Svclrc
Anandashramasanskruthagranthavalihi
Front matter
No text on this page.
तथाच कुटाकारशिरोमणेः परिचयः । भो अभिज्ञमणय आनन्दाश्रममकाशितशास्त्रीयमन्थकुसुमामोदामाणपण- यिनो ज्योतिर्विद्वरा गाणिविकधौरेयाश्च किंचिदिहावधत्त । महालक्ष्मीमुक्तावली- संवलितं कुट्टाकारशिरामाणिनामानमपूर्वग्रन्थं पण्डितशिरोमणीनां भीमतां हस्ते तमर्पयितुं नितान्तं प्रमोदते नः स्वान्तम् । उत्सहते च गणकापणीनां मरुतविषये जिज्ञासोत्पत्त्यर्थं अन्थशिरोमणि कुट्टाकारं परिचाययितुम् । अतस्तत्स्वरूपं संक्षेपतः प्रकाश्यते- छेदनार्थात्कुट्टधातोनिष्पनः कुट्टशब्दो लीलावत्यादौ प्रसिद्ध कुट्ट- कशन्दावबोध्यं भाज्यभाजकादिगणनं यत्र तादृशं गणितविशेष ब्रूते। ' भाग्यो हारः क्षेपकश्चापवर्त्यः केनाप्यादौ संभवे कुट्टकार्थम् ' इत्युक्तत्वात् । आकार- शन्दः स्वरूपवचनः कुदृस्य गणितविशेषस्य आकारः स्वरूपमदर्शको ग्रन्थः कुट्टाकारः । स च शिरोमणिरिवेत्युपामतसमासेन कुट्टाकारशिरोमाणिरिति पहतग्रन्थस्य नामधेयं संपन्नम् । तदुक्तमेतग्रन्था- भ्यासफलं प्रदर्शयता देवराजेनैव मूले-कुट्टाकारशिरोमाणिमिममभ्यसति दृढेन यो मनसा । तरणेः प्रसादतोऽयं सहसा तान्त्रिकाशिरोमणिर्भवति ॥ इति । तस्यैतस्य कुशब्दवाच्यस्य गणितविशेषस्य सायकुद्दाकारो निरनकुटाकारः संश्लिष्टकुहाकारो मिश्रश्रेढीमिश्रकुटाकारश्चेत्येवं स्थूलतोऽत्र चत्वारो भेदा दृग्गो चरी भवन्ति । वारकुटाकारवेलाकुट्टाकारौ तु निराकुट्टाकारस्यैवावान्तरभेदो । संश्लिष्टकुट्टाकारस्त्रिपकारक इति मूल एव स्पष्टम् । महतग्रन्थनिर्मात्रा देवराजे- नात्र परिच्छेदत्रयं प्रकल्प्य यस्मिन् परिच्छेदे यस्य यस्य कुट्टाकारस्प लक्षणोदा- हरणोपपत्तिसहितं विवेचनं कृतमस्ति तस्य तस्य परिच्छेदस्प तत्तत्कुट्टाकारनाम- घटितमीभधेयं प्रदत्तमित्यालक्ष्यते । यथा प्रथमपरिच्छेदे साग्रकुट्टाकारस्प विव वत्वात् 'सामपरिच्छेदः प्रथमः । इति । अस्मिन् परिच्छेदे दाविंशतिरार्याः संपदृश्यन्ते । एवं निरअपरिच्छेदो द्वितीयः । अत्र निरमकुटाकारादेः संश्लिष्ट कुटाकारस्प च त्रिपकारस्य वर्णनादार्याणानकोना नवतिः संलक्ष्यते तृतीये मिश्रढीमिश्रकुटाकारपरिच्छेदे कोनविंशतिसंख्याका आर्याः प्रणी ताः सन्ति । एवं ग्रन्थरचना संपादितास्ति । अन्थान्तरे तु वल्लिकाकुट्टा कारः स्थिरकुट्टाकारश्चेत्यपरौ द्वौ भेदो लक्ष्येते । तयोर्मध्ये वल्लिकाकुट्टाकारस्य । विचारो बुद्धार्यभटस्य साक्षाच्छिष्येण भास्करण वेदाब्धियुगमिते(४४४)शक- समये निमिते महाभास्करीयादिगन्थे विस्तरशो वर्तते । सोऽसौ महास्करीय- मन्थोपि सटीकोचिरणव कालेन प्रकाश्येताऽऽनन्दाश्रमसंस्थया। भरतखण्डेऽस्मिन् ब्राह्म आर्यः सौर इत्येवं त्रयः प्रामुख्येण ज्योतिष- सिद्धान्तमन्थाः सन्ति । तेषां मध्ये कस्मिन्देशे कः सिद्धान्त आदरणीय इत्ये- तत्पदर्शितमनिमश्लोके- गोदावरी विन्ध्यनगान्तराले श्रीब्रह्मपक्षागणितं विधेयम् । गोदावरीदक्षिण आर्यपक्षो विन्ध्याचलादुनरतो हि सौरः ॥ इति । तत्राऽऽर्यभटाचार्येण भूनेत्राधि(४२१)मिते शकसमये लिखित आर्य.. भटीयमन्थे गणितपादे(३२-३३)श्लोकयोः कुट्टकनामा विषयोऽयं त्रोटकेन कथितः। परं त्वनेन देवराजेनाय निरुक्तकुट्टाकारभेदा नियमपरिवदया गणितशालीयपदत्या सविस्तरं वर्णिताः । अथ च ते ते प्रश्नाः कथमुपपाद- नीयास्तदपि मूलपमाणं धृत्वा नियमबद्धां रीतिमनुसृत्य प्रदर्शितम् । तत्तत्कु- ट्टाकारविषयकगणितपक्रियाया मध्यमाद्यधिकारिणामपि यथावदर्थनोधो भया- दित्यनुसंधाम स्वेनैव स्वग्रन्थोपरि महालक्ष्मीमुक्तावली नाम व्याख्या व्यरचि । अतो नवानवानेकाङ्कुरोत्पादनेन बुद्धिमुल्लासयन्तं प्रकृतं ग्रन्थाशरामाणे कुट्टा- कारं वारं वारं समभिवाच्य प्राचीनानां गणितशास्त्रतत्त्वविदामाचार्याणां सैचा- तिकी सरलां सरसां सुखावबोधां च सुव्यवस्थितनियमनियन्त्रितां गणितम- क्रियामस्थापनचातुरीमास्वादयन्वधुनातना अर्वाचीनगणितरीत्यभिज्ञा अपि गणकोत्सा विद्वांस इत्यभ्यर्थये । स एष निरुक्तः कुट्टाकाराशरोमाणिनैव स्वतन्त्रो ग्रन्थः, अपि त्वार्य- भटाचार्यप्रणीतं कुट्टाकारविषयकं द्वात्रिंशत्रयस्त्रिंशश्लोकात्मकं यत्सूत्रयुगलं वस्य व्याख्यानविशेष एवेत्यवगन्तव्यम् । तदुक्तं स्वनैव स्वग्रन्थे मूल एव- आचार्यभटोदितकुट्टाकारार्थसूत्रयुगलस्य । कुट्टाकारशिरोमणिनामा व्याख्याविशेष एवैवः ॥ इति । अथैष महतग्रन्थपणेता देवराजोषिकुलाभरणस्य स्कन्धत्रयवेदिनः सिद्धान्तवल्लभ इति पसिद्धापरनान्नः श्रीवरदराजाचार्यस्य तनय इति अन्थ- समाप्तौ तदुल्लेखादवसीयते । परं त्वननायं कुट्टाकारग्रन्थः कदा निरमायाति विशेषतो ज्ञातुं यद्यपि न शम्यं तथाऽपि द्वितीयपरिच्छेदे शेषे लीललावती- [१] गतानां निरकुट्टाकारविषयाणां कतीनांचन श्लोकानामुद्धृतत्वात्सिद्धान्तशिरो- मणिकाराद् भास्कराचार्यादनन्तरं नाम शा०(१०७२)समये मछतमन्थः मादु- रासीदिति निभपनानुमातुं न कियानपि कश्चिदपि प्रतिवन्ध इत्यवधेयम् । वस्यास्य सटीककुट्टाकारशिरोमणः संशोधने पुस्तकदयं सहायभूतमभूत् । कमादावन्ते च भूयसांऽशेन त्रुटितम् । द्वितीयं समग्रमप्यतीव स्थूलतः शुपियुतम् । तदेतत्पुस्तकद्वयं भाण्डारकरमाच्यविद्यामान्दराधिकृतेः ‘गोडे, इत्युपाबमाध्यापकैर्महीशरनगरात्तञ्जावरनगराश्च महता प्रयासेन नागों लिप्यां प्रतिच्छायाकृतं संपाय मुद्रणाथै प्रदत्तमिति तेषामविस्मरणाहींः खलूपकतीः शिरसा बहामि । तदेवमतिप्रोडविषयस्यान्यत्र काप्यमुद्रितस्य कुट्टाकाराशरोमणिमन्यस्य संशोधने प्रथमत एव प्रवृत्तस्य कै. पितृचरणप्रसादलब्धमाचीनगणितशास- रीतिदृष्टेरपि मम तादृशबुद्धिप्रागल्भ्याभावाद्यावदपेक्षितसाधनसामध्यभावाच पदे पदे च्युतयः संभवेयुः । वासामावेदनेन मामनुगृहन्तु परोपकारनिरता माहकमहाशया इति प्रार्थयते- पुण्यपत्तनम् । श.१८६६ का०शु०९ बुधवासरः। आपटेइत्युपालदत्तात्रेयनुलवन्तरायः । ( आनन्दाश्रमव्यवस्थापकः)।
[२] गतानां निरमकुट्टाकारविषयाणां कतीनांचन श्लोकानामुद्धृतत्वात्सिद्धान्तशिरो- मणिकाराद् भास्कराचार्यांदनन्तरं नाम शा०(२०७२)सममे मछतमन्थः मादु- रासीदिति निभयनानुमातुं न कियानपि कश्चिदपि प्रतिवन्ध इत्यवधेयम् । वस्यास्य सटीककुट्टाकारशिरोमणः संशोधने पुस्तकद्वयं सहायभूतमभूत् । कमादावन्ते च भूयसांऽशेन त्रुटितम् । द्वितीयं समग्रमप्पतीव स्थूलतः शुद्धियुतम् । तदेतत्पुस्तकद्वयं भाण्डारकरमाच्यविद्यामान्दराधिकरुतेः ' गोडे , इत्युपारमाध्यापकैर्महीशरनगरातञ्जावरनगराञ्च महता प्रयासेन नागौं लिप्यां प्रतिच्छायीरुतं संपाय मुद्रणाथै प्रदत्तमिति तेषामविस्मरणार्हाः खलूपकतीः शिरसा वहामि । तदेवमतिपोटविषयस्यान्यन काप्यमुद्रितस्य कुट्टाकाराशरोमणिमन्थस्य संशोधने प्रथमत एव प्रवृत्तस्य कै. पितृचरणप्रसादलन्धमाचीनगणितशास- रीतिदृष्टेरपि मम तीदृशबुद्धिमागल्भ्याभावाद्यावदपेक्षितसाधनसामध्यभावाच्च पदे पदे व्युतयः संभवेयुः । वासामावेदनेन मामनुगृहन्तु परोपकारनिरता माहकमहाशया इति पार्थयते- पुण्यपत्तनम् । श०१८६६ आपटेइत्युपाहदत्तात्रेयानुलवन्तरायः । का०शु०९ बुधवासरः । ( आनन्दाभमन्यवस्थापक:)।
प्रथमावृत्तौ पुस्तकानि (२५० )।
कुट्टाकाराशरोमाणः। ४९ - न्यास:-भाज्यः २२१ । हारः १९५ । क्षेपः ६५ । भान्यभाजकयोः परस्परभक्तयोः शेष १३ । अनेनापवर्तिता दृढसंज्ञा भाज्यभाजकक्षेपाः कमे- गेमे १७-१५-५ । परस्परभजनार्थमुपर्यधोभावेन विन्यस्तो भाज्पभाजको १७ । १५ । अनयोः परस्परभक्तयोलब्धे क्रमेणोपर्यधोभावेन निहिते ।। ७अनयोरधः क्षेपो दत्तः ११७५। एषामधः शून्यं निक्षिप्तम् १५।। अथ वल्ल्युपसंहारे कृते जातौ राशी ४०३५॥ इमो दृढभाज्यभाजकाभ्यां १४१५ तष्टौ जातौ लब्धिगुणौ ६।५ । अवापि त्रैराशिकमार्गः पूर्ववद्यो- ज्यः । नन्वेवं मतिकल्पनायासमन्तरेण कुट्टकगणिते विद्यमाने किमर्थमार्य- भटाचार्यादिभिर्मतिकल्पनाऽङ्गीकता । अत्रोच्यते । साये तावदवश्यं मतिकल्प- नया भवितव्यम् । अतः साग्रनिरग्रयोईयोरपि साऽस्त्वित्यङ्गीकतेत्यदोषः ॥९॥ इत्यषिकुलामरणस्य स्कन्धत्रयवेदिनः सिद्धान्तवल्लभ इति प्रसिद्धापरनानः श्रीवरदराजाचार्यस्य तनयेन देवराजेन विरचितायां कुट्टाकाराशरामाण- टीकायां महालक्ष्मीमुक्तावल्यां निरअपरिच्छेदो द्वितीयः॥ अथ मिश्रश्रेढीमिश्रकुट्टाकारपरिच्छेदस्तृतीयः । अथ मिश्रश्रेढीमिश्रकुट्टाकारपरिच्छेदो व्याख्यायते। अस्मिन्परिच्छेदे प्रश्नतद्भङ्गेषु यथाभभवमुपकरणानां वर्गवर्गमूलघनघनमूलसंकालताचीधिनवर्ग- चितिघनघनचितिघनश्रेढीफलानामानयनविधिरार्यभटीये गणितसारे दृष्टव्यः । इह तु ग्रन्थविस्तरभयान्न प्रदर्श्यते । अवाऽऽदावार्यया प्रश्नत्रयं व्यञ्जयति- अथ संकलितधनैक्याद्घनपदयोगाच्च वर्गधनयोगात् । विकलावशेषजातादिनमभ्यूा विवेकिना पुंसा ॥ १ ॥ अत्र पदशब्देन विकलाशेषो(शेषरूपो) गच्छ- उच्यते । विकलावशेष- जाताद्वर्गधनयोगाच्च विवेकिना पुंसा दिनमप्यूह्यम् । अत्र यद्यपि संकलिता- दियोगो मुख्यवृत्त्या विकलावशेषजातो न भवति तथापि योगिनां तज्जात- त्वमवलम्ब्य तथोक्तम् ॥ १ ॥ एषां भङ्गार्थमा माह- कथितमिह यद्यदैक्यं तस्मिंस्तस्मिंश्च विहितघनमूले । पूर्णतया धनमूलं यद्यत्तत्ततिलिप्तिकाशेषम् ॥ २ ॥ -
महालक्ष्मीमुक्तावलीसहित:-
इह यद्यदैक्यं कथितं तस्मिंस्तस्मिंश्च विहितधनमूले सति पूर्णतया यद्य-
द्घनमूलं तत्तदर विलिप्तिकाशेष भवेत् । विलिप्तिकाशेषाज्जातादिष्टदिनानयन
पागेवोक्तम् । अतस्तव न वक्तव्यम् ॥ २ ॥
अथ प्रश्नान्तरमार्ययाऽऽह-
धनचितिघनवगैक्याद्विपूर्वलिप्ताग्रसंभवाद्दिवसान् ।
सद्यः समीक्षते यः स वेद(एव)गणितानि वेद वसुमत्याम् ॥३॥
यो विपूर्वलिप्ताग्रसंभवाद्घनचितिघनवगोरक्यादिवसान् सद्यः समी-
क्षते स एव वसुमत्यां गणितानि वेद । विपूर्व लिप्ता विलिप्ताः॥ ३ ॥
एतत्मनभङ्गार्थमार्यामाह-
धनचितिघनवगैक्ये कृतवर्गपदेऽत्र यो भवेच्छेषः।
एतस्य वर्गमूलं यत्तद्विकलावशेषः स्यात् ॥ ४ ॥
स्पष्टोऽथः ॥४॥
अथाऽऽर्यया प्रश्नान्तरमाह-
लिप्तापष्टयंशाग्रे जातात्संकलितघनचितिघनैक्यात् ।
यो भवति चितिघनोऽस्मायो दिननिवहं वदत्यसो धीमान॥५॥
-
अथैतत्पश्नभङ्गार्थमार्यामाह-
पगुणितादुद्दिष्टात्पूर्णं घनमूलमिह च यत्तस्मात् ।
वर्गभवं मूलं यत्तस्माद्विघ्नात्पदं विलिप्ताग्रम् ॥ ६ ॥
इह षड्गुणितादुद्दिष्टाद् यत्पूर्णं घनमूलं तस्माद्वर्गभवं मूलं विलिप्तायं
भवति ॥ ६॥
अथाऽऽर्यया प्रश्नान्तरं व्यनक्ति-
पदकृतिसंकलितैक्याल्लिप्ताषष्ट्यंशशेषसंजातात् ।
इष्टदिनानां निवहः शक्यं सुधिया सुखेन विज्ञातुम् ॥ ७॥
अन पदशब्दो गच्छवचनः । लिप्ताषष्टयंशिषजातात्पदकतिसंकलि-
तानां समासादिष्टदिननिवहः मुधिया सुखेन विज्ञातुं शक्यम् । शक्यमित्य-
व्ययम् । शक्यमरविन्दसराभरिति कालिदासः॥ ७॥
अथैतत्पभभङ्गार्थमार्यामाह-
कतिपदसंकलितैक्ये संकलितं स्यात्कृशानुभिर्भक्त ।
संकलिते नयनह ते विहितपदे शेषमात्रविकलायम् ॥ ८॥
-
कुट्टाकारशिरोमणिः ।
कनिर्वर्गः । पदं गच्छः । संकलितं प्रसिद्धम् । ऐक्यं योगः। विकला-
शेषभवानां कृतिपदसंकलितानामैक्ये कशानुभि( ३ सति सम्ध
संकलितं स्यात् । अथैवमागते संकलिते नयनहते विहितवर्गमूले च तत्पर
शेषं विकलाग्रं भवति ॥ ८ ॥
अथाऽऽर्यया प्रश्नान्तरमाह-
योऽम्बरचरेन्द्रलिप्तापूर्णरसांशावशेषजातेन ।
वर्गचितिघनेन दिनं विद्याद्विद्याविशेषवानेषः ॥ ९॥
लिप्तापूर्णरसांशा विलिप्ताः । शिष्टं स्पष्टम् ॥ ९ ॥
अथैतत्पश्नभङ्गार्थमा माह-
त्रिगुणाद्वर्गचितिघनाद्यत्पूर्णत्वेन घनपदं भवति ।
तग्रहविकलाशेषं भवतीति विपश्चिता विनिर्देश्यम् ॥१०॥
त्रिगुणाद्विकलाग्रभावाद्वर्गचितिघनाद्यत् पूर्णत्वेन धनमूलं भवति तद्मह-
विकलाशेष भवतीति विपश्चिता विनिर्देश्यम् ॥ १० ॥
अथाऽऽर्यया प्रश्नान्तरमाह-
धनवर्गचर्गचितिघनसंकलितसमासतः समुद्दिष्टात् ।
खचरविलिप्ताअभवात्कथमपि गदितुं दिनं बुधैः शक्यम्॥१३॥
समासो योगः। खचरविलिप्तायवशात् समुद्दिष्टाद् धनवर्गवर्गचितिषन-
संकलितसमासतो बुधैर्दिनं कथमपि कथयितुं शक्यम् ॥ ११ ॥
अथैतत्पश्नभङ्गार्थमा-माह-
अत्रोद्दिष्टे राशौ सागरभक्त फलं भवति यत्तत् ।
वर्गचितिघनस्त्वमुना विकलाग्रं साधयेद्बुधः प्राग्वत्॥१२॥
अत्रोद्दिष्टे राशौ सागरैश्चतुर्भिक्त यत्फलं भवति तद्विकलाग्रजातो वर्ग-
चितिघनः। अमुना बुधः प्राग्वद्विकलायं साधयेत् ॥ १२ ॥
अथाऽऽर्यया प्रश्नान्तरमाह-
कृतिघनसंकलितैक्याखचरविलिप्तावशेषसंभूतात् ।
वासरचयं वदेद्यो वागीशो भवति भूतले स पुमान् ॥१३॥
स्पष्टोऽर्थः ॥ १३ ॥
अथैतत्पश्नभङ्गार्थमामाह-
कृतिघनसंकलितैक्ये वहिनहते भवति वर्गसंकलितम् ।
तस्माद्गगनचराणां प्राग्वद्विकलावशेषमानेयम् ॥ १४॥
- महालक्ष्मीमुक्तावलीसहित:- वर्गसंकलित वर्गचितिधनम् । शिष्टं स्पष्टम् ॥ १४ ॥ अथाऽऽर्यया प्रश्नान्तरमाह- विकलाशेषष्टांशश्रेयां विकलावशेषभक्तायाम । यत्तेनांशमुखाभ्यामुत्तरतश्चेष्टदिनचयो वाच्यः ॥ १५॥ *इष्टं व्येकं दलितं सपूर्वमुत्तरगुणं समुखमध्यम् । इष्टगुणितमिष्टधनम् । इत्यार्यभटीयसूत्रानीतमिष्टधनमत्र श्रेढीशब्देनोच्यते। विकलाशेषस्य रूपांश- व्यंशयं शादीष्टांशजाता श्रेढी विकलाशेषेष्टांशश्रेढी। तस्यां विकलावशे- षभक्तायां शुद्धायां सत्यां यत्कलं भवति तेनांशादिमोत्तरैश्च कथितैरिष्टदिन- निचयो वाच्यः ॥१५॥ अथैतत्पश्नमञ्जनायाऽऽर्यामाह- अंशहते फलराशौ विमुखे चोत्तरहृते हते द्वाभ्याम् । रूपयुतेंऽशकगुणिते यत्स्यादिकलाग्रमेव तद्भवति ॥१६॥ उद्दिष्टे फलराशावुद्दिष्टेनांशेन गुणितेन तदुद्दिष्टेन मुखेन हीने तदुद्दिष्टेनी- तरेण भक्ते ततो द्वाभ्यां( २) गुणिते ततो रूप(१)सहिते पुनश्चांश( शे )गुणिते यत्स्यात्तद्विकलामं भवति । व्यक्त्यर्थमेतदुदाहरणेन पदय॑ते । अत्र ग्रहस्य कल्पितो विकलाशेषः शत(१०० संख्यः । अस्य चतुर्थांश: पश्चविंशति- (२५)संख्यः । इदमिष्टम् । अब प्रथम श्रेढीफलमानीयते । इष्टम् (२५)। एतद्व्येकम् । चतुर्विंशति( २४ )सख्यम् । एतद्दलितं द्वादश( १२ )संख्यम् । इदमत्र कल्पितेनोत्तरेण त्रिकेण गुणितं षट्विंश( ३६ )संख्यम् । एतत्क- ल्पितेन मुखेन चतुष्टयेन( ४ )युक्तं चत्वारिंश(४०)संख्यम् । इदं मध्यध- नम् । एतदुद्दिष्टेन पञ्चविंशति( २५)संख्येनांशेन गुणितं सहस्र( १००० • ) संख्यं जातम् । इदमत्र विकलाशेषेष्टांशश्रेढी । इयं विकलाशेषण शत- (१०० )संख्येन भक्ता शुध्यति । अत्र फलं दश( १०)संख्यम् । अस्मि- श्वाशे मुखे चोत्तरे च कथिते सति विकलायमानेतुं शक्यम् । तस्मात्कथितेरे- भिश्चतुभिर्विकलायमांनीयते । इह फलराशिदश( १०)संख्यः । अयमंशेन चतुष्टयेन( ४ ) गुणितश्चत्वारिंश(४०)त्संख्यः । अयं मुखेन चतुष्टयेन( ४ ) हीनः षट्त्रिंश ( ३६)त्संख्यः । अयमुत्तरेण विकेण( ३) भक्तो द्वादश- (१२)संख्यः। एष द्वाभ्यां गुणितश्चतुर्विंशति( २४ )संख्यः। अयं रूपेण (१)सहितः पञ्चविंशति( २५ )संख्यः । अयं पुनरप्यंशन चतुष्टयेन( ४ ) गुणितः शत( १०० )संख्यः । एष ग्रहस्य विकलाशेषः ॥ १६ ॥ (*आयविये गणिलपादे श्लोक १९) ॐ तत्सद्ब्रह्मणे नमः। श्रीदेवराजविराचितः ( स्वोपज्ञया महालक्ष्मीमुक्तावल्यारूपव्याख्यया संवलितः) कुट्टाकाराशरोमाणः। नत्वा श्रीरमणं गुरूनपि मया पोक्तो मुदे धीमता- माचार्यार्यभटोक्ककुयुगलीव्याख्याविशेषोऽमु(सु)कः । कुटाकाराशरोमणिः स्फुटपदैरहेन्श्च सांकेतिकै- क्वैिरप्यनुयोगवृत्तसहिताख्यायते विस्तरात् ॥ अथायं देवराजः प्रारिप्सितस्य ग्रन्थस्य निर्विनेन परिसमाप्तये प्रचयगमनाय चाऽऽद्यया गीत्या स्वाभिमतदेवताप्रणिपातं कृत्वा ग्रन्थारम्भं प्रतिजानीत- नत्वा रमाधरण्यौ वरदार्यसुतेन देवराजेन । आर्यभटाचार्यकृतः कुट्टाकारः प्रकाश्यते स्पष्टम् ॥ १ ॥ रमाधरण्यौ लक्ष्मीभमिदेव्यौ । नत्वा प्रणिपत्य । वरदाय सुतेन देवराजेना- विकुलतिलकस्य सिद्धान्तवल्लभ इति प्रसिद्धापरनाम्नः श्रीवरदायस्य तनयेन देवराजेन । देवराज इति ग्रन्थकर्तुरभिधानम् । अनेनाऽऽयभटाचार्यकृत आर्यभट- विरचितः कुद्वाकारः साग्रनिरग्ररूपेण द्विविधः खण्डनात्मको गणितविशेषः । कुट्ट च्छेदनभर्त्सनयोः (पा. धा. चु. उभ. सेट् ) । कुट्यते छिद्यते खण्ड्यतेऽनेनेति करणे[*वञ् ] । टाप्पत्ययः अत्राऽऽकारशब्दः स्वरूपवचनः । अतः कुद्यास्वरूपः कुद्दाकार इति । स्पष्ट व्यक्तं प्रकाश्यते व्यज्यते । अस्य ग्रन्थस्य कुटाकाराशिरोमाणिरिति नाम विज्ञा- यते । एवग्रन्या पसंहारगीत्या ' कुट्टाकारशिरोमणिमिममभ्यस्यति । इति वच- नदर्शनात् । अत्र च तन्नामकरणमिति ज्ञातत्वादेतग्रन्थार्थावबोधेनाऽऽचार्य- भटषणीतकुट्टाकारसः गलस्याप्यर्थः सम्यग्व्यक्ती भविष्यतीति तस्यायं व्या- ख्याविशेषो भवतीत्युपपन्नम् ॥ १ ॥ अथ कुट्टाकारस्य वैविध्यं तदुक्तकम चाऽऽययाऽऽह- कृट्ठाकारी भवतः साग्रनिरग्राविहाऽऽदितः सायम् । संक्षिप्य दर्शयित्वा ततो निरनः प्रदर्श्यते व्यक्तम् ॥२॥ कुट्टाकारौ सामनिरपौ भवतः । इह सायकुट्टाकारनिरमकुट्टाकारयोर्मध्य *करणाधिकरणयाश्च(पा. सू. ३ ! ३१ ११७)।
