University Library,gurukul Kangri Vishwavidyalaya

प्रथमपुस्तकम्

Sharmaa Bhiimasen · 2005/11/21

PDF Proofread

Front matter

The Gurukula Sanskiit Series. (No. I). * ओ३म् * 00000000000000000 000 00000 गुरुकुलग्रन्थावलिः। 300000 → प्रथमोग्रन्थः म (स्तार प्रथमपुस्तकम्। गुरुकुलमुख्याधिष्ठातृ-श्रीमुन्शीराममहोदयनिदेशेन अर्गलपुरनिवासिश्रीपं भीमसेनशर्मणा निर्मितम् । यन्त्रालयस्थपण्डितैः संशोधितम् । तच पं०अनन्तरामशर्माप्रबन्धेन जालन्धरपत्तने मद्धर्मप्रचारकयन्त्रालये मुद्रितम् । संवत् १९६३ प्रथमावृत्तो १००० पुस्तकानि सार } मूल्यम् ) सार मछाछ एका All Rights reserved.

प्रथमपुस्तकम्
- प्रथमः पाठः
(पुंल्लिङ्गदेवशब्दस्य रूपाणि )
प्रथमावि द्वितीयात्रि० तृतीयावि० चतुर्थीविक
देवः देवम् देवेन
देवाय
देवी देवी देवाभ्याम् देवाभ्याम्
दवाः देवान देवैः देवेभ्यः
पञ्चमी वि० षष्ठी वि० सप्तमी वि० सम्बोधनम्
देवात् देवस्य देवे
हे देव
देवाभ्याम् देवयोः देवयोः हे देवी!
देवेभ्यः देवानाम् देवेषु हे देवाः!
गवं बुधादिशब्दानां रूपाणि ज्ञेयानि ॥
नघुमके फलादि शब्दाना, धनम्, धने, धनानि, इति
प्रथमाद्वितीययाविशेषः।

द्वितीयः पाठः- भ वि० (युष्मदस्मच्छब्दरूपाणि) त स्वम् त्वाम् त्वया तुभ्यम् युवाम् युवाम युवाभ्याम् युवाभ्याम् यूयम् युष्मान युष्माभिः युष्मभ्यम् पं० ष० स्वत् तव स्वयि युवाभ्याम् युवयोः युवयोः युष्मत् युष्माकम् युष्मासु स० प्र. दि० तृ० अहम् माम् मया मह्यम् ग्रावाम् आवाम् आवाभ्याम् आवाभ्याम् घयम् अस्मान् अस्माभिः अस्मभ्यम् पं० प० मत् मम मयि आवाभ्याम् आवयोः आवयोः अस्माकम् अस्मासु त्रिलिनेष्विमे सरूपाः ॥

तृतीयः पाठः
प्रागतः । पश्य। कृतम् । दत्तम् । प्रानय ।
मित्रम् । गुखः।
एतेषां पूर्वोक्तानां च भावार्थमवबुध्य निम्नलिम्वि-
तानां वाक्यानामार्यभाषां कुरु ॥
१-देवः, आगतः।२-मां पश्य। ३-त्वया कृतम् ।
४-देवाय दत्तम् । ५-देवात्' आनय ।६-तव मित्रम्।
७-युष्मासु गुणाः।
१०१ चतुर्थः पाठः
-:0:--
(सर्वनाम्नस्तच्छब्दस्य त्रिषु लिङ्गेषु रूपाणि)
(पुल्लिङ्ग)
प्र०
तृ०
तेन
द्वि०
तम्
तौ
तान्
च.
तस्मै
ताभ्याम्
तेभ्यः
तो
ताभ्याम्
ते
तैः

४ पं. तस्मात् ताभ्याम् तभ्यः तस्य तयोः तषाम् तस्मिन तयोः तेषु (स्त्रीलिङ्ग) भ द्वि तया ताम् ते त ताभ्याम् ताभिः तस्यै ताभ्याम् ताभ्यः त: पं० स० नस्याः तस्याः तस्याम् लाभ्याम् तयोः सयोः ताभ्यः तासाम् तासु (नपुंसके) छि० तत् तत् त ते तानि तानि शेषं पुंवत् ॥ एवं यच्छब्दः किं शब्दश्च ।।

