Bharatiya Vidya Bhavan Library, Mumbai
Sankhya Sangrah Sr. No.246
Front matter
३ भूमिका। समासमूत्रमालम्ब्य व्याख्यां पश्चशिखस्य च । भावागणेशः कुरुते तत्वयाथार्थ्यदीपनम् ॥ इत्युक्त्या महर्पिकपिलमशिष्यपश्चशिखाचार्या(१)नुसतोऽपि समाससूत्रग्रन्य इदानी लुप्तप्रचार इति तस्य वहनि व्याख्याना. नि(२) सङ्कलग्यास्मिन् सांख्यसका प्रकाशयितुं महत्तोऽस्मि। अत्र केचिद्वदन्ति समासमूत्रमेव महर्पिकपिलप्रणीत सांख्यशास्त्रं सूत्रपडध्यापी तु विज्ञानभिक्षुणैव प्रणीतेति । तन्मन्दम् विज्ञान- भिक्षुसमयाबहु पूर्व भोजराजेन पडघ्याय्या व्याख्यातत्वाद् वि. स्तरस्तु न्यायवार्तिकभूमिकायां द्रष्टव्य इति शम् । (१) "कपिलाय महामुनये मुनये शिष्याय तस्य चासुरये । पञ्चशिपाय तथेश्वरकृष्णायैते नमस्यामः ॥" इति सांस्यतत्वकौमुद्याम् । (२) सांख्यतत्वविवेचनम् श्रीपिमानन्द(क्षेमेन्द्र)विरचितम् । सांख्यतस्ययाथार्यदीपनम् श्रीमावागणेशविरचितम् । समासस्मसर्वोपकारिणी टीका। कापिलसूत्रवृत्तिः । सत्यसमासमूत्रव्याख्या। तत्यसमाससूत्रवृत्तिः। सांख्यसूत्रप्रक्षेपिका। एतानि व्याख्यानामि । प्रसादन्येऽपि प्रन्याः संगृहीता यथा । सांख्यतत्त्वप्रदीपः। तत्यमीमांसा। सांख्यपरिभाषा । गवर्नमेण्टसंस्कृतकालेज सरस्वतीभवन विन्ध्येश्वरीप्रसाद द्विवेदी बनारस २६ मई १९१६ ई.
ॐनमः परमात्मने। सांख्यसंग्रहः। सांख्यतत्त्वविवेचनम् । श्रीपिमानन्दविरचितम् । . रघुनन्दनसुतेनेदमिष्टिकापुरवासिना । कान्यकुब्जद्विजाग्येण पिमानन्देन(१) तन्यते ॥१॥ सांरव्योपज्ञ नमस्तुभ्यं कपिलाय महात्मने । पञ्चविंशतितत्त्वानां तत्त्वज्ञानप्रवर्तकः ॥ २ ॥ दुःखत्रयाभिभूतस्य शान्ति, स्यात् कुतस्त्विह । तथोपदिश जन्मादि यथा न स्यात् कृपानिधे ॥ ३ ॥ एवं पृष्टो मुनिः प्राह निर्षिणाय कृपानिधिः । पञ्चविंशतिसूत्राणि व्याख्यातानि महात्मभिः ॥ ४ ॥ घबन्धुः कवयः काव्ये व्याचिख्युः कवयः परे । सांख्यशास्त्रस्य याथार्थ्य तदेवेदं विविच्यते ॥ पिमानन्देन मन्देन कुक्षिम्भरिशतादिना ॥५॥ (१) अधक्षेमेन्द्रेणेत्यनुमीयते । 'पिमानन्द' इति तु मातापित्रोरु- लापने नामेति सर्वजनप्रसिद्धर्थे तथैव लिखितमिति सम्भाव्यते । -- सांख्यतत्वविवेचनम् । क्षा इतिवत् व्याठिसमप्ट्यभिप्रायेणेति सत्त्वं रजस्तम इति प्रकृतेरभवन् गुणा इति च न सत्त्वादीनां प्रकृतिका- यत्ववचनं गुणनित्यतावाक्यविरोधेन महत्तस्त्र- कारणीभूतकार्यसत्त्वादिपरम् । महदादिसृष्टिगुणत्रैष- म्यात् । तच्च सजातीयसंवलनेन गुणान्तरव्यावृत्तप्रका- शादिफलोपहितः सत्त्वादिव्यत्रहारयोग्यः परिणाम इति सत्त्वादिव्यवहारो वैषम्य एवेत्साह श्रुतिः यथा तम एवेदमन आसीत् तत्परे स्यात् परेणेरितं विषम- त्वं(१) प्रत्ययादै रजसो(२) रूपं तद्रजः खल्वीरितं विषमत्वं प्रत्ययादै सत्त्वस्य(३) रूपमिति सत्त्वादि- त्रयं च सत्त्वादिस्वरूपमिति सत्त्वादित्रयं च सुख- प्रकाशलाघवप्रसादादिगुणकतया संयोगविभागादिम- तयानाश्रितत्योपादानवादिना द्रव्यत्वेपि पुरुपोपकार. । त्वात् पुरुषबन्धकत्वाच्च गुणशब्देनोच्यते इन्द्रियादिवत्' गुणानां सुखदुःखमोहात्मकत्वप्रवादस्तु धर्मधर्म्यभेदात् मनसः सङ्कल्पात्मकत्ववत् तत्र सत्त्वं सुखप्रसादप्रकाशा- धनेकधर्मकमपि प्रधानतस्तु सुखात्मकमुच्यते । एवं रजोपि दुःखकालुप्यप्रवृत्त्याद्यनेकधर्मकं प्राधान्यतस्तु दुःखात्म- (१)क्षोभककालरूपेण कार्यपरिणामोन्मुखत्वम् । (२) रजोव्यवहारयोग्यं कार्य रजस । (३) कार्यस्य सत्वव्यवहारयोग्यस्य । 1 ४ सांख्यसंग्रहे कमुच्यते । एवं तमेोपि मोहावरणस्तम्भनाधनेकधर्मक भाधान्यतरतु मोहात्मकमुच्यते सतो भावः सत्वं धर्म- प्राधान्येनोत्तम पुरुषोपकरणं रागयोगाद्रजो मध्यम- म् । तमोधावरणयोगादधमं सत्त्वादीन्यसंख्यव्यक्तयः प्रतिक्षणपरिणामित्यात लघुत्वादिधर्मरन्योन्यं साधर्म्य वै. धयं च गुणानामसंख्यातमितिसूत्रात । एकदानेकपुरु- पादिसृष्टिश्रवणाच एकैकव्यक्तिवे विभुलं स्थान तथा च संयोगवैचित्र्याभावादनन्तवैचित्र्यं कार्याणां न स्यात। द्रव्यान्तरस्यावच्छेदकीभूतस्याभावाच । तस्मादसंख्या- तान्येव सत्वादीनि नित्वकथनं तु विभाजकोपाधिव- येणैव वैशेषिकाणां नवद्रव्यवचनवव सस्वादीनि च य- थायोग्यमणुविभुपरिमाणकानि इतरथा रजत्तश्चलस्व- भावत्ववचनविरोध: स्यात। आकाशकारणस्य विभुत्वौ- चित्सात् सर्वकारणद्रव्यविभुत्वे कार्यपरिच्छेदासम्भव इति॥ शब्दस्पर्शविहीनं तद्रूपादिभिरसंहतम् । त्रिगुण सजगद्योनिरनादिप्रभवाप्ययम् ॥ इत्याधुक्तर्न परमाग्वादावन्तभावः प्रकृतेरिति । अधैवमपि प्रकृतेरपुविभुसाधारणसत्त्वाचनेकप- क्तिरूपत्वे अपरिच्छिन्नत्वैकत्वाक्रियत्वसिद्धान्तक्षतिरिति चेन्न कारणद्रव्यत्वरूपप्रकृतित्वेनैवापरिच्छिन्नत्ववचना- सांख्यतत्त्वविवेचनम् । गन्धवेन गन्धानां पृथिवीव्यापकतावत आकाशादिप्रकृ. तीनां विभुत्वेनैव प्रकृतिविभुत्वसिद्वान्तोपपत्तेश्च । तथा पुरुषमेदेन सर्गभेदेन च भेदाभावस्यैव एकशब्दार्थत्वात् । अजामेकामितिश्रुतेस्तथावगमात् । तथाध्यवसायो- भिमानादिक्रियाराहित्यस्पैवाक्रियशब्दार्थत्वादित्यन्यथा श्रुतिस्मृतित्युक्तस्य प्रकृतिक्षोभस्यानुपपत्तरिति । तत्रायं प्रयोगः सुखदुःखमोहात्मकमहदादिकार्य सुखदुःखमोहात्मकद्रव्यकार्य सुखदुःखमोहात्मकत्वात् वस्त्रादिकार्यशय्यावदिति प्रकृती प्रमाणम् । बाह्य- वस्तुप सुखादिकमुत्तमत्वादिकमेव घटरूपमितिवच्चन्द- नसुखं स्त्रीसुखमित्यादिप्रत्ययाच्चेति दिक् । अव्यक्तवुयहङ्कारास्तन्मात्राणां च पञ्चकम् । अष्टौ प्रकृतयस्त्वेताः सप्त च व्यक्ततामियात् ॥ अव्यक्तप्रकृतिजन्यत्वात् अव्यक्तानीति चोच्यते । व्यज्यन्ते च यथा लोके घटाद्या न तथा हि तत् ॥ अव्यक्त प्रकृतिर्माया प्रधानं ब्रह्म कारणम् । अव्याकृतं तमःपुष्पं क्षेत्रमक्षरनामकम् ॥ बहुधात्मकादिनामानि तस्यामी ते जगुर्बुधाः । व्यज्यते नेन्द्रियैर्यस्मादव्यक्तमत उच्यते । अनादिमध्यनिधनानिरङ्गत्वेन तत् तथा ॥
.. सांख्यसंग्रहे तदेवाह श्रुतिः। अशब्दमस्पर्शमरूपमव्ययं यथा च नित्यं रसगन्धवर्जितम् । अनादिमध्यं महतः परं भुवम् प्रधानमेतत् प्रवदन्ति सूरयः ॥ इति तस्मादलिङ्गकं सूक्ष्म तथा प्रसवधर्मिकम् । एकं साधारणं तत्र कार्य कस्यापि नेतरे ॥ बुद्धिर्महान् मनो ब्रह्मा मतिः ख्यातिरपूर्वकम् । प्रज्ञा भूतिधृतिर्ज्ञानं सन्ततिः स्मृतिरित्यपि ॥ हैरण्यगा बुद्धेस्तु महतो नाम सूचितम् । गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो वेदा विजज्ञिरे ॥ एका मूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । इति विष्णुरेवादिसर्गेपु स्वयंभूर्भवति प्रभुः ॥ अत्र सत्त्वाचंशत्रयेण महतो देवतात्रयोपाधित्वा- स्तदविवेकेन तिस्र इति । सात्त्विकांशात प्रधानात्तु महत्तत्त्वमजायत इति महत्त्वस्य प्राधान्येन चाध्यवसायो वृत्तिर्महदहंकारमन- स्त्रितयात्मकस्यान्तःकरणवृक्षस्य महत्तत्त्वं वीजावस्था तदुक्तं सांख्यसने इदमेव महत्तस्वमंशतो रजस्तमःसंभेदे- न परिणतं सत व्यष्टिजीवानामुपाधिरधर्मादियुक्तं क्षुद्र- सांख्यतत्वविवेचनम् । मपि भवति महदुपरागाद्विपरीतमिति । महतस्त्रि- गुणस्वरूपत्वादेहस्य देहिना कालरूपविष्णुना क्षोभ्य- दशायां गुणरूपोषाधिप्राधान्यादविवेके ब्रह्मविष्णुशिव- त्वं तत्र महान् सुपुप्त्यभिमानी शिवस्तदुपाधिस्तम:- कार्यरूपी तत्र स्वाभिमानी विष्णुस्तदुपाधिः कार्यसत्त्वं तत्र जाग्रदभिमानी ब्रह्मा तदुपाधिः कार्यरजः तत्र स- मुदायसमुय्यनन्यन्यायेन समष्टेयंप्ठ्यनन्यत्वान्मशका- दिरपि विष्णुरेवेति भावः । सृष्टिस्तु महदादिक्रमेणैव न तु भूतादिक्रमेणेति ॥ सा च कौमें भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्जह । आकाशसुपिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥ आकाशं तु विकुर्वाणः स्पर्शमात्रं ससर्जह । वायुरुत्पद्यते तस्मात्तस्य स्पर्शो गुणो मतः॥इत्यादि नन्वेवं चेदाकाशादीनां केवलं विकृतित्वं कथं तत्र आकाशादीनां स्पर्शादितन्मात्रेषु अहंकारोपष्टम्भमात्रेण कारणत्वस्य पुराणादिपूक्तत्वात । न पुमान् स्थाणुरेवायं बुद्धिरध्यवसायिनी। पुरुषाधिष्ठितात सर्वगताजाता प्रधानता ।। चिच्छक्तियाशी सहा वृतिः सत्यमिश्रित
८
सांख्यसंग्रहे
रजोगुणस्वरूपा यत् त्रिवृत्करणतः श्रुतेः ।।
ज्ञानं धर्मश्च वैराग्यमैश्वर्य सत्वतो ह्यमी।
अनैश्वर्यमवैराग्यमधर्मोऽज्ञानमेव तु ॥
तमसश्चापि ते ज्ञेया बुद्धेर्भेदा इतीरिताः ।
ज्ञानं तत्त्वावबोधोऽयं धर्मः श्रुत्युक्तपालनम् ॥
वैराग्यमर्थानासक्तिरैश्वर्यमणिमादिकम् ।
तत्तहिपर्ययेणैव तामसं तच्चतुष्टयम् ॥
ज्ञानेन मोक्षो धर्मेण गतिरूभं भवेदिति ।
वैराग्येनाक्षरलय ऐश्वर्येणाहता गतिः ।।
एवमेषाष्टधा शक्तियाख्याता बुद्धिसज्ञिता ।
प्रधानविकृतिस्त्वेषाहंकारप्रकृतिश्च सा ॥
मूलप्रकृतिरित्यादि कविभिश्च निरूपितम ।
एकोहंकार इत्येतजिज्ञासा चेद्विभावय ॥
योहंशब्दं करोत्येष अभिमान इति स्मृतः ।
स्पृशेहं रसये वाहं स्वामी चाहं मया हतः ।।
इत्यादि नाम यस्यासीत्तस्य भेदा अमी शृण ।
वैकारिकस्तैजसोपि भूतादिः सानुमानकः ॥
निरनुमानश्च पञ्चैते भेदास्तस्य प्रकीर्तिताः ।
वैकारिकः सात्त्विकोऽयं भूतादिस्तामसः स्मृतः ॥
तैजसो राजसो ज्ञेयस्तस्मात् तन्मानपञ्चकम् ।
सांख्यतत्वविवेचनम् । एकादशेन्द्रियगणः सात्त्विकादभिजायते ॥ देवतास्त्वभिमानिन्यस्तैजसादपि चोच्यते । तदेव कथमेवं चेत् विवृत्करणहेतुतः ॥ शब्दतन्मात्रमित्येतत् शब्द एवोपलभ्यते । न तूदात्तनिपादादिभेदस्तस्योपलभ्यते ॥ स्पर्शतन्मानमेवैतत् स्पर्श एवोपलभ्यते । न तु शीतमृदुत्वादिविशेपस्तस्य लभ्यते ॥ रूपतन्मानमेवं वै रसतन्मात्रमप्यथ । गन्धतन्मात्रमेतेषु विशेषो नोपलभ्यते । तन्मात्राण्यविशेषाणि सुक्ष्मभूतानि चोच्यते । भोग्यानि शान्तघोराणि प्रकृत्याऽणव एव च ॥ कुर्वद्रूपात् प्रकृतयः संख्यया ऽप्टौ प्रकीर्तिताः ॥ षोडश विकाराः ॥ २॥ एकादशैवेन्द्रियाणि महाभूतानि पञ्च च । विकाराः पोडशैवैते न तु प्रकृतिताजुषः ॥ श्रोत्रं त्वक् वर्षी जिह्वा घ्राणं ज्ञानेन्द्रियं त्विदम् । वापाणिपायूपस्थपादाः कर्मेन्द्रिय स्त्रं स्वं कर्म प्रकुर्वन्ति ज्ञानं चेति यथैपितम् । उभयात्मकं मनश्चैव संकल्पादिस्वरूपवत् ॥ मतम् ॥
सांत्यसंग्रहे करणानीन्द्रियाणाति वैकारिकमयं रयः । पदानि नियतानीत्यक्षाणीत्यभिधीयते ॥ पृथिवीजलतेजांसि वायुराकाश इत्यपि । महाभूतानि पञ्चैव धारणाद्युपकारतः ।। आप: संग्रहमावन चतुर्णामुपकारिकाः। तेजः पाचकभावन वायुर्वहनभावतः ।। शब्दादिपञ्चगुणवत्पृथ्वी पञ्चगुणा मता । आपः शब्दादिसहिताः गन्धेन रहितास्तथा ।। तेजः शब्दस्पर्शवत रूपवत् श्वसने पुनः । शब्दश्च स्पर्श इत्येवमाकाशे शब्द एव है ।। न तु विग्रहभूतानि विशेषाकृतयस्तथा । विकाराः शान्तघोराख्यमूढाः त्रिविधीचिताः ।। पुरुषः ॥३॥ पुरि शयनात् प्रमाणात पुरणात पुरुवृत्तितः । स चानादिः सर्वगतश्चेतनो निर्गुणोऽपरः ॥ द्रष्टा भोक्ता क्षेत्रविदमलोऽप्रसवधर्मकः । सूक्ष्मो नित्यो ह्यनादिस्त्वमध्यनिधनोऽपि सः ॥ सर्वमाप्तमनेनेति तस्मात् सर्वगतस्तु सः। सुखोपलब्धिमत्त्वाञ्च चेतनोऽनिर्गुणस्तथा ॥
सांख्यतत्वविवेचनम् ।
सत्त्वादिगुणराहित्यात् परः परतया स्मृतः ।
दृश्यप्रकृतिसम्बन्धात् द्रष्टा भोक्तानुभावनात् ।।
क्षेत्रे गुणगतं वेत्ति क्षेत्रज्ञ इति कीर्तितः।
शुभाशुभादिसंसर्गाभावादमल इष्यते ।।
नि:जत्वात् प्रसृते च नेत्यप्रसवधर्मकः ।
निरङ्गत्वातीद्रियत्वात् सूक्ष्मो नित्यः सदातनात् ।।
एवं सांख्यः स पुरुषो व्याख्यातः पूर्वसूरिभिः ।
जीवो जन्तुः पुमानात्मा-पुरुषः पूजको नरः ॥
क्षेत्रज्ञयाक्षरः प्राणः कोय एषः स ज्ञस्तथा ।
अज एतानि नामानि सांख्ये पुरुषसञ्जिते ।।
एवम,
.
पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः ।
मुण्डी जटी शिखी वापि मुच्यते नात्र संशयः ।।
अयं कर्ताथवाऽकर्ता पुरुषः प्रकृतेः परः ।
शुभाशुभानि की चेत् कुर्याद वृत्तित्रयं विना ॥
लोकदृष्टगुणानां चेत् कर्तृता धर्मिता कथम् ॥
साहित्यं यमनियमनिषेचनप्रसंख्यानात् ।
ज्ञानेश्वर्यविकारप्रकाशने साविकी वृत्तिः ।।
रागः क्रोधो लोभः परपरिवादो निन्दा तुष्टिः ।
विकृताकृतपारुष्यं प्रख्यातेपा रजोबुद्धिः ॥
१२
मांदपमग्र
उन्मादमविषादा नास्तिक्यं स्त्रीप्रसमिता।
निद्रालस्यं नैपण्यं लशीचमिति तामसी वृचिः ॥
एतद् वृत्तित्रयं दृष्ट्वा गुणानां कर्तृताथवा ।
अकर्ता पुरुषः सिद्ध इति सिद्धान्त इप्यते ॥
प्रय-मानप्रकृतेरिमान गुणान्
रजस्तमोम्पा विपरीतदर्शनात् ।
आत्मानमान्छाद्य स आत्मने तर
अहङ्करोमीत्ययुधोऽधमन्यते ॥
बालामकुक्षीकरणासमर्थः
सर्व मयेदं कृतमित्यमन्यत ।
उन्मत्तवहाव्यत इत्यबोधः
अहो विधे पण्डितमानिनः कः ॥
तदुक्तं गीतासु
प्रकृतेः(१) क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमुढात्मा कर्ताहमिति मन्यते ।।
अनादित्वान्निर्गुणत्वात् परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥
(१) अत्र प्रश्तेरिति पष्ठी अभेदे एकशतं पथ्यर्या इति
भाप्योक्तः । चित्स्वरूपपुरयस्य व्यपदेशे पुरुषस्य चैतन्यमिति
विकल्पोदाहृतेश्च।
सांख्यतत्त्वविवेचनम् । प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति सदात्मानमकतारं स पश्यति ॥ इत्यादि स एकः पुरुषः किं वा नानोति च विचारय । सुखदुःखमोहसङ्करविशुद्धजन्ममरणानाम् । नानात्वात् पुरुषवहुत्वं सिद्ध लोकाश्रमवर्णभेदाच्च। योकः पुरुषः स्याद् बुद्धिहानिः प्रसज्यते । एकस्मिन् सुखिते सर्वे सुखिनः स्युरतः परम् । एकस्मिन् दुःखिते सर्वे दुःखिताः स्युरिति क्रमात् ।। अतो बहुत्वं संसिद्धं वहवः पुरुषाः स्मृताः । आकृतिगर्भाशयभावसङ्गतिशरीरविभागाल्लिङ्गब- हुत्वात् सांख्याचार्याः कपिलासुरिपञ्चशिखपतञ्जलि- प्रभृतयः पुरुषबहुलं वर्णयन्ति । वेदवादिन आचार्या हरिहरहिरण्यगर्भव्यासादय एकमात्मानं, तथा च श्रुतिः । पुरुष एवेद सर्व यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्येनातिरोहति । तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।। तदेव शुक्रं तद् ब्रह्म ता आपः स प्रजापतिः । तदेव सत्यममृतं स मोक्षः सा परा गतिः॥ तदक्षरंतत्सवितुर्वरेण्यं यस्मात् परंनापरमस्ति किश्चित्। यस्मानाणीयो न ज्यायोऽस्ति किश्चित् ॥
सांख्यसंग्रहे वृक्ष इव स्तम्भो दिवि तिष्ठत्येकः तेनेदं पूर्ण पुरुषेण । , सर्वतः पाणिपादं तत् सर्वतोक्षिशिरोमुखम् ॥ सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।। सर्वस्थ पशुमीशानं सर्वस्य शरणं महत् । सर्वतः सर्वसवानि सर्वात्मा सर्वसम्भवः ।। सर्व विलीयते यस्मिन् तद् ब्रह्म मुनयो विदुः । एक एव हि भूतात्मा भूतेभूते व्यवस्थितः ॥ एकधा बहुधा चैव दृश्यते जलचन्द्रवत् । स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च ।। वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ इत्यादि। त्रैगुण्यम् ॥ ४॥ सत्त्वं रजस्तम इति गुणाः भावेण्यस्वैगुण्यम् । प्रसादो लाघवं सङ्गः प्रसङ्गात् प्रीतिरार्जवम् ।। तुप्टिस्तितिक्षा सत्वस्य रूपं साक्षात् सुखावहम् । शोकस्तम्भहेषतापखेभोगाभिमानिता ॥ रजोरूपाण्यनेकानि बहुदुःखप्रदानि च । तमो नामाच्छादनादि वीभत्सावरणादि च ॥ दैन्यगौरवनिद्रादिप्रमादालस्यलक्षणम् । .
सांख्यतत्वविवेचनम् । मोहात्मकमनन्तं तदेवं वैगुण्यमीरितम् । सत्त्वं प्रकाशकं विद्याद्रजो विद्यात प्रवर्तकम् ॥ विनाशकं तमो विद्यात् गुण्यं नाम सज्ञितम् । सञ्चरः ॥ ५॥ साम्यावस्था गुणानां या प्रकृतिः सा स्वभावतः । कालक्षोभेण वैपस्यात् क्षेत्रे परयुते पुरा ॥ बुद्धिस्ततश्वाहङ्कारस्त्रिविधोपि व्यजायत । तन्मात्राणीन्द्रियाणि महाभूतानि च क्रमात् ॥ एवं क्रमेणैवोत्पत्तिः सञ्चरः परिकीर्तितः । प्रतिसञ्चरः ॥६॥ व्युत्क्रमेणैव लीयन्ते तन्मात्रे भूतपञ्चकम् । तन्मात्राणीन्द्रियाणि अहङ्करे विलीयते ॥ 'अहङ्कारोऽथ बुद्धौ तु बुद्धिरव्यक्तसझके । अव्यक्तं न कचिल्लीनं प्रतिसञ्चर इति स्मृतः ॥ अध्यात्ममधिभूतमधि- दैवतं च ॥७॥ बुद्ध्याहङ्कारमनसी श्रोतं त्वक् चक्षुषी तथा ।
सांख्यसंग्रहे । जिह्वा घ्राणं पादपायपस्थमध्यात्मसज्ञितम् ॥ यत्तु मोक्षधर्म आदौ मन अहङ्कारात् जायते वृत्तयश्चताः ॥ शब्दरागात् श्रोतमस्य जायते भावितात्मनः । रूपरागात् तथा चक्षुर्घाणं गन्धजिघृक्षया । इत्यादिनेन्द्रियाणां मनोवृत्तिरागादिकार्यत्वं तहेदा- न्तरीत्यैवेति मन्तव्यम् । अधिभूतम् । यथाक्रमेण बोद्धव्यमभिमन्तव्यमेव च । सङ्कल्पितव्यं श्रोतव्यं स्पष्टव्यं द्रष्टव्यमेव च ॥ रसयितव्यं घातव्यं गन्तव्यमुत्स्रप्टव्यं च। आनन्दयितव्यमित्येवमधिभूतं प्रकीर्तितम् ॥ अधिदेवतं च । ब्रह्मा रुद्रश्चन्द्रमाश्च आकाशो वायुरेव च । सूर्यो वरुण इन्द्रव विष्णुमित्रं तथैव च ।। अनेनैव क्रमेणेदं संप्रोक्तमधिदैवतम् । चत्वारि यो वेदयते यथा च- क्षुपा स्वरूपाण्यधिदैवतं वा। विमुक्तयाथागतदीपसङ्गो गुणांस्तु मुझे न गुणैः स युज्यते ॥
सांख्यतत्त्वविचनम्। १७ पञ्चाभिबुद्धयः ॥ ८॥ इच्छाभिबुद्धिर्विज्ञेया आभिमुख्येन कर्मणः । इदं में कार्यमित्येपोऽध्यवसायः करोम्यहम् ॥ इच्छा वाञ्छाथ सङ्कल्पो मनसः कर्म चेप्यते । एवमेताश्च पञ्चाभिबुद्धयः परिकीर्तिताः । । पञ्च कर्मयोनयः ॥ ९॥ धृतिः श्रद्धा सुखेच्छा विविादषा तदभावको । सामान्यतः समुद्दिष्टाः पश्चैते कर्मयोनयः ॥ चाचि कर्मणि संकल्पप्रतीतिर्यामिरज्यते । तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम् ।। अनसूया ब्रह्मचर्य यजनं याजनं तपः । प्रतिग्रहश्च होमश्च श्रद्धाया लक्षणं स्मृतम् ॥ सुखं सुखार्थी सेवेत विद्या कर्म तांसि च । प्रायश्चित्तपरो नित्य सुखयं परिकीर्तिता ॥ विषधूममूर्छितवद् विविदिपा ध्यानिनां प्रज्ञायोनिः। एकत्वं च पृथक्त्वं च नित्यं वेदमचेतनम् ।। सूक्ष्मसत्कार्यसंक्षोभ्यं ज्ञेया विविदिषा हि सा । कार्यकरणक्षमकरी विविदिपा प्राकृती वृत्तिः ॥ - ३ सांस्यसंग्रहे धृतिः श्रद्धा विविदिषा सुखा चेति चतुष्टयम् । ज्ञेयं बन्धो विविदिषा मोक्षाय परिकल्पिता। कर्मयोनिस्वरूपोयं विशिष्य परिकीर्तितः ॥ पञ्च वायवः ॥१०॥ प्राणोऽपानः समानश्च उदानो व्यान एव च । इत्येते वायवः पञ्च शरीरेषु शरीरिणाम् ॥ मुखनासाधिचारी यः प्राणनात प्राण उच्यते । नाभेरधिचरत्येवोपानये ऽपान इप्यते ॥ हृयाधिष्ठाननयनात समान इति कीर्तितः । कण्ठादूर्वावगमनादुदान इति च स्मृतः ।। सन्ध्यधिष्ठानतो व्यानो विक्षेपणविजृम्भणात् । पञ्च कर्मात्मानः ॥११॥ वैकारिकादयः पूर्व यथाक्रममुदाहताः । शुभं वाऽशुभमूढौ च शुभमढाऽशुभमूढके ।। यथाक्रम च क रस्तत्तत्कर्म समीरितम् । पञ्चपर्वा अविद्या ॥ १२ ॥ तमो मोही महामोहस्तामिश्रश्वान्धतामिश्रः ॥ अष्टको ती तमी मोही प्रकृत्यष्टकनिष्ठिती ।
सांख्यतत्वविवेचनम् । . आत्मज्ञानाभिमान्येयं प्राप्त्यायैश्वर्यमानिता(१)॥ निर्वृत्ते विषये दृष्टे पश्चानुश्रषिके तथा । मोहोऽहमभिमानो यो महामोहो दशात्मकः ।। अष्टैश्वर्यं दशविषये सिद्धतामिश्र उच्यते । विषादः सोऽन्धतामिश्रो मरणे प्रतिपद्यते ॥ अविद्या पञ्चपर्वैषा भिन्ना द्वापप्टिभेदतः॥ अष्टाविंशतिधाऽशक्तिः॥१३॥ जडत्वकुप्टिकुब्जत्वरूपता ऽघ्राणत्वमूकत्वसुपगुताश्च । कुणिर्गुदावर्ति च पण्डता च उन्माद इत्येष निरूपितोऽयम् ।। “एकादशेन्द्रियवधो वाधिर्यादिस्वरूपतः । बुर्विधः सप्तदश तुप्टिसिद्धिविपर्ययः ॥ नास्ति प्रधानमिति या प्रतिपत्तिरजम्भिका । न महानित्यसलिला नायाच्छा चानहंकृतौ ॥ न वास्त्यदृष्टिस्तन्मात्रपश्चकं भूतकारणम् । सर्वमेवेदं ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति । यथा वेदान्तिनां तद्वत सांख्यानामीशी मतिः ॥ (१) अघिद्यास्मितारागद्वेषाभिनिवेशास्या ।
२०
सांख्यसंग्रहे
असुता विषयार्जने प्रवृत्तिः
सुतरा परिरक्षणे प्रवृत्तिः।
क्रयदोषमपश्यतो धने प्रवृत्तिः
असुनेत्रा परिकीर्त्यते हि सांख्यैः ॥
अकुर्मरीचिका(१)भोगशक्तिहिंसाद्यपश्यतः ।
अनुत्तमाम्भासिका दोपभोगादम्भः प्रवर्तनम् ।।
नवधा कथिता ह्यते तत्र तुष्टिविपर्ययाः ।
कथ्यन्ते सिद्धयो ह्यष्टौ ते ऽमी सिद्धिविपर्ययाः ।।
नानात्वमूहमानस्य सिद्धर्मकमतारकम् ।
विपरीतग्रहः शब्दश्रवणादसुतारकम् ॥
नानात्वज्ञो मुक्त इति श्रुत्यैकझोन मुक्तिभाक् ।
अतारयन्तमज्ञानासदच्छास्त्रनिवेशतः।
दुःखितस्याप्यनुदेगादप्रमोदा हि संसृतौ ।।
अप्रमुदं तदज्ञानमप्रमुदितमप्रमोदमानं वा।
असम्यग्यचनादप्युपरोधेन वा गुरौ ।।
अभाग्यस्य न सिद्विःस्पात् ज्ञाने तत समुदीरितम् ।
स्निग्धसंसर्गतो ज्ञानोत्तराज्ञानमरम्यकम् ।।
व्याख्याता: पूर्वरीत्याष्टावते सिद्धिविपर्ययाः ।
अप्टाविंशतिधाशक्तियाख्यातोभययोगतः ॥
(१) 'दुर्मरीचिका' इति कचित् ।
स्मृता॥ सांख्यतत्त्वविवेचनम् । २१ नवधा तुष्टिः ॥ १४ ॥ प्रकृतौ परमात्मत्वं प्रतिपद्यैव तुप्टिभाक् ॥ माध्यस्थ्यमवलम्बेत अम्भः सा तुष्टिरुच्यते । बुद्धौ च परमात्मत्वे तुप्टिः सा सलिला अहंकारे यदा सा स्यादायाच्छा इति शब्दिता । तन्मात्रेषु यदा सा स्यात् तुष्टिदृष्टिर्निगद्यते ॥ आध्यात्मिकाश्चतस्रस्तु तुष्टयः प्रभवन्ति हि । मोक्षस्तास्वपि नास्त्येव तत्त्वज्ञानाद्यथोदिता ।। अर्थानामर्जने दुःखमर्जितानां च रक्षणे । त्यागे दुःखं क्षये(१)दुःखं धिगर्थे दुःखभाजनम्॥इति दोषदर्शनसन्तुष्टः परब्रह्मैव मोक्षभाक् । सुतेयं पञ्चमी तुष्टिस्तत्वज्ञानाद्यभावतः ॥ रक्षणे सुतरा षष्ठी सप्तमी क्षयदर्शनात् । सुनेत्रा सङ्गदोपा चाप्टमी कुर्मरीचिका ॥ अर्थे हिंसादिदोपेण निवृत्तिश्च समस्करी । तुप्टिस्तु नवमी प्रोक्ता झुत्तमाम्भसिका तब ॥ अष्टधा सिद्धिः ॥ १५॥ ज्ञानं यदूरमुत्पन्नं ताराख्या प्रथमा हि सा । (१) 'व्यये' इति कचित् पाठः।
२२ सांख्यसंग्रहे शब्दमात्रेण भूतेषु सुतारा ज्ञानमिष्यते ॥ ज्ञानमध्ययनेनैव तारयन्ती तृतीयका। अध्यात्मदुःखापनयात् प्रमोदेत्यभिधीयते ।। भौतिकक्लेशहरणात् प्रमुदा सिद्धिरुच्यते । आधिदैवक्लेशहरणात ज्ञानमुत्पद्यते नृणाम् ॥ प्रमोदमानेत्याख्याता पष्ठी सिद्धिः स्वयं सताम् । स्निग्धसंसर्गनाशात्तु रम्यका सप्तमी स्मृता ।। प्रमुदा चाष्टमी सिद्धिः परिचर्यादिना गुरोः । इत्येताः सिद्धयो ह्यष्टौ व्याख्याताः ज्ञानसाधिकाः॥ दश मूलिकाः ॥ १६॥ अस्तित्यमेकत्वयथार्थवत्वे पारार्थ्यमन्यत्वमकर्तृकत्वम् । योगो वियोगो वहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ।। एपा सा दशमूलिकार्थगणना सङ्घातपारायंत: सिद्धा सा पुरुषास्तिता परिणतेर्भेदस्य तत्कारणम् । अरत्यव्यक्तमनन्तमेकमिति च प्रेमाविपादात्मकं नानापायपरार्थता त्रिगुणतोन्यत्वस्य सिद्धिस्तथा ।। विपर्यासादकर्तृत्वं योगः पुरुषदर्शनात ।
सांख्यतत्वविवेचनम् । प्राप्त शरीरभेदे तु चरितार्थत्वदर्शनात् ।। जन्मादिकरणान्तानां भेदान्नाना हि ते स्मृताः। चकभ्रमित शेषवृत्तिः सिद्धार्थाः दश मूलिकाः॥ सप्तत्या प्रागुपदिष्टाः पञ्चाशत् प्रत्यया इमे । दशपप्टिपदार्थस्तु षष्टितन्त्र इतीर्यते ॥ अनुग्रहसर्गः ॥१७॥ ब्रह्मानुग्रहमसृजदूपतन्मात्रतः पृथक् । उत्पाद्यानुग्रहध्यानात् प्राक्तनाधारवर्जनात् ॥ चतुर्दशविधो भूतसर्गः ॥१८॥ अष्टविकल्पं देवं पैशाचं राक्षसं तद्वत् । गान्धर्वमैन्द्रं ब्राह्मं च सौम्यं ब्राह्मयमथाष्टकम् ॥ देवयोनय एवैते तिर्यग्योनिस्तु पञ्चधा । मृगपशुपक्षिसरीसृपस्थावरमिति भेदसम्भिन्ना ।। चैकविधं ब्राह्मणादिचाण्डालान्तम् । पशवो गवादिमूपान्ताः पक्षिणो गरूडादिकाः ॥ मशकान्ता मृगाश्चापि सिंहादि च शिवान्तकाः । शेषादि अलगर्दान्ताः सर्पाः पर्वतभूतृणाः ॥ स्थावरा भौतिकः सर्ग एतत्संसारमण्डलम् ॥ मानुप्यकं २४ सांख्यसंग्रहे त्रिविधो बन्धः ॥ १९ ॥ प्रकृतिबन्धः प्रकृतिलयः परत्वेनाभिमन्यतः । संन्यासिनामिन्द्रियेषु लयो वैकारिकोऽपरः ।। गृहीणां दक्षिणाबन्धो वदान्यत्वाभिमानिनाम् । इत्येषस्त्रिविधो बन्धस्त्रिविधो मोक्ष उच्यते ॥ त्रिविधो मोक्षः ॥ २०॥ ज्ञानोद्रेकादुपरतेश्च धर्माधर्मक्षयो भवेत् । धर्माधर्मक्षयाच्चाथ कैवल्पमिति गीयते ॥ तदुक्तम् । आयो हि मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात । कृत्स्नक्षयात तृतीयस्त व्याख्यातं मोक्षलक्षणम् ।। त्रिविधं प्रमाणम् ॥२१॥ दृष्टमनमानमातवचनं चैतत् प्रमाणकम् । पञ्चेन्द्रियाणि प्रत्यक्षं वृप्टिमेंघोदयेन तु ॥ अनुमानमिन्द्रो देवानां राजाशब्दः प्रमापकः । आगमेऽपि, स्वकर्मभिर्विनिर्मुक्तो रागद्वेपविवर्जितः ॥ ज्ञानवान् शीलसम्मन्नः सोऽपि ज्ञेयश्च तादृशः ॥