महालक्ष्मीमुक्तावलीसहित:- आदितः प्रथमतः सायं साग्रकुट्टाकारं संक्षिप्य समस्य दर्शयित्वा । उक्त्वे- त्यर्थः। ततः सायकथनानन्तरं निरयो निराकुट्टाकारो व्यक्तं स्फुटं पदय॑ते । उच्यत इति यावत् ॥ २॥ अथात्र के सिद्धान्तमवलम्ब्य भागहारभाज्योक्तिरिति न ज्ञायत इति वज्ञानार्थमार्ययाऽऽह- अत्र हरभाज्यराशी भास्करसिद्धान्तमार्गमवलम्ब्य । उच्येते देवरायभटीये च तो समारोप्यौ ॥३॥ अत्रेह ग्रन्थे हरभाज्यराशी हरराशिश्चतुर्युगसन्धिरविमासचान्द्रदिनसा बनदिवसादिः। भाज्यराशिश्चतुर्यगसंवन्ध्यधिमासावमदिनग्रहभगणादिः। तो भास्करसिद्धान्तमार्ग श्रीसूर्यसिद्धान्तस्य पन्थानमवलम्ब्योच्यते तो पूर्वोक्तको हरभाज्यराशी देवज्यौतिषकैरार्यभटीये चाऽऽयभटसिद्धान्तेऽपि समारोप्यौ । अथ श्रीसूर्यसिद्धान्ताश्रयणेन. यद्यदुच्यते तत्र चाऽऽयभटसिद्धान्ताश्रयणे चोनेयमित्यर्थः ॥ ३॥ अथाऽऽयंया सायविषयं प्रश्नं स्पष्टयति- उद्दिष्टहारकद्वयसंभक्तविभाज्यराशिशेषाभ्याम् । यः सपदि भाज्यराशिं कथयति भूमौ स साप्रविद्भवति ॥४॥ उद्दिष्टहारकद्वयसंभक्तविभाज्यराशिशेषाभ्यामिति । विभक्तव्यो रा- शिविभाज्यराशिः । हारकयोईयं हारकद्वयम् । उद्दिष्टं च तद्धारकद्वयं चोद्दिष्ट- हारकद्वयम् । तेषु संभक्त उद्दिष्टहारकद्वयसंभक्तः । उद्दिष्टहारकद्वयसं- भक्तथा विभाज्यराशिश्चोद्दिष्टहारकद्वयसंभक्तविभाज्यराति शेषौ तथोक्ती ताभ्यामुद्दिष्टाभ्यां भाज्यराशि सपदि कथयति स भूमौ सामविद्भवति । अत्रेदं प्रभस्वरूपं-पस्मिन्कस्मिंश्चिद्भाज्य- राशावुद्दिष्टाभ्यां भिन्नसंख्याभ्यां याभ्यां काभ्यां भागहाराभ्यां पृथक्पृथग्वि- मके ये शिष्येते ताभ्यामतुल्यसंख्याभ्यां कथिताभ्यां भाज्यराशिः सद्योऽन्वे- पणीय इति । एतदुपलक्षणम् । एकस्मिन्नेव भाज्यराशौ पृथक्पृथग्बहुभिरुद्दि- वैदिविधैांगहारैविभक्त शेषाभ्यां विलक्षणाभ्यामुक्ताभ्यां भाज्यराशिरन्वेष्टव्य इत्येवमादौ प्रश्ने( भौ) । अत्र भागहाराणां भक्तशेषसाम्यवैषम्पवशावैवि- ध्यम् । एतच्चोतरत्र व्यक्ती भविष्यति ॥ ४ ॥ । यः कुट्टाकाराशरोमाणः। अथोक्तपश्नभङ्गनर्थमा माह- अधिकायायायायुगमाचार्यभटविरचितं साने। आरोग्य तत्र जातैः कर्मकदम्बैः प्रसाधयेद्भाज्यम् ॥ ५॥ आचार्यभटविरचितमधिकामाचार्यायुगं साय आरोप्य तत्र जातेः कर्म- कदम्बैर्भाज्यं प्रसाधयेत् ॥ ५॥ अतदार्यभटाचार्यप्रणीतं कुट्टाकारयुग्मविषयमधिकायादिसूबदयम्- *अधिकाग्रभागहारं छिन्द्यादूनायभागहारेण । शेषपरस्परभक्तं मतिगुणमयान्तरे क्षिप्तम् ॥ ६ ॥ अध उपरि गुणितमन्त्ययुगूनाग्रच्छेदभाजिते शेषम् । अधिकारच्छेदगुणं विच्छेदाममधिकाययुतम् ॥ ७॥ इति । एतत्सूत्रद्वयं प्रमभङ्गन) सायमधिकृत्य व्याख्यायते । अधिकाममागहा- रमिति । अवामशब्दः शेषवचनः । सानकोटिरितिवत् । अधिकममं पस्य सोऽधिकामः। भागहारो भाजकः । अधिकायश्चासौ भागहारश्चाधिका- प्रभागहारः । येन भाज्यराशौ भक्त शेषमन्यस्माच्छेषादधिकसंख्यं भवति सोऽधिकाग्रभागहार इत्यर्थः । ऊनाप्रभागहारेणोनमितरस्माच्छेषादीन- मनं शेपं यस्य स ऊनायः । ऊनापश्चासौ भागहारश्च स तथोक्तः । तेन च्छिन्द्यादिभजेत् । एतच्च सति संभवे कर्तव्यम् । अधिकाग्रभागहारमूना- प्रभागहारेण च्छिन्द्यादिति पृथग्वाक्यकरणादन लब्धेन प्रयोजनं नास्तीवि शाप्यते । अथ शेषपरस्परभक्तम् । भक्तं भजनम् । भावे निष्ठा । अत्र कार्यमिति पदमध्याहार्यम् । शेषयोः परस्परभजन कार्यम् । एतदुक्तं भवति । ऊनाममा- गहारेणाधिकायभागहारे हृते यच्छिष्यते तेनोनामभागहारं विभजेत् । तत्र - ( आर्यभटीय ( शा. ४२१ ) गणितपादे श्लो० ३२-३३)। तथा-ब्राह्मस्फुटसिद्धान्ते (शा० ५५० ) कुटकाध्याये श्लो० ३-५ पृ०२९४ । महावीराचार्य कृतगणितसारसंग्रह (शा० ७७५) वलिकाकुट्टीकारे श्लो० ११५ ॥ पृ० ८०) । लघुआर्यभटीये ( शा० ८७५ ) कुट्टकाध्याये श्लो०३ पृ०२२४ । सिद्धान्तशिरोमणिकार( १०७२ )भास्कराचार्यकृते कुटटकविवरणे श्लो० ५१ पृ० ५९ ।
महालक्ष्मीमुक्तावलीसहित:- लब्धं फल त्वेन कुत्रचित्स्थापयेत् । ततस्तच्छेषेणाधिकायभागहारं शेष विभ- जेत् । लब्धं पूर्व स्थापितस्य फलस्याधः स्थापयेत् । ततस्तच्छेषेणोनायभाग- हारशेष विभजेत् । लब्ध पूर्वनिहितयाः फलयोरधो निदध्यात् । एवं तावत्कु- द्यिावरफलपक्तिः समा भवति । शेषावप्यल्पाविति । अथ मतिगुणं मत्या गुणित कार्यम् । एतदुक्तं भवति। परस्परभक्तशेषयोर्यद्यल्पमुपरि स्थितं तद्यथासंख्यममा- न्तरेण क्षिप्तं चाधः स्थितनान्येन भक्तं शुध्यति । सा मतिः। तथाऽल्पमुपरि स्थितं परस्परभक्तशेष गुणितं कार्यमिति । अत्रैतदनुसंधेयम् । पूर्वमुपर्यधोभावेन निहितानां समपतीनां फलानामधो मतिसंज्ञं गुणमपि स्थापयेदिति । एतच्च मतिगुणमित्यस्यार्थान्तराङ्गीकरणेन सिध्यति । तद्यथा-मविगुणं गुणो गुणकारः। 'गुणकारस्तु गुणको गुणो वर्धक इत्यपि ' इति सिद्धान्तदर्पणकारो गोविन्द- भट्टयज्वा । मतिरेव गुणो मतिगुणः । मत्याख्यो गुण इत्यर्थः। तं स्थाप- योदति । नन्वत्र स्थापयेदिति नोक्तं तत्कथम् । एवमत्रोच्यते । मतिगुणमिति कर्मणः श्रवणादन सकर्मक किंचिक्रियापदमिति विज्ञाप्यते । तत्र स्थापये- दित्यनवद्यम् । अग्रान्तरे । अग्रयोरन्तरमनान्तरम् । उद्दिष्टाभ्यां भागहारा- भ्यां भाज्यराशौ पृथक्पृथग्विभ के ये शिष्येते तयोविवरमिति यावत् । तस्मि- निक्षिवं निहित कार्यम् । अत्र मतिगुणितं प्रकृतम् । तस्मान्मतिगुणितमत्रा- मान्तरे निधेयमिति । अत्रैतदनुसंधेयम् । यदव मतिगुणितमयान्तरे क्षिप्तं च वत्स्वाध:स्थितेनान्येन विभज्य लब्धं फलं मतेरधस्तान्निध्यादिति । एतच मतिगुणमित्यादिना सूचितं सूत्रकृतत्यवगन्तव्यम् । अध उपरि गुणितम् । अत्र अधःशब्देनोपर्यधोभावेन विन्यस्तेषु समतिषु फलपदेषु मत्यादिकमुपान्त्यमुच्यते । उपरिशब्देनोपान्त्यस्योर्ध्वपशिस्थम् । गुण शब्देन गुणत्वम् । तस्मादुपान्त्यस्य तदुपरि फलस्य चान्योन्य गुणनं कार्यम् । एतदुक्तं भवति । मत्यादिकेनोपा- न्त्येन तदुपरि फलं गुणयेदिति । ननु चात्र मुख्य वृत्त्या सर्वाधःस्थितस्यान्त्यस्य फलस्य वाचकोऽधःशब्दः कथमुपान्त्यमाह । अत्रोच्यते । अन्त्ययुगित्यस्य विषयाभावात् । अन्त्ययुगुपान्त्येन गुणितं तदुपारफलमत्र प्रकृतम् । तदन्त्येन युक्तं कार्यम् । एवं तावत्कार्यं यावद्द्वावेव राशी भवतः । राशिद्वयमात्रे त्वधउपरिगुणितमित्येतन प्रवर्तते । तस्मादत्राधोराशिना प्रयोजनं नास्तीति स त्याज्यः । नापच्छेदभाजिते । छेदो भागहारः । “ भागहारो हरो हारो हारकश्छेदभाजको " इति गोविन्दभट्टसोमसुत् । अवोपरिराशि: पतः ।
कुढाकारशिरोमाणः ।
तस्मिन्सति संभवे पूर्वोक्तनोनाग्रभागहारेण भक्के सति शेष यच्छिष्टं तत् ।
अंतदनुसंधेयम् । यत्रोनाग्रच्छेदभाजिते शेषमित्यत्र शेषं नास्ति तत्रोनामच्छे-
दमा निधेयमिति । अधिकाग्रच्छेदगुणम् । पूर्वोक्तेनाधिकाग्रभागहारेण
गुणितम् । अधिकारयुतम् । अत्राप्यग्रशन्दः शेषवचनः । अधिकं चैतदर्य
चाधिकाग्रम् । तेन युक्तं विच्छेदाग्रम् । इहाप्यनशब्दः शेषवचनः । द्वौ छेदो
विच्छेदौ । अत्राष्टादशपुराणानामितिवचन इव संख्यावाचिना द्विशब्देन छेदी
विशेष्येते इति विशेषणसमासः । तयोरगे द्विच्छेदौ यस्य स्त इति मत्वर्थी-
योऽध्यत्ययः। विच्छेदानवद्भाउपराश्यन्तरं भवतीत्यर्थः । अयं भाज्यराशिः
प्रथमः । अत उत्तरेषामपरिमितानां भाज्यराशीनामानयनप्रकारः प्रदश्यते । व-
यथा-अधिकाग्रभागहारमित्येतदादिनोनापच्छेदभाजिते शेषमित्यन्तेन गाण-
तेन यन्निष्पद्यते तदध्रुवम् । तत्रैकगुणितमूनाप्रभागहारं निक्षिप्याधिकाग्रभागहा-
रेण गुणयित्वा तत्राधिकाग्रं युङ्ग्यात् । ततस्तादृशः कश्चिद्भाज्यसशि-
भवति । ध्रुवे द्विगुणितमूनाग्रभागहारं वृत्त्वा तदधिकाग्रभागहारेण [हत्वा ]
तत्राधिकमग्रं निदध्यात् । ततस्तदपरः कश्चित्तादृशो भाज्यराशिभवति । एवं
त्र्यादिषु गुणितमूनाग्र[ भाग हारं ध्रुवे निक्षिप्योक्तप्रक्रियया भाज्यराशि-
सहसमानयेत् । अथात्र केषुचित्प्रश्नविशेषेषु मत्यन्तराण्यङ्गाकत्योकरवाणि
कृत्वा तदशेनाप्युक्तपक्रिययाऽपरिमितान् भाज्यराशीनानयेत् । अत्रेदमनुसं-
धेयम् । अ(य)बोनाग्रभागहारेणाधिकाग्रभागहारः शुध्यति तत्राधिकारयुक्तोऽ-
विकाग्रभागहारः प्रथमो भाज्यराशिर्भवति । तत्रैकादीष्टसंख्यागुणितोऽप्रभा-
गहारः स्वामयुक्तस्तदनन्तरादिस्तदुत्तरो भाज्यराशिर्भवतीति । इहैतदप्यनुसंधे-
यम् । शेषपरस्परभक्तमित्यत्र स्त्र फलपङ्गिरेका भवति तदा शेषयोरप्येकः
शुभ्यति । यत्र च फलपती द्वे भवतस्तदा शेषयोश्चैकः शुभ्यति । तत्रोभयंत्र
प्रथमत एव प्रत्यासन्नां मति कल्पयित्वा तयाऽधिकाग्रभागहारं हत्वा तत्रा-
धिकमग्रमर्पयेत् । एवं कृते प्रथमो भाज्यराशिर्भवति । अत्र प्रथमत
एव कल्पिता प्रत्यासनां मतिमेकादीष्टसंख्यागुणितोनामभागहारयुक्तां कृत्वाऽ-
धिकामभागहारेण हत्वा तत्राधिकमयं च दत्त्वा तदपरान् भाज्यशीनानयेत् ।
अवापि केषुचित्पनविशेषेषु प्रथमत एव मत्यन्तराण्युररीकृत्य तदशादनन्तरो-
तपक्रिययाऽन्यानपि भाज्यराशीनानयेदिति । एतानि सर्वाणि परे विशेषाश्च
क्रमेणोदाहरणमुखेन स्पष्टी क्रियन्ते ॥ ६ ॥ ७ ॥
महालक्ष्मीमुक्तावलीमाहितः- उद्देशक:-अष्टादशभिरेकायो यो भवेद्राशिरुद्धृतः। एकोनत्रिंशता चाऽऽतः सप्ताग्रस्तं सुधीर्वद ॥१॥(८)। अत्राधिकाग्रभागहार एकोनविंशत्(२९)। अस्मिन्नूनाग्रभागहारेणाष्टादशकेन (१८)च्छिन्ने शिष्टराश्योरुपरिराशिरकाशसंख्यः(११) अधोराशिरष्टादशसं- स्यः(१८)। एतावुपर्यधोभावेन स्थापितौ ११। अथोपरिराशिनैकादशकेन १८॥ (११) स्वाधोराशावष्टादशके(१८) विभक्ते लब्धमेकम् (१)। ततस्तच्छेषण समफेन(७) स्वोपरिराशावेकादशके(११) भक्ते लब्धमेकम(१)। इदं पूर्वफल- स्पाधो निहितम् । तच्छेषेण चतुष्कण(४) स्वाधोराशौ सप्तके(७) विभ- के लब्धमेकम्(१) । इदं पूर्वफलयोरधो दत्तम् १, १,१, । ततस्तच्छेषेण विकेण(३) स्वोपरिराशौ चतुष्के (४) विभक्ते लब्धमेकम् (१) । एतत्पूर्वफला- नामधो विन्यस्तम् १, १, १, १, । इत्थं चतसः फलपङ्गयः । शेषयोरुपर्येक (१)अधस्लीणि १,३ । अग्रान्तरं पटकम् (६)। अत्र युग्माः फलपतयः। शेवावपि लघुकताविति मतिः कल्प्यते । अयं रूपात्मक उपरिराशिः कया संरूपया गुणितः षटकामतेनामान्तरेण युक्तश्च स्वाधोराशिना त्रिकेण शुध्प- तीति लब्धा प्रत्यासन्ना मतिखिसंख्याका(३)। एषा चतुर्णा पूर्वेषां फलानामघो निहिता १, १, १, १, ३ । अथोपरिराशौ मतिगुणितेऽमान्तरेण च युक्त नवक(९) जातम् । अस्मिन्स्वाधोराशिना विकण(३) हृते लब्धं त्रयम्(३)। एतन्मतेरधस्ताद्दत्तम् १, १, १, १, ३, ३ । एषा फलवल्लीत्युच्यते । अथै- तेषु समतिषूपान्त्येन मतिसंज्ञकन त्रिकेण गुणेन गुणिते रूपात्मके तदुपरिफले- न्स्पेन विकेण च युक्ते षट्कं (६) जातम् । ततः शिष्टेषु पञ्चसु पर्दषूपान्त्येन पट्कन गुणिते रूपात्मके तदुपरिफलेऽन्त्येन मतिसंज्ञकेन विकेण च युक्ते नवकं (९) जातम् । ततः शिष्टेषु चतुर्षपान्त्येन नवकेन गुणिते रूपात्मके तदुपरिफ- लेऽन्त्येन षट्केन च युक्ते पञ्चदशकं(१५) जातम् । ततः शिष्टेषु विकेषुपा- न्स्पेन पश्चदशकेन गुणिते रूपात्मके तदुपरिफलेऽन्त्येन नवकेन युक्ते चतुर्विश- ति:(२४) जाता । एवं वल्ल्युपसंहारः कृतः । अथात्र पदवयाभावादवउपरिगु- णितमन्त्ययुगित्तन प्रवर्तत इत्यत्राधोराशि: प्रमृष्टः । अथ चतुर्विंशति- १ क. शिरप्रकृतः।
कुट्टाकारशिरोमाणः
(२४) संख्याकोपरिराशावूनाग्रच्छेदेनाष्टादशकेन(१८) भक्त पटक(६) शि-
व्यते । अस्मिन्नाधिकापच्छेदेनैकोनाशता(२९) गुणिवाधिकामेण सप्तकेन(७)
च युक्त एकाशीत्युत्तरं शतम्(१८)। अयं द्विच्छेदामः प्रथमो भाज्यराशिः।
अयमष्टादशभि(१८)विभक्त एकाग्र एकोनविंशता२९सप्तायः७ । अथान्येऽपि
भाज्यराशय उदाहियन्ते । अवोनामभक्तशेष षट्कम्६ । अस्मिन्नेकगुणितोनाम-
भागहारेणाष्टादशन १८युक्त चतुर्विशति२४ाता। अस्यामधिकामच्छेदेनको-
नशिता र ९गुणि तायामधिकाग्रेण सप्तकेन७ च युक्तायां त्र्यधिकं शतसप्तकं
७०३ जातम् । अयं चावान्यो भाज्यराशिः । अथोनापच्छेदभक्तशेष
द्विगुणेनोनामच्छेदेन ३६युक्ते४२अधिकारच्छेदं२९गुणयित्वा तत्राधिकामं स-
सकज्युक्तं पञ्चविंशत्युत्तरशतद्वयाधिकसहस्री १२२५जातम् । अयं चापरो भा-
ज्यराशिः। एतौ चानन्तरौ भाज्यराशी अष्टादशभिः १८ एकागौ। एकोनत्रि-
शता२९सप्तायौ । एवंप्रकारेण भाज्यराशिसहसमानतव्यम् ॥८॥
अथ प्रश्नविशेष उदाहियते । उद्देशक:-
आकृत्यै(२२)कादशाग्रा(११) ये सप्ताग्रा(७) मनुभि(१४)हृताः।
आसन्ना राशयोऽष्टौ तानाचक्ष्व मतिमद्वर ॥ २ ॥९॥
अत्र पूर्वोक्तप्रक्रियया रूपात्मिकायाः प्रथमाया मतेराश्रयणेनाऽऽनीता:
प्रथमतृतीयपश्चमा विषमा भाज्यराशयः क्रमण लिख्यन्ते । तत्र प्रथमः सप्त-
सप्तति( ७७ )संख्यः । तृतीयः पश्चाशीत्युत्तरशतत्रय( ३८५ )संख्यः ।
पञ्चमः सप्तोनशतसप्तक(६९३)संख्यः। सप्तमः सैकसहस(१००१)संख्यः ।
अत्र द्वितीयादिसमभाज्यराशयः प्रथममत्यवलम्बनेन सेत्स्यन्तीति तदनन्तरां
चतुष्टयात्मिका मतिमवलम्ब्य पूर्वोक्तपक्रिययाऽऽनीतो द्वितीयो भाज्यराशिरेक-
त्रिंशदुत्तरशतदय( २३१ )संख्यः । चतुर्थ एकोनचत्वारिंशदाधिकपश्चशत-
( ५३९ संख्यः । षष्ठः सप्तचत्वारिंशदुत्तरशताष्ट( ८४७. संख्यः ।
अष्टमः पश्चपञ्चाशदुत्तरकादशशत( ११५५ )संख्यः । एवमेतेऽष्टापि
राशयों द्वाविंशत्या (२२) विभक्ता एकादश (११) शेषा भवन्ति ।
चतुर्दशभिः सप्त शेषाः। एवमेवंविधमश्नविषये भाज्यराशय आनेतव्याः ॥९॥
अथ यत्रोनाग्रभागहारेणाधिकाग्रभागहारःशुध्यति वत्रोदाहियते। उद्देशक:-
यस्याः सप्तभिर्भक्तः सप्तत्या दशकामकः।
जानासि यदि तं राशिं ब्रूहि सांवत्सरापणीः ॥ ३॥ १० ॥
