Svi-ksri-chennai

Sugamasan'skrxtapaat'havalii Trxtiiyo Bhaagan'

Anantanaaraayand-a

PDF Proofread

Front matter

No text on this page.

With the best regards of the annor
सुगमसंस्कृतपाठावली
(तृतीयो भागः)
THE KUPPUSWAMI SASTRI
RESEARCH INSTITUTE,
MADRAS.
पि., एस्. अनन्तनारायणशास्त्रिणा
विरचिता.
928
ADVANCE COPIES
1930
COPY RIGHT.1
[PRICE SIX ANNAS.

No text on this page.

FOREWORD. In preparing this series of Sanskrit Readers care has been bestowed upon the choice of matter, gradation of lessons, purity of expression and chastity of idiom. The syllabus has been strictly adhered to and only the required minimum has been embodied in each Reader. The little excess in the number of pages seen in some parts is due to the insertion of a few illustrations. In the preparation of this series I have been solely guided by my own experience as a teacher and I hope this will meet the requirements of our schools. MAHARAJA'S COLLEGE, ERNAKULAM 25-8-'38. P. S. A. SASTRI.

No text on this page.

वि ष य सू ची
M
९
१२
१४
१. जीमूतवाहनः
२. हैमो नकुलः
३. दिशो विदिशश्च
४. सुभाषितानि
५. संसर्गस्य प्रभावः
६. अपकृतावप्युपकृतिः
७. सृष्टिजातम्
८. एकलव्यः
९. विद्याथिकृत्यम्
१०. सुभाषितानि
११. हेमहरिणः
१२. वयं पञ्चोत्तरं शतम्
१३. श्रीरामोदन्तः (बालकाण्डः)
१६
२१
२४
२६
३०

No text on this page.

तृतीयो भागः प्रथमः पाठ जी मूत वा ह नः जीमूतकेतोर्विद्याधरराजस्य तनयो जीमूतवाहनः शैशवात्मभृति प्रशान्तः कारुणिकश्चासीत् । स स्वीयं राज्यं हर्तुकामेभ्यः सामन्तेभ्यः स्वयं समर्प्य तपसे पितृभ्यामन्धि- तो मळयाचलमगृच्छन् । तत्र प्रबय सौ पितरौ शुश्रूषमाणः कालमनयच ॥ एकदा स वीगाखनमिलितेन मधुरेण गीतेनाकृष्टो गौरीमन्दिरं प्रविष्टो देवीमाराधयन्ती मनोहराकृति मलयवती नाम विश्वावसोर्दुहितरं दृष्ट्वा तस्यामन्वरज्यत । सापि जीमू- वाहने सक्तचिवाभवत् । अथ तौ पित्रोरनुमत्या नित्तप- रिणयौ सुखमवसताम् ॥

2 - जीमूतवाहनस्य तु मानसं परोपकारस्यावसरमलब्ध्या द्यमानमवर्तत । कदाचन स्यालेन मित्रावसुना सह जलधेः कूले संचरन् स पर्वताकारमस्थिनिकरमवलोक्य केषामिमा- न्यस्थीनीति तमपृच्छत् । तार्येण प्रतिदिनं भक्षितानां भुजगानां तान्यस्थीनीति तद्वाक्यादवगृत्य तार्क्ष्यस्य तां निष्ठरतामनिन्दन । आत्मत्राणायाश्रितजनं नाशयतो नाग- राजस्य नित्रपतागईयच्च ॥ अथैकदा स्वयमेकाकी समुद्रतीरं. गतो जीमूतवाहन एकपुत्र शङ्खचूडं नामं नागमनुसरन्ती मुहुविलपन्तीं तन्मातरं प्रेक्ष्य वां शोकहेतुमपृच्छत् । 'अद्यायमेकपुत्रो मे नागगजेन गरुडाय समर्पिती वध्यशिलामारोदु व्रजतीति तया निवे. दितो जीमूतवाहनः स्वदेहं दत्वा तं गरुडात्परित्रातुं मतिम- करोत् ॥ यावदेष नागो गोकर्णेश्वर' प्रणम्य वध्यस्थानं न निवर्तते तावदेव विद्यापरवीरः श्वशुरेण संमानित रक्तांशु- कं वध्यचिह्न धारयन् वध्यशिलामध्यतिष्ठत् । क्षुधान्धो गरुडः सत्वरमुपेस्य तं खादितुं माक्रमत । खाद्यपानस्यापि

3
तस्य निर्विकारतामालोक्य संभ्रान्तो गरुत्मान् खादना-
घरपत् । जीमूतवाहनस्तु तं सुधीरमकथयत् 'पक्षीन्द्र,
किमिति तृप्तेः प्रागेव भक्षणाद्विरतोऽसि' इति ॥

-4 - जीमूतवाहनस्यासाधारणेन सत्वेन जातविस्मयो गरु. मांस्तन्मुखासर्व वृत्तान्तमुपलभ्य पश्चात्तापेन पर्याकु- लोऽभवत् । गोकर्गनिलयानिवृत्तः शङ्खचूडोऽपि स्वनि- मित्तांतस्यापदमवगत्य शोकसागरे न्यमज्जत् ।- विदिववृत्ता- न्तौ पितरौ चासन्ननिर्यागं तमुपेत्यानुशोचितुपारभेवाम् । सावद्गरुडः स्वविक्रमेणामृतदृष्टिं विधाय विद्याधर- पतिमजीवयत् । जीमूतवाहनगिरा तदापभृति कारुणिकतां प्रपन्नो गरुडो भक्षिवपूर्वानपि नागानस्थिध्वमृतमासिच्य पुन- रजीवयत । नागवैरं सर्भत्सना परित्यज्य तेषामभयं च पद- त्तवान् ॥ जीमूतवाहनो गौर्याः प्रसादेन नष्टं राज्यं पुनर्लन्ध्या विद्याधरसाम्राज्ये व्यराजत च । सोऽयं जीमूतवाहनस्त्या. गिनामग्रेसरस्य बुद्धदेवस्यावतार इति पुराविदो वदन्ति ॥

