Svi-vmpl-machilipatnam
Shivastotraavalii
Front matter
No text on this page.
चौखम्बा-मस्कृत-प्रन्थमाला।
(अन्यसख्या १५)
शिवस्तोत्रावली।
श्रीमदीश्वरप्रत्यभिझाकाचार्यचक्रवत्ति-
वन्द्याभिधानोत्पलदेवाचार्यविरचिता ।
महामाहेश्वरश्रीक्षेमराजीवरीचतीवतिसमेता।
कलिकाताप्रयागविश्वविद्यालयसभासदा स्वर्गवासिना रायबहादुराख्येन
श्रीयुतप्रमदादासमित्रेण तत्पुत्रेण च बी०ए० इत्युपाधिधारिणा
श्रीयुतकालीचरणमित्रेण परिशोधिता ।
Hin
Attita
HAH
Taman
HAMMA
HARMA
श्रीकाश्याम्
तारायन्नालये हरिदासगुप्तन क्रीमेन्-कम्पनी लिमिटेड-वाय
मुद्रयित्वा प्रकाशिता।
१९०३ शिष्टीया।
No text on this page.
प्रस्तावना। ईषदूनं वर्षद्वयं जात यत्परमशिवभक्तैर्विद्वच्छ्रेष्ठैः प्रातस्स्मरणीयैर्म- पितृचरणैर्निरतिशयभक्तिसहकारेणानपायासेन च काश्मीरनगरात् तुरी- याश्रमस्थस्योदासीनस्य श्रीमद्गोविन्दानन्दस्यातिप्रयत्नद्वारा संगृह्य सुप्र- सिद्धस्य सी०आई ईति सज्ञया राजसम्मानितस्य राजोपाधिभूषितस्य श्रीयुतपण्डितसूर्यकौलस्यातियोग्यस्य सूनोः काश्मीराधिपते. प्रधानामा- त्यस्य कौलोपाहश्रीयुतपण्डितदयाकृष्णस्य परमसाहाय्येन च लेखयित्वाऽ- तिरमणीयस्यास्य ग्रन्थस्य मुद्रापणे प्रवृत्तैरभूयत । दुर्लभातिप्राचीनसस्कृत- अन्याना लोके प्रचारणार्थ कृतोद्योगः श्रीयुतहरिदासगुप्तश्च ग्रन्थ- मिम कृपया स्वकीये "चौखम्भा-सस्कृत-सीरीसाख्ये" काव्यसंग्रहे मुद्र- यित्वा प्रकाशयितुं स्वीकृतवान् । परन्त्वस्मद्भाग्यदोषात्कतिपयान्येव पत्राणि मुद्राप्य तातपादा मे इहलोकं परित्यज्य शिवैकतां गताः । आर- ब्धमुद्रणस्यास्यासाधारणभक्तिरसपूर्णस्यास्मत्पित्रा परमसमादृतस्य चास्य प्रन्थस्य मुद्रण यथाकथञ्चित् समापनीयमेवेति मत्वात्यल्पबुद्धिरप्यहमत्र समापनकायें उद्युक्तोऽभवम् । देवादिदेवस्य श्रीकाशीपते. परमकारुणिक- दृष्टया ग्रन्थोऽयं कथमप्यद्य समाप्तिमगमदित्यात्मनः कृतकृत्यता मन्ये । उपकृतोऽस्म्यस्य शोधने नित्यं वेदान्तानुशीलनशीलेन परमदेवनिष्ठेन सा- धुना पण्डितेन बापटोपाहश्रीयुतयज्ञेश्वरशास्त्रिणा । ग्रन्थकर्तस्तढीका- कर्तुश्च जीवनवृत्तान्तस्य जिज्ञासा भवेत् सहृदयानां पाठकजनानामिति मत्वा त लब्धं मत्प्रार्थनया मित्रं मे कृतविद्योऽतिसज्जनः काश्मीरराजधान्या विद्याविभागऽध्यक्षपदप्राप्तः श्रीयुतजगदीशचन्द्रचट्टोपाध्यायः मासद्वया- दधिकं तत्र प्रवृत्तोऽभूत् । किन्तु नानोपायेन बहुप्रयत्ने कृतेऽपि तस्या- लाभादत्र न दातु समर्थोऽहमिति खिन्नोस्मि । आदर्शपुस्तकस्यैकस्यैव प्राप्त- त्वान्मम चाल्पविद्यत्वान्मुद्रणदोषाच्च पुस्तकेऽस्मिन् भान्तयोऽनेका भवेयु- स्तास्सर्वाः शोधयित्वा ग्रन्थस्यास्य रसं गृहीत्वा भक्तजनाः समुल्लसन्तुतरां श्रम च मे सफलीकुर्वान्त्वत्यह प्रार्थये पाठकवृन्दानां कृपापात्रम् श्रीकाश्यां. ध्यधिकैकोनविंशतिशततमे श्रीकालीचरणमित्रः। कृष्टीबाब्दे ।
No text on this page.
श्रीश्रीशिवस्तोत्रावली। श्री उत्पलदेवाचार्य विरचिता। ॐ तत्सत् ॐ न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् । एवमेव शिवाभासस्तं नमो भक्तिशालिनम् ॥१॥ ॐ तत्सत् । श्रीविघ्नहर्त्रे नमः । श्रीगुरवे शिवायाँ नमः । ॐ उद्धरसन्धतमसाद्विश्वमानन्दवषिणी। परिपूर्णा जयसेका देवी चिच्चन्द्रचन्द्रिका ॥ असथितोस्मि बहुभिर्वहुशो भक्तिशालिभिः । व्याकरोमि मनाक् श्रीमत्यसभिज्ञाकृतः स्तुतीः॥ईश्वरप्रसभिज्ञा- कारो वन्द्याभिधान श्रीमदुत्पलदेवाचार्योऽस्मत्परमेष्ठी सततसा- क्षात्कृतस्वात्ममहेश्वरः स्वं रूपं तथात्वेन पराम्रष्टुमर्थिजनानुजि- घृक्षया संग्रहस्तोत्रजयस्तोत्रभक्तिस्तोत्राण्याह्निकस्तुतिसूक्तानि च कानिचिन्मुक्तकान्येव बबन्ध । अथ कदाचित्तानि तव्यामिश्राणि लब्ध्वा श्रीराम आदियराजश्च पृथक् पृथक् स्तोत्रशय्यायां न्यवे- वायत् ।श्रीविश्वावर्तस्तु विशसा स्तोत्रैः स्वात्मोत्मेक्षितनामभिर्व्य- वस्थापितवानिति किल श्रूयने । तदेतानि संग्रहादिस्तोत्राणि मू- तान्येव प्रसिद्धवार्तिकशय्योपारूढानि स्पष्ट व्याकुर्मः।मोक्षलक्ष्मी- समाश्लेषरसास्वादमयस्य परमेश्वरसमावेशस्यैव परमोपादेयतांद- शयितुं परमेशस्वरूपाविभिन्नतत्समाविष्टभक्तजनस्तुतिक्रमेण स्तो- २ शिवस्तोत्रावल्याम्। अमाह न न्यायत इति । यस्यैवमेव मायीयोपायं विना शिवा- भासः शिवरूपस्वात्ममया स्यात्तं भत्त्यैव समावेशमय्या शालिन श्लाघनानं न तु तदतिरिक्तफलाकांक्षाकलङ्कितं भक्तजनं नमो भक्तिचमत्कारवशमथितशिवभट्टारकाभेदभक्तिमन्नतिमुखेन तद- भिन्नशिवावेशमया भवाम इति यावत् । एवमेवे"सनेन सूचितमलो- किकक्रमं दर्शयति “न ध्यायत" इसादिना । सर्वस्य हि ध्यानजप प्रमुखं ध्येयजप्यस्वरूपं नियताकारमेव प्रथते, भक्तिशालिनस्त्वनु- पायमेव निराकारं सर्वाकारंचिदानन्दधनं शिवात्मस्वरूपं सर्वदा स्फुरति । अत एवाह "अविधिपूर्वक"मिति । विधीयत इति विधि- रिज्याध्ययनादिः पूर्वः कारणं यत्र । तथाकृत्वा सर्वविधीनां सं- कुचितत्वादसंकुचितस्वरूपं प्रत्युपायत्वाभावात् तत्त्वसमावेशध- नैरेव प्रतिभाप्रसादनप्रमुखमाप्यते । यथोक्तम् श्रीपूर्वशास्त्रे “न चात्र विहितम् किञ्चि"दिसादि, "अकिञ्चिच्चिन्तकस्ये"सादि, गीतास्वपि "मय्यावश्ये"सादिकं । ध्यानजपाभ्यांप्रकाशविमर्श- स्वरूपाभ्यां पूजनहवनादि सर्व संगृहीतमिति प्राधान्यात्तावेवे- होक्तौ ॥ १॥ श्रात्मा मम भवद्भक्तिसुधापानयुवाऽपि सन् । लोकयात्रारजोरागात्पलितेरिव धूसरः ॥२॥ "आत्मेति। हे महेश्वर ममात्मा जीवो भवद्भक्तिसुधापानेन युवा समुत्तेजितसहजौजामकर्षोऽपि सॅल्लोकयात्रयैव रजसा लोकव्यवहारघूल्या कृतो यो राग उपरागस्ततो हेतोर्यानि पलितानि जराप्रकारास्तेषूसरो विच्छाय इव न तु वस्तुतेन, भक्तिसुधापानेन निसतरुणीकृतत्वात्, यथा च तरुणस्य धूलि- धूसरतया सातपलितमिव दृश्यमानं नान्तानि मनागप्या- भक्तिविलासाख्यं प्रथम स्तोत्रम् । ३ दधाति अपि तु विनोदहासरसचमत्कारमेव पुष्णाति तथा लोक- व्यवहारो ममेति रूपकोपमया ध्वनति । पूर्वश्लोके आमन्त्रणपदा- भावाद्भवद्भक्तीति न सगतमेवेति कमिय स्तोत्रशय्येति श्री- विश्वावर्त एव मष्टव्यः वयं तु सूक्तव्याख्यानोधताः ॥ २ ॥ लब्धत्वत्संपदा भक्तिमंतां त्वत्पुरवासिनाम् । सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया॥३॥ "लब्धत्व"दिति ।ये समावेशमयप्रशस्तभक्तियुक्ताः अत एव लब्धत्वत्संपदः त्वत्पुरे विश्वपूरके त्वत्स्वरूपे वसन्ति तच्छीलाः तेषां लोकमार्गे ऽपि यः सञ्चारो व्यवहारः स तयैव समावे- शरसानन्दमय्या विजृम्भया विकस्वरतया स्यात् भवसेव । अथ च ये लब्धलौकिकश्रियः त्वद्भक्ताः त्वन्मण्डलवासिनः ते सर्वे स्पृहणीयत्वात् सदा विभूतिमुदिता इति समासोत्त्या गमयति ॥३॥ साक्षाद्रवन्मये नाथ सर्वस्मिन् भुवनान्तरे । किंन भक्तिमतां क्षेत्रमन्त्रः कैषांन सिद्धयति॥४॥ "साक्षाद्भव"दिति । भक्तिमतां व्याख्यातरूपभक्तिशालिनां सर्वत्र भुवनविषये किं न क्षेत्रं परसिद्धिसमुदयस्थानं कच एषां मननत्राणधर्मा मन्त्रो न सिद्ध्यति यतः साक्षादिति समावेशदृष्ट्या न कथामात्रेण भवन्मयमेव सर्व भुवनमेषाम् ॥४॥ जयन्ति भक्तिपीयूषरसासववरोन्मदाः । अद्वितीया अपि सदा त्वधितीया अपि प्रभो ॥५॥ जयन्ति भक्ति इति । भक्तिपीयूपरस एवासववरः उत्कृष्टं पानं तेन उद्गतहर्षाः ये ते जयन्ति सर्वोत्कर्षेण वर्तन्ते कीदृशाः शिवस्तोत्रावल्याम् अद्वितीया असाधारणस्वरूपा अपि त्वद्वितीयाः त्वमेव द्वितीय- स्तुल्यरूपो येषां अथ च त्ववितीया अपि भक्तिसमावेशेनासन्त- मभेदासाधनत्वात्त्वमेव द्वितीयः प्रभुत्वेन परिशीलितो येषां तथा- भूता अपि अद्वितीयाः विश्वाभेदिनः । अद्वितीयाश्च कथं त्ववि- तीयाः त्वद्वितीयाश्च कथमद्वितीया इति विरोधच्छाया॥५॥ अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते तादृशा एव ये सान्द्रभक्त्याऽऽनन्दरसाप्लुताः॥६॥ भत्त्यानन्दरसः समावेशानन्दप्रसरस्तेन प्लुता आशयाः अत एव तादृशा इति अपरिमितानन्दरससमुद्रत्वात्त्वद्रूपसरूपाः तव तत्वं जानन्ति । यो हि यत्र विद्वान् स हि तद्वेत्येव ॥६॥ त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान् । इति खभावसिद्धां त्वद्भक्तिं जानञ्जयेज्जनः ॥७॥ त्वमेवात्मेश इति । सर्वस्तावदात्मने स्पृहयालुः वस्तुतस्तु त्वमेव चिद्रूपोऽस्यात्मा इति अतस्त्वय्यात्मनि स्वतःसिद्धा भक्तिः केवलं समावेशशक्त्या तां जानाति तज्जयेत् सर्वोत्कर्षेण वर्तत एव नियोगे लिङ् ॥ ७॥ नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः। वेद्यवेदकसंक्षोभेप्यसि भक्तैः सुदर्शनः ॥८॥ नाथ वेद्यक्षय इति । अन्तर्मुखत्वावस्थायां सर्ववेद्योपशमे कस्य नाम स्वात्मरूपस्त्वं केवलो न स्फुरसि । भक्तैः पुन संसार- पातेऽपि वेद्यवेदकसंक्षोभे असि त्वं(सुदर्शनः)सुखेन दृश्यसे समावे- शकाष्ठाधिवासितैर्हि सततमेतैः “भोक्तैव भोग्यरूपेण सदा सर्वत्र संस्थित" इति नीसा शिवमयमेव विश्वमीक्ष्यते। वेद्यविलापनप्रया- भक्तिविलासाख्यं प्रथम स्तोत्रम् । ५ सव्युदासाय सुशब्दः। तदुक्तं श्रीपूर्वशास्त्रे "मोक्षोपायमनायास- लभ्य"मिति ॥८॥ अनन्तानन्दसुरसी देवी प्रियतमा यथा । अवियुक्तास्ति ते तदेका त्वद्भक्तिरस्तु मे ॥९॥ अनन्तानन्द इति । उपमा श्लेषोत्त्या परमेश्वरसाम्यमाशास्ते । भक्तिपक्षे देवी द्योतमाना एका फलाकांक्षाविरहिता । अपरत्र क्रीडादिशीला परैव शक्तिः। अहं भक्त्या अवियुक्तः स्यामिति वक्तव्ये मम अवियुक्तास्तु इति भक्ति प्रति प्रेमप्रसरः प्रकाशितः ॥९॥ सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो । संविन्मार्गोऽयमाहाददुःखमोहैस्त्रिधा स्थितः॥१०॥ सर्व एव भवल्लाभ इति । व्याख्यातप्रकृष्टभक्तिशालिनां अयमाहाददुःखमोहैरुपलक्षितो लोके यः संचिन्मार्गः नीलपीता- दिबोधरूपः पन्थाः स्थितः स सर्व एव त्वत्माप्तिहेतुः । वेद्यसो- पाननिमज्जनक्रमेण परमवेदक मिलाभाव ॥ १० ॥ भवद्भक्त्यमृतास्वादाबोधस्य स्यात्परापि या । दशा सा मां प्रति स्वामिन्नासवस्येवशुक्तता॥३१॥ हे स्वामिन् वच्छक्तिपातसमावेशमयभत्त्यानन्दास्वादमना साध बोधस्य परा देहपातप्राप्या प्रकृष्टाऽपि या शान्तशिवप- दात्मा दशा स्यात् कैश्चित् सम्भाव्यते सा तैः मां प्रति आसवस्य यथा शुक्तता पर्युषितता तथा भातीति यावत् । यतस्तैर्भक्त्यमृतमनास्वाद्यैव शुक्तीकृतं। यैः पुनरास्वाद्यते तैः स्वचमत्कारानन्दविश्रान्तीकृतत्वात्काशुक्ततासम्भावना। आ- सम्भाव्यमाना शिवस्तोत्रावल्याम् स्वादादिति ल्यब् लोपे पञ्चमी । अथ वा त्वद्भत्त्यमृतास्वादा- दपि परा मोक्षरूपा या काचिद्दशास्तीति सम्भाव्यते सा मां न रोचते भत्त्यमृतास्वादस्यैव निरतिशयचमत्कारवत्त्वादियेवं परमेतत् ॥ ११॥ भवद्भक्तिमहाविद्या येषामभ्यासमागता। विद्याऽविद्योभयस्यापि त एते तत्त्ववेदिनः॥१२॥ भवद्भक्ति इति । विद्याविद्योभयस्यापीति विद्याऽविद्याल- क्षणस्योभयस्य तत्र शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रात्मनो विद्या- रूपस्य विज्ञानाकलपलयाकलसकलतद्वेद्यात्मनश्च अविद्यारूप- स्योभयस्यापि तत्त्वं विदन्ति येषां त्वद्भक्तिरेव महाविद्या प्रक- र्ष प्राप्ता । महत्पदेन शब्दविद्यातोऽपि भक्तरुत्कर्षात्तत्तत्त्ववेद- कत्वम् ॥ १२ ॥ आमूलाद्वाग्लता सेयं क्रमविस्फारशालिनी । त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलाऽस्तु मे ॥१३॥ आमूलाद्वागिति। मूलं पराभूमिः, क्रमविस्फारित्वं पश्य- न्यादिप्रसरः, तद्रसो भत्त्यानन्दरस एव आब्य स्फीतं त्वदा- स्म्यैक्यापत्तिलक्षणं फलं यस्याः ॥ १३ ॥ शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते । त्वमेव हि वपुःसारं भक्तैरद्वयशोधितम् ॥१४॥ शिवोभूत्वा इति। "शिवो भूत्वा शिवं यजे"दिति यदाना- येषूच्यते तत्र देहपात एव शिवतेति ये मन्यन्ते तेषां सात देहे शिवीभावाभावाद्यजमानतानुपपत्ते. स्वस्वरूपशिवसमावेशभक्ति- शाल्येव यजनं जानातीतितात्पर्यम् अनेनैवाशयेनाह त्वमेव यतः भक्तिविलासाख्यं प्रथम स्तोत्रम् । ७ सारमुत्कृष्टं वपुः स्वरूपं अद्वयेन भेदशङ्काशङ्कुशतशातिना शो- धितं निर्मलीकृत भक्तैरिति ॥ १४ ॥ भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः । तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा ॥१५॥ व्याख्यातानां भक्तानां भवदद्वयसाधनाय का न युक्तयः यतो मूढेरुदीर्यमाणान्याष शिवाद्वयदूपणानि दूषयत्स्वभावचि- दूपशिवस्वरूपसिद्धि विना न कानिचित् स्युरिति युक्त्या भ- क्तानां साधनान्येव पर्यवस्यन्ति । निकृष्टानां तु भेदमयानां तद- सिद्धयै शिवाद्वयसाधनाभावाय कानि नावरणानि तीक्ष्णतमयु- त्यस्त्राण्यपि समावेशरसविग्रुषोऽप्यनभिज्ञत्वादसञ्चेसमानानि म- हान्धकारपातयितॄण्येव ॥ १५॥ कदाचित्वापि लभ्योऽसि योगेनेतीश वञ्चना । अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥१६॥ कदाचिदिति । कदा चित् कस्यां चित् समाधिदशायां, कापि हृदयचक्रादौ, योगेन चित्तत्तिनिरोधेन, ईश स्वामिन, असि त्वं लभ्य इसेषा वञ्चना । अन्यथा समाधिव्युत्थानाद्यभि- मतासु कक्ष्यासु कथं भक्तिमतां प्रकाशसे ॥ १६ ॥ प्रत्याहाराद्यसंस्पृष्टो विशेषोस्ति महानयम् । योगिभ्योभक्तिभाजां ययुत्थाने ऽपिसमाहिताः॥१७॥ विषयेभ्य इन्द्रियाणांप्रसास नियमनं प्रसाहारः आदिश- ब्दाद्धयानधारणादयः तैरसंस्पृष्टः अकदार्थतः तन्निष्टेभ्यो यो- गिभ्यो महानसामान्यः विशेष अतिशयो भक्तिभाजामस्ति य- शिवस्तोत्रावल्याम् देते योग्यपेक्षया व्युत्थानाभिमते ऽपि समये समाहिताः "मय्या- वेश्य मनो ये मा"मिति गीतोक्तनीसा निसयुक्ताः॥ १७ ॥ न योगो न तपो ना क्रमः कोऽपि प्रणीयते । अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस्यते॥१८॥ न योगो न इति । शिवमार्गे परे शाक्त पदे अस्मिन्निति निरतिशये स्वानुभवैकसाक्षिके मायीयनियतयोगाद्युपायपरि- पाटी न काचिदुपदिश्यते तस्याः मायामयत्वेन अन्धतमसप्रख्या यास्त्वत्र शुद्धविद्यामकाशातिशायिन्युपायत्वाभावात् भक्तिरेव प्रतिभाप्रसादनात्मा उक्तचरी प्रशस्यते उपायत्वेनोच्यते ॥१८॥ सर्वतो विलसद्भक्तितेजोवस्तावृतर्मम । प्रत्यक्षसर्वभावस्य चिन्तानामापि नश्यतु ॥१६॥ सर्वतोविलसदिति । अन्तर्बहिश्च विलसता जृम्भमाणेन भक्तितजसा समावेशप्रकाशेन ध्वस्ता आति' अख्यातिर्यस्य तत एव मायीयभूमिविस्मृतेः प्रसक्षभैरवमुद्रामवेशयुक्त्या आ- लोचनमात्रगोचरीभूतोः सर्वे भावाः यस्य तस्य मम चिन्ताया विकल्पवृत्तस्य नामा ऽपि अभिधानमपि नश्यतु नियमेव सा- क्षात्कृतपरभैरवस्वरूपानुप्रविष्टो भूयासमियर्थः ॥ १९ ॥ शिव इत्येकशब्दस्य जिह्वाग्रे वसतः सदा । समस्तविषयास्वादो भक्तेष्वेवास्ति कोप्यहो॥२०॥ शिव इसेक इति । उक्तेष्वेव भक्तेषु यो महाप्रकाशमयनिजस्व- रूपपरामर्शात्मा शिव इसका असामान्यः सदा शिवोस्ति अहो आश्चर्य तस्य शब्दमात्रस्याप्येककस्य विषयस्य परमानन्द- व्याप्तिदायित्वात्समस्तविषयास्वादो जगदानन्दचमत्कार. को- भक्तिविलासाख्यं प्रथम स्तोत्रम् । ६ ऽपि स्वानुभवसिद्धोऽस्ति एका च शब्दलक्षणे विषये जिह्वा- प्रवर्तिनि समस्तविषयास्वाद इति विरोधच्छाया ॥ २० ॥ शान्तकल्लोलशीताच्स्वादुभक्तिसुधाम्बुधौ । अलौकिकरसास्वादे सुस्थैः को नाम गण्यते ॥२१॥ शान्तकल्लोल इति । शान्ता निवृत्ता' विकल्पमयाः कल्लो- ला यत्र तथाभूते, संसारतापापूर्णत्वाच्छीते, विश्वप्रतिबिम्बाश्र- यत्वादच्छे निर्मले, आनन्दविकासित्वात्स्वादौ, भक्त्यमृतसमुद्रे, अलौकिकरसास्वादे समावेशचमत्कारे, मुखेन तिष्ठन्ति सुस्था, तै भेदगलनात् को नाम गण्यते, तदा व्यतिरिक्तस्य कस्य चि- दप्यप्रतिभासात् । सुखस्थिताः न किञ्चिद्गणयन्तीत्युचितै- वोक्तिः ॥२१॥ मादृशैः किं न चर्येत भवद्भक्तिमहौषधिः । तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरोरसः॥२२॥ मादृशैरिति । मादृशैः भक्तितत्वझै , तादृशी इति अलौकिकी भवद्भक्तिरेव अभीष्टप्रदत्वान्महौषधि , कि न चर्येत किं न धार्यत विचारेणास्वाद्यत इति यावत् । कीदृशी । यस्याश्चर्वणपरा- मर्शानन्तरमेव जीवन्मुक्ताख्य' अनन्तरः अव्यवहितो रसश्चर्व- णानन्दः ॥२२॥ ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः । त्वद्भक्तिरससम्भोगविसम्भपरिपोषिकाः ॥२३॥ ता एव इति । सद्भिः भक्तिशालिभिः ता एवेति असमत्वत्स- मावेशमय्यः सम्पदः परं केवलमर्थ्यन्ते न तु अणिमाद्याः।की- दृश्यो याः त्वद्भक्तिरससम्भोगे भवत्समावेशामृतचमत्कारे विस्त्र- - , शिवस्तोत्रावल्याम म्भं स्वैरं स्त्रोकारं पुष्णन्ति । अत्र प्रियासम्भोगपोषिका एव सर्वस्य सम्पदोऽर्थनीया इसनुरणनव्यङ्योपमाध्वनिः ॥ २३ ॥ चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः । त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम् ॥२४॥ चित्र निसर्ग इति । नाथ स्वामिन् इदं चित्रं दुःखकारण- मिदं मन' सर्वस्य हेयं यदभिमतं तदेव त्वद्भक्तिरसायनेन सिक्तं परमानन्दमोक्षमहाफलम् । न हि कदाचिल्लोकं प्रति विषादेः मधुर आस्वादः अतस्त्वद्भक्तरेवायमलौकिक. क्रम इति ध्वनित इति शिवम् ॥ २४ ॥ इति श्रीमदीश्वरप्रत्यभिज्ञाकाराचार्यचक्रवर्तिवन्द्याभिधानोत्पलदेवाचा- यविरचिते भक्तिविलासाख्ये प्रथमस्तोत्रे महामाहेश्वर- श्रीक्षेमराजविरचिता विवृतिः ॥ प्रथमम् १॥ ॐ तत्सतू अथ सत्मिपरिभावनाख्यं द्वितीयं स्तोत्रम् । अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम- स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥१॥ अग्नीषोमरविभिः दाहाप्यायप्रकाशकारीच्छाक्रियाज्ञानरू- पस्य शक्तित्रयस्य, ब्रह्मविष्णुभ्यामधिष्ठातृदेवतावर्गस्य, स्थावर- जङ्गमाभ्यामधिष्ठितस्य प्रमेयप्रमातृराशेश्च स्वीकृतत्वाद्विश्वात्मनः आमन्त्रणमिदं स्वरूपेयन्तं । तेन अग्नीषोमरविब्रह्मविष्णुस्थावर- जङ्गमस्वरूप हे परमेश्वर । पञ्चभूतानि जगमानामपि भूतदेहत्वात्। एवं च अग्निसोमसूर्यस्थावरजङ्गम अष्टमूर्तितया । ब्रह्मविष्णूपल- सवात्मपरिभावनाख्यं द्वितीय स्तोत्रम् । क्षिताऽशेषाधिष्ठातृतया विश्वमयत्वम् । अत एव बहुरूपायेत्युक्तम् । एवं विश्वरूपत्वेऽपि प्रधानमस्य स्वरूपमाह संविन्मयायेति । एतदेव हि संविन्मयत्वं यत्स्वातन्त्र्योल्लासिताशेषविश्वनिर्भरत्वम् ॥१॥ विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे । महानलाय भवते विश्वैकहविषे नमः॥ २॥ विश्वेन्धन इति । भवते महानलाय परमप्रमातृवह्नये नमः । कीदृशाय। विश्वस्य भेदराशेरिन्धनरूपस्य सम्बन्धि यन्महाक्षारं भस्म तत्संहारशेषः संस्कारः, तेन यदनुलेपनम् संस्कारसंहारे- णापि प्रमात्रुत्तेजन, शुचि शुद्धमद्रयरूपं वर्चस्तेजो यस्य तस्मै । अथ "शुचिर्नामानिरुदितः संघर्षात्सोमसूर्ययो"रिसागमिकमा- षया शुचिनान्ने तेजसे । विश्वमेकं हविः यस्येसनेन असन्तदी- सत्वमुच्यते । श्रीमतगाद्यागमस्थिया रहस्यचर्यार्थस्यात्र सूचना- द्विरोधच्छायाऽपि ॥२॥ परमामृतसान्द्राय शीतलाय शिवाग्नये। कस्मै चिद्विश्वसंग्लोषविषमाय नमोऽस्तु ते ॥३॥ परमामृत इति । चिदानन्दघनत्वात्परमामृतसान्द्रत्वम् । भवतापहारित्वाच्छीतलत्वम् । अग्नेश्च कथमाईत्वशीतलत्वे इति विरोधाभासच्छाया । कस्मै चिदिसलौकिकस्वरूपाय ॥ ३ ॥ महादेवाय रुद्राय शङ्कराय शिवाय ते । महेश्वरायाऽपि नमः कस्मै चिन्मन्त्रमूर्तये ॥४॥ देवः सृष्ट्यादिक्रीडापरः विश्वोत्कर्षशालितया विजिगीषुः अशेषव्यवहारप्रवर्तकः द्योतमानः सर्वस्य स्तोतव्यो गन्तव्यश्च दीव्यतेः क्रीडाद्यर्थत्वात् । स च महान् ब्रह्मादीनामपि, सर्गादि- ૧૨ शिवस्तोत्रावल्याम् हेतुत्वात् विश्वस्य । चित्पदे रोदनाद्रावणाच रुद्र । पूर्णाऽ- हन्तापरामर्शमयत्वान्मन्त्रमूर्ति ॥४॥ नमो निकृत्तनिःशेषत्रैलोक्यविगलहसा। ऽवसेकविषमायाऽपि मङ्गलाय शिवाग्नये ॥५॥ नमो निकृत्त इति । निकृत्तं अख्यातिलक्षणान्मूलात्प्रभृति खण्डशः कृतं भवाभवातिभवलक्षणं यत्रैलोक्यं तत्संबन्धिनी वोधानलोद्दीपिनी आन्तररससाररूपा या वसा तत्कृतो योऽव- सेकः आहुतिः ततो विषमायासन्तं जाज्वल्यमानाय अत एव संसारामङ्गल्यपरिहृतिप्रदत्वान्मङ्गलाय शिववह्नये नमः । शरीर- माणादिपरिमितममातृपदं तत्रैव समावेशयाम इत्यर्थः । सर्ववसा- वसेकविषम' श्माशानिकाग्नि कथं मङ्गल इति विरोधच्छाया॥५॥ समस्तलक्षणायोग एव यस्योपलक्षणम् । तस्मै नमोऽस्तु देवाय कस्मै चिदपि शम्भवे ॥६॥ समस्तलक्षणेति । समस्तानां लक्षणानामभिज्ञानानां च त- थाऽधिगमहेतूनामुच्चारकरणध्यानादीनां य. अयोगः असम्ब- न्धः स एव यस्य उप इसात्मसमीपे लक्षणं हृदयङ्गमीकरणं समस्तचिन्ताविस्मरणस्यैव तत्माप्तिहेतुत्वात् अत एव कस्मै चि- दिति संघतिवक्रतया स्वात्मविस्फुरद्रूपायेति ध्वनति ॥६॥ वेदागमविरुद्धाय वेदागमविधायिने । वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥७॥ वेदागमइति । नि शेषनियमयन्त्रणात्रोटनालभ्यत्वाद्वेदवि- रुद्धः यश्चयद्विरुद्ध स कथं तद्विधत्ते तस्य च सतत्त्वरूपः चित्ता-
१३
सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् ।
र्थस्तु स्वातन्त्र्याज्जगदुत्तिष्ठापयिपुर्वेदं विधत्ते वेदान्तदृष्ट्या तत्प-
रमार्थरूपश्च अत एव सर्वस्य अविषयत्वाद्गुह्यः ॥ ७ ॥
संसारैकनिमित्ताय संसारैकविरोधिने ।
नमः संसाररूपाय निःसंसाराय शम्भवे ॥८॥
मायादे. क्षिसन्तस्य संसारस्य एक एव निमित्तं तस्य
विरोधी संहर्ता स एव । तथा संसाररूपत्या भाति न पुनश्चि-
दूपशिवव्यतिरिक्तं संसारस्य निजरूपं कि चित् । एवमपि संसा-
रानिष्क्रान्तं निःसंसारं तेनासंस्पृष्टरूपमिति विरोधाभासः ॥८॥
मूलाय मध्यायाग्राय मूलमध्यायमूर्तये ।
क्षीणाममध्यमूलाय नमः पूर्णाय शम्भवे ॥६॥
मूलायेति । विश्वस्य कारणत्वात्स्वरूपत्वाद्विश्रान्तिस्था-
नत्वाच मूलं मध्यमग्रं च । यथा पृथक् मूलादिरूपः तथा युग-
पदपि अक्रमानन्तविश्वरूपत्वात् । न चास्य स्वात्मनि मूलादि
किञ्चिच्चिन्मात्रैकरूपत्वात् । अत एव सर्वसहत्वात्पूर्णः। विरोधा-
भासः प्राग्वत् ॥९॥
नमः सुकृतसंभारविपाकः सकृदप्यसौ ।
यस्य नामग्रहः तस्मै दुर्लभाय शिवाय ते ॥१०॥
नम मुकत इति । यस्य सकृदेव नामग्रहः असाविति लो-
कोत्तरः पूर्णविश्रान्तिप्रदत्वात्पुण्यराशे परिपाक । तस्मै दुर्ल-
भायेति महायोगिगम्याय नमः ॥ १० ॥
नमश्चराचराकारपरेतनिचयैः सदा ।
क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥१३॥
शिवस्तोत्रावल्याम्
नमश्चराचरा इति । कपालिनतित्वं यद्भगवति प्रसिद्धं तत्त-
वतो व्यनक्ति । चराचराकारा जगमस्थावररूपाः ये परेताः
परं चिन्मयस्वरूपं इताः प्राप्ताः । तद्विना च निर्जीवत्वादपि
परेताः । तेषां निचयैः सदा युगपञ्च क्रीडते तत्संयोजनवियोज-
नवैचित्र्यसहस्रविधायिने चिन्मयाय चित्परमार्थाय कपालिने
निःशेषकपालयुक्ताय अस्थिशेषीभूतविश्वधारिणे नमः ॥११॥
मायाविने विशुद्धाय गुह्याय प्रकटात्मने ।
सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे ॥१२॥
मायाविने इति । भेदोल्लासहेतुः स्वातन्त्र्यशक्तिः माया य-
स्यास्ति स चिद्रपत्वाद्विशुद्धः । मायावी व्याजी च कथं विशुद्ध
इति विरोधाभासः। एवमन्यत्र । गुह्यः सर्वस्यागोचरः । प्रकटः
प्रकाशघनस्वात्मरूपः । सूक्ष्मो ध्यानादिनिष्टैरप्यलक्ष्यः । विश्व-
रूपः स्वातन्त्र्यागृहीतविश्वाकारः । अत एव चित्रो विचित्र
आश्चर्यरूपश्च ॥ १२॥
ब्रह्मेन्द्रविष्णुनियूंढजगत्संहारकेलये।
अाश्चर्यकरणीयाय नमस्ते सर्वशक्तये ॥१३॥
ब्रह्मेन्द्र इति । ब्रह्मेन्द्रविष्णुभिः सृष्ट्यधिष्ठितिस्थितिकरैः
कथमपि निर्वाहितत्वाद्यत् नियूंढं संपन्नं जगत् । तस्य सर्वैः
सन्धार्यमाणस्य संहारः क्रीडामात्रं यस्य । अत एव आश्चर्यकर-
णीयः सर्वशक्तिः ब्रह्मादीनामपि स्वकर्मण्येतदीयसंजिहीर्षामा-
वाभावमुखप्रेक्षित्वात् सर्वसामययुक्तो यस्तस्मै नमः ॥१३॥
तटेष्वेव परिभ्रान्तैः लब्धास्तास्ता विभूतयः ।
यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे ॥१४॥
सर्वात्मपरिभावनाख्य द्वितीयं स्तोत्रम् । तटेष्वेव इति । तेटष्वेव मन्त्रमुद्राचक्रभूमिकादिज्ञानेषु चिद्र- समसरवाह्यभूमिषु परिभ्रान्तैः । “पवनभ्रमणमाणविक्षेपादिकृत- श्रमाः कुहकादिषु ये भ्रान्ता भ्रान्तास्ते परमे पदे" इसाम्नाय- स्थिसा अन्तःसारानासादनाद्ब्राम्यद्भिः । तास्ता इति भेदम- य्योऽणिमादिका । अगाधहरासिन्धवे इति अपरिच्छेद्यान्तस्त- वाय महेश्वरसमुद्राय । समुद्रे च तटेष्वेव ये भ्राम्यन्ति ते तन्मौ- क्तिकाद्याप्नुवन्ति, ये तु अन्तविक्षेपक्षमाः ते महानितिपद- ममृतमप्यश्नन्तीति रूपक श्लेषेण ध्वनति ॥१४॥ मायामयजगत्सान्द्रपङ्कमध्याधिवासिने । अलेपाय नमः शम्भुशतपत्राय शोभिने ॥१५॥ मायामय इति । माया चिन्मयत्वाख्यातिः सैव प्राकृतं रूपं यस्य जगतः तदेव सान्द्रः पङ्को घनः कर्दमः तन्मध्याधिवासिने ऽपि व्यापकत्वात्तयाप्नुवतेऽपि अलेपाय शुद्धचिदेकरूपाय । शम्भुरेव शतपत्रं अनन्तशक्तिदलं तत्तत्सङ्कोचविकासधर्मकं कमलं तस्मै नमः। पङ्कमध्यस्थितेरप्यलेपता भगवतश्चिदनत्वेन तदसंस्पर्शादिति विरोधाभासः ॥१५॥ . मङ्गलाय पवित्राय निधये भूषणात्मने। प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥१६॥ मगलायोते । मङ्गलेखादि स्पष्टं । सर्वोत्कृष्टायेति सर्वत्र योज्यं । येन येन मुखेन विचार्यते तेन तेनोत्तमत्वं सर्वोत्कृष्ट- वात् ॥ १६॥ नमः सततबहाय नित्यनिर्मुक्तिभागिने । बन्धमोक्षविहीनाय कस्मै चिदपि शम्भवे ॥१७॥ नम' सतत इति । भगवत एव बद्धमुक्ततयाऽवगमाचथा- शिवस्तोत्रावल्याम् त्वम् वस्तुनस्तु चिदनत्वात्तद्धीनत्वम् । विरोधाभासः पूर्ववत् । एवमुत्तरत्रीप ॥ १७॥ उपहास कसारेस्मिन्नेतावति जगत्रये। तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने ॥१८॥ उपहासक इति । तुच्छरूपत्वादुपहसनीयपरमार्थे एतावति अतिवितते जगत्रये भवाभवातिभवात्मनि । अद्वितीयाय असाधा- रणैकरूपाय निससुखासिने आनन्दधनायोपादेयतमाय तुभ्य- मेव नमः ॥१८॥ दक्षिणाचारसाराय वामाचाराभिलाषिणे सर्वाचाराय शर्वाय निराचाराय ते नमः ॥१९॥ दक्षिणाचार इति । दक्षिणाचारो भैरवतन्त्र अविपरीतानु- टानं च सारः सारत्वेनाभिमतो यस्य । वामाचारं वादितन्त्र वि- परीतक्रमं चाभिलपति यस्तस्मै । सर्व आचारो निजः परिस्पन्दो यस्य । निष्क्रान्ता आचारा यस्मात् आचारेभ्यश्च ध्यानपूजा- दिभ्यो निष्क्रान्तो यस्तस्मै । अथ च श्रीमदाचारनिराचाररूपं यन्मतक्रमादि शास्त्रार्थतत्त्वं तद्रूपाय नमः ॥ १९ ॥ यथा तथाऽपि यः पूज्यो यत्र तत्राऽपि योऽर्चितः योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते ॥ २० ॥ यथा तथा इति। येन येन प्रकारेण यत्र कचिद्यत्किश्चिदा- चर्यते तत्र स्वात्मदेवताविश्रान्तिरूपा पूजा अनायासेनैव सिद्धा सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् । तत्त्वविदामिति तात्पर्यम् । यत्तच्छब्दाः नियमव्युदासाय । यथा- गमः “यथालाभं प्रपूजयेदिति ॥२०॥ मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे । नमो विततलावण्यवाराय वरदाय ते ॥२१॥ मुमुक्षु इति।साधकानां मन्त्राणां प्राणत्वान्मुमुक्षुभिरेव स- मनन्तरोक्तयुक्सा नियन्त्रणं सेवितुं शक्याय । सर्वेषां भेदमयानां सन्तापानां हारिणे अपहन्त्रे । विततेत्युक्तिः परमानन्दघनत्वेना- तिस्पृहणीयत्वात् । वारः समूह “समूहनिवहव्यूहवारसङ्घातस- श्चया"इसमरः । वरदाय सविनैर्मल्यसारप्रसादप्रदाय ॥ २१ ॥ सदा निरन्तरानन्दरसनिर्भरिताखिल-। त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥२२॥ सदा निरन्तरानन्द इति । प्राग्वत्रिलोकस्यविश्वस्य स्वस्या- नन्दरसेन पूरणात्स्वामिने इत्युचितोक्तिः।नियपर्वणे सदा वि- श्वपूरकरूपाय। पर्व पूरणे इसस्यप्रयोगः। सर्वश्च पर्वणि आनन्दर- सनिर्भरितं निखिलं करोति ॥ २२॥ • सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् । त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः॥२३॥ मुखप्रधानं यत् शक्तिवन्दं संविद्देवीचक्नं, चमत्कारेणानन्द- घनप्रमातृविश्रान्सा सुखपधानसंवेद्यसंभोगै आनन्दसारविषय- ग्रासास्वादैः, त्यामेव भजते त्वय्येव विश्वमर्पयति। तस्मै घोराय सर्वसंहर्ने ते तव सम्बन्धिने नमः ॥ २३ ॥ मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचोष्टिताः । प्रालिङ्गन्यपि यं तस्मै कस्मै चिद्भवते नमः २४ " शिवस्तोत्रावल्याम मुनीनामिति । तपोयोगादिनिष्ठानां कपिलादीनामपि ज्ञातु- मशक्यं । भक्तिसम्बन्धचेष्टिता समावेशरसानुविद्धव्यापाराः।आ- लिगन्सपि दृढावष्टम्भयुक्सा स्वसम्भोगपात्रं कुर्वन्सपि यं तस्मै कस्मै चित्स्वात्मनि स्फुरते नमः ॥ २४ ॥ परमामृतकोशाय परमामृतराशये । सर्वपारम्यपारम्यप्राप्याय भवते नमः॥ २५॥ परमामृत इति। परमानन्दरसस्य कोशो गमिव, अतस्त- त्पूर्णत्वादाशिश्च, बहिरपि तन्मयत्वात् ।सर्वस्य मायादेः पारम्यं परमत्वं प्रकाशमानता । तस्यापि पारम्यं आनन्दघनश्चमत्कारः शाक्तः समुल्लासः, तेन पाप्याय ॥२५॥ महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् । अपूर्वामोदसुभगं परामृतरसाल्वणम् ॥ २६ ॥ महामन्त्रमयेति । महामन्त्रमयं अकृत्रिमाहम्परामर्शमयं तव रूपं नौमि इति प्राग्वत् । स्वच्छं विश्वप्रतिविम्बधारणात्। शीतलं संसारतापहारित्वात् । अपूर्वेण आमोदेन अलौकिकेन व्या- पिपरिमलेन हादिना स्वरूपेण। सुभगं स्पृहणीयं। परमामृतरसेन परमानन्देनोल्वणं बंहितम् ॥ २६ ॥ स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे । चित्रं नास्त्येव यत्रेश तनौमि तव शासनम् ॥२७॥ स्वातन्त्र्या इति।स्वातन्त्र्यामृतेन सम्पूर्णा स्वतन्त्रताआनन्द- घना या त्वदैक्यख्यातिः भवदभेदप्रथा सैव विश्वचित्रतन्तु- व्याप्या महापटः, तत्र विषये यत् शासनं, शास्यतेऽनेनेति कृत्वा त्वदुपदेशको य आगमः तं नौमि। यत्र विश्वमाश्चर्यमयं त्वदैक्य- प्रथनसारेऽपि चित्रं नानारूपं नास्येव, त्वदैक्यख्यातिप्रतिपादन-
