Canegie Mellon Univeristy
Kamakala Vilasa
Front matter
No text on this page.
श्रीपुण्यानन्दविरचितः
कामकलाविलास
श्रीनटनानन्दविरचितया
चिखल्लयाख्यया व्याख्यया
सहितः ॥
:
एम् . वि. श्रीनिवासार्येण
ट्रिप्लिकेन्
श्रीबालमनोरमाख्यमुद्रणालये
मुद्रयित्वा प्राकाश्यं नीतः॥
आनन्दनामसंवत्सरस्य मकरमासि.
१९१५.
[एतद्रन्थस्य मुद्रणाधिकारस्सर्वोऽपि प्रकाशकेन स्वायत्तीकृतः ।।
श्रीचक्रम् बिन्दुत्रिकोणवसुकोणदशारयुग्म- मन्वश्रनागदळसंयुतषोडशारम् । वृत्तत्रयं च धरणीसदनत्रयं च श्रीचक्रमेतदुदितं परदेवतायाः॥
॥ श्रीः॥
श्रीगुरुचरणारावन्दाभ्यां नमः ।
कामकलाविलासः ॥
पुण्यानन्दविरचितः ।
नटनानन्दविरचितया
चिदल्लया सहितः॥
वन्दे तन्मिथुनं दिव्यमाद्यमानन्दचिद्धनम् ।
अनुत्तरं परं ज्योतिरिति यद्भाव्यते बुधैः ॥ १ ॥
श्रीमते नटनानन्दयोगिने परमात्मने ।
रक्तशुक्लप्रभामिश्रतेजसे गुरवे नमः ॥२॥
प्रणमत नाथानन्दं परया भक्त्या चिदैक्यबोधानन्दम्।
उपनिषदर्थनिगूढं सकलजनानन्दभद्रपीठारूढम्॥३॥
नमरिशवाय नाथाय चिद्रूपानन्दरूपिणे ।
श्रीमते चटुलापाङ्गपाटितातङ्कशङ्कवे ॥४॥
कामकलाविलासः पुण्यानन्दमुनीन्द्राकामकला नाम विश्रुता जाता। आख्यांकांचिदमुष्या नटनानन्द करोति सव्याख्याम्!! इह हि शक्तिपातसमुन्मिषत्सकलवेदवेदान्त तात्पर्य निर्णयविशारदाः सत्संप्रदायनिष्णाताः सर्वागमार्थावधा- रितात्मयाथार्थ्यविदः सच्चिदानन्दसिन्धुविहरणपटीयांसः अत्रभवन्तः पुण्यानन्दाः स्वयं परमात्मानं प्रकाशयन्तः परमेश्वरमात्मत्वेन समाविशन्तः परेषामपि भक्तिभाजां पुरुषाणां उजिहीर्घतया परमात्मकत्वलक्षणं रक्षणमाशा- सते ॥ सकलभवनोदयस्थिति- लयमयलीलाविनोदनोद्युक्तः। अन्तर्लोनविमर्शः पातु महेशः प्रकाशमानतनुः ॥ १ ॥ अत्र पुण्यानन्दयोगिनः पुण्यवशात स्वाभाविकभक्ति- परितोषितपरमगुरुवरकरुणाकटाक्षनिर्धूतनिखिलपाशस्तो माः सकलविद्याधिदेवताभूतमहात्रिपुरसुन्दरीमन्त्रचक्रपू- जाक्रमव्याचिकोर्युतया तदधिष्ठानभूतकामकामेश्वरीरूपमा- दावाचक्षते-सकलेत्यादि-सकलानां भुवनानां उदयः चिद्वल्लीसहितः। - उत्पत्तिः, स्थितिः रक्षा, लयः नाशः, एतत्रितयं तिरो- धानानुग्रहयोरुपलक्षणम् । यथा त्रिवृत्करणं पञ्चीकरणस्य एतत्पञ्चविधकृत्यप्रचुरा या लीला तया विनोदनं क्रीडनम् , तस्मिन्नुढाक्तः जागरूकः । मयडत्र प्राचुर्यार्थे विहितः । अन्नमयो यज्ञ इतिवत् । न तादृशे चिन्मय इतिवत् । कुतः पञ्चविधकृत्यं हि कार्य जगन्निष्टम् । लीला तु परमेश्वरनि- ष्ठा । तस्मादत्र सकलशब्दविशेषितभुवनपदेन भवत्यस्मा- दिति शिवादिधरण्यन्तं तत्त्वजातमुच्यते । एतेषां तत्त्वानां ब्रह्मणः सकाशादुत्पन्नत्वात्तस्मिन् स्थितत्वात्तस्मिन्नव ल- यात् ॥ तथा च तैत्तिरीयश्रुतिः- “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति यत्प्रयन्त्यभि- संविशन्ति । तद्विजिज्ञासस्व, तद्ब्रह्मेति ।” उद्युक्त इत्यनेन "सदेव सोम्येदमन आसीत् । एकमेवाद्वितीयं ब्रह्मेति । स्वान्तः स्थितं प्रपञ्च बहु स्यां प्रजायेयेति । तदात्मानं स्वयमकुरुत ” इति संकल्पविशिष्टलक्षणसृष्टयुन्मुखोऽभू- दित्युक्तं भवति ॥ तथा रहस्यगुरवः- "चिदात्मैव हि देवोऽन्तः स्थितमिच्छावशाबहिः । योगीव निरुपादा- नमर्थजातं प्रकाशयेत् ॥” इति । अत एवेश्वरस्य जगत्सृष्टयादिकं लोलामात्रम् न प्रयोजनमस्ति: ॥ तथा कामकलाविलासः " च हदयसूत्रम्- " स्वेच्छया स्वभित्तौ विश्वमुन्मी- लयति ।" तथा वचनमपि स्वेच्छयैव जगत्सर्व निगिरत्युद्विरेत्यपि ॥ इति । श्रुतिरपि "यथोर्ण- नाभिः सृजते गृहते च” इति ॥ वचनान्तरमपि- " जगचित्रं समालिख्य स्वेच्छा तूलिकयात्मनि । स्व- यमेव समालोक्य प्रीणाति परमेश्वरः ॥” एवं च महेश्वरः एक एव जगदुत्पादननिमित्तोपादानतामयते बहुस्यामिति बहुभवनश्रुतेः । एकमेवाद्वितीयमित्यधिष्टा- नान्तरनिषेधाश्च । प्रत्यभिज्ञानसूत्रेऽपि-"चितिरेव चेत- नपदाधिरूढा च ।" इत्यसंकोचनीचित्तमित्यनेन परमा. स्मैव जीवस्वरूपमगमदित्युक्तम् ॥ श्रुतिरपि- जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि प्रवीत् ॥ तथा ललितोपाख्यानेऽपि- "हृदयस्थापि लोकानामरश्या मोहनामिका । नामरूपविभागं च या करोति स्वलीलया ॥” इति ॥ चतुरशत्यां च- " अस्यां परिणतायां तु न किञ्चित्परिदृश्यते । दिस्मृतिजालमुदाहर्तव्यम् ॥ तथा छान्दोग्ये- ग्धोऽस्युत तमादेशमप्राक्ष्यो येनाभुतं श्रुतं भवत्यमतं मत- मविज्ञातं विज्ञातम्" इति एफविज्ञानेन सर्वविज्ञानं प्रति- " अनेन " चिद्वल्लीसहितः। " “ शाय, दृष्टान्तमाह " वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येवं सत्यं इत्यादिवचनात् , ब्रह्मैव तत्तदा- कारेण परिणम्य विहरतोति सिद्धम् ॥ ननु एतावता प्रकरणेन जगतो ब्रह्मस्वरूपाव्यतिरिक्तत्वमुक्तम् । एवं च सति जगद्वयतिरिक्तलक्षणं ब्रह्मस्वरूपं कोहशमि- त्याकाङ्क्षायामाह -अन्तर्लीनविमर्श इत्यादिना- विमृश्यते परामृश्यते इदमिति विमर्शः प्रपञ्चः । इद- मित्येव हि परमात्मना सृष्टस्य जगतः प्रसिद्धपरामर्शः ॥ तथा च श्रुतिः आत्मन आकाशः संभूत" इत्या- स वा एष पुरुषोऽन्नरसमय" इति शरी- रसृष्टिमुक्त्वा तस्येदमेव शिरः, अयं दक्षिणः पक्षः, अयमुत्तर पक्षः, अयमात्मा, इदं पुच्छं प्रतिष्ठा, इत्या- दिवाक्येन इदमिदमित्येव हि प्रपञ्चपरामर्शो दृश्यते ॥ परापञ्चाशिकायामपि- “अहमि प्रलयं कुर्वन्निदमः प्रति- योगिनः ।" इति । ब्रह्मप्रतियोगिभूतस्य प्रपञ्चस्य इद- मानिर्देशः कृतः । एवं भूतो विमर्शः प्रपञ्चः अन्तर्ली- नोऽन्तर्गतो विमर्शः यस्येति सः अन्तर्लीनविमर्शः । तदयमर्थः--स्वात्मसात्कृताखिलप्रपञ्चः परिपूर्णाहंभावभा- वनागर्भितः परमानन्दपरंज्योतिस्स्वरूपः परमात्मेति । रम्य- ६ कामकलाविलासः “ इति पर- एतच उत्तरत्र अहमर्थनिर्णयप्रकरणे प्रपञ्चयिष्यते । इहा- पि प्रसङ्गात् किञ्चिदुच्यते । ब्रह्म चाहमिति परमानन्दी भवति ॥ तथा चोपनिषत् तस्माद्वा एतस्माद्वि- ज्ञानमयात् अन्योऽन्तर आत्मानन्दमयः मात्मानं निर्दिश्य तस्य प्रियमेव शिर । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्मपुच्छं प्रतिष्ठा ।” इति पूर्णाहन्ताविशिष्टं परब्रह्म ब्रवीति । ननु आनन्द आत्मेति आनन्दरूपत्वमात्मनः प्रतिपाद्यते । न तु पूर्णाहन्ताविशिष्टत्वं, तत्कथमुच्यते पूर्णाहन्ताविशिष्टत्वं परब्रह्मेति । आनन्दो नाम विश्वा- त्मभावना ॥ तथा सुबालोपनिषदि- त्मा, प्राणमय इन्द्रियात्मा, मनोमयः सङ्कल्पात्मा, विज्ञा- नमयः कालात्मा, आनन्दमयो लयात्मा ।" इति । अत्र लयः पूर्णाहंभावना ॥ वचनमपि- " ध्यानको टिसमो लयः हति चिदानन्दघनं परमित्यत्र व्या- ख्यानम् । अमृतानन्दयोगिभिः चिश्चैतन्यकला, आन- न्दो विश्वाहंतापरिणाम इत्युक्तत्वात् एवं व्याख्यातम् ॥ अथवा जगदुत्पतिस्थितिलयहेतुभूताकृत्रिमाहंभावपरामर्शो विमर्शः ॥ तथा नागानन्दाः- “विमर्शो नाम वि- " अन्नमयो भूता- . , चिल्लीसहितः। “ श्वाकारेण वा, विश्वप्रकाशेन वा विश्वोपसंहारेण वा अकृत्रिमोऽहमिति स्फुरणम् । तस्यां तल्लीनत्वं नाम अन्तर्मुखत्वम् ॥” तथा चायमर्थः । अन्तर्लीनोऽन्तर्मु- खीभूतो विमर्शः पूर्णाहंभावना यस्येति । तथा श्री- स्वच्छन्दशास्त्रे स तु योऽन्तर्मुखो भावः सर्व- ज्ञादिगुणास्पदः । तस्य लोपः कदाचित्स्यादन्यस्यानु- पलम्भनात् ॥” इति । विरूपाक्षपञ्चाशिकायामपि- स्वपरावभासनक्षमः आत्मा विश्वस्य यः प्रकाशोऽसौ । अहमिति स एक उक्तः अहन्तास्थितिरीशी तस्य ॥ इति ॥ शिवानन्दस्वामिनोऽपि अहमित्यक्लमाक्रान्त- समस्तभुवनत्रयम् ।” इति । तत्ताशपरब्रह्मणः पर- मेश्वरस्य प्रकाशैकस्वभावत्वं सर्वस्मात्परत्वं चाह काशमात्रतनुमहेश्वर इति- प्रकाशमात्रा प्रकाशान- तिरिक्ता तनुः ॥ तथा च छान्दोग्ये- यंदतः परो दिवो ज्योतिर्दीप्यते, तं देवा ज्योतिषां ज्योतिरायु)- पासतेऽमृतम्” इति ॥ “स एष संप्रसादोऽस्माच्छरी- रात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनि- पद्यत" इति ॥ न तत्र सूर्यो भाति न चन्द्रतारक नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनु - " ८ कामकलाविलासः " भाति सर्व तस्य भासा सर्वमिदं विभाति ।" इत्यादि। तथा रहस्यागमश्च- " स्वरूपज्योतिरेवान्तः परावाग- नपायिनी । वन्दे ज्योतिरनुत्तरम् ।” इति च ॥ परापञ्चाशिकायामपि- " स एकोऽन्तरिदं ज्योतिस्स तेजांसि तमांसि च ।” इति । सौभाग्यहृदयेऽपि- तन्महः परमं नौमि” इत्यादि । अत्र प्रकाशत्वं नाम इच्छामि जानामि करोमि इत्युत्तमपुरुषान्तर्गतस्फुरण- रूपाहं परामर्श एव । ततश्च सर्वज्ञत्वसर्वेश्वरत्वसर्व- कर्तृत्वपूर्णत्वव्यापकत्वरूपपञ्चशक्तिसंवलितं परं ब्रह्मेत्युक्तं भवति ॥ ननु सूर्यादीनामपि प्रकाशकत्वं दृष्टम् । तत्क- थमस्यैव परप्रकाशरूपत्वमित्यत आह -महेश. इति- महांश्वासावीशश्च इति महेश इति । महत्वञ्चदेशकाला- कारैरनवच्छिन्नस्वरूपत्वात् । ईशत्वं च सर्वनियन्तृ- त्वम् ॥ तथा च यजुश्श्रुतिः " यतो वाचो निव- तन्ते"- इति. सर्वप्रकारेणापरिच्छन्न ब्रह्मेति निर्दि- 'तस्यैवैषा परा देवी स्वभावामशनोत्सुका: पूर्णत्वं सर्वभावानां यस्या नाल्पं, न .वाधिकम् ॥" ब्रांति ॥ तथाऽथर्वणवेदोपनिषदि- “अथ कस्मा- दुच्यते महेश्वरः । सर्वान् लोकान् उद्गृह्वाति, सृजति श्य- चिदल्लीसहितः। " श्वरः ॥ विसृजति वासयति । तस्मादुच्यते महेश्वरः” इति । उपनिषदन्तरेऽपि यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परस्स महे- भाषास्माद्वातः पवत इत्यादि ॥ “एत- स्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ वि. धृतो तिष्ठत" इत्यादि ॥ तथा प्रत्यक्षोपनिषत्- “य. त्परं ब्रह्म स एको रुद्रः स ईशानः स भगवान् महे- श्वरः स महादेवः” इति ॥ परापञ्चाशिकायामपि- स एव सर्वभूतानां स्वभावः परमेश्वरः । स एव भैरवो देवो जगद्भरणलक्षणः ।” इति परमेश्वरं नि- र्दिश्य तस्यैवैपा परा देवी स्वभावामर्शनोत्सुका । पूर्णत्वं सर्वभावानां यस्या नाल्पं न वाधिकम् ॥ इति संपूर्णरूपत्वपराशक्तियोगं परमात्मनो विधाय- " एष देवोऽनया देव्या नित्यं क्रोडारसोत्सुकः । वि- चित्रान् सृष्टिसंहारान्विधत्ते युगपत्प्रभुः ॥ अतिदुर्घटका. रित्वमस्यानुत्तरमेव तत् । एतदेव स्वतन्त्रत्वमैश्वर्यं पर- बोधितम् ॥” इति ब्रह्मस्वरूपं सम्यक्प्रकल्प्य प्रपश्चि. "एवं पराभट्टारिकासहितः श्रीपरमेश्वरः । एष सर्वेश्वर, एष भूताधिपतिः एष भूतपाल एष तम् ।
१० कामकलाविलासः सेतुर्विधरणः एषां लोकानामसंभेदाय” इति बृहदारण्य. कोक्तरीत्या सर्वप्रकारेण सर्वरक्षकः परमेश्वरः परमात्मा युष्मान् पात्विति निरवधिकदयाशालिनः पुण्यानन्दाः पुण्यपुरुषानाशासते । पालनं चात्र परमात्मैकत्वरूपमेव ॥ तथा चिद्विलासे “भेदलक्षणविपक्षसङ्कटात् तारणं परमिहात्मरक्षणम् ।" इत्यभेदेन चिन्तनमभिप्रेतम् । इदं चात्र पुण्यानन्दानामाकूतं सर्वभूतसुहृत्परमात्मैवात्र लोके सद्गुरुरूपमास्थाय कतिचन भक्तिभाजः संरक्षतीति ॥ यजुश्श्रुतिः- “स चाचार्यवंशो शेयो भवत्याचार्या- णामसावसावित्याभगवत्तः ।” “ आचार्यवान् पुरुषो वेद आचार्यस्तु ते गति वक्ता ।” “त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयतीति ।" परीक्ष्य लोकान् कमचिताने ब्राह्मणो निवेदमायानास्त्यकृतः कृते- न । तद्विज्ञानार्थ सगुरुमेवाभिगच्छेत् समित्पाणिः श्रो. त्रियं ब्रह्मनिष्ठम् ।” इत्यादिश्रुतिजालं श्रीगुरूपसदनद्वारा ब्रह्मप्राप्तिमभिधत्ते ॥ यथा चागमश्च- "शिवशक्ति- समायोगाजन्मान्तरकृताच्छुभात । शिवपूजानुचिन्ता स्था- कर्म साम्यं यदा भवेत ॥ शिव एष तदा साक्षा- दास्थाय गुरुविग्रहम् । दीक्षां करोति विश्वात्मा शम्भु.
चिल्लोसहितः । ११ " शक्त्यनुवेधतः ॥” इति । गीता च तद्विद्धि प्रणिपातेन परिप्रश्नेन मेवया । उपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ इति ॥ अभियुक्तोक्तिश्च कल्याणिदेशिककटाक्षसमाश्रयेण कारुण्यतो भवसि शाम्भववेधदीक्षा । परमशिवादिपदद्वयपारम्पर्यक्रमा- गतं भाव्यमिति च । अत्र किञ्चित्प्रसङ्गादुच्यते- पातु महेशः प्रकाशमात्रतनुः ।" इत्यनेन गुरुदेव- तामन्त्राणामैक्यं प्रतिपादितम् । कथम् आचार्यस्य प्रका- शकत्वम् अस्त्येव । तथा सूत्रम् "तथा गुरुरुपायः" इति । तथा तद्वत्तिकारोऽपि- “गृणातीति गुरुस्तत्वं स्तोत्रव्याप्तिप्रदर्शकः । मन्त्रवीर्यस्य तेनालावुपाय इति कार्नितः ॥” रक्षकत्वं मन्त्रस्याप्यस्ति । मननात् त्रा- यत इति मन्त्रशब्दार्थः । यथागमश्च “मननात्प्राण- धर्माणो मन्त्राः स्युः परिकीर्तिताः ।" इति । शिवसू- त्रमपि- “चित्तं मन्त्रे" इति चतन्यरक्षकत्वं मन्त्रस्य प्रतिपाद्यते । अबमर्थः चतुश्शत्यामपि अर्थषदकनिरूपण- प्रकरणे निगाभिधेययोः प्रतिपाद्यते निगर्भार्थों महादेवि शिवगुवात्मगोचरः । तत्प्रकारं च देवेशि दियात्रेण वदामि ते ॥ निष्कळत्वं शिवे बुध्वा तद्रूपत्वं कामकलाविलासः गुरोरपि । तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मता ॥" इति । एतदभिप्रायेणास्मदाचार्यवर्यैः श्रीशङ्करानन्दगुरु- भिरपि सम्यक् निरणायि “नमश्शिवाय नाथाय चि- द्रूपानन्दरूपिणे । श्रीमते चटुलापाङ्गपाटितातङ्कशङ्कवे ॥ इत्यादि । तथा श्वेताश्वतरोपनिषदि- " यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्य. र्थाः प्रकाशन्ते महात्मनः ॥” इति ॥ एवं च सत्सं- प्रदायिभिरेव माहेश्वरैः आत्मा कामेश्वरः प्राप्यते । न तु अन्यैरित्यलं प्रसक्तानुप्रसक्तया प्रकृतमनुसरामः ॥ ननु कथमयमात्मा परमशिवभट्टारक एव सर्वकर्ते- न्युच्यते, तस्य सर्वकतृत्वनिषेधश्रवणात् । श्रूयते हि- न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्य- धिकश्च विद्यते । परास्य शक्तिर्विविधैव धूयते” इति पराभट्टारिकासंबन्धादेव सर्वकर्तृत्वसवोभ्यधिकन्वप्रति- पादनपुरस्सरं पराभट्टारिकाया एव सर्वजगदुत्पत्तिश्र- वणात । किञ्च-- “आनोदवातं स्वधया तदेकम् । इति । "श्रंद्धया देवो देवत्वमश्नुते ।" इत्यादि । सा साक्षिणो विजयते तवं मूर्तिरेका । इत्यभि- चिढल्लीसहितः। " - युक्तस्मृतिश्च । पराभट्टारिकासन्निधानादेव अस्य महे श्वरस्य सत्ताश्रवणाश्च । केवलमीश्वरस्य सर्वकर्तृत्वा- दिकं न संघटत इति सत्यम् । न हि वयं परमेश्वर परमशिवः पराभट्टारिकारहितः केवलकति वदामः । किन्तु शिवशक्तिरूपकमेव तत्वमिति निश्चित्य तस्य का- रणत्वमवोचाम । तथा प्रामाणिकवचनम् - "शिवश- तिरिति होकं तत्त्वमाहुर्मनीषिणः," इति ॥ श्रीस्वच्छ- न्देऽपि तत्त्वारूढस्स भगवान् शिवः परमकारणम् । शिवस्सर्वस्य कर्तेयं शक्तिः कारणमुच्यते" इति उभ- योरपि कर्तृत्वमुच्यते ॥ तत्रैव शिवाभिन्ना परा श- क्तिः सर्वकर्मशरीरिणी । वामादाच्छादिभेदेन मिथुन- त्रयतां गता ॥” इति स्मरणात एकमेव जगत्कारणम् । अन्यथा श्रुतिविरोधः प्रसज्येत सदेव सोम्येदमन आ- सीत् एकमेवाद्वितीयं ब्रह्मेति एकत्वावधारणम् । तस्मा- च्छिवस्य कारणत्ववचनं शक्तरपि समानम् । अत एव शक्तेरपि कर्तृत्वमुच्यमानं शिवस्यापि तुल्यम् ॥ शिवेन विना देवी न देव्या च विना शिवः । नान- योरन्तर किश्चिचन्द्रचन्द्रिकयोरिव ।” इत्यागमसिद्धा. न्तरीत्या पराभट्टारिकाया अपि सर्वकारणत्वमाह [१] "म कामकलाविलासः सा जयति शक्तिराया निजसुखमयनित्यनिरुपमाकारा । भाविचराचरबीज शिवरूपविमर्शनिर्मलादर्शः ॥ २ ।। सा आद्या शक्तिरनवच्छिन्ना पराभट्टारिका महात्रि पुरसुन्दरी जयति सर्वोत्कर्षेण वर्तते । सैव शिवादिक्षित्य- न्तत्रिंशत्तत्त्वमयसर्वप्रपञ्चात्मिका तदुत्तीर्णा चेति सर्वो- पनियत्प्रसिद्धा त्रिपुरा अभिधीयते । एवं हि सत्संप्रदा- यविद्भिः महायोगिभिः पुरुषैः त्रिपुराशब्दनिर्वचनं क्रिय- है। कयं त्रिभ्यस्तेजोऽबन्नादिभ्यः पुरा भूता त्रिपुरेति । तेजोऽननादिभ्यः पूर्वसत्त्वमेव हि सर्वतत्त्वातिक्रान्तत्वं ब्राह्मणः तद्वारा सर्वतत्त्वात्मकत्वं च उपनिषदप्येवमे- Ca - तथा छान्दोग्य षष्ठप्रपाठके श्वेतकेतुर्हारुणेय आस तं हपितोवाच श्वेतकेतो वस ब्रह्मचर्यम् ।" इति पुत्रस्य वेदाध्ययनादिरूपब्रह्मचर्ये विधाय- “स ह द्वा- दशवर्ष उपेत्य चतुर्विंशतिवर्षस्सर्वान्वेदानधीत्य महाम- चिल्लीसहितः १५ ना अनूचानमानीस्तब्ध एयाय, तं ह पितोवाच, स्त- ब्धोऽस्युत तमादेशमप्राभ्यो येनाश्रुतं श्रुतंभवत्यमतं मत- मविज्ञातं विज्ञातम् ।” इत्यादिना शिष्ययोग्यतां नि- श्चित्य आचार्यो ब्रह्मविद्यामुपादिशत् । तंत्र एकवि- ज्ञानेन सर्वविज्ञानद्वारा सर्वतत्वानां तन्मयत्वमुक्तम् । तत्र दृष्टान्तमाकाङक्षमाणः शिष्य. पृच्छति । "कथं नु भगवः स आदेशो भवति ।” इति- यथा सोन्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्याद्वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ।” इत्यादिदृष्टान्त परम्परया परब्रह्मणो विश्वात्मकत्वं तदु- त्तीर्णत्वं चाभ्युत्थाय अनन्तरं च- “सदेव सोन्ये- दमग्र आसीत् , एकमेवाद्वितीयम्” इत्यादिना विश्वा- तोतं वस्त्वभिधाय पुनश्च विश्वात्मकमभिधत्त- “त- दक्षत बहु स्यां प्रजायेयेति संकल्प्य तत्तेजोऽसृजत इति तेजोऽबन्नानि सृष्ट्वा सेयं देवतैक्षत हन्ताह मिमा स्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि । तासां त्रिवृतमेकैकां करवाणि सेयं देवता इमास्तिस्रो देवता अनेन जीवनात्मनानुप्रविश्य कामकलाविलासः नामरूपे व्याकरोत् तासां त्रिवृतं त्रिवृतमेकैकामकरोदि- त्यादिना तेजोऽवनानामहंभावेन ब्रह्मणः सर्वपूर्ववर्ति- त्वं सर्ववस्तुपूरकत्वं च स्वस्वरूपकमित्युक्त्वा तेजोऽ बन्नात्मकमेव देवादिस्थावरान्तं तत्वजालमाचष्टे । यथा वा अपागादग्ने रग्नित्वं वाचारम्भणं विकारो नामधेयं बीणि रूपाणीत्येव सत्यमित्यादिना अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुः तत्पुरीषं भवति । यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः इत्यादिना त्रि- वृत्कृतप्रपञ्चपूरणात्रिपुरैव परब्रह्मेत्यभिधीयते । - इसमेवार्थमुत्तरत्र ग्रन्थकारः षट्त्रिंशत्तत्वात्मा त- स्वातीता च केवला विद्या ।" इति । स्मृतिरपि- विश्वात्मिकां तदुत्तीर्णा हृदयं परमेशितुः ।" इति । श्रीवामकेश्वरतन्त्रेऽपि- : त्रिपुरा परमा शक्तिराचा जाता महेश्वरी । स्थूलसूक्ष्मविभेदेन त्रैलोक्योत्पत्तिमातृ- का । कबलीकृतनिश्शेषतत्त्वग्रामस्वरूपिणी ॥” इति । श्रीस्वच्छन्देऽपि- नात्र कालः कलाभावः नैकता न च देवता । सुनिर्वाणं परं तत्वं रुद्रवकं तदुच्यते ॥ शिवशक्तिरिति ख्यातं निर्विकल्पं निरंजनम् ।
