Jayakar Library , Pune

Prashnopanishat

Hari Narayan Apte · 2-03-2006

PDF Proofread

Front matter

आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः ८
प्रश्नोपनिषत्
आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता।
तथा
शंकरानन्दविरचिता प्रश्नोपनिषद्दीपिका च ।
एतत्पुस्तकद्वयमानन्दाश्रमस्थपण्डितैः संशोधितम् ।
हरि नारायण आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुदायित्वा
प्रकाशितम् ।
तृतीयेयमकनावृत्तिः ।
शालिवाहनशकाब्दाः १८३३
ख्रिस्ताब्दाः १९११

आनन्दाश्रमसंस्कृतग्रन्थावलिः ।
mammmmmmmmmmmmmmwww
...........
ग्रन्थाङ्काः ८
प्रश्नोपनिषत्
आनन्दगिरिविरचितटीकासंवलितशांकरभाष्यसमेता।
तथा
शंकरानन्दविरचिता प्रश्नोपनिषद्दीपिका च ।
एतत्पुस्तकद्वयमानन्दाश्रमस्थपण्डितैः संशोधितम् ।
ह
हरि नारायण आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।
तृतीयेयमकनावृत्तिः ।
शालिवाहनशकाब्दाः १८३३
ख्रिस्ताब्दाः १९११
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यमेको रूपकः।

अथास्याः प्रश्नोपनिषदो मन्त्रप्रतीकानां वर्णानुक्रमणी। मं०प्रश्नः पृ० मं०प्रश्नः पृ० मन्त्रप्रतीकानि तस्मै स होवाच... . २ २ १५ ३ ३ १ ४ ५ ४९ ... मन्त्रप्रतीकानि अ. अत्रैष देवः स्वप्ने अथ कबन्धी कात्यायनः... अथ यदि द्विमात्रण अथ हैनं कौसल्यः अथ हैनं भार्गवः अथ हैन सुकेशा... अथ हैनं सौर्यायणी अथाऽऽदित्य उदयन् अथैकयोर्व उदानः अथोत्तरेण तपसा अन्नं वै प्रजापतिः अरा इव रथनाभौ २ ३ २१ ૨ ૪ ૩૨ ५६ ३ २ १६ २ १ ३ १ २ १४ :: ९३ २७ तान्वरिष्ठः प्राणः तान्ह स ऋषिः ... तान्होवाचैतावत् ४ २९ तिस्रो मात्रा मृत्युमत्यः. ५ तेजो ह वा उदानः ७३ २५ ते तमर्चयन्तः १० १ तेषामसौ विरजः... १४१ १२ द. ६ ६ ७४ देवानामसि वहितमः १३ १ ११ ८६ ७५ १६ १ १३ ६२१७ २ १८ अहोरात्रो वै प्रजा- आ. ११ १ १ १० ४ ४४ ... आत्मन एष प्राणः आदित्यो ह वै प्राणः आदित्यो ह वै बाह्यः :: :: ८४ ४२ her ५ ३ २३ ७ २ १७ . . इन्द्रस्त्वं प्राण तेजसा पश्चपादं पितरम्.. ३३ २२ परमेवाक्षरम् ५ १ ५ पृथिवी च पृथिवी- ८३ २५ पायपस्थेऽपानम्... प्रजापतिश्वरसि ९ २ १९ प्राणस्येदं वशे प्राणामय एवैतस्मिन् १२ ३ २९ भगवनेतस्मिन्पुरुषे ७ ५ ५३ भगवन्हिरण्यनाभः भद्रं कर्णेभिः उ. १३ २२० ३३. ३ उत्पत्तिमायतिम्... ऋ. ऋग्भिरतं यजुनिः १ ४ ३० १६ ५४ ए. १ म. एतद्वै सत्यकाम ... एष हि द्रष्टा स्प्रष्टा एषोऽऽग्निस्तपति २ ५ ४७ ९ मासो वै प्रजापतिः ५ २ १७ : १२ १ ११ या त. तये ह वै तत् य एवं विद्वान्प्राणम् १५ १ १३ यश्चित्तस्तेनैष प्राणम् ११ ३ २० १. ३ २७ [२] . मं० प्रश्नःपृ० ३ २२ मन्त्रप्रतीकानि यथा सम्राडेव यदा त्वमभिवर्षसि यदुच्छ्वासनिश्वासी यः पुनरेतं त्रिमात्रेण चा ते तनूर्वाचि... ४ ६ ७१ ५ ६ ७२ ६ ४ ४१ ४ ४ ४२ मं०प्रश्नः पृ० मन्त्रप्रतीकानि स प्राणमसृजत १० २ १९ स यथेमा नद्यः ४ ३४ स यदा तेजसा ५ ५ ५० स यदा सोम्य १२ २ २० स यद्येकमात्रम् स यो ह वै तत्... ११ ४ ४५ संवत्सरो वै प्रजापतिः ६ सुकेशा च भारद्वाजः ११ २ १९ सोऽभिमानादूर्वम् :: व. १ ५ ४६ १ विज्ञानात्मा सह विश्वरूपं हरिणम् बालस्त्वं प्राणैक- .. ... ४ २ १६ स. ह. स ईक्षांचके स एष वैश्वानरः... ६ हृदि ह्येष आत्मा... ६ ३ २४ इतीयं मन्त्रवर्णानुक्रमणी। . (O .... ..

नाशाय बाळकृष्णा NaikR - RARA श्रीक्षेत्र वाई, जि. सातारा BAAAALAL AAAAA - - ॐ तत्सद्ब्रह्मणे नमः। रड्डो. आचार्य. * प्रश्नोपनिषत् . आनन्दगिरिकतटीकासंबलितशांकरभाष्यसमेता। . . ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्ष- भिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाश्सस्तनूभिः । व्यशेम देवहितं यदायुः॥ ॐ शान्तिः शान्तिः शान्तिः । ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्य- कामः सौर्यायणी च गार्यः कौसल्यश्चाऽऽ. श्वलायनो भार्गवो वैदर्भिः कबन्धी कात्या- यनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वे- षमाणा एष ह वै तत्सर्व वक्ष्यतीति ते ह समि- पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥३॥ मन्त्रोक्तस्यार्थस्य विस्तरानुवादीदं ब्राह्मणमारभ्यते । ऋषिप्रश्नपति- वचनाख्यायिका तु विद्यास्तुतय एवं संवत्सरब्रह्मचर्यसंवासादियुक्तैस्त. पोयुक्तैर्लाह्या पिप्पलादादिवत्सर्वज्ञकल्पैराचार्यैर्वक्तव्या च । न सा येन केनचिदिति विद्यां स्तौति । ब्रह्मचर्यादिसाधनसूचनाच तत्कर्तव्यता स्यात् । सुकेशा च नामतः । भरद्वाजस्यापत्यं भारद्वाजः । शैब्यश्च शिबेरपत्यं शैब्यः सत्यकामो नामतः । सौर्यायणी सूर्यस्यापत्यं-सौर्य- स्तस्यापत्यं सौर्यायणिश्छान्दसः सोर्यायणीति । गार्यो गर्गगोत्रोत्पन्नः। कौसल्यश्च नामतोऽश्वलस्यापत्यमाश्वलायनः । मार्गवो भृगोर्गोत्रापत्यं भार्गवः । वैदर्भिविदर्भ भवः । कबन्धी नामतः । कत्य(त?)स्यापत्यं -- - . । -- । -- १ कु. च. कौशल्य । २ ख. १, युक्तत्तपो । ३ क. च. कौशल्य । ४ ख. घ. ङ. मत आश्व । ५ क. °दर्भः प्रभ। ६ ग, घ, ङ. भैर्भवः । च. में प्रभ।

२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रश्नः] कात्यायनः । विद्यमानः प्रपितामहो यस्य सः । युवप्रत्ययः, ते हैते ब्रह्मपरा अपरं ब्रह्म परत्वेन गतास्तदनुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः, किं तत् । यन्नित्यं विज्ञेयमिति तत्प्राप्त्यर्थं यथाकार्म यतिष्याम इत्येवं तदन्वेषणं कुर्वन्तस्तदधिगमायैष ह वै तत्सर्वं वक्ष्यती. त्याचार्यमुपजग्मुः । कथम् । ते ह समित्पाणयः समिद्धारगृहीतहस्ताः सन्तो भगवन्तं पूजावन्तं पिप्पलादमाचार्यमुपसन्ना उपजग्मुः॥१॥ आथर्वणे ब्रह्मा देवानामित्यादिमन्त्रैरेवाऽऽत्मतत्त्वस्य निर्णीतत्वात्तत्रैव ब्राह्मणेन तदमि- धानं पुनरुक्तमित्याशङ्कय तस्यैवेह विस्तरेण प्राणोपासनादिसाधनसाहित्येनाभिधानान्न पौनरुक्त्यमिति वदन्ब्राह्मणमवतारयति---मन्त्रेति । विस्तरेति । मन्त्रे हि द्वे विद्ये वेदितव्ये परा चैवापरा चेत्युक्त्वा तत्रापरग्वेदाद्यभिधेयेत्युक्तम् । सा च विद्या कर्मरूपो- पासनारूपा च । तत्र द्वितीया द्वितीयतृतीयप्रश्नाम्यां वित्रीयते । आद्या कर्मकाण्डे विवृ. तति नेह विवीयते । उभयोः फलं तु ततो वैराग्याथै प्रथमप्रश्ने स्पष्टी क्रियते । परविद्या चाथ परा यया तदक्षरमधिगम्यत इत्युपक्रम्य कृत्स्नेन मुप्डकेन प्रतिपादिता । तत्रापि यथा सुदीप्तादित्यादिमन्त्रद्वयोक्तार्थस्य विस्तरार्थ चतुर्थः प्रश्नः । प्रणवो धनुरित्यत्रोक्तप्र. णवोपासनविवरणार्थ पञ्चमः प्रश्नः । एतस्माजायते प्राण इत्यादिना शेषेण मुण्डकेनोक्त- स्यार्थस्य स्पष्टीकरणार्थः षष्ठः प्रश्न इतीदं ब्राह्मणं तद्विस्तरानुवादीत्यर्थः । अत एव विषय- प्रयोजनादिकं तत्रैवोक्तमिति नेह पुनरुच्यत इति बोध्यम् । आख्यायिकाया ब्रह्मचर्यतप- आदिसाधनविधानं पुराकल्पस्वरूपेण प्रयोजनान्तरं चास्तीत्याह-ब्रह्मचर्यादिसाध- नेति । सौर्यायणीति । सौर्यायणिरिति वक्तव्ये दैर्ध्य छान्दसमित्यर्थः । युवप्रत्यय इति । कत्य(त)स्य युवापत्ये विवक्षिते फक्प्रत्यये तस्याऽऽयनादेशे च कात्यायन इति सिध्यतीत्यर्थः । ब्रह्मपराणां पुनर्ब्रह्मान्वेषणमयुक्तमित्यत आह-अपरं ब्रह्मेति । नन्वपरब्रह्मान्वेषणेनैव पुरुषार्थसिद्धेः किं परब्रह्मान्वेषणेनेत्याशङ्कते-किं तदिति । तस्य कोऽतिशय इत्यर्थः । तस्यानित्यत्वेन तत्प्राप्तरप्यनित्यहेतुत्वेनापुरुषार्थत्वात्परस्यैव नित्यत्वा- तत्प्राप्तस्तज्ज्ञानमात्रसाध्यत्वेनापि नित्यत्वाच्च तस्यैवान्वेषणीयत्वमिति परस्वरूपकथने- नाऽऽह-यदिति । परब्रह्मान्वेषमाणानां कोऽतिशय इत्यत आह-तत्प्राप्त्यर्थ- मिति । तत्प्राप्यर्थ तदधिगमाय तदन्वेषणं कुर्वन्तो यथाकामं यतिष्याम इत्येवमाभिप्रा- यणेत्यन्वयः । समिदिति । समिद्ग्रहणं यथायोग्य(ग्य?)दन्तकाष्ठाद्युपहारोपलक्षणा- थम् ॥ १ ॥ 1 १ क. ख. ग. घ. इ. युवा । २ क. . अथर्वणे । ३ क. घ. न. प.त्युका त। * क.थनायाऽऽद।

. R [१ प्रभः] प्रश्नोपनिषत् । ३ तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञा- स्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥ तानेवमुपगतान्ह स किल ऋषिरुवाच सूयः पुनरेव यद्यपि यूयं पूर्व तपस्विन एव तपसेन्द्रियसंयमेन तथाऽपीह विशेषतो ब्रह्मचर्येण श्रद्धया चाऽऽस्तिक्यबुद्धयाऽऽदरवन्तः संवत्सरं कालं संवत्स्यथ सम्यग्गुरुशुश्रू- षापराः सन्तो वत्स्यथ । ततो यथाकामं यो यस्य कामस्तमनतिक्रम्य: यथाकामं यद्विषये यस्य जिज्ञासा तद्विषयान्प्रश्नान्पृच्छत । यदि तद्युष्म- त्पृष्टं विज्ञास्यामः । अनुद्धतत्वप्रदर्शनार्थो यदिशब्दो नाज्ञानसंशयार्थः प्रश्ननिर्णयादवसीयते । सर्व ह दो वः पृष्ट वक्ष्याम इति ॥२॥ तथाऽपीत्यस्य तपसेत्यतः पूर्वमन्वयः । विशेषत इत्यस्य पूर्वत्राप्यन्वयः । निष्कृष्टमर्थ- माह-यद्विषय इति । अज्ञानाद्यर्थत्वाभावे हेतुमाह-प्रश्नति । अत्रेतिशब्दोऽध्या- हार्यः । सर्वप्रश्नानां निर्णयादज्ञानाद्यसंभवादित्यर्थः ॥ २ ॥ अथ कबन्धी कात्यायन उपेत्य पप्रच्छ । भगव- न्कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥३॥ अथ संवत्सरादूर्व कबन्धी कात्यायन उपेत्योपगम्य पप्रच्छ पृष्ट- वान् । हे भगवन्कुतः कस्माद्ध वा इमा ब्राह्मणाद्याः प्रजाः प्रजायन्त उत्पद्यन्ते । अपरविद्याकर्मणोः समुचितयोर्यत्कार्य या गतिस्तद्वक्तव्य- मिति तदर्थोऽयं प्रश्नः ॥३॥ परं ब्रह्मान्वेषमाणा इत्युपक्रान्तेऽस्मिन्ब्रह्मप्रकरणे प्रजापतिकर्तृक्प्रजासृष्टिविषयप्रश्नप्र- त्युक्त्योरसंगतिमाशङ्कय प्रश्नप्नत्युक्तिरूपायाः श्रुतेस्तात्पर्यमाह-अपरविद्येति । तेषा- मसौ विरजो ब्रह्मलोक इति समुच्चितकार्यस्य ब्रह्मलोकस्याथोत्तरेणेति तद्गतेदेवयानमार्गस्य चेह वक्ष्यमाणत्वादित्यर्थः । इदमुपलक्षणं केवलकर्मणां चेत्यपि द्रष्टव्यम् । केवलकर्मकार्य- स्यापि चन्द्रलोकस्य तद्गतेः पितृयाणस्य च ' तेषामेवैष ब्रह्मलोकः । ' प्रजाकामा दक्षिणं प्रतिपद्यन्ते ' इति वक्ष्यमाणत्वादिति । यद्यपीदमपि परब्रह्मजिज्ञासावसरेऽसंगतमेव तथाऽपि केवलकर्मकार्यात्समुच्चितकर्मकार्याच विरक्तस्यैव तत्राधिकार इति ततो वैराग्यार्थमिदमुच्यते । . १ क. पेत्याऽऽगत्य प० । २ क. च. 'चितासमुच्चित°। ३ क. च. त्युक्तेर । ४ क. यानत्य । .

20 . आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रश्नः] यद्यपि मुखतः सृष्टिः प्रतीयते तथाऽपि तदुक्तौ प्रयोजनाभावात्सृष्टयुक्तिव्याजेन परविद्याफ.. लमेवात्रोच्यत इति भावः । प्रश्न इति प्रतिवचनं चेत्यपि द्रष्टव्यं ताभ्यामेव तदु- तरिति ॥३॥ तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोड- तप्यत *स तपस्तप्त्वा स मिथुनमुत्पादयते। रयिं च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥४॥ तस्मा एवं पृष्टवते स होवाच । तदपाकरणायाऽऽह । प्रजाकाम: प्रजा आत्मनः सिसृक्षुर्वै प्रजापतिः सर्वात्मा सञ्जगत्स्रक्ष्यामीत्येवं विज्ञा- नवान्यथोक्तकारी तद्भावमावितः कल्पादौ निर्वृत्तो हिरण्यगर्भः सृज्य- मानानां प्रजानां स्थावरजङ्गमानां पतिः सञ्जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषयं तपोऽन्वालोचयदतप्यत । अथ तु स एवं तप. स्तप्त्वा श्रोतं ज्ञानमन्वालोच्य सृष्टिसाधनभूतं मिथुनमुत्पादयते मिथुनं द्वंद्वमुत्पादितवान् । रयिं च सोममन्नं प्राणं चाग्निमत्तारमेतावनीषोमावत्र- नभूतौ मे मम बहुधाऽनेकधा प्रजाः करिष्यत इत्येवं संचिन्त्याण्डोत्प- त्तिक्रमेण सूर्याचन्द्रमसावकल्पयत् ॥ ४ ॥ तस्मै स होवाचेति प्रतिज्ञातं विशेषतो दर्शयति तदपाकरणायेति । आद्यस्य सन्नित्यस्य प्रज्ञाकामः सन्नित्यन्वयः । यथोक्तकारीति । ज्ञानकर्मसमुच्चयकारीत्यर्थः । तद्भाषभावित इति । प्रजापतिरहं सर्वात्मेत्युपासनकालीनप्रजापतिभावनायुक्त इत्यर्थः । पूर्वकल्पीयतद्भावभावित एतत्कल्पादौ हिरण्यगर्भात्मना निर्वृत्तः प्रजापतिः सन्पश्चात्प्रना- कामः संस्तपो जन्मान्तरभाक्तिं ज्ञानं श्रुतिप्रकाशितार्थविषयमतप्यतावालोचयचिन्तादिना तत्संस्कारमुद्दोध्य ज्ञानमुत्पादितवानित्यन्वयः । तत्र प्रथममादित्यचन्द्रोत्पादनेन तद्भावमा- पद्य पश्चाश्चन्द्रादित्यसाध्यसंवत्सरभावमापद्यैवमेव तदवयवायनद्वयमासपक्षाहोरात्रभावमापद्य ततस्तत्साध्यन्नीह्याद्यन्नमावं रेतोभावं चाऽऽपद्य तेन रेतसा प्रजाः सृजेयमित्येवं निश्चित्य प्रथमं रयिप्राणशब्दितचन्द्रसूर्यद्वंद्वमुत्पादितवानित्याह-स एवमिति । रयिशब्देन धनवाचिना भोज्यजातं लक्षयित्वा भोज्यस्य सोमकिरणामृतयुक्तत्वात्तद्वारा सोमो लक्ष्यत इत्याह-रयिं चेति । एवं प्राणशब्देनापि । MUMAR न * अत्र भाष्यानुसारेण शंकरानन्दकृतदीपिकानुसारेण च " स तपस्तष्त्वा" इति पदत्रय मधिकं भाति । १ क, चित्तादि । २ क. च. तसूर्यचन्द्र ।

. -- [१ प्रश्नः] प्रश्नोपनिषत् । " * . अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् " ॥ इति स्मृतेरग्नेः प्राणसंबन्धादग्निर्भोक्ता लक्ष्यत इत्याह-प्राणं चेति । अग्नीषोमयो. रण्डान्तर्गतत्वेनाण्डोत्पत्त्यनन्तरमुत्पत्तिरित्याशयेनाऽऽह-अण्डोत्पत्तीति । उद्यन्तं वावाऽऽ दित्यमग्निरनुसमारोहतीति श्रुतेः सूर्याग्न्योरेकत्वमभिप्रेत्याग्निं सूर्यपदेनाऽऽह-सूर्याचन्द्र- मसाविति ॥ ४ ॥ आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एत- त्सर्वं यन्मूतं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ ५॥ तत्राऽऽदित्यो ह वै प्राणोऽत्ताऽग्निः । रयिरेव चन्द्रमाः । रयिरेवान्नं सोम एव । तदेतदेकमत्ता चान्नं च प्रजापतिरेकं तु मिथुनम् । गुणप्रधा- नकृतो भेदः । कथम् । रयिर्वा अन्नं वा एतत्सर्वं किं तद्यन्मूतं च स्थूलं चामूर्तं च सूक्ष्मं च मूर्तामूर्ते अनन्नरूपे रयिरेव । तस्मात्पविभक्तादमू- ाद्यदन्यन्मूर्तरूपं मूर्तिः सैव रविरमूर्तेनाद्यमानत्वात् ॥५॥ ह httTA रयिप्राणौ श्रुतिः त्वयमेव व्याचष्ट इत्याह-तत्राऽऽदित्य इति । प्रजापतेरेव संवत्सरादिप्रजापर्यन्तस्रष्टुत्वं वक्तुं रयिप्राणयोः संवत्सरस्रष्ट्रोः प्रजापत्युपादानत्वात्प्रजापत्या- त्मत्वमाह-तदेतदेकमिति । कथमेकस्यात्ताऽन्नं चेति भेद इत्याशङ्कय तस्यैव गुणभा- वविवक्षयाऽन्नत्वं प्राधान्यविवक्षया चात्तृत्वमिति भेद इत्याह-गुणेति। रयिप्राणयोः कथं प्रजापत्यात्मत्वमिति शङ्कते-कथमिति । तत्र रयेः सर्वात्मकत्वात्प्रजापतित्वमित्याह- रपिरिति । अमूर्तस्यापि वाय्वादेः केनचिदद्यमानत्वादयित्वमित्यर्थः । ननु मूर्तीमूर्तयो. रत्रन्नयोरुभयोरपि रयित्वेऽन्नमेव रयिरिति कथमुक्तमित्याशङ्कय मूर्तीमूर्तत्वविभागमकृत्वा सर्वस्य गुणभावमात्रविवक्षया सर्व रयिरित्युच्यते । यदोभे विभज्य गुणप्रधानभावेन विवक्ष्येते तदाऽमूर्तेन प्राणेन मूर्तस्याद्यमानत्वान्मूर्तस्यैव रयित्वमित्याह—तस्मादिति ॥ ५ ॥ तथाऽमूर्तोऽपि प्राणोऽत्ता सर्वमेव यच्चाऽऽद्यम् । कथम्- अथाऽऽदित्य उदयन्यत्माची दिशं प्रविशति तेन प्राच्यान्प्राणान्रश्मिषु संनिधत्ते । यद्द- क्षिणां यत्पतीची यदुदीची यदधो यदूर्ध्वं यद- : : - REALINANCIAL -RAM 1014 - १ ख, मातेरेवान्नममू । घ. इ. मूर्तिरेवान्नं सैं । २ क. मूर्ते वि। ..

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ १ प्रश्नः ] न्तरा दिशो यत्सर्व प्रकाशयति तेन सर्वान्प्राणान्रश्मिषु संनिधत्ते ॥ ६ ॥ अथाऽऽदित्य उदयन्नुद्गच्छन्प्राणिनां चक्षुर्गोचरमागच्छन्यत्माची दिशं स्वप्रकाशेन प्रविशति व्यामोति तेन स्वात्मव्याप्त्या सेवांस्तत्स्था- प्राणान्माच्यानन्तर्भूतान्रश्मिषु स्वात्मावभासरूपेषु व्याप्तिमत्सु व्याप्त- त्वात्माणिनः संनिधत्ते संनिवेशयति, आत्मभूतान्करोतीत्यर्थः । तथैव यत्पविशति दक्षिणां यत्प्रतीची यदुदीचीमध ऊध्वं यत्पविशति यच्चा- न्तरा दिशः कोणदिशोऽवान्तरदिशो यच्चान्यत्सर्वं प्रकाशयति तेन स्वप्रकाशव्याप्त्या सर्वान्सर्वदिक्स्थान्प्राणान्रश्मिषु संनिधत्ते ॥ ६ ॥ रयिशब्दितस्यान्नस्य प्रजापतित्वार्थ सर्वात्मत्वमुक्त्वा प्राणस्यापि तदर्थमेव सर्वात्मत्वमुच्य- तेऽथाऽऽदित्य इतिवाक्येनेत्याह-तथेत्यादिना । यच्चाऽऽद्यं तदपि प्राणोऽतोऽत्ता प्राणोऽपि सर्वमेवेति सर्वात्मक इत्यर्थः । स्वप्रकाशेनेति । स्वकीयप्रकाशेन स्वप्रभयेत्यर्थः । अन्तर्भूतानिति । यद्यपि प्राणस्यात्तृत्वमुक्तं तथाऽपि रयिर्वा एतत्सर्वमित्यत्रामूर्तस्य प्राणस्यापि गुणभावविवक्षयाऽन्नत्वमुक्तमिति तथोक्तम् । स्वात्मावभासरूपेष्विति । स्वात्मप्रभारूपेषु रश्मिप्वित्यर्थः । व्याप्तत्वादिति । संबद्धत्वादित्यर्थः ॥ ६ ॥ स एष वैश्वानरो विश्वरूपः प्राणोऽग्नि- रुदयते । तदेतदृचाऽयुक्तम् ॥ ७ ॥ स एषोऽत्ता प्राणो वैश्वानरः सर्वात्मा विश्वरूपो विश्वात्मत्वाच्च प्राणोऽग्निश्च स एवात्तोदयत उद्गच्छति प्रत्यहं सर्वा दिश आत्मसात्कु. वन् । तदेतदुक्तं वस्तु ऋचा मन्त्रेणाप्यभ्युक्तम् ॥ ७॥ तस्य प्रत्यक्षत्वमाह–स एष इति । वैश्वानर इति । नरा जीवा विश्वे च ते नराश्च विश्वानराः स एव वैश्वानरः सर्वजीवात्मक इत्यर्थः । विश्वरूपः सर्वप्रपञ्चात्मक इति भेदः । उक्तं वस्त्विति । आदित्यस्योक्तं माहात्म्यमित्यर्थः ॥ ७ ॥ विश्वरूपं हरिणं जातवेदसं परायणं ज्योति- रेकं तपन्तम् ।सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥८॥ १ क. च्छन्यत्प्राची दिशं प्रविशति तेन तत्माची दिशं स्व। २ ख, ग, सर्वान्तस्थान्प्रा ३ क. च. °णोऽत्ता।

' [१ प्रश्नः प्रश्नोपनिषत् । विश्वरूपं सर्वरूपं हरिणं रश्मिवन्तं जातवेदसं जातप्रज्ञानं परायण सर्वप्राणाश्रयं ज्योतिरेकं सर्वप्राणिनां चक्षुर्भूतमद्वितीयं तपन्तं तापक्रियां कुर्वाणं स्वात्मानं सूर्यं सूरयो विज्ञातवन्तो ब्रह्मविदः । कोऽसौ यं विज्ञातवन्तः । सहस्ररश्मिरनेकरश्मिः शतधाऽनेकधा प्राणिभेदेन वर्त- मानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८॥ विश्वरूपमित्यादिद्वितीयान्तानां सहस्ररश्मिरित्यादिप्रथमान्तानां सामानाधिकरण्येनान्वया- योगादध्याहारं कृत्वा वाक्यभेदेन व्याचष्टे-स्वात्मानमित्यादिना ॥ ८ ॥ यश्चासौ चन्द्रमा मूर्तिरन्नममूर्तिश्च प्राणोऽत्ताऽऽदित्यस्तदेकमेतन्मि- थुनं सर्व कथं प्रजाः करिष्यत इति, उच्यते- संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । तये ह वै तदिष्टापूर्ते कृतमित्युपासते । ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरा- वर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः॥९॥ तदेव कालः संवत्सरो वै प्रजापतिस्तन्निवय॑त्वात्संवत्सरस्य । चन्द्रा दित्यनिर्वर्त्यतिथ्यहोरात्रसमुदायो हि संवत्सरस्तदनन्यत्वादयिप्राणमि- थुनात्मक एवेत्युच्यते, तत्कथम्, तस्य संवत्सरस्य प्रजापतेरयने मार्गी द्वौ दक्षिणं चोत्तरं च । द्वे प्रसिद्ध ह्ययने षण्मासलक्षणे याभ्यां दक्षिणे- नोत्तरेण च याति सविता केवलकर्मिणां ज्ञानसंयुक्तकर्मवतां च लोका- विदधत् । कथं तत्, तत्र च बाह्मणादिषु ये तदुपासत इति क्रियाविशेषणो द्वितीयस्तच्छब्दः । इष्टं च पूतं चेष्टापूर्ते इत्यादि कृतमे. वोपासते नाकृतं नित्यं ते चान्द्रमसं चन्द्रमसि भवं प्रजापतेमिथुनात्मक- स्यांशं रयिमन्नभूतं लोकमभिजयन्ते कृतरूपत्वाञ्चान्द्रमसस्य ते तत्रैव च कृतक्षयात्पुनरावर्तन्त इमं लोकं हीनतरं वा विशन्तीति ह्युक्तम् । यस्मा- देवं प्रजापतिमन्नात्मकं फलत्वेनाभिनिवर्तयन्ति चन्द्रमिष्टापूर्तकर्मणैत ऋषयः स्वर्गद्रष्टारः प्रजाकामाः प्रजार्थिनो गृहस्थास्तस्मात्स्वकृतमेव दक्षिणं दक्षिणायनोपलक्षितं चन्द्रं प्रतिपद्यन्ते । एष ह वै रयिरनं यः पितृयाणः पितृयाणोपलक्षितश्चन्द्रः॥९॥ ह वै . १ क. ग. °णस्तन्मिथुः ।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रश्नः ] स मिथुनमुत्पादयत इत्युपक्रान्तं मिथुनमुपसंहरतियश्चासाविति । यश्चासौ चन्द्रमा यश्चामूर्तः(तिः) प्राणस्तदेकं मिथुनं सर्व सर्वात्मकमित्यन्वयः । एतौ मे बहुधा प्रनाः करिष्यत इत्युक्तं तत्केन प्रकारेणेति पृच्छति-कथमिति । रयिप्राणयोः संव- स्सरादिद्वारा प्रनास्रष्टुत्वमित्याह-उच्यत इति । तदेवं मिथुनमेव संवत्सरः कालः । स च प्रजापतिः प्रजापत्यात्मकमिथुननिवर्त्यत्वादित्याह—तन्निर्वय॑त्वादिति । तदुप- पादयति–चन्द्रेति । चन्द्रनिर्वास्तिथय आदित्यनिर्वान्यहोत्राणीति विभागः । तन्निवर्त्यत्वेऽपि कालस्य कथं तदात्मकतेत्याशङ्कय कार्यकारणयोरभेदादित्याह-तद नन्यत्वादिति । न केवलं तिथ्यादिद्वारा चन्द्रादिनिवर्त्यत्वं संवत्सरस्य किं त्वयनद्वय- द्वाराऽपीति वक्तुं तस्यायने इत्यादिवाक्यं तत्प्रश्नपूर्वकं व्याचष्टे-तत्कथमिति । चन्द्रा- दित्यनिर्वय॑त्वं कुतो हेत्वन्तरादित्यर्थः । केवलकर्मिणां लोकान्विदधदक्षिणेन याति । ज्ञान- युक्तकर्मवतां लोकान्विधदुत्तरेण यातीत्यन्वयः । सवितेत्युपलक्षणं चन्द्रस्यापि । ज्येष्ठादिर्दक्षिणायनं मार्गशीर्षादिरुत्तरायणमिति श्रुतिषु प्रसिद्धेः ततश्च कर्मिणां लोकान्वि- धातुं तयोर्दक्षिणोत्तराभ्यां मार्गाभ्यां गमनात्तन्निमित्तत्वाच्चायनद्वयप्रसिद्धेस्तन्निवर्त्यत्वं तयो- रनयोरिति तद्वारा संवत्सरस्यापि तन्निवय॑त्वमित्यर्थः । चन्द्रादित्ययोः कथं लोकविधाय- कत्वमिति पृच्छति-कथमिति । चन्द्रादित्यनिवर्त्यदक्षिणोत्तरायणद्वारा लोकप्राप्तेः प्राप्यस्य लोकस्यापि चन्द्रादित्यात्मकत्वाच्च तयोस्तद्विधायकत्वमिति तये ह वा इत्यादि- वाक्येन परिहरति-तत्तत्रेति । इष्टं चेति । अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ॥ वापीकूपर्तडागादि देवतायतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयते " ॥ इति तयोर्भेदः । कृतमित्युपासत इति कृतशब्दोपरितनमितिशब्दमिष्टापूर्ते इति पूर्त- शब्दोपर्याकृष्याऽऽदिशब्दपर्यायतया व्याचष्टे-इत्यादीति । दत्तमादिशब्दार्थः । कृत- मेवोपासते कार्यमेवानुतिष्ठन्तीत्यर्थः । इदं च विशेषणं पुनरावृत्तौ हेतुतयोक्तम् । कृतरूपे- ट्यादिजन्यत्वाच्चन्द्रस्यापि कृतत्वेनानित्यत्वात्पुनरावृत्तिरित्याह-कृतरूपत्वादिति । पुनरावृत्तौ मन्त्रवाक्यं प्रमाणयति—इमं लोकमिति ॥ ९ ॥ अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्य- याऽऽत्मानमन्विष्याऽऽदित्यमधिजयन्ते । एतदै 4 -- . १ च. दित्यनि । २ क. ज. दिदक्षि। ३ क. च. (द्युत्त । ४ क. घ. याम्योत्तरलो. काभ्यां । ५ क. °दानामुपलम्भनम् । ६ ख. ग. घ. तटाकादि । ७ क. इत्युभयो । -- ९ [१ प्रश्नः] प्रश्नोपनिषत् । प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥१०॥ अथोत्तरेणायनेन प्रजापतेरंशं प्राणभत्तारमादित्यमभिजयन्ते । केन । तपसेन्द्रियजयेन विशेषतो ब्रह्मचर्येण श्रद्धया विद्यया च प्रजापत्यात्म- विषययाऽऽत्मानं प्राणं सूर्य जगतस्तस्थुषश्चान्विष्याहमस्मीति विदि. त्वाऽऽदित्यमभिजयन्तेऽभिप्राप्नुवन्ति । एतद्वा आयतनं सर्वप्राणानां सामान्यमायतनमाश्रयमे (ए)तदमृतमविनाशि, अमयमत एव भयवर्जित न चन्द्रवत्क्षयवृद्धिभयवदेतत्परायणं परा गतिविद्यावतां कर्मिणां च ज्ञानवतामेतस्मान्न पुनरावर्तन्ते यथेतरे केवलकर्मिण इति यस्मादेषोऽवि- दुषां निरोध आदित्याद्धि निरुद्धा अविद्वांसो नैते संवत्सरमादित्यमा- त्मानं प्राणमभिप्राप्नुवन्ति । स हि संवत्सरः कालात्माऽविदुषां निरोधः। तत्तत्रास्मिन्नर्थ एष श्लोको मन्त्रः॥ १० ॥ अथेति । मार्गान्तरारम्भार्थोऽथशब्दः । प्रजापत्यात्मविषययेति । तत्तादात्म्य- विषययेत्यर्थः । आदित्यमभिनयन्त इति पूर्वमन्वयार्थमुक्तमिदानी व्याख्यानार्थमिति द्रष्ट- व्यम् । सामान्य मिति । समष्टिरूपमित्यर्थः । विद्यावतामिति । कर्मानधिकारिणा- मत एव केवलोपासनवतामित्यर्थः । कर्मिणां च ज्ञानवतामिति । समुच्चयवतामि- त्यर्थः । ननु केवलकर्मिणामप्यादित्यप्राप्तावपुनरावृत्ति विप्यतीत्याशङ्कय तेषामादित्यप्राप्तिरेव नास्तीति वक्तुमित्येष इति वाक्यं व्याचष्टे-इति यस्मादिति । तस्मात्तेषामादित्यप्रा- प्तिरनाशङ्कयोत शेषः (१०) । यद्वा तस्यायने इत्यारभ्येत्येष निरोध इत्यन्तं श्रुतिवाक्य- मैयनयो रयिप्राणरूपत्वप्रतिपादनपरतया व्याख्येयम् । तथा हि । संवत्सरस्य रयिप्राणमि- थुननिवर्त्यत्वे रयिप्राणरूपत्वं च वक्तव्यं तत्कथमिति पृच्छति-तत्कथमिति। तदवय. वयोरयनयोस्तद्रूपत्वं वक्तुं तयोः प्रथमं प्रसिद्धिमाह-तस्येति । प्रसिद्धिमेवाऽऽह याभ्यामिति । एवमपि कथं तयोस्तदात्मकत्वमित्याह-कथमिति । दक्षिणायनस्य रयित्वं वक्तुं कर्मिणां रयिरूपचन्द्रनिर्वर्तकत्वमाह-तत्तत्रेति । लोकमिति । सोमरूपं शरीरमित्यर्थः । तस्य कर्मकृतत्वं पुनरावृत्त्या साधयति—कृतरूपत्वादिति । रयिरूपचन्द्रस्य दक्षिणायनद्वारा प्राप्यत्वात्तस्यायनस्य तदन्तर्भाव इति वक्तुं तस्य कर्मिभिः . प्राप्यत्वमाह-यस्मादिति । एवं च तस्य रयित्वं सिद्धमित्याह-एष इति । पितृयाणोपलक्षित इति । तत्प्राप्य इत्यर्थः । ततश्च तद्विशेषणस्यायनस्यापि रयित्व. मित्यर्थः (९) । इदानीमुत्तरायणस्य प्राणत्वमाह-अथेति । प्राणरूपादित्यप्रापकत्वा- WARNIN १ क. °न प्राजापत्यं प्रा । २ क. च. मन । ३ क. च. रन ।

- १० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रश्नः ] दुत्तरायणस्य तस्यापि प्राणत्वमिति संवत्सरस्य रयिप्राणमिथुनात्मकत्वमिति तत्कार्यत्वं युक्त- मिति भावः । अस्य कर्मसाध्यचन्द्रवैलक्षण्यमाह-एतद्वा इति । इतरत्सर्वं समानम् । अस्मिन्नर्थ इति । संवत्सरस्वरूप इत्यर्थः ॥ १० ॥ पञ्चपादं पितरं द्वादशाकर्ति दिव आहुः परे अर्धे पुरीषिणम् । अथेमे अन्य उ परे विच- क्षणं सप्तचक्रे षडर आहुरर्पितमिति॥ ११॥ पञ्चपादं पञ्चर्तवः पादा इवास्य संवत्सरात्मन आदित्यस्य तैरसौ पादैरिवर्तुमिरावर्तते । हेमन्तशिशिरावेकीकृत्येयं कल्पना। पितरं सर्वस्य जनयितृत्वात्पितृत्वं तस्य, तं द्वादशाकृति द्वादश मासा आकृतयोऽव- यवा आकरणं वाऽवयविकरणमस्य द्वादशमासैस्तं द्वादशाकृतिं दिवो धुलोकोत्पर ऊर्धेऽधैं स्थाने तृतीयस्यां दिवीत्यर्थः । पुरीषिणं पुरीष- वन्तमुदकवन्तमाहुः कालविदः । अथ तमेवान्य इम उ परे कालविदो विचक्षणं निपुणं सर्वज्ञं सप्तचक्रे सप्तहयरूपेण चक्रे सततं गतिमति कालात्मनि षडरे पडतुमत्याहुः सर्वमिदं जगत्कथयन्ति । अर्पितमरा इव रथनाभौ निविष्टमिति । यदि पञ्चपादो द्वादशाकृतिर्यदि वा सप्त- चक्रः षडरः सर्वथाऽपि संवत्सरः कालात्मा प्रजापतिश्चन्द्रादित्यलक्ष. णोऽपि जगतः कारणम् ॥ ११ ॥ इयं कल्पनेति । पञ्चों कर्मसाध्यचन्द्रवैलक्षण्यकल्पनेत्यर्थः । जनयितृत्वादिति। संवत्सरात्मककालस्य सर्वजनकत्वादित्यर्थः । समानाधिकरणबहुव्रीहितया व्याख्याय व्यधि- करणबहुव्रीहिर्वेत्याह-आकरणं वेति । अवयविकरणमिति । अवयवित्वेन करणमित्यर्थः । पक्षद्वयेऽप्येक एवार्थः । धुलोकादिति । आकाशरूपादन्तरिक्षलोका- दित्यर्थः । अन्यथा स्वर्गलोकात्परस्य चतुर्थत्वेन तृतीयस्यामित्यनन्वयापत्तेः । उदक- वन्तमिति । आदित्याजायते वृष्टिरिति स्मृतेरित्यर्थः । अन्य इत्यस्य पूर्वार्धगतेनाऽऽ- हुरित्यनेन संबन्धः । उ इति तुशब्दसमानार्थों निपातः । परे तु तमेव विचक्षणमा- हुरित्यन्वयः । किमाहुरित्यत आह-सप्तचक इति । तस्मिन्विचक्षणे सप्तचक्रा. द्यात्मके सर्वमिदं जगदर्पितमित्याहुरित्यर्थः । मतद्वयेऽपि कीदृशोऽर्थभेद इत्यत आह—यदीति । पूर्वमत ऋतूनां पादत्वकल्पनया मासानामवयवत्वकल्पनयाऽऽदि- स्यात्मना संवत्सरः काल एवोक्तः । द्वितीये तु हेमन्तशिशिरौ पृथकृत्य षण्णामृत- १ ख. घ. ङ. वादाहः पर। २ क. च. धाकल्पसा ।

. [१ प्रश्नः] प्रश्नोपनिषत् । ११ नामरत्वकल्पनया संवत्सरस्य परिवर्तनगुणयोगेन चक्रत्वकल्पनया कालप्राधान्येन सर्वाश्र- यत्वेन च स एवोक्तः । पक्षद्वयेऽपि गुणभेदेन कल्पनाभेदेन च भेदो न धर्मिभेद इत्यर्थः ॥ ११ ॥ मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥ १२ ॥ यस्मिन्निदं श्रितं विश्वं स एव प्रजापतिः संवत्सराख्यः स्वावयवे मासे कृत्स्नः परिसमाप्यते । मासों वै प्रजापतिर्यथोक्तलक्षण एव मिथु- नात्मकस्तस्य मासात्मनः प्रजापतेरेको भागः कृष्णपक्षो रयिरनं चन्द्रमा अपरो मागः । शुक्लः शुक्लपक्षः प्राण आदित्योऽत्ताऽग्निर्यस्माच्छुक्लपक्षा- त्मानं प्राणं सर्वमेव पश्यन्ति तस्मात्माणशिन एत ऋषयः कृष्णपक्षेऽ- पीष्टं यागं कुर्वन्तः शुक्लपक्ष एव कुर्वन्ति प्राणव्यतिरेकेण कृष्णपक्षस्तैन दृश्यते यस्मादितरे तु प्राणं न पश्यन्तीत्यदर्शनलक्षणं कृष्णात्मानमेव पश्यन्ति । इतर इतरस्मिन्कृष्णपक्ष एव कुर्वन्ति शुक्ले कुर्वन्तोऽपि॥१२॥ कारणत्वे श्लोकोक्तं जगदाश्रयत्वं हेतुमाह-यस्मिन्निति । संवत्सरस्यापि मासाहो- रात्ररूपव्यतिरेकेणौषध्यादिजनकत्वाभावात्तस्य मासाद्यात्मकत्वमाह-स एवेति । यथो- तेति । संवत्सररूपो रयिप्राणमिथुनात्मक इत्यर्थः । शुक्लकृष्णयोरुभयोरपि दर्शपूर्णमासा- दिकर्मानुष्ठानदर्शनात्तस्मादेत ऋषय इत्यादि वाक्यमनुपपन्नमित्याशङ्कय शुक्लस्य प्राणात्म. स्वज्ञानस्तुतिपरतया व्याचष्टे-यस्मादिति । यस्मात्प्राणं सर्वमेव सर्वात्मकमेव पश्यन्ति यस्माच्च प्राणव्यतिरेकेण कृष्णपक्षस्तैर्न दृश्यते तस्मादित्यन्वयः । प्राणस्य शुक्लपक्षात्मकत्वा- स्कृष्णपक्षादिसर्वजगतः प्राणात्मत्वात्प्राणद्वारा कृष्णपक्षस्यापि शुक्लपक्षत्वे सति कृष्णे-कुर्व- न्तोऽपि प्रकाशात्मके शुक्ल एव कुर्वन्तीति शुक्लपक्षे प्राणत्वज्ञानस्य स्तुतिरित्यर्थः । एतत्स्तु- त्यर्थमेव ज्ञानरहितान्निन्दति-इतरे विति । ये तु सर्वात्मानं प्राणं न पश्यन्त्यज्ञत्वा- तेषां शुक्लपक्षः प्राणत्वेनाज्ञायमानत्वादज्ञानात्मकः सन्कृष्णपक्षत्वमापद्यतेऽतः शुक्ले कुर्वन्तोऽ- प्यदर्शनात्मकत्वात्प्रकाशरहिते कृष्ण एव कुर्वन्तीति ते निन्द्यन्त इत्यर्थः । उक्तमर्थ श्रुत्या. स्वदं करोति-इतर इति ॥ १२ ॥ अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रि- खे रयिः प्राणं वा एते प्रस्कन्दन्ति ये दिवा १ क. इष्टिं । २ ख. ग. घ. एवं ।

१२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ १ प्रश्न: रत्या संयुज्यन्ते ब्रह्मचर्यमेव तय- दात्रौ रत्या संयुज्यन्ते ॥ १३ ॥ सोऽपि मासात्मा प्रजापतिः स्वावयवेऽहोरात्रे परिसमाप्यते पूर्ववत् । तस्योप्यहरेव प्राणोऽत्ताऽनी रात्रिरेव रयिः पूर्ववत् , प्राणमहरात्मानं वा एते प्रस्कन्दन्ति निर्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छिद्यापन- यन्ति । के। ये दिवाऽहनि रत्या रतिकारणभूतया सह स्त्रिया संयुज्यन्ते मिथुनं मैथुनमाचरन्ति मूढाः । यत एवं तस्मात्तन्न कर्तव्यमिति प्रतिषेधः प्रासङ्गिकः । यद्रात्रौ संयुज्यन्ते रत्या ऋतौ ब्रह्मचर्यमेव तदिति प्रशस्त. स्वादृतौ* भार्यागमनं कर्तव्यमिति । अयमपि प्रासङ्गिको विधिः । प्रकृतं तूच्यते सोऽहोरात्रात्मकः प्रजापतिर्बीहियवाद्यन्नात्मना व्यव- , । स्थितः ॥१३॥ ह ने ४ रयिः पूर्ववदिति । रयिरन्नं चन्द्रमा इत्यर्थः । अह्नः प्राणत्वोक्तिप्रसङ्गादह्नि मैथुनं निषेधति-प्राणमिति । प्रकृतमिति । कुतो ह वा इमाः प्रजाः प्रजायन्त इति पृष्टमित्यर्थः । पूर्वोक्तं सर्वमेतदुपयोगितयोक्तं न तु साक्षात्प्रकृतमिति भावः ॥ १३ ॥ अन्नं वै प्रजापतिस्ततो तद्धेतस्तस्मा- दिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥ एवं क्रमेण परिणम्य तदन्नं वै प्रजापतिः । कथम् । ततस्तस्माद्ध वै रेतो नृबीजं तत्प्रजाकारणं तस्माद्योषिति सिक्तादिमा मनुष्यादिलक्षणाः प्रजाः प्रजायन्ते यत्पृष्टं कुतो ह वै प्रजाः प्रजायन्त इति । तदेवं चन्द्रा- दित्यमिथुनादिक्रमेणाहोरात्रान्तेनोन्नासृग्रेतोद्वारेणेमाः प्रजाः प्रजायन्त इति निर्णीतम् ॥ १४ ॥ एवं क्रमेणेति । रयिप्राणसंवत्सरादिक्रमेण परिणम्य व्रीह्याद्यात्मना व्यवस्थितः सन्नन्नं वै प्रजापतिरन्नात्मको जातः प्रजापतिरित्यन्वयः । कथमिति । अन्नरूपत्वेऽपि तस्य कथं प्रजाजनकत्वमित्यर्थः । तत इति । भक्षितादन्नादित्यर्थः । रेत इति । शोणित. स्याप्युपलक्षणं तुल्यत्वादिति ॥ १४ ॥ . - * अत्र रात्रावित्यर्थलभ्यम् । १ ख. ग. ङ. स्याह । २ च.न्ते मैं । ३ क. °थुनमा रत्ने विपरिणम्यतेऽनं। ५ क. च. नान्नरेतो' क. भेणाहोरात्रः प्रजापति. : - [१ प्रश्नः प्रश्नोपनिषत् । १३ वै ॥ ये । तये तत्प्रजापतिव्रतं चरन्ति ते मिथुन- मुत्पादयन्ते । तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ॥ १५ ॥ तत्तत्रैवं सति ये गृहस्थाः 'ह वै' इति प्रसिद्धस्मरणार्थी निपातौ । तत्प्रजापतेर्बतमृतौ भार्यागमनं चरन्ति कुर्वन्ति तेषां दृष्टफलमिदम् । किम् । ते मिथुनं पुत्रं दुहितरं चोत्पादयन्ते । अदृष्टं च फलमिष्टापूर्तद- त्तकारिणां तेषामेवैष यश्चान्द्रमसो ब्रह्मलोकः पितृयाणलक्षणो येषां तपः स्नातकवतादीनि, ब्रह्मचर्यम् । ऋतावन्यत्र भैथुनासमाचरणं ब्रह्मच- र्यम् । येषु च सत्यमनृतवर्जनं प्रतिष्ठितमव्यभिचारितया वर्तते नित्यमेव।। प्रजापतिव्रताचरणमात्रेण नादृष्टफलं चन्द्रलोकः प्राप्यते मूर्खाणामपि प्रसङ्गादत आह-इष्टापूर्तेति । चान्द्रमसो ब्रह्मलोक इत्यपरब्रह्मणः प्रजापतेरंशत्वादयिरूपस्य चन्द्रस्य ब्रह्मलोकत्वमित्यर्थः । इष्टादिकारिणां तपआदिकमपि चन्द्रलोकप्राप्त्यर्थमपेक्षितमित्यत आह-येषां तप इति ॥ १५ ॥ तेषामसौ विरजो ब्रह्मलोको न येष जिह्ममनृतं न माया चेति ॥ १६ ॥ इत्यथर्ववेदीयप्रश्नोपनिषदि प्रथमः प्रश्नः ॥ १ ॥ यस्तु पुनरादित्योपलक्षित उत्तरायणः प्राणात्मभावो विरजः शुद्धो न चन्द्रब्रह्मलोकवद्रजस्वलो वृद्धिक्षयादियक्तोऽसौ केषां तेषामित्युच्यते यथा गृहस्थानामनेकविरुद्धसंव्यवहारप्रयोजनवत्त्वाज्जिी कौटिल्यं वक्र भावोऽवश्यंभावि तथा न ये जिह्मम् । यथा च गृहस्थानां क्रीडान- मादिनिमित्तमनृतमवर्जनीयं तथा न येषु तत् , तथा माया गृहस्थाना- मिव न येषु विद्यते । माया नाम बहिरन्यथाऽऽत्मानं प्रकाश्यान्यथैव कार्य करोति सा माया मिथ्याचाररूपा । मायेत्येवमादयो दोषा येष्व- धिकारिषु ब्रह्मचारिवानप्रस्थभिक्षुषु निमित्ताभावान्न विद्यन्ते तत्साध. नानुरूपेणैव तेषामसौ विरजो ब्रह्मलोक इत्येषा ज्ञानयुक्तकर्मवतां गतिः। पूर्वोक्तस्तु ब्रह्मलोकः केवलकर्मिणां चन्द्रलक्षण इति ॥ १६ ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्य- श्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये प्रथमः प्रश्नः ॥१॥ १ ख. ङ. तत एवं । २ ख. ग. घ. ङ. °व वस्तु ॥ १५ ॥ ३ ख. ग. घ. ङ. तेषां । ४ क. च. चन्द्रलोक इ°।