२५ सांख्यतत्वविवेचनम्। त्रिविधं दुःखम् ॥२२॥ दुःखं तु त्रिविधं प्रोक्तमध्यात्ममधिभूतकम् । आधिदेवं च तत्रापि प्रथमं द्विविधं स्मृतम् ॥ शारीरं मानसं चेति वातकामादिदोषजम् ॥ भूतेभ्यो मानुपादिभ्यो जातं स्यादाधिभौतिकम् ॥ देवेभ्यः शीतवातादिभवं स्यादाधिदैविकम् । एतत् समासतः प्रोक्ता सूत्रव्याख्या यथामति ॥ प्रक्रियां च प्रवक्ष्यामि पौराणिकहिताय वै ॥ एतत् परम्परया याथात- थ्यम् ॥ २३ ॥ एतत् सर्वं ज्ञात्वा कृतकृत्यः स्यात् ॥२४॥ न पुनस्त्रिविधेन दुःखेनाभि- भूयते ॥ २५॥(१). महान् अहंकारः पञ्च तन्मात्राणि अव्यक्तसंज्ञानि (१) २३।२४।२९। सूत्राणि प्रथमादर्शयुस्तके न सन्ति ।
सांव्यसंग्रहे भवन्ति महच्छब्देन हैरण्यगर्भो बुद्धिरुच्यते । प्रधान मू. लमव्यक्तसंज्ञम् । ज्ञः पुरुषः । एतानि पञ्चविंशतितत्त्वा- 'नि।तत प्रधान कारणमेव न कार्यम् । महदादयः सप्त पूर्वपूर्वस्प कार्याणि उत्तरोचरस्य कारणानि ।इन्द्रियाप्ये- कादश पञ्च महाभूतानि कार्याण्येव न कारणानि। पुरुष- स्तु न कार्य न वा कारणम् । तदुक्तम् । मूलप्रकृतिरि- त्यादि । महान् अहंकारः पञ्च तन्मात्राणि सत प्रकृति- विकृतयः । प्रधानाद चुद्धिर्जायत इति प्रधानविकारः सैवाहङ्कारं जनयतीति प्रकृतिः अहङ्कारोऽपि बुद्धर्जा- यत इति विकृतिः सोऽपि एकादशेन्द्रियाणि पञ्च तन्मा. त्राणि जनयतीति प्रकृतिः ॥ तत्र शब्दतन्मात्रमहकाराजायत इति विकृति- स्तरमादाकाशं जायत इति शब्दतन्मानं प्रकृतिः । तथा स्पर्शतन्मात्रमहंकाराज्जायत इति विकृतिः तदेव वायुं जनयतीति प्रकृतिः । एवं रूपतन्मात्रमहंकाराजाय- त इति' विकृतिः तदेव तेजो जनयतीति प्रकृतिः । रसतन्मात्रमहङ्काराजायत इति विकृतिस्तदेवाम्भो ज- नयतीति प्रकृतिः । तथा गन्धतन्मात्रमहंकाराजायत इति विकृतिः तदेवावनि जनयतीति प्रकृतिः ॥ एसानि पञ्च तन्मात्राणि सूक्ष्मभूतानि स्थूलभूतानां सांख्यतत्त्वविवेचनम् । . कारणानि घोडशकश्च विकारः । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि एकादशं मनः पञ्च महाभूताति एप घोडशको गणो विकार एव न प्रकृतिः । पुरुषस्तु नोभयमित्यर्थः ॥ प्रत्यक्षानुमानशब्दरूपं त्रिविधं प्रमाणम् । तत्र प्रत्यक्ष तावत् श्रोत्रादिपञ्चकं लोकोचितशब्दादिगुणग्राहकम् । अनुमान चाप्रत्यक्षार्थग्राहकं धूमादि । शव्दस्तावत् त्रिविधो भवति वागिन्द्रियविषयः श्रोत्रविषयो बुद्धि- मात्रविपपश्च । तेष कण्ठताल्वादिस्थलावच्छिन्नः शब्दो वागिन्द्रियविषयः तत्कार्यस्वात् वागिन्द्रियव्यवाहत- श्रोत्रस्थश्च शव्दतः शब्दः श्रोत्रस्य विपयस्तद्गाह्य- स्वात् । घट इत्यादिपदानि तु बुद्धिमानस्य विषयः वक्ष्यमाणयुक्त्या बुद्धिमानग्राह्यत्वात् ।। तानि पदान्येवार्थस्य करणत्वात् स्फोट इत्युच्यते । तद्धि पदं वागिन्द्रियोचार्य प्रत्येकवणेभ्योतिरिक्तं वर्णाना. माशुतरविनाशितया मेलनाभावेनैकं पदमिति व्यवहार- गोचरवासम्भवात अर्थस्मारकत्वासम्भवाच । अस्य च स्फोटस्य कारणमेकः प्रयत्नविशेषः प्रयत्नभेदेनोचारणे, सति एकपदव्यवहाराभावादर्थीप्रत्ययाच्च तस्य च स्फोटस्प व्यजक आनुपूर्वी विशिष्टतया अन्त्यवर्णप्रत्ययः अतश्च २८ सांख्यमंग्रहे युद्धेरेव स्फोटग्राहकत्वम् आनुपा बुद्यैव ग्रहण- सम्भवेन सामानाधिकरण्यप्रत्यासत्त्यैवानुपूर्वीप्रत्ययस्य स्फोटाख्यपदाभिव्यक्तिहेतुत्वे लाघवात् । अत एव स्फोटः श्रोत्रेण ग्रहीतुं न शक्यते घोत्तरटत्वादिरूपिण्या आनुपाः श्रोत्रेण ग्रहणासम्भवात् आशुतरविना- शितया वर्णानां मेलनासम्भवात् पूर्वपूर्ववर्णसं- स्काराणां तत्स्मृतीनां चान्तःकरणनिष्ठानामन्तःक- रणसहकारित्वस्यैवौचित्यादिति । स्यादेतत् स्फोटव्यजकस्यानुपूर्वीविशिष्टचरमवर्ण. स्यैव पदत्वमर्थप्रत्यायकत्वं धास्तु अलं स्फोटेन तद्धे- तोरेव तदस्त्विति न्यायात् । एतदेव सांख्पसूत्रेणोक्तं प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्द इति । एकत्व. प्रत्ययोऽप्यानुपूर्वीविशिष्टचरमवर्णस्यैकत्वेनोपपद्यते । अनोच्यते। एवं सत्यवयव्युच्छेदप्रसङ्ग । अस- मवायिकारणसंयोगविशेषावच्छिन्नानामवयीनामेव ज- लाद्याहरणहेतुत्वकल्पनायां लाघवात् तद्धेतोरेव त- दस्त्विति न्यायसाम्यात एको घट इत्यादिप्रत्ययाना- मप्येकं घनमित्यादिप्रत्ययवदुपपत्तेः । अथ परमाणून तत्संयोगानां चान्तीन्द्रियतया तद्रूपत्वेऽत्रयविनः प्रत्य- क्षानुपपत्तिरित्यादिकमवयविसाधकमिति चेत् तुल्यं स्फोटे सांख्यतत्त्वविवेचनम् । २९ ऽपि आनुपाः क्षणाद्यतीन्द्रियघटिततया आनुपूवि- शिष्टचरमवर्णात्मकल्वे पदस्य प्रत्यक्षानुपपत्तिरित्यादिक स्फोटसाधकमिति । अपि च स्फोटशब्दोऽस्माभिः श्रुति- प्रमाणेनैव स्वर्गादिवत् कल्प्यते इत्यतस्तत्र लौकिक- प्रमाणाभावे ऽपि न क्षतिः ।। तथाहि प्रणवस्याकारोकारमकाररूपमात्रात्रयं ब्रह्मा- दिदेवतात्रयात्मकमुक्त्वा प्रणवं देवतात्रयातिरिक्तपर- ब्रह्मात्मकं चतुर्थमात्रां श्रुतय आमनन्ति । सा चतुर्थी मात्रा वर्णत्रयादतिरिक्तः स्फोट एवं सम्भवति सैत्र चाईमात्रेत्युच्यते राशिवदविभक्तयोर्वर्णपदयोर्वर्णा ए. कमई पदं चान्यदईमित्युपपद्यते । यथा चावयवेभ्यो विविच्यावयवी न व्यवहार्यों भवति एवमेव प्रत्येकवर्णे- भ्यो विविच्य पदमुच्चारयितुं न शक्यत इति । अतः स्मर्य- ते “अईमात्रा स्थिता नित्या यानुच्चार्या विशेपत" इति ॥ ननु स्यादेवमईमात्रोपपत्तिः । नादबिन्दोस्तु किं स्वरूपम् उच्यते । प्रणवे उच्चार्यमाणे शङ्खनादवेणुनादा- दिवद्यः स्वरविशेषो भवति स नादः या च नादस्योपर- मावस्था अतिसूक्ष्मा सा शून्यतुल्यतया विन्दुरुच्यत इति । तस्मादवयवेभ्योऽवयवीव वर्णेभ्योतिरिक्तं पदं तदेव स्फोट इति सिद्धम् । नन्वेवं वाक्यमपि स्फोटा :
सांख्यसंग्रह स्यादिति चेन्न बाधकाभावे सतीप्यतामिति दिक् ॥ शब्दस्तावत् यथोपदेष्ट्रपुरुषवाक्यलक्षणः इन्द्रो देवराडित्यादिः । अर्थापत्तिसम्भवाभावैतिह्यप्रतिभो- पमानानि यदि प्रमाणानि तमुत्रैवान्तर्भाव्यानि न पृ. थक् । प्रकृतिपुरुषी विद्यमानावपि नोपलभ्येते सूक्ष्म- त्यात यथाकाशे धूमोप्मनीहारपरमाणवः सन्तोपि नो. पलभ्यन्ते । महदादिकार्यदर्शनेन तत्कारणमिव प्रधा- नमनुमीयते । त्रिगुणप्रधानजन्यं महदादिकार्य कि- ञ्चित्प्रकृतिसदृशं किञ्चिादिकृतिसदृशं लोके उभयथा पुत्त्ररूपकार्यदर्शनात् । तच्च कार्य सत् नासत् न सदस- त नानिर्वचनीयम् अत्यन्तासत्त्वे सिकताभ्योऽपि तैलमु. त्पद्यत अन्यौ च पक्षी विरुद्धावेव अव्यक्तसझं प्रधानं स्वतन्त्र व्यापि नित्यं च व्यक्तसझं कार्यमस्वतन्त्रमव्या- पि अनित्यं च । पुरुषः स्वतन्त्रो व्यापी नित्यश्च । तयाणां लोकानां कारणं प्रधानं तच्चैकं लाघवात् । प्रलयकाले महदादिकार्य प्रधाने लीयते । तच्च प्रधान सत्त्वरज- स्तमोमयम् । गुणत्रयसाम्यावस्था प्रकृतिः ।प्रधानमचे- तनं पुरुषस्तु चेतनः । व्यक्तप्रधानविलक्षणः शुद्धो गुणरहितः । कार्यस्य सुखदुःखमोहजनकत्वेन तत्र कारणीभूतानि सत्त्वरजस्तमांसि अनुमेपानि । दृष्टं च सांख्यतत्त्वधिवेचनम् । यथाक्रमं भर्तृसपत्नीविटेषु सुखदुःखमोहजनकत्वं कामि- न्याः । त्रिगुणमये ऽपि कार्ये यदा सत्त्वमुद्रिक्तं भवति जनादृष्टात् तदा रजस्तमसी अभिभूय स्वकार्य सुखं ज़- नयति । एवं यदा रज उद्रिक्तं भवति तदा सत्त्वतमसी अभिभय स्वकार्य जनयति दुःखम् । एवं यदा तम उद्रिक्त भवति तदा सत्वरजसी अभिभूय स्वकार्य मोहं जनयति ।। दुःखं त्रिविधम् आध्यात्मिकाधिभौतिकाधिदैविक- भेदात् । तथाहि तत्र आध्यात्मिकं द्विरूपं शारीरं मानसं चेति । शारीरं तावत वातपित्तश्लेप्मविपर्ययकृतं जरातीसारादि । मानसं तु प्रियवियोगाप्रियसंयोगा. दिजम् । आधिभौतिकं तु चतुर्दाभूतग्रामनिमिचं पशु- पक्षिमृगमनुष्यसरीसृपदंशयकामत्कुणस्थावरेभ्यो जरा- युजाण्डजस्वेदजोहिजेभ्यो जायते । दिवः प्रभवति तदेवं तदधिकृत्य यजायते तदाधिदैविकं शीतोष्णवात- वर्षाशनिपातजम् । समुदिततन्तवः पटमिव गुणसमुदा- यात्मकं प्रधानम् महदादिकार्य जनयति । एकरसम- पि यथा आकाशसलिलं वाप्यादौ पतितं सत् वाप्यादि- संश्लेषात रमान्तरमापद्यते तथा एकरूपादपि प्रधाना. देवादयः क्रमेण सुखिनो दुःखिनो अत्यन्तमूढाश्च भव- न्ति । तथा सत्त्वौत्कट्याद्रजस्तमसोरौदासीन्याद्देवाः सांव्यसंग्रहे अत्यन्त सुखिनः । रजस औत्कट्यात् सत्त्वतमसोरौदा- सीन्यान्मनुष्याः अन्त्यन्त दुःखिनः। तमस औत्कट्यात सत्त्वरजसोरीदासीन्यात्चिर्यचः अत्यन्त मूढाः । महदा- दिसङ्घातः भोक्तसापेक्षः भोग्यत्वात पर्यङ्कवत । महदा- दिसाः पराधीन: अचेतनत्वात मालारत् । एवं पुरुषोऽनु- मीयते । स च नाना जन्ममरणकरणानां प्रत्येकं भेदात्। अयमर्थः । एकस्य मरणे सर्वे म्रियेरन् ययेक एव आत्मा स्यात् एकस्य च जन्मनि सर्वे जायेरन् एकस्य कर- णवैकल्ये सर्वे करणवैकल्यवन्तः स्युः । न चैवं दृश्य. ते तस्मान्नाना । पञ्चविंशतितत्वगोचरसम्यग्ज्ञानात् पुरुषस्य कैवल्यं भवति । तच्चान्यत्वं प्रधानादिभेद इति यावत् । अविवेकात् संसारः विवेकात् कैवल्यम् । अर्थतः अख्यातिवादाङ्गीकारः । अत एव इदं रजत- मिति ज्ञानं न भ्रमः किंतु स्वरूपतः अर्थतश्च अशिविक्तं ज्ञानद्वयम् । यस्य याहशमिदं रजतमिति रजतज्ञान- विषयीभूतं तस्य तादृशमेव जगदिति निर्णयः ।। अत एव वस्तुतस्तात्विकोऽन्यथाभावः परिणाम इत्येव लक्षणलक्षितः परिणामोऽङ्गाकृतः स च पुरुषः प्र. तिशरीरं नानेत्यवादि स्म अधिकारित्वात् । वस्तुतोऽकर्ता मुक्तवत् साक्षिवदुदासीनः । सत्त्वरजस्तमांसि कर्तृणि क- सांख्यतश्वविवेधनम् । सण्यपि भवन्ति। अकापि पुरुषः कर्त्तव व्यवाहियते । अचोरोरैः सह धृतश्चोर एव । गुणाभेदात् प्रकृतिः की न पुरुषः । दर्शनशक्तिमतः क्रियाशक्तिरहि- तस्य पुरुषस्य प्रधानेन सह संयोगः महदादिभूत- पर्यन्तं प्रधानं द्रष्टुम् । दर्शनशक्तिरहितस्य क्रियाशक्ति मतः प्रधानस्यापि पुरुषेण संयोगः मोक्षार्थ पुरुषस्य भि- नत्वेन व्यक्ताव्यक्तपुरुषज्ञाने जाते प्रधानस्य मोक्षो भव- ति । नित्यसुखोपलब्धिर्मोक्ष इति चेदुपलब्धेरपि नित्या. नित्यविवेकग्रस्तत्वादसारम् ।न च नित्यसुखगोचरस्या- विद्यादियत्किश्चिदावरणभङ्ग एव पुरुषार्थों वाच्यः सुखानुभवस्यैव पुरुषार्थत्वाच्चैतन्यनित्यत्वेनावरणस्या- पि असम्भवाच्च । मोक्षे परमानन्दश्रुतिस्मृतयस्तु मोक्षशास्त्रपरिभाषागात्रा । दुःखमेवास्ति न सुखं यस्मात् तदुपलभ्यते । दुःखार्तस्य प्रतीकारे सुखसञ्ज्ञा विधीयते ॥ दुःखं कामसुखापेक्षा सुखं दुःखात्ययः स्मृतः ।। इत्यादिस्मृतिभिर्दुःखनिवृत्चिरेव सुखत्वेन परिभा- पिता । सांख्यसूत्रमपि दुःखनिवृत्तिर्गौण इति विमु- क्तिप्रशंसा मन्दानामिति च । आनन्दावाप्तिस्तु गौण- मोक्षी ब्रह्मलोके भवति इति पश्चात् कृतार्थयोः प्रधानपु.
- सांख्यसंग्रहे रुपयोवियोगो भवति अन्धपगुसयोगवत् । तथाहि एक: पङ्गुरपरवान्धः द्वावप्येतो दुष्टे पथि गच्छन्ती महता सार्थेन सह देवाइन्धुभिः परित्यक्तौ यथायोगं गमन- शक्तिदर्शनशक्तिरहितौ दर्शनार्थ गमनार्थ च संयुक्तो. भवतः । तथा चान्धन पगुः स्कन्धमारोपितस्तदर्शि तमार्गेणान्धो याति पाश्चान्धस्कन्धारूढः सन् याति । पश्चात स्वस्वदेशप्राप्त्यनन्तरं कृतार्थी सन्तौ वियुक्तौ भ- वतः । तथा च प्रधानं पुरुषस्य मोक्षं कृत्वा निवर्त्तते । पुरुषो न प्रवर्तते नापि निवर्तते । द्रष्टा भोक्ता च पुरु- पः । भोगश्चिदवसानता लक्षणः । न क्रियावेशात्मा स च पुरुषः अनाथविवेकात् संसरति । सच्छास्त्रश्रवणेन गुर्वनुग्रहेण च निर्विचिकित्सो विवेकज्ञाने जाते मुच्यते । प्रकृतिपुरुपसंयोगात् संसारः सञ्जायते। स्त्रीपुरुषसंयोगा- दपत्यमिव प्रकृतेमहत्तत्वं जायते।महत्तत्वादहङ्कारोजाय- ते। स च त्रिविधः वैकारिको भूतादिस्तैजसश्च । यो हि वैकारिकः स एव सात्त्विकः यो भूतादिः स एव तामसः। यो हि तेजसः स एव राजसः तत्र वैकारिकादहङ्कारादे- कादशेन्द्रियाणि तदभिमानिन्यो देवताश्च जायन्ते । भू- तादेवाहंकारात तन्मात्राणि जायन्ते तैजसादहका- रादेकादशेन्द्रियगणस्तन्मालपञ्चकं च जायते । एतद्गण. ..