सर्वात्मपरिभावनाख्यं द्वितीय स्तोत्रम् ।
१९
परत्वाद, चित्रमद्भुतं च नास्ति, अनुत्तरत्वादागमस्य सर्वसंभा-
घनाभूमित्वाद, अथ च पटे स्थितं शासनमविचित्ररूपं चेति
चित्रम् ॥ २७॥
सर्वाऽऽशङ्काशनिं सर्वाऽलक्ष्मीकालानल तथा।
सर्वाऽमगंल्यकल्पान्तं मार्ग माहेश्वरं नुमः॥२८॥
सर्वाशंकाइति । सर्वासामाशङ्कानां द्रव्यपूजामन्त्रादिसङ्की-
र्णत्वाद्युक्तानां विचित्रसंसारबीजभूतानां चित्तवृत्तिम्लानिदानां
अशनि स्वरूपध्वंसकं । आम्नायेऽपि च “ शङ्कापि न
विशङ्केत निश्शंकत्वमिदं स्फुट"मित्युक्तं । अलक्ष्मीणां अनान-
न्ददशानां कालानलं महादाहकं, सर्वामङ्गल्यानामशुभसूचकानां
कल्पान्तं निःशेषेण नाशकं, माहेश्वरं मार्ग शाक्तं प्रसरं नुमः॥२८॥
जय देव नमो नमोऽस्तु ते
सकलं विश्वमिदं तवाधितम् ।
जगतां परमेश्वरो भवान्
परमेकः शरणागतोऽस्मि ते ॥ २९ ॥
जयदेवेति । परमेकोस्मीति देहायभिमानेन त्वन्मायाश
क्तिकृतेन विश्वविभेदेन त्वत्तः पृथगिव कृतः, अत एव शरण-
मागतः। युक्तं चैतत् यतो विश्वमिदं तवाश्रितं चिन्मयत्वत्स्वरू-
पमनं, ततश्च जगतां भवानेव परमेश्वरः ब्रह्मादिभ्यः सदाशि-
वान्तेभ्यः उत्तमः, अत एव हे देव क्रीडादिशील, जय देहाय-
भिमानमिममुदस्य स्वरूपेण प्रथस्व इति माग्वत् ॥ २९ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्या सर्वात्मपरिभावना-
नामक द्वितीयस्तोत्रम् ॥ २॥
२०
शिवस्तोत्रावल्याम
ॐ सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः ।
तामुल्लध्य तृतीयस्मै नमश्चित्राय शम्भवे ॥१॥
ॐ सदसत्वेनेति।भावानां प्रमेयादीनां जन्मसत्तादिरूपतया
माक्मध्वंसाभावादिरूपतया च द्वितयीरूपा द्वितयीयुक्ता यतस्ते
भावा भावनीयाः सम्पादनीया', तामुल्लङ्घ्य उज्झित्वा यस्तृतीयः
सदसत्ताभ्यामव्यपदेश्यत्वात्तुर्यादिवत्संख्ययैव व्यपदेश्य स्थितः,
तस्मै चित्राय आश्चर्याय विश्वचित्राय नमः इति प्राग्वत् ॥१॥
श्रासुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्रये ।
स्वतत्रास्ते स्वतन्त्रस्य ये तवैवाऽनुजीविनः॥२॥
आसुरर्षि इति । जगत्रयं प्राग्वत् । सुरषिजनात् मरीच्या-
दिदेवर्षिजनात् । आ आङ् अभिविधौ । अस्वतन्त्रत्व सृष्टिसंहार-
गोचरत्वं । स्रष्ट्रादिरूपस्तु शम्भुरेव स्वतन्त्रः । तस्य च ये ऽनु-
जीविनः तदात्मकस्वात्मसाक्षात्कारिणः ते ऽपि तत्समावेशात
स्वतन्त्रा एव ॥ २॥
अशेषविश्वखचितभवद्वपुरनुस्मृतिः ।
येषां भवरुजामेकं भेषजं ते सुखासिनः ॥ ३ ॥
अशेषेति। भवरुजां सांसारिकोपतापानां । भेषजमौषधं। वि-
श्वखचितत्वात्सर्वोपकृतिकरणक्षमा भवद्वपुरनुस्मृतिः चिदात्म-
नस्त्वत्स्वरूपस्यानुगततया स्मरणं समावेशमयं येषामस्ति, ते
मुखासिनः।सत्स्वपि देहादिनान्तरीयकेषु दुःखस्पर्शेषु परमानन्द-
घने मुख एव तिष्ठन्ति ॥३॥
सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः।
चामरं स्वर्धनीस्रोतः स एकः परमेश्वरः ॥ ४ ॥
प्रणयप्रसादाख्य तृतीयं स्तोत्रम् । सितातपत्रमिति । इन्दुः सर्वमेयरूपः, प्रकाशदशायां स्वप्र- भाभिश्चैतन्यमरीचिभिः परिपूर्णतां प्रापितः, यस्य सितं शुद्धं, स्वात्मलग्नत्वाच बद्धं, पाशवहेयोपादेयतादिकल्पनोत्थात् आ- तपात् त्रायते इसातपत्रं । तथा स्वः स्वर्ग तदुपलक्षितं च निरयं धर्माधर्मफलं धुनोति स्वर्धनी मध्यवाहिनी चिच्छक्ति', सैव प्रस- रद्रूपत्वात्स्रोतः, तद्यस्य चामरं माहात्म्यप्रथाहेतुः। स एको न तु अन्यः परम ईश्वर । स्थूलदृष्ट्या तु निजरश्मिपूर्णः खण्डेन्दुः गगा च यस्यासाधारणं छत्रं चामरं चेति स्पष्टम् ॥ ४॥ प्रकाशां शीतलामेकां शुद्धां शशिकलामिव । दृशं वितर मे नाथ कामप्यमृतवाहिनीम् ॥५॥ प्रकाशां शीतलामिति। प्रकाशां स्वभकटां, शीतलां सन्ता- पहरां, शुद्धां भेदशङ्काशातिनी च, एकामद्वितीयां, कामप्यपूर्वा, अमृतवाहिनीं च अमृतस्यन्दिनी, दृशं संविदं, मे मा, नाथ, वितर प्रयच्छ । शशिकलापक्षे श्लिष्टोक्तेः स्पष्टोऽर्थः ॥५॥ त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविभुषः । इमाः कथं मे भगवन्नामृतास्वादसुन्दराः॥६॥ त्वचिदानन्द इति । त्वत्तः चिदानन्दसमुद्रात, याः संवि- त्तिविग्रुपः नीलमुखादिज्ञानकणिका', प्रकाशमानत्वाचिदान- न्दसारा एव, च्युता निर्याताः, समकालममृतास्वादसुन्दराः, इमा विस्फुरन्यो, नो कथं भवन्ति, भवन्येवेसर्थः ॥ ६ ॥ त्वयि रागरसे नाथ न मनं हृदयं प्रभो । येषामहृदया एव तेऽवज्ञास्पदमीदृशाः ॥७॥ त्वयि रागेति । त्वद्विषये रागरसो भक्तिप्रसरः। तत्र येषां हृदयं न मनं समाविष्ट, ते अविद्यमानताविकहृदयाः
शिवस्तोत्रावल्याम्
ईदृशा इति संसारक्लेशभाजनभूताः अवज्ञास्पदं भक्तिमता-
मगणनीया एव ॥ ७ ॥
प्रभुणा भवता यस्य जातं हृदयमेलनम् ।
प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥८॥
प्रभुणेति ।उक्तार्थप्रातिपक्ष्येणोक्तिः। यस्येति कस्यचिदेव ।
अहृदयास्तु पायो वहव इति बहुवचनमत्र नोक्त । हृदयमेलनं
समावेशेनैकत्वम्। विभूतय अद्वयानन्दसम्पदा यस्य च लौकिके-
श्वरेण हृदयमेलनं भवति स एवैकस्तु विभूतीनां पात्रं नान्य
इति श्लेषेण ध्वनति ॥ ८॥
हर्षाणामथ शोकानां सर्वेषां प्लावकः समम् ।
भवद्ध्यानामृतापूरो निम्नानिम्नभुवामिव ॥६॥
हर्षाणामिति । भवद्ध्यानं समावेशरुपं त्वचिन्तनमेव अमृ-
तापूरः। स यथा निम्नानिम्नभुवामशुद्धतररूपमायाविद्याभूमीनां
समं युगपत्प्लावकः सामरस्यापादकः, तथा लौकिकशोकहर्षा-
दीनामपि। समाविष्टस्य हि युगपदेव निखिलं परमानन्दव्याप्तिमयं
जायते । जलापूरश्च निम्नोन्नताश्च भूमीः प्लावयति ॥९॥
केव न स्याद्दशा तेषां सुखसम्भारनिर्भरा।
येषामात्माधिकनेश न क्वापि विरहस्त्वया ॥१०॥
केव न स्यादति। येषामात्माधिकेनेश, देहादि निमज्ज्य
चिद्धनत्वेन स्फुरता त्वया कदाचिदपि न वियोगः तेषां
मुखसम्भारनिर्भरा परमानन्दपूर्णा का इव दशा न स्यात्
सर्वैव भवतीयर्थः । जीवन्तः ईश्वरावियुक्ताश्च सदा सुखिनो
भवन्ति ॥ १०॥
प्रणयप्रसादाख्यं तृतीय स्तोत्रम् ।
२३
गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः।
स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः॥११॥
गर्जामि बतेति ।अतिभक्तिरसानन्दपूर्णितस्येयमुक्तिः। असन्तं
रोचनः अतिशयेन प्रिय ।एष इति वक्तुमशक्यः स्वानुभवसंसि-
द्धः। तथा च असन्तरोचनः विश्वग्रासकत्वेन अतिदीप्तप्रकाशव-
पुर्यतस्त्वं स्वामी मम घटित समावेशेन मयाऽऽसादितः। ततोगर्जा-
मि महारवमुच्चारयामि, नृसामि हर्षप्रसरभरेण सर्वतोमायाप्रमा-
दभावधूननसारं गात्रविक्षेपं करोमि । मम च मनोरथाः पूर्णाः
निराकासोस्मि जात इयर्थः। बत इति अनुत्तरचित्स्वरूपप्रसभि-
ज्ञानाद्विस्मयमुद्राऽनुप्रवेशं ध्वनति ॥ ११ ॥
नान्यवेद्य क्रिया यत्र नान्यो योगो विदा च यत् ।
ज्ञानं स्यात् किन्तु विश्वकपूर्ण चित्त्वं विजृम्भते॥१२॥
नान्यद्वेद्यमिति । तथाविधो मम स्वामी घटितो यत्र स्वामिनि
सति अन्यद्भिन्नं वेद्यं, अन्या क्रिया, अन्यो योग , अन्या च विदा
संविनास्ति, घटितस्वामिव्यतिरिक्तं मम न कि चिदपि भाती-
सर्थः। क्रिया विदा इसत्र अन्या इति योजना। तत्र पूर्ण त्वस्से-
वेति आह । किन्तु यज्ज्ञानं स्यात्तद्विश्वस्यैका पूर्णाहुतिः बो-
धाग्निप्रज्वालिनी, पूर्णाहंपरामर्शक्रियाशक्तिस्वरूपमेतज्ज्ञानमिति
यावत् । यच्चेदृक्ज्ञानं तदेवं चित्त्व शिवप्रकाशरूपत्वं विजृम्भते
नान्यत् । यथागमः "न योगोऽन्यः क्रिया नान्या तत्त्वारूढा हि
या मतिः । स्वचित्तवासनाशान्तौ सा क्रियेसभिधीयते" ॥१२॥
दुर्जयानामनन्तानां दुःखानां सहसैव ते ।
हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः॥१३॥
शिवस्तोत्रावल्याम्
दुर्जयानामिति । हस्तात्पलायिता इसनेन शिवध्वनिशून्यवा-
चः सर्वदु खाक्रान्ता इति ध्वनति । तथा चोच्यते आब्रह्मणश्च
कीटाच्चेयादि । “आब्रह्मणश्च कीटाच न कश्चित् तत्त्वतः सुखी।
करोति तास्ता विकृतीः सर्व एव जिजीविषु." ॥ १३ ॥
उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः ।
त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः ॥१४॥
उत्तमः पुरुष इति । हरिः पुरुषोत्तम इति प्रसिद्धः, स यु-
मच्छेषेण तावकेन अभेदसारविद्याऽधिष्ठातृषुपमातृषु च लब्धा-
दन्येन अधिष्ठानात्मना स्वरूपेण विशेषितः सम्पादितविशेषः ।
तथा चागमः-"वैष्णव्यास्तु स्मृतो विष्णु"रिति।त्वं सकलादिस-
दाशिवान्तनि शेषपुरुषाश्रयत्वान्महापुरुपः । अन्यशब्दः कश्चिद-
थः। एक अद्वितीयः । इति एकः श्लोकार्थः। अपरस्तु व्याकरणम-
क्रियया उत्तमपुरुषः अस्मदर्थे यः स युष्मच्छेपाभ्यां मध्यमप्र-
थमपुरुषाभ्यां विशेषितः सातविशेषोऽस्ति, तस्य च तटस्थप-
रामृश्यात्प्रथमपुरुषायुष्मदर्थोन्मुखाच्च मध्यमपुरुषादयं विशेषः
यदशेषपुरुषाश्रयत्वं तद्विश्रान्तिधामत्वं । सर्वस्येदन्ताविमृश्यस्या-
हन्तायामेव विश्रान्ते । स पचति त्वं पचसि अहं पचामीति वि-
वक्षायां वयमेव पचाम इसादौ प्रयोगेऽयमेवाशय इसास्तां । त्वं
तु विनिःशेषाणां प्रथममध्यमोत्तमपुरुषाणां कल्पितानामकल्पि-
तचिद्रूपाश्रयः । यथोक्तं प्रसभिज्ञायां "ग्राह्यग्राहकताभिन्नावों
भातः प्रमातरि" इति अत एव महापुरुषो महेश्वरो, महादेववन्म-
इच्छब्दस्य त्वय्येव प्रवृत्तत्वात् ॥ १४ ॥
जयन्ति ते जगहन्या दासास्ते जगतां विभो ।
संसारार्णव एवैष येषां क्रीडामहासरः ॥१५॥
प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् ।
जयन्तीति। जगद्वन्यत्वं शिवसमावेशमात्रत्वात् । जगतां विभो,
तव दासास्ते जयन्ति, येषां संसारसमुद्र एवैष इसतिघोरोऽपि
चिद्रूपतया ज्ञातपरमार्थः सन् क्रीडामहासर कल्पः। यथोक्तं “इति
वा यस्य संवित्तिः क्रीडावेनाखिलं जगत, सम्पश्यान्नेि"सादि ॥१५॥
अासतां तावदन्यानि दैन्यानीह भवज्जुषाम् ।
त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते ॥१६॥
आसतां तावदिति। अन्यानि दैन्यानि अणिमादिमार्थना ।
भवज्जुषां सततसमावेशप्रथमानत्वत्स्वरूपाणामतएवार्थनीया-
न्तरविरहात्मकटीभूया इसनेनैव कदाचित्ममाविष्टैः प्रार्थनीयेन
यतो लज्ज्यते ततो दण्डापूपीन्यायेन दैन्यान्तरसम्भावनैव
नास्ति ॥१६॥
मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः ।
तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित् ॥१७॥
मत्परं नास्ति तत्रेति । महेशितुरपि जप्य देवतान्तरमस्ति
अक्षमालायोगादिति ये मुह्यन्ति तान् बोधयितुमाह । मत्परं ताव-
नास्ति तथाऽपि जापकोऽस्मि यत्, तत् तस्मात् ऐक्यत ऐक्येन
चिदभेदेन, परमार्थतो जप. पूर्णाहन्ताविमर्शात्मा नियोदितो भव-
तीति अक्षमालया कचिद्गौरीश्वराधाकृतौ दिशसि कथयसि ।
तच्छब्दाद्यच्छन्द आक्षेप्यः। अथ वा अक्षमालया करणेश्वरीपं-
त्या समस्तार्थसाथै सर्गसंहारपरम्परासम्पत्ये पुनः पुनरावर्त-
मानया ऐक्यतो महार्थनया भेदसारेणैकत्वेन च जपोऽनुत्तर-
विमर्शसारो भवतीयक्षमालयैव वर्णलिपिन्यायेन युक्त्या शिक्ष-
यसि ॥१७॥
शिवस्तोत्रावल्याम
सतोऽवश्यं परमसत्सव तस्मात्परं प्रभो।
त्वं चासतस्सतश्चान्यस्तेनाऽसि सदसन्मयः॥१८॥
सतोवश्यमिति । भावाभावौ परस्परभिन्नौ । त्वमसतः खपु-
पादेः, सतश्च नीलसुखादेरन्यो विलक्षण चिदानन्दधनः, अत
एव सदसन्मयः सद्रूपोप्यसद्रूपोऽपि सदसद्रूपोऽपि विश्वात्मक-
स्त्वं, "नतु सद्रूप एव वा असद्रूप एव वा उभयोज्जित एव वा। तथा
श्रीभर्गशिखायां-"न सन्न चासत्सदसन्नैव तदुभयोज्ज्ञितमि"त्युप-
क्रम्य, दुर्जेया हि साऽवस्था किमप्येतदनुत्तरमि"सनिर्वचनीयत-
यैव विश्वोत्तीर्णविश्वमयचिदानन्दधनमनुत्तरस्वरूपं सदसत्त्वेनेति
श्लोकेन भावनीयसदसत्ताकोटिद्वयवैलक्षण्यमुक्तम्, अनेन तु सर्व-
भावाभावोत्तरत्वम् ॥ १८॥
सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् ।
अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे ॥१९॥
सहस्रसूर्यकिरणेभ्योप्यधिक, तेषामपि तत्प्रकाशत्वात् ।
शुद्धश्चिदेकरूपः प्रकाशो भूम्ना प्राशस्येन च यस्य । अत एव
सर्वभुवनव्यापकत्वं । मायाव्यामूढे न दृश्यसे भासमानोऽपि न
प्रयभिज्ञायसे इति यावत् ॥ १९॥
जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः ।
विभुमिते च येनासि तेन सर्वोत्तमो भवान् ॥२०॥
जडे जगतीति । जगति क्षिसादिसदाशिवावसाने जडे
वेद्ये मिते च असि त्वं चिद्रूपो वेदको व्यापकश्च यतस्ततः
सर्वोत्तमोसीति सम्बन्धः ॥ २० ॥
२७ सुरसोइलाख्यं चतुर्थ स्तोत्रम् । अलमाक्तन्दितैरन्यैरियदेव पुरः प्रभोः। तीनं विरौमि यन्नाथ मुद्याम्येवं विदन्नपि ॥२१॥ अलमिति । व्युत्थानदशापरवशः समावेशतत्त्वं जाननपि मुह्यामीति व्युत्थाने समावेशवशो भवामीति शिवम् ॥ २१ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ प्रणयप्रसादनामके तृतीयस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः ॥ ॐ चपलमसि यदपि मानस तत्रापि श्लाध्यसे यतो भजसे.। शरणानामपि शरणं भुवनगुरुमम्बिकाकान्तम् ॥ १ ॥ ॐ चपलमसीति । चापलाद्यद्यपि भगवद्भजने न परोहसि तथा ऽपि कृतार्थमसि ।क्षणमात्रमपि तत्सेवायाः पूर्णव्याप्तिपद- स्वात् । अत एव शरणानामपीससामान्यतां भगवतः प्रथयति। शरणानां ब्रह्मविष्ण्यादीनामपि शरणं समाश्रयं त्रिभुवनगुरुं विश्वस्योपदेष्टारं पूज्यं च । अम्बिका परा शक्तिः ॥ १॥ उल्लङ्घ्य विविधदैवतसोपानक्रममुपेयशिवचरणान्। आश्रित्याप्यधरतरां भूमि नाद्याऽपि चित्रमुज्ज्ञामि।२ उल्लयति।विविधानि ब्रह्मविष्णुरुद्रेश्वरसदाशिवादिरूपा- णि दैवतान्येव सोपानक्रमः, तमुल्लङ्घ्य विश्रान्तिपदीकृस, उपे- शिवस्तोत्रावल्याम् यस्योपगन्तव्यस्य आत्मसमीपे प्राप्तव्यस्य शिवस्य, चरणान मरीचीन, आसमन्तात् श्रित्वा समावेशयुक्त्या स्वीकृत्यापि, चित्रं यदद्यापि अधरतरां भूमि व्युत्थानपतितां मायीयदेहादिप्रमा- तृतां न सजामि । दैवतानां सोपानक्रमेणानुपादेयतां भगवतस्तु चरणसमाश्रयेणोपादेयतमतां प्रकाशयन्नात्मनस्तत्समाश्रयेण श्लाध्यतां ध्वनति ॥२॥ प्रकटय निजमध्वानं स्थगयतरामखिललोकचरितानि । यावद्भवामि भगवं- स्तव सपदि सदोदितो दासः॥३॥ प्रकटयेति । निजमध्वानं स्वं शाक्तं मार्गम्। अखिलस्य लो- क्यलोकयितरूपस्य मेयमातृवर्गस्य सदाशिवान्तस्य । चरितानि स्थगयतरां निःशेषेण शमय । यावत् तव सदोदितो दासो भवा- मि त्वचरणसपर्यापरो नियसमाविष्टः स्फुरामि इति यावत् ॥३॥ शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणां। तव चरणकमलयुगल- स्मरणपरस्य हि सम्पदो ऽदूरे ॥ ४ ॥ शिवशिवेति । तव चरणयुगलं ज्ञानक्रियामयं मरीचिद्वयं । सम्पदः समावेशसाराः परमानन्दमय्यः । अदरे निकटे ॥ ४ ॥ तावकाजिकमलासनलीना ये यथारुचि जगद्रचयन्ति ।
ये सुरसादलाख्यं चतुर्थ स्तोत्रम् | ते विरिञ्चिमधिकारमलेना- ऽऽलिप्तमस्ववशमीश हसन्ति ॥५॥ तावकाढीति । सङ्कोचविकासपरत्वन्मरीचिविश्रान्ताः तत एव आस्वादितस्वातन्त्र्या, यथारुचि करणेश्वरीप्रसरयुक्त्या, जगदचयन्ति तेविरिञ्चि ब्रह्माणधिकारमलेन आसमन्तालिप्तमत एव नियतिपरतन्त्रत्वादस्ववशमस्वतन्त्रं । हे ईश स्वतन्त्र । हसन्ति कमलासनोऽपि तेषां हासास्पदमियर्थ ॥५॥ त्वत्प्रकाशवपुषो न विभिन्न किं च न प्रभवति प्रतिभातुम् । तत्सदैव भगवन्परिलब्धो ऽसीश्वर प्रकृतितोऽपि विदूरः ॥ ६ ॥ त्वप्रकाशवपुषइति । हे ईश्वर असि त्वं प्रकृतितः विदूरोऽपि स्वगोपनादमाप्योऽपि सदैव परिलब्धः अस्माभिरिति शेषः । यतः यत् किञ्चित्पतिभातुं प्रभवति भासने तत्त्वत्तः प्रकाशवपुष- श्चिद्रूपात् न भिन्न प्रकाशमयस्यैव प्रकाशार्हत्वात् । यथोक्तं- "यस्मात्सर्वमयो जीव" इसादि “भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थित" इसन्तम् ॥ ६॥ पादपङ्कजरसं तव के चिद् भेदपर्युषितवृत्तिमुपेताः। के चनाऽपि रसयन्ति तु सद्यो भातमक्षतवपुढयशून्यम् ॥ ७ ॥ पादपङ्कजेति । तव ज्ञानक्रियामरीचिट्ठयमयचरणकमलरसं .
३० शिवस्तोत्रावल्याम् के चित् द्वैतनिष्ठाः, भेदेन पर्युषिता, अगिति उपभोगानासा- दनेन शुक्तीकृतमाया वृत्तिः स्वरूपं यस्य तमुपेताः प्राप्ता, न तु सद्य आस्वादयन्ति । के चित्पुनः परशक्तिपातपवित्रिताः सद्यो भातं झगिति उपनतं अक्षतवपुषं निखस्फुरत्स्वरूपं द्वयशून्यं चिदान्दैकघनं रसयन्ति चमत्कुर्वन्ति । केचिदिसपकर्षः केचनापीत्युत्कर्ष ध्वनति ॥ ७ ॥ नाथ विद्युदिव भाति विभा ते या कदा चन ममामृतदिग्धा । सा यदि स्थिरतरैव भवेत्तत् पूजितोऽसि विधिवत्किमुतान्यत् ॥८॥ नाथ विद्युदिवेति । हे नाथ तव विभा परः शाक्त: स्पन्दः। अमृतदिग्धा परमानन्दोपचिता । विद्युदिव क्षणमात्रं कदाचिन्ममावभाति समावेशे स्फुरति । सा यदि बलवद्व्युत्था- नमपहस्य नियोदिता स्यात्तद्विधिवद्यथातत्त्वं पूजितोऽसि । कि- मुतान्यत् परिसमाप्तं करणीयं कृतकृयता च जायते इसर्थ. ॥८॥ सर्वमस्य परमस्ति न किंचिदू वस्त्ववस्तु यदि वेति महत्या। प्रज्ञया व्यवसितोऽत्र यथैव त्वं तथैव भव सुप्रकटो मे ॥ ९ ॥ सर्वमसीति । असि त्वं सर्वमपरं वस्तु यदि वा ऽवस्तु न किं चिदस्ति, सर्वस्य चिद्धनत्वात्प्रकाशमयत्वेन प्रकाशनात इसेवं शुद्धविद्यामय्या यथैव महसा प्रज्ञयाऽत्रजगति स्वं
३१
सुरसोद्वलाख्यं चतुर्थ स्तोत्रम् ।
निश्चितस्तथैव मे मुष्ठु व्युत्थानेऽपि समावेशवशात् प्रकटो
भव ॥९॥
स्वेच्छयैव भगवन्निजमार्गे
कारितः पदमहं प्रभुणैव।
तत्कथं जनवदेव चरामि
त्वत्पदोचितमवैमि न किं चित् ॥ १० ॥
स्वेच्छयैवेति । हे भगवन् अहं प्रभुणैव न तु अन्येन केन
चित् ।स्वेच्छयैव निरपेक्षशक्तिपातयुस्या।निजमार्गे विकस्वरश-
क्तिवर्त्मनि । पदं कारित विश्रान्तिं लम्भितः। तत्कथं जनवदेव
लोकवदेव।चरामि व्युत्थाने व्यहरामि। त्वत्पदोचितं त्वन्मरीचि-
परिचयसमुचितं समावेशवशान कि चिदवगच्छामि ॥ १० ॥
कोऽपि देव हृदि तेषु तावको
जृम्भते सुभगभाव उत्तमः।
त्वत्कथाम्बुदनिनादचातका
येन तेऽपि सुभगीकृताश्चिरम् ॥ ११ ॥
कोपीति । हे देव तेषु केषु चित् प्रागुक्तभक्तिमत्सु हृदि ता-
वकः उत्तमः उत्कृष्टः सुभगभाव कोऽपि उच्छलदानन्दरसोल्वण-
त्वं किमप्युज्जृम्भते, येन तेऽपीति समावेशसम्भिन्नहृदया अपि,
अत एव त्वत्कथैव अम्बुदनिनादः तत्र चातका इव समावेश-
शालिमतन्यमानशिवकथाssकर्णनमदृष्टहृदया अपि चिरं सुभ-
गीकृताः समावेशभूमि लम्भिताः। यत्कथामात्रेण समावेशोऽव-
तरतीयर्थः ॥ ११ ॥
શર शिवस्तोत्रावल्याम् त्वज्जुषां त्वयि कयाऽपि लीलया राग एष परिपोषमागतः। यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति संगमोत्सवम् ॥ १२ ॥ त्वज्जुषामिति । कयापीति अनुत्तरसमावेशशालिन्या लील- या त्वज्जुषां त्वां प्रीसा सेवमानानाम् । एष इति असामान्यो रागः परिपोषं प्राप्तः। त्वद्वियोगभुवि व्युत्थाने । सङ्कथा संस्मृतिश्च की सम्भोगोत्सवं सम्भोगदशां फलति । वियोगभुवि सङ्गमोत्मवमि- त्युक्त्या अलौकिकत्वमनुरागस्य ध्वनति ॥ १२ ॥ यो विचित्ररससेकवर्धितः शङ्करेति शतशोऽप्युदीरितः। शब्द आविशति तिर्यगाशये- प्वप्ययं नवनवप्रयोजनः ॥ १३ ॥ ते जयन्ति सुखमण्डले भ्रमन् अस्ति येषु नियतं शिवध्वनिः। यः शशीव प्रस्टतो ऽमृताशयातू स्वादु संस्रवति चामृतं परम् ॥ १४॥ यो विचित्रेति ते जयन्तीति युगलकम् । ते जयन्ति येषु सु- खमण्डले नियतं निश्चितं कृत्वा भ्रमन् शिवध्वनिरस्ति । यः स्वादु परं चामृतं सम्यक् सवति आनन्दरसं समुच्छलयति । कीहक् अमृताशयात साक्षात्कृतचिद्धनपरमेश्वररूपात्ममृतः स्व- रसेनोच्चारितः।यथा अमृताशयात्, शशी चन्द्रमाः प्रस्तः मण्ड-
सुरसोद्वलाख्यं चतुर्थ स्तोत्रम् ।
३३
ले स्फुरन्, परं स्वाद्रमृतं सवति, यचैव विचित्रेण समावेशरस-
सेकेन वर्धितोऽत एव शतशोप्युदीरितः शङ्करेत्ययं शब्दः, तिर्य-
गाशयेषु पशुहृदयेष्वपि, नवनवप्रयोजनः प्रतिक्षणं तत्तदपूर्वच-
मत्कारकारी, आविशति परिस्फुरति ॥ १३ ॥ १४ ॥
परिसमाप्तमिवोग्रमिदं जगद्
विगलितोऽविरलो मनसो मलः ।
तदपि नास्ति भवत्पुरगोपुरा-
गेलकवाटविघट्टनमण्वपि ॥ १५॥
परिसमाप्तमिवेति । स्फुरत्प्रसग्रसमावेशसंस्कारस्य व्युत्था-
नभूमिमवतितीर्पोरियमुक्तिः। उग्रं भेदमयत्वाद्भीषणं । जगद्विश्वं,
परिसमाप्तमिव । समाविष्टस्य हि न बाह्यं विश्वं विभाति अथ च
संस्कारशेषतयाऽऽस्ते इति इव शब्द । मनसश्च अविरलो घनः
मलः अविद्याकलात्मा विगलितः । तथाऽपि नि शेषशान्ताशेष-
विश्वमयप्रफुल्लमहाविद्योद्यज्जगदानन्दमयस्य पूरकत्वात्पुररूपस्य,
यदोपुरं पुरद्वारं परमशक्तिरूपं, तत्रार्गलयुक्तकवाटविघटनमति-
दृढाख्यातिपुटविपाटनं मम मनागपि नास्ति ।अनेन प्रविगलितनिः
शेषदेहादिसंस्कारां परां भूमिमेवोपादेयत्वेन ध्वनति । यदुक्तं
"सर्वथा त्वन्तरालीने"यादि श्रीप्रसभिज्ञायां । “सर्वातीतः शिवो
ज्ञेयो यं विदित्वा विमुच्यते” इति पूर्वशास्त्रे ॥ १५ ॥
सततफुल्लभवन्मुखपङ्कजो-
दरविलोकनलालसचेतसः।
किमपि तत्कुरु नाथ मनागिव
स्फुरसि येन ममाभिमुखस्थितिः ॥ १६ ॥
३४ शिवस्तोत्रावल्याम सततेति । सततं फुल्लं निसं विकसितं यत्वन्मुखकमलं, "शैवी- मुखमिहोच्यते इति"स्थिया, त्वत्पराशक्तिरूपं यत्पद्म तस्य यदुदरं मध्यं, परं तावकं परशक्तिसामरस्यमयं शांभवं रूपं, तस्य विलो- कनं समावेशः, तत्र लालसं सातिशयाभिलाष चेतो यस्य, तस्य मे, किमपि तदसम्भाव्यमुपायप्रदर्शनं, मनागिव हेलामात्रेण कुरु, येन ममाभिमुखस्थितिः सन् स्फुरसि ॥ १६ ॥ त्वदविभेदमतेरपरं नु किं सुखमिहास्ति विभूतिरथाऽपरा । तदिह तावकदासजनस्य किं कुपथमेति मनः परिहृत्य ताम् ॥ १७ ॥ त्वदविभेदमतेरिति ।समावेशस्फुरितायास्त्वदद्वयसविदः अ- परं मुखं विभूसादि च न किं चिदस्ति । तस्या एव सर्वातिशा- यित्वात् । ततः किमिति तावकदासजनस्य तां त्वदविभेदसंविदं परिहस, मनः कुपथमेति व्युत्थानभूमिमेवाऽऽधावति ॥ १७ ॥ क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम् । भवदभेदरसासवमादरा- दविरतं रसयेयमहं न चेत् ॥ १८ ॥ क्षणमपीति । यदि भवदद्वयानन्दरसासवमहमविरतं नास्वा- दयेयं, तत्तव दासतां प्रति क्षणमपि भाजनं न भवेयम् । आन- न्दघनत्वत्स्वरूपापरिचितत्वात् ॥ १८ ।। न किल पश्यति सत्यमयं जन- स्तव वपुईयदृष्टिमलीमसः।
३
५
सुरसोद्वलाख्यं चतुर्थ स्तोत्रम् ।
तदपि सर्वविदाश्रितवत्सलः
किमिदमारटितं न शृणोषि मे ॥ १९ ॥
न किलेति । अयं तावज्जन' भेददृष्टिमलीमसत्वात्तव ससं
चिद्धनं वपुः न पश्यति । तथाऽपि त्वं सर्ववित्सर्वज्ञ , आश्रित-
वत्सलो भक्तानुकूलः, अतएव स्वयमेवोचितस्वात्मदर्शनदाने
ऽपि मे किमिसारटितं आक्रन्दितं न शृणोषि । दर्शनं तावज्झ-
गिति मम आरटितं भक्तिविवशचित्तस्याक्रन्दितमात्रं तु श-
विति प्रार्थयते ॥ १९ ॥
स्मरसि नाथ कदा चिदपीहितं
विषयसौरव्यमथापि मयाऽर्थितम ।
सततमेव भवद्धपुरीक्षणा-
मृतमभीष्टमलं मम देहि तत् ॥ २० ॥
स्मरसीति । ईहितं प्रयत्नेनाजितं अथाप्यथितं काङ्कितं
कदा चिदपि मया विषयसौख्यमिति नाथ स्मरसीति नियन्त्र-
णोत्त्या गाढप्रभुपरिचयं ध्वनति । केवलं मम देव भवद्रपुरीक्ष-
णामृतं त्वत्स्वरूपप्रकाशनरसायनमलमभीष्टं । तदेव च देहि
प्रयच्छ ॥ २०॥
किल यदैव शिवाध्वनि तावके
कृतपदोऽस्मि महेश तवेच्छया ।
शुभशतान्युदितानि तदैव मे
किमपरं मृगये भवतः प्रभो ॥ २१ ॥
किलेति । शिवाध्वनि श्रेयःशतशालिनि । परमे शाक्ते
मार्गे । कृतपदः प्राप्तविश्रान्तिः ॥ २१ ॥
३६ शिवस्तोत्रावल्याम् यन्त्र सोऽस्तमयमेति विवस्वाँ- श्चन्द्रमःप्रभृतिभिः सह सर्वैः । काऽपि सा विजयते शिवरात्रिः स्वप्रमाप्रसरभारवररूपा ॥ २२ ॥ योति । सा कापि लोकोत्तरा शिवरात्रिः शिवसमावेश- भूमि । समस्तमायीयप्रथायाः संहरणाद्रात्रिरिव रात्रिः । कीदृशी, स्वप्रभामसरेण चित्प्रकाशजृम्भणेन भासनशीलं रूपं यस्या, तादृशी । स इसशेषप्रपञ्चप्रथमाङ्कुरः विवस्वान् प्राणः। चन्द्रम:- प्रभृतिभिरपानादिभि सहाऽस्तमेति प्रशाम्यति । यदि वा । विव- स्वान् प्रमाणपकाशः। चन्द्रम प्रभृतय प्रमेयादय ॥ २२ ॥ अप्युपार्जितमहं त्रिषु लोके- ष्वाधिपत्यममरेश्वर मन्ये । नीरसं तदखिलं भवदति- स्पर्शनामृतरसेन विहीनम् ॥ २३ ॥ अपीति । त्रैलोक्यराज्यमपि त्वन्मरीचिसंस्पर्श विना विरसं मन्ये ॥ २३॥ बत नाथ दृढोयमात्मबन्धो भवदख्यातिमयस्त्वयैव क्लप्तः । यदयं प्रथमानमेव मे त्वा- मवधीर्य श्लथते न लेशतोऽपि ॥ २४ ॥ बतेति । आश्चर्य अयमात्मवन्धो देहादिषु प्रमातृताभिमान: त्वदप्रथारूपः। त्वयैव अतिदुर्घटकारिणा दृढः क्लुप्तः । न तु अ- सुरमोइलाख्यं चतुर्थ स्तोत्रम् । न्यस्य शक्तिः। यस्मात्त्वां प्रथमानमेव समावेशे भान्तमेव अव- धीर्य न्यग्भाव्य लेशतोऽपि न श्लथते, व्युत्थाने प्राधान्यमेवाव- लम्बते इयर्थः ॥ २४ ॥ महताममरश पूज्यमाना ऽप्यनिशं तिष्ठसि पूजकैकरूपः। बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टशरीर एव शश्वत् ॥ २५॥ महतामिति ।वहिरन्तः पूजाधवसरे। आपातभेदेनैव प्रकाश- मानत्वात् । पूज्यमानो दृश्यमानश्च, त्वममरेश देवदेव, महतां भक्तिमतां पूजकैकरूपो द्रष्टशरीरश्च, समावेशसामरस्याद्रोधमय- प्रमात्रेकरुपस्तिष्ठसि स्फुरसि चेति शिवम् ॥ २५ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्या सुरसोद्बलनामक- चतुर्थस्तोत्रे क्षेमराजकृता विवृतिः ॥
३८
शिवस्तोत्राल्याम् ।
ॐ त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् ।
गलेपादिकया नाथ मां स्ववेश्म प्रवेशय ॥ १ ॥
ॐ त्वदिति । पादाः मरीचयः । सम्पर्कमात्रसम्भोग समा-
वेशास्वादः । गलेपादिका हठशक्तिपातक्रमः । स्ववेश्म चित्स्व-
रूपं, औचिसात् ॥ १॥
भवत्पादाम्बुजरजोराजिरजितमूर्धजः ।
अपाररभसाऽऽरब्धनर्तनः स्यामहं सदा ॥ २ ॥
भवदिति । भवदीयेन पादाम्बुजरजसा ऽनुग्रहप्रवृत्तपरश-
क्तिकमलपरागेण । रञ्जितमूर्वजः अधिवासितान्तः। प्रप्तरङ-
टशक्त्यकुरः । तत एव महर्षवशादपारमपर्यन्तं, रभसाSSरब्धं
झगिति प्रवर्तितं नर्तनं गात्रविक्षेपो मायाममातृताविधूननं येन ।
निससमावेशविकस्वरतामाशास्ते ॥२॥
त्वदेकनाथो भगवन्नियदेवार्थये सदा ।
त्वदन्तर्वसतिद्को भवेयं माऽन्यथा बुधः ॥३॥
त्वदेकनाथ इति । इयदेव नापरमर्थये। यत्त्वमेवैको नाथो ना-
थ्यमानः समभिलषणीयो यस्य स । त्वदन्तर्वसतिश्चिद्धनत्वत्स्व-
रूपसमाविष्टो मूकोऽपि स्याम् । अन्यथा बुधोऽपि विद्वानपि
माभूवम् ॥ ३॥
अहो सुधानिधे स्वामिन अहो मृष्ट त्रिलोचन ।
अहो खादो विरूपाक्षेत्येव नृत्येयमारटन् ॥४॥
अहो इति । प्राग्वन्निससमाविष्टतामाशास्ते । सुधानिधे आन-
न्दाब्धे। मृष्ट चमत्कारपदपतित । स्वादो अविच्छिन्नमाधुर्य । नृसे-
यमिति प्राग्वत् । आरटन् स्फुटं परामृशन् ॥ ४ ॥
स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् । ३२ त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः विजृम्भेय भवद्भक्तिमदिरामदपूर्णितः ॥ ५ ॥ त्वत्पादपभेति । त्वच्छत्यानन्देन अन्तर्मुखीकृतकरणः। वि- जृम्भेय चित्स्वरूपोन्मज्जनादात्रं विनमयेय चिद्गुणीभावं नयेयम् । कीदृक्-भवति साक्षात्कृते, या भक्तिरासेवा सैव मदिरामदः कादम्बरीचमत्कार , तेन चूर्णितो महाव्याप्ति लम्भितः ॥५॥ चित्तभूशृद्भुवि विभो वसेयं वापि यत्र सा । निरन्तरत्वत्प्रलापमयी वृत्तिमहारसा ॥ ६॥ चित्तभूभृदिति । चित्तमेव अनुल्लवयत्ववासनाश्रयत्वकठो- रत्वाभिः भूभृत् । तस्य सम्बन्धिन्यां कस्यां चिद्विविवेकप्रदायां भुवि भूमिकायां । वसेयं । यत्र सा इति पाक् परिशीलिता, महा- रसा समावेशानन्दमयी, निरन्तरो घन', त्वत्पलापो भवत्पराम- हः, प्रकृतं रूपं यस्यास्तादृशी वृत्तिः स्थितिः ॥ ६ ॥ यत्त्र देवीसमेतस्त्वमासौधादा च गोपुरात् । बहुरूपःस्थितस्तस्मिन्वास्तव्यः स्यामहं पुरे॥७॥ यत्त्रेति । तस्मिन् पुरे त्वदीये पूरके चिदात्मनि रूपे । वास्त- व्यः समाविष्टः स्याम् । यत्र आसौधादान्तरात्सुधासमूहरूपात्म- तिभालक्षणादुच्चाद्धाम्नः । आच गोपुरादिन्द्रियविषयरूपा द्वारात् । त्वं देव्या परशत्त्या समेतो निसप्रमुदितो, "न सा जीव- कला का चि"दिसादि नीया वससि। बहुरूपो विश्वात्मा । अत्र अनुरणनशक्त्या लौकिकैश्वार्यपरिचार्य्यर्थः स्पष्टः । तथोत्तरत्रा- प्यनुसर्तव्यः ॥ ७॥ समुल्लसन्तु भगवन भवद्भानुमरीचयः विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते॥॥
शिवस्तोत्रावल्याम