- 5- द्वितीयः पाठः है मो न कुलः राजा युधिष्ठिरो हयमेधं यज्ञमाहृतवान् । तस्मिन् महाक्रतो संमिलिता महर्षयो महीसुरा नृपतयो विद्वांसश्च राज्ञा यथोचितमपूज्यन्त । पृथगजना अध्याचण्डालेभ्यो भोज्यादिभिरतयंन्त । ततः संतुष्टाः सर्वे जना राज्ञो वदा- न्यतां प्रशंसितुमारभन्त ॥ तथा प्रशंसत्सु जनेषु हेमपार्श्वः कोऽपि नकुलो यज्ञ- शालां प्रविश्य मनुष्यवाचैवमुञ्चैरभाषत । 'अलमलमनया प्रशंसया । नायं यज्ञः कुरुक्षेत्रमध्यूषुष उञ्छतृत्तेनिव- रस्य सक्तुपस्थदानेनापि साम्यमहति ' इति । एतद्भाषित माकर्ण्य विस्मितमानसास्तत्रत्यास्तं नकुलं द्विनवृत्तान्तम- पृच्छन् । सोऽवदत् श्रूयतामुञ्छवृत्तेः पावनं चरित- मवधानेन ॥

6. - आसीत् कुरुक्षेत्रे कश्चिदतिधार्मिकस्तपोधनो द्विजवरः । स चोच्छेन वृत्ति निर्वहन्ननेहसमयापयत् । कदाचन महति दुर्भिक्षे कुछ।लब्धेन धान्येन सक्तुपस्थं संपाद्य स तं चिरा- दुपोषितस्य कुटुम्बस्यात्मनश्च सपं व्यभनत ।। ततो मोक्तुमारब्धवति ब्राह्मणकुटुम्बे क्षुधित; कोप्य तिथिस्ततागतः । सोतिथिाह्मणमन्नमयाचत । ब्राह्मगस्तत्क्ष. णमात्मनो भागमतिथये प्रायच्छत् । अतिथिस्तं भुक्त्वा न तृप्तिमभजत । तदा द्विजस्य पत्नी स्वमंशं तस्मै दत्तवती । तेनाप्यतृपते तस्मै द्वि नस्य सूनुः स्नुषा च स्वांशी समाप- यताम् । एवं कृत्स्नं तत् कुटुम्बकमात्पत्यागेनातिथिमपूजयत् । वस्तुतः सोऽतिथिर्द्विजं परीक्षितुमिच्छया धृतशरीरो धर्म एवासीत् । द्विजकुटुम्मस्य त्यागमहिम्ना परितुष्टे च तस्मिन देवास्तानतिधार्मिकान विमानेन वर्गमनयन् ।। अथ द्विजगृहे पतितेषु सक्तुलवेष्वेषोऽहमलुट्यम् । तेन मे पार्श्वमेकं हैममजायत । ततोऽन्यदपि पार्श्व हैमें कर्तु- कामस्तदाप्रभृति सर्वेषु यज्ञेषु वन्नहमिहापि तदर्थमेवाग-

No text on this page.

No text on this page.

तोऽस्मि । अत्रापि मे न फलितो मनोरथः । अतो नायं
यज्ञः सत्तुदानस्य साम्यमर्हति इति ॥
निष्ककोटि महीपालो दत्वा यल्लमते फलम् ।
नि:स्वो वराटिकां दत्वा ततोऽपि लभतेऽधिकम् ॥
तृतीयः पाठः
दिशो वि दि श श्च
यं कमप्यपरिचितं देशं गता यूयं केनोपनायेन दिशो
ज्ञातुं प्रभविष्यथ ? आदित्यस्योदयं दृष्ट्वा दिशो निर्णेतुं प्रभ.
वामः । तथा हि, आदित्यो यस्यां दिश्युद्गच्छति सा
पाची । सा पूर्ण दिक् इत्यपि व्यवतियते । पूर्वाभिमुखं
तिष्ठतो दक्षिणः करोऽवाची दिशं लक्षयति । तथा तिष्ठतः
पृष्ठतो या दिक् सा प्रतीची । पूर्वाभिमुखस्यैव पुंसो वामः
कर उदीची दिश च लक्षयति ॥

8 पाची, अवाची, प्रतीची उदीची, एताश्चतस्रो दिश उच्यन्ते । अवाच्या दक्षिणेति, प्रतीच्या पश्चिमेति उदीच्या उत्तरेति च नामान्तराणि ॥ चतमृणां दिशामन्तराले चतस्रो विदिशः सन्ति । दक्षिणस्याः पूर्वस्याश्च दिशोरन्तरालं दक्षिणपूर्वेत्युच्यते । एवं पूर्वोत्तरा, उत्तरपश्चिमा, पश्चिमदक्षिणा चेत्यन्यास्तिस्रः विदिशः । पादक्षिण्यक्रममाश्रित्य विदिशां पूर्वदक्षिणा, दक्षिण- पश्चिमा, पश्चिमोत्तरा, उत्तरपूर्वा इत्यपि संज्ञाः कृताः । विदिशामपि कचिदिगिति. संज्ञया निर्देशो दृश्यते । यथा अष्टौ दिक्पाला इति ॥ पूर्वादीनामष्टानां दिशामिन्द्रादयोऽष्टौ पतय इति पौरा- णिकैरुच्यते । तथा चोक्तम् ॥ 'इन्द्रो वह्निः पितृपतिनिर्तिवरुणो मरुन् । कुवेर ईशः पतयः पूर्वादीनां दिशां क्रमात् ।।

