यतीत्यत्राच्परिभाषानुपस्थानात् स्थानिनोऽकारस्याचवा- भावाच् (७।३।७४) छमामष्टानां दीर्घः श्यनीति दीर्घत्वं न स्यात् । दृषदिति अत्र प्रातिपदिकस्यान्त उदात्तो भवतीति अन्तोदात्तत्वं न स्यात् तस्याजधर्म- त्वात् । नायक इति । अत्र प्रत्ययस्याकारस्यानच्त्वात् तत्रायादेशो न स्यात् । अवनमतीत्यत्र निपाता प्राद्युदात्ता उपमर्गाश्चाभिवजमित्याद्युदात्तत्व न स्यात् । किञ्च अनुत्तिनिर्देशस्थेनाकारणासति सावण्ये दीर्घस्य ग्रहण न स्यात्। तत्र को दोषः ? अस्य (॥४।३२) चावितीहेव स्यादीत्त्वं शक्लीभवतीप्ति । मालीभवतीत्यत्र तु न स्यात् । यस्येति (६:४१४८) चेती हेव स्यादकारलोपः दाक्षिः प्लाक्षि रिति । वालाकिरित्यत्र तु न स्यात् । तस्माद यावत् किञ्चिद. वर्णमात्रमिह शास्त्रे तस्य सर्वस्य विकृतत्वं प्रतिज्ञायत इति प्रदर्शनाथं शास्त्रग्रहण कृतम् । ननु च सत्यपि मावण्यं नैवानुवत्तिनिशस्थेनाकारण सवर्णानां ग्रहणं सिध्यति । अनगात्वात् । नानुवृत्तिनिर्देश येऽकाराट्य म्तेऽण:। किं तहिं ये अक्षरममामाये । जातिपनाश्रयाददोष इति चेत् ? न । जाति- पक्षे ग्रहणकशास्त्र म्य प्रत्याख्यानात् नैष दोषः । इह हि व्यकिषु दय- मस्ति । मादृश्यं भेदश्च । तत्र कदाचित् किञ्चित् प्राधान्येन विवक्ष्यते । यदा मादृश्यं विवक्ष्यत तदा तस्य भागस्य सदृशम्य मासु व्यक्तिषु समानत्वात् अशेषव्यक्त्याक्षेपो भवति । भेदस्यापरामृष्टत्वात् । मोयं प्रत्याहारे महशभागः प्रधान उपदेश इति मर्वासामवर्ण व्यक्तीना मनुवृत्तिनिर्देशस्थाना मग त्व- मुपपद्यत । क: पुनरस्य मादृश्यस्यावर्ग जातश्च विशेषः ? अयमम्ति विशेषः । एतच्च मादृश्यं स्वावावर्ग व्यक्तिषु वर्त्तते । न दीर्घप्लुताम् । अवर्ण जाति- स्तु दीर्घप्लुतास्वपि वर्तत। इति गतमेतत् । अथ कथमतदवगम्यते प्रकार इह शास्त्रे विकृत: प्रतिज्ञायत इत्यत आह तस्येत्यादि। यदि पूर्व विकृतो- ऽकारो न प्रतिज्ञायत तत स्तस्याप्रयोगार्थम् अ अइत्यनेन (८।४।६८) प्रत्यापक्तिं न कुर्यात् । स्वरूपादि प्रच्युतस्य पुनस्तत्प्राप्तिः प्रत्यापतिः । मा कथमवि. चलितस्वरूपस्यैवोपपद्यते? अथवा यदि विहतः प्रतिज्ञायते तदा तम्य शास्त्रस्य परिसमाप्तावपि तथाभूतस्यैव प्रयोगः स्यादिति पूर्वपक्ष माशङ्कयाह तस्येत्यादि ।

१० न्यासः । अर्थशब्दो निवृत्तिवचनः । यथा मशकाथों धूम इति । तस्य विकृतस्य प्रयोगनिवृत्तिर्यथा स्यादित्यर्थः । अथवार्थशब्दः प्रयोजनवचनः । तस्येतानेन सेवतः प्रतावमृश्यते । प्रयोगोऽर्थः प्रयोजनं यस्य तत् तथोक्तम् । क्रियाविशेषण- त्वानपुंसकत्वम् । तदेतदुक्तं भवति । तसा मंतसा स्वरूपात् प्रच्युतसा प्रयोगनिमित्तं प्रतापत्तिः करिष्यते यतः शास्त्रपरिसमाप्तौ ततो न भवति तथाभूतस्यैवायं प्रयोग इति । प्रयुज्यत इति २ । क्लक। तस्य ग्रहणं भवति त्रिभिरिति । कथं विभिग्रहणं लभ्यते । यदि समुदायानु- बन्धः अवयवानुबन्धो न । अथ चाऽवयवानुबन्धो न तदा ममुदायानुबन्ध इत्येके- नैव ग्रहणं स्यात् । नैष दोषः । प्रतिज्ञया त्वनुबन्धानां व्यवहारः । प्रतिज्ञा तु पौरुषेयी । पुरुषश्चोभयत्र प्रतिज्ञानं कुर्वन्न विरमति । विरोधाभावात् । नहि समुदायानुबन्धता अवयवानुबन्धप्रतिज्ञया विरुध्यते । इतरया न चेतरीति । तस्माद् युक्तामुक्तं विभिग्रहणं भवतीति । एवं सर्वत्र योजनीयम् । इह शास्त्र वर्णानामुपदेशः प्रयोजनवशात् । लकारोपदेशस्य न किञ्चित् प्रयोजनं सम्भवतीत्यभिप्रायेणाह अकारादयो वर्णा इति । प्रयोगो धात्वादिः। अनन्यत्रभावो विषयार्थ: । प्रचुर: प्रभूतः प्रयोगो विषयो येषा मिति बहुव्रीहिः । अथवा प्रयुक्ति: प्रयोग उच्चारणम् । तस्य विषय इति षष्ठीसमासः । तस्य प्रचुरशब्देन बहुव्रीहिः । तेषां सुज्ञानमुपदेशे प्रयोजनमिति । सुखेन ज्ञायत इति सुज्ञानम्। एतच्च प्रयोजनं किमर्थम् ? लकारस्यैवोपदेशे प्रयोजनं पृच्छात इति अस्य वचनस्यावकाशनिरासार्थ- मुक्तम् । यदि ह्येतन्नोच्येत लकारस्यैव तु केवलं प्रयोजनं पृच्छयत इति तदा स्यादस्य वचनस्यावकाशः । लकारस्तु लपिस्थ एव प्रयुज्यत इति । तुशब्दोऽकारादिभ्यो विशेषार्थः । स्यादेतत् । क्लपिसम्बन्धिन स्तस्य यान्यच- कार्याणि तदर्थ मुपदेशः कर्तव्य इत्यत आह आह क्लपश्चेत्यादि। यद्यसिदत्वं ततः किमित्याह तत्र ऋकार एवेत्यादि । लत्वविधानाद् यानीत्यादि । लत्व विधीयते येन शास्त्रेण तल्लत्वविधानम् । करणे ल्युट । अथवा प्रत्याहारः । भावे विधि विधानम् । लत्वस्य विधान मिति षष्ठीसमासः । ततः पराणी- त्यादि। एतेन लत्वस्य तेषु सिद्ध त्वं दर्शयति । पर्बत्र हि परमसिडम् । नतु परम्मिन् पूर्वम् । लप्तशिग्वइति । लप्ता ग वा यसै ति बहुव्रीहिः। अत्र गुरोरनृत इत्यादिना (८।२ ८६) प्लुतो विधीयते । स चाचश्चे (१।२ २८) त्येवं स्थानिन मुपस्थापयति । लकारस्याक्ष्वनुपदेशादसत्यच्त्वे म न स्यात् । प्रलप्त इति । अत्र निपाता आद्युदात्ता उपमर्गाश्चाभिवर्ज मिति प्रशब्दाकार उदात्ती भवति । लकारोऽपि धातुम्वरेण उदात्त एव । निष्ठाप्रत्ययस्वी कृते अनुदात्तं पदमेकवर्जमिति (६।१।१५८) पश्चात् सोनुदात्तो भवति । कुगतिप्रादय इति ( २१२।१०) समामे कृते समामान्तोदात्तत्वे प्रमते गतिरनन्तर इति ( ६।२।४८ ) पूर्वपदप्रकृतिभावेन प्रशब्द एवोदात्तः । तम्मात् परस्य लकारम्य उदात्सादनुदात्तस्य स्वरित इति । ८.४।६६ ) स्वरितत्वं विधीयत । तदमत्यच्त्वे न स्यात् । तम्याधर्मत्वात् । लप्त: लप्तवानिति । अनचि चेति ( ८।४।४७ ) अच उत्तरम्य यगे द्विवचनं विधीयत । तदप्यनच्त्वे न स्यात् । यदुक्तं क्लपिस्थ एव प्रयुज्यत इति तद् विवटयन प्रयोजनान्तरं दर्शयितुमाह यच्चेत्यादि । माधुशब्दोच्चारणशक्तरन्या शक्तिः अशक्तिः । ततो जात मशक्तिजम् । तदनुकरणस्यापि माधुत्वमिष्यत अर्थभेदेन शब्दान्तरत्वात् । शिष्ट प्रयुक्तत्वाच । तदन्यमाधुशब्दवत् । ननु चानु कार्यस्यामाधुत्वादनुकरण स्यामाधुत्वेन भाव्यम् । प्रकृतिवदनुकरणं भव- तीति वचनात् । नैतदस्ति । शाम्बीया हि तव प्रकृति राधीयते । प्रकृति- वदिति च शास्वनिबन्धनमेव कार्य मतिदिश्यत । नचाशक्तिजमसाधु शब्दरूपं शास्त्रीया प्रकृति: । नाप्यपशब्दत्व शास्वनिबन्धनं कार्यम् । नहि शक्यं व्याकरण नाप्यपशब्दत्वमाख्यातुम् । तस्य माधुशब्दमस्कारायव प्रवृत्तत्वात् । तस्मादपशब्दस्याप्यनुकरणं माध्वेव । तत्र तत्स्थस्यापि टकारम्याचकायाणि न स्युः यद्यक्षु तस्योपदेशो न स्यात् । कुमाएतक इति । सति लकारस्य तत्र परतो यणादेशो भवति । ननुच इको यणचीत्यत्र (६।१।७७) संख्यातानुदेशोऽपि लकारोपदेशस्य प्रयोजन मुपपद्यत एव । असति लकारोपदेशे वयः स्थानिन चत्वारश्च आदेशाः स्युरिति वैषम्यात् इति । अत्राच्त्वे न्यास:) संख्यातानुदेशो न स्यात् । तस्मात् संख्यातानुदेशोऽपि तस्य युक्तं प्रयोजनम् । नचैतदस्ति । माभूत् संख्यातानुदेश: । असत्यपि तस्मिन् स्थानन्तरतम इति (१।१।५०) परिभाषया व्यवस्था भविष्यति । इत्संज्ञा तयपरं प्रयोजनम्। उपदेश ह्यसति गम्न सृप्लु गतावित्यादिषु उपदेशेऽजनुनासिकइतोत्संज्ञा (१।३।२) न स्यात् । तस्यां चासत्यां पुषादिद्युतालदित: परस्मैपदेष्विति (३।१।५५ अङ् न स्यात् । नैतदस्ति । असत्यप्युपदेशे अस्मादेव लदितो धातोरविधानादित्संज्ञा विधास्यते इति नाक्षु प्रयोजन मुपदेशस्य । तस्मात् पूर्वोक्तान्येव प्रयोजनानि । तानि ऋकारटकारयोः सवर्णसंज्ञा वक्तव्येत्येतदनाश्रित्योक्तानि । अत्र ह्याश्रिते सत्यसत्यपि लकारोपदेश अणुदित् सवर्णम्य चेति ऋकारण गृह्यमाणेन लुकारस्य ग्रहणादेव सिध्यन्ति । ३ । ए ओ ङा अत्र पूर्वाश्चेति नोक्तम् । पूर्वरस्य ग्रहणासम्भवात् । अथ षिद्- भिदादिभ्योडित्यत्राकारणास्य कस्माद् ग्रहणं न भवति ? तत्र केचिदाहुः । आदिरन्तेन सहतेत्यत्र ( १।१।७१ ) अणुदित्सवर्णस्य चाप्रत्यय ( १।१।६७) इत्यतोऽप्रत्ययग्रहणमनुवर्तते । तेनायमर्थः सम्पद्यते। आदिरन्तेन ग्राहको भवति नचेत् प्रत्ययो भवतीति । प्रत्ययशायम् । तेन ग्राहको न भवति । एवञ्च सुप्तिङन्त (१।४।१४ ) पदमित्यादावपि प्रत्ययो ग्राहको न स्यात् । तस्मादनभिधानादिह प्रत्याहारग्रहण भवतीति वेदितव्यम् । अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्ति । नच षिभिदादिभ्योऽडिति ( ३।३।१०४ ) अकारादिप्रत्ययोत्पत्ती विवक्षितार्थाभिधानं भवति । तहि शास इदङ्लो: (६।४।३४)। ऋशो रङि गुण इति ( ७।४।१६ ) चाकारेगा प्रत्याहारग्रहणं कस्मान भवति? चिगमदृशस्य चड्सशस्य चाडो ग्रहणात् । शास इदङ्लोरित्यत्र हि भञ्जश्च (६।४।३३) चिणीत्यनु- वर्त्तते । ऋदृशोरडीत्यत्रापि णो चापधाया ह्रस्व इति (७।४।१)। अतो मण्डूकप्लुतिन्यायेन चङ्ग्रहणमनुवर्तते । तेन चङ्ग्रहणेन समानाधिकरणेनाङ् विशेष्यते । चड्यङीतीति नचाङ् चङ् भवति । अतिविलक्षणत्वात् । तत्र प्रत्याहारः। १३ । परस्य सामयादिवार्थी गम्यत । परपदार्थ षु हि प्रयुज्यमानाः शन्दा अन्तरेणापि इवशब्दप्रयोगमिवाथं गमयन्ति । यथा अग्निर्माणतको गौर्वाहीक इति । तनायमों भवति । चडीवाडीति चड्सदृशोऽडित्यर्थः । कश्च चङमदृशोऽङ ? यश्च : स्थान विहितः । तथाच चि स्थानिकस्यैवाडो ग्रहणं सम्पद्यते। नतु प्रत्याहारस्य । एवं शामइदइहलो रित्यत्रापि चिण ग्रहणी नाडि विशेष्यमाण चिस्थानिकस्यैवाडो ग्रहगां वैदितव्यम् । इह तर्हि सनिच इति । २।४।४८) परिमाणाख्यायां सर्वभ्य ( ३।३।२१ ) इति च कम्मादिकारण प्रत्याहारग्रहणं न भवति ? पूर्वत्र तावन्न भवति । इको झलिति ( १।२।८ ) कित्त्वविधानात् । प्रत्याहार हातस्मिन् सनि गम्यादेशविधानादिगन्तत्वाभाव गुणस्याप्राप्तया कित्त्व विधान मनर्थकं स्यात् । पूर्वत्र तावत्र भवति। यदि हि स्यादिक इति ककारेण व प्रत्याहारं कुयात् । नाङन्तादधाती: मनःसम्भवोऽस्ति यतः प्रत्याहारग्रहण कारंणाट वद् भवति । परत्रापि न भवति । वैयर्थाप्रसङ्गात्। तथाहि इकारान्तेभ्यः एजित्यचा भवितव्यम् । उकारान्तेभ्योऽपि ऋदोरबित्यपा। लकारान्ता न मन्तेधव । एजन्तानां प्रार्गव प्रत्ययोत्पत्तेरादेच उपदेशेऽशिति ६।१४५) इत्यात्त्वेन भवितव्यम्। अतस्तेऽपि प्रत्ययविधानकाले न सन्त्य वैति । ऋकार एक एवावशिष्यत । ततो यदि घञ् विधित्सितः अपार्थकं प्रत्याहारग्रहण स्यात् । उरित्येव ब्रूयात् । क्रीजीणां (६।१।१८) गावित्यत्रापि क्रीणातिजयत्योः पृथगुपादानाद् इकारंगा ग्रहण न भवति । इकारान्तानां मध्ये तयोरव यथा स्यादिति नियमायं पृथगु- पादान मिति चेत् ? न । एवमपि ककारेण व प्रत्याहारं कुयात् । एजन्ताना- मात्त्वस्य सामान्यलक्षगनव सिद्धत्वात् । इधा-: शत्रकृच्छ्रिणीत्यत्रापि (३।२।१३०, धारयतिना धातुना माहयाद् इङिति धातोगहणम् । प्रत्याहारस्येति वेदितव्यम् । ४॥ एं औ च। इहादिरन्तेन सहतत्यानन सूत्रेणाकारादीनामजित्येषा मंत्जा विधी- सा च यथा इकारादीनां भवति तथा कागदीनामप्यनुबद्यानां यते ।

१४ न्यासः । प्रवृत्तिः । स्यात् । तेषामपि तत्रोपदेशात् । ततश्च तया प्रदेशान्तरे इको यणचीत्येव- मादौ तेषु प्रातिपदिकेषु यथा दध्यवेत्यादौ यणादेशो भवति तथा दधि- णकारीयतीत्यादावपि स्यादित्य भिप्रायेणाह प्रत्याहारत्यादि। कथम ग्रहणेषु नेति कार्यमिति शेषः । अजित्य स्याः संज्ञायाः प्रदेशवाक्येषु ग्रह- णानि उच्चारणानि अग्रहणानि। तेषु सत्सु गकारादीनां कथमचकार्य- न भवेत् । भवेदेवेत्यर्थः । आचारादिति । आचरणमाचार: आचार्य ततो ज्ञापकान भवति । यदयमुणादयो बहुलम्। सृषि मृषिकृश: काश्यपस्य । ङमो हवादचि डमुण नित्यम् । ङसिङसोश्चेति णकारादिषु परतो यणादेशं न करोति ततो ज्ञापयति । सत्यामप्यच- संज्ञायामच्कायर्याणि न भवन्तीति अथवा अजित्येव संज्ञेषां न भवति इत्येषः अर्थोऽनया आचार्यप्रवृत्त्या ज्ञाप्यते। यदि हि संज्ञा स्यात् आचार्य- स्तेष्यचकार्याणि कुयात् । एवं ज्ञापन संज्ञाऽभावं प्रतिपाद्य इदानीं न्यायेन प्रतिपादयितुमाह अप्रधानत्वादिति । अणित्येवमादिकाः संज्ञा: प्रणतु तद्रूपप्रतिपादनाय अनुबन्धा उच्चायन्ते । ततश्च परार्थमुपादीयमान- त्वादप्राधान्य मनुभवन्ति । इतरे तु स्वार्थमुपादीयन्त इति तेषां प्राधान्यम् । तेन तेषामेवाजिति एषा संज्ञा भवति। नानुबन्धानाम् । प्रधानाप्रधान- सन्निधौ हि प्रधानमेव कार्येण सम्बन्ध मनुभवति । नेतरत् । तथाचाह भाष्यकार: । प्रधान कार्यसंप्रत्ययात् सिद्धमिति । यद्येवमकारस्याप्येषा संज्ञा न स्यात् । संज्ञाप्रतिपादने तस्याप्यङ्गभावोऽस्त्येव । स्वस्य च रूपस्येत्य नुहात्तिसामर्थ्यात् तस्य भवतीतादोषः । एतेनानन्तरोन कारण- हयेन संज्ञाविधानकाले ऽनुबन्धानां सन्निधानमभ्युपता संज्ञाया अभाव: प्रतिपादितः । इदानीं तत्रासन्निहितत्वादेव सा न भविष्यतीति प्रतिपाद- यितुमाह लोपश्चेतवादि । बलवानेव बलवत्तरः । स्वार्थ एव तरम् । अल्पाचतर मिति यथा। अनुबन्धा हि इत्संजकाः। तेन तेषामच्संज्ञायाः प्रागेव तस्य लोप इति लोपन भवितव्यम्। तसा बलवत्त्वात्। तदसतां तेषां कुतः संज्ञा ? तसाञ्चासतयां कुतोज्ग्रहणेष्वच्कार्यसा सम्भवः ? बलवत्त्वं तु लोपसा परत्वावित्यत्वाच्च । संज्ञाशास्त्राद्धि लोपशास्त्रं परम् । अतस्तसमापि परत्वम् ।

प्रत्याहारः। १५ कताकृतप्रसङ्गित्वावितात्वम् । कृतायामपि संज्ञायां लोपन भवितव्यम् । अकृतायामपि । नतु लोपे कते संज्ञा भवति । मंजिनामसत्त्वात् । यद्येवं यथा अजन्तःपातिनां णकारादीनामनुबन्धानाम् प्रथभं लोपो भवति तथा चकारसयापि समात् । ततश्चाजिति मंज्ञा न निष्पद्यते । वचनसामर्थ्यात् तसा प्राग्लोपो न भविष्यति। लुप्तेऽपि वा तम्मिन् भूतपूर्वण तेन सहित: अकार: मंज्ञा भविथति । अजन्तःपातिनां तु लुप्तानां णकारादीनां नार्हति संज्ञा भवितुम् । इकारादिषु सावकाश वात् । इहैते अकागदयो वा अनेकावयवा इष्यन्ते । तस्यादित उदात्तमर्धस्वम् (१।२।३२) एचोऽ प्रगृह्यस्यादूराडूते पूर्वस्यार्धस्या- दुत्तरस्य दुतौ इति वचनात् (८।२।१०७)। सन्ति च केषाञ्चित् केचिदवयवा वर्णान्तरसरूपाः । तद्यथा ऋकारे रेफः । लकार लकारः । एकारे च ऐकारचा कारकारों । ओकारे च औकारे च अकारोकारी। दीर्घष्वाकारादिषु इम्वा अकारादयः । तत्र य एते ऋकारादिवर्णानामवयवा स्ते किं वर्णग्रहणेन गृोरन् नवा ? तत्र पूर्वस्मिन् कल्पे अग्ने इह वायो उदकमित्यकः सवर्ण दोर्घत्त्वं प्राप्नोति । प्रणोय आलूयेति ह्रस्वाश्रयस्तुक् । एवमादयोन्येप्यस्मिन् पते दोषाः प्रसजन्ति । ते च भाष्थादवधाऱ्याः । इतरत्र तु नुड्विधिलादेशविनामेष ऋकारग्रहणं कर्तव्यम् । नुड्विधी तावत् । ऋधु वृद्धों लिट् । आवृधतुः । आनृधुरित्यत्र ऋकार रेफस्य हल्ग्रहणेनाग्रहणात् दिहत्त्वाभावे तस्मान्नुड् दिहल (७।४।७१) इति नुड् न प्राप्नोति। लादेश विधौ क्लृप्तः क्लुप्तवानिति रेफस्य कपो रोल इति (८।२।१८) लत्वं न सिध्यति । विनामविधो मातृणां पितृणा- मिति णत्वं न स्यादित्यत आह वर्गोवित्यादि । वर्णेषु ऋकारादिषु । वर्ण कदेशा इति रफादय इति । वर्णात्मभूतत्व ज्ञापनार्थमेकदेशा इत्युक्तम् । एतदुक्तं भवति । वर्णानामात्मभूता एकदेशा वर्ण कदेशा इति । यदि ह्ये कदेशा- इत्येतावदुच्येत ततः कस्यचिद् भ्रान्तिः स्यात् । अर्थान्तरभूता एवैते एकदेशा इति। वर्णैकदेशा स्तूर्यादयोपि सन्तीति तयवच्छेदार्थमाह । वर्णान्तरसमाना कतय इति । वर्णान्तरवत् समानाकृतियेषां ते वर्णान्तरसमानाकृतयः अवयवाः । ततोऽन्यैर्वर्ण रनवयवभूते स्तुल्याकृतय इत्यर्थः । तेष्विति। वर्णेकदेशेषु। तत्कार्यमिति। वर्णान्तरकार्यमकः सवर्णे दीर्घत्वादि।

न्यासः । । किं पुनः कारण भवतीत्याह। तच्छायानुकारिणो होत्यादि । तच्छाया तदाकारः । वर्णान्तराणामकारादीनामाकारमात्रम् । तेऽनु कुर्वन्ति । तत्तुल्यरूपत्वात् । नतु त एव । नहि तदाकारानुकारित्वमात्रेण व तत्वं भवति । तथाहि गवि गवयावयवानुकारिणोऽवयवाः सन्तिः । नच तेषा तत्स्वभावता। किं पुनः कारण ते तएव न भवन्तीत्याह पृथगितादि । प्रयत्नः प्रयतनं स्थानकरणव्यापारः। वर्णान्तरहेतोः प्रयत्नात् पृथगन्येन प्रकारेण यं निर्वत्यं निष्पाद्यं वर्णमाचाव् इच्छन्ति । तदेते वर्णा अवयवाः । यदि वर्णाः स्युः प्रयत्नान्तरनिर्वाः स्युः । नचैवम्। तथाहि समुदायार्थी यः प्रयत्नः तेनैव ते निष्याद्यन्ते । तदेवम् अग्रहणकपक्षमाश्रयतैव ग्रहणकपक्ष- भाविनो ये दोषा स्तेषां प्रसङ्गः प्रतिक्षिप्तः । ननुच ग्रहणकपक्षीपि भाष्ये व्यवस्थापितः । तदनुषङ्गिणां दोषाणां परिहारात्। तत् कस्मात् स परितक्तः । बहुप्रतिविधेयत्वात् । अग्रहणकपक्षे त्वल्प' प्रतिविधेयम् । अतः स एवं वृत्तिकारणाश्रितः । यदि तर्हि न गृह्यन्ते नुड़ादिविधिषु ऋकारग्रहण कर्तव्यतया स्थितमेवेतात आह नुड्विधिलादेशविनाम वित्यादि । नुडादि विधिषु यचोद्यमापतति ऋकारविषये तस्य प्रतिविधानं कर्त्तव्यमितार्थः तत्र नुड्विधी तावत् ऋकारस्थो रेफः हलग्रहणन गृह्यते। तेनानापि बिहलोऽङ्गस्य नुड् भवति । नुड् भवति । आऋधतुः। आनृधुरिति । एतत् स्वयमेव वृत्तिकारण प्रतिपादनं कृतम् । अथ किमयमृकारस्थो रेफो वर्णात्मकः ? नेताह । इदानीमेव ह्यु तीम् । तच्छायानुकारिणो हि ते न पुनस्त ये तर्हि हकारादयो वर्णा अक्षरसमाम्नाये उपदिष्टा स्त किं वर्णात्मका: ? नेताह । तथाहि हयवरड़ितपादो वक्ष्यति इत्येतान् वर्णानु- पदिश्येति । अथ कथमिदानीं वर्णात्मनां हलां ग्रहणेन ऋकारस्थ स्यापि अवर्णात्मनो रेफस्य ग्रहणं भवति ? विहल्ग्रहण सामादित्यभिप्रायः । हि तस्मान्नुडित्येतावदेव वक्तव्यम् । नचैव मुच्यमाने आटतुराटु रित्यादावपि प्रसङ्गो भवति । अश्नोते श्चेत्य स्य (७/४/०२) नियमार्थत्वात् । अदिहलो यदि भवति तदाश्नोतेरेव । नान्यस्येति । अश्नातिनिहत्तार्थ तदिति चेत् ? वार्तमेतत् । यदि ह्य तावत् प्रयोजनं माात् नाश्न इत्येवं प्रतिषेधं कुर्यात् । तदेवमन्तरेणापि एवेति । ? ? । तत्र प्रत्याहारः। बिहल्यहणम् । सिडे यद् दिहलग्रहणं करोति तस्यैतत् प्रयोजनम् । हिक छायानुकारिणो हि यथा स्यादिति । यस्याप्येको मुख्यो हल् पयरो ऽवयवस्तत् समानावतित्वादुपचारेण हल् व्यपदेशाईः । तस्यापि यथा स्वादित्वेषमर्थः । एतच्च कथं लभ्यते ? यदि हलित्येषा श्रुति स्तत्र हल्छायानुकारिण्यामपि ऋकारस्थायां रेफव्यक्तौ वर्तते। मान्यथा। तम्याद दिहलग्रहणेन ऋकारखो रेफोऽपि ग्राह्यते । अन्यथा दिहल्ग्रहण मनर्थकं स्यात् । रेफ इति पर- प्रसिधा तत्रोक्तम् । वर्णग्रहणवादिनां हि ऋकारभागोऽपि रेफ इति प्रसिद्धः । सादृश्यादेवमुक्तम् । भवति हि सादृश्यादतस्मिबपि तापदेशः । यथाग्निः माणवक इति । अथवा रादिफ इत्यत्र ( २१३ १०८ वा ) वर्णात् कार ( ३।३।१०८ वा ) इत्यतो वर्णादिति नानुवर्तते । सेनावर्णात्मकादपि रादिको भवति । बहुलवचनाहा । अतएव लकारस्थामकारमरूपादवयवाद् अवर्णाम- नोपि कारप्रत्ययो भवतीति वेदितव्यम् । लादेशविधावपि र इति सामान्य मुपादीयते । तेन यः केवलो रेफः यश्च ऋकारस्थः तयोई योरपि ग्रहणम् । ल इत्यपि सामान्यमेव । ततोऽयं केवलस्य रेफस्य स्थाने केवल एप लकार आदेशो विधीयते । ऋकारस्याप्येकदेशविकारधारण लकारः । तथाच लुटि च क्लप ( १।३।८३) इत्येवमादयो निर्देशा उपपद्यन्ते इति । एतत् कपो रो ल (८।२।१८) इत्यत्र स्वयमेव वृत्तिकृता प्रतिपादितम् । र इति सामान्यमुपादीयत इति। वर्णत्वावर्णत्वकृतं भेदमुत्सृज्य यत् सोमान्य- मवर्णात्मिकायां वर्णात्मिकायाञ्च रेफयती वर्तते । यतस्तयोः वर्णत्वावर्णत्व भेदभित्रयोरपि र इति शब्दप्रत्ययौ अभिती भवतः। तावुपादीयते। नतु वर्णा- मिकैव रेफव्यक्तिः। तेनेति । सामान्योपादानेन इयोरपि ग्रहणं भवतीति । तस्य सामान्यस्य योरपि सद्भावात् । ल इत्यपि सामान्यमेवेलि। उपादी- यवे इत्यपेक्षते । अत्रापि यश्च केवलो खकारः यश्च लकारस्थः तयोई योरपि ग्रहण मित्येतहत्तव्यं स्यात् । पूर्वानुसारेण गम्यमानत्वाब्रोक्तम् । ततोऽय मित्यादि। यत एवं योरपि रेफलकारयो ग्रहण तस्मात् केवलस्य रेफस्य स्थाने खकारोऽयमादेशः विधीयते । अन्तरतमत्वाकारस्थापि तृकारः । ननु च सत्यपि इयोरपि ग्रहणे ऋकारस्य स्थाने लकारो भवतीत्येतत् कुतो ३ न्यासः तत्र । लभ्यते ? नहि ऋकारस्थो रेफ ऋकारो भवति । किं तर्हि ? तदवयवः । नापि लुकारस्थो लकारः लुकारो भवति ? किं तर्हि ? तदवयवः । इयोरपि ग्रहणे सति ऋकारस्थस्यापि रेफस्य लकारस्थो लकारः वर्णेकदेश- तयान्तरतमो भवतीत्येषोऽर्थी लभ्यते । नतु ऋकारस्य हि स्थाने लकारो भवतीत्येतस्य चोद्यस्यापाकरणार्थ मकदेश विकारहारेणत्युक्तम् । तदेकदेश ऋकारस्यावयवो रेफस्तस्य विकार लकारावयवो लकारः । अथवा एकदेशः । अथवा एकदेशल कारस्थो लकारः । स एव विकारः । ऋकारस्थस्य रेफस्य स एव एकदेशविकारः । दारं मुख मुपाय इतियावत्। तेन समस्तस्यैव ऋकारस्य स्थाने समस्त एव तृकार आदेशो विधीयते यदि हि ऋकारल- काराभ्यां तत्स्थयोश्च रेफलकारयोः पृथगभावः सम्भवेत् तदा ऋकारैक- देशस्य रेफस्य केवलस्य लकारैकदेशो लकारः केवल: शक्यते विधातुम् । नच तयो स्ततः पृथग्भावः सम्भवति । तस्माटु यथोन प्रकारेण ऋकारस्य लकारादेशो विधीयते । अनन्तरोक्तस्यार्थस्य दृढ़ीकरणाय तथाचेत्यादरुप- न्यामः । यत एवनेकदेशहारण ऋकारस्य स्थाने लकार आदेशो विधी- यते । एवञ्च सति लुटि च क्लप इत्येवमादयो (११३८३) निर्देशा उपपद्यन्ते । नान्यथा । पादिशब्देन ऋदुपधाचाल पिचते: ( ३ ११११० ।। क्लप (७२।८० ) इत्येतयो निर्देशयो ग्रहग'। विनाम विधावपि ऋवर्णाचेति वक्तव्य मित्युक्ता रश्रुतिसामान्यनिगाहा सिद्धम् । अवर्णभक्तमा च व्यवधाने पत्वं भवतीति क्षुभादिषु नृनमनटप्नोतिग्रहण ण व प्रतिषेधाथं द्रष्टव्यम् । अथवा ऋवर्णादपि णत्वं भवतीत्येतदेव तेन ज्ञाप्यत इति वृत्तिकता स्वयमेव प्रतिविहितम्। रश्रुतिसामान्य निर्देशात् सिद्धम् इति । र इति श्रुतिः ररूपलब्धिय॑स्य स रश्रुतिः रेफः । तस्य केवलस्य ऋकारस्थस्य च वर्णत्वावर्ण- त्वकतभेदं परित्यज्य यत् सामान्यं रेफमात्रं तदिह निर्दिश्यते । नतु वर्णात्मि- कैव रेफव्यक्तिः । तेन सिई तिकृणाम् । चतसृणाम् । मातृणाम् । पितॄणाम् इत्यादावपि णत्वम् । ऋकारेऽपि तस्य रश्रुतिसामान्यस्य विद्यमानत्वात् । स्यादेतत् ऋकारे त्रयो वर्णावयवा: । तन्मध्ये रेफोऽईमात्रात्मा। रश्रुतिसामान्यस्य निर्देशनैव सिध्यति । यासौ रफात् पराऽवर्ण भक्ति तासि च तत्र प्रत्याहारः। १८ इनर्थकः स्यात् । स्तया व्यवधानादित्यस्य चोय स्य परिहाराय उभारो हापकग्रन्थः । यदयं सुभादिषु णत्वप्रतिषेधाय नृनमनशब्दं हप्नोतिशब्दञ्च पठति नतम्- ज्ञाप्यते ऽवर्णभागव्यवधानऽपि णत्वं भवतीति । अन्यथा हि तत्र तयोः पाठो प्राप्ताभावात्। प्राप्तिपूर्वकत्वाच्च प्रतिषेधानां । यद्यपि वर्णात्मिकैव रफव्यक्ति निर्दिश्यते तथापि सिद्धमिति दर्शयितुमार अथवेत्यादि । पूर्वसूत्रोपात्ताद्रथुतिमामान्य निर्देशात् परयाऽवर्णभक्त्या व्यवहितादपि णत्व भवतीति जापितम् । इदानीं तु सूत्रानुपासाहकारा- दव्यवहितादेवत्येष विशेषः । अपर तु मर्वाण्येतानि प्रतिविधानानि वर्ण क- देशग्रहणक पक्षमाश्रित्य विहितानोत्याचक्षते । एतच्चासम्यक् यं हि पक्षमाश्रित्य नविधिलादेशविनामषु ऋकार प्रतिविधातव्यम् इत्युक्तं तत्रैव प्रतिविधातु युक्तम् । अन्यथा ह्यग्रहणकपक्ष मभ्युपत्य ग्रहणकप क्षेऽपि प्रतिविधानं कुर्वता वृत्तिकारणाकौशलमव केवलमात्मनः प्रकटितं स्यात् । ५। ह य व रटा भवति । तस्य ग्रहणं भवत्येकन शछोटी । ८।४।६३ । त्यकारणेति । अत्र शश्छोटी- त्येतत् प्रदेशवाक्योपलक्षणं द्रष्टव्यम् । एवंजातीयकेषु निर्देशष्वकारेण ग्रहणं नतु वर्णान्तरेगोत्यत्रायमर्थोऽभिप्रेतः । नत्व व सूत्रे अकारण ग्रहणं भवतीति । अट कुप्याङ्नुम्व्यवायऽपीति (८।४ २ ) दीर्वादटी (८.३८) त्यत्राप्यकारेण ग्रहास्येष्टत्वात् । अथ लुड्लङ्लक्षुडुदात्त ( ६।४।७१) इत्यत्राप्यकारण ग्रहणं कस्मान्न भवति । प्राक्सितादड्- व्यवायेऽपौति (८३६३ ) वचनात् । प्रत्याहार छतस्मिन्त्रकारादीनां योऽन्यतमस्तेनालोन्त्यपरिभाषयाङ्गान्तरस्य भवितव्यम् । प्रत्येकमट्संज्ञकत्वात् । प्रत्येकमेवाकागदीनामादेशत्वात् । तथा चान्त्यग्रहणेन ग्रहणादड्व्यवधानं नोपपद्यते । अथ प्रत्येकमप्यसंज्ञकत्वे समस्तानामप्यादेशभावः प्रकल्पात । एवमनेकालत्वात् सर्वादेशः स्यात् । तथाच स्थान्यपि सकारो न स्यादिति कस्य केन व्यवधानान मूर्धन्यो भवेद अभ्यषुणोदित्यत्र ? अथार्डधातुकस्यड्- वलादे ( ७.२॥३५ ) रित्यवेकारणास्य ग्रहणं कम्मान भवति ? तष विदित २० न्यासः। इति चेति ( ५।१।४३) निर्देशात् । प्रत्याहार घेतस्मिन् नादेः परस्खेति (१११५४ ) इकागदीनामन्यतमस्तकारस्थादेश: स्यात् । तथाच विदितमिति रूपं नोपपद्यते। अथ दीधीवेवौटामि ( १।१।६ ) त्यतापीकारण ग्रहणं कस्मान भवति ? जयति सम्भवत्यवहरतीत्येवमादि (४ ४।२, ५।११५२) निर्देशात् । प्रत्याहार छ तस्मिन् गुणप्रतिषेधादेवमादयो निर्देशा न सम्भवेयुः । यकारात् परस्य रेफस्योपदेशे सति यो दोषस्तमुद्रावयितुकाम पाह भयमित्यादि। पररापदेशस्तु वल्यन्त वाज्जीवरदानुक् जीरदानुः । गोधाया द्रक ( ४।१।१२८ ) गौधेर इत्यत्र लोपो व्योर्वलौति व्योलौंपो यथा स्यात् । रल्ग्रहणे च वकारस्य ग्रहणणं माभूदित्येवमर्थश्च । यदि हि वकारात् पूर्वी रेफ उपदिश्येत रलो वापधाइलादेः संश्चेति ( १२१२६ ) देवित्वा दिदेविषती- त्यत्र कित्त्वं वा स्यात् । ननु च क्रियमाणेऽपि रस्य यकारात् परोपदेशे प्राप्नोत्येव वकारस्य रल्ग्रहणेन ग्रहणम् । जशामपि मध्ये तस्योपदेशात। नैतदस्ति । उभयोभिवगुणनिष्पाद्यत्वाद् भेदस्य सिद्धत्वात् । यथोक्तम् । पृथक्प्रयत्ननिर्वत्यं वर्णमिच्छन्तीति । अन्तःस्थात्वेनेषत्पृष्टकरण- वादितरस्य च स्पर्शत्वेन स्पृष्टकरणत्वात् । अयञ्च दन्तयोष्ठयो वकारः । यस्तु जबगडदशिष्यते स ओष्ठयो वेदितव्यः । ननु च वकारण व्यवधानाबायं यकारात् परः । किं तर्हि ? वकारात् पर इति तत् किमुच्यते यकारात् पर इति ? व्यवधानऽपि परशब्दो वर्त्तते । यथा बाल्यात् परं वृद्धत्वमित्यदोषः । अत्र यौवनेन व्यवहितेऽपि वृद्धभावे परशब्दस्य वृत्तिः । यदि यकारात् पर उपदिश्यते ततः किमित्याह तस्य यग्रहणनेत्यादि । यरित्यस्याः संज्ञाया ग्रहणेनोच्चारणेन। तथा ययित्यस्याः संज्ञाया ग्रहणेनोच्चारणनेत्यर्थः । अथवा यरा संजिनां ग्रहणनोपादानेन । ययां मंजिनां ग्रहणेनोपादानेनेत्यर्थः । ग्रहण सतीति उपादाने सति । तद्ग्रहणेन तु तद्ग्रहणम् । तस्यापि तत्- संज्ञकत्वात् । तदन्तर्भावात् च। स्वर्नयतीत्यत्र ऋटुरषा मूर्धन्या इति तुल्यस्थानत्वाद् रेफस्य नकार पर परसवर्णो णकारादेशो भवति। विशेषा- नभिधानात् । ननुचैवं सति स्थानन्तरतमपरिभाषा बाध्येत । रेफस्यान्सरतमो पकारः। प्रयत्नभेदात् । नैतदस्ति । व्यक्तिः पदार्थ इत्येतषि प्रवाहारः। तस्माज् जातो । दर्शनमाश्रिस्व चोद्यते। तेन स्थानन्तरतमपरिभाषया बाधा नाशङ्गनीया। यत्न अन्सरतमोऽनन्तरतमश्च विद्यते तत्र तस्या व्यापारः । नहान्सरतमोऽस्ति यस्माद व्यक्ती पदार्थ प्रतिलल्य लक्षण प्रवर्तते । भानन्तात् तु सर्वाणि लक्षणानि नोचायन्ते । तत्र यदेतदविषयं लक्षण सत् प्रयत्नभेदादनन्तर- तमऽपि णकार यदि न प्रवर्तते तदा तस्य चैयर्थमेव स्यात् । पदार्थे इयं परिभाषा वेदितव्या । न तु द्रव्ये। मद्रदभाद इति । प्रचो हकारादुत्तरोऽयं रेफ: यर् भवतीति द्विवचनं प्राप्नोति । प्रचो रहाभ्यां हे (८।४।४६ ) इत्यत्र यरोऽनुनासिकेऽनुनासिको ( ८।४।४५ ) वेत्यतो यरित्यनुवर्तते । तत्र द्विवंचने सति इयो: रेफयोः श्रवण स्यात् । रीत्येकस्य (८।३।१४ ) लोपो भविष्यतीति चेत् ? न। लोपे कर्तव्य दिर्वचनस्यासिदत्वात् । हलो यमा यमि लोप ( ८४६४ ) इत्यनेन तय कस्य लोपो भविष्यति । सिहं यस्मिल्लों पे द्विवचनम् । एवमपि पक्षे हयोः रेफयोः श्रवण प्रसज्येत । तत्र हि भयो होऽन्यतरस्यामित्यतो ( ८18'६२) ऽन्यतरस्याग्रहणमनुवर्तते । अथापि तवानुवक्त एवमपि दिर्वचन- विधानसामर्थ्यालोपो न भविष्यति । अन्यथा हि दिवचनविधानमनर्थक स्यात् । कुण्डरथेनेति । अनुस्वारस्य ययि परसवर्ण (८।४ ५८ ) इति तदन्यस्य परसवर्ण स्थासम्भवाद रेफस्य रेफएव परसवर्ण : स्यात् । रफोमणां सवर्णा न सन्तीति रेफोऽपि रेफस्य सवर्णी न भवतोत्येतच नाशमनीयम् वर्णान्तरापेक्षया तदुनम् । वर्णान्तराणां यथायोगमतुल्यस्थानप्रयत्नत्वात् । रेफव्यक्तीनां तु परस्परापेक्षया सावर्ण्यमस्त्येव । तुल्यस्थानप्रयत्वात् । अन्ये तु ययि रेफे अनुखारस्य परसवर्णो णकार: स्यात् । तुल्यस्थानत्वा- दिति वर्ण यन्ति । एतच्चायुक्ताम् । हि स्थानमात्र तुल्यतया सवों भवति । किं तर्हि ? तुल्यस्थानतया तुल्यप्रयत्नतया च । नच रेफस्य णकार स्तुल्यप्रयत्नः। रेफस्येषत्पृष्टत्वात् । णकारस्य च स्पष्टत्वात्। एवं व्यक्तिपदार्थमाश्रित्य परेण चोदित जातिपदार्थमाश्रित्य परिहार वक्त काम आह। नैष दोष इत्यादि । प्राकृताविति जातावित्यर्थः । केषाश्चिजातिः पदार्थः । केषाञ्चिव्यम् । पाणिनेस्तूभयम् । लक्ष्यानुरोधात् । तत् क्वचित न्यासः । प्रवर्तत। यत्र वा ? किञ्चिदागीयते । तत्र जाती पदार्थ आश्रीयमाण जातिरेव शनाभिधीयते। नान्तरीयकत्वात् तु तदाधाग व्यतायः प्रतीयन्ते। जातेराधारमन्तरेण प्रत्येतुमशक्यत्वात् । एतस्मिन् दर्शने तस्यास्तु जाते: स्थानित्वमादेशत्व परत्व- मव्यवहितत्वमित्यादयो धर्माः शब्दसंस्कारोपयोगिनो व्यक्ति द्वारकाः । तेन यरोनुनासिकेऽनुनासिको (८,४४५ ) वेत्येवमादिलक्षण प्रवर्तमानं जाति- मतीषु व्यक्तिषु एव प्रवर्तते । तत्र प्रवृत्तेर्जातौ प्रवृत्तं भवति । नच तासु व्यक्तिषु जातिं प्रति कासाञ्चिदासत्तिर्विप्रकर्षी वा यतः क्वचिदेव न सर्वत्र । सम्बन्धस्या विशिष्टत्वात् । तस्मात् तत्र प्रवर्त्तमानं वचनान्तरण न्यादेन न बाध्येत तत्र सर्व व प्रवर्तते। एवञ्च प्रवृत्तं समुदाये प्रवृत्त भवति । सकदिति एकवारम् । न पुनः पुनः । सकृत्प्रवृत्ताव लक्षणस्य च चरितार्थत्वात् । एतस्मिन् दर्शने यरोऽनुनासिकेऽनुनासिको वेत्येतलक्षण कथं प्रवर्तेत ? किमविशेषण सर्वेष्व व जातिमत्सु पदार्थेषु प्रवर्त्तते ? उत विशेषेण केषुचिदेव ? यद्यविशेषण स्यात् स दोषस्तदवस्थ एव । अथ विशेषण वाच्यस्तहि सविशेष इत्यत आह यरोऽनुनासिक इत्यादि। एतेन स्थानन्तरतम परि- भाषाया उपस्थानात् तद्दर्शनान्तरतमेष्वव प्रवर्त्तते । नान्येष्विति दर्शयति तदनेनेत्यादि । यत एवान्तरतमव व प्रवर्त्तते तस्मादनेन लक्षणेन गकारादीनां येऽन्तरतमा: स्थानगुणाभ्यामुभाभ्यामपि ते डकारादयोऽनुनासिका विहिताः । यथास्वमिति । यथात्मीयमिति । ये येषामन्तरतमास्ते तेषां विहिता इत्यर्थः । गकारादीनामिति । आदिशब्द न जकारादीनां ग्रहणम् । ङकारादय इत्यत्रापि आदिशब्देन अकारादयोऽनुनासिका गृह्यन्ते । तत्र स्थानतो गुण- तश्चान्तरतमाः । तद्यथा गजडदबानां यथाक्रमं डबगानमाः । तथाहि अकुहविसर्जनीयाः कण्ठया इति गकारङकारयोस्तुल्य कण्ठः स्थानम् । इचुयशास्तालव्या इति जकारजकारयोस्तालु । ऋटुरषा मूर्धन्या इति डकारण कारयो मूर्धा। टतुलसा दन्त्या इति दकारनकारयोर्दन्तः । उपूपध्मानीया ओष्ठया इति बकारमकारयोरोष्ठः । गुणस्तु सर्वेषामेवैषां तुल्यः । स्पष्टं करण स्पर्शाणामिति वचनात् । कादयो मावसानाः स्पर्शाः ।

प्रत्याहारः। २३ । सत्र नापि । -- अन्तस्था गान्तरतमा ये तु न स्थानतो नापि गुणत इति । अन्तरतमा इत्यपेक्षते । ते सर्वे निवर्तिता इत्यनेन वक्ष्यमाणेन सम्बन्धः । अविधानमेवेषां निवर्सनम् । स्थानमात्रेण गुणमात्रेण वेति । तत्राप्यन्तरतमा इत्यपेक्षते । पूर्ववच्च सम्बन्धः । स्थानतो नापि गुणतोऽन्तरतमा अनुनासिका: । ते यथा गजडाना । यवला: सानुनासिका निरनुनासिकाश्चापि । ते तेषां स्थानगुणाभ्यामनन्तरतमा एव । सानुनासिकग्रहण तु यरोनुनासिके इत्यादौ ८ ४।४५। सूत्रेऽनुनामिकस्यादेश- वनोपादानात् । तत्र गकारयकारयोर्यथाक्रम कण्ठतालुस्थानत्वात् स्थानत आरतम्यं नास्ति । जकारलकारयोस्तालुदन्तस्थानत्वात् । डकारवकारयो- यथाक्रमं मूर्धदन्तोष्ठस्थानत्वात् । गुणतोऽपि तेषां नाम्तवान्तरतम्यम् । गकारादीनां स्पृष्टकरण त्वात् । यकारादीनामीषत्स्पृष्ट करणत्वात् । ईषत्स्पृष्ट करणमन्तःस्थानामिति वचनात् । यरलवाः । स्थानमात्रे- अनुनामिका: । तद यथा जदबानां यल व: सानुना मिकाः। अत जकारस्य यकारस्तुल्यस्थानम् । तयो म्तालुस्थानत्वात् । दकारस्य लकारः । तयो दन्तस्थानत्वात् । बकारस्य वकार: । उभयो रोष्ठ. स्थानत्वात् । यद्यप्यन्तःस्थस्य दन्ता: स्थानमधिकं तथापि यत्र तयो मतुल्यस्थानमोष्ठः तत्कृतमा तरतम्यमस्त्येव । उकारोकारवत् । उकारण्य प्रस्थान । आकारम्य तु कण्ठोऽपि । ओ श्री कगठोष्ठाविति वचनात् : तथापि यत् तयो स्तुच स्थानं ओष्ठस्तत् कात सान्तरतम् भवत्येव । यथा च तयारकस्य स्थानाधिक्येऽपि आन्तरतम्यं तथा बकार वकारयोरपि । गुणमात्रेणान्तरतमाः जबडानां डगानाः। सर्वषां पृष्टतागुणत्वात् । स्थानत स्तेषामान्तरतम्यं नास्ति । जबडानां यथाक्रमं तात्व'ठमूई स्थानत्वात् । डगानानान्तु कगठमूर्धदन्तस्थानत्वात् । इतोत्यादि। इतिकरणो हतो। यत एवं स्थानगुणाभ्यां येऽन्तरतमाम्त एवानन विहिता अन्ये तु सर्व निवर्तिताः तम्मात् स्थानमात्रेणान्तरतमी फस्य णकारो न भवति । स्थानमावणान्तरतमत्व चोभयो म प्रस्थानत्वात् । गुणत म्त्वान्तरतम्यं नास्ति । स्मृष्टतादिगुणभेदाच । रेफम्य यरन्तर्भाव सतीति । या कार्यप्राप्तेरयं हेतुः । यस कार्य प्राप्तमिति दिवचनमित्यर्थः । तट्वि यरन्त वकारग्य यथा ०.

२४ ततश्च र्भावाद रकस्य प्राप्नोति यथान्येषां यराम् । तदित्यादि। रेफख हिर्वचनं प्रति निमित्तभावः साक्षाच्छिष्टः प्रत्यक्षविहितः । अचो रहाभ्यामिति (८५४४६) साक्षाद रेफ निमित्तत्वेनोपादाय विचनविधानात् । यकार्यन्तु यरतर भावादनुमितम् । प्रत्यक्षानुमितयोश्च प्रत्यक्ष वलीय इति साक्षाद् विहितेन निमित्तभावेन रेफस्य हिर्वचनं बाध्यते । तद् यथा ब्रामणा भोज्यन्ताम् । माठरकौण्डिन्यौ परिवेविष्टामिति । अत्र हि साक्षाद्विहितेन परिवेषणम् प्रति साधनभावेन माठरकौण्डिन्ययो ब्राह्मणवाद योऽनुमितो भोजनं प्रति साधनभावः स बाध्यते । यद्येवं दध्युदकादिषु दोषः । इको यणचीत्यत्र यजन्तर्भावादिको यणादेशं प्रति निमित्तभावोऽनुमीयमानः । यणादेशस्त साक्षाच्छिष्टः। इक इति साक्षादिकं कार्यिणमुपादाय विधानात् साक्षाच्छिष्टेन तेन निमित्तभाव इको बाध्यते । तत्र व्यक्तोः पदार्थस्याश्रित- वाददोषः। व्यक्तौ पदार्थे प्रतिलक्ष्य लक्षणं प्रवर्तत इत्युक्तम् । तत्र यदि यणादेशेन निमित्तभाव इको बाध्येत यद् दध्युदकादिविषयं लक्षणं तस्य तस्मान्मा भूदेष दोष इति लक्षणसामर्थ्यानिमित्तभावो न इह पुन र्जाति: पदार्थ आश्रितः । तत्र जारिकत्वादचो रहा भ्यामिति लक्षण मप्येकमेव । तन्चार्क: मर्कइत्यादी चरितार्थम् । अतो यद्यपि मद्रदादौ हिर्वचनं न विदधाति तथापि न भवति वैयर्थ प्रसङ्ग इति न बिरुच्यते। रेफ इति । इतिकरणनानन्तरोतस्यार्थस्य दिवचनाभावं प्रति हेतभावो द्योत्यते । अनुस्वारस्येत्यादि। न केवलं यरोनुनासिकऽ (८।४।४५) नुनासिको वेत्येतदन्तरतमं सक्कदेव प्रवर्त्तमानं विदधाति अपित्वनुवारस्य ययि परसवर्ण (८।४।५८) इत्येतदपि इतापि शब्दस्यार्थः । स्यादेतत् । यद्यप्यन्तरतमं विदधाति तथापि भवितव्यमेवात्र रेफेण परसवर्णेन । तस्याप्यन्तरतमत्वादित्यत माह नचेत्यादि । नच रेफस्य सवर्णोऽस्तोति सम्वन्धः । किंविशिष्टो नास्ति ? अनुखारान्तरतमः । अनुखारस्य सदृशतम इत्यर्थः। इति हेतोर्न भवति कुण्डं रथेनेत्यत्र परसवर्ण: । कथं पुनरनुखारान्तरतमः । सवर्णों रेफस्य नास्ति ? उच्यते । रेफस्य रेफ एव सवर्ण:। नान्यो वर्णः । स चानुस्वारस्यान्तरतमो न भवति । स्थानभेदाद गुणभेदाच । रेफस्य हि मूर्धा स्थानम् । अनुस्वारस्य वैयर्थं स्यात् । बाध्यते। ।

प्रत्याहारः। पुनरनुस्वारयमा नासिक्या इति वचनाद् नासिका । गुणोऽपि रेफस्येषत्- स्पृष्टता। अनुखारस्य तु स नास्ति । अन्तःस्थानामव घयमसाधारणो गुण दृष्यते। नान्येषाम् । यद्यपि वर्गाणां तीयचतुर्था अन्तःस्था इका- रानुस्वारी च यमौ च तृतीयचतुर्थों नासिक्यच संहतकण्ठा नादानप्रदाना घोषवन्तश्चेति वाघप्रयत्नाख्येन गुणेन संहतकण्ठत्वादिना अनुस्वारान्तरतमो रेफः सवर्णः सम्भवति तथापि न गुणमात्रेणान्तरतममेतलक्षणम् परसवर्ण विधातु मुत्सहते। यत्र स्थानतो गुणतश्चान्तरतमास्तत्रानुस्वारस्य परसवर्णाः सन्ति । शशितः कुण्ठित इत्यत्र चरितार्थत्वात् । अत्र स्थानतोऽप्यनु- स्वारस्य नासिकास्थानस्य उणावन्तरतमी। तयोरपि नासिकास्थानत्वात् । जमङणनाः स्वस्थाना नासिकास्थानाश्चेति वचनात् । गुणतोऽपि । तेषाम् पूर्वोक्तैरनुस्वारगुणैरनुगतत्वात् । यथा हतीयास्तथा पञ्चमा इति वचनात् । अनेन हि वर्गाणां ढतीयचतुर्था इत्यादिना ग्रन्थेन ये ऽनुस्वारसाधारणा वर्गटतीयानां गकारादीनां गुणा उक्ता स्ते डकारादीनां निर्दिश्यन्ते । गुणमात्रेणाप्यन्तरतमं विदध्याद रेफ यद्यसकत् प्रवर्त्तते तत् । मामूत् पुनः पुन: प्रहत्ति रपार्थिकति कृत्वा । न चासकत् प्रवर्तत इत्युक्तम् । उर: केणेत्यादि। उर: कायति । उरः पाति । के गै शब्द । पा रक्षण। इत्याभ्यामातोऽनुपसर्गे कः ( ३।२।३)। पातो लोप इटि चेत्याकार ( ६।४।६४ ) लोपः । उपपदसमासः । सुब्लुक् । ससजुषो ( ८२।६६) तस्य स्वरवसानयोर्विसर्जनीयः ( ८।३।१५ )। कुपो:=क- चेति ( ८:३।३७ ) यथायोगं विसर्जनीया वुपमानीयजिह्वामूलीयो । ६ । लण। अयं णकारो दिर्बध्यते । पूर्वतश्चैवं परतश्चैवम् । तत्रेण्ग्रहणेवण्- ग्रहणेषु च संदेहो भवति । किं पूर्वेण स्युः परेण वेति । अतस्तदपनयनार्थ- माह। इण्ग्रहणानीत्यादि । तत्र यथा सर्वागीणग्रहणानि परेण णकारण गृह्यन्ते तथा अइउण इत्यत्र प्रतिपादितम् । अणग्रहणानि तु यानि परेणापि सम्भाव्यन्ते तानि पूर्वेण प्रतिपाद्यानि । कानि पुनस्तानि ? दलोपे ४ न्यासः । पूर्वस्य दीर्घोऽण: ( ६ ३।१११ ) । केऽण: (७:४।१३ )। अणोऽप्र- गृह्यस्यानुनासिकः ( ८।४।५७)। उरण रपरः उरण रपरः ( १११।५१)। इत्येतेषु सूत्रेषु यान्यण्ग्रहणानि । तत्र पूर्वस्मिं स्तावत् सूत्रे दृढ़ादिषु दृढ़शब्द पाठो ज्ञापको न परणाण ग्रहण मिति । यदि हि परेण स्याद् बढ़ इति रूपं न स्यात् । ततश्च दृढ़ादिषु बढ़ इति पाठो नोपपद्यते । वृह उद्यम इत्यस्य निष्ठायां ढत्वधत्वढलोपेषु कृतेषु वृढ़ इति रूपं भवति। किञ्च दीर्घश्रुत्या तबाचश्चेति ( १।२।२८ ) सबिधापित सत्यच एव दीर्घवेन भवितव्यम् । तथाच यदि परणान्तःपातिनामप्यचां दीर्घत्वमभिमतं स्याद् असन्देहार्थ मजग्रहणमेव कुर्यात् । अथवा तदपि न कुर्यात् । अचश्चेत्यस्मादेव ( १।२।२८ ) सर्वाचां दीर्घत्वसिद्धेः। तस्मादणग्रहणसामात् पूर्वेणाण्ग्रहणं विज्ञायते । केऽण (७।४।१३) इत्यनेनापि के परतो हलामणामसम्भवादचामेव इस्खो विधीयते । तत्र यदि सर्वेषामचां इस्वत्व- मभीष्टं स्याद् असन्देहार्थ मज्ग्रहण मेव कुयात् । अथवा तदपि न कुर्यात्। इखग्रहणेनोपस्थापितादचश्चेत्यस्मादेवाभिलषितार्थसिद्धेः । तृतीये- नापि सूत्रेण पदान्तस्याणोऽनुनासिको विधीयते । नच पदान्ता हलोऽण: सन्तीत्यचामेवानुनासिको विधेयः । तत्र यदि सर्वेषामचामनुनासिको विधिसितः स्याद् असन्देहार्थ मज्ग्रहणमेव कुयात् । अथवा तदपि न कुर्यात् । अचएव हि प्रगृह्यसंज्ञा भवन्ति । न इलः । तत्र नजिव युक्तन्या- येन प्रगृह्यप्रतिषेधात् तत्सदृशस्याच एव कार्य विज्ञास्यते । तस्मात् तत्राप्यण्ग्रहणसामात् पूर्वेणैवाणग्रहणं प्रतीयते । उरण रपर ( १।११५१) इत्यत्रापि होटप्रशास्तृणामिति ( ६।४।११ ) निर्देशो ज्ञापयति नेह परेणाण- ग्रहणमिति। परेणाणग्रहणे सति नामीति रपरो दीर्घः स्यात् । प्रशास्तृणामिति निर्देशो न स्यात् । किञ्च नच रफादन्य ऋकारस्य स्थान हलोऽणः कचिच्छास्त्रे विधीयन्ते । तथाहीको यणचौति रेफः स्यात् । ऋकारस्य स्थाने कर्थमित्यादौ रेफे रेफपरे अरेफपरे वा विहित कश्चिविशेषः। कृते हि रपर तत्रैकस्य रेफस्य रो रीति (८.३।१४ ) लोपन भवितव्यम् । तस्मादेतदप्यणग्रहणं परेण गकारण भवदजर्थमेव स्यात् । तत्र तथाच प्रत्याहारः। पत्र च यदि सर्वेषामचा स्थाने विधीयमानानां रपरत्व मिष्टं स्याद् असन्देहार्थमज्- ग्रहणमेव कुर्य्यात्। तदेवमेतदणग्रहणं पूर्वेणे व णकारेण भवतीति निश्ची- यते। अणुदित् सवर्णस्य चाप्रत्यय ( १.११३८ ) इत्येकमनेनेति । उदिति (७४.७ ) ऋकारस्य तपरकरग लिङ्गम् । तद्धि ऋकारेण सवर्णानां ग्रहण सति अचीकृतदित्यत्र दीघस्य स्थानिन आन्तरतम्याद दीर्घा मा भूदित्येवमथं क्रियते । यदि चाणदिदित्यादौ पूर्वेण णकारेणाणग्रहणं स्यात् तदा ऋकारोऽनग त्वात् सवर्णानां ग्राहको न स्यात् । ततश्च दीर्घस्यापि स्थानिनों यथाश्रुतेन हवेनैव भवितव्यमिति तपरकरणं न कुर्यात् । व्यावी- भावात् । कृतन । ततो गम्यते परेण णकारेणाण ग्रहणमिति । ननु च सत्यपि परेण णकारेणाण ग्रहणे उर ऋदित्यत्र ( ७।४10 ) नैव सवर्णानामृकारो ग्राहक उपपद्यते भाव्यमानत्वात्। भाव्यमानेनाणा सवर्णानां ग्रहणं नेति प्रतिषेधात् । नेतदस्ति । वक्ष्यति हि तत्र नचायं भाव्यमानोऽण । किं तर्हि ? आदेशान्तरनिवृत्ताथं स्वरूपमेवाभ्यनुज्ञायत इति । अचीकतदित्यत्र कृत संशब्दने । चुरादिणिच् । लुङ् । च: णिश्रीत्यादिना चङ् (३।१।४८) । उग्ऋदिति (७४.७ ) ऋकारस्य ऋकारः । णिलोपः (६।४।५१)। चडीति ( ६।१।११ ) दिवचनम् । उरदित्यत्त्वम् ( ७४।६६ )। हलादिः (७।४।६०) शेषः। सन्वल्लधुनी (७४।८३ ! तीत्त्वम् । दी| लघो ( ७४८४ ) रिति दीर्घत्वम् । अथ किमर्थमग्रहणमेवैतन् न क्रियत इति ? कते सन्देह एव न भवतीति भावः। किं कारणम् ? नैवं शक्य मित्यत आह अन्तःस्थानामपि होत्यादि । हिप्रभेदा रेफर्जिताः । सानु- मासिका निरनुनासिकाश्चेति वचनात् । यवला: सानुनासिकनिरनुनासिक- भेदेन दिप्रकाराः । ते प्रत्याहारेऽपि निरनुनासिका वा उपदिश्येरन् सानु- नासिका वा ? यदि निरनुनासिकाः सय य्यन्तेत्यादावनुवारस्य ययि पर सवर्ण ( ८।४।५८) इत्यान्तरतम्यात् सानुनासिकेषु यकारादिषु परसवर्ण षु कतेषु तेषां प्रत्याहार ऽनुपदेशाद् यत्वं नास्तीत्यनचि चेति (८।४।४७ ) यरो हिर्वचन विधीयमानं न स्यात् । अण ग्रहण तु सत्यण सवर्णान् एखातीत्येतेषामपि हिर्वचनं सिध्यति । ननु च कृतेऽपि हिर्वचने हलो यत्र अन्तःस्था न्यासः । भवत्येव। यमा यमि लोप ( ८।४।६४ ) इत्येकस्य लोपविधानात् त्रयाणां यकाराणां श्रवण न सम्भवत्येव । तत् किं हिर्वचनार्थेन प्रयत्नेन ? नैतदस्ति । पाक्षिको हि स लोपः। भयो (८।४।६२ ) होऽन्यतरस्यामित्यन्यतरस्यां- ग्रहणानुवृत्तेः । तत्र यस्मिन् पक्षे लोपो नास्ति तत्र त्रयाणां श्रवण अथ सानुनासिका उपदिश्येरन् प्रत्याहारेऽनुस्वारस्य परसवर्णत्वं निरनुनासिके परतो न स्यात् । ययां मध्ये तेषामसबिवेशात् । हकारा- दिष्वित्यादि। प्रतिज्ञानुनासिक्याः पाणिनीयाः । यवेच्छन्ति तत्रानुनासिक्यं प्रतिजानते । नान्यत्र । लकारे च तैरकारस्य तत् प्रतिज्ञायते। न हकारा- दिषु । इत्संज्ञक इति । उपदेशेऽजनासिक ( १।३१२) इदितीत्संज्ञा विधानात् तेनेत्यादिना अनुनासिकप्रतिज्ञायाः फलं दर्शयति । ऋटकार- लकारयोः सवर्णसंज्ञोपसंख्यानाडकारो गृह्यमाणो लु कारमपि राताति । . तत उरण रपर इति। यथा ऋकारस्याण शिष्यमाणो रपरो भवति एवं लकारस्यापि भवलं लपरश्चेष्यते । तस्मादनुनासिकः प्रतिज्ञायते । तेनादि- रम्तेन (१।११७१) सहेतेति उरण रपर इत्यत्र ( १।१।५१ ) र इति प्रत्याहारग्रहण भवति । रेफात् प्रभृत्या लणो ऽकारात् । तस्मिंश्च सति कारस्याण रपरः भवति । लकारस्य तु लपर इति । तत स्तवल्कार इत्याद्युपपन्नं भवति । ञ म डा नम् । तस्य ग्रहणं भवति त्रिभिरिति । अथ सृजिशोझ ल्यमकिती (६।१९५८) त्यत्राप्यस्याकारण ग्रहणं कस्मान्न भवति ? साक्षाद्दष्टरीति ( ५ २।८१) निर्देशात् । प्रत्याहार ह्येतस्मिन्नकाराद्यादेशविधानाद् द्रष्टुशब्दो न सिध्येत्। इह तर्हि भस्जो (६।४ ४७ ) रोपधयो रमन्यतरस्यामिति रेफेण कस्मान भवति ? अथ रमयमुपातो न त्वम् इत्येष कुतो निश्चयः ? तुल्या हि संहिता। तत्र भवितव्यं सन्देहेन । किमयं रम् ? आहो- खिदमिति। व्याख्यानाविश्चय इति चेत् ? यदि तर्हि व्याख्यानस्य निश्चयहेतुत्वमभ्युपेयते ततएवात्र चान्यत्र च सर्वत्रैवजातीयके संदेहविषये प्रत्याहारः। २८ ल्पात। निश्चयो भविष्यतीति किमन्यैरतिविस्तरग्रन्थकारिभितुभिरुपन्यस्तैः प्रयो- जनम् ? यस्तु मन्यते चम्जो रोपधयो रमित्यत्र व्यवस्थितविभाषया प्रत्याहारस्य ग्रहणं न भविष्यतीति स दूदं स्याहचनीयः । किमनेनान्यतरस्यां ग्रहणेन रम्ग्रहणं विकल्पाते ? अन्यतरस्यां रम् ग्राह्यत इति । अथ विधानमन्यतरस्यां रम् विधीयत इति ? यदि रम्ग्रहणं ततो रेफस्य वेदं स्वरूपेण मकारानु- बन्धवतो ग्रहणम् । न प्रत्याहारस्येति लभ्यते । एतद्दावस्थितविभाषया रमागमस्तु विकल्पेन न स्यात्। अन्यतरस्यांग्रहणस्य रम्ग्रहणविक ल्य चरितार्थत्वात् । नहि द्वितीयमन्यतरस्यां ग्रहणमस्ति। येन विधानं विक- इतरत्र तु पक्षे सिध्यति पाक्षिकं विधानम् । किं तु यत् तदभिमतं व्यवस्थितविभाषया रेफस्यैवेदं मकारानुबन्धवतः स्वरूपेण ग्रहणं न प्रत्याहार- स्येति तनोपपद्यते । एकत्वादन्यतरस्यांग्रहास्य । तस्य विधानविकल्प नैवोपयुक्तत्वात् । किञ्च कुतश्चायमध्यवसायो व्यवस्थितविभाषेयमिति ? व्याख्यानादिति चेत् ? किमिदानी पारम्पाश्रयणन ? व्याख्यानादेव नैवं प्रत्याहारग्रहणं भविष्यतीति यत् किञ्चिदेतत् । अकारेगापि प्रत्याहार- ग्रहणमस्य दृश्यत इति । यद्येवं किमर्थं त्रिभिरित्युक्तम् ? अमन्ताड्ड (१) इत्यत्र प्रत्याहारस्य नावश्यं ग्रहणमिति दर्शयितुम् । अत्र हि जकारमकार- स्वरूपोपादानेऽपि विना प्रत्याहारग्रहणेनान्यतोपि मकाराद्यन्ताड्डप्रत्यय: सिध्यत्येव । बहुलाधिकारविधानात् । २) नन्वेवमपि चतुर्भिरित्येवं वक्तव्यम् । यमिर्जमन्तेष्वित्यत्र (३) जकारणाप्यस्य ग्रहणदर्शनात् । सत्यमेतद् यदि ग्रहण मात्रमभिप्रेत्यैतदुच्येत। नचेदं ग्रहणमात्रमभिसन्धायोक्तम् । किं तर्हि ग्रहण- विशेषम् । सौत्रम् । न चेदं सौत्र ग्रहणम् ? किं तहि ? आनिट्कारिकम् । १। It is an औगादिक Rule. उणादि ( १।१११ ।। २। बहुलाधिकारविधानादिति। उगादयो बहल ( ३३११) मित्यनम् । ३। This is quoted from one of the अनिट कारिकाs composed by the Gramma rian व्याघ्रभूति, viz :- "यमि अमन्तेष्वभिड़ेक इष्यते रमिश्च यश्च श्यनि पठाते मनिः । नाम चतुर्थो हनिमेव पञ्चमी गमिथ षष्ठः प्रतिषधवाचिनाम" ॥ १ ॥ इति ।

न्यासः । केचिदित्यादि। यान्येतान्यनन्तरं प्रत्याहारग्रहणान्युक्तानि तानि झभअित्यत्र यो जकारस्तेनैव भवन्वित्येवं विचिन्त्य केचिदाचार्या मकारस्य प्रत्याख्यानं कुर्वन्ति । तत्र तु प्रत्याख्याने पुमः खय्यम्पर (८,३।६ ) इत्यादिषु सूत्रेषु मकारस्य स्थाने जकारः कर्त्तव्य इति तेषामभिप्रायः । तथाच सतीत्यादिना मकारानुबन्धप्रत्याख्याने दोषं दर्शयति । ङजो इखादचि ङजुण् नित्य- मिति ( ८।३।३२ ) हि पाठे झभोरपि प्रत्याहारेऽन्तर्भावाज् झभावप्यागमिनी स्याताम् इत्येतच्चोद्यम् आपतति । तयोः झभोः पदान्तयोरभावान भविष्यत इति परिहारो वाच्यः । तस्मिन्ब्रुक्ते ननु च लभैरुब जेश्च विपि विहित आगमिनावुभौ स्त स्त एव पदान्ताविति पुनश्चोद्यम्। तस्मिञ् भलाञ्जशोन्त (८.२१३८ ) इति बकारजकारयोः कृतयोः कुतस्ताविति पुनः परिहारः। ननु चागमिनोझभोरभावाद् वैषम्यं स्यात् । तथाहि डणनास्त्रय आगमिनः। आगमास्तु ङणनझभा: पञ्च। ततश्च संख्यावैषम्या- वैषां यथासंख्यमिति ( १.३ १०) संख्यातानुदेश: स्यादिति पुनश्चोद्यम् । नैष दोषः । सूत्र यावन्त भागमा आगमिनोऽपि तावन्त एव पठान्ते । तत्र लक्ष्यमनपेक्ष्य डकारादीनामेव यथासंख्यमागमा भवन्तीति सूत्रार्थे विहित उत्तरकालं यथासम्म कार्यप्रतिपत्तिर्भविष्यतीति । येषां तावद् आगमाना- मागमिनः सन्ति तेषां यथासंख्य भविष्यन्ति । झकारभकारी .तु पदान्तावागमिनी न स्त इति कृत्वा आगमावपि न भविष्यत इति पुनः परिहारी वाच्यः । एवमनेकचोद्यपरिहारणागमिनो अंभोरभावाद् हेतोरा- गमाभावप्रतिपत्तो साध्यायां महाप्रतिपत्तिगौरवं भवेत् । तस्मादयुक्तं मकार प्रत्याख्यानमिति भावः । ८। भभञ्। घढधष्। १० । जबगडदश् । ११ । खफछठथचटतव । ननु च च्छकारण वास्य ग्रहणम् । नच खफो तदन्तर्भूतो। तत् किमर्थं प्रत्याहारः। ३१ तयोरिह ग्रहणम् ? इत्याह खफग्रहणमित्यादि। उत्तरेषु प्रत्याहारष्व- नयोरप्यन्तर्भावो यथा स्थादित्येवमथं तयोर्ग्रह गमित्यर्थः । १२ । कपय। १३ । शषसर। १४ । हल। इहान्येषां वर्णानां सदुपदेशः । हकारस्तु हिरुपदिश्यते । तस्य दिरुपदेश प्रयोजनं जिज्ञासुराह अथ किमर्थमित्यादि। निहित्येति । णिह प्रीती । आदेः ष्याः नः (६।१।६४) । समानकर्सकयोः पूर्वकाल इति (३ ४,२१) त्वा । इट् । अलिक्षदिति । लिह आस्वादने । लुङ् । हो ढः (८।२।३१)। षढो: कः सौति ( ८।२।४१ ) कत्व। प्रादेशप्रत्यययोरिति (८.३ ५८ ) षत्वम् । रुदिहि खपिहोति। रुदिखपिभ्यां विध्यादिलोट । सद्यपिच्च ( ३ ४.८७)। अदादित्वाच्छपो लुक् । रुदादिभ्यः सार्वधातुक (७२।७६ ) इतीट् । अदाग्धामिति । दह भस्मीकरण । लुङ । तस्य चिः। तस्थस्थमिपामि- त्यादिना ( ३।४ १०१ ) तसस्ताम् । चे : ( ३.१ ४४ ) सिन् । वदवजेति वृद्धिः ( ७।२।३ )। दादेर्धातोर्घः । ८,२।३२ ।। झलो झलीति सिचो लोप: ( ८।२।२६ ) । झषस्तथोऽध इति ( ८२ ४० तकारस्य धत्वम् । झलाजश झशीति (८.४१५३ ) कारस्य गकारः । तत्र यदि रल्ग्रहण शल्ग्रहणे वलग्रहणे च हकारस्य ग्रहणं न स्यात् कित्त्वक्सेड्विधयो न सुरः । यदि झल्ग्रहणेन हकारस्य ग्रहणं न स्यात् ततो घत्वस्याप्यसिद्ध- त्वाद् धकाराद् अझल: पर: सिजिति तस्य झलो झलीति (८।२।२६ ) लोपो न स्यात्। तस्माच् शल्झनग्रहणेषु चास्य ग्रहां यथा स्यादित्युप- दिष्टस्यापि पुनरुपदेशः । यद्येतानि प्रयोजनानि परोपदेश एवास्तु । तेनैव ह्येतानि सिध्यन्ति । पूर्वापदेशम्तु न कर्त्तव्य इत्यभिप्रायेणाह इयवरडित्यत्र तीत्यादि । अग्रहण वित्यादि । यदि पूर्वत्र नोपदिश्येत अड ग्रहणेन चाग्रहणेन चाग्रहणान् महा हि म इत्यत्र रुत्वानुनासिकत्वयत्व महच्छब्दात् सुः । उगिदचामिति नुम् ( ७/१.७० )। यलोपा न स्युः ३२ न्यासः । सान्तमहतः (६।४।१०) संयोगस्येति दीर्घः । हङयादि ( (६।११६८ संयोगान्तलोपौ (८२१२३ )। महान् हि इति स्थित हकारे परत स्तस्याग्रहणेन ग्रहणाद् दीर्घादटि समानपाद (८।३।८) इति रुत्वम् । आतोऽटि (८३३ ) नित्यमिति पूर्वस्यानुनासिकः। अश्ग्रहणेन ग्रहणाद् भो भगो अघो इत्यादिना (८।३।१७ ) रेफस्य यत्वम् । अशीति वर्तमाने हलि सर्वेषामिति (८ ३।२२) यलोपः । हशि चेत्यादि । इदमपरं पूर्वीपदेशस्य प्रयोजनम् । असति हि तस्मिन् ब्राह्मणो हसतीत्यत्र हकारस्य हशग्रहणनाग्रहणात् तस्मिंस्त्वमति परतो रो रुत्वं न स्यात् । ब्राह्मणशब्दात् सुः। तस्य ससजुषो रुः ( ८।२।६६ )। हशि चेत्युक्त्वम् (६।१।११४) श्रादुगुणः (६।११८७ ) । एकस्मादित्यादि। परे ग्राह्या इति शेषः । स्युरिति वक्ष्यमाणेन सम्बन्धः । एकस्मादिति दिगयोगलक्षणा पञ्चमी। एकस्मादर्णात् परे डकारादयो ग्राह्या भवेयुरित्यर्थः । अथवा एकस्मा- दिति ल्यब्लोप पञ्चमी । प्रासादमारुह्य प्रेक्षते प्रासादात् प्रेक्षत इति यथा तथा प्रदेशवाक्येष्व के वर्णमुच्चार्य परिगृह्य वा डकारादयो ग्राद्या भवेयु- रित्यर्थः । स पुनरको वर्ण: । एप्रोङ् । झभञ् । अइउण । खफछठचटतम् । ह य व रडित्यत्र येन सह डकारादीनां ग्रहणमुक्तं स एव वेदितव्यः । हाभ्यां ष इत्यत्र परे ग्राह्या इति यदध्याहृतं यच्च सुपरिति क्रियापदं तदर्थादेकवचन तया विपरिणमति । द्वाभ्यां परी हो वा उच्चायं षकारी ग्राह्यो भवेदित्यर्थः । एवमुत्तरत्राप्यर्थी वेदितव्यः । को पुनौं ? झभञ् । घढधषित्यत्र याभ्यां षकारस्य ग्रहणमुक्त तावेव । त्रिभ्य एव कणमाः स्युरिति । ते पुन स्त्रयः । ऋलक् । लण । ञमङणनमित्यत्र ये: ककारादीनां ग्रहणमाख्यातं तएव । ज्ञेयो चयौ चतुर्य इति । ते पुनश्चत्वारः । ऐौच । कपयित्यत्र चयोर्चश्वकारय- कारयो ग्रहणमभिमतं त एव । रः पञ्चभ्य इति । ते पुनः पञ्च । शषसरित्यत्र यै रेफस्य ग्रहण प्रतिपादितम् तएव । शलो षड्भ्य इति । ते पुनः षट । जबगडदश। हलित्यत्र यैः शकारलकारयोग्रहणमुक्तं ते वेदितव्या इति । इति प्रत्याहारसूत्राणि ।

प्रथ काशिकाविवरणपञ्जिका। अन्ये त्वाच ? प्रथमाध्यायस्य प्रथमः पादः॥ ११ ॥ १। वृद्धिरादैच । हद्धि: प्रात् ऐजिति केचित् त्रिपदमिदं सूत्र वर्गायन्ति । ऐच्चेति आदैजिति समाहारे इन्दोऽयमिति मत्वा वृद्धि: प्रादैजिति विपदम् । इतरेतरयोग हि बहुत्वाद् इन्हे बहुवचनं स्यात् । ननु च समाहारेऽपि इन्दा- बुदषहान्तात् समाहार (५।४।१०६) इति टच् समासान्तः स्यात् । समासान्त- विधेरनित्यत्वाब भविष्यति । अनित्यत्वं षष्ठे ज्ञापयिष्यते । प्रथ चो: (८।२।३०) कुरिति कुत्वं कस्मान्न भवति ? अयम्मयादीनि च्छन्दसीति (१।४।२०) भसंज- कत्वात् । आदिशब्दस्य प्रकारवाचित्वादैच्छब्दोऽयमयस्मयादिषु द्रष्टव्यः । ननु तत्र च्छन्दसीत्युच्यते । नचेद छन्दः । तत् कुतो भसंज्ञा ? छन्दोवत् सूत्राणि भवन्तीत्यदोषः । इहेदं सूत्र मनर्थकं वा स्याद् यथाकथञ्चिदु दात्तादिवचनवत् ? साध्वनुशासनाथं वा ? वृदिशब्दस्यादैचाञ्चानेन साधुत्वमा- ख्यायत इति । प्रयोगनियमाथं वा ? आदेच्पर एव वृद्धिशब्दः प्रयोक्तव्य इति। आदेशार्थ वा ? आदेचां वृद्धिशब्द आदेशो भवति । ते वा तस्येति । आगमागमि सम्बन्धाथं वा ? प्रादैचां वृदिशब्द प्रादेशो भवति। ते वा तस्येति । विशेषण- विशेष्यभावप्रसिद्धार्थ वा ? आदेचां वृधिशब्दो विशेषणम् । ते वा तस्येति । एकविभक्तिकत्वं ह्यत्र दृष्टम् । दृष्टश्चैकविभक्तिकयो दृष्टश्चैकविभक्तिकयो विशेषणविशेष्यभावः । तद्यथा नौलमुत्पल मिति । संज्ञामंजिसम्बन्धार्थ वा ? दृश्यते हि। सोऽप्येक विभक्तिकयोः । तद्यथा अयं पनस इति । तत्र तावदाद्यः पक्षो नोपपद्यते । समधिगतज्ञानातिशयो ह्याचार्यः परहितप्रतिपत्रः समाहितचेता: शिष्याणां कृतरक्षासंविधानो मङ्गलपूर्वकं महता प्रयत्नेन सूत्राणि प्रणीतवान् । तत्राशक्यमेकेन वर्णनाप्यनर्थकेन भवितुम्। किं पुनरियता सूत्रप्रबन्धन ? नापि शक्य वृद्धिशब्दस्यादैचाञ्च साधुत्वमनेन विधीयत इति विज्ञातुम् । ५ ३४ न्यासः । लक्षणान्तरण विहितत्वात् तेषां साधुत्वस्य । तथाहि वृद्धिशब्दोऽयमविशेषण चोपदिष्टः । बधु वृद्धावित्यत: तिन्प्रत्ययः । स्त्रियां तिबिति (३।३।८४) । झषस्तथोधोऽध (८।२।४०) इति धत्वम् । झलां जश झशीति (८।४।५३) धकारस्य दकारः । प्रादैचोऽप्यक्षरसमानाय उपदेशात् । ऐचोऽक्षरसमानाय उपदेशः । नाकारस्येति चेत् ? अवर्णजातरुपदेशात् सोपि रयत इत्यदोषः । प्रथाप्यकारव्यतोरुपदेश: ? एवमप्यदोषः। प्रणदितसवर्णस्य चाप्रत्यय (१ १।६८) इत्यकारण गृह्यमाणेनाकारस्यापि ग्रहणात् । प्रयोगनियमार्थमप्ये- तबाहति भवितुम् । प्रयोगनियमार्थे ह्येतस्मिन् सिचि वृदिम जेईद्धिरित्यादा वनादैच्परस्य वृद्धिशब्दस्य प्रयोगो नोपपद्यते । कथं हि नाम स्वयमेव नियम कत्वा तमनादैचपरं प्रयुञ्जीत ? अन्यस्तु प्रयोगनियमार्थमेतन्न भवतीति प्रतिपादयितुमाह नेह च प्रयोगनियमार्थमारभ्यत इति। ननु चाय म्मयोगनियमार्थ मेवारभ्यते ते प्राग धातोरिति ( १।४।८० )। ते गतुप- सर्गसंजका धातोः प्रागेव प्रयोक्तव्या इति परेण चोदिते परिहारमाह प्रतयाख्यायते स योगो न वा। तथानिष्टादर्शनादिति । नहि प्रपच- तीति प्रयोक्तव्ये कश्चित् पचति प्रेति प्रयुङ्क्ते । अथापि न प्रतयाख्यायेत ? एवमपि न दोषः । यतः संज्ञानियमोऽयं न प्रयोगनियमः । ते प्रादयो धातोः प्राक् प्रयुज्यमाना एव गतुपसर्गसंज्ञका भवन्तीति । अथापि प्रयोगनियमार्थ स्यादेवमपि न दोषः । लौकिकानां शब्दानामर्थे प्रयुक्तानां प्रयोगनियम भारभ्यते । आदेच्छन्दश्च लौकिकः । तस्य किं प्रयोगनिय- मार्थेन वचनेनेति ? तत्र यदुक्तं प्रत्याख्यायते स योग इति तदयुक्तम् । नहि सार्थकस्य प्रतयाख्यानं युक्तम् । निरर्थकः स इति चेद ? अत्राप्यनर्थ- कवाशङ्काप्रसङ्गः । यदि ह्य नर्थकान्यपि कानिचित् सूत्राणि प्रणीतवान् सूत्रकार इतषो ऽध्यवसायः स्याद् भवितव्यमत्राप्यनर्थकत्वाशनाया। संज्ञासंजिसम्बन्धार्थ मतवतु निरर्थकमित्येव नियमो न स्यात् । तस्मात् तस्य प्रामाण्य मभ्युपगच्छता सर्व तत्प्रणीतं येन केनचित् प्रकारेण सार्थक मभ्युपेयम् । योऽपि संज्ञानियमपक्ष माथिता परिहार उक्तः सोऽपि हत्तया विरुध्यते। ते गत्युपसर्गसंज्ञका धातोः प्राक् प्रयोक्तव्या इतानन हि इत्ति- (१।१। टे:। ग्रन्येन प्रयोगनियम एवाश्रित इति स्पष्ट मेवाख्यातम् । नच हतिं व्याख्यातु- मुद्यतस्य तबिरुद्धं व्याख्यानं युज्यते कर्तुम् । यदप्युक्तं लौकिकानां शब्दानामि- तपादि सदपि न प्रयोगनियमार्थताशङ्कापनोदायालम् । तथाहि विभाषा सुपो बहुच ( ५।३।६१ ) पुरस्तात् तु। अव्ययसर्वनामामकच ( ५.३.७१) प्राक् कञ्चानुप्रयुज्यते (३।१।४० ) लिटौतालौकिकानामपि बहुजादीनां शास्त्र प्रयोगनियमो दृश्यते । तत्र भवितवामेवांशकया किमेतत् प्रयोगनियमार्थ मथान्यार्थ मित्यलमतिप्रमङ्गेन । तस्मात् पूर्वोक्त एव परीहारो युक्तः । आदेशार्थमप्येतच शक्यते न विज्ञातुम् । यदि ह्यादैचामनेन वृद्धिशब्द आदेशो विधोयेत य एते निर्देशा याति वाति द्राति सातौति (८।४।१७) यश्च रायो ( ७।२।८५ ) हलीति यश्च नावो ( ५/४/८ ) द्विगोरिति ते नोपपद्येरन् । अथ वृद्धिशब्दस्यादैज् आदिश्येरनेवमपीडी ( ३।३ २८) वृद्धिनिमित्तस्य ( ६।३।३८ ) च तद्धितस्येत्येवमादयो निर्देशा न सम्भवेयुः । अतएवागमार्थ मप्येतत्रोपपद्यते। नह्यादैचां वृद्धिशब्द आगमे विहिते तस्य वा तेषु पूर्बोक्ता निर्देशा उपपद्यन्ते । अन्यस्त्वाह आदेशविधाने स्थान्यादेश- सम्बन्धे षष्ठया भवितव्यम् । आगमविधाने ऽप्यवयवावयविसम्बन्ध । षष्ठी विद्यते । तस्मात् षष्ट्या अभावान्नेदमादेशाथं नाप्यागमार्थमिति । एतच्चासम्यक् । विनापि षष्ठया हल्डयाबभ्यो दीर्घात् ( ६।१।६८ ) सुतिस्य पृक्तं हल । अनितेः (८।४।१८)। अन्तः ( ८।४।२०)। उभौ साभ्यास्ये ( ८।४।२१ ) त्यादेशविधानदर्शनात् । आगमविधानस्यापि न याभ्यां पदा- न्ताभ्यां पूर्वी तु ( ७३३) ताभ्यामैजिति षष्ठीमन्तरेणापि दर्शनात् । विशेषण- विशेष्यभावप्रसिद्धार्थमप्येतन्न सम्भाव्यते। तथाहि सम्भवव्यभिचारे च सति विशेषणविशेष्यभावो भवति। नीलोत्पलवत् । न चेहादैचां वृदिशब्दे तस्य वा तेषु सम्भवः । ननु च यथोत्यलशब्दः सर्वत्रोत्पलार्थे वर्तमानो नीलशब्दे- नार्थान्तराधवच्छिद्यत इति व्यवच्छिद्यमानो विशेष्यो भवति नीलशब्दस्तु व्यवच्छिन्दन् विशेषणं तथानयोरपि यो व्यवच्छेद्यः स विशेष्यो भवति यस्तु वावच्छेदकः स विशेषणमिति। नैतदस्ति । उभयोहिं सार्थकत्वे सत्येतदुपपद्यते । नोलोत्पलशब्दवत् । नचादैचोऽर्थवन्तः । भवतु नामानयो काशिकाविवरणपञ्जिका । विशेषणविशेष्यभावः । तथापि नैतत्सिद्धार्थमिदं युक्तम् । निष्पयोजन- त्वात्। तत् पुनः प्रकतानुपयोगित्वात् । शब्दानुशासने हि शास्त्र प्रकृते यबाम शब्दसंस्कारानुपयोगिवचनं तत्सर्वमप्रयोजनम् । शब्दसंस्कारानुप- योगिव त्वंतत्प्रतिपादितन विशेषणविषेष्यभावेन वृद्धिशब्दस्यादेचा वा रूपविशेषस्य वा खरविशेषस्य वा संस्कारस्यासिडेः । विशेषणविशेष्यभाव एव तेषां संस्कार इति चेद् यद्येव मत्यल्पमिद मुच्यते वृद्धिरादैजिति । नीलोत्पल मित्याद्यपि हि वक्तव्यं नीलोत्पलादिशब्दानां विशेषणविशेष्य- भावप्रसिद्धये। नचोक्तम् । अतो नैष संस्कारोऽभिमत इति नास्य तादर्थ सम्भाव्यते । ननु तुल्यविभक्तिकानां तद्गुणसमाध्यारोपोऽपि दृष्टः । तद्यथा सिंहो माणवक इति । तस्मात् तदर्थमेतद् भविष्यतीति यत्पक्षान्तरमेके परिकल्पयाम्बभूवुस्तदर्थमप्येतन्न भवति । तद्गुणसमाध्यारोपस्य सतोऽप्यत्र प्रकतानुपयोगित्वे नानर्थकत्वात् । तस्मात् पारिशेष्यात् संज्ञासंनिसम्बन्धार्थ- मेवैतदित्यालोच्याह हडिशब्द, संज्ञात्वेनेत्यादि। भवतु नाम पारिशेष्यात् तदर्थम् । एतत् कुतो लभ्यत ? वृद्धिशब्दः संज्ञा। आदचः संजिन इति । विपर्ययः कस्मात्र भवति ? आटैच: संज्ञा दिशब्दः संजीति । नार्हति विपर्ययो भवितुम् । तथाहि लघुर्थत्वात् संज्ञाकरणस्य यस्मिन्बुच्चार्यमाणे प्रदेशेषु लाघवं भवति तस्य संज्ञार्थत्वेन भाव्यम् । वृद्धिशब्द च सविभक्तिके ऽप्युञ्चाय॑माण लाघवं भवति। नादैक्षु । यस्माद् वृद्धिशब्द उच्चार्यमाणे चतस्रो मात्रा भवन्ति । आदैतु तु पञ्च । नचादैचां प्रत्येकं संज्ञाभावाल्लाघवं भवतीति शक्य परिकल्पयितुम् । प्रयोजनविशेष मन्तरेणैकस्यानकसंज्ञा विधानस्य निष्फलत्वात् । किञ्चावति न्यः संज्ञा भवन्ति । वर्तते । नादैच्छब्दः । तस्मान भवति विपर्ययः । वृद्धिशब्द इति शब्दग्रहण- मर्थवावच्छेदार्थम् । असति हि तस्मिज शब्दादर्थावगत रथस्यैव संज्ञात्व विज्ञायेत। यद्यपि प्रागेव संज्ञा विहिता तथापि शिष्यप्रशिष्यप्रबन्धाद्य - परमाद् विधीयत इति इति वर्तमानप्रत्ययेन निर्देशः । यत्र समुदायस्य कार्यमिच्छति तत्रोपदग्रहण करोति । यथा उभे अभ्यस्तमिति । अन्वीं वा महती संज्ञां हलोनन्तराः संयोग इति । तत्र हि महतो संव- वृदिशब्दश्चा- (११)। मर्था क्रियते समुदायस्यैषा संज्ञा यथा स्यादिति । एतच्चोत्तरत्र व्यक्ती- करिष्यामः । इह तु न किञ्चित् तथाविधं वचनमस्ति यतः समुदायस्यैषा संज्ञा स्यात् । तस्मादेकैकस्यैषा संज्ञेति मनसि कृत्वाह प्रत्येकमिति । ननु चेद्वापि लाघवार्थ मेकाक्षरायां संज्ञायां कर्तवायां हडिरिति महत्याः संज्ञाया: करणं समुदायस्य संज्ञा यथा स्यादित्यवमर्थम् । नैतदस्ति । मङ्गलार्थ- त्वादस्याः संज्ञायाः । अतएवास्याः प्रागुच्चारणम् । अन्यथा संज्ञाया: सतः कार्यिण: कार्येण भवितवामिति यथादेङ्गुण इत्यादी पूर्व संज्ञी निर्दिष्ट स्तथहापि निर्दिशेत् । आकारस्य गुणान्तरयुक्तयो श्वैचोः प्रत्याहारे ऽसन्नि- वेशानामी वर्णा इति कस्यचिन् मन्दधियो भ्रान्तिः स्यात्। अतस्तवि- राकरणायाह वर्णानामित्यादि । प्रत्यासत्ते स्तद्भावितानामवैषां संज्ञा स्या- दिति कस्यचिद् विपर्ययः स्यादतस्तमपाकर्तुमाह सामान्येनेति । व्याप्तेा- यादित्यभिप्रायः । सामान्येनत्यस्यार्थ विस्पष्टीकत माह तद्भाविता- नामित्यादि। ते तद्भाविता ये वृद्धि शब्देनोत्पादिताः। ततोऽन्येऽतद्- भाविताः ! आदिति तपरकरणम् । तपरस्तत्कालस्येति गुणान्तरभिन्ना- नामपि तुल्यकालानां ग्रहणाथ वा स्याटु भिन्न कालानां ग्रहणनिवृत्त्यथं वा ? तत्र पूर्व: पक्ष स्तावन्नोपपद्यते । अभेदकत्वादिहोदात्तादीनां शास्त्रे गुणानाम् । कुत एतत् ? लुङ लङलुङ च्व ( ६।४।७१) डुदात्त इतुपदात्तग्रहणात् । अन्यथा युदात्तगुणयुक्त मेवाटमुच्चारयेत् । द्वितीयोपि नोपपद्यते । यदि ह्याकारः सवर्णानां ग्राहकः स्यात् ततस्तेन भिन्नकालस्याप्यवर्णस्य ग्रहण सति तस्यापि संज्ञा मा भूदिति भित्रकालानां ग्रहणनिवृत्त्यर्थ तपरकरण- मुपपद्यते । नचासो सवर्णानां ग्राहकः । अनण त्वात् । तत् पुनरक्षर- समानाये ऽसन्निवेशात् । तस्मादनर्थकं तपरकरणम् । ततो न कर्तवा- मेवेत्यत आह तपरकरण मित्यादि। एचोरर्थः प्रयोजनं यस्य तत् तथोक्तम् । ननु च जातो पदार्थे प्लुतस्यापि ग्रहण भवति । तत्राप्यवर्ण जाते: सम- वायात् । तत्रासति तपरकरण तस्यापि संज्ञा स्यात् । तस्मात् तब्रिहत्तये तपरकरण भवदाकारार्थ मप्युपपद्यत एव। तत् किमुच्यत एजर्थमिति ? एवं मन्यते । जातिपक्षसमाश्रयणेऽपि हि दी(च्चारणसामर्थ्यादा हिमात्रा ३८ काशिकाविवरणपत्रिका। एवावर्णव्यतायः समाश्रिता इति गम्यते । इतरथा हि लाघवार्थ मदित्य - वाभिदध्यात् । नच इखनिवृत्त्यर्थं दी/च्चारणमिति शक्यते परिकल्पयितुम् । दी|च्चारणऽपि इखग्रहण प्राप्नोत्येव । तत्राप्यवर्णजातेः सम्भवादिति । न चासन्देहार्थ मादितुक्तम्। वर्णान्तरासाधारणत्वात् । असंहितया वा सन्देहाभावादिति। ननु च तपरस्ततकालस्येत्यत्र तः परो यस्मादिति बहुव्रीहि राश्रितः । नचाच तपरः । तत् कथं तपरकरण मैजथं भवती- त्यत आह । तादपि पर स्तपर इति । न केवलं तः परो यस्मात् स तपर इत्यपितु तादपि यः परः सोऽपि तपर इत्यपिशब्देन दर्शयति । एतदुक्तं भवति । न केवलं बहुव्रीहिरेव तत्राधीयते । किं तर्हि ? पञ्चमी- तत्पुरुषोऽपि। यथा चैतदुभय माधीयते तथा तत्रैवोपपादयिष्यामः । इति करणो हेतौ। यत एवं तादपि परस्तपर स्तेन तपरकरण मैजर्थमितार्थः । खट्टू डकादिष्वितयादिना तदेवैजर्थत्वं तपरकरणस्य स्पष्टीकरोति । वृक्ष एलका हलका । अक्रियमाणे ह्यत्र तपरकरणे त्रिमात्रिकस्याप्याकारैकारसमुदायस्य स्थाने वृदिरेचीति (६।१।८८) वृद्विरान्तरतम्यात् त्रिमात्रिक एवैकारः स्याद् यदि तस्यापि वृद्धिसंज्ञा स्यात् । खट्वा ओदनं खटौदनम् । खट्वा एलका खट्दै- लकेतानापि पूर्वोत्तरसमुदाययोश्चतुर्मात्रयो श्चतुर्मानावकारेकारौ स्याताम् । तन्माभूदेष दोष इति त्रिमात्रचतुर्मात्राणामैचां वृद्धिसंज्ञानिवृत्तये तपरकरण क्रियते । आखलायनः । ऐतिकायन इति । अखलेतिकशब्दाभ्यां नड़ादिभ्यः फक् ( ४ १८८)। यस्य ति चेति लोपः ( ६।४।१४८ )। किति (७.२।११८) चेतवादि वृद्धिः । औपगव इति । उपगुशब्दात् प्रागदीव्यतोऽण ( ४।१८३ )। औपमन्यव इति। उपमन्युशब्दादनृथानन्तर्ये ( ४।१।१०४ ) विदादिभ्यो जित्यञ् । उभयत्राप्योर्गुणः ( ६।४।१४६ ) । अवादेशः (६।१।७८) । तद्धितेष्वचा ( ७२।११७ ) मादेरिति हद्धिः । एतानि चत्वार्यपि तद्भावितोदाहरणानि । ननु येऽत्र त्रयः संजिन स्त'षा माद्य स्त्रि भिर्विषयो दर्शितः । किमर्थश्चतुथों- पन्यासः ? केचिदाहुः वृद्धि निमित्तभेदात्। आद्ययोरुदाहरणयोः कित् तड़ितो हद्धे निमित्तम्। टतीयेऽपि णित् । चतुर्थेऽपि अिदिति । एतचा- युक्तम् । तथाहीको गुणहड़ी (१।१।३) इत्यत्राकार्षीदित्य दाहृत्याहार्षीदित्य - (११)। दाहृतम् । नच तत्र वृद्धि निमित्तभेदोऽस्ति । तथा न धातुलोप (१।११४) पार्धधातुक इत्यत्र लोलुव इत्य दाहृत्य पोपुवः मरीमृज इत्यधिकोदाहरणोप- न्यासः कृतः । नच तत्र लोपनिमित्तभेदः प्रतिषेधनिमित्तभेदो वाधिकोदा- हरणोपन्यासस्य हेतुर्विद्यते। प्रायेणान्येष्वपि च सामान्यलक्षणषु विनापि निमित्तभेदेनाधिकोदाहरणोपन्यास उपलभ्यते । योऽप्याह ओपगव इत्यनेनैच औकारस्य विषये दर्शितेऽपि स्वरभेदादीपमन्यव इत्येतदधिक मुदाहरण मुपन्यस्त मिति तस्यापि तदयुक्त मतएवानन्तरोक्ताडेतोर्वेदितव्यम् । यदि निमित्त भेदः स्वरभेदो वाधिकोदाहरणस्योपन्यासस्य हेतुः स्यादाकारैकारयो रधिक मुपन्यस्तं स्यात्। प्रचुरविषयसूचनार्थस्तु लक्षणस्य सर्वत्राधिकोदाहरणोप- न्यासो वेदितव्यः । शालीयो मालीय इति । अतद्भावितस्योदाहरण । अत्र हि वृद्धिसंज्ञायां वृद्धिर्य स्याचामादि ( १।१।७६ ) स्तदृद्ध मिति हदसंज्ञा फलं छप्रत्ययोपन्यासस्तस्या एव फलभूताया अभिव्यक्त्यर्थः । वृद्धसंज्ञायां हि सत्यां वृद्धाच्छ ( ४।२।११४ ) इति जातादावर्थे च्छो विधीयते । ऐकारौकारयोस्त्वतद्भावितयोरुदाहरण नात्र दर्शितम्। एतदनुसारेणैव गम्यमानत्वात् । आकारस्यातभावितस्य हसिंज्ञायाः कार्य दर्शिते तयोरपि तदेव कार्यमिति तन्मुखेनैव गम्यत के पुनस्तयोरुदाहरण ? मयम् । नौमयमिति । अत्र कारोकारयोईदिसंज्ञायां सत्यां पूर्ववह वसंज्ञा । तस्याञ्च सत्यां रायो विकारः। नावो विकार इति नित्यं वृद्धशरादिभ्य इति ( ४।३११४४ ) मयड् भवति । एव । २। अदेङगुणः । तपरकरण विह सर्वार्थमिति । सर्वस्मिन्नर्थः प्रयोजनं यस्य तत् तथोक्तम् । तुशब्दः पूर्वस्माद विशेषं दर्शयति । तत्र जिर्थमेव । इह तु सर्वार्थम् । अकारार्थमेडर्थमपि । असति हि तपरकरण अदेडामणत्वात् सवर्णानां ग्रहण सति भित्रकालानामप्येषा संज्ञा स्यात् । ततश्च तरितेत्यवान्तरतम्याहीर्घस्य दीर्घ एव गुणः स्यात् । ननु च वृद्धिसंज्ञा गुणसंज्ञाया बाधिका भविथति । तत् ३८ काशिकाविवरणपत्रिका। एवावर्ण व्यक्तयः समाश्रिता इति गम्यते । इतरथा हि लाघवार्थ मदित्य- वाभिदध्यात् । नच हुस्खनिहत्त्यर्थं दीर्घोच्चारणमिति शक्यते परिकल्पयितुम् । दी/च्चारणऽपि हखग्रहण प्राप्नोत्येव । तत्राप्यवर्ण जाते: सम्भवादिति । न चासन्देहार्थ मादितुतम्। वर्णान्तरासाधारणत्वात् । असंहितया वा सन्देहाभावादिति । ननु च तपरस्ततकालस्येत्यत्र त: परो यस्मादिति बहुव्रीहि राश्रितः। नचात्रैच् तपरः । तत् कथं तपरकरण मैजथं भवती- त्यत आह । तादपि पर स्तपर इति । न केवलं तः परो यस्मात् स तपर इत्यपितु तादपि यः परः सोऽपि तपर इत्यपिशब्देन दर्शयति एतदुक्तं भवति । न केवलं बहुव्रीहिरेव तत्राश्रीयते। किं तर्हि ? पञ्चमी- तत्पुरुषोऽपि। यथा चैतदुभय माश्रीयते तथा तत्रैवोपपादयिष्यामः । इति करणो हेतो। यत एवं तादपि परस्तपर स्तेन तपरकरण मैजर्थमितार्थः । खटू डकादिष्वितादिना तदेवैजर्थत्वं तपरकरणस्य स्पष्टीकरोति । वृक्ष एलका वृक्षलका । अक्रियमाणे ह्यत्र तपरकरण निमात्रिकस्याप्याकारकारसमुदायस्य स्थाने वृदिरेचीति (६।१।८८) वृद्धिरान्तरतम्यात् त्रिमात्रिक एवैकारः स्याद् यदि तस्यापि वृद्धिसंज्ञा स्यात् । खट्वा ओदनं खट्वौदनम् । खटा एलका खट्दै- लकेतपत्रापि पूर्वोत्तरसमुदाययोश्चतुर्मात्रयो श्चतुर्मानावेकारकारी स्याताम् । तन्माभूदेष दोष इति विमात्रचतुर्मात्राणामैचां वृद्धिसंज्ञानिवृत्तये तपरकरण क्रियते । आश्वलायनः । एतिकायन इति । अखलेतिकशब्दाभ्यां नड़ादिभ्यः फक् ( ४ १८८ ) । यस्य ति चेति लोपः ( ६।४।१४८)। किति (७२।११८) चेतग्रादि वृद्धिः । औपगव इति । उपगुशब्दात् प्रागदीव्यतोऽण (४।१,८३)। औपमन्यव इति । उपमन्युशब्दादऋष्यानन्तर्ये ( ४।१।१०४ ) विदादिभ्यो जित्यञ् । उभयत्राप्योर्गुण: ( ६।४।१४६ ) । अवादेशः (६।१।७८) । तद्धितेष्वचा ( ७२।११७ ) मादेरिति इतिः । एतानि चत्वार्यपि तद्भावितोदाहरणानि । ननु येऽत्र त्रयः संजिन स्तषा मायं स्त्रिभिर्विषयो दर्शितः । किमर्थश्चतुथों- पन्यास: ? केचिदाहुः हडि निमित्तभेदात् । पाद्ययोरुदाहरणयोः कित् तद्वितो वृद्धे निमित्तम्। तीयेऽपि णित् । चतुर्थेऽपि अिदिति । एतच्चा- युक्तम् । तथाहीको गुणवडी (१।१।३) इत्यत्राकार्षीदित्य दाहृत्याहार्षीदित्य - (१ । १ )। ३९ दाहृतम् । नच तत्र वृद्धि निमित्तभेदोऽस्ति । तथा न धातुलोप (१।१।४) आर्धधातुक इत्यत्र लोलुव इत्य दाहृत्य पोपुवः मरीज इत्यधिकोदाहरणोप- न्यासः कृतः । नच तत्र लोपनिमित्तभेदः प्रतिषधनिमित्तभेदो वाधिकोदा- हरणोपन्यासस्य हेतुर्विद्यते। प्रायेणान्येष्वपि च सामान्यलक्षणेषु विनापि निमित्तभेदेनाधिकोदाहरणोपन्यास उपलभ्यते । योऽप्याह औपगव इत्यनेनेच औकारस्य विषये दर्शितऽपि स्वरभेदादीपमन्यव इत्येतदधिक मुदाहरण मुपन्यस्त मिति तस्यापि तदयुक्त मतएवानन्तरोक्ताडेतोर्वेदितव्यम् । यदि निमित्त भेदः स्वरभेदो वाधिकोदाहरणस्योपन्यासस्य हेतुः स्यादाकारकारयो रधिक मुपन्यस्तं स्यात्। प्रचुरविषयसूचनार्थस्तु लक्षणस्य सर्वत्राधिकोदाहरणोप- न्यासो वैदितव्यः । शालीयो मानीय इति। अतद्भावितस्योदाहरण । अत्र हि दिसंज्ञायां वृद्धिर्यस्याचामादि ( १।११७६ ) स्तदृड मिति संज्ञा फलं छप्रत्ययोपन्यासस्तस्या एव फलभूताया अभिव्यक्त्यर्थः । वृद्धसंज्ञायां हि सत्यां वृद्धाच्छ ( ४२।११४ ) इति जातादावर्थे ४।२।११४ ) इति जातादावर्थे च्छो विधीयते । एकारीकारयोस्त्वतभावितयोरुदाहरण' नात्र दर्शितम् । एतदनुसारेणैव गम्यमानत्वात् । आकारस्यातदुभावितस्य वृद्धिसंज्ञायाः कार्य दर्शिते तयोरपि तदेव कार्यमिति तन्मुखेनैव गम्यत एव । के पुनस्तयोरुदाहरण ? गमयम् । नौमयमिति । अत्रं कारोकारयोईडिसंज्ञायां सत्यां पूर्ववह संज्ञा । तस्याञ्च सत्यां रायो विकारः। नावो विकार इति नित्य वृद्धशरादिभ्य इति ( ४।३।१४४ ) मयड् भवति । । २। अदेड्गुणः । । तपरकरण विह सर्वार्थमिति। सर्वस्मिन्नर्थः प्रयोजनं यस्य तत् तथोक्तम् । तुशब्दः पूर्वस्माद विशेषं दर्शयति । तत्र जिर्थमेव । इह तु सर्वार्थम् । अकारार्थमेडर्थमपि । असति हि तपरकरण अदेडामणत्वात् सवर्णानां ग्रहण सति भित्रकालानामप्येषा संज्ञा स्यात् । ततश्च तरितेत्यत्रान्तरतम्यादीर्घस्य दीर्घ एव गुण: स्यात् । ननु च वृद्धिसंज्ञा गुणसंज्ञाया बाधिका भविष्यति । तत् ।

४० काशिकाविवरणपञ्जिका । यथा च कुतोऽयं प्रसङ्गः ? नैतदस्ति । एकसंज्ञाधिकारहि संजया संज्ञान्तरं बाध्यते । नचात्रैकसंज्ञाधिकारः। स्यादेतत् । असत्यप्येकसंज्ञाधिकारे यथा जीवति तु वंश्ये ( ४।१।६२ ) युवेति गोत्रसंज्ञा युवसंज्ञया बाध्यते । लिट् च । ( ३।४ ११५ ) लिङाशिषीति (३।४।११६ ) चार्धधातुकसंज्ञया सार्वधातुकसंज्ञा बाध्यते तथा गुणसंज्ञा वृद्धिसंज्ञया बाधिष्यते इति ? अयुक्त मेतत् । युवसंज्ञाविधौ तुग्रहण नियमाथं क्रियते । ततो युक्तं यद् युवसंज्ञ या गोत्रमंना बाध्यत इति । आर्धधातुकसंज्ञयापि यत् सावधातुक- मंना बाध्यते तदपि युक्तमेव । छन्दस्युभयथेति (३।४।११७ वचनात् । यदि सार्वधातुकार्धधातुकसंजयोः समावेशः स्यान् न बाध्यबाधकभावस्तदा छन्दस्युभयथेति वचन मपार्थकं स्यात् । इह तु न किञ्चित् तथाविधं निबन्धन मस्ति यतो वसंज्ञया गुणसंज्ञा बाध्यत । अथापि कथञ्चिद् बाध्येत एवमपि त्रिमात्रिकस्यापि गुणसंज्ञा स्यादेव । नहि सा तया शक्या बाधितुम् । तसा अतद्विषयत्वात् । विमानसमापि गुणसंज्ञायां सत्यां त्रिमात्रोऽपि गुणः प्रसज्येत । ऋकारमा हि कालतो यथैकमात्रिको ऽकारो ऽन्तरतमो न संभवति तथा विमानोऽपि । तत् कुतः एतल्लभ्यता? हखेनैवास्य गुणेन भवितवाम् । न हि विमात्रेणाकारेण ति ! किञ्च यदि भिन्नकालानामपि गुणत्व संज्ञा स्यात् खट्वा इन्द्रः खट्वेन्द्र : खट्वा उवौं खटोर्वोत्यत्र विमानत्वात् पूर्वोत्तरसमुदायात्मनः स्थानिन आद् गुण (६।१,८७) इति निमात्रो गुण: ममात् । खट्वा ईषा खट्वेषा खट्वा अढ़ा खट्वोढ़े तात्र चतुर्मात्रत्वाच् चतुर्मात्रः । तस्मात् सर्वार्थ तपरकरण' कर्तवाम् । तरितेत्यादि । तृ प्लवनतरणयोः । चिञ् चयने। ष्टुञ् स्तुतौ। एभ्यो णु ल ( ३।१।१३३ ) चाविति च । आर्धधातुकस्येड् ( ७।२।३५ ) वलादेरितीट् । सार्वधातुकार्धधातुकयो ( ७३८४ } रिति गुणः । सुः । ( ४।१।२ ) ऋदुशने- त्यादिना (७.११८४ ) अनङ् । सर्वनाम स्थाने ( ६ ४।८ ) चेति दीर्घः । एतानि त्रीणि यथाक्रममदेडां तद्भाविताना मुदाहरणानि । पठन्ति । पठन्त्रिताकारसातद्भावितसोदाहरण । अत्रान्ताकारस्य गुणमंज्ञाया मतो गुण (६।१८) पररूपत्वं भवति । पठविति। शवन्तमेतत् ।

४१ (१ । १ ।। एकारम्यातद्भावितस्य कार्योदाहरणम् अहं पच इत्यादि। तद्भावितस्य तन्न सम्भवतीति न प्रदर्श्यते । भोकारस्या- । । ३। दूको गुणवृद्धी। परिभाषयमिति । नाधिकारः । अस्खरितत्वात् : नापि गुणहयोर्विधायक लक्षणम् । लक्षणान्तरेण तयोविधास्यमानत्वात् । स्थानिनियमार्थेति । स्थानिनि नियमः स्थानिनियमः स्थान्यन्तरव्यवच्छेदेनैकत्र प्रवर्तनम् । सोऽर्थः प्रयोजनं यस्याः सा तथोक्ता। अनियमप्रसङ्गे नियमो विधीयत इति । यत्र साक्षात् स्थानी न निर्दिष्टः सार्वधातुकार्धधातुकयो: (७.३.८४) सिचि (७२।१) वृद्धि- रित्यादौ तत्रानियमे प्रसक्ने नियममेषां करोति । इक एव नान्यस्येति । अतः स एवास्या विषयो वेदितव्यः । नतु यत्र साक्षात् स्थानी निर्दिश्यते सोऽपि । यथा ओर्गुण: ( ६।४।१४६ : अत ( ७।२।११६ ) उपधाया इत्यादिः । तत्र द्यनियमस्य प्राप्तिरेव नास्ति । लिङ्गवती चेयं परिभाषा । लिङ्ग चास्या गुणद्धिग्रहणम् । तत्रोपतिष्ठते । तथाच हे षष्ठयो प्रादुर्भवतः । इक इत्येका षष्ठी। मिर्गुण ( ७३.८२ । इत्येवमादिका द्वितीया । तत्र कामचाराद् यथेष्ट सिध्यति । तयोर्विशेषणविशेष्यभावः क्रियते । मिदेरित्यत्रान्त इग् न मम्भवतीति तस्याङ्गविशेषणत्वं नोपपद्यत । तस्मादनाङ्गेनेगव विशिष्यते मिदेरङ्गस्य य इगिति । तेन स्थानषष्ठाभावादलोऽन्त्यस्यानुपस्थाने सति यत्र तत्रस्थस्येको गुण: सिद्धो भवति । सार्वधातुकाधधातुकयोरित्यादौ त्वङ्गस्य इगन्तत्व सम्भवति । तेन चाङ्ग विशिष्यमाणे तदन्तविधी सतीष्ट सिध्यति । तस्मादिकवाङ्ग विशिष्यते । इगन्तस्याङ्गस्येति । एवञ्च षष्ठीत्वादलोऽन्त्यस्येत्ये : १।१।५२ तदुपतिष्ठते। तेनेगन्तस्यैवाङ्गस्य गुणवही भवतो नेतरस्य । म्वसंत्तयति । अत्र वक्ष्यमाणोऽभिप्रायः । इक एव स्थान इति । यदर्थेयं परिभाषा तस्य नियमस्य स्वरूपं दर्शयति । अकार्षीदिति । डुक्का करण । लुङ् : च्ले: ३।१:४४ ) सिच् । मिचि ( ७२।१ ) हडिः । अस्तिसिचोऽपृक्त इतीट ( ७।३।२६ । एवमहार्षीदिति । अत्र हृञ् हरण इत्ययं विशेषः । इक इति किमिति ? एकदेशहारेण समुदायस्य पर्यनु- सत्यस्या: स्थान- ४२ न्यामः । . योग। वेदितव्यः । नहि गुणवृद्धी इत्येतावता विनेग्ग्रहणनार्थः कश्चित् संगृह्यते। यानमिति । यातल्युटि गुणे विधीयमान आन्तरतम्यादकारः स्यात् । ततश्च इयोरकारयोरतो गुणे।६।१८७ पररूपत्वे कृते यन- मित्यनिष्ट रूपं स्यात् । ग्लायतीति । ग्लै म्लै हर्षक्ष ये। अत्र सन्धाक्षरस्य ऐकारस्य एकारो गुण: स्यात् । ततश्चायादेशे कृते ग्लयतीत्यनिष्ट रूपं स्यात् । उम्भितेति। उभ उम्भ पूरण । हच् । इट । अत्र व्यञ्जनस्य भकारस्यौष्ठास्य ओकारो गुणः स्यात् । ततश्चावादेशे कृते उमवितत्य- निष्ट रूपं स्यात् । अथ कथं स्वसंज्ञया शिष्यमाणावित्येष विशेषो लभ्यते । नहि सूत्रे स्वसंज्ञाग्रहणमस्तीत्यत आह पुनर्गुणवृद्धिग्रहणमित्यादि । पूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते । तस्मिन्ननुवर्तमाने यत् पुनरिह गुण- हडिग्रहणं क्रियते तस्यैतत् प्रयोजनम् । यत्र स्वसंजया गुणवृद्धी विधीयेते तत्रायं नियमो यथा स्यात् । अन्यत्र मा भूदिति । पुनर्गुणवृद्धिग्रहणसाम- •दन्यतरस्य गुणवृद्धिग्रहणस्य संज्ञाप्रधानत्वं सम्पाद्यते । तेन स्वसंज्ञया विधाने नियमो भवतीत्येषोऽर्थों लभ्यते । अन्यथा हि यद्येवं पूर्वी नियमो नानाभिमतः स्यात् ततो नियतस्य नियमस्य प्रकृतगुणद्धिग्रहणानुवृत्ताव सिद्धत्वात् पुनरिह गुणवृद्धिग्रहणमनर्थकं स्या दत्येवमभिप्रायः । भूदितादिनास्यैवंप्रकारस्य नियमसा वावच्छेद्यत्व दर्शयति : द्यौरिति । दिव औदित्योकारः ( ७।१८४)। स्वरूपण विधीयमानो ऽलो ऽन्त्यस्यैव भवति । नेकः । पन्था इति । पथिमध्यभुक्षामादित्या ( ७१८५ ) कारो ऽन्तास्यैव भवति । नेकः । इतोऽत् सर्वनाम स्थान ( ७१।८६ ) इती- कारसा प्रकारः। थोग्य इति थकारस्य न्यादेश: ( ७।१।८७)। इममिति । त्यदादीनाम ( ७।१।१०२) इत्यत्वमन्तस्यैव भवति । नेकः । दश्चेति ( ७।२। १०८) दकारसा मकारः । स इत्यत्र वसा: परिभाषाया उपस्थाने सति त्यदाद्यत्व न स्यादेव। तदोः स: (७२।१०६ ) सावनन्तायोरिति सत्वम् । ननु चाचश्चे ( १।२:२८) त्ययमपि स्थानिनियमः स्वसंज्ञाविधान एवष्यते । तसापि च नियमसा द्यौरित्यादिकं वावच्छेद्यम् । तथाहि वृत्तिकार स्तत्र वक्ष्यति स्वसंजया विधाने नियमः। अजिति वर्तते । इह मा भूत् । इह मा -- .

४३ ( १ । १)। द्यौः । पन्थाः। सः। युभ्यां द्यु भिरिति । ततश्च यदनेन नियमेन वंविधेन कर्त्तव्यं तत् तेनैव सिध्यति । नार्थ एवंविधनियमार्थेन पुनरिह गुणहडि- ग्रहणेन। सत्यमेतत् । किन्त्व वमर्थप्रतिपत्ती य एते मन्दधियः प्राथम- कल्पिकाः श्रोतारस तेषां प्रतिपत्तिगौरवं समात् । तस्मात् ताननुग्रहीतुं विस्पष्टार्थ मिह संज्ञाविधाने नियमं प्रतिपादयितुं पुन गुण डिग्रहण कृतम्। यद्येवं यत् तेन विधातवा तदनेनैव विहित मिति तत्र संज्ञा- विधाने नियमो न कर्तवाः । नैतदस्ति । यदि ह्यसावित्थम्भूतो नियमो न समात् ततो द्युभ्यां द्युभि रितात्र दिव (६।११३१) उदित्युकारः स्वरूपेणैव विधीयमानोऽच एव स्थाने स्यात् । नालोऽन्त्यस्य । नह्यनेन नियम- नाचः शक्यते वावर्तयितुम् । तसा गुणवृद्धिसजकत्वात् । ? ४ । न धातुलोप आर्धधातुके । उक्तपरिमाणसा शब्दसा धातुसंज्ञा कृता । तस्य सर्वस्य लोपे कृतं यत्र गुणवृद्धी प्राप्नुत स्तदार्धधातुके न सम्भवत्येव । तत् किं प्रतिषेधेन तस्मात् प्रतिषेधविधानसामर्याद् धात्वेकदेश धातुशब्दो वर्तत इति मत्वाह धावेकदेशो धातुरिति । धातुलोप इति । यद्ययं धातोलौंपो धातुलोप इति तत्पुरुष स्तत आर्धधातुकग्रहणं गुणवृद्धि विशेषण वा समात् ? धातु- लोपे सतवार्धधातुकनिमित्त ये गुणवृद्धी प्राप्त स्ते न भवत इति । लोप- विशेषणं वा समात् ? आर्धधातुकनिमित्त धातुलोपे सति गुणवृद्धी न भवत इति । पूर्वस्मिन् पक्षे कोपयतीत्यत्र प्रतिषेधः प्राप्नोति । तत्र प्रतिविधानं कर्तव्यम् । हितीये तु न भवत्येष दोषः । नहि नोपयतीत्यवार्धधातुक- निमित्तलोपः। किं तर्हि ? वल्निमित्तकः । किन्तु द्वितीये पक्षे प्रेस- मित्यत्र प्राप्नोति । अस्ति यत्रार्धधातुकनिमित्तो लोपः। ननु चेग्लक्ष- णयो गुणवृद्धयोरयं प्रतिषेधः । नचानेग्लक्षणो गुणः। नैतदस्ति । अत्रा- पोगलक्षण एव गुणो यो यु भयोः स्थाने भवति । लभते सोऽन्यतरव्यपदेशम् । तथाहि मातुः पितुरित्यत्रोभयी: स्थाने भवन् रपरोऽण भवति । तस्माल्लोप- विशेषणपक्षेऽपि तत्पुरुष प्रतिविधानं कर्तव्यमेव । बहुव्रीही तु न किञ्चित् ४४ न्यासः । भवति । नृञ् वेदने । प्रतिविधेयमिति मन्यमानो बहुव्रीहिरय मिति दर्शयन्नाह तस्येत्यादि । एतेन लोपविशेषण माधंधातुकमित्येतद् दर्शितं भवति । एवञ्चार्धधातुके सम्भवति यदि तत् तस्य निमित्त भवति । ततश्च कोपयतीत्यत्राति- प्रसङ्गो नावतरति। तत्रेत्यादि। नापि गुणवृद्धयोरार्धधातुकं निमित्तत्वेन विशेषणमित्याख्यातम् । ततश्च प्रेद्धमित्यत्राप्यतिप्रसङ्गो नह्याद्गुण आर्धधातुकनिमित्तः । ये ते इति । स्त्रीलिङ्गनिर्देशो गुणही इत्यनेन स्त्रीलिङ्गेन सामानाधिकरण्यात् । अस्य तु स्त्रीलिङ्गता परवल्लिङ्ग इन्दतत्पुरुषयो रित्यतिदेशात् । अर्थस्य च सोऽतिदेश इति । यत्तदोरपि तत्रार्थे वर्तमानयोः स्त्रीलिङ्गता भवति । ननु च नियमस्य प्रकृतत्वात् तस्यैवायं प्रतिषेधो युक्तः । तत् किमित्येवमाह तत्र ये गुणवडी प्राप्न त स्ते न भवत इति । तयोः प्राधान्यात् । तत् पुननियमेनोपक्रियमाणत्वात् । नियमस्य तु तादर्थवादप्राधान्यम् ! तस्माद् गुणवयो रेवायं प्रतिषेधो न्याय्यः । लोलुवः पोपुव इति । पूञ् पवने। इत्येताभ्यां धातो रेकाच इत्यादिना यङ् ३।१।२२ । सन् ६।१८) यडोरिति दिवंचनम् । गुणो । ७४.८२ । यङ्लुकोरित्यभ्यामस्य गुणः । यङन्तात् पचाद्यचि यडोऽचि ( २।४।७४ । चेति लुकि तबिमित्तगुणप्रतिषेधः । तस्मिन् सत्यचिश्नु धात्वित्यादिनोवङ्। मरीज इति । मृजू मृजू शुद्धौ। पूर्ववद यङ् । द्विवचनम् । उरत्त्वम् ( ७४।६६ )। हलादिः । ७।४।६० ) शेषः । रोग्ट- दुपधस्य चेति (७/४।८०) रीगागमः । लोलूयादिभ्य इत्यादिशब्देन पोपूयमरीमृज्येत्येतयो ग्रहणम् । लूज लविर्तति । यावदेव धातुसंज्ञा न भवति तावदेव सर्वविधिभ्यो लोपविधिर्वलीयानिति अकारस्य लोपो भवति । पश्चाल्लू इत्येतस्य धातुसंज्ञा ! तेन जकारलोपो धातुलोपो न भवतीति भवति प्रतुदाहरणम् । रेडिति । रिष रुष हिंसायाम् । अन्येभ्योऽपि दृश्यन्त ( ३.२ ७५ । इति विच । इकारचकारी वेरपृक्तस्येत्यत्र ( ६.१ ६० ) सामान्यग्रहणाविधाताौँ । वकारस्य चानेनैव लोपः । पुगन्त- लघूपधपति ( ७३ ८६ ) गुण: । झलाजशोऽन्त ( ८२।३८ ) इति षकारस्य ननु च द्यङ्गविकले ६ अपि एते प्रतुपदाहरणे । यथैव यत्र -- डकारः ।

वाक्यार्थः स्यात् । ( १ । १ । ४५ धातुलोपो न भवति एवमार्धधातुकनिमित्तोऽपि न भवति। नैतदस्ति । सति हि धातुग्रहगो पदद्द यमान्निध्याद् बहुव्रीहि लभ्यते । तस्मिंश सत्यार्ध- धातुकनिमित्तत्व लोपस्य । असति हि धातुग्रहगो न लोप आर्धधातुक इत्युच्यमान आर्धधातुकाश्रये से गुणवृद्धी प्राप्त स्ते लॉप सति न भवत इत्येष वाक्यार्थः स्यात् ततश्च लोपस्याविशषितत्वादविशेषेण यत्र कापि लोप प्रतिषेधः स्यात् । रोपवीति : रु शब्द इत्यस्माद् यङ् बहुल { २१४।७३ छन्दमीति यङो लुक् । लट् । तिप् । शप् । अदादित्वा'च्छपी लुक् । यडो ( ७३८४, वेतीट । अत्र मार्वधातुकनिमित्तो गुणो न प्रतिषिध्यत । ननु च गङ्गविकलमवेदम् । यथैव ह्यार्धधातुकनिमित्तो गुणो न भवत्येवं लोपोऽपि। नैतदम्ति । मति ह्यार्धधातुकग्रहण ऽन्य- पदार्थत्वं न तस्याश्रयणात् तबिमितो लोपो लभ्यते। तम्मिच सति न धातुलोप इतीयतुपच्यमाने ये केचन गुगवलीत च लोप सति न भवत इत्येष ततथाविशषितत्वानोपस्य लोपमात्रे प्रतिषेधो विज्ञायते । अभाजीति। भञ्ज आमईने । चलिः । चिगा भावकम्मणोरिति चिण । चिणो ! ६।४।१०४ लुगिति सशब्दस्य लुक् । भञ्जेश्च ( ६ ४.३३ ! चिणीत्यनुनासिकलोपः । राग इति । अत्रापि घनि (६।४।२७ ) च भावकरणयोरिति नलोपः । रज्ज राग। यद्यप्यत्र सर्वमस्ति तथापीक इत्यत्रानुवत्त रिह चेकोऽ सम्भवादत ७२। ११६ ) उपधाया इति हद्दे: प्राप्तायाः प्रतिषेधो न भवति । कोपयतीति । न यो शब्द । हेतुमति । ३।१२६ ) चेति णिच । असिंहीत्यादिना ( ७।२।३६ । पुक् । लोपो ( ६।१।७६ ) व्योर्वतीति यलोपः । पुगन्तेत्या- दिना ( ७।३।८६ ) गुण: । प्रेडमिति । जिइन्धी दीप्ती अनि- दितामित्यादिनानुनासिकलोपः (६।४।२४ )। झषस्तथोऽध । ८।२। ४०) इति तकारस्य धत्वम् । झलाजश ।८।४।५३) झशीति धातु- धकारस्य दकार: । प्रगतमिडमिति कुगतिप्रादय ( २१२ !१८ ) इति समासः । ५। कङिति च। डितीति । यदीयं परसप्तमी स्यादनन्तरस्यैवेकः प्रतिषेधः स्याच् - भावे घञ । ताः ।

४६ न्यासः । चित: चितवानित्यादी। व्यवहितम्य भिन्नो भित्रवानित्यादौ न स्यात् । तस्मिन्निति निर्दिष्टे १।१।६६ ) पूर्वस्येत्यत्र निर्दिष्ट ग्रहणस्थानन्तार्थत्वात् । निमित्तसप्तम्यां त्वस्यां सर्वत्र भवितव्यम् । व्यवहितयोरपि। निमित्त- निमित्तिभावसद्भावादिति मन्यमान आह निमित्तसप्तम्येषेति। निमित्तात् सप्तमी निमित्तसप्तभो। पञ्चमी (२.१।३७ ) भयेनेति पञ्चमीति योग- विभागात् समासः । सा पुनः सप्तमी यस्य च २।३।३७ ) भावेन भावलक्षण मित्यनेन वेदितव्या। डितो हि निमित्तभावेन गुणवयोः प्राप्तिलक्षणो भावो लक्ष्यते । अथ निमित्तसप्तम्यामप्यस्यां कस्मादेव व्यवहितस्य प्रतिषेधो लभ्यते ? तत्र तस्मिनित्यादिकाया: परिभाषाया अनुपस्थानात्। ङिति चेत्यत्र डिग्रहणं गुणवृद्धयोर्विशेषणम् अतो नासो परिभाषा तत्रोप- तिष्ठते । विध्यङ्गशेषभूता ह्येषा परिभाषा यत्र विधीयते किञ्चित् तत्रोप- तिष्ठते। इक्परिभाषावत् । यत्र गुणवृद्धी विधीयते तत्रवेक्परिभाषोप- तिष्ठत नच यत्र सिद्धे गुणवृद्धी कार्यार्थ मुपादीत तत्रापि। अन्यथा हि हड़ियस्याचामादि । १।१।७३ स्तदृद्ध मित्यादावप्यस्या इकपरिभाषाया उपस्थानाच शालीयो मालीय इत्यत्र वृद्धसंज्ञा न स्यात् । यथा चेयमिक्- परिभाषा विध्यङ्गशेषभूतत्वाद् विधावेवोपतिष्ठते तथासावप्यानन्तर्यपरिभाषा । नचे गुणवृद्धी विधीयते । किं तहि ? किं तर्हि ? विहिते अप्यन्यत्र ङितीत्यनेन विशिष्यते । तस्मान्नात्र तस्याः परिभाषाया उपस्थान मित्यनन्तरस्यापि प्रतिषेधः सिध्यति । कङिनिमित्ते ये गुग बड़ी इति । डिनिमितं ययो स्ते तथोक्ते । ते पुनयं ङिनिमित्ते सति प्राप्नुत स्त विज्ञेये। एतेन गुणवृद्धि विशेषण ङिद्ग्रहणमिति दर्शयति । ननु च विधीयमानतया प्राधान्यात् प्रतिषेधस्यैवैतद् विशेषण युक्तम् । नैतदस्ति । यत्र हि गुण: कृतात्मसंस्कार: प्रधानोपकाराय महते प्रभवति तत्र प्रधानस्यैव भूयांस मुपकारं कर्तुमात्मनः संस्कार संस्कार मनुमूय प्रधानेन सम्बन्ध मनुभवति । यथोक्तम्- गुण: कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानसोपकार हि तथा भूयसि वर्त्तत ॥ १ ॥ इति ।

(१।१ )। इह तु गुणवद्धयोः कङिद्ग्रहणेन विशेषितयो महान् प्रधानस्य प्रतिषेध- स्योपकारो भवति व्यवहितस्यापि तमिडे: । भिन्न इति । भिदिर विदारणे । क्त: । रदाभ्यां ( ८।२४२ ) निष्ठातो न इति नत्वम् । मृष्ट इति । मृजे व्रश्चेत्यादिना । ८।२।३६ ) जकारस्य षत्वम् । टुना (८४१४१) टुरिति ष्टुत्वम् । चिनुत इत्यादौ तु ( ८।४४१ ) सार्वधातुक ( १।२।४ ) मपिदिति ङित्त्वम् । चिन्वन्तीति । हुश्नुवोः ( ३।४।८७) सार्वधातुक इति यणादेशः । अत्र चितः । चितवान् । स्तुतः । तुतवान् । चिनुतः । चिन्वन्ती- त्येषूदाहरणषु यथायोगं सार्वधातुकार्धधातुका लक्षणस्य गुणस्य प्रतिषेधः । भिन्नः । भिन्नवानिति लघूपधलक्षणस्य । परिशिष्टेषु मृजेद्धि । ७।२।११४) रिति वडे: । ग्लाजि ( ३।२।१३८ । स्थश्च करिति । क्न प्रत्ययोऽयं यदि कित् स्यात् स्थानुरित्यत्र घुमास्थादिसूत्रेण ( ६।४।६४ । तिष्ठतरोत्त्वं स्यात् । अतस्तत्परिहाराय क्नो गित्त्वं प्रतिज्ञायते । तथाहि तत्र वक्ष्यति गिचायं प्रत्ययो न कित् । तन स्थ ईकारो न भवतीति । गित्वं च मति भूष्णुर्जिष्णु रित्यत्र ङिति चेति प्रतिषेध उच्यमानो न प्राप्नोति । अत एतद्दोष- परिहागयाह गकारोऽप्यवेत्यादि। चर्चामूतश्वत्वं प्राप्त इत्यर्थः खरि चेति ८।४।५५ )। यदि हि क्नोगित्त्वमिष्यते भूष्णुरित्यत्र श्रुधकः ( ७।२।११ । कितीति किति प्रतिषेध उच्यमानो न स्यात् । नैष दोषः । तत्रापि चवंभूतो गकारो निर्दिश्यते । तथाहि ग्लाजिस्थश्च कमरित्यत्र जयादित्यवृत्ती (१) ग्रन्थः । डिति चेत्यत्र गकारश्चलभृतो निर्दिश्यते । तेन गुणो न भवति थुधक: कितीत्यत्रापि गकारो निर्दियते। तेन भुव इड् न भवतीति । श्रुधकः । १२.११: कितीत्यत्रापि जयादित्यवती -- । चत्वं तु , (१) वामन and जयादित्य are the joint authors of the काशिका । But their shares as assigned by हग्दिी क्षत, Bhottoji's grandson, ( viz:-प्रथम हितोयपत्रमपष्ठा जयादित्य- कृतवृत्तयः । इतरी वामनकतवृत्तय इत्यभियुका:-vice शब्दरत्र under 5. 4. 12) are disproved here by Jinendra's assertion, Bhottoji also supports the न्याम कार (vide शब्दकौस्तुभ I. 5). हरदत्त too takes वामन as the annotator of the Rule 6.2.73 अके जीविकार्थ । (vide पदमनरी 2.2.17). I.I.