चिल्लीसहितः। . पश्यातीतं वरारोहे वाङ्मनोऽतीतसद्भुतम् ॥ अनिष्कळं व सकळं नीरूपं निर्विकल्पकम् । निर्द्वन्द्वं परमं तत्वं शिवाख्यं परमं पदम् ॥” इति । अस्मदुक्तसच्चिदानन्दवास- नायां च- "विश्वात्मिकां तदुत्तीर्णा प्रकाशामर्शरूपि- णोम् । परापरमयीं देवीमात्मत्वेन विशाम्यहम् ॥” इत्यादि- बहुश्रुतिस्मृत्यादिषु सर्वोत्कृष्टत्वं त्रिपुरायास्तत्र तत्र चोद्धो- ष्यते । एतदेव विवृणोति- निजसुखमयनित्यनिरुपमा- कारेत्यनेन- निजः स्वाभाविकः । सुखमयः दुःखासंभि- नानन्दरूपः । नित्यः सार्वकालिकः । निरुपमः निस्स- माभ्याधिकः । आकारः स्वरूपं यस्यास्सा । तदयमर्थः- निरवधिकाकृत्रिमात्मानन्दरूपिणीति । तथैवोपनिषत्- " तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः, इत्युपक्रम्य स एकः प्रजापतेरानन्द” इत्य- न्तं उत्तरोत्तरशतगुणितक्रमेण मनुष्यादिचतुर्मुखपर्यन्तं पु- रुषाणामानन्दपरम्परामुपन्यस्य “स एको ब्रह्मण आनन्दः स यश्चायं पुरुषे यश्चासावादित्ये स एकः” इति । सर्वो- स्कृष्टानन्दवब्रह्मणः सर्वात्मकत्वं सर्वोत्तीर्णत्वं वक्ति । उपनि- षदन्तरेऽपि “भूमैव सुख भूमा त्वेव विजिशासितव्यः” इ- त्युक्त्वा यत्र नान्यत्पश्यति, नान्यच्छृणोति नान्यद्विजा- " 2 १८ कामकलाविलासः नाति स भूमा” इति अपरिच्छिन्नानन्दमयमेव ब्रह्म श्रूयते । तथा च एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजी. वन्ति, इतरेषां ब्रह्मानन्दसमुद्रविग्रुट्त्वमुच्यते ॥ वामके- श्वरतन्त्रे- चतुश्शत्यां- "प्रणमामि महादेवीं पर- मानन्दरूपिणीम् । अद्यापि यस्या जानन्ति न मनागपि देवताः ॥ नित्यानन्दघनं परम्” इति । नित्यानन्दे निरुप- मपदे निर्मले निर्विकल्पे इति निष्यन्दमानसुखबोधसुधा- स्वरूपति परमानन्दसन्दोहप्रमोदभरनिर्भर इति परमानन्द- संपूर्णपदसौभाग्यदायकमित्याद्याभियुक्ततमोक्तथा च सच्चि- दानन्दस्वरूपिणी त्रिपुरेति निश्चीयते । भाविचराचर- बीजं भाविनोरुत्पद्यमानयोश्चराचरयोः स्थावरजङ्गमयो. बीजं योनिः कारणमित्यर्थः । यजुश्श्रुतिः- यो देवानां प्रथम पुरस्ताद्विश्वाधिको रुद्रो महर्षिः * हिरण्य- गर्भ पश्यत जायमानं स नो देवः शुभया स्मृत्या संयुनक्तु । स विश्वकृद्विश्वविदात्मयोनिः ज्ञः कालकालो- गुणीसर्वविद्या यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोतीति स ईशोऽस्य जगतो नित्यमेव नान्यो हेतुर्वि- द्यत ईशनाय । एको वशी सर्वभूतान्तरात्मा एकं वीज * प्रभवश्वोद्भवश्च इति पाठान्तरम् । - चिद्वल्लीसहितः । १९ .' बहुधा यः करोति इत्यादिष्टव्यः । आगमश्च- यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी । स्फुरत्तामात्मनः पश्येत्तदा चक्रस्य संभवः ॥ यथथ न्यग्रोध- बीजस्थशक्तिरूपो महाद्रुमः । तथा हृदयबर्बाजस्थं जगदे- तञ्चराचरम् ॥” ललितारव्याने च या ससर्ज विधा- तारं सर्गादी वारिपूरितम्" इति । परावासनायामपि- 'जगचित्रं समालिरव्य स्वयमेवात्मविग्रहम् । स्वय- मेव समालोक्य सन्तुष्टां परमाद्भुतां ॥ प्रकाशजीवसंली- नविमर्शात्मस्वरूपिणीम् ।" इति ॥ - ननु शिवस्य जगन्निर्मातृत्वं शक्तया विना न संगच्छते। एवं पराशक्तेरपि परमशिवेन विना कारणत्वं न बोभवीति, तत्कथमुच्यते -भाविचराचरबीजमिति- अत आह- शिवरूपविमर्श निर्मलादर्श इति- शिवस्य स्वरूपमहमिः त्येवमाकारं तस्य विमर्शः परामर्शः । परामर्शनमहमित्येवं रूपं ज्ञानम् । तस्य प्रकाशने निर्मलादर्शः सम्यक् प्रका- शनचतुर इत्यर्थः । अयमर्थः- यथा सिंहासनारूढः कश्चिद्राजा अतिसुन्दरः स्वात्माभिमुखावस्थितस्वच्छ- दर्पणतले स्वात्मप्रतिविम्वं सम्यक् प्रसमीक्ष्य तत्वति- कामकलाविलासः बिम्बं अयमहमिति जानाति । एवं परमेश्वरोऽपि स्वाधी- नभूतां स्वात्मशक्तिं सम्यगवलोक्य स्वस्वरूपमवगच्छात परिपूर्णोऽहमिति एवं च दर्पणस्य स्वसन्निहितवस्तु- संबन्धाभावे स्वान्तर्गतप्रतिबिम्बावभासनमनुपपन्नं भव- ति । तद्वत् पराशक्तिरपि परमशिवसंवन्धाभावे स्वान्त- स्थितप्रपञ्चनिगरणं न संघटत इत्यर्थात लभ्यमेवैतत् । तस्मान्न केवलेन शिवेन वा केवलया शक्तया धा जग- निर्मीयते । किन्तु उभाभ्यामेव कामकामेश्वराभ्यां अ- खिलं तत्वजातमातन्यते । यथा श्वेताश्वतरोपनिषदि- य एको जालवानीश ईशनीभिः सर्वान्लोकानीशत ईशनीभिः य एवैक उद्भवे संभवे च । य एको वर्णो बहुधा शक्तियोगाद्वर्णाननेकान्निहितार्थों दधाति । विचैतिचान्ते विश्वमादौ स देवः स नो बुद्धया शुभया संयुनक्तु” इति । यथोक्तमभियुक्तैश्च “स्वेच्छाविभावितानन्दजगद्रश्मिविला- सवत् । नौमि संविन्महापीठं शिवशक्तिपदाश्रयम् ।" इति । अखण्डितस्वभावोऽपि विचित्रां मातृकल्प- नाम् । स्वहन्मण्डलचके यः प्रथयेत्तं नुमश्शिवम् ॥” सश- क्तिकमहमित्येवं रूपं परब्रह्मेति निर्णीतम् । अत्र यद्व- क्तव्यं तदुत्तरत्र सम्यक् प्रपञ्च्य निरूप्यत इत्यलम् ॥
चिद्वल्लीसहितः। २१ ननु निर्विमर्शमेव ब्रह्म वदन्ति केचन । तत्कथम् उच्यते सविमर्शकं ब्रह्मेन्यत आह- स्फुटशिवशक्तिसमागम- बीजाकुररूपिणी पराशक्तिः। अणुतररूपानुत्तरविमर्श- लिपिलक्ष्यविग्रहा भांति ॥ ३ ॥ अस्यार्थः -अत्र पराशक्तिशब्देन प्रकृत्याख्या महात्रि- पुरसुन्दरी आभिधीयते । चिदानन्देच्छाज्ञानक्रियारूपे- ति या श्रुतिः जगत्प्रसिद्धा सा त्वेवमुच्यते ।-स्फुटशिव- शक्तिसमागमवीजाङ्कररूपिणीति-शिवश्च शक्तिश्च शिवशं- तो, तयोस्समागमः संयोगः । स्फुटः व्यक्तः शिवशक्तिस- मागमो योऽयं तेन वीजाकुररूपिणी बीजादडुरं अडराद्वीज- मितिवत्, शिवतत्त्वादिक्षितितत्त्वपर्यन्तं तत्त्वजालमुत्तरोत्तर- मुद्भावयेदित्यर्थः । अत्र शिवशब्देन ज्ञानशक्तिरभिधीयते । ज्ञानशक्त्यधिष्ठितत्वात् शिवतत्त्वस्थ शक्तिशब्देनापि क्रि- याशक्तिरभिधीयते क्रियाशकयधिष्ठितत्वाच्छक्तितत्वस्य चिदानन्दस्वरूपिण्याः सर्वत्र ज्ञानक्रियाभ्यामेव प्रपञ्च- निर्माणदर्शनात् । तथा श्वेताश्वतरोपनिषदि- "यदिदं ते २२ कामकलाविलासः . दृश्यते तदानन्दयोनिः तेन जोवति, तदेषाभ्युक्ता परो वा एष आनन्दः स भागयोनिः, कामरूपावेतौ स आनन्द- योनिः आनन्दो ब्रह्म ब्रह्मैवैषा देवी एकानेकप्रपञ्चा स्यात् चतुर्थपौरुषार्थे आनन्दरूपेति" यथागमश्च यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी रत्तामात्मन' पश्येत्तदा चक्रस्य संभवः ॥" प्रत्यभिज्ञा- सूत्रेऽपि चितिः स्वतन्त्रा विश्वसिद्धिहेतुः" इति । ति:- मादौ बभूव - अभियुक्तोक्तिश्च- “सा योनिस्सर्वदेवानां शकीनां च"इत्यादि । एवं चार्थी वर्णयितव्यः । सैव पराशक्तिः स्वयमेव शिवशक्तोभूय विश्वं सृजतीति तथा च श्रु- या लिङ्गमया निर्विततान हेतुर्याभ्यामिदं विश्व- इत्यादि द्रष्टव्या। तथा चिद्विलासे- मेदिनोप्रमुखमाशिवामतं तत्त्वचक्रमिह चक्रमुत्तमम् । स्वस्वभावसमयावभासिनी देवता भवति सांविदी कला ॥ विसर्गशक्तोर्विश्वस्य कारणं च निरूपिता। ऐतरेयाख्य- वेदान्ते परामर्शन विस्तरात् ॥” इत्याभियुक्तोक्तिः । पुन- स्तामेव विशिनष्टि -अणुतररूपानुत्तरविमर्शलिपिलक्ष्य- विग्रहा भातीति- अणुतरमत्यन्तसूक्ष्म रूपं अस्या इति चिल्लीसहितः। २३ अगुतररूपा। यजुश्श्रुतिः-"सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् । यत्तदद्रेश्यमग्राह्यम्" इत्यादि “एष आत्मान्तर- हृदयेऽणीयाबीहिरूपाद्वा सर्षपाद्वा" इति ॥ तथा वचनमरि- 'अणोरगुतरा देवो महतोऽपि महीयसी।" अत्रेदं अतिरहस्यम- अनुत्तरलिपिरकारः । विमर्शलिपिह- कारः । ताभ्यो लक्ष्यं विग्रहं स्वरूपं यस्याः सा तयो- कम् । अत्रानुत्तरविमर्शलिपिलक्ष्यविग्रहेत्यनेनाहमात्मि कान्तर्गर्मितसमस्तवर्णकदम्बकपरा वाक् अकारादिहका- रान्तं पञ्चाशदक्षररूपिणी वर्णपदमन्त्रकलातत्त्वभुवनात्म- कसमस्तप्रपञ्चजनयित्री पराभट्टारिका समस्तभूतान्तरा- त्मा सर्वत्र वेदान्ते अहमहमित्येवमाकारण प्रतीयमाना दृश्य- त इत्युक्तं भवति । तथा बृहदारण्यके- "ब्रह्म च वा इद- मन आसीत् । तदात्मानं एव वेद अहं ब्रह्मास्मि” इति । ऐतरेयेति अइति ब्रह्म तत्रागतमहम्" इति। तापनी- येऽपि- “कस्त्वमित्यहमिति होवाच । एवमेवेदं सर्वम् । तस्मादहमिति सर्वाभिधानम् तस्यादिरयमकारः । स एव भवति । सर्व ह्ययमात्मा । अयं हि सर्वन्तिरात्मा । न हीदं सर्वम् । निरात्मकमात्मैवेदं सर्वम् । तस्मात्स- २४ कामकलाविलासः " र्वात्मकेनाकारेण सर्वात्मकमात्मानमन्विच्छेब्रह्मैवेदं सच्चि- दानन्दरूपम्' इति । तत्रैवान्यत्र- “तद्वा एतद्ब्रह्म अद्वयं बृहत्त्वात् । नित्यं शुद्धं बुद्धं मुक्तं सत्यं सूक्ष्म परिपूर्ण अद्वयं सच्चिदानन्दं चिन्मात्रमेव” इति परमात्मा- नमभिधाय तदुपासनाप्रकारमप्याह सुविभान्तं स- कृद्विभान्तं पुरतोऽस्मात्सर्वस्माद्विभान्तमद्वयं पश्यतो हंसस्सोऽहमिति । ब्रह्म भवति । य एवं वेद ।” इति रहस्यमिति ॥ पूर्णाहंभावभावनारूपमात्मोपासनमत्यन्त- गोपनीयम् । गुरुमुखादेवावगन्तव्यमिति श्रुतिरेवाह- यथा छान्दोग्ये षष्टप्रपाठके “ तदैक्षत सेयं देवतैक्षत' इत्यादिना। तेजोबन्नात्मकरूपत्रयां सर्वजगन्निर्मात्री त्रिपु- रामभिधाय, “यो वै भूमा तत्सुखम् यत्र नान्यत्प- श्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा” इति । निरतिशयानन्दरूपिणी तामेव निर्दिश्य, “स एवाधस्तात इत्युपक्रम्याहमात्मानं निर्दिशति ॥ अहमेवाधस्तादहमु. परिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽ. हमेवेदं सर्वमिति” इति । तथा वृहदारण्यके- “त्वं वा अहमस्मि भगवो देवतैतासां वै त्वमसि भगवोदेवता " चिदल्लीसहितः। २५ इत्यादि । स्मृतिरपि- " हृद्यकारं द्वादशान्ते हकारं स्थविरा विदुः । अहमात्मैकमद्वैतं यत्प्रकाशात्मविश्रमः ॥ अकारस्सर्ववर्णाय्यः प्रकाशः परमश्शिवः । हकारोऽन्त्यः कळारूपो विमर्शाख्यः प्रकीर्तितः ॥ उभयोस्सामरस्यं यत्प- रस्मिन्नहमि स्फुटम् ॥” इति । श्रीविरूपाक्षपञ्चाशिकाया- मपि "स्वपरावभासनक्षम आत्मा विश्वस्य यः प्रका- शोऽसौ । अहमिति स एक उक्तो हन्ता स्थितिरीहशी इत्यादिवचनसहरमनुसन्धेयमिति अलमति- विस्तरेण । - इतः परं प्रबन्धेन प्रतिपाद्यां कामकलाक्षर रूपिणीं वि- वेक्तुकामस्तदक्षरस्वरूपं वक्तुमुपक्रमते- परशिवरविकरनिकरे प्रतिफलति विमर्शदर्पणे विशदे । प्रतिरुचिरुचिरे कुड्ये चित्तमये निविशते महाबिन्दुः॥४॥ इत्यादिकला च दहनेन्दुविग्रहौ बिन्दू इत्यन्नं, परशिवः प्रकाशैकस्वभावः परशिवभट्टारक एव । रविर्दिनकर., तस्य कराः किरणाः । तेषां निकरः पुञ्जः तस्मिन् विशदे कामकलाविलासः निर्मले विमर्शदर्पणे विमर्शो नाम अनवधिकांकारविस्फु- रणशक्तिः । तथा प्रत्यभिज्ञायाम् सा स्फुरत्ता" इत्या- दि । सैव दर्पणत्वेन निरूप्यते । स्वस्वरूपप्रकाशत्वात्तत्र प्रतिफलनं नाम स्वरूपावलोकनम् । तादृशप्रतिफलनस्व- रूपावलोकने सति चित्तमये ज्ञानकस्वरूपे प्रतिरुचिरुचिरे प्रतिप्रकाशमनोहरे कुड्ये महाबिन्दुर्निविशते प्रविष्टो भवति । चित्तस्य कुड्यत्वनिरूपणमहाबिन्द्वाविर्भावकार- णत्वात् । लोकेऽपि सूर्याभिमुखस्थितदर्पणतले सूर्य- किरणप्रतिफलनानन्तरं निकटगतकुड्ये सूर्यकिरणप्रति- हततेजोबिन्दुः प्रत्यक्ष प्रतिपद्यते तद्वत्प्रकाशरूप- परमेश्वरस्य दर्पणवत स्वस्वरूपविमर्शसम्बन्धे जाते त- दानी तत्र महाबिन्दुः पूर्णोऽहमित्येवं रूपः परमेश्वरोऽव- भासत इत्यर्थः । तथा च छान्दोग्ये-“स देव सोम्ये- दमग्र आसीत् । एकमेवाद्वितीयं ब्रह्म तदैक्षत सेयं देवतेक्षत इति च ब्रह्म वा इदमग्र आसीत् तदात्मान- मेव वेदाहं ब्रह्मास्मोति स ईक्षत इमान् लोकान् सृज ।” इत्यादिश्रुतिषु स्वात्मशक्तिनिरीक्षणाभिमुखं परब्रह्म जगत्का- रणमित्युच्यते । आगमश्च 'स्फुरत्तामात्मनः पश्ये- तंदा चक्रस्य संभवः” इति । प्रत्यभिज्ञायामपि-“सा - चिद्वल्लीसहितः । २७ स्फुरत्ता महासत्ता देशकालविशेषिणो । सैषा सारतया चोक्ता हृदये परमेष्ठिनः ॥” इति । परमानन्दयोगिनोऽपि "ईदृगियत्तादिवचो दूरतरं स्वानुभूतिसंवेद्यम् । तत्तादश- स्फुरत्ताशेषं संवित्कंथानुसाराख्यं ॥” इत्यादि । अन्य- सर्व शिवरूपविमर्श निर्मलादर्श इत्यत्र प्रपञ्चितम् वावलोकितव्यमित्यलम् । तत्रै- ताहगुज्ज्वलात्मकंशक्यवलोकनोद्भूताहंभावमेव विशि- नष्टि- चित्तमयोऽहङ्कारः सुव्यक्ताहार्णसमरसाकारः। शिवशक्तिमिथुनंपिण्डः कबलीकृतभुवनमण्डलो जयति ॥५॥ अस्थार्थ:- :-अहङ्कार इत्युद्भूतात्मस्मरणानुभवाभिव्यञ्ज- को योऽहमहमहमित्येवं विमर्शः । तस्य कारः कारणमह- ङ्कारः । एवंभूतोऽहङ्कारः जयति सर्वोत्कर्षेण वर्तते। तयो- तं प्रकाशस्यात्मविश्रान्तिररंभावेति कीर्तितः।" वित्त- मयो ज्ञानकस्वभावः । सुव्यक्ताहार्णः समरसाकारः। अश्व हश्च अहो । सुतरां व्यक्तौ सुव्यक्तौ स्पष्टौ । परस्परोद्भूत- कामकलाविलासः रूपौ सुव्यक्ताहौ। तयोस्समरसः एकलोलीभूतः । आका- रः निजरूपं यस्य शिवप्रकाशः। शक्तिर्विमर्शश्च । एत- द्रूपमिथुनं दिव्यदम्पतिमयम् । पिण्डीभवति एकलोली- भवति । यत्र स शिवशक्तिमिथुनपिण्डः । अत एव कबली- कृतभुवनमण्डलः कबलीकृतं अन्तःस्थापितं भुवनमण्डलं पत्रिंशत्तत्वसंघातमयं येन सः ॥ अयमर्थः-प्रत्याहारन्यायेन अन्तर्गर्भितसमस्तवर्णकद- म्बकाहङ्काररूपप्रकाशविमर्शसंपुटादेव शब्दार्थात्मकसर्व प्रपञ्चविकासो भवति। तथा च श्रुतिः--“य एको वर्णो बहुधा शक्तियोगाद्वर्णाननेकान्निहितार्थो दधाति ।” तापनीयेऽ- पि-"कस्त्वमित्यहमिति होवाच । अहमेवेदं सर्वम् । तस्मादेवाहमिति सर्वाभिधानमिति ।" कैवल्योपनिषदि-- "उमासहायं परमेश्वरं विभुं त्रिलोचनं नीलकण्ठं प्रशा- । ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षिं तमसः परस्तात् ॥” “स ब्रह्म स शिवः स हरि सेन्द्रः सोऽक्षरः परमस्स्वराट्" इत्युक्त्वा “तब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते।" इति कामकामेश्वरीरूपं ब्रह्म निर्दि- श्य तदुपासनमप्यहं ब्रह्मात्मकमेव विद्धाति । तत्रैवान्यत्र स्तम् चिद्वल्लीसहितः। २९ अथ योऽ- "वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।" इति अहमात्मकमेव ब्रह्मेति निर्दिश्यते। बृहदारण्यकेऽपि--" त?- तत्पश्यन् स ऋषिर्वामदेवःप्रतिपेदे अहं मनुरभवं सूर्यश्च' इ- त्यहरूपमुपासनमभिधाय विपरीते बाधकमाह - न्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरिति” तत्रैवान्यत्र-“यत्र देव इव राजेवाहमेवेदं सर्वो- sस्मीति मन्यते सोऽस्य परमो लोकः” इति "त्वं वा अह- मस्मीति भगवो देवते अहं वै तत्वमसि” इत्यादि- तथा गीताभाष्ये-" उत्सृज्य स्वयमात्मानं ये ध्यायन्त्य- न्यदेवताम् । भिक्षित्वा भूरि वित्तास्ते भिक्षित्वापि वुभु- क्षिताः ॥” इति । विरूपाक्षपञ्चाशिकायामपि--" यस्य विमर्शस्य कणः पदमन्त्रात्मकस्त्रिधा शब्दः। भुवनकला. तत्वार्थो धर्मिण इत्थंप्रकाशस्य ॥ अहमेकोऽनस्तमितप्रकाश- रूपोऽस्मि तेजसान्तमसामिति तथा अहमिति स एक उकोऽहन्तास्थितिरीहशी तस्य” इति । रहस्यागमेऽपि-पू- हन्तात्मभावेन कृत्रिमाहन्तया विना । आत्मानमात्मना साक्षाद्यः पश्यति स पश्यति ॥" इतः परतरं द्वाभ्यां चित्तमये निविशते महाबिन्दुः, कामकलाविलासः इत्युक्तं बिन्दुस्वरूपनिरूपणद्वारा कारकलामुपदिशति-- सितशोणबिन्दुयुगलं विविक्तशिवशक्तिसंकुचत्मसरम् । वागर्थसृष्टिहेतुः परस्परानुप्रविष्टविस्पष्टम् ॥ ६ ॥ बिन्दुरहङ्कारात्मा रविरेतन्मिथुनसमरसाकारः। कामः कमनीयतया कला च दहनेन्दुविग्रहौ बिन्दू ॥ ७ ॥ इति सितः शुभ्रः शोणो रक्तः तद्रूपो बिन्दू तयो- युगलम् । अत एव विविक्तशिवशक्ती अन्योन्यविहरणशीले शिवशक्ती यस्मिन् कपि तत् । अत एव संकुचत्प्रसरं संकुचन्मुकुलीभवन् प्रसरः जगत्वृष्टिरूपो विकासो यस्मिन् तत् । वाचः परापश्यन्त्यादिरूपसमस्तशब्दार्थाः शिवादि- क्षित्यन्तषट्त्रिंशत्तत्वरूपाः तेषां सृष्टि' षडध्वात्मकजगन्नि- मितिः। तत्र हेतुः कारणम्। तथा सौभाग्यहृदये--"वर्णः कळा पदं तत्वं मन्त्रो भुवनमेव च । इत्यध्वषट्कं देवेशि भाति त्वयि चिदात्मनि ॥ परसरानुप्रविष्टविस्पष्टं परस्परं अन्यो चिद्वल्लीसहितः । ३१ न्यं अनुप्रविष्टमन्तर्गतम् । विस्पष्टं पृथग्भूतं च तत् । एवंभूतं सितशोणबिन्दुयुगलं कामकामेश्वरीरूपं दिव्यमिथुनं विभा- वयेदिति पूर्वग संबन्यः। अत्रेदमतिरहस्यम्-"यः परस्स महेश्वरः” इति श्रुत्युक्तरीत्या निखिलवेदादिशब्दोत्पादकोऽ- नुत्तराक्षरांभिधेयः परमेश्वरः स्वात्मभूताखिलप्रपञ्चनिल- यात्मकविमर्शशक्तिमनुप्रविश्य बिन्दुभावमयते । ततः सा विमर्शशक्तिरपि स्वान्तर्गतप्रकाशमयविन्दुमनुप्रविशति। त- तश्च बिन्दुरुच्छूनो भवति तस्माद्विन्दो दात्मिका समस्त. तत्वगर्भिणी तेजोमयी नीवाराग्रसूक्ष्मरूपिणी निर्गत्य शृङ्गा- टरूपतामुदहते एवं च बिन्दुनादस्वरूपयोः तयोः प्रकाश- विमर्शयोरहमिति शरीरं भवति । एवं द्विरूपयोस्तयोर्मध्ये एको विमर्शो रक्तविन्दुरूपं भजते अपरः प्रकाशः शुक्ल. बिन्दुभावमेति। उभयोर्मेलने मिश्ररूपं सर्वतेजोमयं परमात्म- स्वरूपं भवति। तथा रहस्याम्नाये प्रकाशविमर्शसंवादचन्द्र- चन्द्रिकाख्यप्रकरणे अयमर्थः सम्यक् निरणायि-"प्रसीद भगवन् शम्भो ममात्मोपासनं प्रति यो यो भवति सन्देहः तं भवान्वक्तुमर्हसि ॥ आत्मानुसन्धयात्मानं परात्मोहत- रूपिणः । भगवन् यः परानन्दः स कथं वद मे प्रभो ॥" इति पृष्टवती देवींप्रदाह परमेश्वरः । “सकलाधारभूतो यः कामकलाविलासः - समस्तस्योपरि स्थितः । तस्मिन्नात्मनि सन्धाय स्वात्मानं परमं ब्रजेत् ॥ आवयोर्जगदात्मत्वात्तादात्म्यादावयोरपि । आत्मोपासनमानन्दं सर्वेषां विद्धि जानताम् ॥ तादात्म्या. दावयोर्नित्यं जगत्प्राणावुभौ हि नौ । ज्ञात्वैतान्सकलान्स- म्यग्जानीयात्संविदं पराम्" । विमर्श:-"आवयोरपि तादा- त्म्यं कथं योगोऽपि संभवेत् । कर्मसाम्यं कथं केन, नि- राचारावधूतको॥" इत्यादि प्रश्नपञ्चकस्योत्तरमाह शिवः "शिवकामात्परं तत्वं वर्ण्यते इति चेच्छृणु । सचोदयः प्रिये वक्तुं नालं वाग्विषयातिगम् ॥ परार्णाख्यशिवेच्छायां सत्यां सा विमर्शा तदा । अजायत पराांख्या बीजादकुरवत्प्रिये अनुप्रविश्यतां शक्तिं वामाद्यैः पिण्डितो भवेत् ॥ समस्त- बीजग ढ्याः सूक्ष्मबिन्दुत्वमेति सः। तत्प्रविश्याम्बिका भू- त्वा सानन्दाकारतां गता । तद्वयाप्त्या जृम्भितात्तस्माद्वि- न्दुरुच्छूनतांगतः। तथा सा बिन्दुमुद्भिद्य नीवाराग्रवदुत्थि- ता॥तुल्यकालोदिता नित्यरश्मिकोटिविडम्बिनी। षट्त्रिंशत्त- त्वगर्भाढ्या परमाद्यर्णगर्भिणी॥ सा पुंभावपरं बिन्दुं प्रविश्य ध्वनितां गता ।सोपिनादात्मिक शक्तियोनिमेति स्वशक्ति- ताम् । तयोविभेदयोरेको रक्तोऽन्यश्शुक्लतां गतः । मध्य- बिन्दुविमिश्रं तत्सुषुम्नाकन्दखात्मकम् ॥” इत्यादिना बिन्दु- चिल्लीसहितः । प त्रयनिरूपणं कृतम् । तदिह प्रसङ्गात् किश्चिदुक्तम् । अन्य- सर्व गुरुमुखादेवावगन्तव्यम् । श्रुतिरपि-"एको वर्णो बहुधा शक्तियोगात्" इत्यादि । एतदेव विन्दुत्रयनिरूपणं विवृणोति -बिन्दुरहङ्कागत्मेति-- बिन्दुः उक्तस्वरू- । अहङ्कारः अन्तर्गर्भितसमस्तवर्णराशिरनुत्तरास्फार- रूयाकारहकारतादात्म्यं स्वरूपं यस्य सः ! वर्णात्कार इति सूत्रण अहं शब्दात कारप्रत्ययः । एकार इतिवत् । अत एव एतन्मिथुन समरसाकारः एतयोरकारहकारवाच्ययोः प्रकाशविमर्शयाः । मिथुनं द्वन्द्वम् तस्य दिव्यदम्पति- रूपस्य मिथुनस्य । समरसः परस्परानुप्रविश्यमानमायानु- कूल्य तदेवाकारः स्वरूपं यस्य सः । एवं भूतो रविः । सितशोणविन्दुसमरसीभूतो मिश्रविन्दुरित्यर्थः । लोकेऽपि सूर्यस्थ मिश्ररूपत्वं अग्नीषोमयोः प्रवेशनिर्गमश्चयणादेवं वर्णयति-- तथा उद्यन्तं वा वादित्यमग्निरनुसमारोहति । अग्निं वा वादित्यः सायं प्रविशति" इति श्रुतेः । अमा सह सूर्याचन्द्रमसावस्यां तिथौ तिष्ठत इत्यमाशब्दव्युत्पत्त्या चन्द्रसूर्ययोः प्रवेशनिर्गमने प्रसिद्ध तस्माद्रविर्मिश्रबिन्दु- 3 कामकलाविलासः। रेव । एष तस्योपास्यत्वमाह--काम इति- काम्यते इत्यभिलप्यते स्वात्मत्वेन परमार्थविद्भिः महद्भि- योगिभिरिति कामः तत्र हेतुः कमनीयतयेति कमनीयत्वम् । तथा चोपनिषदि--"हिरण्यश्मश्रुः हिरण्यकेश आपणखा- सर्व एव सुवर्ण” इति । ईशावास्येऽपि-"सपर्यगाच्छुक मकायमवणमस्नाविरंशुद्धमपापविद्धम्” इति। तथा तत्रैव- सत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषस्सा- हमस्मि" इति । महासुन्दरं कामेश्वरमभिधाय ताशम- हिमानं परामृशति । . रहस्यानाये-“निरुत्तरं निराधारं. सच्चिदानन्दसाग- रम् । यदेतच्छाम्भवं मिश्रं निर्वाणाधारतां गतम् ॥ इत्यादि । कलाविमर्शशक्तिः । दहनो वह्निः । इन्दुः चन्द्रः । तावेव विग्रहावाकारी ययोविन्दोः तौ दह- नेन्दुधिग्रही बिन्दू । अयमर्थः-अग्नीषोमरूपिणी विमर्श- शक्तिः । तदुभयभूतकामेश्वराविनाभूता महात्रिपुरसुन्दरी बिन्दुसमष्टिरूपा कामकलेत्युच्यते । सैवोपास्यतया सर्वा- गमेषु च उद्घोप्यते ॥ तथा हि-"शुक्रः शिवो रक्त- शकवां पराशाम्भववेधतः । रक्तशाम्भवरूपेण परात- - चिदल्लीसहितः । ३५ त्वेन शक्तितः ॥ रक्त. शिवः शुक्लशक्तयां परशम्भ्वैश्य- भावतः । रक्तः शिवः शुक्लशक्तयां सच्चिदानन्दलक्ष- णम् ॥” इति । अन्यत्रापि-"अग्रबिन्दुपरिकल्पितानना- मन्यविन्दुरचितस्तनद्वयीम् । नादबिन्दुरशनागुणास्पदा नौमि ते परशिवे परां कलां ॥ मिहिरबिन्दुमुखी तदधोल्ल सच्छशिहुताशनबिन्दुयुगस्तनीम् । सहपराधकलार- शनास्पदा भजति नित्यमिमां परदेवताम् ॥ ईकारोवंगतो बिन्दुर्मुखं भानुरधोदतौ । स्तनौ दहनशीतांशू योनिधि- कला भवेत् ॥” इति रहस्यम् ॥ अयमत्र निष्कर्षः-स्वान्तर्गतानन्ताक्षरराशिमहामन्त्र मयी पूर्णाहन्तामयो प्रकाशानन्दसारा बिन्दुत्रयसमष्टिभूत- दिव्याक्षररूपिणी कामकला नाम महात्रिपुरसुन्दरी मातृकापरमयोगिभिर्महामहेश्वरैरनिशमनुस्मतव्येति । एवं- भूतमाहात्म्यं ब्रह्मोपनिषदि च प्रतिपाद्यते । यथा- "अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति । नाभिहदयं कण्ठं मूर्धा च । तत्र चतुष्पादं ब्रह्म वि. भाति । जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्ती रुद्रः तुरीयमक्षरम् । स आदित्यो विष्णुधेश्वरश्च । स्वयममन- कामकलाविलासः स्कमश्रोत्रमपाणिपादं ज्योतिर्विदितम् ।' अस्यार्थ. अस्य एष देवस्य संप्रसादोऽन्तर्यामिखग इत्यादि। पूर्व- ननवाक्यजालेनिर्णीलार्थकस्य पुरुषस्य चत्वारि स्थानानि सू. लाधारहृदयकण्ठदेशोत्तमाङ्गरूपाणि भवन्ति । तेषु चतु- घु स्थानेषु चतुष्पाद, चतुर्विशचरण - ब्रह्म · सर्वव्या- पनशीलं शुभ्र स्वच्छप्रकाशम् । अक्षरं न क्षरतीति व्युत्पत्त्या जगदुत्पत्तिकारणत्वान्मूलकारणभूतं विभातिा तमेव भान्त- मनुभाति सर्व तस्य भासा सर्वमिदं विभाति।' इति निर- वधिकतेजोमयं मत विद्योतत इत्यर्थः । एवंभूताक्षरम्य स्था- नदेशेषु उपदेशद्वारा अवयवस्वरूपमुक्त्वा तुरीयं समुदाय- रूपं परमाक्षरविन्दुद्वादशान्ते कामकलात्मकं परं ज्योतिर्म- यमिति · व्याचष्टे. ---तुरीयमक्षरमिति-- म आदित्य इत्यारभ्य स ईश्वरी जाग्रदित्यन्तमन्तम : आदित्यः प्रकाशरूपः विष्णुः व्यापनशीलः । प्राण जीवः सर्वजी- वनदायकः । पुरुषः सर्वजीवर्तिजीवः . प्राणादिरूपी । अमिरग्रनेता ! एवं भूतस्स ईश्वरः विमाख्याकाम- श्वरीयुक्तः परमशिव इत्यर्थः। तथा चोक्तमथर्वशिरसि--- " अथ कस्मादुच्यते शान इत्युक्त्वा स्वयमेव व्याचरे । यस्सर्वान भावान ईशत ईशनीभिः परमशक्तिभिः इति ।
चिदल्लीसहितः। तथान्यत्र-" पगस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च ॥” इति । एवं भूतः कामेश्वरः तुर्याक्षर- रूपः । जागति जाग्रतीत्यर्थः । व्यत्ययो बहुलमिति सूत्रेण सुतिङव्यत्ययविधानान् । अत्र जागरणं नाम परापश्य- न्तीमध्यमावखरीमयमातृकाचकात्मिकाश्रीचक्रप्रथममध्य भूतसर्वानन्दमयाख्य निरवधिकतजोमण्डलभवने ॥ “वे- न्दवानलसंसढं संवर्तानलचिनम् । कामेश्यराङ्कपर्यनि- विष्टमतिसुन्दरम् ॥” इत्युक्तरीत्या प्रकाशानन्दनाथरूपत्वम् । एतदभिप्रायेण लीलाविनोदनोद्युक्त इत्यनेन जागरूक इति व्याख्यातम् । तत्ताहगक्षरं । ज्योतिर्मयं निकलमित्या- -तेषां मध्ये इत्यादिना--तेयं आधारहृदयकण्ठप्रदे- शोत्तमाङ्गरूपस्थानविशेषोपासनाकृतावयाक्षराणां मध्य यत्परं तुरीयभूतमक्षरं ब्रह्म निर्वाणाख्यम् । विभाति विद्यो- तते । एवं भूतनिष्कळमित्याह-अच्छायमपवनमित्यादिना- परमप्रकृतिमक्षरं निरूपयति - ज्योतिर्विदितमिति । वन्दे ज्योतिरनुत्तरांमत्यादिना प्रकाशात्मकत्वादेव ज्योतिर्मयत्वं विदितं सर्ववेदान्तैर्वेदितमित्यर्थः । पुनरपि ज्योतिर्मयमक्षरं ब्रह्म सर्वात्मकं सर्वेश्वरं निर्वाणरूपमिति स्वयमेव श्रुतिः स्पष्टमाचष्टे । यथा “यत्र लोका न लोका देवान देवा वदान कामकलाविलासः वेदा यज्ञान यज्ञा मातान माता पितान पिता स्नुषा स्नुषा चण्डालो न चण्डालः पुल्कसो न पुल्कसः श्रमणो न श्रमणः तापसो न तापसः । एकमवैतत्परं ब्रह्म विभाति ।" इति सर्वात्मकं ब्रह्म निर्दिश्य "हृद्याकाशेतद्विज्ञान" मित्या- रभ्य “स विभुः प्रजासुध्यानेन यो वे"दति उपासनास्वरूप- मुक्त्वा पुनरप्याह-तत्परं ब्रह्म विभाति । निर्वाणं न तत्र देवा ऋषयः पितर इंशते प्रतिबुध्यः सर्वविद्येति । अन्यत्र च-दृश्यतेत्यग्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः । इत्यादि श्रुत्या परमार्थविद्भिस्तादृशमक्षरं सम्यगवगम्यते । तथा चतुश्शत्यां द्वादशश्लोक्याम्-यदक्षरमहासूत्रप्रोतमेतजग- अयम् । ब्रह्माण्डादिकटाहान्तम् जगदद्यापि दृश्यते इति । यदक्षरशशिज्योत्स्नामण्डितं भुनत्रयम्। यदक्षरेकमात्रेण संसिद्धथै स्पर्धते नरः॥ रवितायेंन्दुकन्दर्पशङ्करानलविष्णु- भिः । वन्दे तामहमक्षय्यां मातृकाक्षररूपिणीम् ।” इति । प्रत्यभिज्ञायां च-" सर्वदात्वन्तरानन्दःसर्वतत्वौघनिर्भरः । शिवश्चिदानन्दधनः परमाक्षरविग्रहः ॥” इति। तथा--"स्वा- स्मैव सर्वजन्तूनामेक एव महेश्वरः । चित्स्वरूपोऽहमह- मित्यखण्डामर्शबंहितः ॥” इति । यथा स्वच्छन्दे “ तदूर्चे- इत्युपक्रम्य, नात्र कालः कलाभावो चोन्मना स्मृता " चिदल्लीसहितः। नैकता न च देवता । सुनिर्वाणं परं शुद्धं रुद्रवक्तं तदु- च्यते ॥ शिवशक्तिरिति ख्यातं निर्विकल्पं निरञ्जनम् । पश्यातीतं वरारोहे वाङ्मनोऽतीतमद्धतम् ॥ अनिष्कळं च सकळं नोरूपं निर्विकल्पकम् । निर्द्वन्द्वं परमं तत्वं शिवाख्यं परमं पदम् ॥” इति । विज्ञानभैरवभट्टारकेऽपि विन्दुरूपस्य चक्रस्य स्थूलवर्णक्रमेण तु अर्धेन्दुबिन्दु- नादान्तं शून्योञ्चारात् भवेच्छिवा ॥ इत्यादि । अमृता- नन्दयोगिनश्च-"बैन्दवे परमाकाशे सच्चिदानन्दलक्षणे । निष्प्रपञ्चे निराभासे निर्विकल्पे निरामये ॥ अनुत्तर- चमत्कारपरामर्शपवित्रिते । निरुत्तरमहाशून्ये शून्यशून्या- न्तवर्जिते || स्त्रीपुंनथुसकाख्याभिः कल्पनाभिरकल्पिते । आदिमध्यान्तनिर्मुक्त भावपञ्चकभासिते । सर्वोपमानर- हिते प्रकाशानुभवात्मिके ॥” इति ॥ शिवानन्दस्वामिनोऽ- पि-"सकलाद्या स्थिते हृद्ये कामराजकलात्मिके। बिन्दु- नादकलाकारे नमस्त्रिपुरसुन्दरि ।" वयमपि चिदानन्द- वासनायाम्--"चतुरण्डमहारत्नमण्डितं विश्वविग्रहम् । क्षित्यादिशिवपर्यन्तं व्याप्यावस्थाचतुष्टयम् ॥ पिण्डं वि- भाव्य तन्मध्ये सर्वातोतधनां पराम् । तुर्यात.तां चिदानन्द- रससारामनुत्तराम ॥ तत्रापि स्वेच्छयोपात्तजागरादिदशां कामकलाविलासः पराम् । अशेषसंविदामन्तर्मुखविश्रान्तिरूपिणीम् ॥ अनन्त- कोटिचन्द्रार्कसानिमां षोडशाधिकाम् । स्वान्तर्गतैकतापन्न- षत्रिंशत्तत्वसञ्चयां सर्वोत्ती महाविन्दुरूपामाराधयाम्य हम् ।” एवमादिकं श्रुतिस्मृतिजालमनुसन्धेयम् एवं विन्दुस्वरूपमुपदिश्य तदज्ञानोपासनयोः फलं पर ब्रह्म भाव एवेत्याह- इति कामकला विद्या देवीचक्रक्रमात्मिका सेयम् । विदिता येन स मुक्तो भवति महात्रिपुरसुन्दरीरूपः ॥ ८ ॥ पूर्वोक्तमहाप्रबन्धेन व्याख्याता कामकला महात्रिपुर- सुन्दरी । तस्याः विद्या ज्ञानं सा कीदृशीत्याकाङ्क्षाया- --देवीचक्रक्रमात्मिका देव्याः त्रिपुरसुन्दर्याः चक्र श्रीचक्रम् ! तस्य क्रमः चक्रमन्त्रदेवतात्मना सर्वानन्दमया- दिसमस्तप्रकटपर्यन्तरूपः । तदात्मिका तद्विषयिणी । येन शक्तिपातात्समुन्मिषद्ब्रह्मजिज्ञासुना भाग्यवता विद्यावता पुरुषेण विदिता। गुरूपसदनादिनावगता स पुरुयो मुक्तो भवति। "इहापिविद्याभिओपितैश्वर्यश्चिद्धनो मुक्त एव सः।"
चिद्वलीसहितः। ४१ इति प्रत्यभिज्ञास्थित्या संसारवासनानिरसनपटोगानंनवरत- परिपूर्णाहंभावभावनाकवलीकृतसर्वप्रपञ्चः परमयोगी विहः रते। तथा बृहदारण्यके--तदाहुः--"यद्रह्मविद्यया सर्व भवि- प्यन्तो मनुष्या मन्यन्ते। किनु तत्र ब्रह्मावेद्यस्यात्तत्सर्व भव- ति। अन्तेऽपि महात्रिपुरसुन्दरीरूपो भवति पराभट्टारिकात्म- करूपाभवति। तथा च श्रुति:--' परं धान त्रैपुरं चाविश- नित!" इति । "ब्रह्मविद्रोव भवति। न एवं पश्यन्नेवं मन्बान एवं जाननात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दस्सएम भनति” इति । प्रत्यभिज्ञासूत्रे च तथा-"प्रकाशानन्द- सामन्त्रविद्यान्मकपूर्णाहंभावशात् सर्वसंहाराधिकारी निजसंविद्देवता बक्रेश्वरतामानिर्भवति इति ।" शिवमिति । अभिनवगुप्तपादाश्च-“यस्यैयां प्रतिभात्येतत्परार्थक्रमरू- पिता । अक्रमानन्दचिद्रूपः प्रमोदास महेश्वरः ॥” इति । स्वतन्त्रश्चितिचक्राणां चक्रवर्ती महेश्वरः । संवित्तिदेवता चक्रजुष्टः कोऽपि जयत्यसो॥” इति ॥ स्वच्छन्दशास्त्रे-“ यदा त्वेकत्र संरूढस्तदा तस्य लयो. दयो । नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥" इत्यादिवचनशतं द्रष्टव्यम् । एवं च विदिता येन म मुक्त कामकलाविलासः इत्यादिना ज्ञानपूर्वानुष्ठानमेव ब्रह्म प्रापकं इत्युक्तम् ॥ तथा वृहदारण्यके ---"योवा एतदक्षरंगार्यविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति" इति ॥ तथा च वामकेश्वरतन्त्रे-" यावदेतं न जानाति सङ्केतत्रयमुत्तमम् । न तावत्रिपुरा चक्रे परमा- ज्ञाधरो भवेत् ॥” इति ॥ तस्माज्ज्ञानपूर्वानुष्ठानेनैव परम- शिवो भवति ॥ तथा चोक्तं तत्रैव-एतद्द्वात्वावरारोहे सद्यः खेचरतां व्रजेत् ।" इत्यलं प्रसक्तानुप्रसक्तया॥ पुण्या- नन्दमुखेन्दोरुदितामानन्ददायिनीमेताम् । कामकलामहम- निशं मूर्ना वाचा वहामि चिंत्तन ॥ इति कामकला व्याख्या नटनानन्देन देशिकप्रोत्यै । रचि- ता रसिकजनानां पुंसामालोकनाय चिवल्ली ॥ नाथानन्द गुरूणां शिष्यास्तत्वार्थचिन्तकास्सन्ति । तेषामन्यतमोऽयं टीकामेनां चकार तत्प्रीत्यै ॥ अस्याः कामकलाया व्याख्या पूर्वैरुदाहृताऽनेका। अस्मिन् तथापि स भक्तथा नटनानन्दो- ऽपि भाषयामास !! पुण्यानन्दमहात्मा कामकलारूपबिन्दु- मुक्त्वैवम् बिन्दोविकसनरूपं श्रीचक्रं नाम वक्तुमुधुङ्क्ते । तत्क्रमविवरणरूपं श्रीकामकलाविलासमप्येषः । आरभते चिदल्लीसहितः। विवरीतुं गुरुपदकृपयैव सुन्दरीभक्तः ॥ इह महामहेश्वराः पुण्यानन्दाः कामकलाख्यां आदि. सुन्दरीमात्मत्वेनानुभूय पुनरपि मन्त्रचक्रदेवतात्मकतद्विला. सानुभवपराः सन्तः परमार्थभूतप्रकृतमहाबिन्दोरेव सका- शात् जगदुत्पत्त्यादिकं वक्तुमारभते- स्फुटितादरुणाद्विन्दो- र्नादब्रह्माकुरो रवो व्यक्तः। तस्माद्गनसमीरण- दहनोदकभूमिवर्णसंभूतिः ॥९॥ अथ विशदादपि बिन्दो गंगनानिलवह्निवारिभूमिजनिः ।। एतत्पश्चकविकृतिर्जगदि- दमण्वाद्यजाण्डपर्यन्तम् ॥ १० ॥ स्फुटितादरुणाद्विन्दोरिति स्फुटितात उच्छूनात् । बि- न्दोः पूर्वोक्कलक्षणात नादब्रह्माङ्कुरः । नादः सर्वश- ब्दोत्पत्तिहेतुर्वर्णः । स एव ब्रह्म तद्रह्माङ्कुरः उत्पादकं कामकलाविलासः यस्य सः । तथा चोक्तम्---" एको नादात्मको वर्णः सर्वनादविभागवान् ! सोऽनस्तमितरूपत्वादनाहत इती- रितः ।” इति ॥ उपनिषदपि—“ध्याता ध्याता रुद्रः प्राण मनसि सहकरणैर्नादान्ते परमात्मनि संप्रतिष्ठाप्य ध्यायी- तेशानम्” इति ॥ दीपिकानन्दश्च-व्यामेति विन्दुरिति नाद इति एवंभूतो नादब्रह्माङकुरो रव शब्द. पश्यन्त्या- दिरूपः व्यक्तः आविर्भूतः । उत्तरत्र यासान्तरोहरूपत्यादि- शब्दराशे परापश्यन्त्यादिशक्तित्वेन प्रतिपादनात् । तस्मा- च्छब्दातू गगनसमीरणदहनोट कममीनां पञ्चभूतानां वर्णानामादिक्षान्ताक्षराणां च । संभूतिरुत्पत्तिः आम्ना- ता । अयमर्थ:-स नादबिन्दोरेव सर्वप्रपञ्चनिष्पत्तिराम्ना- यते। तत्तस्माच्छब्दात्मकं परं ब्रह्मेति ॥ - ननु आत्मन आकाशस्संभूत' इत्यादिना आत्मन एव स आकाशाजगदुत्पत्तिः श्रूयते । तत्कथं बिन्दुनादात्मक शब्दब्रह्मण एवेति । उच्यते---सर्वत्र वेदान्तेषु बिन्दुनादा- त्मकविद्याक्षरादेव परापश्यन्त्यादिशब्दात्मकसर्वप्रपञ्चावि- र्भावदर्शनात् । तथा च श्रुतिः-“अक्षरात्संभवतीह वि- श्वम् । यदक्षरं भूतकृतं विश्वेदेवा उपासते।" उपनिष- - चिद्वल्लीसहितः । दन्तरपि- 'दिव्ये ब्रह्मपुरे विरजं निष्कळं शुभ्रमक्षरं वि- भाति" इति । कामराज जान..र्गतककारलकाररहितबिन्दु. त्रयसमष्टिभूतकामकलाक्षरस्वरूपं विभातीति । ज्योतिर्मय- न्वमुक्त्वा जडातेऽपि? तत्परं ब्रह्म विभातीति परमप्रकृताक्षर- ब्रह्मणः ज्योतिर्मयत्वमुक्त्वा उपदिश्य तत्स्वरूपं निगमयति । मिश्रविन्दोर्निर्वाणविन्दोर्विश्रमादक्षगत्मकमेव ब्रह्मोपनिष- दादावाचष्टे । इसमेवार्थमभिप्रेत्य लधुभट्टारिका अपि---- “यन्नित्ये तध कामराजमपरं मन्त्राक्षरं निष्कलं" इति श्लोके कामकलाक्षरस्य सर्ववेदमूलत्वेन सर्वप्रकारेण सर्व- पुरुषोपास्यत्वं मोक्षप्रदत्वं चात्रुवन् । तद्वयाख्यातृभिरपि कृष्णानन्दवर्यः--" यदी शृणोत्यलकं णोति न हि प्रवे- दसुकृतस्य पन्थाम्" इत्यादि श्रुतिजालमुपन्यस्य श्रीकाम- कलाक्षरस्वरूपवैभवमेवोपन्यस्तम ॥ प्राञ्चोपि कवयः-"अनादिनिधनं ब्रह्म शब्दमक्षर- संज्ञितम् । निवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥" इति। अक्षरब्रह्मणे एवं सकाशाजगदुत्पत्ति ब्रुवन्ति ॥ तथा-- शब्दानां जननत्वमत्र भुवने वाग्वादिनीत्युच्यते । इत्यमृतरू- पी। स्मृतिरपि “शब्दब्रह्ममयी स्वच्छा देवी त्रिपुरसुन्दरी” ४६ कामकलाविलासः इति । एवं शब्दस्य निष्पत्तिः । शब्दव्याप्तं चराचरमित्या. दि । तथा च आत्मन आकाश इत्यात्मशब्दस्य अक्षरात्म- परत्वमित्यविवादः ॥ एवं शोणबिन्दोः सर्वात्मकत्वं सर्व- स्रष्टवमुक्त्वा एतदभेदाच्छुभ्रबिन्दोरपि तत्स्वरूपमतिदि- शति -अथ विशदादिति- विशदात्सर्वप्रकाशात् । बिन्दोः पूर्वव्याख्यातात् । गगनादिपञ्चभूतात्मकानन्तब्रह्मा- ण्डाविर्भावतिरोभावी भवत इत्यर्थः । तथा च श्रुतिः- "यस्मिन्भावाःप्रलीयन्ते लीनाश्च व्यक्ततां ययुः । पुनश्चा- व्यक्ततां भूयो जायन्ते बुद्धदा इव ॥” इति । एतस्माजायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी । एवं रक्तशुक्लविन्दुमयप्रकाशविमर्शा- मकब्रह्मणः सर्व सृज्यत इति सिद्धम् । स्वेच्छाविलासिता- नन्त जगद्रश्मिवितानवत् । नौमि संविन्महापीठंशिवशक्ति- पदाश्रयम् । इति॥ एवं बिन्दुद्वयाभेदमुक्त्वा तद्वन्ततया मन्त्रदेवतयोरप्यै- क्यमाह- बिन्दुद्वितयं यद- द्भेदविहीनं परस्परं तद्वत् ।
चिट्ठल्लीसहितः। विद्यादेवतयोरपि न भेदलेशोऽस्ति वेद्यवेदकयोः ।। ११ ।। बिन्दुद्वितयं पूर्वोक्त प्रकाशविमर्शात्मकं । यत् येन प्रकारेण भेदविहीनं "शिवशक्तिरिति ह्येकं तत्वमाहुर्मनी षिणः ।" इत्युक्तरीत्या परस्पराश्लिष्टं तद्वत् तेनैव प्रका- रेण विद्यादेवतयोः विद्या पञ्चदशाक्षरी । देवता महात्रि- पुरसुन्दरी तयोर्वेद्यवेदकयोः चाच्यवाचकयोभैंदलेशोपि ईषद्वैलक्षण्यमपि नास्ति । तथापि ऋग्वेदशाखान्तर्गतसा- अन्यायनशास्खायाम्-"कामो योनिः कमला बज्रपाणिः गु- हाहसामातरिश्वाभ्रमिन्द्रः। पुनर्गुहा सकलामायया च पुरु- ज्येषा विश्वमातादिविद्या । षष्ठं सप्तममथवह्निसारथिम- स्थामूलत्रिकमादेशयन्त ।" इत्यादिना कादिहादिविद्याद्वय- मुद्धृत्य तस्य देवतैक्यमाह-विश्वमातादिविधेति । वृह- दारण्यकेऽपि-“योऽयं दक्षिणेक्षन् पुरुषः । तस्य भूरिति शिर । एकं शिरः एकमेतदक्षरं भुव" इति । वाहू छौ बाडू हे एते अक्षरे स्वरिति प्रतिष्ठादे प्रतिष्ठे हे पते अक्षरे तस्योपनिषदहमिति । हन्ति पाप्मानं जहाति च य एवं घेद ।” इति । असिस्थाननिष्ठस्य पुरुषस्य भूराघवयवं निर्दिश्य तस्याक्षरस्य अहमात्मकब्रह्मभावमादिश्य सकल-
४८
कामकलाविलासः
पापनिवृत्तिपुरस्सरं साम्राज्यं त । ततश्च सकलविद्यानां
मकलवेदादिशब्दाद्याविर्भावकारणाऽहंभावरूपादिमातृका-
त्मकत्वात् उभयोरभेद इत्यत्र न विवादः ।
तथा श्रीतन्त्रसद्भाव - “सर्व त्मिका मन्त्रा ते च
शक्तयात्मकाः प्रिये ! शक्तिस्तु मातृका या सा च ज्ञेया
शिवात्मिका । या सा तु मातृकालोके परनेजस्सनन्विता ।
तया व्याप्तमिदं सर्व आब्रह्मभुवनात्मकम् । इति “संविदित
विदितं संविन्मयमेव भवति संवेद्यम् । अनाचाहतमाहुतम-
निमयं किं न जायते काष्ठम्" क्रोधभट्टारिकोऽपि पञ्चा-
शक्षिजदेहजाक्षरभवः” इत्या क्त्वा "विश्वं व्याप्य निजा-
त्मनाहमहमित्युजम्भ मातृके " इति मन्वन्दवनयोज्यमु-
क्तवान् ! श्लोकार्थस्संपूर्णः ॥
एवमभिन्ननादबिन्दु मिथुनादखिलं जगदादिर्भवतीति
वक्तुं तदेव मिथुनमात्मेच्छैवस्वभेदमकरोदित्याह ।
बागयौं नित्ययुती
परस्परं शक्तिशिवमयावेतो।
सृष्टिस्थितिलयभेदो
त्रिधा विभक्तौ त्रिबीजरूपेण ॥ १२ ॥
चिल्लीसहितः । अस्यार्थः । वागथों वाक वर्णपदमन्त्ररूपा । अर्थः कला तत्वभुवनात्मा। अत एव तद्रूपी कुतः प्रकाशविमर्शात्मक- शब्दार्थाभ्यामेव पडध्वात्मकसर्वप्रपञ्चात्पत्तिश्रवणात् । नथा श्रीविरूपाक्षपञ्चाशिकायाम् --" यस्य विमर्शस्य कणः पदमन्त्रात्मकस्त्रिधा शब्दः । भूतत्वकलात्मार्थो धर्मिण इत्थं प्रकाशस्य ।" इति ॥ अत एव नित्ययुता निरन्तरसं- सक्तो । न हि घटपटयोरिव कादाचित्कः संवन्धः । तथा सति सानुपपत्तिप्रसङ्गात् । सृष्टिस्थितिलयभेदी सृष्टिः शिवादिक्षित्यन्ततत्वजालाविर्भावः । स्थितिः तत्परिपाल- नम् । लयः तेषां स्वात्मनाक्षात्कारः एवंभूतो भेदो ययो- स्तौ । स्वात्मोत्पन्नत्वात् तेषां त्रयाणां भेदातू ! तथा च अभिनवगुप्ताः- "स्वात्मना सृष्टिसंहारस्वरूपत्वेन मंस्थि- तः।" इति । परस्परं शक्तिशिवमयौ प्रकाशविमर्शस्वरूपी। उभयोरेककृत्त्वात् वह्निदाहकवत् । तत्त्वान्ता न भवती- त्यर्थः। तथागमश्च-"आवयोर्जगदात्मत्वात् तादात्म्यं चाव- योरपि ।” इत्यादि । अभियुक्तोक्तिश्च-" तादात्म्यमनयो- स्सिद्धं वह्निदाहकयोरिति । एतौ पूर्वोक्तौ प्रकाशवि- मी त्रिधा त्रिप्रकारेण विभक्तौ पृथग्भूत केनेत्यत आह -त्रिबीजरूपेणेति- वाग्भवकामराजशक्तिबीजा- 4 कामकलाविलासः। न्मने व्यथः । अयमर्थ.-बिन्दुत्रयसमष्टिभूतकामकलाक्षर- रूपिणो वाग्भवादिवीजामिका महात्रिपुरसुन्दरी सर्वोपा- स्यति । तथा चोक्तं वामकेश्वरतन्त्रे-“तत्वत्रयविनिर्दिष्ट- वर्णशक्तित्रयात्मिका । वागीश्वरी ज्ञानशक्तिर्वाग्भवी मोक्ष- रूपिणी ॥ कामराजी कामकला कामरूपक्रियात्मिका । शक्तिबीज पराशक्तिरिच्छव ज्ञानरूपिणी ॥ एवं देवी व्यक्ष- रात्मा महात्रिपुरसुन्दरी। पारम्पर्येण विज्ञाता भवबन्ध- विमोचिनी ॥” इति ॥ इतः परं वाग्भवादिखण्डत्रयान्तर्गतवस्तुविशेषवर्णनद्वा- रा श्रीपञ्चदशाक्षरीविद्यामुद्धर्तुमुपक्रमते- माता मानं मेयं विन्दुत्रयभिन्नवीजरूपाणि । धामत्रयपीठत्रय- शक्तित्रयभेदभावितान्यपि च ॥ १३ ।। तेषु क्रमेण लिङ्ग- त्रितयं तद्वच्च मातृकात्रितयम्। इत्थं त्रितयपुरी या तुरीयपीठादिभेदिनी विद्या ॥ १४ ॥ इति चिद्वल्लीसहितः। ५१ माता अगन्ता महेश्वरः ! मान तद्वगतिसाधनभूता विद्या । मेयं ज्ञायमाना महात्रिपुरसुन्दरी एतानि ज्ञातृज्ञान- ज्ञयरूपाणि -विन्दुत्रयभिन्नवीजरूपाणीति- विन्दुनां पूर्वोक्तानां त्रितयं विन्दुत्रितयं रक्त शुक्ल मिश्ररूपं तदात्मना भिन्नं पृथग्भूतम् । यद्बोजं सर्वसमष्टिभूतनिर्वाणाख्यम् । तद्रपाणि तत्प्रकाशकानि । अयमथ:-सर्वातीतचिदानन्द- घनात्मानुभवरूपाहम्भावशालिनी परंज्योतिरेव मातमानम- यभावमनुभूय विहरति ॥ तथा बृहदारण्यक-“ आत्मवदमन आसी सोऽन्वी- श्य नान्यदात्मनोऽपश्यत । सोहमस्मीत्यग्रे व्याहरन् । ततोऽहं नामा अभवत् । तस्मादप्यतामन्त्रितोऽहमयमि- त्येवाग्र उक्त्वान्यन्नाम ब्रूत" इति ! अस्यार्थः-आत्मा परमेश्वर एव । इदं परिदृश्यमानं जगत् अग्रे. प्रथम आसीत् । स्वान्तर्गत प्रपञ्चोऽभवदित्यर्थः । तथा स पर- मात्मा अन्वीक्ष्य स्वात्मसात्कृतप्रपञ्चात्मत्वेनालोक्य अन्य- दात्मनो नापश्यत्स्वव्यतिरिक्तं किञ्चिदपि नाद्रक्ष्यत् । स्वेनैव सर्वेषां कबलीकरणात् । तस्मिन् समये अखण्ड- सच्चिदानन्दधनात्मानुभवमहमिति स्वसाधारणरूपमस्मि कामकलाविलासः भवामि इति प्रदर्शयन्नग्रे सृष्टेः पूर्व व्याहरत प्रादर्श- यत् । तत एवाहं नामाभवत् । ब्रह्मण एवं स्वस्वरूप- प्रदर्शनात् । अहमित्येव हि ब्रह्मनामधेयम् । तस्मादिहापि श्लोके आमन्त्रितः कस्त्वमिति केनचित्पृष्टः । अहमित्येव ब्रह्मस्वरूपमुक्त्वा अन्यन्नामधेयादिकम् पश्चात् बृते । ततश्च सर्वत्र स्वस्वरूपावलोकनद्वारा ब्रह्मण एव ज्ञातृत्वादिभेद: प्रतिपादितोऽभवदित्यर्थः । तथा चतुश्शत्याम–“अतीतं तु परं तेजः स्वसंविदुदयात्मकम् । स्वेच्छाविश्वमयोल्लेख- खचितं विश्वरूपकम् ॥ चैतन्यमात्मनो रूपं विसर्गानन्द- सुन्दरम् । मेयमातृप्रमामानप्रसरैः संकुचत्प्रभम् ॥” इति । प्रत्यभिज्ञायामपि--"अखण्डितस्वभावोऽपि विचित्रां मा- नृकल्पनाम् । स्वहृन्मण्डलचक्रे यः पृथक चेत्तं नुमश्शि- वम् ॥" धाम त्रयं नाम सोमसूर्याग्निमण्डलत्रयम् । वीजत्रयं वाग्भवादिकम् । पीठत्रयं कामगिर्यादिकम् । शक्तित्रय- मिच्छादि । एवमादिभेदेन भावितानि महाविन्दुमयत्वादे तेषु धामादिषु त्रिभेदभिन्नेषु क्रमेणानुपूर्व्या लिङ्गत्रितयं स्वयम्भुवादिमातृकात्रितयं अकथादिभेदभिन्नम् । एवंवि- घसमस्तवस्तुपूरणात्समाष्टरूपा त्रिपुरा नाम पराशक्ति चिल्लीसहितः । राविभूतेत्याह -इत्थं त्रितयपुरी या इति- इत्थं पूर्वो. क्तप्रकारेण त्रितयानि त्रयसंख्यानि पुराणि शरीराणि यस्यास्सा । अत एव तुरीयपोठा त्रिविधात्मकसर्वप्रपञ्चा- विर्भावतिरोभावभूमिरित्यर्थः। तथा चोक्तम्-“मातृका योठरूपिणोम्" इति ॥ स्वच्छन्दे विभाविताऽपि च ॥ सुवालोपनिषदि च-"आनन्दमेवास्तमेति उदेति तुरीय- मेवाप्येति । यत्तनुर्यमेव तदेतदमृतं अभयमशोकमनन्तं निर्ज- रमुपास्य” इति । एवंविधतुरीयपोठादिभेदिनी स्वात्मन्येव स्वेच्छया उद्भावितानन्ततत्वकदाम्बिनी अखण्डसंविदात्मि- का। तथा चोक्तम्-"त्रिमूर्तिसर्गाचं पुराभवाश्च त्रयीमयत्वा- ञ्च पुरोपि देव्याः । अयं त्रिलोकीमयपूरणाञ्च प्रायोऽम्बिका- यास्त्रिपुरोति नाम ॥” इति । स्वसंवित त्रिपुरा देवी इति । स्वातन्त्र्योल्लासिताशेषतत्वप्रतिस्वरूपिणी । आद्यैराग्निर- बोन्दुबिम्बनिलयरित्यादि । इतः परं तस्माद्गगनसमोरणदह- नोदकभूमिवर्णसंभूतिरिति ॥ प्रथमसृष्टपञ्चभूतनिष्टं गुणवर्णनद्वारा अक्षरसङ्ख्या विशि- टमहामन्त्रात्मकदेवतास्वरूपं वक्तुमारभते ॥
कामकलाविलासः शब्दस्पर्श रूपं रसगन्धौ चेति भूतमूक्ष्माणि । व्यापकमा व्याप्यं तूत्तरमेवं क्रमेण पञ्चदश ॥१५॥ पञ्चदशाक्षररूपा नित्या चैषा हि भौतिकाभिमता। नित्याश्शन्दाादेगुण- प्रभेदभिन्नास्तथानया व्याप्ताः ।। १६ ॥ नित्यास्तिथ्याकाराः तिथयश्शिवशक्तिसमरसाकाराः। दिवसनिशामय्यस्ताः श्रीवास्तेऽपि तवयीरूपाः ॥ १७ ॥ अस्यार्थ-शब्दः आकाशगुणः । स्पर्शः वायुगुणः । रूपं तेजोगुणः । रसो वारिगुणः । गन्धः पृथिवीगुणः । एते गुणाः आकाशमारभ्य पृथिवीपर्यन्तमुत्तरोत्तरमेकैकगुणा- विक्चेन पञ्चदशगुणा संपद्यन्ते । एतेषां गुणानां पञ्चदश- भाषन श्रीविद्या पञ्चदशाक्षरी जाता ॥ तत्स्वरूपिणी चेय-- चिल्लीसहितः। माविर्भूतेत्याह –पञ्चदशाक्षररूपेति- भौतिकामिमता भूतसंबन्धेनाभिमता इष्टा ! अत एव पञ्चदशाक्षररूपास्वा- मन आविर्भूतगुणानां पञ्चदशात्मकत्वात् । विद्याक्षराणा- मपि पञ्चदशत्वम् । तद्पा तत्स्वरूपिणी नित्या कूटस्था तरङ्ग- बुवुदफेनानामम्बुधिरिव सकलतत्वाविर्भावभूमिरित्यर्थः । नथा बृहदारण्यके-" इदं महद्भूतमनन्तमपारं विज्ञानघन- एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविशति" इति ॥ मुण्डकोपनिषदि च-“यस्मिन् भावाः प्रलीयन्ते” इति ॥ शिवानन्दाश्च-" शिवादिक्षितिपर्यन्तं पशित्तत्त्वसंच- याः । यस्योर्मिर्बुद्वदाभावास्तं वन्दे चिन्महोदधिम् ॥" इति कूटस्थाया एव षोडश्याः पञ्चदशावयवात्मकपञ्च- दशतिथिनिष्ठिता पञ्चदशदेवतामयपञ्चदशाक्षरीरूपतामा- ह -नित्यास्तिथ्याकारा इति- नित्याः कामेश्वरी- प्रभृतिचित्रान्ताः । तिथ्याकाराः तिथ्यभिमानिन्यो देव- ताः । तिथयश्च प्रतिपत्प्रभृति पूर्णिमान्ताः । शिवशक्ति- समरसाकाराः प्रकाशविमर्शसंपुटाकाराः । अत एव दि- वसनिशामय्यः दिवारात्रिरूपाः । प्रकाशविमर्शयो' दिवा- रात्रिमयत्वात् । तथा चोक्तम् चिद्विलासे-“सा निशा सकललोकमोहिनी वासरस्स खलु सर्वबोधकः ।" इति कामकलाविलासः तास्तिथयः श्रीवर्णाः । तेऽपि तं पूर्वोक्तरूपेण पञ्चदश- रूपा । श्रीवर्णाः विद्यान्तर्गतवर्णगणाः । अपि तन्मयो- रूपाः तादृशप्रकाशविमर्शरूपा इत्यर्थः । इयं च पञ्चदशा- क्षरी ऋग्वेदे साङ्ख्यायनशाखायामानाता । यथा, मो योनिः कमला इत्यादि । तस्मिन्नेव वेदेऽन्यत्र "चत्वार ई विभ्रति क्षमयन्त”- इत्यादावपीयं विद्या विद्यातत इति वर्णयन्ति केचित् ॥ - अयमत्र विक-इयमेव प्रकाशविमर्शमयी पराशक्तिः पञ्चभूतामिका उत्तरोत्तरगुणवृद्धिद्वारा पञ्चदशसङ्ख्याक- मन्त्राक्षरतिथ्यभिमानिनी देवतास्वरूपिणी जाता ॥ तथा यथागमः- एक एक प्रकाशाख्यः परः कोऽपि महे- श्वर' । यस्य शक्तिर्विमशीख्या सा नित्या गीयते बुधै ॥ विमाख्या च सा देवो पाञ्चविध्यं समागता। आकाशानि- लसप्तार्चिस्तलिलावनिभेदतः ॥ एकैकगुणवृद्धया तु तिथि- सङ्ख्यात्वमागता । विमर्शरूपिणी नित्या षोडशी या प्रकी- तिता ॥ गता सा पोडशैर्भेदैत्रिपुरा परमेश्वरी । सुन्दादि- महा पूर्व विचित्रान्तं समन्तत. ॥ आगमादेव बोद्धव्यमिति सङ्केतमात्रतः । प्रतिपत्प्रभृतौ देव्याः पौर्णमास्यन्तिकं प्रिये ॥
चिल्लीसहितः। एकैकं पूजयद्यस्तु स सौभाग्यमवाप्नुयात् ॥' सुभगोदय- चासनायामपि-"खं वायुज्योतिरभूमिशब्दादिगुणभे- दतः दशपञ्चतया व्याप्ता. व्यापिकाः पूजयाम्यहम् ॥' इति ॥१७॥ इत परं विद्यादेवतयोरपि न भेदलेशोऽस्ति घेद्यवे- दकयोरिति उक्तमेवार्थ दृढायितुं देवतावद्विद्याया अपि विश्वात्मकत्वात्तदुत्तीर्णवं व्यक्तमाह ॥ अज्व्यञ्जनबिन्दुत्रय- समष्टिभेदैविभाविताकारा। पत्रिंशत्तत्वात्मा तत्वातीता च केवला विद्या ॥ १८ ॥ विद्यापि ताहगात्मा मुक्ष्मा सा त्रिपुरसुन्दरी देवी। विद्यावेद्यात्मकयो- रत्यन्ताभेदमामनन्त्याः ।। १९ ।। इति ॥ अज्यञ्जन इति अचः॥स्वराः। व्यञ्जनानिहलः । बिन्दुत्रयं अनुस्वारत्रयम् । एषां समष्टिः समुदायभावः ।