_9- अस्मिन् श्लोके दिशस्तत्पतयश्च पादक्षिण्यक्रमेग निर्दिष्टाः । पाल कानां संबन्धेन दिशां ऐन्द्री, आग्नेयी, याम्या इत्यादयो व्यपदेशाश्च भवन्ति । यूरोपीयैः शास्त्र विद्भिर्दिशां ज्ञापनाय निर्मितो यन्त्र- विशेषो यहाणां तारकाणां चादर्शनेऽपि दिनिर्णयायोपयु- ज्यते । समुद्रयात्रायां सततं व्यापृता नाविका एनेनैव यन्त्रेण दिशं निर्णीय तरणीः प्रार्थितं प्रदेशं नयन्ति ॥ चतुर्थः पाठः सु भा पिता नि सेवितव्यो महावृक्षः फलच्छायासमन्धितः । यदि दैवात् फलं नास्ति च्छाया केन निवार्यते

10
-
कितनीया हि विपदा
पादावेष पतिक्रिया: ।
न कूमखमनं मुकं
प्रदीप्ते वहिम गृहे
अपराधो म मेस्तीति
नैतहियासकारणम् ।
विद्यते हि नृशंसेभ्यो
भयं गुणवतामपि
यत्र विद्वज्जनो नास्ति
श्लाघ्यस्तताल्पधीरपि ।
निरस्तादरे देशे
एरण्डोऽपि दुमायते
हीनसेवा न कर्तच्या
कर्तव्यो महदाश्रयः ।
पयोपि शौण्डकीइस्ते.
वारुणीत्यभिधीयते
।।४।।

11-
अयं निज पसे वेति
गणना लघुचेतसाम् ।
उदारचरिवानां तु
वसुधैव कुटुम्बकम्
॥ ७॥
अखिलेषु विहंगेषु
हन्त स्वच्छन्दचारिषु ।
शुगस्य पजरे बन्यो
मधुराणां मिरां फलम्
गुणवद्वस्तुसंसर्गात्
याति खल्पोऽपि गौरवम् ।
पुष्पमालानुपङ्गेन
सूत्र शिरसि धार्यते
॥ ८ ॥

12 - पञ्चमः पाठः संसर्ग स्य प्रभा कः आसन्नप्रसवा कापि केसरिणी आमिष लन्धुकामा छागयूथस्य मध्यमुदप्तवत । प्लुतिवेगेन चलितो गर्भस्तस्या उदरादत्रंसत । सा च तद्वेदनया तत्क्षणं प्रश्चतामगछत् । अजयूथे पतितः सिंहशिशुरजैः सममेवात । स सिंह- शाबकः सन्नपि च्छागशिशुभिः समं तृणानि चरंश्छाग इव विरुवंश्च तत्र तत्र समचरत् ।। अथैकदा कश्चन सिंहस्तन्मेषयूथमन्वधावत् । भयत्र- स्तेषु मेषेषु पलायमानेषु तैः समं वर्धमानः स सिंहशाव- कोऽपि पलायितुमारभत । सिंहस्तदालोक्य नितान्त विस्मि- तोऽभवत् । तं सिंहशाचकमुपगम्य 'सिंहोऽसि' इति वक्तुं. बहुधा पायतत च । आत्मानम मन्यमानः स शावकस्तु यथा यथा सिंह उपासरत् तथा तथा दूरमपासरत् ।।

13. अपरेस्तस्मिन् सिंडशा के स्वानि स सिंहः शनै- स्तनिकटमगच्छत्, तं स्वापात्मवाध्यैवमवदच । 'मल भयेन, त्वमपि मादृशः सिंह एवाप्ति, तदनानां सर्ग विहायास्मा- हजैः संगच्छेयाः" इति । असकृत्तस्येवं वदतोऽपि * सिंह- शिशुरात्पानम जमेव पन्यमानः क्रन्दितुमुपाक्रपत ।। तावत्स सिंहस्त सिंहशिशु सरसः समीपं नीत्वा समीक्ष्यतामन पयस्यायोः प्रतिबिम्बम्' इत्य कथयत् । तदा. नीमजमात्मानं मन्यमानः सिंहशिशुरात्मनस्तत्वमगबुध्यत । सहसैव स सिंहबर्जितं कुर्वागः केपरिगा यूयमाविष्टः करिणां कपोलोत्गटने पाटवमविन्दत च ॥ आत्मनस्तत्त्वमज्ञात्वा परितःस्थितिभिर्वयम् । परिभूताः पतिदिनं भवामः क्लेशभाजनम् । * अनादरे षष्ठी "- 14 - षष्ठः पाठः पिकृता वप्यु पकृतिः एकस्मिन् दिने कोऽपि राजकुमार आत्मीये प्रासादे सुखेन पर्यङमध्यासीनोऽवर्तत । मध्याह्ने बुभुक्षया पिपासँया च नितान्तमर्दितः कोऽपि पुलिन्दः प्रासादद्वारमुपेत्योचरेव- मभाषत । 'महाराज, बुभुक्षया पिरासयी च में माणा गत- प्रायाः । पदमपि चलितुमक्षमोऽस्मि । कृपया मे किंचिः दन्नं पानीयमानं वा प्रदीयताम्' इति ॥ आत्मनः सुखावस्थितेरुपरोधेन कुपितो राजकुमारः परुपया गिर। तं प्रत्यभाषत । 'दरमपसर, नो चेत् किंक- रैस्त्वां बहिनिष्कासयेय' इति । एतदाकर्ण्य नितान्तमुद्विमः स पुलिन्दस्तूष्णीमन्यत्रांपसरति स्म ।। अथातीतेषु कतिपयेषु दिवसेषु स राजकुमारो मृग- यायै काननं प्रातिष्ठत । कानने तन्त्र वन पर्यटनसौ भा. नोरस्तमयं यावन्मृगयायामेव व्यापृतोऽयतेत । अस्तं गते 15 सवितरि राजधानी प्रति निवर्तितमक्षमः पन्थानमप्यनवधा- रयनितरामक्लिश्यत । अन्ते स कस्यचित् पुलिन्दस्य पर्ण- कुटीमुपागच्छत् ॥ से पुलिन्दस्तमातथि महतादरेण प्रत्युद्गम्य पाद्यमुप- नीय यथावदुपाचरत् । तस्मै मधुराणि वन्यानि फलानि भोज्यानि चाकल्पयत् । पल्लवैरतिमृदु शयनीयं च मारचयत् । मृगयांश्रान्तः से राजपुत्रस्तां रात्रि तत्र सुख- मेवात्यवाहयत् । सज्ज- - पातः स्वनगरी गन्तुकाम नृपकुमारं पुलिन्दः पृच्छ- ति में। 'महाराज, कि मां प्रत्यवबुध्यसे ? इति । यावद्राजसूनुस्तस्य वदनं सम्यगालोकयत् तावत्सोऽयं पूर्व- मात्मना परुपैर्वचनैर्भसितः पुलिन्द इत्यवागच्छत् । आत्मनो निष्ठुरतायो जातलज्जः स राजपुत्रः पुलिन्दस्य तथाविधां साधुतां पति महान्तं विस्मयमभजत च ।।