१४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ २ प्रश्नः ] तेषामसौ विरज इत्यादिवाक्यं व्याचष्टे-यस्त्विति । उत्तरायण इति । तेन प्राप्य इत्यर्थः । प्राणात्मभावोऽपरब्रह्मतयाऽवस्थानमित्यर्थः । असौ केषां तेषामिति । तेषामसौ विरज इत्यत्र तेषामित्यनेन केषां निर्देश इति प्रश्नार्थः । न येषु जिह्ममित्यत्र जिलादिशब्द व्यतिरेकप्रदर्शनेन व्याचष्टे-यथेत्यादिना । मायाग्रहणं तादृशानां दोषा- णामुपलक्षणमिति वदन्वाक्याथ संगृह्य दर्शयति-मायेत्येवमिति । भिक्षुष्विति परमहं- सव्यतिरिक्तानां कुटी,कादीनां ग्रहणम् । तेषां ब्रह्मलोकादपि विरक्तत्वेन तत्रानार्थत्वात् । इतिशब्दार्थमाह-इत्येषेति ॥ १६ ॥ इति श्रीमदानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां प्रथमः प्रश्नः ॥ १॥ A अथ द्वितीयः प्रश्नः। । प्राणोऽत्ता प्रजापतिरित्युक्तम् । तस्य प्रजापतित्वमत्तृत्वं चास्मिश- रीरेऽवधारयितव्यमित्ययं प्रश्न आरभ्यते- अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन्क- त्येव देवाः प्रजां विधारयन्ते कतर एतत्पका- शयन्ते कः पुनरेषां वरिष्ठ इति ॥ १ ॥ अथानन्तरं ह किलनं भार्गवो पैदर्भिः प्रपच्छ । हे भगवन्कत्येव देवाः प्रजां शरीरलक्षणां विधारयन्ते विशेषेण धारयन्ते । कतरे बुद्धी- न्द्रियकर्मेन्द्रियविभक्तानामेतत्प्रकाशनं स्वमाहात्म्यप्रख्यापनं प्रकाशयन्ते कोऽसौ पुनरेषां वरिष्ठः प्रधान कार्यकरणलक्षणानामिति ॥ प्रश्नान्तरस्य प्रथमप्रश्नेन संगतिमाह-प्राणोऽत्तेति । अवधारयितव्यमिति। अत्ता विश्वस्य सत्पतिरित्यत्तृत्वस्यैषोऽग्निस्तपतीत्यारभ्यारा इव रथनाभौ प्राणे सर्व प्रतिष्ठितम् । प्रना. पतिश्चरसि गर्भ त्वमेव प्रतिनायस इत्यादिना च प्रजापतित्वस्योत्तरत्र वक्ष्यमाणत्वादित्यर्थः । इदमुपलक्षणं पूर्व गतिश्रवणेन विरक्तस्यापि चित्तैकाग्यं विना वक्ष्यमाणात्मज्ञानासिद्धे- स्तदर्थ मन्दानां फलविशेषार्थं च प्राणोपासनार्थ प्रश्नद्वयारम्भः । तत्रापि श्रेष्ठत्वात्तृत्वप्रना. पतित्वादिगुणनिर्धारणार्थ द्वितीयः प्रश्नः । तदुत्पत्त्यादिनिर्धारणपूर्वकं तदुपासनविधानार्थ तृतीयः प्रश्न इत्यपि द्रष्टव्यम् । प्रनाशब्देन शरीरमेव गृह्यते न जीवस्तस्य प्राणधारक- स्वेन तद्धार्यत्वाभावादित्याह-शरीरेति । विभक्तानामिति निर्धारणे षष्ठी । स्वमाहा- MAP । १ क. °चराणां प्रौं। २ क. °र्थितत्वा । ३ ख. ग. घ. इ. च. को वैतेषां । - क. 'रस्यैः- तेन प्रश्न [२ प्रश्नः ] प्रश्नोपनिषत् । १५ त्म्यख्यापनमिति । अवकाशदानादिकमाकाशादीनां माहात्म्यं तस्य ख्यापनं तस्य लोकान्प्रति प्रकटनं तत्प्रकाशयन्ते कुर्वन्तीत्यर्थः । पाकं पचतीतिवत् । अवकाशदानादिकं स्वस्वकार्य सर्वलोकप्रकटनं यथा तथा कतरे कुर्वन्तीत्यर्थः ॥ १ ॥ तस्मै स होवाचाऽऽकाशो ह वा एप देवो वायुरनिरापः पृथिवी वाङ्मन- श्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेतद्वाणमवष्टश्य विधारयामः॥२॥ एवं पृष्टवते तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्नि- रापः पृथिवीत्येतानि पञ्च महाभूतानि शरीरारम्भकाणि वाड्मनश्चक्षुः श्रोत्रमित्यादीनि कर्मेन्द्रियबुद्धीन्द्रियाणि ते कार्यलक्षणाः करणलक्ष- णाश्च ते देवा आत्मनो माहात्म्यं प्रकाश्याभिवदन्ति स्पर्धमाना *अहं- श्रेष्ठतायै, कथं वदन्ति । वयमेतद्वाणे कार्यकरणसंघातमवष्टभ्य प्रासाद- मिव स्तम्मादयोऽविशिथिलीकृत्य विधारयामो विस्पष्टं धारयामः । मयैवैकेनायं संघातो ध्रियत इत्येकैकस्याभिप्रायः ॥२॥ , एष देव इति । वक्ष्यमाणाभिवदनादिव्यवहारसिद्धयर्थ चेतनत्वं संभावयितुं देव इति विशेषणम् “ अभिमानिव्यपदेशस्तु विशेषानुगतिम्याम् ” इति न्यायेनाऽऽकाशाद्यमिमानि- देवताग्रहणार्थम् । तच्च विशेषणं वाय्वादिष्वपि सर्वत्र संबध्यते । वाग्ग्रहणं कर्मेन्द्रियोपलक्ष- णार्थ चक्षुरादिग्रहणं ज्ञानेन्द्रियोपलक्षणार्थमिति मत्वाऽऽह-कर्मेन्द्रियेति । कार्यलक्षणाः शरीराकारेण परिणता आकाशादयः । करणलक्षणानीन्द्रियाणि । माहात्म्यमिति । आकाशादीनामवकाशदानादिरूपं शरीरधारणैकदेशात्मकं प्रकाश्यं स्वकार्य प्रकाश्य सर्वलो- कप्रकटं यथा तथा कृत्वाऽभिवदन्ति, अभितः सर्वतः कृत्स्नं शरीरधारणं प्रत्येकं वयमेव कुर्म इति वदन्तीत्यर्थः । बाणमिति । बवयोरभेदाद्वाति कुत्सितं गन्धं वहतीति वा [वाणम् । विनाशं गच्छतीति वा देशाद्देशान्तरं गच्छतीति वा वणं बणमेव वाणं कार्यकरणसंघातं शरीरमित्यर्थः ॥ २॥ * क. पुस्तकेऽहंपदरहितः पाठः। १ क. घ. ङ. "णि च शरीरं धारयन्ते ते तन्मध्ये कर्मेन्द्रिय बुद्धीन्द्रियाणि शरीरे स्वमाहा- त्म्यख्यापनं प्रकाशयन्ते का । २क. ग. णं शरीरं का। ।

-- १६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ प्रश्नः] तान्वरिष्ठः प्राण उवाच । मा मोहमापद्यथाह- मेवैतत्पञ्चधाऽऽत्मानं प्रविभज्यैतद्वाणमवष्टाय विधारयामीति तेऽश्रद्दधाना बभूवुः ॥ ३ ॥ तानेवमभिमानवतो वरिष्ठो मुख्यः प्राण उवाचोक्तवान् । मा मैवं मोहमापद्यथाविवेकतयाऽभिमानं मा कुरुत यस्मादहमेवैतद्वाणमवष्टभ्य विधारयामि पञ्चधाऽऽत्मानं प्रविभज्य प्राणादिवृत्तिभेदं स्वस्य कृत्वा विधारयामीत्युक्तवति च तस्मिंस्तेऽश्रद्दधाना अप्रत्ययवन्तो बभूवुः कथ- मेतदेवमिति ॥ ३ ॥ कथमेतदिति । एतत्व(द)हमैवैतदित्याद्युक्तम् । एवं यथाभूतं कथमित्यर्थः ॥ ३ ॥ सोऽभिमानादूर्ध्वमुत्क्रमत इव तस्मिन्नुत्क्रामत्य- थेतरे सर्व एवोकामन्ते तस्मिश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते । तयथा मक्षिका मधुकर- राजानमुत्क्रामन्तं सर्वा एवोकामन्ते तस्मिश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्त एवं वाङ्मन- श्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥४॥ स च प्राणस्तेपाम श्रद्दधानतामालक्ष्याभिमानादूर्ध्वमुकमत इवेदमु- क्रान्तवानिव * सरोषान्निरपेक्षस्तस्मिन्नुत्क्रामति यद्वृत्तं तदृष्टान्तेन प्रत्यक्षी करोति । तस्मिन्नुत्क्रामति सत्यथानन्तरमेवेतरे सर्व एव प्राणा श्चक्षुरादय उत्क्रामन्त उच्चक्रमिरे । तस्मिंश्च प्राण प्रतिष्ठमाने तूष्णीं भवत्यनुत्क्रामति सति सर्व एव प्रातिष्ठन्ते तूष्णीं व्यवस्थिता अभूवन् । तत्तत्र यथा लोके मक्षिका मधुकराः स्वराजानं मधुकरराजानमुत्क्रामन्तं प्रति सर्वा एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते प्रति- तिष्ठन्ति । यथाऽयं दृष्टान्त एवं वाड्मनश्चक्षुः श्रोत्रं चेत्यादयस्त उत्सृ. ज्याश्रद्दधानतां बुद्ध्वा प्राणमाहात्म्यं प्रीताः प्राणं स्तुन्वन्ति स्तुवन्ति ॥४॥ * सरोषत्वादिति वक्तुं युक्तम् । MAHARMA १ क. च. ति चास्मि । २ घ. च. °मुत्क्राम। ३ क. 'मुत्क्रामत इतोत्क्रमतीवे । च, 'मुत्कामत इवोत्क्रान्त । ४ क. °मन्त्युच्चक्रमुः । त° । ५ क. तद्यथा ।

". १८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ प्रश्नः ] तिजायसे प्रजापतित्वादेव प्रागेव सिद्धं तव *मातृपितृत्वं सर्वदेहदेह्या- कृतिच्छे मनैकः प्राणः सर्वात्माऽसीत्यर्थः । तुभ्यं त्वदर्थं या इमा. मनु- प्याद्याः प्रजास्तु हे प्राण चक्षुरादिद्वारैर्बलिं हरन्ति । यस्त्वं प्राणैश्च- क्षुरादिभिः सह प्रतितिष्ठसि सर्वशरीरेष्वतस्तुभ्यं बलिं हरन्तीति युक्तम् । मोक्ता हि यतस्त्वं तवैवान्यत्सर्वं भोज्यम् ॥७॥ किंचेति । यः प्रजापतिविराट्सोऽपि स्वमेवेत्यन्वयः । पितुर्गर्भ रेतोरूपेण मातुर्गर्भ पुत्ररूपेण यश्चरति पश्चात्तयोरेव प्रतिरूपः सन्सदृशः सन्यः प्रजायते स त्वमेव प्रजायस इत्यन्वयः । प्रतिशब्दार्थ उक्तः-प्रतिरूपः सन्निति । ननु प्राणस्य पुत्ररूपत्वमेवोक्तं न तु * पितृमातृरूपत्वं तत्कस्मादत आह-प्रजापतित्वादेवेति । तस्य सर्वात्मत्वा- दित्यर्थः । निष्कृष्टार्थमाह-सर्वदेहेति । अत्रापि निष्कृष्टार्थमाह-भोक्ता हीति । अतस्तवैवेत्यतःशब्दाध्याहारेण योज्यम् ॥ ७ ॥ किंच- देवानामसि वह्नितमः पितृणां प्रथमा स्वधा । ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥८॥ देवानामिन्द्रादीनामसि भवसि त्वं वह्नितमो हविषां प्रापयितृतमः । पितॄणां नान्दीमुखे श्राद्धे या पितृभ्यो दीयते स्वधाऽन्नं सा देवधान. मपेक्ष्य प्रथमा भवति । तस्यों अपि पितृभ्यः प्रापयिता त्वमेवेत्यर्थः । किंचर्षीणां चक्षुरादीनां प्राणानामगिरसामगिरसभूतानामथर्वणां तेषा- मेव 'प्राणो वाऽथर्वा' इति श्रुतेः । चरितं चेष्टितं सत्यमवितथं देह- धारणाद्युपकारलक्षणं त्वमेवासि ॥ ८॥ हविषां प्रापयितृतम इति । वह्निशब्दो वहनाद्वहिरिति यौगिक इत्यर्थः । प्रथमा भवतीति । यज्ञादिदैवे(व)कर्मणि प्रथमं नान्दीमुखश्राद्धस्यावश्यकर्तव्यत्वात्सा प्रथमेत्यर्थः । ऋष गताविति धातोर्ज्ञानार्थत्वादृषिशब्दस्य ज्ञानजनकचक्षुराद्यर्थत्वमित्यर्थः । अङ्गिरसभूतानामिति । प्राणाभावेऽङ्गानां शोषदर्शनात्तेषामङ्गिरसत्वमित्यर्थः । मुख्य- प्राणस्याथवत्त्वं श्रुत्याऽभिहितं यद्यपि तथाऽपि चक्षुरादीनामपि तदंशत्वादथर्वशब्दार्थत्व. मिति भावः ॥ ८॥ * मध्यमपदलोपी समासः । m १ क. °च्छन्न एकः । २ क. पितृणां । ३ क. च. पितॄणां ! ४ क. च. प्रदान। ५ ख ग. घ. ङ. त्यापि।

[२प्रश्नः] प्रश्नोपनिषत् । १९ किंच- इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥ इन्द्रः परमेश्वरस्त्वं हे प्राण तेजसा वीर्येण रुद्रोऽसि संहरञ्जगत् । स्थितौ च परि समन्तादक्षिता पालयिता परिरक्षिता त्वमेव जगतः सौम्येन रूपेण । त्वमन्तरिक्षेऽजस्त्रं चरसि उदयास्तमयाभ्यां सूर्यस्त्वमेव च सर्वेषां ज्योतिषां पतिः॥९॥ इहेन्द्रशब्देन परमेश्वरत्वमुच्यते मघबानित्यनेन विन्द्र उक्त इति भेदमाह- इन्द्रः परमेश्वर इति । वीर्येण संहास्सामर्थेनेत्यर्थः । सौम्येनेति । विवादिरू- पेणेत्यर्थः ॥ ९॥ यदा त्वमभिवर्षस्यथेमाः प्राणते प्रजाः । आन- न्दरूपास्तिष्ठन्ति कामायानं भविष्यतीति ॥ १० ॥ यदा पर्जन्यो भूत्वाऽभिवर्षसि त्वमथ तदाऽन्नं प्राप्येमाः प्रजाः प्राणते प्राणचेष्टां कुर्वन्तीत्यर्थः । अथवा प्राण ते तवेमाः प्रजाः स्वात्म- भूतास्त्वदन्नसंवर्धितास्त्वदभिवर्षणदर्शनमात्रेण चाऽऽनन्दरूपाः सुखं प्राप्ता इव सत्यस्तिष्ठन्ति । कामायेच्छातोऽन्नं भविष्यतीत्येवमाभि- प्रायः ॥१०॥ ॥ १० ॥ किंच- ब्रात्यस्त्वं प्राणकऋषिरता विश्वस्य सत्पतिः । वयमायस्य दातारः पिता त्वं मातरिश्वनः ॥ ११ ॥ . प्रथमजत्वादन्यस्य संस्कर्तुरमावादसंस्कृतो बात्यस्त्वं स्वभावत एव शुद्ध इत्यभिप्रायः । हे प्राणकऋषिस्त्वमाथर्वणानां प्रसिद्ध एकर्षिना. माऽनिःसन्नत्ता सर्वहविषाम् । त्वमेव विश्वस्य सर्वस्य सतो विद्यमा. नस्य पतिः सत्पतिः । साधुर्वा पतिः सत्पतिः । वयं पुनराद्यस्य तवा- दनीयस्य हविषो दातारः । त्वं पिता मातरिश्व हे मातरिश्वन्नोऽस्मा. कम् । अथ वा मातरिश्वनो वायोस्त्वम् । अतश्च सर्वस्यैव जगत पितृत्वं सिद्धम् ॥ ११॥ असंस्कृत इति । संस्कारहीनो व्रात्य इति स्मृतेरित्यर्थः । अनेन स्वतःशुद्धत्वं १ ग. श्वन्, अः, अकारो ब्रह्मविष्णुश्चेत्यर्थान्तरं नोऽस्मा । .

२०. आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ २ प्रश्नः ] विवक्षितमित्याह-स्वभावत एवेति । मातरिश्वेति । मातरिश्व न इत्यत्र नलोप. इछान्दस इत्यर्थः । वायोस्त्वमिति । पितेत्यनुषङ्गः। अस्मिन्व्याख्याने वायुमात्रपितृत्वा- दस्मदादिसर्वपितृत्वमनुक्तं स्यादत आह-अतश्चेति । अस्मदादिसर्वजनकत्वाद्वायोस्त- जनकस्याऽऽकाशात्मनः प्राणस्य सर्वजनकत्वं सिद्धमित्यर्थः ॥ ११ ॥ किं बहुना- ते या तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि या च मनसि संतता शिवां तां कुरु मोत्क्रमीः ॥ १२॥ या ते. त्वदीया तनूर्वाचि प्रतिष्ठिता वक्तृत्वेन वदनचेष्टां कुर्वती । या श्रोत्रे या च चक्षुषि या च मनसि संकल्पादिव्यापारेण संतता समनु- गता तनूस्तां शिवां शान्तां कुरु मोत्क्रमीरुत्क्रमणेनाशिवां मा कार्षी- रित्यर्थः ॥ १२॥ । + वाचि प्रतिष्ठितेति । वाच्यमानरूपा तनूः प्रतिष्ठिता । श्रोत्रे व्यानरूपा । चक्षुषि प्राणरूपा । मनसि समानरूपा । स प्राणस्तच्चक्षुः स व्यानस्तच्छ्रोत्रं सोऽपानः सा वाक्स समानस्तन्मन इति श्रुतेरित्यर्थः । उत्क्रमणेनेति । प्राणोत्क्रमणे सत्यपानाद्यात्मिका वागा- दिरूपा तनूरशिवा कार्यायोग्या स्यादित्यर्थः ॥ १२ ॥ किं बहुना- प्राणस्येदं वशे सर्व त्रिदिवे यत्प्रतिष्ठितम् । मातेव पुत्रान्रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३ ॥ इत्यथर्ववेदीयप्रश्नोपनिषदि द्वितीयः प्रश्नः ॥ २ ॥ अस्मिल्लोके प्राणस्यैव वशे सर्वमिदं यत्किंचिदुपभोगजातं त्रिदिवे तृतीयस्यां दिवि च यत्प्रतिष्ठितं देवाद्युपभोगलक्षणं तस्यापि प्राण एवे- शिता रक्षिता । अतो मातेव पुत्रानस्मात्रक्षस्व पालयस्व । त्वन्निमित्ता हि बाहम्यः क्षात्रियाश्च श्रियस्तास्त्वं श्रीश्च श्रियश्च प्रज्ञां च त्वस्थि- तिनिमित्तां विधेहि नो विधत्स्वेत्यर्थः । इत्येवं सर्वात्मतया वागादिभिः प्राणैः स्तुत्या गमितमहिमा प्राणः प्रजापतिरत्तेत्यवधृतम् ॥ १३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपाद- शिष्यश्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये द्वितीयप्रश्नः ॥२॥ १ १ क. त्मना यो वा । २ क. °मानः स प्रजापतिरेवेत्य।

[३ प्रश्नः ] प्रश्नोपनिषत् । २१ ब्राह्मय इति । ऋगादिमन्त्ररूपा ब्राह्मयः श्रियः । ऋचः सामानि यजूंषि । सा हि श्रीरमृता सतामिति श्रुतेः । क्षाव्यः प्रसिद्धा धनाद्यैश्वर्यरूपाः । अस्मिन्प्रश्ने निर्धारित गुणं संगृह्याऽऽह-इत्येवमिति । इदं वरिष्ठत्वादेरुपलक्षणम् ॥ १३ ॥ इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाप्यटीकायां द्वितीयः प्रश्नः ॥ २ ॥ अथ तृतीयः प्रश्नः । re- -- अथ हैनं कौसल्यश्चाऽऽश्वलायनः पप्रच्छ । भग- वन्कुत एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा प्रविक्षज्य कथं प्रातिष्ठते केनोक- मते कथं बाह्यमभिधचे कथमध्यात्ममिति ॥ ३ ॥ अथ हैनं कौसल्यश्चाऽऽश्वलायनः पप्रच्छ । प्राणो ह्येवं प्राणैनिर्धा- रिततत्त्वैरुपलब्धमहिमाऽपि संहतत्वात्स्यादस्य कार्यत्वमतः पृच्छामि । भगवन्कुतः कस्मात्कारणादेष यथावधृतः प्राणो जायते । जातश्च कथं केन वृत्तिविशेषेणाऽऽयात्यस्मिशरीरे । किंनिमित्तकमस्य शरीरग्रहण- मित्यर्थः । प्रविष्टश्च शरीर आत्मानं वा प्रविमज्य प्रविभागं कृत्वा कथं केन प्रकारेण प्रातिष्ठते प्रतितिष्ठति । केन वा वृत्तिविशेषेणास्माच्छरी- रादुत्क्रमत उत्क्रामति । कथं बाह्यमधिभूतमधिदैवतं चाभिधत्ते धारयति कथमध्यात्ममिति ॥१॥ एवं प्रजापतित्वात्तृत्वादिगुणजातं निर्धार्य प्राणस्योत्पत्त्यादि निर्धारयंस्तदुपासनां विधातुं प्रश्नान्तरमवतारयति-अथेति । वैदर्भिप्रश्नानन्तरमित्यर्थः । प्राणैरिति । यैर्वागादि- प्राणैराकाशादिभिश्च प्राणस्य तत्त्वमुपलब्धं तैरित्यर्थः । प्राणस्य पूर्वोक्तमहिमत्वादेवोत्पत्ति- शङ्काभावात्कुत इति प्रश्नानुपपत्तिमाशङ्कयाऽऽह-अपि संहतत्वादिति । अनेकात्मक- त्वात्सावयवत्वादित्यर्थः । शरीरग्रहणमिति । शरीरप्रवेश इत्यर्थः । प्रातिष्ठत इति । आप्रश्लेषाद्दीर्घत्वम् ॥ १ ॥ तस्मै स होवाचातिप्रश्नान्पृच्छसि ब्रह्मि- ष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥२॥ - . - . - H १ क. प्राणयेवं निर्धारिततत्त्व उप । २ ख. °वं निर्धारिततत्त्व उप ३ घ..तत्त्व उप । ४ क. 'दैवं चा। च. देवं वाऽभि । ५ कति धारयतीति शेषः ।

२२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ३ प्रश्नः ] एवं पृष्टस्तस्मै स होवाचाऽऽचार्यः प्राण एव तावदुर्विज्ञेयत्वाद्वि- षमप्रभाहस्तस्यापि जन्मादि त्वं पृच्छस्यतोऽतिप्रश्नान्पृच्छसि । बह्मि- ठोऽसीत्यतिशयेन त्वं ब्रह्मविदतस्तुष्टोऽहं तस्मात्ते तुभ्यं ब्रवीमि यत्पृष्टं शृणु ॥२॥ 3 विषमेति । विषमं दुर्घटं यथा तथा प्रश्नाह इत्यर्थः । अतिप्रश्नानिति । त्वद- न्येषां प्रश्नानतिक्रान्तानन्यदीयप्रश्नागोचरान्सूक्ष्मप्रश्नान्प्रष्टव्यार्थानित्यर्थः । अतिशयेनेति । अपरब्रह्मापेक्षयाऽतिशयितमुख्यब्रह्मविदसि त्वमिति प्रोत्साहाथै स्तौतीति भावः ॥ २ ॥ आत्मन एष प्राणो जायते । यथैषा पुरुषे छायैत- स्मिन्नेतदाततं मनोकतेनाऽऽयात्यस्मिञ्शरीरे ॥३॥ आत्मनः परस्मात्पुरुषादक्षरात्सत्यादेष उक्तः प्राणो जायते । कथमि. त्यत्र दृष्टान्तः । यथा लोक एषा पुरुषे शिरःपाण्यादिलक्षणे निमित्ते छाया नैमित्तिकी जायते तद्वदेतस्मिन्ब्रह्मण्येतत्प्राणाख्यं छायास्थानीय- मनृतरूपं तत्त्वं सत्ये पुरुष आततं समर्पितमित्येतत् । छायेव देहे मनो- कृतेन मनःसंकल्पेच्छादिनिष्पन्नकर्मनिमित्तेनेत्येतद्वक्ष्यति हि पुण्येन पुण्यमित्यादि । तदेव सक्तः सह कर्मणेति च श्रुत्यन्तरात् । आयात्या- गच्छत्यस्मिञ्शरीरे ॥३॥ दिव्यो ह्यमूर्तः पुरुषः, अक्षरात्परतः परः" " एतस्माजायते प्राणः इति मन्त्रा. वत्र संवादयितुं तद्गतविशेषणान्याह-परस्मादिति । अत्र दृष्टान्त इति । तस्या- नृतत्वार्थ दृष्टान्त उच्यत इत्यर्थः । छायेति । प्रतिबिम्बादिरूपेत्यर्थः । एतस्मिन्निति। प्रकृते जनक आत्मनि ब्रह्मणीत्यर्थः । कथमायातीत्यस्योत्तरमाह-मनोकृतेनेति । संधिरापः । तदेव सक्त इति । अस्य कर्मिणो मनो यस्मिन्फले निषक्तं संसक्त आसक्तः संस्तदेव फलं कर्मणा सहैतीति श्रुतौ च शरीरग्रहणं कर्मसाध्यमुक्तमित्यर्थः ॥ ३ ॥ यथा सम्राडेवाधिकतान्विनियुङ्क्ते । एतान्या- मानेतान्यामानधितिष्ठस्वेत्येवमेवैष प्राण इत- रान्प्राणान्पृथक्पृथगेव संनिधत्ते ॥ ४ ॥ , क. इत्येवं । २ ख. घ, ङ. °यितं मुख्यं ब्रह्मासि त्व' । ३ क. देवैष । ४ ग, मणैति । सक्तमास। ५क.

[प्रश्नः ३] प्रश्नोपनिषत् । २३ मध्ये तु यथा येन प्रकारेण लोके राजा सम्राडेव ग्रामोदिष्वधिकृतान्विनि युङ्क्ते । कथम् । एतान्यामानेतान्यामानधितिष्ठस्वेति । एवमेव यथा दृष्टान्तः । एष मुख्यः प्राण इतरान्प्राणांश्चक्षुरादीनात्मभेदांश्च पृथक्पृ. थगेव यथास्थानं संनिधत्ते विनियुङ्क्ते ॥४॥ आत्मानं वा प्रविभज्येत्यस्योत्तरं दृष्टान्तेनाऽऽह-यथेति । इतरानिति । इतरां- श्चक्षुरादीन्यथास्थानमक्ष्यादिगोलकस्थाने संनिधत्ते संनिधापयति । आत्मभेदान्मुख्यप्राणस्य वृत्तिभेदान्प्राणापानादीन्पाय्वादिषु नियुत इति । अत्र श्रुत्या नेत्रादीनां चक्षुरादिस्थानानां स्पष्टत्वात्तानि नोक्तानीति द्रष्टव्यम् ॥ ४ ॥ तत्र विभागः- पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासि- कायां प्राणः स्वयं प्रातिष्ठते समानः । एष ह्येतद्भुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५ ॥ पायूपस्थे पायुश्चोपस्थश्च पायूपस्थं तस्मिन् । अपानमात्मभेदं मूत्र. पुरीषाद्यपनयनं कुर्वस्तिष्ठति संनिधत्ते । तथा चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तस्मिंश्चक्षुःश्रोत्रे । मुखनासिकाभ्यां च मुखं च नासिका च ताभ्यां मुखनासिकाभ्यां च निर्गच्छन्प्राणः स्वयं सम्राट्रस्थानीयः प्राति- छते प्रतितिष्ठति । मध्ये तु प्राणापानयोः स्थानयो भ्याम् । समानोऽ- शितं पीतं च समं नयतीति समानः । एष हि यस्माद्यदेतद्भुतं भुक्तं पीतं चाऽऽत्मानौ प्रक्षिप्तमन्नं समं नयति तस्मादशितपीतेन्धनादग्नेरौद- र्याद्धृदयदेशं प्राप्तादेताः सप्तसंख्याका अर्चिषो दीप्तयो निर्गच्छन्त्यो भवन्ति *शीर्षण्यः । प्राणद्वारा दर्शनश्रवणादिलक्षणरूपादिविषयप्र- काशा इत्यभिप्रायः॥५॥ यः कुर्वस्तिष्ठति तं संनिधत्ते विनियुत इत्यर्थः । मध्य इति । प्राणापानयोर्मध्ये या नाभिस्तस्यां समानः प्रतितिष्ठतीत्यन्वयः । समानशब्दार्थमुक्तं श्रुत्यारूढं करोति—एष हीति । आत्मासाविति । आत्मनि शरीरेऽग्निर्जाठराग्निस्तस्मिन्नित्यर्थः । एवं हुतपद- बलादन्नस्य हविष्टुं जाठराग्नेराहवनीयत्वं प्रक्षेपस्य होमत्वं चोक्त्वा शीर्षण्यसप्तद्वारान्निर्ग- -- -- * शीर्षण्यप्राणद्वारेति क्वचित्पाठः स एव साधीयान् । १ख. ग..ङ, च. माद्यपि ।

२४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [३ प्रश्नः । तानां ज्ञानानामर्चिष्टुं वक्तुं तस्मादेता इति वाक्यं व्याचष्टे-तस्मादिति । प्राप्ता- दिति । अनेरौदर्याद्धेतोः प्राप्तपरिपाकादन्नरसादन्ननाडीद्वारा देहं प्राप्तं नाडीस्थानं हृदयं प्राप्तादन्नरसादिति शेषः । दर्शनद्वयं श्रवणद्वयं प्राणद्वयं मुखं चै रसना(न)मिति सप्ता- र्चिषः । जाठराग्निपाकजन्यान्नरसबलेन दर्शनादीनां प्रवृत्तेस्तेषु तदर्चिष्ट्वारोप इत्यर्थः ॥ ५ ॥ हृदि ोष आत्मा । अत्रैतदेकशतं नाडीनां तासां शतं शतमेकैकस्यां द्वासप्पतिर्वासप्ततिः प्रतिशा- खानाडीसहस्राणि अवन्त्यासु व्यानश्चरति ॥ ६ ॥ हृदि ह्येष पुण्डरीकाकारमांसपिण्डपरिच्छिन्ने हृदयाकाश एष आत्माऽऽत्मना संयुक्तो लिङ्गात्मा, अत्रास्मिन्हृदय एतदेकशतमेकोत्तर- शतं संख्यया प्रधाननाडीनां भवतीति । तासां शतं शतमेकैकस्याः प्रधाननाड्या भेदाः । पुनरपि द्वासप्ततिसप्ततिर्दै द्वे सहस्रे अधिक सप्ततिश्च सहस्राणि । सहस्राणां द्वासप्ततिः प्रतिशाखानाडीसहस्राणि प्रतिप्रतिनाडीशतं संख्यया प्रधाननाडीनां सहस्राणि भवन्ति । आसु नाडीषु व्यानो वायुश्चरति । व्यानो व्यापनात् । आदित्यादिव रश्मयो हृदयात्सर्वतोगामिनीभिर्नाडीभिः सर्वदेहं संव्याप्य व्यानो वर्तते । संधिस्कन्धमर्मदेशेषु विशेषेण प्राणापानवृत्त्योश्च मध्य उद्भूत- वृत्तिर्यिवत्कर्मकर्ता भवति ॥ ६ ॥ व्यानस्य नाडीरूपं स्थानं दर्शयितुं नाडीनामुत्पत्तिस्थानं वक्तुमाह-हृदीत्यादिना । हृदयस्य - लिङ्गात्मस्थानत्वोक्तेः प्रयोजनं तु केचिद्योगिनो नाभिकन्दस्य नाड्यु- त्पत्तिस्थानत्वं वदन्ति तन्निराकरणं, तत्रैवै लिङ्गात्मनः संचरणार्थी . नाड्यः । नाडीभिः प्रत्यवसृप्येत्यादिश्रुतेः । ततश्च लिङ्गात्मनो हृदयस्थानत्वे तत्संचारमार्गभूत- नाडीनामपि तदेवोत्पत्तिस्थानमन्यथा प्रदेशान्तरस्थनाडीनां तन्मार्गत्वायोगावासप्ततिसह- स्राणि हृदयात्पुरीततमभिप्रतिष्ठन्त इति श्रुतेश्चेति । लिङ्गशरीरस्याऽऽत्मत्वमात्मोपाधि- त्वेन तद्योगादित्याह-आत्मना संयुक्त इति । यस्माल्लिङ्गात्मा हृदि वर्तते तत्संचार- मार्गभूतनाडीनामपि तदेव स्थानमित्याह-अत्रेति । नाडीनां शरीरविधारकत्वेन प्रसि. द्धत्वं वक्तुमेतदिति विशेषणम् । तस्य स्पष्टत्वाद्भाप्ये न व्याख्यातम् । एकैकस्या १ क. च. त्मसं। २ क. 'त्मा जीवात्मेत्यर्थः । अ°। ३ झ. घ. ह. त्रैवं लि°। ४ क. णार्थ ना। ५ क. च. त्मसं । ६ ख, ख्यानम् ।

... [ ३ प्रश्नः] प्रश्नोपनिषत् । २५ नाड्याः शाखानाड्यः शतं शतं भवतीत्याह-तासामिति । ततश्च शतोत्तरमयुतं शाखानाड्य इत्यर्थः । शाखानाडीनां च प्रत्येकं व्यधिकसप्ततिसहस्राणि प्रतिशाखानाज्यः सन्तीत्याह-पुनरपीति । सप्ततिरितिपदस्य संख्याप्रधानत्वे सहस्राणीत्यस्य तेन सामाना- धिकरण्यायोगात्षष्ठयन्ततया व्याचष्टे-सहस्राणामिति । प्रतिशाखेति। प्रतिशाखाम्यो निर्गता अल्पशाखाः प्रतिशाखाः । द्वासप्ततिरित्यत्र वीप्सार्थमाह-प्रतिप्रतीति । प्रति- प्रतिनाडीशतमित्यनन्तरमेकैकस्या इत्यनुषङ्गः । तथा च प्रतिप्रतिनाडीशतमेकैकस्या नाड्याः प्रतिशाखानाडीनां द्वासप्ततिसहस्राणि भवन्तीत्यर्थः । तथा च मूलशाखाप्रतिशाखानाड्यो मिलित्वा द्वासप्ततिकोटयो द्वासप्ततिलक्षाणि दशसहस्रं च शतद्वयमेका च भवन्तीति द्रष्ट- व्यम् । एवं नाडीरुक्त्वा व्यानस्य तत्स्थानत्वमाह-आस्विति । सूक्ष्मासु नाडीषु विद्यमानस्य व्यानस्य कथं व्यापकत्वमित्याशङ्कय नाडीनां सर्वदेहव्याप्तेस्तत्स्थस्यापि व्यानस्य तद्वारा व्याप्तिरित्याह-आदित्यादिवेति । यथाऽऽदित्याद्विनिर्गत्य रश्मयः सर्वतो गतास्तथा हृदयात्सर्वतोगामिन्यो नाड्यस्ताभिरिति योज्यम् । सामान्येन सर्वशरीरव्याप्तावपि विशेषस्थानमाह-संधीति । प्राणेति । उच्छ्वासनिश्वासयोः प्राणापानवृत्त्योरभावे व्यानवृत्तिरुद्भवतीत्यर्थः । वीर्यवदिति । अथ यः प्राणापानयोः संधिः स ब्यान इत्यु. क्वा यानि वीर्यवन्ति कर्माणि बलवता पुरुषेण साध्यानि धनुरायमनादीनि तान्यप्राणन्न- नपानन्करोतीति श्रुत्यन्तरोक्तरित्यर्थः ॥ ६ ॥ अथैकयोर्च उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभान्यामेव मनुष्यलोकम् ॥ ७ ॥ अथ या तु तत्रैकशतानां नाडीनां मध्य ऊर्ध्वगा सुषुम्नाख्या नाडी तयैकयोर्ध्वः सन्नुदानो वायुरापादतलमस्तकवृत्तिः संचरन्पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं देवादिस्थानलक्षणं नयति प्रापयति। पापेन तद्विपरीतेन पापं नरकं तिर्यग्योन्यादिलक्षणम् । उमाभ्यां समप्रधानाभ्यां पुण्यपापाभ्यामेव मनुष्यलोकं नयतीत्यनुवर्तते ॥७॥ इदानीमुदानस्य स्थानं वदन्केनोत्क्रमत इत्यस्योत्तरमाह-या विति । उभाभ्यां समप्रधानाभ्यामिति । अनेन पुण्याधिक्ये देवलोकं पापाधिक्ये नरकलोकं नयतीति पूर्व व्याख्यातं भवति ॥ ७ ॥ आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं १ क. "णि षट्सह।

२६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [३ प्रश्नः] चाक्षुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टायान्तरा यदाकाशः स समानो वायुया॑नः ॥८॥ आदित्यो ह वै प्रसिद्धो ह्यधिदैवतं बाह्यः प्राणः स एष उदयत्युद् च्छति । एष ह्येनमाध्यात्मिकं चक्षुषि भवं चाक्षुष प्राणं प्रकाशेनानुगृ- हानो रूपोपलब्धौ चक्षुष आलोकं कुर्वन्नित्यर्थः । तथा पृथिव्यामभि- मानिनी या देवता प्रसिद्धा सैषा पुरुषस्यापानमपानवृत्तिमवष्टभ्याऽऽ- कृष्य वशीकृत्याध एवापकर्षणेनानुग्रहं कुर्वती वर्तत इत्यर्थः । अन्यथा हि शरीरं गुरुत्वात्पतेत्सावकाशे वोद्गच्छेत् । यदेतदन्तरा मध्ये द्यावापृ- थिव्योर्य आकाशस्तत्स्थो वायुराकाश उच्यते । मञ्चस्थवत् । स समानः समानमनुगृह्णानो वर्तत इत्यर्थः । समानस्यान्तराकाशस्थत्वसामान्यात् । सामान्येन च यो बाह्यो वायुः स व्याप्तिसामान्याद्यानो व्यानमनुगृ. ह्लानो वर्तत इत्यभिप्रायः ॥८॥ कथं बाह्यमभिधत्ते कथमध्यात्ममित्यस्योत्तरमाह-आदित्य इति । या देवता प्रसिद्धति । अग्निदेवता पृथिव्येव यस्याऽऽयतनमग्निलोक इति श्रुतेरग्निसंबद्धा(न्धाः) वगमादित्यर्थः । अवष्टभ्येत्यनन्तरमध्याहारेण वाक्यं पूरयति-अध एवापकर्षणेनेति वृत्तार्थ स्तम्भादेरूर्ध्वमुखेन निखातस्य परितो विद्यमानरज्जुभिरध एवापकर्षणेन पतनाभावव- दध एवापकर्षणेन शरीरस्य पतनाभावः सिध्यतीत्यर्थः । अनुग्रहमिति । शरीरधारणल. क्षणमित्यर्थः । अन्यथेति । पृथिवीदेवतायां विधारणाकरणे गुरुत्वादपानेनाध आकर्षणाच्च सावकाशे भूम्यादिपतनप्रतिबन्धकाभावस्थले पतेदित्यर्थः । अन्तरा यदाकाश इति वाक्यं व्याचष्टे-यदेतदिति । यदिति क्लीबत्वं छान्दसमित्याह-य आकाश इति । मञ्चस्थवदिति । मञ्चाः क्रोशन्तीत्यत्र मञ्चशब्देन मञ्चस्था यथा लक्ष्यन्ते तथाऽऽकाश- शब्देन तत्स्थो वायुर्लक्ष्यत इत्यर्थः । स समान इति । सामानाधिकरण्यमनग्राह्यानुग्रा हकयोरभेदोपचारादित्याह-समानमनुगृह्णान इति । एवमुत्तरत्राप्यनुग्रहे हेतुमाह- समानस्येति । शरीरान्तराकाशस्थत्वं समानस्य द्यावापृथिव्यन्तराकाशस्थत्वं बाह्यवायो- रित्यन्तराकाशस्थत्वं तयोस्तुल्यमित्यर्थः । वायुान इत्यत्र त्वन्तराकाशस्थत्वं विशेषरहितं वायुसामान्येन समुच्चीयत इति न पूर्वाभेद इत्याह-सामान्येनेति ॥ ८ ॥ - १ क. च. वृत्त्यर्थे । २ क. च. °स्थत्वविशेषरहितो वा । ख. ग. 'स्थत्ववि। .