५८ कामकलाविलासः भेदोऽवयमावः । तेर्विभाविताकारा उद्भावितस्वरूपा । एव षट्त्रिंशत्तत्त्वात्माशिवादिक्षित्यन्ततत्वविग्रहा तत्वातीता च । तत्वसंघसमुदायस्थानत्वात्तदुत्तीर्णा च । अत एव केवला स्वव्यतिरिक्तस्याभावादेकाकिनी । एवं- भूता विद्या श्रीरञ्चदशाक्षरीत्यर्थः । अयमत्र विद्याया अव- यवविभागः प्रकारः । इह दुण्यानन्दाः हादिविद्यायामत्य- न्तामिमानिन. अस्या एव विद्याया अवयवसमुदायभाव- माश्रित्य तत्वात्मकत्वं तदुत्तीर्णत्वमाचक्षते । अत्र वाग्भ- वाख्ये प्रथमखण्डे पञ्चस्वराः सप्तव्यञ्जनानि संहत्य द्वादश- वर्णाः । कामराजाख्येद्वतीयखण्डे षट्स्वराः अष्टव्यञ्जना- नि संभूय चतुर्दशवर्णाः । शक्त्याख्ये तृतीयखण्डे चत्वारः स्वराः षट् व्यञ्जनानि संहत्य दशवर्णाः । सर्वेऽपि संभूय षट्त्रिंशदक्षराणि । केचित्तु-प्रथमखण्डे पट्स्वराः पट्- व्यञ्जनानि । द्वितीयखण्डे सप्तस्वराः सप्रव्यञ्जनानि । त्रि- तीयखण्डे पञ्चस्वराः पञ्चव्यञ्जनानि इति व्यवाहियन्ते । अवयवरूपाणि ममुदायरूपा विद्या सर्वतत्वातिक्रान्ता- वधिवर्तिनी॥ ननुकादिविद्यैव उभयात्मिका सर्वत्र प्रसिद्धाश्रूयते । का- चिल्लीसहितः। । मोयोनिःकमलेत्यादौ आदिब्रह्मा द्वितीया वाणीत्यादौ तत्क- थंहादिविद्यैव उभयात्मिकेन्युच्यते । सत्यम् । कादिविद्या तु कामो योनिरित्यायुपनिषदि प्रथमतः प्रतिपाद्यत । तथापि हादिविद्यापि तत्रैवोद्धता। कथं षष्ठं सप्तममथ वह्निसारथि- मस्या मूलत्रिकमावेशयन्त इत्यादिना । तस्मात् हादि- विद्यापि अतिप्रसिद्धैव । तस्मात्तस्या हादिविद्याया एव उभयानकत्वमितीह वर्णितमित्येवावगन्तव्यम् ॥ ननु तर्हि कादिविद्याया अपि उभयात्मकत्वाभावे तस्या- मुपादेयवुद्धिर्न स्यात्। कुतः देवतावेजात्यात् । तत्कथं हादे- रेवोभयात्मकत्वं प्रतिपाद्यते । अत्रोच्यते-न वयं हादि- विद्येव तादृशी न कादिरिति वदामः । किन्तु हादिरेवाभि- प्रेता। न कादिरित्येतावन्मात्रमुक्तम् । अन्यत्र तथा व्या- ख्यानात् । कादेरपि विद्याया उभयात्मकत्वमस्त्येव । इया- नेवानयोंविद्ययोर्भेदः-हादौ प्रथमखण्डे षटस्वराः षड्व्य- जनानि । कादौ प्रथमखण्डे सप्तस्वराः पञ्चव्यञ्जनानि । संहत्य विद्याद्वयेऽपि प्रथमखण्डे द्वादशवर्णत्वं समानम् । तस्मादुभयात्मकत्वमुभयोर्विद्ययोरस्त्येव । तदुभयविद्यो- पासनाप्रकारस्तु गुरुमुखादेवावगन्तव्यः ! देवताया अपि कामकलाविलासः मन्त्रबदुभयात्मकत्वमिति मन्त्रदेवतयारक्यमाह -वि- द्यापि ताहगात्मेति विद्या चिदानन्दस्वरूपिणी । तामात्मा विश्वात्मिका । तदुत्तीणी च । सूक्ष्मा परिच्छे- तुमशक्या । सा सर्ववेदान्तेषु प्रसिद्धा । त्रिपुरसुन्दरी त्रिपुरा च सुन्दरी च त्रिधावस्थितसमस्तवस्तुपूरणात् मर्वयोगिभिरुपास्यत्वेन स्पृहणीयत्वाच्च त्रिपुराशनिर्व- चनं च पूर्वमेव प्रपञ्चितम् । देवोस्वच्छप्रकाशरूप विश्वविसर्जनादिक्रोडारूपा परा वाग्विद्यावद्यात्मकयोः पञ्चदशाक्षरोत्रिपुरसुन्दोरत्यन्ताभेदमामनन्त्यार्याः। मार्व कालिकंक्यमामनन्ति सर्वत्र' प्रतिपादन्ति । आर्याः पर- मेश्वरप्रमुखाः परमयोगिन इत्यर्थः ॥ तथा चिदम्बररहस्ये-" अहं पञ्चाक्षरस्साक्षात् त्वं तु पञ्चदशाक्षरो।" चतुश्शत्यां च-" यस्य यस्य पदार्थस्य या या शाक्तेरुदाहृता । सा सा सर्वश्वरी देवी स साऽपि महेश्वरः ॥ व्याप्ता पञ्चदशाणेपा विद्याभूतगुणात्मिका। पञ्चभिश्च तथा पश्चितुभिरपि चाक्षरैः ॥ स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी ॥ सप्ताशत्प्रभेदेन पत्रिंशतत्त्वरूपि- गी। तत्वातीतस्वरूपा च विद्यषा भाव्यते सदा ॥” इति ॥
चिल्लीसहितः। रहस्योपनिषदि चेयं विद्या सम्यक प्रतिपाद्यते । यथा "देवाह वे प्रजापतिमत्रुवन् , केयं तनुः किं रूपा किया किं करोति किं ददाति केन वा मिध्यति किं करवाम इति देवैः पृष्टः प्रजापतिः प्रयुनरमाह । “नेहशो लोकाती- तोऽचिन्त्यो वाच्य इत्यादिना सर्वोत्तमत्वं पञ्चदशाक्षर्याः प्रतिपाद्य श्रीपञ्चदशाक्षरीमेव देवेभ्य उपदिशति । यथा तदुदाहरिप्यामः । आदिरादिब्रह्मा द्वितीया वाणी तृतीयो मारः ततो महेन्द्रः इयं भूवाच्यधर्मसन्तानमयमिति द्वि- तीयमुदाहरिप्यामः । आदिरादिरुद्रः ततः सुधामयम् । ततः प्रजानामीशः ततो हंसः । (ततो भूमिः) ततोऽय- मात्मा अयं भुवो नामार्थसन्तानं भोगानन्दमयमिति । तृ- तीयमुदाहरिप्यामः । आदी जीवनेशस्ततः विश्वकृद्धाता। ततो जगन्माता लक्ष्मीः । ततो पराशक्तिः स्वर्णामेदं नाम चिन्तामणि भावाभावमयम् इति । अत्रायं प्रथमः पादः इति प्रथमखण्डमुपदिशति । द्वितीयखण्डमुदाहरिष्याम इति द्वितीयखण्डमुपदिशति । तृतीयमुदाहहिप्याम इति तृतीयखण्डश्नोपदिशति । उपदिश्य सर्वमपि तन्मन्त्र- माहात्म्यमाह-सानेकधा समभवत् । तदेतन्महामनुरिति सैव शब्दतनुरेषा । सर्ववर्णम्पा परमा त्रिपदा त्रयीभावा ।
कामकलाविलासा त्रिगुणा त्रिधर्मरूपा नित्या निर्मला निरवद्या निध- पञ्चारमविद्याविभुः । परविद्या इति य एवं वेद विद्वान् भवात । अथाहुर्विद्वांस इति रहो रहस्यमिति । शिवोऽयं शिवोऽयं शिवायमिति । स एव इमानि भूतानि संसृजति रक्षति संहरति । अन्यथाकरोति अणुर्महत्कृशस्थूलं हस्व- दीर्घ व्याप्ती व्यापकः श्रीभूतेशो बन्धो भवति । य एवं वेद सब सो भवति इति । अस्याः श्रुतेरथः । संप्रदायादेवावग- न्तव्य इति न लिख्यते । रलसारसङ्गहेऽपि हादिविद्योद्धार उक्तः। तत्र वचनानि कानिचिल्लिख्यन्ते–“विद्यां तु नवमी सम्यक प्रवक्ष्यामि समासतः । ललिता या महादेव्या मादनेत्यादितः क्रमात् ।। मादनः प्राणरूपस्तु विकासः शिव उच्यते । सकारस्त्व- परो शेयः सङ्कोचः शक्तिरूपकः ॥ सङ्कोचः परमा शक्ति- विकासः परमश्शिवः । सङ्कोचश्च विकासश्च हंस इत्य- क्षरद्वयम् ॥ तयोराधाररूपेण कर्तव्यं बिन्दुमालिनो । प्राणो बिन्दुरिति प्रोक्तस्साहचर्यादपानके ॥ अथोघरेन्द्रमाकाशं ज्वलनं तु तयोरधः । मायाबिन्दूर्ध्वगा चैव वाग्भवो नाम कीर्तित ॥” श्रीहंसपरमेश्वरे "मा शक्तिस्तु समाख्याता चिलीसहितः । दनस्वीकारकः शिवः । स हि मादन इत्युक्ती हकारश्शिव- संज्ञकः। तस्य शक्तिर्यथोर्ध्वत्व सकारस्स विधीयते । शिवो हकार इत्युक्त. सकारशक्तिरव्यया । बिन्दुमालिनि- कार्णस्य पर्यायं परमेश्वरम् । शक्रव्योमानलार्णाय माया- विन्द्वीश्वरादयः । यथास्थिताश्च तत्तथ्या वाग्भवं सनिला- निलः । द्वावन्या कामशक्तयाख्या वणी" निष्कलकात्मको। इत्यादिद्रष्टव्यम् । श्रीक्रोधभट्टारकोऽपि । “ इत्थं त्रीण्य- पि मूलवाग्भवमहाश्रीकामराजस्फुरच्छतयाख्यानि चतुःश्रु- तिप्रकटितान्युत्कृष्टकूटानि ते । भूततुश्रुतिसङ्ख्यवर्णविदि- तान्यारतकान्ते शिवे यो जानाति स एव सर्वजगतो सृष्टिस्थितिध्वंसकृत् । अत्र ध्रुति.-"चत्वारि वाक्परि- मितपदानि तानि विदुर्ब्राह्मणा ये मनीषिण। गुहात्रोणि निहिता नेवयन्ति तुरीयं वाचो मनुष्या वदन्ति ।" इत्या- दिश्रुतिरप्यनुसन्धेया । एवं विद्यादेवतयोरप्यभेदमुक्त्वा चक्रदेवतयोरैक्यं वस्तुं चक्रोत्पत्तिप्रकारमाह- यासान्तरोहरूपा परा महेशी त्रिभाविताकारा।
कामकलाविलासः स्पष्टा पश्यन्त्यादि त्रिमातृकात्मा च चक्रतां याता ॥ २० ॥ चक्रस्यापि महेश्या न भेदलेशोपि भाव्यते विबुधैः । अनयोस्मूक्ष्माकारा परव मा स्थूलयोश्च कापि भिदा ॥ २१ ॥ अस्यार्थ:-यासान्तरोहरूपा अन्तरमन्तःकरणम् । तस्मि- न ऊहः वितर्कः। इत्थमिति परिच्छेदरहितः। तेन सहित रूपं यस्यास्सा । अयमर्थः-अवाङ्मनसगोचरा सर्ववेदा- न्तरपरिच्छेद्या सर्वकारणभूता शिवादिधरण्यन्ततत्वमङ्क्षा- ताविर्मावभूमिः महेश्वरी परा सर्वोत्कृष्टेत्युच्यते । यजु श्श्रुतिः । परास्य शक्तिर्विविधैव श्रूयते।” इति “यतो वाचो निवर्तन्ते अप्राप्य मनसा मह । आनन्दं ब्रह्मणो विद्वान्" ।' इति । यथागमश्च-"स्वरूपज्योतिरेवान्तः परावागनपायिनी। यस्यां हटस्वरूपायामधिकारो निव- र्तते ॥” इति। लघुभट्टारकश्च-" सावं काचिदचिन्त्य- रूपमहिमा शक्तिः परा गोयसे ॥” इति । एवंभूतलक्षणा सैव पराशक्तिरेव । त्रिभाविता त्रिप्रकारत्वेन भाविता चिद्वल्लीसहितः। सञ्जातभावना । एतदवाह-स्पष्टा पश्यन्यादित्रिमातृका सेति-स्पष्टा प्रथमोत्पन्नत्वेन विवक्षिता विषयिणी पश्य- न्तीत्युच्यते । आदिशदेन मध्यमा वैखरी । सैव वैखरी नाम अभिलपनरूपिणो पञ्चदशाक्षरराशिमयी सर्व- वैदिकतान्त्रिकशब्दजालात्मिका शक्तिरुच्यते । तथोक्तं सुभगोदयवासनायाम् --"परा भूजन्मपश्यन्ती वल्ली गु- च्छसमुद्भवा । मध्यमा सौरभा वैखर्यक्षमाला जयत्यसौ॥" अस्मदुक्तचिदानन्दवासनायामपि-"विवक्षाव्यवसायोक्ति- रूपा एतास्त्रिमातरः । पश्यन्त्यादिमहादेव्या स्वरूपा नात्र संशयः॥” इति । एवंरूपा त्रिमातृकात्मिका । सैव चक्र- तां याता । त्रिखण्डात्मकचक्यामत्यादीत्यर्थः । तदेवाह- चक्रस्य त्रैलोक्यमोहनादिसर्वानन्दमयबैन्दवान्तनवावरणा- त्मकस्य सुन्दर्यधिष्ठानभूतस्य महेश्याः तदधिष्ठाव्याः सुन्द- र्याश्च भेदलेशः ईषद्भेदोऽपि वुधैर्विशेषः न भाव्यते नानु- भूयते । कुतः श्रीसुन्दरीस्वरूपत्वात् श्रीचक्ररय । तथा चोपनिषत् -"महत्तरा महिमा देवतानां नवयोनिर्नवच- क्राणि दीधिरे । नवैव योगाः नवयोगिनीश्च नवानां चक्रा- णां अधिनाथस्योनानवमुद्रानवभद्रामहोना एका सा- सोत्। प्रथमा सा नवाऽसीत् ।" इत्यादि । वामकेश्वरतन्त्रे- 5 कामकलाविलासः "तच्छक्तिपञ्चकं सृष्टया लयेनाग्निचतुष्टयम् । पञ्चशक्ति- चतुर्वह्निसंयोगाचऋसंभवः ॥ एतच्चक्रावतारं तु कथया- मि वरानने। यथा सा परमा शक्तिः' इति उपक्रम्य " चक्र कामकलारूपप्रसारपरमार्थतः ।" इत्यन्तेन सम्यक् अभेदः प्रतिपादितः॥ क्रोधभट्टारकोऽपि-"श्रीचक्रं श्रुतिमूलकोशमथितं सं- सारचक्रात्मकम् ॥” इत्यादि । पुनरपि तादग्भेदमेतयोा- चष्टे -अनयोस्सूक्ष्माकारेत्यादिना- अनयोः सूश्मरू- पयोश्चक्रदेवतयोस्मूक्ष्मरूपत्वं नामापरिच्छिन्नत्वमेव । तत्र श्रीचक्रस्य सूक्ष्मरूपेणावस्थानं विन्द्वात्मनां बिन्दोः परि- च्छिन्नत्वं बैन्दवे परमाकाशे इत्यादिना प्रपञ्चितमेव । देव- ताया अघि विद्यापि ताहगात्मेत्यादिना अभिहितमेचं तथा स्थूलयोश्चक्रदेवतयोश्च।अवस्थूलत्वं नाम चक्रस्य त्रिकोणा- दिचतुरस्नपर्यन्तविजृम्भणम् । देवताया अपि त्रिपुराम्बिका- दि त्रिपुराशक्त यन्तरूपेण मननम् । एवंविधयोश्चऋदेवतयोः भिदाभेदकरणाभावादित्यर्थः । तत्र हेतुमाह व सूक्ष्माकारा इति- सा पूर्वोक्त लक्षणा । परैव आदि- शक्तिरेव । सूक्ष्माकारा सूक्ष्मभूतः आकार: स्वरूपं अनयो- -सा परै
चिद्वल्लीसहिनः ।
६७
रित्यर्थः । तथा चोक्तं चतुश्शत्याम्-
"स्थूलसूक्ष्मविभेदेन
त्रैलोक्योत्पत्तिमातृका।” इति । अत एव हेतोरीषद्भेदोऽपि
विद्वद्भिर्नानुभूयते । एवमेव हि विद्याचिन्तनं सर्वत्र ।
तथा च श्रुतिः- “सर्व खल्विदं ब्रह्मेति । सर्व तं परा-
दाद्योन्यत्रात्मनः सर्व वेद" इति उत्तरत्र ग्रन्थकारोऽपि वक्ति ।
सेयं परा महेशी चक्राकारेण परिणमेत यदेति देवतारूपत्वं
चक्रस्य॥
इतः परं परापश्यन्त्यादिशक्तिविकासरूपं नवयोन्या-
त्मकं श्रीचक्रं वक्तुमादौ बैन्दवं सर्वानन्दमयाख्यचक्र
पराशक्तिमयमित्याह ।
मध्ये चक्रस्य स्यात्
परामयं बिन्दुतत्वमेवेदम् ।
उच्छूनं तच्च यदा
त्रिकोणरूपेण परिणतं स्पष्टम् ।। २२ ॥
एतत्पश्यन्त्यादि-
त्रितयनिदानं त्रिबीजरूपं च ।
वामाज्येष्ठारौद्री चाम्बि-
कयानुत्तरांशभूताः स्युः ॥ २३ ॥
कामकलाविलासः " चक्रस्य नवयोन्यात्मकस्य मध्यं मध्ये भवं बिन्दुतत्वं बिन्दुस्वरूपं पूर्वोक्तमेव व्याख्यातम् । इदं स्वसाक्षात्कृतं परामयमेव पराशक्तिस्वरूपमित्यर्थः । तथा चोक्तम्- प्रसृतं विश्वलहरी स्थानं मातृत्रयात्मकम् । बैन्दवं चक्र- म्।” इति। तत्रैव-"सूक्ष्मरूपं समस्तार्णा व्रतं परमलिङ्गकम्। बिन्दुरूपं परानन्दकन्दमित्यपरोदितम् ॥” इति । तथा बिन्दुर्विमर्शधर्मः षण्णामेकोऽध्वनां प्राण इति । विरूपाक्ष- पञ्चाशिकायां एतदेव बिन्दुतत्वं यदा विकासभावमयते तदा त्रिकोणचक्रमुदेतीत्याह -उच्छूनं तच्च यदा इति- य- दाऽस्मिन् काले प्राणिनामदृष्टवशादुच्छूनं तच्च बैन्दवमपि उच्छूनं संजातविकासं भवति तदा त्रिकोणरूपेण अनुत्तरा- नन्देच्छाङ्गाटरूपेण परिणतं त्रिकोणाकारं भवतीत्यर्थः । तथा चोतं श्रीनिंशिकाशास्त्रे-“अनुत्तरानन्दचितिरिच्छा शक्तौ नियोजिता । त्रिकोणमिति तत्प्राहुर्विसर्गानन्दसुन्द- रम् ॥ मेयमातृप्रमामानप्रसरैः सङ्कुचत्प्रभम् । शृङ्गाटरूपमा- पन्नमिच्छाज्ञानक्रियात्मकम् ॥” इति । शृङ्गाटरूपं त्रिकोण- मित्यर्थः । एतत्रिकोणं चक्रं पश्यन्त्यादित्रितयनिदानं पश्य- न्ती मध्यमावेबरोप्रमुख शक्तित्रयोत्पत्तिकारणमित्यर्थः । तथा सुभगोदयवासनायामपि-" इच्छादिशक्तित्रितयं प- चिल्लीसहितः। ६९ शोस्सत्वादिसंज्ञकम् । महान्यथं भावयामि गुरुवादनुत्त- रम् ॥” इति । प्रत्यभिज्ञायामपि-"स्वाङ्गरूपेषु भावेषु सत्व- ज्ञानक्रियेच्छया । माया तृतीयते एव पशोस्सत्वरजस्तमः॥" इति । इच्छाज्ञानक्रियाशक्तयः एव पश्यन्न्यादिशक्तित्रितय- तामापन्नाः । तथा हि-" इच्छाशक्तिस्तथा वामा पश्य- न्ती वपुषा स्थिता । ज्ञानशक्तिस्तथा ज्येष्टा मध्यमा वागु- दीरिता ॥ ऋजुरेखामयी विश्वस्थितौ प्रथितविग्रहा। तत्सं- हृति दशायां तु वैन्दवं रूपमांस्थिता ॥ प्रत्यावृत्तिकमे- णैव शृङ्गाटवपुरुज्ज्वला । क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा ॥” इति । श्रीतन्त्रसद्भावेऽपि-" या सा तु मातृका लोके पर- तेजस्समन्विता । तया व्याप्तमिदं सर्वमाब्रह्मभुवनान्तरम्॥" इत्यारभ्य, “एकैवं त्रिधा सा तु प्रजायते ' इत्यन्तेन परा- शक्तयाः पश्यन्त्यादिशक्तिजालनिरूपणं कृतम् । तत्तत्रैवाव- धार्यम् । इह तु ग्रन्थविस्तरभयान्न लिख्यते त्रिबीज- रूपञ्चेति-त्रिबीजानि त्रिखण्डात्मकवाग्भवकामराजशक्ति- बीजानि । तेषां बीजानां स्वरूपं यस्य तत् । तथा च श्रुतिः-“तिस्रः पुरस्निपथा विश्वचर्षिणीः यत्राकथा अक्ष- -
कामकलाविलासः
रास्सन्निविष्टाः अधिष्ठायैना अजरा पुराणि महत्तरामहिमा
देवतानाम् ।" इत्यादिना सर्वमन्त्राविर्भावहेतुभूतत्रिखण्डा-
त्भकमातृकाधिष्ठानकारणदिव्यशृङ्गाटपीठमाह । वामके-
श्वरतन्त्रेऽपि--" बीजत्रितययुक्तस्य सकलस्य मनोः पुनः ।
एतानि वाच्यरूपाणि कुळकौळमयानि तु ॥” इति । बोज-
त्रितयशक्तित्रितयलिङ्गत्रितयमयं त्रिकोणं कामकळाक्षर-
रूपमाह-भगवान् परमशिवः॥
ता: श्रीपराभट्टारिकामयमिदमेव बिन्दुतत्वमूर्धाधोमु-
खनवयोन्यात्मकश्रीचक्रमभवदित्याह-वामा ज्येष्ठा रौद्री
अम्बिका चकारात पराशक्तिश्च । इमाः पञ्चशकयः
अनुत्तरांशभूनाः अनुत्तरांशाः श्रीचक्रान्तर्गताधोमुखानि
पञ्चत्रिकोणानि । तत्वेन भूता जाता इत्यर्थः ॥ २३ ॥
इच्छाज्ञानक्रियाशान्ता-
चैताश्चोत्तरावयवाः।
व्यस्ताव्यस्ततदर्णय-
मिदमेकादशात्म पश्यन्ती ॥ २४ ॥
चिल्लीसहितः। इच्छाज्ञानक्रियाशान्ताः चतस्रः शक्तयः उत्तरावयवाः ऊर्ध्वमुखत्रिकोणचतुष्टयस्वरूपाः । अयं भावः पराविल- सनरूपा एताः पश्यन्ती वामा ज्येष्ठा रौद्री अम्बिका । तथो. त्तरावयवाश्चेति इच्छाज्ञानक्रियाशान्ताश्चैताः । एतच्छ- क्तिनवकमयं नवत्रिकोणचक्रमिति । एतच्चतुश्शत्याम्- आत्मनः स्फुरणं पश्येधदा सा परमा कला ।' इत्यारभ्य "वैखरी विश्वविग्रहा" इत्यन्तेन सम्यक् निरूपितम्। तत एव अवधार्थ । व्यस्ताव्यस्ततदर्णद्वयं । व्यस्तं व्यष्टिरूपम् । अव्य- स्तं समष्टिरूपम् । सर्वोपनिषत्प्रसिद्धं तदर्णद्वयं सन्द- शन्यायेन अखिलाक्षरात्मकमातृमन्त्रमयप्रकाशविमर्शरू- पपूर्णाहन्ताभावगर्भकामकळाक्षरात्मकबिन्दुतत्वमित्यर्थः । अत्रेदं पूर्णाहन्तामयं परब्रह्मपत्नीविशिष्टमेव सकलकार्य- निर्वाहकमिति सर्वागमसिद्धम् । तथा बृहदारण्यके- आत्मैवेदमन आसीत् । पुरुषविधः सोन्वीक्ष्य नान्य- दात्मनोऽपश्यत्सोहमस्मात्यग्रे व्याहरत । ततोऽहं नामा- भवत् । तस्मादप्येतामन्त्रितोऽहमयमित्येवाग्र उक्त्वा- ऽथान्यनाम प्रब्रूत" इत्युपक्रम्य पूर्णाहन्तामयं परब्रह्मस्वरूप दिव्यदम्पतीरूपत्वमास्थाय सर्वतत्वनिर्मातृविद्योतत इति उपरितनवाक्येन समाप्यते। तथा हि। “स वैनैव रेमे तस्मा- - कामकलाविलासः देकाकी न रमते स द्वितीयमैच्छत् स हैतावानास यथा स्त्रीपुमांसौ संपरिष्वक्तौ स इममेवात्मानं उधापातयत् । ततः पतिश्च पत्नी चाभवताम्" इत्यादि । तथा तत्रैवा- न्यत्र-“आत्मैवदमन आसी । एक एव सोऽकामयत जाया मे स्यादथ प्रजायेय। अथ वित्तं मे स्यात् अथ कर्म कु. र्वीयेत्येतावान् वै काम इत्यादी सपत्नीकमेव ब्रह्म प्रतीयते इति । एवंभूतं तदर्णद्वयं एकादशात्मा संहत्य विचार्यमाणे एकादशविधं भवतीति अर्थः । परादिशान्तान्तं शक्तिदशक व्यष्टिरूपं सर्वसमष्टिरूपत्वेन चैकम् । तेन चैकादशात्मक- मिदं बिन्दुतत्वमेव पश्यन्ती शक्तिकारणम् । सर्वं खल्विदं ब्रह्म तजलानीति शान्त उपासीत इतिवत् कार्यकारणयो- रभेदव्यपदेशः ॥ २४ ॥ इतःपरं वसुकोणदशारादिचक्रसृष्टिप्रकारमभिधातुं पर- मप्रकृतत्रिकोणचक्रक्रम निगमयति- एवं कामकलात्मा त्रिविन्दुतत्वस्वरूपवर्णमयी । सेयं त्रिकोणरूपं याता त्रिगुणस्वरूपिणी माता !! २५ ॥