16
-
सप्तमः पाठः
सृष्टि जा तम्
लोकेस्मिन् विधाला निमितानि वस्तूनि प्रथमत एवं
द्विधा विभागमईन्ति । चराणि अचराणि चेति । चरस्य
जङ्गममिति अवरस्य स्थावरमिति च नामान्तरे । ये खलु
प्राणवन्तो मनुष्याः पक्षिमृगादयश्च स्थानात स्थानं व्रजन्ति
ते जङ्गमाः । ये तु मृत्लाषाणादय एकस्मिन्नेव स्थाने
गमनं विना वर्तन्ते ते स्थावराः ॥
अपरेणापि प्रकारेण पदार्थानां विभागः कर्तु श
क्यते । चेतना अचेतनाश्चेति । वृक्षलतादीनामपि चैतन्यम.
स्तीत्ययमर्थः पुरातनैारतीयैरवगत एव । यतस्ते वृक्षादीनपि
शरीरिणां मध्ये गुणयन्ति । कृतकिल्विषाणां मानुषागां
वृक्षात्मना जन्म च वर्गयन्ति ॥
येषां शरीरं विद्यते तानि चेतनानि इतराण्यचेतनानि ।
चेतनाश्चतुर्धा भवन्ति । जरायुनाः, अण्डजाः, स्वेदनाः,

.-
-11-
उद्भिजाश्च इति । मानुषाः, चतुष्पादश्च जन्तवो जरायुजाः,
ये स्तन्येन शिशून् पोषयन्ति । पक्षिसादयः अण्डजाः ।
मशकदंशादयः स्वेदनाः । वृक्षलतादय उद्भिज्जाः, ये भूमि-
मुद्भिद्य जायन्ते ॥
अण्डाज्जायमानाः पक्षिणो द्विना इत्यपि कथ्यन्ते ।
यतस्तेषामण्डात् प्रादुर्भावो द्वितीयं जन्म गण्यते । भूमौ
सर्पन्नः सर्पगोधादयः सरीसृपा इति च व्यवह्नियन्ते ॥
माणिनां शरीरं पञ्चभिभूतैः संकलितमिति शास्त्रविदो
बदन्ति । पृथिवी, सलिलम्, तेजः, वायुः, आकाशं इत्ये-
तेषां भूतानां गन्धः, रसः, रूपं, स्पर्शः, शब्द इत्येते यथा-
क्रम विशिष्टा गुणाः । भूतनिर्मितेषु शरीरेषु सर्व एते गुणा
उपलभ्यन्ते च ॥
एवंविधमनेकधा विभक्तमिदं प्राणिजातमस्माकं हग्वि
षयो भवति । दृष्टेरगोचरा असंख्येयाः प्राणिजातयो वायौ

- 18 - जले च वर्तन्त इति यन्त्राणां साहाय्येन नवीनैः शास्त्रविद्भि- रुपज्ञातमस्ति ॥ सहस्रधा द्योतमानं प्रपञ्च परमाद्भुतम् ।। इच्छामात्रेण सृजते तस्मै सर्वात्मने नमः ॥ अष्टमः पाठः एकलव्यः भर्तगटेषु पाण्डवेषु च ोषाचार्यादखवियां शिक्ष- माणेषु निषादराजस्य हिरण्यधनुषः सूबुरेकलव्यो द्रोणला शिल्पमा लाभुकामस्वमुखागच्छत् । मिनातेनिषादस्य शिमण द्रोणो नान्बमोदव । परंतु तस्य निर्बन्धविरतले तमेवमभाषत । 'स्वमपि मे शिष्य एवासि । अस्त्रविद्यायां पाटवं च ते भविष्यति' इति ॥ द्रोणस्य बासि सुन्दया भत्या हृदये धारयन्मेक- लव्यों बन प्रतिनिवृत्तो मन्मयं द्रोणमाचार्यपदे निशान

No text on this page.

No text on this page.