[३ प्रश्नः] प्रश्नोपनिषत् । - २७ ... तेजो ह वो उदानस्तस्मादुपशान्ततेजाः। पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः ॥९॥ यद्वाह्य ह वै प्रसिद्धं सामान्ये तेजस्तच्छरीर उदान उदानं वायुम- नुगृह्णाति स्वेन प्रकाशेनेत्यभिप्रायः । यस्मात्तेजःस्वभावो बाह्यतेजोनु- गृहीत उत्क्रान्तिकर्ता तस्माद्यदा लौकिकः पुरुष उपशान्ततेजा भवति। उपशान्तं स्वाभाविकं तेजो यस्य सः । तदा तं क्षीणायुषं मुमूर्षु विद्यात् । स पुनर्भवं शरीरान्तरं प्रतिपद्यते । कथम् । सहेन्द्रियैर्मनसि संपद्यमानैः प्रविशद्भिर्वागादिभिः ॥९॥ तेनो ह वाँ इति वाक्यं व्याचष्टे-यद्वाह्यमिति । पूर्वमादित्यात्मकं विशेषतेज उक्त- मत्र तेजःसामान्यमुच्यत इति न पौनरुक्त्यमित्याह-सामान्यं तेज इति । एव- मादित्यादिना रूपेण मुख्यप्राणस्य प्राणापानसमानोदानव्यानान्ग्राहकत्वोक्त्याऽध्यात्म प्राणादिवृत्त्यनुग्राहकत्वमुक्तम् आदित्याग्न्याकाशसामान्यवायुतेजोरूपी सन्बाह्यमधिदैव- मादित्यादिकं धारयतीत्युक्तम् । तद्रूपेणावस्थानमेव तद्धारणं प्राणापानाद्यनुग्रहेण चक्षुराद्य- नुग्रहोक्तेस्तद्वारा तद्ग्राह्याधिभूतविधारकत्वमुक्तम् । स प्राणस्तच्चक्षुः सोऽपानः सा वाक्स ध्यानस्तच्छ्रोत्रं स समानस्तन्मनः स उदानः स वायुरिति श्रुत्यन्तरे चक्षुरादीनां प्राणा- द्यात्मत्वोक्तेश्चक्षुराद्यनुग्राहकत्वोक्त्या चक्षुरादिरूपाध्यात्मविधारकत्वं चोक्तमिति कथं बाह्य- मभिधत्ते कथमध्यात्ममित्यस्योत्तरमुक्तमिति द्रष्टव्यम् । तेजस उदानवाय्वनुग्राहकत्वं व्यतिरेकप्रदर्शनेन साधयति-यस्मादिति । यस्मात्तेजःस्वभाव उत्क्रान्तिकृदप्युदानवा- युर्बाह्यतेजोनुगृहीतः सन्नेव शरीरे वर्तते तस्माजीवेंजीवनहेतुकर्मोपरमे बाह्यतेजोनुग्रहामावे- नोपशान्ततेजा मुमूर्षुभक्तीत्यन्वयः । स्वाभाविकमिति । जाठराग्निकृतं हस्तादिना स्वशरीरस्पर्शे सत्युष्णत्वेनोपलभ्यमानं तेज इत्यर्थः । भवत्युत्पद्यत इति भवः शरीरमित्यर्थः । शरीरान्तरप्रतिपत्तिरात्मनोऽक्रियस्य न भवतीति शङ्कते-कथमिति । इन्द्रियोपाधिवशा- दित्याह-सहेति । मनसि संपद्यमानैरिन्द्रियैः सह शरीरान्तरं प्रतिपद्यत इति पूर्वेणा- न्वयः ॥ ९ ॥ यश्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः। सहाऽऽत्मना यथासंकल्पितं लोकं नयति ॥ १० ॥ मरणकाले यञ्चित्तो मवति तेनैव चित्तेन संकल्पनेन्द्रियैः सह प्राणं १ क. वै। ख. ग. च. वाव । २ ख. घ. ङ. वा । च. वाव । ३ क. च. वाव । ४ च. 'न्तिदोऽप्यु। ५ ख. ग. घ. ङ, वनगी । ६ क. नैष जीवश्चित्ते Re- २० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [३ प्रश्नः ] मुख्यप्राणवृत्तिमायाति । मणरकाले क्षीणेन्द्रियवृत्तिः सन्मुख्यया प्राण- वृत्यैवावतिष्ठत इत्यर्थः । तदोऽभिवदन्ति ज्ञातय उच्छ्वसिति जीव- तीति । स च प्राणस्तेजसोदानवृत्त्या युक्तः सन्सहाऽऽत्मना स्वामिना भोक्त्रा स एवमुदानवृत्त्यैव युक्तः प्राणस्तं भोक्तारं पुण्यपापकर्मवशाद्य- थासंकल्पितं यथाभिप्रेतं लोकं नयति प्रापयति ॥१०॥ उक्तशरीरान्तरप्राप्तिमेवोत्क्रान्तिक्रमप्रदर्शनेन स्पष्टीकर्तुं यच्चित्त इत्यादि वाक्यं तदपेक्षि- ताध्याहारं कुर्वन्व्याचष्टे-मरणेति । यश्चित्त इति । यदेव देवतिर्यगादिशरीरं सभ्य- गिति चित्ते यस्य स यच्चित्त इत्यर्थः। प्राणं प्रत्यागमनं लोकव्यवहारेण प्रथयति-तदेति । तेजसा तेजोनुगृहीतयोदानवृत्त्येत्यर्थः । एवंभूतो भोक्तो(क्त्रु)दानसंयुक्तः प्राणः कं नयती- स्यपेक्षायां तमेव भोक्तारं नयतीति वदन्वाक्यार्थमाह–स एवमिति । एवकारस्य तमेवे. स्यन्वयः । यथासंकल्पितमिति । कर्मज्ञानादिसाधनानुष्ठानदशायां संकल्पितं मरण. काले वासनारूपेण पुनरभिव्यक्तं लोकं देवादिशरीरमित्यर्थः ॥ १० ॥ य एवं विद्वान्प्राणं वेद । न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥१३॥ यः कश्चिदेवं विद्वान्यथोक्तविशेषणैर्विशिष्टमुत्पत्त्यादिभिः प्राणं वेद जानाति तस्येदं फलमैहिकमामुष्मिकं चोच्यते । न हास्य नैवास्य विदुषः प्रैजा पुत्रपौत्रादिलक्षणा हीयते छिद्यते । पतिते च शरीरे प्राण- सायुज्यतयाऽमृतोऽमरणधर्मा भवति तदेतस्मिन्नर्थे संक्षेपाभिधायक एष श्लोको मन्त्रो भवति ॥ ११ ॥ एवं प्राणस्वरूपं निर्धार्य तदुपासनं विधत्ते—यः कश्चिदिति । उत्पत्त्यादि- भिर्यथोक्तविशेषणैर्विशिष्टम् । आत्मनः प्राणो जायते, मनःकृताभ्यां धर्माधर्माभ्यां शरीरं गृह्णाति । आत्मानं च पञ्चधा विभज्य पायूपस्थयोरपानं स्वस्वरूपं प्राणं चक्षुःश्रोत्रयोः, नाभौ समानम् , नाडीसमूहे व्यानम् , उदानं च सुषुम्नायां स्थाप- यति । उदानेनोत्क्रामति, बायैः प्राणापानव्यानसमानोदानानुग्राहकैरादित्यपृथिवीदेवता- काशवायुतेजोरूपैरधिदैवमादित्यादिकमादित्यादिकृतानुग्रहरध्यात्म चक्षुर्वाश्रोत्रमनस्त्वक्च- क्षुरादिग्राह्यमधिभूतं च धारयति । स एवोदानवृत्त्या भोक्त्रा च युक्तो भोक्तारं लाकान्तरं नयति । स एव च वरिष्ठः प्रजापतिरत्ता चेत्येवं प्राणं वेदेत्यर्थः । ऐहिकफल- मुक्त्वाऽऽमुष्मिकफलमाह-पतित इति । अमृतत्वं च नात्र मुख्यं किंतु प्राणसायुज्यमेवे- . : " १ क. च. °दा हि व° । २ क. घ. °यन्तेऽमृ। । क. ख. ग. घ. ङ. प्रजाः । ४ क. 6. यते हीयन्ते छिद्यने । ख. ग. घ. यन्ते छिद्यन्ते प।

[४ प्रश्नः] प्रश्नोपनिषत् । २९ ७ त्याह-प्राणेति । इदं तु कामिनः, निष्कामस्य तु चित्तैकाग्र्यम् । तच्छुद्धिद्वारा मुख्य- मेवामृतत्वं भवतीति द्रष्टव्यम् ॥ ११ ॥ उत्पत्तिमायति स्थानं विभुत्वं चैव पञ्चधा। अध्यात्मं चैव प्राणस्य विज्ञायामृतम- श्नुते विज्ञायामृतमश्नुत इति ॥ १२ ॥ इत्यथर्ववेदीयप्रश्नोपनिषदि तृतीयः प्रश्नः ॥३॥ उत्पत्तिं परमात्मनः प्राणस्याऽऽयतिमागमनं मनोकृतेनास्मिञ्शरीरे स्थानं स्थितिं च पायूपस्थादिस्थानेषु विभुत्वं च स्वाम्यमेव सम्राडिव (?) प्राणवृत्तिभेदानां पञ्चधा स्थापनम् । बाह्यमादित्यादिरूपेणाध्यात्म चैव चक्षुराद्याकारणावस्थानं विज्ञायैवं प्राण(?)ममृतमश्नुत इति । विज्ञायामृतमश्नुत इति द्विवचनं प्रश्नार्थपरिसमाप्त्यर्थम् ॥ १२॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्य- श्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये तृतीयः प्रश्नः ॥३॥ आयतिमिति । आयातिमित्यर्थः । ह्रस्वत्वं छान्दसम् ॥ १२ ॥ इति श्रीमदानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां तृतीयः प्रश्नः ॥ ३ ॥ . . अथ चतुर्थः प्रश्नः। अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ प्रश्नत्रयेणापरविद्यागोचरं सर्व परिसमाप्य संसारं व्याकृतविषयं साध्यसाधनलक्षणमनित्यम् । अथे- दानीमसाध्यसाधनलक्षणमप्राणममनोगोचरमतीन्द्रियविषयं शिवं शान्त- मविकृतमक्षरं सत्यं परविद्यागम्यं पुरुषाख्यं सबाह्याभ्यन्तरमजं वक्त- व्यमित्युत्तरं प्रश्नत्रयमारभ्यते । एवं कर्मविद्यागतिश्रवणेन विरक्तस्य प्राणविद्यया चित्तकोग्यतच्छुद्धिमतोऽत एव साध- नचतुष्टयवतो मुख्याधिकारिणः परविद्योक्त्यर्थं प्रश्नत्रयमारभते-अथ हैनमिति । पूर्वविद्ययैवामृतत्वोक्तरुत्तरप्रश्नारम्भो व्यर्थ इत्यत आह-प्रश्नत्रयेणेति । संसार- . : १ क. ख. घ. रु. च. 'यमविष । २ क. च. 'काय त। ३ क. च. 'रभ्यते । ४ क. च. पूर्व वि ३० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [४ प्रश्नः] १ IN मिति । अतो न तन्मुख्यममृतत्वमित्यर्थः । तस्य संसारत्वे व्याकृतत्वं हेतुमाह- व्याकृतविषयमिति । व्याकृताश्रयं तदन्तर्गतमित्यर्थः । साध्यसाधनलक्षण- मिति । साध्यसाधनसंबन्धेन लक्ष्यतेऽभिव्यजत उत्पद्यत इति तथा । यद्वाऽपरब्रह्मणः प्राणस्य साध्यसाधनोभयात्मकत्वाद्वा तथा । तस्मादनित्यमित्यतोऽपि संसारत्वमित्यर्थः । वक्ष्यमाण आत्मा तु न तथेत्याह-असाध्येत्यादिना । अतीन्द्रियविषयमिति । इन्द्रियविषयत्वमतिकान्तमित्यव्याकृतमकार्यमित्यर्थः । तत्र हेतुः-अप्राणमिति । प्राणा- गोचरत्वेन तदात्मककर्मेन्द्रियागोचरत्वं मनोगोचरत्वेन ज्ञानेन्द्रियागोचरत्वमुक्तम् । सुखरू- पतामाह-शिवमिति । निवृत्तानर्थत्वमाह-शान्त मिति । तत्र भावविकाररहितत्वं हेतुमाह-अविकृतमिति । अनेनोत्पत्तिपरिणामवृद्धयो निषिद्धाः । अक्षरमित्यपक्षय- विनाशौ निषिद्धौ । उत्पत्तिनिषेधेन तदनन्तरभाव्यस्तित्वं निषिद्धम् । अत्र सर्वत्र हेतुः- सत्यमिति । कालत्रयेऽप्येकरूपमित्यर्थः । तत्र ' अथ परा यया तदक्षरमधिगम्यते । इत्यादि वाक्यं मानमाह-परविद्यागम्यमिति । दिव्यो ह्यमूर्तः पुरुष इति मन्त्र- मप्याह-पुरुषाख्यमिति । कथं पुरुषशब्दोदितं पूर्णत्वं बाह्याभ्यन्तरवस्तुभेदादत आह- सबाह्येति । स एव बाह्याभ्यन्तरात्मकस्तद्व्यतिरेकेण तदुभयं नास्तीत्यर्थः । प्रश्नत्रय- मिति । यद्यपि पञ्चमः प्रश्नोऽपरविद्याविषय एव प्रणवोपासनविषयस्वात्तथाऽपि तस्य क्रममुक्तिफलत्वेन निर्विशेषात्मन्येव सविशेषब्रह्मप्राप्तिद्वारा पर्यवसानात्सोऽपि परविषय एवेति भावः । तत्र सुदीप्तादिवाग्मेर्यस्मात्परादक्षरात्सर्वे मावा विस्फुलिङ्गा इव जायन्ते तत्र चैवापियन्तीत्युक्तं द्वितीये मुण्डके, के ते सर्वे भावा अक्ष- राद्विमज्यन्ते । कथं वा विभक्ताः सन्तस्तत्रैवापियन्ति । किंलक्षणं वा तदक्षरमिति । एतद्विवक्षयाऽधुना प्रश्नानुद्भावयति- भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति कान्यस्मिञ्जा- ग्रति कतर एष देवः स्वमान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्तीति ॥ १ ॥ भगवन्नेतस्मिन्पुरुषे शिरःपाण्यादिमति कानि करणानि स्वपन्ति स्वापं कुर्वन्ति स्वव्यापारादुपरमन्ते कानि चास्मिञ्जाग्रति जागर• णमनिद्रावस्था स्वव्यापारं कुर्वन्ति । कवरः कार्यकरणलक्षणयोरेष देवः स्वप्नान्पश्यति । स्वप्नो नाम जाग्रदर्शनान्निवृत्तस्य जाग्रद्वदन्तःश- रीरे यदर्शनम् । तत्किं कार्यलक्षणेन देवेन निर्वय॑ते किंवा करण- १ क. च. °माणात्मा। २ क. च. °यमवि । ३ क. वस्थाव्या । क. न्ति स्वव्यापारा- न्कुर्वन्तीत्यर्थः । क। ५ क. क्षणानां य एष । . - [ ४ प्रश्नः] प्रश्नोपनिषत् । ३१ लक्षणेन केनचिदित्यभिप्रायः । उपरते च जाग्रत्स्वप्नव्यापारे यत्प्रसन्नं निरायासलक्षणमनाबाधं सुखं कस्यैतद्भवति । तस्मिन्काले जाग्रत्स्वन- व्यापारादुपरताः सन्तः कस्मिन्नु सर्वे सम्यगेकीभूताः संप्रतिष्ठिताः । मधुनि रसवत्समुद्रं प्रविष्टनद्यादिवञ्च विवेकानहींः प्रतिष्ठिता भवन्ति संगताः संप्रतिषिता अवन्तीत्यर्थः । ननु न्यस्तदात्रादिकरणवत्स्वव्यापा- रादुपरतानि पृथक्पृथगेव स्वात्मन्यवतिष्ठन्त इत्येतद्युक्तं कुतः प्राप्तिः सुषुप्तपुरुषाणां करणानां कस्मिंश्चिदेकीमावगमनाशङ्कायाः प्रष्टुः। युक्तैव त्वाशङ्का । यतः संहतानि करणानि स्वाम्यर्थानि परतन्त्राणि च जाग्र- द्विषये तस्मात्स्वापेऽपि संहतानां पारतत्र्येणैव कस्मिंश्चित्संगतियाय्येति तस्मादाशङ्कानुरूप एव प्रश्नोऽयम् । अत्र तु कार्यकरणसंघातो यस्मिंश्च प्रलीनः सुषुप्तप्रलयकालयोस्तद्विशेष बुभुत्सोः स को नु स्यादिति कस्मि- न्सर्वे संप्रतिष्ठिता भवन्तीति ॥१॥ एवं सामान्येन प्रश्नत्रयस्यापि संबन्धमुक्त्वा चतुर्थप्रश्नस्य प्रातिस्विकसंबन्धमाह-तत्रेति। यस्मादित्यस्य किंलक्षणं वा तदक्षरमिति तच्छब्देनान्वयः । उक्तमिति । यथा सुदीप्ता- स्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपास्तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्तीति मन्त्रेणेत्यर्थः । एतद्विवक्षयेति । मन्त्रोक्तार्थविस्तरानुवादित्वादस्य ब्राह्मणस्येति भावः । अत्राक्षरस्वरूपस्यैव विवक्षितत्वात्तन्निर्णयार्थ कानि स्वपन्तीत्यादिप्रभो नागरितादिना धर्मिविशेषनिर्धारणार्थः, अन्यथा तेषामात्मधर्मत्वशङ्कायां तन्निविशेषत्वनिर्ण- यासिद्धेः । भावानां स्वरूपविभागादिविवक्षा तु ताः पुनः पुनरुदयतः प्रचरन्तीति दृष्टान्त- बलाद्यकीभावस्ततो विभागेन निर्गमनमित्यक्षर एकीभूतानां पृथिव्यादिकार्यकरणानामक्षरा- द्विभागप्रतीतेस्तावन्मात्रेण भाष्य उक्तेति द्रष्टव्यम् । तत्राऽऽद्यप्रश्नेन जागरितस्य धर्मी पृष्टः । स्वप्ने यस्य व्यापारोपरमे जागरितं नास्ति स तस्य धर्म इति(धर्मीतिः) निश्चेतुं शक्यत्वात् । द्वितीयेनावस्थात्रयेऽपि शरीररक्षणं कस्य धर्म इति पृष्टम् । जाग्रतोऽनुपरत- व्यापारस्य प्राणस्य देहरक्षकत्वोपपत्तेः । तृतीयेन स्वप्नस्य धर्मी पृष्टः । चतुर्थेन सुषुप्तिधर्मी, सुखमहमस्खाप्समिति सुप्तोत्थितस्य परामर्श सुखस्य सुषुप्तिसंबन्धावगमात् । पञ्चमप्रश्नाव- स्थात्रयविनिर्मुक्तमवस्थात्रयपर्यवसानभूमिरूपं तुरीयमक्षरं पृष्टमिति विवेकः । कार्येति । कार्य शरीरं प्राणो वा, करणानि मनआदीनि । पदार्थानुक्त्वा वाक्याथै पिण्डीकृ- १ ग. च. मुद्रप्र° । २ क. 'तिष्ठा भ° । ३ क. च. यकार° 17क. ख. र. च. किंवा । ५ क. च. सौम्य । ६ ग. तादीनां ध। ७ ख. ग. घ, ङ, मश। ८ क. च. 'यकार।

३२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ४ प्रश्नः) स्याऽऽह-तत्किमिति । तत्पदं पूर्वापरयोः संबध्यते--प्रसन्नमिति । विषयसंपर्क कालुष्यराहित्यम् । [ निरायासेति । ] निरायासेन विक्षेपाभावमात्रेण लक्ष्यतेऽभि. व्यज्यते निर्वातस्थापितदीपालोकवदनाबाधं विनाशरहितं सत्यमात्मस्वरूपमित्यर्थः । एत- दिति । सुषुप्ते प्रकाशमानं सुखमहमस्वाप्समितिपरामर्शमूलभूतमित्यर्थः । तस्मिन्काल इति । यद्यपि पञ्चमेन प्रश्न तुरीयं पृच्छयते न सुषुप्तिस्तथाऽपि संसारदशायां सर्वोपा- धिरहिततुरीयावस्थाभावेन विवेकत एव तस्य प्रदर्शनीयत्वात्तत्सुषुप्तावज्ञाने सत्यपीतरोपा, घिरांहित्येन तत्रैव सर्वोपाधिविवेककरणेन तुरीयप्रदर्शनस्य सुकरत्वात्तस्मिन्काले तुरीयप्रदर्श- नार्थ सर्वसंप्रतिष्ठोक्तेति । सम्यगेकीभूता इति । तदात्मभावप्राप्त्या विलयं गता इत्यर्थः । मधुनि रसवदिति । यथा नानापुष्परसा मधुन्येकी भवन्ति तद्वदित्यर्थः । विवेकामा- वमात्रेण दृष्टान्तावुत्तौ, तत्र सर्वात्मना लयाभावादित्याह-विवेकानहीं इति । पूर्व विवेकानर्हाः सन्तः पश्चात्संप्रतिष्ठिता इत्यर्थः । न चानेनापि प्रश्नेनाविद्यावासनाभिरविविक्तः सौषुप्त एव पृष्ट इति शङ्कयम् । पर आत्मन्यक्षरे संप्रतिष्ठन्त इति वक्ष्यमाणत्वात्सुषुप्ते चाज्ञान एव संप्रतिष्ठानादेष हि द्रष्टेत्याद्यज्ञानप्रतिबिम्बितस्य भोक्तुरपि संप्रतिष्ठाया अमि. धास्यमानत्वादच्छायमित्यज्ञानामावोक्तेश्च तुरीयमेव पृष्टमिति भावः । ननु कार्यकारणव्य- तिरिक्ते संप्रतिष्ठानाधिकरणे सामान्येन कस्मिंश्चिदवगते कस्मिन्संप्रतिष्ठिता इति विशेष. प्रश्नो घटते । न च तस्यावगतिरस्ति । न च संप्रतिष्ठानस्य साधिकरणत्वेन सामान्येनाधि- करणावगतिरस्तीति वाच्यम् । तत्तदुपादानानामेवाचेतनानां तदधिकरणत्वेन तदतिरिक्तस्य चेतनस्यासिद्धि( )रिति शङ्कते-नन्विति । दानं नाम सस्यादिलवनार्थः शस्त्रविशेषः । स्वात्मनीति । सोपादान इत्यर्थः । सुषुप्तपुरुषाणां करणानामिति । सुषुप्तपुरु. पाणां यानि करणानि तेषामित्यर्थः । एष हि द्रष्टेत्यादिना पुरुषाणामप्येकीमावस्य वक्ष्य. माणत्वाद्वा पुरुषाणामित्युक्तम् । अस्मिन्पक्षे करणानां चेति चकारो द्रष्टव्यः । प्रष्टुः शङ्कायाः कृतः प्राप्तिरित्यन्वयः। संहतानां परार्थत्वेन व्यापृतत्वात्संहतत्वेन हेतुना पर स्मिंश्चेतने सामान्येनावगते प्रष्टुर्विशेषप्रश्नो युक्त इत्याह—युक्तैव विति । स्वाम्यानि संघाताभिमान्यर्थानीत्यर्थः । आशङ्कानुरूप इति । मनसि विद्यमानाशङ्कानुरूपो वाचिकः प्रश्न इत्यर्थः । अत्र संप्रतिष्ठानविशिष्ट आत्मा न पृष्टः किंतु तदुपलक्षितः केवल आत्मा पृष्ट इति वाक्यतात्पर्यमाह-अत्र विति । भवन्तीत्यनन्तरं पृष्टमिति शेषः ॥१॥ तस्मै स होवाच । यथा गार्य मरीचयोऽर्क- स्यास्तं गच्छतः सर्वा एतस्मिस्तेजोमण्डल एकी भवन्ति । ताः पुनःपुनरुदयतः प्रचरन्त्येवं ह - . १च. "तिष्ठोक्तिः । स ।

[४ प्रश्नः ] प्रश्नोपनिषत् । ३३ वै तत्सर्व परे देवे मनस्येकी भवति । तेन तर्दोष पुरुषो न शृणोति न पश्यति न जिघति न रस- यते न स्पृशते नाभिवदते नाऽऽदत्ते नाऽऽनन्द- यते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥ तस्मै स होवाचाऽऽचार्यः । शृणु हे गार्य यत्त्वया पृष्टम् । यथा मरीचयो रश्मयोऽर्कस्याऽऽदित्यस्यास्तमदर्शनं गच्छतः सर्वा अशेषत एत. स्मिस्तेजोमण्डले तेजोराशिरूप एकी मवन्ति विवेकानहत्वमविशेषता गच्छन्ति, मरीचयस्तस्यैवार्कस्य ताः पुनः पुनरुदयत उद्गच्छतः प्रचरन्ति विकीर्यन्ते । यथाऽयं दृष्टान्तः । एवं ह वै तत्सर्वं विषयेन्द्रियादिजातं परे प्रकृष्टे देवे द्योतनवति मनसि चक्षुरादिदेवानां मनस्तन्त्रत्वात्परो देवो मनस्तस्मिन्स्वप्नकाल एकी भवति, मण्डले मरीचिबदविशेषतां गच्छति जिजागरिषोश्च रश्मिवन्मण्डलान्मनस एव प्रचरन्ति (ति) स्वव्यापा- राय प्रतिष्ठन्ते (ते)। यस्मात्स्वमकाले श्रोत्रादीनि शब्दायुपलब्धिकर- णानि मनस्थेकीभूतानीव करणव्यापारादुपरतानि तेन तस्मातर्हि तस्मिन्स्वापकाल एष देवदत्तादिलक्षणः पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नाऽऽदत्ते नाऽऽनन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते लौकिकाः॥२॥ यत्त्वया पृष्टं तच्छ्रुण्वित्यन्वयः । तस्यैवार्कस्य ता मरीचय इत्यन्वयः । विकीर्यन्त इति । दशदिक्षु क्षिप्यन्त इत्यर्थः । स्वप्नेऽपि चक्षुरादिव्यापारोपलब्धेरेकीभावोऽसिद्ध इत्याशङ्कय वासनामयेन्द्रियन्यापारोपलब्धावपि बाह्यशब्दादिश्रवणादिव्यापाराभावेन तं साध- यितुं तेनेति वाक्यं व्याख्याति—यस्मादिति । श्रोत्रादीनामेकीभावो नाम स्वस्वव्यापार विहाय मनस्तन्त्रतयाऽवस्थानमात्रं न तु मुख्यमेकत्वं तेषां मनःप्रकृतिकत्वाभावेनाप्रकृतौ -तदनुपपत्तेरित्यभिप्रेत्येवकारः प्रयुक्तः । नेयायत इति इणो गत्यर्थस्य यडन्तस्य रूपमे. तन्न गच्छतीत्यर्थः ॥ २॥ प्राणाग्नय एवैतस्मिन्पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यगाई- पत्यात्प्रणीयते प्रणयनादाहवनीयः प्राणः ॥३॥ PRINTA क. ग, घ, ङ. अविशे । २ ख. प. कु. क्षिपन्त । ५ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेत्ता- [ ४ प्रश्नः ] सुप्तवत्सु श्रोत्रादिषु करणेष्वेतस्मिन्पुरे नवद्वारे देहे प्राणानयः प्राणादिपञ्चवायवोऽग्नयः इवानयो जाग्रति । अग्निसामान्य हि । गाह. पत्यो ह वा एषोऽपानः । कथमित्याह-यस्माद्गार्हपत्यादग्नेरग्निहोत्र कार्ल इतरोऽग्निराहवनीयः प्रणीयते प्रणयनात्मणीयतेऽस्मादिति प्रणयनो गाह- पत्योऽग्निः । तथा सुप्तस्यापानवृत्तेः प्रणीयत इध प्राणो मुखनासिकाभ्यां संचरत्यत आहवनीयस्थानीयः प्राणः । व्यानस्तु हृदयाद्दक्षिणसुषिरद्वा- रेण निर्गमादक्षिणदिक्संबन्धादन्वाहार्यपचनो दक्षिणामिः ॥ ३ ॥ कानि स्वपन्तीत्यस्य सविषयाणि बाह्यकारणानि स्वपन्त्युपरमन्तेऽतस्तेषामेव जागरणं धर्म इत्युत्तरमुक्त्वा कानि जाग्रतीत्यस्योत्तरमाह-सुप्तवत्स्विति । प्राणानामग्नित्वं गौणमित्याह-अग्नय इवेति । अपानस्य गार्हपत्यत्वे यद्गार्हपत्यात्प्रणीयते प्रणयनादि- तीदं वाक्यं व्यवहितमपि हेतुत्वेन योजयति-यस्मादिति । प्रणयनादिति पदं गार्हपत्य- विशेषणमित्याहं—प्रणयनो गार्हपत्य इति । तत्सदृशमाहवनीयः प्राण इति वाक्यं सादृश्याभिध्यानपूर्व व्याचष्टे-तथेति । गार्हपत्यत्वेनोक्तेऽपानेऽन्तर्गच्छति सति बहिर्ग- च्छन्प्राणस्ततो निर्गच्छत इव ( च्छन्निव ) लक्ष्यत इति प्राण आहवनीय इत्यर्थः । परि. त्यक्तं व्यानोऽन्वाहार्यपचन इति वाक्यमिदानी व्याचष्टे-ध्यानस्त्विति । छान्दोग्ये गायत्रीविद्यायां तस्य वा एतस्य हृदयस्य पञ्च देवसुंषय इत्युपक्रम्याथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रमित्यनेन व्यानस्य दक्षिणसुषितो निर्गमनमुक्तमित्यस्यान्वाहार्यपत्र- नसादृश्यं दक्षिणदिक्संवन्धित्वं व्यानस्येति व्यानोऽन्वाहार्यपचन इत्यर्थः ॥ ३ ॥ यदुच्छ्वासनिश्वासावेताबाहुती समं नयतीति स समानः । मनो ह वाव यजमान इष्टफलमेवो- दानः स एनं यजमानमहरहर्ब्रह्म गमयति॥ ४ ॥ अत्र च होताऽग्निहोत्रस्य यद्यस्मादुच्छासनिश्वासावग्निहोत्राहुती इव नित्यं द्वित्वसामान्यादेव त्वेताबाहुती समं साम्येन शरीरस्थितिमा- वाय नयति यो वायुरनिस्थानीयोऽपि होता चाऽऽहुत्योर्नेतृत्वात् । १ क.. न्यं ह्याह गा'। ? क. 'ल इतराग्निहोत्रकाल इ। ३ क. च. त्योऽनिर्यथा त। र ख. च. 'णीत । ५ ख. ग. घ. इ. 'क्षिणादि । ६ क. ग. घ. तत्संदृष्टमा । ७ क. 'सुषिरा ई. ८ क. सुषिरः स । ६ क. 'पिरतो । १० ख. ग. घ, ङ, व्यासोऽन्वा ।

[४ प्रश्नः] प्रश्नोपनियत् । कोऽसौ स समानः । अतश्च विदुषः स्वापोऽप्यग्निहोत्रहवनमेव । तस्मा- द्विद्वान्नाकर्मीत्येवं मन्तव्य इत्यभिप्रायः । सर्वदा सर्वाणि भूतानि विचि- न्वन्त्यपि स्वपत इति हि वाजसनेयके । अत्र हि जाग्रत्सु प्राणाग्निषूपसं- हृत्य बाह्यकरणानि विषयांश्चाग्निहोत्रफलमिव स्वर्ग ब्रह्म जिगमिषुर्मनोह वाव यजमानो जागर्ति यजमानवत्कार्यकरणेघु प्राधान्येन संव्यवहारात्स्व- गमिव ब्रह्म प्रति प्रस्थितत्वायजमानो मनः कल्प्यते । इष्टफलं यागफल- मेवोदानो वायुः । उदाननिमित्तत्वादिष्टफलप्राप्तेः । कथम् , स उदानो मनआख्य यजमानं स्वप्नवृत्तिरूपादपि प्रच्याव्याहरहः सुषुप्तिकाले स्वर्गमिव ब्रह्माक्षरं गमयति । अतो यागफलस्थानीय उदानः ॥४॥ N - अत्र चेति । अग्निहोत्रस्य होता होमस्य कर्ता, ऋत्विगुच्यत उत्तरवाक्येने(णे)ति शेषः । अत्रोच्छ्वासनिश्वासयोराहुतित्वस्य पूर्वमसिद्धत्वेन सिद्धवन्निर्देशायोगात्स समान इति तच्छब्दानन्वयाच्च वाक्यत्रयं कृत्वाऽन्वयत्रयेण योजयति—यद्यस्मादिति । उच्छ्वास- निश्वासावित्यनन्तरमाहुती इति पदं भाष्येऽध्याहृत्यैतावुच्छ्वासनिश्वासावाहुती आहवनी- याधिकरणाग्निहोत्राहुती[इ] व वि (द्वि) त्व*साम्यादेवेत्येकोऽन्वयः । अनन्तरं भाप्ये तुशब्दश्वार्थे । श्रुतिगत इतिशब्दस्तस्मादित्यर्थे । यस्मादेतावाहुती यस्माच्चैतौ समं नयति शरीरस्थितिभावाय साम्येन नयति. प्रवर्तयति यो वायुर्यथाऽग्निहोत्रे होमक- ऽऽहुतिद्वयमाहवनीयं प्रति समं नयति प्रापयति तद्वत्तस्मादाहुत्योर्नेतृत्वात्स वायु:- तेति यच्छब्दहोतृशब्दाध्याहारेण द्वितीयोऽन्वयः । कोऽसौ वायुरिति तद्विशेषप्रश्ने स होता वायुः स समान इति तृतीयोऽन्वय इति विभागः । ननु प्राणाग्नय इत्यत्र सर्वेषां प्राणानामग्नित्वोक्तेः कथमिह समानस्य होतृत्वमुच्यत इल्याशङ्कयोक्तम्- अग्निस्थानीयोऽपीति । अग्नित्वेनोक्तोऽपीति भावः । होता चेति । चकारोऽवधा- रणे, होतैवेत्यर्थः । आहुतिनेतृत्वाद्धोतृत्वे स्थितेऽग्नित्वोक्तिश्छत्रिन्यायेनाम्न्यनग्निसमुदाये लाक्षणिकीत्यर्थः । अवस्थात्रयवर्तिनामुच्छासनिश्वासप्राणानां चाग्निहोत्रावयवत्वसंपादानस्य बोपासनं प्रयोजनं निर्विशेषात्मप्रकरणत्वात्तद्विध्यदर्शनाच्च, किं. घाणा जाग्रतीत्येवं त्वंपदार्थशोधनरूपस्य ज्ञानस्य स्तुतिरेवेत्याह-अतश्चेति । सर्व देति । वाजसनेयके हि वाक्चितः प्राणश्चितश्चक्षुश्चित इत्यादिना सर्वप्राणव्यापारेषु प्रत्येकमग्निचितत्वदृष्टिं विधायैवंदृष्टिमतः सर्वाणि भूतान्यस्य स्वापकालेऽपि चयनं १ * अत्र सामान्यादिति युक्तं पठितुम् । १ ख. ग. घ. अ. पीत्यर्थः । हो।

। ३६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [४ प्रश्नः ] कुर्वन्तीति सा दृष्टिः स्तुता तद्वदिहापीत्यर्थः । अत्र हीति । अत्र मनो यजमानः कल्प्यत इति व्यवहितान्वयः । तत्कल्पनायां हेतुद्वयमाह-यजमानवदिति । हेतुद्वयं साध- यति-जाग्रत्स्विति । अन्न स्वप्नकाले विषयान्करणानि चोपसंहृत्य मनो जागर्ति, प्राधान्येन स्वव्यापारं कुर्वद्वर्तते । अग्निहोत्रफलं स्वर्ग जिगमिषुर्यजमान इव सुषुप्तिकाले स्वर्गरूपब्रह्म जिगमिषु च मन इत्यन्वयः । भाष्ये यजमान इत्यनन्तरमिवशब्दो द्रष्टव्यः । हवावशब्देन तत्प्रसिद्धमित्युक्तम् । इष्टेति । उदाननिमित्तकमरणानन्तरं यागादिफलप्राप्ते- स्तस्य तन्निमित्तत्वात्कारणे कार्योपचारादुदान इष्टफलत्वेन कल्प्यत इत्यर्थः । न केवलं मरणद्वारा यागफलप्रापकत्वमुदानस्य किं त्वेतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजी- वन्तीति श्रुतेः सर्वयागफलानामपि ब्रह्मात्मकत्वात्तद्ब्रह्मप्रापकत्वादपि । अहरहरिष्टफलप्रापक- स्वमुदानस्येति प्रश्नपूर्वकमाह-कथमिति । स्वर्गमिवति । स्वर्गमेवेत्यर्थः । सर्वयाग- फलात्मकस्वरूपमेव ब्रह्माक्षरं गमयतीत्यर्थः । यद्यप्यहरहर्ब्रह्मप्राप्तिर्न यागसाध्या यागरहि- तानामपि तत्प्राप्तेस्तथाऽपि ब्रह्मण एव सर्वयागफलत्वेन तत्प्रापकस्योदानस्येष्टफलप्रापकत्व. मस्तीति भावः । न चोदानस्य कथं तत्प्रापकत्वमिति शङ्कयम् । तस्य सुषुम्नानाडीचारित्वेन स मनस्तन्नाडी प्रवेशयंस्तद्गतं ब्रह्म प्रापयतीत्युपपत्तेः ॥ ४ ॥ एवं विदुपः श्रोत्रायुपरमकालादारभ्य यावत्सुप्तोत्थितो भवति ताव- सर्वयागफलानुभव एव नाविदुषामिवानर्थायेति विद्वत्ता स्तूयते । न हि विदुष एव श्रोत्रादीनि स्वपन्ते प्राणानयो वा जाग्रति जाग्रत्स्वप्न- योर्मनः स्वातन्त्र्यमनुभवदहरहः सुषुप्तं वा प्रतिपद्यते । समानं हि सर्व- प्राणिनां पर्यायेण जाग्रत्स्वप्नसुषुप्तिगमनमतो विद्वत्तास्तुतिरेवेयमुपपद्यते । यत्पृष्टं कतर एष देवः स्वप्नान्पश्यतीति तदाह- अत्रैष देवः स्वमे महिमानमनुभवति । यदृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देश- दिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्ट चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच सर्व सर्वः पश्यति ॥ ५॥ अत्रोपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुषु प्राक्सुषु- तिप्रतिपत्तेः। एतस्मिन्नन्तराल एष देवोऽर्करश्मिवत्स्वात्मनि संहृतश्रो- वादिकरणः स्वप्ने महिमानं विभूतिं विषयविषयिलक्षणमनेकात्ममावग- मनमनुभवति प्रतिपद्यते । पश्यति [४ प्रश्नः ] प्रश्नोपनिषत् । ३७ न ननु गार्हपत्यो वा एषोऽपान इत्यारभ्य मनो ह वाव यजमान इत्यन्तेन ग्रन्थेन विद्वान- कर्मी न भवतीति स्तूयत इत्युक्तमस्त्वेवं तत्राग्निहोत्रादिकर्मप्रतीतेरुदानस्य यागफलस्थानी- यत्वोक्तेस्तु न तत्फलत्वं तत्र कर्माप्रतीतेरत आह-एवं विदुष इति । विद्वत्तेति । श्रोत्रादीनि स्वप्न उपरमन्ते प्राणा एव जाग्रतीत्येवंरूपा विद्येत्यर्थः । अस्याश्च विद्याया जाग- रणं श्रोत्रादिबाह्येन्द्रियधर्मः शरीररक्षणं प्राणधर्मो नाऽऽत्मधर्म इत्येवं त्वंपदार्थविवेकरूपत्वा- स्तोतव्यत्वोपपत्तिः । अत एव प्राणजागरणस्याविद्वाद्विद्वात्साधारणत्वात्कथं विद्वत्तास्तुति- रित्यपि शङ्का निरस्ता तस्यैवंभूतविवेकाभावादिति । ननु विद्याप्रकरणत्वादस्य विदुषः श्रोत्राद्युपरमादिकं सर्व भवतीति- विधीयतां किं स्तुत्येत्याशङ्कय विद्वदविद्वत्साधारण्येन स्वयमेव भवतो न विधेयत्वमित्याह-न हीति । विद्वत्तास्तुतिरेवेति । श्रोत्रादिकं परे देवे मनस्येकी भवति प्राणाग्नयो जाग्रतीत्यत्र पदार्थविवेकरूपं ज्ञानं विवक्षितं तज्ज्ञानं गार्हपत्यो वा एषोऽपान इत्यादिना स्तूयत उक्तप्रकारेणेत्यर्थः । तृतीयप्रश्नोत्तरत्वेन कतर एष इत्यादि सर्वः पश्यतीत्यन्तं व्याचष्टे-यदिति । कतर इति । अत्रेति श्रीतं पदं गृहीत्वा व्याचष्टे-उपरतेष्वित्यादिनाऽन्तराल इत्यन्तेन । अनेकेति । विषयिविषयाधनेकभावगमनमित्यर्थः । इदं च महत्त्वव्याख्यानम् । ननु महिमानुमवने करणं मनोऽनुमवितुस्तत्कथं स्वातन्त्र्येणानुम- वतीत्युच्यते स्वतन्त्रो हि क्षेत्रज्ञः । नैष दोषः । क्षेत्रज्ञस्य स्वातन्त्र्यस्य मनउपाधिकृतत्वान्न हिँ क्षेत्रज्ञः परमार्थतः स्वतः स्वपिति जागति वा । मनउपाधिकृतमेव तस्य जागरणं स्वप्नश्चेत्युक्तं वाजसनेयके-"संधीः स्वप्नो भूत्वा ध्यायतीव लेलायतीव" इत्यादि । तस्मान्मनसो विभूत्य- नुभवे स्वातन्त्र्यवचनं न्याय्यमेव । मनउपाधिसहितत्वे स्वप्नकाले क्षेत्रज्ञस्य स्वयंज्योतिष्टुं बाध्येतेति केचित् । तन्न । श्रुत्यर्थापरिज्ञानकृता भ्रान्ति स्तेषाम् । यस्मात्स्वयंज्योतिष्ट्वादिष्यवहारोऽप्यामोक्षान्तः सर्वोऽविद्या- विषय एव मनआधुपाधिजनितः। स्वप्नद्रष्टुनर्जीवस्य स्वातन्त्र्ये वक्तव्ये देवशब्दितमनसस्तदुक्तिः स्वप्नो मनोधर्मो नाऽऽत्म- धर्म आत्मनि तु तदारोपमात्रं लोकस्येति ख्यापनार्थेति शङ्कापरिहाराभ्यामाह-नन्विति । मनउपाधिकृतमिति । बाह्येन्द्रिययुक्तमनउपाधिकुतं जागरणं केवलमनउपाधिकृतः स्वप्न इत्यर्थः । स्वप्नस्य धीशब्दवाच्यमनःपरिणामत्वात् । स्वप्नो भूत्वेतिश्रुतौ सामानाधिकरण्य- निर्देश इति द्रष्टव्यम् । नन्वियं श्रुतिर्विभूत्यनुभवेन मनःस्वातन्त्र्यं वक्तुं न शक्नोति १ क. इति श्रुतिमार' । २ क. इतिश्रुत्य । ३ ख. ग. घ. ह. हि भवति क्षेत्र । ख. घ. क. सधीायतीव लेलायतीव स हि स्वप्नो भूत्वेया । ५ ग. श्रुत्सनुभवने म । ६ च. भवे म ।

३८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ४ प्रश्नः ] श्रुत्यन्तरविरोधापत्तेः । अतोऽत्र देवशब्देन क्षेत्रज्ञ एवोच्यते । तस्यैव स्वतः स्वातन्त्र्यमिति शङ्कते-मन इति । स्वयंज्योतिष्ट्रवमिति । स्वयंज्योतिष्ट्वबोधक- श्रुतिरित्यर्थः । अन्यथा द्वितीयसत्त्वेऽपि दीपादीनामिव वास्तवस्य तस्य बाधाभावादित्यत्र किं मनसः सत्त्वे ज्योतिरन्तरस्य मनसो विद्यमानत्वादात्मनः स्वयंज्योतिष्ट्वबोधनं न शक्य- मिति श्रुतेः कार्यस्य बोधनस्य बाधोऽभिप्रेत उत तद्बोधनरूपकार्यसिद्ध्यर्थं मनसोऽभावोऽपि विवक्षितः श्रुतौ । ततश्च तत्सत्त्वे श्रुत्यर्थबाध इति वा । नाऽऽद्यः । मनसि सत्यप्येवं तीति वक्ष्यमाणरीत्या मनसो दृश्यत्वेन ज्योतिष्ट्वायोगेनाऽऽत्मन एव स्वयंज्योतिष्ट्वस्य बोधयितुं शक्यत्वादित्याह-तन्नेति । न द्वितीयः, तदानीं मनसोऽभावस्तु श्रुत्यर्थ एव न भवतीत्याह-श्रुत्यर्थेति । आत्मनि ज्योतिष्ट्वबोधनात्मकन्यवहारस्य प्रकाश्या- दिसापेक्षत्वात्तस्मिन्सत्येव तहो धसाधने मनआदौ च सत्येव तद्बोधयितुं शक्यते नान्यथेति मनआधभावो न श्रुतौ विवक्षितः, तथा सति तद्बोधनाशक्तरित्याह-यस्मादिति । यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येन्मात्रासंसर्गस्त्वस्य भवति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् । इत्यादिश्रुतिभ्यः । अतो मन्दब्रह्मविदामेवेयमाशङ्का न त्वेकात्मविदाम् । नन्वेवं सत्यत्रायं पुरुषः स्वयंज्योतिरिति विशेषणमनर्थकं भवत्यत्रोच्यते । अत्यल्पमिद- मुच्यते य एषोऽन्तर्हृदय आकाशस्तस्मिशेत इत्यन्तर्हृदयपरिच्छेदे सुतरां स्वयंज्योतिष्ट्रवं बाध्येत, सत्यमेवमयं दोषो यद्यपि स्यात्स्वप्ने केवलतया स्वयंज्योतिष्ट्रवेनाध तावुदपनीतं भारस्येति चेन्न । तत्रापि पुरीतति नाडीषु शेत इति श्रुतेः पुरीतति नाडीसंबन्धात्तत्रापि पुरुषस्य स्वयंज्यो- तिष्ट्वेनार्धमारापनयामिप्रायो पृषैव । कथं तमुत्रार्थ पुरुषः स्वयंज्यो. तिरिति । अन्यशाखात्वादनपेक्षा सा श्रुतिरिति चेन्न । अर्थकत्वस्येष्ट- त्वादेको ह्यात्मा सर्ववेदान्तानामर्थो विजिज्ञापयिषितो बुभुत्सितश्च । तस्माद्युक्ता स्वप्न आत्मनः स्ययंज्योतिष्ट्वोपपत्तिर्वक्तुम्, श्रुतेर्यथार्थ- तत्त्वप्रकाशकत्वात् । एवं तर्हि शृणु श्रुत्यर्थं हित्वा सर्वमभिमानं न त्वभिमानेन वर्षशतेनापि श्रुत्यर्थो ज्ञातुं शक्यते सर्वैः पण्डितंमन्यैः । तत्र मानमाह-यत्र वेति । द्वितीयाभावे व्यवहारो नास्तीत्यत्रापि मान- माह-मात्रेति । दृश्यं मात्राशब्दार्थः । असंसर्ग इति च्छेदः । दृश्यासंसर्गे MA १ क. च. त्मना ज्यो' । २ ख. ग, घ, ङ, ‘च्छेदकारणे सु। ६ ख, ग, घ, ङ. च, 'सैतन्नाडी । ४ ख, ग, घ, ङ, धादना।

[ ४ प्रश्नः ] प्रश्नोपनिषत् । . ३९ सुषुप्तौ विशेषविज्ञानाभावोक्त्या द्वितीयाभावे व्यवहारो नास्तीत्यर्थः । अतो न द्वितीयः कल्पः संभवतीत्याह-अत इति । ननु यदि स्वयंज्योतिष्ट्वबोधनार्थ मनआद्यभावो नापेक्षितो जागरितेऽपि तर्हि तद्बोधनसंभवादति स्वप्नवाचिविशेषणमनर्थकामिति शङ्कते- नन्विति । किं विशेषणवलान्मनसोऽभावः सिषाधयिषित उत विशेषणस्य गतिमानं पृच्छयते । नाऽऽद्यः । मनसोऽभावाङ्गीकारेऽप्यन्तर्हृदयाकाशस्य तत्कृतपरिच्छेदस्य च श्रुतिसिद्धत्वेन त्वन्मतेऽपि तत्र स्वयंज्योतिष्ट्वबोधनासंभवाद्विशेषणानर्थक्यं तुल्यमित्याह अत्रोच्यत इति । परिच्छेदोऽधिकोन्नत इति तरपः प्रयोगः । स्वयंज्योतिष्ट्वमिति । तद्बोधनमित्यर्थः । यथाश्रुते वास्तवस्य तस्य बाधस्यानाशङ्कयत्वादिति । यद्यपि स्वप्नेऽन्तर्ह- दयाकाशसत्त्वात्सम्यक्स्वयंज्योतिष्ट्वं बोधयितुं न शक्यमिति दोषस्तुल्यस्तथाऽपि स्वप्ने मनसोऽ- भावेन तद्बोधनप्रतिबन्धकस्यौभावाददूरविप्रकर्षेण स्वयंज्योतिष्ट्वं स्वप्ने बोधयितुं शक्यमिति तद्विशेषणमर्थवदिति शङ्कते-सत्यमिति । स्यादित्यनन्तरं तथाऽपीति शेषः । केवल- तयेति । मनसोऽभावेनेत्यर्थः । भारस्येति । प्रतिबन्धकस्येत्यर्थः । शेषबोधनं तु सुषुप्ते भविष्यतीत्यभिप्रायः । एवं तर्हि सुषुप्ते सर्वस्याप्यभावमाश्रित्य सम्यग्बोधनं विवक्षणीयं न च तत्संभवति । तत्रापि बहुप्रतिबन्धकस्य विद्यमानत्वादित्याह-न तत्रापीति । सुषुप्तेऽ- पीत्यर्थः । तत्रापीति । स्वप्नेऽपीत्यर्थः । सुषुप्ते चेत्सर्वभारापनयः स्यात्तदा स्वप्नेर्धभारा- पनयाभिप्रायो वर्णयितुं शक्यते न च तदस्ति । अतोऽत्रेति विशेषणं तदाऽप्यनर्थकमित्यर्थः। तर्हि विशेषणस्य गतिर्वक्तव्येति द्वितीय शङ्कते-कथं तहीति । अत्रैष देवः स्वप्ने महिमानमनुभवतीत्यथर्वशाखावाक्यार्थकथनावसरे काण्वश्रुतिगतविशेषणस्य गतिर्न वक्तव्या प्रकृतानुपयोगादिति सिद्धान्त्येकदेशी कश्चिन्मन्दः शङ्कते-अन्येति । सर्ववेदान्तप्रत्यय- न्यायेनाथर्वश्रुत्यविरोधेनैकवाक्यतया श्रुत्यर्थस्य वर्णनीयत्वात्तदविरोधोऽपि वक्तव्य इति पूर्ववाद्याह–नार्थकत्वस्येति । तर्हि काण्वश्रुतिराभावात्त्यज्यतामत आह-श्रुतेर्य- थार्थेति । स्वाध्यायोऽध्येतव्य इत्यध्ययनविधेरर्थावबोधफलकत्वात्तुल्यं च सांप्रदायिकमिति. न्यायाच्चाक्षरमात्रस्याप्यानर्थक्यायोगादित्यर्थः । एवमेकदेशिनि दूषिते सिद्धान्त्युत्तरमाह एवं तहीति। यथा हृदयाकाशे पुरीतति नाडीषु च स्वपतस्तत्संबन्धामावात्ततो विविच्य दर्शयितुं शक्यत इत्यात्मनः स्वयंज्योतिष्टुं न बाध्यते । एवं मनस्यविद्याकामकर्मनिमित्तोद्भूतवासनावति कर्मनिमित्ता वासनाऽवि. Jammam - १ क. कोऽत्रोच्यत इति तैरयं प्र । ग. 'कोच्यते सुतरामिति । च. कोऽत्र इ । २ ख, घ, ङ. °स्यार्थस्य भावाद्दुर । ग. स्यार्थस्याभावाददुर । ३ ग. घ. "र्थः । अत्रा। ख. घ, इ. षस्य । ५ क, च. द्धान्तक ।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ प्रश्नः ] द्ययाऽन्यद्वस्त्वन्तरमिव पश्यतः सर्वकार्यकरणेभ्यः प्रविविक्तस्य द्रष्टुर्वा. सनाभ्यो दृश्यरूपान्योऽन्यत्वेन स्वयंज्योतिष्ठं सुर्पितेनापि तार्किकेण न धारयितुं शक्यते । तस्मात्साधूक्तं मनसि प्रलीनेषु करणेष्वप्रलीने च मनसि मनोमयः स्वप्नान्पश्यतीति । तादावेव मुख्यश्रुत्यर्थ उच्यतां किं पूर्वोक्तरीत्या पक्षान्तराशङ्कातन्निराकरणाभ्यामि- स्याशङ्कय पाण्डित्याभिमानवतो यथावदर्थबोधेऽनधिकारात्तस्य तदभिमानावतारचिकीर्षया तदीयनानापक्षा निराकृता इति वक्तुं सर्वमभिमानं निरस्येत्याद्युक्तम् । स्वयंज्योतिष्ट्वश्रुतेर- नतिशक्यत्वात्तबलात्स्वप्नादौ हृदयाकाशादिसत्त्वेऽपि तत्संबन्धप्रतीत्यभावाद्विद्यमानस्याप्य- विद्यमानतुल्यत्वेनाऽऽत्मनः केवलत्वात्प्रकाशदर्शनाच्च स्वयंज्योतिष्ट्वमिति बोधनीयं मनसोऽ- भाववादिनाऽप्येवं मनसि सत्यपि तस्य वासनामयगजतुरगादिविषयतया परिणामादृश्यत्वाञ्च द्रष्टुस्ततो भेदेन विवेकतः श्रुत्या स्वप्रकाशत्वं बोध्यत इत्याह- यथेत्यादिना । मन. सीति । सत्यपीति शेषः । ननु मनश्चेदविद्यादिनिमित्तवशाद्गजतुरगादिरूपेणाभिव्यक्तवा- सनावत्तर्हि जाग्रतीव तस्याहंतयैव प्रतीतिः स्यान्नेदंतयाऽत आह-कर्मनिमित्तेति । तथा प्रतीति विना स्वप्ने भोगासिद्धेः स्वप्नभोगप्रदकर्मनिमित्तवशाजाग्रति गजादीनामिदंतयाऽ- नुभवेन तद्वासनानामपि तथैवानुभवाहत्वेन तद्वासनारूपाविद्यावशाच्च वासनाश्रयस्य मनस इदंतयैव वस्त्वन्तरवत्प्रतीतिरित्यर्थः । इदं च विशेषणं मनसो विषयत्वेन विषयित्वासंभवाद्विष. यिण आत्मन एवं प्रकाशरूपत्वमिति वक्तुम् । जाग्रत्यादित्यादिकार्यज्योतिषां चक्षुरादिकरण- ज्योतिषां च सत्त्वेन तत्संकीर्णत्वेनाऽऽत्मनः स्वयंज्योतिष्ट्वं दुर्बोधं स्वप्ने तु तदभावात्सुबोध- मिति वक्तुं सर्वकार्येत्यादि विशेषणम् । स्वप्न आदित्यादिकार्यकरणज्योतिषां भासमानत्वेऽपि तेषां वासनामात्रस्वादृश्यत्वाच्च विषयप्रकाशनासामर्थ्यमिति वक्तुं वासनाम्य इत्यादि विशेष- णम् । एतैश्च विशेषणैः स्वप्न एवैवंभूते स्वयंज्योतिष्ट्वस्य बोधयितुं शक्यत्वादन्यत्रासंभवाद. त्रायमितिश्रुतौ स्वप्नविशेषणग्रहणमर्थवदित्युक्तमिति द्रष्टव्यम् । स्वयंज्योतिष्ट्वमिति । सिद्धमिति शेषः । अतः काण्वश्रुतौ स्वप्ने मनसोऽभावविवक्षाकारणाभावेन तद्विरोधाभावा- दन देवशब्देन परे देवे मनस्येकी भवतीत्युक्तम् । मन एवोच्यत इत्युक्तमुपसंहरति- तस्मादिति । कथं महिमानमनुभवतीत्युच्यते । यन्मित्रं पुत्रादि वा पूर्व दृष्टं तद्वासनावासित: पुत्रमित्रादिवासनासमुदमूतं पुत्रं मित्रमिव वाड- . । १ ख. ग. ह. केन। २ ख. ग. घ. अच. श्यति । ३ क. प. व स्वप्न 17 क. च. इति वि । ५ क. च. वंभूतस्व ।