सांख्यतत्त्वविवेचनम्। यस्य यथासंख्यं वैकारिकातादेश्वाहंकाराजातत्वात कथं पुनरुत्पत्तिरुच्यत इति चेच्छृणु । यदा रजस्तमसी अभिभूय सत्त्वगुण उत्कटो चैकारिक- सञ्जालभमानोऽहंकारोऽप्रवृत्तिधर्मा तैजसाहंकारं सहा- यीकृत्य प्रवृत्तिधर्माण्येकादशेन्द्रियाणि जनयति तदा ता- नि स्वसाहाय्यच्छलमधिगम्य तैजसस्वरूपेणापि कृतानी. स्युच्यते । यदा च सत्त्वरजसी अभिभूय तमोगुणोत्कटो भूतादिस्तैजसाहंकारस्य रूप सहायीकृत्य तन्मात्रपञ्च- के प्रवृत्तिधर्मकं करोति तदा तत्तन्मात्रपञ्चकं स्वसाहा- य्येनैव तैजसेनापि कृतमित्युच्यते तस्मात् प्रवृत्तिधर्मका- तू तत्तन्मात्रपञ्चकाद् भूतपञ्चकमुत्पद्यते । एष परि- णामक्रमः । वैकारिकादेकादशेन्द्रियाणि भूतादेस्त- न्मात्रपञ्चकमिति ॥ अयमर्थः। वैकारिकस्य भूतादेव स्वस्वप्रवृत्तिधर्मक- कार्यद्वयस्य यथासंख्यं जनने तैजसाहंकारस्य साहाय्यम्। तेजसाहंकारस्य साहाय्यकरणादेव एतद्गणद्वयलक्षणक- कार्यस्य प्रवृत्तिधर्मकत्वम् । बुद्धिजनकानीन्द्रियाणि बु- डीन्द्रियाणि तानि चक्षुःश्रोत्रघ्राणरसनत्वगिन्द्रियाणि । तेषां च विषया रूपशब्दगन्धरसस्पर्शाः । कर्म कुर्वन्ती- ति कर्मेन्द्रियाणि तानि च वाक्पाणिपादपायूपस्थानि ।
सांख्यसंग्रह तेषां च विषयाः वाग्वदनादानगमनोत्सर्गानन्दाः । मनो बुद्धीन्द्रियं कर्मेन्द्रियं च यतो बुद्धीन्द्रियाणां वृत्ति संकल्पयति कर्मेन्द्रियाणां च अत उभयात्मकं मनः । मनोऽपि विभु धर्माधर्मवासनाश्रयतः प्रतिपुरुषमन्तःकर- णं नित्यमाकाशवत । न च प्रकृतिधर्मा एव सन्त्वदृष्टादय इति वाच्यम् अन्यनिष्ठादृष्टादिभिरन्यत्र सुखदुःखा- धुत्पादेऽतिप्रसङ्गात् । तच नाणु संभवति योगिनां सर्वा- वच्छेदेन एकदाखिलसाक्षात्कारासम्भवात् । न च यो- गिनां योगजधर्म एव प्रत्यासत्तिः स्यात् संयोगसं. युक्तसमवायादिलौकिकप्रत्यासत्त्यवोपपत्ती · सन्निकर्षा- न्तरकल्पने मानाभारात गौरवाच्च अन्योन्यव्यभिचा- राच्च । साक्षात्कारप्ववान्तरजातिकल्पने जातिसाङ्क- यात् अतिगौरवाच्च । योगिमते सर्वार्थग्रहणसमर्थस्या- न्तःकरणस्य तमआख्यावरणभङ्ग एवः योगजधर्मा- दिभिः क्रियते सुषुप्तौ तमसो वृत्तिप्रतिबन्धकत्वसिद्धेरि- ति नाप्यन्तःकरणं मध्यमपरिमाणमात्र सम्भवति प्रलये विनाशेनादृष्टाद्याधारतानुपपत्तेः अतः परिशेषतोऽन्तःक- रणं विवेव सिद्यति तदुक्तं । चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् । द्वाभ्यां शून्यतमं विद्धि चिदाकाशं वरानते ॥
सांरुपलायविवेपनम् । स्यादेतत् । अन्तःकरणस्य विभुत्वे परिच्छिन्न- वृत्तिलाभस्यावरणनोपपत्तावपि लोकान्तरगमनादिकं नो- पपद्यत । अत एव सांख्यसूत्रम् "न व्यापकं मनः करण- वा"दिति । तद्गतिश्रुतेरिति वेति किं चैवं सति लाघवात् चैतन्यस्यैवावरणकल्पनमुचितं किमर्थ विश्वन्तःकरणं परिकल्प्यते तत्र ज्ञानप्रतिबन्धकमावरणं कल्प्यते ॥ अत्रोच्यते । गतिश्रुतिस्तावत आत्मनीवान्तःकर- णेऽपि प्राणेन्द्रियाद्युपाधिनापपद्यते कार्यकारणरूपेणान्तः- करणद्वैतात् । कार्यान्तःकरणस्य स्वतोऽपि गतिरुपप- धते कार्यकारणरूपेणान्तःकरणद्वैतं च सांख्पैरप्येष्टव्यम् केवलकार्यत्वेन्तःकरणधर्मत्वं धर्मादीनामिति सांख्यसूत्रा- नुपपत्तेः । केवलनित्यत्वे च महदाद्युत्पत्तिसूतानुपपत्तेः यत्तुक्तं चैतन्यस्यैवावरणकलानं युक्तमिति तदयुक्तम् । कूटस्थचैतन्यस्य ज्ञानप्रतिबन्धरूपावरणासम्भवात् । न चैतन्यस्यार्थसम्बन्ध एवं प्रतिबिम्बादिरूपे प्रतिब. न्धकं कल्पनीयमिति वाच्यम् एवमप्यात्मदर्शनानुपपत्तेः करणद्वारं विना स्वस्मिन् प्रतिबिम्बादिरूपेण स्वस्वस- म्बन्धासम्भवात् । अपि च इच्छाकृत्याद्याधारतयान्त:: करणे सिद्ध स्वप्नादावन्तदृश्यमानघटादयोऽपि तस्यैव परिणाम कम्पन्ते कार्यकारण यो सामानाधिकरण्यो- सांख्यसंग्रहे चिस्यात् । एवं 'च घटायाकारपरिणताश्चतन्ये भासन्ते तदविभागेनैव वाह्यघटादिकं भासते ऽतस्तादृशपरिणा- मप्रतिवन्धकमेवावरणं तत्रैव युक्तं किञ्च वाद्यकर- णस्यावरणदर्शनेनान्तरावरणस्यापि करणनिष्ठत्वं चा. नुमीयते आत्मनो ऽनावृतत्वं श्रुतिस्मृतिम्यां चेति । नन्वन्तःकरणस्य विभुत्वे सति कथं कार्यवं स्या- दिति चेन्न विव्या अपि आकाशप्रकृतेः कार्याकाशरूपप- रिछिन्नपरिणामवद् गुणान्तरसम्भेदेनान्तःकरणप्रकृतेरपि परिच्छिन्नान्तःकरणरूपपरिणामोपपतिः श्रुतिस्मृतिप्रा. माण्याचैतदिप्यत इति दिक् । मनसः सङ्कल्पो विषयः । एतान्येकादश वैकृताहंकाराजातानि इत्यवादि स्मैव बुद्धिप्रतिबि- म्बितमथै पुरुष उपलभते । तदुक्तं बुद्धिस्थमर्थ पुरुषश्चेतयते । अहं धर्म .करिष्यामीत्यध्यवसायो बुद्धलक्षणम् । धर्मो ज्ञान विरागः ऐश्वर्यमेतत् सात्त्वि- कबुद्धः । तद्विपरीतमविरागादि तामसम् ॥ पञ्चविंशतितत्वैरेव जगद्याप्तं न न्यूनैनधिका वत्सविवृद्धिनिमित्त क्षीरस्येव अज्ञस्यापि प्रधानस्य पुरुष- मोक्षार्थ प्रवृत्तिचितव । लिङ्गशरीरं तु बुद्यहंकारम- नोबुद्धीन्द्रियकर्मेन्द्रियपञ्चतन्मात्राणामष्टादशानां समु.
सांख्यतत्वविवेचनम् । दीयः प्रयोविंशतितत्वमध्ये पञ्चभूतानि वयित्वा अ- इंकारं च बुद्धौ प्रवेश्य सप्तदशकं लिङ्गशरीरसञ्झं भवति वहेरिन्धनवदात्मनोभिव्यक्तिस्थानत्वात। तच्च सर्वपुरुषा- णां सर्गादावुत्पद्य प्राकृतप्रलयपर्यन्तं तिष्ठति तेन चैबेह लोकपरलोकयोः संसरणं जीवानां भवति । प्राणश्च बु- देरेव वृत्तिभेद इत्यतो न लिङ्गशरीरात पृथङ् निर्दिश्यते तस्य च लिङ्गशरीरस्य सूक्ष्माणि पश्च भूतानि आश्रयश्चित्रा- दिवदाश्रयं विना परमसूक्ष्मस्य लोकान्तरगमनासम्भवात।। इदं च लिङ्गशरीरमादौ स्वयंभुव उपाधिभूतमेकमेव जायते तस्यैव विराडाख्यवक्ष्यमाणस्थूलशरीरवत् त- तश्च व्यष्टिजीवानामुपाधिभूतानि व्यष्टिलिङ्गशरीराणि तदंशभूतानि ततो विभज्यन्ते । पितुर्लिङ्गशरीरात पुत्त्र- लिङ्गशरीरवत । तदुक्तं सूत्रकारेण । व्यक्तिभेदः कर्मवि- दशेपादिति मनुनाप्युक्तम् । तेषां ववयवान सूक्ष्मान् पण्णामप्यमितौजसाम् । सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ इति । पण्णामिति पडिन्द्रियं समस्तलिङ्गशरीरोपलक्षकम् तथा च स्वयम्भूः स्वलिङ्गशरीरावयवान सूक्ष्मानल्पान् आत्ममात्रासु स्वांशचेतनेषु संयोज्य सर्वप्राणिनः स. सर्जेत्यर्थ इति लिङ्गशरीरम् । स्थूलशरीरोत्पचिस्तु दश- ..
सांख्यमंग्रहे गुणितमहत्तत्त्वमध्ये ऽहंकारस्तस्यापि दशगुणितस्य मध्ये व्योम्नपि दशगुणितस्य मध्ये वायुयोरपि दशगुणितस्य मध्ये तेजस्तेजसोऽपि दशगुणितस्य मध्ये जलं जलस्यापि दशगुणितस्यमध्ये पृथिवीसमुत्पद्यतेसैवच स्थूलशरीरस्य बीजं तदेव च पृथिवीरूपं वीजमण्डरूपेण परिणमते तस्यापि दशगुणिताण्डरूपस्य पृथिव्यावरणस्य मध्ये च- तुर्दशभुवनात्मक स्वयम्भुवः स्थूलशरीरं तत्संकल्पादेवो- त्वद्यते तेनैव शरीरेण स्वयम्भूनारायण इत्युच्यते । त- दुक्तं मनुना स्वयम्भुवं प्रकृत्य । सोऽभिध्याय शरीरात स्वात सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यमवासृजत् ।। तदण्डममवढेमं सहस्त्रांशुसमप्रभम् । तस्मिन यज्ञ स्वयं ब्रह्मा सर्वलोकपितामहः ।। सवै शरीरी प्रथमः सबै पुरुप आदिका स भूतानां ब्रह्माग्रे समवर्तत ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः ता यदस्पायनं पूर्व तेन नारायणः स्मृतः ।। इत्यादिनेति । ततएव चादिपुरुपात व्यष्टिपुरुपाणां विभागादन्ते च तत्रैवलयाव स एव चैक आरमेति श्रुतिस्मृत्योर्पयहियते उच्यते।
सांख्यतत्वविवेचनम् । 2102 अतो न व्यवहारपरतया नारायण एव सर्वभूतानामा- त्मेत्यादिश्रुतिस्मृतिविरोध इति । ततश्च स नारायणो विराट्शरीरी सनाभिकमलकर्णिकास्थानीयस्य सुमेरो- रुपरि चतुर्मुखाख्यं स्वयम्भुव सृष्ट्वा तद्द्वारान्यानपि व्यष्टिशरीरिणः स्थावरान्तान् ससर्ज तदुक्तम्--- तच्छरीरसमुत्पन्न कार्यस्तैः कारणैः सह । क्षेत्रज्ञाः समजायन्त गानेभ्यस्तस्य धीमतः॥ इति । यत्तु शेषशायिनो नारायणस्य नाभिकमलश्रो. त्रचक्षुरादिभ्यश्चतुर्मखस्याविर्भावः श्रूयते तद्दनन्दिनस- गेष्वेव कल्पभेदेन मन्तव्यम् । दैनन्दिनप्रलयेप्वव हि नारायणशरीरे प्रविश्यकीभूय सुप्तानां देवानां चतुर्मु- खादिक्रमेणाविर्भावः शेषशायिनः सकाशात घटते न त्वादिसर्गेपु दैनन्दिनप्रलय एव लीलाविग्रहेण श- यनादिति ॥ तदेवं संक्षेपतश्चतुर्विशतितत्वानि तेपां सृष्टिक्षयं प्रयोजनं चोक्तम् । तत्र यद्यस्माज्जायते तस्य तदाऽऽपूर- गेनैव स्थितिः ततस्तस्य संहारोऽपि तलैब भवति । तथा च भारते। यद्यस्माजायते तत्वं तच्च तत्र प्रलीयते । लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥ इति। ६ सांख्यसंग्रह गुणितमहत्तत्त्वमध्ये ऽहंकारस्तस्यापि दशगुणितस्य मध्ये व्योम्नोपि दशगुणितस्य मध्ये वायुयोरपि दशगुणितस्य मध्ये तेजस्तेजसोऽपि दशगुणितस्प मध्ये जलं जलस्यापि दशगुणितस्य मध्ये पृथिवी समुत्पद्यते सैवच स्थूलशरीरस्य बीजं तदेव च पृथिवीरूपं वीजमण्डरूपेण परिणमते तस्यापि ददागुणिताण्डरूपस्य पृथिव्यावरणस्य मध्ये च- तुर्दशभुवनात्मक स्वयम्भुवः स्थूलशरीरं तत्संकल्पादेवी- सद्यते तेनैव शरीरेण स्वयम्भुर्नारायण इत्युच्यते । त- दुक्तं मनुना स्वयम्भुवं प्रकृत्य । सोऽभिध्याय शरीरात स्वात सिसक्षुर्विविधाः प्रजाः! अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ तदण्डमभवढेमं सहस्त्रांशुसमप्रभम् । तस्मिन् यज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।। सवै शरीरी प्रथमः सबै पुरुष आदिकर्ता स भूतानां ब्रह्माने समवर्तत ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्थापनं पूर्व तेन नारायणः स्मृतः ॥ इत्यादिनेति । ततएव चादिपुरुषात व्यष्टिपुरुषाणां विभागादन्ते घ लियाव स ाारमोति भुतिस्मृघहिरते उच्यते।
- सांख्यतत्वविवेचनम् । अतो न व्यवहारपरतया नारायण एव सर्वभूतानामा- त्मेत्यादिश्रुतिस्मृतिविरोध इति । ततश्च स नारायणो विराटशरीरी स्वनाभिकमलकर्णिकास्थानीयस्प सुमेरो- रुपरि चतुर्मुखाख्यं स्वयम्भुवं सृष्ट्वा तद्दारान्यानपि व्यष्टिशरीरिणः स्थावरान्तान् ससर्ज तदुक्तम्- तच्छरीरसमुत्पन्न कार्यस्तैः कारणैः सह । क्षेतज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः॥इति । यत्तु शेषशायिनो नारायणस्य नाभिकमलश्रो. त्रचक्षुरादिभ्यश्चतुर्मुखस्याविर्भावः श्रूयते तद्दनन्दिनस- र्गेष्वेव कल्पभेदेन गन्तव्यम् । दैनन्दिनप्रलयेप्येव हि नारायणशरीरे प्रविश्यकीभूय सुप्तानां देवानां चतुर्मु- खादिक्रमेणाविर्भावः शेषशायिनः सकाशात घटते न त्वादिसर्गेषु दैनन्दिनप्रलय एव लीलाविग्रहेण श- यनादिति ॥ तदेवं संक्षेपतश्चतुर्विंशतितत्त्वानि तेषां सृष्टिक्षयं प्रयोजनं चोक्तम् । तत्र यद्यस्माजायते तस्य तदाऽऽपूर- णेनैव स्थितिः ततस्तस्य संहारोऽपि ततैव भवति । तथा च भारते। यद्यस्माजायते तत्तं तच्च तत्र प्रलीयते । लायन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥ इति।
४२ सांख्यसंग्रहे एते च सृष्टिस्थितिसंहाररूपाः स्थूला एव परिणामाश्च- तुर्विशतितत्त्वानां कूटस्थपुरुपविवेकाय प्रदर्शिताः सूक्ष्मा अप्यन्ये प्रतिक्षणपरिणामा एतेषां स्मयते । नित्यदाह्यङ्गभूतानि भवन्ति न भवन्ति च । कालनालक्ष्यवेगेन सूक्ष्मत्वात तन्न गृह्यते ॥ इति । अतस्तु सर्व जडवस्तु परमार्थतः सर्वदैवाप्त- दुभ्यते । ततश्च तस्माद्विरज्य आत्मैव परमार्थसत्यो दुःखभीरुभिर्द्रष्टव्यः तदुक्तम् । अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् । महाहंकारविटप इन्द्रियाकुरकोटरः ॥ महाभूतप्रशाखश्च विशेषप्रतिशाखवान् । सदापर्णः सदापुष्यः शुभाशुभफलोदयः ॥ आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः । एतज्ज्ञात्वा च तत्वेन ज्ञानेन परमासिना॥ कृत्वा चाक्षरतां प्राप्य जहाति मृत्युजन्मनी ॥इति । तदुक्तं- इन्द्रियाणीन्द्रियार्थाश्य नोपसर्पन्त्यतः खलु । हीनध करणेही न देहं पुनरहति ।। तस्मात्सर्वात्मकारागाजायन्ते सर्वजन्तवः ॥इति। नरकादी विशेषरागाभावे ऽपि सामान्यराग- सांख्यतत्त्वविवेचनम् । सत्वाद्रागस्य कर्मसहकारित्वं विपाकारम्भे तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निपक्तमस्येति श्रुतापभिमानरागडेपादिजन्यस्य विषयवासनाख्यसङ्ग- सामान्यस्यैव जन्मादिविषाकारम्भे सहकारित्वसिद्धः । यनयत्र मनो देही धारयेत् सकलं धिया । स्नेहाद द्वेषाद् गुणाद्वापि याति तत्तत्सरूपताम् ॥ इति स्मृतेः । सोऽथ प्रतिनिवृत्ताक्षो गुरुदर्पणबोधितः । स्वतोऽन्यां विक्रिया मौढ्यादस्थितामजसैक्षत ॥ अथासौ प्रकृति हमियं हि कलुपात्मिका । शुदबुद्धस्वभावोऽहमिति त्यजति तां विदन् ।। एवं देहेन्द्रियादिभ्यः शुद्धत्वेनात्मनि स्मृते । निखिला सविकारेयं त्यक्ताया हि चर्मवत् ।। नन्वनात्मन्यात्मबुद्धिरूपा या ऽविद्या तस्याः क- थमात्मविशेष्यकविवेकज्ञाननाश्यत्वं प्रकारादिभेदा- दिति चेत् न तादृशाविद्याया अनात्मविशेष्यकवि- बेकद्वारेणात्मविशेष्यकविवेकनाश्यत्वादिति । यच्च यो- गेन निर्विकल्पकमात्मज्ञानं जायते तहिवेकज्ञानहारैव मोक्षकारणं भवति न तु साक्षात् । अविद्यानिवर्तकत्वा- -भावात अहं गौरः कर्ता सुखी दुःखीत्यादिज्ञानमेव ह्य- सांख्यसंग्रहे विद्या संसारानर्थहेतुतया श्रुतिस्मृतिन्यायसिद्धा तस्याश्च निवर्तिका नाहं गौर इत्यादिरूपा विवेकल्पातिरेव भवति समाने विषये ग्राह्याभावत्वप्रकारकग्राह्याभावज्ञानत्वेनैव विरोधात अन्यथा मुक्तिनिर्विकल्पकस्यापि इदं रजतमिति ज्ञानविरोधित्वापत्तेः । किश्च यथोक्ताभावज्ञाने ग्राह्यज्ञा- नविरोधित्वस्यावश्यकतया निर्विकल्पज्ञानस्य भ्रमनि- वर्तकत्वं न पृथक् कल्प्यते गौरवात् ॥ अपि च अथात आदेशो नेति नेति न घेत. स्मादिति नेत्यन्यत् परमस्तीत्यादिश्रुत्या विवेकोपदेशापे. क्षयोत्तम उपदेशो नास्तीत्युच्यते ।। क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ इति गीतावाक्यैश्च विवेकज्ञानस्यैव मोक्षहेतुत्वमु- च्यतेऽतो विवेकज्ञानमेव साक्षादविद्यानिवृत्त्या मोक्षहेतुः । योगेन केवलात्मसाक्षात्कारस्तु योग्यानुपलब्धिविधयो- पाध्यादिगतधर्माभावमुपाध्यादिभेदं च ग्राहयति ततोऽवि- द्यानिवृत्तिरिति । एतेन सर्वभूतेषु समताज्ञानम् आत्मनः सर्वात्मकत्वादिज्ञानं च श्रुतिस्मृत्योर्गीयमानं विवेक- ज्ञानस्यैव शेषभूतं सर्वदर्शनेषु मन्तव्यम् । ज्ञानान्तराणा साक्षादभिमानानिवर्तकत्वात् ब्रह्ममीमांसायां त्वयं वि- सांख्यतत्वविवेचनम् । शेषो यत्परमात्मविवेकशेषत्वम् । सांख्यशास्त्रे तु सा- मान्यात्मविवेकशेषत्वमिति दिक् ॥ विवेकख्यातेस्त्वविद्यानाशकत्वमेव न तु शुक्तिर- जतविवेकदर्शिन इव पुनर्भमदर्शनात प्रतिबन्धकत्वं दृष्टा- न्ते पटलकामादिदोषवाहुल्यात पुनरुज्जीवन भ्रमस्य।अ- त्रच अनात्मन्यात्माभिमाने ऽनादिवासनैव दोषः स- स्तिकसंमतः जातमात्रस्याभिमाने दोषान्तरानुपल- ब्धेः सा मिथ्याज्ञानवासना यदा विवेकख्यातिपरम्पराज. न्यदृढवासनयोन्मूलिता तदैव विवेकसाक्षात्कारनिष्ठोध्य- ते तत्पूर्वमवश्यं वासनालेशतो मिथ्यांशस्य कस्या- प्यात्मनि भानात् तस्यां च विवेकख्यातिनिष्ठायां जाता- यां न पुनरभिमानः सम्भवति वासनाख्यदोषाभावा- दिति । यदि तु बुद्धिपुरुषयोरन्योन्यप्रतिबिम्धनादिकम- विवेककारणं दोष इप्यते तदा तु तं दोपं बाधित्वैव विवे- कसाक्षात्कार उदित इति न तस्य पुनर्धमहेतुत्वं फल- बलेन योगजधर्मासहकृतस्यैव तस्य दोपत्वकल्पनासम्भ- वादिति । यद्यपि विवेकप्रतियोगिपदार्थानामान- न्त्याविशेषरूपेण विवेकग्रहो न सम्भवति तथापि दृश्य- लपरिणामित्वादिरूपैः सामान्य विवेकग्रहसम्भयात प्रकृत्यादिपदार्थानां विशिष्टज्ञानाभावे ऽपि सामान्यतो ४६ सांख्यसंग्रहे विवेकख्यातेर्मोक्षहेतुत्वम् । तदुक्तम् । घटद्रप्टा घटाद्भिन्नः सर्वथा न घटो यथा । देहद्रष्टा तदा देही नाहमित्यादिरूपतः ॥ इनि । आत्मा वा अरे द्रष्टव्य इत्यत्र तु न आत्मनो दृश्यत्वं वृत्तिव्याप्यत्वे ऽपि फलव्याप्यत्वरूपं यत्तु बैरपि सुखदुःखादिमत्त्येनापि बुढिरनुभूयमाना स्वप्र. काशतया चैतन्यव्याप्या न भवति यथा वेदा- न्तिनामहमित्यनुभयमानो ऽप्यात्मा चैतन्याख्यफल- व्याप्यो न भवतीत्युच्यते तन्निःप्रमाणत्वादुपेक्ष्य- म् । तत्प्रधानादिसर्गे उत्पद्यते । अधर्मवशा- त् पश्वादी धर्मवाद्देवादी संसरति । अतत्त्वज्ञानादेव धर्माधर्मोपरञ्जितं प्रलयकाले प्रधाने लीयते यद्यपि प्रधानपुरुषो विभू तथापि प्रकृतिरेव लिङ्गव्यवस्था करो- ति । लिङ्गं सूक्ष्मैः परमाणुभिस्तन्मातरुपचितं मानुषा- दिषु व्यवतिष्ठते नटवत् यथा नटः स्वरूपेण एकोपि वे- पान्तरेण नानारूपः तथा लिङ्गमुदरान्तः प्रविश्य हस्ती स्त्री पुमानिति भवति पश्चविपर्ययसंज्ञा भवति यथा तमो मोहो महामोहस्तामिश्रोऽन्धतामिश्र इति । धर्मेण प्राजा- पत्यापूर्वलोकप्राप्तिः । अधर्मेण पश्वादिमातिरज्ञानेन बन्धः पञ्चविंशतितत्त्वज्ञानेनापवर्गः । तच्च तत्त्वज्ञा- ..