19 - स्वयमखाण्यभ्यसितुमारभत । गच्छता कालेन सोऽस्त्र वि. द्यायां द्रोणशिष्यागापग्रेसरात् सव्यसाचिनोऽपि पटुतरः समजायत ।। एकदा कौरवाः पाण्डवाश्च मृगयायै काननं प्रावि- शन् । तेषां किंकरमनुसरन् सारमेयो यदृच्छया मलिन. तनोनिषादसूनोनिकटं गतस्तमभिलक्ष्य भषन्नवातिष्ठत । निषादसूनुः सप्त सायकान् सारमेयस्य वदने युगपदेव न्य- खनत् । स श्वा रुजार्दितः पाण्डवानुपागच्छत् । एकलव्यस्य तादृशेनाललाघवेन विस्मितास्ते तमुप. गम्य 'को भवान्' इत्यपृच्छन् । 'निषादराजस्य सूनुं द्रोण- शिष्यमे कलव्यं मामवगच्छत' इति तेन प्रत्युक्तास्ते द्रोणा- चार्य तवृत्तान्तं वक्तुकामास्त्वरितं राजधानी न्यवर्तन्त ॥ अस्त्रविद्यायामेकलव्यस्य पाटवातिशयमवलोक्य बाण- विद्ध इव दीर्णान्तरङ्गः फल्गुनो गुरुमेव न्यवेदयत् । 'धनु- दे निरुपमोसीत्यसकृत् भवता श्लाधितोऽहम् । मत्तोपि - 20- - पटुनरो भवतः शिष्यो निषादसूनुरयामाभिने विलोकित.' इति ॥ तत्क्षणं चिरविस्मृतो निषादसूनुद्रोणस्य स्मृतिपथमा- रोहति स्म । अर्जुनस्य यशश्शशाङ्क यसिष्यमाणं तं शिष्यपक्षपाती द्रोणः केनाप्युपायेनावपयोगेऽसमय विधातुं निरणयत् ॥ अर्जुनेन साकं वनं गतो दोणः सततं सायकानस्य- न्तमेकलव्यमवैक्षत । स तु गुरुमागतं भक्त्या प्रणम्य 'किं करवाणि' इति बद्धाञ्जलिरयाचत । 'गुरुदक्षिणा दीयताम्' इति वदन्तं द्रोणं 'केन भवान् परितुष्येत्' इति निषादसू- नुः पृष्टवान् । 'उपहियतां ते दक्षिणकराङ्गुष्ठः' इति द्रोणो निर्दयमभणत् । निषादसूनुर्वजोपमां तद्वाणीमाकर्याप्पचञ्चलो धीर- तायामपि स्वस्य क्षत्रियादतिशयं प्रकाशयन् वाङ्गुष्ठं गुरखे दक्षिणामकल्पयत् । निकृष्टजातावप्यदात्तहृदयाः केचित पुरुषाः कदाचिदुरपद्यन्त एव ॥

--- नवमः पाठः विद्यार्थि कृत्यम् ज्ञानसम्पादनमेव विद्यार्थिनां कृत्येषु प्रधानतम भवति । अतस्तस्मिन् विषये सर्वदापि ते जागरूका भवे- युः । नहि पुस्तकेभ्य एव ज्ञानं लभ्यते । परितो विद्य- मानानां वस्तूनां निरीक्षणं पुस्तकपठनादप्यधिक संभावज्ञा- नायोपयुज्यत इति विद्यार्थिनी मनसि धारयेयुः ॥ संहपाठिभ्यः समाजेभ्यश्च बहु ज्ञानमधिगन्तुं शक्यते । तस्माद्वियार्थिनः सहपाठिषु सौहार्दनं वरन् , विदुषां सबों- जानप्याद्रियरन् । ज्ञानस्य किलैक पाद एवाचार्यादविंग- म्यते, पादः सब्रह्मचारिभ्यः, अन्यः पादः खमेधाबलैन, अरस्तु पादचिरपरिक्येनेत्यभियुक्ता आमनन्ति ।। पुस्तकम्योजगता अप्पयाँ अनुविना भिक न्तीति मरन्तः सर्वियाप्यनुमवस्यावसर प्रतीक्षरन् । अनुम- वन परिपकधिषणान् गुरुजनांश्च संपदानतिन् ।

22 - समयस्य महार्घतां मनसि कलयन्तस्तस्य वृथाव्ययं च परिहरेयुः ॥ 'वजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा । आयुरादाय मानां तथा राज्यहनी अपि । इतीदं सुभाषितं कदापि विद्यार्थिनो न विस्मरेयुः । जलबिन्दुनिणतेन क्रमशो यथा घटः परिपूर्णो भवति तथै- वाणुशो ज्ञानसंपादनेन विद्यासु पूर्ण वैशारद्यमासाद्यते ॥ परमपण्डितोऽपि सदाचाररहितः पुरुषो न जनानां बहुमानपात्रं भवति । न वा सदाचारेण विना सुखमस्मि- नमुष्मिंश्च लोके लब्धुं शक्यते । तस्मात् सर्वोपरि सदा- चारं गणयन्तो गर्हितानि कर्माणि दूरतः परित्यजेयुः । भिन्न भिन्नासु दशासु विधिबलान्नियमितैरपरिमितैर्व्य- क्तिभेदैः संघटितोऽयं संसारः । सर्वस्यापि गुणांशान् गृहीत्वा दोषान् परिहरन्त एव सुखेन वर्तितुं पारयन्ति । किंचन वस्तु गुणलेशेनापि शून्यं च न दृश्यते । अतो गुणानां 23 - ग्रहणाय प्रयत्नमवलम्बेरन् । दीनेषु दयां, समेषु मैत्री, उत्कृष्टेषु च बहुमति प्रकाशयेयुः ॥ शरीरमेव मनुष्याणां पुरुषार्थसाधनम् । तस्माच्छरी- रस्य स्वास्थ्यं सुखं चावहतो नियमाननुसरेयुः । शरीर- बलादपि मानसं बलं श्लाध्यतरमिति मनश्शक्ते पोषणाया- प्यवश्यं प्रयतेरन् । ईश्वरस्यानुकूल्यमन्तरेण बलवदपि पौरुषं विफलमेव परिणमति । तस्माज्जगतामीशितुः प्रसादसंपादनाय . तमेव भजन्तः सर्वात्मना तं शरणं च व्रजेयुः ॥ श्रद्धा शरीरमनसोः स्वस्थता साधुशीलता । ईश्वरे परमा भक्तिरेतद्विद्यार्थिनां धनम् ॥