[४ प्रश्नः ] प्रश्नोपनिषत् । ४१ विद्यया पश्यतीत्येवं मन्यते, तथा श्रुतमथं तद्वासनयाऽनुशृणोतीव, देश- दिगन्तरैश्च देशान्तरैर्दिगन्तरैश्च प्रत्यनुभूतं पुन: पुनस्तत्प्रत्यनुभवतीवा- विद्यया, तथा दृष्टं चास्मिञ्जन्मन्यदृष्टं च जन्मान्तरदृष्टमित्यर्थः । अत्यन्तादृष्टे वासनानुपपत्तेः । एवं श्रुतं चाश्रुतं चानुभूतं चास्मिक्षन्मनि केवलेन मनसाऽननुभूतं च मनसैव जन्मान्तरेऽनुभूतमित्यर्थः । सञ्च परमा- र्थोदकादि । असञ्च मरीच्युदकादि। किं बहुनोक्तानुक्तं सर्वं पश्यति सर्वः पश्यति सर्वमनोवासनोपाधिः सन्नेवं सर्वकरणात्मा मनोदेवः स्वमान्प- श्यति ॥५॥ HAND - । नन्विन्द्रियाणामुपरतस्वाद्विषयसंबन्धाभावात्कथं मनसो महिमानुभव इति शङ्कते- कथमिति । पूर्व ज्ञातस्यैव स्वप्ने ज्ञानात्तस्य वासनामात्रत्वमतो नेन्द्रियापेक्षेत्याह- उच्यत इति । यदिति । यन्मित्रं पुत्रं वा पूर्व दृष्टवांस्तदेव दृष्टं पुत्रमित्रादिविषयवा- सनासमुद्भूतं मित्रं पुत्रं वाऽविद्यया पश्यतीति दृष्टवानित्यादिपदाध्याहारेण वाक्यं योज्यम् । अन्यथा पुत्रमिति द्वितीयाया यच्छब्दस्य चानन्वयः स्यादिति । चक्षुरभावेन दर्शनायो. गान्मन्यत इत्युक्तम् । तथेति । अत्रापि योऽर्थः श्रुतस्तमेव श्रुतमर्थमित्यध्याहारेणैव श्रुतिर्योज्या । देशो नदीतीरादिः । दिक्प्राच्यादिरिति भावः । प्रत्यनुभूतं प्रतिवारमनुभूतं पुनः पुनरनेकदिनेष्वनेकस्वप्नेष्वनुभवतीत्यर्थः । जन्मान्तरदृष्टमिति व्याख्याने हेतुमाह- अत्यन्तेति । अनुभूतं चेत्यस्ये प्रत्यनुभूतमित्यनेन पुनरुक्तिमाशङ्कयाऽऽह-केवलेनेति । पूर्वमिन्द्रियद्वारकानुभव उक्त इत्यपौनरुक्त्यमित्यर्थः । सर्वदर्शने हेतुमाह-सर्व इति ॥५॥ स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वमान्न पश्यत्यथ *तदैतस्मिञ्शरीर एतत्सुखं भवति ॥ ६ ॥ स यदा मनोरूपो देवो यस्मिन्काले सौरेण पित्ताख्येन तेजसा नाडीशयेन सर्वतोऽभिभूतो भवति तिरस्कृतवासनाद्वारो भवति तदा सह करणैर्मनसो रश्मयो हृद्युपसंहृता भवन्ति । यदा मनो दार्वग्निवद- विशेषविज्ञानरूपेण कृत्स्नं शरीरं व्याप्यावतिष्ठते तदा सुषुप्तो भवति । । . memale * दीपिकायां यदेतस्मिन्निति पाठः स्वीकृतोऽस्ति स च मूलेऽपि क्वचिदृश्यते । भत्रापि स एव ग्राह्यश्चेद्युक्ततरो मन्येत । १ क. च. 'तीव म । २ ख. ग. घ. सर्व म। ङ. सर्वो म। ३ क. च. “वे तद्दर्श । ४ क. च. भेदः । ५ क. च. स्य प्रत्ययस्य प्र।

४२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ प्रश्नः ] अत्रैतस्मिन्काल एष मनआख्यो देवः स्वमान्न पश्यति दर्शनद्वारस्य निरुद्धत्वात्तेजसा । अथ तदैतस्मिञ्शरीर एतत्सुखं भवति यद्विज्ञानं निराबाधमविशेषेण शरीरव्यापकं प्रसन्नं भवतीत्यर्थः ॥ ६ ॥ कस्यैतत्सुखं भवतीत्यस्योत्तरं तदपेक्षितं वदन्नाह स यदेति । पित्ताख्येनेति । इदमुपलक्षणं चिद्रूपेण ब्रह्मणा चेत्यपि द्रष्टव्यम् । तन्मनः प्राणमेवोपश्रयत इतिश्रुत्यन्तरेण प्राणशब्दिते ब्रह्माण तस्य लयाभिधानात् । तिरस्कृतेति । वासनाभिव्यक्तौ द्वार स्वप्नभोगप्रदं कर्म यत्तत्तिरस्कृतं तत्रोपरतं भवति तेजःशब्दितब्रह्मचैतन्यसंबन्धादित्यर्थः । रश्मय इति । वासना इत्यर्थः । अविशेषविज्ञानेति । सामान्यचैतन्यरूपेणेत्यर्थः । चेतनाशब्दितसामान्यवृत्तिरूपेण वा । अनेन सुषुप्त उक्त इत्याह-तदेति । नन्वथैतत्सुखं भवतीत्ययुक्तं जन्यसुखस्य तदानीमसंभवात्स्वरूपसुखस्य पूर्वमपि समत्वेन तदा भवतीत्यनुपपत्तेरित्याशङ्कय स्वरूपसुखमेव विशेषविज्ञानरूपविक्षेपाभावे निर्वातस्थदीपप्रभाष- सम्यक्प्रकाशते तदपेक्षमेतद्वचनमित्याह यद्विज्ञानमिति । विज्ञानरूपं स्वरूपमुख. मित्यर्थः ॥ ६ ॥ एतस्मिन्कालेऽविद्याकामकर्मनिबन्धनानि कार्यकरणानि शान्तानि मवन्ति । तेषु शान्तेष्वात्मस्वरूपमुपाधिभिरन्यथा विमाव्यमानमद्वयमेकं शिवं शान्तं भवतीत्येतामेवावस्थां पृथिव्याद्यविद्याकृतमात्रानुप्रवेशेन दर्शयितुं दृष्टान्तमाह- स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते । एवं ह वै तत्सर्व पर आत्मनि . संप्रतिष्ठते ॥ ७ ॥ स दृष्टान्तो यथा येन प्रकारेण सोम्य प्रियदर्शन वयांसि पक्षिणो घासाथ वृक्षं वासोवृक्षं प्रति संप्रतिष्ठन्ते गच्छन्ति । एवं यथा दृष्टान्तो ह वै तद्वक्ष्यमाणं सर्व पर आत्मन्यक्षरे संप्रतिष्ठते ॥ ७ ॥ अनेनाऽऽनन्दमयकोशशब्दितमनभिव्यक्तमनआदिवासनावेदज्ञानं सुषुप्तधर्मीत्युक्तं पञ्चम- प्रश्नस्योत्तरं तुरीयस्वरूपं विवेकसौकर्याद्विविच्यातवोच्यत इत्याह-एतस्मिन्निति । अन्यथेति । पूर्वमन्यथा विभाव्यमानमित्यर्थः । मात्रानुप्रवेशेनेति । मात्राणां विवेक तोऽक्षरेऽनुप्रवेशेनेत्यर्थः ॥ ७ ॥ किं तत्सर्वम्- पृथिवी च पृथिवीमात्रा चाऽऽपश्चाऽऽपोमात्रा १ ख. ग. घ. ङ. °न्तरे प्रा । २ क. ब्दितं ब्रह्म चै । ३ क. च. मुक्तमित्या । ४ क. च. °मेव त। ५ क. च. वज्ज्ञानं सुषप्तिध। BHARATURMARY primmamimmmmm.

प्रश्नः] प्रश्नोपनिषत् । ४३ च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाऽऽकाशश्चाऽऽकाशमात्रा च चक्षुश्च इष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चाऽऽदातव्यं चोप- स्थश्चाऽऽनन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोव्यं चाहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च वियोत- यितव्यं च प्राणश्च विधारयितव्यं च ॥ ८ ॥ पृथिवी च स्थूला पञ्चगुणा तत्कारणा च पृथिवीमात्रा च गन्धत- न्मात्रा, तथाऽऽपश्चाऽऽपोमात्रा च । तेजश्च तेजोमात्रा च । वायुश्च वायु- मात्रा च । आकाशश्चाऽऽकाशमात्रा च । स्थूलानि च सूक्ष्माणि च भूतानीत्यर्थः । तथा चक्षुश्चेन्द्रियं रूपं च द्रष्टव्यं च । श्रोत्रं च श्रोतव्यं च । घ्राणं च घातव्यं च । रसश्च रसयितव्यं च । त्वक्व स्पर्शयितव्यं च । पाच वक्तव्यं च । हस्तौ चाऽऽदातव्यं च । उपस्थश्चाऽऽनन्दयितव्यं च । पायुश्च विसर्जयितव्यं च । पादौ च गन्तव्यं च । बुद्धीन्द्रियाणि कमें- न्द्रियाणि तथा * चोक्तानि । मनश्च पूर्वोक्तम् । मन्तव्यं च तद्विषयः । बुद्धिश्च निश्चयात्मिका । बोद्धव्यं च तद्विषयः । अहंकारश्चाभिमानल- क्षणमन्तःकरणमहंकर्तव्यं च तद्विषयः । चित्तं च चेतनावदन्तःकरणम् । चेतयितव्यं च तद्विषयः । तेजश्च त्वगिन्द्रियव्यतिरेकेण प्रकाशविशिष्टा या त्वक्तया निर्भास्यो विषयो विद्योतयितव्यम् । प्राणश्च सूत्रं यदाच- क्षते तेन विधारयितव्यं संग्रथनीयं सर्वं हि कार्यकरणजातं पारायन संहतं नामरूपात्मकमेतावदेव ॥ ८॥ +आपोमात्रा इत्यत्र विभक्त्यलोपश्चान्दसः । स्थूलानि चेति । पञ्चीकृतानि * अत्रानुक्तसमुच्चयार्थेन तथाचेतिशब्दद्वयेन बुद्धीन्द्रियकर्मेन्द्रियार्था ग्राह्याः । क. पुस्तकपाट- स्वीकारे तु न काचिदनुपपत्तिः । + सान्तापश्शब्दस्वीकरणमेव साधी यः । १ क. तदर्थाश्चोकाः । म । २ स. ग, घ,तच्यः । प्रा । क. ख. ग. च. र्यकार।

४४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ४ प्रश्नः ] । चेत्यर्थः । ततश्च पञ्चीकरणमेतच्छ्रुतिसिद्धमित्युक्तमन्यथाऽऽकाशाकाशमात्रयोः पृथगुक्त्यनु- फ्पत्तेरिति । यद्यपि मन्तव्यादयो मनआदिचतुष्टयविषया अपि द्रष्टव्यादिविषया एव न पृथक्तथाऽपि मन्तव्यत्वादिरूपेण पृथगिति पृथनिर्दिष्टा इति द्रष्टव्यम् । प्रकाशविशिष्टा या त्वगिति । त्वगाश्रयं चर्म तत्प्रकाशनि स्यं च तदेवेत्यर्थः । पृथिवी चेत्यादिना विधारयितव्यं चेस्यन्तेनाऽऽस्मव्यतिरिक्तं तदुपाधिभूतं सर्व · चोक्तमित्याह-सर्व हीति ॥८॥ अतः परं यदात्मरूपं जलसूर्यकादिवभोक्तृत्वकर्तृत्वेनेहानुप्रविष्टम्- एष हि द्रष्टा स्पष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्षर आत्मनि संप्रतिष्ठते ॥ ९ ॥ एप हि द्रष्टा स्पष्टा श्रोता माता रसयिता मन्ता बोद्धा कर्ता विज्ञा- नात्मा विज्ञानं विज्ञायतेऽनेनेति करणभूतं बुद्धयादीदं तु विजानातीति विज्ञानं कर्तृकारकरूपं तदात्मा तत्स्वभावो विज्ञातृस्वभाव इत्यर्थः । पुरुषः कार्यकरणसंघातोक्तोपाधिपूर्णत्वात्पुरुषः । स च जलसूर्यका. दिप्रतिबिम्बस्य सूर्यादिपवेशवजगदार्धारशेषे परेऽक्षर आत्मनि संप्र- तिष्ठते ॥९॥ एष हि द्रष्टेत्यादिनोपहितस्वरूपमुच्यत इत्याह-अतः परमिति । द्रष्टेति । उपाधिकृतमपि द्रष्टुत्वादिकमुपाधिव्यतिरिक्तेऽनुपहित आत्मन्यारोपितं स्फटिके लौहित्यवद. स्तीत्युपाधिभिन्नोऽप्यात्मा द्रष्टेत्यादिनोक्तः । विज्ञानात्मेत्यत्र द्रष्टेत्यादाविव कर्तृवाचकत- चोऽभावाद्विज्ञानं यज्ञं तनुत इत्यादाविव बुद्धेरभिधाने पौनरुक्त्यमाशङ्कयाऽऽह-विज्ञा- नमिति । करणभूतमिति । विज्ञानमय इत्यादावित्यर्थः । एष हीति हिशब्दश्चश- ब्दार्थकः स च संप्रतिष्ठि(ष्ठ)त इति क्रियानुकर्षणार्थ इति वदन्द्रष्टुरात्मनः पृथिव्यादिवत्स्व- रूपेणाक्षरे लयो न संभवतीत्याशङ्कयोपाधिलय उपहितरूपाभावमे(वए)वास्य लय इत्याह- स चेति ॥ ९॥ तदेकत्वविदः फलमाह- परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायम- शरीरमलोहितं शुनमक्षरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥ १० ॥ NA १ क, च. 'न्तव्यादि । २ क. जगत्कर्तृस । ३ क, 'बलाद्याधारशोषे । ४ ग. धारे शे ।

[४ प्रश्नः ]
प्रश्नोपनिषत् ।
४५
परमेवाक्षरं वक्ष्यमाणविशेषणं प्रतिपद्यत इत्येतदुच्यते । स यो ह वै
तत्सर्वेषणाविनिर्मुक्तोऽच्छायं तमोवर्जितम् । अशरीरं नामरूपसर्वोपा-
धिशरीरवर्जितम् । अलोहितं लोहितादिसर्वगुणवर्जितम् । यत एवमतः
शुभ्रं शुद्धम् । सर्वविशेषणरहितत्वादक्षरम् । सत्यं पुरुपाख्यम् । अमा-
णममनोगोचरम् । शिवं शान्तं सबाह्याभ्यन्तरमजं वेदयते विजानाति ।
यस्तु सर्वत्यागी सोम्य स सर्वज्ञो न तेनाविदितं किंचित्संभवति । पूर्वम-
विद्ययाऽसर्वज्ञ आसीत्पुनर्विद्ययाऽविद्यापनये सर्वो भवति तदात(तत्त).
स्मिन्नर्थ एष श्लोको मन्त्रो भवति उक्तार्थसंग्राहकः ॥१०॥
एवं जाग्रदादीनामन्यधर्मस्वोक्त्या शोधिततुर्यात्मानुवादेन तस्याक्षरैक्याभिधानपुरःसरं
तज्ज्ञानस्य फलमुच्यत उत्तरवाक्येणेत्याह—तदेकत्वेति । वक्ष्यमाणलक्षणमक्षरं प्रति-
पद्यत इत्येवंरूपं फलमाहेत्यन्वयः । उत्तरवाक्यमिति शेषः । उक्तमर्थ श्रुत्यक्षरारूढमाह-
एतदुच्यत इति । स इत्यस्यार्थमाह-सर्वेति । अत्राधिकारिणो दुर्लभत्वं स यो
वा इत्यनेनोक्तम् । स यः कश्चिदेवापूर्ववत्तदच्छायादिविशेषणमक्षरं वेदयत इत्येकं वाक्यं
समापनीयम् । यस्तु वेदयते स सर्वज्ञ इति वाक्यान्तरं कार्यमन्यथा यच्छब्दद्वयानन्वयात् ।
आद्यवाक्येऽच्छायादिविशेषणत्रयेण कारणसूक्ष्मस्थूलशरीरत्रयनिराकरणेनावस्थात्रयनिराकर-
नावस्थात्रयराहित्यमनूद्यते । लोहितादि सर्व गुणवर्जितमित्यनेन तद्गुणकस्थूलशरीरवर्नित-
मिति प्रतीतेः । शुभ्रमित्यनेन तमेव तुरीयमनूद्य तस्याक्षरसामानाधिकरण्येनैक्यमुक्तमिति
विवेकः । अत्राक्षरमित्यनेनाक्षरं पुरुषं वेद सत्यं स बाह्याभ्यन्तरो ह्यनोऽप्राणो ह्यमना:
शुभ्र इति मन्त्रोक्तानि सर्वाणि विशेषणान्यात्मोपलक्षणान्यात्मोपलक्षणार्थ संगृहीतानीत्याह-
सत्यमित्यादिना । यस्तु सर्वत्यागीत्यत्रापि वाक्ये वेदयत इत्यस्यानुषङ्गः । अत्र
सर्वज्ञ इत्यनेन कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रतिज्ञातं सर्वविज्ञानमु.
क्तम् । सर्वात्मत्वस्य ज्ञानजन्यत्वेऽनित्यत्वं स्यादत आह–पूर्वमिति । एवं चाऽऽरोप-
निवृत्तिद्वाराऽभूततद्भावो विवक्षित इत्याह-सर्दो भवतीति ॥ १० ॥
विज्ञानात्मा सह देवश्च सर्वैः प्राणा भूनानि
संप्रतिष्ठन्ति यत्र । तदक्षरं वेदयते यस्तु
सोम्य स सर्वज्ञः सर्वमेवाऽऽविवेशेति ॥११॥
इत्यथर्ववेदीयप्रश्नोपनिषदि चतुर्थः प्रश्नः॥४॥
विज्ञानात्मा सह देवश्चाग्न्यादिभिः प्राणाश्चक्षुरादयो भूतानि पृथि-
व्यादीनि संप्रतिष्ठन्ति प्रविशन्ति यत्र यस्मिन्नक्षरे तदक्षरं वेदयते यस्तु
सोम्य प्रियदर्शन स सर्वज्ञः सर्वमेवाऽऽविवेशाऽऽविशतीत्यर्थः ॥ ११ ॥

४६ आनन्दगिरिकृतटीकासंघलितशांकरभाष्यसमेना- [५ प्रभः] इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपाद- शिष्यश्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाध्ये चतुर्थः प्रश्नः ॥४॥ अग्न्यादिभिरिति । ततश्च चक्षुश्च द्रष्टव्यं चेत्यत्रापि चक्षुरादिभिर्देवा अप्युपलक्षिता इति व्याख्यातम् ॥ ११॥ इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां चतुर्थः प्रश्नः ॥ ४ ॥ ... अथ पञ्चमः प्रश्नः । A अथ हैनं शैब्यः सत्यकामः पप्रच्छ । अथ हेनं शैव्यः सत्यकामः पप्रच्छ । एवं चतुर्थप्रश्नोसमाधिकारिणः पदार्थशोधनपूर्वकवाक्यार्थज्ञानेनाक्षरप्राप्तिमुक्त्वाऽनान- धिकारिणो मन्दवैराग्यवत ओमित्येवं ध्यायत आत्मानं प्रणवो धनुदित्यादिमन्त्रसूचितं ब्रह्म- लोकप्राप्तिद्वारा क्रमेणाक्षरप्राप्त्यर्थमोंकारोपासनं वक्तुं पञ्चमप्रभमवतारयति-अथ हैनमिति । अथेदानीं परापरब्रह्मप्राप्तिसाधनत्वेनोंकारस्योपासनविधित्सया प्रश्न आरभ्यते- स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तों- कारमभिध्यायीत । कतमं वाव स तेन लोकं जयतीति तस्मै स होवाच ॥ १ ॥ स यः कश्चिद्ध वै भगवन्मनुष्येषु मनुष्याणां मध्ये तददुतमिव प्रायणान्तं मरणान्तं यावज्जीवमित्येतदोंकारमभिध्यायीताऽऽभिमुख्येन चिन्तयेत् । बाह्यविषयेभ्य उपसंहृतकरणः समाहितचित्तो मक्त्यावेशि- तब्रह्मभाव ओंकारे । आत्मप्रत्ययसंतानाविच्छेदो भिन्नजातीयप्रत्यया. न्तराखिलीकृतो निर्वातस्थदीपशिखासमोऽभिध्यानशब्दार्थः । सत्य- ब्रह्मचर्याहिंसापरिग्रहत्यागसंन्यासशौचसंतोषामायावित्वायनेकयमनिय- १ क. प्रश्नोकोत्त, प्रश्नोपनिषत् । [५ प्रश्नः] . ४७ मानुगृहीतः स एवं यावज्जीववतधारणः । कतमंचावानेके हि ज्ञानकर्म- मिर्जेतव्या लोकास्तिष्ठन्ति तेषु तेनोंकारामिध्यानेन कतमं स लोकं जयतीति पृष्टवते तस्मै स होवाच पिप्पलादः॥१॥ -- इदानीमिति । गार्यप्रश्ननिर्णयानन्तरमित्यर्थः । परेति । अपरब्रह्मलोकप्राप्तिक्रमण परब्रह्मलोकप्राप्तिसाधनत्वेनेत्यर्थः । तदद्भुतमिवेति । तदिति क्रियाविशेषणं तादृशम- मिध्यानमिति, तेन विशेषणेनाद्भुतत्वं दुष्करत्वं मातीत्यर्थः । अभिध्यानेन तत्पूर्वकालीने प्रत्याहारधारणे सूचिते इत्याह-बाह्येति । भक्त्याऽऽदरेणोपचारेणेवाऽऽवेशित आरो- पितो ब्रह्ममावो यस्मिन्नोंकारे तस्मिन्समाहितचित्त इत्यन्वयः । अनेन धारणोक्ता । ध्यान- शब्दार्थमाह-आत्मेति । संतानाविच्छेद इत्यविच्छिन्नसंतान इत्यर्थः । प्रत्ययान्तरेण विजातीयप्रत्ययेनाखिलीकृतोऽनन्तरितः । चित्तस्याऽऽत्मविषयस्यैव सत एकदेशेन विक्षेप वारयति-निर्वातेति । ध्यानेनैव यमादिसाधनजातमपि सूचितमित्याह-सत्येति । कतममितिडतमचोऽथ बहुषु निर्धारणं दर्शयति-अनेके हीति । ओंकाराभिध्यानं ध्यानस्वाइहराधुपासनवदपरप्राप्तिसाधनमेवोत परप्राप्तिसाधनमपीति प्रष्टुरमिप्रायः ॥ १ ॥ एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः । तस्माद्विद्वानेतेनैवाऽऽयतनेनैकतरमन्वेति ॥२॥ एतद्वै सत्यकाम । एतब्रह्म वै परं चापरं च ब्रह्म परं सत्यमक्षरं पुरु- पाख्यमपरं च प्राणाख्यं प्रथमजं यत्तदोंकार एवोंकारात्मकमोंकारप्रती- कत्वात् । परं हि ब्रह्म शब्दाद्युपलक्षणानह सर्वधर्मविशेषवजितमतो न शक्यमतीन्द्रियगोचरत्वात्केवलेन मनसाऽवगाहितुमोंकारे दिप्रतिमास्थानीये भक्त्यावेशितब्रह्मभावे ध्यायिनां तत्प्रसीदतीत्यवग- म्यते शास्त्रप्रामाण्यात्तथाऽपरं च ब्रह्म । तस्मात्परं चापरं च ब्रह्म यदों- कार इत्युपचर्यते । तस्मादेवं विद्वानेतेनैवाऽऽत्मप्राप्तिसाधनेनैवोंकारा- भिध्यानेनैकतरं परमपरं वाऽन्वेति ब्रह्मानुगच्छति नेदिष्ठं ह्यालम्बनमो- कारो ब्रह्मणः ॥२॥ तु विष्ण्वा- तदभिप्रायज्ञः पिप्पलादोऽपरालम्बनतया ध्यानं चेदपरप्राप्तिमात्रसाधनं परालम्बनत्वेन चेत्क्रमेण परप्राप्तिसाधनमित्युत्तरमाह-एतद्वा इति । एतद्यच्छब्दयोर्नपुंसकयोरोंकार- विशेषणत्वायोगाद्ब्रह्मविशेषणत्वमाह-एतद्ब्रह्मेति । किं तद्ब्रह्मेत्यत आह-परं चेति । १ क. च. देशवि । २ ख. ग. घ. ङ. गाहयितु । ३ ख. ग. घ. ङ, इत्युच्यते . आनन्दगिरिकुतटीकासंवलितशांकरभाष्यसमेता- [ ५ प्रश्नः ] यदेतस्परं चापरं च ब्रह्मास्ति तदुभयमोंकार इति वाक्यान्वय इत्यर्थः । न चैवं ब्रह्मोद्देशे नोंकारत्वविधाने ब्रह्मण्योंकारदृष्टिः प्रसज्यतेति शङ्कयम् । ब्रह्मदृष्टिरुत्कर्षादिति न्यायेन लोकेषु सामोपासीतेत्यादाविव निकृष्ट ओंकार एवं ब्रह्मदृष्टिः सिध्यतीति भावः । तयोर्भेदा. स्कथमैक्यमित्याशङ्कयोपचारादित्याह-ओंकारमतीकत्वादिति । अनेन सामानाधि- करण्येनोंकारस्य प्रतीकत्वमुपदिश्यत इति भावः । ननु किं प्रतीकोपदेशेन साक्षादेव ब्रह्मा- भिधीयतामत आह-परं हीति । शब्दादीति । शब्दादिभिः साक्षाद्वोधनानहमित्यर्थः । आदिशब्देनानुमानादि गृह्यते । प्रवृत्तिनिमित्तस्य धर्मस्य लिङ्गस्य चाभावादिति तत्र हेतु. माह-सर्वेति । न शक्यमित्यवाहितुमित्यन्वयः । तहीन्द्रियैर्मनसा वा तद्रहोऽस्वित्यत आह--अतीन्द्रियेति । मनसेतीन्द्रियैर्वत्यपि द्रष्टव्यम् । तर्हि तथाविधस्योंकारेऽप्या- वेशासंभवात्किंचिद्विशेषमारोप्याऽऽवेशो वक्तव्यः । अत एव सूर्यान्तर्गतत्वं विशेषं वक्ष्यति ओंकारतादात्म्यं च तत्कथं निर्विशेष त्व] लाभोऽत आह--ओंकारे विति । प्रसीद- तीति । तदुपासनेन चित्तस्य नैर्मल्ये सति निर्विशेषं स्वयमेव प्रकाशत इत्यर्थः । तत्र मानमाह-शास्त्रेति । अन्यथा परब्रह्मार्थिनस्तदुक्तिवैयादित्यर्थः । तथाऽपरं चेति । प्रसीदतीत्यन्वयः । तस्मादिति । प्रतीकत्वादित्यर्थः । तस्मादेवं विद्वानिति । ब्रह्मत्वाब्रह्मवाहमिति विद्वानित्यर्थः । एतेनैवेत्यनन्तरमायतनेनाऽऽलम्बनेनेति पदद्वयं प्रमा- दतो गलितमिति द्रष्टव्यम् । तस्य पदस्य पिण्डितार्थमाह-ओंकारेति । न स्वेतच्छ. ब्दार्थकथनमेतदिति द्रष्टव्यम् । अभिध्यानस्याऽऽयतनत्वाभावादितीतरोपासनावदस्याप्युपास- नस्वात्परप्रापकत्वं न संभवतीत्यतआह--नेदिष्ठमिति । मनआद्यपेक्षयेदं नेदिष्ठं समीप- वय॑न्तरङ्ग श्रेष्ठमालम्बनमेतदालम्बनं श्रेष्ठमेतदालम्बनं परमित्यादिश्रुतेरित्यर्थः ॥ २ ॥ स यवेकमात्रमभिध्यायीत स तेनैव संवेदित स्तूर्णमेव जगत्यामभिसंपयते । तमृचो मनु- ध्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपनो महिमानमनुभवति ॥ ३ ॥ स यद्यप्योंकारस्य सकलमात्राविभागज्ञो न भवति तथाऽप्योंकारा- भिध्यानप्रभावाद्विशिष्टामेव गतिं गच्छति एतदेकदेशज्ञानवैगुण्यतयोंका रशरणः कर्मज्ञानोभयभ्रष्टो न दुर्गतिं गच्छति किं तर्हि यद्यप्येवमोंका- रमेवैकमात्राविमागज्ञ एव केवलोऽभिध्यायीतकमात्रं सदा ध्यायीत स . न . । . .. १ क. ङ्गत्याभा । २ स: ग. घ. ङ, ‘गाहयितु। ३ क. च. वाहत्वाद्र । ४ घ. वाद. । ५ क. च, 'मेक। .

me चार्य -.- [५ प्रश्नः ] प्रश्नोपनिषत् । रड्डी. आचार्य * श्रीर सातारा ब EMAIL तेनैवैकमात्राविशिष्टोंकाराभिध्यानेनैव संवेदितः संबोधितस्तूण क्षिप्रमेव जगत्यां पृथिव्यामभिसंपद्यते। किं, मनुष्यलोकम् । अनेकानि हि जन्मानि जगत्यां संभवन्ति तत्र तं साधकं जगत्यां मनुष्यलोकमेवर्च उपनयन्त उपनिगमयन्ति । ऋच ऋग्वेदरूपा ह्योंकारस्य प्रथमैकमात्राऽभिध्याता । तेन स तत्र मनुष्यजन्मनि हिजाम्यः संस्तपसा ब्रह्मचर्येण श्रद्धया च संपन्नो महिमानं विभूतिमनुभवति न वीतश्रद्धो यथेष्टचेप्टो भवति योग- भ्रष्टः कदाचिदपि न दुर्गतिं गच्छति ॥ ३ ॥ नेदिष्ठत्वमेव संस्तुवन्नुत्तरवाक्येण साधयति—स यदीति । विकलस्यापि फलजनक- त्वान्नेदिष्ठत्वमित्यर्थः । सकलेति । अकारादिमात्रात्रयात्मक ओंकारः स चोपासितव्य इति न जानाति किं त्वकारमात्रमुपासितव्यं जानातीत्यर्थः । तथाऽप्येकदेशज्ञानवैगुण्य- तया दुर्गतिं न गच्छति किं तयाँकाराभिध्यानप्रभावात्तदेकदेशध्यानप्रभावाद्विशिष्टामेव गति गच्छतीत्यन्वयः । तात्पर्यार्थमुक्त्वेदानीमक्षरार्थमाह-यद्यप्येवमिति । यदिशब्दो यद्य- पीत्यर्थे व्याख्यातः । एवं च स तेनैवेत्यतः प्राक्तथाऽपीति पदं द्रष्टव्यम् । एकमा- मिति । एकमात्रात्मकमोंकारमकारमित्यर्थः । एकमात्राविशिष्टेत्यत्राप्येकमात्रात्वविशि- टेत्यर्थः । ओंकारेति । तदद्वयवेत्यर्थः । एकमात्राप्रधानमप्रधानीभूतमात्राद्वयं कृत्स्नमों- कारमिति केचिब्याचक्षते । दीपिकायां वाचस्पत्ये चाकारमात्रमित्येव व्याख्यातम् । संबो- धित इति । तन्मात्राध्यानेन तन्मात्रासाक्षात्कारवानित्यर्थः । पृथिव्यां किमभिसंपद्यत इति कर्माऽऽकाङ्क्षते-किमिति । मनुप्यलोकमितिपदमिहाऽऽकृष्याऽऽकाङ्क्षा पूर. यति-मनुष्यलोकमिति । मनुष्यशरीरमित्यर्थः । पृथिव्यां मनुष्यलोकस्यैव नियमा- तदुक्तिवैयर्थ्यमत आह–अनेकानि हीति । पश्वादीनि हीत्यर्थः । तर्हि तस्य निय- मेन कथं मनुष्यत्वप्राप्तिरत आह-तत्र तमिति । ऋग्वेदरूपा हीति । पृथिव्य- कारः स ऋग्वेद इति श्रुतेरकारस्य तद्रूपत्वमित्यर्थः । अभिध्याताऽकाररूपा मात्रा ऋग्वेदरूपेत्यन्वयः । तेनेति । येनवेदरूपत्वं तस्य तेन! मनुष्यलोकमुपनयन्त इत्यर्थः । वीतश्रद्ध इति । श्रद्धाविरहितः सन्नित्यर्थः । योगभ्रष्ट इति । एकदे- शज्ञानविकल इत्यर्थः । अनेन न हि कल्याणकृत्कश्चिदिति गीतावास्यसंवादः सूचितः॥३॥ अथ यदि द्विमात्रेण मनसि संपद्यते सोऽन्त- रिक्षं यजुभिरुनीयते सोमलोकम् । स सोम- लोके विभूतिमनुभूय पुनरावर्तते ॥ ४ ॥ अथ पुनर्यदि द्विमात्राविभागज्ञो द्विमात्रेण विशिष्टमोंकारमभिध्या- ५० संपद्यत आनन्दगिरिकृतटीकासंवलितशांकरमाप्यसमेता- [५ प्रश्नः ] यीत स्वप्नात्मके मनसि मननीये यजुर्मये सोमदैवत्ये एकाग्रत. याऽऽत्मभावं गच्छति । स एवं संपन्नो मृतोऽन्तरिक्षमन्तरिक्षाधारं द्विती- यमात्रारूपं द्वितीयमात्रारूपैरेव यजुभिरुन्नीयते सोमलोकं सौम्यं जन्म प्रापयन्ति तं यजूंषीत्यर्थः । स तत्र विभूतिमनुभूय सोमलोके मनुष्य- लोकं प्रति पुनरावर्तते ॥ ४॥ द्विमात्रेण विशिष्टमिति । द्वितीयभात्रत्वेन विशिष्टमोंकारं तद्गतमुकारमित्यर्थः । न तु मात्राद्वयमकारस्य पूर्वमेवोक्तत्वादत एव द्वितीयमात्रारूपमिति वक्ष्यति । श्रुती तृतीया द्वितीयार्थे, ओंकारमभिध्यायीतेत्युपक्रमादिति भावः । अत्राभिध्यानं तादात्म्याभि- मानपर्यन्तमिति वक्तुं मनसि संपद्यत इति वाक्यं तत्र साक्षान्मनःसंपत्तेः। साधनत्वेन वा फल. खेन वाऽनन्वयान्मनःशब्देन तत्परिणामस्वप्नादिलक्षणद्वारा स्वप्नयजुराद्यात्मत्वेन श्रुत्यन्तरे श्रुतोंकार एव लक्ष्यत इत्याह-स्वप्नात्मक इति । उकारे संपत्तिपर्यन्तमभिध्यानं यः करोतीति वाक्यार्थ इत्यर्थः । अत्र केचित्स यदीत्यादिर्यः पुनरित्यन्तं न स्तुतिः । किं तूक्तफलायाकारे विश्वाभिन्नविराडुपासनमुकारे तैनसाभिन्नहिरण्यगर्भोपासनं च विवक्षि- तमित्याहुः । तन्मते मनःशब्देनाण्डपरिणामस्वप्नाभिमानी हिरण्यगर्भ उच्यत इति वक्तुं स्वप्नात्मक इत्यादिविशेषणानीति बोध्यम् । दीपिकायां तु मात्राद्वयस्य मिलितस्योपासनं मनसि संपत्तिश्च मनसैकाग्रतया चिन्तनमिति च व्याख्यातम् ॥ ४ ॥ यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्म- लोकं स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥ ५ ॥ यः पुनरेतमोंकारं त्रिमात्रेण त्रिमात्राविषयविज्ञानविशिष्टेनोमित्येते- नैवाक्षरेण परं सूर्यान्तर्गतं पुरुषं प्रतीकेनाभिध्यायीत तेनाभिध्यानेन, प्रतीकत्वेन ह्यालम्बनत्वं प्रकृतमोंकारस्य परं चापरं च ब्रह्मेत्यभेदश्रुतेरों- कारमिति च द्वितीयाऽनेकशः श्रुता बाध्येतान्यथा यद्यपि तृतीयाभि- + १ क. ख. 3. यरू । २ ख. ग. ऊ. रेनं त्रि। ३ ख. घ.. रेनों । ४ ख. ग, घ, १. श्रुत्योंका।

५ or A. ।५ प्रश्नः] प्रश्नोपनिषत् । धानत्वेन करणत्वमुपपद्यते तथाऽपि प्रकृतानुरोधात्रिमा पर पुरुषमिति द्वितीयैव परिणेया त्यजेदेकं कुलस्यार्थ इति न्यायेन, स तृतीयमात्रारूप- स्तेजसि सूर्ये संपन्नो भवति ध्यायमानो मृतोऽपि सूर्यात्सोमलोकादिवन्न पुनरावर्तते किंतु सूर्ये संपन्नमात्र एव । यथा पादोदरः सर्पस्त्वचा विनि- र्मुच्यते जीर्णत्वग्विनिर्मुक्तः स पुनर्नवो भवति । एवं ह वा एष यथा दृष्टान्तः स पाप्मना सर्पत्वस्थानीयेनाशुद्धिरूपेण विनिर्मुक्तः साम- मिस्तृतीयमात्रारूपैरूर्ध्वमुन्नीयते ब्रह्मलोकं हिरण्यगर्भस्य ब्रह्मणो लोकं सत्याख्यम् । स हिरण्यगर्भः सर्वेषां संसारिणां जीवानामात्मभूतः । स ह्यन्तरात्मा लिङ्गरूपेण सर्वभूतानां तस्मिन्हि लिङ्गात्मनि संहताः सर्वे जीवाः । तस्मात्स जीवधनः । स विद्वांत्रिमात्रोंकाराभिज्ञ एतस्मा. जीवधनाद्धिरण्यगर्भात्परात्परं परमात्माख्यं पुरुषमीक्षते पुरिशयं सर्व- शरीरानुप्रविष्टं पश्यति ध्यायमानः । तदेतस्मिन्यथोक्तार्थप्रकाशको मन्त्रौ भवतः ॥५॥ एवमोंकारं स्तुत्वा तदुपासनं परब्रह्मविषयं विधत्ते-यः पुनरिति । विज्ञानवि- शिष्टेनेति । विज्ञानविषयीकृतेनेत्यर्थः । मात्रात्रयात्मकज्ञानेनेति यावत् । पूर्ववदत्रापि त्रिमात्रेणेत्यत्र तृतीया मात्रा मकार उच्यत इति भ्रमं वारयितुमोमित्येतेनैवाक्षरेणेत्युक्तम् । पूर्वत्र तत्तन्मात्राप्रधान ओंकार एवोच्यत इति मत इहैवेदं विशेषणमनुपपन्नं पूर्वत्राप्योंकार- स्यैवोक्तत्वादिति तन्मतमनुपपन्नमिव भातीति त्रिमात्रेणेति तृतीयाश्रवणादोंकारो न प्रतीक तथा सति विषयत्वेन. कर्मतया द्वितीया स्यात्किं त्वभिध्यायकत्वेन करणत्वमेव तृतीयाबला- दिति भ्रमं वारयति-प्रतीकेनेति । तस्य कर्मत्वेऽपि कारकत्वेनाभिध्यानक्रियानिवर्तक- स्वेन हेतुत्वात्तन्मात्रविवक्षया तृतीयोपपद्यत इत्यर्थः । एवं व्याख्याने हेतुमाह-प्रतीक- त्वेनेति । अभेदेति । प्रतीकत्वे ह्यधिष्ठानाध्यस्यमानयोस्तादात्म्यारोपादभेदश्रवणमुपप. द्यते करणत्वे तु न तदुपपद्यत इत्यर्थः । अनेकश इति । ओंकास्मभिध्यायीत स यद्ये. कमात्रमभिध्यायीतेति द्विवारं श्रुतेत्यर्थः । अन्यथेत्यस्य बाध्यतेत्यनेनान्वयः । अथ यदि द्विमात्रेण यः पुनरेतं त्रिमात्रेणेति च तृतीयाऽपि द्विवारं श्रुताः हेतुत्वापेक्षया करणत्वेन, स्वरसा च कारकविभक्तित्वात्ततस्तस्या अपि बाधो न युक्त इति शङ्कते.-यद्यपीति । द्वितीयाद्वयस्यापि कर्मत्वे स्वारस्यादुपक्रमस्थत्वाच्च तस्यैव प्रावल्यमित्याह-तथाऽपीतिः । प्रकृतेति । प्रक्रमानुरोधादित्यर्थः । किंच द्वितीयाद्वयमुक्ता( क्त्वाऽ ? ) भेदश्रुतिः । एतेनैवाऽऽयतनेवैकतरमन्वेति । आयतनवान्वेतीत्यालम्बनवाच्यायतनश्रुतिद्वयं चेप्ति १ ख. ग. घ. ङ. च. रूपे तेज । २ क. ख. ङ. सर्यसं। ३ ख. ग. घ. इ. त्ववियुक्तः। ४ ख. त्मज्ञातने । ग. त्मना ज्ञातेने । घ. . "त्मज्ञा। ५ क. धानोंका । ६ च, साच्च का।

५२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५ प्रश्नः ] बहुश्रुत्यनुरोधेन तृतीयाद्वयं त्याज्यमित्याह-त्यजेदेकमिति । तृतीयमात्रा- रूप इति । यद्यपि मात्रात्रयध्यानान्मात्रात्रयरूपित्वमेव तस्य तथाऽपि तृतीयमा- आया एवेहासाधारण्यात्तत्प्राधान्येन निर्देश इति बोध्यम् । तृतीयमात्रारूप इति सप्त- म्यन्तपाठे तत्सूर्यविशेषणं मकारस्याऽऽदित्यात्मकत्वादिति । हिरण्यगर्भस्य जीवघनत्वमनाग- तावेक्षणन्यायेनोपपादयति–स हिरण्यगर्म इति । लिङ्गरूपेणेति । समष्टिलिङ्ग- रूपेणेत्यर्थः । तस्मिन्हीति । समष्टिलिङ्गात्मनि हिरण्यगर्भे व्यष्टिलिङ्गामिमानिनः सर्वे जीवा गोत्वसामान्ये खण्डमुण्डादय इव संहता इत्यर्थः । इदानीं वाक्यं योजयति-स विद्वानिति । स विद्वानिदानीं ध्यायमानः पश्चाद्ब्रह्मलोकं प्राप्तः । तत्र ब्रह्मलोके स्थाका रज़ामेभ्यः पराजीवघनात्परं पुरुषं पश्यति ततो मुक्तो भवतीत्यन्वयः ॥ ५ ॥ तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसत्ता अनविप्रयुक्ताः । क्रियासु बाह्याभ्यन्तरमध्य- मासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥६॥ तिलनिसंख्याका अकारोंकारमकाराख्या ओंकारस्य मात्राः । मृत्यु- मत्यः, मृत्युर्यासां विद्यते ता मृत्युमत्यो मृत्युगोचरादनतिकान्ता मृत्यु. गोचरा एवेत्यर्थः । ता आत्मनो ध्यानक्रियासु प्रयुक्ताः । किंचान्यो- न्यसक्ता इतरेतरसंबद्धाः । अनविप्रयुक्ता विशेषेणैकैक विषय एव प्रयुक्ता विप्रयुक्ताः । न तथा विप्रयुक्ता अविप्रयुक्ता नाविप्रयुक्ता अनविप्रयुक्ताः किं तर्हि विशेषेणैकस्मिन्ध्यानकाले तिसृषु क्रियासु बाह्याभ्यन्तरमध्य- मासु जाग्रत्स्वप्नसुषुप्तस्थानपुरुषाभिध्यानलक्षणासु योगक्रियासु सम्यक्प्र- युक्तासु सम्यग्ध्यानकाले प्रयोजितासु न कम्पते न चलति ज्ञो योगी यथोक्तविभागज्ञ ओंकारस्येत्यर्थः । न तस्यैवंविदश्चलनमुपपद्यते । यस्माज्जाग्रत्स्वप्नसुषुप्तपुरुषाः सह स्थानर्मात्रात्रयरूपेणोंकारात्मरूपेण दृष्टाः स ह्येवं विद्वान्सर्वात्मभूत ओंकारमयः कुतोवा चलेत्कस्मिन्वा ॥६॥ तत्र यः पुनरेतमित्यादिन तेऽर्थ आद्यं मन्त्रं योजयति-तिस्र इति । मृत्युगो- चरा इति । प्रत्येकं ब्रह्मदृष्टिं च विना तदुपासकानां मृत्य्यनतिक्रमादित्यर्थः । ब्रह्मदृष्टया संश्लिष्टत्वेन च संभूय च प्रयुक्ताश्चेन्नायं दोष इत्याह-किंचेति । जाग्रदिति । जाग्रत्पुरुषो वैश्वानराभिन्नो विश्वस्तत्स्थानं स्थूलशरीरं जागरितं च । स्वप्नपुरुषस्तु हिरण्यग- भिन्नस्तैनसस्तत्स्थान लिङ्गशरीरं स्वप्नश्च । सुषुप्तावीश्वरात्मा प्राज्ञस्तत्स्थानमव्या- , १ ख. ग. घ. इ. च. 'षुप्तोऽपीश्व।

[५ प्रश्नः] प्रश्नोपनिषत् । ५३ - .. कृतं सुषुप्तिश्च । तेषामकारादितादात्म्येन यदभिध्यानं तल्लक्षणासु योगक्रियासु प्रयुक्ता- स्वन्योन्यसक्ता अनविप्रयुक्तास्तिस्रो मात्राः प्रयुक्ताश्चेन्न कम्पत इत्यन्वयः । अनेन सर्वा- मके परब्रह्मणीश्वर ओंकाराभेदेन ध्यानमुक्तम् । यथोक्तेति । तिस्रो मात्रा इति श्लोको- क्तविभाग इत्यर्थः । कुतो वेति । चलनं विक्षेपः स्वस्य सर्वात्मत्वेन स्वव्यतिरिक्ताभावा- चलनं न संभवतीति कुतो हेतोः कस्मिन्वा विषये चलेदित्यर्थः ॥ ६ ॥ सर्वार्थसंग्रहार्थो द्वितीयो मन्त्रः- ऋग्झिरेतं यजुभिरन्तरिक्षं* सामभिर्यत्तत्कवयो वेदयन्ते । तमोकारेणैवाऽऽयतनेनान्वेति विद्वा- न्यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ७ ॥ इत्यथर्ववेदीयप्रश्नोपनिषदि पञ्चमः प्रश्नः ॥५॥ ऋग्मिरेतं लोकं मनुष्योपलक्षितम् । यजुर्मिरन्तरिक्षं सोमाधिष्ठितम् । सामभिर्यत्तद्ब्रह्मलोकमिति तृतीयं कवयो मेधाविनो विद्यावन्त एव नाविद्वांसो वेदयन्ते । तं त्रिविधं लोकमोंकारेण साधनेनापरब्रह्मलक्ष- णमन्वेत्यनुगच्छति विद्वान् । तेनैवोंकारेण यत्तत्परं ब्रह्माक्षर सत्यं पुरुषाख्यं शान्तं विमुक्त जाग्रत्स्वप्नसुषुप्त्यादिविशेषसर्वप्रपञ्चविवर्जित- मत एवाजरं जरावर्जितममृतं मृत्युवर्जितमत एव यस्माजराविक्रियार- हितमतोऽभयम् । यस्मादेवाभयं तस्मात्परं निरतिशयम् । तदप्योंकारे- णाऽऽयतनेन गमनसाधनेनान्वेतीत्यर्थः । इतिशब्दो वाक्यपरिसमा. प्त्यर्थः ॥७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदोविन्दभगवत्पूज्यपादशिष्य- श्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्ये पञ्चमः प्रश्नः॥५॥ अपरब्रह्मप्राप्त्यर्थ य ओंकारः प्रयुक्तस्तेनैव न पृथक्प्रयुक्तः परमपि प्राप्नोति ब्रह्मलोक उत्पन्ननिर्विशेषब्रह्मसाक्षात्कारेणोक्तस्योंकारस्य क्रममुक्तिफलत्वादित्याह-तेनैवेति । येना- परमन्वति तेनैव परमप्यन्वेतीत्येवकारार्थ इत्यर्थः । तदप्योंकारेणेत्यायतनविशेषणार्थ पुनरों- कारग्रहणमिति न पुनरुक्तिरिति बोध्यम् ॥ ७ ॥ इति श्रीमदानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां पञ्चमः प्रश्नः ॥ ५ ॥ am * एतदने स इति पदं क्वचिन्मूलेऽधिकं तच्च भाष्ये दीपिकायां च नोपलभ्यते १ क. तत्तत्सूक्ष्मलक्ष । २ क. च. °यादिर।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [६ प्रश्नः । अथ षष्ठः प्रश्नः। . . अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । अथ हैनं सुकेशा भारद्वाजः पप्रच्छ, समस्तं जगत्कार्यकारणलक्षणे सह विज्ञानात्मना परस्मिन्नक्षरे सुषुप्तिकाले संप्रतिष्ठि(ठ)त इत्युक्तम् । सामर्थ्यात्प्रलयेऽपि तस्मिन्नेवाक्षरे संप्रतिष्ठते जगत्तत एवोत्पद्यत इति सिद्धं भवति न ह्यकारणे कार्यस्य संप्रतिष्ठानमुपपद्यते । उक्तं च- आत्मन एष प्राणो जायते " इति । जगतश्च यन्मूलं तत्परिज्ञानात्पर श्रेय इति सर्वोपनिषदां निश्चितोऽर्थः । अनन्तरं चोक्तं स सर्वज्ञः सर्वो भवतीति । वक्तव्यं च क्व तर्हि तदक्षरं सत्यं पुरुषाख्यं विज्ञेयमिति । तदर्थोऽयं प्रश्न आरभ्यते । वृत्तान्वाख्यानं च विज्ञानस्य दुर्लभत्वख्याप- नेन तल्लब्ध्यर्थं मुमुक्षूणां यत्नविशेषीपादानार्थम् । गताः कलाः पञ्चदश प्रतिष्ठाः कर्माणि विज्ञानमयश्चेति मन्त्रे कर्मभिः सह षोडश- कलानां परस्मिल्लयमुक्त्वा यथा नद्यः स्यन्दमाना इति मन्त्रेण दृष्टान्तोक्तिद्वारा परप्राप्ति- रुक्ता तन्मन्त्रयोर्विस्तराभिधानार्थ षष्ठं प्रश्नमारभते-अथ हैनमिति । तस्य पूर्वेण संगतिमुक्तार्थानुवादपूर्वकमाह-समस्तमित्यादिना । अक्षरस्य कारणत्वसिद्धयर्थ प्रलयेऽपि तस्मिन्नेव लयमाह-सामर्थ्यादिति । ल्याधारत्वेन कारणत्वमाह-तत इति । तदुक्तेः प्रयोजनमाह-जगत इति । यद्यप्यद्वितीयात्मज्ञानान्मुक्तिर्न कारण- ज्ञानात्तथाऽपि तस्य कारणत्वे तव्यतिरेकेण कार्याभावात्तदद्वितीयत्वज्ञानं सिद्धयतीति तादृशात्मज्ञानात्परं श्रेय इति । आत्मा वा इदमेक एव । स एतमेव पुरुषं ब्रह्म ततममप- श्यत् । प्रज्ञानं ब्रह्म । स एतेन प्रज्ञेनाऽऽत्मनाऽमृतः समभवत् । सदेवैकमेवाद्वितीयमित्युप- क्रम्याऽऽचार्यवान्पुरुषो वेद, अथ संपत्स्ये, तमेवै जानथ । अमृतस्यैष सेतुः, अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवदित्यादिषु निश्चितमित्यर्थः । इहापि तागात्मज्ञानादेव सर्वात्मभावः श्रेय उक्त इत्याह–अनन्तरमिति । वृत्तमनूद्य वर्तिप्यमाणमाह--- वक्तव्यमिति । तदर्थोऽयमिति । तस्य शरीरान्तस्थत्वोक्तिद्वारा तस्य प्रत्यगात्म- त्वज्ञानार्थमित्यर्थः । भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपे- १ ख. ग. घ. छ. 'त्तान्तब्याख्या। च.°त्तान्तान्वाख्या । २ क. म. च. षोत्पादना। ३ ख. ना. घ. इ. णत्वार्थम् । त। '.