समुल्लसन्त्विति । मरीचयः अनुग्राहिकाः शक्तयः । विकसतु
व्याप्तिमासादयतु । तव पूजनाय त्वत्पदसमावेशाय ॥ ८ ॥
प्रसीद भगवन् येन त्वत्पदे पतितं सदा ।
मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव ॥ ९ ॥
प्रसीदेति । प्रसादोंभस इव स्वयमेवाविलीभावशान्या नैर्म-
ल्यगमनं । एवमुत्तरत्र । त्वत्पदे शाक्ते मार्गे,पतितंलुठितं, तत्तदिति
ते ते लोचनइति यद्वर्णयितुमशक्यतां स्कीततां चास्वाद्य वस्तुतो
ध्वनति ।क्षीवेदिव गलेदिव इति ससन्देहोत्सेक्षया सम्भावनालिङा
च स्वानुभवसाक्षिकानुत्तरानन्दरसपरवशताशंसां ध्वनति ॥१॥
प्रहर्षादाऽथ शोकाद्वा यदि कुड्याद्रटादपि ।
बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो ॥१०॥
प्रहर्षादिति। वा प्रभृतिशब्दैः यतः कुनश्चित्स्फुटीभव ना-
स्माकं कचिद्रहः इसाह । प्रभो सर्वत' प्रभवनशील ॥ १० ॥
बहिरप्यन्तरपि. तत्स्यन्दमानं सदाऽस्तु मे ।
भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम् ॥११॥
बहिरपीति । पादाम्बुजं शीतलमिति माग्वत् ॥ ११ ॥
त्वत्पादसंस्पर्शसुधासरसोन्तर्निमजनम् ।
कोप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु मे सदा ॥१२॥
त्वत्पादसंस्पर्श इति । त्वत्पादसस्पर्शो रुद्रशक्तिसमावेशः।स
एव सुधासरः रसायनाब्धिः। तत्र अन्तनिमजनं ब्रुडनं यत्, एष
मम कोऽपि असामान्यः भोग सदाऽस्तु । कीहक् ।सर्वान् सदा-
शिवपर्यन्तान् भोगान् लङ्घने विरसत्वादभिभवति, तच्छीलः॥१२॥
खबलनिदेशनाख्यं पञ्चमं स्तोत्रम् । निवेदितमुपादत्स्व रागादि भगवन्मया । श्रादाय चामृतीकृत्य भुङ्व भक्तजनैःसमम्॥१३॥ निवेदितमिति । हे भगवन् चिन्मयस्त्रात्मन् । आसंसारं यत् मयाजितं रागादि, तद्वित्तशाध्यविवर्जनया निवेदितं त्वय्यर्पितं, निःशेषेण वेदितं चेति । तत्स्वरूपमुपादत्स्व गृहाण स्वप्रकाशा- स्मतामधिष्ठाय समीपे कुरु । अमृतीकृति परशक्तिस्पर्शामृतेन आप्लाव्य । भक्तजनैः सममित्युत्त्या स्वसमावेशतासमये समस्त- भक्तानामपि तन्मयतामाशंसति ॥ १३ ॥ अशेषभुवनाहारनित्यतृप्तः सुखासनम् । स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥१४॥ अशेषेति । हे स्वामिन् अशेषभुवनाहारेण नियतृप्तः परमा- नन्दधन । दासेषु व्याख्यातरूपप्रप्तादालोकनावसरं गृहाण प्रकाशार्हत्वमधिष्ठापय । कीदृशं-मुखेन आस्यते यत्र तत् आन- न्दव्याप्तिमयम् ॥ १४ ॥ अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः । नमो मह्यं शिवायेति पूजयन् स्यां तृणान्यपि ॥१५॥ अन्तर्भक्तीति । अन्तः पूर्णाहन्तायां भक्तिचमत्कारामीलि- तेक्षण इति प्राग्वत् । मह्यं चिद्रूपाय शिवाय नमः इति कृत्वा तृ- णान्यपि पूजयन् स्यां शिवतया परामृशेयम् ॥ १५ ॥ अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् । पश्यन् भक्तिरसाभोगर्भवेयमवियोजितः ॥१६॥ अपीति । लब्धो भवद्भाव त्वदैकात्म्यं येन । अत एव स्वा-
शिवस्तोत्रावल्याम्
विश्वं पश्यन्,
स्मनः शिवरूपस्योल्लास एवं प्रकृतं रूपं यस्य तथाविधं जगत
भक्तिरसाभोगैः समावेशमबलचमत्कारैः अवियो-
जितः स्याम् । “तमनियेषु भोगेषु योजयन्ति विनायकाः" इसा-
नायस्थिया मा कदा चित् स्वात्माभिमानविनायको भत्त्य-
न्तरायं मे कार्षीदिति यावत् ॥ १६ ॥
आकाङ्क्षणीयमपरं येन नाथ न विद्यते ।
तव तेनाऽद्वितीयस्य युक्तं यत्परिपूर्णता ॥१७॥
आकाङ्क्षणीयमिति । सर्वतो निराकाङ्क्षत्वात्त्वमेव परिपूर्ण
इसर्थः ॥ १७॥
हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते ।
पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम् ॥१८॥
हस्यत इति । नृसते अन्तः प्रहर्षभरेण देहादिप्रमातृता दो-
धूयते । भुज्यते ग्रस्यते रागद्वेषादीसनेन पुर्यष्टकममातृताया गु-
णीभावउक्तः। पीयते चमक्रियते भक्तिपीयूषरस' समावेशानन्द-
मसर । सर्वस्य च हासनृसमधानभोजनपानक्रिया स्पृहणीया सा
विह अलौकिकत्वेनोक्ता ॥ १८ ॥
तत्तदपूर्वामोदत्वचिन्ताकुसुमवासना दृढताम् ।
एतु मम मनसि यावनश्यतु दुर्वासनागन्धः ॥१९॥
तत्तदिति । स स इति विचित्रः, अपूर्वोऽलौकिकः, आमोदो
हर्षो यस्याः त्वचिन्तायाः, सैव स्पृहणीयत्वात्कुसुमवासना । दृढतां
प्ररूढत्वं । ममैतु मनसि । यावद्रागादिदुर्वासना नश्यतु ॥ १९ ॥
कनु रागादिषुरागः क्व च हरचरणाम्बुजेषुरागित्वम् ।
इत्थं विरोधरसिकं बोधय हितममरमेहृदयम्॥२०॥
स्वबलनिदेशनाख्यं पञ्चम स्तोत्रम् । कन्विति । मम हृदयं विरोधरसिकं समावेशे त्वत्परं व्यु- स्थाने तु विषयोन्मुखं । हितं बोधय विवेकितं कुरु येन व्युत्थाने रागादिरसिकतां सत्का त्वदनुरक्तमेवास्ते ॥ २० ॥ विचरन्योगदशास्वपि विषयव्यावृत्तिवर्तमानोऽपि । वञ्चिन्तामदिरामदतरलीकृतहृदय एवस्याम्॥२१॥ विचरन्निति । योगदशाः भूमिकाज्ञानानि ।विषयेभ्यो व्याव- त्तयः इन्द्रियेभ्यः प्रसाहाराः। तत्र वर्तमानः। त्वचिन्ता त्वत्प्राप्ति- रेव मदिरामदः । तेन तरलीकृतं साजितमितभूमिकामरूढि क्षीव- स्येव घूर्णमानं, निजचमत्कारव्यतिरेकेण कुत्र चिदपि भूमिका- ज्ञानादावरोहत हृदयं यस्य, तादृगेव स्याम् । अपिशब्देन प्रसङ्गा- पतितत्वेन अनादरणीयतामाह ॥ २१ ॥ वाचिमनोमतिषु तथा शरीरचेष्टासु करणरचितासु। सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः ॥२२॥ वाचीति । मनोमतय कल्पनाप्रधाना धियः। करणरचितासु बुद्धिकर्मेन्द्रियकार्यासु । दर्शनश्रवणादिपूर्वकत्वात्सर्वप्रवृत्तीनां । सर्वत्र सर्वावस्थासु । पुरःसर आदावेव स्फुरन् । भक्तिरस समा- वेशचमत्कारः ॥ २२ ॥ शिव शिव शिवेति नामनि तव निरवधि नाथ जप्यमानेऽस्मिन् । प्रास्वादयन् भवेयं कमपि महारसमपुनरुक्तम् ॥ २३ ॥ शिवेति । जप्यमाने प्रकृष्टमन्त्रमयतया परामृश्यमाने । अस्मि- शिवस्तोत्राल्याम्। निति स्वानुभवकसाक्षिके अनुत्तरे। भूयो नामग्रहणं ममावेशवै- वश्यं ध्वनति । कमपीति अलौकिकम् ॥ २३ ॥ स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजड़ाध्वनि । अगणितापरचिन्मयगण्डिके प्रविचेरयमहं भवतोऽचिंता ॥ २४ ॥ स्फुरदिति । स्फुरत् अनन्तमपरिच्छिन्नं यच्चिदात्मकं विष्टपं भुवन विश्वविश्रान्तिस्थानं तत्र । कीदृशे-परितः समन्तानिपीत' समस्तो निःशेषो जडो वेद्यरूपो ध्वान्तत्वादिप्रसरो येन । तथा न गणिता अपरा चिन्मयी गण्डिका पुरी यत्र । शिवात्मकचिद्रू- पव्यतिरेकेणान्यस्याभावात् । अनेन भिन्नशिववादनिरासउक्तः । तत्र प्रकर्षेण विचरेयं समावेशेन प्रसरेयं । कीहक् । भवतः प्रभोर- चिंता अद्वयरुपत्वत्पूजैकनिष्ठः ॥ २४ ॥ स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किमप्युपयुज्यते । इति मतिः सुदृढा भवतात् परं मम भवच्चरणाब्जरजःशुचेः ॥ २५॥ स्ववपुषीति। स्वस्मिन् अनपायिनि वपुषि चिदात्मस्वरूपे । स्फुटभासिनि प्रकाशवने। शाश्वते निये । स्थिति कतुन किमपि ध्यानजपादिकमुपयुज्यते उक्तरूपत्वादेव । एतादृशी । मम भवच्चर- णाम्बुजरजःशुचे त्वच्छक्तिकमलप्रसरपरिशीलनेनशुद्धस्य । मुह- डामति निश्चलनिश्चयरूपा धीः। परमतिशयेन भवेत् । नियोदित-
स्वबलानदेशनाख्यं पञ्चम स्तोत्रम् ।
४५
समावेशैकघनः स्यामिति यावत् ॥ २५ ॥
किमपि नाथ कदाचन चेतसि
स्फुरति तद्भवदंघितलस्पृशाम् ।
गलति यत्र समस्तमिदं सुधा-
सरसि विश्वमिदं दिश मे सदा ॥ २६ ॥
किमपीति । हे नाथ भवदङ्क्तिलस्पृशां त्वच्छक्तिस्पर्शशा-
लिनां । कदा चिदवसरे । तत्किमपि असामान्य वस्तु चेतसि
स्फुरति यत्र समस्तमिदं विश्वं परमानन्दसागरे गलति तन्मयी-
भवति । तत्तथाविधमिदं वस्तु मह्यं सदा दिश प्रयच्छ । यथा
निससमावेशानन्दघन एव भवामि इति शिवम् ॥ २६ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ स्वबलनिदेशनाभिधाने
पञ्चमस्तोत्रे श्रीक्षेमराजकता विवृतिः ॥
ॐ तत्सत् ॐ
क्षणमात्रमपीशान वियुक्तस्य त्वया मम ।
निबिडं तप्यमानस्य सदा भूया दृशः पदम् ॥३॥
क्षणमात्रमिति।व्युत्थानरूपे क्षणमात्रवियोगे । गाढानुराग-
वैवश्यान्निविडमसर्थ तप्यमानस्य स्वयमेव सन्तापमनुभावयतो
न तु विषयविवशस्य । मम सदा दृशो ज्ञानस्य । पदं भूयाः
परिस्फुरेसर्थः ॥ १ ॥
वियोगसारे संसारे प्रियेण प्रभुणा त्वया ।
अवियुक्तः सदैव स्यां जगताऽपि वियोजितः ॥२॥
शिवस्तोत्रावल्याम् वियोगेति । अवियुक्तः समाविष्ट । जगता क्षिसादिशि- वान्तेन विश्वेनापि वियोजितो विश्लेषितः । समावेशे च विश्व प्रसस्तमयो वस्तुतो भवसेव ॥ २॥ कायवाअनसै यत्र यामि सर्वं त्वमेव तत् । इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा ॥३॥ कायेति । यत्र विषये त्वमेव तदिति चिदेकसारत्वात् इयेष परमार्थ इति “यत्र यत्रे" त्युपक्रम्य "सर्व शिवमयं यत" इसा- नातत्वात् । परिपूर्ण इति समावेशेन साक्षात्कृतः ॥ ३ ॥ निर्विकल्पो महानन्दपूर्णो यद्भवास्तथा । भवत्स्तुतिकरी भूयादनुरूपैव वामम ॥ ४ ॥ निर्विकल्प इति । निर्विकल्पः शुद्धचिद्रूपः । तथेति निर्वि- कल्पा महानन्दमयी च । अत एव स्तुसे समुचितत्वादनुरूपा॥४॥ भवदावेशतः पश्यन् भावं भावं भवन्मयम् । विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥ ५॥ भवदिनि ।भावं भावमिति वीप्सया विश्वाक्षेपः । निराकार इति विशेषणद्वारको हेतुः प्रहर्षेसादिः। प्रकृष्टेन महानन्दात्मना हर्षेण परिपूरितत्वादेव हि निराकाङ्क्षता भवति ॥ ५ भगवन्भवता पूर्ण पश्येयमखिलं जगत् । तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे ॥६॥ भगवन्निति । भवतश्चिन्मयस्य सम्बन्धितया प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्पश्चेति स्थियाऽखिलं जगत् पूर्ण पश्येयम् । भवता पूर्णमितिपाठे तु स्पष्टोऽर्थः। सन्तुष्टः अध्वविस्फुरणाण्यं षष्ठं स्तोत्रम् । परमानन्दमयीं प्रीतिमितः। अतो हेतोर्न परिखिद्यसे, हे भगवन् चिद्रूपस्वात्मन्, अणिमादिप्रार्थनाभि न व्याकुलीक्रियसे इसर्थः ॥ ६॥ विलीयमानास्त्वय्येव व्योनि मेघलवा इव । भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः॥७॥ विलीयमाना इति । यत एवोल्ल.सताः तत्र त्वय्येव क्रमाक्रम संस्कारशेषतया विगलन्ते । यथा व्योम्नि मेघलवा । ते हि तत एव प्रमृतास्तत्रैर विलीयन्ते । शश्वत्सदा, क्रमेण नैर्मल्यं शुद्धचिद्रूपत्वं गच्छन्ति तच्छीला इसनेन चिदात्मतैव तेषां तात्त्विकं रूपमिति ध्वनति ॥ ७ ॥ स्वप्रभाप्रसरध्वस्तपर्यन्तध्वान्तसन्ततिः । सन्ततं भातु मे कोऽपि भवमध्याद्भवन्माणः ॥८॥ स्वप्रभेति । भवमध्यात् विश्वस्य मध्यतः । कोऽपीति शुद्धचिद्रपः । भवानेव मणि सर्वाभिलाषपूरकत्वान्मम सन्ततम- व्युत्थानं कृत्वा भातु समावेशेन स्फुरतु । स्वप्रभाप्रसरेण निज- रश्मिपरिस्पन्देन ध्वस्ता पर्यन्ता ध्वान्तसन्ततिरख्यातिप्र- त्तिर्येन ॥ ८॥ का भूमिकां नाधिशेषे किं तत्स्याद्यन्न श्रान्तस्तेना प्रयासेन सर्वतस्त्वामवाप्नुयाम् ॥९॥ कामिति।श्रान्त इसप्रसभिज्ञातस्वरूपत्वाचिरं संसारेखिन्नः। त्वां चिद्रूपमपयासेन ध्यानपूजाद्यायाम विना । सर्वतो यतः कुतश्चिदवाप्नुयाम समावेशेन स्वीकुर्याम् । यत का भूमिकामव- स्थिति नाधिशेषे नाधितिष्ठसि । तद्वाह्यमान्तरं वा वस्तु किं यत्तव ते वपुः।
शिवस्तोत्रावल्याम
वपुः स्वरूपं न स्यात् ॥९॥
भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे ।
घटतामियति प्राप्ते कि नाथ न जितं मया ॥१०॥
भवदिति। अङ्गपरिष्वङ्ग परमसमावेशस्पर्शः। स्वेच्छया न
तु कादाचित्कत्वेन । कि न जितं सर्वोत्कृष्टेन मयैव स्थित-
मिसर्थः ॥१०॥
प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः।
कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे ॥११॥
प्रकटीति। अन्याभिरर्थनाभिर्याचनाभिः कदर्थना' व्याकु-
लताः तव चिद्रूपरस्य स्वात्मनः न कुर्मः, यतस्ताम्यन्तो गाढानु-
रागविवशाः त्वमिव चिद्रूपं न त्वन्यं कं चित्, मृगयामहे अन्वि-
ष्यामः, अतः प्रकटीभव प्रकाशस्वति शिवम् ॥११॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ अध्वविस्फुरणाख्ये
षष्ठे स्तोत्रे श्रीक्षेमराजविरचिता विवृति ॥ ६ ॥
ॐत्वय्यानन्दसरस्वति समरसतामेत्य नाथ मम चेतः।
परिहरतु सकृदियन्त भेदाधीनं महाऽनर्थम् ॥ १ ॥
त्वयीति।आनन्दसरस्वति हर्षसमुद्रे । समरसतां समावेशकै-
वल्यं । सकृदेकवारं । परिहरतु यथा न पुनर्भवतीसर्थ । इयन्तमप-
र्यन्तम् ॥१॥
एतन्मम नत्विदमिति रागद्वेषादि निगडदृढमूले ।
नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः ॥ २॥
विधुरविजयनामधेयं सप्तमं स्तोत्रम् । पतदिति । एतत्सुखं तहेतुरूपं मम अस्तु, इदं तु दुःखं तद्धे- तुरूपं मम माभूदियेवं भेदावग्रहरूपरागद्वेषाद्यात्मनो निगडस्य बन्धनस्य दृढे कठिने मूले अन्तर्मध्ये । भवन्मयतैक्ये प्रत्ययः चि- दैक्यमतीतिरेव परशुः कुठारः ॥२॥ गलतु विकल्पकलंकावली समुल्लसतु हृदिनिरर्गलता। भगवन्नानन्दरसप्लुताऽस्तु मे चिन्मयी मूर्तिः॥ ३ ॥ गलत्विति । विकल्पानां भेदभाधान्यात्कलङ्कता। निरर्गलता निःशङ्कता स्वातन्त्र्यं । मम चिन्मयी मूर्ति प्रमातृता आनन्दरस- प्लुता समावेशानन्दोच्छलिता अस्तु ॥ ३ ॥ रागादिमयभवाण्डक- लुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः । आप्याययतु रसैौ प्रवृद्धपक्षो यथा भवामि खगः॥ ४ ॥ रागादीति।रागादिमये भवाण्डके संसारगोलके । लुठितम- धोधः पतन्तं मां। त्वद्भक्तिभावनैवाम्बिका माता। तैस्तै परमान- न्दसारैः रसैराप्याययतु तर्पयतु । यया पद्धपक्षः प्रकर्षणासा- दितव्याप्तिज्ञानक्रियामयस्वात्मपक्षः। खगो निर्मलदिग्गगनगति- भवामि । अण्डलुठितश्च पक्षी मात्रा रसैराप्यायितः खे गच्छतीति श्लेषोपमावानः ॥ ४॥ त्वच्चरणभावनाऽमृत- रससारास्वादनैपुणं लभताम् ।
शिवस्तोत्रावल्याम्
चित्तमिदं निःशेषित-
विषयविषासङ्गवासनाऽवधि मे ॥५॥
त्वदिति। त्वच्चरणभावना त्वद्भक्तिचिन्ता, सैवामृतरससार
उत्कृष्टः आनन्दप्रसरः, तत्र आस्वादे चमत्कारे, नैपुणं वैदग्भ्यं,
ममेदं चित्तं लभताम् । कीदृशम्-निःशेषित समाप्तो विषयविषासं-
गवासनानां वेद्यहालाहलव्यसनसंस्काराणामवधिर्मर्यादा येन॥५॥
त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष दूरतरम् ।
चेतोमणिविमुञ्चतु रागादिकतप्तवन्हिकणान् ॥६॥
त्वदिति। मम चेतोमणिरौचिसाच्चित्तसूर्यकान्तरत्नं, त्वद्भ-
क्तितपनदीधितिसंस्पर्शवशाद्भवत्समावेशसूर्यकरासङ्गात्, रागा-
दिकानेव तप्तवन्हिकणान् द्रष्टुमशक्यान् स्फुलिङ्गान, दूरतर-
रमसर्थ, मुञ्चतु जहातु ॥ ६॥
तस्मिन्पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः ।
हरिहर्यश्वविरिचा अपि यत्र बहिः प्रतीक्षन्ते॥७॥
तस्मिन्निति । तस्मिन्नत्युच्चैः पदे परशक्तिमार्गे त्वामुपश्लो-
कयेयं श्लोकैः स्तवेयं सम्यक् परामृशेयम् । हर्यश्वः इन्द्रः। बहिः
प्रतीक्षन्ते । लिप्सवोऽपि वार्तानभिज्ञा इति यावत् ॥ ७ ॥
भक्तिमदजनितविभ्रम-
वशेन पश्येयमविकलं करणैः ।
शिवमयमखिलं लोकं
क्रियाश्च पूजामयीः सकलाः॥८॥
विधुरविजयनामधेय सप्तमं स्तोत्रम् । भक्तीति । भक्तिमदेन समावेशमहर्षेण जनितो यो विभ्रमो लोकोत्तरो विलासस्तदशेन। करणैश्चक्षुरादिभिः । अविकलं पूर्ण कृत्वा । करणप्रमरात्मनि व्युत्थानेऽपि श्रीभैरवीयमुद्राप्रवेशयुक्त्या समाविष्ट एव भूत्वाऽखिलं लोकं विश्वं लोकं शिवमयं, क्रियाश्च वामनःकायव्यापृती सकला पूजामयीश्चिन्मयस्वरूपोल्लास- रूपाः पश्येयम् ॥८॥ मामकमनोगृहीत- त्वद्भक्तिकुलाङ्गनाऽणिमादिसुतान् । सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम् ॥ ६॥ मामक इति। मामकेन मनसा गृहीता पाणेशत्वेन स्वीकृता येयं भक्तिरेव अतिस्पृहणीयत्वात्सर्वजनागोचरत्वाच्च कुलाङ्ग- ना पत्री, अथ च आगमभाषया कुलेश्वरीरूपा। साआणिमादीनेव मुतान् सूत्वा, अन्तः स्थितानेव अभिव्यक्ति नीत्वा, महाव्याप्सा मुस्फुटतया परामृश्य, मुष्टु बद्धमूला प्ररूढा सती, मम इयद्विश्वं न तु अन्यस्योत बुद्धिं दृढीकुरुतां प्ररूढिं नयतु । अत्र च अभेदसारा अणिमादयोऽभिप्रेताः। तथाहि चित्पद एव स चान्तर्भावक्षमत्वादणिमा। व्यापकत्वान्महिमा ।भेदमयगौरवा- भावाल्लधिमा । विश्रान्तिस्थानत्वात्माप्ति । विश्ववैचित्र्यग्रहणा- प्राकाम्यं । अखण्डितत्वादीशित्वं । सर्वसहत्वायत्रकामावसायित्वं च । ससतः परिपूर्णतया विद्यते,ऽन्यत्र तु त्वत्प्रसादादतिपरिमित मितिकृता पूर्णमेवात्र तदभिहितं, न वन्यत्, पूर्णत्वेन नैराका यात् । “आसतां तावदन्यानि दैन्यानी"त्युक्ते व्याघातप- ५२ शिवस्तोत्रावल्याम् सनाच । एवमुत्तरत्रापि स्मर्तव्यमिति शिवम* ॥९॥ इति श्रीमदाचार्योत्पलविरचिताया स्तोत्रावली विधुरविजय- नामधेये सप्तमस्तोत्रे श्रीक्षेमराजकृता विवृति ॥ ॐ यः प्रसादलव ईश्वरस्थितो या च भक्तिरिव मामुपेयुषी। तौ परस्परसमन्वितौ कदा तादृशे वपुषि रूढिमेष्यतः ॥ १ ॥ यइति । मायाकालुष्योपशान्सां चितो नैर्मल्यं प्रसादः। तस्य लवः अल्पता। पूर्णतायां तु देहापगमाच्छिवतैव । इश्वर इति सप्तम्यनन्यभावे । ईश्वरे एव स्थितइयर्थः स एव हि चिद्रूपः तथा स्वयमेव मसीदति भक्तिप्रसादात् । ईश्वरस्य रूपोपमाव्य- मत्वम् । इवशब्दो भक्ते परिमिततामाह । काष्ठाप्राप्ता बसौ मोक्षास्वादमय्येव। उपेयुषी उपगतवती । तौ भक्तिमसादौ परस्परं सम्यगन्वितौ तरुणाविव प्रेमनिर्भरतया स्वानुरूप्येण सम्बद्धौ । तादृशे वपुषीति परानन्दघनतैकमये पूर्णे स्वरूपे । कर्डि विश्रान्तिम् ॥१॥ *स्फुटार्यस्त्वयमेव प्रतिभाति यथा-कुलाङ्गनायां कुलवत्यां सत्यां पन्यां पुत्रवत्यां माताथा यया पत्युममता दृढ़तरा भवति तथा स्वभावतो न तु मदिन्छया प्रसूताणिमा- विकायां भक्त्या मम घेतसो ममता सुदृढ़ा भवतु मम मनास तव भक्ति परा स्थिरता लभतामिति यावत् । भस्य पद्यस्य भक्तिवा तात्पर्य्यमिति शिवम् ।। + यः प्रसादको मविषयक ईश्वरे स्थित । ईश्वरप्रसारकणिका विनाभल्पीयस्था भपि भक्तरसम्भवात्। या च भक्तिरिव, अपूर्णवाद भक्त्याभासो, माय स्थिता । ईश्वर- प्रसादकणिकैव गाणभक्तिरूपेणया मा प्राप्तवतीत्यर्थ । ते इमे प्रसादभक्ती परस्पर वर्च- बन्यो का पूर्णस्वरूपलाभात् परमानन्दकवपषि परिणति गमिष्यत इति स्पष्टोऽर्थः ।
। अलौकिकोदुलनात्यमष्टम स्तोत्रम् । त्वत्प्रभुत्वपरिचर्वणजन्मा कोप्युदेतु परिपोषरसोऽन्तः। सर्वकालमिह मे परमस्तु ज्ञानयोगमहिमादि विदूरे ॥ २॥ त्वदिति । त्वत्मभुत्वस्य त्वत्स्वामिकत्वस्य "गामि वतति" प्रागुक्तश्लोकयुक्त्या यत्परिचर्वर्ण ततो जन्म यस्य । मम कोप्यलौकिकः परितोषरस आनन्दप्रसरः । इहेति जगति । सर्वकालं पुस्थानावसरे ऽपि । परं केवलमुदेतु उल्लसतु । ज्ञानं विश्वमयस्वात्मप्रतिपत्तिः । योगस्तत्तद्भूमिकालाभः । तयोमहिमा प्रकर्षः । आदिपदात्तत्सिद्धयुदयरूप' फलम् ॥ २ ॥ लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः। केवलं तव शरीरतयैतान् लोकयेयमहमस्तविकल्पः॥ ३ ॥ लोकवदिति । महार्थमुद्रामुद्रितस्योक्तिः। हे भगवन् मम लोकस्येव विषयेषु रूपादिषु स्फीतो बहल एव परितर्षः स्पृहयालुता अस्तु । किं तु एतान्विषयानहं अस्तविकल्पो गलितभेदमतिपत्ति सन्, तव चिदात्मनः शरीरतया अहंता- सारत्वेन, लोकयेयं पश्येयम् ॥ ३ ॥ देहभूमिषु तथा मनसि त्वं प्राणवमनि च भेदमुपेते।
शिवस्तोत्रावल्याम्
संविदः पथिषु तेषु च तेन
स्वात्मना मम भव स्फुटरूपः॥४॥
देहभूमिषु इति । जरामरणाद्यवस्थासु । मनसि कल्पनासारे।
माणवर्त्मनिदुःखसुखादिस्पर्शमये । संविद पथिषु नीलादिज्ञानेषु।
तेषु इति विचित्रेषु । भेदमुपेते इति नपुंसकशेषः । सर्वस्मिन्नस्मि-
भिहिते प्रकारे भेदमये सतीति यावत् । तेनेति स्वात्मनि
चमत्कृतेन । चिद्धनेन स्वात्मना स्वरूपेण । मम स्फुटरूपः
स्वप्राधान्येन स्फुरन् भव ॥ ४ ॥
निजनिजेषु पदेषु पतन्त्विमाः
करणवृत्तय उल्लसिता मम ।
क्षणमपीर्श मनागपि मैव भृत्
त्वदविभेदरसक्षतिसाहसम् ॥ ५॥
निजेति । इमाः मम करणवृत्तयश्चक्षुरादिसंविद्देव्यः । उल्ल-
सिताः अलौकिकेन निजौजसा सोल्लासा । स्वेषु स्वेषु रूपादिषु
विषयेषु प्रसरन्तु । त्वदविभेदरसक्षतिः समावेशच्युति सैव
साहसमविमृश्यकारिता मैवाभूत् । सर्वत्र विषयेषु परि-
तर्षः आकाङ्क्षा । इह तु तत्र संविदाम्पसर इति विशेष ॥ ५ ॥
लघुममृणसिताच्छशीतलं
भवदावेशवशेन भावयन् ।
वपुरखिलपदार्थपद्धते-
यवहारानतिवर्तयेय तान् ॥ ६॥
५५ अलौकिकोदलनाख्यमष्टमं स्तोत्रम् । लविति । भवदावेशवशेन मायीयगुरुत्वहान्या लघु, मुखस्पर्शत्वान्ममृणं, प्रकाशघनत्वात्सितं, अच्छं शीतलं चेति प्राग्वत, भावयन् सम्पादयन्, निखिलायाः पदार्थपद्धतेः मातृ- मेयराशे सम्बन्धिनो व्यवहारान् लौकिकान् परिस्पन्दान, अतिवर्तयेय निवर्तयेय ॥ ६ ॥ विकसतु स्ववपुर्भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम् । व्रजतु सर्वमिदं द्वयवल्गितं स्मृतिपथोपगमेप्यनुपाख्यताम् ॥ ७ ॥ विकसत्विति।स्वं चिन्मय भवदात्मकं, वपुः स्वरूपं, विक- सतु । अत एव जगन्ति धरादिसदाशिवान्तानि । मम अद्भता- मभिन्नता, सम्यक् अपुनरुत्थानेनोपयान्तु । ततश्च सर्व द्वयवल्गित भेदविजृम्भितं, स्मृतिपथोपगमे अनुपाख्यतां स्मृतेविषयतां, व्रजतु ॥७॥ समुदियादपि तादृशतावका- ननविलोकपरामृतसंप्लवः। मम घटेत यथा भवदद्वया- प्रथनघोरदरीपरिपूरणम् ॥ ८॥ समुदियादिति । भवदद्वयाप्रथनं चिदैक्यामथा, सैव घोरा दुष्पूरा संसारभयप्रदा दरी खदा, तस्याः परिपूरणम् चिदै- क्यसाक्षात्कार, मम यथा घटेत तथा तादृशं, परमानन्दनदी- प्रसरहेतु यत्तावकमाननं शैवीमुखमियादि स्थिया परशक्ति- शिवस्तोत्रावल्याम् रूपं, तेन यो विलोको, विलोकने अनुग्रह', तस्य वा विलोकः स्मरणं, स एव परामृतसंप्लवः परस्पर्शरसौषोऽपि समुदिया- दिति रुद्रशक्तिसमावेशप्रकर्षमाशास्ते ॥ ८॥ अपि कदा चन तावकसङ्गन्मा- ऽमृतकणाच्छुरणेन तनीयसा । सकललोकसुखेषु पराङ्मुखो न भवितास्म्युभयच्युत एव किम् ॥ ९ ॥ अपीति । तावकसङ्गमस्त्वत्समावेश एवामृतकणाच्छुरणं सुधाशीकराप्लावः । तनीयसा पसरनिर्मलस्वरूपेण । सकलेषु लौकिकेषु मुखेषु, “सर्वदुःखं विवेकिन" इति स्थिया हेयेष्वपि परामृताच्छुरितत्वात्पराङ्मुखो न भवितास्मि संमुख एव भवि- ध्यामि। कीदृक्-उभयस्माद्वैताच्च्युत एव, हेयोपादेयहान्या सर्व- मभेदेन पश्यनिसर्थः * ॥९॥ * नेय व्याख्या विचारकाणां हदय गच्छति । तयाहि लौकिकमुखेषु सम्मुखीभा. यो नेष्यते शिवावेशपरमामृतकणदिग्धेनाऽपि । तादृशप्रवृत्ते प्राकृतजनस्यैव स्वभावास- अस्वात् । न चोभयशब्दो वैते रूद , तस्य निर्दिष्टवस्तुयबोधकत्वात्, द्वैतशब्दस्य च ब्रह्मातिरिक्तनिखिलप्रपञ्चबोधने प्रसिद्धस्वात् । “उभयस्माताच्युत" इति विशेषण- च निरस्त तदर्शने पुरुषे नैव कञ्चिदपि सङ्गच्छते, च्युत इति विशेषणस्योत्तमप- सापतित एव प्रयोगौचित्यात्, विधूतहते परमपदारूढे प्रयोगायोगाच । काको किमिति परस्य पद्यान्ते पठितस्योपेक्षा च दृश्यते । कोऽयस्तर्हि पद्यस्यास्थेत्याकाङ्क्षा- थामुच्यते । परमशिवैक्यध्यानानन्दमविच्छिन्न लन्धुकामस्य भक्तस्य स्तोत्रकृतो व्युत्या. नदशायां विषयसुखलशेच्छयाऽपि कञ्चिदुस्पनया तप्यमानस्य विलपितमेतत् । सावकसङ्गम एव त्वरसमावेश एवाऽमृत, तत्कणस्य तनीयसाऽपि भाछुरणन सूक्ष्म- जाप्यभ्युक्षणेन तामाभूखेतिशेष । अपि कदाचन सकललोकमुखषु पराङ्मुखो न भवितास्मि कि, सकलवैषयिकसुखानि कदाचिन्नहास्यामि किम् । किमिति काका नैवेद्यवैराग्य व्यज्यते । तया च श्रीशङ्कराचार्य्यस्वामिकृतशतश्लोक्याम् नैवैद्य ज्ञानगर्भ विविधमभिहित तत्र वैराग्यमाघ । प्रायोदुःखावलोकाद्भवति गृहसुहृतपुत्रवित्तषणा- देरित्यादि (१५)। सम्प्रत्यह कीडश शेवमार्गात लौकिकपरच्याश्चच्युत एवेति शिवम् ।
उपयान्तु विभो
अलौकिकोदलनाख्यमष्टमं स्तोत्रम् । ५७
सततमेव भवच्चरणाम्बुजा-
करचरस्य हि हंसवरस्य मे।
उपरि मूलतलादपि चान्तरा-
दुपनमत्वज भक्तिमृणालिका ॥ १० ॥
सततमिति । मम हंसवरस्य भेदाभेदयोः हानसमादान-
धर्मिणो, व्याख्यातदृशा सततमेव भवच्चरणाम्बुजमाकर उत्प-
त्तिस्थानं पराशक्तिभूस्तत्र विचारिणः । भक्तिरेव मृणालिका
बिसाङ्कुरः । उपनमतु उपभोग्यमस्तु । उपरीयादि प्रवेशमध्य-
विश्रान्तिभूमिभ्यः सर्वाभ्य एवेसर्थः । हंस आत्मा ॥ १० ॥
समस्तवस्तू-
न्यपिचिन्ताविषयं दृशः पदं च।
मम दर्शनचिन्तनप्रकाशा-
ऽमृतसाराणि परं परिस्फुरन्तु ॥ ११ ॥
उपयान्तु इति । चिन्ताविषयं कल्पन्ताम् । दृश पदं साक्षा-
कार्यत्वात् । दर्शनचिन्तनयोरविकल्पसविकल्पयोः । प्रकाशा-
मृतं बोधरसायनमेव सारमुत्कृष्टं रूपं येषां । तानि हेयोपादेय-
कलङ्कशून्यानि समस्तानि वस्तूनि । परं केवलं । परितः सम-
न्तात् स्फुरन्तु ॥ ११ ॥
परमेश्वर तेषु तेषु कृच्छ्रे-
ष्वपि नामोपनमत्स्वहं भवेयम् ।
न परं गतभीस्त्वदङ्गसङ्गादु-
पजाताधिकसम्मदोऽपि यावत् ॥ १२ ॥
शिवस्तोत्रावल्याम् परमेश्वरेति । कृच्छ्रेषु केवलेषु केवलमहं गतभी सक्त- भयस्त्वदङ्गसङ्गात् रुद्रशक्तिसमावेशात, यावदुपजातः अधिक: प्रकृष्ट सम्मदो हर्षो यस्य तादृगपि भवेयम् । अधिकशब्दस्या- यमाशयः । यत् तत्तदु खेष्वप्युदितेष्वविलुप्तस्थितिः ॥ १२ ॥ भवदात्मनि विश्वमुम्भितं यद्भवतैवाऽपि बहिः प्रकाश्यते तत् । इति यदृढनिश्चयोपजुष्टं तदिदानी स्फुटमेव भासताम् ॥ १३ ॥ भवदिति । यद्विश्वं व्योमकलातः कालानलान्तं भवदा- स्मनि भतं त्वञ्चित्सूत्रमोतं, तद्भवतैव न तु अन्येन । बहिरिति तत्पमात्रपेक्षया बाह्यत्वेन प्रकाश्यते । अपिशब्दो बहिःप्रकाश- नेऽपि अन्त प्रकाशाविरहमाह । इति यद्वस्तु वाक्यार्थरूपं हढेन निश्चयेन उप आत्मसमीपे, जुष्टं पीसा सेवितं समावेशेना- स्वादित, तदिदानीमिति व्युत्थानेऽपि, स्फुटमेव भासताम् प्रस- क्षीभवतु इति शिवम् ॥ १३ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलावलौकिकोद्बल ननामाष्टमस्तोत्रे श्रीक्षेमराजकृताविवृति. ॥ ॐ तत्सत् । कदा नवरसाई- सम्भोगास्वादनोत्सुकम् । प्रवर्तेत विहायान्यन्- मम त्वत्स्पर्शने मनः॥१॥ कदेति । नवरसेन नूतनभक्तिमसरेण, आर्दः सातिशयं स्पृहणीयो या समावेशात्या सम्भोगः, तदास्वादे उत्सुकं स्वातन्त्र्यविजयाख्यं नवम स्तोत्रम् । सोत्कण्ठं, मम मना, अन्यत् कल्पनाजालं, विहाय त्वत्स्पर्शने प्रवर्तत त्वत्समावेशमयं भवेत् ॥ १॥ त्वदेकरक्तस्त्वत्पादपूजामात्रमहाधनः । कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः ॥२॥ त्वदिति । त्वय्येवैकत्र न तु विभूतिषु रक्तः, अत एव त्वत्पादपूजामात्रं त्वन्मरीचिसपर्यैव महत् स्फीतं धनं यस्य । "प्रमा समाप्तोत्सव" मितिस्थिया क्षणमात्रमपि व्युत्थानमस- हमानः उत्सुकः सन् कदा त्वां साक्षात्करिष्यामि ॥२॥ गाढानुरागवशतो निरपेक्षीभूतमानसोऽस्मि कदा । पटपटितिविघटिताखिल- महार्गलस्त्वामुपेष्यामि॥३॥ गाढेति । निरपेक्षीभूतमुच्चारकरणध्यानाद्यन्तर्मुखं तत्सर्व परिहरत् मानसं यस्य स तथाविधः । कदा त्वामुपेष्यामि ऐकध्येन प्राप्स्यामि । कोहक-पटपट इति विघटितानि झटिति त्रुटितानि, अखिलानि मायीयान्यर्गलानि अविद्यादिपा शा यस्य । पटपटितीसाधुत्त्या अपुनरुत्थानं त्रुटितपाशा- न्तरसाधर्म्यमुक्तम् ॥ ३ ॥ खसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः । कदा नाथ वशीकुया भवद्भक्तिप्रभावतः ॥ ४ ॥ स्वसंविदिति । स्ववित्सारं प्रकाशविमर्शात्मक हृदयमधि- धानमाश्रयो यासान्ताः, सर्वाः ब्राह्मयादिकाः देवता, "या- भिशक्तिचक्रस्य भोग्यतां गत" इति स्थिया पशवः पाशिताः।
शिवस्तोत्रावल्याम ताः कदा भवद्भक्तेः समावेशात्मन प्रभावादशीकुर्यां तच्चकै- श्वर्य प्राप्नुयामिति यावत् ॥ ४ ॥ कदा मे स्याद्विभो भूरि भक्त्याऽऽनन्दरसोत्सवः । यदाऽऽलोकसुखाऽऽनन्दी पृथङ्गामापि लप्स्यते॥५॥ कदेति । भूरि प्रभूत । उत्सवोत्त्या अतिस्पृहणीयत्वात्तदे- कव्यग्रमात्मानमाशास्ते । पृथङ्गामेसनेन परं सामरस्य सूच- यति ॥५॥ ईश्वरमभयमुदारं पूर्णमकारणमपन्हुतात्मानम्। सहसाऽभिज्ञाय कदा स्वामिजन लजयिष्यामि ॥६॥ ईश्वरमिति । अशेषविभूयास्पदत्वादीश्वरम् । अप्रतियो- गित्वादभयम् । सर्वप्रदत्वादुदारम् । निराकाङ्क्षत्वात्पूर्णम् । निसत्वादकारणम् । अथ च अकारणं निनिमित्तमेव जगद्रप- ताग्रहणे स्वरूपगोपनसारत्वादपन्हुतात्मानम् । यो हि अनीश्व- रादिरूपः स गोपायतामात्मानं भगवांस्तु नैव । अथ च गोपि- तात्मैवेति । ईदृशं स्वामिजनं निजप्रभु, सहसेति शाम्भवावेशयु- तया, कदाऽभिज्ञाय साक्षात्कृस, लज्जयिष्यामि । अपन्हुतिप्रधा- नतद्रूपगुणीकारेण पूर्णचिदेकरूपतयैव प्रथेयेसर्थः॥६॥ कदा कामपि तां नाथ तव वल्लभतामियाम् । यथा मां प्रति न क्वापि युक्तं ते स्यात्पलायितुम् ॥७॥ कदेति । तव वल्लभतामित्युक्त्या इदमाह-मम तावदसन्त- वल्लभोसि, तव तु अहमलौकिकभक्तिमकर्षात्कदा कामप्य-
स्वातव्यविजयाख्यं नवमं स्तोत्रम् ।
सामान्यां, प्रसादपात्रतां प्राप्नुयां, यया वल्लभतया मां प्रति
सदा आभिमुख्येन तव न कापि पलायितुं स्वात्मान गोपायि-
तुं युक्तं स्यात् । सततमेवान्तराविश्य तिष्ठेरिसर्थः ॥ ७ ॥
तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम् ।
दृष्ट्याऽनुमोदितरसाऽऽप्लावितः स्यां कदा विभो ॥८
तत्वत इति । सर्वे जन्तवः परमार्थतो यत्किञ्चित्कुर्वाणाः