दशमः पाठः सुभाषितानि यदेवोपनत दुःखात्ः सुखं तद्रसवचरम् । निर्वाणाय वरच्छाया तप्तस्य हि विशेषतः ॥ १। अतस्सारविहीमानां वृथा सज्जनसंगमः । मलयाचलमध्यस्थों वै: किं चन्दनायते ॥ २ ॥ यं यया मन्यते लोको विद्ययाभिजनेन च । वस्मात् किंचिदस्तिष्ठे- दारुरुक्षुः परं पदम

25
-
।। ४॥
संहतिः श्रेयसी पुंसा
स्वकुलैरलयकैरपि ।
तुषेणापि परित्यक्ता
न प्ररोहन्ति तण्डुलाः
अधोऽधः पश्यतः कस्य
महिमा नोपचीयते ।
उपर्युपरि पश्यन्तः
सर्व एव दरिद्रति
परोपदेशे पाण्डित्यं
सर्वेषां सुकरं नृणाम् ।
धर्मे स्वयमनुष्ठान
कस्यचित्तु महात्मनः
मूळच्छेदं रिपोः कुर्या-
दथवा न प्रकोपयेत् ।
अन्यथासौ विनाशाय
पादस्पृष्ट इवोरयः

-26- यत्पृथिव्यां वीहिया हिरण्यं पशवो धनम् । एकस्यापि न पर्याप्त- मिति पत्ता शमं व्रजेत एकादशः पाठः हे महरिणः स्वसुः शूर्पणखायाः परिभवेन जातरोषो रावणः सीतापहारेण प्रतीकारमैच्छत् । तत्र च मारोचस्य साहाय्यं लब्धुकामस्तमुपेत्यैवमवदन् । 'मारीव, श्रूयतां मे बननपत्र- धानेन । जनस्थाननिवासिनः सर्वे राक्षसाः कार्मुकद्विनी- येन गमेग कालधर्म प्रापिताः। भगिनी मे शूर्पणखा तदनुजेन लक्ष्मणेन विरूपिता च । तस्य प्रतिचिकीर्षुरह सीतां हर्तुमिच्छामि । त्वया हेममृगस्य रूपं धारयता सी.

- 27 तायाः प्रमुखे चरितव्यम् । तदा सा कौतुकाविष्टा त्वद्ग- हणाय भार लक्ष्मणं च प्रार्थयिष्यते । तयोस्तदर्थ निर्गत- योस्तामहं सुखेन इरिष्यामि' इति । मारीचो वक्र पन्थानमाश्रितस्य राक्षसपतेरुद्यम ना- बमोदत । तथापि तस्य निर्बन्धमतहमानः प्रागत्यागेनापि स्वामिन. समीहितं साधयितुमिच्छन् रक्षोराजमन्वसरत् ॥ रामाश्रमं प्रविष्टमात्रः कामरूपी मारीचः क्षणेन मनो- हरो हेमहरिणः समजायत । आश्रमपरिसरे कुसुपान्यपचिन्वती जानकी तमाश्चर्यरूपं हरिणं संप्रेक्ष्य जातकौतुका गृह्यताम- यमिति रामं लक्ष्मणं च मुहुः प्रार्थयत । प्रियतमया पार्थि- तः स्वर्णमृगस्य रूपेण च प्रोभितो रामभद्रस्तं ग्रहीतुम- कामयत । सीतायाः परित्राणे लक्ष्मगं नियुज्य कार्मुक- हस्तो हरिणमन्वधावच्च । मायाविनामग्रेसरो मारीचो रामं विमोहपन् क्षणमात्रं दृश्यमानः क्षणान्तरेऽन्तर्हितश्च काननान्तरेषु धाबमानस्तं सुद- रमाकृष्टवान् । मुहुरुषसरन् पुनरपसरन्तं च तं निरीक्ष्य 二28 美国。 29 कोषाविष्टो राघवस्तन्निग्रहाय अलितं ब्रह्मास्त्रं तदुपरि क्षिप्तवान् । ब्रह्मास्त्रेण पहतो मारीची रामस्वरानुकारिणा स्वरेण 'हा सीते, हा लक्ष्मण', इति क्रन्दन , पाणानमुश्चत् । सदैव रामो राक्षसी मायां तामगबुध्यत । आश्रमस्था सीता त दीनस्वरमाकर्ण्य भर्तुरपायमाशङ्कमाना 'सत्वरं गत्वा राम- पविच्छेति लक्ष्मणमसकृत्सनिर्बन्धमयाचत ।। सीतामेकाकिनी परित्यज्य गन्तुनिच्छन्नपि लक्ष्मणो निर्बन्धमसहमानस्तद्रक्षणाय वनदेवताः पार्थयमानः कथमपि ततः प्रातिष्ठत । तदन्तरमासाद्य पापमती रावणः परित्रा- जकरूपेण रामाश्रमं प्रविश्य सीतामपाहरन् । "न निर्मितो वै न च दृष्टपूर्वो न श्रूयते हेममयः कुरङ्गः । तथापि तृष्णाजनि राघवस्य विनाशकाले विपरीतबुद्धिः" ॥