न्यासः । ग्रन्य: :२. गकारोऽप्यत्र चरी भूतो निर्दिश्यते भूणु रित्यत्र यथा स्यादिति । वामनस्य त्वेतत् सर्वमनभिमतम् । तथाहि तस्यैव सूत्रस्य तद्विरचितायां वृत्ती ग्रन्थः केचिदत्र हिककारनिर्देशन गकारप्रश्लेषं वर्णयन्ति भूष्णु रित्य वं यथा स्यात्। सौत्रत्वाच्च निर्देशस्थ शुकः कितीत्यत्र चत्वस्यासिदत्वमनाश्रित्य रोरुत्व न कृतम् : विसर्जनीयश्च कृत इति । ग्लाजिस्थश्च गस्नु रित्यत्र स्था आ इत्याकार प्रश्लेषेण स्थानो: मिद्धत्वान्न किञ्चिदेतदिति । स एवं मन्यते । यदि कम्प्रत्ययस्थ कि सति तिष्ठतेरीत्त्वं प्राप्नुयात् तथा तत्परिहारार्थ गित्त्वं युज्यते प्रतिज्ञातुम्। गित्त्वे च सति जिष्णु भृष्णु रित्यत्र यथायोगमिड्गुण योनिरासाय डिति चेत्यत्र थुकः कितीत्य त्र गकारथत्व भूतो निर्दिश्यमानः शोमत । नच कस्नु प्रत्ययो गित् । किं तर्हि किदेव। तत् किमिड्गुणप्रतिषेधार्थेन चवंभूतगकारस्य निर्देशन ? नच कना: कित्व मति तिष्ठत रात्व प्राप्नोति । तस्माद् ग्लाजिस्थश्व कस्नु रित्याकारप्रश्लेषः कृतः कम्प्रत्य यान्तस्य तिष्ठते राकार एव यथा स्याद् यदन्यत् प्राप्नोति तन्मा भूदित्येवमर्थः । ततश्च तेनैव सिद्धत्वात् स्थास्नु शब्दस्याकिञ्चित्करमिह गकारलेषवर्णनमिति । कामयत इति । कमेगिङ् (३।११३० । अत्र अत उपधाया (७२।११६) इति हहेः प्रतिषधो न भवति । लैंगवायन इति । लिगुश दान्नड़ादिभ्यः फकि कुते ओर्गुण । ६।४:१४५ इति गुणस्य प्रतिषेधो न भवति । ननु चोकार इगेव । तरयुक्तमिदं प्रत्युदाहरणम् । नैतदस्ति । अत्र हि चकार: क्रियत इक इत्यनुकर्षणार्थ: । तत्र चकारणानुकर्षणमामादिक इत्येतदर्थ पदार्थतामुत्सृज्य स्वरूपपदा तामनुभवति , अन्यथा हि यदि चकारणाप्यनु कृष्यमाणमर्थपदार्थ कमेव स्यात् तदनुकर्षणार्थ चकारकरण मनर्थकं स्यात् । अर्थपदार्थम्य म्वरितत्वादेवानुवृत्तिमिद्दे: । स्वरुपपदार्थके च तम्मिन्त्रिह । ४।१।८८) फगिति (2) What does this statement-शकः किती त्यत्रापि जयादित्यवृत्ती ग्रन्थः -- indicate : Flas जयादित्य in addition to his work with वामन, separately written a complete commentary on the अष्टाध्यायी ? ( could not verify the quotation गकारीप्यत्र चत्वंभूता निर्दिश्यते भूणा रित्यत्र यथा स्यात् । It is not found in the printed काशिका ।

(११)। ४८ सन्निहिते सत्ययमों भवति । इक इत्येवं ये गुण बुडो विधीयते दुक इतीमं शब्द मुच्चार्य ये गुणवृद्धी विधीयते त डिनिमित्तेन भवत इति । नच लैगवायन इत्यत्र इक इतीमं शब्द मुजार्य गुणो विधीयते । इक्परि- भाषाया स्तत्रानुपस्थानात्। अनुपस्थानं तु साक्षादुकारस्य स्थानिनो निर्दे- शात्। यत्र हि साक्षात् स्थानी न निर्दिश्यते तत्रासावुपतिष्ठते । ननु यदि स्वरूपपदार्थस्येक इत्यस्य ह सन्निधानं स्थानी न निर्दिष्टः स्यात् । ततश्च न ज्ञायते कस्य गुणवृद्धी प्रतिषिध्येते इति। नैष दोषः । सामादिक एव गुणवृद्धयोः प्रतिषेधोऽयं गम्यते । नह्यन्यस्येक इतीमं शब्द मुच्चार्य गुणवृड्डी विधीयते । अथवा यद्यपीकपरिभाषा विध्यङ्गशेषभूता तथापीहासत्यपि गुण- वृद्धयो विधाने चकारणानुक्ष्य सविधाप्य ते । एतदेव हि चकारकरणस्य प्रयोजनं यदिदमिक्परिभाषायाः सन्निधापनम् । ततश्च तस्या उपस्थाने सति यत्रासौ व्याप्रियते तत्रैवायं प्रतिषेधो विज्ञायते क चासो व्याप्रियते ? यत्र स्थानी साक्षान् न निर्दिश्यते । इह तु निर्दिश्यते स्थानी। तम्मादिक परिभाषाया व्यापाराभावाद् भवति प्रत्युदाहरणम् । मृजेरित्यादि । कथं पुनरिष्यमाणापि मा लभ्यते ? यथा लभ्यत तथा शृयताम् । अचो । ७।२।१५) णितीत्यत्र मृजे तिरिति ( ७।२।११४) वर्त्तते । जराया ( ७।२।१०) जरसन्यतरस्यामित्यतोऽन्यतरस्यांग्रहणञ्च मण्ड कप्लुतिन्यायेनानुवर्तते । सा च व्यवस्थितविभाषा। अच इति योगविभागः क्रियते। मृजेरजादो संक्रमे विभाषा वृद्धिर्भवति । अन्यत्र न भवत्येव । लघूपधगुणस्याप्यत्र प्रतिषेध इति । एतेन संक्रमत्वं दर्शयति । अन्ये तूत्तरमूत्रे कणिता खो रणिता ख इत्यनन्तर मनेन ग्रन्थेन भवितव्यम् । इह तु दुर्विन्यस्तकाकपदजनित- भ्रान्तिभिः कुलेखक लिखित मिति वर्णयन्ति । अथवा निमित्तसप्तम्या एवेदं फलं दर्शित मिति मन्तव्यम् । अचिनवम्। असुनवमिति । लडो डित्वात् तदादेशस्यापि मिपो ङित्त्वम् । स्थानिवडावेन मिपो ङित्त्वात् तदादेशस्याप्यमो ङित्त्वं पूर्ववत् । ततश्च तदाश्रयो विकरणस्य गुणप्रतिषेधः प्राप्नोति । कस्मात्र भवतीत्याह अचिनवमित्यादि। आदि- शब्देनाकरवमित्यादीनां परिग्रहः । लकारस्येति । लकारादेशोऽपि पारम्पर्योग ५० न्यासः । लकारपूर्वकत्वादुपचारण लकार इत्युक्तः । सत्यपीत्यभ्युपगमे हलः श्रः ( ३।११८३) शानज् झाविति शानजादेशस्य शित्करणालिङ्गानावश्यमनु- बन्धकार्येषु स्थानिवद्भावो भवतीत्यध्यवसितोऽयमर्थः । अतो ङित्त्वमेवात्र न भवतीति शक्यते वक्तुम् । अभ्युपगम्य तु ङित्त्वमेव परिहार उच्यत इत्येतदनेन सूचयति । यासुटो ङित्त्ववचनमित्यादि। यदि डिति यत् कार्य विधीयते तलकार डिति स्यात् ततो लिङएव ङित्त्वेन चिनुयादि- त्यादौ गुणप्रतिषेधस्य सिद्धत्वाद् यासुट (३।४।१०३ ) परस्मैपदेषूदात्तो डिच्चेति यत् तस्य यासुटो डिवचनं तन् न कुर्यात् । कृतञ्च । ततोऽवसीयते डिति यत् कार्य तलकार डिति न भवतीति । ६। दौधौवेवीटाम् । दीधीवेव्योरिति । दीधीङ् दीप्तिदेवनयोः । वेवी वेतिना तुन्य इत्येतयो ग्रहणम् । ननु च दीङ् क्षये। धीङ् अनादरे। वेञ् तन्तुसन्तान । वी गतिप्रजनकान्त्यसनखादनेष्वित्येतेषां ग्रहणं कस्मान्न विज्ञायते ? पद्येषां ग्रहण मभिमतं स्यादसन्देहाथ वीवेधीदीटामीत्येवं न्यासं कुर्यात्। अन्यथा तु कतम् । तस्मात् पूर्वोक्तयोरेव धात्वोरिह ग्रहणम् । इटश्चेति आर्धधातुक- कसेत्यादिना (७२।३६) विहितस्य । अथ इट किट कट गतावित्यस्य ग्रहणं कस्मान भवति । युक्तञ्चैतत्। धातुसाहचर्यात् । नैतदस्ति । इहाल्पाच्तरमिति इट: पूर्वनिपाते कर्तव्य तविपर्यासं कुर्वतैतत् सूचितम् । अन्योऽप्यत्र कश्चिद् विपासो विज्ञेय इति । तेन धातुसाहचाडातुग्रहण प्राप्ते तद्दिपरी- तस्यैवागमस्य ग्रहणं विज्ञायते । आदीध्यन मिति। ल्युट् । आदीध्यक इति । ण्वुल् । कणिता खो रणिता व इति । अण रण कण इत्यादो शब्दार्थ धातुवर्गे कणिरणी पठ्येते । ताभ्यां लुटि स्यतासी ( ३।१।३३ ) ललुटोरिति तासिः । लुटः प्रथमसेत्यादिना ( २।४।८५) तिपो डादेशः । टिलोपः । आर्धधातुकत्यादिनेट (७.२३६) । अथेटो वृडे रुदाहरणं कस्मान प्रदर्शित मित्याह हद्धि रिटो न सम्भवतीति । अङ्गस्य वृद्धिर्ज णिदादौ प्रत्यये विधीयते इट चायमार्धधातुकभक्तः । नचार्धधातुकस्याङ्गसंज्ञास्ति ब्णिदादी प्रत्यये । तस्मादिटो वृधि न भवति ।

( १।१ )। हलो ऽनन्तराः संयोगः । इत्यर्थः । अन्तरं छिद्र विवरं वर्णशून्यः काल न विद्यतेऽन्तरं येषां ते तथोक्ताः । भिन्नजातीयरित्यादि। भिन्नजातीयरिति वचनं भिन्नजातीयानामेव लोके व्यवधायकत्वदर्शनात् । तथाहि कश्चित् केनचित् किमनन्तरे परे ब्राह्मणकुले इति पृष्टः सन्नाह नानन्तरे । वृषलकुल मनयो- मध्ये प्रतिवसतीति । श्लिष्टोच्चारिता इत्यनन्तरसैयव विवरणम् । निरन्तरी- चारिता इत्यर्थः । संयोग इति । यदाकै कसैवषा लिष्टोच्चारितस्य हल: संज्ञा स्यादिह निर्वायाद निर्यायादिति वान्यस्य (६।४।६८) संयोगादेरित्येत्वं स्यात् । इह च संस्कृषीष्टेति ऋतश्च (१२।४३) संयोगादेरितीट् । इह च संस्कियत इति गुणोऽर्तिसंयोगाद्यो (७४।२८ ७.४।२८) रिति गुण इत्येवमादयोऽन्येऽपि बहवो दोषाः प्रत्येकं हलां मंजिव भाष्य उद्भाविताः । यद्यपि तत्रैव ते कथञ्चित् प्रयासेन परिहता स्तथापि यस्तु तत्परिहारण प्रतिपत्ती साध्यायां प्रतिपक्तिगौरवदोष पद्यते सोऽपरिहार्य एव। समुदाये तु संजिनि दोषाशङ्गापि नास्ति । तस्मात् स एव संज्ञी युक्त इत्यालोच्याह समुदायः संजीति । ननु च यत्र सहभूतानां कार्यमिच्छति तत्र यत्न प्रारभ्यते । यथा उभे ( ६।१।५) अभ्यस्त मिति उभेग्रहणं करोति । मचेह कश्चिद् यत्नः कृतः । तत् कथं समुदायस्य संज्ञा लभ्यते ? इहापि कृत एव यत्न इत्यदोषः । कः पुनरसो ? महत्याः संज्ञायाः करणम् । लघुथं हि संज्ञा करणमिति महत्याः संज्ञाया: करणं प्रयोजनमन्तरेण न सम्भाव्यते । संज्ञीत्येतत् सूचयितुं महती संज्ञा कृतेति गम्यते । तथाचोक्तम्-इङ्गिते- नोम्मिषितेन महता वा मूत्रप्रबन्धेनाचार्याणामभिप्रायो लक्ष्यत इति । एवञ्च महान् संजी भवति यदि समुदायः संज्ञी भवति। नैकैको हल् । तस्मादुपपन्न मैतत् समुदायः संजीति । हल इति बहुवचननिर्देशाद् घयोः संज्ञा न सिध्यतीति यश्चोदयेत् तं प्रत्याह जातो चेत्यादि । चशबदो यस्मादर्थे यस्माज्जाती बहुवचनं तेन इयोबहनां च संयोगसंज्ञा सिहा भवति । अग्निरित्यादिकं रूपोदाहरणं द्रष्टव्यम् । तिलान्तस्त्रावपतीत्यादि । हे मपरे तस्मान्महानत्र ५२ न्यासः । धुट। ( ८।३।३६) वेत्यतो वेति वर्तमाने डः (८।३।२८) सि धुडित्यतो धुडिति च नश्चेति ( ८३३० ) पक्षे खरि चेति (८.४।५५ ) च तकारः । तत्र यदा धुण नास्ति तदा नसतरया इति। यदा त्वस्ति तदा नतसतरयाः । तितउच्छत्र मिति । तनोतर डउ:सनवच्चेति डउप्रत्यये टिलोपे द्विवचने च कृते रूपम् । संयोगान्तस्य लोप: स्यादिति । यद्यत्राकारस्योकारण संज्ञा स्थादित्यभिप्रायः । नच लोप सत्युकारोपदेशस्य वैयर्थ माशङ्गनीयम् । पदसंज्ञा नास्ति तितउनीत्यादौ तत्र श्रूयमाणत्वात्। पचतीति । प्रत्युदाहरणम् । पनसमिति कार्यप्रत्युदाहरणम् । स्कोः ( ८।२।२८) संयोगाद्योरिति लोपः स्यादिति । यदि सकारनकारयोः सान्तरयोरपि संयोगसंज्ञा स्यादिति भावः । यत्र ८। मुखनासिकावचनोऽनुनासिकः । मुखसहिता नासिका मुखनासिकेत्यनेन मुखनासिकाशब्दोऽयं तत्पुरुषः । न हन्द इति दर्शयति । तत्पुरुषस्तु मयूरव्यंसकादित्वाद् (२।१७२ ) वेदितव्यः । यदि च मुखञ्च नासिका चेति इन्दः स्यात् प्राणितूर्यादिसूत्रेणे ( २।४।२) कवद्भावः स्यात् । ततश्च स नपुंसकमिति ( २।४।१७ ) नपुंसकत्व स्यात् । तस्मिश्च सति इस्वो ( १।२।४७) नपुंसके प्रातिपदिकस्येति इखत्व प्रसज्येतेति भावः। ननु चोयतेऽ नयेति करणे लुटि कृते तदन्ताटिड्- ढाणजित्यादिना ( ४।१।१५ ) डीपा भवितव्यम् । ततश्च तदन्तेन बहुव्रीही मुखनासिकावचन इति निर्देशो नोपपद्यते। नैतदस्ति । वचनशब्दोऽयं कत्यलाटो ( ३।३ ११३) बहुलमिति बहुलवचनात् कर्मसाधनः । उच्यत इति वचनो वर्णे वर्त्तते । न नासिकायाम् । अतएवाह तया य उच्चार्यत इति । उच्चार्य्यत इति कर्मणि लकारः। एवं कृत्वा मुखनासिकावचन इति षष्ठी- समासोऽयं वेदितव्यो न बहुव्रीहिः । अनुस्वारस्यैवेति । अनुस्वार हुाच्यमाने नासिकायाश्च व्यापारो न मुखस्य । तेन तस्यैव स्यात् । नतु स्याद् ञमङणना नाम् । नापि अभ्र ा अप इत्यनाई चन्द्राकृतवर्णस्य । तदुचारणे मुखस्यापि व्यापारात् । ततश्च यरोऽनुनासिक (८.४।४५) इत्येतस्मिन् कार्य कर्तवा (१११ ।। ५३ ऽनुस्वारस्यैव ग्रहणं स्यात् । नतु डकारादीनामित्यभिप्रायः । ननु च प्रासाद- वासिन्यायेन तेषामपि भविष्यति । यथा प्रासादवासिन आनीयन्तामितुरते ये प्रासाद एव निवसन्ति तेषामपि ग्रहणं भवति। येऽपि प्रासादे भूमौ च उभयत्र वसन्ति तेषामपि । यथा हुयभय आनीयन्ते तथेहापि नासिकावचन इत्येतावतुपयमाने नासिकावचनस्यानुस्वारस्य मुखनासिकावचनानाञ्च डकारा- दीनां ग्रहण भविष्यति । ततश्चानुस्वारस्य हि स्यादित्ययुक्तमुक्तम् । एवन्तु वक्तव्यम् । अनुस्वारस्यापि हि स्यादिति । नैतदस्ति । इह हि त्रीणि दर्शनानि सम्भवन्ति । समस्त एवानुनासिको वर्णों नासिकावचनो मुखवचनश्चेत्येक दर्शनम् । पूर्वभागस्त्वस्य मुखवचन उत्तरो नासिकावचन इति द्वितीयम् । उत्सरो भागो मुखवचनः पूर्वी भागो नासिकावचन इति तृतीयम् । उभयो- रप्यनन्तरयोदर्शनयो सिकामुखवचने भागे तथानुरागं करोति यथासावपि नासिकावचनभाग इव लक्ष्यते । तत्र यदेतदनन्तरदर्शनवयं तस्यान्यतरत् पाणिनेरभिमतम् । नचास्मिन् प्रासादवासिन्याय एकत्राप्यवतरति । यदि हि डकारादयो नासिकयापि साकल्येनोच्चार्यरन् मुखेनापि ततः प्रासाद- वासिन्यायेन नासिकावचन इत्येतावतुक्त तेषामपि ग्रहण स्यात् । नवं भागसव । तेषां नासिकया मुखेन चोक्षारणात् । तदमति मुखग्रहण तेषां ग्रहणं न स्यात् । तदभावे च संज्ञा न स्यादिति युक्तमुक्तमनुस्वारस्य व हि स्यादिति। क च ट त पानां मा भूदिति । एतं हि ककारादयो मुखेन- वोच्चायन्ते । न नासिकया। ततश्चासति नासिकाग्रहणे तेषामेव स्यात् । एवञ्च शक्त: सुप्तमित्यत्रानुदात्तोपदेशवनतीत्यादिना लोप: ( ६।४।३७ ) प्रसज्येत । ओदनपगित्यत्रानुनासिकस्य (६।४।१५) क्विझलो: ङितीति दीर्घत्वम् । अथ किमथं महती संज्ञा क्रियते ? अनु पश्चान्नासिका व्याप्रियते यस्मिनथवा अनु पश्चान्नासिकाया व्याप्रियत यस्मिन्नसावनुनासिक इत्यन्वर्थसंज्ञा यथा विज्ञायतेत्येवमर्थम् । किं पुनस्तद् यतः पश्चान्नासिका व्याप्रियत यस्मिन् यहा नासिकायाः पश्चाद् व्याप्रियते ? मुखस्य तु प्रक्ततत्वात् तदेव गम्यते । तत्र ये ते हे दर्शने ययोः पाणिनेरन्यतरदभीष्टं तयोः पूर्वस्मिन् नासिका मुखात् पश्चाद् व्याप्रियते । उत्तरत्र मुख नासिकायाः। अन्वर्थसंज्ञाकरण ५४ न्यासः । तु पूर्वोक्तयो दर्शनयोरन्यतराभ्युपगमसूचनार्थम् । तदभ्युपगमसूचनं तु प्रासादवासिन्यायमाश्रित्य मुख ग्रहणं ये प्रत्याचक्षीरंस्तेषां निराकरणार्थम् । -- । तुल्यासाप्रयत्नं सवर्णम् । तुलया मम्मितं तुल्यमिति नौवयोधर्मत्यादिना ( ४।४।८१) यतमुत्पाद्य तुल्यशब्दो वुत्पाद्यते । नच प्रयत्नस्य तुलया सम्मितत्व सम्भवति । ततश्चा- सम्भवविशेषणमिति यश्चोदयेत् तं प्रत्याह तुल्यशब्द इत्यादि । एवं मन्यत । व्युत्पत्ताथं तु केवलं तुलोपादीयत नत्वव तुलार्थो विद्यते । नवा सम्मितार्थः । सदृशपायो ह्ययं तुल्यशब्दः । तथाहि तुल्य इतुते सदृश इति पायो भवति । नतु तुलया संमित इति । आस्यशब्दोऽयं ण्यदन्तोऽप्यस्ति। अस्यते क्षिप्यतेऽन्त्रमनेनेति कृत्यलाटो ( ३।३।११३ । बहुलमिति करण ण्यत् । आस्थं मुखम् । तत् पुनरोष्ठात् प्रभृति प्राक् काकलकात्। काकलकं नाम ग्रीवायामुन्नतप्रदेशो लोक यः कण्ठमणिरितुच्यते । तद्धितान्तोऽप्यास्य- शब्दोऽस्ति । आस्य भवमिति शरीरावयवाद ( ५।१।६ ) यदिति यति कृत यसप्रति ( ६।४।१४८) चेत्यकारलोप हलो यमां यमि (८।४।६४ ) लोप इति यनोप च कृते प्रास्यमिति । एतच्च मुखान्तवर्तिनां ताल्वादीनां वाचकम् । तत्र यदि पूर्व स्यास्यशब्दस्य दं ग्रहण ग्रहण स्यात् क च ट त पानामपि स्यात् । ण्यदन्तस्यास्यशब्दस्य वाच्येऽर्थ तषां तुल्यत्वात् प्रयत्नविषयस्य । इममतद्धितान्तस्यास्यशब्दस्य ग्रहणे दोषं दृष्ट्वा तद्धितान्तस्येदं ग्रहण मिति दर्शयन्नाह आस्य भवमास्यमिति । किं पुनस्तदित्याह ताल्वादिस्थानमिति । यस्मिन् वर्णा निष्पाद्यन्ते तत् स्थानम् । आदिशब्देन नासिकादीनां ग्रहणम् । ननु च नासिका मुखाहहिहत्तेरास्य न भवति। नैतदस्ति । नहि मुखाद् वहिर्वर्तिनी नासिकेयं विवक्षिता। तस्यां वर्णानामनिष्यत्त:। का तर्हि ? अन्तरास्य चम्म विततमस्ति पणव- चर्मवत् । तत्सम्बद्धा रेखा यस्यां वायुनाभिहन्यमानायां वर्णा निष्पद्यन्ते मेह नासिका विवक्षिता। कथं पुनर्विज्ञायते तडितान्तस्यास्यशब्दस्येदं ग्रहणमिति ? आस्यग्रहणसामात् । यदि ह्यतद्धितान्तस्य ग्रहण स्यादास्य- सवर्णसंज्ञा (१।१)। ५५ ग्रहणमनर्थकं स्यात् । सर्वेषामेव हि तवाच्य एवार्थ प्रयत्नम्तुल्यः । नास्त्य व हि स यस्य व्यवच्छेदार्थमास्यग्रहणं स्यात् । ननु च विमर्जनीयस्य व्यवच्छेद- नार्थ मास्यग्रहण' स्यात् । तस्य हि मुखाद वहिर्वयुर: स्थानम्। नेतदस्ति । नहि विसर्जनीयस्य सत्यसति वा सवर्णत्वे प्रयोजनमस्ति । नापि दोषः । स्पृष्टतादिरिति। आदिशब्देन ईषत्पृष्टतादीनां ग्रहणम् । वर्णगुण इति । अकारादीनां वर्णानां धर्म इत्यर्थः । तुल्य आस्य प्रयत्नो यस्येति । एतन तुल्यास्यप्रयत्नशब्दस्त्रिपदोऽयं बहुब्रोहिरिति दर्शयति । व्यधिकरणानामपि गमकत्वाद् बहुव्रीहि भवत्येव । यथा कण्ठे काल उरमिलोमा इति। अथ इन्हगभबहुव्रीहिः कम्मावाश्रीयते ? आम्यच प्रयत्नश्च प्रास्यप्रयत्नी ती तुल्यो यस्य तत् तुल्यास्यप्रयत्नमिति । एवं मन्यते । बन्दगर्भबहुव्रोहावाश्रीयमाणे ताल्वादिना स्थानेन प्रयत्नो न विशषितः स्यात् । ततश्च ककारङकारयोमिथः सवर्णमंज्ञा न स्यात् । वाह्यस्य प्रयत्नस्य भिन्नत्वात् । ककारस्य विकृतकण्ठत्वादि- वाह्यः प्रयत्नः । डकारसा संहतकण्ठत्वादिः । असत्याञ्च सवर्णमंज्ञायां शशित- त्यत्रानुस्वारस्य (८।४।५८) ययि परमवर्ण इति डकारो न स्यात् । अथ सत्यपि वाह्यस्य प्रयत्नस्य भेद आभ्यन्तरः स्मृष्टताव्योऽनयोस्तु न्यः प्रयत्न: । तं ममाश्रित्य मवर्गसंज्ञा भविष्यति । यद्येवं शकारचकारयोरपि सत्यप्याभ्यन्तरयो विहततास्पृष्टतयोः प्रयत्नयो दे योऽनयोर्वाह्यः प्रयत्नम्तुल्यो विवतकण्ठत्वादि स्तदाश्रया सवर्णसंज्ञा स्यात् । ततश्च अरुश्चयोततीति वक्ष्यमाण प्रतुदाहरण नोपपद्यत । त्रिपदे तु बहुव्रीही ताल्वादिस्थानेन प्रयत्नो विशिष्यत । तन वाह्य प्रयत्न मुत्सृज्याभ्यन्तर एव स्पृष्टतादिह्यते । स एव हि ताल्वादावास्ये सम्भवति । नेतरः। आभान्तरस्य प्रयत्नम्य ग्रहण मति सत्य पि वाह्यप्रयत्नभेदे भवत्येव ककारङकारयोः सवर्णसंज्ञा। आभ्यन्तरप्रयत्नस्य तुल्य त्वात् । तस्यैव चेह ग्रहणात् । नच चकारशकारयोः सत्यपि वाह्यमा प्रयत्नमा तुल्यत्वे मवर्ण- संज्ञा प्रसजति । तसेपहाग्रहणात् । यमा च ग्रहण तसा चासमानत्वात् । तम्मात् त्रिपद एव बहुव्रीहिराश्रयितु युक्तः । न इन्दगर्भ इति । यदि तईि त्रिपदो बहुव्रीहिराधीयते भिन्न विभक्तिकत्वादप्राधान्याञ्चास्यं तुल्यत्वेना- विशेषितं भवति । ततश्च भित्रस्थानानामपि सवमसंज्ञा प्राप्नोति । नैष दोषः । ।

५६ न्यासः । ह्यन्तरेणापि यदाधेयं प्रति यदधिकरणमुपादीयते तदायतुल्य तयैव तत् तुल्यमिति विज्ञा- यते। तथाहि देवदत्तयज्ञदत्तयोस्तुल्य कांसापानवां भोजनमितुत कांसा- पात्रापि तयो स्तुल्य ति गम्यते । यं प्रति यस्तुल्यासाप्रयत्न: स तमेव प्रति सवर्णसंज्ञो भवतीत्येषोऽर्थी यतो वचनालभ्यत इह तन्नास्ति । - ततश्च यो यं प्रति तुल्यासाप्रयत्न: म ततोऽन्यमपि प्रति सवर्णसंज्ञः समादिति चोद्यमाशङ्कयाह समानजातीयं प्रतीति । समानजातीयो यं प्रति यस्तुल्यासाप्रयत्नस्तं प्रति स सवर्णसंज्ञो भवति । न ततोऽन्यम् । एतच्च तुल्यासाप्रयत्नशब्दस्य मवर्णशब्दस्य च सम्वन्धिशब्दत्वाल्लभ्यते । सम्बन्धिशब्दो शब्दान्तरसन्निधि नियतमेव सम्बन्धिनमुपस्थापयति । यथा पितरि शुथूषितव्यमिति ! नोच्यते स्वस्मिन्निति । सम्बन्धाचेतदवगम्य ते यो यसा पितति । तथेहापि। यद्यपि यो यस्य तुल्यास्यप्रयत्नः स तं प्रति सवर्णसंज्ञो भवतोति न चोच्यते तथापि सम्बन्धात् तुल्यास्यप्रयत्न : समानजातीयमेव प्रति सवर्णमंत्रो भवतीति गम्यते । अथवा ममानो वर्णः सवर्ण इत्यन्वर्थमज्ञेयम् । तेन तुन्यजातीयमेव प्रति सवर्णसंज्ञो एवं हि समानो ऽम्य वाणी भवति यदि तमेव प्रति मवर्णमंत्रो भवति । न विजातीयं प्रति । चत्वार इत्यादि । द्विविधाः प्रयत्नाः । आभ्यन्तरा वाह्याश्च । तत्राभ्यन्तरा श्चत्वारो वृत्तौ दर्शिताः। वाद्या स्त्वेकादश । के पुन स्ते ? विवारः। संवारः । खासः । नादः । घोषः । अघोषः । अलाप्राणः । महाप्राणः । उदात्तः । अनुदात्तः । स्वरितश्चेति । तत्र नाभिप्रदेशात् प्रयत्नप्रेरितो वायुः प्राणो नाम ऊर्द्धमाक्रामन्नुरःप्रभृ- तीनामन्यतमस्मिन् स्थाने प्रयत्नेन विधार्यते। स विधायमाणः स्थानमभि- हन्ति। ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते। आकाशे सावर्ण्यश्रुतिः सवर्गास्यात्मलाभः । तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानकरगा प्रयत्ना: परस्परं स्पृशन्ति तदा मा स्पृष्टता। ईषद् यदा स्पृशन्ति तदा मेषत्- स्पृष्टता। सामीप्येन यदा स्मृशन्ति सा संवतता। दूरेण यदा स्पृशन्ति मा विकृतता। एते चत्वार आभ्यन्तरा: प्रयत्नाः । आभ्यन्तरत्व पुनरेषां स्थानकरणप्रयत्नव्यापारणोत्पत्तिकाल एवं सम्भवात्। स्पृष्टकरगणाः भवति । तत्र सहाः। (११)। स्पर्शाः। कादयो मावसानाः स्पर्शाः । म्मृष्टता गुणः । करणं कति- रुच्चारणप्रकारः। स्मृष्टतानुगतं करणं येषां ते स्पृष्टकरणाः । एवमन्य- त्रापि वेदितव्यम् । ईषत्स्पृष्टकरणा अन्तःस्थाः । अन्त:स्था य र ल वा: । विवृतं करण मूष्मणाम् । स्वराणाञ्च । स्वराः सर्व एवाचः । ऊष्माणः शष अथ वाह्याः प्रयत्नाः किंलक्षणाः ? स एव प्राणो नाम वायुरूई- माक्रामन् मूर्ध्नि प्रतिहतो निवृत्तो यदा कोष्ठ मभिहन्ति तदा कोठेऽभिहन्य माने गलविलस्य संवतत्वात् संवारो नाम वर्णधर्म उपजायते । विवतत्वाद् विवारः । संवृते गलविलेऽव्यक्तः शब्दो नादः । विवते वासः । उपरि वर्तिनी तो श्वासनादावनुप्रदान मिति केचिदाचक्षते । वर्गनिष्यत्तेरनु पश्चात् प्रदीयत इत्यनुप्रदानम् । अन्ये तु ब्रुवते अनुप्रदान मनुस्खानो घण्टा- निदिवत् । यथा घण्टानिहादोऽनुवान मनुभवति तथेति । तत्र यदा स्थानाभिघातजे ध्वनी नादोऽनुप्रदीयते तदा नादध्वनिसङ्गाद् घोषो जायते । यदा श्वासोऽनुप्रदीयते तदा श्वामध्वनिमगादघोषः । महति वायौ महाप्राणः । अल्पवायावलपप्रागाः । यदा सर्वाङ्गानुसारी प्रयत्न स्तोत्रो भवति तदा गात्रस्य निग्रहः कण्ठ विवरस्य चाणुत्व स्वरस्य च वायो स्तीव्रगतित्वाद् रोक्ष्यं भवति । तमुदात्त माचक्षते । यदा तु मन्दः प्रयत्नो भवति तदा गात्रस्य स्प्रेसनं कण्ठविलस्य महत्त्व स्वरस्य वायोर्मन्दगतित्वात् स्निग्धता भवति । तमनुदात्त माचक्षते । उदात्तानुदात्तस्वरसन्निकर्षात् स्वरित इत्येवंलक्षणा वाह्याः प्रयत्नाः। वाह्यत्वं पुनरेषां वर्णनिष्पत्तिकालादूई वायुवशेनोत्पत्तेः। तत्र वर्गाणां प्रथमहितीयाः शषसविसर्जनीयजिह्वामूली- योपध्मानीया यमौ च प्रथमद्वितीयौ विकृतकण्ठा: वासानुप्रदाना अघोषाः । वर्दीयमानां प्रथमे ऽल्पप्राणा: । इतर सर्व महाप्राणा: । वर्गाणाञ्च तीय चतुर्था अन्तस्था हकारानुस्वारी यमौ च तृतीयचतुर्थों संहतकण्ठा नादानु- प्रदाना घोषवन्तः । वर्म्य यमानां तृतीया तृतीया अन्तःस्थाश्च अल्पप्रागणा: । इतरे सर्वे महाप्राणा: । यथा हतीया स्तथा पञ्चमा: । आनुनासिक्य- मेषामधिको गुण: ! य एवंते दिप्रकारा: प्रयत्ना वाह्या आभ्यन्तराश्चाख्याता स्तेषामिह सवर्णसंज्ञायां पूर्वोक्ता आभ्यन्तराश्चत्वारः स्पृष्टतादय आश्रीयन्ते ।

न्यासः । सवर्णसंज्ञा स्यात् । न वाह्या क्विारादयः । आस्य ग्रहणन विशेषणन तेषां व्यावर्तितत्वात् । स्मृष्टतादय एव हास्य भवन्ति । न विवारादयः । यद्येवं किमर्थं प्रयत्न- ग्रहणम् ? एतावदस्तु तुल्यास्य मिति । आस्यग्रहणेनैव हि स्पृष्टतादयोऽपि प्रयत्नाः सवर्णसंज्ञायां निमित्तभूता स्तालादिस्थानवल्लभ्यन्त एव। तेषाम- प्यास्ये भवनात्। सत्यमेतत् । तथापि प्रत्येक सत्यमेतत् । तथापि प्रत्येकं व्यापारनिरासार्थमुभयो- रुपादानम् । इतरथा हि यथैव स्थानं तुल्यं स्थानान्तरनिरपेक्षं सवर्णसंज्ञायां व्याप्रियत एवं प्रयत्नोऽपि स्थाननिरपेक्ष: स्थानञ्च प्रयत्ननिरपेक्षं व्याप्रियेत । ततश्च भित्र प्रयत्नानामपि तुल्यस्थानानां भिन्न स्थानानामपि तुल्यप्रयत्नानां अ अ अ इत्यादिना येषां यावताञ्च यादृशाञ्च मिथो नित्या सवर्ण संज्ञा तान् दर्शयति । अकाराणां हि सर्वेषाम् अकुहविसर्जनीयाः कण्ठया इति तुल्य कण्ठः स्थानम्। इकाराणामपि इचुयशा स्तालव्या इति तालु। उकाराणामपि उपूपयानीया ओष्ठया इत्योष्ठः । ऋकारागा- मपि ऋटुरषा मूर्धन्या इति मूर्धा । लुकाराणामपि लुतुलसा दन्त्या इति दन्तः। एकाराणा मैकाराणाञ्च ए ऐ कण्ठ तालव्या इति कण्ठतालु । ओकारागामौकाराणाञ्च ओपी कण्ठोष्ठयाविति कण्ठोष्ठम् । प्रयत्नस्तु सर्वेषा- मेवेषां विकृतं करण मूष्मणां स्वराणाञ्चेति विवतत्वम् । तस्मात् तुल्यस्थानप्रयत्न- त्वात् सर्वेऽकारादयो मिथः सवर्णसंज्ञा । एवं यावदीकारः। अन्तःस्था दिप्रभेदाः सानुनासिका निरनुनासिकाश्च रेफवर्जिताः। तेऽपि समानजाती- यानन्त:स्थान् प्रति सवर्णसंज्ञा भवन्ति । रेफोमणां सवर्णा न सन्तीति । तेभ्योऽन्येऽकारादयो वर्णा विजातीया इत्येषोऽभिप्रायः । तुल्यजातीयास्तु रफोभाण स्तुल्यस्थान प्रयत्नाः सवर्णाः सन्त्येव । तत्र रेफस्य तावद् ऋटुरषेभ्य यवलेभ्यश्चान्ये वर्णा भित्रस्थानत्वाच्च भिन्न प्रयत्नत्वाच्च सवर्णा न भवन्ति । तथाहि अकुहविसर्जनीयाः कण्ठयाः । इचुयशास्तालव्याः । टतुलसा दन्त्याः। उपूपक्षानीया ओष्ठयाः । ए ऐ कण्ठातालव्यो। ओ औ कण्ठयो- ठयाविति वचनादकारादीनां यथायोगं कण्ठादि स्थानम् । रेफस्य वृटुरषा मूर्धन्या इति मूर्धा । प्रयत्नोऽप्यनन्तरनिर्दिष्टेष्वकारादिषु ये खरास्तेषां विकृत करण मूष्मणां खराणाञ्चेति विकृतत्वम् । ये तु वर्गान्तःपातिनः कका.

(११)। ५८ रादयस्तेषां स्मृष्ट करणा स्पर्शा इति स्मृष्टता। रेफस्येषत्स्मृष्ट करणा अन्तःस्था इतीषत्स्पृष्टता । शकारसकारावपि स्थान प्रयत्न भेदाद रेफस्य सवर्णों न भवतः । तौ हि यथाक्रम तालव्यदन्त्यौ। रेफस्तु मूर्धन्यः । प्रयत्नोऽपि तयो विवृतत्वम् । रेफस्य तु पूर्वीक्त एव । ऋटुषाः प्रयत्नभेदा- चैव रेफस्य सवर्णा न भवन्ति । नतु स्थानभेदेन । तेषामपि मूर्धन्यत्वात् । प्रयत्नभेदस्तु विद्यते । ऋकारषकारयोः पूर्ववद् विकृतत्वम् । रेफस्य तु स एव पूर्वोक्तः । टवर्गस्य स्पृष्टता। यवलास्तु पुनः स्थानभेदादेव सवर्णा न भवन्ति । नतु प्रयत्नभेदात् । तेषामपीषत्स्पृष्टगुणत्वात् । स्थान- भेदस्तु विद्यते। यवलानां यथायोगं तालव्यदन्त्योष्ठयत्वात् । एवं विसर्जनीय जिह्वामूलीयोपध्मानीयानुस्वाराः । कु खु गु घु इत्येते च यमाश्चा- तुल्यस्थानप्रयत्नत्वादेव रेफस्य सवर्णा न भवन्ति । विसर्जनीयो हि कण्ठयः । जिह्वामूलीयो हि जिह्वाः । उपमानीय ओष्ठाः । अनुस्वारयमा नासिक्याः । रेफस्तु मूर्धन्यः । प्रयत्नम्तु य स्तस्य पूर्वीक्त: स विसर्जनीयादीनां नास्त्येव । तदेवं रेफस्य रेफादन्यो नास्ति कश्चित् सवर्णी वर्ण: अनया दिशोष्मणा- मपि शकारादीनां सावाभावो वैदितव्यः । वयं इत्यादि । व भवो वर्ग्यः । दिगादित्वाट् यत् (४।३।५४ )। यस्येति ( ६।४।१४८) चेत्याकारलोपः । वौं यो वर्ण : सोऽन्येन वपूण स्ववर्गान्तःपातिना तुल्यास्यप्रयत्नेन सह सवर्णी भवति । यथा ककारः खकारण । एवमन्यत्रापि वेदितव्यम् । भित्रस्थानाना- मित्यादि। एते हि ककारादयः सर्व स्पृष्टगुणत्वात् तुल्यप्रयत्ना यथाक्रम कण्ठतालुमूर्धदन्तोष्ठस्थानत्वाभिन्न स्थानाः । तप्ता तप्त मिति । टप टन्फ हप्ता- वित्यस्य टचि तुमुनि च रूपम् । भिन्न प्रयत्नानामित्यादि । इकारादयो हि तालव्यत्वात् सर्वे तुल्यस्थाना विवृतत्वस्पृष्टत्वेषत्स्पृष्टत्वप्रयत्नाद् यथायोग भिन्न प्रयत्नाः । इकारशकारयो यद्यपि प्रयत्नोऽप्यभिन्न स्तथापि तयोः प्रतिषेध वक्ष्यतीति न भवति सवर्णत्वम् । अरुश्चयोततीति। श्चुवतिर् क्षरण इत्यस्य लटि रूपम् । तत्र परत्रावस्थिते ऽरुस्शब्दस्य सकारस्य रुत्वम् । तस्य विसर्ज- भौयः । तस्यापि वा ( ८.३१३६ ) शरीति सकारः । तस्यापि श्चुत्वं शकारः । होतृकार इति । कथं पुनरत्र ऋकार प्रादेशो भवति । नहि ऋकार- ।

न्यासः । लकारयोः समुदायस्य स्थानिनः स्थानिनः सोऽन्तरतम इत्याह उभयोरित्यादि । ऋकारो मूर्धन्यः । लकारस्तु दन्त्यः । तत्र तयोर्योको मूर्धन्यो दन्त्यश्च दी? वर्णोऽन्तरतमः सम्भवेत् तदा सोऽन्तरतम आदेशो भवेत् । स च न सम्भवतीत्यवयवस्य योऽन्तरतम स्तेन भाव्यम् । तत्रापि यदि लकारी दीर्घः स्यात् सोऽपि पयाविण स्यात् । मच नास्ति। तस्मात् पारिशेष्यात् समुदायस्यैकादेशस्य योऽन्तरतमः स एव ऋकारो भवति । दण्डहस्त १० । नाजझलो। तुल्यास्यप्रयत्नावपीति प्रमङ्गे हेतुमाह । प्रसङ्गापूर्वकत्वात् प्रतिषेधस्य । इत्यत्राकारहकारयोईयोरपि कण्ठस्थानत्वात् तुल्यस्थानत्वम् । उभयोर्वितकरणत्वात् तु अप्रयत्नत्वम् । दधि शोतमित्यत्राप्यतएव तुल्य- प्रयत्नत्वम् । उभयोस्तालव्यत्वात् तुल्य स्थानत्वम् । सवर्णदीर्घत्वं न भवतीति प्रतिषेधस्य फलं दर्शयति । ननु चाकः ( ६।१:१०१ ) सवर्ण दीई विधाव- चौति वर्तते । तत्रासत्यपि प्रतिषेधे दीर्घत्व न भविष्यति । यथा कुमारी शेत इत्यत्र । तदयुक्तमेवोदाहरण हयम् । स्यादेतत् । अनुदित् सवर्णस्य (१।१।६८ ) चाप्रत्यय इत्यकारकाराभ्यां हकारशकारयोग्रहण तयोरप्यच्- त्वमस्ताव । ततश्चानुवर्तमाने ऽप्यग्रहणे यद्येवं प्रतिषेधो न क्रियते तत् स्यादेव दीर्घत्वमिति । एतबासम्यक् । यदि ह्यत्रानुवर्तमानेऽप्यग्रहणे दीर्घत्वं स्यात् तदनुवृत्तिरपार्थिव स्यात् । तस्मादजग्रहणानुवृत्तिसामाद- जव योऽज् न कथञ्चन हल् तत्रैव दीर्घत्वं विज्ञास्यते । न हकारशकारयोः । तयोहि यद्यप्यकारेकाराभ्यां सावण्येन ग्रहणादच्त्वमस्ति तथापि हल्षूपदेशाद हलत्वमप्यस्तीति न तावतकारशकारावचाववापितु हलावपीति । सत्यमेतत् । अयं पुनरत्र वृत्तिकारस्याभिप्रायः। अवश्यं तावदन्याथं नाझला वित्येतत् कर्तव्यम् । यस्येति लोपाभावार्थम् । तदन्या कृतमेतदर्थमपि स्यात् । एवं सीजनुवृत्तिहारेण दीर्घत्वाभावप्रतिपत्ती साध्यायां यत् प्रतिपत्तिगौरवमापद्यते सदपास्त भवतीति । वैपाश इति। विपाशि भव इत्यण । यस्येति ६।४।१४८) चेत्य त्रेवण उपादीयमानः सावर्ण्यन शकारमप्युपादत्ते ।

( १।१)। एवञ्च तस्य लोपः प्रसज्येत । आनडुह मिति । अनुडुहो विकार इति । प्राणिरजतादिभ्योऽञ् ( ४।३।१५४ ) । तत्र यस्येति (६४।१४८) चेत्यत्रा- कारो ग्राह्यमाणो हकारमपि ग्रहीयात् । ततश्च पूर्ववत् तस्य लोपः स्यात् । इति । अत्र ११ । ईटूदेहिवचनं प्रगृह्यम् । अत्रे दादि यद्दिवचनं तत् प्रगृह्यमित्येवं वा विज्ञायते ? ईदाद्यन्त यदु द्विवचनं तत् प्रगृह्य मिति वा ? तत्राद्य पने पचेते इत्यादी प्रयासंज्ञा न प्राप्नोति । नोकारमात्रमत्र दिवचनम् । अपितु आतशब्द इममाद्य पक्ष दोषं दृष्ट्वा द्वितीयं पक्षमाथित्याह ईदूदेदित्येवमन्तमित्यादि । नन्वेतस्मिन्नपि पक्ष अग्नो इलेवमादि न सिध्यति । ईदायेव ह्यत्र दिवचनं न तदन्तम् । आद्यन्तवदेक ( १।१।२१ ) रिमन्नित्यनेनान्तवद्भावो भवतीत्यदोषः । अग्नी इति । प्रथमयोः (६।१।१०२ ) पूर्वसवर्ण इति दीवत्वम् । प्रग्या संज्ञायां सत्यां प्लुतप्रग्टह्या ( ६।१।१२५ ) अचीति प्रतिभावादिति शब्दे परतोऽकः सवर्ण ( ६।१।१०१ ) दीर्घत्व न भवति । वायू इत्यत्रापीको ( ६।१।७७ ) यणचीति यणादेशः । शेषेष्वप्युदाहरणेष्वयादेशः । खट् इति । औङ (७।१।१८) आप इति शीभावः । आद्गुणः (६ १।८७)। पचेते इति । यजेते इति । स्वरितत्त्वादात्मनेपदम् । आताम् । टेरेत्त्वम् । आतो डित (७२।८१) इतीयादेशः । लोपो (६ १ ६६) व्यावन्तीति यलोपः । वृक्षावत्र । प्लक्षावनेति । भवत्येतद् द्विवचनम् । नत्वीदूदेदन्तम् । तन प्रकृतिभावा- भावादादेशो भवत्येव । कुमायोति । वयमि ( ४ १२० । प्रथम इति डीपि कत कुमारीत्येतदीकारान्तम् । नतु दिवचनान्तम् । तेनाति प्रकृतिभावे भवत्येव यणादेशः । अथ तपरकरण किमर्थम् ? प्लुतनिवृत्त्यर्थमिति चेत् ? न । इष्टत्वात् तस्य । यथा च तपरत्वे क्रियमाणेऽपि प्लुतस्य प्रगृह्यसंज्ञा सिध्यति तथा भाष्थे असिद्धः प्लुत स्तस्या सिद्धत्वात् तत्काल एवेत्यादिना प्रतिपादितम् । गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत् ? न । अभेदकत्वाच्छास्त्र गुणानामित्यत आह तपरकरणममन्देहाथमिति । असति न्यासः । वक्तव्य -- हि तपरकरण ईकारस्योकारस्य च यणादेश: स्यात् । ततश्च सन्देह एव स्यात् किमिदं यकारवकारयोग्रहणमाहोखिदिकारोकारयोरिति । इति । व्याख्येय इत्यर्थः । तत्रेदं व्याख्यानम् । वक्ष्यमाणं शाकल्यग्रहणमिहोप- तिष्ठते सिंहावलोकितन्यायेन । सा च व्यवस्थितविभाषा। तेन मणीवादीनां प्रतिषेधो भविष्यति । मणीव । दम्पतीव । रोदसीवेति । मणीवेत्यादयः शब्दा द्विवचनान्ताः । तत्रासति प्रगृह्यत्वेऽकः सवर्णे (६।१।१०१ ) दीर्घ एकादेशो भवत्येव । १२ । अदसो मात् । अदः सम्बन्धी यो मकार इति । अवयवावयविभावलक्षणन सम्बन्धेन षष्ठी। अदम शब्दात् परस्य जस; ( ७.१।१७ ) शी। त्यदाद्यत्वम् ( ७।१।१०२)। अतो गुणे ( ६।१।९७ ) पररूपत्वम् । ईकारेण सहान (६।१।८७) गुण: । एत (८.२८१) ईबहुवचन इतीत्त्वम् । दस्य (८।२८०) च मत्वम् । अयमद्दिवचनार्थ आरम्भः । अमू आसाते इति । अदसो द्विवचनमी । त्यदाद्यत्वम् । वृद्धि ( ६।१८८) रेचोति वृद्धिः । अदसो सेर्दादुदो (८।२।८०) म इत्यौकारस्य दीर्घस्य स्थाने तादृश एवान्तरतम्यादूकारः । अत्राप्यूकारादि- कार्य मसिद्धमिति पूर्वेणाप्राप्ति : । अतः पूर्वत्रासिमित्यस्य (८.२ १) बाधनार्थ आरम्भः । कथं पुनः पूर्वत्रासिद्धमित्येतच्छक्यं बाधितुम् । वचन- सामर्थ्यात् । नेतदस्ति । यत् सिद्धे प्रग्यह्यकार्यम् अणोऽप्रग्टह्यानुनासिक (८।४।५७ ) इति तदथं वचनं स्यात् । नैतदेवम् । नो के प्रयोजनं योगारम्भ प्रयोजयति । यदि ह्येतावत् प्रयोजनं स्यात् तत्रेवेदम् ब्रूयात् । अणो प्रग्रह्यस्यानुनासिकः । अदसो नेति । शम्यत्र । दाडिम्य त्रेति । षिद् (४।१।४१) गौरादिभ्यश्चेति डीष । यस्येति (६।४।१४८) चेत्यकारलोपः। भवत्ययं मकारात् पर ईकारः । नत्वदः सम्बन्धीति । अमुक्तऽवेति । अव्यय (५।३।७१) सर्वनाम्रामित्यकच् । जस: ( ७।१।१७ ) शी। आद् (६।१।८७) गुणः । पूर्ववदत्वमत्वे । अमुके इति स्थित परत्र चात्रशब्दे एङ: ६।१।१०८). पदान्तादतीति पूर्वरूपत्वम । । ) m ( १:१)। श। यदा शे इति । शेश्रुतेर विशिष्टत्वात् कारी कुशे इत्यत्र यः शेशब्द स्तस्यापि ग्रहणं प्राप्नोति। अतो विशेषो वक्तव्य इत्यभिप्रायेणाह किमिदं शे इति । सुपामित्यादि । यस्तु काशकण शब्दाभ्यां सप्तम्येकवचने च कृत आद् (६।१।८७) गुण च शेशब्दः सम्पद्यते तस्येह ग्रहणं न भवति । लाक्षणिकत्वादिति भावः । युष्मे अस्मे इति । षष्ठीबहुवचनस्य सुपा (७।११३८ ) सुलु गित्यादिना शे शब्दा- देशः । शेषे ( ७१२।८० ) लोपः । अथवा प्रथमाबहुवचनस्यैव शेभावः । छान्दसत्वाद् यूयवयो ( ७.२।८३ ) जसोत्येतत्र प्रवर्तते । त्वं इति मे इति । सप्तम्येकवचनस्य पञ्चम्येकवचनस्य च शेभावः । त्वमावेकवचन ( ७।२।८७) इति युष्मदस्मदोस्त्वमावादेशौ । इतरत् तु लोकिकमनुकरणमिति । युभे इति अस्म इत्येवमादिकं तदा लौकिक मनुकरण मिति भावः । यदा युभे अस्म इत्यादीनां वेदवाक्यस्थानामावच्छिद्य स्वरूपेऽवस्थानाथं पद- कारैरितिकरणोऽध्याहियते तदा युभे इति अस्मे इत्येवमादिक मुदाहरण मिति भवति । इतरत् तु लौकिक मनुकरण मित्युक्तो न युष्मे वाजबन्धवः । वे रायः । मे राय इत्येतेष्वपि वेदवाकोषु यद् युष्मे इत्यादि शब्दान्तं शब्दरूपं तदपि लोकिक मनुकरण मिति कस्यचिन् मन्दधियः भ्रान्तिः स्यात् । अत स्तानिराकर्तुमितरशन्देन यदिह विवक्षितं तत् स्वरूपेण दर्शयितु माह युष्मे इति । अस्मे इति । त्वं इति । मे इति । यद्येवं किमर्थं न युभ वाजबन्धव इत्यादीनामुपन्यास: ? एषु वेदवाक्येषु ये युष्मे इत्यादयः शब्दास्तेषामतान्यनुकरणानीति प्रदर्शनार्थः । अन्यथा हि न ज्ञायते कस्यैतान्यनुकरणानीति । १४। निपात एकाजनाङ् । एकाजिति बहुव्रीहि यं स्यात् कर्मधारयो वा ? यदि बहुव्रीहिः प्रशब्दस्यापि प्रगृह्यसंज्ञा स्यात् । ततश्च प्रोपाभ्यामिति ( ११३ ४२ ) निर्देशो नोपपद्येत । प्राग्नय इति च प्रतुपदाहरणम् । तस्मात् कर्मधारयोऽय मिति मनमि कचाह एकश्चासावच्चेत्येकाजिति । अ अपहीत्यादीनि त्रीणि न्यासः । च्छान्दसान्युदाहरणानि । इतरत् तु लौकिकम् । तत्र आ एवं नु मन्यस इत्यत्राकारो वाक्य परिपूरणार्थः । आ एवं किल तदित्यत्र तु स्मरणार्थः । चकारात्रेति । करोतलिट् । परम्मे पदानामित्यादिना ( ३ ४।८२) तिपो णल् । वद्धिः । रपरत्वम्। दिवंचनेऽचीति ( १।१ ५2) स्थानिवद्भावन दिवचनम् । उरत्तुम् ( ७।४६६ । कुहोयुरिति (७.४।६२ ) चुत्वम् । भवत्ययं णलकार एकाच । नतु निपातः । प्राग्नय इति । प्रशब्दो भवति निपातः । नत्व काच् । तेन प्लतप्रग्टह्या अचीति । ६।१।१२५ ) प्रकृतिभावो न भवति । अकः सवर्ण ( ६।१।१०१ ) इति दोघव तु भवत्येव । आकारोऽत्र हि डिविशिष्ट उपात्तः । तस्य न ज्ञायत क च ङित्त्व क च नेति । अतो ङित्त्वाडित्व योविषयविभागप्रदर्शनार्थ माह ईषदर्थ इत्यादि। तत्रेषदर्थे आ उष्णम् ओष्ण मिति । ईष दुष्ण मित्यर्थः । क्रियायोगे उपसर्गसंज्ञायां डिदि- शिष्ट एव पठ्यते । प्रपराप समन्वव निर्द ान्य धयोप्यतिसूदभयश्च । प्रतिना सह लक्षयितव्याः पर्यु पयोरपि लक्षण मत्र (A) ॥ १ ॥ इति श्रा इहि एहि। आ अत्ति आत्ति । मर्यादाभिविध्योरपि डिडिशिष्ट एव पठ्यते । प्राङ् मयादाभिविध्योरिति । मादा सीमा। अवधिः । श्रा उदकान्तात् ओदकान्तात् प्रियं प्रोथमनुव्रजेत् । अभिविधिरभिव्याप्तिः । आ अहिच्छत्रात् । आहिछत्रं वृष्टो देवः । अहिच्छत्रं यहोवा वृष्टो देव इत्यर्थः । डिविशिष्टस्यानाङिति प्रग्यासंज्ञाप्रतिषेधात् स्वरसन्धि भवति । अथेत मातमितात्रेतदो द्वितीयाटोमवेन ( २।४ ३४ ) इत्येनादेशः कस्मान भवति ? अन्वादेश इति तत्रानुवर्तते । अस्ति चहान्वादेश इत्यस्ति प्राप्तिः । यथा न भवति तथा तत्रैव प्रकरणे वृत्तिकारः स्वयमेव वक्ष्यतीति पुनरिह नोच्यते । आतमित्याकार तकारो मुखसुखार्थः । ये तु पुनरतमाङ- (A) श्लोकेऽस्मिन् वेगवतोनामच्छन्दः । विषमे प्रथमाक्षरहीनं दोधकमेव हि वेगवती स्यादिति । सयुगात् सगुरू विषमे चंद भाविह वे गवती युजि भाद् गाविति वा लक्षणात् ।

(११)। उक्तः । मिति डकारसहित माकारं पठन्ति तेषां ङितं विद्यादिति वचन मनर्थक स्यात्। डकारसहितस्य पाठादेव ङित्त्वविज्ञानात् । तस्मात् तकारपर एवाय माकारः पठितव्यः । वाक्यस्मरणयो रिति । वाक्यशब्दन वाक्यार्थ अभिधेये ऽभिधानोपचारात् । प्रक्रान्तं हि वाक्याथं किञ्चिदपश्येदं प्रयुज्यते । आ एवं नु मन्यस इति । एवमयं वाक्यार्थी विज्ञायत इत्यर्थः । पूर्वप्रक्रान्तवाक्यार्थप्रदर्शनपरोऽय माकारः प्रयुक्तः । अथवा पूर्वप्रक्रान्त- वाक्यार्थस्यान्यथाकरणमिदं प्रयुज्यते । आ एवं नु मन्यस इति । नैवं पूर्वममंस्थाः । सम्प्रति वेवं मन्यस इति । अथवा वाक्यशब्देन वाक्यमे- वोच्यते । वाक्यावयवो निरर्थक एवाकारः प्रयुज्यत इति । स्मरणं स्मृतिः । तत्र य आकारो वर्तते स्मृतिसूचकः स डिन्न भवति । भा एवं किल तत् । एवमिदं विज्ञातमित्यर्थः । ज्ञातं स्मृतमेव । अथवा स्मर्तव्यार्थविषयः पूर्व- माकारः प्रयुज्यते । आ इति स्मृतरुत्तरकालमर्थ आख्यायते । आ इत्येतस्यै वं किल तदिति भवत्ययमर्थ इत्यर्थः । वाक्यस्मरणयो राकारस्य प्रग्रह्य- संज्ञास्त्येवेति मुतप्रग्रह्या ६।१।१२५) अचीति प्रकृतिभावः । तेन धिरेचीति (६ १.८८) हधिन भवति । १५॥ ओत् । १६। सम्बुद्धो शाकल्यस्येतावनार्ष। सम्बुद्धिनिमित्त इति । सम्बुद्धि निमित्तं यस्य स तथोक्तः । एतेन सम्बुद्धावित्यस्य निमित्तसप्तमीत्वं दर्शयति । परसप्तम्यां त्वस्यां हे त्रपो इत्यत्र न स्यात् । स्वमोनमकादिति (७१।२३) सम्बुद्दे लुप्तत्वादिति भावः । सम्बुद्धी चेति ( ७।३।१०६ ) वर्तमाने हवस्य गुण ( ७।३।१०८) इत्यनेन यो गुणो विधीयते स सम्बुद्धिनिमित्तः । तस्य सम्बुधिनिमित्तत्व मुपादाय विहितत्वात् । गवित्ययमाहेति । केनचिद् गौरिति वक्तव्ये शक्तिवैकल्याद् गो इत्युक्तम् । तमन्यो यदानुकरोति तवैतत् प्रत्युदाहरणम् । ननु चानुकायें णार्थेनार्थवत्त्वात् प्रातिपदिकत्वे सति विभक्तमात्र भवितव्यमित्यत आह अवेत्यादि। अनानुक्रियमाणस्यानुकरणस्य यदि भेदो विवक्ष्यते ततोऽर्थवत्तायां ) न्यासः । सत्यां स्थाविभक्तिः । स तु न विवक्ष्यत इति कुत स्तस्याः प्रसङ्गः ? नहीह शब्दशास्त्रे वस्तुनः सत्व शब्दसंस्कारस्य प्रधानं कारणम् । सा चेह नास्ति । शाक त्यग्रहणं विभाषार्थमिति । एतेन पूजार्थताशकां निरस्यति। यदि हि पूजार्थ मेव तत् स्याद् विकल्पे। न भवेदिति भावः । । उञः। १८ ऊँ। तेन त्रीणि रूपाणि भवन्तीति शाकल्यग्रहणानुवृत्तः फलं दर्शयति । यदि यत्र शाकल्यग्रहणं नानुवर्तेत तदा पूर्वसूत्रेण यस्मिन् पक्ष उञः प्रया. संज्ञा न विहिता तस्मिन्बनेन नित्यम आदेश: स्यात् । तत उ इति ॐ इति च हे रूप स्याताम् । न वितीति टतीयम् । शाकन्यग्रहणानुवृत्तो तु सत्यां यस्मिन् पक्षे पूर्वसूत्रेण प्रग्टह्यसंना उजओ न कता तम्मि बनेन ॐ आदेश विभाषा विहित वितीति तोयं रूपं सिध्यति । त १६ । ईदूतौ च सप्तम्यर्थ । अध्यस्यां मामको इति | एतद् वेदवाक्यं वेदितव्यम् । अत्र माम की तन इति शब्दी सुपां सुलुगिति । ७।११३८ । लुप्तसप्तमीको तव यदा अर्थाहावच्छिद्य, स्वरूपे व्यवस्थापनायेतिशब्दः प्रयुज्यते तदैत उदाहरण । मामको इति । तनू इति च । तथा सोमो गोरो इत्येतदपि । मामक्यामि- त्यादेरुपन्यासः मप्तम्यर्थप्रदर्शनार्थः । डादेश इति । सुपां सुलुगित्या दिना (७।१।२८ ) । तत्रेति शब्दे परतोऽकः ( ६।१।१०१ । सवर्ण दीर्घत्वं भवत्येव । धोती इत्यादि। धीतिमति सुष्टुतिशब्देभ्यः परस्य टतीयैकवचनस्य पूर्वसवर्णदीर्घत्वम् । लुग वा। इतिशब्दे परतोऽकोऽत्रापि सवर्णदीर्घत्व भवत्येव । धीत्येत्यादिना तोयार्थवत्तितां दर्शयति । वाण्यामश्वो नद्या मातिरिति संज्ञायामिति (२।१।४४ ) सप्तमीसमासः । अथार्थग्रहण क्रियमाणेऽपि कस्मादेवात्र न भवति ? अस्ति ह्यत्रापि सप्तम्यर्थः । नैतदस्ति । अर्थ ग्रहणमामा । अर्थ ग्रहण सति केवलो योऽ संमृष्ट:

। १११)। उक्तः । चेत् ? न । सप्तम्यर्थः स इह गृह्यते । नैवंविधे समासे सप्तम्यर्थः सम्भवति। संविभि- ब्रोभयरूपत्वा दृत्ती वतिपदार्थानाम् । एषो ऽजहत्वार्थायां वृत्तौ परिहार जहतार्थायान्तु तस्यां वाक्यावस्थायामुपसर्जनीमूतो योऽर्थ स्तं शब्दो जहातीति सप्तम्यर्थी नास्ताव । तेनार्थग्रहणी सति समासे प्रग्रहसंज्ञा न भवति । अथ तपरकरणं किमर्थम् ? प्लुतनिहत्तार्थ मिति असम्भवात् । न प्लुते होकारोकारान्तं सप्तम्यर्थहत्तिरूपं किञ्चिदस्ति यव्यावृत्तये तपरकरणं क्रियते । गुणान्तरभिन्नानां तुल्यकालानां ग्रहणार्थमिति चेत् ? न। अभेदकत्वाच्छास्त्रे गुणानाम् इत्यत आह तपर- करणमित्यादि। तपरत्वे ह्यसति यणादेशः स्यात् । ततश्च किमयं दीर्घ उत हरू इति मन्देहः स्यात् । म मा भूदिति तपरत्वक्रियते । ईदूतौ सप्तमीत्यादि। ईदूतौ सप्तमीत्येतावदेव सूत्रमस्तु । किमर्थग्रहणेन ? लुप्तेऽर्थ- ग्रहणाद् भवेदिति । इह सोमो गोरी अधिथित इति लुप्तायामपि सप्तम्यां प्रगृह्यसंज्ञा यथा स्यादित्येवमर्थमथग्रहणम् । अत्र हि सप्तम्या अभावात् प्रग्यासंज्ञा न स्यात् । अर्थग्रहणात् तु भवति । सप्तम्यर्थस्य विद्यमान- त्वात् । पूर्वस्य चेत् सवर्णोऽसाविति । स्यादेतत् । नैवात्र मप्तम्या लुक किं तर्हि ? सुपां सुलु गित्यादिना ( ७।१।३८ ) पूर्वसवर्ण ईकारः । तत्राकः सवर्णे दीर्घत्वे क्लते तस्यान्तवद्भावे सति सप्तमीग्रहणीन ग्रहणादस्त्येव सप्तमी। ततो नार्थोऽथ ग्रहणनेति । एतच्चायुक्तम् । एवं हि सत्याड़ा- म्भाव: प्रसज्यते । यद्यत्र पूर्वसवर्ण : स्यात् तदा परत्वादकः ( ६।१।१०१) सवर्ण दीर्घत्व बाधित्वा ऽण ( ७।३।११२) नद्याइत्याटो भाव प्रापद्यते । डे राम् (७।३।११६ ) नद्याम्नीभ्यथेत्यामश्च । भावः प्रादुर्भाव: सत्ता तस्मात् पूर्ववल् लुर्गव कर्त्तव्यः । ततश्चासत्यां सप्तम्यां प्रग्यासंज्ञा न स्यात् । तस्मादर्थग्रहणं कर्तव्यम्। न कर्तव्यम् । यस्मात् मर्ववैव सप्तम्या लुका भवितव्य मिति न क्वचित् मप्तम्यस्ति । उच्यते चेदं वचनम् । वचनमामर्थ्यान्नुप्तायामपि तस्यां भविष्यति। नैतदस्ति । यतो वचनाद यत्र दीर्घत्व तत्र भविष्यति । यथा दृतिं न शुष्कं सरसी शयान मिति । अत्र मरःशब्दात् परस्या: मप्तम्या इयाड़ियाजीकाराणामित्यस्मादुपसंख्यानाद क्रियत । वा । तत्र न्यासः। वचनाद् भविष्यतीति ( ७।१।३८ वार्त्तिक ) व्यत्ययो बहुल ( ३।१।८५ ) मित्यतो वा दीर्घ ईकारे कते सप्तमी श्रूयते । ततश्चात्र वचनस्य सावकाशत्वात् सोमो गौरी अधिश्रित इत्यत्र न स्यात् । तत्रापि सरसी यदीति । यदि सरसीशब्दोऽस्ति तदानापि नैवावकाशः । अस्ति च सरसीशब्दः । तथाहि गौरादिषु (४।१।४१) पिप्पल्यादयश्चेति पाठात् पिप्पल्याद्यन्तःपातिनः सर:शब्दादीकार कृते सरसौति रूपं सम्पद्यते । तथाच दक्षिणापथे महान्ति सरांसि सरस्य इत्युच्यन्ते । सरसीशन्दस्य प्रग्यासंज्ञायां प्रयोजनं तत उत्पन्नायाः सप्तम्या लुकि कृत इतिशब्दे चाध्याहृते सरसी इत्यत्र स्वरसन्धाभावः । तदेवं सरसोशब्दो विद्यत एवेति । दृतिं न शुष्कं सरसी शयान मित्यत्रापि सरसोशव्दो लुप्तसप्तमीक एव प्रयुक्तः । तथाच तदेवावस्थितम् । वचनाद् प्रत्याख्यात मर्थग्रहणम् । एवं तर्हि ज्ञापकं स्यात् तदन्तत्वे । ईदूदेद्दिवचन मित्यत्र चत्वारः पक्षा आश्रीयन्ते। ईदादयो हि दिवचनेन विशिष्यन्ते । ईदादि यद् द्विवचनमिति। ईदादिभिर्वा द्विवचनम् इति। ईदाद्यन्तं यद् दिवचनमिति । दिवचनप्रकृति र्वोभाभ्यां द्विवचनान्तमीदाद्यन्तं यच् शब्दरूप- मिति । इदादिभिर्वा द्विवचनं विशिष्य पश्चात् निदन्तेन द्विवचनेन प्रकतिः । ईदाद्यन्तं यडिवचनं तदन्तं शब्दरूपमितीदाद्यन्तं दिवचनान्तमित्यर्थः । टतीये पक्षे दोष उक्तः । कुमा-रगारं कुमार्यगारम् । बध्वोरगारं बध्वगारमित्यत्र प्रग्यासंज्ञा प्राप्नोति । एतदीदाद्यन्तं दिवचनान्तञ्च भवति । प्रत्ययलक्षणेनेति चतुर्थे पक्षेऽपि दोष उक्तः। अशुक्ने वस्त्रे शुक्ले सम्पद्यतां शुक्लयास्तां वस्त्र इत्यत्र प्राप्नोति । शुक्लशब्दाच् चिप्रत्ययान्तान् ( ७।१।१८) त्यौङः शोभावे कृतेऽव्ययादाप्सुप ( २।४।८२) इति लुक् । एतद्धीदाद्यन्तं द्विवचनान्तं भवति । प्रत्ययलक्षणेनेति तदन्तत्व इति । अनेन ढतीयचतुर्थपक्षावुपलक्षयति। तदन्तत्वे तदन्तपक्षे तीये चतुर्थे च ज्ञापकं भवेदेतदर्थमर्थग्रहणम् इति । इह प्रग्रह्यप्रकरण प्रत्ययलोपलक्षणीन प्रगृह्यसंज्ञा न भवतीति । यदि हि स्यादर्थ ग्रहणमनर्थकं स्यात् । एता- वद् वक्तव्यमीदूतौ च सप्तमीति । सप्तम्या लुकि कृते प्रत्ययलक्षणेन सप्तमी- सहचरितो यावीदूतौ सप्तम्यां परतो वा यावीदूती तयोः प्रगृह्यमंजा भवत्येवेति तत्र नपुंसकाचे (११)। नार्थोऽर्थग्रहणेन । अर्थग्रहणादिज्ञायते प्रत्ययलक्षणेन प्रगृह्यसंज्ञा न भवतीति । तेन तदन्तपक्षहये यो दोष उक्तः स न भवति । मा वा पूर्वपदस्य भूदिति । पूर्वपदग्रहणेन समास उपलक्ष्यते । यस्मात् समासे सत्येतद् भवति पूर्वपदमुत्तरपदमिति । तदेतदुक्तं भवति वाप्यखो नद्यातिरित्यादौ समासे प्रग्यासंज्ञा माभूदित्य वमर्थमर्थग्रहणमिति । यथा च तस्मिन् सति समासे प्रगृह्यसंज्ञा न भवति तथा पूर्वमेव प्रतिपादितम् । २० । दाधा घुदाप । दाधा इति । दारूपाणां चतुणां कृतेकशेषाणां धारुपयोईयोश्च कतैक शेषयोईन्दः । ন च लक्षणप्रतिपदा तयोः प्रतिपदोक्तस्यैव ग्रहणम् । न तु लाक्षणिकस्येत्यनया परिभाषया दो अवखण्ड ने देङ् रक्षण धेट- पान इत्येतेषां ग्रहण न स्यात् । नैतदस्ति । तस्या हि परिभाषाया गामादाग्रहणेष्वविशेष इत्यपवादोऽस्ति । तन सत्यपि लाक्षणिकत्वे दोदेडो तावद् ग्राह्यते । धेटोऽपि लिङ्गाद ग्रहण मनुमीयते । तत् पुनर्लिङ्ग दैपः पकारानुबन्धः। स ह्यदाबिति दापप्रतिषेधसामान्यग्रहणार्थः क्रियते । यदि चास्याः परिभाषाया इह व्यापारः स्याद् दैपः पकारानुबन्धकरणमनर्थक स्यात् । लाक्षणिकत्वादेव ह्यस्य ग्रहण न भविष्यतीति किं प्रतिषेधेऽस्य ग्रहणेन ? ननु च लाक्षणिकमपि दारूपं धारूपं च धेटो नोपपद्यत एव। सानुबन्धकस्य ह्यनजन्तत्वादात्त्वानुपपतेः । नैष दोषः । यदयमुदीचा माडो व्यतिहार ( ३।४।१ . । इति मेड: सानुबन्धकस्यात्त्वभूतस्य निर्देशं करोति तज् ज्ञापयति नानुबन्धक्कत मनेजन्तत्वमिति । ननु च माङ्- मान इत्यस्याप्यसौ निर्देशः स्यात् । तत् कथं ज्ञापकम् ? नेतदस्ति । मे प्रणिदान इत्ययमेव व्यतिहार वर्तते । न माङ् मान इति । एवायं कृतात्वस्य निर्देशो ज्ञापनार्थः । प्रणिददातीति। नगंदनद पतपदघुमास्यति (८।१।१७ ) हन्तीत्यादिना घुसंज्ञायां सत्यामिह णत्व भवति । प्रणिदातेति । टजन्तम्। प्रणिद्यतीति । ओतः ( ७३।७१) श्यनीत्योकारलोपः । अशिहिषये दारूपोऽयं भवतीत्यत्र घुसंज्ञा प्रवर्तत एव । तस्मान् मेड . न्यासः । दातं वर्हिरिति । संज्ञाया अभावाद् दो दद्योरिति ७।४।४६ ) ददादेशो न भवति । अवदातमिति । अत्रापि निष्ठेति ३।२।१०२ क्तप्रत्ययः । ( ७।४।४७ ) उपसर्गात्त इति तकारादेशो न भवति । अत्राच २१। आद्यन्तवदेकस्मिन । - असहायस्येत्यादिना सूत्रारम्भ्रस्य फलं दर्शयति । इतिकरणो हेती। यस्मादादेरन्तस्य यानि कार्याण्युपदिष्टानि तान्यविद्यमानसहायस्य न सिध्यन्ति । तस्मादतिदेशोऽय मारभ्यते । द्वितीयादिकं हि सहायमपेच्या- द्यन्तशब्दौ प्रवर्तते । तथाहि लोक: सति हि परस्मिन् सहाये पूर्वाभावे चादिरिति व्यपदिशति । सति च पूर्वस्मिन् पराभावे चान्त इति । अतस्तदुभय मसहाये नास्तीति । तत्राद्यन्तप्रतिबद्धानि कार्याणि न स्यु यद्यय मतिदेशो नारभ्यते । एकस्मिन्निति वचनादाद्यन्तवदित्यत्र मप्तमी समर्थादति गम्यत इत्याह । माप्तम्यर्थ वतिरिति । आद्यन्तयोरिवाद्यन्त- वत् । तत्र तस्येवेति ( ५॥१॥३१६ ) वतिः। औपगव इत्यत्राप्यादिव्यपदिष्टं कार्यमतिदेशस्य फलम् । प्रत्ययाद्युदात्तत्व ह्यादेरुपदिष्टम् । आद्य दात्तश्चेति ( ३।११३ ) वचनात् । आभ्यामिति । अत्रान्तोपदिष्टम् । दीर्घत्व ह्यन्तस्योप- दिष्टम् । अलोऽन्त्यस्येति ( १।१।५२ ) वचनात् । इदमो भ्याम् । त्यदाद्यत्वम् ( ७।१।१०२ ) । अतो गुण (६।११८७ ) पररूपत्वम् । हलि लोप (७।२।११३) इतौद्रूपस्य लोपः । सुपि (७।३।१०२) चेति दीर्घः। सभासन्नयने भवः साभा- सवयन इति । यद्येकग्रहण न क्रियेत तदा यत्राद्यन्त व्यपदेशो नास्ति तत्रातिदेशो युक्त इत्याद्यन्त व्यपदेशरहिते मध्ये ऽप्यतिदेश: स्यात् । आद्यन्त- वदिति वचनसामात् । सभाशब्दाकारस्यादित्वे मति सभासन- यनशब्दस्य य आकार वृद्धिसंज्ञकं तमाकार माश्रित्य वृद्धिर्यस्याचामादिस्तद् ( ११११७३ ) हडमिति वृद्ध संज्ञा स्यात् । तस्याञ्च सत्यामण बाधित्वा वृद्धाच्छ (४।२।११४) इति च्छप्रत्ययः प्रसज्येत । ननुच मध्येऽपि यस्य वृद्धसंज्ञक तस्यापि यदि वृद्धसंज्ञा स्यादादिग्रहणं वृह मंञासूत्रे निरर्थकं स्यात् । व्यव- च्छेद्याभावात् । नेतदस्ति । आदिग्रहणसामर्थ्याडि यस्य यत्र विशिष्ट मादित्व- ননস্ব ( १।१ )। यस्य मनातिदेशिक मुख्यं तत्परिग्रहणार्थ तत्रादिग्रहण स्यात् । तस्माद च न कदाचिदपक्षयवंविधमादित्वं सम्भवति तदादिग्रहणस्य व्यव- च्छेद्य भविष्यति । यथा जानातीति ज्ञा इत्यादि। मभासनयने तु ये परे ऽज वर्णा स्तदपक्ष मस्ति विशिष्ट मनातिदेशिक मादित्व मिति प्रवर्तत एव तत्र वृद्धसंज्ञा । २२ । तरपतमपौ पः। कुमारितीति । दिवचनविभज्योपपदेल्यादिना (५।३।५७ । तरप् । कुमारितमति । अतिशायने ५।३।५५ त्यादिना तमप् । तयोर्ध संज्ञायां सत्यां घरूपकलपेत्यादिना इवत्व (६।३।४३ ) भवति । भवति । भवति । २३। बहुगणवतुडति संख्या। अत्र बहुगणशन्दो प्रातिपदिक । वतुडती प्रत्ययो । बहुक्कत्व इति । संख्यायाः क्रियाभ्याहत्तिगणने ( ५।४।१७ ) कत्वसुच् । बहुधेति । संख्याया विधार्थ धा (५।३।४२ । बहुक इति । मंख्याया ५।१।२२ । अतिशदन्तायाः कन्। तावत्कृत्व इत्यादि । तच्छब्दाद् यत्तदेतेभ्यः ( ५।२।३८ ) परिमाण वतुबिति वतुपि कृत आ । ६।३।८१) मर्वनाम्न इत्यात्त्वे कृत तावदिति किंशब्दात् किम: मंख्यापरिमाणे डती कृत टिलोप च कतीति ताभ्यां पूजवदेव कृत्वसुजादयः । बहुगणशब्दयोरित्यादि । बहु- शब्दोऽयं संख्यावचनोऽप्यस्ति । वैपुल्यवचनोऽपि । गणशब्दः मंख्यावचनोऽप्यस्ति । सङ्घवचनोऽपि । तत्र यौ वैपुल्यमङ्घवचनो तयोरिह ग्रहणं नास्ति । संख्यावाचिनोरव तयो स्त्वषा संख्यासंज्ञा विधीयते । तत् कथं मंख्येत्य- न्वर्थसंज्ञेयम् ? मंख्यायतऽनयेति संख्या । नच यो वैपुल्ये बहुशब्दो वर्तते यश्च संघ गणशब्द स्ताभ्यां संख्यायने । तथाहि बहुरोदन इत्युक्ते वैपुल्य तथा महान् भिक्षु णां गण इत्यु ते सङ्घः । नतु संख्यानम् । तम्माद- न्वर्थसंज्ञाकरणाद् यावेक हिसं यायव छेदेन संख्याविशेषमाहतु म्तयोरव ग्रहणम् । यद्येवं किमथं तयोरियं संज्ञा विधीयते ? यावता मंख्यावा- चिनी तौ लौकिकसंख्यायाम् अन्तर्भूती । लौकिकी च मंख्या शास्त्रे गम्यते ।

न्यासः । रयत एव । अन्यथा संख्याया अतिशदन्तायाः (५।१।२२) कवित्वना तिशदन्ताया इति प्रतिषेधोऽनर्थकः स्यात् । शास्त्रीयायाः संख्याया अतिशदन्ताया अभावादित्यत प्राह भूर्यादीनां निवृत्त्यर्थमिति । भूरि- प्रभूतमित्येवमादय स्तज्जातीयाः प्रचुरविशेषवाचिन: सन्ति । तेषां मा भूदित्येवमर्थ बहुगणशब्दयोः संख्यासंज्ञा विधीयते । तदेतेन नियमार्थ- मतयोः संज्ञा विधानमेतदिति दर्शयति । तुल्यजातीयापक्षया हि नियमः । अतस्तुल्यजातीयानां भूर्य्यादीनामेव नियमेन व्यावृत्तिः क्रियते । नान्येषाम् । पर्धपूर्वपदश्चेति ! अर्धशब्दः पूर्वपदं यस्य पूरणप्रत्ययान्तस्य सोऽर्धपूर्वपदः स च संख्यासंज्ञो भवतीत्य तदर्थरूपं व्याख्येय मित्यर्थः । किमर्थमित्याह समासकन्विध्यर्थमिति । तवेदं व्याख्यानम् । डति चेत्यत्र ( १।१।२५ ) यश्चकारः स इह स्वरितत्वमासज्य सिंहावलोकितन्यायेनोपस्थाप्यते । चानुक्तसमुच्चयार्थः । तेनार्चपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति । अईपञ्चमशूर्प इति । अहं पञ्चमं येषामिति बहुव्रीहिः। अईपञ्चमैः शूपैः क्रीतमिति तद्धितार्थीत्तरपदसमाहारे (२।११५१) चेति समासः । संख्यापूर्वी (२।१।५२) द्विगुरिति विगुसंज्ञा । शूर्पादन्यतरस्यामिति (५।१।२६) विहितस्याञष्ठजो वाऽध्य पूर्व दिगोलुंगसंज्ञायामिति ( ५।१।२८ ) लुक् । अर्बपञ्चमक इति । संख्याया ( ५।१।२२) अतिशदन्तायाः कन् । । स २४। ष्णा षणान्ता षट। स्त्रीलिङ्गनिर्देशादित्यादि । ष्णान्तेति स्त्रीलिङ्गनिर्देशः क्रियते । चेह किञ्चित् स्त्रीलिङ्ग श्रूयते । नापि प्रकृतमन्यत् मख्यायाः । तस्मात् स्त्रीलिङ्गनिर्देशात् संख्यैव शान्तेत्यनेन विशिषणेन विशिष्यते । षडिति चानया संजया सम्बध्यते । यदि ष्णान्तेत्यत्र स्त्रीलिङ्गनिर्देशो न क्रियेत सर्व ष्णान्तं शब्दरूपं षटसंजू स्यात् । ततः पामानो विग्रुष इत्यादावपि षड्भ्यो (७:१।२२) लुगिति लुक् प्रसज्य त । ननु च संख्येत्यनुवर्तिष्यते । तत् कुतोऽति- प्रसङ्गः ? सत्यमेतत् । सैवानुत्तिः स्त्रीलिङ्गनिर्देशन स्पष्टोक्रियते। यदि संख्येत्यनुवर्तते सामर्थ्यादेव तदन्तता विज्ञास्यते । नहि कारमात्रं वा (११)। ७३ नकारमात्र वा संख्यास्ति । तदपार्थक मन्तग्रहणम् । नैतदस्ति । उपदेशा- वस्थायां या णान्ता सा षट्संज्ञा यथा स्यादित्येवमर्थत्वादन्तग्रहणस्य । असति तस्मित्र शतानि सहस्राणीति नुमि कृते षट्स ज्ञा स्यात् । चाष्टानामित्यष्टन आत्त्वे कृते षट्संज्ञा न स्यात् । ततश्च षट्चतुर्थ्यश्चेति ( ७११५५ ) नुण न भवति । ? २५। डति च। डत्यन्ता या संख्या सा षट्संज्ञा भवतीति ! संख्याग्रहणनेहापि संख्यानुवर्तत इति दर्शयति । किमर्थ पुन: सेहानुवर्तत पातेडति: पतय इत्यत्र माभूत् । अथ संख्यानुवृत्तावपि कम्मादेवात्र न भवति ? यावतायमपि संख्यासंज्ञ एव । मामान्येन हि पूर्व डतेः संख्यामंज्ञा विहिता। नैतदस्ति । वतुना माहचात् तद्वितम्यैव डसे स्तत्र ग्रहणं । न कृतः । कच्चायम् । तीक्तवतू निष्ठा। । ? २६ । ततवतू भुक्तवानिति । चोः कुरिति (८/२ ३०) कुत्वम् । अत्वसन्तस्य (६।४।१४) चा धातोरिति दीर्घः । अथ केन विहितयो: क्तक्तवत्वो रेषा संज्ञा विधीयते अनयैव संज्ञया । वक्ष्यति टतौये । ३।२।१०२ ) निछेति । यद्येवं निष्ठासंजया तक्तवतू भाव्येते तावेवाश्रित्य निष्ठामंन्नेति। इतरेतराश्रयो दोषो भवति । इतरेतराश्रयाणि कार्याणि शास्त्र न प्रकल्पान्ते। नैष दोषः । भाविनी हि संज्ञा विज्ञास्यते । यथास्य सूत्रस्य शाटकं वयेति। तो भूते काले भवतो ययोर्विहितयो निष्ठेत्येषा संज्ञा भवतीति । २७। सर्वादीनि सर्वनामानि । सर्वशब्द आदिर्येषां तानीमानि सर्वादीनीति । एष तद्गुणसंविज्ञानो बहुव्रीहिः। इतरथा ह्युपलक्षणार्थत्वात् सर्वशब्दस्य संज्ञा न स्यात् । नाप- लक्षणस्योपसर्जनीभूतस्य कार्यण सम्वद्दो भवति । तथाहि चित्रगुरानीयता मित्युक्ते न गवामप्यानयनं भवति । तद्गुणसं विज्ञानस्य बहुव्रीहै लिङ्गमदः ७४ न्यासः । । सर्वेषामिति ( ७.३ १०० ) निर्देशः । सर्वशब्दस्य सुट सर्वनाम्नः कार्यम् । अन्यथाहि तवोपपद्यते। सर्वः। सवौं । सर्वे इति। इदमत्रोदाहरणं सर्वे इति । अत्र हि सर्वनामसंज्ञायां जसः ( ७।१।१७) शौति शीभावः कार्य: । पूर्वयोस्तु तत्साहचर्येण सर्वे इत्येतस्य पुलिङ्गतां श्रूयमाणविभक्ति- ताञ्च दर्शयितु मुपन्यासः । अन्यथा सर्वे इत्येतावत्युच्यमाने स्त्रीलिङ्गस्य लुप्तसम्बुद्दे रयं प्रयोग इति कस्यचिद् भ्रान्तिः स्यात् । सर्वस्मै इति सर्व- नानःस्मै ( ७।१।१४ )। सर्वस्मात् । सर्वस्मिन् इति । डसिड्योः ( ७।१।१५) स्मास्मिनाविति । सर्वक इति । अव्ययसर्वनामामकच् (५।३।७१ ) प्राक् टेरिति । उभशब्दोऽयं दिवचनटाब विषय एव प्रयुज्यते । उभौ । उभे इति । नच तत्र किञ्चित् सर्वनामकायं मम्भवति । स्मैप्रभृतीनां यथायोग मेकवचन- बहुवचनविषयत्वात् । अकजपि नैवं सर्वनामसंज्ञां प्रयोजयति । विशेषाभावात् । नहि तस्मादकचि कप्रत्यये वा विहिते रूपभेदः स्वरभेदो वा भवति । तत् किमर्थ स्तस्येह पाठ इत्याह उभशब्दस्येत्यादि। सवनाम्न ( २।३।२७) स्तृतीया चेत्यनेन उभाभ्यां हेतुभ्या मुभयोहे त्वोरिति हतीयाषष्ठयौ यथा स्यातामितवमर्थ स्तस्येह पाठ इति दर्शयति । डतरडतम इति । किंयत्तदो ( ६।३।८२ ) निधारणे हयोरेकस्य डतरच् । वा ( ५।३।८३ ) बहनां जाति- परिप्रश्ने डतमजित्येतयो: प्रत्यययो ग्रहणम् । वक्ष्यमाणेनेति प्रथमचरमत्या- दिना ( १।१।३३)। कथमित्यादि। समशब्दस्य सर्वनामसंज्ञायां सत्यामामि सर्वनामः ( ७।१।५२ ) सुड़िति सुटि कृते समेषामिति भवितव्यम् । तत् कथं समानामिति भवति ? ततश्च सप्तम्येकवचनस्य स्मिन्भाव कृते समस्मिविति भवितव्यम् । तत् कथं समे देशे यजेतति प्रयोग उपपद्यत इत्यभिप्रायः । न सर्वत्रेति : न सर्वत्रार्थे वर्तमानस्येत्यर्थः । एतच्च सर्वेषां नामानि सर्वनामानीत्यन्वर्थसंज्ञाकरणालभ्यते । म एव हि समशब्दः सर्वेषां नाम भवति यः सर्वशब्दपर्यायः । नचानयोः प्रयोगयोः समशब्दः सर्वपया॑यः । तथाहि समानामित्यत्र समशब्द स्तुल्यार्थे वर्तते। समे देश इत्यत्राप्यविषमे निम्नोत्र- तादिरहित। अतएव चान्वर्थसज्ञाकरणात् संज्ञोपसर्जनीभूतानां संज्ञा न भवति । यथा सर्वो नाम कश्चित् । तस्मै सर्वाय देहि । अतिक्रान्तः (:१११)। ७५ सर्वमतिसर्वः । तस्मा अतिसर्वाय देहीति । नोवंप्रकाराणि सर्वेषां नामानि । विशिष्टवस्तुविषयत्वात् । णत्वं तु सर्वनामानीत्यत्र पूर्वपदात् सज्ञायामिति न भवत्यतएव निपातनात् । २८। विभाषा दिकसमासे बहुव्रीहौ । दिगुपदिष्ट इति । दिशा मुपदिष्ट उक्तो दिगुपदिष्टः । स पुनर्दिङ् नामान्यन्तराल इति यः ( २।२।२६) समास स्तस्यात्र ग्रहणम् । स पुन लक्षणप्रतिपदोक्तपरिभाषया लभ्यते। प्रतिपदोक्तसमासाश्रयणं तु या पूर्वा दिक् सोत्तरा ऽस्योन्मुग्धस्य : अस्यै पूर्वोत्तराय देहीत्यत्र मा भूत् । उत्तर- पूर्वस्मा इति। उत्तरस्याश्च पूर्व स्याश्च दिशो र्यदन्तरालमिति पूर्वोक्तेन सूत्रेण बहुव्रीहिः । सर्वनाम्रो हस्तिमात्रे पूर्वपदस्य पुंवद्भाव इति पूर्वपदस्य एंवद्भावः । चतुर्थ्य कवचनम् । सर्वनाम्नः ( ७।३।११४ ) स्याड्ढस्त्रश्चेति स्याट । ह्रस्वत्वञ्च । उत्तरपूर्वाया इति । यदा सर्वनामसज्ञा नास्ति तदा याड़ाप ( ७।३।११२ ) इति याट् । आटश्चेति (६।१।८०) वृद्धि: । समामग्रहण किमिति ? यावता न बहुव्रीहिः समासत्व व्यभिचरत्येव ततोऽ पार्थ कं विशेषण मित्यभिप्रायः । समास एव यो बहुव्रीहि रिति। यस्यातिदेशन बहुव्रीहिवडावो न विधीयते स वेदितव्यः समास एव बहुव्रीहिरिति । स पुन यः समासाधिकारे विहितः । बहुव्रीहिवद्भावेनेति । यस्यातिदेशिकं बहुव्रीहित्व स बहुव्रीहिवद्भावेन बहु- व्रीहिः। दक्षिणदक्षिणस्या इति । एकं (८।१८ ) बहुव्रीहिवदित्यतो बहु- व्रीहिवदिति वर्तमान आबाधे चेति ( ८।१।१० ) दक्षिणाशब्दस्य दिर्वचनम् । बहुव्रीहिवद्भावाच्च सुब लुक् । अयं बहुव्रीहिवद्भावेन बहुव्रीहि रिति विभाषा न प्रवर्तते । योऽपि न बहुव्रीहाविति (१।१।२८) वक्ष्यमाण: प्रतिषेधः सोऽपोह न भवति। तत्रापि समासाधिकारात् । दक्षिणोत्तरपूर्वाणामिति । अत्र इन्हे (१११।३१) चेति नित्य एव प्रतिषेधो भवति । तेन पक्षे सुण न भवति । यद्येवं सर्वनाम्रो वृत्तिमात्र इति पुंवद्भावोऽत्र न स्यात् । नैतदस्ति । अवयवस्या- हन्दत्वात्। ननु विनापि बहुव्रीहिग्रहणेनात्र इन्हे (१।१।३१) चेति प्रतिषेधेन भाव्यमेव । तदपार्थकं बहुव्रीहिग्रहणम् । नेतदस्ति । यो हि दिग्बन्हो न न्यासः । भवति स तस्य विषयः स्यात् । दिग्हन्दे त्वसति बहुव्रीहिग्रहण एव विभाषा स्यात्। तस्माइहुव्रीहिग्रहणं कर्तव्यम् । न कर्तव्यम् । कस्मान्न भवति ? दक्षिणोत्तरपूर्वाणा मित्यत्र प्रतिपदोक्तसमासस्येह ग्रहणात् । एवं त - सरार्थ बहुव्रोहिग्रहणम् । न बहुव्रीहा ( ( १।१।२८) वित्यत्रास्य प्रयोजनं वक्ष्यति । वृत्तिकारस्य त्वषोऽभिप्रायः । उत्तरार्थ मवश्यकतव्यम् । तदुत्तरार्थ कतमिहापि स्पष्टाधं भविष्यतीति । २६ । न बहुव्रीहौ। सर्वनामसंज्ञायामित्यादि । कथं पुनरेतदवगतम् ? अभ्युपगतस्तदन्त- विधिरिति । अतएव प्रतिषेधात् । अन्यथा हि निष्फल: प्रतिषेधः स्यात् । तदन्तविध्यभ्युपगमे हि परमसर्वस्मा उत्तमसर्वस्मा इत्यत्रापि संज्ञा यथा स्यात् । इह चेत्यादि। अस्य प्रतिषेध आरभ्यत इत्यनेन सम्बन्धः । त्व' पिताऽस्य । अहं पिता ऽस्येति विगृह्य बहुव्रीही कृते ऽज्ञाताद्यर्थविवक्षायाम् असति प्रतिषेधेऽव्ययसर्वनाम्रामकच प्राक् (५।३।७१) टेरित्यत्राकच प्रसज्येत । ततश्च बकपिटको मकपिटक इत्यनिष्टं रूपं स्यात् । तस्मादकज् माभूदिति प्रतिषेधारभ्यते । तेन प्रागिवात् क इति (५।३।७० ) क एव भवति । तत्र परतः प्रत्ययोत्तरपदयोश्चेति । ७।२।८८ : मपर्यन्तयोयुष्मदस्मदोस्त्वमयोः कृतयो नयतश्चेति । ५।४।१५३ । समासान्ते कपि च त्वत्कपिलको मत्कपिटक इति सिध्यति । ननु चान्वर्थसंज्ञाकरणादेव संज्ञानिरासे कृते ऽकज न भविष्यति । नात्र सर्वार्थता सम्भवति । विशेषविषयत्वात् । नैतदस्ति । समुदायो हि विशेष वर्तते । पूर्वपदं तु सर्वार्थताया अनपेत- मेव , भवत्वनयोरनन्तरयोरुदाहरणयोरेतत्सूत्रविषयता। प्रियविखायेत्या- दिस्तु नोपपद्यते । नहि प्रियविश्वादयः शब्दाः सर्वेषां नामानि । नापि तदवयवभूतानां विवादिशब्दानां किञ्चित् सर्वनामकार्यमुपपद्यते । स्मैप्रभृतीनामङ्गकार्यत्वात् । विश्वादिशब्दानाचानङ्गत्वात् । एवं मन्यते । त्वत्कपिटको मत्कपिटक इत्यत्राकज् माभूदिति । एतदर्थं तावदेत- दारब्धव्यम् । प्रियविश्वायत्येवमादावपि विस्पष्टाथं भविष्यतीति । - (१११)। बहुव्रीहाविति वर्तमाने किमर्थं पुनर्ब हुव्रीहिग्रहणमित्याह बहुव्रीहावित्यादि । वस्त्रान्तरवसनान्तरा इति । वस्त्रमन्तरं येषां वसनमन्तरं येषामिति बहुव्रीहिं कृत्वा वस्त्रान्तराश्च वसनान्तगश्चेति इन्हः कृतः । अत्र वर्तमानत्वाद् इन्दस्य इन्हे ( १११।३१ ) च विभाषा ११।३२ । जसीति इन्दाश्रितो विभाषा- प्रतिषेधः स्यात् । न नित्यो बहुव्रीह्याश्रितः । पुनर्बहुव्रीहिग्रहणात्त भूतपूर्वस्यापि बहुब्रीहेराश्रयणात् तदाश्रयो नित्यः प्रतिषेधो भवति । वसन- शब्दश्चात्र वसत्यस्मिनित्यधिकरणसाधनो गृहे वर्तते । न वस्त्र । अन्यथा वस्त्रान्तरवसनान्तरशब्दयोः पायत्वाद् इन्दी न स्यात् । तुल्यार्थानाञ्च- विरूपाणामेकशेष इत्येकशेषविधानात् । ३० । तृतीयासमास । ननु च विभाषा दिक्समास । १।१।२८ इत्यतः समासग्रहणमनुवर्तत एव । तत् किमर्थ पुनः समासग्रहणमित्यत आह समास इत्यनुवर्तमान इत्यादि। अस्तेरव टतीयासमासो मुख्यः । यस्मिन् सत्यकपद्यमकस्वयंमक- विभक्तिकत्वञ्च भवति । अस्ति च गौणः। यम्मि स्तादादतस्मिन्नपि ताच्छन्दं भवति । स पुनस्तृतीयासमासाथ वाक्यम् । तत्रासति पुनः समासग्रहणे गोणमुख्ययोर्मुख्य कार्यसंप्रत्यय इति मुख्य एव प्रतिषेधः स्यात् । नेतरत्र। तस्मात् तत्रापि प्रतिषेधो यथा स्यादित्येवमथं पुनः समासग्रहणम् । यदि तर्हि टतोयाममासार्थेऽपि वाक्ये प्रतिषेधो भवति यावान् कश्चित् टतीयासमास स्तदर्थ वाक्ये सर्वत्र प्रतिषेधः स्यात् । ततश्च त्वयका कृतम् । मयका कृतमित्यत्राकज न स्यात् । भवति ह्य तत् ककरणे : २।१।३२ ) कता बहुलमित्यनेन यः वाक्यम्। तत्र कप्रताये कृतं त्वत्केन कृतम्। मत्केन कृतमिति रूपं स्यादितात आह पूर्वसदृशेत्यादि । एतच्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । त्वयका। मयका इति । पूर्ववत् त्वमावादेशो। सुबन्तादकच । कचित् त्वकया मकया इति पाठः । स त्वयुक्तः । प्रातिपदिकात् त्वकजुत्पत्ती मकति भवति । प्रातिपदिकादकजुत्पत्तिरिष्यते । ममासस्तदथं त्वकया नचात्र न्यासः । अपितु सुबन्तात् । तथाकविधी वक्ष्यति प्रातिपदिकात् सुप इति च हयमपीहानुवर्तते। तत्राभिधानतो व्यवस्था । क्वचित् प्रातिपदिकस्य प्राक् टे: प्रत्ययो भवति । क्वचित् सुबन्तस्य । युभकाभिः । अस्मकाभिः । युभकासु। अस्मकासु। युवकयोरावकयोरितात्र प्रातिपदिकस्य । त्वयका। मयका । त्वयकि । मयकि। इतात्र सुबन्तस्येति । ३१ । इन्दे च। ३२ । विभाषा जसि । जसः कार्य प्रतीतपादि। एतच्च व्यवस्थितविभाषावादस्था विभाषाया लभ्यते । अथवा जसीति कार्यापेक्षया ऽधारसप्तमीयम् । नतु सर्वाद्यपेक्षया परसप्तमी। तेन जसि यत् कार्य जसाधारं यत् काय जसः शीभाव स्तन विभाषा भवति । नान्यत्र । किं कारणमेवं व्याख्यायत इत्यत आह अकज् हि न भवतीति । हि शब्दो हेतो। एवं व्याख्यायमाने सति कतरकतमका इत्यत्राकज न भवति । पूर्वसूत्रेण संज्ञाप्रतिषेधात् । अन्यथा हि यदि जसि परतः संज्ञा विकल्पात तदा पक्षेऽकज् भवेदेव । सन्मध्यपातित्वात् तद्ग्रहणेन ग्रहणात् पाक्षिकः शोभावः प्रसज्येत । क- प्रत्यये तु सति तेन व्यवधानादेवैष दोषो न भवति । तथाच तस्य प्रथमचरमतयाल्पार्धकतिपयनेमाश्च । उभयशब्दस्य तयप्प्रत्ययान्तस्येति । संख्याया अवयवे तयबि ( ५।२।४२) तुभशब्दाहिहितस्य तयपो यद्यप्युभादुदात्तो ( ५।२।४३ ) नित्यमित्ययजादेशो विधीयते तथापि स्थानिवद्भावात् तद्ग्रहणेन गृह्यत इतुभयशब्दस्तयप्- प्रत्ययान्तो भवति । तस्य गणपाठावित्या संज्ञेति । नत्वनेन योगेन परणापि पाचिकी। एतच्च व्यवस्थितविभाषावालभ्यते। काकचो यथायोगं वृत्ति- रिति । तेनोभयनेमशब्दयोः सर्वादित्वावित्यमकचो वृत्तिः। प्रथमादिभ्य- स्तु कप्रत्ययस्य इत्येष यथायोगार्थः ।

( १।१)। ३४ । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थाया- मसंज्ञायाम्। असंज्ञायामिति। संज्ञायामसत्यां पूर्वादयश्चेत् संज्ञारूपा न भवन्तीत्यर्थः । स्वाभिधेयापेक्ष इत्यादि। अवधिर्मादा। तस्य नियमोऽवश्यम्भावः । अवधि- भावादभ्रंशः । किं विशिष्टोऽवधिनियमः ? स्वाभिधेयापेक्षः । पूर्वादीनां शब्दानां स्वाभिधेयो दिग्देशकालखभावोऽर्थः । तमपेक्षते यः सः स्वाभिधेया- पक्षः। दिगादीनां ह्यर्थानां पूर्वादिशब्दाभिधयानां यत् पूर्वादित्वं तबियो- गतः कञ्चनावधिमपेक्ष्य सम्पद्यते । नत्ववधिनिरपेक्षम् । यथा पूर्वदेशस्य यत् पूर्वत्व तत्परं देशमपेक्ष्य भवति । परस्यापि यत् परत्व तत् पूर्वदेशम् । तस्मात् पूर्वादिशब्दवाच्यापेक्षेणावश्यं केनचिदवधिना भाव्यम्। तत्र तस्यैवावधेः यः पूर्वादिशब्दार्थापक्षोऽवधिभाव ऐकान्तिकः स नियमो व्यवस्था । तस्यां गम्यमानायां पूर्वादीनां शब्दानां स्वाभिधेय एव वर्तमानानामियं संज्ञा भवति । न तु वायायाम् । यो हि पूर्वादिशब्दाभिधेयादन्यस्यार्थस्यावधिभूतस्य नियमः स कथं पूर्वादिशब्दवाच्यो भविष्थति ? पूर्वे पूर्वा इति । अत्र परस्मादेवा- वधेरिति गम्यते । पर परा इति । पूर्वम्मादेवावधेरिति गम्यत । प्रवीणा इति । कुशला इत्यर्थः । अत्र प्रावीण्यमात्रण निमित्तेनावधिनिरपेक्ष एव दक्षिण- शब्दो वर्त्तत इति व्यवस्था न गम्यते । सत्यामवत्यादि । जम्बूद्दीपं सुमेरुं वावधिमपेक्ष्य तत्रोत्तरशब्दो वर्तत इति विद्यत एव व्यवस्था । ३५। स्वमजातिधनाख्यायाम् । अत्रापि नित्या संज्ञा प्राप्तेति । गणपाठात् । एवमुत्तरत्रापि वेदितव्यम् । नचेदित्यादिना ज्ञातिधनाख्याशब्दस्यार्थमाचष्टे । च शब्दान्तनिर- पेक्षः स्वशब्दो ज्ञातिधन स्वरूपणाचष्टे तत्रासो संज्ञारूपेण तयोर्वतते । आत्मीया इत्यर्थ इति । कथं पुनरयमर्थः ? यावता स्वे पुत्वा इति ज्ञात्यर्थी गम्यते । खे गाव इति धनार्थः । नैतदस्ति । पुत्रगोशब्दसानिध्यादेतदुभयं गम्यते। स्वशब्देनात्मीयत्वमात्र गम्यते । स्वा ज्ञातय इति । प्रभूता स्वा इति चोभयत्र शब्दान्तरमनपक्ष्य ज्ञातिधने स्वरूपर्णव स्वशब्देनाभिधीयते । - यत्र न्यासः। यद्यवं ज्ञातय इत्यनुप्रयोगो नोपपद्यते । पर्यायत्वात् । यथा वृक्षशब्द- प्रयोगे सति तरुशब्दस्यानुप्रयोगो विरुध्यते । नैष दोषः। पर्यायशब्दस्य हि यत्रानेकार्थो भवति संदिग्धार्थी वा तत्र तदर्थस्यैव व्यक्तीकरणार्थः पर्याया- न्तरस्यानुप्रयोगो न विरुध्यते । यथा मेघाद्यनेकार्थवृत्तवराहकशब्दस्य (A) प्रयोग शूकरशब्दस्य प्रयोगः । तथा सन्दिग्धार्थस्य पिकशब्दस्य प्रयोग कोकिल- शब्दस्य । स्वशब्दश्वायमनेकार्थः । तनासत्यनुप्रयोगे किंविषयोऽयं प्रयुक्त इति सन्देहः स्यात् । अतस्तन्निरामार्थमुपपद्यते ज्ञातिशब्दस्यानुप्रयोगः । ३६ । अन्तरं वहिर्योगोपसंत्र्यानयोः । वहियांग इति । वहिरित्यनेनानातदेश उच्यते । तेन योगो वहियोगः । स चानाकृतस्य वाह्यस्य वस्तुनो भवति । उपमंव्याने चेति । उपसंवीयते परि- धीयते यत् तदुपसंव्यानम् । कृत्यल्युटो (३।३।११३) बहुल मिति कर्मणि ल्युट। अथवा संवीयत पिधीयते ऽनेनेति संव्यानम् । करणाधिकरणयोश्चेति (३।३।११७) ल्युट् । संव्यानस्य समीप मुपसंव्यानम् । अवहियाँगे सामर्थ्यात् तदेव वेदि- तव्यम् । नगरवाह्या इति । अनेन वहियोगं दर्शयति । परिधानीय मुच्यत इति । उपसंव्यानस्येदमुदाहरणमुपन्यस्तम् । वस्त्रान्तगतवस्तु वस्त्वन्तरेणापिहित- मुच्यते । अविशेषाभिधानेऽपि यद् वस्त्रान्तरेणावृतं सामात् तदेवोपसंव्यान मुच्यते । नेतरत् । न प्रावरणीयमिति । प्रावियतेऽपिधीयतेऽनेनेति प्रावरणीयम्। तत्राभिधीयते। तदभिधाने तस्य वहियांगत्वात् वहिौंग एवेदमुदाहरणं स्यादित्यभिप्रायः । अन्तर तापसः प्रतिवसतीति । संज्ञाया अभावात् सप्तम्या: स्मिन्नादेशो न भवति । ननु च जसोत्यनुवर्तते । तत् कम्मात् सप्तम्यन्तं प्रत्युदाहृत मित्यत आह गणसूत्रस्य चेत्यादि। अपुरीति वक्तव्यमिति । अनन्तरं गणसूत्रस्य चेत्यभिधानाद गणमूत्रमेवैतद् वक्तव्य मिति गम्यते । यद्यपि गणसूत्रेऽन्तरशब्दः पठ्यत तथापि प्रातिपादिकग्रहणे लिङ्ग- विशिष्टस्यापि ग्रहणमिति प्राकाराबहिर्वर्तिनी या पू स्तस्या अपि वहियोंगोऽ स्तीति तत्र वर्तमानस्य टाबन्तस्याप्यन्तराशब्दस्य सर्वनामसंज्ञा प्राप्नोति । अत्र (A) वराहको वलाहको वा। रलयोरभेदाम् । बलाहको गिरौ मधे दैत्य नागविशेषयो रिति विश्वः ।

(११) तेनापुरीति वक्तव्यम् । तेनान्तरायामित्यत्र स्याण न भवति । विभाषा- प्रकरण इत्यादि । उपसंख्यानशब्दस्येह प्रतिपादनमर्थः । अस्मिन् विभाषा- प्रकरण तीयप्रत्ययान्तस्य सर्वनामसंज्ञाया: प्रतिपादनं कर्त्तव्यमित्यर्थः । तत्नेदं प्रतिपादनम् । विभाषा जसीत्यत्र विभाषेति योगविभागः क्रियते । तत्र च सर्वादीनि हन्द इति च निवृत्तम्। तेन तीयस्य विभाषा सर्वनाम- संज्ञा भविष्यतीति । नचैवं सत्यतिप्रसङ्गः । योगविभागादिष्टसिद्धेः । नापि विभाषा द्वितीयाहतीयाभ्यामित्यस्य वेयर्थ्यापतिः । प्रपञ्चार्थत्वात् । ततो जसीति हितोयो योगः | अत्र विभाषाग्रहणं सर्वादिग्रहणं हम्ब- ग्रहणञ्चानुवर्तते ॥ ३७। स्वरादिनिपातमव्ययम् । स्वरादिषु स्वस्तिशब्दोऽस्तिशब्दश्च पठ्यते । तत्र स्वस्तिशब्दस्य किमर्थः पाठः ? यावतास्तिशब्दपाठादेव तदन्तविधिना स्वस्तिशब्दस्यापि भविष्यति । ग्रहणवता प्रातिपदिकनेति तदन्तविधिप्रतिषेधान्न मिध्यतीत्येतत् तु नाशङ्गनीयम् । अव्ययमिति महती संज्ञा क्रियतेऽन्वर्थसंज्ञा यथा विज्ञायेत। लिङ्गकारक- संख्या विशेषानुपादान्न व्येति विविधत्वं न गच्छतीत्यव्ययम् । तस्याश्चोपसर्जन- प्रतिषेध स्तदन्त विधिश्च प्रयोजनम् । तस्मादन्वर्थसंज्ञाकरणादेव तदन्तस्यापि भविष्यति । स्वस्तिशब्दोऽपि न व्येत्येव । सत्यमेतत् । एवं त्वन्वर्थसंज्ञा- स्तदन्तविधिरनेनोपदर्शितः । विस्पष्टार्थ मुदाहरणमेतत् । तसिलादिस्तद्धित एधाचपर्यन्त इति । पञ्चम्यास्तसिलित्यत: (५।३।७) प्रभृत्येधाच्चे (५।३ ४६ ) त्येतत्पर्यन्तः । शस्तसी इति । बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् ( ५।४।४२)। प्रतियोगे ( ५।४।४४ ) पञ्चम्या स्तसिः । कत्वसुजिति। संख्यायाः ( ५।४।१७) क्रियाभ्यावृत्तिगणने कृत्वमुजिति । हित्रिचतुर्यः ( ५।४।१८) सुच। प्रास्थालाविति (A) इण पासिरि- त्युणादिसूत्रेण ( ४.६६१ ) इणो धातोरामिप्रत्ययः । प्रया इत्युदाहरणम् । करणालब्ध But the correct reading पास (A) In the printed #itfait, 19ureft occurs. थालौं is given in the printed पदमचरी and शब्दकौस्तुभ । ११ न्यामः। । प्रनपूर्वविश्वेमा ( ५।३।१११ ) त्याल्छन्दसीति । चूार्थाश्चेति । अभूततद्भावे कम्वस्तियोगे सम्पद्यकत्र्तरि चिः ( ५।४ ५० )। विभाषा साति ( ५।४।५२ ) कार्ता । देये त्रा च (५।४।५५) । अमिति । अमु च । ५।४:१२) च्छन्दसि । आमिति (५।४।११)। किमेतिङव्ययघादाम्वद्रव्य प्रकर्षे । निपाता वक्ष्यन्त इति । अथ कस्मात् ते स्वरादिषु न पठ्यन्ते । कः पुनरेवं गुणो भवति ? भव्ययसंज्ञायां निपातग्रहणां न कर्त्तव्यमिति । नैतदस्ति । चादी- नामसत्त्ववचनानामेवाव्ययसंज्ञेष्यते । स्वरादीनान्तु सत्ववचनानामसत्त्ववचनानां च । तथाहि क्रियायोगो दृश्यते । स्वः पश्यन्ति । स्वरारोहन्तीति । तत्र यदि चादयो निपाता: पठेघरं स्तेषां सत्त्वेऽपि वर्तमानानामव्ययसंज्ञा प्रसजात । अव्ययमित्यन्वर्थसंज्ञेयमिति दर्शयितुमाह सदृशमिति । त्रिषु लिङ्गेषु स्त्रीपुंनपुंसकेषु सदृशं तुल्यम् । लिङ्गविशेषापरिग्रहाल्लिङ्गसामान्योपादानाच्च । सर्वासु च विभक्तिविति। विभक्तिनिमित्तत्वाद् विभक्तिः । विभज्यत वा प्रातिपदिकार्थ आभिरिति कर्मादीनि कारकाणि शक्तिरूपाणि विभक्तिशब्दे- नोच्यन्ते । वचनेषु चेति । वचनान्येकवचन द्विवचनबहुवचनानि । इहाभिधेये- ऽभिधानोपचाराद एकादिका संख्या गृह्यत । तदेवं लिङ्गकारकसंख्याविशेषस्थ- स्यानुपादानात् सामान्यरूपोपादानाच विभक्तिषु वचनेषु च सदृशं भवति । एवं यस्मात्र व्येति लिङ्गादिसंख्याविशेषानुपादानाद विविधं नानात्वं न गच्छति तस्मादव्ययमित्यन्वर्थता प्रतिपादिता भवति । प्रयोजनं पुनरुपसर्जनप्रतिषेध स्तदन्तविधिश्चेत्युक्तम् । तत्रोपसर्जनप्रतिषेधः । अत्युच्चैः । अत्युच्चैसी । अत्युच्चैसः । नधन यथोपदर्शितार्थानुगमः सम्भवति । यत्र तु सम्भवति तत्र तदन्तस्या- व्ययसंज्ञा भवत्येव । यथा परमखः । उत्तमखरिति । अत्र हि स्वर्शब्दस्य प्राधान्याल्लिङ्गादिविशेषस्यासम्भवः । पूर्वत्र तूच्चैःशब्दस्य विपर्यायाद् विपर्ययः । ३८। तद्धितश्चासर्वविभक्तिः। प्रत्ययग्रहणे यस्मात् स विहित स्तदादे स्तदन्तस्य ग्रहणं भवतीति तधितान्तस्य संज्ञा विज्ञायत इत्याह तडितान्तः शब्द इति । यस्मान्न सर्वे. त्यादि। अत्रावयवकानप्रत्तिः सर्वशब्दः । सर्वा निरवशेषा येषां त्रयाणां । ११ । --- वचनानां विभक्तिरिति संज्ञा कता। तानि सर्वाणि यतो नोत्पद्यन्त इत्यर्थः । ततो यत इति । तद्यच्छब्दात् पञ्चमीसमर्थात् पञ्चम्या स्तसिलिति (५।२७) तसिल । सुपो धातुप्रातिपदिकयोरिति २।४।७१ सुब्लुक् । प्रागदिशो विभक्तिरिति ५।३ १) विभक्तित्वात् त्यदाद्यत्त्वम् ( ७।२।१०२ । अतो गुणे ( ६.१७ पररूपत्वम् । तत्र यत्रेति । सप्तम्यास्त्रलिति (५।३।१०) त्रल। तदा यदा सर्वदेति । मर्वेकान्य ( ५।३।१५ ) किंयत्तदः काले दा । सर्व एतं ततः प्रभृतयः विभक्त्यर्थप्रधानाः । स च विभक्त्यर्थः प्रातिपदिकार्थः सम्पन्न इति प्रातिपदिकार्थ प्रथमव भवति। सापि संख्याविशेषाभावान सर्वा । किं तर्हि ? एकवचनमव । तस्योत्सर्गत्वात् । तथाचोक्तम् । एकवचन मुत्सर्ग: करिष्यत इति । तस्याव्ययादाए सुपो ( २।४।८२ ) लुक् । एक इति । अत्रासर्व विभक्तिक व मस्ति । एक चे हित्वायोगात् । अतद्धितत्वान्न भवति । औपगव इति । अत्र तडितान्तत्वमस्ति । तद्धितान्तस्य मर्वविभक्तियोगाव भवति । ३८ । कृन्मजन्तः । खाटुकारं भुङ्क्त इति स्वादुमि । ३।४।२६ । णमुल् । स्वादुमीत्यत एव निर्देशादुपपदस्य मकारान्तत्वं निपात्यत । स्वादुमिति चार्थग्रहणम् । तैन सम्पन्नङ्गारमित्यादी मम्पन्नादावप्युपपदे गामुल् भवति । वक्षे इति । वच परिभाषण। ब्रुवो . २।४।५३ । वचिरिति ब्रूजादेशो वा। चोः कुरिति ( ८।२।३० ) कुत्वम् । अन्तग्रहणमित्यादि। औपदेशिकप्रतिपत्त्यर्थमिति । नित्ययोग बहुव्रीहिविज्ञानादीपदेशिकप्रतिपत्तिः । उपदेशे भवमोपदेशिकम् । तस्य प्रतिपत्ति निम् प्रयोजनं यस्य तत् तथा । एवं मन्यते । विनाप्यन्तग्र- हर्णन येन विधिस्तदन्तस्येति सामाहा कृत स्तदन्तविधी सिहे यदस्तग्रहणं क्रियते तस्यैतत् प्रयोजनम् । नियोगतो यस्यैजन्तत्वमुपदेशावस्थायामेव भवति तस्यैव प्रतीतिर्यथा स्यादिति । आधय इति। दधात राङ् पूर्वादुपसर्गे घो: ( ३।३।८२) किरिति किः । आतो लोप ( ६।४।६४ ) इटि चेत्याकारलोपः । चतुर्थंकवचने घड़ितीति । ७।३।१११ । गुण: । चिकीर्षव इति । करोतः ६४ न्यासः । सन् । अज्मनगमां (६।४।१६ ) सनीति दीर्घः । ऋत ( ७।१।१००) इद्धातोरितीत्त्वम् । रपरत्वम् । द्विवचनमभ्यासकार्यम् । हलि ( ८।२।७७ ) चेति दीर्घः । सनाशंसभिक्ष ( ३।२।१६८ ) उरित्युप्रत्ययः । अतो (६।४।४८) लोपः । शेषं पूर्ववत् । कुम्भकारभ्य इति। कर्मण्यण । ३।२।१ )। उपपद- मतिडिति ( २।२।१८ ) समासः । बहुवचने ( ७३।१०३ झल्येदित्येत्त्वम् । ननुच लक्षणप्रतिपदोक्तपरिभाषयैव वाऽसिद्धं वहिरङ्गमन्तरङ्ग इत्येव वात्र संज्ञा न भविष्यति । विभक्तिप्रत्ययं याश्रित्य विधीयमानत्वाद् गुणादिकायं वहिरङ्गम् । अव्ययसंज्ञा त्वन्तरङ्गम् । वाह्यस्य निमित्तस्यानाश्रयणात् । सत्यमेतत् । एवं त्वर्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात् । अतस्तत्परिहारार्थ मन्तग्रहणं कृतम् । ४०। त्वातोसुन्कमनः। कृत्वा हृत्वेति । समानकर्तृकयो: पूर्वकाल ( ३।४।२१ ) इति वा । उदे- तोरिति । इण गती । सार्वधातुकेति (७३।८४) गुणः । अपाकतीरिति कृत्रः । विसृप इति गस्ल सप्लु गती। आटद इति । टदिर हिंसानादरयोः । अवायीभावश्च । उपाग्नौति । अव्ययं विभक्तीत्यादिना ( २।११६ । मामीप्ये ऽव्ययीभावः । अव्ययादिति (२।४।८२ ) लुक् । अग्ने: समीप उपाग्नीति। उपाग्नि मुखं यस्येत्यव्ययीभावगो बहुव्रीहिः । तत्र मुखं स्वाङ्ग (६,२।१६७) मित्युत्तरपदान्तोदात्तत्वे प्राप्ते नाव्ययेति ( ६।२ १६८ ) प्रतिषिद्धम् । तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वर इति । बहुव्रीही प्रकृत्येत्यादिना (६ २।१ ) तत् पुनरन्तोदात्तत्वम् । उपानिशब्दस्य समासस्वरेणान्तोदात्तत्वात् । उपपयःकार इति । कर्मण्यण् । ३।२।१ )। एवमुपपयःकाम इत्यत्रापि । उपपयः कामो यस्येति बहव्रीहिर्वायम् । काम्यत इति कामः । अकर्तरि च कारके ( ३३।१:. ) संज्ञायामिति कर्मण्यपि घञ्। अनव्ययस्येति (८।३।४६) सत्वे प्रतिषिधे कुपोः + क पौ (८।३।३७) चेति जिह्वामूलीयो भवति विसर्जनीयो वा । अत्र मुखस्वरोपचारी निर्वत्यमानी प्रयोजनं नतु । तत्र ( १:१)। विधीयमानी। लुक पुनर्विधीयमानः । ननु चाव्ययनिबन्धन मकजादिकार्य मस्त्येव । तत् कुतोऽयं कार्यनियमो लभ्यत इत्याह सर्वमित्यादि । इदमिति तद्धितश्चासर्वविभक्ति ( १.१।३८) रित्यादिकम् । किञ्चित् स्वरूपेणैव पठ्यते । कस्यचित् पर्यायान्तरेणार्थः । स त्वभिधेयधर्मेणोपचारादित्युच्यते । कन्मकारसन्ध्यक्षरान्त इति कृन्मेजन्त इत्यस्यार्थः पठ्यते । वातोसुन्कसुनो- ऽव्ययीभावश्चेति स्वरूपेणैव। तसिलादि स्तद्धित एधाचपर्यन्त इति यावत् । चपाश्चेति । आसिमौणादिकं वर्जयित्वा । तदितथासर्वविभक्ति रित्यस्यार्थः । अनित्यत्वज्ञापनार्थं मिति । प्रकृतत्वात् मंज्ञाया इति लभ्यते । तेनाकजादौ कर्तव्ये संज्ञा न भवतीति अज्ञाताद्यर्थविवक्षायामुपाग्निकमित्यवाक न भवति । क एव तु भवति । इह च उपकुम्भ मात्मानं मन्यत उप- कुम्भम्मन्यः । आत्ममाने खश्चेति ( ३ २०८३ ) खशि कृतं खित्यनव्ययस्ये ( ६।३।६६ ) त्यनुवर्तमाने ऽरुद्दिषदजन्तस्य (६।३।६७ मुमिति मुमः प्रतिषेधो न भवति । इह चेत्यादिनाऽव्ययप्रतिषेध तोसुन्कसुनोरप्रतिपध ।२।३।६८ वा) इति यहच्यति तस्यात्रावक्तवातां दर्शयति । सूर्यस्येत्यत्र कर्तृकर्मणो: कृतीति ( २।३।६५ ) षष्ठी। ४२ । शि सर्वनामस्थानम् । कुगडानीत्यादि। जशशसो: ( ७।१।२० ) शिरिति शि: । नामस्थानत्वे सति नपुंसकम्य झलच (७१।७२ ) इति नुम् भवति । सर्वनामस्थाने । ६।४।८ ) चामम्बुद्धाविति दीर्घत्वञ्च । सर्वनामस्थानमिति । पूर्वाचार्य रेवेयं प्रयोजनमन्तरेणापि महती संज्ञा प्रणीता। समाश्रयणं यत् तत् तत्कृतस्य शब्दानुशासनस्य दोषवत्त्वसूचनार्थम् । तत् पुनः स्वशास्त्रस्य पुनरुक्ततादोषपरिहारार्थम् । यदि हि तद्दोषवद्भवत्येवमस्य प्रणयनं युज्यत । नान्यथा। ४३ । मुड़नपुंसकसा । सुड़िति प्रत्याहारग्रहणम् । सुशदादारभ्य आ ओटष्टकारात् । पञ्चैव वचनान्यन्तर्भवन्तीत्याह मुड़िति पञ्च वचनानीत्यादि। नपुंसकादग्ध- तस्य सर्व- तस्या इह न्यासः। वेत्यादि । अनेनानपुंसकशब्दस्य पर्युदासतां दर्शयति । प्रसज्यप्रतिषेधे हि प्रतिषेधप्रधानमिदं वाक्यं स्यात् । नपुंसकस्य न भवतीति । ततश्च यावती काचित् सुट: सर्वनामस्थानसंज्ञाप्राप्ति स्तस्याः सर्वस्याः प्रतिषेधः स्यात् । एव हि कुण्डानि तिष्ठन्तीत्यत्र पूर्व गणापि संज्ञा न स्यात् । तस्यास्तु शस: शिरादेशोऽवकाशः । यद्यप्य नन्तरस्य विधिर्वा भवति प्रतिषेधो वेत्येतत् समाश्रयेण प्रसज्यप्रतिषेधेऽप्येष दोषः शक्यते परिहक्तुं तथापि प्रतिपत्ति- गौरवदोषः स्यात् । तथाहि विधिप्रतिषेधयो विरोधादेकेन वाक्येन ताव'छक्यो न विधातु मिति वाक्यभेदः कर्तवाः । सुट् सर्वनामस्थान- संज्ञो भवति। नपुंसकस्य च न भवतीति । ततश्चासम्बद्धं प्रतिषेधवचन- मिति पूर्वस्या अपि प्राप्ते रयं प्रतिषेधः सम्भाव्येत । तत स्तत्परिहारेणा- भीष्टार्थप्रतिपत्ती साध्यायां नियतभावी गौरवदोषः प्रसज्येत । तस्मात् सुखावबोधार्थ पर्युदास एवाथितः । नपुंसके न विधि रिति । स्वी पुंससम्बन्धिनः सुट उपादानात् । न प्रतिषेध इति विधिप्रधानत्वात् पर्युदा- सस्य ! एतेन नपुंसकेऽस्य योगस्याव्यापार दर्शयति । तनेत्यादि । नपुंसके नास्य विधौ प्रतिषेधे वा व्यापार स्तेन जसो यः शिरादेश स्तस्य तैन पूर्वयोगेन संज्ञा भवत्येव । अप्रतिषिद्धत्वात् । राजति । पूर्ववद्दीर्घः । हल् ( ६ ११६८) ड्यादिलोपः । मामनी वेमनी इति । नपुंसकाचेति ( ७।१।१८ ) औङः शीभावः । तत्र संज्ञाया अभावादीर्घत्वं न भवति । --- यत एवं ४४ । नवेति विभाषा। -- नवेति शब्दोऽयमेको निपातोऽप्यस्ति प्रतिषेधवाची यथा नवा वक्तव्य मुक्तार्थत्वादित्यादी भाष्यवाक्ये । तस्येह यदि ग्रहणं स्याद् विभाषा दिक्- समासे ( १।१।२८ ) बहुव्रीहावित्युक्त्वा न बहुव्रीहावित्यत्र ( १।१।२८ ) तु पुनः प्रतिषधोपादानमनर्थकं स्यात् । तस्मान्न निपातसमुदायोऽय मिति दर्शयवाह नेति प्रतिषेध इत्यादि । ननु चान्यत्र संज्ञासंजिसम्बन्धप्रक्रियाया हि शास्त्रे शब्दस्यैव ग्रहणं प्रसिद्धम् । यथा तरपतमपी घः ( १।१।२२ ) । दाधा घुदाविति ( १।१।२० ।। तथेहापि नवाशब्दयोरेव ग्रहणं युक्तम् । तत् कथं ( १।१ )। तदर्थयोः संज्ञा लभ्यत इत्याह इतिकरण इत्यादि। क्रियत इति करणः । इतिश्चासौ करणश्चेतीतिकरण: । सोऽर्थस्य मंतिनो निर्देशो यथा स्यादित्येव- मर्थः । इतिशब्दो हि विपासक्तत् । यथा गवित्यय माहेति गोशब्दात् परतः प्रयुज्यमान इतिशब्द स्तमर्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकत्वे व्यवस्थापयति तथा नवाशब्दाभ्यां पर इतिशब्दः प्रयुज्यमान म्ती स्वरूपपदार्थ- कत्वात् प्रच्याव्यार्थ पदार्थकत्वे व्यवस्थापयति । तस्मादर्थनिर्देशार्थ एवेनिशब्दः कृत इति नवेति यावौँ प्रतीयते प्रतिषधविकल्पो तयोरवयं संज्ञा भवति । न नवाशब्दयोः । तत्र प्रतिषेधेनेत्यादिना प्रतिषेधविकल्प यो: प्रवृत्तिक्रम वापारभेदञ्च दर्शयति । समीकत इति । तुल्यता मापादिते विकल्पः प्रवर्तत इति पने कार्यसम्पादनाय । ननु च वाशब्द एव विकल्पार्थवेन लोके प्रसिद्धः । प्रदेशष्वयमुपादीयमानो विकलोन कार्य सम्पादयिष्यति । तथाहि प्राप्ते वा कार्य विकल्पः क्रियतामप्राप्ते वा ? यदि प्राप्ते तत्र प्राप्ति रस्त्येवेति प्रतिषेध एव पने कर्तव्यः । अथाप्राप्ते तत्र प्राप्तिपूर्वक- वात् प्रतिषेधस्य तामन्तरेण म न प्रयुज्यत इति विधिरव पक्षे कर्त्तवाः । न प्रतिषेधः । एतचोभयं वाशब्द एव शक्तः प्रयुज्यमानः संपादयितुम् । तत् किमर्थ मियं मंज्ञा क्रियत इत्याह उभयत्र विभाषा प्रयोजयन्तीति । प्रकृतत्वात् संज्ञामिति गम्यते । विभाषा खे १३० । रित्यत्र प्रति- षेधमुखेन वाशब्दस्य प्रवृत्तिः स्यात् । विधिमुखेन वा। यदि प्रतिषेधमुखेन वा न भवतीत्येवं प्रवृत्तिः प्राप्तिपूर्वकत्वात् प्रतिषेधस्य यत्र प्राप्तिः स एव तस्य विषय इति कित्स्वेव विकल्पेन प्रतिषेधायेदं प्रवर्तते । तत्र वचिस्वपीत्यादिना ( ६।११५ ) श्वयतेः संप्रसारणस्य विहितत्वात् । न पित्सु । तत्र तस्य न केनचिदिहितत्वात् । एकत्वाचास्य वाक्यस्य कित्सु च प्रतिषेध- संपादन एव चरितार्थत्वान् नोपपद्यते पुनर्विधिमुखेन प्रकृतिः । मुखेन वा भवतीत्येवं पत्ति: स्यात् ? यत्र प्राप्ति नम्ति स एव विधिविषय इति पित्वेव विकल्पेन विध्यर्थः प्रवर्तते । तत्र चरितार्थत्वान कित्सु । संज्ञा- विधाने तु न दोषः । तस्यां हि सत्यां प्रतिषेधः प्रवर्तमानो योऽसौ संप्रसारण निमितानिमित्तभेदादिषय आसीत् तं समीकरोति । सर्वस्याः संप्रसारण- तत्र अथ विधि- न्यासः । निमित्ततया तुल्यता मापादयति । तस्मिन् समीकृते किति च पिति च विकल्पः प्रवर्तमानो विधिमुखेन सर्वत्र पाक्षिक कार्य सम्पादयति । संप्रसारणं पक्षे भवतीति । अप्राप्तिस्तु पक्षे स्थितैवेति सर्वमिष्ट सिध्यति । तस्मादुभयत्र प्राप्तावप्राप्ती विभाषार्थ मियं सज्ञा विधीयते । शुशावेति । टुमोवि गतिश्योः । णल् । संप्रसारण कृते वृयावादेशौ । पशवतुः । शिश्वियतुरिति । अचि श्रुधात्वित्यादिना ( ६।४।७७ ) इयङवडौ । लिट् । भूत इति । ४५। दूग् यण: संप्रसारणम् । यत्र शास्त्रान्तरेण विहितो भूतविभक्तमा कार्यान्तरार्थ- मनूद्यते यथा संप्रसारणस्य ( ६.३।१३८ ) संप्रसारणाञ्चेति ( ६।१।१०८ ) तत्र भूतः। भावी वेति । यत्र भाव्यमानविभक्तया विधानार्थ निर्टिश्यते यथा व्यङः संप्रसारणं (६।१।१३) वसोः (६।४।१८) संप्रसारणमिति तत्र भावी। अत्र हि ष्यङ्स्थानिको वसुस्थानिकश्चेङ् नास्ति यस्य मंज्ञा विधेया। तस्माद् भाविनः संनित्वं विज्ञायते । संजिनो भावित्वात् संज्ञापि भाविन्येव । यथास्य सूत्रस्य शाटकं वयेति । स इग यणः स्थाने भवति यस्य भूतस्य संप्रसारण मित्येषा संज्ञा भवतीति । इष्टम्। उप्तमिति । वचिखपियजादीनां ( ६।१।१५ । कितीति मंप्रसारणम् । गृहीतमित्यत्रापि ग्रहिज्यावयीत्यादिना ( ६।१।१६ : संप्रसारणम् । ग्रहोऽलिटि ( ७.२ ३७ ) दीर्घः । केचिदित्यादिना ये भाविनी संज्ञां नाश्रयन्ति तन्मतं दर्शयति । कथं पुनरेकस्य सूत्रस्यैतदर्थहयमकेन वाक्येन लभ्यते ? तन्त्रेणावृत्त्या वा । ननु च संज्ञाविधी शब्दस्येव ग्रहणम् प्रमिदमितपतम्। ततो युक्तं वर्णस्यैव संज्ञित्वम् । अर्थस्य तु कथम् ? यथा नवेति विभाषेति मूत्र इति चेत् ? न युक्तम् । तत्रेतिकरणस्यार्थनिर्देशार्थस्य प्रयोगात् । इह तु स नास्तीत्ययुक्तम् । इहापि तन्त्रस्याहत्तेर्वा न्यायस्याश्रितत्वाद् युक्तमेव । अस्य च सूत्रार्थ हयस्य विभक्तिविशेषनिर्देशो लिङ्गम् । यदयं ष्यङ: (६।१।१३, संप्रसारणमित्यादौ विधिवाक्ये भावामानविभक्त्या निर्देशं करोति ततो ज्ञायते वाक्यार्थः संन्नोति । यतश्च संप्रसारणस्येत्यादी भूतविभक्त्या निर्देशं करोति ततोऽवसीयते वर्ण (१।१।। इति । तस्माद् युक्तं वाक्यार्थस्यापि संशित्वम् । किंरूपोऽसौ वाक्यार्थ इत्याह स्थान्यादेश इत्यादि। तवेत्यादिनानन्तरयोः सूत्रार्थयोर्विषयविभागं दर्शयति । विधौ वर्णों न सम्भवतीति । व्यङः संप्रसारण (६।१।१३) मित्यादी विधिवाक्ये प्रथमः सूत्रार्थ उपतिष्ठते। अनुवादे तु संप्रसारणस्येत्यादी ( ६।३।१३८ विहितत्वादिधेय स्य प्रथमोऽकिञ्चित्कर इति हितोयः । अदुहितरामिति । अत्र यणः स्थानिकवादिकः संप्रसारणसंजया भावाम्। तस्याञ्च सत्यां हल इति (६।४.२) दीर्घत्वं प्रसज्येतेति चोद्यमपाकर्तुमाह संख्यातानुदेशादित्यादि । इह स्थानिनो यणश्चत्वारः। इकोऽप्यादेशाश्चत्वार एव । तेन संख्यातानुदेशन भवितव्यम् । यथासंख्यमनुदेश (१।२।१०) इत्यादिना । ततश्च यकारस्य स्थाने य इवर्ण स्तस्यैव संप्रसारणसंज्ञा भवति । नचेह यकारसा स्थान इवर्ण:। किं तर्हि लकारसा । तत् कुत स्तस्याः प्रसङ्गः ? दुह प्रपूरणे । लड्। कर्मवत् ( ३१११८७) कर्मणा तुल्यक्रिय इत्यतिदेशे कर्मकर्त्तात्मनेपद मिट् । न दुहनुनमा यचिणाविति (३ १८८) यकि प्रतिषिद्दे शप् । तसबादादित्वामुक् । अदुहि इति स्थिते तिडश्चेति (५।३।६ ) तरप् । किमेत्तिङवायघादाम्वद्रवा- प्रकर्ष ( ५।४।११ ) इत्याम् । तरप इहोपन्यासोऽङ्गसंज्ञार्थः । ४६ । आद्यन्तौ टकिती षष्ठी स्थानयोग ( १।१।४८ ) त्यस्याः परिभाषाया अयमपवादः । तेन तत्सम्बन्धादस्यापि परिभाषात्वं विज्ञायते । यदि तादिष्टिद् भवत्यन्तः किद्भवति तदा चरेष्ट ( ३।२।१६ ) आतोऽनुपसर्ग क ( ३।२।३ ) इत्यादयोऽपि प्रत्यया आद्यन्तभूताः स्युः । नच टितः प्रत्ययस्यादित्वे टिड्ढाण अिति (४।१।१५) टितो विधीयमानो डीन् निरवकाश इत्याशङ्गनीयम् । हि प्रकृतेरेव सिहं टित्त्वं न प्रत्ययस्य नदड़ भषडित्येवमादौ स तस्यावकाशो भविष्यतीति । टितच प्रत्ययस्यादिवे सति कुरुचर इत्येवमादि रूपमेव न सिध्येत् । कितस्त्वन्त्यत्व प्राध्योर्विध्योरित्यत्रोपसर्ग ( ३।३।८२ ) घो: किरिति किप्रत्ययस्य प्रवत्यन्तःपातित्वाहातग्रहणेन ग्रहणे सत्युदात्तयणो (६।१।१७४ ) उल् पूर्वादित्येष स्वरो न स्यात् । नोधात्वोरिति (६।१।१७५ ) प्रतिषेधा- ) यत्र न्यामः । विधीन् दित्यत आह षष्ठीनिर्दिष्टस्येति । ननु च नेह षष्ठी श्रूयते । नापि प्रकृता । तत् कथमेष विशेषो लभ्यते ? वक्ष्यमाणस्य षष्ठीग्रहणस्य सिंहावलोकित- न्यायेनोपस्थानात् । नन्वेवमपि गापो ष्टग ( २।२।८) व्रीहिशाल्यो ( ५।२।२ ) ढगित्येतावाद्यन्ती प्राप्नुतः । नैष दोषः । पुरस्तादपवादा अनन्तरान् बाधन्ते नोत्तरानिति स्थाने योगत्वस्य वायमपवादो भविष्यति । न प्रत्ययपर- त्वस्य। अपर आह आद्यन्तावयवी। अवयवश्वावयविनमन्तरेण न सम्भव- तीत्यवयविनमाक्षिप्य तौ प्रवर्तते । ततश्चावयवावयविसम्बन्ध यस्यादिरन्तो वावयवी विधीयत मोऽवयवी षष्ठया निर्दष्टव्य इति सामादवयवषष्ठया निर्दिष्टस्येति विज्ञायते । नचैवं गापो ष्टक ( ३।२।८ )। व्रीहिशाल्योढ गि ( ५।२।२ ) त्ये तो प्रत्ययावाद्यन्ती प्राप्तः। यस्मादिह सामर्थ्यादवयवसम्बन्धे तया निर्दिष्टस्येत्येषोऽर्थ उपजातः । नच गापोष्टगित्यादी ( ३।२।८) प्रकृतयोऽवयवषष्ठया निर्दिष्टाः। किं तर्हि ? सुपां सुपो भवन्तीति पञ्चम्यर्थ या षष्ठी तयेति । भीषयत इति। त्रिभी भये । हेतुमस्सिच् । भियो हेतुभये ( ७।३।४० षुक् । भीस्मोई तुभय ( १।३।६८ ) इत्यात्मनेपदम् । या षष्ठी नात्रा- ४७। मिदचोत्यात् परः । अत्र यद्यच इत्येषा पञ्चमी स्यादन्त्यादित्य नया पञ्चम्या समानाधिकरणलं स्यात् । ततो नपुंसकस्य ७।१।७२ : झलच इति नुमीहेवान्त्यादच: पर: स्यात् कुण्डानीति। अम्ति ह्यत्र नपुंसकस्यान्तयोऽच् । पयांसोत्यत्र तु न स्यात् । अलोऽन्तास्येति ( १।१।५२ ) सकारम्यैव तु स्थाने स्यात् । जन्यः । किं तर्हि ? सकारः । तस्मानिर्धारण षष्ठीयमिति दर्शयन्नाह अचामित्यादि । जातो बहुवचनम् । सूत्रेऽप्यच इत्येकवचनं जातादेव । यदि तर्हि निर्धारणषष्ठीयम् अन्त्यस्या विशेषितत्वादविशेषेण यत; कुतश्चिदन्त्यात् परो मित् स्यात् । नहि द्वितीयमग्रहणमस्ति येनान्तयो विशेष्यते । नैष दोषः । समानजातीयस्यैव हि लोके निर्धारणप्रतीति भवति । तथाहि कृष्णा गवां मम्पनक्षीरतमेत्युक्ते गौरव प्रतीयते । नाजा नाप्यश्वा । तम्मादि- (११)। हाप्यचां मध्ये ऽन्तपादचोऽवधेरित्यन्तात्वेन निर्धार्यमाण: समानजाती- योऽजेव प्रतीयते। तेनाच एवान्तपात् परो भविष्यति । स्थानयोगित्व प्रत्ययपरत्वापवादार्थञ्चेदमारब्धम् । तत्र स्थानेयोगित्वापवादाथं शे मुचादीनां (७।१।५८) नुम् भवति। मुञ्चति । नपुंसकस्य (७।१।७२) झलचः । पयांसि । प्रत्ययपरत्वापवादाथं रुधादिभ्यः श्रम् ( २।१।७८) । रुणद्धि। ननु च पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरानिति स्थानयोगित्वस्यै- वापवादो युज्यते । नतु प्रत्ययपरत्वस्य । नेतदस्ति । एवं हि नमो मित्करण मनवकाशत्वादनर्थकं स्यात्। श्रवणार्थत्वान्नानर्थकमिति चेत् ? न। टणह इमिति ७।३।२) निर्देशात् । श्रवणार्थ ह्यतम स्तृणम् ह इमति निर्देश: स्यात् । तस्मात् प्रत्ययपरत्वस्या पवादो युक्तः । यद्येवं तन्मध्यपतित स्तद्ग्रहणीन गृह्यत इति प्रकृत्यन्तःपातिन स्तदुग्रहणेन ग्रहलादपरत्वाच्च श्रमः प्रत्ययसंज्ञा न स्यात्। तथाच लश । १।३।८) कतद्धित इति प्रत्ययादेः शकारस्य विधीयमानत्संज्ञा न स्यात् । नैष दोषः । प्रत्ययाधिकारी विधीयमानत्वात् प्रत्ययसंज्ञा भविष्यति सत्यप्यपरत्वे सत्यपि प्रकत्यन्तःपातित्व । यथा बहु- जकचोरन्तोदात्तत्वम् । बहुपटव उच्चकै रित्यनयो रसति परत्वे सत्यां प्रत्यय- संज्ञायां चित । ६।१।१६३ । इत्यन्तोदात्तत्वं भवत्येव । मम्जेरिल्यादि। नकारस्योपधाया अनुषङ्ग इति पूर्वाचार्य : संज्ञा कृता । टुमम्जो शुद्धावित्यस्य मजिनशोभलीति (७।१।६० ) नुमं वक्ष्यति । स च यद्यचोऽन्तयात् पर: स्यात् स्कोः संयोगाद्योरिति । ८।२।२८ मकारस्यानिदितामिति (६।४।२४) नकारस्य च लोपो न स्यात् । यथाक्रम मनादित्वादनुपधत्वाच्च । तस्माद- न्याज्जकारात पूर्वी जकारसकारयो मध्ये नुम् कर्तव्यः । यथाचान्तपात् पूर्वी लभ्यत तथा सप्तमे वक्ष्यते । मग्न इति । ओदितश्चेति । ८।२।४५) निष्ठानत्वम् । तस्यासिद्धत्वाच् चोः कुरिति (८।२।३० ) कुत्वं जकारस्य गकारः । मङ्क्तेति । अत्र पूर्ववद् गकार कृते तस्य खरि चेति ( ८18 ५५ ) चरत्वं ककारः । नश्वापदान्तस्य ( ८।३।२४ ) अलीत्यनुस्वारः । अनुस्वारस्य ययि परसवर्णी (८।४।५८) कारः । पूर्वभक्तचायं मिद वेदितव्यः । अन्यथा वहाभे लिह ( ३।२।२२ । इति लिहः खशि कृत कषिदजन्तस्येति ८२ न्यासः । ( ६।३।६७ मुमि कृते वहलिह इत्यत्र मोऽनुखार ( ८।३।२७) इति पदान्तस्य विधीयमानोऽनुस्वारो न स्यात् । अपदान्तत्वात्। ४८॥ एच दूग घ्रस्खादेशे। परिभाषय मादेश नियमार्था हखो ( १।२।४७) नपुंसके प्रातिपदि- कस्येत्यादावुपतिष्ठते। इहेम एचोऽवयवसमाहारवर्णाः । तत्र ए ऐ इत्येतयोः पूर्वी भागो वर्णसमानाकृतिः कण्यो मात्रात्मा। उत्तरस्त्विवर्णसमानाकृति त्राव तालव्यः । अतएव ए ऐ कण्ठतालव्याविति शिक्षाकाराः पठन्ति । सदवयवयोः कण्ठ तालव्यत्वात्। ओ औ इत्येतयोः पूर्वी भाग स्तादृश एव यादृश एकारकारयोः । उत्तरस्तूवर्णसमानाक्कतिर्माविक ओष्ठयः । अत- एव ो ौ कण्ठोष्ठयाविति शिक्षाकाराः पठन्ति। तदवयवयोः कण्ठोष्ठात्वात्। समुदायात्मनामेचां समुदयान्तरतमो इस्त्रो नास्तीति तदवयवस्य योऽन्तरतमस्तेनैव युनं भवितुम् । स पुन रकार इकार उकारो वा | तत्र एकारैकारयो ईस्वो विधीयमानः कदाचिदकार: स्यात् कदाचिदिकारः । ओकारौकारयोरपि कदाचिदकार: स्यात् कदाचिदुकारः। इकारोकारावेव यथायोगं यथा स्यातां कदाचिदण्यकारी मा भूदित्येवमर्थ मिदमार- भ्यते । अत्र यद्यप्येचामिकां साम्यं तथापि संख्यातानुदेशो न भवति । यस्माबेदं विधायकम् । किं तर्हि ? नियामकम् । प्राप्तिपूर्वकश्च नियम इति ये प्राप्ता अन्तरतमा इक एचो इवा स्तेषामनेन नियमः क्रियते । प्राप्ता कारलकाराविति कुतो यथासंख्यत्वम् ? यद्येवमिमित्येव वक्ताव्यम् । नविगिति। सत्यमेतत् । किन्त्ववमुच्यमाने संदेहः स्यात् किं पूर्वेण णकारण प्रत्याहार उत परणेति । तस्मादसन्देहार्थमिगित्युक्तम् । अतिरि । अतिविति। रायमतिक्रान्तं नावमतिक्रान्तं ब्राह्मणकुलम् । प्रत्यादयः कान्ताद्यर्थे द्वितीययेति कुगतीत्यादिना ( २।२।१८) समासः। परवल्लिङ्ग इन्छ ( २।४।१६ ) तत्पुरुषयोरिति पुंलिङ्ग स्त्रीलिङ्ग च प्राप्ते हिगुप्राप्तापवाल- पूर्वगतिसमासेषु (२।४।१६ वा) प्रतिषेध इति प्रतिषेधे नपुंसकस्य ब्राह्मणकुल- ?

