Prakrit Bharati Academy, Jaipur

Tark Sagrah

Shrimadannmbhatt · 2010/07

PDF Proofread

Front matter

मुद्रक-गणपति कृष्ण गुर्जर,
श्रीलक्ष्मीनारायण प्रेस, जतनवर बनारस सिटी
-

--3-335विषय-सूची जयपुर १ ७ ४४ १७ विषय:- पृष्ठे/विषय पृष्ठे सत्संपन्नम् पृथक्त्वनिरूपणम् ३६-३७ भूमिका संयोगनिरूपणम् विभागनिरूपणम् मङ्गलाचरणम् ३७.३८ पदार्थविभागः २.३ | परत्वापरत्वनिरूपणम् द्रव्यविभागः ४.५ | गुरुत्वनिरूपणम् ३८-३९ गुणविभागः ६ द्रवस्वनिरूपणम् कर्मविभाग: ६ / स्नेहनिरूपणम् सामान्यविभागः ६ / शब्दनिरूपणम् ३९४० विशेषविभागः बुद्धिनिरूपणम् ४०-४२ समवायः करणलक्षणम् ४३.४४ भभावविभागः कारणलक्षणम् पृथिवीनिरूपणम् ७.१० । कार्यलक्षणम् अपां निरूपणम् कारणविभागः १५.४१ तेजोनिरूपणम् १२.१३ करणलक्षणोपसंहारः वायुनिरूपणम् १३.१५ प्रत्यक्षप्रमाणलक्षणम् पृथिव्यादिचतुष्टयोत्पत्तिविनाशक्रमः १५ प्रत्यक्षज्ञानलक्षणम् आकाशनिरूपणम् प्रत्यक्षज्ञानविभागः कालनिरूपणम् १७ निर्विकल्पकलक्षणम् ४७.४८ दिनिरूपणम् सप्रकारकलक्षणम् ४७.४८ भारमनिरूपणम् १८.२९ | इन्द्रियार्थसन्निकर्षविभागः मनोनिरूपणम् ३० अलौकिकसन्निकर्षनिरूपणम् ५४.५५ रूपनिरूपणम् ३१.३३ / अनुमानलक्षणम् रसनिरूपणम् ३३ / अनुमितिलक्षणम् गन्धनिरूपणम् पक्षतालक्षणम् स्पर्शनिरूपणम् ३३ / परामर्शलक्षणम् ५६.५७ रूपादिचतुष्टयस्य पाकजवाहिन्यव. ध्याप्तिस्वरूपनिरूपणम् स्थापनम् ३४३६ | पक्षधर्मतास्वरूपम् संख्यानिरूपणम् ३६ अनुमानद्वैविध्यम् परिमाणनिरूपणम् ३६ | स्वार्थानुमितिप्रदर्शनम् ५८.५९ ४७ ५८ ( २ ) ९१ विषयः पृष्टे विषयः पृष्टे परार्थानुमाननिर्वचनम् ६०.६१ कर्मनिरूपणम् पञ्चावयववाक्योदाहरणम् सामान्यनिरूपणम् ८९.९० अनुमितिकरणनिरूपणम् ६१.६२ विशेपलक्षणम् लिगविभागः ६२.६३ | समवायनिरूपणम् पक्षलक्षणम् ६४ अभावनिरूपणम् ९२.९५ सपक्षलक्षणम् ६५ | गौतमोक्तपोडशपदार्थानां विपक्षलक्षणम् ६५ | द्रव्यादिपु सप्तस्वेवान्तर्भावकथनम्९५.९६ हेत्वाभासनिरूपणम् ६५.७१ शक्तिपदार्थनिर्वचनम् ९७.९९ उपमाननिरूपणम् ७२ स्वत्वस्य पदार्थान्तरताखण्दनम् १०० शब्दनिरूपणम् ७३.७८ विधिनिरूपणम् १००.१०१ प्रमाणान्तरनिरसनम् आख्यातार्थनिरूपणम् प्रामाण्यवादः ८०.८१ पदार्थज्ञानप्रयोजनम् १०१-१०३ अन्यथाख्यातिवाद: उपसंहारः १०५.६ अयथार्थज्ञाननिरूपणम् ८१.८२ | भांपानुवादः (१) (१२) स्मृतिविभागः ८३ | प्रश्नोत्तरमाला (१३)-(२८) सुखदुःखादिलक्षणम् ८४ ८५ | वर्णानुक्रमिकसूची (२९)-(३०) आत्ममात्र विशेषगुणनिरूपणम् ८५ 'ध्रुवपदा समुद्धृतग्रन्थमन्धकार- संस्कारनिरूपणम् ८६-८७ नामानि (३७) (३०) सामान्यगुण-विशेषगुणनिरूपणम् ८७ | विदुषामभिमतानि (३९)-(४२) ७९ ८१ उत्सर्गपत्रम् विविधबिरुदावलीविराजमान-मानोन्नत-क्षत्रकुजतिलक- परमभागवत-च्छत्रपुराधिपति-महाराज- राजर्षि-हिज-हाईनेस- श्रीमविश्वनाथसिंह के० सी० आई० ई. वाहादूरमहोदयाय समुत्सृष्टोऽयं ग्रन्थः प्राच्यप्रतीच्यबहुशास्त्रविचारचारु- प्रज्ञासमुज्ज्वल गुणग्रहणकनिष्ठ । बुन्देलखण्डनृपमण्डलमण्डन त्वां श्रीविश्वनाथमभिनन्दयतान्मुकुन्दः ।। १ ।। भूतिस्तोमविभूषितः परशुभोल्लासैः समुद्भासितो रत्नेनैव चिरं विराजितशिरा दिव्येन शुभ्रांशुना । -शान्तस्निग्धमणियुतिप्रविल सन्मालामहीनां धत् कारुण्यैकपरायणो विजयते श्रीविश्वनाथः प्रभुः ॥ २॥ समादरभरैस्त्वया निजपुरेऽहमामन्त्रितः प्रभूतधनदानतः सुवचसा च सम्मानितः । प्रदेयमिव किं भवेन्मनुजनाथ तुभ्यं मया गृहाण सममाशिषा श्रमफलं ममैतन्नृप ।। ३ ।। निबन्ध इति सादरं ध्रुवपदाभिधानो मया नगधिप समप्यते करसरोजयोः श्रीमतः । अये गुणगणाम्बुधे यदि भवेत् स दोषाकर- स्तथापि समुपेक्ष्यतां न हि यदाशुतोषो भवान् ।। ४ ।। नियतशुभानुध्यायिना गुणमुग्धेन श्रीहरिहरशास्त्रिणा

No text on this page.

- भूमिका. शास्त्रमाहात्म्यम् इह बलु प्रेक्षापूर्वकारिणः सवै एक पुरुषार्थसापुदमभिलएस्तित्साधनोपाय. मनुसन्धिरसवो दृश्यन्ते । तत्र च दृष्टादृष्टभेदन द्विचा किल पुरुषार्थाधिगमस्य सर- णि: । दृष्टे विपये स्नानाशनादौ प्रवृत्तिस्तु न खलु जात्वपीष्टसाधनताज्ञानार्थं शास्त्र. मुखं निरीक्षते । परिश्रान्तः स्नायादश्नीयाद्वा बुभुक्षित इत्यत्र नास्ति कश्चिच्छास्त्र- स्योपयोगः, तत्र नैसर्गिकरागत एव लोकप्रवृत्तः। अदृष्टे तु स्वर्गापवर्गमात्रे शास्त्रमेव लोकस्योपकरोति । शास्त्रं हि तावत् पितेव वत्सलः पुरुषार्थाधिगमस्य सकलसदुपा- यानस्मान् दर्शयति । तस्माद्योगसमाधिजनितदिव्यचक्षुविरहितैरस्माभिः सर्वतः शास्त्रमेव समाश्रयणीयमित्यत्र कोऽस्ति संशयावसरः ? तच्च शास्त्रं चतुर्दशवि. धमिस्यामनन्ति मनीषिणः । तथा चोक्तं याज्ञवल्क्यसंहितायाम्- पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥-(१-३) विष्णुपुराणेऽप्युक्तम्- भङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥-(३-६-२८) परन्तु सर्वास्वेतासु विद्यासु वेदप्रामाण्योपपादकत्वात् न्यायशास्त्रमेव मूल- स्तम्भभूतमिति न खलु न ज्ञातं तत्त्वविद्भिः। वेदेषु नास्तिकजनोद्भावितकुतर्कविप्ला. वितप्रामाण्येष्ववश्यं साधवः शिथिलास्था भवेयुर्निवत्रश्च बहुवित्तव्ययायाससा- ध्यावदार्यानुष्ठानादित्यत्र नास्ति कश्चित् सन्देहः । स्वोपजीव्ये वेद एव परिम्लाने किं काम करणीयं तदानीं तदनुयायिमिमीमांसादिशास्नौरिति सुतरामेव तेषामान: थक्यमापतति । तस्मात्सर्वकुतार्किकगर्वोपमर्दद्वारा वेदानां दृढतरप्रामाण्यानुविधायि न्यायवैशेषिकशास्त्रमेव परं विद्यास्थानम् । अत्राशडक्य समाहितं जरन्नैयायिक- जयन्तभद्देन- "ननु वेदप्रामाण्यनिर्णयप्रयोजनश्चेन्न्यायविस्तरः कृतमनेन, मीमांसात एव तत्सिद्धः तत्र ार्थविचारवत् प्रामाण्यविचारोऽपि कृत एव । सत्यं, स त्वानुषङ्गि- कस्तत्र मुख्यस्त्वर्थविचार एव । पृथक्प्रस्थाना हीमा विद्याः सा च वाक्यार्थविद्या न प्रमाणविद्येति । न च मीमांसकाः सम्यग्वेदप्रामाण्यरक्षणक्षमां सरणिमवलोकयितुं कुशलाः कुतर्ककण्टकनिकरनिरुद्धसञ्चारमार्गाभासपरिभ्रान्ताः खलु त इति वक्ष्यामः ।"-(न्यायमञ्जरी, पृ० ४) - इयं च न्यायविद्या “आन्वीक्षिकी"त्यपरनाम्नाऽप्यभिधीयते शास्त्रविद्भिः। अस्मिन् संसारकान्तारे कियन्ति दुःखदुर्दिनानि कियती वा सुखखद्योतिकेति कुपि- तफणिफणामण्डलच्छायाप्रतिममिदमिति मन्यमानाः सर्व एव सन्तो व्यवस्यन्ति दुःखभारं समूलमुन्मूलयितुम् । न खलु विवेकिनः पातादिभयात् स्वर्गमपि कामयन्ते । तथा चोकं भगवद्गीतायाम्- "ते तं भुक्त्वा स्वर्गलोकं विशाल क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।" अतः सततं प्रच्युतिशङ्कया कस्यचित् स्वर्गमात्रमपरस्य स्वाराज्यमिति परस- म्पदुत्कर्षापतापाच्च स्वर्गादिपदमपि न निश्चितं श्रेयः । अत एवात्यन्तिकदुःखनि- वृत्तिरूपं निःश्रेयसमेव सर्वे परमपुरुपार्थतया प्रार्थयन्ते । तत्र को नामोपायो निःश्रेयसस्येति जिज्ञासायां श्रुतिराह- 'मात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (वृहदारण्यक० ४-५-६) अर्थस्तावदस्याः-मुमुक्षुणा आत्मा द्रष्टव्यः, मुमुक्षोरात्मदर्शनमपवर्गरूपेष्ट- साधनमिति यावत् । आत्मदर्शनोपायः क इत्यत आह श्रोतव्य इत्यादि । "अग्निहोत्र जुहोति यवागू पचति" इत्यत्राग्निहोत्रे द्रव्याकाक्षासवाद् द्रव्यान्तरानुपदेशाच यवागूपाकस्य स्वातन्त्र्योपपत्या यवागृगव्यस्यैवाग्निहोनाङ्गतेति प्रथमं यवागूपाकस्ततोऽग्निहोत्रमिति क्रमस्तथाऽऽत्मदर्शदस्य श्रवणाद्यानन्तर्यमा. र्थक्रमेण पाव्दक्रमस्य त्यतत्वात् । तथा च श्रवणमनननिदिध्यासनानि तत्वज्ञान- प्रयोजकानीत्युक्तं भवति । तत्र च श्रुतितः कृतारमश्रवणस्य मननेऽधिकारः । मननं चात्मन इतरभिन्नत्वेनानुमानम् , “श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्योपपत्तिभि". रितिस्मरणात् । श्रवणानन्तरप्राप्तमननस्य सुष्ठुनिर्वाहकतयाऽऽन्वीक्षिकीत्यन्वर्थनामधेयमेव न्यायविद्यायाः । तथा चोकं न्यायभाष्यकृता-"प्रत्यक्षागमाभ्यामीक्षितस्या. न्वीक्षणमन्चीक्षा, तया प्रवर्तत इत्यान्वीक्षिकी न्यायविद्या न्यायशास्त्रम्" ।(२.१-१) नामलिझानुशासनकदमरोऽप्याह- "भान्वीक्षिकी दण्डनीतिस्तकविद्यार्थशास्त्रयोः" ननु सायवेदान्तादिशास्त्रेष्वपि मनननिर्वाहकपदार्थनिरूपणसत्त्वात् कथं न्यायविद्याया एवाऽऽन्वाक्षिकीति संज्ञा सङ्गच्छतामित्याशङ्कायामाह न्यायसूत्र- विवरणकृद् गोस्वामिभट्टाचार्यः "एतद्ग्रन्यस्याऽऽन्वीक्षिकीन्यायतर्कादिशब्दव्यपदेशश्च योगेन रूट्या च । तत्र श्रवणादनु पश्चादीक्षाऽऽममननमन्वीक्षा,तनिर्वाहिकाऽऽन्वीक्षिकीति योगार्थः ।

तथा अस्यार्थस्य वेदान्तादिगतत्वेऽपि भन्न न्यायस्य बलवत्वेन प्राचुर्येण च भूरिप्रयोगा- दूडिकल्पनमिति ।" (न्यायसूत्रविवरणम् ६ पृ०) निःश्रेयसोपायप्रतिपादनेनारमनः परमोपकारकत्वादान्वीक्षिक्या भात्मविद्येति विशेषणमुपात्तं मनुना- "विद्येभ्यस्त्रयों विद्याद् दण्डनीति व शाश्वतीम् । भान्वीक्षिकीञ्चात्मविद्यां वार्तारम्भांश्च लोकतः" ॥ (७-४३) महाभारतान्तर्भूतशान्तिपर्वणि याज्ञवल्क्यजनकसंवादपाठेनावगम्यते याज्ञ. वल्क्यस्तावद् गोतमोक्ताया एवाऽऽन्वीक्षिक्याः साहायकेन वेदान्तज्ञानकोविदस्य विश्वावसोर्दुरूहप्रबनान् समादधौ, माह च “एपा तेऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी।" (शान्ति० मोक्ष० ३१८-४७) अत्र नीलकण्ठ:- "चतुर्थी त्रयी वातो दण्डनीतिञ्चापेक्ष्य । साम्परायिकी मोक्षाय हिता।" भान्वीक्षिक्या मोक्षविधायकत्वात् महर्षिणा नारदेनाऽपि शास्त्रमिदमायत्तीकृत. मिति तस्य प्रतिज्ञादिपञ्चावयववाक्यस्य गुणदोषवेत्तृत्वश्रवणादवधार्यते । घोकं सभापर्वणि महाभारतीये- "पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ।" (महा० सभा० ५-५) छान्दोग्यश्रुतावसौ महपिः स्वस्य तर्कशास्त्राभिज्ञत्वं स्वयमेव स्वीचकार । यथा- "भधीहि भगव इति होपससाद सनत्कुमारं नारदः । तं होवाच-यद् वेस्थ तेन मोपसीद ततस्त उद्ध्वं वक्ष्यामीति । स होवाच ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमायर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशि देव निधि वाकोवाक्यमेकायन"मित्यादि । भन्न शाङ्करभाष्यम् - "वाकोवाक्यं तर्कशास्त्रमेकायनं नीतिशास्त्रम् ।" श्रीकृष्णबलरामावपि धनुर्वेदादिविद्यामिवाऽऽन्वीक्षिकीमधीतवन्तौ । तथा १ भागवते- "सरहस्यं धनुर्वेद धर्मान् न्यायपथांस्तथा। तथा चाऽऽन्वीक्षिकी विद्यां राजनीतिं च षड्विधाम् ।” (१०.४५.५४) भगवता स्वयमप्युक्तम्-“भान्वीक्षिकी कौशलानाम्" इति।(भाग० ११११६।२४ धर्मतत्त्वनिरूपणेऽपि तर्कशास्त्रमवश्यमपेक्षणीयमिति स्पष्टमुक्तं मनुना- "मापं धर्मोपदेशश्च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्म वेद नेतरः ॥" (१२.१९) वेदशास्त्राविरोधिनेतिविशेषणश्रवणादत्र तर्कपदं गौतमोक्तन्यायशास्त्रपरमेवेति निर्णीयते । यतः स खलु महर्षि:- "श्रुतिप्रामाण्याच्चे"ति ( ३-१-१९) सूत्रे वेदविरुद्धस्थानुमानस्याप्रामा. - ( ४ ) ण्यमसूचयत् । अत एव भाष्यकृता वात्स्यायनेनाऽप्युक्तम्- "यरपुनरनुमान प्रत्यक्षागमविरुद्धं न्यायामासः स इति (30) धर्मोपदेशकपरिपद्यपि नैयायिकस्यावस्थितिरावश्यकीति व्यवस्थापितं मनु- स्मृती- त्रैविद्यो हैतुकस्ती नैरतो धर्मपाठकः । प्रयश्चाश्रमिणः पूर्व परिपत्स्याददशावरा ।" (१२-१११) अन्न कुल्लूकभट्टेन "हेतुक" शब्दस्य 'श्रुतिस्मृत्यविरुदन्यायशास्त्रज्ञ' इत्येवं. रूपोऽर्थः प्रदर्शितः । एतेन वेदविरद्धायाः स्वबुद्धिमात्रकल्पिताया बौदचार्वाका दितर्कविद्यायाः नास्ति क्वचिदुपयोग इत्यवगम्यते । अत एव "विद्येभ्यस्त्रयीं विद्या" दित्यादिमनूश्लोक (७.४1) भाप्यावसरे मेधातिथिना स्पष्टमुक्तम् या तु बौदचार्वाकादितर्कविद्या सा नातीव कृत्वा क्वचिदुपयुज्यते, प्रत्युतास्ति- क्यमुपहन्ति यो नातिनिपुणमति." | रामायणमहाभारतादावप्यस्ति निन्दाश्रुति. वेदविरुद्धाया एवान्वीक्षिक्या (१)। यतो न्यायवैशेपिकयोरिव लोकायतादिना- स्तिकदर्शनेऽप्यान्वीक्षिकीयब्दस्य दृश्यते व्यवहारः। तथा चार्थशास्त्रे कौटिल्यः "सांख्यं योगो लोकायतञ्चेत्यान्वीक्षिकी" । (अध्या० २) अन्न न्यायवैशेपिक- रूपशास्त्रद्वयमेव योगशब्देनामिहितम् । न्यायशास्त्रपरतया 'योग' शब्दप्रयोगस्य बहुशो दृष्टचरत्वात्। गुणरत्नसूरिमिस्त स्पष्टमुक्तं "पड्दर्शनसमुच्चयटीकायाम्" "अथादौ नैयायिकानां यौगापराभिधानानां लिङ्गादिव्यक्तिरुच्यते । (पृ० ४९) भस्ति च वैशेषिकशास्त्रस्यापि 'योग'शब्देन व्यवहारः । तथा च "पत्रपरीक्षायां" विद्यानन्दस्वामी-"सदकारणवम्नित्यमिति योगवचो यथा" । "सदकारणव. (१) "कच्चिन्न लोकायतिकान् ब्राह्मणास्तात सेवसे । अनर्थकुशला होते वाला. पण्डितमानिनः ॥ धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधा । बुद्धिमान्वीक्षिकी प्राप्य निरर्थ प्रवदन्ति ते ॥ रामा० अयो० १००-३०-३६.. "महमासं पण्डितको ईतुको वेदनिन्दक । आन्वीक्षिकी तर्कविद्यामनुरत्तो निरर्यिकान् ॥ हेतुवादान् प्रवदिता वक्ता संसत्म हेतुमत् । आक्रोटा चामिवक्ता च ब्रह्मवाक्येषु च द्विनान् ।। नास्तिक. सर्वशङ्की च मूर्ख पण्डितमानिकः । तस्येय फलनिवृत्ति सुगालत्वं मम द्विन" ॥ -महा० मोक्ष० २८१ । ४७-४६ अव्यवस्था ( ५ ) ग्निस्य" मिस्यादिमं सूत्रं वैशेषिकदर्शनचतुर्थाध्यायस्येति जानन्त्येव विद्वांसः । भार. म्भवादिस्वेन प्रसिद्धौ नैयायिकवैशेषिकावेव 'योग'शब्दप्रतिपाद्यौ इति तु निश्चीयते 'पुरुषकर्मादिनिमित्तो भूतसर्गः, कर्महेतवो दोषाः प्रवृत्तिश्च स्वगुणविशिष्टाश्श्चेतनाः असदुस्पद्यते उत्पन्न निरुध्यते इति योगानाम्" (२९) इति न्यायभा- न्यग्रन्थदर्शनेन । मपि च न्यायवैशेषिकयोरिव लोकायतादिनास्तिकदर्शनस्याप्यान्वीक्षिकी- शब्देन व्यवहारविषयवं सुव्यक्तमस्ति राजशेखरकृतायां काव्यमीमांसा. याम्-"द्विधा चान्वीक्षिकी पूर्वोत्तरपक्षाभ्याम् । अर्हनदन्तदर्शने लोकायतं च पूर्वः पक्षः । साहय न्यायवैशेषिको घोत्तरः।” ( ४ पृ०) पूर्वामान्वीक्षिकी सेवमाना एव वेदप्रामाण्यं नागीकुर्वन्ति शास्त्रमर्यादाञ्च लवयन्ति, तेन स्वात्मनाशायैव व्यवस्यन्तीत्याह महाभारतकार: "भप्रामाण्यञ्च वेदानां शास्त्राणाञ्चातिलहनम् । च सर्वत्र एतनाशनमात्मनः ॥ भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः । भान्वीक्षिकी तर्कदिद्यामनुरक्तो निरर्थिकाम् ॥" (भनु. ३७ । ११-१२) मनुनाऽप्युक्तम्-“योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विज । स साधुभिर्वहिष्कार्यो नास्तिको वेदनिन्दकः ॥” (२) अन "हेतुशास्त्र"शब्दस्य वेदविरुद्धतर्कशास्त्रपरत्वं मेधातिथिकुल्लूकभट्ट- गोविन्दराज नारायणप्रभृतिभिः सर्वैरेव व्याख्यातृभिः सुस्पष्टमभिहितम् (२)। आचार्यशकरेणापि कठोपनिषद्भाष्ये "भतक्यमणुप्रवेशा"दित्यत्र, "नेषा तर्केण मतिरपनेये"त्यन्न च तर्कशब्दस्य स्वबुद्धिमात्रपरिकल्पितकुतर्कपरत्वमेव ध्या- ज्यातम् (३) । अतो जात्वपि नाशनीयं किमपि वैगुण्यं गौतमोक्तन्यायविद्यायाः । भस्या आत्मज्ञानसाधनवं कामन्दकीयनीतिसारेऽपि प्रतिपादितम्- (२) "हेतुशास्त्र नास्तिकतर्कशास्त्रं बौद्धचार्गकादिशास्त्र यत्र वेदोऽधर्मायेति पुनः पुनरुधोप्यते तादृशं तर्कमाश्रित्य,"-मेधातिथिः । "हेतुशास्त्राश्रयाद् वेदवाक्यमप्रमाण वाक्यत्वात् विप्रलम्मकवाक्यवदित्यादिप्रतिकूलत- कोपष्टम्मेन चार्वाकादिनास्तिक इव । नास्तिको यतो वेदनिन्दक ।-कुल्लूकमट्ट । त्तकशास्त्रावलम्बनेन निन्देत् नास्ति परलोक इत्येवं स्थितप्रतिशो वेदनिन्दक: ।-गोविन्द- राजः । "हेतुशास्त्र श्रुतिविरोधि तर्कशास्त्रम् ।-नारायण. । (३) स्वबुद्धथाभ्यूहेन केवलेन तकेंण । न हि कुतकस्य प्रतिष्ठा कचिद् विद्यते । नैषा तर्केण स्वबुदयम्यूहमात्रेण । कठभाष्यम् , १।२।२-६ । भस- ।

( ६ ) "आन्वीक्षिक्यात्मविज्ञानं धमाधम्मों त्रयीस्थिती। अर्थानथों तु वार्तायां दण्डनीत्यां नयानयो॥" "आन्वीक्षिक्यात्मविद्या स्यादीक्षणात् सुखदुखयोः । ईक्षमाणस्तया तवं हर्पशोको व्युदस्यति ॥" २ सर्गः; विद्याविभागप्रकरणम् , ७-११। उपासनेवाऽऽन्वीक्षिकी विद्यापि भगवत्कृपाप्रापिकेयुक्तं श्रीमद्भगवता स्वय. मेव । यथा- "यमादिभियोगपथैरान्वीक्षिक्या च विद्यया । ममा!पासनाभिर्वा नान्यैोग्यं स्मरेन्मनः॥" (भाग०, १११२० । २४) न्यायविद्याया आत्यन्तिकदुःखोपरमरूपनिःश्रेयसाधिगमस्य परमप्रयोजनस्वेऽपि सर्वमपि प्रेक्षावत्प्रयोजनमान्धीक्षिकीव्युत्पाद्यप्रमाणमूलम् । अत एवोकं न्यायवार्तिकतात्पर्यटोकायाम् “नास्त्येव तत् प्रेक्षावतां प्रयोजनं यत्रान्वी. क्षिकी न निमित्तं भवतीति ( ४७ पृ० ) वात्स्यायनेनापि प्रकटीकृतमेतत् "सेयमान्वीक्षिकी प्रमाणादिमिः पदार्थविभज्यमाना प्रदीपः सर्वविद्यानामुपायः सव्वंकर्मणाम् । आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता (११) इतिप्रतीकैः । चाणक्यापरामिधानवात्स्यायनेन स्वरचितार्थशास्त्रेऽपि त्रय्यादिविद्याचतु- प्टयेपु आन्वीक्षिक्या एव सचोपयोगित्वं प्रदर्शितम्-"भान्वीक्षिकी त्रयी वार्ता -दण्डनीतिश्चेति विद्याः । धर्माधर्मों त्रय्याम् । अर्थानों वार्तायाम् । नयानयो दण्डनीत्याम् । वलावले चैतासां हेतुमिरन्वीक्षमाणा लोकस्योपकरोति, व्यसनेऽभ्यु. दये च बुद्धिमवस्थापयति, प्रज्ञावाक्यक्रियावैशारयं च करोति । प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां शश्वदा. न्वीक्षिकी मता ॥ इति विनयाधिकारिक प्रथमेऽधिकरणे विद्यासमुहेशे आन्वीक्षिकी- स्थापना द्वितीयोऽध्यायः ॥' [ इदमन्त्रावधेयम्-"प्रदीपः-विद्योद्देशे प्रकीर्तिते'त्येवमानुपा श्लोकस्या- स्य न्यायभाष्येप्युद्धतत्वादर्थशास्त्रन्यायमाप्ययोरेककर्तृकत्वमितिप्रवादस्य सयुक्ति- कत्वमेव प्रतिभाति । यतः श्लोकस्य तुरीयपादस्य 'विद्योद्देशे प्रकीर्तितेत्येवं परिव. र्तितत्वाद् व्यज्यते तावत् भाव्यकारस्यायमाशयो चन्मयैवार्थशास्त्रस्य विद्यासमुद्दे- शपरिच्छेदे आन्वीक्षिक्याः प्राधान्यमुद्घोपितमिति । ] जगदेव दुःनपकमग्नमुद्दिधीर्षुः परमकारुणिको महर्पिरक्षपादश्चतुशविद्या- स्वभ्यहि ततमामिमामान्वीक्षिकी सूत्राकारेण निवन्ध, न खलु नवं प्रणिनाय, . ( ७ ) पतः परमोपयोगिनीय न्यायविद्या वेदवद् विश्वस्रष्टुर्भगवत एवोत्पादमाससादेति विदुरं प्रति मैत्रेयवाक्यादवगम्यते-तथा च भागवते- "भाग्वीक्षिकी अयी वार्ता दपढनीतिस्तथैव च । एवं व्याहृतयश्वासन प्रणवो ह्यस्य दर्हतः । (३ । १२ । ४४) "न्यायादीनां पूर्वादिक्रमेणोत्पत्तिमाह-भान्वीक्षिकीति । भान्वीक्षिक्याधामोक्षधर्मकामार्थविद्याः । “दर्हतः-हृदयाकाशात्"। (स्वामि- टीका।) श्रुतिरपि श्रूयते-"तस्मै तस्य महतो भूतस्य निःश्वसितमेवैतदृग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद. शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिपामयनं न्यायो मीमांसा धर्मशास्त्राणीत्यादि ।-सुवालोपनिषद्, २य खण्ड । भयमेवार्थः स्पष्टीकृतो न्यायमञ्जयां जयन्तभट्टन- "नन्वक्षापादात् पूर्व कुतो वेदप्रामाण्यनिश्चय मासीत् । अत्यल्पमिदमुच्यते । जैमिनेः पूर्व केन वेदार्थो न्याख्यातः पाणिनेः पूर्व केन पदानि व्युत्पादितानि, पिङ्गलात् पर्व केन छन्दांसि रचितानि । भादिसर्गात् प्रभृति वेदवदिमा विद्याः प्रवृत्ताः । संक्षेपविस्तारविवक्षया तु ताँस्तस्तित्र तत्र वर्तनाचक्षते" (५ पृ०) भत एवं न्यायभाप्यान्ते वात्स्यायनेन महरक्षपादस्य न्यायविद्यायाः कर्तृत्व. मनुक्त्वा वदतां वरे तस्तित्रियं प्रतिभाताऽभवादित्येवमभिहितम् (४)। उद्योत. करेणापि न्यायवार्तिकारम्भे "यदक्षपादः प्रवरो मुनीनां, शमाय शास्त्रं जगतो जगादे"त्यत्र नोक 'चकारे' ति । महपिकणादप्रवर्तितं वैशेषिकशास्त्रमपि न्यायविद्याया एवं समानतन्त्र तत्रापि श्रवणानन्तरप्राप्तमनननिर्वाहकपदार्थनिरूपणसत्वात् । तथा चोक्तं जगदीशेन तर्कामृते- "मननं चात्मन इतरभिन्नत्वेनानुमानम् । तच्च भेदप्रतियोगीतरज्ञानसाध्यम् , तथा च इतर एव के तदर्थ पदार्थनिरूपणं सक्षेपतः क्रियते । सामान्यतः पदार्थों द्विविधो भावोऽभावश्चेति (पृ०)। द्रव्यादिपदार्थज्ञानमन्तरेण न तावदात्मन्यारमेतरभेदः साधयितुं शक्य इति तु कृतमुक्तेन । न्यायवैशेषिकयोरुहेश्यसाम्यात्न्न खलु तयोः परस्परं प्रायो विरोध इत्यतो न्यायसूत्रतात्पर्यविकृती न्यायमअय्या पदवाक्यप्रमाणपारावारीणजय. तभट्टेनोक्तम्-"वैशेषिकाः पुनरस्मदनुयायिन एवेति" । अतएव तर्करहस्यदीपि. काख्यायां पड्दर्शनसमुच्चयटीकायां (४ पृ०) गुणरतसूरिणापि भणितं- . (४) योऽक्षपादमृषि न्याय. प्रत्यभादवदता वरम् ।। तस्य वात्स्यायन इदं भाष्यजातमवर्तयत् ॥

( ८ ) "नैयायिकोपिकानां हि मिथः प्रमाणतत्वानां संख्याभेदे सत्यपि अन्योन्य तत्त्वानामन्तर्भावनेऽल्पीयानेव भेदो जायते । तेनैतेपां प्रायो मततुल्यता (५ पृ०)। अथ गौतमोक्ताः प्रमाणप्रमेयादयः पोडशपदार्थाः वैशेषिकदर्शनोक्तपु सप्तसु पदार्थेप्वन्तर्भवतीति बहुधा प्रतिपादितं प्रन्थकृभिः । परन्तु द्रव्यादीनां न्याय. दर्शनोक्ते कुत्र पदार्थेऽन्तर्भावः ? न च ते प्रमेय एवान्तर्भवितुमर्हन्ति, यतः "भात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःनापवर्गास्तु प्रमेयम्" (१-१-९) इति सूत्रे महर्षिणात्मादीनामेव प्रमेयत्वं परिभाषितम् , इति चेत्, न, येषां तत्त्वज्ञानादपवर्गों मिथ्याज्ञानात् संसारस्तेपामेव पदार्थानां प्रतिपिसि. तत्वात् । अत एव न्यायभाष्यं-"भस्त्यन्यदपि द्रव्यगुणकर्मसामान्यविशेष- समवायाः प्रमेयम् । तद्भेदेन चापरिसंख्येयम् । अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात् संसार इत्यत एतदुपदिष्टं विशेषेणेति' (१९) न्यायमअरी. कृतापि सिद्धान्तितं "प्रमाणे एव ज्ञाते सति तद्विपयोऽर्थः प्रमेयमिति प्रज्ञायते एव किं तेन लक्षितेन । तस्माद् विशिष्टमिह प्रमेयं लक्ष्यते । "ज्ञातं सम्यगसम्यग् वा यन्मोक्षाय भवाय वा । तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥" नन्वेव द्रव्यगुणादिपदार्थानां तत्त्वज्ञानमपि मोक्षप्रयोजकम् कणादेन सूत्रितं-"धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामा- न्यविशेषसमवायानां पदार्थानां साधयंवैधाभ्यां तत्वज्ञानान्निःश्रेयसम्" इति । तथा च निःश्रेयसोपयोगीनि द्रव्यादीनि प्रमेयान्तराणि कुतो न लक्षितानि भक्षपादेनेति चेदन वरदराजः-"मोक्षे साक्षादवङ्गवादक्षपादैन लक्षितम् । तन्त्रान्तरानुसारेण षट्क द्रव्यादि लक्ष्यते । सत्यं द्रव्यादीन्यपि निःश्रेयसोपयो- गीनि विद्यन्ते, तानि त्वाहत्य निःश्रेयसानङ्गत्वादक्षपादा न लक्षयाचक्रुः । वयं तु तेपामपि परम्परया तदुपयोगोऽस्तीति कणादतन्त्रमनुसृत्य लक्षणमाचदमह इति । तानिदानी पदार्थानुदिशति । "द्रव्यं गुणस्तथा कर्म जातिश्चैतत्त्रयाश्रया। विशेषः समवायश्च पदार्थाः षडिमे मताः ॥ न्यायसूत्रषिवरणकृद्गोस्वामिभट्टाचार्योऽप्याह-"आत्मत्वादिकं न प्रमे- यमात्रविभाजक संयोगादीनामपि प्रमेयत्वाद् द्वादशधेति विभागानुपपत्ते , किन्तु मोक्षहेतुप्रमेयविभाजकम् । तथा च तुशन्दः पुनरर्थे । एते पुनः प्रमेयं प्रकर्पण मेयम् । प्रकर्षश्च मोक्षहेतुज्ञानविषयत्वम् । अथ वा तुशब्दश्चार्थे । तथा चोकानुक्क- समुच्चयलामः । एवं प्रमेयमानस्य साक्षात् परम्परया वा मोक्षविभाजकत्वेऽपि न. -४२७ पृ० अत एव (E) - क्षतिः। भारमाधीनां च प्राधान्येन विशेषनिर्देशः । तत्रापि पूर्वपूर्वप्राधान्यात् पूर्व- पूर्वक्रमनिर्देवः ।" (१९५०)। न्यायसूत्रकृद्धिरास्मायतिरिक्तानामपि सामान्यतः प्रमेयस्वमभ्युपैयत इत्यत्र "प्रमेवा च तुलाप्रामाण्यवदिति ( २११११५) सूत्रमेव प्रमाणम् । तत्र तुलाद- ग्यस्यापि प्रमेयस्वव्यवस्थापनात् । तथा च सुष्टुक्तमुद्द्योतकरण-"न प्रमे- यान्तरनिराकरणार्थः सूत्रारम्भः मुमुक्षुणा प्रमेयमेनारमादि बोम्यमेव । नास्य प्रमेयस्व विधीयते नान्यस्य च प्रमेयत्वं निराक्रियते (१९)। ननु प्रमाणतत्वज्ञानमन्तरेण प्रमेयतत्वज्ञानमसम्भवीति भवतु पृथगमिधानं प्रमाणस्य, संशयादेः पृथगुल्लेखश्च किमर्थ १ द्रव्यादीनामिव तेषामपि साक्षामि:- श्रेयसानुपयोगादिस्याशाया वार्तिकप्रन्धेनैव निराकृतत्वात् । तथा च न्यायवाति- कम्- “संशयादयः प्रमेयेऽन्तर्भवन्तीति पृथक् ते न वक्तव्याः। न, विद्याप्रस्थानभेद- ज्ञापनार्थत्वात् । चतन इमा विद्या भवन्ति ताश्च पृथक्प्रस्थानाः । भग्निहोत्र. हवनादिप्रस्थाना अयो। हलशकटादिप्रस्थाना वार्ता । स्वाम्यमास्यभेदानुविधायिनी दण्डनीतिः। संशयादिभेदानुविधायिनीभान्वीक्षिकी। तस्याःसंशयादिप्रस्थानमन्तरे. णात्मविद्यामात्रमियं स्यात् , ततः किं स्यात् अध्यात्मविद्यामात्रत्वादुपनिषविद्यावत् तस्पामेवान्तर्भाव इति चतुष्वनिवर्त्तते तस्मात् पृथक् गृह्यन्त इति ।" (१२ पृ.) एवं च प्राधान्येन पृथगनुद्दिष्टत्वेऽपि काणादतस्त्रोक्तदव्यगुणादीनां यथायथं निर्व- धनं न्यायसूत्रकृताऽपि न खलु नानुमतम् । भत एव "सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः" (३१२६) "द्रव्यगुणधर्मभेदायोपलब्धिनियमः" ( ३११॥३६) "गन्धरसरूपस्पर्शपर्यन्ताः पृथिया:" (३।११६१) “अपतेजोवायूनां पूर्वमपो- ह्याकाशस्योत्तरः" (३१॥६२) इत्यादिन्यायसूत्राण्यपि साधु सङ्गच्छन्ते इति । अन्नम्भट्टपरिचयः भौतयोायवैशेषिकशास्त्रयोः स्मरणाऽतीतकालमारभ्य विद्वत्प्रवेकैरनेकै. बहवो अन्याः समुपनिबद्धाः । तन च विषयगौरवेण सारल्येन परिमिताक्षरतया स श्रीमदसम्भटेन विदुषा रचितस्तर्कसंग्रहः प्राथमिकपाठार्थिनामत्यन्तमुपकरो. तीति काश्यादिनानाजनपदेपु निर्दिष्टोऽयं प्रथमपरीक्षायाम् । अस्य खलु नितरा. मुपकारकस्य ग्रन्थस्य पठनपाठनाऽवसरे यथा प्राचामाचार्याणां प्रन्यपरिचयोऽप्यः नायासेन स्यात्, स्याच्च तत्तापदार्थविषये तन्त्राणामन्येषामप्यववोध ईषस्कर. स्तथा विरचय्य ध्रुवपदाऽभिधानां विवृति प्रकाश्यते तावदिदमभिनवं संस्करणं तर्क- सग्रहस्य सर्कदीपिकया न्यायबोधिन्या च सनायस्य । भन्न चाऽन्ते भाषानुवादस्य प्रश्नोत्तरमामायाश्च सनिवेशः कृतो येन स्यात् परीक्षार्थिनामुपकारवैशयमपि सद्यः ।

(१०) भन्नम्भष्टः रबाट कम्मिन् समये कनम देनं स्वजनुयश भूपयामास, सय चारित विप्रतिपत्तिः प्रेक्षायताम् । केचित्तु असम्मटो नाम लामालागम्नम्य मन्मभूमिश्र गरिकपादनामी प्रामः, यम्नावदधिकृत भासद यवनराजेन निजाम आसीति प्रसिद्भन । स नाव दनम्मदृश्चालुक्यनरपतीनां समपे पदनातक पृष्टवर्षस्याऽपिय भूयसा श्रमेण द्वादशवत्सराणि याक्ष कौण्डिन्यपुरे न्यायगासमयीय नेपापितु माती प्रतिष्टामाप । तेन च स्वजन्मभूमी कापि पाटगाला प्रसिष्टापिना, यत्र तेन मय- मध्याप्यन्ते स्म-तर्कसंग्रहः तर्कदोपिका, सिद्धान्तमुकाबली, गादाधरी च । स बलु सकृदेव निर्गस्य म्वग्रामात् परशाशनमवयोवर्षे महिना. दर्शनमकरोदिति वदन्ति (५)। तनाऽस्माकं मनोरमम् :-यत:-वृष्टीयपजदात चालुपनरपतीना. मस्तित्वमसम्भवदुक्तिकम् , प्रयोदशशतक एव तां पयोमानावशेपरवात् । विज 'सर्कसंग्रह' कारस्य विश्वनामकृयायाः सिद्धान्तमुक्तावत्या.' पाउनाऽपि नोपपद्यते । तथा च नमसः क्लुप्तद्रव्येप्वन्तर्मावनिरासाय तसंग्रहदीपिका कारणोक्तम्- 'तत्र तमसो नाकाशादिपनऽन्तर्मावो रूपवागत् । अत एव न वायी, स्पर्शा- भावात् सदागतिमत्त्वामावाच । नापि सेजसि, भास्वररूपामागदुष्णम्पर्शा. भावाच । नापि जले, गीतस्पीमावानीलरूपायवाच ।" इति । 'सिद्धान्तमुक्तावली कारेण चोक्तम्-'तन्दि गन्धशून्यरवान्न पृथिवी, नील- रूपवस्वाच न जलादिकम् ।। इति । एतेन 'मुक्तावली'कारस्य 'दीपिका' कारादर्वाचीनत्वमेव प्रतीयते, एकैनवा- ऽनुगतेन नीलरूपेण हेतुमा जलायष्टकभेदसिद्धः शीतस्पर्शामावादीनामननुगतानां 'दीपिका कृत्प्रदर्शितानां 'मुक्तावल्यां परित्यागात् । तदुक्तं 'मुक्तावलीप्रकाश'- ज्याख्यानावसरे रामरुद्रमहाचार्य:- "एतेन प्राचीनप्रन्येषु जलादिभेदसाधने नानाहेतूपन्यासो व्यर्थप्रयास इति सूचितम् ।” अपि च 'मृदुस्वकठिनत्वयोरवयवसंयोगविशेषरूपत्वादिति' 'दीपिका अन्यो दूपित इव मुक्तावलीकारेण । तथा च गुणनिरूपणे-'कठिनस्वादिकन्तु न संयोग- गतो जातिविशेषः चक्षुर्माहात्वापत्तेः ।' एवञ्च 'तर्कसंग्रह'कृतो मुक्तावलीपाठना कथं सम्भवतीति सुधीभिरेव चिन्तनीयम् । (५) 'महाराष्ट्रीयशानकोश' कारा. । ( पठभागे ११० पृष्ठे) r M ( ११ ) विश्वनाथस्तु गौतमसूत्रवृत्तिसमाप्तौ तत्प्रणयनकालमेवमाह- "रसवाणतियो काकेन्द्रकाले बहुले कामतिथौ शुचौ सिताहे । भकरोन्मुनिसूत्रवृत्तिमता ननु वृन्दाविपिने स विश्वनाथः ॥" एतत्पद्येन १५५६ शकवर्षे ( खः १६३४) गौतमसूत्रवृत्तिनिबन्धनसमयः प्रतिपादितः । प्रागुक्त कोश कारेण च सृष्टीयपञ्चदशशतके 'तर्कसंग्रह' कारस्याss. विर्माषकालस्य निर्धारिततया तात्कालिकेनाऽसम्मन कथं विश्वनाथप्रणीता सिद्धा- म्तमुक्तावली पाठितेस्यस्य रहस्यं स एव जानाति । 'गादाधरी' पाठनाप्यनम्भहस्य न खलु सङ्गच्छते, गदाधरस्य सप्तदशखष्टाब्दे समवस्थितत्वात् । "तकदीपिकाया" 'काञ्छमां त्रिभुवनतिलको भूपति'रिति ग्रन्थसन्दर्भदर्शनेन त्रिभुवनसिलकाभिधानकाचीराजसमये स्थितिरासीदनम्भहस्येति केचिन्मन्यन्ते । तदपरे न क्षमन्वे । 'त्रिभुवनतिलक'नामधेयः कश्चिनरपतिः कदापि कान्थयां नासीदिति तेषामाशयः । परन्तु 'राजराजनुला'नामिकायां तामिलभाषानिबद्धपुस्तिकायामस्ति- द्वितीयकुलोसुङ्ग चोदस्य 'राजराजाभिधेयः पुत्र एको विरराज । 'त्रिभुवनचक्रवर्ती'. तिविरुदेन स खलु बभूव भूवलये परिचित इति च ज्ञायते काश्चीपुरस्थे एकाम्रना- थमन्दिरे समुत्कीर्णाभिलिपिभिः । अयं तावद् राजराजः १०६८ शाकवर्षे (११४६ सृष्टान्दे) सिंहासनमारोह (६) । श्रीमदसम्भ?न 'त्रिभुवनतिलक' इति नाम्ना काशीनाथो निरुक्तो राजराज एवं समानातो न वेति प्रनतत्वविद्भिर्विचारणीयम् । वेवारनामधेयेन पाश्चात्यविपश्चिता स्वदृष्टस्य कस्यचित् तर्कसंग्रहस्य लिपिकाल: १४२५ खुष्टवर्षात्मको निर्णीतः (७) । तदवलोकिते च 'तर्कसंग्रहे' श्लोकोऽयं सनिवेशितोऽस्ति- "तपोमास्यसिते कृष्णे चन्द्रनागाब्धिचन्द्रकैः । वाराणस्यां मिते वर्षे स्वार्थमिन्दुल्लेिख वै ।। भत्र च 'चन्द्रनागाब्धिचन्द्रमिते वर्षे' इत्यनेन प्रतिपादिते १४८१ तमे सम्बति (१४२५ खः) तरपुस्तकमभूल्लिखितमिति तस्याभिमतम् । तच्च केचिन्नानुमोदन्ते । तदुक्तम् 'भब्धि Ought to be taken for 7 and not 4, and - (६) वनेर जातीय इतिहास, वैश्यकाण्ड, २२० पृ० । (७) Weber's Berlin Catalogue, No 683, p. 203.

( १२ ) then the date becomes 1725 H. D." --(Bombay Sanskrit Series प्रकाशिततर्कसंग्रहस्य LXIII पृष्ठे) परन्तु अधिपर्याय- शब्दानां ४ बोधकरवं 'हरिणी सौ म्रौ स्लो गृतुसमुद्रऋपयः [पि० छ० सू.] इत्यादिपु प्रसिद्ध कथमत्र परित्याज्यमित्यस्मिन् विषये किमपि बलवत् प्रमाण नोपलम्यते । तथा च 'तर्कसंग्रहदीपिकायो' 'त्रिभुवनतिलक'इत्युपनामसमुहोखेन, 'इन्दु'नामकेन च केनचित् १४२५ राष्टवर्प स्वकीयपाठार्थ 'तर्कसपहस्य लिखि- तस्वेन प्रयोदशशतके स्थितिरासीटम्नम्मदृस्येति सम्भाव्यते । अन्नम्मट्टः खलु सूनुरासीदद्वैतविद्याधार्यराववसोमयाजिकुलावतंसतिरुम- स्येति तत्कृत दीपिका'ऽन्तिमलेखेनाऽवगम्यते । शर्मण्यदेशीयविद्वत्प्रवरेण ज्पाक- विना समुपलब्धायां 'तर्कसंग्रहदीपिकायां' १६३४ शाकाब्दे (१७२ खु.) लिखितायाम्- “इति श्रीमदद्वैतविद्याचार्य-श्रीमदराघवसोमयाजिकुलावतंस-श्रीमत्तिरुमला. चार्यवर्यस्य सूनुनाऽन्नम्भटेन कृता स्वकृततर्कसंग्रहस्य दीपिका सम्पूर्णा ।" इत्ये- वमक्षराणि सन्ति । अन्ये तु-"एतादृशस्य चास्य तर्कसंग्रहस्य रचयिता श्रीमान् अमम्मट्टा, भान्धेषु कृष्णाया नद्याः पावनेन पवनेन परिशीतलं किमपि भूखण्डमात्मना मण्ड- यामासेत्यवगम्यते । 'अन्नम्म' इति प्रसिदाभिजनविरुदा सम्वेदिनो द्विजन्मानः कृष्णातीरोपान्तवर्तिनि केशवपुरामिधे ग्रामे सांप्रतमपि सन्तीति शृणुमः । भयं हि पण्डितमणिः श्रीराचवसोमयाजिकुले समुत्पन्नश्रीतिरुमलाचार्यवर्यस्य सूनुरि. त्यवगच्छामः, यतोऽनेनैव महापण्डितेन विरचिते कैयटव्याख्याने इति श्रीमहाम- होपाध्यायाद्वैतविद्याचार्य राघवसोमयाजिकुलावतंसश्रीतिरुमलाचार्यवर्यस्य सूनोर- सम्भहस्य कृतिषु भाष्यप्रदीपोद्योतने' इत्येवं तत्तदाहिकावसाने वर्णावलिरवलो. क्यते । अस्य च अग्रजो महापण्डितो रामकृष्णभट्टः, येन सिद्धान्तकौमुद्याः सिद्धा- न्तरलाकरं नाम व्याख्यानमाविष्कुर्वता नागेशमहादीनामपि मार्गदर्शिना बभूवे इति कतिचन कथयन्ति । मल्लिनाथात्परस्तात् पुरस्ताच्च भट्ठोजिदीक्षितादयं महा- शय आसीदिति तु विश्वसन्ति बहवः । -इति ब्याहरन्ति (८)। तञ्चिन्त्यम् । अनेन च पण्डितप्रकाण्डेनाऽन्नम्भटेन 'मिताक्षरा', 'भाष्यप्रदीपोद्योतनम्', इत्यभिधेयं व्याख्यानद्वयमपि प्राणीयत । तत्र 'मिताक्षरा' नाम कतमस्य ग्रन्थस्य व्याख्यानरूपत्यत्रास्ति विप्रतिपत्तिः । सा च बादरायणकृतवासूत्रटीकेति केचित् । भन्ये तु सा पाणिनीयसूत्रवृत्तिरिति मन्यन्ते । (८) बालमनोरमायन्त्रप्रकाशित-तर्कसंग्रह-भूमिकाकारा. । -- 1 " -( १३ ) गोवर्द्धन मिश्रपरिचयः 'न्यायबोधिनी'प्रणेता गोवर्द्धनमिश्रस्तु मिथिलादेशीयो विद्वत्प्रवर इति निमितप्रायम् । भस्य बलु बलभद्रः पिता, विजय श्रीर्माता, विश्वनाथः पनना- भश्वा प्राविति प्रतीयते । तथा च तस्कृताया 'तर्कभाषाप्रकाशा'भिधेयायां 'सर्कभाषा'टीकायाम्- "विजयश्रीतनूजन्मा गोवर्द्धन इति श्रुतः । तर्कानुभाषी तनुते विविख्य गुरुनिर्मितिम् ॥ श्रीविश्वनाथानुजपद्मनाभा- नुजो गरीयान् बलभद्रजन्मा । सनोति तनिधिगम्य सर्वान् श्रीपमनामाद्विदुषो विनोदम् । ज्यापस एव पद्मनाभादसौ तर्कशास्त्रमधिगतवानिति 'तर्कानधिगम्य सर्वान् श्रीपद्मनाभा'दित्यंशेनाऽवगम्यते । केचिस्तु 'गुरुनिर्मिति तर्कानुभाषां विविच्य तनुत' इति लेखदर्शनेन गोव. नमिस्तकंभापाकृतः केशवमिश्रस्य शिष्य इति वदन्ति (९)। तश्चिन्त्यम्, 'गुरुनिर्मिति' मित्यत्र 'गुरु' शब्दस्य वैशिष्टयार्थकत्वेऽपि समतत्वात् , 'तर्कानधिगम्य सर्वान् श्रीपन नामादिति समस्ततकशास्त्रस्य स्वाऽग्रजात् पानाममिश्रादध्यय. नोक्तर्विरबुवाच। गोवर्धनजनको बलभद्र मिश्रस्तु न्यायवेदान्तादिनानाशास्त्रनिष्णातः परम- पण्डित भासीत् । तेन च युक्तिकल्पद्रमादयो दार्शनिकसन्दर्मा विर. चिताः (10)। गोवईनगुरुः पद्मनाभः पितृदेवतो बलभद्रमिश्रादेव शास्त्राण्यधीतवानिति स्वप्रणीते प्रशस्तपावभाज्यसेतो किरणावलीभास्करे च स्वयमेव तेन प्रकटीकृतम् (11)। पद्मनाभमिश्रेण कारिकामयो राद्धान्तमुक्ताहारस्तस्य (६) तर्कतीर्थश्रीसुरेन्द्रलालगोस्वामिन स्वसंस्कृताया. सटीकतकमाषाया विज्ञापने । (१०) किरणावलीभास्करभूमिका द्रष्टव्या । (११) स्मृतिपयमुपनीय श्रीमतस्तातवक्त्रा- दुचितमुपचितार्थं वाक्यमत्यादरेण । मयति विरचितोऽसो पमनामेन यत्ना- दुदयनकृतिपारप्राप्तये सेतुरुच्चै ॥-सेतुः, २ पृ. अलभद्रमुखाम्भोजवचनादुदयाचलात् । उदितो मास्करस्तस्मादादरेण निपेष्यताम् ॥ -भास्करः, १ पृ० - - ( १४ ) कणादरहस्यनामकं व्याख्यानञ्च प्रणीतम् (१२)। घलभद्रमिश्रो नाम प्रगल्भभट्टाचार्यस्य शिष्य इति 'भस्मपितृचरणाराध्याः श्रीप्रगल्भभट्टाचार्य्यास्त्वि' ति सेतुग्रन्यसन्दर्भण, 'यद् यदन्न विनिक्षिप्तं नव्यं सिद्धान्तवर्तिना । पद्मनाभेन तैः प्रीतः प्रगल्भोऽस्तु गुरोर्गुरुः ॥' इतिकणा- दरहस्याऽन्तिमश्लोकदर्शनेन चाऽवगम्यते (१३)। गोवद्धनमिश्रस्य गुरुज्येष्ठभ्राता च पद्मनाममिओ बुन्देलखण्डघटकचवेलाधि. पस्य महाराजाधिराजस्य रामचन्द्रदेवस्य सूनोवीरभद्रस्य समाश्रित आसीदिति- "बलवीकृतदुर्दमभूपतिर्निजभुजार्जिलोकसमुन्नतिः । भगतिकार्थिजनस्य परा गर्जियति वीरवरः पृथिवीपतिः । तदीयसेतुरलोकात्, वीरभद्रदेवचम्पूप्रणयनाचाऽनुमीयते। युवराजवीरभद्रस्तु वात्स्यायनकृतकामसूत्रस्य कामपि टीका कन्दर्पचूडामणिनामिकां प्रणिनाय । भयञ्च टीकाप्रन्थः १६३३ वैक्रमाव्दे (१५७६ खुष्टव) निर्मित इति- "हरलोचनहरलोचमरसशशिमिर्विश्रुते समये । फाल्गुन शुक्लप्रतिपदि पूर्णों अन्यः स्मरस्मेरः ॥" इत्येवं तनत्यश्लोकात् प्रतीयते । एचन्द्र वीरभद्रसमकालिकपद्मनाभमिश्रानुजत्वात् खुष्टीयसप्तदशशतकप्राथमिकपादे गोवर्धनमिश्रः प्रणिनाय न्यायबोधिनीमिति सम्मान्यते । युवराजवीरभद्रपद्मनाभमिश्रयोः समयनिरूपणपरिपाटी तु काशिक- (१२) आरचच्य प्रयत्नाद्यौरिहेकाशीतिकारिका । आचार्यपतनामेन व्याख्या सम्प्रति तन्यते ॥ ......... इति श्रीसन्मिघश्रीजगद्गुरुबलभद्रात्मजविश्वनाथानुजविजयश्रीगर्भसम्मवसकलशास्त्रारवि- न्दप्रद्योतनमदाचार्यमिश्रश्रीमत्पमनाभकृती स्वकृतराद्धान्तमुक्ताहारव्याव्याने कणादरहस्य समाप्तमिति । (१३) प्रगल्मट्टाचार्यस्तु तार्किकशिरोमणेः श्रीमतो रघुनाथस्य पूर्ववर्ती समसमयस्थितिको वा, यतस्तेन व्यधिकरणधर्मावच्छिन्नामावदीधितौ प्रगल्मस्य व्याप्तिलक्षणमुपन्यस्य दूषितमिति दृश्यते । तदुक्तं नगदीशेन दीधितिव्याख्यानावसरे- " प्रगल्मेनोक्त लक्षणं दूषयितुमुपन्यस्यतीति एतेन गोवर्धनपितुर्वलभद्ररय प्रगल्मशिष्यतया गोवर्धनेन च तर्कसंग्रहस्य व्याख्याया न्यायबोधिन्याख्याया रचितत्वेनाऽन्नम्भदृस्थाऽस्मदवधारितकालावस्ययित्वमेवायाति । इति सुधी- मिरेव विवेचनीयम् ।

, ( १५ ) - 4 राजकीयसंस्कृतपाठशामायक्षेण मित्रवरेण श्रीमता गोपीनाथकविराज एम. ए. महोदयेन सम्पादितस्य किरणावलोभास्करस्य भूमिकायां द्रष्टव्या । क्षोदीयसोऽपि 'तर्कसंग्रहस्य' बहुटीकादर्शनादस्य सुदीर्घकालत एव पठन पाठनप्राचुर्यमवधार्यते । तत्र तर्कसंग्रहस्याऽधोलिखिताष्टीकास्तेन तेन विदुष प्रणीताः श्रयन्ते- -न्यायवोधिनी गोवर्धनमिश्रेण २-सिवान्तवन्द्रोदयः श्रीकृष्णधूर्जटिदीक्षितेन ३-पदकृत्यम् चन्द्रजसिंहजेन ४-तर्कसंग्रहतत्त्वप्रकाशः नीलकण्ठेन ५-तर्कसमहटिप्पणी पहाभिरामेण ६-तर्कसंग्रहवाक्यार्थनिरुतिः -तर्कसंग्रहचन्द्रिका मुकुन्दभट्टेन ८-वाक्यवृत्तिः मेरुशास्त्रिणा ९-तर्कसंग्रहटीका अनन्तनारायणेन १०-तर्कफक्किका क्षमाकल्याणेन 11-न्यायार्थलघुबोधिनी गोवर्धनरक्षाचार्येण १२-तर्कसंग्रहटीका गौरीकान्तेन १३-तर्कसंग्रहतरङ्गिणी विन्ध्येश्वरीप्रसादेन १४-सर्कचन्द्रिका वैद्यनाथेन अन्यकृत्प्रणीतायास्तर्कसंग्रहदीपिकायाः सुगृहीतनामधेयेन नीलकण्ठेन राम- रुद्रेण च पण्डितेन व्याख्यानं व्यरचीति शास्त्राधीतीनां विदितचरमेव । अपि च श्री- रायनरसिंहेन पट्टाभिरामेण च 'दीपिकायाः' प्रकाशिकाल्या व्याख्या निरमीयत । इन संस्करणं तर्कसंग्रहस्य भूयसा परिश्रमेण सम्पाद्य प्राकाश्यमुपनीयते । यदि चाऽनेन - कस्यचिदपि स्थादुपकारो लेशतोऽपि, क्लेशसाफल्यं मन्यमानो धन्यो भवेयम् । भत्रस्यो हिन्दीभाषानुवादश्चास्मत्परममित्रेण हिन्दूविश्वविद्यालयीयेन संस्कृताध्यापकेन श्रीमता वटुकनाथशर्मसाहित्याचार्य एम. ए. महोदयेन तथा हिन्दीभाषाध्यापकेन श्रीमता केशवप्रसाद मिश्र काव्यतीर्थेन परिशोधित इति नितरामनुगृहीतोऽस्मि तेन तेन । अन्यथा वङ्गीयस्य मे हिन्दीभाषालेखप्रयास- साहसमुपरहासास्पदमेवाऽभविष्यत् । .