.. ." लक्ष्मीमुक्तावलामाहतः अबोनाग्रभागहारण सप्तकनाधिकाग्रभागहारः सप्ततिसंख्यः शुध्यति । तस्मादत्र सप्ततिसंख्याकेऽधिकाग्रभागहारेऽधिकाग्रेण दशकन युक्तेऽशीति- ( ८० )जाता । अयमत्र प्रथमो भाज्यराशिः। अयं सप्तभिर्भक्तस्ययो भवति । सप्तत्या दशकायः। अथ द्विगुणेऽधिकाग्रभागहार ( १४० )। अधिकाग्रेण (१०) युक्तं पञ्चाशदुत्तरशतं ( १५० ) जातम् । अयमत्र द्वितीयो भाज्यराशिः । एवं भाज्यराशिसहसमानतव्यम् ।। १० ॥ अथ शेषपरस्परभक्तमित्यत्र फलपङ्क्तिरेका भवति । तदा शेषयोरप्यकः शुध्यति । तबोदाहियते । उद्देशक:- यो दिग्भि( १०)विहतस्ययो रूपायस्तिभिरुद्धृतः । तं राशि शीघ्रमाचक्ष्व वेत्सि चेदणकोत्तम ॥ ४ ॥ ११ ॥ अत्रोनाग्रभागहारेण त्रिकणाधिकामभागहारे दशके हत उपरिराशिर- कसंख्यः । अधोराशिलि( ३)संख्यः । अवोपरिराशिनाऽधोराशिः शुध्यति । फलपतिरप्येका भवति । अतोऽबाऽऽदावेव मतिः कल्प्यते । अयं रूपात्मक उपरिराशिः केन गुणितोऽग्रान्तरेण द्विके( २ )न च युक्तः स्वाधौराशिना त्रिकेण शुध्यतीति लब्धा पत्यासन्ना मती रूपात्मिका ( १ ) । अनया गुणि- तेऽधिकाग्रभागहारे दशकसंख्ये (१०) अधिकाग्रेण विकेण ( ३ ) च युक्त त्रयोदशकं ( १३ ) जातम् । अयमत्र प्रथमो भाज्यराशिः। अयं दश- भिस्यमः त्रिभिरेकायः । अथात्र रूपात्मिकायां मताकगुणोनाग्रभागहारे त्रिके दत्ते चतुष्क ( ४ ) जातम् । अस्मिन्नधिकाग्रभागहारण दशकेन गुणि- तेऽधिकाग्रेण विकेण च युक्ते त्रिचत्वारिंश( ४३)ज्जाता । द्वितीयो भाज्यराशिः । एष च दशभिस्त्र्ययः । त्रिभिरकामः । एवं भाज्यस- हसमानेयन् ।। ११ ॥ अथात्र प्रश्नविशेष उदाहियते । उद्देशक:- ये राशयोऽष्टभक्ताश्चेच्चतुरमा भवन्त्यपि । अष्टाग्रा द्वादशाप्ताश्चेत्तेष्वायांश्चतुरो बद ।। ५॥ १२ ॥ अवाऽऽदावेव कल्पितायां रूपात्मिकायां मत्यामधिकाग्रभागहारेण द्वाद- शकेन गुणितायामधिकाग्रेणाष्टकेन युतायां विंशति(२०)जाता । अयं प्रथमो भाज्यः । अथ द्वितीयया रूपत्रयात्मिकया मत्या पूर्ववदानीतो द्वितीयो १ ख. त्रिणकामः। अयमन अथ यत्र कुढाकाराशरोमाणिः। भाज्यश्चतुश्चत्वारिंश( ४४ )संख्यः। अथ तृतीयया रूपपञ्चकरूपया मत्या पूर्ववदानीतस्तृतीयो भाज्यराशिरष्टषष्टि( ६८ )संख्यः । अथ चतुझं रूप- सप्तकरूपया मत्या पूर्ववदानीतश्चतुर्थो भाज्यराशिनिववि( ९२ )सरूपः । एवमेते चत्वारो भाज्यराशयोऽष्टाभिश्चतुरमा द्वादशभिरष्टायाः ॥ १२ ॥ शेषपरस्परभक्तम् " इत्यत्र फलपली द्वे भवतस्तदा शेष- योरप्येकः शुध्यति । तत्रोदाहियते- उद्देशक:-अष्टाभिश्चतुरग्रो यो व्यग्रोऽष्टादशभिर्हतः। क्षिप्रमाख्याहि तं राशि साग्रे ययस्ति संस्तवः ॥ १३ ॥ अबोनाग्रच्छेदेनाष्टादशकेनाधिकाग्रच्छेदोऽष्ट संख्यश्छेत्तुं न शक्यते । तस्मादव यथास्थितयोरेवानयोः परस्परभजनं कार्यमित्युपरिराशिनाऽष्टकेनाधो- राशावष्टादशके विहते द्वयं शिष्यते । तेनाष्टसंख्यः स्वोपरिराशिः शु- ध्यति । फलपङ्गी च द्वे भवतः । तत्राऽऽदावेव प्रत्यासन्ना माति कल्पयित्वा पूर्वपदानीतः प्रथमो भाज्यराशिविंशति( २० )संख्यः। अयमष्टभिश्चतुरमः। अष्टादशभिर्व्ययः । एंवपेवंविधा भाज्याः साध्याः ॥ १३ ॥ अथ द्विविधवहुभागहारवद्भाज्यराशिमभविषय उदाहियते- उद्देशक:-प्रकृतेस्तिसाभ(३)भक्तो यो राशिः स्याद्विशेषतः । चतुर्दशायः संस्कृत्या(२४)तिसृभिस्तं वदाऽऽशु मे ॥७॥१४॥ एषां द्विविधानां षण्णा हराणां सकाशादपवर्त्य हरौं द्वौ दो धमपवर्तकेग संगुणयेदियुक्तप्रक्रियया पूर्वमूनाग्रच्छेदोऽधिकामदानी- यते । १. - एकविंशत्तेद्वाविंशतेश्चापवर्तकाभावादनयोराहतिः पिचरसाणका ( ४६२ सरना । अथास्यास्त्रयोविंशतेरप्यपवर्तकाभावादनयोः सापड क्षितकदिकर १०६२६)मख्यः । अत्रायमूनोग्रच्छेदः । अथ चतुर्विशते: पञ्चविंशतश्चापवर्तकाभावादनयोराहनिः पूर्णखतर्क पूर्णखतर्क( ६०० संख्या । अथास्याः पशिं. वर्तको द्वि( २ )संख्यः । अनेनापवर्वितयोरतयो- बंधः खात्राङ्कराम( ३९०० संख्यः । अयमपवर्तकेन द्विकेन गुणितः पूणीभवसमुनि ७८०० )संख्यः । अवायमधिकारच्छेदः । अथैवमाग- १ क. स्थायाः । २ स. “पकः । ३ क. “दस्याऽऽ । ४ क. संसर्गः। ५ ख. र्णाश्रख ।
- १. महालक्ष्मीमुक्तावलीसहित:- ताभ्यामाभ्यामूनागच्छेदाधिकाग्रच्छेदाभ्यां द्वादशसंख्याकेनाग्रान्तरेण च पूर्व- बदधिकामभागहारामित्येवमादिनाऽऽनीतः पश्चमो भाज्यराशिर्मनुवेदमुनिकतराम- रवि( १२३४७४१४ )संख्यः । अयमेकविंशत्या द्वाविंशत्या त्रयोविंशत्या च विभक्तो ययः । चतुर्विंशत्या पश्चविंशत्या षड्विंशत्या च चतुर्दशायः। अत्राप्येवंविधा भाज्यराशयः पूर्ववदानेयाः॥१४॥ अथ प्रश्नान्तरमुदाहियते- उद्देशक:-नवत्या सैकयैकाग्रो यो विंशत्या निरग्रकः । द्रुतमाचक्ष्व दैवज्ञ तं राशि मम पृच्छतः॥ ८॥ १५ ॥ अत्रैकनवतिसंख्येनाधिकामच्छेदेन विंशतिसंख्पेनोनाग्रच्छेदेन रूपात्म- केमागान्तरेण च प्राग्वदानीत आद्यो भाज्यराशि खाष्ट( ८२०)संख्यः। अयमेकनवत्या रूपायः, विंशत्या शून्याः। अतोऽन्येऽप्येवंविधा भाज्यरा- शयः पूर्ववदानेयाः । १५ ॥ अथ भिन्ननहुभागहारभिन्नवबमसामकुद्दाकारविषयमायाद्वयमाह- * भिन्नबहुभागहारे कुट्टाकारे विभिन्नवदने । हरयोईयोईयोर्यों भाज्यः सोऽयं भवेद्धरस्तस्य । हरयोः संवर्गः स्यादेवं कार्य पुनः पुनस्तावत् । यावद्विभाजको द्वौ भवतो भाज्योऽत्र पूर्ववत्साध्यः ॥ अस्यार्थ उदाहरणेन व्यक्ती भविष्यति- उद्देशक:-सप्तादिभित्रिमिभक्ते यस्मिन्रूपशराब्धयः । शेषाः क्रमाद्भवेयस्तं राशिमाचक्ष्व तान्त्रिक ।।९।१६॥ : *लीलावतीग्रन्थे क्वचिदेते श्लोका दृश्यन्ते । ते च प्रकृतोपयुक्तत्वाबोध्रियन्ते- हारे विभिन्ने गुणके च भिन्ने स्यादायराशेर्गुणकस्तु साध्य । द्वितीयभाज्यघ्नतदाद्यजो गुणः क्षेपो भवेत्क्षेपयुतो द्वितीये ॥ द्वितीयभाज्यघ्नतदाबहारो भाज्यो भवेत्तत्र हरो हरः स्यात् । एवं प्रकल्प्यापि च कुट्टकेऽथ जातो गुणश्चाऽऽयहरेण निधनः ।। गुणो भवेदायगुणेन युक्तो हरघ्नहारोऽत्र हरः प्रविष्टः । अथ तृतीयेऽपि तथैव कुर्यादेवं बहूनामपि साधयेत्तु ॥ +nd- १ स. अत्रा।
कुट्टाकारशिरोमणिः। ११ अत्र क्रमादिमे हारीः ७,८,९ । अगाणीमानि १,५,४, एष्वाधाभ्यां हराभ्यामयान्तरेण चोक्तवदानीतो भाज्यराशिरेकोनविंशत्संख्यः (२९) । अयं सप्तभिभक्तो रूपामः (१)। अष्टभिः पञ्चायः (५)। अथायमेव भाज्यस्तृतीयेन सह कर्मणि कर्तव्ये ' हरयो यो योर्यो भाज्यः सोऽयं भवेत् । इत्ययं भवति । अस्याग्रस्य च्छेदयोर्वधः तस्य हरयोः संवर्गो हरः स्यात् ' इति च्छेदो भवति । स चात्र षट्पञ्चाशत्संख्यः( ५६ ) । अस्यायमेकोनविंशत्संख्यम् (२९) । भाज्यराशिस्तूतीयच्छेदोनदश( ९ संख्यः। अस्यायं वेद- (४)संख्पम् । अग्रान्तरं पश्चविंशति( २५)संख्यम् । अथाऽऽद्या- भ्यां छेदाभ्यामनेनाग्रान्तरेण चोक्तवदानीतस्त्रिच्छेदायो भाज्यराशिः पश्चाशीति- (८५ )संख्यः । अयं सप्तभिर्भक्त एकाग्रः (१)। अष्टभिः पश्चायः (५)। नवभिश्चतुरमः (४)। एवमेवंविधप्रश्नविषये भाज्यराशय आने- तव्याः ॥ १६॥ अथात्रय प्रश्नविशेष उदाहियत- उद्देशकः-को राशिः कैहरौर्भिनर्भक्तो भिन्नावशेषकः । स एवाक्ययुक्तश्चेत्तहरैरेव शुध्यति ॥ १०॥ १७ ॥ अत्राऽऽदौ स्वेच्छयांज्याणि कल्पयित्वा तदशाक्ष्यमाणपकारेण वेषां तेषां छेदानुत्पाद्यानन्तरप्रदर्शिवभिन्नबहुमागहारभिन्नबह्वग्रभाज्यराश्यानय मकारेण भाज्यराशिमानयेत् । अष्टामवशात्तच्छेदानयनार्थमिदमभियुक्तपणीत --- अयाणीष्टानि स्युस्तद्योगोऽयान्वितः पृथक्छेदाः । अप्रैक्पयुते भाज्ये वियुते त्वौक्यमगोनम् ॥ अस्पार्थ:-अग्राणि शेषाणीष्टानि स्युः । अभिमेवानि कल्प्यानि भवेयुः। वद्योगोऽपयोगः पृथगयान्वितः. पृथक्पृथक्तमयुतः सन् छेदास्तत्तदमाव- न्तरछेदाः स्युः । अप्रैक्ययुते भाज्ये भाज्यराशौ तत्तच्छेदानां निरमदानार्थ- ममयोगेन युक्त सत्येतद्देदितव्यम् । वियुते तु भाज्यराशौ तत्तच्छेदानां निर- मदानार्थमग्रयोगेन हीने सति पुनः 'अगैक्यमयोनम् ' अग्रयोगः पृथक्पृथक तत्तदगवियुतः संस्तत्तदग्रवन्तश्छेदाः स्युः । उदाहरणम्- अत्र कल्पितान्यप्राणीमानि त्रीणि ( ३ ) । चत्वारि (४)। पच . ६२ महालक्ष्मीभक्तावलीसहितः- (५)। एषां योगो रवि १२)मख्यः । पप धा निहितः १२, १३, १२ । एषु पूर्ववत्कल्पिनेवीषु ३.४. शिमषु जानाश्छदाः पद ( १५)। षोडश ( १६ ) सप्तदश : १७ । । एषां क्रमेणामाणि पूर्व- लिखितान्येव ३-४.५। एमिश्छेदरेनरश्चानन्तरप्रदर्शितभिन्नबहभागहारभिन्न- बनभाज्यराश्यानयनप्रकारेणाऽऽनीनो भाज्यगशिर्वसुरसपूर्णान्धिः (४०६८)। एष पञ्चदशभिर्भक्तस्त्र्ययः ( ३ ) । पोडशभिश्चतुरमः ( ४ ) ! सप्तदशभिः पञ्चायः ( ५ ) । अथायमेव भाज्यराशिरक्येन द्वादशकेन( १२) मुक्त- वेदोभश्छेदैनिरग्राश्च भवति । एवमेवंविधा भाज्यराशयः माध्याः॥१७॥ अर्थाक्यहीनं भाज्यानयनमुदाहियते- उद्देशक:-को राशिः कैहरमिनर्भक्तो भिन्नावशेषकः । स एवाक्यहीनश्चत्तहरैरेव शुध्यति ॥ ११ ॥१८॥ अत्र पूर्ववत्मथमं स्वेच्छयाऽत्राणि परिकल्प्य तद्वशात् 'वियुते त्वक्प- ममोनम् । इत्युक्तप्रकारेण तेषां छेदानुत्पाद्य भिन्नवहुहारभिन्नवर्गभाज्यान- मनप्रकारेण भाज्यमानयेत् । अत्र पूर्ववत्कल्पितान्यप्राणीमानि पक्ष (५) सप्त (७) नव (९)। एषां योगश्चन्द्रकर( २१ संख्यः । अयं त्रिपा निहितः २१-२१-२१ । एभ्य एष्वग्रेषु ५-७-९ त्यक्तेषु जातारछेदाः पोडश (१६) चतुर्दश (१४ ) द्वादश ( १२)। एषां क्रमेणामाण्य- नन्तरपदर्शितान्येव ५-७-९। एभिरौरेतच्छेदैश्च भिन्नबहुभागहारभिन्नवत- अभाज्यराश्यानयनमकारेणाऽऽनीतो भाज्यराशिः शररसरामेन्दु( १३६५)- संख्यः । अयं षोडशभिः पञ्चायः । चतुर्दशभिः सप्तामः । द्वादशभिर्नवागः ५-८-९ । अयमेव भाज्यराशिरगयोगेन कुपक्ष( २१ संख्येन हीनथे- देमिश्छेदैनिरयो भवति । एवमेवप्रकारा भाज्यराशय आनेतव्याः । नन्वन्त- रयोः प्रश्नयोः ॥ स एवाक्ययुक्तश्चत्तैहरैरेव शुध्यति । स एवाक्यहीन- श्वेत्तहरैरे शुध्यति । इति च निरयता प्रतीयते । तदनुपपन्नमनयोः सामाधि- कारे कथनम् । सत्यम् । ' को राशिः कैहरौभिन्नभक्तो भिन्नावशेषकः । इति सायताऽपि दृश्यत इति युक्तमुक्तम् । अथ कक्ष्याकुट्टाकारः पदर्यते । तत्राऽऽदो कक्ष्याग्रहानयनं ज्ञातव्यम् । अतस्तदुच्यते- १ ख. 'क्यादीनां भा" ।
कुट्टाकारशिरोमाणः । "खव्योमखत्रपखसागरषट्कनागव्योमाष्टशन्ययमरूपनगाष्टचन्द्राः (१८- ७१२०८०८६४ ००००००) इति भगवता सूर्येणोपदिष्टयाऽऽकाशकक्ष्यया गुणिते स्वेष्टदिनगणे सहसाहतेन ग्रहकक्ष्याभूदिनसंवर्गेण विभक्त लब्धं भगणादि अहो भवेत् । शेष कक्ष्यायम् । इष्टदिनानां स्वक्ष्यागुणाकारः सहसगुणो ग्रहक- क्ष्याभूदिनसंवर्गो भागहारः। एतावपवर्तिताविष्टदिनानां गुणहरौ भवतः। एतस्ति- पक्षेऽपवर्तितयाऽऽकाशकक्ष्यया निहते स्वाभिमतदिनगणेऽपवर्तितेन सहसनिहतम- हकक्ष्याभूदिनाभ्यासेन विहते लन्धं भगणादिग्रहः । शेषं कक्ष्यामम् । अथवा खकक्ष्याभूदिनयोरपवर्तितयोर्यत्खकक्ष्यातो लब्धं तविष्टदिनानां गुणः। यत्तु भूदिनतो लब्धं तेन सहस्रगुणितेन गुणिता ग्रहकक्ष्या तेषां भागहारः। अस्मि- पक्षे पुनरिष्टदिनगणेऽपवर्तितया खकक्ष्यया गुणिते सहसगुणितेनापवर्तितभूदि- मेन गुणितया ग्रहकक्ष्यया विभक्ते लब्धं भगणादिमध्यग्रहः । शेष कक्ष्यायम् । एवं त्रिभिः प्रकारैः कक्ष्याग्रहानयनं कक्ष्यामं चोक्तम् । एष्वन्तिमप्रकारे यत्के- क्ष्यामं तदेवोद्दिश्यते । अस्य भागहारः सहसनेनापवर्तितभूदिनेन गुणिता ग्रह- कक्ष्या । उद्देशकः- कक्ष्या सवितुः खखाक्षिशिखारक्ष्माक्ष्यद्रिचन्दाकृति- व्यर्थाध्यब्धिरसाभ्रतर्ककरभूसंख्यं १२६०- ६४४५२२२१७२१७२०० मृगाङ्कस्यतु । लक्षमाभ्रकरार्थवाणनवकव्यष्टेशनागवंगा ७६८११८२९५५२०००००० व्ययं भाज्यमहर्गणं च भगणान्यातारवीन्द्वोर्वद ।। १८ ॥ न्यासः-रवेः कक्ष्याप्रमिदम् (१२६०६४४५२२२१७२१७२००) इदमत्राधिकाग्रम् । अथ स्व( ख )कक्ष्याभूदिनयोः ‘विभजेद्धारविभाज्यो' इति परस्परभक्तपोः शेष वेद( ४ )सख्यम् । एष स्व( ख )कक्ष्याभूदिनयो- रपवर्तकः । अनेनापवर्तिता खकक्ष्या प्रयुतघनृपव्यप्रद्विखाधाद्रिरताधि- (४६७८०२०२१६००००००)संख्या । अपवर्तितं भूदिनमचलार्थकता- मदिवेदाधिनवपावक( ३९४४७९४५७)संख्यम् । एतत्सहसगुणितम् ( ३९४४७९४५७०००) । अथानपातायां खकक्ष्यायां सहस्रर्यु- *( सूर्यसिद्धान्ते भूगोलाध्याये श्लो. १०) १२संख्या १४ महालक्ष्मीमुक्तावलीमहिनः-- गमहभगणैर्विभक्तायां योजनामिका महकक्ष्या भवतीनि लब्धा रविकश्या द्वादशयोजनषष्टयशसहितखखतिथिरामामिवेद( ४३३१५०० ६० एषा पूर्वलिखितसहसाहताऽपवर्तितभूदिनाभ्यस्ता ब्योमाशक्रनवविश्वनवाष्टतर्क- वेदाष्टशैलगजषड्वसुखाद्रिचन्द्र ( १७०८६८७८४६८९१३९१४००)सं- ख्या। अयमवाधिकामभागहारः । चन्द्रस्य कक्ष्यायमिदम् (७६८११८२- ९५५२००००००) । एतदिहोनायं प्रागुक्तकमलन्धमेव । चन्द्रकक्ष्या खत्रयान्धिद्विदहन( ३२४००० )संख्या । एषा सहसनाऽपवर्तितभूदिन- गुणिता प्रयुतघ्नाष्टषट्खाधिवेदानीशाष्टाघ( गा ( १२७८१९३४- ४०६८०००००० )संख्या। अयमत्रोनाग्रभागहारः । अग्रान्तरं खखाक्ष्य- त्यष्टिशीषुरसषद्व्यङ्कतुद्विरामाष्टविगजेश( ११८३८३२६९२६६५२१७- २०० संख्यम् । अौतेअधिकाग्रभागहारोनाग्रभागहारामान्तरराशयोऽपवर्तनं प्रयच्छन्तीत्यपवर्त्य प्रदर्श्यन्ते । अवापवर्तकः पूर्णाधवर्काकतिखाग्नितव्योपा- प्रचन्द्रगिरि( ७१००६३०२२६०० संख्यः । अनेनापवर्तितोऽधिकाग्र- भागहारो नवाष्टत्रिषट्खसिद्ध( २४०६३८९ )संख्यः । अपवर्तितोनाम- भागहारोऽप्ययुतगुणधति( १८०००० संख्यः । अपवर्तिताग्रान्तरं याकतिमुनिरसनुप( १६६७२२२ संख्यम् । एभिरधिकाग्रच्छेदगुणमित्ये- तदन्तेन कर्मकदम्बेन जातो राशिर्वसमनिगिरिराविगजाब्धि( ४८१२७७८) संख्यः । अयमत्र केनापवर्तकेन गुणितोऽधिकागयुक्तश्चार्बुदाहताष्टिद्विनखखाष्टा- दिरससिन्धु (४६७८०२०२१६००००००००)संख्यः। अयं दिच्छेदामो भाज्यराशिः । अस्मिन्नपवर्तितखकक्ष्यया गुणेन विभक्त लब्धो राशिः सहस- (१०००)संख्यः। एष स्वेष्टदिनगणः । अथ विच्छेदागे भाज्यराशावन- पवर्तितेनाधिकायभागहारेण विच्छेदेन ह(ह)ते लब्धौ गतौ रविभगणी दौ ( २ ) । शिष्टमुद्दिष्टरविकक्ष्यायतुल्पम् । अथ विच्छेदागे भाज्यराशाववानपवर्तितोनाग्रभागहारण चन्द्रच्छेदेन विहते लब्धा गताश्चन्द्रभगणाः षट्त्रिंशत् (३६)। शेषमुद्दिष्टरविकक्ष्यामसमम् । एवं द्वयोः कक्ष्याप्रयोरुद्दिष्टयोः सतोरानयप्रकारः । बहूनां कक्ष्यायेद्दिष्टेषु भिन्नबहुभागहाराभिनवययोः कुट्टाकारानयनपकारेण भाज्यराश्यहर्गणगत- कुट्टाकाराशिरामाणः । ६५ भगणाः साध्याः । एवं सूर्यसिद्धान्तमार्गमवलम्ब्य कक्ष्याकुटाकारानयनं मदर्शितम् । आर्यभटीयानुसारेण कक्ष्याकुट्टाकारानयने तु विशेषः । अब सूर्यसिद्धान्तानयनमार्गेणैतदानयने यत्र यत्रा सहसगुणनमुक्तं तत्तदिह न कर्त- न्यम् । अन्या सर्वाऽपि प्रक्रिया समाना ॥ १८ ॥ अथ खिलविशेषानुपपन्नमन उदाहियते-उद्देशकः- योऽष्टाभिनंवभिः षभिर्दशभिश्चतुरग्रकः । द्यायैश्चतुर्मिरेकामस्तं राशि व्याहराञ्जसा ॥२३॥१९॥ अत्र षड्भिरष्टभिवा यो राशिश्चतुरयो भवति स कथं चतुर्मिाभ्यां वा रुपामो भवतीत्यालोच्य प्रश्नोऽयमनुपपन्न इति ब्रूयात् । एवमन्येऽप्यनुपपन्नाः प्रभा बोधव्याः ॥ १९ ॥ अथ खिलविषय उदाहियते-उद्देशक:- द्विचत्वारिंशता व्यत्रः षविंशत्यैकशेषकः। यो राशिस्तं द्रुतं ब्रूहि सानं वेद भवान्यदि ॥२४॥२०॥ अत्र पूर्ववदागतानि प्रत्येकं रूपात्मकान्युपर्यधोभावेन निहितानि फलानि १,११,१। शेषयोरुपरिराशिर्लोचन( २ संख्यः । अधोराशिर्वेद- (४)संख्यः। अत्र मतिः कल्पयितुं न शक्यते । तस्मादिह भाज्यराशिः खिल इति वक्तव्यम् । यत्र च्छेद्यौरपवर्तकोस्ति सोऽमान्तरस्य तु नास्ति तत्र भाज्यराशेः खिलत्वं द्रष्टव्यम् । यत्रैषां त्रयाणामपि सदृशोऽपवर्तकोस्ति तदभावो वाताखिलत्वं द्रष्टव्यम् । एवं सागविषयेऽधिकामादिसूत्रयुगं पति- पत्तणां बुद्धिव्यामोहो मा भूदित्येकयैव च रीत्या व्याख्यातम् । अथैतदेवात्र किंचिद्विकल्प्य व्याक्रियते-' पूर्व शेषपरस्परभक्तं मतिगुणमयान्तरे क्षिप्तम् । इत्यत्र फलपङ्क्त्यां समायां सत्याममान्तरं समं कृत्वा मतिं कल्पयित्वा तथाऽल्पमुपरिराशिं गुणयित्वा तच्चानान्तरे क्षिप्त्वा तदधोराशिना हवा लब्धं समपतीनां फलानामधो निहिताया मतेरधस्तानिध्यादित्युक्तम् । इदानीं तत्र विषमायाँ फलपकन्यामयान्तरमृणं कृत्वा मति परिकल्प्य तया:- ल्पमधोराशि संगण्य तस्मादयान्तरं विशोध्य तदुपरिराशिना विभज्य लब्धं विषमपङ्खीनां फलानां मध्ये दत्ताया मतेरधः स्थापयेदित्युच्यते । अन्यत्सर्व पूर्ववत् । एवं कृतेऽपि पूर्वपदर्शितपखिलमुद्दाहरणजासं पायश: सेरस्पत्येव ।
१६ महालक्ष्मीमुक्तावलीसहित:-- अस्मिन्पक्षे 'अप्रान्तरे । इत्यन्तं विभक्तिविपरिणामी दृष्टव्यः। अग्रान्तरे- णेति । छन्दोवत्सूत्राणि भवन्तीत्युक्तत्वाच्छन्दसि हि विभक्तिविपरिणामः प्रसिद्धः । क्षिप्तमित्येतदवहीनमित्यस्योपटक्षणम् । तस्मादग्रान्तरेणोनामिति सिद्ध भवति । तथैव वाऽस्तु पाठः। "ऊनाग्रभागहारं छिन्द्यादधिकाग्रभागहारेण । शेषपरस्परभक्तं मविगुणमयान्तरे क्षिप्तम् ।। अधउपरिगुणितर्मत्ययुगाधिकापच्छेदभाजिते शेषम् । ऊनाग्रच्छेदगुणं विच्छेदाग्रं विहीन शेषयुतम् ॥ इति । अस्मिन्पाठे यदा समायां फलपङ्घयां मतिकल्पनेष्टा तदाध्यान्तरमृणं कृत्वा मतिं कल्पयेत् । यदा विषमायां तस्यां मतिकल्पनाभिमता तदाऽमान्तरं धनं कृत्वा मति कल्पयेत् । एवमधिकारादिसूत्रयुगलं सायमधिकृत्य विस्तरेण व्याख्यातम् ॥ २० ॥ अथैतत्सूत्रयुगलस्य विषयमार्यया दर्शयति- अवशेषविषमभावे शेषस्यैकस्य शन्यतायां च । अवतरति सूत्रयुगलकमिदमन्यत्र तु निगद्यते कर्म ॥९॥२१॥ इदं सूत्रयुगलकमवशेषविषमभावकस्य शेषस्य शून्यतायां चावतरति । अन्यत्र तु कर्म निगद्यते । यत्राययोरुभयोर्वहूनां वाऽभावः समत्वं पा तय कर्मोच्यत इत्यर्थः । सूत्रायुगल कमित्या स्वार्थ कमत्ययः ॥ २१ ॥ तदिदं कर्माऽर्ययाऽऽह- शेषाभावे हारावपवर्त्यामू परस्परं हत्वा । अपवर्तकेन गुणयेच्छेषसमत्वे तु शेषमपि युञ्ज्यातू ॥१०॥२२॥ अस्यास्तूदाहरणमेव व्याख्यानम् ॥ २२ ॥ इति श्रीदेवराजविरचिते कुट्टाकारशिरोमणी सामप- रिच्छेदः प्रथमः ॥ १॥ : अथ द्वितीयः परिच्छेदः । उद्देशक:-यांयैर्दशकपर्यन्तर्यो राशिः शून्यशेषकः। तं राशिमभिधेहि द्राक् तान्त्रिकग्रामणीर्मम ॥ २५ ॥२३॥ १ क. प्रत्ययुगमाम ।