८३ (१११)। स्थाभिधेयत्वादभिधेयवलिङ्गवचनानि भवन्तीति तलिङ्गमेव भवति। खो नपुंसके प्रातिपादिकस्येति ( १।२।४७) खः । इक् कण्ठतालव्यस्यैकारस्य तालव्य इकारो भवति। कण्ठोष्ठास्यौकारस्यौष्ठा उकारः। उपग्विति । गोः समीपमिति । अव्ययं ( २।१।६ ) विभक्तीत्यादिना सामीप्येऽव्ययीभावः । गोस्त्रियोरुपसर्जनस्येति ( १।२।४८) हवः । कण्ठोष्ठयोकारस्यौष्ठा उकारः । एकारस्य तूदाहरणम् । हे इतीमं शब्दमतिकान्तं ब्राह्मणकुलमतिहि । अतिखट इति । पूर्ववत् प्रादिसमासे कृते गोस्त्रियोरुपसर्जनस्येत्येवमादिना ( ११२।४८) इखो ऽकार एव भवत्यन्तरतमः । देवदत्तेति । अनामन्वि- तस्यादेख्दातादेश (६ १।१८८) कर्तव्ये देवदत्त इत्यत्र च गुरोरनृतोऽनन्तास्ये- त्यादिना ( ८।२।८६ ) प्लुतादेशे कर्तव्य इङ् न भवति । ४६। षष्ठौ स्थानेयोगा। योगनियमार्थेति । योगनियमः सम्बन्धनियमः । सोऽर्थः प्रयोजनं यस्याः सा तथोक्ता। यदि योगनियमार्थयं शास्त्रे या षष्ठी सा स्थानयोगव भवति । नान्ययोगेति । एवं सत्यूदुपधाया गोह (६:४.८८) इत्येषापि षष्ठी स्थानयोगैव स्यात् । नावयवावयविसम्बन्धयोगा । ततशालोऽन्तास्येति (१।१।५२) स्थानषष्ठया अन्तेयप्युपसंहाराद गोहश्चान्तस्य हकारस्य ऊकारः स्यात्। उपधायाश्चेति- वचना दुपधामात्रस्य चेत्यत आह इह शास्त्रे या षष्ठयनियतयोगत्यादि । अनियमप्रसङ्ग नियमोऽनया क्रियते । क चानियमप्रसङ्गः ? यत्र सन्देहः । यथास्तेभूरिति । अत्र हि किमस्ते: स्थान पाहोखिदनन्तर इति सन्देहः । तूपधाया अवयवलक्षणस्य स्थानिनो विशिष्टावयविनो व्यवच्छित्रत्वाद- बयवषष्ठेवियमिति निश्चितम् । ततो नावास्या व्यापारः । स्थाने योगैवेति । स्थान इति निमित्तसप्तमी। योगः सम्बन्धः । तेनेदमुक्तं भवति । स्थाननिमित्तक सम्बन्धैवेति । एतदेव विस्पष्टीकुर्ववाह स्थान योगनिमित्त इत्यादि। स्थाने योगस्य निमित्तभूत निमित्तत्वं प्राप्ते सति सा वेदितव्या। मूतशब्दो छत्र प्राप्तशब्दे वर्तते यथा देवभूत इत्यत्र देवत्वं प्राप्त इत्यर्थः । निमित्तग्रहणं कुर्वन् सूत्रे स्थाने योगेति निमित्तसप्तमीयमिति दर्शयति । योग: पुन- ८४ न्यासः । । रिह स्थान्यादशभावलक्षणः । कुत एतत् ? तस्यैव स्थानिहेतुत्वात् । स्थान- शब्दो भावसाधनः । स्थितिः स्थानम् । तत् पुनस्त्रिधा। अपकर्षी निवृत्ति: प्रसङ्गश्चेति । गोस्थानऽश्वो बध्यतामित्यपकर्षः स्थानशब्दस्यास्थेयः । श्लेष्मण: स्थाने कटकमाषधमित्यत्र निवृत्तिः । दर्भाणां स्थाने शरैरास्तरितव्यमिति प्रसङ्गः । तत्राद्यावाविह न सम्भवत: । नित्य वाच्छब्दार्थसम्बन्ध स्य प्रथमो न संभवति । सामान्येनास्तेरुपदेशान्न द्वितीयः । तस्मात् दृतीय एवार्थ इति मत्वाह स्थानशब्दश्चेत्यादि । चशब्दोऽवधारण भित्रक्रमः प्रसङ्गवाचीत्यस्या- नन्तरं द्रष्टव्यः । तदेतदुक्तं भवति । स्थानशब्दः प्रसङ्गवाच्येवेति । प्रसङ्ग- स्त्वर्थ क्रियानिमित्तभूतस्य कालस्यावसरः । अस्ते: स्थाने प्रसङ्ग इति। अम्तेर्या क्रिया स्वार्थप्रतिपादनलक्षणा तस्या निमित्तभूतस्य कालम्यावसरः प्राप्त इत्यर्थः । प्रसङ्ग सम्बन्धस्य निमित्तभूत इत्यादिना सूत्रार्थस्योदाहरण संभवं दर्शयति । ब्रुव इति चोपलक्षणमात्रम् । अस्ते रित्यादेरपि हि षष्ठी प्रसङ्ग एव सम्बन्धस्य निमित्तभाव उत्पन्ना । के पुनर्बहवः षष्ठार्थाः ? यतः सम्बन्धान्तरविषयव्यवच्छे दनाथं षष्टया इदमुच्यत इत्याह बहवो हीत्यादि। शब्दे हि समीपानन्तरविकारावयवादिनिमित्ता: सम्बन्धाः सन्ति । पत्यापत्यवत्प्रभृतय इत्यतो यावन्तः शन्ने सम्भवन्तीत्याह । अय स्थान योग इति किमसमासोऽथ समासः ? यद्यसमाम स्तदा योगशब्दस्य पुंलिङ्ग त्वात् स्त्रीलिङ्गेन निर्देशः षष्ठीगक्रेन च सामानाधिकरण्यं न प्राप्नोति। योगस्या- षष्ठीत्वात् । अतः समाम: किं तत्पुरुषः ? आहोस्विद् बहुव्रीहिः ? यदि तत्पुरुष स्ती च पूर्वोक्ता दोषौ स्याताम् । सप्तम्या लुकप्रमङ्गश्च । बहुव्रीहिः ? एवमपि लुक्प्रमङ्गोऽत्रानिवार्य एवेत्यत आह षष्ठीस्थाने योगे- त्यादि । गतार्थम् । नत्व- अथ ५० । स्थानान्तरतमः । परिभाषेयमादेशनियमार्था । स्थान प्राप्यमाणानामिति । एतेन नेदं विधायकं वाक्यं किं तर्हि ? लक्षणान्तरण प्राप्तानामनन्तरतमानामितरेषाञ्च योऽन्तरतमः म एव भवतीति नियमार्थमिति दर्शयति । विधायकत्वे हि दधि- ( १।१ )। -- मध्वित्यादावपि प्रसज्यते । किं पुनरवानिष्टम् ? यावतान्तरतम्याद दधिमधु- शब्दयोस्तावेवादेशी भविष्यतः। तयोरप्यादेशयोरन्यौ दधिमधुशब्दो यावादेशौ स्यातां तयोरप्यन्या वित्येवमपरिममाप्तादेशपरम्पराविधानादनवस्था स्यात् । ततश्चार्थ प्रत्यायन प्रति शब्दानां विनियोगो न स्यात् । अन्वा व्यायक- स्य शास्त्रस्य प्रवृत्त्यनुपरमात् । शास्त्रोपरतौ ह्यन्वाख्यातास्ते प्रयुज्यन्ते । नान्यथेत्यनिष्टम् । ननुच सकृत्प्रवृत्ती लक्षणस्य चरितार्थत्वात् पुनः प्रवृत्तिन भविष्यति । नेतदस्ति । यत्र हि प्रयोजनार्था प्रवत्तिस्त व तदुक्तम् । इह पुनरकस्मादन्तरतमो विधीयत इत्यनुपरवाय प्रवृत्तिः । नियाम- कत्वेऽप्यम्य यदीदं विहितानां नियम कुव्यादनथ कमेव वचनं स्यात् । यो हि भुक्तवन्तं ब्रूयान्मा भुङ्क्ष्वेति किं तस्य तेन कृतं स्यात् ? तम्मात् प्राप्यमाणावस्थायामेव वाक्यान्तर: मह संहत्यानन कायं निवत्यंत । तदेक- देशभूतत्वादस्य । महशतम इति । अन्तरतमशब्दम्यायं कथयति অর্থন इत्यादि। वतण्डादात् स्त्रियामपत्यार्थ वतण्डान्चेति । ४।१।१०८) यञ् । तस्य लुक् स्त्रियामिति ( ४।१।१०८. ) लुम् । शाङ्गरवाद्यत्रो (४।१।७३ । डीन् । यस्य ति । ६।४।१४८ । चेत्यकारलोपः । वतण्डी चामौ युवतिश्चेति पोटायुवतीत्यादिना (२।१।६५' ममामः । तत्रानन पुंवत् कम्मधारयेत्यादिना । ६।३।४२ । पुंवद्भाव कर्तव्ये सर्वः पुंशब्द: प्रमक्त: । तत्रानन वतगडा- पत्यार्थस्य वतण्डीशन्द स्यार्थतोऽन्तरतमो वतण्डापत्यार्थ एव वातण्डाशब्दो भवति। पाक इत्यादी भाव घत्र । चकारस्येत्यादि। वर्गाणां प्रथमा अल्पप्राणा इति चकारक कारावल्पप्राणी। वर्गाणां प्रथमद्वितीया: शषस विसर्जनीयजिह्वामूलीयोपभानीया यमौ च प्रथम द्वितीयो विकृतकण्ठाः खासानुप्रदाना अघोषा इत्य घोपी। जकारस्य त्यादि । वर्गाणां टतीयचतुर्था अन्तःस्था हकारानुम्वारी यमा च द्वितीयचतुथौँ नामिक्याच मंतक गठा नादानप्रदाना घोषवन्त इति जकारगकारी घोषवन्तो। वर्गाणां हतीया अन्तःस्थाचाल्पप्रागा: इतर सर्व महाप्रागा इत्यल्पनागी अमुष्मै । अमूभ्या- मिति । अदस श्चतुर्य कवच ने भ्यामि च परत स्त्य दाद्यत्वम् (७।२।१०२) । अतो गुणे (६।१।८७) पररूपवम् । मर्वनाम्नः (७।१।१४ रमाइति स्मैभावः । भ्यामि ) - न्यामः। सुपि चेति (७।३।१०२) दीर्घः । ततो स्वस्य स्ख उकारो भवति । दीर्घस्य दीर्घः। स्थाने इति वर्तमान इति। प्रकृतो हि स्थानशब्दः प्रसङ्गवाची। तदनुहत्ती स्थान प्राप्यमाणानामन्तरतमो भवतीत्येषो ऽर्थी लभ्यते । ननु च यतानेकमान्तयं तत्र तावादिस्थानत एवान्तर्यस्य बलीयस्त्वम् । तस्मात् तद् यथा स्यादिति पुनस्ताल्वादिस्थानवाचिनः स्थानशब्दस्योपादानं क्रियते । यद्येवं स्थानक्कतमवेहान्तयं विशिष्टमुपासमिति प्रमाणादिक्कतं परित्यक्तं स्यात् । नैष दोषः । वाक्यभेदं हि कृत्वा तत्र सम्बन्धः क्रियते । स्थान प्राप्यमाणानाम- सरतम आदेशो भवति । स्थाने च भवतीति पूर्वत्र वाक्य प्रसङ्गवाची स्थानशब्दः । उत्तरत्र तु तावादिस्थानवाची एवं वाक्यभेदेन सम्बन्धी सति पूर्वस्मिन् वाक्ये स्थानादिकतानामान्तर्याणां परिग्रहः प्रतीयते । द्वितीये तु तेषामेव वलावलवत्त्वम् । स्थान इति च निमित्तसप्तमी। तेनेद- मुक्तं भवति । यत्रानेकमान्तयं तत्र स्थानेन निमित्तेन योऽन्तरतमः स एव भवति। वाक्यभेदस्य च तमब्ग्रहणं लिङ्गम् । सादृश्ये प्रकर्षों हि तेन प्रतिपादयितुमिष्टः । स चानकस्मिन् सादृश्ये सति सादृश्यान्सरापेक्षया भवति । एकवाक्यतायाञ्च स्थानग्रहणेन सादृश्यान्तरे निरस्ते किमपेक्षया सादृश्यप्रकर्षः स्थात् ? तस्मात् तमन्ग्रहणाद वाक्यभेदोऽनुमीयते । अन्यथा हि तस्य वैयर्थ स्यात् । चेतेति । अत्रेकारस्य तालव्यत्वादेकारस्य कण्ठ ताल व्यत्वात् स्थानत पान्तर्यम् । इकाराकारयोस्तु प्रमाणतो इयोरपि मात्रिकत्वात्। स्तोतति । प्रत्राप्युकारस्यौष्ठयत्वादोकारस्य कयौष्ठयत्वात् स्थानत प्रान्तर्यम् । उकारा- कारयोस्तु प्रमाणत: पूर्ववत् । तत्रासति पुनः स्थानग्रहणे प्रमाणत प्रान्तर्यात् कदाचिदकारो गुण: स्यात् । स्थानत प्रान्तर्यात् कदाचिदेकारीकारौ। पुनः स्थानग्रहणात् तु स्थानवतस्यान्तर्यस्य बलीयस्त्वादेकारौकारी एव भवतः । न कदाचिदकारः। सोमण: सोभाण इतीत्यादि। इतिकरणो हेतौ । यस्मात् सोमाणो द्वितीयास्तस्मात् सोमणो हकारस्य द्वितीयाः प्रसक्ता इत्यर्थः । एवं नादवतो नादवन्त इत्यादी वाक्य हेत्वर्थी योज्यः । शादय सस्थानेन द्वितीया हकारेण चतुर्था इति शिक्षा। पत्र शादय जमाण इति पचनेन हकारस्य सोमत्वं प्रतिपादितम् । सस्थानेन द्वितीया इत्यनेन जमाण:

यथा ( ११)। तु वर्गद्वितीयानां खकारादीनां । हकारण चतुर्था इत्यनेनापि वर्गचतुर्थानां घकारादीनां समानं स्थानं यस्य स सस्थानः । सस्थानेनेति । इत्थम्भूत- लक्षणे वतीया । सस्थानेन द्वितीया अपतया लक्ष्यन्ते । एतदुक्तं भवति । सस्थान एवैषामूभा एवमेतेऽपि वर्गाणां द्वितीया अमाण इति । अथवा तुल्यार्थयोग एषा तृतीया । तुल्यशब्दस्त्वध्याहार्यः । तुल्यत्वमूणतया वेदितव्यम् । तत्र खकारस्य सस्थानो हकारः । छकारस्य शकारः । ठकारस्य थकारस्य सकारः ! फकारस्य सस्थान अष्पा नास्ति । तस्मात् तस्यापि विशेषेणोष्मत्व वेदितव्यम् । चतुर्था इति । इहापि टतीयेत्थम्भू तलक्षी तुल्यार्थयोग वा । हकारेगा चतुर्था जमतया लक्ष्यन्ते । तत्सदृशत्वात् । तेन यथा हकार ऊष्मा एवं तेऽपीत्यर्थ: । नादवत इत्यादि। वर्गाणां टतोयचतुर्थ इत्यादिना पूर्वोक्तेन ग्रन्थेन तृतीयानां हकारस्य नादवत्त्व- मुक्तम् । ये सोमाणो नादवन्तश्चेति । सोमत्वं हकारस्य शादय ऊष्माण इत्यनेनाख्यातम् । चतुर्थानां तु हकारेण चतुर्था इत्यनेन नादवत्त्वम् । उभयेषां वर्गाणां टतीयचतुर्था इत्यादिनैव पूर्वोक्तेन । षकारः । हकारण ५१ । उरण रपरः ! अत्र त्रयः पक्षाः सम्भवन्ति । उ: स्थानेऽग रपरत्वञ्चानेनोभयं विधीयत दूत्येकः पक्षः । लक्षणान्तरेण विहितस्याण उ:स्थाने पश्चादनेन रपरत्वमावं क्रियत इति द्वितीयः पक्षः । उ:स्थाने लक्षणान्तरण विधीयमानोऽण विधान- काल एव तेन लक्षणान्तरेण सह संहत्य रपरत्वविशिष्टोऽनेन भाव्यत इति तृतीयः । तत्र यद्याद्यः पक्ष आश्रीयत ऋकारस्य स्थान उदात्तादयो न स्युः । अनेन बाधितत्वात् । कतिरित्यत्र जित्यादिनित्यमित्याद्युदात्तो (६।१।१८७) न स्यात् । प्रकतमित्यत्र पूर्वपदस्यादुधदात्तस्य गतिरनन्तर ( ६।२।४८) इति प्रकृतिवर कृतेऽनुदात्तं (६।१।१५८) पदमेकवर्जमित्यनुदात्तो न स्यात् । उदात्तानुदात्तस्य (८।४।६६) स्वरित इति स्वरितश्च । यद्यचः स्थान उदात्तादयो विधीयन्ते तथापि तेषा मन्योऽजवकाश इति ऋवर्णस्थाने प्रति- पदोक्तोऽणत रपरः स्यात् । ये चाप्यन्य ऋवर्णस्थाने प्रतिपदमादेशा जयन्त १३ न्यासः । ऋत (७।१।१००) इद् धातोरित्येवमादिभिर्लक्षणान्तरैस्सेषु रपरत्वं न स्यात् । ततश्च किरतीत्यादि न सिध्येत् । अथ द्वितीयः पक्ष आधीयते तरतेस्तृजादौ गुणो विधीयमानः प्रमाणत आन्तरतम्याद दीर्घस्य दीर्घ एव स्यात् । तथाच तरितेत्यादि न सिध्येत् । किञ्च खुलादौ वृद्धी विधीय- मानायामकारस्य केनचिद् हद्धिसंजनान्तरतम्यविशेषो नास्तीति सर्वे वृद्धि- संज्ञकाः पर्यायेण प्रसज्येरन् । तथाच पक्षे नायकः स्तावक इत्याद्यप्यनिष्ट रूपं स्यात् । इत्येवमाद्ययोः पक्षयोर्दीषवत्तां दृष्ट्वा तीयं पक्षमाश्रित्याह उ:स्थानेऽण प्रसज्यमान एवेत्यादि। एतेन लक्षणान्तरेण विधीयमानस्याणो विधानकाल एव तेन सह संहत्य रपरत्वविशिष्टस्य विधावियं परिभाषा व्याप्रियत इति दर्शयति । एतच्च स्थानहयग्रहणस्यात्रानुवृत्ते भ्यते । पूर्वकेण हि स्थानग्रहणनेहानुवृत्तावु: स्थान इत्येतदर्थ रूपं लभ्यते। हितोयेन तु प्रसज्यमान इत्येतत् । तथाहि यदिह स्थानग्रहणं सप्तम्यन्तं प्रकृतमनुवर्तमान तत् सामर्थ्यात् प्रथमान्तं सम्पद्यते । स्थानशब्दश्चायं प्रसङ्गवाची । ततश्च यदा स्थानेनाण विशिष्यते ऽण स्थानमिति तदाण प्रसज्यमान एवेत्येषोऽर्थों जायते । प्रसज्यमान इति । प्रसङ्गेनाभिसम्बध्यमान इति यावत् । अवधारणं पुनरत्र व्यवच्छेदफलत्वेन सर्ववाक्यानां सावधारणत्वालभ्यते । कथं पुनरण स्थानं भवति ? नैव हि स स्थानं भवति। तद्योगात्तु तत्र स्थान- व्यपदेशो भवति । यथा यष्टीः प्रवेशयेति यष्टियोगात् पुरुषाणां व्यपदेशः । ननु च स्थानऽन्तरतम इत्यत्र ताल्वादिस्थानवचन: स्थानशब्द उपात्तः । तत् कथं तदनुवृत्तावपि प्रसज्यमान इत्येषोऽर्थी लभ्यते ? नैष दोषः । खरितत्वचिहासङ्गादि यो यत्रोपतिष्ठते स तत्र सामर्थ्यात् तत्कार्ययोग्यस्यै- वार्थस्याभिधाता सन्नुपतिष्ठते । तेन यद्यपि पूर्वसूत्रे स्थानशब्दस्ता ल्वादि स्थानवचनस्तथापीहोपतिष्ठमान: प्रसङ्गवचन एवोपतिष्ठते । तदेवं यस्मानेदं खतन्त्रमणो रपरत्वविशिष्टस्य च विधायकं तस्मादाद्य पक्षे यो दोषः स इह न भवति । ततश्च लक्षणान्तरेण विहितस्याण: पश्चादनेन रपरत्व न विधीयते । किं तहि? प्रसज्यमान एवाण लक्षणान्तरेण तत्सहायं प्रतिपद्य रपरो भाव्यते । तेन द्वितीये पक्षे यो दोषः सोऽप्यस्मिन भवत्येव । एवेति ।

८८ - । ( १११)। प्रसज्यमानस्यैव हि रपरत्वविधौ यथा ऋवर्णों रश्रुतिमान् एवमादेशोऽपि रथुतिमानेव भवति । ततश्चान्तरतम्याट्टकारस्य रश्रुतिमतस्तादृशएव रश्रुति- मानादेशो भवति । अन्य गुणवृद्धिसंज्ञका व्यावर्तिता भवन्ति । यदि तर्हि प्रसज्यमानएव रपरो भवत्यनेकालत्वात् सर्वादेशः प्रसज्येत। नैष दोषः । यदयं तरतीति (४.४५) निर्देशं करोति ततो जायते सर्वादेशो न भवतीति । कर्ता हर्तेति । डुक्क करणे । हृञ् हरणे । आभ्यां ण्वुल्चाविति ( ३।१।१३३ ) हृच् । सार्वधातुकार्डधातुकयोरिति ( ७।३।८४) गुणः । अचो रहाभ्यामिति ( ८।४।४६ ) हित्वम् । किरति । गिरतीति । कृ विक्षेप निगरण । प्राभ्यां लट् । शेषात् कर्तरि ( १३७८ ) परस्मैपदमिति तिप् । तुदादित्वाच्छः । ऋत (७.१।१००) इद धातोरितीत्त्वम् । दैमातुर स्वैमातुर इति । द्वयोर्मात्रीरपत्य तिमृणां मातृणामपत्यमिति । मातुरुत् संख्यासंभद्रपूर्वाया ( ४।१।११५ ) इत्यण । उकारश्चान्तादेशः । तद्धितष्य- चामादेरिति (७२।११७) वृद्धिः । खेयमिति। ई च खन (३।१।११) इति क्यप् । ईकारश्चान्तादेशः । आद् गुण: ( ६।१।८७) । सोधातकिरिति । सुधातुरकङ् ( ४।१।८७ ) चे तीञ् । तत्संयोगेनाकडादेशः क्रियमाणो रपरी न भवति । अनणत्वात् । अथ योऽत्राण स रपरः कस्मान भवति ? अनादेशत्वात् । समुदायो यत्रादेशो न तदवयवः । अथेह कथं रपरत्वम् ? खट्वा ऋश्यः खट्वर्ण्य इति ? नायमृकारस्य स्थानेऽण् । किन्तु तस्यान्यस्य च । नैष दोषः । यो हि हयोः षष्ठीनिर्दिष्टयोः स्थान भवति लभते सोऽन्यतरव्यपदेशम् । यथा देवदत्तस्य पुत्वो देवदत्तायाः पुत्र इति । यावता ५२। अलोऽन्तास्य। अल्ग्रहणमन्तास्य विशेषणम् । नादेशस्य । अन्यथा घलन्तास्येत्येवं ब्रूयात् । प्रादेशः पुनरत्रैकालभ्यते । अन्यस्यानकाशित सर्वस्य ति (१.१।५५) सर्वादेशतां वक्ष्यति । षष्ठीनिर्दिष्टस्येति । सामान्यवचनेऽपि षष्ठी स्थानयोगत्यधि- कारात् स्थानषष्ठया निर्दिष्टस्येति वेदितव्यम् । अन्यथा टिकिन्मितो- ऽप्यवयवसम्बन्धषष्ठीनिर्दिष्टा विधीयमाना अन्तास्य स्युः । इद् गोण्या (१२।५०) न्यासः । इति। येयं षष्ठी सान्तामलं नीयते । अन्तास्याल रत्त्वमिति । पञ्चगोणि रिति । पञ्चभिर्गोणीभिः क्रीत इति तडितात्तिरपदसमाहारे चेति ( २११५१) समासः । तेन क्रोतमिति ( ५।१।३७ ) प्राग् वहतेष्ठक (४।४।१)। अध्यईपूर्व- हिगोलुंगसंज्ञायामिति (५।१।२८ ) तस्य लुक्। यद्यलोऽन्तास्य षष्ठीनिर्दिष्ट- स्थादेशो भवतोदोऽय पंसोत्यत (७२।१११ ) इद इत्यनुवृत्ते हलि लोपो ( ७।२।११३ ) विधीयमान इद्रूपस्य योऽन्ता स्तस्य स्यात् । तथाच आभ्यामिति न सिध्येत् । नैष दोषः । নানন্দৰীনাবিধিবনগ্রামৰিাৰঘিনি परिभाषया न भविष्यति । ५३ । डिच्च। होतापोताराविति । होटपोटशब्दयोईन्दः । आनङ् । औप्रत्यये परत ऋतो डिसर्जनामस्थानयोरिति (७।३।११०) गुणः । रपरत्वञ्च । अपट ( ६।४।११) स्तृजित्यादिना दीर्घः । मातापितराविति । पिता मात्रेति ( १।२।७० ) यस्मिन् पक्ष एकशेषो नास्ति तत्रेद मुदाहरणम् । यदि डिदादशोऽनकालप्यन्तास्य भवत्येवं सति तातडप्यन्तास्य भवतीत्यत आह तातडीत्यादि। तत्र गुणप्रतिषेधार्थञ्चिनुतादित्यादौ । अत्र हि सार्वधातुकल- क्षणस्य गुणस्य प्राप्तिः । हद्धिप्रतिषेधार्थ मृष्टादिति । अत्र हि मृजेईडिरिति ७२।११४ ) वृद्धिप्राप्तिः । तदेवं गुणवृद्धिप्रतिषेधे चरितार्थत्वात् तातडो डित्करणस्य सावकाशत्वे सति तस्मिन् परत्वादनेकाशित् (१।१।५५ ) सर्वस्येत्यनेन तातङ् सर्वादेशो भवति। डिच्चेत्यस्यावकाशो होतापोतारा- वित्यादि। अनेकालित्यादेरवकाशो यो न ङित् । अस्ते : ( २।४।५२ ) । भवितेत्यादि । जीवतादित्यादावुभयप्राप्ती परत्वादनेकालत्वात् तातङ् सर्वादेशो भवति। जीवताद् भवान् । जोवतात् त्वमिति । जीवतादिति । आशिषि लिङ लोटाविति (३।३।१७३ ) लोट् । तिप्। एरुः ( ३।४।१६ )। तुयो- स्तातङ् इत्यादिना ( ७१ ३५ ) तातङ । । ५४ । आदः परसा। अलोऽन्तास्थापवादोऽयम् । शास्त्रे न क्वचित् परस्येत्युच्चार्य काय विधीयते ।

( १।१ )। १०१ ततश्च निविषय मेतदित्यभिप्रायेणाह क चेत्यादि । यत्र पञ्चमीनिर्देश इति । तस्मादित्युत्तरस्येति ( १ ११६७ ) वचनाद् यत्र पञ्चमीनिर्देश स्तत्र परस्य कार्य शिष्यते । आसीन इति । आस उपवेशने । लट्। अनुदातेत्त्वादात्मनेपदम् । शानच् । अदादित्वाच्छपो लुक् । हीपमन्तरीपं समीपमिति। हिर्गता अन्तर्गताः सङ्गता आपोऽस्मिन्निति विगृह्य बहुव्रीहिः। ऋकपूरित्या दिना ५।४।७४ ) ऽकारप्रत्ययः समासान्तः । ५५। अनेकालशित् सर्वसा । शितः शकारानुबन्ध नानेकालत्वेऽपि शिदिति पृथक्करणं नानुबन्धक्कत- मनेकालत्वमिति जापनार्थम् । तस्य तु प्रयोजनं दिव (६।१।१३१ ) उदित्या- दिषु सर्वादशाभावः । ५६ । स्थानिवदादशोऽनलविधौ । स्थानं प्रसङ्गः । स च पूर्वमुक्तस्वरूपः । अतिदेशोऽनेकप्रकारः । निमि- त्तातिदेशः। व्यपदेशातिदेश: । शास्त्रातिदेश: । रूपातिदेशः । कार्याति- देशश्चेति । तत्र तावन्निमित्तमशक्यमतिदेष्टुम् । नहि धात्वादिधर्माः शब्दप्रवत्तिनिमित्तभूता धात्वादिव्यत्याश्रिता वस्त्वन्तरमादेशं प्रापयितुं पार्यन्ते । यथा ब्राह्मणवदम्मिन् क्षत्रिये वर्तितव्यमिति ब्राह्मणशब्दप्रत्ति- निमित्तं न शक्यं क्षत्रिये प्रापयितुम् । तहत् तस्मादशक्यत्वान् नेह निमित्ताति- देश आश्रीयते । नापि व्यपदेशातिदेशः। मंज्ञासंजिसम्बन्धादभिन्नत्वात् । संज्ञामंन्तिमम्बन्धे हि वत्करणस्यानर्थ क्यं स्यात् । विनापि तेन तसिद्धेः । अप्रधानत्वाच नात्र व्यपदेशातिदेशो युक्त आश्रयितुम् । देशो युक्त आश्रयितुम् । अतएव शास्त्राति- देशोऽपि । अप्रधानत्वं तु तयोरपि कायं प्रत्यङ्गभूतत्वात्। रूपातिदेश- स्याप्याश्रयणमयुक्तम् । निष्फलत्वात् । यदि ह्यादेशस्य स्थानिनो रूपमति- दिश्येतादेशस्य वैययं स्यात् । हिर्वचने (१ १।५८) ऽचीत्यत्र रूपातिदेशेऽपि न भवत्यादेशवैयर्थम्। हिर्वचनादुतरकालं श्रवणार्थत्वात् । तस्मादतिदेशा- तराश्रयणस्यायुक्तत्वात् कायातिदेश आधीयते । स्थानिना तुल्यं वर्तत इति । तत्तुल्यकार्यत्वात् । तेन तुल्य स्थान्याश्रयेष्विति । स्थानी आश्रय एषा न्यासः । मिति बहुव्रीहिः । अनलाश्रयेष्विति । अल आश्रय एषामिति बहुव्रीहिं कृत्वा न अलाश्रयाणि अनलाश्रयाणीति नसमासः। अनन्तरोक्तमेवार्थ विस्पष्टी- कर्तुमाह स्थान्य लाश्रयाणीत्यादि। स्थानी अल् आश्रयो येषां तानि तथोक्तानि आश्रय ग्रहणेन सूत्रे योऽविधिशब्दः सो ऽलाश्रयो विधिरल्विधिरित्युत्तरपद- लोपी समास इति दर्शयति । स पुनः समासो मयूरव्यंसकादित्वाद ( २।१:७२) वेदितव्यः । समानाधिकरणाधिकार (२।१।६०,वा) शाकपार्थि- वादीनामुपसंख्यानमुत्तरपदलोपश्चेत्यनेनेत्यपरे । एतच्चायुक्तम् । सूत्रप्रणयनका- लादाक्कालभावित्वादस्य वाक्यस्य (A: । तस्मान् मयूरव्यंसकादित्वात् समासं कृत्वा नसमासः कृतः । न अविधिरन विधिरिति । कः पुनरलायो विधिः ? यो वर्णमात्राश्रितः । यस्तु समुदायाश्रितः सोऽनलाश्रयः । कार्यशब्देन कर्मसाधनेन विधिशब्दस्यार्थमाचक्षाणो विधीयत इति विधिरिति तस्य कर्मसाधनत्वं दर्शयति । किमुदाहरणमिति प्रश्नः। धात्वाद्यादेशाः प्रयोजन- मित्युत्तरम् । प्रयुज्यतेऽनेनेति प्रयोजनम् । उदाहरणेन च प्रयुज्यत इति । अर्थात् प्रश्नानुरूपं प्रतिवचनम् । ननु चाईधातुके परतो भाव्यमादेशाभ्याम् । तत्र किमलादेशनेत्यत आह आर्धधातुके विषय इति । प्रकृत्येत्यादि । कुगतीत्यादिना ( २।२।१८) समास: । समासेऽनपूर्वे को ( ७।१।३७ ) ल्यप् । दाधिकमिति । दना संस्कृतमिति (४ ४।३) दनष्ठक । अद्यतनमिति । सायंचिरमित्यादिना ( ४।३।२३ ) ट्युप्रत्ययः । तुड़ागमश्च । योरनादेशः । अकुरुताम् । अकुरुतमिति । कञो लङ् । तस्थस्थमिपामित्यादिना तसस्ताम् ३।४:१०१)। थसस्तम् । तनादित्वात् तनादिकभ्य उ: ( ३१.७८ )। तोगुणः । अत उत् सार्वधातुके (६।४।११०)। ग्रामो वः स्वम् । जनपदो नः खमिति युभदस्मदा: षष्ठीबहुवचनस्य (८।१।२१) वस्नसाविति वस्नसादेशौ। वत्करणं किमिति ? विनापि तेन तदर्थों गम्यते ? यथाऽसंयोगालिट ( १ २।५ ) किदित्यादावित्यभिप्रायः । स्थानीत्यादि। प्रायेण ह्यस्मिन् पादे वृद्धिरादैजित्यादीनि ( १११ १) सूत्राणि संज्ञासंज्ञिसम्बन्धार्थान्येव दृष्टानि । अतोऽसति वत्करणे स्थान्यादेशस्य मंज्ञा विधीयत इति विज्ञायते । तदेवं मा (A) पनुत्सूत्रपदन्यासी न्यासकारी नाम नियतं वार्तिकप्रत्याखायो ।

(११)। १०३ । व्यावर्त्यते । ? विज्ञायीत्येवमथं वत्करणम् । किमर्थं पुनः स्थान्यादेशस्य संज्ञा नेष्यत इत्याह स्वाश्रयमपीत्यादि। मंज्ञा हि संजिप्रत्यायनार्था न स्वतः कार्य प्रतिपद्यते । अपि तु तत्प्रत्यायित: संज्ञीति । अत्र यदि स्थान्यादेशस्य संज्ञा स्यादादेशस्यैव हि संजिनः कायं स्यात् । न संज्ञाभूतस्य स्थानिनः । ततश्चाङो (१।३ २८) यमहन इति वधेरात्मनेपदं स्यात् । न हन्तेः । वत्करणे तु सत्यतिदेशोऽयं भवति । अतिदेशेन चान्यसम्वन्धिकार्यमन्यत्र सम्पाद्यते । न तु तत्र स्वाश्रयं- निवर्त्यते। तथाहि ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमित्यतिदेशे तद् ब्राह्मण- सम्बन्धि कार्य क्षत्रिये भाव्यते । नतु ब्राह्मण स्य यत् स्वाश्रयमग्रभोजनादि तद् खाश्रयमपीत्यपिशब्दादतिदेशप्रापितमादेश पराश्रितमपि । आहतेति । हन्तेर्लुङ् । हनः (१।२।१४) सिजिति कित्त्व म् । अनुदात्तोपदेशे- त्या दिना ( ६।४।३७ ) ऽनुनासिकलोपः । इखादङ्गादिति (८।२।२७) सिचः । आवधिष्टेति। आत्मनेपदेष्वन्यतरस्यामिति वधादेश: ( २।४।४ 3 )। इट् । अतो लोपः ( ६।४।४८)। षत्वष्टुले । आदेशग्रहणं किमिति ? स्थानीति सम्वन्धिशब्दोऽयम् । तत्र यथा पिटवत् स्थूल इत्युक्ते ऽन्तरेणाप्यत्र पुत्रग्रहणं सम्बन्धिशब्दत्वात् पुत्र इति गम्यते तथा स्थानिवदित्युक्त विनाप्यादेशग्रहणेन सम्बन्धिशब्दत्वादादेश एव स्थानिवद् भवतीति विज्ञायत इत्यभिप्रायः । आनुमानिकस्य त्यादि । अस्ते रित्यादौ (२।४ ५२) स्थानी अपि शब्देन साक्षात् प्रत्याय्यते। आदेशोऽपि । पचत्वित्यत्र स्थान्यप्यानुमानिक आदेशोऽपि। तथाहि एरुरित्यत्र (३।४।८६) न वस्तुत इकार एव स्थानी अपितु तिशब्दः । नाप्युकार- मात्र आदेशः किं तर्हि ? तुशब्दः । लाघवाथं तु तदेकदेशयोरिकारोकारयो रुच्चारणम् । तेनैकदेश हारेण समुदायस्य समुदाय एवादेशो विधीयते। तत्र यथा विषाणनैकदेशेनोपलब्धेन विषाणी समुदायोऽनुमीयते तथैकदेशेनेकारणो- कारण च तिशब्द स्तुशब्दश्च । अत्र च शास्त्र यस्य च क्रियाभिसम्बन्धः साक्षाच्छब्दादेव प्रतीयते यस्य च कुतश्चिदर्थप्रकरणादेरनुमीयते तयोः पूर्वस्य प्राधान्यमितरस्य विपर्यय इष्यते। तथाहि सहयुक्त ऽप्रधान ( २।३।१८) इत्यत्र वृत्तिकारः पुत्रेण सहागत इत्याद्युदाहृत्य वक्ष्यति पितुरत्र क्रियादिसम्बन्धः शब्देनोच्यते पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यमिति। प्रधानतरयोश्च १.४ न्यासः । सन्निधाने प्रधानस्यैव कार्येण संप्रत्ययो युक्तः । तथा चाह प्रधान कार्यसम्प्रत्य- यात् सिद्धमिति । अत्र हि यद्यादेश इति नोच्येत ततो य आदेशशब्देनोपादाय विधीयमानत्वात् प्राधान्यमनुभवति तस्यैव स्थानिवद्भावः स्यात् । नाप्रधानस्यानु- मानिकस्य । तस्मात् तस्यापि स्थानिवद्भावो यथा स्यादित्येवमर्थमादेशग्रहणम् । तेन पचत्वित्यादावपि सुतिङन्तं (१।४।१४) पदमिति पदसंज्ञा सिद्धा भवति । कुतः पुनरेतदवसोयते ? एरु (३।४।८६) रित्यनेनैकदेशद्वारेण तुशब्दः समुदायो विधीयते । न पुनर्यथा श्रुतमिकारमात्रस्योकारमानमेवेति । पचत्वित्यत्र पदसंज्ञा- कायौंपलब्धेः । तद्धि न विना पदसंज्ञया । सापि न विना तिङ्वभावेन । सोऽपि न विना समुदायादेशेनेति । तस्मिन् हि सति स्थानिवद्भावेन यत्नप्रतिपादि- तेन तिभावो लभ्यते । नान्यथेति गतमेतत् । अथानुमानिके गृहीते कथमि- तरस्य ग्रहणं लभ्यते ? एवं मन्यते । स्थानिवदित्येतावानेको योगः कर्तव्यः । एतेन योगनादेश: प्रधानभूतः सम्बन्धिशब्दत्वाल्लभ्यते । तत आदेश इति द्वितीयो योग आनुमानिक स्य स्थानिवद्भावाय। अत्र च स्थानिवदिति वर्तते। एवमुभयो: प्रत्यक्षानुमानशिष्टयोहणमुपपद्यते । अनल्विधाविति । योरपि योगयोः शेषभूतः । द्युपथित्यदादेश इत्यादि। दिव ओत (७।४।८४)। पथिमथ्यभुक्षामात् (७/१८५)। त्यदादीनाम (७।२।१०२) इत्येते हल्ड्याब्भ्य इति (६।१।६८ सुलोपे कर्तव्ये न स्थानिवद्भवन्ति। तस्य हलमात्रमाश्रित्य प्रत्तेः अलाश्रयत्वात् । । -- ५७। अंचः परस्मिन् पूर्वविधौ । किमर्थमिदमुच्यते ? अनल्विधौ स्थानिवद्भाव उक्तः । अविध्यर्थमिदम् । पटयतीत्यादौ यत उपधाया ( ७।२।१६) इति वृद्धिरलाश्रया। अकारस्यो- पधाया अल्त्वात् । तस्मात् पूर्वेण न प्राप्नोतीत्येके । अजादेश एव परनिमित्तक एव पूर्वविधावेव कर्तव्य स्थानिवद् भवतीति नियमार्थमित्यन्ये । स्थानिनिर्देश इति । अच इत्यनेन स्थानषष्ठवन्ततां दर्शयति । परस्मिविति । निमित्तसप्तमीति । न परसप्तमी। परशब्देनैव परस्योक्तवादित्यभिप्रायः । पूर्वविधाविति। विषय इति । प्रकतत्वात् स्थानिवद्भावय्येति गम्यते । पूर्वविधौ विषये स्थानिवद्भवति । नान्यस्मिनित्यर्थः । पूर्वस्य विधिः पूर्वविधिः । अच इति विधिशब्दश्चायं कम्मसाधनः । विधीयत इति विधिः । भावमाधनो वा । विधानं विधिरिति । कर्मसाधने ह्येतस्मिन् पूर्वस्येति शेषलक्षणा षष्ठी। पूर्वस्य व्यवस्थितस्य लब्धसत्ताकस्य सम्बन्धिनि कार्य कर्तव्य इत्यर्थः । भावसाधने तु पूर्वस्येति कदयोगलक्षणा कर्मणि षष्ठी। पूर्वस्यापरिनिष्यनस्य विधाने कर्तव्य इत्यर्थः । पूर्वस्मिन् विधातव्य इति यावत् । पूर्वत्वं पुनरिहा- देशापेक्षमजपेक्षं निमित्तापक्ष वा । एषामेवादेशादीनामिह सविधानात् । तत्रादेशः स्वरितत्वात् मविहितः। इतरयोस्त्वत्रव मूत्र उपादानात् । ननु च त्रिष्वप्येषु दोषः । तत् कथमादेशाद्यपेक्षया पूर्ववं शक्यमाश्रयितुम् ? आदेशापेक्षे हि पूर्वत्व पाश्रीयमाण पटयतीत्यादौ स्थानिवद्भावो न सिध्यति । लोपो हि तत्रादेशः । नच तेन पूर्वपरता सम्भवति । तस्याभावरूपत्वात् । स्यादेतत् ! लोपस्य यः स्थानी तदपेक्षया पौर्वापर्य्यमस्तीति तवारणा- देशापेक्षयाप्योपचारिकं तद् भविष्यतीति वार्तमेतत् । बहुवटुकादिषु मुख्य पौर्वापर्ये सत्यौपचारिककल्पनाया अयुक्त त्वात् । व्यक्तिः पदार्थ इत्यस्य दर्शनस्याश्रयणाददोषः । व्यक्ती हि पदार्थे प्रति लक्ष्य लक्षणं प्रवर्तते । यदि पटयतीत्यादिष्वौपचारिकत्वात् पौर्वापर्यस्य स्थानिवद्रावो न स्याद यदेतद्दिषयं लक्षणं तस्यानवकाशत्वाद् वैयर्थ स्यात् । अयं तर्हि दोषः। व्याकरणमधोते वैयाकरण: स्वश्वस्येदं सौवश्व मित्यत्र यो: स्थानिवद्भावा- देचोरायावी प्राप्तः । तस्मात् प्रथमस्तावत् पक्षो ऽयुक्तः । ऽयुक्तः। द्वितीये तु काममेष दोषो न भवति । तथाहि तत्र योऽचः पूर्वस्तस्य विधौ कर्तव्य स्थानिवद्भवतीत्येषः सूत्रार्थः । इह च न याभ्यां पदान्ताभ्यामिति ( ७।३।३ ) वचनात् प्रागवैजागमाद यणादेशन भवितव्यम् । तेन नास्त्येचोरजपेक्षं पूर्वत्व- मिति न भवति स्थानिवद्भावः । तदभावाद चोरायावावपि न प्राप्नुतः । किन्व- इत्येतदादेश विशेषणाथं षष्ठयन्तं प्रतिज्ञातम् । नतु पञ्चम्यन्तम् । तदा चाच: पूर्वस्येत्येष एवार्थी . न लभ्यते । नैष दोषः । यद्यपि यच इति षष्ठयन्तं तथापि यदा दिग्योगो विवक्ष्यते तदा पञ्चम्यन्तं सम्पद्यते । अयं तर्हि दोषः । इह तन्वन्तीत्युप्रत्ययस्य यणादेश कृत इट् पाप्नोति । नयनाचः पूर्वस्य व्यवस्थितस्य किञ्चित् काव्यं विधीयते यतो यणादेशस्य स्थानिवद्भावा- মন त्राच १४ न्यासः । ? । दिड़ागमो न स्यात् । तीये तु पक्षे यणादेश एव निमित्तात् पूर्वः । तस्य व्यवस्थितस्येटि विधातव्ये स्थानिवद्भावो लभ्यत इति न भवति तन्वन्तीत्य- वेटप्रसङ्गः । किन्त्वाचे पक्षे यो दोषः स इहापि प्रसज्येत । वैयाकरणः सौवश्वमित्यत्रापि यो निमित्तात् पूर्वी भवत इति । ननु च निमित्तात् पूर्वस्य कार्य विधातव्य स्थानिवद्भाव उच्यते । नचेह निमित्तात् पूर्वयो यीः किञ्चित् कार्य विधीयते । नह्यायावादेशो योः कार्य म् । किं तर्हि ? ऐचः । नेतदस्ति । ऐचो हि यत् कायं तद् योरपि सम्वन्धि भवत्येव । तयो स्तद्- भलायो स्तदवयवभूतत्वात् । अत्रोच्यते । आद्यन्तयोः पक्षयो यौँ दोष उक्तः स तावत्र भवति । यस्माद् वहिरगावैची। तचिताश्रयत्वादगाश्रयत्वाच । अन्तरङ्गवायावी । तचितनिरपेक्षत्वाद् वर्णाश्रयत्वाच । असिद्ध वहिरङ्गमन्तरङ्ग इत्यसिद्धवादैचोरायावो न भविष्यतः । इतरस्मिनपि पक्षे यो दोष उक्तः सोपि न भवत्येव । तत्र भावसाधनस्य विधिशब्दस्याश्रयणात् । हिविधो हि विधिशब्दः प्राग दर्शित: कम्मसाधनो भावसाधनश्च । तत्र कम्मसाधने सर्वमिष्टं न सिध्यतीति भावसाधनोऽप्याथीयते । तेन तन्वन्तीत्यवेट एवा- परिनिष्यनस्याचः पूर्वस्य विधाने कर्तव्ये स्थानिवडावः सिद्धो भवति । कम्मसाधनेऽप्यदोषः । यणादेश एवानाचः पूर्वः । तस्य विधाने कर्तव्ये स्थानि- वद्भावो भविष्यति । आदेशापेक्षया हि पूर्ववे विधिशब्दे च कम्मसाधने तन्वन्तीत्यवेडागमप्रसङ्गो न निवार्य एव । नहि यणादेशात् पूर्वस्य व्यवस्थितस्य कस्यचिदिष्ट्र विधीयते । किं तर्हि ? यणादेशस्यैव ; भावसाधने तु तस्मिन्न दोषः । यणादेशात् पूर्वस्यापरिनिष्पन्नस्यैट एव विधानात् । तस्मात् तत्रापि पक्षे भावसाधन एव विधिशब्दोऽङ्गीकर्तव्यः । पटयतीति। तत्करोति तदाचष्ट इति णिच् । णाविष्ठवत् प्रातिपदिकस्येति टिलोपः । ननु चान व्यवधानात् पूर्वत्वं न सम्भवति । नैष दोषः । व्यवहितेऽपि हि पूर्वशब्दो यथा मथुराया: पूर्व पाटलिपुत्वमिति। ननु च हितोया समर्थास्मिजुत्पद्यते । तत्रान्तर्वर्तिनीं विभक्तिमाथित्य पदसंज्ञायां सत्यां जश्त्वे सति पड़यतीति भवितव्यम्। टिलोपस्य स्थानिवद्भावाज् जश्त्वं न भवतीति चेत् ? न! जशत्वविधौ स्थानिवद्भावप्रतिषेधात् । नैष दोषः । ? वर्तते ।

अतः ( १११) १०७ तदाचष्ट इत्यत्र हि तदिति न द्वितीयासमर्थादिति । कुतस्तहिं ? कम्मण इति । कुत एतत् ? अर्थनिर्देशपरत्वात् । एतदुक्तं भवति । कर्मसंजकात् तदाचष्ट इत्यस्मिन्नर्थे णिज् भवतीति । तस्मादसुवन्ताण णिजुत्पत्तेः पद- संज्ञाया अभावाज् जश्त्वं न प्रवर्तते । अवधीदिति । हन्तेलुङ्। हनो वध लुडीति २।४।४२ ) वधशब्दोऽदन्त आदेशः । अतो लोप: ( ६।४।४८ ) । आर्धधातुकस्य ट् । अस्ति सिचोऽ पृक्त ( ७,३।८.६ इतीट् । इट ईटीति (८।२ २८) सिचो लोपः। हलन्तलक्षणेति । वदवजत्यादे: ( ७।२।३) सूत्राबल्ग्रहणानुवृत्ते रतो हलादे लघोरिति (७।२।७ ) वृद्धि हलन्तलक्षणा । बहुखटुक इति । ननुच स्वरविधिं प्रति न स्थानिवद् भवतीति प्रतिषेधं वक्ष्यति । स्थानिवद्भावस्य प्राप्तिरव नास्तीत्ययुक्तमेतदुदाहरणम् । नैतत् । विशेष हि म प्रतिषेधः स्व रदीर्घयलोपेषु लोपाजादेशो न म्थानिवद् भवतीति । नचायं लोपाजादेशः स्वरो न भवतीति । खकाराकारस्यो- दात्तत्वं न भवति । कपि ६।२ १०३ पूर्वमित्युत्तरपदान्तोदात्तत्वमेव भवति । प्रश्न इति । यजयाचयतविच्छप्रच्छेत्यादिना २१३८० ) नङ्। तुकि न स्थानिवद्भवतीति । तुकि कर्त्तवैध न स्थानिवद्भवतीत्यर्थः । यदि हि स्याच छकारमात्रस्य शादेशे कृत स्थानिवद्भावादिहितस्य तुकः श्रवणं स्यादित्येके । एतच्चायुक्तम् । अत्र ह्यन्तरङ्गत्वाच्छे चेति (६।१।७३ ) तुकैव प्राग भवितव्यम् । नचात्रेदमस्ति वार्णादाङ्ग वलीय इति । नानाश्रयत्वात् । यत्र ह्य के निमित्तमाश्रित्य युगपद् वार्ण माङ्गच प्राप्नोति तत्रेदमुपतिष्ठते । यथेयायेति । अत्राकारमाश्रित्याभ्यासेकारस्य को यणचीति ( ६।१।७७ ) यण प्राप्नोति । अभ्यासस्यासवर्ण (६।४।७८) इतीयङ् च । तत्र वार्णादाङ्ग बलीय इत्यस्योपस्थानादियडेव भवति । प्रश्न इत्यत्र तु शादेश मनुनासिक- मात्रयति । तुक् पुनश्छकारम् । अतो नानाश्रयत्वानोपतिष्ठते । तस्मात् तुकात्र भवितव्यमेव । अवश्यञ्चैतदेवं विज्ञेयम् । अन्यथा च्छोः शूडनुनासिक (३।४।१८) चेत्यत्र यहत्यति वृत्तिकारो-ऽन्तरङ्गत्वाच्छे चेति (६।१।७३) तुकि कते सतुक्कस्यायमादेश इति-तबिरुध्यत । अन्ये तु व्याचक्षते च्छोः शूडनु- नासिकेति (३।४।१८) सूत्रे सतुकस्य 'छकारस्य निर्देश इत्येवं केनचिदाचार्येण - न्यासः । शिष्याः प्रतिपादिताः । केनचित्तु तुगविरहितस्य शुद्धस्येत्येवम् । उभयञ्चैतत् प्रमाणम् । तत्वे तत्राङ्गेन वा च्छो विशेष्ते । छकारवकाराभ्यां वाङ्गमिति । तत्राये पक्षे ऽङ्गस्य यछस्तस्य शादेश इति वाक्यार्थः । सतुक्कस्य च स्थानित्व नोपादानात् । अन्तरङ्गे तुकि ते नानर्थकेऽलोऽन्ताविधिरिति तदन्त- विध्यभावात् समुदायस्यैवादेशो भवति । यदा शकारविधी सतुक्कस्य च्छकारस्य निर्देश: प्रश्न इत्येतत् तदानीमग्रहणस्याप्रतुपदाहरणमेव । तुकः पुनः प्रसङ्गाभावात्। यदा तु च्छकारवकाराभ्यामङ्ग विशेष्यत तदा छकारान्त- स्याङ्गस्य स्थानित्वम् । अस्मिन् पक्षे शविधी शुद्धएव च्छकार उपात्तो वेदितव्यः । अन्तरङ्गत्वात् तु पूर्व तुकि कृत पश्चादलोऽन्त्यपरिभाषाया उपस्थानाच् छकारमात्रस्य शकारः। तस्मिन् कृते निमित्ताभावात् तुको निहत्तिः । यथा स्थातत्यत्र षत्वनिष्पत्ती टुत्वस्य ! अव पक्षे प्रश्न इत्येतत् प्रतुदाहरणमज्- ग्रहणस्य । यद्यत्र स्थानिवद्भाव: स्यात् तुकः प्रत्यात्तिर्भवेत्। निमित्त- सद्भावात् । यथा प्रत्यष्ठादित्यत्र टुत्वस्य । तुकि न स्थानिवद्भवतीत्य- स्यायमर्थः । योऽसौ निमित्ताभावानिवृत्तस्तुगासीत् तमेव पश्चात् प्रत्यावर्तमान प्रति न स्थानिवद् भवतीति पुनः प्रत्याक्तिरेव । पूर्वविधिरिति । ननु च यद्यत्र तुकः प्रत्यावृत्ति: स्यान् नडो ङित्करणमनर्थकं स्यात् । तद्धि प्रच्छ : संप्रसारणार्थ वा विच्छ गुणप्रतषेधार्थ वा क्रियते । तत्र प्रच्छेङि संप्रसारणन न भवितव्यम् । प्रश्ने चासनकाल इति ( ३२ ११७ । निपातनात् । यदि च स्थानिवद्भाव सति तुकः प्रत्यावृत्तिः स्यात् ततो गुणप्रतिषेधार्थमपि न स्यात् । अलघूपधत्वादेव गुणो न भविष्यति । ततश्चानर्थकमवैतत् स्यात् । नानर्थकम् । अनित्यमागमशास्त्रमिति ज्ञापनार्थत्वात् । अनित्यत्वज्ञापन वागमशासनस्य नुक्रमोरनात्मनेपदनिमित्त इत्यत्र (७।२५३६) यहक्ष्यति-क्रमस्तु कलयात्मने- पदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्य इति-तन्न वक्तव्यं भवति । उछि उञ्छे विछ गतौ सनाद्यन्ता (३।१।३२) धातव इत्येवमादयो निर्देशा श्वोपपन्ना भवन्ति । आक्राष्टामिति । कृष विलेखने। श्रापर्वाल्ल ङ् । चिः । स्मृशमशकषटपटपां चे : सिज् ३।१।४४ वा वेतुपसंख्यानात् क्सस्यापवादः पक्षे सिच् । तमम्ताम् । अनुदात्तस्य । ६।१।५८ ) च पधम्यान्यतरस्यामित्य- । । ..

। -- ( १११)। १०८ मागमः । यणादेश: । वदवजेत्यादिना ७।२.७ वृहिः। वैयाघ्रपद्य इति । व्याघ्रस्येव पादावस्येति बहुव्रीहिः । पादस्य लोपो ( ५।४।१३८) ऽहस्त्यादिभ्य इत्यन्तलोपः । व्याघ्रपादिति स्थित गर्गादित्वाद् यज (४।१।१०५) । पादः पदिति पद्भावः ( ६।४।१३० )। आदीध्य इति । अदादित्वाच्छपो लुक् । अथात्र टेरेत्त्वात् प्रागेव कस्माल्लोपो न भवति ? स्याद् यदि परस्मिविति वचनं न स्यात् । तस्मिन् यसत्य भयोर्नित्यत्वात् परत्वाच्च लोपेनैव युक्त भवितुम् । परस्मिनिताच्यमाने तु स्थानिवभावाभावात् कृत टेरेत्त्वे न प्राप्नोतीत्यनित्यो लोपः । टेरेत्त्वं तु कृताकृतप्रसङ्गित्वान् नित्यम् । तस्मात् तदेव पूर्व भवति । हे गौरिति । गोतो णिदिति (७।१६० । णित्त्वात् सर्व- नामस्थानस्याचो अितीति वृद्धिः ( ७।२।११५ ) । सम्बुडिलोपे कर्त्तव्य इति । एडा, इखात् सम्बुद्धे । ६।१।६८ ) रित्यनेन । बाभ्रव्य ति । बभ्रोरपत्यमिति मधुबम्वोर्ब्राह्मण (४।१।१०६ कौशिकयो रिति यञ् । ओर्गुण: (६ ४।१४६) । वान्तो यि प्रत्यय (६।१।७) इति वान्तादेशः । आदिवद्धिः । बाभ्रव्य इति स्थित वृहाच्छः (४।२:११७) । यस्यति (६।४।१४८) चेत्यकारलोपः । अवादेशो न स्थानिवद्भवतीति । ननु चामत्यपि स्थानिवद्भावे सन्निपातलक्षणो विधिरनिमित्त तविघातस्येति न भवितव्यमेवात्र यलोपन । तथाहि यकारादाववादेशनात्म लाभ: प्रतिलब्ध इति नोत्सहते स तं बाधितुम् । नैतदस्ति । मंघातो ह्यत्र सविपासलक्षणो नावयवो हल् । सत्यपि वा तस्य सन्निपातलक्षणवे न भवत्येष दोषः । अनित्यत्वात् सन्निपातलक्षणपरिभाषायाः । अनित्यत्वं तु नलोपः (८।२।२) सुपस्वर इत्यादौ सूत्रे ज्ञापयिष्यते। नैधेय इति । निपूर्वी डुधाञ उपसर्गे घो: ( ३।३ ८२ ) किः । आतो लोपः (६।४.६४)। निधि इति स्थिते द्यच इतश्चानिज (४।१।१२२) इति ढक् । ननु पूर्वस्माद् विधि: पूर्वविधिरिति पञ्चमीसमासस्याप्यभीष्टत्वात् पूर्वस्मादपि विधी कर्तव्ये स्थानि- वद्भावेन भाव्यम्। तथाहि ठस्येक (७।३।५०) इत्यत्र वक्ष्यति मथितं पण्यमस्य माथितिक इत्यत्र यस्येति (६।४।१४८) लोपे कृते इसुमुक्तान्ताल्क (७.३१५१) इति स्थानिवद्भावादिकस्य कादेश: प्राप्तः । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न भवति । अकारलोपस्य स्थानिवद्भावत्वात् । पूर्वस्मादपि न्यासः । विधौ स्थानिवद्भवतीति । तदेवं यम्मात् पूर्वस्मादपि विधो स्थानिवद्भावोऽनेन भवति तस्माद् हे गौरित्यादिष्वपि स्थानिवजावेन भवितवेधमवेत्ययुक्तान्येतानि प्रत्युदाहरणानि । नैष दोषः। पूर्वस्माद् विधी कर्तव्ये यः स्थानिवद्भावस्त- स्यानित्यत्वात् । अतएव चानित्यत्वादप्रधानभूतोऽसाविति वृत्तावस्य सूत्रस्य पूर्वस्मादिति न प्रतिपादित स्तदेवाप्राधान्यमस्य दर्शयितुम् । कुतः पुन स्तस्यानित्यत्वमवसितम् ? निष्ठायां सेटीत्यत्र (६।४।३२ ) सेड्ग्रहणात् । तदेवमथं क्रियते । इटि कत णिलोपो यथा स्यादिति । यदि धक्कत एव तस्मिन् जिलोप: स्यात् कारितमित्यत्रेडागमो न स्यात् । एकाच इति प्रतिषेधात् । तथाच तत्र वक्ष्यति मेडिति किम् ? संज्ञपितः पशुः । सनीवन्तर्धेति (७२।४। जपेरिड् विकल्पात । यस्य विभाषेति ७।२।१५ निष्ठायामिट्- प्रतिषेधः । अथ पुनरंकाच इति तत्रानुवर्तते । तत्र निष्ठायामत्र भवितवा- मिडागमेनेति सेड्ग्रहण मनर्थकं स्यात् । तत् क्रियते कालावधारणार्थम् । डागमे कृते णिलोपो यथा स्यादिति । अकृत तस्मिंष्टिलोप सति कारित- मित्यत्रकाच उपदेशे ऽनुदातादिति । ७।२।१० ) प्रतिषेध इट: प्रसज्येत । यदि च पूर्वस्माद् विधी कर्त्तवा नित्यं स्थानिवद्भाव: स्यान् णिलोपस्य स्थानिवद्भावे सत्य ने काचत्वादिटप्रतिषेधस्य प्रसङ्ग एव नास्तीति सेग्रहणं न कुर्यात् । कृतञ्च । ततोऽवसीयत पूर्वस्माद् विधावनित्यः स्थानिवद्भाव इति। तेन गौरित्यादिषु पूर्वस्माद् विधी कर्तवेध स्थानिवद्भावो न भवति । अथ विधिग्रहणं किमर्थम् ? यावता पूर्वम्येत्येवं सिद्धम् । तथाहि कार्यापेक्षया षष्ठी भविष्यति । पूर्वस्य विधी कर्तवा इति । नैतदस्ति । असति हि विधिग्रहणे यदि पूर्वस्येत्युच्यत पूर्वस्माद विधौ स्थानिवद्भावो न स्यात् । अथ पूर्वस्मादित्यु- थेत पूर्वस्य विधौ न स्यात् । विधिग्रहणे सति षष्ठीसमासः पञ्चमीसमासश्च लभ्यत इति सर्वत्र सिध्यति । तस्मात् समासहयाथें विधिग्रहणं कर्तवाम् । ५८॥ न पदान्तदिर्वचनवरेयलोपस्वरसवर्णानुवारदीर्घ- जश्चरविधिषु । पत्रापि विधिशब्दो भावमाधन: कम्मसाधनश्च । स च प्रत्येकमभिसम्ब- प्रकार: (११)। ध्यते। तत्र यथायोगं क्वचिद् भावसाधन आश्रीयतं क्वचित् कम्मसाधनः । तत्र दिवचनविधी भावसाधनः । तत्र हि तदेव विधातवाम् । नधि तस्यावस्थितस्य किञ्चित् कार्यम् । अन्यत्र तु कम्मसाधनः । तत्र हि वाव- स्थितस्य पदान्तादेः कार्यान्तरविधानात्। को स्तो यो स्त इति । अस्तेर्सट् । तस्। अदादित्वाच्छपो लुक् । पूर्वविधावावादेशे यणादेशे च कर्तव स्थानिवत् स्यादिति। कथं पुनः स्थानिवत् स्यात् ? यावता पदसंस्कारायैव प्रयुक्तात्वाद् वयाकरणस्य स्त इत्यादिकं पदं पदान्तरनिरपेक्षमेव संस्क्रियते । अनादिष्टादचो यः पूर्वस्तस्य विधिं प्रति स्थानिवडावेन भवितयाम् । न चायं पदान्तरनिरपक्षे पदसंस्कारे सम्भवति । स्त इत्यादिक पदे संस्क्रियमाणे कावित्यादेः पदान्तरस्यासविधानात् । किं पुनरिदं राजशासनं पदसंस्कारायैव शब्दानुशासनं कर्तवामिति ? अथ शास्त्रकारस्य॑वायमभिप्राय इति चेत् ? न । शास्त्र कारण हि युष्मद्युपपदे । १।४।१०५ ) समानाधि- करण स्थानिन्यपि मध्यम इति युष्मदाद्युपपदे मध्यमादिपुरुषविधानाद वाक्यसंस्कारप्रयुक्तमपि शास्त्रमेतदिति सूचितम् । अत्र का इत्यादिकं पदं प्रागेव व्यवस्थाप्य स्त इत्यादेः पदस्य संस्कार क्रियमाण ऽनादिष्टादचः पूर्व औकारादिर्भवतीति स्थानिवद्भाव: स्यात् । अतः प्रतिषेध उच्यते । ननु च दद्यात्रेत्येवमादौ प्रतिषिडेऽपि स्थानिवद्भावे वहिरङ्गस्य यणादेशस्यासिद्ध- त्वादन्तरङ्ग हिर्वचनं न प्राप्नोति । तत् किमित्येवमाह अस्माद्दचनाद भवतीति । नच शक्यं वक्तं स्थानिवद्भावप्रतिषेधादसिद्धं वहिरङ्गमित्येषा न प्रवर्तत इति । यत्रोभयमकपदाश्रयं पट्यौ पट्यः शुच्यौ शुच्य इत्येवमादौ तत्र स्थानिवद्भावप्रतिषेधस्यार्थवत्त्वान् नैष दोषः । दिर्वचनमेव वहिरङ्गम् । बहपेक्षत्वात् । तथाह्यच उत्तरस्य यरो ऽनचीति च त्रितयं तदपेक्षते । यणादेशस्त्विको ऽचीति दयमेव । वरे इति । ननु चात्र समामे सति सप्तम्या लुका भवितव्यम् । तत् कथं वरे इति निर्देशः । अतएव निपात- नादलुगित्यदोषः । अन्ये त्वीकारप्रश्लेषोऽत्रेति वर्गयन्ति । एवञ्च सम्बन्ध कुर्वन्ति ! वर योऽ जादेशस्तस्य विधि प्रति न स्थानिवत् । ईविधिं च प्रति न स्थानिवदिति । तेनामलक्याः फलं विकार इति नित्य वृहशरादिभ्य ११२ न्यासः । । ततो वरच। ( ४।३।१४४.) इति मयट् । तस्य फले लुगिति ( ४।३।१६२ ) लुक । अतो लुक् . तडितलुकीति : १।२।४८ ) गौरादिलक्षणस्य डोषो लुकि कृते तस्य स्थानिवद्भावाद् यस्येति चेति (६।४।१४८ ) लोपः प्राप्नोति । ईकार परतो यो विधिस्त प्रति स्थानिवद्भावप्रतिषेधान भवति । ननु चाजादेशः परनिमित्तकः पूर्व विधौ स्थानिवद्भवतीत्युच्यते । नच लुका पौर्वा- पर्यमस्तीत्यतएव स्थानिवद्भावो न भविष्यति । तदप्रयोजनमोकारप्रश्लेषस्य । लोपनापि तर्हि पौर्वापथ्यं नास्तीति पटयतीत्यादावपि स्थानिवद्भावो म स्यात् । अथ तत्र स्थानिहारकं पौर्वापर्य सम्भवति । इहापि तथा स्यात्। ये त्वीकारप्रश्लेषं नेच्छन्ति त आमलक्याः फलं विकार आमल- कमित्येतदर्थ नेति योगविभागं कुर्वन्ति । यायावर इति । अत्यथं यातीति धातोरकाच इत्यादिना (३।१।२२) यङ् । दिवचनम् । अभ्यासस्य इवः । दीर्घाऽकित इति ( ७।४।८३ ) दीर्घः । अतो लोपे कृते लोपो ( ६।१.७६ ) व्योर्वलीति यकारलोपः । अतो लोपः परनिमित्तक आर्धधातुके परतो विधानात् । यद्यतो लोपः परनिमित्तक स्ततो ऽचो (३।१८) यदित्यत्राग्रहणं किम् ? यावता हलन्तामातं वक्ष्यतीति चोद्यं समुत्थाप्याजन्तभूतपूर्वादपि यथा स्याद् दित्स्य धित्स्यम् इति यद वक्ष्यति तद् विरुध्यते । नहि परनिमित्तके तो लोप ऽजन्तभूतपूर्बाद यतो विधिः सम्भवति । प्राग् कदुत्पत्तेरतो लोपस्याभावात् । अभावस्तु परस्य निमित्तस्याभावात्। पक्षभेदादविरोधः । तत्र ह्यार्धधातुक इति वर्तते। आर्धधातुक इति विषयसप्तमो चेषा । परसप्तमी चेति पक्षयम् । आर्धधातुकसामान्य विवक्षायां सामान्येन पौर्वापयं न सम्भवतीति विषयसप्तमी भवति। आर्धधातुक व्यक्तिविवक्षायां तु व्यक्त': पौर्वापर्य सम्भवतीति परसप्तमी। यदा तु व्यक्तिहारकं सामान्यस्य पौर्षापय्यं विवक्ष्यते तदापि परसप्तम्येव । तत्राद्ये पक्ष आर्धधातुके विषयभूते प्रागेव यदुत्पत्ते रतो लोपो भवति । इतरत्र तु तस्मिन्नुत्पन्ने । तत्राचो यदित्यत्र यदग्रहणस्य प्रयोजनं वक्ष्यति तत्पूर्वम् पक्षमाश्रित्य । यत पुनरिहातो लोपः परनिमित्तक इतुक्त तदितरं पक्षम् । तस्माद् विषयभेदादविरोधः । परसप्तमीपचे इति ।

। ( १११)। ११३ तु तंत्राग्रहणं विस्पष्टार्थमेव वेदितवाम् । कथं पुनर्जायते परसप्तमीपचोऽपि तवाभिमत इति ? अनुदासतश्च हलादेरित्यादि (३।२।१४८) ग्रहणात् । तावमथं क्रियते । हलन्तादित्येवं मा विज्ञायोति । एवं हि विज्ञायमाने जुगुप्सन: मीमांसन इत्यत्र युञ न स्यात् । अजन्तत्वात् । यदि चार्धधातुक इति विषयसप्तम्येवैषाभिमता स्यान परसप्तम्यपि तदा ऽदिग्रहणमनर्थक स्यात्। आर्धधातुके विषये ऽकारलोपे कृते जुगुप्सतिमीमांसत्योरपि हलन्तत्वात् । तस्मादादिग्रहणाद् विज्ञायते परसप्तमीपक्षोऽपि तत्राभीष्ट इति । विषयसप्तमीपक्षे तु तत्रादिग्रहणं विस्पष्टार्थमेव द्रष्टवाम् । कण्डूतिरिति । कण्डादिभ्यो ( ३।१।२७ , यक् । तदन्तात् स्त्रियां ( ३।३।८४ ) तिन् । चिकीर्षको जिहीर्षक इति । चिकीजिहीर्षशब्दाभ्यां ग्वुल । शिर्षः पिष- श्वेति । शिष्ट विशेषणे। पिष्ठ सञ्चूर्णने । हित्वधित्वष्टुत्वजश्त्वेष्विति । सेज़- पिञ्चेति (३।४।८७ ) हैरादेशे कृते हुझल्भ्यो (६।४।१०१) हेर्धिरिति धिरादेशः । टुना टुरिति टुत्वम् (८।४।४१ )। झलां जश (८.४.५३) झशीति जश्त्वम् । ननु चात्र स्थानिवडावस्य प्राप्तिरव नास्ति । यो धनादिष्टादचः पूर्व स्तस्य विधौ स्थानिवद्भवतीत्युच्यते । न चायमनादिष्टा- दचः पूर्वः। तत् किं प्रतिषेधेन ? नैष दोषः । स्थानिनो नकारस्या- ऽनादिष्टादजपेक्षं पूर्वत्वमस्तीति । तदादेशोऽप्यनुस्वारः स्थानिवद्रावादना- दिष्टादचः पूर्व इति लभ्यते । शिंषन्तीत्यादि। किमर्थं पुनरुदाहरणान्तरोप- न्यास: ? यावता शिण्ढीत्याद्यनन्तरोतमेवेदं युक्तमुदाहरणम् । एवं मन्यते । यदि तदेवोदायिते तदा यत्र परसवर्ण स्तत्रानुसारण भवितव्यम् । तत्रैव हि स विधीयते । ततश्च नान्तरीयकत्वात् परसवर्णविधौ स्थानिवद्भावप्रतिषेधेऽनुवार- विधावपि स्थानिवद्भावप्रतिषेधः कृत एव । ततोऽनुस्वारग्रहणं पृथङ् न कर्तव्य- मिति कस्यचिद् भ्रान्तिः स्यात् ।। तस्माद् यत्र परसवर्णो न सम्भवति तदेवोदाहरणं युक्तमिति । प्रतिदीनेति । दिवेः कनिन् वृषोत्यादिना कनिन् प्रत्यये रूपम् । हलि चेति । उपधायाश्चेति (११।१०१) दीर्घत्वन स्यादिति । हलि (८।२।७७) चेत्यनेनैवात्र दीर्घत्वम्। उपधायाश्चेत्येतदिदानीन्तन- कुलेखकः प्रमादाल्लिखितम् । तथाहि उपधायाश्चेत्यत्र (७।१।१०१) . १५ ११४ न्यासः । ननु च । वक्ष्यति प्रतिदीवन इत्यत्र तु हलि चेति दीर्घत्वमिति । स्थानिवद्भावे प्रतिषिद्धेऽपि न भकुर छुरामिति ( ८।२।७2 ) दीर्घत्वप्रतिषेधेनान भवितव्यम्। तत् किमित्येवमाह। अस्माद वचनाद् भवतीति। नच स्थानिवद्भावप्रतिषेधसामादत्र प्रतिषेधो न भवतीति शक्यं परिकल्पयितुम् । स्थानिवद्भावप्रतिषेधस्य पिपठीरित्यत्रार्थवत्त्वात् । अत्र हि पिपठिषतः विपि कृतेऽतो लोपे रुत्वे च-रुत्वं पुनरस्य पूर्वत्रासिद्धमिति ( ८।२।१ ) षत्वस्या सिद्धत्वाद-यदि स्थानिवद्भावो न प्रतिषिध्येत ततोऽकारलोपस्य स्थानिवद्भावाद वारुपधाया दीर्घ इक ( ८।२१७६ ) इति रेफवकारान्तस्य धातोरुच्यमानं दीर्घत्वं न स्यात् । एवं मन्यते । व्योरुपधाया (८।२।७६ ) इत्यधिकाराद् रेफवकारान्तस्य भस्य भस्य दीर्घवं प्रतिषिध्यते । नचैतद् रेफवकारान्तम् भसंज्ञकम् । अपितु नकारान्तमिति । सग्धिरिति । समाना ग्धिरिति विशेषणसमासः। समानस्य च्छन्दस्य (६।३८४) मूर्धप्रभृत्युदर्के- विति सभावः । बब्धामिति भस भत्सनदीप्तयोः । अभ्यामे चर्च (८।४।५४ ) इत्यभ्यासभकारस्य जश्त्वं बकारः। जक्षतुः । जक्षुरिति । लिव्यन्यतरस्यामिति ( २।४।४० ) घस्नादेशः । कुहोशु रित्यभ्यासघकारस्य ( ७।४।६२ ) चुलं झकारः । तस्य पूर्ववज्जशत्वं जकारः । बहुवचने घस्नादेश इति । लुङ सनोघ स्न, ( २।४।३७ । इत्यनेन । बहुखट्रक इति । अत्र स्थानिवद्भावाद ह्रस्वान्तेऽन्त्यात् पूर्वमिति ( ६।२।१७४ ) खकारस्यो- दात्तत्वं न भवति । कपि (६।२१७३ ) पूर्वमितिटशब्दस्याकारस्यैव भवति । किर्योर्गिोरिति । वोरुपधाया दीर्घ इकः ( ८।२।७६ )। हलि चेति ( ८।२७७) दीर्घवं न भवति । एतच्च वात्पत्तिपक्षमाश्रित्योक्त यदा कृपोरिच्चेति किरतेगिरतश्च किरिगिरिशब्दो वुत्पाद्यते । अत्यत्तिपक्ष त्वसत्यपि स्थानिवद्भाव धातुत्वाभावान भवत्येव यात्पत्तिपक्षमाश्रित्योपधाया श्चेत्यत्र (७१।१०१ ) वक्ष्यति उणादयो- ऽप्रत्यवानि प्रातिपदिकानीति कियॊनियरित्येवमादिषु दो? भवतीति। वायोरिति । लोपो व्योर्वलौति ( ६ ११७६ ) यलोपो न दीर्घ त्वम् । तथा भवति ।

(११)। ११५ ५६ । दिर्वचने चि। पूर्व कार्यातिदेशः कृतः । इदानीन्तु रूपातिदेशार्थमिदमारभ्यते । अथवा निमित्तात् पूर्वमित्येतस्मिन् पक्षेऽनन्तरसूत्रेण दिर्वचनविधिं प्रति प्रतिषेधः प्राप्त इत्यस्यारम्भो वेदितव्यः । द्विवचनेऽचीति समानाधिकरण सप्तम्यौ। तत्राज् विशेष्यः । दिर्वचनं विशेषणम् । विशेषणविशेष्यभावस्य च प्रयोजन दुषतीति प्रत्युदाहरण दर्शयिष्यत । कथं पुनरज् दिवचनशब्देनोच्यते । द्विवचननिमित्तत्वात् । अतएव वृत्तावाह दिर्वचननिमित्तेऽचौति । भवति हि तनिमित्तत्वात् ताच्छब्दाम् । यथा आयुर्घतमिति । परमप्तमी चेय. मपीति यस्मिन् विधिस्त दादावल्ग्रहणमिति । अजादाविति द्रष्टव्यम् । परस्मिविति च प्रकृतत्वात् परस्मिन्त्रजादाविति गम्यते । अथवा हिर्वचनस्य प्रत्ययविशेषनिमित्तत्वाद् दिवंचनग्रहणन प्रत्ययः सन्निधापितः। तेनाजादौ प्रत्यय इति प्रतीयते । यदि तह्यजादावजादेश: स्थानिवद्भवति पपाविति न सिध्यति । नवजादावादेशः । किं तर्हि ? अच्येव । इहापि व्यपदेशि- वद्भावेनाजादित्वमस्तीत्यदोषः । इह तर्हि न सिध्यति चक्रतुरिति ? अच्थेव तु यणादेशो विधीयते । नत्वजादी। नैष दोषः । यो ह्यत्राचि यणादेशो विधीयते सोऽजादावपि भवत्येव । यदि दिर्वचननिमित्तेऽच्यजादेशः स्थानि- वद्भवति सर्वस्यामवस्थायां हिर्वचनादुतरकालमपि स्यादित्यत हिवंचनएव कर्तव्य इति । एवकारेण दिवचनक्रियाकालात् कालान्तरे स्थानिवद्भावस्याभावं दर्शयति । कथं पुनरैतल्लभ्यते ? यावर्तकं हिर्वचनग्रहणं तेन चा विशेषितः । एवं मन्यते । द्वितीयमपि द्विवचनग्रहणममन्तरसूत्रादि- हानुवर्तते । अथवा द्विवचनञ्च हिर्वचनञ्चेत्य कशेषं कृत्वा हिर्वचन इति निर्देशः कृतः। तत्रैकन दिर्वचनग्रहणेन हिचनिमित्तेऽचीत्येषोऽर्थी लभ्यते। द्वितीयेन तु दिर्वचन एव कर्त्तव्य इति । इह दिर्वचने कर्तव्ये स्थानिवद्भावो विधीयत इति हिर्वचनकार्यार्थ एवैष प्रतीयते। साचकस्य दिर्वचनं विधीयमानमनच्कस्य न प्राप्नोतीति युज्यते हिर्वचनकार्यार्थत्वमस्य । द्विवचनकार्यार्थे त्वस्मिं वक्रतु श्चरित्यत्रास्यानच्कस्य दिर्वचने कते सतीष्टमभ्यासरूपं न मिध्यतीति व्यामोहाद् यो मन्यते तं प्रत्याह रूपाति- ।

न्यामः। हिर्वचनं स्यात् । देशश्चायमिति । चशब्दोऽवधारणे । रूपातिदेश एव न कार्यातिदेश इत्यर्थः । कुतः पुनरेष निश्चयो रूपातिदेशश्चायमिति। अजग्रहणात् । तस्य ह्येतत् प्रयोजनम् । जेनीयते देनीयत इत्यत्र मा भूदिति । यदि चायं दिवचन- कायातिदेशः स्यान्न रूपातिदेशोऽग्रहणमनर्थकं स्यात् । भवत्वत्र स्थानिवद्भावः । तथापि न कश्चिदिशेषः । तथाहि यद्यप्यत्र स्थानिवद्भाव एवमपि हिर्वचनकार्येण भवितव्यम्। अथापि न स्थानिवहाव एवमपि भवितव्यम् । उभयत्रापि साचकत्वात् । ततश्च कथमेतत् प्रत्युदाहरणम् ? तदेतदग्रहणं कथमर्थवद् भवति ? यद्येष रूपातिदेशो रूपेऽस्यातिदिश्यमाने यद्यग्रहणं न क्रियते तदिहापि रूपातिदेशे सति घ्रा इति भा इति च तथाऽनिष्टमभ्यासरूपं प्रसज्येत । तस्मादग्रहणाद् रूपातिदेशोऽयमिति निश्चीयते । यद्येवं भेदनिबन्धनो वतिन प्राप्नोति । स्थान्येव हि पुनरात्मीयं रूपं प्रापित इति कुतो भेदः ? आतिदेशिकानाति- देशिकत्वेन रूपभेदस्य विवक्षितत्वाददोष: द्विवचनएव कर्तव्य इति यदुक्तं तस्याथं विस्पष्टीकर्तुमाह नियतकाल इति । कृते हिर्वचन इत्यादिना तदेव नियतकालत्वं दर्शयति । जनतुरिति । अभ्यासाच्चेति ( ७३५५) हकारस्य कुत्वम् । आटिटदिति । अटते हेतुमति णिच् । लुङ् । चङ् । चङीत्य (६।१।११) जादेहितीयस्येति ( ६।१।२ ) दिवचनम् । आड़जादीना- मित्याड् (६।४।१२ ) भवति। निनयेत्यादि। णलुत्तमो वेति ( ७।१।८१) यदा णित्त्वं नास्ति तदा गुणः । यदा णित्त्वं तदा वृद्धिः । जग्ले मन्ले इति । ग्लै हर्षक्षये। स्लै गावविनामे । आदेच ( ६।१।४५ ) उपदेशेऽशिति इत्यात्त्वम् । भाव आत्मनेपदम् । लिटस्तझयोरशिरजित्येश् (३।४।८१)। श्रवणमाकारस्य न भवतीति। यदा कालावधिपरिग्रहार्थ दिवचनग्रहणं न क्रियते तदोत्तरकालमपि स्थानिरूपं प्रसज्येत । ततश्चाकारस्य श्रवणमेव स्यात् । पातो लोपस्य तु गोद इत्येवमाद्यवकाशः । श्रूयमाणे चाकार परेण सह वृद्धिः स्यात्। दुयूषतीति । दिवः सनीवन्त. त्यादिना (७२।४८) यदा पक्ष इड़ागमो न क्रियते तदेको झल ( १।२।८) हलन्ताचे ति ( १।२।१०) कित्त्वम् । ततः च्छोः (३।४।१८) शूडनुनासिके चेतूाट्।

(१११) स च दिवचननिमित्त न भवति । तत्र यदि द्विवचननिमित्तत्वेन नाज विशेष्यत अठि परतो यो यणादेश स्तस्यापि स्थानिवद्भावः स्यात् । एवञ्चा- भ्यासरूपमिवान्तं श्रूयेत । हिर्वचननिमित्ताच्परिग्रहे तु यू इत्यस्य हिर्वचनं भवति । तत्र इलादिशेष स्वत्वयोदं दूधषतीत्यभ्यासरूपमुकारान्त सिध्यति । ६० । अदर्शनं लोपः। प्रदर्शनमित्यादि । ननु चादर्शनानुपलब्धिशब्दावनुपलब्धिसामान्यवचनी । अश्रवणानुच्चारणशब्दौ त्वनुपलब्धिविशेषणवचनी। तथाह्य श्रवणादिशब्दोच्चारण शब्दस्यैवानुपलब्धिः प्रतीयते । नानुपलब्धिमात्रम् । नच सामान्यविशेष. शब्दानामकार्थता। तत् किमित्येवमाह अनर्थान्तरमिति। एवं मन्यते । सामान्यशब्दा अपि प्रकरणवशाद विशेष वर्तन्ते । इह च शब्दा व्युत्पाद्यत्वेन प्रकता स्तस्माद् यद्यप्यदर्शनानुपलब्धिशब्दो सामान्यवचनी तथापीह प्रकरण- सामर्थ्याद् विशेषे शब्दानुपलब्धावेव वर्तते । इह द्धिरित्यादिकाः संज्ञाः शब्दानां विहिताः । तददिहाप्यदर्शनमित्यस्यैव शब्दस्य लोप इत्येषा संज्ञा स्यात् । ततश्च लोपप्रदेशेष्वदर्शनशब्दस्योपस्थानात् स एवादेशः स्यादित्यत आह एतैः शब्दरित्यादि। कथं पुनरतलभ्यते ? एवं मन्यते । नवेति विभाषत्यत (१।११३४) इतिकरणोऽर्थनिर्देशार्थीऽनुवर्त्तते । तेन यथा तत्रार्थस्य संज्ञा भवति तथेहापीति। अर्थमायं संज्ञेत्यवधारणम् । अर्थस्यैव न शब्द- स्येत्यर्थः । पुनः श्रुतौ ह्यवधारणं गम्यते । यथा क्रिया हि द्रव्यं विनयति नाद्रव्यमिति । विनापीतिकरणेन शब्दस्वरूपस्य संज्ञा सिध्यत्येव । यथा तरप्तमपी घ इत्यत्र (१।१।२२)। तस्मादितिकरणानुवृत्तिसामर्थ्याददर्शनमिति योऽर्थः प्रतीयते तस्यैवैषा संज्ञा । न शब्दस्य । किञ्च लोप इति महती संज्ञा क्रियते यथान्वर्थसंज्ञा विज्ञायेत । · लोपनं लोपः । अनुपलब्धिरनुच्चारण- मित्यर्थः । नचादर्शनमित्येतच्छब्दरूप मेवाभावात्मकम् । किं तर्हि ? तदर्थः । तस्मादन्वर्थसंज्ञाविज्ञानादर्थस्य वैषा संज्ञा । यदि तीर्थस्यैवैषा संज्ञा ततोऽतिप्रसङ्गः । सर्वो हि शब्दः स्वविषयादन्यत्र न दृश्यते । ततश्च वपु जत्वित्यत्र विपोऽदर्शनस्य लोपसंज्ञा स्यात् । एवञ्च सति प्रत्ययलोपे प्रत्ययलक्षण ११८ न्यासः । मिति हुखस्य पिति (६।१।७१) कृति तुगिति तुक् प्रसज्यत इत्यत आह प्रसक्ता- स्येत्यादि । तद्य दर्शनमात्रस्यैषा संज्ञा न । किं तर्हि ? शास्त्रादर्थाडा कुतश्चित प्रसक्तस्य यददर्शनं तस्यैव । तदिह न केनचित् प्रकारेण विपप्रसङ्गोऽस्ति तत्कुतोऽतिप्रसङ्गः ? कथं पुनरेष विशेषो लभ्यते ? यावता नेह प्रसक्ताग्रहण- मस्ति । नापि तत् प्रकृतम् । एवं मन्यते । स्थानिवदित्यतः स्थानि- ग्रहणमिहाप्यनुवर्तते । स्थानी प्रसङ्गवान् प्रसक्त इति पठाया ह्येत । तेनायमर्थी लभ्यते । प्रसक्तस्य यददर्शनं तस्येयं संन्नेति । गौधेर इति । गोधाया द्रक ( ४।१।१२८ ।। एयादेशः । लोपो ( ६।१।७६ । व्योर्वलौति यकारस्य शास्त्रेण प्रसक्तस्य लोपः । पचेरनित्यत्रापि सीयुटः शास्त्रेण । एवमन्यत्रापि यथायोगं प्रसक्तता वेदितव्या। जीरदानुरामाणमिति । पूर्ववद् वकारस्थ लोपः । त्रिवु गति शोषणयोरित्यस्य सर्वधातुभ्यो मनिनिति मनिन्प्रत्ययान्तस्य द्वितीयैकवचन उपधादीगत्वे च कृते प्रास्रमाणमिति । अपरस्यानुबन्धादे- रिति । ककारादेरनुबन्धस्य । आदिशब्देन सीयुट्सकारस्य । ६१ । प्रत्ययसा लुकश्न लुपः । यथा वृद्धिशब्द स्तद्भाविताना मतभावितानामपि संज्ञा तथा लुगित्या- दिका अप्यतद्भावितस्यापि संज्ञाः प्राप्नुवन्ति । ततश्च संज्ञासंकरः स्यात् । संज्ञासंकरे हि सति तत्काऱ्याण्यपि संकीर्येरनित्यत आह अनेकसंज्ञा- विधानाच्चेत्यादि। यद्यतहावितस्याप्येताः संज्ञाः स्यु रनेकसंज्ञाकरणमनर्थक स्यात् । एकयैव सर्वकार्य सिद्धेः । तस्मादनकसंज्ञाविधानाद् यददर्शनं यया संजयोच्चारितया भावितं निष्पादितं तस्यैव प्रत्ययादर्शनस्य सा संज्ञा नान्यस्येति न भवति संकरः । एवं तींतरतराश्रयदोषः प्राप्नोति । तथाहि संजया विशिष्टमदर्शनं भाव्यम् । सति च तस्मिन् प्रत्ययादर्शने संजया भाव्यमित्यत आह विधिप्रदेशेषु चेत्यादि । तददर्शनं विधीयते यस्य विहितस्य लुगितावमादिकाः संज्ञा भवन्तीति भाविन्याः संज्ञाया विज्ञानान् न भवतीत- रतराश्रयदोषः । अत्तीति । अदिप्रभृतिभ्यः (२।४।७२) शप इति शपो लुक् । जुहोतीति। जुहोत्यादिभ्यः स्नुः (२।४।७५) । वरणा इति । वरणानां वृक्षाणा- ।

तदा ( १।१ )। ११८ मदूरभवो ग्राम इति प्रारदीव्यतोऽण् ( ४।१।८३ ।। ४।१।८३ ।। तस्य वरणादिभ्यश्चेति ( ४१२ ८२) लुप् । अगस्तय: कुण्डिना इति । यदि प्रत्ययग्रहणं न क्रियेतागस्त्यस्यापत्यानि बहूनि ऋष्यन्धककृष्णिकुरुभ्य इति ( ४ १।११४ ) ऋष्यण् । कुण्डिन्या अपत्यानि बहनि गर्गादित्वाद् यत्र (४।१:१०५) । तयोरागस्त्य कौण्डिन्यशब्दयोर्जसि परतो यदागस्ताकौण्डिन्ययोरगस्तिकुण्डिन- जिति ( २।४।७० ) लुक् क्रियतेऽगस्तिकुण्डिनची चादेशी तदा वैषम्यादेकैकस्य षष्ठीनिर्दिष्टस्य स्थानिन स्त्रय आदेशाः पर्यायेण स्युः । तत्र यदा लुक क्रियते विभक्तिमात्रस्य श्रवणं प्राप्नोति । अथाप्यलोऽन्त्यस्य स्यादेवमप्यागस्त्यः कौण्डिन्य इति स्यात् । अगस्तयः कुण्डिना इति चेष्यते । यदाप्यागस्ताशब्दस्य कुण्डिनजादेश: कौण्डिन्यशब्दस्य चागस्त्यादेशस्तथाप्य- निष्टमेव प्राप्नोति । आगस्त्यशब्दस्य हि जसन्तस्य अगस्तय इति रूपमिष्यते । कौण्डिन्यशब्दस्य तु कुण्डिना इति । अतएवागस्तयः कुण्डिना इत्यनयानु- पूर्व्या तयोरुपन्यासः । अथाप्यान्तरतम्यादागस्त्यशब्दस्यागस्तिशब्द एवादेशो भवति । न कुण्डि नजिति। कौण्डिन्यशब्दस्यापि कुण्डिनजादेशो भवति । नागस्तिशब्द इत्येवमपि नैवानिष्टापत्तेर्मुक्ति: । तथाह्य वं ह्यगस्तयः कुण्डिना इति च सिध्यति तथापि प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षिते सति हताछ इति (४।२।११४ ) च्छो न स्यात् । अहडत्वात् प्रकृतः । प्रत्ययग्रहणे तु सति तददर्शनस्यैवेयं संज्ञा विहितति तस्यैव लुग् भवति । परिशिष्टस्य च प्रकृति- हयस्य यथासंख्यमादेशद्दयम् । तेनागस्तयः कुण्डिना इत्येतच्च रूपयं सिध्यति । प्राग्दीव्यतीयाजादिप्रत्ययविवक्षायामपि गोत्रेऽलुगचीति (४।१।८८) लुकि प्रतिषिडे वृद्धाप्रत्ययश्च । अगस्तीनां छात्रा आगस्तीया इति । (A) कौण्डिन्यशब्दात् तु सत्यपि लुकि कणादिभ्यो गोत्र ( ४ २।१११) इत्यणेव भवति । कौण्डिनाश्छात्रा इति । तेन तत्र च्छप्रत्ययाभावदोषो न प्रसञ्जनीयः। ६२ । प्रत्ययलोप प्रत्ययलक्षणम् । प्रत्ययलक्षणमिति । प्रत्ययो लक्षणं यस्येति कार्येऽन्य पदार्थे बहुव्रीहिः । प्रत्ययनिमित्तमित्यादिना सूत्रारम्भस्य प्रयोजनमाह । ननु च स्थानिवद्भावनाप्ये- । (A) मर्यतिष्यागम्यमतम्यानां य उपधाया इति ( ६।४।१४६) यलोपः ।

१२० न्यासः । तत् सिध्यति । नैतदस्ति। अलाश्रयमपि हि प्रत्ययलोपे प्रत्ययलक्षण कार्य- मिष्यते । तथाग्निचिदित्यत्र इस्वस्य पिति (६।१।७१ ) कति तुगित्यला- अयोऽपि तुग् भवत्येव । अग्नि चिदिति । अग्नी चेरिति ( ३ २१८१ ) क्विम् । अधोगिति हलख्यादिसूत्रेण (६।१।६८) तिलोपः । अदादित्वाच्छपो लुक् । दादेर्धातोर्ष ( ८.२।३२) इति घत्वम् । एकाचो बशो ( ८.२।३७) भषित्यादिना भष् धकार;। झलाञ्जशोऽन्त ( ८।२ ३८) इति जशत्वम् । धकारस्य गकारः। तस्य वावसान इति (८।४।५६ ) चवं ककारः । प्रत्यय इति । वर्तमान इति पूर्वमूत्रात् । अानीयेति । आडो यमहन ( २।३।२८) इत्यात्मनेपदम् । गमहनेत्यादिनो पधालोपः ( ६।४८८)। हो हन्तेरिति ( ७।३।५४ ) धः। संग्मीयेति । संपूर्वाद् गमेः समो गम ( १।३।२१) इत्यादिनात्मनेपदम् । इटोऽदित्यद् (३।४।१४६ ) भावः । बहुलं छन्दसौति शपो ( २।४।७६ ) लुक् । पूर्ववदुपधालोपः । अनुनासिकलोपो न भवतीति । अनुदात्तोपदेशेत्यादिना ( ६।४।३७)। रैकुलमिति । षष्ठीसमासः । गोहित- मिति । चतुर्थीत्यादिना । अस्त्यत्र षष्ठीचतुर्थंकवचनयो: प्रत्यययो लौंपः । किं त्वयवादेशयोरचि विधानात् तविधी वर्ण आश्रीयते । नतु प्रत्ययः । तेन वर्णनिमित्तको तौ न प्रत्ययनिमित्तकाविति न भवतः । ननु च नात्र प्रत्ययस्य लोपः क्रियते । किं तर्हि ? लुक् । नैतदस्ति । लोपशब्दोऽपि सामान्येन तद्भावितस्यातद्भावितस्य चाऽदर्शनस्य संज्ञा । तस्माल्लुगपि लोपो भवत्येव । न लुमतानसा। लुमतेति । लुशब्दो यस्मिन्नस्ति स लुमान् । कः पुनरसौ ? लुगित्यादि संज्ञाशब्दः । करण चेयं हतीया। हेतो वा। इत्थम्भूतलक्षणे वा । लुमता करगोन लुप्त प्रत्यये। तेन हेतुना वा। तदुपलक्षितेन वेत्यर्थः । अथ प्रत्यय इत्येतत् कुतो लभ्यते ? प्रत्ययादर्श नस्यैव लुगादिसंज्ञाविधानात् । लुमता- शब्देन लुप्ते प्रत्यये यदङ्गमिति । तत् पुनस्तमेव प्रत्ययं निमित्तमाश्रित्य येनाङ्ग- संज्ञा प्रतिलब्धा तद् वेदितव्यम् । तस्य प्रत्ययलक्षणं कार्य न भवती (११)। १२.१ त्यविशेषाभिवानेऽपि प्रत्यासत्ते ये एवासी लुमता लुप्तः प्रत्ययोऽङ्गसंज्ञाया निमितं तल्लक्ष गमिति गम्यते । गर्गा इति । गर्गादिभ्यो यत्र (४।१।१०५) । यञञोश्चेति ( २।४।६४) बहुषु लुक् । अत्र तद्वितेष्वचामादेरिति (७२।११७) वृद्धिर्न भवति । मृष्ट इति । मृजेस्तस्। अदादित्वाच्छपो लुक् । व्रश्चादिसूत्रेण ( ८।२।३६ ) षत्वम् । ष्टुत्वम्। मृजेद्धि रिति (७।२।११४ ) वृद्धिन भवति । जुहुत इति तमि परता जुहोत्यादिभ्यः लो (२।४।७५) कृते सार्वधातुकल क्षणो गुणो न भवति । सर्वत्र यमेव प्रत्ययमाश्रित्याङ्गसंज्ञा जाता स एव वृद्धादेः कार्यस्य निमित्तम् । इह च विशेषस्यानाश्रयणान् न केवलमङ्गाधिकारविहितं कायं प्रतिषिध्यते ऽपित्वनङ्गाधिकारविहितमपि । तेन गर्गा विदा उनग्रोवा इत्यत्र नित्यादि (६।१।१८७) नित्य- मित्याद्युदात्तत्वमनगाधिकारविहितमपि न भवति । इह चात्रय इति तद्धितस्य कित ( ६।१।१६५ ) इयन्तोदात्तत्वम् । गर्गा विदा इति यथाक्रम गर्गादिया । अनृष्थानन्तयं । ४।१।१०४ : विदादिभ्योऽञित्यत्र । यञञी- श्वेति ( २।४।६४ लुक् । उष्ट्रग्रीवा इति । इवे ( ५।३।८६ ) प्रतिकताविति विहितस्य कना देवपथादिभ्यश्चेति ( ५।३।१०० ) लुप् । अत्रय इति । अरपत्यार्थ इतथानित्र ( ४ १।१२२ ) इति विहितस्य ढकोऽत्रिभृगुकुत्स- वशिष्ठेत्यादिना ( २।४:६५ ) बहुषु लुक् । पञ्च सप्तेति । षड्भ्यो लुगिति ( ७।१।२२ ) जश्शसो नुक् । पथः सामति । अत्रापि स्वमोनपुंसकादिति (७।१।२३)। अत्र यद्यपि लुमता लुप्तः प्रत्यय स्तन्निमित्ता चाङ्गमंज्ञा तथापि प्रत्ययलक्षणेन सुप्तिङन्तं पदमिति (१।४।१४ ) पदसंज्ञा भवत्येव । यस्मानासावङ्गस्य कार्यम् । अपितु मविभक्तिकस्य समुदायस्य प्रत्ययस्य हि पूर्वभागोऽङ्गम् । नचेह तस्य लुमता यो लुप्तः प्रत्यय स्तन्निमिता पदसंज्ञा प्राप्नोति । स्वादिष्वसर्वनामस्थान (१।४।१७) इति वचनात् । तेन नाच यमेव प्रत्ययमाश्रित्याङ्गसंज्ञा भवति तमेवाश्रित्य पदसंज्ञा प्राप्नोति। पद- संज्ञायाञ्चेह सत्यां पय इत्यत्र ससजुषों ( ८।२।६६ : रुरिति रुत्वम् । खरवसानयोर्विसर्जनीयश्च ( ८।३।१५ ) पदकाव्यं भवति । पञ्च सप्त सामेति । अत्रापि नलोपः प्रतिपदिकान्तस्येति ( ८।२।७) नलोपः पदसंज्ञाकार्यम् । -- १२२ न्यासः । कार्यत इति । ण्यन्तात् कम्मणि लकारः । सार्वधातुके ( ३।११६७ ) यक् । पत्र न लुमता प्रत्ययो लुप्तः । किं तर्हि ? णेरनिटोति (६।४।५१)। अनातो लोप (६।४।४८) इत्यस्माल् लोपग्रहणानुवृत्तेः । तेन प्रत्ययलक्षणा वृद्धिर्भवत्येव । ६४। अचोऽन्तयादि टि। अन्तपादौति बहुव्रीहिः । अचां मध्ये योऽन्तयो ऽच् स आदिर्यस्य शब्द. रूपस्य तत् तथोक्तम्। ननु चान्त्यशब्दोऽत्राचामिस्येतदक्षत इत्यसामर्थ्यादादि- शब्देन सह समासो न प्राप्नोति । नैष दोषः । अन्ताशब्दो हि सम्बन्धिशब्दः । सम्बन्धिशब्दानां नित्यसापेक्षत्वेन गमकत्वात् सापक्षवेऽपि समासो भवति । यथा देवदत्तस्य गुरुकुलमिति। निर्धारणे षष्ठीति । यतश्च निर्धारण (२।३ १४) मित्यनेन । यदि निर्धारणे षष्ठीयमेवं हि सति निर्धारण- मनकसन्निपाते भवतीत्यच इत्येकवचनं न स्यात् । बहुत्वाद् बहुवचनेन भवितव्यमित्यत आह जातावकवचनमिति । जातेरकत्वादिति भावः । अचां सनिविष्टानां योऽन्तयोऽजिति। कथं पुनरजित्येष विशेषो लभ्यते ? यावता नेह द्वितीय मज्ग्रहणम् । नापि प्रकृतम् । एवं मन्यते । समानजातीय- स्यैव लोक निर्धारणं प्रसिद्धम् । নয়াছি कृष्णा गवां सम्पन्नक्षीरत- मेति वितीयं गोशब्दमन्तरेणापि गौरव प्रतीयते । तस्मादिहापि यद्यपि द्वितीय मग्रहणं नास्ति तथापि समानजातीयो ऽजेव निर्धार्यमाणोऽव. सीयत इति । अन्ते भवोऽन्ताः । दिगादित्वाद् यत् (४।३।५४)। तदादीति । स आदि यस्यति विग्रहः । इच्छन्द इत्यादीनि रूपोदाहरणानि । काव्यं पुन- रिच्छब्दस्य टिमंज्ञाया मग्निचितमाचष्ट इति णिचि ते णाविष्ठवत् प्राति- पदिकस्य ति टिलोपः। अग्निचयतीति । आतामाथामिति । अनयोस्तु टिसंज्ञाकार्य टित आत्मनेपदानां टेर (३।४।७५) इति टेरेत्वम् । पचेते पचेथे इति कार्योदाहरणे । अथ वहिमहिडोरिकारस्य कथं टिसंज्ञा ? यावता न सोऽस्ति यस्य सोऽन्तयः । प्रजादिरिति व्यपदिश्यते । नैष दोषः । पाद्यन्तवदे. कस्मिविति (१।१।२१) व्यपदेशिवद्भावनादि रन्ताइति व्यपदेशो भविष्यति । ।

२ (११)। १२३ ६५। अलोऽन्तात् पूर्व उपधा। अलोऽन्तयादिति समानाधिकरणे पञ्चम्यौ। धात्वादौ वर्णसमुदाय इति । ननुच नेह वर्णसमुदायग्रहणमस्ति । नापि तत् प्रकृतम् । तत् कथमेषोऽर्थों लभ्यते ? अन्ताग्रहणात् समुदायस्यैवान्तयोऽल् भवति । न केवलः । तस्माद- न्ताग्रहणादेषोऽर्थी लभ्यते । अलेवेति । एवकारकरणादेवाल्समुदायो व्यव- च्छिद्यते। ननुच नेह हितोय मल्ग्रहणमस्ति तदलसमुदायस्याप्ये षा संज्ञा कस्मात्र भवति ? लोकतश्च । लोके ह्यमीषां ब्राह्मणाना मन्तात् पूर्व आनीयतामित्युक्त एक एवान्तात् पूर्व आनीयते । न समुदायः । एवमप्यल एव व्यवहितस्य कस्मादेषा संज्ञा न भवति ? व्यवहितेऽपि पूर्वशब्दो वर्तत एव । अतएव लौकिकाद् दृष्टान्तात् । लोके ह्यन्तात् पूर्वमानयेत्युक्ते न कश्चिद् व्यवहित मानयति । अपि त्वनन्तरमेव । यदि ह्यल एवैषा संज्ञा नाल- समुदायस्य ऋतश्च संयोगादे गुण ७।४।१०) इत्यत्र यद् वक्ष्यति-- संयोगादिगुण विधाने संयोगोपथग्रहणं कर्तव्य मिति-तद्याहन्यते । नाल एवोपधासंज्ञायामनेकानन्तरहलममुदायात्मनः मंयोगस्योपधात्वमुपपद्यते । संयोगावयवस्योपधात्वादवयवधर्मण समुदायस्य तथा व्यपदेश इत्यविरोधः । भवति शवयवधर्मण समुदायस्य तथा व्यपदेशः । यथा आढामिदं नगर- मिति । अथवा संयोगस्याल्पूर्वत्वोपलक्षणार्थ तत्रोपधाग्रह द्रष्टवाम् । प्रकार इत्यादीनि रूपोदाहरणानि । काव्यं त्वकारस्योपधासंज्ञायां पाचकः पाठक इत्यत्रा ऽत उपधाया इति ( ७।२।११६ ) वृद्धिः । इकारऋकारयोस्तु भेदक श्छदको वर्तको वद्धक इति । अत्र पुगन्तलघूपधस्येति (३८६) गुणः । शिष्ट इति । शासु अनुशिष्टौ । शास इदङ् हलोरिति (६।४।३४) उपधाया इत्वम् । तत्र ह्यनिदितामित्यादेः ६।४,२४) सूत्रादुपधाग्रहण मनुवर्तते । शामिवसीत्यादिना षत्वम् (८.३।६० )। समुदायादित्यादि। अकारसकारसमुदायात् पूर्वस्य शकारस्योपधासंज्ञा मा भूदित्यर्थः । यदि हि स्यात् तस्यैवेत्त्वं स्यात् । ६६ । तस्मिन्निति निर्दिष्ट पूर्वसा। किमर्थमिदम् ? इको (६।१।७७) यणचीत्येवमादावचीत्येवमादेराधारा- निष्ठा।

१२४ न्यासः । নন धेयभावः प्रत्यासत्तिनिबन्धनः । यथा गङ्गायां घोषः प्रतिवसतीति । गङ्गायाः सा च प्रत्यासत्ति यथापूर्वमपच्य भवति तथा परमपि। दध्युदकादिषु न ज्ञायते किं पूर्वस्येक: प्रत्यामत्तिभाजो यणादेश उत परस्येति । तत्र संदेहे सति नियमार्थ यं परिभाषाऽरभ्यते । यद्येवं सन्देहविषय इयमार- भ्यत इति यत्र संदेह स्तत्रोपतिष्ठते । ततश्च दध्यु दकमिति सिद्धं स्यात् । इदन्तु न सिध्यति। दध्यवेति । ननु च विनैव परिभाषयतत् सिद्धम् । नह्यत्र सन्देहोऽस्ति । इदं तर्हि न सिध्यति समिदवेति। अग्निचिदनेति । यदि हि यत्र सन्देहो नास्ति तत्रैषा परिभाषा न स्यादिहानुपस्थानाद् वावधानऽपि यणादेश: स्यादेव । तस्मादसन्देहविषयेऽप्येषा परिभाषा यथा भवति स यत्नः कर्तवाः । एष क्रियते । इह मप्तमीनिर्दिष्टे पूर्वस्यैतावत् सूत्रं कर्तवाम् । इयतेवाभिलषितार्थमिद्धेः । तवाप्ययमर्थः । खरूपग्रहगशङ्गां निराक मितिकरणो न कर्तवयो भवति । नहि क्वचि- च्छास्त्र सप्तमीनिर्दिष्टः शब्दः श्रूयत बेन स्वरूप ग्रहण मागाङ्गेयत। सोऽय- मल्पेन सूत्रेण सिद्धे यन्म हत् सूत्रं करोति तन्महाविषयेयं परिभापति सूच- एवञ्च महाविषयेयं भवति यदि मब्वत्र सन्देहविषयेऽन्यत्र च प्रवर्तते । स्यादेतत् । सप्तमीनिर्दिष्ट इत्युच्यमाने सप्तम्या यद्यप्यधिकरणं निर्दिश्यते तथापि तम्याधेियप्रधानत्वादिको (६।१,७७ याचीत्यत्राचि योऽल वावस्थित स्तम्मिन् यणादेशो विकायते । ततघेहेव स्थाद दधि भुङ्क्त इति । इह तु न स्याद् दध्यवेति । यथान्यामे त्वेव दोषो नास्ति । तस्मान् महत् सूत्र प्रणीतमिति | नेतदस्ति । यदयं दाधा पदाबिति ( १.१ ३० ) निर्देशं करोति तज ज्ञापयत्यधिकरण एव यणादशादिकायं भवति । नत्वाधय इति । अपि च यथान्या मेऽप्यधिकरणस्यायप्रधानत्वादाधेय एव यणादेशादि तस्मात् तत्रापि तदेव ज्ञापकं शरणमाश्रयणीयम् । तदेव महतः सूत्रस्य प्रणयनं परिभाषाया महाविषयत्वसूचनार्थम् । तेन सर्वत्रैषा परिभाषोपतिष्ठत इति सर्वमिष्टं सिदं भवति। इह खं रूपं शब्दस्याशब्दसंज्ञेति (१।१।६८ स्वरूपस्यैव ग्रहण न भवितवाम् । ततश्च यत्रैव तस्मिनित्येतत् पद- मुच्चार्यते तत्रेवेयं परिभाषा स्यात् तस्मिन्नणि च (४।३।२) युभाकास्माकाविति । नार्थम् । काव्यं स्यात् ।

(११) १२५ क्रियते । यदि च अस्ति यत्र तस्याः परिभाषायाः परनिवत्तिः प्रयोजनम् । यौपाकीण युष्मभ्यं देहि । आस्माकीनमम्मभ्यं देहीति । युष्मभ्यं देहि यौष्माकीणम् । अस्मभ्यं देह्यास्माकीनमिति । इको यणचीत्येवमादी । ६।१।७७) त्वेषा नोपतिष्ठते इत्यत आह तस्मिविति । सप्तम्य निर्देश इति । एवं मन्यते । इतिकरणो ह्यत्र कृतः । स च स्वरूपपदार्थकत्वं निरस्यार्थपदार्थकत्व तस्मिनित्यस्य संपादयति। तेनार्यस्यैव ग्रहणणं भवति । स त्वर्थोऽवश्यं येन केनचिच्छदेन निर्देष्टव्य इति। नानार्थकत्वात् सामान्यवाचिना तस्मिन्नित्यनेन पदेन निर्दिष्ट इति । ननु च शब्दस्यार्थेन पौर्वापयं न सम्भवतीत्यर्थेनासंभवात् तवाचिना सम्भवात् तदाचिना शब्देन विज्ञास्यत इत्यदोषः । अत्रेदं चोद्यते। अर्थस्य ग्रहण यथा स्यात् स्वरूपस्य च ग्रहणं मा भूदित्येवमर्थ मितिकरगा: तच्च स्वरूपग्रहणं तस्मिन्नणि च युष्माकाम्माकाविति मूबेगा : ४।३।२ । सम्भाव्यत । खरूपग्रहणं स्यात् तत्रैव पूर्वग्रहणं कुयात् । न च कृतम् । तम्मादवगम्यते ऽन्तरेण पीतिकरणमर्थस्य व ग्रहणं भवति । न वरूपस्येति नाथस्तेन । सत्यमेतत् । वे तु मन्दबुद्दय एवं प्रतिपत्तमममर्थास्तान् प्रति सुखाव- बोधनार्थमितिकरण: कृतः । निर्दिष्टग्रहणमिदमर्थस्य विशेषणम् । इह च शास्त्र इको ( ६।१,७७ ) यणचीत्यादिषु वाक्येषु यत्र मप्तम्यर्थोऽम्ति तत्रासी निर्दिष्ट एव सर्वत्र । तदपार्थ के निर्दिष्ट ग्रहण विशेषणं व्यभिचाराभावादित्यत आह निर्दिष्ट ग्रहणमित्यादि। आनन्तयमव्यवधानमाँ यस्य तत् तथोक्तम् । कथं पुनस्तदानन्तर्याथं भवति ? ततस्तत्प्रतीतः । तथाहि दिशिरयमुच्चारण- क्रियः । निःशब्दोऽप्ययमिह नैरन्तयं द्योतयति । तत्र निरन्तरं दिष्टो निर्दिष्ट इति प्रादिसमामे कृत म्फुटमेवानन्तरमुच्चारितमिति प्रतीयते । किमर्थ पुनरानन्तर्यमाश्रितमित्यत आह अग्निचिदत्रेत्यादि। पूर्वशब्दोऽयं व्यवहितेऽपि वर्तते । तत्र यद्यानन्तव्यं नाश्रीयत ततो व्यवहितेऽपि स्यादित्यभिप्रायः । ननु चाचीत्यौपश्लेषिकमधिकरणं विनायते । व्यवहितमुपश्लिष्टम् भवति । तत् किमानन्तप्र्थन निर्दिष्टग्रहणन ? असदे- तत् । असति हि निर्दिष्ट ग्रहण औपश्लेषिकमधिकरणमेव न शक्यं विज्ञातुम् । - ?

