Svclrc

Kinknimala

Mahalinga Sastry.y · 9/16/2002

PDF Proofread

Front matter

॥किङ्किणीमाला॥
5 !X.MS
Rumar
5423
Y. MAHALINGA SASTRI M. A., B. L.,

छ
॥ किङिणीमा ला॥
KINKINIMĀLĀ

KINKINĪMĀLĀ
(First Series)
(A collection of shorter poems.)
6123
BY
Y. MAHĀLINGA ŠĀSTRĪ, M.A. B.L.,
Advocate
**

4.12.95
PUBLISHED: MARCH, 1934.
015, 1xMS,!
G34
Author's Copyright.
ü V. Central
Library,
T.T. D.1.1: PATI
Act.
Dules....
SRI VENKATESWARA
BV
Price Rs. 2-0-0.
30
...8.4.423.....
*****
het
$.

॥ श्रीरस्तु॥ ॥ कि किणी माला॥ प्रथमो गुम्फः AN लघीयसां विचित्रविषयाणां खण्डकाव्यानां समाहारः श्रीमद्भरद्वाजकुलजलधिकौस्तुभ श्रीमदद्वैतविद्याचार्य चतुरधिक- शतप्रबन्धनिर्वाहक श्रीमदप्पय्यदीक्षितेन्द्र वंशमुक्ताफलानां, राजुशास्त्र्याख्याविख्यात महामहोपाध्यायश्रीत्यागराज- मखिराजानां प्रपौत्रस्य, महोपदेशक-शास्त्ररत्नाकरादि- बिरुदाञ्चित पण्डितप्रकाण्डश्रीयज्ञेश्वरकविसूनोः श्रीमन्महालिङ्गकवेः कृतिः ope १९३४ ॥ मूल्यं रूप्यद्वयम् ॥

PRINTED AT
THE MADRAS LAW JOURNAL PRESS
MYLAPORE, MADRAS.

CONTENTS.
Foreword.
ix---x
किङ्किणीमालायां काव्यानुक्रमसूची
xi-xiy
अर्पणम्
1
मङ्गळम्
2
किङ्किणीमाला
3--102
Appendix A: Poems which are Translations. iii
B: A note on the Song-poems. iv-vi
C: Particulars of contributions by
Patrons.
vii
D: List of other works to be
published next.
viii
"
"

FOREWORD In November 1931, it occurred to me that I might collect together my Shorter Poems-variously scattered into one volume of presentable size. When I set myself to the task, I found that there were too many answering to the description. I have therefore, selected the more essentially lyrical ones from among them in order to form the First Series of the Kinkini-Mālā. The poems included in this collection bear several dates ranging from 1918 to 1933. I owe the publication of this volume to the kind help rendered by His Holiness the Jagadguru of the Kāmakõțipīțha and the following esteemned gentlemen:- (1) M, R. Ry. K. S. Nārāyaṇasvāmi Aiyar Avl, Mirāsdār, Mudikondān; (2) M. R. Ry., K. V. Rāmasvāmi Aiyar Avl., Advocate, Madura ; (3) M. R. Ry. K. S. Rāmasvāmi Šāstri Avl., Retired District Judge, Madras; (4) M. R. Ry. R. Krsna svāmi Sāstri Avl., Sub-Registrar, Tanjore. (5) M. R. Ry. A. Sāmbamūrti Aiyar, Avl., Retired Judge, Kālațī ; and (6) M. R. Ry. R. Nārāyaṇasvāmi Aiyar Avl., Proprietor, M. L. J. Press, Mylapore. Particulars of their contributions are given in Appendix C.

X It is my fervent hope that the Kinkiņā-mālāg. having once stepped into light, will plead before a. sympathetic and enlightened public for the speedy release of her sisters" still under lock and key. In furtherance of this object, I beg to announce that every purchaser of the Kinkiñī-ālā will be contributing to a fund, to be called the Kinkinī-mālā-nidhi, which I mean setting apart for the publication of a few more works of mine mentioned in Appendix D. In Appendix A, mention is made of Poems which are Translations. Appendix B is a note on the Song-poems. I take this opportunity to express my sincere feelings of gratitude to Brahmaśrī S. K. Padmanābha. Šāstri, and Brahmasri C. Sankararāma Šāstri for having assisted me in reading through the proofs. for the press, and to Brahmaśrī Mahāmahopādhyāya Professor S. Kuppusvāmi Šāstri, for having offered several valuable suggestions over the final proofs. 3. Madhavapuram, Mylapore, Madras. 28th January, 1934. Y. MAHALINGA ŠĀSTRI.

॥ किङ्किणीमालायां काव्यानुक्रमसूची ॥ विषयः पृष्ठम् अर्पणम् । १ २ मङ्गळम् । I ३ ६ ६ गणेशगीतम् । षण्मुखभूषणम् । शिवपञ्चचामरम् । शिवनमस्कारः । शिवगीतम् । शम्भुस्तुतिः । शारदागीतम् । जन्मभूमिप्रशस्तिः। ८ ९. II नायिकाप्रणयः। सज्जिकाविप्रलम्भः। मारतूणीरः। जलदमालिनी। प्रेयसीस्मृतिः । ११-१२ १३-१६ १७-२१ २२-२३ २४-२५ १२ विषयः विरहिवैक्लव्यम् । राघवविलापः। पृष्ठम् २६ २७-२९ III कृष्णलीलागीतम् । स्थाणुपरिदेवनम् । ३१-३४ IV ३५-३६ आकाशताराः। प्रभातवेला। जलदागमः । अम्बुवाहः। ३८-३९ ४०-४३ V - कोकिलगीतम् । सुवर्णपञ्जरम् । चन्द्रोपरागपञ्चकम् । पेचकपञ्चकम् । कीचकपञ्चकम् । पल्वलपञ्चकम् । पन्नगपञ्चकम् । कुक्कटपञ्चकम् । ४४-४५ ४६-४८ ४९-५० ५१-५२ ५३-५४ ५५-५६ ५७-५८ ५९-६० १३ पृष्ठम् ६१-६२ विषयः VI वयोऽधिरोहनिश्रेणिका। जीवयात्रा। जीवनजुगुप्सा। आप्तोपदेशः । ज्ञानसेनस्य लेखः । द्यूतकरनिर्वेदः । साक्षात्कारपञ्चकम् । ६४ ६५-६६ ७१-७२ VII रामायणसङ्ग्रहाष्टप्रासस्तवः। ७३-७८ VIII आचार्यपञ्चरत्नम् । ग्रन्थसमुच्चयपञ्चकम् । कालिदासप्रशस्तिः । जार्जपञ्चकम् । ७९-८० ८१-८२ ८३-८५ ८६-८७ IX ८८-८९ नासिकापञ्चकम् । कौण्डिन्यगीतम् ।

पृष्ठम्
विषयः
X
सुभाषितानि ।
कविहृदयम् । (१)
(२)
(३)
(४)
९७-९८
९९-१००
१०१

किङ्किणी
माला
LI
1112412AHTLIMATION

॥ अर्पणम् ॥
उपहितमञ्जुलघोषां
चरणाङ्गदसख्यचापलोन्मेषाम् ।
अङ्गीकरोतु कृपया
रङ्गनटः किङ्किणीमालाम् ॥

ॐ
वन्दे दन्तिमुखं कुमारममराधीशं दिगीशानपि
ब्रह्माणं हरिमीश्वरं श्रियमिलां वागीश्वरीमीश्वरीम् ।
वन्दे नन्दनपादपान् सुरगवीं वन्दे च मन्दाकिनी-
मिन्दुं चाप्यरविन्दबन्धुमितरचक्रं च तज्ज्योतिषाम् ।।

॥ किङ्किणीमाला ॥
:०:
-
।।१।।
॥२॥
॥ गणेशगीतम् ॥
जय भूधर-कुलनायक-तनया-प्रिय-सूनो ।
गण-नायक, सुख-दायक, धृत-मोदक, देव
अघ-शोषण, शशि-भूषण, नत-पोषण, दीने ।
करुणा-मयमयि पातय मयि वीक्षणमीश
प्रणवात्मक, तिमिरापह, गज-वक्त्र, गणेश ।
कुरु मङ्गळमव मामति-बहु-विह्वलमीश
त्रिपुरान्तक-बहुनन्दित-निजविक्रम, धीर ।
निखिलार्चित, निरुपद्रव-फलदान-धुरीण
दलितार्गल-सुगमां मम पदवीं कुरु सिद्धेः ।
शमयाखिल-दुरितानि च कृपया गणनाथ
॥३॥
॥४॥

20
॥ षण्मुखभूषणम् ॥
सुरान्नेतुमाजौ विनेतुं च दैत्यान्
परां ज्ञानकाष्ठामुपारोढुमारात् ।
महाशौर्यसौन्दर्यसीमान्तयोगं
प्रमातुं किमाधाद्भवस्त्वत्सिमृक्षाम् ॥ १ ॥
वपुः सुन्दरं ते घनप्रेमचञ्च-
द्भवानीगालीढमुद्दिश्य मन्ये ।
कुमारं विदुस्त्वां यतः कुत्सितोऽभूत्
स मारस्त्वदाविर्भवादेव लोके ।। २ ॥
पिता तेऽधुनापि ध्रुवं मारवैरी
पुरस्ताद्विरागात्मनां ह्येष दृष्टः ।
परं तु स्मरं नो दहत्येष भूय-
स्त्वदाकारलेशानुकारानुकम्प्यम् ॥ ३॥
जगद्वन्द्ययोरादिपित्रोः सुतं त्वां
कुमाराह्वया लालयन्ति स्म सन्तः ।
हरन् मिल्लकन्यां वसन्नद्रिशृङ्गे
गुरून् शिक्षयन्नस्यतो दुर्घहस्त्वम् ॥ ४ ॥

५
विवृत्तं नतं व्यस्तमुत्तानितं वा
वहैकैकमास्यं परोक्षं च वा मे ।
विभो षण्मुखोऽसि प्रसीदेह दिष्ट्या
ममानुग्रहायैकमस्त्येव वक्त्रम् ॥५॥
भुजङ्गप्रयातं निरीक्ष्यानुधावे-
दयं ते मयूरो वहन्नेव च त्वाम् ।
कृपादों यदि त्वं न मे सन्निधत्से
विकर्षामि पश्यौपवाह्यप्रभावात् ॥ ६॥
यथा ते पितैव प्रपञ्चस्य तातो
यथा ते जनन्येव माता त्रिलोक्याः ।
तथैवासि च त्वं कुमारः स्वपित्रोः
कुमारः समस्तेऽपि लोके प्रतीतः ॥ ७ ॥
अघक्रौञ्चभेदी मनोनीलकण्ठौ-
पवाह्याधिरूढो गुह त्वं मम स्याः ।
क्षमाभृत्समुत्तुङ्गशृङ्गप्रतिष्ठो
जगज्ज्ञानदाता भवेयं क्षणेन ॥ ८ ॥

w
॥ शिवपञ्चचामरम् ॥
भावयामि सदाशिवं नव-यामिनीशकलाधर
पिञ्जराभ-कपदकानन-नष्टजकुसुतारयम् ।
भूषणायितसर्पफूत्कृति-लुप्तभस्मविलेपनं
कृत्तिवाससमम्बिकासख्मानतं सुरराजिभिः॥
॥ शिवनमस्कारः ॥
सर्वमङ्गलात्मकं नमामि चन्द्रशेखरम् ।
शासितपुरत्रयं नमामि मेरुकार्मुकम् ॥ १ ॥
वीतरागिणं नमामि विश्वसृष्टिकारणम् ।
ज्ञानभास्वरं नमामि योगिलोकभावितम् ॥ २ ॥
भोगिभूषणं नमामि भूतिभासिताकृतिम् ।
नीललोहितं नमामि कालदर्पशातनम् ॥ ३ ॥
कालकूटपायिनं नमामि फाललोचनम् ।
लोकशंकरं नमामि नाकवासिसेवितम् ॥ ४ ॥
स्वधुनीधरं नमामि सर्वबन्धनच्छिदम् ।
शङ्करं महेश्वरं नमामि पार्वतीसखम् ॥ ५॥

॥ शिवगीतम् ॥ नीलकन्धर देव, नमो नमो, बालचन्दिरमौले, नमो, नमो, लीलया जितकाल, नमो नमो-हर शम्भो ॥१॥ कामिनीकलितार्ध, कृपानिधे, मामिहोद्धर शूलिन् , भवाम्बुधेः, स्वामिनः शरणं ते, पदाम्बुजम्-अवलम्बे ॥२॥ भूतिभासितमूर्ते, जटाकुटी- पातिज(सुताम्भः-कणोत्कर, भीतिदोरगभूषा-कुतूहलिन्-जगदीश ॥ ३ ॥ नन्दिवन्दितपाद, गुहप्रिय, तुन्दिलान्यकिशोरा-श्रितोत्सङ्ग, मन्दिरीकृतकैला-सभूधर-परमात्मन् ॥ ४ ॥ शिल्पभूतसमस्त-प्रपञ्चसं- कल्पकल्पितभद्र, सदाशिव, कल्पसंहृतिरुद्र, विभीषण-कलये त्वाम् ।। ५ ॥

॥ शम्भुस्तुतिः ॥
माधवमघवत्कमलभवादिनिलिम्पविनम्य, विभो;
शिखिजलखानिलधरणितरणिविधु-
होतृमयाङ्ग, प्रमितचराचर ;-॥
जगज्जनिस्थितिक्षयस्वतन्त्र,
अनादिवाङ्मयगुहाशय-सनातनमृगेन्द्र,
मां पाहि पाहि कृपणोऽस्मि पार्वतीपते,
महेश्वर, गङ्गाधर, पुरहर, शम्भो ;-||

९
॥ शारदागीतम् ॥
विद्यानाथे, चतुर्मुखजाये,
क्वणितविपञ्चीके, वरदे-शारदे ॥ १ ॥
.
ज्योत्स्नाधवले, निर्मले, वाणि,
कलय सुदीप्रां मे धिषणाम्-शारदे ॥ २ ॥
सुरगणवन्दितचरणसरोजे,
वितर गिरं मह्यं मधुराम्-शारदे ॥ ३ ॥
गानलोले, सुस्मितवदने,
कलमृदुलालापे, रसिके-शारदे ॥४॥
नादब्रह्मसर्वस्वमूर्ते,
कुरु मयि करुणामयि सरले-शारदे ॥ ५॥

१०
.
---
॥ जन्मभूमिप्रशस्तिः ॥
जय मातः पुण्यतीथैः--परिपूतभव्यदेहे ।
कबलितकल्मषौघै-भवपङ्कदूषितानाम् ॥ १॥
फलनम्रवृक्षपाली—पुलकितसर्वगात्रे।
शरदिन्दुमन्दहास-स्फुरितसौभाग्योत्कर्षे ॥२॥
प्रियसत्यपथ्यवाचं-मुनिलोकाञ्चितोत्सङ्गाम् ।
महनीयां पुण्यकीर्ति--जननि त्वामानतोऽस्मि ॥३॥
कलसूक्तिमञ्जलास्यै--स्तव पुत्रैः कामरूपे ।
कणितविपञ्चीनादै-मधुरसङ्गीतस्तुते ॥ ४ ॥
सुरभिलतोयवातैः—कुसुमितारण्यलक्ष्म्या ।
ननु लक्ष्यसे त्वमुळ—मतुले भारतदेवि ॥ ५ ॥
निवसन्ति सर्वे देवा-स्त्वयि मातः शक्तिरूपे ।
त्वदपाङ्गपातभाजां-किमसाध्यं त्रैलोक्येऽपि ॥ ६॥
त्वयि शक्तिर्दो नस्त्वं--तव पादाम्भोजे भक्तिः ।
भवतीतो ज्ञानोदयोतो--दयया ते मङ्गळानि ॥ ७॥