30- द्वादशः पाठः H 'वयं पश्चोत्तरं शतम् वने वसतां पाण्डवानामात्मैश्वर्य प्रकाश्य संतापं वर्ध- यितुकामो दुर्मतिर्दुर्योधनो घोषयात्रामपदिश्य पितुरनुज्ञया सुहृद्भिः कर्णादिभिरनुगतो वनं प्राविशत् । तद्वामिवगम्य दुर्योधनं दण्डयितुकामः पुरन्दरः पागेव गन्धर्वराज चित्रसेन सह सेनया बनाय प्रेषयच्च ॥ दुर्योधनो वने घोषानवलोक्य गोपालकानां सत्कार च स्वीकृत्य क्रमेण रमणीयानि बनान्युपवनानि च पश्यन पुण्यं द्वैतवनं प्रापद्यत । धर्मात्मा युधिष्ठिरस्तदानीमेकेनाहा निर्वर्तनीये यज्ञकर्मणि व्याप्त आसीत् ।। धार्तराष्ट्रः सरसि क्रीडितुमभिलषन् सरसः पर्यवेक्ष. णाय यदा किंकरान् प्रेषितवांस्तदा सानुगेन तगन्धर्वराजेन पूर्वमेवगधिष्ठितमवर्तत । अविनीतैर्दुर्योधनस्यानुचरैः 'सरसो, 31- निर्गम्यताम्' इत्याज्ञता गन्धर्वाः क्षुभितहृदयाः 'के वयं दुर्योधनस्याज्ञानुवर्तनाय' इति तद्वचनं तृणीकृतवन्तः ॥ अथ गन्धः सह प्रवृत्ते समरे पलायिते च सैन्य- समूहे दुर्योधनो जीवग्राहं गृहीतः पाशेन बद्धो गगनमार्ग- मीयत । अनन्तरमशरणा: सैनिका धर्मसुतं शरणमुपगम्य निवेदितसंतापाः स्वामिनो मोचनं पार्थयन्त ! . दुर्योधनस्य दर्पण दुश्चरितैश्च स्मृतिपथमारूढ़तिमन्युर्भी- मसेनस्तानभाषत । 'समुचितमेवेदं दुर्मतैर्दुर्योधनस्य पाशब- न्धनम् । विषमस्थानस्मानवलोक्य प्रमोदमनुभवितुं किला- यमत्रागतः । 'अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्' । तद्यथागतमितः क्षिप्रं गम्यताम्' इति ॥ युधिष्ठिरो भीमसेनमनुशासदेवमवदन । 'वत्स, कि- मेवं भाषसे ? नायमवसरो वैरनिर्यातनस्य । भवेयुरेव स- वत्र ज्ञातीनां मिथः कलहाः । तथापि बाह्यानां अवर्षणेन कुलहानौ प्रसक्तायां किं युज्यते स्वजनत्यागः १ विशेषतश्च -321 शरणागतानां परिहाणं कि वीरधर्मः ! यद्यहं कतौ दीक्षितो नाभविष्यं तहि सद्यः सायुधः परिपन्थिनोऽन्यधाविष्यम् । परस्परविरोधे तु वयं पश्चैव ते शतम् । परैः परिभवे प्राप्ते वयं पश्चोत्तरं शतम् ॥ तत्सत्वरमितो गत्वा साम्ना दण्डेन वा गन्धर्वराजं विजित्य दुर्योधनं मोचयितुमईसि' इति ॥ अग्रजस्य गिराप्यननुनीते भीमसेने समीपे तिष्ठन् सव्यसाची जेष्ठस्य प्रियं कर्तुकामस्तत्समीहितं प्रतिज्ञाय सपदि पस्थितः । स गन्धर्वरानं समरे पराजित्य दुर्योधनं बन्ध- नादमोचयन् । युधिष्ठिरेण पश्चात् स्नेहपूर्व मा पुनरेवंविधं साहसमाचर इति प्रबोधितो दुर्योधनस्त्रपाभरेण नतवदनः सुहृद्भिः प्रयासेनानुनीतः कथमपि राजधानीमनीयत ॥

33
श्रीरामोदन्तः ।
बालकाण्ड:
श्रीपतिं प्रणिपत्याहं श्रीवत्साकिनवक्षसम ।
श्रीरामोदन्तमाख्याम्ये श्रीराल्मीकिमकीर्तितम्
पुरा विश्रवसः पुत्रो रावगो नाम राक्षस. ।
आसीदस्यानजो चास्तां कुम्भकर्णविभीषणौ ॥ २॥
ते तु तीवेण तपसा प्रत्यक्षीकृत्य वेवसम् ।
वविरे च परानिष्टादस्मादाश्रितवत्सलात्
रावणो मानुषादन्यैरवध्यत्वं तथात्मनः ।
निर्देवत्वेच्छया निद्रा कुम्भकर्णोऽवृणीत च
॥४॥
विभीषगो विष्णुभक्तिं क्वे सत्वगु गान्वितः ।
तेभ्य एतान् वरान् दत्वा तत्रैवान्तर्दधे प्रभुः
रावणस्तु ततो गत्वा रणे नित्वा धनाधिपम् ।
लकापुरी पुष्पकं च हृता तत्रावसत् सुखम् ॥ ६ ॥

-34.
-
यातुधानास्ततस्सर्वे रसातलनिवासिनः ।
दशाननं समाश्रित्य लङ्कां च सुखमावसन्
॥ ७॥
मन्दोदरी मयसुतां परिणीय दशाननः !
तस्यामुत्पादयामास मेघनादाहयं सुतम्
॥ ८ ॥
रसां रसातलश्चैव विजित्य स तु रावणः ।
लोकानाक्रमयन् सर्वान् जहार च विलासिनीः
॥९॥
दृषयन् वैदिकं कर्म विनानर्दयति स्म सः ।
आत्मजेनान्वितो युद्धे वासवं चाप्यपीडयत् ॥ १० ॥
तदीयतरत्नानि पुनरानाय्य किंकरैः ।
स्थापयित्वा च डायामवसच्च चिराय सः
ततस्तस्मिन्नवसरे विधातारं दिवौकसः ।
उपगम्योचिरे सर्व रावणस्य विचेष्टितम्
॥ १० ॥
तदाकर्ण्य सुरैः साकं प्राप्य दुग्धोदधेस्तटम् ।
तुष्टाव च हृषीकेशं विधाता विविधस्तवैः . ॥ १३ ॥