चिल्लीसहितः । एवं पूर्वोकप्रकारेण कामकलात्मा कामः प्रकाशैकस्व- भावः अनुत्तराक्षरात्मा परमशिव । कला त्वखिलवर्णान्त्य- परमहंसाक्षरमयी विमर्शविग्रहः । एतदुभयात्मकत्वं नाम स्वाभाविकपरिपूर्णाहंभावशालिन्वम् । एतच्च बिन्दु- रहङ्कारात्मेत्यत्र स्पष्टमभ्यधायि । एवंरूपा कामकलात्मा त्रिबिन्दुतत्वस्वरूपवर्णमयी। त्रिविन्दवः पूर्वोक्तरक्तशुक्ल मिश्रात्मानः । तेषां स्वभावः तत्वम् । तत्स्वरूपा ये वर्णाः वाग्भवादयः तदात्मिकाम् । तथा रहस्याम्नाये- 'बिन्दुत्रयात्मकं स्वात्मङ्गाटं विद्धि सुन्दरम् । मिश्र शुक्लं च रक्तं च पुराणं प्रणवात्मकम् ॥ रेखात्रयावगन्तव्य- संवित्सान्द्रशिवात्मकम । रक्तमस्य निराधारमवशिष्टं ततः प्रियम ॥ तयोमिश्रं तु संयोगे निर्वाणं निर्मलं पदम्।” इति ॥ - चतुश्शत्याम्-"कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपि- णीम् । आद्यां शक्तिं भावयन्तो भावार्थमिति मन्यते ॥" इति । सेयं त्रिकोणरूपमापन्ना चिदानन्दघनपरमार्थसकला- नायसारभूता इयं विश्वाहंभावनाशालिभिः महायोगिवर्य- रात्मसाक्षित्वेनानुभूयमाना त्रिगुणा इच्छाज्ञानक्रियामाया- शक्तिमया सत्वरजस्तमांसि तत्वरूपिणी । तदवष्टम्भेन हि कामकलाविलासः जगत्सृष्ट्यादि विधत्ते । गुणाश्च इच्छाशानक्रियामायाशक्ति- मया एव । तथा प्रत्यभिज्ञायाम-"स्वाङ्गरूपेषु तत्वम् ।" इत्यादि । इच्छाज्ञानक्रियामया एव गुणाः सत्वरजस्तमांसि इति । अत एव माता सर्वजगन्निर्मात्री एका आत्मा वा इदं एक एवाग्र आसीत् इसि श्रुत्युक्तरीत्या सर्वतत्वातीता परा शक्तिः । त्रिकोणरूपं अनुतरानन्देच्छासंघट्टात्रिकोण- मित्यभियुक्तोक्तरीत्या सर्वसिद्धिप्रदायकातिरहस्यभूत- त्रिकोणचक्रं याता तन्मयी जातेत्यर्थः । तथा वचनम्- "अनुत्तरानन्दचितेरिच्छाशक्तौ नियोजितम् । त्रिकोणमिति तत्माहुर्विसर्गामोदसुन्दरम् ॥” ॥ २५ ॥ एका परा तदन्या, वामादिव्यष्टिमातृसृष्टयात्मा । तेन नवात्मा जाता, माता सा मध्यमाभिधानाभ्याम् ।। २६ ॥ एकापरेति-इतः पराविलसनरूपायाः पश्यन्त्याद्या अपि नवयोनिचक्रात्मना नवात्मकत्वमाह । तदन्या वामा व्यष्टि- मातृसृष्ट्यात्मा तेन नवात्मा जातेति तदन्या परा विकास- भूता पश्यन्ती वामादिव्यष्टिमातृसृष्ट्यात्मावामादिशान्तान्त- चिल्लीसहितः। शक्तिनवकमयी यतस्तेन कारणेन सा माता पश्यन्ती नाम जननी । नवात्मा वामादिशान्तान्तशक्तिकदम्बका- विर्भावकारणनवयोनिचक्रात्मिका जाता प्रादुर्भूतेत्यर्थः । अत्र वामादिशक्तीनां लक्षणं प्रसङ्गात् किञ्चिदुच्यते । तत्र वामा नाम स्वान्तःस्थितप्रपञ्चवमनाद्विश्वजनयित्री- त्यभिधीयते । ज्येष्ठा सर्वमङ्गळकारिणी । रौद्री सर्वरोग- विद्राविणी । अम्बिकासमस्तेष्टप्रदा शक्तिः ॥ तथागमश्च-“वामा विश्वस्य वमनातू ज्येष्ठा शिवमयी यतः । द्रावयित्री रुजं रौद्री दोग्ध्री चाखिलकर्मणाम् ।" इति । अम्बिका च सा स्फुरत्ता महासत्तेति । प्रत्यभि- ज्ञास्थित्या सर्वातिशायी परिपूर्णरूपस्वात्मस्फुरणावलोक- नचतुरा । तथा चतुश्शत्याम्-'आत्मन. स्फुरणं पश्ये- द्यदा सा परमा कला । अम्बिकारूपमापन्ना परा वाक् समुदीरिता ।" इच्छाज्ञानक्रियाशक्तयस्तु पश्यन्ती मध्य- मा वैखरीरूपाः इति प्रपञ्चिताः । चतुश्शत्याम्--" इच्छा- शक्तिस्तथा ज्ञेया पश्यन्ती वपुषा स्थिता।" इत्यादिना । शान्ता च निष्कलं निष्क्रिय शान्तभित्यादिश्रुत्या निरङ्कुशा चिन्मयी शक्तिः । तथा व्याचष्टे भगवानमृतानन्दनाथः- -- कामकलाविलासः निरंशौ नादविन्दू चेत्यत्र निरङ्कुशा शान्ता शक्तिः शान्ताया निरंशत्वं चिद्रूपत्वादिति । मध्यमाभिधानाभ्याम् मध्य- मापरापश्यन्त्योः समरसावस्था अभिधानाभ्यां नामधेया- भ्याम् । अनन्तरं मध्यमाया अपि प्रकारान्तरेण नवात्मकत्वं ब्रूते- द्विविधा हि मध्यमा सा मूक्ष्मा स्थूलाकृतिस्थिता मूक्ष्मा । नवनादमयी स्थूला नववर्गात्मा च भूतलिप्याख्या ॥ २७ ॥ सा अन्तर्मुखपरमयोगिभिः दृश्या शक्तिर्द्विविधा द्विप्रकारा । स्थूलसूक्ष्माभावात् । तत्र सूक्ष्मा समाधिस्थलेन अनुभूयमाना । स्थूलाकृत्या पण्डित- पामराभिलपनयोग्यवर्णावळ्या स्थिता सर्वदा वर्तमाना। एतदेव व्याचष्टे -सूक्ष्मा नवनादमयी स्थूला नववर्गात्मा इति-- अयमर्थः-मित्रावरुणसदनात् वायुनिरोधनेन स्वाधिष्टानादिकमलभेदपुरस्सरं द्वादशान्तारविन्दासनस्थ- परमशिवामुपसर्पन्ती महामातृका कुण्डलिनी बहुवि- धनादात्मिका या अनुभूयते समाधिसमधिगतसर्वाः मध्यमा नाम चिद्वलीसहितः। महामाहेश्वरः स्वात्मत्वेन मन्यते। नवनादमयीति परमहंसो- पनिषत् । यथा-"अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः । ब्रह्मचारिणे दान्ताय गुरुभक्ताय हंसहंसेत्यादिना परम- हंसं परं ब्रह्म निर्दिश्य पुनरपि तदुपासनं विशिनष्टि ।'- गुदमवष्टभ्याधाराद्वायुमुत्थाय स्वाधिष्ठानं प्रदक्षिणीकृत्य मणिपूरकं गत्वाऽनाहतमतिक्रम्य विशुद्धी प्राणान्निध्य आज्ञामनुधावन ब्रह्मरन्ध्नं ध्यायन् इत्यादिब्रह्मरन्ध्र ध्यान- विशेषमुक्त्वा पुनरपि मूलाधारात् ब्रह्मरन्ध्रपर्यन्तं व्यापि- न्या मूलकुण्डलिन्याः स्वरूपं नादात्मकमिति व्याचष्टे यदा हंसो विलीनो भवति यदा नादमाधारात् ब्रह्मरन्ध्र- पर्यन्तं शुद्धस्फटिकसंकाशं स वै ब्रह्म परमात्मेत्युच्यते इत्यादि तदुपासनाङजालानि उपन्यस्यन्ते। नादं विभजते। स च दशविधोऽधजायते ! चिणोति प्रथमः । चिणि चिणी- ति द्वितीय । घण्टानादस्तृतीयः । शङ्खनादश्चतुर्थः । पञ्चम- स्तन्त्रीनादः । षष्ठस्तालनादः । सप्तमो वेणुनादः । अष्ठमो भेरीनादः । नवमो मृदङ्गनादः । दशमो मेघनादः ! नवमं परित्यज्य दशममेवाभ्यसेत् । तस्मिन् विलीने मनसि गते सङ्कल्पे विकल्पे च दग्धे सदाशिवोऽहमिति परमहंसोप- निषत् । मूलाधारे दग्धे सदाशिवोऽहमिति परमहंसोपनि- कामकलाविलासः षदः मूलाधारे महेश्वरीत्यादिना च न वेदविधिगोचरमि- त्यन्तं नव वर्गात्मा अकचटतपयशळात्मिका स्थूला सर्व- व्यवहारविषयिणीत्युच्यते ॥ यथा श्री तन्त्रसद्भावे-“या सा तु मातृका लोके परते- जस्समन्विता । तया व्याप्तमिदं सर्वमाब्रह्मभुवनान्तरम् ॥ तत्रस्थश्च यथा नादो व्यापितश्च सुरार्चिते । अवर्णस्थो यथा वर्णस्थितः सर्वगतः प्रिये ॥ तथाहं कथयिष्यामि निर्ण- यार्थ स्फुटं तव ।" इत्यारभ्य “या सा शक्तिः परा सूक्ष्मा निराकारेति कीर्तिता । हृद्विन्दु धेष्टयित्वा तु सुषुप्ता भुज- गाकृतिः ॥ तत्र सुप्तो महायोगी न किञ्चिन्मन्यते यमी। चन्द्रार्कानिलनक्षत्रैर्भुवनानि चतुर्दश ॥ व्याप्तोदरे तु सा देवी विषवन्मूढतां गता । प्रबुद्धा सा निनादेन परेण ज्ञानरूपिणी ॥ मथिता चोदरस्थेन बन्धनादपि वह्निना । तावद्वै भ्रमयोगेन मन्थनं शक्तिविग्रहे ॥ भे- दातु प्रथमोत्पन्नात् बिन्दु दत्वमीयते । समुत्थिता यथा तेन कालसूक्ष्मा तु कुण्डलो ॥ चतुष्कलमयो विन्दुः शक्ते- श्चोत्तरगः प्रभुः । मध्यमन्थनयोगेन ऋजुत्वं जायते प्रिये ॥ ज्येष्ठा शक्तिः स्मृता सा तु बिन्दुद्वयसुमध्यमा । विन्दु- ।
चिद्वल्लीसहितः। नादत्वमायाता रेखयाऽमृतकुण्डली ॥ लाकिनी नाम सा ज्ञेया उभौ बिन्दू यथागतौ । त्रिपदा सा समाख्याता रौद्री नाम्ना तु गीयते ॥ रोधिनी सा समुद्दिष्टा मोक्षमार्गनिरोध- नात् । शशाङ्कशकलाकारा अम्बिका चार्धचन्द्रिका । एकै- वेत्थं परा शक्तिः त्रिधा सा तु प्रजायते । आभ्यो युक्ता विविक्ताभ्यः सातो नववर्गकः ॥ नवधा च स्मृता सा तु नववाँपलक्षिता।" इति ॥ अन कश्चित्सूक्ष्मस्थूलाकृतिस्थिरोत पाट कल्पयित्वा मू. क्ष्मा स्थिरों स्थूला नववर्गमयीत्याह । एवं च सति नववर्गति पदानन्वयः संप्रदायनिरोधश्च । स तु स्वबुद्धया संप्रदाय- मजानान एवमर्थमाह । तस्मादस्मदुक्तार्थस्य तदुक्तार्थस्य चौचित्यमर्थविशेषर्विद्वद्भिरेव ज्ञातव्यमित्यलम् । भूत- लिप्याख्या भूताश्चैते लिपयश्च । अत्र लिपीनां भूतत्वं नाम विशेषविशेषर्विन्यासाभिगम्यत्वम् । तच कल्पनामात्रमेव । अक्षराणां तेजोरूपशक्तयात्मकत्वात् । तथा गमः-" या सा तु मातृका लोके परतेजस्समन्विता ।" इति । 'सर्व वर्णात्मका मन्त्रास्ते च शक्तयामका' प्रिये।' इत्यादि। तेषामाख्या अभिधा यस्यास्सा तत्र भ्रान्तिलिप्ये- कामकलाविलासः। ति कश्चिद्याचष्टे । तत्तु छन्दाभङ्गादनुपपन्नमित्यनादरणी- यम्॥ सूक्ष्मरूपा हि मध्यमा स्थूलरूपायाः कारणभावमापना एकैवेत्यत आह- आद्या कारणमन्या कार्य वनयोर्यतस्ततो हेतोः। सेवयं न हि भेदः तादात्म्यं हेतुहेतुमतोदिष्टम् ॥ २८ ॥ इति । आद्या पूर्वोक्तसूक्ष्मा कारणं प्रथमोद्भुतत्वात । अन्या स्थूला कार्य तजन्यत्वात्कार्यम् । यतस्तस्मात्कारणात्- अनयोः सूक्ष्मस्थूलयोः कार्यकारणयोर्भावः । ततो हेतोः तेन कारणेन इयं स्थूला सैव सूक्ष्मा शक्तिरेव । न हि भेदः भेदो नास्त्येव । ननु कथमभेदे कार्यकारणभाव इत्यत्राह -तादात्म्यं हेतुहेतुमतोर्दिप्रमिति- तादात्म्यं भेदाभेद- रूपम् । हेतुहेतुमत् जन्यजनकरूपवत इष्टं मृद्धटवत् वाचा- रम्भणमात्रत्वात् । एकमेव वस्तु उभयविधं भवति । सर्व- वेदान्तसम्मतमित्यर्थः ॥ ।
चिद्वलीसहितः। अनन्तरं मध्यशृङ्गाटतेजःप्रसरणात्मकवसुकोणादिचक्र- निरूपणद्वारा वैखरीशक्त्याविर्भावमाह-- शपसपवर्गमयं त- द्वसुकोणं मध्यकोणविस्तारः। नवकोणं मध्यं च- त्यस्मिंश्चिद्दीपदीपिते दशके ॥ २९ ॥ इति तद्वसुकोणं सर्वरोगहराख्यं चक्रं शषलपवर्गमयं शपस- पवर्गात्मकाएकोणं मध्यकोणस्य मध्यत्रिकोणस्य वि- स्तारो विकासः यस्य तत्तादृशं मध्यकोणसहितं नव- कोणं मध्यं च वैन्दवाख्यं संहत्य दशके अस्मिन् बिन्दु- त्रिकोणवसुकोणरूपे चिद्दोपदीपिते बैन्दवासनसंरूढसंवर्ता- नलचिद्धनमित्युक्तरीत्या बिन्दुचक्राधिरूढायास्तेजोमूतॆस्त्रि- पुरायाः प्रभापटलप्रकाशितेत्यर्थः ॥ तच्छाया द्वितयमिदं दशारचक्रद्वयात्मना विततम् । तटचकवर्गचतुष्टय- विलसनविस्पष्टकोणविस्तारम् ॥ ३० ॥ 6 ८२ कामकलाविलासः तच्छाया द्वितयमिदं इति- तस्य पूर्वोक्तस्य तंजो- राशिमयस्य चऋत्रितयस्य छायाद्वितयं कान्तिद्वितयम् । दशारचक्रद्वयात्मना अन्तर्दशारबहिर्दशाररूपेण निरवधि- कतेजोमण्डलं तस्य संबन्धि कान्तिद्वितयम् । सर्वरक्षाकर- सर्वार्थसाधकाभिधचक्रद्वयात्मना परिणतमित्यर्थः । तथा चोक्तम्-"नवत्रिकोणस्फुरितप्रभारूपदशारकम् ।” इति। तञ्चक्रद्वयस्वरूपं व्याचष्टे -तटचकवर्गचतुष्टयविलसन- विस्पष्टकोणविस्तारं इति- तवर्गटवर्गात्माक्षरदशकरूपं अन्तर्दशारं चवर्गकवर्गात्माक्षरदशकरूपं बहिर्दशारमि- त्यर्थः ।। ३०॥ एतचक्रचतुष्का प्रभासमेतं दशारपरिणामः। आदिस्वरगणगत- चतुर्दशवर्णमयं चतुर्दशारमिदम् ॥ ३१ ॥ एतश्चक्रचतुष्कस्य बिन्दुत्रिकोणवसुकोणान्तर्दशारात्म- कस्य चक्रचतुष्कस्य । प्रभा कान्तिः । तया समेतं संयु- क्तम् । दशारपरिणामः बहिर्दशारचक्रमिति यावत् । बहिर्द- शारचक्रस्य बैन्दवादिचक्रचतुष्टयसन्निधानादिति तात्पर्यम्।
चिल्लीसहितः ।
तत्र तत्प्रभा व्याप्नोतीत्यर्थः । तथा चोक्तम्-'चतुश्च.
क्रप्रभारूपसंयुक्तपरिणामतः ।' इति । अथवा-एत-
चक्रचतुष्कस्य त्रिकोणवसुकोणदशारद्वयरूपस्य प्रभा-
समेतं कान्तिसंयुक्तं दशारपरिणामं दशारचक्रभूतं वसु-
कोणं चक्रमित्यर्थः । तदेवाह -आदिस्वरगणकचतु-
दशवर्णमयं चतुर्दशारम् इति- अकारादिचतुर्दशव-
त्मकचतुर्दशकोणसहितं सर्वसौभाग्यदायकाभिधचक्र-
मित्यर्थः । एवं बैन्दवादिमनुकोणपर्यन्तचक्रवर्णनद्वारा
वैखरीशक्तिराविर्भूतेत्याह ॥ ३१ ॥
परया पश्यन्त्यापि च
मध्यमया स्थूलवर्णरूपिण्या।
एताभिरेकपश्चा-
शदक्षरात्मिका वैखरी जाता॥३२॥
परादिशक्तिलक्षणं च पूर्वमेव बहुधा प्रपञ्चितम् । अय-
मर्थः-आदिक्षान्ताक्षरराशिमयाखिलप्रपञ्चनिर्मात्री सर्व-
शब्दात्मिका वैखरोति । तथा चोक्तम् । वैखरी विश्ववि-
ग्रहेति वाचा वक्त्रे करणविशदां वैखरी ते प्रपद्ये
इत्यादि ॥३२॥
कामकलाविलासः -- इतः परं सर्वसंक्षोभणसर्वाशापरिपूरकाभिधचक्रद्वयं वैखरीवर्णात्मकमेवेत्याह-- कादिभिरष्टभिरूपचित. मष्टदळाब्जं च वैखरीवर्गः। स्वरगणसमुदितमेत- द्वयष्टदळाम्भोरुहं च संचिन्त्यम् ।। ३३ ।। वैखरीवर्गः वैखरीशक्तिस्वरूपैः । अष्टभिः कादिभिरुप- चितं सम्यक प्रोतम् । अष्टदळाब्जं च सर्वसङ्क्षोभणचक्रम् । तथा स्वरगणसमुदितम् । स्वरगणैः अकारादिषोडशवर्णः समुदितं सम्यक् भावितं एतत्परिदृश्यमानं द्वयष्टदळाम्भो- रुहं सर्वाशापरिपूरकचक्रं संचिन्त्य सर्वदा भावनीयमि- त्यर्थः ॥ ३३॥ बिन्दुत्रयमयतेज स्त्रितयविकारस्थितानि वृत्तानि । भूबिम्बत्रयमेतत् पश्यन्त्यादित्रिमातृविश्रान्तिः ॥ ३४ ॥ तानि वृत्तानि मन्वश्रोपरि अष्टदळपद्मोपरि षोडशदळ- पद्मोपरि च स्थितानि । विन्दुत्रयं पूर्वोक्तरक्तशुक्लमिश्रात्म- :चिढल्लीसहितः। ८५ कम् । तन्मयं तत्तेजस्त्रितयं सोमसूर्याग्निरूपम् । तद्विकारः तन्मयानीत्यर्थः । तत्र वृत्तत्रयस्य तेजस्त्रयात्मकत्वकथनेन सोमसूर्यानलारमत्रिखण्डमयत्वं चक्रस्योक्तम् । यथागमः- "त्रिखण्डं मातृकाचक्रं सोमसूर्यानलात्मकम्।” इति । सुभ- गोदये-“ सोमसूर्यकृशान्वात्मतेजस्त्रितयरूपकम् । नेत्रत्रयं भावयामि वृत्तत्रितयमञ्जसा ॥” तद्विकारश्च तानि वृत्ता- नि वेदाः प्रमाणामतिवत् द्रष्टव्यम् । भूबिम्बत्रयं अणि- मादिब्राह्मयादिसर्वसंक्षोभिण्यादिशक्तिकदम्बकावासभूतं प- रयन्त्यादित्रिमातृविश्रान्तिः । पदयातीमध्यमावैखरीशक्तयः एतावत्पर्यन्तं विजृम्भमाणाः त्रिकोणादिभूपर्यन्तं श्रीचक्रा- त्मना चकासति इत्यर्थः । एर.च “आत्मन: स्फुरणं पंश्ये- द्यदा सा परमा कळा" इत्यारभ्य “वैखरी विश्वविग्रंही" इत्यन्तेन ग्रन्थजातेन सम्यक् निरणायि ॥ ३४ ॥ एवं 'मध्यं चक्रस्य स्यात्' इत्युपक्रम्य ‘पश्यन्त्यादित्रि- मातृविश्रान्तिः' इत्यन्तं श्रीमहात्रिपुरसुन्दर्याश्चकं सम्यक् निरूप्य अनन्तरं तदावरणचक्रान्तर्गतशक्तिनिकुरुम्बं तन्नि- कटस्थितश्रीगुरुमण्डलमपि श्रीदेव्यवयवपरिणतिरूपमेवे. त्याह- कामकलाविलासः क्रमणं पदविक्षेपः क्रमोदयस्तेन कथ्यते द्वेधा। आवरणं गुरुपक्तिं- द्वयमिदमम्बा पदाम्बुजप्रसरम् ॥ ३५ ॥ इत्यादि अणिमादिभूतयोऽपि इत्यन्तम् । क्रमणं पदक्रमः । स च द्विविधः । पदविक्षेपरूपः क्रमोदयरूपश्च । तत्र पद- विक्षेपो नाम-सुन्दा अनन्तकोटिकिरणात्मकानन्तशक्ति- जननसामर्थ्यम् । तथा चोपनिषत-"मरीचयः स्वायंभुवाः ये शरीराण्यकल्पयन्” इत्यादि। तमेव भान्तमित्यादि। यथा- गमश्च-"ज्योती रूपा पराकारा तस्या देहोद्भवाश्च वै । किरणाश्च सहस्रं च द्विसहस्रं च लक्षकम् ॥ कोटिरर्बुदमे- तेषां परा सङ्ख्या न विद्यते । तामेवानुप्रविश्यैव भाति सर्व चराचरम् ॥ यस्या देव्या महेशान्या भासा सर्व विभा- सते । तद्भावरहितं किञ्चिन्न च इच्छा प्रकाशते ॥ तस्याश्च शिवशक्तेश्च चिद्रूपायाश्च तं विना । आद्यमापाद्यते नूनं जगदेतञ्चराचरम् । तेषामनन्तकोटीनां मयूखानां महेश्वरि । मध्ये षष्टयुत्तरं देवि त्रिशतं किरणाश्शिवे । ब्रह्माण्डं भास- यन्त्येते पिण्डाण्डमपि पार्वति ।" इत्यादि।" सर्वपीठनिवा- सिन्यस्सर्वगाश्चिन्मरीचयः।" इत्यादि ।
चिद्वल्लीसहितः।
रदिमचक्रं च परितो भक्तिनम्रः प्रपूजयेत्।" इत्यमृता-
नन्दाः । क्रमोइयो नाम दिव्यसिद्धमानवौधरूपा अनन्त-
प्रकाशात्मकश्रीगुरुमण्डलात्मकतया प्रसरणम् । तथा रह-
स्याम्नाये-"चरणद्वयचन्द्रार्करश्मयो गुरवः किल ।"
इति । एतच्चोत्तरत्र प्रपञ्च्यते । एतदेव क्रमद्वयं विवृणो-
ति-आवरणं आवरणचक्रस्थितशक्तिनिकुरुम्ब मञ्चाः
क्रोशन्तीतिवत् । गुरुपङ्क्तिः गुरुमण्डलम् । इदं द्वयं
अम्बापादाम्बुजप्रसरः अम्बायास्त्रिपुरयाः पदाम्बुजस्य
श्रीपादयुगलस्य । प्रसरः प्रसरणं विजृम्भणमिति यावत् ।
यजुश्रुतिः-"ज्योतिष्मद्भााजमानं महस्वत्" इत्यादि ।
तथा प्रामाणिकवचनम्-"अनेककोटिभेदैस्तु गदितं त्रैपुर
महः । तत्र मध्ये परा दीप्ता महात्रिपुरसुन्दरी।" षडन्वय-
शाम्भवे च-"वरदाभयहस्ताश्च सर्वा वामार्धविग्रहाः।
तेजोरूपाः परा ध्येयाः केवलं मोक्षकांक्षिभिः।” तत्प्रसार-
प्रसरणी क्रमशो विवृणोति ॥ ३५ ॥
सेयं परा महेशी
चक्राकारेण परिणमेत यदा।
तदेहावयवानां
परिणतिरावरणदेवतास्सर्वाः॥३६॥
८८ कामकलाविलासः आसीना बिन्दुमये चक्रे सा त्रिपुरसुन्दरी देवी । कामेश्वराङ्कनिलया कलयाचन्द्रस्य कल्पितोत्तंसा ॥३७॥ पाशांकुशेक्षुचाप प्रमूनशरपञ्चकाञ्चितस्वकरा । वालारुणारुणाङ्गी शशिभानुकृशानुलोचनत्रितया ॥३८॥ इति । सेयमपरिच्छिन्नानन्ततेजोराशिमयी परासर्वोत्कृष्टा महे- शी अनन्तकोटियोगिनीबृन्दसमाराधितनित्यनिरवधिकाति- शयानन्दमयात्मसाम्राज्यसंपदभिमानशालिनी । यजुश्रु- तिः :-"यतो वा ।" इत्यादि । तथा चोक्तम्-"चतुप्षष्टि- युताः कोट्यो योगिनीनां महौजसाम् । चक्रमेतत् समाश्रित्य संस्थिता वीरवन्दिताः ॥” इति ॥ ललि- ताख्याने च-" वाचामगोचरमगोचरमेव बुद्धरी- क्तया न कलनीयमनन्यतुल्यम् । त्रैलोक्यगर्भपरिपूरि- तशक्तिचक्रसाम्राज्यसंपदभिमानमभिस्पृशन्ति ॥” इति चिल्लीसहितः । ८९ चक्राकारेण, चक्रं नवात्मकमिदं नवधा भिन्नमातृकम् । इति सर्वानन्दमयवैन्दवादित्रैलोक्यमोहनान्तचक्रनवकात्म- ना, स्फुरत्तामात्मनः पश्येत् इति पूर्णानन्दमयात्मा- वलोकनसमये परिणमेत । आकारान्तरमावहेत प्रार्थनायां लिङ् । दिङ्मात्रप्रपञ्चप्रादुर्भावस्य प्रार्थनाविषयत्वात् । ब्र ह्मणः परिणामश्रुत्यैवाभिधीयते यथा-"सोऽकामयत बहु- स्यां प्रजायेयेतीति सृष्टिं प्रस्तुत्य तत्सृष्ट्वा तदेवानुप्रावि- शत् । तद्नुप्रविश्य सञ्च त्यञ्चाभवत् निरुक्तं चा निरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत् ।” स्मृतिश्च । अस्यां परिणताया- मित्यादि । तदेहावयवानां तस्यास्त्रिपुरसुन्दर्या देहस्तेजः पुञ्जात्मकः तस्यावयवाः किरणाः तेषां परिणतिरवस्था- न्तरापत्तिरिहावरणदेवताः वशिन्याद्यणिमान्तशक्तिनिकुरु- म्वं चिदानन्दसमुद्रात्मकमेव समुद्रसकाशात्फेनबुद्बुदत- रङ्गादिवदनन्तकोटिशक्तयः आविर्भावतिरोभावौ भजन्त इत्यर्थः । तथा चोपनिषत्-" यस्मिन् भावाः प्रलीयन्ते लीनाश्च व्यक्ततां ययुः । पुनश्चाव्यक्ततां भूयो जायन्ते बुख़ुदा इव ॥” इति । चतुश्शत्यां च-“एवं रूपं पर तेजः, श्रीचक्रवपुषा स्थितम् । तदीयशक्तिनिकरस्फुरदू.