११
॥ नायिकाप्रणयः॥
प्रणयवशामिमा
दयित, मामपाङ्गय।
सदृशं ते दयावतो
मयि नाथाभ्युपेक्षा ॥१॥
शरदिन्दुशुचिस्मित-
सुन्दर, प्रसीद मे।
सकृदपि कृतमन्तुं
नात्मानं विजाने ॥ २॥
चरणावुपधेहि
करवाणि सुखामर्दम् ।
मधुमिव वनाली त्वां
नन्दामि समुपेता ॥ ३ ॥
कलमञ्जुस्वनां वीणां
क्वणयामि श्रुतिसुखाम् ।
जयदेवसरस्वती
गायामि रसवतीम् ॥ ४॥

१२
पवमानः सुखशीत:
प्रवहति प्राणनाथ।
अनुरञ्जयति सद्यो
विधुरेष निशामुखम् ॥ ५ ॥
विहगा धृतामोदाः
कूजन्ति सरोवरे ।
विहरन्ति ज्योत्स्नायां
स्मयमाना दिशः सर्वाः ॥ ६ ॥
चन्दनमनुलिम्पा-
म्युरसि ते सकर्पूरम् ।
महत्तामिमां वीटी
प्राणेशानुमन्यस्व ॥ ७ ॥

१३
॥ सज्जिकाविप्रलम्भः ॥
सौभाग्यस्य किमन्तरायगरिमा रुन्धे भवन्तं दृढं
किंस्वित् खण्डनमूढया निगदितं कुत्राप्यनह मया ।
व्यापारैः किमुत प्रबन्धबहुलैाक्षेपतो मन्दिमा
प्रेमोनीतमनादरं च भवतः सञ्चिन्त्य खेदो मम ।।
व्यङ्ग्यप्रधानतां ते जानत्यपि संभृतोरुसंकल्पा ।
आकण्ठतो निषेधान्न दृढं प्रत्येमि वैरस्यम् ॥ २ ॥
दशशतसहस्रवारं
सशपथमभिधाय सायमागमनम् ।
नावेक्षसे प्रतिज्ञा
अहह ! पुनः सप्रतीक्षाहम् ॥ ३ ॥
न तथा स्वजनविरोधे
न तथा दूरादुदन्तविच्छेदे ।
न तथा क्रीडाभङ्गे
प्रतीक्षया ते यथा खिद्ये ॥ ४ ॥
गरुदास्फालिनि पतति
त्रुट्यति पणे श्रुते जनालापे।
पदशब्दमनुमिमाना
सायं सायं समुद्रीक्षे ॥ ५ ॥

चटुभिर्विनोदपटुभिः
शपथैर्व्यपदेशसाहसैर्बहुभिः ।
पुरतः प्रत्ययनीयः
पश्चाज्ज्ञातोऽसि विप्रलम्भेन ॥ ६ ॥
द्वारनिरीक्षणखिन्नां
श्वसतीमुग्रं रुषा च दष्टोष्टाम् ।
मामनुमाय परोक्षे
निर्दय नूनं हसन्नास्से ॥ ७ ॥
भक्त्वा सङ्गरशतमपि
न लज्जसे त्वं पुनः प्रतिज्ञातुम् ।
छलशतमहमपि दृष्ट्वा
न पुनस्त्वय्यर्थिनी लज्जे ।। ८ ।।
चिन्तायासानुशय-
प्रकोपसंरम्भसंशयक्षुभितम् ।
न ददात्यनुभवितुं मे
चेतो दिवसान्तसौभाग्यम् ॥ ९ ॥
अयमस्ताचललम्बी
प्रतिसंहरते यथा यथा तापम् ।
त्वदधीना वृत्तिम
मनसस्तु तथा तथा विवर्धयति ॥ १० ॥

अनलसखो मरुदिति य-
ल्लोके दृष्टं तदस्ति
मन्दोऽपि मातरिश्वा
दीपयते हृच्छयानलं किल मे ॥ ११ ॥
सौभाग्यवारिवाह
त्वत्कदनं यं स्मरं तदाजानाम् ।
अद्य प्रतीपकरणा-
वैमि तं भूरिभूरि पातकिनम् ॥ १२ ॥
निष्करुणो मयि मदन-
स्त्वं तावद्विप्रलम्भनिष्णातः ।
किं प्रतिकुर्वे संप्रति
भिनद्मि मदनं न चेदनङ्गोऽसौ ॥ १३ ॥
कमनीयस्त्वमहार्यः
प्रेम्णा दैन्येन साहसैरपि वा ।
हृच्छय एव विकर्ता
तं बत नासादयामि विधिहतकम् ॥ १४ ॥
प्रेमभरं त्वयि विमुखे
दुःखायैवानुबध्नामि ।
परुषाः पुरुषा लोके
प्रायो जानन्ति योषितां नार्तिम् ॥ १५ ॥

१६ +- --- -- कालः कियान सुभोग्य- स्तस्मिन्नप्यवसरः कियान् घटते । तत्रापि विप्रलम्भो यदि भो रतिवैरिभिर्विजितम् ॥ १६ ॥ अवतंसयति कलाप ताराणां शर्वरी पुरतः । रमणप्रतीक्षयेयं तामाशां खण्डिता तु विशृणानि ॥ १७ ॥ सर्वस्मादवलुप्ताः श्रुतिहक्स्पर्शादिवृत्तयो हृदये । शून्ये विभावयन्ति त्वामेवाशेषपूरणं पुरुषम् ॥ १८ ॥ अधिगत्य विरललभ्यं त्वयि नाथ प्रेमयोगसाम्राज्यम् । त्वद्विरहोमविलीन चेतस्तूर्णं विनिष्पतति ॥ १९ ॥ नैतद्विस्मरणं च नाम तव भोः स्थायी किलासौ रसः स्मृत्वा नायमनादरो मयि तव प्रेमा यदन्यादृशः । अप्यप्रस्तुतमानुकूल्यमुपदर्याशां वितत्याधिक सिद्धिं किन्तु विदूरयन् मम विधिः प्राणैः परिक्रीडते ॥ 1 ॥ मारतूणीरः ॥ संहृत्य लोचनमनीषदुदीर्णराग- संकेतनिर्गुणमपेत्य पुरः पुरोऽपि । संयम्य भावपिशुनान्यखिलेङ्गितानि माध्यस्थ्यमिच्छसि बलात् कुशला किल त्वम्॥१॥ दूरे रतव्यतिकरोऽस्त्वधरोपदंशो मा भून्मनागपि मनोभवपारतन्त्र्यम् । सौहार्दमात्रपिशुनैककटाक्षपात- कल्याणपात्रमपि नाभवमम्बुजाक्षि ॥ २ ॥ कामं तवास्त्वसुलभो रहसि प्रसङ्गः कामं ममास्तु मदनः कदनो नितान्तम् । आविष्क्रियेत यदि किश्चिदुपान्तलोल- लीलावलोकमुकुलः सहसास्मि धन्यः ॥ ३ ॥ आविर्भवंस्त्वदभिसन्ध्यनपेक्ष एव प्रत्यु(भूषुरसमेषुरसावुपन्नम् । त्वदृष्टिकोणमणियष्टिमहो अविन्दन् रोषाद्विनिर्दहति मां हृदि शल्यभूतः ॥ ४॥ 2

--
१८
।
बाढं कठोरहृदया भुवि पङ्कजाक्ष्यो
यत्पारयाम इति रूढहढावलेपाः ।
संमोहयन्ति मदयन्त्युपदर्य केली-
य॑ग्राः परं परिचयं विनिवारयन्ति ॥ ५॥
वाचो न चोचितपथव्यभिचारशीला
दृष्टिस्तु मौग्ध्यविमला नियतप्रचारा।
कामात्मनां तदिदमुत्थितमुत्थितं नः
शङ्काकुलं शिथिलतामुपयाति चेतः ॥६॥
संमोहनं सृजति वस्तु यदि प्रशस्तं
तत्कल्पयत्यलघुलभ्यमथाप्यलभ्यम् ।
व्यर्थप्रलोभनकदर्थनकं वितन्वन्
रम्येण हन्त मृदुनापि निहन्ति वेधाः ॥७॥
क्षिपसि मम समाधि कार्यजातेष्वजस्रं
विघटयसि च निद्रां तापमुन्नीय रात्रौ ।
प्रथयसिं विपुलं मे जाग्रतः स्वप्नजालं
विहरसि च विचित्रं मत्कसङ्कल्पसौधे ॥ ८॥

१९ चिन्तास्वप्ने जागरस्वप्नकाले निद्रास्वप्ने नित्यमग्रे भवन्ती । लीलालोलैलालयित्वा विलासैः साक्षादृष्टा सत्वरं किं प्रयासि ॥९॥ त्वदालापश्रुत्याः श्रुतिरपरतो मोघविषया पुरश्चिन्ताचक्षुस्त्वदनुकृतिमुत्थाप्य रमते । मनः सङ्कल्प्योच्चैः परिचयरसान् कापि सुखितं हठान्मे पञ्चेषुप्रभवमदमूर्छा प्रभवति ॥ १० ॥ अपाङ्गस्ते नीलः स्मितमतिसितं कैश्यमसितं कपोलः सौवर्णद्युतिरधरबिम्बोऽरुणरुचिः । त्रिभङ्गं ते मध्ये प्रतनु च वपुः शम्बररिपो- धनुः सजं मन्ये समुपहितनानासुमशरम् ॥ ११ ॥ सद्योविजिमितवलत्त्वदपाङ्गपात- त्रुट्यत्रुटौ विवशतां मम किं ब्रवीमि । विष्टभ्यते करणमस्ति मनःप्रमोषः कोऽपि ज्वरः प्रसरति प्रबलोऽङ्गमङ्गम् ।। १२॥

२०
आवेपते मम परिभ्रमति प्रमोह-
प्रक्षोभविक्लवमयि त्रसदेणनेत्रे ।
गात्रं, प्रसह्य हृदयं त्वयि निर्हरन्त्यां
लीलावलोकबडिशोपयिकोद्गृहीतम् ॥ १३ ॥
एते नु चित्तदलना असिपुत्रिकाः, कि-
मेतेऽन्तकायितमनोभवहस्तपाशाः ।
एते स्मरानलविनिष्पतिता नु धूमा
एते विषाक्तवदना मदनेषवो नु ॥ १४ ॥
इन्दीवरं मदनपञ्चशरीधुरीणं
स्त्रीणां विदुर्नयनपातमिषात् प्रवृत्तम् ।
कालेन तन्वि कियता बत पञ्चबाणो
बाणीकृतैर्जगति खेलति कृष्णसपैः ॥ १५ ॥
त्रस्तं तवाक्षि वपुरत्र तु वेपते मे
लज्जावृणोति भवती जडिमा ममान्तः ।
मुग्धा त्वमस्यहह नश्यति चेतना मे
हेतुं स्मरस्त्वयि फलं मयि च व्यनक्ति ॥ १६ ॥

कर्णोपकण्ठविरलप्रतनूपसर्प- द्रोमावलीपरिकरं निकषा कपोलम् । नक्तं सुमेरुतटरूढभृगुप्रकाश- ताटङ्कवत्तव मुखं हरते मनो मे ॥ १७ ॥ मत्तोऽस्मि गाङ्गेयकनकपोल- मूलस्फुरत्कुण्डलदीप्तिना ते । साचिस्थितेन श्लथमूर्धजालि- प्राग्भारदृश्यांसतलेन तन्वि ।। १८ ।। यत्राक्षिकोणमिलनेऽप्यपवर्तिताक्षी भिन्ते मनोरथशतं भवती प्रतीपा । तत्र प्रवातकदलीचकितां तनुं ते तन्वि क्षणे तरलितामिव भावयामि ।। १९ ॥ त्वामुल्लिखन सुममयीमिव गन्धसार- खारीमिव द्युतिझरीमिव, सौष्ठवानाम् । सङ्केतभूमिमिव, मानिनि, चातुरीणां केलीवनीमिव रमे हृदयं प्रविष्टाम् ॥ IMARY TRAL TIRLIPATI 8423 CCEATNE

२२
॥ जलदमालिनी॥
कालजलधरमालिकया निशि
चन्द्रे मुकुलिते।
नीलनिवसनमाद्धती धुरि
केयं सुवदना ॥१॥
वाति परिमलवाहिनि सारस-
वाते शिशिरिते।
याति निवसनभङ्गिपु शेखर-
मालां पिदधती ।।२।।
कापि निभृतकुलायनिपातिनि
मूके द्विजकुले।
व्यापिमणिगणशिक्षितसाध्वस-
सन्दिग्धगमना ।। ३॥
पादपरिचलपर्णविलखान-
पर्याकुलपदा ।
मोदनिपतितभृङ्गनिवारण-
नृत्यत्करयुगा ॥४॥

२३.
वारिधरपरिवेल्लदिरम्मद-
रेखाविदलिते।
भूरितमसि निशीथे विगलित-
विद्युद्विलसिता ॥ ५॥
स्थूलजलकणवर्षिणि गर्जति
मेघे प्रचकिता।
लोलविवशगञ्चलताडित-
वीथीपरिसरा॥६॥
गर्ज जलधर, गर्जति च त्वयि
जीयान्मृगशाम् ।
जर्जरहृदयकामिजनाभय-
दानप्रसदनम् ॥ ७ ॥

२४ ॥ प्रेयसीस्मृतिः ॥ भागधेयविरहादनादृतः पुंभिरव्यतिकरः पराभवम् । संस्मरन् रहसि लज्जया वृतः प्रार्थनाव्ययभरैर्यदाभवम् ॥ १॥ दैवतेषु विमुखेषु दुःखितः स्वेन च स्वमवकुत्सयन क्षितौ । सस्पृहं सुकृतिनां समाहितः संपदि प्रणयिषु द्युतौ धृतौ ॥२॥ कस्यचित् किल कलासु कौशलं जृम्भणान्यभिलषन् परस्य वा । यत् स्थितं तदवधीरयन्नलं ताम्यदुत्कहृदयो निरुत्सवः ॥ ३ ॥ त्वद्गतामयि तदा यदृच्छया A.