सांख्यतत्वविवेचनम् । नं गुरोः सकाशात् शास्त्रश्रवणेनैतादृशं जायते । तथाहि प्रधानादन्यः पुरुषः अन्या बुद्धिः अन्योऽहंकारः अन्यानि तन्मात्राणि इन्द्रियाणि पञ्चमहाभूतानि चेति । सर्व कार्य त्रिगुणात्मकमपि उद्रिक्तगुणापक्षया सात्त्वि- कादिशब्दव्यपदेशभाक् चेतनः पुरुषः नानायोनिषु जरा- मरणकृतं दुःखं चैतयते प्राप्नोतीत्यर्थः । यावत तत्त्वज्ञाने- न लिङ्गशरीरं न निवर्त्तते तावत् स्थूलं शरीरं प्रतिज- न्म नूतनं जायते नश्यति च । स्वप्रयोजनाभावेऽपि प्रत्यु- पकारनिरपेक्ष सुमित्रवत प्रधानं महदादिविषयभूतपर्यन्तं कार्य पुरुषस्य भोगाय मोक्षाय चारभते प्रकृतिः पुरुषस्य भेदेन बुद्धयहंकारादि दर्शयित्वा निवर्तते । यथा नर्तकी शृङ्गारादिरसैहास्यादिभावैश्च निबद्धगीतादीनि रङ्गस्य दर्शयित्वा निवर्त्तते कृतार्थत्वात् तद्वत् । किञ्च प्रकृति- गुणवती अगुणस्य पुंसः जगद्योनिभावेन सुखदु.ख- मोहात्मकेन शब्दादिविषयभावन वेत्येवंविधैरुपकारैरैनु- पकारिणः पुरुषस्योपकुर्वती पश्चादात्मानं प्रकाश्य अह- मन्या त्वमन्य इति निवर्तते सुमित्रवत् आत्मनः प्रत्यु- पकारं नेच्छति । सर्गस्य नेश्वरः कारणं न स्वभावो न कालः कालोऽपि योगिनां क्षणरूप एव न तु न्यायवैशेपिकयो- सांख्यमंग्रहे रिवारमवदखण्डो नित्य एको लाघवात स एव तत्तदुपा• ध्यवच्छिन्नः सन् क्षणमुहूर्तादिवत्सरान्तं व्यवहार करोतीति । न तु क्षणनामा पृथक् पदार्थोऽस्तीति ॥ सांख्यैस्तु दिक्कालाबाकाशादिभ्य इति सूत्रितं महाकालो वा क्षणादिर्वा पृथक् पदार्थों नास्ति किन्लाकाशमेवोपाधिभिविशिष्टं क्षणादिमहाकाला- न्तव्यवहारं कुरुते इति मन्यते तदेतन्मत- द्वयमप्पसमञ्जसमित्याह योगी स्थिरेण केनाप्युपा- धिना महाकालाकाशाभ्यां क्षणव्यवहारस्यासम्भवात् । तथाहि उत्तरदेशसंयोगावच्छिन्ना परमाण्वादिक्रिया अन्यहा एतादृशं किश्चिन्महाकालाकाशयोः क्षणरूप- तायामुपाधिः परैरिष्यते तत्र उक्तं संयोगविशिष्टक्रियादिकं चेत् विशेष्यविशेषणतत्सम्बन्धमानं तर्हि त्रयाणामपरैः स्थिरत्वाभ्युपगमात् न तैः क्षणव्यवहारः सम्भवति यदि च तत्तेभ्योऽतिरिक्तमिष्यते न तु तन्महाकाल आ- काश वा तेनैव क्षणव्यवहारोपपत्तौ तदवच्छिन्नस्यान्यस्य क्षणव्यवहारहेतुत्वकल्पनावैयति स च विशिष्टादि- रास्थिर क्षणः प्रकृतेरेवातिभङ्करः परिणामविशेष इत्यतो न प्रकृतिपुरुषातिरिक्तत्वापत्तिः । तस्यैव क्षणस्य प्रच- यविशेषैर्मुहूर्ताहोरात्रादिहिपान्तब्यवहारो भवति न सांख्यसंग्रहे ४९ त्वखण्डो महाकालोऽस्ति प्रमाणाभावात् अद्यत्यादिव्यव. हारः क्षणप्रचयेनैव कालनित्यत्वश्रुतिस्मृतयस्तु प्रवाह- नित्यतापरा इति तस्मादावश्यकत्वात् क्षणात्मक एव कालो नाखण्डो महाकालोऽस्ति नाप्याकाशं कालव्यवहारहेतु- रिति किं तु प्रधानम्।पुरुषो न वध्यते न मुच्यते नापि संसरतीति किं तु नानाश्रया प्रकृतिरेव तथेति सर्व समञ्जसम्(१)॥ इति कान्यकुब्जश्रीषिमानन्ददीक्षितविरचितं सांख्यतत्त्वविवेचनं समाप्तम् ।। (१) अादर्शपुस्तके समाप्तिसूचकं पुष्पिकादिवाक्यं नास्ति किन्तु अतः परं कश्चित् पाठोऽपि नास्तीति प्रन्यसमाप्तिरनुमीयत इति । दं पुस्तकं च प्रन्यकर्तुरेवेति भूमिकायां निरूपयिष्यते ॥
अथ तत्त्वयाथार्थ्यदीपनम् । श्रीभावागणेशविरचितम् । श्रीकृष्णचन्द्राय नमः ॥ पुरुषः स जयत्याद्यः सा च प्रकृतिरीभ्वरी(१) । याभ्यां संसृज्य सृज्यन्तेऽनन्तब्रह्माण्डकोटयः ॥ १॥ कपिलासुरिपञ्चशिखान् गुरून् विज्ञानाचार्यवर्याश्च । प्रणमामि बुद्धिवृद्धथै सिद्धथै वा सर्वकार्याणाम् ॥२॥ समाससूत्राण्यालम्ब्य व्याख्यां पञ्चशिखस्य च । भावागणेशः कुरुते तत्त्रयाथार्थदीपनम् ॥ ३॥ तत्र तावद्विविक्तपुरुपज्ञानं मोक्षसाधनमिति । ये- भ्यो विवक्तव्यो यश्च विवेचनीयः तदुभपं सूत्रत्रयेणो- दिशति(२)। अष्टौ प्रकृतयः प्रकर्षेण कुर्वन्तीति प्रकृतयः। तत्वा- न्तरारम्भकत्वं प्रकृतित्वमिति सामान्यलक्षणम् । ताथ अव्यक्तबुद्धयहंकार(३)पञ्चतन्मात्ररूपाः तत्राव्यक्तं नि- (१) प्रकृतिः सा जायत्यजा-पा० १पु० । (२) लक्षणपरीक्षादिकं तु सांस्यप्रवचनेनैव कर्तव्यमित्या. चार्याशयः। (३) महदहङ्कार-पा०२ पु०।
तत्त्वयापार्यदीपनम् । त्यं शब्दादिगुणशून्यं सत्त्वादिगुणत्रयं च।साम्यावस्थो- पलक्षिता गुणाः प्रकृतिरित्येक लक्षणं च । अकार्या गु- णा इत्यपरम् । तथा प्रकृतिपर्याया अव्यक्तं प्रधान ब्रह्म अक्षरं क्षेत्रं तमः माया ब्राह्मी विद्या अविद्या प्रकृतिः शक्तिः अजा इत्यादयः । सत्त्वादिगुणवती सत्वाद्यतिरिक्ता प्रकृतिरिति तु न शङ्कनीयम् । किन्तु गुण एवं प्रकृतिः । सत्त्वादीनामतधर्मत्वं तद्रूप- स्वादिति सांख्यप्रवचनसूत्रेण सत्त्वादीनां प्रकृतिस्वरू- पत्वहेतुना प्रकृतिधर्मत्वप्रतिषेधात् । प्रकृतेर्गुण इत्यादि- वाक्यं तु वनस्य वृक्षा इतिवद् बोद्धव्यम् । “सत्त्वं रजस्तम इति प्रकृतरभवन् गुणा" इति प्रकृ. तिकार्यत्ववचनं तु गुणनित्यतावाक्यविरोधेन मह- तत्त्वकारणीभूतकार्यसत्वादिपरमेव । महदादिसृष्टिर्हि गुणवैषम्याच्छूयते तच्च वैषम्यं सजातीयसंवलनेन प्रकाशादिफलोपहितः सत्वादिव्यवहारयोग्यः कारण- गुणानां परिणाम इति। एतेनाष्टाविंशतितत्त्वपक्षोऽप्युपपा- दितो मन्तव्यः । सत्त्वादित्रयं च द्रव्यत्वेऽपि पुरुषोपकर- णस्वाद् गुणा इत्युच्यन्ते। द्रव्यत्वं चैषां संयोगविभागादि- मत्तया उपादानकारणत्वेन सिद्धम् । एषां सुखदुःख- मोहात्मकत्वप्रवादस्तु धर्मधर्म्यभेदात् । मनसः संक- सांख्यसंग्रहे . ल्पात्मकत्ववत् । तानि च सत्त्वादीनि प्रत्येक संख्याव्य. क्तिकानि लघुत्वादिधभैरन्योन्यं साधर्म्य वैधयं च गुणा- नामिति सांख्यप्रवचनसूत्रात् । अन्न हि सूत्रं लघुत्वादिना वहूनां सत्त्वानां साधयं तेनैव रजस्तमोभ्यां वैधर्म्यम् । एवं च लघुत्वादिना वहूनां रजसा गुरुत्वादिना बहूनां तमसां साधर्म्यवैधथै उक्ते इति । तेषु त्रित्ववचनं तु सत्त्व- त्वादिविभाजकोपाधिनयेणैव वैशेषिकाणां नवद्रव्य- वचनवदिति । तानि च सत्त्वादीनि यथोपयोगमणुवि- भुपरिमाणकानि। मध्यमपरिमाणत्वे ऽनित्यत्वापत्तिः । - सर्वेषां विभुत्वे कार्याणां परिच्छिन्नत्वानुपपत्तिः । आकाशप्रकृतेर्विभुत्वस्यैवौचित्यात् । ननु प्रकृते- श्चापरिच्छिन्नत्वैकत्वाक्रियत्वमिति सांख्यसिद्धान्तः । स- च विरुध्यत इति चेत् मैवम् गन्धस्य पृथिवीव्यापकत्व- वत्प्रकृतेर्व्यापकत्वम् । तच्च प्रकृतित्वस्य देशिकामां- वप्रतियोगितानवच्छेदकत्वम् । एकत्वं च सर्गभेदेन नानात्वाभावः । अक्रियत्वं चाध्यवसायाभिमानादिप्र- तिनियतक्रियाराहित्यम् । अन्यथा.श्रुतिस्मृतिसिद्धप्रकृ- तिक्षोभस्यानुपपत्तेरिति । प्रकृत्यनुमानं चेत्थं(१) महदादिकार्य पक्षः सुखदुःखमोहात्मकद्रव्यकार्यमिति (१) चेदं-पा० १ पु०।
तत्त्वयाधार्यदीपनम् । साध्य कार्यत्वे सति सुखदुःखमोहात्मकत्वादिति हेतुः वस्त्रादिकार्यशय्यासनवदिति दृष्टान्तः । श्रुतिस्मृती चानानुग्राहकस्तर्कः ॥ ननु सुखस्यान्तरेवानुभवात् शय्यासनादी सुखे किं प्रमाणं येन दृष्टान्तता स्यादिति चेन्न कारणगुणा हि कार्यगुणानारभन्ते इति न्यायन विषयेषु निगुणकार्येषु सुखदुःखमोहसिद्धेः घटरूपमिति(१) प्रत्ययवत चन्दन- सुखं स्त्रीसुखमित्यादिसुखप्रत्ययादपि विपये सुखाद्युचितं . सुखदुःखोत्पादकत्वाच तद्तमेव सुखदुःखादिकं सिध्यति अन्तःकरणसुखादिहेतुतयापि विषये सुखादिकं सिध- ति । कालादिभेदैरेकस्या एवं व्यादिव्यक्तः सुखदुःखो- त्पादकत्वाच्च तद्गतमेव सुखदुःखादिकं सिध्यति । इति मूलप्रकृतिनिरूपणम् ॥ अथ बुद्धिनिरूप्यते । त्रिगुणात्मकमायं कार्य बुद्धि- रित्येकं लक्षणम् । निश्चयवृत्तिकमन्तःकरणं बुद्धिरिति द्वितीयं लक्षणम् । तस्या धर्मज्ञानवैराग्यैश्वर्याख्यप्रकृष्ट- गुणयोगात महत्संज्ञा तदपि तृतीयं लक्षणम् । तस्याः पर्यायाः । मनो मतिर्महान् ब्रह्मा पूर्व बुद्धिवृत्तिः ख्यातिः प्रज्ञा सन्ततिः स्मृतिरिति । अनुस्मृतौ च । (१) पटरूपमिति-पा०२ पु।
. सांख्पसंग्रहे महानात्मा मतिर्विष्णु(१)र्जिष्णुः शम्भुश्च वीर्यवान् । बुद्धिः प्रज्ञोपलब्धिश्च तथा ब्रह्मा वृतिः स्मृतिः ॥ पर्यायवाचकैरेतैर्महानात्मा निगद्यते । सर्वतः पाणिपादश्च सर्वतोऽक्षिशिरोमुखः ॥ सर्वतः श्रुतिमाल्लोके सर्व व्याप्य स तिष्ठति(२)। ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः ।। विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत । विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः ॥ इति । इदमेव महत्तत्त्वमशतो रजस्तमःसम्भेदेन परिणत सत् व्यष्टिजीवानामुपाधिरधर्मादियुतं क्षुद्रमपि भवति । महदुपरागाद्विपरीतमिति सांख्यप्रवचनसूत्रात् । महदह- कारमनस्त्रितयात्मकस्यान्तःकरणवृक्षस्य महत्तत्त्वम- डरावस्थेति । अत्र प्रकृतेर्महानित्यादिसृष्टिक्रमे शास्त्रमेव प्रमाणम् । इदमेव महत्तत्त्वं कार्येश्वरस्य स्वयम्भुव उपाधिस्तेनैवोपाधिना स सर्वज्ञः सर्वेश्वरः सर्वकर्ता सर्वपालका सर्वसहर्ता च । मात्रये । सत्रिकारात् प्रधानात् तु महत्तत्वमजायत । महानिति यतः ख्यातिर्लोकानां जायते सदा (१) मनुर्विष्णुः-पा०२ पु०। (२)समावृत्य तिष्ठति-पा० २ पु०।
तत्ययाथार्यदीपनम् । गुणेभ्यः क्षोभमाणेभ्यस्त्रयो देवा विजज्ञिरे । ': एका मूर्तिस्त्रयो देवा महाविष्णुमहेश्वराः ॥ इति । स च स्वयम्भूः क्रियाशक्तिमत्केवलमहत्तत्त्वोरा- पिक: सूत्रारमेत्युध्यते । स एवाईसुषुप्ताबर्डलयात प्राज्ञ इत्युच्यने । समनसुषुप्तौ तु समग्रलयेन निर्विशेषाच- न्मात्रस्यरूपेणावस्थानादीश्वर इत्युच्यते श्रुतिस्मृतिपुरा- णेषु स च महांस्त्रिधा तदुक्तं वैष्णवे । सात्त्विको राजसश्चैव तामसश्च निधा महानिति । . ब्रह्मशङ्करोपक्षयाप्यादौ विष्णुरेवाविर्भवतीत्यर्धेनोक्तम् । पूर्वोक्तधर्मादिषु धर्मेणोर्ध्वगमनमूर्ध्वगमनेन भोगस्थाना- न्युपलक्ष्यन्ते। तेन पातालभूस्वर्गादीनामपि संग्ग्रहः । ज्ञा- नेन मोक्षः वैराग्येण प्रकृतिलयः पुरुषतत्वानभिज्ञस्य वैराग्यात प्रकृतिलयो भवति । तथा चोक्तं पुराणे । प्रकृतिचिन्तकानधिकृत्य "पूर्ण शतसहस्रं तु ति- धन्ति विगतज्वरा" इति । अत्र प्रकृतिग्रहणेन महदहंका- रभूतेन्द्रियाण्यपि गृह्यन्ते । तत वैराग्यपूर्वकं तेषु तेष्वात्मभावेनोपास्यमानेषु लयो हि - प्रकृताविति च श्रूयते । पूर्ववाक्यानन्तरमेव । दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्ण सहस्रं त्वाभिमानिकाः ।।
सांस्पसंग्रहे बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः॥इति च। अयं च प्राकृतिको बन्ध इत्युच्यते योगिभिः महदादिभावश्च वैकृतिको बन्ध इति । एश्वर्येणाप्रतिधातः ऐश्वर्य चाणिमादिसिद्धया। इति बुद्धिाख्याता ॥ अहङ्कारो व्याख्यायते । महत्तत्त्वादहङ्कार उत्प- घते अकुराच्छाखावत् । तस्य चाहमाकारवृति- मत्त्वादहङ्कार इति संज्ञा । अहंवृत्तिमदन्तःकरणमहङ्कार इत्येकं लक्षणम् । एकादशेन्द्रियोपादानत्वं द्वितीयं लक्षणम् । तन्मात्रीपादानत्वं तृतीयं लक्षणम् । तस्य च पर्यायाः । अहङ्कारोऽभिमानश्च कर्ता मन्ता च स स्मृतः । आत्मा च प्रकुलो जीवोयतः सर्वाः प्रवृत्तयः ।। इति । कौर्मप्रोक्ता अविशेषा इति च । स चाहङ्कार- स्त्रिविधः । तदुक्तं कोर्मे । वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधोऽयमहङ्कारो महतः सम्बभूवह ॥ तेजसानीन्द्रियाणि स्युवा वैकारिका दश । एकादशं मनचात्र स्वगुणेनोभयात्मकम् ॥ भूततन्मानसर्गस्तु भूतादेरभवद प्रजा ॥ इति ।
५८ तत्वयाधादीपनम् । वैकारिकः सात्विकस्तैजसो राजसः । स्वगुणेन सन्द्रियेषु साहाय्यरूपेणोत्कर्षणोभयात्मक ज्ञानक- मेन्द्रियोभयात्मकमित्यर्थः। इन्द्रियदेवताश्च दिग्वातार्कप्र- चेतोश्विवहीन्द्रोपेन्द्रमित्रकामचन्द्रश्चेति एकादश । इत्यइंकारनिरूपणम् ॥ अथ तन्मात्रा उच्यन्ते । शब्दस्पर्शरूपरस- गन्धा निर्विशेषास्तदन्ति सूक्ष्मभूतानि तन्मात्राः । निर्विशेषशब्दादिगुणवद् द्रव्यं तन्मात्रा इति सा- मान्यलक्षणम् । अहंकारोपादानत्वे सति तस्या- न्तरारम्भकत्वं द्वितीयं लक्षणम् । तत्तनिर्विशेषगु- णवत्वं तत्तन्मात्रलक्षणम् । तानि च पञ्च शब्दतन्मानं स्पर्शतन्मानं रूपतन्मानं रसतम्मान गन्धतन्मानं चेनि । शान्तघोरमूढाः पञ्चस्वपि विशेषाः शब्दत्वस्पर्शत्वादि- व्याप्पा जातिविशेषा एव । शब्दे तु उदात्तानुदात्तस्व- रिताः निषादर्षभगान्धारषड्जमध्यमधैवताः पञ्चमश्चेति स्वरः । स्पर्शे शीतोष्णत्वे । रूपे शुक्लत्वादयो विशेषाः । ते च श्वेतपातरक्तश्यामहरितकपिशाः । रसे मधुरत्वादयो विशेपास्ते च मधुरतिक्तकषायकवलक्षाराः पडूसाः । गन्ध सुरभित्वासुरभित्वे । एतैर्विशेषै रहिता अविशे. पास्तद्वान्त द्रव्याणि तन्मात्राः । तेषां पर्यायाः सांख्पसंग्रहे तन्मात्राणि तमोविग्रहाः सूक्ष्मविग्रहाः सूक्ष्मभूनानि अविशेपा इति ॥ इति पञ्च तन्मात्राः ॥ एवमष्टौ प्रकृतयो व्याख्याताः ॥ पोडशविकारा इति द्वितीयं सूत्रम् । एकाद. शेन्द्रियाणि पञ्चमहाभूतानि च एते पोडश विकाराः । तत श्रोत्रत्वक्चक्षुर्जिाघ्राणानि स्वस्वविषयकबुद्धि- जनकत्वात् पञ्च बुढीन्द्रियाणि । वाक्पाणिपादपायूप- स्थानि स्वस्वकर्मकरणात् पञ्च कर्मेन्द्रियाणि । तत्र उच्चारणं वाचः हस्तयोरादानं पादयोर्गतिः पायोरुत्सर्गः उपस्थस्यानन्दः । सर्वसहायत्वादुभयात्मकं मनः । एतान्येकादशेन्द्रियाणि । तत्त्वान्तरानारम्भकत्वे सति अहंकारोपादानत्वमित्येक(१) लक्षणम् । अहंकारो- पादानकत्वे सति शरीरसंयुक्त क्रियाकरणमतीन्द्रियमि- न्द्रियमिति द्वितीयम् । अथ पर्यायाः इन्द्रियाणि करणानि निपातनानि(२) वैकारिकाणि तैजसानि । इतीन्द्रियनिरूपणम् ॥ अथ महाभूतानि । पृथिव्यप्तेजोपाय्याकाशमिति । (१) अहवारमात्रोपादानकायलिन्द्रियत्यमित्येक-पा० २ पु०। (२) नियंतानि-पा० १ पु०।