कुट्टाकारांशगमाणः । : : अब व्यादिषु नबसु च्छदषु द्विसंख्याकस्यास्य विसंख्यस्य द्वितीयस्य चापवर्तकाभावादनयोः संवर्गः षद(६)संख्यः । अयमादितो द्वयोश्छेद- योर्निरया भाज्यराशिः । अथास्य च चतुःसंख्याकस्य तृतीयस्य चापवर्तको द्वि(२)संख्यः । अनेनापतिनयोः क्रमात विद्विसंख्याकया( ३, २) रेतयोर्वधोऽपि षट्(६)संख्यः । अयमपवर्तकेन द्विकेन गुणितः सूर्य(१२) संख्यः । अयमादितस्त्रयाणां निरयो भाज्यः । अथास्य च पश्चसंख्यस्य चतुर्थस्य चापवर्तकाभावादनयोतिः षष्टि(६०)संख्यः । अयं चतुर्मा निरयो माज्यः । अथास्य च षट्संख्यस्थ पञ्चमस्य चापवर्तकः षद्(६) संख्यः अनेनापवर्तितयोः क्रमाद्दशैक(१०-१)संख्ययोरवयोरभ्यासो दशक(१०)संख्यः । अयमपवर्तकेन षट्केन गुणितः षष्टि(६०) संख्यः । अयमादितः पञ्चानां छेदानां निरनो भाज्यराशिः। अथास्य च सप्तसंख्यस्य षष्ठस्य चापवर्तकाभावादनयोवधी नखवद (४२०)संख्यः अयं षण्णां निरा भाज्यः । अथास्थ चाष्टसंख्यस्य सप्तमस्य चापवर्तक- चतुः(४)संख्यः । अनेनापवर्तितयोरेतयारभ्यास दिङ्नेत्र( २१० )- संख्यः । अयमपवर्तकन चतुष्कण गुणितः खाब्धिगज(८४०)संख्यः। अयं सप्तानां भेदानां निरा भाज्यः । अथास्यं च नवसंख्याकस्थ चाष्टमस्य चापवर्तकस्त्रि(३)संख्यः । अनेनापवर्तितयोरेतयोः संवर्गश्च खाब्धिगजसंख्यः (८४०)। अयमपवर्तकेन त्रिकेण गुंणितो नखतत्त्व (२५२०)संख्यः । अयमष्टानां हाराणां निरयो भाज्यराशिः । अथास्य च दशसंख्यस्य नवमस्य भागहारस्य चापवर्तको दशक(१०)संख्यः । अनेनापवर्तितयोरेतयोर- भ्यासः पक्षतत्त्व(२५२)संख्यः । अयमपवर्तकेन दशकेन निहतः पूर्वव- नखतत्त्व(२५२०)संख्यः । अयं द्विपूर्याणां दशपर्यन्तानां नवानां भाग- हाराणां निरमः प्रत्यासन्नो भाज्यराशिः ॥ २३ ॥ अथ शेषसाम्यविषय उद्देशकः-- व्यायैर्दशकपर्यन्तैनवभिर्भाजकैहृतः। यो भवेद्राशिरेकाग्रस्तमाचक्ष्वाविलम्बितम् ॥ २४ ॥ अब पूर्ववदानीतो नखतत्त्व( २५२०)संख्यो भाज्यराशिरेकेनामेण युक्तः (२५२१)पत्यासम्नो भाज्यराशिः । एवमनेन न्यायेन सूर्येन्दुजीव- भौमशनैश्चराणां बुधभृगुशीघोच्चयोश्चन्द्रोचपातपोश्च द्वियुगाशानयनं कर्त- .. महालक्ष्मीमुक्तावलीसहित:- व्यम् । उदाहरणं तु ग्रन्थविस्तरभयान प्रदर्श्यते । अब च-पूर्वेण पूर्वेण गंतेन युक्तं स्थानं विनाऽन्त्यं प्रवदन्ति संख्याः । इच्छाविकल्पैः कमशोऽभिनी नीचे निवृत्तिः पुनरन्यनीतिः( २३ ) ॥ बृहत्संहितायामध्याये( ७६ श्लोकः ( २२ ) वराहमिहिरः । इत्याचार्योक्तमकारेणैषामेकयुगविषयाः प्रभा नब( ९)। द्वियुगविषयाः षट्त्रिंत्( ३६)। त्रियुगविषपाश्चतुरशीतिः (८४)। चतुर्युगविषया रसनत्रचन्द्र ( १२६ )संख्याः । पञ्चयुगविषयाश्च तावन्तः ( १२६ )। षड्युगविषयाश्चतुरशीतिः (८४ ) । सप्तयुगविषयाः पट्त्रिंशत् (३६)। अष्टयुगविषया नव (९)। नवयुगविषयः प्रश्न एकः (१)। एवं संभूय रुदवाण( ५११)संख्याः प्रश्नाः संभवन्ति । अत्र रविचन्द्रभौमजीवशनैश्चराणां बुधकाव्यशीघोच्चयोश्चन्द्रोच्चपातयोश्च युगे: शून्यायो राशिर्वसुद्वयष्टाद्रिरूपाङ्कन्सप्तादितिथि( १५७७९१७८२८ ). संख्याः। आर्यभटीये तु व्योमशन्यशराद्रीन्दुरन्ध्रायशिरेन्दु(१५७७९१ ७५००)संख्यः । एवं सागकुट्टाकारो दर्शितः ॥ २४ ॥ इत्पत्रिकुलाभरणस्य स्कन्धत्रयवेदिनः सिद्धान्तवल्लभ इनि प्रसिद्धापर- नानः श्रीवरदराजाचार्यस्य वनयेन देवराजेन विरचितायां कुट्टाकारशिरोमणिटीकायां महालक्ष्मीमुक्तावल्यां सानपरिच्छेदः प्रथमः ॥ १ ॥ अथ निरमपरिच्छेदो द्वितीयो व्याख्यायते । तथाऽऽदौ निरग्रविषयं प्रश्नमार्यया प्रकटयति- हारकभाज्यक्षेपैरुद्दिष्टगुणफले य आख्याति । स निरग्रविदां श्रेष्ठो देवज्ञानां महीतले भवति ॥ १॥ य उद्दिष्टांगहारकभाज्यक्षेपैर्गुणफले आख्याति स महीपले निरविदा दैवज्ञानां मध्ये श्रेष्ठो भवति । तत्रे, मनशरीरम्---उद्दिष्टोऽयं भाज्यराशिः केन गुणकारेण गुणितः, उद्दिष्टेनानेन संख्यान्तरेण वियुक्तः संयुक्तो वा उद्दिष्टेनानेन भागहारेण विभक्तः शुध्येत्तादृशः को वान गुणकारः किं- बा फलमिति । एतच्चोत्तरत्रोदाहरणेन व्यक्ती भविष्यति ॥१॥ अथ तत्पश्नभङ्गायाऽामाह- कुट्टकसूत्रद्वितयं संयोज्य निरग्रकुट्टपद्धत्याम् । तत्रत्यैः कर्मचयैर्विद्वान् विदधीत गुणकफले ॥ २ ॥ १ स. गुणाका । २ स. गुणाका ।
कुट्टाकाराशरोमाणः। १९ अत्र विद्वच्छब्देन तान्त्रिक उच्यते । कुट्टकसूत्रद्वितयं पूर्वलिखित कुट्टाकारयुग्मविषयमार्यभटीयस्थमधिकामाद्याांसूत्रयुगलं निरप्रकुट्टपदयां निराकुट्टाकारमार्गे संयोज्य संयोज्य सम्यग्योजयित्वा तवत्यैर्निरमकुट्टाकारग- णितसंबन्धिभिः कर्मचयैः कर्मसमूहैर्गुणकफले गुणकश्च फलं च गुणकफले ते अत्र विदधीत कुर्यात् । अव यद्यपि सर्व सूत्रद्वयं नोपयुज्यते तथाऽपि प्राचुर्या- तदनादृत्य कुट्टकसूत्रद्वितयमित्युक्तमित्यवगन्तव्यम् ॥ २ ॥ अथाधिकायादिसूत्र प्रस्तुतमश्नमार्थं निरयमधिकृत्य व्याक्रियते । अ- धिकाग्रभागहारम् । अघायशब्देन संख्याऽभिधीयते । भागहारशब्देन चात्र भागहारभाज्यराश्योः परस्परं भाजकत्वात्तौ दावपि गृह्यते । अत्र ग्रहैकत्वव- देकत्वमविवक्षितम् । अतोऽयमर्थः संपन्नः । अधिकसंख्याको हरभाज्यराशी इति । अनाग्रभागहारेण च्छिन्द्यात् । अत्राप्यग्रशन्दः संख्यावचनः । ऊनसं. ख्येन भागहारेण विभजेत् । अपवर्तकेन संभवे सत्यपवर्तयेदित्यर्थः । अथायं कथमपवर्तको ज्ञायते तदानयनमन्यत्रोक्तम्- विभजेल हरविभाज्यौ परस्परं यावदेति संशुद्धिम् । एकस्थयोस्तदपरश्छेदो हरभाज्ययोर्भवति ॥ इति । अत्र च्छेदशब्दोऽपवर्तकपर्यायः। इह येनापवर्तकेन हरभाज्यावपवत्येते तेन ऋणात्मकस्य वा धनात्मकस्य वा क्षेपस्थापवर्तनमप्यर्थसिद्धमिति न कण्ठो- तम् । यत्र हरभाज्ययोरपवर्तनमप्यस्ति क्षेपस्य तु तन्नास्ति तदाहरणं खिलं विद्यात् । उक्तं च- "भाज्यहरपक्षेपान सदृशच्छेदेन संभवे छिन्यात् । स चेद्विभाज्यहरयोश्छेदो न क्षेपकस्य च खिलं तत् ॥ इति । एवमुदाहरणस्थाऽऽदौ सम्पकाखिलत्वं विज्ञायापवर्तनस्य संभवे सति हर- भाज्यक्षेपानपवर्तयेत् । अत्रेदमनुसंधेयम् । अपवर्तनेऽप्यनपवर्तनेअपि भाज्ये भाजकादूनेऽधिकेऽप्यविशेषेण सर्वदा भाज्यराशेरधो भाजकराशिं विन्य- सोदिति। शेषपरस्परभक्तं मतिगुणमित्येतद्वयमपि भाज्ये भागहारादूने सति पूर्ववत् । आधिके तु विषमायां फलपतो सत्यामस्य मतिः कल्प्या। अत्रापि मतिकल्पनायामेवमालाप: । अपमुपारराशि: केन गुणित उद्दिष्टेन संख्याविशे- षेण युक्तो वियुक्तो वाऽनेन स्वाधौराशिना शुध्यतीति । अमान्तरे क्षिप्तम् । अत्राप्यग्रशन्दः संख्यावचनः । अन्तरशन्दो विशेषवचनः। [न] विवरवचनः ।
.. महालक्ष्मीमुक्तावलीसहितः अत्र मतिगुणितं प्रकरणं तदुद्दिष्टे धनात्मके रूपात्मके संख्याविशेषे क्षिप्तं का- यम् । एतदुपलक्षणम् । तदृणक्षेपेण शोध्यमित्यस्य(थः) । अधउपरिगुणितम- न्त्ययुगिति वल्ल्युपसंहारः पूर्ववत् । ऊनाग्रच्छेदभाजिते शेषम् । अत्राप्ययश- न्देन संख्योच्यते । छेदशब्देन पूर्ववद् हरभाज्यावभिधीयते । शेषस्य चैकत्व- मविवक्षितम् । संभवे सत्यूनसंख्याभ्यामपवार्तताभ्यां हरभाज्याभ्यां क्रमादुप- यधोराश्योविभक्तयोः शेषे कुट्टाकारफले भवतः । अन्विष्यमाणः प्रत्यास- नो गुणकारस्तत्र फलं च लब्धं भवतीत्यर्थः । अत्र भाज्ये भागहारादधिके सति त्वपवार्तिताभ्यां हरभाज्याभ्यां क्रमाद्धउपरिराश्योर्षिभक्तयोः शेषे गुणफले भवतः । अधिकाग्रच्छेदगुणमित्याधर नोपयुज्यते ॥ २ ॥ अनार्य संग्रहश्लोकः- कुटाकारे निरग्रे समधिकवपुषि च्छेदतो भाज्यराशी लब्धे युग्मे मतिः स्यादुपरि फलमधो वर्धकः स्याद्विहीने । युग्मे लब्धे मतिः स्यादुपरि तु गुणकोऽधः फलं स्यादृढेन च्छेदेनाऽऽप्ते गणेऽस्मिन्गुणक इह फले भाज्यभक्त फलं स्यात् ॥३॥ अस्यार्थ:-निरग्रकुट्टाकारे भाज्यराशौ भागहारादधिके सति तत्र शेष- परस्परभक्तमिति लब्धानां फलानां पङ्को विषमायां सत्यां मतिः कल्प्या । तदा तत्र पल्ल्युपसंहारे कृतेऽधोराशिगुणः । उपरिराशिः फलम् । अथ भाज्ये छेदादूने सति तत्र फलपङ्गयां समायां मतिः कल्प्या । तदोपरिराशिगुणः। अधोराशिः फलम् । अबोभयत्र सति संभवे गुणेऽपवर्तिनेन हारेण विभक्त शेषो गुणः फले चापवर्तितेन भाज्येन विभक्ते शेषं फलं भवतीति । इदं सर्व- मुद्दाहरणेन व्यक्ती भविष्यति । अवेदमनुसंधेयम् । भाज्ये भागहारादूनेऽधिके च यत्र शेषपरस्परभक्तमित्यत्र फलपक्तिरेका भवति तदा शेषयोश्चैकः शुध्यति । भाज्ये भागहारादूने सत्येव शेषपरस्परभक्तमित्यत्र फलपङ्क्ती दे भवतः । तदा शेषयोरप्येकः शुध्यति । तत्रोभय नाऽऽदावेव प्रत्यासन्नां मति कल्पयित्वा तया भाज्यं गुणयित्वा स्वाधःस्थेन च्छेदेन विभजेत् । लब्धं फलं भवति । मतिरेव गुणः ॥ ३॥ -- . १ ख. बद्धकः।
कुट्टाकारशिरोमणिः । २७ अथ खिलविषय उदाहियते- उद्देशक:-खाब्ध्यमयो हताः केन युताः पञ्चभिराहृताः। पूर्णार्थमार्गणः शुद्धाः शीघ्रं गुणफले वद ॥४॥ अत्र भाज्यः खवेदराम( ३४० संख्यः । छेदोऽत्र खभूतशर- ( ५५० संख्यः । धनक्षेपः शर( ५)संख्यः । एषु भाज्यभाजकयोः परस्परभक्तयोः शेषो दिक(१०)संख्यः । अयमनयोहरभाज्ययोरपवर्तकः । क्षेप- स्त्वनेन भक्तो न शुध्यति । तस्मादुद्दिष्टोदाहरणं खिलमिति वक्तव्यम् ॥४॥ अत्र भाज्ये भागहारादूने तबैवानपवर्तनविषय उदाह्रियते-उद्देशक:- चन्द्रेशाः (१११) केन गुणिता रूप(१)युक्ता द्विखाग्निभिः(३०२)। भक्ताः शुद्धा गुणफले ब्रूहि तूर्ण निरगवित् ।। ५ ॥ अत्रापवर्तन नास्ति । भाज्योऽपि भाजकाद्धीनः । अतस्तत्रोक्तपक्रिय- याऽऽनीतः प्रत्यासन्नो गुणः शरधृति( १८५)संख्यः । तत्राऽऽगतं फलं गजतक(६८)संख्यम् । अथैवमागतयोरनयोर्गुणफलयोः कमादेकद्विन्या- दिसंख्यागुणिती हरभाज्यौ क्षिप्त्वा गुणफलसहस्रमानयेत् । तद्यथा-पूर्वमागते शरधृति( १८५)संख्य गुणके रूपगुणे द्विखाग्नि( ३०२)संख्ये भाजके क्षिप्त मुनिवसुकृत( ४८७)संख्याको गुणो भवति । एवं पूर्वमागते गजतक( ६८ )संख्ये फले रूपगुणे चन्द्ररुद्र(१११)संख्ये भाज्ये दत्ते नवात्याष्टि( १७९ )संख्यमन्यत्फलं भवति । एवमन्यान्यपि गुणफला- न्यानयेत् ॥ ५ ॥ अथाव क्षेपमृणं परिकल्प्योदाह्रियते- उद्देशक:-चन्द्रेशाः केन गुणिता रूपहीना द्विखाग्निभिः । भक्ताः शद्धा गुणफले ब्रूहि तूर्ण निरगवित् ॥ ६॥ अधोक्तवदानीतो गुणो मुनिरुद्र( ११७)संरूपः । फलं रामवेद- ( ४३ )संख्यम् । अथानयोर्गुणफलयोः कमादेकद्वियादीष्टसंख्यागुणिती हरभाज्यौ क्षिप्त्वा गुणफलसहसामानयेत् ॥ ६ ॥ अथाबापवर्तनविषय उदाहियते-उद्देशक:- खाध्य ग्नयो ( ३४०) हताः केन युता दशभि(१०)राहृताः। पूर्णार्थमार्गणैः( ५५० ) शुद्धाः शीघ्र गुणफले बद॥७॥ अत्र भाज्यभाजकयोः परस्परभक्तयोः शेषो दिक१० )संख्यः ।
महालक्ष्मीमुक्तावलीसहितः- अपमत्रापवर्तकः । अनेन हरभाज्यक्षेपानपवल्क्तवदानीतो गुणः प्रति(२१)- संख्यः ।। फलं त्रयोदशसंख्यम् । अथानयोः क्रमादिष्टसंख्यागुणितावपवर्विती हरभाज्यो क्षिप्त्वा गुणफलशवमानयेत् ।। ७ ।। अथाव क्षेपमृणं कल्पयित्वोदाहियवे- उद्देशक:-खाब्ध्यन्मयो हताः केन हीना दशभिराहृताः । पूर्णार्थभार्गणैः शुद्धाः शीघ्रं गुणफले वद ॥ ८॥ अत्रोक्तवदानीतो गुणो वेदानि( ३४ )संख्यः । फलं प्रकृतिसंख्यम् (२१)। अथानयोः क्रमादिष्ट गुणावपतितौ हरभाज्यौ दत्त्वा गुणफल- शतमानयेत् ॥ ८॥ अथ भाज्ये भाजकादधि तत्राप्यनपवर्तनविषय उदाहियत- उद्देशक:-द्विखामयो ३०२हताः केन रूपयुक्ता हरेन्दुभिः (१११)। भक्ताः शुद्धा गुणफले ब्रूहि तूर्णं निरपवित् ॥ ९॥ अत्रोक्तपक्रिययाऽऽनीतो गुणो रामवेदसंख्यः(४३)। कलं मुनिरुद्र- ( ११७ )संख्यम् । अथैतयोः क्रमादिष्टगुणौ हरभाज्यौ क्षिप्त्वा गुणफल- शतमानयेत् ॥ ९॥ अथात्र क्षेपमृणं परिकल्प्योदाहियते- उद्देशक:-द्विखाभयो हताः केन रूपहीना हरेन्दुभिः। भक्ताः शद्धा गुणफले ब्रूहि तूर्ण निरगवित् ॥१०॥ अवाऽऽगवो गुणो गजतक( ६८ )संख्यः। फलं शरधृति( १८५). संख्यम् । अथानयोः क्रमादिष्टगुणौ हरभाज्यौ क्षिप्त्वा गुणफलसहसमान- येत् ॥ १०॥ अथात्रापवर्तनविषय उदाहियते- उद्देशक:-वार्थेषवो(५५०)हताः केन युता दशभि(१०)राहृताः। खवेदपुष्करैः(३४०) शद्धाः शीघ्रं गुणफले वद ॥ ११ ॥ अवाऽऽगतो गुणः प्रति( २१ संख्यः । फलं हतानि( ३४ )सं- रूयम् । अथानयोः क्रमादष्टगुणावपवर्तितौ हरभाज्यौ क्षिप्त्वा गुणफलसहम- मानयेत् ।। १०॥ अथात्र क्षेपमृणं कल्पयित्वोदाह्रियते- - कुंडाकाराशिरोमाणः । उद्देशक:-खार्थेषवो हताः केन हीना दशभिराहृताः। खवेदपुष्करैः शद्धाः शीघ्र गुणफले बद ।। १२ ॥ अत्राऽऽगतो गुणो रामभू( १३ )संख्यः । फलं मलति( २१)- संख्यम् । अथानयोः क्रमादिष्टगुणापतिती हरभाज्यौ दत्त्वा गुणफलसहसमा- नयेत् ॥ १२ ॥ अथात्र पैराशिकमार्गः पदश्यते- उद्देशक:- खार्थेषवो हताः केन हीना दशभिराहताः। खवेदपुष्करैः शुद्धाः शीघ्रं गुणफले वद ॥ १३ ॥ अत्रापर्वको दशक( १० )संख्यः । अनेनापतितो भाज्यराशिः पश्चपश्चाश( ५५)। संख्यः । भाजकश्चतुस्त्रिंश( ३४ )त्संख्यः । ऋणक्षेपः पञ्च(५)संख्यः । एभिरधिकाग्रभागहारमित्येवमादिनाऽऽनीतो गुण एक- विश(३१)संख्यः । फलं पश्चाश (५०)संख्यम् । एवे गुणफले त्रैराशिके- नापि सिध्यतः । तद्यथा-खार्थेषवो हताः केन हीना दशभिराहताः। खवे- दपुष्करैः शुद्धा इत्यत्रोदाहरणेऽनन्तरीक्तोदाहरणे चापवर्त्य दृढीकतौ हर- भाज्यौ समानौ ऋणरूपावपवर्त्य दृढीकृतौ क्षेपौ तु क्रमादनयो रूप भूत५ संख्यौ । अत्रोदाहरणद्वयेऽपि दृढयोहरभाज्ययोवैषम्याभावात्रैराशिकम- वतरति । यदि रूप(१)संख्येन दृढेन क्षयक्षेपेण क्रमाद् द्विख(कु)१२- प्रकृति २१ संख्ये गुणफले लब्धे पञ्चसंख्येन ५ दृढेनानेन क्षयक्षेपेण कियतीत्येवं त्रैराशिकेन लब्धो गुणः पश्चषष्टि( ६५ )संख्यः। फलं पश्चोत्तरशत( १०५)संख्यम् । एतयोः क्रमादृढाभ्यां चतुर्विंशत् (३४)- पञ्चपश्चाश( ५५)त्संख्याभ्यां विभकयोः शिष्टे गुणफले एकत्रिंशत्(३१) पञ्चपञ्चाश( ५०)त्संख्ये। एवमत्र त्रैराशिकेनाऽऽनीवयोर्गुणफलयोरधिका- मादिसूत्रानीयोश्च वैषम्यं नास्ति । एवं धनक्षेपविषयेऽनपवर्तनविषये च पैराशिकसरणिरुनेया । अत्रोदमनुसंधेयम् । अयं त्रैराशिकमार्गों भाज्ये भाग- हारादूनेअधिक वापवर्तनविषयेऽनपवर्तनविषये वा सर्वदा समान इति । एवं निरमविषये ताबदिदमधिकामादिसूत्रयुग प्रतिपत्तणां बुद्धिक्षोभो भा भादि- त्येकयैव रीत्या व्याछतम् । अथैतदेवात्र किंचिद्विकल्प्य व्याख्यायते । पूर्व १ ख. माझोक (१३)।
- ३४ महालक्ष्मीमुक्तावलीसहित यत्रोदाहरणे भाज्यो भागहारादूनसंख्यस्तत्र 'शेषपरस्परभक्त मति गुणमयान्तर- क्षिप्तम्' इत्यत्र फलपङ्कयां समायां सत्यां मतिः कल्प्या। मतिगुणितोपरिराशि- रुद्दिष्टक्षेपेण च यथास्वसंस्कृतः स्वाधोराशिना विभजनीय इत्युक्तम् । इदानीं तत्फलपङ्गन्यां विषमायां मतिः कल्पनीया। मतिगुणितोऽल्पोऽधोराशिरुद्दिष्टेन क्षेपेणापि वामं स्वसंस्कृतस्वोपरिराशिना विभजनीय इत्युच्यते । यत्र चोदाह- रणे भाज्यो भागहारादधिकस्तत्र फलपतयां विषमायाँ मतिः कल्पयितव्या । मतिनिहतोऽल्प उपरिराशिरुद्दिष्टेन क्षेपेण च यथास्वसंस्कृतः स्वाधोराशिना विभाज्य इति पूर्वमुक्तम् । इदानीं त्वत्र फलपती समायां मतिः कल्प्या। मतिगुणितोऽल्पोऽधोराशिरुद्दिष्टेन क्षेपेण च वामं संस्कृतः स्वोयराशिना हरणीय इत्युच्यते । अन्यत्सर्वं पूर्ववत् । एवं कृतेऽपि पूर्वपदार्शतमखिलमुदा- हरणजातं प्रायशः सिध्यत्येव । एवमधिकागादिसूत्रद्वयं निरग्रमधिकृत्य समा- सतो व्याख्यातम् ॥ १३ ॥ अथ संश्लिष्टकुट्टाकारास्त्रयः । तेषु यत्रैको भागहारस्तदग्राणि च भिन्नरूपाणि भिन्नरूपा भाज्याश्चोद्दिश्यन्ते स प्रथमः- अत्रोद्देशक:-रुद्रा११विश्वे१३सायकाः५शैलवेदाः४७ केनाभ्यस्तावर्जितास्ते क्रमेण । रुपैरीशैः ११ सप्तभिः७ शीतभासा धृत्या १८भक्ताः शद्धिमाप्ता वदेस्तम् ॥ १४ ॥ अत्र पूर्ववदानीतो गुणः पञ्चसंख्यः ॥ १४ ॥ अथ यत्रैको भाज्यो भिन्नरूपा भागहारास्तदमाणि च तादृशान्युद्दिश्यन्ते स द्वितीयः- अत्रोद्देशकः-केनाभ्यस्ता रामबाणाश्चतुर्धा ५३-५३-५३-५३ वेदै ४ रकै १२ वसिवै १४ रक्षि १०२ दिग्भिः । हीना भूपैः १६ खार्णवैः ४०षट्कतः ६६ खेशै ११०भक्ताः शुद्धिमाप्ता गुणः कः ॥ १५ ॥ अत्र पूर्ववदानीतो गुणो वेद( ४ )संख्यः ॥ १५॥ अथ यत्र भाज्या भागहाराश्च भिन्नात्मकास्तादृशानि तदग्राणि चोदि सनीयः-अोदशक:- ..