तत्क्षणान्मम मनो दिनोदया- मोदमुग्धकलकण्ठपद्धतिम् । संश्रितं किमपि गातुमुच्चकै- रत्यलङ्घयदुपांशु वेदनाम् ॥ ५ ॥ चय॑माणमधुरां त्यजामि कैः प्रेयसीस्मृतिविकल्पकल्पनाम् । भूभृतामपि सवाजिवारणैः संपदा समुदयैरकारणैः ॥ ६॥ - न

॥ विरहिवैक्लब्यम् ॥
मयि पश्य विशीर्णपर्णराशेः
परिणामं विरताण्डजोत्सवस्य ।
शिशिरप्रचयोर्जितज्वरार्ति-
प्रभवोद्वेगजुषो महीरुहस्य ॥ १!!
अपि वा दिवसात्ययप्ररोह-
नवसन्ध्यामहसो दिशि प्रतीच्याम् ।
अचिरादवलुप्यमानताया-
स्तुलनां मुद्रणशीलया रजन्या ॥२॥
विकृतिं मयि तामुतेन्धनस्य
ज्वलदुत्तुङ्गशिखिप्रदीप्तमूर्तेः ।
अमुनैव च भस्ममात्रशेषा-
मुपनीतस्य दशामसह्यधाम्ना ॥ ३ ॥
अयि मामवलोक्य तत्त्वतः
करुणामहसि कर्तुमञ्जसा ॥४॥

२७
4.
॥ राघवविलापः॥
हा प्रेयसि राममपाङ्गय मा-
मवनिसुते ते प्रणयवशम् ।
कचन विलीना कुहनारीत्या
पापं शङ्के तव कठिने ॥ १ ॥
यजनभवे ते पावनचरिते
प्रणयमये मय्यपि सदृशम् ।
रामे दुःखायैवोत्सृष्टे
दग्धोऽप्येवं न विदीर्ये ॥ २॥
दयिते मयि ते क गिरस्तरला
निर्दयतेयं क च भीरु।
अपि नामास्तं नयनसुखं मे
ध्रियसे जानकि हा दयिते ॥ ३॥
+
मुषितोऽस्म्यहह प्रसरत्यान्ध्यं
विगतालम्बो निपतामि ।
क्षुभ्यति चेतो मुह्यत्यात्मा
जीवय मामयि मुग्धमुखि ॥ ४॥

-
२८
कियदिव हसितं कियदुपभुक्तं
कियदिव सुप्तं रहसि तया ।
कियदुक्तं वा हतरामेण
क्षमसे तन्मम न खलु विधे ॥ ५ ॥
---
.
अद्योन्मिषितं यौवनतरुणा
मुकुलोऽप्यमुना नेह गृहीतः ।
किमिव पदं हा दाम्पत्यं नौ
पौरुषदर्शनविधये ते ॥ ६ ॥
लतिके दर्शय चारुविलासान्
कलहंसाश्रय गतिमलसाम् ।
ज्योत्स्नामुल्लासय चन्द्र न सा
पुनरपि कर्षति वः कीर्तिम् ॥ ७ ॥
कुवलयनयने हा मृदुहसने
मय्युत्कूलप्रेमभरे।
जीर्णरण्यं जगदिदमखिलं
व्यस्तानन्दो रामस्ते ।। ८ ॥
शिशिरापाङ्गान् मुग्धविजल्पान्
मयि विसम्भाचरणानि ।
स्मरतो विरतोत्सवदग्धहृदः
पश्यावस्था तरलाक्षि ॥ ९॥

२९
हा प्रेयसि हा मृगशाबाक्षि
जीवितनिलये हा सीते।
निरवधिविलये सीदन्तं मां
कथमिव सहले पश्यन्ती ॥ १० ॥
निशि चण्डांशुर्दग्धसमीरो
निर्दहतो मां प्रलयगतम् ।
तामरसाक्षि प्रेमरसा
हा त्रायस्व प्रियसखि माम् ॥ ११ ॥
निनदत्कङ्कणकमनीयं ते
करमेह्यर्पय जनकसुते ।
प्रहसितकमलाभिख्यं तन्मे
पुनरपि दृश्यं मुग्धमुखम् ॥ १२ ॥
पुरतः पश्चान्नभसि हृदन्त-
स्त्वामपि पश्यन् प्राणसखि ।
सीदन्नन्धे तमसि विलीये
जीवय मामयि जीवय माम् ॥ १३ ॥

३०
॥ श्रीकृष्णलीलागीतम् ॥ मृद्भक्षणम् ॥
भक्षयति बालकृष्णो रथ्यामृत्तिका-
मिति राममुखाच्छ्रुत्वा तत्र यशोदा।
कटकटाकृत्य दन्तानापतन्ती
व्यादेहि वक्रमिति कृष्णमग्रहीत् ॥ १ ॥
अम्ब पश्येत्युत्तरलं वीक्षमाणो
गद्गदोक्तिर्बालकृष्णो व्यादादास्यम् ।
परिवृत्य गोपबाला अन्तहसन्तो
राममग्रे कृत्वा तस्थुः कौतूहलेन ।। २ ।।
मृत्तिका दिदृक्षमाणा तत्र यशोदा
किमपश्यद्धा हन्त कृष्णवदने ।
दृश्यन्ते गिरिनदीकाननानि
पौरजानपदाश्चापि सञ्चरन्ति ॥ ३ ॥
सविकासमास्तीर्ण ब्रह्माण्ड
सचराचरभेदं सर्वलोकम् ।
तत्रापश्यद्विस्मयेन यशोदा
स्वमपि च व्यात्तमुखं चापि कृष्णम् ॥ ४ ॥

३१
॥ स्थाणुपरिदेवनम् ।।
यद्यस्ति कौतूहलं वां
ब्रह्माच्युतौ वच्मि यत्स्थाणुभूतः ।
तिष्ठामि दुईयरूपो
मूले शिरस्यप्यनासाद्यमानः ॥ १॥
रागी न चाहं प्रकृत्या
तस्यापि निर्वेदमूलान्यभूवन् ।
हा धिग द्विभार्यस्य गेहं
स्पर्धा रे जहुकन्याभवान्यौ ॥ २ ॥
पीडामदत्तामजस्रं
गार्हस्थ्यमासीद्यथा दुःसहं मे ।
किं वर्णयाम्यात्मजातो
पूर्वो हि मत्तः स्वमभ्यहणाहम् ॥३॥
मेने मदान्धस्तदास्ता-
मन्यस्तु कामादनादृत्य शीलम् ।
भिल्ली गृहानानिनाय
प्रोक्तो हितं चेत्पुरोभागिधुर्यः ॥ ४॥

३२
मामेव शास्त्यात्मतत्त्वं
ताग्विधे मेऽथ गार्हस्थ्ययोगे ।
सर्वस्वमाराजहार
प्रेयानिति च्छद्मना यक्षनाथः ॥५॥
वासो दिगीशैगृहीतं
स्थानं पिशाचैरभूदावृतं च ।
क्षीणोऽभवदैवयोगात्
प्रीत्या कलावान् धृतो मूर्ध्नि नित्यम् ॥ ६॥
निर्विण्णमासीन्मनो मे
भिक्षुर्भवंस्त्यक्तसंसारबन्धः ।
कैलासशैलान्निरागा-
मुन्मत्तवच्चाभ्रमं सर्वलोकान् ॥ ७॥
किश्चाप्यवात्सं श्मशाने
भिक्षामटन् कापि मिथ्याकृतष्यः ।
शप्तोऽभवं योगिवृन्दैः
कर्तव्यशून्यस्ततः पाण्ड्यदेशे ॥ ८॥

३३ भृत्योऽभवं वृत्तिहेतो- स्तत्रोद्वहन् मृद्भरं स्वल्पमन्तुः । वेत्राहतिं घोरपावां पाण्ड्यस्य लब्ध्वा दिशः पर्यधावम् ॥ ९॥ कुत्रापि नासीच्छमो मे लोष्टैर्वदुः कोऽप्यहन्मामकाण्डे । पादेन कश्चित् किरातः कोदण्डकोट्यापरः प्राहरन्माम् ॥१०॥ कौलीनमौषमुञ्चै- ब्रह्मन्न इत्यात्मसम्बन्धि लोके । कापालिकं मां निनिन्दुः केचिच्छमशानालयं वामवृत्तम् ॥ ११ ॥ सर्वत्र भनस्ततोऽहं वीतस्वबन्ध्वर्थकीर्तिप्रभावः । श्रेयो मृति मन्यमानः काकोलमेवापिबं निर्विशङ्कः ॥ १२ ॥ 3

कष्टं स्थिराः प्राणवाताः
दुःखोपदग्धं तदा नो जहुर्माम् ।
जीवनिरानन्दलेशो
बीभत्सलज्जाविषादाभिभूतः ॥ १३ ॥
स्तब्धः प्रमुह्यन्नतिष्ठ
स्थाणुर्यथा वज्रनिर्घातदग्धः ।
नाज्ञासिषं चापि किञ्चित्
प्राप्तौ युवां यावदत्रेदृशं माम् ॥ १४ ॥
श्रीमन्महालिङ्गगीतं
जीयादिदं मे विषादाभिधानम् ।
लोके लयं यान्तु शोका
अस्यानुसन्धानपुण्यान्नराणाम् ॥१५॥

॥ आकाशताराः ॥ आकाशताराः स्फुरणप्रकाराः पश्यात्युदाराः करकानुकाराः। फेनायमाना वियदम्बुराशे- बिन्दूपमाना नभसो वराशेः ॥ १॥ प्रसूनहस्ता इव पर्युदस्ता निशोऽवतंसा रजनीशपुंसा। आकाशगङ्गा- कुमुदान्तरङ्गा व्योमाख्यभूपा- वसथप्रदीपाः॥२॥ मुक्ताफलानां प्रकराश्च्युतानां दिशां मुखेभ्यः स्मितबन्धुरेभ्यः ।

शुवेशवाटा-
स्तरणे वराटाः
पणप्रकीर्णाः
प्रतियुक्तवर्णाः ॥ ३॥
महाभ्रकुम्भा-
हितरत्नदम्मा
नभोनिकुञ्जा-
कुलितालिपुञ्जाः ।
आकाशखाता-
धिगतानुपाता
ज्योत्स्नानुविद्धा-
म्बुकणा विशुद्धाः॥४॥
...
गां
म् ॥५॥

७ ॥ प्रभातवेला ॥ इतो नु भो रम्यतरं धरियां शक्यं कदाप्यात्मवता ग्रहीतुम् । चक्षुःफलं त्वीदृगुदारशोभं मन्देतरः को न्वतिवोढुमीष्टे ॥१॥ प्रभातवेलामुपरि स्फुरन्ती धत्ते दुकूलप्रतिमां पुरीयम् ॥ २ ॥ शाला गृहा देवकुलानि नावो मरुत्पथे निर्मलभासि भान्ति । तिष्ठन्ति जोषं समुदग्रशृङ्गा- ण्यपावृतानीव दिवो भुवश्च ॥ ३ ॥ प्रभातलक्ष्म्या निबिडोपगूढा नैतादृशी कुत्रचिदप्यविन्दन् । पुरा दरीशैलभुवो विकास- महो ममायं मनसः प्रसादः ॥ ४ ॥ स्वच्छन्दमन्दं सरतीयमारात् सरित् समन्तान्निभृतान्यमूनि । सुषुप्तिभाञ्जीव गृहाण्यहो भोः शेते जगत् सर्वमवृत्ति चेदम् ।। ५ ।।

३८
॥ जलदागमः ॥
प्राप्तः पयोभारवर्षी
विद्युत्प्रभालेपतर्षी
चण्डारवोद्गारहर्षी ।
कालः कदम्बार्जुनामोदकर्षी
विश्लिष्टलोकेष्वमर्षी ॥१॥
वर्षयजस्रं पयोदः
प्राप्तो लुलायैः प्रमोदः
पान्थैरवाप्तो विषादः ।
सौधप्रनृतैः प्रसक्तो विनोदः
स्त्रीणां मयूरैरखेदः ॥२॥
नदिवं मीलिताक्ष-
मासीच्चिरायान्तरिक्षं
बिम्बं खरांशोः परोक्षम् ।
नार्यों न चञ्चन्त्युपेता गवाक्षं
यूनां निदेष्टुं कटाक्षम् ॥ ३॥

३९
आस्ते पयोदानसत्रं
पूर्ण द्रुमाणाममत्रं
धाराहतं पद्मपत्रम् ।
उच्चञ्चुभिश्चातकैर्भो विचित्रं
प्राप्तं न तद्विन्दुमात्रम् ॥ ४॥
नष्टेन्दुतारार्कचारं
विद्युत्प्रभालेपशारं
नीरन्ध्रमुक्ताम्बुधारम् ।
शश्वद्विनिर्मुक्तसंरावघोरं
व्योमाभितो दुर्निवारम् ॥ ५ ॥

॥ अम्बुवाहः ।।
पुष्पद्रुमाणां समुपोषितानां
सरित्तटाकार्णवसंगृहीतैः ।
नवाम्बुभिस्तोषयिताहमस्मि
प्रावृप्रियो वारिधराभिधानः ॥१॥
निद्रालसानां दिवसे कठोरे
स्निग्धच्छदानां वनपादपानाम् ।
भानुं तिरोधाय दिवि प्रसर्प-
श्छायां सुभोग्यामुपकल्पयामि ॥२॥
मत्पक्षनिधूतपयःपृषत्कै-
रुच्छ्वासमृच्छन्ति हि कुड्मलानि ।
स्फुरन्ति भानोः पुरतः प्रनृत्य-
ल्लतावधूशेखरविभ्रमाणि ॥ ३ ॥
विकीर्य पूरं करकोपलानां
श्यामां भुवं शुभ्रतरां करोमि ।
विद्राव्य वृष्ट्या निखिलं पुनस्तं
मुश्वामि चञ्चनशनिप्रहासान् ॥४॥

४१
उच्चस्तटानां धरणीधराणां
शृङ्गेषु मवृष्टहिमप्रवषैः ।
असह्यभारावनता बृहन्तो
वनद्रुमा घर्घरयन्ति घोरम् ॥ ५ ॥
ममोन्मिषन्मन्दसमीरतल्पे
निद्रासुखं निर्विशतोऽविशङ्कम् ।
सितोपधानत्वममूर्बजन्ति
हैम्यः शिलासंघटना गिरीणाम् ॥ ६॥
नभोऽवकाशप्लवनोद्यतस्य
विद्युत्कलापः किल नाविको मे ।
वियन्निकुञ्जावसथानि नियं
विद्योतयन् दीव्यति दुष्प्रधर्षः ॥ ७ ॥
यन्ता नयत्येष तडिच्चयो मां
स्वैरं निजेच्छामनुवर्तमानः ।
नदीसरःकानननिझराढ्यान्
भुवो विभागानपि चाम्बुराशिम् ॥ ८ ॥

४२
चिरप्रवर्षाद्विरलैजलौघैः
परोक्षतामेष यदा प्रयाति ।
स्वच्छोऽहमानीलरुचाम्बरेण
प्राग्भारभाजा द्युतिमभ्युपैमि ॥ ९॥
प्रातस्सरोषमधिकारुणदर्शनोऽर्कः
सिंहः शिलाप्रमिव भासुरकेसरालिः ।
पृष्ठं मम प्रचलतः सहसाधिरोहन
हन्त्येकमृक्षमवशिष्टमयूखजालम् ॥ १० ॥
सायं प्रबोधिषु शनैः स्मरशासनेषु
सन्ध्यापटीपतनपिञ्जरिते शुभागे ।
निस्पन्दमस्मि शयितो मरुदङ्कपाल्यां
नीडेऽण्डरक्षणपरेव कपोतयोषित् ॥ ११ ॥
मय्याकीर्णे रजनिमरुता दूरविस्तारभाजि
स्फारच्छिद्रे तुहिनकिरणस्येव पादोपमर्दैः ।
तोयाधाराः प्रतिफलनतः प्रोततारेन्दुबिम्बाः
शोभन्ते मद्विवरगलितव्योमखण्डा इवाधः ॥१२॥

४३
कालेऽन्यस्मिन्ननिलनिहतो व्याप्नुवन्नम्बरान्तं
तेजोदुर्धर्षमपि तिरयन् मण्डलं चण्डभानोः।
चन्द्रज्योत्स्नामपि मलिनयंस्तारकालिं विलुम्पन्
मन्दीकुर्वन् देवमगशिरस्सङ्गतं सञ्चरामि ॥ १३ ॥
प्रत्युर्वीभुजमचलोच्चकीलपाली-
व्यालम्बी तरणिकरैरवेधनीयः ।
स्तम्भालीविधृतविशालसेतुमत्तां
पाथोधेरिव विधामि संहतोमः ॥ १४ ॥
अशनितुहिनविद्युच्चण्डवातप्रचण्डे
मयि नियमितसर्वव्योमवासप्रभावे ।
प्रविशति सुरचापं गोपुरद्वारमाद्री
लसति धरणिरर्कोऽप्येति कान्तं विलासम् ॥ १५ ॥
स्फारोवृष्टजले मयि व्यपगते शान्तोपरोधोज्ज्वलौ
स्वच्छं सूर्यविधू करैः कलयतो यावन्नभोमण्टपम् ।
तावद्वारिनिधेरहं समुदितस्तत्तत्करोम्यन्यथा
लायं लायमुदित्वरस्य मम कः कालेन रूपात्ययः ॥ १६॥

४४ ॥ कोकिलगीतम् ॥ अकस्मादुन्मीलत्यथ जलधरातोद्यनिनदे प्रनृत्ते सानन्दं शिखिनि मधुपे झंकृतिकरे । समुत्सृष्टज्योत्स्नाबिसकबलमापीतमभित- श्चकोरैः कादम्बैरपि शृणुत नः पञ्चमरवम् ॥ १ ॥ जवाद्धिन्दन्नम्भोधरयवनिकामृक्षपटली करैर्दूर दूरं तुहिनरुचिरुत्सार्य वियतः । समारूढः शृङ्ग रसयति तथास्मन्निनदितं यथा तस्यामोदैर्भुवनममृताप्लावितमिव ॥ २॥ दिशासैरन्ध्रीषु स्फुटतरलताराञ्चिततनु स्फुरन्तीषु प्रेङ्घत्यपि कुवलयामोदमरुति । वियद्वीथीरङ्गे प्रियतमकरालम्बसुखिताः प्रलम्बन्ते गीतिश्रवणकुतुकेन द्युमहिलाः ॥ ३ ॥ .