- ( १६ ) एकमात्रगुणवत्पुत्रवियोगकातरतरहृदयेन ग्रन्थमेन सम्पादयता मया बह्वय- स्त्रुटयः संघटिता इति विदितमस्येव चेतसि स्वीये। तथापि- पदे पदे स्खलन्तं मां ग्रन्यस्यास्य प्रकाशने । क्षन्तुमर्हन्तु ते सन्तः 'क्षमासारा हि साधवः ॥ इति । - - हिन्दू विश्वविद्यालये १८५२ तमशकाढ़े कोजागरपूर्णिमायाम् ७-१०-३० सानुनयमावेदयति- विदुषां विधेयः श्रीहरिहरशास्त्री F पृ० ६ १४ ९ शुद्धिपत्रम् (२) पाटीका २ पृष्ठे स्थापनीया । भशुन्दम् २६ जातिनिष्ठत्वमझीकृत्य नातित्वमगीकृस्य न्यायधिनी न्यायबोधिनी १ सवज्ञः सर्वज्ञः २६ एक एव संयोगो संयोगी असाधारणं कारणं असाधारणकारणं असाधारणमिति असाधारणकारणमिति व्यापारवदसाधारण व्यापारवदसाधारण असाधारणत्वञ्च असाधारणकारणस्वन व्यातिरेकमा० व्यतिरेकमा० वदिक वैदिक महाषणा महर्षिणा संगयोगित्वम् संयोगिस्वम् २७ कारणाववि० कारणस्ववि० ४३ १ " ६ ६३ ७८ २७ (२३) . न ~ श्री: तर्कसंग्रहः दीपिकया न्यायवोधिन्या ध्रुवपदाख्यविकृत्या च सहितः है निधाय हृदि विश्वशं विधाय गुरुवन्दनम् । वालानां सुखवोधाय क्रियते तर्कसंग्रहः ।।१।। दीपिका विश्वेश्वरं साम्बमूर्ति प्रणिपत्य गिरां गुरुम् । टीका शिशुहितां कुर्वे तर्कसंग्रहदीपिकाम् ॥१।। चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थ शिष्टाचारानुमितश्रुतिबो- धितकर्तव्यताकमिष्टदेवतानमस्कारलक्षणं मङ्गलं शिष्यशिक्षार्थ निबनश्चि- कीर्षितं ग्रन्थादौ प्रतिजानीते-निधायेति । ननु मङ्गलस्य समाप्तिसाध. नत्वं नास्ति, मङ्गले कृतेऽपि कादम्बर्यादौ निर्विघ्नपरिसमात्यदर्शनात् है, न्यायबोधिनी अखिलागमसञ्चारि श्रीकृष्णाख्यं परं महः । ध्यात्वा गोवर्धनसुधीस्तनुते न्यायबोधिनीम् ॥१॥ चिकीर्षितस्य प्रन्थस्य निर्विघ्नपरिसमात्यर्थमिष्टदेवतानमस्कारा- स्मक मङ्गलं शिष्यशिक्षार्थ ग्रन्थादौ निबध्नाति-निधायेति ॥१॥ ध्रुवपदा तातः श्रीमथुरानाथः प्रीणातु प्रणिपाततः | क्षीरोदार्णवजा साक्षान्माता च करुणावता ॥ १ ॥ वागीशानसमानदीधितिकृतो न्यूनत्वमुद्भावयन् न्याये यः प्रणिनाय विस्मयकरं ग्रन्थं स्वतन्त्रं पुनः । मायावादनिरासमारचयता येनेह लब्धं यश- स्तं भक्त्येकर्वशः स्मरामि शतशो राखालदासं गुरुम् ॥ २ ॥ * समाप्स्यदर्शनादिति पाठान्तरम् ।

२ तर्कसंग्रहः मङ्गलाभावेऽपि किरणावल्यादौ समाप्तिदर्शनात् (१) अन्वयव्यतिरेकव्य- भिचारादिति चेत्, न, कादम्प्रर्यादौ विन्नबाहुल्यान्ममाप्यभावः । किर- णावल्यादौ तु ग्रन्थावहिरेव मङ्गलं कृतमतो न व्यभिचारः । ननु मङ्गलस्य कर्तव्यत्वे किं प्रमाणमिति चेत्, न, शिष्टाचारानु- मितश्रुतेरेव प्रमाणत्वात् । 'समाप्तिकामो मङ्गलमाचेरत्' इति श्रुतेः । तथा हिमङ्गलं वेदघोधितकर्तव्यताकमलौकिकाविगीतशिष्टाचारविषय- त्वात् , दर्शादिवत् । भोजनादौ व्यभिचारवारणायालौकिकेति । रात्रि. श्राद्धादौ व्यभिचारवारणायाविगीतेति । शिष्टपदं स्पष्टार्थम् । 'न कुर्यान्नि- फलं कर्म ['न कुर्वीत वृथा चेष्टाम्' इति मनुः] इति जलताडनादेरपि निषि- द्धत्वादिति । 'तय॑न्ते' प्रतिपाद्यन्त इति तर्का द्रव्यादिसप्तपदार्थास्तेपां संग्रहः संक्षेपेण स्वरूपकथनं क्रियत इत्यर्थ. । कस्मै प्रयोजनायेत्यत आह-सुख- बोधायेति । सुखेन अनायासेन बोध. पदार्थनानं तस्मा इत्यर्थः । ननु बहुपु तर्कग्रन्थेषु सत्सु किमर्थमपूर्वप्रन्थः क्रियत इत्यत आह-बालानामिति तेपामतिविस्तृतत्वाद्वालानां ततः सुखेन वोधो न भवतीत्यर्थमित्यर्थः । ग्रहणधारणपटुर्वालः । न तु स्तनन्धयः । किं कृत्वा क्रियत इत्यत आह- निधायेति । 'विश्वेश जगन्नियन्तारं शिवं हृदि 'निधाय' नितरां स्थापयित्वा । सर्वदा तद्ध्यानपरो भूत्वेत्यर्थः । 'गुरूणां' विद्यागुरूणां 'वन्दनं' नमस्कार विधाय कृत्वेत्यर्थः। द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः ॥१॥ पदार्थान्विभजते-द्रव्येति (२)। पदस्यार्थः पदार्थ इति व्युत्पत्त्याऽ- भिधेयत्वं पदार्थसामान्यलक्षणमिति लभ्यते । नन्वत्र विभागादेव सप्तले पूर्वेपां मतमाकलय्य बहुपु ग्रन्थेषु चिन्ताशते. साक्षादक्षपदावतारविदुपां ध्यात्वा गुरूणां गिरः । अन्नम्मनिवन्धने हरिहरेणेयं बुधानां मुदे व्याख्या कापि विधीयते ध्रुवपदेत्याख्या मया सादरम् ॥३॥ (1) अथ किरणावल्यां "विद्यासन्ध्योदयोटेका" दित्यादिरूपस्य मङ्गल-- द्वयस्य जागरूकत्वेऽपि तदसमाप्तिदर्शनात् अन्योऽयं कथं सङ्गच्छत इति चेत्, अस्य तु रहस्यं नानाति दीपिकाकार एव । अत्र 'किरणावली'नामकः कश्चन नास्तिकग्रन्यो दीपिकाकृभिप्रेत इति कश्चित् । तन्न सम्यक् , “किरणावल्यादौ तु प्रन्याहिरेत्र मङ्गलं कृत"मित्यग्रिमग्रन्यविरोधात् ।

दीपिकान्यायबोधिनीध्रुवपदासहितः लब्धे सप्ताहणं किमर्थमिति चेत् , न, अधिकसंख्याव्यवच्छेदार्थत्वात् ।। नन्वतिरिक्तः पदार्थः प्रमितो नवा । नाद्यः, प्रमितस्य निषेधायोगात् । नान्त्यः, प्रतियोगिप्रमिति विना निषेधानुपपत्तेरिति चेत्, न, पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदार्थत्वात् । ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वम् , एवं च सप्तभिन्नस्याप्रसिद्धत्वात्सप्लान्यतमत्वं कथमिति चेत्, न, द्रव्यादिसप्तान्यतमत्वं द्रव्यादिभेदसप्तकाभाववत्त्वमिति तदर्थ- स्वात् । एवमप्रेऽपि द्रष्टव्यम् । न्यायबोधिनी अथ पदार्थान्विभजते-द्रव्येति । तत्र सप्तग्रहणं पदार्थत्वं द्रव्यादिसप्तायतमत्वव्याप्यमिति व्याप्तिलाभाय । ननु शक्तिपदार्थ- स्याष्टमस्य सत्त्वात्कथं सप्तैवेति। तथा हि-मण्यादिसंयुक्तन्धनादौ सत्यपि वह्निसंयोगे दाहो न जायते, तच्छून्ये तु जायते, अतो मणि- समवधाने शक्तिनश्यति मण्यभावदशायां दाहानुकूला शक्तिरुत्पद्यत 'इति कहल्यते । तस्माच्छक्तिरतिरिक्तः पदार्थ इति चेत् , मणेः 'प्रतिबन्धकत्वेन मण्यभावस्य कारणत्वेनैव निर्वाहे मणिसमवधाना. समवधानाभ्यामनन्तशक्तितद्धंसतत्प्रागभावकल्पनाया अन्याय्यत्वात् । तस्मात्सप्तव पार्था इति सिद्धम् ॥ १ ॥ 'तव्य. (२) ननु सर्वेषां दर्शनानां मोक्षरूपप्रयोजनप्रतिपादकत्वं दृश्यते, अन तु किमर्थ पदार्थनिरूपणमित्याशङ्कायां "तामृते" जगढीशभट्टाचार्यै रुक्तम्- "अथ श्रुतिः श्रूयते-~आरमा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासि- (बृहदारण्यकोपनिषद्, ४।५।९) इति । अस्यार्थः-मुमुक्षुणा भात्मा द्रष्टव्यः, मुमुक्षोः आत्मदर्शनम् इष्टसाधनमिति यावत् । भात्मदर्शनोपायः क इत्यत्राह-श्रोतव्य इत्यादि । तेन आर्थक्रमेण शाव्दक्रमस्त्यक्तो भवति । "अग्नि. होत्रं जुहोति यवागू पचती"त्यादिवत् । तथा च श्रवणमनननिदिध्यासनानि तत्त्व. ज्ञानजनकानि इत्युक्तं भवति । अत्र श्रुतितः कृतात्मश्रवणस्य मननेऽधिकारः। मननं चात्मन इतरभिन्नत्वेनानुमानम् । तच्च भेदप्रतियोगीतरज्ञानसाध्यम् । तथा चेत. रदेव कियदित्येतदर्थ पदार्थनिरूपणम् ।" # न्यूनाधिकस।

४ तर्कसंग्रहः - तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव।।२।। द्रव्यं विभजते-तत्रेति । 'तत्र' द्रव्यादिमध्ये द्रव्याणि नवैवेत्यन्वयः । कानि तानीत्यत आह-पृथिवीत्यादि। ननु तमसो दशमद्रव्यस्य विद्यमान- स्वात्कथं नवैव द्रव्याणि । तथा हि-तमः खलु चल नीलं परापर विमागवत् । प्रसिद्धद्रव्यवैधान्नवभ्यो भेत्तमर्हति ॥' नीलं तमश्चलतीत्यवाधितप्रती- तिवलान्नीलरूपाधारतया क्रियाधारतया च द्रव्यत्वं तावत्सिद्धम् । तत्र तम- सो नाकाशादिपञ्चकेऽन्तर्भावो रूपवत्त्वात् । अत एव न वायो स्पर्शाभा- वात् , सदागतिमत्त्वाभावाच्च । नापि तेजसि भास्वररूपाभावादुष्णस्पर्शा. भावाच्च । नापि जले शीतस्पर्शाभावान्नीलरूपाश्रयत्वाच्च । नापि पृथिव्यां गन्धवत्त्वाभावात्स्पर्शरहितत्वाच्च । तस्मात्तमो दशमद्रव्यमिति चेन्न, तमसस्तेजोऽभावरूपत्वात् (३) । तथा हि तमो हि न रूपिद्रव्यं आलोकाऽसहकृतचक्षुर्ग्राह्यत्वात् , आलोकाभाववत् । रूपिद्रव्यचाक्षुपप्रमा- न्यायवोधिनी द्रव्याणि विभजते-पृथिवीति । नन्वन्धकारस्य दशमद्रव्यस्य सत्त्वात्कथं नवैवेति । तथा हि--नीलं तमश्चलतीति प्रतीते!लरूपा- श्रयत्वेन क्रियाश्रयत्वेन च तमसो द्रव्यत्वं सिद्धम् । न च क्लप्तद्रव्येष्वन्त- र्भावात्कुतो दशमद्रव्यत्वमिति वाच्यम् । तमलो रूपवत्वात् आका- शादिपञ्चकस्य वायोश्च नीरूपत्वान्न तेष्वन्तर्भावः । तमलो निर्गन्ध- (३) ननु तेजःसामान्याभावस्तमःपदार्थ उत तद्विशेषाभावः । नाघः गाढान्धकारेऽपि देशे तैजसपरमाण्वाढिसत्त्वेन तमःप्रतीत्यनुपपत्तेः । न द्वितीयः, रजन्यादौ स्फीतदीपालोकसत्त्वेऽपि सौरालोकाभावात् तमःप्रतीत्यापत्तः। इति चेन्न, 'मुक्तावलीप्रकाश'कारादिभिः प्रकृष्टमहत्वोद्भूतानभिभूतरूपवत्तेजस्वावच्छि- नामावस्यैव तमापदार्थत्वेन निरूपितत्वात् । वस्तुतस्तु महाप्रभावावच्छिन्नाभाव एव तमापदार्थ. । अनुभूतत्वाभावा- धात्मकस्योद्भुतत्वादेरतीन्द्रियतया तदटितधर्मावच्छिन्नाभावस्याऽयोग्यत्वेन प्रत्य- क्षायोगात् । ननु यदि प्रभाभाव एव तमस्तदा प्रतियोगिस्मरणमन्तरेण तत्प्रतीतिर्न स्यात् ? इति चेन्न, प्रतियोगिस्मरणमन्तरेणापि दोषात् तम प्रतीतेः । दोपश्चान , विपय एव ।

दीपिकान्यायबोधिनीध्रुवपदासहितः ५ यामालोकस्य कारणत्वात् । तस्मात्प्रौढप्रकाशकतेजःसामान्याभावस्तमः। तत्र नीलं तमश्चलतीति प्रत्ययो भ्रमः । अतो नव द्रव्याणीति सिद्धम् । द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणम् । लक्ष्यैकदेशा- 'त्तित्वमव्याप्तिः । यथा गोः कपिलत्वम् । अलक्ष्यवृत्तित्वमतिव्याप्तिः । यथा गोः शृङ्गित्वम् । लक्ष्यमात्रावर्तनमसम्भवः । यथा गोरेकशफत्वम् । एत- दूषणत्रयरहितो धर्मो लक्षणम्। यथा गोः सास्नादिमत्त्वम् । स एवासाधा- रणधर्म इत्युच्यते । लक्ष्यतावच्छेदकसमनियतत्वमसाधारणत्वम् । व्याव- तकस्यैव लक्षणत्वे व्यावृत्तावभिधेयवादी चातिव्याप्तिवारणाय तद्भिन्नत्वं धर्मविशेषणं देयम् । व्यवहारस्यापि लक्षणप्रयोजनत्वे तु न देयम् । व्या. वृत्तेरपि व्यवहारसाधनत्वात् । ननु गुणवत्त्वं न द्रव्यसामान्यलक्षणम् । आद्यक्षणे उत्पन्नविनष्टद्रव्ये चाव्याप्तेरिति चेन्न, गुणसमानाधिकरण- सत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात् । नन्वेवमप्येकं रूपं रसात्पृथगिति व्यवहाराद्रुपादावतिव्याप्तिरिति चेन्न, एकार्थसमवायादेव तादृशव्यव- हारोपपत्ती गुणे गुणानगीकारात् (४)। न्यायबोधिनी त्वात् पृथिव्या गन्धवत्त्वान्न पृथिव्यामन्तर्भावः । तमसो निस्पर्श स्वात् जलतेजसोः शीतोष्णस्पर्शवत्त्वान्न तयोरन्तर्भावः । तस्मात्तमसो दशमद्रव्यत्वं सिद्धमिति चेत्, न, तमसस्तेजोऽभावरूपत्वेनैवोपप- तावतिरिक्ततत्कल्पनायां मानाभावात् । न च विनिगमनाविरहातेज एव तमोऽभावस्वरूपमस्त्विति वाच्यम्, तेजसोऽभावस्वरूपत्वे सर्वानुभूतोष्णस्पर्शाश्रयद्रव्यान्तरकल्पने गौरवात् । तस्मादुष्णस्पर्श- गुणाश्रयतया तेजसो द्रव्यत्वं सिद्धम् । तमसि नीलत्वादिप्रतीतिस्तु भ्रान्तिरेव । एवं कर्मवत्ताप्रतीतिरपि दीपापसरणक्रियाया एव तत्र भानात् ॥ २॥ (४) न्यायमसरोकारैस्तु गुणत्वसाधनावसरे-"कथं तमुस्य महत्त्वादियोगो निर्गुणा गुणा इति काणादाः । भस्ति हि प्रतीतिर्महान् शब्द इति । समानजातीयगुणाभिप्रायं तत् कणादवचनमिति न दोप. । तस्मा- दाकाशगुणः शब्दः ।" इति ग्रन्थेन गुणेषु समानजातीयगुणसवमेव प्रतिषिद्धम् । "समानजातीयगुणासद्भावस्तावदनवस्थाप्रसङ्गा" दित्यादिसन्दर्भेण तन्मतमपाकृत्य . शब्दस्य ६ तर्कसंग्रहः , रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपर- वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वपप्रयत्नधर्माधर्मसं- स्काराश्चतुर्विंशतिगुणाः ॥३॥ गुणं विभजते-रूपेति । द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः । गुणत्वजातिमान्वा । लघुत्वमृदुत्वकठिनत्वादीनां विद्यमानत्वान् कथं चतुर्विंशतिगुणा इति चेत् , न, लघुत्वस्य गुरुत्वाभावरूपत्वात् मृदुत्व- कठिनत्वयोरवयवसंयोगविशेषरूपत्वात् (५) । उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥४॥ कर्म विभजते-उत्तेपणेति । संयोगभिन्नत्वे सति संयोगासमवायि- कारणं कर्म कर्मवजातिमद् वा । ननु भ्रमणादेरप्यतिरिक्तस्य कर्मण: सत्त्वात् पञ्चेत्यनुपपन्नमिति चेत् , न, भ्रमणादीनामपि गमनेऽन्तर्भावात् न पञ्चत्वविरोध.। परमपरं चेति द्विविधं सामान्यम् ॥५॥ सामान्य विभजते-परमिति | परमधिकदेशवृत्ति । अपरं न्यून- देशवृत्ति । सामान्यादिचतुष्टये जातिर्नास्ति । "चतुर्विशतिर्गुणा महाश्छब्द इत्यादयो व्यवहारास्तदेकार्थसमवायादिना साधयेण गौणाः समर्थनीयाः ।" इति किरणावलीकारैरुक्तम् । गुरुचरणास्तु “एक व्यमितिवदेको गुण एका क्रिया एका जातिरभावोऽ यमेक इत्यादिप्रतीतेरपि स्वारसिकत्तया गुणादिवपि संख्यावत्त्वं निराबाधमेव । न च गुणमात्रस्यैव द्रव्यमात्रावस्थायित्वनियमात् गुणात्मिकाया: संख्यायाः सम्भवो न हि गुणादौ, तत्र तत्र एकत्वद्वित्वादिकन्तु तत्तद्व्यक्तित्व- धीविशेपविषयत्वरूपमेवाऽत्याऽङ्गीकार्यमिति वाच्यम् , तथा सत्येकोऽयं गुण एकमिदं व्यमित्यादिप्रतीत्योरेकत्वाद्यशे कियतोऽपि वैपन्यस्याऽननुभवेन संख्याया गुणात्मकत्वे प्रमाणस्यैव दुर्लभत्वापत्तेः ।" इति प्राहुः । विचारविस्तरस्तु तेषां तत्त्वसारे द्रष्टव्यः। (५) मुक्तावलीकृतस्तु मृदुत्वस्य कठिनत्वस्य च स्पर्शगतजातिनिष्टत्व- मगीकृत्य 'कठिनत्वादिकन्तु न संयोगनिष्ठो जातिविशेषः, चक्षुह्यतापत्ते'रिस्याहुः।- कठिनत्वादेः संयोगनिष्टत्वे चक्षुपा तत्प्रत्यक्ष दुर्वारं स्यादिति भावः । कठिनः सयोग इनि प्रतीतिस्तु कठिनस्पर्शववव्यप्रतियोगित्वावगाहनेनैवोपपद्यते । .

दीपिकान्यायबोधिनीध्रुवपदासहितः ७ नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥६॥ विशेष विभजते-नित्येति । पृथिव्यादिचतुष्टयस्य परमाणवः आका- शादिपञ्चकं च नित्यद्रव्याणि । समवायस्त्वेक एव ॥७॥ समवायस्य भेदो नास्तीत्याह-समवायस्त्विति । अभावश्चतुर्विधः । पागभावः मध्वंसाभावोऽत्यन्ताभावोऽन्यो- न्याभावश्चेति ॥८॥ अभावं विभजते-अभाव इति । तत्र गन्धवती पृथिवी । सा द्विविधा नित्यानित्या च । नित्या परमाणुरूपा अनित्या कार्यरूपा । तत्रोद्देशक्रमानुसारेण प्रथमं पृथिव्याः लक्षणमाह-गन्धवतीति । नाम्ना पदार्थसङ्कीर्तनमुद्देशः । उद्देशकमे च सर्वत्रेच्छैव नियामिका । ननु सुरभ्यसुरभ्यवयवारब्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादादव्याप्तिः । न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम् , अवयवगन्धस्यैव तत्र भान- सम्भवेन चित्रगन्धानङ्गीकारात् (६)। किञ्चोत्पन्नविनष्टघटादावव्याप्तिरिति चेन्न , गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात् । ननु जलादावपि गन्धप्रतीतेरतिव्याप्तिरिति चेन्न, अन्वयव्यतिरेकाभ्यां पृथि- वीगन्धस्यैव तत्र भानाङ्गीकारात् । ननु तथापि कालस्य सर्वाधारतया सर्वेषां लक्षणानां तत्रातिव्याप्तिरिति चेन्न , सर्वाधारताप्रयोजकसम्बन्ध- भिन्नसम्बन्धेन लक्षणस्याभिमतत्वात् । पृथिवीं विभजते-सा द्विविधेति । नित्यत्वं ध्वंसाप्रतियोगित्वं । ध्वंसप्रतियोगित्वमनित्यत्वम् । न्यायबोधिनी गन्धवतीति । गन्धवत्वं पृथिव्या लक्षणम् । लक्ष्या पृथिवी । पृथिवीत्वं लक्ष्यतावच्छेदकम् । पृथिवीत्वावच्छिन्ना लक्ष्यता । यद्धर्मावच्छिन्नं लक्ष्यं स धर्मो लक्ष्यतावच्छेदकः। यो धर्मो यस्या. (६) "गन्धो द्विविध सुरभिरसुरभिश्चेति भाष्यम्याख्यानावसरे 'असुरभिः सुरभ्यन्यगन्धः । तेन दुर्गन्धभिन्नस्य चित्रस्य सत्वेऽपि न द्वैविध्यव्याघातः।' इति सूक्तौ जगदीशः । अत एव दोपान्तरमाह-किञ्चेति । .

तर्कसंग्रहः पुनस्त्रिविधा-शरीरेन्द्रियविपयभेदात् । शरीरमस्मदादी- नाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विपयो मृत्पाषाणादिः ॥९॥ प्रकारान्तरेण विभजते-पुनरिति । आत्मनो भोगायतनं शरीरम् (७)। यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् । सुखदुःखा- न्यायवोधिनी मवच्छेदकः ला तद्धर्मावच्छिन्ना । तथा च लक्ष्यतावच्छेदकं पृथिवीत्वं चेल्लक्ष्यता पृथिवीत्वावच्छिन्ना । गन्धसमानाधिकरणद्रव्यत्वव्याप्य- जातिमत्त्वं पृथिव्या लक्षणम् । एवं शीतस्पर्शवत्वादिलक्षणेषु जला- दोनो लक्ष्यता जलस्वादीनां लक्ष्यतावच्छेदकत्वं च बोध्यम् ॥ ६॥ (७) "तत्र शरीरं द्विविध योनिजमयोनिजं च-"(वैशेषिकं सूत्रम् , ४।२।५) योनिजं च शुक्रशोणितयोः परस्परसम्बन्धजन्यं, न तु योनिद्वारा निर्गतम् , तेन कदाचित् स्वेदजशरीरस्यापि योनिद्वारा निर्गमसम्भवात् न तत्रातिव्याप्तिः । योनिजं जरायुजमण्डजं चेति द्विविधम् । जरायुजमस्मदादीनामण्डजं सर्पादी. नाम् । अयोनिज त्रिविधम्-शुक्रशोणितसन्निपातानपेक्षादृष्टविशेपोपगृहीतपृथ्वी- 'जन्यम् , स्वेदजमुनिजं च । भायं नारदादीनाम् , द्वितीयं कृयादीनाम् , तृतीयं च पृथिवीं भित्वा जायमानानां वृक्षादीनाम् । इदमत्रावधेयम्-वृक्षादीनां सजीवत्वेन प्रतिपादनं न तावदाधुनिकपाश्चात्य- विज्ञानविदा नवाविष्कारः। सहस्रवर्ष पूर्वमपि न्यायाचार्यरुदयनैस्तेपां शरीरभे- दतया युक्त्या प्रतिपादितत्वात् । उक्तं च तैः प्रशस्तपादभाष्यव्याख्यानावसरे- "यद्यपि चोद्धिदोऽपि वृक्षादयः शरीरभेदवया अत्रैव व्याख्यातुमुचिताः, तथाप्यति- मन्दान्तःसंज्ञतया ..विषयतां विवक्षन् तेष्वेवान्तर्भाव्य व्याख्यास्यन्ते ।" "वृक्षादयः प्रतिनियतभोक्रधिष्टिताः, जीवनमरणस्वप्नजागरणरोगभेपजप्रयोग- सजातीयानुबन्धानुकूलोपगमप्रतिकूलापगमादिभ्यः, प्रसिद्धशरीरवत् । न चैते सन्दिग्धासिद्धाः, आध्यात्मिकवायुसम्बन्धात् । सोऽपि मूले निपिकानासपा दोहदस्य च पार्थिवस्य धातोरभ्यादानात् । तदपि वृद्धिभग्नक्षतसंरोहणाभ्या- मिति ।"-(किरणावली, ५७-५८ पृ.) एतन्मतमनुसृत्यैव मुक्तावलीकारैरभिहितम्-"न च वृक्षादेः शरीरत्वे किं मानम् ? इति वाच्यम्, आध्यात्मिकवायुसम्बन्धस्य प्रमाणत्वात् । तत्रैव कि मानमिति चेत् , भग्नक्षतसरोहणादिना तदुन्नयनात् ।” इति । - दीपिकान्यायबोधिनीध्रुवपदासहितः ९ न्यतरसाक्षात्कारो भोगः । शब्देतरोद्भुतविशेषगुणानाश्रयत्वे सति ज्ञान- कारणमनःसंयोगाश्रयत्वम् इन्द्रियत्वम् । शरीरेन्द्रियभिन्नो विषयः । एवं च गन्धवच्छरीरं पार्थिवशरीरम् , गन्धवदिन्द्रियं पार्थिवेन्द्रियम् , वृक्षादीनां जीवाधिष्ठितत्वे न केवलं युक्तिरेव, परन्त्वागमसाम्राज्यस्यापि तत्र प्रमाणत्वमिति "आगमश्चात्रार्थे बहुतरोऽनुसन्धेय"इति किरणावलीसन्दर्भ- व्याख्यानावसरे वर्द्धमानोपाध्यायैः- "नर्मदातीरसजाताः सरलार्जुनपादपाः । नर्मदातोयसंस्पर्शात् तेऽपि यान्ति परां गतिम् ॥" "श्मशाने जायते वृक्षः कवगृध्रोपसेवितः।" इति वचनद्वयं प्रमाणत्वेनोपन्यस्तम् । "मुक्कावलीप्रकाशे" द्वितीयवचनस्य प्रथमाईमप्येवं दृश्यते- "गुरुं त्वंकृत्य हुंकृत्य विप्रं निर्जित्य वादतः।" सन्ति च छान्दोग्योपनिषदि मनुस्मृतौ च वृक्षाणां सजीवत्वप्रतिपाद- कानि परमवाक्यानि । तथा च- "भस्य सोग्य महतो वृक्षस्य यो मूलेऽभ्याहन्याजीवन् स्रवेद् यो मध्येs- भ्याहन्याज्जीवन् स्रवेद् योऽप्रेऽभ्याहन्याजीवन् स्रवेत् स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ।" इति ।-(६१) "कीटाश्याहिपतगाश्च पशवश्च वयांसि च । स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥" (मनुः, ११२४.) "शरीरजैः कर्मदोपैयति स्थावरतां नरः ॥” इति च । (मनुः, १२१९) 'श्रीदुर्गोत्सवपद्धति' इतं कालिकापुराणीयं "शाखाच्छेदोद्भवं दुःखं न च कार्य त्वया प्रभो ।” इति बिल्ववृक्षं प्रति वचनं च वृक्षस्य दुःखादिमत्त्वे प्रमाणम् । सत्स्वपि बहुपु शास्त्रवाक्येषु वृक्षाणां सात्मकत्वस्य प्रतिपादकेषु न्याय- वैशेषिकदर्शनयोरुदयनाचार्यात् प्राक तेषां सजीवत्वष्यवस्थापनं नासीत् , प्रत्युत तद्विपरीतलेखनमेव सर्वत्र । तथा च प्रशस्तपादमाप्ये योनिजायोनिजशरीर- निरूपणावसरे वृक्षादयो न व्याख्याता अपि तु प्रतिपादितास्ते विषयान्तर्भावेणैव । [विषयस्तु ब्यणुकादिक्रमेणारब्धस्त्रिविधो मृत्पापाणस्थावरलक्षणः । स्थावरास्तृणी- षधिवृक्षलतावतानवनस्पतयः । [२८ पृ०1] तर्कसंग्रहः गन्धवान् विषयः पार्थिवविपयः इति तचल्लक्षणं बोध्यम् । पार्थिव शरीरं दर्शयति-शरीरमिति । इन्द्रियं दर्शयति-इन्द्रियमिति । गन्धग्राहक- मिति प्रयोजनकथनम् । ब्राणमिति संज्ञा । नासाग्रेत्यायोक्तिः। एवमुच- रत्र जेयम् । पार्थिव विषय दर्शयति-मृत्पापाणेति । वाचस्पत्तिमिश्र-जयन्त भट्ट-श्रीधराचारयैरपि तत्तद्ग्रन्थसन्दर्भपु वृक्षादीनां शरीरत्वं नागीकृतम् । तथा च तेषां ग्रन्थाः- "चेष्टा व्यापारः । स चातिव्यापकतयाऽध्यापकतया च न लक्षणम्, वृक्षा- दिपु मावादमावाच्च पापागमध्यवर्तिमण्डकादिशरीर इति भावः ।...प्रयुक्तस्योत्पा. दितस्य न व्यापारमात्रं चेष्टाऽभिमता, भपि तु विशिष्टो व्यापारः । स च न वृक्षादिष्वस्तीति नातिव्यापक्ता । "-(तात्पर्यटीका, १४२ पृ०) "ननु चेष्टा क्रिया, क्रियावत्वे च सत्यपि न वृक्षादीनां शरीरत्वमित्यतिव्यापक लक्षणम् , विशिष्टचेष्टाश्रयत्वस्य विशिष्टप्रमेयलक्षणप्रक्रमतोऽवसीयमानत्वात् ।" (न्यायमसरी, ४७४ पृ०) "वृक्षादिगतेन वृद्ध्यादिना व्यभिचार इति चेन्न तस्यापीश्वरकृतत्वात् । न तु वृक्षादयाः सात्मकाः वृद्धाधुत्पादनसमर्थस्य विशिष्टात्मसम्बन्धस्याभावात् ।" (न्यायकन्दली-३ पृ०) आर्हतास्तु वृक्षाणां सात्मकत्वं न खलु नागीचक्रुः । अतएव सूत्रितमुमास्वामिना- "पृथिव्यप्तेजोवायुवनस्पतयः । -"(तत्त्वार्थसूत्रम्, २२१३) तेपामयमामायः- जीवो द्विविधः, बसस्थावरभेदात् । “द्वीन्द्रियादयस्त्रसाः" स्थावरास्तावदेकेन्द्रियाः । वृक्षस्तु स्थावरान्तर्भूतः, अत एव तस्य स्पर्शग्राहकमेकमेवेन्द्रियमिति । परन्त्वसौ सिद्धान्तो न सौगतमतसिद्धः । यतः सर्वासां स्वचामपहरणे वृक्षाणां सम्पद्यते मरणमितिजैननयमनादृत्य न्यायविन्दु कारैर्धर्मकीर्तिभिरुद्घोपितम् - "चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्ध विज्ञानेन्द्रिया- युनिरोधलक्षणस्य मरणस्यानेनाभ्युपगमात् तस्य च तरुष्वसम्भवादिति ।" सुश्रुतमते च वृक्षादयः स्यावरान्तर्भूनाः, उद्भिज्जाश्च इन्द्रगोपमण्डूक- प्रभृतयः। तदुक्तं-"तासां स्थावराश्चतुर्विधाः । वनस्पतयो वृक्षा वीरुध भोपधय इति । ....."जङ्गमास्त्वपि चतुर्विधा जरायुजाण्डजस्वेदजोद्भिजाः ।... - इन्द्रगोप. मण्डूकप्रभृतय उद्भिजाः ।"-(सूत्रस्थानम् , १ अः, २२-२३ ।) चरकास्तु औद्भिदं तु चतुर्विधम् । वनस्पतिस्तथा वीरुद् वानस्पत्यलयौपधिः ॥ -(सूत्रस्थानम् , १७०) इति प्राहुः। + d दीपिकान्यायबोधिनीध्रुवपदासहितः ११ / शीतस्पर्शवत्य आपः । ता द्विविधाः, नित्या अनित्याश्च । नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः । पुनस्विविधाः- शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहक रसनं जिहाग्रवर्ति । विपया सरित्समद्रादिः ॥१०॥ अपां लक्षणमाह-शीतेति (८)। उत्पन्नविनष्टे जलेऽव्याप्तिवार- णाय शीतस्पर्शसमानाधिकरणद्रव्यवापरजातिमत्वे तात्पर्यम् । 'शीतं शिलातलम्' इत्यादी जलसम्बन्धादेव शीतस्पर्शभानमिति नातिव्याप्तिः । भन्यत्सर्व पूर्वरीत्या व्याख्येयम् । (८) पाचात्यवैज्ञानिकास्तु-जलं न पदार्थान्तरम् ,वैद्युतप्रवाहविश्लिष्टेष्वप्सु परस्परविलक्षणगुणविशिष्टयोरक्सिजनहाईड्रोजननामकयो पवनयोरेव द्वयोरुपल- म्भात् । सर्वेष्वेव सलिलंपु भागद्वयं हाईड्रोजनस्यैकश्च भागः समस्त्यसिजन- स्येति । रिक्तौ द्वावप्येतो पदार्थों धर्णतो रसतश्च । विद्यते खलु दहनप्रातिकूल्यं हाई- ड्रोजननामके वायुविशेपे तदानुकूल्यं चाकसिजनाभिधाने तत्रैव । अनयोर्यथा नि- देशं सम्मेलनमेव जलमित्याकारकप्रतीतिविषयपदार्थोत्पादननिदानमिति वदन्ति । तन्नास्माकं मनोरमम् , यतस्तदगीकृतमक्सिजनहाईड्रोजनाभिधानवस्तुद्वयं न खलु जलावयवाद भिद्यते प्रमाणापरिचितत्वात् । एवञ्च प्रकृष्टस्नेहविशिष्टैरतीन्द्रिय- जलावयवैरपकृष्टस्नेहविशिष्टैश्च तैः सम्भूय स्थूलजलमुत्पाद्यते, ध्यणुकादिक्रमण परमाणूनां नियमतः संयोगेनैवावयविनां जायमानत्वात् । अत एव शतशो यतमान- रपि कैश्विन शक्यते जलमुत्पादयितुं समानभागैरक्सिजन-हाईड्रोजनपदप्रतिपाद्यैः। यश्च परैरसिजने दहनानुकूलो हाईड्रोजने च दहनप्रतिकूलो गुणः स्वीक्रियते, स एवास्माकं स्नेहाभिधेयः । प्रकृष्टस्नेहे दहनानुकूलत्वमपकृष्टस्नेहे च दहनप्राति- कूष्यं वैशेपिकसिद्धान्तसिद्धम् । तथा च चोक्तं-विश्वनाथैः; "तेलान्तरे तत्प्रकर्षाद् दहनस्यानुकूलता।" ...तैले उपलभ्यमानः स्नेहोऽपि जलीय एव, तस्य प्रकृष्टत्वादनरानुकू- ल्यम् । अपकृष्टस्नेहं हि जलं पति नाशयतीति भावः।" अत एव प्रकृष्टस्नेहशा- लिजलपरमाणुरेव परेषामक्सिजनसंज्ञयाऽभिधीयमान इति न तत्र नवाविष्कार- पाण्डित्यप्रख्यापनं युक्तं पाश्चात्यानाम् । न केवलं पाश्चात्यानामस्मद्देशीयाना- मपि पाञ्चित् तद्भावदीक्षितानां प्राचामाचार्या भ्रमानुसन्धित्सैव प्रतमिवाल- म्बनमहो कालमाहात्म्यम् !!

१२ तर्कसंग्रहः उप्णस्पर्शवत्तेजः । तद्विविधम् नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधम् , शरीरेन्द्रिय- विषयभेदात् । शरीरमादित्यलोके । इन्द्रियं रूपग्राहकं चक्षु:- कृष्णतागग्रवति । विषयश्चतुर्विधः-भौगदिव्योदर्याकरजभेदात् । भौमं वत्यादिकम् । अविन्धनं दिव्यं विद्युदादि । भुक्तस्य परि- णामहेतुरुदर्यम् । आकरज सुवर्णादि ॥११॥ तेजसो लक्षणमाह-उष्णस्पर्शवदिति (९)। 'उष्णं जलम्' इति प्रतीतेस्तेजःसंवन्धानुविधायित्वात् नातिव्याप्तिः । विषयं विभजते- भौमेति । ननु 'सुवर्ण पार्थिवम् पीतत्वाद्गुरुत्वात् हरिद्रावत्' इति चेत् , न, अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन, जलमध्यस्थवृते द्रवत्वनाशादर्शनेन, असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात् । सुवर्णस्य अत्यन्तानलसंयोगे सत्यनुच्छिद्य- मानद्रवत्वाधिकरणत्वेन पार्थिवत्वानुपपत्तेः । तस्मात् पीतद्रव्यद्रवत्वनाश- प्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्राधिकरणतया जल- . A चन्द्रकान्तीयवैशेपिकभाष्य वनस्तु--"तत्रापां पृयगव वनं न कर्त्तव्यम् । कस्मात् ? वायुसन्निपातात् तदुत्पत्तेः । विशिष्टयोास्त्रोः सन्निपातात् खल्वाप उत्पद्यन्ते इति । कृत्रिमोत्पत्तेस्ताविकप्रतिषेधानुपपत्तेरप्रतिषेधः वाय्वोः सन्नि- पातात् खल्वापः कृत्रिमा उत्पधन्ते । ययोर्वाय्वोः सन्निपातादाप उत्पद्यन्ते, तत्रापि वायौ सूक्ष्माणामपां सद्भावोऽस्ति । प्रक्रियाविशेषात्तु तासा- मभिव्यक्तिरिति ।" इत्याहुः । (९) केचित्तु पाश्चात्यास्तेजो न पदार्थान्तरं किन्तु परमाणूनां स्पन्दनमे. चोष्णस्पर्शकारणमिति मन्यन्ते । तन्न समीचीनम् , तेजसो गतिविशेषत्वाभ्युपगमे तत्स्पार्शनप्रत्यक्षानुपपत्तेः । प्रत्यक्ष प्रति महत्वस्य कारणवस्वीकारावश्यकतया परमाणुनिष्ठकम्पनविशेगात्मकतापपदार्थानां कथमपि न सम्भवत्युपलब्धिः । सौरकिरणस्य सूर्यपरमाणुकम्पनात्मकत्वे तस्य त्वगिन्द्रियेण प्रत्यक्षानुपपत्तिश्च स्पन्दनस्य त्याचप्रत्यक्षे तदधिकरणेन्द्रियसंयोगावश्यकत्वात् । अपि च तापस्य ऋम्पनात्मकत्वस्वीकारे निरन्तरवातवृष्टिभीषणायाममातमस्विन्यां धूलीपटलादि- सकलपदार्थस्य दोवूयमानत्वेऽपि आलोकस्योष्णस्पर्शस्य च कथं नोपलब्धिः?

दीपिकान्यायबोधिनीध्रुवपदासहितः -- स्वानुपपत्तेः रूपवत्तया वाय्वादिष्वनन्तर्भावात् तैजसत्वसिद्धिः । तस्यो- हणस्पर्शभास्वररूपयोरुपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुप- लब्धिः । तस्मात् सुवर्ण तैजसमिति सिद्धम् । रूपरहितस्पर्शवान् वायुः । स द्विविधः-नित्योऽनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः- शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहक त्वक् - सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्त:- सञ्चारी वायुः प्राणः । स चैकोऽप्युपाधिभेदात् प्राणापानादि- संज्ञां कभते ॥१२॥ वायुं निरूपयति-रूपरहितेति । आकाशादावतिव्याप्तिवारणाय -स्पर्शवानिति । पृथिव्यादावतिव्याप्तिवारणाय रूपरहितेति । ननु प्राणस्य कुत्रान्तर्भाव इत्यत आह-शरीरेति । स चेति । एक एव प्राणः, स्थान- भेदात् प्राणापानादिशब्दैर्व्यवह्रियत इत्यर्थ. । स्पर्शानुमेयो वायुः (१०)। तथा हि 'योऽयं वायो वाति सति अनुष्णाशीतस्पर्शो भासते, स स्पर्शः न्यायबोधिनी एवं पृथिव्यावित्रिक निरूप्य वायुं निरूपयति-रूपरहितेति । रूपरहितत्वे सति स्पर्शवत्वं पायोर्लक्षणम् । सति सप्तम्या विशिष्टार्थकतया सामानाधिकरण्यसम्बन्धेन रूपत्वावच्छिन्नप्रति- योगिताकामावविशिष्टस्पर्शवत्वं वायोर्लक्षणम् । विशेषणांशानु- पादाने स्पर्शवत्वमात्रस्य लक्षणत्वे पृथिव्यादित्रिकेऽतिव्याप्तिः, तत्रापि (१०) एतच्च वैशेषिकमतम् । न्यायनये तु वायो. प्रत्यक्षवं भवत्येव । अत 'एव न्यायमतानुसारिणि तार्किकरक्षाप्रन्थे 'अप्रत्यक्षस्यापि वायो'रित्यादिप्रती- "कव्याख्यानावसरे सर्वजनप्रसिद्धटीकाकृता मल्लिनाथेनोक्तम्- "स्वमते वायोः पार्शनत्वेऽपि वैशेषिको भूत्वाह । अप्रत्यक्षस्येति ।" भन्न स्वमतं न्यायमतमेव । भपि च न्यायसूत्रव्याख्यात्मके "न्यायमञ्जरी"- “ग्रन्थे जयन्तमन स्वहस्तितम्- "प्रत्यक्षपवनवादिना पक्षे पवनसमयेऽपि वक्तवदननिकटनिहितहस्तस्पर्शेनैव •स उपलभ्यते।" २ ११ तर्कसंग्रहः कचिदाश्रित. गुणत्वात् रूपवत्' । न चास्य पृथिवी आश्रयः, उद्भून- स्पर्शवतः पार्थिवस्योद्धृतरूपवत्त्वनियमात् । न जलतेजसी, अनुष्णाशीत- स्वात् । न विमुचतुष्टयम् , सर्वत्रोपलब्धिप्रसङ्गात् । न मनः, परमाणुस्पर्श. स्वातीन्द्रियत्नान् । तस्माद् यः प्रतीयमानस्पर्शाश्रयः स बायुः । ननु 'यात्रुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् घट्वन्' इति चेत् , न, उद्धनरूप- वत्त्वस्योपाधित्वात् । 'यत्र द्रव्यत्वे सति बहिरिन्द्रियप्रत्यक्षत्वं, तत्र उद्भूत रूपवत्वम्' इति वटादौ साध्यन्यापकत्वम् । पक्षे साधनाव्यापकत्वम् । न चैवं तप्तवारिस्थतेजसोऽप्यप्रत्यक्षत्वापत्तिः । इष्टत्वात् । तस्मात् रूपरहित. न्यायव धिनी स्पर्शवत्व सत्त्वादतस्तद्वारणाय विशेषणोपादानम् । तावन्मात्रोपा. दाने आकाशादावतिव्याप्तिः, तत्रापि रूपरहितत्वसत्त्वादतस्तद्वारणाय विशेष्योपादानम् । अतिव्याप्ति म अलक्ष्ये लक्षणसत्त्वम् । यथा गोःशृद्भित्वं लक्षणं कृतं चेल्लथ्यभूतगोभिन्नमहिप्यादावतिव्याप्तिस्त- प्रापि गित्वस्य विद्यमानत्वात् । अव्यानि म लक्ष्यैकदेशावृत्तित्वम्। लक्ष्यैकदेशे लक्ष्यतावच्छेदकाश्रयीभूते क्वचिल्लक्ष्ये लक्षणासत्त्वमव्याप्ति रित्यर्थः । यथा गोनीलरूपवत्वं लक्षणं कृतं चेल्लश्यतावच्छेदका- श्रयीभूतश्वेतगवि अव्यातिस्तत्र नीलरूपाभावात् । असम्भवो नाम लक्ष्यमाने कुत्रापि लक्षणासस्त्रम् । यथा गोरेकशफवत्त्वं लक्षणं कृतं चेत् गोसामान्यस्य द्विशफवत्त्वेन एकशफवत्वस्य कुत्राप्यसत्त्वात् । अतिव्याप्त्यव्याप्त्यसम्भवानां निष्कृष्टलक्षणानि तु-लक्ष्यतावच्छेदक- समानाधिकरणत्वे सति लक्ष्यतावच्छेदकावच्छिन्न प्रतियोगिताकभेद- सामानाधिकरण्यमतिव्याप्तिः। अध्यातिस्तु लक्ष्यतावच्छेदकसमाना- धिकरणात्यन्ताभावप्रतियोगित्यम् । असम्भवस्तु लक्ष्यतावच्छेदक- ध्यापकीभूताभावप्रतियोगित्वम् ॥ १२ ॥ अयं तु जयन्तभट्टो गङ्गेशोपाध्यायेनोपमानचिन्तामणौ 'जरनैयायिकत्वेन कीर्तितः । इत्थं च सिद्धान्तमुक्तावलीकारप्रदर्शितो वायुप्रत्यक्षतापक्षस्य नवीनमते प्रश्नपश्चिन्त्यः । यतो न्यायभाष्यकृद्भिरपि "उद्भूनरूपमनुद्भूतस्पर्श च प्रत्यक्षं यथा प्रदीपरश्मयः ।"-(वात्स्यायनभाष्यम् , ३।१।३६) इत्यभि हितम् । तथा च तुल्ययुक्या उद्भूतसर्शस्य रूपरहितस्यापि वायोः प्रत्यक्षस्त्र नासम्भवि।

दीपिकान्यायबोधिनीध्रुवपदासहितः १५ त्वात् वायुरप्रत्यक्षः । इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्योत्पत्तिविनाश- क्रमः कथ्यते । ईश्वरस्य चिकीर्षावशात् परमाणुषु क्रिया जायते । ततः परमाणुद्वयसंयोगे सति व्यणुकमुत्पद्यते । त्रिभि_णुकैः त्र्यणुकम् । एवं चतुरणुकादिक्रमेण महापृथिवी, महत्त्य आपः, महत् तेजः, महान्वायुः उत्पद्यते । एवमुत्पन्नस्य कार्यद्रव्यस्य सञ्जिहीर्षावशात् क्रियया परमाणु- द्वयविभागे सति व्यणुकस्य नाशः । ततस्त्र्यणुकस्य, तद्वच्चतुरणुकस्य इत्येवं पृथिव्यादिनाशः । असमवायिकारणनाशाद् व्यणुकनाशः । समवायिकारण- नाशाद् व्यणुकनाश इति सम्प्रदाय. । सर्वत्र असमवायिकारणनाशाद् द्रव्यनाश इति नवीनाः। किं पुन. परमाणुसद्भावे प्रमाणम् । उच्यते । जालसूर्यमरीचिस्थं सूक्ष्मतम यद् रजो दृश्यते तत्सावयवं चाक्षुषद्रव्यत्वात् पटवत् । त्र्यणुकावयवोऽपि सावयव , महदारम्भकत्वात् तन्तुवत् । यो व्यणुकावयव स एव परमाणुः । स च नित्य । कार्यत्वेऽनवस्थाप्रसङ्गात् । तथा च मेरुसर्षपयोरपि तुल्यपरिमाणापत्तेः । सृष्टिप्रलयसद्भावे 'धाता यथा पूर्वमकल्पयत्' इति श्रुतिः प्रमाणम् । सर्वकार्यद्रव्यध्वंसोऽवान्तर- प्रलयः । सर्वभावकार्यध्वंसो महाप्रलयः । इति विवेकः । शब्दगुणकमाकाशम् । तच्चकं विभु नित्यं च ॥१३॥ आकाशं लक्षयति-शब्दगुणकमिति । ननु किं आकाश पृथिव्या- न्यायबोधिनी आकाशं लक्षयति-शब्दगुणकमिति । अत्र गुणपदमाकाशे शब्द एव विशेषगुण इति द्योतनाय न त्वतिव्याप्तिवारणाय, समवायेन शब्दवत्वमात्रस्य सम्यक्त्वात् । रूपं गन्धो रस. स्पर्शः स्नेहः सांसिद्धिको द्रवः । बुद्धयादिभावनान्ताश्च शब्दो वैशेषिका गुणाः ॥ तच्चैकमिति । अनेकत्वे मानाभावादिति भावः । विभिवति । आहतास्तु “वायुस्तावत् रूपादिमान् स्पर्शवत्वात् घटादिवत् । चक्षुरा- दिकरणग्राह्यत्वाभावात् रूपाद्यभाव इति चेन, परमाण्वादिषु अतिप्रसङ्गात् ।" (राजवार्तिकम् , ९६ पृ० ) इत्यादिग्रन्थेन वायौ रूपादिमत्वमपि प्रतिपादित- वन्तः । एतच्चानुमान सोपाधिकत्वात् नादरणीयम् । उपाधिस्तु चाक्षुषत्वसमा. नाधिकरणद्व्यत्वम्याप्यजातिमत्त्वादि । , १६ तर्कसंग्रहः दिवन्नाना, नेत्याह-तच्चैकमिति । भेदे प्रमाणाभावादित्यर्थः । एकत्वादेव सर्वत्रोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह-विविति । सर्वमूर्तद्रव्यसंयो- गित्वं विभुत्वम् । मूर्तत्वं परिच्छिन्नपरिमाणवत्त्वं क्रियावत्त्वं वा । विभु- त्वादेव आत्मवत् नित्यत्वमित्याह-नित्यं चेति (११)। न्यायबोधिनी सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम् । मूर्तत्वं च क्रियावत्वम् । पृथिव्यप्ते- जोवायुमनांसि मूर्तानि । पृथिव्यप्तेजोवाय्वाकाशेतिपञ्चकं भूतपदवा- च्यम् । भूतत्वं नाम वहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् ॥१३॥ (११) "यथा सर्वगतं सौक्ष्मादाकाशं नोपलिप्यते"(-गीता, १३३२) इति भगवद्वाक्येनाकामस्य सर्वगतत्वं सूक्ष्मत्वं च प्रत्याच्यते । “आकाशकाल- दिगात्मनां सर्वगतस्व"मिति भाष्यव्याख्यानावसरे 'कन्दली'कारैरुक्तम्-"सर्व- गतत्वं सर्वैर्भूतः सह संयोगः आकाशादीनां, न तु सर्वत्र गमनं तेषां निष्क्रिय- स्वात् ।"-( २२ पृ० ) 'सौक्ष्मम्' "बाह्येन्द्रियग्रहणयोग्यत्ताविरह" इति किर. णावलीकारः। निरवयवत्वं वा । तथा चानुमानम् -'भाकाशो नित्य. सर्वगतत्वात् सूक्ष्मद्रव्यत्वाद् वा, ब्रह्मवत् ।' वेदान्तिनस्तु “तस्माद् वा एतस्मादात्मन आकाशः सम्भूतः” ( तैत्तिरी- योपनिषद्, ३।२।१ ) इति श्रुति प्रमाणत्वेनोपन्यस्याकाशस्योत्पत्तिमत्वं वदन्ति । तन्न समीचीनम् , ताशश्रुतिवाक्यस्य आकाशपदबोध्यतावच्छेदकशब्दांशे उत्प- स्यन्वयबोधतात्पर्य्यकत्वस्वीकारेणेवोपपत्तौ भाकाशप्रागमावतत्प्रागभावध्वंसादिरूपा- नन्तपदार्थकल्पनानौचित्यात् । तथा च- "विवि नारद पञ्चैतान् शाश्वतानचलान् ध्रुवान् । महतस्तेजसोरागीन् कालपष्टान् आपश्चैवान्तरीक्षं च पृथिवीवायुपावको ॥7- (शान्तिपर्व, २४७-६) इति महाभारतीयवचने आकाशस्य नित्यत्वं सुव्यक्तमेव प्रतिपादितम् । 'तुप्यतु दुर्जन' इति न्यायेन आकाशस्योत्पत्तिमत्त्वस्वीकारेऽपि तस्य विना शिवसिद्धिः कथ स्यात् ? न च भामाशो विनाशी जन्यभावत्वाद् घटवदित्यनुमा- नेनैवाकाशस्य विनाशित्वं सेत्स्यतीति वाच्यम् , अत्र द्वयानुपादानकद्रव्यभिन्न- स्वस्योपाधित्वात् । केचित्तु श्रुतिवाक्यस्थमाकाशपद स्थिरवायुपरम् । तथा च 'धार्यः कथद्वार- स्वभावतः ॥

दीपिकान्यायबोधिनीध्रुवपदासहितः अतीतादिव्यवहारहेतुः कालः स चैको विभुनित्यश्च ॥ १४॥ कालं लक्षयति-अतीतेति । सर्वाधारः कालः सर्वकार्ये निमि- त्तकारणं च । माच्यादिव्यवहारहेतुर्दिक । साचैका नित्या विभ्वी च ॥१५॥ दिशो लक्षणमाह-प्राचीति । दिगपि कार्यमात्रेनिमित्तकारणम् (१२)। न्यायबोधिनी कालं लक्षयति-अतीतेति । व्यवहारहेतुत्वस्य लक्षणत्वे घट इति व्यवहारहेतुभूतघटादावतिव्याप्तिः। तद्वारणाय अतीतादीति विशेषणोपादानम् ॥१४॥ दिशो लक्षणमाह-पाच्येति । उदयाचलसन्निहिता या दिक् सा प्राची। अस्ताचलसन्निहिता या दिक सा प्रतीची । मेरोः सन्निहिताया दिक् सोदीची। मेरोर्व्यवहिता या दिक् साऽवाची॥१५॥ महं भवत्या वियद्विहारी वसुधैकगत्येति नैषधीयचरितकाव्ये वियत्पदस्य तादृशः स्थिरवायुबोधकत्वमेव श्यते । इति न कोऽपि दोषः पदमादधातीस्याहुः । शिरोमणिभदाचार्यास्तु “शब्दनिमित्तकारणत्वेन क्लप्तस्येश्वरस्यैव शब्दसम- वायिकारणत्वम् ।" ( पदार्थतत्त्वनिरूपणम् ) इत्यादिग्रन्थेनाकाशस्य द्रव्या- न्तरत्वं खण्डितवन्तः । “अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवञ्च य"दित्यादिकठश्रुति (॥३॥१५) विरोधेन तादशसिद्धान्तो न समीचीन इत्यस्मद्- गुरुचरणाः। (१२) 'चन्द्रकान्तीयभाष्य'कारतया प्रसिदा महामहोपाध्यायचन्द्रकान्त- तर्काल कारभट्टाचार्यास्तदीये "फेलोशिपेर लेक्चार" इत्याख्ये वगभाषामय- प्रन्थे(११८-१९ पृष्ठे) दिकालयोध्यान्तरत्वं न महर्षिकणादाभिमतमिति सिद्धा. न्तितवन्तः । तेपामयमाशय -महर्षिकणादास्तु “कारणगुणपूर्वकः कार्यगुणो दृष्टः ।" “कार्यान्तराप्रादुर्भावाच शब्द. स्पर्शवतामगुणः ।" "परन समवायात् प्रत्यक्षत्वाच नात्मगुणो न मनोगुण.।"(२।१।२४-२६) इति सूत्रत्रयेण शब्दस्य स्पर्शवतामात्मनो मनसश्च गुणस्वं प्रतिषिध्य "परिशेपालिङ्गमाकाशस्य" (२।१।२७) इति सूत्रे पारिशेष्यात् तस्याकाशगुणत्वं प्रत्यपादयन् । एवं च तन्मते दिकालयो- म्यान्तरत्वे शब्दस्य तद्गुणत्वनिषेधोऽप्यावश्यक आसीत् । अतः काणादनये दिवाली नाकाशादतिरिक्ताविति स्फुटम् ।

तर्कसंग्रहः ज्ञानाधिकरणमात्मा । स द्विविधः-परमात्मा जीवात्मा मतमेतत् तेषां वैशेषिकसूत्रभाष्येऽपि दृश्यते । तदुक्तं “परिशेषाल्लिङ्गमाका. शस्य"-(२११२७) इति सूत्रभाष्ये-"आचार्यप्रवृत्ति पयति कालो दिक् चाका. शमेवेति । अन्यमन्येषां व्यतिरेकमाकागे साधयति न कालदियोः ।" इति । "कार्यविशेषेण नानात्व" (१२।१३) मिति सूत्रभाष्येऽपि तेरेवमेव भाषितम् । तर्कालङ्कारसिद्धान्तोऽयमस्माकं न मनोरमः । यतः-“परत्र समवायात् प्रत्यक्षवाच नात्मगुणो न मनोगुण" इति सूत्रेणैव शब्दस्य दिकालगुणत्वमपि प्रतिपिदम् । तया च उपस्कारकृता स्वहसितम्- "नात्ममनसोर्गुण इति समासे कर्त्तव्ये यदसमासकरणं तेन तुल्यन्यायतया प्रत्यक्षवादित्यनेनैव हेतुना दिक्कालयोरपि गुणत्वं शब्दस्य प्रतिपिद्धमिति सूचितम्" कणादसूत्रविवृतिकारोऽप्याह- "मनःपदं दिकालयोरप्युपलक्षक तथा च शब्दो न दिकालमनसां गुणः अत्यनत्वात् रूपादिवदिति, व्यतिरेके कालपरिमाणादिवदित्यनुमानप्रकारः।" स्वभाव एव सूत्राणामयं यत् तान्यल्पाक्षराण्येव प्रकाशयन्ति गमीरमर्थम् । अंत पुत्र "अल्पाक्षरमसन्दिग्ध-' मित्यादिसूत्रलक्षणमुक्तममियुक्कैः। एवं च सूत्रे ढिकालयोः कण्ठतश्चानुक्तिर्न खलु महर्पेन्यूँनतापादिका । यदि कण्ठानुक्त- वेनैव विपरीतसिद्धान्त. रणीयः, तर्हि रूपादयः गन्दान्ताश्चतुर्विशतिर्गुणाः कणा- दाभिमता इत्यपि वतुं न शक्येत । यतः सूत्रे रूपादिप्रयत्नान्ताः सप्तदश गुणा पुवादिष्टाः । तथा च "तार्किकरक्षायां" वरदराजा- "चतुर्विंशतिरुद्दिष्टा गुणाः कणभुना स्वयम् । रूपाद्याः शब्दपश्यन्ताः ॥" तदुक्तम् । रूपरसगन्धस्पर्माः संख्याः परिमाणानि पृथक्त्वं संयोगविभागो 'परत्वापरत्वे वुद्धयः सुखदुःखे इच्छाडेपो प्रयत्नाश्च गुणा इति । (वैशेषिकसूत्रम्, १1१1) चशब्देन गुरुत्वद्वत्वस्नेहसंस्कारधर्माधर्मशब्दाः संगृहीताः । ततश्च कण्ठोक्का. सप्तदश चशब्दसमुचिताः सप्तैति गुणाश्चतुर्विंशतिः।" समर्थितमेतत् चन्द्रकान्नीयवैगेपिकभाप्येऽपि-"चकारेण गुल्चलघुत्वद्वत्व- स्नेहसंस्कारध धर्मशब्दसमवायशक्प्रिभृतीनाचार्यः समुच्चिनोति । एवं च समुच्चायकवादेन गुस्वादिगुणानामिव उपलक्षकमनःपदेनैव दिवा- रानां संग्रहः सूपपाठः । अत एव “पृथिव्यापत्तेजो वायुराकाशं कालो दिगात्मा मन इति दृष्याणि" (1१1५) गुणैटिंग व्याख्याता-(1१।२४) “कारणे काल:"- (1) इत्यादिकाणादसूत्राण्यपि साधु सगच्छन्ते ।

दीपिकान्यायबोधिनीध्रुवपदासहितः १९ चेति (१३) तत्रेश्वरः सर्वज्ञः परमात्मैक एव । जीवात्मा प्रति- प्रशस्तपादाचार्यैस्तु "श्रोत्रग्राह्यत्वाद् वैशेषिकगुणभावाच न दिकाल- मनसाम् ।" इत्येकोक्त्यैव शब्दस्य दिकालमनोगुणत्वं निराकृतम् । इत्यल- -मनल्पजत्पनेन । (१३) अथ "तत्वमसि श्वेतकेतो" (छान्दो० ६।१४।३) "अहं ब्रह्मास्मि" (बृह०१।४।१०) "सर्व खत्विदं ब्रह्म" (छो० ३।१४) "आत्मैवेदं सर्वम्" (छा० ७।२५।२) "ब्रह्मवेदं सर्वम्” (२।२।११) इत्येवमाद्याभिः श्रुतिभिः, स्मृतिभिश्च "वासुदेवः सर्वमिति स महात्मा सुदुर्लभ" (गीता, ७११९) इत्यादिभिः समस्तस्य जगतः सुतरां नीवात्मनां च परमात्माऽनन्यत्वप्रतिपादनात् कथमयं विभागः सम्भ- वटुक्तिकः ? इति चेदत्र गुरुचरणाः- "विशेष्यविधया वा विशेषणविधया तादात्म्यसम्बन्धेन प्रमात्मकान्वयबोध- तात्पर्येण प्रयुक्तानां तदेतत्सर्वविश्वकिमादिरूपसर्वनाम्नां सर्वत्रैव विशेष्यस्य वा विशेषणस्य बोधकाजहल्लिङ्गपदलिङ्गभाजित्वनियमः। यत्र त्वमेदारोपः शास्त्रकारा- 'भिमतस्तत्र प्रतिपायपुरुपाणां प्रमापार्थक्यसंवेदनस्वरूपप्रयोजनकतयोक्तसर्चना- मोत्तरं सामान्यस्वान्नपुंसकमित्यनुशिष्टिमवलम्व्य क्लीबलिङ्गव्यञ्जकविभक्तिरेव प्रयु. ज्यते शास्त्रकारैः । सर्वः पदार्थः सर्वे वा पदार्था इति लोकतः शास्त्रतश्चैतदाल्यमिदं सर्व स आत्मेत्यादि । अत्र च पुंलिङ्गात्मपदसामानाधिकरण्येन साकाहसर्वनामत- स्पदस्य पुंलिङ्गता । आरोपस्थलन्तु “तत्वमसि श्वेतकेतो" “वासुदेवः सर्वमिति" "त्वत्तः सर्व त्वं हि सर्व स्मरारे" "तत् किं यत्वं नास्यतस्त्वां नतोऽस्मि" इत्यादी सर्वत्र युष्मच्छब्दवासुदेवशब्दयोः पुंलिङ्गत्वेऽपि तच्छब्दार्थाभेदान्वयतात्पर्येण प्रयुक्ततत्पदसर्वपदयत्पदेभ्यः क्लीबलिङ्गव्याकविभक्तिरेव प्रयुक्ता । जीवेषु ब्रह्माभेद- स्य "इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता.," "परमं साग्यमुपेति," "परम ब्रह्म वेद ब्रह्मैव भवति" इत्यादिसुस्पष्टबहुप्रमाणबाधित्तस्य सर्वभूतेषु तदभेदस्य तु "कृत्स्नप्रसक्तिर्निरवयवस्वशब्दकोपो वेति”[२१११२६, अस्यार्थस्तु 'कृत्स्नानामुपादेय- गतापाकजविशेषगुणानां 'प्रसक्तिः' आपत्तिः, ब्रह्मणीति शेपः । 'निरवयत्वशब्दस्य' निरवयत्वव्यवहारस्य 'कोप.' आपत्तिः, अवयविनीति शेषः । ] व्यासकृतब्रह्मसूत्र. प्रतिपादिततकंबाधितस्य 'आहार्यबोधजनकतया तत्पदेभ्यः क्ली- बलिङ्गसूचिका विभक्तिः साधु सङ्गता।"-(अद्वैतवादलण्डनम्, १२-१३ पृ.) अय भावः-"सर्ववाद्यमयी घण्टे"त्यादिपरमवाक्येषु घण्टायां भेर्यादिसकल- वाद्याभेदभावनाया इव "देको भूत्वा, देवानप्येति य एवं विद्वानेतदुपास्ते" (वृह० ४।१।२) “समत्वभावना नित्यं जीवात्मपरमात्मनोः । समाधिमाहुर्मुनयः तर्कसंग्रहः प्रोतमष्टाङ्गलक्षणम्"- ( तन्त्रसारतगौतमीयवचनम् ) "देवीबुद्ध्या स्त्रमात्मानं सम्पूज्य साधकोत्तमः । तारिणी सिञ्चयामीति जलं मूर्ति विनिक्षिपेत् ॥ (तन्त्रसारश्तसिद्धसारस्वतवचनम् ) "सोऽहम्भावेन पूजयेत्” ( तन्त्रसारश्तागम- वाक्यम् ) “दिक्कालाधनवच्छिन्ने कृष्णे चेतो निधाय च । तन्मयो भवति क्षिप्रं जीवबौक्ययोजनात् ॥"-(तन्त्रसारश्तगौतमीयवचनम् ) इत्यादिमहावाक्येषु जीवेपु ब्रह्माभेदभावनायाः समुपदिष्टतया तादृशभावनायाश्च "ब्रह्मभूतः प्रसन्मात्मा न शोचति न कासति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥” (गीता, १८५४) इत्यादिभगवद्वाक्येन च परमेष्टसाधनत्वावगमात् शोकरागद्वेपादिनिवृत्तये समुत्पत्तये च परमपुरुषार्थस्य भ्रमरूपायामपि तादृश्यां भावनायां यतित्तव्यमिति "तत्वमसि श्वेतकेतो" "सर्व खल्विदं ब्रह्मे"त्यादिरूपकैवल्योपायनिशकवेदान्त- वाक्यानां तात्पर्य्यस् । तादृशाभेदभावनाया भ्रमत्वेऽपि न क्षतिः, प्रमैव फलं जनयेन तु भ्रम इत्यनियमात् । तथा नियमे भगवत्परिगृहीतमूर्तीरसाक्षात्- कृतवतामस्मदादिमहर्षिपर्यन्तानां प्रतिपुरुपं जायमाना विषमभावना फलविधा. यिनी न स्यात् । न ह्येकैकसाधकं प्रति प्रतिक्षणं परमेश्वरः प्रतिपुरुषध्यानक- ल्पितमूर्तीः परिगृह्णाति । अभीष्टसाधिकाऽप्येतादृशी भावना न हि सर्चन प्रमारूपैच । अत एव मन्त्रात्मकदेवतावादिमीमांसकाः साझारपरमेश्वरध्यानविधायकविधिवा. क्यमहिम्ना तादृशध्यानं कर्त्तव्यतयाऽङ्गीकृतवन्तः । एवञ्च "सर्व खल्विदं ब्रह्मे"त्याहार्यभावनोत्तरं लगत्कर्तृत्वादिना पारमा- र्थिकं ब्रह्मतत्त्वज्ञानमुपजायते । “सर्वं खल्विदं ब्रह्मे"त्युत्तरवर्ति-"तजलानिती"- स्यंशेन, “ततो मां तत्त्वतो ज्ञात्वे"त्यन्तभगवद्गीतया ( १८५५) च तथैव प्रति- पादितस्वात् । अत एव- "द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिपस्वजाते । तयोरन्यः पिप्पलं स्वादु अत्ति अनननन्यो अभिचाकशीति ॥". (मुण्ड० ३१) इति श्रौतवाक्ये जीवस्य कर्मफलोपमोक्तस्वेन परमात्मनश्च तदत्यन्तभिन्न- स्वेनोपवर्णनं साधु सङ्गच्छते । मुक्तावपि पुण्यपापापायादास्यन्तिकदुःखनिवृत्तेश जीवात्मा परमात्मसाम्यमेवोपति, न तु तत्स्वारूप्यमपीति प्रतिपादयति मन्त्रान्तरम् - "यदा पश्यः पश्यते त्वमवर्ण कारमीशं पुरुषं ब्रह्मयोनिम् ।

दीपिकान्यायबोधिनीध्रुवपदासहितः तदा विद्वान् पुण्यपापे विधूय निरक्षनः परमं साम्यमुपैति ॥"-(मुण्ड० ३।३) तथा- 7 "इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥" इति भगवद्वाक्येऽपि सादृश्यवाचकसाधर्म्यपदमेव प्रयुक्तम् । शहराचा. व्यस्तु-"मम परमेश्वरस्य साधयं मरस्वरूपतामागताः प्राप्ता इत्यर्थो न तु समानधर्मता साधय क्षेत्रज्ञेश्वरयोर्भेदानभ्युपनगमा"दिति व्याख्यातम् । तन्न समीचीनम् , सादृश्ययोधकपदानां स्वरूपत्वलक्षणाज्ञानेषु शाब्दजनकताया अदृष्ट- चरत्वेन तत्र तत्पदवृत्तित्वस्यापसिद्धान्तकवलितत्वात् । परन्तु सदृशादिपदप्रयो. गासत्त्वेऽपि "धृतममृतम्" "गौर्वाहीक " "शीतांशुमुंखमुत्पले तव दृशौ" (रत्ना- वल्याम् ) "पुरोहितोऽयं राजे"त्यादौ अमृतादिपदानां तत्तत्सदृशे लक्षणैवी- सर्गिकी । “रम्भास्तम्भनिभं तवोरुयुगलं बाहू मृणालोपमा" वित्याधुक्तिस्तु स्वरूप. लक्षणया कदाचिदपि न रम्भास्तम्भ मृणालं च बोधयेत् । भपि च परब्रह्मणि दुःखाभावसत्तायाः सर्वैरेवाऽवगतत्वेन तत्वज्ञानात् जीवानां विशुद्धब्रह्मस्वरूपतालाभे तेषु दुःखाभाववस्वं निश्चितमेवेति दर्शितगी. तावाक्यस्थस्य "सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति चे"त्यंशस्याद्वैतवादिमतेs- नाकासिताभिधानत्वापत्तिः । अस्मन्मते तु तदंशप्रदर्शनस्य साधयविवरण- परतया सर्वज्ञवसर्वकर्तृत्वालाभसूचकतया च सुष्टु सङ्गतिरेव । प्रागदर्शितश्रुतौ "कर्तारमीशम्" इत्यंशस्य सार्थक्याय जगत्कर्तृत्वेन ब्रह्मज्ञानमेव मुक्ती कारणं न तु परेषां निष्प्रकारकब्रह्मज्ञानमपीस्यवधेयम् । भस्त्यनुमानसाम्राज्यमपि जीवादिषु ब्रह्मणः पारमार्थिकभेदसाधकम् । यथा--जगत्कर्तृत्वप्रकारकप्रमाविशेष्यत्वम् , जगत्कर्तृत्वावच्छिन्नं प्रतियोगित्वम् , निरूपकत्वं वा एतदेकतरादृष्टनाशोभयाभावस्य साध्यत्वम् , पक्षवं सर्वस्य, हेतुत्वं च यथाकामं वाच्यत्वप्रमेयत्वगगनाभावादेः । सहचारदर्शनं न्यायनये घट- पटादौ, अद्वैतमते मायादौ । यद्वा अदृष्टववृत्तिद्वयावृत्तिधर्मप्रतियोगिकस्वरूप- सम्बन्धेन जगत्कर्तृवृत्तिधर्माभावस्य साध्यत्वं पक्षादि पूर्ववत् । भथ वा नित्यत्वानन्दस्वरूपत्वोभयाभावस्य नित्यानुयोगिकस्वरूपसम्बन्धेन भानन्दस्वरूपत्वाभावस्य शरीर्यनुयोगिकस्वरूपसम्बन्धेन ज्ञानस्वरूपमाभावस्य, मानन्दतादात्म्यप्रतियोगिकस्वरूपज्ञानतादात्म्याभावस्थ, बहिःप्रत्यक्षविषयत्वानन्द- सादात्म्योभयाभावस्य वा साध्यत्वम् । पक्षहेतू पूर्ववत् । अविद्या न्यभिचारमिया ताशहेतुना न सर्वत्र ज्ञानस्वरूपस्यमानन्द- २२ तर्कसंग्रहः स्वरूपत्वं वा साधयितुं शक्येत । न चाविद्याभिन्नत्वमेव तत्साधकमस्तु इति वाच्यम् , हेतोरुभयवाद्यसिद्धत्वात् । नन्वनुकूलत्तकस्य दुर्लभतया ईदृशहेतुसाध्यस्थले व्याप्तिनिश्चयो न भवितुमर्ह- तीति चेन्न, तर्कस्येव निरुपाधित्वस्यापि व्याप्तिनिश्चायकतायाः सर्वसम्मतत्वात् । अत एव लिद्धान्तलक्षणे 'निरुपाधित्वमेव प्रयोजक' मिति तर्कालङ्कारस्य जग- दीशस्य लिखनम् । न चात्र मायात्वमेवोपाधिरिति वाच्यम्, तस्योभयवाद्यसिद्ध- स्वात् । अद्वैतवादिमते साध्याव्यापकतया प्रागभावत्वस्यापि नोपाधित्वं सम्भवति । नन्वस्त्वनादित्वमेवोपाधिरिति नाशकनीयम्, नैयायिकैर्मायायाः पदार्थान्तर- त्वाऽस्वीकारेण प्रागभावस्य च युक्त्या दीवितिकृत्खण्डितत्वेन तादृशानाद्यन्तर्भावतः साध्यव्यापकत्वनिश्चयस्य नैयायिक्रमते असम्भवात् । यतः सर्वमत एवं साध्यवत्वेन निश्चितधय॑न्तर्भावेणैव साध्यव्यापकतया निश्चित उपाधिर्भवेत् । अत एव द्रव्ये संयोगाभावानुमाने निर्गुणत्वस्योपाधित्वमुक्तं दीधितिकारेण । तस्य साध्यवत्वेनो- भयवादिनिश्चितगुणाद्यन्तर्भावेण साध्यव्यापकतया निश्चितत्वात् । निष्कर्षस्तु- साध्यवत्वेनोभयवादिप्रतिवादिनिश्चितयावम्मिवृत्तित्वं साध्यव्यापकत्वम् । न चात्यन्ताभावत्वमेवोपाधिरस्तु इति वाच्यम् , वेदान्तिप्रभृतिमते अत्यन्ताभावस्या धम्मिस्वरूपावश्यकत्वात् । अन्यथा तन्मते नित्यपदार्थान्तरस्वीकारापत्तिः । अत एव सर्व वाच्यं ज्ञेयत्वादित्यादिकेवलान्वयिनि तदुरूपवान् तदरसादि. त्यादौ च तर्कस्य दुर्लभत्वेऽपि निरुपाधित्वमेव व्याप्तिनिश्चायकम् । अथ निरुक्तकेव- लान्वय्यादिसद्धेतुस्थले निरुपाधित्वं कथं व्याप्तिनिश्चायकं भवेत् , तस्य सिद्यसिद्धि- पराहतत्वादिति चेन्न, यतो निरुपाधित्वं हि साध्यव्यापकत्वे सति साधनाव्यापक- मित्याकारकं खण्डशः प्रसिद्ध्या यज्ञानं निरूप्यनिरूपकभावापन्नतदीयविषयता. विशेषस्य प्रमीयविपयत्वप्रतियोगिकस्वरूपसम्बन्धेनोभयाभाववत्वमेव । इति ध्येयम् । किञ्च "बहु स्यां प्रजायेय" (छा० ६।२।३, ते २।६) इत्येव परमवाक्यं समुपल- भ्यते । तदर्थस्तु अहं बहु भविष्यामि । एतेन सृष्टिप्राकाले अनादिबहुमोहनिबन्धनो बहुत्वव्यवहारो मयि नास्तीत्येव समायातम् । भन्यथा भविष्यत्वप्रयोगो न स्यात् ।। 'प्रजायेये'त्यस्यार्थस्तु ब्रह्मविष्णुमहेश्वरादि-सकलावतारान्त-कलेवरधारित्वरूपं प्रकृ टजननमेवाश्रयिष्यामि, न तु पश्वादिशरीरधारित्वरूपापकृष्जन्मान्यपि, प्रशब्द. स्वारस्यात् । तथा च ब्रह्मण एव जीवत्वमिति शक्षा निराकृता । ब्रह्मग एव सर्व. जीवशरीरधारित्वे 'बहु स्या' मित्यंशेनैव सामञ्जस्यसम्भवे 'प्रजायेये'त्यस्य पुनरुक्त. स्वापत्तेः । भस्मन्मते च सर्वशरीरधारित्वशङ्कानिवृत्यर्थमेव तत्प्रयुक्तः सार्थक्यम् । एवं ब्रह्मणो विटकीटपर्य्यन्तसर्वशरीरधारित्वस्य श्रुतिप्राप्तत्वे 'सर्वमित्येव प्रयोग- -- दीपिकान्यायबोधिनीध्रुवपदासहितः शरीरं भिन्नो (१४) विभुनित्यश्च ॥१६॥ आत्मनो लक्षणमाह-ज्ञानेति । आत्मानं विभजते-स द्विविध इति । परमात्मनो लक्षणमाह-तत्रेति । नित्यज्ञानाधिकरणत्वम् ईश्वरत्वम् । नन्वीश्वरस्य सद्भावे किं प्रमाणं न तावत्प्रत्यक्षम् । तद्धि बाह्य आभ्यन्तरं वा । नाद्यः, अरूपिद्रव्यत्वात् । नान्त्यः, आत्मसुखादिव्यतिरि- "क्तत्वात् । नाप्यनुमानम् , लिङ्गाभावात् । नाप्यागमः, तथाविधागमाभावात् इति चेत् , न, 'क्षित्यकुरादिक कर्तजन्य कार्यत्वात् घटवत्' इत्यनुमानस्य न्यायबोधिनी आत्मानं निरूपयति-ज्ञानाधिकरणमिति । अधिकरणपदं समवायेन ज्ञानाश्रयत्वलाभार्थम् ॥ १६ ॥ - स्तिष्टेन्न तु बहिति । इति संक्षेपः । विस्तरस्तु गुरुचरणानाम् अद्वैतवादखण्डन- मायावाद निरासादी सुधीभिरनुसन्धयः । स च परमात्मा न विज्ञानानन्दादिस्वरूपः किन्तु तदाश्रयः। 'विज्ञानमानन्द ग्रीति सामानाधिकरण्यं च नीलो घटो मधुरो गुडः शीतः समीरणः इत्यादि- वदुपपादनीयम् । तथा च “स एको ब्रह्मण मानन्द." (० २१८) "भानन्दं ब्रह्मणो विद्वान्" (ते. २१४,९) “यः सर्वज्ञः सर्वविद्" (मुण्ड० १११।९,२।२७) इत्यादिधौतवाक्यमानन्दात् ज्ञानाच्च ब्रह्मणो भेदमेव प्रतिपादयति । तदुक्तं प्रन्यादौ सर्वदर्शनसंग्रहकारैरपि-- "नित्यज्ञानाश्रयं वन्दे निःश्रेयसनिधि शिवम् ।" इति । (१४) तथा च वैशेषिकसूत्रम्-"नानारमानो व्यवस्थातः ।- ( ३१२१२० ) अनोपस्कारकृतः,- "नाना आत्मान' कुत व्यवस्थातः । 'व्यवस्था' प्रतिनियमः । यथा कश्वि- दाट्यः कश्चिद् रक. कश्चित् सुखी कश्चिद् दुःखी कश्चिदुच्चाभिजनः कश्चिनीचा- भिनन· कश्चिद् विद्वान् कश्चिजाल्म इतीयं व्यवस्था आत्मभेदमन्तरेणानुपपद्यमाना साधयत्यात्मनां भेदम् । न च जन्मभेदेन बाल्यकौमारवाईक्यभेदेन वा एकस्या- प्यात्मनो यथा व्यवस्था तथा चैत्रमैत्रादिदेहभेदेऽपि स्यादिति वाच्यम् , भेदेन विरुद्धधर्माध्याससम्भवात् ।" क काल- २४ तर्कसंग्रहः प्रमाणत्वात् । उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् (१५) उपादानं समवायिकारणम् । सकलपरमारवादिसूक्ष्मदर्शित्वात् सर्व- ज्ञत्वम् (१६) । 'यः सर्वज्ञः स सर्ववित्' इत्यागमोऽपि प्रमाणम् । - - (१५) ज्ञानेच्छाप्रयत्नानां योगपद्याभावेऽपि ज्ञानजन्येच्छाजन्यकृत्तिमत्व. मित्यर्थः । कृतिमानसमवधायित्वे चान्योद्देशेन प्रक्षिशरप्रमीतगवादिवधकर्तृत्वा. पत्तिः । न चैवमिष्टापत्तिरिति वाच्यम्, प्रायश्चित्तवैलक्षण्योपदेशानर्थक्यप्रसङ्गात् । एवं च-"ज्ञानेच्छाद्यन्यतमगर्भलक्षणत्रितयं विवक्षितम् , अन्यथा व्यर्थविशेषण. स्वापत्तेः।" इति वेदान्तपरिभाषाग्रन्थश्चिन्त्यः । जीवात्मनो गुणास्तु चतुर्दश । तथा च भाषापरिच्छेदे- "बुद्ध्यादिपटक संख्यादिपञ्चकं भावना तथा । धर्माधरौं गुणा एते आत्मनः स्युश्चतुर्दश ॥" "तत्र ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नाः प्रत्यक्षसिद्धाः, धर्माधर्मभावनास्त्वती- न्द्रियाः। 'संख्यापरिमाणे अपि प्रत्यक्षे इत्येके।' इति कणादरहस्ये शक्कर मिश्राः। (१६) ईश्वरस्य चाष्टौ गुणाः । तदुक्तं भाषापरिच्छेदे- "संख्यादयः पञ्च बुद्धिरिच्छा यतोऽपि चेश्वरे ।" तत्र ज्ञानेच्छायस्नाः सर्वविष- यकाः । न्यायवार्तिककृतस्तु- "तत्र हि नित्या बुद्धिः संख्यादयश्च सामान्यगुणाः पद्गुण आकाशवदीश्वर' इत्याहुः । प्रदर्शितसेतच्च मतं न्यायकन्दल्याम्, “अन्ये तु बुद्धिरेव तस्याव्याहता क्रियाशक्तिरित्येवं वदन्त इच्छाप्रयत्नावप्यनगीकुर्वाणाः पद्गुणाधिकरणोऽयमित्याहुः" परन्तु तात्पर्यटोकाकृतः,-- "बुद्विवदिच्छाप्रयत्नावपि तस्य नित्यो सकत कत्वसाधनान्तर्गतौ वेदितव्यो । ज्ञानचिकीर्षाप्रयत्नसमवायलक्षणत्वात् कर्तृत्वस्य तेषां च परस्पराविनाभावादन्य- तर (म ?) सिद्धावितरयोः सिद्धः।" इति प्राहुः । न्यायमञ्जरीकारास्तु “तदेवं नवभ्य आत्मगुणेभ्यः पञ्च ज्ञानसुखेच्छाप्रयत्न- धर्माः सन्तीश्वरे,” इत्याहुः । तथा च तन्मते संख्यापरिमाणपृथक्त्वसंयोगविभागा ज्ञानसुखेच्छाप्रयत्नधाश्चेति दश गुणा ईश्वरस्य । तन्त्र “धर्मस्तु भूतानुग्रहवतो वस्तुस्वाभाव्याद् भवन् न वायंते, तस्य च फलं परमार्थनिष्पत्तिरेव । सुखं त्वस्य नित्यमेव नित्यानन्दत्वेनागमात् प्रतीतेः । असुखितस्य चैवंविधकार्यारम्भ- योग्यताभावात् ।" इति तत्र धर्मसुखयोः सदावे मजरीकारलिखनम् । (२०१ पृ.)