[६ अनः] प्रश्नोपनिषत् । ५५ त्यैत* प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुष वेत्थ तमहं कुमारमब्रुवं नाहमिमं वेद यद्यहमि- ममवेदिषं कथं ते नावक्ष्यमिति समू+लो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हा- म्यनृतं वक्तुं स तूष्णीं रथमारुह्य प्रवबाज । तं त्या पृच्छामि कासौ पुरुष इति ॥ १ ॥ हे भगवन्हिरण्यनाभो नामतः कोसलायां भवः कौसल्यो राजपुत्री जातितः क्षत्रियो मामुपेत्योपगम्यैतमुच्यमानं प्रश्नमपृच्छत । षोडशकलं षोडशसंख्याकाः कला अवयवा इवाऽऽत्मन्यविद्याध्यारोपितरूपा यस्मि- न्पुरुषे सोऽयं षोडशकलस्तं षोडशकलं हे भारद्वाज पुरुषं वेत्थ विजा- नासि । तमहं राजपुत्रं कुमारं पृष्टवन्तमब्रुवमुक्तवानस्मि नाहमिमं वेद यं त्वं पृच्छसीति। एवमुक्तवत्यपि मय्यज्ञानमसंभावयन्तं तमज्ञाने कारण- मवादिषम् । यदि कथंचिदहमिमं त्वया पृष्टं पुरुषमवेदिषं विदित वा- नस्मि कथमत्यन्तशिष्यगुणवतेऽथिने ते तुभ्यं नावक्ष्यं नोक्तवानस्मि न ब्रूयामित्यर्थः । भूयोऽप्यप्रत्ययमिवाऽऽलक्ष्य प्रत्याययितुमब्रुवम् । समूलः सह मूलेन वा एषोऽन्यथा सन्तमात्मानमन्यथा कुर्वन्ननृतमयथाभूतार्थ- मभिवदति यः स परिशुध्यति शोषमुपैतीहलोकपरलोकाभ्यां विच्छिद्यते विनश्यति । यत एवं जाने तस्मान्नाम्यिहमनृतं वक्तुं मूढवत् । स राज- पुत्र एवं प्रत्यायितस्तूष्णीं वीडितो रथमारुह्य प्रवद्वाज प्रगतवान्यथाग- तमेव । अतो न्यायत उपसन्नाय योग्याय जानता विद्या वक्तव्यैवानृतं च न वक्तव्यं सर्वास्वप्यवस्थास्वित्येतत्सिद्धं भवति । तं पुरुषं त्वा त्वां पृच्छामि मम हृदि विज्ञेयत्वेन शल्यमिव में हृदि स्थितं वासौ वर्तते विज्ञेयः पुरुष इति ॥१॥ । प्रश्नमिति । प्रष्टव्यमित्यर्थः । अज्ञाने कारणमिति । अज्ञानसंभावनायां कारण- मित्यर्थः । अप्रत्ययमिति । अविश्वासमित्यर्थः । अन्यथा सन्तमिति । ज्ञानिनं सन्तमन्यथा कुर्वन्नज्ञानिनं कुर्वन्नारोपयन्नित्यर्थः । कथं ते नावक्ष्यमित्यनेन सूचितमर्थ- माह-अत इति । समूलो वा इत्यनेन सूचितमाह-अनृतं चेति । स्वरूपेण शल्य. -- * कचिन्मूल एनमिति पाठः + कचिन्मूले ह वा इति पाठः ।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ६ प्रश्नः ] स्वाभावादाह-विज्ञेयत्वेनेति । यावजिज्ञासितं न ज्ञायते तावत्तद्धृदि शल्यवद्भासत इति शल्यमिवेत्युक्तम् ॥ १ ॥ तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ॥ २॥ तस्मै स होवाच । इहैवान्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सोम्य स पुरुषो न देशान्तरे विज्ञेयो यस्मिन्नेता उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्त्युत्पद्यन्त इति षोडशकलाभिरुपाधिभूताभिः सकल इव निष्कलः पुरुषो लक्ष्यतेऽविद्ययेति तदुपाधिकलाध्यारोपापर्नेयेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते । प्राणादीनामत्यन्तनिर्विशेषे ह्यद्वये शुद्ध तत्त्वे न शक्योऽध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति कलानां प्रभवस्थित्यच्यया आरोप्यन्तेऽविद्याविषयाश्चैतन्याव्यतिरेकेणैव हि कला जायमानास्ति- छन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते । अत एव भ्रान्ताः केचिदग्नि- संयोगाद्धृतमिव घटायाकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यतीति । तन्निरोधे शून्यमिव सर्वमित्यपरे । घटादिविषयं चैतन्यं चेतयितुर्नित्य- स्याऽऽत्मनोऽनित्यं जायते विनश्यतीत्यपरे । चैतन्यं भूतधर्म इति लोका- यतिकाः। पुरुषस्य षोडशकलत्वं न साक्षात्सावयवत्वेन किंतु कलाजनकत्वेन तदुपाधिमत्त्वादिति वक्तुं यस्मिन्नेता इति वाक्यमिति तत्तात्पर्यमाह-षोडशकलाभिरिति । ननु केवल आत्मा प्रदर्श्यतां किं वक्ष्यमाणकलोक्त्येत्यत आह—तदुपाधीति । तथैव स प्रदर्शनीय इत्यत्र हेतुमाह-अत्यन्तेति । अविद्याविषया इति । अविद्याधीना इत्यर्थः । कालत्रयेऽपि तासां चैतन्यरूपाधिष्ठानाव्यतिरेकाद्रज्जुसर्पवन्मृषात्वमित्यविद्याविषयत्वं साध- यति-चैतन्येति । चैतन्याव्यतिरेकेण लक्ष्यमाणत्वं हेतुं विज्ञानवादिभ्रान्त्या दृढी करोति-अत एवेति । घृतं यथाऽग्निसंयोगामुवावस्थां प्रतिपद्यत एवमहमाकारमालय. विज्ञानमेव वासनावशाद्विषयाकारेण जायत इति वदतां तेषां भ्रमो विषयस्य चैतन्याव्यति- रेके प्रत्ययं गमयति, अन्यथा तथाभ्रमानुपपत्तेरित्यर्थः । विषयाणां चैतन्याव्यतिरेकेण प्रती- तिनियमादेव विषयविज्ञानरूपेण चैतन्याभावे केषांचिदिति तदी- यभ्रान्त्याऽपि चैतन्याव्यतिरिक्तप्रतीतिं दृढी करोति-तन्निरोध इति । चैतन्यस्यानि- त्यस्य कलारोपाधिष्ठानत्वं न संभवति कलाकार्यत्वादिति नैयायिकपक्षोक्तिव्याजेन सुषुप्त्यादौ शून्यभ्रमो जातः ma १ क. च. धिरूपाभिः । २ क, च. नयनेन ।

, [६ प्रभः] प्रश्नोपनिषत् । ५७ शङ्कते-घटादीति । भूतधर्म इति । देहाकारेण संहतभूतधर्म इत्यर्थः । अनपायोपजनधर्मकचैतन्यमात्मैव नामरूपाद्युपाधिधर्मः प्रत्यवभासते। सत्यं ज्ञानमनन्तं ब्रह्म । प्रज्ञानं ब्रह्म विज्ञानमानन्दं ब्रह्म । विज्ञानघन एवेत्यादिश्रुतिभ्यः । स्वरूपव्यभिचारिषु पदार्थेषु चैतन्यस्याव्यभिचारा- यथा यथा यो यः पदार्थो विज्ञायते तथा तथा ज्ञायमानत्वादेव सस्य तस्य चैतन्यस्याव्यभिचारित्वं वस्तुतत्त्वं भवति, किंचिन्न ज्ञायत इति चानुपपन्नम्। चैतन्यस्याऽऽरोपाधिष्ठानत्वसिद्धयर्थ नित्यत्वमेकत्वं च वदस्तान्निराकरोति-अनपा- येति । प्रत्यवभासत इति । नानात्वेन कार्यत्वेन चेति शेषः । सत्यं ज्ञानमिति । सथा च श्रुतिविरोधात्ते पक्षा हैया इत्यर्थः । किंच ज्ञानकाले विषयाणां सद्भावनियमामा. वाद्विषयकाले च ज्ञानस्य सद्भावनियमात्तयो द इति विज्ञानवादिपक्षं निराकुर्वन्नव्यभिचारा- देव ज्ञानस्य नित्यत्वं साधयन्नैयायिकादिपक्षमपि निराकरोति-स्वरूपेति । घटज्ञान. काले घटाभावसंभवाद्विषयाणां ज्ञानव्यभिचारित्वं ज्ञानस्य तु विषयकालेऽवश्यंभावनियमाद. व्यभिचारित्वमित्यर्थः । पटकाले घटज्ञानमपि नास्तीति घटज्ञानस्यापि पटविषयव्यभिचारित्वं तुल्यमित्याशङ्कय स्वरूपेत्युक्तम् । ज्ञानस्य विषयविशिष्टत्वरूपेणैव व्यभिचारः । विषयस्य तु स्वरूपेणैवेति विशेष इत्यर्थः । ज्ञानस्याव्यभिचारित्वमुपपादयति-यथा यथेति । ननूस्पन्नविनष्टादेमेंरुगुहान्तर्वर्तिनश्वाज्ञायमानत्वाज्ज्ञानस्यापि ज्ञेयाव्यभिचारोऽसिद्ध इत्या- शङ्कय तस्याज्ञाने तत्सद्भावासिद्धेस्तथाभूतपदार्थोऽसिद्ध इत्याह-वस्तुतत्त्वेति । रूपं च दृश्यते न चास्ति चक्षुरिति यथा । व्यभिचरति तु ज्ञेयं ज्ञानं न व्यभिचरति कदाचिदपि ज्ञेयम् । ज्ञेयाभावेऽपि ज्ञेयान्तरे मावाज्ज्ञा- नस्य । न हि ज्ञानेऽसति ज्ञेयं नाम भवति कस्यचित् । सुषुप्तेऽदर्शनाज्ज्ञा. नस्यापि सुषुप्तेऽभावाज्ज्ञेयवज्ज्ञानस्वरूपस्य व्यभिचार इति चेन्न । ज्ञेयावभासकस्य ज्ञानस्वाऽऽलोकवज्ज्ञेयाभिव्यञ्जकत्वात्स्वव्यङ्गयाभाव आलोकाभावानुपपत्तिवत्सुषुप्ते विज्ञानाभावानुपपत्तेः । अनुपपत्तिमेव दृष्टान्तेन स्फुटी करोति-रूपं चेति । ज्ञेयस्य ज्ञानव्यभिचारित्वं ज्ञानकाले सत्त्वनियमाभावरूपं स्पष्टमित्याह-व्यभिचरति विति । घटज्ञानकाले कदाचिद्धटाभावादित्यर्थः । पटकाले घटज्ञानस्यापि व्यभिचारस्तुल्य इत्याशङ्कय विशिष्ट- १ क. च. ज्ञानमानन्दं ब्र। २ ख. ङ. तस्या । ३ क. च. "स्तु च भ । ४ क. च. दस्तन्नि । ५ क. च. °स्तु चेति । ६ क. च. तिवत् । व्य ।

५८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [६ प्रश्नः ] रूपेण व्यभिचारेऽपि स्वरूपेणाव्यभिचारं पूर्ववत्सूचितमाह-न व्यभिचरतीति । ज्ञानमित्यस्येहाप्यनुषङ्गः । पूर्ववाक्ये द्वितीयान्तमिह तु प्रथमान्तमिति विशेषः । भावा- दिति । स्वरूपेणेत्यर्थः । ज्ञानस्य स्वरूपेण सत्तामेव ज्ञेयान्तरस्य ज्ञेयत्वादेव साधयति- न हीति । स्वरूपेणाप्यभावं शङ्कते-सुषुप्त इति । किं तदानीं ज्ञेयाभावेन ज्ञानाभावः साध्यत उत ज्ञानस्यादर्शनाद्वाऽऽद्येऽपि ज्ञेयस्य व्यङ्गयत्वात्तदभावाध्यञ्जकाभाव इति वोत तयोरैक्यादेकाभाव इतराभाव इति । नाऽऽद्यो व्यभिचारादित्याह-न ज्ञेयेति । न ह्यन्धकारे चक्षुषा रूपानुपलब्धी चक्षुषोऽभावः शक्यः कल्पयितुं वैनाशिकेन । वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति चेद्येन तदभावं कल्पयेत्तस्याभावः केन कल्प्यत इति वक्तव्यं वैनाशिकेन । व्यङ्ग्यज्ञा सानैककैल्पस्य व्यङ्ग्याभावेऽभाव उच्यत आलोकस्य प्रत्यक्षसिद्धत्वान्नैवमिति ज्ञानानुमेयत्ववादिनं प्रति दृष्टान्तान्तरमाह--न हीति । वैनाशिकमते विज्ञानव्यतिरि- क्वालोकाद्यभावान्न तत्र व्यभिचार इति शङ्कते—वैनाशिक इति । कल्पयत्येवेति । उक्तव्यभिचारस्थलाभावेन व्यभिचाराभावादित्यर्थः । एवमपि ज्ञानाभावकल्पकस्य ज्ञेयाभा- वस्य ज्ञानमङ्गी क्रियते न वा । आये न ज्ञानाभावसिद्धिस्तस्यैवाभावज्ञानस्य सत्त्वादि- त्याह-येनेति । येन ज्ञेयाभावज्ञानेन तदभावं ज्ञानाभावं कल्पयेत्तस्य ज्ञानस्याभावः केन कल्प्यते न केनापि कल्पयितुं शक्य इत्यर्थः । तदभावस्यापि ज्ञेयत्वाज्ज्ञानाभावे तदनुपपत्तेः । ज्ञानस्य ज्ञेयाव्यति- रिक्तत्वाज्ज्ञेयाभावे ज्ञानाभाव इति चेन्न । अमावस्यापि ज्ञेयत्वाभ्युपग- मादभावोऽपि ज्ञेयोऽभ्युपगम्यते वैनाशिकैनित्यश्च तदव्यतिरिक्तं चेज्ज्ञानं नित्यं कल्पितं स्यात्तदभावस्य च ज्ञानात्मकत्वादभावत्वं वाङ्मात्रमेव न परमार्थतोऽभावत्वमनित्यत्वं च ज्ञानस्य । न च नित्यस्य ज्ञानस्याभाव- नाममात्राध्यारोपे किंचिन्नश्छिन्नम् । न द्वितीय इत्याह—तदभावस्यापीति । ज्ञेयाभावस्याप्यज्ञातस्य ज्ञानाभावकल्प. कत्वासंभवादवश्यं ज्ञेयत्वात्तज्ज्ञानाभावे कल्पनानुपपत्तेर्ज्ञानानङ्गीकारपक्षो न युक्त इत्यर्थः । आद्यकोटौ द्वितीयकल्पं शङ्कते-ज्ञेयेति । वैनाशिकमतेऽप्यभावस्य ज्ञेयत्वाभ्यु- पगमाद्बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं च तदिति प्रतिसंख्याँऽप्रतिसंख्या(?)निरोध/- काशरूपत्रयव्यतिरिक्तस्यैव क्षणिकत्वेन निरोधशब्दितस्याभावस्य नित्यत्वाङ्गीकारेण तद- तदनुपपत्तेः - mamim १ क. ख. ड. च. 'यितुमवे'। २ ग. च. कल्प्यस्य । ३ क. च. ख्यानि । ४ क. धादाका तु ६० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[६ प्रश्नः ] विज्ञानसंततेनित्यत्वाङ्गीकारेण त्वया तदाऽपि तदभावो वक्तुं न शक्यत इत्याह-न सुषुप्त इति । अस्तित्वमिति । तथाच ज्ञानस्यादर्शनमसिद्धं सुषुप्तेऽपि तदङ्गीकारा. दित्यर्थः । ननु ज्ञेयाभावेन तन्निरूप्यस्य ज्ञानस्यादर्शनमित्युच्यते मया सुषुप्ते च स्वस्यैव स्वज्ञेयत्वाज्ज्ञानदर्शनमुपपद्यतेऽस्मन्मते । त्वन्मते तु स्वज्ञेयत्वानङ्गीकारात्सुषुप्ते चान्यस्याभा- वान्निरूपकाभावान्न ज्ञानदर्शनास्तित्वमुपपद्यत इति शङ्कते-तत्रापीति । अभावस्थले ज्ञानज्ञेययोर्भेदस्य साधितत्वात्तदृष्टान्तेन सर्वत्र ज्ञानज्ञेययोर्भेदसाधनान्न स्वज्ञेयत्वं ज्ञानस्ये- त्याह-न भेदस्यति । अभावरूपो [विज्ञेयो विषयो यस्य तस्य ज्ञानस्याभावरूपो यो ज्ञेयस्तव्यतिरेकादित्यर्थः । न हि तत्सिद्धं मृतमिवोज्जीवयितुं पुनरन्यथा कतुं शक्यते वैनाशिक शतैरपि ज्ञानस्य ज्ञेयत्वमेवेति । तदप्यन्येन तदप्यन्येनेति त्वत्पक्षेऽतिप्रसङ्ग इति चेन्न । तद्विभागोपपत्ते: सर्वस्य । यदा हि सर्वं ज्ञेयं कस्यचित्तदा तद्यतिरिक्तं ज्ञानं ज्ञानमेवेति द्वितीयो विभाग एवाभ्युपगम्यतेऽवैनाशि- कैर्न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः । अभावस्थले भेदेऽपि न सर्वत्रेत्याशङ्कय न्यायस्य तुल्यत्वान्न तदन्यथा कर्तुं शक्यमि. त्याह-न हीति । ज्ञानस्य स्वव्यतिरिक्तज्ञेयत्वनियमपक्षेऽनवस्थां वैनाशिकः शङ्कते- ज्ञानस्यति । ज्ञेयस्य स्वव्यतिरिक्तज्ञेयत्वनियमाङ्गीकारादुस्मन्मते च ज्ञानस्य ज्ञेयत्वान: झीकारान्न दोष इत्याह-न तदिति । सर्वस्य वस्तुजातस्य विभागोऽसंकरो ज्ञानं ज्ञान: मेव न ज्ञेयं ज्ञेयमपि ज्ञेयमेव न कदाचिदपि ज्ञानमित्येवंरूपस्तस्योपपत्तेरित्यर्थः । अथवा द्विसागोपपत्तेरिति च्छेदः । ज्ञानज्ञेयरूपभागद्वयमेव राशिद्वयमेवाङ्गी क्रियते न तृतीयो ज्ञानविषयकज्ञानरूपो भावराशिरङ्गी क्रियत इत्यर्थः । ता(त)मेवाऽऽह-यदा हीति । यस्मिन्मक्षे ज्ञेयं सर्व स्वव्यतिरिक्तस्य कस्यचिज्ज्ञानस्य ज्ञेयमित्यङ्गी क्रियत इति ज्ञेयपदा- वृत्त्या स्वव्यतिरिक्तस्येतिपदाध्याहारेण च यदा हीति वाक्यं योज्यम् । अवैनाशिकैरिति च्छेदः । तद्विषय इति । ज्ञानविषयकज्ञानात्मक इत्यर्थः । ज्ञानस्य स्वेनैवाविज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत्सोऽपि दोषस्तस्यै- वास्तु किं तन्निबर्हणेनास्माकमनवस्थादोषश्च ज्ञानस्य ज्ञेयत्वाभ्युपगमा- वश्यं च वैनाशिकानां ज्ञानं ज्ञेयम् । तर्हि त(त्व)त्पक्षे ज्ञानात्मकस्य ब्रह्मणः सर्वज्ञत्वं न स्यात्स्वेन स्वस्याज्ञानादिति शङ्कते- ज्ञानस्येति । ज्ञातुं योग्यस्य सर्वस्याज्ञाने हि सर्वज्ञत्वहानिः, अन्यथा शशविषाणादेरज्ञा- नात्सर्वज्ञत्वं कस्यापि मते न स्यादतो नास्मन्मते तस्य दोषस्य प्राप्तिः किंतु वैनाशिकस्यैव, तेन ज्ञानस्यावश्यज्ञेयत्वाङ्गीकारात्स्वेन स्वस्य ज्ञेयत्वस्य सिद्धं हीति पूर्वग्रन्थे १ क. च. नमप्युप। -- Wwitw-...

[६ प्रभः] प्रश्नोपनिषत् । न दूषितत्वादन्यज्ञेयत्वस्य चानङ्गीकारात्सर्वज्ञत्वायोगादित्याह—सोऽपीति । तर्हि तव मते कथं सर्वज्ञत्वनिर्वाह इत्याशङ्कयास्मन्मते तस्य मायिकत्वेन तदनिर्वाहेऽपि न दोष इत्याह- किं तदिति । वस्तुतस्तु *सर्वस्य व्यवहारहेतुज्ञानवत्त्वं सर्वज्ञत्वं तत्तु ज्ञानस्यापि स्वप्र- काशत्वेन स्वव्यवहारहेतुत्वादस्ति ज्ञातुं योग्यं सर्वज्ञानाद्वा तदस्तीति भावः । पूर्वोक्तानव- स्थादोषोऽपि तस्यैवेत्याह-अनवस्थेति । स्वात्मना चाविज्ञेयत्वेनानवस्थाऽनिवार्या । समान एवायं दोष इति चेन्न । ज्ञानस्यैकत्वोपपत्तेः । सर्वदेशकालपुरुषाद्यवस्थमेकमेव ज्ञानं नामरूपायनेकोपाधिभेदात्सवित्रादिजलादिप्रतिबिम्बवदनेकधाऽवमास- त इति । नासौ दोषः । तथा चेहेदमुच्यते । । ननु तेन स्वेनैव ज्ञेयत्वाङ्गीकारान्नानवस्थेत्यत आह-स्वात्मना चेति । सिद्धं हीत्यत्र स्वज्ञेयत्वासंभवस्योक्तत्वात्परिशेषादन्यज्ञेयत्वे तस्य तस्याप्येवमित्यनवस्थाऽनिवार्येत्यर्थः । ज्ञानस्याज्ञेयत्वे तद्व्यवहारासिद्धिर्ज्ञानान्तरज्ञेयत्वे चानवस्था तवापि स्यादिति शङ्कते-समान एवेति । स्वप्रकाशत्वेन स्वव्यवहारसिद्धर्ज्ञानभेदस्यैवास्माभिरनङ्गीकारादनवस्थायाः प्रसक्ति- रेव नास्तीति परिहरति-न ज्ञानस्येति । एकत्वपक्षे भेदप्रतीतिमुपपादयति-नाम- पेति । एवं च चैतन्यस्यैकत्वेन नित्यत्वाज़्जगद्भिन्नत्वेन तस्य सत्यत्वाच्चाधिष्ठानत्वोपपत्ते. स्तस्मिन्कलानामध्यारोप आत्मप्रतिपत्त्यर्थमिहोच्यत इत्याह-तथा चेहेति । चैतन्यस्य नित्यत्वेनाधिष्ठानस्वे सतीह श्रुताविदं कलानामध्यारोपणमुच्यत इत्यर्थः । ननु श्रुतेरिहैवान्तःशरीरे परिच्छिन्नः कुण्डबदरवत्पुरुष इति, न । प्राणादिकलाकारणत्वात् । न हि शरीरमात्रपरिच्छिन्नस्य प्राणश्रद्धा- दीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् । कलाकार्यत्वाञ्च शरीरस्य । न हि पुरुषकार्याणां कलानां कार्यं सच्छरीरं कारणकारणं स्वस्य पुरुष कुण्डबदरमिवाभ्यन्तरी कुर्यात, बीजवृक्षादिवत्स्यादिति चेत् । ननु चैतन्यस्य न नित्यत्वं परिच्छेदश्रुतेः परिच्छिन्नस्य च घटादिवदनित्यत्वादिति शङ्कते-नन्विति । शरीरान्तःस्थत्वं प्रत्यक्त्वविवक्षयोच्यते न परिच्छेदविवक्षया तथा सत्युत्तरवाक्यविरोधादित्याह-नेति । अयोग्यत्वादपि सोऽर्थो न विवक्षित इत्याह-- कलेति । स्वोत्पत्तेः पूर्व स्वस्याभावात्तत्कालीनपुरुषं - परिच्छेत्तुं न शक्नोतीत्यर्थः । बीज- कार्यस्य वृक्षस्य कार्य फलं स्वकारणवृक्षकारणं बीजमभ्यन्तरी करोतीति दृष्टमिति नायो. ग्यत्वमिति शङ्कते-बीजवृक्षादिवदिति । * सर्वज्ञस्य व्यवहारहेतुर्सानत्वमिति क्वचित्पाठः । सर्वव्यवहारहेतुत्वमित्येव तु पठित योग्यम् ।

६२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रश्नः ] यथा बीजकार्य वृक्षस्तत्कार्यं च फलं स्वकारणकारणं बीजमभ्यन्तरी करोत्याम्रादि तद्वत्पुरुषमभ्यन्तरी कुर्याच्छरीरं स्वकारणकारणमपीति चेन्न । अन्यत्वात्सावयवत्वाञ्च । दृष्टान्ते कारणवीजावृक्षफलसंवृत्तान्य- न्यान्येव बीजानि दार्शन्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरीरेऽभ्यन्तरीकृतः श्रूयते । तद्विवृणोति-यथेति । दृष्टान्ते बीजव्यक्तिभेदादविरोधेऽपीह पुरुषव्यक्त्यैक्या- स्कारणत्वाभ्यन्तरीभावयोर्विरोध इत्याह-नेति । ननु कारणीभूतबीजस्यैव वृक्षफलत- दन्तर्गतबीजरूपेण परिणामात्तयोः कारणकार्यबीजयोरैक्यमाशङ्कथैवमपि तस्य सावयवत्वाद- क्षवस्फलाकारेण परिणतावयवेभ्यो भिन्नावयवानामेव तदन्तर्गतबीजरूपेण परिणामात्तयोमेंदे- नाऽऽधाराधेयभावः स्यादिह तु निरवयवत्वान्न तथात्वमित्याह-सावयवत्वाञ्चेति । आद्यं हेतुं विवृणोति-दृष्टान्त इति । श्रूयत इति । यस्मिन्नेताः षोडश कला इति यच्छब्दोक्तस्यैव पुरुषस्यान्तःशरीरे सोम्य स पुरुष इति तच्छब्देनाभिधानादित्यर्थः । बीजवृक्षादीनां सावयवत्वाच्च स्यादाधाराधेयत्वं निरवयवश्च पुरुषः सावयवाश्च कलाः शरीरं च, एतेनाऽऽकाशस्यापि शरीराधारत्वमनुपपन्नं किमुताऽऽकाशकारणस्य पुरुषस्य तस्मादसमानो दृष्टान्तः । किं दृष्टा. न्तेन वचनात्स्यादिति चेन्न । वचनस्याकारकत्वात् । न हि वचनं वस्तु- तोऽन्यथाकरणे व्याप्रियते । किं तर्हि यथामूतार्थावद्योतने । तस्माद- न्तःशरीर इत्येतद्वचनमण्डस्यान्तव्योमेतिवञ्च द्रष्टव्यम् । उपलब्धिनि- मित्तत्वाच्च दर्शनश्रवणमननविज्ञानादिलिङ्गैरन्तःशरीरे परिच्छिन्न इव ह्युपलभ्यते पुरुष उपलभ्यते चात उच्यतेऽन्तःशरीरे सोम्य स पुरुष इति । न पुनराकाशकारणः सन्कुण्डबदरवच्छरीरपरिच्छिन्न इति मन- साऽपीच्छति वक्तुं मूढोऽपि किमुत प्रमाणभूता श्रुतिः ॥२॥ . . १ Mam द्वितीयं हेतुं विवृणोति-बीजेति । निरवयवश्चेति । तथा चैकदेशेन कलादि- रूपेण परिणाम एकदेशेन तत्रावस्थानं बीजवन्न संभवतीत्यर्थः । किंच कलानां सावय- वत्वेन परिच्छेदात्पुरुषस्य तद्विपरीतत्वादपरिच्छिन्नस्य न परिच्छिन्नाधारकत्वं संभवती- त्याह-सावयवाश्चेति । यद्वा सावयवत्वेन कार्यतया मृषात्वान्निरवयवतया पर- मार्थसत्यपुरुषाधारत्वं नोपपद्यत इत्याह-सावयवाश्चेति । नन्वाकाशकार्यशरीर आकाशस्यापरिच्छिन्नस्याभ्यन्तरीभावो दृष्ट इत्याशङ्कय तस्यापि शरीराकारेणावस्था- १ ख. घ, ङ. व्याक्रिय । २ कः च, ते चा ।

. [६ प्रश्नः ] प्रश्नोपनिषत् । ६३ । नमेव च्छिद्रादिविशिष्टस्यैव शरीरत्वान्न तु तदन्तःस्थत्वमित्याह-एतेनेति । युक्त्यसह- मपि वचनप्रामाण्यादङ्गीकार्यमिति शङ्कते---किं दृष्टान्तेनेति । वचनस्यापि वस्तुनोऽन्य- थाकरणे सामर्थ्याभावाद्वस्तुस्वरूपाविरोधेनैव बोधकत्वादन्यथा विचारवैयाद्विरुद्धार्थों न बोधार्ह इत्याह-वचनस्येति । तद्दन्तःशरीर इति श्रुतेः कथमुपपत्तिरित्याशङ्कय पुरु- षस्य शरीरोपादानत्वेन तदनुस्यूतस्य तदन्तर्गतवत्प्रतीतेस्तदमिप्रायेयं श्रुतिरिति सदृष्टान्तमाह- तस्मादिति । अण्डेति । अण्डकारणस्य व्योम्नो यथा तदनुस्यूतत्वेन तदन्तर्गतत्वप्रती- तिस्तद्वदित्यर्थः । यद्वा लोकभ्रमसिद्धं परिच्छिन्नत्वमनूद्यते श्रुत्येत्याह-उपलब्धीति । तत्राभिव्यक्तेर्वा तदन्तर्गतत्वव्यपदेश इत्याह-उपलभ्यते चेति ॥ २ ॥ यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तं पुरुषविशेषणार्थं कलानां प्रभवः स चान्यार्थोऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते- स ईक्षांचके । कस्मिन्नहमुत्कान्त उत्क्रान्तो अवि- ष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥३॥ चेतनपूर्विका च सृष्टिरित्येवमर्थं च पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन स ईक्षांचक ईक्षणं दर्शनं चक्रे कृतवानित्यर्थः । सृष्टिफलक- मादिविषयम् । कथमित्युच्यते, कस्मिन्कर्तृविशेषे देहादुत्कान्त उत्क्रान्तो भविष्याम्यहमेव (वं) कस्मिन्वा शरीरे प्रतिष्ठितेऽहं प्रतिष्ठास्यामि प्रति- ठितः स्यामित्यर्थः। ननु यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्यनेनाध्यारोपस्योक्तत्वात्स ईक्षामित्यादिना पुनः सृष्टिकथनमधिकमित्यत आह-यस्मिन्निति । अत इति । क्रमप्रतिपत्त्यर्थं स ईक्षामि- त्याधुच्यत इत्यर्थः । तत्प्रतिपत्तिश्च कलोत्पत्तिप्रतिपत्तिसौकर्यार्थ विपर्ययेण तु क्रमोऽत उप- पद्यते चेति न्यायेन कार्यस्य स्वस्वकारणक्रमेणापवादसौकर्यार्थ चेत्यर्थः । ईक्षणोक्तेः प्रयोज- नमाह-चेतनेति । सृष्टीति । सृष्टिः प्राणादेः सृष्टिः, तस्या उत्क्रान्त्यादि फलं, क्रमः प्राणाच्छ्रद्धामित्याधुक्तानन्तर्यम् । आदिशब्देन लोकेषु नाम चेत्याधाराधेयविशेषो गृह्यते। मन्वात्माऽकर्ता प्रधानं कर्तृ, अतः पुरुषार्थं प्रयोजनमुररीकृत्य प्रधान प्रवर्तते महदाद्याकारेण तत्रेदमनुपपन्नं पुरुषस्य स्वातन्त्र्येणेक्षापूर्वकं कर्तृत्ववचनं सत्त्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्तरि सतीश्व- रेच्छानुवर्तिषु वा परमाणुषु सत्स्वात्मनोऽप्येकत्वेन कर्तृत्वे साधनाभा- १ क, ख. ग. च. 'स्मिन्न्वह।

६४ आनन्दगिरिकृतटीकासंवलित करमाध्यसमैता--[ ई प्रश्नः ) वादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च । न हि चेतनावान्बुद्धिपूर्वका- र्यात्मनोऽनर्थं कुर्यात् । नन्वीक्षणोक्त्या न चेतनपूर्वकस्वसिद्धिायेन चेतनस्याकर्तृत्वेनाहेतुत्वेऽचेतनस्य प्रधा- नादेविक्रियावत्त्वेन हेतुत्वे च सतीक्षणस्यान्यथा नेयत्वादिति सांख्याः शङ्कन्ते-नन्वा- स्मेति । अकर्तेत्यस्य तत्रेदमित्यनेनान्वयः । आत्माऽकर्ता तत्र तथा सतीदं कर्तृत्ववचनम- नुपपन्नमित्यर्थः । किंच तस्य कर्तृत्वाङ्गीकारेऽपि कर्तुः कुलालादेरिव सहकारिसाधनान्तराभा- वादात्मनो दुःखाद्यनर्थहेतुप्राणादिसंसारकर्तृत्वानुपपत्तेश्चानुपपन्नं स्रष्टुत्ववचनमित्याह-आत्म- नोऽपीति । कर्तृत्वेऽपीत्यपिशब्दान्वयः । तर्हि किं कर्जत आह–प्रधानमिति । कत्रिति । क्रियाशक्तिमदतः प्रवर्तत इत्यन्वयः । ननु प्रधानस्याचेतनस्य प्रयोजनापेक्षा- भावात्प्रवृत्त्यनुपपत्तिरित्यत आह–पुरुषार्थमिति । पुरुषस्य चेतनस्य भोगापवर्गरूपमर्थ प्रयोजनमुद्दिश्य प्रवर्तते वत्सविवृद्धयर्थमचेतनस्य धेनुदेहगतक्षीरस्य सस्यादिविवृद्धयर्थमम्बु- नश्चाचेतनस्य प्रवृत्तिदर्शनादित्यर्थः । ननु प्रधानस्याप्येकत्वेन सहकार्यभावात्कारणत्वानुपप- त्तावगत्या चेतनस्यैव कथंचित्कर्तृत्वं वाच्यमित्यत आह–सत्त्वादीति । सत्त्वादिगुणत्र- यस्य साम्यावस्था प्रधानमिति सांख्यमतम् । तत्र सत्त्वादिगुणैरनेकात्मके प्रधाने कारणे सति पुरुषस्य कर्तृत्ववचनमगतेरभावादनुपपन्नमित्यन्वयः । यदि चेतनानधिष्ठितस्याचेतनस्य प्रवृत्तिर्न दृष्टेति मन्यसे तर्हि परमाणुकारणवादोऽस्तु तत्रेश्वरस्याधिष्ठातुः सत्त्वादित्याह- ईश्वरेच्छेति । अत्रापि सस्वित्यस्यानुपपन्नमिति पूर्वेणान्वयः । तस्मात्पुरुषार्थेन प्रयोजनेनेक्षापूर्वकमिव नियतक्रमेण प्रवर्तमानेऽचे- सने प्रधाने चेतनवदुपचारोऽयं स ईक्षांचक इत्यादिः । यथा राज्ञः सर्वा- र्थकारिणि भृत्ये राजेति तद्वत् । न, आत्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः । यथा सांख्यस्य चिन्मात्रस्यापरिणामिनोऽप्यात्मनो भोक्तृत्वं तद्वद्वेदवा. दिनामीक्षादिपूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात् । तहीक्षणश्रवणस्य का गतिरत आह-तस्मादिति । पुरुषार्थेनेति । पुरुषस्य भोगापवर्गाथेनेत्यर्थः । मुख्य ईक्षितरि विद्यमानेन नियतक्रमेण प्रवर्तमानत्वेन गुणेन योगादेक्षतेति गौणः प्रयोगो माणवके पैङ्गल्यगुणयोगेनाग्निशब्दप्रयोगवदित्यर्थः । नन्वेवमपीक्षितरि प्रधाने पुरुषशब्दः कथमत आह-यथा राज्ञ इति । तद्वदिति । पुरुषस्य भोगापवर्गकारिणि प्रधाने पुरुषशब्द औपचारिक इत्यर्थः । स्वतोऽकर्तुरप्या- त्मनो मायोपाधिककर्तृत्वं संभवतीति हृदि निधाय प्रथममापाततः प्रतिबन्द्या परिह- रति-नेति । बुद्धिः कर्ती भोक्ता पुरुष इति वदद्भिः सांख्यैरात्मनो भोक्तृत्वमुक्त- १ ख, ग, घ. ड. च. सांख्यः । २ क. च. °नसंग । ३ ख. ग. घ. ह. च. त्यादि । य ।

[ ६ प्रश्नः ] प्रश्नोपनिपत् । ६५ मित्यर्थः । श्रुतिप्रामाण्यादिति । श्रुत्युक्तजगत्कर्तृत्वमविकारिणोऽपि कथचिन्निर्वाह्य- मित्यर्थः । तत्त्वान्तरपरिणाम आत्मनोऽनित्यत्वाशुद्धत्वानेकत्वनिमित्तोन चिन्मा- प्रस्वरूपविक्रियाऽतः पुरुषस्य स्वात्मन्येव भोक्तृत्वे चिन्मात्रस्वरूपवि. क्रिया न दोषाय । भवतां पुनर्वेदवादिनां सृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एवेत्यात्मनोऽनित्यत्वादिसर्वदोषप्रसङ्ग इति चेन्न । एकस्याप्यात्मनोऽवि- द्यायां विषयनामरूपोपाध्यनुपाधिकृतविशेषाभ्युपगमादविद्याकृतनाम- रूपोपाधिकृतो हि विशेषोऽभ्युपगम्यत आत्मनो बन्धभोक्षादिशास्त्र- कृतसंव्यवहाराय परमार्थतोऽनुपाधिकृतं च तत्त्वमेकमेवाद्वितीयमुपादेयं सर्वतार्किकबुद्धयनवगाह्यमभयं शिवमिष्यते न तत्र कर्तृत्वं मोक्तृत्वं वा क्रियाकारकफलं च स्याद्वैतत्वात्सर्वभावानाम् । सांख्यास्त्वविद्याध्या- रोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वाऽऽगमबाह्य- स्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एव भोत्कृत्वं पुरुषस्येच्छन्ति तत्त्वान्तरं च प्रधानं पुरुषात्परमार्थवस्तुभूतमेव कल्पयन्तोऽन्यतार्किककृतबुद्धिवि- षयाः सन्तो विहन्यन्ते । y सांख्यः प्रतिवन्दिपरिहारं शङ्कते-तत्त्वान्तरेति । भोगो नाम सुखदुःखानुभवः । स च पुरुषस्य स्वरूपभूत इति न तत्त्वान्तरापत्तिलक्षणपरिणाम इत्यर्थः । परिणामो हि पूर्वरूपपरित्यागेन रूपान्तरापत्तिः । सा च सजातीयरूपान्तरापत्तौ विजातीयरूपान्तरापत्ती वाऽनित्यत्वादिकमावहेदेवेति भोज्याविवेकोपाधिकं भोक्तृत्वमङ्गीकर्तव्यम् । तेन तदात्मकक- र्तृत्वेऽपि तुल्यमित्यभिप्रेत्य मुख्यपरिहारमाह-नेति । एकस्य वस्तुतोऽसहायस्याकर्तुरा प्तकामस्यापीत्यपरेर्थः । उपाधिकृतकर्तृत्वसंभवादविद्यारूपसहायस्य संभवाद्भान्त्या स्वस्मा- दिन्ननीवानामनाप्तकामानां संभवात्तत्पुरुषार्थाथै स्रष्टुत्वं तथाविधस्याप्युपपद्यत इति नाचेतनस्य चेतनाधिष्ठितस्य तद्युक्तमिति भावः । नामरूपेति । अनभिव्यक्तनामरूपेत्यर्थः । बन्ध- मोक्षादीत्यादिशब्देन तत्साधनमुच्यते । मोक्षस्यापि बन्धप्रतियोगित्वेन सोपाधिकत्वमुक्तम् । परमार्थस्य श्रुत्येकगम्यत्वमाह-सर्वेति । एवंभूतस्याऽऽत्मनो न स्रष्टत्वमित्याहन तत्रेति । कल्पयित्वेति । कल्पयितुं प्रवृत्ता इत्यर्थः । पुरुषस्य निर्विशेषत्वेन तस्मिन्व. स्तुतः कर्तृत्वाद्ययोगात्तदारोपितमेवेति कल्पयितुं प्रवृत्ता अपि सर्वविरोधनिरासकागमप्रम - . १ ख. घ. ङ, छ. ज. झ. 'णामादात्म° ।२ क. मित्तचि। ख. घ. ङ. छ. ज. झ. मित्तं चि । च. 'मित्तश्चि । ३ क. च. °द्यावि । ग. 'धाकृतना। ४ ख. ग. घ. ङ, सुखा । ५ ग. ह. घ. नानधि । ९ आनन्द गिरिकृतटीकार्सवलितशांकरभाष्यसमेता- [६ प्रश्नः] चौकशरणत्वाभावात्प्रत्यक्षादिविरोधापत्त्याऽऽरोपितत्वाङ्गीकाराच्च त्रस्यन्तः सर्व परमार्थत एवे. च्छन्ति । तत्राप्यचेतनस्य भोक्तृत्वायोगात्तन्मात्रमात्मनोऽङ्गी कुर्वन्ति । कर्तृत्वादिकं तु प्रधानस्याङ्गी कुर्वन्तीत्यर्थः । तर्हि तस्य को दोष इत्याशङ्कय भोक्तृत्वाङ्गीकारे तथैव तस्यैव कर्तृत्वमपि स्यादित्यन्यैः शिक्षिताः सन्तः स्वमतात्प्रच्यवन्त इत्याह-अन्येति । कृतायाः शिक्षिताया बुद्धेविषया अधीनाः शिक्षितबुद्धय इत्यर्थः । तथेतरे तार्किकाः सांत्यरित्यवं परस्परविरुद्धार्थकल्पनात आमिषा. थिन इव प्राणिनोऽन्योन्यविरुद्धमानार्थदर्शित्वात्परमार्थतत्त्वाद्दूरमेवा- पकृष्यन्तेऽतस्तन्मतमनादृत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रत्यादरवन्तो मुमुक्षवः स्युरिति तार्किकमतदोषप्रदर्शन किंचिदुच्यतेऽस्मामिनं तु ताकिकवत्तात्पर्येण । तथैतन्त्रोक्तम्- "विवदत्स्वेव निक्षिप्य विरोधोद्भवकारणम् । तैः संरक्षितसबुद्धिः सुखं निर्वाति वेदवित्" । किंच भोक्तृत्वकर्तृत्वयोर्विक्रिययोविशेषानुपपत्तिः । का 'मामासी कर्तृत्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्ट विक्रिया, यतो भोक्तैव पुरुपः कल्प्यते न कर्ता प्रधानं तु कर्रेव न भोक्विति । तर्हि सांख्यशिक्षकस्य तार्किकस्य मतं ग्राह्यमत आह-तथेति । तस्यापि सांख्येन शिक्षितत्वान्न तदपि ग्राह्यमित्यर्थः। तर्हि कस्य तार्किकस्य मतं ग्राह्यमित्याशङ्कय न कस्यापीत्याह-इत्येवमिति । तर्हि त्वया तार्किकमतं किमर्थं दूष्यते । परस्परमेव तैर्दूषितत्वात्तव तद्वदेव द्वेषादिमत्त्वप्रसङ्गाचेत्यत आह–अत इति । विरोधोद्भव- कारणमिति । पारमार्थिकतया भेददर्शनमित्यर्थः । संरक्षितेति । भेददर्शनस्य परस्परो- क्तदोषग्रस्तत्वादद्वैतमेव निर्दुष्टमिति निश्चितबुद्धिः सन्निर्वाति सर्वविकल्पेभ्य उपशान्तो अव. तीत्यर्थः । दोषप्रदर्शनं किंचित्क्रियत इति यदुक्तं तदेव प्रपञ्चयन्कर्तृत्वादेरारोपितत्वमेव परेणापि वक्तव्यमित्याह-किंचेत्यादिना । तत्राऽऽदौ भोक्तृत्वकर्तृत्वयोर्विशेषस्य वक्तु- मशक्यत्वात्तयोराश्रयव्यवस्था न संभवतीत्याह- भोक्तृत्वेति । ननूक्तं पुरुषश्चिन्मात्र एवं स च स्वात्मस्थो विक्रियते मुञ्जानो न तत्त्वान्तरपरिणामेन । प्रधानं तु तत्त्वान्तरपरिणामेन विक्रियतेऽतोऽनेक- मशुद्धमचेतनं चेत्यादिधर्मवत्तद्विपरीतः पुरुषः । नासौ विशेषो वाड्यात्र- . - १ क. च. येन्यं वि। २ ख. घ. ङ. मानद । ३ क. च. 'मते दोषद।