१२६ न्यासः। यस्मात् पूर्वशब्दो व्यवहितेऽपि वर्तमानः परस्यैव निवृत्तिं करोति न व्यवहितपूर्वस्यापि। निर्दिष्टग्रहणे तु सति सप्तम्या औपश्लेषिकाधिकरणाभि- धायिन्याः प्रत्यासत्तिरुपादीयते । सा च पूर्वग्रहणेन न निवर्त्यते । नित्तिरेव क्रियत इत्येषोऽथों लभ्यते । तेन व्यवहितस्य कायं न भवति । उत्तरार्थञ्च निर्दिष्टग्रहणं कर्त्तव्यमेव । पर- ? ६७। तस्मादित्युत्तरस्य। किमर्थमिदम् ? तिङतिङ (८।१।२८) इति यात्र पञ्चमी सा तुन कारक विभक्तिः । किं तर्हि ? दिक्शब्दादयूत्तरपदेति (२।३।२८) दिग्योगलक्षणा । दिक्शब्दस्त्वध्याहार्यः । तत्र किं पूर्वशब्दमध्याहृत्यातिङः पूर्वस्य निघातः क्रियत उत परशब्दमध्याहृत्य परस्येति सन्देह मति परिभाषयं नियमार्था ऽरभ्यते । निर्दिष्टग्रहण मनुवर्तत इति । तेन तस्यानन्तार्थत्वावहि- तस्य कायं न भवतीति भावः । इहापीतिकरणोऽर्थ निर्देशार्थः क्रियते । तेन पञ्चम्यर्थ ग्रहणं भवति । नतु शब्दस्वरूपस्येत्यभिप्रायेणाह तस्मादिति । पञ्चम्यर्थनिर्देश इति । ननु च पूर्वसूत्रादेवेतिकरणोऽनुवर्तिष्यते । तत् किमर्थः पुनरिहैतिकरणः ? अनेन प्रकारेण पूर्वसूत्रादेकदेशोऽनुवर्तत इति ज्ञापनार्थः । तेनेति शब्दवनिर्दिष्टग्रहणमनुवर्ततेत्येतदाख्यातं अन्यस्त्वाह इतिकरणं लिहावधेरवधिमत्तन्त्रतां निवर्तयति । तेनावधेरैवोत्तरस्य विज्ञायते । नावधिमतः । स्वरूपग्रहण निरासार्थस्त्वितिकरणो न भवति । खरूपाभावात् । यदपि तस्माच्छ सो नः पुंसीति (६।१।१०३) तत्रापि पूर्वसवर्ण- दीर्घात् पूर्व: शस् न सम्भवतीति न भवति सन्देहः। तस्मादवधेरवधि- मत्तन्त्रतानिरासार्थ एवेतिशब्द इति। अत्रोच्यते । यद्यवधेरेवोत्तरस्य कायं यथा स्यादवधिमतो मा भूदित्येवमर्थ इतिकरणो ऽवधेरवधि- मतन्त्रतामपाकत्तुं क्रियते नार्थस्तेन। लोकत एव तत्सिद्देः। लोके हि तस्माच्छात्रादुत्तरो भोज्यतामित्युक्ते ऽवधेरेवोत्तरो भोज्यते । नावधिमतः । तदिहापि विनापीतिकरणेनावधेरेवोत्तरस्य कायं भविष्यति। नावधिमतः । यदप्युक्तं तस्माच्छसो (६।१।१०३, नः पुंसीत्यत्रापि पूर्वसवर्णदीर्घात् पूर्वः शस् न भवति । ।

तत्र (११)। १२७ संभवतीति तदप्ययुक्तम् । तथा घशब्दादिशब्दाच्च शसि परतः पूर्वसवर्णदीर्घत्वे पूर्वत्र च वृक्षादिशब्दे शसन्ते व्यवस्थापित गच्छत आन् वृक्षानुपलभते गच्छतो वृक्षानानुपलभत इत्यत्र पूर्वसवर्णदीर्घात् पूर्व शम् सम्भवत्येव । अथ यत्रोभयनिर्देशस्तन कस्य कार्येण भवितव्यम् ? यानवकाशा सेतरस्याः षष्ठों प्रकल्पयिष्यति । अतः षठोनिर्दिष्टस्य कायं भविष्यति । यथाऽने मुगित्यत्र ( १२.८२) सप्तमी निरवकाशा ऽतो येय ( ७।२।८०) इत्यत इति पञ्चम्याः पूर्वसूत्रे सावकाशायाः षष्ठीत्वं प्रकल्पयिष्यति। तथदास (१२।८३) इति पञ्चम्यान इति पूर्वसूत्रे सावकाशायाः सप्तम्याः । यत्रोभ सावकाश तत्र परत्वात् पञ्चमी सप्तम्याः षष्ठी प्रकल्पयिष्यति । यथा ऽमि ( ७१।५२ ) सर्वनाम्नः सुड़िति । आजसेरसुगित्यत्र (७।१।५०) पञ्चमी सावकाशा। आमीति सप्तम्युत्तरार्था । तत्रादिति पञ्चम्यामीति सप्तम्या: षष्ठीत्वं प्रकल्पयति । तेन सर्वनाम्न उत्तरस्यामः सुड् भवति। इह तु दीर्घात् पदान्ताहेति (६।१।७३ ) यद्यपि च्छे चेति ( ६।१।७५ ) सप्तमी पूर्वसूत्रे सावकाशा तथापि तस्याः स्वरितत्वात् पूर्वयोगादनुवत्ताया निरवकाशत्वम् । अतः सा च सप्तमी पञ्चम्याः षष्ठीत्व प्रकल्पयिष्यति । पञ्चमी तु पौर्वापयं प्रकल्पा सावकाशा निवर्त्तते । तेनायं सूत्रार्थों भवति । दीर्घादुत्तरो यश्छस्तस्मिन् परतः पूर्वस्य दीर्घस्यैव तुग् भवतीति । सार्वधातुके यगित्यत्र (७।१।६७) निरवकाशापि सप्तमी धातोरिति पञ्चम्याः सावकाशाया अपि षष्ठीत्वं न प्रकल्पयति । अन्यथा हि धातोरवादेशा यगादयः सुतः । ततश्च परश्चेत्यस्यानुवृत्तस्य (३।१।२) बाधाद् यगादीनां चानुबन्धकरणस्य वैयर्थ्य प्रसज्येत । नहि धात्वादेशत्वे सति तेषां परत्वमुपपद्यते । नाप्यनुबन्धानामर्थ- वत्त्वम् । तस्मात् सार्वधातुक इति सप्तमी यगादीनां प्रत्यामक्तिं गमयति । पराधिकारात् तु ते धातोः परे भवन्ति । ६८। ख रूपं शब्दसत्राशब्दसंजा। शास्त्र स्खमेवेत्यादि । शास्त्रग्रहणं लोकेऽर्थस्यैव ग्राह्यत्वात् । शब्दस्येति कृत्यानां कर्तरि वेति ( २।३१७१ ) कर्तरि षष्ठी। शब्दः स्वमेव रूपं ग्राहयति बोधयति प्रत्याययतीत्यर्थः । कः पुन: शब्दस्य स्वरूपस्य च भेदः ? येन शब्दस्येति १२८ न्यासः । व्यतिरेकनिबन्धना षष्ठी भवति । परमार्थतो वस्तुगतो नास्त्येव भेदः । तथाहि खं रूपं शब्दस्य स्वभावः। तचेत् ततोऽर्थान्तरं स्याच् शब्दस्य वैस्वभाव्यमेव स्यात् । असत्यपि तु वास्तव भेदे बुद्धिविरचितं भेदमाश्रित्य षष्ठी भवति । बुद्धि हि स्ववीजपरिपाकवशादाकारविशेषपरिग्रहवतुपजाय- माना वस्तुनोऽ सत्यपि भेदे भेदमापादयति । यथा राहो: शिरः खस्य खभावति (A)। न वाह्योऽर्थ इति। एवकारेण यावच्छिन्नं तद्दर्शयति । अतिप्रसक्तस्यापवादमाहाशब्दसंजेत्यादि। किमर्थ पुनरिदमारभ्यत इत्याह शब्देनत्यादि। शब्देनोच्चारितनाथः कापियोगितया गम्यते । न शब्द- खरूपम् । तथाहि गौरुपलभ्यतामितुरतेऽर्थमेवोपलब्धमाद्रियते । न शब्दस्व- रूपम् । व्याकरण तु प्रत्ययविधानादिकार्यमर्थस्य न सम्भवति । तेन सह शब्दस्य पौर्वापर्य्याभावात् । नचार्थाद् विहितेन प्रत्ययेन कश्चित् प्रकृतोपयोगः । तेनाग्ने गितुक्त ( ४।२।३३ नायं मंप्रत्ययो भवति । अग्निशब्दस्य योऽर्थः स इह कार्यों तस्येदं कायं विधीयत इति । ततश्च तस्यार्थस्य ये वाचकाः शब्दास्तेषु तत्कार्यसम्भवात् तत् साहचर्याच्च तेषामेव संप्रत्यय: स्यात् । एतेऽत्र कार्यिगः । एतेषामिदं कायं विधेयमिति । यथाऽकृतिवादिनां गौ? ह्य- तामिति शब्देन जाती चोदितायां तत्र तत्काउसम्भवात् तदाधारायां व्यक्ती संभवात् तत्साहचाच तस्यामव व्यक्ती संप्रत्ययो भवति न जातो तथेहापि तन्मा भूत् तद्वा चिनां संप्रत्यय इत्येवमर्थमिदमारभ्यते । तदाचिना- मिति कर्मणि षष्ठी। तवाचिनो मा विज्ञायीत्येवमर्थमिदमारभ्यत इत्यर्थः । तत्र केचिदाहुः : स्वरूपस्य पर्यायाणाञ्च कार्य प्रसक्ते श्रूयमाण- स्यैव तद् यथा स्यात् पयायाणां मा भूदिति नियमार्था परिभाषय- अन्ये तु लिङ्गवती परिभाषा भवति यर्थको गुणवृद्धी इति गुणही लिङ्गम् । विध्यन्तरशेषभूता वा यथा विप्रतिषेधे परं कार्यमिति परस्य विध्यन्तरस्य शेषभावमापद्यते । नचास्या लिङ्ग विध्यन्तरशेषभावो वा विद्यत इति संज्ञासूमिदमिति प्रतिपन्नाः । यद्यपि वृत्ती संज्ञाशब्दो नोच्चारितस्तथापि स्वमेव रूपं शब्दस्य ग्राह्यमित्येवं ब्रुवता वृत्तिकारण (A) वस्य स्वरूपमिति दाक्षिणात्य पुस्तके पाठः । मिति ।

(११)। १२८ संवत्याख्यातं भवति । अग्निशब्दादौ शब्दान्तरैः साधारणमपि रूपमस्ति शब्दत्वादि। असाधारणमपि अग्निशब्दत्वादि । तत्र साधारणरूपवादामेना- साधारणस्याग्निशब्दत्वादिरूपस्य परिग्रहाथं स्वग्रहणम् । तडि खमेव तस्य रूपम् । इतरत् पुनः परस्यापि । प्रतीतिं प्रत्यनुपदेशाच् शब्दस्य खरूपमेवासनम् । नार्थ: । विपर्ययात् । अयत्वाच्च । तनित्यसम्बन्धित्वाच्च । नार्थों विपर्ययात् । तथाह्यनुकरणशब्दा ह्यथं जहति । नतु स्वरूपम् । असाधारणञ्च रूपम्। अर्थस्तु साधारण:। शब्दान्तरैरपि प्रत्याय्यमान- त्वात् । तदेवमासन्नत्वानित्यसम्बन्धित्वादसाधारणत्वाच्च रूपमेव शम्दस्य स्वम् । नार्थः । ततश्च स्वग्रहणादेव रूपपरिग्रह सिद्धे व्याकरण रूपवदर्थोऽ- प्यङ्गीक्रियत इति ज्ञापनार्थ रूपग्रहणम् । तेनार्थवद्ग्रहणेन नानर्थकस्येत्ये तदुपपन्नं भवति । शब्दानुशासनप्रस्तावादेव च शब्दस्येति सिद्धे शब्दग्रहणं यत्र शब्दपरो निर्देशस्तत्र स्वरूपं गृह्यते नार्थपरो निर्देश इति ज्ञापनार्थम् । तेन खे पुष ( ३।४।४० ) इत्यत्र स्वरूपस्य ग्रहणं न भवति । अर्थपरत्वन्तु निर्देशस्या- विच्छिन्नपारम्पयादाचार्योपदेशाद् विज्ञायते। आग्नेयमिति। अग्निर्देवता ऽस्येत्यत्रार्थ ढक् । ओदश्विक मिति । अत्राप्युदखिता संस्कृतमित्यत्रार्थे ठक् । उदखितोऽन्यतरस्यामित्यत्र ( ४।२।१८) दन ठगित्यस्यानुवृत्तेः ( ४।२।१८)। इसुसुक्तान्ताक इति ठकः इति ठकः ( ७।३।५१ ) कादेशः। घुग्रहणेष्वित्यादि। यदि घुप्रभृतिरपि संज्ञाशब्दः खरूपस्य ग्राहकः स्यादुपसर्गे घोः किरित्यत्र (३।२।८२) यद्यपि धावधिकारस्तथापि घुग्रहणाद घुशब्दात् किप्रत्ययः स्यात् । उपसर्ग- ग्रहणं तु प्राद्युपलक्षणाथं स्यात्। यथा ऽञ् नासिकायाः संज्ञायां ( ५।४।११८, ११८) नसञ्चास्थूलादुपसर्गाचेत्यत्र । कुमारीघ इत्यत्र च घइति संज्ञाशब्देन खरूपप्रत्यायने सति घरूपकल्पेत्यादिना (६।३।४३) घशब्दे परतो हखत्वं प्रसज्येत । ननु च संज्ञा विधानसामर्थ्यात् संज्ञायाः स्वरूपग्रहणं न भवति । संज्ञा हि संजिनः प्रत्यायनार्था यदि संज्ञाशब्दोऽपि स्वरूपं प्रत्याययेत् संज्ञाविधानमनर्थकं स्यात् । नैतदस्ति । संज्ञाविधानसामाधि संजिनं प्रत्याययेत् । परिभाषाविधानसामर्थ्याच्च स्वरूपम् । तस्मात् प्रतिषेधः कर्तव्यः । न कर्तव्यः । ज्ञापकात् मंज्ञाशब्दो रूपस्य ग्राहको न भविष्यति ! क्रियते ।

१३० न्यासः । यदयं ष्णान्ता षडिति ( १।१।२४ ) षकारान्तायाः संख्यायाः षट्संज्ञां विदधाति तज्ज्ञापयति संज्ञाशब्दः स्वरूपस्य ग्राहको न भवतीति । अन्यथा हि षडूभ्यो लुगित्यत्र ( ७।१।२२ ) षट्शन्देन स्वरूपस्य प्रत्यायितत्वात् ततोऽपि भवतीति षकारान्तायाः संख्यायाः षडिति संज्ञां न कुर्यात् । षट्शब्दो हि षकारान्ता संख्या । नान्या । सत्यमेतत् । तथापि येषां ज्ञापक- हारेणार्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात् तान् प्रति तत्परिहारायाशब्द- संजेति प्रतिषेधः कृतः । शब्दग्रहणं व्याकरण या संज्ञा तस्या एव प्रतिषेधो न लौकिक्या इति प्रदर्शनार्थम् । सित्तद्विशेषाणामित्यादि । षाणां ग्रहणमिष्यते तत्र सकार इत्संज्ञकः कर्तव्यः । वृक्षस् मृगस् इति । ततो वक्तव्य इत्यादि । सिनिर्देशं कृत्वा ततः प्रथमऽध्यायेऽन्यत्र वा परि- भाषयं कर्तव्या सित्त विशेषाणामित्यादि। यस्य सकार इत्संज्ञकः स तविशेषाणां वृक्षादिविशेषाणां खदिरादीनां प्रतिपादक इति वक्तव्यम् । एवं पित्पर्यायवचनस्य च स्वाद्यर्थमित्यादावपि वेदितव्यम् । न्यायादपि चैतत् प्रतिपाद्योऽर्थः सिध्यति । यथा सिध्यति तथा यथावसरं पुरस्तात् प्रतिपादयि- थामः । सुखावबोधनाथं तु सित्तविशेषाणामित्यादिग्रन्थोपन्यासः । यत्र विशे- ६६। अणुदित् सवर्णसा चाप्रत्ययः । संज्ञासूत्रमिदम्। न परिभाषा । न परिभाषा। सा हि नियमार्था भवति । न चाणुदितां सवर्णानामन्येषाञ्च ग्रहणं प्राप्त येन सवर्णानामेव ग्रहणं भवतीति नियमः क्रियते। परण णकारण प्रत्याहारग्रहणमिति। तेन ऋकारादयोऽपि सवर्णानां ग्राहकाः सिध्यन्तीत्यभिप्रायः । परेण च णकारण प्रत्याहारग्रहणम् अइउण इत्यत्र प्रतिपादितम् । पूर्वसूत्रात् स्खं रूपमित्येतदि- हानुवर्तते । तार्थादिभक्तिविपरिणामो भवतीति षष्ठान्तं सम्पद्यते। तेन वस्थापि रूपस्याण ग्राह्यमाण उदिच्च ग्राहको भवतीति दर्शयन्नाह स्वस्य च रूप- स्येति । आद्गुण (६।१।८७) इत्यादि। यह भवति देवेन्द्र इति तथा खट्वेन्द्र इत्यत्राप्याद्गुणो भवति । अस्य चौ ( ७।४।३२ )। यथा पटीभवतीत्यत्त्वं भवति तथा मालीभवतीत्यत्रापि । यस्येति च (६।४।१४८)। यथा दाक्षिरित्यत्र । ( १११) १३१ लोपो भवति तथा चौलिरित्यत्रापि । बाह्वादित्वाञ्चुलाशब्दादिञ्। खरातु- नासिक्येत्यादि। उदात्तः सूत्वे गृह्यमाण: स्वरान्तरभिन्नस्यापि ग्राहको भवति । एवमनुदात्तः स्वरितश्च । तथा सानुनासिको निरनुनासिकस्य । सोऽपि तस्य। दी? न भवतीति । यद्यप्रत्यय इति प्रतिषेधो न स्यात् प्रत्ययोऽपि सवर्णानां ग्राहकः स्यात् । ततश्च दीर्घोऽपि स्यात् । ननु चात्यल्प- मिदमुच्यतेऽप्रत्यय इति । अप्रत्ययादेशटिकिन्मित इति वक्तव्यम् । प्रव्यये प्रत्युदाहृतम्। आदेश इदम इश् ( ५।३।३ )। अस्मात् । इतः। पञ्चम्या- स्तसिलिति तसिल ( ५।३।७)। अस्मिन् । इह । इदमो हः ( ५।३।११ ) । अत्र हि सवर्णग्रहण सति यद्यकृते त्यदाद्यत्व इशभावस्तदान्तरतम्यात् त्रिमात्र इकारः प्राप्नोति। अथ कृते ऽईचतुर्थमात्रः। यद्यतो गुण (६।१।६७) पररूपत्वे ऽकृते तदापि । अथ कृते ततोऽईटतीयमात्रः । अथवाऽईचतुर्थ मानोऽईटतीय- मात्रश्च नास्ति ततो हिमात्र स्त्रिमात्रश्च स्यात् । टित् । आर्धधातुकस्येड़ वलादेः (७।२।३५ । लविता । सवर्ण ग्रहणे सति दीर्घाऽपि स्यात् । कित् । भुवो वुग् लुङ्लिटो: (६।४।८८) । बभूव । अत्र सानुनासिकोऽपि स्यात् । सन्ति हि यण: सानुनासिका निरनुनासिकाच मित् । चतुरनुडुहो रामुदात्त: (७।१।८८) । अम् सम्बुद्धौ (१८८)। अनन् । अत्र दीर्घाऽपि स्यात् । तत् तद्येवं वक्तव्यम्। न वक्तव्यम् । चकारोऽत्र क्रियते । सोऽनुक्तप्रतिषेधसमुच्चयार्थी भविष्यति । तेन येषामादेशादीनां ग्राहकत्वं नेष्यते ते सवर्णानां ग्राहका न भविष्यन्ति । अन्ये त्वाहुः । अप्रत्यय इति । नेह संज्ञाग्रहणम्। किं तर्हि ? अन्वर्थग्रहणम् । प्रतीयते विधीयत उत्याद्यत इति प्रत्ययः । तेनाप्रत्यय इत्यस्यायमों भवति । भाव्यमानोऽण् सवर्णान् न गृहातीति । इशादयोऽपि भाव्यन्त उत्याद्यन्त इति तेऽपि प्रत्ययाः। तेन ते सवर्णानां ग्राहका न भवन्तीति। ते श्वकारस्य प्रयोजनं वक्तव्यम् । खं रूपमित्यस्यानुकर्षणं तस्य प्रयोजनमिति चेत् ? न । चानुकृष्टत्वादुत्तरत्र तदनुहस्तिन स्यात् । न चैतत्प्रयोजनमुपपद्यते । खरितत्वादेवानुवृत्तिसिडेः । अथ मतं प्रथमान्तं स्वमित्येतत्प्रकृतं षष्ठीनिर्टिष्टेन चेहार्थः । तस्माच्चकारे कृते यत्नात् षष्ठान्तता तम्य यथा स्यादित्येवमर्थश्चकार इति । एतदपि नास्ति । अर्थादव हि विभक्तिविपरिणामसिद्धेः । । ? ।

१३२ न्यासः । ७० । तपरस्तत्कालसा। तः परो यस्मात् सोऽयं तपर इति बहुव्रीहिं दर्शयति । तादपि पर स्तपर इति पञ्चमीतत्पुरुषं च । स पुनः पञ्चमीति (२।१।३७ ) योगविभागात् समास इति वेदितव्यः । कथं पुनरेतत् समासदयं लभ्यते ? यावतैकस्त- परशब्दः । एकस्याप्यावृत्तपा विधा भेदो भविष्यतीत्यदोषः । अत्र हि बहुव्रीहेलिङ्गमतो भिस ऐसिति (७।१।६) तपरकरणम् । नह्यत्र पञ्चमीतत्पुरुष उपपद्यते। अवर्णी ह्यत्र तपरोऽभिमतः । न भिस् । यदि चेह पञ्चमीतत्- पुरुषः स्यात् तर्हि भिम् तपरः स्यात्। यतस्तपरो वर्ण इहोच्यते । नचासौ वर्णः । किं तर्हि ? तत्समुदायः । पञ्चमीतत्पुरुषे तु लिङ्गं वृद्धिरादैजिति (१।१।१) तपरकरणम् । नात्र बहुव्रीहियुज्यते। यदि बहुव्रीहिः स्यात् तदाकारस्य तपरत्वं स्यात् । नचाकारार्थ तपरकरणम् । तपरकरणम्। अपि त्वैजर्थम् । एतच्च तत्रैव प्रतिपादितम् । सवर्णस्येति वर्त्तते। वर्णस्य च सवर्णों न भवति । नमु वर्णसमुदायस्य। तस्मादविशेषाभिधानेऽपि वर्ण एव तपरो विज्ञायत इत्याह तपरो वर्ण इति । तत्कालस्येति बहुव्रीहिः। स कालोऽस्येति । अयुक्तोऽयं निर्देशः । तथाहि तच्छब्देन तपरः परामृश्यते। तपरश्च तपरश्च वर्ण: । कालस्तु क्रियाविशेष इष्यते । तथागतम् आदित्यग्रहतारादि (A) परिस्पन्दमथापरे । भिन्नमात्तिभेदेन कालं कालविदो विदुः ॥ १ ॥ इति तत् कुतो वर्णक्रियाविशेषाभिधायिनो स्तपरकालशब्दयोः सामानाधि- करण्यम् ? एवं तर्जुत्तरपदलोपी समासोऽयं द्रष्टव्यः । यथोष्ट्रस्य मुखमिव मुखमस्योष्ट्रमुख इत्येवं तत्काल इव कालो यस्य स तत्काल इति । अस्यार्थ दर्शयितुमाह आत्मनेत्यादि । यद्यपि तपरकरणसविधानादिहात्म- शब्दस्य तत्र वृत्तियुक्ता तथापीह साहचर्यात् तत्सहचरितायामुच्चारण- क्रियायां कालाख्यायां स वर्तते । कुत एतत् ? तपरण वर्णेन क्रियाया स्तुल्यत्वानुपपत्तेः । सम्भवति साहचर्य्यात् ताच्छब्दयम् । तदेतदुक्तं भवति । तपरवर्णसहचरितया क्रियया तुल्यकालस्येति यादृशी तपरवर्णस्योच्चारणक्रिया (A) 7 Stands for autife in the Deccan copy.

(१।१ )। १३३ तादृगुच्चारणक्रिया यस्येति यावत् । गुणान्तरयुक्तस्येति । येन गुणन धम्माख्येनोदातादिना विशिष्ट उच्चारितस्ततोऽन्यैरुदात्तादिभिर्गुणैः सम्बद्ध- स्येत्यर्थः । स्वस्य च रूपस्येति । इहापि तदनुवृत्तेः । इदं सूत्रं नियमार्थ वा स्याद् विध्यर्थं वा ? यद्यणित्यनुवर्तते ततः पूर्वेणेव सिडे सत्यारम्भी नियमार्थी भवति । तपरोऽण तत्कालस्यैव ग्राहको भवति नान्यस्येति । अथाणिति निवृत्तं ततो विध्यर्थम् । तत्राये पक्ष विड्वनोरनुनासिक- स्यादित्याकारो ( ६।४।४१ ) दीर्घस्तपरो निरनुनासिक: सूत्र उपात्तो भेदका गुणा इत्यस्मिन् दर्शने सानुनासिकस्य ग्राहको न स्यात् । अनणत्वात् । ततश्च निरनुनासिक एवादेश: स्यात् । इतरत्र तु पक्षे सत्यपि भेदकत्वे गुणानामेष दोषो न भवतीति मन्यमानो द्वितीयं पक्षमाश्रित्याह विध्यर्थमिदमिति । कथं विध्यर्थमित्याह अणिति नानुवर्तत इति । अणामन्येषाञ्चेत्यादि। युक्त यदन्येषामेव तपराणां ग्रहणकशास्त्र मिति तेषां पूर्वण ग्रहणस्यासिद्धत्वात् । अणां तु पूर्वेगव सिद्धे ग्राहकले कथमित्यत आह अतो भिस ( ७११८) ऐसित्यादि। स्यादेतत् । इहापि तत् प्रवृत्तमेवानवकाशत्वादित्यत आह अतपरा इत्यादि । तस्याद् गुण ( ११६।८७ ) इत्यादावतपरा अणोऽवकाशः । अस्य त्वनणस्तपरा दीर्घाः । यथा विड्वनोरनुनासिकस्यादिति (६।४।४१)। ये त्वणस्तपरास्तेषूभयप्राप्ती परत्वादिदमेव ग्रहणकशास्त्रं प्रवक्तंत इत्यभिप्रायः । वृक्षः प्लरिति । दृतीयाबहुवचनं भिम् । अतो भिस ( ७।१।८) ऐसित्यैसा- देशः । वृद्धिरेचीति (६।१।८८) वृद्धिः । अब्जाः गोजा इति । जनी प्रादुर्भावे । अप्स जायते। गोषु जायत इति । जनसनखनक्रमगमो ( ३।२।६७ ) विट् । खटाभिरिति । कथं पुनरेतत् प्रत्युदाहरणम् ? यावता ऽन्तादिवञ्चेत्यन्तादि- वद्भावे (६।१।८५ ) भवितव्यमेवात्रैमभावन । तपरकरणस्य तु यत्रैकादेशो नास्ति तद् व्यवच्छेद्यं भविष्यति । कोलालपाभिः सोमपाभिरित्यादि । नैष दोषः । अन्तादिवञ्चेत्यत्र ( ६।१।८५ ) वक्ष्यति वर्णाश्रयविधावन्तादि- वडावो नेथत इति। तथाहि खट्टाभिरित्यत्रान्तवद्भावाभावादतो भिस ऐस् न भवतीति । अथवा अत इत्यत्राकारहयप्रश्लेषः कृतः श्रूयमाणादतो यथा स्यात् ।

१३४ न्यासः । धीयते । ७१। आदिग्न्त्येन सहेता। स्वरूपविधिपरिहारायारम्भः । इदमपि मंज्ञासूत्रम् । अनादिभूतं वस्त्वपेक्ष्य तत्पूर्ववस्तुन आदित्व न भवति । अनन्त्यभूतं वस्त्वपेच्य ततः परस्यान्त्यत्वम् । नचेहाद्यन्तयोः परस्परापक्षे आद्यन्तत्वे युज्येते । एवं हि सति वस्त्वन्तरस्य संजिनो भावादादिरन्त्येन सहित: स्वस्यैव संज्ञा स्यात् । ततश्च खं रूपमित्येतस्येहानुवृत्तये स्वरितत्वासङ्गो वृथा स्यात् । तस्मादाद्यन्त- शब्दाभ्यां सामर्थ्यादाद्यन्तव्यतिरीकेण तन्मध्यपाति वस्तु संज्ञित्वेनाक्षिप्तमिति मत्वाह तम्मध्यपतितानामिति । जाताविदं बहुवचनम् । अन्यथा ह्यङ्- शब्द ओकारस्य संज्ञा न स्यात् । ननु चाद्यन्तशब्दाभ्यां नियतदेशावयवावभि- अवयवाचावयविनः समुदायरूपस्य सम्बन्धिन इति सम्बन्धि- शब्दत्वादाद्यन्तशब्दाभ्यां तस्यैव संजित्वेनाक्षेपो युक्तः । अत एवं वक्तव्यं तन्मध्य- पतितानां समुदायस्येति । एवं मन्यते । यदयं तम्मादित्युत्तरस्येत्यादौ (१।१।६७ वर्णानां समुदाये परतो यकारं यणादेशं कृत्वा निर्देशं करोति ततो गम्यते न वर्णसमुदायः संज्ञीति । किं तर्हि प्रत्येक वर्णा एवेति । अन्यथा वर्णसमुदाये संजिनि परतो वर्णमाला यणादेशं कृत्वा निर्देशं कुर्यादिति । असम्भवात् स न कृत इति चेत् ? न। वर्णमालात्मन आदेशस्य सम्भवात् । तर्हि समुदाये संजिनि कार्यमेव न मम्भवतीति चेद् यदि च समुदाये परतः कायं न सम्भवति वर्णा एव प्रत्येक सन्तु संजिनः । तत्र काव्यं सम्भवति । किं समुदायेन ? टा इत्यनेन ग्रहणं माभूदिति । ननु च सोऽपि तावतोऽवधेरन्त एव । न । तावतोऽवधेरविवक्षितत्वात्। टकारो ह्ययं टाङसिङसामिनात् स्या ( ७।१।१२ ) द्वितीयाटोमवेन । २।४।३४) इत्यत्र तृतीयैकवचनस्य विशेषणार्थ: । नतु प्रत्याहारार्थः । अथादिग्रहणं किमर्थम् ? अन्त्येन सह समुदाय एव संज्ञा मा भूदिति । नैतदस्ति । प्राकृत्तिधर्माणो हि संज्ञाशब्दा भवन्ति । आदिरेव प्रदेशवाक्येष्वावर्तते । न समुदायः। तस्मादन्तरेणाप्यादिग्रहणं सामयादादेरेवान्त्यसहितस्य संज्ञात्वं विज्ञायते । न समुदायस्य । एवं तर्हि सामर्थलब्धस्यैवार्थस्य विस्पष्टीकरणार्थ मादिग्रहणम् । अथ सहग्रहणं किमर्थम् ? यावता हतीययैव सहार्थों गम्यत । यथा दो यूनित्यत्र ( १।२।६५ ) ।

( १११)। १२५ नैतदेवम् । इत्थम्भूतलक्षणऽपि तृतीयास्ति । तस्याच सत्यामादिरेवान्त्येनेत् संज्ञकेनोपलक्षितः संज्ञा स्यात् । ततश्च प्रदेशेष्वक इतीक इत्यचीति च समुदायाद् विभक्तिर्न स्यात् । निरर्थकत्वेनाप्रातिपदिकत्वात् । ग्रहणात् तु सहभूता संज्ञेति समुदायस्य मंज्ञात्वेनार्थवत्त्वात् पातिपदिकत्वे सति विभक्तिलभ्यते । इदुग्रहणं त्वचीत्य नानित्संज्ञकेन चटतव इत्यनेन चकारेण संज्ञा मा भूदित्येवमर्थम् । अन्त्यत्वं तस्य पूर्ववत् । न समुदायापेक्षया । एवं तर्हि हलन्त्यमितीत्मज्ञा ( १।३।३ ) प्राप्नोति । तदर्थ न विभक्ती तुम्मा ( १।३।४ ) इत्यत्र नेति योगविभागः कर्तव्यः । कि ( ३।३।२ । छेदने । पूज् ७२। येन विधिस्तदन्तसा। खं रूपं शब्दमा त्यस्यायमपवादः । इदमपि संज्ञासूत्रम् । नतु परिभाषा। नह्यत्र नियमरूपता परिभाषाधम्मी विद्यते । येनेति करण हतीया। विधीयतऽपूर्व एव क्रियते इति विधिः कर्मसाधन उपसर्ग घो: रिति किप्रत्ययान्तः । तदन्तस्येति । सोऽन्तो ऽस्येति बहुव्रीहिः । तदित्यनन म एव करगणमूतः शब्दः प्रत्यवमृश्यते । अन्त- शब्दोऽयमवयववाची। अवयवश्व समुदायस्य भवति । अतश्च तस्य वयं संज्ञा विज्ञायत इत्याह । समुदायस्य मंञा भवतीति । अवश्यलाव्यमिति अवश्यपाव्यमिति । लञ् पवने । वृद्धौ कृतायां वान्तो यि प्रत्यय ( ६।१।७८ ) इत्यावादेश: । मयूरव्यंसकादित्वात् ममासः । लुम्पेदवश्यमः कृत्य इति मकारलोपः। अथेह कस्मादेजन्तस्य मंज्ञा न सम्भवति ? एचोऽयवायाव ( ६।१।७८ ) इति । किन स्यात् । चयनं चायको लवनं लावक इत्यत्रा- नकाल्त्वादयादयः सर्वादेशा: सुरः । नेष दोषः। निर्दिश्यमानस्यादेशा भवन्तीत्येच एव भविष्यन्ति । न सर्वस्य तदन्तस्य । अथवा ऽस्य योग- स्यैवंविधो विषय एव न भवति । ततो नायमिह प्रवर्तते । तथाहि येनेति करण तृतीयेत्युक्तम् । न चाकर्तृकं करणमस्तीति कर्त्ताप्याश्रितः । स पुनरिहसम्बन्धिशब्दत्वादन्तशब्देनावयववाचिना मनिधापितः समुदायो विज्ञायते । प्रकृतत्वात् म्वरूपञ्च कर्ता च त्रिभिः प्रकारैः सनिहितो भवति ।

न्यासः। क्वचिनिर्देशात्। ईदूदेद्दिवचनमिति (१।१।११) । अत्र दिवचनं कर्तृभूतं निर्दिष्टम् । तथाहीदादिभिः करणे: प्रग्यासंज्ञां विदधाति ! क्वचित् प्रकरणाद यथा एरजिति ( ३।३।५६ ) । अत्र धातोरित्यधिकाराद् धातुः प्रकरणात् कर्ता सविहितः । स इकारेण करणनाचं विदधाति । क्वचित् सामर्थाद् यथे- को झलिति (१।२८)। अत्र धातोरेव सन् विधीयते । नान्यस्मादिति सामाखातुः कर्ता सन्निहितः । स इका करणन सन: कित्त्वं विदधाति । तदेव मौदूदेदद्दिवचनमित्यादौ ( १।१।११) कर्तृकरणयोरुभयोरपि विद्यमान- वात् सोऽस्य सूत्रस्य विषय इति तत्र तदन्तविधिर्भवति । एचोऽयवायाव (६।१।७८) इत्यत्र तु न केनचित् कर्ता सन्निहितः प्रकारेण । न चाकर्तृकं करणं सम्भवति । तस्मात् कर्तृकरणयोरुभयोरप्यसनिहितत्वान् नायमस्य सूत्रस्य विषय इति न सम्भवति तदन्तविधिः । वक्तव्य इति । व्याख्येय इत्यर्थः । तवेदं व्याख्यानम् । द्वितीयाश्रितेत्यादी (२।१।२४ ) सुपा श्रितादयो विशिष्यन्ते । न श्रितादिभिः सुप् । विशेषणेन च तदन्तविधिः। न विशेष्येण । यस्माद् येनेति करण हतीया करणञ्च परतन्वं पराथं भवति न विशेष्यं तस्माद् विशिष्टैः श्रितादिभिस्तदन्त विधिन भवति। नड़ादिभ्यः (४।११८.८ ) फगिति। अत्रापि प्रकृतेन प्रातिपदिकन नडादयो विशिष्यन्ते । नड़ादिभिः प्रातिपदिकम् । अतोऽत्रापि नास्ति तदन्तविधिरिति । उगिहर्ण- ग्रहणवर्जमिति। उगिता वर्णन च प्रातिपदिकं विशिष्यते । विशेषणेन च तदन्त विधिर्भवत्येव । यस्मिन् विधिरित्यादि । तदन्तविधी प्राप्ते तदादि- विधिरुच्यते। यस्मिबिति सप्तमीनिर्दिष्टे तदादिविधिं दर्शयति । यत्राल्- ग्रहणे सप्तमीनिर्दिष्टे पूर्वस्य विधिस्तत्र तदादी वेदितव्यः । अलादावित्यर्थः । यदि तर्हि तत्रापि तदन्तविधिः स्यादिहेव स्याच् श्रियाविति । इह तु न स्याच् श्रिय इति । तदादिविधौ तु सतीहापि भवति । स्वस्य च रूपस्येति श्रियावित्यत्रापि भवत्येव । ७३। वृद्धिर्यस्याचामादिस्तहदम् । यस्येति समुदाय उच्यत इति । अचां मध्ये यस्यादिदिसंज्ञकस्तस्यैव तथाच (११)। १३७ शब्दरूपस्येयं संज्ञा विधीयते । तच्च नियोगत: समुदायात्मकमेवेति सामाद यस्येति सामान्यपदेनापि समुदाय एवाभिधीयते । संजिनिर्देशाथं यस्येति वचनम् । अचां मध्य इत्यादिना वृद्धिसंजिनः समुदायादेकदेशस्य निर्धारणं दर्शयनचामित्यस्य निर्धारणषष्ठीत्वं दर्शयति । श्रादिशब्दस्त्विहोपक्रमे वर्त्तते । उपक्रम्य त इत्युपक्रमः प्रथमत उच्चारित इत्यर्थः। अचामिति बहुवचन- निर्देशाद् यस्य बहूनामचां मध्ये वृद्धिसंज्ञक आदिभूतस्तस्यैव वृद्धसंज्ञया भवितव्यम् । न तु यस्य योर्मध्य इति चोद्यमपाकर्तुमाह अचा मित्यादि । यदि ताचामिति निर्धारणषष्ठीय मेवं सति समानजातीयस्यैव निर्धारणं भवतीत्यचां मध्ये वृद्धिसंज्ञकोऽजव यथा स्यादित्येषोऽर्थः स्यात् । सत्याकारो यस्यादिस्तस्य संज्ञा न स्यादाखलायन इत्यादेः । नह्याकारस्य मुख्यमच्त्वमस्ति । अक्ष्वसनिवेशात् । उपचरितं तु स्यात् । अणुदित्सवर्णस्य चाप्रत्यय (१ १।६८) इत्यनेनानचोऽपि सतोऽच्कार्यकरणात् । न च मुख्य सति गौणस्याश्रयणं युक्तम् । गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययात् । नैष दोषः । व्याप्तेायादाकारस्यापि गोणमच्त्वमाश्रित्य भविष्यति । अन्यथा जि- ग्रहणमेव कुर्यात् । न वृद्धिग्रहणम् । शालीयो मालीय इत्यादि। संज्ञायां सत्यां वृद्धाच्छ इति (४।२।११४) च्छो भवति। ननु च शालामाला- शब्दयो: कापटुशब्दस्य च संज्ञया न भवितव्यम् । नह्येषां वृद्धिसंज्ञक आदिः। किं तर्हि ? हल् । नैतदेवम् । विद्यमानोऽपि ह्यत्र हल नापेक्ष्यते । अजपेक्षस्यादि- त्वस्याश्रयणात् । एतदेव ह्यग्रहणस्य प्रयोजनम् । कथं नाम तदपेक्षयादित्व विज्ञायतेति ? अन्यथा तब कर्तव्यमेव स्यात् । स्यात् । अग्रहणे क्रियमाणे सत्ययमों भवति । अचां मध्ये यस्य यो वृद्धिसंज्ञको जवादिभूत इति । अन्येभ्यो ऽज्भ्यो यस्य वृद्धिसंज्ञकः प्रागुचार्य्यत इति यावत् । तेन शाला- शब्दादेरपि संज्ञा सिध्यति । साभासनयन इति । अत्र हधिसंज्ञाभावादणेव भवति । नतु छः यदि पुनरादिग्रहणं न क्रियेत ततो यस्याप्यचां मध्ये वृद्धिसंजकः कश्चित् सभासनयनादे स्तस्याप्येषा संज्ञा स्यात् । अव यद्यपि हडिशब्दः श्रूयते तथापि तलिङ्गकपरिभाषा नोपतिष्ठते । यस्माद यत्र नियतस्थानिके गुणही विधीयते तत्र स्थानिनियमार्था सा व्याप्रियते । एतच्च अत्र छ- १८ १३८ न्यासः । । प्रागवोक्तम् । न चेह गुणवृद्ध्योर्विधानम्। अतो नात्र व्यापारस्तस्याः । तेन यस्याप्यनियतस्थानिको वृद्धिसंज्ञक आदिभूतस्तस्यापि संज्ञा सिद्धा भवति । वा नामधेयस्येत्यादि । ये पुरुषैर्व्यवहाराय संकीर्त्यमाना: शब्दा देवदत्त इत्येव- मादयस्तेषा मेषा संज्ञा वेदितव्या। तेष्वेव नामधेयशब्दो रूढ़ः। नतु ये जात्यादिनिमित्तका गवादिशब्दा अनादिवावहारान्तःपातिनस्तेषु । ननु च काश्यादिपाठात् काश्यादिभ्य (४।२।११६) ठज्ञिठाभ्यां भवितवाम् । तदयुक्तं देवदत्तीय इति च्छप्रत्ययान्तस्योदाहरणम् । नैष दोषः । यो हि देवदत्तो देवदत्त इति क्रियानिमित्तको देवदत्तशब्दस्तस्यैव तत्र पाठो न संज्ञाशब्दस्य । तेन संजाभूताद्देवदत्तशब्दाद् यदा वृद्धसंज्ञा तदा छो भवति । अन्यदा त्वण । गोत्रान्तादित्यादि । यथा ऽसमस्तात् केवलादु गोत्रप्रत्ययान्ता वृहाच्छप्रत्ययो भवति तथा समस्तादबहादपि। घृतरौढ़िरिति । समानाधिकरणधिकारी शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्चेति (२।१।६०, वा ) समासः । एवमुत्तरत्रापि । रूढस्यापत्य पाणिनस्यापत्यम्। अत इञ् (४।१।८५ )। वृद्धाम्भीया इति । अत्राप्यम्भःशब्दाद बाह्वादिभ्यश्चेतीच् (४।१।८६) । बाह्वादिषु सम्भूयोऽम्भसः सलोपश्चेति पठ्यते। काश्यपशब्दो विदादित्वादअन्तः। जैह्वाकाता हारितकाता इति । कात्यशब्दो गर्गादियजन्तः । जिह्वाचपल: कात्यः जिह्वा- कात्यः । हरितपक्षः (A) कात्यः हरितकात्यः । ताभ्यामौत्सर्गिक एवाण । यम्येति चेत्यकारलोपः (६।४।१४८) । आपत्यस्य च तद्धितेऽनातीति (६।४।१५१) यकारस्य । ७४। त्यदादौनि च। उत्तरार्थमिति । उत्तरसूत्रेऽस्य प्रयोजनवत्त्वाद् यद्यनुवर्तत एतदर्थमपि कस्मान भवतीत्याह इह न सम्बध्यत इति । यदीहापि सम्बध्येत तदाय- मर्थः स्यात् । त्यदादीनि यस्याचामादिभूतानि तह मिति । ततश्च त्वत्पुत्र इत्यादावेव स्यात् केवलानाञ्च त्यदानौनां न स्यादित्यभिप्रायः । ननु च त्वत्पुत्वो मत्पुत्त्र इत्यादावुपसर्जनानि त्यदादीनि। उपसर्जनानाञ्च तेषां त्यदादित्वं निर्वर्तितम् । तत् कुतोऽयं प्रसङ्गः ? यदि यस्याचामादेरित्येतदिह (A) हरितचक्षुः कात्य इति बङ्गीयपुस्तके पाठः ।

(११)। १३८ सम्बध्यते तदा सत्युपसर्जनत्वे वचनात् त्यदादावेव संज्ञा स्यात् । न केवलाना- मिति मन्यते । कथं पुनरिहानुवर्त्तमानं शक्यमसम्बडुम् ? रूसम्बन्धानुक्तेः । वृद्धिय स्याचामादिम्त इडमिति त्यदादीनि च वृद्धिसंज्ञकानि भवन्ति । वृद्धिर्य- स्याचामादिम्त द्वमिति तदृद्धम् एड प्राचां देशे यस्याचामादिग्रहणमनु- वर्तते । बडिग्रहणं निवृत्तम् । एवं हरिशब्देन सम्बन्धमनुवर्तमानं न शक्यते त्यदादिभिः सम्बन्धुम् । त्वादायनिः। मादायनिरिति। उदीचां वृद्धाद- गोत्रादिति (४।१।१५७) फिञ् । प्रत्ययोत्तरपदयोश्चेति (७।२८७) युष्मदस्मदो स्त्वामादेगी। चकारोऽनुक्तसमुच्चयार्थः । तेन वा नामधेयस्येत्यादि वक्तवं न भवति । ७५ । एड प्राचां देश। प्राचां देशाभिधान इति। प्राचां मम्बन्धी यो देशस्तदभिधान इत्यर्थः । एतेन प्राचामिति देशविशेषणं न विकल्पार्थमिति दर्शयति । प्राचा मतेनेत्यस्याविवक्षितत्वादित्याख्यातं भवति। एणीपचनीय इत्यादि। एणी- पचन इत्यादिभ्यश्छः । आहिछत्र इति । कान्यकुल इति । अहिच्छत्रकन्य- कुलशब्दाभ्यामणव भवति । देवदत्त इति । वृद्धाधिकार विहितो वाहीकग्राम- भ्यश्चेति ४।२।११७ ठनिठी न भवतः । काश्यादिपाठादपि तो न भवतः । क्रियानिमित्तको हि देवदत्तशब्द स्तत्र पठ्यते । संजाशब्दस्य चेदं प्रत्युदाहरणम् । एतच्च यदा वा नामधेयस्येति वृद्धसंज्ञा नास्ति तदा वेदितवाम् । गोमता इति। अत्र सर्वमस्ति न तु देशाभिधानम् । तथाहि गोमती नदी प्राग्देश । न देशः । नहि नदी देशग्रहणेन ग्राह्यते । नदीदेशोऽग्रामा इत्यत्र (२.४।७) नद्याः पृथगग्रहणात्। एङ् प्राचां देश इति । उदीचां (४।१।१५७) वृहादगोत्रादित्येव- मादिषु प्रागुदची श्रूयते । तयोश्च विभागो न विज्ञायते । अतस्तत्परिज्ञानायाह प्रागुदञ्चावित्यादि। शरावती नाम नदी। तस्याः पूर्वेण वावस्थितो देशः प्राग्देशः । उत्तरण वावस्थित उदग्देशः । तौ शरावती विभजत विभागन वावस्थापयति । तस्यां हि मयादायां सत्यां तयोविभागः परिज्ञायते । किमर्थ विभजते ? विदुषां शब्दसिद्धार्थमिति । पण्डितानां वैयाकरणानां शब्द- । ?

१४० न्यासः । ? व्युत्पत्त्यर्थम् । कथं विभजते ? हंसः क्षीरोदकं यथा । क्षीरोदकमिति जातिरप्राणिनामित्येकवद्भावः ( २।४।६ ) । कचित् क्षीरोदके इति पाठः । स सों इन्हो विभाषयैकवद्भवतीति वेदितव्यः । यथा हंसः क्षीरमुदकञ्च मित्रीभावमुपगतं पृथगसङ्कारेण व्यवस्थापयति तथा शरावती प्रागुदञ्चौ । यत्तदोर्नित्याभिसम्बन्धात् सेतिवचनादनुक्तमपि येत्येतलभ्यते । या विभजते सा नो ऽस्मान् पातु रक्षतु । प्रसिद्धस्तु पाठो यत्र श्लोके प्रागुदी- चाविति । तत्राऽच उद ईदिति ( ६।४।१३८ ) भसंज्ञकस्योच्यमानः कथमी- कारः ? कथञ्चोगिदचां सर्वनाम स्थानेऽधातोरिति (७।१।७०) नुम् न भवतीति चिन्त्यम् । अत्र वर्णयन्ति । अच् प्रत्यन्ववपूर्वात् सामलोन (५।४ ७५) इत्यत्राजिति योगविभागेनाच्प्रत्ययः कृतः । तेनावाचि परतो भसंज्ञायां सत्यामौत्त्वं भवति । नुम् तु न भवति । अचा सर्वनामस्थानस्य व्यवहि- तत्वादिति। अन्ये तु प्रागुदीचमिति समाहारं कुर्वन्ति । तेषां हन्दाचुद- षहान्तात् समाहार इति ( ५ ४।१०६ ) टचि समासान्ते कृते पूर्ववदोकारो नुमभावश्च भवति । क्वचित् तु प्रागुदीच इति पाठः। तत्रावयवदेशापक्षया बहु वविवक्षायां बहुवचनम् । प्राग्देशानुदग्देशांश्च विभजत इत्यर्थः । इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जि (ञ्चि) कायां प्रथमाध्यायस्य प्रथमः पादः समाप्तः। १ । १ ॥

अथ न्यासापरनाम्नौ काशिकाविवरणपञ्जिका। प्रथमोऽध्यायः । द्वितीयः पादः । १। गाङ्कुटादिभ्योऽणिन् ङित् । अत्र पक्षत्रयं सम्भाव्यते । इत्संज्ञको वा डकारोऽनेन भाव्यते । गाङ्कुटादिभ्यः परे येऽणितः प्रत्ययास्ते डितो भवन्ति । इत्संज्ञको ङकार एषां सम्बन्धी भवतीति यावत्। एवं हि ते डितो भवन्ति यदि हि तेषां डकारोऽनुबन्धो विधीयते। नान्यथा। नहि विना चित्रगवीभि- देवदत्तचित्रगुर्भवति । डिदितीयं वा संज्ञाऽनेन क्रियते । गाङकुटादिभ्यः पर येऽणितः प्रत्ययास्ते जितो भवन्ति ङित्संज्ञका भवन्तीति यावत् । अतिदेशोऽयं वा स्यात्। गाङ्कुटादिभ्यः परे येऽज णितः प्रत्ययास्ते डि'तो भवन्ति । दिद् भवन्तीत्यर्थः । तत्राद्ये पक्षे गाकुटादिभ्य इत्यनया पञ्चम्याऽणिदित्यस्याः प्रथमायाः षष्ठयां परिकल्पितायां सत्यामादेः परस्येति (१।१।५४) वचनादादेरलः स्थान आदेश एव कारः प्राप्नोति । द्वितीये तु पक्षेऽनिदितां हल उपधायाः (६।४।२४) क्डितीत्यत्र मंजिनः संप्रत्ययो न स्यात् । शब्दभेदात् । अन्यो हि ङिच्छब्दः । अन्यो हि ङिच्छब्दः । किञ्च डिग्रहणे ग्रह्यादौ (६१।१६) सूत्र एषामेव मंज्ञिमां ग्रहणं प्राप्नोति । न यडा- दीनाम् । कृत्रिमावनिमयोः कृत्रिमे कार्यसंप्रत्यय इति वचनात् । अथापि कथञ्चिदेते दोषाः परिहत्तुं शक्येरबाद्ययोः पक्षयोर्यस्तु तत्परीहारद्वारण प्रवृत्ती १४२ न्यासः। साध्यायां प्रतिपत्तिगौरवदोष प्रापद्यते मोऽपरिहार्य एव । तीये तु पक्षे न कश्चिद् दोष इति मत्वा तमेवाश्रित्याह अतिदेशोऽयमिति । यद्येवं वतिना निर्देश: कर्तव्यः । अन्यथा तदर्थों नावगम्येत । नैतदेवम् । परपदार्थेषु हि प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यथं गमयन्ति । यथा सिंहो माणवकः । गोर्वाहीकः । गाडितीङादेशो गृह्यते। इङश्च (२।४।४८) गाङ् (२।४।४८) लिटि विभाषा लुङ्लङोरिति (२।४।५०) गाडादेशो य इङः स्थाने वक्ष्यते तस्येदं ग्रहणम् । न गाङ् गतावित्यस्य । अथ गाङ् गतावित्यस्य धातोर्ग्रहणं कस्मात्र भवतीत्याह डकारस्येत्यादि । इङादेशस्य यो डकारस्तस्येदं प्रयोजनम् । इह सूत्रे तस्यैव ग्रहणं यथा स्यानान्यत् किञ्चिदात्मनेपदार्थ स्यादिति चेत् ? न । आत्मनेपदस्य स्थानिवद्भावेनैव सिद्धत्वात । तस्मादिङादेश एव ग्राह्यते । अन्यथा ङकारस्य वैयर्थ्य' स्यात् । ननु चोभयोरपि सामान्यग्रहणार्थी डकारः स्यात् । तत् कुतो वैयर्यम् ? नेतदस्ति । यदि हि तो समानौ स्यातां तदा स्यात् सामान्यग्रहणार्थता तस्य । नच तो समानो। गत्यर्थस्य गाङो ङकारस्या- त्मनेपदविधौ चरितार्थत्वात् । इतरस्य तु न कचिच्चरितार्थता । तस्माद- समानार्थत्वादयुक्तं सामान्यग्रहणमिति गाडादेश एव गृह्यते । किमर्थं पुनरिह डकार उच्चार्यते ? न गा इत्येवोच्थेत ? नैवं शक्यम् । एवं हि सति निग्नु- बन्धक ग्रहणन सानुबन्धकस्येति के गै शब्द इत्यस्यैव ग्रहणं स्यात् । कुटादयो हि कुट कौटिल्य इत्यत आरभ्य कुङ् शब्द इति यावदिति । तदनन्तरं वृत्- करणात् ततोऽधिकानां कुटादित्वानुपपत्तेः । अध्यगीष्टेति । सिचो ङित्त्वे घुमास्थागादिसूत्रेणेत्त्वम् (६।४।६६) । अत्र हि दोङो युद्धचि (६।४।६३ ) डितीत्यतः डितीत्यनुवर्तते । ईट् यतीत्यत (६।४।५) ईदिति च । अध्यगोषतेति । आत्मनेपदेष्वनत इत्यदादेश: ( ७ १.५)। अथ लिटि यो गाङादेशस्तस्य कस्मादुदाहरणं न प्रदर्शितम् ? एवं मन्यते । लुङ एवायम् । नासाविह लिड ग्रहणं प्रयोजयति । असंयोगाल लिट किदिति ( १।२।५) वक्ष्यमाणेनेव सिद्धत्वात् । उत्कुटितेति । कुट कौटिल्ये। उत्पुटितेति । पुट संश्लेषण। अथेहोचुकुटिषतीति सनो डिवादात्मनेपदं कम्मान भवति ? उपदेशाधिकारात्। तत्र ह्युपदेशे ऽजनुनासिक ( १।७२) --- ।

? (१२)। १४३ इत्यत उपदेशग्रहणमनुवर्तते । नचात्रौपदेशिकं डित्वम् ? किं तर्हि ? प्रातिदेशिकम् । व्यचेरित्यादि। व्यच व्याजीकरण इति तुदादौ कुटादिभ्यः प्राक् पठ्यते । विचितेति । ङित्त्वादिह ग्रह्यादिसूत्रेण (६ १.६) संप्रसारणम् । उरुव्यचा इति । सर्वधातुभ्योऽसुबित्यसन्प्रत्ययः । अत्वसन्सस्य चाधातोरिति ( ६।४।१४ ) दीर्घः। २। विज इट। इडादिप्रत्यय इति। इट् आदिर्यस्य हजादेः स तथोक्तः। प्रथोत्तम- पुरुषस्यैकवचनस्येटो ग्रहणं कस्मान भवति ? सार्वधातुकमपिदित्यनेनैव (१ २।४) तस्य कित्त्वस्य सिद्धत्वात् । नैतदस्ति । यत्र हि तेन न सियति तत्रोत्तम- पुरुषस्यैकवचनस्य ङित्वविधानार्थमिड्ग्रहणं स्यात् । क्व च तेन न सिध्यति ? आर्द्धधातुक आशिषि लिड्युद्दिजिषीयेत्यत्र । अतो युक्तञ्चोत्तमपुरुषस्यैक- वचनस्य ग्रहणम् । नागमस्य । अर्थवदग्रहणेनानर्थकस्य प्रत्ययाप्रत्यययो: प्रत्ययस्यैव ग्रहणमिति परिभाषाहयात् । अथापि कथञ्चिदागमस्येटो ग्रहणं स्यात् ? एवमपि तन्मात्रस्यैव ङित्त्वं लभ्यते । नतु तदादेः प्रत्ययस्य । तत्किमित्याह इड़ादिप्रत्ययो डिद् भवतीति। एवं मन्यते । धियंस्याचा- मादिरित्यत आदिग्रहणमनुवर्तते । तेन चेड् विशिष्यते । न चोत्तमपुरुषस्यैक- वचनस्यादित्वमस्ति । किं तर्हि ? आगमस्यैव । तस्मात् स एव रायते । तस्य च केवलस्यादिभूतस्य डिवे प्रयोजनं नास्तीति सामादिडादेः प्रत्ययस्य डित्त्वं विज्ञायत इति । उद्विजितेति । डित्त्वात् पुगन्तलघूपधस्येति (७३,८६) गुणो न भवति । ३। विभाषोभॊः। प्रोणुवितेति । ङित्त्वाद् गुणे प्रतिषिहे ऽचि श्रुधात्वित्यादिनो-(१।४७७ ) वडादेशः। ४। सार्वधातुकमपित्। अपिदिति । किमयं प्रसज्यप्रतिषेध उत पर्युदास: ? किञ्चान ? पूर्वस्मिन् पक्षे लोडुत्तमपुरुषस्यैकवचनस्याडुत्तमस्य पिञ्चेत्याटि (३,४।८२ ) पिति कते ।

१४४ न्यासः । न वाट:। तुदानीत्यत्राड्विकरणाकारयोः पिदपितोरेकादेशः परं प्रत्यन्तादिवच्चेत्यादि- वद्भावात् । ६१,८५ ) पिदग्रहणेन ग्राह्यते इति पित्त्वम् । पित्त्वे च सत्य- पिदिति ङित्त्वप्रतिषेधः स्यात् । ततश्च धातोर्गुणः प्रसज्येत । इतरत्र तु पक्षे च्यवन्ते प्रवन्त इत्यत्र शवन्तादेशाकारयोः पिदपितोर्य एकादेशस्तस्य पितोऽन्य- त्वान् डित्वमापद्येत । ततश्च धातोर्गुणो न प्राप्नोति । पितोऽन्यत्वन्त्वेकादेशस्य परं प्रत्यादिवत्त्वात् परग्रहणेन ग्रहणाद् । उच्यते। यथेच्छसि तथैवास्तु । उभयथाप्यदोषः । पूर्वत्र तावददोषो यस्मादपितोरेव तुदानीत्यत्रैकादेश: । न पिदपितोः । तथाह्याडुत्तमस्य पिञ्चेति ( ३ ४८२) लोडुक्तमपुरुषसैधव पित्त्वं विधीयते । इतरत्राप्यदोषः । यस्मादपिदित्यनेन सार्वधातुकं विशिष्यते पितोऽन्यत् सार्वधातुकमपिदिति । न चान्तशब्दाकारः सार्वधातुकम् । किं तर्हि ? तदेकदेश: । यच्चात्र सार्वधातुकं न च तन सहकादेशः । येन सहकादेशो न च तत्सार्वधातुकम् । तेन यद्यप्ययमकादेश: पितोऽन्य स्तथापि सार्वधातुकं न भवतीति तत्कुतो ङित्त्वस्य प्रसङ्गः ? अथवा भवतु डित्त्वम् । सत्यपि तस्य ङित्त्वे तस्मिन् नास्ति गुणाभावप्रसङ्गः । यस्माद् वार्णादाङ्ग वलीय इति वचनादेकादेशाधि प्रागव च्यवन्ते प्लवन्त इत्यत्र गुणन भवितव्यम् । कुरुत इति । तमो ङित्त्वे सति विकरणस्य गुणो न भवति । करोतरस्या तउत् सावधातुक ( ६।४।११० ) इत्युत्त्वम् भवति । तत्र हि गमहनेत्यादिसूत्रात् ( ६ ४।८८ ) ङितीत्यनुवर्तत । ५। असंयोगालिट कित् । धातोरव लिड् विधीयते । नान्यम्मादिति लिटा सामाडातुः सनि- धापितः । स चासंयोगग्रहणोन विशिष्यते। विशेषणेन च तदन्तविधिर्भवती- त्याह असंयोगान्ताडातोरिति । यदि तटसंयोगान्ताडातो: परस्य लिट: कित्त्वं विधीयते तदा वकृते वध इति न सिध्यति। परत्वाद् गुणन भवितव्यम् । कित्त्वस्यावकाश ईजतुरौजुरिति । गुणस्थावकाशो वर्त्तित्वा वर्धित्वेति । वहते ववध इत्यादावुभयप्राप्तौ परत्वाद् गुण एव स्यात् । नैतदस्ति । इष्टवाचित्वात्पर- शब्दस्य । कित्त्वमेवेष्टम् । कित्त्वमेव परमतस्तदेव भविष्यतीत्यदोषः । अत्र - (१२)। १४५ च यद्यसंयोगादिति पर्युदास आधीयते तदा संयोगादन्यस्मिन् धमाणे मजिवयुक्तान्यायेन सदृशस्यैव ग्रहण' स्यात् । संयोगस्य सदृशो योऽन्योऽसहायो हलिति हलन्तादेव कित्त्वं भविष्यति । नाजन्तात् । ततश्चक्रतुश्चक्रुरिति न सिध्यति । तस्मात् प्रसज्यप्रतिषेधोऽयम् । न पर्युदासः । न चेत् संयोगात् परो लिड् भवतीति । ङित्त्वे प्रकृते किवचनं वच्यादीनां संप्रसारणं यथा स्यादित्येव- मर्थम् । तद्धि वचिखपियजादीनां (६।१।१५) कितीति किति विधीयते । डिति । विभिदतुर्विभिदुरिति । कि त्त्वात् पुगन्तलघूपधस्येति (७।३ ८६) गुण- भावः । सांसे दध्वंस इति। कित्त्वाभावादनिदितामित्यनुनासिकलोपो (६।४।२४) न भवति । सन्सु ध्वन्स अधःपतने। अनुदात्तत्त्वादात्मनेपदम् । लिटस्तझयो- रेशिरेजित्येशादेशः (३।४।८१) । विभेदिथेति। सिप् । थल। कादिनियमादि । ६। इन्धिभवतिभ्याञ्च । समीध इति । जिइन्धी दीप्तौ । पूर्ववदात्मनेपदमेशादेशः। कित्वादमि- दितामित्यादिनानु (६।४।२४) नासिकलोपः । द्विवचनम् । अकः (६।१।१०१) सवर्णे दीर्घत्वञ्च । अधजादेच गुरुमतोऽनृच्छइत्याम् (३।१।३६ ) कस्मान भवति ? मन्त्र विषयत्वादस्य । तत्र चामन्त्र इत्यधिकारात्। एवं तर्हि मन्त्रश्छन्द एवेति च्छन्दस्युभयथेति (३।४।११७ ) सार्वधातुकत्वम् । ततश्च सार्वधातुकमपिदिति ( १।२।४ ) ङित्त्वम् । अतएव ङित्त्वादनुनासिकलोपो भविष्यतोति तत् किमर्थमिन्धेः परस्य लिट: कित्त्वं विधीयते ? ज्ञापनार्थम् । एतदनेन ज्ञाप्यतेऽनित्योऽयमामिति । नित्य ह्यामि तेन व्यवधानादेवेन्धेः परो लिण् न सम्भवतीति कित्त्वविधानं नोपपद्यते । तस्मादनित्योऽयमामिति । तेन भाषायामपि समीध इति प्रयोग उपपत्रो भवति । बभूव । बभूवि- थेति । कित्त्वाद् यथाक्रमं वृद्धिगुणो न भवतः। भुवो वुग् लुङ्लिटोरिति वुक् । भवतेर (७।४।७३) इत्यभ्यासस्यात्वम् । ननु च कृतयोरपि गुण- वयोवुका भवितव्यमकतयोरपीति नित्यो वुक् । कताकतप्रसद्भित्वात् । तत्र नित्यत्वाद् वुकि कृते गुणवद्धयोः प्राप्तिरेव नास्ति । भवरल पधत्वात् । अनजन्तत्वाच्चेति भवतिग्रहणमनर्थकम् । नैतदस्ति । शब्दान्तरस्य प्राप्नुवन् १८ ।

१४६ न्यासः। विधिरनित्यो भवतीति वुगप्यनित्यः। ततश्च परत्वाद् गुणयोः कतयोवुङ् न स्यात् । तस्माद् भवतिग्रहणं कर्तव्यम् । अथ कृतयोरपि गुणधोरेकदेश- विकतमनन्यवद्भवतीति नास्ति शब्दान्तरत्वम्। एवं सति शक्यं भवति ग्रहणम- कर्तुम् । तत् क्रियते विस्पष्टार्थम् । अथ बभूवेत्यत्राचो णितीति (७।२।११५) वृद्धेः कथं प्रतिषेधः ? यावतक इत्यनुवर्तते ? डिति चे ( १११॥५) त्यने- नेग्लक्षणा वृद्धि : प्रतिषिध्यते । न चेयमिगलक्षणा वृद्धिः । निर्दिष्टस्थानिक- त्वात् । अत्र कित्त्वविधानसामर्थ्यादनिगलक्षणाया अपि वृद्धेभविष्यति प्रतिषेधः । अन्यथा कित्त्वविधानमनर्थक स्यादिति चेत् ? न। तस्य थल्युत्तमणलि च गुणप्रतिषेधार्थत्वात् । एवं तर्हि डिग्रहणमप्यनुवर्तते । तदनुवर्तमाने न विद्यमानमन्यत् प्रयोजनम् । तेनानिगलक्षणाया अपि वृद्धेः प्रतिषेधो भविष्यति । इन्धेः संयोगाथं वचनमिति । तस्य संयोगान्तत्वात् पूर्वेणा सिद्धेः । भवतःपिदर्थमिति । नापिदर्थम् । तस्यासंयोगान्तत्वादपिदिति पूर्वेण सिद्धेः । भवर्तरिह शतिपा निर्देशो यङ्लुग्निवृत्त्यर्थः । यङ्लुगन्तालिटः कित्त्वं मा भूदिति । बोभावेति । तथाचोक्तम्- शक्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च । यच्चैकाग्रहणं किञ्चित् पञ्चैतानि न यङ्लुकि ॥ १॥ इति । श्रन्थिग्रन्थीत्यादि। श्रन्य ग्रन्थ सन्दर्भ । दम्भ दम्मे। वन्ज परिष्वङ्गे । एषामपि अन्थिग्रन्थिप्रभृतीनां लिट: कित्त्वं भवतीत्येतदर्थरूपं व्याख्येय- मित्यर्थः। तत्रेदं व्याख्यानम् । चकारोऽनुक्तसमुच्चयार्थः क्रियते । तेन श्रन्थि प्रभृतीनामपि संयोगान्तानां लिट: कित्त्वं भविष्यतीति । श्रेथतुरित्यादि । कित्त्वादनिदिता (६।४।२४) मित्यनुनासिकलोपः । तृफलभजत्रपश्चेति ( ६।४।१२२ ) चकारस्यानुक्तासमुच्चयार्थत्वादनेकहलमध्यस्याप्येत्वाभ्यासलोपौ। परिषस्वजइति । अनुदात्तेत्त्वादात्मनेपदम् । पूर्वस्य सकारस्य स्थादिष्वभ्यासेन ( ८।३।६४ ) चाभ्यासस्येति वर्तमान उपसर्गात् सुनोतीत्यादिना (८।३।६५ ) षत्वम्। परस्य तु सकारस्य सदिखञ्जयोः परस्य लिटौति (८११८) षत्वप्रतिषेधः ।

(२२)। १४७ ७। मृड़मृदगुधकुषकिशवदवसः क्ता । मृड़ सुखने । मृद क्षोदे। गुध रोषे। कुष निष्कर्षे । क्लिशू विबाधने । वद व्यक्तायां वाचि । वस निवासे । न वा मेडिति (११२।१८) कित्त्वप्रतिषेधं वक्ष्यतीति । नन्वेतदेव नियमाथं भविथतीति मृडादिभ्य एव सेट् त्वा किद् भवति नान्येभ्य इति । ततश्च सिद्ध देवित्वा मेवित्वेत्यादि। तत् किमर्थं न वा मेडिति (१।२।१८) प्रतिषेधं वक्ष्यति ? विस्पष्टार्थम् । । अन्यथा हि केचिद्विपरीतनियम सम्भावयेयुः। मृड़ादिभ्यः क्वाप्रत्यय एव किद् भवति नान्य इति । पुरस्ताद- पकर्ष इत्यादि। अपकर्ष इत्यपवाद इत्यर्थः । क्लिशित्वेति । लिश: क्वानिष्ठयोरितोट् (७।२।५०)। उदित्वा उषित्वेति । वयादिसूत्रेण (६।१।१५) संप्रसारणम् । वसतेः शासिवसिघसीनाञ्चेति ( ८।३।६० ) षत्वम् । वसतित्- धोरितोट ( ७।२।५२ ) । ८। रुदविदमुषग्र हिस्खपिप्रच्छः संश्च । रुदिर अश्रुविमोचने । विद ज्ञाने । मुष स्तेये। ग्रह उपादाने । त्रिष्वप् शये। प्रच्छ जीप्सायाम् । ग्रहेर्विध्यर्थमेवेति । न वा मेडिति (१।२।१८) प्रतिषिद्धस्य कित्त्वस्य पुनर्विधिर्यथा स्यात् । स्वपिप्रच्च्योरित्यादि । सन्नमिति । अथ वार्थ वचनं कस्मान्न भवतीत्याह किदेव हि वेति । स्वपिप्रच्च्यो ह्य काच उपदेशेऽनुदास्तादितीट ( ७।२।१० ) प्रतिषेधात् क्वा सेड् न भवतीत्यतो न वा मेडिति ( ११२ १८) निषेधो न प्रवर्तते । तेन किदेव हि वेति । रुदित्वेति । समानकर्तृकयोः पूर्वकाले ( ३।४।२१ ) क्वेति वा । गृहीत्वेति ग्रहोऽलिटि दीर्घः ( ७।२।३७)। ग्रह्यादिसूत्रेण (६।१।१६ ) संप्रसारणम् । जिवृक्षतीति । हो ढ इति ( ८।२।३१) ढत्वम् । षढोः कः ( १।२।४१ ) सीति कत्वम् । एकाचो बशो ( ८।२।३७ ) भषित्यादिना गकारस्य धकारः । सनि ग्रहगुहोश्चेतीट् ( ७।२।१२ ) प्रतिषेधः । सुषुप्सतीति । वयादिसूत्रेण (६।१।१५) संप्रसारणम् । पिपृच्छिषतीति । अत्रापि ग्रह्यादिसूत्रेण ( ६।१।१७) संप्रसारणम् । छ चेति तुक् (६।१।७३ )। स्तोश्चना थुरिति (८।४।४० ) श्चुत्वम् ।

१४८ न्यासः । ? है। इको झल। वोति निवृत्तमिति । झलादेः त्वाप्रत्ययस्यौपदेशिकं कित्त्वमस्त्येवेति तदनुवृत्तेरपार्थकत्वात् । सन्ग्रहणन्तु प्रथमान्तमिहानुवर्तते। तस्य झलित्य- नेन सामानाधिकरण्यमुपपनम् । अत: सामर्थ्यात् तदादिविधिर्विज्ञायत इत्यत आह। झलादिः झलादिः सन् कि भवतीति । अथ तदन्तविधिः कस्मान भवति ? झलन्तः सन्निति ? एवं मन्यते। बसंज्ञासूत्रा (१।१।७३) दिहादि ग्रहणमनुवर्तते । तेन झल् विशिष्यते । तस्मात् तदादिविधिरेव विज्ञायते न तदन्तविधिरिति । यदि पुनस्तदन्तविधिः स्यात् सदा किं स्यात् ? यत्रातो लोपे कृते झलन्तत्वं सनस्तत्रैव स्याच् चिकीर्षितेत्यादौ । चिकीर्षतीत्यादौ तु न स्याददन्तत्वात् । अदन्तत्वन्तु सञ्शवकारयोईयोरकादेशस्य पूर्व प्रत्यन्तवद्भावात् । अथेकइतीक् स्मरणइत्यस्य धातोर्ग्रहणं कस्मान भवति । झलिति प्रत्याहारसाहचयात् । प्रत्याहारस्यैव युक्तत्वात् । किञ्च गर्गादिषु जिगीषुशब्दपाठाच्च। धातुग्रहणे हि सति जयतः परस्य सनः कित्त्वं न स्यात् । तथाच जिगीषुशब्दो न सिद्देवत्। किञ्च धातुग्रहणे हि सती- को धातोः समीपगतो हल न सम्भवतीति हलन्ता(१।२।१०)च्चेत्येतदप्यघटमानं स्यात्। तस्मात् प्रत्याहारस्यैव ग्रहणं न्याय्यं न धातोः । चिचीषतीति । अज्झनगमां सनीति ( ६।४।१३) दीर्घः । एकाच ( ७।२।१०) इत्यादिना पूर्वोतेनेटप्रतिषेधः ।, उत्तरत्रापि यवेटः श्रवणं नास्ति तत्राप्यनेनैव प्रतिषेधो वेदितव्यः । यत्र तु विशेषोऽस्ति तत्रासौ वक्तव्य एव । तुष्ट्रपतीति । शरपूर्वाः खय ( ७।४।६१ ) इति खयः शेषः । शिशयिषत इति। पूर्ववत् सन ( १।३।६२ ) इत्यात्मनेपदम्। एवमुत्तरतापीच्ासन्नन्तादात्मनेपदमनेनैव बोद्रव्यम् । किमर्थं पुनरित्यादि। अत्र वक्ष्यमाणोऽभिप्रायः । गुणो मा भूदिति । यदर्थमिदमुच्यते तदाह । येनाभिप्रायेण पृष्टवां स्त माविष्कर्तुमाह अझनगमांसनीत्यादि। यदि दीर्घत्वे कृतेऽपि गुण: स्यात् तदा दीर्घत्वस्य वैयर्थ्य स्यात् । तस्मान् मा भूत्तस्य वैयर्यमिति दीर्घत्वं तद्गुणस्य बाधक भविष्यतीति । अत्र दोषमापादयितुमाह यथैव तीत्यादि। असति कित्त्वेऽनवकाशं दीर्घत्वं यथा गुणस्य बाधकं भवति तथा णिलोपस्यापि मपीति । अत्र - ( ११२)। १४८ बाधकं स्यात् । ततश्च णिलोपं बाधित्वा दीर्घत्वे सति जीप्सतीति न सिद्धेवदित्यभिप्रायेणाह तस्मादित्यादि । यत एवमनारभ्यमाण एतस्मिन्वेष दोषोऽनुषज्येत तस्माद् दीर्घत्वस्यावकाशदानाय कित्त्वमिदमारभ्यते। अथारभ्यमाणेऽप्येतस्मिन् कस्मादेष दोषो न भवतीत्यत आह चिचीषती- त्यादि। कित्त्वे सति तेनैव गुणस्य बाधितत्वात् । चिचीषति तुष्टुषतीत्या- दिषु सावकाशं दीर्घत्वं भवति । तेन च परत्वामिलोपो न बाध्यते । नहि कित्त्वे सति शक्यमेवं वक्तुं यथा दीर्घत्वं गुणं बाधते तथा णिलोप- यस्मान्न गुणो दीर्घवेन बाध्यते । किं तहि ? कित्त्वेन । दीर्घत्वस्यावकाशो दर्शितः। णिलोपस्य त्वेषोऽवकाशः । पाचयते: पाक्तिः । याजयतर्याष्टिरित्यादि। जीप्सतीत्यत्रोभयप्राप्ती दीर्घवं बाधित्वा परत्वान् णिलोप एव भवति । ज्ञा अवबोधने । मारणतोषणनिशामनेषु ज्ञा। मिचे ति चुरादिपाठाम्मिच् । अतितीत्यादिना पुक् ( ७।३:३६ )। मितां ह्रस्व (६ ४।८२) इति इस्वत्वम् । अन्ये तु जप मारणतोषणनिशामनेष्विति पठन्ति । ततो णिच् । तत इच्छासन् । सनीवन्तईत्यादिना ( ७।२।४८.) पक्ष इड़भावः । आजबृधामीदितीत्त्वम् ( ७।४।५५ )। अत्र लोपोऽभ्यासस्ये (७।४।५८) त्यभ्यासलोपः । णरनिटीति णिलोपः ( ६।४.५१ )। इकः कित्त्वमित्यादि । अथ किमर्थमिक उत्तरस्य सन: कित्त्वं विधीयत ? किमथे- मिको झलिति योगविभागः क्रियते ? नन्वेकमेवेदं सूत्रपठितव्यम् । इको झल् हलन्ताचेति ? प्रयोजनमाह गुणो मा भूदिति । चिचीषतीत्यादी सार्वधातुकाईधातुकयोरिति ( ७।३।८४ ) गुणः प्राप्नोति । म मा भूदित्येवमथं कित्त्वं विधीयते । नैतदस्ति प्रयोजनम् । यस्मादज्झनगमां सनीति (६।४।१६) नाप्राप्त गुण दीर्घत्वमारभ्यतेऽतो दीर्घारम्भाद् गुणो न भविष्यतीति । अन्यथा हि दीर्धग्रहणमनर्थकं स्यात् । ननु च चुकूषतइत्यत्र दीर्घवचनस्य सार्थकत्वम् । अत्र हि गाङ्कुटादिसूत्रेण ( १।२।१ ) ङित्त्वे सति गुणो न प्रवर्तते । नैतदस्ति । नोकमुदाहरणं प्रतियोगारम्भं प्रयोजयति यदि ह्य तत् प्रयोजनमभिमतं स्यादुकारमेव गृहीयात् । कृते भवेदिति। यदि कित्त्वं नोच्येत ते दीर्घ वे गुणः स्यात् । अनर्थकन्विति । तुशब्दोऽवधारणे ।

ब्यासः । यदि दीर्घत्वे कृते गुण: स्यात् तदा दीर्घवचनमनर्थकमेव स्यात् । ननु च शास्त्रमावर्त्यमानमभ्युदयाय भवति यथा मन्त्रजपादयः । तत् कुतस्त- स्यानर्थक्यम् ? नैतदस्ति। शास्त्रप्रवृत्तिपूर्वकादि प्रयोगादभ्युदयो भवति। यदि शास्त्रप्रवृत्तौ किञ्चित् प्रयोजनं सम्पद्यते ततः शास्त्र प्रवर्तते । ततः शास्त्रसंस्कृतप्रयोगाइर्मों भवति । नतु शास्त्रप्रवृत्तिमात्रात् । गुणे च कते दीर्घस्य प्रयोगो नास्तीति दीर्घशास्त्रमनर्थकमापद्यते । तदनर्थक मा भूदिति गुणो न भविष्थतोति। हुस्वार्थमिति। चिचीषतीत्यादौ इवानां दीर्घवे कृते दीर्घत्वस्य श्रवणं यथा स्यादित्येवमर्थ दीर्घत्वम्। ततो न तस्यानर्थक्यम् । दीर्घाणान्तु प्रसज्यत इति। हवानां दीर्घवचनसामान गुणो भविष्यति । दीर्घाणान्तु स्यादेव। नहि तेषां दीर्घत्वमुच्यते यतो दीर्घवचनसामर्थ्याद गुणो न प्रवर्तते । ततश्च निनीषतीत्यादिर्न सिध्येत् । नैतदस्ति । सामाद्धि पुनर्भाव्यमिति । यथैव हि भुक्तवद्भिरपि पुरुषैः सामयाद भोजनविशेषात् पुनौजनक्रिया भाव्यते तथा दीर्घाणामपि साम- र्थ्यात् पुनर्दीर्घत्वेन भाव्यम् । सामर्थ्यन्तु प्रयोजनम् । तत् पुनर्गुणप्रतिषेधः । तस्माद् दीर्घाणामपि गुणो मा भूदित्येवमर्थ दीर्घत्वं वक्तव्यम् । ततश्च तेषा- मपि दीर्घ वचनसामयाद गुणो न भविष्यतीति । यथैव हि गुणो न भवत्येवं चिकीर्षतीत्यादावृत इडातोरितीत्त्वमपि (७।१।१००) न स्यादित्यत आह ऋदित्त्वं दीर्घसंश्रयमिति । दीर्घः संश्रयो निमित्तं यस्य तत् तथोक्तम् । यं विधिं प्रत्युप- देशोऽनर्थकः स विधिर्बाध्यते । यस्य तु विधेस्तदेव निमित्तं नासौ विधि - ध्यते। गुणं प्रति दीर्घत्वस्योपदेशोऽनर्थकः । ऋदित्त्वन्तु तनिमित्तमेव । नहि करोतविना दीर्घत्वेनेत्त्वस्य प्राप्तिरस्ति । तस्माद् दीर्घत्वेन तेन गुण- एव बाध्यते । न ऋदित्त्वम् । स्यादेतत् । हवानां नाकृते दीर्घत्व ऋदित्त्वं प्राप्नोत्यतस्तेषां मा भूद दीर्घत्वमृदित्वस्य बाधकम् । दीर्घाणान्तु तरति- प्रभृतीनां तितीर्षतीत्यादी बाधकमेव स्यात् । नहि तेषामृदित्त्वं दीर्घविधि- मपक्षत इत्यत आह । दीर्घाणां नाकते दीर्घ इति । दीर्घाणामपि नाकते दीर्घ ऋदित्त्वं प्राप्नोति यस्मादित्त्वोत्त्वाभ्यां गुणवती भवतो विप्रतिषेधेनेति वचनात् परत्वाद दीर्घाणामपि गुणः प्राप्नोति । तद् बाधनार्थ तेषामपि (१२) १५१ दीर्घत्वं वक्तव्यमेव । तदेवं सर्वत्र ऋदित्त्वं दीर्घसंश्रयमिति कुतस्तदीर्घत्वेन न बाध्यते ? तस्मात् सर्वत्र दीर्येषु हखेषु च दीर्घवचनसामाद गुणो न भविष्यतीति नार्थ इको झलिति सनः कित्त्वेन । णिलोपम्तु प्रयोजनमिति । इदं तर्हि प्रयोजनम् । ज्ञोप्सतोत्यत्र परत्वान् णिलोपो यथा स्यात्। असति हि कित्त्वेऽनवकाशवाहोर्घत्वेन यथा गुणो बाध्यते तथा णिलोपोऽपि बाध्येत । ततश्च जीसतीति न सिध्येत् । सति तु कित्त्वे चिचौषतीत्यादिषु यत्र कित्त्वेन गुणो बाध्यते तत्र दीर्घत्वं सावकाशं भवति । तेन तत् सावकाशं दीर्घत्व बाधित्वा जीप्सतीत्यत्र परत्वामिलोप एव प्रवर्तते । कित्त्वे येन नाप्राप्तिन्यायेन गुणएव दीर्घत्वेन बाधितः स्यान्न णिलोपः । नैतदस्ति । यस्माद् दर्शनान्तर इयं परिभाषा यत्र कार्य विशेषचिन्ता तत्र यदा तु कार्यमामान्यचिन्ता तदा कार्यमात्रेण सकलो विषयो व्याप्त इति सर्वत्र दीर्घत्वं बाधकं स्यात् । नन्वेवमप्यारभ्यमाणे कित्त्वे पुर- स्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरानिति णिलोपमेव दीर्घत्वं बाधेत । न गुणम् । गुणस्तु स्यादेवेति दोषायैवेदं कित्त्वम् । एतदपि नास्ति । नोकमुदाहरण प्रतियोगारम्भ प्रयोजयति । यदि ह्येतावत् प्रयोजनमभिमतं स्यान् णिग्रहणमेव कुयात्। समुदायमात्रापेक्षया वा पुर- स्तादपवादा इत्यादिका परिभाषा नास्त्येवेति । ननु चासत्यपि प्रवर्तते । १०। हलन्ताच्च। इक इत्यनुवर्तते । अत्र यदि चान्तशब्दोऽवयववाची स्यादिको हला सह सम्बन्धो न स्यात् । नहीको हलवयवः सम्भवति। यो हि येनारभ्यतेऽपृथग्- देशभूतः स तस्यावयवो भवति । यथा पटस्य तन्तव इति । न च हले गारभ्यते । तस्मानायमन्तशब्दोऽवयववाची। अपि तु समीपवचनो युक्त इति मत्वाह समीपवचनोऽयमन्तशब्द इति । ननु च धातुरत्र सामादाक्षिप्तः। अतस्तदपेक्षया हलोऽवयवत्वं भविष्यति। नैतदस्ति । एवं तद्यन्तशब्दोऽतिरिच्येत। येन विधिस्तदन्तस्येत्यनेनैव (१।१।७२) तदन्तविधेर्लधत्वात् । हल् चासावन्त- श्चेति विग्रहविशेषेण कम्मधारयत्व दर्शयति। कस्य पुनरसावन्तः ? प्रकृतस्येकः।

१५२ न्यासः । यद्येवं सापेक्षमसमर्थ भवतीतीकमपेक्षमाणस्यान्तशब्दस्य समासो नोप- पद्यते। नैष दोषः। अन्तशब्दो शत्र प्रधानः । भवति च प्रधानस्य सापक्षस्यापि समास इति द्वितीयेऽध्याये ज्ञापयिष्यति । उपमितं व्याघ्रादिभिः सामान्याप्रयोग (२।१।५६) इत्यत्र सामान्याप्रयोगग्रहणेन । इगन्तादिति । षष्ठी. समासोऽयम् । ननु चेक इति पञ्चम्यन्तं प्रकृतम् । तत् कथं षष्ठीसमासः । नैष दोषः। यद्यपि पञ्चम्यन्तं प्रकृतं तथापोह समीपसमीपिसम्बन्ध सति विभक्तिविपरिणामेन षष्ठवन्ततामनुभवति । इकः समीपगतादिति । इकः समीपवर्तिन इति । बुभुत्सत इति । बुध अवगमने। एकाचो बशो भषित्यादिना (८।२।३०) भषभावः । एवमुक्तरत्रापि यत्र भष्भावस्तवानेनैव बोडव्यः । खरि चेति चत्वं (८18।५५) धकारस्य तकारः । यियक्षत इति । यजेव्रश्चादिना (८।२।३६ ) षत्वम् । षकारस्य षढोः कः ( ८।२।४१) सौति कत्वम् । कित्त्वाभावाद् वचिस्वपीत्या दिना (६।१।१५) संप्रसारणं न भवति । यदि समीपवचनोऽयमन्तशब्दस्तदा दम्भे: परस्य सनः कित्त्वं न सिध्यति । तथाहि तस्य य इक: समीपगतो हल् न तस्मात् परः सन् । यस्मात् परः सन् नासाविकः समीपगत इत्यत आह दम्भेरित्यादि। हलि- त्यनेन हल्जातिरुच्यते । नतु व्यक्तिः। तेन यदा ता एव व्यक्तयस्त्यक्तभेदा जातिरिति दर्शनं तदा तासां व्यक्तीनां हलत्वेनाश्रितानां नास्ति व्यवधानम् । अतो यैव हल्जातिरिकः समीपवर्सिनी तत एव परः सन्निति दम्भेर्विहितस्य सनः कित्त्वं सिडमेव । यदाप्यर्थान्तरभूता जातियक्तिषु प्रत्येकं परिसमाप्ता निरवयवैका तदापि नास्ति व्यवधानम् । यस्माद्यक्तिय॑त्यन्तरस्य व्यव- धायिका भवति । नतु जातेः । तस्या अशरीरिणीत्वात् । तस्मादिहापि दर्शने यैव इल्जातिरिकः समीपगता तत एव परः सन्निति दम्भेः परस्य सनः कित्त्वं भवति । तस्यास्तु व्यक्तिव्यतिरिक्ताया जातर्यदिकमपक्ष्य समीप- वर्तिनीत्व यच्च तज्जातिमपेक्षमाणस्य सनः परत्वं तदुभयं व्यक्तिहारक वेदितव्यम् । तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिरपी कः समीपगतेति भकारस्य व्यक्तः परः सनिति तदाऽधारभूताया जातेरपि परः सन् । नतु जातळक्तिनिरपेक्ष समीपवर्तिनीत्वं सम्भवति। नापि (१२)। १५३ जात्यपेक्षं सन: परत्वम् । जातरशरीरिणीत्वात् । यदि तर्हि व्यक्तिहारक- मेतदुभय मेवं तर्हि विपर्ययोऽपि व्यक्तिहारकः स्यात् । भकारव्यक्तिरिक: समीपगता न भवतीति जातिरपि न स्यात् । नकारव्यक्तः परः सन् न भवतीति जातरपि न स्यात् । ततश्च हल्ग्रहणस्य सत्यपि जातिवाचकत्वे दम्भे: परस्य सन: कित्त्व न सिध्यत्येव । नैतदस्ति । यद्यपि जातळक्ति- हारकमिकः समीपवर्तिनीत्व तहिपययश्च । सनोऽपि यद्यपि व्यक्तिहारकं जात्यपत्तं परत्वं तद्विपर्ययश्च । तथापि यदत्र हलत्वसामान्यस्येक: समीप- गतत्वं यदपक्षञ्च मनः परत्वं तदाश्रयं कित्त्वं भविष्यतीति विपर्ययम्तु विद्यमानोऽपि नापक्ष्यत एव । लक्ष्यानुरोधात् । ननु च हलत्वं नाम जाति- नास्त्येव तथाहि हलिति मंञाशब्दः सतवशादेव प्रवर्तते डित्यादिशब्द- वत् । नहि यथा गवादिषु गोत्वादिकं नाम सामान्यमभित्रमम्ति तथा हकारादिषु वर्णषु हन्त्वं नाम सामान्यमभिन्नमस्तीति शक्यमभ्युपगन्तुम् । तनिबन्धनस्याभावात् । ततश्चायुक्तमुक्तं दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धमिति। नैतदम्ति । जातिपदार्थवादिनां मते येऽपि तावदेकवस्त्वभि- धायिनः मंज्ञाश दा देवदत्तादयम्तदर्थानामप्यवस्थाभेदे परिकल्पितनानात्वेन जातिरभ्युपगम्यते। किम्युनहलित्येवमादीनामनेकवर्गविषयाणां संज्ञाशब्दा- नाम् ? अन्यथा ह्यतिव्यापिनी शब्दार्थस्य व्यवस्था स्यात् । इदञ्च तावद् भवान् प्रष्टव्यः । गवादिषु जातेरस्तित्वस्य किं निबन्धनं येनासौ तत्राभ्युप- गम्यत इति ? भिन्नेष्वभिन्नाभिधानप्रत्ययाविति चेदेतावितरत्रापि, समानौ यथैव हि गवादिषु भिन्नेष्वपि प्राक् मङ्गेतादुत्तरकालमनुयायिनौ तौ भवत स्तथा हकारादिष्वपि । प्राक् सङ्केताद् यथा तेषु तो न भवतस्तथा गवादिष्वपि । तस्माद् यो भिन्नेष्वभिन्नाभिधानप्रत्ययो जातिसद्भावसम्- प्रत्ययहेतुभूती हलष्वपि स्त इति तत्रापि हलत्वं नाम जातिरभ्युपैया । नतु गवादिष्वव गोत्वादिकमस्तीत्येकान्त एव । धिप्सति धीप्सतीति सनीवन्तर्धेत्यादिना ( ७।२।४८ ) यत्र पक्ष इण् नास्ति तत्रेदमुदाहरणम् । (७।४।५६ ) इच्चेतीत्त्वम् । अत्र लोपोऽभ्यासस्ये ( ७।४।५८ ) त्यभ्यासलोपः । खरि चेति चत्वं (८।४।५५) भकारस्य पकारः । २० ईत्वञ्च ।

१५४ न्यासः। कित्त्वे सत्यनिदितामिति (६।४।२४ ) न लोपः । दकारस्य भष्भावन धकारः। भवति। । ११। लिसिचावात्मनेपदेषु । लिङ्सिचावात्मनेपदेषु परत इति । कथं पुनर्लिङात्मनेपदेषु परतो यावता सिच एवात्मनेपदेषु परत्वं सम्भवति । न लिङः । एवं मन्यते । लिडेकदेशे ऽत्र सीयुटि लिश ब्दो वर्तते यथा न धातुलोप आर्धधातुक इत्यत्र ( १।१।४ ) धात्वेकदेशे धातुशब्दो वर्त्तते । तस्मात् सीयुट एवानन प्रकारेण कित्त्वं विधीयते अथवा यथा हल्यादिसूत्रे ( ६।१।६८) ययोरेव दीर्घत्व मम्भवति तयोरेव ङयापो दीर्घादित्येतद् विशेषणं तथेहापि यस्मादात्मनेपदं परं सम्भवति सिचस्तस्यैवैतद विशेषणम्। आत्मनेपदग्रहणं भवति परस्मैपदव्यवच्छेदार्थम् । भित्मीष्टेति । आशिषि लिङ्लोटाविति ( ३।३।१७ ) लिङ् । स्वरितत्त्वादात्मनेपदम् । एवमुत्तरत्रापि खरितजितः कलात्मनेपदमनेनैव वेदितव्यम्। सुट्तिथोरिति (३।४।१०७) सुट् । कर्तरि नम् । लिङः मलोपोऽनन्त्यस्येति (३।७५) च न भवति । लिडाशि- षोत्या धातुकत्वात् (३।१।१०७) । तयोश्च सावधातुके विधानात् । भुत्सीष्टेति । बुधेरनुदात्तङित । १।१।१२) इत्यात्मनेपदं वेदितव्यम् । उत्तरत्राप्यनुदात्तडिभ्यः कर्तर्यात्मनेपदमननैव वदितव्यम् । अभित्तेति । झलो झलीति (८।२।२६) सिचो लोपः । अबुद्धेति । झषस्तथोडौऽध (८।२।४० ) इति तकारस्य धकारः। झलाञ्जश् झशीति (८.४।५३ ) पूर्वधकारस्य दकारः । यक्षीष्टेति । खरितेत्त्वादात्मनेपदम् । पूर्ववत् षत्व' कत्वञ्च । संप्रसारणं हि स्यादिति । वयादिसूत्रेण ६।१ ९५ ) अद्राक्षोदिति । अस्तिसिचोऽपृक्त ( ७।३।८६) इतोट् । वदवजहलन्तस्याच ( ७:२।३ ) इति वृद्धि: । पूर्ववत् षत्वकत्वे । । १२॥ उश्च। लिङ्सिचाविहानुवर्तमानौ धातु सन्निधापयतः । तत एव तयोविधा- नात् । स च ऋकारण विशिष्यते । येन विधिस्तदन्तस्येति ऋकारण तदन्त- विधिर्विज्ञायत इत्याह ऋकारान्ताहातोरित्यादि। अथ ऋ गतावित्यस्य धातो- (११२)। १५५ ग्रहणं कस्मान्न भवति ? शैलीहेयमाचार्यस्य यत्र यस्य धातोर्ग्रहणमिच्छति तत्र तस्य शतिपा निर्देशं करोति । यथाऽर्तिपिपश्चि । ७।४।७७ ) सर्सि- शास्त्यर्तिभ्यश्चेति (३।११५६) । न चेह शक्तिपा निर्देशः कृतः। तस्मादृवर्णम्यैवेदं ग्रहणम् । न धातोः । प्रकृति । ह्रस्वादङ्गादिति ८।२।२७) सिचो लोपः । वरिषीटेति । वृडो वृजो वैकस्य रूपम् । लिसिचोरात्मनेपदेष्वितीद (७:२१४२)। । । वागमः । मंगसीटेति । समो गमृच्छीत्यादिनात्मनेपदम् (१।३।२८)। समगतेति । हस्वादङ्गादिति । ८।२।२७ । सिचो लोपः । १४ । हनः सिच । आहतेति आङो यमहन । १।२।२७) इत्यात्मनेपदम् । पूर्ववत् मिचो लोपः । श्राहसतति । आत्मनेपदेष्वनत (७।१।५) इत्यदादेशः । अथ सिग्रहण प्रकते पुनः सिग्रहणं किमथं क्रियत इत्याह सिग्रहणं लिड्निवृत्त्यर्थमिति । प्रकृतं हि सिग्रहणं लिङा सह सम्बद्धम्। अतस्तदनुवृत्ती मत्यां तम्याप्यनु- वृत्तिराशङ्गेयत । तस्मात् तानिराकत्तुं सिग्रहणं क्रियत । ननु च हन्ते- लिङि वधादेशन भवितव्यम् । न च तत्र सत्यपि कित्त्वे किनिदनिष्टमापद्यते तत् कस्मा ल्लिनिवृत्त्यथं सिजग्रहणं क्रियत इत्यत आह उत्तरत्रेत्यादि। यद्यत्र लिङनुवर्त्तते तत उत्तरत्र तस्यानुवृत्तिः स्यात् । ततश्चोत्तरसूत्रेण तस्यापि कित्त्वं स्यादित्यभिप्रायः । इह तु वृत्तावात्मनेपदेन सिज् न विशेष्यत इत्यात्मनेपदं निहत्तमिति कस्यचिद् भ्रान्तिः स्यादतस्तानिराकर्तुमाह आत्मने- पदग्रहणमित्यादि। इहापि कस्मान्न भवतीत्यत आह इह वित्यादि। लुङि चेति। हन्तेः परस्मैपदेषु लुङि वधादेश: क्रियते । सच नित्यः । नित्यत्वन्तु तस्यात्मनेपदेष्वन्यतरस्यामित्युत्तरसूत्रे (२।४।४४) ऽन्यतरस्यांग्रहणाद। न च नित्ये वधादेशे कित्त्वस्य किञ्चित् प्रयोजनमस्ति । अतो नेहात्मनेपदस्यानु- वृत्तिरुपपद्यते। अथ किमर्थ हन्तेः परस्य सिच: कित्त्वं विधीयते ? यावता सार्वधातुकमपिदिति (१।२।४) सिचः परस्य सार्वधातुकस्य ङित्वमस्त्येव ।

१५६ न्यासः। । तनानिदितामित्यनुनासिकलोपः (६।४।२४) सिद्धः । सिच इदिवान सिध्य- तीति चेत् ? न। सिच इकारस्योञ्चारणार्थत्वात् । तथाहि चले: सिजित्यत्र (३।१।४४) वक्ष्यति-इकार उच्चारणार्थ इति । एवमपि च्लेरिदित्वात् सिचोऽपि स्थानिवद्भावेनेदित्त्व मतो न सिध्यतीति चेत् ? न। चले- रकारस्योच्चारणार्थत्वात् । तथाहि च्लि ( ३।१।४३ ) लुडीत्यत्र वक्ष्यति- इकार उच्चारणार्थ इति । एवं तर्हि सिद्दे ङित्त्वे सति यत् पुनरिह हनः सिजिति सिच: कित्त्वं विदधाति तज ज्ञापयति वाह्यसार्वधातुकमाश्रित्य सिजन्तस्यानिदितामित्यनुनासिकलोपो ( ६।४।२४ ) न भवतीति । तेनारंस्त । अमंस्त । आयंस्त पादमिति सिद्धं भवति । अन्यथा ह्यनुनासिकलोप लत आयतत्यनिष्ट रूप स्यात् । १५। यमो गन्धने । ननु च यम उपरम इति पठ्यते । तत् कथमयं गन्धने वर्तत इत्यत आह अनेकार्थत्वादित्यादि। आङो यमहन ( १।३।२८ ) इत्यत्राकर्मका (१:३।२६) चेत्यतोऽकम्मकग्रहणमनुवर्तते। तत् कथमिह सकर्मकत्वे सत्यात्मनेपदमित्यत आह सकर्मकत्वेऽपीत्यादि । मकर्मकत्वन्तु पादादेः कर्मणोऽत्र विद्यमानत्वात् । उदायंस्त पादमिति। आकृष्टवानित्यथः १६ । विभाषोपयमने । दारकर्मेति । 'कर्मशब्दः क्रियावाची । दारक्रियेत्यर्थः । १७। स्थाघोरिच्च । सिच किद् भवतीति चकारण कित्त्वं समुच्चीयत इति दर्शयति । किमर्थ पुन: सिचः कित्त्वं विधीयते । यावता गुणप्रतिषेधस्तस्य फलम् । इकार- विधानसामादेव गुणो न भविष्यति । अन्यथा ह्येकारमेव विदध्यात् । नैत- दस्ति । लाघवार्थ होकारविधानं स्यात् । दीघोंच्चारणास्त्रोच्चारणं लघु भवति । उपास्थितति । समवप्रविभ्यःस्थ (१।३।२२) इत्यतः स्थग्रहणेऽनुवर्तमान उपाम्मन्त्र- करण (१।३।२५) इत्यत उपादिति चाकर्मकाच्चेत्यात्मनेपदम् (१।३।२६) । पूर्ववत् सिचो लोपः । ननु च सिचमाश्रित्येत्त्व विधीयत । तेन सन्निपात- - ? । (११२)। लक्षणो विधिरनिमित्त तदविवातस्येतीत्त्व नोत्सहते सिचं विहन्तुम् । तत् कुतो लोपः ? नैतदस्ति । नहीत्त्वं सिचीत्युच्यते । किं तर्हि ? इकारश्चान्ता- देशो भवति सिन्च किदु भवतीति । अथापि सिनिमित्तकं स्यात् ? एव- मप्यदोषः । तस्याः परिभाषायाश्चानित्यत्वात् । अनित्यत्वन्तु सप्तमेऽध्याये ज्ञापयिष्यते । इच्छेत्यादि । हेतुशब्दोऽत्राध्याहार्यः । तेन षष्ठी हेतुप्रयोग इति २।३।२६) हेतुशब्दप्रयोग कस्येति षष्ठी भवति । तकार एव इत् तकारत् । तकार एव वा इद् यस्य स तकारेत् । तकारतो भावस्तकारत्त्वम् । इच्छेत्यत्र निर्देशे कस्य हेतोरिकारस्य तकारत्वं क्रियते ? किमर्थमिकारस्तपरः क्रियत इत्यर्थः । शेषलक्षणा वा कार्यसम्बन्धविवक्षायां षष्ठीयम्। कस्य कार्यस्य निष्यत्त्यर्थमिकारस्तपरः क्रियत इति यावत् । दीर्घा मा भूदिति । असति हि तपरत्वेऽण गृह्यमाणः सवर्णान् गृह्णातीतीकारेण सवर्णानां ग्रहणे सति स्थानेऽन्तरतमपरिभाषयोपास्थितादितत्यत्र दीर्घ स्थाने दी| भवति । स मा भूदिति तपरत्व क्रियते । ऋतेऽपि म इति । स इत्यनेन दीर्घस्य प्रत्यवमर्श: । ऋतेऽप्यस्मादेव वचनाद घुमास्थादिसूत्रेण (६।४।६६) दीर्घ: सिद्धः । तस्माद वचनसामयादीर्घा न भविष्यतीत्यभिप्रायः । भाव्यमानोऽण मवर्णान् न गृह्णातीत्यतो दोघीं न भविष्यतीति । एष तु परीहारो नोक्तः । भाव्य- मानेनाप्यणा कचित् सवर्णानां ग्रहणात् । तथाहि अदम औप्रत्यये परत- स्त्यदाद्यत्वे वृद्धिरेचीति (६।१।८८) वृद्धी कृतायामदमोऽमेर्दादु दो म ८।२।८०) इत्युकारो विधीयमान: सवर्णानां ग्रहणादौकारस्य दीर्घस्य स्थाने दीर्घ एव भवत्यम् इति । इदं तर्हि प्रयोजनम् । अनन्तर प्लुतो मा भूदिति । अनन्तरार्थ विसदृशार्थ आरम्भ सति । कुत एतत् ? विसदृशस्य श्राकारस्य स्थान क्रियमाणो इस्वो भवति न पुन: प्लुतः । तस्मात् प्लुतबाधनाथं तपरत्वं कर्तव्यम् । एतदपि नास्ति प्रयोजनम् । प्लुतश्च विषय स्मृत इति । चशब्दो हेती। प्लुतो हि दूरातादिविषयविशेष ८।२।८४) उक्त एव । तत्र यद्यनेन प्लुतो विधीयते तदा मर्वत्र दूराडूतादिविषयेऽन्यत्र चानन भवितव्यम् । ततश्च दूराडूतादिविषयेऽपि तस्मिन् भवत्युक्तानुवाददोष: स्यात् । तस्य कृतस्य करणात् । तस्मात् पक्ष उक्तानुवाददोषी मा भूदिति ह्रस्व एव भविष्यति न ।

न्यासः। प्लुत इति प्रत्याख्यातं भाष्थे तपरत्वम् । अन्ये तु अन्ये तु वर्णयन्ति प्लुतश्च विषये स्मृत इति नानेन तपरत्वं प्रत्याख्यायते किन्तर्हि तस्य प्रयोजनमाख्यायते । दूराडूतादिविषये प्लुत इष्टोऽभिप्रेतः । स न प्राप्नोति । स्थानेऽन्तरतमपरिभाषया दीर्घस्यैव स्थाने दीर्घ एव विधीयते ननु चोक्तं सिद्ध एव दीर्घ इति । सिद्धस्य पुनर्वचनं प्लुतस्य बाधनाथं स्यात् । इष्यते च प्लुतो दूराडूतादिविषये। तस्मात् तस्य बाधको दीर्घा मा भूदिति तपरत्वं कर्त्तव्यम् । तेन विचार्य- माणानामित्याष्टमिको (८।२।८७) भवत्येव प्लुत इति । । १८। न त्वा सेट। वाप्रत्ययस्यौपदेशिकं कित्त्वमस्त्येवेति । तदिटः वाप्रत्ययेन ग्रहणात् सेटोऽपि प्राप्नोतीत्यतः प्रतिषेधोऽयमारभ्यते । क्वाप्रत्ययः सेट किन भवतीति । अथ किं ककारस्येत्संज्ञाप्रतिषेधात् कित्त्वन्न भवति ? कित्कार्यस्य प्रतिषेधाहा ? यदि ह्यत्र ककारस्येत्संज्ञाप्रतिषेधादकित्त्वं विधिसितं स्यादित्संज्ञाप्रकरणे लशक्वसेट्वातहितयोरिति सूत्रं कुर्यात् । एवं हि द्दिष्प्रतिषेधो न कर्तव्यो भवति । तस्मात् कित्त्वप्रतिबई यत् काव्यं तत् प्रतिषेधादकित्त्वं मेटः त्वाप्रत्ययस्यानेन क्रियते । न तु ककारस्येत्संज्ञा- प्रतिषेधात् । अथ सानुबन्धकस्य ग्रहणं किमर्थम् ? न त्वेत्येवोच्थेत । एवं हि लघु सूत्रं भवति। नैतदस्ति । ककारानुच्चारणे हि कश्चिद् द्देष्यपि विजानीयात्। मेट: क्वाप्रत्ययस्य ककारानुबन्ध एव नास्ति निरनुबन्धक- स्योचारणादिति । तदेवं मा विज्ञायोति सानुबन्धकस्योच्चारणम् । कः पुनः मेटो निरनुबन्धकवे दोष: स्यात् ? वातोसुन्कसुन् (१।१।४०) इत्यत्र सेटो ग्रहणं न स्यात् । निरनुबन्धकत्वात् अथाव्ययसंज्ञाविधौ निरनुबन्धक उच्चार्यते । एवमपि सेट एव ग्रहणं स्यात् । नानिट: । सानुबन्धकत्वात्। निगृहीतिरिति । स्त्रियां क्तिन् ३ ३।६४) । तितुतत्रतथेति ७/२८ ग्रहादीनां प्रतिषेधो वक्तव्य इति तितुतनतथेत्यादिनेटप्रतिषेधो न भवति। उपनिहितिरिति। निह प्रीतौ । निकुचितिरिति । कुन्च क्रुन्चु कौटिल्याल्योभावयोः । एषु निषूदाहरणेषु यथाक्रम संप्रसारणगुणप्रतिषेधो । अनिदितां हल उपधाया: (६।४।२४) ङि- ।

(११२) १५८ तौत्यनुनासिकलोपश्च कित्त्वाद् भवति । न मेडित्यादि। न सेडित्येतावता योगेनाकित्त्वे सति सिद्धं देविवेत्यादि । त्वाग्रहणं तु किमर्थम् ? तेन विना- कित्त्वे सति गुध परिवेष्टने निगुधितो निगुधितवानित्यत्र निष्ठायां प्राप्नोतीति चेत् ? नैतदस्ति । निष्ठायामवधारणात्। निष्ठाशीविदिमिदी ( १:२।१८ ) त्यत्रावधारणाविष्ठायां न भविष्यति। शीडादिभ्य एव निष्ठा मेट् किन भवति । नान्येभ्यो धातुभ्य इति। शीडादिभ्यो निवेति विपरीतनियमस्तु नाशङ्गनीयः । नद्यनिष्टार्था शास्त्रे प्रक्लप्तिरिति न भविष्यति । लिटस्तहि कित्त्वस्य प्रतिषेधः स्यात् । ततश्च जग्भिव जग्मिमेत्यत्र गमहनेत्यादि- नोपधालोपो ( ६।४।८८) न स्यादित्यत आह ज्ञापकान परोक्षायामिति । परोक्षे विहितत्वाल लिटः श्रुतिः परोक्षेत्युच्यत । तस्यां कित्त्वप्रतिषेधो न भविष्यति । कथम् ? ज्ञापकात् । किं तज् ज्ञापकम् ? इत्याह सनि झल्ग्रहणं विदुरिति । यदयमिको ( १।२८ । झलिति मन्विशेषणं करोति ततो ज्ञायत औपदेशिकस्य कित्त्वस्य न मेडिति प्रतिषेधोऽयम् । नातिदेशिकस्येति । झल्ग्रहणं हि शिशयिषत इत्यत्र कित्त्वं मा मूदित्येवमर्थः क्रियते। यदि च न मेडिति प्रतिषेध आतिदेशिकस्यापि कित्त्वस्य स्याज झल्ग्रहण मनर्थक स्यात् । अस्त्वत्र कित्त्वम् । तस्य न मेडिति प्रतिषेधो भविष्यतीति तस्मादीपदेशिकस्य कित्त्वम्य प्रतिषेधोऽयं नातिदेशिकस्येति । अस्यार्थस्य ज्ञापकं झल्ग्रहणं विदन्ति विद्वांसः । आतिदेशिकञ्च लिटः कित्त्व मतस्तस्य प्रतिषेधो न भविष्यतीति । ननु चोत्तरा) झल्ग्रहणं स्यात् । स्थाघोरिचेत्यत्र (१।२।१७. झलादी सिचीत्त्वं यथा स्यादजादौ माभूदिति। उपास्थायिषातामिति अत्र हि स्यसिच्सीयुट् तासिवित्यादिना (६।४।६२ चिगवद्भावः प्राप्नोति । इत्त्वञ्च । तत्र परत्वाच्चिगा- वद्भावादिट् । चिण्वद्भावे मत्यातो युक् (७।३।३३) चिण कृतोरिति युक् । तत्रासति झल्ग्रहण इड़ादावपीत्त्वं यकारस्थान प्राप्नोति। नैतदम्ति यम्मा- दित्त्वं कित्सन्नियोगेन विधीयते । कित्त्वं हि प्रधानभूतम् । इत्त्वमन्वाचय- शिष्टम। अतः कित्त्वाभाव तदित्व न भविष्यतीति । अथ स्थाघोरि- त्यत्रापि ( ११२।१७) कित्त्व कस्मान्न भवति ? न मेडित्येतावता योगेन - न्यासः। प्रतिषित्वात् । रेण तुल्यं सुधीवनीति । रेफेण तुल्यमेतदित्त्वम् । क चोदाहरण ? सुधीवनीत्यत्र । शोभना धीवानो यस्यां सा सुधीवा। अनो बहुब्रीहेरिति ।४।१।१२) डीपोऽत्र प्रतिषेधे कृतं यथा वनो र चेति (४।१।७) रफो डीप्सन्नियोगेन विधीयमानस्त दभाव न भवति तथा कित्त्वसन्नियोगेन विधीयमानमित्त्वं तदभाव न भविष्यति । किमर्थं तर्हि त्वाग्रहणम् ? क्वसौ कित्त्वप्रतिषेधो मा भूदित्येवमर्थं त्वाग्रहणं कर्तव्यम् । क्वमौ त्वौपदेशिकं कित्त्व- मस्ति । तस्य न सेडित्येतावता योगेन प्रतिषेधः स्यात् । ततश्च जग्मिवा- नित्यत्रोपधालोपो न स्यात् । वस्वथं किदतिदेशादिति न भविष्यतीत्यध्या- हार्यम् । अस्तु क्वसावौपदेशिकस्य कित्त्वस्य प्रतिषेधः। सत्यपि तस्मिन्न संयोगानिट १।२।५) किदिति यदातिदेशिक कित्त्वं तनोपधालोपो भविष्यति । झल्ग्रहणादातिदेशिकस्य कित्त्वस्य प्रतिषेधो न भविष्यतीत्युक्त ह्य तत् । तस्माद वस्वथं त्वाग्रहणं न भविष्यतीति। एवं तर्हि निग्रहीति: प्रयोजनम् । तिनि तु प्रतिषेधो मा भूदित्येवमथं त्वाग्रहणमित्यर्थः । जग्मिवानित्यत्र विभाषा गमहनविदविशामिति (७२।६८ ) क्सोरिट्। उगिदचामिति ( ७।१।७० ) नुम् । हल्ड्यादि ( ६।१।६८ ) संयोगान्तलोपो (८२ २३ )। सान्तमहत (६।४।१०) इत्यादिना दीघ: । । । १६ । निष्ठा शौङखिदिमिदिक्ष्विदिषः । शी स्वप्ने: निविदा गात्रप्रक्षरणे । जिमिदा स्नेहने । जिविदा स्नेहन- मोचनयोः । जिभूषा प्रागल्भेय । शयितवानिति । अत्वसन्तस्य चाधातो रिति ( ६।४।१४ ) दीर्घः। शयित इति । गत्यर्थाकर्मकेत्यादिना ( ३।४।७२ ) कर्तरि क्तः। प्रखेदित इत्यादावादिकर्मणि क्तः कर्तरि (३ 8।७१) चेत्यनेन प्रशब्द आदिकर्म प्रारम्भ द्योतयति । प्रधर्षित इति । वैयात्यादन्यत्रेदमुदाह- रणम् । तत्र हि धषिशसी ( ७.२।१८ ) वैयात्य इतीप्रतिषेधेन भवितव्यम् । प्रकृतिग्रहणे यङ्लुको ग्रहणं स्मरति । अतो यङ्लुको ग्रहण मा भूदिति शीङोऽनुबन्धनिर्देशः । तेन शेश्यितः शेश्यितवानित्यत्र कित्त्वप्रतिषेधाभावाद् गुणो न भवति । एरनेकाच (६।४।८२) इत्यादिना यणादेशः । । ) (१२)। २०। मृषस्तितिक्षायाम् । तितिक्षा क्षमा क्षान्तिरिति । यद्येवं क्षान्तिग्रहणमेव कर्तव्यम् । लघु ह्येवं सूत्रं भवति । सत्यमेतत् । वैचित्रवाथं तु न कृतम् । अपमुषितमिति । अपरामृष्टमित्यर्थः अनेकार्थत्वादातूनाम् । अनेकार्थत्वन्तु तितिक्षा ग्रहणाद् विज्ञायते। असति हि तत्र मृषस्तितिक्षायामेव पठ्यत इति। तब कुर्यात्। व्यवच्छेद्याभावात् । । २१ । उदुपधाद् भावादिकर्मणोरन्यतरस्याम् । आदिकर्मणि वर्तमान इति । आदिभूतक्रियाक्षण आदिकर्म । तस्मिन् भूतत्वेन विवक्षित यः तो भवति स आदिकर्मणि वर्तते । द्योतितमनेन- द्युतितमनेनेति। द्युत दीप्तौ। नपुंसके भावे तप्रत्ययः । एवं मोदित- मनेन मुदित मनेनेत्यत्रापि मुद हर्ष इत्यस्मात् । प्रद्युतित इत्यादिषु त्वादि- कर्मणि क्त: कर्तरि चेति ( ३।४।७१ ) क्तः कर्तर्येव विधीयते । न कर्मणि । धातोरकर्मकत्वात् । नापि भावे । भावोदाहरणादविशेषप्रसङ्गात् । कर्तर्य- प्युत्पन्नः क्त आदिकर्मसम्बन्धादादिकर्मणीत्युच्यते । आदिकम्मसम्बन्धस्त्वर्थ हारकः । रुचितमिति । रुच दीप्तौ । अस्याकर्मकत्वाद् गत्यर्थाकमकेत्यादिना कतरि (३।४।७२) क्तः । दीप्तिमत् कार्षापणमित्यर्थः । आदिकमात्र न विव- क्षितम् । प्रभुक्त प्रोदन इति । भुज पालनाभ्यवहारयोः। तयोरेव कृत्यक्तखला (३।४।७०) इति कर्मणि क्तः । तस्यादिकर्मसम्बन्धादादिकर्मणि वृत्तिः । गुध परिवेष्टन इति देवादिकः । निगुधित मिति भावे क्तः । यदि व्यवस्थितविभाषया शब्धिकरणानामेव भवति सेड्ग्रहणेन किमर्थमिह निष्ठा विशिष्यते ? अशव् विकरणत्वादेव हि प्रभुक्त इत्यत्र न भवति । नहि भुजिः शविकरणः । अपितु अम्विकरणः । सत्यमेतत् । उत्तरार्थ सेड्ग्रहण मनुवर्तनीयम्। अतस्तदुत्तरार्थ मनुवर्तमान मिहापि मन्दधियां सुखप्रतिपत्तियथा स्यादि- त्येवमर्थम् । तकारोऽत्र मुखसुखार्थो नतु दीर्घनिहत्त्यर्थः । अलघूपधत्वा- देव हि दी|पधानां गुणप्रसङ्गाभावात् ।

१६२ न्यासः। २२ । पूड: का च । न सेडिति वर्तत इत्युक्तम् । न वा मेडित्यतः (१।२।१८) । ननुच पूङः परयोः क्वानिष्ठयोरिटा न भवितव्यमेव। श्रुपकः (७।२।११) कितीति प्रतिषेधात् । तदपार्थिका मेड्ग्रहणानुवृत्तिरिति य श्चोदयेत् तं प्रत्याह पूङश्चेड् विहित इत्यादि । अथ वाप्रत्ययस्योदाहरणं कस्मान प्रदर्शितमित्यत आह त्वाप्रत्यय- स्येत्यादि। यदि ह्यनेन योगेन त्वाप्रत्ययस्य कित्त्वं प्रतिषिध्येत तदा तस्या- प्युदाहरणं प्रदर्खेत । नचानेन प्रतिषिध्यते । किन्तर्हि ? न वा (१।२।१८) मेडित्यनेनैव प्रतिषिद्धत्वात् । तस्मात् तस्योदाहरणं न प्रदर्शितमिति भावः । क्वाप्रत्ययस्य न वा मेडित्यनेन ( १।२।१८) प्रतिषेध इत्येतदेव द्रढ़यितुमाह तथाचेत्यादि। पूङश्वेत्यत्र सूत्रे हयोर्विभाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीति मन्यमानै भरद्वाजीयरिदमुक्तं नित्यमकित्त्वमिडाद्योरिति । तौ पुनरिड़ादी क्वानिष्ठाप्रत्ययौ । यदि तर्हि नित्यमकित्त्वमिड़ाद्योस्तदा त्वाग्रह- विकल्पेन ह्यत्राकिसिद्धये तस्य ग्रहणमर्थवद्भवति । नान्यथा नित्यत्वम् । कित्त्वप्रतिषेधस्य न वा सेडित्यनेनैव ( १।२।१८) सिद्धत्वादिति चोद्यमाशयदमुक्त त्वाग्रहणमुत्तरार्थमिति । सानुबन्धकस्योच्चारणं किमर्थम् ? पोपुवितः पोपुवितवान् पोपुवित्वेति यङलुगन्तात् कित्त्वप्रतिषेधो मा भूदिति । पूनिवृत्त्यर्थं सानुबन्धकस्योच्चारणं नोपपद्यते । शुकः किती (७२।११) तोट्प्रतिषेधात् । लानिष्ठयोः सेटोरभावात् । णमनर्थकं स्यात् । पूङ इति पुजः परयोः . २३ । नोपधात् थफान्ताहा। निष्ठेति निवृत्तमिति। पूर्वसूत्रे चानुक्लष्टत्वात्। ग्रथित्वेति । कित्त्व- पक्षेऽनिदितामित्यनुनासिकलोप: (६।४।२४) । गुफित्वेति । गुफ गुन्फ ग्रन्थे । रिफित्वेति । रिफ कत्थनयुद्धनिन्दाहिंसादानेषु। ननु चैतविकल्पाभावेऽपि रलो व्युपधादित्यादिनैवात्र (१।२।२६) विकल्पेन भवितव्यम् । न चानयोर्वि- कल्पयोः कश्चिद् विशेषोऽप्यास्ति । एवं तर्हि नोपधग्रहणसामाद् योगान्तर- कतोऽपि विकल्पोऽनेन बाध्यते । ननु च ऋकारोपधो नोपधग्रहणस्य प्रत्यु- (१२)। १६३ हिरणविषयो भविष्यति । ऋफ ऋन्फ हिंसायाम् । अर्पित्वेति । नैतदस्ति । इहास्माभिरनयोर्धात्वो रूपत्रयं साध्यम् । अफित्वा ऋम्फित्वा ऋफिवेति । एतत् तु सत्यसति वा नोपधग्रहणेऽनेनैव सिद्धयत्येव । सति तावतोपधग्रहणे ऽनोपधस्य ऋफेर्न वा मेडिति ( १।२।१८) प्रतिषेधे सत्यर्फित्वेति सिध्यति । नोपधस्य वृम्फेरस्मिन् विकल्पे सत्य॒म्फित्वा ऋफित्वेतीदमपरं रूपयं सिद्यति । असत्यपि नोपधग्रहणे सर्वथास्मिन् विकल्पे सतीदं रूपवयं सिध्यत्येव । तस्माद् युक्तमुक्त प्रत्युदाहरणं रेफित्वेति । येन विधिस्तदन्तस्येति तदन्त विधी सिद्धेऽन्तग्रहणमिह त्वाप्रत्ययकाण्ड यत्नमन्तरेण तदन्तविधिन भवतीति ज्ञापनार्थम् । तेनोत्तरसूत्र ऋत इति धातुः स्वरूपण गृह्यते । नत तदन्त इति । लुन्च अपनयने । । २४। वञ्चिलुच्चातश्च । वन्चु प्रलम्भने। ऋत इति सौत्रो धातु यंत्र ऋतरीयडि तीयङ् (३।१।२८) विहितः । ऋतरीयङ् आर्धधातुके विकल्पात इति । प्रायादय आर्धधातुके (३।१।३१) वेत्यनेन । वचित्वेति । अनिदिता- मिति (६।४।२४) नलोपः । वति। उदितो (७।२।५६) वेतीड़भावः पक्षे । चकारो वाग्रहणस्य स्वरितत्वविस्पष्टीकरणार्थः । तेनोत्तरसूत्रे काश्यपग्रहणस्य पूजार्थता विज्ञायते । अन्यथा हि तस्य विकल्यार्थता विज्ञायते । हयोविभाषयोर्मध्यवर्तित्वाबित्योऽ यं विधिः स्यात् । तथाच २५ । टषिमृषिकृशः काश्य पसा । जिषा पिपासायाम् । मृष तितिक्षायाम् । कश तनुकरण। काश्यप- ग्रहणं पूजार्थमिति । काश्यपस्यैवैतविषयं ज्ञानं नान्येषामित्यसाधारण- ज्ञानोद्भावनमेव तस्य पूजा। तत्पूजाहारण शास्त्रस्यापि महार्थतोद्भावन- लक्षणा पूजा कता भवति । एवनाम शास्त्रस्य महार्थत्वं येन तथाविधा मुमुक्ष- वोऽप्याट्रियन्त इति । तेन विकल्पा) काश्यपग्रहणं कस्माव भवतीत्यत पाह वेत्येव शिवसंत इति ।

न्यासः। २६ । रलो व्युपधाधलादेः संश्च । वाप्रत्ययस्य न वा सेडिति ( १।२।१८) कित्त्वे प्रतिषिद्धे सनोऽप्यकित्त्वे खभावत एव व्यवस्थित उभयत्रेदं विधिमुखेनैव प्रवर्तत इति पक्षे कित्त्वं भवतीति । विदिद्युतिषत इति । युतिखाप्योः (७।४।६७) संप्रसारण- मित्यभ्यासस्य संप्रसारणम् । एषिषिषतीति । इषु इच्छायाम् । इड़ागमे कतेऽजादेहितीयस्येति (६।१।२) द्वितीयस्यैकाचो दिर्वचनम् । बुभुक्षत इति । हलन्ताचेति (१।२।८०) नित्य कित्त्वं भवति । लाघवार्थमिणुपधादिति वाच्य इण्ग्रहणानि सर्वाणि परेण णकारणति ज्ञापनाथं व्युपधादित्युक्तम् । तेन लणित्यत्र यदुक्त मिणग्रहणानि सर्वाणि परण णकारणेति तदुपपन्न भवति । दोषः। । २७। ऊकालोऽजझखदीर्घशुतः । जः कालो यस्याचः स जकालः । ननु चायुक्तोऽयं निर्देशः । तथाहि जइति शब्दः । कालस्तु क्रिया। तत् कुतोऽत्र सामानाधिकरण्यम् ? नैष यस्मादू इत्येतत्सहचरितायामुच्चारणक्रियायामिह साहचर्यादू इत्येष शब्दो वर्तते। एवमप्ययुक्तम् । यत ऊ इत्येतत्सहचरितं यदुच्चारणं सदूकारस्यैव। मान्यस्याचः। तत् कथं सोऽन्यसम्बन्धिन्या क्रियया अकाल: स्यात् । नहि यज्ञदत्तसम्बन्धिनीभिश्चित्रगवीभिर्देवदत्तश्चित्रगुर्भवति । अयमप्य- दोषः। वत्यर्थस्येह विवक्षितत्वात् । तस्य च विनापि वतिना गम्यमानत्वात् । परपदार्थेषु हि प्रयुज्यमाना: शब्दा वतिमन्तरेणापि वत्यर्थं गमयन्तीत्युक्त- मतत् । तदेतदुक्तम्भवति । ऊ इत्येतत्सहचरितयोच्चारणक्रियया तुल्योच्चारण- क्रिया कालाख्या यस्याचः स जकाल इति । ननु च अकाल इत्येकः संजी संज्ञास्तु तिस्रः । ततो वैषम्यात् संख्यातानुदेशो न प्राप्नोतीति यो मन्येत तं 'प्रत्याह ज इति त्रयाणामित्यादि। मात्रिकाणां त्रयाणामकः सवर्णे (६।१।१०१) दीर्घत्वमेकादेशं कृत्वा ऊ इति निर्देश: कृत इत्यर्थः । कुतः पुनरेतद् विज्ञायते त्रयाणामेकः प्रश्लेषनिर्देश इति ? तिमृणां संज्ञानां विधानसामयात् । नोक स्य भित्र प्रयोजनमन्तरेणानिकसंज्ञाविधाम- (१२)। मर्थवद्भवति । नचे हैकस्यानकसंज्ञाकरणे भिवप्रयोजनमस्ति । इखदीर्घ प्लत इति यद्येक एवायं शब्दः संज्ञा स्याल लाघवार्थत्वात् संज्ञाकरणस्य महत्याः संज्ञायाः करणमयुक्तं स्यात् । किञ्चात्तिधर्माण: संज्ञाशब्दाः प्रदेशेषु भवन्ति । नचायं समुदायः प्रदेशष्यावर्तते । अपितु प्रत्येक खादि- शब्दाः । तस्मात् तेषां इन्दं कृत्वा निर्देश इति मत्वाह खदीर्घप्लुत इत्यादि। इन्दैकवद्भावस्तु सवौं इन्हो विभाषयकवद्भवतीति वचनात् । ननुच इन्दकवद्भाव स नपुंसकमिति (२।४।१७) नपुंसकत्वेन भवितव्यम् । तत् कथं पुंलिङ्गेन निर्देशः । सौत्रत्वानिर्देशस्य । छन्दसि व्यत्ययो (३।१।८५) बहुल मिति लिङ्गव्यत्यय उक्तः । छन्दोवत् सूत्राणि भवन्तीत्यविरुद्धास्य पुंलिङ्गता । उऊऊ इति । अनया ऽनुपूर्वेषां प्रश्लेष इति दर्शयति । कुतः पुनरेष निश्चय एषवैषा- मानुपूर्वीति । एवम्मन्यते । विभाषा पृष्टप्रतिवचने हेरि (८२८३ ) त्येकमात्रिकस्य है: प्लुतविधानाज् ज्ञायते न मात्रिकोऽन्त्य इति । अन्यत्वे हि सति तस्य नुतसंज्ञा स्यात् । एवञ्च प्लुतस्य प्लुतविधानमनर्थकं स्यात् । हिमात्रिको ऽप्यन्त्यो न भवति। प्रोमभ्यादान (८।२।८७) इति हिमात्रिकस्य प्लुतविधानात्। तस्य चान्त्यत्वे हि सति यदि प्लुतसंज्ञा स्यात् तदा च प्लुतस्य प्लुतविधानमनर्थकं स्यात् । तस्मादन्त एकमात्रिकदिमाविको न भवतः । मध्येऽप्येकमात्रिको न भवति । अतो दीपों ( ७।३।१०) यत्रीति सुपि चेति (७.२।१०२) च दीर्घ विधानसामर्थ्यात् । यदि मध्य एकमात्रिकः स्यात् तदा तस्य दीर्घसंज्ञा स्यात् । दीर्घस्य दीर्घ वचनमकिञ्चित्करं स्यात् । तस्मादादा- वेकमात्रिकत्वे हि सति पारिशेष्यान्मध्ये हिमात्रिकोऽन्ते विमात्रिक इति । उ ऊ ऊ इति । अत्राप्युकारादिसहचरितायामुञ्चारणक्रियायामुकारादयो वर्तन्ते । एवंकालोऽजिति प्रत्येकमेवाभिसम्बहाते। एवं शब्दः सादृश्ये । तच्च सादृश्यं क्रिया- श्रितत्वादुकारादिसहचरिता योच्चारणक्रिया तदपक्षं विज्ञायते । तेनायमों भवति । उकारसहचरितोच्चारणक्रियया सदृशकालो योऽच् स इखसंजो भवति। अकारसहचरितोच्चारणक्रियया सदृशकालो योऽच् स दीर्घसंज्ञो भवति। अकारसहचरितोच्चारणक्रियया सदृशकालो योऽच् स मुतसंज्ञो भवति । दधि मध्विति रूपीदाहरणम् । कार्यादाहरणन्तु दधिच्छत्रम् ।