दीपिकान्यायबोधिनीध्रुवपदासहितः अत एव - न्यायभाष्यकृद्भिरपि “सङ्कल्पानुविधायी चास्य धर्म"-(४।१।२१) इति अन्धेनेश्वरे धर्मवत्त्वमङ्गीकृतम् । तदुक्तं तात्पर्यटीकायाम्,-"नन्वस्य फर्मानुष्ठानाभावात् कुतो धर्मः, तथा चाणिमादिकमैश्वयं कार्यरूपं विनैव कर्म- णेत्यकृताभ्यागमप्रसङ्ग इत्यत आह-सकल्पानुविधायी चास्य धर्म इति । मा भूदु बाह्यानुष्ठानं सङ्कल्पलक्षणानुष्टानजनितधर्मफलमस्यैश्वर्यं जगन्निर्माण- फल मिति नाकृताभ्यागमप्रसङ्ग इत्यर्थः ।" इति । (४२० पृ.) इदमत्रावधातव्यम् ,-अणिमाद्यष्टविधमैश्वर्य्यमीश्वरधर्मफल मित्युक्तमापाततो भाष्यकारैः, वस्तुतस्तस्यैश्वर्य नित्यम्। एवं चेश्वरे धर्मस्वीकरणमनावश्यकमिति नाशकनीयम् , ईश्वरधर्मस्यैव प्रत्यात्मवृत्तिधर्माधर्मसञ्चयानां पृथिव्यादिभूतानां च सृष्टौ प्रवर्तकत्वात् । तदुक्तं तात्पर्य्यटोकायाम्- "प्रत्यात्मवृत्तिधर्माधर्मसन्निचयाधिष्ठानं प्रत्यात्मवृत्तिसङ्कल्पानुविधायिन ईश्वरस्य धर्मस्य प्रयोजनमिति ।" वस्तुतस्तु धर्मो नेश्वरगुण इत्येव वानिककारमत्तम् । वार्तिकतात्पर्यटोकायां वाचस्पतिमिश्रा:- "अभ्युपेत्येश्वरधर्ममेतदुक्तं भाष्यकृता। परमार्थतस्तु नेश्वरस्य धर्मसद्भावे प्रमाणमस्ति, निस्याभ्यामेव ज्ञानक्रियाशक्तिभ्यां सकलकार्योत्पादसिद्धरित्या. शयवानाहन चेश्वरे धर्मोऽस्तीति ।" इति प्राहुः । यद्यपि "संख्यापरिमाणपृथकत्वसंयोगविभागबुद्धय एव तस्य (ईश्वरस्य) गुणाः” इत्यादिग्रन्थेनेश्वरस्य पडगुणाधिकरणत्वमेव वार्तिककारैः प्रतिपादितम् , तथापि "इच्छा तु विद्यतेऽक्लिष्टाच्याहता सर्वार्थेषु यथा बुद्धि"रित्यस्यापि पश्चात् स्वहस्तितत्वेन संख्यादयः पञ्च सामान्यगुणा बुद्धीच्छे च विशेषगुणावीश्चरस्येति वार्तिककारनिष्कृष्टाभिप्रायः । ईश्वरे नित्यसुखवत्ताया न्यायमञ्जरीकाराङ्गीकृतत्वेऽपि "सुखस्यापि नित्यत्वं प्रमाणविरद्धं कल्पयितुमशक्यमिति"-(11११२२)-न्यायभाष्यग्रन्धदर्शनेन सुख- स्य नित्यत्वं भाष्यकाराऽननुमतमिनि प्रतीयते । न चैवमागमविरोध इति शक्यम् , भाष्यग्रन्थविवरणावसरे न्यायवार्तिककार.- "आगमोऽप्येव विचारणीय दृष्टश्च दुःखाभावेऽपि सुखशब्द प्रयोगो बहुधा लोक इति । एवञ्च ज्वरादिवियोगे लौकिका व्याचक्षाणा भवन्ति सुखिनः सवृत्ताः स्म" इति सिद्धान्तितत्वात् । अनुमानचिन्तामणौ 'मुक्तिवादे' (जी० स० ४७ पृ० ) "न च नित्ये सुखे मानमस्ती"त्यादेः "तस्मादानन्दं ब्रह्मेति मत्वर्थीयाचप्रत्ययान्तत्वेनानन्दवत्वं बोध्यते नाभेद', अन्यथा नपुंसकत्वानुपपत्ते"रित्यन्तस्य च ग्रन्थसन्दर्भस्य दर्शनेन गरे शोपाध्यायमतेऽपि ब्रह्मण्यानन्दवत्ताबोधकागमस्थ दुःखाभावपरतयैवोपपत्तिः । तदुक्तं मुक्तावलीकारैरपि,- .. ३ २६ तर्कसंग्रहः - "ईश्वरोऽपि न ज्ञानसुखात्मा किन्तु ज्ञानाद्याश्रयः। "नित्यं विज्ञानमानन्द ब्रह्मे"त्यादौ .भानन्दमित्यस्याप्यानन्दवदित्यर्थः, भर्श मादित्वान्मत्वर्थी- याचप्रत्ययात् । अन्यथा पुंलिङ्गत्वापत्तिः। आनन्दोऽपि दुःखाभाव उपचर्यते ..!" परन्तु-"भस्तु वा तस्मिन्नानन्दो न त्वसौ आनन्दोऽसुखमिति श्रुते"रित्य- स्यापि लेखस्य तन्त्र विद्यमानत्वादीश्वरे नित्यसुखवत्त्वं न खलु नानुमतं मुक्ता- वलीकाराणाम् । अत एव च गुणनिरूपणे,-"विष्णुप्रीत्यादौ तदसम्भवात् , जन्य- सुखादेस्तनाभावा"दिति तेषां ग्रन्थोऽपि सूपपन्नः । आत्मतत्त्वविवेकदीधितौ तार्किकशिरोमणिरघुनाथैरपि “परमात्मनि तु.. विज्ञानमानन्दं ब्रह्म" "भानन्दं ब्रह्मे"त्यादिकाः श्रुतयो मुख्यार्थाबाधान्नित्यज्ञाना- नन्द बोधयन्ति, तत्र च न विप्रतिपद्यामह" इति स्वहस्तिततया तेपां मतेऽपीश्वरे नित्यसुखसत्त्वं नाप्रामाणिकम् । अत एव तैः सर्वस्मिन्नेव ग्रन्थे- "भखण्डानन्दवोधाय पूर्णाय परमात्मने ॥" इत्येवरूपं मङ्गलाचरणमनुष्ठितम् । एवञ्च जगदीशतर्कालङ्कारैरनुमिति- मणिदीधितिन्याख्यानावसरे- "अखण्डौ नित्यौ भानन्दवोधौ यस्य तस्मै । न च सुखत्वावच्छेदेन पुण्य- जन्यतया नित्यसुखासम्भवः, श्रुतिवाक्येभ्यो नित्यसुखसिद्धौ सुखत्वावान्तरजातेरेव पुण्यजन्यतावच्छेदकत्वकल्पनात् ।” इति युक्तमुक्तम् । पदार्थतत्वनिरूपणे-"ईश्वरस्य च परिमाणवत्त्वे मानाभाव" इत्यादि- अन्थेन रघुनाथैरीश्वरे परिमाणवत्त्वं निराकृतम् । तत्रैव तैः खण्डितं पृथक्त्वस्य गुणान्तरत्वमपि । तथा च तन्मते संख्यासंयोगविभागा बुद्धीच्छाप्रयता नित्य- सुखञ्चेति सप्तैव गुणाः सन्ति परमेश्वर इति प्रतीयते । "न च.........ईश्वरः परममहानित्यादिव्यवहारस्य सकलास्तिकसम्प्रदा- यसम्मततया परमेश्वरे परममहत्त्वं दुरपह्नवमेवेति वाच्यम्, परोपकारिमनुजेपु महत्त्व ज्यवहारवत् परमकारुणिके परमेश्वरे परममहत्वन्यवहारस्यार्थान्तरविषयकत्वेनो- पपत्तेः, भगवानपरिमेय इत्यादिरूपस्य तद्विरोधिन्यवहारस्य जागरूकत्वाच्च ।" इति तत्त्वसारे गुरुचरणाः । ईश्वरेच्छाविशेपस्य जन्यत्वमपि केपाञ्चिदभिमतम् । तदुक्तं न्यायमअाम्- "ननु ज्ञानानन्दवदिच्छाऽपि नित्या चेदीश्वरस्य तर्हि सर्वदा तदिच्छासम्भवात् जगदुत्पत्तिरिति जगदानन्त्यप्रसङ्गः । सर्गेच्छानित्यत्वाच्च संहारोन प्राप्नोति। संहा- रेच्छाया भपि नित्यत्वाभ्युपगमेन नक्कन्दिनं प्रलयप्रयन्धो न विरमदेव जगता- मिति । नैष दोषः । अनाममन संयोगजत्वादिच्छा स्वरूपमात्रेण नित्यापि कदा- चित् सर्गेण कदाचित् संहारेण वा विपयेणानुरज्यते सर्गसंहारयोरन्तराले तु जगतः स्थित्यवस्थायामस्मात् कर्मण इदमस्य सम्पद्यतामितीच्छा भवति प्रजापते।" इति। ।

दीपिकान्यायबोधिनीध्रुवपदासहितः -- तथा जीवस्य लक्षणमाह-जीवेति । सुखादिकं जीवलक्षणम् । ननु (१७) 'मनुष्योऽहं ब्राह्मणोऽहम्' इत्यादी सर्वत्राहम्प्रत्यये शरीरस्यैव विषयत्वा- च्छरीरमेवात्मेति चेन्न , शरीरस्य करपादादिनाशे शरीरनाशादा- (१७) देहात्मवादी चार्चाकः शङ्कते-नन्विति । तेषामयमाशयः-यथा. गुदद्राक्षादयः प्रागसतीमपि मदशक्तिमासादितसुराकारपरिणामाः प्रपद्यन्ते, मृदाद्यवस्थायामचेतनान्यपि भूम्यादिभूतानि शरीराकारपरिणतानि चैतन्यं प्राप्नु- वन्ति । अत एव समकालीनयावच्छरीरान्यूनानतिरिक्तजीवानां कल्पनापेक्षया देहे- ब्वेव जीवत्वं कल्पनीय लाघवात् । तथा च सुखदुःखादयोऽपि शरीरेष्वेव वर्तन्ते ।- 'मम देहोऽय' मिति प्रतीतिः, 'राहोः शिर' इतिवदभेदेऽपि आरोपितभेदावगाहितयो- पपद्यते । बाल्ययौवनादिदशाभेदेन शरीरस्य भिन्नत्वं नाङ्गीक्रियते, प्रमाणाभावात् । हस्वत्वमहत्त्वादिरूपपरिमाणवैलक्षण्यमेव शरीरभेदं साधयेदित्यपि न साम्प्रतम् , परिमाणवेलक्षण्यस्य कार्यवैलक्षण्यप्रयोजकत्वे प्रत्येकधान्यादिपरिमाणतो विलक्षण. परिमाणविशिष्टत्वेन प्रतीयमानानां तत्पुनानां कार्यान्तरतापत्तः । राशेः कार्यान्त-- रत्वस्य सर्वेरेवास्वीकृतत्वात् । एवं च सर्वदशायामपि शरीरस्यैक्यादेव पितृजन्य- त्वे सति पुंस्त्वादिलक्षणात्मनत्वादिकं युवादिशरीरेष्वपि सर्वजनध्यवहृतं न विरु- ध्येत । गर्भस्थशरीरात तेषां पार्थक्ये तेषु पितृजन्यत्वाभावेनारमजत्वव्यवहारो नोप- पद्येत । यदि च तजन्यवृत्तिरपरजातिरेव तजन्यताव्यवहारनियामिकेति पितृजन्य-- शरीरवृत्तिचैत्रत्वादिरूपताशजातिमुपादाय युवशरीरादावपि आत्मजस्वव्यवहारो. नानुपपन्न इत्युच्यते, तदा तुल्यन्यायेन घटत्वादिरूपापरजातिमादायापि यावद्घटे-- ध्वेककुलालकत कत्वं न विरुध्येत । तथा च "नान्य दृष्टं स्मरत्यन्यो नैकं भूतमप- क्रमादित्यादिदोपावतारः सुदूर एव पराहतः । भत्राहुः-"यथा मदिरावयवेषु प्रत्येकमेव मदशक्तिरस्ति, न पुनः समुदाय--- मात्रसमवायिनी, एवं शरीरावयवेष्वपि प्रत्येकमेव चैतन्येन भवितव्यम् । न च वैयात्यात कायसमुदायाश्रयमेव चैतन्यं नावयवाश्रयमिति शक्यमास्थातुम् , त्रिच.. तुरावयवच्छेदेऽपि चैतन्योपलम्भात् । तस्मादवयवानां प्रत्येक चैतन्ये शरीर एक- स्मिन् बहवश्चेतनाः स्युः। भवतु कि नो वाध्यत इति चेत्, न, विरुखाभिप्रायत्वेन स्वतन्त्राणां न किञ्चिदपि कार्य जायते । न च बहूनामेकाभिप्रायनियमो दृष्टः ।। काकतालीयन्यायेन स्यादेकाभिप्रायत्वं न पुनरस्य नियमो दृष्टचर इति।" [न्याय- वार्तिकतात्पर्यटीकायां वाचस्पत्तिमिश्रा ।] युवशरीरादामात्मनत्वव्यवहारस्तु निपेकावधिकमामरणाच्छरीरारम्भकसंयोगप- य॑न्तमात्मजे पितुापार इत्यङ्गीकारेणैवोपपादनीय. । अत एव भ्रम्यादिकपालद्वय २८ तर्कसंग्रहः त्मनोऽपि नाशापत्तेः । नापि इन्द्रियाणामात्मत्वम् । तथात्वे 'योऽहं घटमद्राक्षं सोऽहमिदानी स्पृशामि' इत्यनुसन्धानाभावप्रसङ्गात् । अन्यानु. भूतेऽन्यस्यानुसन्धानायोगात् । तस्मादेहेन्द्रियव्यतिरिक्तो जीवः (१८) संयोगरूपासमवायिकारणपर्यन्तं घटरूपकार्ये दण्डस्य व्यापार' इति तर्कग्रन्थे जगदीशभट्टाचाय्यः प्रतिपादितम् । एवं च ज्वलनादिकं सम्पादयतो देवदत्तादेवा- दपाये कतिपयकालोत्तरमोदननिप्पत्तावपि देवदत्तादौ पाचकत्वव्यवहारः सूपपादः । (५८) महपिरक्षपादस्तु निजगाद देहेन्द्रियादिव्यतिरिक्तनित्यजीवसिद्धये- "पूर्वाभ्यस्तस्मृत्यनुवन्धाज्ञातस्य हर्षमयशोकसम्प्रतिपत्ते" ( ३११९) रित्यादि सूत्राण्यपि । तेषामयमर्यः-सद्योजातस्य बालस्य स्मितरुदितादिनाऽनुमीयन्ते हर्षभय- शोकाः। ते च सुखसाधनाधिगम-तदनुस्मरणान्यतरकारणका एव भवितुमर्हन्ति तथैव दृष्टत्वात् । इह चास्य सुखदुःखसाधनानुभवस्तदानीं नास्तीति तदनुम्मरणमेव हर्षमयशोकनिदानं स्यात् । स्मरणमपि तदनुभवप्रभवमनुभवश्वेह जन्मनि सद्यो. जातस्य न समस्तीति जन्मान्तरानुभव सुखदुःखसाधनानुस्मरणनिमित्तक एवास्य हर्षभयशोकसमुत्पाद इति जन्मान्तरानुगमान्नित्य आत्मा। ननु शिशॉर्जन्मान्तरानुभूतस्मरणे सर्वदा सर्वस्मरणप्रसन्न इति चेन्न, कल्प. नायाः फलानुसारित्वात यावत् काय कारणकल्पनान्न सर्वदा सर्वस्मरणं प्रसज्येत । न च तत्क्ल्पनायां किमपि कारणमुपलभ्यते, न त्वेकदर्शनात् सवं कल्प्यं दृष्टमपि वा निहोतव्यं परीक्षकैः । अपि च जातिस्मराश्च केचिदद्यत्वेऽपि देहान्तररहोवृत्तं प्रकाशयन्तः समुपलभ्यन्ते । एवञ्च पयसस्तृप्तिहेतुत्वमनुस्मरन् बालः स्तन्यामिलापेण मातुः स्तनतटे दृष्टिं निदधाति । स्तन्यपानप्रवृत्तिस्तु इष्ट. सावनताज्ञानमन्तरेण न सम्भवन्ती जन्मान्तरानुभूतेष्टसाधनत्वस्य तदानीं स्मर- गादेव सूपपद्यते । म्यादेतत्-अस्तु तहि मन एव ज्ञानादेरधिष्टानं तस्य च नित्यतया न कोऽपि दोष इति कृनमनिरिक्तात्मकल्पनेन । अत्रोक्तं सूत्रकृतिः-"ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम्”-(न्यायसूत्रम् ३।१।१७) यथा ज्ञातारमभ्युपगच्छता ज्ञान- साधनानि चक्षुरादीनि प्रतिपद्यन्ते तथा मन्तारं प्रतिपद्यमानेन मतिसाधनमभ्यु. पेयम् । यच्च तन्मतिसाधनं तन्मन इति संज्ञाभेदमात्रे पर्यवसानं स्यात् । तदुलं पक्षिलस्वामिना-"ज्ञातर्यात्मसंज्ञा न मृप्यते मतिसाधनं स्वभ्युपज्ञायते । वदिदं संज्ञाभेदमानं नार्थ विवाद इति ।" अयमभिसन्धिः-मनसो ज्ञानाद्याश्रयत्वस्वीकारेऽपि रूपादिज्ञानेपु व्याप्ति. दशनादपरोक्षावमासस्पेन्द्रियाधीनतया सुखादिविषयकमपरोक्षज्ञानमिन्द्रियजन्यं दीपिकान्यायबोधिनीध्रवपदासहितः सुखादिवैचित्र्यात् प्रतिशरीरं भिन्नः । स च न परमाणुपरिमाणः शरीर- व्यापिसुखाद्यनुपलब्धिप्रसङ्गात् । न मभ्यमपरिमाणः, तथा सति अनित्य- वप्रसङ्गेन कृतहानाकृताभ्यागमप्रसङ्गात् । तस्मानित्यो विभुर्जीवः । जन्यापरोक्षज्ञानत्वादित्यनुमानेन चक्षुरादिविविक्तं किमपीन्द्रियं व्यवतिष्ठते । तत्सं. युक्ततयैव चक्षुरादिकं चाक्षुषाद्युपधायकम् , अन्यथा चक्षुःसनिकृष्टस्य त्वगादि- सनिक चाक्षुपत्वाचादेर्युगपदुत्पादप्रसङ्गः स्यात् । तस्य महत्त्वे चक्षुपि स्वचि च युगपत् संयोगसम्भवेन तद्दोपताइवस्थ्यमिति तस्याणुत्वमपि स्वीकरणीयम् । एवं च, क्क लाघवम् ? केवलं नामभेदमात्रस्यैवावसीयमानत्वात् । यदि च ज्ञानाश्रयतया सिद्धं मनो नापेक्षते करणान्तरमित्युच्यते, तदा रूप- रसादिग्विन्द्रियसम्बद्धेषु युगपदालोचनानि प्रसज्यन्ते, सामग्रीसान्निध्यात् । अत एवोक्तं प्रशस्तपादैः--"नापि मनसः, कारणान्तरानपेक्षित्वे युगपदालोचनस्मृति- प्रसगात् ।" ननु कर्तृत्वं रणस्वं चोभयमेवास्तु मनस इत्यपि नाराकनीयम् । तथा सति मनसोऽणुत्वेनैकदा करचरणयोः संयोगासम्भवादेकदा करावच्छेदेन सुखस्य पादाव. च्छेदेन दुःखस्यानुत्पादः स्यात् । न हि सुखदुःखयोयोगपद्यमनुभवविरुद्धम् । तदुक्तं प्रत्यक्षखण्डे चिन्तामणिकारैः-"नानावच्छेदेनेकदा चन्दनदहनादिसम्बन्धे सुखदुःनयोश्चैकदाऽनुभवसिद्धत्वेनेष्टापादनात् । न च तद्योगपद्यप्रत्ययो भ्रम , बाध- काभावात् ।" इति। किञ्च ज्ञानाद्याश्रयस्याणुत्वे सहसैव चिरप्रोषितागतदयितजनसन्दर्शनसुखोद्भूत- सकलशरीरच्यापिस्चेदरोमान्नादिदर्शन विरुध्यते । न हि सम्भवत्यणुपरिमाणविशि- प्टस्य मनसः शिरप्रभृतिसर्चगात्रेषु युगपत् सम्बन्धः। अपि च शरीरायधि. छातुरणुरवे एकदा वामदक्षिणकरचरणाधिष्टानासम्भवेन तेषां युगपत् सञ्चालनादि- क्रियानुपपत्तिर्गीर्वाणशापशतेनाप्यपहस्तयितुमशक्या स्यात् । एवं तत्त्वज्ञानिनां कायव्यूहसम्पादनेन युगपदेव बहुपु शरीरेपु कर्मफलोपभोगो ऽणुपरिमाणमनसो भोगाश्रयत्वकल्पने विरुध्येत । कमलदलभेदनवत् तत्कालभेदा- नुमाने कायव्यूहकरणस्यैवानर्थक्यं स्यात् , एकस्मिन्नेव शरीरे कालभेदेन भोगसम्भवात् । आस्तिकास्तु- "आत्मानं रथिनं विद्धि शरीरं रथमेव त । बुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च ॥

तर्कसंग्रहः सुखाधुपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियत- त्वादनन्तं परमाणुरूपं नित्यं च ॥१७॥ मनसो लक्षणमाह-सुखेति । स्पर्शरहितत्वे सति क्रियावत्त्वं मनसो लक्षणम् । मनो विभजते-तचेति । एकैकस्यात्मन एकैकं मन आवश्यक मित्यात्मनामनेकत्वान्मनसामप्यनेकत्वमित्यर्थः । परमाणुरूपमिति । मध्य- मपरिमाणवत्त्वे अनित्यत्वप्रसङ्गादित्यर्थः । ननु मनो विभु स्पर्शरहितद्रव्य- त्वात् आकाशादिवदिति चेन्न (१९), मनसो विभुत्वे आत्ममनःसंयोगस्या- ऽसमवायिकारणस्याभावाज्जानानुत्पत्तिप्रसङ्गान् । न च विमुद्वयसंयोगोऽ- स्त्विति वाच्यम् , तत्संयोगस्य नित्यत्वेन सुपुष्त्यभावप्रसङ्गात् पुरीतद्व्यति- रिक्तप्रदेशात्ममनःसंयोगस्य सर्वदा विद्यमानत्वात् । अणुत्वे तु यदा मनः न्यायवोधिनी मनो निरूपयति-मुखादीति । उपलब्धिर्नाम साक्षात्कारः । तथा च सुखदुःखादिसाक्षात्कारकारणत्वे सति इन्द्रियत्वं मनसो लक्ष- 'णम् । इन्द्रियत्वमात्रोक्तौ चक्षुरादावतिव्याप्तिः । अतः सुखादि. साक्षात्कारकारणत्वविशेषणम् । विशेष्यानुपादाने आत्मन्यतिव्याप्तिः, आत्मनः सुखादिकं प्रति समवायिकारणत्वात् ; अत इन्द्रियत्वरूप- विशेष्योपादानम् ॥ १७ ॥ , मनसस्तु परा वुद्धिर्बुद्धरात्मा महान् परः।" (कठोपनिषद्, २॥३-१०) इत्यादिश्रुतिप्रामाण्यादात्ममनसोक्यं भावयितुमपि विभ्वति । "मनोऽपिन तथा ज्ञानाद्यनध्यक्षं तदा भवेदिति भाषापरिच्छेदग्रन्थश्चिन्त्यः। यतः "महत्यनेकद्रव्यवत्वात् रूपाञ्चोपलब्धिः”-(४।१।६) इति वैशेषिकसूत्रे मह वादेवहिरिन्द्रिजन्यप्रत्यक्ष एव कारणत्वं प्रतिपादितम् । अन्यथाऽतिरिकात्मस्वीका- रेऽपि अनेकद्रव्यवत्ताऽभावाद रूपाभावाच्चात्मनस्तन्निष्टज्ञानादिगुणानाञ्च मानसप्रत्यक्ष न स्यात् । अत एवोक्तमुपस्कारकृतिः-"उपलब्धिरिति वहिरिन्द्रियेणेति शेषः । (१९) कौमारिलास्तु मनसो विभुत्वमझीकुर्वन्ति । तथा च मानमेयोदये- 'मनो विभु स्पर्शानदव्यत्वाद अनारभ्यारम्भकद्रव्यत्वाद् वा ज्ञानासमवायिकारण. संयोगाधारत्वाद् वा आत्मवद् इत्यादिभिरनुमानमहत्त्वसिद्धः ।"-- ८९ पृ.)

दीपिकान्याययोधिनीध्रुवपदासहितः पुरीतति नाड्यां प्रविशति, तदा सुषुप्तिः, यदा निःसरति, तदा मानोत्प- त्तिरित्यणुत्वसिद्धिः (२०) चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनीलपीतरक्तहरित- रूपं लक्षयति-चक्षुरिति । संख्यादावतिव्याप्तिवारणाय मात्रपदम् । रूपत्वेऽतिव्याप्तिवारणाय गुणपदम् । रूपं विभजते-तचेति । नन्वव्या- प्यवृत्तिनीलादिसमुदाय एव चित्ररूपमिति चेत् , न, रूपस्य व्याप्यवृत्ति- न्यायबोधिनी रूपं लक्षयति-चक्षुरिति । चक्षुर्मात्रग्राह्यत्वविशिष्टगुणत्वं रूपस्य लक्षणम् । विशेष्यमात्रोपादाने रसादावतिव्याप्तिः, अतश्चक्षु- त्रिग्राह्यत्वविशेषणम् । तावन्मात्रीपादाने रूपत्वेऽतिव्याप्तिः-यो गुणो यदिन्द्रियग्राह्यस्तनिष्ठा जातिस्तदिन्द्रियग्राोति नियमात्तद्वा- रणाय विशेष्योपादानम् । चक्षुर्मात्रग्राह्यत्वं नाम चक्षुर्भिन्नेन्द्रियाग्रा- ह्यत्वे सति चतुर्ग्राह्यत्वम् । मात्रपदानुपादाने संख्या दिसामान्यगुणे- 'ऽतिव्याप्तिः, तत्रापि चक्षुधित्वविशिष्टगुणत्वस्य सत्त्वात् , अतस्त. द्वारणाय मात्रपदम् , संख्यादेश्चनुभिन्नत्वगिन्द्रियग्राह्यत्वाञ्चक्षुर्मात्रग्रा हात्वं नास्ति । अतीन्द्रियगुरुत्वादावतिव्याप्तिवारणाय चक्षुह्येति । (२०) मनसो विभुत्वे सर्वेन्द्रियसन्निकृष्टान्मनसः सर्बेन्द्रियकमेकमेव ज्ञानमु. त्पद्यते । कार्याविरोधान्नैवमिति चेत् , न तावत्सामग्री विरोधाविरोधमाकलयति, येन चाक्षुषत्वरासनत्वादिविरोधाय विभ्येत् । चित्ररूपवत् चित्राकारमेव वा स्यात् । किञ्च मनोवेभवे पादे मे सुखं शिरसि मे वेदनेति प्रादेशिकत्वं सुखादीनां न स्यात् , विभुकार्याणामसमवायिकारणावच्छिन्नदेशे उत्पादनियमात् । इत्यादिकमपि दूषण- मूहनीयम् । न च वैभवानुमानस्य का गतिरिति शडक्यम् , हेतूनां धर्मिग्राहकमान- बाधितत्वात् । एवञ्च सत्यामपि श्रावणप्रत्यक्षसामग्यां चक्षुर्मनोयोगदशायां चाक्षु- पमेव भवति, न श्रावणादिकमिति तन्नियामकतयाऽवश्यमणु मनः स्वीकरणीयम् । तथा च मनसोऽणुत्वेनैव द्वाभ्यामिन्द्रियाभ्यामेकदा नोत्पद्यते संयोगः । “चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।" इत्यादिपरमवाक्येनाप्यविभुत्वमेव मनसः प्रतिपाद्यते। तस्य विभुत्वे तत्र चाचल्यरूपक्रियावरचमसम्भवदुक्तिक स्यात्, विभूनां निष्क्रियत्वात् । वैद्यकशास्त्रमतेऽपि मनसोऽणुत्वमेव । तदुक्तं चक्रपाणिना चरकतात्पर्ये-"भत एव हि कारणान्महत्वमपि मनसो नास्ति ... देकमणु च मन इति ।" सूत्रस्थानम् , ८५) । तस्मा- २ तर्कसंग्रहः कपिशचित्रभेदात् सप्तविधम् (२१) पृथिवीजक्तेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । यभास्वरशुक्लं जले । भास्वरशुलं तेजसि ॥१८॥ न्यायवोधिनी अत्र लक्षणे ग्राह्यत्वं नाम प्रत्यक्षविपयत्वम् । अग्राह्यत्वं नाम तद्- विषयत्वम् । तथा च चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविपयत्वे सति चनुर्जन्यप्रत्यक्षविषयत्वमिति फलितोऽर्थः । ननु प्रभाघटसंयोगे रूप. लक्षणस्यातिन्याप्तिस्तस्य चतुर्मात्रग्राह्यगुणत्वादिति चेन्न, गुणपदस्य विशेषगुणपरत्वात् । न चैवं विशेषगुणत्वघटितलक्षणे संख्यादावति- व्याप्त्यभावान्मात्रपदवैयर्थ्य मिति वाच्यम् , जलमात्रवृत्तिसांसिद्धि- कद्रवत्वादावतिव्याप्तिवारणाय तटुपादानात् । अथ वा चनुर्मात्रयाह्य- जातिम द्गुणत्वस्य लक्षणत्वान्न प्रभाघटसंयोगादावतिव्याप्तिः, संयो. गत्वजातेश्चनुर्मात्रग्राह्यत्वाभावात् । घटपटसंयोगस्य त्वगिन्द्रियग्राह्य- स्वात्तद्गतजातेरपि त्वगिन्द्रियग्राह्यत्वात् । (यो गुणो यदिन्द्रियग्राह्य- स्तनिष्ठजातेरपितदिन्द्रियग्राह्यत्वात्।) अनजातिघटितलक्षणे गुणत्वा- नुपादाने चनुर्माणग्राह्यजातिमति सुवर्णादावतिव्याप्तिरतस्तद्वारणाय तदुपादानम् । एवं रसादिलक्षणे विशेषणानुपादाने लक्ष्यभिन्नगुणा- दावतिव्याप्तिः । विशेष्यानुपादाने लक्ष्यमात्रवृत्तिरसत्वगन्धवादा- वतिव्याप्तिः । अतो विशेषणविशेष्ययोरुपादानम् ॥ १८ ॥ (२१) रूपविभागे च नानामतान्युपलभ्यन्ते । न्यायवैशेपिझ्योः प्राचीननिव- न्धकारबिशिष्य न प्रतिपादिता धर्मिणो रूपत्वावान्तरधर्मपुरस्कारेण { तथा च भाष्यकारैरभिभापितं-"तत्र रूपं..... शुक्लाधनेकप्रकारम् ।" इति । एतद्भाष्य- व्याख्यानावसरे कन्दलीकारैः किरणावलीकारैर्वा तत्प्रकारा न प्रदशिताः । परन्तु पृथिवीनिरूपणप्रस्तावे 'शुक्कुपीताद्यनेकविध रूपं 'श्यामशुक्लहरितादीनि' 'चित्ररूपस्यावयविनः' इत्यादिकन्दलीग्रन्थसन्दर्शनेन शुक्लपीतश्यामहरितचित्रभेदा आदिपदाद् रक्तपिशभेदाश्च रूपाणां श्रीधराचार्थ्यानुमता इति प्रतिभाति । मुक्तावलीकारैरपि-"तच्छुक्लनीलपीतरतकृष्णकरादिभेदादनेकप्रकारक भवतीत्यत्रादिपदमुपन्यस्तम् । तर्ककौमुदीकृतस्तु-"तच्छुक्लकृष्णपीतरक्त- हरितकपिलभेदात् पविध"मित्युक्त्या चित्ररूपादिस्वीकारमनादृत्य रूपस्य पाविध्यमेव प्रत्यपादयन् । "वर्णाः पन्चधा नीलपीतशुकृकृष्णलोहितभेदा" दित्याहंतमतम् । तेपां च मते रसोऽपि पञ्चविधः । तथा चाकलङ्कदेवः- दीपिकान्यायबोधिनीध्रुवपदासहितः - - त्वनियमात् । ननु चित्रपटे अवयवरूपस्य प्रतीतिरस्त्विति चेत् , न, रूप- रहितत्वेन पटस्याप्रत्यक्षत्वप्रसङ्गात् (२२) न च रूपवत्समवेतत्वं प्रत्यक्षत्वप्र- योजकम् , गौरवात् । तस्मात् पटस्य प्रत्यक्षत्वानुपपत्त्या चित्ररूपसिद्धिः । रूपस्याश्रयमाह-पृथिवीति । आश्रयं विभज्य दर्शयति-तत्रेति । रसनग्राह्यो गुणोरसः । स च मधुराम्ळळवणकटुकषायतिक्त- भेदात् षड्विधः । पृथिवीजलवृत्तिः । पृथिव्यां षड्डिधः । जळे मधुर एव ॥ १४॥ रसं लक्षयति-रसनेति । रसत्वेऽतिव्याप्तिवारणाय गुणपदम् । रसस्याश्रयमाह-पृथिवीति । आश्रयं विभज्य दर्शयति-पृथिव्यामिति । प्राणग्राह्यो गुणो गन्धः । स च द्विविधः सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः ॥२०॥ गन्धं लक्षयति-घ्राणेति । गन्धत्वेऽतिव्याप्तिवारणाय गुणपदम् । त्वगिन्द्रियमावग्राह्यो गुणः स्पर्शः । स त्रिविधः शीतो- ष्णानुष्णाशीतभेदात् । पृथिवीजलतेजोवायुत्तिः । तत्र शीतो जळे उष्णस्तेजसि अनुष्णाशीतः पृथिवीवाय्वोः ॥२१॥ स्पर्श लक्षयति-वगिति । स्पर्शत्वेऽतिव्याप्तिवारणाय गुणपदम् । संयोगादावतिव्याप्तिवारणाय मात्रपदम् । "तिक्तकटुकारलमधुरकषाया रसप्रकाराः ।" स्पर्शानामपि "मृदुकठिनगुरुलघुशीतो- गस्निग्धरुक्षस्पर्शभेदा" इत्यष्टविधत्वमेव तत्त्वार्थराजवार्तिके प्रतिपादितम् । कौण्डभट्टास्तु पदार्थदीपिकायां स्पर्शः कोमलकठिनचित्रभेदादनेकधा।” इत्याहुः । भट्टमते रूपं तावत् पञ्चविधम् । तदाहुर्मानमेयोदये-"तञ्च शुक्लकृष्णपीतरक्त- श्यामभेदेन पञ्चविधम् ।" इति (१०० पृ० ) परन्तु "एतेषामवान्तरभेदाः पुनरसङ्ख्या” इत्यग्रिमग्रन्थेन शुक्लत्वादिव्याप्यजातेरसख्यत्वमेव तैरङ्गीकृतम् । तेषां मते गन्धस्यापि त्रैविध्यम् । तदुक्तं तत्रैव-“स च सुगन्धदुर्गन्धसाधारण- गन्धभेदेन विविध" इति । (२२) नन्ववयवरूपाणि समुच्चितान्यत्र चित्रधिया प्रतीयन्ते तेनैव पटस्य प्रत्यक्षमन्यदीयरूपेणापि धर्मिमणो ग्रहसम्भवात् शहस्येव पित्तपीतिम्नेति चेदन्य- त्रापि तथाकल्पनसम्भवेनावयविमानरूपोच्छेदः प्रसज्येत । है तर्कसंग्रहः रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च (२३) । अन्यत्रा- न्यायबोधिनी स्पर्श लक्षयति-त्वगिन्द्रियमात्रग्राह्य इति । अत्रापि मात्रपद संख्यादिसामान्यगुणादायतिव्याप्तिवारणाय । अन्यविशेषणकृत्यं पूर्ववद्वोध्यम् । ग्राह्यत्वपदार्थोऽपि पूर्ववदेव प्रत्यक्षविषयत्वरूप एव बोध्यः ॥ २१॥ (२३) ननु संख्यापरिमाणादीनामिव स्पर्शस्यापि पाकाद्वैलक्षण्यं न प्रतीयत इति रूपादिवत् स्पर्शस्यापि पामजन्वकथन "कुम्भकर्णे भकारोऽस्ति भकारोऽस्ति विभीपणे । कर्य ज्येप्टे कुलश्रेष्ठे भकारो नास्ति रावणे ॥" इति न्यायं किं नानुधावति ? इति चेदत्राहु:- "भप्रतीयमानपाकनेपु स्तम्भादिपु स्पर्णस्य पाकजत्वमनुमानात् । स्तम्मादिषु स्पर्शः पाकजः पार्थिवस्पर्शत्वाद् घटादिस्पर्शवत् । घटादिस्पर्शस्यापि पाकजत्वमे- केन्द्रियग्राह्यत्वे सति तद्गुणत्वात् तद्गवरूपवत् ।" इति न्यायकन्दलीकाराः ! किरणावलीकृतस्तु-"यदि हि पाकजो न स्यात् संख्यापरिमाणादिवदा विशिष्टः स्यात् । तथा चाशीविपवृश्चिककीटादिदंशेषु शूकशिम्बिवृश्चिकपत्रिकादिषु संस्पृष्टेषु दुःखविशेपो नोपपद्येत । मणिमूलादिविषेषु स्पृष्टेषु तदुपशमो न स्यात् । गवादिचाण्डालादिस्पर्गविधिनिषेधौ च न स्याताम् । न च द्रव्यमाने तावुपपद्यते। दर्शनस्पर्शनघ्राणास्वादनभेदेन मातगमदिरादिपु प्रायश्चित्तभेदानुपपत्तिप्रसङ्गात् ।' तस्मात् पार्थिवस्पशाऽपि पाकजः पार्थिवविशेषगुणत्वाद् गन्धवदित्यवधेयम् ।" इत्याहुः । अत्रोक्तं कौण्डभट्टेः पदार्थदीपिकायाम् , "ननु पर्गस्य पाकजत्वे किमानम् । न हि रूपरसादिवत् पाकोत्तरं स्पर्शान्तर-- मनुभूयते । न च चाण्डालस्पर्शनिपेधगोब्राह्मणस्पर्शविध्यनुपपत्त्या तसिद्धिरित्या- चार्यरुतम् । तत्र स्पर्णपदस्य संयोगपरत्वात् । अन्यथा गडास्पर्शविधिकर्मनाशा-- जलस्पर्शनिपेधानुरोधाजलेऽपि दीपानिस्पर्शनिपेधपरमेश्वरार्तिक्यदीपस्पर्शविधेरनु-- रोधात् तेजसि तत्सिद्ध्यापत्तेरिति चेन्न, पूर्व कठिनस्य पाकैन कोमलताया पूर्व कोमलस्य पाकेन काठिन्यस्य वाऽनुभवसिद्धत्वेन रूपादिवत् पाकजत्वसिद्धः । न च काठिन्यकोमलत्वे संयोगविशेषौ, चाक्षुपत्वापतेः।" इति ।

दीपिकान्यायवोधिनीध्रुवपदासहितः पाकजं नित्यमनित्यं च । नित्यगतं नित्वमनित्यगतमनित्यम्॥२२॥ पाकजमिति । पाकस्तेजःसंयोगः, तेन पूर्वरूपं नश्यति रूपान्तर- मुत्पद्यते इत्यर्थः । अत्र परमाणुष्वेव पाको न ब्यणुकादौ । आमपाक- निक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तो श्यामघटनाशे पुनर्वाणुकादिक्रमेण रक्तघटोत्पत्तिः । तत्र परमाणवः समवायिकारणम् , तेजःसंयोगोऽसम- चायिकारणम् , अदृष्टादिकं निमित्तकारणम्, व्यणुकादिरूपे कारणरूप- मसमवायिकारणमिति पीलुपाकवादिनो वैशेषिकाः । पूर्वघटनाशं विनैव अवयविनि अवयवेषु परमाणुपर्यन्तेषु च युगपद्रूपान्तरोत्पत्तिरिति पिठर- 'पाकवादिनो नैयायिकाः । अत एव पार्थिवपरमाणुरूपादिकमनित्यमित्यर्थः । अन्यत्रेति । जलादावित्यर्थः । नित्यगतमिति । परमाणुगतमित्यर्थः । अनित्यगतमिति । व्यणुकादिनिष्ठमित्यर्थः । रूपादिचतुष्टयम् उद्भूतं न्यायबोधिनी रूपादिचतुष्टयमिति । एतत्तत्त्वनिर्णयश्चेत्थम्-पाको नाम विजातीयतेजासंयोगः। स च नानाजातीयरूपजनको विजातीयस्तेज:- संयोगः। तदपेक्षया रसजनको विजातीयस्तेजःसंयोगः। एवं गन्ध. जनकोऽपि ततो विजातीय एव । एवं स्पर्शजनकोऽपि तथैव । एव. म्प्रकारेण भिन्न भिन्नजातीयाःपाका कार्यवैलक्षण्येन कल्पनीयाः। यथा तृणपुअनिक्षिप्त आम्रादौ ऊम्मलक्षणविजातीयतेजासंयोगात्पूर्वहरित- रूपनाशेन रूपान्तरस्य पीतादेरुत्पत्तिर्न तु रसादेरुत्पत्तिः, पूर्वरस. स्याम्लस्यैवानुभवात् । चित्पूर्वहरितरूपसत्त्वेऽपि रसपरावृसिई श्यते । विजातीयतेजासंयोगरूपपाकवशात्पूर्वतनाम्लरसनाशेन मधुर- रसस्यानुभवात् । तस्माद्रूपजनकापेक्षया रसजनको विलक्षण पवाजी. कार्यः। एवं गन्धजनको विलक्षण एव । स्परसयोरपरावृत्तावपि पूर्वगन्धनाशे विजातीयपाकवशास्सुरभिगन्धोपलब्धेः । एवं स्पर्श जनकोऽपि। पाकवशात्कठिनस्पर्शनाशेन मृदुस्पर्शानुभवात् । तस्मादू- पादिजनका विजातीया एव पाकाः यथाकार्यमुन्नेयाः। अत एव पार्थिवपरमारनामेकजातीयत्वेऽपि पाकमहिना विजातीयद्रव्योन्तरा- नुभवः । यथा गोभुक्ततृणादीनामापरमाण्वन्तमझे तृणारम्भकपर. मागुषु विजातीयतेजःसंयोगात्पूर्वरूपादिचतुष्टयनाशे तदनन्तरं दुग्धे यादृशं स्पादिकं वर्तते ताशरूपरसगन्धस्पर्शजनकास्तेज:- तर्कसंग्रहः प्रत्यक्षम् । अनुद्भूतमप्रत्यक्षमः उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः । तद- भावोऽनुभूतत्वम् (२४)। एकत्वादिव्यवहारहेतुः संख्या । नद्रव्यत्तिः । एकत्वा- दिपरार्धपर्यन्ता। एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्ययतमनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव ॥२३॥ संख्या लक्षयति-एकति । मानव्यवहारासाधारणं कारणं परिमाणम् । नवद्रव्यवृत्ति । तच्चतुर्विधम्-अणु, महत्, दीर्घ, हस्वं चेति ॥२४॥ परिमाणं लक्षयति-मानेवि । परिमाणं विभजते-तच्चेति ।। भावप्रधानो निर्देशः । अणुत्वं, महत्त्वं, दीर्घत्वं ह्रस्वत्वं चेत्यर्थः । पृथग्व्यवहारासाधारणं कारणं पृथक्त्वम् (२५) । सर्वद्रव्य- वृत्ति ॥२शा न्यायवोधिनी संयोगा जायन्ते । तदुत्तरं तैरेव ताशरूपरसादय उत्पद्यन्ते । ताह- शरूपरसादिविशिष्टपरमाणुभिर्दुग्धद्वयणुकमारभ्यते । ततस्यणुकादि- क्रमेण महादुग्धारम्भः । एवं दुग्धारम्भकैः परमाणुभिरेव दध्यार- भ्यते । एवं पाकमहिम्ना ध्यारम्भकैरेव परमाणुभिनवनीतादिकमिति दिक् ॥२२॥ (२४) 'उद्भूतत्वं जातिः । न च शुल्लत्वादिना साङ्कय्यम् । गुणसाङ्कय्यं न वाधकम्, इति नवीनमताभिप्रायकोऽयं अन्य इति न दोपः । इति नीलकण्ठभट्टाः मुक्तावलीकृतस्तु 'उदभूतत्वं न जातिः शुक्लत्वदिना सकरात् । न च शुक्लत्वादि- व्याप्यं नानवोद्भूतत्वमिति वाच्यम् , उद्भूतरूपत्वादिना चालुपादौ जनकतानु. पपत्तेः किन्तु शुकृत्वादिव्याव्यमनुभूतत्वं नाना तदभावश्चोभूतत्वम् ।' इत्याहुः ।। 'नीलवशुक्लत्वादिव्यापकमूदभूतत्वमेकमेव सामान्यं चाक्षुपप्रयोजक पिशाचनिदा. चोप्मादौ न नीलशुक्लाद्यत्मकं रूपं विन्तु तद्भिनमेव, प्रत्यक्षस्य चाक्षुपाद्यन्यत- मत्वनियम इव रूपस्य नीलशुक्लाद्यन्यतमत्वनियमे मानाभावादिनि सामान्य- लक्षणायां जगदीशः। (२५) प्राभाकरास्तु कार्यद्रव्येपु पृथक्त्वं नानुमन्यन्ते, तदाहुः- "पृथक्त्वं तु गुणो नित्यद्रव्येषु परमाणुषु । मवेद व्यावतको धम्मः कार्यद्रव्येषु नेष्यते ॥'

दीपिकान्यायबोधिनीध्रुवपदासहितः पृथक्त्वं लक्षयति-पृथगिति । 'इदमस्मात् पृथक्' इति व्यवहार- कारणमित्यर्थः । संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यदृत्तिः ॥२६॥ संयोगं लक्षयति-संयुक्तेति । 'इमो संयुक्तौ' इति व्यवहारहेतुरि- त्यर्थः (२६) । संख्यादिलक्षणेषु सर्वत्र दिक्कालादावतिव्याप्तिवारणाय असाधारणेति देयम् । संयोगो द्विविधः-कर्मजः संयोगजश्च । आयो हस्तक्रियया पुस्तकसंयोगः । द्वितीयो हस्तपुस्तकसंयोगात् कायपुस्तक- संयोगः । अव्याप्यवृत्तिः संयोगः । स्वात्यन्ताभावसमानाधिकरणत्वम्- अव्याप्यवृत्तित्वम् । संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥२७॥ विभागं लक्षयति-संयोगेति | कालादावतिव्याप्तिवारणाय-गुण इति । रूपादावतिव्याप्तिवारणाय संयोगनाशक इति । विभागोऽपि अद्वैतवादिनस्तु-स्तम्भात् कुम्भो भिन्न इति कुम्भभेदावगमस्य तत्पूर्व- भाविस्तम्भभेदावगमनिबन्धनत्वात् , स्तम्भभेदावगमस्य च तत्पूर्वभाविकुम्भमेदाव. गमाधीनत्वाद् भेदप्रतिपत्तिमेव दुरुपपादां मन्यमानाः “नेह नानास्ति किञ्चन"(वृ० ४१४१९) इत्यादिवाक्यानां विरोधपरिहाराय पृथक्त्वं नाम गुणान्तरं परमार्थतो नास्तीस्याहुः। शिरोमणिभट्टाचार्यैरपि पदार्थतत्वनिरूपणे-"पृथक्त्वमपि न गुणान्त- रम् । अन्योन्याभावादेव पृथक्त्वव्यवहारोपपत्तेः । पृथक्त्वप्रतीतिस्तु न सावधित्वा- लम्बना मानाभावात् । घटात् पटः पृथक् इतरेभ्योऽन्यो भिन्नोऽर्थान्तरमित्यादौ च तरछब्दविशेषप्रयोगे पञ्चम्यानुशासनकी ।” (२८-२९ पृ०) इतिग्रन्थेन पृथकत्वस्य गुणान्तरत्वं निराकृतम् । (२६) "संयोगविभागद्वित्वद्विपृथक्त्वादयोऽनेकाश्रिता" इतिभाग्यव्याख्यानाव- सरे श्रीधराचार्याः,-एका संयोगव्यक्तिरेका च विभागव्यक्तिरुभयोर्द्रव्ययोर्वर्तते इस्यनेकाश्रितस्वम् ।" इत्याहुः । मीमांसकमतेच संयोगः प्रत्याश्रयं भिन्नः । तथा च शास्त्रदीपिकायाम्,-"मथ संयोगः किमेक एक द्वयोः संयोगिनोः ? उत प्रतिसंयोगि मिन्नावेव संयोगो ? काश्यपीयास्तावत् संयोगमुभयोासक्तमेकं मन्यन्ते । वयन्तु यथा इदमनेन सदृशमिदमनेन इति प्रतियोगिनमपेक्ष्य इतरत्र इतरस्यावगम्यमानं सादृश्यं प्रतिधम्मि भिन्नं भवति, तथा संयोगस्य तादृशबुद्धि- विषयवाद् भेदमेव रोचयामहे ।" इति ।

तर्कसंग्रहः द्विविधः कर्मजो विभागजश्च । आद्यो हस्तक्रियया हस्तपुस्तकविभागः । द्वितीयो हस्तपुस्तकविभागाकायपुस्तकविभागः । परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्या दिचतुष्टयमनोवृत्तिनी । ते द्विविधे दिकृते काळकृते च । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ॥२८॥ परत्वापरत्वयोर्लक्षणमाह-परापरेति । परव्यवहारकारणं परत्वम् । अपरव्यवहारकारणमपरत्वम् इत्यर्थः । ते विभजते-द्विविधे इति । दिकृतयोरुदाहरणमाह-दूरस्थ इति । कालकृते उदाहरति-ज्येष्ठ इति । आद्यपतनासमवायिकरणं गुरुत्वम् (२७)। पृथिवीजल- वृत्ति ।। २९ ॥ गुरुत्वं लक्षयति-आद्येति । द्वितीयादिपतनस्य वेगासमवायिका- रणत्वाद्वेगेऽतिव्याप्तिवारणाय आद्येति । न्यायबोधिनी विभागं लक्षयति - संयोगेति । संयोगनाशकत्वविशिष्टगुणत्वं विभागस्य लक्षणम् । विशेषणमात्रोपादाने क्रियाया अपि संयोगना- शकत्वात्तत्रातिव्याप्तिस्तद्वारणाय गुणत्वमिति विशेग्योपादानम् ॥२७॥ गुरुत्वं लक्षयति-आद्यति । द्वितीयपतनक्रियायां वेगस्थासम. (२७) गुरुत्वं न केनचिदिन्द्रियेण गृह्यते । तथा च प्रशस्तपादभाग्यम् , "गुरुत्वधर्माधर्मभावना ह्यतीन्द्रियाः ।" न्यायलीलावतीकृतस्तु-अदृष्टसापे. क्षेण त्वगिन्द्रियेण पृष्ठाद्यारोपितपदार्थस्य गुरुत्वमुपलभ्यत एव । न च तत्रापि तदु- पलब्धिरानुमानिकी भवतीति वक्तुं शक्यम् , तदनुमापकपतनायोगात् । अदृष्टनिर. पेक्षेणैव त्वगिन्द्रियेण गुरुत्वमुपलभ्यतामित्यपि न साम्प्रतम्, तर्हि ऊर्द्धावच्छे. देनापि तदुपलन्धि. प्रसज्येत । इति मन्यन्ते । अत एव तेषां ग्रन्थः- "भतो योगी- न्द्रियवदिन्द्रियमदृष्टसहायमतीन्द्रियेऽपि गुरुत्वे प्रवर्तत इति ।" ननु पतनहेतुगुरुत्ववत् ज्वलनज्वालाया ऊर्ध्वगमननिदानं लघुत्वमपि गुणा. न्तरं सेत्स्यतीति चेन्न, तत्रोद्गमननियमस्य कारणवेगपूर्वकवेगादेवोपपत्तेर्गुणान्तर- कल्पनाया अन्याय्यत्वात् । लघुत्वप्रत्ययविपयत्वं च गुरुत्वापकर्ष एव ।

दीपिकान्यायबोधिनीध्रुवपदासहितः ३९ स्यन्दनासमवायिकरणं द्रवत्वम् । पृथिवीजलतेजोवृत्ति । तद् द्विविधम्-सांसिद्धिक नैमित्तिकं चेति । सांसिद्धिकं जळे । नैमित्तिकं पृथिवीतेनसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ॥३०॥ द्रवत्वं लक्षयति-स्यन्दनेति । स्यन्दनं प्रस्रवणम् । तेजःसंयोगजं नैमित्तिकम् । तद्भिन्न सांसिद्धिकम् । पृथिव्यां नैमित्तिकमुदाहरति- घृतादाविति । तेजसि तदाह-सुवर्णादाविति । चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ॥३१॥ स्नेह लक्षयति-चूर्णेति । कालादावतिव्याप्तिवारणाय गुण इति । रूपादावविव्याप्तिवारग्माय पिण्डीभावेति । न्यायबोधिनी वायिकारणत्वात्तत्रातिव्याप्तिवारणायायेति । उत्तरत्र स्यन्दने आद्य- त्वविशेषणमपि पूर्ववदेव योजनोयम् ॥२६॥ स्नेहं लक्षयति-चूर्णादीति। चूर्णादिपिण्डीभावहेतुत्वे सति गुणत्वं स्नेहस्य लक्षणम् । पिण्डीभावो नाम चूर्णादेर्धारणाकर्षण- हेतुभूतो विलक्षणः संयोगः । तादृशसंयोगे स्नेहस्यैवासाधारणका- रणत्वं न तु जलादिगतद्रवत्वस्य, तथा सति द्रुतसुवर्णादिसंयोगेन चूर्णादेः पिण्डीभावापत्ते, अतः स्नेह एवासाधारणं कारणम् । विशेष- णमात्रोपादाने कालादावतिब्याप्तिरतस्तद्वारणाय विशेष्योपादानम् । वस्तुतस्तु द्रुतजलसंयोगस्यैव चूर्णादिपिण्डीभावहेतुत्वं स्नेहस्य पिण्डीभावहेतुत्वे मानाभावात् । जले द्रुतत्वविशेषणात्करका. दिव्यावृत्तिः ॥३१॥ श्रोत्रग्राह्यो गुणः शब्दः (२८)। आकाशमात्रवृत्तिः । , 2 (२८) ननु शब्दो द्रव्यम् इन्द्रियसंयोगसमवायान्यतरवेद्यत्वाद्, घटवदित्य. नुमानेन शब्दस्य द्रव्यत्वं कथं न सिध्यति ? अत एव महानेकः शब्दो वेगेन दूर गत इत्यादिसर्वजनव्यवहारोऽपि सूपपद्यते । इति चेन्न, भश्रावणत्वस्योपाधित्वात् । तथा च महत्वादिगुणवत्त्वं तत्रैकार्थसमवायसम्बन्धेनैवोपपद्यत इति शब्दो द्रव्य- मिति भट्टमतं नादरणीयम् । तदुक्तं शाकुन्तलेऽपि-'श्रुतिविषयगुणा या स्थिता म्याप्य विश्वम् ।' इति ।

तर्कसंग्रहः द्विविधः-ध्वन्यात्मको वर्णात्मकश्चेति । ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥३२॥ शब्द लक्षयति-श्रोत्रेति ॥ शब्दत्वेऽतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय श्रोत्रेति । शब्दनिविधः-संयोगजो, विभा- गजः, शब्दजश्चेति । तत्र आद्यो भेरीदण्डसंयोगजन्यः । द्वितीयो वंशे पाट्यमाने दलद्वयविभागजन्यश्चटचटाशब्दः । भेर्यादिदेशमारभ्य श्रोत्र- पर्यन्तद्वितीयादिशब्दाः शब्दजाः । सर्वव्यवहारहेतुर्गुणो बुद्धिानम् । सा द्विविधा-स्मृतिरनु- भवश्च ॥३३॥ बुद्धेर्लक्षणमाह-सर्वेवि । कालादावतिव्याप्तिवारंणाय गुण इति । रूपादावतिव्याप्तिवारणाय सर्वव्यवहार इति । जानामीत्यनुव्यवसाय- गम्यबानत्वं लक्षणमित्यर्थः । बुद्धिं विभजते-सेति । संस्कारमात्रजन्यं ज्ञानं स्मृतिः। तद्भिन्नं ज्ञानमनुभवः । स द्विविधः-यथार्थोऽयथार्थश्चेति । तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा 'अयं घटः' इति ज्ञानम् । सैव प्रमेत्युच्यते ॥३४॥ न्यायबोधिनी शब्दं लक्षयति-श्रोत्रेति । शब्दत्वेऽतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय श्रोत्रेति । स त्रिविधः-संयोगजो विभा. गजः शब्दजश्चेति । यथा भेरीदण्डसंयोगजो झवारादिशब्दः, हस्ता- मिघातसंयोगजन्यो मृदङ्गादिशब्दः । वंशे पाट्यमाने दलद्वयविभागज. श्चटचटाशब्दः । शब्दोत्पत्तिदेशमारभ्य श्रोत्रदेशपर्यन्तं वीचीतरङ्गन्या- येन कदम्बमुकुलन्यायेन वा निमित्तपवनेन शब्दद्धारा जायन्ते, तत्र उत्तरोत्तरशब्दे पूर्वपूर्वशब्दः कारणम् ॥३२॥ बुद्धेर्लक्षणमाह-सर्वव्यवहारेति । 'व्यवहारः' शब्दप्रयोगः । ज्ञानं विना शब्दप्रयोगासम्भवाच्छन्दप्रयोगरूपव्यवहारहेतुस्वं ज्ञानस्य लक्ष- रणम् । वुद्धिं विभजते-सा द्विविधेति ॥३३॥ स्मृति लक्षयति-संस्कारेति । पहिरिन्द्रियाजन्यत्वविशिष्ट. संस्कारजन्यत्वविशिष्टज्ञानत्वं स्मृतेर्लक्षणम् । विशेषणानुपादाने