स्वात्मदेवताविश्रान्तिसारभवत्पूजामयाः । एतेषां सम्बन्धि-
न्या तत्वतो दृष्टया, त्वदनुग्रहमहिमोक्तेन स्वात्ममयभिज्ञानेन
हेतुना, तैरेवानुमोदित श्लाघितो यो रसो भत्त्यानन्दमसर-
स्तेन आप्लावितो व्याप्तः कदा स्याम् । तत्त्वत उसासा यो-
ज्यम् । अथ वा अशेषजन्तूनामिति कर्मणि षष्ठी । ततश्चायम-
र्थः । कदा अशेषजन्तून् तत्त्वतो भवत्पूजामयान् दृष्ट्वा अनुमो-
दनरसेन आनन्दप्रसरेणाप्लावितः स्यामिति । अत्रानुमोदित
इति भावेक्तः । उभयत्रापि व्याख्याने मत्सम' सर्वोस्त्विसाशं-
सातात्पर्यम् ॥ ८॥
ज्ञानस्य परमा भूमिर्योगस्य परमा दशा ।
त्वद्भक्तिर्या विभो कर्हि पूर्णा मे स्यात्नदर्थिता ॥९॥
ज्ञानस्येति । सर्वशास्त्रेषु ज्ञानं मुक्तिहेतुत्वेनोक्तं, मुक्तेश्च
समावेशसतत्वतयैव व्यवस्थापनात्, तद्रूपा या भक्तिः ज्ञानस्य
परमा भूः । “योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुने" सा-
गमलक्षितस्य विचित्रममावेशात्मनो योगस्य परचैतन्यभैरवैक्या-
पत्तिरूपा दशा च या त्वद्भक्तिः, तदथिता कदा कहिं पूर्णा
कृतकृया स्यात् ॥ ९ ॥
शिवस्तोत्रावल्याम
सहसैवासाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम्
त्वचरणवरनिधानं सर्वस्य प्रकटयिष्यामि ॥१०॥
सहसैवेति । झटिति प्रतिभाविकासेन, आसाद्य आसमन्ता-
व स्वात्मसम्भोगपात्रीकृस, तथा गाढमवष्टभ्य व्युत्थानपरिक्ष-
यार्थ प्रयनेनात्मीकृस, तत एव हर्षविवशः परमानन्दनिर्भरोऽहं,
कदा त्वचरणवरनिधानं समस्तसम्पन्मयं भवत्परशक्तिनिधि,
सर्वस्य प्रकटयिष्यामि, छन्नतयान्तःस्थितमपि सूचितोपदे-
शायुक्त्या उन्मुद्रयिष्यामि । परप्रतिभाबलमयत्रावष्टम्भपूर्वमनुग्र-
हावलोकनादिकं यत्समावेशसंक्रमोपदेशे तत्त्वं, तत्परमसर्वानु-
ग्रहसमर्थ स्यादिसर्थः । अनेन स्वात्मनः पूर्णत्वाद्विश्वजनानुजि-
घृक्षापरतां सूचयति ॥ १० ॥
परितः प्रसरच्छुद्धत्वदालोकमयः कदा ।
स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत्॥११
परित इति । परितः समन्तात् शुद्धोऽद्वयरूपो यस्त्वदा-
लोकश्चित्प्रकाशः तन्मय. कदा स्याम् । यथा मायाछायाबिल-
मद्वयाख्यातिकुहरं मम न किञ्चिद्भवेत् न किञ्चिच्छिष्येत ।
छायाशब्देन मायाबिलस्यावास्तवतामाह । मायाछाययाऽऽविलं
कलुषं न किंचिदिति वा योज्यम् ॥ ११ ॥
अात्मसात्कृतनिःशेषमण्डलो नियंपेक्षकः ।
कदा भवेयं भगवंस्त्वद्भक्तगणनायकः ॥१२॥
आत्मेति । आत्मसात्कृतानि चिदैकध्यमापितानि निःशे-
पाणि सदाशिवादिक्षिसन्तानि मण्डलानि भुवनानि येन । नि-
यंपेक्षकः अद्वितीयः । त्वद्भक्तगणनायकः प्रधानं कदा
स्याम् ॥ १२॥
स्वातन्त्र्यविजयाख्यं नवम स्तोत्रम् ।
नाथ लोकाभिमानानामपूर्वं त्वं निबन्धनम् ।
महाभिमानः कहि स्यां त्वद्भक्तिरसपूरितः ॥१३॥
नाथेति । “स्रष्टास्मि स्थापयितास्मि संहर्तास्मि तथा
पण्डित. शूरो यज्ञवानस्मि" इति नानाविधानां रुद्रक्षेत्रज्ञाभि-
मानानां त्वमेव चिद्रूपो निबन्धनं कारणम् । अपूर्व निनिमित्तं
कृत्वा स्वस्वातन्त्र्येणैवेति यावत् । वस्तुतो हि तवैव सर्वक-
र्तृत्वान्न ब्रह्मादीनां स्रष्टत्वादि न वा पाण्डियादि कस्य चित् ।
केवलं त्वमेव तत्र तत्र तथाभिमानमुत्थापयसि । यथा चैवं तथा
कर्हि कदा त्वदिच्छात एव महाभिमानो विश्वात्मा चिदानन्दध-
नः शिव एवास्मीति दृढोत्साहावष्टंभो भक्तिरसेन पूरितो व्या-
सः स्याम् । भक्तिरसपूरित इति वदतो ऽयमाशयः यदासादित-
महाभिमानस्यापि समावेशास्वादमयः प्रभुविषमे दासभाव ए-
वोचितः ॥ १३ ॥
अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः ।
शयीयमिव शीतात्रिकुशेशययुगे कदा ॥१४॥
अशेषेति । शीताशिकमलयुगे माग्वत् शयीयं विश्राम्याम्
कीहक्-अशेपविषयाशुन्या विश्वनिर्भरा येयं श्रीभक्तिलक्ष्मी
तत्कृतेन समाश्लेषेण दृढावष्टम्भेन सुस्थित । काव्यार्थः स्पष्टः॥१४॥
भक्त्यासवसमृदायास्त्वत्पूजाभोगसम्पदः ।
कदा पारं गमिष्यामि भविष्यामि कदा कृती॥१५॥
भत्त्यासवेति. भत्त्यासवेन सेवारसेन, समृद्धा स्फीता या
त्वत्पूजाभोगसम्पत् समावेशविश्रान्तिश्रीः, तस्याः पारं प्रान्त-
कोटि कदा गमिष्यामि, अत एव कदा कृतार्थः स्याम् ॥१५॥
शिवस्तोत्रावल्याम आनन्दबाष्पपूर- स्खलितपरिभ्रान्तगद्गदाकन्दः । हासोल्लसितवदन- स्त्वत्स्पर्शरसं कदाऽऽप्स्यामि ॥ १६ ॥ आनन्देति । चिरव्युत्थानान्तरितां समावेशदशामेवाका- कति । आनन्दवाष्यपूरेण अन्तः समावेशहर्षावेशविसरदश्रुस- न्तसा, सखीलतः अस्थानप्रतिहतः, परिभ्रान्तश्विरमनुरणन्, गदादः अस्पष्टाक्षरः, आक्रन्दो महानारवो यस्य । हासेन वि- कासेनोल्लसितं वदनं शक्तिमार्गो यस्य । अत एव हासेनोल्ल- सितं व्यात्तं शोभितं च वक्रं यस्य ॥ १६ ॥ पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो। प्रासादयेय तावकभक्तोचितमात्मनो रूपम् ॥१७॥ पश्चिति । व्युत्थानपतितभेदमयीमिमामिति स्फुटं भान्ती दशामवधूय निवार्य, अथच समावेशप्रसरत्सर्वागावधूननेना- भिभूय, तावकभक्तोचितं निसोदितपरमानन्दमयमात्मनो, न तु अन्यस्य कस्यचिद्, रूपं स्वरूपं, कदा आस्वादयेय चमत्कुर्याम् ॥ १७ ॥ लब्धाऽणिमादिसिद्धि- विगलितसकलोपतापसन्त्रासः । त्वद्भक्तिरसायनपान- क्रीड़ानिष्ठः कदाऽऽसीय ॥ १८॥ लब्धेति । अणिमादिसिद्धिः प्राग्वदभेदमयी । अत एव विगलितः शान्त उपतापः सन्त्रासश्च यस्य । ब्रह्मादीनान्तु ६५ अविच्छेदभङ्गाख्यं दशम स्तोत्रम् । भेदमयाणिमादियोगेऽपि मरणादित्रामस्यावश्यंभावात् । तथा- भूतोऽपि त्वगत्यमृतपानप्रमोदपरः स्याम् ॥ १८ ॥ नाथ कदा स तथाविध अाक्रन्दो मम समुच्चरेद्वाचि । यत्समनन्तरमेव स्फुरति पुरस्तावकी मूर्ति ॥ १६ ॥ नाथेति । चिरव्युत्थितस्योक्तिः । स तथाविध इति वक्तु- मशक्यः । आक्रन्दो महानाद समुच्चरेत् स्वयमेवोल्लसेत् । स्फुरति समावेशेन दीप्यते मूर्तिः स्वयम् ॥ १९ ॥ गाढगाढभवदनिसरोजा- लिङनव्यसनतत्परचेताः। वस्त्ववस्त्विदमयत्नत एव त्वां कदा समवलोकयितास्मि ॥ २० ॥ गाढेति । वीप्सया व्यसनतत्परशब्दाभ्यां च भक्तिमकर्ष- वैवश्यमाह । वस्त्ववस्त्विदमिति भावाभावरूपं विश्वम्, अयत्नत एव ध्यानजपादि विना, त्वामपि त्वद्रूपं सम्यक् तत्त्वतोऽवलो- कयितास्मि द्रक्ष्यामि इति शिवम् ॥ २० ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ स्वातन्त्र्यविजयना- मधेये नवमे स्तोत्रे श्रीक्षेमराजकता विवृतिः ॥ ९ ॥ ॐ न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् । माहेश्वराश्च लोकानामितरेषां समाश्चयत् ॥ १ ॥ नेति । माहेश्वराः विश्वेश्वरस्वरूपसमाविष्टाः, इतरेषां भेद-
शिवस्तोत्रायल्याम्
मयानां ब्रह्मादीनां समा इति इदं ते तव न सोढव्यं त्वयैवतन्न
समते स्वभावसिद्धमेवैतत् । यतस्त्वमेवैकः अद्वितीयो जगतः
प्रभुः । चकारौ विरोधहेतुमाहतु । इतरेषां लोकानां समा इति
तव न सोढुं युक्तमियन्ये ॥ १॥
ये सदैवानुरागेण भवत्पादानुगामिनः ।
यत्र तत्र गता भोगांस्ते कांश्चिदुपभुञ्जते ॥ २ ॥
य इति । अनुरागेण आसत्या, ये त्वन्मरीचिसंबद्धास्ते यत्र
तत्रेति सर्वावस्थास्थिताः कांश्चित्परानन्दमयान्भोगानुपभुञ्जते॥२
भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः।
तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी ॥३॥
भर्तेति । कालान्तक इसनेन महाकालसञ्चार्यमाणा सर्वा
रुजः कालग्रासिनि प्रभौ सति कुतः। मूलोच्छेदान्नैव भवन्तीय-
र्थः । इतरभोगाशा सदाशिवादिपदलक्ष्मीस्पृहा न का चित्
यत्र, भेदस्य प्रस्तत्वात् । लक्ष्मीरद्वयप्रकाशसम्पत् ॥ ३ ॥
क्षणमात्रसुखेनापि विभुयेनापि लभ्यसे ।
तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते ॥ ४
क्षणमात्रेति । येन भक्तेन क्षणमात्रेण समावेशस्पन्देन
हेतुना ऽपि त्वं लभ्यसे, अस्य भक्तस्य त्वया तदैवावसरे सर्वः
कालो व्युत्थानदशाभाव्यपि आनन्देन पूर्यते । अकालकलित
चिदानन्दस्वरूपानुमवेशेन तन्मयीक्रियते । उत्तरकालश्च तत्सं-
स्कारेणाप्लाव्यते । विभु स्वामी व्यापकश्च ॥ ४ ॥
आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि ।
सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणः ॥५॥
अविच्छेदभङ्गास्यं दशम स्तोत्रम् ।
बलि यामस्तृतीयाय नेत्रायास्मै तव वि(प्र)भो।
अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे॥६॥
आनन्देति । ते तव, भुवि अग्नीषोमात्मकमध्यशक्तिमार्गे,
आनन्दरसविन्दुर्यः स एवाहादकारित्वाचन्दमा । गलितो द्रुतस्व
भाव ।बिन्दुश्चन्द्रमाश्च गलितः। मनःप्रमेयराशिसहितं तत्रैव विली-
ने। तथा तत्रैव संहारी भेदग्रासी, तेजसः कण परमाग्निस्फुलिङ्गो
य स एव प्रकाशकत्वतमोपहत्वादे सूर्य प्रसृतः । सूर्यश्च प्राणे
विलीनः। द्रावितसोमसूर्याहि परा शक्तिभूमिः । अस्मै शक्ति
रूपाय नेत्राय बलि याम । अपि च भुवि यश्चन्द्रमा स त्वदीय
आनन्दबिन्दुः गलित सुनः, सूर्यश्च तव सम्बन्धिनः तेजसः
कणः प्रसनः स्फुरित । यथागमः “ज्ञानशक्ति प्रभोरेषा तप-
सादिसविग्रहा । तपते चन्द्ररूपेण क्रियाशक्ति परस्य सा"
इति । अस्मै एतदर्थ सूर्यचन्द्रोल्लासनाय तव तृतीयं नेत्रं तस्मै
बलिं यामः । अत्रैव महावन्हिमये मायीयदेहादिप्रमातृतां समर्प-
यामः। कीदृशाय कस्याप्यसामान्यस्य ब्रह्मोपेन्द्राद्यगोचरस्य अ-
लौकिकस्य माहात्म्यस्यैकलक्ष्मणे असाधारणाभिज्ञानाय । अस्मै
इति तादर्थं चतुर्थी ॥ ५ ॥ ६ ॥
तेनैव दृष्टोऽसि भवदर्शनादयोति हृष्यति ।
कथं चिदूयस्य वा हर्षः कोऽपि तेन त्वमीक्षितः॥७॥
तेनेति । “उच्चाररहितं वस्तु चेतसैव व्यचिन्तयन्" इति
शाक्तसमावेशयुक्त्या भवन्तं दृष्ट्वा यो ऽतिहृष्यति आनन्दमयो
भवति, तेनैव कापि अभेदोपासनापरेणासि त्वं दृष्ट । कथं चि-
दिति अकिञ्चिच्चिन्तकस्येति शाम्भवसमावेशक्रमेण वा यस्य
कोऽपि हर्षो न तु भेदोपासापरेण हर्षः । तेन कोऽपि इति
चिद्धनस्त्वमीक्षितः प्रसभिज्ञातः ॥ ७ ॥
शिवस्तोत्रावल्याम येषां प्रसन्नो ऽसि प्रभो यैर्लब्धं हृदयं तव । प्राकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम् ॥८॥ येषामिति । प्रसन्नोऽसीति माग्वत् । अत एव हृदयं प्रकाश- विमर्शात्मकं रूपं लब्धमात्मीकृतं यस्तैस्त्वत्पुरात्त्वदीयात्पूरका- चिद्रूपादाकृष्य विस्कार्य, देहाद्यपेक्षया वाह्य विश्वमिदं पुनरा- भ्यन्तरीकृतं चिन्मयीकृतं “सृष्टि तु सुम्पुटीकृस" इति श्री त्रिशकोक्ततत्वार्थदृशा संविद सदितं संविदभेदन चाभासमानं विश्वं चिन्मयमेवैषामिति यावत्। अनुरणनशस्या लौकिकेश्वरार्थः माग्रत् ॥८॥ वहते निखिलं विश्व समदृग्यातमीक्ष्यताम् । ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः ॥ ९ ॥ वहते इति । समदृगिति समा तुल्या भेदमयी दृक् संवित्ति- यस्य तत् द्विनयनं चेक्ष्यतां ममेयतां यातं । एक इसद्वितीयः। विष- में भेदप्लोषकमीक्षणं ज्ञानं यस्य त्रिनेत्रश्च ॥ ९ ॥ आस्तां भवत्प्रभावेण विना सत्तेव नास्ति यत् । त्वदूषणकथा येषां त्वदृते नोपपद्यते ॥ १० ॥ आस्तामिति । येषां बौद्धसांख्यमीमांसकादीनां, त्वदूषण- कथा दुषयित्रात्मकप्रस्फुरच्चिद्रूपं त्वत्स्वरूपं विना नोपपद्यते सेषां विचित्रतनुकरणप्रज्ञानां बुद्धिमत्मभावं विना सत्तैव नास्ती- सादि युक्तियन्दं पतितपााघातकल्पमास्ताम् ॥ १० ॥ बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः । त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते ॥११॥ पायेति । बाह्या शरीरममातृतापेक्षतत्तद्वस्तुसंयोगीषयो-
अविच्छेदभङ्गाख्यं दशम स्तोत्रम् ।
गादयः, आन्तरा बुद्धयाद्यपेक्षका मनःकल्पनादयः, ये अन्तरा-
याः स्वविश्रान्त्युपरोधिन , तेषामाली पङ्किस्तया केवले रहिते,
स्वद्विषये चेतसि यदि मम स्थिति समावेशैकाग्रता स्यात,
तत्किमन्यदुपयुज्यते, प्राप्तव्यस्यैव प्राप्तत्वात् ॥ ११ ॥
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः ।
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः॥१२॥
अन्य इति । नैरात्म्यजडात्मवादिनः संसारिणश्च, आत्मनि
निज एव स्वरूपे, भ्रमन्ति विपर्यस्यन्ति जन्ममरणादिपरम्परा
मपर्यन्तां भजन्ते । अतिदुःस्थितास्तत्त्वज्ञत्वाभावाक्लिश्यन्ते । अन्ये
इति केचिदेवापश्चिमा आत्मन्येव चिद्रूपे, न तु परत्र कचिदपि,
अतिमुस्थिता परमानन्दैकघना सन्तो, भ्रमन्ति विहरन्ति ॥१२॥
अपीत्वाऽपि भवद्भक्ति-
सुधामनवलोक्य च।
त्वामीश त्वत्समाचारमात्रात्
सिद्ध्यन्ति जन्तवः ॥ १३ ॥
अपीत्वेति । त्वद्भक्तिसुधां शाक्तममावेशानन्दरसमपीत्वा-
ऽपि अचमत्कृयाऽपि, अनवलोक्य च त्वामिति चित्स्वरुपं त्वां
मनागप्यप्रसभिज्ञाय, जन्तवो जन्मादिभाजोऽपि त्वत्समाचा-
रमाशादिति तत्तदानायचर्यापादोक्तासिद्धयन्ति परसिद्धिमा-
जो भवन्ति । अपिशब्देन मात्रशब्देन च विस्मयो ध्वन्यते । तथा-
ह्यागमे "कदाचिद्भक्तियोगेन चर्यये"त्युपक्रम्य “संसारिणोऽनु-
गृह्णाति विश्वस्य जगतः पति"रिसन्तम् अस्मद्गुरुभिरपि तन्त्रसारे-
ऽभिहितं “परमेमरु सच्छन्दु बहुकोणविअ अप्पाइइच्छ चरि-
आसि तु णणिजजपाहुं कि अभवणो अइअच्छेति" ॥१३॥
शिवस्तोत्रावल्याम् भृत्या वयं तव विभो तेन त्रिजगतां यथा । बिभर्ष्यात्मानमेवं ते भर्त्तव्या वयमप्यलम् ॥१४॥ भृसाइति। त्रिजगतामिति । माग्वत् । बिभर्षीति धारयसि पो- षयसि च । आत्मानं स्वं रूपं । वयमप्यलमियत्रायमाशयः-यथा त्वया विश्वमन्तरभेदेन बिभ्रताऽपि देहायभिमानग्रहणेन वस्तु तस्त्वन्मया अपि वयं व्यतिरेकोचिताइव, यत् न भिन्नमेव विश्वं जानीमः, ततो ऽलमसर्थ ते वयं धारणीया. पोषणीयाश्च, यतो भृसाः स्म ॥१४॥ परानन्दामृतमये दृष्टे ऽपि जगदात्मनि । त्वयि स्पर्शरसेऽत्यन्ततरमुत्कण्ठितोऽस्मिते ॥१५॥ परेति । त्वयि परमानन्दसारे नीलपीतादिरूपेण जगदात्मनि दृष्टेऽपि, व्युत्थाने तन्मुखेन प्रसभिज्ञाते ऽपि, स्पर्शरसे गाढस- मावेशस्पर्शमसरे, ते तव भृशमुत्कण्ठितो ऽस्मि ॥ १५ ॥ देव दुःखान्यशेषाणि यानि संसारिणामपि । धृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम्॥१६॥ देवेति।हे देव क्रीडादिस्वभाव, अशेषाणि कीटब्रह्मादिविस्प- न्दितानि तावडु खानि भेदमयत्वात्, तान्यपि संसरणपराणां प्रमातॄणां सोढव्यतां यान्ति । यतो धृयाख्येन “इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम्" इसाघभिमानावष्टम्भग्राहिणा त्वदीयेनात्मना युक्तानि संपृक्तान्येतानि ॥ १६ ॥ सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये । सर्वथाप्यसतो नाथ युक्ता ऽस्य जगतः प्रथा॥१७॥ सर्वज्ञ इति । अस्य जगतो विश्वस्य सर्वथा ऽपि देशकाला
अविच्छेदभङ्गाख्यं दशम स्तोत्रम् ।
कारार्थक्रियाकारित्वादिना स्वरुपेण प्रकाशवावस्यानुपदृश्य-
मानत्वादविद्यमानस्य, त्वयि चिन्मये सर्वशक्तौ स्वतन्त्रे सर्वाव-
भासके च सति, सर्वथाऽपि प्रथा युक्ता । सर्वथेत्युभयत्र यो-
ज्यम् ॥१७॥
त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि ।
नृत्यन्ति पवनोद्भूताः कार्यासपिचवो यथा॥१८॥
यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः ।
केन हीयेत जगतस्त्वदेकात्मतया प्रथा ॥ १९ ॥
त्वत्माणिता इति । गुणा बुद्धयादिपरिस्पन्दाः लोष्टोपमा
अपि जडाः त्वत्माणिताः त्वज्जीविताः सन्तः स्फुरन्ति । अन्यथा
न कथञ्चित्काः स्यु । अत्र दृष्टान्त । यथा कापसानां पिचवः
लेशाः पवनेन वायुनोच्चैधूताः सन्तो नृसन्ति नभासे विलसन्ति ।
एवं च हे नाथ यदि भक्तेषु गुणेषु वन्मय शक्तिदत्त आत्माभि-
मानो न भवेत्ततोऽस्य जगतः त्वदेकात्मतया त्वदभेदेन या
प्रथा सा केन हेतुना हीयते, न केन चिन्निवार्यते। भक्तानां वि-
श्वस्य त्वदैक्येन स्फुरणात् । “गुणादिस्पन्दनिष्पन्दाः स्युर्जस्य
परिपक्तिन" इत्युक्तम् ॥ १८ ॥ १९ ॥
वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि ।
त्वत्कोपपावकस्पर्शपूता ये परमेश्वर ॥ २० ॥
वन्द्या इति । तेऽपीति कालकामत्रिपुरान्धकायाः। न केवलं
साक्षादनुगृहीताः भक्तिमन्त इसपिशब्दार्थः । महीयांस इसलौ-
किकमाहात्म्ययुक्ता, प्रलयं विनाशमुपगता अपि ये तव श्री-
कण्ठायवतारवपुष' सम्बन्धिना निग्रहद्वारकानुग्रहात्मना क्री-
डाकोपानिस्पर्शेन पवित्रताः ॥ २० ॥
७२
शिवस्तोत्रावल्याम्
महाप्रकाशवपुषि विस्पष्ट भवति स्थिते ।
सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम् ॥२१॥
महामकाशेति । व्युत्थानवैवश्यात्साक्षात्कारभूमिमलभमा-
नस्योक्तिरियम् । यतः कानिचिदत्र समावेशोत्कर्षशंसीनि,
अन्याने व्युत्थानप्रहाणाकांक्षापराणि । अपराणि सात्म्यिप्रथा-
प्रथयितृणि । पराणि निःशेषभेदोपशममयशिवताशंसापराण्यस्य
मुक्तानि । तानि च यथायोगं संयोजितानि नियोजयिष्यन्ते च
इति नास्य सत्परमेष्ठिन ईदृगुक्तिषु पूर्णता मन्तव्या । विस्प-
ष्टेपीति विश्वप्रकाशमये । तमसि प्रसरामीतिव्युत्थानविवशो
भवामीति ॥ २१॥
अविभागो भवानेव स्वरूपममृतं मम ।
तथाऽपि मर्त्यधर्माणामहमेवैकमास्पदम् ॥ २२ ॥
अविभाग इति । इयमप्युक्तवदेवोक्तिः । भवानेवेति न तु
अन्यत्किञ्चिदमृतमानन्दघनं । मर्यधर्माणां हानादानादिप्रयासा-
नां । अहमिति व्युत्थाने देहायभिमानमयः, न तु चिद्रूप एक
एवेति प्राग्वत् ॥२२॥
महेश्वरेति यस्यास्ति नामाकं वाग्विभूषणम् ।
प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः ॥२३॥
महेश्वरेति । नामाकं यद्वन्दिनः पठन्ति तत् महेश्वर ब्रह्मा-
दिविश्वेश्वर प्रभो इति यस्य च वाचो विभूषणमस्ति, तथा
शिरसि प्रणामाङ्कः परस्वभावप्रताभिज्ञानं च यस्यास्ति सए-
वैकः अद्वितीयः, प्रभौ महेश्वरे, इतः सम्वद्धः। अथ वा अयं प्रणा-
माङ्किा' समाविष्टो भक्ति शालो भगवदभेदस्पर्शप्राप्तेः नामाङ्क-
स्वात्मभावितः प्रख्यातः ॥ २३ ॥
७३ अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् । सदसच्च भवानेव येन तेनाप्रयासतः । स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे ॥२४॥ सदसदिति । भावाभावरूपं विश्वं त्वमेव यतः ततो मम अप्रयासत उपायजालं विना स्वरमेनैव नियोदितत्वेन कथं तथा न सिद्धिस्त्वत्साक्षात्कारः सदोदितो न कस्मादस्ति ॥२४॥ शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम् । तर्योऽस्मि देवमुख्यानामपि येनामृतासवैः ॥२५॥ शिवदास इति । यत एव शिवदासः तत एव समावि- ष्टत्वाच्छिवैकात्मा किं यत्सुखं नासादयेत् परमानन्दमयो भव- सेवेसर्थः । यतो देवमुख्यानामन्यैस्तर्पणीयानामपि ब्रह्मादीनां हृदयादिस्थानस्थितानामिन्द्रियदेवतानां च अमृतासवैः प्रमेय- प्रथासमयस्फूर्जदद्वयप्रकाशानन्दप्रसरैः, तl. परिपूरणीयो- ऽस्मि न तु पशुवद्भोग्यः ॥ २५ ॥ हन्नाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः। ग्रस मे त्वं महावह्निः सर्व स्थावरजङ्गमम्॥२६॥ हृन्नाभ्योरिति । हन्नाभ्योरन्तराले घटस्थाने स्थितः प्रा- णिनां सर्वेषां पित्तविहग्रः पित्तरूपः उष्णान्नाद्याहरणाद्वाह्यस्ते- जसोऽपि ग्रसनान्महावह्निस्त्वमत एव स्थावरजङ्गममश्नासि त्वम् अनेन सर्वत्र प्रमातृजठरादिस्थानेन विश्वभक्ष एव परमेश्वरः परमार्थसन्निति शिवम् ॥ २६ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावली अविच्छेदभङ्गाख्ये दशमे स्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः ॥ १० ॥ १० হিনুৰাৰু ॐ जगदिदमथ वा सुहृदो बन्धुजनो वा भवति न मे किमपि । त्वं पुनरेतत्सर्व यदा तदा कोऽपरो मेऽस्तु ॥ १ ॥ ॐ जगदिदमिति।ॐ जगदादित्रयं लोकक्रमेणान्तरङ्गमपि मम न किंचित् तद्विलक्षणचिन्मात्रैकरूपत्वात्, यदा पुनः प्रका- शमयत्वादेतत्सर्वं त्वमेव तदा मम अपरः व्यतिरिक्तः कोऽस्तु, न किञ्चित्, जगदपि स्वरूपमेवेति यावत् ॥ १॥ स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्वमेवेति । वस्त्वेव सिद्धिमेत्विति यात्रा तत्रापि याञ्जैव ॥२॥ स्वामिनिति । महेश्वर इति प्राग्वत्, साक्षादिति अद्वयदृष्टया चाधिष्ठानेन इति, वस्त्वेव पारमार्थिकमेवैतत् तत्रापि एवमेव स्थिते ऽपि, एतसिद्धिमेत्विति या याज्ञा सा याच व त्वमेव प्रकटी भूया इसनेनैव लज्ज्यते इति स्थिसा न युक्तैवेसर्थ, “होन्ति कमलाइ कमलाइ" इति न्यायेन द्वितीयो याज्ञाशब्दः अचारु- त्वनिष्पयोजनत्वादिमाव्रताध्वननपुरःसरः॥२॥ त्रिभुवनाधिपतित्वमपीह य- तृणमिव प्रतिभाति भवज्जुषः। किमिव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणाहते ॥३॥ त्रिभुवनाधिपतित्वमिति । भवज्जुषः समावेशयुक्तान इति प्रतियोगे शस, इहेति अस्मिन्नेव समये, त्रिभुवनाधिपतित्वं भूर्भु-
औत्सुक्यविश्वसितनामैकदर्श स्तोत्रम् ।
वस्स्वस्स्वामित्वमपि तृणमिव प्रतिभाति तस्य, तथा प्रतिभान-
लक्षणस्य शुभकर्मणो भवत्स्मरणाहते भवत्स्मरणं विना, कि
फलं, न किञ्चिदन्यत् व्यतिरिक्तमस्तोति यावत् प्राप्तव्यस्यैव
प्राप्तत्वात् ॥३॥
येन नैव भवतोऽस्ति विभिन्नं
किञ्चनापि जगतां प्रभवश्च ।
त्वावजृम्भितमताभुतकम-
स्वप्युदेति न तव स्तुतिबन्धः ॥ ४ ॥
येनेति । त्वत्तो भिन्नं किञ्चनापि नास्ति सर्वस्य प्रकाश-
रूपत्वात, जगतां प्रभवः अपि ब्रह्माद्याः तवैव जृम्भा येन हेतु-
नाऽतः अद्भुतेषु विश्वसर्गसंहारादिष्वपि कर्मसु तव न स्तुतिबन्धः
स्तोत्रादिभेदाभावात्, त्वमेव स्तुसस्तोत्रस्तुतिरूपतया भासी-
सयमत्र तत्वार्थः॥४॥
त्वन्मयोऽस्मि भवदर्चननिष्ठः
सर्वदाहमिति चाप्यविरामम् ।
भावयन्नपि विभो स्वरसेन
स्वप्नगोऽपि न तथा किमिव स्याम् ॥५॥
त्वन्मय इति । त्वमेव प्रकृतं रूपं यस्य तथा भूतो ऽस्मि,
त्वय्येव चिन्मये विश्वार्पणक्रमेणाहं सर्वदा अर्चननिष्ठ इसविराम
कृत्वा भावयन्नपि व्युत्थानेऽनुसन्दधदपि स्वप्नगोऽपि, स्वरसेनैव
स्वेच्छावशेनैव, किमिति न तथैव भवामि, कस्मात्स्वप्नेऽपि सं-
स्कारमबोधसारेऽपि जागरवत्त्वदर्चापरो न भवामि न समा-
वेशामि इति यावत् ॥५॥
शिवस्तोत्रावल्यामू ये मनागपि भवञ्चरणाजो- द्भूतसौरभलवेन विमृष्टाः। तेषु विस्तमिव भाति समस्तं भोगजातममरैरपि मृग्यम् ॥६॥ य इति । चरणाजं प्राग्वत्, सौरभम् अवस्थास्नुरा- मोदसंस्कारस्तस्य लवो लेशमात्रं, न तु पूर्ण रूपं, तेन ये वि- मृष्टाः मनामात्रेण पात्रीकृतास्तेषु समस्तं सदाशिवान्तभोग- जातं देवैरमार्थनीयं विस्तं दुरामोदमिव प्रतिभाति । एवं च पूर्णसमावेशशालिनां दण्डापूपिकयैव दुरोत्सारितः सिद्धयभि- लापः॥६॥ हृदि ते न तु विद्यतेऽन्यदन्य- बचने कर्मणि चान्यदेव शम्भो । परमार्थसतोऽप्यनुग्रहो वा यदि वा निग्रह एक एव कार्यः ॥ ७ ॥ हृदीति । चिदद्वयप्रथारूपो महादेव' यत्र प्रथितुं महत्तः तत्र हृदयानुष्ठानपर्यन्तं प्रथते, यत्र तु गृहितात्मा तत्र हृदि वचसि च कर्मणि च गृहितात्मैव यतः परमार्थे न सतः साधोः सात्विकस्य वस्तुतः निग्रहानुग्रहयोर्मध्यादकमेव कर्तव्यं भवति न तु शवलचेष्टितत्वमिति अर्थान्तरन्याससम्भेदः, प्रकृतेऽर्थे नि- ग्रहानुग्रहौ स्वरूपनिमीलनोन्मीलने अप्रकृतेऽप्यपकारोपकारा- विति श्लेपच्छायाऽपि ॥ ७ ॥ मूढोऽस्मि दुःखकालतोऽस्मि जरादिदोष- भीतोऽस्मि शक्तिराहतोऽस्मि तवाश्रितोऽस्मि।
७७ औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् । शम्भो तथा कलय शीघ्रमुपैमि येन सर्वोत्तमा धुरमपोज्झितदुःखमार्गः ॥८॥ मूहोऽस्मीति । व्युत्थानापेक्षयोक्तमित्युक्तमाय, तवाश्रितो ऽस्मीयत्र भङ्गं कृत्वा उत्तरार्ध योज्यं, कलय सम्पादय, सर्वोत्तमां सम्पूर्णसमावेशमयीम् ॥ ८॥ त्वत्कर्णदेशमधिशय्य महाघभाव- माक्रन्दितानि मम तुच्छतराणि यान्ति । वंशान्तरालपतितानि जलैकदेश- खण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥ ९ ॥ त्वदिति । अधिशय्य प्राप्य, महाप्रभावमनर्घत्वम्, तुच्छ- तराणीति अनौद्धसं ध्वनति, यान्तीति तु अतिभक्तित्वेन निश्चि- तप्रतिपत्तित्वात्, वंशान्तरे इसर्थान्तरन्यासः स्पष्टः ॥ ९ ॥ किमिव न लभ्यते बत न तैरपि नाथ जनैः क्षणमपि कैतवादपि च ये तव नानि रताः । शिशिरमयूखशेखर तथा कुरु येन मम क्षतमरणोऽणिमादिकमुपैमि यथा विभवम्॥१०॥ किमिति । कैतवाद्वयाजादपि ये जनास्तव नाम्नि न तु तात्विके स्वरूपे रतास्तैरपि कि न लभ्यते, पूजासत्काराद्यभी- ष्टमपरिज्ञाततदाशयेभ्यः सकाशात्माप्यत एव, ये तु परमार्थतः सततं च त्वयि रता ते अर्थादेव परमार्थमया एवातो हे शिशि- रमयू बशेखर सर्वसन्तापहारिन् तथा कुरु यथा प्राग्व्याख्या- तरूपाणिमादिकं विभवमुपैषि, क्षतमरण. अकालकलितः, अस्य शिवस्तोत्रावल्याम् पदस्यायमाशयः यद्ब्रह्मादय अणिमादिविभूतियुक्ता अपि मृतिधर्माण एव यथोक्तमस्मद्गुरुभिः क्रमकेलौ "श्रीमत्सदा- शिवपदेऽपि गतोग्रकाली, भीमोत्कट कुटिरेष्यति भङ्गभूमिः" इति अतो मां क्षतमरणं चिदानन्दधनमद्वयाणिमादिपात्र कुरु । ये तु विभूतिस्पृहणीयत्वेनैतद्धयाकुर्वते तेषां स्मरसि नाथ कदाचिदपीहितमिति ससेन भगवन्निति विस्रमिव भाति समस्त- भोगजातमिसादि च व्याहतमेव ॥ १० ॥ शम्भो शर्व शशाङ्कशेखर शिव व्यताक्षमालाधर श्रीमन्नुग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध । कारुण्याम्बुनिधे त्रिलोकरचनाशीलोन शक्त्यात्मक श्रीकण्ठाशुविनाशयाशुभभरानाधत्स्व सिद्धिं पराम्११ शम्भो इति । उग्राणि भीषणानि अशेषब्रह्मादिसम्बन्धीनि कपालानि लाञ्छनं यस्य, अशुभभरान भेदोल्लासान, परां पर- माद्वयानन्दरूपाम् ॥ ११॥ तत्कि नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुते भावः स्यात्किमु तस्य चेतनवतोनाशास्ति यं शङ्करः। इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः संसारेऽत्रनिरन्तरादिविधुरः क्लिश्याम्यहं केवलम् १२ तत्किमिति । तत्वभूतभावो भुवनादिभावः सत्ता चेत- नवतः सकलादर्मन्त्रमहेश्वरान्तस्य आशास्तीति प्रवृत्तिर्भूता- नामैश्वरीति स्थिया सर्वप्रमातृनियामकरूपं शासितृत्वं भगवत एव सदेति । न तु कदाचित् निरन्तराधिविधुरत्वं व्युत्थाने समावेशानासादनात् अहं केवलम् इसत्रायमाभिप्रायः मायायेऽयं
७६
औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् ।
देहादिप्रमातृता चेदालता तत्सर्वामिदं त्वन्मयमेवोच्यते देहा-
द्यहन्तैवोन्मूलनीया वर्तते ॥ १२ ॥
यद्यप्यत्र वरप्रदोद्धततमाः पाडाजरामृत्यवः
एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः ।
तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थानवे
भोगास्वादयुतत्वदशिकमलध्यानाग्यजीवातवे ॥१३॥
यद्यप्येति । अत्रेति संसारे, उद्धततमा असह्याः,क्षणमासतां
साम्प्रतं तिष्ठन्त्विति लौकिक्युक्ति', बहुमतो विश्वस्याभिलषि-
तः, सन्ततमद्वयानन्दरूपं मुखमाकाङ्क्षतीति तच्छीलः, चिरस्था-
नवे चिरमवस्थानशीलाय, जीवातवे जीविताय, स्पृहयामि, की-
दृशाय, भोगास्वादयुतत्वदक्षिकमलध्यानाग्यायं परमानन्दच-
मत्कारयुक्तत्वन्मरीचिपचिन्तनप्रधानाय, अत एव स्पृहणीय-
त्वम् ॥ १३ ॥
हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे
दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे सांप्रतम् ।
तच्चेष्टव यथा मनोज्ञविषयावादप्रदा उत्तमाः
जीवन्नेव समश्नुवेऽहमचलाःसिद्धीस्त्वदर्चापरः॥३४॥
हे नाथेति । मनोज्ञं चिदानन्दसुन्दरं विषयाणां रूपादी-
नां चमत्कारास्वादं ददति यास्ता, उत्तमा, अचला,सिद्धीरिति,
माग्वत् जीवन्नेवेति न देहपाते अपि तु जीवदवस्थायामेव,
समाविष एवाहं त्वदर्चापर इति त्वयि चिदात्मनि विश्वार्पण-
पर॥१४॥
शिवस्तोत्रावल्याम
नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे ।
सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे ॥१५॥
नमो मोहेति । महामोहध्वान्तस्य मायातमस' ध्वंसने
अनन्यकर्मा सदोद्युक्तः, सर्वान् अग्नीषोमसूर्यप्रकाशानतिशेते
यस्तथाभूतः प्रकाशो यस्य तस्मै ध्वान्तध्वंसे प्रकाशनव्यापारे,
चानुगुणमभिधानमिन्दुलक्ष्मणे इति शिवम् ॥ १५ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ औत्सुक्यविश्वसितनामन्ये-
कादशस्तोत्रे विपश्चिद्वरश्रीक्षेमराजविरचिता विवृतिः ॥ ११ ॥
८१ रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । ॐ सहकारि न किञ्चिदिष्यते भवतो न प्रतिबन्धकं दृशि । भवतैव हि सर्वमाप्लुतं कथमद्यापि तथापि नेक्षसे ॥ १ ॥ ॐ सहकारीति । भवतो दृशि त्वत्प्रकाशने मलपरिपाकादिकं सहकारि न किञ्चित् नापि प्रतिबन्धकं किञ्चिदस्ति यस्मात्स- हकार्याद्यभिमतं त्वयैव व्याप्तं तथाऽपि कथमद्यापीति इयति- व्युत्याने नेक्षसे न प्रकाशसे ऽस्माकमिसर्थ , भवत इति कर्मणि षष्ठी ॥१॥ अपि भावगणादपीन्द्रिय- प्रथमादप्यवबोधमध्यतः। प्रभवन्तमपि स्वतः सदा परिपश्येयमपोढविश्वकम् ॥ २ ॥ अपीति । भावेभ्यः इन्द्रियेभ्यः ज्ञानेभ्य आत्मनश्च सका- शात्त्वामेव प्रभु निसं परितः समन्तात्पश्ययं कथम् अपोढविश्वकं तिरस्कृताशेषभेदम् कृत्वा ॥ २॥ कथन्ते जायेरन्कथमपि च ते दर्शनपथं बजेयुः केनापि प्रकृतिमहता केन खचिताः । तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः पदार्थाद्यान्सृष्टिस्रवदमृतपूरैर्विकिरसि ॥३॥ कथमिति । अखिलतः पदार्थात् उत्थायोत्थायेति वीप्सा, तथेसलौकिकेन प्रकारेणोत्थायोत्थायेति, तत्तद्वेद्यदशायां भेदं
કર
शिवस्तोत्रावल्याम्
निमज्ज्य चिद्रपतया स्फुरित्वा यान् ज्ञानात्मकप्रसरदमृतो.