[प्रश्नः६] प्रश्नोपनिषत् । ६७ न स्वात्, प्राग्भोगोत्पत्ते केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेज्जायते निवृत्ते च भोगे पुनस्तद्विशेषादपेतश्चिन्मात्र एव भवतीति चेन्महदाद्याकारेण च परिणम्य प्रधानं ततोऽपेत्य पुनः प्रधानं स्वरूपेणावतिष्ठत इत्यस्यां कल्पनायाँ न कश्चिद्विशेष इति वाङमात्रेण प्रधानपुरुषयोविशिष्टविक्रिया कल्प्यते । आशयमविद्वाशङ्कावसरोक्तं विशेषं शङ्कते-नन्विति । स्वात्मस्थो विक्रियत इति । चिद्रूपेण विक्रियत इत्यर्थः । तत्त्वान्तरेति । अनेकत्वाशुद्धयादियुक्तस्वविलक्ष- णमहदादिरूपेणेत्यर्थः । पुरुषस्य चिद्रूपेणैव परिणामान्न रूपान्तरापत्तिरशुद्ध्यादिकं वा । प्रधानस्य त्वाकारान्तरेण परिणामात्पूर्वरूपत्यागादशुद्धयादिकं स्यादित्यर्थः । किंचिद्रूपेण परिणाम आगन्तुको वा न वा । आद्य आगन्तुकविशेषवत्त्वेनानित्यत्वाद्यापत्त्या प्रधाना- दविशेषः । भोगानन्तरं पुनः स्वरूपावस्थानान्नानित्यत्वादिदोषश्चेत्प्रधानस्यापि प्रलये तथा- स्वाङ्गीकारान्न तयोर्विशेषः स्यादिति दूषयति-नासाविति । संग्रहवाक्यं विवृणोति-~- प्रागिति । अस्यां कल्पनायामिति । चिद्रूपेण तत्वान्तररूपेण विक्रियाकल्पनाया- मपि विचार्यमाणेऽर्थतो न कश्चिदपि विशेषो लभ्यत इति तयोविशिष्टविक्रियेति वाङ्गात्रेणैव कल्प्यत उच्यत इत्यर्थः । अथ भोगकालेऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेन्न तर्हि परमा- र्थतो भोगः पुरुषस्य, भोगकाले चिन्मात्रस्य विक्रिया परमार्थव तेन भोगः पुरुषस्येति चेन्न । प्रधानस्यापि भोगकाले विक्रियांवत्त्वाद्भो- क्तृत्वप्रसङ्गः । चिन्मात्रस्यैव विक्रिया भोक्तृत्वमिति चेदीष्ण्याद्यसा- धारणधर्मवतामग्न्यादीनामभोक्तृत्वे हेत्वनुपपत्तिः। द्वितीय शङ्कते---अथेति । चिन्मात्र एवेति । न स्वागन्तुकं रूपान्तरमित्यर्थः । तर्हि कर्मजन्यः कादाचिस्को भोगो न सिध्येदित्याह-न तहीति । एतद्दोंषपरिहारा- याऽऽगन्तुकं परिणाममङ्गीकृत्य भोगकालीनविक्रियामानं भोगः स च पुरुपस्यैव न प्रधानस्येति भोगसदसत्त्वविशेषमात्रेण शङ्कते--मोगकाल इति । तत्रापि किं भोग- कालीनविक्रियामानं भोग उत तत्कालीनचिन्मात्रगतविक्रियो भोग इति विकल्प्याऽऽये भोगकाले प्रधानस्यापि सुखाद्याकारेण विक्रियावत्त्वाद्भोगः स्यादित्याह-नेति द्वितीयं शङ्कते-चिन्मात्रस्यैवेति । चिन्मात्रस्यैव विक्रियेत्येवकारेण धर्म्यन्तरगत विक्रियानपेक्षा चैतन्यविक्रिया भोग इत्युच्यते वा चैतन्यमात्रगता तदसाधारणा विक्रिया भोग इति वा । नाऽऽद्यः । सुखादिरूपप्रधानविक्रियां विना भोगासिद्धेः । न द्वितीयः । चैतन्यासाधारणविक्रियैव भोग इत्यत्र हेत्वभावात्स्वासाधारणविक्रिया भोग न sax १ क. च. यावत्त्वं भो।

. ६८ आनन्दगिरिकृतटीकासंवलितांकरमाष्यसमेता-[६ प्रः] इति वक्तव्यम् । तथा चातिप्रसङ्गः । सर्वस्यापि स्वासाधारणविक्रियावत्त्वात् । भोगकाली- नासाधारणविक्रियावत्त्वं तु प्रधानस्याप्यस्ति । तत्कालीनसुखादिविक्रियावत्त्वादिति दूष- यति-औष्ण्येति । प्रधानपुरुषयोईयोर्युगपद्धोक्तृत्वमिति चेन्न । प्रधानस्य पाराानुप. पत्तेः । न हि भोक्त्रो योरितरेतरगुणप्रधानभाव उपपद्यते । प्रकाशयो. रिवेतरेतरप्रकाशने । भोगधर्मवति सत्त्वाङ्गिानि चेतसि पुरुषस्य चैतन्य- प्रतिबिम्बोदयोऽविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेन्न। पुरुषस्य विशे- पाभावे भोक्तृत्वकल्पनानर्थक्यात् । ननु भोगकालीना साधारणविक्रियैव भोगः । न चाग्न्यादेस्तत्काले नियमेन विक्रि थाऽस्ति । न च प्रधानस्यापि प्रसङ्ग इष्टापत्तिरिति शङ्कते—प्रधानेति । भोक्ता हि शेषी, उभयोरपि भोक्तृत्वे शेषशेषिभावो न स्यादित्याह-नेति । ननु भोगः सत्त्वगुण- प्रधानचेतोरूपेण परिणतप्रकृतेरेव धर्मस्तस्या विक्रियोपपत्तेन पुरुषस्य तस्याविक्रियत्वात् । न च तस्य भोगाभावप्रसङ्गस्तस्य तथाविधचित्तप्रतिविम्बितत्वमात्रेण भोक्तृत्वव्यपदेश इति शङ्कते-भोगधर्मवतीति । सत्त्वाजिनीति । सत्त्वगुणोऽङ्गी प्रधानं यस्य तस्मिंश्चे. तसीत्यर्थः । तर्हि चित्तगतभोगेन चैतन्ये विशेषो जायते वा न वेति विकल्प्य न द्वितीय इत्याह-नेति । भोगरूपश्चेदनर्थः पुरुषस्य नास्ति सदा निर्विशेषत्वात्पुरुषस्य कस्या. पनयनाथ मोक्षसाधनं शास्त्र प्रणीयतेऽविद्याध्यारोपितानापनयनाय शास्त्रप्रणयनमिति चेत्परमार्थतः पुरुषो भोक्तैव न कर्ता प्रधानं कर्चेव न भोक्तु परमार्थसद्वस्त्वन्तरं पुरुषाञ्चेतीयं. कल्पनाऽऽगमबाह्या व्यर्था निर्हेतुका चेति नाऽऽदर्तव्या मुमुक्षुभिः । किंचास्मिन्पक्षे स्वकीयशास्त्रप्रणयनं च व्यर्थ स्यादित्याह-भोगरूपश्चेदिति । आये स विशेषः सत्यो वाऽसत्यो वेति विकल्प्य सत्यविशेषवत्त्वे पुरुषस्य विकारित्वं स्यादिति मनसि संनिधायास्याऽऽरोपितविशेषवत्त्वमस्तीत्याद्यं शङ्कते-अविद्येति । अनर्थेति । भोगरूपेत्यर्थः । तर्हि भोक्तृत्वविशेषवत्कर्तृत्वादिविशेषस्य प्रधानादेश्वाऽऽरोपंत्वमेवाङ्गी कर्तु युक्तं नार्धवैशसमस्मदुक्तरीत्या बन्धमोक्षव्यवहारसिद्ध्युपपत्तेः । तथा कल्पनायां प्रयोजना- भावात्प्रमाणाभावात्प्रत्युत सर्वश्रुतिविरोधापत्तेश्चेत्याह-परमार्थत इति । पुरुषाद्वस्त्व- न्तरं च प्रधानमित्यन्वयः । उक्तदोषजातं सांस्यस्य मतं मोक्षकामिणा नाऽऽदर्तव्यमिति ज्ञापनार्थमुक्तं न तु द्वेषपक्षपातादित्याशयेनाऽऽह--इति नाऽऽदर्तव्येति । 4-RA १ क. च. षी भोगश्च शेष उ। २ ख. घ, ङ. सि संधा। ग. सिनिधा । ३ ग. परत्वमे।

प्रभः] प्रश्नोपनिषत् । : एकत्वेऽपि शास्त्रप्रणयनाद्यानर्थक्यमिति चेन्नाभावात् । सत्सु हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमनर्थकं सार्थकं वेति विकल्पना स्यात् । न ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततो भिन्नाः सन्ति तदभाव एवं विकल्पनैवानुपपन्ना । अभ्युपगत आत्मैकत्वे प्रमाणार्थ- श्चाभ्युपगतो भवता यदात्मकत्वमभ्युपगच्छता । तदभ्युपगमे च विक- ल्पानुपपत्तिमाह शास्त्रं " यत्र त्वस्य सर्वमात्मैवाभूतत्केन कं पश्येत् इत्यादि । शास्त्रप्रणयनाद्युपपत्तिं चाऽऽहान्यत्र परमार्थवस्तुस्वरूपाइ- विद्याविषये, “यत्र हि द्वैतमिव भवति।" इत्यादि विस्तरतो वाजस- . नेयके । आत्मैकत्वपक्षेऽपि निरसनीयबन्धामावाच्छास्त्रप्रणयनानर्थक्यमिति शङ्कते-एकत्वेड- पीति । किमात्मैकत्वनिश्चयवन्तं प्रति तस्याऽऽनर्थक्यमुच्यते तद्विपरीतं प्रति वेति विकल्प्याऽऽद्यं प्रति प्रणयनाभावादानर्थक्यदोषाभावमाह-नाभावादिति । दोषापाद. नाभावादित्यर्थः । संग्रहवाक्यं विवृणोति-न ह्यात्मैकत्व इति । निश्चित इति शेषः । तदभावे शास्त्रप्रणेत्राद्यभाव इयं ( एवं ) [वि ]कल्पनैवार्थवदनर्थकं चे( वे )ति विक. रूपनैवानुपपन्नेत्यर्थः । नैवानुपपन्नेति पाठे तु तदभाव इत्यनेनैकत्वनिश्चयाभावोऽभिधीयते* । तदानीं निरसनीयबन्धादिसत्त्वादियं कल्पना बन्धनिवृत्त्यर्थ शास्त्रप्रणयनकल्पना नानुषपन्नेति योज्यम् । किंचाऽऽत्मैकत्वनिश्चये जाते तन्निश्चयजनकत्वेन शास्त्रार्थवत्त्वस्य स्वानुभवसिद्ध- स्वात्तेनेयं शङ्का कर्तुमपि न शक्येत्याह-अभ्युपगत इति । प्रमाणार्थ इति । प्रमाणस्य शास्त्रस्यार्थः प्रयोजनमित्यर्थः । एकत्वनिश्चयवन्तं प्रति शास्त्रानर्थक्यकल्पनाभाषः श्रुत्याऽप्युक्त इत्याह तदभ्युपगमे चेति । अत्राभ्युपगमों निश्चयः । एकत्वनिश्चया- भावदशायां तु निरसनीयारोपितबन्धसत्त्वान्नाऽऽनर्थक्यं तदपि श्रुत्योक्तमित्याह-शास्त्र- प्रणयनेति । अनेन द्वितीयकल्पो निरस्तः । श्रुतिगतं यत्रपदं व्याचष्टे--अन्यत्रेति । अत्र च विमक्ते विद्याविद्ये परापरे इत्यादावेव शास्त्रस्यातो न x तार्किकवादभटप्रवेशो वेदान्तराजप्रमाणबाहुगुप्त इहात्मैकत्वविषय इति । एतेनाविद्याकृतनामरूपाद्युपाधिकृतानेकशक्तिसाधनकृतभेदव- * क. पुस्तक एकत्वनिश्चयाभावो विधीयत इति पाठष्टिप्पग्याम् । ४ अत्र यद्यपि ताकिक- भटैः प्रवेश्य इति तथा गुप्त इहाऽऽत्मैकत्वविषय इत्यत्र : गुप्त आत्मैकत्वविषय इतीहपदरहितः प्रथमान्तपाठ एवेत्येतट्टीकापर्यालोचनाज्ज्ञायते तथाऽपि सर्वेषप्यादर्शपुस्तकेषु ताकिकवादभटप्रवेश इत्येव तथेहपदसहितः सप्तम्यन्तपाठ एव विद्यतेऽतः सोऽपि तार्किकवादभटानां प्रवेश इत्यर्थकषष्ठी- समासस्वीकारेण लापयितुं शक्य इत्यतश्च स एव स्थापितः । एतत्पाठलापनटीका तु भ्रष्टैदानामिति ज्ञातव्यम् । अथवा टीकानुसारी पाठ एवाऽऽदरणीयः ।

. आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ प्रश्नः ] त्त्वाब्रह्मणः सृष्टयादिकर्तृत्वे साधनाद्यभावो दोषः प्रत्युक्तों घेदितव्यः परैरुक्त आत्मानर्थकर्तृत्वादिदोषश्च । अथर्वणीयमन्त्रोपनिषदि द्वे विद्ये वेदितव्ये इत्युपक्रम्यापरविद्या ऋग्वेदादिरूपा परी स्वदृश्यत्वादिगुणकप्रत्यस्तमितसर्वद्वैतवस्तुविषयेत्युक्त्या विद्याविद्ययोर्विषयभेदः शास्त्रस्याऽs- दावेव सूचित इत्याह-अत्र चेति । अद्वैतवादे सर्वशङ्कानां श्रुतिप्रामाण्येनैव निरासा- त्तार्किकोत्प्रेक्षितशङ्काशूकस्यापि नात्र प्रवेश इत्युपसंहरति-अत इति । राजप्रमा- णेति । प्रमाणराजेत्यर्थः । राजदन्तादित्वात्परनिपातः । वेदान्तप्रमाणमेव राजेव राजा तबाहवस्तदुक्तन्यायास्तैर्गुप्त आत्मैकत्वमेव विषय इव देश इव देशो रक्षणीयत्वात्स तार्किकभटैयोंधैर्न प्रवेश्य इत्यन्वयः । पूर्ववाद्युक्तं दोषं निराकरोति- एतेनेति । उपाधि- कृता अनेकाः शक्तयः साधनानि च तत्कृतस्य भेदस्यानेकत्वस्य सत्त्वादित्यर्थः । आत्मेति । आत्मनो योऽनर्थः संसारस्तत्कर्तृत्वमित्यर्थः । आदिशब्देनाऽऽप्तकामत्वेन प्रयोजनापेक्षानुप- पत्तिः संगृहीता । कल्पनया स्वव्यतिरिक्तस्य जीवस्य सत्त्वात्तस्य संसारो नाऽऽत्मनः । तदी. यकर्मफलदानार्थ चाऽऽप्तकामस्यापि सृष्टयादिप्रवृत्तिः संभवति । सर्वव्यवहारस्यापि स्वप्नतु- ल्यत्वाद्वा स्वप्न इव सर्वमप्युपपद्युत इति सूत्रभाप्यादावेव परिहृत इत्यर्थः । यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तर्युपचाराद्राजा कर्तेति सोऽ- त्रानुपपन्नः । स ईक्षांचक इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः । तत्र हि गौणी कल्पना शब्दस्य यत्र मुख्यार्थो न संभवति । इह त्वचेतनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमो- क्षादिफलार्था नियता पुरुषं प्रति प्रवृत्तिर्नोपपद्यते । यथोक्तसर्वज्ञेश्वर- कर्तृत्वपक्षे तूपपन्ना ॥ ३॥ . ६ सांख्येन स्वपक्षे पुरुषशब्दस्येक्षणस्य चोपपत्तिरुक्ता तामनूद्य निराकरोति-यस्त्विति । गनमानः प्रस्तर इत्यादावुपचारो दृष्ट इत्याशङ्कयाऽऽह-तत्र हि गौणीति । प्रधान- पक्षे न केवलमीक्षणश्रुत्यनुपपत्तिर्वस्तुतस्तस्य स्रष्टत्वमपि न संभवतीत्याह-इह त्विति । मुक्तान्वयित्वा बद्धान्प्रत्येव प्रवृत्तिः कर्तृकर्माद्यपेक्षया बन्धमोक्षादिशब्दितभोगापवर्गार्था व्यवस्थिता प्रवृत्तिोपपद्यत इत्यर्थः । अनेन पुरुषार्थ प्रयोजनमुररीकृत्य प्रधानं प्रवर्तत इति यदुक्तं शङ्कावसरे तन्निरस्तम् । ईश्वरकारणवादे तु न कोऽपि दोष इत्याह यथोक्तेति ॥३॥ ३ १ ख. ग. घ. ङ. 'रा तुदृ' । २ क. च. 'वेश इ. ३ ख. ग. घ. इ. छ. 'द्यते सू' । ४ ख. घ. इ. वन्धपु। ५ ख. ग. घ. इ. मका' । ६ ख. ग. घ. कु. त्तिमुक्ता । ७ क. °तस्तु तस्य ।

" प्राणाच्छ्रद्धां खं वायुज्योति- . [ ६प्रश्नः] प्रश्नोपनिषत् । ७१ स प्राणमसृजत रापः पृथिवीन्द्रियं मनः । अन्नमन्नाद्रीय तपो मन्त्राः कर्म लोका लोकेषु च नाम च ॥ ४ ॥ ईश्वरेणेव सर्वाधिकारी प्राणः पुरुषेण सृज्यते । कथं, स पुरुष उक्त- प्रकारेणेक्षित्वा प्राणं हिरण्यगर्भाख्यं सर्वप्राणिकरणाधारमन्तरात्मान- मसृजत सृष्टवान् । अतः प्राणाच्छ्रद्धां सर्वप्राणिनां शुभकर्मप्रवृत्तिहेतु- भूताम् । ततः कर्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभू- तान्यसृजत । खं शब्दगुणम् । वायुं स्वेन स्पर्शेन कारणगुणेन च विशिष्टं द्विगुणम् । तथा ज्योतिः स्वेन रूपेण पूर्वाभ्यां च विशिष्टं त्रिगुणं शब्दस्पर्शाभ्याम् । तथाऽपो रसेन गुणेनासाधारणेन पूर्वगुणानुप्रवेशेन च चतुर्गुणाः । तथा गन्धगुणेन पूर्वगुणानुप्रवेशेन च पञ्चगुणा पृथिवी। तथा तैरेव भूतैरारब्धमिन्द्रियं द्विप्रकारं बुद्धयर्थं कर्मार्थं च दशसंख्यम् । तस्य चेश्वरमन्तःस्थं संशयसंकल्पलक्षणं मनः । एवं प्राणिनां कार्य कारणं च सृष्ट्वा तत्स्थित्यर्थं ब्रीहियवादिलक्षणमन्नम् । ततश्चान्नाद्य मानाद्वीर्यं सामर्थ्यं बलं सर्वकर्मप्रवृत्तिसाधनम् । तद्वीर्यवतां च प्राणिनां तपो विशुद्धिसाधनं संकीर्यमाणानां, मन्त्रास्तपोविशुद्धान्तर्बहिःकर- णेभ्यः कर्मसाधनभूता ऋग्यजुःसामाथर्वाङ्गिरसः । ततः कर्माग्रिहोत्रा- दिलक्षणम् । ततो लोकाः कर्मणां फलम् । तेषु च सृष्टानां प्राणिनां नाम च देवदत्तो यज्ञदत्त इत्यादि । एवमेताः कलाः प्राणिनामविद्या- दिदोषबीजापेक्षया सृष्टास्तमिरिकदृष्टिसृष्टा इव द्विचन्द्रमशकमक्षि- काद्याः स्वप्नहक्सृष्टा इव च सर्वपदार्थाः पुनस्तस्मिन्नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादिविभागम् ॥ ४ ॥ एवं परपक्षं निराकृत्य प्रकृतश्रुतिव्याख्यानं कुर्वन्स प्राणमसृजतेत्यस्य तात्पर्याईमाह- ईश्वरेणेवेति । ज्ञवेत्यर्थः । अक्षरार्थ प्रश्नपूर्वकमाह-कथमिति । हिरण्यगर्भा- ख्यमिति । हिरण्यगर्भ इत्याख्या येनोपाधिनाऽऽत्मनो भवति तं बुद्धयभिन्नं सर्वप्राणं समष्टिप्राणमित्यर्थः । यथाश्रुते कस्मिन्नहमुत्क्रान्त इत्यादिनाऽऽत्मन उत्क्रान्त्याधुपाधिसृष्टेः प्रस्तुतत्वाद्धिरण्यगर्भस्य जीवस्यातथात्वादुपक्रमविरोधापत्तेः । हिरण्यगर्भाख्यमित्युक्तिस्त्वा- १ क. ख. घ. ङ. च. छ. ज. झ. रेणैव । २.क. त्वा सर्वप्राः। ख. ग. घ. ङ. त्वा-स प्रा । ३ ख. ग. घ. इ. 'णिक°। ४ ख. ग. घ. ङ. च. °णावे । ५ क. च, कत्पादिल । ६ क. रेणैवे । ७ ख. घ. ह. राहवे। ८ ख. ग, घ ङ. च. 'स्मिन्वह। .

७२. आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [६ प्रभा] स्मनो हिरण्यगर्भादिसंसारिभावोऽप्येतदुपाधिक इति सूचयितुमिति बोध्यम् । तस्य समष्टि- स्वमाह-सर्वेति । अन्तरात्मानमिति । सर्वस्यूलशरीरान्तरस्वादात्मबुद्धिगोचरत्वा- चान्तरात्मा स इत्यर्थः । तत इत्यानन्तर्याथेयं पञ्चमी । एवमुत्तरत्रापि । न च भूतकार्य- स्वात्प्राणस्य कथं ततः पूर्वकालीनत्वमिति वाच्यम् । सत्यम् । सूक्ष्मभूतसृष्टयनन्तरं प्राण. मसूजतेति कल्पनीयत्वात् । न चैतदनन्तरं भूतसृष्टयुक्तिविरोधशङ्का । तस्याः पश्चीकृत- स्पूलभूतविषयत्वोपपत्तेः । अत एव भोगसाधनाधिष्ठानानीत्युक्तम् । सूक्ष्माणां तथात्वायो- गात् । न चैवमपि स्यूलभूतसृष्टयनन्तरमिन्द्रियमनःसृष्टयुक्तिविरोधः । भूतारब्धदेहाधिष्ठि- सानामेव तेषां कार्यक्षमस्वेन तेषां तदनन्तरत्वोक्तिरिति भावः । भोगसाधनाधिष्ठानत्वं भूतानां तत्कारणत्वादित्याह-कारणभूतानीति । तेषां भूतानां लक्षणतया खं शब्दगुणमि- स्यादिनाऽसाधारणगुणाः उक्ताः । पूर्वपूर्वगुणानुवृत्तिस्तु पूर्वपूर्वस्योत्तरोत्तरोपादानस्वसूचना : स्थौल्यतारतम्यसिद्धयर्थ चोक्तेति बोध्यम् । वायुमिति । श्रुतौ वायुरित्यादिप्रथमा द्वितीयार्थाः । प्राणमसृजतेति द्वितीययोपक्रमात् । तैरेवेति । अपञ्चीकृतावस्थायामित्यर्थः । तस्य चेश्वरमिति । नियामकमित्यर्थः । संकीर्यमाणानामिति । अविशुद्धसत्त्व- तया पापाचरणेन तैः पापैः संकीर्यमाणानां संकरपरिहाराय चित्तशुद्धिसाधनं तपोऽसृजते- स्यर्थः । फलमिति । लोक्यते भुज्यत इति लोकः फलमित्यर्थः । नाम चेति । ब्राला णादिनाम्नोक्तव्यवहारासंकरार्थमित्यर्थः । नन्वीश्वरैसृष्टत्वोक्त्या कलानां सत्यत्वमङ्गीकर्तव्यम् । आरोपे शुक्तिरजतादौ सृष्टत्वव्यवहारभावादित्याशङ्कयाकुल्यवष्टम्भनेत्रमर्दनादिना प्रयत्नेन मुष्टस्य द्विचन्द्रमशकमक्षिकादेरारोपत्वदर्शनात् । अथ रथान्रथयोगान्पथः सृजत इति सृष्ट- स्वेनोक्तस्वप्नपदार्थस्य च भ्रमत्वदर्शनान्मैवमित्याह-एवमेता इति । अविद्याकामकर्मा- दिदोषरूपं यहीजं तदपेक्षया तत्साधनीकृत्येत्यर्थः । तैमिरिकशब्दो नेत्रेऽङ्गुल्यवष्टम्भाधुप-- लक्षणार्थः । एवमात्मप्रतिपत्त्यर्थमप्यारोपमुक्त्वा तदपवादमवतारयति-पुनस्तस्मिन्ने- वेति ॥ ४ ॥ । । कथमू । स यथेमा नयः स्यन्दमानाः समुद्रायणाः समुदं प्राप्यास्तं गच्छन्ति भिद्यते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं .क. स. घ. 'नत्वमिति भावः। भू १२ क. स. प. ङ, च. रस्रष्टत्यो । ३ क. ख. घ. १. च. दो महत्व । ४ क. ख. घ. उ. च. 'ति सट्टत्वे । .

[१प्रभः ] प्रश्नोपनिषत् । ७३ १ ... प्राप्यास्तं गच्छन्ति भियते चाऽऽसां नाम- रूपे पुरुष इत्येवं प्रोच्यते स एषोऽ- कलोऽमृतो भवति तदेष श्लोकः ॥ ५॥ स दृष्टान्तः। यथा लोक इमा नद्यः स्यन्दमानाः सवन्त्यः समुद्रायणाः समुद्रोऽयनं गतिरात्मभावो यासा लाः समुद्रायणाः समुद्रं प्राप्योपग- ज्यास्तं नामरूपतिरस्कारं गच्छन्ति । तासां चास्तं गतानां मिद्यते विन- श्येते (श्यतो ?) नामरूपे गङ्गायमुनेत्यादिलक्षणे । तदमे समुद्र इत्येवं प्रोच्यते तद्वस्तूदकलक्षणमेवं यथाऽयं दृष्टान्तः । उक्तलक्षणस्य प्रकृत. स्यास्य पुरुषस्य परिद्रष्टुः परि समन्ताद्रष्टुर्दर्शनस्य कर्तुः स्वरूपभूतस्य यथाऽर्कः स्वात्मप्रकाशस्य कर्ता सर्वतस्तद्वदिमाः षोडश कलाः प्राणाद्या उक्ताः कलाः पुरुषायणा नदीनामिव समुद्रः पुरुषोऽयनमात्ममावगमनं पासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य तथै- वास्तं गच्छन्ति । मिद्येते चाऽऽसा नामरूपे कलानां प्राणायाख्या रूपं च यथास्वम् । भेदे च नामरूपयोर्यदनष्टं तत्त्वं पुरुष इत्येवं प्रोच्यते ब्रह्म- विद्भिः। य एवं विद्वान्गुरुणा प्रदर्शितकलाप्रलयमार्गः स एष विद्यया प्रविलापितास्वविद्याकामकर्मजनितासु प्राणादिकलास्वकलोऽविद्याकृ- सकलानिमित्तो हि मृत्युस्तदपगमेऽकलत्वादेवामृतो भवति, तदेतस्मि- नार्थ एष श्लोकः॥५॥ प्रामादिवद्भेदेन गन्तव्यस्वभ्रमं वारयति-आत्ममाव इति । अस्तशब्देन नाशो नाभिधीयते भेदकोपाधिनामरूपयो शेऽपि स्वरूपस्य समुद्रात्मना विद्यमानत्वादित्याह- नामरूपतिरस्कारमिति । पूर्वरूपतिरस्कारमित्यर्थः। तद्वस्त्विति । नामरूपनाशा- नन्तरं परिशिष्टमुदकलक्षणं वस्तु समुद्र इत्येवोच्यत इत्यन्वयः । पुरुषस्येति कर्मणि षष्ठी । पुरुषं स्वास्मरूपम् । परितः सर्व स्वरूपत्वेन पश्यत इत्यर्थः । द्रष्टुरित्युक्त आगन्तुकस्य दर्शनस्य कर्ता प्रतीयत इत्यत आह--दर्शनस्य कर्तुः स्वरूपभूतस्येति । स्वरूपस्वे दर्शनस्य तत्र कर्तृत्वानुपपत्तेस्तदर्थकतृच्प्रत्ययविरोध इत्याशङ्कयार्कः सर्वतः स्वप्रकाशक इत्यत्र यथा कर्थकस्य प्रत्ययस्योपचरितस्वं तद्वदिहापीत्याह--यथाऽर्क इति । नदीनामिवेति । इवशब्दस्तथाशब्दार्थे । यथा नदीनां समुद्रोऽयनं तथा पुरुषोऽयन- मित्यन्वयः । अस्तगमनस्वरूपमाह-भिद्यते इति । नामरूपभेद एवास्तगमनमिहेत्यर्थः । यथास्वमिति । यस्य यत्स्वरूपं प्राणाद्यात्मकं तदपि भिद्यत इत्यन्वयः । पुरुष इत्येवं . १ क. च. छ. ते तासां । २ क. च, छ. 'ते तासां। ३ क. च. रूपेण प°।

वो मृत्युः आनन्दगिरिकृतटीकासंबलितशांकरमाध्यसमेता-[ ६ प्रश्नः ] प्रोच्यत इत्यस्यार्थमाह--भेदे चेति । यदनष्टमिति । कलानां हि रूपमारोप्याधि- छानोभयात्मकं सत्यानृतमिथुनरूपं, तत्राऽऽरोप्यस्य नामरूपात्मकस्य भेदेऽधिष्ठानात्मकं रूपं पुरुषात्मनोच्यत इत्यर्थः । यथा समुद्रस्वरूपभूतं जलं मेधैराकृप्याभिवृष्टं गङ्गादिनामरूपो- पाधिना समुद्राद्भिन्नमिव व्यवह्रियमाणं तदुपाधिविगमे समुद्रस्वरूपमेव प्रतिपद्यत एवमवि. द्याकृतनामरूपोपाधिवशादात्मनो भिन्नमिव स्थितं सर्व जगद्विद्ययाऽविद्याकृतनामरूपविगमे ब्रह्ममात्रतयाऽवशिष्यत इत्यर्थः । एवं प्राणादिकलोपाधिक आत्मन उत्क्रमणादिशब्दितम- रणादिव्यवहार इत्युक्तेः प्रयोजनं प्राणादिनिवृत्तावुरक्रमणादिसर्वसंसारधर्मरहितात्मस्वरूपा- वस्थानरूपं दर्शयितुं स एष इति वाक्यं व्याचष्टे-य एवं विद्वानित्यादिना ॥५॥ अरा इव रथनाभी कला यस्मिन्प्रतिष्ठिताः । तं वेयं पुरुषं वेद यथा मा परिव्यथा इति॥६॥ अरा रथचक्रपरिवारा इव रथनाभौ रथचक्रस्य नाभौ यथाप्रवेशि- तास्तदाश्रया भवन्ति यथा तथेत्यर्थः । कलाः प्राणाद्या यस्मिन्पुरुषे प्रतिष्ठिता उत्पत्तिस्थितिलयकालेषु तं पुरुषं कलानामात्मभूतं वेद्यं वेद- नीय पूर्णत्वात्पुरुषं पुरि शयनाद्वा वेद जानीयात् । यथा हे शिष्या मा वो युष्मान्मृत्युः परिव्यथा मा परिव्यथयतु । न चेद्विज्ञायेत पुरुषो मृत्यु. निमित्तां व्यथामापन्ना दुःखिन एव यूयं स्थ । अतस्तन्मा भूयुष्माकमि त्यभिप्रायः॥६॥ परिवारा इति । नाभेः परितो नाभौ नेम्यां च प्रोतास्तिर्यकाष्ठविशेषा इत्यर्थः । यथाप्रवेशिता इति । यथावत्सम्यक्प्रवेशिता इत्यर्थः । माडोऽर्थ व्यतिरेकप्रदर्शनेन सष्टयति-न चेदिति ॥ ६ ॥ तान्होबाचैतावदेवाहमेतत्परं ब्रह्म वेद । नातः परमस्तीति ॥ ७ ॥ तानेवमनुशिष्य शिष्यास्तान्होवाच पिप्पलादः किलैतावदेव वेधे परं ब्रह्म वेद विजानाम्यहमेतत् । नातोऽस्मात्परमस्ति प्रकृष्टतरं वेदित- व्यमित्येवमुक्तवाशिष्याणामविदितशेषास्तित्वाशङ्कानिवृत्तये कृतार्थबु- द्धिजननार्थं च ॥ ७॥ १ ग. 'रिवारा । २ ग. रिचारा।

[६ प्रश्नः] प्रश्नोपनिषत् । . शिष्याणां कृतार्थतावुद्धिजननाथै तानित्यादि वाक्यं व्याचष्टे-तानेवमिति ॥७॥ ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकम- विद्यायाः परं पारं तारयसीति । नमः पर- मऋषियो नमः परमऋषिभ्यः ॥ ८ ॥ ॐ भई कर्णेभिरिति शान्तिः ॥ इत्यथर्ववेदीयप्रश्नोपनिषदि षष्ठः प्रश्नः ॥६॥ इत्यथर्ववेदीया प्रश्नोपनिषत्समाप्ता ॥ ततस्ते शिष्या गुरुणाऽनुशिष्टास्तं गुरुं कृतार्थाः सन्तो विद्यानिष्क्रय- मपश्यन्तः किं कृतवन्त इत्युच्यते-अर्चयन्तः पूजयन्तः पादयोः पुष्पा- अलिप्रकिरणेन प्रणिपातेन च शिरसा, किम् , ऊचुरित्याह-वं हि नोऽस्माकं पिता ब्रह्मशरीरस्य विद्यया जनयितृत्वान्नित्यस्याजरामरस्या- भयस्य । यस्त्वमेवास्माकमविद्याया विपरीतज्ञानाजन्मजरामरणरोगदुः- खादिग्रहादविद्यामहोदधेविद्याप्लवेन परमपुनरावृत्तिलक्षणं मोक्षाख्यं महोदधेरिव पारं तारयस्यस्मानित्यतः पितृत्वं तबास्मान्प्रत्युपपन्नमितर- स्मात् । इतरोऽपि हि पिता शरीरमात्रं जनयति तथाऽपि स प्रपूज्यतमो लोके किमु वक्तव्यमात्यन्तिकाभयदातुरित्यभिप्रायः। नमः परमऋषिभ्यो ब्रह्मविद्यासंपदायकर्तृभ्यो नमः परमऋषिभ्य इति द्विवचनमादरार्थम्॥८॥ इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥ ६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपाद- शिष्यश्रीमच्छंकरमगवत्कृतं प्रश्नोपनिषद्भाष्य समाप्तिमगमत् ॥ प्रकिरणेनेति । प्रक्षेपणेत्यर्थः । अतः पितृत्वं तवेति । " जनकचोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः" ॥ इति स्मृतेरित्यर्थः । योऽस्माकमितिहेतूक्तेस्तात्पर्य वदन्पितृत्वोक्तिमात्रेण विद्यानिष्क्रयार्थ किं दत्तमित्यपेक्षायां स्वशरीरमेव परिचारकतया दासभावेन गुरवे दत्तमित्याह-इतर- - १ क, "पि संप्र। २ क, ख, ग, घ. ङ. च, दास्यभा।

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५ प्रश्नः ] स्मादिति। पितृस्वादेव किं पूज्यतरत्वं(?) परिचार्यत्वं स्वामित्व(?) किमु वक्तव्यमित्यर्थः । अत एव वाजसनेयके मां चापि सह दास्यायेतीत्युक्तमिति भावः ॥ ८ ॥ इत्यानन्दज्ञानविरचितप्रश्नोपनिषद्भाष्यटीकायां षष्ठः प्रश्नः ॥४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमंदानन्दज्ञानविरचिताऽऽथर्वण- प्रश्नोपनिषद्भाष्यटीका समाप्ता ॥ T५ इति सटीकभाष्योपेता प्रश्नोपनिषत्समाप्ता। . १ स. ग. घ. इ. च °मत्कैवल्येन्द्रशिष्यज्ञानेन्द्रगुरुचरणसेविनारायणेन्द्रसरस्वतीविरचित प्रश्नोपनिषद्भाव्यविवरणं समाप्तम् ।

-- ॐ तत्सद्ब्रह्मणे नमः। अथ शंकरानन्दविरचितप्रश्नोपनिषद्दीपिकापारम्भः। - प्रभमुण्डकमन्त्राणां ब्राह्मणं कोऽहमीदृशम् । इत्यादिप्रश्भनामार्थ व्याख्यास्ये ब्रह्मबोधकम् ॥ १ ॥ प्रथमतो ब्रह्मविद्यास्तुत्यर्थमाख्यायिकामवतारयति-मुकेशा[च] नामतो मार• द्वाजो भरद्वाजस्यापत्यं शैब्यश्च शिवेरपत्यं सत्यकामः सत्ये ब्रह्मणि कामो यस्य स सत्यकामो यथार्थकामः । सौर्यायणी च सूर्यस्यापत्यं सौर्यायणिः, ईकारश्चान्दसः । गार्यो गर्गगोत्रः । कौशल्यश्च कौशल्यो नामतः । आश्वलायन आश्वलस्यापत्य. माश्वलायनः । चकारचतुष्टयमुक्तानां सुकेशादीनां वक्ष्यमाणद्वयोः पिप्पलादं प्रति प्रश्नसमु. चयार्थम् । भार्गवो भृगुगोत्रो भृगोरपत्यं वा । वैदर्भिविदर्भदेशोद्भवः । कबन्धी कबन्धी नाम कात्यायनः कत्य(त?)स्यापत्यं कात्यस्तस्य युवापत्यं कास्यायनस्ते प्रसिद्धा महाशाला महाश्रोत्रियाः षट्।ह किलैत उक्ताः सुकेशसत्यकामसौर्यायणी(णि). कोशल्यमार्गवकबन्धिनः । ब्रह्मपरा वेदपरा वेदैकशरणा इत्यर्थः । ब्रह्मनिष्ठा वेदार्थता- पर्यवन्तः। परमुस्कृष्टं निरुपचरितमित्यर्थः । ब्रह्म देशकालवस्तुपरिच्छेदशून्यमन्वेषमाणाः कीदृशं तदिति बुभुत्सां कुर्वाणा एवं प्रतिपन्नाः । तत्प्रतिपत्तिप्रकारमाह-एषोऽस्मबुद्धौ वाचि च वर्तमानः पिप्पलादो ह किल वै मर्यमाणस्तदस्मद्बुद्धिस्थं सर्वमस्माभिर्बुमु- त्सितं निखिलं पृष्टं वक्ष्यति कथयिष्यति । इत्यनेन प्रकारेण पर्यालोच्य त उक्ताः सुकेशादयो ह किल समित्पाणयो गुरूपासनार्थ समिधः पाणौ येषां ते समित्पाणयो भगवन्तं पूजावन्तं पिप्पलादं पिप्पलादनामानमुपसन्नाः शास्त्रदृष्टेन विधिना समीप प्राप्ताः ॥ १ ॥ तान्संप्रति समागतान्प्रश्नकर्तृन्ह किल स पिप्पलाद ऋषिरतीन्द्रियार्थस्य द्रष्टोवा- चोक्तवान् । भूय एव यद्यपि पूर्व भवन्तस्तपआदिमिः संपन्नास्तथाऽपि ब्रह्मविद्याग्रहणाएं पुनरेव । तपसा शरीरशोषणादिना । ब्रह्मचर्येण योषित्स्मरणकीर्तनकेलिप्रेक्षणगुलमा- षणसंकल्पाध्यवसायक्रियानिवृत्तिवर्जनरूपेण । श्रद्धया वेदार्थास्तिक्यबुद्धया संवत्सरं द्वादशसौरसंक्रान्तिकालमुक्तैः साधनैः संपन्नाः सन्तः । संवत्स्यथ सम्यग्वासं करिष्यय सम्यग्वासं कुर्वन्स्वित्यर्थः । ततो यथाकामं काममनंतिक्रम्य स्वेच्छानुसारेणेत्यर्थः । प्रश्नान्प्रष्टव्यान्पृिच्छत* प्रभानुद्दिश्य वाचं विसृजत । इदानीं स्वस्य गर्वपरिहारार्थ- * पृच्छथेति क्वचिन्मूले पाठः। १ ख. 'नानार्थे। + २ स्मयमाणः । प्राणः प्राणशब्दाभिधेयः । रयिरेव चन्द्रमाः [स्पष्टम् ] ॥ रयिशब्दा. शंकरानन्दविरचिता- [१ प्रश्नः] माह-एवं पृष्टे भवद्भिर्यदि पक्षान्तरे भवदुक्ते ज्ञानाभावे मौनं करिष्याम इत्येकः पक्षः ॥ द्वितीयं पक्षमाह-विज्ञास्यामोऽथ चोक्तविज्ञानवन्तो भविष्यामः । सर्व निखिलं ह प्रसिद्धं वो युष्मभ्यं वक्ष्यामः कथयिष्यामः । इत्यनेन प्रकारेण ॥२॥ अथ तपोब्रह्मचर्यश्रद्धासंपत्त्या संवत्सरनिवासानन्तरं प्रश्नं कर्तु भृशमुत्सुकः स्वैरनुज्ञातः कबन्धी कात्यायनः, व्याख्यातम् । उपेत्य पिप्पलादस्य समीपं शास्त्रोक्तमार्गेण समागत्य । पप्रच्छ प्रभं कृतवान् । भगवन्हे पूजावन्पिप्पलाद । कुतः। कस्मादुपादाना- निमित्ताच कारणाद्ध प्रसिद्धाद्वै स्मर्यमाणादिमा विविधशब्दप्रत्ययगम्याः । प्रजाः स्थाव- रजङ्गमाः प्राणिनः । प्रजायन्त उत्पद्यन्ते । इत्यनेन प्रकारेण ॥ ३ ॥ तस्मा एवं पृष्टवते कात्यायनाय । स पिप्पलादो ह किलोवाचोक्तवान् ॥ तदु- क्तिमाह-प्रजाकामः प्रजासु कामो यस्य स प्रजाकामो वै प्रसिद्धः स्मर्यमाणो वा प्रजापतिः प्रजानां पालयिता हिरण्यगर्भो जन्मान्तरानुष्ठितापरविद्याकर्मसमुबयः । स पर- मात्मनो भेदरहितः प्रजापतिस्तपः स्रष्टव्यविषयं पर्यासोचनमतप्यत * कृतवान् । सा तपसा विज्ञातनिमित्तोपादान आस्मोपादानमात्मनिमित्तं च मिथुनं युग्ममुत्पादयते सर्गे सर्गे जनयति ॥ मिथुनमाह-रयिं च चन्द्रमसं सर्वान्नभूतमप्प्रधानं प्राणं चाऽऽदित्य- मत्तारमग्निप्रधानम् । चकारौ परिणामयोमिथुनत्वसमुच्चयार्थौ । इत्यनेन वक्ष्यमाणेनाभिप्राये- णोत्पादयत इत्यन्वयः ॥ तदभिप्रायमाह-एतौ रयिप्राणौ। मे मम प्रजापतेर्षहुधाउनेक- प्रकाराः प्रजाः स्थावरजङ्गमाः प्राणिनः करिष्यत उत्पादयिष्यत इति यस्मात्तस्मात्त्र- श्यामीति शेषः । अथवाऽऽद्य इतिकार एवकारार्थः । अयं स्वभिप्रायार्थः ॥ ४ ॥ इदानी प्राणरयिशब्दयोरर्थमाह-आदित्यश्चन्द्रकिरणमण्डलामा ह प्रसिद्धो वै - भिधेयस्य चन्द्रमसोऽन्नरूपस्य सार्वात्म्यमाह-रयिश्चन्द्रमा वै प्रसिद्ध एतत्परिदृश्यमाने सर्व निखिलम् । सर्वशब्दार्थमाह-यत्प्रसिद्ध मूर्तं च तेजोबन्नरूपमप्यमूतं च धावा- काशरूपमपि । चकारौ मूर्तामूर्तयोर्मिलितयोः प्रत्येकं च रयिस्वरूपत्वसमुच्चयार्थौ । यस्मा- न्मूर्तामूर्तात्मके जगति मूर्तेराधिक्यं तस्मात्ततो मूर्तिरेव रयिश्चन्द्रमास्तेनोबन्नरूप एव न स्वन्यः । अथवा मूर्तिः स्थूलमधमानं रयिरेव न तु प्राणः । अमूर्तिः सूक्ष्मं प्राणस्यापि स्वरूपमिति व्याख्येयम् ॥ ५ ॥ ननु तर्हि किं रये!नवृत्तिः प्राण इत्याशङ्कय तस्यापि सार्वात्म्यमाह-अथ हतो, आदित्य उक्त उदयन्नूर्ध्वमागच्छन्दिवसे दिवसे प्रातः प्रातर्यद्यस्मात्याची दिशं प्रविशति, स्पष्टम् । तेन प्राचीदिक्प्रवेशेन स्वैः किरणैः। प्राच्यान्प्राचादिग्गता- -- * एतदने मूले स तपस्तप्त्वेति पदत्रयमधिकमुपलभ्यते ।

[१ प्रश्नः] प्रश्नोपनिषद्दीपिका। प्राणान्प्राणचक्षुरादीन्रश्मिषु किरणेषु । संनिधत्ते संबद्धान्कुरुते किरणैाप्नोतीत्यर्थः । यद्यस्मात्स्वैः किरणैर्दक्षिणां स्पष्टं दिशं प्रविशति तेन दाक्षिणात्यान्प्राणान्रश्मिषु संनि. धत्त इति शेषः । यद्यस्मात्प्रतीची स्पष्टं दिशं प्रविशति तेन पाश्चात्यान्प्राणान्रश्मिषु संनिधत्त इति शेषः । यद्यस्मादुदीची स्पष्टं दिशं प्रविशति तेनोत्तरान्प्राणान्रश्मिषु संनि- धत्त इति शेषः । यद्यस्मादधोऽधोवर्तिनी दिशं प्रविशति तेनाधोदिग्भवान्प्राणानरश्मिषु संनिधत्त इति शेषः । यद्यस्मादूर्ध्वमूर्ध्ववर्तिनी दिशं प्रविशति तेनोर्ध्वदिग्भवान्प्राणानरश्मिषु संनिधत्त इति शेषः । यद्यस्मादन्तरा मध्ये दिशो दिशामन्तरादिश इत्यवान्तरदिशो वा प्रविशति तेनान्तरादिग्भवान्प्राणान्रश्मिषु संनिधत्त इति शेषः । यद्यस्मात्सर्व निखिलं दिग्जातं स्वैः किरणैः प्रकाशयति स्वतेजसोऽनुग्रहेण नयनगोचरत्वयोग्यं कारयति । तेन सर्वप्रकाशनेन सर्वान्निखिलदिग्भवानविशेषेण प्राणांश्चक्षुरादीन्रश्मिषु संनिधत्ते व्याख्यातम् । आधन्तयोः समग्रवाक्यस्य पाठो मध्येऽपठितस्यापि पाठार्थमवगन्तव्यः ॥६॥ स परोक्ष एष प्रत्यक्षः किरणैः सर्वदिग्व्यापी। वैश्वानरो विश्वे नरा पस्य स विश्वनरः, विश्वश्चासौ नर इति वा । विश्वनर एव वैश्वानरः ॥ वैश्वानरस्वे हेतुमाह- विश्वरूपः सर्वरूपः सर्वात्मेत्यर्थः । प्राण आदित्योऽग्निर्दाहपावकप्रकाशहेतुरत्तोदयत उर्ध्वमागच्छति । तदादित्यस्य सार्वात्म्यमेतद्बामणोक्तमृचा पादबद्धन मन्त्रेणाभ्युक्तं सर्वतः कथितम् ॥ ७ ॥ विश्वरूपं सर्वरूपं हरिणं हरणशीलं सर्वोपसंहारकारणं जातवेदसं जातानि वेदांसि विज्ञानानि सर्वविषयाणि यस्मात्स जातवेदास्तं जातवेदसं सर्वस्थितिसंहारोत्पत्तिकारणमिति वाक्यार्थः । परायणमुत्कृष्टाश्रयभूतं विश्वरूपत्वं तु स्थितौ संहार उत्पत्तौ च समान परायणत्वं तु स्थितावेव विशेष इति न पुनरुक्तम् । ज्योतिस्तेजोमण्डलरूपमेकं विश्वस्य सृष्टिस्थितिसंहारान्कुर्वद्विश्वात्मकमपि भेदशून्यं तपन्तमन्तर्बहिस्तापं कुर्वन्तं जानाम्यहमिति शेषः । स्वज्ञानमेवर्षिर्दर्शयति-सहस्ररश्मिरनन्तकिरणः शतधा वर्तमानोऽनन्तप्र. कारेण वर्तमानः प्राणः प्रजानां स्थावरजङ्गमानां सर्वव्यवहारनिर्वाहकारणमन्तर्जन्मनि जन्मनि बहिदिवसे दिवसे प्रातरुदयति, उर्व गच्छति । एष प्रत्यक्षः सूर्यः शोमनाया गतेः कर्ता सविता । एवं रयिप्राणौ सर्वात्मानौ मिथुनमित्युक्तम् ॥ ८ ॥ अग्नीषोमात्मकस्य मिथुनस्य रूपान्तरं कालरूपं दर्शयति प्रजोत्पादं विवक्षुः-संव. सरो व्याख्यातः । अत्र प्रथमान्तत्वं विशेषः । वै प्रसिद्धः । प्रजापती रयिप्राणावस्थो हिरण्यगर्भस्तस्य संवत्सरात्मन आदित्यचन्द्रनिष्पाद्यस्यायने भवत इति शेषः ॥ ते आह—दक्षिणं च मासषट्कं दक्षिणायनमपि, उत्तरं च तावन्तं कालमुत्तरायणमपि । चकारौ द्वाभ्यां समुच्चिताभ्यां संवत्सरस्वरूपनिष्पत्तिसमुच्चयार्थौ ॥ दक्षिणोत्तरप्रसङ्गेन दक्षि- णोत्तरगती संवत्सरसाध्ये आह-तत्तत्राधिकारिषु त्रैवर्णिकेषु ये स्वर्गाभिलाषिणो ह --- तु ।