९० कामकलाविलासः मिसमावृतम् ॥” इति । सुभगोदयवासनायामपि-चक्र- राजे परामृश्य योगिनीः प्रकटादिकाः। विमख्यिचिद. म्भोधिलहरीस्था अपि क्रमात॥ यस्या उल्लसिता एतायोगि- न्यश्चिद्धनत्विषः । चक्रेश्वरे भजाम्येताः चक्रं चक्रं समा- श्रिताः॥” इति ॥ ३६ ॥ वशिन्याद्यावरणशक्तिस्वरूपवर्णनमारभमाणः तदादौ मूलदेवीस्वरूपमाह -आसीनेत्यादि- विन्दुमये सर्वा- नन्दमयाख्ये परमाकाशे बैन्दवे परमाकाशे इत्यु कत्वात् । चक्रे आत्मसङ्क्रमणविहरणार्हपीठे । तथा रहस्योपनिषदि-यदेषा चंक्रमत्तच्चक्रमभवदिति । आ- सीना उपरिप्रदेशे विराजमाना सा देशकालाका- रानवच्छिन्ना तत्स्वरूपिणी त्रिपुरसुन्दरी सर्वकारण- खेन स्पृहणीयस्वभावा देवी विश्वजननादिसर्वव्यापारवि- नोदिनी कामेश्वराङ्कनिल या कामेश्वरस्य श्रीनाथस्य अङ्कवा. मोरुतलभागः निलयः अवस्थानं यस्यास्सा। तथा चोक्त परमशिवेन । "कला विद्या परा शक्तिः श्रीचक्राकाररू- पिणी । तन्मध्ये बैन्दवं स्थानं तत्रास्ते परमेश्वरी ॥ सदा- शिवेन संपृका सर्वतत्वातिगा सती।" इति। अन्यत्र च- चिदल्लीसहितः। ९१ "विश्वाकारप्रभाधारनिजरूपशिवात्वकम् । कामेश्वराङ्क. पर्यङ्कनिविष्टमातिसुन्दरम्।” इति। श्रीनाथानन्दश्च-"आदि- श्रीगुरुनाथस्य वामाङ्कोपरि संस्थिताम् । इति ॥" देवी विश्व- सर्जनादिव्यापारविनोदिनी। चन्द्रस्य कलया कल्पितो- तंसा। अत्र कल्पितपदेन चन्द्रमण्डलस्य भगवतीलीलोप- करणत्वं लक्ष्यते॥ पाशाङ्कुशेक्षुचापप्रसूनशरपञ्चकाञ्चितस्वकरा ॥ इति पा- शः स्वात्मरूपभेदबन्धनसन्धानभूतेच्छाशक्तिस्वरूपः । अ- कुशः स्वरूपभेददळनोपायात्मकज्ञानशक्तिमयः । इक्षुचा- पेषु पञ्चके स्वभिन्नाकारावर्जनसाधनरूपक्रियाशक्तिरूपे । अयमर्थः-इच्छाज्ञानक्रियाशक्तय एव तदाज्ञया पाशा- दिस्वरूपमापन्नाः तदुपासनमाचरन्तीत्यर्थः । तथा च चतु- शत्यम्-"इच्छाशक्तिमयं पाशमङ्कुशं ज्ञानरूपिणम् । क्रियाशक्तिमये वाणयनुषी दधदुला ॥” इति । सुभगोदय- वासनायामपि-"देव्यास्संवित्स्वल ताया भेदोद्वमनहेतु- काः । आयुवाख्याः पराशकोणाद्याः पूजयाम्यहम् ॥" इति । बालारुणारुणाङ्गी उबदादियसाशा । शशिभानु- कृशानुलोचनत्रितया सोमसूर्याग्निमय त्रिणयना । तथा चो- कामकलाविलासः क्तम्- “ बालार्कमण्डलाभासां चतुर्वाहुं त्रिलोचनाम् । पा- शाङ्कुशधरां चापं धारयन्ती शिवां प्रिये ॥” इति ॥ एतदेव दिव्यमिथुनं दिव्यसिद्धमानवौघभावेन अविशेष- भेदभिन्नगुरुमण्डलस्वरूपमुपाहेत्याह ॥ तन्मिथुनं गुणभेदा दास्ते बिन्दुवयात्मके त्रय।। कामेशी मित्रेशप्रमुख- द्वन्द्वत्रयात्मना विततम् ॥ ३९ ॥ इति । तन्मिथुनं तत् सर्वातीतत्वेन सर्वोपनिषत्प्रसिद्धं मिथुनं कामकामेश्वरीमयम् । अयमर्थः-परमात्मा हि स्वात्मान- मेव स्त्रीपुंसमयं कृत्वा मिथुनरूपमापन्नो विहरते.। अत्र श्रुतिः -" स एको नैव रेमे तस्मादेकाकी न रमेत स द्विती- यमैच्छन् स हैतावानास यथा स्त्रीपुमांसौ संपरिष्वक्तौ स इममात्मानं द्विधाऽपातयत् । ततः पतिश्च पत्नी चा- भवताम्" इत्यारभ्य, “यदिदं किञ्चिन्मिथुनमापिपीलि- चिट्ठलीसहितः। काभ्यस्तत्सर्व सृजति" इत्यन्तेन मिथुनात्मनाविहरणशीलं ब्रह्मेत्याह । तथा रहस्यागमश्च-"गुरुशिष्यपदे स्थित्वा यमेव सदाशिव” इति । इत्यादिप्रकाशविमर्शात्मना मिथुनीभूतः परमशिवादेव सकलं तन्त्रं समभवदित्याह । एवं तन्मिथुनं कामकामेश्वरीरूपं मित्रेशनाथकामेश्वरी श्रीमदुड्डीशनाथवज्रेश्वरी षष्ठीशनाथ भगमालिनी । एव- मादिमिथुनत्रयात्मना दिव्यसिद्धमानवौधादिक्रमरूपेण वि- ततं मिथुनत्रयं विस्तृतमित्यर्थः । एतच्च आसीना श्रीपीठे कृतयुगकाले गुरुश्शिवो वि- द्याम् इत्यत्र सम्यक् प्रपञ्चयिष्यामि । रहस्योपनिषदि चायमर्थस्सम्यक् निरूपतः । यथा मध्ये चक्रं विन्दुः बिन्दो प्रपञ्चो लोकः लोको देहस्सनादरूपः अर्थात्मिका शक्तिः चक्रं तनुः बिन्दुः प्राणः मध्ये शक्तिरिति सप्रपञ्चो गुणः गुणो लिङ्गं स्वयम्भ्वादिभेदेन त्रिधा भूतं त्रिलिङ्गि- नाम् जयदं कामकामरूपं कैवल्यं उड्यान पूर्णगिरिजाल- न्धरं यत्पुरुषा देवी सात्विका भवति । अत्रेदं व्याख्या स्यात्-यदिदं नीलकण्ठः शमीगर्भायोवाच । यतो वा इमानि भूतानि जायन्ते येन जातानि जीव- कामकलाविलासः न्ति । यत्प्रयन्त्यभिसंविशन्ति पृच्छति यदिदं दृश्यते तदानन्दयोनिः तेनैव जीवति तदेव जीवतीति तदे- षाभ्युक्ता इत्यादिना त्रिपुराचक्रनिरूपणपुरस्सरं सकल- प्रपञ्चानां त्रिपुराया एव सकाशादुत्पत्तिजीवनलयाः प्रति- पाद्यन्ते । ततश्च सर्वफलप्रदायिनी त्रिपुरैव श्रीदेवीस्वरूपै- चारैजनीयेत्युक्तं भवति । तथा रहस्यागमश्च-“यस्य नो पश्चिमं जन्म यदि वा शङ्करः स्वयम् । तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी" ॥ ३९ ॥ इतः परमावरणदेवतास्वरूपभावौ वर्णयति- वसुकोणनिवासिन्यो यास्ताः सन्ध्यारुणावशिन्याद्याः। पुर्यष्टकमेवेदं चक्रतनोस्संविदात्मनो देव्याः ॥४०॥ इति । वसुकोणनिवासिन्यः सर्वरोगहराख्यचक्रनिवासनशी- लाः याः वशिन्याद्यष्टशक्तयः ताः पूर्णाहम्भावदानसमर्थाः । कथम् तत्र रोगहारित्वं नाम पूर्णाहम्भावप्रदत्वमेव । अपूर्ण मन्यतां व्याधिः कार्पण्यैकनिदानभूरित्युक्तेः । सर्व- रोगहरा एता विमृशादिविशेषतः । इत्यभियुक्ततमोक्तेश्च ।
चिदल्लीसहितः। एवंभूतास्तास्सन्ध्यारुणाः अरुणाकारा भासन्त इत्यर्थः अत एवेदमष्टकोणचक्रं संविदात्मनः सामीप्यात् ज्ञानमेवा- स्मनः स्वरूपं यस्यास्ता। “सत्यं ज्ञानमनन्तं ब्रह्म ” इति श्रुतेः स्वसंवित पुरादेवीत्यागमश्च । देव्याः बहुस्यामिति विहरण- स्वभावायाः चक्रतनोः चक्रात्मिकायाः पुर्यष्टकं सूक्ष्मशरी- रमित्यर्थः । तथा चोक्तम्-"चितिश्चित्तं च चैतन्यं चेतना- द्वयमेव च । जीवः कलाशरीरं च सूक्ष्म पुर्यष्टकं भवेत् ॥ इति । शिवानन्दाश्च-“अष्टारांशप्रवेशोऽयं चिनिर्याणेषु सादिकम् । सूक्ष्मंपुर्यष्टकं देव्यामविशेषमगौरवम्" इति ॥४॥ तद्विषयवृत्तयस्ताः सर्वज्ञादिस्वरूपमापन्नाः। अन्तर्दशारनिलया लसन्ति शरदिन्दुसुन्दराकाराः ।। ४१ ॥ तद्विषयवृत्तयः वसुकोणनिकटवासिन्यः। ताः स्वात्मैक्य- रूपरक्षणधारिणीत्वेन प्रसिद्धाः । सर्वज्ञादिशक्तिदशक- रूपं आपन्नाः । अन्तर्दशारनिलयास्सर्वरक्षाकराभिधेयचक्र- समारूढाः निगर्भयोगिन्यः। शरदिन्दुसुन्दराकाराः स्वच्छप्र- ६ कामकलाविलासः। काशधवळाकृतय-1 लसन्ति प्रकाशन्ते । तथा चोक्तम्- "अन्तर्दशारगा देव्यो विद्युत्पुञ्जनिभाः शुभाः । निगर्भा- ख्याः पूजनीयाः सर्वरक्षाविधायिनीः ॥ ॥४१॥ तद्वाह्यपङ्क्तिकोणेषु योगिन्यस्सर्वसिद्धिदाः पूर्वाः। देवीधीकर्मेन्द्रिय- विषयमया विशदवेषभूषाब्याः ॥ ४२ ॥ तद्वाह्यपक्तिकोणेषु तस्य सर्वरक्षाकरचक्रस्य बाह्य- भूतेषु उपरिस्थितेषु पङ्क्तिषु कोणेषु । सर्वार्थसाधकचके तस्य कोणात्मकत्वात् । तत्र स्थिता योगिन्यः कुळकोळ- नामधेयाः सर्वसिद्धिदाः पूर्वा. सर्वसिद्धिप्रदा प्रमुखाः शक्तयः । देवीधीकमन्द्रियविषयमयाः देव्यास्त्रिपुरायाः धी- कर्मेन्द्रियाणि श्रोत्रादिज्ञानेन्द्रियाणि कर्मेन्द्रियाणि वागा- दीनि । तेषां विषयाः शब्दादयः अभिलपनादयश्च तन्मयाः तस्वरूपाः। विशदवेषभूषाड्याः विशदा' शुभ्राकाराः । वेषाश्च भूषाश्च तैराढ्या । अयमर्थः-मन्त्रदेवतात्माभेदरूपा- स्सिद्धिदायिन्यः स्वच्छाकृतयः शुभ्राभरणा भासन्त इति।
चिद्वल्लीसहितः। तथा चोक्तं चतुश्शत्याम्- " श्वेतावराभयकराः श्वेताभर- णभूषिताः । मन्त्राणां स्वप्रभारूपयोगादन्वर्थसंज्ञिकाः ॥ सर्वसिद्धिप्रदाद्यास्तु चक्रे सर्वार्थसाधके।" इति । सुभगो- दयवासनायाञ्च-"बाह्यो दशारभागोऽयं बुद्धि कर्माक्षगा- चरः।” इति ॥ भुवनारचक्रभवना- देवीमनुकरणविवरणस्फुरणाः । सन्ध्यासवर्णवसनाः सश्चिन्त्यास्संप्रदाययोगिन्यः ।। ४३ ॥ भुवनारचक्रं सर्वसौभाग्यदायकं चक्रं भवनं वासस्थान यासां ताः । देव्यामनुकरणानि चतुर्दशकरणानि कर्मेन्द्रि- याणि पञ्च ज्ञानेन्द्रियाणि पञ्च मनोवुद्धयहङ्कारचित्ताख्यानि चत्वारि । प्रत्यभिज्ञायां तु त्रयोदशविधायाश्च वाह्यान्तः- करणावळिरिति । चित्तव्यतिरेकेण त्रयोदश वमुक्तम् । इह चित्तेन साकं चतुर्दशत्वमुक्तम् । चित्तमये श्रीपीठेति । चित्तस्यापि अभियुक्तैरन्तःकरणत्वेन परिगणनात् तेषां विवरणं व्याख्यानभूतं स्फुरणं चतुर्दशाररूपं यासां ताः । तु 7 ९८ कामकलाविलास देवी तु स्वयमेव चतुर्दशकरणात्मकचतुर्दशारचक्रदेवता- रमना स्थिता इत्यर्थः । तथा चोक्तं शिवानन्दैः--"चतुर्द- शारसरणीः करणानि चतुर्दश । चतुर्दशशिवारण्यं महा- देव्याः स्मराम्यहम् ॥” इति । सन्ध्यायास्तवर्ण वसनं सह- शं वस्त्रं यासां ताः। संप्रदाययोगिन्यः आदिशक्तिमयत्वेन सत्संप्रदायदेव्यः सर्वसंक्षोभिणीप्रभृतयः सञ्चिन्त्या अव्य- तमिति सम्यग्भावनीयाः । तथा चतुश्शत्याम्-शक्ते- स्सारमयत्वेन प्रसृतत्वान्महेश्वरी । संप्रदायक्रमायाताः चक्रे सौभाग्यदायके ॥ निरन्तरप्रभारूपसौभाग्यबलरूपतः । अन्वर्थसंज्ञका देवी अणिमासदृशाश्शुभाः ॥ सर्वसंक्षो- भिणीपूर्वा देहैक्यादिविशुद्धिदा ॥” इति ॥४३॥ अव्यक्तमहदहकृति- तन्मात्रस्वीकृताङ्गनाकाराः। द्विरदच्छदनसरोजे जयन्ति गुप्ततरयोगिन्यः ॥ ४४ ॥ अव्यक्त अब्याक्ताख्यं तत्वम् । महत महत्तत्वम्। अहङ्कृति- रहङ्कारतत्वं तन्मात्राः पृथिव्यादिभूततन्मात्राः पञ्च .
चिट्ठडीसहितः ।
मंहत्याटी । एतैः स्वीकृतः आकार: स्वरूपं यानां ना:
देव्यान्मका इत्यर्थः । गुप्ततरयोगिनीसंशाः मृलदेव्या अन्त-
रणभूतत्वात । एतासामनङ्गकुसुमादीनां गुप्ततरा इति संज्ञा
यामां ता अनङ्गकुसुमाद्यष्टशक्तयः । वाग्भवाष्टकसर्वसंक्षा-
भणाह्वये द्विरदच्छदनसरोजे सर्वसंक्षोभणाख्याष्टदळपद्म
जयन्ति सर्वोत्कर्षण वर्तन्ते । तथा चोक्तं शिवेन-“कौशि-
कानुभवाविष्टरागपुर्यटकाश्रिताः। वाग्भवाष्टकसंबन्धसूक्ष्म-
वर्गस्वरूपतः ॥ लोके गुप्ततराश्चान्याः सर्वसंक्षोभणाहुये
अनङ्गकुमुमाद्यास्तु रक्तक कञ्जुकशोभिताः ॥ वणीकृतलमत्के-
शाः चापबाणधराःशुभाः॥" इति । शिवानन्दाश्च--" व सु-
च्छदन पद्माङ्कदळोऽयं चक्रकोविभुः। अव्यक्ताद्याः प्रकृत-
यो भूतानां निश्चिनोम्यहम् ॥” अनङ्गकुसुमाद्यष्टशक्तयः छि-
रदच्छदनसरोज सर्वमंशोभणाख्याष्टदळपट्टे जयन्ति मा-
कर्षण वर्तन्ते ॥४४॥
भूतानीन्द्रियदशकं
मनश्च देव्या विकारपोडशकम् ।
कामाकर्षिण्यादि-
स्वम्पतषोडशारमध्यास्ते ॥ ४५ ॥
कामकलाविलासः भूतानि पृथिव्यादीनि । इन्द्रियदशक, श्रोत्रादिवागा- दीनि च । मनः अन्तःकरणप्रधानं संहत्व षोडशकं देव्या विकारभूतावस्थान्तरस्वरूपम् कुतः । 'विमर्शाख्या च सा देवी पाञ्चविध्यं समागता । आकाशानिलसप्ता- र्चिस्सलिलावनि भेदतः ॥” इत्यादिवचनात् । एवंभूत- षोडशकं षोडशारं सर्वाशापरिपूरकनामधेयं चक्रं । कामा- कर्षिण्यादिस्वरूपतः कामाकर्षिण्यादिषोडशशकयाकारण अध्यास्ते अधितिष्ठति । अधिशीङ्स्थाऽऽसाङ्कर्मेति कर्म- त्वम् । सर्वाशापरिपूरकचके एताः कामाकर्षिण्यादिगुप्तयो- गिन्यः स्वरात्मिका निवसन्तीत्यर्थः । तथा चोक्तं चतुश्श- त्याम्-''षोडशस्वरसन्दोहचमत्कृतिमयी कलाः। प्राणादि- षोडशानां तु तत्वानां षोडशात्मिकाः बीजभूतस्वरात्म- त्वात्तदसौ वीजरूपिकाः। अन्तरङ्गतया गुप्तयोगिन्यः सुव्य- वस्थिताः ॥ कामाकर्षणरूपाद्याः सृष्टिप्राधान्यतः प्रिये । सर्वाशापूरकाख्ये तु चक्रे वामेन पूजयेत् ॥” इति । सुभगो- दयवासनायाम्-षोडशच्छदपद्मोत्थं भोगभूताक्षमानसम् । विकारात्मकतापन्नं देव्याः संभावयाम्यहम् ॥” इति ॥ ४५ ॥ मुद्रास्त्रिखण्डया सह संविन्मय्यस्समुच्छ्रितास्सर्वाः ।
चिद्वल्लीसहितः। १०१ आदिमही गृहवासा- भासा बालार्ककान्तिभिम्सदृशाः॥४६॥ आधारनवकमस्या ननचक्रत्वेन परिणतं येन । नवनाथशक्तयोऽपिच मुद्राकारेण परिणतं येन ॥ ४७ ।। त्रिखण्डया सह त्रिखण्डाख्यमुद्रया साकं समुच्छ्रिताः सर्वोत्कर्षेण वर्तमानाः आदिमहीगृहवासाः आदिमचतुरश्र- निलयाः । भासा कान्त्या बालार्ककान्तिभिः तरुणारुण- रुचिभिः सदृशास्तुल्याः । संविन्मय्यः चिद्धननिष्ठा इत्यर्थः । तथा चोक्तम्-चिद्वयोमचारिणी मुद्रा शिवावस्था तु खेचरी । सर्वसंक्षोभिणीप्रभृतयो दशमुद्रा भयध्वंसिन्यः पर- मानन्दायिन्यः परमशक्तय इत्यर्थः ॥" तथा चोक्तम्- "मोचयन्ति ग्रहादिभ्यः पञ्चोघान् द्रावयन्ति च । मोचनं द्रावणं यस्मान्मुद्रास्ताः परिकीर्तिताः ॥” इति । एतास्तु मुद्रा चतुरश्रादिबैन्दवान्तनवचक्राधिष्टाननायिका इति परमशिवेन प्रपञ्चिताः दिङ्मात्रमुदाह्रियन्ते । तथा हि- "क्रियाशक्तिस्तु विश्वस्य मुद्राख्या संविदम्बिका। “त्रि-
कामकलाविलासः
"
खण्डरूपमापन्ना सदा सन्निधिकारिणी ॥ सर्वस्य चक्र-
राजस्य व्यापिका परिकीर्तिता । योनिप्राचुर्यतस्सषा
सर्वसंक्षोभिणी पुनः ॥ वामाशक्तिप्रधानेयं द्वारचक्रस्थिता-
ऽभवत् ।" इत्यारभ्य - संपूर्णस्य प्रकाशस्य भोगभूमि-
रयं पुनः । योनिमुद्रा कलारूपा सर्वानन्दमये स्थिता ।
इत्यन्तम् । तत्तु तत एवावधार्यम् । यजुश्श्रुतिरपि-
"नवानां चक्रा अधिनाथास्स्योना नवमुद्रानवचक्रामहो-
नामिति ॥" एतदेव विवृणोति -आधारेत्यादि-
धारनवकं अकुळसहस्रारमूलाधारस्वाधिष्ठानमणिपूरका-
नाहतविशुद्धिलम्बिकाशाबिन्दुरूपं अस्थाः उपासकस्व-
रूपिण्यास्संबन्धी ! येन हेतुना नवचक्रत्वेन वैन्दवात्मना
परिणतेन कारणेन । नवनाथशक्तयः पूर्वोक्ता नवमुद्राका-
रेण परिणता जाता इत्यर्थः । एतश्च स्वच्छन्दसंग्रहे प्रप-
चितम् । ततः एवावधार्यम् ॥ ४६॥ ४७ ॥
अस्यास्त्वगादिसप्तक-
माकारश्चैवमष्टक स्पष्टम् ।
ब्राह्मयादिमातृरूपं
मध्यमभूबिंबमेतद्ध्यास्ते ॥४८॥
चिल्लीसहितः। अस्याः देव्यास्वगादिसप्तकं त्वगादिसप्तधातवः । आ- कारः स्वरूपं च एवं रूपमष्टकम् । ब्राह्मयादिमातृरूपं ब्रा- झयाद्यष्टशक्तिस्वरूपमित्यर्थः । एतत् परिदृश्यमानं मध्यमभू- वित्रं मध्यमचतुरथं अध्यास्ते निवसतीत्यर्थः ॥ ४८ ॥ अणिमादिसिद्धयोऽस्याः स्वीकृतकमनीयकामिनीरूपाः। विद्यान्तरफलभूता गुणभावेनान्त्यभूनिकेतनगाः ॥ ४९ ॥ अस्याः परमेश्वर्याः अणिमाद्यष्टशक्तयः । विद्यान्तराणां हठयोगादीनां फलीभूताः स्वीकृतानि कमनीयानि मनो- हराणि कामिनीरूपाणि अङ्गनारूपाणि याभिस्ताः । एवं- भूताः गुणभावेन उपसर्जनभावेन । अन्त्यभूनिकेतनगाः सर्वान्त्यचतुरश्रे तिष्ठन्तीत्यर्थः । अयमर्थः-एतादृशपरमा- मोपासनेन साधकः परमेश्वरो भवति । तथोक्तमभियुक्तैः तदीयैश्चर्यविमुभिर्ब्रह्मविष्णुशिवादयः । एश्वर्यवन्तो भासन्ते स एवात्मा सदाशिवः॥” इति ॥४९॥ एवं कामकलाविलसनरूपं चक्रक्रम निगमय्य एतादर्श १०४ कामकलाविलासः चक्रदेवतामन्त्रस्वरूपं परमेश्वरात्मकगुरुक्रमशानभावेन ल- भ्यत इति परमशिवादिगुरुक्रम शिष्यानुजिघृक्षया प्रति- पादयितुमुपक्रमते. परमानन्दानुभवः परमगुरुर्निविशेषविन्द्वात्मा। स पुनः क्रमेण भिन्नः कामेशत्वं ययौ विमर्शाशात् ॥ ५० ॥ परमानन्द इत्यादि गुरुक्रमोविदित इत्यन्तेन । परम- स्सर्वोत्कृष्ट आनन्दः परिपूर्णाहम्भावरूपः अनुभवः ज्ञान यस्य सः । “एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुप- जीवन्ति” इति श्रुतेः । “प्रणमामि महादेवीं परमानन्द- रूपिणीं।” इति स्मृतेश्च । परमगुरुर्निर्विशेषविन्द्वात्मा परम- गुरुरादिनाथः परमशिवः तस्मात् आदिनाथात निर्विशेषः। अभिन्नो बिन्दुः पूर्वोक्तकामकलारूपः स आत्मारूपं यस्य सः। आदिनाथरूपी परमशिव इत्यर्थः । अयमर्थः-आ- नन्दो ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म । चिन्मानं सर्वद्रष्टार सर्वसाक्षिणं सर्वग्राहकं सर्वप्रमास्पदं सच्चिदानन्दमेकरस- चिल्लीसहितः। मेदायमात्मा सन्मात्रो नित्यः शुद्धो बुद्धस्सत्यो मुक्तो निर- अनो विभुरद्वय आनन्दः । पर इत्याद्युपनिषदुक्तरीत्या चिदानन्दघनपरमार्थप्रकाशविमर्शात्मा परमेश्वर एव पर- मकारुणिकः स्वयमेव स्वात्मानं कामकलाबिन्दुरूपकामका- मेश्वरीरूपदिव्यामिथुनप्रमुखदिव्यसिद्धमानवौधादिक्रमाव- तीर्णा गुरुमण्डलात्मा सन् कतिचन भक्तिभाजः संरक्षती- ति तात्पर्यम् । एतच्च रहस्योपनिषदि श्रूयते यथा "यदेषाचक्रमे तच्चक्र अभवत् । यदादौ भिन्ना स बिन्दुरमवत् । स आधारो जातः । सोऽयमात्मा आत्मैवैषा शक्तिः सा भावाभावौ सदसत्” इति । तथैवाहुराचार्याः। एको नार्चकः उभयोरुभौ । जायते उभौ नित्यौ एकमेवोभौ अविनाभावात् । आधाराधेयभूतानि । ततो गुणा जायन्ते। लिङ्गानि तानि पिण्डानि । स शक्तिरभवत् । तदप्येष श्लोको भवति । “भावाभावमयो विन्दुः भावः षष्ठात्मको भोगः । भावात्मकं तु तन्मध्यं चारुभावत्रयात्मकम् ॥" इति । तदेषाभ्युक्ता मध्ये चक्रं शिवे बिन्दौ प्रपञ्चो लोकः । लोको देहः सनादरूपः सशब्दरूपः। अर्थात्मिका शक्तिः। चक्रं तनुः बिन्दुः प्राणः मध्ये शक्तिरित्यादिना चक्रदेवता- स्वरूपनिरूपणपुरस्सरं कामकामेश्वरीस्वरूपमेव निरूपि- ।
कामकलाविलासः । । तम् । तदेषाभ्युक्ता परो वा एप आनन्दः । स भोगयोनिः कामरूपा देवता । स आनन्दायोनिः । आनन्दो ब्रह्म ब्रह्मेव सन् । ब्रह्माप्येति । ब्रह्मवेदब्रह्मव भवति । ब्रह्मविदाभोति परम । ब्रह्म ब्रह्मवैकानेकप्रपञ्चास्यादित्यादिनाच वाक्येन कामेश्वरीमभिधायान्तेऽपि तत्सर्व त्रिपुरालोक्रमातापाया। वो सर्वदासर्वरूपा इति सर्वोत्तरत्वं सर्वात्मकत्वं च कामेश्च. यो प्रतिपाद्यन्त इति सर्वरक्षक एव परमशिव इति अथवा परमगुरुरिति छेदः । परमगुरुरादिनाथः । निर्विशेषः निष्प्र- पञ्च बिन्दुस्सश्चिदानन्दलक्षणः आत्मस्वरूपं यस्य स इति। बैन्दवे परमाकाशे सच्चिदानन्दलक्षणे । निष्प्रपञ्ने निरा- भासे निर्विकल्प निरामये॥ इत्यमृतानन्दवचनात् । रह- स्याम्नायेऽपि-" अनुप्रविश्य तां शक्ति वामाचः पिण्डि- तो भवान् । समस्तबीजगन्धिः मूक्ष्मबिन्दु धमेति सः।" इति । विरूपाक्षपञ्चाशिकायामपि-" विन्दुर्विमर्शधर्मा पण्णामेकोऽध्वनां प्राणः ।" इति । “सावयादयोऽपि हंसा- स्सदा प्रणवसंस्थितान् । नादोपरि महादेवं पश्यन्ति झान- चक्षुषा ॥” इत्यादिना बिन्दुनादात्मकं परमेश्वरमाह भगवान् वसिष्टोऽपि । एवंविधविन्द्वात्मा परमेश्वर एव कामका- मेश्वरीप्रमुखगुरुमण्डलात्माऽभूदित्याह । स पुनः क्रमेण भिन्न चिल्लीसहितः । इत्यादि। सः पूर्वोक्तः परमात्मा । क्रमेण वक्ष्यमाणदिव्य- सिद्धरूपेण भिन्नरूप्पं प्रापितः। विमर्शाशात् विमर्शः पूर्वोक्तलक्षणः । स्वात्मशक्तिः कामकलारूपा । तदंशः तद- धभागः । तस्माद्धेतोः कामेशत्वं श्रीकामराजभावम् । यया प्राप । अयमर्थः-परमात्मा स्वयमब स्वात्मानं विभज्य कामकामेश्वरीरूपः गुरुशिष्यभावमापन्नः सकलतन्त्रं प्रव- तयामासेति । तथा चोक्तमुपनिषदि-“स इममेवान्मानं द्विधापा- तयत् । ततः पतिश्च पत्नी चाभवताम् ।' इति । आत्मैवेदमय आसीत् । एक एव सोऽकामयत जाया मे स्यात् अथ प्रजायेयेति । एकस्यैव ब्रह्मणः मिथुनरूपत्वं वक्ति । मिथुनीभूतस्य कामेश्वरत्वमपिश्रुतिरेवाह । यथा वृहदारण्यके-“काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात सर्वस्यात्मनः परायणं स वै वेदिता स्थात् याज्ञवल्यः वेद वा अहं तं पुरुष सर्वस्यात्मनः परायणं यमाधेय एवायं काममयः पुरुषः स एव देवशाक- ल्यः । तस्य कामदेवतेति स्त्रिय इति होवाच" इति कामेश्वरस्य विहरणयोग्यां स्त्रियं कामेश्वरी प्रत्यक्षं ब्रूते । - कामकलाविलासः रहस्यागमश्च गुरुः शिष्यपदे स्थित्वा स्वयमेव सदा- शिवः । लोकसंरक्षणार्थायतन्त्रं समवतारयत् ॥” इति । एतदेव विशदयति ॥ ५० ॥ आसीनः श्रीपीठे कृतयुगकाले गुरुश्शिवो विद्याम् । तस्यै ददौ स्वशक्तयै- कामेश्वर्यै विमर्शरूपिण्यै ।। ५१ ॥ इति। श्रीपीठे मध्यव्यधान्तर्गतोड्याणपीठे । आसीन: नित्यसन्निहितः। गुरुः ज्ञानोपदेष्टा । तथा च शिवसूत्रम् । "गुरुरुपाय इति ।" " गुशब्दस्त्वन्धकारस्स्याद्रुशब्दस्तन्नि- वर्तकः। अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥" शिवः सर्वप्रवर्तकः परमात्मा । कृतयुगकाले कृतयुगादौ । तस्यै । सा शक्तिः सर्वभूतानाम् निरवधिकानन्ददायिन्यै स्वशक्तयै । रहस्योपनिषदि "ब्रह्मा विष्णुश्च रुद्रश्च वाणी लक्ष्मीः भवानीति ताः संप्रदायकाः क्रमात् । सर्वलोकप्रसू- स्वेन सैव त्रिपुरा सैवानन्दं ददातीति ।” अन्यत्रापि “परोऽ- पिशक्तिरहितः शक्तः कर्तु न किञ्चन । शक्तेश्च परमेशानि चिट्ठीसहितः। शक्तया युक्तो भवेत्” इति। आगमानुसन्धानेन स्वस्वरूप. सत्तासंप्रदायिय विमर्शरूपिण्यै । हकारोऽन्त्यः कलारूपो विमर्शाख्यः प्रकीर्तितः। इति सङ्केतपद्धत्युक्तरीत्या अनुत्तरा- नन्दविश्रान्तिस्थानभूतशक्तिपररूपिण्यै कामेश्वर्य सा कामा सर्वकामा काम एव लोका एव पुराणो तस्मात् त्रिपुरेश्युपनि- षदुक्तरीत्या। सर्वदा सर्वप्रकारेण सर्वाभीष्टप्रदायिन्यै । स्वा- स्मभूतायै विद्यान्तरे तन्महामनुरिति । सैव शब्दा तनुः अस्य सवर्णरूपा परमा त्रिपदाभिधाभावात्रिगुणा त्रिवर्गरूपा नित्या निर्मला निष्प्रपञ्चा आत्मविद्या विभुर्वरविद्या य एवं वेद विद्वान् भवति । अयाहुर्विद्वांस इति । रहो रहस्य- मिति । शिवोऽयमिति । स एवेमानि भूतानि सूजति रक्षति संहरति । अन्यथा वा करोति । सैव सो भवतीति रह- स्योपनिषत्प्रतिपाद्यामात्मैक्यदायिनीमत्यन्तमात्मविद्या ददौ उपदिदेश॥ अयमत्र संप्रदायः । यद्यपि समप्रधानो समतत्वो समौ तयोरशक्तिरजराविश्वयोनिः आदिशक्तिररुणा वि- ध्वजन्या । इति । साङ्घयायनशाखायामुभयोः कामकामे- श्वर्योः समप्रधानमुक्तम् । तथापि विश्वयोनिर्विश्वजन्या कामकलाविलासः इति सर्वकारणरूपिण्या ऐतयव कामेश्वर्या रहस्थतन्त्र मर्कोपनिषत्सारभूतं प्रवर्तयितुकामः परमशिवः प्रपञ्च- सृष्टयनन्तरं आदियुगे--" महामध्यं च चक्रस्य महा- नन्दात्मकं पुनः । अनुत्तरविम कसारं संविन्मयं भजे " इत्युक्तप्रकारेण प्रकाशानन्दमारमयमोड्याणपीठमास्थाय स्वयमपि श्रीचर्यानन्दनामधेयमुहहन् स्वाभिन्नाय परा- भट्टारिकायै । श्रीविद्याक्रममुपदिदेश । सा परा भट्टारिका त्रेतायुगद्वापरयुगकलियुगेषु वक्ष्यमाणदेशिकस्वरूपिणो ह्य. तिरहस्य शाम्भवतन्त्र प्रवर्तयामास । इति । अयं इह क्रमविवरणक्रमः । इह श्रीविद्यारत्नावगमने सा- धनद्वयमस्ति । कामराजसन्तानं लोपामुद्रासन्तानं चे- कामराजसन्तानक्रमस्तु सकलविद्यानुसन्ध्यवि- च्छिन्न इति प्राचीनगुरवोऽप्याचक्षते । लोपामुद्रा- सन्तानक्रमस्तु विच्छिन्नतया प्रवर्तत इति वर्णयन्ति । नत्क्रमप्रकारस्तु लिख्यते--तत्र दिव्योत्रगुरवस्सप्त । सिद्धौधाश्चत्वारः । मानवी घगुरवस्त्वष्टी । तत्र दिव्यक्रमो यथा-कृतयुगादौ परमशिव एव ओड्याणपीठात्मकमध्य- बिन्दुनिवासी श्रीचर्यानन्दनाथनामा सन् स्वात्मशक्त्या- रुपश्रीमहात्रिपुरसुन्दरी विमृष्टतनुः प्रथमो गुरुः । तथा ति ।