तत्वयांपादीपनम् । सविशेषशब्दादिमत्त्वं महाभूतत्वमित्येकं लक्षणम् । तत्त्वान्तरानारम्भकले सत्सारम्भकत्वं द्वितीयं ल- क्षणम् । सविशेषशब्दगुणवत्त्वमाकाशस्य(१) लक्ष- णम् । सविशेषशब्दस्पर्शवत्वं वायोर्लक्षणम् । सविशेष. शब्दपर्शरूपबत्त्वं तेजसः । सविशेषशब्दस्पर्शरूपरस- वत्यमपाम् । सविशेषशब्दस्पर्शरूपरसगन्धवत्त्वं पृथि- व्याः । एतानि विशेषलक्षणानि । एतानि पञ्च महा- भूतानि परस्परोपकारीणि । अथामीषां पर्यायाः । भू- तानि विकारा विशेषा आकृतयः तमोविग्रहाः शान्ता घोरा इति षोडशविकारा व्याख्याताः । पुरुष इति तृतीयं सूत्रम् । अनादिः सूक्ष्मधेतनः सर्वगतः निर्गुणः कूटस्थो नित्यो द्रष्टा भोक्ता क्षेत्रवित् अमनः प्रसवधर्मा चेति स्वरूपम् । कूटस्थनित्य इत्येकं लक्षणम् । मुख्यभोक्तृत्वमित्यपरं लक्षणम् । चिसाक्षित्वमिति तृतीयं लक्षणम् । अथ पर्या- या: पुरुष आत्मा पुमान् पुद्गलजन्तुः जीवः क्षेतज्ञा नरः कविः ब्रह्म अक्षर प्राणः ज्ञः यः का से एक इति । एवमेतानि पञ्चविंशतितत्त्वानि एत- (१) गुणकत्वमाकाशस्य-पा० पुणे मूढा इति ।
सांख्यसंग्रहे ज्ज्ञानात् कृतकृत्यो भवति । तथा चोक्तं पञ्चशिखेन प्रमाणवाक्यम्। पञ्चविंशतितत्त्वज्ञो यत्न कुत्राश्रमे स्थितः। जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ स च पुरुषो नाना सुखदुःखमोहजन्ममरणबन्ध- मोक्षव्यवस्थातः जन्मादिव्यवस्थातः पुरुषबहुत्वमिति सांख्यमवचनसूत्रात् । यद्येकः पुरुषः स्यादेकस्मिन् सुखिते सर्वे सुखिताः स्युः एवं सर्वत्र एवं पुरुषबहुत्वं सिद्धम् । एवं तावत् साख्याचार्याः कपिलासुरिपञ्चशिखपतञ्जलि- प्रभृतयो यस्मात् परं नापरमस्ति किञ्चिदिति न्यायवैशे- पिकाच बहून् पुरुषानात्मत्वेन वदन्ति । औपनिषदाश्चा- चार्या हरिहरहिरण्यगर्भव्यासादयः एभ्योऽतिरिक्तमेकमेव नित्येश्वरं सर्वेषामात्मानं वदन्ति। कस्मादेवं पुरुष एवेद सर्वमिति। तदेवाग्निस्तदादित्य इति । तदक्षरं तहि वरेण्यं यस्मात् परं नापरमस्ति किश्चित् स हि सर्वेषु भूतेषु स्था- वरेषु चरेषु च वसत्सेको महानात्मा येन सर्वमिदं ततम् । ब्राह्मणे कृमिकीटेषु श्वपाके गवि हस्तिनि । पशुगोदेशमशके रूपं पश्यन्ति सूरयः ॥ एकमेव यथा सूत्रं सुवर्णे वर्चते पुनः । मुक्तामणिप्रयालेषु मृण्मये रजते तथा ।
सत्ययाथार्षदीपनम् । तहत् पशुमनुष्येषु तहद्धस्तिमृगादिषु । एकोऽयमात्मा विज्ञेयः सर्वत्रैव व्यवस्थितः ।। इत्यादि प्रमाणेभ्यः । सांख्यास्तु आदिपुरुपवि. पयतया लयावशिष्टनिर्विशेषचिन्मात्र विषयतया वा एता- नि श्रुतिवाक्यानि योजयन्ति । इति पुरुषनिरूपणम् । एवं पञ्चविंशतितत्त्वानि व्याख्यानानि । सांख्यकारिका च । मूलप्रकृतिरविकृति- महदायाः प्रकृतिविकृतयः सप्त । पोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति । इदानीं प्रथमसूत्रेणैत्र गुणात्मकप्रकृतेरुद्दिष्टत्वेऽपि गुणानामवान्तरविभागं तहांश्च विवेचयितुं वक्ष्यमाण- सञ्चरप्रतिसञ्चरोपोधानसङ्गत्या(१)च सूत्रं प्रवर्चते वैगुण्यमिति चतुर्थ सूत्रम् । सत्वरजस्तमासि त्रयो गुणाः तेषां समाहारखिगुणं त्रिगुणमेव त्रै- गुष्पम् । तत्र सत्वं नाम प्रकाशलाघवप्रसन्न. ताभिष्वङ्गप्रीतितितिक्षादिलक्षणमनन्तभेदम् (१) चिन्ता प्रकृतसियामुपोद्धात चिदुर्बुधा इति । समास- सांख्यसंग्रद्दे तः सुसात्मकम् । रजो नाम शोकतापस्वेदस्तम्भोद्वेगो- न्मादादिलक्षणमनन्तभेदं समासतो दुःखात्मकम् । तमो नाम अदानापुण्यदैन्यगौरवालस्यनिद्राप्रमादादिलक्षण- मनन्तभेदं समासतो मोहात्मकम् । एतेपो लक्षणानि । सत्त्वं प्रकाशकं विद्याद्रजो विद्यात् प्रवर्तकम् । तमो लयात्मकं विद्यात्रैगुण्यं नाम संज्ञिनम् ॥ एते त्रयो गुणाः सर्वे उत्पत्तिस्थितिलयहेतवः ।। इति त्रैगुण्यं व्याख्यातम् । इदानी सगुणनिर्गुणश्रुतिविषयोपपत्त्यर्थ सर्गा- दावुत्पन्नं स्वयम्भुवं प्रलयावशिष्टनिर्विशेषचित्सामा- न्यं च दर्शयितुं सृष्टिप्रलययोः सूत्रद्वयं प्रवर्तते । सञ्चरः प्रतिसञ्चरः । सञ्चरः सृष्टिः प्रति- । तत्र . सृष्टिर्यथा । अव्यक्ता- ख्या प्रकृतिः प्रवृत्तिस्वभावा स्वतन्त्रा च गादौ स्वयमेव क्षुब्धा सती भाविनारायणबीजभूता पूर्व- कल्पे स्वयम्भूपालकेन नामकेन व्यक्तेन नारायण- पुरुषेण संयुज्यते ततश्च सजातीयैरन्यैः प्रकृत्यशैयूंना. धिकभावेन मिलिता सती चेतनाचेतनात्मकं महत्त. खमारभने । ननु पुरुपस्य प्रकृतिसंयोगित्वे असं. योगो ह्ययं पुरुष इति श्रुतिविरोध इति चेन्न वि. सञ्चरः प्रलयः सरवयाथार्यदीपनम् । कारहेतुसंयोगस्यैव सङ्गशब्दार्थलात अन्यथा श्रुति- स्मृतिषु जलसंयोगिनोऽपि पद्मपत्तस्याऽसङ्गतादृष्टान्त- ता न स्यात् । तत्र महत्तत्वस्य स्वरूपेण मुख्योत्पत्तिः चेतनस्प तु अभिव्यक्तिरूपा कार्यता । योगमाप्ये व्या- सधृतवाक्यानवधा कार्यता। उत्पत्तिस्थित्पभिव्यक्तिविकारप्रत्ययाप्तयः । वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति । एवमादिशक्तिरपि चेतनविशेषो महत्तत्तकारणी- भूतगुणत्रयसम्बन्धात स्वयम्भवाप्यांदावुत्पद्यते । उत्पत्ती च प्रमाणं प्रयोगसारे । तस्माद्विनिर्गता नित्या सर्वगा विष्णुसम्भवा ॥ इति । वायवीयसंहितायां च । शिवेच्छया परा शक्तिः शिवतत्वैकतां गता। ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ इति । पश्चराते ऽपि । एवमालोक्य तां शक्ति सचिदानन्दरूपिणीम् । समस्ततत्त्वसन्धामस्फूर्त्यधिष्ठानरूपिणीम् ।। व्यक्तां करोति नित्यांतां प्रकृति परमः पुमान् ॥ इति। प्रादुरासीजगन्माता वेदमाता सरस्वती । गुणत्रयमयी शक्तिर्मूलप्रकृतिसज्ञिता ।।
सांख्यसंग्रह तस्यामहे। समुत्पास्तत्त्रस्तर्महदादिभिरित्यादिशि- अवाक्याच । सैव प्रकृत्यधिष्ठात्री देवता महाल. मी अम्घा भवानी हैमवती दुर्गा इत्यादिपदैर- भिलप्यते पुराणादिपु । सैव च लीलाविग्रहैरादिपुरुषेण मिलिता सती सृष्टिं पालयति । तदुक्तं शङ्कराचार्यः । शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । इति । एवं सर्वतत्त्वानां तत्तद्देवतानां च सहैवोत्प- त्तिया । उत्पत्तिक्रमस्तु निरूपणक्रमणैव । एतस्मा- न्महतो गुणान्तरसंबलितात् त्रिविधोऽहङ्कार उत्पद्यने चेतनाचेतनात्मकः वैकारिको राजसस्तामसश्चेति । ततश्चाहङ्कारात सङ्कल्पपूर्वकं देहेन्द्रियाणि पञ्च तन्मा- त्राणि चोत्पद्यन्ते । स्वयम्भुव इन्द्रियाणि देवनारूपाणि वैकारिकात व्यष्टीन्द्रियाणि च तैजसात् तेचिन्द्रियेवादी मन उत्पद्यते। शब्दरागाच्छोत्रमस्य जायते भावितात्मनः । रूपरागात तथा चक्षुर्घाणं गन्धजिघृक्षया ।। इत्यादिना मोक्षधर्मादौ श्रोत्रादीनां मनोवृत्तिरा- गादिकार्यत्वश्रवणात् । इन्द्रियतन्मात्रयोश्च कार्यकारण- भावस्याभावात् क्रमनियमो नास्ति । तत्रेन्द्रियेषु ना- तस्वयापार्श्वदीपनम् । रत्सवान्तरकार्यकारणभावः प्रमाणाभावात् । तन्मा- त्रेषु त्वस्ति स यथा अहंकाराच्छन्दतन्मानं तस्मादह- कारोत्पन्नाच्छन्दतन्मात्रादहंकारसहितात् स्पर्शतन्मात्रं शब्दरपर्शोभयगुणकम् । एवं क्रमेणैकैकगुणवृद्धया तन्मात्रत्रयमुत्पद्यते । ततश्च तन्मात्रेभ्यः पञ्च महा- भूतानि जायन्ते । तत्राहङ्कारात् पञ्चतन्मात्राणां तदहा- रा पञ्चमहाभूतानां चोत्पत्ती पुराणे क्रम उक्तः स यथा भूतादिस्तु विकुणः शब्दमात्रं ससर्ज हि । आकाशं सुपिरं तस्मादुत्पन्न शब्दलक्षणम् ॥ आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज हि । वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणो मतः ॥ इत्यादिक्रमेणेति । नन्वेवमाकाशादिभूतचतुष्टयस्या- पि तत्वान्तरप्रकृत्यापत्त्या केवलविकृतित्वाप्टप्रकृति- खसिद्धान्तक्षतिरिति चेन्न आकाशातीनां स्पर्शादि- तन्मात्रेयहंकारोपष्टम्भमात्रेण कारणत्वस्य पुराणे- पूक्तत्वादिति । एवं त्रयोविंशतितत्त्वानां सृष्टिः । तेषु पञ्चमहाभूतानि वर्जयित्वाहंकारं च बुद्धौ प्रवेश्य सप्तदशकं लिङ्गशरीरसझं भवति । बहेरिन्धनबदा- स्मनोऽभिव्यक्तिस्थानलात् । तच्च सर्वपुरुषाणां स्व- स्वबीजभूतप्रकृतिसंयोगात् सर्गादावुत्पद्य प्राकृतप्रलय- सांख्यमंग्रहे ६७ पर्यन्तं तिष्ठति । तेनैव चेहलोकारलोकयोर्जीवाना संसरणं भवति । प्राणश्च बुद्वेरेव वृत्तिभेद इत्यतो लिङ्ग- शरीरे पृथक् न निर्दिश्यते बुद्धावेवान्तर्भावात् । तस्य च लिङ्गशरीरस्य परमसूक्ष्माणि पञ्च महाभूतानि तेजः- प्रधानान्याश्रयः चित्रादिवत आश्रयं विना लोकान्तरग- मनासम्भवात् । तदुक्तं सप्तत्याम् । चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया । तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥ इति । इदं च लिङ्गशरीरमादौ स्वयम्भुवः समष्टिचे- तनस्य उपाधिभूतमेकमेव समष्टिरूपं जायते ततश्च व्य- टिजीवानामप्युपाधिभूतानि व्यष्टिलिङ्गशरीराणि तदं शभूतानि ततो विभज्यन्ते पितुर्लिङ्गशरीरात् पुतलिङ्ग- शरीरवत् । तदुक्तं सांख्यप्रवचनसूत्रेण । व्यक्तिभेद: कर्मविशेषादिति । मनुनाप्युक्तम् । तेषां त्ववयवान् सूक्ष्मान् पण्णामप्यमितौजसाम् । सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ इति । पण्णामिति पडिन्द्रियं समस्तलिङ्गशरीरोपलक्ष- कम् । तथा चायमर्थः । स्वयम्भूः स्वलिङ्गशरी- रावयवान् सूक्ष्मानल्यान् आत्ममात्रासु ससंशचेतनेषु संयोज्य सर्वप्राणिनः ससर्जेति । इति लिङ्गशरीरनिरूपणम् ।
तत्वोधार्यदीपनम् । अथ स्थूलशरीरोत्पत्तिः । दशगुणितमहत्तत्त्वमध्ये ऽहंकारस्तस्मिन्नपि दशगुणे व्योम तथैव व्योम्न्यपि वायुः वायावपि तेजः तेजसि दशगुणे जलं तथैव जलस्यापि द. दशगुणस्य मध्ये पृथिवी समुत्पद्यते सैव स्थूलशरीरस्य वीजमण्डरूपण परिणमते । तस्यापि दशगुणितस्याण्ड- स्य पृथिव्यावरणस्य मध्ये चतुर्दशभुननात्मकं स्वय- म्भुवः स्थूलशरीरं तत्सकदपावोत्पद्यते । तेनैव शरी- रेण सयम्भूनारायण इत्युच्यते । स्वयम्भुवं प्रकृत्य मनुनाऽप्युक्तम् । - सोऽभिध्याय शरीरात् स्वात् सिसृक्षविविधाः प्रजाः। अप एव ससर्जादौ तासु बीजमवासृजत् ॥ तदण्डमभव द्वैमं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ स वै शरीरी प्रथमः स वै पुरुप उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्व तेन नारायणः स्मृतः ।। इत्यादिनेति । तत एवादिपुरुषाहयष्टिपुरुषाणां विभागात् अन्ते च तत्रैव लयात स एवैक आत्मति श्रुतिस्मृत्योर्व्यरहियते । ततश्च स नारायणो विराटशरी- सांख्यसंग्रहे री पृथिवीरूपस्वनाभिकमलकर्णिकास्थानीयस्य सुमेरो- रुपरि चतुर्मुखमवान्तरब्रह्माणं सृष्ट्वा तद्द्वारान्यानपि व्यष्टिशरीरिणः स्थावरान्तान् ससर्ज । तथा च स्मर्यते । तच्छरीरसमुत्पन्नैः कार्यस्तैः करणैः सह । क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः॥इति । यत्तु शेपशायिनो नारायणस्य नाभिकमलश्रोत्रच- क्षुरादिभ्यश्चतुर्मुखस्याविर्भावः श्रूयते । तदैनन्दिनस- गेंव हि कल्पभेदेन मन्तव्यम् । दैनन्दिनप्रलये- व हि नारायणशरीरे प्रविश्यैकीभूय सुप्तानां देवानां चतुर्मुखादिक्रमेणाविर्भावः शेषशायिनः सकाशाद घ- टते न त्वादिसर्गेषु । दैनन्दिनप्रलय एव नारायणस्य लीलाविग्रहेण शयनादिति । अस्यां सृष्टौ महत्तत्त्वस्य बुद्धिपूर्वकः त्रिगुणात्मकः प्रथमः सर्गः। तदनन्तरं तदु- पाधिकस्वयम्भुवः सकाशाद् बुद्धिपूर्वकः सर्गः । स्वयम्भु- वोङ्गदेवताः स्वपम्भूश्च स्थूलदेहनैरपेक्ष्येण ज्ञानवत्त्वात् विदेहा देवा इत्युच्यन्ते । तासु स्वयम्भूरेवेश्वरः नित्येश्वरा- नङ्गीकारात् । देवत्ताश्वेश्वरकोटयः अविद्यानावृतोपाधि- कत्वात् । अविद्यावृतोपाधिकाश्च जीवकोटय एव । अविद्यावृतानावृतोपाधिकवे एव जीवेश्वरविभाजके । तदुक्तं स ई यहशे माया स जीयो यस्तयादित इति ।