करै आच्छुरयसि, ते केनापि प्रकृतिमहता इति नियविकसित-
रोमाञ्चितत्वादिना प्रकाशेन चिह्नने प्रकाशिताः न जन्मभाजो
नापि लोकैः लक्ष्यन्ते कथमिससंभावनायाम् ॥ ३॥
साक्षात्कृतभवद्रूपप्रमृतामृततर्पिताः ।
उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥ ४ ॥
साक्षादिति । अमृतमानन्दः, उन्मूलिततृषो अपुनरुत्था-
नेन शमिता तृट् विभूसादिस्पृहा यैः, मत्ता हृष्टा. स्वातन्त्र्येण
विहरन्ति, अन्ये तु आकाङ्क्षायाः परतन्त्रा एवं ॥ ४ ॥
न सदा न तदा न चैकदे-
यपि सा यत्र न कालधीर्भवेत् ।
तदिदं भवदीयदर्शनम्
न च नियं न च कथ्यतेऽन्यथा ॥ ५॥
नेति । सदा इति एकदा इति परस्परपयोगितया एक-
देवस्य प्रकारस्तदा इसपि एवंप्रकारा अपि, यदेति इदानी-
मिसादिका च यत्र न सा काचित् कालधीरकालकलितत्वात्
तदिससामान्यम् इदमिति स्फुरद्रूपं ज्ञानं त्वदीयं न निसं कथ्यते,
नाप्यनियं, निसत्वानिसत्वयोः परस्परमतियोगित्वात् सर्वात्म-
कसाक्षात्कारिणि रूपे व्यवहारानुपपत्तेः ॥ ५ ॥
त्वहिलोकनसमुत्कचेतसो
योगसिद्धिरियती सदाऽस्तुमे ।
यदिशेयमभिसन्धिमात्रत-
स्त्वत्सुधासदनमर्चनाय ते ॥ ६ ॥
रहस्यनिर्देशनाम द्वादश स्तोत्रम् । ८३ त्वदिति । इयती इति, न तु परिमितफलोन्मुखी अभिस- न्धिमात्रतः इच्छामात्रात्, त्वदीयं सुधासदनं परमानन्दधाम, सदा विशेयं तत्समाविष्टः स्यामिति अर्चनं प्राग्वत् ॥ ६ ॥ निर्विकल्पभवदीयदर्शन- प्राप्तिफुल्लमनसां महात्मनाम् । उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम् ॥ ७ ॥ निर्विकल्पति । कवलितविकल्पत्वदीयमाक्षात्कारमाप्सा विकसितमनसां भक्तिभाजां, विमलानीति जगदुद्धरणक्षमाणि, हेलामात्रेण चरितानि, वाक्यानि च, स्फुटं कृत्वा समुल्लसन्ति । यदागमः “दर्शनात्स्पर्शनाद्वाऽपि वितताद्भवसागरात् । तारयि- ष्यन्ति वीरेन्द्राः कुलाचारप्रतिष्ठिता" इति ॥ ७ ॥ भगवन्भवदीयपादयो- निवसन्नन्तर एव निर्भयः। भवभूमिषु तासु तास्वहं प्रभुमर्चेयमनर्गलक्रियः ॥८॥ भगवन्निति । पादयोः ज्ञानक्रियाशत्त्योः, मध्य एव निव- सन् अत एवाहं तासु तासु अति विततासु भवभूमिषु निर्भयः सन्, अनियन्त्रितचेष्टितः सर्वदशामु माग्वत्पूजापरः स्याम् ॥८॥ भवदनिसरोरुहोदरे परिलीनो गलितापरैषणः ।
शिवस्तोत्रावल्याम
अतिमात्रमधूपयोगतः
परितृप्तो विचरेयमिच्छया ॥ ९ ॥
भवदवीति । अङ्घिसरोरुहोदरं प्राग्वत्, तत्र परितः सम-
ताल्लीनः, क्लिष्टः सन्, इच्छया विचरेयं पदात्पदं तदाक्रान्ति-
भाग्भवेयम्, कीदृश , गलिताः शान्ता अपराः त्वन्परी-
च्याश्लेषाभिलाषव्यतिरिक्ताः एषणा आकाङ्क्षा यस्य ताटक,
यतोऽतिमात्रं भृशं मधुनः आनन्दरसस्योपयोगेन आस्वादेन,
परितस्तृप्त ॥९॥
यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः
तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥१०॥
यस्येति । यस्येति आर्तादेः, दम्भादिव न तु निर्दैन्यैकम-
क्तियोगेन, सङ्कल्प इति विकल्पमात्रम्, अत्रैकवारावलेपमात्रसम्प-
नलिङ्गाचापरिरक्षितसकलनरकपातस्त्रिलोकीजनो दृष्टान्तः, उ.
चितमिति तावन्मात्रार्थिता परिपूर्तिक्षमम् ॥ १० ॥
भगवन्नितरानपेक्षिणा
नितरामेकरसेन चेतसा।
सुलभं सकलोपशायिनम्
प्रभुमातृप्ति पिवेयमस्मि किम् ॥ ११ ॥
भगवनिति । किमस्मि, त्वां प्रभु, सकलोपशायिनं सर्वग-
'तमत एव मुलभमातृप्तिचेतसा, पिवेयं त्वदैकात्म्यमनुभवेयं, की-
हशेन चेतसा, नितरामतिशयेन एकत्रैव त्वत्समावेशभक्तौ न तु
कचिदपि फले रसोभिलाषो यस्य तेन, अनेन विशेषणेन मागु-
क्तश्लोकार्थवैपरीसेन निर्व्याजभक्तिरुक्ता ॥ ११ ॥
2. रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । त्वया निराकृतं सर्वं हेयमेतत्तदेव तु । त्वन्मयं समुपादेयमित्ययं सारसङ्ग्रहः ॥१२॥ खयेति । यत्किञ्चित्त्वदैक्यप्रसभिज्ञां विना हेयं तदेव त्वन्मयं प्रसभिज्ञानमुपादेयम्, सारसङ्ग्रह इति सर्वसम्पदायसत- त्वम् ॥१२॥ भवतोन्तरचारि भावजातम् प्रभुवन्मुख्यतयैव पूजितं तत् । भवतो बहिरप्यभावमात्रा कथमीशान भवेत्समय॑ते वा ॥१३॥ भवत इति । भवतोन्नरचारि त्वदैक्येन स्थितं, यद्भावजातं सत् मुख्यतया प्राधान्येनैव, प्रभुरिति पूजितं भवति तत्त्वज्ञेन भवतस्तु प्रकाशात्मनो बहिरप्यप्रकाशात्मनो बहिरास्तांभावः अभावमात्राऽपि न भवति, कुतः पुनरभ्यर्च्यते सर्वस्य चित्य- काशात्मनैव सत्वादन्यथात्वचित्वात् मात्रशब्दोऽतिशयोक्ति- परः, अभावोऽपि बुद्धयमानो बोधात्मैवेयादि हि प्रसभिज्ञायां निर्णीतमेव, अनेन भेदवादिनामर्चनानुपपत्ति सूचिता ॥ १३ ॥ निःशब्दं निर्विकल्पं च निाक्षेपमथानिशम् । चोभप्यध्यक्षमीक्षेयं ध्यक्ष त्वामेव सर्वतः ॥ १४॥ निःशब्दमिति । हे ध्यक्ष, क्षोभेऽपि ग्राह्यग्राहकमसरेऽपि, अध्यक्षमविकल्पं कृत्वा त्वामेव चिद्रूपमनिशं सदा, निविक्षेपं
शिवस्तोत्रावल्याम
वीतविघ्नं कृत्वा सर्वत्र ईक्षेयमात्मसाक्षात्कुर्याम्, कीदृशं निःशब्द,
वैयाकरणायुक्त शब्दब्रह्मविलक्षणं, "मम योनिमहद्ब्रह्म" इति
नीसा भगवतः परब्रह्मणोत्युत्तमत्वात्, अत एव विकल्पेभ्यो भा-
वनादिरूपेभ्यो निष्क्रान्तम् अनन्तचिन्मात्ररूपम् ॥ १४ ॥
प्रकटय निजधाम देव यस्मि-
स्त्वमसि सदा परमेश्वरीसमेतः ।
प्रभुचरणरजःसमानकक्ष्याः
किमु विश्वासपदं भवन्ति भृत्याः ॥ १५ ॥
प्रकटयेति । निजधाम चिद्रूपं, परमेश्वरी परा भगवती, भृया
इति, धार्याः पोष्याश्च, प्रभुचरणेसादि दासस्योचितैवोक्तिः,
रजस्समानकक्ष्यत्वेन नियसंलग्नतामाह ॥ १५ ॥
दर्शनपथमुपयातोऽप्यपसरसि-
कुतो ममेश भृत्यस्य ।
क्षणमात्रकामिह न भवसि
कस्य न जन्तोदृशोविषयः ॥ १६ ॥
दर्शनपथमिति । दर्शनपथं साक्षात्कारगोचरमपि प्राप्तो,
मम भृसस्य आश्वस्तस्य दासस्य, कुतोऽपसरसि नैवापसरसि
लामवष्टभ्यैवाहं स्थित इति यावद, ननु मां साक्षात्कृत्वैव किं
न तुष्यसीसत आह, कस्य जन्तोदृशो ज्ञानस्य अज्ञातोऽपि
क्षणमात्रमतिक्रुद्धः प्रहृष्टो वेसादिभूमिषु विषयो ननु भवसि
सर्वस्य हि कदाचित्स्फुरसि, अहं तु अनुपचरितो भृस',
क्षणमपि न त्वां सजामि, यदि वा साक्षात्कृतोऽपि त्वं व्यु-
स्थानावरोहणे किमिति मे भूखस्य आश्वस्तस्यापि अपसरसीति
योज्यम् ॥ १६॥
रहस्यनिर्देशनाम द्वादश स्तोत्रम् । ऐक्यसंविदमृताच्छधारया सन्ततप्रकृतया सदा विभो। प्लावनापरमभेदमानयं- स्त्वां निजं च वपुराप्नुयां मुदम् ॥ १७ ॥ ऐक्येति । ऐक्यसंविदद्वयदृष्टि , सैवामृतस्य परमानन्दस्य सम्बन्धिनी अच्छा विश्वप्रतिविम्बनक्षमा धारा तया सन्ततम- विच्छेदेन प्रसृतया कृतं यत्प्लावनं सर्वत आपूरणं तस्मात्त्वां सं च वपुः सङ्कुचिताभिमत स्वरूपं परमतिशयेन अभेदमे- कात्मतामानयन् कदा मुदं सन्तोषमाप्नुयाम् ॥ १७ ॥ अहमित्यमुतोऽवरुद्धलोका- द्भवदीयात्प्रतिपत्तिसारतो मे अणुमात्रकमेव विश्वनिष्ठम् घटतां येन भवेयमर्चिता ते ॥ १८॥ अहमिति । विश्वनिष्ठमिति यद्यन्मम कुत्रचिद्भाति तत्र सर्वत्रावरुद्धलोकं स्वीकृताशेषनिर्भरमहमिति यदेतत्त्वदीयं सर्वत्र प्रतिपत्तीनां सारम् उत्कृष्ट स्वरूपं, ततोऽणुमात्रकं मृगमद- कणकल्पमपि किंचिन्मह्य घटतामुपतिष्ठतां, येन घटितेन तत्त- द्वेधग्रासीकारक्रमेण तव अर्चिता भवामि, अणुमात्रकमिति अतिस्पृहयालुतयोक्तिः न तु पूर्णाऽहन्ताया भागाः सन्तिः ॥१८॥ अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन् । त्वामेव विश्वरूपं निजनाथं साधु पश्येयम् ॥१९॥ अपरिमितेति । तं तमिति य कंचित् त्वामेवेति तस्य प्रकाशमानत्वेन त्वद्रपात, विश्वरूपमिति प्रदेशोऽपि ब्रह्मण इति .
शिवस्तोत्रावल्याम् स्थिसा पूर्ण, साध्विति निप्पयासं सत्यस्वरूपतया च ॥ १९ ॥ भवदङ्गगतं तमेव कस्मा- न्न मनः पर्यटतीष्टमर्थमर्थम् । प्रकृतिक्षतिरस्ति नो तथाऽस्य मम चेच्छापरिपूर्तये परैव ॥ २० ॥ भवदिति । तमेवेति यं यमभिलषितमथै मन पर्यटति ते तं बदङ्गगतं चिन्मयत्वेन ज्ञातमत एवेष्टम् अभिलषितमर्थ किमिति न पर्यटति तथा कुरु यथैवं पर्यटतीसर्थ', एवं सति अस्य न प्रकृतिक्षतिः काचित् इच्छाव्याघाताभावात्, मम च परैव चिघनस्वरूपलिप्सासारेच्छा परिपूर्यते । अनेनैतदाह मनसि यथारुचि पर्यटति अहं पूर्णप्रथासार एव यथा स्यामिति ॥२०॥ शतशः किल ते तवानुभावा- द्भगवन्केप्यमुनैव चक्षुषा ये। अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाऽग्रे ॥ २१ ॥ शतश इति । हालिकचेष्टयाऽपि चरन्तः तवानुभावाद त्वत्स- युक्तादनुभवनव्यापारात् भवद्वपुस्त्वदीयं चित्सुरूपममुनैव चक्षुषा करणोन्मीलनदशायामपि सदाऽग्रे परितः, पश्यन्ति समाविशन्ति, शतशः सहस्रमध्याकेऽपि विरला अलौकिका इसर्थ ॥२१॥ न सा मतिरुदेति या न भवति त्वदिच्छामयी सदा शुभमयेतरद्भगवतैवमाचर्यते ।
रहस्यनिर्देशनाम द्वादर्श स्तोत्रम् । अतोऽस्मि भवदात्मको भुवि यथा तथा संचरन् स्थितोऽनिशमबाधितत्वदम लाङ्ग्रिपूजोत्सवः ॥२२॥ नेति । सर्वेषां ज्ञानानां प्रथमेन पादेन परमार्थतः शिवभ- क्तिमयत्वम्, द्वितीयेन व्यापाराणां भगवत्कृतत्वमुक्तम्, यथा तथेति गतसङ्कोचम्, अबाधितो न केनचिदप्यपसारितस्तन्मरी. च्यर्चनप्रमोदो यस्य ॥ २२॥ भवदीयगभीरभाषितेषु प्रतिभा सम्यगुदेतु मे पुरोऽतः । तदनुष्ठितशक्तिरप्यतस्त- द्भवदीव्यसनं च निर्विरामम् ॥ २३ ॥ भवदीयेति । गभीरभाषितेष्विति । मुख्ये भेदार्थत्वेन भा- समानेष्वपि गर्भीकृतरहस्यार्थेषु वाक्येषु तावकेषु, मम पुरः पूर्व, प्रतिभा नवनवोल्लेखिनी प्रज्ञा, सम्यगविपर्यस्तत्वेनोदेतु, अतोप्य- नन्तरं, तदिति अलौकिकं, निर्विरामं कृत्वा भवदर्चायां व्य- सनमुदेतु ॥ २३ ॥ व्यवहारपदेऽपि सर्वदा प्रतिभात्वर्थकलाप एष माम् । भवतोवयवो यथा न तु स्वत एवादरणीयतां गतः ॥ २४ ॥ व्यवहारेति । एषः अर्थकलापः व्यवहारेऽपि भगवतश्चि- न्मयस्य, यथाऽवयवः अङ्गकल्पोऽभेदेन स्थितस्तथा मां प्रतिभातु मम प्रतिभासताम्, न पुनस्त्वन्मयमविदित्वा स्वत एव मुखा- दिहेतुत्वेनादरणीयतां गत ॥ २४ ॥ ૨
शिवस्तोत्रावल्याम
मनसि स्वरसेन यत्र तत्र
प्रचरत्यन्वहमस्य गोचरेषु ।
प्रस्तृतोप्यविलोल एव युष्म-
त्परिचर्याचतुरः सदा भवेयम् ॥ २५ ॥
मनसीति । यत्र तत्रेति हेयादिविषयेषु, प्रसृतोऽपि ग्रहणे
प्रवृत्तोऽपि, अविलोल: अलम्पट', युष्मत्परिचर्या त्वदर्चा तत्र
चतुर एव कुशल एव स्याम्, एवशब्दो भिन्नक्रमः ॥ २५ ॥
भगवन्भवदिच्छयैव दास-
स्तव जातोऽस्मि परस्य नात्र शक्तिः।
कथमेष तथापि वक्रबिम्ब
तव पश्यामि न जातु चित्रमेतत् ॥२६॥
भगवन्निति । भगवदिच्छयैवेति, एवकारेण शक्तिपातस्य
स्वतन्त्रतामाह, तथाऽपीति, एवमपि दास्ये लब्धेऽपि, वक्रबि-
म्बं सुन्दरं परशक्तिमार्गम्, एष इति, व्युत्थानावस्थोचितदेहा-
दिपमातृरूप', जातु कदाचित, व्युत्थाने न पश्यामि नासादया-
मि ॥२६॥
समुत्सुकास्त्वां प्रति ये भवन्तं
प्रत्यर्थरूपादवलोकयन्ति ।
तेषामहो किं तदुपस्थितं स्यात्
किं साधनं वा फलितं भवेत् तत् ॥ २७॥
समुत्सुका इति । सम्यगुत्सुकाः भक्तिभरणोत्कण्ठिताः,
प्रसर्थरूपादिति विषयं विषयमासाद्य, कि तदिति, तेनैवानुभाव्यं
न वक्तुं शक्यं, किंतत्साधनमिति अस्माभिरसंभाव्यम् ॥२७॥
रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । भावाभावतया सन्तु भवद्भावेन मे भव । तथा न किंचिदप्यस्तु न किंचिद्भवतोऽन्यथा॥२८॥ भावाभावेति । ये भावा इसभिधीयन्ते ते मम त्वन्मयत्वेन भावा विद्यमाना भवन्तु, यत्र किचिदुच्यते तत् त्वन्मयतां विना न किचिदस्तु ॥ २८ ॥ यन किंचिदपि तन्न किंचिद- प्यस्तु किंचिदपि किंचिदेव मे। सर्वथा भवतु तावता भवान सर्वतो भवति लब्धपूजितः ॥ २९ ॥ यन्नेति । लोकेन न किचिदपीति यत् न किञ्चिदेवानु- पादेयतया कथ्यते तत् मम न किचित् अपि तु सर्वभेदमयं न किचिद्भवतु, यत्तूपादेयतयाऽभिमत किञ्चिदिति भण्यते तन्मम किञ्चिदेव किञ्चिदिससामान्य स्वानुभवैकसाक्षिकं वस्तु सर्वथाऽस्तु, यद्वा यल्लोके किञ्चिचिद्घनं रूपं यत् तदप्रसभिज्ञा- नाव न किञ्चित्वेन भाति, यत्तु भेदमयमवस्तु न किचित् तन्मा- याव्यामोहात्किञ्चित्वेन स्फुरति, मम तु न किञ्चित् किचिच्च न किञ्चिदस्तु लौकिकवद्विपर्ययो मा भूदियर्थः, एतावता भवान् चिद्रपः सर्वत्र लब्धश्च पूजितश्च शिवम् ॥ २९ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ रहस्यनिर्देशनामक- द्वादशस्तोत्रे श्रीक्षेमराजकता विवृतिः ॥
शिवस्तात्रावल्याम् ॐ तत्सत् । संग्रहेण सुखदुःखलक्षणं मां प्रति स्थितमिदं शृणु प्रभो। सौख्यमेव भवता समागमः स्वामिना विरह एव दुःखिता ॥ १ ॥ संग्रहेणेति । अथ स्तोत्रकाररचितचारुरचनाविशिष्टं संग्रह- स्तोत्र व्याकुर्मः। अत्र तु या प्रयोगरूढिरिति संज्ञा पुस्तकेषु दृश्यते साऽवान्तरैव साक्षात्कारेण चिदैरवं समाविश्य व्युत्थानेऽपि ब- लवत्तसंस्कारात्तमभिमुखीभाव्य प्रतिभातं वस्तु विज्ञातुमाह ।हे प्रभो मां प्रति स्थितं न तु अन्यस्य कस्यापि स्फुरितं, संग्रहण संक्षेपेण, सुखदुःखलक्षणं शृणु, प्रभो इसामन्त्रणम्, स्वात्मसमावे- शक्रमेणैव परमेशितुः सुसंमुखीकरणायालौकिकपादशब्दान्तर- हस्यमन्त्रवत्, तल्लक्षणमाह, भवता स्वामिना चिन्नाथन, एष इति साक्षात्कारेण स्फुरन् समागमः समावेश्यैक्यं यत् तत्सौख्यं मुखं स्वार्थे ष्यञ्, स एव सौख्यं, स च सौख्यमेव, उत्तरत्र स्थित एक्शब्दः इहाप्युभयथा योज्यः, प्रभुणा हि यो विरहः प्रभु- स्वरूपामयभिज्ञानं स एव दुःखिता ॥ १॥ अन्तरप्यतितरामणीयसी या त्वदप्रथनकालिकाऽस्ति मे। तामपीश परिमृज्य सर्वतः खं स्वरूपममलं प्रकाशय ॥२॥ अन्तरिति । यत एवं ततः, अपिभिन्नक्रमः, अतितरामणीय- स्यपि या मम त्वदमथनकालिका भवदख्यातिमलिनता, अन्त-
संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् ।
-
मे
रिति, समावेशे प्राणादिसंस्काररूपाऽस्ति, तामपीति, बह्वी ताव-
दसौ शक्तिपातात्मभृत्येव मे त्वया अपहस्तिता अतिसूक्ष्मामपि
तां परिमृज्योत्सोंछ्य, सर्वत इति, अन्तर्बहिश्च स्वं चिन्मय
सर्वस्यात्मीय स्वरूपं निमल प्रकाशय स्फारय ॥२॥
एतदेव च मे परमभिलषितमिसाह-
तावके वपुषि विश्वनिर्भरे
चित्सुधारसमये निरत्यये।
तिष्ठतः सततमर्चतः प्रभु
जीवितं मृतमथान्यदस्तु
तावक इति । यत्प्रकाशते तत्सकाशरूपमेव सत्सकाशयि-
तुमर्हति प्रकाशस्य च देशकालादिप्रकाशमानत्वात् तत्स्वरूप-
मेव सम्भेदकं नोपपद्यते इसयत्नसिद्धम् विश्वरूपत्वं, चिदा-
हादात्मनः स्वरूपे निरसये अविनाशिनि तिष्ठन्नेवा समर्थः
अर्चन्नेव च स्थातुं क्षम इति हेतौ शतारौ तौ च निसमवृत्ततां
व्यङ्ग, स्थितिस्तत्तद्भमिलाभः, अर्चा तदेकपरामर्शव्यग्रत्वम्,
एवमुत्तरत्र अन्यदिखनेन चिद्रूपतास्थितिबहुमानेन अवस्थावि-
षयमनादरं ध्वनति ॥३॥
ननु जीवदादिभूमयः अभिमानमय्यः ताः किमितीष्यन्ते
इसाशङ्कय त्वत्स्वरूपेऽवस्थितस्याभिमाना अप्यलौकिकचमत्का-
रयुक्ता एव, इतरथा तु निरभिमानताऽपि न काचिदिति वक्तुमाह-
ईश्वरोहमहमेव रूपवान
पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः।
मत्समोऽस्ति जगतीति शोभते
मानिता त्वदनुरागिणः परम् ॥ ४ ॥
शिवस्तोत्रावल्याम्
ईश्वरोऽहमिति । त्वदनुरागिण' त्वत्समावेशेन प्राप्तत्वदै-
क्यस्य, परमिति तस्यैव न तु ब्रह्मादेरपि ईश्वरः सर्वस्वतन्त्रोऽहम्
अहमेव च रूपवान् चिदात्मना प्रशस्तेन स्वरूपेण युक्तः,
पण्डा सम्यक् तत्त्वर्दीशनी प्रज्ञा सजाता यस्य सोऽस्मि, मुभगः
परमानन्दरसोल्वणत्वेन सर्वस्य स्पृहणीयोऽस्मि, तत्कि बहुना
मत्समः कोऽपरोऽस्ति न कश्चित्, मयैव चिदानन्दात्मना
विश्वस्यात्मसाक्षात्कारादितीदृशी मानिता साभिमानित्वं, शोभते
दीप्यते, अन्यथा पुनर्बोषाधभिमता सङ्कोचवती अविकल्पिता-
ऽपि मलिनैव "स्वसोपानपदारूढ्याभर्तुः स्यादन्तिके स्थितिः ।
इतरस्तु विकल्पानां वैमुख्याबाह्यभूमिग इति", त्वदनुरागिणो यत
एवं मानिताऽपि शोभते ततः ॥ ४ ॥
देवदेव भवदद्वयामृता-
ख्यातिसंहरणलब्धजन्मना ।
तद्यथास्थितपदार्थसंविदा
मां कुरुष्व चरणार्चनोचितम् ॥५॥
देवेति । हे देवदेव अशेषाधिपते, भवदद्वयामृताख्यातेः
त्वदैक्यानन्दाप्रथाया संहरणेन लब्धं जन्म यया तया यथास्थि-
तानां चिदेकात्मनां पदार्थानां संविदा मां स्वमरीच्यचितं कुरु,
तच्छब्दः पूर्वश्लोकापेक्षया हेतौ ॥५॥
कीदृश्यसावर्चा यदुचितं त्वां करोमीति भगवदुक्तं सम्भा-
चयन् आह-
ध्यायते तदनुदृश्यते ततः
स्पृश्यते च परमेश्वरः स्वयम् ।
यत्र पूजनमहोत्सवः स मे
सर्वदाऽस्तु भवतोनुभावतः॥६॥
- संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् । ध्वायत इति । “उच्चाररहितं वस्तु चेतसैव विचिन्तयन्" इति स्थिया ध्यायते तदनुदृश्यते समावेशात्प्रकाशते, ततोऽपि स्पृश्यते, गाढगाढसमाश्लेषेणैकीक्रियते स्वयमेव न तु उच्चार- करणादिपारम्पर्येण स्वयं चानुपचितेन चिन्मयेन वपुषा अन- न्याकारविशेषेण, योति पूजनमहोत्सवे, महोत्सवशब्देनास- न्तमुपादेयतामस्य वदन्नात्मनस्तदासत्त्या प्रमोदनिर्भरतां ध्वनात, अनुभावत इति ममानुभावतस्त्वदीयानुभवकव्यापारात् ॥ ६ ॥ एतदेव श्लाघमान आह- यद्यथास्थितपदार्थदर्शनम् युष्मदर्चनमहोत्सवश्च यः। युग्ममेतदितरेतराश्रयम् भक्तिशालिषु सदा विजृम्भते ॥ ७ ॥ यदिति। यथास्थितानां पदार्थानां दर्शनं विज्ञानं, न त्वदद्वयपूजामहोत्सवः तं च विना न यथास्थितवस्तुज्ञानमिती- दं द्वयमितरेतराश्रयम् भक्तिशालिषु सदा विजृम्भते, त्वयैवास्यो- भयस्य युगपत्प्रकाशात् ॥७॥ तत्तदिन्द्रियमुखेन सन्ततम् युष्मदर्चनरसायनासवम् । सर्वभावचषकेषु पूरिते- वापिवन्नपि भवेयमुन्मदः॥८॥ तदिति । स्फुरदुपायपुरःसरमेतदाशंसापर आह सर्वभावा एव चषकाणि पानपात्राणि तेषु, चक्षुरादिमुखेन महार्थदृष्ट्या चिदैक्यामृतेन पूरितेषु भूतेषु, तदाहरणक्रमेण तुर्यारोहरूपं शिवस्तोत्रावल्याम युष्मत्पूजारसायनपानं आसमन्तात्पिवन, उद्तमदोऽपि नाम भवेयम् एतत्मार्थये प्रभुमेवार्थये ॥ ८॥ अन्यवेद्यमणुमात्रमस्ति न स्वप्रकाशमखिलं विजृम्भते। यत्र नाथ भवतः पुरे स्थितिम् तत्र मे कुरु सदा तवार्चितुः ॥ ९ ॥ अन्यवेद्यमिति । यत्र भवत्पुरे पूरके चिदात्मनि रूपे, व्यतिरिक्तस्य कस्यचिदेवाभावात् अन्याद्भन्नं वेद्यम् अणुमात्र- मपि नास्ति अपि तु अखिलं ग्राह्यग्राहकरूपं स्वप्रकाशमेव विजृम्भते, तत्र मे त्वदर्चापरस्य सदाऽवस्थिति गाढगाढसमावे- शरूपां कुरु ॥९॥ दासधानि विनियोजितोप्यहम खेच्छयैव परमश्वर त्वया । दर्शनेन न किमस्मि पात्रितः पादसंवहनकर्मणाऽपि वा ॥ १० ॥ दासधानीति। एवमर्थितेऽपि जगतीप्सितमनाप्नुवन् खिन्न इवाह दासेति। स्वेच्छयैव न तु अन्यप्रेरणादिना, निरपेक्षोहि शक्तिपात इत्युक्तमेव दर्शनेन शाम्भवसमावेशात्मना परसाक्षा- कारानुप्रवेशेन पात्रितो भाजनीकृतः, पादसंवहनकर्मणा रुद्रश-- क्तिसमावेशालादनेन अनुरणनोत्त्या लौकिकेश्वरार्थः प्राग्वत् १० शक्तिपातसमये विचारणम् प्राप्तमीश न करोषि कहिचित् ।
संग्रहस्तोत्रनाम त्रयोदश स्तोत्रम् । अद्य मां प्रति किमागतं यतः खप्रकाशनविधौ विलम्बसे ॥ ११ ॥ शक्तिपातेति।सोपालम्भमिव प्रभुमभिमुखयितुमाह शक्तिपा- तोते।प्राप्तमित्युचितम्,ईशेसामन्त्रणं स्वतन्त्रशक्तिपातक्रमानुरूपं, कहिंचित कदाचित् अद्येति, सम्पन्नेप्यनुग्राहात्मनि शक्ति- पाते किमागतमिति क एष प्रकारः यत् चिदात्मकस्वात्ममका- शात्मनि विधौ अवश्यकार्येऽपि विलम्बसे, अद्यापि कालक्षेपं करोषि, मा कृषाः ॥ ११ ॥ तत्र तत्र विषये बहिर्विभा- त्यन्तरे च परमेश्वरीयुतम् । त्वां जगत्तितयनिर्भरं सदा लोकयेय निजपाणिपूजितम् ॥ १२॥ तत्रेति । पुनरपि भगवत्समावेशाशंसापर आह तत्रेति । बहि- रिति, बाह्ये नीलादौ आन्तरे च सुखादौ, च विभासति त्वां पारमेश्वर्या परशक्त्या युतं निससम्बद्धं, माग्वजगत्त्रयेण विश्वेन निर्भर, लोकयेय साक्षात्कुर्या, निजेन पाणिना पञ्चावर्तमध्यमध्य- मप्राणशक्त्युद्धोधनक्रमाद्धृतविश्वार्पणसमेधेनार्चितम्, अत्र पाणिः शक्तिः यथोक्तमाम्नाये "हस्तः शक्तिः प्रकीर्तित" इति, एत- त्पूजोचितम् ॥ १२॥ स्वामिसौधमभिसन्धिमात्रतो निर्विबन्धमधिरुह्य सर्वदा । स्यां प्रसादपरमामृतासवा- पानकेन परिलब्धनिवृतिः ॥ १३ ॥ -
शिवस्तोत्रावल्याम
स्वामीति । निसोदियसमावेशरूपमेव फलमाकासन्नाह स्वा-
मीति । स्वामिन सम्बन्धिनं सौधम् अतिस्पृहणीयं स्वधामसमू-
हमत्युच्चैः शाक्तं पदमभिसन्धिमात्रत इत्युच्चारकरणाद्यनपेक्षम् इ.