न्यासः । मधुच्छवमिति । छ (६।१।६३) चेति इवाश्रयस्तुक् । कुमारी। गौरीति । एतदपि रूपोदाहरणम् । कार्योदाहरणं कुमारीच्छत्रं गौरीच्छत्रमिति । दीर्घात् (६।१।७५) पदान्ताहेति (६।१।७६ ) वा तुक् । देवदत्ता३ अत्र न्वसीति कार्योदाहरणम् । अनन्त्यस्यापि प्रश्नाख्यानयोरिति (८,२।१०५ ) प्लुतः । देवदत्तशब्दात् परस्या विभक्त: सोः ससजुषो (८।२।६६) रुरिति रुत्वम् । अतो रोरुप्लुतादप्लुत (६।१११३) इत्युत्वप्रतिषेधः कार्यः । भोभगो अघोअपूर्वस्येति (८।३।१७) यकारः । तस्य लोपः (८३१८) शाकल्यस्येति यकारस्यलोपः । ननु चोकारोऽ यमण् गृह्यमाणः सवर्णान् गृह्णातीति । अत उकारण दीर्घ प्लुतयोर्ग्रहण सति तयोरपि इस्वसंज्ञा भवतीत्यत आह काल- ग्रहणमित्यादि। कालग्रहणे हि येषामताः संज्ञा विधीयन्ते तेषां यथाक्रम- मेकमात्रिकत्वदिमात्रिकत्वत्रिमात्रिकत्वानि विशेषणानि लभ्यन्त । तथाहि कालग्रहण सति प्रत्येकं वाक्यपरिसमाप्ती क्रियमाणायां त्रयो बहुब्रीहयो भवन्ति । उ: कालो यस्य स उकालः । अः कालो यस्य स अकालः । अ३: कालो यस्य स अकालः । एषां यथाक्रममेकमात्रिक हिमात्रिकत्रिमात्रिका अचोऽन्यपदार्था यस्मान् मात्रिक एवाच उ इत्येतत्सहचारिण्या उच्चारण- क्रियाया स्तुल्यकाल: । एवं हिमात्रिक एवाच ऊ इत्येतत्सहचारिण्या उच्चारणक्रियाया स्तुल्यकाल: । एवं त्रिमात्रिक एवाच ऊ३ इत्येतत् सहचारिण्या उच्चारणक्रियाया स्तुल्यकाल: । एवं च सति मात्रापरिमाणस्याची ह्रस्वसंज्ञा विधीयमाना सत्यप्युकारण दीर्घप्लुतयोर्ग्रहण तयोर्न भवति । नहि तो मात्रापरिमाणौ। तेनालय परिणीयेत्यत्र ह्रस्वाश्रयस्तुङ् न भवति । प्रतक्ष्य प्ररक्ष्येति । तत् त्वतू तनूकरणे"। रक्ष पालने। कुगतिप्रादय (२।१।१८) इति समासे कृते समासेऽनपूर्वे त्वो (७।१।३७) ल्यबिति ल्यप् । योरईमात्रयोहलोः संयोगसंजिनोरुकालत्वमस्तीत्यसत्यग्रहणे ह्रस्वरज्ञा स्यात् । ततश्च इस्खाश्रयस्तुक् प्रसज्येत । तितउच्छत्रमिति । अत्राकारो- कारयोरचो: समुदायस्य ऊकालत्वाहिमात्रिकत्वमस्तीति दीर्घसंज्ञा स्यात् । ततश्च पदान्तादेति (६।१।७६) विकल्पितस्तुक् प्रसज्येत । अग्रहणे तु सति दीर्घसंज्ञा न भवति। अच्समुदायस्याग्रहणे नाग्रहणात् । ननु च सत्यामपि तत्र परतो (१२)। १८७ तस्यां समुदायाश्रयायां दीर्घ संज्ञायामवयवाश्रया हवसंज्ञा भविष्यति । तदाश्रयस्तुङ् नित्य एव । नेतदस्ति । परत्वाद् दीर्घाश्रयम्तुविकल्पः प्राप्नोति । नचैवंविधविषये पुनः प्रसङ्गविज्ञानमस्ति । यत्र पूर्वी विधिः प्रवर्त्तमानः परविधिविज्ञानं न बाधते तत्तद् भवति पुनः प्रसङ्गविज्ञानात् सिद्धमिति। इह तु नित्यो विधिः परविधिविकल्पविज्ञानं बाधते । नित्य विकल्ययोर्विरोधात् । ततश्च सद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेवेति परिभाषयैव विकल्प: स्यात् । तस्मादग्रहणं कर्त्तव्य । २८। अचश्च। परिभाषयं लिङ्गवती स्थानिनियमार्था प्रदेशेषु इखो नपुंसके प्रातिपदिक- स्येतेय (१।२।४७ वमादिषूपतिष्ठते । तदुपस्थाने च षष्ठीदयं प्रादुर्भवति । विशेष- णविशेष्यभावं प्रति कामचारात् । वो नपुंसकेति (१।२।४७) प्रातिपदिकस्ये- त्यत्राचा प्रातिपादिकं ग्राह्यमाणं विशिष्यतेऽजन्तस्य प्रातिपदिकस्येति । नतु प्रातिपदिकेना विशिष्यते। यदि हि प्रातिपदिकेना विशिष्थेत प्रातिपदि- कस्य योऽजिति तदा मध्यस्थितस्याप्यचो इवः स्यात् । सुवाग् ब्राह्मण- कुलमिति । अचा तु प्रातिपदिके विशिष्यमाण प्रातिपदिकस्यवेत्येषा स्थान- षष्ठी भवति । नचावयवषष्ठी। तेनालोऽन्त्यस्यैवाचो हस्खो भवति । वाक्यस्य टे: प्लुत उदात्त (८।२।८२) इत्यत्र गृह्यमाणेन टिशब्देनाज्विशिष्यते टेोऽजिति । तेन टे मध्यवर्त्तिनो ऽप्यचः प्लुतो भवति। यदि त्वचा टिर्विशिष्यते ऽजन्तस्य टेरिति तदेहेव स्याद् देवदत्ता ३ इति । इह तु न स्यादग्निचिदिति । चकारणाजित्यनुकृष्यते । तस्य प्रयोजन मिहेव वक्ष्यति । अतिरीत्यादीना- दाहरणान्यच इग् इस्वादेश ( १।१।४८ ) इत्यत्र व्युत्पादितानि । चीयत इति कर्मणि लकारः । संज्ञाविधाने नियम इत्यत्र युक्तिमाह । अजिति वर्तत इति। अग्रहण ह्यनुवर्तमाने हुस्खादिशब्दा अनुवर्तमाना अच एवोपस्थानं प्रति न व्याप्रियन्ते । तस्य स्वयमेवोपस्थितत्वात्। ततश्च स्वरूपमात्रपदार्थकाः सन्तो विधीयमानस्याचो विशेषणता मुपयान्ति । तत्रैव मभिसम्बन्धः क्रियते । अ: स्थानेऽज् भवति इस्वदीर्घप्लुत इत्येवं संजया विधीयमान इति । द्यौः ११८ न्यासः। - पन्थाः स इति । एतानीको (१११।३ ) गुणबड़ी इत्यत्र व्युत्पादितानि । एषु च यथायोगं दिव (७।१।८४) औत् पथिमध्यभुक्षामात् (७।१।८५) त्यदादी- नाम (७।२।१०२) इत्येभि रौकारादयः स्वरूपेण विधीयमाना दीर्घादिसंजया न विधीयन्त इति हल एव स्थाने ते भवन्ति । नाचः । द्युभ्यां द्युभि रित्यत्रापि दिव (६।१।१३) उदित्युकारो इस्वसंजया न विधीयत इति हल एव स्थाने भवति नाचः। ननु च द्यौरित्यादीनि नौण्युदाहरणानीको गुणवृद्धी ( १।१।३ ) । इत्यनेनैव संज्ञाविधाननियमन सिद्धानि। तब हि तस्याप्येतानि प्रत्युदाहर- णानि प्रागुपन्यस्तानि । तस्मानार्थ एतदर्थेन संज्ञया विधीयमानेन नियमन । सत्यमेतत् । एवं मन्यते । द्युभ्यां द्युभिरित्येवमथं संज्ञा विधाने नियमः कर्तव्यः । नाकारस्य गुणसंज्ञास्ति । नापि वृद्धिसंज्ञा। यतः पूर्वेणैव मंज्ञाविधाननियमनैतदपि सिद्यति । तस्मादन्यार्थीऽयं संज्ञाविधाननियमः क्रियमाणो येऽपि विस्मरणशीला: पूर्वस्य नियमस्य प्रयोजनं न स्मरन्ति ताननुग्रहीतु द्यौः पन्थाः स इत्येवमर्थाऽपि भवति । . २६ । उच्चैकदात्तः। उदासादयो लोकवेदयोः प्रसिद्धाः। तत् किं मंज्ञाकरणेनेति यश्चोदयेत् तं प्रत्याह उदात्तादिशब्द इत्यादि। आदिशब्देनानुदात्तस्वरितयोः परिग्रहः । एवकारो भिन्नक्रमो वर्णधर्म इत्यस्यानन्तरं द्रष्टव्यः । लोकवेदयोरुदात्तादयः शब्दा वर्णानां यो धर्मों गुण स्तत्रैव प्रसिद्धाः । नतु तहत्यचि । तस्मादिह व्याकरण उदात्तादयो धर्ममा यस्याच स्तद्गुरोऽचि संज्ञाप्यन्त परिभाष्यन्त । अन्यथा प्रदेशेषूदात्तादिशब्दश्रवणाद् वर्णधर्म एव रह्येत । न तहानजित्य- भिप्रायः । उच्चैरिति श्रुतिप्रकर्षेऽस्ति । श्रुतिप्रकर्षवत्युच्चैर्भाषते। उच्चैः पठतीति । अस्ति च प्रमाणाधिकरणवाची। उच्चैः स्थितो देवदत्त इति । उच्चै म प्रमाणम् । तस्य यदधिकरणं तदिहोच्चैःशब्टेनोच्यते । तदिह द्वितीयस्योच्चैः शब्दस्यार्थों ग्राह्यते । नेतरस्येति दर्शयितुमाह उच्चैरिति । उच्चैर्भाषत इत्येवमादौ तु वाक्ये प्रयुक्तस्योच्चैःशब्दस्य योऽर्थः श्रुतिप्रकर्षः स उच्चैरित्यत्र न राधते। यदि रात उपांशप्रयोग उदातादिसंज्ञा न स्यात् । ।

(१२)। १६८ प्रकर्षाभावात् । प्रकर्षस्यानवस्थितत्वादुदात्तादयो न विशिष्थेरन् । य एव हि कञ्चित् प्रतुचर्भवति स एव हि कञ्चित् प्रति नीचैर्भवति। एवञ्च सर्वमुदासं स्यात् । अनुदात्ततमोऽपि चेष्यत इत्यभिप्रायः । स्थानक्कतमित्यादि। उच्चता नाम प्रमाणविशेषः । तदधिकरणभूतस्थानमुच्चैर्भवति । एवञ्च सर्वमुदात्तं न स्यात् । अनुदात्तमुच्चैरुच्यत इत्यर्थः । भागवत्स्विति । भागा अवयवा येषां तानि भागवन्ति । ते भागा स्तास्वादिषु स्थानेष्वीतराधर्येण व्यवस्थिताः । स्थानमुच्चैः शब्देनोच्यते । तत् कुतः संजिन उच्चस्त्व विशेषणम् ? उच्चैःस्थान- निष्पनत्वात् । तत्र समाने स्थान उजैरूईभाग यो निष्पन्नः स उदात्तमंनो भवति । यदि स्थाने य अ भागनिष्यन्नोऽच् म उदात्तसंज्ञो भवतीत्येताव- दुच्यत एवञ्च स एवानवस्थितदोषः । तथाह्यल्पशरीरेषु य एव ताल्वादि- भाग उच्चैर्भवति स एव महाशरीरेषु ताल्वादिभागापेक्षया नीचे भवति । अतः समान इत्येतत् स्थानविशेषण मुक्तम् । एतच्च लघुर्थत्वात् मंज्ञा- करणस्यैकाक्षरायां संज्ञायां कर्तव्याया मनकाक्षरसंज्ञाकरणालभ्यते । ग्रन्थाधिक्यादर्थाधिक्यं भवतीति । ननु च ग्रन्थाधिक्यादत्र कश्चिदाचार्य- स्याधिकोऽर्थोऽभिप्रेत इत्येतावन्मात्रं प्रतीयते । समानत्व मित्येषोऽर्थविशेषः कुतो लभ्यते ? अविच्छिन्नादुपदेशपारम्पय्यात् : तत् पुनः समानत्वं वक्त भिन्न- त्वादु वेदितव्यम् । नतु ताल्वादिस्थानस्याभिन्नत्वात् । अन्यथा तालव्य- मेवापेक्ष्योदात्तः स्यात् । नतु कण्ठादीन् । वक्तुरभेदात् तदुद्दारेण भिन्ना. नामपि ताल्वादीनां ममानत्वेऽपि विज्ञायमान एष दोषो न भवति । किंलक्षण: पुनरसावुच्चभागनिष्यत्रोऽजित्याह यम्मिनित्यादि । आयाम इत्यस्य विवरणं निग्रह इति। निग्रहः स्तब्धता । संतृतकण्ठता कण्ठविवरस्य संतता। अतएव शन निष्कामन् वायु र्गलावयवाञ् शोषयति । रुक्षता भवत्यस्निग्धता । ये ते क इति । यत्तत्किंशब्देभ्य स्त्यदाद्यत्वम् । अतो गुणे ( ६।१।०७) पररूपत्वम् । जसः शी ( ७१।१७) । प्रादुगुण: (६।११८७)। प्रत्र प्रातिपदिकस्वरेण प्रकति रुदात्ता। अनुदात्तौ सुप्पिता विति ( ३।१।४) विभक्तिस्वरः । एकादेशस्त्वेकादेश उदाप्लेनोदात्त (८।२।५ ) इति ।

न्यासः। अतः खरस्य ३०। नौचैरनुदात्तः। अन्ववसर्ग इत्यस्य विवरण मार्दव मिति । शैथिल्यमित्यर्थः । मृदुतेत्यस्य विवरणं स्निग्धतेति । उरतेत्यस्यापि महत्तेति । महत्त्वादेव कण्ठविवरस्य पुनः शीघ्रं वायु निष्कामन् गलावयवान् न शोषयतीति । स्निग्धता भवति । त्वसमसिमने मेत्य नुवानीति सर्वादिष्वेव पठ्यन्ते । अनुच्चानि अनुदात्तानीत्यर्थः । नमस्ते रुद्रेत्यादि। तेशब्द स्तेमया- वेकवचन ( ८।१।२२ ) इत्यनुदात्तं सर्व (८।१।१८ ) मपादादावित्यधिकारा- दनुदात्तः । रुद्रादयोऽप्यामन्त्रितस्य (८।१।१८) चेत्यनेनाष्टमिकेन सर्वे ऽनुदाता भवन्तीति । ননস্ব त्यादि। ३१ । समाहारः स्वरितः। उदासानुदात्तशब्दावविशेषयोः संज्ञे । संज्ञा हि प्रदेशेषूच्चारिताः संजिनं प्रत्याययन्ति । ताभ्या मिहानुत्ताभ्या मुदात्तोनुदात्तयोरचो रुपस्थापि- तयोः प्रत्ययः । तस्मात् समाहारात्मकस्याचः स्वरितसंज्ञा विधीयते । समाहारशब्दश्च समाहरणं समाहार इति भावसाधनोऽयं लोक समुदाये रूढ़ः। नचोदात्तानुदात्तात्मकः कश्चिदच् समुदायः सम्भवतीति । संज्ञिनोऽसम्भवात् संज्ञापि न सम्भवतीति यचोदयेत् तं प्रत्याह सामर्थ्याच्चे - उच्यते चेद मुदात्तानुदात्तसमाहारः स्वरितसंज्ञो भवतीति । पारिभाषिकोदात्तानुदात्तसमाहारात्मनोऽचः सम्भवोऽस्ति । सामाल्लोकवेदप्रसिद्धौ यो धर्मावुदात्तानुदात्तो तावेव गृह्यते । नाचौ । नन्वेवमपि स एव दोषः । लोक प्रसिद्धोदात्तानुदात्तसमाहारात्मकस्याप्य- चोऽसम्भवादित्याह तो समाहियेते यस्मिनित्यादि । नहि लोकप्रसिद्धो- दात्तानुदात्तात्मनोऽच एषा संज्ञा विधीयते कस्य तहि ? लोकवेदप्रसिडा वुदात्तानुदात्ती समाहियेते यस्मिन्नचि तस्य । सम्भवति चैक स्मिन्नप्यचि तयोः समाहार इति कुतः संजिनोऽसम्भवः ? समानियेते यस्मिनिति ब्रुवता ऽधि रणसाधनोऽयं समाहारशब्दो न भावसाधन इति दर्शितम् । समाहियेते संहन्येते सहितावुपलभ्येते इत्यर्थः शिक्वमिति। पूजो यण् गुम् इख तत्र -- (१२२)। १७१ ( उण ५।६८३ ) श्चेति यदिति वर्तमाने अन्सेः शि कुट् किच् ( उण ५।६८४ ) चेति अंसतेयंत्प्रत्यये शिशब्दादेशे कुड़ागमे च कृते रूपम् । तित्त्वात् स्वरितत्वम् । कन्येति । तिल्यशिक्यमर्त्यकाश्मयधान्यकन्याराजन्य- मनुष्याणामन्त ( फिट , ४।७६ ) इत्यन्तस्वरितत्वम् । सामन्य इति । सामनि साधुः । तत्र साधुरिति (४।४।८८) यत्प्रत्ययः । कति । किम्शब्दात् सप्तम्यन्तात् किमोऽदित्यत् (५।३।१२) प्रत्ययः । कातीति (१२।१०५) कादेशः । । ३२। तस्यादित उदात्तमर्धहस्वम् । आदावादितः। सप्तम्यर्थे तसिः। अयमेव निर्देशो ज्ञापक आद्यादि. भ्यस्त सिर् भवतीत्यत्र तेन तसिप्रकरण आद्यादिभ्य (५।४।४४, वा) उपसंख्यानमित्येतन वक्तव्यं भवति । अईहस्वमिति । इवस्याईमित्यर्थः । अड्ई नपुंसकमिति (२।२।२) समासः । ततश्च परवल्लिङ्गमित्यादिना (२।४ २६) पुंलिङ्गेन भवितव्यम् । हस्वशब्दस्य पुंलिङ्गत्वात् । नैतदस्ति । हखशब्दो हि प्रमाणविशेषं गुणमुपादाय प्रवृत्तः । गुणवचनानाञ्चाश्रयलिङ्गवचनानि भवन्तीति गुणवचनत्वाच् शुक्लशब्दइव इस्खशब्दस्त्रिलिङ्गः । ह्रस्व इति मात्रिकस्य संज्ञा कृता । तस्यैव विभागः स्यात् । नतु दीर्घप्लुतयोरित्याशङ्कयाह अईहस्वमित्यादि हवस्याईमईमात्रा भवति । अतोऽई हस्खग्रहणोनाई- मातोपलक्ष्यते। तत एव च तस्येतुक्तम् । त्रयाणां ह्रखदीर्घ प्लुतानां स्वरितानां निर्देशार्थम् । यदि चाई ह्रस्वग्रहणमईमात्रोपलक्षणमतस्त्रयाणां निर्देशोऽर्थवान् भवति । नान्य था। ह्रस्वग्रहणमतन्त्रमिति । अतन्त्रमप्रधान- मुपलक्षणार्थत्वात् । यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकाः । तेन सर्वेषामेव ह्रवादीनामष स्वरविभागो भवति । नन्वेवमप्याष्टमिकस्य स्वरितस्य विभागो न सिध्यति । तस्यासिद्धत्वात्। नैतदेवम् । यस्मात् परविधिः पूर्व विधावसिद्धः । नचायं विधिः । किं तर्हि ? तस्य विहितस्य विभागाख्यानार्थः अथवा न मु न ( ८।२।३) इत्यत्र नेति योगविभागात सिद्धं भवति । एक श्रुतिर्वेति । पूर्वी भागोऽयमुदात्तः पटुतरः । तेनोपर- ज्यमानस्तद्रूपतामिवापन्नः परो भागः स्फटिकमणिरिवोपधानेनोपरक्तः १७२ न्यासः । । पुनस्तदाक्य- शुडेनोदातेन भिन्न श्रुतिकत्वादनुदात्तव्यपदेशं नाईति । उदात्तव्यपदेशमपि नार्हति । उपरागमात्रत्वात्। तस्मादेकश्रुतिरिति केचित् । अन्ये त्वाः पूर्वेण भागेनानुपजातरूपातिशयेन नोपरज्यते यदोत्तरभागस्तदा स्खेन रूपेण प्रतिभानादनुदात्त इति व्यपदिश्यते । यदा तूपधानेन स्फटिकमणिरिव पूर्वेण भागेन पटीयसोदात्तेनाभिभूयानुरज्यमानस्तद्रूपतामिवोपपद्यते तदैक- श्रुतिरिति व्यपदिश्यते । पूर्वभागश्रुतेर भिन्नैका तुल्याकारा श्रुतिर्यस्येति कत्वा। नहि तदानीं पूर्वोत्तरयोः स्वरितश्रुतिं प्रति कश्चिद् भेदोऽस्ति । इयोरप्युदात्तगुणवत्तया प्रतीयमानत्वादिति । ३३। एकश्रुति दूरात् सम्बुद्धौ । एक श्रुति वाक्य भवतीति । वाक्यग्रहणन पदपदैकदेशयोनिरासं करोति। तयोः सम्बोधनं प्रत्यसामर्थ्यात् । वाक्यस्य सम्बुद्धी कर्तव्यायां करणभावोप- गमादस्ति सामर्थम् । ततस्तस्यैकश्रुत्य विधीयते । कुतः मित्याह । दूरात् सम्बोधयति येनेति । एतेन सम्बुद्धिं प्रति वाक्यस्य करणभावो दर्शितो भवति । दूरादिति । दूरान्तिकार्थेभ्यो द्वितीया (२।३।३५) चेति पञ्चमी। सम्बोधनं सम्बधिरित्यादिना सम्बुद्धिरित्यन्वर्थग्रहणम् । पारिभाषिकं सम्बद्धि ग्रहणमिति दर्शयति । यदि पारिभाषिक्याः सम्बुडेग्रहणं स्यात् तदा देवा ब्रह्माण इत्यत्रैक थुत्यौं न स्यात् । पारिभाषिक्याः सम्बुद्धेर- सत्त्वात् । अन्वर्थग्रहणे तु भवति । सम्बोधनलक्षणक्रियारूपायाः सम्बुद्दे रिहापि विद्यमानत्वादिति भावः । कुतः पुनरेतदन्वर्थग्रहणं व्यवसितम् ? दूरग्रहणात् अन्वर्थग्रहणे दूरादित्यनेन सम्बुद्धिरुत्पद्यते । दूरात् सम्बोधन कर्तव्य इति । तेनार्थवद् भवति दूरशब्दम्योपादानम् । पारिभाषिक्यास्तु ग्रहणे तदसम्बइमेव स्यात्। नह्यामन्त्रितविभक्तर्दू रत्वमस्ति । दूरत्वञ्च यद्यप्य- नवस्थितं तथापि यत्र प्राकृतप्रयत्न संस्थापितं वचनं न श्रूयते तदिह दूरं वेदितव्यम् । स्वराणामित्यादि। एकश्रुतिस्वरूपाख्यानमविभाग इति ! भेदतिरोधान (A) मित्यनन्तरं विवरणम् । उदात्तादिस्वरविशेषानुपलब्धि (A) मुद्रित काशिकायाम् अभेदतिरोधानमिति पाठः। न्यासवत् पदमञ्जयामपि भेदतिरीधा मत्येव दृश्यते ।

३ (१२)। रकारादिवर्णमात्रावबोध एकश्रुति रित्युक्तं भवति । प्रागच्छ भो माणवक देवदत्ता ३ इति । दूराडूते ( ८।२।२४ ) चेत्यत्रैवार्थे प्लुतः । स चोदात्तः । वाक्यस्य टेः प्लुत उदात्त (८२।८२) इत्यधिकारात् । तस्यैकश्रुत्योदात्तस्य समावेश इथते। प्लुतनिवृत्त्यर्थम् । यथा चासौ लभ्यते तथा वक्ष्यति । प्रत्युदाहरण स्वयंमेव भवतीति तत्रा कारो निपाता आद्युदात्ता ( फिट, ४।८० ) उपसर्गाश्चाभिवर्जमित्युदात्तः । गच्छे त्यस्य तिङतिङ ( ८।१।२८) इति निघातः। भो इति निपाता आद्युदात्ता इत्युदात्तः । देवदत्तशब्दयो रामन्वितस्य चेति ( ८।१।१८) निघातः । माणवक ३४। यज्ञकर्मण्यजपन्यूलसामसु । अग्निमूर्धा दिव इत्यादि। अगि रगि गत्यर्थाः। वीज्याज्वरिभ्यो (उण, ४ ४८७ ) निरिति वर्तमाने ऽङ्ग नि नलोप श्चेति (उण, ४।४८८) निप्रत्ययः । नलोपश्च भवति । अग्निशब्दः प्रत्ययम्वरेणान्तोदात्तः । मुरू बन्धने । कनिन् युवषितक्षिराजिधन्विद्युप्रतिदिवइत्यतः ( उण, १।१५४ ) कनिनिति वर्तमाने खत्रुक्षन्पूषनप्लीहन्दन्नेहनमूर्धन्मज्जनय॑मन्विश्वप्मन्परिज्मन्मातरिश्वन्- मघवन्निति ( उण, १।१५७ ) मूर्धनशब्दः मूर्धनशब्दः कनिन्प्रत्ययान्तो निपातित इति निपातनादायुदात्तः । वकारस्य धकारोऽत्र निपातनादेव । दिवु क्रीड़ादी। डिविन् प्रत्ययः । इकार उच्चारणार्थ: डित्यभस्याप्यनुबन्ध- करणसामा रिति ( ६।४।१४३ ) टिलोपः। दिव् इति स्थित अड़िदम् पदाद्यप् पुम् रै युभ्य (६।१।१७१ ) इति विभक्तेरन्तोदात्तत्वम् । ककुच्छब्दः प्रातिपदिकमन्तोदासं (फिट १।१) भवतीत्यन्तोदात्तः । पतिशब्दः पाते- र्ड तिरिति ( उण, 8।४८७) डतिप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः। ततः ककुदः पतिः ककुत्पतिरिति षष्ठीसमासः । समासस्येत्यन्तोदात्तत्वम् (६।१।२२७)। प्रथ प्रख्याने। प्रथेः षिवन् ( उण, १।१४८ ) संप्रसारणञ्च । षिद् (४।१।४१ ) गौरादिभ्यश्चेति पृथिवशब्दान् ङीष् । प्रत्ययवरेण धातुप्रत्यय डोष आद्युदात्तोदात्ताः। षष्ठेवकवचनम् । डस् । आण्नद्या (७३।११२) इत्याट्। आगमा अनुदात्ता भवन्तीत्यनुदात्तत्वम् । विभक्तेरनुदात्तौ (३।१।४) १७४ न्यासः। सुप्पितावित्यनुदात्तत्वम् । सवर्णदीर्घः । इको (६।१।७७) यणची ति यणादेशः । उदात्तयणो ( ६।१।१७४ ) हलपूर्वादिति विभक्तिरुदात्ता। अयमिति । इदि परमैश्वर्ये । इदितो नुम् (७।१।५८) धातोरिति नुम् । इन्देः कमिर्नलोपश्चेति (उण, ४१५८६) कमिप्रत्ययो नलोपश्च । इदम्शब्दः कमिप्रत्ययेनान्तोदात्तः । सौ परत इदोऽय् ( ७।२।१११ ) पुंसीतीदम इद्रूपस्यायादेशः । अपामिति । आप्नु व्याप्तौ। प्राप्नोतहखश्चेति (उण, १।७४ ) किए। इखश्च । षष्ठीबहुवचनम् । जड़िदं (६.१।१७१) पदेति विभतेरुदात्तत्वम् । तेनापामित्यस्यान्तोदात्तत्वम् । रि गतौ। सुरिभ्यां तुट् ( उण, ४।६४१) चेत्यसुन्प्रत्ययः । तुड़ागमः । रेतांसीति नित्वरेणाद्युदात्तः । जिन्वतीति जि जये। लट्। शत्रादेशः । व्यत्ययो बहुलमिति ( ३।१।८५ ) व्यत्ययेन श्रुप्रत्ययः । हुश्शुवोः सार्वधातुक (६।४।८७) इति यणादेशः । उगितश्चेति (४।१।६) डीप । अम्बार्थनद्योहख ( ७।३।१०७ ) इति इखः । एङ् हुस्खात् (६।१।६८) सम्बुद्दे रिति सुलोपः । ये यज्ञकर्मणीति (८।२।८८) वर्तमाने प्रणवष्टेरिति (८।२।८८) प्रणवादेशः । स च प्लुत उदात्तश्च । वाक्यस्य टेः प्लुत उदात्त (८।२।८२) इत्यधिकारात् । प्रणव इत्योकार मोङ्कारं वाचक्षते । प्रणवस्योदात्तविधानसामादसिद्धत्वाच्च पदादुत्तरस्यामन्त्रितस्य (८।१।१८) चेत्यनुदाक्तं न भवति । शेषस्य तु भवति । एषु स्वरेषु प्राप्तेष्वे कश्रुतिर्विधीयते। संपाठे मा भूदिति । स्वाध्यायकालः । ममाग्न इत्यादि। असु क्षेपण । युष्थसिभ्यां (उण, १।१३६) मदिगिति मदिक् । अस्मच्छब्दः प्रत्ययस्वरेणान्तोदात्तः । षष्ठेरकवचनस्य युष्मदस्मभ्यां डसोऽशित्यशादेश: (७।१।२७)। तवममौ ( ७।२।८६ ) ङसोत्यस्मदो ममादेशः । स्थानिवद्भावादन्तोदात्तः । अतो गुणे ( ६।१।८७) पररूपत्वम् । एकादेश (८।२।५ ) उदात्तेनोदात्त: (B)। अग्निशब्दस्या- मन्त्रिस्येति (८।१।१८) निघातः । वर्च दीप्तौ। असुबिति असन्प्रत्ययः । वर्चः शब्दो नित्स्वरेणाद्युदात्तः । खेञ् स्पर्खायाम् । ह्रः संप्रसारणञ्च न्यभ्यु ( ३।३।७२) पविष्वित्यप् प्रत्ययः । उपपद मतिडिति ( २।२।१८) समासः । सम्पाठः । (B) इदं तु चिन्त्यम्। युष्मदस्मदोङसी (६।१।२११ ) त्याद्युदात्तत्व विधानात् ।

(१२)। १७५ गतिकारकोपपदात् कृदित्युत्तर (६।१।१३८) पदप्रकृतिवरत्वे प्राप्ते ऽन्त इत्यनुवर्तमाने ( ६।२।१४३ ) थाथघजक्ताजवित्रकाणा (६।१।१९४) मित्यन्तो- दात्तत्वम् । सप्तमीबहुवचने बहुवचने ( ७।३।१०३ ) झल्येदित्येत्त्वम् । स्थानि- वद्भावादेकारोऽ प्युदात एव । अस भुवि । लोट् । तिम् । एरु ( ३।४।८६) रित्युत्वम् । अदादित्वाच्छपो लुक् । तिङतिङ (८.१।२८ ) इति निघाते- नास्तुशब्दोऽनुदात्तः । जपोऽनुकरणमन्त्र इति। जपइतक्तेरर्थकथन मनुकरण- मन्त्र इति । अनुकृति रनुकरणम् । सर्वत्र मन्वे स्फुट मुच्चारण मित्यनुकरण मन्त्रः । अतएवाह उपांशुपयोग इति । यथा जले निमग्नस्य पाठः । कचिद- करणमन्त्र इति पाठः । तत्रायमर्थः । ईषत् करणमुच्चारणं यस्य सोऽकरणमन्त्र इति । नत्र ईषदर्थत्वात् । एशब्दो निपातः । निपाता (फिट्, ४।८० ) आद्युदात्ता इत्याद्युदात्तः । विश प्रवेशने। अशूग्रषिलटिकणिखटिविशिभ्यः (उण, १।१४८) क्वन्निति कन्प्रत्ययान्तत्वादिवशब्दो नित्वरणाद्युदात्तः । समञ्च तत् (C) अत्रिणञ्चेति विशेषणसमासः । समासान्तोदात्तत्वम् । दह भस्मीकरणे । लोट् । सिए । मेर्हिरादेशः । अतो (६।४।१०५) हेरिति हेलक । तिङतिङ (८।१:२८) इति निघातविधानाद् दहशब्दोऽनुदात्तः । केचिद् दहा ३ इति प्लुतान्तं पठन्ति । तेषां साहसमनिच्छता सर्वत्र विभाषा प्लुतो वक्तव्य इत्यतो वचनात् प्लुतो (D) वक्तव्यः । स चोदात्तः । अन्ये त्वाकारान्त पठन्ति । तेषां छान्दसत्वादाकारः । हस्खोऽपि हि वर्णों व्यत्ययेन दीर्घा भवति पूरुषो नारक इति यथा। वाक्य विशेषस्था गीतय इति । यथोक्त जैमिनिना गीतिषु सामाख्येति। गीतिर्ध्वनिविशेषः । अथ कर्मग्रहणं किमर्थम् ? यज्ञ इत्येवोच्थेत। यजमन्त्राणां यज्ञक्रियार्थत्वादु यज्ञकर्मणि भविष्यति । सत्यमेतत् । विस्पष्टाथं हि कर्मग्रहणम् । अथवा योऽपि न प्रसिद्धो यज्ञः पञ्चयजनादि स्तत्रापि यथा स्यादित्येवमर्थम् । अन्यथा यज्ञ इत्युच्यमाने प्रसिद्दो यो यज्ञो ऽश्वमेधादिस्तत्रैव स्यात् । (C) अन्य तु समिति दहतर्गतिं मन्यन्त' व्यवहिताशेति ( १।४।८२) तस्य व्यवहितत्वम् । तथाच हरदत्त:-"विश्वमविणं पाप्मानं मन्द हति सम्बन्ध” इति । भहानियेवम् । (D) इदमग्रौत्प्रेषण परस्य चत्यत्र (८ारा २) भाष्यकृताऽन्यदीयवचनरूपेणीपन्यस्तम् ।

१७६ न्यासः। ३५। उच्चस्तरां वा वषटकारः। वषट्शब्देनात्र वौषट्शब्दो लक्ष्यत इति । समानार्थत्वादित्यभिप्रायः । हावपि तो देवानां दानवचनौ। यथा वषट्शब्देन देवानां दानं दीयते तथा वौषट्शब्देनापि। तस्मात् समानार्थत्वाद् वषट्शब्दो वौषट्शब्द लक्षयति । कारशब्दग्रहणमर्थपदार्थकत्वं विहाय शब्दपदार्थकत्वेन दानक्रियायामुपयुज्य- मानस्य तस्योदात्ततरत्वं यथा स्यादित्येवमर्थम् । कारग्रहणे शब्दपदार्थता दृष्टा यथा एवकार इति । अन्ये कारग्रहणमन्यस्यापि यथा स्यादिति वर्णयन्ति । तेनास्तु श्रौषड़ित्यत्रायमुदात्ततरो भवति । उच्चैस्तरामिति प्रकर्ष- प्रत्ययो वौषट्शन्दे ब्रूहिप्रेष्यश्रौषड़ वौषड़ावहानामादेरिति (८।२।८१) यः प्लुतो विहितस्तदपेक्षया वेदितव्यः । स युदात्तः । अयं तूदात्ततरः। अन्त्यसदेश इत्यस्याः परिभाषायाः समाश्रयणादन्त्यसदेशस्यानुदासस्योदात्ततरो भवति । अन्ये वर्णयन्ति योरपि तयोरुदात्ततरो भवति । अन्त्यसदेशपरिभाषा नाश्रीयते । प्रकर्षप्रत्ययस्तु याज्या ऋचः सम्बन्धी वषट्कारः । तस्य याज्यान्त ( ८।२।८० ) इत्यनेन य उदात्तः प्लुतो विहितस्तदपेक्षया प्रकर्षस्य सत्त्वात् । अथवा प्रकर्षप्रत्ययान्तः स्वरूपशब्दान्तरमेवैतदिति । अपर वाहुः । अनुदा पदमेकवर्जमिति ( ६.१।१५८ ) वचनेन प्लुतश्चोदात्तः । अन्यस्त्वनुदात्ततर । इति । ३६ । विभाषा छन्दसि । इषे वेत्यादि। इषु इच्छायाम् । अन्येभ्योऽपि दृश्यत (६।२।१७८) इति किए। इड़स्यास्तीति लुगधिकारस्याप्रत्यय ( ४।४।१२८, वा ) इत्यनेनोप- संख्यानेन अकारप्रत्ययः । प्रत्ययस्वरेणाद्युदात्तः । इषशब्दात् (E) सप्तम्येक- वचनम् । आद्गुण: (६।१८७)। एकादेश ( ८।२।५) उदातेनोदात्तः । युभच्छब्दस्य द्वितीयान्तस्य त्वामी द्वितीयायामिति (८।१।२३ ) त्वामादेशः । स त्वनुदात्तः। अनुदात्तं (८।१।१८) सर्वमपादावित्यधिकारात् । अग्नइति । (E) हरदत्तमते चतुर्युकवचनम् । तथाच पदमञ्जरी- "इन्नम्। ऊर्ग वलम्। चतुयेंकवचनस्य सावेका च (६।१।१६८) इत्युदात्तत्वम्।”- इति ।

(११२)। भामन्त्रितस्य चेति ( ६ १।१८८) षाष्ठिकमायुदात्तत्वम् । भाङ् पूर्वाद् या प्रापण इत्यस्मालोट। सिप् ! सेर्हिरादेश: । आङ् (फिट, ४।८१ ) उप- सर्गाश्चाभिवर्जमित्युदात्तः । तिङतिङ (८।१।२८) इति याहीत्यस्य निघातः । वो गत्यादिषु । मन्चे वषेषपचेत्यादिना (३।३।०६) तिब्रुदात्तः। चतुर्ये कवचने प्रत्यये घेर्डितीति गुण: (७३.१११)। अयादेशः । हावपि स्थानिवद्भावे- नोदात्तौ। शेषमनुदात्तम् । अग्निशब्दः पूर्ववत्रिप्रत्ययस्व रेणान्तोदात्तः । द्वितीयैकवचने ऽमि पूर्वत्वम् (६।१।१०७) । एकादेश उदात्तेनोदात्तः (८।२।५)। ईड़ स्तुती। अनुदात्तेत्त्वादात्मनेपदम् । तिङतिङ (८।१।२८) इतोड़ेशब्दस्य निघातः। पुरः पूर्वस्मिन् देश इति विग्रह्य पूर्वापराधरावरा- णामसि ( ५।३।३८) पुरधवश्वेषामित्यसिप्रत्ययः । पूर्वशब्दस्य पुरादेशः । पुरःशब्दः प्रत्ययस्वरेणान्तोदात्तः । दधातनिष्ठायां दधाते (७।४।४२) हिरिति हिरादेशः। पुरोऽव्ययमिति (१।४।६७ ) गतिसंज्ञायां सत्यां कुगतिप्रादय (२।१।१८) इति समासः । समासस्यान्तोदात्तत्वे प्राप्ते गतिरनन्तर (६।२'४८) इति पूर्वपदप्रकृतिवरेण पुरःशब्दोऽन्तोदात्तः । शंशब्दश्चादित्वानिपातः । निपातस्वरेणाद्युदात्तः । अस्म च्छब्दस्य षष्ठीबहुवचनस्य वस्नसाविति (८.१।२१) नसादेशोऽनुदात्तः । अनुदात्ताधिकारात्। दिवः पचाद्यच् । पचादिषु देवड़िति पठ्यते । टिड्ढाणजिति डीप् ( ४।१।१५)। अनुदात्तः । यस्येति ( ६।४।१४८ ) चेत्यकारलोपः । अनुदात्तस्य च यत्रोदात्तलोप ( ६।१।१६१) इति डीबुदात्तः । द्वितीयाबहुवचने प्रथमयोः पूर्वसवर्ण ( ६।१।१०२ ) इति पूर्वसवर्णदीर्घत्वम् । एकादेश उदासेनोदात्तः (८।२।५)। टुञ् स्तुतौ । अभिपूर्वादोरबित्यप् ( ३।३।५७)। गुणावादेशौ। वर्णव्यत्ययेन वकारस्य गतिकारके ( ६।२।१३८) तात्तरपदप्रकतिखरत्वे प्राप्तेऽन्त इति वर्तमाने (६।१।१४३) थाथपञ् (६।२।१४४) ताजवित्रकाणामितुत्तरपदान्तोदा तत्वम् । सप्तम्येकवचनम् । आदगुण: ६।१८७) । एकादेश उदात्तोनोदात्तः (८२१५) । तस्मादभिष्टयेशब्दोऽन्तोदात्तः । (F) (F) हरदत्तमतेऽभिष्टिशब्दस्य चतुर्येकवचनेऽभिष्टय इति। तत्राभिपूर्वादिषः तिन्। शकन्धादि- त्वात् पररूपत्वम् ( ६।१।६४, वा )। तादौ च निति कृत्यताविति ( ६।२।५० ) पूर्वपदप्रकृतिवरत्वं निपाता पायुदात्ता ( फिद, ४८१ ) उपसायाभिवनमित्यभिशब्दम्यान्नोदात्तत्वम् । यकारः।

१७८ न्यासः। । ३७। न सुब्रह्मण्यायां खरितसा तूदात्तः। सुब्रह्मण्या नाम निगद इति। अपादबन्धे गदतिवर्तते। अपादबन्ध हि गद्यमुच्यते । निशब्दः प्रकर्षे । यदुच्चैरविच्छिन्नम पादबन्धं मन्त्रवाक्यं निगद इति तस्य व्यपदेशः । तस्य च सुब्रह्मण्योपलक्षणत्वात् सुब्रह्मण्या इति स्त्रीलिङ्ग- निर्देशः । सुब्रह्मण्योमिति । सुब्रमणि साधुः । तत्र साधुरिति यत् (४।४।८८)। तित् स्वरितमिति (६।१।१८५) खरितत्वम् । प्रणवष्टेरि ( ८।२।८८.) त्योङ्गार आदेश इति केचित् । तदयुक्तम्। पादस्य वाईर्चस्य वान्त्यमक्षरमुपसंहृत्य तदाद्य- क्षरशेषस्य स्थाने त्रिमात्रमोकारमोङ्कारं वा विदधति तं प्रणवमित्याचक्षत (G) इति वक्ष्यति (II)। न च निगदे पादव्यवस्था। नाम्यईर्चव्यवस्था । तस्मादों- शब्दोऽस्ति निपातोऽनर्थकः । तस्य स्वरितन सहकादेश: (I) स्वरितः। आम- त्रितमाधुदात्तमिति । आमन्वितस्य चेत्यनेन (६।१।१८८) षाष्ठिकेन। तस्या- नेनोदात्तः क्रियत इति । ननु चासिद्धोऽसौ स्वरितः । वचनात् तस्यासिद्धत्वं न भवति । ननु च वचनस्य सुब्रह्मण्योमिति प्रयोजनं वक्तुं शक्यम् । नहि समस्ते निगदे सुब्रह्मण्याशब्देनोपलक्षिते सतीदमेकमुदाहरणं युक्तम् । उदात्त इति । निपातस्वरेण । ततः परोऽनुदात्तः स्वरित इति । तिङतिङ इति निघाते (८।१२८) कृत उदात्तादनुदात्तस्य (८।४।६६ ) स्वरित इत्यनेन । पश्चिम एक इति । काराकारः । चत्वार उदात्ता इति । वकारच्छकाराभ्यामन्ये । हावनुदाताविति । वकारच्छकारी। द्वितीयमक्षर- रमिति । मेधाशब्दाकारः। शेषमनुदात्तमिति । मेधाशब्दे यावची ताभ्यामन्यत् । पूर्वेणेति । मेधातिथेषेत्यनेन। तथैव हे आद्ये अक्षरे उदाते इति । यदि गौरावस्कन्दिनिति समस्तमामन्वितमाद्युदात्तमिति । अथापि गौरति शब्दान्तरमामनन्ति तथापि तस्यापि प्रवेशे कने सकल स्यामन्वित- आकार (G) इतिशब्दपरेऽपि प्रणवमिति दितीयान्तः पाठी महाभाष्यकाशिकारपि स्थितः । निपातना- भिधाने चेदाग्रहस्तोङ्कारं विदधतीति तं प्रणवमाचक्षत उतीत्यमयं नेयः । तं प्रणव इत्याचक्षत इतीदानों करणं त्वतिमावसाहसमेव । (H) प्रणयष्टेरिति ( ८।२।८८) सूत्रव्याखवायां वृत्तिकार इति शेषः । तेनाप्येतत् तत्रत्यभाष्याद ग्रहीतम्। (I) एकादेश स्वीमाङोश्चेत्यनेन ( १९५)।

(१२) १७८ स्याद्युदात्तत्व उदात्तादनुदात्तस्येत्यादिना ( ८।४।६६ ) पूर्वोक्तेन विधिना हे उदात्त भवतः । अहल्यायै जारति । षष्ठयर्थे चतुर्थी बहुलं छन्दसीत्यत्र (२।३।६२) षष्ठयर्थे चतुर्थों वक्तव्येत्युपसंख्यानात् । व्यत्ययो (३।१।८५) बहुल- मिति व्यत्ययेन वा । समस्तमामन्वितमायुदात्तमिति । कौशिकशब्दस्य परा- मन्वितानुप्रवेशात् । एवं गौतमब्रुवाण इति । एतदपि कौशिकब्राह्मणेत्यनेन तुल्यमित्यर्थः । हावुदाताविति । अनन्तरयोरुदाहरणयोः प्रत्येकमाद्या- वित्यर्थः । खःशब्द उदात्त इति। प्रातिपदिकवरेण । उदात्त इति वर्तत इति । मन्चे वृषेत्यादेः (३।३।८६) मूत्रात् । हावुदात्ताविति । तौ पुनरादी आगच्छेत्यत्र दर्शितौ। पदात् परमामन्वितं निहन्यत इति । आमन्वितस्य (८।१।१८) चेत्यनेन । ३८। देवब्रह्मणोरनुदात्तः । हयोरपि पदयोरामन्त्रितायुदात्तत्वे कृत इति । विभाषितं विशेषवचने ( ८।१।७४ ) बहुवचनमिति पूर्वस्याविद्यमानत्वादामन्वितस्य (८।१।१८) चेति पदात् परस्यापि निघातो न भवति । तेन हयोरपि पृथगव षाष्ठिक- माद्युदात्तत्वं ( ६।१।१८८) भवति । शेष निघात इति । अनुदात्तं पदमेक- वर्जमित्यनेन ( ६।१।१५८)। ३६ । स्वरितात् संहितायामनुदात्तानाम् । अनुदात्तानामिति । जाती बहुवचनम् । तेन योरपि भवति । इम- मित्यन्तोदात्तमिति । इदम्शब्दस्य कमिप्रत्ययान्तत्वात् प्रत्ययखरेणान्त- दात्तत्वम् । तस्य त्यदाद्यत्वे ऽतो गुणे ( ६।१।८७) पररूपत्वे तस्याप्येकादेश (८।२।५) उदात्तेनोदात्तत्वात् । विधिकाल एवेति । ते मयावेकवचनस्येति (८।१।२२) विधिकाल एव निघात विधानात् । सर्व एत आमन्त्रित- निघातेनानुदात्ता इति । यद्यप्यामन्त्रितं पूर्वमविद्यमानवदिति ( ८।१।७२ ) तथापि मेशब्दापेक्षया सर्वेषां निघातापत्तेः। प्रथममामन्वितमायुदात्त- मिति । आमन्त्रितस्य चेति ( ६।१।१८८) षाष्ठिकेन । तस्य द्वितीयमक्षरं स्वरितमिति । उदात्तादनुदात्तस्य (८18।६६) खरित इति । ततः १२० न्यासः। परषामनुदात्तानामिति । नामन्त्रित समानाधिकरणे सामान्यवचन (८।११७३) मित्यविद्यमानत्वस्य प्रतिषेधे सति माणवकात् परयोरामन्वितस्य चेति (८।१।१८) निघातविधानात् परेऽनुदात्ताः । अवग्रह मा भूदिति । अवग्रहोऽसंहितापाठः । ननु च स्वरितादिति पञ्चमी । तेन तस्मादित्युत्तरस्ये (१५११६७) त्यत्न निर्दिष्टग्रहणस्यानन्तयार्थवादवग्रहे प्राप्तिरेव नास्ति । यथैव हि वर्णी व्यवधायकस्तथा कालोऽपि । तत् किं संहिताग्रहणम् ? पञ्चमीनिर्देशकालो न व्यवधायक इति ज्ञापनार्थम् । तेन तिङतिङ (८।१।२८) इत्यत्रावग्रहे ऽतिङन्तात् परं तिङन्तं निहन्यते । ४०। उदात्तस्वरितपरसा सन्नतरः । मातर इत्यनुदात्त इति । अनुदात्तत्वं तु विभक्तिस्वरेण । मातर इति माट- शब्दाज्जस् । ऋतो (१।११०) डिसर्वनामस्थानयोरिति गुणः । जसः सकारस्य रुत्वम् । तस्याप्यप्शब्दे शसन्ते परतोऽतो (६।१।११३) रोरप्लुतादप्लुत इत्युत्त्वम् । आद्गुणः (६।१।८७)। जड़िदमित्यादिना (६।१।१७१ ) विभक्तेरन्तोदात्तत्वे कत एङः (६।१।१७८) पदान्तादतीति य ओकारः सोऽपि स्थानिवद्भावे- नानुदात्तो भवति । तस्योदात्ते परभूत इति। विभक्त्यकार। इकारोऽनुदात्त इति । सरस्वतीतिशब्दसम्बन्धी। आमन्त्रितस्य चेति (८।१।१८) सरस्वती- शब्दस्य निघातविधानात् । तस्मान्न निहन्यत इति । अनुदात्तं (८। ।१८) सर्वमपादादावित्यवापदादाविति निघातप्रतिषेधात् । प्रथममक्षरमिति । शकारोकार उदात्तः । आमन्त्रितस्य चेति (६।१।१८८) षाठिकेन । ४१। अपृक्त एकाल प्रत्ययः । तस्मृगिति। क्विन्प्रत्ययस्य (८।२।६२) कुरिति कुत्वं शकारस्य खकारः । तस्य जशवं खकारस्य गकारः। अभागिति चो: (८।२।३०) कुरिति जकारस्य गकारः। उभयत्र वावसान (८।४।५६) इति चत्वं ककारः। तत्रापृक्तसंज्ञायां सत्यां वेरपृक्तस्येति (६।११६७) वकारलोपो भवति । प्रत्युदाहरणेषु हि तद- भावाब भवति । दर्विरिति दृ विदारणे। वृदृभ्यां विनिति (उण,४।४८२) विन् । जाग्रविरिति । जार निद्राक्षये। जृशृस्तृजाग्राभ्यः क्विविति (उण, (१२) १८१ । ४।४८३) किन् । सुरा इति । षून् अभिषवे। सुरां सुनोतीत्यन्येभ्योऽपि दृश्यत (३।२।१७८) इति विप् सुगमत् । इस्वस्य तुक् । तमाचष्ट इति णिच् । णाविष्ठवत् कायं प्रातिपदिकस्येति टिलोपः । सुरासयतेः पुनः विप् । णिलोपः । प्रथमैकवचनम् । हल्ड्यादिना (६।१।६८) सुलोपः । रुत्व- विसर्जनीयौ। अत्रापि णिलोपे कृतेऽसति प्रत्ययग्रहणे धातुसकारस्थापृत्तसंज्ञा स्यात् । तस्याञ्च सत्यां हल्ड्याब्भ्य (६।१।६८) इति धातुसकारलोपः स्यात् । ननु चासत्यपि प्रत्ययग्रहण प्रत्ययाप्रत्ययोः प्रत्ययस्यैव ग्रहणमिति संज्ञा विज्ञास्यते । तत् किमर्थ प्रत्ययग्रहणम् ? तत् क्रियते विस्पष्टार्थम् । अथैक- ग्रहणं किमर्थम् ? अल्समुदायस्य मा भूदिति । नैतदस्ति । अल्ग्रहण- सामर्थ्याव भविष्यति । अन्यथा ह्यल्ग्रहणमनर्थकं स्याद् यदि हल्समुदाय- स्यापि संज्ञा स्यात् । एवं ताल्ग्रहणेनात्र जातिग्रहणं भवतीति ज्ञापनार्थमेक- ग्रहणम् । तेन हलन्ताचेत्यत्र (१।२।१०) यदुक्तं (J) दम्मेहल्ग्रहणस्य जाति- वाचकत्वात् सिद्धमिति तदुपपन्नं भवति । ४२॥ तत्पुरुषः समानाधिकरण: कर्मधारयः । तत्पुरुष इति समासविशेषस्याख्या। स च एक एव शब्दः । अनेकस्य च शब्दस्य भिन्न प्रतिनिमित्तस्यैकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् । ततश्च यत्र वाह्येन पदेन तत्पुरुषस्य सामानाधिकरण्यं तत्रैवेयं संज्ञा स्यादु राजपुरुषः शोभन इत्यादौ । अस्ति यत्र तत्पुरुषस्य सामानाधिकरण्यं शोभन- शब्देन सह । पाचकबन्दारिकत्यादी तु न स्यात् । नह्यत्र तत्पुरुषस्य केनचित् सामानाधिकरण्यमस्ति । शब्दान्तरस्य प्रयोगाभावादिति चोद्यमपाकर्तुमाह समानाधिकरणपद इति । समानमभिन्नाभिकमधिकरणं वाच्च येषां पदानां तानि समानाधिकरणानि पदानि । तान्याश्रयभूतानि यस्य तत्पुरुषस्य स समानाधिकरणपदस्तत्पुरुषः । एतेन तत्पुरुषार्थानां पदानां समानाधि- करणत्वादुपचारेण तत्पुरुषोऽत्र सूत्रे समानाधिकरणशब्देनोक्त इति दर्शयति । कथं पुन र्वाह्यान्यपदापक्षया तत्पुरुषम्य मुख्य सामानाधिकरण्ये सम्भवति सत्यौपचारिकस्य ग्रहणमुपपद्यते । कर्मधारय इति महत्याः संज्ञायाः (J) वार्तिकमनुवदक्षा इत्तिकारणेति शेषः ।

१८२ न्यासः। अन्ये त्वाहुः। करणात् । इह हि लाघवार्थत्वात् संज्ञाकरणस्य लघीयस्यां संज्ञायां कर्तव्यायां कर्मधारय इति महतौं संज्ञां कुर्वता ऽन्योऽप्यत्र कश्चिद् विपर्ययः संज्ञायामाश्रित इत्येषोऽर्थः सूचितः । तेन गौणमुख्ययोर्मुख्य कार्य- संप्रत्यय इति मुख्यस्य समानाधिकरणस्य ग्रहणं न (K) विज्ञायते । तत्पुरुषार्थानि पदानि तत्पुरुषशब्देनोक्तानीति । तेषा- मेवैषा संञत्युक्तं भवति । एतत्तु वृत्तिकारस्यानभिमतम् । यतस्तत्पुरुष इति समासविशेषस्य यस्य संज्ञां वक्ष्यति स तत्पुरुषः समानाधिकरणपदः कर्मधारयसंज्ञो भवतीत्येवं ब्रुवता वृत्तिकारण समासस्यैवेयं संज्ञा न तदर्थानां पदानामिति स्फुटमेवाख्यातं भवति । समानाभिधेय इति । तदर्थानां पदानां समानाभिधेयत्वात् तत्पुरुषोऽप्युपचारण समानाभिधेय इत्युक्तः। परमराज्यमुत्तमराज्यमिति । सन्महदित्यादिना ( २।१।६१) समासः । कर्मधारये सत्यकर्मधारये (६।२:१३०) राज्यमित्युत्तरपदाद्युदात्तत्वं न भवति । पाचकन्दारिकेति । वृन्दारक नागकुञ्जरित्यादिना ( २।१।६२) समासः । न कोपधाया इति । ६।३।३ ० ) प्रतिषेधे प्राप्ते पंवत्कर्मधारयेति ( ६।३।४२ ) पंवद्भावः । पाचिकामार्य इति बहुव्रीहिरयम् । तेनात्र न कोपधाया इति (६।३।३७) प्रतिषेधो भवत्येव ब्राह्मणराज्यमिति । षष्ठीतत्पुरुषोऽयम् । तेनात्र समासान्तोदात्तत्वमेव न भवति । अपि तूत्तरपदाधुदात्तत्वम् । (L) ४३। प्रथमानिर्दिष्ट समास उपसर्जनम् । समास इत्यधिकरणनिर्देशोऽयम् । कष्टश्रितादयः समासाः । तेषु न किञ्चित् प्रथमानिर्दिष्टं शब्दरूपमस्ति । तथाहि समासे कृते तत एव समासाद् विभक्तिरुत्पद्यते । नतु तत्रस्थाच्छब्दात् । नच वाक्यकाले समासात् पदाद या प्रथमोत्पन्ना तदाश्रयम् प्रथमानिर्दिष्टत्वं समासा- वयवस्य कल्पयितुं युक्तम् । यतः समास इत्यधिकरणनिर्देशोऽयम् । तत्र (K) मुखास्य ग्रहणे प्राप्ते तहिपरीतस्य ग्रहणं विज्ञायत इति पुनापुस्तके पाठः । (L) प्रकर्मधारये राज्यमित्यनेन (०२।१२०)।

( ११२)। १८२ समासे ते यस्मात् प्रथमोत्पद्यते तदेव समासे प्रथमानिर्दिष्ट भवति । नतु यस्माद् वाक्यकाले विभक्तिरुत्पद्यते । तद्धि वाक्य एव प्रथमानिर्दिष्टम् । नतु समासे । प्रागेव समासात् तस्य प्रथमानिर्दिष्टत्वात् । ततश्च समासे कृते प्रथमानिर्दिष्टस्य संजिनोऽसम्भवात् संज्ञा न सम्भवतीततचोद्यमपा- कर्तुमाह प्रथमया विभक्त्या यनिर्दिश्यत इति । समासाथं यच्छास्त्रं तत् समासशास्त्रं गृह्यते । तत्र प्रथमानिर्दिष्टस्येयं संज्ञा विधीयते । नतु कष्ट- श्रितादौ । समामे प्रथमानिर्दिष्टस्या विद्यमानत्वात् । विद्यते च समास- भास्त्र प्रथमानिर्दिष्टं संज्ञोति कुतः संज्ञाया अप्रसिद्धिः ? कथं पुनः समास इत्युच्यमाने समासशास्त्र यत् प्रथमया निर्दिश्यते तस्य मंज्ञित्व लभ्यत इता त आह समास इति । समासशास्त्र ग्राह्यत इति । कथं पुनः ममाम इत्युच्यमाने समासशास्त्र ग्रहीतुं शक्यम् ? तादात् तत्र समासशब्दस्य प्रवृत्तेः । भवति हि तादात् ताच्छन्दाम् । यथा प्रदीपार्था मनिका प्रदीप इति। इन्द्रार्था स्थूणा (II) इन्द्र इति । कष्टश्रितादिषूपसर्जनसंज्ञायाः कार्य- मुपसर्जनं पूर्वमिति २:२।३० पूर्वनिपातः । तत्रेदं चोद्यते । राज्ञः कुमारौं पश्य राजकुमारी (२।२।३०) पश्येत्यत्र राजन्शब्दः षष्ठीति ( २।२।८ ) समासशास्त्र प्रथमानिर्दिष्टः । द्वितीयाश्रितातीतपतितेति (२।१।२४) द्वितीयासमासशास्त्र कुमारीशब्दश्च । समासशास्त्र तत्रोभयोरप्यस्यां संज्ञायां सत्यां पूर्वनिपातानियम उपसर्जनद्वत्वञ्चेत्येतद्दोषयं प्राप्नोतीति । इह च राज्ञः कुमायाः वं राजकुमारीस्वमिति इयोरपि षष्ठान्तयोः समासशास्त्रे प्रथमानिर्दिष्टत्वादु- भयोरप्युपसर्जनसंज्ञायां सत्यां तदेव दोषड़यं प्राप्नोति । नैष दोषः । यस्मादुप- सर्जनमिति महत्याः संज्ञायाः करणस्यैतदेव प्रयोजनमन्वर्थसंज्ञा यथा विज्ञाये- तेति । अप्रधानमुपसर्जनम् प्रधानमनुपसर्जनमिति । अप्रधानञ्च प्रधानमपेक्षते सम्बन्धिशब्दत्वात् । तत्र सम्बन्धादेतदवगन्तव्यं यत् प्रति यदप्रधानं तत् प्रति तदुपसर्जनमिति । श्रितादींचापेक्ष्य द्वितीयान्तमुपमर्जनं भवति । नतु द्वितीया- न्तमात्रम् । न चेह श्रितादय: सन्ति । राज्ञः कुमायाः स्वं राजकुमारीखमित्य- (M) इन्द्राथेति । इन्द्रीत्मवनिमित्ता इन्द्र पूजानिमित्ता वा । अथवा या यज्ञादि कर्मविशेष क्वचिदिन्द्राय निवेदिता भवति सा । स्थूणा स्तम्भविशेषः । स्थूणायसः स्मृता प्रतिमायां ग्रहस्तम्भ इति विश्वः ।

१८४ न्यासः। अद ( २।२।२) बाप्येष परीहारः। अत्रापि कुमारीशब्दमपेक्ष्य राजशब्दस्याप्राधान्यम् । नतु राजशब्दमपेक्ष्य कुमारीशब्दस्य । तस्माद् राजन्शब्दस्योपसर्जनसंज्ञा । नतु कुमारीशब्दस्य। यदि छन्वर्थसंज्ञेयम् पाचकन्दारिका पुरुषव्याघ्रोऽई- पिप्पली पूर्वकाय इत्येतेषु पूर्वपदार्थ एव प्रधानमिति पाचिकादीनामिह प्राधान्यम् । अतो यद्यप्येते वृन्दारकनागकुञ्जरैः ( २।१।६२ ) पूज्यमानम् । उपमितं व्याघ्रादिभिः (२।१।५६ ) मामान्याप्रयोगे । नपुंसकम् । पूर्वापराधरोत्तरमेकदेशिनकाधिकरण ( ( २।२।१) इतातेषु समासशास्त्रेषु प्रथमानिर्दिष्टास्तथापि तेषामुपसर्जनसंज्ञा न प्राप्नोति । कुतः ? तेषां प्राधान्यात् । एवं तद्युत्तरसूत्रेऽनुक्तसमुच्चयार्थत्वाञ्चकारस्य भविष्यतीत्य- दोषः । अन्यस्त्वेवंमन्यते । पाचकवृन्दारिकेत्येवमादिषु पूज्बौं तेषु समासेष्वाद्यौ विशेषणं विशेष्येण बहुलम् ( २।१।५७ ) उपमानानि ( २१११५५ ) सामान्य- वचनैरित्येताभ्यामेव सिद्धौ। शेषौ तु षष्ठी (२।२।८) त्यनेनैव । तस्मादृन्दार कनागकुञ्जरै ( २।११६२) रित्यादीनां न तदर्थ प्रारम्भः । किं तर्हि ? सर्जनसंज्ञार्थः । । तेनासत्यपि पाचिकादीनामप्रधानत्वे तेषामियं संज्ञा भविष्य- तीति । एतच्चासम्यक् । एतच्चासम्यक् । तथाहि पूज्यमानं सामान्याप्रयोगे नपुंसकमेका- धिकरणमित्येतान् विशेषान् वक्ष्यामीत्येतदर्थ आरम्भः स्यात्। सति चैतदर्थ प्रारम्भेऽत्राऽप्रधानस्योपसर्जनसंज्ञा विधीयमाना प्रधानस्य न स्यात् । उप- . ४४। एकविभक्ति चापूर्वनिपाते। अप्रथमानिर्दिष्टार्थोऽयमारम्भः । विभक्तिशब्द: सुपां वाचकः । विभाग- वचनो वा। कारकशक्तिविभागः । विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा । समासे विधीयमान इति । समासार्थवाक्यकाले। तदा हि तस्य समासस्य विधीयमानता भवति एतेन समासग्रहणमनुवर्तमानं ममासार्थे वाक्ये वर्तते न समासशास्त्र इति दर्शयति। समासशास्त्र हि सर्वमेव शब्दरूप- मकविभक्तिकमेव भवतीतेकविभक्तिग्रहणमनर्थकं स्यादिति भावः । सर्च- मेव हि प्रातिपदिकं पयायेणैकया विभक्त्या प्रयुज्यते । तस्मादेकविभक्तिग्रहण- सामयादवधारणमत्र विज्ञायत इतात आह यनियतविभक्तिकमिति । तदेव (१२)। पष्टीकुर्ववाह द्वितीये सम्बन्धिनीत्यादि । पूर्वपदे नानाविभप्तिकेऽपौति । निष्क्रान्तशब्दः कर्तृशक्त्युपसर्जनीभूतं द्रव्यमाह। तच्चानेकसाधनशक्त्युपचित- मिति क्रियान्तरसम्बन्धादनकसाधनविभक्तिकं भवति । उत्तरपदं तु पञ्चम्य स- मेव भवतोति । निक्रमण क्रियापेक्षयाऽविर्भूतापादानशक्तिकत्वात् । निष्को- शाम्बिरित्यत्रोपसर्जनसंज्ञाकायं गोस्त्रियोरुपसर्जनस्येति (१।२।४८) इखत्वम् । अथ निसोऽत्र केनोपसर्जनसंज्ञा विधीयते यतोऽस्य पूर्वनिपातः ? पूर्वसूत्रेणेति चेत् ? नेतदस्ति । तेनाप्रधानस्योपसर्जनसंज्ञाविधानात् । निसश्चात्र प्राधान्यात् । एवं तहि चकारस्यानुक्त समुच्चयार्थत्वाद् भविष्यति । अन्ये त्वा हुः । मा भूबिम उपसर्जनसंज्ञा । असल्यामपि तस्यां तस्यैव पूर्वनिपातो भविष्यति । एकविभक्ति चापूर्वनिपात इति १ २।४४ ) वचनादिति । एतच्चायुक्तम् । पूर्वनिपाते हि कर्तव्य एकविभक्तिकस्योपसर्जनसंज्ञा नास्त्येव । तत्र यदि निस उपसर्जनसंज्ञा न स्यात् तदोदाहरण इयोरप्यसत्यां तस्यां पर्यायेणानियतः पूर्वनिपातः प्रसज्येत । अथ कथमपिप्पल्यादीनामुपसर्जनसंज्ञा न भवति ? अत्र च विभाषा च्छन्दसौ. त्यतो ( ११२।३६ ) विभाषाग्रहणं मण्डू कम्ल तिन्यायेनानुवर्तते । सा च व्यवस्थित विभाषा। तेनादं पिप्पल्या अईपिप्पलोत्यादी विषये पिप्पल्यादीनामेक- विभक्तियुक्तानामप्युपसर्जनसंज्ञा न भवति । यदि हि स्यात् तदा ह्रस्वत्वं स्यात् । (N) ४५। अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । अभिधेयवचनोऽयमर्थशब्द इति । एतेन प्रयोजनादिवचनाहावच्छिनत्ति । अर्थशब्दो हि प्रयोजनवचनोऽप्यस्ति । यथाननार्थेनागतः । अनेन प्रयोजनेनेति गम्यते । निवृत्तिवचनोऽप्यस्ति यथा मशकार्थी धूम इति। मशकनिवृत्त्यर्थ इति गम्यते । धनवचनोऽप्यस्ति । यथार्थवान् देवदत्त इति। धनवानिति गम्यते । (N) अव तु ( १।२।४४) वात्तिकम् -एकविमनावश्यन्तवच मिति। भाष्यञ्च-एकविभक्तावा- न्तानामिति वक्तव्यम् । इह मा भूत । अद्धं पिप्पल्या अर्धपिपलाति । न्यासकारत्व नुकसूवपदन्यासी यतस्ततः । कुरुतेऽव समाधानमन्यथा वार्षिक विना ॥१॥ २४ १८६ न्यासः। तत्र । धन धान्य अभिधेयवचनोऽप्यस्ति । यथास्य वचनस्यायमर्थ इति । इदमस्याभिधेयमिति गम्यते । इह त्वभिधेयवचनस्यैव ग्रहणम् । तत् पुनरभिधेयं जातिगुणक्रिया- ट्रव्यभेदेन चतुविधम् । अतएव चतुष्टयी शब्दानां प्रवृत्तिर्भवति । जातिशब्दानां जातिरभिधेया गोरिति । गुणशब्दानां गुण: शुक्ल इति । क्रियाशब्दानां क्रिया पाचक इति । द्रव्यशब्दानां द्रव्यं डित्य इति । यद्यर्थ- वतः प्रातिपदिकसंज्ञा विधीयते तदाऽभाववचन-शशविषाणादिशब्दानां प्राति- पदिकसंज्ञा नोपपद्यते । अर्थाभावात् । नैतदस्ति । अर्थशब्दोऽभिधेयवचन इत्युक्तम् । अभावोऽप्यभिधेयो भवत्येव । अन्यया ह्याभावादितीदं वचनमनु- चारणीयं स्यात् । अनर्थकत्वात् । नह्यनर्थकं वचनं प्रयोगमहति । तस्माद- भाववचनानामपि प्रातिपदिकसंज्ञा भवत्येव । नान्तस्यावधेर्मा भूदिति । ननु चाधातुरिति प्रतिषेधो भविष्यति । तथाहि वन सम्भक्तो। इतपतयोः धात्वोरते रूप। नैतदस्ति । अव्युत्पन्नावपि वनधनशब्दो स्तः । तयोरवायं प्रयोगः । अत्र यदि नान्तस्यावधेः प्रातिपदिकसंज्ञा स्यात् तदा सुबुत्पत्तिः स्यात् । ततश्च पदसंज्ञायां सत्यां नलोप: स्यात् । ननु चाधातुर- प्रत्यय इति पर्युदासावेतौ । ततो नजिवयुक्तन्यायेनार्थवत स्तत्सदृशस्यैवै- षा संज्ञा भविष्यति । ततो नार्थोऽर्थवद्ग्रहणेन । नेतदस्ति । अनर्थक- स्यापि धातोविद्यमानत्वात् । यथेङ् अध्ययने । इक् स्मरण इति । एतयोरधिपूर्वयोरेवार्थवत्त्वम् । न केवलयोः । यस्तु गणपाठेऽनयोरर्थनिर्देश: स समुदायार्थमवयवे ऽध्यारोप्य कृत इति वैदितव्यम् । अध्यारोपितार्थयो- रपि तयो गणपाठप्तामर्थ्याद् धातुमंज्ञा भवत्येव। एवं प्रत्ययोऽप्यनर्थकोऽप्यस्ति । यथा यावादिभ्यः ( ५।४।२८ ) कन् । याव एव यावक इति । नह्यत्र प्रत्यय- स्यान्वयव्यतिरेकाभ्यां शक्यते ऽर्थवत्त्वं प्रत्ये तुम् । विनापि तेन कन्प्रत्ययेन याव- शब्दादेव तदर्थः प्रतीयते तस्मादर्थवदिति युक्तमुत्तम् । अहविति । अदादि- त्वाच्छपो लुक् । तिपो हल्ड्यादिना (६।१।६८) लोपः । अट् । स च हन्ति- ग्रहणेन ग्राह्यत इति कृतेऽपि तस्मिन् हन्तिर्धातुरेव। अत्र विना धातुग्रहणेन प्रागेव प्रत्ययोत्पत्तेः प्रातिपदिकसंज्ञा स्यात् । नलोपस्तु प्रत्ययोत्पत्ती पदवे सतपत्तरकालम् । अथवा प्रतिपदिकसंज्ञापि प्रत्ययोत्पत्तेरुत्तरकालमेव अथ न प्रत्यय- (१२)। १८७ स्थात्। तस्माद् धातुग्रहणं कर्तव्यम् । ननु चात्र प्रत्ययलक्षणेनाप्रत्यय इति प्रतिषेधेन भवितव्यम् । तत् किमधातुग्रहणेन ? नैतदस्ति । प्रातिपदिकसंज्ञायां नलोपः कार्य: । नल पे च न डिसम्बद्धयोरिति (८।२।८) प्रतिषेधो ज्ञापकः । प्रत्ययलक्षणेनाप्रत्यय इति प्रतिषेधो न प्रवर्तत इति यदि प्रत्यय इति प्रत्ययलक्षणेन हे राजनित्येवमादिषु प्रातिपदिकसंज्ञायाः प्रतिषेधः स्यान् न डिसम्बयोरिति ( ८।२।८ ) प्रतिषेधोऽनर्थकः स्यात् प्राप्ताभावात् । भिच्छिल्लू:पूरितवमादीनां कथं प्रातिपदिकसंज्ञा ? यावता तिबन्ता धातुत्वं न जहतीति धातन एवैत इति । अत्राधातुरिति प्रतिषेधेन भवितव्यम्। नैष दोषः । मा भूदनेन । कृदन्तत्वादुत्तरसूत्रेण भविष्यति । नचोत्तरस्याः प्राप्रयं बाधकः । वाक्यान्तरस्थत्वात् । मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरानिति वा। काण्डे कुडेय इति । प्रथमादिवचनान्ते एते रूपे । नपुंसकाचेति (७।१।१८ शीभावः । अत्र च प्रत्ययग्रहणे यस्मात् स विहित स्तदादे स्तदन्तस्येति तदन्तस्य प्रतिषेधो भविष्यति । मात्रस्य । ननु च सुपतिङन्तं (१।४ १४। पदमित्यत्रान्त ग्रहणेनान्यत्र संजाविधौ प्रत्ययग्रहगो तदन्तविधिर्नास्तीति हापितत्वादप्रत्यय इति प्रत्ययान्तस्य प्रति- षेधो न लभ्यते। नैष दोषः । संज्ञाविधी स प्रतिषेधः । नचायं संज्ञाविधिः । किं तहि ? प्रतिषेधविधिः । अथ किमर्थमप्रत्यय इति प्रतिषेध उच्यते ? यावतोत्तरसूत्रे कृत्तद्धितग्रहणं नियमाथं भविष्यति कृत्तहितान्तस्यैव प्रातिपदिकसंज्ञा नान्य प्रत्ययान्तस्य काण्डे कुड्य इत्येवमादेरिति । नैतदस्ति । असत्यस्मिन् प्रतिषेधेऽन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्तीति कृत्तद्धितयोरेव प्रातिपदिकसंज्ञा स्यात् । न तदन्तस्य । तदन्तस्य चवेष्यते भिच्छिन्नःपूरित्येवमादीनां प्रातिपदिकसंज्ञार्थम् । सत्यप्रत्यय इत्येतस्मिन् प्रतिषेधे प्राप्ते यथा लत्तद्धितान्तस्य प्रातिपदिकसंज्ञा लभ्यते तथोत्तरसूत्रे प्रतिपादयिष्यामः । ननु च काण्डे कुडे इत्येतयोः पूर्वमेव प्रकृतेः प्रातिपदिक- संज्ञा प्रहत्ता। विभक्त्या च सहेकादेश कृतेऽन्तादिवद्भावादस्त्येव प्रातिपदिक- त्वमिति सत्यप्यप्रत्ययग्रहण इखत्वं प्राप्नोत्येव। नैतदस्ति । अप्रत्ययग्रहण- मामाच भविष्यति । पन्यथा अप्रत्ययग्रहणमनर्थकं स्यात् । प्रधातुरप्रत्यय १६८ न्यासः । इति द्दिष्पतिपेधः षष्ठीतत्पुरुषाशङ्कानिरासार्थः । (0) अधातुप्रत्यय इत्युच्य- माने षष्ठीतत्पुरुषो ऽप्याशङ्केयत । धातो र्यः प्रत्ययस्तस्य न भवतीति । ४६ । कृत्तद्वितसमासाश्च । अनान्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्तीतवतन्नोपतिष्ठते यस्मादप्रत्यय इति प्रतिषेधे प्राप्ते वचनमिदम । अप्रत्यय इति प्रत्ययान्तस्य प्रतिषेध उक्तः। तेन यत्र संज्ञाया: प्रतिषेधस्तत्रेयमारभ्यमाणा तदन्तस्यैव भवतीत्येतच्चेतसि कृत्वाह अप्रत्यय इति । पूर्वसूत्रे पर्युदासात् कृदन्तस्थे- त्यादि। अथ समासग्रहणं किमर्थम् ? यावता समासस्यार्थवत्त्वात् पूर्वे गोव संज्ञा सिद्धेत्यत आह अर्थवत् समुदायानामित्यादि । निर्धारणषष्ठीयम् । अर्थ- वन्तो ये समुदाया स्तेषां मध्ये समासस्य र्थवत: समुदायस्य प्रातिपदिकसंज्ञा यथा स्यादिति नियमाथं समासग्रहणम् । यद्येवं प्रकृतिप्रत्ययसमुदायस्यार्थवतः प्रातिपदिकसंज्ञा न स्यात् । बहुपटव उच्चकै रिति। कोऽत्र दोषः । चित (६।१।१६३) इत्यस्मिन् सूत्रे चितः सप्रकृतेर्बहुजकजथमिति वचनादेतद्यवस्थाप्यते प्रकृतिमन्तव्य चित्खरो विधीयत इति । बहुपटव इत्यत्र बहुचि विहिते यदि प्रातिपदिकसंज्ञा न स्यात् तदा प्रातिपदिकत्वाभावाद् यथा सुबुत् पत्तिन स्यात् तथोत्पन्नाया अपि विभक्तेः सुपो ( २५ ४,७१ ) धातुप्रातिपदिक- योरिति लुका न भवितव्यम् । ततश्च बहुपटव इत्यत्र जस्विभक्त रकारस्य स्वरः स्यात् । उकारस्य चेष्यते । प्रातिपदिकत्वे तु सति पूर्वोत्पन्नाया विभक्तेलुकि कृते विभक्तिरुत्पद्यते सा सा बहुजुत्पत्तेरुत्तरकाल- भाविनीत्वात् प्रकृती नान्तर्भवति । तेन तामुत्सृज्य पूर्वी भागः स्वरभाग भवति । अत उकारस्य स्वरः सिध्यति । उच्चकैरित्यत्र प्रातिपदिकत्वाभावा- दकज्वतः समुदायाविभक्तिर्न स्यात् । तस्याञ्चासत्यां पदत्वं न स्यात् । वोच्चकैः पठतौति तिङतिङ इति ( ८।१।२८ ) निघातो न स्यात् । तस्मात् प्रकतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा वक्तव्या । न वक्तव्या । यस्मात् तुल्य- - यान्या तत- (0) अधातुप्रत्ययाविति सिद्ध नहयोपादानं स्पष्टार्थमिति मनीरमाशब्दकौस्तुभयो भट्टीनिवाक्यन्तु बासादर्शनमूलकमेव प्रतिभाति । सर्वथा न्यासकारव्याखव साधीयसी।

( ११२)। १८८ जातीयानां नियमः । तेन तुल्यजातीयो नियमेन व्यवच्छिद्यते । तुल्यजातीयश्च समाससुबन्तसमुदायादन्यः वाक्यसमुदाय एव । नतु प्रकृतिप्रत्ययसमुदायः । तेनायं तम्य नियमन व्यवच्छेदो न कारय।। नैतदस्ति । सुबन्तासुबन्तस- मुदायोऽपि समासोऽस्ति यथा प्रकत प्रकारक इति । अत्र हि गतिकार- कोपपदानां कृभिः सम.सवचनं प्राक् सुबुत्पत्ते रिति कृदन्तेनासुबन्तेन गतिकारकं सुबन्तं समन्यते ! तेन सुबन्तासुबन्तसमुदायोऽयं समास इति तुल्यजातीयस्यापि नियम विज्ञायमाने बहुपटव उच्चकैरित्यत्र प्रातिपदिकसंज्ञा न स्यात् । एवं ताचार्यप्रवति पयति-भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञेति यदयमप्रत्यय इति प्रत्ययान्तस्य प्रतिषेधं शास्ति । हस्वो नपुंसके प्रातिपदिकसा । नपुंसकलिङ्ग इति । नपुंमकं लि यस्येति बहुव्रीहिः । स पुनर्नपुंसक- लिङ्गोऽर्थी ट्रव्यभूतो वैदितव्यः । नपुंसकलिङ्गस्य द्रव्यधर्मत्वात् । अलोऽन्त्यस्येति। प्रलोऽन्त्यस्येति (१।१।५२ परिभाषया । ग्रामणोरिति । सत्सूद्धिपत्यादिना ( ३.२'६१ ) क्किए। अग्रग्रामाभ्यां चेत्युपसंख्याना णत्वम् । काण्डे कुडे इत्यत्राप्यप्रत्यय इति प्रतिषेधात् प्रातिपदिकसंज्ञा नास्ति । तन इस्वत्वं न भवति। ननु च प्रातिपदिकाप्रातिपदिकयारकादेशाऽन्तादिवद्भावात् प्राति- पदिकग्रहणेन ग्राह्यते। ततश क्रियमाणे प्रातिपदिक ग्रहगो हस्वत्वं प्राप्नोतीत्यत आह प्रातिपदिक ग्रहणसामादित्यादि । इह यद्यन्तवद्भावः स्यात् प्राति- पदिक ग्रहणमनर्थकं स्यात् । व्यवच्छेद्याभावादिति भावः । ४८। गोस्त्रियोमपसर्जनसा। स्त्रीति स्त्रीप्रत्ययग्रहण मिति । अत्र हेतुमाह स्वरितत्वादिति। स्त्री- ग्रहणस्यह स्वरितत्वं क्रियत इति। स्वरितनाधिकारादवतिर्भवति । तेन स्त्रियामित्यधिकृत्य ये प्रत्यया विहिताष्टाबादयस्तेषां ग्रहणं भवति । न स्त्यर्था- भिधायिनः शब्दमात्रस्य । नापि स्त्रीशब्दस्यैव स्वरूपस्य । उपसर्जनग्रहणं इयो- विशेषणमित्यादेः स्पष्टीकरणायाह गोरुपसर्जनस्य स्त्रीप्रत्ययस्योपसर्जनस्येत्यादि। ताभ्यां प्रातिपदिकस्येत्यादेरपि स्फुटीकरणायाह उपसर्जनगोश ब्दान्तस्येत्यादि ।

भ्यासः। । उपसर्जनगोशब्दोऽन्तो यस्येति विग्रहः । एवं गोशब्देनोपसर्जनन स्त्रीप्रत्ययेन च प्रातिपदिकस्य तदन्तविधौ मति गो: कुलं गोकुलं राज्ञः कुमार्याः पुत्रो राजकुमारोपुत्व इत्यत्र गोशब्दस्य कुमारीशब्दस्य च इखत्वं न भवति । अन्यथा इहापि स्यात् । भवति यत्र गोशदस्य राजकुमारीशब्दस्य चोप- सर्जनत्वमित्यभिप्रायः । चित्रगुरिति । प्रथमानिर्दिष्टमित्यादिना (१।२।४३) गोशब्दस्योपसज्जनसं जा। निष्कोशाम्बिरित्यादौ त्वेक विभक्ति चापूर्वेत्यादिना (१२।४४ )। अतितन्वीरित्या दि (७१।८५) । तत्रि कुटुम्बधारगो । इदितो नुम् । अवितृस्तृतन्त्रीभ्य उण, ३।४० ) इतोः। तन्त्रोः । लक्ष दर्शनारयोः । लक्षेमुट् चेति (उण, ३।४४०) मुट् । ईप्रत्ययश्च । लक्ष्मीः । श्रिञ् सेवायाम् । क्विब् वचिप्रच्छोत्यादिना ( ३।२।१७८, वा ) विप् । दीर्घः । श्रीः । अत्यादयः क्रान्त्याद्यर्थे ( २ १११८, वा ) द्वितीययेति प्रादिसमासः । यदि स्त्रीति त्यधिकारविहिताः प्रताया रह्यन्ते ततश्च प्रतायग्रहणे यस्मात् स विहितस्त- दादेस्तदन्तस्येति तदन्तग्रहणेऽतिराजकुमारिरितात्र स्वत्वं न सिध्यति । नहि राजकुमारशब्दाद् वयसि प्रथम इति । ४।१।२०) डोप्प्रतायो विहितः । किन्तहि ? कुमारशब्दात् । नैष दोषः । एषा परिभाषा यस्मात् प्रतायविधिस्त दादीत्यत्र ( ११४ १३ ) सूत्रे प्रतिपादिता। तत्र च वामीत्यतो (१।४ ५) वा ग्रहणमनुवती । सा च व्यवस्थितविभाषा विज्ञायते । तेन व्यवस्थित विभाषावतोयं क्वचिनोपतिष्ठत एव । अथवा कत्तडितसमासाश्वेतात (१।२।४६) श्वकारोऽनुवर्तते । स चानुक्तसमुच्चयार्थः । तेनातिराजकुमारिरित्य- त्रापि इखत्वं भविथतीत्यदोषः । ईयसो बहुब्रीही प्रतिषेध इति । ईयसन्ताद यो विहित स्त्रोप्रताय स्तदन्तस्य बहुब्रीही प्रतिषेध इति । कथं पुनरसौ लभ्यते ? विभाषा च्छन्दसौत्यतो ( १ २।३६ ) विभाषाग्रहणानुवृत्तेः । न चैवं सत्यनिप्रसङ्गः। व्यवस्थितविभाषाविज्ञानात् । बहुश्रेयसीति । अतिशयेन प्रशस्येति द्विवचन विभज्योपपदे ( ५।३ ५७) तरबोयसनावितोयसुन्प्रत्ययः । प्रशस्यस्य श्र इति ( ५।३।६० ) प्रशस्यशब्द स्येयमुनि परतः श्रादेशो भवति । प्रकताकाजिति (६।४।१६२) प्रकृतिवद्भावः । आद्गुणः ( ६।११८७)। अनितसेमि छोप् ( ४।१।६ )। बहाः प्रथस्यो ययेति बहुचेयसीति । ?

(१२)। १८१ नघृतश्चेति कम् न ( ५।४।१५३ ) भवति । ईयसथेति ( ६।४।१५६ ) कपो निषेधात् । ४६ । लुक तद्वितलुकि। प्रदर्शनं ( १।१६० ) लुक् । तच्चाभावः । अभाव पौवापर्यव्रोपपद्यते । तस्माल्लुकी ति सतो सप्तमीयं न परसप्तमीति मत्वाह तद्धितलुकि सतीति । पञ्चेन्द्र इति । तद्धितार्थे त्यादिना ( २।१।५१ ) समासे कृत सास्य ( ४।२।२४) देवतेत्यण् । तस्य हिगोलुंगनपत्य (४।१८८) इति लुक् । इन्द्रवरुणोत्या दिना ( ४।१।४५ ) विहितस्य डोषो ऽनेन लुक । तस्मिनिवृत्ते सवियोगशिष्टा- नामकतरापाय उभयोरप्यपाय इत्यानुका निहत्तिः । पञ्चशकुलिरिति । अध्यईपूर्वाढिगोलुंगसंज्ञायामित्याहीयस्य ( ' ।१२८) ठकस्तेन क्रीतार्थे (५॥१॥३७) विहितस्य लुक । आमलकमिति । आमलक्याः फलं विकार इति । नित्यं वृद्धशरादिभ्य । ४।३।१४४ । इति मयः । तस्यापि फले लुगिति ( ४।३।१६२ ) लुक् । वदरं कुवलमिति विकारार्थेऽनुदात्तादे ( ४।२।४४ ) रजित्यञ् । पूर्ववल्लुक् । शकुली। वदरी। आमलको। कुवलो। गौरादि- पाठादेत डोषन्ताः । गार्गोकुलमिति । गाग्यं गब्दाद याश्चेति ( ४।१ १६ ) ङो । यम्येति ( ६।४।१४८ ) चेत्य कारलोपः । हलस्त हितस्येति (६ ४ १५०) यकारस्य च लोपः। गााः कुल मिति षष्ठीसमासः । षष्ठया लुक् । गार्गौशब्दस्य समासशास्त्रे प्रथमानिर्दिष्टत्वाच्छास्त्रीयमुपसर्जनत्वम् । मूलोदा- हरणेषु विन्द्राणीप्रभृतोनां लोकिकमात्रोपसर्जनत्वम् । लौकिकमात्रोपसर्जनत्वम्। उभयगतिरिह शास्त्रे सम्भवतीति लोकिकमप्रधानत्वमुपसर्जनत्वम् । लोक ह्यप्रधानमुपसर्जन- मित्युच्यते । गागोत्वमित्यत्रापि गार्गीशब्दस्य लौकिकमेवीपसर्जनत्वम् । अवन्तो कुन्ती कुरूरिति । अवन्तेरपत्य गोत्रं स्त्रो। कुन्तेरपत्य गोत्रं स्त्री वृद्धेत्कोशलाजादाञ् ( ४।१।१७१ ) आङ् । कुरोरपत्य स्त्रो। कुरुनादिभ्यो ४।१।१७२) ण्य इति ण्यः । (P) स्त्रियामवन्तिकुन्तिकुरुभ्यश्चेति (४ १।१७६ ) --- (P) क्वचित् कर्वादिभ्यो ण्य इति ( 4. I, ISI ) दृश्यते ( as in my MS. no 13)। अवन्तिकुन्ति साहचर्यात् तद्राजसंज्ञक स्यैव ग्रहणं युक्तमिति कुरुनादिभ्यो य इत्येव (4. I. 172) पाठः । स एव हिबहुषु पुसकेषु लभ्यते ।

न्यासः । सिद्धत्येव । लुक्। अवन्तिकुन्तिशब्दाभ्या मितो मनुष्यजातेरिति (४।१।६५ ) डीए । कुरुशब्दादूत ( ४१।६६) इताङ् । अत्र डोषोङा च तडिताएँ गोत्रापत्यं स्त्रीप्रधानमेवाभिधीयत इतापमर्जनत्वं नास्ति लौकिकम् । शास्त्रीयमपि नास्ति । अप्रथमानिर्दिष्ट त्वात् समासशास्त्र इति । ५०। इद् गोण्याः । पञ्चगोणिरिति । तद्धितार्थे ति (२.१।५१ ) समासे कृत आहौयष्ठक् । तस्य पूर्ववल्लुक । इदिति योगविभाग इति । एतस्येद्ग्रहणमेव लिङ्गम् । तथाहि गोणी इत्येतावति सूत्रे ह्रस्व ग्रहणानुवृत्ती ह्रस्ववे कृते पञ्चगोणिरिति किमिदग्रहणेन ? तदेतदिदग्रहणं क्रियमाणं योगविभागाथ विज्ञायते। ननु चानन्तरसूवालक एवानुवृत्तिः स्यान हम्वस्य । नैतदस्ति । लुगनुवृत्तौ हि सूत्रमिदमनर्थकं स्यात् । लुकोऽनन्तरसूत्रेगोव सिद्धत्वात् । तस्मादध्रस्वग्रहण मेवानुवर्त्तते। न लुग्ग्रहणम्। पञ्चसूचिरिति । पञ्च- गोणिरित्यनेन तुन्यम्। यदि योगविभाग: क्रियते तदाति प्रमङ्गः स्यात् । अन्येषामपि प्रसज्यत इत्यत आह म चेत्यादि। यदि मवेत्त्वं पूर्वयोगेणैव स्यात् तदा गोण्या इति वचनम नर्थकम् । तस्माद् गोपीग्रहणादस्यासर्व- विषयत्वम् । तेन योगविभागः सूची विषय एव । नान्य विषय इति । तपरकरणं दीर्घनिवृत्त्यर्थम् ।, दोघस्य दीर्घकरणमनर्थकं स्यात् । अतो विना तपरक रणेन दी? न भविष्यतीति चेत् ? न। लु ह्रस्वबाधनार्थ चाद् दीर्घकरणस्य । भाव्यमाणोऽण् सवर्णान् न गृह्णातीति । तस्माद् दीर्घनिवृत्त्यर्थं तपरत्वं नोप- पद्यत इति चेत् ? न। तस्याभाव्यमानवात् । अपूर्वस्य हि विधानं भाव्य- मानत्वम् । नचानापूर्वस्य विधानम्। तयाहि लुग्घ्रस्खयोः प्राप्तयोः पुनः स एव ईकारः प्रतिप्रसूयते । तस्मात् तपरकरणं कर्तव्यम् । ५१। लुपि युक्तवद् व्यक्तिवचने । अभिधेयस्य लिङ्गसंख्ययोः प्राप्तयोरयमारम्भः । लुबिति प्रत्ययस्यादर्शनम् । तञ्चाभावात्मकम् । नचाभावे व्यक्तिवचनयो: शक्यतेऽतिदेश: कर्तुम् । तस्मा- मुपसंजया लुप्तस्य प्रत्ययस्यार्थों लुप्छन्देन विवक्षित इति मत्वाह लुपीति । ।

(१२)। १८३ लुप्संज्ञयेत्यादि। कथं पुनरतल्लभ्यते ? यावता प्रत्ययादर्शनस्यैषा संज्ञा । नतु प्रत्ययार्थस्य । साहचर्य्यात् । साहचर्यन्तु यत्र लुप् तत्रावश्यं प्रत्ययार्थस्य सद्भावात् । युक्तवदिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यत इति । अत्र कारणमाह स होत्यादि। युनत्यभिसम्बनाति विशेषणविशेष्यभावलक्षणसम्बन्धे- नात्मसम्बन्धिनं करोतीत्यर्थः। तत्र तस्य निवास इत्यादि। प्रत्ययार्थों विशेष्यः । पञ्चालादिशब्दस्यार्थ: प्रकृत्यों विशेषणम्। तेन हि पूर्व विज्ञान खाम्यन्तरव्यवच्छ देन प्रत्ययार्थी विशिष्यते । अथवेत्यादि। पूर्व युजिर् योग इत्यस्माद्धातोः क्तवतुप्रत्यये सति युक्तवदित्येतद्रूपं प्रदर्शितम् । इदानीं तस्यैव धातोः क्तप्रत्ययातिप्रत्यये सति युक्तवदित्येतद्रूपं दर्शयति । यद्यपि दिष्ठत्वात् सम्बन्धस्य यथा प्रत्ययार्थेन प्रकृत्यर्थी युक्तस्तथा प्रकृत्यर्थेनापि प्रत्ययार्थ स्तथापि प्रत्ययार्थसम्बन्धिनोर्व्यक्तिवचनयोः प्रत्ययार्थ एवातिदेशो- ऽनर्थक इति प्रकृत्यर्थ एवात्र युक्तशब्देन विवक्षित इति मत्वाह युक्तः प्रत्यर्थ इति । सप्तम्यर्थे वतिरिति । लुपीति सप्तमीनिर्देशात् । व्यक्तिशब्दः प्रादुर्भा- वादावप्यर्थे वर्तते। वचनशब्दो हि भाषणादिषु । अतस्तत्संप्रत्ययो मा भूदित्यत आह व्यक्तिवचने इति। किं पुनः कारणं पूर्वाचार्यनिर्देश प्रायोयत इत्यत आह तदीयमित्यादि। कुत एतदित्यत आह तथाचेत्यादि। नहि स्वकीय- स्यैव (Q) प्रत्याख्यानं युक्ता मिति भावः । पञ्चाला: क्षत्रिया इति । पञ्चालस्या- पत्यानि बहनीति विवक्षायां जनपदशब्दात् क्षत्रियादञ् (४।१।१६८) । तद्राजस्य बहुषु (२।४।६२) तेनैवा स्त्रियामिति लुक् । तेषां निवासो जनपद इत्यस्य वक्ष्यमाणेन वक्ष्यमाणेन पञ्चालानामित्यनेन सम्बन्धः । पञ्चालानां निवास जनपद इति । तस्य जनपदे लुबिति ( ४।२।८१) लुक् । कुरुशब्दादपत्यार्थे कुरुनादिभ्यो (४।१।१७२ ) ण्य इति ण्यप्रत्ययः। मत्यादिशदेभ्योऽप्यपत्यार्थे यमगधेत्यादिनाण् (४।१।१७०)। शेषं पूर्ववत् । शेषं पूर्ववत् । लवण: सूप इति । लवणेन संसृष्ट इति प्राग्वहतीय (४।४।२२ ) 8क् । तस्य लवणामुगिति तस्य (Q) भट्टोजि's reference to-खकीय (vide प्रौढ़मनारमा under गहादिभ्यश्च 4. 2. 138) -"तथाच लुब्योगाप्रखयानादित्यव नहि खकौयस्यैव प्रत्याखयानमिति न्यास:"-is evidently from memory. It is in लुपियुक्तावत् (I. 2. 51) and not in लुब्योग &c. (I. 2.54.).

१८४ न्यासः। ( ४।४।२४) लुक्। अनाभिधेयवल्लिङ्गवचने भवतः । शिरोषाणामदूरभवो ग्राम इति शिरीषाः। अदुरभवश्चेति ( ४।२।७० ) शिरीषशब्दादण् । तस्य वरणादिभ्यश्चेति (४।२।८२) लुप् । णत्वन्न भवतीति व्यक्तिवचनग्रहणस्य फलम् । यदि व्यक्तिवचने इति नोच्थेत तदा शिरीषेषु यद्दनस्पतित्वं तस्यापि ग्रामेऽति- देशः स्यात् । एवञ्च शिरीषवनमितान विभाषौषधिवनस्पतिभ्यश्चेति (८18।६) मत्वं प्रसज्येत । हरीतक्यः फलानोति। हरीतकोशब्दो गौरादिषु पिप्पल्यादि- दर्शनान् डोषन्तः । ततः फले विकारेऽनुदात्तादेरजिताञ् (४।२।४४ )। तस्य हरीतक्यादिभ्यश्चेति (४।३।१६७ ) लुप् । अत्र व्यक्तिरेव युक्तवद्भावेन भवति । वचनन्वभिधेयवदिति । एतच्च विभाषाग्रहणानुवृत्तेर्व्यवस्थितविभाषा- विज्ञानाच्च लभ्यते। खलतिकं वनानीति । अदूरभवश्चेताण ( ४।२।७० )। तस्व वरणादिभ्यश्चेति ( ४।२८२) लुप । अत्र वचनमेव युक्तवद्भावेन भवति । व्यतिस्त्वभिधेयवदेवेति । एतदपि पूर्ववदेव लभ्यते । ५२। विशेषणानाञ्चाजातेः । पूर्व प्रकृतार्थगतयोलिङ्गमंख्ययोलबर्थेऽतिदेशात् तविशेषणानामपि रमणीयादीनां व्यक्तिवचनातिदेशः सिद्ध एव ! यद्यपि भिन्नं विशेषणानां प्रहत्तिनिमित्तं तथापि तेन भिन्नेनापि तत्र प्रवर्तमानानां स एव लुबर्थोऽति- दिष्टव्यक्तिवचमस्तेषामभिधेयः । तस्मात् तद्गतेनैव लिङ्गसंख्याभिधाने सिडे जातिप्रतिषेधार्थमिदं वचनम् । गोदौ रमणीयाविति । गोदौ नाम इदौ । तयोरदूरभवो ग्राम (४।२।७०) इतार्थेऽण् । वरणादिभ्यश्चेति (४।२।८२) लुप् तस्य । पञ्चाला जनपदः । गोदौ ग्राम इति । जनपदग्रामशब्दो जातिवचनौ । ताभ्यां जातिनिमित्ताभ्यां स एव लुबर्थों जातिरूपेणोच्यत इति तयोरपि व्यक्ति- वचने युक्तवत् स्याताम् । ततो जातरिति प्रतिषेधः । जातार्थस्येतवादि। जातिशब्दस्यार्थी जातार्थः तस्यायमजातेरिति युक्तवद्भावप्रतिषेधो न जाति- शब्दस्यैवेत्यर्थः। किमेवं सति सिद्धं भवतीतात आह तेनेतयादि । अर्थस्य युक्तवभावप्रतिषेधे सति यथा जातिशब्दस्य तत्रार्थे वर्तमानस्य तदीये लिङ्गसंख्य न भवत स्तथा तविशेषणानामपि युक्तवद्रावो न भवति ।

(१२)। १८५ यदि पुनर्जातिशब्दस्यायं प्रतिषेधः स्यात् तदा पञ्चाला जनपदो गोदौ ग्राम इतात्रैव स्यात् । रमणीयो बहन इतपादौ न स्यात् । रमणीयादीनाम- जातिशब्दत्वात् । हारग्रहणं लुबर्थे जातिशब्दस्य प्रहत्तत्वाल. लुबर्थे जाति- विशेषणानां साक्षादप्रकृतेः। तानि हि साक्षाज्जातिमेव विशेषयन्ति । तस्यां तु विशेषितायां लुबर्थोऽपि विशिष्ट एव प्रतीयत इति जातिहारण तस्य तानि विशेषणानि भवन्ति। मनुष्थलुपीति। मनुष्यलक्षणो यो लुप् तस्य विशेषणानां। युक्तवद्भावप्रतिषेध इति । स च विभाषाग्रहणानुवृत्तेर्व्यवस्थित- विभाषाविज्ञानाल्लभ्यते। चञ्चाऽभिरूप इति। चञ्चेव मनुष्य श्चञ्चा। वे प्रतिकृताविति ( ५३ ८३ ) कन् । तस्य लुम् मनुष्य ( ५।३।८८ ) इति लुप् । अभिरूप इति । विशेषणस्याभिधेयवल्लिङ्गवचनानि भवन्ति । वडिकेति । पूर्ववत् कन्नुपौ। ५३। तदशिष्य संज्ञाप्रमाणत्वात् । तदशिष्यमिति प्रतिज्ञा। संज्ञाप्रमाणत्वादिति हेतुः। यस्मात् संझा- भूतानां पञ्चासादिशब्दानां प्रमाणत्वं तस्मात् तदशिष्यम् । प्रमाणत्वं पुनः प्रतायलक्षणम् । सर्वेषामेव शब्दानामवं विधे स्वविषये प्रमाणत्वमस्ति । उच्यते चेदम् । तत्र विशेषो विज्ञायते । स पुनरभिधेयगतलिङ्गसंख्यानपेक्षया भिन्नलिङ्गसंख्यानामपि तेषां साथै प्रतपायकत्वम् । अतएवाह संज्ञाशब्दा हि मानालिङ्गसंख्या इति । प्रमाणमिति । प्रमाणं प्रत्यायका वाचका इत्यर्थः । तवैतत् स्यात् । संज्ञाशब्दा एवामी पञ्चालादयो न भवन्ति । किं तहि ? योगनिमित्तका इतात आह पञ्चाला वरणा इतपादि। योगनिमित्तकाः शब्दा योगशब्दाः । नहि पञ्चालादयः शब्दाः क्षत्रियादिसम्बन्धेन जनपदादौ वर्तन्ते किं तर्हि ? मंज्ञा एता जनपदादीनाम् । यदि संज्ञाशब्दा एते ततः किमिति ? तदशिष्यमित्यत आह तत्र लिङ्गं वचनञ्चेतवादि। कुत एतत् ? यत् संज्ञाशब्दानां लिङ्गं वचनञ्च तत्स्वभावसिद्धमितात आह यथेतयादि। एकस्यामपि जलकणिकायां बहुवचनान्तः स्त्रोलिङ्गोऽपशब्दः प्रयुज्यते। एकस्यामपि योषिति दारशब्दः पंलिङ्गो बहुवचनान्तः । गृहशब्दश्चैकस्मिन् १८६ न्यासः । वर्तते । वेश्मनि बहुवचनान्तः पंलिङ्गश्च । एकस्यामपि वालुकायां बहुवचनान्त: सिकताशब्दः स्त्रीलिङ्गः। वर्षा इति । एकस्मिन् विशिष्टकालेऽपि प्रवर्तमानः स्त्रीलिङ्गो बहुवचनान्तश्च तस्माद् यथेवैषामप्प्रभृतिशब्दानां खाभाविकं लिङ्गं वचनं च तथा पञ्चालादिशब्दानामपीति नार्थों युक्तवद्राव- वचनेन। यद्येवं कस्मात् पूर्व तदुक्तम् ? प्रतिषेधविषयोपदर्शनार्थम् । नयनिर्दिष्टविषयस्य प्रतिषेधः शक्यते कर्तुं ज्ञातुं वा । ५४ । लुबयोगाप्रख्यानात् । योगाप्रख्यानादिति । योगो जनपदादेः क्षत्रियादिभिः सह सम्बन्धः । तस्याप्रख्यानादनुपलब्धेरितार्थः । ये हि योगनिमित्तकाः शब्दा योगमभिधाय तहति द्रव्ये वतन्ते तेभ्यो योग उपलभ्यते यथा दण्डिशब्दादिभ्यः । न च पञ्चालादिशब्देभ्यो दण्ड्यादिशब्दवद् योग उपलभ्यते । तस्माते योगशब्दा इत्यत आह नहीत्यादि । प्रख्यायते कथ्यते प्रकाश्यते बुद्धेविषय पापाद्यत इति यावत्। यत एवं पञ्चाला वरणा इति सम्बन्धो न प्रख्यायते ऽतएव नैतदुप- लभामहे वृक्षयोगानगर वरणा. इति। किं तर्हि ? संज्ञा एता अनपेक्षित- प्रहत्तिनिमित्ताः। यदि संज्ञाशब्दा एते ततः किमित्याह तस्मादवेत्यादि । गतार्थम् । ननु च संज्ञाशब्दानामपि व्युत्पत्त्यर्थं तद्धित उत्पद्यत एव। यथा हस्ताज्जातो (५।२।१३३) हस्ती । कम्बलाच्च (५।१।३) संज्ञायां कम्बल्यमिति । तल्किमुच्यते तस्मादत्र तस्य निवासो ( ४।२।६८ ) ऽदूरभवश्चेति ( ४।२।७०) तचितो नोत्पद्यत इति ? सत्यम् । संज्ञाशब्दव्युत्पत्त्यथं तद्धित उत्पद्यते । स च कोत्पद्यते ? यत्र श्रुतिकृतो विशेषो विद्यते। नचेह तद्धितोत्पत्ती लुपि सति कश्चिद् विशेष इति न तद्धितोत्पत्तिः । ५५। योगप्रमाणे च तदभावदर्शनं सत्रात् । योगप्रमाण इति । योगस्य प्रमाणं योगप्रमाणं येन योगः प्रत्याय्यते । सत् पुनरिह प्रकृतत्वात् पञ्चालादिशब्दः । स हि परमतेन पञ्चालादिसम्बन्ध खप्रहत्तिनिमित्तमभिधायैव जनपदादौ वर्तते । नानभिधाय । तेन योगस्य प्रमाणं प्रत्यायको वाचक इत्यर्थः। तदभावेऽदर्शनं स्यादिति । यो हि योग- (१२) १८७ निमित्तकः स योगाभावे न प्रयुज्यते दण्डयादिशब्दवदित्यभिप्रायः। योग- प्रमाण होत्यादि। हिशब्द हेत्वथं प्रयुज्जानश्चशब्दो हेत्वर्थवृत्तिः सूत्रे उपात्त इति दर्शयति । स्यादेतत् । भवत्येव योगाभावे पञ्चालादिशब्दस्यादर्शन मित्यत आह दृश्यते चेत्यादि। गतार्थम् । ५६ । प्रधानप्रत्ययार्थवचनमर्थसमान्यप्रमाणत्वात् । अन्यप्रमाणत्वादिति। अन्यत् प्रमाणमवगतिहेतुर्यस्यार्थाभिधानलक्षणस्य तदन्यप्रमाणम् । तस्य भावोऽन्यप्रमाणत्वम् । प्रधानं समासे किञ्चित् पदमिति यथा राजपुरुषश दे पुरुष इयेतत् । प्रधानोपसर्जने इत्यादि । राजपुरुष इत्यत्र पूर्वपदमुपसर्जनम् । इतरत् प्रधानम् । ते च प्रधानार्थ सह ब्रूतः । प्रकृतिप्रत्ययावित्यादि। औपगव इत्यत्रोपगुशब्दः प्रकृतिः । प्रत्ययः । तावपत्यलक्षणं प्रत्ययाथं सह ब्रूतः । अशक्यत्वादिति। अशक्यत्वन्त नन्तप्रकारत्वात् । तथाहि चित्रगुरिति बहुव्रीही कृते गुणगुणिभ्यामन्य- पदार्थ उच्यते । अत्र गुणपदं चित्रशब्दोऽप्रधानम् । विशेषणत्वात्। गुणि- पदं गोशब्दः प्रधानम् । विशेष्यत्वात्। कचिदुपसर्जनाभ्यामन्योऽर्थों ऽभि- धीयते । प्लनन्यग्रोधमिति । अत्र हि समुदायार्थः प्रधानमुपसर्जनाभ्या- मभिधीयते। क्वचित् प्रधानाभ्यां प्रधानार्थयोरेव सहाभिधानम् । प्लक्षन्य- ग्रोधाविति। तथाहि न केवलं प्रकृतिप्रत्ययो प्रत्ययार्थ सह ब्रूतो ऽपि तु क्वचित् प्रकवर्थमपि यथा स्वार्थि केषु शुलतरं शुक्लतममिति । केचिदाख्यातेषु स्वभावात् प्रधानमाहुः प्रकृत्यर्थ क्रिया प्रधानमाख्यातमिति । अन्ये तु मन्यन्त आख्यातेषु प्रधानभूतः प्रत्ययार्थ एव शक्तिरूपणोच्यते । विभक्तिभिः कचित् प्रत्यये । नतु शक्तिमान् पदार्थी द्रव्यभावमापन्न उच्यते । अतः क्रियान्तरेण च सम्बन्ध शक्त्यन्तरमाविर्भवति कर्तारं पश्येति । एवमाद्य नन्तप्रकारमाभिधानमशक्यं सर्वमुपदेष्टुम् । तस्मालोकत एवार्थावगतिः । कथं पुनरेतद् विज्ञायत इत्यत आह येरपीत्यादि । सुगमम् । ५७। कालोपसर्जने च तुल्यम् । अर्थस्यान्यप्रमाणत्वादित्युक्तम् । कथं पुनरत्नाप्ययं हेतुर्लभ्यत इति तथा यथा १८८ न्यासः । प्रश्नावसर इत्याह तुल्यशब्दो हेत्वनुकर्षणार्थ इति । कथं पुनस्तुल्यशब्दो हेत्वनुकर्षणार्थों भवति ? एवं मन्यते । तुल्यमिति प्रत्याख्यानक्रियाविशेषण- मेतत्। अनन्तरोत न प्रतयाख्यानेन तुल्यमेतत् प्रत्याख्यानमेवञ्च तुल्यम्भवति यदि यस्तस्य हेतुः स एवास्यापि भवति । तस्मात् तुल्यग्रहणसामर्थ्यात् पूर्वको हेतुरत्नानुवर्तते । तेन तुल्यशब्दो हेवनुकर्षणार्थों भवतीति । अन्याय्यादुस्थानादितयादि। उत्थानं शयनाद्रात्रेः पश्चिमे यामे न्याय्यमुक्तम् । संवेशनं शयनम् । तदपि रजनवाः प्रथमे यामे न्याय्यम् । तदेवं सकलो दिवसः पूर्वस्याश्च रात्रेः पश्चिमो याम आगामिन्याश्च प्रथमो याम इत्येषो- ऽद्यतनः काल इतुक्तं भवति । अहरुभयतोऽईरात्र मित्यादि। कृत्स्रो दिवस उभयतश्चाईरात्रम् । अतिक्रान्तायाश्च रात्रे रागामिनप्राश्च रावेरद्यतनः काल इतापरे। । । ख्येति । ५८। जाल्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् । जाति मायमेकोऽर्थ इतपादिना सूत्रारम्भस्य प्रयोजनमाह ननु च जाते: संख्या न विद्यते । तम्या द्रव्यधर्मत्वात् । यद्यपि वैशेषिकसिद्धान्त- प्रसिद्धा गुणपदार्थसंग्रहीता या संख्या सा न विद्यते तथापि भेदका गुणा इतास्माद् दर्शने भेदमात्रा या संख्या सा विद्यत एवेत्यदोषः । जातरा- आख्यानमाख्या प्रत्यायनम्। एकस्मिन्नर्थ इति । जात्याख्योऽथों जाताओं बहुवद्भवतीति यावदिति। एतेनैतद्दर्शयति । नहि जातिशब्दा- ज्जसादिबहुवचनं विधीयते । किन्तर्हि बहुवद्भावः । यदि हि जातिशब्दाज- सादिबहुवचन विधीयेत जातिविशेषणेभ्यः सम्पन्नादिभ्यस्तन्न स्यात् । तेषाम- जातिशब्दत्वादिताभिप्रायः । कथं पुनर्जातार्थस्य बहुवद्भावो लभ्यते ? अन्वर्थग्रहणात् । बहुवचनमिह न पारिभाषिकं बहुवचनं रायते । कि तर्हि ? अन्वर्थम् । उक्तिर्वचनम् । बहूनां वचनं बहुवचनम् । न चैकस्मिन्नर्थे बहूनां वचनं सम्भवति । अतः सामर्थाद् वतार्थों गम्यते । एकस्मिवर्थ बहुवदिति । तदनेन प्रकारेण जाताओं बहुवद्भवति । तेनेतयादि । एव जातार्थस्य बहुवावो विधीयते तेन जातिविशेषणानामजातो वर्तमानानां यत (१२) १८८ बहुवचनमुपपद्यते जातिशब्दवत् । देवदत्त इति । देवदत्तशब्दो यदृच्छाशब्दः । नाननैकं वस्त्वनेकव्यक्त्यनुगतमभिधीयते । अनेकव्यक्त्याधारा हि जातिः । ततो न देवदत्तत्वं नाम जातिरस्तोति न भवत्यत्र बहुवद्भावः । ननु चानावस्थाभेदेनानकाधारं देवदत्तवमस्ति । नैतदस्ति । एवं हि जातिग्रहण- मनर्थकं स्यात्। सर्वत्र जातेः सम्भवात् । तस्माज् जातिग्रहणसामर्थ्याल लोके ये जातिशब्दाः प्रतीता स्तदर्था एवात्र जातिशब्देन विवक्षिता इति विज्ञायते । नच देवदत्तशब्दो लोके जातिशब्दः प्रतीतः। काश्यपप्रतिकृतिः काश्यप इति । कश्यपस्यापत्यं । भतृष्थानन्तव्ये ४।१।१०४ ) विदादिभ्यो- ऽजित्यञ् काश्यप इति । सत इवार्थ इवे प्रतिकृताविति (५।३।८३) कन् । लुम् मनुष्य ( ५।३।०८) इति लुन् भवति । अयं जातिशब्द इति । गोत्रञ्च चरणैः सहेति (४।१।६१, भा) लक्षणात् । तस्व च गोत्र- प्रत्ययान्तत्वात् । नत्वयं जातिरूपणोच्यते । किं तर्हि ? प्रतिकतिरिति । एवं तहि जातिप्रतवायने हि चिकीर्षित बहुवावेन भवितव्यम् । नचेष जातिप्रतपाय चिकीर्षितम् । किन्तर्हि ? प्रतिकृतिप्रतपायनम् । ब्रीहि- यवाविति । एकस्मिञ्जातयर्थे बहुवद्भावोऽनेन विधीयते । इह तु हो जाती विवक्षितौ। वक्तव्यशब्दस्य व्याख्येय इतार्थः । तत्रेदं व्याख्यानम् । तरस्यामिति व्यवस्थितविभाषेयम् । तेन संख्याप्रयोगे न भविष्यति। अथवै को ब्रोहिः सम्पन्न इतात्रैकशब्दः प्रयुज्यमानो आतार्थस्यकत्वमुद्भावयति । तच बहुत्वेन विरुध्यते । तस्मादेकत्वबहुत्वयोर्विरोधाहहुवावो भविष्यति। ५६ । अस्मदो हयोश्च । अत्राप्यर्थस्य बहुत्वातिदेशः । अम्मदो योऽर्थः स बहुवद्भवतीति । तेन तिङन्तस्यापि तत्र वर्तमानस्य बहुवचनान्तत्वम्भवति । वयं ब्रूम इति । एकत्वे हिवे चेतवादि। युक्तं यदेकत्वे भवति । हित्वे तु कथम् ? नहि वित्वमस्मदर्थस्य सम्भवति। अस्मच्छब्दस्यात्मविषयत्वात् । आत्मनश्चैकत्वात् । नैष दोषः । आत्मत्वं परत्र यदोपचयतेऽयं मे वितीय पात्मेति तदा न्यासः । ऽस्मच्छब्दस्य तत्रापि वृत्तेईपर्थविषयत्वं सम्भवति । अथवा त्यदादीनां मिथो यद् यत् परं तच्छिष्यत इत्यम्म छन्द एव शिष्यमाणो युपदर्थमप्याहेति द्यर्थतोपपद्यत इति युज्यते हार्थता। अथ यद्यस्मच्छब्दो बहुवचनान्त: प्रयुज्यते तदैकार्थविषयोऽयं न ार्थविषय इति । अथ ार्थविषयोऽयं नैकार्थ- विषय इति। कुतस्तस्यै कार्थार्थ विषये वृत्तिरवसीयते ? प्रकरणात् । यथा ऽराच्छब्दस्य दूरान्तिकार्थयोवृत्तिरिति । अहमिति । डे (७१२८) प्रथमयोरमित्यम्भावः। त्वाही (७:२८४ ) सावित्यहादेशः । वयमिति । जसि मपर्यन्तस्य ( ७।२।८१ ) यूयवयौ जसोति ( ७।२।६३) वयादेशः । शेषे ( ७।२।८० ) लोपः । आवामिति । औप्रत्यये परतो युवावी (७/२।८२ द्विवचन इत्यावादेशः । प्रथमायाश्चेत्यादिनात्वम् ( ७।२।८८)। इति । व्याख्येय इत्यर्थः । व्याख्यानन्त्वन्यतरस्यांग्रहणं यदनुवर्तते व्यवस्थितविभाषात्वमाश्रित्य कत्तव्यम् । युभदि गुरावेकेषामिति । एतदपि चकारस्थानुक्तसमुच्चयार्थत्वात् सूत्रेणेव संग्रहीतम् । वक्तव्य तस्य ६०। फल्गुनीप्रोष्ठपदानाञ्च नक्षत्रे । चकारो योरनुकर्षणार्थ इति । ननु च फल्गुन्यौ नक्षत्रे हे एव । तथा प्रोष्ठपदे अपि हे। अत्रानयोहित्वाड्डित्व एव बहुवचनम् भविथति। तत् किं चकारण इयोरित्यनुकर्षणार्थेन ? एवं तीतज् ज्ञापयति । नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति । तेनैतदपि सिई भवति । उदिताः पूर्वाः फलान्य उदिते पूर्वे फलान्याविति । यदि नक्षत्रग्रहणं ज्योतिष उप- लक्षणार्थमिति न ज्ञाप्यते तदिह तु न स्यात् । यतो ज्योतिषामावस्थिकी नक्षत्रता चन्द्रमसा योग सति भवति । नान्यदा। अन्यदा तु ज्योतिष्ट्वमेव । नच नक्षत्राभिधायिन उदिताः पूर्वाः फल्गुन्य इत्यत्र फलानीशब्दस्य प्रयोगः । किं तर्हि ? ज्योतिर्माताभिधायिन इति । अत्र ज्योतिश्चमेकस्याप्यस्तीति तविकृत्त्यर्थं योरित्यनुकर्षणाथं चकारकरणं युक्तम् । यदि पुनर् ज्योतिष उप- लक्षणार्थ नक्षत्रग्रहणं न स्यात् तदा व स्यात् ? तदेहैव स्यात् । पूर्वाः फलान्यः । अद्य पूर्वे फलान्याविति। अस्ति ह्यत्र फल्गुन्योनक्षत्रता । प्रद्य ( ११२)। २.१ चन्द्रमसा युक्तत्वात् । तथाहि नक्षत्रेण युक्तः काल ( ४।२।३) इताण भवति। श्रवणं तस्य न भवति । लुबविशेष ( ४।२।४ ) इति लुप्तत्वात्। फलान्धी माणविके इति । फलान्योर्जाते इति । फलान्याषाढ़ाभ्यां टानावित्युप- संख्याना (४।३।३४ वा ) प्रतायः । टिड्ढाण (४।१।१५) मिति डीप । ६१ । छन्दसि पुनर्वखोरेकवचनम् । ६२ । विशाखयोश्च । ६३ । तिष्यपुनर्वखोर्नक्षवहन्दू बहुवचनसा दिवचनं निताम्। तिष्यपुनर्वसवो माणवका इति । तिष्यपुनर्वसुशब्दाभ्यां नक्षत्रेण युक्तः काल इत्यण (४।२३) भवति । तस्य लुबविशेष इति (8।२।४) लुप । ततस्तिष्थे जातो माणवकः पुनर्वस्वोर्जाती माणवकाविति सन्धिवेलादिनाऽण (४।३।१६)। तस्य अविष्ठाफल्गुन्यनुराधेतयादिना (४।३।३४) लुप्। पर्यायाणामपि यथा स्यादिति। नक्षत्रग्रहणे सतार्थग्रहणादेतद् भवति । शब्दग्रहण च स्वं रूपमिताषा (११११६८) परिभाषा भवतीतुक्तमेतत् । तदभावे पर्यायाणामपि भवति । सिद्धापुनर्वसू इति । सिद्धाशब्दस्तिष्यपर्यायः । यस्तिष्य स्तौ पुनर्वसू एषामितावयवेन विग्रह समुदायस्तु समासार्थी वेदितव्यः । अथ तिष्यपुनर्वसव इति ? बहुव्रीहिणा विपर्यस्तमतयः पुरुषा एवैवमुच्यन्ते। नक्षत्रसमास एवायब भवति । तत् किमेतविकृत्त्यर्थेन इन्दग्रहणेनेत्येवं यो देशयेत् तं प्रताह तिष्यादय एवेतपादि । खदर्शनापराधादन्यथा तिष्यादीन् दृष्ट्वा प्रतिपत्तृभिस्त एव तिष्यादयो विपर्यायेण दृश्यमाना बहुव्रीहिगोवमुच्यन्ते । नत पुरुषाः । तस्मान्नक्षत्रसमास एवायम् । तिष्थपुनर्वखिदमिति । केन पुनरत्रैकवद्भावः ? जातिरप्राणिनामिति (२।४।६) चेत् ? न । संज्ञाशब्दत्वात् । देवदत्तादिशब्दवत् । नायं जातिशब्दः । अनेकाधारा हि जातिर्भवति । न च तिष्यादिस्तथा। किञ्च वक्ष्यति जातिप्रधानपरत्वे च जातिद्रव्यागामयमेक- वद्भावो न नियतव्यविवक्षायामिति । नियतद्रव्यविवक्षा चात्र । तस्मात्र जातिरपाणिना (२।४।६) मितानेनैकवद्भाव उपपद्यते । न चान्यदेकवद्भाव- लक्षणमस्ति । तत्र तिष्यपुनर्वखोर्नक्षत्रे हन्दसमासे बहुत्वाद बहुवचनम दर्शयति । নম্ব २०२ न्यासः। भवितव्यम् । एवञ्च बहुवचनग्रहणमनर्थ कमितात आह सर्वो इन्हो विभाषे- तपादि। यदयमेकवचननिवृत्त्यर्थ बहुवचनग्रहणं करोति ततोऽवसीयते ऽस्तीयम्परिभाषा सौं इन्हो विभाषेकवद्भवतीति । तेनेह बहुवचनग्रहण- मकवचननिहत्त्यथं कृतमित्यभिप्रायः । ६४। सरूपाणामेकशेष एकविभक्तौ षष्ठी। सरूपाणामिति बहुव्रीही कृते ज्योतिर्जनपदेत्यादिना (६।३।८५) समानस्य सभावः । रूपशब्दोऽत्र स्वभावे वर्तते । सरूपाणां शब्दानामिति निर्धारणे तेन स्वरूपाणां मध्ये समानजातीयो यः सरूपः स एक एव शिष्यते । न विरूपः । समानजातीयस्यैव हि निर्धारणं भवति न विजातीयस्य । अथवा समुदायलक्षणेषा षष्ठी। सरूपसमुदायान्तःपाती च सरूप एव भवति । विरूपः । तेन सरूप एव शिष्यते । एकविभक्ताविति । एकशब्दः समानार्थ एकधनाविति यथा। एका चासौ विभक्तिश्चेति पूर्वकालैकेत्यादिना (२।१।४८) समासः । एवमेकशेष इत्यत्रापि । अत्र वेकशब्दः संख्यावचनः । शेषशब्दोऽयं निवृत्त्या विशिष्टमवस्थानमाह । नावस्थानमात्रम् । अतएवाह एकः शिथते । अपर निवर्तन्त इति। वृक्षश्च वृक्षश्च वृक्षावित्यादि। अविभक्तिकानामयमेक- शेषः । अनैमित्तकत्वादिभक्तेः । नायं परां विभक्तिमाश्रित्य विधीयते । एक- विभक्तावितीह । सारूप्योपलक्षणमेतत् । न निमित्तनिर्देशः। एकस्यां विभक्तौ परतो यानि रूपाणि दृष्टानि तेषामनुत्पबायामेव विभक्तौ प्राति- पदिकानामकशेषो भवति । ततः कृत एकशेषे विभक्तिरुत्पद्यते । सविभक्तिकानामवैकशेषः । कथम् ? विभक्तिशब्देन हि कारकमभिधीयते । विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा । तदेतदुक्तम्भवति । एकस्मिन् समाने- ऽभिवे कारके यानि सरूपाणि तेषामेवैककारकाणामेकशेषो भवतीति यद्येवं परत इति वृत्तिग्रन्यो नोपपद्यते। कारक ह्यर्थसमवायिनी शक्तिः । न च तया शब्दानां पौर्वापय्यं सम्भवति । कथञ्च विभक्तिशब्देन कारकेऽभि- धीयमाने सविभक्तिकानामेकशेषो लभ्यते ? उच्यते । वृत्तिग्रन्थस्तावदुप- पद्यते। परशब्दो घयमिष्टवाची। एकविभक्ती परत एकस्यां विभक्ता- अथवा ( १।२६)। विष्टायामित्यर्थः । विषयसप्तमी चेयम्। सती सप्तमी वा। एकस्मिन् कारके विषयभूत इष्टे सति चेत्यर्थः । किञ्चेष्ट कारकं भवति ? यद् विवक्षितम् । अतएव विवक्षितत्वात् कारकं खनिमित्तां विभक्तिमुत्यादय- तौति सविभक्तिकानामेकशेषो लभ्यते । सहभावविवक्षायाञ्चायमेकशेषो भवति। यद्येकेन युगपत् सर्वेषामर्थोऽभिधातुमिष्यत एवं सति भवति । नान्यथा। ननु च जातिः पदार्थः। जातिश्चैकैव । तत्रैकत्वाज्जा जातेबहूनां शब्दानां प्रसङ्ग एव नास्ति । तत्किमेकशेषारम्भेणेति चोद्यावसरे द्रव्य पदार्थ इत्येतद्दर्शनमाश्रित्याह प्रत्यर्थमित्यादि । प्रत्यर्थमेकैकस्मिवर्थे यस्माच्छब्दानां निवेशप्रहत्तिस्ततोऽनेकन शब्दनानेकार्थस्याभिधानम् । तत्रैतद्दर्शन नेकेषा- मर्थाभिधाने प्रत्येकेनैव कर्तव्येऽनेकशब्दत्वं प्रसज्यत इति यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति । इष्यते चैकशब्दता। तस्मादेकशेष प्रारभ्यते । रूपग्रहणं किमिति ? एवम्मन्यते । रूपग्रहण क्रियमाणे पदद्दयसमनुगम्योऽर्थः प्रतिपत्तव्य इति प्रतिपत्तिगौरवं भवति । समानानामित्युच्यमाने सतक- पदसमनुगम्योऽर्थः प्रतीयत इति प्रतिपत्तिलाघवं भवति । तस्मात् समान- ग्रहणमिव कर्त्तव्यमिति। भिन्नेऽप्यर्थं यथा स्यादिति रूपग्रहणम् । यदि रूपग्रहणं न क्रियेत तदा विशेषानभिधानाद् यत्र सव्वं समानं शब्दोऽर्थश्च तत्रैव स्याद् वृक्षा इत्यादौ । अक्षा इत्यादौ तु न स्यात् । अर्थभेदात् । तथा यक्षशब्द इन्द्रियाख्ये शकटाने विभीतकादावर्थे च वर्तते । पाद- शब्दोऽपि कार्षापणश्लोक पादपाणिपादादावर्थे वर्तते । माषशब्दोऽपि ब्रीद्यादी। दिबह्वोः शेषो मा भूदिति ! ननु च शेष इतकत्वसंख्याविवक्षायां हयो- बहूनाञ्च शेषो न भविष्यति। नैतदेवम् । भविष्यति। नैतदेवम् । इह विधीयमानत्वाच्छेष एव न च प्रधाने संख्या विवक्ष्यते । तथाहि कर्तुरीसिततमं कर्मेति (१।४।७८) कर्मसंज्ञा। ईप्सिततमस्य प्राधान्यात्। असत्यां संख्याविवक्षायां हयोर्वहूनाञ्च कर्मसंज्ञा भवति । गुणे तु संख्या विवक्ष्यते। यथा ज्याप् प्राति- पदिकादिति (४।१।१)। स्वादयो विधीयमानत्वात् प्रधानम्। ज्याप्माति- पदिकमप्रधानमिति । तत्र संख्या विवक्ष्यते । तेनैकैकस्मादेव खादय उप- पद्यन्ते । लक्षणानुरोधाद् गुणऽपि कचित् संख्या न विवश्यते यथेहैंव सरूपाणा- प्रधानम् ।

.४ न्यासः । । मिति । तेन हयोरपि सरूपयोरेकः शिष्यते । आदेशो मा भूदिति । असति शेषग्रहणे सरूपाणामिति स्थानषष्ठीयं स्यात्। ततश्चादेश: स्यात्। एवञ्चाशि- पुषिलटिकणिखटिविशिभ्यः क्वविति (उण, १।१४८) कन्प्रत्ययान्तोऽखशब्दो नित्स्वरादाद्युदात्त इति योरश्वशब्दयोराद्युदात्तयोः स्थान आधुदात्तइयवाने- वादेशः स्यात् । आन्तरतम्यात् । पय इत्यादि। एकः पयःशब्दः प्रथमान्तः कर्तृ- पदम्। द्वितीयो द्वितीयान्तः कर्मपदम् । ततो भिन्नविभक्तिकत्वम् । नैक- विभक्तिपरत्वमितकशेषो न भवति । ब्राह्मणाभ्यामिति । प्रथमो ब्राह्मणशब्द- स्तृतीयान्तः । द्वितीयस्तु चतुर्थ्यन्तः । तेनावापि समानविभक्तिकत्वबास्ति । अपत्य- अथ ६५ । वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । वृद्धशब्दोऽयमस्ति लौकिको यश्चरमे वयसि वर्त्तते । अस्ति च शास्त्रीयः । वृधिर्यस्याचामादेस्तदृद्धमिति (१।१।७३)। अस्ति च पूर्वाचार्यसंज्ञा । मन्तर्हितं वृडमिति । तत्र यदि लौकिको ग्राह्येत युवशब्दस्यापि तत्माह- चालौकिकस्यैव वयोविशेषवाचिनो ग्रहणं स्यात्। ततश्चाजश्च वर्करश्चेत्येवमादौ प्रसज्येत। वृद्धावस्थो हि पशुविशेषोऽज इत्युच्यते । युवा तु वर्करः । शास्त्रीय उपादीयत औपगवश्चौपगविश्चेत्यादावपि स्यादित्येतदालोच्याह वृद्धशब्द इत्यादि। एतेन पूर्वाचार्यप्रणीताया संज्ञाया वृद्धस्येदं ग्रहणमिति दर्शयति कथं पुनीतल्लभ्यते ? उपदेशात् । अथवा एवम्मन्यते । युवशब्दो यद्यपि लोके हितीये वयसि रूढ़स्तथापि जीवति तु वंश्ये युवेति (४।१।१६३) परिभाषा बलादपत्ये यो वर्तते स एव गृह्यते। तेन तत्साहचर्याद् वृद्धशब्दस्यापत्यार्थ- वृत्तेरेव ग्रहणं युक्तमिति । गोत्रग्रहणन्तु न कृतम्। वैचित्रवार्थम् । यूना सह वचन इति सहग्रहणेन यूनेति सहयोग एषा टतीयेति दर्शयति । अतएव सहयोगे हतीयाविधानादवगम्यते सहभावविवक्षायामकशेषो भव- तौति । समानायामित्यादिना यत्र सृड्युवनिमित्तमेव वैरूप्यं तद्दिषयं दर्शयति । प्राकृतिः शब्दस्य प्रहत्तिनिमितं गाय॑त्वादि । सस्यां समानायामभिवायां यत्र वृधयुवप्रत्ययावेव केवलं भिद्यते नान्यत् प्रवत्यादिक तत्र वृहयुवप्रत्ययनिमित्तमेव वैरूप्यं भवतीति भावः । गार्ग्यश्चेत्यादि। गर्ग- । (१२)। २०५ वत्सशब्दाभ्यां गर्गादित्वाद यञ् । गार्यः । वास्यः । ताभ्यां यून्यपत्ये यअिजो श्चेति ( ४।१।१०१) फक् । गार्ग्यश्च गाायणश्च गाग्यौँ । वास्यश्व वात्यायनश्च वात्यौ । प्रकरणादिनात्र युवार्थो गम्यते । गर्गश्चेति । गर्गशब्दोऽयं मूलप्रवतिः । न बद्दे वर्तते । नापि यूनि। गार्यवात्स्यायनाविति । अत्र न केवलं दृष्ट्व- युवप्रत्ययनिमित्तको विशेषोऽस्त्यपितु प्रततिनिमित्तकोऽपि । भागवित्ति- शब्दो गोलापत्ये भगवित्तशब्दादिनन्तः। भागवित्तिकश्चेति । भागवित्ति- शब्दाद यून्यपत्ये गोत्रस्त्रियाः ( ४।१।१४७ ) कुत्सने ण चेत्यतः कुत्सन इत्यनुवृत्ती हद्धाट ठक् सौवीरेषु बहुलमिति ( ४।१।१४८ ) ठक् । ६६ । स्त्री पुंवच्च । स्त्यर्थस्य वैरूप्यकारणस्याधिक्यात् पूर्वण न सिध्यतीति वचनम् । पुंवच्चेति वचनादतिदेशोऽयम् । स्त्रीति स्त्रीप्रत्ययग्रहणं वेदं स्यात् ? स्त्यर्थ वृत्तिशब्दस्य वा ग्रहणम् ? अर्थग्रहणं वा ? यदि स्त्रीप्रत्ययस्य ग्रहणं स्यात् ततोऽनेन तस्यैव निवृत्तिः क्रियते । पुंवत् स्त्रीप्रत्ययो भवतीति । नतु स्वार्थस्य निवृत्तिः क्रियते । ततो गार्ग्यश्च गाग्यायणाश्चेति गर्गा इत्यत्रास्त्रिया. मित्यनुवर्तमान यजजोश्चेति (२।४।६४) लुङ् न स्यात् । इह तु गर्गान् पश्यतीति तस्माच्छसो नः (६।१।१०३) पुंसीति नत्वं न स्यात् । द्वितीये तु पक्षे स्त्यर्थवत्तः शब्दस्यानन पुंवद्भावः क्रियते । नतु स्त्रीत्वस्य निहत्तिः । तथापि स एव दोषः स्यात्। अर्थग्रहणे तु न कश्चिद् दोष इत्यतः स्त्यर्थस्येदं ग्रहणमिति मत्वाह त्यर्थः पुंवद्भवतीति । कथं पुनरर्थस्येदं ग्रहणं लभ्यते । स्त्रीप्रत्ययानां तावदेतद् ग्रहणं न भवति। अस्खरितत्वात् । स्त्यर्थवत्तेरपि शब्दस्य ग्रहणं न भवति । अप्राधान्यात् । अप्राधान्यन्तु तस्याभिधेयपार तन्वयात् । अर्थस्य प्राधान्यमपारतन्वयात् । प्रधानगुणसविपाते तु प्रधानस्य ग्रहणं न्याय्यम् । अतः स्त्यर्थ एव ग्राह्यते। गार्गी वात्सी चेति । गाय॑वाल्य शब्दानां यत्रश्चेति (४।१।१६ ) डी। पूर्ववदकारयकारलोपौ। दाक्षी इति । पूर्ववन् डीप। दाक्षायणश्चेति । दारपत्यमिति यजिओश्चेति (४।१।१०१) फक् । । उच्यते।