७२ तत्ययांधार्षदीपनम् । रमम् । आदेयमधिभूतम् । इन्द्रस्तत्राधिदैवतम् । पादावध्यात्मम् । गन्तव्यमविभूतम् । विष्णुस्तता- धिदेवतम् । पायुरध्यात्मम् । उत्सृष्टव्यमधिभूतम् । गि- तस्तत्राधिदेवतम् । उपस्थमध्यात्मम् । आनन्दयि- तव्यमधिभूतम् । प्रजापतिस्तत्राधिदेवतमिति त्रयोद- मावि, वितयमपि । तत्रात्मानं सहातमधिकृत्य वर्तते तदध्यात्म तयोदशकरणवर्ग: । भूतानि अधिकृत्य व- तते तदधिभूतं विषणवर्गः । देवतामधिकृत्य वर्तत इ- त्यधिक्ष्यतम् करणाभिमानिदेवतावर्ग: एतत्सहि- सेश्वरानुचिन्तितस्यान्तकालीनभगवत्स्मृत्या परमगतिः फलम् । तस्मादेशत्तिकमवश्यं ज्ञातव्यमिति भावः । रागतत्यानां ज्ञानफलं चोक्तं पश्चशिखधृतवाक्येन । तस्यानि यो वेदयते यथावद् गुणस्वरूरायधिदेवतं च। विमृक्तपापा गोपराहो गुणारत भुमो न गुणैः स भुज्यते ।। तत्यानीति तान्त्रिकी संज्ञा । तदर्थश्चात्मानात्मवि- अकासियोग्यनुयोगितस्तत्पदार्थाः तेपां भावस्तत्त- सदाशिनिमिचानि पुरुषत्वप्रकृतिलादीनि पञ्च- शितिजातया धर्मधर्थभेदात् व्यक्तयोपि तत्त्वानी- सांख्पसंह ७३ स्युच्यन्ते । वेदयते वेत्तीत्यर्थः । गुणाः सत्वरजस्तमां- सि तान्येव स्वरूपाणि तात्त्विकरूपाणि येषां तानि स्वरूपाणि अधिदैवतच अध्यात्माधिभूतयोरुपलक्षणम् । गुणांस्तु भुङ्क्ते गुणारतस्य वशे भवन्तीति । न गुणैः स मुज्यते गुणवशो न भवतीत्यर्थः ।। इति तत्स्वपादः प्रथमः ।। इदानी द्वितीयः प्रकीर्णकपाद आरभ्यते । तत्र पञ्चस्रोतोम्बू पञ्चयोन्युप्रचक्रां पञ्चप्राणोनिं पञ्चवुद्धया- दिमूलाम् पञ्चावर्ती पञ्चदुःखौघवेगां पञ्चाश दां पश्च- पर्वामधीम इत्यादिश्रुत्यर्थोपपत्तये पञ्चकानि निरूप- यति सूत्रजानेन ॥ पञ्चाभियुद्धयः॥१०॥अभिबुद्विरभिमान इच्छा क- व्यता क्रिपेति पञ्चाभिवृद्धिसङ्गिताः । तत्राभिधुद्धिर्नाम अभिमुखी बुद्धिः इदमवश्यं करणीयमितिरूपा बुद्धि- वृत्तिः । अभिमान वाहं करोमानिवृत्तिः । इच्छा घा- छा सङ्कल्पो मानसी वृत्तिः । कर्त्तव्यता ज्ञानेन्द्रि- याणा शब्दादिविषया वृत्तिः । क्रिया वचनादिलक्ष. णा कर्मेन्द्रिपाणां वृचिरिति । अभियुद्धयो व्याख्याताः ॥ पञ्च कर्मयोनयः ॥११॥ कर्मजन्याः कमजनकाश्च ७८ सत्ययापार्षदीपनम् । भवति तदज्ञानम् । यदा आध्यात्मिकेन दुःखेन. चाभिभूयते तदज्ञानप्रमादम् । एवमाधिभौतिकदुःखे- नाभिभूयते तत्प्रमोदमानम् । एवमेवाधिदैविकदुःखेना- भिभवः प्रमुदितमिति । सुहृदुपदिष्टेप्यात्मनि अनिश्चय- युद्धिरनर्थकम् । स्वदानमनर्थकं ज्ञात्वा दानपात्रस्य गुरुणि दुःखे जाते प्रमोदः प्रमुदिता। एवमष्टौ सिद्धिविपर्यया व्याख्याता । एवं सप्तदश बुद्धिवधाः ।। नवधा तुष्टिरुच्यते । तत्र कारिका । आध्यालिसक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । घाह्या विषयोपरमात् पञ्च नव तुष्टयोभिहिताः ॥ कुतश्चित सर्वाकारेण परिणममाना प्रकृतिरेव ज्ञानं करिष्यतीति श्रुत्वा या तुष्टिः सा प्रकृत्याख्या तस्या अस्तेति संज्ञा । प्रव्रज्ययैव ज्ञानं भविष्यतीति श्रुत्वा प्रव्रज्योपादानेन या तुष्टिः सा सलिलसंज्ञा । कालेनैत्र ज्ञानं भविष्यतीति श्रुत्वा प्रवज्यया बहुकालेन या तुष्टिः सा आयेत्युच्यते । भाग्येनैव ज्ञानं भविष्पति मदालसा बालकानामिवेति कुतश्चिच्छुत्वा या तुष्टिः सा वृष्टिरितसंज्ञा । एताश्चतस्त्र आध्यात्मिक्यः । अथ वाह्याः पञ्च शब्दादिविषयेष्वर्जनरक्षणक्षयभोगहिंसादि- दोषदर्शनाया निवृत्चितुष्टयस्तास्वेका तुष्टिः अपारमुच्य- सारपसंग्रहे सा . ते द्वितीया सुपारं तृतीया पारम् अनुत्तमाम्भसिका चतुर्थी उत्तमाम्भः पञ्चमी इति नव तुष्टयो व्याख्याताः ॥ अथाष्टौ सिद्धयः । तत्र कारिका । कहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः । पानं च सिद्धयोऽटौ सिद्धेः पूर्वोकुशस्त्रिविधः ॥ अस्यार्थः । भगवत्कृपावशाहनेन तकणव ज्ञानमुत्पद्यते सा प्रथमा सिद्धिस्तारेत्युच्यते शब्दश्ररणमात्रादेव यद ज्ञानं द्वितीया सुतारा । शिष्यभावेनाध्ययनेन यद् नं सा तृतीया तारतति । यदाध्यामिकदुःखस्याए- नोदकं ज्ञानं सा चतुर्थी प्रमोदेति । यदाधिभौतिक- दुःखापनोदकं ज्ञान सा पञ्चमी प्रमुदितेति । यदाधि- दैविकदुःखनाशकं ज्ञानं सा पष्ठी प्रमोदमाना । यत् सहृत्संसर्गितया ज्ञानं सा सप्तमी रम्यकेति । यहानेन परितोषिताद गुरोर्ज्ञानं साष्टमी सदामुदितेति । आ. सु प्रथमास्तिस्रो दुःखविघातात्मकानां मुख्यानां तिस्तृणां सिद्धीनामङ्कुश आकर्षक: साधक इति या- वत् सिद्धयस्त्वेता एव । अणिमाद्यास्तु ज्ञानप्रतिब- न्धकत्वादसिद्धय एवेत्याचार्याशयः । एवमष्टौ सिद्ध- यो व्याख्याताः ॥
सत्ययाथायदीपनम् । इदानी सांख्यशास्त्रस्य पष्टितन्त्रत्वप्रतिपादनाय पञ्चाशत्स सिद्धिसर्गेपु दशान्यान् पूरयति सूत्रेण ! दश भूलिकार्थाः ।। १८ ॥ अस्तित्वमेकत्वमथार्थवत्त्वं परार्थमन्यत्लमकर्तृता च । योगो वियोगो वयः पुमांसः स्थितिः शरीरस्य च शेपवृत्तिः ।। मूलयोः प्रकृतिपुरुषयोरा धर्मा मूलिकाः । तत्रास्तित्वं द्वयोर्धमः । एकत्व सर्गभेदेन ना- नात्वाभावरूपं प्रकृतः । अर्थवत्वं पुरुषार्थत्वं पु- रुषस्यैव । पारार्य च प्रकृतेरेव । अन्यत्वं जडवर्गाद् भिनत्वं पुरुषस्यैव । अकर्तृता च पुरुष- स्यैव । योगो वियोगश्च द्वयोः । बहुत्वं पुरुषस्यैव । जीवन्मुक्तस्य संस्कारमात्रेण चक्रभ्रमिवच्छरीरस्य या स्थितिः सा शेषवृत्तिः पुरुषस्य । इति दशपदार्थाः प्र. सयसगास्याः पञ्चाशत् पूर्वोक्ताः एते च दश मूलिकाः । एवं घष्टिपदार्था षष्टितन्त्रे उक्ताः ।। इदानी पञ्चतन्मात्रसर्ग सूत्रयति । अनुग्रहस- गैः ॥ १९॥ पञ्चतन्मात्रा अनुगृह्योपादानकारण- त्वेन स्वीकृत्य सर्गः सोऽनुग्रंहसर्गः । यः सांख्यसंग्रह पञ्चानां ब्राह्मणानां सचतुर्मुखसनकादीनां स्वस्थ लीलाविग्रहे सर्गो भक्तानामनुग्रहार्थ सोऽप्यनु- ग्रहसर्गः पञ्चतन्मात्रेभ्य एव ॥ इदानीं भूतमर्गमाह । चतुर्दशविधो भूत- सर्गः ॥ २० ॥ ब्राह्मप्राजापत्यसौम्यैन्द्रगान्धर्वयक्षरा- क्षसपैशाचा इत्यष्टौ देवसर्गाः । पशुपक्षिमृगसरी- सृपस्थावरा इति पञ्चविधास्तैर्यग्योनयः । मानुष- क्षेकविधी ब्राह्मणादिश्चाण्डालान्त इति । गवा- दिमूषकान्ताः पशवः | गरुडादिमशकान्ता पक्षिणः । सिंहादिशृगालान्ता मृगाः । शेषादिदुन्दुभान्ताः सरी- सृपाः। पर्वतादितृणान्ताः स्थायरा इति । अत्र कारिका। अष्टविधो दैवस्तैर्यग्योनश्च पञ्चधा भवति । मानपकविधः समासतो भौतिकः सर्गः ॥ इति एतत्संसारमण्डलम् अन्यानप्यनुक्तान् सर्गानुद्दिश- ति सूत्रत्रमेण । त्रिविधो बन्धः ॥२१॥ त्रिविधो मोक्षः ॥ २२ ॥ त्रिविधं प्रमाणम् ॥ २३ ॥ प्राकृतिको वैक- तिको दाक्षिण इति त्रयो बन्धाः । प्राकृतीष्टप्रकृतिष्य- भिमानरूपः । द्वितीयस्तु प्रबजितानामपि शब्दादिषु मनसः सङ्गः । तृतीयस्तु गृहस्थादीनां कामोपहतचेतसाँ। दक्षिणां ददतां दक्षिणाबन्धः । उक्तं च पक्षशिखाचार्यः ।। - ८२ । एतत्त्रयं तत्वयाथार्यदीपनम् । प्राकृतेन तु बन्धेन तथा वैाकरिकेण च । दक्षिणाभिस्तृतीयेन बद्धो जन्तुर्विवर्तते ॥ इति मोक्षत्रैविध्यं चोक्तम् । आदौ त मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् । कृच्छ्रक्षयात तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ।। ज्ञानोद्रेकादविद्यानिवृत्तिरूप एकः रागसंक्षया- दिन्द्रियोपशमरूपो हिनीयः कृच्छ्रक्षयाद्धर्माधर्म:- करणरूपाद्धर्माधर्मानुत्पादरूपस्तृतीयः । ज्ञानहारभूतत्वाद गौणं मोक्षत्रयम्। आत्यन्तिक- त्रिविधदुःखनिवृत्तिरेत्र मुख्यो मोक्षः । तदुक्तं गोतमेन सूत्रेण दुःखजन्मप्रवृत्तिदोपमिथ्याज्ञानानामुत्तरोत्तरापा- ये नदनन्तराभावादपवर्ग इति । उक्तानां पदार्थानां सिद्ध्यर्थं प्रमाणान्याह मा- नाधीनत्वान्मयसिद्धेः । त्रिविधं प्रमाणमिति । प्र. त्यक्षानुमानशब्दा इति । तत्रानधिगतयथार्थज्ञानं प्रमा तत्करणं प्रमाणमिति सामान्यलक्षणमेकम् । अर्थाकारानधिगतयथार्थान्तःकरणवृत्तिरिति द्वितीयम् । तत प्रत्यक्षमिन्द्रियजन्यमनधिगतयथार्थज्ञानं प्रत्यक्ष- प्रमा । तत्करणं प्रत्यक्षप्रमाणम् । इन्द्रियजन्यानधि- गतयथार्थान्तःकरणवृत्तिरिति द्वितीयम् । यथार्थलिङ्ग- सांख्यमंग्रहे ज्ञानाजायमानं ज्ञानमनुमितिस्तत्करणमनुमानमित्ये- कम्। लिङ्गज्ञानाजायमाना साध्यविशिष्ट पक्षाकारान्तःक- रणवृत्तिरिति हितीयम् । आप्तवचनजन्यज्ञानं शब्दप्रमा तत्करणं शब्दप्रमाणामेत्येकं लक्षणम् | आप्तवच- नजन्या पदार्थसंसर्गाकारान्तःकरणवृतिरिति द्वितीयं शब्दप्रमाणलक्षणम् । आप्तस्तु स्वकर्मण्यभियुक्तो रागद्वैपरहिनो ज्ञान- वान् शीलसम्पन्नः । इदंत ज्ञानापदेष्टुरेवाप्तलक्षणम् वस्तुतो यथाभूतार्थस्योपदेष्टा पुरुष इत्येव ।। उक्तपदार्थेषु केचित्प्रत्यक्षसिद्वाः केचिदनुमान- सिद्धाः । उभाभ्यां यन्न सिहं तच्छब्दप्रमाणेन सिध्यति यथेन्द्रो देवानां राजा उत्तराः कुरवः सोवर्णो मेरुः स्वर्ग- प्सरसः एते पदार्था न प्रत्यक्षानुमानगम्याः किन्तु शब्दैकगम्याः। अत्र चैपा ज्ञानप्रक्रिया। अन्तःकरणस्येन्द्रियाणा चाविभक्तः सङ्कोचविकासशाल्पग्रभागो वृत्तिरभ्युपेयत्ते भोगगुणाभ्यां तत्त्वान्तरं वृत्तिः सम्बन्धार्थ सर्पतीति सां- ख्यप्रवचनसूत्रात् । भागो विभक्तोवयवस्तस्माद्गुणाच तत्त्वान्तरं पदार्थान्तरमविभक्तोऽवयत्र इत्यर्थः । तथा चा- न्तःकरणवृत्तिरीिन्द्रयवृत्तिहाराणसीन्नकटा भवति तत सत्ययाधाथ्यदीपनम् । इन्द्रियवृत्या सहाकारा परिणमते सा चााकारा वृत्ति- गंणरूपा सर्वात्मनां विभुत्वेवि स्वस्वामिन्येवात्मनि प्रति. बिम्बते नान्यत्र अबादिस्वस्वामिभावस्य प्रतिबिम्बनिया- मकत्वात् अन्यथातिप्रसङ्गात् प्रतिविम्बश्वाधिष्ठानगताया बुद्धेर्विकारः परिणामः स्वत्वं च स्वामिप्रकाशितवृत्ति- जन्यसंस्कारवत्त्वम् । स्वामित्वं च स्वनिष्ठसंस्कारजनक- वृत्तिप्रकाशकत्वं सा च वृत्तिरात्मनि स्थिता सती अर्था- कारा आत्माकारा च स्वसमानाकारं परिणामान्तरं धत्ते स एवात्मान वृत्तिप्रतिविम्बी विषयताख्यः सम्बन्ध इति तदच्छिन्नं चैतन्यं प्रत्यक्षप्रमा घटमहं जानामी- त्याकारात्मविषयिणी तदुक्तम् ॥ अदृश्यो दृश्यते राहुर्गृहीतेन यधेन्दुना । तथानभवमात्रात्मा दृश्पेनात्मावलोक्यते ॥ दृश्येन वृत्त्या । इयं च प्रत्यक्षा वृत्तिर्विषयदेशे जायमाना तत्रैवात्मनि प्रतिबिम्बते आत्मनो विभुत्वात् पन चेन्द्रियदार विना मनः स्ववासनावशाधनार्थेन सम्बयते तत्र तदाकारा वृत्तिानसं प्रत्यक्षम् । उक्तं च शरीरलयमुत्सृज्य यत्र चिचविहङ्गमः । स्ववासनावशाधाति तत्रैवात्मानुभूयते ॥ इति वासिष्ठे।
सांख्यसंग्रहे इति प्रत्यक्षप्रक्रिया ॥ एवं व्याप्तिप्रमाजन्यसाध्यावशिष्टपक्षाकारा वृत्तिर- नुमानम् तत्प्रतिबिम्बावच्छिन्नचैतन्यमनुमितिः । इत्यनु- मानप्रक्रिया ॥ यथार्थपदस्मृतिजन्या पदार्थसंसर्गाकारा वृत्तिः श- ब्दप्रमाणम् तत्प्रतिविम्बावच्छिन्नचैतन्यं शाब्दी प्रमा इ प्रमाणहयमान्तरमेव । अपरोक्षत्वं परोक्षत्वं स्मृतित्वं संशयत्वं विपर्ययत्वं प्रमाल्लमप्रमात्वं च सबै वृत्तिधर्मा एव तत्प्रतिविम्बरशाचैतन्येप्युषचर्यन्ते 'तत्रापरोक्षत्वपरोक्षत्वस्मृतिलानि जातयः संशयच भा- समानविरोधोमयकोटिस्पृग्वृत्तिः । यत्र यन्नास्ति तत्र तन्निभयो विपर्ययः यथार्थवृत्ति प्रमा अयथार्थवृत्तिर- प्रमा अत्र प्रमात्रादिविभागविषये विज्ञानाचार्याणां कारिका। प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च । प्रमार्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् ॥ प्रतिविम्बितवृत्तीनां विषयो मेय उच्यते । वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात् ॥ साक्षादर्शनरूपं च साक्षिलं सांख्यसूत्रितम् ॥ इति । ज्ञानस्य च जन्यत्वं विनाशित्वमात्मधर्मवं ८६ तत्त्वयाधार्यदीपनम् । च प्रतिविम्बावच्छिन्नत्वेनोपपादनीयम् आत्मरूपस्य ज्ञानस्य नित्यत्वात् । विशिष्टे हि विधिनिषेधौ वि. शेषणमुपसंक्रामतः सति विशेष्ये वाध इति न्यायात् । आधाराधेयभावोऽपि खे खगोदय इनिवदुपपादनीयः वृत्तीनामात्मनि प्रतिविम्बे प्रमाणम् । तस्मिंश्च दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिविम्बन्ति सरसीव तद्रुमाः ।। इति वासिष्ठम् । इति समासतो ज्ञानप्रक्रिया ॥ अत्र शास्त्रेऽनुक्ताः स्वाऽविरोधिनः शास्त्रान्त- रीया अपि पदार्थाः ग्राह्याः सारादानं पट्पदवदिति सांख्यप्रवचनसूत्रात् । सर्वतः सारमादद्यात् पुष्पेभ्य इव पट्पद इति स्मृतेश्च । एने च प्रकृत्यादयः पदार्थाः संहतत्वपदार्थत्वजडत्वप्रतिक्षणपरिणामित्वादिदोषैर्दुष्टत्या- देयास्तेभ्योप्यधिकं हेपमाह । त्रिविधंदुःखमिति ॥२४॥ आध्यात्मिकमाधिभौनि- कमाधिदैविकं चेति। तत्राध्यात्मिक द्विविधं शारीरंमानसं च। तत्र शारीरं वातपित्तश्लेग्मणां वैषम्येणोत्पन्नं ज्यराति. सारादि । कामक्रोधलोमादिजन्यं मानसं मानुपमृगस- पीदिजन्यमाधिभौतिक शीतोष्णवातवृष्टिजन्यमाधिदै- विकम् । अनेन विविधदुःखेनाभिभूतस्य तरति शोक- सांख्यसंग्रहे मात्मविदिति श्रुत्वा आत्मनि जिज्ञासा जायते । यथा तृषितस्य पानीयपिपासा । कृतस्य तत्वनिरूपणस्य पुरुषार्थसम्बन्धं द- शयति । एनसरं याथार्यम् एतज्ज्ञात्या कृतकृत्यः स्यान्न पुनस्त्रिविधदु.खेनाभिभूयते ॥ २५ ॥ एत- द्याथार्थ परं शास्त्रान्तरोत्ताधाथार्यादुत्कृष्टं न्याय- वैशेषिकोक्तयायाथ्यस्याटप्रकृत्यकथनादपूर्णत्वम् इदं तु तरकथनेन पूर्ण श्रुतिसम्मतत्वाञ्च पर सर्वोत्कृष्टमि- त्यर्थः । श्रुतिश्च गोपालतापनीये एकमेवाहितीयं ब्रह्मा- सीत् तस्मादच्यतादव्यक्तमेवाक्षरं तस्मान्महन्महतो- हङ्कारस्ततः पञ्चतन्मात्राणि तेभ्यो भूतानि इनि स. टमेव सांख्ययोगोत्तमहादिक्रमेण सृष्टिः श्रूयत इति । एतज्ज्ञात्वा आत्मानात्मविवेकसाक्षात्कारद्वारा कृत- कृत्यः स्यानिष्प्रयोजनः स्यादित्यर्थः । किं पुनस्ता- योजनं तबाह । न पुनस्त्रिविश्वदुःखनाभिभूयत इति । पूर्वोक्तत्रिविधदुःखेन न युज्यते दु.खात्यन्तनिवृत्ति- रूपो मोक्षो भवतीत्यर्थः । ननु दुःखं तावत् त्रिविधम् अनागतं वर्तमानमतीतं चेति । साख्ययोगवेदान्ता- नां सत्कार्यवादाश्रयणात सर्वमेव कार्यमवस्थालयेण नित्यम् । अनागतो घटो वर्तमानो घटोऽतीतो घट इ. .