कछामात्रेणैव विनिर्वन्धं कृत्वाऽधिरुह्य देहादिभूमिन्यम्भावेन स्वी-
कृस, प्राग्व्याख्यातप्रसादपरमामृतासवापानक्रीडया परिल-
ब्धनिति' आनन्दपरिपूर्णः, सदा स्याम्, अनुरणनशत्या दृष्टा-
न्तालङ्कारध्वनिना लौकिकेश्वरार्थः माग्वत् ॥ १३ ॥
यत्समस्तसुभगार्थवस्तुषु
स्पर्शमात्रविधिना चमत्कृतिम् ।
तां समर्पयति तेन ते
वपुः
पूजयन्त्यचलभक्तिशालिनः ॥ १४ ॥
यदिति । प्रतिपादितपूजोपायमाह यदिति । मायाशत्त्या
पद्यपि हेयोपादेयताभानि तथाऽपि वस्तुतश्चिन्मयत्वात्सुभगार्था-
निसुभगप्रयोजनान्येव समस्तानि वस्तूनि तेषु विषयभूतेषु, यत्कि-
चिदिन्द्रियपथगतं तदीयरूपस्पर्शादि, स्पर्शमात्रविधिना संवि-
सङ्कल्पविकल्पेन संविद्यापारेण, तामिति असामान्यां चमत्कृ-
ति, सम्यगर्पयति वितरति, तेन यच्छब्दपरामृष्टेन वस्तुस्वरूपेण,
ते वपुश्चिन्मयरूपम्, अचलभत्त्या नवनवसमावेशेन शालमानाः,
पूजयन्ति तर्पणक्रमेण त्वय्येवं विश्राम्यन्ति ॥ १४ ॥
स्फारयस्यखिलमात्मना स्फुरन
विश्वमामृशसि रूपमामृशन् ।
यत्स्वयं निजरसेन घूर्णसे
तत्समुल्लसति भावमण्डलम् ॥ १५ ॥
सग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् । स्फारयसीति । ननु मलिनैरर्थे कथं शुद्धस्वरूपभगवदर्चा इसाशङ्या सर्वदशासु अर्थानां भगवत्स्वरूपतया शुद्धतां वक्तुमाह स्फारयसीति । आत्मना चिन्मयेन, स्फुरन् भासमानः, अखिल विश्व स्फारयसि विकस्वरस्वात्मप्रथास्फुरणेन फुल्लयसि, तथा स्वरूपमामृशन्निजस्वरूपं चमत्कुर्वन्, निखिलं विश्वमामृशसि आस्वादनेन आनन्दधनं घटयसि, यश्च स्वयं निजेन चिद्रसेन घूर्णसे पूर्णत्वात्समुच्छलत्तया स्पन्दसे, तद्भावमण्डलमखिलं पदार्थजातं, समुल्लसति चिद्भूमावुन्मालति, एवमनेन विश्वस्याभेदसारा पर- दशोचितास्थितिसंहारसर्गाःज्ञानेच्छाक्रियाशक्तिपरिस्पन्दरूपाः क्रमेणोक्ताः, अक्रमेऽपि हि संवित्तवे व्याचिभेदेन सृष्टिस्थि तिसंहारशक्त्यवियोग. सनातनत्वेन वर्येतापि यदपेक्षयाऽयं क्रमव्यवहारः । तथा च श्रीपूर्वशास्त्रेषूक्तम् “सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः । इच्छानिवृत्ते स्वस्थत्वादभिन्नमपि पञ्चधा।" इति । सृष्टिस्थितिसंहाराणां विपर्यस्तत्वेन प्रतिपादनं चिन्मय- खेनाक्रमतापरमार्थप्रकाशनाय ॥ १५ ॥ यो विकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः। स्वात्मपक्षपरिपूरिते जग- त्यस्य नित्यसुखिनः कुतो भयम् ॥ १६ ॥ य इति । ननु परमेश्वरभूभावभिन्नानामर्थानामस्तु शुद्धत्वं मायापदे तु भेदविनव्याकुलिते कथमेतदियाशक्य भेदविनमस- रक्षयमाह य इति । हे ईश अर्थमण्डलं प्रमेयजातमविकल्पं कृत्वा हानादानादिबुद्धिपरिहारेण श्रीभैरवीयमुद्रावीर्यस्थिया योयोगिवरो भवद्वपुश्चिद्रूपमेव कृत्वा पश्यति दर्पणोदरोन्मीलनम- शिवस्तोत्रावल्याम् तिविम्बवत्साक्षात्करोति, अस्य स्वात्मपक्षेण चिदैक्येन परित समन्तात् पूरिते स्वाभेदमापादिते, जगति भेदविघ्नस्योन्मूलना- निसमुखिनः परमानन्दघनस्य, कुतो भयं न तश्चिदेवेतियुक्त- मुक्तं प्राक्तेन ते वपुः पूजयन्सचलभक्तिशालिन इति ॥ १६ ॥ कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम्। अप्युपातममृतं भवद्वपु- भेंदवृत्ति यदि मे न रोचते ॥ १७ ॥ कण्ठेति । इमामेवाद्वयहाँष्ट प्रशंसन्नाह कण्ठेति । कालकूट महाविषमपि ते कण्ठकोणविनिविष्टं त्वदङ्गसङ्गततया स्थितं त्वद- भेदेन मथमानं, मे महामृतं, परमव्याप्तिपदत्वात्, उक्तं हि "विषम- प्यमृतायते" इति अमृतं तु पातुमपि लब्धुमपि यदि भवद्रपुषो भेदत्ति चिदद्वयदृशमस्पृशद्भाति, तदवास्तवत्वान्मह्यं न रोचते नाभिलाषपदं ममेति यावत् ॥ १७ ॥ त्वत्प्रलापमयरक्तगीतिका- नित्ययुक्तवदनोपशोभितः। स्यामथापि भवदर्चनक्रिया- प्रेयसापरिगताशयः सदा ॥ १८ ॥ त्वदिति । एवमद्वयसमावेशमात्मनि सदोचितत्वेनेप्सन्नाह त्वदिति । समावेशवैवश्यादनभिसन्धानमुच्चरन्तीभिस्त्वत्सलापम- यीभिर्भत्त्यनुरागाभिव्यञ्जनाद्रक्ताभिर्मधुरसुन्दराभिर्गीतिकाभिनि- सयुक्तेन वदनेनोपशोभितोऽतिसुन्दररुचि. स्याम, अथापीति अपि च, व्याख्यातसतत्वतया भवदर्चनक्रिययैव प्रेयस्या परमव-
संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् ।
लभया परिगतः स्वीकृत आशयश्चित्तं यस्य, तस्याश्च परिगतः
सम्यग्ज्ञातः आशयः स्वरूपं येन तथा भूत सदा स्याम् ॥१८॥
ईहितं न बत पारमेश्वरं
शक्यते गणयितुं तथा च मे ।
दत्तमप्यमृतनिर्भरं वपुः
स्वं न पातुमनुमन्यते तथा ॥ १९ ॥
ईहितमिति । ननु च लब्धसमावेशचमत्कारोऽपिकिमर्थ भूयो
भूयः समावेशाकाङ्क्षापरोऽसीति शङ्कित्वेवाह ईहितमिति । परमे-
श्वरसम्बन्धीहितं विलसितंबताश्चर्य,गणयितुं कलयितुं,न शक्यते,
तथा च मे मह्यममृतीनर्भरमानन्दघनं, वपुः स्वरूपं, पातुं रसयितुं,
दत्तमपि प्रमादीकृतमपि, तथेति यथारुचि निर्विराम, पातुं, नानु-
मन्यते नाङ्गीकरोति, पुनर्युत्थानभूमिमेव प्रेरयतीयत इयमा-
काङ्ग्रेसर्थः, यत एवं ततः ॥ १९ ॥
त्वामगाधमविकल्पमवयं
स्वस्वरूपमखिलार्थघस्मरम् ।
प्राविशन्नहमुमेश सर्वदा
पूजयेयमभिसंस्तुवीय च ॥ २०॥
स्वामिति । अगाधमपरिच्छेद्यमाविकल्पं चिद्रपमद्वयमभेदसारं,
स्वं सर्वस्यात्मीयं स्वरूपमखिलानां षडध्वमयानामर्थानां घस्मर-
मदनशीलं, त्वामाविशन, हे उमेश पराभट्टारिकास्वामिन्नहं सदा
पूजयेयं, “ सा पूजाह्यादराल्लय. " इति स्थिसार्चये, अभितः
समन्तात्सम्यगभेदपरामर्शसारतया स्तुवीय चेति शिवम् ॥२०॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्या सङ्ग्रहस्तोत्रनामनि
त्रयोदशस्तोत्रे श्रीक्षेमराजविरचिता विवृतिः ॥ १३ ॥
१०२ शिवस्तोत्रावल्याम् ॐ जय लक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः । जयोगोषणपीयूषरसमास्वादये क्षणम् ॥ १ ॥ जय लक्ष्मीति । इदमपि जयस्तोत्रं ग्रन्थकाराशय्यमेव । जय- लक्ष्म्याः सर्वोत्कपीश्रयो, निधानं समुचितमास्पदं,पुर इति साक्षा- कारसमनन्तरमेव, जयोदोषणमेवानन्दप्रदत्वात्पीयूवरसमास्वा- दये चमत्करोमि, क्षणं मुहुर्मुहुः, क्षणशब्दश्चास्यास्वादस्य मुल- भतां ध्वनति ॥१॥ जयैकरुद्रैकशिव महादेव महेश्वर । पार्वतीप्रणयिशर्व सर्वगीवाणपूर्वज ॥ २ ॥ जयैकीत । प्रथममामन्त्रणद्वयमद्वयताप्रथनाय "एको रुद्र" इति श्रुतिरस्ति, एकः शिवो न तु भेदवादस्थिया बहवः, पार्वती परा शक्तिः, सर्वेषां गीर्वाणानां देवनां पूर्वज आद्य ॥२॥ जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन । जय पीतातलोकार्तिकालकूटाङ्ककन्धर ॥ ३ ॥ जय त्रैलोक्येति । त्रैलोक्यनाथत्वे एकमद्वयसूचकाद्वितीय- मलौकिक लाग्छनमलिकलोचनं ललाटनेत्रं यस्य, भगवन्यतिरेके- णान्यस्याधोमुखाधोलोचनानुन्मीलनात्पीतमार्तलोकानां सर्वेषां मुरासुराणामार्तिहेतुत्वात्तद्रूपं कालकूटं महाविषं तदङ्का कन्धरा यस्य, कालकूटमार्तिरूपतयोमेक्षितम्, अथ च कालकूटगलत्वेन भगवतः सर्वसंसारातिहरत्वं सूच्यते ॥ ३ ॥ जय मूर्तत्रिशक्त्यात्मशितशूलोल्लसत्कर। जयेच्छामानसिद्धार्थपूजार्हचरणाम्बुज ॥१॥ जय मूर्तेति । मूर्ताः तिस्त्र इच्छाज्ञानक्रियारूपाः शक्तय जयस्तोत्रनाम चतुर्दशं स्तोत्रम् । १०३ आत्मा यस्य तथाभूनेन शितेन संसारच्छेदकेन शूलेनोल्लमन् कर पाणिर्यस्य, अनेन शक्तित्रयस्य भगवदेकाधीनत्वमुक्तम्, इच्छामात्रेण सिद्धोऽर्थः प्रयोजनं याभ्यां सकाशाद् तथाभूते अत एव पूजा प्राग्वञ्चरणाम्बुजे यस्य ॥ ४ ॥ जय शोभाशतस्यन्दिलोकोत्तरवपुर्धर । जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक ॥ ५ ॥ जय शोभेति । शोभाः प्रकाशाहादरुचय वपु स्वरूपम्, अल्पैकजटा एकजटिका तत्र क्षीणा येयं गगाकृतिस्तदेवात्तं भस्म येन तथामूतं कं शिरो यस्य, भगवतः शिरसि भस्मास्ती- खाद्यमविगीतमेव ॥ ५॥ जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन । जयेश्वराङ्गसङ्गोत्थरत्नकान्ताहिमण्डन ॥ ६ ॥ जय क्षीरोदेति । क्षीरोदे पर्यस्ता प्रसृता याऽसौ ज्योत्स्ना चन्द्र- कान्तिस्तच्छायं शुभ्रमनुलेपनं यस्य, अनसनोत्थैः रत्नैः कान्ताः अहयः शेषवासुकिमभृतयो मण्डनं यस्य, ईश्वरागसद्भाद्भुजङ्गमानां रत्नप्राप्तिरिति ह्यागमः ॥ ६ ॥ जयाक्षयैकशीतांशुकलासदृशसंश्रय । जय गङ्गासदारब्धविश्वैश्वर्याभिषेचन ॥ ७ ॥ जयाक्षयकेति । अक्षयाया' अमानाम्न्या एकस्याः शीतां- शुकलाया' सदृशोऽनुरूपो भगवानेव संश्रयः, तस्याप्यक्षयैकरूप- त्वात, चन्द्रकलया हि भगवत' एतत्परमार्थतैव मूच्यते, गगया सदाऽऽरब्धं विश्वैश्वर्याभिषेचनं यस्य ॥ ७ ॥ जयाधराङ्गसंस्पर्शपावनीकृतगोकुल ।
शिवस्तोत्रावल्याम जय भक्तिमदारब्धगोष्ठीनियतसनिधे ॥८॥ जयाधरानेति । अधराङ्गं पादस्तत्स्पर्शन पवित्रीकृतं गो- कुलं येन भगवता वृषभवाहनेन, यतो वृषभः पद्भयां स्पृष्टस्ततः सर्वत्र गोजातेः पवित्रत्वमविगीतं, भक्तिमद्भिः आबद्धायां गोष्टयां नियतोऽवश्यंभावी सन्निधिर्यस्य ॥ ८॥ जय स्वेच्छातपोवेषविप्रलम्भितबालिश। जय गौरीपरिष्वङ्गायोग्यसौभाग्यभाजन ॥ ९ ॥ जय स्वेति । स्वेच्छया क्रीडया कृतेन उपमावेशेन च वि- प्रलम्भितास्त्रासिता बालिशा येन, क्रीडामात्रेण भगवता जटा- दि विधृतं यत्तन्मूर्खाः ब्रह्मशिरश्छेदोत्थकिल्विषशुद्धयर्थमिति प्रतिपन्नाः, सिद्धयर्थमेतदिसपरे, इदमेतद्भगवत ससं रूपमिति परे, तन्न सत्, भगवतः स्वतन्त्रचित्परमार्थस्यैवं रूपत्वानुपपत्तेः, गौरी परा शक्तिः तत्परिष्वड्गयोग्यसौभाग्यस्य सर्वस्पृहणीय- त्वस्य भाजन ॥९॥ जय भक्तिरसाार्द्रभावोपायनलम्पट । जय भक्तिमदोदामभक्तवाङ्केत्ततोषित ॥ १० ॥ जय भक्तिरसेति । भक्तिरसेनार्दिः सरसो गलितो यो भाव आशयः स एवोपायनं दौकनिका तत्र लम्पट झटिया- स्मसात्कारिन्, भक्तिमदेनोद्दामा. गाँजता ये भक्ताः तदीयेन वाङ्नृत्तेन स्फूर्जतस्तुतिमालाभिस्तोषित ॥ १० ॥ जय ब्रह्मादिदेवेशप्रभावप्रभवव्यय । जय लोकेश्वरश्रेणीशिरोविधृतशासन ॥ ११ ॥ जय ब्रह्मोते । ब्रह्मादिदेवेशानां यः प्रभावः सृष्ट्यादि- सामर्थ्य तस्य प्रभवव्ययौ उत्पादनाशौ, यतः लोकेश्वरश्रेण्या जयस्तोत्रनाम चतुर्दशं स्तोत्रम् । इन्द्राढिलोकपालमालया शिरसा विधृतं शासनमाज्ञा यस्य, पर- मेशाज्ञानुवर्तिभिरिन्द्रादिभिर्दीक्षादौ स्थीयत इति शतशः आग- मोक्तयः सन्ति ।। ११॥ जय सर्वजगन्न्यस्तवमुद्राव्यक्तवैभव । जयात्मदानपर्यन्तविश्वेश्वर महेश्वर ॥ १२ ॥ जय सर्वेति । सर्वत्र जगति न्यस्नया स्वमुद्रयाऽऽनन्दसा- रज्ञानक्रियाशक्तिव्याप्तिमय्याऽवष्टम्भरूपया व्यक्तं वैभवं व्या- पकत्वं प्रभुत्वं च यस्य । यदागम “न चक्राङ्का न वज्राङ्का दृश्यन्ते जन्तवः कचित् । भगलिङ्गाङ्कितं विश्व तेन माहेश्वरं जगत् ॥” इति । आस्तां तावमादीनां विभूयादिदानं त्वत्तः सर्वस्य त्वमात्मानं सत्तामपि ददासि स्वप्रकाशमयत्वत्स्वरूपं विना नीरूपत्वापत्तेरियात्मानं पर्यन्तं कृत्वा विश्वेश्वर, अत एवान्यस्यैवं रूपत्वाभावात्त्वं महानीश्वरः ॥ १२ ॥ जय त्रैलोक्यसर्गेच्छावसरासद्वितीयक । जयैश्वर्यभरोद्वाहदेवीमात्रसहायक ॥ १३ ॥ जय त्रैलोक्येति । त्रैलोक्यसर्गावसरेऽसन् द्वितीय उपा- दानसहकार्यात्माऽपेक्षणीयो यस्य, द्वितीयश्चेन्नास्ति । कथं शक्ति. शक्तिमांश्चेत्युद्घोष्यते इसाह ऐश्वर्यभरोद्वाहे स्वेच्छावभासिता- शेषलोकयात्रात्मने इति नयेन देवीमात्रं निजसामर्थ्यात्मा परा- शक्तिरेव सहायो यस्य, ऐश्वर्य पञ्चविधकृसकारित्वम् ॥ १३ ॥ जयाक्रमसमाक्रान्तसमस्तभुवनत्रय । जयाविगीतमाबालगीयमानेश्वरध्वने ॥ १४ ॥ जयाक्रमेति । साक्षाद्विभातत्वाद्युगपत्सदा सम्यगाक्रान्तं समस्तं निरवशेषं प्राग्वद्भुवनत्रयं येन, विष्णुना क्रमाभ्यां भूर्भुवः-
१०६
शिवस्तोत्रावल्याम्
स्वराक्रान्तमधिष्ठितं भगवता स्वक्रममेव भवाभवातिभवत्रयं
व्याप्तम् इति व्यतिरेकध्वनिः अविगीतमविप्रतिपत्ति कृत्वा
आपालं गीयमान ईश्वर इति ध्वनिः नादावर्शो यस्य ॥१४॥
जयानुकम्पानुगुणानपेनसहजोनते ।
जय भीष्ममहामृत्युधटनापूर्वभैरव ॥ १५ ॥
जयानुकम्पेति । अनुकम्पादिगुणानपेक्षा सहजा स्वाभा-
विकी अविच्छिन्ना उन्नतिर्माहात्म्यं यस्य, अन्येषां तु “यो हि
यस्मागुणोत्कृष्ट स तस्मादूर्ध्वमुच्यते" इसाम्नायस्थिसा अपू-
वैवोन्नति भीष्मस्य सकलजगत्कम्पकारिणो महामृसोः घटने
स्वरूपचलनात्मनि असने अपूर्वोऽपि भैरव भीषणीयस्यापि
भीषणीय भीरूणां भयमिति तद्धितेन मृत्युभीतानां हृदि स्फुर
नभयपदश्च ॥ १५॥
जय विश्वक्षयोचण्डक्रियानिष्परिपन्धिक ।
जय श्रेयःशतगुणानुग नामानुकीर्तन ॥१६॥
जय विश्वेति । विश्वक्षये संहारे उच्चण्डायां क्रियायां नि-
गतः परिपन्थिको निरोद्धा यरय, श्रेयांसः शतगुणा अनुगाः
पश्चाद्धाविन यस्य, तथाविधं नामानुकीतनं यस्य ॥ १६ ॥
जय हेलावितीर्णैतदमृताकरसागर ।
जय विश्वक्षयाक्षेपिक्षणकोपाशुशुक्षणे ॥१७॥
जय हेलेति । हेलया वितीणों भक्तेभ्यो दत्तः एतदिखेष
श्रेय शतगुणानुगः अमृताकरसागरो येन, उपमन्यवे क्षीरोदो
वितीर्णः "येन विश्वक्षयाक्षेपिक्षणकोपाशुशुक्षणि" क्षणिकोऽपि
कोपानिर्यस्य ॥१७॥
जयस्तोत्रनाम चतुर्दश स्तोत्रम् । १०७ जय मोहान्धकारान्धजीवलोकैकदीपक । जय प्रसुप्तजगतीजागरूकाधिपूरुष ॥१८॥ जय मोहेति।मोहान्धकारेण अख्यातितिमिरेण अन्ध उपसं- हृनाभेददृष्टियों जीवलोक स्तस्यैक अद्वितीयो दीपः परमार्थप्रया- शकः, प्रकर्षेण मुप्तायां मायाप्रस्वापजडीकृतायां जगत्सा विश्वम- जागरूको निसप्रबुद्धोऽतएवाधिपूरुषोधिष्ठातृस्वरूपः॥१८॥ जय देहादिकुञ्जान्तनिकूजजीव जीवक। जय सन्मानसव्योमविलासिवरसारस ॥१९॥ जय देहादीति । देह एव जडत्वादद्रिकुञ्ज पर्वतदरी- गृहं नत्र निकूजत क्रन्दतो जीवान प्राणिनो जीवयनि जीवतां लम्भयति यः पर्वतगुहायां च निकूजन्तो जीवजीवाख्याः पक्षिणोभवन्तीसनुरणनशस्या क्षिप्तोर्योऽपि सनां भक्ताना गानमं चित्तमेव निर्मलत्वादिधर्मत्वाबोमतत्रविलसत्तच्छील वरसारस परमात्मराजहंसश्च शोभमानश्च व्योमचारी भवति ॥ १९ ॥ जय जाम्बूनदोदयधातूवगिरीश्वर । जय पापिषुनिन्दोल्कापातनोत्पातचन्द्रमाः॥२०॥ जय जाम्बूनदेति । जाम्बूनदं कनकं तेन उदग्र अजितो धातूद्भवश्व रसधातुसम्भूतो गिरीश्वरो मेयस्य, तथा च अवधूतः येनामलस्फुरितेसादि, पापिष्वतिशयविलयशक्तिगोचरेषु नि- न्दैव विषमदशाहेतुत्वादुल्का विद्युत्, भगवग्रिलयशक्तिपातेन हि पापिनो भगवन्तं निन्दन्ति, उत्पातने उत्पातचन्द्रमा इव अशुभसूचक इन्दुरिव इन्दुरूपेण निसमाह्लादहेतुत्वं सूच्यते ॥२०॥ जय कष्टतपाक्लिष्टमुनिदेवदुरासद। जय सर्वदशारूढभक्तिमल्लोकलोकित ॥२१॥ ।
शिवस्ताचावल्याम् जय कष्टेति । कष्टतपः क्लिष्टत्वादेवागस्यब्रह्मादिभिर्दुःखेना- साद्यते, उक्तं हि माग्वत् न योगो न तप इति भक्तिरेव तत्रो- पाय इसाह सर्वामु जाग्रदादिदशास्वारूढेन माग्व्याख्यातेन भक्तिमल्लोकेन लोकित साक्षात्कृत ॥ २१ ॥ जय स्वसम्पत्प्रसरपात्रीकतनिजाश्रित । जय प्रपन्नजनतालालनैकप्रयोजन ॥२२॥ जय स्वसम्पत्यसरेति । परमानन्दसारे स्वसम्पत्यसरे पा- श्रीकृतस्तदास्वादभाजनतां पापित निजाश्रितो भक्तजनो येन, लालनं “तेषां निसाभियुक्तानां योगक्षेमं वहाम्यहम् " इति स्थिसा योगक्षेमोद्रहः ॥ २२ ॥ जय सर्गस्थितिध्वंसकारणकावदानक । जय भक्तिमदालोललीलोत्पलमहोत्सव ॥२३॥ जय सर्गस्थितीति । सृष्ट्यादिकारणं "सदा सृष्टिविनो- दाय" इति न्यायेन एकमेवावदाजमुत्तमं चरितं यस्य, भक्तिम- देन समावेशोदेकेण आलोला रपृहणीया व्याप्ता च लीलाप- रिस्पंदो यस्य तथा भूतस्योत्पलस्यैतन्नाम्न' अस्मत्परमेष्ठिनो महोत्सवः ॥ २३ ॥ जय जयभाजन जय जितजन्म- जरामरण जय जगज्ज्येष्ठ । जय जय जय जय जय जय जय जय जय जय जय जय जय ब्यक्ष ॥२४॥ जय जयेति । जयभाजनत्वं चिद्रूपत्वेन सर्वोत्तमत्वात् स्वात्मन एव चिद्रूपेश्वरस्य वस्तुतः सर्वोत्कर्षसत्तेरपि स्वातन्त्र्येण - जयस्तोत्रनाम चतुर्दशं स्तोत्रम् । १०९ विषयव्यग्रतावस्थायां गूहितात्मत्वात्पराङ्मुखस्येव सम्मुखीक- रणात्मकमार्थनारूपो जयेति, लोडर्थ इहाद्वयनये ऐवोचित इसा- शयेनापि उक्तं जयभाजनेति, द्वयनये तु भेदमयत्वादेवेश्वरो न सर्वोत्कर्षेण वर्तते ततो जयेसाशीर्व्यथैव, अथापि वर्तेत किं पर- तया प्रार्थनया विध्यादिश्च लोडर्थ ईश्वरविषयेऽनुचित एवोति भेदेन यज्जयेत्युदीरणमनुपपन्नमेव, जितानि जन्मजरामरणानि जयमाश्रियेऽर्थः, जगज्ज्येष्ठता अनादित्वात् भूयो भूयो जय जये- त्युद्घोषणमुद्घोषयितुर्भक्तिसमावेशवैवश्यं सूचयति, व्यक्षेसाम- स्त्रणं निःसामान्योत्कर्षशालितां प्रकाशनायेति शिवम् ॥ २४ ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ जयस्तोत्रे श्रीक्षेमराजविरचिता विवृति ॥ तदेतैश्चतुर्दशभिरेकदेशैः सहजोन्मुद्रणानाम स्तोत्रम् ॥१४॥ 0 शिवस्तोत्रावल्याम ॐ तत्सत् त्रिमलतालिनो ग्रन्थाः सन्ति तत्यारगास्तथा । योगिनः पशिडताःस्वस्थास्त्वद्भक्ता एव तत्वतः॥१॥ त्रिमलेति । त्रीन् आणवमायीयकाममलान क्षालयन्ति ये ते ज्ञानक्रियायोगचर्यापदरूपा, ग्रन्थाः पारमेश्वरा , तथा तत्पार- गास्तेषामाबन्तदर्शिनो व्याख्यात्रादयोऽषि, सन्ति सत्यत पुनस्त्व- द्भक्ता एव तत्पारगाः यतस्त एव तत्वतोयोगिनः पण्डिता स्वस्थाश्च तत्पारगाः तत्वत इति चावृत्या योज्य, तत्र "योगमेकत्वमिच्छ- न्ति" इति "मय्यावेश्य मनो ये माम्" इसादि योगिनो निस- समावेशयुक्ता प्रशंसायां निसयोगे चेनि अनेन योगपादरहस्य- निष्ठत्वमेषामुक्तम्, पण्डितत्वं विद्यापादक्रियापाद सतत्वरूढिः तत्र विद्यापादेन 'ज्ञायतेऽनेनेति व्युत्पसा उपायात्मकं परशक्ति- शिवस्वरूपं ज्ञानमेकं ज्ञप्तिज्ञानमिति व्युत्पसोपेयात्मकं चिदा- नन्दधनस्वरूपं विश्रान्तिसतत्वं द्वितीयमभिधीयते, क्रियापादे- नापि वीर्यसारमन्त्रतन्त्रतदिति कर्तव्यतायुपायरूपा तदुपायक- मावाप्तस्वात्मविमर्शसारा च क्रियाऽभिधीयते, तन्त्रमन्त्राणां सम- स्तवाच्यवाचकभेदामर्शसारपरमानन्दधनशब्दराशिसतत्वमहं वि- मर्शसारं परं वीर्यम्, एतदभिन्नस्फुरतामयी च महासामा- न्यस्पन्दरूपा प्रतिभात्मा विमर्शशक्ति सृष्टिमंहारप्रधानपरवी- यम्; अपरं तु विश्लेषणादियुक्तिवशस्फुरिततत्तद्ध्येयदेवताकारा भेदमतिपत्ति मुद्रणा तत्तत्सवित्सारतैव हृदयं कुण्डमण्डलेतिक- तव्यतादेरपि परमेशज्ञानक्रियाशक्तिव्याप्तिरेव तत्त्वम्, एवं विद्यापरमार्थसतत्वविश्रान्तिपाण्डियम्, स्वस्थत्वं तु चर्यापा- दाभिधेयोक्तं करणोन्मीलननिमीलनक्रमेणैव परमेश्वरवत्सततं
भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् ।
सृष्टिसंहारादिकारि स्वस्वरूपावस्थितत्वम्, एतच्च सर्व त्वद्भ-
क्तानामेव तत्वतोऽस्तीखलम् ॥ १ ॥
मायीयकालनियतिरागायाहारतर्पिताः ।
भवन्ति सुखिनो नाथ भक्तिमन्तो जगनटे ॥२॥
मायीयेति । कालादीनां पञ्चाना असनेन तपितत्वं तत्मा-
तिपक्ष्येण यदकालकलितव्यापकनिराकाङ्क्षसर्वकर्तृसर्वज्ञस्व-
स्वरूपमाप्ति , मुखिन आनन्दघनास्तृप्ताश्च सुखसञ्चारिणो
भवन्ति ॥ २॥
सदन्तो वा हसन्तो वा त्वामुच्चैः प्रलपन्त्यमी।
स्तुतिपदोच्चारोपचाराः पृथगेव ते ॥३॥
रुदन्त इति । अमी इति समावेशशालिनो भक्ता, रुद.
न्तो वा हसन्तो वेति सर्वावस्थावर्तिनरत्वामुच्चैरुत्कृष्टतया प्रल-
पन्ति स्फुटं विमृशन्ति, अमी एव ससनो भक्ताः, स्तुतिपदो-
चार एवोपचारः सेवाप्रकार उपरञ्जनप्रकारो येषां ते, पृथगेव
भक्ता जनेभ्यो बाद्या एवेसर्थः ॥ ३ ॥
न विरक्तो न चापीशो मोक्षाकाडी त्वदर्चकः ।
भवेयमपि तूद्रिक्तभक्त्यासवरसोन्मदः ॥ ४ ॥
विरक्तो निवृत्तिधम्मा ईशो वा विभूतियुक्तःसन् ।
निजनिजेनौचित्येन त्वदर्चको मोक्षमाकांक्षन॥५॥
नेति । विरक्तः निवृत्तिधर्मा, ईशो विभूतियुक्तः, निज-
निजेनौचियेन त्वदर्चको मोक्षमाकाङ्क्षन् न तु जीवन्मुक्त'
न भवेयं मा भूवमियर्थ , अपि तु उद्विक्तेन ऊजितेन भक्त्यासवर-
सेन समावेशचमत्कृतिप्रकर्षणोन्मद उद्भूतानन्दो भवेयम् ॥४॥५॥
११२
शिवस्तोत्रावल्गाम्
बाह्यं हृदय एवान्तरभिहत्यैव योऽर्चति ।
त्वामीश भक्तिपीयूषरसपूरैर्नमामि तम् ॥६॥
बाह्यमिति । हृदय एव प्रकाशपरामर्शात्मनि स्वरूप एवा-
न्तर्मध्ये विश्वं बाह्यमगिहस समन्तात्स्वीकृसैव न तु किञ्चिदव-
शेष्य, हे ईश स्वामिन्, यस्त्वां भक्तिरेव परमालादविकासहेतु-
त्वात्पीयूषपूरास्तैरर्चति, तं भक्तिशालिनं नमामीति पूर्ववत् ॥६॥
धर्माधर्मात्मनोरन्तः क्रिययोर्ज्ञानयोस्तथा ।
सुखदुःखात्मनोभक्ताः किमप्यास्वादयन्त्यहो ॥७॥
धर्मेति । लोके शुभाशुभरूपतया प्रसिद्धत्वेन धर्माधर्मत्वं
न तु भक्तिमद्भिस्तथाऽनुष्ठीयमानत्वात्, अन्तरिति मध्ये स्थिता,
अपि किमपीति असामान्यपरमानन्दकरूपम् ॥ ७॥
चराचरपितः स्वामिन् अप्यन्धा अपि कुष्ठिनः।
शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः ॥८॥
चराचरेति । अप्यन्धा अपि, कुष्ठिन इति, लोकेसन्तं
गहिता अपीयर्थः ॥ ८॥
शिलोच्छपिञ्छकशिपुविच्छायाङ्गा अपि प्रभो।
भवद्भक्तिमहोष्माणो राजराजमपीशते ॥९॥
शिलोच्छेति । शिलोच्छमुञ्छितं शिलं पिच्छं पक्षःकशि-
पुः भोजने आच्छादने शिलोज्छपिच्छे एव कशिपुस्तेन विच्छा-
यान्यङ्गानि येषां ते, एवमतिकृशत्तयोऽपि यतो भवद्भत्त्या
महोष्माणः अतिदीप्तोजितस्वरूपास्तनो राजराजं वैश्रवणमीशते
ऐश्वर्येणाभिभवन्तीयर्थः ॥९॥
भक्तिस्तोत्रनाम पञ्चदर्श स्तोत्रम् ।
सुधार्द्रायां भवद्भक्तौ लुठताप्यारुरुक्षुणा ।
चेतसैव विभोऽर्चन्ति केचित्त्वामभितःस्थिताः॥१०॥
सुधार्द्रायामिति । सुधा परमानन्दरसः, आर्द्रा सिक्ता, भक्ति-
समावेशः तत्र, लुठता सम्यक् तत्पादानाक्रमात्स्थिति जहताऽपि,
आरुरुक्षुणा अकृतकावष्टम्भजिघृक्षुणा, चेतसैव न तु बाह्येन कु-
सुमादिना केचिदिति, परमयोगिनः त्वामभितः स्थिता अन्त-
बहिश्च सर्वत्र त्वय्येव विश्रान्ता ॥ १० ॥
रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो ।
संसारदुर्गतिहरं भवद्भक्तिमहाधनम् ॥ ११ ॥
रक्षणीयमिति । रक्षणं व्युत्थानेनानपहारः, वर्धनं क्रमा-
क्रममन्तरमनुप्रवेशे स्फीततापादनम्, बहुमानः सर्वोत्कृष्टत-
याऽऽदर ॥ ११ ॥
नाथ ते भक्तजनता यद्यपि त्वयि रागिणी।
तथापीयां विहायास्यास्तुष्टाऽस्तु स्वामिनी सदा १२
नाथेति । भक्तजनता रागिणी नायिकेव ईर्ष्यासागः अव-
दानं, तुष्टा विकसिता, स्वामिनी परशक्तिरिति प्रकृते अप्रकृते
तु स्वामिनी महादेवी ॥ १२ ॥
भवद्भावः पुरोभावी प्राप्ते त्वद्भक्तिसम्भवे।
लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता ॥१३॥
भवद्भाव इति।भक्तिसम्भवे त्वत्समावेशे, भवद्भाव पुरोभावी
त्वदूपता समासन्नैव, न तु प्रार्थनीया, यतो महति क्षीरघटे प्राप्ते
दनि या गृध्नुता अभिलाषुकता सा हता व्यथैव, दुग्धेनैव दनो
गर्मीकारात् ॥ १३॥
शिवस्तोत्रावल्याम् किमियं न सिद्धिरतुला किंवा मुख्यं न सौख्यमास्रवति । भक्तिरुपचीयमाना येयं शम्भोः सदातनी भवति ॥१४॥ किमिति । शम्भोर्भक्तिरुपचीयमाना परांधारां प्राप्यमाणा या सदातनी भवति पराभक्तिरूपतामासादयति, कि नेयम- तुला सिद्धिरपि त्वतुलैब परैब भक्तिः, मुख्यं सौख्यं परमानन्दं, वा किं न आसमन्तास्रवति सवसेवेसर्थः ॥ १४ ॥ मनसि मलिने मदीये मना त्वद्भक्तिमणिलता कष्टम् । न निजानपि तनुते तान् अपौरुषेयान्स्वसम्पदुल्लासान् ॥१५॥ मनसीति । मलिने व्युत्थानकलङ्किते मना व्युत्थानाच्छा- दिता त्वद्भक्तिरेव मणिलता सर्वसिद्धिप्रसूः रत्नशाखा' निजान सहजान तानिति समावेशेन स्फुरितान् अलौकिकान् सर्वाका- वृक्षापरिहारिपरमानन्दमयान् नमिताणिमादिरूपान् किमिव न सिद्धिरतुलेतीदानीमेवोक्तत्वात् ॥ १५ ॥ भक्तिभगवति भवति त्रिलोकनाथेन तूत्तमासिद्धिः। किन्वणिमादिकविरहात् सैव न पूर्णेति नास्ति चिन्ता मे ॥१६॥ * * भादर्शपुस्ककेऽस्य श्लोकस्य टीका नोपलभ्यते।
भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् । ११५ बाह्यतोऽन्तरपि चोकटोन्मिष- व्यम्बकस्तवकसौरभाः शुभाः। वासयन्त्यपिविरुद्धवासनान योगिनो निकटवासिनोऽखिलान् ॥१७॥ भक्तिरिति । उत्कटमतिदीप्तम् , उन्मिषत उल्लसतः त्र्यम्ब- कस्तवकस्य शिवकुसुमगुच्छस्य सम्बन्धि सौरभमामोदो येषां योगिनां ते शुभाः बहिरन्तश्च पूजनेनाधिवासिता विरुद्धवासनान् अनाश्वस्तानपि अखिलानिकटवासिनो जनान् वासयन्ति तु भवत्पूजोन्मुखान् सम्पादयन्ति बाह्ये त्र्यम्बकार्थ स्तवकः अन्तस्तु ऽयम्बक एव स्तवक एवं सौरभमामोदश्चमत्कारश्च अथ च उत्कटेन व्यम्बकस्तवकस्य धत्तूरकस्य सौरभेणाधिवासिताः निकटस्था- विभिन्नामोदानपि वाटमर्चयन्तीति अनुरणनव्यङ्गयोर्थः॥१६॥१७ ज्योतिरस्ति कथयाऽपि न किं चिद्विश्वमप्यतिसुषुप्तमशेषम् । यत्र नाथ शिवरात्रिपदेऽस्मि- नित्यमर्चयति भक्तजनस्त्वाम् ॥१८॥ ज्योतिरिति । ज्योतिर्वाह्यान्तरजं ज्ञानं यत्र नाम्ना किञ्चि- नास्ति समस्तमायीयप्रथायाः संहरणाद्विश्वमपि सकलमतिसु- सम्, अत्र शिवरात्रिपदे शिवसमावेशभूमौ समस्ताख्यातिम- थायाः संहरणाद्रात्रिरिव रात्रिस्तस्याः पदे स्थाने ॥ १८ ॥ सत्वं सत्यगुणे शिवे भगवति स्फारीभवत्वर्चने चूडायां विलसन्तु शम्भुचरणपोछद्रजःसञ्चयाः ।
शिवस्तोत्रावल्या रागादिस्मृतिवासनामपि समुच्छेत्तुं तमोजृम्भताम् शम्भो मे भवतात्त्वदात्मविलये त्रैलोक्यवर्गोथवा १९ सत्वमिति । ससाः पारमार्थिकाः सर्वज्ञत्वादयो गुणा यस्य, तत्र शिव भगवति यदर्चनं चिद्विश्रान्तिपरमार्थस्वरूपं तत्र सत्वं प्रकाशः स्फारीभवतु । चूडायां मध्यशिखायां शिवशक्त्युदिता रजः प्रकाशपत्तिनियमार्था इति सत्त्वरजस्तमःमसराः, किरणनिकराः स्वरूपोन्मीलकाः विकसन्तु । तनुश्चाख्यात्मा मोहः रागादिस्मृतिहेतुं वासनामपि सम्यगुच्छेत्तुमपुनर्मवाय जृम्भताम् । अथवा त्रैगुण्यवतस्त्वदात्मनि यो विलयः निःशेषमु- पशान्तिस्तत्र भवतात् त्वय्येव विलीनो भूयादिसर्थः ॥१९॥ संसाराध्वा सुदूरः खरतरविविध- व्याधिदग्धानन्यष्टिः भोगानेवोपभुक्का यदपि सुखमभू- जातु तन्नो चिराय। - इत्थं व्यर्थोऽस्मि जातः शशिधरचरणा- क्रान्तिकान्तोत्तमाङ्ग- स्त्वद्भक्तश्चेति तन्मे कुरु सपदि महा- सम्पदो दीर्घदीर्घाः ॥ २० ॥ संसारेति । सुदूरः कृच्छ्रपाप्यपर्यन्तः, भोगा इति उत्तमा इह विवक्षिताः, जातु कदाचिनो निषेधे, अस्मीति देहादिन- मातृरूपः, यंतस्तु शशिधरचरणाक्रान्सा ईश्वरशक्तिपातेन का- न्तं दीपं संवित्प्रधानम्, अत एवोत्तमाङ्गं स्वरूपं यस्य त्वद्भक्त-
भक्तिस्तोत्रनाम पञ्चदश स्तोत्रम् ।
om
११७
श्चेति। तथा भूतोऽपि त्वामेव सेवमानः तस्मान्मे दीर्घदीर्घाः शा-
श्वतीमहासम्पदः प्राग्वदद्वयमयी कुर्विति शिवम् ॥ १९ ।।
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ भक्तिस्तोत्रनामानि
पञ्चदशे स्तोत्रे श्रीमद्राजानकक्षेमराजाचार्य-
विरचिता विवृतिः ॥१५॥
११८
शिवस्तोत्रावल्याम्
"
ॐ न किञ्चिदेव लोकानां भवदावरणं प्रति ।
न किञ्चिदेव भक्तानां भवदावरणं प्रति ॥१॥
न किञ्चिदिति । भवदावरणं प्रति चिन्मयत्वत्स्वरूपावर-
णाय लोकानां संसारिणां न किञ्चिदेव काक्वा अपि तु सर्व-
मेव भेदेन विश्वमेव पर्यन्तसमस्तशक्तिचक्रव्यवहितत्वात्, भक्ता-
नां तु न किञ्चिदेव नैव किञ्चिदिसर्थः शिवतत्वपर्यन्तस्याशे-
पस्य स्वाङ्गकल्पनया प्रमेयीकृतत्वात् ॥ १॥
अप्युपायक्रमप्राप्यः सङ्कलोऽपि विशेषणैः ।
भक्तिभाजां भवानात्मा सकृच्छुद्धाऽवभासत॥२॥
अप्युपायेति । उपायक्रमस्तत्तच्छास्त्रोक्तज्ञानक्रियायोगच-
र्यादिविशेषणैः सर्वज्ञत्वसर्वकर्तृत्वसर्वशक्तिमयादिभिरसंख्यैः, य-
थोक्तमपि "सर्गसिद्धिवाचः क्षयेरन्" इसादि च, तथाभूतानां
शक्तिभाजां सकृत्सन्ततं शुद्धचिदेकपरमार्थोऽवभासते, समावे-
शेन स्फुरति यश्च क्रममाप्यः सकुलश्च स कथं सकृच्छुद्धश्च
भातीति विरोधाभास. ॥२॥
जयन्तोऽपि हसन्येते जिता अपि हसन्ति च
भवद्भक्तिसुधापानमत्ताः केप्येव ये विभो ॥३॥
जयन्तोऽपीति । जयन्त इति भेदानास्पदीकरणेन समा-
विशन्त , हसन्ति विकसन्ति, जिता अपीति, व्युत्थानेवाकृष्य-
माणा अपि समावेशसंस्कारादहिश्च विकसन्ति लौकजयपरा-
जययोर्हसन्येव मत्ता हृष्टा अथ च ये मत्ताः क्षीवास्ते जयपरा-
जययोर्हसन्तो भवन्ति केपीसलौकिका. ॥ ३ ॥
शुष्ककं भैव सिद्धेय मैव मुच्येय वाऽपि तु ।
स्वादिष्टपरकाष्ठाप्तत्वद्भक्तिरसनिर्भरः ॥ ४ ॥
पाशानुद्भेदनाम षोडश स्तोत्रम् ।
शुष्ककमिति । शुष्कमेव शुष्ककं क्रियाविशेषणं, शुष्ककं
भक्तिसमावेशरहितं कृत्वा तादृशौ भोगमोक्षौ भेदवादिनां स्वा-
दिष्टौ निरतिशयचमत्कारो धारादिरूढश्च, यस्त्वत्समावेशरसः
तेन निर्भरं पूर्ण कृत्वा अत एव शूष्कतानिवृत्तिः ॥ ४ ॥
यथैवाज्ञातपूर्वोऽयं भवद्भक्तिरसो मम ।
घटितस्तद्वदीशान स एव परिपुष्यतु ॥ ५ ॥
यथैवेति । अज्ञातपूर्व इति, जन्मकोटिमध्येऽप्यविदित अय-
मिति स्फुरद्रूपः भक्तिरसः समावेशप्रसरः, ईशान स्वतन्त्र तद्वदिति,
झटिसज्ञातपूर्वः यथैवेति, यं प्रकारं त्वमेव जानासीयर्थः ॥५॥
सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे।
केवलं स तथा कोऽपि भक्त्यावेशोऽस्तु मे सदा॥६
ससेनेति । अतिप्रणयपरिचयादियमुक्तिः । अन्य इति,
मार्थनातो व्यतिरिक्तः स तथा कोऽपीति, वाग्विकल्पातीत
भत्त्यावेशः समावेशकवैल्यम् ॥ ६ ॥
भक्तिक्षीवोऽपि कुप्पेयं भवायानुशयीय च ।
तथा हसेयं रुद्यां च रटेयं च शिवेत्यलम् ॥७॥
भक्तीति । भवाय संसाराय कुप्येयं ग्राम्यत्वेन संसारमव-
लोकयेयमियर्थः, अनुशयीयेति, कथमियन्तं कालं व्यामूढ आ-
समिति पश्चात्तापमनुभवेयम्, हसेयं प्रमोदेन विकसेयम्, रुधां
आनन्दाश्रुप्लुतः स्याम, रटेयमिति शिव शिवेति मुखर' स्या-
म्, क्षीवस्येव मे नानादृत्युदयो भवतु ॥ ७ ॥
विषमस्थोऽपि सुस्थोऽपि रुदन्नपि हसन्नपि ।
गभीरोऽपि विचित्तोऽपि भवेयं भक्तितःप्रभो॥८॥
१२०
शिवस्तोत्रावल्याम्
विषमस्थ इति । विषमस्थोऽपि दौर्गयोपहतोऽपि, भक्ति-
त स्वानन्दविश्रान्त', सूचीपुोपविष्ट इव लौकिकं मुखं दुख-
रूपेण पश्यन्, तथा बान्धवमरणाद्यवस्थायां रुदन्नपि तथा
अन्तश्चिद्विकासलाभात्यहृष्यन्, तथा सांसारिकप्रमोदेषु तथा
हसन्नपि रुदन शोचनीयतां मन्यमानस्तथा लौकिकव्यवहारे गभी-
रोऽपि परैरनालक्ष्योऽपि विचित्त तां दशामुत्पातमिव मन्यमा-
नस्तथा विचित्तोऽपि क्वचन सन्निपाताधवसरे नष्टस्मृतिरपि
गभीर परैरालोचितोप्यन्तर्दशाव्याप्तिप्रमोदनिर्भर. स्याम् ॥८॥
भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा बहिः ।
चिद्धर्मा यत्र न भवानिर्विकल्पःस्थितः स्वयम्॥९॥
भक्तानामिति । संवेद्यं संसारलीलादि, चिद्धर्मा चित्स्वय-
मिति साक्षात्स्फुरन् नान्याधिष्ठानेन ॥ ९ ॥
भक्ता निन्दानुकारेऽपि तवामृतकणैरिव ।
हृष्यन्येवान्तरा विद्धास्तीक्षणारोमाञ्चसूचिभिः॥१०
भक्ता इति । तव निन्दानुकारेऽपि उपहतजन्तूपक्लप्ताम-
प्रशंमामनुकुर्वन्तो भक्ता हृष्यन्येव, स्फुरत्तात्विकरूपाः परमा-
नन्दव्याप्ति लभन्त एव अन एव पाशनिर्भदिनीभिस्तीक्ष्णाभी
रोमाञ्चसूचिभिरासमन्ताद्विद्धा ॥ १० ॥
दुःखापि वेदना भक्तिमतां भोगाय कल्पते ।
येषां सुधार्दा सर्वैव संवित्त्वञ्चन्द्रिकामयी ॥११॥
दु खापीति । वेदना संवित, दुःखापि दुःखकारिण्यपि, भो.
गायेति दुःखस्य चमत्कार्यत्वाच्चमत्कर्तृनासारानन्दघनप्रमातृपद-
वित्तये तत एवाहं सर्वैव संवित् चितिशक्ति , येषां सुधार्दा पर-
मानन्दघनत्वाचन्द्रिकामयी पराशक्तिरूपा ॥११॥
पाशानुद्भेदनाम षोडश स्तोत्रम् । १२१ २ यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे । निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम्॥१२॥ योति । सुखदु खतद्धत्वादिरूपे उपरुद्धानामवस्थितानां भक्तानां निर्व्याजमन्तर्विचित्रवासनाकालुष्यशून्यं त्वद्वपुश्चिन्मय- त्वात्वत्स्वरूपस्य संवन्धि यत्स्पर्शरसास्वादमुखं तत्समं सर्वतुल्य, उक्तं च “समवुद्धिर्विशिष्यते" इति ॥ १२॥ तवेश भक्तरर्चायां दैन्यांशं द्वयसंश्रयम् । विलुप्यास्वादयन्येके वपुरच्छं सुधामयम् ॥१३॥ तवेति । तवार्चायां प्राग्व्याख्यातायां या भक्ति सेवा तस्याः द्वयसंश्रयं भेदसम्बद्धं दैन्यांशं दीनतालेशमपि विलुप्य छित्वा एके केचिदेव भेदविगलनादच्छं निर्मलं तद्वदेव सुधाम- यमानन्दरससारं वपुरास्वादयन्ति चमत्कुर्वन्ति दैन्यांशमिति । अत्रायमाशय. द्वैतभक्तरद्वैतभक्ति- सद्यः समावेशमयी द्वैतभक्ति- स्त्वतथात्वाच्छिवताऽऽकाङ्क्षामयी ॥ १३ ॥ भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तरेव हि भिन्नता। निष्प्रतिद्वन्द्वि वस्त्वेकं भक्तानां त्वं तु राजसे॥१४॥ भ्रान्ता इति । तीर्थदृश शास्त्रदृष्टयो यतो भ्रान्तास्ततो भिन्नाः, यस्मागिन्नता नाम भ्रान्तेरैक्याख्यातेर्हेतुर्भवति न तु वस्तुतः, भक्तानां तत्त्वमेकमद्वितीयं वस्तुतत्वं निष्पतिद्वन्द्रित्वा- निश्चधं राजसे दीप्यसे ॥ १४ ॥ मानावमानरागादिनिष्पाकविमलं मनः । यस्यासौ भक्तिमाल्लोकस्तुल्यशीलः कथं भवेत्॥१५॥ मानावमानेति । यस्य भक्तिमतो मानावमानयोः रागादीनां ,
शिवस्तोत्रावल्याम्
च यो निष्पाक नि शेषेण पचनं दग्धवीजकल्पतापादनं, तेन
हेतुना मन स्वान्तं विमलमकलङ्कम् ॥ १५ ॥
रागद्वेषान्धकारोऽपि येषां भक्तित्विषा जितः ।
तेषां महीयसामग्रे कतमे ज्ञानशालिनः ॥१६॥
रागेति । महीयसामिति, ईयसुनोऽयमाशय समव्याप्ति-
कत्वं ज्ञानिनां भक्तानां च, तत्र भक्तानां तु रागद्वेपान्धकारस्य
जयाद्विशेष ॥ १६॥
यस्य भक्तिसुधास्नानपानादिविधिसाधनं ।
तस्य प्रारब्धमध्यान्तदशासूच्चैःसुखासिका॥१५॥
यस्येति । भक्तिरेव सुधा अमृतं सा यस्य स्नानपानादि-
विधेः शुद्धतृप्यादिफलस्य ब्यापारग्रामस्य साधनं, प्रारब्धमध्या-
न्तदशासु, आदौ मध्ये चान्ते चार्थात्सर्वव्यापाराणामुच्चैः सुखा-
सिका परमानन्दविश्रान्तित्वम् ॥ १७॥
कीर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत् ।
भवद्भक्तिमतां श्लाघ्या लोकयात्राभवन्मयी॥३॥
कीर्य इति । येनेति हेतौ उदिति तस्माल्लोकयात्रा च
कीर्तनादिमती च ॥ १८॥
मुक्तिसंज्ञा विपक्कायाः भक्तरेव त्वयि प्रभो।
तस्यामाद्यदशारूढा मुक्तकल्पा वयं ततः॥१६॥
मुक्तिरिति । विपक्वायाः परंपरिपूर्णाया, आद्यदशारूढेति
उत्तरोत्तरमकर्षसाधनायोयुक्ता अपि प्रथमभूमिकायां लब्धस्थि-
तय मुक्तकल्पा इति मनामात्रेण सम्पूर्णमुक्तयो न तु मुक्ताः॥१९॥
१२३
पाशानुद्भेदनाम षोडश स्तोत्रम् ।
दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः।
तत्पराची विभो भाभूदपि सौख्यपरम्परा ॥२०॥
दुःखागम इति । त्वत्पराची त्वत्पराङ्मुखी ॥ २० ॥
त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत्।
तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वमेव तत् ॥२१॥
त्वमिति । यावन्न परमेश्वरः प्रीयते न तावद्भक्तिः यावच्च
समावेशमयी भक्तिः न तावत्परमेश्वरः प्रीयते, भक्तिमतश्चिदान-
न्दमयं वपुः प्रकटयति, तदेतदन्योन्याश्रयं यथा येन प्रकारेण
यथा युक्तं भवति तथा त्वमेव अतिदुर्घटकारिणः स्वातन्त्र्यादु-
भयं घटयसि न त्वत्र पुरुषयुक्तयः प्रभवन्ति ॥ २१ ॥
साकारोवा निराकारो वान्तर्वा बहिरेव वा ।
भक्तिमत्तात्मनां नाथ सर्वथाऽसि सुधामयः॥२२॥
साकारइति । भत्त्या मत्तः प्रहृष्ट आत्मा येषां तेषां, सर्वत्र
त्वं सुधामय ते हि सर्वात्मत्वेन पश्यन्ति ॥ २२ ॥
अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति ।
हर्षः प्रकाशनफलमन्यदेव जगत्स्थितम् ॥२३॥
अस्मिन्निति । सर्वजनातिघोरे तेन आपातमात्रे यद्यपि
भक्तिमतां लोकवदेव जगद्भाति तथाऽपि मृग्यमानमेतदेषां प्र-
काशानन्दघनमेव ॥ २३ ॥
गुह्ये भक्तिः परे भक्तिभक्तिविश्वमहेश्वरे ।
त्वयि शम्भो शिवे देव भक्तिर्नाम किमप्यहो॥२४॥
गुह्ये इति । गुह्ये रहस्यरूपे, परे पूर्णे, असाधारणनामोदीरणं
निरतिशयताख्यापनाय किमिस सामान्य वस्तु ॥ २४ ॥
शिवस्तोत्रापल्याम्
भक्तिभक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा।
तारं विरौषि यत्तीबा भक्तिर्मेऽस्तु परं त्वयि ॥२५॥
भक्तिरिति । वीप्सायामेव वैवश्यं प्रथयति, परं तीवा धा.