कुट्टाकाराशरोमाणः। ૨૫ चन्द्रामराः३३१शरशिवा ११५मनिरामसूर्याः १२३७ केनाऽऽहताः शिखिसरै३३३नव९भित्रिवेदैः ४३ । हीना रसाभिमनुभी१४३६रविभि१२गजेशैः११८ शुद्धाः क्रमेण वद तं गुणमाशु विद्वन् ॥ १६ ॥ अत्रत्यो गुणस्तृत्तरत्र प्रदर्शयिष्यते ॥ १६ ॥ एषु प्रथमद्वितीययोः संश्लिष्टकुट्टाकारयोरेकस्य योऽधिकारादिसूत्र- लब्धो गुणः स सर्वेषां समान इति न तयोः किंचिदपि वक्तव्यमस्ति । अतस्तो विहाय तृतीयविषय आर्य आह- भिन्नहरभाज्यकुट्टे सर्वेषां पूर्ववद्गुणाः साध्याः। भाज्योऽल्पगुणहरः स्याद्धारोऽन्यहरो गुणान्तरमृणाम् ॥१॥ तज्जगुणभाज्यघातः साल्पगुणः स्फुटगुणोऽस्य हरघातः। हर इह ताभ्यां परगुणहाराभ्यां गुणक उक्तवत्साध्यः ॥ १८॥ अनयोरर्थस्तूदाहरणमुखेन व्यक्ती भविष्यति । अत्रत्यः प्रश्नश्लोकः पू- वमेव लिखितः । एतच्छ्लोके यो भाज्याः। तेषां क्रमाद् भागहाराश्च त्रयः। ऋणरूपाण्यग्राणि च क्रमेण त्रीणि। एषु प्रथमो भाज्यश्चन्द्रामर(३३१)संख्यः। अस्य च्छेदो रसानिमनु(१४३६)संख्यः । अत्र ऋणायं शिखिसुर(३३३)सं. ख्यम् । एभिः पूर्ववदानीतः प्रथमो गुण स्पष्टाक्षि(२८३)संख्यः । अथ दि- तीयो भाज्यः शरशिव(११५) संख्यः । अस्य च्छेदो रवि(१२)संख्यः । अत्र ऋणायं नव( ९.)संख्यम् । एभिः पूर्ववदानीतो गुणस्त्रि(३)संख्यः । अथ तृतीयो भाज्यो मुनिरामसूर्य(१२३७)संख्यः। अस्य हारो गजेश(११८)संख्यः। इह ऋणायं विवेद(४३)संख्यम् । एभिः पूर्ववदानीतो गुणः सप्तरस(६७)संख्यः। अथ प्रथमद्वितीययो ज्यराश्योः साधारणो गुण आनीयते । प्रथमगु- णस्पष्टाक्षि(२८३)संख्यः। द्वितीयगुणस्त्रि(३)संख्यः । अत्र द्वितीयगुणस्याल्प- स्वाभाज्येऽल्पगुणहरत्वं स्यादित्यल्पगुण उत्पाद्यमाने यश्छेदः सोऽत्र भाज्यो भवेदिति । द्वितीयगुण उत्पाद्यमाने यश्छेदः सोऽत्र भाज्यो भवेत् । स च रवि(१२)संख्यः। 'हारोऽन्यहरः' इत्यधिकगुण उत्पाद्यमाने यश्छेदः स भाजको भवदित्यत्राधिके प्रथमगुण उत्पाद्यमाने यश्छेदः स भाजको भवेत् । स च रसानिमन(१४३६)संख्यः । गुणान्तस्मृणामामति पथमाहितीययो- ४ OPE २३ महालक्ष्मीमुक्तावलीसहितः- गुणयोर्विवरमृणक्षेपो भवेत् । स च खाष्टाक्षि(२८०)संख्यः। एवमागभाज्य- भाजकक्षेपैनिरपकुट्टाकारमाक्रियया यो गुण उत्पादितो भवति स तज्जगुणः । स चात्र त्रिमनु(१४३)संख्यः। तस्य पूर्वपदर्शितमाज्यस्य च रवि(१२)संख्यस्त संवर्गो नृपात्यष्टि(१७१६)संख्यः । एषोऽत्र तज्जगुणभाज्यघातः । असौ 'सा- ल्पगुणः' इत्यत्रत्येन त्रिसंख्येनाल्पेन गुणेन युक्तश्छिद्ररूपमुनीन्दु(१७१९)संख्यः। एवं प्रथमद्वितीययोर्भाज्यराश्योः साधारणो गुणः। अयमेवात्र स्फुटगुण उच्यते । अथ तृतीयभाज्यस्य पूर्वभाज्ययोश्वानन्तरोक्तप्रकारेण साधारणगुणे साध्ये स्फु- टगुण एव गुणः । अस्य हर इति स्फुटगुणस्य प्रथमच्छेदयोः संवर्गच्छेदो भ. वेदित्यत्र प्रथमश्छेदस्य रवि(१२)संख्यस्प रसानिमनु(१४३६)संख्यस्य द्विती- पच्छेदस्य च घातो रदद्व्यत्यष्टि(१७२३२)संख्यः । असौ छेदः। अथाभ्यां गुणच्छेदाभ्यां चेह वाभ्यां परगुणहाराभ्यां गुणक उक्तवत्साध्य इति त्रयाणां भाज्यानां साधारणो गुणः साध्यते । अत्र स्फुटगुणात्तुतीयो गुणोऽल्पः । अतोन गजेश(११८)संख्यः। तृतीयच्छेदो भाज्यः। स्फुटगुणस्य रदव्यत्यष्टि- (१७२३२)संख्यश्छेदो भाजकः । स्फुटगुणस्य छिद्ररूपमुनीन्दु(१७१९) संख्यस्य सप्तरस(६७)संख्यस्य तृतीयगुणस्य च विशेषो व्यर्थनुप(१६५२) संख्यः । एष क्षयक्षेपः। एभिर्माज्यभाजकक्षयक्षेपनिरपकमकारेणाऽऽनीतस्तन- गुणः शक्र(१४)संख्यः । अस्य च गजेश(११८)संख्यस्य भाजकस्य च वयो व्यर्थाष्टि(१६५२)संख्यः। अयमत्राल्पेन सप्तरस(६७)संख्येन तृवीयगुणेन युतः पूर्ववच्छिद्ररूपमुनीन्दु(१७१९)संख्यः । अयमत्र स्फुटगुणः । अयमेवात्र प्रयाणां भाज्यराशीनां साधारणो गुणः । एवमेवंविधपभेषु गुणा: साभ्या: ॥ १७॥ १८॥ अथ पूर्वोक्तानिरअन्यायेन चतुर्युगसंबन्धिनोऽधिमासावमदिवसमहमगणा- दीन्भाज्यराशीन्कल्पयित्वा चतुर्युगसंबन्धिनः सूर्यमासचान्द्रवासरभूमिसावनदि- बसादीन्भागहारांश्च परिकल्प्याधिकावमभागादिशेषानपि क्षयक्षेपान्परिकल्प्य तत्र कुट्टाकारफलमन्यान्कॉश्चन विशेषानपि दर्शयिष्यनादावधिमासशे- बावलम्बनेन प्रश्नत्रयमार्यया प्रकटयति- अधिकाग्रीनधिमासान्रविमासान्दिनगणांश्च यो व्रते । सलिलनिधिमेखलायर्या स भवति सांवत्सरामणीभूमा ॥१९॥ १ ख. ग्राधि।
- कुवाकारशिरोमाणिः। स्पष्टार्थेयमार्या ॥ १९॥ अर्थतत्मस्तुतमश्नत्रयभङ्गार्थमात्रियमाह- सिद्धहतमधिकशेष वेधा विन्यस्य खादिषट्कनखैः । नवखेपद्व्यद्विरसैर्हत्वा नन्दाष्टवहितकरसैः॥ २० ॥ खचतुष्काजकुपः क्रमेण विभजेत्फले पृथग्भवतः । शेष गताधिमासा रविमासाश्च क्रमादिह भवन्ति ॥ २१ ।। तद्योगं युगदिवसैहत्वा विमजेत शीतकरमासैः। लग्धं फलं सरूपं शेषे सति तद्भवेहिवसवृन्दम् ॥ २२ ॥ चतुर्विंशतिः २४ भक्तमुद्दिष्टमधिकमासशेषमुपर्यधोभावेन विधा स्थापपित्वा तदुपर्यधोराशी खाद्रिषट्कनखैः ( २०६७०) नवखेषुपद्रि- रतन्ध (६७२५०९) क्रमालत्वा नन्दाष्टवाहितकरसैः (६६३८९) खचतुष्काङ्गकुपक्षश्च ( २१६००००) सति संभवे कमेण विभजेत् । अत्र लधाभ्यां प्रयोजनं नास्ति । इह शेषौ क्रमागताधिमासा गतरविमाताश्च भवन्ति । अब गताधिमासवृन्दं फले सति रविमासचयः कुट्टाकाराख्यो गुणः । अथ गताधिमासगतरविमासयोग वसुव्यष्टादिरूपान्तमादितिथि- (१५७७९१७८२८ सस्पैश्चतुर्युगदिनैहत्वा रसत्रिगुणरामाभिवेदपुष्करसा- पकैः ( ५३४३३३३६ ) चतुर्यगचन्दमासैभिजेत् । अत्रं फलं लब्धं फलं चान्द्रमातशेषे विद्यमाने तस्य भागहारार्धादूनाधिकमनपेक्ष्य सर्वदा रूप(१)- युक्त कार्यम् । तद्दान्तावधिकामां गतानां चान्द्राणां मासानामनुपातसिपः सापनदिनसमूहः स्यात् ॥ २० ॥ २१ ॥ २२ ॥ उद्देशक:-सूर्याद्रिनन्दविधुराममहीधरसंख्यो दृष्टो मयाऽत्र मतिमन्नधिमासशेषः । अस्मादिमानधिकमासचयान्विवस्व- न्मासांश्च तयुतिभवानि बदेरहानि ॥२३॥ अत्राधिमासशेषोऽयं ( ७३१९७१२)। अयं सिद्ध( २४ )हतः सा- हवानवेदाभानि( ३०४९८८ संख्यः । अयमुपर्यधोभावेन ( ३०४९- ८८।३०४९८८ ) द्विधा विन्यस्तः। अवोपरिराशिः खादिषट्कनखेः (२०६७०) गणितः खरसातिविदिक्कतखामिषट्(६३०४१०१९६०) १ ख. भ्यां फलाभ्यां प्र।
महालक्ष्मीमुक्तावलीमहित:-,
संख्यः। अस्मिन्नन्दाष्टवह्नितर्करसैः (६६३८९ ) विभक्त शेषः सप्ताटा-
टि( १६८७ )संख्यः । अयं गताधिमास वयः। अथाधोराशिनवखेषुव्य-
हिरसैः ( ६७२५०९ ) गुणितः पक्षाङ्कगष्टाब्धिमुनिभूगिरिदिगिषुनख(२०५-
१.७१७४८९२ )संख्यः। अस्मिन्खचतुष्काङ्क(ग)कुपक्षैः ( २१६-
) विभक्ते शेषो व्यङ्कगधाब्धीषु( ५४८९२)संख्यः । अयं गत-
रविमासनिवहः । अथ गताधिमासगनरविमासयोगो नवादीषुरसेषु(५६५७९)-
संख्यः । अयं गवचान्द्रमाससमूहः । एष चतुर्युगभूमिसावनदिनैगुणितः सूर्या-
धिखाङ्कन दिरविवादिताराडूनष्ट( ८९२७७०५२७९०४१२ )संख्यः ।
अस्मिन्चतुर्युगचान्द्रमासौर्वभके लब्धं रुद्राष्टाभ्रायष्टि १६७०८११सख्यम् ।
अत्र शेषोऽष्टितानवेदामिद्व्यद्रि७२३४९१६संख्यः। अत्र शेषोऽस्तीति लब्धं
रूपयुक्तं सूर्याष्टखाद्यष्टि १६७०८१२ संख्यम् । एतद्गतानां दर्शान्तावधिकानां
चान्द्राणां मासानां वैराशिकसिद्ध भूसावनदिनवृन्दं भवति ॥ २३ ॥
अथाऽऽयया भयदिनशेषावलम्बनेन कांश्चित्मभान् स्फुटयति-
अवमाअादिष्टदिनं विनेष्टदिवसैर्ग्रहांस्तदग्राणि ।
अधिमासानपि यातान्यो वक्ति स एव दैवज्ञः॥२४॥
अत्र चत्वारः प्रश्नाः। एतेष्ववमायादिष्टदिनं यो वक्ति स एव दैवज्ञ इति प्रथमः।
अष्टदिनमिति जात्येकवचनम् । अवमादनशेषादानीतैरिष्टदिवसहास्वच्छेषग-
वाधिकमासाश्च विज्ञेयाः । अतोऽवमायाज्ज्ञातैरिष्ट दिवसैविनाऽवमायादेव ग्रहान्
यो वदति स एव दैवज्ञ इति द्वितीयः । अत्र ग्रहशन्देन. भगणाद्या वाञ्छिता-
न्ताः सचन्द्रोच्चपाता बुधशुकशीघोच्चसहिता मध्यग्रहा उच्यन्ते । अथावमा-
ग्रादागतैरिष्टदिवसैर्विनाऽवमायादेव ग्रहशेषान् यो वक्ति स एव दैवज्ञ
इति तृतीयः । अथावमायावगरिष्टदिवसैविनाऽवमायादेव यातानधिमातान्
यो बति स एव दैवज्ञ इति चतुर्थः । अत्र प्रश्नचतुष्टयेऽपि दैवज्ञशन्देन कुट्टा-
कारज्ञ उच्यते । एवमुत्तरत्रापि दृष्टव्यम् ॥ २४ ॥
अथैषां प्रश्रानां भङ्गार्थमायर्यापञ्चकमाह-
अवमाग्रं वेदहृतं चन्द्राभिगुणेषुनन्दनागघ्नम् ।
रामरसेपुखपर्वतनेत्राङ्गन्हृतं गतावमं शेषम् ॥ २५॥
कुट्टाकारशिरोमाणः।
वेदहृतं क्षयशेष मुनिषगुणकृतिविलोचनाद्रिशरैः ।
निहतं नखाभ्रखेषुस्वराम्बराकाशवेदसंभक्तम् ॥ २६ ॥
शेष गतावमोनं तद्विद्यादिष्टदिवससंघातम् ।
गतमवमं कुदिनहृतं क्षयाप्रयुक्तं भचक्रसंगुणितम् ॥ २७ ॥
कुदिनहतावमभक्तं फलं भचकादिको भवति खेटः ।
शेष युगावमहृतं तच्छेषं संभवेत्फलं लब्धम् ॥ २८॥
वर्णसुरेभाङ्कगुणर्यातान्यवमानि ताडयित्वाऽथ ।
गणषट्पश्चखशैलाद्विरसैलब्धा गताधिमासाः स्युः ॥ २९ ॥
उद्दिष्टमवमशेषं वेद( ४ )हतं ततश्चन्द्राग्निगुणेषुनन्दनागैः (८९५३३१)
हतं रामरसेषुखपर्वतनेवाङ्गैः ( ६२७०५६३) हा कार्यम् । अत्र शेष
गवावमदिनं भवति । एतत्फलं भवति । अथोद्दिष्टमवमानं वेद(४)हतं ततो
मुनिषड्गुणकृतिविलोचनादिशरैः (५७२२०३६७) निहतं नखानखेषु-
स्वराम्बराकाशवेदैः (४००७५००२०) संभक्तं कार्यम् । अत्र शेषं गत-
चान्द्रदिन भवति । कुट्टाकाराख्यो गुणोऽप्येतदेव । एतद्तावमदिनोनं कार्यम् ।
अत्र यच्छेषं तदिष्टदिवससंचयं जानीयात् । अथातीतमवमादिनं युगभूमिसावन-
गुणितं तत उद्दिष्टोनावमदिनशेषेण युक्तं जिज्ञासितस्य अहस्य युगभगणैः
संगुणितं युगभूसावनगुणितैर्युगावमदिनैर्भक्त कार्यम् । अब लब्धं फलं भगणा-
दिजिज्ञासितो मध्यग्रहो भवति । अत्र यच्छेषं तांगावमदिनहतं कार्यम् ।
अत्र लब्धं फलं तच्छेषं भवति । एतदुक्तं भवति । मध्यग्रहो भगणरूपश्चे-
तदा लब्धं भगणशेष भवति । सराश्यन्तश्चेत्तद्राशिशेषम् । सभागान्तश्चेत्
तद्भागशेषम् । सलिप्तान्तश्चेत्कलाशेषम् । सविकलान्तश्चत्तावकलाशे
भवतीति । अथ गतावमदिनानि वर्णसुरेभाङ्कगुणैः ( ३९८३३४ ) हत्वा
गुणषट्पश्चखशैलद्विरसैः ( ६२७०५६३ ) हरेत् । अत्र लब्धा गताधिमाता
भवन्ति । अत्र शेषे भागहारार्धादाधकेऽप्यर्थोत्तरत्वेन रूपक्षेपो न कार्यः ।
नन्वत्रावमाग्रेणैव गताघिमासानयने कर्तव्ये गतावमदिनैस्तदानयनं प्रदर्शितम् ।
कथमेतदवोच्यते-अवमायादेवाऽऽनीतर्गतैरवमैगताधिमासेष्वानीतेष्वपि पारम्पर्ये-
णावमायादेव गताधिमासानयनमित्यदोषः ॥२५॥२६॥२७॥२८॥२९॥
महालक्ष्मीमुक्तावलीसहितः उद्देशक:-पूर्णाभ्रतर्कनयनेषुनवार्थनाग- रामेन्दुसंख्यमवमाग्रमतो दिनानि । एतैर्विनाऽम्बरचरान्भगणादिशेषान याताधिमासनिवहं तु वदाऽऽशु विद्वन् ॥३०॥ अत्रायमवमदिनशेषः (१३८५९५२६००) । अस्मादुक्तपदानी- तान्यभीष्टदिनानि सूर्याष्टखायाष्टि( १६७०८१२)संख्यानि । एभिरिदि- विनोद्दिष्टेनैव क्षयामेणोक्तवदानीवो भगणात्मको रविमभ्यो वर्णाद्रीपुरुत (१५७४)संख्यः । भगणशेषो वसव्यङ्गाध्यकपडीशार्थ( ५११६९४६ २८)संरूपः । एवं राश्यन्तायो रविमध्यास्तत्तच्छेषाश्चन्द्रादयस्ततम्या अप्पानेयाः। अथात्रोक्तवदानीता गताधिमासाः सप्ताष्टाष्टि (१६८७)- संख्या:। अत्रोदितो गणनकर्मलघुत्वहेतो बात्तराहतयुगक्षयवासरोधः । पट्पश्चतर्कवसुनागकुशैलनन्दतत्त्वाग्न्यगाद्रिगिरिवाणनवामि(३९५७७७- ३२५९७१८८६५६ )संख्यः ॥ ३० ॥ अथाऽऽयया कौचित्पनी दर्शयति- अहमध्येक्याद्भादेर्वितत्परान्तादिनानि यो वदति । तन्मभ्यानि च तस्मात्पृथक्पृथग्दिनचयं विना स सुधीः॥३१॥ भादेराश्यादेवितत्परान्तात्तत्पराणां षष्टयंशो विनत्परा । तदन्वाद् महमपक्यादुद्दिश्यहमध्यमसंयोगादिनानीष्टभूवासराणि यो वदति त सुधी- रित्येक प्रश्नः । दिनचर्य विना महमध्यैक्यादानीवामिष्टदिनतमहं विना । वला ग्रहमपेक्वादेव । तन्मध्यानि च । अत्र द्वित्वमविवक्षितम्। तेन संयुक्तयो- ग्रहयोमबमौ संयुक्तानां ग्रहाणां मध्यमानपि पृथक्पृथग्यो वदति स तुधीरि- त्यपरः प्रश्नः । अत्र ग्रहमानियनं प्रदर्यते । इष्टग्रहयोरिष्टग्रहाणां पा युगभगणान्योजयित्वा तैरिष्टदिनानि हत्वा युगभूदिनैरेव विभजेत् । अत्र लब्धा भगणास्तानपास्य शेषं द्वादशादिभिर्हत्वा युगभूदिनैरेव विभजेत् । लन्धा रास्यादयो भवन्ति । एवं वितत्परान्तं कुर्यात् । अत्र वितत्पराशेषे युगभू- दिना(दषिके सत्पर्धोत्तरत्वेन वितत्परास्वेका वितत्परा निक्षिपेत् । एवं कवे अहमभ्यैक्यं भवति । एवमागवमहमध्पैक्यावम्बलनेनैवात्र प्रश्नयामिति मन्तव्यम्॥ ३१ ॥ ন कुट्टाकारशिरोमाणः। ३ अथैतत्पभयभङ्गाथमात्रियमाह- अहमध्यमसंयोगं बितत्परकृित्य दृढदिनहत्वा । नियुतहतपडिपुरसरसवेदैर्विभजत्फलं क्षयक्षेपः ॥ ३२ ॥ तदृढभगणैक्यदिनैर्निरममार्गेण गुणफले कुर्यात् । तत्विगुणो दिननिकरः फलं अहाणां गतानि चक्राणि ॥३२॥ मध्यक्यं चक्रयुतं तत्तद्भगणैः पृथक् पृथग्हत्वा । तद्भगणैक्येन भजेत्तत्तन्मध्यं फलं सपर्यायम् ॥३४॥ अत्राऽऽदौ दृढदिनदृढभगणैक्ययोः स्वरूपं दर्शयति । उद्दिष्टग्रहयोरुति- यहाणां वा युगमगणान् संयोज्य तेषां युगभूदिनानामप्यपवर्तकोऽस्ति चेत्तेन संयुक्तानुद्दिष्टग्रहभगणान्युगादिनानि चापवर्तयेत् । एवमपवर्तितानि युगदिनान्यत्र दृढदिनानि । एवमपवर्तितमिष्टग्रहयोरिष्टग्रहाणां वा युगभगणेक्यं दृढभगणे- क्यम् । अपवर्तको नास्ति चेयुगदिनान्येव दृढदिनानि । उद्दिष्टग्रहयुगभगणयोग एव दृढभगणैक्यमिति । अथोद्दिष्टग्रहभगणैक्यं वितत्परीकृत्य वान् दृढदि- नहत्वा चक्रवितत्पराभिः ( ४६६५६००००० ) विभजेत् । अत्र शेष चक्रवितत्परार्धादधिके सत्य!त्तरत्वेन रूपं फले क्षिपेत् । एवमानीतं फल- मत्र ऋणक्षेपः । दृढभगणयोगो . भाज्यराशिः। दृढदिनचयो भाजकः । एभि- रुक्तवद्गुणफले आनयेत् । अत्र गुण इष्टदिनसमूहः । फलं तु संयुक्तमहगत- भगणाः। अथ गतभगणयुक्तं ग्रहमध्यैक्यं संयुक्तेषु ग्रहेष्वेकस्य युगभगणे: पृथक् पृथग्गुणयित्वा संयुक्तमयुगभगणैक्पेन विभजेत् । लब्धं सपर्याय तन्मध्यं भवति । संयुक्तग्रहेषु यस्य यस्य युगभगणैर्गुणितं तस्य वस्प भगणादि- मध्यं भवतीत्यर्थः । अत्र प्रक्रिया सम्पक पदर्शितेति नोद्दिश्यते । एवमुत्तरत्रापि पत्र या प्रक्रिया सम्यक्पदर्शयिष्यते तत्र तत्र नोदिश्यत इति मन्तव्यम् ॥ ३२ ॥ ३३ ॥ ३४ ॥ अथाsर्यया प्रहविकलाशेषावलम्बनेन काश्चनानुयोगानाह- विकलाशेषादिवसान् मध्यं दिवसैर्विनाऽन्यतच्छेषात् । अवमदिनैस्तच्छेषावधिमासांश्च ब्रवीति यः स कृती ॥३५॥ भत्र सक्ष प्रभाः । एषु विकलाशेषादिवसान्यो ब्रवीति स छतीति प्रथमः । विकलाशेषादेव विकलाशेषवन्मभ्यं यो वतीति द्वितीयः। विकलामादानीत.