• पञ्चमः पाठः-
वयं वदामः
( वर्तमानार्थे लटि रूपाणि )
म वदति त्वं वदसि अहं वदामि
तो वदतः युवां वदथः आवां वदावः
ते वदन्ति यूयं वदथ
एवं-हसति, रक्षति, पिवति, पतति, धावति,
आगच्छति, गच्छति, पठति, पृच्छति,नमतीत्यादयः।
अत्र कारकबोधः पुरुषबोधश्च कारयितव्यः ॥
एतेषां वाक्यानामार्यभाषयाऽनुवादः कार्य:-
१-अहं पठामि । ४-पावां नमावः।७-वयं पृच्छामः।
-सः पृच्छति।५-तो गच्छतः। ८-ते हसन्ति ।
-त्वं धावसि । ६-युवां पिषधः। ९-यूयं पतथ ।
षष्ठः पाठः >
आं,अत्र । तत्र । यत्र । कुत्र । एव । एवम् । उपरि ।
पुरतः । मा। अधः। च । अन्तः । बहिः । समीपम् ।
दरम् । न । तु । अच्छ । पृष्ठतः। बाढम् । क । कुतः।

EO
वर्तते वर्तसे
वर्त
वर्तते
वर्तेथे
वतीवर
वर्तन्ते वर्तध्वे
वर्तामह
एवं कम्पते, इत्यादयः ॥
एतेषामर्थज्ञानं सम्पाद्य निम्नवाक्यानामार्यभाषा कार्या!!
१-स वर्तते। ४-त्वं जानासि। ७-उपरि पश्य ।
२-दूर धावति। ५-तस्य स्मरासि। ८-पृष्ठतोगच्छ ।
३-किं कथयति । ६-अहं पालयामि।ह-ये रचन्ति
सप्तमः पाठः-
प्र०
म०
उ.
करोति
करोषि
करोमि
कुरुथः
कुर्वः
कुरुतः
कुर्वन्ति
(१)--जानाति, जानीतः, जानन्ति, जानासि, जानीथः, जानीय
जानामि, जानीव, जानीमः, पतानि ज्ञाघातोल किपाणि ।

(पुल्लिङ्ग इदंशब्दस्य रूपाणि) प्र० दि० इमम् इमो अयम् इमा इमे अस्मै त० अनेन प्राभ्याम् पभिः प्राभ्याम् इमान् एभ्यः पं० ष० स० अस्मात् प्रस्थ अनयोः अस्मिन् अनयोः प्राभ्याम् एभ्यः एषाम् एषु (स्त्री लिङ्ग) अस्य इयम इम इमाः द्वि० इमाम् इमे इमाः तृ० अनया आभ्याम् आभिः ग्राभ्याम् प्राभ्यः पं० स० अस्याः अस्याः अस्याम् अनयोः प्राभ्याम् अनयोः प्राभ्यः भासाम् मासु

८
(नपुंसके)
दि.
इदम् इदम्
इमे इमे
इमानि इमानि । शेषं पुंवत् ।
एतेषामर्थ हृदयङ्गतं कृत्वाऽपरेषामनुवादं कुरु ।
१-अहं करोमि। ६-वयं कुर्मः।
२-पृष्ठतः पश्यति । । ७-दरं तिष्ट।
। ८-बाढं दृष्टम् ।
४-प्राभ्यां दत्तम् ।
ई-कुत प्रागतः।
५-के कुर्वन्ति।
३-अनेन कृतम् ।
अष्टमः पाठः-
म०
अस्ति
असि
अस्मि
स्तः
स्वः
सन्ति
स्थ
स्मः
(१)-पूर्वमप्रदर्शितान्यपि कानिचित्पदानि सार्थ प्रबोधनीयानि।