न्यासः । ६७ पुमान् स्त्रिया। स्त्रीपंसलक्षणश्चेदेव विशेष इति । यद्येवमिह न स्यात् । गौश्चायं गौश्चेयमित्येतौ गावौ तिष्ठत इति । नह्यत्र स्त्रीपुंसकृतः कश्चिद् विशेषोऽस्ति । मा भूदनेन । सरूपाणामित्यादिना सरूपाणामित्यादिना ( १।२।६४ ) भविष्यति। नैतदस्ति । यदि हि तेन स्यात् स्त्रीशब्दस्याप्येकशेषः प्रसज्येत । ततश्च स्त्रीलिङ्गतापि स्यात् । लिङ्गमशिष्यं लोकाश्रयत्वात्। स्त्रीलिङ्गस्यैकशेष कृते पुंस्त्वं विवक्षितव्यमित्यदोषः । अथवा पुमानिति योगविभागः क्रियते । तेनहाय्य सत्यपि स्त्रीपुंसकृते विशेष पुंस एवैकशेषो भवति । न चैवं सत्यतिप्रसङ्गो भवति । योगविभागादिष्टसिद्धेरिति । ब्राह्मणी। कुक्कुटी। मयूरीति । जातेरस्त्रीविषयादयोपधार्शित ४।१।६३ ) ङीष् । कुक्कुटमयूर्यगाविति । अत्र न केवलं स्त्रीपुंसकृतो विशेषः । किं तर्हि ? आकृतिश्रुतिकृतोऽपि । इन्द्राणीति । इन्द्रवरुणेत्यादिना (४।१।४८) डीप् । प्रानुगागमश्च । प्राक् च प्राचीति । प्राञ्चतीति प्रपूर्वादञ्चतेर् ऋत्विगित्यादिना (३।२।५८) क्विन् । क्विन प्रत्ययस्य कुरिति (८।२६२) कुत्वम् । किनन्ताद् दिक्छब्देश्य ( ५।३।२७) इत्यादिना ऽस्तातिप्रत्ययः । तस्याञ्चेश्चेति ( ५।३।३० ) लुक् । प्राचीति । प्राक् छब्दादुगितश्चे (४।११६ ) त्यत्राञ्चतेश्वोपसंख्यानाद डीए । प्रागित्यव्ययमिति । तद्धितश्चासर्वविभक्तिरित्यव्ययत्वम् ( १।१।३८)। -- ६८। भाटपुत्रौ खमृदुहिटभ्याम् । ६६ । नपुसकमनपुसकेनैकवच्चासत्रान्यतरसमाम् । अनपुंसकनेति । किमित्यादि । ननु च विना नपुंसकेनापि सह वचनेन सरुपाणामित्यादिनैकशेषो भवत्येव । तत् कोऽत्र विशेषो यस्तेनैकशेषो विधीयमानोऽनेनैव चेत्यत आह । एकवच्चेति न भवतीति । यद्यनेनैक- शषः स्यात् पक्ष एकवद्भावः स्यात् । तेन त्वेकशेषे सति न भवति । अथास्येति किमर्थ मुच्यते ? यस्येति नोच्येतोत्तरत्राप्येकवञ्चेत्यनुत्तिः स्यात् । तत श्चोत्तरत्र तु यस्यैकशेषः करिष्यते तस्यैकवद्भावः प्रसज्येत ।

२०७ (१२)। तस्मादस्यैव नपुंसकस्यैकवद्भावो यथा स्यात् । उत्तरत्र तु यस्यैकशेष: करिष्यते तस्य मा भूदित्येवमर्थमस्येति वचनम् । अस्य ति हि वचने सति माभूदस्य वैयर्थमितात्तरत्राप्येकवच्चेति नानुवर्तते । ननु चाखरि- तत्वादेव नानुवर्तिष्यते । एवं तर्हि तदेवास्वरितत्व मनेन प्रकारणा- ख्यायते विस्पष्टार्थम् । एवकारोऽत्रानुवर्तते । तेन हिमञ्च हिमानी च हिमहिमान्यौ। अरण्यञ्चारण्यानी चारण्यारण्यान्यावित्यत्र न भवति । इन्द्र- वरुणादिसूत्रेण (४।१।४८) हिमारण्ययोर्महत्त्व इति वचना ( ४।१।४८ वा ) महत्त्वमपरो विशेषः । पिता माना। पितराविति । ऋतो डोति (७।३।११०) गुण: । मातापितराविति । आनतो बन्द (६।३।२५) इत्यानङ् । अभ्यर्हितत्वान् मातुः पूर्वनिपातः । ७१। श्वशुरः श्वश्रा। श्वश्रूखशुराविति । पूर्ववत् पूर्वनिपातः । ७२। तादादीनि सर्वैर्निताम् । सर्वग्रहणं साकल्यार्थमिति । विना तेनानपुंसकेनेत्यस्यानुत्तिराश- येत । ततश्च नपुंसकेन सह न स्यात् । अथवा तल्लक्षण श्चेदेव विशेष इत्येतदिहानुवर्तत इत्याशङ्कयत । ततश्च यत्र त्यदादिक्कत एव विशेषस्तत्रैव स्यात् । स च यश्च यावित्यादि । इह तु न स्यात् । स च देवदत्तश्च ताविति । अतः सर्वग्रहणम् । स च देवदत्तश्च ताविति । यदा विशेष विवक्षा तदैतदुदा- हरणं । यदा तु सामान्यविवक्षा तदा देवदत्तोऽपि तच्छब्देन सम्बध्यत इति सरूपाणामित्यनेनैव (१।२'६४) सिध्यति । यद् यत् परमिति । गणपाठापेक्षं परत्वं वेदितव्यम् । ७३। ग्राम्यपशुसङ्घष्वतमणेषु स्त्री। ग्राम्याणामिति । ग्राम भवा ग्राम्याः । ग्रामाद् (४,२१८४) यखजाविति

२०८
न्यासः ।
यः । ननु च सङ्घस्य तरुणत्व न सम्भवति। नापि तावच्छेद्यं तरुणत्वम् ।
अतोऽ तरुणष्वित्ययुक्तं विशेषणमित्याह अतरुणग्रहण मित्यादि। उच्यते
चेदं विशेषणं । न च सङ्घस्य तत् सम्भवति । तत्र सामर्थ्यादन्येषां संघो
विज्ञायते ।
गाव इमा इति । इमा इत्यनुप्रयोगः स्त्रीवाभिव्यक्तये ।
एतौ गावाविति । कथं पुनरिदं प्रत्युदाहरणम् ?
यावता दाभ्यामपि
सवो भवत्येव । नैष दोषः । यस्मात् सङ्घग्रहणादिह बह्ववयवः संघो
विवक्षितः ।
बहनां यः संघ इति ।। अन्यथा यदि हावयवस्य ग्रहण-
मिति मतं स्यात् संघ ग्रहण मनर्थ कं स्यात् । व्यवच्छेद्याभावात् । अनेक
शफेष्वित्यादि। अनेकानि शफानि खुरा येषां तेष्वयमेकशेषो भवतीता-
तदर्थरूपं व्याख्येयमित्यर्थः । तत्रेदं व्याख्यानम् ।
अन्यतरस्यांग्रहण-
मिहानुवर्तते । सा च व्यवस्थित विभाषा विज्ञायते । तेनानकशफेष्वव भवति।
नान्यवेति ।
इति श्रीबोधिसत्त्वदेशीयाचार्यश्री जिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां प्रथमाध्यायस्य
द्वितीयः पादः समाप्तः ॥१२॥

अथ ज्यासापरनाम्नौ काशिकाविवरणपञ्जिका। प्रथमाध्यायः । तृतीयः पादः । १। भूवादयो धातवः । भूरादिर्येषां ते भूवादयः । भूवादयो दशगणोपरिपठिता ग्राह्यन्ते । भवतीत्यादि । अत्र धातुसंज्ञायां मत्यां धातोरित्यनुवर्तमाने वर्तमान लडिति (३।२।१२३) लट्प्रत्ययः । भू इत्येवमादयः शब्दा धातुसंज्ञका भवन्तीत्यनेन गणपाठेनैवेयं धातुसंज्ञा विधीयत इति दर्शयति । तेनाणपयति कड्डपय- तीत्येवमादीनां धातुसंज्ञा न भवतीत्युक्तं भवति । यद्येवं यावादिव इत्येव- मादीनां सर्वनाम-विकल्प-स्वर्गाभिधायिनां धातुसमानशब्दानामक्रियावचना- नामपि धातुसंज्ञा प्राप्नोतीति कस्यचिद् भ्रान्तिः स्याद् । अतस्ताविरा- कर्तुमाह धातुशब्द इत्यादि । लघुथं हि संज्ञाकरणमिच्छन्त्याचार्या इत्येका- क्षरायां संज्ञायां कर्तव्यायां महत्याः पूर्वाचार्यसंज्ञाया यदाश्रयणं तस्यै- तत्प्रयोजनम् । यथाविधानां ते धातुसंज्ञां कृतवन्तस्तथाविधानामवैषा संज्ञा यथा स्यादिति । ते च क्रियावचनानामेव धातुसंज्ञां विहितवन्तः । तदि- हापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावचनानामेव धातुसंज्ञा विधीयते। तेन यावादिव इत्येवमादीनां धातुसमानशब्दानामक्रियावचनानान भवतीति भावः । ननु च भूरादियेषामिति बहुव्रीही कृत आदिशब्दे परतो यदि २१० न्यासः । संहितया निर्देशस्तदेको यणचौति ( ६।१।७७ ) यणादेशे कृते भ्वादय इति भवितव्यम् । अथाऽसहितया निर्देशस्तथा भू आदय इति । तत् कुतोऽयं वकारो यस्मिन् सति भूवादय इति निर्देशो भवतीत्यत आह भूवादी- नामित्यादि। भूवादीनां संजिना निर्देशे ऽयं वकारो मङ्गलार्थः प्रयुज्यते । मङ्गलमर्थः प्रयोजनं यस्य स तथोक्तः । स मङ्गलशब्दो धम्मपायः। धर्मार्थ इति यावत् । यथा वेदे त्रियम्बकं यजामह इत्यत्र यकारस्य दृष्टप्रयोजनं नास्तीत्यदृष्टार्थी धम्मार्थ एव पाठस्तस्य तथहापि वकारस्य । अथवा ऽपूर्वस्य वस्तुनो लाभो लोके मङ्गलं सम्मतं यथा प्रातर्दध्यादीनाम् । तथेहापि वकारस्यापूर्वस्य लाभो मङ्गलं प्रशस्तम् । प्रशस्तार्थो मङ्गलशब्दः । तथाचोक्तं मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्यायुमत्पुरुषाणि चेति । इह चादौ (१।१।१) वृद्धिशब्दो मङ्गलम् । मध्ये (१।३।१) चायं वकारः । अन्ते (८१४।६७) च स्वरितोदयमित्युदयशब्दः । भुवो वार्थमित्यादि । अथवा भूवादय इत्यत्र निर्देशनायमादिशब्दस्य प्रयोगः । नापि मङ्गलार्थस्य वकारस्य । किं तर्हि ? वादिशब्दस्यौणादिकस्य। वदन्तीति वादयो वाचका इत्यर्थः । वदेर्धातोर्वसिवपियजिराजिवजिसदिहनिवाशिवादिवारिभ्य (उण ५।५६३) इजीति कर्तरौप्रत्ययः । यद्यपि वादीति मूत्रे (उण, ५१५६४) ण्यन्तस्योपादानं तथापि बहुलवचनादण्यम्तादपि भवति । भ्वर्था इति । तेषां वादीनामिदं विशेषणं भवनं भूः। सम्पदादित्वाद् भावे किए। भवतरर्थः क्रिया- सामान्यम् । भूरों येषां ते भ्वर्थाः । कस्मात् पुनस्ते भ्वर्थाः ? भुवो वार्थ वदन्तीति । इतिकरणो हेतौ । यस्माद् भुवो धातोरथं वदन्त्यभिदधति तस्मात् ते स्वर्थाः । एवंविधा वादयो वाचकाः शब्दा भवत्यर्थाभिधायिन इतीह सूत्रे संजिनः स्मृता पभिमता अभिप्रेता इत्यर्थः । तदेवं क्रियावचनाः शब्दा भूवादयो धातुसंज्ञा भवन्तीत्युक्तम् भवति । तेन यावादिवप्रभृतीनां धातुसमानशब्दानाम- क्रियावचनानां धातुसंज्ञा न भवति। गणपाठसामर्थ्यात् पाठोऽप्यङ्गीक्रियते । तेनाणपयतीत्येवमादीनां क्रियावचनानामपि धातुसंज्ञा न भवतीतुतम्भवति । अस्मिन् व्याख्याने भूवादय इति षष्ठीसमासो वेदितव्यः । भुवो वादयो पथवादिशब्दस्यैवान वा गतिगन्धनयोरित्यस्मात् परस्य भूवादय इति ।

प्रयोगः । (१३)। २११ वा आदि येषां ते वादयः । आदिशब्दः प्रकारवाची। वाप्रकारा इत्यर्थः । प्रकारस्तु सादृश्यम् । तत् पुनः क्रियात्मकतया। यदाऽह भ्वर्था इति । भ्वर्थता तु भुवोऽथं वदतीति हेतोः। एवंविधा वाप्रकारकाः शब्दा इह सूत्रे संजिनः स्मृताः । तदनेन प्रकारेण क्रियावचनानामेव भूवादीनां धातुसंज्ञा भवतीतुक्तम् । तेन धातुसमानशब्दानां यावादिवप्रभृतीनां धातु- संज्ञा न भवति । नहि ते क्रियावचनाः । निष्यववस्त्वभिधायित्वात् । साध्यमानस्वरूपा हि क्रिया निरवयवा क्वचित् पूर्वापरीभूतावयवाऽनिष्पन्न- वस्तुस्वभावा । गणपाठस्तु पूर्ववदेवाङ्गीक्रियते । तेनाणपयतीत्येवमादीनां शब्दानां धातुसंज्ञा न भवतीति । अस्मिवपि व्याख्याने भूवादय इति षष्ठीसमासो ऽयम् । षष्ठी च वाच्यवाचकसम्बन्धलक्षणा वेदितव्या। अथ २। उपदेशाजनुनासिक इत् । उपदिश्यतेऽननेत्युपदेश इति । अकर्तरि च कारके संज्ञायामिति ( ३।३।११३ ) करणे घञ्। ननु च संज्ञायामित्युच्यते । नचेयं संज्ञा। नेतदस्ति । कृत्यल्युटो बहुलमिति ( ३।३।११३ ) बहुलवचनादसंज्ञायामपि भवतीत्यदोषः । शास्त्रवाक्याणीति। अस्येदं विवरणम् । सूत्रपाठः खिल- पाठश्चेति । खिलपाठो धातुपाठः । चकारात् प्रातिपदिकपाठश्च । रंगेलगप्रभृतीनां कथमानुनासिक्यम् ? नहि तेषामानुनासिक्यं गणे पठ्यते । अथापरिपठितानामपि भवति तदा भूइत्येवमादीनां कस्मात्र भवतीत्याह प्रतिज्ञानुनासिक्याः पाणिनीया इत्यादि । प्रतिज्ञया ऽनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः । यत्रैवानुनासिक्यं पाणिनीयाः प्रतिजानते तत्रैव तदपव्यमानमपि भवति । नान्यत्र । एतदपि प्रतिज्ञानं नानियमेन भवति । किं तर्हि ? यत्रैवाचार्याः स्मरन्ति तवैव तेन भवितव्यम् । यथा स्वरित- त्वममुदात्तत्वञ्च स्मरणेन विज्ञायते तथानुनासिक्यमपि | यदि तयानुनासिक्यं प्रतिज्ञामात्रभावि तत् किमर्थं तत् क्वचित् पठ्यते डुपचष् पाक इत्यादी । एवंविधोऽथों ऽनुनासिकः प्रतिज्ञेय इत्यर्थस्य प्रदर्शनार्थम् । अन ा अप अनोपदेशात्तूत्तरकाल माडोऽनुनासिकश्छन्दसौत्यनेनानुनासिको इति ।

२१२ न्यासः । इदन्वत्र (६।१।१२६ ) विहितः । तेनेत्संज्ञा न भवति । ननु चानुनासिकविधान- सामर्थ्यादेव न भविष्यति । तत् किमुपदेशग्रहणोन ? इत्संज्ञायां हि सत्यां तस्य लोप इति ( १।३।८) लोप: स्यात्। ततश्चानुनासिकविधानमनर्थक स्यात् । सत्यमेतत् । एवम्मन्यते । उत्तरार्थमवश्यमुपदेशग्रहणं कर्त्तव्यम् । उत्तरार्थ क्रियमाण मिहापि विस्पष्टाथं भविष्यति । अथवा प्रत्युदाहरणदिगियं वृत्तिकता दर्शिता। प्रतुपदाहरणम् । अणोऽप्रगृह्यानुनासिकः (८।४,५७)। दधिं ब्राह्मणकुलम् । यद्योत्संज्ञा स्यादिदितो नुम् धातो (७.११५८) रिति नुम् स्यात् । ननु च धातोरितुपच्यमाने धातोर्नम् विधीयते । नचायं धातुः । किं तर्हि प्रातिपदिकम् । तत् कथ नुम् स्यात् ? नैतदस्ति । विबन्ता धातुत्वं क्विबन्ता धातुत्वं न जहतीति जहतीति क्विबन्तत्वाद्धातुत्वं भवति । पात्मनो दधीच्छति । सुप आत्मनः (३।१।८) क्यच् । दधीयति । दधीयतेः क्किप् । दधिं ब्राह्मणकुलमिति । अतो लोप (६।४।४८) इत्यकारलोपः । लोपो व्योवली ( ६।१।६६ ) त्यवादी लोपग्रहणात् पूर्व यकारस्य लोपो भवति । वेरपृक्तस्येति लोपाद पूर्व वलि लोपो भवति। पश्चाहेर पृक्तस्येति ( ६।१।६७) प्रत्ययलोपलक्षणेनाकत्सार्वधातुकयोरिति (७।४।२५ ) दीर्घः । इखो नपुंसके प्रातिपदिकस्येति ( १।२।४७ ) इस्वत्वम् । अणोऽप्रग्यास्या- नुनासिक ( ८।४।५७ ) इत्यनुनासिके कृते किबन्ता धातुत्वं न जहतीति नुम् स्यात् । अश्मा' भस्मेति । आतो मनिनित्यत्र ( ३।२।७४ ) मकारस्येत् संज्ञा न भवति । यदि हि स्यादन्येभ्योऽपि दृश्यन्त ( ३।२।७५ ) इति हलन्तेभ्यो विधीयमानो मनिनचोऽन्त्यात् पर: स्यात् । सर्वस्याचो मा भूदिति । दरिद्रा प्रभृतिसम्बन्धिनोऽपि । - वकारस्य । ३ | हलन्त्यम्। । अन्ते भवमन्त्यमिति दिगादित्वाद् यत् । अन्तशब्दोऽयं समाप्तौ वर्तते यथैतदन्तं वन मिति। येन च समाप्यते समुदायः सोऽन्तः । तत्रान्ते समाप्ती भवमन्त्यम् । हलिति हल्शब्दस्योभयलिङ्गत्वादन्तामिति नपुंसकेन निर्देशः । धात्वादेरित्यादि। आदिशब्देन सूत्रप्रातिपदिकप्रत्ययागमादेशानां ग्रहणम् ।

( ११३) २१२ तत्र धातोर डुकृञ् इति जकारः। सूत्रस्य अइउमिति ( प्र, १ ) णकारः । प्रातिपदिकस्य नदड़िति टकारः । नदड़िति पचादिषु पठ्यते । प्रत्ययस्य गुप्- तिज् किद्भ्यः (३।१५) सबिति नकारः । आगमस्य वपुजतुनोः (४।३।१३८) षुगिति ककारः। आदेशस्य च चक्षिङ: (२।४।५४) ख्यामिति जकारः । अग्निचित् सोमसुदिति । चिनोते: सुनोतश्चाग्निं चितवान् सोमं सुतवानिति किए। तुक् । ननु च हलिति प्रत्याहारपाठे योऽन्त्यो लकार स्तस्येत् संज्ञा न प्राप्नोति । इतरेतराश्रयत्वात् । तथाहीत्संज्ञायामादिरन्तेवन सहेतेति (१।१।७१) हलिति प्रत्याहारग्रहणं भवति । तस्मिंश्च तस्य लकारस्य हलन्तामितीत्संज्ञा । तदिदमितरतराश्रयत्वं स्फुटतरमेव। इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्पान्त इत्यत आह हस्य ल हलित्यादि। यदेक- मावृत्तिभेदमन्तरेणाप्यनेकेषामुपकारं करोति तत् तन्त्रम् । यथा प्रदीप: सुप्रज्वलितो बहूनां छात्राणामुपकारं करोति । इह तु प्रयत्नविशेषस्तन्त्रशब्देन विवक्षितः । तेन तन्त्रेण द्वितीयमत्र हल्ग्रहण मुपात्तं परिग्रहोतं वैदि- तव्यम् । यथा खेतो धावतीत्येकेन प्रयत्नेन हे वाक्ये उच्चारित भवतस्तथहा- प्येकेनैव प्रयत्नेन ही हल्शब्दावुच्चारितावित्यभिप्रायः । हस्य ल् हलिति समीपिसामीप्यसम्बन्धे षष्ठी। तेनेत्यादि । यतस्तन्वेण न्यायेन द्वितीयं ग्रहणं कृतं तेन प्रत्याहारपाठे हलित्यस्य लकारस्य हकारसमीपवर्तिनः साक्षादेव संजित्वेनोपात्तस्येत्संज्ञा क्रियते । नतु प्रत्याहारसमाश्रयणेन । एवञ्च सति हलन्त्यमित्यत्र प्रत्याहारपाठ इतरेतराश्रयदोषो न भवति । ४ । न विभतो तुस्माः। वृक्षादित्यत्र तकारस्येत्संज्ञायां सत्यां तित्वरितमिति (६।१।१८५) खरि- तत्वं स्यात् । अपचताम् । अपचतमिति। पचेर्लङ् । तस्थस्थमिपां तासन्ताम इति (३।४।१०१) तान्तमादेशौ भवतः । किमोऽदित्यनाच्छब्दस्य (५।३।१२) प्राग् दिशो ५।३।१) विभक्तिरिति विभक्तिसंज्ञा। इटोऽदित्यत्रापि (३।४।१०६) स्थानिवद्भावन। ततश्चेत्संज्ञाप्रतिषेधः प्राप्नोति । स कस्मात्र भवतीत्याह अनित्यत्वादित्यादि । अनित्यत्वमस्य विधेरिदमस्थमुरित्यस्य ( ५।३।२४) २१४ न्यासः। मकारस्येत्संज्ञापरित्राणार्थादुकारानुबन्धाद विज्ञायते । नित्यत्वे हि सत्येतस्मा- देव प्रतिषेधान् मकारस्येत्संज्ञा न भविष्यतीत्युकारानुबन्धग्रहणमनर्थकं स्यात् । ५। आदिजिटुडवः। अत्र टुग्रहणेनाणुदित्सवर्णस्य चाप्रत्ययस्येति ( १।१।६८ ) टवर्गस्य ग्रहणं कस्मान्न भवति ? उकारस्यानुनासिकत्वाप्रतिज्ञानात् । चुटू इत्यत्र (१।३:७) टुग्रहणाच्च । यद्यत्र टवर्गस्य ग्रहणं स्यात् तदानेनैव प्रत्ययादेरपि सिद्धत्वाद टुग्रहणमनर्थकं स्यात् । मिन्न इति । जीतः (३।२।१८७, तः। आदित- (७।२।१६) श्वेतीप्रतिषेधः : वेपथुरिति । शितोऽथुच् (२।३।८८)। पक्किम मिति । द्वितः तिः (३।३।८८)। पाकेन निर्वृत्तम् । वेर्मम् (४।४।२०) नित्य- मिति मप् । उप्तिममिति । वयादि (६।१।१५) सूत्रेण संप्रसारणम् । पटूय- तोति। सुप आत्मन: (३।१।८) क्यच् । अक्कत्सार्वधातुकयोरिति (७।४.२५) दीर्घः । कण्डूयतीति । कण्डादिभ्यो (३।१।२७) यक् । कथं पुनरोत्संज्ञा- प्राप्तिः ? यावता सूत्रे टुडुशब्दो हखान्ता वुपाती। दीर्घान्ताविमौ । नैतत् । यद्यपि दीर्घले कृतं दीर्घान्तावेतो भवतस्तथाप्युपदेशे ह्रस्वान्तावेव । उपदेश इति चेहानुवर्तते । तत्र पटुशब्दश्य पृथादिपाठाट टुशब्दस्योपदेशे हस्वान्तता सिद्धा। कण्डशब्दस्य कण्डादिभ्यो (३।१।२७) यगित्यत्र पाठाड् डुशब्दस्यापि । दिविधा हि कण्डादयो धातवः प्रातिपदिकानि च । तत्र धातुः कण्डुशब्दो हस्वान्तः। प्रातिपदिकन्तु कण्डूशब्दो दीर्धान्तः । अथवा यद्यप्युपदेश इति नानुवर्तते तथापि दीर्घत्वे कृतेऽप्येकदेशविक्कतस्यानन्यत्वादस्त्येव प्राप्तिः । भिकारीयतीति । पूर्ववत् क्यच । जिकारशब्दो न क्वचित् पठ्यत इति । तेनावेत्संज्ञा न भवति । यदि स्याल्लोपे कृत रूपं न सियत् । ६ । षः प्रत्ययस्य। रजकीति । षित्त्वात् षिद्गौरादिभ्यश्चेति ( ४।१।४१ ) ङीष् । केनानानुनासिकलोपः ? अनिदितामिति (६।४।२४) चेत् ? न। तत्र डितीत्युच्यते । न चात्र ङित्प्रत्ययोऽस्ति। नैष दोषः । जनीजृषक- सुरनोऽमन्ताश्चेति मित्संज्ञाकरणं रचे पकमङित्यपि तस्यानुनासिक- ततः ( ११३)। २१५ लोपो भवति। अन्यथा णौ रञ्जरकारस्यानुपधात्वादत उपधाया (७।२।११६) इति वृधा न भवितव्यमिति मित्संज्ञाकरणमनर्थकं स्यादित्येके । घनि च भावकरणयोरित्यत्र (६।४।२७) चकार स्थानुक्तसमुच्चयार्थत्वादडित्यपि कचिद् रञ्जेरनुनासिकलोपो भवतीत्यपरे । षोड़ इति । षट् दन्ता अस्येति बहुव्रीहिः । वयसि दन्तस्य दट (५।४।१४१) इति दत्रादेशः । ऋकार उगित्काऱ्यार्थः । षष उत्वं दटदशधासूत्तरपदादेः टुत्वञ्च ( ६।३।१०८., वा ) पृषोदरादिपाठात्। षषोऽन्त्यस्योत्त्वमाद्गुणः (६।१।८७ )। उत्तरपदादिष्टुत्वमिति दकारस्य डकारः। षोड़त् इति स्थिते षोड़न्तमाचष्ट इति तत्करोति सदाचष्ट इति णिच् । णाविष्ठवत् कार्यम् प्रातिपदिकस्येतीष्ठवडावाहिलोपः षोड़यतीति । पचाद्यच् । णिलोपः। षण्ड इति । षणु दाने । जमन्ताड्डः (उण, १।१११।। उणादयो बहुलमिति (३।३।१) बहुलवचनाद् धात्वादेः षः स इति (६।१।६४) सत्वं न भवति । अथवा षण्ड इत्येतदव्युत्पन्न प्रतिपदिकमिति । षड़िक इति । षड़ङ्ग लिदक्तशब्दादनुकम्पायां बद्दचोऽमनुष्यनाम्न ठज्वेति ५।४।७८) ठच् । ठाजादावृड्ड द्वितीयादच इति ( ५।३।८३ । गुलिदक्तस्य लोपः । ठस्येक । ७३५० ) इतोकादेश: । षड़शब्दस्य यस्येति ( ६ ४।१४८) चेत्य- कारलोपः । तस्य स्थानिवद्भावे सति व्यवधानात् षटशब्दस्य यचि (१।४।१८) भमिति भसंज्ञा न भवति । अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वाज् झन्लां जशोऽन्त (८।२।३८) इति जश्त्व षकारस्य डकारः। यद्येषां षकारस्येत्- संज्ञा स्यात् स्त्रीविवक्षायां षिद्गौरादिभ्यश्चेति ( ४।१।४१) डीष् स्यात् । षण्डशब्दोऽयं यद्यपि वलीवर्दै वर्तते तथापि स्त्रीगवीष्वपि षण्डधर्मयोगाद वृत्तिरस्य मम्भवत्येव । यद्यप्येते षोड़ादयो लाक्षणिका स्तथाप्युपदेशग्रहगोन षकारो विशिष्यत इति भवन्तरतानि प्रत्ययग्रहणस्य प्रत्युदाहरणानि | भवति ह्यत्राप्युपदेशे षकारः । अविषो महिष इति । अव रक्षण | मह पूजायाम् । अविमघोष्टिषच (उण, ११४५) । ननु चोणादयो बहुलमिति (३।३।१ ) बहुल- वचनात् प्रत्ययसं वात्र न भवति सत्यामपि तस्यामित्संज्ञा न भविष्यति । बहुलवचनात् । तत् कस्मादादिग्रहण मेतदनुवर्तते ? एवं मन्यते । उत्तरार्थमव- श्यमादिग्रहणमनुवर्तनीयम् । उत्तरार्थमनुवर्तमानमिहापि स्पष्टार्थ भविष्यति।

न्यासः। ७। चुटू। कौञ्जायन्य इति । न्फअन्ताद व्रातच्फजोरस्त्रियामिति ( ५।३।११३) स्वार्थे जाः । छस्येयादेशं वक्ष्यतीति । इत्संज्ञापवादम् । शाण्डिक्य इति । शण्डिकादिभ्यो ( ४।६।८२) जा इति शण्डिकोऽभिजनोऽस्येत्यर्थे जाः । तत्र हि सोऽस्याभिजन इति वर्तते । यापोः संज्ञाच्छन्दसो- बहुलमिति (६।३।६२) मन्दुराशब्दस्य हुम्वत्वम् । अन्नान् ण: (४।४।८.५) । आन्न इति । अन्नं लब्धा इत्यर्थे णः । तत्र हि धनगणं लब्धेत्यतो (४।४।८४) लब्धेत्यनुवर्त्तते । अथ किमर्थं पृथगयोगः क्रियते चुटुषः प्रत्ययस्येत्येक एव योगः क्रियतामित्यत आह पृयग्योगकरणमित्यादि। तेन वित्त इत्यादिना- ऽस्य विधेरनित्यत्वज्ञापनस्य प्रयोजनं दर्शयति । मन्दुरज इति । ? ८। लशक्वतहिते। । । प्रियंवद इति । प्रियवशे वदः (३.२॥३८) खच । अरुईिषदजन्तस्येति (६।३।६७) मुम् । जिष्णुरिति । ग्लाजिस्थश्च क्नु (३।२।१३८) रिति । ये तु क्नुप्रत्ययं गितमिच्छन्ति तन्मतेनेदं गकारस्योदाहरणम् । ये तु कित- मिच्छन्ति तन्मतेनेदमपि ककारस्योदाहरणम् भवति । चूड़ाल इति । मत्वर्थे प्राणिस्थादातो'लजन्यतरस्यामिति (५।२।८६) लच् प्रत्ययः । ननु च प्रयोजना- भावादोत्संज्ञा न भविष्यति । लित्प्रत्ययात् पूर्वस्योदात्तत्वं प्रयोजनमिति चेत् ? न। चित्स्वरस्य हि सर्वस्वरस्यापवादत्वात् प्रत्ययस्वरेण ह्यन्तोदात्तत्वे सिडे चित्करणस्यैतत् प्रयोजनं चित्स्वर एव यथा स्यात् । योऽन्यः स्वरः प्राप्नोति स मा भूदिति । इदन्तु प्रत्युदाहरणम् । लोमान्यस्य सन्तीति लोमादिपामादीत्यादिना (५।२।१००) श: । लोमशः । एतदपि नास्ति । अत्रापि प्रयोजनाभावादेवेत्संज्ञा न भविष्यति । इदं तर्हि प्रत्युदाहरणम् । कर्णललाटात् कबलङ्कार (४।२।६५) इति भवार्थे कन् । कर्णिका। यद्योत्- संज्ञा स्यात् किति (७।२।११८) चेत्यादिधिः स्यात् । ततश्च रूपमेव न सियत्। यद्येव मिदमेवोपन्यसनीयम् । नेतरे । एवं मन्यते । एतदर्थ मतद्धित (१३)। २१७ इति क्रियमाणमिहापि मन्दधियां प्रतिपत्तिगौरवं परिहत्तुं चूड़ालो लोमश इत्येवमर्थमपि भवितुमर्हतीति । है। तसा लोपः। अथ किमर्थं तस्येत्युच्यते ? यावतेत्संज्ञायाः प्रकृतत्वाद् यस्येत्संज्ञा विहिता सामर्थ्यात् तस्यैव लोपो भविष्थतीत्यत आह तस्य ग्रहणमित्यादि। कः पुनरित्संज्ञको योऽलोऽन्त्यस्य निवृत्त्यथं तस्य ग्रहणं प्रयोजयतीत्याह आदिजिटुडव इति । असति तस्य ग्रहण एषामपि जिप्रभृतीना मलोऽन्त्य- स्येति (१।१।५२) वचनादन्त्यस्य लोपः स्यात्। तस्य ग्रहणेन तु प्रकृत इत्संनके सविधापित सवस्य लोपो भवति । नान्त्यस्य । अन्यथा हि तस्य ग्रहणमनर्थक स्यात् । यदि तु नानर्थ केऽलोऽन्त्यविधिरित्येषा परिभाषाऽश्रीयते तदा तस्य ग्रहणमकतुं शक्यते । तत् क्रियते विस्पष्टार्थम् । १०। यथासंख्यमनुदेश: समानाम् । संख्याशब्देनात्र क्रमो लक्ष्यत इति । यत्रानेक उद्देशिनोऽ नुदेशिनश्च तवानियमेन सम्बन्धे प्राप्ते नियमार्थ मिदमारभ्यते। यत्रोद्देशिनोऽनु- देशिनोऽनकसंख्या स्तनावश्यं संख्याभेदेन भवितव्य म् । यत्र च संख्याभेदम्तत्र नियतभावी क्रमः। संख्याभेदवतां युगपदुचारयितुमशक्यत्वात् । साहचात् संख्याशब्देन क्रमो लक्ष्यते। अर्थधर्मत्वन्तु शन्दे समारोप्य संख्याशब्देन क्रमो लक्ष्यत इत्युक्तम् । यथाक्रमग्रहणं कथं न कृतम् ? वैचित्रया- र्थम् । यथासंख्यमिति । यथाऽसादृश्य (२।१।७) इति वीप्सायामव्ययीभावः । अनुदिश्यत इत्यनुदेश इति । अकर्तरि च कारके संज्ञायामिति (३।३।१८) घञ् । पश्चादुचायत इति । अनुशब्दस्य पश्चादर्थवत्तित्वाद्दिशेश्वोच्चारणक्रियत्वात्। समसंख्यानामिति । समसंख्य तया समानत्वं दर्शयति । समगणनपरिपठिता. नामिति तमेवार्थ शब्दान्तरेण व्यक्तीकरोति। उद्देशिनामनुदेशिना- चेति । यथाक्रममिततदपेक्षया षष्ठी। उद्देशिनो यद्यपि सूत्रे न श्रूयन्ते तथापि सम्बन्धित्वात् पश्चाद्भावस्यानुदेशग्रहणालभ्यन्ते । यथाक्रममिति । पूर्ववद् वीप्सायामव्ययीभावः । तृतीयान्तञ्चैतत् । तदयमत्रार्थ: । उद्देशिना- २१८ न्यासः। मनुदेशिनाञ्च योऽयं क्रमस्तेन क्रमेणानुदेशिनः सम्बध्यन्त उद्देशिभिः सहेति। यद्यप्युद्देशिनामिति षष्ठयन्तं प्रकृतं तथाप्यादिभक्तर्विपरिणामो भविष्यतीति हतीयान्तं सम्पद्यते । प्रथमात् प्रथम इत्यादिना यथाक्रमसम्बन्धं दर्शयति । पादिशब्दस्तृतीयात् तृतीयश्चतुर्थाच्चतुर्थ इत्यादि परिग्रहाय। तौदेय इत्यादौ सोऽस्याभिजन (४।३।८०) इत्यत्रार्थे तद्धितः । इहेत्यादि। वेशोयश (४।४।१३१) आदर्भगादिति हे प्रकृती। यल्खाविति प्रत्ययावपि हावेव। अतो यथासंख्येन भवितव्यमित्यभिप्रायः । इह केनचिदाचार्येण शिष्याः प्रतिग्राहिता वेशो यश आदेर्भगाद्यल् ख चेत्येको योगः । अन्ये तु हावेतौ योगाविति । वेशोयश आदर्भगादित्येको (४।४।१३१) योगः । यल् ख चेति द्वितीयः । तत्र य एक एवायं योग इत्येवं शिष्या ग्राहितास्तान् प्रत्ययं प्रश्नः । वृत्तिकारणापि तन्मत- मेवाश्रित्य खरितेनेत्यादिना परीहार उक्तः । ये तु हावेतौ योगावित्येवं ग्राहि- तास्तान् प्रतष प्रश्नो नास्ति । योगविभागेनैव यथासंख्यस्य निरस्तत्वात् । तथाच तत्र वक्ष्यति । योगविभागो यथासंख्यस्य निरासार्थः । यदि योगविभाग सति यथासंख्यं स्याद् योगविभागकरणमनर्थकं स्यादित्यभिप्रायः । कथ पुनः खरितेन लिङ्गन यथासंख्यं लभ्यते ? यावता नेह स्वरितग्रहण मरतीत्याह खरितेनाधिकार इत्यादि। स्वरितनाधिकार इति योगं विभज्य स्वरितने- तोको योगः | अधिकार इति द्वितीयः । तत्र प्रथमो योगः पूर्वेणापि यथा- संख्यमित्यादिना सम्बध्यते । अपिशब्दात् परेणाप्यधिकार इत्यनेन । यदि तर्हि स्वरितन लिङ्गेन यथासंख्यम् भवत्येवं हि सति सन्देहः स्यात् । तथाहि यथासंख्यमिति स्वरितेनाधिकारोऽपि । तत्र न ज्ञायते किमधिकारार्थ: खरितानुषङ्गोऽथवा यथासंख्यार्थ इति | सन्देहमानमेतत् । सर्वसन्देहेष्विद. मुद्यते । भवति व्याख्यानतो विशेषप्रतिपतिनहि सन्देहादलक्षणमिति ११ । स्वरितेनाधिकारः । इत्यम्भूतलक्षणे ढतीयेति । स्वरितेन चिड्रेनाधिकारस्योपलक्षणीयत्वात् । यदि पारिभाषिकस्येह खरितस्य ग्रहणं स्याद् रषाभ्यां नो ण: समानपद इत्यत्र (८।४।१) णकाराण णकारस्याधिकारता न स्यात् । पारिभाषिकस्याज्- । (१३)। २१. धम्मत्वात् । णकारस्यानच्कत्वादिति मत्वा सर्वेषां वर्णानामचा हलाञ्च स्वरि- ताख्यो यो वर्णधर्मो गुणस्तस्येदं ग्रहणं न परिभाषिकस्येति दर्शयवाह स्वरितो नाम स्वरदोषो (A) वर्णधर्म इति । वर्णधर्मस्य तु ग्रहणमधिकारावगमाय । स इह हत्यपि स्वरितासञ्जनाद् विज्ञायते । अधिकारो विनियोग इति । व्यापार- करणम्। अधिकतत्वादुत्तरत्रोपतिष्ठत इति। यथा पुरुषो यत्राधिकृतो नगरादौ तत्रैवोपतिष्ठते तथा स्वरितगुणयुक्तं शब्दरूपं नियुक्तं सूत्रकारेण तत्र तत्रोप- तिष्ठते। उत्तरत्रेति वचनमुपलक्षणार्थम् । क्वचित् पूर्वत्राप्युपतिष्ठत एव । क पुनरस्य सद्भावो भवति ? क च वा न भवतीत्याह। प्रतिज्ञावरिताः पाणिनीया इति। प्रतिज्ञया स्वरितो येषां ते तथोक्ताः । तदेतदुक्तं भवति । यत्रैव त आचार्याः स्वरितत्वं प्रतिजानते तत्रैवास्य सद्भावो भवति । नान्यत्वेति। तदपि प्रतिज्ञानं नानियमेन भवति । किं तहिं? यत्राचायाः स्मरन्ति तत्रैव भवति । स चायं धर्मः कलाद्युपम इति वेदितव्यः । कार्यार्थ- मुपादीयते। कृतकार्यस्तु निवर्त्तते । नतु प्रयोगसमवायी भवति । प्रत्यय इत्यादिना येऽधिकाराः खरितनावच्छिद्यन्ते तेषामुदाहरणानि दर्शयति । अथ किमर्थीऽयमधिकारः क्रियते ? प्रतियोगं तस्य ग्रहणं माकार्षीदितेव- मर्थमिति चेत् ? न । यथा देवदत्ताय गौर्दीयतां कम्बलश्वेतात न च पुनरुच्यते देवदत्तायेति । अथच प्रस्तुतत्वाद्देवदत्तस्य कम्बलश्चेत्यस्य साकाइत्वात् तेनैव सम्बन्धो भवति। तथाच म स्थिरे (३।३।१७) भाव (३.३।१८) इतेवमादीनामपि वाक्यानां साकासवाद घञादीनाञ्च प्रस्तुतत्वात् तैरेव सम्बन्धो भविष्यति । तत् किमधिकारण ? सत्यमेतत् । यत्रान्य निर्देशो नास्ति तत्रोपतिष्ठते । यत्र त्वन्यनिर्देशस्तनासो प्रकृतस्य निवर्तक एव स्यात् । तथाहि गौर्दीयतां (A) खरभेद इत्यर्थः। दोषा स्त्री रजनी प्रीका दोषी दूषणभेदयोरिति । In the printed काशिका the reading is खरितो नाम खरविशेषी वर्णधर्मः। (वर्णधर्मो न खरधर्म इति क्वचित् पाठः।) But the पदमञ्जरी admits क्वचित् तु खरितो नाम स्वरदोषो वर्णधर्म इति पाठः । सत्र खरदोष उच्चारणदोषः, though हरदत्त takes the variant स्वरितो नाम वर्णधर्म इति । Says नागेश-"खरितत्वञ्चेदं दोषविशेषरूपमझलसाधारणम्। स्वररूपमधिक्रियमाणपदघटकामिष्ठं वा। तश्चानुनासिक्यवत् प्रतिज्ञा गम्यस्।" The poona copy has the reading as in the printed काशिका ।

न्यासः । तथाच तत्र यज्ञदत्ताय कम्बलो विष्णुमित्रायेतातऽन्यनिर्देशन प्रस्तुतो देवदत्तो निवर्त्तते । एवञ्चान्य निर्देशनास्य निवर्तकत्वे सत्यभिविधी (३।३।88) भाव इनुण णित्यस्ये- नुणो निर्देशन प्रस्तुतस्य घजो निवर्तितत्वादाक्रोशेऽवन्योर्ग्रह (३।३।४५) इत्यत्रा- नन्तरणेनुणा सम्बन्धः स्यात्र पुनर्व्यवहितेन घञा। घञ् त्विष्यते । ननु च दृष्टानु- हत्तिसामर्थ्याद घवानुवर्तिष्थते । तेनैवाभिमम्बन्धो भविष्यति । वक्ष्यति दृष्टानुवृत्तिसामात् तत्र घवानुवर्तते । नानन्तर इनुमिति । नैत- दस्ति । यदि दृष्टानुत्तिसामाद् घञ (३।३।५७) एवानुवृत्तिः स्यात् तदा ऋदोरबित्यत्रोत्तरष्वपि (३।३१५७) योगेषु घवानुवर्तेत । नाप्प्रत्ययः । यत् पुनर्वक्ष्यति दृष्टानुत्तिसामादिति तत्र दृष्टानुत्तिसामर्थ्यशब्देन स्वरितत्व- मेवोक्तं दृष्टमनुवृत्ती सामर्थ्यमधिकृतस्य शब्दरूपस्य यस्मादिति बहुव्रीहिं कृत्वा । तस्मात् स्वरितत्वादित्ययमत्रार्थ: । यद्येषोऽर्थः सूत्रकाराभिमतः स्यात् स्वरि- तत्वादिति कस्मात्रोक्तमिति चेत् ? न। स्वच्छन्दतो हि वचसा प्रहत्तिरर्थस्तु परीक्षणीय इत्यचोद्यमेतत् । तदेवं यतोऽन्य निर्देशः प्रस्तुतस्य निवर्सको भवति तस्मादधिकारः कर्तव्यः । तस्मिंश्च क्रियमाणे तदवगमोपायदर्शनाय स्वरित- नाधिकार इतरतदपि कर्तव्यः । १२ । अनुदात्तडित आत्मनेपदम् । तत्रायत्रियमः क्रियत इति । विधीयमानत्वात् प्रधानस्य प्रत्ययस्य नतु प्रकृतेरिति विज्ञायते । अत एवाह अनुदात्तेतो ये धातवो ङितश्च तेभ्य इति। यदि पुनरयं प्रकृतिनियमः स्यात् तदा किं स्यात् ? अनुदात्त- ङिभ्यः प्रत्ययान्तरं न स्यात् । कामं वचनसामर्थ्यात् प्रत्ययान्तरमपि भविष्यतीतष दोषः शक्यते परिहर्तुम् । यस्तु वचनसामर्थ्यवारणाभीष्टेऽर्थे प्रतीयमाने प्रतिपत्तिगौरवदोषः स्यात् सोऽपरिहार्य एव। यदि तर्हि प्रत्ययनियमोऽयं तदा प्रकृतीनामनियतत्वात् ताभ्यः परस्मैपदमपि स्यात् । न भविष्यति। शेषात् कर्तरि परस्मैपदमिति (१।३।७८) द्वितीयनियमविधानाच् शेषादेव परस्मैपदम् । नान्यस्मादिति । आस्त इत्यादि। पास उपवेशने । वस पाच्छादने । षूड प्राणिगर्भविमोचने । शीङ् स्वप्ने । अदादित्वाच्छपो लुक् । शेत इति । शीङः सार्वधातुके गुणः (७।४।२१)।

(१३)। २२१ १३। भावकर्मणोः। भाव इति धात्वर्थ: क्रियात्मक उच्यते। कर्म तु पारिभाषिकमेव । तत्रेदमुच्यते नियमार्थ इति विशेषः । अयमपि पूर्ववत् प्रत्ययनियमः । भावकर्मणोरवात्मनेपदं भवति। नार्थनियमः । अर्थनियम सति को भवता दायो दक्तः को भवता लाभो लब्ध इति कर्मणि धनादिर्दुर्लभः स्यात्। सुप्यत इति । जिस्वप् शये। वच्यादिना (६।१ १५) संप्रसारणम् । क्रियत इति । रिशयलिक्ष्विति ( ७।४।२८) रिडादेशः । लूयते केदारः स्वयमेवेति। कर्मवत् कर्मणा तुल्यक्रिय ( ३१८७) इत्यत्र व्यपदेशातिदेशशास्वातिदेश- पक्षयोः कर्मकर्तरि परस्मैपदेन परत्वाद् भवितव्यमिति कस्यचिद् भ्रान्तिः स्यात्। अतस्तानिराकर्तुमाह कर्मकर्तरीत्यादि। द्वितीयं कर्तरि ग्रहणमु- पतिष्ठत इति। कर्तरि कर्मव्यतीहार (१।३.१४) इत्यतः । तेन कर्तव यः कर्ता शुद्धः केवलः कर्मवद्भावरहितस्तत्र परस्मैपदं भवति । यत्र कर्मवद्भाव- स्तत्रात्मनेपदं भवति । कार्यातिदेशपक्षे कर्मवत् कर्मणा (३।१ ७८) तुल्यक्रिय इत्यनेनैवात्मनेपदं भवति । १४ । कर्तरि कर्मव्यतौहारे । कर्मशब्दः क्रियावाची। एतेन लौकिकमिह कर्म क्रियात्मकं गृह्यते । न पारिभाषिकमिति दर्शयति । कुत एतल्लभ्यते ? प्रत्यासत्तेः । क्रिया हि धातोः तत्र साक्षादृत्तेः । साक्षावृत्तिस्तु धातुवाच्यत्वात् क्रियायाः। पारिभाषिके तु साधनात्मके कर्मणि धातुः साक्षात्र वर्तते तस्याधातुवाच्यत्वात् । तस्माद् धातं प्रति न तस्य प्रत्यासत्तिरिति न ग्राह्यते । तेन साधनकर्मव्यतीहार न भवत्यात्मनेपदम् । देवदत्तस्य धान्यं व्यति- लुनन्तीति । लुनातिरुपसंग्रहार्थे लवने वर्तते । देवदत्तेन यद धान्यं संयतीतं पुरस्तालवनेनोपसंग्रहन्तीत्यर्थ: । ततश्चान्यसम्बन्धिनो धान्यस्यान्येन संग्रहणाद भवति साधनकर्मव्यतीहारः । अन्यसम्बन्धिनीमिति । अन्यस्य कर्तुरभीष्टा या क्रियेमा क्रियां करिष्यामीति सेहान्यसम्बन्धिन्यभिप्रेता। पन्यथा यद्यन्येन निष्यादिता या क्रिया मेहान्यसम्बन्धिन्यभिप्रेता स्यात् तदा व्यतीहारो नोप- प्रत्यासन्ना।

२२२ न्यासः । । - पद्येत । नह्यन्येन निष्पादितायाः पुनर्निष्पादनमुपपद्यते । व्यतिलुनत इति । आत्मनेपदेष्वनत (७१।५) इत्यदादेशः । नाभ्यस्तयोरात (६।४।११२) इत्या- कारलोपः । अथ कर्तृग्रहणं किमर्थम् ? मावकर्मनिवृत्त्यर्थ मिति चेत् ? न । अभीष्टत्वाद् भावकर्मणोरात्मनेपदम्। व्यतिभूयते मेनया। व्यतिगम्यन्ते ग्रामाः । व्यतिहन्यन्ते दस्यव इति । भावकर्मणोरित्यनेनैव यथा स्यात् । अनेन मा भूदित्येवमर्थमिति चेत् ? न । विशेषाभावात् । नहि तेनात्मनेपदे सत्यनेन वा कश्चिद विशेषोऽस्ति । यद्यनेन स्यात् तदा न गतिहिंसाथै भ्य इति (११३११५) प्रतिषेधः स्यात् । तेन चात्मनेपदे विधीयमाने (13) न भवतष दोष इति चेत् ? सत्यम् । एषोऽस्तु विशेषः । तथापि न कर्तृग्रहणं कर्तव्यम् । यस्मादनन्तरस्य विधिर्वा भवति प्रतिषेधो वेत्यनन्तरा या प्राप्तिः सा प्रतिषिध्यते । न पूर्वा । तेन भावकर्मणोरात्मनेपदं भविष्यति । अत आह कर्तग्रहणमुत्तरार्थमिति । कः पुनरसावुत्तरो योगो यत्रास्य प्रयोजनमित्याह शेषादितयादि । १५॥ न गतिहिंसार्थभ्यः व्यतिगच्छन्तीति । इषुगमियमाञ्छ (७।३।७३) इति च्छत्वम् | के चेति (६।१।७३) तुक् । व्यतिसर्पन्तीति। गम्वृ सप्लु गतौ। लघूपधगुणः । व्यति- हिंसन्तीति । टहि हिसि हिंसायाम्। व्यतिघ्नन्तीति। हन हिंसागत्योः । गमहनेतुपधालोपः ( ६।४।८८)! हो हन्तेर् ऋ णिन्नेश्चिति ( ७ ३।५४ ) कुत्वम्। प्रतिषेध इत्यादि । उपसंख्यानशब्दस्य प्रतिपादनमर्थः । उपसंख्यान शब्दोऽत्रानेकार्थत्वाद्धातूनां प्रतिपादने वर्तते । तच्च प्रतिपादनं प्रकृतत्वात् प्रतिषेधस्येति गम्यते । तदयमर्थः । प्रतिषेधे कर्तव्ये हसादीनामप्यात्मनेपद- प्रतिषेधस्य प्रतिपादनं कर्तव्यमिति । तत्रेदं प्रतिपादनम्। नेति योग- विभागः क्रियते। तेन हसादोनामपि भविष्यतीति । ततो गतिहिंसार्थेभ्य इति द्वितीयो योग स्तत्र नेति वर्तते । किमर्थं पुनरयम् ? पूर्वयोगस्यासर्व विषयत्वज्ञापनार्थम् । तेन नेति योगविभागन हसादीनामेव प्रतिषेधो भवि- ष्यति । नान्येषामिति । (B) विधीयमाने सति प्रतिषेधो न भवतीत्येषोऽस्ति विशेष प्रति चेदिति १३श पुस्तके पाठः ।

( ११३ ) २२३ १६। इतरेतरानमोनोपपदाच्च । उपोच्चारितं पदमुपपदम् । इतरेतरान्योन्यशब्दावुपपदे यस्य स तथोक्तः । अथोपपदग्रहणं किमर्थम् ? नेतरेतरान्योन्याभ्यामितुपच्यताम् ? अशक्यमेवं वक्तुम् । एवं हुाच्यमाने पञ्चमोनिर्देशात् तस्मादितुपत्तरस्ये (१।१.६७) तुत्तर- स्यैव स्यात् । इतरेतरस्य व्यतिलुनन्तोति । इह तु न स्याद् व्यतिलुनन्तीतरे- तरस्येति । परस्परोपपदाचेति वक्तव्यमिति । परस्परशब्द उपपदं यस्य तस्मात् प्रतिषेधो भवतीत्येतदर्थ रूपं व्याख्येयमित्यर्थः । तत्रेदं व्याख्यानम् । चकारोऽत्र क्रियते । स चानुक्तसमुच्चयार्थः । तेन परस्परोपपदादपि प्रति- षेधो भविष्यतीति । १७। नेर्विशः। निविशत इति । विश प्रवेशने । तुदादित्वाच्छः । न्यविशतेति । अड़ा- गमेन व्यवधानमित्यात्मनेपदेन न भवितव्यमिति कस्यचिद् भ्रान्तिः स्यात् । अतस्ता बिराकतुमाह अड़ागम इत्यादि । मधुनि विशन्तीति । अत्र नेः परस्य विशतरात्मानेपदं प्राप्नोति । तत् कम्मान भवतीत्याह नेरुपसर्गस्येत्यादि । मधुशब्दस्य सप्तम्ये कवचन इकोऽचि विभक्ताविति (७।१९७३) नुमि कृते मधुनोति रूपं भवति । तस्य चावयवो निशब्दोऽनर्थकः । १८। परिव्यवभाः परिव्यवभाः क्रियः । परिक्रीणीत इति । ई हल्यघोरितीत्वम् (६ । ४. ११३) । पादय उपसर्गा ग्राह्यन्त इति । कथम् ? क्रिय इति सम्बन्धलक्षणा षष्ठी। न पञ्चमी। क्रियो ये सम्बन्धिनः पादय इति। अर्थदारकच तेषां सम्बन्धी विशेषणविशेष्यभाव- लक्षणः । स चोपसर्गरेव पर्यादिभिः सम्भवति। नान्ये रिति सामादुपसर्ग- ग्रहणं भवति। बहुवि क्रीणातोति । बहुवि क्रोणातीति । बहवो क्यो यस्मिन्निति बहुव्रीहिः । विशब्दोऽत्र पक्षिणि वर्तते । १६ । विपराभप्रांजेः। । साहचर्यादिति । उपसर्गग्रहण हेतुः । नेविंश इत्यत्र नेरुपसर्गस्य ग्रहणम् ।

२२४ न्यासः । अनन्तरसूत्रेऽपि पर्यादीना मुपसर्गाणामेव ग्रहणम् । अतः प्रकरणसाहचर्याद विपराशब्दावुपसर्गौ गृह्यते इत्येके । अपरे तु वर्णयन्ति साहचर्य प्रत्यासत्ता- पलक्षणम् । येषां साहचर्य तेषां नियोगतः प्रत्यासत्त्या भवितव्यमिति । अतः साहचर्यस्य प्रत्यासत्त्याऽविनाभावित्वात् तेन प्रत्यासत्तिर्लभ्यते । तदेत- दुक्तं भवति प्रत्यासत्तेर्विपराशब्दावुपसर्गी रोते इति । प्रत्यासतिश्च जयते विपराशब्दाभ्यामुपसर्गाभ्यामेव । नानुपसर्गाभ्याम् । নগ্রন্থি নয়ন जयत्यर्थो विशिष्यते । नेतराभ्यामिति । २० । आङो दोऽनासाविहरण । । ददातरेवास्यविहरणे वृत्तिः सम्भवति । नान्येषां दारूपाणां धातूनामिति । अतस्तत्प्रतिषेधेन तस्यैव ग्रहणं विज्ञायत इत्यत आह आयूर्वाद्दाञ इति। आदत इति । पूर्ववदाकारलोपः। खरि चेति (८।४।५५) चलम्। पास्यविहरणसमान- क्रियादपि प्रतिषेधो वक्तव्य इत्युपसंख्यानव्याजेनास्यविहरणविषयं दर्शयति। कथम् ? विहरणग्रहणं न कर्त्तव्यम्। इहाङो दोऽनास्य इतपतहक्तव्यम्। तत्राय दाजो वृत्तिर्न सम्भवतीति सामर्थ्यादास्यसमवायिन्यां क्रियायां वृत्ति- विज्ञास्यते । तत्रैव प्रतिषेधः । तत् किं विहरणग्रहणेन ? ननु चाडो दोऽनास्य इतरतावताच्यमाने स्वं मुखमादत्ते देवदत्त इत्यत्रापि प्रतिषेधः स्यात् । नैष दोषः। या ह्यास्यविषयैव क्रिया तस्यां वर्तमानो ददातिरास्यवृत्ति भवति । विहरणमेवास्यविषयम् । ग्रहणन्वास्थविषयं ग्रहोटविषयञ्च । तदेवं विहरण- मन्तरेणापि सिद्धे यदिहरणग्रहणं क्रियते तसैयतत् प्रयोजनम् । प्रास्यविहरण- समानक्रियादपि प्रतिषेधोऽयं यथा स्यादितववमितपके । इतरेतरान्योन्योपपदा- च्चेत्यत (१।३।१६) श्चकारोऽनुवर्तते । स चानुक्तसमुच्चयार्थः । तेनास्य विहरण- समानक्रियादपि प्रतिषेधो भवतीत्यपरे । स्वाङ्गकर्मकाच्चेति। वक्तव्यमिति न चात्राट्रवमूर्तिमलक्षणं पारिभाषिकं स्वाङ्गं विवक्षितम् । किं तहि ? स्वमङ्ग स्वाङ्गमिति । तत् कर्म यस्य स स्वाङ्गकर्मकः । तस्मात् स्वाङ्गकर्मकात् प्रतिषेधो भवतीतपतदर्थरूपं वक्तव्यमित्यर्थः । तेन परसम्बन्धिना मुखेन यदा सकर्मको भवति तदा भवतेवात्मनेपदम् । व्याददते पिपीलिकाः शेषः ।

( ११३)। २२५ पतङ्गस्य मुखमिति । वक्तव्यशब्दस्य व्याख्येय मित्यर्थः । तत्रेदं व्याख्यानम् । कर्तरीति वर्त्तते । पास्यमिति च सम्बन्धिशब्दः । तत्रैवं विज्ञायते यस्मिन् कर्तर्येवात्मनेपदं भवति तस्य चेदास्यमिति । प्राङ इति योगविभागः क्रियते । प्रागमयख तावन्माणवक आनुते शृगाल भापृच्छते गुरुनितवमर्थः । तेनागमः क्षमायामित्याडि नुप्रच्च्योरिति च (१।३।२१, वा) नोपसंख्येयं भवति । २१। क्रीड़ोऽनुसंपरिभाश्च । समा साहचर्यादिति । यद्यप्यन्वादिरुपसर्गत्वं व्यभिचरति सम्शब्द स्तु न व्यभिचरति । अतस्तत्साहचर्यादन्वादिरुपसर्ग एव ग्राह्यते । माणवकमनुकीड़- तीति । माणवकेन सह क्रीड़तीत्यर्थः । तृतीयार्थ इत्यनुशब्दस्य (१।४।८५) कर्मप्रवचनीयसंज्ञा। आगमेरिति । श्रापूर्वस्य गमर्ण्यन्तस्य ग्रहण म । उपेक्षा कालहरणमिति। कालप्रतिपालनं प्रतीक्षणमितार्थः । आगमयस्वेति । जनीजृष्नसुरक्षोऽमन्ताश्चेति मित्संज्ञायां मितां ह्रस्व (६।४।८२) इति इस्त्र- त्वम् । लोण्मध्यमपुरुषेकवचनम्। थासः से (३।४।८०) । सवाभ्यां (३।४।८१) वामाविति वादेशः । शिनेरिति । शकिः सवन्तो रह्यते । विद्यासु शिक्षत इति विद्यां जिज्ञासितुं घटत इत्यर्थः । शकेः सन् । सनि मौमाधुर- भलभेत्यादिनस् भावः (।४।५४)। अत्र लोपोऽभ्यासस्ये (७।४।८८) त्यभ्यासस्य लोपः । स्कोः संयोगाद्योरन्ते (८।२।२८) चेति सकारलोपः । शिक्ष इति स्थिते लट् । यस्त शिक्ष विद्योपादान इति पठ्यते ततोऽनुदासेत्स्वादात्मनेपदं सिद्धमेव । आशिषि नाथ इति । नार्थ नाथ याअोपतापैश्वर्याशी वित्यनुदात्तेत् पठ्यते । अनुदासेत्त्वादात्मनेपदे सिद्ध आशिष्येव नाथतेरात्मनेपदं भवति । याज्ञादिषु मा भूदिति नियमार्थमेतत् । सर्पिष इति । आशिषि नाथ इति (२।३१५५) कर्मणि षष्ठी। हरतर्गतिताच्छील्य इति। गतेस्ताच्छील्यं गतिताच्छील्यम् । ताच्छील्यं ततस्वभावता । पैटकमवा अनुहरन्ते माटकं गावोऽनुहरन्त इति । पिटवन् मालवद् गमनमेषां स्वभाव इत्यर्थः । मातुरनुहरति पितुरनुहरतीति । मातुराकारं पितुराकारमनुकरोतीत्यर्थः । माटसदृशः पिटसदृश इत्यर्थः । पैट कमिति। पितुरागतमिति ऋत(४।३।७८)ठञ् । इसुसुक्तान्तात् (७।३।५१) न्यामः । कः । मातुरनुहरतीत्यत्र गतताच्छोल्यं न विवक्षितम् । किरतरित्यादि। क विक्षेपे अस्य विक्षेप एवार्थः । हर्षादयस्तस्य विषयभूताः । अत्र हर्षी विक्षेपस्य कारणम् । जीविकाकुलायकरणञ्च तत् फलम् । एतेष्वेवार्थेषु किरते रात्मनेपदं भवति । अपस्किरत इति । अपाच्चतुष्याच्छकुनिष्वालेखने (६।१।१४२) सुट् । प्रानुने इति । नु स्तुती। अदादिः। अयञ्चात्रोत्कण्ठापूर्वकशब्दने वर्तते । आपृच्छत इति । प्रच्छ जीप्सायाम् । तौदादिकः । ग्रह्यादिना (६।१।१६ संप्रसारणम् । वाचा शरीरस्पर्श नमुपलम्भनमिति । शपथविशेषः । तथाहि देवदत्तस्य शरीरं स्मृशामीति शपथं कुर्वाणो देवदत्ताय शपत इति प्रयुज्यते । श्लाघगुस्थाशपामित्यादिना (१।४।३४) सम्प्रदानसंज्ञायां देवदत्तायेति सम्प- दाने चतुर्थी। शपतीत्याक्रोशतीत्यर्थः । ममोऽकूजन इत्यादिग्रन्थस्य शप उपलम्मनपर्यन्तस्य योऽर्थः स इह चकारेणानुक्तसमुच्चयार्थेनोपात्तः । तस्यैवा. र्थस्य चकारोपात्तस्य स्पष्टीकरणायास्य ग्रन्थस्योपन्यास: कृतः । २२। समवप्रविभाः स्थः । मन्तिष्ठते इति । पाघ्रादिसूत्रेण ( ७।३१७८) तिष्ठादेशः। अम्तिं सकार. मातिष्ठत इति । सकारमात्रमस्तिं धातुमापिशलिराचार्यः प्रतिजानीत । तथाहि न तस्य पाणिनेरिवास भुवीति गणपाठः। किं तर्हि ? म भुवीति स पठति । आगमौ गुणवृद्धी आतिष्ठत इति । स वागमौ गुणवृद्धी आतिष्ठते । एवं हि स (C) प्रतिजानीत इत्यर्थः । २३। प्रकाशनस्थेयाख्ययोश्च । तिष्ठन्त्यस्मिन्निति स्थेय इति। कृत्यलुटो बहुलमि (३।३।११३) त्यधिकरणे ऽचो (३।१।५७) यत् । ईदु यतीतोत्त्वम् (६।४।६५)। गुणः । विवाद इति । (C) स इति। आपिशलिरित्यर्थः । आपिशलिमते सकारमावस्यासधाती: स्तः स्थः सन्तोत्यादौन्युदा. हरणागि। अत्यामौदित्यादिसिहये तु सोऽडाटाबागमी प्रतिमानीते। तावड़ाटावेव पाणिनीयशास्त्रेड- काराकारस्वरूपत्वाद गुण (१।१।२) वृद्धी (१११११) इति। अतः स गुगा बद्धी भागमो प्रतिजानौत इति न्यास- आपिशलि maintains गुणवछो ( अ and आ) as आगम in order to form the terms अस्ति, अस्तु, आसोत् &......from his root स ( which is अस in the पाणिनीय धातु पाठ)and this is referred to by the न्यासकार in explaining the two examples cited here by the gapirt to illustrate the art attached to the Rule 1. 3. 22. कदाशयः।

ग्रहणं कृतम् । (१३)। २२७ सन्देहविषये। निर्णतेति निश्चेता प्रमाणभूत इत्यर्थः । कथं पुनः स्थेयशब्दात् तस्य प्रतीतिर्भवति ? यावता स्थेयशब्दो भावसाधनोऽप्यस्ति गतिनिक्ति- वचन इत्याह तमेप्रत्यादि। यस्य स्थेयइत्याख्या लोके तस्य प्रतीतियथा स्यादित्ये- वमर्थमाख्याग्रहणम् । तेनाख्याग्रहणन तस्य प्रतीति भवतीति दर्शयितुमाख्या- तिष्ठते कन्या छात्रेभ्य इति । पूर्ववत् संप्रदानसंज्ञायां सत्यां छात्रेभ्य इति चतुर्थी। प्रकाशयत्यात्मान मित्यर्थ इति । अनेकार्थत्वाद्धातूनां तिष्ठतिरत्र प्रकाशने वर्तते । संशय्येति । जहातु नैनं कथमर्थसिद्धिः संशव्य कर्णादिषु तिष्ठतं यः । असाधुयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि॥१॥ इति । अस्य श्लोकस्यायमेकदेश इहोपन्यम्तः । संशय्येति । विवादपदभूते वस्तुनि संशयितो भूत्वा कर्णादिषु तिष्ठत इति । कर्णशकुनिप्रभृतिषु निणे टत्वेना- भिमतेषु सत्सु पक्षान्तरं परित्यज्य तिष्ठते । तदुपदर्शितस्यैव पक्षस्याश्रयणात् । २४। उदीनकर्मणि। अनूई कर्मणि वर्तमानादितुक्ते य चोदयति ननुच तिष्ठतरकर्मकक्रिया- वचनत्वान्न कर्मणि वृत्तिरुपपद्यते । तत् किमुच्यतेऽनूईकर्मणि वर्तमाना- दिति तं प्रत्याह क्रियावाचीति । यदुक्तमनईकर्मणि वर्तमानादिति तस्याथं विस्पष्टीकर्तुमाह। अनृर्द्धकर्मविशिष्टात् क्रियावचनादिति । उद ईहायामिति वक्त व्यमिति । उत्पूर्वात् तिष्ठते रीहायां परिम्पन्दन वर्तमाना- दात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः । तत्रेदं व्याख्यानम्। अन्तरे- णापि कर्मग्रहणं क्रियामात्रवृत्तित्वे तिष्ठतः सिद्धे यत् कर्मग्रहगां तल्ल लोके या क्रिया कर्मत्वेन प्रसिद्धा तस्याः प्रतियत्ययं कृतम् । सा तु परिस्पन्दनात्मिकैव घटनभ्रमणादिका । तथाहि तां कुर्वाण: सक्रिय इतुच्यते। स्थानासनादिकां त्वपरिस्पन्दनामिकां कुर्वाणोऽपि निष्क्रिय इति । तस्मादात्मनेपदमिदं कर्म- ग्रहणादीहायामेव वर्तमानाद् भविष्यति । उद ईहायामितुक्त ईहाग्रहण- मनूईकर्मणोऽपवाद इति कस्यचिद् भ्रान्तिः स्यात्। अतस्तानिराकर्तुमाह ईहाग्रहणमितवादि। विशेषणं व्यक्तीकरणमिहाभिप्रेतम् । एतदुक्तम् भवति ।

२८ न्यासः । २५ रिति । यदिदमुक्त मुद ईहायामिति वक्तव्यमिति तत्र यदीहाग्रहणं तदनूई कम्मण एव विशेषणं सूत्रोपात्तस्य व्यक्तीकरणार्थम् । ईहात्मकमिहानूईकर्म विषक्षितमिति प्रतिपादनार्थमित्यर्थः। उपान्मन्त्रकरणे। मन्त्रकरण इति । मन्त्रः करणं साधकतमं यस्य धात्वर्थस्य स तथोक्तः । उपादितपादि। अत्र वक्तव्यशब्दस्य व्याख्येय इतार्थः । तत्रेदं व्याख्यानम् । उत्तरसूत्रे चकारोऽनुवर्तते । स चानुक्तसमुच्चयार्थः। तेन उपपूर्वात्तिष्ठतेर्देव- पूजादिष्वर्थेष्वप्यात्मनेपदं भवति । वा लिप्सायामिति । लघुमिच्छा लिप्सा । लिप्सायां गम्यमानायामितेषोऽर्थों वेदितव्यः । म तु तत्र वर्तमानात् तिष्ठते- न लिप्सा तिष्ठतरर्थः। तथाहि भिक्षुको ब्राह्मणकुलमुपतिष्ठत इत्यत्र तिष्ठतिरुपसंक्रमण वर्त्तते । लिप्सा तूपसंक्रमणस्य हेतुभूता गम्यते । लिप्सायां हेतुभूतायां ब्राह्मणकुलमुपसंक्रामतीत्यर्थः । २६ । अकर्मकाच्च । अकर्मकादिति । नास्य कर्मास्तीति बहुव्रीहिः । डुक करण । अन्येभ्योऽपि दृश्यन्त इति (३।२।०५) मनिन् । धातोगुणः । शेषाद विभाषेति (५।४।१५४) कप्। ननु धातो: क्रियावचनादकर्मकत्वं न सम्भवतीति तस्मादयुक्तमकर्मका- दिति विशेषणं व्यवच्छेद्याभावादित्यत आह अकर्मक क्रियावचनादिति । अकर्मिका चासौ क्रिया चेत्यकर्मकक्रिया । तस्या वचनो यस्तां वक्ति सोऽकर्मक क्रियावचनः । एतेनार्थ हारकं विशेषणमिदं दर्शयति । अकर्मको यो धात्वर्थस्तत्साहचर्यादभिधेयधर्मस्माभिधान उपचाराद् धातुरकर्मक इति । अर्थस्य च युक्तमेतद् विशेषणम् । तस्य सकर्मकत्वाकर्मकत्वसम्भवात् । यावद्भुक्त- मिति । यावच्छब्दो निपातोऽव्ययम् । तस्य यथार्थे वीप्सायामव्ययीभावः । सप्तम्यन्तञ्चैतत् । अतएवाह भोजने भोजने सविधीयत इति । भाव त इति । नपुंसके भाव क्त (३।३।११४) इत्यनेन । २७। उहिभां तपः। वाङ्गकर्मकाञ्चेति वक्तव्य मिति । स्वाङ्ग कर्म यस्य तस्मात् तपतरात्मने- । (१३)। पदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः । तत्रेदं व्याख्यानम् । पूर्वसूत्राच- कारोऽनुवर्तते । तस्यानुक्त समुच्चयार्थत्वात् स्वाङ्गकर्मकादपि भविष्यति । खानच्नेह न पारिभाषिकम् । किं तर्हि ? स्वमङ्गं स्वाङ्गमिति । आत्मीय- मङ्गमित्यर्थः । निष्टपतीति । निसस्तपतावनामेवन इति (८.३।१०२) मूर्धन्यः । २८। आङो यमहनः । आहत इति । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः (६।४।३७) । पानत इति । गमहनेत्युपधालोपः (६।४।८८)। हो (७।३।५8) हन्तेरित्यादिना कुत्वम् । वाङ्गकर्मकाचेति वक्तव्यमिति । अस्य पूर्ववदर्थः । व्याख्यानमपि पूर्ववदेव । २६ । समो गम्युच्छिप्रच्छि खरत्यर्तिश्रुविदिभाः । संवरत इति । स्व शब्दोपतापयोः । समरन्त इति । अर्सेः सतिशास्त्यतिभ्य- श्वेत्यत्र (३।१।५६) पुषादिसूत्रात् ( ३।१।५५ ) परस्मैपदग्रहणानुवृत्तेरात्मनेपदे- वडादेशेन न भवितव्यमिति कस्यचिद् भ्रान्तिः स्यात् । अतस्तानिराकर्तुमाह तत्र होत्यादि। संशृणुत इति। शु श्रवण । श्रुवः शृ चेति (३।१.७४) श्रुप्रत्ययः शृभावश्च । ऋच्छेरनादेशस्य ग्रहणमिति । ऋच्छ गतीन्द्रियप्रलय- मूर्तिभावेष्वित्यस्य समृच्छिष्यत इति लट् । स्यप्रत्ययः । यद्यादेशस्य ग्रहणं स्यात् तदेतत्र सिध्येत् । पाघ्रादिसूत्रे (७।३।७८) णाःच्छादेशस्य शितीत्येवं विधानात्। अथाादेशस्यापि ग्रहणं कस्मान भवतीत्याह। अादेशस्य अतीत्येवमित्यादि। अथवा यद्यनादेशस्य ग्रहणं स्यादादेशस्यात्मनेपदं न सिध्यतीत्यत आह अादेशस्य त्वर्तीत्येवमित्यादि । स्थानिवद्भावनेत्यभिप्रायः । न लाभार्थस्येति । विल लाभ इत्यस्य । अथ नतु सत्तार्थस्य नापि विचार-- णार्थस्येत्येवमपि कस्माब्रोक्तम् ? एवं मन्यते । नित्यात्मनेपदित्वादनयोरात्मने- पदार्थ ग्रहणं नाशङ्केयतैवेति । दृशेश्चेति वक्तव्यमिति । दृशिर् प्रेक्षण इत्यस्मात् संपूर्वादात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः । व्याख्यानन्तु पूर्ववदेव । संपश्यत इति। पाघ्रादिना (७।३।७८) पश्यादेशः । ३० । निसमुपविभो ह्वः । छ इति क्षेत्र स्पर्धायां शब्दने चेत्यस्य कृतात्त्वस्यातो (६।४।११४) धातो- न्यासः। रित्याकारलोपं कृत्वा निर्देशः । निह्वयत इति । ननु च कृतात्त्वस्य निर्देशा- दत्रात्मनेपदेन न भवितव्यम् । नहि विकृतिः प्रकृति ग्रहाति। अन्यत्वात् । नैष दोषः । क्वचिहिततिरपि प्रकृति राहात्येव । कथं ज्ञायते ? यदयं न व्यो (६।१।४६) लिटीति कृतात्त्वस्य व्येजो निर्देशनात्त्वप्रतिषेधं शास्ति ततो ज्ञायते विततिरपि प्रकृतिं ग्रह्णातीति । अन्यथा व्य इति निर्देशन व्येजो ग्रहणा- भावात् कस्यायं प्रतिषेधः स्यात् ? उपसर्गादस्यत्यूह्यो वचनमिति । वक्तव्य- मित्यर्थः । असु क्षेपण । अह वितर्के । अस्यतीति श्यना निर्देशादेवादिकस्य ग्रहणम् । नत्वादादिकस्यास भुवीत्यस्य । ३१। स्पर्खायामाङः। स्पर्दायां विषय इति । स्पर्द्धह धात्वर्थस्य विषयोऽभिमतो न धातोः । अतएवाह स्पर्धा संघर्षः । पराभिभवेच्छेति । स्पर्द्धायाः स्वरूपं दर्शयित्वा धात्वर्थस्य विषयं दर्शयितुमाह स विषयो धात्वर्थस्येति । कः पुनर्धातो- रथों नाम यस्यैवं विषय इत्याह ? धातुम्तु शब्दक्रिय एवेत्यादि। शब्दनं शब्दः । सा क्रिया यस्य स तथोक्तः । शब्दनक्रियावाचीति यावत् । यद्यपि ह्वयतिः स्पर्खायामपि पठ्यत तथाप्यापूर्वस्तत्र न वर्तत । यथा तिष्ठतिर्गतिनिवृत्ती पठ्यते। अथच प्रपूर्वी गतावेव वर्तते । न गतिनिवृत्ती। तथाहि प्रतिष्ठत इत्युक्ते गच्छतीत्यर्थः। तस्मादापर्वस्य ह्वयते: स्पर्दायां वृत्त्यभावात् स्पर्धा धात्वर्थस्य विषयः । धात्वर्थविषयत्वन्तु तद्धेतुभावन वेदितव्यम् । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्न प्रकथनो- पयोगेषु कृञः। अपकारप्रयुक्तमिति । दृतीयासमासोऽयम् । अपकारमुद्दिश्य यत् प्रवर्तते तदपकारप्रयुक्तं वेदितव्यम् । हिंसात्मकमिति । हिनस्तीति हिंसः । पचाद्यच् । हिंस आत्मा यस्य तत् तथोक्तम् । पीड़ाकरणमित्यर्थः । सूचनमिति दोषा- विष्करणम् । कथमेतद् विज्ञायत एवंविधं सूचनं गन्धनमित्याह तथाहीत्यादि । वस्तेत्यादिना गन्धयति र्धातुरर्दयतरर्थे वर्तत इति दर्शयति । अह हिंसाया- मित्यादिनाऽईयते हिंसात्मकत्वम् । एवञ्च हिंसार्थेनाइयतिना गन्धयत: ३२॥

( ११३)। २३१ समानार्थतां दर्शयता गन्धनशब्दवाच्यस्यार्थस्य हिंसात्मकत्वं दर्शितम् भवति । भत्सनं तिरस्करणम् । अनुत्तिः परचित्तावधारणम् । साहसिक्यं साहसं कर्म इति । ओजःसहोऽम्भसा (४।४।२७) वर्ततइति ठक् साहसिकः । तस्य कर्मेति तस्माद् गुणवचनब्राह्मणादित्वात् (५।१।१२४) थञ् साहसिक्यम् । उपयोगो धर्मादिप्रयोजनो विनियोग इति । धर्मादिषु प्रयोजनं यस्य स तथोक्तः । श्रादिशब्दः कामादिपरिग्रहाय । एधोदकस्योपस्कुरुत इति । उपात् प्रतियत्नवैलतवाक्याध्याहारष्विति (६।१।१०८) सुट्। कृजः प्रतियत्न (२।३।५३) इति षष्ठी ३३ । अधः प्रसहने । तमधिचक्र इति । कत्रो लिट् । तस्य चैशादेश: । द्विवचनेऽचीति (३।१।५८) स्थानिवद्भावाद् द्विवचनम् (७।४।६६) । उरदित्यत्त्वम् ( ७।४।६६) । रपरत्वञ्च । हलादिः (७।४।६८) शेषः । कुहोशुरिति (७/४।६२) चुत्वम् । वः शब्दकर्मगाः। कर्सरि (१।३।१४) कर्मत्येवमादी क्वचित् कर्मशब्दस्य क्रियावाचिता दृष्टा । इहापि तस्य क्रियावाचिता मा विज्ञायीत्याह कर्मशब्द इह कारकाभिधायोति अथ क्रियाभिधायी कम्मान भवति ? विपूर्वस्य करोत: शब्दनक्रियायां वृत्त्यसम्भ- वात् । शब्दकर्मण इति । धातोरर्थदारकं चेदं विशेषणम् । शब्दः कर्मास्येति शब्दकर्मा धात्वर्थः । तदर्थस्य शब्दकर्मत्वाद् तद्दारण धातुरपि शब्दकर्मेति । अन्यथा हि क्रियावाचित्वाद्धातोः कथं शब्दः कर्मास्येति सम्बन्ध उपपद्यते ? ३५। अकर्मकाच्च। ओदनस्य परिपूर्णा इति । सुहितार्थयोगे षष्ठी। पूरणगुणसुहितार्थ (२।२।११) इत्यादिना षष्ठीसमासप्रतिषेधेन ज्ञापितमेतत् सुहितार्थयोग षष्ठी भवतीति। सुहितार्थास्तृप्तपर्थाः। पूर्णास्तृप्ता इत्यर्थः ३६। सम्माननीत्सञ्जनाचार्यकरणानभृतिविगणन- व्ययेषु नियः। सम्माननादिषु विशेषणष्विति । किं खिदत्र विशिष्यते नयत्यर्थोऽनेनेति :

२३२ न्यासः । विशेषणम् ? किं खिवयत्यर्थ एव विशेषणम् ? विशिष्यते व्यावततेऽर्थान्तरा- दिति कत्वा। तत्र सम्माननमाचार्यकरणं भृतिश्चेति पूर्वेणैवार्थे नेतानि विशे- षणानि। परिशिष्टानि तु नयत्यर्थखभावानि द्वितीयेन विशेषणानि । नयते चार्वी लोकायत इति । अत्र नयतेः प्रापणमों विशेष्यः । शिष्यसम्माननन्तु तस्य फलभावेन विशेषणम् । तत्सम्बन्धादाचार्योऽपि चाऊत्युच्यत इति । यथा कुन्तान् प्रवेशयेत्युक्ते कुन्तशब्दः कुन्तसम्बन्धात् पुरुषेष्वपि वर्तते तथापि चारूशब्द श्चा:सम्बन्धादाचार्येऽपि। स्थिरीकत्येति निश्चलीकत्वेत्यर्थः । निश्चलत्वन्तु तेषामनन्यार्थभावः । स्थाप्यमाना इति। लोकायते शास्त्रे पदार्थान् प्रतिपाद्यमाना निश्वाय्यमाना इत्यर्थ: । पूजिता भवन्तीति । अभिलषितार्थसम्पादनमेव तेषां पूजा । अभिलषितोऽर्थस्तु लोकायते शास्त्रे पदार्थानां सम्य गवबोधः। उत्क्षिपतीत्यर्थ इति । एतेनोत्सञ्जनं नयरों नतु तस्य विशेषणमिति दर्शयति । एवं निश्चिनोतीत्यर्थ इत्यादिभिरपि ज्ञानादीनां यथासम्भवं नयतार्थतां दर्शयतीति वेदितव्यम् । ईदृशेनेति । यादृशः शास्त्रोक्तो विधिस्तादृशेनतार्थ: । अत्राप्याचार्यकरणं नयत्यर्थस्य फलभावेनैव विशेषणम् । कर्मकरानुपनयत इति । अत्र हि भृति- हेतुभावन नयतार्थस्य समीपकरणस्य विशेषणम् । ऋणादेरिति । आदि- शब्देन करशुल्कदण्डादीनां ग्रहणम्। करो नाम राजग्राह्यो भागः कर्षक रक्षार्थ परिकल्पितः । धर्मादिष्विति । आदिशब्देन कामादिष्वपि । भावः । ३७। कर्तृस्थ चाशरीरे कर्मणि । नयतेः कति । अर्थदारकः सम्बन्धो वेदितवाः। तदेकदेशोऽपि शरीरमिति । समुदायेषु हि प्रवृत्ताः शब्दाः कचिदवयवेष्वपि वर्तन्त इति कथं पुनर्मुख्ये सति गौणस्यापि ग्रहणं लभ्यते ? शरीरग्रहणात् । इह लघुत्वात् कायग्रहणे कर्तव्ये यच्छरीरग्रहणं करोति तच्छरीरैकदेशोऽपि शरीरश्रुत्या नाम गृह्यतेत्येवमर्थम् । क्रोधं विनयत इति । अत्र नयतेर्यः कर्ता स हि बुद्धीन्द्रि यदेहसमुदायस्वभावो देवदत्तादिः । तत्रैव कर्म क्रोधो वर्तत इति कर्तृस्थ कन्माशरीरं भवति । एवं गर्ल्ड विनयतीत्यादी गड्डादेः ( ११३)। २३३ शरीरैकदेशस्य कम्मणः कर्तृस्थभावो वेदितव्यः । अत्र च क्रोधाद्यपगमः क्रियाफलं कलंभिप्राय एवेति स्वरिततिः (१।३।०२) कर्चभिप्राय इत्यनेनैव सिद्धे नियमार्थमेतद् वचनं वेदितव्यम् । कस्थि कर्मण्यशरीर एव । नान्यत्वेति । ३८। वृत्तिसर्गतायनेषु क्रमः । शेषलक्षणेन क्रमेः परस्मैपदे प्राप्त आत्मनेपदं विधीयते । वृत्त्यादयोऽर्था अप्रतिबन्धोत्साहस्फीततासु प्रसिद्धाः । ३६ । उपपराभवाम् । संक्रामतीति । क्रमः (७।३।३६) परस्मैपदेष्विति दीर्घः । आङ उद्गमने। आक्रामति माणवकः कुतपमिति । अवष्टभातीत्यर्थः । ज्योतिरुद- गमन इति वक्तव्यमिति । ज्योतिषां ग्रहनक्षत्रादीनामुटुगमन एवात्मनेपदं भवतीत्येतदथरूपं वायमितार्थः । तत्रेदं व्याख्यानम् । अनुपमर्गादेत्यतो (१।३।४३) वाग्रहणमनुवर्तते सिंहावलोकितन्यायेन । सा च व्यवस्थित विभाषा। तेन ज्योतिरुद्गमन एव भविष्यति । नान्यतेति । यदि तर्हि वा ग्रहणमनुवर्तत उत्तरयोरपि योगयोरनुवर्तत । मण्डू कप्नुतिन्यायेन नानुवर्त्ति- थत इत्यदोषः । ४१ । वः पादविहरण। विक्रामत्यजिनसन्धिरिति । द्विधा भवति । स्फुटतीत्य थ : । ४३। प्रोपाभरां समर्थाभग्राम् । प्रक्रमत उपक्रमत इति । आरभत इतार्थः । ४३। अनुपसर्गाहा। अप्राप्तविभाषयमिति । इत्यादीनां निहत्तत्वात् । ३० २३४ न्यासः । । ? ४४। अपनवे जः। शतमपजानीत इति । जाजनोर्जा इति ( ७३१७८ ) जादेशः । ना। पूर्ववदी हल्यघोरितीत्त्वम् । ६।४।११ ) । ४५ । अकर्मका । कथञ्चायमकर्मक इति। एवम्मन्यते। सर्पिरादि जेयत्वेन विवक्षितं कर्म। अतस्तेन कर्मणा सकर्मक एवायमित्यभिप्रायः । कथमिति । न कथ- चिदित्यर्थः । तथाचेत्यादिना नात्र सर्पिरादि कर्मवेनापितु करणत्वेन विवक्षित मित्यत्र युक्तिमाह सर्पिषोपायनेत्यादि। यस्य सर्पि:वभिष्वङ्गो (D) विना तेन भुजिक्रियायामभिलाषो न भवति तस्य भोजने प्रति प्रति सर्पिरुपायभावं प्रतिपद्यत इति तेनोपायेन स प्रवर्तत इति। अकर्मकादिति किमिति ? नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम् । किं तर्हि ? करणत्वेनेति ब्रुवता वृत्तिकता साक्षाच्छब्दोपान करणेन सकरणादात्मनेपदं भवतीत्युक्तं भवति । एवञ्च सकरणादित्येवं वाच्यम् । किमकर्मकग्रहीनेति भावः । एवमुच्यमाने करणयुक्तात् सकर्मकादपि स्यादिति दर्शयितु माह स्वरेण पुत्त्रं जानातीति । ४६ । संप्रतिभाामनाध्याने । उत्कण्ठास्मरणमिति । उत्कण्ठापूर्वकस्मरणमिति । मातुरिति । अधी- गर्थदयेशां कर्मणीति ( २।३।५२) षष्ठी । ४७। भासनोपसंभाषाज्ञानयत्नविमतुपमन्त्रणेषु वदः । भासनादिष्वर्थेषु विशेषणेविति। अत्रापि किंखिदिशिष्यते वदत्यर्थी ऽनेनेति विशेषणम् ? किंखिहदत्यर्थ एव विशेषणं यर्थान्तराद् विशिष्यते व्यव- च्छिद्यत इति कृत्वा । तत्रोपसम्भाषोपसान्त्वन मुपमन्त्रणञ्च हितोयेनार्थेन बदत्यर्थ एव विशेषणम् । परिशिष्टानि तु भासनादीनि प्रथमेनार्थेन विशेषणानि । भासमानेत्यादिना भासनं वदत्यर्थस्य लक्षणभावेन हेतुभावेन वा विशेषणमिति दर्शयति । तथावत्र भासमान इति लक्षणहत्वोः क्रियाया (D) यस्य सर्पिषो विन्दुमपि विनति पुनापुस्तके पाठः ।

। (१३)। २३५ (३।२।१२६) इत्यनेन शानजादेशो विहितः । जानातीत्यादिना ज्ञानं वदत्यस्य विषयिभावेन विशेषणमिति दर्शयति । ज्ञानेन ह्यसौ वदितुं जानाति । अत्र येन ज्ञानेन वदनं वदत्यथं जानाति तत्र तेनैव विषयेण परिच्छेधेन विषयीभवति । तद्विषय मित्यादिना यत्न आविष्करणस्य वदत्यर्थस्य हेतुभावन विशेषणमित्याचष्टे । उत्साहो ह्याविष्क्रियमाण आविष्करणक्रियायाः कर्माख्यं साधनं भवति । साधनञ्च हेतुः । कारकाणां क्रियानिमित्तत्वात् । विमति पतिता इत्यादिना विमतिर्भाषणस्य वदत्यर्थस्य हेतुभावेन विशेषणमिति दर्शयति । सत्यां विमती विचित्रं नानाप्रकारं भाषन्ते । यदि घभिवा मतिः स्यादभित्रमेव भाषेरन् । उपच्छन्दयतीति । भद्रे भजस्व मा मिदं ते दास्यामी- त्येवमादिभिरभीष्टेऽर्थे प्रवर्तयतीत्यर्थः । ४८ । व्यक्तवाचां समुच्चारण। प्रसिद्धधपसंग्रहार्थमिति । यदि तदर्थ व्यक्तवाचामिति नोच्येत वरतनु सम्प्रवदन्ति कुक्कुटा । इत्यत्रापि स्यात् । कुक्कुटा अपि व्यक्तवाच एव। तथाहि (E) In my second and thirteenth MSS. only this line is given. In the Ist, the starza is quoted as :- अयि विनहीहि हदीपगृहनं त्यज नवसङ्गमभोरु वनभम् । अरुण करीदगम एप वर्तते वरतनु संप्रवदन्ति कुक टाः ॥ १ ॥ But हरदत्त in his पदमञ्जरी completes the stanza thus :- अपनय पादसंगनमतः शिथिलय वाहुलता गलादृताम् । क च वदने शुकमाकुलीनत वरतनु सम्प्रवदन्ति कुक्कुटाः ॥१॥" and remarks कचित् तु कृत्स्न एव श्लोकः पठ्यते । हलायुध in his पिङ्गलवृत्तिसञ्जीवनी, गङ्गादास in his छन्दोमनरौ and नागयणभट्ट in his वृत्तरत्नाकरटीका give it as in my Ist MS. Some assign this stanza (viz : अयि विनहीहि &c. ) to भारवि and some including the गणरतमहोदधिकार, to कुमारदास the author of the poem नानकीहरगा । As the last line stands also in the महाभाष्य, neither भारवि nor कुमारदाम could obviously be the author of the Stanza, in the form in which it had been before the .

न्यासः।
कुकुटेनापि लपिते विशेषपरिच्छेदादुच्यते कुक्कुटा लपन्तीति । वरतन्विति
तनूशष्टस्याम्बा नद्यो स्व (७३।१०७इति इस्वः । हस्ववचनसामाद्
खस्य गुण इति गुणो (७३।१०८) न भवति । नृणामिति न कृतं
वैचित्रपार्थम् ।
४६ । अनोरकर्म कात्।
अनुवदतीति । अनुशब्दः पुनरित्यस्यार्थ वर्तते ।
पुनवंदतीत्यर्थः।
यजुषात्र कर्मणा सकर्मकत्वम् ।
५० । विभाषा विप्रलाप।
विप्रलापात्मक इति । परस्परप्रतिबन्धेन विरुद्धः प्रलापो विप्रलापः । स
यस्यात्मा स्वभावः स तथोक्तः । प्राप्तविभाषय मिति । व्यक्तवाचां समुच्चा-
रण इत्यस्यानुत्तेः।
५१ । अवाद् ग्रः।
अवगिरत इति । ऋत (७।१।१००) इडातोरितीत्त्वम् । रपरत्वञ्च ।
५२ । समः प्रतिज्ञाने।
५३ । उदश्चरः सकर्मकात् ।
गेहमुच्चरत इति । चरिर्गत्यर्थ: । गुरुवचनमुचरत इति । अत्रोत्क्रमणात्मि-
कायां गतो वर्तमानश्चरति गुरुवचनेन कर्मणा सकर्मकः । वाष्य उच्चरतीति ।
उपरिष्टाद् गच्छतीत्यर्थः । नात्र किञ्चित् कर्म विवक्षितमिताकर्मकत्वम् ।
५४ । समस्टतौयायुक्तात् ।
यद्यत्र तोयेति टतीयार्थों गृह्यते तदेहापि स्यात्। उभौ लोको सञ्चसि
इमञ्चामुञ्च देवलेति। (1) अत्रापि टतीयाथी गम्यत एव । स तपसा श्रुतन
महाभाष्यकार । The Deccan MS. also does not give the full stanza in the text,
but there is a note in the margin in which a scribe completes it as sfa
विजहोहि & c.
(F) नारदेति पाठान्तरम्। देवलस्योभयस्लोकचरणमयुक्तम् पतितत्वादिति नारदेसि युक्तः पाठ इति
वोचित् ।

अन्यथा (१३)। वा विद्यत एवेत्येतचेतसि कृत्वाह तीवैति । हतीयाविभक्ति यत इति । यद्येवं तया मह धातोः सम्बन्धो नोपपद्यते । नहि तृतीया धातुवाचे त्याह तयेत्यादि। अर्थों हार मुखमुपायो यस्य म तथोक्तः । हतीयार्थन धात्वर्थस्य युक्तलादौपचारिको धातो स्तृतीयार्थन योग इति दर्शयति । यद्यप्यत्र तदर्थन योगः सम्भवतीति विना करगोन क्रियानिष्यत्तेरभावात् तथापि न भवति । हतीया वित्यादि। हतीयायुक्त ग्रहणं ह्येवमथं क्रियते । श्रयमाणतीया- युक्ताद् यथा स्यादिति । मम इत्येवं वक्तव्यं स्यात् । अनुक्तेऽपि सिद्धत्वात् तृतीयाप्रयोगस्य । नहि तेन विना क्रियानिष्यक्ति रुपपद्यत । तस्माद् यत्र हतोया श्रूयत तनालोदाहरगाम् । यत्र तु न श्रूयतं तत् प्रत्युदा- हरणम् । ५५ । दाणश्च सा चच्चतुर्थ्यर्थ । कथं पन स्तृतीया चतुर्थ्यर्थ स्यादिति ? न कञ्चिदित्यर्थः । तदि- धायिन: शास्त्रस्याभावादिति भावः। वक्तव्यमेतदिति । व्याख्येयमित्यर्थः । तवेदं व्याख्यानम् । तदेव मंप्रटानं यदा माधकतमत्वेन विवक्ष्यत तदा चतुर्य- घऽपि तृतीया भवति विवक्षात: कारकाणि भवन्तीति कृत्वा । नत स्वभावतः । सा च विवक्षा लौकिकी ममाथीयत । नतु प्रायोगिकीति । लोके चाशिष्टव्यवहार एव सा सम्भवति। नान्यत्र । लौकिकविवक्षात्र समा- श्रीयत इति । अस्यैवार्थस्य द्योतनाय चेच्छब्दः प्रयुक्तः । दास्या मालां संप्रयच्छत इति । यो हि धर्मशास्त्रविरुहां दासी कामयितुं तस्यै मालां ददाति तस्यासावशिष्टव्यवहारो भवतीत्यस्त्यवाशिष्टव्यवहारः । मंप्रयच्छत इति पाघ्रादिसूत्रेण (७।३।६८) दागो यच्छादेशः । कथमात्मनेपदं भवतीति ? न कथञ्चिदित्यर्थः । तस्मादित्युत्तरस्येत्यत्र ।१।१६७ निर्दिष्टग्रहणस्यानन्तार्थ- त्वादिति । एवं मन्यत । सम इति विशेषणे षष्ठीत्यादि । यदि समइति पञ्चमी स्थान् न षष्ठी तदा प्रशब्देन व्यवधानादात्मनेपदं न स्यात् । तस्मान्नेयं पञ्चमी। किं तर्हि ? षष्ठी। समो विशेषगस्य सम्बन्धी यो विशेष्यो दाणिति ননশ্ব व्यवहितोऽपि विशेषणविशेष्यभावो भवतीति तेन व्यवधानेऽपि भवत्यात्मनेपदम् ।

२३८ न्यासः । ५६ । उपाद् यमः खकरणे । यदि स्वकरणमात्र आत्मनेपदं भवति शाटकादिस्वीकारेऽपि स्यादिति चोद्यमपाकर्तुमाह पाणिग्रहणमित्यादि । एवं मन्यते। प्रतिनियतविषया हि शब्दशक्तयो भवन्ति यस्मादुपपूर्वी यमिरात्मनेपदान्त एवंविध एव स्वीकारे वर्त्तते । नतु सर्वस्मिन् । तस्मात् पाणिग्रहणात्मकमेव स्वीकरगां रह्यते । उपयच्छत इति पूर्ववद् यच्छादेशः । ५७। जाश्रुस्मृदृशां सनः । त्रिभिः सूरिति । अपनवे ज इत्यादिभिः। धर्म जिज्ञासत इति । जा अवबोधने । सन् । हिर्वचनम् । अभ्यासस्य इस्वत्वम् । सन्यत (७.४।७८) इतीत्त्वम् । शुश्रूषत इति । शु श्रवणे । इको झलिति (१।२।८) सनः कित्त्वम् । शुकः किती (७१२।११) तीट् प्रतिषेधः। अझनगमांसनीति (६४।१६ ) दीर्घः । सुस्मूर्षत इति । स्मृ प्राध्याने । पूर्ववत् कित्त्वादुदो (७।१।१०२) ष्ठापूर्वस्येत्यत्त्वम् । रपरत्वम् । दिक्षत इति । हलन्ताचेति (१.२.१० कित्त्वम् । ततश्च व्रश्चादिना । ८।२।३६ ) षत्वम् । षढोः कः (८।२।४१) सौति कत्वम् । ५८। नानो तः। पूर्वेणेति । अनन्तरसूत्रप्राप्त यत् तत् प्रतिषिध्यते । अनन्तरस्य विधि, भवति प्रतिषेधो वेति कृत्वा । तथाचेत्यादि। यस्मादनन्तरसूत्रेणात्मनेपदं यत् प्राप्नोति तस्यायं प्रतिषेधः सम्पद्यत एवं सति सकर्मकस्यैवायं प्रति. षेधः । अनन्तरसूत्रेण सकम्मकादात्मनेपदविधानात् । अकर्मका प्रकर्म- कात्यनेन (१।३।४५) प्रारीवात्मनेपदं विहितमिति । अनन्तरातीतो योगः सकर्मकार्थी विज्ञायते । यतश्चैवं तेनाकर्मकात् पूर्ववत् सन ( १।३.६२) इत्यात्मनेपदं भवत्येव । औषधस्यानुजिज्ञासत इति । ५६ । प्रत्याङभनां श्रुवः । उपसर्गग्रहणञ्चेदमिति । कथं श्रुव इति ? इति ? विशेषणविशेष्यभावसम्बन्ध षष्ठी। तेनायं सम्बन्धो भवति शृणोते यौँ विशेषणभूती प्रत्याङो तत्- ( ११३ । २३८ च्छुिवः सम्बन्धात् सन्नन्तादात्मनेपदं न भवति । उपसर्गादेवार्थहारण गृणोतेर्विशेषणभूताविति सामादुपसर्गयोग्रहणम् । देवदतं प्रतिशुश्रूषत इति । प्रतिशब्दस्य लक्षणेत्थम्भूताख्यानेत्यादिना (१।४।८० ) ন कर्मप्रवचनीयसंज्ञा । तेन प्रतिना देवदत्त एव सम्बध्यते । न धात्वर्थ इति । ६० । शदः शितः। यदि शदेः शित इति व्यधिकरण एते पञ्चम्या वित्यभ्युपगम्यैवं व्याख्या- यते शदेः परो यः शित् तम्मादात्मनेपदं भवतीति तदा सार्वधातुकाश्रय. वाच्छितः प्रागैव तदुत्पत्तेर् धातो: शेषत्वादस्य लावस्थायां परस्मैपदं स्यात् । ततस्तनिमित्तकः शिद्धिकरण: । तथाच विहितमिदानी परस्मैपदमशक्य निवर्तयितु मित्यात्मनेपदाभावः स्यादित्यालोच्यान्यथा व्याचिख्यासुराह शदिय: शिदिति । एतेन शदे: शित इति समानाधिकरणे एते पञ्चम्याविति दर्शयति। कथं पुनः शदिः शिद्भवति ? यावता विकरणस्य शकार इत्- संज्ञक इत्संज्ञासम्बन्धी नतु शदेरित्यत आह शिदभावी ति। भाविशब्दोऽयं भविष्यति (५ ३।३) गम्यादय इति भविष्यत्काल विषयः । शिभावीति । यतः शिद भविष्यति स शिभावी । एतदुक्तं भवति । शिनिमित्तत्वादुप- चारेण शदिः शिदित्युक्तमिति । भवति हि कारणे कार्योपचारात् तथा वापदेशः। यथा नडलोदकं पादरोग इति । शितो वा सम्बन्धीति । एतेन शित इत्यस्य षष्ठान्ततां दर्शयति । कः शदेः शित् सम्बन्धी ? य स्तस्य प्रकतिः । प्रागपि शितः शदेम्तत्प्रकृतित्वमस्त्येवेति शित्प्रकृतेः शदेगत्मनेपदं भवति । शोयते इति ! पाघ्रादिसूत्रेण (७॥३१७८: शीयादेशः । ६१ । मियतेलुङलिङोश्च । नियमार्थ वचन मिति । मियतेनुंलिडो: शित एव यथा स्यात् । यद्येवं डिद ग्रहण किमर्थम् ? यावतान्यत्रात्मनेपदेन न भवितवामिति ? उच्यते। स्वरार्थ मुपदिश्यते । मा हि मृतेति लुडि तास्यानुदातेन्डिदुपदेशान सार्वधातुकस्यानुदात्तत्वे (६।१।१८६ ) कते धातोरन्तोदात्तत्वं भवति । तिङ्ङतिङ (८।१।२८) इति निघातोऽत्र हि चेति (८।१।३४) प्रतिषिध्यते ।

२४० न्यासः । अड़ागमोऽपि न माड्योग इति (६।४।७४)। अमृतेति। ह्रस्वादङ्गादिति ८२।२०) सिचो लोपः । मृषीष्टेति । आशिषि लिङ् । तस्य लिडाशिषी (३।४।११६) तपाईधातुकत्वाहिकरणाभावः । सुट् तिथोरिति (३।४।१०७) सुट् । वलि ( ६।१।६६ ) यलोपः । नियत इति । तुदादित्वाच्छः । रिङ् (७।४।२८) शयलि चिति रिङादेशः । अचि धात्विता दिने (६।४।७७) यङ् । मरिष्यतीति । ऋडनोः (७।२।७० स्य इतोट् । ६२। पूर्ववत् सनः। पूर्ववदिति । तेन तुल्य क्रिया चेहतिरिति (५।१।११५) वतिः । पूर्वशब्दः सम्बन्धिशब्दत्वादवधिमपिनते । स चावधिः श्रुतत्वात् सन्नेव विज्ञायत इत्याह सनः पूर्वी यो धातुरिति । यद्येवमधिभावोपगम एव सन्ग्रहणस्योपयुक्तत्वात् सन्नन्तादात्मनेपदं भवतीति । न तवैतलभ्यते । कुतस्तर्हि स्यात् । धातु- मात्रात् । नैतदस्ति । एवं ह्यात्मनेपदं परस्मैपदानुक्रमणमनर्थकं स्यात् । अथ प्रत्ययान्तात् स्यात् ? एवमपि मन्ग्रहणमनर्थकं स्यात् । पूर्ववत् प्रत्यया- दिति वाच्यं स्यात् । तस्मात् प्रत्यासन्नं सनं त्यत्वा न युक्तान्यस्याश्रुतस्य परिकल्प नेति मन्वन्तादेव भवतीति विज्ञायते। नेतादिना वतार्थमाचष्टे । तदेव निमित्तमिति। अनुदात्तत्त्वं ङित्त्वञ्च धात्वन्तरावस्थायामपि सन्नन्ताद वचनसामर्थ्यान् निमित्तम् भवति । आसिसिषत इति । इटि कृते ऽजादेईि- तीयस्येति (६।१।२) सिशब्दस्य हिर्वचनम् । निविविक्षत इति । विश प्रवेशने । पूर्ववत् कित्त्व षत्वकत्वानि । आचिकंमत इति । आचिकंमत इति । आत्मनेपदनिमित्तत्वात् नुक्रमोरना त्मनेपदनिमित्त ( ७.२।२६ ) इतीग न भवति । शिशत्सति । मुमूर्षतोति । अत्र सनो यः पूर्वी भाग स्तस्यात्मनेपदनिमित्तत्वमस्ति । शीयते मियत इत्यात्मनेपददर्शनात् । तत आत्मनेपदेन भवितव्यमिति कस्यचिद् भ्रान्तिः स्यादतस्तां निराकर्तुमाह इह न भवतीत्यादि। किं कारणमित्याह नहोत्यादि । किं तर्हि ? शिदाद्यपीतीति । शिच्छब्देनात्र शिद्भावित्वं शित्- सम्बन्धित्वञ्चोक्तम् । आदिशब्देन लुलिङोग्रहणम् । तञ्चेह नास्ती ति न ह्यत्र सनः पूर्वभागस्य शिद्भावित्वं शित्सम्बन्धित्व' वास्ति । शित्प्रताय- स्यास्मिन् विषये ऽतान्तासम्भवात्। नापि म्रियतेः परौ लुलिङौ स्तः ।

(११३)। २४१ तस्मात्रेह शदिम्रियत्योरात्मनेपदनिमित्तत्वमस्तोति न भवत्यात्मनेपदम् । इह तर्हि कस्मान्न भवति ? अनुचिकीर्षति । पराचिकीर्षतीति ? करोतेहि गन्धनादिष्वर्थेष्वात्मनेपदं विहितम् । अतस्त द्विवक्षायां अतस्त द्विवक्षायां सवन्तादपि तेन भवितव्यमिताह यस्य चेतवादि। गन्धनादिष्वर्थेषु पूर्वत्रासन्नन्तावस्थाया- मनुपराभ्यां का (१।३।७८) इतानन परस्मैपदविधानात् करोतेरात्मनेपदाभावः क्रियते। तस्मादाभ्यां समन्तादप्यात्मनेपदनिमिताभावान भवति । अथ जुगुप्सते मीमांसत इतात्र कथमात्मनेपदम् ? यावता पूर्ववत् सन इत्युच्यते । न च गुपादिषु सनः प्रागैवात्मनेपदं भवतीति । अत: पूर्ववदितातिदेशाभावान भवितवामात्मनेपदेनतात आह इहेत्यादि । जुगुप्सत इति गुप्तिकिदभ्यः सन्निति (३।११५) सन् । मीमांसत इति मानबधेत्यादिना (३।१।६) सन् । अभ्यासस्य सन्यत ( ७४।७८) इतीले दीर्घः । कथं पुनरिहानुदात्तडित (१।३।१२) आत्मनेपदम् ? यावता गुपादाववयये ऽनुदासत्त्वं लिङ्गं न जुगुप्सादी समुदाय इतात आह अवयवे कतमितादि यथा गो: कर्णादाववयवे क लि समुदायस्य विशेषकं भवति तथा गुपादाववयवे क्त मनुदात्त्तेत्वं समुदायस्य जुगुप्स इतावमादे विशेषकं भवति । यद्येवं गोपयति तेजर्यात सङ्गेतयतीतेव- मादावपि प्राप्नोति । सत्यम् । स्यादेतत् । अवयवे कृतं लिङ्गं तस्य समुदायस्य गोविशेषकं भवति यं समुदायं सोऽवयवो न व्यभिचरति । सबन्तं पुनर्न व्यभि- चरति । णिजन्तन्तु व्यभिचरतीत्यतोऽत्रात्मनेपदेन न भवितव्यम् । वार्तमेतत् । सनन्तमपि व्यभिचरतीति । विनापि तेन गोपयतीत्यादौ सम्भवात् । तम्मात् ममुदायं यं गुपादिर्न वाभिचरति तस्यासम्भवात् सर्वस्य गुपादाववयवे कृतमनु- दासत्त्वं लिङ्ग समुदायस्य विशेषकं भविष्यति । ततश्च गोपयतिप्रभृतिभ्यो- ऽप्यात्मनेपदं प्राप्नोतीत्येव । एवं तर्हि निगरगचलनार्थेभ्यश्चेत्यत्र (१।३।८७) चकारोऽनुक्त समुच्चयार्थः क्रियते । तेन गुपादिभ्यो ण्यन्तेभ्यः परमपदमात्मने- पदापवादो भविष्यति । । ६३। आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य । आम्प्रत्ययवदिति । तत्र तस्येवेति ( ५।१।११६ ) षडीसमर्थाद्दतिः । ३१ २४२ न्यासः कञोऽनुप्रयोगम्येति समानाधिकरणे षष्ठयो। ईक्षाञ्चक्र इत्यादि। ईक्ष दर्शने । ईह चेष्टायाम् । ऊह वितर्के। लिट् । इजादेरित्यादिनाम् (३।१।३६)। आम (२।४। १) इति लेलक् । प्रातिपदिकत्वात् सुप् प्राप्तः । सुः । स्वरादित्वा- दवायत्वम् । अवायत्वात् सुब्लुक् । कञ्चेत्यादिना (३।१।४० ) कजो लिट्परस्यानुप्रयोगः । अकत्चभिप्रायार्थोऽयमारम्भ इति ब्रुवता विध्यर्थमेतदि- स्युक्तं भवति । तत्रास्मिन् विध्यर्थे यो दोषस्तमुभावयितु माह यदीत्यादि। उदुब्जाञ्चकारेति । उब्ज आर्जवे। (३।४।८२) उत्पूर्वाल लिट् । पूर्ववदाम् । परस्मैपदानामित्यादिना (३।४।८२) तियो एल् । उदुम्भाञ्चकारति । उभ उन्म पूरणे। उभयमित्यादिना परिहारः । कथमिति ? एकेन प्रयत्नेनाशक्य- मतदुभयं कलुमित्यत आह पूर्ववदित्यादि। नैवात्रैको यत्नः । किन्तहिं ? हो। आम्प्रत्ययवदित्येको यत्नः । पूर्ववद्ग्रहणमनुवर्तमानं द्वितीयः । तत्र पूर्वेण यत्नेन विधिः क्रियते । इतरेण नियमः । यद्यनुप्रयोगस्य का आत्मनेपदं भवति पूर्ववदेव । नान्यथा । तेनोदुब्जाञ्चकारेत्येवमादौ न भवति । नाब्जा- दीनामात्मनेपदं सम्भवति परस्मैपदित्वात् । ईक्षामामेति । आम् । अस्तेरनु- प्रयोगः । ईक्षाम्बभूवेति । भवतेरः (७।४।७३) । कञ्चेत्यत्र (३।११४०) करोतरेव ग्रहण मित्यभिप्रायेणाह कथं पुनरित्यादि। कृजिति । प्रत्याहारग्रहणमि- त्यादि। तत्र प्रत्याहार स्तिभवत्योरपि सनिवेशः । अतस्तयोरप्यनुप्रयोगो भवतीति भावः । यद्येवं सम्पदोऽप्यनुप्रयोगः प्राप्नोति । तस्यापि तत्र सनिवेशोऽस्त्येव अभिविधी सम्पदा चेति ( ५१४।५७ ) वचनात्। सत्यपि सनिवेश नासौ प्रत्याहारग्रहणेन ग्राह्यत इत्यदोषः । यथा तस्याग्रहणं तथोत्तरत्र प्रस्तावान्तरे प्रतिपादयिष्यामः । अथाम्प्रत्ययवदिति किम् ? असति हि तस्मिननुप्रयोगमावस्यात्मनेपदं स्यात् । देवदत्तः करोतीति । अत्रापि पूर्ववदित्य नुवर्तते । तथापीह स्यात् । करोतीति । अाम्प्रत्ययवदित्युच्यमाने प्रत्यासत्ते राम एवानुप्रयोगस्येति गम्यते नानु- प्रयोगमात्रे। तेनातिप्रसङ्गो न भवति । ६४ । प्रोपाभरां युजेरयजपावेषु । युज समाधावित्यस्यानुदात्तत्त्वात् सिद्धमात्मनेपदमित्यत स्तस्ये ह ग्रहणम. ईहते।

( ११३)। २४३ यस्य स स्वराद्यन्तः । युक्तमित्यभिप्रायेणाह युजिर योग इति। प्रयुक्त इति। रुधादित्वाच् श्नम् । सोरल्लोप (६।४।१११) इत्यकारलोपः । चोःकुरिति ( ८।२।३० ) कुत्वं जकारस्य गकारः। खरि चेति (८।४।५५) चत्वं ककारः। नश्चेत्यादिना- ऽनुस्वारः ( ८।३।२४)। अनुस्वारस्य ययि परसवर्ण इति (८।४।५८ ) ङकारः। स्वराद्यन्तोपसृष्टादिति वक्तव्यमिति । खरोऽज् पादिरन्तो वा तदुपसृष्टात् तत्सम्बन्धाद युजेरात्मनेपदं भवती त्येतदर्थरूपं व्याख्येयमित्यर्थः । तत्रेदं व्याख्यानम् । इह सूत्रे प्रशब्दोऽजन्तो- पमर्गलक्षणार्थः । उपशब्दोऽजाद्युपलक्षणार्थः । तेन सर्वेणाजन्तेनाजादि- ना चोपसर्गेण च युक्ताद् युजेरात्मनेपदं भवतीति। खराद्यन्तोपसृष्टादिति किम् ? नियुनक्ति । समः क्षावः । अकर्मकादिति तत्रानुवर्तत इति । सकर्मकादपि क्षणुव आत्मनेपदमिष्थत इति मन्यत । अतएव मकर्मकस्योदाहरणमुपन्यस्तम् । संक्षणुते शस्त्रमिति । अदादित्वाच्छपो लुक् । मंदणुवात इति । अचि श्रुधात्वित्यादिनोव (६।४।७७) । संक्ष्णुवत इति । पूर्ववददादेशः । ६६। भुजोऽनवने । अवनप्रतिषेधेनेत्यादि । अवनं पालनम्। तत्प्रतिषेधेन रोधादिकस्य भुजेर्ग्रहणं विज्ञायते । न तौदादिकस्य भुज कौटिल्य इत्यस्य । यथैव हि सवत्सा धेनुरानीयतामित्युक्ते यस्या हि वत्मेन सह सम्बन्धः सम्भवति सैव गोधेनुरानीयते न महिष्यादिधेनु स्तथहाप्यवनप्रतिषेधेन यस्य भुजोऽनवने वृत्तिः सम्भवति स एव रौधादिकः प्रतीयते । तस्मात् तस्यैव ग्रहणं विज्ञायते । तेन निर्भुजति विभुजतीति तौदादिकस्यात्मनेपदं न भवति । ६७। गोरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने । आरोहन्ति हस्तिनं हस्तिपका इति । पणी कर्मप्रदर्शनार्थमेतदुक्तम् । इदं त्वत्रोदाहरणम्। आरोहयते हस्ती स्वयमेवेति । पारोहन्ति हस्तिनं हस्तिपका इत्यत्रापूर्वस्य तु रुह वीवजन्मनि प्रादुर्भाव इत्यस्य हे क्रिय २४४ न्यासः । स तत वाच्ये। न्यग्भवनं न्यग्भावनञ्च । तत्र न्यग्भवनस्य हस्ती कर्ता। न्यग- भावनस्य हस्तिपका इति। न्यग्भवन्तं हस्तिनं न्यग भावयन्तीत्यर्थ: । यदा तु सुशिक्षितत्वात् सुविधेयत्वाच्च न्यग्भावनक्रियायामत्यन्तमानुकूल्यं प्रतिपद्यते हस्ती स्वयमेव तदासी हस्ती हस्ति पकान् प्रति प्रयोजकत्वेन विवक्ष्यते। हस्तिपकास्तु प्रयोज्यत्वेन। हस्ती हस्ति पकान् प्रयुड्के मामा- रोहतेति ततश्च प्रयोज्यप्रयोजकभावे विवक्षिते हेतुमम्मिच । एवमुत्तरत्रापि कर्मणः कर्तृत्वस्य विवक्षितत्वात् प्रयोजकभावविवक्षायां पिज् विधेयः । स्तस्मिन्ब्रुत्पने यदा नि तस्वरूप वाच्चरितार्थत्वात् प्रयोज्या न विवक्ष्यन्ते तदा निवृत्तत्वात् प्रयोज्यप्रयोजकभावस्य न्य गभवनमात्रे रुहिर्वर्तते । अत्रेदमुदाहर- णमारोहयते हस्ती स्वयमेवेति । तथाहि यदेवाण्यन्ते कर्मासीत् स एव ण्यन्ते हस्ती कर्ता भवति। न च प्रयोज्यप्रयोजकभावे निहत्तेऽपि णिचो निति भवति । निवृत्तिकारणाभावात् यथैव हि देवदत्तस्य वापार निवृत्तेऽपि पचिः पाकान निवर्तते पच्चत ओदनः स्वयमेवेति तथेहापि निवृत्ते प्रयोज्यप्रयोजक- वापार णिचो निवृत्तिन भवतीति वेदितवाम् । सिञ्चन्तीत्यादि। अत्रापि सिच्यमानो हस्ती कर्म यदा सुशिक्षितत्वात् सुविधेयत्वाच्च सेचनक्रियां प्रति प्रकृष्टमानुकूल्यं भजते तदा तस्य प्रयोजकत्वे विवक्षिते हस्तिपकाना प्रयोज्यत्वे णिच् । तत्र कृते पूर्ववत् प्रयोज्येष्वविवक्षितेषु यदेवाण्यन्ते कर्म स एव ण्यन्ते कर्ता भवति । पश्यन्तीत्यादि । अत्रापि दृश्यमानस्य राज्ञः दर्शन- क्रियाया मतिशयेनानुकूल्यभावोपगमनात् प्रयोजकत्वे विवक्षिते भृत्यानाञ्च प्रयोज्यत्वे णिच् । तत्र विहिते पूर्ववत् प्रयोज्याविवक्षायां यदेव दृशेरण्यन्ते कर्म राजा स एव ण्यन्ते कर्ता । क्रियापि च सर्वेष्व तेषूदाहरणेषु यैवाण्यन्ताव- स्थायां सैव ण्यन्तेऽपि । सत्यपि च णिचि प्रयोज्यप्रयोजकभावस्य निवर्तितत्वात् क्रियान्तरस्य चानुत्पत्तेः । गणयतीत्यादि । गण संख्याने चुरादावदन्तः पठ्यते । ततो णिच् । अतो लोप (६।४।४८) इत्यकारलोपः। तस्य पूर्वविधी कर्तवा स्थानिवद्भावादत उपधाया (७।२।११६) इति वृद्धिर्न भवति । गणयति गोगणं गोपालकः। गणयति गण: स्वयमेवेति । अत्र स गण्यमानो यदा गणनं प्रत्यानुकूल्यं भजमान: प्रयोजकत्वेन विवक्ष्यते गोपालक स्तु ।