३२
महालक्ष्मीमुक्तावलीसहितः
रिष्टदिवसैविना विकलामादेवान्यग्रहमध्यान्यो वदतीति तृतीयः । विकलाने-
णाऽऽनीतरिष्टदिनैर्विना विकलाग्रेणैवान्यग्रहविकलाशेषान्यो वदतीति चतुर्थः ।
विकलामादागतैरभीष्टदिनै विना विकलायादेव गतावमादिनानि यः कथयतीति
पञ्चमः । विलिप्ताशेषादवगतानि दिनानि विना विलिमाशेषादेवावमादिनशेष
यो वदत्तीति षष्ठः। विलिप्तायाजातेभ्योऽभीष्टदिनेभ्यो विना विलिप्तिकायादेव
गताधिमासान् यो ब्रूते स कृतीति सप्तमः ॥ ३५ ॥
अर्थतेष्वाद्ययोः प्रश्नयोर्भङ्गाथै गुणफले प्रदर्शयिष्यन्नादौ तदुक्त-
क्रममाययाऽऽह-
अथ गुणफले क्रमेण प्रतिखेटमिहैकयाऽऽर्ययोच्यते ।
दिनकरबुधकाव्यानां साधारणमेव ते निगयेते ॥३६॥
एतदुक्तं भवति । चन्द्राङ्गारक बुधबृहस्पति शनैश्वराणां बुधकाव्यशीबो-
चयोश्चन्द्रोचपातयोश्च प्रत्येकमेकार्यया गुणफले क्रमेण उच्यते । रविबुधभार्ग-
वाणां तु साधारण मेवैकयाऽऽयंया गुणफले कमेणोच्यते इति ॥ ३६॥
रविभृगुविदां नवाम्बरौलाक्ष्यत्यष्टिनयनशरचन्द्राः।
गिरिपूर्णवेदवलयगशरकृतरामाङ्कनन्दरामशराः ॥ ३ ॥
सूर्यकाव्यबुधानां गुणः ( १५२१७२७०९)। एषां फलं ( ५३-
९९३४५७३४०७)॥ ३७॥
चन्द्रस्य दन्तिसिन्धुरनन्दाकाशाङ्गन्बनिभूमिरसाः।
भूयुगनवककृतानलखशरर्तुवियच्छशाङ्कनन्दकराः॥३८॥
चन्द्रस्य गुणः ( ६१३६०९८८)। अस्य फलं ( २९१०६५०
३४९४३ ) ॥ ३८ ॥
धरणीसुतस्य नखधतिचन्द्रार्थशरद्वयक्षपानाथाः ।
स्वरवियदधिगुणार्थद्विकताद्रिक्ष्माधराङ्गवलियमाः॥३९॥
भोमस्य गुणः ( १२५५११८२० ) फलं ( २३६७७४२५३४०७
विच्छीघ्रस्य वियद्रसगुणनन्दकृताभ्रचन्द्रशरपक्षाः ।
ऋषिखाब्धिगुणहयाचलभूताध्यष्टिरन्ध्रतर्कगुणाः ॥४॥
बुधशीघोच्चस्य गुणः ( २५१०४९३६० )। अस्य फलं ( ३६
९८५४५७७३४.७) ॥ ४० ॥
कुट्टाकाराशेरोमाणः। २३ सुरपूजितस्य गुणरसबाणाक्षिनवामिबाहुरजनीशाः। तुरगवियदब्धिपुष्कररन्धाकाशाष्टगगनमुनिरामाः।११॥ गुरोर्गुणः ( १२३९२५६३ ) । फलं (३७०८०९३४.७) ॥४॥ सितशीघ्रस्य युगाष्टकमुनिवसरसनयनकुञ्जरेशानाः। हयशून्यमनुशराभ्रद्वयसिन्धमृगाङ्कन्दनगजताः॥४२॥ शुक्रशीघोच्चस्य गुणः ( ११८२६८७८४)। अस्य फलं ( ६८२- १४२०५१४०७)॥ ४२ ॥ सौरस्य रन्ध्रसप्तकवर्णाष्टकवह्निखाभ्रवायुसखाः । शैलाभ्रसिन्धुभूधरमुनिखरसेन्दुरसकृष्णवर्मानः॥४३॥ शनैश्चरस्य गुणः ( ३००३८४७९) । फलं (३६१६.७७४.७) ॥ ४३ ॥ चन्द्रोच्चस्य रसग्रहरसवसुशरशिखिमहीधराङ्कम्भुवः। गिरिगगनसागरग्रहगजमार्गणतर्कलोकरन्ध्रनगाः॥४४॥ चन्द्रोच्चस्यानिशन्याश्वीति (स्र्य सि० अ० १ श्लोक ३३) पागनु- सारेण गुणः (१९७३५८६९६)। अस्य फलं (७९१४६५८९४.७) राहोर्नवतिथिभूभृद्धाणाकाशाद्रिविष्णुपदरामाः। अचलाम्बरार्णवस्वररूपाद्रिनवर्तुभूतसार्थाः ॥४५॥ वाम पावस्य वस्वनीति । (सूर्यसि० अ०१ श्लोक ३३) पाठानुरोधेन राहो- गुणः (३०७० ५७१५९)। अस्य फलं ( ५८५६९ ११७४०७) ॥१५॥ अथैवं दर्शितैगुणफलौरिष्टदिनविकलाग्रहानयनमार्याभ्यामाह- गुणनिहतं विकलागं कुदिनैर्विभजेयदत्र परिशिष्टम् । पारावारैर्विभजेत्तत्फलमिष्टं भवद्दिवसवन्दम् ॥ ४६ ॥ विकलाशेष स्वफलैर्हत्वा विकलीकृतैहरेच्चकैः। अवशेषमपि समुद्रैर्विभजेल्लब्धं विलिप्तिकाखेटः॥४७॥ गुणनिहतं विकलाशेष भूदिनैर्विभजेत् । अत्र लब्धेन नास्ति प्रयोजनम् । अत्र परिशिष्टं यत्तत्पारावारैविभजेत् । अथ विकलाशेषमेव स्वफलेहत्वा विकलीकृतैर्विकलामावग्रहभगणैर्विभजेत् । अत्रापि( लब्धेन प्रयोजन १क. °लैहत्वा ।
३४ महालक्ष्मीमुक्तावलीसहित:- नास्ति । अत्रावशेषमपि समुद्रविभजत् । अत्र लब्धं विलिप्तारूपो मध्यग्रहो भवेत् ॥ ४६॥ ४७॥ अथैवमागताभिर्महविकलाभिस्तद्विकलाशेषेण चान्यग्रहमध्यतच्छषक्षयदि- नतच्छेषाधिमासानामानयनप्रकारमाचितुष्टयेनाऽऽह- महविकला [युग]दिनहता विकलाग्रयुता ध्रुवं भवेत्तत्तु । जिज्ञासितस्य भगणेः संताड्य ज्ञातमण्डलैहत्वा ॥४८॥ लब्धं कुदिनैर्विभजेत्फलमिह जिज्ञासितो ग्रहो भवति । शेष तद्विकलागं भवत्यथ प्राक्प्रदर्शितध्रुवकम् ॥४९॥ हत्वा युगावमदिनैर्विभजेद्विकलीकृतैः खचरचकैः। लब्धे भूदिवसाप्ते फलशेषौ स्तः क्षयाहतच्छेपौ ॥ ५० ॥ धरुवमधिमासँह त्वा विभजेत्खचरस्य भगणविकलाभिः । लब्धं फलं कुदिवसैविभजल्लब्धं भवेयुरधिमासाः॥ ५१ ॥ ग्रहविकला युगदिनाहता उद्दिष्टविकलाशेषयुक्ताश्च कार्याः। एवं कृते तद्भवं भवति । तत्तु ज्ञातुमिष्टस्य ग्रहस्य युगभगणैः संगुण्योद्दिष्टविकलाग्र- वद्महयुगभगणैर्ह ( है )त्वा तत्र लब्धं च भूदिनैर्विभजेत् । अत्राऽऽगतं फलं जिज्ञासितो मध्यग्रहो भवति। शेषं तद्विकलाशेषं भवति । अथ पूर्वोक्तध्रुवं युगावमादिनैर्हत्वा विलिप्तीकृतैरुद्दिष्टशेषवग्रहयुगभगणैविभजेत् । अत्र लब्धे भदिवसाप्ते सति फलशेषो क्रमाद्तावमदिनतच्छ पो भवतः । अथ रुवं युगाधिमासैहत्वोद्दिष्टविकलाग्रतो ग्रहस्य युगभगण विकलाभिहरेत् । अत्र लब्धं फलं च युगभूदिनैहरेत् । अत्राऽऽगतं फलं गताधिमासाः स्युः॥४८ ॥ ४९ ॥ ५० ॥ ५१ ॥ उद्देशक:-विलिप्तागात्पूष्णः षडिषुनवखाष्टीभगगन- क्षमासंख्यादस्मात्त्वरितमभिधत्स्वेष्टदिवसान् । विनैभिभास्वन्तं विधुमपि तदगं क्षयदिनं ततश्चैतच्छेषं वद तदधिमासानपि गतान् ॥ ५२ ॥ रवेविकलाशेषामदं ( १०८१६०९५६) । अस्मादुक्तपदानीता दिवसा: सूर्याष्टखाइयाष्टि( १६७०८१२ )संख्याः । एभिविना रविविकलामादे- बोक्तप्रकारेणाातो विकलारविखिभाबिधिव्यष्टव्यङ्केपुर ५९२८३२४-
कुट्ठाकाराशरोमाणः।
३५
२७३ )संख्यः । विकलाचन्द्रः सप्तेन्दुद्विरसाध्यगान्धितत्त्वाकाद्रि(७९२५.
४७४६२१७ )संख्यः । चन्द्रविकलाशेषः संकृत्यमितिथिकतषड्वेदाद्रि(७४-
६४१५३२४)संख्यः। क्षयदिवसा गजार्थेषुषडाक्ष(२६५५८)संख्याः। अव.
मायं खानाङ्गाब्धीषुनन्दार्थाष्ट लोक(१४८५९५४६००)संख्यम् । अधिमासा:
साष्टाष्टि(१६८७)संख्याः। एतत्सर्वं रविविकलायादेवोक्तवदानीतम् ॥५२॥
अथ भगणादिशेषैरिष्टदिनग्रहोपायमार्ययाऽऽह-
भगणग्रहभागलिप्ताशेष भगणाग्रमेव रचयित्वा ।
तेन दिनग्रहविकलाः कुर्याद्भगणादिखेचरांश्चाऽऽभिः॥५३॥
उद्दिष्टभगणादिशेषं विकलाशेष कृत्वा तेनोक्तमार्गेणेष्टदिनानि ग्रहविकला-
श्चाऽऽनयेत् । अथाऽऽभियंहविकलाभिर्युक्त्या भगणग्रहादींश्च कुर्यात् ॥ ५३ ॥
अथ स्वस्वविकलाग्राग्रहाणां साधारणं विकलामध्यानयनं सार्थ-
याऽऽर्थयाऽऽह-
सिन्धुहृते विकलाग्रे खत्रयरसरन्ध्रभास्करैर्भक्त।
यच्छेषं तद्धत्वा शैलाकाशाम्बुधिस्वराभिकरैः ॥ ५४ ॥
खखखतुनन्दसूर्यैविभजेच्छेषं ग्रहो विलिप्तात्मा।
सिन्धु( ४ )हते विकला खत्रयरसरन्ध्रभास्करै( १२९६००० )
भक्ते सति तच्छेषं शैलाकाशाम्बुधिस्वरामिकरै( २३७४०७ )हत्वा खख-
खर्तुनन्दसूर्यै( १२९६०००)विभजेत् । लब्धेन प्रयोजनं नास्ति । शेष
विकलात्मको मध्यग्रहो भवति । अत्रेदमनुसंधेयम् । यस्य विकलामाद्यदेवमा-
नीतं मध्यं तत्तस्यैवेति ॥ ५४ ॥
अथाऽऽर्यया धनक्षेपविषयप्रश्नमाह-
यो वेददिवसखेटौ विकलाशेषोनयुगदिनौघेन ।
भारतवर्षे सोस्मिन्मजति धनक्षेपमार्गवेदित्वम् ॥ ५५ ॥
विकलाशेषोनयुगदिनौघेन दिवस खेटौ यो वेद सोअस्मिन्भारतवर्षे धन-
क्षेपमार्गवोदित्वं भजति ॥ ५५ ॥
अथैतत्पश्नभङ्गार्थमार्याद्वयं सार्धमाह-
निजनिजगुणफलराशी निजनिजदृढदिवसभाज्यराशिभ्याम् ॥५६॥
महालक्ष्मीमुक्तावलीमहिन:- नह्मादिहावशेषौ खचराणां गुणफले क्रमाद्भवतः। ताभ्यां जलनिधिभक्तौ विमौविकाग्रोनयगदिनस्तोमौ॥५७॥ हृत्वा विभजेदृढदिनभाज्याभ्यामत्र ये च परिशिष्टे । तत्राऽऽदिमं दिन स्यादपरं खेटो विमौर्विकारूपः ॥ ५८ ॥ भव युगदिनचतुर्थांशः सर्वेषां दृढदिवसः । स्वस्वविकलीलतयुगभग- गचतुर्थांशः स्वस्वभाज्यराशिः। एवंविधाभ्यां निजनिज दृढदिवसभाज्यराशिभ्यां कमात्पूर्वोक्को निजनिजगुणफलराशी जह्यात् । इहावशेषों कमात्खचराणां निजनिजगुणफले भवतः । ताभ्यां माज्जलनिधि( ४ )भक्तौ दाबुद्दिष्टौ विमोर्विकाग्रीनयुगदिनस्तोमो हत्वा निजनिजदृढभाज्याभ्यां क्रमादिभजेत् । भत्र लब्धाभ्यां प्रयोजनं नासि । अब ये च परिशिष्ट स्तस्तत्राऽऽदिमं दिनं लात् । अपरं विमौर्विकारूपः खटः स्यात् । विमौर्विका विकला ॥ ५६ ॥ अथ स्वस्वविकलाशेषोनयुगदिनैः सर्वेषां साधारणं विकलामहानयनप- कारं साधयाऽऽययाऽऽह- अथवा पारिधि(४)भक्तान्स्वस्वविलिप्ताग्रहोनयुगदिवसान्। रामास्कभूतवमशरदिग्भिः(१०५८५९३)संताड्य चक्रविक- लाभिः( १२९६०० ) ॥ ५९ ॥ विभजेत तत्र शेषा भवन्ति खचरा विलिप्तिकात्मानः। सष्टोऽर्थः । अत्रानन्तरोते प्रकारद्वयेऽपि धनक्षेपत्वादिकलाग्रह एका निकलाधिका भवेत् ॥ ५९ ॥ अथाऽऽर्यया विकलाग्रहाश्रयणे दिनविकलाशेषविषयौ प्रश्नावाह- विकलाग्रहाद्दिनौघं विकलाशेषं च यो भणति शीघ्रम् ॥३०॥ चतुरुदधिमेखलायां चतुरमनीपो भवत्यसो भूमौ । साथैयमार्या ॥ ६ ॥ अथैतत्पश्नभङ्गार्थमध्यर्धामामाह- अहविकलाः कुदिनहता भगणविलिप्ताहृता दिनं लब्धम् ॥६॥ A १७ कुडाकारशिरोमाणः। शेषऽत्र सति तु लब्धं सैकं कार्य ततो दिवसवृन्दम् । शेषोनभागहारो विकलाशेषो भवेद्हेऽप्यस्य ॥ ६२ ॥ भूदिनहता ग्रहावकला विकलीकृतग्रहयुगभगणहताः कार्याः । अत्र शेषाभावे लब्धमेवेष्टं दिनं भवति । शेषे सति तु लब्धं सैकं कार्यम् । ततः स्वेष्टदिवसवृन्दं भवति । अत्र शेषाभावे विकलाशेषो नास्ति । शेषे सति तु शेषोनं विकलीकतग्रहयुगपर्यायवृन्दं विकलामं भवेत् । अत्र शेषाभावः का- दाचित्कः ॥ ६१ अथाऽऽययकस्यैव ग्रहस्यैकदिनजातभगणराशिभागकलाविकलाशेषयो- गादिष्टदिनानि यो वत्ति स एव कुटाकार बेदेत्याह- चक्रसदनांशलिप्ताविलिप्तिकाग्रेक्यतोऽभिमतदिवसान् । यो जानाति स भूम्यां कुट्ठाकारं स एव जानीते ॥ ६३ ।। अवतारिकया गतार्थेयम् ॥ ६३ ।। अर्थतत्मश्नभङ्गाय सार्धामा माह- अत्राप्रैक्ये कुदिनैर्विहृते शेषं भवेत्क्षयक्षेपः। ज्यद्रयङ्काद्रिकुविश्वगुणितं ग्रहचक्रमस्य भाज्यं स्यात्॥३४॥ कुदिनच्छेदस्त्वेतैगुणकं कुर्यादसावभीष्टदिनम् । अवोद्दिष्टे भागादिशेषयोगे सति संभवे क्षितिदिनैविभक्ते सति याच्छि- ध्यते तत्र ऋणक्षेपः स्यात् । नो चेद्भगणादिशेषयोग एवात्र ऋणक्षेपः स्यात् । यद्रयङ्कादिकविश्(१३१७९७३ )णितानि महयुगचक्राण्यत्र भाज्यराशिभवेत् । क्षितिदिनानीह भाजकः स्यात् । एस्तु पूर्वोक्तमार्गेण गुण- मानयेत् । एवमागतोऽयं गुण एवेष्टदिनानि स्युः । अब वारकुट्टाकारो द्वि- विधः । अत्रोद्दिष्टभगणादिशेषावलम्बनेनैकः । उद्दिष्टग्रहावलम्बनेनापरः । एवं वेलाकुट्टाकारोऽपि वेदितव्यः। अत्र यावुद्दिष्टमहाश्रयणेन वारवेलाकुट्टा- कारौ तावुत्तरत्र प्रदर्शयिष्यते । अत्र तूद्दिष्टभागाद्यमाश्रयेणाऽऽनीयमानौ यो वारवेलाकुट्टाकारौ वो क्रमेण पदर्येते । वारकुट्टाकारगतभगणशेषावलम्बे- नोद्देशकः-देवेन्द्रार्चितवारपूर्तिसमये राजीवबन्धोरभू- च्चकाग्रं नियुताहताष्टककरक्ष्माभन्मही(१७२८०००००)संमितम् । भूयोऽप्येतदभूत्सितेन्दुकुजविद्वारावसाने समं तत्कालान्वद वारकुट्टकविधौ यद्यस्ति ते संस्तवः ॥ ६४ ॥ १ख. दग्रहेन्द्रस्य ।
महालक्ष्मीमुक्तावलीसहितः अथैतदादिपभभङ्गायाऽऽर्यासप्तकमाह- खचराणां युगभगणा भाज्यो राशिर्भवेत्तदानीं तु ॥ ६५ ।। भगणाग्रे ह्यद्दिष्टे तद्भगणागं भवेहणक्षेपः। भवनीभूता भगणा भाज्यो राशिर्भवेत्तदानीं तु ॥ ६६ ॥ भवनागे तूद्दिष्टे तद्भवनायं भवेदृणक्षेपः । भागाने तूद्दिष्टे तद्भागागं भवेहणक्षेपः ॥ ६७ ॥ भागीभूता भगणा भाज्यो राशिर्भवेत्तदानीं तु । लिप्तांग्रे तूद्दिष्टे तल्लिप्तागं भवेदृणक्षेपः ॥ ६८ ॥ लिप्तीभूता भगणा भाज्यो राशिर्भवेत्तदानीं तु । विकलागे तूद्दिष्टे तद्विकलागं भवेहणक्षेपः ॥ ६९ ॥ विकलीभूता भगणा भाज्यो राशिर्भवेत्तदानीं तु । युगभूसावनदिवसान्येवं स्याद्भाजकोऽत्र सर्वत्र ॥ ७० ॥ एभिभीजकभाज्यक्षपर्यो भवति वर्धकः सोऽत्र । आदिमकालस्तस्मिन्दृढदिवसान्बुद्धिसंगणान्युक्त्वा ॥ १ ॥ अभिहितवारांस्तांस्तान्कालानन्यांश्च साधयेत्प्राज्ञः। भगणशेष उद्दिष्ट सति तदुद्दिष्टं भगणशेष क्षयक्षेपः स्यात् । तदा पुन- अंहाणां चतुर्युगभगाणा भाज्यराशिः स्यात् । अब हिशब्दो हेतौ । यस्मादुदि- टभगणशेषमृणक्षेपो भवति तस्माद्ग्रहयुगभगणा भाज्यराशिः स्यादिति । राशिशेष उद्दिष्टे सति तदुद्दिष्टं राशिशेषमृणक्षेपः स्यात् । तदानीं तु द्वादश- ( १२ )गुणितयुगभगणा भाज्यः स्यात् । भागशेष उद्दिष्टे तु तदुद्दिष्ट भागशेषमृणक्षेप: स्यात् । तदानीं तु षष्टयुत्तरशतत्रया( ३६० )हता युग- भगणा भाज्यः स्यात् । कलाशेष उद्दिष्टे तु तदुद्दिष्टं कलाशेषणक्षेपः स्यात् । तदानीं तु खखषड्धन( २१६०० )निहता युगभग़णा भाज्यः स्यात् । विकलाशेष उद्दिष्टे सति तदुद्दिष्टं विकलाशेषमृणक्षेपः स्यात् । तदानीं अपर्वमा( १२९६००० )भ्यस्ता ग्रहचतुर्युगभगणा भाज्यराशिः अब सर्वत्र चतुयुमभूदिनान्येव भागहारो भवेत् । एवं प्रदर्शितैरतैर्भा- मोकामकारेण यो गुणो भवति स इहोद्देशकश्लोकप्रथमक- विपनाला पथकालः स्यात.। अथ तस्मिन्नाद्यकाले मंतिगुणिलान्दृढ- .. कुट्टाकारशिरोमणिः। ३९ दिवसान् निक्षिप्योद्देशकश्लोकान्तरोक्तवारान्तान्तानन्यान् कालानपि कुट्टकग- णितज्ञः साधयेत् । एतदुक्तं भवति । दृढदिनेषु सप्तहतेषु यच्छिष्यते तदवल- म्बनेन दृढदिवसानां कियतीभिरावृत्तिभिरुद्दिष्टवाराः समायान्तीत्यालोच्य तावतीभिरावृत्तिभिर्गुणितान्दृढदिवसान् गुणयित्वोद्देशकलोकान्तरोक्तवाराव- सानानन्यान्कालानपि साधयेत् । अत्र फलं तदुद्दिष्टभगणादिशेषवशाद्यथा- क्रमं ग्रहभुक्तभगणादिभिर्भवति । न्यासः-अत्रोद्देशक श्लोकस्थो रविभगणशेषोऽ- यम्( १७२८००००० ) । अयमत्र ऋणक्षेपः। रवियुगभगणाः खचतुष्कर- दार्णवाः ( ४३२०००० ) भाज्यराशिः । युगभूदिवसाः 'वसुयष्टाद्रि- रूपाङ्कसप्ताद्रितिथयः ( १५७७९१७८२८) भाज्यराशिः। एमिर्भाज्य- भाजकक्षेपैः पूर्ववदानीतो गुणः खाब्धि( ४०)संख्यः । अयमेवोद्देशकश्लोक- प्रथमोक्तगुरुवारान्तान्तः सृष्टयादिर्दिनगणः । एष प्रथमकालः । अस्मिन्नेक- गुणे सप्तेष्वन्ध्यङ्कगद्रिकृताध्यकनामि( ३९४ ४७९४५७)संख्ये दृढदिने दत्ते सप्ताङ्कमध्यङ्कगद्विवेदाधिग्रहानि( ३९४४७९४९७ )संख्यः शुक्रवासरावसानः सृष्टयादिर्दिनगणः । एष द्वितीयकालः । अथ पूर्वमागते गुणे ४० चतुर्गुण दृढदिने क्षिप्ते वसुरसाष्टाद्रीन्द्वकाद्रिमुनितिथि( १५७७९- १७८६८)संख्यश्चन्द्रवारान्तान्तः सृष्टयादिर्दिनगणः । अयं तृतीयकालः । अथ गुणे ४० पश्चगुणदृढदिने क्षिप्ते तत्त्वत्र्ययङ्काग्मिव्ययतिधति( १९- ७२३९७३२५ )संख्यः कुजवारान्तान्तः सृष्टयादिर्दिनवजः । एष चतु- थकालः । अथ गुणे षड्गुणदृढदिने क्षिप्त द्विवसुशैलरसादिवसुरसतुत्रिद्धि ( २३६६८७६७८२)संख्यः) । बुधवारान्तान्तः सृष्टयादिदिनबजः। एष पश्चमकालः। एवमेतेषु पञ्चकालेषु यथास्वभगणेति (सूर्यसि० अ० १ श्लो० ५३ ) सूर्यसिद्धान्तोक्तप्रकारेणाऽऽनीतं रविभगणशेषं नियुताहताष्टकर- क्ष्माभन्मही( १७२८००० ००००० सीमतं भवति । एवं सूर्यस्य राश्यादिशे- बैरन्येषां भगणादिशषैरिकुट्टाकारः कर्तव्यः। अथ वारकुट्टाकावेलाकुट्टा- कारयोः को वा विशेषः । उच्यते । वारान्तकालजानतं ग्रहं वा ग्रहमगणा- विशेष वाऽवलम्ब्य वारकुट्टाकारः प्रवर्तते । वारान्तकालादन्यकालजनितं ग्रह वा भगणादिशेष वाऽवलम्ब्य वेलाकुट्टाकारः प्रवर्तत इति । अथ वेलाकुट्टा- कारः पदयते । तत्राऽऽदो वेलायां ग्रहभगणादिशेषाणि ज्ञातव्यानीति तदा- नयनमुच्यते । भागानुबन्धजातौ रूपगुणच्छेदगुणस्वांशयुतेष्टदिन तत्रत्येन .. भगणास्त्रयः । ४० महालक्ष्मीमुक्तावलीसहित:- च्छेदेन गुणयित्वा तदंशयुक्तं कृत्वा तच्च ग्रहयुगभगणैः संगुण्य तत्रत्यच्छेद- निहतैर्युगभूदिनैविभजेत् । लब्धं भगणा भवन्ति । तस्मिन्दादशादिगुणिते पूर्व- वद्विभक्ते च लब्धं राश्यादयः। शेष राश्यादिशेषम् । उदाहरणम् । अत्र कल्पितस्वच्छेदांशसहितोऽभीष्टो दिनगणः १३५२.