चिलीसहितः। १११ मध्यव्य- चोक्तम्-"त्र्यवान्तरोयाणपीठसंस्थकामराजशरीरिणी । अस्वराकारतां प्राप्यन्यश्रसङ्केतमध्यगात्। इति। मध्यत्र्यश्रा- अकोणकामरूपपीठवाग्भवाधिष्टातृकामेश्वरीरूपविमृष्टरूपः श्रीमदृ देवनाथस्त्रेतायुगगुरुः । तथा चोक्तम्-"व्यश्रा- प्रकोणगाया मा कामेशी कामपोटगा।” इति । অন্ধিসলিঃশ্বাইনিস্কামলানিগল্প- चरीमिलिनस्वरूपः श्रीषष्टनाथदेवो द्वापरगुरुः । तथा चो- कम्-' व्यश्रदक्षिणकोणस्थवज्रेशी जालन्धरपीटगा । इति । मध्ययनोत्तरकोणगतपूर्णगिरिपीटस्थिनशक्तिबीजा- भिधेयभगमालिनीविमृष्टदेहः श्रीमित्रदेवनाथः कलियुग- गुरुः । तथा धोक्तम्-" व्यस्योनरकोणस्था भगेशी पूर्ण- पीठगा।" इति। मित्रेशदेव. कलियुगादी भगवती लोपामुद्रा अगस्त्यं च महातपःपुञ्जमिथुनमनुगृहीतवान् । एतत्सतकं दिव्या- घसंक्षकं गुरूपदेशाददगन्तव्यम् । इह तु प्रसङ्गादेताय- दुक्तम् । एतदेवाह-साप्येषेति ॥५॥ सेयायामेत्रसंज्ञा स्थानेशान् ज्येष्ठमध्यबालाख्यान ।
कामकलाविलासः चित्लाणविषयभूतान् त्रेतायुगादिकारणत्रिगुरून् ॥ ५२ ॥ वीजत्रितयाधिपतीन् परीक्ष्य विद्या प्रकाशयामास । एतरोघत्रितयं समनुगृहीतं गुरुक्रमो विदितः ॥ ५३ ॥ इति । सा पूर्वोक्ता परमशिवप्राणनायिका मित्रनाथदेव- नाथसंज्ञा भीमो भीमसेन इतिवत् मित्रशब्दो मित्रदेवनाथ- पर्यन्तं धावति । स च मित्रदेवनाथः कलियुगगुरुः । तत्सं- ज्ञां तन्नामधेयम् । इयाय प्राप । पतञ्चोपलक्षणम्-प्रेतायु- गद्वापरयुगगुरुनामधेयधारणस्य त्रेतायुगादियुगत्रयगुरुस्व. रूपिणी भूत्वा संप्रदाय प्रवर्तयेदित्यर्थः । एतदेव विवृणोति -स्थानेशेत्यादिना स्थानेश: स्थानानांमध्यत्र्यशाप्रको णदक्षिणकोणोत्तरकोणानां कामेश्वरीवजेश्वरीभगमालि- नीनिलयानाम् । ईशा अधिष्ठात्री अत एव ज्येष्ठमध्य- बालाख्या । ज्येष्ठः श्रीमदूर्ध्वदेवनाथः । मध्यः श्रीषष्ठदेवना- थः। बालः श्रीमित्रदेवनाथः । तेषामाख्या नामधेयं यस्यास्सा चिद्वल्लीसहितः। ११३ । न तत्स्वरूपत्वादेतेषामिति भावः चित्प्राणविषयभू- ताः चित्प्राणः परमशिवः चित्स्वरूपत्वात् प्राणरूपत्वा- च । तथा माण्डूक्योपनिषदि-"नान्तः प्रशं हिः प्रशं नोभयतः प्रशं न प्रज्ञा घनं न प्रज्ञ- मद्दष्टमव्यवहार्यमग्राह्यमलक्षणमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थ मन्यन्ते । स आत्मा स विज्ञेयः ।" इति । चिन्मय एव श्रूयते । तथा प्राणमयत्वेनापि श्रूयते ॥ तथा छान्दोग्ये-“यथा वा अरानाभौ समर्पिताः। एव- मस्मिन् प्राणे सर्व प्रतिष्ठितम् । प्राणः प्राणेन याति। प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः।" इति। एतादृश- चित्प्राणस्वरूपस्य परमशिवस्य विषयभूता भोग्यभूता। कुतः, “एष देवोऽनया देव्या नित्यं क्रीडारसोत्सुकः।" इत्य- भिनवगुप्तपादोक्तिः। अथवा स्थानेशान् ज्येष्ठमध्यबालाख्यान् चित्प्राणविषयभूतानिति गुरुविशेषणं वा । तथापि स एवार्थः । एवंविधा सा पराभट्टारिका। त्रेतायुगादिकारण- त्रिगुरून् पूर्वोक्तश्रीमदूर्ध्वदेवनाथादीन् । बीजत्रितयं । 8 ११४ कामकलाविलासः वाग्भवादिकम् । तस्याधिपतीन् वाच्यभूतान् । एतञ्च पूर्वमेवोक्तम् । एतान् त्रिविधदेशिकान् परीक्ष्य शोधयि- त्वा विद्या-" पञ्चभूतमयं विश्वं तन्मयी सा सदा- नघे । तन्मयी मूलविद्या च तथा च कथयामि ते" पर- मशिवाननारविन्दनिःसृताखिलकारणभूतामादिविद्यां प्र- काशयामास प्रवर्तयामासेत्यर्थः । अत्र किञ्चिद्वदामः-इह परीक्ष्य विद्यां प्रकाशयामासेत्यनेन श्रीसदाशिवात्मा देशि- कोत्तमः । सत्संप्रदायासद्धमिदं मार्ग बहुकालमात्मोपासन- माचरते । “दान्तायोपसन्नाय शिष्यायापदिदेश च । दी- क्षापूर्व महेशानि विद्यामुपदिशेदगुरुः । " इत्यादिना । दीक्षा च शिवसायुज्यदायिनी । इति । “ ददाति शिवतादात्म्यं क्षिणोति च मलत्रयम् । अतो दीक्षेति सा प्रोक्ता दीक्षा- शब्दार्थवेदिभिः । “इति स्मृतेः । “दीयते परशिवैक्य- भावना क्षीयते सकलपापसञ्चयः ।" इत्यभियुक्तोक्तेश्च । सा च त्रिविधा । आणवशाक्तशाम्भवभेदात् । “त्रिविधा सा भवेद्दीक्षा प्रथमा आणवी परा । शाक्यी शाम्भवी चेति सद्यो मुक्तिप्रदायिनी।" इति स्मरणात् । तत्र आणवदीक्षा- विधिर्विशेषविहितद्रव्याणि निवर्त्य परदेवतातर्पणध्याना- संक्तरूपिणीत्युक्तेः । शाकेयी तु यथोपनतशक्तिसिद्धार्थ- चिद्वल्लीसहितः। साध्या । शाम्भवी च-"सिद्ध शक्तिं समालोक्य तया केवलया शिशौ । निरुपायं कृता दीक्षा शाकेयी परिकी- र्तिता॥” इति । अभिसन्धि विनाऽचायशिष्ययोरुभयो- रपि । “देशिकानुग्रहणैव निशिता व्यक्तिकारिणी।" "सेयं हि शाम्भवी दीक्षा शिवावेशनकारिणी।" इति च । एवं विधदीक्षाऽभावे नकुत्राप्यधिकारी । तथा श्रीमालिनीविजय- कारः प्राह-"न चाधिकारिता दीक्षां विना योगोऽस्ति शाङ्करे । न च योगाधिकारित्वं शाम्भवमेकमेव वा ॥ अभिसन्धिरहिताचार्यकृपामात्रसाध्या यथेऽयं भवेत् । अपि मन्त्राधिकारित्वमुक्तं च शिवदीक्षया । इति । शिष्य- स्य वित्ताभावेऽपि आचार्यः शिष्ययोग्यतामवधार्य स्व- धनेन वा कुर्यात् । स्वस्याप्यभावे लघूपायेन वा कुर्यात् । “स्वधनेन दरिद्रस्य कुर्याद्दीक्षा स्वयं गुरुः । आप दूर्वाम्बुभिर्यद्वा दीक्षया मोक्षयेच्छिशुम् ।" इति सर्वात्मना दीक्षितस्यैव ब्रह्मविद्यायामधिकारो नान्य- स्येति स्थितिः । दीक्षा च परदेवतासन्तर्पणसाध्ये- त्युक्तम् । सन्तर्पणं च द्रवद्रव्यविशेषसाध्ययुगवि- शेषतर्पणं तृप्तिमयदम् । “दैवतस्यामृतेन तु ।" इत्यु- तत्वात् । अत एव तमेतं वेदानुवचनेन ब्राह्मणा कामकलाविलासः । विविदिषन्ति । यौन दानेन तपसाऽनाशकेनेति । यज्ञस्या- पि ब्रह्मविषयत्वात् । । श्रूयते स च यज्ञश्च पूजा सा च त्रिधा मता । परा अप- रा परापरा चेति । तथा च परमशिवः परमेश्वरी प्रत्याह- तव नित्योदिता पूजा विभिभँदैर्व्यवस्थिता। परा चाप्य- परा गौरी तृतीया च परापरा ॥ प्रथमाद्वैतभावस्था सर्वप्र- वरगोचरा । द्वितीया चक्रपूजा च सदा निष्पाधते मया ।। एवं ज्ञानमये देवि तृतीया च परापरा । उत्तमा च परा झेया विधानं शृणु सांप्रतम्॥ महापद्मवनान्तस्स्थां कारणा- नन्दविग्रहाम् । तदङ्गोपाश्रयां देवीं वाग्भवे गुरुपादुकाम् ॥ आप्यायितजगद्रूपां परमामृतवर्षिणीम् । सञ्चिन्त्य परमा- द्वैतभावनामधूर्णितः॥ दहरान्तरसंपर्कनादालोकनतत्परः। विकल्पसत्यसङ्कल्पविमुखोऽन्तर्मुखस्सदा ॥ चित्कल्लोला- भिललितसङ्कोचस्त्वतिसुन्दरः। इन्द्रियप्रीणनैव्यैर्विहित- स्वात्मपूजकः॥ न्यासं निवर्तयेद्देवि षोढान्यासपुरस्सरम्॥" इत्यादिपरा पूजा । अत्र स्वरूपमध्ये-द्वितीया चक्रपूजा च सदा निष्पाद्यते मया । इति । परमशिवः स्वयमेव वाह्य- वती वरिवस्यां करोमोति चक्रपूजां प्रशंसयामास । सोऽपि 1.
चिल्लीसहितः। बाह्ययोगः पञ्चविधः-"केवलो यामळो मिश्रश्चक्रयुग्वी- रसङ्करः।" इति स्मृतेः । एतलक्षणमाम्नायादेवावगन्त- व्यम् । ततश्च सन्तर्पणपूर्वकमेवाभिषेचनादिकर्म कर्तव्यम् । तच्च सन्तर्पणद्रव्यं निष्पाद्यमित्युक्तम् । द्रवद्रव्यं च हेतु- भूतनिदानकारणा प्रथमादिशब्दाभिधेयं परमामृतरूपं मधु। तेनैव परदेवतायागस्य साध्यत्वात् । सोमेनाग्निष्ठो- मयागवत् । न च वाच्यमग्निष्टोमीयं पशुमालभेत सोमगृहान् गृह्वाती त्यादिविधिसद्भावात्। युक्तम् । इतरेषां यागानां सोमसाध्य- त्वमुक्तम् । इह तु ब्राह्मणो न सुरां पिबेत् न मांसमश्नीयादि- त्यादिना निषेधादिदंदर्शनमनुपपन्नमिति। न वयं निषेधवि- धिमुल्लङ्घय स्वातन्त्र्येणैव निदानात्परदेवतातर्पणं कर्तुमुचि- तामति ब्रूमः॥किन्तु इदमेव शाम्भवदर्शनमौपनिषदसंप्रदाया- दागतमिति निश्चित्य ह्येवमवोचाम। तर्हि निषेधस्य कागति- रिति चेदुच्यते-अदीक्षितपुरुषविषयोऽयं निषेधविधिः।दी- क्षितस्याननैव हेतुना देवतायागः कर्तव्य इति मुख्यविधिस- द्भावात्तथा च ऋग्वेदाम्भोधिमध्योदृतसाङ्ख्यायनशाखायां आदिसुन्दरीवरिवस्याद्वारा देवतासाम्राज्यसाधनतानिदा- ११८ कामकलाविलासः नस्य श्रूयते-" इमां विज्ञाय सुरया मदन्ति परिनुतातर्पयन्त स्वपीठम् । नाकस्य पृष्टे महतो वसन्ति परं धाम त्रैपुरं चा- विशन्ति। अत्र परिसुतं द्रव्यमित्यर्थः। तथा निघण्ट्रादि- प्रसिद्धिः । अत एव वाजपेयादिप्रसिद्धक्रतुष्वपि परमेश्वर्या मन्त्रनायिकाया विहितत्वादेव निषिद्धस्यापि द्रव्यस्य स्वी- कारो दरीदृश्यते। कुत्रवा परमेश्वरीविधिः श्रूयते। ललिता- ख्याने च-“परितुष्टास्मि मद्याब्धे त्वया साह्यमनुत्तमम् । देवकार्यमिदं किञ्चित्वया निर्विनितं कृतम् ॥ इतःपरं मत्प्र- सादाद्वाजपेयादिके मख । सोमपानवदत्यन्तमुपयोज्यो भविष्यसि ॥ यागेषु मन्त्रपूतं त्वां पास्यन्त्यखिलदेवताः । यागेन मन्त्रपूतेन पीतेन भवता जनाः । सिद्धिमृद्धिं बलं स्वर्गमपवर्ग च बिभ्रतु । महेश्वरी महादेवो बलदेवश्च भा. र्गवः । दत्तात्रेयो विधिर्विष्णुस्त्वां पास्यन्ति महाजनाः ॥" इति । परमशिवोऽपि पूजासङ्केतके-प्रधानादिवरीवस्यां निर्व]त्याह । यथा वा-“महापद्मवनान्तस्थे कारणानन्द- विग्रहे । ममाङ्कोपाश्रयां देवीमिच्छाकामफलप्रदाम् । भव- ती त्वन्मयैरेव नैवेद्यादिभिरर्चयेत्।” इत्यादितः उक्त्वाऽन्ते नैवेद्यद्रव्यं स्पष्टमाचष्टे । यथा वा-"अर्चनापिशितैर्गन्धे. धूपैराराध्य देवताम् । चक्रपूजां विधायेत्थं कुलदीपं निवे.
चिद्वल्लीसहितः।
११९
दयेत् । कौळिकाचारसंयुक्तैर्वीरैस्तु सह पूजयेत्।” अन्य
रहस्यागमे परमेश्वरः प्रथमादिपदार्थपञ्चकस्य देवतायाग-
माह -"मादिपञ्चकमीशानि देवताप्रीतिकारकम्।” इति ।
।
ननु शिव एव स्वतन्त्रप्रवर्तकः इति । तदुक्तं महामाया-
शाम्बराद्यनेकतन्त्रानुष्ठानप्रसङ्गःप्राप्नोतीति चेत्तदुक्त्वा वि-
शेषादिति चेन्न । तेनैव तत्तदधिकारिभेदेनअनुष्ठेयानीमानि
तन्त्राणि । इह तु शाम्भवदर्शनं मुमुक्षूणामेवोपास्यमिति प्रप-
ञ्चितत्वात् । यथा “मोहशास्त्राणि सर्वाणि मयैव कथितानि
वै। मुक्तयन्तरं तु
गत्वैव मोहनाय दुरात्मनाम्।” इत्युक्वा-
"मथित्वा ज्ञानमन्थन वेदागममहार्णवम् । सारज्ञेन मया
देवि कुलधर्मस्समुद्धृतः ॥ मेरुसर्षपयोर्यद्वत्सूर्यखद्योतयोरि-
व । तथान्यसमयस्याम्ब कुलस्य महदन्तरम् ॥” इत्यादि कु-
लदर्शनस्वरूपमभिधाय तत्तनिष्ठस्यैव मोक्षो नान्यसमयनि-
ष्ठस्य इत्याह-'एतज्ज्ञात्वा वरारोहे सद्यःखेचरतां व्रजेत् ।'
उदितः पुण्यानन्दा-
दिति कामकलाङ्गनाविलासोऽयम् ।
परशिवभुजङ्गभावा-
कर्षणहर्षाय कल्पते नित्यम् ॥ ५४॥
१२० कामकलाविलासः चिन्तान्तरङ्गतरळ- स्तृष्णासलिलः प्रपञ्चवाराशिः। यदनुग्रहेण तीर्णस्तस्मै श्रीनाथनाविकाय नमः ॥ ५५ ॥ उदित इति-पुण्यानन्दात् पुण्यानन्दाख्यात् स्वस्मा- दुदितः उत्पन्नः । अयं कामकळाङ्गनाविलासः । कामेश्वरा- विनाभूता विमर्शशक्तिः। कामकळा सैवाङ्गना सुन्दरी तस्या विलासश्चक्रावरणदेवतादिरूपः । स एव विलासः दयिते- क्षणे सति तत्कालो चित विकारः । परशिवः प्रकाशैकस्व- भावभुजङ्गः रसिकः विटः तस्य भावो हर्षितसञ्जातो- त्कर्षः। उद्विलास इति यावत् । एवंभूताय हर्षायानन्दाय कल्पते समर्थो भवति । भावाकर्षणहर्षायेति पाठान्तरे- तस्मात्तस्यावलोकनेन भावस्याकर्षणमुदयः । तेन यो हर्षि- तो हर्षः । विलासेक्षणेन समुत्पन्नान्तरो विकारविशेषो भावः । तेनोपार्जितो विलासो भावजननद्वारा हर्षहेतुर्भवती- त्यर्थः । लोकेऽपि प्रियतमविलासदर्शने रसिकनायकस्य शृङ्गारभावोदयपूर्वको हर्ष उत्पद्यते । तद्वत्परशिवस्यात्म- ।
चिल्लीसहितः। १२१ शक्तीक्षणाभिमुख्यस्य चिच्छक्तिभूतकामकळाविलासः ।। पदविक्षेपादिरूपनिरवधिकानन्दप्रदो भवति । आर्यारूपेण स्वमुखारविन्दनिस्सृतो ग्रन्थरूपः कामकलाविलासः पर- शिवप्रीतिं सङ्कल्पत इति । कामकलाविलासानुभवतः पुण्यानन्दमहात्मा एवं वदति च प्रतीयते । इतिशब्दः परिसमाप्तिद्योतक इत्यवगन्तव्यम् । अधिगतमध्ययनमननु- भावितं चार्थतः खरस्य चन्दनभारवत्केवलं परिश्रमकरं भवतीति निरुक्तकारादिवचनेनार्थज्ञानहीनस्याध्ययनस्य निप्फलत्वश्रवणात् ॥ "ज्ञातव्यः सर्ववेदार्थों वेदानां कर्मसि- द्धये । पाठमात्रमधीता च पङ्के गौरिव सीदति ॥” वेदस्या- ध्ययनं सर्व धर्मशास्त्रस्य चैव हि । अजानतोऽर्थ तत्सर्व तु- पाणां खण्डनं यथा।" इत्यादि श्रुतिसिद्ध कामकळास्वरूपं परिपूर्ण प्रपश्चितमिति शिवम् ॥ ॥ इति श्रीनटनानन्दकृतं कामकलाचिद्वल्लीव्याख्यानं संपूर्णम् ॥ श्रीगुरुचरणारविन्दार्पणमस्तु ॥ श्रीमहात्रिपुरसुन्दर्यर्पणमस्तु । ॥ शुभमस्तु॥
No text on this page.
मन्त्रमातृकापुष्पमालात्मकनित्यमानसपूजास्तुतिः॥
कल्लोलोल्लसितामृताब्धिलहरी मध्ये विराजन्मणि-
द्वीपे कल्पकवाटिकापरिवृते कादम्बवाटयुज्ज्वले ।
रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे
चिन्तारत्नविनिर्मितं जननि ते सिह्मासनं भावये॥१॥
एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां
बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ विभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
तां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भावये ॥२॥
ईशानादिपदं शिवकफलकं रत्नासनं ते शुभं
पाचं कुङ्कुमचन्दनादिभरितैरणं सरत्नाक्षतैः ।
शुद्घराचमनीयकं तव जलभक्त्या मया कल्पितं
कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्प्यताम् ॥३॥
(१२३)
लक्ष्ये योगिजनस्य लक्षितजगज्जाले विशालेक्षणे
पालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेळसलिलै शुद्धोदकैमन्त्रितैः
स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्प्यताम्॥४॥
हीकाराङ्कितमन्त्रलक्षिततरोहमाचलासश्चितैः
रत्नरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णाशुकम् ।
मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूद्भवं
दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्प्यताम् ॥ ५॥
हंसैरप्यतिलोभनीयगमने हारावळीमुज्ज्वलां
हिन्दोळद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।
मञ्जीरौ मणिकुन्तले मकुटमप्यर्धेन्दुचूडामणि
नासामौक्तिकमङ्गुळीयकटको काञ्चीमपि स्वीकुरु ॥६॥
सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकञ्च फालफलके गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽश्चितं
कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्पीतये कल्प्यताम् ॥७॥
(१२४)
कल्हारोत्पलमल्लिकामरुवकैस्सौवर्णपङ्केरुहैः
जातीचम्पकमालतीवकुळकैर्मन्दारकुन्दादिभिः।
केतक्या करवीरकैर्बहुविधैः क्लृप्तास्स्रजो मालिकाः
सङ्कल्पेन समर्पयामि वरदे सन्तुष्टये कल्प्यताम् ॥ ८॥
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनंगोज्ज्वलैः
यभृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-
ण्यामोदाय दशाङ्गगुग्गुलघृतधूपरहं धूपये ॥ ९ ॥
लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्भास्यान्तरे मन्दिरे
मालारूपविलम्बितमणिमयस्तम्भेषु संभावितैः।
चित्रोटकपुत्रिकाकरधृतगव्यतर्वधित
दिव्यैर्दीपगणधिया गिरिसुते सन्तुष्टये कल्प्यताम्॥१०॥
होंकारेश्वरि तप्तहाटककृतैः स्थालीसहभृतं
दिव्यानं घृतम्पशाकभरितं चित्रानभेद तथा ।
दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्र स्थित
माषापूपसहस्रमंब सफलं नैवेद्यमावेदये ॥ ११ ॥
(१२५)
सच्छायैर्वरकेतकीदळरुचा ताम्बूलबल्लीदकैः
पूगर्भूरिगुणैस्सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलः ।
मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदितैः
पूर्णारत्नकळाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ १२ ॥
कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका
पात्रे मौक्तिकचित्रपडितविलसत्कप्रदीपाळिभिः ।
तत्तत्ताळमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं
मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ १३॥
लक्ष्मीमौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा-
पीन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
वीणामणवलोचनास्सुमनसां नृत्यन्ति यद्रागव
द्भावराङ्गिकसात्विकः स्फुटरसं मातस्तदालोक्यताम्।।
हीकारत्रयसंपुटेन मनुनोपास्ये त्रयीमादिभिः
वाक्यलक्ष्यतनोस्तव स्तुतिविधौ को वा क्षमेतांबिके।
सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु ते
संवेशो मनसस्सहस्रमखिलं त्वत्प्रीतये कल्प्यताम्॥१५॥
(१२६) श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेचेतसा सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः। चित्ताम्भोरुहमण्टपे गिरिसुता नृत्तं विधत्ते रसात् वाणीवक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गळा॥१६॥ इति गिरिवरपुत्रीपादराजीवभूषा भुवनममलयन्ती मूक्तिसौरभ्यसारैः । शिवपदमकरन्दस्यन्दिनी यन्निबद्धा मदयतु कविभृङ्गा मातृकापुष्पमाला ॥ १७ ॥ इति श्रीमद्भगवत्पादाचार्यविरचिता मन्त्रमातृका- पुष्पमालात्मकनित्यमानसपूजास्तुतिः संपूर्णा ॥ श्रीबालमनोरमा प्रेस् ट्रिप्लिकेन् , मद्रास् .
No text on this page.
No text on this page.