-35-
आविर्भूयाथ दैत्यारिः पप्रच्छ च पितामहम् ।
किमर्थमागतोसि त्वं साक देवाणैरिति ॥ १४॥
ततो दशाननात् पीडामजस्तस्मै नम्वेदयत् ।
तच्छुत्वोवाच घातारं हर्षयन् विष्टरश्रवाः
।। १५ ।
अलं भयेनात्मयोने गच्छ देवगणैस्सह ।
अहं दाशरथिर्भूत्वा हनिष्यामि दशाननम्
आत्मांशैश्च सुरास्सर्वे भूमौ वानररूपिणः ।
जायेरन् मम साहाय्यं कर्तुं रावगनिग्रहे
एममुक्त्वा विधातारं तत्रैवान्तर्दधे प्रभुः ।
पद्मयोनिस्तु गीर्वाणैस्समं पायात् प्रहृष्टयीः ॥ १८ ॥
अजीजनत्ततश्शक्रो बालिने नाम वानरम् ।
सुग्रीवमपि माण्डिो हनूमन्तं च मारुतः
। १९ ॥
पुरैव जनयामास जाम्बवन्तं च पद्मजः ।
एवमन्ये च विबुधाः कपीनजनयन् बहून
॥ २० ॥

- 36 - ततो वानरसङ्घानां वाली परिदृढोऽभवत् अमीभिरखिलैः सार्क किष्किन्धामध्युवास च । २१ ॥ आसीदशरथो नाम मूवंशेऽथ पार्थिवः । भार्यास्तिस्रोऽपि लब्ध्वासौ तासु लेभे न संततिम् ॥ ततः सुमन्त्रवचनादृश्यहं स भूपतिः । आनीय पुत्रकामेष्टिमारेमे सपुरोहितः ॥ २३ ॥ अथानेरुत्थितः कश्चित् गृहीत्वा पायसं चरुम् । एतत्माशय पीस्त्वमित्युक्त्वादान्नृपाय सः ॥२४॥ तद्गृहीत्वा तदैवासौ पत्नीः प्राशयदुत्सुकः । बाथ तत्माशनादेव नृपान्दर्भमधारयन् पूर्णे कालेय कौसल्या सज्जनाम्भोजभास्करम् । अजीजनद्रामचन्द्रं कैकेयी भरत तथा i-॥ २६ ॥ ततो लक्ष्मणशत्रुघ्नौ सुमित्राजीजनत्सुतौ । अकारयत पिया तेषां जातकर्मादिक हिजो 1.१७॥

No text on this page.

38
-
ततो वृधिरेऽन्योन्यं स्निग्धाश्चत्वार एव ते ।
सकलासु च विद्यासु नैपुण्यमभिलेभिरे
॥ २८ ॥
ततः कदाचिदागत्य विश्वामित्रो महामुनिः ।
ययाचे यज्ञरक्षार्थ रामं शक्तिधरोपमम्
॥ २९ ॥
वसिष्ठवचनाद्राम लक्ष्मणेन समन्वितम् ।
कृच्छ्रेण नृपतिस्तस्य कौशिकस्य करे ददौ
तौ गृहीत्वा ततो गच्छन् बलामतिबलां तथा ।
अस्त्राणि च समग्राणि ताभ्यामुपदिदेश सः
गच्छन् सहानुजो रामः कौशिकेन प्रचोदितः ।
ताटकामवधीद्धीमाल्लोकपीडनतत्पराम् ॥ ३२ ॥
ततस्सिद्धाश्रमं पाप्य कौशिकः सहराघवः ।
अध्वरं च समारेभे राक्षसाश्च समागमन्
॥ ३३ ॥
राघवस्तु ततोऽस्त्रेण क्षिप्त्वा मारीचमर्णवे ।
सुबाहुभमुखान् हत्वा यज्ञं चापालयन्मुनेः . ॥ ३४ ॥

-
39
कौशिकेन ततो रामो नीयमानः सहानुजः
अहल्याशापनिर्मोक्षं कृत्वा सम्पाप मैथिलम् ॥ ३५ ॥
जनकेनार्चितो रामः कौशिकेन प्रचोदितः
सीवानिमित्तमानीत बभञ्ज धनुरेश्वरम्
ततो दशरथं दुतैरानाय्य मिथिलाधिपः ।
रामादिभ्यस्तवसुतेभ्यः सीताद्याः कन्यका ददौ॥ ३७ ॥
ततो गुरुनियोगेन कृतोद्वाहः सहानुजः ।
राघवो निर्ययौ तेन जनकेनोरुमानितः
॥ ३८ ॥
तदाकर्ण्य धनुर्भङ्गमायान्तं रोषभीषणम् ।
विजित्य भार्गवं राममयोध्यां पाप राघवः
॥ ३९ ॥
ततः सर्वजनानन्दं कुर्वाणश्चेष्टितः स्वः ।
तामध्युवास काकुत्स्थ: सीतया सहितः सुखम् ॥ ४० ॥

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Sugamasan'skrxtapaat'havalii Trxtiiyo Bhaagan'

Author
Anantanaaraayand-a
Title
Sugamasan'skrxtapaat'havalii Trxtiiyo Bhaagan'
File name
Sugamasan'skrxtapaat'havalii Trxtiiyo Bhaagan'
Text
OCR done
Citation
1938
Publisher
Not Available
Language
Sanskrit
Pages
54
Library
Svi-ksri-chennai
Classification
Hinduism Narrowly
DLI number
368711
Barcode
5010010078344.00
Scanning centre
RMSC, IIIT-H
Rights
IN_COPYRIGHT
VMLT id
cVD4nIbqxEr
Download PDF

Sugamasan'skrxtapaat'havalii Trxtiiyo Bhaagan'