४५
चतुर्वेदातीतः स खलु निगमोऽन्यः श्रुतिसुख:
स चोपायस्तुर्यादपि परतरः पुष्पधनुषः ।
पुमर्थः कोऽप्यन्यः स तु सुखमयो यत्नफलयोः
सुधासध्रीचीनः परिवहति यो नः कलरवः ॥४॥
सुधानाडीधाराक्षरणमिव जातोर्ध्वविसरं
पृथक्त्वेनोपात्तामिव जननभाजां सुखकलाम् ।
विभावैस्तैस्तैनः किमपि सुखितानां शुचिमनः-
प्रमोदाभिष्यन्दं श्रुतिचुलकितं कोऽपि कुरुते ॥५॥

20
॥ सुवर्णपञ्जरम् ॥
उद्घाट्यैतत्पञ्जरं मञ्जुलाङ्गि
क्षीणप्रायं मोचयेर्याचमानम् ।
बाल्ये किञ्चित् पक्षती शिक्षिते मे
नोद्धर्तुं चाप्यत्र लेशोऽवकाशः ॥ १ ॥
नास्मान् सद्यो हातुमेवं तवाह
भ्रातः पक्षिन् रोचयास्मासु वासम् ।
सत्कारं ते सादराहं विधास्ये
विस्रब्धः सन् ब्रूहि यद्यत्तवेष्टम् ।। २ ।।
का मे प्रीतिः साध्वि सत्कारभारै-
यस्योद्विग्नस्यास्ति तिक्तं समस्तम् ।
भूयः प्रेप्सुः पद्धतिं जन्मसिद्धां
त्वदाक्षिण्यादन्तरिक्षं प्रतीक्षे ॥ ३ ॥
सौवर्णं ते रत्नयष्टिप्रक्लप्तं
सावष्टम्भस्थूणमालम्बिडोलम् ।
अत्युच्छ्राये लम्बयिष्यामि पक्षिन्
स्फारस्फारं पञ्जरं कारयित्वा ॥४॥

मूढा ह्येषा मानुषी जातिरेका
मुह्यत्यद्धा निर्महिनापि हेना।
श्रेयःश्रेणीमर्थमभ्यर्थयाना
या जानीते हन्त बन्धप्रबन्धम् ॥ ५॥
जातस्तेषामस्मि जातौ विहां
येषां नालं रोदसीचक्रवालम् ।
सौभाग्यं मे तस्य कस्मादकस्मा-
द्रनच्छायापिञ्जरे पञ्जरेऽपि ॥ ६॥
उन्मुक्तस्य स्निग्ध मुग्धोऽसि नूनं
यो जानीषे स्वस्य नानर्थसार्थम् ।
त्वद्भक्षाणां त्वय्यहो क्रूरचेष्टा-
मुत्पश्यन्ती नोत्सहे त्वां विमोक्तुम् ॥ ७ ॥
नैवाराति पदः श्वापदेभ्यो
यत्किञ्चिद्वा नान्यदुच्चैरनिष्टम् ।
दूरे कारागारबन्धाच्चरिष्णो-
रातङ्काय स्युर्मम स्वैरवृत्तेः ॥ ८॥

४८ आस्तामेवं ब्रूहि किं ते वनान्ते कुत्रापि स्यान्मित्र सम्भावनीयः । वामाक्षीणां निकणकङ्कणानां हस्ताभ्यासो भुक्तिपीतिप्रसङ्गे ॥ ९॥ मुक्ताहारो दाडिमीबीजमुष्टिं मानिन् केनोपेक्षसेऽग्रे विकीर्णाम् । अत्रामत्रे तोयमाचाम चेदं ब्रूहि क्षिप्रं रङ्गरङ्गेति भूयः ॥ १० ॥ पक्षिन् शोभा पञ्जरे पुष्यसि त्वं त्वद्गर्भणानेन शोभा गृहस्य । क्रीडाहतोमत्प्रियेणोपनीतः सौभाग्यं मे शेवधिस्त्वं हि साक्षात् ॥ ११ ॥ भ्रातर्भद्रं किमिति विवशो भ्राम्यसि च्छिन्धि शोकं धिग्वैषम्यं किमिदमथवा किं प्रमुग्धोऽसि नूनम् । स्वैरं स्वैरं व्रज विघटितं पञ्जरं हन्त हन्त त्वं निर्यातो युगपदायि भोः पञ्जराभ्यामुभाभ्याम् ।।

४९ ॥ चन्द्रोपरागपञ्चकम् ॥ केतोषूममयस्य विक्रमपरिक्षेपव्यपेतप्रभं कौबेरं मदिरामदेन पुनरुक्तारुण्यमक्षीव तत् । नानाकारवराटिकाशतनिभव्याकीर्णतारास्तरे निर्मृज्याक्षि गवेषणीयमभवद्विम्बं विधोरम्बरे ॥१॥ संपूर्ण ग्रसितुं विधुं त्वमभवः कालप्रतीक्षश्चिरं तस्मिन् पुष्कलपोषभाजि सहसा तं चैवमद्याग्रहीः । नास्वादो भविता कियानपि च ते पीयूषधाम्नामुना केतो पापमुपैतु विक्रमधुरामीर्ये भवत्यै नमः ॥ २ ॥ आराख्योमवितानविस्तृतकरोदारद्युतिश्चन्द्रमा अर्वागेव तवोर्जितेन तमसा केतो निपीतोऽभवत् । संशोचन्ति सुधाशनाः प्रतिहताहाराश्चकोरा इमे म्लायन्त्योषधयो नराः प्रचकितास्तुष्यत्वधृष्यो भवान् ॥३॥ 4

1110
अर्थार्थे कृतवैशसाः परधनस्फीतिं परां पापिन:
कीर्ति चन्द्रमरीचिवीचिविशदां शुद्धात्मनां दुर्धियः ।
काव्यं भव्यगुणोदयं कवयितुर्वैदग्ध्यदग्धाशया
मृष्यन्ति क नु जातु पुष्कलकलं केतुश्च शीतद्युतिम् ॥४॥
।
रम्याणि द्विषताममर्षविषमज्वालाच्छटोद्वारिणां
स्वोत्कर्षग्रहिलत्वतः परधृतिक्षोभप्रवीणात्मनाम् ।
इन्दुग्रासकृतो यथास्य शिखिनः कामास्तथैवाचिरा-
इंसीनि स्युरधानि चेन्न, सुजनः कस्माद्भुवि प्राणितु ॥५॥

PARDAEEDUtkramaand-NOCTera COMMENT 015, 1xMS, G34 ५१ ॥ पेचकपञ्चकम् ॥ दुर्दर्शार्कमहांस्यहानि कबलीकुर्वन्त्वमारात्रय- श्चन्द्रं व्योमतलात् प्रमाष्टुं शशकः स्वेनैव वृद्धिं गतः । ज्योतीरिङ्गणतारकैकलुलितस्फीतिः समन्ताद्भुवं व्याप्नोतु प्रलयान्धकारगरिमा स्वस्यस्तु मञ्चक्षुषोः ॥ १ ॥ रात्रावेकधुरन्धरोऽस्मि जगतः कोऽन्यः समः स्यान्समे- 8423 त्याक्रम्यालयगोपुरान्तरबिलद्वारं त्वयि त्वङ्गति आशाः प्रोज्ज्वलयन्नसौ कुवलयप्रेयांत्रियामापतिः प्राचीमञ्चति घूक सङ्घटय भोश्चक्षुःकपाटं दृढम् ॥ २ ॥ wmaneourmarwomments प्राणी काङ्क्षति यं न येन रहितः कर्मस्वलं युज्यते तं विद्वेष्टि भवानुलूक कलयायलोकुमालोकितुम् । काकेष्वाकलयन् विपक्षगणनां शौर्य विधत्ते पर लोकातीतपथानुवृत्ति भवतो वो, किमुच्चैयशः ॥ ३॥ 11). THE PATI HT Acc .... Date...... ....

।
इन्दु निन्दति तेजसां निधिमनुस्मर्तु न संमन्यते
वैधेये अनुकम्पते द्युतिमति स्मेरे सरोजोत्पले ।
जात्यन्धान विविनक्ति दर्शनविधेरालोकसायैषिणो
लोकान् घूकमहाशयः परिषदं कृत्वा जतूकागणैः ॥ ४ ॥
दोषोद्दामदृशं विधाय स विधिस्त्वामङ्ग शङ्काकुलो
वैयर्थ्यं निजसृष्टिकर्मणि निराकर्तुं ससर्जाथ किम् ।
इन्दावकमसू युतां बुधजने दौरात्म्यमान्विते
भाग्यवस्थिरतामकृत्रिमधियां कार्पण्यमत्यूर्जितम् ॥ ५ ॥

॥ कीचकपञ्चकम् ॥
शिलीमुखमुखक्षतैर्विवरजर्जरः कीचको
नभस्वति यहच्छया भ्रमति नाम शब्दायते ।
कियानयमनुश्रवः स महतां यशो गायती-
त्यहो अनृतजीविनः कविकुलस्य धाटयं भुवि ॥१॥
अपुष्पमफलं बहिः प्रकटकण्टकं दुर्भगं
स्तुवन्ति विविधं जनाः किल समुच्छ्रितं केवलम् ।
स नाम मधुरस्वरः स च विकीर्णमुक्ताफल:
स पर्वरुचिरो महान् जगति वंश इत्युत्थितः ।। २ ।।
मरुद्भिरवहेलया समवधूय सङ्घर्षितः
स्वमेव सकुलं दवज्वलनसात्करोतीह यः।
कुलेन निवसत्यसौ विततभोगभागित्यभूत्
कथं स्तुतिभिरीडितो जगति नीचकः कीचकः ॥ ३ ॥

समर्मरचटच्चटारवविराविणः कण्टकै- रचिन्त्यपरिसर्पणस्य च निरन्तरं तिष्ठतः । धिगार्यगुणचर्वणां धिगपदानमुर्वीतले भवन्ति हि मधुव्रताः स्वविभवैः प्रसङ्गार्थिनः ॥ ४ ॥ अनीषदुपकारिणः श्रितजनस्य शून्यात्मन- स्तवात्र निकृतिं परामघविशोधनी मन्महे । वृतीकरणमङ्गशः किल निकृत्य पुण्यद्रुमा- वलीपरिसरे चिरं प्रगुणपर्वणो गर्विणः ।। ५ ।।

५५ ॥ पल्वलपञ्चकम् ॥ वृष्टं वारिधरेण वारि विधृतं संगृह्य किञ्चित् त्वया त्वं वेशन्त न वेत्सि सागरसरित्स्रोतस्सरस्सारणीः। तेन स्थानमपामहं महदिति स्वच्छन्दमुत्सिच्यसे प्रातः प्रस्तुतशौचकर्मणि हितं यं धीवरा वृण्वते ॥ १॥ शोषश्चेच्छुचिवासरेषु धरणिस्फोटावधिस्त्वद्गतः पूर्णो वा भव पङ्कदुर्भगतमं कस्त्वामुपासीदति । स्नातुं त्वां महिषोऽभिगच्छति तटे पोत्री परिक्रीडितुं पातुं कः खलु तावतापि कियती भ्रातस्तवाहंयुता ॥२॥ मामालिङ्गत सैरिभाः कुरुत भो भेकाः प्रचण्डारवं मुस्तामुत्खनत क्षितौ मम पुरः कोलाः सकोलाहलम् । वत्सा राजिलका मदङ्कलुठनक्रीडारसे रज्यत त्राये वः स्नुहिकर्दमैरसुगमो मत्तद्विपानामहम् ।। ३ ॥

५६ निस्तन्द्रोर्मिसमाकुलो जलनिधिनद्योऽप्यगम्या भुवि प्रायेण भ्रमिभिर्महाजवतया भीमाश्च ते निर्झराः । मुस्ताशाद्वलपिच्छिलं स्थलमथो गाधं पयः पङ्किलं त्वत्तः पल्वल दर्दुरा वयममी नान्यत्र संप्राप्नुमः ॥ ४ ॥ पा यः पद्मोत्पलरेणुगन्धि सलिलं सारस्वतं सेवते नागेन्द्रः स तृषार्दितोऽध्वनि परिश्रान्तो यदि त्वां गतः । कस्मादुद्विजसे कुतः कलयसे पङ्कप्रतिक्षेपणं क्षुद्रं त्वामधिगत्य तावति स तु स्वेनैव निर्यास्यति ॥ ५ ॥ -- स

॥ पन्नगपञ्चकम् ॥
वातैरेव तु वर्तनं वनभुवि स्वैरो निवासग्रहो
निर्मुच्यापि निजत्वचः फणिपतेस्त्यागस्तथान्यादृशः ।
खेला मण्डलबन्धविस्तृतफणाटोपैशोरुत्सवः
नो चेत् प्राणहरं मुखे विषमसौ कस्यास्तु नो वल्लभः ॥ १॥
रन्ध्राण्याविशति प्रयाति कुटिलं किञ्च द्विजिह्वो भव-
त्युद्दामं गरलं बिभर्ति तदपि च्छन्नः सितैः कञ्चुकैः ।
नित्यं गूढपदोऽनिलाशन इति प्रख्यापयन् स्वं व्रतं
संरुन्धे परभोगमेष भुवने हेतुं विनाशीविषः ।। २ ॥
भोगिंश्चन्दनकाननेषु कुरुषे गन्धप्रियाणां भयं
नृणां केतकवाञ्छया विचरतां कालोपमस्त्वं पथि ।
दैवेन प्रतिपादितस्य च निधारोपरोधी भवान्
स्वार्थः कस्तव तत्र तत्र परनिर्हेतूपतापादृते ॥ ३ ॥