च । न । एवम् । अां। अच्छ।तु । (कति)। तर्हि ।
शीघ्रम् । इति । धा । यदि । तदा । झटिति । मृषा।
अधुना । अपि । प्रायेण । हि । कदापि । भोः ।
अतीव ।
( एतदर्थोऽवगन्तव्यः)
१-त्वं कोऽसि । १०-देवदत्त! वृक्षःकम्पते।
२-अहमस्मि ब्रह्मचारी। ११-वायु श्चलति किम्।
३-यूयं किं कुरुथी। । १२-आँ! एव मेव ।
४-वयं नियमेन पठामः।
१३-विया पाठः पठितः।
५-मातापितरौ कथं वर्तेते। १४-मयाऽधीतः स्मृतश्च ।
-नैव जानामि।
१५-अत्र कति बाला:?।
तयोर्न स्मरथ । २६-साई शतम् ।
८-स्मरणं तु जायते। १७-किं किं पठ्यते।
-अच्छ! पठनं कर्तव्यम्। १८-उपयुक्तं सर्वमेव ।
नवमः पाठः 88
प्र०
उ०
(वदधातोलोटि रूपाणि । आशिषि)
म०
वदतु( वदतात् ) वद ( वदतात् ) वदानि
वदताम्
वदतम्
वदाव
वदन्तु
वदत
बदाम
एवं हसत्यादीनामपि पूर्वोकानाम् ॥

१० ( एतदषिोध्या) यावत् । तावत् । सुष्टु । मुहुः। यथा । तथा । इदानीम् । प्रति । अथ। अवश्यं । चेत् । पश्चात् । सह । सहसा। प्रातः । पुनः । उचैः। नीचैः । मिथः । नूनम् । १-त्वं मा वद। ११-गुरूणामुपदेशं श्रोतुम् । २-अहं किं वदानि । १२-किं श्रुतन्तत्र । ३-नहि, वयं वदाम। १३-युष्माभिः सत्यं ४-आगच्छत यूयं वदत। भाषणीयम् । ५-पूर्व जलं पियामः। १४-चित्तं च निरोडव्यम्। ६-यथेच्छत कुरुत। १५-सर्व निन्यं त्यजथ। ७-उत्तिष्ठ त्वं श्रावय।. १६-प्रत्यहमीश्वरं ध्यायथ। ८-शृणुत मम पाठम् । १७-सहसा न कुरुत। ६-अधुना भोजनस्य कालः १८-मिथाप्रेम्णा व्यव- ०-अद्य कगतः। हर्तव्यम् । ११ दशमः पाठः म. वर्तताम् वर्तस्व वत वतेताम वर्तेथाम् वर्तावहै वर्तन्ताम् वर्तध्वम् वर्तामह १-इदानीं स कथं वर्तताम् । २-मूर्खस्य मृत्युं यावत् क्लेशः ।

११
३-अहं सदाचारणावश्यं वः ।
४-अपि ते तत्र तिष्ठन्ति ?।
५-माम्प्रति किं वदन्तु ।
६-तेन सह वयं गच्छाम !।
७-मुहुः पाठो विचारणीयोऽस्ति ।
८-युष्माभिः परिमितमेव भोक्तव्यम् ।
९-अलसाः समय व्यर्थ नयन्ति ।
१०-प्रायेण न दुःखं वर्णिनाम् ।
११-ब्रह्मचर्यस्यातीव महिमाऽस्ति ।
१२-चेयूयं तथा वर्तध्वम् ।
१३-नूनं तावदुन्नतिः स्यात् ।
१४-स प्रातः पश्चादुत्थितः।
१५-देवदत्त ! साधु न पठसि ।
१६-त्वं तु सुष्टु वदसि ।
१७-सहसा कदापि न कर्तव्यम् ।
१८-स देवदत्त उच्चैः पश्यतु ।
१९-ते तु नीचैर्वर्तन्ते।
२०-पुनस्तेन किं कृतम् ।
२१-इमाः शाटिकाः सुष्टु परिधानीया।।
१२-त्वया ज्ञातं न वा ?।
?

एकादशः पाठः-
-
(विध्यर्थे लिजि रूपाणि)
म०
घदेत बदेः घदेयम्
षदेताम् वदेत वदेव
बदेयुः
वदेत वदेम
उ०
वर्तेत वर्तेथाः
वर्तेय
वर्तेयाताम् वर्तेयाथाम् वर्तेवहि
धर्तेरन् वर्तध्वम् घर्तमहि
(भविष्यदर्थे लुटि रूपाणि)
ज०
वदिष्यति वदिष्यसि वदिष्यामि
वदिष्यतः वदिष्यथः वदिष्याव:
बदिष्यन्ति वदिष्यथ वदिष्याम:
प्र०
म.
प्र०
वर्तिप्यते वर्तिष्यसे वतिष्पे
वतिष्येते वर्तिष्येये वर्तिष्यावहे
वर्तिष्यन्ते वर्तिष्यध्वे वर्तिष्यामहे
एवमन्येषामपि ॥