१२ । अत्रीपरिपङ्कि- स्थो रूपगुणः स चात्र द्वीषुविश्व( १३५२ संख्यः । मध्यमपति- स्थोऽशः । स पुनरिह रूप( १ )मितः। अधःपङ्क्तिस्थरछेदः । स पुनरत्र दिक रमितः । अथ रूपगुणे ( १३५२ ) तत्रत्येन च्छेदेन (२) गुणिते ( २७०४ ) तत्रत्येनांशेन च (१) युक्त जातो राशिः पश्चाप्रभ( २७. ०५)संमितः । अस्मिन्बुधयुगभगणैः खचतुष्करदाणवै ( ४३२००००) गुणिते( ११६८५६००००० ) तत्रत्यच्छेदेन बिकेन (२) गुणितैयुगभूदिनैः षड्वाणरसार्थाग्न्यष्टेषुतिथ्यग्नि( ३१५५८३५६५६ )संख्यैर्विभक्त उन्धा शर्षे दन्त खाग्न्यडूखाष्टेन्दुद्विद्वि( २२१८०९३०३२)- सख्यम् । तदेव बुधस्य भगणायम् । एतस्मिन्द्वादशादिगुणिते पूर्ववाद्विभक्त च रब्धं राश्यादयो भवन्ति । शेषं राश्यादिशेष भवति ॥६५॥ ६६ ॥ ६७ ॥ ६८ ॥ ६९ ॥ ७० ॥ ७१ ॥ अत्र यद्भगणशेषं तदधुनोद्दिश्यते- लङ्कामध्याह्नकाले हिमकिरणतनूजन्मनो मण्डलायं दन्ताम्राग्न्यड्डखाष्टक्षितिनयनभुजासंख्यमासीदमुष्मात् । पर्यायानस्य यातानभिमतदिवसव्यूहमंशन युक्तं वेलाकुट्टोपदेशो बलवदवगतश्चत्त्वया ब्रूहि शीघ्रम् ॥७२॥ अर्थतत्पश्नभङ्गनय सार्धमार्याद्वयमाह- बेलाकुट्टाकारे छेदाभ्यस्तः कवासरश्छेदः। प्रक्षेपभाज्यराशी पुनरस्मिन्वारकुट्टवद्भवतः ॥ ७३ ॥ एभिः संपायेते यो फलगुणको तयोः फलं त्वत्र । उहिष्टशेषवशतो गतभगणादि वेदिह गुणस्तु ॥ ७४ ।। छेदहतो दिवसगणः शिष्टं तच्छेदयोगिनोंऽशाः स्युः। अस्मिन् वेलाकुट्टाकारे मण्डलादिशेषानयने 'भागानुबन्धजातौ रूपगुण च्छेदसंगुणः सांशः, कृट्टाकाशिरोमाणः। इत्यत्र पस्छेदस्तेन गुणिता युगभूदिवसा भाजको भवति । बारकुट- टाकारे भगणादिशेषेषु क्षिप्तेषु सत्सु तत्र यो क्षेपभाज्यावुक्तौ तावत्रापि समा- नौ । एतेभीजकक्षेपभाज्य? फलगुणावुत्पद्येते तयोः फलं त्विह भगणशेष उद्दिष्टे सति ग्रहभुक्तभगणा भवन्ति । राशिशेषे तूद्दिष्टे तत्फलं ग्रहभुक्तराशयः। भागशेषे पुनरुद्दिष्टे तत्पुनर्ग्रहभुक्तभागाः । लिप्ताग्रे पुनरुद्दिष्टे तत्तु ग्रहमुक्त (क्ति)- लिप्ताः। विलिप्ताये तूद्दिष्टे सति तत्कलं ग्रहमुक्त(क्ति)विलिप्ता भवन्ति । अब यो गुणस्तस्मिंस्तु भगणायग्रानयने भागानुबन्धजातावित्यत्र यश्छेदस्तेन विहते सति लब्धमिदिनानि भवन्ति । शिष्टं तच्छेदसंबन्धिनोंऽशा भवेयुः। उदाहरणम्-बुध- स्याद्दिष्टं भगणशेषमिदम्(२२१८०९३०३२)। अयभृगक्षेपः। अत्र भगणशेषो- द्दिष्टत्वावुधस्य युगभगणा इमे(४३२००००)भाज्यराशिः । इह चक्रशेषा- नयन भागानुबन्धजातावित्यत्र च्छेदो द्वि(२)संमितः। अतो द्विगुणिता भूदि- वसा एवे ( ३१५५८३५६५६) भाजकराशिः। एवमेतैः क्षेपभाज्यभाजकैः पूर्ववदानीतं फलं वि(३)संमितम् । एतद्बुधभुक्तभगणाः। गुणः पश्चा- भभ( २७०५ )संमितः । एतस्मिस्त्विह चक्रशेषानयने भागानुबन्धजाता- वित्यत्र द्वि(२)संमितेन च्छदेन विभक्ते लब्धं द्वीविश्व( १३५२)सरूपं जातम् । एतदभीष्टदिनगणः । शिष्टं तच्छेद (२)संवन्ध्यंशो रूप(१)मितो जातः । एवं च्छेदांशसहितो दिनगणोऽयं १३५२।१२। इत्थं वारद्वयंशे कुट्टाकारः पदार्शतः । एवमनेन न्यायेन वारत्र्यंशवारचतुरंशवारपश्चांशवार- षडंशादिषु कुट्टाकारो योज्यः ॥ ७३ ॥ ७४ ॥ अथ वारषष्टयंशे लिप्साशेषाश्रयणेनाद्देशक:- लिप्तायामर्धरात्रात्प्रभृति विघटिका सप्तशत्यां गतायां सैकायां खाभ्रतकभिगुणकृतशराष्टाभ्रशैलैकनागाः। लिप्तागं मूर्यमूनोः समभवदमुना वासरानंशयुक्तान् लिप्तान्त मर्यमर्नु कथय विघटिका कुट्टवेदिन्ममाऽशु॥७५॥ अत्रेदं शनैश्चरस्प कलाशेषम् (८१७०८५४३३६००)। अय- भृण क्षेपः । तस्य युगभगणा भुजङ्गषट्पश्चरसवेदनिशाकराः ( १४६५६८) (सूर्यसि० अ० १श्लो०३२) भाज्यराशिः । वारस्य खखषड्रामांशो (३६००) विनाडीतिखखषड्रामगुणिता युगदिवसा इमे (५६८०५०४१८०८००) भाजकराशिः। एभिः क्षेपभाज्यभाजकैः पूर्ववदानीतो गुणो भवाङ्मदिख- .. ..
४२ महालक्ष्मीमुक्तावलीसहितः- ध्वाकति(२२५०७९०१)संख्यः। अस्मिन्खखषड्रामैविभक्ते लब्धमभीष्टदि. नगणो द्वीषुद्विषट् (६२५२)संख्यः। शिष्टा विनाडिकाः सैकसप्तशत ७०१ ३६०० संख्यः। एवं सच्छेदांशसहितोऽभीष्टदिनगुणः ६२५२ । ७०१ ३६०० । फलं कृतवेदार्थार्क(१२५४४)संख्यम् । एतत्कालात्मकं सौरमध्यम् अथानुकलासु क्रमादनुपातादारोपितासु षडाशयः(६)। एकोनविंशद्भागा(२९). श्वतमः ( ४) कलाश्च । एवमिदं राश्यादिकलान्तं सौरमध्यम् ॥ ७५ ॥ अथ ग्रहाश्रयणेन वारवेलाकुट्टाकारानयने प्रथमतो ग्रहस्य भगणादिशेष ज्ञातव्यम् । अतस्तदुद्दिष्टग्रहानुगुण्येन धीमताऽप्यूह्यमित्यार्ययाऽऽह- खचरावलम्बकुट्टे परिवर्ताद्यग्रमादितो ज्ञेयम् । तत्परिवर्ताद्ययं सुधियोा कथितखेचरेन्द्रवशात् ॥ ७६ ॥ अत्र परिवर्ताद्यग्रमूसमित्येतत्परिवर्ताद्यग्रेणानन्तरं तव शावलावारकुट्टा- कारावप्यूसावित्यस्योपलक्षणम् । अत्रायमूहेन सिद्धोऽर्थः । वारकुट्टाका भगणात्मके ग्रह उद्दिष्टे सति ग्रहस्याद्दिष्टान् भगणांश्चतुर्युगदिनैर्गुणयित्वा तस्य चतुर्युगभगौर्विभज्य लब्धं कुत्रचिनिधाय शेषं तस्य चतुर्युगभगणेभ्यस्त्यजेत् । ततस्तच्छेषं भवति । अत्रैवमागतं भगण शेष क्षयक्षेपः । ग्रहस्य चतुर्युगभगणा भाज्यराशिः। चतुर्युगदिनानि भाजकराशिः। एभिः पूर्ववद्गुणफले कुर्यात् । तयो गुणोऽभीष्टदिनगणी भवति । फलं ग्रहभुक्तभगणा भवन्ति । अथ परिवदिौर श्यन्ते ग्रह उद्दिष्टे तं ग्रहं राशीकृत्य भूदिनैः संगुण्य राशीतैस्तस्य युगपरिवर्ते- श्छित्वा फलं क्वचित्स्थापयित्वाऽवशेष स्वभागहाराज्जयात् । तच्छेषं तु राशिशेषा अत्र राशिशेषमृणक्षेपः । राशीलता युगपरिवर्ता भाज्यः । भूदिनानि भाजकः एतैः मागुतवद्गुणफले कुर्यात् । तत्र गुणोऽभीष्टदिनगणः। फलं तु गतराशि- गणः । अथ चकादौ भागान्ते ग्रह उद्दिष्टे तं भागीकृत्य क्षितिवासरैस्ताडयित्व भागीकृतस्तस्य युगचकैम्वच्छिद्याऽऽप्तं कुत्रचिद्विन्यस्य शिष्टं स्वहारका- छोधयेत् । तच्छेषं तु भागशेषम् । अत्र भागशेषमृणक्षेपः । भागीलनग्रहस्य युगभगणा भाज्यः । क्षितिवासरा भाजकः । एभिरुक्तवद्गुणफले कुर्यात् । तयोर्गुणोऽभीष्टदिवसचयः । इह फलं तु गतभागगणः । अथ पर्यायादौ कलान्ते यह उद्दिष्टे तं कलीकृत्य भूदिवसैः संताइय कलीकृतस्तस्य युगपर्यायैर्भक्त्वा १ क. "तकेन्द्रव। amarM4.
कुद्दाकारशिरोमाणः । लब्ध कचिहत्त्वाऽवशिष्टं स्वच्छेदाच्छोधयेत् । तच्छेषं तु कलाशेषम् । अत्र कलाशेषमृणक्षेपः । कलीकृतास्तस्य युगपर्याया भाज्यः । भूदिवसा भाजकः । एतैः प्रागुक्तवद्गुणफले विदध्यात् । तयोर्गुणोऽभीष्टदिवससमूहः । अत्र फलं तु गतकलासमूहः। अथ पर्यायादौ विलिप्तान्ते ग्रह उहिष्टे त विलिप्तीकृत्य भूसावनैर्वर्धयित्वा विलिपीकतैस्तस्य युगपर्यायः पविभज्य लम्धं फलमन्यत्र कुत्रचित्पालयित्वा शिष्टं स्वभाजकात्संशोधयेत् । तच्छेषं तु विक- लाशेषम् । इह विकलाशेषमृणक्षेपः। विलिप्तीकृतग्रहस्य युगपर्याया भाग्यः । भूसावनदिनानि भाजकः। एभिः पूर्वोक्तमार्गेण गुणफले कुर्यात् । तत्र गुणोऽभिमतवासरनिवहः । फलं तु ग्रहभुक्तविकलावृन्दम् । अत्र सर्वत्र यद्य- त्फलं तत्तत्तत्र तत्र शेषाभावेऽभीष्टदिनानि भवन्ति । तत्र तत्र शेषे सति तु सैकं तचत्फलमभीष्टदिनानि भवन्ति । अथ अहस्य राशिस्थानमात्र उद्दिष्टे पुनरुद्दिष्टांस्तस्य राशीन् दृढदिनैः संदर्य द्वादशभि( १२)विभजेत् । अत्र लब्धं भगणशेषम् । अथ राश्यादी भागान्ने ग्रह उद्दिष्टे तं भागीछत्य दृढदिनैहत्वा खाङ्गामिभिः( ३६० )विभजेन् । लब्धं भागशेषम् । अथ रा- श्यादौ कलान्ते ग्रह उद्दिष्टे तं कलीकृत्य दृढदिनैर्हत्वा खखनुपनेः ( २१६०० ) हरेत् । लब्धं भगण शेषम् । अथ राश्यादौ विलिप्सान्ते ग्रह उद्दिष्टे तं विलिप्तीकृत्य दृढदिनैहत्वा खानाङ्गाङ्कः ( १२९६०० ) विभजेत् । इहापि लब्धं भगणशेषम् । अत्र सर्वत्र भगणशेषमृणक्षेपः । यहस्य दृढभगणा भाज्यः । दृढदिवसा भाजकः । एमिर्गुणफले कुर्यात् । तयोर्गुणोऽभिमेतदिनवजः । फलं गतभगणा: । अत्र सर्वत्रः दिवसाश्चतुर्युगभग- णाश्चापवर्तिताः क्रमाद् दृढदिवसा दृढभगणाश्च भवन्ति । अथ ग्रहस्य भाग- स्थानमात्र उद्दिष्टे तानुद्दिष्टान् भागान् दृढदिनैहत्वा त्रिंशता विभजेत् । लब्धं राशिशेषम् । अथ भागादौ लिप्तास्थानान्त ग्रह उद्दिष्टे तं लिप्तकृत्य दृढ- दिनहत्वा खाभ्राष्टभूभि( १८०० )भिजेत् । लब्धं राशिशेषम् । अथ भागादौ विलिप्तान्त ग्रह उद्दिष्ट तं विलिप्तीकय दृढवासरैर्हत्वा खखानाष्ट- दिग्भि( १००००० विभजेन् । लब्धं राशिशेषम् । अत्र सर्वत्र राशिशेषमृणक्षेपः । राशिंशेषदृढमण्डला भाज्यः । दृढवासरा भाजकः । १ ख. "शिभृता है।
महालक्ष्मीमुक्तावलीसहित:- गुणफले कुर्यात् । तयोर्गुणो वाञ्छितदिनौषः। फलं गतराशिगणः । तत्र सर्वत्र चतुर्युगदिवसा राशीकताश्चतुर्युगभगणाश्चापवर्तिताः क्रमाद् दृढदिवसा राशीस्ता दृढमण्डलाश्च भवन्ति ॥ ७६ ॥ अथ राश्यादिलिप्तान्तग्रहाश्रयवारकुट्टाकारावलम्बनेनोद्देशक:- चापे भागा विंशतिलिप्तिक द्वे आसीत्सूरमध्यमं सौम्यवारे । भूयोऽप्येतज्जीववारे कदा स्याव्याः कालौ तौ गतान् पर्ययांश्च॥ अत्रेदं राश्यादिकलान्तं गुरोमध्यं (८२०१२)। एतस्कलीरुतं व्यत्रषट्- कतिथि( १५६०२ संख्यं जातम् । एतदवत्यैः सप्तेष्वब्ध्यङ्कादिकता- पडूनाग्निभि( ३९४४७९४५७ )दृढदिनैनिहतं चक्रकलाभि(२१६००)- बिभक्तं चा?त्तरयोगेन सह पड●ग्न्यष्टाग्न्यङ्कनब्ध्यष्टद्वि(२८४९३८३५६)- संख्यं जातम् । अयमिह ऋणक्षेपः । गुरोश्चतुर्युगभगणचतुर्थाशमिता अत्रत्या एते९.०५५दृढभगणा भाज्यराशिः। इह पूर्वोक्तान्येतानि (३९४४७९४५७) दृढदिनानि भाजकराशिः। एतैः पूर्ववदानीतो गुणनिद्विखाष्टामीन्द्रतत्त्व(२५- १४३८०२३)संख्यः । अयं सृष्टयादिरिष्टदिनगणः । अयमेव बुधवारान्तान्त प्रथमकालः अत्र फलं सप्तत्रिखाष्टार्थ(५८०३७)संख्यम् । एतदेवाब गुरुभक्तभा गाः। अथैकदिनदृढयुक्तः प्रथमकाल एव गुरुवारान्तावसानः सृष्टयादिर्दिवीय: कालः। स च खाष्टाध्यद्रीन्द्रनाधिषट(६४५९१७४८०)संख्यः। अस्मि- काले गुरोर्गतभगणाव्यङ्कखाङ्केन्द्राः( १४९०९२) । एवं महाभयवारकुट- टाकारः प्रदर्शितः। अनया [रीत्या] ग्रहाश्रयवेलाकुट्टाकारोऽप्युन्नेयः। अत्र यौ ग्रहाश्रयेण वारवेलाकुट्टाकारी ती कदाचिद्भवतः। कदाचिद्व्यभिचरतः तस्मात्तावसमीचीनौ ॥ ७७ ॥ अथ सूर्याब्दावसानचन्द्रादिष्टग्रहराश्यादिमध्याद्गतावत्सरांश्चन्द्रादीष्ट ग्रहगतभगणादींश्च यो वदति स निरग्रकुट्टाकारे प्रवीण इत्येक प्रश्नमार्यय सष्टयति- सूर्याब्दपूर्तिकाले चन्द्रादीष्टग्रहं समालोक्य । अर्केष्टयातभगणानाचष्टे यः स दक्षिणः कुट्टे ॥ ७८ ॥ अवतारिकया गतार्थेयम् ॥७८॥ अथैतत्पश्नभञ्जनाय साधीमा-माह- दिनकरभगणाश्छेदश्चन्द्रादीष्टग्रहस्य चक्राणि ।
.. कुवाकाराशिरोमाणिः । भाज्यक्षेपस्तूयो ग्रहमध्यमसिद्धिवासनां दृष्ट्वा ॥७९॥ तैर्जनिते गुणकातीये चार्काब्दा गतेष्टभगणाश्च । अत्र क्षेपोत्पादनं विनाऽन्योऽर्थः सुबोषः । अतस्तदेव पदयते । ग्रहस्य राशिस्थानमात्र उद्दिष्टे सत्युद्दिष्टान् राशीन् युगरावभगणैः खचतुष्करदाणवैः (४३२०००० ) संगुण्य दाइभिविभज्य लब्धं :भगणशेषात्मकः क्षयक्षेपः ( १२.६०००)। अथ राश्यादौ भागान्ते ग्रह उद्दिष्टे तं भागीकृत्य पूर्वव- त्संगुण्य चक्रभाग( ३६० )विभज्य लब्धमृणक्षेपः । अथ राश्यादौ विक- लान्ते ग्रह उद्दिष्टे तं विकलीकृत्य चक्र वि ]कलाभि(१२९६०००)- विभज्य लम्धमृणक्षेपः ॥ ७९ ॥ अत्र राधिस्थानमात्रचन्द्रमध्यावलम्बनेनोद्देशक:- सूर्याब्दपूर्ती मृगलाञ्छनस्य भपश्चकं दृष्टमतोऽरुणाब्दान् । यातानथेन्दो गणांश्च तूर्णमाख्यातु कुट्टे कुशलो भवांश्चेत् ॥८॥ अत्र भाज्यश्चतुर्युगभगणाः । भाजको रविभगणाः । अत्रोक्तपक्रियानीतो नियुताहतधृति( १८०००००)संख्योऽयमृणक्षेपः एभिरानीवाः सूर्यान्दाः खत्रयतिथि( १५०००)संख्याः । चन्द्रगतभगणा रदेष्वत्रनख ( २००- ५३२ )संख्याः ॥ ८० ॥ अथ फलज्ञातगुणानयनमार्ययाऽऽह- लब्धे भाजकगणिते बारक्षेपण संस्कृते भक्ते। भाज्येन लभ्यते यत्तद्गुणकारो भवेदिति ज्ञेयम् ॥ ८ ॥ अस्यास्त्वर्थ उदाहरणेन व्यज्यते । निरयविषये पूर्वलिखितोद्देशकश्ली- कोऽयम- चन्द्रेशाः (१११) केन गुणिता रूप(१)युक्ता दिखामिभिः(३०२)। भक्ताः शुद्धा गुणफले ब्रूहि तूर्णं निरपवित् ।। अत्र कुट्टाकारगणितसिद्धे. गुणफले शरधृति(१८५)गजतक(६८) संख्ये । एवमागताल्लब्धाद्गुणानयनार्थमियमार्या । लब्धामिद( ६८ )मेतदनेन भाजकेन ( ३०२) गुणितं ( २०५३६ ) इदमनेन धनक्षेपेण , धनर्ण- वैपरीत्येन संस्कृतम् (२०५३५)। एतदनेन ( १११ ) भाजकेन विभज्य रब्धम् ( १८५)। इदं कुट्टाकारगणितसिद्धगुणकारतुल्यमेव ॥ ८१॥ १ क, कलाभि (२१६००) र्वि ।
४
महालक्ष्मीमुक्तावलीसहित:-
अथाऽऽयया विकलाशेषाद्विकलाद्यानयनमुच्यत इति पतिजानीते-
विकलाशेषाद्विकलाः कलाः कलागं लवायं च ।
भानि तदगं भगणाग्रमपि यथा स्युस्तदुच्यते कर्म ॥२॥
अथ प्रतिज्ञातमर्थमार्याचतुष्टयेन सार्धेनाऽऽह-
विश्वनाद्विकलायात्खसिद्धभक्तावशेषवेदांशे।
षष्टेस्त्यक्ते विकलास्तयुगादिवसाह(ह)तिः सविकलाया ॥८॥
खाङ्गैहृतात्कलाग्रं तद्वेदांशात्रिचन्द्रसंगाणतात् ।
खरसविहृतावशेषे खरसेभ्यः शोधिते कलाशेषम् ॥ ८४॥
तयुगदिवसाभ्यामः सकलायः षष्टिभाजितोऽशागम् ।
विश्वहततागांशात्वगुणाताच्छेषहीनहाराऽशाः॥८५॥
तदिनसंवर्गः सांगायः खाग्निभिहतो भागम् ।
तत्तुयाँशेप्ति शेषे हारोच्चशोधिते भानि ॥८६॥