( ११३ ) २४५ ननु चाणावकर्मा- ? सत्यं । प्रयोज्यलेन तदा हेतुमणिच् । तस्मिन् कृते पूर्ववत् प्रयोज्याविवक्षायां यदेव कर्म स एव कर्ता भवति । तथाप्यणाविति वचनादात्मनेपदं न भवति । नहि गण: प्रागणी कर्मासीत् । किं तर्हि ण्यन्त एव । काच्चित्तवत् (१।३।८८) कर्तृकादित्यत्राणाविति किम् ? चेतयमानं प्रयोजयति चेतयत इति केचित् प्रत्युदाहरन्तीत्यु क्त्वा वृत्तिकारो वच्यति तदयुक्तम् । हेतुमम्मिची विधिः । प्रतिषेधोऽपि प्रत्यासत्त्या तस्यैव न्याय्य इति । तच्चेत् गणयति गोगणं गोपालको गणयति गोगणः स्वयमेवेत्येतदपि प्रत्यु दाहरणमयुक्तमेव स्यात् । नैतदस्ति । भेदस्याविवक्षितत्वात् । यदि हि भेदो विवक्ष्यते तदा हेतुममिचो विधिरिति प्रतिषेधोऽपि प्रत्यासत्ते स्तस्यैव स्यात् । नहि विप्रकृष्टस्य चुरादिणिचः। नचेह भेदो विवक्षितः । गणेरिति जातिनिर्देशात् । तस्माण णिज्मात्रादिधिः । अत: प्रतिषेधोऽपि णिज्मात्रस्यैव स्यादिति युक्तमितत् प्रत्युदाहरणम् । अणावकर्मकादित्यादी ( १३८८ ) सूत्रे ऽणाविति हेतुमिच एव ग्रहणम् । अतएव हेतुमम्मिच एव विधिरिति प्रत्यासत्तेस्तस्यैव प्रतिषेधो युक्तः । यथा तत्र हेतुममिचो ग्रहणं तथा तत्रैव प्रतिपादयिष्यामः । न चात्र तथाविधं किञ्चिनिबन्धनमस्ति यतो- णेरिति हेतुमम्मिच एव ग्रहण मवसीयते । चौरादिकानामप्यनित्यण्यन्तत्वात् । विभाषितणिचां च केषाञ्चिद् विद्यमानत्वात् । येषामण्यन्तानामेव यत् कर्म तेषामेव चुरादिणिजन्तानां तस्यैव कर्तृत्वसम्भवात् । तस्मादिह णेरिति णिज- मात्रस्य ग्रहणं सूत्रकारस्याभिमतमिति लक्ष्यते । अथ गणयति गोगण: स्वय- मवेत्यत्र कर्मवत् कम्मणा तुल्यक्रिय (३।११८७) इत्यतिदेशात् कस्मादात्मनेपदं न भवति ? कर्तृस्थभावकत्वात् । अत्र हि गणयतिरयं संख्यानिमित्ते परिच्छेदे ज्ञानविशेष वर्तते यस्य हि संख्यानमित्याख्या । स च ज्ञानविशेषः कर्तरि वर्तते । तत्र तस्य समवेतत्वात् । न कम्मणि । तस्मात् कर्तृस्थभावकत्वादिहात्मनेपदं न भवति । कर्मस्थक्रियानां कर्म स्थभावकानाञ्च कम्वद्भावातिदेशनात्मने- पदमिष्यते । नेतरेषाम् । लुनाति दात्रेणे त्यादि। दात्रस्य तीक्ष्णतया करण- स्यापि सतो विशिष्ट व्यापारभूतत्वालावकपुरुषान् प्रति प्रयोजकत्वविवक्षायां णिच् । गो चेद ग्रहण मित्यादि । इह गौ चेदिति न वक्तव्यम् । गोरणौ यत् २४६ न्यासः । नान्यथा। कर्म स कर्तेत्येतावत्युच्यमाने ऽणौ यत् कर्म तस्य सामाण णावेव कर्तृत्वं विज्ञायत इति किं णौ चेदित्यनेन ? तदैतमौ चेदग्रहणं क्रियमाणं समान- क्रियाथं विज्ञायते यदि यैव कर्मावस्थायां क्रिया सेव कर्त्तवस्थायां भवतीति एतदक्तं भवति । यस्यैव धात्वर्थस्य यत् कम्म नस्येव यदि तत् कर्तृत्वेन विवक्ष्यत एवमात्मनेपदं भवति नान्यति । तेनारोहन्ति हस्तिनं हस्ति पका: । आरोहयमाणो हस्ती भौतान् मेचयति मूत्रेणेत्यत्र सेचयते रात्मनेपदं न भवति । भिन्नत्वात् क्रियायाः तथाहि न्यग्भावनक्रियायां प्राग् घस्ती कर्मत्वेन विवक्षितः । मेचनक्रियायां तूत्तरकालं कर्तृत्वेन । यत्सग्रहणमन- न्यकर्मार्थमिति । इण्यन्ते यत् कर्म ण्यन्तेऽपि यदि तदेव कर्म कर्ता भवति न कर्मान्तरमेवमात्मनेपदं भवति ननु विप्रति- षिउमेतत् । एकस्यैवैकदा कर्मत्वं कर्तृत्वञ्च । नैतद विप्रतिषिद्धम् । एको हि वस्तुधर्म ऽपरश्च विवक्षाधर्म:। स्वातन्वाविवक्षायां कर्तृत्वस्य विवक्षाधर्मत्वात् । वस्तुधम्मत्वाच्चारुह्यमाणतया कर्मत्वम् । स्थलमारोहयति मनुष्यानिति । अत्र कर्मान्तरमयस्ति । मनुष्यानिति न केवलं हस्त्येवेति न भवत्यात्मन- पदम् । यद्येवं भौतान् मेचयति मूत्रेणेत्यत्र कर्मान्तरसद्भावादात्मनेपदं न भविष्यति । अस्ति यत्रापि कर्मान्तरम् । भौतानिति । अतो न वक्तव्य समानक्रियाथं गौ चेदित्येतत् । नैतदस्ति । नहि भौतानिति सेचयते: कर्म। किं तर्हि ? आरोहयतः। भीतानारोहयमाण: सन् मूत्रेणात्मानं मेचयतीत्यर्थ: । अयुक्तमेतत् । एवं ह्यारोहयमाण इत्यत्रात्मनेपदं शानञ् न स्यात् । कर्मान्तरसद्भावात् । नैवं तर्हि शानजेवात्र विहितः । किं तर्हि ? ताच्छील्यवयोवचनशक्तिषु (३।२।१२८) चानशप्रत्ययः । तत्र यदि समानक्रिया) णोचेदग्रहणं न क्रियेत तदा यदेवारोहयतेरण्यन्ते कर्म स एव हस्ती मेचयते- यन्ते कर्ता भवतीति तदेव कर्म स एव कर्मोति स्यादेवात्मनेपदम् । तस्माण णी चेद ग्रहणं समानक्रियाएं कर्त्तव्यम् । कति किमिति ? कर्त्तव्य वात्मने- पदमनेन विधीयते । भावकर्मणोस्तु भावकर्मणोरित्यनेनैव सिदत्वात् । तस्मात् सामर्थ्यलब्धः कर्तेत्यभिप्रायः। कर्तृग्रहणं यदेवाण्यन्ते कर्म तस्मिन्ने- व ण्यन्ते कर्तृत्वेन विवक्षिते सत्येवात्मनेपदं भवति नान्यथेत्येवमथं क्रियत (१३) २४७ एतच्च ? इति दर्शयितुमाह आरोहन्ति हस्तिनं हस्तिपकाः । तानारोहयति महामात्र इति अत्र यदेवाण्यन्त हस्ती कर्म न तदेव ण्यन्त कर्तुत्वेन विवक्षितम्। किं तर्हि महामात्रः। तेनात्मनेपदं न भवति । कर्तृग्रहणाल् लभ्यते । तस्यानन्यार्थत्वात् । ननु च यत्सग्रहणमनन्यकर्मार्थ- मित्युक्तम् । इहच कर्मान्तरं हस्तिपकाख्यमस्त्यतो यत्सग्रहणादेव न भवि- ष्यति तत् किमेतनिवृत्त्यर्थेन कर्तृग्रहणेन ? नैतदस्ति । एवं सति हि कर्तृ- ग्रहणे ऽणौ यत् कर्म णो चेत् म कर्ता तदेव कर्म कर्मा भवतीत्यस्यार्थस्य च प्रतिपादनाय क्रियमाणं यत्मग्रहणमर्थ वद् भवतीति । असति तु कर्तृग्रहो तन्न कर्तवामेव स्यादिति कुतः समानकर्मता प्रतीयते ? स्मरति वनगु- मस्येति । अणो कर्मप्रदर्शनार्थमेतत् । कर्मविषयेण शेषत्वेन विषयिणा विषयं दर्शयितुमुक्तम् । नन्वन न कर्मास्ति तस्य शेषत्वेन विवक्षितत्वात् । तथाहि शेष इत्यनुवर्तमाने ऽधीगर्थे त्यादिना (२।३।५२) कर्मणि शेषत्वेन विवक्षिते षष्ठीयं विहिता । तम्मादेवं दर्शयिता म्मरति वनगुल्ममिति । अथवा यद्यपि तच्छेष- त्वेन विवक्षितं तथापि स्मय॑माणत्वात् तस्य कर्मत्वं वस्तुतोऽस्त्येवेति । तीति । स्म आ याने । वन गुल्म स्य प्रयोजक व विवक्षिते गिच । घटादित्वान् मित्सं ना। मितां ह्रस्व ६।४।९२) इति ह्रस्व त्वम् । एनमिति । गतिबुद्धिप्रत्यव- सानार्थे त्यादिना (१।४।५२ कर्मसंज्ञायां सत्यां द्वितीया (२।४।३४) टौमखेने- त्येनादेश: । ननुच यत् सग्रहण मनन्य कर्मार्थमिह च कर्मान्तरमस्ति कोकिल: ततश्च कर्मान्तरसद्भावादात्मनेपदं न भविष्यतीति किमेतत्रिवृत्त्यर्थेनाध्यानग्रह- णेन ? नेतदस्ति । आध्यानमात्र विवक्षित्वेदं प्रत्युदाहरणमुपन्यस्त म् । एनमिति तु वचनं वनगुल्मः कर्ता न कोकिल इत्यर्थापदर्शनपर वेदितवाम् । अथवै- नमित्यनेन स एव वनगुल्मः परामृश्यते । यदेव कर्म म एव कर्तेत्यर्थस्य प्रदर्शनार्थमनमित्युक्तम् । एनं वनगुल्म वनगुल्मो स्मरयति । आत्मानमात्मना स्मरयतीत्यर्थः। णिच्युत्पन्ने कोकिलस्य प्रयोज्यस्य विवक्षितत्वान् निवृत्त प्रयो- ज्यप्रयोजकभावे स्मरयतेय॑न्तस्य प्रकृत एवार्थों भवति । ननुच स्मरणं चेतनावतां धर्मः। वनगुल्मश्चाचेतनः । तत् कथमसौ स्मरेत् ? नेतदस्ति । अचेतन- ष्वपि चेतनावद्धम्मोपचारो यथा नदीकूलं पिपतिषतीति। रुहिः कर्तुस्थानिय स्मरय- २४८ न्यासः । इति। तदर्थस्य न्यग्भावनात्मनो हस्तिपकेषु समवेतत्वात्। दृशिश्च कर्तृस्थ भावक इति । तदर्थस्य दर्शनस्य कर्तृषु भृत्येषु व्यवस्थितत्वात् । ६८। भौस्म्योर्हेतुभये। हेतुभय इति । हेतोभयं हेतुभयमिति । पञ्चमी भयेनेति (२।१।३७) समासः । भोतिर्भयं त्रास: । अनिष्टापाताशङ्का । ततश्चेद भयं भवति । यदि ततो हेतुसंज्ञकात् प्रयोजकाद् भयं भवधिवमात्मनेपदं भवति। नान्यथेति । यद्येवं स्मयत्यर्थो न विशेषितः स्यात् । यस्माद् भयं बिभेतेरेवार्थों न स्मयतेः । ततश्च रूपेण विस्माययतीत्येवमादावग्यात्मनेपदं स्यात् । मुण्डो विस्मापयत इत्यादौ न स्यादित्यत आह भयग्रहणमित्यादि। भयग्रहणं हि धात्वर्थीप- लक्षणार्थम् । धात्वर्थश्चेद प्रयोजकाद् भवतीतायमर्थी विवक्षितः । तेन विस्म- योऽपि यदि तत एव हेतो भवति । यद्येषोऽर्थी लभ्यत इति स्मयतार्थोऽपि विशषित एव । विस्मय आश्चर्यम् । मुण्ड इति मुण्डगुणोपेतत्वान् मुण्डः । भीषयते इति । अिभी भव। विभाषा लीयतरित्यतो (६।१.५१ ) विभाषाग्रहणानुवृत्ते विभेतहेतुभय (६।१।५६ ) इति पक्ष आत्त्वम् । भियो हेतुभये (७३।४०) षुगिति षुक् । विम्मापयत इति । स्मिञ् ईषद्धसने । नित्यं (६।११५७ ) स्मयतेरितमात्त्वम् । अतिंहीतादिना ( ७,३।३६ ) पुक् । कुञ्चिकयैनं भाययतीति करणादत्र भयम् । न हेतोः प्रयोजकात् । तेनात्मनेपदन्न भवति । षुगप्यत्र न भवति । स होकारान्तस्यैवेष्यते । भियो- हेतुभये (७३।४० ) पुगितात्र भीई इतीकारप्रश्लेषनिर्देशात् । रूपेण विस्माययतीति । अत्र करणादेव विस्मयः । न हेतोः । । ६६ । गृधिवञ्चयोः प्रलम्भने । ७०। लियः सम्माननशालौनीकरणयोश्च । विशेषाभावादिति । कथं पुनर्विशेषाभावः ? यावता निरनुबन्धकत्वं सानु- बन्धकत्वञ्चानयो विशेषोऽस्त्येव । ततश्च निरनुबन्धकग्रहणे न सानुबन्धकस्येत्य नया परिभाषया न लीडो ग्रहणन भवितवाम् । तदयुक्त मुक्त विशेषा- भावाद् हयोरपि ग्रहणमिति । नैष दोषः । उत्सृष्टानुबन्धको हि लीङ् । . (१३) २४८ ल्यन्तो भवति । उत्सृष्टे चानुबन्धे हयमेवाभेदकं भवति । अर्थ: शब्दान्सरत्वञ्च । तत्रार्थ स्तावदनयोरेक एव । शब्दान्तरत्वमपि नास्ति । शब्दान्तरत्वञ्च प्रातिभेदविकरणभेदाभ्यां भवति। नचानयोय॑न्तयोः प्रततिभेदः । नापि विकरणभेदोऽस्ति । शब्विकरण वात् । यदपि विभाषा लीयते (६।१।५१ ) रित्यात्त्वं तदप्युभयो भवति । तथाच वक्ष्यति किमिदं लोयते रिति ? लीनातिलोयत्योरागन्तुकेन यका निर्देश न्यग्भावनमिति । अभिभवनमित्यर्थः । जटाभिरिति । हेतौ टतोया । जटा हि पूजाधधि- गमहेतुभूताः। तथाहि यस्य जटाः सन्ति लोके महानयं तपस्वीत्युपजात- संप्रत्ययैः पूज्यते । इति । ७१। मिथ्योपपदात् कृञोऽभासे । मिथ्योपपदादिति । उपोचारितं पदमुपपदं मिथ्याशब्द उपपदं यस्य स तथोक्तः । पदं मिथ्या कारयत इति । अवात्मनेपदेनाभ्यासस्य द्योति- तत्वान्नित्यवीप्सयोरिति (८।१।४) दिवचनं न भवति । सापचारमिति सदोषम् । अनेन मिथ्याशब्दस्यार्थमाचष्ट । स्वरादिदुष्टमिति । पूर्वस्यैवार्थ व्यक्तीकरोति । आदिग देन रूपस्य परिग्रहः। असलदिति । शब्दार्थमुदाहरणेन दर्शयति । अभ्यास- ७२। खरितत्रितः कर्चभिप्राये क्रियाफले । कवभिप्राय इति। करिमभिप्रेतोति कम एयण (३।२।१ । यदि सामान्येन यत्र क्रियाफलं कारमभिप्रेति तत्रात्मनेपदं तदेहापि स्यात् पचन्ति पाचका यजन्ति याजका इति । तथाह्यत्र क्रियाफलं दक्षिणा याजकान् कर्तृनभिप्रेति। भृतिय पाचकानित्यत आह क्रियायाः फलमि- त्यादि। प्रधानभूतं यत् फलं क्रियाया स्तदिह ग्राह्यते । न च दक्षिणादिक क्रियाफल प्रधानभूतम् । ततो न भवत्यतिप्रसङ्गः । किं पुनम्तत्प्रधान- भूतमित्यत आह यदर्थमित्यादि । एतेन यदुद्दिश्यासी यागादिक्रियारभ्यते तत् प्रधानभूतमिति दर्शयति । तत् पुनः स्वर्गादि । नतु दक्षिणादि। तथाहि ३२ २५० न्यासः । खर्गाद्यथं यागादिक्रियारभ्यते । नतु दक्षिणाद्यर्थम् । यदर्थमिति । क्रिया- विशेषण मेतत् । यच्छ देन क्रियायाः प्रधानभूतं फल निर्दिश्यते । यदर्थः प्रयोजनं यस्य क्रियारम्भस्य तत् तयोक्तम् । कय पुनः सामान्योक्तो प्रधानस्य क्रियाफलस्य ग्रहणं शक्य ने विज्ञातुम् ? फल ग्रहणात् । यदीह फलमात्रस्य ग्रहणमभिप्रेतं स्यात् तदा फल ग्रहणमनर्थकं स्यात् । व्यवच्छेद्याभावात् । नास्त्येव हि स विषयो यत्र क्रियाफल कारं नाभिप्रेति । ततश्च कर्चभिप्राये क्रियाया इत्येवं ब्रूयात् । एवम युक्त षया क्रियायाः सम्बन्धिनि कर्चभि- प्राये प्रत्यायिने सामर्थात् फनमेव क्रियायाः कर्चभिप्रायं गम्यते। नहि फनादन्यत् क्रियासबन्धि कतारमभिप्रेति । तम्मात् फलग्रहणमामर्थ्यात् प्रधानं फल रह्यते । अथवा प्रधानत्वादेव प्रधानं फलं गृह्यते । तथाचोक्तं प्रधान कार्यसंप्रत्ययात् सिद्धमिति । अस्मिन् व्याख्याने फलग्रहणं स्पष्टार्थम् । कथा मनेपदविधानात् । प्रत्यासत्तेर्यस्त स्य वाच्यः कर्ता यदि तस्यैव तत् फलं भवतीति विज्ञायत इत्याह तच्चेत्यादि । गतार्थम् । स्वर्गादीति। आदिशब्देनौदनादिकमपि ग्राह्यते । तथापीत्यादिना दक्षिणादेः फलस्या- प्राधान्य दर्शयति। यदर्थ सा क्रियारभ्यते तत्प्रधानमिहोपात्त फलम् । स्वर्गाद्यर्थञ्च यागादिक्रियारभ्यते । न दक्षिणाद्यर्थम् । अतोऽप्रयोजकत्वात् तदप्रधानम् । तेन यद्यपि तत् कर्तारमभिप्रेति तथाप्यात्मनेपदं न भवति । अथाभिप्रग्रहणं किमर्थम् ? विपकष्टे ऽपि फले यथा स्यात् । विविधं हि क्रियाफलम् । आसनं विप्रकष्टञ्च । तत्रासनं यस्य व्यापारानन्तरमेव निष्पत्तिः । विप्रकष्टन्तूपरतेषु व्यापारेषु यनिमित्तान्तरमपेक्ष्य विप्रकर्षकृतं संस्कारपरिपाकाचिराद् भवति । तत्वाद्यमासत्रत्वाद् दृष्टत्वा- दुत्पत्तिं प्रत्यव्यभिचाराच्च प्रधानम् । इतरत् पुनर्विप्रकष्टत्वादनुमेयत्वात् सम्भवव्यभिचाराचाप्रधानम् । सम्भवति हि विप्रकष्टस्य कालान्तरसम्बन्धिनः फलस्य सहकारिवैकल्याद् विरुद्धप्रत्ययोपनिपाताचोत्पत्तिं प्रति व्यभिचारः । यद्यपि तदुद्दिश्य क्रियारम्भात् तदपि प्रधानं तथाप्यविप्रकष्टफलापक्षया तस्याप्राधान्यमस्त्येव । तत्र यद्यभिप्रग्रहणं न क्रियेत तदा लुनीत पुनीत इत्यादावेव स्याद् यताविप्रकष्टं क्रियाफलम् । यजत इत्यादौ तु न स्याद काल- ( ११३)। २५१ यत्र विप्रकृष्ट स्वर्गादिवं क्रियाफलम् । प्रधाने कार्यसंप्रत्ययात् । अभिप्र- ग्रहणे तु न दोषः । यस्मादभिराभिमुख्य वर्तते। प्रशब्दस्त्वारमे। तेन प्रारम्भमात्रस्याभिमुख्य फलनिष्पत्ती बुद्धावाश्रीयमाणायां सर्वत्र सिद्ध भवति । ननु चासत्यभिप्रग्रहण प्रकृतीनां यजिप्रभृतीनामनुबन्धविशेषा- सञ्जनादेव विप्रकष्टेऽपि फले भविष्यति । अन्यथा हि तस्य यथा स्यात् । न । अभिचारादौ यत्राविप्रकृष्ट फल दृष्टमस्ति तत्र तस्य मार्थक- त्वात् । तस्माद् विप्रकष्टेऽप्यप्रधान फले यथा स्यादित्येवमर्थमभिप्रग्रहणं कर्तव्यमेव । ७३ । अपाहदः । न्यायापवादेनेत्यादिना येनाभिप्रायेण धनकामो न्यायमपवदते तं दर्शयति । ७४ । णिचश्च । ७५। समुदाङभनी यमोऽग्रन्थ । उदयच्छतीति। चिकित्सां वैद्य इति । चिकित्साशास्त्रमधिगन्तुमुखमं करोतीत्यर्थः ७६ । अनुपसर्गाज जः। नास्योपसर्गाः सन्तीति बहुव्रीहिः। सकर्मकार्थञ्चेदम् । काञ्चेत्येवं ( ११३।४५) सिद्धत्वात् । अन्यत्वाकर्म- ७७। । विभाषोपपदेन प्रतीयमाने । तत्र स्वरितत्रित (१।३।७२) इत्यादीनि पञ्च सूत्राण्य नुवन्ति । कर्चभि- प्राये क्रियाफले द्योत्य इति । केन द्योत्य ? प्रकृतत्वादात्मनेपदेनेति विज्ञेयम् । तदुपपदेन द्योतित न प्राप्नोतीति । उक्तार्थानामप्रयोगात्। एतेनाप्राप्त- विभाषेयमिति दर्शयति । ननु च खं यज्ञ यजत इत्यत्र स्वशब्दस्योपपद- २५२ न्यासः । त्वद्रोपपद्यते ? यतस्तत्रोपपदं सप्तमीस्थमिति (३।११८२) द्वितीयधात्वधिकारी यत् सप्तमीनिर्दिष्ट' तदुपपदसंज्ञ' भवति । न च स्वशब्द एवंविध इत्याह समीपे श्रूयमाणमित्यादि। एतेनोपोच्चारितं पदमुपपदमित्यन्वर्थस्योपपदस्य ग्रहणं न पारिभाषिकस्येति दर्शयति । एतच पारिभाषिकस्यासम्भवाल्लभ्यते । खं यन्नमित्यादिना पञ्चसूत्रयां यदायं सूत्रं तत्रोदाहरति । खं पुत्रमित्यादिना यद् द्वितीयं तत्र । एवं पञ्चसूत्रधामुदाहार्यमिति । अन्यत्रापीति शेषः । पञ्च- सूत्रान्तर्गते सूत्रे यदुदाहृतं ततोऽन्यत्राप्यु दाहार्यमित्यर्थः । स्वं कटं कारयत कारयति वा। खं ब्रीहिं संयच्छते संयच्छति वा । स्खं भारमुद्यच्छत्यु- दयच्छते वा। स्वं वस्वमायच्छत आयच्छति वा। स्खं गां जानीते जानाति वेति । एतानि णिचश्चेत्यादिषु ( १ ३।७४ ) सूत्रेषु यथायोगमुदाहरणानि । ७८। शेषात् कर्तरि परस्मैपदम् । पूर्वेणेति । अनुदात्तडित ( १।३।१२) इत्यादिना सर्वत्र प्राप्नोतीति । अशेषेभ्योऽपि । तदर्थमिद मुच्यत इति । सर्वत्र परस्मैपदे प्रसक्त तनिवृत्त्यर्थम् । अर्थशब्दस्य निहत्तिवचनत्वात् । यथा मशकाएँ धूम इति। तदेतेनैतन् नियमार्थ मित्युक्तं भवति । येभ्यो धातुभ्य इत्यादिना शेषत्वं दर्शयति । येन विशेषणेनेति । अनुबन्धादिना । याति वातीत्यनुबन्धशेषस्योदाहरणम् । आविशति प्रविशतीत्युपसर्गशेषस्यार्थशेषस्यापि । एवं गन्धनादिभ्योऽन्यत्र करोतीत्येवमादिकमुदाहरणं वेदितव्यम् । ननु शेषादित्यनेन पञ्चम्य- न्तेन धातुसमानाधिकरणेन धातुरेव विशिष्यते। नार्थ: नार्थः। ततश्चाशेषेषु गन्धनादिष्वर्थेषु परस्मैपदं प्राप्नोति। नैतदस्ति । गन्धनादयो हि प्रकते- रेवार्थाः । तत्रासौ शेषग्रहणाविवर्तमानस्तानपि निवर्तयति । पञ्चत गम्यत इति । ननु च यद्यत्र परस्मैपदं स्यात् तदा भावकर्मणोरिति (१।३।१३) वचन मनर्थकं स्यात् । अनवकाश त्वात् । नैतदस्ति । अस्ति हि तस्यावकाशः । कः पुनरसो ? यो न शेषः । आस्यते शय्यते क्रियत इति । अनुदात्तत्व' डित्त्वञ्चाशेषः । शेषात् कर्तरीत्यत्र कर्तुग्रहणं सामान्यमुपात्तमिति यो देशयेत् तं प्रत्याह कर्मकर्तरोत्यादि । कर्तरि कर्मव्यतीहार ( १३।१४) ( ११३)। २५३ इत्यादिना परिहरति। कर्त्तव यः कर्णेति । शुद्धो यः कर्ता। कर्मवद्भाव- रहितो यः कर्तेत्यर्थः । ७६ । अनुपराभ्यां कृञः। ८०। अभिप्रत्यतिभाः क्षिपः । अभिक्षिपतीति । तुदादित्वाच्छः । प्रादहः। ८२। परम॑षः। परिमृष्यतीति। टिवादित्वाच्च्यन् । ८३। व्याङ्परिभत्री रमः । ८४ । उपाच्च । उपाच्चेति । चकारः पूर्वापेक्षया समुच्चयार्थः । उपरमति देवदत्तमिति । ननु चोपपूर्वी रमिरकर्मक एव भवति। तथा[पपूर्वस्यास्य विनाशोऽर्थी भवति यथोपरतानि धनानि । नष्टानीति गम्यते । निहप्तिर्वा भवति स्वाध्याया- दुपरमते । निवर्सत इति गम्यते । न चास्मिन्नर्थे वर्तमानस्य सकर्मकत्व- मुपपद्यते। तत् कथं सकर्मकस्योदाहरणं युज्यत इत्याह उपरमयतीति यावदिति । एतेन ख्यर्थवृत्तिता मुपरमते दर्शयन् सकर्मकतामुपपादयतीति । अकर्मको हि धातुयेथें वर्तमानः सकर्मको भवति । अथ पुनरण्यन्तस्य ण्यर्थवृत्तितोपपद्यते कथम् ? अत आह अन्तर्भावितण्यर्थों रमिरित्यादि । अन्तर्भावितो बुद्धद्यानुवेशितो ण्यर्थः प्रयोज्यप्रयोजकभावो यस्य स तथोक्तः । एवं विधस्य तस्य प्रयोज्येन कर्मणा सकर्मकत्व मुपपद्यत एव । पृथग् योगः क्रियते ? न व्यापर्युपभ्यो रम इत्येक एव योगः क्रियतामि- त्याह पृथग्योगकरण मित्यादि। गतार्थम् । अथ किमर्थ २५४ न्यासः। ८५। विभाषाऽकर्मकात् । यावमुक्तमिति । यावदवधारण ( २।१८ ) इत्यव्ययीभावः । भुक्तमिति नपुंसके भाव क्त इति (३।३।११४) क्तप्रत्ययः । यावन्ति भोजनानि तावद्भ्यो निवर्तत इत्यर्थः । अथवा यावहुक्तमिति यथार्थे वीप्साया मव्ययीभावः । भोजनाद् भोजनाद् निवर्तत इत्यर्थः । ८६। बुधयुधनशजनेङमुद्रुमुभत्रो यः। बुध अवगमने। युध संप्रहारे । णश अदर्शने। जनी प्रादुर्भावे । इङ् अध्ययने। च्युङ् छुङ् ज्युङ् भयुङ् प्रुङ्लुङ गती गतो। जनयतीति। जनीषित्यादिना गणसूत्र १८८ मित्संज्ञा । मितां (६।४।८२) हस्खत्वम् । अध्यापयतीति । क्रीजीनामा वित्या त्त्वम् (६ १।४८) । पूर्ववत् पुक् । एतदविषयाण्युदाहरणानीति । प्राप्तिविलयनस्यन्दनविषयाण्ये- तानि प्रावयतीत्याद्युदाहरणानि यथाक्रममित्यर्थः । स्यन्दनं चलनमिति लोके प्रसिद्धम् । ततोऽन्यत्र स्यन्दयतीति बोदव्यम् । प्रावयति प्रापयति । द्रावयति विलापयति । स्रावयति स्यन्दयतीत्यर्थः । गतो। सुनु । गृ तीति । ८७। निगरणचलनार्थभाश्च । निगारयतीति । निगरणे। पाशयतीति । अश भोजने। भोजय- भुज पालनाभ्यवहारयोः । चलतीति । चल कम्पने। घटादित्वा- मित्त्वम् । पूर्ववस्वः । चोपयतीति । चुप मन्दायां गतौ । कम्पयतीति। कपि चलने । अयमपि योगः सकर्मकार्थः । अचित्तवत्ककार्थश्चेति । तविपरीतेभ्योऽणावकर्मकाच्चित्तवत् ( १।३.८८ ) कर्तृकादित्यनेनैव सिद्धत्वात् । सत्र येषामुदाहरणान्युपन्यस्तानि तेषु चलिकम्पी अम्मको हौ । तयोरचित्त वत्कर्तृकार्थोऽयं योगः। शेषाणान्तु सकर्मकार्थः वक्तव्य इति व्याख्येय इत्यर्थः । तत्रेदं व्याख्यानम् । विभाषाऽकर्मकादित्यतो (१३।८५) विभाषा- ग्रहणं मण्डूकप्लुत्यानुवर्तते । सा च व्यवस्थितविभाषा विज्ञायते । तेनादरन्येभ्यो नित्यं परस्मैपदम्। अदेस्तु न भवत्येव । आदयते देवदत्तेनेति । अत्र (११३)। २५५ गतिबुद्दीत्यादिना ( १।४।५२ ) कर्मसंज्ञा न भवति। आदिखादिनीवहीनां प्रतिषेध ( १४१५२, वा ) इति वचनात् । ८८। अणावकर्मकाच्चित्तवत्कर्तृकात् । चेतयमानमिति। चिती संज्ञान । चौरादिकः । अयञ्चाकर्मकश्चित्त- वत्कर्तकश्च । हेतुमम्मिचो विधिरिति । बुधादेः ( १।३।८६ ) सूत्रादिह णिग्रहण मनुवर्तते । स च हेतुमगिजेव। बुधादिभ्योऽन्यस्य णिचो. ऽसम्भवात् । यतश्च हेतुममिचो विधिः प्रत्यासत्तेस्तस्यैव प्रतिषेधो युक्तः । यथाभूत एव विधिभाक् तथाभूतेनैव प्रतिषेधभाजा भवितव्यम् । प्रत्यासत्तेः । तथाहि ब्राह्मणाः प्रवेश्यन्तामन्यत्रानधीयानेभ्य इत्युक्ते यथाजातीयकानां प्रवेशो विहित स्तथाजातीयकानामेव प्रत्यासत्तेः पर्युदासो विज्ञायते । आरोहयमाण इति गोरणादिसूत्रे ( १९३१६७ ) गात्मनेपदम् । यद्यप्यत्र हस्तिपकान् प्रति हस्तिन: प्रयोजकत्वे विवक्षिते णिज् विहित स्तथापि ण्यन्तावस्थायां हस्तिपकाः प्रयोज्यत्वेन न विवक्ष्यन्ते । अन्यथा ह्यणी यत् कर्म तदेव गौ का न स्यात् । तत्र प्रयोज्यत्वाविवक्षायामारोहयमाण इत्यस्य स्वयमेवारोहयतीत्येषोऽर्थी भवति । तमारोहयमाणं यदान्यः प्रयुक्ते तदा द्वितीयो हेतुमच् ि। तदन्ताग्मिच ( १७.७४ ) श्वेत्यात्मनेपदं भवति । तेनारोहयत इति युक्तमेव प्रत्युदाहरणम् । ८६ । न पादम्याङ्यमाङ्यसपरिमुहरूचिऋतिवदवसः। पा इति। लुविकरणालगविकरणयोरलुविकरणस्यैव ग्रहणमित्यनेन पा पान इत्यस्यैव ग्रहणम् । न पा रक्षण इत्येतस्य । दमु उपशमे । यम उपरमे। यसु प्रयत्ने। आङ् पूर्वावती। मुह वैचित्ता। परिपूर्वः । रुच दीप्तौ। नृती गात्रविक्षेपे। वद व्यक्तायां वाचि। वस निवासे । आच्छादनार्थस्य वसेर्ग्रहणं पूर्वोक्तादेव हेतोर्न भवति । पूर्वण योगहयेनेति । अनन्तरेणेत्यर्थः । वृति चलनार्थीऽपीति । अपिशब्दाञ्चित्तवत्कर्तृकार्थश्च पाययत इति शाच्छमाह्वाव्यावपां ( १३।७) युक् । पातेस्त्वकर्मकत्व- न्यासः। २५६ विवक्षायां परस्मैपदं भवति । पालयतीति। पातेलुंग (७।३।३७, वा) वक्तव्यइत्युपसंख्यानानुगागमः । दमयत इति । पूर्ववन् मिता हवः । प्राया मयत इति । ननु चानापि मित्त्वे सति इखेन भवितव्यमित्यत आह यमोऽपरिवेषण इति। तत्र हि न कम्यमिचमामित्यतो (गणसूत्र १८१) नेत्यनुवर्तते। आङिति । डिविशिष्टस्याकारस्योपादानमुपसर्गप्रतिपत्त्यर्थम् । तेनोपसर्गप्रतिरूपको य आकार स्तस्य ग्रहणं न भवति। पादिषु धेट उपसंख्यानमिति। पादिष्विति विषयसप्तमी। उपसंख्यानशब्दस्य प्रतिपाद- धेट: पादिविषयस्य परस्मैपदप्रतिषेधस्य प्रतिपादनं कर्तव्यम् । योऽयं पादिविषयः परस्मैपदप्रतिषेधः स धेटोऽ पि भवतीत्यर्थः । तत्रेदं प्रतिपादनम् । नेति योगविभागः क्रियते । तेन धेटोऽपि प्रतिषेधो भविष्यति । यद्येवं नेत्यनेनैव सिद्धत्वात् पादीनां ग्रहणमनर्थकम् । नानर्थकम् । पूर्वयोगस्थासर्वविषयत्वज्ञापनार्थत्वात् । धापयेते इति। धेट पाने। आदेच (६।१ ४५ ) इत्यादिनात्त्वम् । पूर्ववत् पुक् । शिशुमिति । गतिबुद्धीत्यादिना ( १।४।५२ ) कर्मसंज्ञायां द्वितीया । नमर्थः । ) । वा क्यषः। लोहितायतीति। अलोहितो लोहितो भवतीत्यत्रार्थे लोहितादि डाभ्यः ( ३१.१३ ) क्वषिति क्यष्। अकृत्सार्वधातुकयोरिति ( ७।४.२५ ) दीर्घः । पटपटायतीति । पटच्छब्दस्य डाचि विषयभूते डाचि बहुलं हे (८।१।१२, वा) इत्युपसंख्यानाद्दिवचनम् । अव्यक्तानुकरणेत्यादिना (५।४।५७) डाच। नित्यमानेड़िते डाचीति (६।१।१०० ) पटच्छब्दस्य योऽन्य स्तकारो यश्च तस्माद परः पकार स्तयोः पूर्वपरयोः पररूपत्वमेकादेशः । कथमिति । न कथञ्चिदित्यर्थः । किं कारणं न लभ्यत इत्यत आह यावतेत्यादि । आत्मनेपदं धनुदात्तडित इत्यादि ( १।३।१२) नियतम् । अतो न शक्यते क्यषन्ताद् विज्ञातुमिति । एवं तीत्यादिना परिहरति । विकल्पित मिति । विभाषितं पाक्षिक मित्यर्थः । ननु चात्मनेपदं परस्मैपदेन व्यवच्छिवम् । अतोऽसविहितत्वाब शक्यते विज्ञातु मित्याह तच्चेत्यादि ।

(११३)। २५७ कभिप्राये क्रियाफले विवक्षित आत्मनेपदे प्राप्ते तदपवादोऽणावकर्मकादि- त्यादिना ( १।३।८८ ) योगहयेन परस्मैपद विहितम् । तस्यापवादस्यानन्तर- सूत्रेण यः प्रतिषेधो विहित स्तेनापवादेन परस्मैपद मपनयतात्मनेपदं सन्निधापितम् । अपवादे अपनीत नियोगत एवोत्मर्गेण भवितव्यम् । तदेवं प्रतिषेधेन सविधापित मिहात्मनेपदं सम्बध्यते । यदि तीनेन कर्तव्यात्मनेपदमेव विकल्पेन विधीयते पक्षे परस्मैपदं कथं लभ्यत इत्याह तेनेत्यादि। ६१। द्युभो लुङि। ननु च द्युरिकत्वाद् बहुवचननिर्देशो नोपपद्यत इत्याह तत्साहचर्यादि- त्यादि। यथैकन छत्रिणा साहवादन्येऽपि तत्सहचारिण छत्रिण इत्युच्यन्ते छत्रिणो गच्छन्तीति तथ हापि द्युतिना साहचर्याच खितादयोऽपि द्युत इति व्यपदिश्यन्ते । कथं पुनरकस्य व्य पर्देश सत्ययमभिप्रेतोऽर्थः सम्पद्यत इत्याह बहुवचन निर्देशादित्यादि। एवं हि विनाप्यादिशब्देन तदर्थी लभ्यत इत्येषोऽर्थः सम्पद्यत इति दर्शयति । कपूपर्यन्ता इति । अनन कप: परे ये पठ्यन्त ते द्युतादयो न भवन्तीत्या चष्टे । एतच्च तदनन्तरं वृत्करणाद् गणपरिसमाप्ते लिङ्गाद् विज्ञायो। व्यद्युतदिति । पुषादित्वादङ्। यद्येवं तत एवाविधानात् परस्मैपदं तेभ्यो भविष्यति । किमनेन योगेन ? नैतदस्ति । ज्ञापकाधि नित्यं लुङि परस्मैपदं विज्ञायते । किञ्च लुडोऽन्यत्रा- त्मनेपदं न भवतोति सम्भाव्येत । ननु चानुदात्तेत्करणसामर्थ्यादन्यत्र न भविष्यति । नैतत् । अनुदात्तेत्करणमनुदात्तेतश्च हलादेरिति (३।२।१४८) युजथं स्यात् । तस्मात् कर्त्तव्योऽयं योगः। अलुठत् । रुठ लुठ प्रतीघात । ६२। वृद्भाः स्यसनोः । स्यसनोरिति । सती सप्तमीयम् । वत्स्यतीत्यादौ सेऽमिचीत्यादेः (७।२।५७) सूत्रादसिचि स इत्यनुवर्तमाने गमेरिट परस्मैपदेवित्यतः (७।२।५८) परस्मैपदे च न भ्यश्चतुर्थ्य (१।२।५८) इतोट्प्रतिषेधः । आत्मनेपदेविड् भवत्येव । विकृतमतोति । हनन्ताच्चेति (१।२।१०) कित्त्वाद् गुणाभावः । ३३ २

२५८
न्यासः ।
६३ । लुटि च क्लपः।
चकारस्तहीत्यादि। स्यसनोईतादित्वादेव सिद्धे विकल्प इत्यभिप्रायः ।
एवं तहोत्यादिना विशेषविधान सामान्य विधानस्य बाधकं भवतीति विज्ञायते ।
ननु च यदीयं प्राप्तिः कृपः पूर्वी प्राप्तिं बाधते द्युतादिषु पाठस्य तस्यानर्थक्यं
प्रसज्येत । नेतदस्ति । अर्थत्वात् । ननु च स्यसनोरिति खरितत्वमिष्यते ।
तेन तस्य बाधा न भविष्यतीति । सत्यमेतत् ।
सूत्रकारस्तु चका
वैचित्राथं चकार । न स्वरितत्वार्थम् । कल्लेति । पूर्ववदधिकार-
इयानुहत्तो सत्यां तासि च कृप इतीप्रतिषेधः (७।२।८०)। लुटः प्रथमस्य
डारौरस (२।४।८५) इति डादेशः । कपो रो ल (८।२।१८) इति लत्वम् ।
चिक्लप्सतीति । पूर्ववत् कित्वाद् गुणाभावः ।
इति श्रीबोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां प्रथमस्याध्यायस्य
तृतीयः पादः समाप्तः ॥ १ ॥ ३ ॥

अथ न्यासापरनाम्नी काशिकाविवरणपञ्जिका। प्रथमाध्यायस्य। चतुर्थः पादः । -८०८०n- - १। आ कड़ागदेका संज्ञा। या परीति। यत्र विप्रतिषेधस्तत्र विप्रतिषेधे परमिति (१।४।२) वचनात् परा भवति। अनवकाशा च येति । यस्या: संज्ञायाः क्वचिदवकाशो नास्ति माप्यपवादभूतत्वात् मंज्ञान्तरं बाधित्वा प्रवर्तते यद्येव मत एव संज्ञा समावेशो न भविष्यति । तत् किमेकसंज्ञाधिकारण ? नेतदस्ति । विरोधे हि सत्यपवादभूतत्व भवति । विप्रतिषेधस्तु विरोध एव । म च विरोध एकसंज्ञाधिकार सति भवति । नामति । तथाहि यकसंज्ञाधिकारो नास्ति तत्र विप्रतिषेधो नास्त्येव । यथा प्रत्ययादीनां संज्ञानाम् । तस्मादस्मिन- धिकार सति विरोधो भवति । तस्मिंश्च सति विरोधे परमिति वचनात् परा भवति । अपवादभूतत्वादनवकाशा च । तस्मात् कर्तव्योऽयमधिकारः । यद्येव मङ्गसंज्ञायां भपदसंजयो: समावेशो वक्तवाः । बाभ्रव्यो धानुष्क इति । बभुशब्दान्मधुबभ्रो मणकोशिकयोरिति (४।१।१६०) यञ् । तत्र भत्वादोर्गुण: (६।४।१४६)। अङ्गत्वादादिवधिः । तत्र वाम्तो यि (६।१।७८) प्रत्यय इत्यवादेशः। धनुःशब्दाच धनुः प्रहरणमस्य सदस्य प्रहरणमिति न्यासः । (४।४।५७, ठक् । इसुसुक्तान्तात्क (७।३।५१) इति कादेशः । पदत्वादिणः ष इति (८१३१३८) षत्वम् । अङ्गत्वादादिशदिन वक्तव्यः । वा क्यष इत्यतो (१।३८०) वाग्रहणमनुवर्तते । सा च वावस्थित विभाषा। तेन कचित् संज्ञासमावेशो भविष्यतीति । अन्यत्वेति । लोके च शास्त्र च । लोके ताव दिन्द्रः शक्रः पुरन्दर इति मंज्ञायाः समावेशी दृष्टः । शास्त्रेऽपि प्रत्ययः लत् कृत्यप्रत्ययः । एव मन्यत्र संज्ञासमावेशादिहापि स्यात् । अतएवैका संज्ञा यथा स्यादिति नियमार्थमेतत् । भिदिश्चिदिरिति । लघुसंज्ञाया अवकाशः । प्रयोजनन्तु भेत्ता छत्तेति । पुगन्तलघूपधस्येति (७।३ ८६) गुणः । शिक्षि- भिक्षिरिति गुरुसंज्ञाया अवकाशः । प्रयोजनन्तु शिक्षा भिक्षेति गुरोश्च हल (३।३।१०३) इत्यकारप्रत्ययः । लघुसंज्ञा त्वत्र प्रयोजनाभावान भवति । इहोभयं प्राप्नोति । अततनत् । अररक्षदिति । परत्वादु गुरुसंज्ञेव भवति । तत् त्वत तनूकरणे । रक्ष पालने । हेतुमम्मि च । लुङ् । चुश्च । णिलोपः । चडीति (६।१।११) द्विवचनम् । यद्यत्र लघुसंज्ञा स्यात् सन्वलघुनीत्यादिना (७।४।८३) सन्वभावादित्वं स्यात् । तदभावान्न भवतीत्याह सन्वल्लघुनीत्यादि । विधिरिति रिति : सन्वद्भावविधिः । परस्या इदमुदाहरणमुक्तम् । अनवकाशाया- स्तूच्यते । अयन्ते योनि त्विय इतिऋतुः प्राप्तोऽस्येति ऋतोरण (५।१।१०५)। छन्दसि घसिति (५।१।१०६) घम् । तस्येयादेशे कृते सिति चेति (१।४।१६) पदसंज्ञा प्राप्नोति । यचि भमिति (१।४।१८) भसंज्ञा च । अनवकाशत्वात् पदसंज्ञेव भवति । यदि भसंज्ञा स्यात् तदौर्गुण (६।४।१४६) इति गुण: स्यात् । भसंज्ञायास्त्वौपगवादिष्ववकाशः । आ कड़ारादितोयतोऽवधेग्रहणं वैचित्रधार्थम् । अन्यथा ह्या इन्दादित्येवं ब्रूयात् । नहि बन्दसंशब्दनात् परेणा कड़ारादेकसंज्ञाविधानस्य प्रयोजनमस्ति यत एतावतोऽवधेर्ग्रहणमर्थवद् एष भवति । - विप्रतिषेधे परं कार्य्यम् । विरोधो विप्रतिषेध इति। विप्रतिषेधशब्दस्य लोके विरोधवाचित्वेन प्रसिद्ध त्वात् । तथाहि विरुडेऽभिहिते वतारो वदन्ति विप्रतिषिद्धमिदमुच्यत इति । विरुधमिति गम्यते । तस्य विप्रतिषेधस्य विषयं दर्शयितु माह यवेत्यादि ।

(१।४)। २६१ वकाशः । प्रसज्येते विधीयते इति प्रसङ्गो विधो। अन्यार्थाविति । अन्यत्र विषयेऽर्थ : प्रयोजनं ययो स्तौ तथोक्तौ। अन्यत्र विषयान्तरे कतार्थावित्यर्थः। एकस्मि. विति । अभिन्ने | युगपदेककालम् । स इत्यस्य विप्रतिषेध इत्यनेन सम्बन्धः । स विप्रतिषेधो विप्रतिषिहो विप्रतिषेधस्य विषय इतार्थः। विप्रतिषेध- विषयत्वादिप्रतिषेधविषयो ह्यत्र विप्रतिषेधशब्देनोक्तः । विषयिणा विषयं दर्शयितुम् । यस्मात्र प्रसङ्गो विप्रतिषेध उपपद्यते नापि तदाधारः । तुल्य- बलविरोध इति। तुल्यबलयोर्विरोधोऽस्मि निति बहुव्रीहिः । इदं जातिपक्ष- माश्रिता विवरणं कृतम् । द्रव्यपदार्थपने त्वयं विशेषः । अन्यो भित्रोऽर्थः प्रयोजनं ययोस्तावन्यार्थाविति । शेषं समानम् । विप्रतिषेध इति च सती सप्तमीयम् । उत्सर्गापवाद इत्यादि । विप्रतिषेधो यत्रास्ति सोऽस्य योगस्या- विप्रतिषेधश्च तुल्यबलयोरव भवतीति नातुल्यबलयोः । एतत् तु यत्र हो प्रसङ्गावन्यार्थावित्यादिग्रन्थ न तस्य विषयं दर्शयता व्याख्यातम् । नचोत्सर्गापवादादिषु तुल्यबलतास्तीति । ततो नासावुत्सर्गापवादादिरस्य योगस्य विषयः । तेन बलवानव तत्र भवति । तत्र सामान्येनोत्सर्ग: प्रवर्तते । यथाऽधातुक स्येड वलादेरिति (७२ ३५) वलादिसामान्यस्येड् विधानात् । विशेषोऽपवादः । यथा नेड् वशि कती (७।२।८) तीट्प्रतिषेधस्य वलादिविशेषे वशादी कृति विधानात् । यस्य च विशेष विधिः स बलवान् भवति । तथाहि ब्राह्मणेभ्यो दधि दीयतां तकं कौण्डिन्यायेति विशेष- विहितं तक्रदानं सामान्यविहितस्य दधिदानस्यैव बाधकं भविथति । तस्माद वशादी कति परऽपीड़ागमो न भवति । प्रतिषेध एव भवति । स्थेशभास- पिसकसो वरच् (३।२।१७५ । ईश्वर इति । नित्यानित्ययो नित्यं बलवत् । यथा भिस (७।१12) ऐसित्यैस्त्वम् । तद्धि बहुवचने झल्येदित्येत्त्वे (७।३।१) कते प्राप्नोति। अततेऽपि । भूतपूर्वगत्याश्रयणादकारान्तादङ्गाद्भिस ऐस विहित इति कृत्वा । यश्च कृतारुतप्रसङ्गी विधिः स नित्य इति। तथाच तत्र (७।१।८) वच्यति एत्त्वं भिसि परत्वाच्चेदत ऐस् क भविष्यति । कृतेऽप्येत्त्वे भौतपूर्व्यादेख नित्यस्तथा मति ॥१॥ इति ।

२६२ न्यामः । । स नित्यः । ऐस्त्वे कृत एत्वं न प्राप्नोति । निमित्तस्य झलादेविहतत्वात् । वृक्षेष्वित्यादावेत्त्वस्यावकाश: । अस्मिंश्च सति भूतपूर्वगत्याश्रयणस्यायुक्ती- त्वात् तस्मात् तदनित्यम् । यच्चानित्यं तत् परस्य भावाभावमपेक्षत इति दुर्बलम् । विपर्ययात् तु नित्यं बलवत् । तेन वृक्षैरिति परमप्येत्त्वं न भवति । एमभाव एव तु भवति । अन्तरङ्गवहिरङ्गयोरन्तरङ्ग बलवदिति । लोकत एव दृष्टत्वात् । लोको हि प्रातरुत्थायान्तरङ्गाणि मुखप्रक्षालनादीमि कार्याणि करोति । पश्चाबहिरङ्गाणि गजग्राहगमनादीनि कार्याणि कर्तुमार- भते। शास्त्रेऽप्येवं वेदितव्यम् । दिवि कामोऽस्य द्युकामः । तस्यापत्यमतइञ् (४।१।८५) द्यौकामिः । यद्यपि युकामशब्दादि विहित स्तथाप्यक्तव्यूहाः पाणिनीयाः कृतमपि शास्त्र निवर्तयन्तीति प्रविभज्यान्वाख्याने दिव् काम इजिति स्थिते दिव उदि (६।१।१३१) त्युत्त्वे कृते यणादेशः प्राप्नोति। तद्धिते- वचामादेरिति (७।२।११७) परत्वादृद्धिः प्राप्नोतु । अन्तरङ्गत्वाद यणादेश: पूर्वी विधिः क्रियते । पश्चादृद्विरुकारस्य । अन्तरङ्गत्वन्तु यणादेशस्य वर्णाश्रय- त्वात् । डेम्तु वाह्यतहिताश्रयाद् वहिरङ्गत्वम्। वार्णादाङ्गं बलीय इत्येतदिह न प्रवर्तते । व्याश्रयत्वात् । अप्रवृत्तावित्यादि। यदाकृति: पदार्थ इत्येष पक्ष स्तदान्यत्र कृतार्थत्वाच्छास्त्रयोर्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरव प्राप्नोति। यथा यदिह इयोस्तुल्यबलयोरेकः प्रेष्यो भवति तौ च युगपत् प्रेषयतः । नानादितु च तयोः कार्ये भवत: । ततो यद्यसावविरोधार्थी भवति तदोभयोरपि कायॆ न प्रवर्तते । द्रव्ये पदार्थे तु प्रतिव्यक्ति लक्षगां प्रवर्तत इत्यकृतार्थत्वाल् लक्षणयोः पर्यायेण प्रकृत्तिः प्राप्नोति । ब्राह्मणक्षत्रियादीनामसहभुजामकस्मिन् भाजने भुजिक्रियायां पर्यायः स्यात् । तत्र जाती पदार्थ कृतार्थत्वाद् वृत्ती प्राप्तायां विध्यर्थ मिदमारभ्यते विप्रतिषेधे सति परं कायं भवतीति । तत्र कृते यदि पूर्वमपि प्राप्नोति तदपि भवत्येव । तत्रेद मुच्यते पुनः प्रसङ्गविज्ञानात् सिमिति । व्यक्ती तु पदार्थे ऽकृतार्थत्वाच् शास्त्रयोः पर्यायेण प्रवृत्ती प्राप्तायां नियमार्थमिदम् । विप्रतिषेधे परमेव भवति न पूर्वमिति । तत्रेदमुच्यते। सक्तद्गती विप्रतिषेधे यद बाधितं तद् बाधितमेवेति । यथा (१।४)। २६३ ३। यू स्वाख्यौ नदी। तंथाच ई च ऊ च यू इति । ननु च दीर्धाज्जसि (६।१।१०५) चेति प्रथमयोः पूर्वसवण दीर्घत्वप्रतिषिद्धे यणादेशे सति याविति भवितव्यम् । तत् कथं यू इति निर्देश इत्यत आह प्रावभक्तिकोऽयं निर्देश इति । सुपां सुलुगिति ( ७।१।३८) विभक्ते लुप्तत्वात् । नास्मादिभक्तिर्विद्यत इत्यविभक्तिकः । स्त्रियमाचक्षात स्त्रयाख्याविति । ननु च कर्मण्यमित्य णि (३।२।१) कत आतो युक् चिण ७।३।३३) कृतोरिति युकि च स्वयाख्यायाविति भवित- व्यम् । तत् कथं स्वयाख्याविति । आतोऽनुपसर्गे क इति (३।२।३) कप्रत्यये कत एतद्रूपमिति चेत् ? न। चक्षिडोऽत्र सोपसर्गवादित्यत आह । मूलविभुजादिदर्शनादिति । मूल विभुजादिष्वपि कप्रत्यय इष्यते । वक्ष्यति तृतीयेऽध्याये कप्रकरण मूलविभुजादिभ्य (३।२।५, वा उपसंख्यान. मिति । तेन स्त्रयाख्याविति शब्दस्य मूलविभुजादिषु दर्शनात् कप्रत्ययः । इहेदूतोरवेयं संज्ञा विधीयते तदन्तयोर्वा ? तत्र यद्याद्यः पक्ष आश्रोयेत कृत्स्त्रियां न स्यात् । है लक्ष्मि है यवाग्विति । समुदायाँ ह्यत्र स्त्राख्यो। न त्वीदूताविति । इममाद्ये पचे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह । ईकारान्त- मूकारान्तमित्यादि। ननु च सुपतिङन्तं (१।४।१४) पदमित्यत्रान्तग्रहणा- दन्यत्र संज्ञाविधी प्रत्ययग्रहणे तदन्तविधिन लभ्यते । नैष दोषः । यदयं नेयङवस्थानाविति (१ ४।४) प्रतिषेधं शास्ति तज्ञापति भवतीह प्रकरणे तदन्तविधिरिति । अन्यथा प्रतिषेधोऽनर्थकः स्यात् । नहीकारोकारमात्र स्वयाख्यमियवस्था नमस्ति । किं तर्हि ? तदन्तम् । कुमारीति। वयमि प्रथम (४।१।२०) इति डोष। गोरीति । षिद्गौरादिभ्यश्चेति (४।१।४१) डोष् । शाङ्गरवीति । शाहरवाद यत्रो (४१, ७३) डीन् । लक्ष्मीरिति । लक्ष दर्शनालयोः । अवितृस्तृतन्विभ्य (उप ४३८) ईरित्यनुवर्तमाने लक्षेमुट (उण, 8४०' च। चकारादीकारश्च । ब्रह्मबन्धूरिति । अकुत (४।१।६६) इत्यूप्रत्ययः । डकारो नोधात्वोरिति (६।१।१७५ ) विशेषणार्थ: । यवागुरिति । यु मिश्रो । मृयुवचिभ्योऽन्युजागूजनुजि । उण, ३३१) त्यागूच् ।

न्यासः । प्रत्ययः । रूपोदाहरणान्येतानि । कार्यन्खम्बार्थनद्योईव (७३।१०७) इत्येवमादिः। मात्र दुहित्र इत्यत्र नदीसंज्ञाया अभावादाण नद्या (७.३।११२) इत्याण न भवति । ग्रामणोः । खलपूरिति । पुंस्येतो वर्तते । तेन नदोमंज्ञाया अभावादम्बार्थनद्योहख ७:३।१०७) इति इखो न भवति । ग्रामं नयतीति सत्सूद्विषेत्यादिना (३।२।६१) विप् । अग्रग्रामाभ्याञ्चेति णत्वम् । खलं पुनातीत्यन्येभ्योऽपि दृश्यत इति (३।२।१७८) किप् । ग्रामण्ये स्त्रिया इति । एरनकाचोऽसंयोगपूर्वस्येति (६।४.८२) यणादेशः। खलप स्त्रियै । अवाप्योः (६।४,८३) सुपीति। अत्र स्त्रीशब्देन पदान्तरेण स्त्रीत्वं द्योत्यत इति नदीमंज्ञा न भवति । तेनाण न भवति । इष्वशनिप्रभृती- नासूभयलिङ्गानां शब्दार्थ एव स्त्रीत्व मिति भवत्येव नदीमंज्ञा। इष्वै । अशन्या इति । यदि पदान्तरद्योत्ये स्त्रीत्वे नदीमंज्ञा न भवतीह पटै स्त्रिया इति पटुशब्दस्य पुरुषऽपि दृष्टत्वात् पदान्तरद्योत्यमत्र स्त्रीत्वमिति नदीसंज्ञा न स्यात् । नैतदम्ति । पदान्तरं हि विविधम् । कचित् सामान्येन प्रवृत्ति- माशङ्गमानस्य शब्दस्य सामान्यस्याभिधेयान्तरं व्यवच्छिनत्ति । यथा गोशब्दस्य गवादिषु गौर्वागिति। कचित् प्रवृत्तिमव करोति । यथा वाहीकादी गौर्वाहीक इति । अत्र यत् सामान्यस्य शब्दस्य पदादेः पदान्तरसम्बन्धेन विशेषेऽवस्थानं तत् पदेऽन्तर्भूतमेवेल्याख्याग्रहणेन नापनीयते । ग्रामणीशब्दस्य तु स्त्रीत्वप्रवृत्तिः पदान्तरेण क्रियते । नतु व्यवच्छिद्यते । तेनासावाख्या- ग्रहणेनापसायंते । एतयोस्तु क्रियाशब्दत्वेन रूट: पुंसि मुख्या वृत्तिः । पटुशब्दस्य पाटवोपादायिनः परत्र मुख्येऽपीत्यस्ति भेदः । ४। नेयडुषस्थानावस्त्रो। इयडुवस्थानौ यो यू तौ नदीसंज्ञको न भवत इति । यूद्वारेण युन्तस्यायं प्रतिषेधो विज्ञायते । न केवलयोः । प्राप्ताभावात् । नहि यू केवलावियङ्वस्थानी स्वयाख्यो विद्यते । हे श्रीः । हे भूरिति । अत्र नदीसं- ज्ञाया प्रभावात् तनिबन्धनोऽम्बार्थनद्योfख (७.३।१०७) इति इस्खो न भवति। श्रि सेवायाम्। किन्वचिपच्छिविद्रुपुज्वां दीर्घाऽसंप्रसारणञ्जेति ( १/४ ) (३।२।१७८) विपि दीर्घत्वे कृते श्रीरिति भवति । भ्रम अनवस्थान इत्यस्माद भ्रमेडू रिति ( उण, २२६ । डूप्रत्यये टिलोपे भूरिति भवति। उभयोर- चिश्रुधात्वित्यादिने (६।४।७७) गडवडोर्विधानादियडुवङ स्थानौ यू भवतः । हे स्त्रि इति । टै स्ता शब्दसंघातयोः । प्रादेच उपदेशेऽशितीत्यानम् (६।१।४५) । स्त्यायते ट्। टेरिति (६।४।१५५, टिभागलोपः । लोपो व्योलोति (६।१।६६) यकारस्य लोपः । टिड्ढादिना (४।१ १५) डीप् । अत्र नदीसंज्ञायाः प्रतिषेधाभावाद् इस्वत्वं भवत्येव । स्त्रीशब्दस्य स्त्रिया इतीय (६।४।७८) विधानादियस्थान ईकारः । अथ स्थानग्रहणं किमर्थम् ? इयडुवङ स्थानयोः प्रतिषेधो यथा स्यादिति चेत् ? न। यद्येतत् प्रयोजन मभिमतं स्यादियङवडोरित्येवं वाच्यम् । एवमप्ययमेवार्थ इयवङो: सम्बन्धिनी यौ यू तयोर्नदीसंज्ञा न भवतीति । कौ च तयोः सम्बन्धिनौ यू ? यो तयोः प्रकृतिभूतावियङ्वस्थानावित्यन्तरेणापि स्थानग्रहण मियङ- वङ स्थानयोः प्रतिषेधो विज्ञास्यते । इदं तहि स्थानग्रहणस्य प्रयोजनम् । यत्रेयङवङोः स्थिति रभिनिर्वृत्ति स्तत्र प्रतिषेधो यथा स्यात् । त्वपवादेन तयोर्बाधा तत्र मा भूदिति । आध्ये वर्षावा इति । ध्ये चिन्तायाम् । अन्येभ्योऽपि दृश्यत (३।२।१७८) इति विप । सम्प्रसारणञ्च । सम्प्रसारणन्तु दृशिग्रहणालभ्यते । तथाहि तवैव (१२।१७८) दृशिग्रहां विध्यन्तरोपसंग्रहार्थम् । क्वचिद्दीर्घः क्वचिट्विवचनमित्युक्त्वा ध्यायतेः संप्रसारण- चेति वक्ष्यति। कृतसम्प्रसारणस्यैव चतुर्थंकवचन एरने काच (६।४।८२) इत्यादिना यणादेशः । वर्षाभूशब्दस्यापि वर्षाभ्वश्चेति (६।४।८४) । ५ । वामि। संहितासाम्येऽपि षष्ठोबहुवचनस्यामो ग्रहणम् । न तु द्वितीयैकवचनस्य । तत्र नदीसंज्ञाका-भावात् : नापि सप्तम्यादेशस्यामो ग्रहणम् । नदीसंज्ञोत्तरकालं डेरामन द्याम्नीभ्य (७।३।११६ ) इत्याविधानात् । श्रीणामिति नदीसंज्ञापने इवनद्यापो नुडिति (७।११५४) नुट् । स्त्रमाख्याविति वर्तते। विभक्तिसम्बन्धेन चेयं नदीसंज्ञा विधीयत इति । विभक्तिसम्बन्धिन एव शब्दरूपस्य स्वयाख्यस्य नदीसंज्ञा युक्ता। तेन यत्रावयव- यत्र तस्य ।

न्यासः । स्वाख्यस्तत्र नदीसंज्ञा न भवति। अतिथियां ब्राह्मणानाम् । अतिभ्र वां ब्राह्मणानामिति । ङिति इस्वश्च । यद्यत्र हुस्खविशेषणा) यू इति नानुवर्तते तदेहापि स्यान् मात्रे दुहित्र इति । तस्मात् तदिहानुवर्तते । अनुवर्तमानमपि यदि प्रथमान्तमनुवर्तते तदा प्रथमान्तयोई स्वत्व प्रति विशेषण विशेष्यभावो नोपपद्यते । तस्मात् तदिहार्थात् षष्ठयन्तमुपजायत इत्यत आह इस्खश्च वोः सम्बन्धीति । कः पुनस्तयोः सम्बन्धी हवः ? य स्तयोई खः सवर्गाः। तेन सामादिकारो- कारयोर्ग्रहणम् । नहि ताभ्यामन्यो इस ईदूतो: सवर्णः सम्भवति। कत्ये यदा नदीसंज्ञा तदा पूर्ववदाट । अन्यदा तु शेषो ध्यसखि- रिति (१।४।७) घिसंज्ञकत्वाद् घेर्डिति गुण: (७।३।१११)। अत्रापि यत्र विभक्तिसम्बन्धिन: शब्दरूपस्यावयवः स्त्याख्यस्तत्र पूर्वोक्तया रीत्या नदीसंज्ञा न प्राप्नोति। अतिक्कतये ब्राह्मणाय। अतिथिये ब्राह्मणायेति । कृतय इति । शेषो घ्यसखि । सख्येति। घिसंज्ञाया अभावादाङो नास्त्रियामिति (७।३।१२० ) नाभावो न भवति । सख्ये सख्युरित्यत्रापि घेर्डिति (७।३।१११) म गुणः । सख्या वित्यत्राच्च (७।३।११८) घेरित्यत्वन्न भवति । इदुभ्यामौदित्यौत्त्व (७१३ ११८) भवति। मख्युरित्यत्रापि ख्यत्यात् परस्येत्युत्त्वम् (६।१।११२) । इह शोभन: सखा ऽस्येति सुसखिरिति । सुसखेरागच्छतीत्यत्र तदन्तविधिना प्रतिषेधः प्राप्नोति । स च ग्रहणवता प्रातिपदिकेन तदन्त विधिर्नास्तीति प्रतिषेधान्न भवति । इह द्विविधा घिसंज्ञा । अवयवाश्रया समुदायाश्रया च । याऽवयवाश्रया सा प्रतिषिध्यते । या पुनः समुदायाश्रया सा च भवताव। तस्या अप्रतिषेधात्। तत्र ८। पतिः समास एव । पतिशब्दस्य सिद्धायां घिसंज्ञायामिति । अनन्तरसूत्रेणैवेति शेषः ।

(१।४)। प्रजापतिनेति षष्ठीसमासः। यदि सिद्धायां घिसंज्ञायामिदमारभ्यते तदा सिद्धे सत्यारम्भो नियमार्थ इति विनाप्येवकारेण लभ्यत एव नियमः । तत् किमर्थमेवकारकरणमित्यत आह एवकारकरणमित्यादि । विना ह्येव- कारण विपरीतमप्याशङ्गेयत। पतिरव समास इति । ततश्च दृढ़मुष्टिनेत्यादी न स्यात् । एवकारे तु सति भवतीति । तथावत्र समासशब्दादनन्तरं प्रयुज्यमानं यत एवकारकरणं ततोऽन्यत्रावधारणमिति पतिशब्द एव नियम्यते । न समासः । मया है। षष्ठीयुक्तश्छन्दसि वा । अत्र यदि पतिशब्दः षष्ठीविभक्त्यन्तो धिमंज्ञो भवतीत्येषोऽर्थोऽभिमतः स्यात् सदा युक्तग्रहणमनर्थकं स्यात् । षष्ठीतेघवं ब्रूयात् । तस्माद् युक्तग्रहण सति षष्ठयन्तशब्दान्तरेण युक्त इतेषोऽर्थी विज्ञायत इत्यत आह षष्ठयन्तेने- त्यादि। यदि पुनः पतिशब्दस्य षष्ठान्तस्य घिमंज्ञा स्यात् तदा किं स्यात् ? पतुपरित्यत्रैव स्यात् । इह तु न स्यात् । क्रुञ्चानाम्पतये नम इति । पताति। तृतीयायुक्तोऽत्र पतिशब्दः । अस्मदो मपर्यन्तस्य (७।२।८१) । त्वमावेकवचन (७।२।८७) इति मादेशः । योऽचीति (१२।८८) यकार: । १०। हवं लघु। पुगन्तलघूपधस्य ( ७ ३१८६ } चेति गुणः। अचीकरदिति कञो णिच् । लुङ । अड़ागमः । चेश्वङ । णिलोपः । चयपधाया इति (७४।१) ह्रस्वः । ओ: पुयणज्यपर (१।४।८०) इति वचनं ज्ञापकं णों कतं स्थानिवद् भवतीति । चङीति (६।१।११) कशब्दो बिरुच्यते । उरदित्य- त्वम् (७।४।६६) । रपरत्वम्। सन्वलघुनीति (७।४।८३) लघुसंज्ञायां मत्यां सन्वद्भावादित्त्वम् । दीर्धी लघोरिति (७/४/८४) दीर्घत्वम् । ११। संयोगे गुरु। कुण्डा । हुण्डा । कुड़ि दाह। हुडि सङ्घात । नुविधावुपदेशिवद- वचनादुपदेशावस्थायामेव नुम् । शिक्षा भिक्षेति। शिक्ष विद्योपादाने ।

न्यासः। १३ । । भिक्ष याज्ञायाम्। तयोर्गुरुसंज्ञायां सत्यां गुरोश्च हल ( ३।३।१०३) इत्य कारप्रत्ययः । अजाद्यतष्टाप् (४ १.४) । १२। दीर्घञ्च। ईहाञ्चक्र जहाजक्र इति । आम्प्रत्ययवदित्यादौ सूत्र (१।३।६३) एते व्युत्पादिते । गुरुसंज्ञायान्त्वत्र कार्य मिजादेश्च गुरुमतोऽवृच्छ (३।१।३६) इत्याम्प्रतम्यः । यस्मात प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् । कर्तेति लुट् । करिष्यति । अकरिष्यदिति । लट्लुङो। अङ्गसंज्ञायाः कार्य- मत्र सार्वधातुकाईधातुकयोरिति (७४.८४) गुणः । ऋइनोः स्यइतौड़ागमं (७।२।७०) यथायोगम् । यस्मादिति संजिनिर्देशार्थमिति संजिनो निर्देशः । संज्ञिनिर्देश: सोऽर्थः प्रयोजनं यस्य तत् तथोक्तम् । ननुच तदादीत्यनेनात्र संज्ञो मिर्दिष्टः । तत् कथं संजिनिर्देशार्थमिति पर्यनुयोगमाशङ्गा येन हंतुना यस्मादित्यस्य संजिनिर्देशार्थत्वं भवति तं दर्शयितुमाह तदादिसम्बन्धादिति । यस्मादित्येतस्मिन् सत्यनेन प्रकृतन तदादीत्यस्य सम्बन्धो भवति । यस्मात् प्रत्ययो विधीयते स आदिर्यस्य तत् तदादीति । अनुच्यमाने ह्येतस्मिंस्तदित्यनेन सर्बनाना प्रकृतप्रत्यवमर्शिना किं सम्बध्येत ? नह्यत्र किञ्चित् प्रकृतम- स्तीत्यसम्बन्धमेव तदादीति । असम्बन्धे कथं शक्यते संजी निर्देष्टुम् ? स्यादे- स प्रत्यय विधिरेव तदादीत्यनेन सम्बध्येतत्यसदेतत् । एवं हि सति प्रत्ययादेः प्रत्यये परतोऽङ्गसंज्ञा स्यात् । ततश्च करिष्याव: करिष्याम इत्यत्र धातोर्गुणो न स्यात् । तस्मादिशिष्टस्य संजिनो निर्देशाथं यस्मादिति वक्तव्यम् । अनेन हि सम्बन्छे सति तदादीत्यनेन योऽत्र विशिष्टः संनी विवक्षितः स शक्यते निर्देष्टुम् । नान्यथा । नेविश ( १।३।१७ ) इत्युपसर्गादिधिरस्तीति नियमस्य । नतु प्रत्ययस्य । तस्य लक्षणान्तरेण विहितत्वात् । नेविश ( १।३।१७ ) इत्युप- लक्षणमात्रम् । परिव्यवेभ्यःक्रिय (१।३।१८) इत्येतदपोहोपात्तं द्रष्टव्यम् । तदा- देरगसंज्ञा स्यात्। ततश्चोपसर्गात् प्रागड़ागमः स्यादिति भावः । स्त्री इयतीति । इदं परिमाणमस्या इति किमिदंभ्यां वो ( ५।२।४० ) घ इति वतुप्। वस्य च तत् ।

(११४) - घत्वम् । इयादेशः । इदकिमोरीशकी (६।३।८०) इतीदम ईश् । यस्येति ( ६।४।१४८ ) चेतीकारलोपः । उगितश्चेति ( ४।१।६ ) डीप । इयती। स्त्रीशब्दात् सुः । तस्य हल्ड्यादिना ( ६।१।६८ ) लोपः। स्त्री इयती इति स्थिते यदि विधिग्रहण न क्रियेत तदैयच्छब्टे. प्रत्यये परतः स्त्रीशब्दस्याङ्गसंज्ञा स्यात्। ततश्च यस्येति । ६।४।१४८ । चेतीकारलोपः प्रसज्येत । ननु चासिद्धवदत्रा (६।४।२२) भादित्यसिद्धत्वादीकारलोप एवासिद्धः । तत् कुतोऽयं लोपप्रसङ्गः ? प्राग भाधिकारादसिदत्वमित्यभिप्रायः । नैषोऽस्त्यभिप्रायः । वक्ष्यति हि तत्र (६ ४.२२) वृत्तिकारोऽसिद्धवदित्यधिकारोऽयं यदित अर्डमनु- क्रमिष्याम आ ऽध्यायपरिसमाप्ते स्तदसिद्धवद्भवतीति । तथाद्या भादित्यभि- विधावाङ् । तेन भाधिकारेऽप्यसिद्धत्वम्भवतीति । एवं तर्हि विधिग्रहणेनैतज- झाप्यते भाधिकारीयमसिद्धत्वमनित्यमिति । तेन वुग्युटावुवड्यणो: सिद्धी ( ६।४,२२, वा । वाच्यावित्येतन्न वक्तव्यं भवतीति । वृक् । बभूव । युट् । उपदिदीय इति । नन्वेवमचः परस्मिन् । १।१।५७) पूर्वविधावितीकार- लोपस्य स्थानिवत्त्वात् स्त्रीशब्देकारलोपाप्रसङ्ग एव । नैतदस्ति । यो ह्यनादिष्टादच: पूर्वस्तस्य विधि प्रति स्थानिवद्भवतोतवादिष्टादचः पूर्वः स्त्रीशन्देकारः प्राक् संस्कृतस्य संस्कृतस्य सत इयतीशब्दस्योत्तरकालं स्त्रीशब्देन सम्बध्यते । अथ क्रियमाणेऽपि विधिग्रहणे कस्मादेवाङ्गसंज्ञा न भवति यावता स्त्रीशब्दाद् विभक्तः प्रतायस्य विधिरस्ताव ? प्रतायोऽपि चास्मात् पर इयच्छब्दो विद्यत एव । नैष दोषः । विधिग्रहणणे सति यस्मात् प्रतायो विधीयते प्रत्त्यासत्ते स्तस्मिन् परतोऽङ्गसंज्ञा विधीयते । इह तु यः स्त्रीशब्दाहि- हितः प्रतायो नासौ परो लुप्तत्वात् । यश्च पर इयच्छब्दो विहितो नासौ ततो विहितः । अथ तदादिग्रहणं किमर्थम् ? यावता विनापि तेन यस्मात् प्रत्ययविधिः प्रत्ययेऽङ्गमित्येतावत्युच्यमाने यत्तदोर्नित्याभिसम्बन्धाद् यस्मात् प्रत्ययो विधीयते तत् प्रत्यये परतोऽङ्गसंज्ञा भवतीतषोऽर्थी लभ्यत इत्यत आह तदादिवचनमित्यादि। असति तदादीत्येतस्मिन् यस्मादेव प्रत्ययो विधीयते तस्यैवाङ्गत्वं स्यात् । मतु सर्वस्य महस्यादेः। समुदायस्य । ततः प्रत्ययस्याविहितत्वात् । तदादिग्रहणे मति यस्मात् नापि सनुम्कस्य न्यासः प्रत्ययो विधीयते स आदिर्यस्य शब्दरूपस्य तत् तदादीति बहुव्रीहिराश्रितो भवति । तेन सर्वस्य सस्यादेः मनुम्कस्य ममुदायस्याङ्गसंज्ञा सिध्यतीति तदादिवचनं स्यादिनुमर्थम् । आदिग्रहणेन प्रकृतिप्रत्ययस्य मध्यवर्तिनां प्रत्ययागमानां ग्रहणम् । नुम आगमोपलक्षणत्वात् । करिष्याव इत्यत्र यस्मात् प्रत्ययो विहित स्तदादेः सहस्य प्रत्ययस्य समुदायस्याङ्गसंज्ञायां सत्यामतो दीपों यजीति ( ७।३।१०१ ) दीर्घत्व भवति । अन्यथा क तर्हि स्यात् । वावावो वावाम इत्यादौ । अय वय मय पय तय चय णय गतौ । यङ्लुक् । अभ्यासस्य दीर्घोऽकित इति (७।४।८३) दीर्घत्वम् । वसमसोलीपो व्योर्वलोति (६।१।६६) यलोपः । इह विना विकरणेन धातोर्दीर्घत्वम्। विकरणस्य शपोऽदिप्रभृतिभ्यः शप ( २।४।७२ ) इति लुप्तत्वात् । अदादित्वं चर्करीतञ्जेत्यदादिषु पाठात् । चर्करोतमिति यङ लुकः पूर्वाचार्य्यसंज्ञा। कुण्डानीति । जसि जशशसोः शिरिति ( ७ १२०) शिभावः । नपंसकस्य झलच ( ७.१ ७२ ) इति नुम् । यदायं नुम् परादिरिति पक्षस्तदा सुपि चेति ( ७।३।१०२ ) दीर्घत्वं विनापि सनुम्कस्याङ्गसंज्ञया सिद्धम् । यदापि पूर्वान्तस्तदाप्यङ्ग कदेशत्वानोपधाया ( ६।४:७) इत्यनुवर्तमाने सर्वनामस्थाने ( ६।४८ ) चासम्बुद्धाविति दीर्घत्वं सिद्धम् । यदात्वभक्तस्तदाङ्गस्यानकदेशत्वान् न सिध्यति । अभक्तश्चायं नुमिति सूत्रकारस्य पक्षः । तेन नुमर्थमपि तदादिवचनं कृतम् । श्रार्थम् । भ्रार्थमिति । श्रिय इदं ध्रुव इदमिति चतुर्थी तदर्थार्थे त्यादिना ( २।१।३६ ) अस्त्यत्र चतुर्थ्य कवचनस्य विधिरिति। असति हि पुन: प्रत्यय- ग्रहणे श्रीभ्रूशब्दयोरर्थशब्द परतोऽङ्गमंज्ञा स्यात् । ततश्चेयङवडौ स्याताम् । सप्तमीनिर्दिष्टे तु पुन: प्रत्ययग्रहण सति न दोष इति । तथाहि ततो विहित प्रत्यये परत इत्येवं विज्ञायते। यश्चातो विहितः प्रत्ययः स लुप्तः । यद्यपि लुप्तेऽपि तस्मिन् प्रत्ययलक्षणेनाङ्गसंज्ञा लभ्यते कायं तु न लभ्यते । लुमताङ्गस्येति (१।१।६३) प्रत्ययलक्षणप्रतिषेधात् । १४ । सुपतिङन्तं पदम् । सुप तिङिति प्रत्याहारग्रहणमिति । युक्तं हि तिडिति प्रत्याहार- ग्रहणम् । अन्यस्य तिङ शब्दस्याभावात् । कथं सुबिति प्रत्याहारग्रहणम् ? समामः ।

(११४ )। २७१ मप्तमीबहुवचनस्य विद्यमानत्वात् । तस्य ग्रहणं कस्मात्र भवतीति ? नैष दोषः । न डिसम्बुद्योरिति (८।२।८) प्रतिषेधात् । सप्तमीबहुवचनस्य सुपो ग्रहणे डिसम्बुद्धयोः पदत्वाभावावलोपस्य प्राप्तिरेव नास्तीति प्रतिषेधोऽनर्थक: स्यात् । ब्राह्मण इति पदत्वे च सति सस जुषो रुः (८।२।६६) । खरवमानयो- विसर्जनीयः (८.३।१५ )। पठन्तीति । अत्र पदत्वे सति तिङ ङतिङ इति (८।१।२८) निघातः । ननु च प्रत्ययग्रहण यस्मात् स विहितस्तदादेस्तदन्त- स्येत्यनेन येन विधिस्तदन्तस्येत्यनेन वा ऽन्तरेणाप्यन्तग्रहणं तदन्तस्यैव संज्ञा भविष्यति । तत् किमर्थ मन्तग्रहणमित्यत आह पदसंज्ञाया मित्यादि । यदीहान्तग्रहणेनाप्यन्यत्र मंज्ञाविधौ तदन्तविधिर्नास्तीत्येषोऽर्थी न ज्ञाप्यते तदा तरप्तमपी (१।१।२२) घ इत्यत्र तरबन्तस्य घसंज्ञा स्यात् । तस्मादत्रास्मिन्नर्थे ऽन्त ग्रहणेन जाप्यते ऽन्यत्र संज्ञाविधी प्रत्ययग्रहणे तदन्तविधिप्रतिषेधो यथा स्यादित्येवमर्थ मन्तग्रहणम् । तेन तरप्तमपो रेव घसंज्ञा भवति। नतु तदन्तस्य । गौरी ब्राह्मणितीति । अत्र गौरीशदस्य तरबन्ते ब्राह्मणितराशब्दे परतो घरूपकल्पेत्यादिना (६।३।४३) ह्रखो न भवति । तरबन्तस्याघमंजकत्वात् । घसंज्ञायां तत्र परतो ब्राह्मणीशब्दस्य इस्वो भवत्येव । प्रत्ययमात्रस्य । प्रत्ययमात्रस्य । १५॥ नः क्य। राजीयतीति । आत्मनो राजान मिच्छतीति सुप आत्मनः (३।१।८) क्यच् । क्यचि (१।४।३३) चेतीत्त्वम् । राजायत इति । राजेवाचरतीति कर्तुः क्यङ, सलोपश्चेति (३।१।११) क्यङ् । अक्कत्सार्वधातुकयोरिति (७।४।२५) दीर्घः । वर्मायत इति । अवर्म वर्म भवतीति लोहितादिडाज्भ्यः (३।१।१३) क्यषिति क्यष्प्रत्ययः । वा क्यष (१।३।८०) इत्यात्मनेपदम् । पदसंज्ञाया मिह नलोपः कार्य्यः । ननु चैते क्यजादयः सुबन्तादेव विधीयन्ते । प्रत्ययलक्षगीन ततश्च सुपतिडन्तं (१।४।१४) पदमित्यनेनैवात्र पदमंज्ञा सिहा । तत् किमर्थी- ऽयमारम्भ इत्यत आह सिद्धे सत्यारम्भो नियमार्थः । सिद्ध इति सिहावित्यर्थः । नपुंसके भावे क्त: (३३।१०8)। सिद्धत्वन्तु प्रकतत्वात् पदसंज्ञाया एव २७२ न्यासः सुप विज्ञायते । अथवा सिद्ध इत्यकर्मकत्वात् कतरि क्तप्रत्ययः । सिद्दे निष्पन्ने पदसंज्ञाकार्य इत्यर्थः । नान्तमेवेति नियमस्य स्वरूपं दर्शयति । नान्तं क्य एवेत्येष विपरीतनियमो नाशननीयः । न डिसम्बुद्धयो (८।२।८) रिति प्रतिषेधात् । विपरीतनियमे हि सति ङिसम्बुद्धयोः पदसंज्ञाया अभावान् नलोपो न भविष्यतीति किं तत्प्रतिषेधेन ? वाच्यतीति । (३।११८) आत्मनः क्यच् । क्यचि पदत्वाभावाच् चोः कुरिति (८।२।३०) कुत्वं न भवति । १६ । सिति च । भवदीय इत्यादि। तत्र जात (४।३२५) इत्यादी शैषिकऽर्थे तद्धितः । पदत्वाज् झलाञ्जशोऽन्त (८।२।३८) इति जश्त्वम् । ऊर्णायुरिति । ऊर्णाया युसिति (५।२।१२३) युसि कृते पदसंज्ञया भमंज्ञायां निरस्तायां यस्येति (६।४।१४८) चेत्याकारलोपो न भवति। ऋत्विय इति । ऋतुः प्राप्तोऽस्येति ऋतोरण (५।१।१०५) । छन्दसि (५।१।१०६) घम् । ऋत्वियः । पदत्वाद् भवाभावे सदाश्रय ओगुणो (६।४।१४६) न भवति । १७। स्वादिष्वसर्वनामस्थाने । अत्र यदि सप्तमीबहुवचनादारभ्य आ कपः प्रत्यया रोरं स्तदा ऽसर्वनामस्थान इति प्रतिषेध न कुर्य्यात् । प्राप्ताभावात् । कृतश्चासाव- तोऽवसीयते प्रथमैकवचनादारभ्या प्रत्ययाः खादयो गृह्यन्त इत्यत आह स्वादिष्विति । सुशब्दादेकवचनादारभ्य इति। राजवं राजता इति । तस्य भाव (५।१।११८) स्त्वतलो । राजतर इति । दिवचनविभज्योपपदे तरबोयसुनाविति (५।६।५८) तरप् । राजतम इति । अतिशायन (५।३।५५) इत्यादिना तमप्। राजानौ राजान इति । अत्र पदसंज्ञाया अभावावलोपो न भवति । यद्येवं राजेत्यत्रापि न स्यात् । प्रत्य यलक्षणेनासर्वनामस्थान इति पद- संज्ञाया अभावात् । नैष दोषः । आचार्यप्रवृत्ति पयति । भवति सौ परतः पदसंज्ञेति यदयं न डिसम्बुद्योरिति (८।२।८) प्रतिषेधं शास्ति । अत्र सम्बुद्धि- शब्दोऽनर्थकः स्यात् । तत्र पदत्वाभावादव नलोपस्याप्राप्तः । कपः अथवा (१।४)। २७३ ऽसर्वनामस्थान इति पर्युप्रदासोऽयम् । न प्रसज्यप्रतिषेधः । तेन सर्वनाम- स्थानादन्यत्र पदसंज्ञा विधीयते । नतु सर्वनामस्थानं प्रतिषिध्यते । तेन तत्र पूर्वसूत्रेण सौ परे पदसंज्ञा भविष्यति । अथवा प्रसज्यप्रतिषेधेऽपि न दोषः । यस्मादनन्तरस्य विधिर्वा प्रतिषेधो वेतानन्तरा या प्राप्तिः सा प्रतिषिध्यते । न व्यवहिता । तेन सुप्तिङन्तं पदमितानेन (१।४।१४) सौ भवत्येव पदसंज्ञेति। १८। यचि भम् । यचीति वर्णग्रहणं सप्तमीनिदिष्टम् । अतो यस्मिन् विधिस्तदादावल्ग्रहण इति तदादिविधिनात्र भवितव्यमित्यत आह यकारादावित्यादि । गार्ग्य इत्यादो भसंज्ञायां सत्यां यस्येति (६।४।१४८) चेताकारलोपः । नभोगिरोमनुषां वतुपसंख्यानं कर्तव्यमिति । भसंज्ञाया स्त्वत्र पदसंज्ञाबाधः फलम् । नभ इति तुल्यार्थतोपदर्शनमतत्। नतु प्रथमासमर्थादतिः । स तु नभसा तुल्यं वर्तत इति तेन तुल्यमित्यादिना (५।१।११५) टतीयासमर्थाद्दतिः। नभस्खदिति भसंज्ञया पदसंज्ञायां निरस्तायां तनिबन्धनं रुत्व न भवति। अङ्गिरस्खदिति । पूर्वेण तुल्यम् । मनुष्वदिति । जनेरुसिरित्यत्र (उण, २७२) बहुलग्रहणानुवृत्तेर्मन ज्ञान इतपतस्मादुसिप्रत्ययः । आदेशप्रत्यययोरिति (८।३।५८) षत्वम् । मनुष् इति स्थिते पूर्ववदतिः। मनुष्वदिति। यद्यत्र पदसंज्ञा स्यात् तदा षत्वस्यासिद्धत्वादिह रुत्व स्यात् । ततश्च मनुर्वदित्यनिष्टं रूपं स्यात् । उपसंख्यानशब्दस्य चेह प्रति- पादनमर्थः। तत्रेदं प्रतिपादनम् । मिति (१।४.१६) चेत्यतश्चकारोऽनुवर्तते स चानुक्तसमुच्चयार्थः । तेन नभोगिरोमनुषां वतौ भसंज्ञा भविष्यति। वृषण- खखयोरिति । अन्तर्वर्तिनों विभक्तिमाश्रित्य पदसंज्ञायां प्राप्तायां भसंज्ञा विधीयते। तस्याश्च विधिश्वकारानुवृत्तेरेव लभ्यते । वृष्णो वसुः वृषणमः । वृष्णोऽखः वृषणखः । अत्र भत्वे सति यद्यपि णत्वस्यासिहत्वं तथापि नलोपः पदनिबन्धनो न भवति । पदान्तस्येति (८।४।३७) णत्वप्रतिषेधश्च । १६ । तसौ मत्वर्थे । तसाविति वर्णग्रहणम् । न च वर्णमानान्मत्वर्थीयः सम्भवति । अतः सामर्थ्यात् तदन्तविधिर्विज्ञायत इत्याह तकारान्तमित्यादि । मत्वर्थे प्रत्यय ३५ ३०४ न्यासः। । इति व्यधिकरणे पदे षष्ठीसमासः । मतोरों मत्वर्थ इति। तत्र यो वर्तते प्रत्ययस्तस्मिन्नित्यर्थ:। अथवा समानाधिकरणे पदे। मतुशब्देन साह- चर्यान् मतुप्सहचरितार्थ उच्यते । मतुबर्थों यस्य तस्मिन् । नतु मतोरथों यस्मिविति मत्वर्थे प्रत्यय इति । अर्थग्रहणं मतुपोऽन्यत्रापि यथा स्यात् । इतरथा हि मतावितुपच्यमाने मतावेव स्यात् । नान्येषु। मत्वर्थग्रहणे क्रिय- माणे मतुपि न स्यात् । तस्यार्थविशेषणत्वात् । विशेषणस्य च कार्येण सम्बन्धानुपपत्तेः । नहि चित्रगुरानीयतामितुते विशेषणभूता गावोऽप्या- नौयन्ते। नैष दोषः । विशेषणमपि कचित् कायें विशिष्यते । तथाहि देवदत्तशालायां ब्राह्मणा आनीयन्तामिताने देवदत्त: शालायां विशेषणभूतो यदि ब्राह्मणो भवति तदा सोऽप्यानीयत एव । उदखित्वानिति । भत्वात् पदसंज्ञाऽभावे जशत्वं न भवति । भय इति (८।२।१०) वत्वम् । उगिदचा- मिति (७।१।७०) नुम् । अत्वसन्तस्य (६।४।१४) चाधातोरिति दीर्घः । पयस्वी यशस्वीति । असमायामधास्रजो विनि: (५।२।१२१)। भत्वाद्रुत्वं न भवति। इन्हन्पूषार्थम्णां (६।४।१२) शावितानुवर्तमाने सौ (६ ४।१३) चेत्यनेन दीर्घः । २० । अयम्मयादीनि च्छन्दसि । यद्यत्र भसंज्ञा विधीयेत तदा पदसंज्ञा न स्यात्। अथ यदि पदसंज्ञा विधीयेत तदात्र भसंज्ञा न स्यात् । तदा भपदसंज्ञयोः समावेशो न स्यात् । एकसंज्ञाधिकारात् । साधुत्वविधाने त्वेष दोषो न भवति । तधि केषाञ्चिनसंज्ञा विधीयते पदसंज्ञकानां केषाञ्चिदुभयसंज्ञकानाम्। तस्मात् साधुत्वमेव विधातुं युक्तमितात आह अयस्मयादीनीतपादि। कथं पुनरेषां साधुत्वं विधीयत इत्याह भपदसंज्ञाधिकार इत्यादि । हारं मुखमुपाय इत्यनर्थान्तरम् । अयस्मयमिति । अयसो विकारो मयड्वैतयो र्भाषायामिति (४।३।१४३) मयट् । यद्यपि तत्त्र (४।३।१४३) भाषाग्रहण मस्ति तथाप्य- यस्मयशब्दस्यास्मादेव साधुत्वविधानाच्छन्दस्यपि मयड् भवतीति। भत्वाद्दुत्वं न भवति । स ऋक्वतेति । चोऽस्य सन्तीति मतुप् । पदत्वाञ्चोः कुरिति ।

(१।४)। २०५ (८।२।३०) कुत्वम् । भत्वाज झलां (८२३८) जशोऽन्त इति जश्त्वव भवति । प्राकतिगणोऽयमिति । प्रादिशब्दस्य प्रकारवाचित्वात् । २१ ॥ बहुषु बहुवचनम् । तस्यानेन बहुत्वसंख्या वाच्यत्वेन विधीयत इति । एतेन विध्यर्थतामस्य योगस्य दर्शयति । इह केषाञ्चित् स्वार्थद्रव्यलिङ्गसंख्याकर्माद्यात्मकः पञ्चक: प्रातिपदिकार्थ इति दर्शनम् । केषाञ्चित् स्वार्थद्रव्यलिङ्गात्मकस्त्रिक: प्रातिपदिकार्थ इति । तत्र खार्थो विशेषणं स्वरूपजातिगुणद्रव्याणि । द्रव्यन्तु विशेष्यम् । तत् पुनर्जातिगुणद्रव्याणि । तत्र यदा शब्दस्वरूपेण विशिष्टा जातिरभिधीयते गौरिति तदा शब्दखरूपं विशेषणत्वात् स्वार्थी भवति । जातिस्तु विशेष्यत्वाद् द्रव्यम् । यदा तु जात्या विशिष्टो गुणोऽभिधीयते पटस्य शुक्लो गुण इति तदा जातिविशेषणत्वात् स्वार्थों भवति । गुणस्तु विशेष्यत्वाद् द्रव्यम् । यदा तु गुणैर्विशिष्टं पटादिकं द्रव्य मुच्यते शुक्लः पट इति तदा विशेषणभूतो गुण: स्वार्थों भवति । विशेष्यभूतं पटादिक ट्रव्यमेव । यदा पुनद्रव्यमपि द्रव्यान्तरस्य विशेषणभूतं भवति यष्टीः प्रवेशय कुन्तान् प्रवेशयेत्यादौ तदा यट्यादिक द्रव्य विशेषणभावापन्न खार्थः । द्रव्यान्तरं विशेष्यभावापन्न पुरुषादिकं द्रव्यमेव । क्वचित् सम्बन्धोऽपि स्वार्थो भवति यत्र सम्बन्धनिमित्तकः प्रत्यय उत्पद्यते यथा दण्डी विषाणोति । अत्र दण्डपुरुषसम्बन्धी विशेषणम् । दण्डीति द्रव्यम् । क्वचित् क्रियापि स्वार्थी भवति यत्र क्रियानिमित्तकः प्रत्यय उत्पद्यते यथा पाचक: पाठक इति । क्रियाकारकसम्बन्धोऽत्र स्वार्थ इत्यपरे । लिङ्ग स्त्रीत्वादि । संख्यैकत्वादि। कर्मादयो वक्ष्यमाणाः कारकविशेषाः । तत्र पूर्वोक्तयो- दर्शनयोद्दितीयं यद्दर्शनं तदिह वृत्तिकारणाश्रितम् । धातोस्तु क्रियेव वाच्थे- त्यत्राचार्याणामविवाद एव । तत्र प्रातिपदिकस्य पूर्वोक्त विकेऽर्थे सति धातोश्च क्रियात्मकत्वे यदीदं सूत्रं नोच्येत ततोऽनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति प्रातिपदिकाजसादिबहुवचनं विधीयमानं त्रिक एवार्थे स्यात् । न बहुत्वसंख्यायाम्। धातोरपि झिप्रभृति बहुवचनं विधीयमानं क्रियायामव न्यासः । स्यात् । नतु बहुत्वसंख्यायाम्। तस्मादनेनैव तस्य बहुत्वसंख्या वाच्यत्वेन विधीयत इति विध्यर्थमेतद् भवति । यथा चानन योगेन बहुत्वसंख्या बहुवचनस्य वाथ- त्वेन विधीयते तया कर्मणि (२।३।२) द्वितीयेत्येवमादिभिर्योगैईितीयादीनां कम्मादि च । लः कर्मणि च भावे चाकम्भकभ्य (३ ४।६८) इत्यनेनापि लकाराणां कम्मायेव । तस्मादेतेऽपि योगा विध्यर्था एव वेदितव्याः । येषाञ्च पञ्चक: प्रातिपदिकार्थ इति मतं तेषां प्रातिपदिकस्यैव पञ्चाप्यर्था वाच्याः । विभक्तयश्च तद्योतिका भवन्ति । तत्रानिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति विनापि वचनेनानेन प्रातिपदिकाद् बहुवचनं जसादि बहुवे सिद्धमेव । तत्र त्वनियमनान्यत्राप्येकत्वादौ प्राप्तमनेन नियम्यत इति नियमार्थमतद भवति । कस्मात् पुनईत्तिकारण त्रिकः प्रातिपदिकार्थ इति दर्शनमाश्रितम् ? युक्तत्वात्। तथाहि वृक्षं पश्येत्यादौ नहि विना विभक्तिभिः संख्याकर्मा- दयश्चार्थाः प्रतीयन्ते । यद्यपि पयः पयो जरयतीत्यादौ विनापि विभक्त्या संख्या कर्मादेरर्थस्य प्रतीतिर्भवतीति तथापि पयसी पयांसि पयसेत्येवमादौ संख्या- कर्मादिप्रतीत्यर्थ नियोगतो विभक्तिरपक्ष्यत एव । नहि यथा गर्गा इत्यत्र बहुवचनेन यप्रत्ययमन्तरेणापत्यार्थः प्रतीयते तथा गार्ग्य इत्यत्र प्रकृतिरेवा- पत्यार्थमभिधत्त इति शक्यते वक्नुम् । अपिच पयः पयो जग्यतीत्येवमादौ विभक्तिविशेषोत्पत्तिसामादेव संख्याकर्माद्यर्थस्य प्रतीतिर्भवति । तथाहि यतः स विभक्तिविशेष उत्पनस्तत एवासावर्थविशेषः प्रतीयते । नान्यस्मादिति त्रिक एव प्रातिपदिकार्थों युक्तः । यदि तर्हि बहुत्वसंख्या बहुवचनस्य वाच्य- वेन विधीयते तदा सूत्रे भावप्रत्ययेन बहुत्वनिर्देशः कर्तव्यः । अन्यथा बहुत्व- संख्या न प्रतीयेत । न कत्र्तव्यः । अन्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशो भविष्यतीति यथा पटस्य शुक्ल इति । नन्वेवमपि भावस्यैकत्वाद् बहुष्विति बहुवचनं नोपपद्यते। नैष दोषः । यस्माद् बहुत्वसंख्याधारस्य द्रव्यस्य यो भेद स्तं बहुत्वे गुणऽध्यारोप्य बहुष्विति बहुवचनेन निर्देशः कृतः (A) । संख्यावाच्चयं बहुशब्दो न वैपुल्यवाचीति ज्ञापनार्थश्च । तेन वैपुल्यं बहु- (A) एतेनारोपितबहत्वसंखाका पापी दारा इत्यादी च बहुत्व भवतीयत्व कचिदधिकः पाठः ।

नावयवाः। ( ११४)। वचनस्य वाच्यं न भवतीति बहुरोदनो बहुः सूप इति वैपुल्यवाचिनो बहुशब्दादेकवचनमेव भवति । न बहुवचनम् । यदि बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयत इह वृत्तं पश्येत्यत्र बहुवचनं प्राप्नोति । हे छत्र संख्ये। समुदायसंख्या चैकत्वम् । अवयवसंख्या च फलमूलशा- खाद्यवयवसमवेता बहुत्वम् । अस्यापि प्रातिपदिकार्थे नैकार्थसमवायलक्षणः सम्बन्धोऽस्त्येव । तथाहि येष्ववयवेषु समवेता बहुत्वसंख्या प्रातिपदिकार्थोऽपि समुदाय स्तवैव समवेतः। ततश्च तस्माहहुवचनं प्राप्नोतीत्यत पाह कर्मादय इत्यादि। कर्मादयो द्यकविभक्तिशब्दवाच्यत्वात् प्रत्यासत्रा बहुत्व- संख्यायाः। ततः प्रत्यासत्ते स्तदीय एव बहुवे बहुवचनं भवति । समुदाय एव हि वृक्षं पश्येत्यत्र दृशिक्रियया व्यामिष्टतम इति स एव कर्मभावमापद्यते। तत् कुतो बहुवचनस्य प्रसङ्ग? कर्मादिष्वित्यादि। कर्मादयो बहुवचनस्य वायाः । तदीयं बहुत्वं बहुष्वेव कर्मादिषु सम्भवति । अत: सामर्थात् कर्मादिषु बहुष्वित्येषोऽर्थः सम्पद्यते। यदि तर्हि विभक्तीनां बहुवचनस्य बहुत्वसंख्या वाच्यत्वेन विधीयते तदा नि:संख्येभ्योऽव्ययेभ्यः स्वादयो न स्युः । ततश्च पदसंज्ञा तेषां म स्यादित्याह यत्र चेत्यादि । ननु स्वादिविधानसूत्रे (४।१।२) संख्याकर्मादयः खादीनामर्थाः शास्त्रान्तरेण विहिताः । तेन सहास्यैकवाक्यतेति वक्ष्यति । तत् कुतः स्वादीनां सामान्य विहितत्वम् ? नहि बहुषु बहुवचनं कर्मणि (३।२।२) हितोयेत्यादिना शास्त्रान्तरेण स्वौजसादेः (४।१।२) सूत्रस्यैकवाक्यतायां खादीनां सामान्यविहितत्वमुपपद्यते । एवं तर्हि ज्ञापन। भव्ययेभ्यः सामान्येन खाद्युत्पत्ते ओपितत्वात् सामान्यविहिता इत्युक्तमित्यदोषः । किं पुनस्तज् ज्ञापकम् ? अव्ययादाप्सुप (२।४।८२) इत्यव्ययादुत्पन्नानां सुपां लुग्वचनम् । न ह्यनुत्पवानां लुगुपपद्यते । २२। होकयोद्विवचनैकवचने होकयोरित्ययमपि भावप्रधानो निर्देशः । अन्यथा हि बहुत्वाद् बहु- वचनं स्यात् । भावप्रधाने तु निर्देश हित्वमेकत्वञ्च हावतावर्थाविति युक्त ३७८ न्धासः। दर्शयति । हिवचनम्। एतदपीत्यादिनाऽस्यापि योगस्य विध्यर्थतां अर्थाभिधानमिति । अर्थों वाच्योऽभिधीयते येन तदर्थाभिधानम् । २३। कारके। कारक इति विशेषणमपादानादिसंज्ञाविषयमिति । अपादानादयः संज्ञाविषयो यस्य तत् तथोक्ताम् । आदिशब्देन सम्प्रदानादीनां ग्रहणम् । अथ वक्ष्यमाणानां ध्रुवादीनामियं संज्ञा कस्मान्न भवति ? यदीयं ध्रुवादीनां संज्ञा स्यात् तदा कारकशब्दः प्रथमान्त एव निर्दिश्येत यथान्ये प्रत्यय (३।१।१) इत्येवमादयः संज्ञाशब्दा निर्दिश्यन्ते । अयन्तु सप्तम्या निर्दिष्टः । तस्मात्रेयं ध्रुवादीनां संज्ञेति । कारक इति निर्धारण सप्तमी। निर्धारणं तु बहनां सम्भवति । तत् कथमेकवचनेन निर्देश: ? सामान्या- पेक्षया वेकवचनम् । अथवा छन्दोवत् सूत्राणि भवन्ति । ततो व्यत्ययो बहुल- मिति (१९८५) बहुवचने प्राप्त एकवचनम्। कारकेषु मध्ये यद् ध्रुवं कारक तदपादानसंज्ञ भवति । एवमन्यत्रापि वेदितव्यमिति । कारकशब्दोऽय- मस्त्येव व्युत्पन्नो गवुलन्तः कर्तृपर्याय इति । अस्ति च संज्ञाशब्दोऽव्युत्पन्नो निमित्तपर्याय इति । तत्रेह यदि पूर्वोक्तस्य ग्रहणं स्यात् तदापादानादिषु कारकशब्दो न वर्तत । यथा कर्तृशब्दो गवुलटचाविति (३।१।१३३) कर्तरि व्युत्पादित स्तथा कारकशब्दोऽपि । कर्ता च स्वतन्त्रः । अपादानादयश्चास्त्र- तन्त्राः । तत् कथं तेषु कारकव्यपदेशः स्यात् ? असति हि कारकव्यपदेशे कारकसंशब्दनेषु तेषां ग्रहणं न स्यात् । अथ तेषामपि कथञ्चित् खतन्त्रताभ्यु- पेयेतैवञ्च तत्र कर्तृसंज्ञा प्रसज्येत । ततश्च ग्रामादागच्छत्युपाध्यायाय गां ददातीत्यादौ ग्रामादिभ्यस्तृतीया प्रसज्येत । इतरेतराश्रयश्चापि दोषः स्यात् । तथाहि कर्तृसंञोत्तरकालं कारकशब्दस्य व्युत्पत्तिस्तस्यां सत्यां कारक- शब्दोपक्रमेण कर्तृसंज्ञा स्यात् । बढेवं प्रतिविधेयं स्यात् । प्रतिविधाने च प्रतिपत्तिगौरवं स्यात् । निमित्तपर्यायस्य तु कारकशब्दस्य ग्रहणे न दोषः स्यात्। ततः स एव रयत इति मत्वाह कारकशब्दोऽयं निमित्त- पर्याय इति। ग्रामादागच्छतीति । ग्रामस्य ध्रुवस्थागमनक्रियां प्रति ( ११४)। २७८ - निमित्तभावोऽस्ति । यदीह ग्रामोऽवधिभावेन नावतिष्ठेत तत पागमनं न निष्योत। तस्माद ग्रामः कारकम् । वृक्षस्य पर्ण पततीति । वृक्षः सम्बन्धित्वेनात्र विवक्षितः । न तु निमित्तत्वेन। अपायस्य कारकग्रहणान् निमित्तत्वेनाविवक्षितस्यापादानसंज्ञा न भवति । नैतत् कारकग्रहणस्य प्रत्युदाहरणं युक्तम् । धुवग्रहणेनैवात्रापादानसंज्ञाया निवर्तितत्वात् । ध्रुवं हि तद् यदवधिभूतमपाये साध्ये । तथाहि हत्तिकारो वक्ष्यति अपाये साध्य यदवधिभूतमिति। न चेह वृक्षोऽवधित्वेन विवक्षितः । कि तर्हि सम्बन्धि- वेन। नैतदस्ति । विवक्षितावधिभावस्यैव वृक्षस्य सम्बन्धिभावेन विवक्षित- त्वात्। अवधिभूतस्य वृक्षस्य सम्बन्धिनः पर्ण पततीत्यर्थः । नहि सम्बन्धि- खेन विवक्षा ऽवधिभावविवक्षया विरुध्यते । तस्माद्विवक्षितावधिभावप्यैव वृक्षस्य सम्बन्धित्वमानं विवक्षितम् । नतु विद्यमानमप्यपायं प्रति निमित्तत्वमिति कानायुक्तता ? माणवकस्य पितरं पन्यानं पृच्छतीति । अकथितञ्चे(१।४।५१)त्यकथितस्य कर्मसंज्ञा विधीयमाना कारक इत्येतस्मिन्न- सति माणवकस्यापि स्यात् । कथम् ? अकथितशब्दोऽयमकीर्त्तितपर्यायः । स च कस्यचिद् विशेषस्याप्रकतत्वाद् विशेषानुपादाने सति प्रयुज्यमानः सर्वत्रा- विशेषणाकीर्तितमात्रे स्यात् । ततश्चाकथितमित्युच्यमाने कारकचाकारकञ्च सर्वमकथितमिति गम्यते । यथा पिताऽपादानादिभि विशेषकथाभिर्न कथित स्तथा माणवकोऽपि । अतस्तस्यापि कर्मसंज्ञा स्यात् । इत्यस्मिंस्तु सति प्रश्नक्रियानिमित्तस्य पितुरेव भवति । नतु माणवकस्य । नह्यसौ प्रश्नक्रियां प्रति निमित्तभावेन विवक्षितः । किं तर्हि ? पितुः सम्बन्धित्वेन । यदि विशेषणमिदं ध्रुवादोना-न संज्ञा-ततश्च कारकाहत्त- श्रुतयोरेवाशिषीत्येवमादिषु (६।२।१४८) प्रदेशेषु यत्र कारकशब्दः संशब्दाते तदा तत्रापादानादीनां कारकग्रहणेन ग्रहणं न स्यात् । संज्ञापक्षे तु न दोषः । संज्ञा यावर्त्तमाना संजिनं प्रत्याययतीत्यत आह कारकसंशब्दनेत्यादि। यत्र कारकशब्दस्य संशब्दनं तत्राप्यनेनैव विशेषणेन विवक्षितार्थप्रत्यायन लक्षणो व्यवहारोऽयं विज्ञायते। प्रदेशान्तरेऽपि कारकशब्दस्य निमित्तपर्याय- स्यैवोपादानात् । तञ्च निमित्तमपादानाद्येव । नहि ततोऽन्यत् क्रिया- कारक.

३८. न्यासः। निमित्तं भवति । तस्मात् कारकग्रहणेनापादानादीनां ग्रहणं भवति । अन्ये वाहुः । साहचर्य्यात् कारकविशेषणमहचरिता अपादानादयः कारक- शब्देनोच्यन्त इति तद्ग्रहणेनैव तेषां ग्रहणम् । कारकग्रहणं वा खरयि- तव्यम्। तन खरितेनाधिकार (१।४।११) इत्येष विधिर्भवति । तस्मात् कारकग्रहणेनापादानादीनां ग्रहणं भविष्यति । २४। ध्रुवमपायेऽपादानम् । अपायो विश्लेषो विभाग इत्यर्थः । तस्य च द्दिष्ठत्वाद् यथा तेन विभागन योऽपैति सोऽपाययुक्त स्तथा यतोऽपैति सोऽप्यपाययुक्तः । तस्मादुभयत्र पञ्चम्या भवितव्यमित्यतएवाह एवं यदप यदपाययुक्तमिति। अपाये साध्य इति । विषयसप्तमीयम् । अपायस्य साध्यत्वेन विषयभूत इत्यर्थः । यद्यपि ध्रुव- शब्दो लोक एकरूपतामाचष्टे ध्रुवमस्य शीलं ध्रुवमस्य रूपमिति तथाप्यपाये साध्ये ऽभिहितया तया न कश्चिदर्थः सम्पद्यत इति नात्र ध्रुवता ऽपायं प्रत्युपयुज्यते । सैवोपादीयते । सा चावधिभाव एव । तस्मादपायशब्दस्य सविधौ ध्रुवशब्दः सम्बन्धात् संश्लेषलक्षणात् प्रच्यवमानस्यावधिभावमाचष्टे इत्यत आह अवधिभूतमिति । अतएवापाये साध्येऽवधिभूतं यत् तदिह ध्रुवशब्देनोच्यते । तेन धावतोऽश्वात् पतित इत्येवमादावप्यपादानसंज्ञाखादेः सिद्धा भवति । अस्ति यत्रापि सत्यपि चलत्वे ऽखादेरप्यपायेऽवधिभावः । अथेह कथमपादानसंज्ञा ? अधर्माज्जुगुप्सते । अधर्माद्विरमति । धम्मात् प्रमाद्यतौति । न छत्रापायोऽस्ति । कथम् ? कायसम्प्राप्तिपूर्वको छपायो भवति । नचेह कायसंप्राप्ति रस्तीत्यत आह जुगुप्सेत्यादि । जुगुप्सा- वर्धानां धातूनां प्रयोगेऽपादानसंज्ञाया उपसंख्यानं प्रतिपादनं कर्त्तव्यमित्यर्थः । तवेदं प्रतिपादनम्। अपादानमिति महती संज्ञा क्रियते महाविषयेयं संज्ञति सूचनार्थम् । एवञ्च महाविषया भवतीयं यदि सूत्रोपात्तात् संजिनो- ऽन्योऽप्यस्या विषयो भवति । नान्यथा । तेन जुगुप्सादीनां प्रयोगेऽसत्यप्यपाये- ऽपादानसंज्ञा भविष्यतीति । अथवास्त्येवानापायः । नहि कायसंप्राप्तिपूर्वक एवापायो भवतीति । किं तर्हि ? चित्तसंप्राप्तिपूर्वकोऽपि भवति ।

मिति। तत्र तथाच ध्रुवम- (१।४)। २८१ तावदधम्माज्जुगुप्सते ऽधर्माविरमतीति य एव मनुष्यः प्रेक्षापूर्वकारी भवति स एवं पश्यति दुःखहेतुरयमधर्मों नाम । अतो नाहत्येनं सचेताः कर्तु- एवं विचारयंस्तं बुधा प्राप्नोति । प्राप्य च ततो निवर्तते । ध्रुवमपायेऽपादानमित्येवमपादानमिति संज्ञा सिद्धा भवति । धम्मात् प्रमाद्यतीत्यत्रापि यो नास्तिकः पुरुषो भवति स एवं पश्यति। नास्माइर्मात् किञ्चिदिष्टं सम्पद्यते। दुःखमेव केवलं तदारम्भनिमित्तकं भवति । एवं विचारयं स्तं बुद्या प्राप्नोति । प्राप्य च ततो निवर्तते । पायेऽपादानमित्येवं सिहम् । प्रमाद्यतीति । मदी हर्षे । शमामष्टानां दीर्घः श्यनीति (७३।७४) दीर्घः । अथेह कथमपादानसंज्ञा ग्रामावागच्छतीति कथञ्च न स्यात् ? ग्रामस्यापायेनायुक्तत्वात् । यस्यां सत्यामपायो भवति सा प्रतिषिध्यते चापादानसाधनागमनक्रिया। तदसत्यां तस्यां कुतोऽपायः । नैष दोषः । अत्र ह्यपादानसंज्ञायां समुपजातायां पश्चात् प्रतिषेधेन सम्बन्धः क्रियते । अन्यथा हि प्रतिषेधस्य विषयो न दर्शित: स्यात्। तथाध- पादानसाधनागमनक्रिया प्रतिषेधुमिष्टा । तत्र यदि चादावेव निषेध: स्यादपायाभावात् तदसम्बदस्य ग्रामस्यापादानसंज्ञा सिद्धा न स्यात् । या प्रतिषेध्यापादानसाधनागमनक्रिया प्रतिषेधस्य विषयभूता सा न शक्यते प्रदर्शयितुम् । न चात्राप्रदर्शितविषये प्रतिषेधः शक्यते वक्तुम् । तस्मात् पूर्वमपादानसंज्ञा भवति । पश्चात् प्रतिषेधेन योग इत्येष क्रमः । ? সময় । २५। भौवार्थानां भयहेतुः । भौति भॊः। वाणं त्राः । सम्पदादित्वात् किए। भीश्च त्राश्च भीत्रौ । भीत्रावों येषां ते भीत्रार्थाः। विभत्यर्थानामित्यादि। विभतित्रायति- शब्दाविह साहचर्याद बिभेतित्रायत्यर्थयोर्वर्तते। बिभेतिरों येषां ते बिभत्यर्थाः । वायतिरों येषां ते वायत्यर्थाः। बिभतीति। विभी भये । . जौहोत्यादिकः । उहिजत इति। प्रोविजी भयचलनयोः । तौदादिको- ऽनुदात्तेत् । वायत इति । बैङ् पालने भौवादिकः। भरण्ये विभेतीति । नावारण्याब्रयम्। किं तस्।ि तवस्थेभ्य चौरादिभ्यः । ननु चावाधिकरण- ।

२८२ न्यासः । संज्ञा परत्वाद बाधिका भविथति । अपि च ध्रुवमित्यनुवर्तते । ध्रुवञ्चावधि- भूतमित्युक्ताम् । न चारण्यमवधिभावेन विवक्षितम् । तत् किमतविहत्त्यर्थेन भयहेतुग्रहणेन ? एवन्तईि पूर्वस्यायं प्रपञ्चः। नहि कायसम्प्राप्तिपूर्वक एवापायो भवति । किन्तर्हि ? बुद्धिसंम्प्राप्तिपूर्वकोऽपि । पस्ति चेह बुद्धि- संप्राप्तिपूर्वकोऽप्यपायः । तथाहि चौरेभ्यो तथाहि चौरभ्यो बिभेतीत्यत्र यस्तावत् पुरुषः प्रेक्षावान् भवति स एवं पश्यति । यदि मां चौराः पश्येयुर्धवं मे मृत्युरिति विचारयं स्तान् बुद्धा प्राप्नोति । प्राप्य च ततो निवर्तते। तत्र ध्रुवमित्यादिनैव सिद्धम् । तस्मात् पूर्वस्यायं प्रपञ्चः । नच प्रपञ्चे गुरुलाघवं चिन्त्यते । एवमुत्तरेऽपि योगाः पूर्वस्यैव प्रपञ्चा वेदितव्याः । तदुदाहरणा- नामध्ययनात् पराजयत इत्येवमादीनां पूर्वेणैव सिद्धत्वात् । यथाच तेषां सिद्धत्वं तथा भाष्य एव प्रतिपादितम् । तस्मात् तत्रापि गुरुलाघवं न चिन्तनीयम् । २६ । पराजेग्सोढ़ः। सोढुं न शक्यत इति । अभिभवितुं न शक्यत इत्यर्थः । अध्ययनात् पराजयत इत्यध्ययनमभिभवितुं न शक्नोति न पारयतीत्यर्थः । विप- राभ्याञ्जरित्यात्मनेपदम् (१।३।१८)। शत्रून् पराजयत इत्यभिभवतीत्यर्थः । ननु च परत्वात् कर्मसंजयैवान बाधितत्वादपादानसंज्ञा न भविष्यति। तत् किमेतनिवृत्त्यर्थेनासोढ़ग्रहणेन ? सत्यमेतत् । प्रपञ्चे गुरुलाघवं नहि चिन्त्यते । प्रपञ्चश्चायम् । अस्ति झवाध्ययनाद बुद्धिसंसर्गपूर्वकोऽपायः । तथाहि य एव पुरुषो ऽलसो भवति स एवं मन्यते दुःखायैवैतदध्ययन- मिति । पश्यन् बुद्ध्या तत् प्राप्नोति । प्राप्य च ततो निवर्तते । तस्मात् पूर्वेणैव सिद्धम् । ३७। वारणार्थानामौभितः । वारणमर्थो येषां ते वारणार्थाः । यवेभ्यो गा वारयतीति । गा इति गवा- मौसिततमत्वेन विवक्षितत्वात् कर्मसंज्ञा । गोशब्दाच्छस्। ौतोम् (६।१।८३) शसोरित्यात्त्वम् । रुत्वे कते भोभगोअघोअपूर्वस्येति (८।३।१७) यत्वम् । हलि ( ११४)। २६३ सर्वेषामिति (८।।२२) यलोपः । वारयतीति । वृञ् प्रावरणे । चुरादिणिच् । निवर्तयतीति । तु वर्त्तने। हेतुमस्मिन् । यवेभ्यो गा वारयति क्षेत्रे । पत्र क्षेत्रस्यानीप्सितस्य न भवति संज्ञा। ईप्सितग्रहणात्। ननु चात्र परत्वादधि- करणसंजयैव बाधितत्वादपादानसंज्ञायाः क्षेत्रस्यापादानसंज्ञा न भविष्यतीत्यतो न कर्त्तव्यमोसितग्रहणमित्येतबाशङ्गनीयम् । उक्तोत्तरत्वात् । २८। अन्तौं येनादर्श नमिच्छति। अन्ताविति निमित्तसप्तमीयम्। निमित्तात् कर्मसंयोग इति (२।३।३६,वा) सप्तमी यथा चर्मणि हीपिनं हन्तीति । एतदेव ज्ञापकं निमित्तात् कर्मसंयोग- ऽस्ति सप्तमीति । अस्ति यत्रादर्शनेन कर्मणा संयोगः । येनेति कर्तरि हतीया। ननु च कर्तृकर्मणोः (२।३।६५) कृतीति षष्ठ्या भवितव्यमिति ? नैतदस्ति । उभयप्राप्ती कर्मणीति (२।३।६६) नियमात् कर्मण्येव । न कर्तरि । कर्म त्वत्रादर्शनस्यात्मा। तस्यान्तरङ्गत्वात् स एव कर्म विज्ञायते। तत् कारक- मिति । यद्यप्यत्र सूत्रे तच्छब्दो नोपाप्तस्तथापि स यत्तदोर्नित्याभिसम्बन्धाम- भ्यते । उपाध्यायादतर्धत इत्यत्रोपाध्यायेन का शिष्य प्रात्मन: कर्मभूतस्या- दर्श नमिच्छति। अन्तहिनिमित्तम् । अन्तईप्त इति । दधातेर्लट् । स्वरितबिते. त्यात्मनेपदम् (१।३.७२)। शपः नुः। श्लाविति (६।१ १०) दिर्वचनम् । श्राभ्य- स्तयोरात (६।४।११२) इत्या कारलोपः । अभ्यासस्य जश्त्वम् । दधस्तथोश्चेति (८१२।३८) दकारस्य धकारः । परस्य धकारस्य खरि चेति (८।४।५५) चखें सकारः। निलीयत इति । लोङ् श्लेषणे । देवादिकः । चौराब दिदृक्षत इति । पत्र यश्चौरान् न दिक्षत इति स तैरात्मनोऽदर्शनमिच्छति । न त्वन्तईि निमित्तम् । किन्तूपधातनिवृत्त्यर्थम् । विस्पष्टार्थञ्चान्तर्डिग्रहणम् । पर- त्वात् कर्मसंजयैव बाधितत्वाञ्चौराणामिहापादानसंज्ञा न भविष्यति । प्रपञ्चा- थोऽयं योगः । न च प्रपञ्चे गुरुलाघवं चिन्त्यत इत्युक्तम् । दिक्षत इति । जात्रुस्मृदृशां (१।३।५७) सन इत्यत्र व्युत्पादितम् । अथ येनेति किमर्थम् ? उपाध्यायादन्तर्धते शिष्य इति शिष्यस्यान्तातुर्मा भूत् । नैतदस्ति । ध्रुवमित्यनु- वर्तते । ध्रुवचावधिभूतमित्युक्तम् । न चान्तर्वातावधिभूतः । एवं तऽसति ।

२८४ न्यासः। । येनेत्येतस्मिन् वचने सत्यामपि ध्रुवमित्यस्यानुवृत्तौ सूत्रस्यावाचकत्वं स्यात् । अतस्तन्मा भूदिति येनेत्युक्तम् । २६। आख्यातोपयोगे। नियमपूर्वकं विद्याग्रहणमिति । विद्याग्रहणार्थ शिष्य(B)प्रवृत्तिनियमः । स पूर्वी यस्य तत् तथोक्तम् । शेषादिभाषेति (५।४।१५४) कप । नटस्य गाथां शृणोतीति । सम्बन्धलक्षणा षष्ठी। नियमपूर्वकमिह विद्याग्रहणं नास्ति । ३०। जनिकर्तुः प्रकृतिः। जनिशब्दोऽत्र साहचयाज्जन्यर्थे वर्तते । अतएवाह जन्यर्थस्येति जन्मन इति । एतेन जन्यथं दर्शयति । तथाहि जनी प्रादुर्भाव इति पठ्यते । प्रादुर्भावो जन्म एव । कः पुनस्तस्य कतै त्यत आह जायमान इति । जाजनोर्जा इति (७३।७१) जादेशः । अथ प्रकतिग्रहणं किमर्थम् ? यावता ध्रुव मित्यनुवर्तते । ध्रुवञ्चावधिभूतमित्युक्तम् । जनिक चावधिः कारणमेव भवति । तत्रान्तरेणापि प्रकृतिग्रहणं प्रकृतेरेव भविष्यति । नैतदस्ति । पुत्चात् प्रमोदो जायत इत्यादौ पुत्वादेरप्यपादानसंज्ञा यथा स्यादित्येवमथं प्रकृति- ग्रहणम् । विविधं हि कारणम् । उपादानकारणं सहकारिकारणञ्च । तत्र यत् कार्येणाभिवदेशं तदुपादानकारणम् । यथा घटस्य मृत्पिण्डः । सहकारिकारणं यत् कार्योण भिवदेशम् । यथा तस्यैव दण्डचक्रादि । तत्रासति प्रकतिग्रहणे प्रत्यासत्तेरुपादानकारणस्यैव स्यात् । नेतरस्य । प्रकृति- ग्रहणे त सति सर्वस्व कारणमात्रस्य भवति । ३१ । भुवः प्रभवः। भवनं भूरिति सम्पदादित्वात् कि । प्रभवत्यस्मादिति प्रभव इत्यपादान ऋदोरबित्यप् (३३।५७)। ननु च हिमवतो गङ्गा प्रभवतीत्येतत् पूर्वेणैव सिद्धम्। तथा ह्यय मत्राथों हिमवतो गङ्गा जायत इति । तत् किमर्थमिद मारभ्यत इत्याह प्रथमत उपलभ्यत इति । एष चार्थोऽनेकार्थत्वाहातूनां वेदितव्यः । शिष्य तिरिति क्वचित् पाठातरम् ।

(१।४)। २८५ जन्यर्थस्त्वत्र न सम्भवत्येव । नहि हिमवान् गङ्गायाः कारणम् । सा अन्येभ्य एव कारणेभ्य उत्पत्रा। हिमवति तु केवलं प्रथमत उपलभ्यत इति । ३२। कर्मणा यमभिप्रेति स सम्प्रदानम् । कर्मणा करणभूतेनेति । ननु च कथं कर्म करणं भवति ? क्रियाभेद- सम्बन्धात् । तथाहि ददातिक्रिययाऽतुमिष्टतमत्वात् तस्याः कर्मत्वम् । अभिप्रायणक्रियां प्रति तस्य साधकतमत्वात् करणत्वम् । अभिप्रेतीति । अभिसम्बध्नातीत्यर्थः । यदि कर्मणा यमभिप्रेति स सम्प्रदानसंज्ञो भव त्येवमजां नयति ग्राममित्यजादिभिनयनक्रियाकर्मभिः सम्बध्यमानस्य ग्रामस्य सम्प्रदानसंज्ञा प्रसज्येतत्यत आह अन्वर्थमंज्ञाविज्ञानादित्यादि । सम्प्रदान- मिति महत्याः संज्ञायाः करणस्यैतत् प्रयोजन मन्वर्थसंज्ञा यथा विज्ञायेत सम्यक् प्रकर्षेण दीयते यस्मै तत् सम्प्रदानमिति । तेन ददातः कर्मणा यमभिप्रैति तत् सम्प्रदानमिति विज्ञायते । नन्वेवमपि रजकस्य वस्त्रं ददाति वतः पृष्ठं ददातीत्यत्र प्राप्नोति। नैतदस्ति । दानं हि नाम पूजानुग्रह- काम्यया स्वकीयद्रव्यपरित्यागः परस्वत्वापत्तिः । सच्चेह नास्ति । अतो न भविष्यति। कर्मणेति किमर्थम् ? यमभिप्रैति स सम्प्रदान मित्युच्यमाने यमभिप्रेति तस्य कम्मण एव सम्प्रदानसंज्ञा स्यात्। कर्मसंज्ञायास्तु ददातिकर्म- णोऽन्यत्रावकाशः स्यादोदनं पचतीति। यसग्रहणं किमर्थम् ? कर्मणाभिप्रैति संप्रदानमित्युच्यमाने योऽभिप्रेति तस्य संप्रदानसंज्ञा स्यात् । ततश्च कर्तुः संप्रदानसंज्ञा स्यात्। कर्तृसंज्ञायास्तु यत्र कर्मसम्बन्धो नास्ति सोऽवकाशः स्थादास्ते शेत इति । अथाभिप्रग्रहणं किमर्थम् ? कर्मणा यमति स सम्प्रदान- मित्युच्यमाने कालविशेषविवक्षा स्यात्। वर्तमान एव स्यात् । ततश्यो- पाध्यायाय गामदादुपाध्यायाय गां दास्यतीत्यत्र न स्यात् । अभिप्रग्रहणे तु सति भवति । अभिराभिमुख्ये वर्तते । तच्चाप्यतीतेऽप्यस्ति । कम्मणि प्रारम्भे। स चासविहितायां भाविन्यामपि क्रियायां सम्भवतीति सर्वत्र संज्ञा सिधा भवति। नैतदभिग्रहणस्य प्रयोजनमुपपद्यते। यथैव कर्मपत्य वैकत्वसंख्याया विवक्षा न भवति यथाच यं स प्रत्यत्र लि- प्रशब्द आदि २९६ न्यांसः । संख्ययोर्विवक्षा न भवति तथा कालस्वापि न भविष्यति । किं कारणम् ? उपलक्षणार्थत्वात् । यथा सोऽर्थों योऽनर्थ बाधत इत्युक्ते योऽपि बाधितवान् योऽपि बाधिष्यते सोऽप्यर्थ एव । एवन्तईि ग्रन्याधिक्यादर्थाधिक्यं यथा स्यादि- त्येवमर्थमभिप्रग्रहणम् । एतेन क्रिययापि यमभिप्रेति तस्यापि सम्प्रदान- संज्ञा सिद्धा भवति । अन्यथा हि यद्यपि क्रिया प्रार्थनाध्यवसानाभ्यां व्याप्तु- मिष्टतमत्वात् कर्म तथापि ददातिकम्मसम्बन्धाभावान सिद्देवत् । कथं पुनरेतदवसितं क्रियया यमभिप्रेति स सम्प्रदानमित्ययमर्थोऽत्र प्रतिपादयितु- मिष्टतम इति ? अभिप्रग्रहणात् । अस्ति यत्राचार्यस्य कश्चिदर्थोऽधिको- ऽभिमतो यस्यावभासनायाधिकं शब्दान्तरं प्रयुक्तमिति गम्यते । नत्वर्थ- विशेषः । नहि तत् तस्य वाचकम् । यद्यप्यवाचकं स्यात् तथापि लक्ष्य . दर्शनवशादविच्छिवाचार्यपारम्पर्योपदेशाच विशेषावगतिर्भविष्यतीत्यद्देष्य- मेतत् । क्रियाग्रहणमपि कर्त्तव्यमिति । क्रियाया ग्रहणं क्रियाग्रहणम् । येन क्रिया गृह्यते । तद्याख्यानं कर्तव्यम् । किं पुनस्तव्याख्यानम् ? तच्चास्माभिरभिप्रग्रहणस्य प्रयोजनं वर्णयद्भिः सतमेव । का पुनरिह क्रिया ययाभिप्रेयमाणस्य सम्प्रदानसंन्नष्यते ? सा विवक्षिता। अत आह क्रियया यमभिप्रतीत्यादि। निगलते इति। गह गह्न कुत्सायामनुदातेत् । युद्धाय सब्रह्यत इति । नह बन्धने दिवादी खरितेत् । स चेह निश्चये वर्तते । युद्धे निश्चयं करोतीत्यर्थः । पत्ये शेत इति। शीङत्रोपसर्पणपूर्वके शयने वर्तते। पतिमुपसृप्य (C) शेत इत्यर्थः । कर्मण: करणसंज्ञत्यादि। एतत् पशना रुद्र यजत इत्येतहिषयमेव वेदितव्यम्। यजिः स्वरितेत् । एतच्च व्यत्ययो (२।१।८५) बहुलमिति सुव्यत्ययेन सिमेवेति न वक्तव्यम् । - ३३ । रुच्यर्थानां प्रीयमाणः । रुचिना समानार्था रुथर्था इति । रुथर्थानामित्यस्मादेव निपातनान् मयूरव्यंसकादित्वान् मध्यपदलोपी समासः। समानार्थी इति । एकार्था (C) शयन पतिमभिप्रेति । पतिमाभिमुखानारभ्य शेत इति पुमापुस्तके पाठः ।

२८७ ? (१।४)। इत्यर्थः । यद्यपि सचिह तो पव्यते तथापीहाभिलाष वर्तते । अनेकार्थ- वाहातूनाम् । तत्रैव प्रीयमाणार्थस्य सम्भवात् । यस्य ह्यभिलाषः स प्रीय- माणः। यस्त्वभिलषति स प्रोणाति । प्रीयमाण इति प्यमाण इत्यर्थः प्रौञ् तर्पण इत्येतस्मात् कर्मणि विहितस्य लस्य शानच् । अन्यकर्तृक इत्यादिना तमभिलाषविशेषं दर्शयन् रुचिशब्दस्यार्थमाचष्टे । प्रीयमाणापेक्षया ऽन्योऽर्थों वेदितव्यः । प्रीयमाणादन्यः कर्ता यस्य सोऽन्यकर्तृकः । रोचते स्वदत इति । रुच दीप्तौ। खद प्रास्वादने । अनुदात्तेतौ । देवदत्तस्थस्ये. त्यादिना ऽन्य कर्तृकतामभिलाषस्य दर्शयति । देवदत्ताय रोचते मोदक पथीति । प्रीयमाणग्रहणादिहाधिकरणस्य पथः सम्प्रदानसंज्ञा न भवति । अथ देवदत्तो मोदकमभिलषतीत्यत्र देवदत्तस्य सम्प्रदानसंज्ञा कस्मात् भवति ? रुच्यर्थाभावात्। अन्यकर्तृको घभिलाषो रुचिरितक्तम् । न चहान्य- कर्तृकोऽभिलाषः । किं तर्हि ? प्रीयमाणो देवदत्तो यस्तत्रस्थोऽभिलाषस्तत्- कत्तकः । ३४। श्लाघगुस्थाशपां जौमामानः । जीसामान इति । मारणतोषणनिशामनेषु ज्ञा इति घटादिषु पठ्यते । तस्मान् निशामने ज्ञाने वर्तमानाद् हेतुमम्मिच् । अथवा जप मिञ्चेति चुरादौ पठ्यते । तस्माच्चुरादिणिच । मित्त्वाद् इखत्वम् । सन् । हिर्वचनम् । आज्ञप्यधामिदितीत्वम् (७।४।५५) । अत्र (१४।५८) लोपोभ्यासस्येत्यभ्यास- लोपः । कर्मणि लकारः । शानच् । यक् । अतो ( ६।४.४८ ) लोपः । श्लाघत इति । श्लाट कत्थने ऽनुदात्तेत् । अपहुत अपनये। पादादिकः । तिष्ठत इति । प्रकाशनस्थेयाख्ययोश्चेति (१।३।२७) तङ् । शपत इति । शप उपलम्भन (१।३।२१, वा) इत्यनेनोपसंख्यानेन तङ् । ३५। धारेत्तमर्णः । उत्तमर्ण इति । ऋणे उत्तम उत्तमर्णः । पतएव निपातनात् समासः । सप्तमीसमासे ऋणस्य पूर्वनिपातात् । ननु चोत्तमणे ऋणशब्देन न भवि- तव्यम् । ऋणमाधमये (८.२०६०) इत्याधमण्ये तस्य निपातनात् । नैतदस्ति । इति ।

न्यासः। कालान्तर देयनियमोपलक्षणार्थं हि तत्राधमयग्रहणम्। प्रत उत्तमणेऽपि भवत्येव । शतं धारयतीति । धङ, पवस्थाने । शतं ध्रियते स्वरूपणावतिष्ठते । खभावाव प्रचवते । तदन्यः प्रयुङक्त इति हेतुमति (३।१।२६) चेति णिच् । ग्राम इति ग्रामस्थाधिकरणस्यानुत्तमर्णस्य न भवति । ३६ । साहरीभितः । स्मृहयतीति । अतो ( ६।४।४८) लोपस्याचः परस्मिन् (१।१:५७ ) पूर्वविधाविति स्थानिवद्भावाद् गुणो न भवति । यदा तु पुष्यादीनामौप्सिततमत्वं विवक्ष्यते तदा परत्वात् कर्मसंचैव भवति । पुष्पाणि स्पृहयतीति । ३७। क्रुधटुहेासूयार्थानां यं प्रति कोपः । क्रुधट्ठहावकम्मको। तत्र षष्ठयां प्राप्तायामयमारम्भः । इतरौ सम्मको। तत्र द्वितीयायां प्राप्तायाम् । कथं पुनरेषां भिन्नार्थत्वे सति यं प्रति कोप इति सामान्येन तविशेषणमुपपद्यत इत्याह । क्रोधस्तावदित्यादि। सुगमम् । क्रुध्यति द्रुह्यतीति । क्रुध कोपे । द्रुह जिघांसायाम् । देवादिको । ईर्थतीति । ईर्श सूर्फ ईथ ईऑर्थाः । असूयतीति । असूयशब्दः कण्डादियगन्तः । भार्यामीर्थतीति । अस्ति भाव्यामौ। न तु तां प्रति कोपः। केवलं परैदृश्यमानां तां न क्षमते। अथास्मान् द्देष्टीत्यत्र कथं न भवति सम्प्रदान- संज्ञा ? विषेरक्रोधाद्यर्थत्वात् । अप्रीती ह्येनं स्मरन्ति । तथाचाचेतनेष्वपि प्रयुज्यते । औषधं इष्टोति। नाभिनन्दतीति गम्यते । ३८। क्रुधद्रुहो रुपसृष्टयोः कर्म ३८ । राधीक्ष्योर्यस्य विप्रग्नः । राध्यतीति । राध साध संसिद्धौ। देवादिकः । दैवमिति शुभाशुभ कर्म । यस्येति ग्रहणं विस्पष्टार्थम् । तथाहि यं प्रतीत्यनुवर्तते । यं प्रति विप्रश्न इतवमभिसम्बन्ध क्रियमाणे यस्येत्यस्वार्थोऽप्रयुज्यमानस्यापि तत्र गम्यत एव।

२८९ (११४)। ४०। प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता। परणेत्यादि । अन्येन केनचिदिदं मे क्रियतामिति प्रयुक्तो व्यापारितः सन् प्रतिजानौते । अतः प्रतिज्ञातुरन्येन प्रयुक्त स्याभ्युपगमो भवति प्रयोक्तोति व्यापारयिता। सूत्रे पूर्वस्येत्यर्थापक्षया पुंलिङ्गेन निर्देशः । त्वों विचार्यमाण: क्रियैव भवति । यस्मात् कति क्रियाया एव भवति नान्यस्यार्थस्येतबाह पूर्वस्याः क्रियाया इति । यश्चामौ पूर्वस्याः क्रियायाः कर्ता भवति स प्रतिज्ञातुः प्रयोजको भवतीति हेतुसंज्ञायां प्राप्ताया- मिदं वचनम्। देवदत्ताय गां प्रतिशृणोति । अत्र पूर्वस्या याचनक्रियाया देवदत्तः कर्मा। देवदस्तेन हि मद्य गां देहीति याचित: स यदा ददामोति प्रतिजानीते तदेवं प्रयुज्यते देवदत्ताय गां प्रतिशृणोतीति । पूर्वस्य कर्तति किम् ? विना तेन गवादेरभ्युपेयमानस्य कर्मण एव स्यात् । ननु च परत्वात् कम्मसंज्ञा तस्य बाधिका भविष्यति । नैतदम्ति । नाप्रासे हि संज्ञान्तर इदमार भ्यत इति । इहापि च देवदत्ताय गामाशृणोतीति देवदत्तस्य हेतुसंज्ञा प्राप्नोति । तत्र पूर्वस्य कतैत्यस्मिन्नसति यथा देवदत्तस्य हेतुसंज्ञां बाधते तथा कर्मसंज्ञामपि बाधेत । अथवा पुरस्ताद पवादा अनन्तरान् विधीन् बाधन्ते नोत्तरानिति कर्मसंज्ञामिव बाधित। पूर्वस्य कर्त्तत्यस्मिंस्तु मति हेतुसंज्ञामेव बाधते । न कर्मसंज्ञाम् । ४१ । अनुपतिराश्च । अनुप्रतिग्टण इति भाप्रत्ययेन निर्देशात् क्रमादिपठितस्य गृ शब्द इत्यस्य ग्रहणम् । न गृ निगरण इत्यस्य तौदादिकस्य । होता प्रथमं शंसतीति । एतेन स्तुतिक्रियायाः पूर्वस्या होता कर्तति दर्शयति । प्रोत्माहयतीत्यनेनानु- प्रणातिप्रतिग्टणातिशब्दयोरर्थमाचष्टे । कथं पुनर्जायते ऽनुपूर्वः प्रतिपूर्वश्व शंसितुर्गणातिः प्रोत्साहने वर्तत इत्याह अनुगरः प्रतिगर इति । अनु- गीर्यते होता प्रथम प्रशस्यते येन शब्देन सोऽयमनुगरः । एवं प्रतिगीर्यते येन स प्रतिगरः । पूर्वस्य कर्तेत्येव । होत्रेऽनुगृणाति सदसीत्यधिकरणस्य मा भूत् । - ३७ न्यासः । तत्र ४३। साधकतमं करणम्। ननु च सामग्राधीना हि क्रियासिदि रेकस्याप्यभावेन न भवति । सत् कस्यात्र प्रकर्षों यत्परिग्रहाय साधकतमशब्दस्य ग्रहणमिति यश्चोदयेत् तं प्रत्याह क्रियासिद्धावित्यादि । प्रकष्टमत्यन्तमुपकारकम् । अथवा प्रकर्षः प्रकष्टम् । नपंसके भावे (३।३।११४) क्तः । प्रकटन प्रकर्षणोपकारकं प्रकष्टो- पकारकम् । यत् क्रियासिद्धिविषये प्रकर्षणोपकारकं विवक्षितं तत् साधक- तमम् । विवक्षितग्रहणं यदा प्रकष्टोपकारकत्वेन विवक्ष्यते तदा साधकतम- व्यवहारो विज्ञायते नान्यदेति ज्ञापनार्थम् । तथाहि विवक्षावशाद् यदेव कदाचित् करणम्भवति धनुषा विध्यतीति तदेव कदाचित् स्वातन्वाविवक्षायां कर्तृत्वमनुभवति धनु विध्यतीति । लुनातीति पादीनां ह्रस्वः (३।६०) । तमब् ग्रहणं किम् ? गङ्गायां घोष इति । यदि तमग्रहणं न क्रियेत ततोऽत्रा- धिकरणसंज्ञा न स्यात् । इह हि विविध आधारः । गौणो मुख्यश्च । मुख्यो य आधेयेन व्याप्यते यथा तिलेषु तैलमस्ति । अत्र तैलेनाधेयेनाधार- भूता स्तिला व्याप्ताः । अव्याप्तो गौणो यथा गङ्गायां घोष इति । अत्र हि सामीप्याद् गङ्गाया आधारत्व मुपचरितम् । न मुख्यम् । व्याप्तभावात् । तवासति तमग्रहणे गौणमुख्ययोर्मुख्य कार्यसंप्रत्यय इति मुख्यस्यैवाधिकरण- संज्ञा स्यात् । नेतरस्य । तमन्ग्रहणात् तस्यापि भवति । तथापीह तमन्- ग्रहणं न कर्तव्यम् । कथम् ? विनापि तेन प्रकर्षावगतः । यथैव धनभि- रूपाय कन्यादानस्य प्रहत्ति र्नास्तीत्यभिरूपाय कन्या देयेत्युक्ते विनापि प्रकर्ष प्रत्ययेनाभिरूपतमायेति गम्यते तथेहापि कारकाधिकारादसाधके संज्ञायाः प्रवत्तिर्नास्तीति साधकं करणमित्यु ते ऽन्तरेणापि तमग्रहणं साधकतममिति गम्यते । तत् किं तमन्ग्रहणेन ? तदेतत् तमब्ग्रहणं ज्ञापनाथं कृतम् । एतदनेन ज्ञाप्यत वह कारकाधिकार इतः सूत्रादन्यत्र विना तमग्रहणेन प्रकर्षी नाश्रीयत इति । तेनाधारोऽधिकरण मित्यनेन गङ्गायां घोष इत्यादावमुख्यस्यापि गङ्गादेराधारस्याधिकरणसंज्ञा सिद्धा भवति ४३। दिवः कर्म च। दीव्यतीति । हलि (८१२।७७) चेति दीर्घः ।