दृष्ट्वा
स्वैरचरं यमुद्भटफटाटोपं कचित् प्राणिनः
कम्पन्ते प्रलयं ब्रजन्ति तरसा स्विद्यन्ति धावन्त्यपि ।
सोऽयं चेदहिजीविना हृतविषः काकोदरः खेलितो
रथ्यायां मनुजाः सवालवनिताः प्रेक्षाक्षणं कुर्वते ॥ ४ ॥
भोगी यः पृथिवीं बिभर्ति भुजगैयरात्मभूषोचितैः
सन्तुष्टो भगवान् हरो मुररिपोस्तल्पं स यः पन्नगः ।
दाक्षीपुत्रविहारवेश्म विदधे चूडासहस्रोन्मिष-
द्रत्नार्चिविशदं च यः स इति चेन्जातिस्तु पापीयसी ॥५॥

५९
L-
।। कुक्कुटपञ्चकम् ॥
सौभाग्यं तव ताम्रचूड जगतो नाम्नैव विख्याप्यते
शक्यं किं चरणायुधस्य भवतः शौर्येऽपि विप्रेक्षितुम् ।
त्वद्वाचा समुदेति भानुरिति चेन्नैवाद्भुतं शृण्वतः
प्रत्यक्षं बत कीटकुट्टनपटुः पांसूत्किरः कुक्कुटः ॥ १ ॥
तिर्यग्वक्रितकन्धरः सबिकटाटोपं दृशा रक्तया
भित्तेर्मूनि चरन् नतोन्नतचलच्चूडः प्रतारारवः ।
श्रद्धत्तां चरणायुधो दिनमणिर्मच्छासनातिक्रम-
त्रासादेवमुदेत्यसाविति सखे ध्वस्ता कुतस्ते मतिः ॥२॥
बवावावसिपुत्रिकां तव गले जान्वोश्च वा किङ्किणीं
यत्र त्वामवतारयत्यधिमृधं स्वामी स्वजातीयकैः ।
तत्रौजायितुमुच्छिखः परिपतन्नङ्गैरसृग्रूषितैः
शौर्यं कुक्कुट यनिदर्शयसि भोः कस्तन्न ते श्लाघते॥३॥

एवं संक्षीयमाणश्चरममनुविशन् भागमायुष्कलायाः
पश्चान्मर्त्यः किलासौ विगलितदशनः क्षीणचक्षुर्विजिह्वः ।
चीतो भावरशेषैः पुनरधिगमितः शैशवं स्वं विचित्रं
वृत्तं संहृत्य मृत्योः प्रविशति युगपञ्चान्धकारस्य वनम् ।।
.
सप्ताङ्के जीवयात्रात्मनि परिगणिते नाटकेऽस्मिन् विचित्रे
संसारोत्तुङ्गरङ्गप्रणिहितनटने स्त्रीपुमाकारभाजः ।
दृष्टा नष्टाः प्रवेशव्यपगमनकृतः सप्तधा क्लुप्तचेष्टा
माः शैलूषलीलामनुविधति हि प्राप्य जन्मावकाशम् ।।
--

६३
॥ जीवयात्रा॥
कालो नित्यं गलति किल नः श्वःपरश्वःप्रकारः
प्राप्तो यावद्भवति दिवसः कल्पिताध्वावसानः ।
यातं यातं दिनमिह जन मार्गमादिश्य मृत्यो-
रारादारान्नयति वितथोद्योगसंमूढबुद्धिम् ॥ १ ॥
जैवी यात्रा खलु जनिमतां नश्वरी दीपरेखा
छाया सेयं क्षणपरिचिता भूतले सञ्चरन्ती ।
शैलूषीयं प्रकटविविधाटोपदृष्टप्रनष्टा
मूर्खश्लाघा विरसविरसा किं च सावेशरोषा ॥ २ ॥
॥ जीवनजुगुप्सा ॥
स्यात् किं नु मे मृतवतः परमित्युपेत-
कातर्य एव कृपणोऽपि न मर्तुमीष्टे ।
अज्ञातरूपपदवीपरिमार्गणाद-
प्यासन्नदुःखसहनं वरमित्यवेत्य ॥ १ ॥
अन्यथा,
कः कालस्योपमर्दै विविधमनुभवन् निष्कृपाणां तितिक्षुः
क्रौर्यं पश्यन् प्रभूणामविनयमवयन्नुद्धतानामवज्ञाम् ।
नीतेर्जानन्नमव्यां गतिमपि विमृशन् दैन्यमुच्चैर्गुणानां
नेच्छेदात्मोपघातं क्लमभरविवशो जीवयात्राप्रतोल्याम् ॥२॥

६० ताम्रो यत्तव शेखरो यदभितः किञ्जल्किनी कन्धरा यत्पुच्छस्य विचित्रता वरपरीवाहस्य यद्वक्रता । स्थाने खल्ववलिप्यसेऽस्मि जगतां धातुः कृतिर्वल्लभे- त्यहो कुक्कुट जातिमात्रनियतां नावैषि शस्त्रान्मृतिम् ।। कष्टं भो बत ताम्रचूड, नयने संमुद्र्य घूर्णन् किम- प्यन्तर्घरितं वहन् करपुटे संलीयसे स्वामिनः । येन प्रातरुपेतबान्धवजनस्यातिथ्यहेतोहठा- न्निस्त्रिंशेन निकृत्तकण्ठकुहरं क्रूरेण घानिष्यसे ॥ ५ ॥ -

॥ वयोऽधिरोहनिश्रेणिका ॥
धात्र्युत्सङ्गे निविष्टं विवशमसकृदुद्गारकृत्क्रन्ददादौ
तोकं मोऽथ पश्चादुपसदनबलात्कारखिन्नः कुमारः।
ध्यायं ध्यायं युवासौ तदनु मनसिजोत्कण्ठितः कम्बुकण्ठी-
भस्त्राप्रायप्रकारः श्वसिति विरचयन् विप्रलम्भप्रलापान् ।।
मानोदयोऽथ शूरः शपथशतकरः शोभितश्मश्रुकूर्चः
सङ्घर्षामर्षपोषैः सपदि विलयिनी वष्टि विक्रम्य कीर्तिम् ।
काये स्थौल्यं ततोऽसौ वयसि परिचिनोत्यक्षिण दाक्षिण्यहानं
सारासारावलेहव्यतिकरविशदान् वाचि च प्राज्ञवादान् ।
आयाते स्थाविरेऽथ क्रशिमजुषि तनौ पुत्तलीवात्तवेषो
लोके स्फीतायतेऽस्मिन्नगणितगरिमा लीयमानस्वनोऽन्तः ।
कल्ये कौशल्ययोगाद्वयसि समुपचित्याहितं वस्तु भोग्य
भुञ्जानः प्रावृताङ्गः प्रणयति मनुजो वासरान् सोपनेत्रः ॥

एवं संक्षीयमाणश्चरममनुविशन् भागमायुष्कलायाः
पश्चान्मर्त्यः किलासौ विगलितदशनः क्षीणचक्षुर्विजिह्वः ।
वीतो भावैरशेषैः पुनरधिगमितः शैशवं स्वं विचित्रं
वृत्तं संहृत्य मृत्योः प्रविशति युगपञ्चान्धकारस्य वक्त्रम् ॥
सप्ताङ्के जीवयात्रात्मनि परिगणिते नाटकेऽस्मिन् विचित्रे
संसारोत्तुङ्गरङ्गप्रणिहितनटने स्त्रीपुमाकारभाजः ।
दृष्टा नष्टाः प्रवेशव्यपगमनकृतः सप्तधा क्लप्तचेष्टा
माः शैलूषलीलामनुविधति हि प्राप्य जन्मावकाशम् ।।

६३
॥ जीवयात्रा॥
कालो नित्यं गलति किल न: श्वःपरश्वःप्रकारः
प्राप्तो यावद्भवति दिवसः कल्पिताध्वावसानः ।
यातं यातं दिनमिह जनं मार्गमादिश्य मृत्यो-
रारादारान्नयति वितथोद्योगसंमूढबुद्धिम् ॥ १ ॥
जैवी यात्रा खलु जनिमतां नश्वरी दीपरेखा
छाया सेयं क्षणपरिचिता भूतले सञ्चरन्ती ।
शैलूषीयं प्रकटविविधाटोपदृष्टप्रनष्टा
मूर्खश्लाघा विरसविरसा किं च सावेशरोषा ॥ २ ॥
॥ जीवनजुगुप्सा ॥
स्यात् किं नु मे मृतवतः परमित्युपेत-
कातर्य एव कृपणोऽपि न मर्तुमीष्टे ।
अज्ञातरूपपदवीपरिमार्गणाद-
प्यासन्नदुःखसहनं वरमित्यवेत्य ॥ १ ॥
अन्यथा,
कः कालस्योपमर्दै विविधमनुभवन् निष्कृपाणां तितिक्षुः
क्रौर्य पश्यन् प्रभूणामविनयमवयन्नुद्धतानामवज्ञाम् ।
नीतेर्जानन्नभव्यां गतिमपि विमृशन् दैन्यमुच्चैर्गुणानां
नेच्छेदात्मोपघातं क्लमभरविवशो जीवयात्राप्रतोल्याम् ॥२॥

॥ आप्तोपदेशः॥
मा मनोरथमात्रस्य कुरु वाचा प्रपश्चनम् ।
असम्यग्विनिविष्टं तं क्रियया न च योजय ॥१॥
तावदातिष्ठ सौलभ्यं साधारण्यं न यावता ।
उपश्लिष्य स्वमित्रेषु संमतेषु पुनः पुनः ॥२॥
नापरीक्षितशीलानां तदात्वोदयशोभिनाम् ।
गच्छेः सुहृदुपाख्यानां लालसत्वेन लाल्यताम् ॥ ३ ॥
यत्तो भव यथा वाचा कलहं न प्रवेक्ष्यसि ।
प्रविष्टस्तत् कुरु स्वेन स्वं नियच्छेत् परो यथा ।। ४ ॥
श्रुतिं देहि परोक्तीनां स्वोक्तीरल्पं परश्रुतौ ।
गृहीष्वान्यस्य सिद्धान्तं निगृह्णीष्वात्मनि स्वकम् ॥५॥
न विलासधिया वेषरचनां नोज्ज्वलामपि ।
निजर्द्धिमनतिक्रान्तां रुचिरामभिरोचय
यथावद्यद्विवृण्वन्ति परिधानानि पूरुषम् ।
नाधमर्णो भवः कस्याप्युत्तमोऽथवा भुवि
स्वयं नश्यहणं मित्रं नाशयत्येकमेककम् ।
कुण्ठयत्यपि वार्तासु निशितां जागरूकताम् ॥ ८॥
सर्वथा न व्यभिचरेदात्मना कापि चात्मनः ।
परेषामनभिद्रोहस्ततः स्वेनैव सिध्यति ॥ ९॥

६५ ॥ ज्ञानसेनस्य चित्रापीडमहोदयं प्रति लेखः॥ श्रीमन्मान्य शृणोमि हि प्रियमिदं लोके प्रकाशोन्मुखौ मन्नियूंढनिघण्टुलालनरसौ लेखौ भवत्प्रेषितौ । तत्रास्मि स्वकृतज्ञतां प्रथयितुं वाचामसामर्थ्यभाक् तादृग्गौरवपात्रताव्यतिकराभावादुताद्यावधि ।। १ ॥ युष्मत्प्रीतिलवावलेहनतृषा यावत् स्वयं संभृत- स्फारारोहिमनोरथः परिसरं प्राग्भूयसासेविषि । तावद्वोऽलमनादरेण निभृतो मानेन शीलेन च प्रत्यूढो निरयासिषं निरवधि प्राप्तप्रसङ्गव्ययः ॥ २॥ सप्तैते किल हायना विगलिता युष्मन्निरस्तस्य मे येषु स्वेन निमज्ज्य शब्दजलधौ किं वोदितैर्भूयसा । उत्तीर्णोऽस्मि कृतिप्रकाशनपटुः कस्यापि साह्याहते वाचापि स्मितलेखयापि च मनाक् प्रोत्साहितो नेतरैः ।। 5 ६६ आदर्ता खलु यः प्रभो जलनिधौ मज्जन्तमुत्प्रेक्षते निर्व्यापारतया ततश्च कथमप्युत्तीर्णमभ्यर्णभाक् । सुस्फीतैरुपचारडम्बरभरैरायासयत्यादरे तावत्यस्वरसग्रहं विमनसं तद्देशकालात्ययात् ॥ ४ ॥ काल्यं मत्कर्मदीक्षाप्रणयि यदि मनाग्दर्शितं सौमनस्य श्लिष्टं तच्चाभविष्यत् परमिदमधुना मामकस्मानिन्धे । यस्मात् स्वेनैव सिद्धः परवदनसमुत्प्रेक्षणे नास्म्यपेक्षी स्वोद्धारः स्वेन क्लसो यदि भवतु कुतोऽन्येषु कार्तश्यदैन्यम्॥

६७
॥ द्यूतकरनिर्वेदः ॥
मरुत्प्रणुन्ना व्यचलन् पुरा
ये
विभीतका वृक्षविलम्बिबिम्बाः ।
पीठीप्रकीर्णा मदयन्त्यमी मां
मौजावतः सोम इवातिपीतः ॥१॥
न मां निनिन्द प्रचुकोप मह्यं
न कापि सा प्रेममयी प्रिया मे
अनुव्रतां तामहमक्षहेतो-
युदस्य यातः कलिना हतोऽस्मि ॥२॥
श्वश्रूर्निरुन्धे निरुणद्धि जाया
नापद्गतं मामनुकम्पतेऽन्यः ।
कः स्यादिवा? जरतो हयस्य
कोऽर्थोऽथवा स्यात् कितवेन लोके ॥ ३॥

अप्यस्य जायामपरे मृशन्ति यस्याक्षमूला विपदः प्रसक्ताः । जानीमहे नैनामतो नयध्व- मित्येव वक्ति स्वजनोऽपि तस्य ॥ ४ ॥ न देविताहे सखिभिनं यास्या- म्युयुज्यमानैरिति चिन्तयामि । बभ्रुष्वथाक्षेषु कृतारवेषु तत्रास्म्युपेतः कुलटेव मार्गम् ॥ ५॥ यात्यक्षशालां कितवः सशङ्क जयो नु वा स्यादिति वेपमानः । अक्षास्तमारात् कृपणं विलोभ्य विपक्षभाग्यान्यभिवर्धयन्ते ॥ ६ ॥ विध्यन्ति तीक्ष्णं कुशवनिकृत्याः पदं तपन्तः परितापयन्तः । कुमारवद्दत्तहराः किलाक्षाः जेद्रुहो मोहमधूपसिक्ताः॥७॥ / स्वाधीनधर्मा सवितेव देवो बातस्त्रिपञ्चाशदसावमीषाम् । संक्रीडते ते न नमन्ति कस्या- प्येषां नता भूपतयो भवन्ति ।। ८ ॥ नीचैः प्रवृत्ता उपरि स्फुरन्ति । हस्तैर्विना हस्तवतो जयन्ति । अङ्गारखण्डाः फलके प्रकीर्णा निर्वाणरूपाः प्रदहन्ति चेतः ॥ ९ ॥ बिभर्ति तापं विधुरास्य जाया प्रभ्राम्यतः कुत्रचिदस्य माता। त्रस्यन् ऋणी नक्तमुपैति गेहा- न्यसौ परेषां कितवो धनार्थी ॥ १०॥ स्त्रियः परेषां स्थितिमन्ति गेहा- न्यप्येष दृष्ट्वा परितप्यतेऽन्तः। बभ्रून् हयान् यो युयुजेऽह्नि पूर्वे भग्नोऽग्न्यगारे स पपात सायम् ॥