. तत्त्वयाधार्यदीपनम् । त्यवस्थात्रयेऽपि घटस्यावस्थाधर्मिणोऽनुगतप्रत्ययात् ।. प्रागभावप्रध्वंसयोश्वानङ्गीकारात् । न च तत्काले कथमभावप्रत्यय इति वाच्यम् वर्तमानप्रतियो- गिकसामयिकात्यन्ताभावेनैव तदुपपत्तेरिति । एवं चानागनातीतदुःखयोरभावेऽपि न पुरुषार्थः भो. ग्यदुःखाभावस्यैव पुरुषार्थत्वात् । वर्तमानदुःखं च भोग्यमपि भोगेनैव नक्ष्यतीति तदभावो न पुरुषा- र्थः पुरुषप्रयत्ननिरपेक्षत्वात् पुरुषप्रयत्नसापेक्षस्यैत्र पुरुषार्थत्वात । तथा च कथं दुःखाभावस्प पुरुषार्थ- त्वमिति चेदुच्यते । अनागतदुःखस्य भोग्यहेतु- तया तदभावस्प च पुरुषकृतिसाध्यतया • पुरुषार्थत्वं दुःखहेतूच्छेदे पुरुषव्यापारात प्रायश्चित्तवदिति । तदुक्तं पतञ्जलिना । हेयं दुःखमनागतं विवेकख्यातिरवित्प्र- वा हानोपाय इति सूत्रद्वयेन । साख्यानां च सर्वात्मनामवैधाभेद, एव त- चमसिवाक्यार्थी नाविभागादिः तदज्ञानस्यैवाभि- माननियतकत्वात् । तद्वाक्यस्य च श्वेतकेतोर- नूचानत्वाभिमाननिवृत्त्यर्थमेव . प्रवृत्तेः तथा च ल- यावशिष्टचिरसामान्यं तत्सदार्थः तदुक्तं विज्ञानाचार्य- परस्मदगुरुभि प्यायश्लोकेन ।
तथा च सांख्यसंग्रहे "एकोऽद्वितीय इनि वेदवचासि पुंसि सर्वाभिमानविनिवर्ननतोस्य मुक्त्यै । वैधर्म्यलक्षणभिता विरहं वदन्ति नाखण्डतां ख इव धर्मशताविरोधात् ॥ इति । प्रकृत्यादिविविक्तसर्वात्मनामवैध. र्यभेदसाक्षात्कारात् कर्तृत्वाभिमाननिवृत्ती तत्कार्य- रागद्वेषधर्माद्यनुत्पादात् पूर्वोत्पन्नकर्मणां(१) चाविद्यारा- गादिसहकार्युच्छेदेन जन्माद्यनारम्भकत्वाहोगेन प्रा. रब्बसमाप्त्यनन्तरं पुनर्जन्माभावेन भोगापवर्ग- समाप्त्या चान्तःकरणस्य नाशेनैव विविधदुःखात्यन्त- निवृत्तिरूपो मोक्षो भवतीति परमकृतकृत्यता । इदं चात्रावधेयम् । गुरूपदेशशास्त्राभ्यामुत्पन्नमपि ज्ञानमपरोक्षत्वायाभ्यसनीयमेव । तेन विनाऽपरोक्षा- विद्यानिवृत्त्यसम्भवात(२) । अपरोक्ष्यभ्रमे हि समा- नविशेष्यकाऽपरोक्ष्यविपरीतनिश्चयस्यैव निवर्तकत्वाव- धारणात् तदुक्तं वासिष्ठे । अपि विज्ञाततत्त्वेन नेत्यभ्यस्यमिदं सदा । न नाममात्रात कतकफलमम्बुप्रसाधकम् ॥ (१)तिक्रमणां-पा० १० (२) मपरोक्षशान विना परोक्ष्याविद्यानिवृत्त्यसम्भयात्-पा०१पु०। १२ M तत्त्वयाधार्यदीपनम् । अन्तर्धान्तविनाशाय शाब्दबोधो न हि क्षमः । न नश्यति तमो राम कृतथा दीपवार्तया ।। इति । एवमभ्यासात् कोमलकण्टकन्यायेन ज्ञाने जाते यो- गरूढ इत्युच्यते योगी अस्मात् पूर्वस्तु युञ्जानः ततः पर- महंसाश्रमेण विक्षेपकाणि कर्माणि सक्त्या ज्ञाननिष्ठापर्य- न्तमभ्यसेत् । सवासनावियोच्छेदो ज्ञाननिष्ठा । ततः स युक्तो जीवन्मुक्तो गुणातीत इति चोच्यते । गुणाभि- मानशून्यत्यमेव गुणातीतत्वं जीवन्मुक्तस्य च लक्षणम् । नोदेति नास्तमायाति सुखदुःखे मुखप्रभा । यथापूर्वस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥ रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तव्योमवदस्वच्छः स जीवन्मुक्त उच्यते ॥ एतावदेव खलु लिङ्गमलिनमः संशान्तसंसृतिचिरभ्रमनिर्वृतस्य । तज्ज्ञस्प यन्गदनकोपविषादमोह- लोभापदामनुदिनं निपुर्ण तनुत्वम् ॥ इति । अन्यच्चान सांस्यविधायांमगदभत्रेधासाधारण- कारणत्वं ज्ञेयम् अन्यथा देवकृतविघ्नयोगध्यसौ(१) भवत्येव यथोक्तं भागयते । (१)यांगना-पा० १.।
सांख्यसंग्रहे येऽन्येऽरविन्दाक्ष विमुक्तमानिन- स्त्वय्यस्तभावादविशुद्धबुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनाहतयुष्मदज्रयः ।। श्रेयाश्रुति भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवलबोधलब्धये । तेपामसौ केशाल एव शिष्यते नान्यद्यथा स्थूलतुपावघातिनाम् ॥ इति । इदानींतनाः केचन वैष्णवा एतादृशवाक्यभगवदभ- क्तिं पुरस्कृत्य सामान्यतो ज्ञानमार्ग खण्डयति ते विद्याविवेकानभिज्ञाः स्थूलमतय एव । नारदीय च सांख्पविद्याधिकारे । मायाप्रवर्तके विष्णौ कृता भक्तिर्दृढा नृणाम् । सुखेन प्रकृतेरन्यं स्वं दर्शयति दीपवत् ।। चिचे हि स्ववशे योगः सिद्ध्येत् तत्तु जगत्पतिम् । कोऽनाश्रित्य निगृहीयादव्यक्तमतिचञ्चलम् ।। तस्मान्मुमुक्षोः सुसुखो मार्गः श्रीविष्णुसंश्रयः । चित्तेन चिन्तयानेन वञ्च्यते ध्रुवमन्यथा ॥ इति । गीतायां चतुर्दशाध्याये ।
मर्थोपकारिणी टीका। णीता इयं तु द्वाविंशनिसूत्री नस्या अपि वीजभू- ता नारायणावतारमहर्षिभगवत्कपिलप्रणीतेति वृद्धाः । तनादी प्रथमसूत्रत्रयेण सकलप्रपञ्चमूलभूतानि पञ्चविंश- तितत्त्वानि सूचयति । अष्टौ प्रकृतयः ॥ १ ॥ पोडश विकाराः ॥२॥ पुरुषः ॥३॥ अयमर्थः सांख्यराडा- न्ते पञ्चविंशतिस्तत्त्वानि । तत्र मूलप्रकृतिः महत्तत्वम् अहङ्कारः शब्दतन्माता सर्शतन्मात्रा रूपतन्मात्रा रसतन्मात्रा गन्धतन्मात्रा चेत्यष्टौ प्रकृतयः सन्ति । अत्र तत्त्वान्तरारम्भकत्वं प्रकृतित्वम् अतश्च महहादीनां सप्तानां पूर्वपूर्वविकृतित्वे ऽपि न क्षतिः लक्षणसमन्वयात् । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनः गगनपवन- अलनसलिलधरप्याख्यानि पञ्च भूतानि चैतानि षोडश विकाराः विकृतय एव न तत्वान्तारारम्भकाणि सर्व वाक्यं सावधारणमिति न्यायात् । पुरुषः पञ्चविंशतितम तत्वम् । अयं च न प्रकृतिन विकृतिः ताभ्यः पृथक्कृत्य निरूपणात । अनेन जडत्वपरिणामित्वकर्तृत्वादिधर्मव- दभ्यः प्रकृत्यादिम्पः पुरुषस्य वैलक्षण्यमपि सूचितं भ- वति तथा च रेका। मूलप्रकृतिरविकृतिर्महदायाः प्रकृतिविकृतयः सप्त । पोडशकस्तु विकारोन प्रकृतिन विकृतिः पुरुषः॥ इति ।
सांख्यसंग्रह नन्वतेभ्योऽतिरिक्ता अन्येऽपि बहवो घटर- टादयः पदार्था दृश्यन्ते तत्कथमेषामुपपत्तिरत आह । त्रैगुण्यसञ्चारः ॥ ४ ॥ त्रिगुण एव गुण्यं सत्वरज- स्तमांसि तेषां सञ्चारः मत्तकपोतकण्ठन्यायन प्रतिक्षणं विलक्षणपरिणामो वरीत इति शेषः । अनेन मूलप्रकृ. तिस्त्रिगुणात्मिका त्रित्वेन च भेदबोधकेन गुणाः पर- सरविरुद्धस्वभावाः प्रीत्यप्रीतिविपादात्मका: सच्चा- रेण च सङ्गतसम्यक्चरणार्थकेन रोपां नित्यसहभावः पुरुषार्थे जननीये कार्यानुसारेण परस्परसहायता च नित- श्च प्रकृतेर्महदादीनां भूतेभ्यश्च घटपटादिसकलपदार्था- नां त्रिगुणलक्षणपरिणामादेव संसिद्धिः कार्योत्पादश्च नापूर्वः किन्त्याविर्भावमात्रं सूक्ष्मकारणरूपेण स्थित- स्य स्थूलकार्यक्षमरूपेण विपरिणाम इति सदव्यातिया- दक्ष इत्येते सिद्धान्ताः संसूचिता भवन्तीति बोध्यम् ।। नन गणानामनवरतपरिणतिस्वभावत्वात् कदाचिदपि दृश्यजातादर्शनं न स्यात् ततश्च प्रलयोच्छेदः स्यादत आह । प्रतिसञ्चरः ॥५॥ यथा सृष्टिप्रक्रियानिर्वाहकस्त्रिगु- णपरिणामस्तथा प्रतिसञ्चारः प्रतिकूलोपि विपरिणामोरित तथा च प्रतिलोमपरिणामेन तततत्कार्याणां स्वस्वकारणे लये जाते त्रिगुणायाः प्रकृतेः साम्यस्थितिरेव प्रलय इति ९६ सापकारिणी टीका। सूचितम् । तदा च समानपरिणामत्वेन बैलक्षण्यानावि- भर्भाव इति भावः ॥ अथ जायमानस्य सुखदु.खादेविवेकार्थ त्रैविध्यं वक्तुमेकनादावान्तरमाह । अध्यात्मम् ॥ ६ ॥ आत्मा- नमधिकृत्येत्यधात्मम् तदादिविध शारीरं मानसं चेति शारीरं वातपित्तश्लेप्मवैषम्यनिमित्तं मानस कामक्री- धलोभमोहर्याविषयविशेषदर्शनादर्शननिमित्तम् । एन- दुभयमपि आन्तरोपायसाध्यत्वादध्यात्ममित्युच्यने ।। बाह्यभेदद्वयमाह द्वाभ्याम् । आधिभूतम् ॥ ७ ॥ मानुपपशुपक्षिसरीसृपस्थावरादिभूतान्यधिकृत्य तदधि- भूनमित्यर्थः ।। आधिदैवम् ॥ ८ ॥ यक्षराक्षसविनायकग्रहाया- वेशनिमितमेतत् । इदं द्वयमपि वाद्योपायसाध्यत्वाहाह्य- मित्युक्तम् ॥ ननु सरस्वपि विलक्षणेषु वहप पदा- थेषु पुरुषस्य तवसम्बन्धाभावात् कथं ततो दुःख- मतस्तत्सामग्री निरूपयिषुरादौ बुद्धीन्द्रियाण्याह । पञ्चभिबुद्धयः॥ ९ ॥ अभितो बुद्धान्ते ज्ञायन्ते व. स्तून्याभिरित्यभिबुद्धयः बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्रा- णरसनव्याख्यानि रूपशब्दगन्धरसस्पर्शबोधकानि ।
. . - ५) शिवपाली । पतषिता । मयरन धोगमाजविसका निता देदान्त) ३ (१९) गनुमानाम नामणियार याचा शिरम (१५) मोमोसावालमा अमियाs तिधिया जागदीशीका ध्याय ग्रह पीभवनारारदा मजा (समय । महामाीग यायमित्र शङ्करविचित । (मामा) विविचित पारभावा-मकान .) प्रसिभकरमतानुमारि-भी शामक मारिए মায়ানম। গান -শায়ার (१५) वीरामनोदय । महामहापाणायाम समिविरचित गाएदमाश कनायनितम् रममता । मीभामासारमा सम्पूर्ण (भामासा) (१५) स्मातेसादार विवाभिरामपा है (१८) डिसा सार I पातर (৫) ইরাল সুগ। *মন্বশীল असदानन्द यामप्रतिस्तापापास मचाना। मत । (वेदान) (१९) कात्यायन प्रतिस्पर महामाराध्याय (१४) प्रस्थाना नाकर गोलोन मीमरचित १ श्रीक्वचाविरचितभाव्यसानिया (१५) वेदानपरि तौरभ नाम नायीमांसा १०) अषभायम् । श्रीभास्करर भाय धीनिम्माचार्य वरचितम् ।। पित सम्पूर्णम् (वेदान) (1) गदशनम् । परामपसमाजाचार्य (१४) परभणी तसएनपसायमाणा नारायन पित गमिदापन्द्रि नन्दपूर्णविरचितपा पनाविकराले पासमारपया क्यास्पाम तमू। १ भजन ख्यषा भ्याएवया RUR 03 11. दानदर्शनम् । सपका सिरका सहर । (द माधी रामानन्दसरस्वत स्वामित ममा (1.) पातका का भीभट्टम विचितार मृतरण समारप याच्यासपरितम् ।। (11) श्रीलामीसहला--मालो नियन्य (14शिकाश । कोश | विश्रीम यमन क्या चाहतम बारम चिराचत । (४) प्रभूनने माचिका मजन यम (११मुने धनी । महाभाचार्य पनि मना ता (वेदान) २ मटूगमन-मास्या में समायरामा {५) कपक्षसह भाजीम घदी तारनित पण सहना । श्रीय दाम शारिपिता ने अनुमाननगदी हागनदशामरावजन्ममवर्णको का नुम नगदाधा नत्यकानु भिनारपण्या कामी मानम युनी युवादस्य शनिवदस्य मुन वाद निपर या कु.)राम दर । महामहोपा वायी ने पुरुष नमीमहाराज विचित मुमन कोडरमाणे मेरापिर पूजापाश । (११) बमूत्रम्, लादेनदशनम् । दाभ वेदानास सम । श्रुनिसिहा ताप दाचासिद्धान्ततुका माRE रनामक सामाचा वनमामि अविह प्रदरचय तहमा वायुतम्। चिन । पदातर कापती पुरुष नम् (१०) पडदर्शनमय बोद्धयेकमा पसाद वाग्मता मध्य ममातर है- मिलन विज मन दर्शनमः । पाएप पाहता ममदहना क्या सहित । हरेभामु । (४०) सनुभवादई । भीमपरमहसगरबाज एचपनराया माध्यमाचा प्रसार (१८मौतम नर प्रकाश याय सहित । चिन सातगावभूषित। Y . ३ V है ५ (४१) यास्मृति सम्म मख्य )रमोदय । रजनीकाश । महा व्यस्य समलानगिनासताप महोपाध्यायमित्र मवेचित । वहरायाम () गधरी | गाभट्टाच यचय (५१) पूर्वम मासा अधिकरण मुदी । श्रीमम तिना गोरापपर घेतलाय मरपय प. रामकृष्णभकार्य वाचता पशिष्ट कानपर्व चनमण्या रघुनाथनदिमागे टिपपीना । (वरचत रियाध गति (५५) शामरका पिसारमा प्रणि (५१) मस्तपदम प्यटक दमकमा रचित पुनिम्नहरपुरण्या गादास्यम् । शाररिचतम छपन्य या त नरह। (५१) कमर पका । श्रीमम्मामो पाप (५६) वैयाकरण सेद्ध बलम दूर महामहो कमरिक्षकेशभाविनिता । विव पाप पोशभर वरचेन । नगविदभद्रास यतिवरले रेत मददुईस नबलम्मट नि (४) वीर मरर । नर्थनश | मह चिन्तकुना कलर पम से ४ ।।. मोमिरमिरचत। (10) यमर तमुगा ! पनप विसरम गवरचित । (२५) सोए पसवान मन्न (..)विरामवालि । विमानन्द (मेरिचितम महापापपरी मेष मेवाचित. বযনমু, মখ সহ (५९) बृहदारण्यकाममा करण्या विरचितम् । समास र मत परेशरत नय लघुस पकरण च। महास्य Rमतहत । . -- ~ पत्रादिप्रेरणास्थानम् हरिदासगुप्ता, चौसम्मा बनारस सिटी