( १ )। २८१ परिक्रयणे संपदानमन्यतरस्याम् । परिकीति: परिक्रयणम्। नियतकालमिति। नात्यन्तिकम् । वेतना- दिनेति । आदिशब्देन बन्धकादीनां ग्रहणम् । नात्यन्तिकः क्रय एवेति नियतकालत्वं स्पष्टीकरोति। परिशब्दोऽत्र प्रत्यासक्सिं द्योतयति । क्रयो हि नामात्यन्तिकः । वेतनादिमा केवलं यत्तु नियतकालं तदात्यन्तिकस्य क्रयस्य समीपमिति परिशब्देनाख्यायते । ४५। आधागेऽधिकरणम् । आध्यिन्ते क्रिया गुणा अस्मिन्नित्याधार इति । अध्यायन्यायोदयावत्यादिना- (३।३।१२२) ऽधारशब्दोऽधिकरणे घजन्तो व्युत्पादितः । क्रियापक्षत्वात् कारकस्येति क्रियाग्रहणम् । यद्याध्रियन्ते क्रिया यस्मिन् स आधार इत्येवं हि सति कर्तृकर्मणो रेवा धिकरणसंज्ञा प्रमज्येत । तयोरेव हि क्रिया आध्रियन्ते । तथाहि कर्तुस्था वा क्रिया भवति कर्मस्था वा । अनवकाशत्वात् कर्तृकर्मणोः संज्ञा न भविष्यत्येष दोषप्रसङ्ग इति । एतच्चानुत्तरम् । सत्यपि धनवकाशत्वे तयोः पर्याय: स्यात् । एकदाधिकरणसंज्ञा । अन्यदा कर्ममंना कर्तृसंजेति यश्चोदयेत् तं प्रत्याह कर्तृकर्मणोरित्यादि । एतन यादृशस्थाधारस्याधिकरण- संनया भवितवा तन्दर्शयति । प्रतिराभिमुख्ये। क्रियां प्रति य आधार इति । क्रियाया अभिमुखो य आधार इत्यर्थः । यश्च क्रियां धारयति स क्रियाया अभि- मुखो भवति । क्रियायाम्तु धारणं माक्षावधानेन वा । कर्तृकर्मणोः क्रिया- श्रययोर्धारणात् । तत्र पूर्वस्य व्यवच्छेदाथ कर्तृकर्मणोरितक्तम् । तदेतदुक्त भवति । कर्तृकर्मणोः क्रियाधारभूतयोर्धारणात् क्रियाया अभिमुखो य आधारस्तस्याधिकरणसंज्ञा भवतीति । तदेवं क्रियाधारभूतकर्तृकर्मधारण- हारण क्रियाया अभिमुखो य आधारस्तस्याधिकरणसंज्ञा यतोऽनेन विधीयते ततो न भवति पूर्वस्य दोषस्य प्रसङ्गः । नहि कर्तृकर्मणोरनेन प्रकारण क्रियां प्रत्याधारत्वम्। अपितु साक्षादेव क्रियाधारणात् । नन्वेवमपि कर्तृकर्मणो- मुख्यं क्रियाधारत्व' साक्षादेव क्रियाधारणात् । कर्तृकर्माधारस्य तु कटादे- गौणत्वं क्रियाश्रयभूतक कर्तृकर्मधारणदारण क्रियाधारणात् । सत्र मुख्य २८२ न्यासः । । आधारे सति गौणस्याधिकरणसंज्ञा न प्राप्नोतीति स दोष स्तदवस्थ एव । नैतदस्ति । तमग्रहणेन ज्ञापित मेतत् । गौणस्याप्याधारस्याधिकरण- संज्ञा भवतीति। भवतु गौणस्याधिकरणमंज्ञा । मुख्यस्यापि कर्तुः कर्मणश्च कस्मात् भवतीति चेत् ? परत्वादनवकाशत्वाच्च कर्तृकम्मसंज्ञाभ्यां बाध्यमानत्वात् । अधिकरणसंज्ञा हि पूर्वा गौण आधारे सावकाशा । तविपरीते तु कर्तृकर्मसंज्ञे इति ताभ्यां बाध्यमाना नोत्सहते तयोविषय मवगाहितम् । कट प्रास्त इति । कर्तृस्था क्रिया यत्र पूर्वेण प्रकारणाध्रियते तस्थोदाहरण मासनक्रियायाः कर्तस्थत्वात्। स्थाल्यां पचतीति । कर्मस्था क्रिया यत्राघ्रियते तस्योदाहरणं विक्लेदनक्रियायाः कर्मस्थत्वात् । तत् पुनरधिकरणं त्रिप्रकारम् । औपश्लेषिकं वैषयिकमभिव्यापकञ्च । तनाये कट आस्ते स्थाल्याम्पचतीति कटादे रब्याधारस्य ह्याधेयेन सहोपश्लेषः संयोगलक्षणोऽस्तीत्यौपश्लेषिकं तद् भवति । वैषयिकं गुरौ वसति गङ्गायां घोष इति । प्रतिवसतीति । विषयो ह्यनन्यत्रभावः । यथा चक्षुष्प्रभृतीनां रूपादिभ्योऽनन्यत्रभावाच चक्षुरादीनां रूपादयो विषया इतुपच्यन्त एवं शिष्यादीनां गुर्वादिभ्योऽनन्यत्रभावादेषां ते विषया इति । ननु चाधारोऽ- धिकरण मितुतिम् । आधारश्च को भवति ? य आश्रयः । आश्रयः संयो- गतः समवायतो वा भवति । न च शिष्यादीनां गुरुप्रभृतिभिः सह संयोगः समवायो वा ऽस्ति । तदयुक्तं तेषामधिकरणत्वम् । नैतदस्ति । यदायत्ता हि यस्य स्थितिः स विनापि संयोगसमवायाभ्यां तस्याश्रयो भवति यथा राजायत्तस्थितित्वात् पुरुषस्य राजेति । न च राजा सह पुरुषस्य संयोगसमवायौ स्तः । तथाहि तदधीनस्थितित्वाद् राजाश्रयः पुरुष इति लोके व्यपदिश्यते । तथा शिष्यादीनां गुवाद्यायत्ता स्थितिरिति युक्तस्तान् प्रति गुरुप्रभृतीनामाश्रयभावः । अभिवद्यापकं यथा तिलेषु तैलं दधि सर्पिरिति । तिलादिकं तैलादिकमाधेयं वयाप्यावतिष्ठत इति तिलादि- कमभिवयापकमधिकरणम् । यद्यप्यात्र तिलादीनां तैलादिभिः सह संयोगो- ऽस्ति तथापि देशविभागाभावादत्र संश्लेषवावहारो नास्तीत्वौपश्लेषिकात् सत् पृथगवापस्थाप्यते । ।

(१।४) ४६ । अधिशौङस्थासां कर्म । अध्यास्तइति । आस उपवेशन। अदादिरनुदात्सेत् । ४७ । अभिनिविशश्च । ४८। उपान्वध्याडवसः । लुग्विकरणालुगविकरणपरिभाषया वम निवास इत्यस्य भौवादिकस्य ग्रहणम् । न वस आच्छादन इत्यस्यादादिकस्य । वमेरश्यर्थस्येत्यादि। उपोष्ण रजनीमकामिति विरात्रमुपवसतीत्यत्र च कालावनोरिति (२०३५) द्वितीया। अथवा कालभावाध्वगन्तवाति (१:४.५. वा) कमत्वे । अत्रार्थशब्दो निवृत्तिवचन इति भोजननिवृत्तिवाचिन इत्यर्थः । वक्तवामिति वाख्येय. तत्रेदं वाख्यानम् । इहाप्यन्यतरस्यांग्रहणमनुवर्तते । व्यवस्थितविभाषा विज्ञायते तेन वसेरश्यर्थस्य प्रतिषेधो भविष्यति । । मित्यर्थः । सा च । ४६ । कर्तुगैसितमं कर्म। कर्तुः क्रिययेति । एतेन कर्तुरिति नेप्सिततमापेक्षया क्तस्य च (२।३।६७) वत्तमान इत्यनेनेयं षष्ठी। अपितु क्रियापेक्षया शेषलक्षणैवेति दर्शयति । ननु च नेह क्रियोपात्ता। तत् कथं तदपेक्षया षष्ठी प्रयुज्यते ? यद्यपि नोपात्ता तथापि कर्तुः क्रियापक्षत्वात् कर्तृशब्दोऽयं सम्बन्धिशब्द इति कर्तृसम्बन्धिनों क्रियामुपस्थापयतीत्यदोषः । ईप्सितशब्दो धस्ति रुढिशब्द ईसितोऽभिप्रेत इति । अस्ति च क्रियाशब्द आप्तुमिष्ट ईसित इति । तदेह क्रियाशब्दो ग्राह्यते । नेतरः । नहि रूढ़िशब्दस्य क्रियया कर्तृसाध्यया सम्बन्ध उपपद्यते। ईप्सित व्याप्ती । सन् । दिर्वचनम् । आब् जप्यधामोदितीत्त्वम् (७.४।५५) । प्रत्र (018।५८) लोपोऽभ्यासस्ये त्यभ्यासलोपः। ईप्स इति स्थिते तप्रत्यये कत इटि चातो लोप (६।४:४८) इत्यकारलोप चेप्सितशब्दः सम्पद्यते। तेनार्थहय- मिहोपात्तम् । प्रकृत्यर्थः प्रत्ययार्थश्च । तत्राप्तुमित्यनेन प्रवत्यथं दर्शयति । इष्टतममित्यनेन प्रत्ययार्थम् । कर्मण इति। अश्वस्य । तस्य बन्धनक्रियया इति । आलू २८8 न्यासः । आप्तुमिष्टतमत्वात् कर्मत्वम् । स हि भक्षणक्रियया माषानाप्तुमिच्छति । पयसौदनं भुक्ता इति । असति हि तमग्रहणे पयसोऽपि स्यात् । तदपि कर्तुर्भुजिक्रियया व्याप्तु मिष्टम्भवति। तमग्रहणे तु सति न भवत्यतिप्रसङ्गः । प्राधान्यादोदनस्यैवेप्सिततमत्वात् । प्राधान्य वोदनस्य संस्कार्यत्वात् । पयसस्त्वप्राधान्यं संस्कारकत्वात्। कर्मइत्यनुवर्तमान इति । अधिशोथासां कर्मेत्यतः (१।४।४६)। पुनरित्यादि। पूर्व कर्मग्रहण माधारण सम्बडम् । प्रतस्तदनुहतो तस्यानुवृत्तिः स्यादत आधारनिहत्त्यथं पुनः कर्मग्रहणं क्रियते । यदि पुन राधारोऽनुवर्तते ततः किं स्यादित्यत्राह आधारस्यैव हि स्यादिति । हिशब्दो यस्मादर्थे । यस्मादाधारस्यानुवृत्तौ तस्यैव स्यात् तस्मात् तन्निवृत्त्यर्थं पुनः कमंग्रहणमिति सम्बन्धः । क पुनराधारस्यैव स्यादित्याह गेहमित्यादि। आधारानुवृत्तौ तु यत्र न भवति तदर्शयितुमाह ओदनं पचतीत्यादि । आदि- शब्टेनौदनं भुङ्क्त इत्येवमाद ग्रहणम् । अथ नदी कूलं कर्षतीत्यादौ कथं कर्मसंज्ञा? कथञ्च न स्यात् ? नद्यादेरचेतनत्वात् । अचेतनानामीप्साया असम्भवात् । नैतदस्ति । अत्र नदीति पदान्तरसम्बन्धादीप्साया अभावोऽ चेतनस्यापि भावः प्रतीयते । मच पदसंस्कारे पदान्तरसम्बन्धगम्योऽर्थ उपयुः ज्यते । तेन कूलं कर्षतीत्यादाविच्छामात्रमाश्रिता व्याप्तिः । कर्म च संस्कियते । यद्यपि पश्चाबद्या सह सम्बन्धादचेतनत्वमिच्छाया अभावश्च प्रतीयत तथापि च तहहिरङ्गत्वादन्तरङ्गसंज्ञाकाव्यं न शक्नोति निवर्तयितुम् । अनेनैव न्यायेन यत्र वाप्तिर्नास्तीच्छामात्रञ्च केवलं तत्रापि कर्मसंज्ञा भवति यथा ग्राम गन्तुमिच्छामि नच मे गमनशक्तिरस्तीति । तच्च कर्म त्रिविधम् । नित्य विकायं प्राप्यञ्च । तत्र निर्वत्त्यं यदसदेवोत्पाद्यते । यस्य जन्म क्रियते तनिर्व- य॑म् । यथा कटं करोति । कटो छसन्नेव क्रियते । विकार्य यल्लब्धसत्त्वाक- मवस्थान्तरमापाद्यते यथा काष्ठानि भस्मीकरोति । नात्र काष्ठान्यसन्ताव जन्यन्ते कारणान्तरेभ्यः प्रागेवोत्पनत्वात्। उत्पन्नानि तु केवलं भस्माख्या मवस्थामापाद्यते। प्राप्यं यत्र व्याप्तिव्यतिरकण क्रियाकता विशेषा न विभाव्यन्ते यथाऽदित्यं पश्यतीति। नहि दृशिक्रियया व्याप्यमानस्य सवितुः प्राप्तरन्यः क्रियाकलविशेष उपलभ्यत इति प्राप्य मतत् कर्म ( ११४ ) २८५ ५० । तथा युक्तञ्चानीप्सितम् । चकारोऽवधारणे। अतएव वृत्तावाह तेनैवेति। अनीसितमिति यद्य- प्ययं प्रसज्यप्रतिषेधः स्यात् तदा ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीत्यादौ वृक्षमूलादीनां कम्मसंज्ञा न स्यात् । तथाहि प्रसज्यप्रतिषेधे सत्यनेन योगेनानीप्सितस्यैव कर्मसंज्ञा विधीयते । वृक्षमूलानि च न तावदीप्सितानि । पूर्व मनभिसन्धाय प्रवृत्तेः । नाप्यनीप्सितानि । अप्रतिकूलत्वात् । ततश्चानी- सितस्य कर्मसंज्ञा विधीयमाना तेषामीप्सितादन्यत्वेनानीप्सितानाब स्यात् । पर्युदासे तु सत्यनेन योगेनेसितादन्यस्य कमसंज्ञा विधीयते । भवन्ति च यथोक्तप्रकाराणि वृक्षमूलानीप्सितादन्यानि। अतस्तेषामपि कर्मसंज्ञा सिध्यती- त्येतदालोच्य पर्युदासोऽयमिति दर्शयितु माह ईप्सितादन्यदित्यादि । किं पुनस्त दित्यादि। देष्यमित्यादि । देष्य प्रतिकूलं यथा विषचौरादि। इतरदप्रतिकूलं यथोक्त प्रकाराणि वृक्षमूलानि । भक्षयतीति । भक्ष अदने । चौरादिकः । माणवकस्य ५१ । अकथितञ्च । अपादानादिभिर्विशेषकथाभिरिति । कारकमामान्यकथाया व्यवच्छेदार्थ- मेतत् । यदि हि केनाप्यकथितस्य कर्मसंज्ञा स्यात् तदा पितरं पन्थानं पृच्छतीत्यत्राकारकस्यापि माणवकस्य कर्मसंज्ञा स्यात् । परिगणनमिति । अन्यधातुव्यवच्छेदार्थमेतत् । तेन दुह प्रपूरण इत्येवमादी- नामेव धातूनां प्रयोगऽकथितस्य कर्मसंज्ञा विधीयत । नान्येषाम् । उपयुज्यत इत्युपयोग इति कर्मसाधनो धजन्तः । उपयुज्यत इति । दृष्टाणसिद्धी वापार्य्यत इत्यर्थः । पयःप्रभृतीति । प्रभृतिशब्देन भिक्षादीनां ग्रहणम् । तस्य निमित्तं गवादीति । अत्राप्यादिशब्देन पौरवाद ग्रहणम् । तस्योपयु- ज्यमानपयःप्रभृतिनिमित्तस्येति । उपयुज्यमानञ्च तत् पयःप्रभृति चेति विशेषणसमासं कृत्वोपयुज्यमानपयःप्रभृते निमित्त मिति षष्ठीसमास: । गवादेरिति । आदिशब्देन पौरवादे ग्रहणम् । ननुच पाण्यादिकम प्युपयोगनिमित्त मिति । तन विनोपयोगम्य पयमोऽसम्भवात्। आदि- २९६ न्यासः। मित्यर्थः। कः शब्देन कास्यपालादे ग्रहणम् । विहितात्र करणादिसंज्ञेति। आदिशब्देनाधि- करणसंज्ञाया ग्रहणम् । तदर्थमिति । करणादेः कर्मसंज्ञानिवृत्त्यर्थ अर्थशब्दस्य निवृत्तिवचनत्वात् । अपूर्वविधाविति। पूर्व ग्रहण- मवान्य विधे रुपलक्षणार्थम् । एतदुक्त भवति यस्यान्यो विधिनॊक्त स्तस्य कर्मसंज्ञेति । तेन यत्रापि वक्ष्यमाणे हेतुकर्तृसंज्ञे इति तत्राप्येषा संज्ञा न भवतीति दोग्धाप्युपयोगस्य निमित्तं तस्य कम्मसंज्ञा न भवति। सूत्रेऽप्य- कथित मिति कथननिवृत्तिपरायां चोदनायां भूतकालो न विवक्ष्यते । उपलक्षणत्वात्। तेन योऽपि कथयिष्यमाणो हेतुकर्तृसंज्ञाभ्यां तस्यापि कम्मसंज्ञा न भवतीत्युक्त भवति । विशासिगुणेनेति । पुनर्गुण इत्याह साधनमिति । साधनं हि क्रियाया उपकारकम् । यच्चोपकारक तद्पकार्यम् प्रधानमपेक्ष्य गुणो भवति । कतरत् पुनः साधन मित्याह । प्रधानं कर्मति । किं पुनस्तदित्याह। धम्मादिकमिति । आदिशब्देन पथ्यादे ग्रहणम् । प्रधानत्वन्तु धर्मादे स्तदर्थत्वाच् शिष्यादिप्रवृत्तेः। सम्ब- ध्यत इति सचत इत्यस्यार्थकथनम् । तथाहि षच समवाय इति पठ्यते । समवायश्च सम्बन्ध एव । सचते तेन गुणेन सम्बन्धमुपैति । यच्च येन सम्बन्ध- मुपैति तत् तेन सम्बध्यते । उक्त मित्याचरित मित्यस्य विवरणम् । सूत्रकारण- त्येतदपि कविनत्य स्य। गां दोग्धि पय इति । दुह प्रपूरणे । आदादिकः । दादेर्धातोर्घः (८।२।३२)। झषस्तथो (८।४।४०) धोधः । झलाञ्जश् झशीति (३।४।४३) जश्त्वम् । ननुचात्र विहिता ऽपादानसंज्ञा। अस्ति यत्रा- पायो गोः । दुहे: क्षरणार्थत्वात् । क्षरति गौः क्षीरम् । तद् गो दीग्धा क्षारयति । एवञ्च तत् क्षार्यमाणं ततोऽपक्रामतीति स्पष्ट एवापायः । ततो नेदमुदाहरणमुपपद्यते । नैतदेवम् । सत्यपि ह्यपाये नात्र गोरवधित्वं विवक्षितम् । किं तर्हि ? क्षीरं प्रति निमित्तभावमात्रम् । यद्येवं गो: कारकत्वं न स्याद् यथा वृक्षस्य पणं पततीत्यत्र वृक्षस्य न । क्षरणक्रियां प्रति निमितभावनाविवक्षितत्वात् । नैतत् । अवधित्वं यत्र गो ने विवक्षि- तम् । क्षरणं प्रति निमित्तभावस्तु विवक्षित एव । वृक्षस्य पणं पततीत्यत्र तु पतनं प्रति वृक्षस्य निमित्तभावमात्रमपि न विवक्षितं न केवलमवधिभाव (११४)। २८७ इत्यसमानम् । पौरवं गां याचत इति । ननु चात्र कथितापादानादिसंज्ञा घसौ पौरवाद गामादत्त इति । अस्त्येवापायः । नैतदस्ति । नहि याच- मादेवापायो भवति । किन्तर्हि याचितो ऽसौ यदि ददाति तदापायेन युज्यते । गामवरुणद्धि व्रजमिति । ननु च कथितात्र व्रजस्य कर्मसंज्ञा ऽधिकरणसंज्ञा वा। यदा प्रवेशयतीत्यर्थस्तदा कर्मसंज्ञा विहिता। स्थापयतीत्यर्थस्तदाधिकरणसंज्ञा प्रसज्येत ! मत्यमेतद् यदा व्रजस्य कर्मत्वमधिकरणत्वं वा विवक्ष्यते । न चैतदिह विवक्षितम् । किं तर्हि ? प्रवरोधनक्रियां प्रति निमित्तभावमात्रम् । अस्याञ्चावस्थायां कर्माधिकरण- संज्ञे निरवतारे। वजन हेतुना गामवस्थापयत्ययमत्रार्थों वेदितव्यः । न तु कावस्थापयतीत्येतदिह चिन्त्यत एव । माणवकं पन्थानं पृच्छतोति । जीपायां तुदादिः। अहिज्यादिसूत्रेण (६।१।१६) सम्प्रसारणम् । ननु च कथितानापादानसंज्ञा । अस्ति यत्रापायः । स हि तस्मादुपदेशमादित्सते । नैतदस्ति । नहि प्रश्नमात्रेणापायो भवति । किं तर्हि ? पृष्टः सन् यद्यसावाचष्टे तदापायेन युज्यते । सत्यप्यपाये नात्र माणवकोऽवधिभावेन विवक्षितः । कि तहि ? प्रश्नक्रियां प्रति निमित्तभावमात्रेण । पौरवं गां भिक्षत इति । भिक्ष याज्ञायामनुदासेत् । अथ किमर्थ याचिभिक्षोईयोरुपादानम् ? यावताऽनयोरर्थभेदो नास्ति । न चेयं मंज्ञा शब्दाश्रया। किं तर्हि किं तर्हि ? अर्था- प्रया। तथाहि याचिना समानार्थस्यान्यस्यापि ग्रहणं भवति । देवदत्तं शतं प्रार्थयते देवदतं शतं मृगयत इति । तम्मात् सत्यपि शब्दभेदे न युक्तं तयोः पृथग् ग्रहणम् । एवं तर्हि याचिरत्रानुनये वर्तते । याचतेऽविनीतं याचत इति । याचत इति। तदर्थ पृथग् ग्रहणं स्यात् । वृक्षमव- चिनोति फलानीति । ननु चात्र विहितापादानमंत्रा। फलान्यादत्त इत्यपायोऽत्रार्थ: । नैतदस्ति । नत्र वृक्षोऽवधित्वेन विवक्षितः । किन्तर्हि फलावचयनस्य हेतुभावमात्रेण । वृक्षण हेतुना फलावचयनं करोती- त्यर्थः । तस्य वृक्षस्य हेतुभाव: किमवधिभूतस्याधिकरणभूतस्य वेत्येवमादिका चिन्ता न कृता । एवं माणवकं धर्म ब्रूत । माणवकं धर्ममनुशास्तीति । वातायां वाचि । शासु अनुशिष्टौ । अदादी। ननु च कथितात्र सम्प्रदान- तेन क्रुद्ध तथाहि वृक्षात् লু २८८ न्यासः । संज्ञा। अस्ति छत्र सम्प्रदानत्वम्। संप्रदेयेन धर्मेणाभिप्रेयमाणवाद। नैतदस्ति । ददातिकर्मणाभिप्रेयमाणस्थ संप्रदानसंज्ञा विहिता। न चाल धर्मों ददातिकर्म। ब्रूविशास्योरदानार्थत्वात्। प्रथापि दानार्थता स्वाद ? एवमपि माणवकेन निमिक्तेन धर्म ददातीत्ययमर्थः स्यात् । सम्प्रदानत्वेनाविवक्षितत्वात् । धर्मदाननिमित्तत्वेन विवक्षितत्वात्। ब्रूधि- गासिगुणेन चेति चकारोऽनुक्तासमुच्चयार्थः। तेन नयतिप्रभृनीनां प्रयोमेऽम्य कथितस्य कर्मसंन्जेष्यते। तथाचोक्तं- माणवकास नौवयोहरतेश्चैव गत्यर्थानां तथैव च । द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः ॥१॥ इति । (D) अत्रापि लोके चकारो जयतिप्रभृतीनां प्रयोगऽकथितस्य समुच्चयार्थः । किमुदाहरणम् ? अजां नयति ग्रामं देवदत्तः । अजां वहति ग्राम देवदत्तः । अजां हरति ग्रामं देवदत्तः । शतं जयति देवदत्त यज्ञदत्तः । शतं गर्गान् दगडयतीति । ननु चोभयेषामपि कर्तुरीप्सिततमं कर्मेत्यनेनैव (१।४।४८) कर्मसंज्ञा सिद्धा। यदि तीजादीनामिततमत्व' विवक्ष्यते न ग्रामादीनां तदा कथं कर्मसंज्ञा ? तथापि तथायुक्तमित्यनेन (१।४।५०) यदा तर्हि ग्रामादीनामीसितत्वं प्रकर्षरहितं विवच्यते तदा न सिध्यति । अकर्मणाञ्च धातूनां कालभावाध्वगन्तव्यदेशानां कम्मसंनेष्यते । तथाचोक्तं- कालभावाध्वगन्तववाः कम्मसंज्ञा ह्यकर्मणाम् । देशाश्चाकम्मकाणाञ्च कम्मसंज्ञा भवन्ति च ॥१॥ (E) इति वक्तव्यम् । इति । तस्मात् तदर्थोऽनुक्तसमुच्चयार्थश्वकारः कृतः। कालो-मास मास्ते मासं स्वपितीति। भावो-गोदोहमास्ते गोदोई खपितीति। अध्वा गन्तव्यः-क्रोशमास्ते क्रोशं स्वपितीति । अध्वा चासो गन्तवाति सिद्धा। (D) इदमकथितश्चेति ( १।४।५१ ) सूवस्थ श्लोकवात्तिकम् । (E) इदमप्यकथितचेति ( १४५१ ) सूत्रस्थ वाचिकम् । इदानीन्तमपुस्तकेषु त्वस्य शेषांशी देशवाकर्षण कर्मसंकी भवतीति वक्तव्यमित्रोवं दृश्यते ।

२८८ ( ११४)। विशेषणसमासः । कड़ाराः कर्मधारय इति (२।२।३८ विशेष्यस्य पूर्वनिपातः । देशः-कुरूनास्ते कुरून् स्वपितीति। सर्व एते कालादयोऽकथिताः । पूर्वविधैः कस्यचिदप्रवृत्तत्वात् । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि ५२। कर्ता सणौ। यापयतीति । अलिहीत्यादिना (७।३।३६) पुक् । वक्तवा इति वाखाय इत्यर्थः । तत्रेदं व्याख्यानम्। उत्तरसूत्रेऽन्यतरस्यांग्रहणमुभयोर्योंगयोः शेषभूतो विज्ञायते। सा च व्यवस्थितविभाषा । तेन नीवयों न भविष्यति । वहेरित्यादि। नियच्छति विशिष्ट विषयेऽवस्थापयतीति नियन्ता सारथिः। अविद्यमानो नियन्ता कर्ता यस्य स तथोक्तः । तस्य। नीवह्योः प्रतिषेधो वक्तवा इति योऽनन्तरोक्तः स वहेरनियन्तृकर्तृकस्य भवतीत्येतदर्थरूपं वायमित्यर्थः । तवेदं वाख्यानम् । तस्यैवान्यतरस्यांग्रहणस्य वावस्थितविभाषात्वान् नियन्तृ कर्तृकस्य वहेः कर्मसंज्ञा भविष्यतीति । आदिखाद्योरित्यादि । प्रत्रापि वक्तवाशब्दस्य पूर्ववदेवार्थः । वाख्यानमपि पूर्ववदेव कर्तवाम् । भक्षयति पिण्डौं देवदत्त इति। चुरादिणिच् । भक्षयति पिण्डी देवदत्तेनेति हेतुम मिच् । भक्षयति बलीवाञ् शस्यमिति । भक्षिरत्र हिंसार्थः । सर्वे सचेतना भावा इत्यस्मिन् दर्शने हिंसितं शस्यमिति शस्यस्य भक्षणेन देवदत्तो हिंसितो भवति। यस्य हि तच् शस्यं तस्य हिंसा गम्यते । शब्दकर्मणामिति । शब्दग्रहणनेह पारिभाषिकं कर्म गृह्यते । नतु क्रिया । क्रियाग्रहणे हि कर्मग्रहणमनर्थ कं स्यात् । कारकाधिकारादेव कार- कस्य क्रियापेक्षत्वाच् शब्दात्मिकायां क्रियायां वर्तमाना धातवो ग्रहीष्यन्त इति । तत् किं कर्मग्रहणेन ? यदि तर्हि पारिभाषिकं कर्म गृह्यते जल्पति देवदत्तो जल्पयति देवदत्तम् । विलपति देवदत्तो विलापयति देवदत्तम् । प्राभाषते देवदत्त आभाषयति देवदत्तम् । पश्यति देवदत्तः कार्षापणम् । दर्शयते देवदत्तं कार्षापणमित्यत्र न प्राप्नोति । शब्दादन्यस्य पारिभाषिकस्य कर्मणो विवक्षितत्वात्। नैष दोषः । बुद्धार्थत्वाद भविष्यति ।

न्यासः । अत्र हि जल्पतिप्रभृतयस्त्रयस्तावच् शब्दसाधने बोधने वर्तन्ते । जल्पति देवदत्त इति । वचनेन बोधयतीत्यर्थः । एवमन्यत्रापि । पश्यति कार्षापणमित्यत्र दृशि श्चक्षुःसाधने ज्ञाने वर्त्तते। चक्षुषा जानीत इत्यर्थः । तस्माद् बुद्धार्थत्वात् सिद्धम्। अध्यापयतीति । क्रोङ जीनां (६।१।४८) णावित्या त्वम् । अतिहोत्यादिना (७।३।३६) पुक् । किमर्थं पुनरिदं सूत्रम् ? यावता ण्यन्ते धातौ प्रयोजक- व्यापारण प्रेषणाध्येषणाखान व्याप्तुमिष्टतमत्वात् प्रयोज्यस्य कर्तुरीसित- तमं कर्मेत्यनेनैव (१।४।४८) कर्मसंज्ञा सिद्धा। सत्यम् । नियमा) वचनम् । प्रयोजकव्यापारण व्याप्यमानस्य यदा कर्मसंज्ञा तदा गत्यर्थादौनामेव । नान्येषामिति । । ५३। हक्रोरन्यतरस्याम् । गत्यर्थादयो निवृत्ताः। तेनोभयत्र विभाषेयम् । तेनोभयत्र विभाषियम् । यदा हरतिर्गतौ वर्तते ऽभ्यवहार वा करोतिश्चाकर्मको भवति तदा प्राप्त । यदा तु हरति स्तेयादौ वर्तत करोतिश्च सकर्मको भवति तदा ऽप्राप्ते। उपसंख्यान- मिति । प्रतिपादनमित्यर्थः । एतच्च प्रकृतत्वात् कर्मसंज्ञायाः । तवेदं प्रतिपादनम् । अकथितञ्चेत्यत १।४।५१)श्चकारोऽनुवर्त्तते । स चानुक्तसमुच्च- यार्थः । तेनाभिवादिदृशोरप्यात्मनेपदे कर्मसंज्ञा भविष्यतीति । अभिवादयत इति । णिचश्चे(१।३।३४ त्यात्मनेपदम्। दर्शयत इति । अत्रापि णेरणावित्या- दिना (१।३।६७)। ५४॥ खतन्वः कर्ता। अस्त्ययं स्वतन्त्रशब्दो बहुव्रीहिः । स्वं तन्त्रं यस्य स स्वतन्त्रः । अस्ति च समास प्रतिरूपको रूढिशब्दः प्रधानार्थवृत्तिर्यथा स्वतन्त्रोऽयमिह देवदत्त प्रधानभूत इति गम्यते । तत्र यदि पूर्वो गृहात तदा तन्तुवायस्यैव स्यात् । विस्तता हि तन्तव स्तन्वम् । तञ्च तन्तुवायस्यैवास्ति । देवदत्तः पचतीत्यादौ न स्यात् । इतरस्य तु ग्रहणे सर्वत्र भवति । तस्माद् व्याप्तेायात् सएव गृह्यत इति मत्वाह स्वतन्त्र इति प्रधानभूत इति । यद्येवमप्रधान- मपेक्ष्य प्रधान मुच्यत इति यत्राधिकरणादीन्यपराण्यप्रधानानि कारकाणि इति ।

(१।४)। ३०१ सन्ति देवदत्तः काठरम्निनोदनं स्थाल्यो पचतीत्यादौ तत्रैव स्यात् । यत्र तु तेषामविवक्षा ऽस्ते देवदत्तः शेते देवदत्त इत्यादौ तत्र न स्यादिति यो देशयेत् तं प्रत्याह प्रगुणभूत इति । एवं मन्यते । प्रधानेनागुणभाव उपलक्ष्यते । गुणभावो यत्र नास्ति स कलेति । कारकान्तराविवक्षायामप्यगुणभावोऽ- स्त्येवेति सर्वत्र भवति । ननु च सामग्राधीना हि क्रियासिद्धि रेकस्याप्यभावे न सिध्यति । तत् कस्यात्र प्राधान्य यत्परिग्रहाय स्वतन्त्रग्रहणं क्रियत इत्याह। यः क्रियासिडावित्यादि । यद्यपि क्रियासिही सर्वेषां व्यापार- स्तथापि स्वातन्वं यस्य विवक्ष्यते सएव स्वतन्त्र इत्युच्यते । नान्य इति । देवदत्तः पचतीत्यत्र देवदत्तः कर्तुसंज्ञकत्वात् कर्तप्रत्ययेनोच्यते लकारण । ५५। तत्प्रयोजको हेतुश्च । तस्य प्रयोजकस्तत्प्रयोजक इति । ननु च कर्तरि चेत्यनेन (२।२।१६) षष्ठीसमासप्रतिषेधेनात्र भवितव्यमित्याह निपातनात् समाम इति। प्रयोजक इति । प्रेरक उपदेशको व्यापारक इत्यर्थः । न चान्येन प्रयुज्यमानस्य स्वव्यापार स्वातन्वा हीयते । अन्यथा ह्यकुर्वत्यपि कारयतीति स्यात् । प्रयोजवावं विविधम् । मुख्यमितरच्च । देवदत्तः कटं काग्यतीत्यत्र देवदत्तस्य मुख्यम् । भिक्षा वासयतीत्यत्र भिक्षाणां वासहेतु वात् प्रयोजकत्वमुपचरितम् । न मुख्यम् । नहि भिक्षा यूयं वसथेत्येवं प्रयुञ्जते । इह च कारकाधिकारे तम- ग्रहणव्यतिरेकेणातिशयो न विवक्षित इति माधकतम (१।४।४२ करणमित्यत्र तमब्ग्रहणेन ज्ञापित मेतत् । तेन यस्यापि प्रयोजकत्व मुपचरित-न मुख्यं- तस्यापि हेतुसंज्ञा भवत्येव । संज्ञासमावेशार्थश्वकार इति । असति तस्मि- बेकसंज्ञाधिकागदत्र कर्तृसंज्ञा न स्यात् । अतः संज्ञासमावेशार्थ श्चकार: क्रियते। हेतुत्वादित्यादिना संज्ञादयस्य प्रयोजनं दर्शयति । प्रयोजकवापार हि हेतुमति चेति (३।१।२६) णिज् विधीयते । तस्य हेतुत्वं प्रयोजकस्य हेतुत्वे सत्युपपद्यते । हेतुत्वात् प्रयोजको णिचो निमित्त भवति। कर्तृप्रत्ययेन च लकारणाभिधानं कर्तृसंज्ञायां सत्यां भवतीति कर्तृत्वात् कर्तृप्रत्ययेन लकार- णोच्यत इति । - न्यासः । प्रथ ५६ । प्रागीश्वरान्निपाताः । च वा ह अह इत्यत्र निपातसंज्ञायां सत्यां स्वरादिनिपातमवायमित्यवाय संज्ञा (१।१।३७) भवति । निपाता आद्युदात्ता भवन्तीत्याधुदात्तत्वञ्च । किमर्थं प्राग्ग्रहणम् ? यावता पञ्चम्युच्चारणसामादेव प्रागित्यस्य दिक्छष्ट- स्याध्याहारो भविष्यति। न च परागित्ययमपि दिक्शब्दोऽस्ति। अतो नास्याध्या- हार आशङ्गनीयः । तदध्याहारे हि चादयोऽसत्त्व (१।४।५७) इत्येवमादयो योगा निपातसंज्ञासम्बन्धाभावादसम्बन्धाः स्युः। तस्मात् प्रागित्येतदेवाध्याहरिष्यते । तत् किं प्राग्वचनेनेत्याह प्रागवचनमित्यादि। एका संज्ञेत्यनुवर्तते । निपात- संज्ञा चादिषु प्रादिषु वा क्रियायोगे चरितार्था । तत्रासति प्रागवचने निपात संज्ञाया उपसर्गादिसंज्ञाभिरनवकाशाभिर्बाध्यमानत्वात् ताभिः सह तस्याः समावेशो न स्यात् । इष्यते चात्र तदर्थं प्राग्वचनम् । तस्मिन् सत्येवं सम्बन्धः क्रियते । रोखराद् यावन्तः प्राग व्यवस्थिता स्ते सर्वे निपातसंज्ञका भवन्ति । निपाताश्च सन्त उपसर्गादिसंज्ञका इति । तेन निमित्तमेव निपातसंज्ञोपसर्गसंज्ञानां भवति । न च निमित्तिना निमितं व्याहन्यते । अन्यथाहि तस्य निमित्तत्वमेव न स्यात् । अध्याहृते तु प्राक्शब्दे रोखराधे प्राग् व्यवस्थितास्ते सर्वे निपातसंज्ञका भवन्येषोऽर्थोऽभिमतः स्यात् । नतु निपाताः सन्त उपसर्गादिसंज्ञका इत्येषोऽप्यों लभ्यते। सूत्रोपात्ते तु प्राक् शब्द एषोऽथों लभ्यत एव। अन्यथा तस्य वैययं स्यात् । अथ किमर्थं रेफादिक ईखरशब्दो गृह्यते प्राग्रोवरादिति । न च प्रागौवरादित्येवोच्थेत ! प्रत्यासत्तर- नन्तर एव होखरशब्दो ग्रहीष्यत इत्यत आह रोखराद्दीखरामाभूदिति । रेफसहित ईखरो रीश्वरः। शाकपार्थिवादित्वान् मयूरवासकादित्वाहा समासः। रोखरादित्युच्यमाने वीख रान् मा भूत्। अधिरीखर (१।४.८७) इत्यस्यैवेश्वरशब्दस्य ग्रहणं यथा स्यात् । ईखरे तोसुन्कसुनावित्यत्र (३।४।१३) यो वौखरशब्दस्तस्य ग्रहणं मा भूत्। तस्य ग्रहणे बहनां संज्ञा भवत्यतो व्याप्तेायादस्यैव ग्रहणं स्यात् । ननु च वकारस्तन नास्त्येव । तत् किमुच्यते वौखरान् मा भूदिति ? एवं मन्यते । यदा सूत्राणि संहितया पव्यन्ते शकि णमुल्कमुलावीखरे (३।४।१२) तोसन्कसुनाविति (३।४।१३) सदा लौशब्दस्य मिति । (११४)। य चौकारस्तस्यावादेशे कृत ईख रशब्दो वकारसहितो भवतीति । नैतदस्ति । रेफाधिकस्येवरशब्दस्व ग्रहणे न प्रयोजनम् । यद्यपि परस्येश्वरशब्दस्य ग्रहणे तविबन्धना वाप्तिरस्ति तथाप्यनन्तरस्यैवेखरशब्दस्य ग्रहणां भविष्यति। न परख । कथम् ? ज्ञापकात् । यदयं जन्मेजन्त इति (१।१।३८) कतो मान्स- स्यैजन्तस्याव्ययसंज्ञां शास्ति तज्ज्ञापयत्यनन्तरस्येवरशब्दस्य ग्रहणम् । नेतर- स्येति । अन्यथा हि णमुलादीनां निपातत्वादेवाव्ययसंज्ञा सिद्देति कन्मेजन्त इति वचन (१।१३८) मनर्थकं स्यात् । नैतदस्ति ज्ञापकम् । यस्मादौखर तोसुन्कसुनावित्यस्मात् (३।४।१३) परोऽपि कदेजन्तो मान्तश्चास्ति । कत्यार्थे तवैकनकन्यत्वन (३।४।१४) आभीक्षणे णमुल (३।४।२२) चेत्येवमादिः । तत् कथं कमेजन्त इत्येतज् ज्ञापकं स्यात् ? एवं तर्हि यदयमव्ययीभावस्याव्ययीभा- (१।१।४१)वश्चेत्यव्ययसंज्ञां शास्ति तज् ज्ञापयत्यनन्तरो य ईश्वरशब्दस्तस्य ग्रहण- अन्यथा यव्ययीभावश्चेत्येत (१।११४१) दपार्थकं स्यात्। निपात- त्वादेवाव्ययीभावस्याव्ययसंज्ञाया: सिद्धत्वात् । अस्यापि ज्ञापकता मपाकर्तु- माह समासेष्वव्ययीभाव इति। सर्वेषां समासानां निपातत्वादव्ययसंज्ञायां प्राप्तायामव्ययीभावश्चेतेतहचनं ( १।१।४१) नियमाथं स्यात् । समासेषु तत्पुरुषादिषु मध्ये ऽव्ययीभाव एवाव्ययसंज्ञो भवति । नान्य इति। एवं तहि लौकिकन्यायादनन्तरस्यैवेश्वरशब्दस्य ग्रहणं भविष्यति । लोके योदकान्तं प्रियं प्रोथ (F) मनुव्रजेदिति य एवानन्तर उदकान्त स्तमेव गत्वा तत एव बान्धवा निवर्तन्ते । न व्यवहितात् । तस्मादिहाप्यनेनैव न्यायेना- नन्तरादेवखरशब्दाविपातसंज्ञा निवरिष्यत इत्यत आह लौकिकं चातिवर्तत इति । लौकिकमपि न्यायं लोकोऽतिक्रम्य वर्त्तते यस्माद् द्वितीयमप्युद- कान्तं नेहात् कथाप्रसङ्गा वा गत्वा निवर्तन्ते बान्धवाः। तदेवं रेफाधिक ईश्वरशब्द उच्चार्यते । तेन वीखरान् मा भूदिति स्थितमेतत् । ५७। चादयोऽसत्त्वे । असत्त्व इति पर्युदासोऽयं वा स्थात् प्रमज्यप्रतिषेधो वा ? तत्र यद्ययं (F) प्रोथं पर्याप्तमित्यर्थः । प्राय पर्याप्तावित्यस्मात् पचाद्यच् । क्रियाविशेषणत्वानपुसकम् ।

न्यासः । पर्युदासः स्यात् तदा सत्त्वादन्यत्र वर्तमानाश्चादयो निपातसंज्ञका भवन्ती- त्येषः सूत्रार्थः स्यात् । ततश्च पशुशब्दस्य चादिपरिपठितस्य जातिव्यवच्छिवे ट्रव्ये वर्तमानस्य निपातसंज्ञा स्यात् । यो हि जातिविशिष्टे द्रव्ये वर्तते स जातिव्यसमुदायात्मकमर्थमाह । यश्चैवंविधोऽर्थः स ट्रव्यात् केवलादन्यो भवति । निपातसंज्ञायां सत्यां पशुरिति सविभक्तिकस्य श्रवणं न स्यात् । प्रसज्यप्रतिषेधे त्वेष दोषो न भवति । तत्र हि यत्र द्रव्यगन्धोऽप्यस्ति तत्र सर्वत्र प्रतिषेधन भवितव्यम् । अस्ति चेह द्रव्यगन्धः । पशुत्वजात्याश्रितस्य द्रव्यस्यापि पशुशब्देनाभिधानात् । तस्मात् प्रसज्यप्रतिषेध एवायं युक्त इत्यालोच्याह प्रसज्यप्रतिषेधोऽयमिति । कतर्हि वर्तमानः पशुशब्दोऽसत्त्ववचनो भवति ? यत्र वृत्ती निपातसंज्ञां लभते दृश्यर्थे यथा लोधं नयन्ति पशु (G) मन्यमाना इति । अत्र दृश्यर्थेन पशुशब्देन मननं विशिष्यते। दर्शनमतन् मननं सम्यग ज्ञानमित्यर्थः । सत्त्वशब्दोऽयमिह सत्तायां वर्तत इति कस्यचिद् भ्रान्तिः स्यात् । अतस्तानिराक माह सत्त्वमिति च द्रव्यमुच्यत इति । चशब्दोऽवधारणे । द्रव्यमेव न सत्तेत्यर्थः । यदि ह्यत्र सत्त्वशब्देन सत्तोच्यते प्रतिषेधोऽनर्थकः स्यात् । नहि चादिषु मध्ये शब्दः सत्तावाची कश्चिदस्ति । तस्माद् द्रव्यमेवोच्यते । इदं तर्हि सर्वनामप्रत्यवमर्श योग्यो योऽर्थस्तवामिति । तथाचोक्तं- वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रवामितुच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ॥१॥ इति । भेद्यत्वेन विशेष्यत्वेनेत्यर्थः । अत एवावसीदति यत्र गुणो विशेषणभावेनेति सत्त्वं तद्दवामुच्यते । चणिति पठ्यते। तस्य णकारो विशेषणार्थी निपातैर्यद यदिहन्तकुविन्नच्चेञ्चणकच्चियत्रयुक्तमिति (८१३०)। स तु चेच्छब्दस्यार्थे वर्तते। यत्रेति पठ्यते । तस्य तद्धित (१।१।३८) श्वास विभक्तिरित्यवायसंज्ञा सिव । निपातैर्यदयदिहन्त इति (८1१।३०) विशेषणार्थं निपातसंज्ञोच्यते । (G) पशु सम्यगित्यर्थः । लोधमनवगतम्। पशु मन्यमानाः सम्यग् जावेत्यर्थः । निरुते तु लुब्धमूर्षि नयन्ति पशमन्यमाना इनि मानखारपाठात पशुशब्दः सत्त्ववाची । तथति। (१४)। असति निपातत्वे त्रैङ् पालने यं वायत इति यत्र इत्यस्यातोऽनुपसर्गे (२२॥३) क इति कप्रत्ययान्तस्य ग्रहणं स्यात् । नजिति पठ्यते । नमो अकारो नलोपो ६।१७३) नत्र इति विशेषणार्थः । नलोपो नस्येतुपच्यमाने पामनपुत्व इत्यचापि स्याद् यदि तत्रालुगुत्तरपद ६।३।१ ) इतुत्तरपदग्रहणसामर्थ्य लब्बं पूर्वपदं मशब्देन विशेष्यते नान्तस्य पूर्वपदस्येति । अथ तु पूर्वपदे न नशब्दो विशेष्यते पूर्वपदस्य नस्येत्यतोऽसत्यपि अकार न भवति पामनपुत्व इत्यत्र नलोप इति । नहि तर्हि नशब्दः पूर्वपदं किं तर्हि पामनशब्दः । पथ क्रियमाणेऽपि अकारेऽनुबन्धे स्त्रैणपुत्र इत्यत्र कस्मान भवति ? अकारस्य वृद्धी प्रत्ययसम्बन्धिन- श्वरितार्थत्वात् । निपातसम्बन्धिनम्तु न कचिच्चरितार्थत्वम् । अतस्तेन प्रत्यय सम्बन्धिना प्रकारेण तु तुल्यमाख्यातुं न शक्यत इति न भवति । यः प्राग्दिशो ।५।३।१) विभक्तिरिति विभक्तिसंज्ञकस्थाल्प्रत्ययान्तस्तथाशब्दो नेह तस्येदं ग्रहणम् । तस्य तद्धितश्चे। १।११३८)त्यने नैवाव्ययसंज्ञायाः सिह- त्वात् । आधुदात्तत्वञ्च लित्स्वरेण । कस्य तर्हि ग्रहणम् ? तत्सदृशस्थावत्- ननु च तस्यापि विभक्तिस्वरप्रतिरूपकाश्चेत्यनेनैव सिद्धं निपातत्वम् । सत्यमेतत् । तस्यैवायं प्रपञ्चः । यथातथाशब्दस्य ग्रहणं तस्यैव प्रपञ्चः । प्रथ वेलायां मानायां यथाऽस्ति कथं कुत इत्येतेषामपि ग्रहणं तस्यैव प्रपञ्चः । विभक्तिप्रतिरुपकत्वात् । मन्ये ब्रूहीति | आधुदात्तार्थ मुभयोः पाठः । मन्य इति दिवादिः कर्मण्यात्मनेपदम् । अन्तोदान्तः प्राप्तो यक्वरेण । ब्रूहीति च प्रत्ययस्वरेण । विभक्तिप्रतिरूपकाश्च निपाता उपाजेऽन्वाज इतवमादयः । स्वरप्रतिरूपका अचो ये न भवन्त्यसदृशाः । तथाच वक्ष्यति ऋतिर्वा वचनं कर्तव्यम् । स्मृति ल्ल र्वा वचनमिति (६।१:१०१, वा)। एवञ्जातीयकानां निपातसंज्ञाहारण सत्त्वमेवाख्यायते। पशुवै पुरुषः पशुः पुरोडाश इति । अत्र पशुशब्दः पुरुषे पुरोडाशे च सत्त्वे वर्तत इति न भवत्येव निपातसंज्ञा । पत्रस्य। प्रादयः । अथ किमर्थ पृथग्योगकरणम् ? न चादिष्वेव प्रादयः पठेघरवित्याह पृथग्योगकरणमित्यादि । उत्तरसंशोत्तरसूत्रे कता संशोपसर्गसंत्रा। ३८ न्यासः। तस्या विशेषणं वावच्छेदः प्रादिभ्योऽन्यस्माद्यावर्तनमुत्तरसंज्ञाविशेषणम् । तदर्थः प्रयोजनं यस्य तदुत्तरसंज्ञा विशेषणार्थम् । एतदेव स्पष्टीकर्तुमाह चादीनामुपसर्गसंज्ञा मा भूदिति । एकयोगे हि सति यथा प्रादीनामुपसर्ग- संज्ञा भवति तथा चादीनामपि स्यात् । अतः प्रादीनामेवोपसर्गसंज्ञा यथा स्याच चादीनां मा भूदित्येवमयं पृथम् योगः क्रियते । पराः सेना इति। सेनाया द्रव्यत्वात् तत्र वर्तमानस्य पराशब्दस्यह ग्रहणं न भवति। परा उत्कृष्टाः परदेशस्थिता वा। यत्र वेकवचनं पठ्यते परा सेनति तत्र रूपोदाहरणं वेदितव्यम्। द्विवचनबहुवचनयोस्तु निपातत्वादवायसंज्ञायां सत्यां विभक्ते लुक् स्यात् । ५६ । उपसर्गाः क्रियायोगे । . प्रणयतीति। प्रशब्दस्योपसर्गत्वादुपसर्गादसमासेऽपि (८।४।१४) गोपदेशस्येति णत्वम्। प्रनायको देश इति । अत्र नयनक्रियया प्रशब्दस्य योगो नास्तीत्युप- सर्गसंज्ञा न भवति । ननु चावापि गमिक्रियया योगोऽस्त्येवेति स्यादेव तस्योप- सर्गसंज्ञा । नैतदस्ति । क्रियायोगग्रहणं ह्येव मनर्थकं स्यात् । कथम् ? प्रादीनां क्रियायोगावाभिचारात् । तस्मात् क्रियायोगग्रहणसामाद् यं प्रति क्रियायुक्ताः प्रादय स्तं प्रति गत्युपसर्गसंज्ञका भवन्ति । नान्यं प्रति। नचेह नयनक्रियया युक्तः प्रशब्दः । किन्तर्हि ? गमिक्रिययेति नयतिं प्रतुपसर्गसंज्ञको न भवति । मरुच्छब्दस्योपसंख्यानमिति । तत्वविधाविति शेषः । अन्यथा हि निपाता आधुदात्ता (फिट, ८०) उपसर्गाश्चाभिवर्जमित्याद्युदात्तत्वमपि स्यात् । अन्तो- दात्तश्चेष्यते मरुच्छब्दः । उपसंख्यानशब्दस्य प्रतिपादनमर्थः । मरुच्छब्दस्योप- सर्गसंज्ञायाः प्रतिपादनं कर्तव्यमित्यर्थः । तवेदं प्रतिपादनम् । उपसर्ग इति योगविभागः क्रियते । अत्र च प्रादय इति नाभिसम्बध्यते । तेन मरुच्छब्दस्य तत्वविधावुपसर्गसंज्ञा भवतीति । अतएव योगविभागाच् श्रच्छब्दस्याड्विधा- वन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गसंज्ञा भवतीति वेदितव्यम् । योगविभाग- स्येदं लिङ्गम् प्रज्ञायद्यार्चाहत्तिभ्यो (५।२।१०१) णः । तिरोऽन्तर्धाविति (१।४।७१) च निर्देशः । ततः क्रियायोग इति द्वितीयो योगः । अत्र च प्रादय ( ११४) इति सम्बध्यते । किमर्थमिदम् ? पूर्वणैव सिद्धमिति पूर्वयोगस्यासर्वविषयत्व- ज्ञापनार्थम् । तेन नातिप्रसङ्गः । प्रादीनामक्रियायोग उपसर्गसंज्ञा मा भूदित्येवमर्थन । मरुत्त इति । अच उपसर्गात् त इति (७४।४७ ) ताप्रत्यये कृते हितकारनिर्देशाददाते: सर्वादेशः। ननु च सत्यामुपसर्गसंज्ञायां मरुच्छब्दस्यानजन्तत्वात् तत्वेन न भवितव्य मित्यत पाह संज्ञाविधानसामर्थ्या- दित्यादि। यथा युपसरज इत्यत्र डित्करणसामर्थ्यादभस्यापि टिलोपो भवति तथेहाप्यनजन्तादपि तत्व भविष्यति । अन्यथा हीदं वचन मपार्थक स्यात् । मरुच्छब्दस्योपसर्गसंज्ञाया अन्य कार्याभावादिति भावः । अच्छब्द- स्योपसंख्यानमिति । अत्राप्युपसंख्या नशब्दस्य स एवार्थः । प्रतिपादनमपि तदेव। ननु च भिदादिपाठादेव हि श्रडेति सिद्धम् । तत् कथं तत्सिद्धये श्रच्छब्दस्योपसर्गसंज्ञा क्रियते ? एवम्मन्यते । अनार्षस्तत्र पाठ इति । गतिश्च । ० प्रकृत्येति । गतिसंज्ञायां सत्यां कुगतिप्रादय (२।२।१८) इति समासः । समामेऽनपूर्व क्वो ल्यबिति ( ७।१।३७ ) ल्यप् । प्रकृतमिति । ते चेत्यनु- वर्तमाने (६।२।४५) गतिरनन्तर (६।२।४८) इति प्रकृतिवरणायुदात्तः प्रशब्दः । यत् प्रकरोतीति। प्रशब्दादनन्तरस्य तिङतिङ इति (८।१।२८) निघाते प्राप्ते निपातैयद्यदीत्यादिना (८१३०) प्रतिषेधे तिपः पित्त्वादनु- दात्तत्वम् । सति शिष्टस्वरस्य बलीयस्त्वमन्यत्र विकरणस्वरभ्य इति ६।१।१५८, वा) विकरणस्वरस्य प्रत्ययाद्युदात्तत्व न भवति । करोतेरेव तु भवति धातोरिति (६।१।१६२) । शेषमनुदात्तं भवति । प्रशब्दस्योपसर्गाश्चाभि- वजमित्याद्युदात्तत्वे प्राप्ते गतिर्गताविति (८।१।७०) निघातेऽनुवर्तमाने तिडि चोदात्तवतोति (८।१।७१) करोतिशब्दे तिङन्त उदात्तवति परतोऽनुदात्तत्व भवति । तत्र हि पूजनात् पूजितमनुदातं (८।१।६७) काष्ठादिभ्य इत्यतोऽनुदात्तमिति वर्तते । एतच प्रयोजनत्रयमुत्तरत्र गतिसंज्ञाया वेदि- तव्यम् । अथ किमर्थों योगविभागः ? न गतिग्रहणं पूर्वयोग एव क्रियत इत्यत पाह। योगविभाग उत्तरार्थ इति। उत्तरवेत्यादिना योगविभाग- १०८ न्यास उप- स्वोत्तरार्थतां दर्शयति । यद्युत्तरत्राप्युपसर्गसंज्ञा स्यात् तदा किं स्यादित्यत आह अरोस्यादित्यवेत्यादि। चकारः संज्ञासमावेशार्थ इति । असति चकार एकसंज्ञाधिकारादेकत्र संज्ञादयस्य विधानात् पर्यायः स्यात् । समावेशः। प्रणीतमित्यादिना संज्ञासमावेशस्य फलं दर्शयति । गतिरनन्तर इति (६।२१४८) स्वर इति । उदाहरणहयेऽप्युपसर्गादिति (८:४।१४, ८।३।६५) णत्वषत्वे भवत इति। प्रणीतमिति। उपसर्गादसमासेऽपि णोपदेशस्थति (८।४।१४) णत्वम् । अभिषिक्तमिति । उपसर्गात् सुनोतीत्यादिना (८।३।६५) षत्वम् । कारिकेत्यादि। धात्वर्थनिर्देश एतदुपसंख्यानं कर्त्तव्यम् । योऽन्यः कर्तरि कारिकाशब्दो ण्वुलन्तस्तस्य कारिकां कृत्वेत्येवं भवति । संख्यानशब्दस्य प्रतिपादनमर्थः । तत्रेदं प्रतिपादनम् । उत्तरसूत्रे चकार- स्यानुक्तसमुच्चयार्थत्वात् कारिकाशब्दस्य गतिसंज्ञा भवतीति। पुनश्चनसा- वित्यादि। पुनश्चनःशब्दो छन्दसि विषये गतिसंज्ञकी च भवत इतपतदर्थरूपं व्याख्येयमित्यर्थः । व्याख्यानन्तूत्तरसूत्रे चकारस्यानुक्तसमुच्चयार्थतामाश्रित्य कर्तव्यम् । पुनरुत्यूतमिति। सिवु तन्तुसन्ताने । निष्ठा । उदित्त्वादुदितो वेति ( ७१२।५६ ) विभाषट्त्वाद् यस्य विभाषेतीट्प्रतिषेधः (७।२।१५)। छोः शूडनुनासिके चेति (६।४।१८) वकारस्योट् । यणादेशः । चनोहितमिति । दधाते हिरिति ( ७।४।४२) हिरादेशः । गतिरनन्तर इति ( ६।२।४८) प्रकृतिस्वरेणाद्युदात्तत्वम् । चनःशब्दो हि निपाता आद्युदात्ता ( फिट, ८०) भवन्तीत्यायुदात्तः। ६१। ऊर्यादिचिडाचश्च। चन्ता डाजन्ताश्चेति। ननु च पदसंज्ञायामन्तग्रहणेन ज्ञापितमन्यत्र संज्ञाविधी प्रत्ययग्रहणे तदन्तविधिर्नास्तीति। अतश्चिडाचोरेव गतिसंज्ञया भवितव्यम् । तत् किमुच्यते च्यान्ता डाजन्ताश्चेति ? एवम्मन्यते । क्रियायोग प्रति वर्तते । न च प्रत्ययमात्रस्य क्रियायोगः सम्भवति । तस्मात् क्रिया- योगानुत्तिसामर्थ्यात् तदन्तस्यैव संज्ञा विज्ञायत इति भवत्येव तदन्तस्य संज्ञा । सा तु विशेषानुपादनाद धातमात्रेण योगे प्राप्नोतीत्यत आह चिडाचोरित्यादि।

(१।४) अभूततद्भावे कस्वस्तियोगे (५।४।५०) चिर्विहितः । अव्यक्तानुकरणादित्वादावपि (५।४।५७) सूत्रे कम्वस्तियोगस्यानुवृत्ते [जपि तत्रैव विहितः । तेन घिडा- चोस्तावद् धात्वन्तरेण योगासम्भवात् कम्वस्तियोग गतिसंज्ञाविधानम् । अतस्तत्साहचादू-दीनामपि तैरेव योगे विधीयते । अर्यादिभ्यश्चपर्थस्था- प्रतोते न शक्यन्ते ते चान्ता इति विज्ञातुम् । अतस्तेषां पृथग् ग्रहणम् । तामेव च तेभ्यश्चयर्थस्याप्रतीतिमर्थान्तरप्रदर्शनेन प्रतिपादयितुमाह उरी- उररीत्यादि। श्रौषड़ादीनां स्वधापर्यन्तानां चादिषु पाठाद क्रियायोगेऽपि निपातसंज्ञा भवति । आविःशब्दः साक्षात्प्रभृतिषु पठ्यते । तेन तस्य विभाषा (१।४।७२) कजीति करोतियोग विभाषा गतिसंज्ञा । शुक्लीकत्येति । अस्य (७।४।३२) चावितीत्वम् । पटपटाकत्येति। वा क्यष (१।३।८०) इत्यत्र पटपटाशब्दो व्युत्पादितः । ६२। अनुकरणं चानितिपरम् । अनितिपरमिति । अवेतिपरशब्द इत: पर इति पञ्चमीति (२।१।३७) योगविभागात् तत्पुरुषो वा स्याद् ? इतिः परो यस्मादिति बहुव्रीहिर्वा ? पक्ष पाश्रीयेत तदेतिखादकत्येत्यत्र प्रतिषेधः स्यात् । इह तु न स्यात् । खाडिति कृत्वा आगत इति । अनिष्टञ्चतत्। द्वितीये तु पक्ष एष दोषो न भवति । अतस्तमेवाश्रित्याह इतिः परो यस्मादि- त्यादि। निर.ष्ठीवदिति। ष्ठिवु निरसने। सुब्धातुष्ठिवुष्वक्कतीनां प्रति- षेधो वक्तव्य इति (६।१।६४,वा) प्रतिषेधाद्धात्वादेः षः सः इति (६।१।६४) सत्वं न भवति । ष्ठिवुलमुचमा शितोति (७।३।७५) दीर्घत्वम् । ६३ । आदरानादरयोः सदसती। प्रीतिसम्भ्रम आदर इति । प्रीत्या सम्भ्रमः प्रीतिसम्भ्रमः प्रीतिपूर्विका प्रत्युत्थानासनादिदानक्रियेत्यर्थः। परिभवौदासीन्यमिति । परिभवोऽवज्ञा। तिरस्कार औदासीन्यम् । कर्तव्यं प्रत्युत्थानासनादिदानं प्रत्युपेक्षा । परिभवेणौदासीन्य परिभवौदासीन्य मिति । दृतीयेति (२।१।३०) योग- विभागात् समासः । पथवा परिभवश्चौदासीन्यच्च परिभवोदासीन्यम् । ন यद्याद्यः न्यासः। अथ किमर्थमनादरग्रहण मसद्ग्रहणञ्च क्रियते ? नादरे सदित्येवोयते ? अथ कथमिदानीमनादरेऽसच्छब्दस्याव्ययसंज्ञा स्यात् ? कथञ्च ममासादि कार्यम् ? तदन्तविधिनासच्छब्दस्यापि निपातसंज्ञायां गतिसंज्ञायाञ्च सत्यां सच्छब्दस्य निपातस्याव्ययसंज्ञा विधीयमाना ऽस्यसंज्ञायां तदन्तविधेरुप- संख्यानादसच्छन्दस्याप्यव्ययसंज्ञा भविष्यति । कुगतिपादय इत्यत्र (२।२।१८) च सुबन्तस्य प्रकृतत्वाद् गत्यन्तस्य सुबन्तस्य समासो विधीयमानोऽसच्छन्द- स्थापि भविष्यति । गतिरनन्तर ( ६।२।४८ ) इत्यत्रापि पूर्वपदमित्यनु- वर्त्तते । गतिर्गतावित्यत्रापि (८।१.८० ) पदस्येति । तेन गत्यन्तस्य पूर्व- पदस्य प्रकतिस्वरो विधीयमानस्तथा गत्यन्तस्य पदस्यानुदात्तो विधीयमानो- ऽसच्छब्दस्यापि भविष्यति । तस्यापि गत्यन्तत्वात् । भवतु तदन्तविधिना यथोक्ता कार्यम् । अनादरावगतिस्तु कथं स्याद ? अमत्यनादरग्रहणे न सदसदिति नजाऽदरप्रतिषेधात् । आदरश्चेत् प्रतिषिद्धः किमन्यदनादरात् स्यात् । नैतद् युक्तमुच्यते । नञ्समासो हि तत्पुरुषः सदृशमेव कायं प्रतिपादयति यथा ऽब्रायणमानयेति । तोह यद्यनादरग्रहणं न क्रियेत तदा सत् सदृशं यत् तदसद् यत्रादरप्रसङ्गस्तत्रैव स्यात् । गुरु मसत्कृत्य गतः । यत्र त्वप्रसक्त एवादरस्तत्र न स्यात् । भृत्यमसत्कृत्य गतः । अनादरग्रहण तु सति बहुव्रीहि विज्ञायते । अविद्यमान आदरो यस्मिनित्यनादर इति । बहुव्रीहिश्चात्यन्ताभावे प्रसत्यभावे च भवतीति सर्वत्र संज्ञा मिध्यति । तस्मादनादरग्रहणं कर्त्तव्यम् । तस्मिंश्च क्रियमाण सत्यसद्ग्रहणमपि कर्तव्य- मेव । अन्यथा हि किमनादरग्रहणेन विशिष्येत यस्यानादरे वर्तमानस्य गतिसंज्ञा विधीयते ? नहि सच्छन्दस्यानादरे हत्तिः सम्भवति । यद्यपि तस्य न सम्भवति तदन्तस्यासच्छब्दस्य सम्भवतीति चेत् सत्यं सम्भवति । नतु तस्य गतिसंज्ञा लभ्यते तदन्तविधेरभावात् । प्रकृते नहि तदन्तविधिर्भवति । नचेह किञ्चित् प्रकत मस्ति । तस्मादमच्छब्दार्थ मनादरग्रहणम् । यदि तु यथा गोष्यदं (६।१।१४५) मेवितासेवितप्रमाणेष्वित्यत्रासेविते गोष्प दशब्दो न सम्भव- तीत्यगोष्पदशब्दार्थमसेवितग्रहणं विज्ञायते तथेहापि मच्छब्दोऽनादरे न सम्भवतीत्यसच्छब्दार्थमनादरग्रहणणं विज्ञायेत तदा शक्यममच्छब्दस्य ग्रहण- -- (११४)। मकर्तुम् । असद्ग्रहणं तु क्रियते तदा विस्पष्टार्थम् । सत्कृत्वा ऽसत्- कत्वेति । शोभनाशोभनार्थाविह सदमच्छन्दौ । विद्यमानाविद्यमानार्थों वा । ६४। भूषणेऽलम् । अलं कवेति । पर्याप्ताविहालं शब्दो वर्तते । ६५। अन्तरपरिग्रहे। अन्तःशब्दोऽयम् मध्येऽधिकरणभूते वर्तते। परिग्रहे च । तत्र परि- ग्रहप्रतिषेधादितरत्र संज्ञा विधीयते । यस्त्वस्य स्वरादिषु पाठः स परिग्रह- ऽप्यव्ययसंज्ञार्थः । अन्तहत्येति । मध्ये हत्वेत्यर्थः । वा (६।४।३८) ल्यपीत्यनु- नासिकलोपः । वक्तव्य इति व्याख्येय इत्यर्थः व्याख्यानन्तु पूर्वमेव कृतम् । अन्तर्धेति । भातश्चोपसर्ग ३।३।१०६) इत्यङ । अन्तईि रिति । उपसर्गे घोः (३।३ ८२) किरिति किप्रत्ययः । अन्तर्णयतीति । उपसर्गादसमासेऽपीति (८।४।१४) णत्वम् । मन:- ६६ । कणेमनसी श्रद्धाप्रतीपाते कणेशब्दः सप्तम्यन्तप्रतिरूपको निपातः । स चेहाभिलाषातिशये वर्तमानो ग्राह्यते । तस्य हि श्रद्धाप्रतीघात इत्युपाधिः सम्भवति । शब्दोऽपि तत्साहचर्यादभिलाषक्तिरेव विज्ञायत । कणे हत्वा मनो हत्वेति । अत्र कर्णशब्दः सूक्ष्म तण्डुलावयवे वर्ततेऽधिकरणभूते । मनश्शब्दश्चेतसि । ६७। पुरोऽव्ययम् । पुरस्कृत्येति । पूर्वस्माद देशादागत इत्यस्मिन्नर्थे पूर्वाधरावराणामसि (५:३।३८) पुरधवश्वैषामित्यसिप्रत्ययः पूर्वशब्दस्य च पुरादेशः । तहितश्चासर्व- विभक्तिरित्यव्ययसंज्ञा (१।१।३८)। विसनीयस्थानिकस्य सकारस्योपचार इत्येषा संज्ञा पूर्वाचार्यप्रणोता। नमस्पुरसोगत्योरिति (८।३।४०) सकारः । पूः परौ पुरः क्त्वा गत इति प्रत्युदाहरणम् । पृ: पुरा- वित्येतयोस्तूपन्यासस्तत्माहचर्य ण पुरःशब्दस्यानव्ययत्वप्रदर्शनार्थः । पालन- पुरः कवेतीदं - na ब्यासः । भवति । पूरणयोः। भ्राजधासेत्यादिना (३।२।१७७) विप् । उदोष्ठापूर्वस्येत्युत्त्वम् (७.१।१०२) । रपरत्वञ्च । गतिसंज्ञाया अभावादिह समासादि कायं न नमस्य रसोर्गत्योरिति (८।३।४० ) विसर्जनीयस्य सकारोऽपि न भवति । ननु च यद्यत्र गतिसंज्ञा स्याद् गतिसमासे कृते सुपो निवृत्त्या भवितव्यम्। तदा पुर इति रूपं न स्यात्। अमति तस्मिन् संज्ञापि निवर्तते । नैतदस्ति । यद्यपि विभक्तौ निहत्तायां पुर इति रूपं न स्यात् तथापि नैवं संज्ञा निवर्तते । एकदेशविकृतस्यानन्यत्वात् । ६८। अस्तं च। अस्तंशब्दो मकारान्तोऽव्ययमिति। अव्ययमित्यत एव विशेषणोपादान- सामयादव्ययत्वं विजेयम्। चादराकृतिगणवादा। अस्तं कृत्वा काण्ड गत इति। असु क्षेपणे । निष्ठा। पूर्ववदिट्प्रतिषेधः । चकारोऽव्ययमित्य- स्थानुकर्षणार्थः । यद्येवं चानुक्लष्टत्वादुत्तरत्र तस्यानुत्तिर्न स्यात् । उत्तर- वापि चकारस्तदनुकर्षणार्थोऽनुवर्सिष्यत इत्यदोषः । ६६। अच्छ गत्यर्थवदेषु। अच्छशब्दोऽव्यय मभिशब्दस्यार्थ इति । अभिराभिमुख्ये। अच्छोद्येति । यजादित्वाहयादिसूत्रेण (६।१।१५) संप्रसारणम् । अच्छमित्यकलुषमित्यर्थः । ७०। अदोऽनुपदेशे। उपदेशः परस्यार्थकथनम् । तच्च परस्य प्रत्यायनार्थं भवतीत्याह उपदेशः परार्थ इति । अदः कत्वेति । एतत् कृत्वेत्यर्थः । ७१। तिरोऽन्तौं। तिरोभूत्वा स्थित इति । अजुर्भूत्वा । वा पाखंतोभूत्वे त्यर्थः । ७२ । विभाषा कृत्रि। तिरस्कृत्येति । तिरसोऽन्यतरस्यामिति (८।३।४२) विसर्जनीयस्य सत्वम् ।

(१।४)। ७३। उपाजवाजे। ७४। साक्षात्प्रभृतीनि च । साक्षात्प्रभृतिषु युर्थवचनमिति । च्यर्थ उच्यते कथ्यते येन तच् युर्थ वचनम् । चार्थव्याख्यानम् । एतेनैतदुक्तम् भवति साक्षात्प्रभृतीनां चूार्थों येन प्रतिपाद्यते ऽस्मिन् संज्ञाविधौ तच चार्थवचनं कर्त्तवामित्यर्थः । किमर्थम् ? असाक्षादभूतं यदा साक्षात् क्रियते तदा गतिसंज्ञा यथा स्यात् । यदा वसाक्षाद्भावो न क्रियते किंतु साक्षाभूतस्य प्रत्यक्षभावमुपगतस्यैव सतो योऽन्यो विशेषः कश्चित् क्रियते तदा मा भूदिति । एवं मिथ्याप्रभृतीनाम् । अमिथ्याभूतानां मिथ्याभावो यदा क्रियते तदा यथा स्यात् । अन्यदा मा भूत् । तदेवं व्याख्यानम् । अादिचिडाचश्चेत्यत्र (१।४।६१) चिग्रहणमच्छगत्यर्थ- वदेश्वित्यत(१।४६८) श्वार्थग्रहणमिह मण्डूकप्नुतिन्यायेनानुवर्तते । तेन चूपर्थे वर्तमानानां साक्षात्प्रभृतीनां गतिसंज्ञा विधीयत इति । विधीयत इति । व्यवस्थित- विभाषाविज्ञानाद्दा चुनर्थ एव वर्तमानानां तेषां संज्ञा भविष्यतीति । चूार्थता चोभयथा सम्भवति । चान्तानामचन्तानाञ्च । तत्र यदा चान्सता भवति तदोर्यादिचिडाचश्चेति ( १।४।६१ ) नित्यं संज्ञा भवति । अनादा त्खनन गतिसंज्ञा विभाषा भवति । व्यवस्थितविभाषया चास्य सूत्रस्य चार्थेष्वेव प्रवृत्तेः । मकारान्तत्वनिपातनमपि लवणादीनामचान्तानां न भवति । विभाषितगतिसंज्ञायाः सन्नियोगेन हि तेषां मकारान्तत्वनिपातनम् । अग्नौवशेप्रभृतयो विभक्तिप्रतिरूपकनिपाता द्रष्टव्याः। प्रादुराविःशब्दावूर्यादिषु पठ्यते। तयोः करोतियोग विभाषार्थ इह पाठः । ७५। अनत्याधान उरसिमनसौ। उरसिमनसिशब्दौ विभक्तिप्रतिरूपको निपाती। उरसिकत्येति । अभ्युप- गम्येत्यर्थः । मनसिकत्येति । मनसिकत्येति । निश्चित्येत्यर्थः । ७६। मध्येपदेनिवचने च । मध्येपद इति सप्तम्यन्तप्रतिरूपको निपातौ। निवचन इति । अर्था- ४० ३१४ न्यासः । उच्चारण- भावेऽवायीभावो निटणं निवुसमिति यथा । निवचनकत्येति । सामात् सप्तम्याः समासेऽप्यलुग् भवति । एवमुत्तरत्र । ७७॥ नित्यं हस्तपाणावुपयमने। हस्ते कृत्य पाणोक्कत्येति। सप्तम्याः पूर्ववदलुक् । दारकर्मेति । भार्याकरणम् । ७८1 प्राध्वम् बन्धने। बन्धन इति निमित्तसप्तमीयम् । प्राध्वंशब्दस्यानुकूल्यवृत्तित्वाद् बन्धन इत्यस्य विशेषणं नोपपद्यत इति सामर्थात् तदर्थस्य विशेषणं विज्ञायत इत्यत आह तदानुकूल्यमित्यादि। बन्धनं हेतु र्यस्य तत् तथोक्तम् । प्राध्वंकत्येति । बन्धनेन निमित्तेनानूकूल्यं कृत्वेत्यर्थ: । प्राध्वं कवेति । समर्थमध्वगमने शकटमध्वाभिमुखं कलेति गम्यते । उपसर्गादध्वन (५।8।८५) इत्यच् समासान्तः । नस्तद्धित इति ( ६।४।१४४) टिलोपः । प्रगतमध्वानमिति प्रादिसमासः । लक्षणप्रतिपदोक्त परिभाषयैवात्र प्राप्तौ सिद्धायां लाक्षणिकोऽपि प्राध्वंशब्दो यत्र बन्धनेनाभिसम्बध्यते तत्रापि गतिसंज्ञा भवतीति ज्ञापनार्थ बन्धनग्रहणम्। तेन यदा बन्धनेनैव शकटस्याध्वनि सामादध्वाभिमुखता विवक्ष्यते तदा प्राध्वंकत्य शकटं गतमित्येतदपि सिद्धम्भवति । ७८ ) जीविकोपनिषदावौपम्ये । औपम्यविषय इति । उपमीयतेऽनयेत्युपमा । आतश्चो पसर्ग (३।३।१०६) इत्यङ्। तस्या भाव औपम्यम् । थञ्। तत् पुनः क्रियाकारकसम्बन्धः । समासकृत्तद्धितषु सम्बन्धाभिधानमनात रूढाभित्ररूपावाभिचरितसम्बन्धेभ्य इति वचनात् । विषयग्रहणेनौपम्य इति सप्तम्या विषयसप्तमीत्वं दर्शयति । सम्भवति च जीविकोपनिषदावुपमाभूते प्रत्यौपम्यविषयभावः । तेन विनोप- माया अभावात् । जीविकाकृतपतवादि। जीविकामिव कृत्वा । उपनिषदमिव कवेतार्थ:। जीविका जीवनोपायः । उपनिषद्रहस्यं हेतुश्च । यत् तत्- सदृशं तज् जीविकेव जीविका । उपनिषदिवोपनिषदिति जीविकोपनिषड्या- मुपमीयते ।

( ११४)। ३१५ ? ८०। ते प्राग् धातोः । नियमार्थमेतत् । नियमः पुनः संज्ञानियमो वा स्यात् ते प्रादयो यदा धातोः प्राक् प्रयुज्यन्ते तदैव गतुपसर्गसंज्ञका भवन्तीति ? प्रयोगनियमो वा ? ते प्रादयो गतुपसर्गसंज्ञका: सन्तो धातोः प्राक् प्रयोक्तव्या इति ? तत्र यदि पूर्वको नियम आश्रीयेत तदा संज्ञावाक्यानामयमकदेशो विज्ञायेत ते प्रादयो धातोः प्राक् प्रयुज्यमाना गतुपसर्गसंज्ञका भवन्तीति । तथाच गतप- सर्गसंज्ञयोरनभिनिहत्तत्वात् ते गतुपसर्गसंन्नका इति प्रत्यवमर्शी न युज्यते । निपातसंज्ञायाश्चाभिनिहत्तत्वात् त इत्यनेन निपाता एव प्रतावमृश्येरन् । ततश्च निपातसंज्ञाया नियमः स्यात् । इतरत्र तु नियमनायं योगो गतुप- सर्गसंज्ञावाक्यानामेकदेशभूतो भवतीति न भवतष दोषप्रसङ्गः। संज्ञा- नियमस्य चाप्राक्प्रयुज्यमानानां संज्ञानिवृत्तिः फलं स्यात् । तच्चायुक्तम् । नह्यप्राक्प्रयुज्यमानानां सतयामपि संज्ञायां किञ्चिदनिष्टमापद्यते। इतरस्य तु नियमस्याप्राक्प्रयोगाभावः फलम् । तच्च युक्तम् । नहि गतुपसर्ग- संज्ञकानामप्राकप्रयोग इष्यते । तस्मात् प्रयोगनियम एव नवाव्य इति तमाश्रित्याह ते गत्युपसर्गसंज्ञका इति । तथाचेत्यादि। यादृशो नियमः कृतस्तदनुरूपं तत्सदृशमेवेत्यर्थः । ननु च नेव कश्चित् प्रपठतीति प्रयोक्तव्ये पठति प्रेति प्रयुक्त। ततोऽनिष्टादर्शनादपार्थकमेतत् । नैतदस्ति । यद्यपि भाषायां धातोः परेण प्रयुज्यमानास्ते गतापसर्गसंज्ञका न दृश्यन्ते छन्दसि तु दृश्यन्ते । तत्र य एव मन्दबुद्धिः प्रतिपत्ता तेषां छन्दसि धातोः पर प्रयोगं दृष्ट्वा यथैव ते छन्दसि विषये धातोः परेण प्रयुज्यन्ते तथा भाषायामपि प्रयोक्तव्या इति मन्यते तं प्रति वुत्पादनार्थत्वान् नास्ति वैयर्यप्रसङ्गः । अथ किमर्थ तेग्रहणम् ? यावता प्रकृतत्वादेव गतुपसर्गसंज्ञकानां प्राक् प्रयोगण सम्बन्धी विज्ञास्यत इत्याह तेग्रहणमित्यादि । असति तेग्रहणे गति- संज्ञकानामनन्तरत्वात् त एव प्राक्प्रयोगण सम्बध्येरन् । तैग्रहणे तूपसर्ग- संज्ञा पपि निर्दिश्यन्त इति तेषामपि सम्बन्ध उपपद्यते । तस्मादुपसर्गाणा- प्रयोगनियमो यथा स्यादितवमर्थ तेग्रहणम् । ननु च यं प्रति मपि प्राक् न्यासः । क्रियायुक्ताः प्रादयस्त प्रति गतापसर्गसंज्ञका भवतीत्यन्तरेणापि धातु- ग्रहणं धातोरेव प्राक् प्रयोगो विज्ञास्यते । नहि धातोरनात्र क्रियास्ति । तत् कथं धातोरिताच्यते ? नेतदस्ति । प्रकर्तुमिच्छ ति प्रचिकीर्षतीत्यत्रापि धातोश्च प्राक् प्रयोगो यथा स्यात् । अत्र सनः सम्बन्धिन्यैषणक्रियया युक्तः प्रशब्द इति सनं प्रति गतुपसर्गसंज्ञा यथा स्यात् । ततश्चासति धातुग्रहणे तत एव प्राक् प्रयुज्येत । धातुग्रहणे तु चिकीर्षतेर्धातोः प्राक् प्रयुज्यते । बसनः । ८१ । छन्दसि परेऽपि । ८२ । व्यवहिताश्च । छन्दसि व्यवहितानां प्रयोगवचनाद् भाषायां वावहितानां प्रयोगो न भवतीतुक्त भवति । यद्येवं गतिवावधानऽपि प्राक् प्रयोगो न प्राप्नोति समाहरतीत्यादौ। नैष दोषः। नहि तुल्य जातीयको व्यवधायको भवति । गतापसर्गजातराश्रयणान् नास्ति व्यवधानम् । आ मन्द्ररित्यादि। अनाडो मन्द्ररित्यादिभिः पदैर्व्यवधानेऽपि यातेर्धातोः प्राय प्रयोगः। अायाहीति । एतेनाडो याहीत्यनेन सम्बन्ध दर्शयति । ८३॥ कर्मप्रवचनीयाः। कम्मप्रवचनीया इति वक्ष्यमाणानां संजिनां बहुत्वाद् बहुवचनेन निर्देशः । महत्याः संज्ञायाः करणस्यैतत् प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत कर्म प्रोक्तवन्तः कर्मप्रवचनीया इति। भूते कृत्यल्युटो (३।३।११३) बहुलमिति कर्तर्यनीयर् । कर्मशब्दः क्रियावचनः । के च कर्म प्रोक्तवन्तः ? ये संप्रति क्रियां न वाहुः । तदेव मन्वर्थसंज्ञाकरणहारण ये क्रियां द्योतितवन्तो नतु संप्रति द्योतयन्ति ते कर्मप्रवचनीयसंज्ञा भवन्तीतुक्तं भवति। यदि सम्प्रति न क्रियां द्योतयन्ति किन्तर्हि द्योतयन्ति ? सम्बन्धविशेषम्। यथा शाकल्यस्य संहितामनु प्रावर्ष- दित्यत्र हि निशमनक्रियया संहिताप्रवर्षणयो यः सम्बन्ध उपजनितो हेतुहेतु- मद्भावलक्षणस्तमनुशब्दो द्योतयति। कर्मप्रवचनीयसंज्ञायां सत्यां कर्मप्रवचनीय- युक्त (२।३.८) द्वितीयेति द्वितीया भवति ।

अन्यथा । (१।४)। ८४ । अनुर्लक्षणे । लक्षणशब्दोऽत्र चिह्न वर्तत इति मत्वा कश्चिञ्चोदयति किमर्थमित्यादि । इतरस्तु लक्षणेत्यम्भूताख्यानभागवीप्साखित्यादौ सूत्रे । तत्र चिरु ज्ञापक वर्तमानस्य लक्षणशब्दस्य ग्रहणम् । इह तु कारके हेतौ। अतस्तेन न सिध्यतीत्यनेनाभिप्रायेण तं प्रत्याह हेत्वर्थन्तु वचनमित्यादि। तु शब्दोऽवधारणे हेत्वर्थमेवेति । हेतुशब्दोऽत्र कारकहेतुवचनो न ज्ञापकहेतुवचनः । ह्यपरिहार एवायं स्यात्। हेतुरौँ यस्य तत् तथोक्तम् । हेतौ वर्तमान- स्यानोः कर्मप्रवचनीयसंज्ञा यथा स्यादित्येवमर्थमिदं वचन मित्यर्थः। किमर्थ पुनर्हेतौ वर्तमानस्य तस्येयं संज्ञा विधीयत इत्याह हेतो तृतीयाया मित्यादि । संहिता हि वर्षणस्य हेतुः । अनुडुद्यज्ञ: मेकस्य । तथाहि संहितामनुनिशम्य श्रुत्वा प्रावर्षत् । अनुडुयज्ञञ्चानुनिशम्या सिञ्चत् । तत्र यदि हेतावनी- रेषा संज्ञा नोच्येत शाकल्यस्य संहितामनु प्रावर्षदित्यादौ हेताविति (२।३।२३) हतीया स्यात् । तस्मात् तां बाधित्वा द्वितीयैव यथा स्यादित्येवमर्थ हेतावियं संज्ञा ऽनो विधीयते ८५। हतीयार्थे । नदीमन्ववसितेति। सहार्थोऽत्र टतीयार्थः । सहयुक्त प्रधान इति (२।३।१८) सहार्थयोगे तृतीयाविधानात् । अन्ववसितेति । षिञ् बन्धन इत्यस्य निष्ठायां रूपम् । ८६। होने। अनु शाकटायनं वैयाकरणा इति । शाकटायनमपक्ष्यान्ये वैयाकरणा होना इति । अपक्षयात्र जनितो यः सम्बन्धस्तेन व्यतिरिच्यते शाकटायन इति। ततः षष्ठयां प्राप्तायां तदपवादेन द्वितीया विधीयते । एकयैव विभक्त्यो- भयस्थोऽपि सम्बन्धो द्योतित इति। तेन सम्बन्ध्यन्तरवाचिनो वैयाकरणश- ब्दादपरा सम्बन्धविभक्ति न भवति । ८७। उपोऽधिक च । अधिकमध्यारूढ़मुच्यते। नचानधिकेन विनाधिकं सम्भवति। तेनाधि- ११८ न्यासः । उप- के सम्बन्धे ऽध्यारूढ़क्रियाजनिते संनेयं विज्ञायते। चकाराचीने च । ख्यायां द्रोण इति। खाऱ्या द्रोणोऽधिक इत्यर्थः । यस्मादधिक ( २१३:८) मित्यादिना सप्तमी । तयैव सम्बन्धस्याभिहितत्वाद् द्रोणशब्दात् कर्मप्रवचनीय- युक्त द्वितीयेति ( २.८८ ) द्वितीया न भवति । ८८। अपपरौ वर्जने । प्रकृतेन सम्बन्धिनति । वर्षादिना । कस्यचिदिति । विगदिः । अप त्रिगर्तेभ्य इति । पञ्चम्यपाङ्परिभिरिति (२।३।१०) पञ्चमी। परि परि त्रिगर्तेभ्य इति । परर्वजन इति ( ८।१५ ) हिर्वचनम् । ओदनं परिषिञ्च- सर्वतः सिञ्चतीत्यर्थः । शे मुचादीनामिति ( ७१।५८) नुम् । कर्मप्रवचनीयसंज्ञाया अभावादुपसर्गसं व भवति । तेनोपसर्गात् सुनोती- त्यादिना (८३६५ ) षत्वं भवति । तीति । ८६ । आङ मर्यादावचने । यत्राडो मर्यादायामभिविधौ च कार्यमिच्छति तत्रोभयोरपि ग्रहणं करोति यथाङ् (२।१।१३) मर्यादाभिविध्योरित्यादि । इह तु मादाग्रहणमेव कृतं नाभिविधिग्रहणम् । अतोऽभिविधावनया संज्ञया न भवितवामिति कस्यचिद् भ्रान्तिः स्यात् । अतस्तां निराकर्तुमाह वचनग्रहणादित्यादि । वचन- ग्रहणे हि सति बहुव्रीहिर्लभ्यते । मर्यादेत्येतद्दचनं यत्र सूत्रे तम्मयादावचनम्। तत्रायमर्थों भवति । यत्र मर्यादाग्रहण मस्ति सूत्रे तत्र य प्राङ् स कर्मप्रवच- नीयसंज्ञो भवति । तत् पुनः सूत्रमाङ् मर्यादाभिविध्योरितातत् (२।१।१३) । तत्र चाङ् मर्यादाभिविध्योर्वर्तमान उपात्त इतुभयत्रापि भवति । अना वाहुः । मर्यादाविशेषो ह्यभिविधिः । सैव हि मर्यादा यदा कार्येणाभिसम्बध्यते तदाभिविधिरितुपयते। यदा तु नाभिसम्बध्यते तदा मर्यादेति । तत्रेह वचनग्रहणाद् विशेषो नाथीयते। तेन मर्यादा वचनमात्र उक्तिमात्रे भवति । अन्यथा हि मादायामितेवं वाच्य स्यात् । किं वचनग्रहणेनेति ? यदि तर्हि मर्यादाविशेष एवाभिविधिरिति तयाङ् मर्यादाभिविध्योरी (२।१।१३).

३१० । । (११४)। षदर्थे क्रियायोगे मर्यादाभिविधौ च य (IH) इत्यत्राभिविधिग्रहणं किमर्थम् ? मर्यादासामान्यस्यैव प्रपञ्चार्थम् । मादासामान्यस्यैवायं भेद इति प्रदर्शनार्थ- मित्यर्थः । आ पाटलिपुत्वादृष्टो देव इति। पूर्ववत् पञ्चमो। आ मथुराया इति । वृष्टो देव इत्यपेक्षते । एकत्रोदाहरणे वर्जनक्रियाजनितमवध्यवधिमद्भावलक्षण सम्बन्धमाङ् द्योतयति । अपरत्र वाप्तिक्रियाजनितम् । क: पुनर्वर्जनस्य मादायाश्च विशेषो येन पूर्वसूत्रे वर्जनमभिधायेह मर्यादाग्रहणं करोति ? अयमस्ति विशेषः। वर्जने हि तत्परित्यागनान्यत्र सामान्येन वर्षणादिना सम्बन्धो गम्यते यथा आ त्रिगर्तेभ्यो वृष्टो देव इति । अत्र हि यस्यां दिशि व्यवस्थितो वक्तेदं वाक्यं प्रयुक्त तस्यां दिशि यो देशो य स्तथान्यासु दिक्षु तत्र सर्वत्रैव त्रिगर्मान् वर्जयित्वा वृष्ट इति गम्यते । मादायान्विदं वाक्यं प्रयुक्त आ पाटलिपुत्वादृष्टो देव इति । तत्सम्बन्धि यामेव दिशि यो व्यव- स्थितो देशस्तस्य देशस्य वर्षणेन सम्बन्धः प्रतीयत इत्येष विशेषः। ईषदर्थे क्रियायोगे मा भूदिति । ईषदर्थ आकड़ार इति । क्रियायोगे समाहरतीति । पूर्वत्र संज्ञाया अभावात् पञ्चमी न भवति । इतरत्र गतिर्गताविति (८।१।७०) निघातो भवति । यस्तु वाक्यस्मरणयोराकारो वर्तते तस्याङित्त्वादिह डाकारो- चारणादेव संज्ञाया अप्रसक्तिः । ६०। लक्षणेत्यम्भूताख्यानभागवौपसास प्रतिपर्यनवः । लक्षणं ज्ञापको हेतुश्चिमिहाभिप्रेतम् । लक्ष्यते चिहाते येन तल्लक्षणम् । कञ्चित्प्रकारमापनमित्यम्भूतम् । तस्याख्यानमित्यम्भूताख्यानम् । भू प्राप्तावात्म- नेपदी । तस्मादा (गणसूत्र २०२) धृषाहेति विभाषितणिचो यदा चुरादिणिज् नास्ति तदा तान्तस्य भूत इति रूपम्भवति । स्वीक्रियमाणोंऽशो भागः । यस्त्वस्वीक्रियमाणे ऽशे भागशब्दः प्रयुज्यते प्रियङ्गो गो नगरस्य भाग इति स खोक्रियमाणांशसादृश्यात् । पदार्थान् व्याप्तुमिच्छा वीप्सा । एते च लक्षणादयः प्रत्यादीनां न द्योत्याः। किं तईि ? विषयभूताः । अतएवाह विषयभूता- यामिति । एतच्चाभिधेयवल्लिङ्गवचनानि भवन्तीति लिङ्गविपरिणामं कृत्वा (H) १११।१४ सूत्रभाष्यस्थोऽयं भाष्यकारीयश्लोकांश: ।

न्यासः । लक्षणादिभिः सम्बध्यते। यदि लक्षणादयः प्रत्यादीनां न धोत्या स्तर्हि किं ते द्योतयन्ति ? सम्बन्धविशेषम् । वृक्षं प्रति विद्योतते विद्युदिति। अत्र वक्षो लक्षणम् । विद्योतमाना विद्युल्लत्या । सा हि वृक्ष प्राप्य विद्योतत इति तयोः प्राप्तिक्रियाजनितोऽत्र लक्ष्यलक्षणभाव: सम्बन्धः प्रतिशब्देन द्योत्यते। साधुर्देवदतो मातरं प्रतीति । प्रतिना देवदत्तस्य माटविषया साधुभावापत्तिराख्यायते। अत्रापि मातरं प्राप्य साधुभावापत्तिरिति प्राप्ति क्रियाजमित एव मातुः साधुभावापत्तेश्च विषयविषयिभावलक्षणः सम्बन्धः प्रतिनाऽख्यायते । यदत्र मामित्यादि। यो भागो मामभिभजते स दीयता- मित्यर्थः । अत्रापि विभजनक्रियाजनितः स्वीकारक्रियाजनितो वा स्वखामि- भाव: सम्बन्धः । मामिति । अम्म छन्दस्य त्वमावेकवचन (७२।०७) इति मादेशः । द्वितीयायाञ्जेत्यात्त्वम् ( ७२ ८७ )। वृक्ष वृक्षं प्रति सिञ्चतीति । अत्र वीसा दिर्वचनेनैव द्योत्यते । प्रतिशदस्य तु सेकक्रियाजनितो वृक्षाणां यः सम्बन्धः साध्यसाधनभावलक्षण: स एव द्योत्यः । वृक्षादिनिमित्तं साधनम् । सेकः साध्यः । द्वितीया चेह सकर्मकत्वात् सिचेः सेकेन व्याप्तुमिष्टतमानां वृक्षाणां कर्मत्वे सति कर्मणि (२३।२) द्वितीयेत्यनेनैव कर्मप्रवचनीयमंत्रयोपसर्गसंज्ञाया निवर्तितत्वादुपसर्गात् सुनोती त्यादिना (८।३।६५) षत्वं न भवति । परिषिञ्चतीति । सर्वतः सिञ्चतीत्यर्थः । अथेत्यादि चोद्यम् । वर्जनेत्यादि परीहारः । अपशब्दसाहचर्यादित्यत्रैवोप- पत्तिः। तत्र हि कर्मप्रवचनीयाधिकाराद् वर्जनार्थस्यापशब्दस्य ग्रहणं वर्जन एव । तस्यापपरी वर्जन ( १।४।८८) इति कर्मप्रवचनीयसंज्ञा विहिता । तस्मात् तेन साहचर्याद वर्जनार्थस्य पर ग्रहणम् । अतस्तेनापि योग वर्जन एव विषय इयं पञ्चमी विधीयते । न लक्षणादिषु । सिद्धा। अभिरभागे। यदत्र मामभिष्यादिति । असोरलोप ( ६।४।१११) इत्यकारलोपः । कर्मप्रवचनीयसंज्ञाया प्रभावादुपसर्गत्वमस्त्येव । तेनोपसर्गप्रादुर्ध्यामस्तियंच्पर (८७८७) इति षत्वम् । मामिति । यद्यप्यस्तिरकर्मकस्तथाप्यकर्मका अपि त्यर्थः । (१।४)। धातवः सोपसर्गाः सकर्मका भवन्तीति कर्मणि द्वितीया । ननु चाभिशब्दो भागसम्बन्धस्य द्योतक इति तेनास्तेः सम्बन्धो नास्ति । तत् कथं सकर्मकता ? मैतदस्ति । अस्तिसम्बन्धहारेण घभिशब्दो भागसम्बन्ध द्योतयति । अन्यथा हि यदि तस्यास्तिना योगो न स्यात् तदोपसर्गसंज्ञापि न स्यात् । तत चोप- सर्गसंज्ञानिबन्धनमभिष्यादिति षत्वमपि न स्यात् । ६३। प्रतिः प्रतिनिधिप्रतिदानयोः । अभिमनुारर्जुनतः प्रतीति । अर्जुनो मुख्यः । तत्सदृशोऽभिमनुयः । सोऽर्जुनमनुकरोतीत्यत्रानुकरणक्रियाजनितः सम्बन्धविशेषोऽनुका-नुकरण. भावः प्रतिना द्योत्यते । प्रतिनिधिप्रतिदाने च (२।३।११) यस्मादिति पञ्चमी । प्रतियोगे पञ्चम्यास्तसिः । माषानमै तिलभ्य इति । तिलानां पूर्वदत्तानां माषाणां प्रतिदानमिह निर्यातनम् । तिलान् गृहीत्वा माषान् ददाती- दानग्रहणक्रियाजनितोऽत्र मम्बन्ध उत्तमधमणभावलक्षणः । ६३। अधिपरी अनर्थको। अनर्थान्तरवाचिनाविति । एतेनानर्थान्तरवाचित्वादनर्थकावित्युतम् । न त्वर्थाभावादिति दर्शयति । यदि ह्यविद्यमानार्थत्वादनर्थ की स्याता निरर्थकमिदं सूत्रं स्यात् । तथाहि कर्मप्रवचनीयसंज्ञा गतुपमर्गसंज्ञा- बाधनार्थाऽनेन विधीयते । न चानर्थकयोरधिपोंर्गतुपसर्गसंज्ञाप्राप्तिरस्ति । यं प्रति क्रियायुक्ताः प्रादय स्तं प्रति गतुपमर्गसंज्ञाविधानात्। अनर्थकयोश्च क्रियायोगासम्भवात्। कुतोऽध्यागच्छतीत्यादि । कुत इत्यपादाने (२।३।२८) पञ्चमी। कर्मप्रवचनीयेति (२।३।८) द्वितीया न भवति । उपपदविभक्त: कारकविभक्तिवलीयसीति (परिभाषा, १०३ ) वचनात् । सूत्रारम्भस्य तु प्रयोजनमाखमातमेव । कुत किंशब्दात् पञ्चम्यास्तसिलिति (५।३७) तसिल्। कु तिहोरिति ( ७।२।१०४ ) कुभावः । कर्मप्रवचनीय- संजया गत्युपसर्गसंज्ञयोर्बाधितत्वाद गतिर्गताविति (८।१।७०) निघातो न भवति। ननु चागच्छतीतुक्त आगमनं विशिष्टं प्रतीयते । अध्यागच्छति पयागच्छतीति । अधिपरियोग वागमनस्योपरिभावः सर्वतोभावश्चावगम्यत इति । ४१ न्यासः । ६४ । इत्यपरो विशेषः । तत् कथमनर्थान्तरवाचित्वमनयोः ? नैतदस्ति । यदा तयोरप्यर्थयोः प्रकरणादेः कुतश्चिदवगतयोरधिपरी प्रयुज्येते तदा तयोरना- सरवाचित्वं वेदितव्यम् । कथं पुनरवगतार्थ योः प्रयोग उक्तार्थानामप्रयोग इति वचनात् ? सत्यम् । अवगतार्थस्यापि प्रयोगो दृश्य ने यथा ब्राह्मणी हा विति । लोकस्य प्रयोग गुरुलाघवं प्रत्यनादरात् । सुः पूजायाम् । सुसिक्तं भवतेति । भवच्छब्दात् कर्तरि टतीया। द्वितीया तु पूर्ववदेव न भवति । धात्वर्थ : स्तूयत इति । शोभनोद्भावनं स्तुतिः। सैव तस्य पूजा । उपसर्गाश्रयं षत्वं न भवतीति । कर्मप्रवचनीयसंजयोपसर्गसंज्ञाया बाधित. त्वादिति भावः । सुषितं किं तवात्रेति । क्षेपोऽयं न पूजा । १५ । अतिरतिक्रमणे च । अतिस्तुतमेव भवति। निष्यनेऽपि फले स्तुतिः प्रहत्तेत्यर्थः । शोभनं कतमित्यर्थ इति। पूजामाविष्करोति । ६६ । अपिः पदार्थसम्भावनान्ववसर्गगर्दासमुच्चयेषु पदार्थ इति । पदस्याएँ लक्ष्यते । न खाों नापि स्वसम्बन्धिन: पदस्यार्थः पदार्थः । स्वपदार्थग्रहण स्वसम्बन्धिपदार्थग्रहणे वा पदार्थग्रहणमनर्थकं स्यात्। अपिशब्दस्य हि योऽर्थी यश्चापिशब्द- सम्बन्धिनः स्यादित्यादेः पदस्य स पदार्थ एवेति किं पदार्थग्रहणेन ? तस्मात् पदार्थग्रहणसामाद् विशिष्टपदस्यार्थों विज्ञायतइत्याह पदान्तरस्ये त्यादि। सर्पिषोऽपि स्यादिति। कर्मप्रवचनीयसंजयोपसर्गसंज्ञाया निवति- तत्वादुपसर्गप्रादुर्ध्यामस्तियच्पर इति षत्वं ( ८८७) न भवति । अथ सर्पिः शब्दाद् द्वितीया कथं न भवति ? अपिशब्देन तस्य योगाऽसम्भवात् । सर्पिषो हि या मात्रा सापिशब्देन युक्ता न सर्पिः । मात्राशब्दात् तर्हि कस्मान भवति ? तस्य प्रयोगाभावात् । यदा तु प्रयुज्यते तदा कर्मप्रवचनीय संजैव नास्ति । अप्रयुज्यमानस्य पदान्तरस्यार्थे सविधानात् । अधिकार्थ- वचनेनेति । अधिकार्थों मूलकसहस्रसेकादिः । तस्य वचनेन सेकादावर्थ अन्यस्य (१।४)। ३२३ क्रियायां यच्छतरप्रतिघातस्याविष्करणं प्रकाशनं तत् सम्भावनम् । अपि सिञ्चन् मूलकसहस्रम् । अपि स्तुयाद्राजानमिति । तस्य सेके स्तुती च सामर्थ्य न विहन्यत इत्यर्थ: । सम्भावनेऽल मिति चेत् सिद्धाप्रयोग (३।३।१५४) इति लिङ्। कामाचाराभ्यनुज्ञानमिति । कामचार इच्छया प्रवृत्तिः । तस्याभ्यनुज्ञानं कामचाराभ्यनुज्ञानम् । अपि सिञ्च अपि स्तुहोति । सिच वा स्तुहि वा यथेष्टमभ्यनुज्ञातोऽसीत्यर्थः । धिग् जाला देवदत्तमिति । उभसर्वतसोः कार्या धिगुपयादिषु त्रिषु । द्वितीयामेड़ितान्तेषु ततोऽन्यत्रापि दृश्यते ॥१॥ इत्युपसंख्यानावितीया (२।३।२, वा )। अपि सिञ्चेत् पलाण्डुमिति । अर्हे कृत्यटचश्चेति ( ३।३।१६८ ) लिङ् । पलाण्डुमिति कर्मणि द्वितीया । अपि सिञ्च अपि स्तुहीति । एकस्मिन् कर्तरि स्तुतिमेक क्रिययोश्चीयमानता । अत्र समुच्चयः । सिञ्च च स्तुहि चेति प्रसिद्धसमुच्चयार्थस्य चशब्दस्य प्रयोगण तमेव ममुच्चय मुदाहरणे व्यक्तीकरोति । ६७। अधिरीश्वरी । तदयं स्वस्वामिकसम्बन्ध इति । परिपालनादिक्रियाजनितोऽत्र सम्बन्धः । तत्रेत्यादि । सर्वत्र हि सम्बन्धे किञ्चिदनद्यते किञ्चिदाख्यायते । यत् प्रसिद्ध तदनूद्यते । यदप्रसिद्धं तदाख्यायते विधीयते ज्ञाप्यते यथा यः कुण्डली स देवदत्त इति । कुण्डलित्वानुवादन देवदत्तवं विधीयते। यच्च विधीयते तत् प्रधानम्। इतरदप्रधानं विशेषणम्। तत्र यदा स्व मप्रसिद्धत्वाविधीयते तदा खामी प्रधानत्वाद् व्यतिरेकमापद्यत इति तत एव कम्मप्रवचनीयसंज्ञा- युक्तत्वाद् व्यतिरेकनिबन्धनविभक्तौ षष्ठयां प्राप्तायां तदपवादो यम्मादधिकं यस्य चेश्वरवचनं तत्र ( २।३१८) सप्तमीति सप्तमी भवति । तयैव सम्बन्धस्य द्योतितत्वात् स्वात् प्रथमैव भवति। न सप्तमी। यदा तु स्वाम्यप्रसिद्धत्वाद विधीयते तदा विपर्ययो वेदितव्यः । ६८। विभाषा कृत्रि। अधिरीखर इति वर्तते । तन प्राप्ते विभाषेयम् । अधिपूर्वः करोति- न्यासः । तथाच २२४ विनियोग वर्तते । विनियुक्तस्यैवैश्वयं सम्पद्यते । यदत्र मामधिकरिष्यतीति। मामिति कर्मणि द्वितीया। अधिकरिष्यतीति । अत्र निपातैर्ययदी- त्यादिना (८।११३०) निघाते प्रतिषिद्धे ऽस्य प्रकृतिखरणाद्युदात्तत्व भवति । लः परस्मैपदम् । ल इति प्रथमा वा स्यात् षष्ठो वा ? तत्र यदि प्रथमा स्याल्लकारस्यैव परस्मैपदसंज्ञा स्यात् । न तदादेशानां तिबादीनाम् । कामं तेषामपि स्थानि- वद्भावेन स्यात् ! तङानावात्मनेपदमित्यत्र (१।४।१०० तु ल इत्यनेन तङानयोः सम्बन्धी नोपपद्येत । नहि तडानौ लौ भवतः । अत्र तङानभावी लकार एव तङानावित्येवमभिहितः । साहचयाहा लादेशो तङानावेव । ल इत्युक्ता- विति व्याख्येयम् । व्याख्यानहारणष्टार्थप्रतिपत्तौ साध्यायां प्रति- पत्तिगौरवं स्यात् । षष्ठीपक्षे त्वेष दोषो नास्ति । अतस्तमाश्रित्याह लदति षष्ठीत्यादि। नन्वयमपि पक्षो दोषवानेव । लादेशस्य हि परस्मैपद- संज्ञा विधीयमाना तिङां न स्यात् । तेषां परत्वात् तिङस्त्रीणि त्रीणीत्यादिना (१।४।१०१) प्रथमपुरुषादिसंज्ञया भवितव्यम् । परस्मैपदसंज्ञायास्तु शटक्कस्तो- श्वावकाशः । नैष दोषः । यदयं सिचि वृद्धिः ( ७२।१ ) परस्मैपदेष्वित्याह तज ज्ञापयति भवति च तिङां परस्मैपदसंज्ञेति। स हि परस्मैपदे पर सिचि विधीयते । नहि सिज्विषये श टक्कसू सम्भवतः । तिप्तम्झीत्यादि रूपोदाहरणमात्रम् । १०० । तङानावात्मनेपदम् । कतीह निघ्नाना इति । निपूर्वाधन्तेस्ताच्छौल्यवयोवचनशक्तिषु चानश् इति ( ३।२।१२८) चानशप्रत्ययः । गमहनेत्यादिनोपधालोपः (६।४८८) । होहन्ते णिवेष्विति ( ७।३।५३ ) कुत्वम् । यद्यनादेशोऽपि चानशात्मनेपद- संज्ञक: स्यात् परस्मैपदिनो हन्तेर्न स्यात् । १०१ । तिङ स्वौणित्रीणि प्रथममध्यमोत्तमाः । तिङ इति प्रथमाबहुवचनम् । तिङः संजिन: किम्भूताः ? चीणि त्रीणीत्येवम्भूता इत्यर्थः । वचनापेक्षया नपुंसकलिङ्गेन निर्देश; । वीप्सायाञ्चैतद ( १।४)। ३२५ हिर्वचनम् । यदि तिङस्त्रीणि त्रीणि वचनानि प्रथममध्यमोत्तमपुरुष- संज्ञकानि भवन्त्येवं सति षट् त्रिकाः संजिनः संज्ञास्तिस्र इति यथासंख्यन प्राप्नोति । वैषम्यात्। तत्र योकस्यानकसंज्ञाविधानवैयर्थ्यादेका संज्ञा भवेन् न वेकैकस्य तिन स्तथापि सैवैकैका भवन्तीत्यव्यवस्था वा स्यात् । नैष दोषः । इह हि परस्मैपदग्रहणमात्मनेपदग्रहणञ्चानुवर्तते । तदनुवृत्ती च हौ राशी भवतः। नवानां तिडां परस्मैपदसंज्ञकानामको राशिः। तथा नवानामात्मनेपदसंज्ञकानां द्वितीयः। तत्र प्रथम राशी ये त्रयस्त्रिका ये च द्वितीये राशौ त्रयस्त्रिका स्तैरिदं सूत्रं प्रत्येकमभिसम्बध्यते । परसौ- पदेषु तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमास्तथात्मनेपदेषु तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमा इति । एवं हि सति न भवति संख्यातानुदेशाभावप्रसङ्गः । तमेवार्थ दर्शयितुमाह तिङोऽष्टादश प्रत्यया इति । नवेत्यादिना राशि- हयं दर्शयति । तत्रेत्यादिना प्रथम राशी ये त्रयस्त्रिका स्तरस्य सूत्रस्य सम्बन्ध करोति । आत्मनेपदेष्वित्यादिनापि हितीये राशी ये त्रयस्त्रिकास्तश्च । १०२। तानेकवचन द्विवचनबहुवचनानेकशः । तानीति बहुवचनं संज्ञासमावेशार्थम् । अन्यथा ह्ये कसंज्ञाधिकारे सति वचनप्रामाण्यात् पुरुषवचनसंज्ञाः पर्यायेण प्रवर्तेरन् । एवञ्च तत्राडुत्त- मस्य पिञ्चेत्यादिना (३।४।८२) विधीयमानमाड़ादिकायं पाक्षिकं स्यात् । अस्मिंस्तु सति भवति संज्ञासमावेशः । तच्छब्देन हि त्रीणि त्रीणि लब्धपुरुषसंज्ञकानि तान्येवैकवचनादिसंज्ञकानि भवन्तीति प्रत्यवमृश्यन्ते । तेन यानि लब्ध- प्रथमपुरुषादिसंज्ञकानि तान्येवैकवचनादिसंज्ञकानि भवन्ति । त्रिकाणां प्रथमादिसंन्नेकै कस्य चैकवचनादिसंज्ञा । विषयभेदादेक- संज्ञाधिकारऽपि विरोधो नास्त्येवेति । नैष दोषः । तदस्ति पुरुषादि- संज्ञापि हि प्रत्येकमेव । नहि समुदायो नामान्यस्त्रिकेभ्योऽस्ति । तस्मात् तिबादय स्त्रिका एव संजिनः । त्रिग्रहणन्तु मर्यादार्थम् । त्रित्वसंख्या- परिच्छिद्रास्तिङः प्रत्येक पुरुषसंज्ञाः प्रतिपद्यन्ते । तस्मात् प्रथमादि- संज्ञानामकवचनादिसंज्ञानाच्चैक विषयत वेति मंज्ञासमावेशार्थ तानीत्युक्तम् । तत्र न्यासः। १०३ । सुपः । सुबिति प्रत्याहारग्रहणम् । प्रथमैकवचनात् सुशब्दादारभ्य सप्तमीबहु- वचनस्य सुपः पकारण । अथ कपः पकारणायं प्रत्याहारः कस्मात्र विज्ञायते ? सप्तमीबहुवचनस्य पकारस्य वैयर्यप्रसङ्गात् । स धनुदात्तार्थः स्यात् । प्रत्या- हारार्थो वा। तत्रानुदास्तार्थो न भवति । अनुदात्तस्य सुपत्वादेव सिद्ध- त्वात् । तत्र यदि प्रत्याहारार्थोऽपि न स्यात् तदास्यापार्थकत्वमेव स्यात् । तस्मात् तेनैवायं प्रत्याहारो विज्ञायते । न तु कपः पकारण । स्वरविधी तस्य चरितार्थत्वात् । १०४। विभक्तिश्च । चकारः पुरुषादिमंज्ञासमावेशार्थः । विना तेनैकसंज्ञाधिकारी वचन- प्रामाण्यात् पयायः स्यात् । तिङो विभक्तित्वे प्रयोजनं न विभक्तो तुस्मा (१।३।४) इतोत्संज्ञाप्रतिषेधः । सुपस्त्वेतच्चान्यच्च त्यदाद्यत्वादि। १०५ । युष्पापपदे समानाधिकरणे स्थानिन्यपि मध्यमः । नियमार्थमेतदिति दर्शयितु माह लस्येत्यधिकत्येत्यादि। एतच्च नियमार्थत्वे कारणम् । सिडे सत्यारम्भो नियमार्थों भवति । नासिद्धे । स पुनरयं नियम उपपदार्थनियमो वा स्यात् तिडो युष्मद्युपपदे मध्यम एव ? पुरुषनियमो वा स्याद् युष्मद्येवोपपदे मध्यम इति वा ? तत्र यदि प्रथमो नियम आधीयते त्वया कुर्वता त्वया कुर्वाण नेति युष्मद्युपपदे लस्य शटशानजादेशो न भवतः । तस्मात् तदर्थ यत्नान्तरमास्थेयम् । इतरत्र तु न किञ्चिद् यत्नसाध्यमतो दितीयपक्षमाश्रित्याह तेषा- मनेनेत्यादि। व्यवहित चाव्यवहित चेति । ननु च परस्परं सबिलष्टं यत्पदं तदुपपदमुच्यत उपोच्चारितं पदमुपपदमिति कृत्वा । यच्च व्यवहितं तदव्यवहितापेक्षया विप्रकष्टमतो व्यवहितेन भवितव्यम्। नैष दोषः । यस्मात् सबिलष्ट' विप्रकृष्टमित्यव्यवस्थितमेतदुभयग्रहणम् । परापरवत् । तत्र यद्यव्यवहितमपक्ष्य व्यवहितं विप्रकष्ट भवति तथाप्यन्यद विप्रकृष्टतरमपेक्ष्य सविकष्टं भवतीतीतरत्र व्यवहितेनापि भवितव्यम् । सापेक्षत्वाद् भवति । ( १।४) यद्येवमुपपदग्रहणं किमर्थम् ? पूर्वभूतेऽपि यथा स्यादित्येवमथं कलम् । अन्यथा युभदीत्येतावत्युच्यमाने तस्मिन्निति निर्दिष्टे पूर्वस्येति (१।१ ६६) परभूत एव युभदि पूर्वस्य मध्यमः स्यात् । नतु पूर्वभूते परस्य । उपपदग्रहणादत्रापि पूर्वण परेणापि प्रयुज्यमान मुपपदं भवत्येव । समानाधिकरण इत्यनेन समानाभिधेय इति व्याचक्षाणोऽयमधिकरणशब्दोऽभिधेयवचनः सूत्र उपात्त इति दर्शयति । तत् पुनरभिधयं यत्र लकार उत्पद्यते कर्तरि कर्मणि वा कारके प्रत्यासत्तेस्तदेव विज्ञायत इत्याह तुल्यकारक इत्यादि। तुल्यं कारकं यस्य तत् तथोक्तम् । तुल्यशब्देन समानशब्दस्यार्थो दर्शितः। प्रयुज्य- मानेऽप्रयुज्यमानेऽपीति । अनेन स्थानिन्यपीत्यस्यार्थमाचष्टे । स्थानशब्दः प्रसङ्गवाची। स्थानमस्यास्तीति स्थानी। कस्य च स्थानम् ? तस्यैव स्थानमस्ति यस्यार्थी गम्यते शब्दो न प्रयुज्यते । तदेतदुक्तम्भवति । अप्रयुज्य- मानेऽपि युष्मदि। अपिशब्दात् प्रयुज्यमानेऽपि । समानाधिकरण ग्रहणं किम् ? त्वया पच्यत इत्यत्र मा भूत् । भिन्नं ह्यत्राधिकरणम् । तथाहि त्वयेत्येतत् कर्तृवाचि। कर्तरि तृतीया विधानात् । पच्यत इति कामवाचि । कर्मणि लकारविधानात् । १०६ । प्रहासे च मन्योपपदे मन्यतमत्तम एकवच । प्रहासे गम्यमान इति । यत्र भूतार्थाभावाद वञ्चनैव केवलं तत्र वक्तुरभि- प्रायाविष्करणेन प्रहासो गम्य ते । मन्योपपद इति । मन्यतिरुपपदमुपोचारितं पदं यस्य स तथोक्तः । मध्यमस्य धातोविधानाद् धातुरन्यपदार्थो विज्ञायत इत्याह धातोरिति । स चैकवदिति । यत्र हौ मन्तारौ बहवो वा तवाय- मेकवद्भावो विधीयते । अन्यत्र तु मन्तुरकत्वादेवैकवचनं सिद्धम् । मध्यमोत्त- मयोरिति । यथाक्रमं युष्मदस्मदोरुपपदयोः समानाधिकरणयोरप्रयुज्यमान- योरप्यर्थस्य विद्यमानत्वात्। यथा प्रत्युदाहरण पूर्वकमुपपदग्रहणं युमच्छब्दे- नाभिसम्बडमिहानुवर्ततेति तन्मन्यतिनाऽशक्यमभिसम्बन्धुमिति पुनरुपपद- ग्रहणं क्रियते। मन्यतेरिति श्यना निर्देशो मन ज्ञान इत्यस्य देवादिकस्य ग्रहणं यथा स्यान् मनु अवबोधन इत्यस्य तानादिकस्य ग्रहणं मा भूदितवमर्थः ।

३२८ न्यासः । तेनेह न भवति । एहि मनुषे रथेन यास्यामि नहि यास्यसि यातस्तेन ते पितेति । एवं हि मनोभवति । १०७। अस्मद्युत्तमः । यदा युष्मदस्मदी के अध्येते उपपदे स्त स्तदा कथं भवितव्यम् ? यदि कर्तृशक्ती आधारप्रतिनियते अपेक्ष्येते तदाऽख्यातमपि पृथगेव प्रयुज्यते । पचसि पचामि चेति । अथाविरोधाच्छक्तिहयेऽपि लकार उत्पद्यते तदा विप्रतिषेधादुत्तम एव भवति त्वचाहच्च पचाव इति । यद्यपि त्यदादीनां यद् यत् परं तच्छिष्यत (I) इत्यस्मच्छब्दस्य शेषो भवति तथापि स्थानिन्यपीति मध्यमस्य प्राप्तौ सत्यां परत्वादुत्तम एव भवति । आवां पचाव इत्यत्र ह्यस्म- च्छन्दस्य युभदौँऽपि वाच्यः । अन्यथा हि दिवचनं न स्यात् । न ह्यस्मच्छब्दस्यैव द्वित्वमुपपद्यते । १०८॥ शेष प्रथमः । १०६ । परः सन्निकर्षः संहिता । परशब्दोऽतिशये वर्तत इति । यथा परं सुखं परं दुःखमिति । एतेन यद्यपि परशब्दो दिगादिष्वप्यर्थेषु वर्तते तथापीहातिशये वर्तमानस्य तस्य ग्रहणमिति दर्शयति । सन्निकर्षः प्रत्यासत्तिः संश्लेषश्च । तत्रेह प्रत्यासत्ति- गुह्यत इति दर्शयन्नाह सन्निकर्षः प्रत्यासत्तिरिति । संश्लेषस्तु न गृह्यते । तस्य वर्णेष्वसम्भवात् । संश्लेषो ोककालानां भवति । न च वर्णानामेककाल- तास्ति । क्रमेणोच्चारितत्वाचरितप्रध्वंसितत्वात् । सत्यामपि चैककाल तायां न सम्भवत्येव वर्णानां संश्लेषः । तथाहि संश्लेष: संयोगतो वा स्यात् समवायतो वा। तत्र पूर्वको द्रव्यस्यैव स्यात् । न तु गब्दस्य निर्गुण गुणा इति कृत्वा । इतरोऽपि नैव शब्दस्य सम्भवति । नहि वर्णों वर्णे समवैति । शब्द- स्याकाशसमवायित्वात् । न च संयोगसमवाययोरतिशय सम्भवति । सर्व- करूपत्वात् । तथाच पर इति विशेषणं नोपपद्यते । प्रत्यासत्ति स्वपेक्षा- (I) इदं त्यहादीमि सर्वे नित्य ( ११२१७२ ) मिति स्वस्थवात्ति कानुवादमूलकं वृत्तिकशाक्यम्। दौक्षितेना पीदं हीतम् ।

कालः । (११४)। ३२८ कृतभेदात् प्रकर्षाप्रकर्षाभ्यां प्रयुज्यमानापरग्रहणेन विशिष्यत इति युक्तं तस्य विशेषणत्वम् । कः पुनरसी परः सविकर्ष इत्याह अर्द्धमात्रेत्यादि। आई मात्राया इत्यई नपुंसकमिति (२।२२) समासः। अईमात्रायाः कालोऽईमात्रा- यावता कालेनाईमात्रोच्चार्य्यते सोऽईमात्राकालः । অনিময় सनिकष्टान् वर्णानुच्चारयति वक्तरि पूर्वस्य वर्णस्य ये निष्पादका स्ताल्वादयस्तेषां व्यापारोपरतौ वर्णान्तरस्य च ये निष्पादका स्ताल्वादयस्तेषां व्यापारोपवेशन- मईमात्राकालमाहुः । स वर्णानां व्यवधानो व्यवधायको यस्मिन् सोऽईमात्रा- कालव्यवधानः सन्निकर्ष: यदि वर्णानामर्डमात्राकालव्यवधान: सन्निकर्षः कथं तहिं दध्यत्रेत्यादौ व्यवधायककालो नोपलभ्यते ? वर्णाः संश्लिष्टा एवोपलभ्यन्ते ? तस्य कालस्य सूक्ष्मतयोपलधुमशक्यत्वाविरन्तरा वर्णास्तत्रोपलभ्यन्ते । नतु व्यवधायकस्य कालस्याभावात् । किमर्थं पुनरेतदा- रभ्यते । यावता परमेव सन्निकर्ष संहितेति वदन्याचायाः । तथाहि संहिता- मधीष्वेत्युक्ते परं सन्निकर्षमेवाधीते शिष्यः । नैतदेवम् । पदस्य पदान्तरण यदानन्तयं सा संहितेति लोकेऽभिधीयते । तथाच वतारो वदन्ति संहिता- मधीते न पदानि । पढान्यधीते न संहितामिति । तथाचैकपदे हि संहिताकायं न स्यादिको यणचीति (६।१।७७) कुमायौं कुमार्य इति । सति ह्यस्मिन् वर्णानां सन्निकर्षविशेषस्यानेन संहितामंजा विधीयत इति सर्वत्रैव नैतत् । भवति । ११० । विरामोऽवसानम् । विरतिर्विराम इति भावे घञ् । विरामो वाँच्चारणाभावोऽवसानमंज्ञो भवति । विरम्यतेनेनेति विराम इति विरामशब्दस्य द्वितीयमथं दर्शयति । अत्यल्युटो ३।३।११३ ) बहुलमिति बहुलवचनादमंज्ञाया मपि इलश्चेति ( ३।३।१२१) घञ्। अत्र पक्षे येनान्त्येन वर्णेन विरम्यते सोऽवसानसंज्ञो भवति । तत्र पूर्वम्पिन् पक्षेऽभावे पौर्वापयाभावात् खरवसानयो (८।३।१५) रित्यवारसानापेक्षया विषयमप्तमीयं विज्ञायते । न परसप्तमी। खरपेक्षया तु परसप्तमो यम्। अन्ये तु यद्यभावे पोर्खापय्यं न मम्भवतीत्यवमानापेक्षया ४२ न्यासः । ? नैष दोषः । खरवसानयोरिति (८।३।१५) परसप्तमी नोपपद्यते तदेको यसची-(६।११७७) त्यादावपि परसप्तमी नोपपद्यते । कथम् ? वर्णानां क्रमभावित्वात् । उच्चरित- प्रध्वंसितत्वाच्च । यदेगस्ति तदाज् नास्ति यदा त्वजस्ति तदेग् नास्ति । अथात्र बुद्धिप्रकल्पितं पौर्वापर्य्य माश्रित्य परसप्तमीयते तदा खरवसानयो (८।३।१५) रित्यत्रापि तथैवैष्टव्येति मन्यमाना अवसानापेक्षयापि परसप्तमीमिच्छन्ति । अपरे त्वन्त्यस्य तु वर्णस्यावसानसंज्ञायां सत्यां खरवसानयोरिति (८।३।१५) षष्ठी विज्ञायते। अत्रावसानापेक्षया स्थानषष्ठी। रेफस्यावसानस्य विसर्जनीय इति खरपचया त्वानन्तर्यलक्षणा षष्ठीति वदन्ति । तन्मते स्थानषष्ठयां हिरो रीत्यतो (८।३।१४) रेफस्यानुवृत्तस्य यत् स्थानित्वं तद् विरुध्यते । तदेवमेकापि विभक्ति- यथायोगं विभज्यते । ननु चाभावपक्षेऽपि पूर्वस्मिन्नपि भागेऽनुच्चारणमस्ति । तत्रापि विसर्जनीयः प्राप्नोति रथ इति । अस्ति ह्यत्रापि रेफात् प्रागुच्चारणम् । तत्र हि प्रकृतं पदग्रहणं रफेण विशिष्यते रेफान्तस्य पदस्येति । मच पूर्वेण रेफेण रेफान्तं पदं भवति । नन्वेवमप्यर्थस्यैषा संज्ञा स्यादिति खरव- सानयोरित्यत्र (८।३।१५) तस्मिन्निति निर्दिष्ट पूर्वस्येति (१।१।६६) परिभाषा नोपतिष्ठते । शब्द हि सप्तमीनिर्दिष्टे सतीयमुपतिष्ठते । नार्थे । तदनुपस्थाने च परेण रेफेण रेफान्तस्य रथ इत्येतस्य पदस्य पूर्वी यो रेफस्तस्य व्यवहितस्यापि विसर्जनीयः स्यात् । नैष दोषः । ज्ञापकान भविष्यति । यदयमुरण रपर इति (१।१।५१). व्यवहितस्य रेफस्य विसर्जनीयमक्त्वा निर्देशं करोति तज् ज्ञापयति व्यवहितस्य रेफस्य विसर्जनीयो न भवतीति । नन्वत्र लोके प्रसिद्धरवान्त्ये वर्ण ऽवसानशब्दस्य संप्रत्ययो भविष्यति । प्रसिद्धो हि लोकेऽन्त्य वर्णे ऽवस्यतेः प्रयोगः । तथाहि केनावस्यतीत्युक्ते वक्तारो वदन्तीकारणोकारण वेति । इकारादिवर्णेनावसानं करोतीत्यर्थः । तत: प्रदेश एवावसानग्रहणं कर्तव्य- मिति नार्थः संज्ञासंज्ञिप्रणयनेन । नैतदस्ति । अवपूर्वी हि स्यतिः परि- समाप्तावपि वर्तते ऽवसितो वाद इति । अवगमेऽपि वर्तते ऽवसितोऽर्थ इति । पराभवेऽपि वर्तते हयोविवादे ऽवसितो देवदत्त इति । तत्र यदीयं नारभ्यते तदावसानग्रहणो सन्देहः स्यात् किमभिधानावसानशब्दस्य ग्रहणमिति । विरामोऽवसानमिति तु संज्ञासंजिसम्बन्ध क्रियमाणे परि- । १।४ ) समाप्तादिरों निवर्तितो भवति। एवमपि नार्थः संज्ञासंजिसम्बन्धेन । प्रदेश एव अन्तग्रहणं कर्तव्यं खरन्त्ययोरिति । एतदपि नास्ति । एवं हि सन्देहः स्यात् किमन्यस्य वर्णस्योत पदस्याहोखिद वाक्यस्येति । तत्वान्त्यस्य विशेषणार्थ वर्णग्रहणं कर्तव्यं स्यात् । तस्मात् संज्ञासंजिसम्बन्धः वृक्षः प्लक्ष इति । खरवसानयोर्विसर्जनीयः ( ८।३।१ ) (I) कर्तव्यः । । (I) The Editor had at his disposal chiefly the following MSS. --(क), (ख), (ग), (घ) & (ङ) as detailed below, to collate and prepare the press-copy of the first Adhyaya of the KasikaVivarana Panjika. (क) The contents of this MS, all in Bengali characters, are :- काशिका ११. न्यास-१११, १२, १३, २१, २२, २३, & २१४. We have called it the वगीयपुस्तक or the Bengal MS.. At the end of the न्यास १११, there is the following entry in it :- "प्रणाम्य दुर्गी जयदा सदाशिवः पुरोगपादानुगपनि कामिमाम् । रसाङ्कतन्दुयते शकऽलिखकुची गुगवति च पूणिमातिथी॥" Which gives 1696 Saka i. e. 1774 A.D. and at the end of the app R18, it also contains: श्रीवाषांकपपादपद्ममतुलं वन्दा सुरैयौँगिभि. मंत्वा श्रीलसदाशिवोऽलिख दिम न्यासाखाग्रन्थ दिनः । शाक वाणनवागचन्द्रमिलिते मासे विष जेऽहनि व्याकाराम्बुधितारणालिमसित पच च भूते तिथी॥ Which gives the date 1695 Saka i. e. 1773 A.D. It has been got from a village io District Rajshahi. The scribe betrays often carelessness and commits awful misspellings. (ख) This MS. is marked No 34 of 1881-82 and it belongs to the Library of the Deccan college, Poona. Professor V. S. Ghate of this college was extremely kind to the editor in lending him the copy when the latter approached him with his prayer and for this favour the editor shall ever be grateful to him. Its contents are the न्यास १३१, १२, १३, १४, ४१, ४२ ( with some omissions in the middle), ४३, ४४, ५१, ५२, ५।३ & ५४. Further accounts of this MS. will be supplied in the Introduction. It was copied in ३३२ न्यासः । अत्र हि दधि मधु इति । अणोऽप्रययस्यानुनासिक (८।४५०) इति । पावसान (८।४।५६ ) इत्यतोऽवसानग्रहणमनुवर्तते । इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपन्जिकायां प्रथमाध्यायस्य चतुर्थः पाद: समाप्तः ॥ १।४॥ समाप्तश्चायं प्रथमाध्याय इति ॥ १ ॥ संवत् १६८२-८४ वर्षेषु i. e. 1625-27 A D. We have called it the पुनापुस्तक or the Deccan MS.. It is in the Debanagar characters. (ग) The contents of this MS. are the न्यास १२, १३, १४, २१, २२, २३ & २४. At the end of 218 is the stapza.- वागीशाद्यप्रणतचरणशीलविश्वेश्वरीमा पादाम्भोजव्यमतियतमीलदेवेन्द्र नामा । पुस्तौमतामलिखदहनि क्षौगौमूनो: शकान्द्र वहिक्षणीजलधिधरणीसंग्वाकेऽतिप्रमोदात् ॥ Which gives its date 1713 Saka i. e. 1791 A.D. This MS. was kindly lent to the editor by Pundit Girish Chandra Bedanta Bhushon of the Rajshahi H. K. Sanskrit College, for which he is immensely thankful to the Pundit. It is a tolerably fair copy. (घ) This MS. belongs to the Rajshahi Government College Library and its contents are the न्यास ११४, २२१, २२, २३, २१ (incomplete ), ७२ & ८१ (also in. complete ). A good copy. (ड) Its contents are ११४ न्यास only. It comes from a village Halsa in Rajshahi from the house of Pundit Kalisarana Smrititirtha. It is also a good copy. The ISS. (ग), (घ) & (ङ) are all in Bengali characters NIOTOE. The Varendra Research Society is prepared to buy, borrow or have transcripts, at reasonable price or cost, of the following works :- 1. The Nyasa or Kasikavivaranapanjika by linendra Buddhi. Tantra-Pradipa, Dhatu-pradipa or any other works by Maitreya Rakshita. III. Anunyasa or Nyasoddyota. The owners of the aforesaid works are invited to communicate, stating terms, with Pandit Srish Chandra Chakravarti B. A. Professor of Sanskrit, Rajshahi College, Rajshahi, Bengal.

VARENDRA RESEARCH SOCIETY'S PUBLICATIONS. Ganda-Rajamala, a dynastic History of Bengal from the earliest times to Mussalman conquest, (in Bengali), by Ramaprasad Chanda B. A., Rs. 2 - or 2s. 8d. 2. Gauda-Lekha-mala, inscriptions of the Pala Kings of Bengal and Bihar, text in Nagari character with Bengali translation and Aotes by Akshay Kumar Maitra B. L., Rs. 3, or 4s. Tara-tantram, text in Nagari character, edited by Girish Chandra Vedantatirtha, with an Introduction in English by Akshay Kumar Maitra B. L., 8 as, or 8d, 4. Nyasa or Kasika-Vivarana-Panjika hy Jinendra Budithi, Edited by Srish Chandra Chakravarti B. A. Voll, Part 1 (Adhyaya . Pada I of Panini) Re 1. or is, Od. TANTRIK TEXTS AND WORKS ON TANTRA BY ARTHUR AVALON 1. Tantrabhidhana with Vija-Nighantu and Mudra-Nighantu (text). 2 s or Re 1-8. 2. Shatchakra-nirupana and Padaka-panchaka (text) 3 5 or Rs 2. 3. Prapanchasara (text) (will be ready soon) 4. Tantra of the Great Liberation (Mahanirvana Tantra) English translation from Sanskrit with Introduction and commentary Tos or Rs. 8. 5. Hymns to the Goddess, English translation with Introduction and commentary, 45 or Rs. 3. 6. Principles of Tantra (Tantratattva) [In the Press). 7 The Six Centres (Shatchakra-nirupana) { In the Press), 8. Ocean of Kula Tantra (Kularnava-tantra) (In preparation!. London-Luzac & Co. 46, Great Russel Street, W.C. Calcutta,--Thacker, Spink & Co Rajshahi,--Varendra Research Society. PRINTED BY M. BHATTACHARYYA, AT THE BHARAT MIHIR PRESS, 25, ROY RAGAN STREET, CALCUTTA,

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Kaashikaa Vivarand-a Panj-jikaa Bhaaga Iv Vol I

Author
Buddhi Jinendra
Title
Kaashikaa Vivarand-a Panj-jikaa Bhaaga Iv Vol I
File name
Kaashikaa Vivarand-a Panj-jikaa Bhaaga Iv Vol I
Text
OCR done
Citation
1916
Publisher
Chandra Gan'guli
Language
Sanskrit
Pages
349
Library
Ou
Classification
Language. Linguistics. Literature
DLI number
368421
Barcode
2030020032373.00
Scanning centre
RMSC, IIIT-H
Rights
OUT_OF_COPYRIGHT
VMLT id
cB1GjXQxzfS
Download PDF

Kaashikaa Vivarand-a Panj-jikaa Bhaaga Iv Vol I