रारूढा समुत्कटा अभ्यासाद्यनपेक्षं प्रदीप्ताग्निज्वालावज्झटित्यु-
ल्लसन्ती, युक्तं चैतत् ॥ २५ ॥
यतोऽसि सर्वशोभानां प्रसंवानिरीश यत् ।
त्वयि लग्नमनघं स्याद्रत्नं वा यदि वा तृणम् ॥२६॥
यतोऽसीति । असि त्वं यतः सर्वासां शोभानां दीप्तानाच
प्रसवभूः अतो लोकापेक्षया यद्रनमिति जात्युत्कृष्टं तृणं वेसनुपा-
देयं वा, तत्त्वयि चेल्लग्नं समावेशेन सम्बद्धं, तदनZमेव भवति॥२६॥
आवेदकादाचवेद्यायेषां संवेदनाध्वनि ।
भवता न वियोगोऽस्ति तेजयन्ति भवज्जुषः॥२७॥
आवेदेति। संवेदनाध्वनि संविन्मये वैद्यवेदकक्षोभेऽपि येषां
त्वया न वियोगः ते भवन्तं प्रीया सेवमाना जयंति ॥२७॥
संसारसदसो बाह्ये कैश्चित्त्वं परिरभ्यसे।
स्वामिन्परैस्तु तत्रैव ताम्यद्भिस्त्यक्तयन्त्रणैः॥२८॥
संसारेति । संसारसदसो बाह्य संसारसभामुल्लङ्ग्य, नियत
एव पदे, कैश्चिदिति द्वादशान्तादिपदस्थैः निमीलनसमाधिपरै-
योगिभि , परिरभ्यसे समालिङ्गयसे, परैरनुभावतो युक्तितत्त्वज्ञ-
तयोन्मीलनसमाधानविदग्धैः, पुनस्तत्रैव संसारसभामध्ये एव
सक्तयन्त्रणैः परिहृतध्यानोच्चारकरणाद्यायासैः ताम्यद्भिर्गाढा-
नुरागविवशैः गादानुरागिणां हीदृश्येव स्थितिः ॥ २८ ॥
पाशानुद्भेदनाम षोड़शं स्तोत्रम् । १२५ पानाशनप्रसाधन- सम्भुक्तसमस्तविश्वया शिवया । प्रलयोत्सवसरभसया दृढमुपगुढं शिवं वन्दे ॥ २६ ॥ पानाशनेति । शिवया, दृढमुपगूढं आश्लिष्टं, शिवं चिदैरवं, चन्दे नौमि समाविशामीति यावत्, कीदृश्या पानाशनप्रसाधन- सम्मुक्तसमस्तविश्वया, पानेन रक्षणेन स्थिसा, अशनेन कब- लीकारात्मना संहारेण, प्रसाधनेन प्रकर्षेण सिद्धिसम्पदादिना सर्गेण च, सम्यक् भुक्तं पालितमभ्यवहृतं च, तथा समस्तं स- म्यक् क्षिप्तं विश्वं यया तुर्यरूपया श्रेयःस्वभावया शिवया अत एव प्रलयोत्सवेन संसृष्टिस्थितिसंहाराणामपि संहरणात्मनाऽ- भ्युदयेन सरभसया सातिशयं स्फारयन्सा तथा पानेन सारा- हरणेन, अशनेन अवशिष्टशल्कमायवस्तुभक्षणेन, प्रसाधनेनैत- दवशिष्टं समस्तं संस्कारशेषमपि विश्वं यथा अत एव विश्वस्य मलयोत्सवे सरभसया सत्वरया बाह्यक्रमेणापि तकादेः पानेन, मांसादेरशनेन, अस्थ्यादेः प्रसाधनेन भूषणताकरणेन, सम्मुक्तं स्वोपयोगपात्रीकृतं, सम्यगस्तं चात्मन्येव क्षिप्तं समस्तं च षट्- त्रिंशत्चत्वमयं विश्वं यया, प्रलयोत्सवे कल्पितसंहर्तृपदमलीनता- करणक्रीडायां सरभसया मोद्युक्तया अनुरणनशक्तथाऽपि पान- चर्वणमण्डनैः संभुक्तं सम्भोग्यतां नीतं, समस्तं विभवरूपं विश्वं यया सुन्दर्या सा लयोत्सवे उभयानन्दसमापत्त्यात्मनि सरभसा सती शक्तिमन्तमाश्लिष्यन्ती भवति ॥ २१ ॥ परमेश्वरता जयत्यपूर्वा तव विश्वेश यदीशितव्यशून्या ।
शिवस्तोत्रावल्याम् अपराऽपि तथैव ते ययेदं जगदाभाति यथा तथा न भाति ॥ ३० ॥ परमेश्वरेति । हे विश्वेश, तव अपूर्वा परमा प्रकृष्टा पर्म- शिवरूपा, ईश्वरता जयति यद्यस्मादियमीशितव्येन भिन्नेन ईश- नीयेन वस्तुना शून्या स्वात्मसात्कृताशेषविश्वत्वाक्, अपराऽपि परमशिवापेक्षया स्थूलाऽपि सदाशिवेश्वररूपा तव सम्बन्धि नीश्वरता तथैवेति अपूर्वा जयति इयर्थः, ययेदं जगद्यथेति- नीलमुखादिदेहादिभेदैन आमाति तथा तेनैव प्रकारेण भासमानं सद अहन्तामकाशसमरसीभूतत्वादेवमात्मन्यसङ्कल्पा प्रकाश- स्यैव सन्समी जडाः प्रकाश एवास्ति स्वात्मन' स्वपरात्मभिरिति- स्थिया भातीयर्थः ॥ ३० ॥ इति शिवम् ॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावली पाशानुद्भेदनामनि षोडशे स्तोत्रे श्रीक्षेमराज- विरचिता वितिः॥
१२७
दिव्यक्रीडाबहुमाननाम सप्तदश स्तोत्रम् ।
ॐतत्सत्। अहो कोऽपिजयत्येप स्वादुपूजामहोत्सवः।
यतोऽमृतरसास्वादमश्रूण्यपि ददत्यलम् ॥ ३ ॥
ॐ अहो इति । एप इत्यनुभवसाक्षिक , स्वादुरानन्दमयः,
कोऽपीति समावेशात्मा पूजोत्सवो जयति यतः पूजामहोत्स-
वादसूणि बाप्पा अपि अमृतास्वादमलं ददति आनन्दप्रभ-
वाचमत्कारमेव पुष्णन्ति ॥ १ ॥
व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः।
भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते ॥२॥
व्यापारा इति । ये त्वत्पूजोपक्रमव्यापारास्ते तावत्सिद्धिदा।
भक्तानां तु साक्षात् एव सिद्धय. त्वन्मयत्वेन प्रकाशमानत्वात्॥२॥
सर्वदा सर्वभावेषु युगपत्सपर्वरूपिणम् ।
त्वामयन्त्यविश्रान्तं ये ममैतेऽधिदेवताः ॥३॥
सर्वदति । युगपत्सर्वरूपिणम् अक्रमक्रोडीकृताशेषनिर्भर त्वां
सर्वकालं सर्वत्र ये अविश्रान्तं कृत्वा अर्चयन्ति ते मम अधिष्ठात-
देवरूपा. ॥३॥
ध्यानायासतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः ।
पूजाविधिरिति ख्यातो भक्तानां स सदाऽस्तु मे ॥४॥
ध्यानायासेति । ध्यानमुच्चारकरणादीनप्युपलक्षयति तेन
तेनोच्चारकरणध्यानाधायासस्य तिरस्कारेण अपहस्तनेन यस्त्व-
स्पर्शनोत्सवः सिद्धो प्रयत्नोसद्धः स एव भक्तानां पूजाविधिरिति
ख्यातः, यथोक्तम् "निर्विकल्पे महाव्योग्नि सा पूजा ह्यादराल्ल-
यः" इति एष स एव पूजाविधिर्मम सदाऽस्तु ॥ ४ ॥
१२८
शिवस्तोत्रावल्याम्
भक्तानां समतासारविषुवत्समयः सदा ।
स्वद्रावरसपीयूषरसेनैषां तदर्चनम् ॥ ५ ॥
भक्तानामिति । विषुवति पूजाकर्तव्यत्वेनाम्नाता सैव
विषुवत्समयः शिवैक्यप्रथात्मसमतासारभक्तानां सदैवास्ति,
तथा त्वद्भावनारस एव पीयूषरसः तेन सदैषामर्चनमस्ति ॥५॥
यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो।
पूजात्माऽसौ क्रिया तस्याःकर्तारस्त्वज्जुषः परम्६॥
यस्यानारम्भेति । न च कालक्रम इति मध्येऽपि क्रमवत्ता
नास्ति, असौ समावेशविश्रान्सात्मा क्रिया, तस्याश्च त्वज्जुषः
त्वत्समावेशतत्वज्ञा एव परं कर्तारो नान्ये ।। ६ ॥
ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः।
येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः॥५॥
ब्रह्मादीनामिति । निःसामान्यमहेश्वरसमावेशशालित्वाइ-
मादीनामपीश्वरा इति वस्त्वेवैतत् न त्वर्थवादः, सौभाग्य
भागिन इति आनन्दरसनिर्भरत्वात्सर्वस्पृहणीया', स्वमेऽपि
मोहेऽपीति न केवलं जाग्रति “यावत्स्वप्नसुषुप्तयोरिति” स्वर-
सोदितस्त्वत्स्पर्शनोत्सवस्त्वत्समावेशाभ्युदयः॥ ७॥
जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् ।
भक्तानां भवदभ्यर्चामहो वाऽवद्यदा तदा ॥८॥
जपतामिति ।जपध्यानादिपदे तावदीश्वरपूजापरा भवन्ति'
मक्ता पुनः सदैव त्वत्पूजनोत्सवाविष्टाः ॥ ८ ॥
भवत्पूजासुधास्वादसम्भोगसुखिनः सदा ।
ब्रह्मादीनामथा ब्रह्ममुख्यानामस्ति कः समः॥९॥
दिव्यकीडाबहुमाननाम सप्तदश स्तोत्रम् । १२६
भवत्पूजेति । भवत्पूजैव सुधास्वादमम्भोगस्तेन यः सुखी
भक्तिमान् नस्प ब्रह्मादीनां मध्यात् क सम न कश्चित् अत्र
युक्तिरुक्तैव ॥९॥
जगत्क्षोभैकजनके भवत्पूजामहोत्सवे ।
यत्प्राप्यं प्राप्यते किंचिद्भक्ता एव विदन्ति तत्॥३०॥
जगदिति । जगतः पत्रिशत्तत्वमयस्य स्थूलसूक्ष्मादेर्देहस्य
तवारेण विश्वस्य क्षोभ विगलत्स्वरूपतया वैवश्यमेव जनयति
यो भवत्पूजामहोत्सव तत्र यत्किञ्चित्परमानन्दात्मकं पूर्ण सं
स्वरुपं पापणाई प्राप्यते तद्भक्ता एव विदन्ति ॥१०॥
त्वद्धान्नि चिन्मये स्थित्वा पत्रिंशत्तत्वकर्मभिः।
कायवाकृित्तचेष्टाद्यैरर्चये त्वां सदा विभो ॥११॥
त्वद्धानीति । धाम तेजः पत्रिशत्तत्वानां कर्माणि काय-
वाक्चित्तचेष्टाख्यानि तैरित्थं प्रसभिज्ञातव्याप्तिकैरहं प्रभो त्वाम-
चये देहादिपत्रिशत्तत्वमयं कठिनत्वद्रवत्वप्रकाशमानत्वादाग-
मेषु बहुषु प्रतिपादितं तथा त्रिशिरःशास्त्रे “सर्वदेवमयः काय"
इत्युपक्रम्य “पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम्" इत्यादि
"त्रिशिरो भैरव साक्षायाप्य विश्वं व्यवस्थितः" इसन्तमुप-
दिष्टम् ॥११॥
भवत्पूजामयासङ्गसम्भोगसुखिनो मम ।
प्रयातु कालः सकलोऽप्यनन्तोपीयदर्थये ॥१२॥
भवदिति । भवत्पूजामयो य आसङ्गः तेन तत्परत्वेन यः
सम्भोगस्तेन मुखिनो निर्दृतस्य मे सकलो निरवशेषः अनन्तो
निरवधिः प्रयाविति इयदर्थये न त्वन्यत् ॥१२॥
शिवस्तोत्रावल्याम् भवत्पूजामृतरसा भोगलम्पटता विभो। विवर्धतामनुदिनं सदा च फलतां मम ॥१३॥ भवत्पूजेति । यावद्यावद्भवत्पूजामृतरससम्भोगो मया प्रा- प्यते तावत्तावदधिकमधिकं तत्र स्पृहणीयालुतामेव विवर्धतां तदुत्कर्षसमासादनफलेन च सदा फलतु ॥ १३ ॥ जगद्विलयसञ्जातसुधैकरसनिर्भरे।। त्वदब्धौ त्वां महात्मानमर्चन्नासीय सर्वदा॥१४॥ जगदिति । जगतो विश्वस्य विलयेन संहारेण जातो यः सुधामय एव रसः तेन निर्भरे परिपूर्णे त्वत्समुद्रे, त्वामेव महात्मनं विश्वव्यापकं सदा अर्चन अहमासीय स्थेयाम् ॥ १४॥ अशेषवासनाग्रन्थिविच्छेदसरलं सदा । मनो निवेद्यते भक्तैः स्वादुपूजाविधौ तव ॥१५॥ अशेषेति । तव पूजाविधौ भक्तै. स्वादु चमत्कारसारं, सदा मनो निवेद्यते त्वय्येवायॆते, कीहक् अशेषा वासनात्मानो ग्रन्थयो बन्धास्तेषां विच्छेदेन विदलनेन सरलं स्पष्टं सक्तकु- मृतिकौटिल्यम् ॥ १५॥ अधिष्ठायैव विषयानिमाः करणवृत्तयः भक्तानां प्रेषयन्ति त्वत्पूजार्थममृतासवम् ॥१६॥ अधिष्ठायैवेति । इमा करणत्तयोऽपि चक्षुरादिदेव्यः, विषयान् रूपादीनधिष्ठायैव आक्रम्यैव, सृष्टिरक्षादिदेवतोदयक्र- मेण भक्तानां त्वत्पूजार्थमन्तरममृतासवं प्रेषयन्ति ॥ १६ ॥ भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम् । कोऽन्यो निर्वाणहेतुः स्यात्त्वत्पूजामृतमज्जनात्॥१७
१३१
दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् ।
भक्तानामिति । भक्तिसंवेगमहोप्मा भक्त्युद्रिक्ततेजस्तेन विव-
शात्मनां प्रज्वलितात्मनां त्वत्पूजामृतमज्जनादन्यो निर्वाणहे-
तुर्न कश्चित् ॥ १७॥
सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः ।
त्वत्प्रसादैकसम्प्राप्तिहेतुर्मे नाथ कल्प्यताम् ॥१८॥
सततमिति । त्वत्पदार्चा माग्वत् सदैव आनन्दव्याप्तिपद-
त्वात्सुधापानमहोत्सवः, कीहक त्वत्प्रसादस्य चिदानन्दात्मक-
त्वात् स्वरूपनैर्मल्यस्येकः सम्प्राप्तिहेतुर्यस्य स मे सततं कल्पतां
घटताम् ॥ १८॥
अनुभूयासमीशान प्रतिकर्म क्षणाक्षणम् ।
भवत्पूजामृतापानमहास्वादमहामुदम् ॥ १६ ॥
अनुभूयोते । प्रतिकर्म प्रतिव्यापारे, क्षणात् क्षणं भूयो
भूयः, भवत्पूजामृतापानस्य सम्बन्धी मदप्रधानो इर्षप्रबल आ-
स्वादस्तदुत्थां महामुदं परमानन्दमनुभूयासम्, आमुदं मुदः पर्यन्ते
महती मुत् पूजास्वादस्य च ॥ १९ ॥
दृष्टार्थ एव भक्तानां भवत्पूजामहोद्यमः ।
तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते ॥२०॥
दृष्टार्थ इति । प्राप्तव्यस्य प्राप्तत्वान्नैषामाकाङ्क्षा कचि-
दस्ति यतस्ततो दृष्टार्थ एव, त्वत्पूजायां महानुद्यम तथा हि
तदैव पूजासमय एव, असम्भाव्यं मुखं परमानन्द, ते भक्ता
आस्वादयन्ति ।। २० ॥
यावत्र लब्धस्त्वत्पूजासुधास्वादमहोत्सवः ।
तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः ॥२१॥
રૂર
शिवस्तोत्रावल्याम
यावदिति । लवोऽपवित्रेदमाकूतं लौकिकमुखानि अमुखा-
न्येव कृत्रिमत्वात् यस्त्वकृत्रिमः समावेशानन्दः सैव पारमार्थिकी
मुखसम्पद ॥ २१ ॥
भक्तानां विषयान्वेषाभासायासादिनैव सा ।
अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते॥२२॥
भक्तानामिति । पूजासु समावेशकालेषु, ध्यानादियत्नं
विना सिद्धं प्रस्फुरन्ती त्वद्धामनि 'स्थितिः सेति लोकोत्तरा
भक्तानां जायते, कथं विपयाणां कुसुमधूपावलेपनादीनामन्वेपा-
भासो मार्गणप्रतीति स एवायासस्तं विनैव तद्विरहेणेत्यर्थ ॥२२॥
न प्राप्यमस्ति भक्तानां नाप्येषामस्ति दुर्लभम् ।
केवलं विचरन्येते भवत्पूजामदोन्मदाः ॥ २३ ॥
नेति । पूर्णशिवात्मकस्वस्वरूपलाभाद्भक्तानां प्रापणीयं
दुर्लभं वा न किचिदस्ति, भक्तयासवक्षीवाश्च केवलमप्रयोज-
नमेव विचरन्ति ॥ २३ ॥
अहो भक्तिभरोदारचेतसां वरदत्वयि ।
इलाध्यः पूजाविधिः कोऽपियोन याआकलंकितः२४
अहो इति । उदारचेतस्त्वं तत्वत एषामेव ये वरदमपि त्वां
न किचन याचन्ते, कोपीसलौकिकः ॥ २४ ॥
का न शोभा न को हादः का समृद्धिर्नवापरा ।
कोवान मोक्षः कोऽप्येष महादेवो यदर्यते॥२५॥
का इति । कोऽपीति चिदात्मा महेश्वरो यर्च्यते सा
शोभादीप्ति का न सर्वेसर्थः, एवमन्यत्, को वा न मोक्ष इति
सांख्यवैष्णवशाक्तनाकुलपाशुपातादिमोक्षातिशायिनः परमान-
न्दसारस्य विश्वपरिपूर्णतामयस्य मोक्षस्य लाभात् ॥ २५ ॥
१३३
३
दिव्यकीडाबहुमाननाम सप्तदर्श स्तोत्रम् ।
अन्तरुल्लसदच्छाच्छभक्तिपीयूपपोषितम् ।
भवत्पूजोपयोगाय शरीरमिदमस्तु मे ॥ २६ ॥
अन्तरिति । अन्तः संवित्पदे उल्लमता अच्छान्छेन वि-
श्वप्रतिबिम्बक्षमेण भक्तिपीयूपेण समावेशामृतेन पोपितं पार-
देन ताम्रमिव कालिकाक्षपणेन दिदीप्यमानकल्याणमयीकृतं इदं
मम शरीरं भवत्पूजोपयोगायास्तु, समावेशरसं सिद्धमपि त्वय्येव
चिदानन्दधने प्रविश्य बिलीयताम् ॥ २६ ॥
त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो ।
भूयासं जगदीशान एकः स्वच्छन्दचेष्टितः॥२७॥
त्वदिति । जगतां कालाग्न्यादिसदाशिवान्तानामीशः
स्वामी, स्वतन्त्रोऽहं त्वत्पादपूजाहादपरतन्त्रः स्याम्, एतदेव हि
तदसाधारणं जगदैश्वर्य स्वातन्त्र्यं च ये त्वत्पादसमावेशवैवश्यम्
अन्यपादं पारतंत्र्येऽपि नि सामान्यमैश्वर्य स्वातन्त्र्यं चेसद्भुतर-
सध्वनिः॥ २७॥
त्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो
जायते शीतलस्वादु भवत्पूजामहासरः॥२८॥
त्वद्धयानेति । परमेश्वरं चिदानन्दघनमपि पश्येयमपि स्पृ-
शेयमिति यत्त्वद्ध्याने दर्शनस्पर्शनतृट् तस्यां सत्यां केषासपीति
साक्षात्वदनुगृहीतानां शीतलस्वादु भवत्पूजामहासरो जायते
सन्तापहारिसचमत्कारत्वदर्चा परिपूर्णः समुद्रो नब एवोत्पद्यत
इसर्थः ॥ २८ ॥
यथा त्वमेव जगतः पूजासम्भोगभाजनम् ।
तथैव भक्तिमानेव पूजासम्भोगभाजनम् ॥२९॥
१३४
शिवस्तोत्रावल्याम्
यथेति । जगतो विश्वस्य मध्यात्त्वमेव व्याख्यातरूपस्य पू-
जासम्भोगस्य भाजनमाश्रयो यथा, हे ईश स्वामिन्, तथा भक्ति-
मानेव समावेशशाल्येव तादृशः पूजासम्भोगस्य भाजनं निर्वर्तक
इसर्थः ॥ २१ ॥
कोऽप्यसौ जयति स्वामिन्भवत्पूजामहोत्सवः ।
षट्त्रिंशतोऽपि तत्त्वानांक्षोभो यत्रोल्लसत्यलम्३०
कोऽपीति। नीतिसमावेशशाली ह्यसाविति स्वामिन्नितीरितः,
पत्रिशतोऽपीति देहाश्रयाणां तवारेण तद्बाह्यानां तत्वानां
लोभ इति, संविदग्निप्लोपवैषम्यम् ॥ ३० ॥
नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा ।
पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि ॥३१॥
नमस्तेभ्य इति । त्वत्पूजार्थमुपकरणानि कुसुमादीनि, येषां
भक्तिपीयूषवारिणा समावेशामृतरसेन, पूज्यानि भवन्ति त्वदा-
प्लवनेन शिवतादिव्यक्तः पूजार्हाणि जायन्ते, तेभ्यो नमः ॥३१॥
पूजारम्भे विभो ध्यात्वा मन्त्राधेयांत्वदात्मताम् ।
स्वात्मन्येव परे भक्ता मान्तिहर्षेण न क्वचित्॥३२॥
पूजेति । मन्त्रेण मननत्राणधर्मेण चिन्माहात्म्यमकर्षण
आधातव्यां शिवो भूत्वेति स्थिया सम्पाद्यां, त्वदात्मतां, पूजा-
रम्भ ध्यात्वा चिन्तयित्वा मन्त्रोच्चिचारयिषात्मक पूजामविकृत्सा-
यामेवायमेवोदयस्तस्येति नीया भक्तिप्रकर्षाच्छिवीभूय भक्ताः
स्वात्मन्येव परे पूर्णरूपेण न मान्ति न वर्तन्ते ॥ ३२ ॥
राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे
सुधासवेन सकला जगती संविभज्यते ॥३३॥
दिव्यक्रीडाबहुमाननाम सप्तदर्श स्तोत्रम् । राज्यति । उत्फुल्लैरिति महाविकारयुक्त्या श्रीभैरवीय- मुद्रानुप्रविष्टैः सुधासवेनामृतपानेन, जगनी समस्ता वेद्यवेदकभू , संविभज्यते परिपूर्यते स्वानन्दमयीक्रियते, राज्यलाभोत्फुल्लैश्चो- त्सवे सर्वा भूः आसवन संविभज्यते इति स्पष्टम् ॥ ३३ ॥ पूजामृतापानमयो येषा भोगः प्रतिक्षणम् । कि देवा उत मुक्तास्ते किंवा केप्येव ते जनाः॥३४॥ पूजेति । भोगश्चमत्कारंः. प्रतिक्षणमित्रविच्छेदेन केप्येवे- ति स्तोत्रशतैरपि स्तोतुमशक्याः ॥ ३४ ॥ पूजोपकरणीभूतविश्वावेशेन गौरवम् । अहो किमपि भक्तानां किमप्येव च लाघवम्॥३ पूजेति, पूजायां यदुपकरांभूतं परिकरीभूतं, विश्वं पत्रिशत्तत्त्वरूपं शरीरं वाह्यं च तस्य य आवेशश्चिद्भूमावनुप्रवे- शस्तेन, अत अहो आश्चर्य, किमप्यसामान्यं भक्तानां गौरवं प्रभावितत्वम्, लाघवं च प्रयत्नेनैवाशेषस्वीकारित्वमथ च मायी- यभेदभारनिवृत्तिः, गौरवे च कथं लाघवामिति विरोध- च्छाया ॥ ३५ ॥ पूजामयाक्षविक्षपक्षोभादेवामृतोदमः । भक्तानां क्षीरजलधिक्षोभादेव दिवौकसाम्॥३६॥ पूजामयति । पूजामयानि विश्वस्य चिगीमविश्रान्तिदा- योनि देवताचक्रोदयमयानि अक्षाणि इन्द्रियाणि तेपां विक्षेपः स्वविषयग्रहणपरत्वं स एव क्षोभी व्याकुलता तत एवाल्पबो- धापेक्षयाऽभिमतादपि भक्तानाममृतस्य महानन्दस्योदम उल्लासो ग्राह्यग्नाहकविप्लयेऽपि भक्तानां चिदानन्दाभिव्यक्तिरेवे- शिवस्तोत्रावल्याम् सर्थः, तदुक्तम् ग्राह्य महत्तावपि तत्स्वभाव इति यथा देवाना क्षीरसमुद्रक्षोभादमृतस्य सुवाया उल्लासः अत्रापि पूजा- सवस्य पूज्यस्य नागराजात्मन अक्षस्य नेत्रस्य यो विक्षेपः आकर्पापकर्षक्रम स एवं क्षोभ इति ॥ ३६॥ पूजां केचन मन्यन्ते धेनुं कामदुधामिव । सुधाधाराधिकरसां धयन्यन्तर्मुखाः परे ॥ ३७ ॥ पूजामिति । यथा कामधेनुरभीष्टिं पूरयति तथा केचित्फल- काङ्गिणः पूजां मन्यन्ते निश्चिन्वन्ति, परे केचिदेव, सुधाधारा- धिक अमृतधारातिशायी रसःप्रसरो यस्यास्तां पूजामेव कामधे- नुमन्तर्मुखाः सन्तो, धयन्ति पिबन्ति सद्य एव चमत्कुंवन्ती- सर्थः॥ ३७॥ भक्तानामक्षविक्षेपोऽप्येष संसारसंमतः। उपनीय किमप्यन्तः पुष्णात्यर्चामहोत्सवम् ॥३८॥ भक्तानामिति । अक्षविक्षेप इन्द्रियप्रसरो, लोके संसारत्वेन संमतः, किमपीसलौकिकमानन्दरूपम्, उपनीय प्रापय्य भक्तानां करणे श्रीचक्रप्रसरसमाविष्टानाम्, अर्चामहोत्सवं पूर्णस्वरूपवि- श्रान्ति पुष्णाति, तथा च ममैव "प्रज्ञामन्दरमक्तितासममहाभेदो- दधेरुगतान्यक्षक्षेपविवर्तनाभिरभितो दुग्धामृतान्यादरात् । व- श्चित्वा क विकल्पदैन्यविरहं भूतीरनास ये पायं पायमलं पिवन्ति जगति श्लाघ्यास्त एवापरा" इति ॥ ३८ ॥ भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि । चित्रं दैन्याय नो यावदीनतायाः परं फलम् ॥३९॥ भक्तीति । त्वयि स्वात्मभूते यद्भक्तिक्षोभसमावेशवैवश्याद- र्चनं तच्चित्रमाश्चर्य, दैन्याय न भवति न कांचिद्दीनतां फलति, दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् । अन्येषां ह्येतदाकाङ्क्षाप्रधानमेवं न केवलमेवं यावत्मत्युत दीन- सया लौकिक्या स्पृहायाः परं पार्यन्तिकमानन्दरूपं विभवादि- फलस्यापि फलभूतं परं च पूर्ण फलम् ॥ ३९ ॥ उपचारपदं पूजा केषांचित्त्वत्पदाप्तये । भक्तानां भवदैकात्म्यनिवृतिप्रसरस्तु सः॥ ४० ॥ उपचारेति । केपांचिदिति भेदनिष्ठानां त्वत्पदाप्तये त्वदीय पदं प्राप्तमुपचारपदं क्रियाभूराराधनोपायमात्रमेव, भ- क्तानां तु भवदैकात्म्यरूपाया निर्दृतेः स प्रसरो विकासः स इति विधेयापेक्ष पुंलिङ्गम् ॥ ४० ॥ अप्यसम्बद्धरूपाऽर्चा भक्त्युन्मादनिरर्गलैः। वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि ॥४१॥ अपीति । पूजायां मनागपीति, कर्तव्यताऽन्यथाभावे प्रसवायः य प्रक्रियाशास्त्रे युक्तः, आश्चर्य पुनरिदं भक्त्युन्मादेन समावेशवैवश्येन निरर्गले. विस्मृतेतिकर्तव्यतानियमैरसम्ब- द्धरूपापि असमअसाऽपि अर्चा, वितन्यमाना प्रसार्यमाणा, कामपीति क्रियानिष्ठैः सम्भावयितुमष्यशक्यामसामान्यां,प्रतिष्ठां सम्यगाभिमुख्येनावस्थिति त्वयि लभते इसद्भुतध्वनिः॥ ॥४१॥ स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम् । शम्भो त्वमेव ललितः पूजानां किल भाजनम्॥४२॥ स्वाद्विति । स्वादुश्चमत्कारसारो यो भक्तिरसस्तस्या- स्वादनेन, स्तब्धीभूतं चलितचाञ्चल्यं यन्मनस्ततश्च्युत् च्यवनं प्रसरो यासां, पूजानां विश्वार्पणक्रियाणां, तासां ललितो हृद्युचितस्त्वमेव चिदात्मा, शम्भो श्रेयोनिधे, भाजनमाश्रयः, ॥
शिवस्तोत्रावल्याम
किलेति युक्तौ एतदेव युज्यत इसर्थ , अन्यस्य ब्रह्मादेर्भेदमयत्वे.