४ ह शंकरानन्दविरचिता- [१ प्रभः] प्रसिद्धा धै स्मर्यमाणास्तत्मसिद्ध कर्म । प्रसिद्धस्विमेवोपपदायति-इष्टापूर्ते कृत- मिति यस्मास्कृतं प्रयत्ननिष्पादितं ततस्तदिष्टापूर्ते इष्टं यागादि श्रौतं कर्मेत्यर्थः । पूर्त कृपारामादिकरणं स्मात कर्मेत्यर्थः । इष्टं च पूर्त चेष्टापूर्ते । उपासत उपासनं कुर्वते फलकामास्तात्पर्येण तदेवानुतिष्ठन्तीत्यर्थः । त इष्टापूर्वोपासकाश्चान्द्रमसमेव चन्द्रमसि भवं न त्वन्यं लोक मिष्टापूर्तफलमभिजयन्तेऽभिजयन्ति सर्वतः प्राप्नुवन्ति । त एव चान्द्रमसं प्राप्ता एव न स्वन्ये पुनरावर्तन्ते स्वकृतकर्मानुसारेण ब्राह्मणादियोनि भूय आगच्छन्ति । यस्मात्त एव पुनरावर्तन्ते तस्मात्तत एते कर्मिण ऋषयः स्वर्गद्रष्टारः प्रजाकामाः प्रनासु कामो येषां ते प्रजाकामा दक्षिणं धूमादिमागै चन्द्रलोकप्राप्तिफलं प्रतिपद्यन्ते प्राप्नुवन्ति । अस्तु तेषां तत्प्राप्तिः किं प्रस्तुत इत्यत आह-एष दक्षिण- मार्गप्राप्यश्चन्द्रलोको [ह ] वै प्रसिद्धः सर्वान्नभूतो बुद्धिमज्ज्ञेयो रयी रयिशब्दाभिधेयः प्रकृतिमागो यः प्रसिद्धः पितृयाणो धूमादिमार्गः ॥ ९ ॥ अथ प्रनाकामव्यतिरिक्तः प्राप्यः प्रकृतादन्य उत्तरेणार्चिरादिमार्गेण तपसा ब्रह्मचर्येण श्रद्धया व्याख्यातम् । विद्यया प्रजापत्याद्युपासनरूपयाऽऽत्मानमा- दित्यं स्थावरजङ्गमप्राणमन्विष्याऽऽचार्योपदेशानन्तरं प्रत्ययसंतानेनाहमस्मीति संप्राप्य । विधयेत्यस्य व्याख्यानमिदमवगन्तव्यम् । आदित्यं बाह्यं प्राणमभिजयन्ति (न्ते) सर्वतः प्राप्नुवन्ति । एतदादित्यस्वरूपं वै स्मर्यमाणं प्रसिद्धं वा, शास्त्रतः । प्राणानां प्राणशब्दाभिधेयानां प्राणचक्षुरादीनामायतनमाश्रयभूतमेतत्प्राणानामायतनममृतमविद्या- दिकारणवर्जितममयमावृत्तिदुःखभयरहितमेतदमृतमयं परायणं परेषामश्वमेधादिफलानां ससाधनानामाश्रयभूतमेतस्मात्प्राणायतनादमृतादभयात्पराश्रयान्न पुनरावर्तन्ते । यथा चन्द्रमसस्तद्वद्भ्यो नाऽऽवर्तन्ते । इत्यनेन प्रकारेणोक्त इति शेषः । एष संवत्सरात्मप्राण- प्राप्तिरूपो निरोधो विनाशो मोक्ष इत्यर्थः । तत्तस्मिन्संवत्सरात्मन्युत्तरायणदक्षिणायन- साम्येनोत्तरदक्षिणमार्गव्यापिन्येष वक्ष्यमाणः श्लोको मन्त्रः ॥ १० ॥ पञ्चपादं संवत्सरपरिवत्सरेदावत्सरानुवत्सरवत्स( सरेद्वत्स )राः कालाग्न्यादित्यचन्द्र- मोवायुरूपाः पञ्च पादा यस्य स पञ्चपादस्तं पितरं सर्वस्य जनकं द्वादशाकृति द्वादश- मासाकारं दिव आहुः परे अर्धे पुरीषिणं दिवः स्वर्गात्परे परस्मिन्नर्धे स्थाने पुरीषिणं पुरीषशब्दं सुवर्णभूमिसंनिहितं ब्रह्माण्डगोलकावरणं यस्य स पुरीषी तं पुरीषिणमाहुः कथ. यन्ति । अथवा पञ्च शरहतुवर्जिताः पादा यस्येति व्याख्येयम् । अथ इमे कालचक्रविदोऽन्ये पूर्वेभ्यो व्यतिरिक्ता उ परे, उ अपि परेऽन्य इत्यस्य व्याख्या । त उक्तव्यतिरिक्ता उत्कृष्टा वा विचक्षणं कुशलं सर्वोपद्रवशून्यमित्यर्थः । पक्षान्तर . १ ख. रेडाव।

- [१ प्रश्नः] प्रश्नोपनिषद्दीपिका। मित्यर्थः । सप्तचक्रे सप्त गायत्री त्रिष्टुब्जगत्यनुष्टुप्पतिवृहती ककुविति च्छन्दांसि पर- स्मिंश्चके नेतृत्वेन संबद्धानि तत्सप्तचक्रं तस्मिन् । अथवा वर्णव्यत्यासात्सर्पचक्रे गमनवति चक्र इत्यर्थः । षडरे षडतुरूपा अरा यस्य तत्षडरं तस्मिन्नाहुः कथयन्ति पर इत्यन्वयः । अपितं सचराचरं जगदर्पितं नानाविचाराः(१) । इति मन्त्रसमाप्तौ ॥ ११ ॥ यथा संवत्सरो रयिप्राणात्मकस्तथा मासोऽपीत्याहोपासनार्थम् । मासः पक्षद्वयात्मकः । वै प्रसिद्धः । प्रजापती रयिप्राणाभिन्नो हिरण्यगर्भस्तस्य मासस्य । कृष्णपक्ष एव चन्द्रक्षयपक्ष एव न त्वन्यो रयिश्चन्द्रमाः । शुक्लश्चन्द्रवृद्धिपक्षः । प्राण आदित्यो यस्माच्छुक्लः प्राणस्तस्मात्तत एत ऋषयः प्रसिद्धाः प्राणव्यतिरिक्तानवलोकिनः कृष्णप- क्षेऽपि कुर्वन्तः । शुक्ल इष्टं कुर्वन्तीष्टमिष्टापूर्तादिकं शुक्ल पक्षे कुर्वन्ति कृष्णपक्षस्येतर- दर्शनादित्यर्थः । इतरे प्राणव्यतिरिक्तदर्शिनः शुक्ले पक्षेऽपि कुर्वन्त इष्टापूर्तादिकमितर- स्मिन्कृष्णपक्षे कुर्वन्तीत्यनुषङ्गः ॥ १२ ॥ अहोरात्रस्त्रिंशन्मुहूर्तात्मको मनुष्यपितृदेवब्रह्मभेदभिन्नः । वै प्रजापतिर्व्याख्यातम् । तस्याहोरात्रस्याहरेवाऽऽदित्यस्योदयादास्तमयं काल एव प्राण आदित्यो रात्रिरे- वाऽऽदित्यास्तमयादोदयं काल एव रयिश्चन्द्रमाः ॥ प्रसङ्गादिवसे मैथुनं निषेधति- प्राणमादित्यं सर्वजीवनकारणं वै प्रसिद्धमते दिवामैथुनरताः स्वोपकारिणं प्रस्कन्दन्ति प्रकर्षेण शोषयन्ति घ्नन्तीत्यर्थः । ये प्रसिद्धाः कामुका दिवा दिवसे रत्या युवतिजन- संभोगरूपिण्या । संयुज्यन्ते सम्यक्संबध्यन्ते ग्राम्यधर्मेण योषिता सह संबध्यन्त इत्यर्थः । ननु तर्हि किं स्वयोषित्सु गमनं गृहस्थैर्न करणीयमित्याशङ्कय रात्रौ तत्करणीयमित्येतद्वक्तुं रात्रिगमनं स्तौति-ब्रह्मचर्यमेव मैथुनाभावरूपमेव न तु मैथुनं तत्परोक्षं वक्ष्यमाणं यत्प्रसिद्धं गृहस्थानां मैथुनं रात्रौ क्रियमाणम् । तदेतदाह-रात्री रत्या संयुज्यन्ते स्पष्टम् ॥ १३ ॥ इदानीं प्रजोत्पत्तिप्रकारं वक्तुं रेतो मैथुनं च स्तौति–अन्नमदनीयं वै प्रसिद्धं सर्व- प्राणिनां प्रजापतिः कालात्मा रयिप्राणात्मकः । ततस्तस्मादन्नादद्यमानाद्ध प्रसिद्धं वै स्मर्यमाणं सर्वजगदुत्पादकत्वेन तत्प्राणरूपं सर्वजगबीजमन्नकार्य रेतः स्त्रीपुंसयोर्वीर्यम् । तस्माद्रेतस इमाः प्रजाः प्रजायन्ते व्याख्यातम् । इत्यनेन रेतोवस्थावच्छिन्नेनाऽऽ. त्मोपादानेन चन्द्रादित्यसंवत्सरमासाहोरात्रमैथुनावस्थात्मनिमित्तेन प्रकारेणेमाः प्रजाः प्रमा- यन्त इत्यन्वयः ॥ १४ ॥ एवं प्रश्ननिर्णयं कृत्वा प्रसङ्गान्मैथुनब्रह्मचर्ययोविभागेन फलमाह-तत्तत्र संसारम- ण्डले । ये प्रसिद्धाः कामज्वरापहृतचित्तसर्वस्वा ह प्रसिद्धा वै सर्यमाणं तत्परोक्षं प्रजा. पतिवतं प्रजापतिना मनुना स्वार्थभूतायाः शतरूपाया योषितोऽधोपहासवत्स्वयोषिदधोप- हासं प्रजापतिव्रतं चरन्त्याचरन्तीत्यनुतिष्ठन्तीत्यर्थः । ते प्रजापतिव्रतचारिणो मिथुनं तु .

६ शंकरानन्दविरचिता- [२ प्रश्नः ] नारीपुरुषं नपुंसकं नोभयं वा अयं वोत्पादयन्ते जनयन्ति दृष्टफलमिदम् ॥ इदानीमदृष्टफ- लमाह -तेषामेव प्रजापतिव्रतचारिणां न त्वन्येषामेष दक्षिणमार्गप्राप्यो ब्रह्मलोको ब्रह्मणः प्रजापते रयिरूपस्य चन्द्रमसो लोकः ॥ इदानी ब्रह्मचर्ये फलमाह-येषामचिरा. दिमार्गयायिनां तपो मनस इन्द्रियाणां चैकाग्र्यादि । ब्रह्मचर्यमुक्तम् । येषु निवृत्तिमार्ग- निरतेषु सत्यं प्रियहितयथार्थमाषणं प्रतिष्ठितं प्रतिष्ठां प्राप्तं ये प्रमादेनाप्यसत्यं न वहन्तीत्यर्थः ॥ १५ ॥ तेषां तपोब्रह्मचर्यसत्यनिरतानामसौ परोक्ष आदित्यमार्गप्राप्यो विरजो विरजाश्च. न्द्रलोकवरक्षयिष्णुत्वादिदोषदूषितो न ब्रह्मलोकः कार्यब्रह्मलोकः ॥ इदानीं तपोब्रह्म- पर्यसत्यवचनादीनां सद्भावेऽपि जैम्यादिसद्भावे न ब्रह्मलोक इत्यनुमतमर्थमाह-न येषु तपोब्रह्मचर्यसत्यसंपन्नेषु । जिलं कौटिल्यं स्वेन नोच्यमानमपि परैर्जायमानं न येष्वित्य- न्वयः । अनृतं पण्डितमान्यत्वेन न विपरीतं वाक्यं सत्यवादिन एव न येप्वित्यनुषङ्गः । म माया च कार्यमन्तरेण परैरज्ञायमानं कोटिल्यं माया न येप्वनुवर्तते । चकाराद्धिं- सास्तेयादिकमपि नेत्यवगन्तव्यम् । [इत्यनेन प्रकारेण ] ॥ १६ ॥ इति श्रीमत्परहंसपरिवाजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचिताया- माथर्वणप्रश्नोपनिषद्दीपिकायां प्रथमः प्रश्नः ॥१॥ - . अथ द्वितीयः प्रश्नः। । अथ कात्यायनप्रश्नानन्तरं पूर्ववदुत्सुको ह किलैनं पिप्पलादम् । मार्गवो वैदभिः पप्रच्छ भगवन्, व्याख्यातम् । कत्येव कियत्संख्यादिका एव निर्धारिता देवा देव- शब्दाभिधेयाः । प्रजां स्थावरजङ्गमभूतरूपां विधारयन्ते विधारणं कुर्वन्ति । कतर एतेषु देवेष्वदेवेषु वा कतर एतच्छरीरं संसारयात्रानिर्वाहकं प्रकाशयन्ते प्रकाश कुर्वन्ति । कः पुनरेषां वरिष्ठ एषां देवानां को नाम श्रेष्ठः । इत्यनेन प्रकारेण पप्रच्छेत्यन्वयः ॥ १ ॥ तस्मै मार्गवाय । स होवाच व्याख्यातम् ॥ प्रथमप्रश्नस्योत्तरं प्राण एव शरीरस्य विधारकः । द्वितीयतृतीययोश्वार्थादग्न्यादिरूपेण स एव प्रकाशको वरिष्ठश्चेति वक्तुं भूते- न्द्रियप्राणसंवादरूपामाख्यायिकामवतारयति-आकाशो भूताकाशो ह किल वै प्रसिद्ध ऐष प्रसारितनयनप्रत्यक्षः साक्षिप्रत्यक्षो वा देवो देवशब्दाभिधेयोऽन्यविजिगीषुत्वेन, वायुरनिरापः पृथिवी स्पष्टम् । वाग्वागिन्द्रियमुपलक्षणमेतत्पाणिपादपायूपस्थानाम् ।

[२ प्रश्नः] प्रश्नोपनिषद्दीपिका। मनोऽन्तःकरण ज्ञानशक्ति चतुर्विधं मनःशब्दोपलक्षितं चक्षुः श्रोत्रं च स्पष्टं चकारा- त्वग्घ्राणरसनानि, ते पञ्चमहाभूतज्ञानेन्द्रियकर्मेन्द्रियचतुर्विधान्तःकरणरूपा मुख्यप्राणसंनि- धिप्राप्तसामर्थ्यान्मुख्यप्राणप्रसादमजानतः(न्तः) । प्रकाश्येदं शरीरमवकाशादिव्यवहार- क्षमत्वेन सर्वस्य लोकस्य दर्शयित्वाऽभिवदन्ति । स्वव्यतिरिक्तान्सर्वान्सर्वतस्तिरस्कृत्य प्रत्येक स्वात्मनि बहुवचनप्रयोगेणावकाशाचेकैककार्यक्षमा अपि सनीवनमवकाशादिसर्वका- र्यक्षमत्वं स्वात्मन्यारोप्य वदन्ति वल्गन्ति ॥ तद्वदनमाह-वयमाकाशादय एतत्सर्वप्रा. णिप्रत्यक्ष वाणं बाणवत्कर्मणा प्रापितं बाणमथवा बवयोरैक्याद्वाति कुत्सितं गन्धं वहन्ब. (ह)णति शब्दं करोति गच्छति वा कर्मक्षये सति सत्यपि कर्मणि देशाद्देशान्तरं चेति वा वणं वणमेव बाणं शरीरमित्यर्थः । अवष्टभ्यावष्टम्मनं कृत्वा दृढतमं कृत्वेत्यर्थः । विधा- रयामो विविधावकाशादिकार्यक्षमत्वेन धारणं कुर्मः ॥ २ ॥ तानाकाशादीन्प्रत्येकं शरीरविधारणामिमानेन वदतो वरिष्ठः सर्वेऽप्याकाशादयोs- वकाशादिकार्यकारित्वेन वरास्तत्कार्याणामपि मुख्यप्राणनिमित्तत्वान्मुख्यप्राणोऽतिशयेन [वरो वरिष्ठः) समीचीनः प्राणो मुख्यप्राणः प्राणादिपञ्चवृत्तिरुवाच हस्तसंज्ञया च निवा- रयन्नुक्तवान् ॥ मुख्यप्राणोक्तिमाह-मा निषेधार्थः । मोहं विपरीतज्ञानमापद्यथ सम- न्तान्मा गच्छत ॥ तत्र हेतुमाह-अहमेव मुख्यप्राण एव न स्वन्य एतदेवं स्वप्रत्यक्ष वक्ष्यमाणमात्मानं पञ्चधा प्राणापानव्यानोदानसमानैः पञ्चप्रकारैरात्मानं मुख्यप्राण- स्वरूप प्रविभज्य प्रकर्षेण स्थानक्रियानामादिभिर्विविधभेदवन्तं कृत्वैतद्वाणमवष्टम्य व्याख्यातम् । विधारयामि विविधकार्यक्षमत्वेन जीववन्तं देहं करोमि । अयमर्थ:- भवन्तोऽवकाशादिप्रातिस्विककार्यक्षमा न तु सर्वकार्यक्षमा अहं तु भवतामपि कार्ये निमि- त्तत्वाद्भवत्कार्यक्षमो मया क्रियमाणे जीवनादौ तु न कोऽपीति । इत्यनेन प्रकारेण । एवमुक्ते सति त आकाशादयः परस्परमुखावलोकनहास्यकरताडनादिचेष्टावन्तः प्राणोक्तेऽ. र्थेऽश्रद्दधाना इदमित्थमेवेत्यास्तिक्यबुद्धिशून्याः । बभूवुः स्पष्टम् ॥ ३ ॥ अनन्तरं तेषां सदर्पपापमवलोक्य तच्छान्त्यर्थं स मुख्यप्रमाणोऽभिमानादात्मनः सर्वका- रित्वलक्षणाद्यथावस्तुविषयादहंकारात् । ऊर्ध्वमष्टोत्तरशतमर्मस्थानानामुपरि स्थानचलनं . कृतवानित्यर्थः । उत्क्रमत इवोत्क्रामतीव स्वात्मनः साक्षी, उत्क्रमणे प्रतिसमाधेयः शरीरविनाशः स्यादिति मन्वान उत्क्रमणमिव कृतवान्भूतानां सकारणानां स्वस्थानचलनेन व्याकुलत्वं कृतवानित्यर्थः । अथवाऽयमिवकारः प्रतिपत्तुः प्रतिपत्त्यैव प्राणसंवादमाह । न ह्याकाशादिदेवानां वागादयः सन्ति तेषां तदङ्गीकारे च न्यायादिविरोधात् । तस्मिन्मुख्ये प्राणेऽभिमानिन्युत्क्रामत्यूचं गच्छति सत्यथानन्तरमितरे मुख्यप्राणादन्य आकाशादय: सर्व एव निखिला अपि पाशबद्धा विहङ्गा इव पाशस्योर्ध्व नयनादुत्क्रामन्त उत्क्रा- - .

८
--
शंकरानन्दविरचिता-
[२ प्रश्नः ]
मन्ति पराधीनाः सन्तः स्वस्थानेभ्यश्चलिता बभूवुः । नैकोऽप्यात्मानमवष्टब्धवानित्यर्थः ।।
नैतत्तदा जातं किंतु सर्वकालीनमित्याह-तस्मिंश्च तस्मिन्मुख्यप्राण एव यथोत्क्रामति
सत्युत्क्रामति(न्ति) तथा सर्वदा प्रतिष्ठमाने प्रकर्षेण स्वस्वकार्यक्षमत्वेनावस्थानं कुर्वन्ति
(ति)सर्व एव प्र(मा)तिष्ठन्ते स्पष्टम् । तत्तत्र प्राण उत्क्रामत्युत्नामन्ति प्रतिष्ठमाने च
प्रतितिष्ठन्त इत्यस्मिन्नर्थे दृष्टान्तः । यथा दृष्टान्ते, मक्षिकाः क्षुद्रा मधुकरा जीवा भ्रमरा
वा मधुकरत्वसामान्यान्मधुकरराजानं मधुकरराजं मधु मध्वपूपान्तस्थं मधुररसं तत्कु-
वन्तीति मधुकरास्तेषु प्रधानभूतस्तैदृष्टातिशयः कश्चन जीव इत्यर्थः । तमुत्क्रामन्तं मध्वपूपं
परित्यज्योर्ध्वं गच्छन्तं सर्वा एव निखिला अपि मक्षिका उत्क्रामन्त उत्क्रामन्ति तम-
नुगच्छन्तीत्यर्थः । तस्मिंश्च मधुकरराज एव मध्वपूपे प्रतिष्ठमाने सर्वा एव प्राति-
ठन्ते स्पष्टम् ॥ दार्टान्तिकमाह-एवं तथा वाङ्मनश्चक्षुः श्रोत्रं च चकारोऽनुक्ता-
नामाकाशादीनां संग्रहार्थः । व्याख्यातमन्यत् । त उक्ता आकाशादयः परित्यक्तशरीरविधा-
रकत्वाभिमानाः । प्रीताः प्राणस्यैव शरीरविधारकत्वनिश्चयेन परममोदमुपगताः । प्राणं
मधुकरराजसमं मुख्यनाणं कालत्रयेऽपि परोक्ष प्रत्यक्षं च स्तुव(न्व)न्ति स्तुति
कुर्वन्ति ॥ ४ ॥
तत्स्तुतिमाह-एष मुखनासिकाम्यां संचरन्स्पर्शनस्य साक्षिणो वा प्रत्यक्षोऽग्निर-
ध्यात्मादौ जाठरभौमादिभेदभिन्नो वैश्वानरस्तपति संतापं करोति । एष व्याख्यातम् ।
सूर्यः शोभनाया गतेः कर्ता चन्द्रमण्डलात्मेष व्याख्यातम् । पर्जन्यो वृष्टयभिमानिनी
देवतैष इत्यनुवर्तते । मघवान्मघवा त्रिलोकीपतिः, अथवा पर्जन्यस्यैव विशेषणं मघवान् ।
तथा च पर्जन्येन्द्रयोरैक्यं स्यात् । एष व्याख्यातम् । वायुः प्रभञ्जनः । एष व्याख्या-
तम् । पृथिवी वसुंधरा, एष इत्यनुवर्तते वक्ष्यमाणेषु सर्वेषु । रयिश्चन्द्रमाः । देवो
विजिगीषापरो द्योतनात्मको वा तपन्नग्निसूर्याद्यात्मकत्वेन । किं बहुना सदसञ्चास्ति
नास्तीतिव्यपदेशभूषितं चकारात्सदसद्विलक्षणमज्ञानमपि । अमृतं चामरणधर्मात्मकं
ब्रह्माप्यनुपचरितसदेकस्वभावं चकारादनुपचरितासत्स्वभावं नरविषाणादिकमपि । यत्प्र-
सिद्धम् ॥ ५ ॥
न केवलमयं सर्वात्मा किंतु सर्वाधारोऽपीति दृष्टान्तेनाऽऽहुः-अराश्चक्रस्य
नाभिनेभ्योरन्तरालवर्तीनि चतुष्कोणानि वर्तुलानि वा तीक्ष्णाग्रपुच्छानि काष्ठानि । इव
दृष्टान्ते । रथनामौ रथचक्रस्य मध्यप्रदेशे प्रतितिष्ठत(न्तः) इति शेषः ॥ दान्तिकमाह-
प्राणे संसारचक्रनाभिभूते मुख्य प्राणे । सर्वं निखिलमग्निसूर्यादिकं प्राणात्मकम् । प्रति.
ठितं स्पष्टम् ॥ अग्निसूर्यादिकमेव सर्व प्राणे प्रतिष्ठितं न त्वन्यदिति शङ्कां वारयितुं सर्व-
शब्दार्थमाह-ऋचः पादबद्धा मन्त्राः । यजूंष्यविवक्षितच्छन्दस्का मन्त्राः । सामानि
गीतिसहिता ऋचो यज्ञो ज्योतिष्टोमादिरूपः क्षत्रं क्षत्रियत्वजातिब्रह्म च ब्राह्मणत्व
जातिः । चकारादुक्तमनुक्तं च सर्वम् ॥ ६ ॥

पि । आचार्य [२ प्रश्नः ] प्रश्नोपनिषद्दीपिका। यथा प्रजा महाराजमेवैष इत्यङ्गुलिनिर्देशेन परस्परं दर्शयित्वा तद्गुणांश्च संकीर्त्य पश्चात्त्वं नः पिता मातेत्यादिना स्तुन्वन्ति तथैषोऽग्निः सूर्यश्च तपतीत्यादिना प्राणं दयित्वा देवास्तद्गुणांश्च सर्वप्रतिष्ठादिलक्षणान्संकीत्यैवं स्तुवन्त इत्याहुः-प्रजापतिविरात्रिलो. कीशरीरः प्रजानां पालयिता । चरसि गच्छसि वर्तस इत्यर्थः । गर्भ ब्रह्माण्डगोलकजठरे । ननु गर्भस्थोत्तानशायिनोविभेदाग द्विनिर्गतो नाहमित्यत आहुः त्वमेव प्राणः प्रजाप, तिरूपो गर्भस्थ एव न त्वन्यः । प्रतिजायसे स्वस्माजाताद्ब्रह्माण्डगोलकात्पुत्रभूतात्प्रति प्रातिलोम्येन पिता सन्पुत्रत्वमङ्गीकृत्योत्पद्यते( से )। तुभ्यं प्रजापतिरूपायोपकाराद्यर्थम् । प्राण हे प्राण प्रजास्त्विमाः प्रत्यक्षाः स्थावरजङ्गमास्त्वद्रूपभूताः । तोरेवकारार्थः । ता इमाः प्रजास्तुभ्यमेवेत्यन्वयः । [बलिं हरन्ति स्पष्टम् ] ॥ ननु ब्रह्मलोकावस्थि. ताय मह्यं कथमिमाः प्रजा [ बलिं हरन्ति ] इत्यत आहुः—यः प्रसिद्धः प्रजापतिहस्ति- पुत्तिकादिशरीरेषु समः । प्राणैः प्राणापानादिभिः पञ्चभिर्वायुभेदैः सर्वेषु भूतेप्वेक एव । प्रतितिष्ठसि । प्रातिकूल्येन भेदेन वर्तसे ॥ ७ ॥ इदानीमस्यैव प्रधानभूता विभूतीराङः-देवानामिन्द्रादीनामसि भवसि । वह्नित- मोऽतिशयेन हविषां वाहको देवतृप्तिकारणमित्यर्थः । पितृणामग्निप्वात्तादीनां पितृलोक- निवासिनां प्रथमा पूर्वभाविनी नान्दीमुखश्राद्धादावन्यकर्मापेक्षया । स्वधा स्वान्यजमा- नस्य पितृन्हविष्यदानेन धावति गच्छतीति स्वधा, ऋषीणां गौतमभरद्वाजप्रभृतीनां चरितं चोष्टितम् । किं परस्त्रीदर्शनादिकमपि प्राण इत्याशङ्कय नेत्याह-सत्यमवितथं गुरुपादावलोकनादिकमित्यर्थः । अथवा मुख्यप्राणसाहचर्यात्सत्यं शरीरविधारणम् ॥ ऋषि- विशेषणमाहुः-अथर्वाङ्गिरसामथर्वाङ्गिरसप्राणसाहचर्यादथर्वाङ्गिरस्त्वं गौतमादीनाम् । असि भवसि ॥ ८ ॥ इन्द्रः परमैश्वर्यसंपन्नस्त्वं प्राणः प्रजापतिः । प्राण हे प्राण । तेजसा सर्वसंहारका- रिणा वीर्येण त्रिजगद्धेदकेन । रुद्रो रोदनहेतुभूतोऽसि भवसि । स्थितिकाले जगतः परिरक्षिता सर्वतो रक्षकः । त्वं प्राणः प्रजापतिः । अन्तरिक्ष आकाशे वाय्वादि- रूपेण चरसि गच्छसि । सूर्यः शोभनाया गतेः कर्ता दिवाकरस्त्वं प्राणः प्रजापतिः । सूर्यविशेषणं ज्योतिषां पतिः, चन्द्रादीनां पालयिता । न केवलं ज्योतिषां पतिः किंतु प्रजानामप्यानन्दकारीत्येवमाहुः ॥ ९ ॥ यदा यस्मिन्काले त्वं प्राण सूर्यगोभिरभिवर्षसि सर्वतो नीरधारा मुञ्चसि । अथ तदेमाः प्रत्यक्षाः । प्राणते प्राणन्ति प्राणनादिचेष्टां कुर्वन्तीत्यर्थः । अथवा हे प्राण ते तवेमाः प्रजा इति वक्ष्यमाणेनान्वयः । प्रजाः स्थावरजङ्गमा आनन्दरूपा आनन्दः परमात्मा स एव रूपं यासां ता आनन्दरूपा निरतिशयसुखपूर्णा इत्यर्थः । तिष्ठन्ति

--
1
१०
शंकरानन्दविरचिता-
[२प्रश्नः]
स्पष्टम् ॥ आनन्दरूपावस्थाने हेतुमाह-कामायाभिलाषाय यथाकाममित्यर्थः । अन्न-
मदनीयं ब्रीह्यादिकम् । भविष्यति स्पष्टम् । इत्यनेनाभिप्रायेण ॥ १० ॥
इदानीमस्य सर्वात्मनोऽपि पापलेशशून्यत्वमाहुः-व्रात्यः सर्वस्मात्प्रथमनस्वाद्यथाका-
लमुपनयनादिसंस्कारशून्यः, पितृपितामहादेरभावाद्वा तत्सोमपानशून्यः, संस्कारशून्योऽपि
सर्वदा शुद्ध इत्यर्थः । त्वं प्रथमजः प्रजापतिः । प्राण हे प्राणैकऋषिराथर्वणानामवे
प्रसिद्धोऽग्निरत्ता भोक्ता संहर्ता वा विश्वस्य चराचरस्य जगतः । सत्पतिः सतां
ब्रह्मादीनां पालयिता संश्वासौ पतिश्चेति वा । वयमाकाशाद्या देवाः । आद्यस्यादनी.
यस्य विषयजातस्य । दातारः समर्पकाः । पिता जनकस्त्वं प्राणो मातरिश्व मात-
काशे श्वसितीति मातरिश्वा वायुस्वरूप इत्यर्थः । नोऽस्माकमाकाशादीनाम् । अथवा
सर्वजगत्कारणस्य मातरिश्वनो वायोस्त्वं पिता ॥ ११ ॥
एवं स्तुति कृत्वा कार्यमाहुः-या प्रसिद्धा । ते तव प्राणस्य तनूस्तनुरपानरूपा ।
या प्रसिद्धा । वाचि वागिन्द्रियेऽसौ पृथ्व्यां चे वागिन्द्रियसहचरितायां प्रतिष्ठिताऽव-
स्थिता, या प्रसिद्धा व्यानरूपा श्रोत्रे श्रोत्रेन्द्रिये तल्सहचरितचन्द्रमस्याकाशे च, या प
प्रसिद्धा प्राणरूपा चकारः पूर्वत्र वक्ष्यमाणे च पर्याये तनूः प्रतिष्ठितेत्येतदनुवृत्त्यर्थः ।
चक्षुषि चक्षुरिन्द्रिये तत्सहचरितेषु तेजोबन्नात्मकेषु रूपेष्वादित्ये च, या [1]
प्रसिद्धा समानरूपा मनसि मनइन्द्रिये तत्सहचरितेषु भूतभौतिकेषु। संतता सम्यग्विस्तृता
प्राणादिपञ्चवृत्तिगर्भिणीत्यर्थः । शिवां शिवानां मङ्गलानां स्वस्थानादचलितामित्यर्थः । तां
वागादिस्थितां तनुं कुरु स्पष्टं स्वं च मोत्क्रमीरुल्क्रम मा कार्षीः ॥ १२ ॥
नास्माकमिदानी पूर्ववत्स्वातन्त्र्यबुद्धिरित्याहुः—प्राणस्य पञ्चवृत्तेर्भवत इदं विविधप्र-
त्ययगम्यमस्मदादिकं जगद्वशेऽधीनस्वेन सर्व निखिलम् । सर्वशब्दार्थमाहुः-त्रिदिवे
त्रिदिवोपलक्षितत्रिलोक्यां ब्रह्माण्डजठर इत्यर्थः । यत्प्रसिद्धमाकासादिकं प्रतिष्ठितमय-
स्थितम् । यस्मादेवं तस्माद्धे प्राण त्वमस्मान्मातेव पुत्रान्स्पष्टं रक्षस्व रक्ष
सर्वतोऽनर्थेभ्यः पाहि । तद्रक्षणं स्वयमेवाऽऽहुः-श्रीश्च श्रियश्च विविधा लक्ष्मीः ।
प्रज्ञां च लोकवेदविषयिणी लोकद्वयेष्टकारिणी बुद्धिं चकारौ तयोः स्थिरत्वोपयोज्यस्वे
आहतुः । विधेहि विविधास्ववस्थासु धेहि प्रयच्छ । नोऽस्मभ्यमाकाशादिभ्यो विगता-
भिमानेभ्यः [इति, अनेन प्रकारेण ] ॥ १३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचिता-
यामाथर्वणप्रश्नोपनिषद्दीपिकायां द्वितीयः प्रश्नः ॥२॥

[३ प्रश्नः] प्रश्नोपनिषद्दीपिका। ११ अथ तृतीयः प्रश्नः। । प्राणस्य प्रजापतेस्तु सर्वजगदात्मत्वं निर्धारितं यद्यपि तथाऽप्यस्य संहतत्वादनात्मत्वमि- स्येतदुपपादनार्थं तृतीयः प्रश्न आरम्यते--अथ वैदर्भिप्रश्नानन्तरं हैनं कौश(स)ल्य- थाऽऽश्वलायनः पप्रच्छ भगवन्व्याख्यातम् । कुतः कस्मादुपादानानिमित्तादेष प्रत्यक्षः क्रियावान्प्राणः पञ्चवृत्तिर्जायत उत्पद्यते । कथं केन प्रकारेणाऽऽयात्याग- च्छत्यस्मिन्स्थूले प्रत्यक्षे शरीरे विनाशिनि कलेवरे केन निमित्तेन शरीरं गृह्णातीत्य- भिप्रायः । आत्मानं वा मुख्यप्राणस्वरूपं वाशब्दः प्राण एव धर्मान्तरप्रश्नार्थः । प्रविभज्य प्रकर्षेण विभागं कृत्वा । कथं केन प्रकारेण । प्रातिष्ठते वर्तत इत्यर्थः । केन वृत्तिविशेषेणोत्क्रमत उत्क्रामत्यस्माच्छरीरादपसर्पति । कथं केन प्रकारेण बाह्य- मधिभूतमधिदैवं चामिधत्ते सर्वतो धारयति । कथं केन प्रकारेणाध्यात्ममात्मानमधि. कृत्य वर्तमानमिदं शरीरेन्द्रियादिकम् । इत्यनेन प्रकारेण ॥ १ ॥ तस्मै कौश(स)ल्याय । स होवाच व्याख्यातम् । अतिप्रश्नानभ्यधिकारार्था- (कार्था)पिहितार्थान्वाऽन्यप्रश्नविषयान्वा प्रष्टव्यानर्थान्पृच्छसि प्रश्भं करोषि यतस्ततो बरिष्ठोऽतिशयेन वेदार्थज्ञोऽन्तर्मुखो वाऽसि भवसि । इति यस्मात्तस्मात्ततस्ते तुभ्य- माश्वलायनायाहं पिप्पलादाभिधो ब्रवीमि स्पष्टम् ॥ २ ॥ आत्मन आत्मनोऽभिन्ननिमित्तोपादानात् । एष प्राणो जायते व्याख्यातम् ॥ आत्मनः प्राणो जायमानो न वास्तव इत्येतदृष्टान्तेनाऽऽह-यथा दृष्टान्त एषा प्रत्यक्षा पुरुषे शिरःपाण्यादिमति च्छाया प्रसिद्धा पुरुषाकारैवमेतस्मिन्प्राणकारण आत्म येत. स्प्राणसूत्रमाततं समन्ताद्विस्तृतं न वास्तवमित्यर्थः । कथमायात्यस्मिन्शरीर इत्यस्योत्तर- माह-मनोकृतेन मनःकृतेन करणं(ण)कृतशुभाशुभकर्माविद्यावासनानिमित्तेनाऽऽयात्य. स्मिशरीरे व्याख्यातम् ॥ ३ ॥ आत्मानं वा प्रविभज्य कथं प्रातिष्ठत इत्यस्योत्तरं दृष्टान्तपुरःसरमाह-यथा दृष्टान्ते। सम्राडेव सम्यग्राजत इति सम्राटसर्वलक्षणसंपन्नः । सार्वभौमो राजैव न त्वन्योऽधि- कृतान्मन्त्रिबलरक्षकाधिकारिप्रभृतीन्विनियुङ्क्ते विनियोगं कुरुते ॥ विनियोगप्रकारमाह- एतान्यामानेतान्यामान्कुरुपाञ्चालादिदेशगतान्सर्वसंपत्समृद्धान्पञ्चदशशतं सहस्र वा ग्रामान् , विनियुज्यमानानां बहुत्वाभिप्राया वाक्यवीप्सा मन्त्रिबलरक्षकाधिकारिन्निति प्रत्येकमधितिष्ठस्वाधितिष्ठाधिष्ठानं कुर्वित्यनेन प्रकारेण ॥ दार्टान्तिकमाह-एवमेवा- नेनैव प्रकारेणैष मुख्यः प्राण इतरान्स्वात्मव्यतिरिक्तान्प्राणान्प्राणशब्दान्वागादी- पृथक्पृथगेव जिह्वादिगोलकेष्वन्यत्रान्यत्रैव न त्वेकत्र संनिधत्ते संनिधानं कुरुते स्थापयतीत्यर्थः ॥ ४ ॥ ।

१२ शंकरानन्दविरचिता- [ ३ प्रश्नः] And तेषां संनिधानस्यातिस्पष्टत्वात्परित्यज्य वागादीन्मुख्यस्यैव प्राणस्य पञ्चवृत्तिसंनिधान माह-पायूपस्थे पायुश्चोपस्थश्च पायूपस्थं तस्मिन्मलमूत्रादिकारित्वेनापानमधश्चारिणं स्वात्मनो वृत्तिभेदं संस्थाप्येति शेषः । चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तस्मिसं. निधानं कृत्वति शेषः । मुखनासिकाभ्यां स्पष्टं प्राणो मुख्यप्राणः स्वयं वृत्तिमान्वृ. त्तिमन्तरेण स्वेनैव रूपेण प्रातिष्ठते प्रतिष्ठते शरीरदेशाबहिर्गच्छति । मध्ये तु शरीरस्य मध्यभाग एव नाभौ न त्वन्यत्र समानोऽशितपीतसमनयनवृत्तिः, तिष्ठतीति शेषः ।। समानशब्दार्थमाह-एष नाभिस्थः प्राणवृत्तिभेदो हि यस्मादेतद्भक्ताख्यं प्रत्यक्षं हुतं विधिनाऽविधिना वाऽऽस्याहवनीये प्रक्षिप्तमन्नमदनीयं समं यावता नीयमानेन तत्तत्स्थाने- न्द्रियादीनां बाधा न भवति तावत्तत्तत्स्थानेन्द्रियादौ । नयति प्रापयति । तस्मात्समानेन समत्वेन नीतादन्नादेताः साक्षिणः प्रत्यक्षाः श्रोत्रचक्षुर्नासिकामुखद्वाररूपेणास्मदादीनां वा सप्त सप्तसंख्याका मूर्धन्यद्वारस्था अचिषोऽचिरिव विषयप्रकाशरूपत्वाच्छब्दादिबुद्धयः । भवन्ति स्पष्टम् ॥ ५॥ इदानीं व्यानवृत्तेः स्थलं वक्तुमाह-हृदि मांसपिण्डे कमठाकारे हि यस्मादेष साक्षि- प्रत्यक्ष आत्माऽऽत्मसहचरितः पञ्चवृत्तिः प्राणो लिङ्गात्माऽत्रास्मिन्हृदय आत्माधिष्ठान एतत्सर्वशरीरपर्णस्य शङ्कुभूतमेकशतमेकाधिकं शतं नाडीनां प्रधानभूतानां सच्छिद्राणां शिराणाम् । तासां प्रधाननाडीनां शतं शतमेकैकस्या एकोत्तरशतसंख्याकानां प्रत्येक शतं शतं तथा चैकोत्तरशतनाडीनां शाखाभूता नाड्यो दशसहस्रं शताधिक भवन्ति । पुनश्च शताधिकानां दशसहस्राणामेकोत्तरशतनाडीशाखानाडीनामेकैकस्या द्वासप्तति द्वासप्तति प्रतिशाखानाडीसहस्राणि शाखानाडीनां शाखाभूता नाड्यस्तासां प्रत्येक द्विसहस्राधिकसप्ततिसहस्राणि । द्वासप्ततिं द्वासप्ततिमिति वीप्सा प्रत्येक शाखानाडीसंब- न्धार्था । प्रतिशाखानाडीनां सहस्राणि प्रतिशाखानाडीसहस्राणि । तथा च मूलशाखा प्रति- शाखा]नाड्यो द्वासप्ततिकोटयो द्वासप्ततिलक्षाणि दशसहस्रं च शतद्वयमेका चेति भवन्ति। आसूक्तसंख्यासु मूलशाखाप्रतिशाखाxप्रतिशाखानाडीषु । व्यानो वीर्यवत्कर्महेतुः प्राण. वृत्तिभेदश्चरति गच्छति ॥ ६ ॥ केनोत्क्रमत इत्यस्योत्तरं वक्तुं पञ्चम्याः प्राणवृत्तेः संचरणमार्गमाह-अथ सर्वनाडीषु व्यानसंचारेणैव हेतुनैकया सुषुम्नाख्ययोर्ध्व ऊर्ध्वचारी उदान उर्ध्वचारित्वादेवोदानना- मधेयः प्राणवृत्तिभेदेन पुण्येन शास्त्रीयेण कर्मणा । पुण्यं शुभकर्मफलं सुखप्रायं लोकं भोगभूमिभूतम् । नयति प्रापयति । पापेन शास्त्रनिषिद्धेन कर्मणा । पापमशुभकर्म- फलं लोकं नयतीति देहलीप्रदीपन्यायेन संबध्यते । उभाभ्यामेव पुण्यपापाम्या- * द्वासप्ततिसप्ततिरिति कचिन्मूले पाठः । ४ एकः प्रतिशाखाशब्दोऽधिकः ।

[ ३ प्रश्नः] प्रश्नोपनिषद्दीपिका। १३ मेव न तु केवलेन पुण्येन पापेन वा मनुष्यलोकं मानवं शरीरं सुखदुःखफलं नयतीत्यनु- तु कथं बाह्यमभिधत्ते कथमात्ममित्येतयोरुत्तरमवंशिष्यते । तत्र प्राणादिपञ्चवृत्तिभिरध्या. स्ममभिधत्त इत्येतदात्मानं वा प्रविभज्य कथं प्रातिष्ठत इत्येतस्योत्तरेणैवार्थात्प्राणादिभिरभिर धत्ते इत्युत्तरमुक्तमिदानी कथं बाह्यमभिधत्त इत्यस्योत्तरं प्राणापानसमानव्यानोदानाभिन्नैरा- दित्यपृथिव्याकाशवाय्वग्निभिरभिधत्त इत्याह-आदित्यो मण्डलाभिमानी पुरुषो ह प्रसिद्धो वै स्मर्यमाणो वाह्योऽध्यात्मव्यतिरिक्तः । प्राणो मुख्यप्राण उदयति, उदयं गच्छति । एष बाह्यः प्राणो मण्डलामा पुरतः स्थित इति हि यस्मादेनं साक्षिप्रत्यक्ष चाक्षुषं चक्षुषि भवं प्राणं प्राणवृत्त्याख्यमनुगृह्णानोऽनुग्रहं कुर्वन्नुधतीत्यन्वयः । पृथि- व्यां पञ्चगुणायां विस्तीर्णायां मुवि या प्रसिद्धा बाह्यापानरूपा देवताऽधिष्ठात्री । सा पृथिवी देवतैषा प्रत्यक्षेव पुरुषेणानुभूयमाना । पुरुषस्य शिरःपाण्यादिमतः शरीरस्या- पानमाध्यात्मिकमपानवृत्तेआदमवष्टभ्य स्वशक्त्या सर्वात्मना गच्छन्तं विधायाभिधत्त इति शेषः । अन्तराऽऽदित्यपृथिव्योर्मध्ये यद्यः प्रसिद्धः समानसम आकाशः सर्वसमावकाश- कर्मा सोऽन्तराकाशः समानो बाह्यसमानवृत्तिभेदो वायुः प्रसिद्धः प्रभञ्जनो वीर्यवत्कर्मा व्यानो व्यानवृत्तिभेदो बाह्यः ॥ ८ ॥ तेजो दाहपाकप्रकाशकरं हप्र प्रसिद्धं *वावैव तेज एव न बाहा उदानवृत्तिभेदः । तेजस उदानत्वे हेतुमाह-तस्माद्यतस्तेज एवोदानस्तत उपशान्त- तेजा उच्छिन्नजाठरजातवेदाः करस्पर्शनानुपलभ्यमानोप्णिमा पुनर्भवमेतच्छरीरं प्रतिपद्यत इति शेषः । अथवा प्राणस्यैतद्विशेषणं व्यवहितं पुनः पुनः शरीरे शरीरे भवतीति पुनर्भवस्तं पुनर्भवम् । प्रतिपत्तिकालं सप्रकारमाह-इन्द्रियैर्वार्गादिभिर्मनस्यन्तःकरणे स्वस्ववृत्त्युपर मेण संपद्यमानैः संपत्तिं कुर्वद्भिः , यदेन्द्रियाणि मनसि संपद्यन्ते तदेत्यर्थः ॥ ९ ॥ यञ्चितो यदेव देवतिर्यगादिशरीरं सम्यगिति सर्वदा चित्ते यस्य सः यञ्चित्तस्तेन देवतिर्यगादिसंकल्पविशिष्टेन मनसा सेन्द्रियेण सहैषोऽन्तःकरणाभिमानी मुमूर्षुः । प्राणं पञ्चवृत्तिं मुख्यप्राणं मधुकरराजसममायात्यागच्छति ज्ञानशून्यः सन् , श्वासैकसहायः परिशिष्यत इत्यर्थः । प्राण उक्तः श्वासोच्छासकर्ता । तेजसा शरीरेण पाकप्रकाशोष्ण- कारिणोदानवृत्त्यात्मकेन । युक्तः संबद्ध उदानवृत्तिप्रधान इत्यर्थः । सहाऽऽत्मनाऽन्तः- करणाभिमानिना साकम् । यथासंकल्पितं कृतकर्मविद्याकशाघातसमुत्थितपूर्वप्रज्ञास्वविष. यीकृतं देवतिर्यगादि यादृशसंकल्पविषयं यथासंकल्पितम् । लोकं कर्मविद्याफलं भाविशरी- रमित्यर्थः । नयति प्रापयति ॥ १० ॥ स्वन्यदुदानो . . . .. Mera * भाध्ये “ ह वै." इति पाठ एवं धृतः । 18.