तमिसावनवधः सह शेषोऽहतो भगणशेषः ।
प्रयोदश(१३)गुणिताद्विकलाशेषाच्चत्वारिंशदाधिकशतद्वयेन ( २४० )
भक्तायोऽवशेषस्तस्य यश्चतुर्थी शस्तस्मिन्षष्टे(६०)स्त्यक्ते यच्छिष्यते तद्वि-
कला भवन्ति । अथ तासां गतदिनानां च योऽभ्यासः स विकलाशे-
पयुक्तः षष्टचा(६०)भक्तश्च कार्यः । अत्र यल्लभ्यते तद्विकलाशेष
भवति । अथ तस्य चतुर्थांशात्त्रयोदशगुणितात्वष्टचा भक्ताद्यदवशिष्यते
तस्मिन् षष्टयास्त्यक्ते योऽवशेषः स लिप्तां भवन्ति । अथ तासां युगदिनाना-
मपि यो वधः स लिप्ताशेषयुक्तषष्टया भक्तश्च कार्यः। लब्धं भागशेषं भवति ।
अथ तस्य चतुर्थांशात्रयोदशगुणात्रिंशा( ३० ताच्छिष्ट तस्मि-
स्त्रिशतस्त्यक्ते शेषो भागा भवन्ति । अथ शेषाणां युगभूदिनानां चाभ्यासः
सभागशेषस्त्रिंशद्भक्तश्च कार्यः । लब्धं राशिशेषं भवति । अथ राशिशेषच-
तुर्थाशे द्वादशभक्त यः शेषस्तस्मिन् द्वादशभ्यस्त्यक्ते यच्छिष्यते तद्राशयो
भवन्ति । अथावशेषाणां भुदिनानां च यः संवर्गः स राशिशेषयुक्तो द्वाद-
शभिर्विभक्तश्च कार्यः । लब्धं भगणशेषं भवति । ननु विकलाशेषादिवसानि-
त्यादिना पूर्वोक्तेन सर्वमेतत्सिद्ध तत्किमनेन सिद्धसाधनेन ।
सत्यम् ।
तत्र कुट्टाकारगणितमत्र विपरीतगणितमित्यदोषः ॥ ८२ ॥ ८३ ॥ ८४ ॥
८५ ॥८६॥
कुट्टाकारशिरोमाणः। ४७ पूर्व विकलाशेषाद्दिवसानित्येवमादिना ज्ञातमहविकलाग्राज्जिज्ञासितम- हभगणादिशेषानयनमुक्तम् । इदानी प्रकारान्तरेण तदेव विवक्षुस्तद्विषयमनुयो- गमार्यया स्पष्टयति- पूर्व विकलाशेषायादन्यस्येष्टभगणशेषादीन् । अविलम्बितं भणति यः कुट्टकंविदा सिन्धुरः स भवेत् ॥८॥ स्पष्टोऽर्थः ॥ ८७॥ अथैतत्पश्नभजनायाऽऽद्वियमाह- कथितविकलावशेषस्थिरगुणगुणितेष्वभीष्टचक्रेषु । भक्तेषु भूमिदिवसैर्यः शेषस्तद्गुणोक्तविकलाग्रे ॥ ८८॥ क्षितिदिनभक्त शेषे वेदहृतेऽभीष्टखचरभगणाग्रम् । राश्यादिशेषगणने चैवं रव्यांदि ( १२३६०२१६००- १२९६००० )गणितपरिवर्तः ॥ ८९ ॥ इति श्रीदेवराजविरचिते कुट्टाकारशिरोमणौ निरयपरिच्छेदो द्वितीयः ॥ २॥ उद्दिष्टस्य ग्रहविकलाशेषस्य यः स्थिरगुणः पूर्वं रविभूगुविदा नवाम्बरे- त्येवमादिना पठितस्तेन गुणितेष्वभीष्टग्रहयुगभगणेषु यः शेषस्तद्गुणितोद्दिष्ट- विकलावशेषस्थिरगुणगुणितेषु जिज्ञासितस्य द्वादशगुणितयुगचकेषु भूदिनभक्तेषु यः शिष्यते तेन गुणिते तूद्दिष्टविकलाशेषे भूदिनभक्त यच्छिष्टं तद्वेदविहतं जिज्ञासितस्य राशिशेषं भवति । अनया दिशा भागादिशेषाश्चाऽऽनेयाः ॥ ८८ ॥ ८९ ॥ अथ संपदायाविच्छेदार्थं भास्कराचार्यकृतलीलावतीगतानि सोदाहरणानि मिरग्रकुट्टकसूत्राणि कतिचिल्लिख्यन्ते- भाज्यो हारः क्षेपकश्चापवर्त्यः केनाप्यादौ संभवे कुट्टकार्थम् । येन च्छिन्नौ भाज्यहारौ न तेन क्षेपश्चैतदुष्टमुद्दिष्टमेव ॥ परस्परं भाजितयोर्ययोर्यः शेषस्तयोः स्यादपवर्तनं सः। स्वेनापवर्तेन विभाजितौ यौ तौ भाज्यहारौ दृढसंज्ञको स्तः ॥ १ ख. एकस्य विलितामाद । २ ख. कवेदी स सिन्धुरशनायाम । ३ ख. रिवत्रः महालक्ष्मीमुक्तावलीमहित:- मिथो भजेत्तौ दृढभाज्यहारी यावद्विभाज्ये भवतीह रूपम् । फलान्यधोऽधस्तदधी निवेश्यः क्षेपस्तदन्ते खमुपान्तिमेन ॥ स्वोर्चे हतेऽन्त्येन युते तदन्त्यं त्यजेन्मुहुः स्यादिति राशियुग्मम् । ऊों विभाज्येन दृढन तष्टः फलं गुणः स्याधरो हरेण ॥ एवं तदेवाचे यदा समास्ताः स्युलन्धयश्चेद्विषमास्तदानीम् । यवागतौ लब्धिगुणौ विशोध्यौ स्वतक्षणाच्छेषामिती तु तौ । श्रीभास्करीयलीलावत्यां कुट्टकाध्याये श्लो० १-५॥ इति करणसूत्राणि पश्च ॥ .. एषामर्थः-संभवे सति कुट्टकार्थमादौ केनाप्यपवर्तितेन भाज्या भाजक: क्षेपकचापवर्तनीयः । येनापवर्तकेन भाज्यभाजको विभक्तौ तेन विभक्तः क्षेपा न शुध्ये श्चेत्तदुष्टमुद्दिष्टमेव । खिलमित्यर्थः । ययोः परस्परभक्तयोर्यच्छेषं तत्तयोरपवर्तकं स्यात् । यो भाज्यभाजको स्वेनापवर्तकन भक्तौ तौ दृढसंज्ञो भवेताम् । एतदुपलक्षणम् । भाज्यभाजकयोर्योऽपवर्तकस्तद्विभक्तः क्षेपोऽपि दृढसंज्ञ इति । तो दृढभाज्यभाजको परस्परं तावद्विभजेद्यावद्विभाज्ये रूपं भवति । अत्र विभाज्यशब्देन भाज्यभाजकयोः परस्परभजनात्तावुभा- पप्यभिधीयते । परस्परभजने क्रियमाणे यानि फलानि लभ्यन्ते तान्य- धोऽधो निधेयानि । तेषामधो दृढक्षपस्तथा निधेयः। अन्ते खं निधेयम् । क्षेप- स्थापः शून्यं निधेयमित्यर्थः । उपान्तिमेन 'स्वोर्चे हतेऽन्त्येन युते तदन्त्यं त्यजेन्मुहुः स्यादिति राशियुग्ममिति ' बल्ल्युपसंहार उच्यते । माक्स्पष्टार्थ- मभिहितः । ऊर्ध्वराशिढेन भाज्येन तनूकृतः फलं भवेत् । अघोराशिद- भाजकेन गुणः स्यात् । एवं पङ्क्तो समायां वेदितव्यम् । विषमायां तु तस्या- मेवमागतौ लब्धिगुणौ क्रमावभाज्यभाजकाभ्यां विशोध्य सिद्धष्टौ लन्धिगुणौ भवत इति ज्ञेयम् । अत्र कुट्टाकारे निरमे समधिकवपुषीत्यादिनियमो नास्ति ॥ १ ॥२॥ ३ ॥ ४ ॥५॥ उद्देशक:-एकविंशतियुतं शतद्वयं यद्गुणं गणक पश्चषष्टियुक्। पञ्चवर्जितशतद्वयोद्धृतं शद्धिमेति गुणकं वदाऽऽ तम् ॥९॥ श्रीभास्करीयलीलावत्यां कुट्टकाध्याय- १ क. थ्य शिल -
कुडाकाराशरोमाणः।
..
न्यास:-भाज्यः २२१ । हारः १९५ । क्षेपः ६५ । भाज्यभाजकयोः
परस्परभक्तयोः शेष १३ । अनेनापवर्तिता दृढसंज्ञा भाज्यभाजकक्षेपाः क्रमे-
णेमे १७-१५-५ । परस्परभजनार्थमुपर्यधोभावेन विन्यस्तो भाज्यभाजको
१७ । १५ । अनयोः परस्परभक्तयोर्लब्धे क्रमेणोपर्यधोभावेन निहिते ।।
७ अनयोरधः क्षेपो दत्तः १।१५। एषामधः शून्यं निक्षिप्तम् १७५।।
अथ वल्ल्युपसंहारे कृते जातौ राशी ४०।३५। इमौ दृढभाज्यभाजकाभ्यां
१७१५ तष्टौ जातौ लब्धिगुणौ ६।५ । अत्रापि त्रैराशिकमार्गः पूर्ववद्यो-
ज्यः । नन्वेवं मतिकल्पनायासमन्तरेण कुट्टकगणिते विद्यमाने किमर्थमार्य-
भटाचार्यादिभिमतिकल्पनाऽङ्गीकता । अत्रोच्यते । साये तावदवश्यं मतिकल्प-
नया भवितव्यम् । अतः सायनिरग्रयो योरपि सास्त्वित्यङ्गीकतेत्यदोषः॥९॥
इत्यत्रिकुलाभरणस्य स्कन्धत्रयवेदिनः सिद्धान्तवल्लभ इति प्रसिद्धापरनानः
श्रीवरदराजाचार्यस्य तनयेन देवराजेन विरचितायां कुट्टाकाराशरामाण-
टीकायां महालक्ष्मीमुक्तावल्यां निरमपरिच्छेदो द्वितीयः॥
अथ मिश्रश्रेढीमिश्रकुट्टाकारपरिच्छेदस्तृतीयः ।
अथ मिश्रश्रेढीमिश्रकुट्टाकारपरिच्छेदो व्याख्यायते । अस्मिन्परिच्छेद
ममतगङ्गेषु पथासंभवमुपकरणानां वर्गवर्गमूलघनघनमूलसंकालताचीतवनवर्ग-
चितिघनघनचितिघनश्रेढीफलानामानयनविधिरायभटीये गणितसारे द्रष्टव्यः ।
इह तु अन्धविस्तरभयान प्रदर्श्यते ।
अत्राऽऽदावार्यया प्रश्नत्रयं व्यञ्जयति-
अथ संकलितघनैक्याद्घनपदयोगाच्च वर्गधनयोगात् ।
विकलावशेषजातादिनमभ्यूह्यं विवेकिना पुंसा ॥ १ ॥
अत्र पदशब्देन विकलाशेषो (शेषरूपो) गच्छ उच्यते । विकलावशेष-
जाताद्वर्मधनयोगाच्च विवेकिना पुसा दिनमप्यूह्यम् । अत्र यद्यपि संकलिता-
दियोगो मुख्यवृत्त्या विकलावशेषजातो न भवति तथापि योगिनां तज्जाव-
त्वमवलम्ब्य तथोक्तम् ॥ १ ॥
एषां भङ्गार्थमार्यामाह-
कथितमिह यद्यदैक्यं तस्मिंस्तस्मिंश्च विहितघनमूले ।
पूर्णतया धनमूलं यद्यत्तनदिलिप्तिकाशेपम् ॥ २॥
महालक्ष्मीमुक्तावलीसहितः
इह यद्यदैक्यं कथितं तस्मिंस्तस्मिश्च विहितघनमूले सति पूर्णतया यद्य-
द्घनमूलं तत्तदव विलिप्तिकाशेषं भवेत् । विलिप्तिकाशेषाज्जातादिष्टदिनानयन
मागेवोक्तम् । अतस्तदत्र न वक्तव्यम् ॥ २ ॥
अथ प्रश्नान्तरमार्ययाऽऽह-
घनचितिघनवगैक्याद्विपूर्वलिप्तायसंभवादिवसान् ।
सद्यः समीक्षते यः स वेद(एव)गणितानि वेद वसुमत्याम् ॥३॥
यो विपूर्वलिप्ताग्रसंभवाद्धनचितिघनवगयौरैक्यादिवसान् सद्यः समी-
भते स एव वसुमत्यां गणितानि वेद । विपूर्वं लिप्ता विलिप्ताः॥ ३ ॥
एतत्पभभङ्गार्थमार्यामाह-
धनचितिघनवगैक्ये कृतवर्गपदेऽत्र यो भवेच्छेषः।
एतस्य वर्गमूलं यत्तद्विकलावशेषः स्यात् ॥ ४ ॥
स्पष्टोऽथः ॥ ४॥
अथाऽऽर्यया प्रश्नान्तरमाह--
लिप्ताषष्टयंशाग्रे जातात्संकलितघनचितिघनैक्यात् ।
यो भवति चितिघनोऽस्माद्यो दिननिवहं वदत्यमों धीमान्॥५॥
अथैतत्पभभङ्गार्थमा माह-
षड्गुणिताद्दिष्टात्पूर्ण घनमूलमिह च यत्तस्मात् ।
वर्गभवं मूलं यत्तस्माद्विघ्नात्पदं विलिप्तागम् ॥ ६ ॥
इह षड्गुणितादुद्दिष्टाद् यत्पूर्ण घनमूलं तस्माद्वर्गभवं मूलं विलिप्ताग्रं
भवति ॥ ६॥
अथाऽऽर्थया प्रश्नान्तरं व्यनक्ति-
पदकतिसंकलितैक्याल्लिप्ताषष्ट्यंशशेषसंजातात् ।
इष्टदिनानां निवहः शक्यं सुधिया सुखेन विज्ञातुम् ॥ ७॥
अत्र पदशब्दो गच्छवचनः । लिप्ताषष्टयंशशषजातात्पदकृतिसंकलि-
तानां समासादिष्टदिननिवहः मुधिया सुखेन विज्ञातुं शक्यम् । शक्पमित्य-
व्ययम् । शक्यमरविन्दसुराभिरिति कालिदासः ॥ ७॥
अथैवत्मश्नभङ्गार्थमायामाह-
कतिपदसंकलितैक्ये संकलितं स्यात्कृशानुभिर्भक्ते ।
संकलिते नयनह ते विहितपदे शेषमात्रविकलागम् ॥ ८॥
कुट्टाकारशिरोमणिः।
कनिर्वर्गः । पदं गच्छः । संकलितं प्रसिद्धम् । ऐक्यं योगः। विकला-
शेषभवानां कृतिपदसंकलितानामैक्ये कृशानुभि( ३ ) के सति लब्ध
संकलितं स्यात् । अथैवमागते संकलिते नयनहते विहितवर्गमूले च सत्यत्र
शेषं विकलाग्रं भवति ॥ ८ ॥
अथाऽऽर्यया प्रश्नान्तरमाह-
योऽम्बरचरेन्द्रलिप्तापूर्णरसांशावशेषजातेन ।
वर्गचितिघनेन दिनं विद्याद्विद्याविशेषवानेषः ॥ ९॥
लिप्तापूर्णरसांशा विलिप्ताः । शिष्टं स्पष्टम् ॥ ९ ॥
अथैतत्पश्नमगार्थमार्यामाह-
त्रिगुणाद्वर्गचितिघनाद्यत्पूर्णत्वेन घनपदं भवति ।
तग्रहविकलाशेष भवतीति विपश्चिता विनिर्देश्यम् ॥१०॥
विगुणाद्विकलाग्रभावाद्वर्गचितिघनाद्यत् पूर्णत्वेन घनमूलं भवति तद्मह-
विकलाशेषं भवतीति विपश्चिता विनिर्देश्यम् ॥ १० ॥
अथाऽऽर्यया प्रश्नान्तरमाह-
घनवर्गवर्गचितिघनसंकलितसमासतः समुद्दिष्टात् ।
खचरविलिप्ताग्रभवात्कथमपि गदितुं दिनं बुधैः शक्यम्॥१॥
समासो योगः । खचरविलिप्तामवशात् समुद्दिष्टाद् धनवर्गवर्गचितिषन-
संकलितसमासतो बुधैर्दिनं कथमपि कथयितुं शक्यम् ॥ ११ ॥
अथैतत्मभमगार्थमार्यामाह-
अत्रोहिष्टे राशौ सागरभक्त फलं भवति यत्तत् ।
वर्गचितिघनस्त्वमुना विकलाग्रं साधयेद्बुधः प्राग्वत्॥१२॥
अत्रोद्दिष्टे राशौ सागरैश्चतुर्भिक्त यत्फलं भवति तद्विकलाग्रजातो वर्ग-
चितिघनः । अमुना बुधः प्राग्वद्विकलायं साधयेत् ॥ १२॥
अथाऽऽर्यया प्रश्नान्तरमाह-
कृतिघनसंकलितैक्यात्वचरविलिप्तावशेषसंभूतात् ।
वासरचयं वदेद्यो वागीशो भवति भूतले स पुमान् ॥१३॥
स्पष्टोऽर्थः ॥ १३ ॥
अथैतत्पश्नमगार्थमा माह-
कृतिघनसंकलितैक्ये वह्निहते भवति वर्गसंकलितम् ।
तस्माद्गगनचराणां प्राग्वद्विकलावशेषमानेयम् ॥ १४॥
- - महालक्ष्मीमुक्तावलीसहित:- वर्गसंकलितं वर्गचितिधनम् । शिष्टं स्पष्टम् ॥ १४ ॥ अथाऽऽर्यया प्रश्नान्तरमाह- विकलाशेषष्टांशश्रेढ्यां विकलावशेषभक्तायाम । यत्तेनांशमुखाभ्यामुत्तरतश्चेष्टदिनचयो वाच्यः ॥१५॥ *इष्टं व्येकं दलितं सपूर्वमुत्तरगुणं समुखमध्यम् । इष्टगुणितमिष्टधनम् । इत्यार्यभटीयसूत्रानीतमिष्टधनमत्र श्रेढीशब्देनोध्यते । विकलाशेषस्य रूपांश- व्यंशत्र्यशादीष्टांशजाता श्रेढी विकलाशेषेष्टांशश्रेढी। तस्यां विकलावशे- षभक्तायां शुद्धायां सत्यां यत्फलं भवति तेनांशादिमोत्तरैश्च कथितैरिष्टदिन- निचयो वाच्यः ॥१५॥ अथैवत्प्रश्नभञ्जनायाऽऽ माह- अंशहते फलराशौ विमुखे चोत्तरहते हते द्वाभ्याम् । रूपयुतेऽशकगुणिते यत्स्याद्विकलाग्रमेव तद्भवति ॥१६॥ उद्दिष्टे फलराशावुद्दिष्टनाशन गुणितेन तदुद्दिष्टन मुखेन हीने तदुद्दिष्टेनो- त्तरेण भक्ते ततो द्वाभ्या( २) गुणिते तवो रूप(१)सहिते पुनश्चांश(शे )गुणिते यत्स्यात्तद्विकलायं भवति । व्यक्त्यर्थमेतदुदाहरणेन प्रदर्श्यते । अत्र ग्रहस्य कल्पितो विकलाशेषः शत( १०० )संख्यः । अस्य चतुर्थांशः पञ्चविंशति- (२५)संख्यः । इदमिष्टम् । अत्र प्रथम श्रेढीफलमानीयते । इष्टम् (२५) । एतद्व्येकम् । चतुर्विंशति( २४ )संख्यम् । एतद्दलितं द्वादश( १२ )संख्यम् । इदमत्र कल्पितेनोत्तरेण त्रिकेण गुणितं ट्विंश( ३६ )संख्यम् । एतत्क- ल्पितेन मुखेन चतुष्टयेन( ४ )युक्तं चत्वारिंश (४०)त्संख्यम् । इदं मध्यध- नम् । एतदुद्दिष्टेन पञ्चविंशति( २५)संख्यनांशेन गुणितं सहस्र( १०००) संख्यं जातम् । इदमत्र विकलाशेषेष्टांशश्रेढी । इयं विकलाशेषण शत- (१०० )संख्येन भक्ता शुध्यति । अत्र फलं दश(१०)संख्यम् । अस्मि- व्यांशे मुखे चोत्तरे च कथिते सति विकलायमानेतुं शक्यम् । तस्मात्कथितैरे- भिश्चतुभिर्विकलायमानीयते । इह फलराशिर्दश( १०)संख्यः । अयमंशन चतुष्टयेन( ४ ) गुणितश्चत्वारिंश(४०)त्संख्यः । अयं मुखेन चतुष्टयेन( ४ ) हीनः षट्विंश ( ३६ )त्संख्यः । अयमुत्तरेण विकेण( ३ ) भक्तो द्वादश- (१२)संख्यः। एष द्वाभ्यां गुणितश्चतुर्विशति( २४ )संख्यः। अयं रूपेण (१ )सहितः पञ्चविंशति ( २५)संख्यः । अयं पुनरप्शन चतुष्टयेन(४) गुणितः शत( १०० )संख्यः । एष ग्रहस्य विकलाशेषः ॥ १६॥ ( *मार्यभटीय गणितपाद श्लोक १९) : कुट्ठाकारशिरोमाणिः। अथाऽऽर्ययोपसंहरति- दिङ्मात्रेण मयाऽस्मिन्कुट्टाकारः प्रदर्शितो अन्थे । शेषोऽखिलो विशेषो भाष्यादौ दृश्यतां विपश्चिद्भिः॥१७॥ भाष्यमार्यभटीयविषयं भास्कराचार्यविरचितम् । आदिशब्देन भट्टबल- गुप्तविरचितब्रह्मसिद्धान्तादिरभिधीयते । शिष्टं सुवोधम् ॥ १७ ॥ अथैष ग्रन्थो न स्वतन्त्रः, कित्वार्यभटाचार्यमणीतकुट्टाकारविषयसूत्रयु- ग्मस्य कुट्टाकारशिरोमणिनामधेयो व्याख्यानविशेष एवेत्यार्ययाऽऽह- आचार्यभटोदितकुट्टाकारार्थसूत्रयुगलस्य । कुट्टाकारशिरोमणिनामा व्याख्याविशेष एवैपः ॥१०॥ इयमवतारिकया विवृतार्था ॥ १८ ॥ अर्थमं अन्धमभ्यस्थतां फलं दर्शयितुमा माह- कुट्टाकारशिरोमणिमिममभ्यस्त्रति दृढेन यो मनसा । तरणेः प्रसादतोऽयं सहसा तान्त्रिकशिरोमणिर्भवति ॥१९॥ इति श्रीदेवराजविरचिते कुटाकारशिरोमणौ मिश्रश्रेढीमिश्रकुट्टा- कारपरिच्छेदस्तृतीयः॥ ३ ॥ इमं कुटकारशिरोमाणे दृढेनाव्यापृतेन मनसा योऽभ्यस्यति संशीलयति स सरणेरादित्यस्य प्रसादतः सहसा तान्त्रिकशिरोमणिर्भवति । तान्त्रिको ज्ञात- सिद्धान्तः ॥१९॥ सवर्णसूत्रकलिता समवृत्ताऽतुला नवा । समर्पिता महालक्ष्म्यै टीका मुक्तावली मया ॥ इत्यत्रिकुलाभरणस्य स्कन्धत्रयवेदिनः सिद्धान्तवल्लभ इति प्रसिद्धापरनानः भावरदराजाचार्यस्य तनयेन देवराजेन विरचितार्या कुट्टाकारशिरोमणि टीकायां महालक्ष्मीमुक्तावल्यां मिश्रश्रेढीमिश्रकुट्टाकारपरिच्छेदस्तृतीयः॥३॥ समाप्ता चेयं महालक्ष्मीमत्रावली कारशिरोमणिटीका ।
No text on this page.