दीपिकाम्पाययोधिनीध्रुवपदासहितः
स्मृतेर्लक्षणमाह-संस्कारेति । भावनाख्यः संस्कारः । संस्कार-
ध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति । घटादिप्रत्यक्षेऽतिव्याप्तिवारणाय
संस्कारजन्यमिति । प्रत्यभिज्ञायामतिव्याप्तिवारणाय मात्रेति ।
अनुभवं लक्षयति-तद्भिन्नमिति । स्मृतिभिन्नं , ज्ञानमनुभव
इत्यर्थः । अनुभवं विभजते -स द्विविध इति । यथार्थानुभवं लक्षयति-
तद्वतीति । ननु 'घटे घटत्वम्' इति प्रमायामव्याप्तिः, घटत्वे घटाभावा.
दिति चेत् , न, यत्र यत्सम्बन्धोऽस्ति तत्र तत्सम्बन्धानुभव इत्यर्थात
न्यायबोधिनी
प्रत्यक्षानुभवेऽतिव्याप्तिस्तद्वारणाय विशेषणोपादानम् । संस्कारध्वंसे.
ऽतिव्याप्तिवारणाय विशेष्योपादानम् । ध्वंसं प्रति प्रतियोगिनः
कारणत्वात् संस्कारध्वंसेऽपि संस्कारजम्यत्वस्य सत्त्वात् प्रत्यमि-
ज्ञायामतिव्याप्तिवारणाय मात्रपदम् ।
अनुभवं लक्षयति-तद्भिनमिति । तद्भिन्नत्वं नाम स्मृतिभिन्न-
त्वम् । तथा च स्मृतिभिन्नत्वविशिष्टकोनत्वमनुभवस्य लक्षणम् । तत्र
विशेषणानुपादाने स्मृतावतिव्याप्तिः, विशेष्यानुपादाने घटादावति-
व्याप्तिरतस्तद्वारणाय विशेषणविशेष्ययोरुभयोरुपादानम् । अनुभवं
विभजते-स द्विविध इति ।
यथार्थानुभचं लक्षयति तद्वतीति । तद्वतीत्यत्र सप्तम्यर्थो विशे.
व्यत्वम् , तच्छन्देन प्रकारीभूतो धर्मो धर्तव्यः। तथा च तद्वद्विशेष्यकत्वे
सति तत्प्रकारकानुभवत्वं यथार्थानुभवस्य लक्षणम् । उदाहरणम् -
रजते 'इदं रजतम्' इति ज्ञानम् । अत्र रजतत्ववद्विशेष्यकत्वे सति
रजतत्वप्रकारकत्वस्य सत्त्वाल्लक्षणसमन्वयः । तद्वन्निष्ठविशेष्यतानि.
कपिततनिष्ठप्रकारताशालित्वमिति तु निष्कर्षः । अन्यथा यथाश्रुते
रगरजतयोरिमे रजतरङ्गे इत्याकारकसमूहालम्बनभ्रमेऽतिव्याप्तिः,
तत्रापि रजतत्ववद्विशेष्यकत्वरजतत्वप्रकारकत्वयो रङ्गत्ववद्विशेष्यकत्व-
रगत्वप्रकारकत्वयोः सत्त्वात् । उक्तनिस्कर्षे तु नातिव्याप्तिः, तज्ज्ञानस्य
रङ्गांशे रजतत्वावगाहित्वेन रजताशे रङ्गत्वावगाहित्वेन च रजतत्व.
प्रकारतायाः रङ्गत्ववनिष्ठविशेष्यतानिरूपितत्वेऽपि रङ्गत्व निष्ठप्रकार-
ताया रजतत्ववनिष्ठविशेष्यतानिरूपितत्वेऽपि रजतत्वप्रकारताया रज.
तत्ववनिष्ठविशेष्यतानिरूपितत्वाभावात् , एवं रङ्गत्वप्रकारतायो रङ्गत्व-
पन्निष्ठविशेष्यतानिरूपितत्वाभावाच ॥३४॥

तर्कसंग्रहः
घटत्वेऽपि घटसम्बन्धोऽस्ति इति नाव्याप्तिः । सैवेति । यथार्थानुभव एव
शास्ने प्रमा' इत्युच्यते इत्यर्थः ।
तदभाववति तत्मकारकश्चायथार्थः ॥३५॥
अयथार्थानुभवं निरूपयति तदभाववतीति । ननु 'इदं संयोगि'
इति प्रमायामतिव्याप्तिः, इति चेन्न, यदवच्छेदेन यत्सम्बन्धाभावः,
तदवच्छेदेन तत्सम्बन्धज्ञानस्य विवक्षितत्वात् । संयोगामावावच्छेदेन संयोग-
ज्ञानस्य भ्रमत्वात् संयोगावच्छेदेन संयोगसम्बन्धस्य सत्त्वात् नातिव्याप्तिः ।
यथार्थानुभवश्चतुर्विधः-प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ।
तत्करणपपि चतुर्विधम्-प्रत्यक्षानुमानोपमानशब्दभेदात् ॥३६।।
यथार्थानुभवं विभजते-यथार्थेति । प्रसङ्गात् प्रमाकरणं विभनते-
तत्करणमिति । प्रमाकरणमित्यर्थः । प्रमायाः करणं प्रमाणमिति प्रमाण-
सामान्यलक्षणम् ।
न्यायबोधिनी
अयथार्थानुभवं लक्षयति-तदभाववतीति । अत्रापि पूर्ववत्तद्-
भाववनिष्ठविशेष्यतानिरूपिततनिष्टप्रकारताशालिज्ञानत्वं विवक्षणी-
यम् । अन्यथा यथाश्रुते रङ्गरजतयोरिमे रङ्गरजते इत्याकारकसमू-
हालम्बनप्रमायामतिव्याप्तिः, पतत्समूहालम्बनस्य रङ्गरजतोमय-
विशेष्यकत्वेन रजतत्वरङ्गत्वोमयप्रकारकत्वेन च रजतत्वाभाववद्रग-
विशेष्यकत्वरजतत्वप्रकारकत्वयो रङ्गत्वाभाववद्रजत विशेष्यकत्वरङ्ग-
त्वप्रकारकत्वयोश्च सत्त्वात् । उक्तनिष्क तु न तथातिव्याप्तिः, तादृश-
प्रमाया रजतांशे रजतत्वावगाहित्वेन रझांशे रङ्गत्वावगाहित्वेन च
रजतत्वप्रकारताया रजतत्वाभाववद्रङ्गनिष्ठविशेष्यतानिरूपितत्वाभा-
वात्। एवं रगत्वप्रकारतायारङ्गत्वाभाववद्रजतनिष्टविशेष्यतानिरूपित.
त्वाभावान्नातिव्याप्तिः। उदाहरणं यथा शुक्तौ 'इदं रजतम्' इति ॥३५॥
यथार्थानुभवं विमजते-चतुर्विध इति ।
तत्करणमिति-फलीभूतप्रत्यक्षादिकरणं चतुर्विधमित्यर्थः ।
प्रत्यक्षादिचतुर्विधप्रमाणानां प्रमाकरणत्वं सामान्यलक्षणम् । एकैक-
प्रमाणलक्षणं तु वक्ष्यते प्रत्यक्षज्ञानेत्यादिना ॥३६॥

दीपिकान्यायवोधिनीध्रुवपदासहितः असाधारणं कारणं करणम् (२६) ॥३७॥ करणलक्षणमाह-असाधारणेति । साधारणकारणे दिकालादाव- तिव्याप्तिवारणाय असाधारणेति । न्यायबोधिनी करणलक्षणमाह-असाधारणमिति । व्यापारवदसाधारणं कारणं करणमित्यर्थः। असाधारणत्वञ्च कार्यत्वातिरिक्तधर्मावच्छिन्न- कार्यतानिरूपितकारणताशालित्वम्। यथा दण्डादेर्घटादिकं प्रत्यसा- (२९) अव्यवधानेन फलविशिष्टं चरमकारणमेव करणमिति प्राचीन- नैयायिकाः । अत एव तेषां मते लिङ्गपरामर्श एवानुमानम् । तदुक्तं न्यायवार्तिककारी "यस्माल्लिङ्गपरामर्शादनन्तरं शेपार्थप्रतिपत्तिरिति ।" समर्थितमेतत् तर्कभाषाकृद्धि- रपि । तथा च "लिङ्गपरामर्शोऽनुमानम्" इति तद्ग्रन्थन्याख्यानावसरे न्याय- प्रदीपकारैः-"ननु लिगपरामर्शस्य चरमकारणत्वात् तस्य च स्वोत्तरभाविभाव- भूतकारणानपेक्षत्वरूपत्वाद् व्यापाराभावेन करणत्वाभावात् कथमनुमानत्वमिति चेत् । न वात्तिककारमते यस्मिन् सति क्रिया भवत्येव तस्यैव करणत्वेन निर्व्यापारस्यादोपवा"दिति समाहितम् । तत्करणमनुमानं तच्च लिङ्गपरामर्श” इत्यादितत्त्वचिन्तामणि-सन्दर्भस्य दीधितिकारादिभिरन्यथा व्याख्यातत्वेऽपि गङ्ग शोपाध्यायैरुयोतकरवत् लिङ्गपरामर्शपदमेव प्रयुक्तम् । नव्यास्तु-- "क्रियागः परिनिष्पत्तिर्यव्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणत्वं तदा स्मृतम् ॥" इति वाक्यपदीयकारिकानुसारेण व्यापारवत् कारणं करणमिति करण- लक्षणमाहुः । तन्मते च परामर्शो व्यापारः करणं व्याप्तिज्ञानम् । तार्किकरक्षाकारैः- "नित्यानित्यतया द्वेधा प्रमा नित्यप्रमाश्रयः। प्रमाणमितरस्यास्तु करणस्य प्रमाणता ॥" "एवञ्च नित्यप्रमाश्रयत्वादीश्वरस्यापि प्रतितन्त्र सिद्धान्तसिद्धं प्रामाण्यमपि लक्षितं भवति । तदुक्तम् , आप्तप्रामाण्यादिति । तन्मे प्रमाण शिव इति चे"त्या- दिग्रन्थसन्दर्भेणेश्वरस्यापि प्रमाणत्वमुपपादितम् ।

तर्कसंग्रहः
कार्यनियतपूर्ववृत्ति कारणम् ॥३०॥
कारणलक्षणमाह-कार्येति । 'पूर्ववृत्तिकारणम्' इत्युक्ते रासभादौ
अतिव्याप्तिः स्याद्तो नियतेति । तावन्मात्रे कृत्ते कार्येऽतिव्याप्तिरतः पूर्व-
वृत्तीति । ननु तन्तुरूपमपि पटं प्रति कारणं स्यादिति चेत्, न, 'अन-
न्यथासिद्धत्वे सति' इति विशेषणात् । अनन्यथासिद्धत्वम् अन्यथासिद्धि-
विरहः । अन्यथासिद्धिः त्रिविधा-येन सहैव यस्य यं प्रति पूर्ववृत्तित्व-
मवगम्यते तत्तेनान्यथासिद्धम् । यथा तन्तुना तन्तुरूपं तन्तुत्वं च पटं
प्रति । अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववृत्तित्वमव-
गम्यते तं प्रति तदन्यथासिद्धम् । यथा शब्द प्रति पूर्ववृत्तित्वे ज्ञाते एव
पटं प्रति आकाशस्य । अन्यत्र क्लुप्तनियतपूर्ववृत्तिन एव कार्यसम्भव
तत्सहभूतमन्यथासिद्धम् यथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य ।
एवं च अनन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम् ।
कार्य प्रागभावप्रतियोगि ॥३९॥
कार्यलक्षणमाह-कार्यमिति ।
न्यायवोधिनी
धारणकारणत्वम् । कार्यत्वातिरिक्तो घटत्वादिरूपो धर्मः तदवच्छिन्न-
कार्यता घटे तन्निरूपितकारणता दण्डे अतो घटं प्रति दण्डोऽसाधा-
रणं कारणम् । भ्रम्यादिरूपव्यापारवत्त्वाञ्च करणम् । साधारणकारण-
त्वञ्च कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम् । यथेश्व-
राष्टादेः कार्यत्वावच्छिन्नं प्रत्येव कारणत्वात्साधारणकारणत्वम् ॥३७॥
कारणं लक्षयति-कार्यनियतेति । कार्य प्रति नियतत्वे सति पूर्व-
वृत्तित्वं कारणत्वम् । नियतत्वविशेषणानुपादाने पूर्ववर्तिनो रासभादे-
रपि घटादिकारणत्वं स्यादतो नियतत्वे सतीति विशेषणम् । नियत-
पूर्ववर्तिनो दण्डरूपादेरपि घटकारणत्वं स्पादतोऽनन्यथासिद्धपदमपि
कारणलक्षणे निवेशनीयम् । एवं च न तत्रातिव्याप्तिः, दण्डरूपादीना-
मन्यथालिद्धत्वात् ॥३८॥
कार्य लक्षयति-कार्यमिति । प्रागभावप्रतियोगित्वं कार्यस्य
लक्षणम् । कार्योत्पत्तः पूर्वम् ‘इह घटो भविष्यति' इति या प्रतीति-
र्जायते तत्प्रतीतिविषयीभूतो योऽभावः स प्रागभावः, तत्प्रतियोगि
घटादिरूपं कार्यम् ॥३६॥

दीपिकान्यायबोधिनीध्रुवपदासहितः कारणं त्रिविधम्-समवाय्यसमवायिनिमित्तभेदात् । यत्स- मवेत कार्यमुत्पद्यते तत् समवायिकारणम् । यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः। कार्येण कारणेन वा सहकस्मिन्नर्थे समवेतत्वे सति यत् कारणं तदसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य । तदुभयभिन्न कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य ॥४०॥ कारणं विभजते-कारणमिति । समवायिकारणलक्षणमाह-यत्स- मवेतमिति । यस्मिन् समवेतमित्यर्थः । असमवायिकारणलक्षणमाह- न्यायबोधिनी कारणं विभजते-कारणमिति समवायिकारणमसमवायिकारणं निमित्तकारणं चेति। समवायिकारणं लक्षयति-यत्समवेतमिति । यस्मिन्समवेतं सत्समवायेन सम्बद्धं सत् कार्यमुत्पद्यते तत्समवायिकारणमित्यर्थः । उदाहरणम् यथा तन्तब इति । येषु तन्तुषु समवायेन सम्बद्धं सत्पटात्मकं कार्यमुत्पद्यते तत्तन्तवः समवायिकारणमित्यर्थः । सामान्यलक्षणन्तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्य. सम्बन्धावच्छिन्नकारणत्वं समवायिकारणत्वमिति । समवायसम्बन्धेन घटाधिकरणे कपालादौ कपालादेः तादात्म्यसम्बन्धेनैव सत्त्वात्, समघायसम्बन्धावच्छिन्नघटत्वाद्यवच्छिन्नकार्यतानिरूपिततादात्म्यस. म्बन्धावच्छिन्नकपालत्वाद्यवच्छिन्नकारणतायाः कपालादी सत्त्वालक्ष- णसमन्वयः । समवायेन जन्यभावत्वावच्छिन्नंप्रति तादात्म्यसम्बन्धेन द्रव्यस्यैव कारणत्वाजन्यभावेषु द्रव्यगुणकर्मसु त्रिषु द्रव्यमेव लमवा- यिकारणम् । द्रव्ये तु द्रव्यावयवाः समवायिकारणम् , अतो गुणादा- यपि द्रव्यमेव समवायिकारणमित्याशयेनाह-पटश्च स्वगतरूपादे- रिति । समधायिकारणमित्यनुषज्यते। असमवायिकारणं लक्षयति-कार्येणेति । असमषायिकारणं द्विविधं कार्येण सहकस्मिन्नर्थे समवेतं सत् यत् कारणं तत् इत्येकम्, कारणेन सहकस्मिन्नर्थ समवेतं सत् यत् कारणं तदपरमसमवा. यिकारणमित्यर्थः। अत्र कारणेनेत्यस्य स्वकार्यसमवायिकारणेनेत्यर्थः।

४६
तर्कसंग्रहः
-
कार्येणेति । कार्येणेत्येतदुदाहरति-तन्तुसंयोग इति । कार्येण पटेन सह
एकस्मिन् तन्तो समवेतत्वात् तन्तुसंयोग. पटस्यासमवायिकारणमित्यर्थः ।
कारणेन सहेत्येतद्दाहरति-तन्तुरूपमिति । कारणेन पटेन सह एकस्मिन्
तन्तौ समवेतत्वात् तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः । निमित्त-
कारणं लक्षयति-तदुभयेति । समवाय्यसमवायिभिन्न कारणं निमित्त-
कारणमित्यर्थः ।
न्यायवोधिनी
जन्यद्रव्यमाने अवयवसंयोगस्यैवासमवायिकारणत्वात्पटात्मककार्ये
तवयवतन्तुसंयोगल्यैवासमवायिकारणत्वमिति दर्शयन् प्रथममुदा-
हरति-यथा तन्तुसंयोगः पटस्येति । यथा तन्तुसंयोगः पटात्मक-
कार्येण सहकस्मिन्नर्थ तन्ती समवायसम्बन्धेन विद्यमानत्वे सति कार.
णत्वात्पटात्मककार्य प्रति तन्तुसंयोगोऽसमवायिकारणमित्यर्थः।
द्वितीयमसमघायिकारणं कारणेन सहेत्यादिना पूर्वोक्तं तटुवाहरति-
तन्तुरूपमिति | कारणेन सह पटरूपसमवायिकारणीभूतपटेन सह,
एकस्मिन्नर्थ तन्तुरूपेऽर्थे समवेतत्वे सति कारणत्वात् तन्तुरूपं पट-
गतरूपस्यासमवायिकारणमित्यर्थः। सामान्यलक्षणं तु समवायसम्ब-
धावच्छिन्नकार्यतानिरूपिता या समवायस्वसमवायिलमवेतत्वान्य-
तरसम्बन्धावच्छिन्ना कारणता तदाश्रयत्वमसमवायिकारणत्वमिति ।
द्रव्यासमवायिकारणीभूतावयघसंयोगादौ तु समवायसम्बन्धावच्छि-
नघटत्वावच्छिन्नकार्यतानिरूपिता समवायसम्बन्धावच्छिन्ना कपाल-
द्वयसंयोगनिष्टा कारणता कपालद्वयसंयोगे वर्तते । एवमाद्यपतन-
क्रियायामाद्यस्यन्दनक्रियायां च गुरुत्वद्वत्वे अलमवायिकारणे
भवतः। आद्यपतनक्रियां प्रति आद्यस्यन्दनक्रियां प्रति च समवाय.
सम्बन्धेनैव तयोः कारणत्वात् । अवयविगुणभूत घटपटरूपादौ त्वव-
यवगुणीभूतकपालतन्तुरूपादेः स्वपदग्राह्यकपालतन्तुरूपादिसमवा.
यिकपालतन्त्वादिसमवेतत्वसम्बन्धेनैव कारणत्वात् तत्सम्बन्धाव
च्छिन्नकारणताश्रयत्वमवयवगुणीभूतकपालतन्तुरूपादौ वर्तते ।
निमित्तकारणं लक्षयति-तदुभयभिन्न मिति । समवायिकारण-
भिन्नत्वे सति असमवायिकारणभिन्नत्वे सति कारणत्व निमित्तकारण-
स्य लक्षणमित्यर्थः ॥४०॥

दीपिकान्यायबोधिनीध्रुवपदासहितः तदेतत्रिविध कारणमध्ये यदसाधारण कारणं तदेव करणम् । तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्विविधम्-निर्विकल्पकं सविकल्पकं चेति । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् । सप्रकारकं ज्ञानं सविकल्पकम् । यथा डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयमिति । ४१॥ करणलक्षणमुपसंहरति-तदेतदिति । प्रत्यक्षलक्षणमाह-तत्रेति । प्रमाणचतुष्टयमध्ये इत्यर्थः । प्रत्यक्षज्ञानस्य लक्षणमाह-इन्द्रियेति । न्यायबोधिनी करणलक्षणमुपसंहरति तदेतदिति । यदसाधारणमिति । व्यापारवत्त्वे सतीत्यपि पूरणीयम् , अन्यथा तन्तुकपालसंयोगयोर- तिव्याप्तिः, तन्तुकपालसंयोगयोरपि कार्यत्वातिरिक्तपटत्वघटत्वाव. च्छिन्नं प्रति कारणत्वादसाधारणत्वमस्त्येवेत्यतस्तत्र करणत्ववारणाय व्यापारवत्त्वे सतीति करणलक्षणे विशेषणं देयम् । व्यापारत्वञ्च तजन्यत्वे सति तजन्यजनकत्वम् । भवति हि दण्डजन्यत्वे सति दण्डजन्यघटजनकत्वाइम्यादेर्दण्डव्यापारत्वम् । एवं कपालसंयोगत- न्तुसंयोगादेरपि कपालतन्तुव्यापारत्वं कपालतन्तुजन्यत्वेसति कपा- लतन्तुजन्य घटपटजनकत्वात् । करणलक्षणेऽसाधारणत्वविशेषणा- नुपादाने ईश्वरादृष्टादेरपि व्यापारवत्कारणत्वं स्यात् , अतस्तत्राति. च्याप्तिवारणायासाधारणेति विशेषणम् । षधेिन्द्रियभूतप्रत्यक्षप्रमाणस्य लक्षणमाह-तत्रेति । प्रमाभूत- प्रत्यक्षादिषु प्रत्यक्षात्मकं यज्ज्ञानं चाक्षुषादिप्रत्यक्षं तत्प्रति व्यापार चदसाधारणं कारणमिन्द्रियं भवति । अतःप्रत्यक्षज्ञानकरणत्वं प्रत्य- अस्य लक्षणम् । आधसन्निकर्षातिरिक्तचतुर्विधसन्निकर्षाणां समवाय. रूपत्वेनेन्द्रियजन्यत्वाभावाव्यापारत्वं न सम्भवतीति इन्द्रियमन:- संयोगस्यैव बाह्यप्रत्यक्षे जननीये इन्द्रियव्यापारता बोध्या । मानस- प्रत्यक्ष त्यात्ममनः संयोगस्यैव सा बोध्या। प्रत्यक्षप्रमाणलक्षणमुक्त्वा प्रत्यक्षप्रमालक्षणमाह-इन्द्रियार्थ- सभिकर्षति । जन्यप्रत्यक्षस्यैव लक्ष्यत्वमित्यभिप्रायेणेदं लक्षणम् । ईश्वरप्रत्यक्षसाधारणं तु-ज्ञानाकरणकं ज्ञानं प्रत्यक्षमिति । शान च्याप्तिशानं सादृश्यज्ञानं पदज्ञानं च तदेव करणं येषां तानि ज्ञान- ४८ तर्कसंग्रहः इन्द्रियं चक्षुरादिकम् , अर्थो घटादिः, तयोः सन्निकर्षः संयोगादिः, तज्जन्यं नानमित्यर्थः। तद्विभजते-तद्विविधमिति । निर्विकल्पकस्य लक्षणमाह- निष्प्रकारकेति । विशेषणविशेष्यसम्बन्धानवगाहि नानमित्यर्थः । ननु निर्विकल्पके किं प्रमाणमिति चेत्, न, गौरिति विशिष्टनानं विशेषणनानजन्यं विशिष्टज्ञानत्वात् दण्डीति ज्ञानवत् इत्यनुमानस्य प्रमाणत्वात् । विशेषणज्ञानस्यापि सविकल्पकत्वे अनवस्थाप्रसगात् निर्विकल्पकसिद्धिः (३०) । सविकल्पकं लक्षयति-सप्रकारकमिति । नामजात्यादिविशेषणविशेष्यसम्बन्धावगाहि ज्ञानमित्यर्थः । सविकल्पक- मुदाहरति-यथेति । न्यायवोधिनो करणकानि अनुमित्युपमितिशाब्दानि तद्भिन्न प्रत्यक्षमित्यर्थः। प्रत्यक्ष इन्द्रियाणामेव करणत्वं न तु ज्ञानस्य । तथा च ज्ञानाकरणकज्ञान- त्वस्य प्रत्यक्षसामान्य एव सत्त्वाल्लक्षणसङ्गतिः। प्रत्यक्षं विभजते- निर्विकल्पकमिति । तल्लक्षयति-तत्र निष्प्रकारकमिति । प्रकारताशून्यज्ञानत्वमेव निर्विकल्पकत्वमित्यर्थः। निर्विकल्पके चतुर्थी विषयता स्वीक्रियते । त्रिविधविषयतामध्ये एकापि तत्र नास्ति । अतो विशेष्यताशून्यज्ञानत्वं संसर्गताशून्यज्ञानत्वमित्यपि लक्षणं सम्भवति । सविकल्पकं लक्षयति-सप्रकारकमिति | विषयताया शान- निरूपितत्वाज्ज्ञानस्य विषयतानिरूपकत्वेन प्रकारतानिरूपकज्ञानत्वं सविकल्पकस्य लक्षणम् । एवं विशेष्यतानिरूपकज्ञानत्वं संसर्गता. निरूपकज्ञानत्वमित्यपि लक्षणं सम्भवति। उदाहरणम्-यथेति । इद. त्वावच्छिन्नविशेष्यतानिरूपितडित्थत्वप्रकारताशालिज्ञानम् इदन्वाय- च्छिन्नविशेष्यतानिरूपितम्राह्मणत्वप्रकारताशालिज्ञानं च सविकल्प- कामित्यर्थः ॥४॥ (३०) ननु बालानां प्रथमतः स्तन्यपानादिप्रवृत्युपपत्तिरीत्या जन्मान्तरीय संस्कारमूलकस्मृति प्रकल्प्याऽऽद्यप्रत्यक्षमुपपादनीयमिति नाशडक्यम् , अनन्तसं. स्कारमूलकानन्तस्मृतिकल्पनापेक्षया निर्विकल्पकानामनन्तानामपि युक्तत्वात् , नवाविष्कृतवस्तुगतवैजात्यानां देवदत्तत्वादिजातीनाच जन्मान्तराऽननुभूततया तत्तद्रूपैः प्राथमिकप्रत्यक्षानुरोधेन निर्विकल्पकस्वीकारावश्यकत्वाच्च । -- 14 दीपिकान्यायबोधिनीध्रुवपदासहितः 1 - - - प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षडिधः-संयोगः, संयु- क्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति (३१)। १-चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः। २-- घटरूपप्रत्यक्षे संयुक्तसमवायः सन्निकर्षः । चक्षुःसंयुक्त घटे रूपस्य समवायात् । ३-रूपत्वसामान्यमत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुःसंयुक्ते घटे रूपं समवेतं, इन्द्रियार्थसन्निकर्ष विभजते-प्रत्यक्षेति ॥ संयोगसन्निकर्षमुदाहरति- चक्षुपेति । द्रव्यप्रत्यक्षे सर्वत्र संयोगः सन्निकर्ष इत्यर्थ. । आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षज्ञानमुत्पद्यते । संयुक्त- समवायमुदाहरति-घटरूपेति । तत्र युक्तिमाह-चक्षु संयुक्तइति । न्यायबोधिनी चाक्षुषादिषधिप्रत्यक्षकारणीभूतान् षधिसन्निकर्षान्विभजते- संयोग इत्यादि । द्रव्यवृत्तिलोकिकविषयतासम्बन्धेन चाक्षुषत्वाव- च्छिन्नं प्रति चतुःसंयोगस्य कारणत्वम् । द्रव्यसमवेतवृत्तिलौकि- कविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवायस्य हेतुत्वम् । द्रव्यसमवेतसमवेतवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुष. त्वावच्छिन्नं प्रति चतुःसंयुक्तसमवेतसमवायस्य हेतुत्वम् । द्रव्यग्राह- - -- है + शाब्दिकनये च नास्ति निर्विकल्पकम् । तदुक्तं वाक्यपदीये-"न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाहत" इति । सौगतमते तु निर्विकल्पकमेव प्रत्यक्षं सविकल्पकस्य प्रत्यक्षत्वं प्रमाणत्वं च नास्ति । (३१) कौमारिलमते च त्रेधा सन्निकर्षः । संयोगः संयुक्ततादात्म्यं संयुक्तत- दात्मतादात्म्यम् । तदुक्तं मानमेयोदये-"यथा परे रूपत्वादिग्रहणाय संयुक्तस- मवेतसमवायमाश्रयन्ते, तथाऽस्माकमपि संयुक्ततदात्मतादात्म्यं नाम तृतीयः सनिकर्पोऽस्तु ।" ( ६ पृ.) प्रामाकारास्तु संयोगः संयुक्तसमवायः, समवाय इत्येवं निविधं सन्नि- कर्षमाहुः । तन्मते रूपत्वादीनां शब्दत्वस्याभावस्य धाभावात् समवायस्य च प्रत्य- क्षत्वायोगात् संयुक्तसमवेतसमवायस्थ समवेतसमवायस्य विशेषणविशेष्यभावस्य च सन्निकर्पत्वं नावश्यकमिति भावः । -- ५ तर्कसंग्रहः तत्र रूपत्वस्य समवायात् । ४-श्रोत्रेण शब्दसाक्षात्कारे सम- वायः सन्निकर्पः । कर्णविवरवाऽऽकाशस्य श्रोत्रत्वात् शब्द- स्याकाशगुणत्वात् गुणगुणिनोश्च समवायात् । ५-शब्दत्व- संयुक्तसमवेतसमवायमुदाहरति-रूपत्वेति । समवायमुदाहरति-श्रोत्रेणेति । तदुपपादयति-कर्णेति । ननु दूरस्थशब्दस्य कथं श्रोत्रेण सम्बन्ध इति चेत्, न, वीचीतरगन्यायेन कदम्बमुकुलन्यायेन वा (३२) शब्दाच्छन्दा. न्तरोत्पत्तिक्रमेण श्रोत्रदेश जातस्य श्रोत्रसम्बन्धात् प्रत्यक्षत्वसम्भवात् । समवेतसमवायमुदाहरति-शब्दत्वेति । विशेषणविशेष्यभावमुदाहरति- न्यायवोधिनी काणीन्द्रियाणि चनुस्त्वङ्मनांसि त्रीण्येव । अन्यानि वाणरसनश्रव- णानि गुणग्राहकाणि । अतस्त्वगिन्द्रियस्थले द्रव्यवृत्तिलौकिकविषय- तासम्बन्धेन त्वाचत्वावच्छिन्नं प्रति त्वक्संयोगस्य हेतुता । एवं द्रव्यसमवेतत्वाचत्वावच्छिन्नं प्रति त्वक्संयुक्तसमवायस्य हेतुता । द्रव्यसमवेतसमवेतोष्णत्वशीतत्वादिजातिस्पार्शनप्रत्यक्ष त्वक्संयुक्तस- मवेतसमवायस्प हेतुना। एवमात्ममानलप्रत्यक्षे मनःसंयोगस्य हेतुता। आत्मसमवेतसुखादिमानसप्रत्यक्ष मनःसंयुक्त समवायस्य हेतुता। आत्मसमवेतसमवेतसुखत्वादिमानसप्रत्यक्ष मनःसंयुक्तसमवेतसमवा- यस्य हेतुता। रसनवाणयोस्तु रसगन्धतद्गतजातिग्राहकन्वेन द्वितीय तृतीययोः सन्निकर्षयोरेव तत्र हेतुता वाच्या। श्रवणेन्द्रियस्याकाशरू- (३२) वैशेपिकमते वीचीतरङ्गन्यायेन शब्दात् शब्दान्तरमुत्पद्यते । तथा च प्रशस्तपादाप्ये- "शब्दाच्च संयोगविभागनिष्पन्नाद वीचीसन्तानवच्छन्दसन्तान इत्येवंसन्ता- नेन श्रोत्रप्रदेशमागतस्य ग्रहणम् ।" इति । न्यायनये च कदम्बगोलकन्यायेन तदुत्पत्तिः। तदुक्तं न्यायवार्तिके- "तत्रायः शब्द. संयोगविभागहेतुकः तस्माच्छन्दान्तराणि कदम्बगोलकन्या- येन सर्वदिक्कानि तेभ्यः प्रत्येकमेकैकः शब्दो मन्दतरतमादिन्यायेनाश्रयाप्रतिबन्ध- मनुविधीयमानः प्रादुरस्तीति ।" वेदान्तिनस्तु “घ्राणरसनत्वगात्मकानीन्द्रियाणि स्वस्थानस्थितान्येव गन्धरस- स्पर्शोपलम्मान् जनयन्ति । चक्षु श्रोत्रे तु स्वत एव विपयदेशं गत्वा स्वस्वविषयं दीपिकान्यायबोधिनीध्रुवपदासहितः 1 साक्षात्कारे समवेतसमवायः सन्निकर्षः। श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । ६–अभावप्रत्यक्षे विशेषणविशेष्य अभावेति । तदुपपादयति-घटाभाववदिति । भूतलं विशेष्यम् । घटाभावो विशेषणम् । 'भूतले घटो नास्ति' इत्यत्र अभावस्य विशेष्यत्वं द्रष्टव्यम् । एतेन अनुपलब्धेः प्रमाणान्तरत्वं निरस्तम् । 'यद्यत्र घटोऽभविष्यत् तदा भूतलमिवाद्रक्ष्यत् दर्शनाभावान्नास्ति' इति तर्कितप्रतियोगिसत्त्वविरोभ्यनु- पलब्धः सहकृतेनेन्द्रियेणैव अभावज्ञानोपपत्ती अनुपलब्धेः प्रमाणान्तरत्वा- सम्भवात् । अधिकरणत्वज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्तावनुप- न्यायबोधिनी पत्वेन शब्दस्याकाशगुणत्वेन श्रवणेन्द्रियेण समं शब्दस्य समवायः सन्निकर्षः । शब्दवृत्तिशब्दत्वकत्वस्वत्वादिजातिविषयकश्रावणप्रत्यक्षे समवेतसमवायस्य हेतुता च वोध्या । अभावप्रत्यक्ष इति । विशेषणविशेष्यभावो नाम विशेषणतासन्निकर्षः । पञ्चविधसन्निकर्षेषु मध्ये संयोगस्थाने संयुक्तपदं समवायस्थाने समवेतपदं च घटयित्वा अभावस्थले निर्वाह्यम् । तथा हि द्रव्याधिकरणकाभावप्रत्यक्षे इन्द्रिय गृहीतः, श्रोत्रस्यापि चक्षुरादिवत् परिच्छिन्नतया भेर्यादिदेशगमनसम्भवात् । श्रत एवानुभवो भेरीशब्दो मया श्रुत इति । वीचीतरङ्गादिन्यायेन कर्णशष्कुली- प्रदेशेऽनन्तशब्दोत्पत्तिकल्पनाया गौरवं 'भेरीशब्दो मया श्रुत' इति प्रत्ययस्य भ्रमत्वकल्पनागौरवञ्च स्या"दिति [ वेदान्तपरिभाषायां ] वदन्ति । तन समीचीनम् । यतः श्रोत्रस्यामूर्तरवेन विषयदेशोपगमनं न सम्भवति न च क्रियाकारणनोदनाभिघातसमवायात तत्र क्रियावत्वमित्यपि साम्प्रतम्, आ- स्मनि व्यभिचारात् । अत एव विद्यमानोऽप्याकाशेऽभिघातः क्रियाहेतुर्न भवति, महत्परिमाणेन प्रतिबन्धात् । “तुप्यतु दुर्जन" इतिन्यायेन श्रोत्रस्य क्रियावत्व- स्वीकारेऽपि न समीहितसिद्धिः, तथा सति- "वायौ शब्दानुकूले च न तस्य श्रवणं भवेत् । गच्छन्त्याः प्रतिकूलो हि श्रोत्रवृत्तः स मारुतः॥" शब्दानुकूले पवने दवीयसोऽपि शब्दस्य श्रवणं प्रतिवातञ्च समीपेऽपि तस्या- श्रवणमित्यस्य विपरीतप्रसक्तिः स्यात् श्रोत्रस्य विपयदेशगमनपक्षे । वस्तुतस्तु प्रोत्रस्य शब्ददेशसमुपसर्पणमेवासम्भवदुक्तिकम् , कर्णशकुल्यवच्छिन्नस्यैव नभसः ५२ तसंग्रहः - भावः सन्निकर्पः । घटाभाववद्भूतलमित्यत्र चक्षुःसंयुक्त भूतके लब्धेः करणत्वस्यायुक्तत्वात् । विशेषणविशेष्यभावो विशेषणविशेष्यस्वर- पमेव नातिरिक्तः सम्बन्धः । प्रत्यक्षज्ञानमुपसंहरन तस्य करणमाह- न्यायबोधिनी संयुक्तविशेषणता । द्रव्यसमवेतसमवेताधिकरणकामावप्रत्यक्षेन्द्रिय. संयुक्तसमवेतविशेषणता । द्रव्यसमवेतसमवेताधिकरणकाभाषप्रत्यक्ष संयुक्तसमवेतसमवेतविशेषणता च सन्निकर्षः। तत्र घटे पटत्याभावः श्रोत्रत्वस्वीकारात ; न हि कर्णशकुली मूर्त्तापि सती वक्तवनमुपसर्पति, तस्माद गच्छन्यपि नभोमात्रे कर्णशकुल्युपधानविरहात् श्रोत्रस्य विपयदेशगमनं कथमपि न सम्भवति, कर्णशकुल्युधानमन्तरेणापि कंवलनमासम्बन्धेन शब्दप्रत्यक्षोपगमे गोहदेशप्रयुक्तो गोशब्दो वाराणस्यानपि येत । तस्मादकामेनापि वीचीनरगन्या- येन शब्दोत्पत्तिपक्ष एव स्वीकरणीय इति । आर्हतास्तु मापावर्गणापरमाणुभि. पुलाभिधानेरारभ्यते शब्दस्तथा च साव- यवः । तदुक्तं प्रमेयकमलमार्तण्डे-“यदस्मामिः श्रावणस्वभावविनाशोत- पत्तिमत् पुलद्रव्यमित्यभिधीयते, तद्युष्माभिर्वर्ण इत्याख्यायते ।" सूत्रितं च प्रमाणनयतत्त्वालोकालबारे "अकारादिः पौगलिको वर्ण" इति । स च शब्दः स्त्रोत्पत्तिस्थानात प्रविशति कर्णरन्ध्रमिति नानुपपत्तिः प्रत्यक्षस्येति वदन्ति । तन्मतमित्थं निराकृतं जयन्तमट्टपादायमञ्जाम्- "वर्णस्यावयवाः सूक्ष्माः सन्ति केचन पुद्गलाः । तेवोऽवयवी नाम जन्यते पश्य कौतुकम् ॥ कृशश्च गच्छन् स कथं न विक्षिप्येत मारुतैः । दलशो वा न भज्येत वृक्षाद्यभिहतः कथम् ॥ प्रयाणकावधिः कश्च गच्छतोऽस्य तपस्विनः । एकप्रोत्रप्रविष्टो चा स श्रृयेतापरैः कथम् ॥ निष्क्रय कर्णादकस्मात् प्रवेशः श्रवणान्तरे । बढीष्येत कथं वस्य युगपद् घहुभिः श्रुतिः ॥ श्रोतृसस्यानुसारेण नानावर्णसम्भवः । वक्तुस्तुल्यप्रयत्नत्वात् श्रोतृभेदे तदत्यये॥ एतेन- "द्वारावृतेऽपि सदने प्रणयप्रकर्षा- देवं प्रिये स्फुरदपत्रपया स्खलन्ती। न दीपिकान्यायबोधिनीध्रुवपदासहितः घटाभावस्य विशेषणत्वात् । एवं सन्निकर्षषटकजन्यं ज्ञानं एवविति । असाधारणकारणत्वादिन्द्रियं प्रत्यक्षज्ञानकरणमित्यर्थः । प्रत्य- न्यायबोधिनी संयुक्तविशेषणतया गृह्यते । घटसमवेतघटत्वादौ पृथिवीत्वाभावः संयुक्तसमवेतविशेषणतया गृह्यते । घटसमवेतसमवेतरूपत्वादौ नीलत्वा. भावश्च संयुक्तसमवेतसमवेतविशेषणतया गृह्यते । इति संक्षेपः॥४२॥ इति प्रत्यक्षपरिच्छेदः। द्वारि स्थितस्य सरसा कुलवालिकाया. कर्णातिथीभवति मन्मथसूक्तिमुद्रा ॥ "एवञ्च प्राप्त एवैष शब्दः श्रोत्रेण गृह्यते । श्रोत्रस्यापि ततः सिद्धा निर्बाधा प्राप्यकारिता ॥" इति रत्नाकरावतारिकोक्तिन सङ्गच्छते शब्दस्य गुणरूपताया वीचीत- रङ्गादिन्यायेन तदुत्पत्तेश्च स्वीकारमन्तरेण । अथ नैयायिकनयेऽपि- "शब्दः शब्दान्तरं सूते इति तावदलौकिकम् । कार्यकारणभावो हि न दृष्टस्तेषु बुद्धिवत् ।। जन्यन्तेऽनन्तरे देशे शब्दः स्वसदृशाश्च ते । तिर्यगू मधश्चेति केयं श्रधानता ॥ शब्दान्तराणि कुर्वन्तः कथं च विरमन्ति ते । न हि वेगक्षयस्तेषां मरुतामिव कल्पते ॥ कुड्यादिव्यवधाने च शब्दस्यावरणं कथम् । व्योम्नः सर्वंगतत्वाद्धि कुड्यमध्ये व्यवस्थितिः ।। तुल्यारम्भे च तीव्रण मन्दस्य जननं कथम् । श्रूयते चान्तिकात् तीव्रः शब्दो मन्दस्तु दूरतः ॥ वीचीसन्तानतुल्यत्वमपि शब्देषु दुर्वचम् । मूर्तिमत्त्वक्रियायोगवेगादिरहितात्मसु ॥" मैवम्- समानजातीयगुणारम्भिणो बहवो गुणाः । सन्ति रूपादयो लोके ततो नेयं कुकल्पना । शब्दसन्तानविरतिरपि भवत्यष्टाधीनसंसर्गाणां सहकारिणामनवस्थानात् । तदुक्तं कन्दलीकारैः- 'न चानवस्था यावदूरं निमित्तकारणभूतः कौष्ठ्यवायुरनुवर्तते तावद्दूर शब्दसन्तानानुवृत्तिः । अत एव प्रतिवातं शब्दानुपलम्भः कौष्ट्यवायुप्रती- घातात् ।" इति । वा ५४ तर्कसंग्रहः प्रत्यक्षम् । तत्करणमिन्द्रियम् । तस्मात् इन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ।।४२।। प्रत्यक्षं व्याख्यातम् । क्षमुपसंहरति-तस्मादिति । इति प्रत्यक्षपरिच्छेदः (३३)। m तदिदं सुस्पष्टमुक्त कणादरहस्ये- कण्ठतालवाद्यभिघातजनितकर्मणो वायोः शब्दनिमित्तकारणतामापनस्य यावद्वेगमभिप्रतिष्टमानस्य क्वचिद्गतिप्रतिबन्धात् क्वचिद् विनाशाद् वा शब्दा- न्तरानुत्पत्तेः शब्दसन्तानविनाशात् ।" अत एव कुड्यादिव्यवधाने शब्दानुपलब्धिरपि सूपपद्यते । न्यायमरीका- रैरन्यथापि समाहितमेतत् । तथा च- "यत्तु कुड्यादिव्यवधाने किमिति विरमति शब्दसन्तानारम्भ इति । नैष दोषः । निरावरणस्य हि व्योम्नः शब्दारम्भे समवायिकारणत्वं तथादर्शनात कल्प्यते नाका- शमात्रस्येति ।" तीव्रणापि शनैरेवमतीव्रारम्भसम्भवः । सीदत्सचिवसामय॑सापेक्षक्षीणवृत्तिना ॥ बीचीसन्तानदृष्टान्तः किञ्चित्साम्यादुदाहृतः । न तु वेगादिसामयं शब्दानामस्त्यपामिव ॥ (३३) अलौकिकसन्निकर्षजन्यमलौकिकमपि प्रत्यक्षमस्ति । तन्त्र सामान्यलक्षणा ज्ञानलक्षणा योगजधर्मश्चेति त्रिविध. सन्निकर्षः । तत्र सामान्यलक्षणा-धूमत्वा- दिज्ञानरूपा, सामान्य लक्षणं विषयो यस्या इतिव्युत्पत्तः । तथा च धूमत्वेन सकलधूमानां वह्नित्वेन सकलवह्नीनां च भानसाधनार्थ तत्स्वीकार भावश्यकः । सकलवह्निधूमभानाभावे का क्षतिरिति नाशश्नीयम् , प्रत्यक्षधूमे वहिव्यातेहीत- त्वादन्यधूमस्य चानुपस्थितत्वाद धूमो वह्निव्याप्यो न वेति संशयानुपपत्तेः। तद. गोकारे तु तादृशालौकिकप्रत्यासत्या धूमत्वादिप्रकारकज्ञानरूपया सकलधूमोप- स्थिती देशान्तरीयकालान्तरीयधूमे वहिव्याप्यत्वसन्देहः सूपपादः । ज्ञानलक्षणा च स्वजन्यप्रत्यक्षोवुद्धसंस्कारजन्यस्मृतिरूपा । एवञ्च यत्र चन्द- नादौ संयुक्तसमवायेन सौरभं गृहीतं पश्वाञ्चन्दनखण्डे दृष्टे स्मृतं सौरभं चक्षुषा गृह्यते-सुरमि चन्दनमिति, तत्र चक्षुपा सह सौरभस्य तादृशस्मृतिरूपज्ञानमेव सन्निकर्ष । नन्वेतयोर्द्वयोरेव प्रत्यासत्यो नरूपत्वात् को भेद इति चेत्, कार्य- कारणभावभेदादेव तयोर्भेदव्यवहारः। तथा च ज्ञानलक्षणानिरूपितझायंताभित- कार्यतानिरूपितकारणतावती सामान्यलक्षणा ज्ञानलक्षणातो भिन्नेति भावः ।

दीपिकान्यायबोधिनीध्रुवपदासहितः अथ अनुमानम् अनुमितिकरणमनुमानम् । परामर्शजन्यं ज्ञानमनुमितिः (३४)। अनुमान लक्षयति-अनुमितिकरणमिति । अनुमितेर्लक्षणमाह- परामर्शति । ननु संशयोत्तरप्रत्यक्षेऽतिव्याप्तिः । स्थाणुपुरुषसंशयानन्तरं न्यायबोधिनो अनुमानं लक्षयति-अनुमितीति । अनुमितौ व्याप्तिशानं करणं, परामर्शो ग्यापारस, अनुमितिः फलं कार्यमित्यर्थः । परामर्शस्य च्याप्ति एवं योगिनां सूक्ष्मव्यवहितविप्रकृष्टपदार्थप्रत्यक्षे योगजधर्मः सन्निकर्षः । तदुक्तं न्यायमनाम्- "यथा वा पुटपाकेन शोध्यमानं शनैः शनैः । हेम निष्प्रतिकाशं तद् यानि कल्याणतां पराम् ॥ तथैव भावनाभ्यासाद् योगिनामपि मानसम् । ज्ञाने सकलविज्ञेयसाक्षात्कारे क्षमं भवेत् ॥ योगिप्रत्यक्षं सौगतैरप्यनुमतम् । तथा च 'न्यायविन्दौ' धर्मकीर्तिः "भूतार्थभावनाप्रकर्षपर्यन्त योगिज्ञानन्चेति ।" न चेदं नानुमतं जैनानामपि । तदुक्तम् आप्तमीमांसायाम् , "सूक्ष्मान्तरितदूरार्था. प्रत्यक्षाः कस्यचिद यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥' कणादरहस्यकृतस्तु "सामान्यलक्षणा च प्रत्यासत्तिर्विशेषणताविशेष एव । भासन्ते यतीतानागतधूमादयो धूमत्वसामान्यविशेषणतया सेयं संयुक्तसमवेत- विशेषणता। योगजधर्मश्च प्रत्यासत्त्यन्तरमेव तत्संस्कृतेन मनसाऽतीतानागतस्वरूपा- योग्यपरमाण्वाकाशादीनामनिरासात् । ज्ञानलक्षणा तु संयुक्तसमवेतविशेषणतैव । मनःसंयुक्तात्मसमवेतज्ञानविशेषणतया परमाणुप्रभृतीनामपि भामात् । भवति हि परमाणुमहं जानामीति प्रत्यक्षम् ।” इत्याहुः । (३४) तर्कभाषाध्याख्यानरूपे न्यायप्रदीपे-"लिङ्गदर्शनण्याप्तिस्मृ- तिभ्यामेवानुमितिर्भवतीति कन्दलीकारादिमतं प्रतिक्षेप्तुमाह । एतच्चावश्याभ्यु. पेतव्यमिति ।" इति ग्रन्थेन श्रीधराचार्य्यमते परामर्शस्य नानुमितिकारणत्वमिति प्रतिपादितम् । परन्तु तत्रत्यभाष्यसन्दर्भणापि तथा प्रतीतिर्भवतीति । उक्तञ्च प्रशस्तपादाचार्य "एवं प्रसिद्धसमयस्यासन्दिग्धधूमदर्शनात् साहचर्यानुस्मरणात् तदनन्तर- मग्न्यध्यवसायो भवतीति ।"

५६ तर्कसंग्रहः 'पुरुषत्वव्याप्यकरादिमानयम्' इति परामर्श सति 'पुरुष एव' इति प्रत्य- क्षजननात् । न च तत्रानुमितिरेवेति वाच्यम् । 'पुरुषं साक्षात्करोमि' इत्यनुव्यवसायविरोधादिति चेत् , न, पक्षतासहकृतपरामर्शजन्यत्वस्य विवक्षितत्वात् । सिपाधयिषाविरहसहकृतसिद्ध्यभावः पक्षता। साध्यसिद्धि. रनुमितिप्रतिवन्धिका सिद्धिसत्त्वेऽपि 'अनुमिनुयाम्' इतीच्छायामनु- मितिदर्शनान् सिपाधयिषोत्तेजिका । ततश्चोत्तेजकाभावविशिष्टमण्यभा- वस्य दाहकारणत्ववत् सिपाधयिषाविरहकृतसिद्ध्यभावस्यापि अनुमिति- कारणत्वम् । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा 'वहिव्याप्य- धूमवानयं पर्वत' इति ज्ञानं परामर्शः। तज्जन्यं 'पर्वतो दह्निमान्' इति ज्ञानमनुमितिः । परामर्श लक्षयति-व्याप्तीति । व्याप्तिविषयकं यत् पक्षधर्मताजानं स्यायबोधिनी ज्ञानजन्यत्वे सति व्याप्तिज्ञानजन्यानुमितिजनकत्वाचजम्यत्वे सति तज्जन्यजनकत्वरूपव्यापारत्वमुपपन्नम् । अनुमितिकरणत्वमनुमानस्य लक्षणम् । अनुमानं व्याप्तिज्ञानम् । एतस्य परामर्शरूपन्यापारद्वारा अनुमिति प्रत्यसाधारणकारणतयाऽनुमितिकरणत्वमुपपन्नम् । परार्शजन्यमिति । परामर्शजन्यत्वविशिष्टज्ञानत्वमनुमितेर्लक्ष- णम् । अत्र ज्ञानत्वमात्रोपादाने प्रत्यक्षादावतिव्याप्तिः अतस्तद्वारणाय परामर्शजन्यत्वे सतीति विशेपणोपादानम् । परामर्शजन्यत्वमात्रोक्ती परामर्शध्वंसेऽतिव्याप्तिरतस्तद्वारणाय ज्ञानत्वोपादानम् । अत्र न्यायकन्दली व्याख्या- "एवं प्रसिद्धसमयस्य प्रसिद्धाविनामावस्य पुरुषस्यासन्दिग्धधूमदर्शनात् धूम एवायं न वाप्पादिकमितिज्ञानात् तदनन्तरमन्यव्यवसायः भग्न्यनुमानं भवति । नन्वेवं द्वितीयो (तृतीयो ? ) लिङ्गपरामों न लभ्यते, मालम्भि, न हि नस्तेन प्रयोजनं लिङ्गदर्शनव्याप्तिस्मरणाभ्यामेवानुमेयप्रतीत्युपपत्तेः।" क्वचिद् भाप्यपुस्तके "अग्न्यध्यवसायो भवतीत्य"नन्तरं “ततपरं तद्भव. ती"त्यधिकः पाठ. समुपलभ्यते । तादृशपाठमनुसृत्य किरणावलीकारैरिस्थं व्याख्यातम्, - दीपिकान्यायबोधिनीध्रुवपदासहितः .. - स परामर्श इत्यर्थः । परामर्शमभिनीय दर्शयति-यथेति । अनुमिति- मभिनीय दर्शयति-तज्जन्यमिति । परामर्शजन्यमित्यर्थः । यत्र (यत्र) धुमस्तत्राग्निरिति साहचर्यनियमो व्याप्तिः (३५) । व्याप्तेर्लक्षणमाहे-यत्रेति । 'यत्र धूमः तत्राग्निः' इति व्याप्तेरभि- न्यायबोधिनी अनुमितिलक्षणघटकीभूतपरामर्शलक्षणमाचष्टे-व्याप्तिविशिष्टेति। च्याप्तिविशिष्टं च तत्पक्षताशानञ्च इति कर्मधारये विशिष्टपदस्य प्रकारकपरत्वात् पतधर्मताशानमित्यत्र षष्ठ्या विषयत्वबोधनात् धर्मतापदस्य सम्बन्धार्थकत्वात् कर्मधारयसमासे समस्यमानपदा- र्थयोरभेदसंसर्गलाभाच्च व्याप्तिप्रकारकाभिन्नं यत्पक्षसम्बन्धिविषयक शानं तत्परामर्श इति लभ्यते । एवं सति 'धूमो वन्हिल्याप्य आलोक- घान्पर्वतः' इत्याकारकसमूहालम्बनेऽप्युक्तपरामर्शलक्षणमस्तीत्यति. व्याप्तिस्तद्वारणीय पक्षनिष्ठविशेष्यतानिरूपिता या हेतुनिष्ठा प्रकारता तनिरूपिता या व्याप्तिनिष्ठा प्रकारता तच्छालिशानं परामर्श इति निष्कर्षः। एतादृशपरामर्शजन्यत्वे सति शानत्वमनुमितेर्लक्षणम् । अनु. मितिपरामर्शयोर्विशिष्य कार्यकारणभावश्चेत्थम्-पर्वतत्वावच्छिन्नोहे- श्यतानिरूपितसंयोगसम्बन्धावच्छिन्नवन्हित्वावच्छिन्नविधेयताकानु- मितित्वावच्छिन्न प्रति वन्हित्वावच्छिन्नप्रकारतानिरूपितव्याप्तित्वाव- च्छिन्नप्रकारतानिरूपिता या धूमत्वावच्छिन्नप्रकारता तन्निरूपितपर्वत- स्वावच्छिन्नविशेष्यतातच्छालिनिर्णयःकारणम् ।वन्हित्वावच्छिन्नप्रका- रतानिरूपितव्याप्तित्वावच्छिन्नविशेष्यतायाः धूमत्वावच्छिन्नविशेष्यता. निरूपितव्याप्तित्वावच्छिन्नप्रकारतायाश्चाभेदानङ्गीकर्तृमते पन्हित्वाव. च्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्न व्याप्तित्वावच्छिन्नप्रकारता. निरूपितविशेष्यत्वावच्छिन्नधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वा- वच्छिन्नविशेष्यताशालिनिर्णयः कारणमिति वाच्यम् । स च निर्णयः वह्निन्यायधमषान्पर्वत इत्याकारको बोध्यः। 'अग्न्यध्यवसायो भवतीति । अग्निरध्यवसीयतेऽनेनेति अध्यव- सायः परामर्शः । तत्परं तद्भवति । प्रमाणं भवतीत्यर्थः । ............. नूनं परा- मोऽपि तृतीयः स्वीकर्तव्यः ।" (३५) व्याप्तेाप्यस्थ च पर्यायाः- "ध्याप्तिर्नियमः प्रतिबन्धोऽभ्यभिचारस्तथाऽविनाभावः । व्याप्यं पुननियम्यं गमकं लिङ्गं च साधनं हेतुः ॥" (मानमेयोदये, २१ पृ.)

तर्कसंग्रहः नयः । 'साहचर्यनियमः' इति लक्षणम् । साहचर्य सामानाधिकरण यं तस्य नियमः, हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधि- करण्यं व्याप्तिरित्यर्थः। व्याप्यस्य पर्वतादित्तित्वं पक्षधर्मता ॥४३॥ पक्षधर्मतास्वरूपमाह-व्याप्यस्येति । अनुमानं द्विविधम्-स्वार्थ पगर्थं च (३६)। तत्र स्वार्थ स्वानु- अनुमानं विभजते-अनुमानमिति । तद्वैविध्यं दर्शयति-स्वार्थ- मित्यादिना । तत्रेति । उभयोर्मध्ये इत्यर्थः । स्वार्थानुमितिं दर्शयति- न्यायवोधिनी यत्र यत्रेति । यत्रपदवीप्ला धूमाधिकरणे यावति वह्निमत्वला- भाय । यावत्पद्महिम्ना वह्वेधूमव्यापकत्वं लब्धम् । तदेव स्पष्टयति- साहचर्यनियम इति । एतदर्थस्तु नियतसाहचर्य व्याप्तिरिति निय. तत्वं व्यापकत्वम् । साहचर्य नाम सामानाधिकरण्यम् । तथा च धूमव्यापकवह्निसामानाधिकरण्यं व्याप्तिरित्यर्थः । अन बढेधूमव्याप- कत्वं नाम धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्म- वत्त्वम् । तथा हि धूमाधिकरणे पर्वतचत्वरमहानसादौ वर्तमानो योऽभावः घटत्वाधवच्छिन्नप्रतियोगिताकः न तु वह्नित्वावच्छिन्नप्रति योगिताकाभावः। कुतः? पर्वतादौ चन्हेः सत्त्वात् । एवं सति धूमाधि. करणे पर्वतचत्वरादौ वर्तमानस्य घटाद्यभावस्य प्रतियोगितावच्छेदकं घटत्वादिकमनवच्छेदकं वह्नित्वं तद्वत्त्वं वह्नौ वर्ततेऽतो धूमव्यापकत्वं वह्नौ वर्तते। इयमन्वयव्याप्तिः सिद्धान्तानुसारेण । पूर्वपक्षव्याप्तिस्तु लाध्याभावववृत्तित्वम् । साध्यतावच्छेदकसम्बन्धावच्छिन्नसा- ध्यतावच्छेदकावच्छिन्नप्रतियोगिताकप्रतियोगितावच्छेदकसम्बन्धाव- .च्छिन्नप्रतियोगितावच्छेदकावच्छिन्नवैयधिकरण्यावच्छिन्नाभाववन्नि- रूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रतियोगिता- काभावो व्याप्तिरित्यर्थः । तञ्च केपलान्वयिन्यव्याप्तमिति सिद्धान्ता- नुसरणम् ॥४३॥ . (३६) ननु परार्थानुमाने शाब्दबोधात्मक एव साध्यनिर्णयो नानुमिति- रिति कथमनुमान विध्यम् इति चेन्न, वादिवचनस्याप्रामाण्यशक्षाफलक्षितत्वेन दीपिकान्यायबोधिनीध्रुवपदासहितः ५९ १ मितिहेतुः । तथा हि-स्वयमेव भूयोदर्शनेन यत्र धूमस्तवाग्नि- रिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते चाग्नौ संदिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति 'यत्र धूमस्तत्राग्नि' रिति, तदनन्तरं 'वहिव्याप्यधुमवानयं पर्वत' इति ज्ञानमुत्पद्यते अयमेव लिङ्गपरामर्श उच्यते । तस्मात् 'पर्वतो वह्निमान्' इति ज्ञानमनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् । स्वयमेवेति । भूयोदर्शनेनेति । ननु पार्थिवत्वलोहलेख्यत्वादो शतशः सहचारदर्शनेऽपि मण्यादौ व्यभिचारोपलब्धे योदर्शनेन कथं व्याप्तिग्रह इति चेत् , न, व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्य व्याप्ति- प्राङ्कत्वात् । व्यभिचारज्ञानं द्विविधम्-निश्चयः, शङ्का च ।। तद्विरहः कचित्त- कर्कात् । कचित् म्वतः सिद्ध एव । धूमान्योर्व्याप्तिग्रहे कार्यकारणभाव. भद्गप्रसङ्गलक्षणस्तों व्यभिचारशङ्कानिवर्तकः । ननु सकलवहिधूम योरसन्निकर्षात्कथं व्याप्तिग्रह इति चेत् , न, वह्नित्वधूमत्त्वरूपसामान्य- प्रत्यासत्त्या सकलवह्निधूमज्ञानसम्भवात् । तस्मादिति । लिङ्गपरामर्शा. दित्यर्थः। न्यायबोधिनी अनुमानं विभजते---स्वार्थमिति । स्वार्थानुमानं नाम न्यायाप्र. योज्यानुमानम् । न्यायप्रयोज्यानुमानं परार्थानुमानम् । न्यायत्वं च प्रतिज्ञाद्यवय- षपश्चकसमुदायत्वम् । अवयवत्वं च प्रतिज्ञाद्यन्यतमत्वम् । . निर्णयाजनकत्वात् पञ्चावयवपूरणानन्तरं मनसा वाधकाभावप्रतिसन्धाने सति वादिसम्पादितव्याप्तिज्ञानादिवशान्मानसपरामर्शोत्तरमनुमित्यभ्युपगमात् । अन्यथा तन्त्र प्रतिज्ञामात्रेणैव साध्यनिश्चयसम्भवे हेतुप्रयोगादीनामानर्थक्यं प्रसज्येत । सदुक्तं न्यायकन्दल्याम्,-"न वाक्यमेव साध्यं बोधयति, तस्य शान्दत्व- प्रसङ्गात् ।"

६० तर्कसंग्रहः यत्तु स्वयं धूमादग्निमनुमाय परमतिपत्यर्थ पञ्चावयववाक्यं प्रयुज्यते, तत्परार्थानुमानम् । यथा पर्वतो वहिमान । धूम- वत्त्वात् । यो यो धृमवान् स सोऽग्निमान् यथा महानसम् । तथा चायम् । तस्मात्तथा । इति । अनेन प्रतिपादितालिङ्गात्परो- ऽप्यग्नि प्रतिपद्यते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चा- वयवाः । पर्वतोऽग्निमानिति प्रतिज्ञा । धूमवत्वादिति हेतुः । यो यो धृमवान्स सोऽग्निमान् यथा महानसम् इत्युदाहरणम् तथा चायमित्युपनयः । तस्मात्तथेति निगमनम् (३७) ॥४४॥ परार्थानुमानमाह-यत्त्विति । यच्छब्दस्य 'तत्परार्थानुमानम्' इति तच्छब्देनान्वयः । पञ्चावयववाक्यमुदाहरति-यथेति । अवयवस्वरूपमाह- प्रतिज्ञेति । उदाहृतवाक्येषु प्रतिज्ञादिविभागमाह-पर्वतो वह्निमानिति । साध्यवत्तया पक्षवचनं प्रतिज्ञा । पञ्चम्यन्तं लिङ्गप्रतिपादकं वचनं हेतुः । व्याप्तिप्रतिपादकं वचनमुदाहरणम् । व्याप्तिविशिष्टलिङ्गप्रतिपादकं वचन- - (३७) पुत एव प्रशस्तपादभाध्ये प्रतिज्ञाऽपदेशनिदर्शनाऽनुसन्धान- प्रत्यान्नायशब्देन प्रदर्शिताः । मीमांसकास्तु त्रय एवावयवाः प्रयोज्या उदाहरणान्तास्तदाद्या वेत्याहुः । एवं वेदान्तिनोऽपि। केचन प्राब्दो नैयायिका दशावयववादिन आसन् । तदुक्तं न्यायभाष्ये- "दशावयवानेके नैयायिका वाक्ये सञ्चक्षते। जिज्ञासासंशयः शक्यप्राप्तिः- प्रयोजनं संशयव्युदास इति ।" यो धूमवान् सोऽग्निमान् यथा महानसम्, धूमवांश्चायमित्येतावदुक्तौ तस्मा. दग्निमान् इत्यर्थात् सिध्यति । अत उदाहरणोपनयो द्वावेवावयवाविति सौगतमतम् । जैननये च द्वावेवावयवौ । तदुक्तं न्यायदीपिकायाम् , "द्वावयवौ प्रतिज्ञा हेतुने"ति। परन्तु पचावयवा एव पुराणकारादिभिरनुमता दृश्यन्ते । तथा च विष्णु, धर्मोत्तरे- "प्रतिज्ञाहेतुदृष्टान्तावुपसंहार एव च । तथा निगमनं चैव पञ्चावयवमिष्यते ॥"(३१५।५) दीपिकान्यायबोधिनीध्रुवपदासहितः - मुपनय हेतुसाध्यवत्तया पक्षप्रतिपादकं वचनं निगमनम् । पक्षज्ञानं प्रति. ज्ञाप्रयोजनम् । लिङ्गज्ञानं हेतुप्रयोजनम् । व्याप्तिज्ञानमुदाहरणप्रयोजनम् । पक्षधर्मज्ञानमुपनयप्रयोजनम् । अबाधितत्वादिकं निगमनप्रयोजनम् । स्वार्थानुमितिपरार्धानुमित्योलिङ्गपरामर्श एव करणम् । तस्माल्लिङ्गपरामर्शोऽनुमानम् ॥४५॥ अनुमितिकरणमाह-स्वार्थेति । ननु व्याप्तिस्मृतिपक्षधर्मताज्ञानाभ्या- मेव अनुमितिसम्भवे विशिष्टपरामर्शः किमर्थमङ्गीकर्तव्य इति चेत्, न, 'वहिन्याप्यधूमवानयम्' इति शाब्दपरामर्शस्थले परामर्शस्यावश्यकतया लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात् । लिङ्गं न करणम् । अतीताना- गतादौ व्यभिचारात् (३८)। 'व्यापारवत्कारणं करणम्' इति मते परामर्श-- - यथा . वैद्यकशास्त्रेऽपि पञ्चावयवा एव गृहीताः । तदुक्त चरकसंहितायाम् - "प्रतिज्ञा नाम साध्यवचनम् । अथ स्थापना । स्थापना नाम तस्या एव प्रतिज्ञाया हेतुदृष्टान्तोपनयनिगमैः स्थापना ।..." यथा नित्यः पुरुष इति प्रतिज्ञा, हेतुः अकृतकत्वादिति । दृष्टान्तः अकृतकमाकाशम् , तञ्च नित्यम् । उपनय., चाकृतकमाकाशं तथा पुरुपः । निगमनं , तस्मानित्य इति ।"---(विमानस्थानम् , ८२२-२३) (३८) अत्रोक्तं दोपिकाप्रकाशे नीलकण्ठभ? "विनिगमनाविरहेण ज्ञायमानलिङ्गत्वेनापि करणत्वं वदतामाचार्याणां मतं निरस्थति-लिङ्गंन करणमिति ।" इदमत्रावधेयम् -न केवलमुदयनाचार्य्यमत एव लिङ्ग करणं किन्तु महर्पि- कणादादिमतेऽपि । तथा च वैशेषिकसूत्रम्- "हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनन्तरम् ।"-(९।२।०) अत एव तत्र तत्र उपस्कारकारैरभिहितम्,-"एतेन लिङ्गमेवानुमिति. करणं न तु तस्य परामर्शः, तस्य निर्व्यापारत्वेनाकरणत्वात्, लिङ्गस्य तु स एवं व्यापारः ।" इति । एवञ्च प्रशस्तपादभाष्येऽपि- "अनुमेयेन सम्बद्धं प्रसिद्धञ्च तदन्विते । तदभावे च नास्त्येव तल्लिगमनुमापकम् ॥" इति लिङ्गस्यैवानुमितिकरणत्वमुक्तम् । अत्रैव व्याख्यातमाचार्योदय नेन- "भनुमितिरूपप्रमाकरणम् । एतेन परामृष्यमाणं लिङ्गमनुमानम् ।" इति । ६ २ तर्कसंग्रहः द्वारा व्याप्तिज्ञानं करणम् । तज्जन्यत्वे सति तज्जन्यजनको व्यापारः । अनुमानमुपसंहरति-तस्मादिति । ''लिंङ्ग त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवळव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा लिङ्गं विभजते-लिङ्गमिति। अन्वयव्यतिरेकि लक्षयति-अन्वये. नेति । हेतुसाध्ययोर्व्याप्तिरन्वयव्याप्तिः, तदभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः । न्यायवोधिनी अन्वयेनेति। व्यापकसामानाधिकरण्यम्पव्याप्तिमानित्यर्थः । व्यतिरेकेणेति । व्यतिरेको नामाभावः। तथा च साध्याभावहत्व. भावयोाप्तिर्व्यतिरेकव्याप्तिः। इयं च व्याप्तिर्यत्र यत्र वह्नयभावस्तत्र तत्र धूमाभाव इति। यत्रपदवीप्सया वह्नयभाववति यावति धूमाभाव. अहणे यावत्पदस्य व्यापकत्वपरतया धूमाभावे वह्नयभावव्यापकत्वं लभ्यते । एवं च वह्नयभावनिष्ठव्याप्तः स्वाश्रयीभूतबहथभावव्यापकी. भूताभावप्रतियोगित्वसम्बन्धेन धूमनिष्ठतया व्यतिरेकव्याप्तिमत्त्वेन धूमव्यापकवह्निसामानाधिकरण्यरूपान्वयव्यातिमत्त्वेन चान्वयव्यति- रेकित्वेन गीयते । व्यतिरेकपरामर्शस्तु वह्नयभावव्यापकीभूताभाव- प्रतियोगिधूमवान् पर्वत इत्याकारकः । "मितेन लिङ्गेन लिनिनोऽर्थस्य पश्चान्मानमनुमानम् ।” (१३)- इति न्यायमाष्यसन्दर्भदर्शनात वात्स्यायनमतेऽपि तादृशं लिगमेव करणमिति प्रत्तीयते । ज्ञायमानलिङ्गस्य करणत्वे चैत्रीयपरामर्शविषयलिङ्गान्मैत्रस्यापि अनुमिति- प्रसङ्गः । तत्तत्पुरुषीयत्वप्रवेशे गौरवमित्यपि दूपणमनुसन्धेयम् । वस्तुतस्तन्मते- ऽपि क्वचित् परामर्शस्यापि करणत्वमङ्गीकार्य्यम् । तदुक्तं जगदीशैरनुमानस्वरूप- प्रकरणे "काय॑मानं प्रत्यकारणपारिमाण्डल्यादावेवानुमितिकरणेतरत्वस्य प्रसिद्धि- सौलम्यादाचार्यमतेऽपि तद्धतुकानुमितौ परामर्शस्यैव करणत्वात् ।" इति । अत एव “लिङ्गपरामोऽनुमानमित्याचार्याः ।" इति तार्किकरक्षाकारोक्तिस्तत्रत्या "उदयनाचारपीदमेव लक्षणं भङ्गयन्तरेणोकमित्याह लिनेति ।" इति मल्लिनाथ- कृता निकण्टका टीकापि सङ्गच्छेते ।