व्रातस्य यो वः प्रथमो बभूव
राजा चमूपो महतो गणस्य ।
दशाङ्गुलीस्तस्य पुरः प्रसार्य
सत्यं ब्रवीभ्यस्ति धनं न गुप्तम् ॥ १२ ॥
अक्षैन दीव्यात् कृषिकर्म कुर्या-
द्वित्ते रमेत प्रतिपत्तिपूर्वम् ।
तत्रैव गावस्तत एव जाया
तन्मे समाख्यत् सविता दयालुः ।। १३ ।।
मैत्री कुरुध्वं भवत प्रसन्नाः
मा मां प्रधृष्याधिकुरुध्वमक्षाः ।
मन्युः प्रशाम्यत्वपयातु वैर-
मास्तां मदन्यः प्रसितो भवद्भिः ॥ १४ ॥

७१
॥ साक्षात्कारपञ्चकम् ॥
दिनान्ते दिङ्मोहव्यतिकरवति प्राप्ततमसि
प्रसक्तप्राग्भारैः प्रसृमरपरिच्छिन्नरुचिभिः ।
ग्रहाकीर्ण गगनमपदिश्याद्भुतमयं
प्रपद्ये त्वामीश प्रकटितविभूतिं मदभितः ॥
अविच्छिन्नं राशीभवदुरुतरङ्गाञ्जलिपुटै-
मरुन्मार्गे फेनं शिथिलमभिवर्षन्तमुधिम् ।
अमुं द्वारीकृत्य प्रतिभयमनासाद्यमतटं
प्रपद्ये त्वामीश प्रकटितविभूतिं मदभितः ।।
अनुस्यूते स्फीते निरवधि सरत्यस्थिररुचौ
विचित्रे पर्यायग्रथितसुखदुःखोदयवति ।
प्रपञ्चे रोमाञ्चस्फुरिततनुरद्याप्यभिनवे
प्रपद्ये त्वामीश प्रकटितविभूतिं मदभितः ।।

७२
कचिद्दिष्ट्या गोष्ठी त्वदनुभवसौभाग्यपदवी-
जुषां प्रत्यासन्नः श्रुतिलयपरीवाहविधृतः ।
किमप्यन्तर्लब्ध्वा पुलकिततनुः सास्रनयनः
प्रपद्ये त्वामीश प्रकटितविभूतिं मदभितः ।।
अहार्याणामाशाव्रततिगहनानां हुतवहं
प्रशान्तैस्तेजोभिर्वलयितमकस्मादधिगतम् ।
कचित् साक्षात्कुर्वन् सुकृतपरिपाकैरभविनं
प्रपद्ये त्वामीश प्रकटितविभूतिं मदभितः ॥

॥ अथाष्टप्रासरामायणसङ्ग्रहस्तवः ॥ देवानां दशकण्ठविक्रममहादावाभिभूतिक्षते- जीवानुग्रहहेतवे च सहसा स्वावासवीतस्पृहः । नो वा स्यात् सुत इत्यहानि नयतो भूवासवस्य स्वयं योऽवापात्मजतां ददातु भगवान् मे वाञ्छितान्यच्युतः।। धृत्वा दीर्घमनोरथान् व्रतशुचिः स्थित्वा सभार्यश्चिरं क्रत्वाविष्कृतपायसांशविभवान् कृत्वा निजाङ्के नृपः। स त्वाश्लिष्य जहर्ष यान् मनसिजं द्वित्वाश्रयं द्विर्यथा स्मृत्वा तान् चतुरश्चतुर्भुजभुजासत्त्वान् जनो मुच्यते ॥ राकेन्दुप्रतिमाननः पितृतपःपाकेन लब्धोदय- स्तोके मध्यममातुराहृदयो लोके गुणैर्विश्रुतः । साकेतान्वयदीपको रघुपतिः स्तोकेतरश्रेयसे नौकेव प्रतिगृह्यतां भवमहाशोके निममात्मभिः ॥ गीर्वाणालयरक्षणेषु विहरदोर्वासिवीरश्रियो दूर्वाश्यामतनुः स कोसलपतेः पूर्वात्मजः सानुजः । पूर्वासिप्रतिनन्दितो मुनिगणाशीर्वाद पात्रं गुरोः शार्वाद्यस्त्रविधि कलाश्च कलयन् चार्वाननः पातु नः ॥

७४
क्रूरामृक्पविघातदूषितमखस्याराद्यियक्षोः पुनः
श्रीरामं मवरक्षणे वरयतो घोरां क्रुधं कुर्वतः ।
यो राज्ञा कुशिकात्मजस्य कथमप्याराधनायार्पितः
स्फारां नः सहलक्ष्मणः स कुरुताद्वीरामणीः संपदम् ।।
भर्गस्येव मुनेः सुताविव च यो निर्गत्य वानुगौ
दुर्गप्रान्तरखेदनोदनविधेः सर्गप्रभोः प्रोद्गतम् ।
निर्गविधिजग्मतुर्मनुयुगं स्वर्गस्रवन्त्यास्तटे
दुर्गत्यर्णवतारको सुकृतिनां वर्गस्य तौ मन्महे ।।
धूलीभिः परिवर्तिताभिरभितः काली निशां तन्वी
तालीवृक्षसमुन्नतामभिपतव्यालीकठोरस्वनाम् ।
नालीकेन निशाचरी रघुपतिः केलीविसृष्टेन ता-
मालीढां भुवि पातयन् विजयते शालीनताशेवधिः ।।
7
रक्षोहानिनिदानकार्मुककलाशिक्षोपकर्तुर्गुरोः
पक्षोपाश्रयणेन हिंसितमखप्रक्षोभधुर्याशरः ।
अक्षोदप्रसहिष्णुमोदमयमीक्षो हरिनूनमि-
त्यक्षोन्मुद्रणलक्षणैरनुमितो दक्षो विभुः पातु नः ।।

कुल्यापीडशरासदर्शनविधेः स्थल्यास्ततः प्रस्थितो बल्याक्रान्तिमुग्वश्रुताद्भुतकथावल्या प्रसन्नोऽध्वनि । कल्याम्भोजनिभाख्रिरेणुविहिताहल्याघसंमार्जनः कल्याणं विदधातु वो रघुपतिः शल्यापहर्ता भुवः॥ कुक्षोणीपतिभीतिदं परिहृतं रक्षोभिरप्युद्धर- निक्षोः काण्डमिव स्म यो दलयति व्यक्षोरुबाणासनम् । अक्षोभ्यो जयति प्रभुपसभे प्रक्षोभकृदुधियां वक्षोमुक्तवरस्रगश्चिततनुः स क्षोणिसंभूतया । सद्यो जातरुषं शरासदलनाद्विद्योपदेष्टुर्गुरो- रुद्योगं निजशिक्षणाय दधतं खद्योतकोटिप्रभम् । मद्योन्मत्तमलम्भयद्धियमिवोद्भिद्योरुगर्वाचलं हृद्यो यो भृगुनन्दनं मनसि मे विद्योततां स प्रभुः ।। सीताविभ्रमदेशिकस्वविहृतिः स्फीता मुदो निर्विशन् पाता कोसलनीवृतो रघुपतिर्भूतानुकूल्ये रतः । क्रीताभिर्गुणसंपदा प्रकृतिभिर्ध्याताभिषेकक्रिय- स्ताताज्ञेति नृपश्रियामभिमुखो वीतादरः पातु वः ।।

७६ सर्वेषां पुरवासिनां गुणगणैः पर्वेन्दुवनन्दनं दुर्वेलापरिभूतकेकयसुतागण निर्वासितम् । स्वर्वेश्यासुमवृष्टिभिर्गुरुजने निर्वेदतप्ते नम- स्कुर्वे दाशरथिं व्रजन्तमटवीं खातरश्रेयसे ॥ यथा कान्तया। रामो लक्ष्मणदर्शिताग्रसरणिभूमोचितः सीतया प्रेमोदारगन्तयाप्यनुगतः कामो सीमोद्देशमतीत्य कोसलभुवो ग्रामोद्गतैरावृतो व्यामोहाकुलितैर्जनैर्जलधरश्यामो हृदि द्योतताम् ।। गङ्गातीरमुपेयिवान् वनचरीभङ्गानभिज्ञेक्षणा- सङ्गालीढवपुर्गुणो गुहपरिष्वङ्गामृताप्यायितः । तुङ्गाबद्धजटाभरो रघुपतिभृङ्गासितैमूर्धजै- रङ्गासञ्जितवल्कलो मम मनोरङ्गान्तरे खेलतु ॥ पारं ज(भुवः पुलिन्दनृपतेरिंहसा जग्मिवान् धीरं स्निग्धजनान्निवर्त्य विचरन् दूरं सदारानुजः । नीरन्ध्रद्रुमरुद्धवर्त्मनि वने सारङ्गरम्ये प्रभु- घोरं वः शमयत्वमुं भवदवं स्फारं विधत्तां शिवम् ।।

७७ भारद्वाजमथाश्रमं परिलसच्चीरप्रसक्तद्रुमं दूरपोद्गतहोमधूमविसरं द्वारप्रकीर्णैणकम् । स्त्रीरत्नेन सहानुजेन च विशन्नारब्धपूजाविधेः स्फारप्रस्तुतवन्दनो भगवतः शूरः स वो रक्षतु ॥ प्रातः प्रश्रितवाङ्मुनेरनुमतेनातः पुरः प्रस्थितः स्रोतः प्राप्य स यामुनं कृतमहापोतः क्षणेनोत्तरन् । यातः पुष्पितकाननं दयितया प्रीतः खगव्याकुलं चेतः कामतु चित्रकूटमिव मे नेतः पुनभ्रंश्यतु ।। मातुदुर्नयतः पितुर्विलयनं भ्रातुः प्रवासं च तं श्रोतुर्दारुणमाकलय्य निखिलं पातुः पदे निस्पृहः । हेतुर्नाहमिति प्रपत्तुमवनीनेतुः प्रयातोऽन्तिकं केतुः सूर्यकुलस्य सोऽस्तु भरतः स्तोतुर्यशस्संपदे ।। पश्यन् भ्रातरमार्तमतिसविधभ्रश्यजटं तं पुरोऽ- वश्यं राज्यमुपैतुमर्हसि भुवं नश्यच्छुचं चावितुम् । दृश्यत्राविलमुक्तवन्तमिति निर्दिश्य स्वमुच्चैर्ऋतं वश्यः प्रेम्णि ददत्पदत्रयुगलं दृश्यं स्ववत्पातु वः ॥

७८ वन्याचारपरस्य सत्यवचनोपन्यासमालम्ब्य य- द्धन्यानां प्रथमादवाप भरतादन्यादृशोत्साहिनः । विन्यासं परिरक्षणाय निखिलावन्या निजांसे धुर- स्तन्यात्पादुकयोयुगं भुवि विभोरन्याय्यरीतिक्षतिम् ।। मन्दीभूतनिजौजसो दिगधिपान् सन्दीप्तशोकान् मुनीन् बन्दीरप्सरसोऽवितुं च कपटादिन्दीवराक्षीहरम् । तं दीनक्रथनं निहत्य करुणास्यन्दीक्षणोऽरिं विभुः शं दीर्घ पुनरात्तराज्यभरणानन्दी विधत्तां स वः ।। लकेशासुनिबर्हणं युधि निरातङ्केन्द्रमुख्यस्तुतं कङ्केऽप्याहितबन्धुभावमधुरं तं केशवान्याकृतिम् । सङ्केतावसथीकृतं गुणगुणैः पङ्केरुहाक्षं कुतः शके नीरधिरोधिनं हृदि सदाहं केतयामि प्रभुम् ।। तुङ्गश्रीरघुनन्दनाघ्रिनलिनासङ्गस्फुरत्सौभगां चङ्गप्राग्रसरा वहन्तु हृदि भूरङ्गस्थलोल्लासिनः । त्वङ्गद्वारगतिगौरवेण कविमातङ्गस्य विद्वन्मनो- भृङ्गप्रीतिनिबन्धिनीमिह महालिङ्गस्य सूक्तिस्रजम् ।।

॥ आचार्यपञ्चरत्नम् ॥ साम्नां किमस्ति गतिरत्र सुदुर्विदग्धे- ध्वथैः स्थिरा प्रकृतिरेव कथं निगृह्या । भेदेन शिक्षणरतेरनृजुः प्रकारो दण्डं गुरुर्दमयितुं तदिहाग्रहीन्नः ।। १ ।। कामं दधातु स मृडः शितिकण्ठशर्व- भूतेशफालनयनाद्यभिधानवर्गम् । लोकान् विनेतुमिह दण्डभृदेक एव धत्ते गुरुः पशुपतित्वमनन्यगामि ॥ २ ॥ शूली कपालभृदमर्त्यधुनीवतंसः कृत्तिं धत्स जगतां सुकृतैः किमेवम् । लेशेन वेषपरिवृत्तिवशात्सदण्ड- रुद्राक्षदामकलशाम्बुकषायवासाः ॥

साधारणे स्मरजयेऽप्यनुभावतार- तम्यं ब्रवीति खलु साधनसंभ्रमादि । वैश्वानराक्षिमहिमा स्तुतिमहतीश- पक्षे गुरुस्तु मनसैव ददाह कामम् ॥ स्मरारिः सर्वज्ञः पशुपतिरसौ यद्यपि वृषं समारूढः साक्षाद्धर इव शिवासक्तहृदयः । न भीमो न स्थाणुनै च विषमदृष्टिन च नटो न चाप्युग्रः शूली न च न विषकण्ठो मम गुरुः ॥

८१ ॥ ग्रन्थसमुच्चयपञ्चकम् ।। पुञ्जीभूतप्रभावं कृतमिव कलिना मूर्खमौखर्यभाजा ग्रस्तालोकेऽपि लोके कचन समुपलभ्यार्यधुर्याभिगुप्तिम् । विज्ञानज्ञानचर्चारसमुखविविधश्रीमदुन्मेषपोष- स्फीतोन्नीतप्रपञ्च भजत समुदितं भारतीरत्नकोशम् ॥ १॥ अत्रामी संवदन्ति श्रुतिषु मधुमुचः पुस्तकन्यस्तरूपा नृणां सन्दर्शयन्ति व्यपगततिमिरं मार्गमेते महान्तः । धिन्वन्त्याज्ञापयन्ति प्रकटमुपदिशन्त्युन्न यन्ति प्रलोभ्य प्रेक्षावन्तोऽनुवृत्तिं द्धति जनिमतां भव्यहेतोविभिन्नाम् ।। अयं सरससाहितीनवसुधाविवर्षी विधुः पयोनिधिरयं मणीगणकनद्गभीराशयः । अयं त्रिदिवनिष्कुटः स्मृतिवशादभीष्टप्रदः प्रबन्धशतविस्तरो विजयते प्रपञ्चोऽपरः ॥३॥ 6 ८२ पूतः सङ्घात एष व्यतिकरितदिशा सत्प्रबन्धप्रपञ्चो- दश्चद्वैरिश्चधाम्नाममृतपदजुषामात्मनिष्यन्दशेषः । त्वङ्गत्काव्योर्मिमालः प्रकटितनिगमोदनशैलेन्द्रकूटो व्याकीर्णाध्यात्मतत्त्वप्रचुरमणिगणो वर्धते वार्धिकल्पः॥४॥ . नवं सदा स्वर्वनितावयोव- नित्यं धनेशो निधिवञ्च पूर्णम् । अदृष्टपर्यायमशेषशेषि ज्ञानं निषेवध्वममुं विगाह्य ॥ ५ ॥ m-