न शंकरानन्दविरचिता- [४ प्रभः] प्रासङ्गिकं प्राणोपासनस्य फलमाह-यः प्राणोपासक एवमुक्तेन प्रकारेणाऽऽत्मनः प्राणो जायते. मनःकृताभ्यां धर्माधर्माभ्यां शरीरं गृह्णात्यात्मानं च पञ्चधा विभज्य पायूपस्थ- योरपानं स्वं चक्षुःश्रोत्रयोर्नाभौ समानं व्यानं नाडीसमूह उदानं च सुषुम्नायां स्थापयत्युदा- नेनोस्क्रामति बाडैः प्राणापानसमानव्यानोदानैः सूर्यपृथिव्याकाशवाय्वग्निभिरान्तरोपकारकैर- ध्यात्मध्यतिरिक्तमान्तरैश्च बाह्योपकारकैरध्यात्म धारयति स एव चोदानवृत्तिप्रधानो लोकान्त. रमपि नयतीति विद्वान्ज्ञानवान् । प्राणं, पञ्चवृत्तिमात्मनश्छायारूपम् । बेद जानाति । न ह निश्चितं नेत्यस्य निषेधार्थस्य हीयत इत्यनेन संबन्धः । अस्य प्राणविदः । प्रजा पुत्रपौत्रादिसंततिरूपा । न हीयते न विनश्यति संततेरुच्छेदो न भवतीत्यर्थः । स्वयं च प्राणविज्ञानेन विशुद्धान्तःकरणसमुत्पन्नब्रह्मज्ञानोऽमृतो मरणकारणाविद्याशून्यो भवति स्पष्टं तत्चत्र प्राणविज्ञानेनोक्तोऽमृतो भवतीत्यस्मिन्नर्थे । एष वक्ष्यमाणः । श्लोको मन्त्रो भवतीति शेषः ॥ ११ ॥ उत्पत्ति प्राणस्याऽऽत्मनो जनिमायतिमायाम धर्माधर्मनिमित्तमागमनमित्यर्थः । अथवा छान्दसो दीर्घलोपः, आयातिमागमनम् । अथवाऽऽगमनस्योत्तरकालभावित्वादायत्या गमनमेव लक्ष्यते । स्थानं पायूपस्थचक्षुःश्रोत्रनाभिनाडीसमूहसुषुम्नाख्यमपानप्राणसमान- व्यानोदानानां स्थानम् । विभुत्वं चैव सूर्यपृथिव्याकाशवाय्वग्निभियाप्तं ( याप्तत्वं ) चकार उ (रादु )दानोस्क्रमणं च । एवकारो भिन्नक्रमः पञ्चधेत्यनेन संबध्यते, पञ्चधा बहिरध्यात्मं च सूर्यप्राणादिभेदैः पञ्चप्रकार एव न स्वधिको न्यूनश्च, अध्यात्मं चैवाऽऽ. स्मान शरीरमधिकृत्य वर्तत इत्यध्यात्म चकारादधिदैवमधिभूतं च । एवकारो भिन्नक्रमः प्राणस्येत्यनेन संबध्यते । प्राणस्य यद्यपि सूर्यादयश्चक्षुरादयश्च मुख्येन प्राणेन भेदरहि- तास्तत्रा( थाऽ )पि मुख्यस्य प्राणस्यैवैतद्विभूतिनातं न स्वन्यस्य. सूर्यादेविज्ञाय विशेषे. णोक्तेन प्रकारेण ज्ञात्वाऽमृतं मोक्षमश्नुते व्याप्नोति स्वेन प्रकाशेनाऽऽनन्दात्मरूपेण युक्तो भवतीत्यर्थः । विज्ञायामृतमश्नुते व्याख्यातं पादाभ्यासः प्राणविद्यापरिसमाप्त्यर्थः । इतिः प्रश्नसमाप्त्यर्थः ॥ १२ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचिता. यामाथर्वणप्रश्नोपनिषद्दीपिकायां तृतीयः प्रश्नः ॥३॥ अथ चतुर्थः प्रश्नः । प्राणस्यानात्मत्वे निर्धारिते तव्यतिरिक्तात्मस्वरूपनिर्धारणार्थमुत्तरो ग्रन्थ आरम्यते- अथ कौश( स )ल्याश्वलायनप्रश्नानन्तरं हैनं सौर्यायणी गार्यः पप्रच्छ मग. पन् , व्याख्यातम् । एतस्मिन्प्रत्यक्षे । पुरुषे शिरःपाण्यादिमति । कानि करणाति [४ प्रभः प्रश्नोपनिषद्दीपिका। १५ ' . 12 सभूतानि स्वपन्ति स्वापं कुर्वन्ति । कानि व्याख्यातम् । अस्मिन्पुरुषे जाग्रति जाग- रणं कुर्वन्ति, कतरः करणभूतयोर्मध्ये क एष ज्ञानवानहं पश्यामीतिप्रत्ययेन प्रत्यक्षो देवो योतनात्मकः । स्वमान्वासनाविलासाद्रथरथयोगादीन्पश्यत्यवलोकयति । कस्य भूतक- रणाद्यन्यतमस्य तथ्यतिरिक्तस्य वैतत्सौषुप्तं सुखमनुकूलप्रत्ययवेदनीयस् । भवति स्पष्टम् । कस्मिन्कुत्र । नु वितर्के सर्वाधारस्यापि प्राणस्य जायमानाद्विः (मानत्वाद्वितर्कः । सर्वे सप्राणभूतरूपा देवा निखिलाः । संप्रतिष्ठिताः सम्यक्प्रतिष्ठा प्राप्ताः । भवन्ति स्पष्टमित्यनेन प्रकारेण । अयमर्थः-वागादीनां साकाशादीनां प्राणपरतन्त्रस्वात्प्राणस्य धाऽऽमरणमनुपरमात्स्वप्नजागरणयोश्चोपलम्भात्स्वप्नेऽपि जागरणवयवहारदर्शनात्करणेष्वनु- परतेषु स्वप्नस्यासंभवाच्च स्वप्ने चक्षुरादीनामुपरमस्य जागरणेऽनुपरमस्य च दर्शनेऽपि कानि स्वपन्ति कानि जानतीति प्रश्न उपपन्नः । आत्मनोऽसङ्गोदासीनत्वात्प्राणस्य भूतस्याप्य- चेतनत्वाच्च चक्षुरादीनां चोपरतत्वात्स्वप्नानुभवस्य चाध्यक्षत्वात्कतर एष देवः स्वप्नान्पश्यती- त्यभि(पि) प्रश्न उपपन्नः । सुषुप्तेऽपि सर्वकरणोपरमादात्मनश्च सुखरूपत्वात्पूर्ववत्कस्यैतत्सुखं भवतीत्युपपन्नः प्रश्नः । प्राणविलक्षणस्याद्याप्यनधिगतत्वात्कस्मिन्नित्याद्यपि पृष्टमुपपन्नमेव । वागादीनां सप्राणभूतानामनात्मत्वकथनानन्तरमुक्ता एवैते प्रश्नाः, तथा च तथाऽक्षराद्वि. विधाः सौम्य भावा इति मन्त्रेणोक्ताक्षरस्य प्राणविलक्षणस्य भावानां च सप्नाणानां व्याख्या- नमप्युत्तरेणापि ग्रन्थेन क्रियत इति ॥ १ ॥ तस्मै गार्याय । स होवाच ब्याख्यातम् । मनःप्राणव्यतिरिक्तानि सर्वाणि कर- णानि स्वपन्तीत्यभिप्रायेण दृष्टान्तपुरःसरमुत्तरमाह- यथा दृष्टान्ते । गार्य हे गार्य । मरीचयः किरणाः । अर्कस्याऽऽदित्यस्यास्तं गच्छतः सायंकाले नयनपथागोचरं देश बजतः । सर्वा निखिला एतस्मिन्प्रत्यक्षे तेजोमण्डले ज्योतिर्बिम्ब एकी भवन्ति, एकतां गच्छन्ति तेजोमण्डलादर्शने न दृश्यन्त इत्यर्थः । ताः पुनरादित्यमण्डल एकता गता एव मरीचयः । पुनरुदयतः सवितुर्भूयो नयनपथमागच्छतो द्वितीये दिवसे । प्रच- रन्ति प्रकर्षेण विभागरूपेण गच्छन्ति सर्वासु दिक्षु, एवमनेन प्रकारेण ह प्रसिद्धं वै स्मर्यमाणं तद्वागादिकं मरीचिस्थानीयं सर्वं निखिलं पर उत्कृष्ट वागादिवृत्त्युत्पत्तिनिरो- धनिमित्ते । देवे सर्वव्यवहारकारणे । मनस्यन्तःकरणेऽर्कस्थानीये स्वप्नावसर एकी भवति स्पष्टम् । तेनैकीभवनेन हेतुना तहि तदा स्वप्नावसर एष प्रत्यक्षः पुरुषः स्थूलो देहो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नाऽऽदत्ते नाऽऽनन्दयते न विसृजते नेयायते । श्रोत्रचक्षुर्घाणरसनत्वकाग्यस्तो- पस्थपायुपादानां कर्मनिषेधकानि दश वाक्यानि स्पष्टानि । नेयायत इत्यत्र न गच्छतीति व्याख्येयम् । स्वपिति शयनं करोति, इत्यनेन प्रकारेणाऽऽवक्षने कथयन्ति विद्वांसः ॥ २॥ her - शंकरानन्दविरचिता- [४ प्रश्नः कानि स्वपन्तीत्यस्य बाह्यज्ञानकर्मेन्द्रियाणीत्युत्तरं जातं कान्यस्मिञ्जाग्रतीत्यस्योत्तर- माह-प्राणामय एवं प्राणाः प्राणवृत्तिभेदाः पञ्च त एवाग्नयः । यद्यपि जागरण श्रोत्रादीनां जागरणे जागरणस्वप्नयोश्च मनसस्तथाऽपि सुषुप्ते नैकस्यापि, प्राणस्य पुनरक- स्थात्रयेऽपि जागरणमेव तदभिप्रायस्त्वयमेक्कारः। एतस्मिन्प्रत्यक्षे पुरे नकद्वारे शरीरे जाग्रति जागरणं कुर्वन्ति । प्राणानामग्नित्वमुपपादयति प्रसङ्गेनोपासनार्थम्-गार्हपत्यो गार्हपत्याभिधेयोऽग्निर्निरन्तरं रक्षणीयोऽग्निहोत्रिभिर्ह प्रसिद्धो वै स्मर्यमाण एप साक्षि- प्रत्यक्षोऽपानो मलमूत्रापनयनकारी प्राणवृत्तिभेदः । व्यानो दक्षिणसुधिरस्थः प्राणवृत्ति- भेदोऽन्वाहार्यपचनो दक्षिणाग्निः । इदानीमफानस्य मार्हपत्यस्वे प्राणस्य चाऽऽहवनी- यत्व उक्ते वक्ष्यमाणे च साधारणं हेतुमाह--यद्यस्माद्गार्हपत्यादुक्तादनेः प्रणीयते प्रकर्षेण नीयते स्थानान्तरे पृथक्क्रियत इत्यर्थः । प्रणयनादाहवनीयः प्राण आधा- रस्थादपानागार्हपत्यस्थानीयात्प्रकर्षेणाऽऽस्यकुण्डमनीयाहुतिप्रक्षेपार्थमाहवनीयो नीयत इति प्रणयनेन हेतुनाऽऽहवनीयोऽग्निः प्राण इति ॥ ३ ॥ अपाच्यानंप्राणेषु गाईफ्त्यदक्षिणारत्याहवनीयाख्याग्नित्रय इ(६)ष्टिमुक्त्वेदानी सम- नईवासोच्यासमनउदानानामपूर्वाहुतियजमानेष्टफलत्वदृष्टिमाह-यद्यस्मादुच्छासनि- श्वासौ प्राणस्य शरीराङ्गहिर्गमनं पुनः शरीर आगमनं चैतावुत्तावुच्छासनिश्वासी द्वित्वसंख्यासामान्यादाहुती काले काले पयःप्रभृतिद्र्व्यप्रक्षेपेणाऽऽहवनीये संपन्ने द्वे आहुती ते समं नयति वातपित्तश्लेष्मणां त्वगादीनां च धातूनामशितपीतयोश्च समं समत्वं क्षोभराहित्यं यथा भवति तथा नयति प्रापयति शरीराहहिर्देशं शरीरं वाऽऽहुतिज. न्यापूर्ववदिति यस्मात्तस्मादपूर्व स समानः समानाख्यः प्राणवृत्तिभेदः । मनो ह वाव प्रसिद्धमन्तःकरणमेव सर्वव्यापारनिमित्तत्वसामान्येन यजमानो यागस्य कर्ता । इष्टफ- लमेव यागफलमेवोर्ध्वत्वसामान्यादानः सुषुम्नाचारी प्राणवृत्तिमेदः । स उक्त उदान एनं. संघाताभिमानिन्मात्मानं यजमानं मनउपाधिकमहरहर्नित्यं नित्यं सुषुप्तिकाले ब्रह्म सत्यज्ञानादिलक्षणमानन्दैकरसस्वभावं ब्रह्म गमयति प्रापयति । गार्हपत्योऽपान इत्याधु- क्तेन प्रकारेणोपासनं कुर्वतो ब्रह्मज्ञानोत्पादद्वारा मुक्तिरेव फलं भवतीत्येतहहिरेवावगन्त- व्यम् ॥ ४॥ .. . -:: कतर एष देवः स्वप्नापश्यतीत्यस्योत्तरमाह-अवास्या वागाद्युपरमरूपायां स्वप्ना- वस्थायामेष वागाद्युत्पत्तिविनाशनिमित्तभूतः साक्षिप्रत्यक्षो देवः सर्वसंसारव्यवहारका- रणमनआख्यः । स्वप्ने स्वप्नस्थाने महिमानं स्वात्मनो गिरिनदीसमुद्रादिरूपेण महत्त्वस- नुभवति स्वयमेव कर्तृत्वं प्राप्य स्वप्नवलादद्गच्छति ॥ महिमानमनुभवतीत्युक्तं तदेत- दुपपादयति-यप्रसिद्ध करिनरतुस्गादि दृष्टं दृष्टं क्यनपथमागतं पदाम्यासो वासना- प्राक्त्यमाह । अनु पश्चात्पूर्व जागरणे दृष्ट्रेत्यर्थः । पश्यत्यवलोकयति । श्रुतं ..

[४ प्रश्नः प्रश्नोपनिषडीपिका १७ - वासनानुपपत्तेः जोगॅरणावस्थायां श्रवणपथमागतं श्रुतमेव *श्रुतमेव न स्वन्यमथं विषयनातमनुशृ- णोति स्पष्टम् । देशदिगन्तरैश्च देशान्तरैहादिभिर्दिगन्तरैरुत्तराद्याशादिभिः, चकारा- दन्यैरपि कालादिभिर्निमित्तभूतैः प्रत्यनुभूतं प्रति प्रकर्षेण न केवलमित्यर्थः । अनुभूतम] धिगतं पुनः पुनर्भूयो भूयः स्वप्ने दिवसे दिवसे प्रत्यनुभवति अनेकवारमनुभवति ॥ यद्येवं तर्हि स्वप्नस्मृतिः स्यादित्यत आह-दृष्टं चादृष्टं च दृष्टं नयनपथमागतमदृष्टं नय- नसंप्रयोगमन्तरेण स्वप्नादिवदृष्टमत्यन्तादृष्टे । चकारौ प्रत्यनुभवतीति क्रिया- पदस्य संबन्धार्थौ । श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च श्रुतं श्रोत्रेन्द्रियसंबद्धं तद्विपरीतमश्रुतं प्रमाणव्यवधानेनान्तःकरणसंबद्धमनुभूतं तद्विपरीतमननुभूतम् । चकारौ पर्या- यद्वयेऽपि. पूर्ववद्व्याख्येयौ । सञ्चासञ्च दृष्टं श्रुतमनुभूतं सत्तद्विपरीतमसत्.। चकारौ पूर्व. वत्क्रियापदानुषङ्गाौँ । अथवाऽस्मिञ्जन्मनि 'दृष्टं :श्रुतमनुभूतं जन्मान्तरविषये सतीप्वपि वासनासु स्मृतेरभावादृष्टं श्रुतमनुभूतमप्यदृष्टमश्रुतमननुभूतम् । किं बहुना सर्व निखिलं पश्यति स्पष्टं, स्वयं च सर्वो निखिलदेवतिर्यगादिरूपः सन्पश्यति स्पष्टम् ॥ ५ ॥ इदानीं कस्यैतत्सुखं भवतीत्यस्योत्तरमात्मने एव भवतीत्यभिप्रायेणाऽऽह-स मन. आख्यो देवो यदा यस्मिन्काले तेजसा नाडीगतेन पित्ताख्येन ब्रह्मणा वाऽभिभूत- स्तिरस्कृतवासनो भवति स्पष्टम् । अवास्यां सर्ववासनोपरमरूपायां सुषुप्तावस्थायामेष देवः स्वमान्न पश्यति स्पष्टम् । अथ तदा यत्प्रसिद्धं ब्राह्मं स्वरूपं मनउपाधिक- मात्मनस्तदेतस्मिञ्शरीर एतत् , स्पष्टम् । सुखं सुखस्वरूपं पूर्वमपि तद्रूपः सन्वि. (पं सद्वि ) शेषज्ञानाभावाद्भवति स्पष्टम् ॥ ६ ॥ कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्तीत्यस्योत्तरमाह दृष्टान्तेन–स आत्मनि सर्वसंप्रतिष्ठावे प्रसिद्धो दृष्टान्तः । यथा दृष्टान्ते, सोम्य प्रियदर्शन गार्य वयांसि पक्षिणो वासो- वृक्षं सायंवासार्थं वृक्षं वासवृक्षमित्यर्थः । नित्यं नित्यं सर्वतो गत्वा पुनः सायंकाले संप्रतिष्ठन्ते सम्यक्तत्प्राप्तिफलत्वेन गच्छन्ति । एवमनेन प्रकारेण ह वै प्रसिद्ध स्मर्य- माणं तदुक्तं वागादिकं सप्राणभूतं सर्व निखिलं परेऽविद्यातत्कार्यतत्संस्कारेभ्यो व्यति- रिक्त आत्मनि स्वयंप्रकाशमान आनन्दात्मनि संपतिष्ठते सम्यगवतिष्ठते ॥ ७ ॥ सर्वशब्दार्थमाह-पृथिवी च पृथिवीमात्रा चाऽऽपश्चाऽऽपोमात्रा च तेजश्र तेजोमात्रा च वायुश्च वायुमात्रा चाऽऽकाशश्चाऽऽकाशमात्रा च चक्षुश्र दृष्टव्यं च श्रोत्रं श्रोतव्यं च घ्राणं च घातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चाऽऽदातव्यं चोपस्थश्चाऽऽनन्द- पितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च N- * मूले क्वचित् " तमेव " इत्यपि पाठो वर्तते । : ..

१८ शंकरानन्दविरचिता- [४ प्रश्नः] बुद्धिश्च बोद्धव्यं चाहंकारवाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च । आपोमात्राऽन्मात्रा । रसो रसनम् । तेजो ज्ञानशक्तिसामान्यमन्तःकरणचतुष्टयानुगतम् । विद्योतयितव्यमन्तःकरणचतुष्टयसा- मान्यस्यैव सामान्य विषयभूतम् । प्राणः क्रियाशक्तिः सूत्ररूप आध्यात्मिकबाह्यभेदभिन्नः । विधारयितव्यं सूत्रात्मन्योतं च प्रोतं च प्राणव्यतिरिक्तं निखिलं विश्वम् । द्वाचत्वारिंशच्च- कारास्तावद्भिः पादैः पर आत्मनि संप्रतिष्ठन्त इति वाक्यानुषङ्गार्थाः । वाक्यानुषङ्गाश्च यथावचनं करणीयाः । पृथिव्यादिपञ्चमहाभूतस्थूलसूक्ष्मज्ञानकर्मेन्द्रियताविषयान्तःकरणच- तुष्टयतद्विषयाभिधायकानि पदानि स्पष्टार्थानि ॥ ८ ॥ इदानीं सर्वाधारस्य परस्याऽऽत्मनो जीवाटुपाधिकृतभेदमन्तरेण भेद बास्यति एष हि एष एव सर्वाधारः पर एव न त्वन्यः कश्चन वस्तुतश्चक्षुर्धर्मानात्मन्यध्यस्यन्द्रष्टा चाक्षुष- ज्ञानस्य कर्ता ॥ एवं त्वक्श्रोत्रघ्राणरसनाहंमतिबुद्धिक्रियाशक्तिधर्मानात्मन्यध्यस्यत्यन्तः- करणोपाधिकः सन्वस्तुतः पूर्ण एवोक्तेन्द्रियज्ञानानां क्रियायाश्च कर्ता भवतीत्याह—स्पष्टा .., श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता, स्पष्टम् । मन्तृत्वादिपदत्रय उपलक्ष- गादिन्यायेन व्याख्येयाः (१) । विज्ञानात्माऽन्तःकरणोपाधिकः । पुरुषः परिपूर्णः परमात्मैव सन्ननाद्यविद्यावशादन्तःकरणविशिष्टः परिशयो मनुष्यत्वाद्यभिमानीत्यर्थः । सोऽपि मेदविवक्षायां परेऽक्षर आत्मनि संप्रतिष्ठत*इति शेषः ॥ ९ ॥ ननु यद्येष विज्ञानात्मा पुरुषो. द्रष्टुत्वादिगुणकस्तर्हि द्रष्टा श्रोतेत्यादिज्ञानात्पुरुषार्थः स्यादित्याशङ्कय नेत्याह-स प्रसिद्धोऽधिकारी यो यः कश्चनाधीतवेदान्तवाक्यो ह प्रसिद्धं वै स्मर्यमाणं तत्सर्वाधारभूतं विज्ञानात्मस्वरूपं द्रष्टुत्वादिगुणकं शरीरे वर्तमानम- .... च्छायं छायाऽविद्या सप्राणा तया वर्जितमच्छायमशरीरं शरीरमात्रशून्यमलोहित लौहित्यं तु रागस्तद्वाचिना लोहितशब्देन तत्कारणमन्तःकरणं लक्ष्यते तेनान्तःकरणशू- न्यमलोहितमत एव सर्वोपाधिराहित्याच्छुभ्रं सर्वोपाधिरहितं स्वयंप्रकाशमानानन्दात्मस्वरूः पमक्षरं विनाशरहितं व्याप्तिमद्वा वेदयते वेत्ति । योऽच्छायादिगुणकं वेत्ति स वेत्तात्य. भिप्रायः ॥ इदानीमच्छायादिविज्ञानिनः पुरुषार्थमाह-यस्तु यः पुनरच्छायादिविज्ञानी सोम्य हे प्रियदर्शन गार्य स उक्तोऽच्छायादिरूपज्ञानी सर्वज्ञः सर्वमस्मीति जानातीति सर्वज्ञः सर्वो भवति वर्तमाने शरीरे सर्वस्य वर्तमानोऽपि वस्तुतः सर्वरूपो भवति । तत्त. स्मिन्नर्थे सर्वाधारात्माच्छयादिरूपविज्ञानात्पुरुषार्थप्राप्तावेष श्लोकः मन्त्रः ॥ १० ॥ .: विज्ञानात्मा व्याख्यातम् । यद्यप्येष एव विज्ञानात्मा तथाऽपि. विज्ञानस्यान्तःकर- - * " इति शेषः" इति पदद्वयस्थाने स्पष्टमिति पदमपेक्षितं किंचैतदने परमेवाक्षरं प्रति. पवते " इति पदचतुष्टयं त्रुटितम् ।

[५ प्रश्नः] प्रश्नोपनिषद्दीपिका। णस्य वैशिष्टयं पृथगङ्गीकृत्य तस्यापि तस्मिन्प्रतिष्ठोच्यत इत्यविरोधः । परमात्मैवान्तःकर- णविशिष्टः सह देवश्च सर्वैनिखिलैः करणैर्वागादिभिर्देवशब्दाभिधेयैरपि साकं प्राणाः प्राणवृत्तिभेदाः पञ्च भूतानि पृथिव्यादीनि पञ्च महाभूतानि स्थूलानि सूक्ष्माणि स्थावरजङ्गमानि च संप्रतिष्ठन्ति संप्रतिष्ठन्ते । यत्र यस्मिन्पर आत्मनि विज्ञानात्मा- भिन्नेऽच्छायादिरूपे तत्सर्वाधारभूतमक्षरम् । वेदयते यस्तु सोम्य स सर्वज्ञो व्याख्या- तम् । सर्वमेव निखिलमेवाऽऽत्मत्वेनाऽऽविवेश समन्तात्प्रवेशं कृतवान्करोतीत्यर्थः । [इति मन्त्रसमाप्त्यर्थः ] ॥ ११ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचिताया- माथर्वणप्रश्नोपनिषद्दीपिकायां चतुर्थः प्रश्नः ॥ ४ ॥ अथ पञ्चमः प्रश्नः। अक्षरविज्ञानात्परपुरुषार्थप्राप्तिरुक्ता तत्प्रसङ्गेनोंकारस्याप्यक्षररूपत्वादोमित्येतदक्षरमिदं सर्वमित्यादिना ब्रह्मसमानत्वेनोक्तत्वाच्च तद्विज्ञानात्परः पुरुषार्थः स्यान्न वेति संदेहास्प्र- भोत्थाने तद्विज्ञानादपि परः पुरुषार्थः प्रकारान्तरेण भवतीत्येतदर्थमयं प्रश्न आरभ्यते- अथ गार्यप्रश्नानन्तरं हैनं शैब्यः सत्यकामः पप्रच्छ व्याख्यातम् । स ओंकार- ब्रह्मणोऽक्षरशब्दाभिधेयत्वाभिज्ञो यो यः कश्चन त्रैवर्णिको ह वै प्रसिद्धः स्मर्यमाणोऽधि- कारिगुणैः, तदद्भुतमिव] भगवन्हे भगवन्मनुष्येषु मनुनेषु मध्ये प्रायणान्तं मरणपर्यन्तमोंकारं प्रणवमभिध्यायीताभिध्यायेत्सर्वतो ध्यानं कुर्यात्कतममेषु तेषु परा- परविद्याफलभूतेषु कं वावैव परमपरमुभयं चे(वे)त्यर्थः । स ओंकाराभिध्याता तेनोंकार- ध्यानेन लोकं विद्याफलं जयति प्राप्नोतीत्यनेन प्रकारेण । तस्मै शैव्याय स होवाच व्याख्यातम् ॥ १ ॥ एतद्वा एतदेव सत्यकाम हे सत्यकाम परं चापरं च [ब्रह्म परं निरतिशयम- परमृग्वेदादिरूपं चकारौ यदस्ति यन्नास्ति च तदप्येतदेवेत्याहतुः ॥ ब्रह्मशब्दवाच्यमेतच्छ- ब्दार्थमाह-यत्प्रसिद्धः सर्ववेदेषु, ओंकारः प्रणवस्तस्मात्परमपरं च ब्रह्मोंकारस्ततो विद्वानोंकारव्याप्तिज्ञानवानेतेनैव सर्ववेदे प्रसिद्धेनोक्तेनोंकारेणैव न त्वन्येनाऽऽयत. नेनाऽऽश्रयेणैकतरं स्वाभिप्रेतं परमपरं वा ब्रह्म परापरयोब्रह्मणोर्मध्येऽन्वेति । शास्त्रो. पदिष्टेन मार्गेणोपास्य पश्चाद्गच्छति ॥ २ ॥ इदानी मात्राभेदज्ञानाद्विशेषफलान्याह-सोऽभिध्याता यदि पक्षान्तर एकमात्र. मेकमात्राकालमकारमात्रं वाऽभिध्यायीत व्याख्यातं स एकमात्राभिध्याता तेनैवैकमा- त्राध्यानेनैव न त्वन्येन संवेदित एकमात्राव्याप्तिं सम्यग्बोधितस्तूर्णमेष शीघ्रमेव न २० शंकरानन्दविरचिता- [५ प्रश्नः ] ::. परमैश्वर्यमनुभूय तु विलम्बेन जगत्यां स्थावरजङ्गमव्याप्तिमत्यां भूमौ तादात्म्येन तदधिष्ठातृत्वेन पाड़- भिसंपद्यते सर्वतः संपन्नो भवति । तं पृथिवीसंपन्नमृचः पादबद्धा मन्त्रा ऋग्वेदाख्या मनुष्यलोकं मनुजशरीरफलं सर्वगुणसंपन्नं सार्वभौमानन्दमित्यर्थः । उपनयन्ते सत्कृत्य समीपतः प्रापयन्ति । स ऋग्भिर्मनुष्यलोकं प्रापितस्तत्र तस्मिन्मनुष्यलोके तपसा स्वधर्म- वर्तनादिना ब्रह्मचर्येण सर्वात्मना मैथुनवर्जनेन श्रद्धया वेदोक्तार्थः आस्तिक्यबुद्धया संपन्नः संप्राप्तो महिमानं महत्त्वं स्वात्माभिन्नं मानुषमानन्दमित्यर्थः । अनुभवति साक्षात्करोति । एतदुक्तं भवति-ऋग्भिर्मनुष्यलोकं प्रापितोऽपि तपआदिवर्जितो न त लोकमनुभवति राजमन्त्रिभिः स्निधो राजश्रियं प्रापितः पान्थ इव पुण्यहीनो न राजश्रियमनु- भवतीति ॥ ३ ॥ अथैकमात्राव्यतिरिक्तेन यदि केनचिदैवयोगेन द्विमात्रेण द्विमात्रकालेनाकारोका. राभ्यां वा मनसि संपद्यतेऽन्तःकरणे संपन्नो भवति, अभिध्यायेदित्यर्थः । स मनसि संपन्नोऽन्तरिक्षमन्तरिक्षाधारं यजुभिरविवक्षितच्छन्दस्कैर्मन्त्रैर्यजुर्वेदशब्दवाच्यैरुन्नीयत ऊर्ध्व प्राप्यते सोमलोकं सोमस्य प्रियदर्शनस्य लोकं प्रियदर्शनं मनुष्यानन्दादभ्यधिका- नन्दं पित्रादिशरीरमित्यर्थः । स यजुभिः सोमलोकं प्रापितो ब्रह्मज्ञानहीनः सोमलोके व्याख्याते शरीरे विभूति साक्षात्कृत्य दुर्मन्त्रीवं महाराज(जा!) प्रसादे पुनरावर्तते पूर्वमपि तस्मात्प्रच्युतस्तमारूढो भूयः खरशूकरादियोनि ब्राह्मणादि. योनि वा स्वकर्मानुसारेणाऽऽगच्छति ॥ ४ ॥ यः पुनर्यस्तु प्रसिद्धः पूर्वेभ्योऽन्योऽभिध्यातैत बुद्धेष्टारमानन्दात्मानं त्रिमात्रेणा- कारोकारमकाररूपेण ॥ त्रिमात्ररूपमाह-ॐ अवतीत्योमित्यनेन प्रकारेण त्रिमात्रः । एतेनैवोक्तेन त्रिमात्रेणैव परमपुरुषाभिधानेनाभिन्नेनाऽऽलम्बनेनाक्षरेण वर्णात्मकेनावि- नाशिना व्याप्तिमता वा परमविद्यातत्कार्यतत्संस्कारेभ्यो व्यतिरिक्तं पुरुषं परिपूर्णम- भिध्यायीत व्याख्यातम् । सोऽभिध्याता तेजसि तेजोमण्डले सूर्ये शोभनाया गतेः कर्तरि संपन्नः सम्यक्प्राप्तः ॥ इदानीं सूर्य प्राप्तस्य पापविनिमोक्षे दृष्टान्तमाह-यथा दृष्टान्ते, पादोदर उदरमेव पादा यस्य स पादोदरः सर्प इत्यर्थः । त्वचा जीर्णेन कल्चुकेन विनिर्मुच्यते विशेषेण निःशेषेण मुक्तो भवति । एवमनेनैव प्रका- रेण ह प्रसिद्धो वै स्मर्यमाणः स सूर्य प्राप्तः पाप्मना पापाविनाभूतेन पुण्येन पापेन च विनिर्मुक्तो विशेषेण निःशेषेणासंबद्धः स. पापरहितः सामभिर्गीति- प्रधानमन्त्रैः सामवेदाभिघानैरुन्नीयते सूर्यादूर्ध्व प्राप्यते ब्रह्मलोकं कार्यस्य ब्रह्मणो निवासभूतं देशम् । स ब्रह्मलोकं प्राप्त एतस्माद्ब्रह्मलोकस्थानाद्धिरण्यगर्भाज्जीव- घनाजीवानां कार्यकारणात्मनां घनोऽखिलो जीवधनः सर्वकार्यकारणादिकारणमित्यर्थः तस्मात्परात्स्थावरजङ्गमेभ्य उत्कृष्टात्परमुत्कृष्टमुत्कृष्टाजीवघनात्पुरिशयं सर्वशरीरे शयानं .

- . [६ प्रश्नः ] प्रश्नोपनिषद्दीपिका। २१ पुरुषं परिपूर्णमीक्षते साक्षात्करोति । एवमुक्तं भवति, ब्रह्मलोक उत्पन्नब्रह्मसाक्षात्कारो विदेहकैवल्यं प्राप्नोतीति । तत्तस्मिन्नुक्तेऽर्थ एतौ वक्ष्यमाणौ श्लोको मन्त्रौ भवतः स्पष्टम् ॥ ५॥ तिस्रस्त्रिसंख्याका मात्रा मीयन्तेऽध्यात्ममधिभूतमधिदैवं च याभिस्ता अकारोकारम- काराख्या मृत्युमत्यो ब्रह्मदृष्टिमन्तरेण दृष्टा मरणवत्यः प्रयुक्ता एता एव ब्रह्मज्ञानमन्त- रेण स्वातन्त्र्येण ध्यानाय प्रकर्षणावगता अन्योन्यसक्ताः परस्परसंबद्धाः ॥ अन्योन्य- सक्तत्वमाह-अनविप्रयुक्ता विशेषेण प्रयुक्ता एकस्मिन्नर्थे ध्यानकाले संबद्धा विप्रयुक्ताः (न विप्रयुक्ता अविप्रयुक्ता नाविप्रयुक्ता अनविप्रयुक्ताः। विप्रयुक्ता एवेत्यर्थः।) क्रियासु कर्मरूपासु । क्रिया आह—बाह्याभ्यन्तरमध्यमासु जाग्रत्स्वप्नसुषुप्तिपुरुषविषयासु । अथवा यागादिक्रिया बाह्याः प्राणायामाद्या आभ्यन्तरा मानसजपाद्या मध्यमास्तासु बाह्या- भ्यन्तरमध्यमासु । सम्यक्प्रयुक्तास्वहं ब्रह्मास्म्येता अपि ब्रह्मणोऽभिन्ना इति सम्यग- वगत्य प्रक्रर्षेण कृतासु न कम्पते न चलति ज्ञो ब्रह्मवित् ॥ ६ ॥ ऋग्भिः पादबद्धैर्मन्त्रैरेतं मनुष्यलोकं यजुभिरविवक्षितच्छन्दस्कैर्मन्त्रैरन्तरिक्षम- न्तरिक्षाधारं सोमलोकं सामभिर्गीतिप्रधानमन्त्रैर्यत्तत्कवयो वेदयन्ते यत्प्रसिद्धं कवयः क्रान्तदर्शिनो ब्रह्मज्ञानिनोऽवगच्छन्ति तत्स्थानं ब्रह्मलोकाख्यमन्वेतीति त्रिष्वपि संबध्यते । किं बहुना तं स्वयंप्रकाशमानन्दात्मानमोंकारेणैवाऽऽयतनेनान्वेति विद्वान् , स्पष्टम् । तच्छब्दार्थमाह-यत्प्रसिद्धं वेदान्तेषु तत्तत्त्वमसीत्यादिनोक्तं शान्तं रागादिदोषरहितमजरं जरा शरीरवैरूप्यकारणं तया रहितममृतं मरणादिदोषर- हितमभयं द्वितीयाभावाद्भयवर्जितं परं चोत्कृष्टम् । चकारात्पूर्वोक्तमृग्यजुःसामप्राप्यम- परमपि [ इति वाक्यसमाप्तौ । ] ॥ ७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरानन्दयतीन्द्रविरचिता- यामाथर्वणप्रश्नोपनिषद्दीपिकायां पञ्चमः प्रश्नः ॥५॥ अथ षष्ठः प्रश्नः। है ओंकारेणावाप्यं परं ब्रह्मेत्युक्तं न तत्स्वरूपं निर्धारितं तन्निर्धारणार्थमयं प्रश्न आर- भ्यते-अथ शैब्यप्रश्नानन्तरं हैनं सुकेशा च भारद्वाजः पप्रच्छ भगवन् , व्याख्यातम् । हिरण्यनामो नामतः कौसल्यः कोसलायां भवो राजपुत्रः क्षत्रियः कस्यचिद्राज्ञस्तनयो मां भारद्वाजमुपेत्य समीपमागत्य विधिवदेनं (तं) mmar.ammad * एतदने 'सः' इति पदमधिकं कचिन्मूले तच्च भाष्यदीपिकयोर्न गृहीतम् ।

यस्य स षोडशकलस्तं त्वत्पृष्टं . २२ शंकरानन्दविरचिता- [६ प्रश्नः ] * वक्ष्यमाणं प्रश्नं प्रष्टव्यार्थमपृच्छतापृच्छस्पृष्टवान् । षोडशकलं षोडशसं- ख्याकाश्चन्द्रस्येव कला उपचयापचयहेतुभूता भारद्वाज हे भारद्वाज पुरुषं परिपूर्ण वेत्थ जानीषे, जानी, तं हिरण्यनाभं मा पृच्छन्तमहं भारद्वाजः कुमारं राजबालमबुवमुक्तवान् । नाहमिमं वेद, इमं षोडशकलं पुरुषमहं भारद्वाजो न जानामि । स्वाज्ञानेऽन्यथाऽनुपपत्तिमाह-यदि पक्षान्तरे, अहमिमं व्याख्यातम् । अवेदिषं ज्ञातवानस्मि कथं केन हेतुना । ते तुभ्यं राजकुमाराय शिष्याय नावक्ष्यं न कथयिष्यामि तस्मान्न जानाम्येवेत्यर्थः । इत्यनेन प्रकारेण । मैवं शकिष्ठा अयमनृतं वदतीत्येवमाह-समूलो वै+ सह मूलेन शुभकर्मविद्यादिना वर्तमानः समूल एवैषोऽनृतवादी परिशुष्यति सर्वतः शोषं गच्छति, इह परत्र वा सुखलेशेन शून्यः स्थावरजङ्गमैर्भूतैर्वाक्कायमनोभिस्तिरस्कृतस्त्रिविधदुःखाग्निना दंदह्यमानसर्वदेहेन्द्रियोऽयं भ्रमतीत्यर्थः । कः, यः प्रसिद्धोऽनृतवागनृतमयथादृष्टार्थवच- नमभिवदति सर्वतो ब्रूते । यस्मादेवं तस्मात्ततो नार्हामि न योग्यो भवाम्यनृतमय- थाभूतार्थ वक्तुं भाषितुम् । अयमर्थः—यो ह्यनृतवदनजं दोषं न जानाति स तु वदतु नामानृतमहं तु तदभिज्ञः कथमनृतं वदामीति । एवं मद्वाक्यं श्रुत्वा स राजपुत्रोऽयमपि या ( मा ) दृश इति मत्समीपागमनेन लज्जितस्तूष्णीं साध्वसाधु वेति मां प्रतिवचनम- दत्त्वैव रथमारुह्य स्वयानारूढः स्वं नगरं प्रवबाज प्रकर्षेण शीघ्रं जगाम । अनयाss- ख्यायिकयैतद्दर्शितं महर्टानां राज्ञां तपःश्रद्धादियुक्तानां मुनीनां च ब्रह्मविद्या दुर्लभा किमुतान्येषामिति । तं षोडशकलं पुरुष हिरण्यनाभेन मां प्रति पृष्टं त्वा त्वां प्रति पिप्प- लादं पृच्छामि व कुत्र प्रदेशेऽसौ षोडशकलः पुरुषः परिपूर्णः, इत्यनेन प्रकारेण ॥ १ ॥ तस्मै भारद्वाजाय पृच्छते । स होवाच व्याख्यातम् । इहैवास्मिन्नेव स्थाने न त्वन्यत्र । सामान्यत उक्तं विशेषत आह–अन्तःशरीरे शरीरस्य मध्ये हृदय पुण्डरीक इत्यर्थः । सोम्य हे प्रियदर्शन स हिरण्यनाभेन भवन्तं परिपृष्टः पुरुषः षोडशकलः पुरुषो यस्मिन्दृदय पुण्डरीकस्थे पुरुष एता वक्ष्यमाणाः षोडश षोडशसंख्याकाः कलाः कं ब्रह्म लीयते तिरस्क्रियते याभिस्ताः कलाः प्रभवन्ति प्रकर्षेण भवन्ति, यत उत्पद्य यस्मिन्वर्तन्ते लीयन्ते चेत्यर्थः । इत्यनेन प्रकारेण ॥ २ ॥ संक्षेपेणोक्त्वा विस्तरेणाऽऽह–स हृदयपुण्डरीकस्थः षोडशकलः पुरुष ईक्षांचक्रे चिन्तनं कृतवान् । तचिन्तितमर्थमाह—कस्मिन्नुx विचारे केन नाम तत्त्वेन क्रियावताऽ- हमसङ्गोदासीनोऽद्वितीयः क्रियाकारकफलशून्यः स्वयंप्रकाशमान आनन्दात्मोत्क्रान्त --- -- * कचिन्मूले “ एनम् ” इति पाठो वर्तते । + कचिन्मूले “ ह वै” इति पाठः । ४ भाष्य- कृता नुशन्दरहितः पाठ एव स्वीकृतः ।

[६ प्रश्नः ] प्रश्नोपनिषद्दीपिका। उत्क्रान्तेनोर्ध्व गतेन यथाश्रुतं वा कस्मिन्नुत्क्रामति सति, उत्क्रान्तो भविष्या*म्यूर्व गतः स्याम् । कस्मिन्वा कस्मिंस्तत्त्वान्तरे वाशब्दः क्रियान्तरनिर्देशार्थः । प्रतिष्ठितेऽ- वस्थिते । प्रतिष्ठास्यामि, अवस्थास्य इत्यनेन प्रकारेण विचिन्त्य प्राणस्य क्रिययाऽs- त्मनि क्रियामवलोक्य च ॥ ३ ॥ सोऽन्यक्रिययाऽऽत्मनि क्रियाकामी षोडशकलः पुरुषः प्राणमाधिदैविकं सर्वप्रा- णिसूत्रभूतमसृजतोत्पादितवान् ॥ तावता च संसारयात्राया निर्वाहमपश्यश्रद्धाद्या अप्यन्याः पञ्चदश कलाः ससर्नेत्याह-प्राणादुक्ताद्धिरण्यगर्भाद्भूतसूक्ष्मात्सर्वकारणा- ब्रह्मणः प्रथमजाच्छ्रद्धामास्तिक्यबुद्धिमसृजतेत्यनुवर्तते ॥ इदानीं शेषाण्यपि गणयति- खं वायुज्योतिरापः पृथिवी, स्थूलानि पञ्च महाभूतानि । इन्द्रियं मनः, भौतिकं ज्ञानकर्माख्यं चक्षुरादिकं वागादिकं च दशकमिन्द्रियं मनोऽन्तःकरणमन्नं प्रसिद्धं त्रोह्यादिकमदनीयमन्नादुक्ताद्वीयं शरीरेन्द्रियसामर्थ्य तपः शरीरशोषणादिरूपं मन्त्रा ऋग्यजुःसामाथर्वाङ्गिरसः कर्म ज्योतिष्टोमादिरूपं लोकाः कर्मफलभूताः सोमलोकाद्या लोकेषु चोक्तेषु चशब्दादन्येष्वपि नाम [च] देवदत्तो यज्ञदत्त इत्यादि नामधेयम्॥४॥ इदानीं पुरुषस्यास्य निमित्तमात्रत्वं न तूपादानत्वमितीमां शङ्कां वारयितुं दृष्टान्तेन षोडशकलानां पुरुष उपसंहारमाह—स दृष्टान्तः, यथा दृष्टान्त इमाः प्रत्यक्षा नद्यो गङ्गाद्याः सरितः स्यन्दमानाश्चलन्त्यः समुद्रायणाः समुद्रे गमनं यासां ताः समुद्रा- यणाः समुद्रं सिन्धुराज प्राप्य तादात्म्येन संबध्यास्तं गच्छन्ति अदर्शनं प्राप्नुवन्ति।। अस्तगमनं स्वयमाह-भिद्येते विनश्येते ता(श्यतस्ता)सां नदीनां नामरूपे गोत्या- दिकं नाम शुभ्रमधुरनीलत्वादिकं रूपं नाम च रूपं च नामरूपे । नामरूपभेदानन्तरं समुद्रः शब्दानुकरणमिति, अनुकरणार्थः । एवमनेन प्रकारेण प्रोच्यते प्रकर्षेण कथ्यते । एव- मेवानेनैव प्रकारेणास्य षोडशकलस्य पुरुषस्य परिद्रष्टुः सर्वतः सर्वसाक्षिण इमाः प्राणाद्या नामान्ताः षोडश कला व्याख्यातम् । पुरुषायणाः पुरुषं प्राप्यास्त गच्छन्ति भिद्यते चाऽऽसां नामरूपे पुरुष इत्येवं प्रोच्यते । समुद्रस्थले पुरुषेति तासामितिस्थले चाऽऽसामिति पाठतो विशेषः । ततः समुद्रनदीवाक्यवत्पुरुषकला- वाक्यं व्याख्येयम् । नदीनां सर्वैः प्राणिभिः प्रत्यक्षीकर्तुमशक्यत्वात्तासामिति निर्देशः । कलानां च प्रतिप्राणिप्रत्यक्षत्वादासामिति । चकारः कैमुतन्यायार्थः । नदीनामसमुद्रजाना मपि समुद्रे लयो दृष्टः किमुत पुरुषजानां कलानां पुरुषे लय इति । न चानेनैव निदर्शनेन पुरुषस्यानुपादानत्वं, लयमात्रत्वस्य निदर्शनत्वात् । विवक्षितांशपरित्यागेनान्यत्र निदर्शना- ङ्गीकारे सर्वत्रातिप्रसङ्गात् । स कलोपादान एष बुद्धेर्द्रष्टाऽकलो वस्तुतः कलारहितोऽ- * ' भविष्यामि ' इत्येतदप्र इतिशब्दोऽधिक: क्वचिन्मूले ।

२४ शंकरानन्दविरचिता- [६ प्रश्नः] . मृतोऽविद्यातत्कार्यतत्संस्कारमरणहेतुशून्यो भवति स्पष्टम् । तत्तस्मिन्घोडशकलाधारेऽ- कले पुरुष एष श्लोको [ व्याख्यातम् ] ॥ ५ ॥ अरा इव रथनामौ व्याख्यातं, कला यस्मिन्प्रतिष्ठिताः स्पष्टम् । तं कलाधार वेद्यं वेदनीयं साक्षात्करणीयं पुरुषं परिपूर्ण वेदयथा हे शिष्या मद्वचनादवगच्छ- तान्ये यूयं महद्भयः स्वशिष्येभ्यो वेदयत ब्रह्मविद्यासंप्रदाय प्रवर्तयतेत्यर्थः । ब्रह्मविद्यासं. प्रदायप्रवर्तनेऽस्माकं संसारो भविष्यतीति भीति मा कुरुत भवतामयं मया वरो दत्त इत्याह- मा वो मृत्युः परिव्यथा वो युप्मान्ब्रह्मविद्यासंप्रदायप्रवर्तकान्मृत्युर्विपरीतज्ञानरूपो मा परिव्यथा मा परिव्यथयतु । अथवा वेदयथ(था) जानीथ ॥ तज्ज्ञाने लाभमाह-वो ब्रह्म- ज्ञानिनो मृत्युर्मा परिव्यथाः ॥ इदानीं श्रुतिराह-इत्यनेन प्रकारेण ॥ ६ ॥ तान्भारद्वाजसत्यकामगार्याश्वलायनवैदर्भिकात्यायनान्ह किलोवाचोक्तवानेतावदे- वेत्थमेवाहं पिप्पलाद एतत्परं ब्रह्म व्याख्यातं वेद जानामि ॥ एवशब्दव्यावर्त्य स्वय- माह-नातः परमस्ति, अतोऽस्मादुक्ताद्ब्रह्मज्ञानात्परमधिकं मम वाऽन्यस्य वा नास्ति [इति श्लोकसमाप्तौ ] ॥ ७ ॥ एवं पिप्पलादेनोक्ते सति ते पिप्पलादशिष्या भारद्वाजादयस्तं स्वगुरुं पिप्पलादमर्च- यन्तो मनोवाकायैर्यथोचितं पूजयन्त इदमुक्तवन्त इत्याह-त्वं पिप्पलाद(दो) हि निश्चितं नोऽस्माकं भारद्वाजादीनां पिता जनकः । पितृत्व उपपत्तिमाह-यः प्रसिद्धो गुरुरस्माकं भारद्वाजादीनामविद्याया आवरणविक्षेपशक्तेः सर्वानर्थमूलायाः परं पार- मगाधजलायाः सिन्धोरिव परतीरमविद्यालेशशून्यमानन्दात्मानमित्यर्थः । तारयीस दर्श- यसि । इत्यनेन प्रकारेण । नमो नमस्कारः परमर्षिभ्य उत्कृष्टभ्योऽतीन्द्रियब्रह्म- विद्यासंप्रदायकर्तृभ्यो ब्रह्मादिभ्यः । नमः परमर्षिभ्यो व्याख्यातम् । वाक्याभ्यास उपनिषत्परिसमाप्त्यर्थः ॥ ८ ॥ इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥६॥ .. इति श्रीमदानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरानन्दाग- वतः कृतौ प्रश्नोपनिषद्दीपिका समाना ॥ 4...+4 * भाष्ये 'वैद यथा इति पृथक्पदे।

आदर्शपुस्तकोल्लेखपत्रिका । - प्रश्नोपनिषद आदर्शपुस्तकानि शुद्धीकरणार्थं येषां मिलितानि तेषां नामानि पुस्तकानां संज्ञाश्च प्रदर्श्यन्ते- (क.) इति संज्ञिता--प्रश्नोपनिषत्सटीकभाष्योपेता “बिब्लिओथिकाइ- ण्डिका" इतिग्रन्थावल्यां मुद्रिता, कैलासवासिना वे० शा० सं०. देवोपाबबालशास्त्रिणाम् । (ख.) इति संज्ञिता-प्रश्नोपनिषत्सटीकमाष्योपेता, श्रीयुतानां किये इत्युपादानामिन्दूरपुरनिवासिनां रा० रा० भाउ- साहेब बाळासाहेब इत्येतेषाम् । (ग.) इति संज्ञिता---प्रश्नोपनिषत्सटीकभाष्योपेता, काश्यां शिलामुद्रिता रा० रा० "महादेव चिमणाजी आपटे इत्येते- पाम् । मुद्रणकालः संवत्-१९४१ (घ.) इति संज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, वटोदरनिवासिनां श्रीयुतानां पटवर्धनोपाह्वानां रा० रा० "कृष्णराव मीमाशंकर" इत्येतेषाम् । (ङ.) इति संज्ञिता—प्रश्नोपनिषत्सटीकमाष्योपेता, वटोदरनिवासिनों श्रीयुतानां खेडकरोपाह्वानों रा० रा० "आनन्दराव लक्ष्मण" इत्येतेषाम् । (च.) इति संज्ञिता--प्रश्नोपनिषत्सटीकभाष्योपेता, बडलीग्रामनिवासिनां श्रीयुतानां वे रा० रा० मार्तण्ड दीक्षित इत्येतेषाम् । लेखनकालः शके-१७६९ (छ.) इति संज्ञिता–केवलप्रश्नोपनिषद्भाध्यमेव विंचूरग्रामनिवासिनां श्रीमतां रा० रा. "रावसाहेब" इत्येतेषाम् । (ज.) इति संज्ञिता–प्रश्नोपनिषत्सटीकभाष्योपेता, नागपुरनिवासिना श्रीयुतानां रा० रा० अप्पासाहेब बुद्दी इत्येते- " " 32. . षाम् । , (झ.) इति संज्ञिता-प्रश्नोपनिषत्सटीकभाष्योपेता, करवीरपुरनिवासिनां श्रीमतां वे० शा० सं० रा० रा० गुरुमहाराजानाम् । लेखनकालः संवत्-१८७८

[२]
केवलमूलपुस्तकानि।
(क.) इति संज्ञिता-प्रश्नोपनिषत्, पुण्यपत्तननिवासिनां श्रीयुतानां
भाऊसाहेब नगरकर इत्येतेषाम् ।
(ख.) इति संज्ञिता-प्रश्नोपनिषत, पुण्यपत्तननिवासिनां श्रीयुतानां
भाऊसाहेब नगरकर इत्येतेषाम् ।
(ग.) इति संज्ञिता-प्रश्नोपनिषत् , घटोदरनिवासिनां श्रीयुतानां राक
रा० दादासाहेब फड़णवीस इत्येतेषाम् ।
दीपिकायाः पुस्तकानि ।
(क.) इति संजिता--प्रश्नोपनिषद्दीपिका, वटोदरनिवासिनां पटवर्धनो-
पाह्वानां श्रीयुतानां रा० रा. कृष्णराव भीमाशं.
कर इत्येतेषाम् ।
(ख.) इति संज्ञिता--प्रश्नोपनिषद्दीपिका समूला, मुम्बापुरनिवासिनां
वे० शा० सं० रा० रा० जयकृष्णमहाराजानाम् ।
.
समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका ।

Prashnopanishat

Author
Hari Narayan Apte
Other authors
--
Title
Prashnopanishat
File name
Prashnopanishat
Text
OCR done
Citation
1911
Published
2-03-2006
Publisher
Anand Printing Press
Language
Sanskrit
Pages
104
Library
Jayakar Library , Pune
Classification
Religion
DLI number
496152
Barcode
1999990083028.00
Scanning centre
Pune University
Digital publisher
Jayakar Library , Pune
Rights
Author
VMLT id
cJhd46bzR0X
Download PDF

Prashnopanishat