दीपिकान्यायबोधिनीध्रुवपदासहितः वहौ साध्ये धूमवत्वम् । यत्र धूमस्तत्राग्निरिति अन्वयव्याप्तिः । यत्र वहिर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहद इति व्यतिरे- कव्याप्तिः । अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटोऽभिधेयः प्रमेयत्वात् पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिास्ति सर्वस्यैव प्रमेयत्वादभिधेयत्वाच । व्यातिरेकमात्रव्याप्तिकं केवल- व्यतिरेकि । यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्वात् । यदितरे- भ्यो न भिद्यते न तद्गन्धवत् । यथा जलम् । न चेयं तथा । तस्मात् न तथेति । अत्र यद्गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ॥४६॥ केवलान्वयिनो लक्षणमाह-अन्वयेति । केवलान्वयिसाध्यकं लिङ्गं केवलान्वयि । अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम् । केवलान्वयि उदाहरति-घटोऽभिधेयः प्रमेयत्वादिति । ईश्वरप्रमाविषयत्वं सर्वपदाभि- धेयत्वं च सर्वत्रास्तीति व्यतिरेकाभावः । केवलव्यतिरेकिणो लक्षणमाह- व्यतिरेकेति । केवलव्यतिरेकि उदाहरति-पृथिवीति । न्याययोधिनी केवलान्वयिनो लक्षणमाह-अन्वयेति । व्यतिरेकव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत्त्वं केवलान्वयित्वम् । अथवा केवलान्वयिसाध्य- कत्वं तत् । एतच लक्षणं हेतोय॑तिरेकित्वेऽपि सङ्गच्छते। साध्यस्य केवलान्वयित्वादेव व्यतिरेकव्याप्तेरभावा'दन्वयमात्रव्याप्तिकं केवला- न्वयी'ति मूलकारोक्तंलक्षणमुपपन्नम् । अत्यन्ताभावाप्रतियोगित्वं केव- लान्वयित्वम् । न चात्यन्ताभावाप्रतियोगित्वरूपकेवलान्वयित्वमाका. शाभावे संयोगाभावे चाव्याप्तमिति वाच्यम् , स्वविरोधिवृत्तिमदत्य. न्ताभावाप्रतियोगित्वस्यैव तदर्थचात् । एकजातीयसम्बन्धेन सर्वत्र विद्यमानत्वं केवलान्वयित्वमिति नव्याः। केवलव्यतिरेकिणो लक्षणमाह-व्यतिरेकेति । निश्चितान्वय- व्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्वं केवलव्यतिरेकित्वम् । यथा. पृथिवीति । अत्र पृथिवीत्वावच्छिन्नं पक्षः, पृथिवीतरजलाद्यष्टभेदः साध्यम्, गन्धवत्वं हेतुः। अत्र यद्गन्धवत्तदितरभेदवदित्यन्वयदृष्टा- तर्कसंग्रहः नन्वितरभेदः प्रसिद्धो न वा । आचे यत्र प्रसिद्धस्तत्र हेतुसत्त्वे अन्व- यित्वम् । असत्त्वे असाधारण्यम् । द्वितीये साध्यन्नानाभावात् कथं तद्वि- शिष्टानुमितिः। विशेषणज्ञानाभाव विशिष्टज्ञानानुदयात् । प्रतियोगि- नानाभावाव्यतिरेकव्याप्तिबानमपि न स्यादिति चेत्, न, जलादित्रयोद- शान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां मेलनं पृथिव्यां साध्यते । त्रयोदशत्वावच्छिन्नसाव्यस्यैकाधिकरणवृत्तित्वाभावान्नान्वयित्वासाधारण्ये। प्रत्येकाधिकरणप्रसिद्ध्या साध्यविशिष्टानुमितिः। साध्याभावव्यापकीभूता- भावप्रतियोगित्वमिति व्यतिरेकव्यातिनिरूपणं च यदितरेति । सन्दिग्धसाध्यवान् पक्षः । यथा धूमवत्वे हेतौ पर्वतः । पक्षलक्षणमाह-सन्दिग्धेति । ननु श्रवणानन्तरभाविमननस्थले अ- व्याप्तिः, तत्र वेदवाक्यरात्मनो निश्चितत्वेन सन्देहाभावात् । किञ्चप्रत्यक्षेऽपि न्यायबोधिनी न्ताभावागन्धव्यापकेतरभेदसामानाधिकरण्यरूपान्वयव्याप्तिग्रहासम्भ- वात । किन्तु यत्र यत्र पृथिवीतरभेदामावस्तत्र तत्र गन्धाभावो यथा जलादिकमिति व्यतिरेकदृष्टान्ते जलावा वितरभेदाभावरूपसाध्यभाव- व्यापकता गन्धाभावे गृह्यते । इममेवाथं मनसि निधाय 'यदितरेभ्यो न भिद्यते न तद्गन्धवत् यथा जल'मिति ग्रन्थेन मूलकारो व्यतिरेक- व्याप्तिमेव प्रदर्शितवान् । एवम्प्रकारेण व्यतिरेकव्याप्तिग्रहानन्तरमितर- भेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती पृथिवीत्याकारकव्यति- रेकिपरामर्शात्पृथिवीत्वावच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वावच्छिन्न विधेयताका पृथिवी इतरभेदवतीत्याकारकानुमितिर्जायत इति तत्त्वम् । यथाश्रुतमूलार्थस्तु-यथा जलमिति। यत् जलं इतरेभ्यो न भिद्यते इतरभेदाभाववत्, न तद्न्धवत् जलमितरभेदाभावव्यापकगन्धाभाव- वत् । इत्येवम्प्रकारेण गन्धाभावनिरूपिता व्याप्यता इतरभेदाभावे गृह्यत इत्यर्थः । न चेयं तथेति । इयं पृथिवी, न तथा इतर- भेदाभावव्यापकगन्धाभाववती न किन्तु तदभावात्मकगन्धवती। तस्मान्न तथेतीति । तस्मात् - गन्धाभावाभाववत्वात् । तच्छन्देन 'गन्धाभावाभावरूपस्य गन्धस्य परामर्शन तस्मादिति पञ्चम्यन्तात् गन्धाभावाभाववत्वादित्यर्थीपलब्धिः। न तथा-इतरभेदाभाववती न किन्तु इतरभेदाभावाभाववती, इतरभेदवतीत्यर्थः ॥४६॥ - दीपिकान्यायबोधिनीध्रुवपदासहितः यथा तत्रैव निश्चितसाध्यवान् सपक्षः। महानसम् । निश्चितसाध्याभाववान् विपक्षः। यथा तत्रैव महाहदः॥४७॥ वन्ही यत्रेच्छयानुमितिः, तत्राव्याप्तिरिति चेत्, न, उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात् । सपक्षलक्षणमाह-निश्चितेति । विपक्षलक्षणमाह- निश्चितेति । सव्यभिचारविरुद्धसत्मतिपक्षासिद्धबाधिताः पञ्च हेत्वा- भासाः (३९)। सव्यभिचारोऽनेकान्तिकः। स त्रिविधः-साधार- णासाधारणानुपसंहारिभेदात् । एवं सद्धेतून निरूप्य असद्धेतून निरूपयितुं विभजते-सव्यभिचा- न्यायबोधिनी पक्षलक्षणमाह-सन्दिग्धेति । साध्यप्रकारसन्देहविशेष्यत्वं पक्ष- त्वम् । सन्देहश्च पर्वतो वह्निमान वेत्याकारः । इदञ्च लक्षणमनुमितेः पूर्व साध्यसन्देहो नियमेन जायत इत्यभिप्रायेण प्राचीनः कृतम् । गगन- विशेष्यकमेघप्रकारकसन्देहाभावदशायामपि गृहमध्यस्थपुरुषस्य धन• गर्जितश्रवणेन गगनं मेघवदित्याकारिकाया गगनत्वावच्छिन्नोद्देश्यता- निरूपितमेघत्वावच्छिन्नविधेयताकाया अनुमितेर्दर्शनात्प्राचीनलक्षणं विहाय नवोनरनुमित्युद्देश्यत्वं पक्षत्वमिति स्थिरीकृतम् । सपक्षलक्षणमाह-निश्चितेति | साध्यप्रकारकनिश्चयविशेष्यत्वं सपक्षत्वम् । निश्चयश्च महानसं वह्निमदित्याकारकः। विपक्षलक्षण- माह-निश्चितसाध्याभावेति । साध्याभावप्रकारनिश्चय विशेष्यत्वं विपक्षत्वम्। निश्चयश्च दोवयभाववानित्याकारकः॥४७॥ एवं सद्धतनिरूप्य हेत्वाभासान्निरूपयति-सव्यभिचारेति । हेतुवदाभासन्त इति हेत्वाभासाः । दुष्टहेतव इत्यर्थः । दोषाश्च व्यभि- (३५) एत एव पारमर्षसूत्रे सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीत- शब्दैरुक्ता । तथा च गौतमसूत्रम्- "सव्यभिचारविरुद्ध प्रकरणसमसाध्यसमकालातीता हेत्वाभासाः।" -~-(११२१४) वैशेषिकमते च ते चत्वार एव । तदुक्तं प्रशस्तपादभाग्ये- "एतेनासिद्धविरुद्धसन्दिग्धानध्यवसितवचनानामनपदेशत्वमुक्तं भवतीति । तत्रा- सिद्धश्चतुर्विधः । उभयासिदोऽन्यतरासिद्धस्तद्भावासिद्धोऽनुमेयासिद्धश्चेति ।

६६ तर्कसंग्रहः रेति । अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभासत्वम् । सव्यभि- चारं विभजते-स त्रिविध इति । न्यायवोधिनी चारविरोधसत्प्रतिपक्षासिद्धिवाधाः । एकज्ञानविषयप्रकृतहेतुताव- च्छेदकसम्बन्धेन पतद्विशिष्टा हेतवो दुष्टहेतव इत्यर्थः । यद्विषयक- त्वेन ज्ञानस्यानुमितितत्करणान्यतरप्रतिवन्धकत्वं तत्त्वं दोषसामा- न्यस्य लक्षणम् । हेतौ दोषज्ञाने सत्यनुमितिप्रतिवन्धो जायते व्याप्ति. भानप्रतिवन्धो वा, अतो वादिनिग्रहाय वादिनोद्भाविते हेतौ दोषो. द्भावनार्थ दुष्टहेतुनिरूपणमित्यर्थः । शब्दोऽनित्यः सावयत्वादित्याद्यः। तत्रैव कायंत्वहेतुरन्यतरासिद्धः, विप्रतिपन्नेन मीमांसकेन शब्दे कार्यत्वहेतोरनभ्युपगतत्वात् । स्वरूपासिद्ध एव तद्भावासिद्धः । तदुक्तं न्यायकन्दल्याम्,-"धूमभावेनाम्यधिगतौ कर्त्तव्यायामुपन्यस्यमानो वाप्पो धूमभावेन धूमस्वरूपेणासिद्धः तद्भावासिद्ध इत्युच्यते ।" अत एव च पदार्थदीपिकायां “तत्रासिद्धश्चतुर्दा उभयासिद्धोऽन्यतरासिद्ध. स्वरूपासिद्धोऽनु. मेया सिद्धश्चे"ति विधाः प्रदर्शिताः। आश्रयासिद्धस्तुरीयः। तथा च कन्दलीग्रन्थः "तमो द्रव्यं पार्थिवं कृष्णरूपवत्वादिति अनुमेयासिद्धम् आश्रयासिद्धम् अनुमेय- मसिद्ध यस्येत्यसिद्धानुमेयमिति प्राप्तावाहिताग्न्यादित्वान्निष्ठायाः पूर्वनिपातः।" अनुमेयासिद्धो बाधित इति तु पदार्थदीपिकाकारैरुतम् । विरुद्धश्च अयमश्वो विपा- णित्वादिति । इदं भाप्योक्तमुदाहरणं विपक्षकदेशवृत्तेविरुद्धस्य, विषाणित्वस्य सर्वत्राऽनश्वे स्तम्भादावसम्भवात् । तर्कसंग्रहे प्रदर्शितमुदाहरणं तु- समस्त. विपक्षव्यापकस्य विरुद्धस्योदाहरणं नित्यः शब्दः कृतकत्वादिति द्रष्टव्यम् ।” इति अन्येन कन्दलीकारैः स्वहस्तितम् । साधारणोऽनैकान्तिकः साध्यतदभावसहचारेणोमयसन्देहजनकत्वात् सन्दिग्धः। असाधारण एवाऽनध्यवसितः । तदुक्तं न्यायकन्दल्याम्,-"अनध्यवसित इत्यसाधारणो हेत्वाभासः । इति । सौगतमते तु त्रयो हेत्वाभासाः । तथा च धर्मकीर्तिः- भसिद्धविल्दानैकान्तिकास्त्रयो हेत्वाभासाः। -(न्यायविन्दुः, तृतीयपरि०) एन एव श्वेताम्बरैरप्यङ्गीकृताः। तदुक्तं प्रमाणनयतत्त्वालोकालबारे "असिद्धविरुद्धानकान्तिक स्त्रयो हेत्वाभासाः।"-(६ । ४७) विवसनमते च चत्वारो हेत्वाभासाः । तदुक्तं परीक्षामुखसूत्रे-हेत्वाभासा असिद्धविरुद्धानकान्तिकाकिन्चित्कराः ।"-(६ । २१) दीपिकान्याग्रबोधिनीध्रुवपदासहितः ६७ तत्र साध्याभाववत्तिः साधारणोऽनकान्तिकः । यथा पर्व- तोऽग्निमान् प्रमेयत्वादिति, प्रमेयत्वस्य वयभाववति ह्रदेविद्यमान- त्वात् । सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः । यथा शब्दोऽनित्यः शब्दत्वादिति । शब्दत्वं हि सर्वेभ्यो नित्ये- भ्योऽनित्येभ्यो व्यावृत्तं शब्दमात्रवृत्ति | अन्वयव्यतिरेकदृष्टान्त- रहितोऽनुपसंहारी । यथा सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्व- स्यापि पक्षत्वात् दृष्टान्तो नास्ति । साधारणं लक्षयति-तत्रेति। उदाहरति-यथेति । असाधारणं लक्ष. यति-सर्वेति । अनुपसंहारिणो लक्षणमाह-अन्वयेति । न्यानबोधिनी सव्यभिचारं विभज्य दर्शयति साधारणेति। साधारणाद्यन्य- तमत्वं सम्यभिचारसामान्यलक्षणम् । साधारणत्वं-साध्याभाववव. त्तित्वम् । वह्निमान् प्रमेयत्वादित्यत्र प्रमेयत्वहेतौ वह्नयभावववृत्तित्व. रूपव्यभिचारे ज्ञातेवह्नयभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम्। असाधारण इति । सर्वसपक्षव्यावृत्तत्वं निश्चितसाध्यववृत्ति- त्वम् । साध्यवदवृत्तित्वं च साध्यासामानाधिकरण्यम् । हेतौ साध्या. सामानाधिकरण्ये निश्चिते साध्यसामानाधिकरण्यरूपव्याप्तिज्ञानप्रति- बन्धः फलम् । अनुपसंहारिणं लक्षयति-अन्वयेति । उभयत्र दृष्टान्ताभावादन्वय- एतेषामवान्तरभेदा उदाहरणानि च अन्धविस्तरमिया नात्र प्रदर्शितानि । अप्रयोजको नाम पठो हेत्वाभास इति केचित् । तदुक्तं न्यायमजाम् ,- "नन्वप्रयोजको नाम षष्ठो हेत्वाभासः समस्तीति न पुनरपि पञ्चत्वम् । न, तस्या- न्यथासिद्ध एवान्तर्भाव वक्ष्यामः ।" इति । मानमेयोदयेऽपि नारायणभट्टा:--"ये पुनरनुकूलतकोभावे हेतोः प्रयोजकत्वं नास्तीत्यप्रयोजक नाम हेत्वाभासान्तरमातिष्ठन्ते, तेऽपि व्याप्यत्वासिद्धमेव तथा मन्यन्ते । सर्वेष्वप्यनुमानेष्वनुकूलतकैयभिचारशङ्कामपास्य निरुपाधिकत्वं स्थाप- नीयम् । ततस्तदभावे निरुपाधिकसम्बन्धानिश्चयाद व्याप्त्यसिद्धिरेव । सोऽयं च्याप्स्यसिद्धो हेतुरुपाधिमानित्यन्यथासिद्ध इत्यप्रयोजक इति परप्रयुक्तव्याप्त्युप- जीवोति सन्दिग्धव्याप्तिक इति च व्यपदिश्यते न त्वामासान्तरमिति।" --(३० पृ.) इत्याहुः तर्कसंग्रहः साध्याभावव्याप्तो हेतुर्विरुद्धः ॥ यथा शब्दो नित्यः कृत- कत्वादति । कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् । यस्य साध्याभावसाधकं त्वन्तरं विद्यते स सत्प्रतिपक्षः। यथा शब्दो नित्यः श्रावणत्वात् शब्दत्ववत् । शब्दोऽनित्यः कार्यत्वात् घटवदिति । असिद्धत्रिविधः-आश्रयासिद्धः स्वरूपासिद्धो व्या- विरुद्धं लक्षयति-साध्येति । सत्प्रतिपक्ष लक्षयति-यस्येति । असिद्धं विभजते-असिद्ध इति । आश्रयासिद्धमुदाहरति--गगनेति ।। स्वरूपासिद्धमुदाहरति-शब्द इति । न्यायवोधिनी च्यातिज्ञानव्यतिरेकव्याप्तिज्ञानोमयसामग्री नास्तीत्यर्थः। सर्वस्यैव पक्ष- त्वात्पक्षातिरिक्ताप्रसिद्धेरिति भावः। किञ्चिद्विशेष्यकनिश्चयाविषयक- साध्यकत्वे लति किञ्चिद्विशेपकनिश्चयाविषयकसाध्याभावकत्वमे. वानुपसंहारित्वम् । एतदीयज्ञानस्य व्याप्तिसंशयजननद्वारा व्याप्ति- ज्ञानप्रतिवन्धः फलम् । वस्तुतस्तु अत्यन्ताभावाप्रतियोगिसाध्यादिक- मेवानुपसंहारित्वमिति बोध्यम् । विरद्धं लक्षयति-साध्याभावव्याप्त इति । साध्याभावव्याप्तिः लाध्याभावनिरूपितव्यतिरेकव्याप्तिः साध्यव्यापकीभूताभावप्रतियो. मित्वम् । तथा च पश्नविशेयकसाध्याभावव्याप्यहेतुप्रकारकज्ञानात् पक्षविशेषयकलाध्यप्रकारकानुमितिप्रतिवन्धः फलम् । एवं सत्प्रतिपक्षे. अनध्यवसितोऽपि हेत्वाभास इति भासर्वनाः। तदाहुः साध्यासाधकः पक्ष एव वर्तमानो हेतुरनध्यवसितः । यथा नित्या भूर्गन्धवत्वात् इति । अयम. साधारण एव न चास्य हेत्वाभासान्तरत्वमिति त्रुमः । कौमारिलमते च असिदो विरुद्धोऽनैकान्तिकोऽसाधारणश्चेति चत्वारो हेत्वा- भासाः । लक्षणोदाहरणनानि च तत्र तत्र दृष्टव्यानि । बौदजेनाद्यद्गीकृताः पक्षामासादयः पृथह न लक्षिताः सूत्रकारैरिति न तेषां न्यूनन्वदोपः शङ्कनीयः, यथोक्त हेत्वाभासैरेव तेपां गतार्थत्वात् । तदुक्तं न्यायमअर्याम्,- "नत एव च शाम्नेऽस्मिन् मुनिना तत्वदर्शिना । पक्षामासादयो नोक्ता हेत्वाभासास्तु दर्शिताः ॥"

दीपिकान्यायबोधिनीध्रुवपदासहितः प्यत्वासिद्धश्चेति । आश्रयासिद्धो यथा-गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवदिति । अत्र गगनारविन्दमाश्रयः स च नास्त्येव । स्वरूपासिद्धो यथा-शब्दोऽनित्यश्चाक्षुपत्वात् रूपव- दिति । अत्र चाचुपत्वं पक्षे नास्ति शब्दस्य श्रावणत्वात् । सोपाधिको हेतुर्व्याप्यत्वासिद्धः (४०)। साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः । साध्यसमानाधिकरणात्यन्ताभावा- व्याप्यत्वासिद्धस्य- लक्षणमाह-सोपाधिक इति । उपाधेलक्षणमाह- साव्येति । उपाधिश्चतुर्विधः-केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसा- न्यायबोधिनी ऽपि । विरुद्धसत्प्रतिपक्षयोर्विशेषस्तु विरुद्धहेतोरेकत्वेन सत्प्रतिपक्ष- हेतोद्वित्वेन च ज्ञातव्यः। साध्याभावव्याप्यप्रतिहेतुमत्पक्षस्तत्प्रति- पक्ष इति यावत् । साध्याभावसाधकहेतुः साध्यसाधकत्वेनोपन्यस्त इत्यसामर्थ्य सूचनमपि। आश्रयासिद्ध इति । आश्रयासिद्धिर्नाम पक्षतावच्छेदकविशिष्ट- 'पक्षाप्रसिद्धिः । यथेति । अनारविन्दे गगनीयत्वाभावे निश्चिते गगनी. यत्वविशिष्टारविन्दे सौरभ्यानुमितिप्रतिबन्धः फलम् । स्वरूपासिद्ध इति । स्वरूपासिद्धिर्नाम पक्षे हेत्वभावः । तथा च हेत्वभावविशिष्टपतज्ञानात्पक्षविशेष्यकहेतुप्रकारकपरामर्शानुपपत्त्या परामर्शप्रतिवन्धः फलम् । व्याप्यत्वासिद्ध इति । प्रकृते धूमव्यापकत्वमान्धनसंयोगे गृहीतं - (४.) विश्वनाथास्तु--"व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत् । नीलधूमत्वं गुरुतया न हेतुतावच्छेदकम् , समानाधिकरणव्याप्यतावच्छेदकधर्मा. न्तराघटितस्यैव म्याप्यतावच्छेदकत्वात् ।" इत्याहुः । "व्याप्यतावच्छेदकाभाववान् हेतुाप्यत्वासिन्दः । यथा पर्वतो वह्निमान काञ्चनमयधूमादिति । अन्न च धूमे व्याप्यत्वावच्छेदकत्वेनाभिमतं काञ्चनमयस्वं नास्तीति धूमो हेतुाप्यत्यासिद्धः।" इति तर्ककौमुदी कृतः । तथा च विश्वनाथमते- "व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम् ।"

तर्कसंग्रह प्रतियोगित्वं साध्यव्यापकत्वम् । साधनवनिष्ठात्यन्ताभावपति- योगित्वं साधनाव्यापकत्वम् । यथा पर्वतो मवान्यद्रिमन्यात, इत्यत्राट्टैन्धनमंयोग उपाधिः । नया हि यत्र धृमस्नत्राइन्धनसंयोग इति साध्यव्यापकत्वम् । यत्र बतिस्तत्राईन्धनसंयोगो नास्ति ध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छिन्नसाध्य- व्यापकश्चेति । आद्य' आईन्धनसंयोगः । द्वितीयो यथा---'वायुः प्रत्यनः प्रत्यक्षस्पर्शाश्रयत्वात्' इत्यत्र बहिर्दव्यत्वावच्छिन्न प्रत्यक्षत्वव्यापकमुद्भुत- रूपवत्त्वम् । तृतीयो यथा-'प्रागभावो विनाशी जन्यत्वान' इत्यत्र जन्य- न्यायवोधिनी चेधूमे आईन्धनसंयोगव्याप्यत्वं गृहीनम् । एवं वहरव्यापकत्वमा न्धनसंयोगे गृहीतं चेद्वही तव्याप्यत्वं गृहीतम् । तदेव व्यभिचरि- तत्वम् । तथा चोपाधिव्यभिचरितत्वं साधने गृहीतं चेदुपाधिभूता- ट्रॅन्धनसंयोगव्याप्यधूमव्यभिचारित्वं गृहीतमेव । अनुमानप्रकारच पूर्वानुमानहेतु पक्षी कृत्य वहिधूमव्यभिचारी धूमव्यापकाईन्धनसंयो- गव्यभिचारित्वात् घटत्वादिवत् । यो यत्साध्यव्यापकव्यमिचारी "उपाधिव्यभिचारेण साध्यव्यभिचारानुमानमुपाधे. प्रयोजनमित्यर्थः ।" भतो न तस्य हेतुदोपत्वम् । तदुक्तं तर्ककौमुदीकृद्धिरपि- "ननूपाधेरपि हेतुदोपत्वात् सोपाधिकोऽपि हेत्वाभासोऽस्तीति कथं पञ्चैव त इति चेन्न, व्यभिचारादिज्ञानस्येवोपाधिज्ञानस्यानुमितितत्करणान्यतरप्रतिबन्धक- ताभावेनोपाधहेतुदोपत्वाभावात् । कथं तर्हि वारबनुमाने उपाधिरुपन्यस्यत इति चेत , व्यभिचारज्ञानप्रयोजकत्वेन तत्र तदुपन्यास.।" इति । उपाध्यमावेन पक्षे साध्याभावसिद्धिरपि द्रष्टव्या । तर्कभाषाकृतस्तु "व्याप्यत्वासिद्धस्तु द्विविधः । एको व्याप्तिग्राहकप्रमाणा- भावात् । अपरस्तु उपाधिसद्भावात् । तत्र प्रथमो यथा शब्दः क्षणिक सत्त्वाद् यन् सत् तत् क्षणिकं यथा जलधरपटलं तथा च शब्दादिरिति । न च सत्त्वक्षणिक- त्वयोर्व्याप्तिग्राहक प्रमाणमस्ति ।.........द्वितीयो यथा क्रत्वन्तरवर्तिनी हिंसर अधर्मसाधनं हिंसात्वात् ऋतुवाद्यहिंसावत् । अत्र ह्यधर्मसाधनत्वे हिंसात्वं न प्रयोजकं किं तु निपिद्धत्वमेव प्रयोजकमुपाधिरिति यावत् ।" इत्याहुः ।

दीपिकान्यायबोधिनीध्रुवपदासहितः अयोगोलके आदॆन्धनाभावात् इति साधनाव्यापकत्वम् । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादाःन्धनसंयोग उपाधिः सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम् । त्वावच्छिन्नानित्वव्यापकं भावत्वम् । चतुर्थस्तु 'प्रागभावो विनाशी प्रमेयत्वात्' इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् । यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । या वहिरनुष्णो द्रव्यत्वादिति । अत्रानुष्णत्व साध्यं, तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यत इति बाधितत्वम् ॥४८॥ व्याख्यातमनुमानम् । बाधितस्य लक्षणमाह-यस्येति । अत्र बाधस्य ग्राह्याभावनिश्चय- वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षादनुमितिप्रतिबन्धक- त्वम् । इतरेषां परामर्शप्रतिबन्धकत्वम् । तत्रापि साधारणस्याव्यभि- चाराभाववत्तया, विरुद्धस्य सामानाधिकरण्याभाववत्तया, व्याप्यत्वा. सिद्धस्य विशिष्टव्याप्त्यभाववत्तया, असाधारणानुपसंहारिणोळप्तिसंश- याधायकत्वेन व्याप्तिज्ञानप्रतिबन्धकत्वम् । आश्रयासिद्धस्वरूपासिद्धयोः पक्षधर्मताज्ञानप्रतिबन्धकत्वम् । उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्ति- ज्ञानप्रतिबन्धकः । सिद्धसाधनं तु पक्षताविघटकतया आश्रयासिद्धे अन्त- र्भवतीति प्राञ्चः । निग्रहस्थानान्तरमिति नवीनाः । इत्यनुमानपरिच्छेदः । न्यायबोधिनी स सर्वोऽपि साध्यव्यभिचारीति बोध्यः। एवम्प्रकारेण प्रकृतानुमानहेतु- भूते पक्षे साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम् । नथा च धूमाभावववृत्तित्वरूपधूमव्यभिचारे गृहीते वह्नौ धूमा- भाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम् । यस्येति । 'यस्य हेतोः। साध्याभावः साध्यबाधा प्रमाणान्तरेण' प्रत्यक्षादिप्रमाणेन । पने निश्चितः स बाधित इत्यर्थः। तथा च प्रात्य. क्षिकसाध्यवाधनिश्चये जाते साध्यानुमितिप्रतिबन्धः फलम् । बाधित- साध्यकत्वाद्वाधितहेतुरित्युच्यते ॥४२॥ इति न्यायबोधिन्यामनुमानपरिच्छेदः । , mero - ७२ तर्कसंग्रहः अथ उपमानम् । उपमितिकरणमुपमानम् । संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानं । तया हि कश्चिद्गवयशब्दवाच्यमजानन्कुत- श्चिदारण्यकपुरुषाद् 'गोसशो गवयः' इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति । तदनन्तरम् 'अयं गव- यशब्दवाच्यः' इत्युपमितिरुत्पचते । इत्युपमानम् (४१) ||४९।- उपमानं लक्षयति । उपमितीति । इत्युपमानपरिच्छेदः । न्यायबोधिनी उपमानं लक्षयति-उपमितिकरणमिति | उपमितिं लक्षयति- संज्ञासंज्ञीति | संज्ञा नाम पदम् । संशी अर्थः । तयोःसम्बन्धः शक्तिः। तथा च पदपदार्थसम्बन्धज्ञानमुपमितिरित्यर्थः । उपमानं नामातिदेश- वाक्यार्थज्ञानम् । अतिदेशवाक्यार्थस्मरणं व्यापारः। उपमितिः फल- म् । गोसदृशो गवयपदवाच्य इत्याकारकवाक्यागोलादृश्यावच्छिन्न- विशेष्यकगवयपद्वाच्यत्वप्रकारकं यज्ज्ञानंजायते तदेव करणम् ।।४६॥ इति न्यायबोधिन्यामुपमानपरिच्छेदः । - (११) इदमन्त्रावधेयम्,--"प्रसिद्धसाधात् साध्यसाधनमुपमानम् ।" (१।१।६) इति गौतमसूत्रस्थं सादृश्यवाचकसाधर्म्यपदं धर्ममानोपलक्षगमिति तात्पर्यटीकाकृतः । तथा च तन्मते 'यदोदीच्येन क्रमेलकं निन्दतोक्तं धिक करभमतिदीर्घवक्रग्रीवं लम्बोष्टं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्निवेश मपसदं पशूनामिति, तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमसौ करम इत्यवैति, तदप्युपमानफलम् । तदुक्तं तात्पर्यटीकायाम्- "करभसंज्ञाप्रतिपत्तिरप्युपमानफलमिति नाव्याप्तिः ।" "अत एव पहून्युदा- हरणान्युक्त्वाप्याह स्म भगवान् भाष्यकारः “एवमन्योऽप्युपमानस्य लोके विपयो बुभुसितव्य इति । वरदराजोऽपि तार्किकरक्षायां- "अनातिदेयवाक्यार्थस्त्रिविधः परिगृह्यते । साधन्य धर्ममानं च वैधम्यं चेति भेदतः ॥" इत्यादिनन्ये वाचस्पतिमिश्रमतमनुसृतवान् । परन्तु तेन "वैधयोपमानं तु कीगच इति प्रश्ने गवादिव द्विशफो न भवत्यश्व इत्यतिदेशवाक्याद् गवादि- दीपिकान्यायमोधिनीध्रुवपदासहितः adha अथ शव्दः आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पद- समूहः । यथा गामानय शुक्लां दण्डेनेति । शब्दं लक्षयति-आप्तेति । वाक्यं लक्षयति वाक्यमिति । न्याययोधिनी शब्दं लक्षयति--आप्तेति । आप्तोच्चरितत्वे सति वाक्यत्वं शब्द- स्य लक्षणम् । प्रमाणशब्दत्वं लक्ष्यतावच्छेदकम् । वाक्यत्वमा. प्रोतावनातोश्चरितवाक्येऽतिव्याप्तिरत आप्तोच्चरितत्वनिवेशः। ताव- मात्रोक्तो जबगडदशादावतिव्याप्तिरतो वाक्यत्त्वम् । आप्तत्व च प्रयोगहेतुभूतयथार्थमानवत्त्वम् तथा च प्रयोगहेतुभूतयथार्थ झानजन्यशन्दत्वमिति पर्यवसनोऽर्थः। वस्तुतस्तु पदज्ञानं करणम् । वृत्तिज्ञानसहकृतपदशानजन्यपदार्थोपस्थितियापारः। वाक्यार्थज्ञानं शान्दबोधः फलम् । वृत्तिर्नाम शक्तिलक्षणान्यतररूपा । शक्तिर्नाम घटादिविशेष्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसङ्केतः। ईश्वरसङ्केतो नाम ईश्वरेच्छा। सैष शक्तिरित्ययः । शक्तिनिरूपकत्वमेव पैसाहश्यमधिगतवतः पश्चादेकशफत्वादिरूपस्य वैसादृश्यस्य तुरङ्गमे प्रत्यभिज्ञान". मिति तदुदाहरणं प्रदर्शितम् । वैशेषिकमते तु नातिरिक्तमुपमानमनुमानात । तदुक्तं प्रशस्तपादभाष्ये "भाप्तेनाप्रसिद्धस्य गवयस्य गवा गवयप्रतिपादनादुपमानमाप्तवचनमेव ।" "भाप्तवचनश्चानुमानम् । तस्मादुपमानमप्यनुमानाव्यतिरिक्तमित्यभिप्रायः ।" इति कन्दलीकाराः। तथा च तन्मते तत्र पदवाच्यत्वव्याप्यसादृश्यादिपरामर्शात अयं गवयशब्द- वाच्यो गोसदृशत्वादित्याद्याकारिकाऽनुमितिरेव । तथा व्याप्तिग्रहश्वाप्तवचनात् । उपमिनोमीत्यनुव्यवसायस्यासन्दिग्धत्वेऽनुमितिस्वव्याप्यमेवोपमितित्वमिति नोप-- मानं पृथक् प्रमाणम् । उपमानचिन्तामणौ च गङ्गे शोपाध्यायैः- "न च व्याप्तिपरमिदं वाक्यं यो गोसदृशः स गवयपदार्थ इति वाक्यादव- गतव्याप्तिरनुमिनुयादयं गवयपदवाच्यो गोसदृशत्वात् अतिदेशकालावगतपिण्डव- दिति वाच्यम् , न हि गोसदृशं ज्ञात्वाऽनेन पृष्टः स किशब्दवाच्य इति, किन्तु सामान्यतो गवयपदार्थमवगम्य स कीदृगिती"त्यादिग्रन्थसन्दर्भेण उपमानस्य प्रमाणान्तरवं साधितम् । विचारविस्तरस्तु तत्रैव सुधीभिरनुसन्धेयः । - तर्कसंग्रहः , शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः (४२)॥५०॥ पदलक्षणमाह-शक्तमिति । अर्थस्मृत्यनुकूलपदार्थसम्बन्धः शक्तिः। सा च पदार्थान्तरमिति मीमांसकाः, तन्निरासार्थमाह-अस्मादिति । डित्थादीनामिव घटादीनामपि सङ्केत एव शक्तिः न तु पदार्थान्तरमित्यर्थः । गवादिशब्दाना जातावेव शक्तिः । विशेषणतया जातेः प्रथममुप- स्थितत्वात् । व्यक्तिलाभस्त्वाक्षेपादिति केचित् , तन्न, गामानयेत्यादौ वृद्धव्यवहारेण सर्वत्रानयनादेव्यक्तावेव सम्भवेन जातिविशिष्टव्यक्तावेज शक्तिकल्पनात् । न्यायवोधिनी पदे शक्तत्वम् । विषयतासम्बन्धेन शक्त्याश्रयत्वं अर्थे शक्यत्वम् । शक्य- सम्बन्धो लक्षणा। सा द्विविधा गौणी शुद्धा चेति । गौणी नाम.सादृश्य- विशिष्टे लक्षणा । यथा सिंहो माणवक इत्यादौ सिंहपदस्य सिंहसा. दृश्यविशिष्टे लक्षणा। शुद्धा त्रिविधा-जहलक्षणा अजहल्लक्षणा जहद- जहलक्षणा चेति । लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रवोधप्रयोजिका जहल्लक्षणा । यथा गङ्गायां घोष इत्यत्र गङ्गापवाच्यप्रवाहसम्बन्धस्य तीरे सत्त्वात्तादृशशक्यसम्बन्धरूपलक्षणाशानाद्गङ्गापदात्तीरोपस्थितिः। लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयवोधप्रयोजिका अजहलक्षणा। -यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य दध्युपघातके लक्षणा । लक्ष्यतावच्छेदकं ध्युपघातकत्वम् । तेन रूपेण दध्यु- पघातकानां सर्वेषां काकविडालकुक्कुटसारमेयादीनां शक्यलक्ष्याणां धोधात् । जहदजहालक्षणा वेदान्तिनां मते । सा च शक्यतावच्छेद. कपरित्यागेन व्यक्तिमात्रवोधप्रयोजिका, यथा तत्त्वमसीत्यत्र सर्वज्ञत्व- किञ्चिज्ज्ञत्वपरित्यागेन व्यक्तिमात्रबोधनात् ।।५।। (४२) नव्यास्तु तत्तत्पदजन्यबोधविषयत्वाकारतानिरूपितेश्वरेच्छाविशे. प्यत्वं शक्तिः। तथा चेश्वरेच्छायाः सर्वविषयकत्वेऽपि न पटे घटपदवाच्यत्वम् , न वा पटे घटपदवाच्यस्वं नास्तीत्यादिव्यवहारानुपपत्तिः। भन्यथा वृत्त्यनियामक. सम्बन्धावच्छिन्नप्रतियोगित्वानगीकारे ताहशविशेष्यतासम्बन्धेन तत्प्रतीतिर्न स्यादिति प्राहु ।

दीपिकान्यायबोधिनीध्रुवपदासहितः . शक्तिग्रहश्च वृद्धव्यवहारेण । तथा हि-व्युत्पित्सुर्बालो 'गामानय' इत्युत्तमवृद्धवाक्यश्रवणानन्तरं मध्यमवृद्धस्य प्रवृत्तिमुपलभ्य गवानयनं च दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्यतिरेकाभ्यां वाक्यजन्यत्वं नि- श्चित्य 'अश्वमानय गां बधान' इति वाक्यान्तरे आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः अश्वपदस्य अश्वत्वविशिष्ट शक्तिः, इति व्यु. त्पद्यते (४३)। ननु सर्वत्र कार्यपरत्वाव्यवहारस्य कार्यवाक्ये एव व्युत्पतिः, न सिद्धे इति चेत् , न, 'काच्यां त्रिभुवनतिलको भूपतिः' इत्यादौ सिद्धेऽपि व्यवहारात् । 'विकसितपद्मे मधूनि पिवति मधुकरः' इत्यादौ प्रसिद्ध- पदसमभिव्याहारात सिद्धेऽपि मधुकरादिव्युत्पत्तिदर्शनाच्च । लक्षणाऽपि शब्दवृत्तिः । शक्यसम्बन्धो लक्षणा 'गङ्गायां घोषः' इत्यत्र गङ्गापदवाच्यप्रवाहसम्बन्धादेव तीरोपस्थिती तीरेऽपि शक्तिर्न कल्प्यते(४४)- । सैन्धवादी लक्षणाश्वयोः परस्परसम्बन्धाभावात् नाना- शक्तिकल्पनम् । लक्षणा त्रिविधा जहल्लक्षणा, अजहल्लक्षणा, जहदजह- ल्लक्षणा चेति । यत्र वाच्यार्थस्यान्वयाभावः तत्र जहल्लक्षणा । यथा मञ्चाः क्रोशन्ति । यत्र वाच्यार्थस्याप्यन्वयः तत्र अजहदिति । यथा छत्रिणो गच्छन्ति । यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः तत्र जहद- जहदिति । यथा तत्त्वमसीति । गौण्यपि लक्षणैव लक्ष्यमाणगुणसम्ब- न्धस्वरूपा । यथा अग्निर्माणवक इति । व्यञ्जनापि शक्तिलक्षणन्तर्भूता शब्दशक्तिमूला अर्थशक्तिमूला च अनुमानादिना अन्यथासिद्धा । तात्पर्यानुपपत्तिलक्षणाबीजम् । तत्प्रता- (४३) ननु वृद्धम्यवहारस्य शक्तिमाहकत्वे सृष्टयादौ कथं शक्तिग्रह इति नाशहनीयम्, तदानीमपीश्वरादेव तद्ग्रहोपपत्तेः । (४४) वैयाकरणास्तु गादिपदाना तीरादौ शक्तिरेव, सर्वेषां पदार्थानां प्रायः सर्वत्रैव शक्तिरिति लक्षणा स्वतन्त्रवृत्तिर्नाऽभ्युपेयते । तथा च गहायां घोष इत्पादौ शक्यतावच्छेदकप्रचाहत्वस्य तीरे भारोपाद् गङ्गात्वरूपेणैव तीवोधो न तीरत्वेनेत्याहुः।

७६ तर्कसंग्रहः तीच्छया उच्चरितत्वरूपतात्पर्यज्ञानं च वाक्यार्थज्ञाने हेतुः (४५), नाना- र्थानुरोधान् । प्रकरणादिकं तात्पर्यग्राहकम् । द्वारमित्यादौ पिधेहीति शब्दा- ध्याहारः । ननु अर्थज्ञानार्थत्वात् शब्दस्यार्थमविज्ञाय शब्दाध्याहारा- सम्भवादर्थाध्याहार एव युक्त इति चेत् , न, पदविशेषजन्यपदार्थो. 'पस्थिते: शाब्दज्ञाने हेतुत्वात् । अन्यथा 'घट: कर्मत्वमानयनं कृतिः' इत्यत्रापि शाब्दज्ञानप्रसङ्गात् । पङ्कजादिपदेपु योगरूढिः । अवयवशक्तियोगः समुदायशक्ती रूढिः । 'नियतपद्मत्वज्ञानार्थ समुदायशक्तिः । अन्यथा कुमुदेऽपि प्रयोगप्रसङ्गः । 'इतरान्विते शक्तिः' इति प्राभाकराः। 'अन्वयस्य वाक्यार्थतया भानसम्भवादन्वयांशेऽपि शक्तिर्न कल्पनीया' इति गौतमीयाः (४६)। (४५) ननु शुकबालादीनां तात्पर्याभावेन तत्तदुचरितशब्दाद् बोधो न स्यादिति चेन्न, तत्रापि ईश्वरतात्पर्य्यस्य जागरूकत्वात् । केचित्तु तत्प्रतीतिजनन· स्वरूपयोग्यत्वे सति तदन्यमात्रप्रतीतीच्छयाऽनुच्चरितत्वमेव तात्पर्य्यलक्षणम् । तथा च शुक्रायुचारितशब्देऽपि तात्पर्यसत्वादन्वयबोध इत्याहुः । अन्ये तु तात्पर्य्यज्ञानं नानार्थादी क्वचित् कारणं शाइमात्रे तत्कारणत्वानावश्यकत्वादिति वदन्ति । नव्यास्तु सैन्धवमानयेत्यादावपि तात्पर्यज्ञानं लवणान्वयबुद्धौ न कारणम् , किन्तु तात्पर्य्यानुमापकत्वेनाभिमतं भोजनादिप्रकरणस्य प्रतिसन्धानमिति प्राहुः । (४६ ) नन्वेवमपि वगीयादिभाषाशब्देभ्यः कथमन्वयबोधः, तत्र तत्र शक्तिलक्षणयोरभावादिति चेत्, भाषाशब्दैः संस्कृतस्मरणं ततो बोध इति प्राञ्चः । तदुक्तं न्यायमञ्जरीकारैः,-"ते तु (भापाशब्दाः ) वर्णसारूप्यच्छायया गवादि-: शब्दस्मृतिमादधानास्तदर्थप्रतिपत्तिहेतुतामुपगच्छन्तीति ।' नव्यास्तु संस्कृतभाषामविदुषां कृपीवलादीनां तत्तभाषाशब्देभ्यो झरिति बोधान्नैवम् , किन्तु तेष्वेव शक्तिभ्रमाद् दोध इत्याहुः । तथा चार्थविशेपे व्याकरण- च्युत्पाद्यत्वमेव साधुत्वमिति नैयायिकमतम् । वैयाकरणमते च संस्कृतवापाशब्दा अपि वाचका एव । एवञ्च 'साधुभिर्भा. पितन्यम्' 'साधूनेव प्रयुञ्जीते'त्यादिवचनसिद्धं पुण्यजनकत्वं साधुत्वमिति । तंदुक्तं "वाचकत्वाविशेपेऽपि नियमः पुण्यपापयोः।" इति ।

दीपिकान्यायबोधिनीध्रुवपदासहितः ७७ आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञाने हेतुः । पदस्य पदान्तरव्यतिरेकायुक्तान्वयाननुभावकत्वमाकाङ्क्षा । अर्थाबाधो योग्यता | पदानामविलम्बेनोच्चारणं सन्निधिः। तथा च आका- क्षादिरहितं वाक्यमप्रमाणम् । यथा 'गौरश्वः पुरुषो हस्ती' इति न प्रमाणम् , आकाङ्क्षाविरहात् । 'अग्निना सिञ्चत्' इति न प्रमाणम् , योग्यताविरहात् । प्रहरे पहरे असहोच्चारितानि 'गाम् आनया-इत्यादिपदानि न प्रमाणम् , सानिध्याभावात् ॥५१॥ आकाङ्केति । आकाहादिज्ञानमित्यर्थः । अन्यथा आकाङ्क्षादिभ्रमा- च्छाब्दभ्रमो न स्यात् । आकासां लक्षपति-पदस्येति । योग्यतालक्ष- णमाह-अर्थेति । सन्निधिलक्षणमाह-पदानामिति । अविलम्बेन पदार्थो- पस्थितिः सन्निधिः। उच्चारणं तु तदुपयोगितया उक्तम् । गौः अश्व -इति । घटः कर्मत्वमित्यप्यनाकासोदाहरणं द्रष्टव्यम् । वाक्यं द्विविधम्-वैदिकं, लौकिकं च । वैदिकमीश्वरोक्त- त्वात् सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्य- वाक्यं विभजते-वाक्यमिति । वैदिके विशेषमाह-वैदिकमीश्व- रोक्तत्वादिति । ननु वेदस्यानादित्वात् कथमीश्वरोक्तत्वमिति चेत्, न, 'वेदः पौरुषेयः वाक्यसमूहत्वात् भारतादिवत्' इत्यनुमानेन पौरुषेयत्व- न्यायबोधिनी आकाहां लक्षयति-पदस्येति । अव्यवहितोत्तरत्वादिसम्बन्धेन यत्पदे यत्पदप्रकारकशानव्यतिरेकप्रयुक्तो यादृशशाब्दबोधाभावस्ता. दृशशान्दबोधे तत्पदे तत्पदवत्त्वमाकाहा । यथा घटमित्यादिस्थलेऽव्य- वहितोत्तरत्वादिसम्बन्धेनाम्पदं घटपदवदित्याकारकाम्पदविशेष्यक- घटपदप्रकारकक्षानसत्त्वे घटीयं कर्मत्वमिति बोधोजायते । अम् घट इति विपरीतोचारणे तु तादृशज्ञानाभावात्ताशशाब्दबोधो न जायते अतस्तादृशाकाहाशानं शाब्दबोधे कारणम् । अर्थाबाध इति । बाधा. भावो योग्यतेत्यर्थः। अग्निना सिञ्चतीत्यत्र सेककरणत्वस्थ जलादि- धर्मस्य वह्नौ बाधनिश्चयसत्त्वान्न तादृशवाक्याच्छाब्दबोधः। सन्निधि निरूपयति-पदानामिति। 'असहोचारितानि विलम्बोच्चारितानि॥५१॥ .

तर्कसंग्रहः दप्रमाणम् । वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणम् शब्दः । इति शब्दप्रमाणम् ।।५२॥ सिद्धेः । न च स्मर्यमाणकर्तृत्वमुपाधिः ।, गौतमादिभिः 'शिष्यपरम्परया वेदेऽपि सकर्तृत्वस्मरणेन साधनव्यापकत्वात् । 'तस्मात् तपस्तेपानात् त्रयो वेदा अजायन्त' इति श्रुते । ननु वर्णा नित्याः ‘स एवायं गकारः' इति प्रत्यभिज्ञावलात् । तथा च कथं वेदस्यानित्यत्वमिति चेत् , न, 'उत्पन्नो गकारो नष्टो गकारः' इत्यादिप्रतीत्या वर्णानामनित्यत्वात् 'सोऽयं गकार' इति प्रत्यभिज्ञायाः 'सेयं दीपज्वाला' इतिवत् जात्यालम्बनत्वात् । वर्णानां नित्यत्वेऽप्यानुपूर्वी. विशिष्टवाक्यस्यानित्यत्वात् । तस्मादीश्वरोक्तो वेदः । मन्वादिस्मृतीनामा- चाराणां च वेदमूलकतया प्रामाण्यम् । स्मृतिमूलवाक्यानामिदानीमन- ध्यनात् तन्मूलभूता काचित् शाखोच्छिन्नेति कल्प्यते । ननु पाठ्यमानवेदवाक्योत्सादस्य कल्पयितुमशक्यतया विप्रकीर्णवा- दस्यायुक्तत्वादिति नित्यानुमेयो वेदो मूलमिति चेत् , न, तथापि वर्णा- नुपूर्वीज्ञानाभावेन बोधकत्वासम्भवात् । ननु 'एतानि पदानि स्मारितार्थसंसर्गवन्ति आकाङ्क्षादिमत्पदकद- म्बकत्वात् 'गामानय दण्डेनेति' मद्वाक्यवत् इत्यनुमानादेव संसर्गज्ञानस. म्भवात् शब्दो न प्रमाणान्तरमिति चेत् , न, अनुमित्यपेक्षया शाब्दज्ञानस्य विलक्षणस्य 'शब्दात्प्रत्येमि' इत्यनुव्यवसायसाक्षिकस्य सर्वसम्मत- त्वात् (४७)। न्यायघोधिनी वदिकमिति । वेदवाक्यमित्यर्थः। इदमुपलक्षणम् । वेदमूलकस्म- त्यादीन्यपि ग्राह्याणि । लौकिकं त्विति । वेदवाक्यभिन्नमित्यर्थः । आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम् ॥५२॥ इति न्यायवोधिन्यां शब्दपरिच्छेदः । (१७) किञ्च न निर्वाहोऽपि सर्वत्रानुमानेन शाब्दबोधस्य । तथा च शब्द- शक्तिप्रकाशिकाकारप्रदर्शितनवीनतरसरणिमनुसरनिर्दिनकरभट्टैरुक्तं मुक्तावली- प्रकाशे- दीपिकान्यायबोधिनीध्रुवपदासहितः છે नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति 'पीनो देवदत्तो दिवा न भुङ्क्ते' इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्त्या रात्रिभोजनमर्थापत्त्या कल्प्यत इति चेत् , न, देवदत्तो रात्री भुङ्क्ते दिवाऽमुखानत्वे सति पीनत्वात् इत्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात् । शते पञ्चाशदिति सम्भवोऽप्यनुमानमेव । 'इह वटे यक्षस्तिष्ठति इत्यैतिह्यमपि अज्ञातमूलवक्तृकः शब्द एव । चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति न मानान्तरम् (४८) तस्मात् प्रत्यक्षानुमानोपमानशब्दा- श्चत्वार्येव प्रमाणानि । "घटात् पृथगित्यादौ घटावधिकपृथक्त्वप्रकारेण निरवच्छिन्नविशेष्यताकः पृथक्त्वाश्रयस्य शाब्दबोधः सर्वानुभवसिद्धः । स चास्माकं तादृशानुपूर्वीक. पदज्ञानत्वेन तादृशशाब्दबोधं प्रति हेतुत्वादुपपद्यते । वैशेषिकाणान्तु पृथक्त्वं घटाव- धिक घटपदसाकाङ्क्षपृथक्पदस्मारितत्वादित्यनुमानेन न तन्निर्वाहः, पक्षविधया "पृथक्त्वस्य भानेऽपि तदाश्रयस्यामानात् । न च पटं पक्षीकृत्य पक्षे घटावधिक पृथक्त्ववानित्यनुमित्या तन्निर्वाह इति वाच्यम् , पटादिनिष्ठविशेष्यतायास्तत्र पक्ष- तावच्छेदकीभूतपटत्वावच्छिन्नतया निरवच्छिन्नविशेष्यताकतादृशशाब्दबोधसमाना. कारकत्वस्य तथाप्यनिर्वाहादिति" । (४४) अयं पञ्चाशद्वान् शतवत्त्वात् इत्यनुमानेनैव शतवान् इत्युक्ते पञ्चा- शद्वान् इति ज्ञानं सम्भवति शतस्य पञ्चाशद्व्याप्यत्वादिति भावः । एतादृश. चेष्टया इत्थमर्थो बोद्धव्य इति सङ्केतितचेष्टया विलक्षणप्रमानननात् चेष्टापि प्रमा- णान्तरम् इति मतं निरस्यति-चेष्टापीति । 'शब्दानुमानद्वारा' शब्दद्वारा अनु. मानद्वारा वा न तु स्वातन्त्र्येणेत्यर्थः । चेष्टया कल्पितस्य शब्दस्य प्रमाजनकत्वेऽपि गौरवादनुमानानुसरणम् । भनुमानाकारश्च-अयमिममर्थ ब्रूते एतदर्थकचेष्टा- चत्वादिति । अधिकरणग्रहणप्रतियोगिस्मरणसहकृतयाऽनुपलब्ध्या षष्ठप्रमाणभूतयाऽभावो गृह्यते, न त्विन्द्रियादिनेति मीमांसकमतम् । तदुक्तं- "गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥” इति ॥ [ श्लोकवार्तिके अभावग्रन्थे २६ श्लो०] तन्न सहन्ते न्यायवैशेषिकाचााः । तथा च अभावप्रतिपत्तिरिन्द्रियजन्या जन्यत्वे सति ज्ञानकरणकान्यत्वात् , रूपादिप्रतिपत्तिवदित्यनुपलब्धेः प्रत्यक्षाव. - तर्कसंग्रह अथ ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतोग्राह्य परतो वेति विचार्यते । तत्र विप्रतिपत्तिः । ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसा. मग्रीग्रामं न वा । अत्र विधिकोटिः स्वतस्त्वम्, निषेधकोटिः परतस्त्वम् । अनुमानग्राह्यत्वेन सिद्धसाधनवारणाय-यावदिति । 'इदं ज्ञानमप्रमा इति ज्ञानेन प्रामाण्याग्रहाद्वाधवारणाय-अप्रामाण्याग्राहकेति । 'इदं ज्ञानमप्रमा' इति अनुव्यवसायनिष्ठप्रामाण्यग्राहकस्य अप्रामाण्याग्राहकत्वा- भावात् स्वतस्त्वं न स्यादतः तदिति । तस्मिन् ग्राह्यप्रामाण्याश्रये अप्रा- माण्याग्राहकेत्यर्थः । उदाहृतस्थले व्यवसाये अप्रामाण्यग्राहकस्याप्यनु- व्यवसाये तदग्राहकत्वात्स्वतस्त्वसिद्धिः । ननु स्वत एव प्रामाण्यं गृह्यते, 'घटमहं जानामि' 'इत्यनुव्यवसायेन घटघटत्वयोरिव तत्सम्बन्धस्यापि विषयीकरणात् व्यवसायरूपप्रत्यासत्ते- स्तुल्यत्वात् । पुरोवर्तिनि प्रकारसम्बन्धस्यैव प्रमात्वपदार्थत्वादिति चेत् , .. + - प्राप्य- सीयमानत्वेन न प्रमाणान्तरत्वम् । तत्र असम्बद्धोऽप्यभावश्चक्षुपा गृह्यत इति केचित् । तदाहुायमञ्जरीकारा:- "भावे खल्वयं नियमः यदसम्बद्धस्य चक्षुपाऽग्रहणम्, अमावस्त्वसम्बद्धोऽपि चक्षुषा ग्रहीप्यते । पटप्रकारसन्निकर्षवर्णनमपि भावाभिप्रायमेव ..... कारित्वमपि इन्द्रियाणां वस्त्वभिप्रायमेवोच्यते । तस्मादवस्तुत्वादभावस्य तेन सन्निकर्षमलभमानमपि नयनमुपजनयति तद्विषयमवगममिति न दोषः।" वस्तुतः संयुक्तविशेषणताख्यसन्निकणैव अभावस्य प्रत्यक्षं सूपपन्नम्, यथा समवायप्रत्यक्षवादिना पक्षे समवायस्य । तदुक्तमुद्द्योतकरैः-"समवाये चामावे च विशेषणविशेष्यभावादिति ।" ( १११४) प्रशस्तपादास्तु . "भभावोऽप्यनुमानमेव यथोत्पन्नं कार्य कारणसद्भावे लिङ्गम् । एवमनुत्पन्नं कार्य कारणासहावे लिङ्गम् ।" इत्याहुः । एवञ्च तद्भूतलं तदा चैत्राभाववत् एकज्ञानग्रहणयोग्यस्य ज्ञायमानत्वेऽपि चैत्रवत्तया भज्ञायमानत्वादिस्यनुमानाकारः। माप्यकारमते क्वचिदभावज्ञानं चक्षुरादिनापि । तदाहुः किरणावलीकाराः,- "अपिशब्दात् चित् प्रत्यक्षमेवेत्यर्थः 'काशीयं' 'गङ्गेयं' 'वेदोऽय' मित्यादिज्ञानमैतिद्याह्वयात् प्रमाणान्तरादिति पौराणिकाः वितथमैतिहां प्रमाणमेव न, अवितथमाप्तोपदेश एव इति तार्किकादयः।

दीपिकान्यायबोधिनीध्रुवपदासहितः
-न, स्वतः प्रामाण्यग्रहे 'जलज्ञानं प्रमा न वा' इत्यनभ्यासदशायां प्रमा-
त्वसंशयो न स्यात् । अनुव्यवसायेन प्रामाण्यस्य निश्चितत्वात् । तस्मात्
स्वतोग्राह्यत्वाभावात् परतोपाद्यत्वम् । तथा हि-प्रथमं जलज्ञानानन्तरं
'प्रवृत्तौ सत्यां जललामे सति 'पूर्वोत्पन्नं ज्ञानं प्रमा' समर्थप्रवृत्तिजनक-
त्वात् 'यन्नवं तनैवम् यथा अप्रमा' इति व्यतिरेकिणा प्रमात्वं निश्चीयते ।
'द्वितीयादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेनान्वयव्यतिरेकि-
णापि गृह्यते ।
प्रमाया गुणजन्यत्वमुत्पत्तौ परतस्त्वं । प्रमासाधारणकारणं गुणः
अप्रमासाधारणकारणं दोषः । तत्र प्रत्यक्षे विशेषणवद्विशेष्यसन्निकर्षों
गुणः । अनुमितो व्यापकवति व्याप्यज्ञानम् । उपमिती यथार्थसादृश्य-,
ज्ञानम् । शाब्दज्ञाने यथार्थयोग्यताज्ञानम् । इत्याद्यूहनीयम् । पुरोवर्तिनि
प्रकाराभावस्यानुव्यवसायेनानुपस्थितत्वात् अप्रमात्वं परत एव गृह्यते ।
पित्तादिदोषजन्यत्वं उत्पत्तो परतस्त्वम् ।
ननु सर्वेषां ज्ञानानां यथार्थत्वात् अयथार्थज्ञानमेव नास्तीति । न च
शुक्ताविदं रजतम्' इति ज्ञानात् प्रवृत्तिदर्शनादन्यथाख्यातिसिद्धिरिति
वाच्यम् , रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेव प्रवृत्तिसम्भवात् । उपस्थिते-
'ष्टभेदामहस्यैव सर्वत्र प्रवर्तकत्वेन 'नेदं रजतम्' इत्यादी अतिप्रसगाभा-
वादिति चेत् , सत्यरजतस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य
लाघवेन प्रवृत्तिजनकतया शुक्तावपि रजतार्थिप्रवृत्तिजनकत्वेन विशिष्ट-
ज्ञानस्यैव कल्पनात् ।
। अयथार्थस्त्रिविधः-संशयविपर्ययतर्कभेदात् । एकस्मिन्
धर्मिणि विरुद्धनानाधर्मवैशिष्टयज्ञानं संशयः । यथा स्थाणुर्वा
अयथार्थानुभवं विभजते-अयथार्थ इति । स्वप्नस्य मानसविपर्यय-
न्यायबोधिनी
यथार्थानुभवं निरूप्यायथार्थानुभवं विभजते-एकेति । एक-
धर्मावच्छिन्नविशेष्यतानिरूपितभावाभावप्रकारकशानं संशय इत्यर्थः ।
भावद्वयकोटिकसंशयाप्रसिद्धः स्थाणुर्वेत्यत्र स्थाणुत्वस्थाणुत्वाभाव-
पुरुषत्वपुरुषत्वाभावकोटिक एव संशय इत्यर्थः॥५३॥

तर्कसंग्रहः पुरुपो वेति । मिथ्याज्ञानं विपर्ययः । यथा शुक्तौ इदं रजतमिति । व्याप्यारोपेण व्यापकारोपस्तकः । यथा यदि वह्निर्न स्यात् तर्हि धूमोपि न स्यादिति ।।५३॥ रूपत्वात् न त्रैविध्यविरोधः (४९) । संशयलक्षणमाह-एकेति । 'घटपटो' इति समूहालम्बनेऽतिव्याप्तिवारणाय -एकेति । 'घटो द्रव्यम्' इत्यादी अतिव्याप्तिवारणाय-विरुद्धति | 'पटत्वविरुद्धघटत्वान्' इत्यत्र अति- व्याप्तिवारणाय-नानेति । विपर्ययलक्षणमाह-मिथ्येति । तदभाववति तत्प्रकारकनिश्चय इत्यर्थः । तर्कलक्षणमाह-व्याप्येति । यद्यपि, तर्को विपर्ययेऽन्तर्भवति, तथापि प्रमाणानुग्राहकत्वाद् भेदेन कीर्तनम् । न्यायवोधिनी मिथ्याज्ञानमिति । अयथार्थज्ञानभित्यर्थः। विपर्ययोनाम भ्रमः। व्याप्यारोपेणेति । तर्के व्याप्यस्य व्यापकस्य च वाधनिश्चयः कारणम् । अन्यथा बाधनिश्चयाभावे इष्टापत्तिदोषेण तर्कानुत्पत्तेः । (४९) वैशेषिकमते अनध्यवसायोऽपि तृतीया विधा अयथार्थस्य । तथा च प्रशस्तपाभाष्यम्- "तत्राविद्या चतुर्विधा संशयविपर्यायानध्यवसायस्वप्नलक्षणा ।" “गते प्रसिद्ध राजनि कोऽप्यनेन पथा गत इतिज्ञानमात्रमनवधारितविशेष. मनध्यवसायः।” इति कन्दलीकाराः । "अनुपलब्धसपक्षविपक्षसहचारस्यासाधारणधर्मस्य दर्शनात् पनसादौ किञ्चिदयमिति ज्ञानमनेककोटिकमनध्यवसायः संशयमिन्नो विषयभेदात् ।" इति न्यायलीलावतीप्रकाशे वर्द्धमानोपाध्यायाः। "पनसादौ किंस्विदिदमिति ज्ञानमसाधारणधम्मजन्यमनध्यवसायः। स च . वैशेषिकमते संशयाद भिन्नः ।" इति कण्ठाभरणे शङ्करमिश्राः । संशय एवायमिति भूषणः । मैवम् , “विरुद्धनानाप्रकारकमेकधम्मिकं. ज्ञानं संशयः, विशेषतो विरुद्धकोट्यनुल्लेखात् नाऽनध्यवसायः, अनुल्लिखितनाना-- विरुद्धकोट्युल्लेखे हि सः, अन्न पनसस्य किञ्चित्वेन विरोधिनानाकोटेरुल्लेखात् ।" इति लीलावतीप्रकाशकृतः। ननु कथमस्याऽययार्थत्वम् ? विशेषव्यवहारपरिपन्धित्वात् , किश्चित्वेनाऽसत्- कोटेरशेखाचेति ग्रमः।

दीपिकान्याययोधिनीध्रुवपदासहितः स्मृतिरपि द्विधा-यथार्थाऽयथार्था चेति । प्रमाजन्या यथार्थो । अपमाजन्या अयथार्था (५०)॥५४॥ स्मृति विभजते-स्मृतिरिति । (५०) आर्हतमते स्मृतिरपि प्रमाणान्तरम् । तदुक्तम्, अष्टसहनथाम्,- "स्मृतेरप्रामाण्यकल्पनायामनुमानोत्थानायोगः, सम्बन्धस्मृतेरप्रमाणत्वात्, तस्या अपि लैङ्गिकत्वेन प्रामाण्ये परापरसम्बन्धस्मृतीनामनुमानत्वकल्पनादन- वस्थानात् सम्बन्धस्मृतिमन्तरेणानुमानानुदयात् ।......” इति । (२७९ पृ०) रताकरावतारिकायाञ्च-"इति सिद्धमनुमानस्येव स्मरणस्यापि प्रामा. ण्यम् । न च तस्याप्रामाण्येऽनुमानस्यापि प्रामाण्यमुपापादि । सम्बन्धस्याप्रमाण- स्मरणसन्दर्शितस्यानुमानाननत्वात् , संशयितलिङ्गवत् । (तृतीय परिच्छेदे) इति सिद्धान्तितम् । न्यायकन्दलीकृतस्तु-"तन चार्थस्यातीतत्वं पूर्वानुभूतत्वं प्रतीयते इत्य- तीतविपया स्मृतिः। अत एव न प्रमाणं तस्याः पूर्वानुभवविषयत्वोपदर्शनेनार्थ निश्चिन्वत्या अर्थपरिच्छेदे पूर्वानुभवपारतन्त्यात् । अनुमानज्ञानं तूत्पत्तौ परापेक्षं स्वविषये स्वतन्त्रमेव । स्मृति (ते ?) रिव तस्मात् पूर्वानुभवानुसन्धानेनार्थः प्रतीत्यभावात् ।” इत्याहुः । यथाहुः तन्त्रटीकायां गुरवः- "पूर्वविज्ञानविषयं विज्ञानं स्मृतिरिष्यते । पूर्वज्ञानाद् विना तस्याः प्रामाण्यं नावगम्यते ॥ इति । यथा चेदमाहुः कारिकायाम् , "तत्र यत् पूर्वविज्ञानं तस्य प्रामाण्यमिष्यते । तदुपस्थानमात्रेण स्मृतेः स्याञ्चरितार्यता ॥” इति । अनर्थजत्वात् स्मृतेरप्रामाण्यमिति केचित् । तन्न, तथा सति अतीतानागत- विषयस्याप्रामाण्यं स्यात् । विचारविस्तरस्तु रत्नाकरावतारिकायां तृतीय- परिच्छेदे द्रष्टव्यः शास्त्ररसिकैः । न्यायलीलावतीकृतस्तु-"स्मृतिरपि मानान्तरमेव स्वार्थनिश्चयहेतुत्वा" दित्युपक्रम्य मुनीनामव्यवहारादिति चेन्न, वादिनं प्रति मुनित्वस्यैवासिद्धेरिति तत् कथं द्वे एव प्रमाणे ।" इत्यन्तग्रन्थेन स्मृतिकरणीभूतस्य तृतीयप्रमाणत्वमाशति तवन्तः । 'मानान्तर'मित्यत्र 'मान'पदं प्रमितिपरम् । तथा च लीलावतीप्रकाशे 'मानान्तरमिति प्रमित्यन्तरमित्यर्थः । एवञ्च स्वार्थनिश्चयहेतुत्वादित्यस्य स्वार्थ- निश्रयात्मकत्वादित्येवार्थः। अन्यथा स्मृतिजन्यप्रमाविरहेण तस्या मानान्तरत्वम- सम्भवीति ध्येयम् । .