८३
। कालिदासप्रशस्तिः ॥
वागर्थसंप्रयोग-
प्रपञ्चधात्रे नमोऽस्तु बहुयशसे ।
वागर्थप्रतिपत्त्यै
कविकुलककुदाय कालिदासाय ॥१॥
पुराणमित्येव न साधु सर्व
न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीक्ष्यैतदुदाहरन्ति
न कालिदासादपरः कवीन्द्रः ॥ २॥
प्रभामहत्या शिखयेव दीप-
स्त्रिमार्गयेव त्रिदिवस्य मार्गः ।
श्रीकालिदासस्य गिरा कवीन्दो-
जगन्ति पूतानि च भूषितानि ॥३॥
अनाघ्रातं पुष्पं किसलयमलूनं कररहै-
रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च यत्काव्यमनघं
न पर्याप्तां तृप्तिं भजति भजमानः सहृदयः ॥४॥

८४ यस्य खलु वाङ्मयनटी- चतुरिमसर्वस्वमनुबुभूषूणाम् । बलवदपि शिक्षिताना- मात्मन्यप्रत्ययं चेतः ॥५॥ रोमाञ्चिताङ्गाः स्तिमिताश्रुनेत्रा मिथः प्रसङ्गेषु विसर्पिणीभिः । यस्यार्थयुक्तं कविराजशब्दं शंसन्ति सारस्यकथाभिरार्याः ।। ६॥ काव्यानि यस्य मधुराणि निशम्य सन्त- स्तचातुरीपरिणमत्प्रकृतिप्रबोधाः । भावस्थिरं सुखमखण्डमनुस्मरन्तः पर्युत्सुका इव भवन्ति किमप्यकाण्डे ॥ ७॥ आविर्भूतिरमुष्य नूनमभवद्वाणीविपञ्चीगुणा- दिन्दोर्वा परिपीडितस्मरधनुःस्यन्दानुबन्धाच्च वा । वेदाभ्यासजडः कथं नु कविताव्यावृत्तकौतूहलो निर्मातुं प्रभवेद्रसोर्मिलगिरं श्रीकालिदासं विधिः ।।

८५
तां तामवस्थां प्रतिपद्यमान
स्थितं रसान् व्याप्य नवप्रभेदान् ।
औचित्यमस्यानवधारणीय-
मीहक्तया कर्तुरियत्तया वा ॥ ९॥
माघो मत्तद्विरदगमनो भारविर्भावितार्थः
श्रीकण्ठाख्यो मुरजमधुरः प्राज्यवर्षी स बाणः ।
सौशब्द्येन्दोरुदयशिखरी प्रासशौण्डेषु दण्डी
हन्तैकस्मिन् क्वचिदपि न ते सौम्य, सादृश्यमस्ति ।
प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतिमहती महीयताम् ।
ममापि च प्रभवतु कालिदासवाङ्-
निषेवणात् सहृदयसार्वभौमता ॥ ११॥
प्रशस्तिः कालिदासस्य कविहीरमणेरियम् ।
रचिता कविडिम्भेन श्रीमहालिङ्गशर्मणा ॥ १२ ॥

.
॥ जार्जपञ्चकम् ॥
उन्मुक्तो निखिलामयैरुपचितः सर्वैः सदाशंसनैः
पृथ्वीभृत्प्रतिपन्नपादपतनः सर्वत्र निर्वारणः ।
दिक्षु प्रोद्धतदुर्जनान्धतमसप्रक्षोभदक्षोदयः
श्रीमान् पञ्चमजार्ज एष महसां राशि वि द्योतताम् ।।
.
यामान षड्दिवसस्य निष्प्रतिहतिनित्योदयश्रीयुतः
पाताले वसुधातले दिवि च वा यः स्वौजसा दीप्यते ।
साकं यः सुमनोगणैः कुवलयं धत्ते विकासान्वितं
श्रीमान् जार्जमहीश्वरो विजयतां तेजोभिरर्कातिगः ॥
SHARE
भासो यस्य विलङ्घयन्ति जलधिं क्षुब्धोर्मिमालं बला-
दाक्रामन्ति महीध्रमौलिमुकुटांस्त्वङ्गन्ति तारापथे ।
नौकाधूमरथाम्बरप्रवहणस्वाधीनशक्तित्रयः
श्रीमान् जार्जसहस्रभानुरवनावव्याहतो दीव्यतु ।

एकस्मिन् समुदित्वरे द्युतिनिधौ यस्मिन् ग्रहक्षत्विषो
गृह्यन्ते पृथिवीभृतो न वचसाप्यत्रेतरे स्वल्पकाः ।
पाश्चात्योदयभागपि प्रतिनिधिप्रत्यूढपूर्वावनः
श्रीमानेष समेधतां दिनमणिर्जार्जस्तुरीयोत्तरः ॥
दुष्कालव्यतिषङ्गदुर्गतधियां संरम्भदुर्गाटवी-
दावोदामसमीरणव्रतचणो धर्मव्यवस्थोद्यतः ।
आर्ये वर्त्मनि वर्तयन् भुवमिमामार्यान्वयाधिष्ठितां
श्रीमाञ्जार्जनृपोऽवतात्प्रशमिताबाधां समाः शाश्वतीः॥

८८
॥ नासिकापञ्चकम् ॥
पातालभूतमुखगर्तमुपर्युद्ग्रा
घोणा चकास्ति तव मेरुतटीसमाभा
या केतनं समुचितं सुमनोऽधिवास-
प्राप्त्यै च यामभिगतौ नयने रवीन्दू ॥१॥
एषा नु सेतुसरणिर्मुखकान्तिपूरे
वक्ताख्यदेवकुलगोपुरसंहतिर्नु ।
श्वासोरगोचितीवहारगृहं नु नाकु-
वीणाप्रवालसरला नृप, नासिका ते ॥२॥
अधो विधायाक्षिदिनेशचन्द्रा-
वुज्जृम्भणं विन्ध्यगिरिवितन्वन् ।
नासाभिधो भाति तमाखुचूर्णै-
र्यश्चूषितैः शंसति धातुमत्ताम् ॥ ३ ॥

मरुस्थलं फालदेशः श्मश्रुमुष्टिस्तु काननम् ।
मानदण्डोऽनयोर्मध्ये नासावंशो निवेशितः ॥४॥
नयविशदधियस्ते नासिकेयं पृथक्त्वं
प्रथयति समुदना शत्रुमित्राख्यदृष्ट्योः ।
मुखमखिलमभिव्याप्योजिहानेव भान्ती
पिशुनयति च कीर्तिं ब्रह्मकोशेऽप्यमान्तीम् ॥५॥
॥ कौण्डिन्य गीतम् ॥
चिन्ता नास्ति किल, तेषां चिन्ता नास्ति किल;
पर गृहभोजनपरितुष्टानां
नित्यातिथ्योत्सवनिष्ठानाम् ।। १ ।।
कालत्रयविरतोद्योगानां
किञ्च समेतामितभोगानाम् ॥ २॥
गृहमेधिनिमन्त्रणचित्तानां
षड्रसभरिताशनमत्तानाम् ॥ ३ ॥

॥ सुभाषितानि ॥ वासस्थानेषु सज्जन्तः कुतोऽप्युन्मुखतां गताः। इषीकाकुसुमायन्ते दुर्जना मर्मवेधिनः ॥१॥ लोके कूटपराः खलाः कलहिनश्चण्डा असूयालवो दुर्व्याहारपरापवाद निरता मिथ्याविवादोल्बणाः। किं नासन्नधमाः पुरा विकरुणाश्चौराः कृतघ्नाश्च वा सन्त्येते विदिताः स्वरूपविभवः काले कराले मम॥ निस्त्रिंशं च मनुष्यं च ग्रहीतुं भुवि जानतः । अस्ति साधनसंपत्तिरन्यथात्वे विपर्ययः ॥ ३॥ गुणानामगुणीकारैर्दोषाणामुपबृंहणैः । परीवादैर्वच क्रौन शत्रुर्यदि कैः परैः ॥ ४ ॥ मर्मणां गोपनक्लेशैः संमतप्रापणैमिथः । पुरः पथ्यानुसन्धानैर्न बन्धुर्यदि कैः परैः ॥५॥ आत्मोत्कर्षपरापवादनिरतं मिथ्याप्रपञ्चं स्फुर- दौर्जन्यं विषवर्षि तुच्छममिताहंकारविष्फूर्जितम् । सद्विद्रावणमार्तिदं छलशतव्यामोहकार्युद्भटं न श्लिष्टं न विचारहृद्यमशुभं संभाषणं दुहृदाम् ।।

९१ आत्मोत्कर्षपरापवादविधुरं तत्त्वावमर्शि प्रियं सौजन्यामृतवर्षि पथ्यमकृताहंकारलेशग्रहम् । दुर्वाचां दमनं मनोलयकरं गम्भीरमव्याहतं श्लिष्टं सुष्टु यथोचितं सुमनसां संभाषणं श्रीकरम् ।। अन्विष्यन् परमर्म चिन्तयति यदुर्यन्त्रणां दुर्जन- स्तद्वन्नः खलु दुःखसंवरणमप्याक्षिप्य साधुः शुभम् । दूरोत्प्रेक्षितमप्रयाचितमनुद्धाट्यैव तावप्युभा- वारात् प्रापयतः क्रियां स्वसदृशी खेदाय मोदाय वा ।। आक्रान्तौ मदमूर्छनासु च करी लौल्येऽथ मुक्तो वृषः स्वश्लाघापरिघोषणासु विकटाटोपक्रमे कुक्कुटः । रम्याणां च विलोपने वनमृगो व्याघ्रश्च हिंसारुचौ क्रद्धः श्वा भषणे भयावहतया व्यालः स लोके खलः ।। दोषव्यक्तिषु सा खलस्य पटुता येषां गुणारोपणे जन्तोरापदि चोत्सवः स कुधियो येषां सुखे प्राणिनाम् । मूर्खस्योद्धरता दुरुक्तिषु च सा येषामृतोद्घोषणे शश्वत्तान् विरलान्नमामि जगतः क्षेमंकरान् सज्जनान् ॥

. ९२ आनन्दनं शशिनमात्मकलाकलापै- राविःकलङ्कमुपकल्पयता विधात्रा। सर्गक्रियासरसकौशललब्धमूला मन्ये मनाङ्मलिनिता निजकीर्तिरेव ॥ ११ ॥ आशासु तामसमपोहति सद्गणाना- मग्रेसरोऽपि च दधाति कलाः समस्ताः । व्यक्तं बिभर्ति हृदये च कलङ्कमिन्दुः सर्वः स्फुटेऽपि निजदोषगणे न विद्वान् ।। १२ ॥ किमात्मीयं लोकोत्तरमिति न मूढेरभिहितं किमाशास्यं नृणामरुचिरममार्गाहृतमपि । कियत्प्रज्ञाभाजामपि सदसतोर्दर्शनविधा- वमौग्ध्यं हा लोकं विकलयति मायाविलसितम् ॥ यन्नियन्त्रणदुर्नयव्यवसिताः सुस्निग्धवाचः पुरो यत्पापव्यवसायिनः प्रकटयन्यत्यन्तधर्मादरम् । यल्लोकस्तृणसंवृतावटनिभो मिथ्यागुणाडम्बर- स्तजानामि कलेरिदं धृतिहरं कैशोरलीलायितम् ।। .

काव्यवद्व्यवहारेऽपि व्यङ्गयस्यैव प्रधानता।
रससौजन्ययोः पूर्वमद्य तद्विपरीतयोः ॥ १५ ॥
कलौ कामार्थाभ्यां चरति वरिवस्यन्नविदित-
स्वरूपो धर्मस्तद्वितयहृतसाम्राज्यमहिमा ।
स्थिते देहात्मत्वे स्मरणमपवर्गस्य च कुतः
किमाश्चर्यं भिन्ना यदि निगमसेतुव्यवधयः॥ १६ ॥
स्थानप्रभाव: परपीडनाना-
मर्थोपपत्तिः कृपणाशयानाम् ।
दम्भान्वितानां महनीयतेति
त्रीण्यत्र मे मर्मविघट्टनानि ।। १७ ।।
कृपणेषु धनं खलेषु विद्या
फणिराजेषु मणिं खनौ सुवर्णम् ।
मयशम्बरडम्बरेषु भोगं
गुणिषु ग्लानिमहो विधिळधत्त ।। १८ ॥
कस्य केन स्मृतो मन्तुः कः कं विक्रम्य बाधते ।
तथापि नित्यं साक्रोशो दरिद्रे प्रभवन् जनः ॥१९॥

९४
धर्मध्वजो व्याजविवर्जितेभ्यः
कृतोपकाराच्च कृतघ्नबुद्धिः ।
ऋणी परित्रस्यति चोत्तमात्
सदा कदर्यः स्वगृहेऽतिथिभ्यः ॥ २० ॥
प्रायो मृदौ गुणमवैति गुणं न लोकः
प्राब्रूत कः खलु शशिन् , जडधीर्जडं त्वाम् ।
आत्मभ्रभं निरवधिं त्वमधिश्रितोऽपि
नाविष्करोषि जगतः सकृदेव पृष्ठम् ॥२१ ।।
माधुर्य स्वदते निपीड्य बहुधा काण्डान् यदिक्षोर्जनो
हेम्नः सारमवैति कर्षणशिलापट्टे निघृष्यैव यत् ।
गन्धे दीपयतेऽगरुं यदपि यत्तक्ष्णोति दीप्त्यै मणिं
तत्पीडामपहाय कुत्रचिदपि प्राप्यो न तत्तद्गुणः ॥२२॥
यत्कृच्छेषु गुणा भवन्ति विदिता लोकैरविश्वासिभि-
स्तानुद्भासयितुं विधिर्गुणवतां विस्तारयत्यापदः ।
ते चामी गुणिनो विमर्दमभितःश्रेयस्करं मन्वते
यत्तेषामितरन्न जीवितफलं स्यादात्मतुष्टियदि ॥२३॥

९५ सीताप्रधर्षणममस्त निशाचरेन्द्रो रूपोत्तरेति ऋजुवागिति कौशिकोऽपि । क्लेशांस्त्रिंशङ्कुतनयस्य ससर्ज दुर्गान् लोकोत्तरः खलु गुणो बहुदुःखमूलम् ॥ २४ ।। यथा कवीनां पदबन्धचित्रे- ध्वेवं जगत्स्रष्टुरपि प्रतीमः । अशक्यनिर्भेददृढं निपीड्य कोष्ठेषु बन्धुं व्यसनं मनुष्यान् ॥ २५ ॥ चन्द्रः क्षयी स किल पिङ्गलहक् कुबेरो भानोरनूरुररुण: स पुरःसरोऽपि । पङ्गुर्यमः सुरपतिः स सहस्रनेत्रो वेधाः स्वयं विधिवशाल्लुलितैकमूर्धा ॥ २६ ॥ धीराः केचन पर्यवस्थितिजुषः कालप्रवाहे मह- त्यात नामवलम्बनाय ससृजुर्नावो धियोद्योतिताः । हन्तासु निमजिवाः कति कति ध्यस्ता विशीर्णाः कति भ्रष्टाः कत्यपवाहिताः कति चरन्त्यद्यापि दिष्ट्या कति ॥