१३
१-स यदि शीघ्रं वदेत् ।
२-तर्हि केचन तमाद्रियेरन् ।
३-अहं न तथा वर्तेय ।
४-विदुषां रीत्या वयं वर्तेमहि ।
५-धीमन्त एव साधु वदिष्यन्ति ।
६-वयं मृषा न प्रवर्तिष्यामहे ।
७-यूयं किमिति झटिति वदेत ।
८-देवदत्त ! पाठं किं विस्मरिष्यसि ?।
-प्रातगुरखो नागामष्यन्ति ।
१०-धार्मिकं सर्वे नंस्यन्ति हि ।
११-वयं पुस्तकादिकं साधु रक्षेम ।
१२-असंयतानीन्द्रियाणि कुमार्गे धाविष्यन्ति ।
१३-किं व्यर्थ करौ चलिख्यतः ? !
१.४-वायुना वृक्षाः कम्पिष्यन्ते हि ।
१५-विदुषः मर्वे पूजयिष्यन्ति लोके ।
१६-ब्रह्मचारिणा धर्म न त्यक्ष्यन्ति ।
१७-सहायेन विना कि सेत्स्यति ।
५८-गुरुकुलस्थाः सर्वे धार्मिकाः भवेयुः।
१६-शुद्धचित्ता धार्मिका एव भविष्यन्ति ।
२०-किन्ते निन्द्यमार्गे प्रवर्तेरन् ।
२१-यमादानष्ठाः कुमार्गे न पतेयुः ।

१५
द्वादशः पाठः-
प्र०
म०
अवादीत् प्रवादी अवादिषम्
श्रवादिष्टाम् अवादिष्टम् अवादिष्व
अवादिषुः अवादिष्ट अवादिष्म
एवं-अपाठीत, अहसीत्, अधावीत्, अपातू, अनं.
सीत्' इत्यादीनि रूपाणि बोध्यानि ॥
म०
अवर्तिष्ट अवतिष्ठाः अवतिषि
अवर्तिषाताम् अवर्तिषाथाम् अवर्तिष्वहि
अवर्तिषत अवर्तिवम् अवर्तिष्महि
तदनु, प्राग, स्नातुम्, समाप्य, पीत्वा, अधीत्य,
पठित्वा, श्रुत्वा, इत्याद्यर्थो निर्देश्यः ॥
--
१-सुस्वरेण वेदं केचन वर्णिनोऽपाठिषुः ।
२-वेदा ईश्वरेण रचिता इत्यवादीत् ।
३-स विनयी खं गुरुमनंसीत् ।
४-कथं युष्माकं दिनचर्याऽभूत् ।
५-सूर्योदयात्मागुषसि उत्थीयते ।
६-उत्थाय पूर्व भगवतः स्मरणं कुर्मः।

७-सदनु शोधार्थमाक्षिामि सरगच्छामः ।
८-पुनर्हस्तौ प्रक्षाल्य मुखशुद्धिः क्रियते ।
९-यथास्थानं च व्यायाम कुर्वन्ति सर्वे ।
१०-अल्पवयस्काघ यथेच्छ क्रीडन्ति ।
११-ततः स्नातुं गङ्गाया उपरि गच्छन्ति ।
१२-सन्ध्यां समाष्याग्निहोत्रमनुतिष्ठन्ति ।
१३-मिलितानां ब्रह्मचारिणामुच्चस्तरेण वेदपाठः
शोभते।
१४-दुग्धं पीत्वाऽहरहः स्वाध्ययने प्रवर्तन्ते ।
१५-नियतसमयमधीत्य भोजनं कृत्वा विश्राम्यन्ति।
१६-पुनर्निर्दिष्टसमये पठित्वा बहिर्गम्यते ।
१७-तत्र किं कुर्वन्ति ।
१८-व्यायामादिकं सान्ध्यं कर्म च कृत्वाऽग्नि-
होत्रम् ।
१९-तदनु भोजनवेलाऽऽगच्छति।
o-पुनाराबावुपदेशादिकं श्रुत्वा शेमहे ।
२१-वयन्त्वन्यथा प्रावर्तिष्महि ।
२२-देवदत्तस्तथा प्रावर्तिष्ट ।
२३-मां दृष्ट्वा कदापि नाहसिषुः ।
२४-यूयं सज्जाः सन्तोऽधाविष्ट ।
२५-पश्य ! सोऽकाले जलमपात् ।