तर्कसंग्रहः सर्वेपामनुकूल ( तया ) वेदनीयं सुखम् (५१) ॥५॥ प्रतिकूल (तया) वेदनीयं दुःखम् ॥५६॥ इच्छा कामः ॥२७॥ क्रोधो द्वेपः ॥५॥ सुखं लक्षयति-सर्वेषामिति । 'सुख्यहम्' इत्याद्यनुव्यवसायगम्यं सुखत्वादिकमेव लक्षणम् । यथाश्रुतं तु स्वरूपकथनमिति द्रष्टव्यम् । न्यायवोधिनी सुखं निरूपयति-सर्वेषामिति । इतरेच्छाऽनधीनेच्छाविषयत्व. मिति निष्कर्षः। यथाश्रुते घटोऽनुकूल इत्याकारकज्ञानदशायामनुकूल त्वप्रकारकज्ञानविशेष्यत्वस्थ घटादायपि सत्त्वाद्घटादावतिव्याप्ति रिति । सुस्वेच्छाधीने भोजनादावतिव्याप्तिवारणाय इतरेच्छानधीनेती. च्छाविशेषणम् । सुखेच्छायाः सुखत्वप्रकारकज्ञानमात्रजन्यत्वात् ॥५५॥ दुःलं निरूपयति-प्रतिकूले ति। अत्रापीतरद्वेषानधीनद्वेषविषयत्व- मिति निष्कृष्टलक्षणम्। उपविषयत्वमात्रोक्तौ सदावतिव्याप्तिस्तत्रापि द्वेषविषयत्वसवादतस्तत्रातिव्याप्तिवारणायेतरद्वेषानधोनेति द्वेषविशे- पणम् । सर्पजन्यदुःखादी द्वेषात्सर्पऽपि द्वेष इति सर्पद्वेषस्य सर्पजन्य- दुःख द्वेषजन्यत्वादन्यद्वेपाजन्यद्वेषविषयत्वरूपदुःखलक्षणस्य सादौ . तथा अत्र तेपामयं समाधानसमास: "पूर्वानुभवविषयतयैव वा विपयनि- यमादिच्छादिवदिति ।” पूर्वानुभवेन सहकविपयत्वनियमादित्यर्थः । च स्मृतित्वं न प्रमावृत्ति कारणीभूतज्ञानविपयविपयकमात्रवृत्तिजातित्वात् इच्छा- त्ववदिति भावः । केचित्तु स्मृतिर्न प्रमितिविपयसम्बन्धे परतन्त्रत्वादित्याहुः । प्रभाकरविजयकृतस्तु-"स्मृतिस्तु परिच्छेदे पूर्वबुध्यपेक्षवेति न प्रमाणम् । भनुमानं तर्हि न प्रमाणम् , तस्य पूर्वबुध्यपेक्षत्वात इति चेन, तस्य न परिच्छेदे पूर्ववु- द्यपेक्षत्वम्, किन्तूत्पत्तावेव । कथमिदमवगम्यते स्मृतेः परिच्छेदे पूर्वबुद्ध्यपेक्षत्वम् , अनुमानस्य तूनपत्ताविति ? ज्ञातस्वभावादेव सुखमवगन्तुं शक्यते । तदाह- स्मृतिहि 'तत्' इत्युपजायमाना प्राची प्रतीतिमनुरुध्यमाना न स्वातन्त्र्येणार्थ परिच्छिन्नत्तीति न प्रमाणं स्मृतिरिति । अनुमाने तु 'तत्' इति वेपाभावादुत्पत्ती पूर्ववुव्यपेक्षति निश्चीयते ।" इत्याहुः । (५१) पुवं चतुर्विधं वैपयिकं मानोरथिकमाभ्यासिकमामिमानिक चेति । वत्र विषयसाक्षात्कारजमाद्यम् । विषयध्यान द्वितीयम् । सूर्यनमस्काराद्यभ्यासा. जायमानं तृतीयम् । धनपाण्डित्याद्यभिमानजन्यं सुरीयम् । एवं दुःखेऽपि वोध्यम्। -- दीपिकान्यायबोधिनीध्रुवपदासहितः कृतिः प्रयत्नः (५२)॥५९॥ विहितकर्मजन्यो धर्मः॥६॥ / निषिद्धकर्मजन्योऽधर्मः (५३)॥६॥ बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः । बुद्धीच्छाप्रयत्ना नित्या अनित्याश्च । नित्या इश्वरस्य अनित्या जीवस्य ॥६२।। न्यायबोधिनी नातिव्याप्तिः । फलेच्छा उपायेच्छा प्रति कारणम् । अतः फलेच्छाव- शादुपायेच्छा भवति । एवं फले द्वेषादुपाये द्वेषः। धर्माधौं निरूपयति-विहितेति । वेदविहितेत्यर्थः । निषिद्धति । वेदनिषिद्धत्यर्थः। बुद्ध्यादयोऽष्टाविति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा इत्यर्थः। (५२) प्रयत्नो द्विविधो जीवनयोनिरन्यश्च । जीवनादृष्टं योनिः कारण यस्य समाधः शरीरे श्वासप्रश्वासहेतुः । गुरुभारोत्तोलने धावनादौ प्रयत्नविशेषात् श्वास- क्रियाविशेषदर्शनाद् 'यद्विशेषयोः कार्यकारणभावो बाधकं विना ततसामान्ययोर- पोति न्यायेन प्राणक्रियासामान्ये यत्नसामान्यजन्यत्वानुभवात् निद्रादिसकलकालि- कस्य तस्यावश्यकस्वात् । स चातीन्द्रियः । द्वितीयो द्विधा-एको द्वेषजों भुजगा- दिभ्यो निवृत्तिलक्षणः, द्वितीयश्चिकीर्पादिजन्यः प्रवृत्तिरूपः । एतौ प्रत्यक्षौ । (५३ ) धर्माधम्मौ त्रिविधौ, सञ्चितौ क्रियमाणौ प्रारब्धौ च । कापिलास्तु-अन्तःकरणस्य बुद्धवृत्तिविशेष धर्ममाहुः । वृद्धमीमांसका यागदिकमनिर्वर्त्यमपूर्व नाम धर्ममभिवदन्ति । भट्टपादास्तु- "श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः । चोदनालक्षणैः साध्या तस्मात् तेष्वेव धर्माता ॥" इत्यादिश्लोकैः श्रेयःसाधनतया यागादिकर्मणो धर्मत्वं नरकपातादिसाधन- त्वाच हिंसादिकर्मणोऽधर्मत्वं प्रतिपादयन्ति । तानि च द्रव्यगुणकर्मात्मकानीति - तेम्वेव धर्माधर्मयोरन्तर्भाव इति कौमारिलमतम् । कार्य्याद्यपरनामधेयमपूर्वमेव धर्मशब्दवाच्यमिति प्राभाकराशाक्यभिक्षवश्च चित्तवासनां धर्ममाचक्षते । आईतास्तु पुण्यपुद्गलान् धर्मत्वेन व्यपदिशन्ति ।

तर्कसग्रहः है संस्कारस्त्रिविधः-वेगो भावना स्थितिस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोमात्रवृत्तिः । संस्कारं विभजते-संस्कार इति । संस्कारवजातिमान् संस्कारः । वेगस्याश्रयमाह-वेग इति । वेगत्वजांतिमान वेगः । अनुभवजन्या स्मृतिहेतुर्भावना । आत्ममात्रवृत्तिः। भावनां लक्षयति-अनुभवेति । अनुभवध्वसेऽतिव्याप्तिवारणाय स्मृतीति । आत्मादौ अतिव्याप्तिवारणाय अनुभवेति । स्मृतेरपि संस्कार- जनकत्वं नवीनरुक्तम् । न्यायवोधिनी संस्कारं विभजते-संस्कार इति। भावना लक्षयति-अनुभवेति । अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाया लक्षणम् । अत्रानुभव. जन्यत्वे सतीति विशेषणानुपादाने आत्ममनःसंयोगेऽतिव्याप्तिरात्म- मनःसंयोगस्य ज्ञानमात्र प्रत्यसमवायिकारणत्वेन स्मृति प्रत्यपि कार- णत्वादतस्तदुपादानम् । आत्ममनःसंयोगस्यानुभवजन्यत्वाभावाना तिव्याप्तिः । तावन्मात्रे कृतेऽनुभवध्वंलेऽतिव्याप्तिः, ध्वंसं प्रति प्रति- योगिनः कारणत्वेनानुभवध्वंसस्याप्यनुभवजन्यत्वात् । अतः स्मृति- हेतुत्वोपादानम् । अनुभवध्वंसे स्मृतिहेतुत्वाभावान्नातिव्याप्तिः । ननु विशिष्टवुद्धि प्रति विशेषणज्ञानस्य कारणता लकलतान्त्रिकमत- सिद्धा । यथा दण्डविशिष्टवुद्धि प्रति दण्डज्ञानं कारणम् । दण्डविशिष्ट- बुद्धिर्नाम दण्डप्रकारकवुद्धिः। तथा च दण्डप्रकारकवुद्धित्वावच्छिन्नं प्रति दण्डज्ञानत्वेन कारणत्वमित्यापतितम् । दण्डप्रकारकवुद्धिः दण्डी पुरुष इत्याकारकबुद्धिस्तत्र दण्डज्ञानं कारणम् । न हि दण्डमजानानः पुमान् 'दण्डी पुरुष' इति प्रत्येति । एवं च यत्रायं दाड इति प्रत्यक्ष जातं तदनन्तरं दण्डी पुरुष इत्याकारकप्रत्यक्षमुत्पन्नं तभ दण्डी पुरुष इत्याकारकप्रत्यक्षेऽतिव्याप्तिः। तद्धि स्वाव्यवहितपूर्वक्षणोत्पन्नदण्ड- ज्ञानात्मकानुभवजन्यं जनिध्यमाणे दण्डी पुरुष इत्याकारकस्मरणे कारणं च स्मृति प्रत्यनुभवस्य कारणत्वात्तथा चानुभवजन्यत्वे सति स्मृतिहेतुत्वरूपभावनालक्षणस्य यथोक्तदण्डी पुरुष इत्याकारकानुभवे विद्यमानत्वादतिव्याप्तिरिति चेत् , अत्र ब्रमः-अनुभवजन्यत्व हि अनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वम् । तत्र कारण- - दीपिकान्यायवोधिनीध्रवपदासहितः 'अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितिस्थापकः कटा- दिपृथिवीवृत्तिः ॥६३॥ स्थितिस्थापकं लक्षयति-अन्यथेति । संख्यादयोऽष्टो नैमित्तिकद्रवत्ववेगस्थितिस्थापकाः सामान्यगुणाः अन्ये रूपादयो विशेषगुणा. । द्रव्यविभाजकोपाधि द्वयसमानाधिकरणा. वृत्तिजातिमत्त्वं विशेषगुणत्वम् । (५४) न्यायबोधिनी तायामनुभवत्वावच्छिन्नत्वं निवेश्यते । तथा चानुभवत्वावच्छिन्नकार-- णतानिरूपितकार्यताश्रयत्वमनुभवजन्यत्वमिति फलितम्, अतो नो- कातिव्याप्तिस्तथा हि दण्डप्रकारकवुद्धित्वावच्छिन्न कार्यतानिरूपित दण्डशाननिष्ठा या कारणता तस्या न दण्डानुभवत्वमवच्छेदकं दण्डा. नुभवादिव दण्डस्मरणादपि दण्डप्रकारकबुद्धरुत्पत्तेः, अतो दण्ड- प्रकारकवुद्धित्वावच्छिन्नं प्रति अनुभवस्मरणसाधारणदण्डज्ञानत्वे. नैव दण्डशानस्य कारणतायाः स्वीकरणीयत्वेन दण्डज्ञानत्वस्यैव तद, पच्छेदकत्वात् । तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्र. यत्वस्योक्तप्रत्यक्षेऽभावान्नातिव्याप्तिःभावनायां तु लक्षणमिदं वर्तते । तथा हि अनुभवेनैव भावनाख्यसंस्कारोत्पत्या भावनात्वावच्छिन्नं प्रत्यनुभवस्यानुभवत्वेनैव कारणतया भावनात्वावच्छिन्नकार्यतानि- मपितानुभवनिष्ठकारणतायामनुभवत्वमवच्छेदकम् । अतोऽनुभवत्वा- वच्छिन्नकारणतानिरूपितकार्यताश्रयत्वं भावानायां वर्तत इति ना- सम्भवः । नन्वेवं स्मृतिहेतुत्वविशेषणवैयर्थ्यम् , तद्धयनुभवबसेऽति- (५४) कौमारिलास्तु-धर्माधर्मशब्दानां गुणत्वमनङ्गीकुर्वाणा ध्वनि- प्राकट्यशकीनां गुणत्वमाकान्ते । तथा च तन्मते ध्वनि म शब्दाभिव्यञ्जको वायु- गुण । 'घटः प्रकाशते 'प्रकटो घट' इत्यादिव्यवहारदर्शनेन घटादिषु द्रव्येषु विशेष- गुणभूत प्रकाशपदार्थ प्राकट्यमित्युच्यते । शक्तिस्तु द्रव्यकर्मगुणाश्रया लौकिक- वैदिकभेदेन द्वेधा । तदुक्त मानमेयोदये- "शक्तित्वसामान्यवती द्रव्यकर्मगुणाश्रयाम् । अर्थापत्तिप्रमागम्यां शक्तिमाहु. कुमारिला. ॥” इति आधा पुनरर्थापत्तिगम्या वह्नयादीना दाहकत्वशक्तिः, द्वितीया च यागादीनां स्वर्गसाधकस्वशक्तिचोदनैकगम्या । इत्यास्तां विस्तरः ।

तर्कसंग्रहः । चलनात्मकं कर्म । अर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदे- शसंयोगहेतुरपक्षेपणम् । शरीरसन्निकृष्टसंयोगहेतुराकञ्चनम् । शरीरविप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम्(५५)॥६॥ कर्मणो लक्षणमाह-चलनेतिः। उत्क्षेपणादीनां कार्यभेदमाह-ऊर्चेति । शरीरेति । वक्रतासम्पादकं कर्म आकुञ्चनम् । ऋजुतासम्पादकं प्रसा- रणमित्यर्थः । न्यायबोधिनी व्याप्तिवारणाय प्रागुपात्तम् । न हि यथोक्तानुभवजन्यत्वविवक्षायामनु- भवध्वंसेऽतिव्याप्तिःप्रसज्यते। तथा हि ध्वंसत्वावच्छिन्नं प्रति प्रतियो. गिनः कारणत्वं प्रतियोगित्वेन रूपेण, तत्तद्वंसत्वावच्छिन्नं प्रति च तत्त- प्रतियोगिव्यक्तस्तत्तव्यक्तित्वेनेत्येवं ध्वंसप्रतियोगिनो कार्यकारणभावः। तथा च ध्वंसनिष्ठकार्यतानिलपिता याऽनुभवनिष्ठा कारणता तस्यां प्रतियोगित्वमवच्छेदकं तत्तद्वयक्तित्वं च न त्वनुभवत्वमपीत्यनुभव- ध्वंसेऽनुभवत्वावच्छिन्नकारणतानिकपितकार्यताश्रयत्वरूपानुभवजन्य- त्वविरहेणैवातिव्याप्तिवारणसम्भवात्कृतं स्मृतिहेतुत्वविशेषणेनेति चेत्, न, स्मृतावतिव्याप्तिवारणायैव तदुपादानात् । तथा हि स्मृति प्रत्य- नुभव एव कारणं न तु स्मृतिरप्यतो घटस्मृत्तित्वावच्छिन्नं प्रति घटा- नुभवस्य घटानुभवत्वेनैव कारणत्वं न तु घटनानत्वेन, तथा च घट- स्मृतिनिष्ठकार्यतानिरूपिता या घटानुभवनिष्ठा कारणता तस्यां घटा. नुभवत्वमवच्छेदकम् , तेनानुभवत्वावच्छिन्नकारणतानिरूपितकार्यता. श्रयत्वस्य स्मृतौ विद्यमानत्वादतिव्याप्तिवारणाय स्मृतिहेतुत्वमुक्तम् । न हि स्मृतिः स्मृतिहेतुः । अतो न तनातिव्याप्तिरित्यलमन. ल्पजल्पनेन । .. . (५५) प्राभाकरास्तु-संयोगविभागाभ्यामनुमेयत्वमेव कर्मणो न तु प्रत्यक्षत्वमिति वदन्ति । तन्न । संयोगविभागमात्रस्यैव नेत्रगोचरत्वे ताभ्यां च कार्मानुमाने श्येनशैलसंयोगविभागाभ्यां शैलेऽपि कर्मकल्पनप्रसङ्गात् । 'यथा देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिमवलोक्यादित्येऽपि गतिस्मरण मिति भाष्य- चिरोधाच्च ।

दीपिकान्यायबोधिनीध्रुवपदासहितः नित्यमेकमनेकानुगतं सामान्यम् (५६)। द्रव्यगुणकर्मत्ति। सामान्य लक्षयति-नित्यमिति। संयोगेऽतिव्याप्तिवारणाय-नित्य-- मिति । परमाणुपरिमाणादावतिव्याप्तिवारणाय-अनेकेति । अनुगतत्वं न्यायबोधिनी सामान्य निरूपयति-नित्यमेकमिति । नित्यत्वे सत्यनेकसमवे. तत्वं सामान्यलक्षणम् । नित्यत्वविशेषणानुपादानेऽनेकसमवेतत्वस्य संयोगादौ सत्वात्तत्रातिव्याप्तिस्तद्वारणाय नित्यत्वविशेषणम् । अनेक- समवेतत्वानुपादाने आकाशादावतिव्याप्तिस्तद्वारणायाऽनेकसमवे- तत्वम् । अनेकसमवेतत्वानुपादाने नित्यत्वविशिष्टलमवेतत्वमात्रोक्ता- वाकाशगतैकत्वपरिमाणादी जलपरमाणुगतरूपादौ चातिव्याप्तिः, जलपरमाणुगतरूपादेराकाशगतैकत्वपरिमाणादेनित्यत्वात् समवेतः त्वाच्च, अतः अनेकति । (५६ ) "सामान्यं नित्यमेकं स्यादनेकसमवायि चे"ति स्वकीयकारिकान्या ख्यानावसरे तार्किकरक्षायां वरदराजा,- "नित्यमनेकसमवायीत्युक्ते सलिलाद्यनेकपरमाणुगतरूपादीनामपि प्रसङ्गाद् "एक स्या'दित्युक्तम् ।" इति । दीपिकाप्रकाशे नीलकण्ठभट्टास्तु-"एकपदं स्वरूपकथनमिति द्रष्टव्यम्" इत्याहुः। "नित्यमेकमनेकवृत्तिसामान्यमिति लक्षणं सूचित"मिति किरणावली-- सन्दर्भव्याख्यानावसरे प्रकाशकृतः, “एकमिति स्वरूपाभिधानमात्रं न तु लक्षणार्थमित्येके । एक लक्षणमिति योज्यम् । लक्षणान्तरं चासमवायित्वे सति अनेकसमवेतस्वमित्यन्ये । भनेकवृत्ति-- स्वमनेकाधारत्वं तच्चाभावसमवाययोरप्यस्तीत्यत उक्तमेकमसहायम् । अभावसम- वाययोश्च प्रतियोगिसम्बन्धिनौ सहायावित्यपरे । अनेकवृत्तित्वं च स्वाश्रयान्यो- न्याभावसामानाधिकरण्यम् ।" इति प्राहुः । वकीयव्रजकुमारविद्यारत्नभट्टाचार्यास्तु अनेकानुगतत्वस्य स्वप्रतियोगिवृत्तित्व- स्वानुयोगिवृत्तित्वोभयसम्बन्धेन भेदविशिष्टस्वरूपस्य स्ववृत्तित्वस्वेतरवृत्तित्वोभय-- सम्बन्धेन वस्तुविशिष्टस्वरूपस्य वा परिष्कार्य्यतया जलीयपरमाणुरूपेऽतिव्याप्तिः। एकधर्मावच्छिन्नाधेयत्वस्यैकतया रूपत्वावच्छिन्ननिरुतोभयवृत्तित्वस्य तद्रूपेऽपि सवात् ,अत एकपदम् । तथा च भेदविशिष्टोभयावृत्तिधर्मवत्त्वस्य लाभात, तर्कसग्रहः तद्विविधं परापरभेदात् । परं सत्ता । अपरं द्रव्यत्वादि ॥६॥ समवेतत्वम् । घटाद्यत्यन्ताभावो घटाउनुगतोऽप्यसमवेत इति नामावा- दावतिव्याप्तिः । नित्यद्रव्यवृत्तयो व्यावतका विशेपाः (५७) ॥६६॥ विशेष लक्षयति-नित्येति । न्यायवोधिनी नित्यद्रव्यवृत्तय इति । नित्यद्रव्येषु परमाण्वादिषु वर्तमानाः, अत 'एव व्यावर्तकाः-इतरभेदानुमितिहेतवः । निस्यद्व्यवृत्तित्वरूपपक्ष- धर्मताप्रयोज्येतरभेदानुमापकताशालिन इत्यर्थः । नित्यद्रव्यनिष्ठ- विशेष्यतानिरूपितकमात्रवृत्तिभेदानुमितिजनकतावच्छेदकप्रकारता यत्वं विशेषाणां लक्षणमिति भावः । पार्थिवपरमाणौ जलादिभेदानु- मापकगन्धेऽतिव्याप्तिवारणाय एकमात्रवृत्तित्वं भेदविशेषणम् । घटा- दौ तदितरभेदानुमापके तपादावतिव्याप्तिवारणाय निरूपितान्त प्रकारताविशेषणम् । एतेन व्यावर्तका इत्यस्य नित्यद्रव्यविशेष्यकेतर- भेदानुमितिप्रयोजका इत्यर्थकतया लक्षणपरत्वेन साफल्येऽपि नित्य व्यवृत्तय इति विफलमेव स्वरूपास्यानस्यापि कृतत्वादिति प्रत्युक्तम् । नोनातिव्याप्तिः । वैशिष्ट्यं च स्वप्रतियोगिवृत्तितावच्छेदकत्वस्वानुयोगिवृत्तिता- वच्छेदकत्वोभयसन्धन्धेन । यद्वा वस्तुविशिष्टोभयावृत्तिधर्मवत्वं वक्तव्यम् । वैशिष्ट्यं च स्ववृत्तितावच्छेदकत्वत्त्वेतरावृत्तितावच्छेदकत्वोभयसम्बन्धेन । एवञ्च नोक्तातिव्याप्तिरिति "तच्चानुवृत्तिप्रत्ययकारण"मितिभाप्यव्याख्यायां सूक्तिकाराः-"नानाधर्मि- रयेकप्रकारकप्रमाप्रकारीभूतो यो धर्मः स सामान्यमित्यर्थः । प्रकारत्वं च समवा- येन ग्राह्यम्" । इत्याहुः । "जातित्वञ्च समवायसम्बन्धेन शाब्दबोधीयनिरवच्छिन्न प्रकारत्वम्, न नु नित्यत्वे सत्यनेकसमवेतत्वं तत् गौरवात् समवायगामित्वाञ्च ।" इत्यस्मद्गुरु- चरणा:। (५७) नानामन्येपु विशेषस्य बहूनि लक्षणानि दृश्यन्ते । तत्र "निःसामान्यत्वे सति एकद्रव्यमात्रवृत्तित्वमिति किरणावलीप्रकाशे वर्धमानोपाध्यायाः । "सर्वदा व्यसमवेतत्वे सति नित्यगन्यवृत्तिजातिगुणाभ्यां भिन्नत्वमेव प्रकृते विशेष. -रच"मिति सूक्तिकृतः । तेषां लक्षणान्तरन्तु तत्रैव द्रष्टव्यम् । “नित्यमात्रवृत्तिवृत्ति. पदार्थविभाजकोपाधिमत्वं विशेषत्वम् ।" इति कणादरहस्ये शङ्करमिश्राः । पाहु.। ।

दीपिकान्यायबोधिनीध्रुवपदासहित नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः । ययोयोमध्ये एकमविनश्यदपराश्रितमेवावतिष्ठते तावयुतसिद्धौ । अवयवावय- विनी गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्य- द्रव्ये चेति ॥६७॥ समवायं लक्षयति-नित्येति । संयोगेऽतिव्याप्तिवारणाय-नित्येति। आकाशादावतिव्याप्तिवारणाय-सम्बन्ध इति । अयुतसिद्धलक्षणमाह- ययोरिति । 'नीलो घटः' इति विशिष्टप्रतीतिः विशेषणविशेष्यसम्बन्धविषया 'विशिष्टप्रत्ययत्वात् दण्डीतिप्रत्ययवदिति समवायसिद्धिः (५८) अवयवाव- यविनाविति । द्रव्यसमवायिकारणमवयव. । तज्जन्यं द्रव्यमवयवि । न्यायवाधिनी समवायं निरूपयति-नित्येति । सम्बन्धत्वं विशिष्ट प्रतीतिनिया- भकत्वम् । तावन्मात्रोक्तौ सयोगेऽतिव्याप्तिरतो नित्य इति विशेषणम् । ययोदयोमध्य इति । यनिष्ठकालनिकपिताधेयतासामान्यं यदव- च्छिन्नं तदुभयाभ्यतरत्वमयुतसिद्धत्वमित्यर्थः । "विशेषोऽपि च न पदार्थान्तरं मानाभावात् । विनापि व्यावर्गक धर्म परेषां विशेषाणामिव नित्यानां द्रव्यानामपि स्वत एव व्यावर्तकत्वात् ।" इति पदार्थ- तत्त्वनिरूपणे शिरोमणिभट्टाचार्याः । अत्रास्मद्गुरुचरणाः-"अथ तत्तत्परमाणुनिष्टमपरपरमाणुभ्यो व्यावृत्तस्वं परमाणुव्यक्तिप्रयोज्यमेवास्ता किं विशेषनामकाऽनन्तपदार्थान्तरस्वीकारण ।...... इति चेन्न, यतस्तत्तत्परमाणुन्यक्तौ तत्तद्व्यक्तिनिष्ठव्यावृत्ततायाः प्रयोजकत्वं, वा तत्परमाणुनिष्ठनिखिलनित्यगुणव्यक्तिपु, इति विनिगमनाविरहेणाऽनन्त- प्रयोजकतापत्तिभिया तत्प्रयोजकत्वेन पदार्थान्तरसिद्धरावश्यकत्वात् । तदेव पदार्थान्तर विशेषनाम्नोपगीतम् । प्रयोजकतया साधनीयेन समं का विनि- रामनाविरहाशका । भनुमितेः पूर्व तादशपदार्थान्तरस्याऽज्ञातत्वात् ।........... ईश्वरसिद्ध्यर्थमप्येवं रीतिरवलम्बनीया ।" इति प्राहुः । एतद्विचारविस्तरस्त तेषां विविधविचारे द्रष्टव्यः । इति संक्षेपः । (५८) एतच्च वैशेषिकमतम् । तन्मत एवं समवायस्यानुमानेन सिद्धेः। तदुक्तं भाग्ये-"अयुनसिद्धानामाधाऱ्यांधारभूतानां य. सम्बन्ध इह प्रत्ययहेतुः स समवाय" इति ।

५२ तर्कसंग्रहः (अनादिः सान्तः प्रागभावः, उत्पत्तेः पूर्व कार्यस्य । सादि- , रनन्तः प्रध्वंसः उत्पत्त्यनन्तरं कार्यस्य । कालिकसंसर्गावच्छि- प्रागभावं लक्षयति-अनादिरिति । आकाशादौ अतिव्याप्तिवारणाय सान्त इति | घटादो अतिव्याप्तिवारणाय अनादिरिति । प्रतियोगिसमवायि- कारणवृत्तिः प्रतियोगिजनकः 'भविष्यतीति' व्यवहारहेतुः प्रागभावः । ध्वंसं लक्षयति-सादिरिति । घटादौ अतिव्याप्तिवारणाय अनन्त इति । आका- न्यायवोधिनी अत्यन्ताभावं निरुपयति-त्रैकालिकेति । प्रागभावाप्रतियो- गित्वे लतिवसाप्रतियोगित्वे सत्यन्योन्याभावभिन्नत्वे सत्यभावत्व- मत्यन्ताभावस्य लक्षणस् । वंसप्रागभावान्योन्याभावाकाशादीन वारणाय यथाक्रमं विशेषणोपादानम् । वस्तुतस्तु संसर्गाभावत्व तादात्म्य भिन्नसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम् । ध्वसना- गभाषयोश्च न संसर्गावच्छिन्नप्रतियोगिताकत्वमिति तेनव तद्वारणे त्रैकालिकति स्वरूपाख्यानमेवेति बोध्यम् । व्याख्यातन्च किरणावलीकारः,-"प्रमाणमाह । इह प्रत्ययहेतुरिति । इह तन्तुषु पट इह पटे शुक्लत्वमिह गवि गोत्वमित्यादयः प्रत्ययाः सम्बन्धमन्तरेणा. नुपपद्यमानास्त व्यवस्थापयन्ती"ति । (२६ पृ.) न्यायनये च प्रत्यक्ष एव समवायः। तथा च ग्यायवाचिके-“समवाये चाभावे च विशेषणविशेप्यभावादिति ।" (191) तदुक्तं भाषापरिच्छेदकृद्भिरपि ---"प्रत्यक्षं समवायस्य विशेषणतया भवे"दिति । इदमत्रावधेयम्-समवायस्य लौकिकप्रत्यक्षं संसर्गविधयैव न तुप्रकारविधया विशेष्यविधया वा सम्बन्धसाक्षात्कारे च प्रतियोग्यनुयोग्युभयसाक्षात्कार कारणम्, इंहशसाक्षात्कारे इन्दियसन्निकर्षसहकारिवनियमार्थ समवायसाक्षात्कार प्रति धारणतया पृथक सन्निकर्पोऽभिहितः। अन्यथा इन्दियसंयुक्तसमवायादिरूपायाः सामान्यसामग्रीतो रूपादिप्रत्यक्षस्येव प्रतियोग्यनुयोगिप्रत्यक्षं यिनापि समवायसा. क्षात्कारापत्तिर्दुरिव । एवं निर्विकल्पके घटघटत्वोमयविषयत्वमिति प्राचीनपरस्पराच्यवस्थापि सुष्टु सङ्गता। केवलोपनीतप्रकारकत्वनिर्वाहार्थ निर्विक रपकस्वीकारावश्यकत्वे तत्र घटविषयकत्वस्य नियमतो व्यवस्थाया भसङ्गतत्वापत्ति० घंटवविषयकत्वेनैवोद्देश्यसिद्धिसम्भवात् । इति गुरुचरणैरुपदिष्टः परैरपरिशी अत लितः पन्थाः।

दीपिकान्यायबोधिनीध्रुवपदासहितः ३ नप्रतियोगिताकोऽत्यन्ताभावः। यथा भूतले घटो नास्तीति । तादात्म्यसम्बन्धावचिन्नप्रतियोगिताकोऽन्योन्याभावः। यथा घटा पटो नेति ॥१८॥ शादी अतिव्याप्तिवारणाय सादिरिति । प्रतियोगिजन्यः प्रतियोगिसमवायि- कारणवृत्तिः 'वस्त' इति व्यवहारहेतु' ध्वंसः । अत्यन्ताभावं लक्षयति- कालिकेति । अन्योन्याभावेऽतिव्याप्तिवारणाय संसर्गावच्छिन्नेति । ध्वंसप्रागभावयोरतिव्याप्तिवारणाय त्रैकालिकेति । अन्योन्याभावं लक्ष- यति-तादात्म्येति । प्रतियोगितावच्छेदकारोप्यसंसर्गभेदात् एकप्रतियोगि- कयोरत्यन्ताभावान्योन्याभावयोबहुत्वम् । 'केवलदेवदत्ताभावात् दण्ड्य- भावः' इति प्रतीत्या विशिष्टाभावः, 'एकसत्त्वेऽपि द्वो न स्तः' इति प्रतीत्या द्वित्वावच्छिन्नाभाव., संयोगसम्बन्धेन च घटवति समवायसम्बन्धेन घटा- आवः, तत्तद्धटाभावाद्धटत्वावच्छिन्नप्रतियोगिताकसामान्याभावश्चातिरिक्तः। एवमन्योन्याभावोऽपि । घटत्वेन पटो नास्तीति व्यधिकरणधर्मावच्छिन्ना- आवो नाङ्गीक्रियते । पटे घटत्वं नास्तीति तस्यार्थः । अतिरिक्तत्वे व केव- लान्वयी । सामयिकाभावोऽप्यत्यन्ताभाव एव समयविशेषे प्रतीयमान । घटाभाववति घटानयने अत्यन्ताभावस्य अन्यत्र गमनाभावेऽपि अप्रतीते. घंटापसरणे सति प्रतीतेर्भूतले घटसंयोगप्रागभावध्वंसयोर्घटात्यन्ताभात्र- प्रतीतिनियामकत्वं कल्प्यते । घटवति तत्संयोगप्रागभावध्वंसयोरसत्वादत्य- न्ताभावस्याप्रतीतिः । घटापसरणे च संयोगध्वंससत्त्वात्प्रतीतिरिति । केव लाधिकरणादेव नास्तीति व्यवहारोपपत्तौ अभावो न पदार्थान्तरमिति गुरवः । तन्न । अभावानङ्गीकारे कैवल्यस्य निर्वक्तुमशक्यत्वात् (५९) । न्यायबोधिनी अन्योन्याभावं निरूपयति-तादात्म्येति । अभावत्रयवारणाय विशेषणम् । घटाभाववान्नेति प्रतीतिविषयघटादिवारणाय विशेष्यम् । (५९) "न वयं षट्पदार्थवादिनो वैशेषिकादिवदि"ति सूत्रादिदर्शनात् अभावपदार्थो न महर्षिकणादाभिमत इति केचिन्मन्यन्ते । तन समीचीनम्, यती महर्षिणा "क्रियागुणव्यपदेशाभावात् प्रागसत्"--(९।११।१) इत्यादिसूत्रैश्चतुरि- तर्कसंग्रहः अभावाभावो भाव एव , नातिरिक्तः , अनवस्थाप्रसङ्गात् । ध्वंसप्रागभावः प्रागभावध्वंसश्च प्रतियोग्येवेति प्राञ्चः। अभावाभावः अतिरिक्त एव । धानामभावानां लक्षणानि प्रत्यक्षप्रकाराश्च प्रदर्शितानि । महर्षिरक्षपादोऽपि "लक्षि- तेवलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिदिः"-(२।२१८) "प्रागुत्पत्तेरभावो. पलब्धिश्च"- (२।१२) इतिसूत्रद्वयेनाऽत्यन्ताभावादीनुपदिदेश । मनगीकृतेऽप्यभावानां पदार्यान्तरत्वे प्राभाकरैः, कुमारिलभट्टपादमतेऽस्यभाव- श्रतुर्विध एव । तथा च श्लोकवार्तिके अभावपरिच्छेदे- "क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते । नास्तिता पयसो दक्षि प्रध्वंसामाव इष्यते । गवि योऽश्वाधभावस्तु सोऽन्योन्याभाव उच्यते ! शिरसोऽवयवा निन्ना वृद्धिकाठिन्यवर्जिताः ॥ शशश्टनादिरूपेण सोऽत्यन्ताभाव उच्यते ॥" मानमेयोदयकृतस्तु- "क्षीरे यो दध्यभावः स इह निगदितः प्रागभावः प्रवीणैः प्रध्वंसाभावमाहुर्दधनि तु पयसोऽभावमाचार्यपादाः । भत्यन्ताभावसंज्ञो भवति हि पवनायेषु रूपाद्यभाव श्वान्योन्यामावमाशु स्फुटयति तु घटादौ पटत्वाद्यभावः ॥" इत्याहुः । न्यायमसरीकारास्तु-"तस्मान्नास्तीतिप्रत्ययगम्योऽभाव इति सिद्धम् । स च द्विविधः प्रागमावः प्रध्वंसाभावश्चेति । चतुर्विध इत्यन्ये । इतरेतराभाव: सत्यन्ताभावश्च तौ च द्वाविति । पटप्रकार इत्यन्ये । अपेक्षाभावः सामर्थ्या भावस्ते च चत्वार इति ।" इत्याहुः । भोजराजस्तु सरस्वतीकराठाभरणे- भसत्ता या पदार्थानामभावः सोऽभिधीयते । प्रागभावादिभेदेन स पढविध इहेप्यते ॥ इत्यादिग्रन्येन 'खपुष्पं नास्तीति सौगतमतसिद्धमत्यन्ताभावविशेष सामर्थ्याभावं कणादायुक्तमभावचतुष्टयं चेत्यभावपटकं दर्शयामास । विगेपश्च तन्द्रत्यरत्नेश्वरः कुतटीकायां द्रष्टव्यः। सौगतमत इव कन्दलीकारमनेऽपि अलीकप्रतियोगिकाभाव एवाऽत्यन्ताभाव । तदुक्तं अत्यन्तामावे तु सर्वथा असद्भूतस्यैव वृन्दावारोपितस्य देशकालान- वच्छिन्नः प्रतिपेधः, यया पटपदार्येभ्यो नान्यत् प्रमेयमस्तीति ।"

दीपिकान्यायबोधिनीध्रुवपदासहितः ९५ तृतीयाभावस्य प्रथमाभावरूपत्वात नानवस्थेति नवीनाः (६०) सर्वेषामपि पदार्थानां यथायथमुक्तेष्वन्तर्भावात् सप्तैव पदार्था इति सिद्धम् ।।६९॥ ननु "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्ताऽवयवतर्कनिर्णय. वादजल्पवितण्डाहेत्वाभासछलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निश्रेयसा- न्यायबोधिनी ननु सादृश्यादीनामतिरिक्तपदार्थानामनिरूपणेन न्यूनतेत्यत आह सर्वेषामिति । "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयव. (६०) इदमत्रावधातव्यम् ,-नव्यन्यायनायकै रघुनाथशिरोमणिभिः सिद्धा. न्तलक्षणदीधितौ-"अभावत्वञ्चेदमिह नास्तीदमिदं न भवतीतिप्रतीतिसाक्षि- काभावाभावसाधारणः स्वरूपसम्बन्धविशेष" इतिग्रन्थेनाऽभावत्वस्य भावाभाव. साधारणत्वमुक्तम् । तदीयस्वानुरूपशिष्यैरपि मधुरानाथतर्कवागीशैः सिद्धान्त- लक्षणदीधितिरहस्ये-"तथापि सर्वेषामेव भावरूपाणामभावरूपार्णा वा अभा. वानां ..सर्वसिद्धतये"त्यादि स्वहस्तितम् । विशेषव्याप्तिदीधितावपि रघुनाथैः- "न हि घटभिन्नभेदो घटत्वादतिरिच्यते, आवश्यकक्लप्तवटत्वेनैवोपपत्तौ अतिरिक्त. करुपनायां मानाभावा"दिति सन्दर्भेण घटत्वाद्यनुगतधर्मामावाभावस्य घटत्वादि- स्वरूपत्वमेवाङ्गीकृतम्। तर्कालङ्कारजगदीशैरपि “हिमावृत्तेरभावत्वस्य, भाव इवा- भावेऽपि सत्त्वा"दिति विशेषव्याप्तिदीधितिव्याख्यायाममिहितम् । एवञ्च पदार्थतत्त्वनिरूपणे “घटाद्यभावस्याप्यभावोऽतिरिक्त एव, घटादिमति तदभावो नास्तीत्यबाधिताभावत्वप्रत्ययात् । न चैवमनवस्था एकस्यैव घटाभावस्य स्वाभा- वाभावरूपत्वे विरोधाभावा"दिति रघुनाथोक्तिरननुगतघटादीनामेवाभावस्याभावोs- तिरिक्तो न तु अनुगतवरत्वादीनामपीति तात्पर्येण समर्थनीया । पदार्थतत्त्वनिरूपणटीकायां न्यायालङ्कारो रघुदेवः- "न च भावाभावसाधारणमभावत्वमखण्डोपाधिरित्युक्तौ नायं दोष इति चाच्यम् , एवं सति लाघवादेव घटाभावाभावस्यातिरिक्तत्वसिद्धेः। लाघवानादरे- ऽभावमात्रस्यानतिरिक्तत्वसिद्धिप्रसङ्गादित्यादिकमवधेयम् ।" इति । केपाञ्चित् प्राचीनन्यायविदां नयेऽप्यभावाभावोऽरिक्तः । तदुक्त पदार्थरत्न- मालायाम्- "लीलावतीकारास्तु भभावत्वधियः प्रमात्वानुरोधेनाभावाभावोऽतिरिक्त एव । न चानावस्था घटात्यन्ताभावप्रतियोगिकस्यात्यन्ताभावस्थाभावो घटात्यन्ताभावा- नतिरिक्त इत्याहुः।" तदाह - - १६ तर्कसंग्रहः 4. धिगमः" इति न्यायशाने षोडशपदार्थानामुक्तत्वात् कथं सप्तवेत्यत आह-सर्वेपामिति । सर्वपां सप्तस्वेवान्तर्भाव इत्यर्थः । 'आत्मशरीरे- न्द्रियार्थबुद्धिमनःप्रवृत्तिदोपप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्' इति द्वादशविधं प्रमेयम् । प्रवृत्तिधर्माधौं । रागद्वेषमोहा दोषाः । रागः इच्छा। द्वेषो मन्युः । मोहः शरीरादौ आत्मत्वभ्रमः । प्रेत्यभावो मरणम् । फलं भोगः। अपवर्गो मोक्षः। स च स्वसमानाधिकरणदुः- खप्रागभावासमानकालीनदुःखध्वंसः । प्रयोजनं सुखप्राप्तिः दुःखहानिश्च । दृष्टान्तो महानसादिः। प्रामाणिकत्वेन अभ्युपगतोऽर्थः सिद्धान्तः । निर्णयो नियः । स च प्रमाण फलम् । तत्त्वबुभुत्सोः कथा वादः । उभयसाधन- वती विजिगीपुकथा जल्पः । स्वपक्षस्थापनहीना वितण्डा । कथा नाम: नानावत्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसन्दर्भः । अभिप्रायान्तरेण प्रयुक्त स्यार्थान्तरं प्रक्रुप्य दूषणं छलम् । असदुत्तरं जातिः । साधर्म्यवैध- म्योत्कर्षापकर्षवर्ध्यावय॑विकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्ति- संशयप्रकरणहेत्वर्थापत्यविशेषोपपत्त्युपलव्ध्यनुपलब्धिनित्यकार्याकार्यसम जातयः । वादिनोऽपजयहेतुर्निग्रहस्थानम् । प्रतिज्ञाहानि., प्रतिनान्तरं, प्रतिज्ञा विरोधः, प्रतिज्ञासन्न्यासः,हेत्वन्तरम् , अर्थान्तरम् , निरर्थकम् , अविज्ञा- तार्थम् , अपार्थकम् , अप्राप्त कालं, न्यूनम् , अधिकम् , पुनरुक्तम् , अन- नुभाषणम् , अज्ञानम, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योप्रेक्षणं, निरनुयोज्यानुयोगः , अपसिद्धान्तः, हेत्वाभासाश्च निग्रहस्थानानि । शेष . . , सुगमम् (६१) न्यायवोधिनी तर्वनिर्णयवाद जल्पवितण्डाहेत्वाभासच्छलजातिनिप्रहस्थानानां तत्त्व- झानान्निाश्रेयसाधिगमः' इति न्यायस्यादिमसूत्र उक्तानां प्रमाणप्रमेया. (६१) अथ न्यायशास्त्रोक्तानां पोडशपदार्थानां वैशेषिकदर्शनप्रतिपादितेषु सप्तसु पदार्थप्वन्तर्भूतत्वेऽपि द्रव्यादीनां न्यायदर्शनोक्ते कुन पदार्थेऽन्तर्भावः ? न च ते प्रमेय एवान्तर्भवितुमर्हन्ति, यत:-"मात्मशारीरे" त्यादिसूत्रे-(१९) महापणाऽऽत्मादीनामेव प्रमेयत्वं परिभाषितम् । इति चेत्, येषां तत्त्वज्ञानादप- वर्गों मिथ्याज्ञानात् संसारस्तेपामेव पदार्थानां प्रतिपित्सितत्वात् । तदुर्ग मात्स्यायनभाये,- .

दीपिकान्यायबोधिनीध्रुवपदासहित: तु दन्यजा ननु करतलानलसंयोगे सत्यपि, प्रतिबन्धके सति दाहानुत्पत्तःशक्तिः पदार्थान्तरमिति चेत् , न , प्रतिबन्धकाभावस्य कार्यमाने कारणत्वेन शक्तेरनुपयोगात् । कारणत्वस्यैव शक्तिपदार्थत्वात् । न्यायबोधिनी दीनामित्यर्थः। तद्भिन्नत्वविशिष्टतद्भूतभूयोधर्मरूपसादृश्यस्यापि घट- पटादिरूपत्वेन नातिरिक्तत्वमेवमन्येषामप्यूह्यम् । "भस्त्यन्यदपि द्रव्यगुणकर्मसामान्यविशेषसमवायाः प्रमेयम् । त देन चापरिसंख्येयम् । अस्य तु तत्वज्ञानादपवर्गों मिथ्याज्ञानात् संसार इत्यत एत- दुपदिष्टं विशेपेणेति ।" -(११११९) अधिक मम न्यायवैशेषिकतत्त्वे द्रष्टव्यम् । अथ केप मते कति पदार्थाः ? उच्यते- कुमारिलभट्टमते च पदार्थाः पञ्च । तदुक्तं मानमेयोदये प्रमेयपरिच्छेदे- "वयं तावत् प्रमेय जातिगुणक्रियाः। अभावश्चेति पञ्चैतान् पदार्थानाद्रियामहे ॥” इति । द्रव्यं गुणः कर्म सामान्यमिति चत्वारः पदार्थाः इति तु तातभट्टाः। प्राभाकरास्तु- "द्रव्यं गुणः कर्म च जातिशक्ती सादृश्यसंख्ये समवाय एते । अष्टौ पदार्था इह तान् विभज्य संक्षिप्य वक्ष्यामि गुरोमंतेन ॥" इत्याहुः । मीमांसकैकदेशिचन्द्रमते तु अष्टावेते, उपचारः संस्कारोऽन्धकारश्चेति एकादश पदार्थाः । एते एकादश, औपादानिकश्चेति द्वादश पदार्था इति महार्णवकाराः । "मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगद् योगाचारमते तु सन्ति मतयस्तासां विवर्तोऽखिलः । अर्थोऽस्ति क्षणिकस्त्वसावनुमितो बुचेति सौत्रान्तिका प्रत्यक्षं क्षणभङ्गुरं च सकलं वैभाषिको भाषते ।" भट्टमते च द्रव्याण्येकादशविधानि । तथा चोक्तं मानमेयोदये- "पृथिवी सलिलं तेजः पवमानस्तमस्तथा । व्योमकालदिगात्मानो मनः शब्द इति क्रमात् ॥"-(६६ पृ०) सेषां द्रव्यलक्षणन्तु परिमाणाश्रयत्वम् । तदुक्तं तत्रैव- "परिमाणगुणाधारं द्रव्यं द्रव्यविदो विदुः।" इति ( ६५ पृ०) . . ९ स तर्कसंग्रहः समवायच वैशेषिकशास्त्रप्रसिद्धा द्रव्यगुणकर्मसामान्यविशेषसमवायरूपा भावपदार्थाः प्रतिपादितास्तावद् वैद्यकशास्त्रेऽपि । तथा च चरकसंहितायाम्- "महर्पयस्ते ददृशुर्यधावज्ज्ञानचक्षुषा । सामान्यं च विशेष च गुणान् द्रव्याणि कर्म च । ॥" सूत्रस्थानम् ॥२७-२८ उक्तञ्च “सामान्यमेकत्वकरं विशेपस्तु पृथक्त्वकृ"दिति चरककारिकाव्याख्या- नावसरे चक्रदत्तः-"अयञ्च सामान्यविशेपवादो अन्धविस्तरभयादायुर्वेदोप. युक्तधर्ममात्रेणोक्तः, विस्तरस्त्वस्य वैशेपिके बोद्धव्यः । इति ।" तदस्ति विमानस्थानेऽपि-"द्रव्यगुणकर्मसामान्यविशेषसमवायाः स्वळ- क्षणेः श्लोकस्थाने पूर्वमुक्ताः ।" (८६२१) इति द्रव्याणि च तन्मते- "खादीन्यात्मा मनः कालो दिशश्च द्रव्यसङ्ग्रहः ।" इति नवैव । 'महाभूतानि खं वायुरनिरापः क्षितिस्तथे" त्यग्ने खादीनां 'वक्ष्यमाणत्वात्। द्रव्यलक्षणं तु- "यत्राश्रिताः कर्मगुणाः कारणं समवायि यत् । तद् द्रव्यम्- (सूत्रस्थानम् ॥५०) प्रतिपादितञ्चैवमेव सुश्रुतसंहितायामपि-"द्रव्यलक्षणन्तु कियागुणवत् समवायिकारणमिति ।" (सूत्रस्थानम् ४०१६) कर्मवत्त्वमत्र कर्मवद्वृत्तिपदार्थविभाजकोपाधिमत्वम् । गुणवत्वमपि तथैव व्याख्येयं गुणात्यन्ताभावविरोधित्वं वा । तेन गगनादी उत्पत्तिकालावच्छिन्नघटादी च नाव्याप्तिः। यद्वा स्वजन्यसंयोगवत्वसम्बन्धेन स्वजन्यविभागवत्त्वसम्बन्धेन वा कर्मवत्वं द्रव्यलक्षणम् । गगनादावपि ताशसंयोगवत्वसम्बन्धेन कम्मसत्त्वा- न्नाच्यापकम् । एतदेव द्रव्यलक्षणं महर्पिकणादाभिमतम् । तथा च वैशेषिकसूत्र- "क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम् ।” गुणास्तु वैद्यकसिद्धान्ते एकचत्वारिंशत् । तदुक्त-"सार्था गुदियो बुद्धिः प्रयत्नान्ताः परादयः । गुणाः प्रोक्ताः-(१३१४८) इति चरकग्रन्थव्याख्यानावसरे चक्रदत्तपाणिभिः "अनेन त्रिविधा भपि वैशेषिकाः, सामान्या, आत्मगुणाश्चोहिष्टाः । तत्रार्थाः मान्दस्पर्गरूपरसगन्धा. । तदुक्तं-अर्थाः शब्दादयो ज्ञेया गोचरा विपया गुणा ॥"

दीपिकान्यायबोधिनीध्रुवपदासहितः इत्येते गुणाः ।' . ननु भस्मादिना कांस्यादौ शुद्धिदर्शनादाधेयशक्तिरङ्गीकार्येति चेत् , न , भस्मादिसंयोगसमानकालीनाऽस्पृश्यस्पर्शप्रतियोगिकयावभावसहित- भस्मादिसंयोगध्वंसस्य शुद्धिपदार्थत्वात् (६२) इति । एते च वैशेषिकाः ।.........गुर्वादयस्तु-गुरुलघुशीतोष्णस्निग्धरूक्षमन्द- तीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरस्थूलसूक्ष्मसान्द्रद्वा विंशतिः । एते च सामान्यगुणाः ।.........बुद्धिर्ज्ञानम् । प्रयत्नोऽन्तो येषां ते प्रयत्नान्ताः । एतेन इच्छाद्वेषसुखदुःखप्रयत्नानां ग्रहणम् । वचनं हि-'इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना तिः । बुद्धिः स्मृतिरहकारो लिङ्गानि परमात्मनः । इति । इह तु चेतनादीनां बुद्धिग्रहणेनैव ग्रहणम् । ...परादयो यथा-'परापरत्वे युक्तिश्च संख्या संयोग एव च । विभागश्च पृथकत्वं च परिमाणमथापि च । संस्कारोऽभ्यास प्रोक्ताः परादयः अभावोऽपि न खलु नानुमतो वैद्यकशास्त्रे । तदुक्तं चरकसंहितायाम्- "द्विविधमेव खलु सर्व सच्चासच्चेति ।" (सूत्रस्थानम् 11१७) व्याख्यातञ्च चक्र.. दत्तः,-"सदिति विधिविषयप्रमाणगम्यं भावरूपम् । असदिति निषेधविषय-- प्रमाणगम्यमभावरूपम् ।" इति । तस्माद् दृष्टफलशास्त्रेऽपि परिगृहीताः कणादोक्ताः सप्त पदार्था एव इति सर्व चतुरनम्। (६२) प्रशस्तपादभाष्यसेतो पद्मनाभमित्रैर्मतमिदमित्यमुपदर्शितम् ,- "केचित्तु संस्कारकत्वाभिमतं यद् द्रव्यं भस्मादि तस्य यः सम्बन्धः तत्- समानकालीनो य उपहर्तृचाण्डालादिसम्बन्धप्रतियोगिको यावाननादिः संसर्गाभावः. प्रागभावादिस्तसहितः संस्कारकसंस्करणीयसम्बन्धोत्पत्तिध्वंस: शुद्धिः, तदभाव एवाशुद्धिः । एतस्य विशिष्टस्याभावस्तु न विशेष्याभावात् , उत्पत्तिध्वंसस्य विशेष्यस्यानन्ततया ध्वंसासम्भवात् , किन्तु विशेषणादिसंसर्गाभावात् , प्रतियोगिन उत्पत्त्या प्रागभावनाशसम्भवादित्याहुः ।"-(७० पृ०) अधिकबुभुत्सुभि.. रेतन्मतविचारादिकं तत्रैवानुसन्धेयम् । साम्प्रदायिकास्तु-शुयशुद्यभिमानिदेवतासन्निधेरेव भस्मादिसंयोगेन नन- नात् । सन्निधानन्तु यद्यपि कायिकं न सम्भवति, कांस्यादीनामनन्तानां परस्पर -व्यवहितदेशसत्वेनानन्तकायकल्पनापत्तेः, तावदूरवर्तिमहापरिमाणककायकल्पने- ऽपि गौरवापत्तेः, किन्तु बौद्धम् । यद्वा शुद्धिसाधकस्य भस्मसंयोगादेः श्रुतिसि-- दया तजन्यो धर्मविशेष एव शुद्धिः । चाण्डालादिसंयोगजन्यस्तन्नाशश्चा- शुदिरिति । अत एवाधेयशक्तिविशेषः शुद्धिस्तदभावश्चाशुद्धिरिति भट्टभाषितम् , तर्कसंग्रहः स्वत्वमपि न पदार्थान्तरम् । यथेष्टविनियोगयोग्यत्वस्य स्वत्वरूप- त्वात् (६३) तदवच्छेदकं च प्रतिग्रहादिलब्धत्वमेवेति । अथ विधिनिरूप्यते-प्रयत्नजनकचिकीर्षाजनकज्ञानविषयो विधिः । तत्प्रतिपादको लिडादि । कृत्यसाध्ये प्रवृत्त्यदर्शनात् कृतिसाध्ये प्रवृत्तिदर्श. नात् कृतिसाध्यताजानं प्रवर्तकम् । न च विषभक्षणादी प्रवृत्तिप्रसङ्गः इष्टसा- धनतालिङ्गककृतिसाध्यताज्ञानस्य काम्यस्थले, विहितकालशुचिजीवित्वनि- मित्तज्ञानजन्यस्य नित्यनैमित्तिकस्थले, प्रवर्तकत्वात् । न चाऽननुगमः । स्वविशेषणवत्ताप्रतिसन्धानजन्यत्वस्यानुगतत्वात् इति गुरवः । तन्न । लाघवेन कृतिसाध्येष्टसाधनताज्ञानस्यैव चिकीर्षाद्वारा प्रयत्नजनकत्वात् । न च नित्ये इष्टसाधनत्वाभावादप्रवृत्तिप्रसङ्गः । तत्रापि प्रत्यवायपरिहारस्य पापक्षयस्य च फलत्वकल्पनात् । तस्मात्कृतिसाध्येष्टसाधनत्वमेव लिडा- यर्थः । संस्कारतदभावावेव शुद्यशुद्धी इति प्राभाकरभाषितञ्च निरस्तम् । क्लप्तेनादृष्ट- विशेषेणैवोपपत्तौ अर्थान्तरप्रार्थनावैयर्थ्यात् । इति प्राहुः । (६३) "स्वत्वमपि पदार्थान्तरम् । यथेष्टविनियोगयोग्यत्वं तदिति चेत्, कोऽसौ विनियोगः । भक्षणादिकमिति चेत् , न, परकीयेऽप्यन्नादौ तत्सम्भवात् । शास्त्रानिषिद्धं तथेति चेत्, किं तच्छास्त्रम् । 'परस्वं नाददीते त्यादिकमिति चेत्, स्वत्वाप्रतीतौ कथं तत्प्रवृत्तिः । तस्मात् स्वत्वमतिरिक्कमेव ।" इति पदार्थ- तत्त्वनिरूपणे शिरोमणिभट्टाचार्याः । "स्वत्वं न यथेष्टविनियोगविषयत्वं स्वं नियुज्यते न तु विनियोगात् स्वं भवति, विनियोगात् पूर्व साधारण्यापत्तेः । विनियोगाविषये स्वेऽप्यस्वत्वापत्तेश्च । किन्तु यद्व्यतिरेकेण यथेष्टविनियोगासम्भवनिश्चयः शास्त्राविरुद्धत्तदुपायविषयत्वरूप यथेष्टविनियोगयोग्यरवं स्वत्वम् ।" इति न्यायलीलावतीप्रकाशे वर्द्धमानो- पाध्यायाः। "आगमान्तरानन्तरितार्जकागमविषयत्वमेव स्वत्वमनुगतम् धनार्जनहेतुः क्रिया प्रतिग्रहादि. ।" इति पायलीलावतीकण्ठाभरणे शवरमिधाः । "वेदसिद्धयविनियोगप्रयोजकक्रियाविषयतामारभ्य वेदसिद्धयद्विनियोग- प्रतिवन्धकक्रियाविषयत्वाभावो यावद् यत्र तावत् तस्य स्वत्वमिति लक्षणं पर्यवस्यति ।" इति सेतो पद्मनाममिश्राः । मागमश्च दीपिकान्यायबोधिनीध्रुवपदासहितः १०१ , , ननु 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यत्र लिडा स्वर्गसाधन- कार्य प्रतीयते यागस्याशुतरविनाशिनः कालान्तरभाविस्वर्गसाधनत्वायो- गात् तद्योग्यं स्थायिकार्यमपूर्वमेव लिङाद्यर्थः । कार्य कृतिसाध्यम् । कृतेः सविषयत्वाद्विषयाकाक्षायां यागो विषयत्वेनान्वेति, 'कस्य कार्यम्' इति नियोक्याकाक्षायां स्वर्गकामपदं नियोज्यपरतयाऽन्वेति । कार्यबोद्धा नियोज्यः । तेन 'ज्योतिष्टोमनामकयागविषयं स्वर्गकामस्य कार्यम्' इति वाक्यार्थः सम्पद्यते । वैदिकलिङ्वात् 'यावज्जावमग्निहोत्रं जुहुयात्' इति नित्यवाक्येऽप्यपूर्वमेव वाच्यं कल्प्यते । 'आरोग्यकामो भेषजपानं कुर्यात्' इत्यादि लौकिकलिङः क्रियाकार्ये लक्षणा इति चेत् , न , योगस्याप्य- योग्यतानिश्चयाभावेन साधनतया प्रतीत्यनन्तरं निर्वाहार्थम् अवान्तरव्या- पारतयाऽपूर्वकल्पनात् । कीर्तनादिना नाशश्रुतेन यागध्वंसो व्यापारः । लोकव्युत्पत्तिबलात् क्रियायामेव कृतिसाध्येष्टसाधनत्वं लिडा बोध्यत इति लिड्वेन विध्यर्थकत्वम् । आख्यातत्वेन यत्नार्थकत्वम् । 'पचति 'पाक करोती'ति विवरणदर्शनात् ,'किं करोती'ति प्रश्ने पचती'त्युत्तराचाख्यातस्य प्रयत्नार्थकत्वनिश्चयात् । रथो गच्छत्तीत्यादी अनुकूलव्यापारे लक्षणा, देवदत्तः पचति, देव. दत्तेन पच्यते तण्डुलः, इत्यादी कर्तृकर्मणोर्नाल्यातार्थत्वम् । किं तु तद्तै. कत्वादीनामेव । तयोराक्षेपादेव लाभः । प्रजयतीत्यादौ धातोरेव प्रकर्षे शक्तिः । उपसर्गाणां द्योतकत्वमेव, न तु तत्र शक्तिरस्ति (६४) पदार्थज्ञानस्य परमप्रयोजनं मोक्षः । तथा हि 'आस्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य.' इति श्रुत्या श्रवणादीनां तत्त्वसा. (६४) इदमत्राभिसंहितम् । प्रकर्षादेरुपसर्गवाच्यत्वे तत्राख्यातार्थभावना- न्वयो न स्यात्, प्रकृत्यान्वितस्वार्थान्वयबोधकत्वात् प्रत्ययानाम् । ननु नास्ति सार्थकरवञ्चेदुपसर्गाणां 'सुगतिर्बाह्मण' इत्यादौ 'सु'शब्देन कथं बहुव्रीहिरिति चेत् , न, घोतकत्वेऽपि तस्य तत्र साधुत्वादिति केचित् । नव्यास्त सपसर्गाणां वाचकरवे अर्थवदित्यादिनैव प्रातिपदिकसंज्ञायां सिद्धायां निपातस्या- नर्थकस्येत्यादेरनुशासनान्तरस्य विभक्तिविधायकस्यानर्थक्यप्रसङ्गः। तथा च तदनुः पत्तिरित्यनर्थकस्य चेत्यभिसन्धान तेषां द्योतकत्वे बीजमिस्याहुः ।

संग्रहः --- वाला देगुत्य पोधनान । अत्या देहादिविलक्षणमताने सत्यन्यसम्भाव- नाम: नयनुसन्धानरपाननसावधात मननोपयोगिपदार्थनिरूप- पहार शामायापि मोक्षोपयोगिचम । तदनन्तरं श्रुत्योपदिष्ट योगविधिना मिनियामने एनं तदनन्तरं देवादिविलक्षणात्मनाक्षात्कार मति देहादी मभिमानरूपिण्यासाननाश मति शेषाभाषान् प्रवृत्त्वभाचे धर्माधर्म- गोरमामामा बंधनाधर्मयोरनुभवेन नाश घरम.वयसरूपो (६) मोजायन । शानमेव मोनमाधनम् । मियाजाननिपत्तनमा- Prary N न (..) "inar गिरायकी "नि किरणावस्या. inter | rag RAANARTHATमासमानदेगी rinादन मियामो मो इणि परदायलि, नेन Parint;" ति शिरायलीप्रकाचिती मशिदतः । imageHifi, 'निशोरवर्ग' नि Pre, 72 पर नो यपि परनामा सिट एम, TETTET, PRTAयो, farmirम-10. माधि 'नम प. astroTEIN, म ntr or | म 2. ५. १४ reittarv५ पर gi 14. E rare. THERE ARTIमाIRITY 5:324tar मा र भूhिt an x, Kt Haram Tumharat TRAI. rati. ::: * , *!: 1:14:55 Farmer " | Sarrant :... Er .." - - -- nxnner! Title + - न 44 . ran न , 4 afn. utarietri ३a " न १. . . 24 " : 1 - - **... ह दीपिकान्यायमोधिनीध्रुवपदासहितः १०३ , त्रसाम्यत्वात् । 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इति साधनान्तर निषेधाच । ननु 'तत्प्राप्तिहेतु विज्ञानं कर्म चोक्तं महामुने' इति कर्मणोऽपि मोक्ष- साधनत्वश्रवणात् ज्ञानकर्मणोः समुच्चय (६६) इति चेत् , न, नित्यने- मित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन् अभ्यासेन च पाचयेत् । अभ्यासात् पक्कविज्ञानं कैवल्यं लभते नरः'। इत्यादिना कर्मणो ज्ञानसाधनत्वप्रतिपादनात् , ज्ञानद्वारैव कर्म मोक्षसाधनम् , न साक्षात् (६७) तस्मात् पदार्थज्ञानस्य मोक्षः परमप्रयोजनम् इत्येव रमणीयमिति । . गदाधरभट्टाचार्यैरपि 'मुक्तिवादे'- "निर्विशेषणदुःखप्रागभावस्य संसारदशासाधारणतया स्वसमानाधिकरणदुः- खासमानकालीनध्वंसविशिष्ट एवासौ मोक्षरूपो वाच्यः, ताशश्चाप्रसिद्धः, मुक्तस्य दुःखानुत्पत्या मुक्तिदशायां तत्प्रागभावासत्त्वात् , अनागतस्यैव प्रागभावप्रतियो. गिरवात् ।” इत्यादिदूपणैरपाकृतं निरुक्तं प्राभाकरमतम् । (६६) वस्तुतो ज्ञानकम्मणोः समुच्चयस्य न मोक्षसाधनत्वम् , अननुगतानां ज्ञानकर्मविशेषाणामनुगतमोक्षं प्रति हेतुत्वासम्भवात् । सृणारणिमणिन्यायेन वैजात्यकल्पनमिव मोक्षे चाभावरूपे जातिविशेषकल्पनमप्यसम्भवि। न च प्रति- योगिनि दुःखे दुरिते वा जातिविशेषान् कल्पयित्वा तवच्छिनप्रतियोगिनां स्वाश्रय- प्रतियोगित्वसम्भवेन तेपामेव वा जन्यतावच्छेदकत्वमुपगम्य व्यभिचारः शक्यते वारयितुं गोवधादिजन्यतावच्छेदकजातिभिः सङ्करप्रसङ्गेन तादृशजातिकल्पनानव- काशात् । न च गोवधादिजन्यतावच्छेदकजातीनां नानात्वोपगमान सकरप्रसङ्ग इति साम्प्रतम् , तासां नानात्वमुत तत्त्वज्ञानादिनाश्यतावच्छेदकजातीनामित्यत्र विनिगमकस्य दुर्लभस्वात् । (६७) अथ काशीमधिकृत्य- "अस्मिन् मृतास्तनुभृतः पदमाप्नुवन्ति मोशाख्यमेव मनसाऽपि न संशयोऽन्न ॥" इत्यादिवचनशतोपदेशात् काशीमरणस्याऽपि साक्षान्मोक्षोपायताश्रवणेन कथं अन्योऽयं सगच्छतामिति चेत्, काशीमरणस्थलेऽपि विश्वेश्वरोपदेशवशेन मानसात्मके तत्त्वज्ञाने जायमान एव मोक्षः सम्पद्यते, न तु सद्यः। अत एव- "भन्न हि जन्तोः प्राणेषूक्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवतीति जाबालश्रुतिः (11) “वाराणस्यां महादेवात् ज्ञानं लम्वा विमु.