ऋक्षादृक्षमनुव्रजन् हिमकरो वारान् हि षड्विंशति
स्वानंशून् प्रचिचीषुरेति निखिलान् मास्येकवारं ततः
अन्यतुष्वपि संभृतस्वमहिमा मेघोऽभिनीलां तनुं
वर्षास्वेव समश्नुते फलपरीपाकक्रमस्त्वीदृशः ॥ २८ः
कस्याभ्यन्तरसारकौतुकि मनः प्रायोऽम्बराडम्बरै-
र्लोको मुह्यति पामरस्त्विति कियत्तद्विस्मयस्यास्पदम्।
ताक्षोऽपि सरित्पतिः श्रियमदात् पीताम्बरं बिभ्रते
क्ष्वेडाहँ किल कृत्तिवाससमसावैक्षिष्ट सर्वेश्वरम् ।।
आशाः सन्त्रुटिता वयो विगलितं भूयः किमाशास्यते
कुत्सामत्सरनीरसो निजजनः सर्वत्र तिक्तं जगत् ।
प्रस्थानं गिरिकन्दराय यदि भोः कल्पः स एवोत्तम-
स्तत्र प्रत्यवतिष्ठते हतमिदं स्वार्थे निविष्टं वपुः ॥३०॥

॥ कविहृदयम् ॥ (1) काव्यमूलगृहन्यासः कालिदासेन यः कृतः । परिकर्मणि तस्यैव शिल्पिनस्तदनन्तराः ॥ १॥ हिमकरकलास्वैराहादाः स्फुटन्नवकेतकी- परिमलगुणोदामाः स्त्यायद्विसाङ्कुरकोमलाः । अविरलगलन्माध्वीस्वाद्याश्चमत्कृतकामिनी- ललितसुभगा धिन्वन्तु त्वां महाकविसूक्तयः ॥२॥ अयं सरससाहितीनवसुधाविवर्षी विधुः पयोनिधिरयं मणीगणकनद्गभीराशयः । अयं गगनवद्विभुः पवनवत्परिभ्राम्यति प्रपश्यति नभस्सदां गण इवानिशं सत्कविः ॥३॥ औचित्यनिधिरव्यक्तकुशलो व्यङ्ग यजीवितः । अवधारितसर्वोर्वीसारधीरः कविः कविः ॥ ४ ॥ माधुर्यं पद्गुम्फने श्रुतिमतां सारल्यमर्थोदये सन्दर्भ रसमेदुरत्वमथ च व्यङ्गयान्तरस्फूर्तयः । सर्वाङ्गेष्वपि सौष्ठवं नवनवं काव्यस्य भव्यैर्गुणै- रेतैर्जीवकलां कृती कविकुले यः कोऽपि योक्तुं क्षमः।। 7

९८
विवेक्तुं सन्दर्भ विविधरसपोषक्षमममुं
परिष्कर्तुं दिव्यप्रतिफलजुषा प्रातिभशा ।
निबन्द्धं वाग्गुम्फैः सरसमधुरैस्तत्सुविहितं
शतेषु स्यादेकः कविरथ सहस्रेषु रसिकः ॥ ६ ॥
ताराशीलपरीक्षकः किमखिलो वेलोपलक्षी जनः
सर्वः सिन्धुतरो निमज्जति जले किं मौक्तिकादित्सया।
वेत्ति स्वर्णशिराधरां किमु धरां सर्वोऽपि तामाश्रितः
कः काव्यं न पठत्यमुष्य हृदयग्राही स कोऽप्यबुदे ।।
अम्लं येन विकार्यते सुमधुरं येनेक्षवो वेणवो
नागेन्द्रा अपि शुक्तयोऽपि च चिरान्मुक्ताफलं बिभ्रति ।
इङ्गाला अपि येन निझरपयःपीडागमाद्वञतां
देवत्वं नरकीटकोऽपि भजते पाकाय तस्मै नमः ।
पारं गतो भव कलास्वखिलास्वपीति
सानुग्रहं पितृपितामहपूज्यपादाः ।
मामस्पृशनिगमबोधवदान्यमुद्रा-
धन्येन पाणिकमलेन शिशुं शयानम् ॥ ९॥

९९
॥ कविहृदयम् ॥ (2)
कस्यार्थः कवितारसेन तृषितः कश्चित् किमेनं पिबे-
दस्यासेवनतः कृशः किमपरः किं सेवितेनैव वा।
गन्धर्वालयगोपुराग्रगणना सेयं स्थलीशायिभिः
स्वस्थैर्वा क्रियतामलं परिकरैः कृत्याकुलानां पुरः ॥१॥
अभ्यहणासु दयतेऽनृतमास्तृणोति
सस्कन्धसंहतिषु लध्वशनानि भुङ्क्ते ।
वातप्रमीरिव जवी भुवि बम्भ्रमीति
कस्तं निरुध्य कवितां श्रवसि प्रसिञ्चेत् ॥ २॥
नार्वाचीनगुणाभिमर्शसरसः प्रायः प्रधानो जनः
काव्यं कालझरप्रपातसहमित्यास्ते कुतः प्रत्ययः ।
भूयोजन्मनि निष्ठितेऽपि यशसि स्यात् प्रत्यभिज्ञा नु वा
व्यर्थं मत्कविते विलोभयसि मां सारस्यमातन्वती ॥३॥

१००
मामह्नाय सरस्वतीप्रणयिनं क्रोधादतिक्रामति
श्रीरुन्मथ्य हसन्तिकां प्रतिगृहं व्यक्तुं व्यलीकं मथि।
आर्या मेऽथ पितृष्वसा विदशनैराप्तोपदेशक्रमैः
प्रेयस्यामशने जनश्रुतिषु च प्रम्लापयत्यादरम् ॥ ४ ॥
मधुरेव तवर्तुषु प्रसूने-
ध्वपि चूतः पिक, पञ्चमं स्वरेषु ।
कविरस्मि च सारह प्रपञ्चे
परपुष्टौ विधिरीष्यितो व्यधान्नौ ॥ ५ ॥
व्यङ्गयामृतं पिबति खादति शब्दराशि
गृह्णात्यलंकृतिशतं सरसोपदंशम् ।
सन्दर्भसारमवलेढि कविः प्रपञ्चे
स्वर्गे महान् भुवि परिभ्रमति क्षुधातः ॥ ६ ॥
अम्भो वहत्प्रतिहतं भवति प्रवृद्ध-
मङ्गारराशिरनिलोपहतः समिन्धे ।
उन्मेषमुज्ज्वलधियामुपरोद्धुमेते
शक्ष्यन्ति किं भवपरिश्रमजा विपाकाः ॥ ७ ॥

॥ कविहृदयम् ॥ (3) कविरात्मानमुद्धृत्य भवमूषप्रतापितम् । द्रवीभूतमुपादत्ते काव्यवर्त्मनि सान्द्रितम् ॥ १ ॥ मनोबुद्धीन्द्रियग्रामचिन्मात्रव्यवहारवत् । तत्काव्यं भिद्यते नाना कर्तृताद्रूप्यमुद्रितम् ॥ २ ॥ काव्यस्यात्मा कवेरात्मा प्रतिबिम्बाश्रयैर्नयैः । स यादृशस्तादृशोऽसौ तदर्थेषु च सा भिदा ॥ ३ ॥ काव्ये सहृदयाः कामं कवेरात्मनि भावुकाः । तस्य रस्यत्वमेवात्र पृथक्वेनोपपाद्यते ॥४॥ अनुप्रविशति स्वेच्छावशात् संसिद्धवाक्कविः । शरीरं वाङ्मयाभिख्यं कल्पान्तेष्वप्यभङ्गुरम् ।। ५ ॥

१०२
॥ कविहृदयम् ॥ (4)
काले पर्वाचीनपरे प्रतनादरमन्थरे ।
कीशी संस्कृता वाणी कीशोऽभिनवः कविः ॥१॥
विरलेष्वपि गीर्वाणवाणीसौन्दर्यसाक्षिषु ।
कृतात्मा कोऽपि कुत्रापि भवेदित्येष नः श्रमः ॥ २ ॥
अर्हदहणयोर्लोके समवायो न दृश्यते ।
तथापि विपुलाशंसः स स किन्न प्रवर्तते ॥ ३ ॥
अनीदृशेषु रतिमान्नात्र रज्येत कर्हिचित् ।
ईदृशप्रणयी नाम तुष्येद्गुणलवैरपि ॥ ४ ॥
इह कौतुकिनी खलात्मनां
न तु दृष्टिं प्रतिषेद्धुमस्म्यलम् ।
रसभावविदां परं कृते-
नयनाप्यायनमर्थ्यते मया ॥ ५ ॥
यस्याराधनमात्रेणाप्यन्ततो मम निवृतिः ।
कलावच्चाधिने तस्मै कस्मैचन नमो नमः ॥ ६ ॥

इति श्रीमद्भरद्वाजकुलतिलकश्रीमदप्पय्यदीक्षितेन्द्रवंश- मुक्ताफलानां महामहोपाध्याय राजुशास्त्र्याख्या- विख्यात श्रीत्यागराजमखिराजानां प्रपौत्रेण, महोपदेशक-शास्त्ररत्नाकरादि-बिरुदाञ्चित- श्रीयज्ञस्वामिशास्त्रिवर्याणामात्मजेन, श्रीमन्महालिङ्गकविना प्रणीतायां काव्यकिङ्किणीमालायां प्रथमो गुम्फः समाप्तः ॥ शुभमस्तु ॥

APPENDIX A. POEMS WHICH ARE TRANSLATIONS. iterentzia: [P, 24] Shakespeare's Sonnet No. 29. विरहिवैक्लव्यम् [P. 26] Shakespeare's Sonnet No. 73. प्रभातवेला [P.37] Wordsworth's Sonnet beginning with, "Earth has nothing more fair to show", 3T+Jare: [P.40] Shelley's "The Cloud”. qaSPETTEPATATTUTET [P.61] Shakespeare's As You Like It: Act II, sc. vii, 11. 139 to 166. जीवयात्रा [P.63] Shakespeare's Macbeth: Act V, SC. v, 11. 19 to 28. 1999ICHT [P. 63] Shakespeare's Hamlet: Act III, sc. i, 11. 66 to 82. STA14GOT: [P. 64] Shakespeare's Hamlet: Act I, sc. iii, 11, 59 to 80. IGÈTET WETTIGHETGT ATT : [P.65] Dr. Johnson's. Letter to Lord Chesterfield. aldeaae: [P.67] The Rg-veda: Mandala Hymn 34. X;

APPENDIX B. A NOTE ON THE SONG-POEMS. Page 3. JŪTITCh Räga: "Isamanōhari”; Tāla: Ādi.” Metre: odd quarters contain 10 syllables and even quarters 7 syllables. May be scanned by Gaņas thus:-. 7. F. 3.) The yati falls after the 5th स. स.ग. syllable in the odd quarters. Pages 45. ToneTT Rāga: “Punnāgavarāli” Tāla: "Ādi." Several other strains also will be found suitable. Metre: Bhujanga-prayāta. Page 6, 19437H Rāga: “Jañjūți” ; Tāla: Rūpakam." Metre: 1991. Each quarter contains 18 syllables and the yati falls after the 10th syllable. May be scanned by Gaņas thus :- 1. 7. 57. 7. 27. T. Page 6. RTCGHFAR: Rāga: “Kamās "; Tāla: - Rūpakam" Metre: there are 15 syllables in a half, among which every odd syllable is long and every even syllable is short. Page 7. शिवगीतम् Raga: "Jañjūți” and “Srirāga;" Tāla:"Ādi.” Metre: the first three quarters have 11 syllables each, with a break after the seventh, and the fourth has only 4 syllables. (In stanza 4, line -2, read श्रिताङ्कक instead of श्रितोत्सङ्ग) 1.66 Kamās Page 8. Frega: Rāga: Hindustani tune; «(like Dāra Tillāna) Tāla: “ Ādi. Page 9. tranſah Rāga: “ Sindhu-Bhairavi” or "Pīlu", Tāla: "Ādi." Page 10. जन्मभूमिप्रशस्तिः Rāga: "Jañjūți”, .* Darbār". "Asäveri", " Nilambari", Byāg etc. Tāla: 56 Ādi.” Metre: each quarter .:contains 8 syllables; the first two are always short. Pages 11-12. ATTATA 79: Rāga: " Kamās”; "Tāla:"Tripuţa.” May be sung in “Yadukula- Kāmbhöji" also. Pages 22-23. FOGATTSSOT Rāga: “Pīlu" ; Tāla: “Rūpakam.” May be sung in “Sindhu-Bhairavi," Sahāna, Ațāņā, etc., Metre: the odd quarters contain 12 syllables, and even quarters 6 syllables. The Gaņa scheme may be taken to be generally H777 त स But in Stanza V, in the second half it is found to be भन त न त स Pages 27-29. Tarata: Rāga: "Pīlu”; Tāla: ***Adi.” May be sung in several other tunes also. Metre: the odd quarters contain 16 Mātrās and the even quarters 14 Mātrās. Page 30. श्रीकृष्णलीलागतिम् Rāga: “Sindhu- Bhairavi" ; Tāla: "Cap."

vi Pages 31-34, Furuf 47€ Rāga: "Nādanāmakriyā”; Tāla: "Rūpakam.” May be sung in several other tunes also. Metre: the odd quarters contain 8 syllables, and the even, even, 11 syllables falling into the Gana scheme:- 0, 0, 7, 7, त, त, त, ग, ग, Pages 38-39, FOETTA: This is a manipulation of the above-defined metre with a provision for five feet. May be sung in “Kedāra”; “Rūpakam." Page 89. Togrultay Rāga: "Navaros”; Tāla: " Ādi."

APPENDIX C.
PATRONS AND PARTICULARS OF THEIR
CONTRIBUTIONS:
>
22
His Holiness the Jagadguru Sri Sankarācārya
Svāmi of Sri Kāñci Kāmakoți Pītha. Camp at
*Tanjore.
Rs. 50-0-0
M. R. Ry. K. S. Narāyanasvāmi Aiyar Avl,
Mirāsdār, Mudikondān. Rs. 25-0-0
K. V. Rāmasvāmi Aiyar Avl,
Advocate, Madura.
Rs. 50-0-0
K. S. Rāmasvāmi Sāstri Avl,
Retired District Judge,
Madras. Rs. 25-0-0
R. Krsnasvāmi Sāstri Avi,
Sub-Registrar, Tanjore. Rs. 50-0-0
A. Sambamürti Aiyar, Avl,
Retired Judge, Kālaţi. Rs. 10-0-0
R. Nārāyaṇasvāmi Aiyar, Avl,
Proprietor, M.L.J. Press,
Mylapore. Rs, 50-0-0
Contributions to the Kinkinimālā-nidhi, proposed
10 be floated, will be acknowledged with thanks.
12-3-1934.
Y Mahālinga Šāstrī.

015, lams!
G34
APPENDIX D.
WORKS THE PUBLICATION OF WHICH
WILL BE TAKEN UP NEXT:
1. carlttiarachi A series of Anyāpadeśa.
verses with Introduction, Translation and Notes in
English.
2. Cat A lyrical poem, with a love theme,
in five cantos.
3. प्रतिराजसूयम् A drama in seven Acts with an:
Introduction.
4.
APOTHEOST Longer poems—a collection.
5. Eater: A collection of devotional poems.
$423
N.
>

Kinknimala

Author
Mahalinga Sastry.y
Title
Kinknimala
File name
Kinknimala
Text
OCR done
Citation
1934
Published
9/16/2002
Publisher
Y. Mahalinga Sastry, Chidambaram
Language
Sanskrit
Pages
125
Library
Svclrc
Classification
Literature
DLI number
383562
Barcode
2990100028188.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
UDL T.T.D, TIRUPATHI
VMLT id
cYHbj5RQiZP
Download PDF

Kinknimala