नेगर्चापात्रत्वाभावात् पूजानामिति बहुवचनं विचित्रविश्रान्ति-
सारताप्रथनाय ॥ ४२ ॥
परिपूर्णानि शुद्धानि भक्तिमान्ति स्थिराणि च ।
भवत्पूजाविधौ नाथ साधनानि भवन्तु मे ॥४३॥
परिपूर्णानीति। भवतश्चिन्नाथस्य, पूजाविधौ अवश्यकार्या-
यामर्चायां,मम साधनानि चक्षुरादीनि अतएव चिन्मरीचिमयत्वा
च्छुद्धानि, भक्तिमन्ति विश्वापणेन त्वत्सेवापराणि, कदाचिदपि
पाशववासनाऽस्पृष्टत्वात् स्थिराणि नियमीद्देश्येव भवन्तु ॥४३॥
अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो।
अहो करणवृन्दस्य काऽपि लक्ष्मीविजृम्भते॥४४॥
अशेषेति । इमामेव दशां विमृशन्नाह, शक्तीनामुल्लासम-
सरादिप्रभवशीलमभो, अशेषाणां पूजानां विचित्राणां सत्काशे
शोभनगारूपे, त्वत्पूजाकर्मणि पूर्णचिदानन्दघनश्रीमन्नाथभैर-
वस्वरूपविश्रान्तौ, करणबन्दस्य रश्मिचक्रस्य, अहो, काऽपि
स्वसंवित्साक्षिका, लक्ष्मीः दीप्तिर्विजृम्भते स्फुरतीति, महार्थपरि-
पूर्णस्यास्य सारोपदेशवर्षीणि इमानि सूक्तान्युल्लसन्ति ॥ ४४॥
एषा पेशलिमा नाथ तवैव किल दृश्यते ।
विश्वेश्वरोऽपि भृत्यैर्यदय॑से यश्च लभ्यसे ॥४५॥
एषा इति । तान्येवाह, पेशलिमा सरलता, तवैवेति चिद्घ-
नत्वेन सर्वेषामात्मनो, विश्वेश्वरत्वेऽपि सदाशिवादीनामपि
स्वामी, अWसे समाविश्यसे लभ्यसे निरर्गलमात्मीक्रियसे ॥४५॥
सदा मूर्तादमूर्ताद्वा भावाद्यद्वाप्यभावतः।
उत्थेयान्मे प्रशस्तस्य भवत्पूजामहोत्सवः॥४६॥
दिव्यक्रीडाबहुमाननाम सप्तदर्श स्तोत्रम् । १३६
सदेति । मूर्ती भावो घटादि अमूर्त सुखादिः मूर्तो भावो
घटस्य कपालानि अभावो विकल्पकल्पितप्रसज्यप्रतिषेधात्मा तत,
उत्थेयादिति समस्तं भावाभावपदमधरीलय उन्मज्ज्यामियर्थः,
भवत्पूजामहोत्सवस्त्वद्विश्रान्त्युदयः, भावादिसादिका ल्यब्लोपे
पञ्चमी ॥ ४६ ॥
कामक्रोधाभिमानस्त्वामुपहारीकृतैः सदा।
येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽसि तत्त्वतः॥४७॥
कामक्रोधति । सर्वचित्तवृत्तीनां कामादिभिः स्वीकारात्ते-
षामेवोपादानमुपहारीकृतैविचार्य त्वय्येवापितैः, तत्वतस्तुष्टोऽसि
"हामर्षभयनोधैर्मुक्तो य स च मे प्रिय " इसभिधानात् ,
ननु च श्रीमन्महार्थमारोक्तिमये स्वकृतस्तोत्रेऽयं श्लोको
दद्रुस्थानीयः ससम् अशेषवासनाग्रन्थीसादिकस्यापि स्मर्तव्यं
लोकवद्भवत्तमे निजनिजेषु अस्मिन्नेव जगात आवेदकत्पा-
नाशनसमुल्लास न कापि गत्वेऽत्यादयस्त्वनुगुणा अप्यत्र श्लोका
न सन्ति उदयमसमअसशय्याप्रस्तारिण विश्वावर्तस्यैव प्रसादः,
एवमन्येष्वीप स्तोत्रष्वेवंपायं बहुराचितमस्ति न त्वस्माभिर्नोद्घा-
टितमियलम् सूक्तान्येवानुसरामः ॥ ४७ ॥
जयत्येष भवद्भक्तिभाजां पूजाविधिः परः।
यस्तृणैः क्रियमाणोऽपि रत्नैरेवोपकल्पते ॥४८॥
जयतीति । अपिभिन्नक्रमस्तेन तृणैराप क्रियमाणः यो
रत्नरेवोपकल्पते पूर्णविश्रान्तिप्रदो भवति, स भगवद्भक्तिभाजां
त्वत्समावेशेन शालिनां, परः पूर्णः, पूजाधिर्जयतीति शिवम्।।४८॥
इति श्रीमदीश्वरप्रत्यभिज्ञाकारोत्पलदेवाचार्यविरचितमप्तदशस्तोत्रे
परमेश्वरस्तोत्रावलौ दिव्यक्रीडाबहुमाननामनि
श्रीक्षेमराजविरचिता विवृतिः ॥ १७ ॥
१४० शिवस्तोत्रावल्याम् क्तम् ॐ तत्सत् । जगतोन्तरतो भवन्तमाप्त्वा पुनरेतद्भवतोन्तराल्लभन्ते । जगदीश तवैव भक्तिभाजो न हि तेषामिह दूरतोऽस्ति किंचित् ॥१॥ ॐ जगत इति । हे जगदीश ये तवैव चिद्रूपस्य स्वात्मनो, भक्तिभाजस्ते जगतो विश्वस्यान्तरंतो मध्यात्, भवन्तमाप्त्वा प्रकाशमानव्यवहारपदादेव प्रकाशरूपं त्वां लब्ध्वा, पुनरस्य ते जगद्भवतश्चिद्रूपस्यान्तरतो मध्याल्लभन्ते, यस्मात्तेषां भक्ति- भाजां सम्यक् प्रसभिज्ञातविश्वात्मकत्वत्स्वरूपाणामिह जगति दृरे न किचिदिति मर्वस्य स्वाङ्गकल्पत्वेन स्फुरणात, तदु- "यो मां पश्यति सर्वत्र सर्व च मयि पश्यति ।" इसादि गीतासु ॥१॥ क्वचिदेव भवान्क्वचिद्भवानी सकलार्थक्रमगर्भिणी प्रधाना । परमार्थपदे त नैव देव्या भवतो नापि जगत्रयस्य भेदः॥२॥ कचिदिति । मुक्तौ कचिदिति, तदुपायतायां भोगे च भवानी परा शक्तिः, सकल कालादिक्षिसन्त', अर्थक्रमः प्रमेय- राशिर्गर्भेऽन्तः, शिम्बिकाबीजवत्संस्पृष्टौ यस्याः परमार्थपदे गलितकल्पनायां तात्विक्यां दृष्टौ पुनः जगत्रयस्यापि भवाति- भवाभयात्मनः त्वत्तो भेदो नास्ति कि पुनः शक्तेः॥२॥ नो जानते सुभगमप्यवलेवपन्तो लोकाः प्रयत्नसुभगा निखिला हि भावाः ।
आविष्कारनाम अष्टादशं स्तोत्रम् । चेतः पुनर्यदिदमुद्यतमप्यति नैवात्मरूपमिह हा तदहो हतोऽस्मि ॥ ३ ॥ नो जानत इति । लोकास्तावदवलेपवन्त सन्तः, सुभगमपि चिदात्मकं रूपं भावानां न जानन्ति, यतः प्रयत्न ने सर्वथा नि- श्चयेन, सुभगा उत्कृष्टा एव, निखिलाः सर्वे, भावाः प्रकाशमान- त्वेन चिन्मयत्वात्पुनरास्तां. भावस्वरूपज्ञानं आश्चर्यमात्मनोऽपि रूपमुद्यतमपि चेतो यत्रैवावैति समावेशधारारुरुक्षारणकाक्रान्त- मपि यश्चिदैकात्म्यं न लभते तत् हतोऽस्मि इति जगति समावेश प्रकर्षमलभमानस्य ताम्यत इयमुक्तिः॥३॥ भवन्मयस्वात्मनिवासलब्ध- सम्पद्भराभ्यर्चितयुष्मदधिः। न भोजनाच्छादनमप्यजस्त्र- मपेक्षते यस्तमहं नमामि ॥ ४ ॥ भवन्निति । भवान् चिद्रपः प्रकृतं रूपं यस्य तथाभूते स्वा मनि निवासेन विश्रान्सा लब्धेन सम्पद्रेण परमानन्दभूति- प्रसरेणाभ्यचितौ गाढमभेदेनावष्टब्धौ युष्मदडी येन तथा भूतो- ऽजस्त्रं यो भोजनाच्छादनमपि नापेक्षते अश्वन्यद्वातद्वति स्थिया व्यवहारानपेक्ष पूजापर एव तमहं नौमि ॥ ४ ॥ सदा भवदेहनिवासस्वस्थो- प्यन्तः परं दह्यत एष लोकः। तवेच्छया तत्कुरु मे यथाऽत्र त्वदर्चनानन्दमयो भवेयम् ॥ ५ ॥ सदोति । सदा भवदीये देहे उपचिते स्वरूपति वसनेन वस्तुत स्वस्थ , आनन्दमयोप्येष लोकः, तवेच्छया भेदमवाहरू-
शिवस्तोत्रावल्याम
पया त्वन्मय्या शक्त्या, अतः परमतिशयेन, दह्यते तदुःखैरायास्यत
यत एवं यस्मात्तवेच्छयाऽनुजिघृक्षयाऽत्र कल्पिते विपये, त्वं मे
भक्तस्य, तदिति तथा कुरु यथाऽहं त्वदर्चनानन्दमयः स्याम्॥५॥
स्वरसाादतयुष्मदासपद्म-
दयपूजामृतपानमुक्तचित्तः।
सकलार्थचयेष्वहं भवेयं
सुखसंस्पर्शनमात्रलोकयात्रः ॥ ६ ॥
स्वरसेति । स्वरसेनाप्रयत्नमेवोदिता या युष्मदध्रिपूजा
त्वत्समावेशसम्पत्सवामृतपानं तत्र सक्तचित्तो विश्रान्तिमानसः,
सकलेषु हेयोपादेयाद्यभिमतेषु अर्थचयेषु व्यवहारेपु, अहं सुख-
स्यर्शनमात्रलोकयात्रो भवेयं स्वानन्दोल्लाससारजगद्व्यवहारः
स्याम् ॥ ६॥
सकलव्यवहारगोचरे
स्फुटमन्तः स्फुरति त्वयि प्रभो।
उपयान्त्यपयान्ति चानिशम्
मम वस्तूनि विभान्तु सर्वदा ॥ ७ ॥
सकलति । सर्वदा सदाऽनिशं निर्विरामं, व्यवहारविषय-
स्यान्तर्मम त्वयि चिद्रपे, स्फुटं स्फुरति सति सर्वाणि वस्तूनि
उपयान्त्यपयान्ति, च सृज्यमाणानि संह्रियमाणानि च, स्फुरन्तु
त्वदाविष्टोऽहं सदा भावसर्गसंहारकृत्स्यामित्यर्थः, उपयान्स-
पयान्ति चेति पाठे आगच्छन्तोऽपि दर्पणप्रतिबिम्बवद्विलीय-
माना एव न त्ववस्थिति मनागपि भजमाना भान्तु इति व्या-
ख्येयं च एवार्थे उद्यन्तो विनश्यन्तश्च लोकवद्यथा भान्ति तथा
भान्विति वा योज्यम् ॥ ७॥
आविष्कारनाम अष्टादश स्तोत्रम् । सततमेव तवैव पुरेऽथवाऽ- प्यरहितो विचरेयमहं त्वया । क्षणलवोप्यथ मा स भवेत् स्म मे न विजये ननु यत्र भवन्मयः ॥ ८॥ सततमिति । तवैव सम्बन्धिनि पुरे पूरके शान्ते पदे, विचरेय शाक्तसमावेशशाली स्याम्, अथवा त्वया विरहित इात शाम्भवसमावेशमयः अथवा भवन्मय इति, त्वद्रूपो विमुक्तस्व- भावो, यत्र न विजये न सर्वोत्कर्षेण वर्ते, स क्षणलवोऽपि में मा भूीदत्युत्तरोत्तरसातिशयदशाशंसापरमेतद, ननु वितर्के ॥८॥ भवदङ्गपरिस्रवत्सुशीता- मृतपूरैभरिते समन्ततोऽपि । भवदर्चनसम्पदेह भक्ता- स्तव संसारसरोन्तरे चरन्ति ॥ ४ ॥ भवदिति । तव भक्ताः भवदर्चनसम्पदा त्वद्विश्रान्तिसम्प- दोपलक्षिता, इह संसारसरसो भवसमुद्रस्यान्तरे मध्ये, चरन्ति व्यवहरन्ति, कीशि भवदीयात्परशक्तिरूपादनात्परितः सम- तात्स्रवद्भिः सुष्टु शीतलैः दुःखानलतापोपशान्तिदैरमृतपूरैरा- नन्दोल्लासैः समन्ताद्भरिते पूरिते इति यावत् ॥९॥ महामन्त्रतरुच्छायाशीतले त्वन्महावने । निजात्मनि सदा नाथ बसेयं तव पूजकः॥३०॥ महामन्त्रेति । महामन्त्रः परवाग्रूपः शुद्धाऽहंविमर्श एव शक्तिशाखाशतै प्रसृतत्वात्तस्तस्य छायया कान्त्या शीतले :
शिवस्तोत्रावल्या भेदसन्तापहारिणि, त्वन्महावने त्वमेव चिदानन्दात्मा महावन विपुलं विश्रान्तिस्थानं तत्र, निजात्मनि स्वस्वभावे, नाथ सदा तव पूजकः त्वदर्चापरो, वसेयं स्थिति बनायाम् ॥ १०॥ प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा । मम नाथ तथा पुरः प्रथां ब्रज नेत्रत्रयशूलशोभितः॥ ११ ॥ प्रतिवस्त्विति । प्रतिवस्तु प्रतिभावं, समस्तजीवतः सर्वेषा जीवानामसि, त्वं यथा प्रतिभामयः संविद्रूप, नीलादिग्रहणान्य- थानुपपत्या प्रतिभासि अप्रत्यभिज्ञातोऽपि वस्तुतः स्फुरासे, तथा मम दामस्य, नाथ पुरोऽग्रे सर्वत्र, नेत्रत्रयेण शूलेन च शोभित. निरतिशयासाधारणाभिज्ञानेन सम्यक् प्रत्यभिज्ञातः सन्, प्रथां व्रज प्रकटीभव समावेशेन स्फुरत्यर्थ , नेत्रत्रयशूले असाधारणाभिज्ञानोपलक्षणपरे न पुनरत्राकारे भरः समस्तजी- वत इति योगे शम् ॥ ११ ॥ अभिमानचरूपहारतो समताभक्तिभरेण कल्पितात् । परितोषगतः कदा भवा- न्मम सर्वत्र भवेददृशः पदम् ॥१२॥ अभिमानेति । अभिमानोऽहङ्कार एव चरु' स्थालीपाकस्तः स्योपहारो भगवत्यर्पणं पराहंभावग्रहणं तत', कीदृशान्मम महे- श्वरः स्वामी अस्तीत्येवं, समताप्रधान. यो भक्तिरसः सेवाप- सरस्तेन कल्पितात्सम्पादितात्परितोषं गतः प्रसन्नः सन्, भवा- आविष्कारनाम अष्टादश स्तोत्रम् । कदा सर्वत्र मम दृशो दर्शनस्य, पदं विश्रान्तिभूभवेत्, गलिते देहायभिमाने वन्नयमेव विश्वं साक्षात्कुर्यामित्यर्थः ॥ १२ ॥ निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः । सकलं जनवृत्तमाचरेयं रसयन्सर्वत एव किंचनापि ॥ १३ ॥ निवसनिति । अहं भवदर्चनविधिमात्रे मग्नचित्तः आसक्त सन्, परमामृताब्धिमध्ये चिदानन्दसमुद्रस्यान्तर्वमन, सकलं जनवृत्तं लोकचेष्टितमाचरेयं, कीडक सर्वतः सर्वस्यैव मध्यात्, किंचनापि अलौकिकमानन्दस्वरूपमभीष्टं रसयन् ॥ १३ ॥ भवदीयमिहास्तु वस्तुतत्वं विवरीतुं क इवात्र पात्रमर्थे । इदमेव हि नामरूपचेष्टा- यसमन्ते हरते हरोऽसि यस्मात् ॥३४॥ भवदीयमिति । इह जगति, यावकिंचिद्वस्तु तत्सर्व भवदीयं स्वद्विभूतिरूपमिति, एतदोमिसेवास्तु, अत्रार्थतत्वं विवरीतुं क इव भक्तिमान् पात्रं न कश्चित्, यतो यावद्वयं एतद्विचारयितुं प्रक्रमा- महे तावद्यदुपक्रमविचारः तत्त्वदीयमिदमेवासामान्यमनुभवसिद्धं नामरूपचेष्टादि महेश्वर इयादि नामचिद्घनं रूपं सर्वसृष्टिसंहार- कारिणी चेष्टादिग्रहणात्सर्वज्ञता स्वतन्त्रादिरूपस्तत्प्रथममेव स्फुरत् तद्धरते समावेशवैकल्यापादनेन विस्मृतव्यापारानस्मा- न्सम्पादयति, युक्तं चैतत् यतस्त्वं हरतीति हर इसन्वर्थनाम्ना १४॥
शिवस्तोत्रावल्याम्
शान्तये न सुखलिप्सुता मना-
ग्भक्तिसम्भृतमदेषु तैः प्रभो।
मोक्षमार्गणफलाऽपि नार्थना
स्मयते हृदयहारिणः पुरः॥ १५ ॥
शान्तय इति। भत्त्या सम्भृतो मदो यत्र तेषु त्वदासेषु विषये,
शान्तये दुःखनिचये,या सुखलिप्सुता भोगस्पृहा, सा मनागपि
नास्ति, भक्तिसम्भृतमदत्वादेव, तैश्च पुरः प्रभो इनि साक्षात्कृत-
स्याये, मोक्षमार्गणफलाप्यर्थना न स्मर्यते, कीदृशप्रभोः हृदयहा-
रिणः मायाप्रमातृतां शमयतः, अत एव येषां हृदयमेव हृत ते
कथमन्यत्स्मरेयुरिसेषां समावेशपरतैवोक्ता ॥ १५ ॥
जागरेतरदशाथवा परा
याऽपि काचन मनागवस्थितेः।
भक्तिभाजनजनस्य साखिला
त्वत्सनाथमनसो महोत्सवः॥१६॥
जागरेति । अवस्थितेर्जगद्वयवस्थाया सम्बन्धिनी या
काचित् जागरस्वमसुषुप्तदशा,मनागिति सङ्कुचिताऽपि,सा सर्वा,
भक्तिमतस्त्वत्सनाथमनसः त्वदधिष्ठितचित्तस्य, महोत्सवो
महाभ्युदयः, त्वत्सनाथत्वादेव ॥ १६ ॥
श्रामनोऽक्षवलयस्य वृत्तय-
स्सर्वतः शिथिलवृत्तयोऽपि ताः।
त्वामवाप्य दृढंदीर्घसंविदो
नाथ भक्तिधनसोष्मणां कथम् ॥१७॥
१४७
माविष्कारनाम अष्टादर्श स्तोत्रम् ।
आमन इति। हे नाथ, आमनो मनःपर्यन्तं, अक्षवलयस्येन्द्रि-
यग्रामस्य, वृत्तयो व्यापाराः, सर्वत्र शिथिलवृत्तयश्चञ्चला अपि
यास्ताः, भक्तिधनेन सोष्मणामूर्जस्विनां, त्वां चिद्रूपं,प्राप्य,दृढा
अशिथिलाः दीर्घाश्च त्वदैकात्म्येन त्वद्वदेवावस्थानवः शुद्धबोध-
रूपाः, कथमिति स्वात्मन्येवास्य विस्मयः ॥ १७ ॥
न च विभिन्नमसृज्यत किञ्चिद-
स्त्यथ सुखेतरदत्र न निर्मितम् ।
अथ च दुःखिच भेदि च सर्वथा-
ऽप्यसमविस्मयधाम नमोऽस्तु ते ।। १८ ॥
न चेति । आदिसर्गादौ त्वया न च नैव, किंचिद्भिनम् अस-
ज्यत सृष्टं नाप्यस्ति, स्वतो विभिन्नं किंचित, अथशब्दोऽप्यर्थे,
सर्वस्य चेत्यमानत्वेन चिन्मयत्वाइँदासम्भवः, अथ च मुखे-
तरदुःखरूपं न किचिनिर्मितम् उक्तादेव हेतोः, किचिच्छन्दस्त्रि-
योज्यः, अथ चैवं सर्वथैव दुःखि च भिन्नं चापिरेव शब्दार्थः,
त्वदैकात्म्यामत्यभिज्ञानाच्चैव, एवमसमविस्मयधाम असामान्या-
श्चर्यभूमे, ते तुभ्यं, नमोऽस्तु ॥ १८ ॥
खरनिषेधखदामृतपूरणो-
च्छलितधौतविकल्पमलस्य मे।
दलितदुर्जयसंशयवेरिण-
स्त्वदवलोकनमस्तु निरन्तरम् ॥ १९ ॥
खरेति । खरा विषमा या निषेधखदा त्वदख्यातिदरी तस्या
अमृतेन त्वदद्वयपीयूषेण यत्पूरणं तेनोच्छलितमुत्प्लावितमत
एव धौतं विकल्पमलं यस्य तस्य, तथा दलितश्चूर्णितो दुर्जयः
संशय एव वैरी रिपुर्येन तादृशः, सतो मम, त्वदवलोकनं चिघ-
नत्वदात्मस्फुरणं, निरंतरं घनमस्तु ॥ १९ ॥
शिवस्तोत्रावल्यामू
स्फुटमाविश भामथाविशेयं
सततं नाथ भवन्तमस्मि यस्मात् ।
रभसेन वपुस्तवैव साक्षा-
त्परमासत्तिमतः समर्चयेयम् ॥ २० ॥
स्फुटमिति । हे नाथ, त्वं तावत्स्फुटं प्रकटं कृत्वा न तु गूहि-
तत्वेन, समाविश, अथानन्तरमेवंविधे त्वयि सति, उपजातसाम-
र्योऽस्मि अहं भवन्तं सततमाविशेयं गाढावष्टम्भेन स्वीकरोम्ये-
वेति नियोगे लिङ्, यस्मादिति एवं सति, परमासत्तिगतोऽति-
निकटं प्राप्तस्तवैव, रभसेन त्वरया, साक्षाद्रपुस्तात्विकं स्वरूपं,
सम्यगर्चयेयं समाविशेयमिति यावत् ॥ २० ॥
त्वयि न स्तुतिशक्तिरस्ति कस्या-
प्यथवाऽस्त्येव यतोति सुन्दरोऽसि ।
सततं पुनरर्थितं ममैत-
घदविश्रान्ति विलोकयेयमीशम् ॥ २१ ॥
त्वयीति । कस्यापीति, ब्रह्मोपेन्द्ररुद्रादेरपि भेदमयत्वेन
चिद्घनपरमेश्वररूपामत्यभिज्ञानात्, अतिसुन्दर इति, चिदा-
नन्दघनस्वात्मरूपत्वादतिस्पृहणीयो हृदयहारी, अतो यस्त्वा-
मात्मानं प्रत्यभिजानाति, तस्य कस्याप्यसामान्यस्य, त्वयि स्तु-
तिशक्तिरस्त्येव, कस्यापीत्यावर्त्य योज्यं, मम पुनः स्तोतुस्स-
ततमेतदार्थतं बाञ्छितं, यदविश्रान्ति निर्विरामं, त्वामीशं
लोकयेयम् साक्षात्कुर्यामिति शिवम् ॥ २१ ॥
इति श्रीमदुत्पलदेवाचार्यविरचितौ स्तोत्रावलौ आविष्कारनाम्न्यष्टादशे
स्तोत्रे श्रीराजानकक्षेमराजविरचिता विवृतिः ॥१८॥
उद्योतनाभिधानमेकोनविंशं स्तोत्रम् ।
ॐ प्रार्थनाभूमिकातीतविचित्रफलदायकः ।
जयत्यपूर्ववृत्तान्तः शिवः सङ्कल्पपादपः ॥१॥
प्रार्थनेति । सङ्कल्पतरुर्वाञ्छितमेव ददाति शिवस्तु
पार्थयितुमशक्यमपीत्यपूर्ववृत्तान्तः ॥ १॥
सर्ववस्तुनिचयैकनिधाना-
स्वात्मनस्त्वदखिलं किल लभ्यम् ।
अस्य मे पुनरसौ निज प्रात्मा
न त्वमेव घटसे परमास्ताम् ॥ २॥
२॥
सर्ववस्त्विति । त्वदिति, त्वत्तः स्वात्मनः सर्वार्थैकाथ-
यात्किल विश्वं लभ्यम् अस्येति, सदा स्वरूपनिमालनप्रवणस्य
मम पुनः परं लभ्यमास्तां, त्वमेव निज आत्मा स्वं स्वरूपं न
घटसे व्युत्थानसमये न प्रकाशसे इति यावत् ॥२॥
ज्ञानकर्ममयचिदपुरात्मा
सर्वथैष परमेश्वर एव।
स्यादपुस्तु निखिलेषु पदार्थ-
प्वेषु नाम न भवेत् किमुतान्यत् ॥ ३ ॥
ज्ञानकर्मेति । सर्ववस्तुषु चिद्वपुर्ज्ञानक्रियात्मा परमेश्वर
आत्मैव सर्वेण प्रकारेण त्वधिष्ठानेन वपुः स्वरूपं स्यादस्तीति
सम्भाव्यते, एष इति स्फुरद्रूप , ननु विचित्रकार्यकरणानां ना-
नादेशस्वरूपाणां कथमेकेश्वरात्मता सम्भाव्यते इत्याह एष
वस्तुषु अन्यथा पुनर्नामैव संज्ञैव न भवेत, किमुतान्यत्कार्यका-
रणस्वरूपादिकं प्रकाशमयत्वं विना कस्याप्यासिद्धेरन्यथा
इत्यध्याहार्यम् ॥३॥
१५० शिवस्तोत्रावल्याम् विषमातिमुषाऽनेन फलेन त्वदृगात्मना । अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः॥४॥ विपमेति । विपमाति संसारतापं मुष्णाति यस्त्वद्गात्मा त्वत्साक्षात्काररूपः पन्था तेन, मे अभिलीय, फलेन फलतः, वन्मयी त्वदेकरूपा, गतिः प्राप्तिरस्तु, भुत्का देवदत्तगमनमिति वत्, अभिलीयेत्यत्र कामत्यये योजीयत्वा परतोऽस्त्विति योज्यम् अभिलीलेति पाठे अभिलीलस्फुरच्चिदानन्दविलासेति व्याकर्तव्यम् ॥४॥ भवदमलचरणचिन्तारत्नलता- ऽलङ्कता कदा सिद्धिः। सिद्भजनमानसानां विस्मयजननी घटेत मम भवतः ॥५॥ भवदिति । भवतोऽमलाः शुद्धा ये चरणाः ज्ञानक्रियादि- मरीचयस्तेषु चिन्ता पुनः पुनर्निभालनं सैव सर्वसम्पत्यदत्वा- द्रनलता, अलङ्कता सम्पाप्ततत्तदनेकशःशोभा, कदा मम पूर्णा सिद्धिर्घटेत भवतः सकाशात्कीदृशी सिद्धजनमानसानां योगि- चिचानां विस्मयजननी ॥५॥ कर्हि नाथ विमलं मुखबिम्ब तावकं समवलोकयितास्मि। यस्रवत्समृतपूरमपूर्व यो निमन्जयति विश्वमशेषम् ॥६॥ कहाँति । व्युत्थानावस्थितस्येयमुक्तिः, कहिं नाथ विमलं मुखबिम्बं परं शान्तरूपं, तव समवलोकयितास्मि साक्षात्कार-
उद्योतनाभिधानमेकोनविंशं स्तोत्रम् ।
ध्यामि, अमृतपूरमानन्दप्रसरमपूर्वमलौकिकं लोकयितृलोक्य-
रूपं विश्वं निमज्जयति ॥ ६॥
ध्यातमात्रमुदितं तव रूपं
कहि नाथ परमामृतपूरैः।
पूरयेत्त्वदविभेद विमोक्षा-
ख्यातिदूरविवराणि सदा मे ॥७॥
ध्यातमात्रमिति । त्वदविभेद एव मोक्षः भेदवन्धापगमः
तस्याख्यातिरमथा तदीयानि दुराणि विवराणि गहनान्या-
काङ्क्षामयानि गर्तानि, कहिं कदा, मे ध्यातमात्रमुदितं चिन्त-
नानन्तरमेव विकसितं, तत्तव सम्बन्धि रूपं कर्तृ, सदा परमा-
मृतपूरैरानन्दविसरैः, पूरयेदाप्लावयेत् ॥ ७ ॥
त्वदीयानुत्तररसासङ्गसन्त्यक्तचापलम् ।
नाद्यापि में मनोनाथ कर्हि स्यादस्तुशीघ्रतः॥८॥
त्वदीयेति । त्वदीयोऽनुत्तरो रसः परचित्तसरः तदासङ्गः
तत्परत्वं तेनापि सन्त्यक्तचापलं गलितव्युत्थानम्, अद्यापीति
असकृदास्वादितेऽपि समावेशे, कर्हि शीघ्र स्यादित्यादि
गाढोत्कण्ठापरत्वं सूचयति ॥ ८ ॥
मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा ।
तवोपहृत्य लब्धानि द्वन्द्वान्यप्यापतन्तु
मेति । तवोपहृत्य लब्धानि चिन्मयत्वेन त्वय्यनुप्रविश्य
व्युत्याने समावेशसंस्काररसास्वादान्यासादितानि, परं सर्व-
कालं, सर्वाणि द्वन्द्वााने शीतोष्णादीन्यपि, आपतन्तु, शुष्कक-
टुकान्येव पुनस्त्वदद्वयस्पर्शामृतपूर्णत्वाद्रूक्षदुःस्वादमायाणि॥९॥
मे ॥९॥
शिवस्तोत्रावल्याम् नाथ साम्मुख्यमायान्तु विशुद्धास्तव रश्मयः । यावत्कायमनस्तापतमोभिः परिलुप्यताम् ॥१०॥ नाथेति । सांमुख्यमायान्तु देहादिप्रथां निमज्य प्रस्फु- रन्तु, शुद्धा अनुग्रहपरा, रश्मय शक्तयः कायमनस्तापतमोभि- रिति कायमनस्तापा एव तमांसि तैः, परिलुप्यतां समन्तान- श्यताम् ॥१०॥ देव प्रसीद यावन्मे त्वन्मार्गपरिपन्थिकाः। परमार्थमुषो वश्या भवेयुर्गुणतस्कराः ॥ ११ ॥ देवेति । प्रसादः प्राग्वत्, त्वन्मार्गपरिपन्थिकाः परमार्थ- शाक्तभूमिप्रवेशरोधिनः, अत एव परमार्थ चिदभेदं मुष्णन्त्य- पहरन्त्यनुपभोग्यं सम्पादयन्ति ये, गुणाः सत्त्वादय एव तस्क- राः ते, वश्या भूयासुः, तदुक्तम् “गुणादिस्यन्दनिष्पन्दाः स्यु- झस्यापरिपन्थिनः" इति प्रसीद, भूयासुरिति लोड्लिङमै सम्भूय आशीविशिष्टां प्रार्थनां गमयतः, यथा लुनीहीत्यादौ लोड्चने कर्मव्यतिहारादेवमन्यत्रापि स्मर्तव्यम्, स्वामिनि प्रसन्ने चौरा वश्या भवन्तीति लौकिकार्थ. स्पष्ट एव ॥ ११ ॥ त्वद्भक्तिसुधासारैर्मानसमापूर्यतां ममाशु विभो । यावदिभास्तुह्यन्ते निःशेषासारवासनाःप्लुत्वा॥१२॥ त्वद्भक्तीति । मानसं चित्तं सरश्च, असाराः कुत्सिताः, सरस्यप्यासारैः पूरित असारवासनाः कटूदकवासनाः, प्लुत्वो- त्पत्य, स्वयमेव तुह्यन्ते बहिनिःसरन्ति ॥ १२ ॥ मोक्षदशायां भक्ति- स्त्वयि कुत इव मर्त्यधर्मिणोऽपि न सा ।
उद्योतनाभिधानमेकोनविंशं स्तोत्रम् । १५३ राजात ततोऽनुरूपा- मारोपय सिद्धिभूमिकामज माम् ॥ १३ ॥ मोक्षेति। मोक्षदशा परमशिवता जीवन मुक्तता तन्त्रोक्तमा- यता यदनेनैवोक्तम् “तामासाद्य दशां रूढा मुक्तकल्पा वयं तत" इति, मर्त्यधर्मिण इत्यप्रत्यभिज्ञातात्मस्वरूपस्य, अनुरूपामिति प्राग्वदुद्रशक्तिसमावेशमयी, परमसिद्धिभूमि तत्रैव प्रभुदासभा- वस्य स्फुटं स्फुरणात् ॥ १३ ॥ सिद्धिलवलाभलुब्धं मामवलेपेन मा विभो मंस्थाः। क्षामस्त्वद्भक्तिमुखे प्रोल्लसदणिमादिपक्षतो मोक्षः ॥ १४ ॥ सिद्धीति । समावेशात्मकपूर्णसिद्धयपेक्षया भेदमयाणि- मादयः सिद्धिलवास्तल्लाभे लुब्धं मा मंस्थाः, अवलेपेनेति, मां सिद्धिलवलुब्धमाकलय्य मावलेपं कुर्या इति यावत्, ननु पार- मेशनये साधकानां सिद्ध्युपभोगानन्तरं "भुत्का भोगांश्छिवं बजेत्" इत्याम्नायेषु शिवतैव श्रूयते, तर्हि मन्दा रुचिरित्याशङ्कय युक्तिमाह प्रोल्लसदणिमादिपक्षादनन्तरं यो मोक्षस्त्वद्भक्तिमुखे त्वत्समावेशानन्दस्य पुरतः, क्षाम अत्यल्पः ॥ १४ ॥ दासस्य मे प्रसीदतु भगवानेतावदेव ननु याचे। दाता त्रिभुवननाथा यस्य न तन्मादृशां दृशो विषयः॥ १५॥ दासस्येति । एतावदिति न तु आणिमादि, प्रसीदतु
१५४
शिवस्तोत्रावल्याम्
इति, त्रिभुवनं प्राग्वत्, यस्येत्यसम्भाव्यस्य फलस्य तत्फलं
सदृशमिति न मादृशां दृश इति बुद्धेः ॥ १५ ॥
त्वपुः स्मृतिसुधारसपूर्णे
मानसे तव पदाम्बुजयुग्मम् ।
मामके विकसदस्तु सदैव
प्रस्रवन्मधु किमप्यतिलोकम् ॥ १६ ॥
त्वदिति । पादाम्बुजयुग्मं प्राग्वद्, विकस दसङ्कोचमुज्जत,
मधु परमानन्दरूपं माधुर्यम्, अतिलोकमलौकिकं, रसपूर्णे च
मानसे अम्बुजं विकसन्मधु स्रवति ॥ १६ ॥
अस्तु मे प्रभुरसौ जनकोऽथ
त्र्यम्बकोऽथ जननी च भवानी।
न द्वितीय इह कोऽपि ममास्ती-
त्येव निवृततमो विचरेयम् ॥ १७ ॥
अस्त्विति । असाविति चिद्घनो मे प्रभुरनुग्राहक:
जनकः प्रमातृतोल्लासकश्च ऽयम्बकस्तथा भवानी पराशक्ति'
जननी मन्त्री चास्तु, ईदृशस्यैव प्रत्यभिज्ञातमहेश्वरस्वरूपस्य
मे इह जगति न द्वितीय कोऽप्यस्ति, ममेति शेषे षष्ठी, इत्येव
एतावतैव, निस्ततमोऽत्यर्थं प्रमुदितो, विचरेयं विहरेयमिति
शिवम् ॥ १७॥
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलावुद्योतनाभिवानकोनविंशस्तोत्रे
श्रीक्षेमराजविरचिता विवृति ॥ १९ ॥
चर्वणाभिधान विशं स्तोत्रम् ।
ॐ नाथं त्रिभुवननाथं
भूतिसितं त्रिनयनं त्रिशूलधरम् ।
उपवीतीकृतभोगिन-
मिन्दुकलाशेखरं वन्दे ॥ १ ॥
ॐ नाथमिति । त्रिभुवनं प्राग्वद, भूतिर्विश्वमयी विभूति-
स्तया सित सम्बद्धं पिन वन्धने इसस्य सितशब्द , त्रीणि
इच्छाज्ञानक्रियाख्यानि नयनानि यस्य, भेदोद्दलनहेतोः प्रज्व-
लद्ज्ञानरूपस्य त्रिशूलस्य धारकम्, उप समीपे वीतीकृताः
विशेषेणेताः कृताः संहृताश्च भोगिनःप्रसरा येन, वीतः वी गतावि-
सस्य प्रयोगः, इन्दुकला विश्वजीविनी चितिशक्तिः शेखरं मुख्य
रूपं यस्य, समग्रमेयमयी इन्दुकला वा स्वातन्त्र्यप्रथने हेतुत्वाद
शेखरः क्रीडार्थमाहार्य मण्डनं यस्य, तं वन्दे इति माग्वत्, बाहय-
क्रमेण स्पष्टार्थः ॥ १॥
नौमि निजतनुविनिस्सरदंशुक-
परिवेषधवलपरिधानम् ।
विलसत्कपालमाला-
कल्पितनृत्तोत्सवाकल्पम् ॥ २ ॥
नौमीति । निजतनुश्चिन्मयं रूपं ततो विनिःसरन् स्फुरन्
अंशुकपरिवेपो रश्मिपुञ्जप्रसर एव धवलं शुद्धं परिधानं प्रावरणं
यस्य, प्रसरत्यकृति शिव इति स्थित्या स्वशक्तिचक्रेण सततमा-
श्लिष्टमित्यर्थः, विकसन्त्या स्वात्मनियोजनेन देदीप्यमानया
विलसन्त्या स्फुरन्त्या कपालमालया सदाशिवादिमकलान्ता-
शेषप्रमातृमुण्डमालया कल्पितो नृत्तोत्सवे स्वातन्त्र्यविजृम्भा-
भ्युदय आकल्पो मण्डनं येन, बाह्यक्रम स्पष्टः ॥ २ ॥
शिवस्तोत्रावल्याम्
वन्दे तान् दैवतं येषां
हरश्चेष्टा हरोचिताः।
हरैफप्रत्रणाः प्राणाः
सदा सौभाग्यसद्मनाम् ॥ ३ ॥
वन्दे इति । हरोचिताः सृष्टिसंहारानुग्रहादिरूपाः, हरैक-
प्रवणा नित्यतत्समावेशरसिकाः, माणा जीवितमत एव सौभा-
ग्यसमत्वं परमानन्दपूर्णत्वेन विश्वस्पृहणीयत्वात् ॥ ३ ॥
क्रीडितं तव महेश्वरतायाः
पृष्ठतोऽन्यदिदमेव यथैतत् ।
इष्टमात्रघटितेष्ववदाने-
प्वात्मना परमुपायमुपैमि ॥ ४ ॥
क्रीडितमिति । समावेशस्फारेण जगत्क्रीडात्वेन पश्यतेय-
मुक्तिः । तव महेश्वरताया पृष्ठत एवोपर्येवान्यदिदं क्रीडितं, य-
थैतदिति प्रदर्शनार्थे, इष्टमात्रघटितेषु इच्छामात्रसम्पन्नेषु, अव-
दानेषु अद्भुतकर्मसु त्वदीयपञ्चविधकृत्यात्मसु चरितेष्वहमा-
स्मना स्वयमेव, परिपूर्णमुपायं स्वबलाक्रमणमुखेऽपि प्राप्नोमि,
त्वत्समावेशात्स्वं चिद्धलमाक्रम्य त्वद्रदहं पञ्चविधकृत्यकारी यत्
तत्तवापरं क्रीडितमित्यर्थः, एवकारो भिन्नक्रमः ॥ ४ ॥
त्वद्धानि विश्ववन्येऽस्मि-
नियति क्रीडने सति ।
तव नाथ कियान भूया-
नानन्दरससम्भवः ॥५॥
चर्वणाभिधानं विंश स्तोत्रम् ।
त्वदिति । विश्ववन्धं यत्तद्धाम वन्मह' तत्रान्तरियति
विश्वात्मन्यस्मिन्नियति क्रीडने सति, तव भूयानिति अनल्पः,
स्वानन्दानुरूपमेव सर्वः क्रीडति, यस्य चेद्विश्वं क्रीडा तस्य
अपर्यन्त एवानन्द इति स्वात्मनस्तदासतया श्लाघां व्यन
अत एव नाथेत्यामन्त्रणम् ॥ ५ ॥
कथं स सुभगो मा भू-
यो गौर्या वल्लभो हरः।
हरोऽपि मा भूदय किं
गौर्याः परमवल्लभः ॥६॥
कथमिति । सुभग' सर्वस्य स्पृहणीयः, गौर्याः परस्याः
शक्ते , वल्लभ स्पृहणीय स आनन्दधन परया भट्टारिकयाऽऽलि-
गित इत्यर्थः, हर समावेशचमत्कारेण हृदयहारी द्वैतपदस्य
संहर्ता च यः, परशक्तेः परमवल्लभ एव ॥ ६ ॥
ध्यानामृतमयं यस्य
स्वात्ममूलमनश्वरम् ।
संविल्लतास्तथारूपा-
स्तस्य कस्यापि सत्तरोः॥ ७ ॥
ध्यानेति । यस्य समावेशशालिन, स्वात्मनो मूलं कारणं,
ध्यानामृतमयं स्वरूपगोपनोन्मुखचिदानन्दसारमत्यभिज्ञातशि-
वभट्टारकस्वरूपं, यथोक्तमास्ति 'प्रभुरसौ जनको वा' इत्यादि,
अनश्वरं चिद्रूपतयैव नित्यं, तस्य कस्याप्पतिदुर्लभस्य सत्तरोः
सन्तापहारिणः शोभनपादपस्य, संविल्लताः नीलमुखादिज्ञानानि
तथारूपा इति ध्यानामृतमय्य एव ॥ ७ ॥
१५८ शिवस्तोत्रावल्याम भक्तिकण्डूसमुल्लासा- वसरे परमेश्वरः । महानिकषपाषाण- स्थूणापूजैव जायते ॥ ८॥ भक्तीति । भक्तिर्भगवदनुराग. एव वैवश्यदायित्वात्कण्डू- स्तस्या समुल्लासे, पूर्वनिर्णीता पूजैव, महानिकषपाषाणस्थूणा निघर्षोपलमयो महास्तम्ब, भक्तिकण्डूं यः प्रशमय्य आनन्द- घनस्वात्मविश्रान्तिहेतुर्जायते इयर्थः ॥ ८ ॥ सदा सृष्टिविनोदाय सदा स्थिनिसुखासिने । सदा त्रिभुवनाहार- तृप्ताय स्वामिने नमः॥६॥ सदेति । “तदेवं व्यवहारेऽपि प्रभुदेहादिमाविशन् । आ न्तमेवान्तरर्थौघमिच्छया भासयेदहि " रिति स्थित्या देहादिमा- विशतोऽपि भगवतः प्रतिक्षणं तत्तदनन्तग्राह्यग्राहकाद्याभास- संयोजनावियोजनक्रमेण सृष्टयादिहेतुत्वं च मया स्पन्दसन्दो- हे वितन्य निर्णीतमिति स एवावेक्ष्यः ॥ ९ ॥ न कापि गत्वा हित्वाऽपि न किंचिदिममेव ये। भवं त्वद्वाम पश्यन्ति भव्यास्तभ्यो नमो नमः ॥ १० ॥ नेति । एकान्नद्वादशान्तादिपदं परलोकं चागत्वा, भोगा-
चर्वणाभिधानं विश स्तोत्रम् ।
१५६
नधरभूमीः शरीरं च त्यत्का, इममेवामबुद्धानां हेयाभिमतं, त्व-
दाम चिद्धनं ये पश्यन्ति, भव्याः दिव्यमहार्थदृष्टयाविष्टा-
स्तेभ्यो नमो नमः वीप्सयैषामेव परतत्त्ववित्वं ध्वनति ॥१०॥
मीसमूहाना
किमन्यदुपयाचितम् ।
एतया वा दरिद्राणा
किमन्यदुपयाचितम् ॥ ११ ॥
भक्तीति । किमन्यदिति प्राप्तव्यस्य प्राप्तत्वान्नास्त्येवा-
न्यद्याचितव्यं, किमन्यदिति परमार्थस्यानासादनाकिमन्येना-
सारमायेणेत्यर्थः ॥ ११॥
दुःखान्यपि सुखायन्ते
विषमप्यमृतायते ।
मोक्षायते च संसारो
यत्र मार्गः स शाङ्करः ॥ १२ ॥
दुःखानीति । व्ययमप्येतच्चिदानन्दधननिजबलाक्रमणादेव
भवति, मार्गपदं शाक्तपदवाचकम् ॥ १२ ॥
मूले मध्येऽवसाने च
नास्ति दुःखं भवज्जुषां।
तथाऽपि वयमीशान
सीदामः कथमुच्यताम् ॥ १३ ॥
मूले इति । प्राग्वत् व्युत्थानावस्थितस्योक्तिः, मूले मध्ये
ऽवसाने इति, संविदुदयप्रसरविश्रान्तिषु सीदामः व्युत्थानेना-
भिभूयामहे ॥ १३ ॥
शिवरतोत्रावल्याम
ज्ञानयोगादिनाऽन्येषा-
मप्यपेक्षितुमर्हति ।
प्रकाशः स्वैरिणामेव
भवान्भक्तिमतां प्रभो ॥ १४ ॥
ज्ञानेति । प्रभो केपांचित् ज्ञानयोगक्रियायुपायर्भवार
स्फुरनि, भक्ताना पुन स्वैरिणामुपायानपेक्षिणां त्वत्समावेशा
याप्तत्वमहिम्नां च भवान्प्रकाशस्वभावः सदेति यावत् ॥१४॥
भक्तानां नार्तयो नाप्य-
स्त्याध्यानं स्वात्मनस्तव ।
तथाप्यस्ति शिवेत्येत-
त्किमप्येषां बहिर्मुखे ॥ १५॥
भक्तानामिति । आर्तयः क्लेशा , आध्यानं प्राप्त्यभिलाषेण
चिन्तन, तव स्वात्मन इति स्वात्मनयैव स्फुरतः, तथापीति
भक्तत्वादेव किमपीति परमानन्दैकात्म्यव्यञ्जकं निनिमि-
तं च ॥ १५ ॥
सर्वाभासावभासो यो
विमर्शवलितोऽपि सन्।
अहमेतदिति स्तौमि
तां कियाशक्तिमीश ते ॥ १६॥
सर्वेति । अहमेतदिति अखिलं यः सर्वाभासाऽवभासः
सदा विशेश्वरमकाश., कीदृग् विमर्शेन परमानन्दचमत्कारेण
वलितो बृंहितः, क्रियाशक्तिमीशशक्तिमीश ते, स्तौमि इति
माग्वत् ॥ १६॥
चर्वणाभिधानं विंश स्तोत्रम् । वर्तन्ने जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः ग्रस्यमानास्ततो वन्दे देव विश्वं भवन्मयम् ॥ १७ ॥ वर्तन्ते इति । अपि ब्रह्मेन्द्रविष्णव इति सृष्टिस्थितिका- रिणः प्रसिद्धाः आसतां रुद्रादयस्तेऽपि यावदशेषा जन्तवः क्षेत्रज्ञाः असमाणाः सदा स्वविषया अतिप्रवणा वर्तन्ते ॥ १७ ॥ सतो विनाशसम्बन्धा- न्मत्परं निखिलं मृषा। एवमेवाद्यते नाथ त्वया संहारलीलया ॥ १८॥ सत इति । हे नाथ, संहारक्रीडया एवमेवोच्यते मत्तच्चिदे- करूपात्परमुल्लासितस्वभावत्वादधिकमिवयत्किञ्चित्सदाशिवान्तं तन्मृषा न पृथग्भवतीसर्थः, यत. सतोऽनधिकस्याप्याधिक्येन आ- भासमानस्य विनाशेन सम्वन्धाचिदात्मन्येव विगलितत्वेन स्थितिर्भवति, तदुक्तम् “यत्सदाशिवपर्यन्तम्" इसादि "विनाशो- त्पत्तिसंयुतम्" इसन्तं तथा “कार्यताक्षयिणी तत्र" इसादि॥१८॥ ध्यातमात्रमुपतिष्टत एव त्वदपूर्वरद भक्तिधनानाम् । अप्यचिन्त्यमखिलाद्भुतचिन्ता- कर्तृतां प्रति च ते विजयन्ते ॥ १९ ॥ ध्यातमात्रमिति । मितयोगिभिश्चिन्तयितुमशक्यमपि यत्स्वरूपं शिवस्तात्रावल्याम् भक्तिधनानांध्यातमात्रमुपतिष्ठते ध्यानसमनन्तरमेव सन्निधीयते इत्यर्थः, तेच भक्ताः आखिलाया अद्भुतचिन्तायाः कर्तृतां प्रति वि- जयन्तेत एवासामान्यविस्मयप्रवर्तकाः सर्वोत्कर्षिण इयर्थः॥१९॥ तावकभक्तिरसासव- सेकादिव सुखितमर्ममण्डलस्फुरितैः । नृत्यति वीरजनो निशि वेतालकुलैः कृतोत्साहः ॥ २० ॥ तावकेति । बाह्योऽर्थः स्पष्टः। वीरजनः विदारितसंमारम- हापशुः भक्तलोको, निशि मायामध्य एव, नृसति चिद्विकानेन विलप्ततितराम, कथं तावकभक्तिरसासवसेकात् त्वत्ममावेशाम- नमेकादिव, मुखितानि आनन्दनन्दितानि मर्ममण्डलानि पाशः मञ्चयास्तेषां सम्बन्धिभिः स्फुरितैरामनमुद्रासदृशैः वेतालकुलै- पशुहृदयाच दृक्प्रययोदयानुवर्तिशक्तिशतैः, कृतोत्साहः परि- पोषितचिदभ्युदय इति शिवम् ॥ २० ॥ प्रारब्धा भवदभिनति- रमुना येनाङ्गकेन मम शम्भो । तेनापर्यन्तमिमं कालं दृढमखिलमेव भविषीष्ट ॥२१॥ आरब्धेति । कचिदप्यसदृशशैलीदर्शनादनार्ष इवायं श्लो- कस्तथाऽपिव्याख्यायते।अमुनाचिदद्वयसमावेशोत्कर्षप्रदर्शिना, येनागकेन सर्वजनासंलक्ष्येण प्रकारेण, शम्भो तव स्तुतिरा- रन्या, तेन प्रकारेणापर्यन्तमियमखिलं, कालं दृढमविचलं, कृत्वा ऽसौ भविषीष्ट प्राप्नुयात्, भूप्राप्ताविसस्य रूपमिति शिवम्॥२१॥ इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलौ चर्वणास्तोत्रे विंश श्रीक्षेमराजकता विवृतिः ॥ २० ॥ VIOVON चर्वणाभिधान विशं स्तोत्रम् । ॐ तत्सत् । क्लेशान्विनाशय विकासय हृत्सरोज- मोजो विजृम्भय निजं नरिनर्तयाङ्गम् । चेतश्चकोरचितिचन्द्रमरीचिचक्र- माचम्य सम्यगमृतीकुरु विश्वमेतत् ॥ १ ॥ श्रुतिपथमितामूक्तिश्रेणी धुनोति भवातपं निरुपमपरानन्दव्याप्ति ननोति च तत्क्षण त् । इयमिति विमो शम्भोर्भक्सा परं परमेष्ठिनो विहिनललितव्याख्याऽस्माभिः कृतार्थिजनार्थितैः॥२॥ विश्वत्रयेऽपि विशदैरसमस्वरूपैः शास्त्रैस्तथा विवरणैः ग्रथितैव कीर्तिः । तस्माद्गुरोरभिनवात्परमेशमूर्तेः क्षेमो निशम्य विकृति व्यतनोदमुत्र ॥३॥ ॐ तत्सत् ॥
No text on this page.