तर्कसंग्रहः च्यते ।" इत्यादिपौराणिकवचनान्यपि तत्र तत्रोपलभ्यन्ते । तदुक्तं गदाधरभट्टा- चाय्यैरपि मुक्तिवादे-"मृतशरीरावच्छेदेन ज्ञानोत्पत्यसम्भवेन काशीमरणाद्युत्तरं शरीरान्तपरिग्रहोऽपि कल्प्यते, अनन्यगतिकत्वात् । " ""न च मुमूर्षुतादशायां तारकोपदेशे तच्छरीरावच्छे देनैवात्मतत्वसाक्षात्कारसम्भवात् किमर्थ शरीरान्तर- स्वीकार इति वाच्यम् , तच्छरीरावच्छेदेन तारकमन्त्रोपदेशादात्मतत्वज्ञानस्वीकारे काशीमरणहेतुत्वानुपपत्तेः । यदि च काशीमरणकारणताबोधकवाक्यानां तदानीमा- वश्यकस्य तारकोपदेशस्य हेतुतायामेव तात्पर्यम् , अन्यथा एकेनापरस्यान्यथा- सिद्धेर्तुष्परिहारत्वादित्युच्यते, तदा तच्छरीरावच्छेदेनापि तत्त्वज्ञानसम्भवो वोध्यः।" एतन्मतद्वयमपि वीरमित्रोदये तीर्थप्रकाशे प्रपञ्चितम् । “ननु चाण्डालादी- नामनधिकारिणां कथमुपदेशः कथं वा ततोऽपवर्ग” इत्याशडक्य समाहितं तत्र मित्रमित्रैः-"तपःप्रभावेण विश्वामित्रदेह इव श्रीविश्वनाथानुग्रहमहिम्ना तत्रैव द्विजत्वसम्भवात् ।..."अत एव काशीखण्डे- "दीक्षितो वा दिवाकीर्तिः पण्डितो वाप्यपण्डितः । तुल्यास्ते मोक्षदीक्षायां सम्प्राप्य मणिकर्णिकाम् ॥" द्वितीयन्न मतमेवं प्रदर्शितम्-"काशीमरणोत्तरं विशिष्टशरीरपरिग्रहेण ब्रह्म- ज्ञानान्मुक्तिः । न हि काशीमरणं साक्षात् तद्वेतुः, किन्तु तत्वज्ञानप्रतिबन्धकाध मर्मविनाशेन तत्त्वज्ञानमुत्पाद्य । अत एव चाण्डालादीनामधिकारे न कष्टकल्प- नापि प्रागुक्तेत्यवधेयम् ।"-(३१६-१७ पृ०] विचारविस्तरस्तु तत्रैव जिज्ञासुभिद्रष्टव्यः। ननु काशीमरणस्थले एवं समाधानसम्भवेऽपि प्रयागमधिकृत्य- "समुद्रपरन्योर्जलसन्निपाते पूतात्मनामत्र किलाभिषेकात् । तत्त्वाबोधेन विनापि भूयस्तनुत्यजां नास्ति शरीरबन्धः ॥"(रघु०,१३।५८) इति सर्वज्ञप्रायमहाकविकालिदासकाव्यात् , "ब्रह्मज्ञानेन मुच्यन्ते प्रयागमर- णेन वा" "वाराणस्यां विमुच्यन्ते तारकज्ञानभाविताः । विना ज्ञानं प्रयागेऽस्मिन् मुच्यन्ते सर्वजन्तवः ॥” इत्यार्पवचनाच्च विनैवात्मसाक्षात्कार प्रयागमरणे मोक्षो भवतीत्यवगमेन 'ज्ञानद्वारैव कर्म मोक्षसाधनम् , न साक्षा'दिति दीपिकाकारोक्तिः पुनरसङ्गतैव इति चेन्न, विना ज्ञान मिथ्याज्ञाननिवृत्तेरसम्भवेन "तमेव विदित्वा. तिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इति श्रुतिप्रामाण्यात् प्रयागमरणेऽपि तत्वज्ञानद्वारैव मुक्तिरिति कल्पनीयत्वात् । न च प्रागुक्तप्रमाणवचनानां का गति- रिति चेत्, न हि काव्यस्य पुराणवचनस्य वाऽन्यथात्वभिया श्रुतेरन्यथात्वं वर्ण- यितुमुचितम् । इति सर्वमवदातम् । .

दीपिकान्यायबोधिनीध्रुवपदासहितः कणादन्यायमतयोर्षालव्युत्पत्तिसिद्धये ॥ अन्नम्भट्टेन विदुषा रचितस्तर्कसंग्रहः ॥७॥ इति श्रीमदन्नम्भट्टोपाध्यायविरचिता तर्कसंग्रहदीपिका समाप्ताह । न्यायवोधिनी काणादेति । कणादस्येदं काणादम् । काणादन्यायमतेति द्वन्द्वगर्भ कर्मधारयः। कणादप्रोक्तगौतमप्रोक्तमतयोरिति यावत् । काणादन्याया- भिन्नमतद्वयविषयकबालसमवेताभिन्नव्युत्पत्तिसिद्धप्रयोजकान्नम्भवि- द्वनिष्ठभूतकालीनकृतिविषयाभिन्नस्तर्कसंग्रहाख्यग्रन्थ इत्यन्वयबोधः। कृष्णावलम्बिनो गाः पूषो गोवर्धनस्तमभ्यर्चन् । विपुलामीरसभाजनजनितबुधेन्द्रस्तवाभिरचनाभिः ॥ १॥ इति श्रीगोवर्द्धनकृता न्यायबोधिनी समाप्ता। यत् सन्दर्भशतानुशीलन फलं लभ्येत भूरिश्रमै स्तद् वैदुष्यममुष्य भावि विवृतिग्रन्थस्य सन्दर्शनात् । दिडमानं खलु दर्शितं प्रचलतां नानानयानां मया तत्तन्मूलनिबन्धदृष्टिपु यथा स्यादाशु कौतूहलम् ॥३॥ भ्रमाद् वाऽप्यज्ञानात् स्वलितमिह यद् यत् सहृदय स्तदेतत् क्षन्तव्यं नियतकरुणेकवतपरैः । मनागप्येषा चेन्मनसि ननु कस्यापि मुदितं विधत्ते तच्छ्रीमद्गुरुचरणसंसेवनफलम् ॥२॥ सार्द्धविवर्षवयस. परिपूरणात् प्राक प्रोद्भासितः समुदितै प्रतिभाविशेपैः । क्रीडापातेन सृजति स्म समस्तलोक- स्वान्तेषु विस्मयरसं प्रियदर्शनी यः ॥३॥ y इति श्रीमद्वैतविद्याचा----श्रीमदुराघवसोमयानिकुलावतसश्रीमतिरुमलाचार्य्यस्य सूनुनाऽन्नम्मट्रेन कृता स्वकृततर्कसंग्रहस्य दीपिका सम्पूर्णा ।

तर्कसंग्रहः -- पुरारिपुरमण्डपे स च निशम्य गीताकयां ध्रुवत्रत इति श्रुतः शिशुसुतश्चिरं प्रस्थितः । तदीयसुखदुःखदस्मृतिविशेषसम्पूर्तये व्यधायि विवृतिर्नवा ध्रुवपदाऽभिधेया मया ॥४॥ बभूव मधुसूदनः परमहंसचूडामणिः प्रभूतसुनिबन्धकृन्निखिलशास्त्रपारङ्गमः । तदप्रजकुलोद्भवः स हरचन्दनामा कृती यदीयममवत् सुतद्वयमतीव धर्मव्रतम् ॥५॥ तत्र श्रीद्वारिकानान्यायपञ्चाननः सुधीः । ज्यायानध्यापयामास न्यायान् व्याकरणानि च ॥६॥ कनीयान् मथुरानाथो विद्यारत्नोपनामकः । ज्योतिषे कर्मकाण्डे च परं प्रावीण्यमाहवान् ॥७॥ तदात्मजनुषा श्रिया हरिहरेण काशीपुरे शशीपुवसुशीतगुपमितशाकसम्बत्सरे । प्रयागमनिगच्छता विपुलकुम्भयोगोत्सवे निबन्धनमतिश्रमैरिदमनायि सम्पूर्णताम् ॥८॥ दुग्धाम्भोनिधिमध्यभासितमणिद्वीपे चतुर्विंशति प्राची रैः परिवेष्टिते शुभचतुर्दा रैरभिद्योतिते । श्रीचिन्तामणिमण्डपे स्वमहसा विभ्राजमानानिशं देवी काचिदचिन्तनीयचरिता प्रोणातु मत्कर्मणा ॥९॥ इति वनविपयाऽवयवकोटालीपादाऽभिजन काश्यप श्रीमथुरानाथाऽऽत्मन श्रीहरिहरशास्विकृता ध्रुवपदा सम्पूर्णा ।

तर्कसंग्रह का हिन्दी-भाषानुवाद अभाव हृदयमें विश्वेश्वरको विशेष रूपसे स्थापित कर और विद्यागुरुओंको प्रणाम कर बालकोंको अनायास बोधके लिए तर्कसंग्रह नामक प्रन्थ बनाया जाता है। द्रव्य, गुण, कर्म, सामान्य, विशेष, समवाय, ये सात पदार्थ हैं ॥१॥ उन पदार्थों में पृथिवी, जल, तेज, वायु, आकाश, काल, दिशा, आत्मा और मन ये ही नव द्रव्य है ।।२।। रूपसे लेकर संस्कार तक मूलोक्त चौबीस प्रकारके गुण है ॥३॥ उत्क्षेपण (ऊपर फेंकना) अपक्षेपण ( नीचे फेंकना ) आकुञ्चन ( समेटना ) प्रसारण ( फैलाना) गमन (चलना) ये पांच कर्म हैं ॥४॥ पर ( अधिक स्थानमें रहनेवाला) और अपर ( कम स्थानमें रहने चाला) ये दो प्रकारके सामान्य हैं ॥५॥ विशेष केवल नित्यद्रव्यों में रहता है और अनन्त है ॥६॥ समवाय एक ही है ॥७॥ अभाव चार प्रकारका होता है-प्रागभाव, प्रध्वंसाभाव, अन्योन्या- भाव और अत्यन्ताभाव ॥८॥ नव द्रव्योंमेंसे जिसमें गन्ध हो, वह पृथिवी है। वह दो प्रकारकी है-नित्य और अनित्य । परमाणु-रूप पृथिवी नित्य है और कार्य-रूप पृथिवी अनित्य है। कार्यरूप पृथिवी फिर तीन प्रकार की है, शरीर, इन्द्रिय और विषय । हम लोगोंका शरीर पार्थिव अर्थात् पृथिवी-रूप उपादानसे बना है । जिससे गन्धकी अनुभूति होती है वह नाकके अगले भागपर रहनेवाला घ्राणेन्द्रिय ही इन्द्रिय-रूप पृथिवी है। मिट्टी पत्थर आदि विषय-रूप पृथिवी कहलाती है ॥९॥ जिसमें शीतल स्पर्श है, वह जल है। वह जल दो प्रकारका है- नित्य और भनित्य । परमाणु-रूप जल नित्य है, कार्य रूप जल अनित्य , ( २ ) है। शरीर, इन्द्रिय और विषय भेदसे कार्य-रूप जल तीन किसम का है। जलीय शरीर वरुण लोकमें है। जिससे मधुरादि रसका अनुभव होता है वह जिह्वाके अग्रभागपर रहनेवाली रसना जलीय इन्द्रिय है। नदी समुद्र आदि विषय-रूप जल है ॥१०॥ जिस वस्तुमें उष्णस्पर्श हो, वह तेज है। तेज भी दो प्रकारका है- एक नित्य दूसरा अनित्य । परमाणु-रूप तेज नित्य और कार्य-रूप तेज अनित्य है। कार्य-रूप तेज तीन प्रकारका है-शरीर, इन्द्रिय और विपय । सूर्य लोकमें तैजस शरीर है । जिससे रूपका प्रत्यक्ष होता है, वह नेत्रके अन्दरकी कृष्णताराके अगले भागमें रहनेवाला चक्षु तेजस इन्द्रिय है। भौम दिव्य औदर्य और आकरजके भेदसे तैजस विषय चार प्रकार होता है । अग्नि आदि भीम तेज है । जिसका अप अर्थात् जल ही इन्धन है, ऐसा विजली आदि दिव्य तेज है । खाना पकानेवाला पेटके भीतरका तेज ही औदयं तेज है और खानसे निकला हुआ सुवर्णादि आकरज तेज है ।।११॥ जिसमें रूप न हो वल्कि स्पर्श हो वह वायु है। वायु भी दो प्रकारका है-नित्य और अनित्य । परमाणु-रूप वायु नित्य और कार्य-रूप वायु अनित्य है । कार्य-रूप वायु तीन प्रकार है, शरीर इन्द्रिय और विषय । वायवीय शरीर वायुलोकमें है। जिससे स्पर्शका प्रत्यक्ष होता है वह सारे शरीरमें वर्तमान त्वचा वायवीय इन्द्रिय है। वृक्षादियों के कम्पनका हेतु वायवीय विषय है । शरीरके अन्दर वर्तमान वायु प्राण कहलाता है । वह एक होकर भी स्थान-रूप उपाधि भेदसे प्राण, अपान, समान, उदान और व्यान यह पाँच नामोंसे परिचित होता है ।।१२।। शब्द जिसका गुण है उसका नाम आकाश । वह एक, सर्वव्यापी और नित्य है ॥१३॥ अतीत आदि व्यवहारका कारण जो द्रव्य है, वह काल कहलाता है। वह भी एक सर्वव्यापी और नित्य है ॥१४॥ पूरब पच्छिम इत्यादि व्यवहारका कारण जो द्रव्य है उसका नाम दिशा है । वह एक है, नित्य है और सर्वव्यापक है ॥१५॥ जिसमें बान रहता है वह आत्मा कहलाता है । वह दो प्रकारका है- . ( ३ ) एक जीव दूसरा परमात्मा । परमात्मा ही ईश्वर कहलाता है । वह सर्वज्ञ और एक है। जीव प्रति शरीरमें भिन्न है, परन्तु व्यापक और नित्य है ॥१६॥ जिस इन्द्रियसे सुखदुःखादिकी उपलब्धि होती है, उसका नाम मन है । एक एक जीवात्माके एक एक मन है, इसलिये मन अनन्त है । मन परमाणु और नित्य है ।। १७ ॥ जिस गुणका केवल नेत्रसे प्रत्यक्ष होता है, वह रूप है। शुक्ल, नील, पीत, रक्त, हरित, कपिश, चित्र इन भेदोसे रूपके सात प्रकार हैं। रूप 'पृथ्वी, जल और तेजमें रहता है। इन तीनमें से पृथ्वीमें सात प्रकार को रूप है । जलमें केवल अभास्वर शुक्ल रूप रहता है । तेजमें भास्वर अर्थात् परप्रकाशक शुक्ल रूप है ।। १८ ।। जिह्वासे जिस गुणका प्रत्यक्ष होता है, वह रस है । मधुर, अम्ल, लवण, कटु, कषाय, तिक्त भेदसे रस छ प्रकारका है। पृथ्वी और जल रसका आधार है । पृथ्वीमें छओ प्रकारका रस है। जलमें केवल मधुर रस रहता है ॥ १९॥ घाणेन्द्रियसे जिस गुणकी उपलब्धि होती है, उसका नाम गन्ध है । गन्ध दो प्रकारका है-सुगन्ध और दुर्गन्ध । गन्ध केवल पृथ्वीमें ही रहता है ॥ २० ॥ केवल त्वगिन्द्रियसे जिस गुणका प्रत्यक्ष होता है, उसे स्पर्श कहते है। स्पर्श तीन प्रकारका है-शीत ( ठंढा) उष्ण (गर्म ) और अनुष्णाशीत ( न ठंढा न गर्म ) । स्पर्श-पृथ्वी, जल, तेज और पवनमें रहता है । इनमें शीतस्पर्श जलमें, उष्णस्पर्श तेज में और अनुष्णाशीत स्पर्श पृथ्वी और पवनमें रहता है ।। २१ ।। रूप, रस, गन्ध और स्पर्श यह चार गुण पृथ्वीमें पाकज अर्थात् तेजके संयोग से उत्सन्न होते हैं और अनित्य हैं। अन्यत्र अर्थात् जल, तेज और वायुमें जो रूपादि है, वह अपाकज है । जलादिमें रहने वाले रूप रस स्पर्श नित्य और अनित्य दोनों हैं । नित्य अर्थात् परमाणुमें रहनेवाले रूपादि नित्य और अनित्य घटपटादिमें रहनेवाले वे अनित्य है ।। २२ ॥ एक दो इत्यादि व्यवहारका कारण सख्या है। वह नव द्रव्योंमें .

में ( ४ ) रहती है। यह संख्या एक से लेकर परार्द्ध तक है। एकत्व संख्या नित्य और अनित्य दो प्रकारकी होती है । परमाणु आकाशादि नित्य पदार्थ में रहनेवाला एकस्व नित्य और घटपटादि अनित्य पदार्थमें रहनेवाला एकत्व अनित्य है, परन्तु द्वित्वादिसंख्या सब स्थानोंमें अनित्य ही है ।।२३।। नापनेके व्यवहारका जो मुख्य कारण है, उसे परिमाण कहा जाता है। यह नव द्रव्यों में रहता है। परिमाण चार प्रकारका है~अणुत्व, महत्त्व, दीर्घत्व और ह्रस्वत्व ॥२४॥ यह चीज इससे अलग है-इस व्यवहारका असाधारण कारण पृथक्त्व है । यह सव द्रव्यों में रहता है ॥२५॥ ये दो पदार्थ मिले हुए हैं-इस व्यवहारका असाधारण हेतु संयोग है । संयोग भी सव द्रव्यों में रहता है ।।२६।। संयोगका नाश करनेवाला गुण विभाग है । विभाग भी सब द्रव्यों रहता है ॥२७॥ पर और अपर व्यवहारके असाधारण कारण परत्व और अपरत्व हैं। परत्वापरत्व पृथ्वी, जल, तेज, वायु और मनमें रहते हैं। यह दो प्रकार के हैं । दिक्कृत और कालकृत । दूरस्थ वस्तुमें दिकृत परत्व और समी- पस्थ वस्तुमें दिकृत अपरत्व है । ज्येष्ठमें कालकृत परत्व और कनिष्ठ में कालकृत अपरत्व है ॥२८॥ पहिले गिरनेका जो असमवायिकारण है, उसका नाम गुरुत्व है। यह पृथ्वी और जलमें रहता है ।।२९।। चूनेका असमवायिकारण द्रवत्व है । यह पृथ्वी, जल और तेजमें रहता है। द्रवत्व दो प्रकारका है-सांसिद्धिक (स्वाभाविक) और नैमि- त्तिक ( तेज संयोगसे उत्पन्न होनेवाला ) । सांसिद्धिक द्रवत्व जलमें और नैमित्तिक द्रवस्त्र पृथ्वी और तेजमे रहता है। घृतादि पृथिवीमें तथा सुवर्णादि तेजस पदार्थमें नैमित्तिक द्रवत्व है ॥३०॥ पिसी हुई चीज को इकट्ठा करनेवाला जो गुण है, उसका नाम स्नेह है । यह केवल जलही में रहता है ॥३१॥ जिस गुणका कर्णेन्द्रियसे प्रत्यक्ष होता है, वह शब्द है । शब्द केवल आकाशमें रहता है । शब्द दो प्रकारका है-ध्वनि और वर्ण । नगाड़ा ( ५ ) आदि बाजोंसे जो शब्द निकलता है, वह ध्वनि, और कण्ठसे उत्पन्न संस्कृतभाषादि-रूप शब्द वर्ण है ॥३२॥ जो गुण सभी व्यवहारका कारण है, उसका नाम बुद्धि है । यह ज्ञान भी कहलाता है। बुद्धि दो प्रकार की है-स्मरण और अनुभव ॥३३।। जो ज्ञान संस्कारमात्रसे उत्पन्न होता है उसका नाम स्मरण है । उससे भिन्न ज्ञान अनुभव है। वह दो प्रकारका है-यथार्थ और अयथार्थ । वास्तव में जो पदार्थ जैसा हो उसको वैसा ही समझना यथार्थ अनुभव है। जैसे घड़ेको देखके 'यह घड़ा है' इस प्रकार का ज्ञान । यह ज्ञानही प्रमा कहा जाता है ॥३४॥ जो वस्तु जैसी न हो उसको वैसी समझना अयथार्थ अनुभव है ॥३५॥ यथार्थ अनुभव चार प्रकारका है-प्रत्यक्ष, अनुमिति, उपमिति और शाब्दबोध । उसका करण (असाधारण कारण) भी चार प्रकारका है- प्रत्यक्ष, अनुमान, उपमान और शब्द ॥३६॥ असाधारण कारणको करण कहते हैं ॥३७॥ जो कार्यकी उत्पत्तिके पहिले अवश्य हो वह कारण कहलाता है ॥३८॥ जो पदार्थ प्रागभावका प्रतियोगी होता है अर्थात् जिसकी उत्पत्ति होनेवाली है उसका नाम कार्य है ।।३९।। कारण तीन प्रकारका है-समवायि, असमवायि और निमित्त । जिसमें समवाय सम्बन्धसे रहता हुआ कार्य उत्पन्न होता है वह समवायिकारण है। जैसे सूत कपड़ेका समवायि कारण है। और कपड़ा अपने रूपका समवायिकारण है। कार्य अथवा कारणके साथ एकही स्थानमें समवाय सम्बन्धसे वर्तमान होकरके जो कारण हो वह असमवायिकारण है। जैसे तागोंका रूप कपड़े के रूपका असमवायि कारण है। समवायि और असमवायि इन दोनों कारणोंसे भिन्न जो कारण हो उसको निमित्तकारण कहते हैं । जैसे तुरी बेमा आदि कपड़ेके निमित्त कारण होते हैं ॥४०॥ इन तीनों कारणोमें जो असाधारण कारण हो उसीको करण कहा जाता है। प्रत्यक्ष ज्ञानका असाधारण कारण प्रत्यक्ष प्रमाण है। इन्द्रिय और विषयके सन्निकर्ष से जो ज्ञान होता है, उसका नाम प्रत्यक्ष ।

( ६ ) है। प्रत्यक्ष दो प्रकारका है-निर्विकल्पक और सविकल्पक । जिस ज्ञानमें विशेष्य विशेषण सम्बन्ध विषय न हों वह निर्विकल्पक है। जिस ज्ञानम विशेष्य विशेषण सम्बन्ध विषय हों वह सविकल्पक है। जैसे 'यह हित्था है', 'यह ब्राह्मण है', 'यह श्याम है' ॥४१॥ विषय और इन्द्रियका सम्बन्ध प्रत्यक्ष ज्ञानका हेतु है । यह सम्बन्ध छ प्रकारका है। (१) संयोग, (२) संयुक्तसमवाय, (३) संयुक्तसमवेतसम- वाय, (४) समवाय, (५) समवेतसमवाय और (६) विशेषणविशेष्यभाव । आँखसे घड़े के प्रत्यक्ष करने में संयोग सन्निकर्ष है। घड़े के काला लाल इत्यादि रंगके प्रत्यक्ष करनेमें संयुक्तसमवाय सन्निकर्ष होता है। क्योंकि घड़ेमें आँख- का संयोग है और घड़ेमें अपना रंग समवाय सम्बन्धसे रहता है । रूपमें रहनेवाली रूपत्व जातिके प्रत्यक्ष करनेमें संयुक्तसमवेतसमवाय सन्नि- कर्ष है । क्योंकि चक्षुःसंयुक्त घटमें रूप समवाय सम्बन्धसे रहता है और रूपमे भी रूपत्वका समवाय है। कानसे शब्दके प्रत्यक्ष करनेमें समवाय सन्निकर्ष है । क्योंकि कानके छिद्रमें जो आकाश है उसीको कर्णेन्द्रिय कहते हैं । शब्द आकाशका गुण है; गुण और गुणीका सम्बन्ध समवाय होता है । शब्दत्वके प्रत्यक्ष करनेमें समवेतसमवाय सन्निकप होता है। क्योंकि श्रोत्र-समवेत शब्दमें शब्दत्व जाति समवाय सम्बन्धसे रहती है । अभावके साक्षात् करनेमें विशेष्यविशेपणभाव सन्निकर्ष है। क्योंकि भूतल घटवद् है इस स्थलपर चक्षुःसंयुक्त भूतलमें घटाभाव विशेषण होता है । इस प्रकार छ सन्निकर्षोंसे जो ज्ञान होता है वह प्रत्यक्ष कहा जाता है। इसका करण इन्द्रिय है। इससे इन्द्रिय प्रत्यक्ष प्रमाण है यह सिद्ध हुआ ॥४२॥ अनुमानखण्ड अनुमितिका करण अनुमान है । परामर्शसे उत्पन्न ज्ञान अनुमिति कहा जाता है। व्याप्तिविशिष्ट हेतु पक्षमें है-इस ज्ञानका नाम परामर्श है। जैसे-'यह पर्वत अग्निसे व्याप्त धूमवाला है'। यह ज्ञान परामर्श कहा जाता है । इस परामर्शसे उत्पन्न हुआ 'पर्वत वह्निवाला है, यह बान अनुमिति है। जहाँ धूम रहता है वहाँ वह्नि रहता है, यह साथ रहनेका ( ७ ॥ है । इस -नियम व्याप्ति कहा जाता है। व्याप्य धूमका पर्वतादिमें रहना ही पक्षधर्माता है ।।४३॥ अनुमान दो प्रकारका है-स्वार्थ और परार्थ । अपनी अनुमिति का जो हेतु है उसका नाम स्वार्थानुमान । जैसे-स्वयं वार:वार देखने से जहाँ धूम रहता है वहाँ वह्नि रहता है इस प्रकार से महानसादिमें व्याप्ति निश्चय कर मनुष्य पर्वतके पास गया, वहाँ अग्नि है या नहीं ऐसा संशय कर पर्वतमें धूम देखकर जहाँ धूम रहता है वहाँ वह्नि रहता व्याप्तिका स्मरण करता है, इसके बाद 'वह्निव्याप्य धूमवाला यह पर्वत है। ऐसे ज्ञानकी उत्पत्ति होती है। यही ज्ञान लिङ्ग परामर्श है । उससे 'पर्वत अग्निवाला है' यह ज्ञान उत्पन्न होता है । यही स्वार्थानुमान है । स्वयं धूमसे वह्निका अनुमान करके दूसरे पुरुषको समझाने के लिये जो पञ्चावयव वाक्यका प्रयोग किया जाता है, वह परार्थानुमान है। जैसे-'पर्वत वह्रियुक्त है।' उसमें 'धूम देख पड़ता है' । 'जो जो धूमयुक्त है वह अग्नियुक्त होता है, जैसे रसोईघर' । 'यह पर्वत भी वैसा है' (धूम- युक्त है) 'इसलिये वैसा है' (अग्नियुक्त है) इस प्रकार प्रतिपादित लिङ्गसे दूसरा पुरुष भी पर्वतमें वह्निका अनुमान कर लेता है। प्रतिज्ञा, हेतु, उदाहरण, उपनय और निगमन, ये पाँच अव. यव हैं । 'पर्वत अग्नियुक्त है' इसका नाम प्रतिज्ञा है। 'धूमयुक्त होनेसे' यह हेतु है । 'जो जो धूमयुक्त होता है वह वह वह्नियुक्त होता है', यथा पाकशाला; यह उदाहरण है। यह भी वैसा ही है', इसका नाम उपनय है। इसलिये वैसा है'-(अग्नियुक्त) यह निगमन है ॥४४॥ स्वार्थानुमिति और परार्थानुमिति इन दोनोंका लिङ्ग-परामर्श करण है। इसलिये लिङ्गपरामर्श ही अनुमानप्रमाण है ।।४५।। लिङ्ग तीन प्रकारका है-अन्वयव्यतिरेकि, केवलान्वयि, केवलव्य- तिरेकि । जिस लिङ्गमें अन्वय और व्यतिरेक दोनों व्याप्ति हों उसका नाम अन्वयव्यतिरेकि है। जैसे वह्नि सिद्ध करनेमें धूमहेतु अन्वयव्यतिरेकि है । जहाँ धूम है वहाँ वह्नि है जैसे पाकशाला में यह अन्वयव्याप्ति हुई । जहाँ चह्नि नहीं है वहाँ धूम भी नहीं है यथा जलाशय में यह व्यतिरेकव्याप्ति हुई। जिस लिगमें केवल अन्वयव्याप्ति होवह केवलान्वयि है। जैसे-'घट , ( ८ ) अभिधेय है क्योंकि इसमें प्रमेयत्व रहता है । दृष्टान्त पट। इस स्थलमें प्रमेयत्व और अभिधेयत्वकी व्यतिरेक-व्याप्ति नहीं है। क्योंकि सभी पदार्थों में अभिधेयत्व और प्रमेयत्व हैं । निसमें केवल व्यतिरेक-व्याप्ति हो वह केवलव्यतिरेकि लिङ्ग है । जैसे-पृथिवी इतर पदार्थों से अलग है क्योंकि इसमें गन्ध रहता है । जो इतर पदार्थसे अलग नहीं है उसमें गन्ध नहीं है, जैसे-जल, यह पृथिवी वैसी नहीं है इससे यहवैसी नही है । यहाँ जो गन्ध वाला है वह इतर पदार्थोंसे भिन्न है ऐसा अन्वय- दृष्टान्त नहीं है, क्योंकि पृथ्वीमात्र ही पक्ष है ।।४६।। जिसमें साध्यका सन्देह हो वह पक्ष है। जैसे धूम हेतु होने पर पर्वत । जिसमें साध्यका निश्चय हो उसका नाम सपक्ष है, जैसे-उसी स्थलमे पाकशाला। जिसमे साध्याभावका निश्चय हो वह विपक्ष है । जैसे उसी स्थानमें तालाब ॥४७॥ (जो वास्तव में हेतु न होकर हेतुके समान प्रतीत होता है, उसका नाम हेत्वाभास है ) हेत्वाभास पाँच प्रकारका है-सव्यभिचार, विरुद्ध, सत्प्र- तिपक्ष, असिद्ध और बाधित । सव्यभिचारको अनैकान्तिक कहते हैं । वह तीन प्रकारका है, साधारण असाधारण और अनुपसंहारी । इन उस हेतुको जो हेतु, जहाँ साध्य नहीं है वहाँ वर्तमान हो साधारण कहते हैं। जैसे पर्वतमे वह्नि है, क्योंकि इसमें प्रमेयत्व रहता है । यहाँ प्रमेयत्व वह्नयभावाधिकरण जलाशयमें भी रहता है इस लिये यह हेतु साधारण अनैकान्तिक हुआ। जो हेतु सब सपक्ष और विपक्ष में न हो केवल पक्षमात्रमें हो वह असाधारण है। जैसे-'शब्द नित्य है। क्योकि इसमे शब्दत्व रहता है । शव्दत्व सभी नित्य और अनित्य . पदार्थों में वर्तमान न होकर केवल शव्दमें ही रहता जिसमे अन्वय और व्यतिरेक दृष्टान्त न हो, वह अनुपसंहारी है। जैसे-सभी पदार्थ अनित्य हैं, क्योंकि सब पदार्थों में प्रमेयत्व रहता है। यहाँ सभी पदार्थ पक्षके अन्तर्भूत हैं इसलिये दृष्टान्त नहीं है। जो हेतु साध्याभाव से व्याप्त है उसका नाम विरुद्ध है। जैसे- 'शब्द नित्य है, क्योंकि उसमें कृतकत्व है। कृतकत्व हेतु नित्यत्वाभाव अनित्यत्वसे व्याप्त है। में है

.
( 8 )
जिस हेतुके साध्याभावका सिद्ध करनेवाला दूसरा हेतु हो उसका
नाम सत्प्रतिपक्ष है। जैसे-'शब्द नित्य है, क्योंकि उसमें श्रवणेन्द्रिय-
ग्राह्यत्व रहता है', दृष्टान्त-शब्दत्वजाति । 'शब्द अनित्य है, क्योंकि
उसमें कार्यत्व रहता है', दृष्टान्त-घट ।
असिद्ध तीन प्रकारका है-आश्रयासिद्ध, स्वरुपासिद्ध और व्या-
प्यत्वासिद्ध।
आश्रयासिद्धका उदाहरण-'आकाश-कमल सुगन्धवाला है, क्योंकि
उसमें कमलत्व है। जैसे-तालावका कमल । यहाँ आकाश कमल
आश्रय है । किन्तु वह होता ही नहीं।
स्वरूपासिद्धका उदाहरण-'शब्द गुण है, क्योंकि उसमें चाक्षु-
षत्व है', जैसे-रूप । यहाँ शब्दमें चाक्षुषत्व ( आँखसे देखा जाना)
नहीं है, क्योंकि शब्द श्रवणेन्द्रियग्राह्य है।
जो हेतु उपाधि सहित हो, उसका नाम व्याप्यत्वासिद्ध है। जो साध्यका
व्यापक होकर हेतुका अव्यापक हो वह उपाधि है। साध्याधिकरणमें
रहनेवाले अभावका जो प्रतियोगी न हो वह साध्य व्यापक है।
जो हेत्वधिकरणमें रहनेवाले अत्यन्ताभावका प्रतियोगी होता है वह
साधनाव्यापक है । जैसे-पर्वत अग्निवाला होनेसे धूमवाला है। यहाँ
आर्द्वन्धनसंयोग उपाधि होता है। क्योंकि जहाँ जहाँ धूम है वहाँ वहाँ
आई इन्धनका संयोग है, इसलिये वह साध्यव्यापक है, और जहाँ जहाँ
वह्नि है वहाँ वहाँ आर्दैन्धनसंयोग नहीं है, क्योंकि उत्तप्त लोहेके गोले में
आर्द्वन्धन नहीं है, इसलिये वह उपाधि साधनका अव्यापक हुआ । इस
प्रकारसे साध्यका व्यापक होकर हेतुका भव्यापक होनेसे आई इन्धनका
संयोग उपाधि हुआ, उपाधि सहित होने से धूमको साध्य करनेमें वह्नि
हेतु व्याप्यत्वासिद्ध है।
जिसको हेतु करनेमें दूसरे प्रमाणसे पक्ष में साध्यका अभाव निश्चित
हो, वह बाधित है, जैसे-'वह्नि अनुष्ण है, क्योंकि इसमें द्रव्यत्व रहता
है'। यहाँ अनुष्णत्व साध्य है, उसका अभाव उष्णत्व, प्रत्यक्ष प्रमाणसे
वह्निमें सिद्ध है । इसलिये यह हेतु बाधित है ॥४८॥

( १० ) उपमानखण्ड उपमितिका करण उपमान है । पद और पदार्थ इन दोनोंका सम्बन्ध बान ही उपमिति है। उसका करण सादृश्यज्ञान है । जैसे किसी पुरुष ने जो गवय शब्दका अर्थ नहीं जानता, अरण्यमें रहनेवाले किसी मनुष्यसे 'गवय गायके तुल्य होता है' यह सुना और वनमें जाकर उक्त वाक्यार्थ स्मरण करते हुए गायके समान किसी जन्तुको देखा, बाद 'यह गवयशब्दवाच्य है' ऐसी उपमिति उसे होती है ।।४९।। शब्दखण्ड आप्त पुरुषका वाक्य शब्द प्रमाण है। ठीक बात कहनेवाला आप्त है । पदोंका समूह वाक्य है, जैसे-'हाथमें दण्ड लेकर सफेद गायको लाओ।' शक्तिविशिष्टको पद कहते हैं । इस पदसे यह अर्थ समझना चाहिये', ऐसा जो ईश्वरका सङ्केत है, उसका नाम शक्ति है ॥५०॥ आकाङ्क्षा, योग्यता और सन्निधि वाक्याथ समझनेमे हेतु हैं । दूसरे पदके न रहनेसे एक पदका अन्वयबोधाजनकत्व ही आकाङ्क्षा है। एक पदार्थमे दूसरे पदार्थका प्रकृत सम्बन्ध रहना योग्यता है। पदोंका विना विलम्ब उचारण करना सन्निधि है । आकाङ्खादि रहित वाक्य प्रमाण नहीं होता। जैसे-'गाय घोड़ा मनुष्य हाथी' यह कहना प्रमाण नहीं है, क्योंकि इनमें आकासा नहीं है । 'आगसे सीचो' यह वाक्य भी प्रमाण नहीं है, क्योंकि इसमें योग्यता नहीं है। एक एक प्रहरके बाद अलग- अलग कहे हुए 'गाय लाओ' ये पद भी प्रमाण नहीं होते हैं, क्योंकि इनमे सान्निध्य नहीं है ।।५।। वाक्य दो प्रकारका होता है-वैदिक और लौकिक । वेद ईश्वरकी उक्ति है, इसलिये वैदिक वाक्य सभी प्रमाण हैं। आप्तके कहे हुये ही लौकिक वाक्य प्रमाण होते हैं ।। इससे अतिरिक्त प्रमाण हैं। वास्यका अर्थ समझनाही शाब्दनान है । उसका करण है शन्द ॥५२॥ । रान्द्रखण्ड समाप्त ( १ ) अयथार्थ अनुभव तीन प्रकारका है, संशय, विपर्यय और तर्क । एक ही विशेष्यमें विरुद्ध अनेक धम्मों का ज्ञान संशय है। जैसे-'यह स्थाणु है या मनुष्य ।' मिथ्याज्ञानका नाम है विपर्यय । जैसे-सीपमें 'यह चाँदी है। ऐसा ज्ञान। व्याप्यके आरोपसे व्यापकका आरोप करना तर्क है । जैसे-यदि आग न हो तो धूआ न हो ॥५३॥ स्मृति भी दो प्रकारकी है यथार्थ और अयथार्थ । जो यथार्थ ज्ञानसे उत्पन्न हो वह यथार्थ और जो अयथार्थ ज्ञानसे उत्पन्न हो वह अयथार्थ ॥५४॥ जो सबको अनुकूल जान पड़े वह सुख है ॥५५॥ जो बुरा लगे वह दुःख है ॥५६।। कामनाका नाम इच्छा है ।।५७॥ क्रोधका नाम द्वेष है ।।५८॥ कृति अर्थात् उद्योगका नाम प्रयत्न है ॥५९॥ विहित कर्मसे उत्पन्न अष्टका नाम धर्म ॥६०॥ निषिद्ध कर्मजन्य अदृष्टका नाम अधर्म ॥६१।। बुद्धि, सुख, दुःख, इच्छा, द्वेष, प्रयत्न, धर्म और अधर्म यह आठ आत्माके विशेष गुण हैं । वुद्धि, इच्छा और प्रयत्न दो प्रकारके हैं। नित्य और अनित्य । ईश्वरके बुद्वि इच्छा और प्रयत्न नित्य और जीवके अनित्य है ॥२॥ संस्कार तीन प्रकारका है। वेग, भावना और स्थितिस्थापक । वेग- पृथ्वी, जल, वायु, तेज और मन, इन पाँचोंमें रहता है । जो अनुभवसे उत्पन्न और स्मरणका कारण है उसका नाम है भावना । यह केवल आत्मामें रहती है। दूसरी अवस्था को पहुंचाई हुई वस्तुको फिर पूर्वावस्था में लानेवाला संस्कार स्थितिस्थापक है। यह चटाई आदि पार्थिव पदार्थमें रहता है ॥६३।। चलनरूप क्रिया को कर्म कहते हैं । ऊर्ध्व देशमें संयोगका कारण उत्क्षेपण (ऊपर फेंकना) है । निम्नदेशमें संयोगका हेतु अपक्षेपण (नीचे फेंकना) है। शरीरके समीप संयोग होनेका कारण आकुञ्चन (समेटना) ( १२ ) है। और शरीरसे दूर संयोगका कारण प्रसारण (फैलाना) है। इनके अतिरिक्त कर्म गमनमें अन्तर्भूत हैं ॥६४।। नित्य एवं एक होकर अनेक पदार्थों में रहनेवाला सामान्य है। सामान्य द्रव्य गुण और कर्ममें रहता है। सबसे अधिक देशमें रहनेवाली जाति है सत्ता । द्रव्यत्वादि जाति सत्तासे न्यून स्थानमें रहती है ।।६।। नित्य द्रव्योंमें रहने वाले जो व्यावर्तक हैं व विशेष हैं ।।६६।। नित्य सम्बन्धका नाम समवाय है । वह अयुतसिद्ध पदार्थ में रहता है । जिन दोनों में एक, अविनष्ट दशा में दूसरेके आधार पर रहता हो वे अयुतसिद्ध कहाते हैं। जैसे-अवयव और अवयवी, गुण और द्रव्य, किया और द्रव्य, जाति और व्यक्ति, विशेप और नित्य द्रव्य ॥६७।। जिसका आदि न हो और अन्त हो वह प्रागभाव है। जैसे-कार्य की उत्पत्तिकै पहलेका अभाव । जिसका आदि हो परन्तु अन्त न हो उसका नाम प्रध्वंसामाव । जैसे-कार्य की उत्पत्तिकेवादका अभाव । जिसकी प्रतियोगिता संसर्गानवच्छिन्न होती है और भूत भविष्यत् वर्तमान इन तीनो कालों में रहता है, उसको अत्यन्ताभाव कहते हैं । जैसे-'भूतलमें घडा नहीं है । जिसकी प्रतियोगिता तादात्म्यसम्बन्धावच्छिन्ना हो वह अन्योन्या- भाव है । जैसे-'घड़ा वस्त्र नहीं है' ॥६८|| सब पदार्थोंका यथोचित रूपसे उक्त सात पदार्थों में ही अन्तर्भाव हो जाता है, इससे सात ही पदार्थ हैं यह सिद्ध हुआ ।।६९।। कणाद और गौतमके मतमें बालकोंकी व्युत्पत्ति होने के लिये विद्वान् अन्नंभट्टने तर्कसंग्रह बनाया। कर समाप्त प्रश्नोत्तरमाला तर्कसंग्रह प्र० (१)-'तर्कसंग्रह' इत्यत्र कः समासः ? (का० ग० सं० का० १६१६) ४० (१)-तर्कसंग्रह' इत्यत्र पष्ठीतत्पुरुषसमासः । व्यासवाक्यं च 'ताणां संग्रह' इत्येवं रूपम् । प्र० (२)-पृथिव्याः किं लक्षणम् ? कतिविधा च सा ? (का० ग० सं० का० १९१७) उ० (२)-समवायसम्बन्धेन गन्धवत्वं पृथिव्या लक्षणम् । नित्यानित्य- भेदात् सा द्विविधा । सत्पन्नविनष्टघटादावष्याप्तिभिया गन्धसमानाधिकरणद्व्यः रखव्याप्यजातिमत्त्वरूपो लक्षणार्थः परिकार्यः । प्र० (३)-अपां कि लक्षणम् ? ( का० ग० सं० का० १९२६) उ० (३)-शीतस्पर्शसमानाधिकरणद्व्यत्वव्याप्यजातिमत्वम् । तेनोत्पन्न- विनष्टजले नाऽध्याप्तिः । प्र० (४)-तेजसः किं लक्षणं कतिविधञ्च तत् १ (का० ग० सं० का० १६२६) ४० (४)-उष्णस्पर्शसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्वम् । तेजो द्विवि. धम् , नित्यमनित्यञ्च । प्र० (५)-वायु. कतिविधः किञ्च तस्य लक्षणमेतत् सर्वमुप- पाद्यताम् । (का० ग० सं० का०, १६२०, १६२८) १० (५) रूपरहितत्वे सति स्पर्शवत्वं वायोर्लक्षणम् । रूपाऽसमाधिकरण. स्पर्शसमानाधिकरणजातिमत्त्वं तदर्थः । नित्यानित्यभेदात् वायुद्विविधः । वायवीयः परमाणुनिस्यः, कार्यरूपो वायुरनित्यः । शरीरेन्द्रियविषयभेदात् अनित्यवायुस्त्रि. विधः । पारीरान्त सञ्चारिणो वायोः प्राणापानादिसंज्ञा व्यपदिश्यते । प्र० (६) आकाशस्य किं लक्षणं किञ्च तत्र विभुत्वम् ? ( का० ग० सं० का० १६१६) १० (६)-समवायेन शाब्दवत्वम् । विभुस्वञ्च सर्वमूर्तसंगयोगित्वम् । मूर्त- स्वं क्रियावत्वम् । । । -- ।

( १४ ) प्र० (6) आत्मा कतिविधः ? किञ्च तस्य लक्षणम् ? (काग० सं० का० १६१८,१६२६) उ० (७)-आत्मा द्विविधः परमात्मा जीवात्मा चेति । परमात्मा ईश्वरः, स व सर्वज्ञ एकश्च । जीवात्मा च प्रतिशरीरं मिन्नः । द्विविधेऽप्यात्मनि विभुत्वं नित्यत्वञ्च वर्तते । समवायेन ज्ञानवश्वमात्मनो लक्षणम् । प्र० ()-रूपस्य लक्षणं प्रतिपदव्यावृत्तिप्रदर्शनपूर्वकं व्याख्या- यताम् । का० ग० सं० का० १९१७) उ० (6)-'चक्षुर्मानग्राह्यो गुणो रूपम्' इति मूलोक्तलक्षणे चक्षुस्त्वगुभ- येन्द्रियग्राह्यसंख्यासंयोगादावतिव्याप्तिवारणाय मात्रपदम्, रूपत्वे रूपाभावे चातिप्रसङ्गभङ्गाय गुणपदम् । चक्षुर्मात्रग्राह्यत्वञ्च चक्षुरितरेन्द्रियाग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम् । तत्र प्रथमदलेन संख्यादावतिव्याप्तिनिरासेऽपि अतीन्द्रियगुरुत्वा- दावतिव्याप्तिवारणाय 'चक्षुप्रास्विमिति द्वितीयदलम् । चक्षुर्माह्यस्वमपि चक्षुरि. न्द्रियजन्यलौकिकप्रत्यक्षविपयत्वम् । तेन गुरुत्वादेश्चक्षुरिन्द्रियजन्याऽलौकिक- प्रत्यक्षविषयत्वेऽपि नातिव्याप्तितावस्थ्यम् । तदितरेन्द्रियाग्राह्यत्वमपि तजन्य- लौकिकप्रत्यक्षाऽविपयत्वम् । तथा च 'रूपी घट' इति स्पार्शनप्रत्यक्ष रूपस्याऽसौ- किकप्रत्यक्षविषयत्वेऽपि नान्याप्तिः । यमप्येवमपि प्रभामित्तिसंयोगेऽतिव्याप्तिः । न च परमाणुरूपे चक्षुर्माहत्वा. भावेन 'चक्षुर्ग्राह्यत्व' मित्यस्य चक्षुर्ग्राह्य जातिमत्त्वमित्यर्थो विवक्षणीयः, तथा च प्रभामित्तिसंयोगे तादृशजातिमत्वामावान्नातिव्याप्तिः, प्रभाभित्तिसंयोगत्वे जाति- त्वविरहात्, संयोगस्य जातिमत्वेऽपि तस्य चक्षुस्त्वगुभयेन्द्रियग्राह्यत्वात् । इति • ननु आत्मनो द्वविध्यमनुपपन्नन्, “एकमेवाद्वितीयम्" (छा० ६।२।१) इत्यादि श्रुतिविरोधादिति चेन्न, कालीतारात्रिपुरसुन्दरीप्रमृतीना पमकृष्णादीनाश्च ऐक्य एव तत्तच्छुत्तेस्ता- स्पात् । अत एव देवीमाहात्म्ये- "एकेवाहं जगत्यत्र द्वितीया का ममाऽपरा । पश्यैता दुष्ट मध्येव विशन्त्यो मद्विमूतयः ॥ ततः समरता ता देख्यो ब्रह्माणीप्रमुखा लयम् । तत्या देण्यातनी नग्मुरेकैवासीत्तदाऽम्बिका ।। प्रहं विभूत्या बदुमिरिह रूपर्यदास्थिता । तत्संहृतं मयकैव तिष्ठाम्याजी स्थिरोमः ॥"-(१० म अः, ५-८) पनि परमवाक्यं सुपपद्यते । भन्यया शुम्मत्य विधमानतया “एकैवासीत्तदाऽम्भि" त्युक्तिरस- इना त्यात । एवध जगत आधारवेन निर्देशोऽपि सङ्गच्छते, सजातीयद्वैतप्रतिपेधस्यवाऽ- भिप्रेनवाद ।

, ( १५ ) वाच्यम् , तथासति रूपत्वे जातिमत्त्वविरहेणैवाऽतिव्याप्त्यप्रसक्त्या गुणपदाऽनर्थक्य- प्रसङ्गात् । तथापि प्रमात्वनातिमादाय प्रभायामतिव्याप्तिनिरासाय गुणवृत्तित्वेन जातिविशेषणीया । जातौ गुणवृत्तित्वलाभायैव गुणपदमिति न कस्यापि वैयय॑म् । प्र० (8)-किलक्षणं रूपं, कतिविधं, कुत्र च कीदृशम् ? (का० ग० सं० का० १९२०; का०हि०वि०वि० १६१) १० (९)-रूपलक्षणञ्च (6) संख्यकोत्तरे द्रष्टव्यम् । शुक्लनीलपीतरक्त- हरितकपिशचिनभेदात् रूपं सप्तविधम् । तत्र पृथिव्यां सप्तविधम् , जले अभा- स्वरशुक्लम् , तेजसि भास्वरशुक्लम् । प्र० (१०)-किलक्षणकः स्पर्शः, कतिविधः, कुत्र च कीदृशः ? (का० ग० सं० का० १६१६,१६१६,१६२६) ४० (१०)-स्वगिन्द्रियमात्रमाह्यो गुणः स्पर्शः, स्पर्शत्वेऽतिन्याप्तिवारणाय गुणपदम् , मात्रपञ्च संयोगादावतिव्याप्तिनिरासार्थम् । यद्यप्यत्रापि परमाणुस्प- शेऽध्याप्तिवारणाय स्वगिन्द्रियमात्रप्रायजातिमत्वमेव विवक्षणीयम् , तथा च स्प. शंत्वेतिऽव्याप्त्ययोगाद् गुणपदमनर्थकमेव, तथापि मृदुत्वकठिनत्वयोम्रन्थकृन्मते अ. वयवंसंयोगविशेषरूपतया भवयवसंयोगगतवैजात्यस्यापि त्वगिन्द्रियमात्रप्राह्यत्वे मृदुस्वकठिनत्वयोरतिव्याप्तिवारणाय गुणत्वसाक्षाद्व्याप्यतादृशजातिमत्त्वस्यैव लक्षणे विवक्षणीयतया तल्लाभायैव गुणपदमित्यवधेयम् । यद्वा चक्षुरग्राह्यत्वगिन्द्रियग्राह्यगुणविभाजकोपाधिमत्वं स्पर्शस्वमिति फलि. सोऽर्थः। स्पर्शस्तु विविधः-शीतः, उष्णः, अनुष्णाशीतश्च । तत्र शीतो जले, उष्णस्ते- जसि, अनुष्णाशीतच पृथिवीवाय्वोः । प्र० (११)-परिमाणस्य किं लक्षणम्, कतिविधञ्च तत् ? ( का० ग० सं०का० १६१८) उ० (११)-मानव्यवहाराऽसाधारणकारणत्वं परिमाणत्वम् । मानव्यव- हारश्च 'भयं महत्वपरिमाणवान्' इत्यादिशब्दप्रयोगरूपः। एतादृशव्यवहारे च महत्वपरिमाणवरवं व्यवह-व्यतावच्छेकम् । व्यवहारे च व्यवर्तव्यतावच्छेदकस्य कारणतया महत्त्वादिपरिमाणे निरुक्तव्यवहारकारणत्वस्य विद्यमानत्वात् लक्षण. । समन्वयः। प्र० (१२)-परस्वापरत्वयोर्लक्षणं विभागञ्च प्रदर्श्य कुत्र कीदृशं वर्तते, तत् प्रदर्शय । (का० ग० सं० का० १६२३,१६२६) ४० (१२) परव्यवहाराऽसाधारणकारणत्वं परत्वस्य लक्षणम् । अपरव्यवहागा.

१६ ऽसाधारणकारणत्वमपररवस्य लक्षणम् । परव्यवहारे व्यवहर्तव्यतावच्छेदकं पर- त्वम् , अपरव्यवहारे च व्यवहर्तव्यतावच्छेदकमपरत्वमिति लक्षणसङ्गतिः । परत्वमपरत्वञ्च द्विविधम् , दैशिकं कालिकं चेति । तत्र दूरस्थे दैशिकं परत्वम् , समीपस्थे देशिकमपरत्वम् । ज्येष्टे कालिकं परत्वम् , कनिष्ठे कालिकमपरत्वम् । यथा-'पाटलीपुत्रात् काशीमपेक्ष्य प्रयागः पर' इत्यनुमवात् पाटलीपुत्रावधिक- काशीनिरूपितपरत्वं प्रयागे वर्तते । एवं 'पाटलीपुत्रात् प्रयागमपेक्ष्य काशी भपरा' इत्यनुभवात् पाटलीपुत्रावधिकप्रयागनिरूपिताऽपरत्वं काश्यां स्वीकार्यम् । 'चैत्रान्मैत्रः पर' इत्यनुभवाच्च मैने चैत्रावधिकपरत्वम्, 'मैत्राच्चैत्रोऽपर' इत्यनु. भवसिद्धमैत्रावधिकाऽपरत्वञ्च चैत्रे जायत इति । प्र० (१३)-बुद्धः किं लक्षणम् ? (का० ग० सं० का० १६१६) ४० (१३) सर्वव्यवहारहेतुगुणत्वं वुद्धलक्षणम् । व्यवहारश्च पाब्दप्रयोगः । ज्ञानं विना शब्दप्रयोगाऽसम्भवात् शब्दप्रयोगरूपव्यवहारहेतुत्वं ज्ञाने वर्त्तत इति लक्षणसमन्वयः। यद्वा जानामीत्यनुव्यवसायगम्यज्ञानत्वमेव बुद्धलक्षणम् । तथा च 'घटं जाना मी'त्यनुव्यवसायं प्रति विषयविधया ज्ञानस्य कारणत्वेन तादृशकारणतावच्छेद कतया ज्ञानवजातिसिद्धिः । ननु निर्विकल्पकस्य भगवज्ञानस्य च तादृशानुव्यव- सायाऽविषयतया निरकानुव्यवसायसिद्धज्ञानवजातेः सकलज्ञानसाधारण्य दुर्घटमिति चेत् , ज्ञानपदशक्यतावच्छेदकतयैव ज्ञानवजाति साधयामः । इत्यञ्च मूले 'सर्वव्यवहारहेतु' रिति बुद्धः स्वल्पकथनमिति भावः। प्र० (१४) बुद्धः किं लक्षणम् १ कतिविधा च बुद्धिर्भवति । (का०हि० वि०वि० १९२६) उ० (१४) लक्षणन्तु (१३) संख्यकोत्तरे द्रष्टव्यम् ; बुद्धिदिविधा-- स्मृतिरनुभवश्चेति । प्र० (१५) अनुभवः कतिविधः १ (का० ग० सं० का० १६१८) उ० (१५)-अनुभवो द्विविधः, यथार्थोऽयथार्थश्च । प्र० (१६)-यथार्थानुभवस्य किं लक्षणम् ? ( का० ग० सं० का १६२३,१६२८)। उ० (१६) तद्वद्विशेष्यकतत्प्रकारकानुभवत्वं यथार्थानुभवस्य लक्षणम् । तत्पदं प्रकारपरम् । तद्वत्वञ्च प्रकारतावच्छेदकसम्बन्धेन । तेन कालिकसम्बन्धेन शुक्तौ रजतत्वसत्त्वेऽपि 'इदं रजतम्' इति भ्रमे नातिव्याप्तिः । प्र० (१७) यथार्थानुभवः कतिविधः, किच तत्र याथार्थ्यम् ? (का० ग० सं० का० १६१६,१९२०)।

( १७ ) ४० (१७) प्रत्यक्षानुमित्युपमितिशाब्दभेदाद् यथार्थानुभवश्चतुर्विधः । तद- द्विशेष्यकतत्प्रकारकत्वमेव तत्र याथार्थ्यम् । प्र० ( १८) अयथार्थानुभवस्य किं लक्षणम् ? (का० हि० वि० वि०१६२४) उ० (१८) तदभाववन्निष्टविशेष्यतानिरूपिततनिष्ठमकारताशाल्यनुभव. त्वमयथार्थानुभवस्य लक्षणम् । प्र० (१६) कारणं कतिविधं किश्च तस्य लक्षणम् ? ( का० ग० सं० का० १६१७,१६१६,१६२५,१६२८; का० हि० वि० वि० १६२६)। उ० (१९)-'कार्यनियतपूर्ववृत्ति कारणम्' इति मूलोकलक्षणस्य कार्य प्रति कायोस्पत्ति प्रति 'नियत' व्यापकं सत् यत् पूर्ववृत्ति तत् कारणमित्यर्थः । यथा घटं प्रति दण्डः कारणं तत्र चेदमस्ति लक्षणम् । अत्र हि कार्यों घटः, तदुत्पत्ति प्रति दण्डो व्यापकः, यत्र यत्र घटोत्पत्तिः, तत्र तत्र दण्ड इति व्याप्तौ दण्डस्य व्या- पकरवात् । कार्यपूर्ववर्ती दण्ड इति कार्योत्पत्तिव्यापकत्वे सति पूर्ववृत्तित्वरूप- लक्षणस्य दण्डे सत्वात्तत्समन्वयः । नियतपूर्ववर्तिनस्तन्तुरूपादेः पटं प्रति कारणत्वं स्थादित्यनन्यथासिद्धत्वमपि लक्षणे निवेशानीयम् । समयाय्यसमवायिनिमित्तभेदात कारणं त्रिविधम् । प्र० (२०)-असमवायिकारणस्य लक्षणं सोदाहरणं ब्रूत । (को० ग० सं० का १६१६,१६३०; का० हि० वि०वि० १९२०)। उ० (२०) कार्येण कारणेन वा सहकस्मिन्नर्थे समवेतं सत् कारणमसम. चायिकारणम् । यथा तन्तुसंयोगः परस्य तन्तुरूपं पटगतरूपस्य । भत्र कार्यपदं स्वकार्यपरम् , कारणपदश्च स्वकार्यसमवायिकारणपरम् । निष्कर्षस्तु-समवाय- सम्बन्धावच्छिन्नकार्यतानिरूपित-समवाय स्वसमवायिसमवेतत्वाऽन्यतरसम्बन्धा. चच्छिमकारणस्वम् । प्र० (२१) समवायिकारणाऽसमवायिकारणयोर्लक्ष्ये लक्षणसम- म्पयः क्रियताम् । (का० ग० सं० का० १९२३) उ० (२१) यत्समवेतं कार्यमुस्पद्यते तत् समवायिकारणमिति लक्षणम् । 'येषु' तन्तुप्रभृतिषु 'समवेतं' समवायेन सम्बद्धं सत् 'कार्य' पटाद्यात्मक 'उत्पद्यते' जायते, 'वत्' तन्तुप्रभृतिक समवायिकारणम् (पटादेरिति शेप.) इत्यर्थः । निष्कर्षस्तु समवायसम्बन्धावच्छिन्न कार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्न कारण. रखम् । पटसमवायिकारणस्य लक्ष्याश्च तन्तवः। पटरूप कायं तन्तुषु समवेत सदुस्पद्यते तस्मात् तन्तवः पटस्य समवायिकारणमिति लक्ष्ये लक्षणसमन्वयः।

. ( १८ ) मसमवायिकारणलक्षणन्तु (२०) संख्यकोत्तरे द्रष्टव्यम् । असमवायिकारणस्य स्यं द्विविधम्, स्वकार्येण सहकस्मिन्नर्थ समवेतं सत् कारणमित्येकम् , स्वकार्य- मवायिकारणेन सहकस्मिन्नर्थे समवेतं सत् कारणमित्यपरम् । तत्र प्रथमोदाहरणं टस्य तन्नुसंयोगः । अत्र पटात्मकं कार्य तन्तुसमवेतम्, अवयवावयविनोः मवायात् । गुणगुणिनोश्व समवायात् तन्तुसंयोगोऽपि तन्तुपु समवेतः । एवञ्च वकारयण पटात्मकेन सह एकस्मिन् अर्थे तन्तौ समवेतत्वे सति कारणस्वात् तन्तु. योगः पटं प्रत्यसमवायिकारणम् । द्वितीयोदाहरणच तन्तुरूपं पटगतरूपस्य । स्वं तन्तुरूपम् , स्वकायं पट- पम् , स्वकार्यसमवायिकारणं पटः, स च तन्तुपु समवेतः, तन्तुरूपमपि तन्तुपु मवेतम् । तथा च स्वकार्यसमवायिकारणेन पटेन सह एकस्मिन् भथै तन्तौ मवेतत्वे सति कारणत्वात् तन्तुरूपं पटीयरूपस्याऽप्समवायिकारणमिति लक्ष्ये क्षणसङ्गतिः। प्र० (२२) प्रत्यक्षस्य किं लक्षणम्, कतिविधञ्च तत् ? ( का० ग० लं. का० १६३०) उ० (२२) ४७ पृष्टं द्रष्टव्यम् । प्र० (२३) प्रत्यक्षशानहेतुरिन्द्रियार्थसन्निकर्षः कतिविधः १ (का T० सं० का० १६१६, १६१८, १९२१, १९२५, १६२६, का० हि० वि० वे० १४२०, १९२४) ३० (२३) ४९, ५०, ५१, ५२, ५३ पृष्ठानि द्रष्टव्यानि । प्र० (२४) अनुमान कतिविध, किञ्च तस्य लक्षणं विशदीकृत्य प्रदर्श्यताम् । ( काग० सं० का ११७, १६३०) उ० (२४)५५, ५८, ५९, ६० पृष्टानि द्रष्टव्यानि । प्र० (२५) अवयवाः के, कानि च तेषामुदाहरणानि ? ट० (२५) ६० पृष्टं द्रष्टव्यम् । प्र० (२६) लिङ्ग कतिविधम् ? कानि तेषामुदाहरणानि ? ( का० १० सं० का० १६१७, १६२०, १६२५, १६२८) 8. (२६) ६२, ६३ पृष्टे द्रष्टव्ये 1 प्र० (२७) हेत्वाभासाः के, कानि च तेषामुदाहरणानि ? ( का० ग० सं० का० १६१७, १६२५: का०हि० वि०वि० १९२६) ट० (२७) ६५, ६६, ६७, ६८, ६९, ७०, ७१ पृष्टानि दृष्टव्यानि । प्र० (२८) उपमानस्य किं लक्षणं कया प्रणाख्या च तद् भवति ? (का० न० सं० का० १६२० ) ( १ ) - उ० (२८) हपमितित्वावच्छिन्नकार्यतानिरूपितव्यापारसम्बन्धावच्छिनकार- णत्वमुपमानस्य लक्षणम् । तद्भवनप्रणाली च ७२ पृष्टे द्रष्टव्या । प्र० (२६) वाक्यार्थज्ञाने हेतवः के, तेषां लक्षणान्युदाहरणानि च स्पष्टीकुरु। (का० ग० सं० का० १९१६, १६१८, १९२३, १९२५) १० (२९) ७७ पृष्ठं द्रष्टव्यम् । प्र० (३०) वाक्यं कतिविधम् ? (का० ग० सं० का० १६१६, १६३०) ४० (३०) ७७ पृष्टं द्रष्टव्यम् । प्र० (३१) अयथार्थानुभवः कतिविधः ? (का० ग० सं० का० १६२६, का० हि० वि०वि० १९२४) उ० (३१) १ पृष्टं द्रष्टव्यम् । प्र० (३२) संशयविपर्ययतर्काणां लक्षणानि प्रदर्श्यन्ताम् । (का० ग० सं० का० १६२८, १९३०) तर्कस्य च कस्मिन्पार्थेऽन्तर्भावः? (का० हि० वि०वि० १९२०) ७० (३२) लक्षणानि ८१, ८२ पृष्ठयोईष्ट व्यानि । तर्कस्य बुद्धावन्तर्भावः, तस्याऽयथार्थानुभवविशेपत्वात् । प्र० (३३) स्मृतिः कतिविधेति सविस्तरमुपपाद्यताम् । उ० (३३) ८३ पृष्ठं द्रष्टव्यम् । प्र० (३४) धर्माधर्मयोलक्षणमभिधीयताम् । (का० ग० सं० का० १६३०) ४० (३४) ८५ पृष्ठं द्रष्टव्यम् । प्र० (३५) आत्ममात्रविशेषगुणाः के ? (का० ग० सं०का०१६३०) उ० (१५) ८५ पृष्ठं द्रष्टव्यम् । प्र० (३६) संस्कारः कतिविधः ? कुन च कीदृशः? (का० ग०सं० का० १६१६, १६२१, १९२७) उ० (३६) ८६, ८७ पृष्ठे दष्टध्ये । प्र० (३७) कर्म कतिविधं किञ्च तस्य लक्षणम् ? (का० ग० सं० का० १६१६, १६२८) उ० (३७) रक्षेपणाऽपक्षेपणाऽऽकुञ्चनप्रसारणगमनभेदात् कर्म पञ्चविधम् । 'चलनात्मक कम्म' इति मूलस्य च 'चलती'तिप्रत्यक्षसिद्धकर्मत्वजातिमत्त्वं कर्मणो लक्षणमित्यर्थः । 'चलनात्मक' संयोगविभागानुकूलमित्यर्थ इत्यपि केचित् । प्र० ( ३८ ) प्रतिपदव्यावृत्तिपुरःसरं सामान्यस्य लक्षणं व्याख्यायताम्।

, ( २० ) ७० (३८) 'नित्यमेकमनेकानुगतं सामान्यम्' इति मूलम् । अत्र 'नित्यत्वं' प्रागभावाऽप्रतियोगित्वं ध्वंसाऽप्रतियोगित्वं वा, एकतरकथनेनैव निर्वाहात् । 'भन्न कमिति प्रामादिकम्' इति नृसिंहप्रकाशिका | 'एकमनेकानुगतमिति स्वरू- पतोऽनेकानुगतमित्यर्थ इति वाक्यवृत्तिः । 'जलपरमाणुगतरूपेऽतिव्याप्तिवार. णाय एकेति' इति दीपिकायां क्वचिदधिकः पाठः। अनेकानुगतत्वच समवायेन अनेकवृत्तित्वम् । तथा च नित्यत्वे सति समवायसम्बन्धेन भनेकवृत्तिलमिति सर्व. सम्मतं सामान्यलक्षणमिति । तत्र संयोगादावतिव्याप्तिवारणाय नित्यत्वे सतीति । अत्यन्ताभावादावतिव्याप्तिनिरासाय समवायसम्बन्धेनेति । गगनपरिमाणादावति- प्रसङ्गभङ्गाय अनेकेति । नन्वेमपि नित्यसंयोगेऽतिव्याप्तिः, तस्य नित्यत्वात्, समवायेनाऽनेकवृत्तित्वा- च्चेति चेत् , तस्य निरस्तत्वादिति मुक्तावलीप्रकाशकाराः। तन्न सम्यक् , द्रव्य स्वजातिसिद्धिप्रकरणे विभागस्य वेति मुक्तावलीग्रन्थस्याऽनुत्थितिप्रसङ्गात् । वयन्तु चूमः-भत्र अनेकपदं बहुपरम् । तथा च बहुनिरूपितसमवायसम्बन्धा- वच्छिन्नाधेयत्वं सामान्यत्वमित्यर्थः । सम्बन्धमात्रस्यैव एकप्रतियोगिकत्वाऽपरानु. योगिकत्वनियमेन कस्यापि संयोगस्य न वहुसमवेतत्वम् । बहुत्वन्तु त्रित्वादिक. मेव । अत्र च कल्पे नित्यत्वे सतीति न देयम् , अनावश्यकत्वात् । सामान्य लक्षणस्य 'विचारविस्तरस्तु' ८९ ९० पृष्टयोद्रष्टव्यः । प्र० (38) विशेषस्य किं लक्षणम् ? उ० (३९) ९० पृष्ठमवलोकनीयम् । प्र० (४०) समवायस्य किं लक्षणम् ? (को० ग०सं० का० १६२६) उ० (४०) नित्यत्वे सति सम्बन्धत्वं समवायस्य लक्षणम् । संयोगेऽतिव्या- प्तिवारणाय सत्यन्तम् । गगनादावतिप्रसङ्गभङ्गाय विशेप्यभागः । अन्न सम्बन्ध- स्वञ्च स्वरूपत्वानवच्छिन्नसांसर्गिकविषयताऽऽश्रयत्वम् । तेन गगनादीनां स्वरूप. त्वेन सम्वन्धत्वेऽपि न क्षतिः । न चैतल्लक्षणस्य नित्यसंयोगेऽतिव्याप्तिरिति वाच्यम्, अनित्यावृत्तिसंसर्गता- वच्छेदकधर्मवत्वस्य विवक्षितत्वात् । संयोगत्वस्यानित्यावृत्तित्वाभावेन नोक्त- दोयावकाश इति । प्र०(४१) काचयुतसिद्धी ? उ० (४१) ९१ पृष्टं द्रष्टव्यम् । प्र० (४२) कस्तावत् प्रागभावः? उ० (४२) अनादिः सान्तः प्रागभाव इति । 'अनादिः' आदिरहितः ।

( २१ ) आदिश्चात्रोत्पत्तिराद्यक्षणसम्बन्धरूपा । भन्तो ध्वंसः । प्रतियोगितासम्बन्धेन तद्वान् । तथा चोत्पत्तिरहितत्वे सति ध्वंसप्रतियोगित्वं प्रागभावत्वमिति फलितम् । प्र० (४३) प्रध्वंसाभावः किलक्षणकः ? उ० (४३) सादिरनन्तः प्रध्वंसाभाव इति मूलम् । 'सादिः' उत्पत्तिमा- नित्यर्थः । 'अनन्त' वंसाप्रतियोगी । इदञ्च स्वरूपकीर्तनम् , तेन नात्माश्रयः । लक्षणन्तु उत्पत्तिमत्वे सत्यभावत्वम् । अत्यन्ताभावादिवारणाय सत्यन्तम् । घटा. दावतिम्यातिनिरासाय विशेष्यदलम् । तर्कसंग्रहदीपिकायाम् प्र० (४४) तमो दशमद्रव्यमिति कस्य मतम् ? तन्मते तस्य द्रव्यत्वे का युक्तिः १ कया युक्त्या तन्मतं दूषितम् ? तमसो द्रव्य त्वेऽपि क्षित्यादावन्तर्भावसम्भवात् दशमत्वकथने ग्रन्थकारस्य किं तात्पर्यम् ? (क० सं० ए० १६२३) उ० (४४) भहमते द्रव्याण्येकादशविधानि । तदुक्तं मानमेयोदये-- "पृथिवी सलिलं तेजः पवमानस्तमस्तथा । व्योमकालदिगास्मानो मनः शब्द इति क्रमात् ॥ तथा च तन्मते तमसो द्रव्यत्वेऽपि न दशमद्रव्यत्वम् , तन्त्र पञ्चमत्वस्यैव प्रतिपादितत्वात् । वेदान्तिमतेऽपि तमो न दशमद्रव्यम् । न च आनन्दज्ञानेन वेदान्तिना तर्कसंग्रहे- "द्रव्ये नवत्वनिर्बन्धो नैव सिद्विमुपाश्नुते । तमसो दशमस्यापि संसिद्धर्मानयुक्तितः ॥" इत्युक्तमिति वाच्यम्, तत्र वैशेपिकमतखण्डनार्थमेव तदुक्तः। अत एव तत्रैव- "न हि पृथिव्यप्तेजोवारयाकाशकालदिगात्ममनांसि नवैव द्रव्याणि इति युक्तम्, रूपादिमतस्तमसोऽपि दशमस्य दृश्यमानत्वा" (२१ पृ० ) दित्यग्रिमग्रन्थोऽपि सूपपनः । तस्मात् 'तमो दशमगष्यमिति' कस्य मतम् ?' इति प्रश्नो न युक्तः, 'तमो द्व्यमिति कस्य मतम्' इति प्रश्न एव- ज्यायान् । तमो द्रव्यं नीलरूपवत्वात् , क्रियावस्वाच घटवदित्यनुमानरूपयुक्तिरेव तमसो द्रव्यत्वसाधिका । तमसि द्रव्यत्वसाधकहेतुद्वयं न स्वरूपासिद्धम् , 'नीलं तमश्चल. ती'त्यवाधितप्रात्यक्षिकप्रतीतेः । एतन्मतं दूपितमित्यम्-तमसः प्रौढ़प्रकाशक- तेजःसामान्याभावाऽभिन्नत्वादेवोपपत्तौ द्रव्यान्तरकल्पनमयौक्तिकम् । ननु रूपादिमतस्तमसः कथमभावस्वरूपत्वमिति चेत्, तमो न रूपवत् भालोकसंयोगं विनापि चक्षुर्ग्राह्यत्वात् , भालोकाभाववदित्यनुमानेन तत्र रूपव.

( २२ ) भिन्नत्वस्यैव सिद्धः । न चैवं 'नीलं तमश्चलती'ति प्रतीतेः का गतिरिति देशनीयम् , निरुक्तबाधकस्य जागरूकत्वेन 'नीलं नम' इति प्रत्ययवत् वेगवद्वास्पशकटारूढस्य वृक्षश्चलतीति प्रत्ययवच्च 'नीलं तम' इति प्रत्ययस्य 'चलति तम' इति प्रत्ययस्य च भ्रमत्वात् । क्षित्यादिनवद्व्येषु तमसोऽन्तर्भावो न सम्भवति, गन्धाभावलिङ्गेन तस्य क्षितिभिन्नत्वसिद्धः, नीलरूपवत्वलिङ्गन च जलाद्यष्टकान्यतमभिन्नत्वसिद्धेरिति तमोदव्यत्ववादिभिस्तस्य वैशेपिकमते दशमद्रव्यत्वमाशङ्कितम् । प्र० (४५) अन्धकाराऽभावस्य तेजस्त्वाङ्गीकारे को दोषः ? क० सं० ए० १९२६) उ० (४५) अन्धकाराऽभावस्य तेजस्त्वाङ्गीकारे उष्णस्पर्शभास्वररूपबुद्धिरनुप. पन्ना स्यात् , अभावे गुणवत्ताऽसम्भवात् । 'उष्णं तेज' इत्येप प्रत्ययो भ्रमरूप इति न शक्यते वक्तुम् , कचित् प्रसिद्धस्यैवाऽन्यत्र भ्रमसम्भवात् ; न हि उष्णस्पशों द्रव्यान्तरे प्रसिद्धो यत् तस्याऽन्धकाराभावरूपे तेजस्यारोपः स्यात् । नाप्युत्तरकाले वाधज्ञानं येन ताशप्रत्ययस्य भ्रमत्वमगीकरणीयम् । एवञ्च तेजसोऽन्धकाराभाव- रूपत्वे उष्णस्पर्शस्य भास्वररूपस्य च निरालम्बनतापत्तिः । तदाश्रयतया द्रव्या- न्तरकल्पने च गौरवं स्यात् । प्र०(४६) 'स्पर्शानुमेयो घायुरिति । अत्र काऽनुमानप्रणाली ? प्रत्यक्षस्पर्शाश्रयत्वेन वायोः कथं न प्रत्यक्षत्वम् ? (क० सं० ए० १६१६) (४६) महत्त्वोद्भूतरूपवद्व्यसंयोगाऽसमानकालीनप्रत्यक्षविषय. स्पर्श. पृथिव्याद्यष्टद्रव्यातिरिक्तव्यसमवेतः पृथिव्याधष्टद्रव्याऽसमवेतत्वे सति द्रव्यसमवेतत्वादिति परिशेपानुमानात् पृथिव्याद्यष्टद्रव्यातिरिक्तं वायुनामक नवमगव्यं सिध्यति । प्रत्यक्षस्पर्शाश्रयत्वेन वायोः प्रत्यक्षत्वं न सिध्यति, उपाधेर्जागरूकत्वात् । उपाधिश्वोदभूतरूपवत्त्वम् । प्र० (४७) मनसोऽणुत्वे किं मानम् ? तस्य विभुत्वे वा का हानिः ? (क० सं० ए० १६१६) उ० (१७) मनः अणु विभुभिन्नत्वे सति नित्यपरिमाणाश्रयत्वात् , परमाणु- वदित्यनुमानेनैव मनसोऽणुत्वं साधनीयम् । मनसि विभुमिन्नत्वञ्च-मनो न विभु भात्मसंयुक्तत्वात् , घटवदित्यनुमानेन सिध्यति । नाऽयं हेतु: स्वरूपासिदः, भावकाय॑मात्रस्य त्रिविधकारणजन्यत्वनियमेत आत्ममनःसंयोगरूपाऽसमवायि. कारणासम्बलने ज्ञानाऽनुत्पत्तिप्रसक्तः । न च विमुद्वयसंयोगोऽस्तु, इति वाच्यम् , तत्संयोगस्य नावाऽसम्भवात् ज्ञानजनकीभूतपुरीतव्यतिरिक्तप्रदेशावच्छिमाऽs ट.

. ( २३ ) रमनःसंयोगस्य सर्वदेव जागरूकत्वेन सुपुप्त्यभावप्रसङ्गात् । नित्यपरिमाणाश्रयत्व- मपि मनसो निस्यद्व्यत्वेन कल्पनीयम् । मनसो विभुवे च सर्वेन्द्रियसन्निकृष्टान्मनसः सर्वेन्द्रियकमेकमेव ज्ञानमुत्प. येत, न तावत् सामग्री विरोधाऽविरोधमाकलयति, येन चाक्षुषत्वरासनत्वादि. विरोधाय विभ्येत् । अधिकं ३, पृटेऽनुसन्धेयम् । प्र० (४८) परिमाणस्य किं लक्षणम् ? तश्च कतिविधम् ? (क० सं० ए० १६१६) १० (४८) (११) संख्यकोत्तरं द्रष्टव्यम् । प्र० (४६) किं करणलक्षणं तर्कसंग्रहकदभिमतम् ? तत्रत्यपदा. नाञ्च का व्यावृत्तयः ? ( क० सं० ए० १६१६, १६२१) ४० (४९) 'असाधारणकारणम् करणम्' इति तर्कसंग्रहकारः । ईश्वरस्तज्ज्ञाने- च्छाकृत्तयः दिक्कालाऽदृष्टप्रागभावा इत्यष्टौ साधारणकारणानि । तत्वञ्च कायंत्या- वच्छिन्नकार्यतानिरूपितकारणत्वम् । असाधारणकारणत्वञ्च कार्यस्वातिरिक्रधर्मा- वच्छिन्नकार्यतानिरूपितकारणत्वम् । व्यापारवत्वे सतीति पूरणीयम् । व्यापार वत्त्वं च जनकतासम्बन्धेन । व्यापारत्वञ्चान जनकत्वमात्रम् , न तु तजन्यत्वे सति तज्जन्यजनकत्वरूपम्, गौरवात् । एवञ्च ननकतासम्बन्धेन स्वजनकवत्वे सति स्वाऽसाधारणकारणत्वं स्वकरणत्वमिति फलितम् । व्यापारवारणाय सत्यन्तम् । कुलालपितुरीश्वरादिसाधारणकारणानाञ्च निराकरणाय विशेष्यदलम् । यत्तु 'दीपिकाप्रकाश' (नीलकण्ठी) कारैः "न्यापारत्वेनाभिमतेन्द्रियसंयोगादिक- मेव करणम् । एतच्च 'लिङ्गपरामर्शोऽनुमानम्' इति मूल एव स्फुटीभविष्यति ।" इत्यभिहितम् , तच्चिन्त्यम् , “तत्करणमिन्द्रियम् । तस्मात् इन्द्रियं प्रत्यक्षप्रमाण. मिति सिद्धम् ।" इत्यमिममूलग्रन्थविरोधापत्तेः । नन्वेवमपि घटादिविषयस्यापि चाक्षुषप्रमा प्रति करणस्वापत्तिः, तस्य जन- घटचक्षुःसंयोगरूपस्वजनकवत्त्वात् , प्रत्यक्षे विषयस्य कारणस्वाच्छति चेत् , अत्र केचित-कारणतायां तादात्म्यसम्पन्धानवच्छिन्नत्वं निवेश्य विषये करणत्वं निराकार्यमिति वदन्ति । तन्न समीचीनम् 'तन्तुभि. पटं करोती'त्यादौ करणी भूततन्तुष्वव्याप्तिः तन्न तादात्म्यसम्भन्धानवच्छिन्न कारणावविरहात् । व्यापारसम्बन्धावच्छिन्नकारणत्वं करणत्वस्वरूपमिति नृसिंहप्रकाशिका । एवञ्च न विषये करणस्वापत्तिः, विषयस्य व्यापारीभूतसम्पन्धेन कारणत्वाभावात् । यद्वा तद्विशिष्टजनकताश्रयत्वं तत्करणत्वम् । वैशिष्ट्यञ्च स्वनिरूपितत्वस्वजन- कनिर्वाझावोभयसम्बन्धेन । तथा च चक्षुनिष्ठजनकतायां चाक्षुषप्रत्यक्षनिरूपितत्व. स्य तज्जनकनिर्वाह्यत्वस्य च सत्त्वात्तत्र लक्षणसमन्वयः । विपयनिष्ठजनकत्तायां , कतासम्बन्धेन ( २४ ) संयोगनिर्वाह्यत्वाभावास विपयेऽतिप्रसक्तिः । निर्वाहात्वं निर्वाह करवश्व स्वरूप. सम्बन्धविशेषः। प्र० (५०) दण्डरूपादेखि कपालसंयोगस्यापि कथं नाऽन्यथा- सिद्धत्वम् १ तस्यापि कपालेन सहैव पूर्ववृत्तित्वावगमात् । उ० (५०) स्वातन्त्र्येण तत्कार्यनिरूपितान्वयव्यतिरेक्शून्यत्वे सतीति विशेष. जान्नोत्तापचिः। अन्वयः स्वाधिकरणे कार्यसत्त्वम्, व्यतिरेका स्वाभावाधिकरणे कार्यासत्त्वम् । अन्वयव्यतिरेकयोः स्वातन्त्र्यञ्च स्वभिन्नप्रकृतकार्यकारणान्वयव्यति- रेकाप्रयुक्तत्वम् । दण्डरूपादीनामन्वयव्यतिरेको स्वमिन्नस्य घटात्मकप्रकृतकार्य- कारणीभूतदण्डस्यान्वयव्यतिरेकप्रयुक्तौ । स्वाश्रयाश्रयत्वसम्बन्धेन दण्डरूपादि- सत्वस्य दण्डसत्त्वाधीनतया तेपासन्यथासिद्धत्वम् , कपालसंयोगस्य च न तथा, तस्य कारणान्तराघटितसाक्षात्समवायसम्बन्धेनैवान्वयव्यतिरेकात् । कारणाऽन्तराऽवटितसम्बन्धेन नियतान्वयव्यतिरेकशून्यस्वे सति येन सदैव यस्थ पूर्ववृत्तित्वावगमः; तदन्यथासिद्धम् । दण्डरूपस्य स्वाश्रयाश्रयत्वसम्बन्धेनैवान्वयः व्यतिरेकयोर्गृहीततया तस्य दण्डरूपकारणान्तरघटितत्वम् । सत्यन्तमात्रोको चक्षु- पोऽपि चाक्षुपं प्रति भन्यथासिद्धिः स्यात्, चक्षुःप्रतियोगिकसंयोगस्य चाक्षुपं प्रति कारणतया तत्सम्बन्धेनैव चक्षुषः कारणत्वात् । अतो विशेष्यदलम् । प्र० (५१) सर्वेषां कार्याणां समवायिकारणमस्ति न वा, सुस्प- टमुत्तरं क्रियताम् । (क० सं० ए० १६१६) उ० (५1) 'यत् समवेतं कार्यमुत्पद्यते तत् समवायि कारणम्' इति लक्षणात् ध्वंसाधसमवेतकार्याणां समवायिकारणं नास्ति । प्र० (५२) करणकारणयोर्लक्षणं लिख । (का० हि. वि. वि० १९२०) (५२) करणलक्षणं (१९) संख्यकोत्तरे कारणलक्ष गञ्च (१९) संहा. तथा च कोत्तरे द्रष्टव्यम् । प्र० (५३ ) व्याप्तिज्ञानमनुमितावसमवायिकारणं निमित्तकारणं वा ? तयोश्च फस्य किं लक्षणम् ? (क० सं० ए० १९२६) उ० (५३) व्याप्तिज्ञानमनुमितौ निमित्तकारणम् , आत्मविशेषगुणानां कुत्राप्य- समवायिकारणत्वाभावात् । तथा चोक्तं भाषापरिच्छेदे-“अथ वैशेपिके गुणे । आत्मनः स्थानिमित्तत्वम् ।" ननु भात्मविशेषगुणानामसमवायिकारणत्वे का हानिन हि शपथमात्रेणैव वस्तुसिद्धिः स्यादिति चेत्, न, स्वसमवायिकारणे प्रत्यासन्नं सत् स्वविनाशक्षणो. पन्नकार्यकं यद् यत् तदन्यत्वस्यैवाऽसमवायिकारणतयाऽऽत्मविशेषगुणानामसम.

( २५ ) वायिकारणस्वाऽसम्भवात् । असमवायिकारणलक्षणं (२०) संख्यकोत्तरे द्रष्टव्यम् । समचायिकारणत्वाऽसमवायिकारणत्वभिन्नकारणस्वं निमित्तकारणस्य लक्षणम् । प्र० (५४) गगनपरिमाणं कारणं न वेत्यस्य सयुक्तिकमुत्तरं कार्यम् । (क० सं० ए० १९२३) उ० (५४) विषयतया षड्विधप्रत्यक्ष समवायस्वाश्रयसमवायस्वाश्रय. समवेतसमवायायतमसम्बन्धेन महत्वस्य कारणस्वेन शब्दप्रत्यक्षे गगनपरि- माणस्य कारणत्वमावश्यकम् । कार्यतावच्छेदककोटी श्रावणाऽन्यत्वप्रवेशे गौरवात् । यद्यपि “कारणत्वचाऽन्यत्र पारिमाण्डल्यादिभ्य इति प्रशस्तपादभाष्यध्या. ख्यानावसरे-“भादिग्रहणात् परममहत्त्वं गृह्यत" (३० पृ०) इति किरणा- बलीग्रन्यसन्दर्भण परममहत्परिमाणमपि न कस्यचित् कारणमित्युदयनाचार्याणा- माशयो लभ्यते, तथापि ज्ञानातिरिक्त प्रत्येव परममहत्त्वादीनामकारणवमाचार्या भिप्रेतम्, "कारणत्वञ्च ज्ञातृधर्मेतरकार्यापेक्षये" ति पूर्वग्रन्थस्वारस्यात् । 'शात. धर्माः' ज्ञानादयः, तदतिरिक्तभावकार्य प्रति कारणत्वं पारिमाण्डल्यादिभिन्नानां साधय॑मिति तदर्थः । तथा च शब्दप्रत्यक्षस्य ज्ञानस्वेन तं प्रति गगनपरिमाणस्य कारणत्वेऽपि न क्षतिः । [(५३) (५४) संख्यकप्रश्नौ 'भापापरिच्छेदे' 'सिद्धान्तमुक्तावल्या' वा समी- चीनी, न तु तर्कसंग्रहदीपिकायाम् । प्र० (५५) कति प्रमाणानि ? तेषां किं सामान्यलक्षणम् ? स्मृति- करणं प्रमाणं न वा ? नो चेत् तत्र को हेतुः ? (क० सं० ए० १९२६) ४० (५५) प्रत्यक्षानुमानोपमानशब्दभेदात् प्रमाणं चतुर्विधम् । करणं प्रमाणमिति प्रमाणसामान्यलक्षणम् । 'यथार्थानुभव एव शास्त्रे प्रमा इत्यु. ध्यत' इति दीपिकाकारलिखनात् स्मृतौ प्रमात्वं नास्तीति प्रतीयते । तथा च स्मृतिस्वं न प्रमावृत्ति कारणीभूतज्ञानविषयविषयकमात्रवृत्तिजातित्वात् , इच्छात्व- वदित्यनुमानेन .स्मृतित्वे प्रमावृत्तिस्वाभावः सिध्यति । अतः स्मृतिकरणस्य न प्रमाणलक्षणाऽऽक्रान्तत्वम् । स्मृतिकरणस्य प्रमाणत्वे "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानी"ति (११७३) पारमर्षसूत्रविरोधोऽपि द्रष्टव्यः । प्र० (५६) निर्विकल्पकशानं कीडशम् १ तत्र च किं प्रमाणम् ? (क० सं० ए० १९२३) उ० (५६) 'इदं विशेष्यम्', 'इदं विशेषणम्', 'अयं संसर्ग' इत्येवं तत्सद्धर्मः प्रकारेण घटघटस्वतसंसर्गानवगाहि 'घटघटत्वे' इत्याकारकं ज्ञानं निर्विकल्पकम् । प्रकारतादिनिविधविषयतामध्ये एकस्या अपि तत्राऽसत्वात् प्रकारतागून्यज्ञानस्वं विशेष्यताशून्यज्ञानस्वं वा निर्विकल्पकस्य लक्षणम् । निर्विकल्पके प्रमाणमनुमान- प्रमायाः ?

( २६ ) रूपम् । तच्च-घट इति विशिष्ट ज्ञान विशेपणज्ञानजन्यं निशिष्टज्ञानत्वात् , दण्डीति ज्ञानवदित्येवंरूपम् । विशिष्टबुद्धि प्रति विशेषणज्ञानस्य कारणत्वादन्न नाऽप्रयोजक- त्वाऽवकाशोऽपि । प्र० (५७) अनुमापकलिङ्गं कतिविधम् ? उदाहरणप्रदर्शनपूर्वक- मुत्तरं कार्यम् । (क० सं० ए० १६१६, १६२१) उ० (५७)-६२, ६३ पृष्टे द्रष्टव्ये । प्र० (५८) आकाहायोग्यतासन्निधिश्च वाक्यार्थशाने हेतुरिति । आकाडादीनां हेतुत्वाऽनगीकारे को दोषः ? किं वा आकाहादीनां लक्षणम् ? (क० सं० ए० १९१६) उ० (५८) न हि प्रत्यक्षे महत्त्वस्येव शाब्दबोधे स्वरूपसत आकाङ्क्षादेः कार- णत्वम् , आकासादिभ्रमात् निराकासकादिवाक्यादपि शाब्दबोधानुपपत्तः । परन्तु भाकालादिज्ञानस्यैव शान्दवोधहेतुत्वमङ्गीकार्यम् । तदुक्तं दीपिकायाम्,-"भाका- झेति । भाकालादिज्ञानमित्यर्थः ।" आकासादिज्ञानानां वाक्यार्थज्ञानहेतुत्वानगीकारे तत्तज्ज्ञानविरहेऽपि निराकासवाक्यादितः शान्दवोधापत्तिः स्यात् । तेषां लक्ष- णाति च ७७ पृष्टे द्रष्टव्यानि । प्र० (48) कीदृशं वाक्यं प्रमाणम् ? वाक्यं कतिविधम् ? वाक्यस्याऽप्रामाण्ये को दोषः ? (क० सं० ए० १६१६) उ० (५९) भाप्तोच्चरितवाक्यं प्रमाणम् । भाप्तश्च प्रकृतवाक्यार्थविषयक यथार्थज्ञानप्रयोज्यशब्दोच्चारणकर्ता । भन्न प्रकृतवाक्यार्थज्ञाने यथार्थत्वं सर्वाशे भ्रमभिन्नत्वम् । तेन 'वहिना सिञ्चतीति वाक्यजन्यज्ञानस्य किञ्चिदशे प्रमात्वेऽपि न क्षतिः । तत्कालीनतत्पुरुषीयप्रकृतवाक्यत्वं तत्कालीनतत्पुरुषीयप्रमाणशब्दत्व- मिति पर्यवसितम् । वाक्यं द्विविधम्,-वैदिक लौकिकन्च । वाक्यस्याऽप्रामाण्ये जागतिकसर्व. व्यवहारविलोपापत्तिः स्यात । तथाच सर्वविधिनिषेधानां वाक्यात्मकतया भास्तिका अपि नित्यनैमित्तिकादिकर्माणि परित्यजन्तु, अनुतिष्ठन्तु च कलादिभोजनं ब्रह्म- हत्यासुरापानादिकञ्च । धर्माधिकरणिकाश्च दूरे प्रक्षिपन्तु विचारकार्याणि, तेषां मायाः साक्ष्यादिवाक्यमूलकत्वात् । नाप्यवधारयन्तु प्रत्नतत्त्वविद. प्राचीनतम- शिलालेखताम्रशासनादिपाठेन नवं नवमैतिहासिकं तत्त्वम् । नापि वणिजः पण्यानां क्रयविक्रयादिमूल्यवृत्तान्तमाकर्णयन्तः सावधाना भवन्तु वाणिज्येपु । नापि च प्रवासिनः प्रपन्नस्य पुत्रादेः पत्रादिपाठेन धनादिकं प्रेपयन्तु पित्रादिकाः । प्र० (६०) स्थितिस्थापकसंस्कारानङ्गीकार को दोपः १ (कर सं० ए०१९२१) - ( २७ ) उ० (६०) माकुञ्चितकटादौ मौ:न्यग्भावितधनुरादौ च पूर्वसंयोगवि. जातीयसंयोगनाशक पूर्वसंयोगसजातीयसंयोगजनकरूपः प्रत्यक्षसिद्धः स्थिति- स्थापकसंस्कारः कथं नाङ्गीकरणीयः ? प्रत्यक्षसिद्धोऽपि पदार्थों यदि नाङ्गीक्रियेत, तदा रूपादिकमपि नाङ्गीक्रियताम् । तथा च स्थितिस्थापकसंस्कारानङ्गीकारे प्रत्यक्ष. विरोध एव दोषः। प्र० (६१) कति संस्काराः ? तदनङ्गीकारे चं को दोषः ? (क० सं० ए० १९२३) उ० (६१) संस्कारनिविधः-वेगोभावना स्थितिस्थापकश्चेति । वेगानगीकारे क्रियाविशेषानुपपत्तिः प्रत्यक्षविरोधश्च, भावनानगीकारे च स्मरणानुपपत्तिर्दोषः । स्थितिस्थापकानगीकरणे च दोप. पूर्वोक्त एव । प्र० (६२) सामान्यविशेषगुणभेदकं सामान्यत्वं विशेषत्वञ्च कीदृशम् ? (क० सं० ए० १६२६) उ० (६२) यद्पावच्छिन्नसमानाधिकरणं यत्किञ्चिद्व्यविभाजकोपाधिद्वयं तत्तद्रूपभिन्ना या जातिः तदाश्रयमिन्नत्वमेव गुणगतसामान्यत्वम् । स्थिति. स्थापकसंस्कारस्य पृथिवीमात्रवृत्तित्वमते तु जातो स्थितिस्थापकवृत्तिभिन्नत्वमपि निवेशनीयम् । गुणगतविशेपरवञ्च तादशजातिमत्त्वम् । केचित्तु भाकाशास्मान्य- समवेतवृत्तिपाजावृत्तिसांसिद्धिकद्रवत्वावृत्तिगुणवृत्तिजातिमत्त्वे सति भावना. न्यत्वं सामान्यगुणत्वम्, विशेषगुणत्वञ्च मनोवृत्यन्योन्याभावप्रतियोगितावच्छेद कतावच्छेदकगुरुत्वद्वत्वावृत्तिगुणविभाजकजातिसांसिद्धि कद्रवत्वत्वभावनात्वान्यतः मवत्त्वमित्याः। प्र० (६३) जातेः कि लक्षणम् ? कति च जातयः ? (क० सं० ए० १९२३) उ० (६३) स्वाभिमतार्थव्याघातकस्वोत्तरवाक्यत्वं जातेलक्षणम् । ताश्च साध- यसमादयश्चतुर्विशतिः । प्र० (६४) 'सर्वेषां पदार्थानामत्रैवान्तर्भावात् [नां यथायथमुक्त- वन्तर्भावात् ] सप्तैव पदार्था इति सिद्धम्' इत्यत्र सर्वेषां पदार्थाना. मित्यनेन येषां ग्रहणं ग्रन्थकृभिमतं तेषां नामानि लक्षणानि चोक्का अन्तर्भावरीतमश्च यथायथं प्रय॑न्ताम् । (क० सं० ए० १९२१) १० (६४) 'सर्वेषा मित्यनेन गौतमप्रोक्तप्रमाणादिषोड़शपदार्थानां ग्रहणं ग्रन्यकृवभिमतम् । तेषां नामानि लक्षणानि च ९५-९६ पृष्ठयोष्टन्यानि । प्रत्यक्ष- प्रमाणस्य द्रव्ये, अनुमानादीनां गुणे, प्रमेयेषु भारमशरीरेन्द्रियाणां द्रव्ये, भर्थस्य गन्धरसरूपस्पर्शशब्दरूपस्य गुणे, बुद्धगुणे, मनसो द्रव्ये,प्रवृत्तगुंणे, दोषाणाम् ( २८ ) ईच्छाहेपमिथ्याज्ञानस्वरूपाणां रागद्वेषमोहप्रतिपाद्यानां गुणे, मरणानन्तरभावि जननं प्रेत्यभावः, तथा च चरमप्राणशरीरसंयोगध्वंसरूपमरणस्य अभावे, भाद्य- शारीरमाणसंयोगरूपनननस्य गुणे, सुखदुःखसंवेदनस्वरूपस्य फलस्य गुणे, दुःखस्य गुणे, आत्यन्तिकदुःखनिवृत्तिरूपस्यापवर्गस्य भभावे, ज्ञानात्मकसंशयस्य गुणे, सुखरूपम्य प्रयोजनस्य गुणे, दुःखामावरूपस्य तस्य अभावे, इच्छाविषयरूपप्रयो. जनस्य च यथायथं व्यादिपु, दृष्टान्तस्य सिद्धान्तस्य च द्रव्यादिषु, शब्दस्वरूप. प्रतिज्ञाद्यन्यतमात्मकावयवानां गुणे, व्याप्यारोपेण व्यापकारोपस्य तर्कस्य गुणे, प्रमाणफलरूपनिर्णयस्य गुणे, तत्त्ववुभुत्सुकथारूपवादस्य गुणे, विजिगीपुकथारूपस्य जल्पस्थ गुणे, स्वपक्षस्थापनाहीनाया परपक्षविदलनमात्रावसानाया विजगीपुकथारू. पाया वितण्डाया गुणे, भनुमिति तत्कारणान्यतरप्रतिवन्धकज्ञानविषयरूपाणां हेत्वा. भालानां यथायथं द्रव्यादिपु, दूपणामिधानविगेषरूपस्य छलस्य गुणे, असदु. तररूपजातेगुणे, वादिपराजयसम्पादकरूपनिग्रहस्थानाना यथायथं द्रव्यादिप अन्तर्भावो बोध्यः। अनन्यचित्तैरनिशं गुरूणामुपदेशतः। माला प्रजपनीयेयं परीक्षासिद्धिकामिभिः ॥ अनत्यसङ्केतविवरणम् का ग० ल० का०-काशी-गवर्नमेण्ट संस्कृत-कालेज । का० हि० वि० वि० काशी हिन्दू-विश्वविद्यालयः । क० सं० ए०-लकत्ता-संस्कृत एसोसिएशन ।

वर्णानुक्रमिकसूची ( Index) ३२ अप् १ ७४, ७५ १४ अग्राह्यत्वम् अजहल्लक्षणा अपक्षेपणम् ६ अज्ञानम् अपजयः अणु ३६ अपरत्वम् अणुत्वम् अपरम् ६. ९० अतिदेशः ७२ अपवर्ग: ९६ अतिम्यातिः अपसिद्धान्तः अत्यन्ताभाव: अपान: १३ अधर्मः ६, ८५ | अपार्थकम् ९६ अधिकम् ९६ अपूर्वम् अप्रतिभा ८२ अनध्यवसाय ९६ अननुभापणम् ९६ अप्रमा ८०, ८१, ८३ अनवस्था अप्रयोजकः ६७ अनित्यत्वम् अप्राप्तकालम् अनुपलब्धि. अबिन्धनम् अनुपसंहारी ६५ अभावः २, ७, ९३ व्यधिकरण- अनुभव: धर्मावच्छिन्नाभावविचार अनुमितिः ५५, ५६, ५७, ५०,५९ सामयिकाभावोऽप्यत्य- अनुमितिकरणम् ६१ न्ताभाव एव-९३, अभावो अनुव्यवसाय: न पदार्थान्तरमिति गुरुमत अनेकान्तिकः ६५ खण्डनम्-९३, अभावप- अन्धकारः [ तमाशब्दो द्रष्टव्यः] दार्थो न कणादाभिमत इति अन्ययाख्यातिः केषाञ्चिन्मतम्-९३, तन्म- अन्यथासिद्धिः तनिरसनम्-९३, अन्योन्याभावः ७,९३, ९४ अभावो वैद्यकशास्त्रानुमतः- अन्वयव्यतिरेकि ६२ ९९, कुमारिलमतेऽभावचातु- अन्वयध्याप्ति. विध्यम्-९४, न्यायमञ्जरी- ९३, ४ ४४ ३० १२ १ ६, ८८ काग्मते ममावप्रकारभेदवि. चार-९६, कन्दलीकात्मते अलीकप्रतियोगिकाभाव एवा. यन्ताभावः-१४, अमावो. पलब्धिविचारः ७९, ८० अयथार्थः अयुत्तसिन्दः अ. ४७,१८ अन्तरम् अर्धापतिः अमेसित्रिका अग्यवा: प्रमानपादमते अवयवनामा. नि ६०, पूर्वोत्तरमीमांसा- मनोभवयवाखयः ६०.द. मात्रयवादः ६०, उदाहरणो. पना हायवयवाविति सौग- सस्तन ६०. मनिशा हेतु कियनयमिरयातमनन ६०. अदरकामेव एरामादिषु अनिपादितम् ६० ५ आकाशम् ४, १५, आकाशस्य उत्पच्याशङ्का १६. तत्समा- धानम् १६.१७. आकाशस्य नित्यत्वसाधकं महाभारतव. चनम् १६.आकाशस्य विना- शिवानुमाने उपाधिः १६. शिरोमणिमते आकाशस्य न दन्यान्तरत्वम् १७. तन्मत. खण्डनम् आकृञ्चनम् आत्मा आत्मनो वैविध्यम् १८.जीवा- रमसु परमात्माऽनन्यत्वशा १९. तत्समाधानम् १९.२१, जीवादिपु ब्रह्मण पारमार्थिक. मेदसाधकानुमानप्रयोग. परमात्मा न विज्ञाना. नन्दादिस्वरूप, किन्तु तदा प्रय. २३. ईश्वरस्याप्टौ गुणा. २४. बातिन्मते. ईश्वरः पटगुगः २१. शन्दल्यां तन्म. तप्रदर्शनम् २४.नित्याविच्चा- সাবাশ্বার ধীরা चिनि तात्पर्य टीकाकारसिता. न्त २१. मगकारमने धर्म सुपपोरपि पिचरगुणाम २४. चान्ये घरगुगचं न्यायभा- पेपि प्रतिपादिकम, २५, रम्य धर्मपरमेश्ययन बनाया मिला, परचमाना गृही र २५, गदा गीति राममिला। " * སམག་ - ( ३१ ) ना ९९ ११ Mu ८, ९, १० ९ ईश्वरे नित्यसुखसत्त्वं दीधितिकार जगदीशमते नीलस्वादिव्याप. मुक्तावलीकारयोरनुमतम् २६, कमेकमेवोद्भूतत्वम् ईश्वरे परिमाणं नास्तीति उपनयः शिरोमणिमतम् २६. तत्त्वसा. उपमानम् ७२. वैशेषिकमते उप- रकारदर्शिततन्मतपरिष्कारः २६ मानमनुमानान्तर्भूतम् ७३. ईश्वरेच्छाया जन्यत्वम् २६. 'उपमानचिन्तामणी' उपमा- आत्ममात्र विशेषगुणाः नस्त्र प्रमाणान्तरत्वसाधनम् ७३ आधेयशक्तिः उपमिति आपः उपलब्धिः आप्तः ७३ उपादानम् आप्तवाक्यम ७३ उपाधिः ६९, ७०,७१.तर्कसंग्रह- आश्रयासिद्धः कृन्मते सोपाधिको हेतुा. इच्छा ६,८४, ८५ प्यत्वासिद्धः ६९. विश्वनाथ- इन्द्रियम् मते 'व्यभिचारस्यानुमानमु. इन्द्रियत्वम् पाधेस्तु प्रयोजनम्' ६९, ७०- इन्द्रियार्थसन्निकर्पः ४९. कौमारिल एकत्वम् ३६ मते सन्निकर्षप्रकाराः एकार्थसमवायः प्राभाकरमते सग्निकर्पभेदा. ४९. ऐतिह्यम् ईश्वर १९, २३, २४, २५, २६ कथा [ आत्मशब्दो द्रष्टव्यः।] करणम् ४३, ४७ ईश्वरत्वम् २३ कर्तृत्वम् २४ ईश्वरस्यापि प्रामाण्यम् ४३ | कर्म ६, ८८,१०३. कर्मणः परोक्ष उतक्षेपणम् स्वाशका ८८. तत्समाधानम् उत्पत्तिविनाशक्रम. ८८, कर्मणोऽपि मोक्षसाधन उदर्यम् १२ स्वाशका १०३. तत्समाधानम् १०३ उदाहरणम् कारणम् उदीची कारणविभाग उद्भूतत्वम् ३६. नीलकण्ठमते कार्यम् उद्भूतत्वस्य जातित्वम् ३६. काल १७ कालस्य दिशश्च द्रव्या विश्वनाथमते उद्भूतत्वं न न्तरत्वं न कणादाभिमतमिति नातिः किन्तु अनुद्भूतत्वमेव, सिद्धान्तखण्डनम् तदभावश्वोद्भुतत्वम् २६ केवलव्यतिरेकि ६,८८ १७ ४४. १७, १८ ६२, ६३.

( ३२ ) वाणम् १२ केवलन्यनिरक्रियम् ६३ কালজি केवलान्वयित्रम् गन्धः ६, ३३ ममते गन्धन्निविधः३३ चित्रगन्धस्वीकारास्वीकारपक्षः ७ यमनम . चतुरणुकम् चलनम् चित्ररूपम् चेष्टा ७९ चेटाया मानान्तरत्वख- पहनम् ९५, १६ जलम्, पाश्चात्य वैज्ञानिकमते जलस्य पदार्थान्तरताखण्ड. नम्, ११. तन्लतनिरसनम् ११. तन्मतनिरसने 'चन्द्र कान्तीयभाष्य सिद्धान्त. जल्पः ९", ९६ जहदजदक्षणा १५, ७५ गुग ६,३१,३३,३७,३९, १० गुगवत्वं द्रव्यसामान्यलक्षणम् ५ एकावंसमवायसम्बन्धेनैव गुगेषु गुमध्यवहारोपपत्तिः ", गुणेषु समानजातीयगुणाल. भार पर फाणादमिन्दान्त हनि न्यायमरीकारमतम् । নানামঃবিননন- निरसनपुर सरन्चमतोपपाट. नम् .. ६. रसुन्वन्दुम्दक हिनावादीनां न गुगान्तरण ग. दीपिकाकारमने मदुरब- मशिनगारपरसंगोगवितो. ६. मुशायरे भगदमपन्यन्य गदुः टिनायो: करावा. माधापना ६. ལགཙཀུ7 f?དyireut• Tीयमिगि का मान, म":"rfine गुर : 12.rri,Bi जारलक्षणा जानिः जीवात्मा 11, ५९, २० जीवा मना नानावप्रतिपादनम् भानम् ४० ज्ञानमेय मोक्षसाव. नम् १०२.जानरमंगो: मान- जयस्य मोक्षसाधनलागला ०३. समाजानम् १०३ शामिनापिकापीमा मोक्ष पत्याहा १०३तसमाधान १०३, १०, नामशानमन- गापि प्रयागरण मोर বাসিন্নাসঘাত , महारयोरप्रिहार गनant, ४. या पदारमते T मंदिर . .

( ३३ ) ८०१८॥ १२ - तकः ८१, ८२ पक्षः ६४ तेजः, तेजो न पदार्थान्तरम् इति पक्षता ५६ पाश्चात्यसिद्धान्तः, १२. तत् पक्षधर्मता सिद्धान्तविचारः १२. सुव पक्षामासाः ६८ देस्तैजसत्वम् १२, १३. पदार्थाः २, ३, ९५, ९७. सुवर्णस्य पार्थिवत्वानुमानम्, भट्टमते पदार्थाः ९७. प्राभा. तस्य पार्थिवत्वाऽमुपप- करमते पदार्थाः ९७. महार्णद. त्तिः १२. तेजसस्तमोऽभा. कारमते पदार्थाः ९७. बौद्धानां वस्वरूपत्वाशी मतभेदाः ९७. वैद्यकशास्त्रसते ज्यणुकम् पदार्थाः सप्तविधाः त्वक परतस्त्वम् परत्वापरत्वे दिव्यम् परामर्शः ५५, ६१. तस्य करण. दुःखम् ६, ८४ त्वम् ४३, ६१ तस्य व्यापार- दृष्टान्तः ५६ त्वम् ४३, ६१, ६२, कन्द- दोष. ९६ लीकारमते परामर्शस्य नानु- ध्यणुकम् मितिकारणत्वम् द्रवत्वम् ३९ । परार्थम् ५८, परार्थानुमानस्य शाब्द. द्रव्याणि स्वाशङ्का ५८. तत्समाधानम् ५९ भट्टमते द्रव्याण्येकादशविधानि९७. ! पर्यनुयोज्योपेक्षणम् चरकमते द्रव्याणि नवैव पाः ३५ पोकतत्त्वनिर्णयः ६, ८४, ९६ पार्थिवेन्द्रियम् धर्म ६, ८५ पुनरुक्तम् ध्वनिः पृथक् त्वम् ३६ प्राभाकरमते कार्य- निग्रहस्थानम् द्रव्येषु पृथक्त्वं नास्ति ३६, नित्यत्वम् भद्वैतवादिनस्तु पृथक्त्वं नाम निमित्तकारणम् गुणान्तरं परमार्थतो नानुमः निरनुयोज्यानुयोगः न्यन्ते ३७, शिरोमणिमते निरर्थकम् पृथक्त्वं न गुणान्तरम् ३७ निर्णयः ९६ | पृथिवी निर्विकल्पकम् प्रतिज्ञान्तरम् ९६ न्यूनम् ९६ | प्रतिज्ञासन्यासः ९६ १५ ५५, ५६ ४ hur . ९६ ८७ ( ३४ ) १७ - ७, ९२ १२ ७७ ६,८५ ८७ ७४, ७५ प्रतिज्ञाहानिः ९६ | यथार्थानुभवः ४२ प्रतीची योगः प्रत्यक्षम् योगजधर्मः ५४, ५५. बौदजैनैरपि प्रध्वंसः योगिप्रत्यक्षमझीकृतम् प्रमा ४०, ८१, ८३. योगरूढ़िः प्रमाणम् योग्यता प्रयत्न रसः ६, ३३, आईतमते रसः प्रवृत्तिः पञ्चविधः भाकट्यम् रसनम् प्राची ९६ प्रागमावः ७, ८२ | दिः प्राणः १३ रूपम् ३१. रूपविभागे वैशेषिक प्रेत्यभावः नानामतानि ३२. तत्राह: बाधित: तमतम् ३२. तत्र भमतम् ३३ बुदिः लक्षणा भावना लघुत्वम् ६, ३८, तस्य गुणान्तर• भूतत्वम् त्वाशङ्का ३८. तत्समाधानम् मतानुज्ञा ३८.तस्य गुरुत्वाभावरूपत्वम् । मन. ३०. मनसो विभुत्वानुमानम् लिङ्गम् ३०. तत्र दोषः ३०. मनसोड लिङ्गपरामर्शः ६१, न केवलमुद- विभुत्वे गीतावचनम् ३०. यनाचार्यमते, सूत्रभाष्यकारा वैद्यक्रमते मनसोऽणुत्वम् ३० दिमतेऽपि लिगमेवाऽनुमिति- महाप्रलय: करणम् ६१, ६२. लिङ्गकरण- मूतत्वम् १६ तावादिभिरपि वचित्परामर्श मृदुत्वम् ६ तस्य संयोगात्मकत्वम् स्यापि कारणत्वमङ्गीकार्यम् ६२ ६, तस्य स्पर्शगतजातित्वम् ६ लौकिकम् मोक्षः १०१, १०२, १०३ मत. वाक्यम् विशेष मोक्षपदार्थाः १०२ वादः काशीप्रयागमरणे मोक्ष चायुः, १३. वैशेपिकमत एव वायोः विचारः १०२,०४. स्पर्शाऽनुमेयरवम् १३.न्याय- मोक्षः मते वायोः प्रत्यक्षवम् १३, यथायः १४. एकस्यैव वायोः शरीरे- ७७ ( ३५ ) सन्न १५ ५ ८१, ८२ ६, ३७ स्थानभेदेन प्राणापानादिसंज्ञा न्याप्तिः ६३. वायोरनुमानप्रकारः १३, व्याप्तिज्ञानम् १४. वायोः प्रत्यक्षत्वाऽनुमा. शक्तिः ३, ७४, ८७, ९७ नम् १४. तत्र उपाधिप्रदर्शनम् शन ६,३९, ५०, ७८.शब्दस्य १४. जैननये पायो रूपादि- द्रव्यत्वसाधकानुमानम् ३९. मत्वाऽनुमानम् १५. तत्रोपाधिप्रदर्शनम्३९.कालि- उपाधिसमुद्भावनम् दासमते बादस्याकाशसम- विक्षेपः ९६ वेतत्वम् ३९, वैशेषिकमते वितण्डा ९६ वीचीतरङ्गन्यायेन शब्दोत्पत्तिः विधिः ५०. न्यायमते कदम्बगोलक विपक्षः न्यायेन तदुत्पत्तिः ५५, वेदा- विपर्ययः न्तमते शब्दप्रत्यक्षनिरूपणम् विभागः ५०,५१.तन्मतखण्डनम् ५१. विभुत्वम् जैनमते शब्दः सावयवा ५२, विरुद्धः ६८ तन्मतनिराकरणम् ५२. न्या विशेषगुणस्वम् यमतसिद्धशब्दोत्पत्तिप्रकारे विशेषगुणाः पूर्वपक्षः ५३. तत्समाधानम् विशेषाः ७, ९०.विशेषाणां खण्ड- ५५. शब्दोन प्रमोणान्तरमि- नम् ९१. तेषां पदार्थान्तरता- त्याशङ्का ७८, तत्समाधानम् साधनम् ९१ ७८,तत्समाधाने जगदीशादि- वीचीतरकन्यायः मतम् वेगः ९६ शरीरम्, वैशेषिकमते तस्य प्रका- वेदः ७७, ७८. पौरुषेयत्वा- रभेदः ८.वृक्षादीना पारीरवि. नुमानम् शेषत्वे उदयनाचार्य्यमतम् ८. वैदिकम् तत्र भागमानां प्रमाणत्वम् वैशेषिकगुणा. न्यायवैशेषिकदर्शनयो. व्यअना रुदयनाचार्य्यात् प्राक् वृक्षा- व्यवहार दीनां सजीवत्वव्यवस्थाना. व्यापार ऽसद्भाव: ९, प्रशस्तपाद. व्यापारत्वम् भाष्ये शरीरनिरूपणाऽवसरे व्याप्यत्वासिद्धः ६९, तर्कभापाक- वृक्षादीनामनुल्लेखः पृ० ९. मते तस्य द्वैविध्यम् तात्पर्यटीकायां वृक्षादिप्वति- ७८, ७९ वेदस्य ७७ - ७७ ९. ४० ६२ ४७ ७० ( ३६ ) सिद्धान्तः ६, ८४ ८६, ९७ ३ ८३, ८४ २ ८० ७२ १०० व्याप्तिमिया शरीरलक्षण परिष्कारः १०. तथैव न्याय सुखम् मञ्जाम् १०.न्यायकन्दल्यां सुपुतिः वृक्षादीनामचेतनत्वप्रतिपाद- स्थितिस्थापकः नस् , १०, आईतमते वृ. स्नेहः ६,३९ क्षादीनां सात्मकत्वम् १०. स्पर्शः ३३. जैननये स्पर्शोऽष्टविधः सौगतसिद्धान्ते तद्विपरीतले- ३३. पदार्थदीपिकाकारमते स कोमल कठिनचित्रभेदादनेकधा खः १०. सुश्रुतमते वृक्षादी- ३३, स्पर्शस्य पाजत्वे पूर्व- नां स्थावरान्तभूतत्वम् १०. पक्षः ३४. तस्य पाजत्व- चरकनये वनस्यत्यादीनासौ. साधनम् द्भिदविशेषत्वम् , स्मृतिः शुद्धिः स्मृतेः प्रमाणान्तरत्वाशङ्का संग्रह तत्समाधानम् संज्ञा स्वस्तवम् स्वतोग्रामम् संज्ञी ७२ स्वत्वम् सनिधिः स्वरूपासिद्धः संयोगः३७.मीमांसकमतेसंयोगः स्वार्थम् प्रत्याश्रयं भिन्नः ३७ हेत्वन्तरम् हेत्वाभासत्वम् ६६ संस्कारः ६, ८६ हेत्वाभासाः ६५, ९६. गौतममते स्ल प्रतिपक्षः ६८ हेत्वाभासानां नामानि ६५. सपक्षः वैशेपिकमते हेत्वाभासाश्च- समवायः स्वारस्तेषां नामान्युदाहरणानि समवायिकारणम् च ६५, ६६, सौगतमते सम्भवः हेत्वाभासास्त्रयः ६६, तथैव श्वताम्बरतये६६, दिगम्बरमत सध्यभिचारः ६५ हेत्वाभासाश्चत्वारः ६६.सम्र- माधारण: योजकाभिधानषष्ठहेत्वाभास- सामान्यम पादः ६७. तन्मतनिरसनम् सामान्यगुणाः ६७. भासर्वज्ञमतेभनध्यव. स्लामान्यलक्षणा ५४, ५५. 'कणा- सितस्यापि हेत्वाभासान्तर- दरहस्य'कृन्मते सामान्यल- त्वम् ६८. तन्मतखण्डनम ६८. कीमारिलमते हेत्वाभा. क्षणा विशेषणाताविगेप एव साश्चत्वारः ur ९६ संशयः ८१ ४५ सविकल्पकम् ४७ ६७ ८७ ६८ ( ३७ ) ५५ १४ ૮૨ ९७ ५५ ५२ 'ध्रुवपदा' समुद्धृतग्रन्थनामानि अद्वैतवादखण्डनम् १९ / नैपधीयचरितम् अनुमानचिन्तामणिः २५ न्यायकन्दली १०,१६,२४,३४ अष्टसहस्त्री ८३ / न्यायप्रदीपः आत्मतत्वविवेकदीधितिः २६ / न्यायविन्दुः १०,५५ आप्तमीमांसा न्यायमञ्जरी ५,१०,१३,२६ उपमानचिन्तामणिः न्यायलीलावतीप्रकाशः कठोपनिपद् ३० न्यायवैशेपिकतत्वम् कणादरहस्यम् न्यायसूत्रम् कण्ठाभरणम् ८२ | पदार्थतत्वनिरूपणम् १७,२६,३७ कालिकापुराणम् ९ पदार्थदीपिका काशीखण्डम् १०४ | पदार्थरलमाला किरणावली २,६,८,९ परीक्षामुखसूत्रम् किरणावलीप्रकाशविवृति. १०२ प्रभाकरविजयः गीता १६ प्रमाणनयतत्वालोकालकार: गौतमसूत्रम् ६५ प्रमेयकमलमार्तण्डः ५२ चरकत्तात्पर्यम् ३१ प्रशस्तपादमाप्यम् ८,९,३० चरकसंहिता ९८ फेलोशिपेर लेक्चार १७ छान्दोग्योपनिपद् ९ | भाषापरिच्छेदः २४,३० जाबालश्रुतिः १०३ | मनुस्मृतिः ९ तत्त्वसार: महाभारतम् तत्त्वार्थसूत्रम् मानमेयोदयः ३०,३३,५७ तत्त्वार्थराजवार्तिकम् ३३ / मायावादनिरासः १,२३ तन्त्रसार २० मुण्टकोपनिषद् २०,२१,२३ तर्कामृतम् ३ | मुक्तावली ६,८,१४ तात्पर्यटीका १०,२५,२७ / मुक्तावलीप्रकाशः तार्किकरक्षा १३,१८ | मुक्तिवादः १०४ तैत्तिरीयोपनिषद् १६,२३ | रघुवंशम् दीपिकाप्रकाशः ६१,८९ | रत्नाकरावतारिका ५३ देवीमाहालयम् रत्नावली (प्रश्नोत्तरमालायाम्) | राजवार्तिकम् १५,३३ निष्कण्टका ६२ | पाक्यपदीयम् ४३,४९ ४,९ ( ३८ ३९ ७९ 22. ३६ २० ८,१८,२३,३० सुश्रुतसंहिता ७ ३ २४ ११ वात्स्यायनभाप्यम् शाकुन्तलम् विशेपव्याप्तिः ९५ शास्त्रदीपिका विष्णुधर्मोत्तरम् ६० श्लोकवार्तिकम् वीरमित्रोदयः ६०१ सरस्वतीकण्ठाभरणम् बृहदारण्यकोपनिषद सामान्यलक्षणा वेदान्तपरिभाषा सिद्धान्तलक्षणम् २४,५१ वैशेषिकसूत्रम् शब्दशक्तिप्रकाशिका ७८ | सूक्तिः 'ध्रुवपदा' समुद्धृतग्रन्थकारनामानि अक्षपादः न्यायमञ्जरीकारः अकलङ्गदेवः न्यायलीलावतीकृत. आहताः १०,१५ न्यायवार्तिककृतः उद्योतकरः पक्षिलस्वामी उपरकारकृतः १८,२३ । पाश्चात्यवैज्ञानिकाः कणादसूत्रविवृतिकारः पाश्चात्त्या: कणादाः प्रकाशकृतः फिरणावलीकारः ६, १६ प्रशस्तपादाचार्यः कीमारिलाः ३० भाभाकरा: गशोपाध्यायः भासर्वज्ञाः भूषणः गदाधरभट्टाचार्यः रास्तालदासः गुरुचरणाः सल्लिनाथः यक्रदत्तपाणिः ३१,९२ चन्द्रकान्ततर्कालङ्कारः महार्णवकाराः चन्द्रकान्तीयवैशेषिकभाष्यकृता मित्रमिश्रः चरकाः मीमांसकाः चार्वाकः २७ मुक्तावलीकृतः चिन्तामणिकारः २९ मुक्तावलीप्रकाशकारः जगदीशतर्कालङ्कार. वर्धमानोपाध्यायः जयन्तमा वाचस्पतिमिश्रः तर्ककीमुदीकृतः ३२ विश्वनाथः तात्पर्यटीकाकृत वेदान्तिनः तुतात भट्टाः व्रजकुमारविचारतः धर्मकीतिः श्रीधराचार्यः न्यायप्रदीपकारः ४६ | सर्वदर्शनसंग्रहकारः स्यायमाप्यकृत सुश्रुतः ८९ १९,२९ ४ ६८ ८२ १ १७ ६० ६ १ ९ ११ ૨૪ . विदुषामभिमतानि हिन्दू विश्वविद्यालयीय-प्रो-भाईस्-च्यान्सेलार-पदमलङ्कुर्वतां भीमताम् भानन्दशकरध्रुव एम० ए०, एल एल० वी० आई० ई० एस० महोदयानामभभिमतम्- BENARES HINDU UNIVERSITY, BENARES. 11-1-30. Pandit Hariharjı has read to me some portions of his commentary on "Tarka-Samgraha" I have much pleasure in recommending his work to all students of Sanskrit Nyaya. A special feature which I have observed in the work is the up-to-date manner in which the subject has been treated, for example, Pandit Hariharji has noted the views of Buddhist and Jaina logicians as disclosed in recent publications of these important schools of Indian logic. The style of his work is really charming. Sd / A. B. Dhruva, Pro-Vice-Chancellor.. , काशीस्थ-राजकीय प्रधान-संस्कृतपाठशालाध्यक्षाणां श्रीमद्गोपीनाथकविराज एम० ए० महोदयानामभिमतम् - GOVERNMENT SANSKRIT COLLEGE, BENARES. 14-5-1930 I have great pleasure in going through the pages of Pandit Harihar Sastri's edition of Tarka Sangraha' and "Tarka Dipika' by Annam Bhatta, with Govardhana Misra's 'Nyayabodhiri' and the editoi's own commentary, called. U ( ४० ) J. 'Dhruvapada'. As an elementary work on Tarka. Sastra, the popularity of Annam Bhatta's booklet is probably second to none in this part of the country, and a good edition of this work, prepared on modern critical lines and furnished with a historical introduction and an exhaustive index verborum, has long been felt to be a desideratum among the Sanskrit students Pandit Harihar Sastri must be congratulated on having succeeded in supplying this need. The value of the edition has been greatly enhanced by the addition of the new commentary, which consists of occasional notes, most interesting and illuminating, on important points zelating to the text. These editorial potes, culled from a wide range of literature and written in a simple and lucid style, are likely to prove useful, not only to the junior students for whom they are meant but even to more advanced scholars, Sd / Gopinath Kaviraj, M. A. Principal. कलकत्तानगरीस्थ-राजकीयसंस्कृतपाठशालीय भूतपूर्वप्रधानाध्यापकानां हिन्दू विश्वविद्यालय प्राच्यविद्याविभागाध्यक्षाणां महामहोपाध्यायश्रीमत्प्रमथनाथत्तकभूषण. महोदयानामभिमतम्- पण्डितप्रवरेण श्रीमता हरिहरशास्त्रिणा विरचितां ध्रुवपदां नाम तर्कसंग्रहस्य विवृति सम्यगालोच्य परां प्रीतिमवाप्तवानस्मि । यद्यपि तर्कसंग्रहस्य व्याख्यानन्धाः पपिडतकुलधुरीणविरचिता बहवः समुपलभ्यन्ते येषां समुपादेयता सवैरेव सार- ग्राहिमिद्विवयः सप्रशंसावादमङ्गीक्रियते, तथापि एतस्या विवृतेः साम्प्रतं विशेपेणावश्यकता प्रेक्षावद्भिः सहृदयः सबैरेवानीकर्तव्येत्यस्मिन् विपये नास्ति ममाणुरपि सन्देहावसरः। सर्वथा भस्या विवृते. प्राचीनमतपरिचायिका शैली यथास्थानमपेक्षियुक्त्यवतारणप्रणाली च सहृदयानां शास्त्ररहस्यत्रुभुत्सूनां नितरां मुदं विधास्थतीति अस्ति मे सुदृढी विश्वास इति शम् । श्रीप्रमथनाथतर्कभूषणशर्मणः . १ । - ( ४१ ) -- काशिकराजकीयसंस्कृतपाठशालीयप्रधानन्यायशास्त्राध्यापकानां महामहोपाध्याय- श्रीमद्वामाचरणन्यायाचार्यमहोदयानां मतम्- सुप्रसिद्धस्यागंभट्टप्रणीतस्य तर्कसंग्रहस्य ध्रुवपदाभिधाना व्याख्येयं श्रीमता हरिहरशास्त्रिणा समुपनिबद्धा । अस्यां च व्याख्यायां न केवलं न्यायवैशेषिकाद्यास्ति. कदर्शनाभ्युपगतपदार्थानां जैनबौद्धादिनास्तिकदर्शनाभ्युपेतपदार्थानामपि बहवो विचाराः समिबद्धा म्याख्याकृता । भाधुनिकमतवादोऽपि समीचीनरीत्या विचारितोऽनेन । एतद्ग्रन्थपालोधनेनैवैतत् सुस्पष्टं समवगमिष्यन्ति सुधिय इति बहुजल्प- नादिरम्यते । न्यायशास्त्रमधिजिगांतूनां छात्राणामेतग्रन्थाध्ययनेन भाष्य-वार्ति- कतात्पर्यटीका-न्यायकन्दली-किरणावलीप्रभृतिदुरूहग्रन्थाध्ययनपरिश्रममन्तरेणापि तत्सत्पदार्थावबोधो भविष्यतीत्यलमनल्पजल्पनेन । महामहोपाध्यायः श्रीवामाचरणन्यायाचार्य: ८ - हिन्दूविश्वविद्यालयीयप्रधानन्यायशाम्राध्यापकानां श्रीमतां श्रीशङ्करतरत्नमहोदयानां मतम्- मथ तर्कसंग्रहस्य श्रीहरिहरशास्त्रिणा प्रणीतेयम् । दृष्टा विवृतिरतीव प्रमुदितमनसा मयाऽमिनवा ॥ गौतमकाणादमतस्वीकृतविषयानवश्यबोद्धष्यान् । सुनिपुणरीतिविशेषैर्विवृतिकृदन प्रकाशयति ॥ बहुतरनिबन्धचर्चाफलमिव लभ्यं हि वैदुष्यम् । एतद्विवृतिविलोकै सुखेन विन्देत् सुधीवृन्दम् ॥ अणुरपि मम सन्देहो न विद्यतेऽस्मिन् यदेप सन्दर्भः । पाट्यग्रन्थेष्वचिरं स्थानं रुचिरं लभेतेति ॥ ४ ॥ श्रीश्रीशङ्करशर्मतरत्नस्य - , मुजाफरपुरस्थराजकीयसंस्कृतविद्यालयीयभूतपूर्वन्यायाध्यापकानां हिन्दूविश्वविद्यालयप्रधानवेदान्तशास्त्राध्यापकानां श्रीमहालकृष्णमिश्रमहोदयानां मतम्- कवितार्किकप्रवर श्रीहरिहरशास्त्रिप्रणीतां टिप्पणी तर्कसंग्रहस्यावलोक्य परमा- नन्दमनुविन्दामि । भत्र नवीनन्यायनिबन्धेषु प्रायेणाव-माना एव विषयाः पुरातननिवन्धेभ्यः सकलय्य प्रमातिशयेन शृङ्खलिता सुमनसो मालिका इव क ।

(४२ ) समन्ततः समुल्लसन्ति । बहुलेषु च स्थलेषु सौगताहतादीनामभिमतान्यपि विद्यन्तेऽपोद्यतया प्रतिपादितानि । लेखनक्रमोऽपि प्रौढिमानं भजमानो हृदयं द्योत- यन्नुपनयति शोभा सन्दर्भस्य । एतदवगमेन च व्युत्पत्तिवैशा सद्यः समुत्पत्तुमीष्टे नान लेशतोऽपि संशयस्यावकाश इति । बालकृष्णमिश्रः "वाराणस्याम्, आश्विन बदि १ सं० १९८७ श्रीश्रीगौरकृष्णः शरणम् कलियुगजनपावनावतारजीवजीवातुपरमपुमर्थप्रेमवितरणपरायणमगच्छ्री- श्रीकृष्णचैतन्यचरणोपदिष्टैकवीथीपथिकश्रीमन्माध्वसम्प्रदायाचार्य- दार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्य्यतर्करनन्यायरत्न- गोस्वामिश्रीदामोदरशास्त्री- पूजनीयतमाभिनवाक्षपादावतारमहामहोपाध्यायन्यायरतश्रीराखालदास शर्म- भट्टाचार्यमहाशयान्तेवासिनाऽस्मत्सतीयंन पण्डितश्रीहरिहरशास्त्रिणा रचितां ध्रुव- पदाऽऽख्यां तर्कसंग्रहटीकाम् प्रायशो निरीक्ष्यावधार्य चातोन्यायवैशेषिकतन्तयोः प्रवि- विक्षुणा मनायासेन च तदीयमतप्रमेयपरिपार्टी जिज्ञासमानानां सामान्यतोऽवगत. तत्त्वानामप्यवान्तरविशेषमजिगमिपूणाच ज्ञानपटिमालकीणताम् प्रथमपरीक्षा- योग्यानां समुपचिकीर्पया मूलानुवादप्रश्नसंग्रहयोजनया च प्रसासद्यमानमानस: सम्मानयश्च ध्रुवपदाकर्तुः सर्वपथीनं व्युत्पादनपरिबढिमानम् , आशयानश्च जगदी. श्वराद प्रन्यतत्कर्लोानुदिनमुजिहानमभ्युदयम् , विरमति मुधाविस्तरादिति काम् ।" कलकत्ता-राजकीयसंस्कृतपाठशालीयप्रधानन्यायशास्राध्यापकानां महामहोपाध्यायश्रीमत्फणिभूषणतर्कवागीश- महोदयानां मतम्- काशीहिन्दूविश्वविद्यालयाध्यापकेन नानादर्शनसुपण्डितेन कविवरेण श्रीमता हरिहरशास्त्रिमहोदयेन विरचिता तर्कसंग्रहटिप्पणी विशेषेणावलोकिता मया । मन कणादगौतममतव्याख्याप्रसङ्गेन महता परिश्रमेण नानादर्शनमतभेदास्तथा प्राचामाचार्याणां मतभेदाश्च न्यायमीमांसादिनानाशास्त्राणां प्राचीननिबन्धेभ्यः सङ्कलय्य सविचार तथा प्रकटिता, यथेयं विदुषामपि बहुज्ञतालाभाय भविष्य. तीत्य नास्ति सन्देहः । मन्येऽयं तर्कसंग्रहो बहुत्र बहुटिप्पण्या समलकृतोऽभिनव- कलेवर इव विराजमानः सर्विद्वद्भिः सर्वत्र सोत्कण्ठं दर्शनीय इति । १५।९।३०. श्रीफणिभूषणतर्कवागीशः

Tark Sagrah

Author
Shrimadannmbhatt
Title
Tark Sagrah
File name
Tark Sagrah
Text
OCR done
Citation
1930
Published
2010/07
Publisher
Banaras, Nandkishor And Brothers Booksealars Chock
Language
Sanskrit
Pages
169
Library
Prakrit Bharati Academy, Jaipur
DLI number
327689
Barcode
99999990003272.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
cfPn1IOW8uz
Download PDF

Tark Sagrah