त्रयोदशः पाठः (कालज्ञानम्) १--अष्टादश निमेषाः काष्ठा इत्युच्यन्ते। २-त्रिंशत्काष्ठा कला इति त्रिंशत्कलाभिः क्षणो. भवति द्वादशचणैर्मुहर्तश्च । ३--पष्टिपलैरेका घटिका, ताभ्यां द्वाभ्यामेको. मुहत इत्यन्ये, ते तु प्रिंशदहोरात्रः । ४-तः सप्तभिरेकः सप्ताह इति । ५-पञ्चदशदिवसानामेकापक्षः। सद्विविधः। कृष्णः शुक्लश्च । ताभ्यां दाभ्यामेको मासः । द्वाभ्यां मासाभ्यामेकः ऋतुनिष्पयत । त्रिभितुभिर- कमयनम्।द्वाभ्यांताभ्यामेकं वर्षम् । एवं वर्ष प्रायो- द्वादश मासाः सन्ति । [तेषां नामानि चैत्रः १, वैशाखः २, ज्येष्ठः ३, प्राषाढः ४, श्रा- वणः ५, भाद्रपदः ६, आश्विनः ७, कार्तिकः ८, मार्ग- शीर्षः, पाषः १०, माघः ११, फाल्गुन १२, इति ।

-
[ ऋतवः षड् भवन्ति]
वसन्तः १, ग्रीष्मः २, वर्षा ३, शरद् ४, हेमन्तः५.
शिशिरः ६, इति ।
चैत्र वैशाखौ वसन्त इत्येवं यथाक्रम सम्बन्धः ।
६.-वाराः सप्त सन्ति, यथा:-
रविः, सामः २, मंगलः ३, बुधः ४, गुमः ५.
शुक्रः ६, शनिः ७।
७- ब्रह्मचारिन् ! वसन्ते कोकिलालापः श्रूयते ।
८--ग्रीष्मे धर्माधिक्यं जायते ।
९- वर्षासु मेघा इतस्ततो धावन्ति ।
१०--शरद्याकाशी निर्मलः सम्पद्यते।
११- हेमन्तौ हिमानि जायन्ते ।
२.-शिशिरे शीतद्रव्यं प्रवर्धते ।
१३--अस्माकं विद्यामन्दिरस्थाः वर्णिनः शीत.
कालेऽपि प्रातरेव स्नान्ति ।
१४--स्वधर्म पालयन्तः किं नाम कर्तु न प्रभवन्ति ।
* चतुर्दशः पाठः १
(अव्ययानि)
सर्वदा । चिराय । ईषत् । अन्तरा। अलम् ऋते

१८
युगपत् । पारात् । पृथक् । ह्यः । श्वः । मनाक ।
तुर्णाम् । पुरस् । मुधा । उभयेयुः। प्राक् । अर्वाक् ।
शनैः । सहसा । तिरम् । जातु । समन्ततः। पठितुम् ।
१-वयं सर्वदा परिमितं खादामः ।
२--यूयं चिराय क्रीडां मा कुरुत।
३- ईषदुपकारमपि बहुलं मन्यन्ते मजनाः ।
४. अन्तरा त्वा कमण्डलुर्वर्तते ।
५--बहुना धनेनालमिति बुद्धिनिरुद्योगिनाम् ।
६--विद्याया ऋते न काऽपि सुखम् ।
७--युगपदेव पुत्रौ लालयति ।
८-तस्मादारात्पुस्तकमानयापृथग्भूत्वा त्वमुपदिशा
ह-ह्यो यार्द्राः साधवः समागताः।
१०-३वो गणितं पठिता स्मो व्याकरणं च ।
११-सूदा [ रसोइए ] मनागुन्मनसः मंजाताः ।
१२--तूष्णीं भोक्तव्यं कोलाहलो न कर्तव्यः ।
१३-युष्माकं पुरो गुरवः किं वदिष्यन्ति ।
१४-मुधा समयोन यापनीयः ।
१५-किं भोः ! उभयेाविसृष्टि [छुट्टी रस्ति ।
१६-प्राग्ब्रह्मचर्यस्य प्रतिज्ञा कृता।
१७-अर्वाकाष्ठासनानि निर्मितानि ।
१८-शनैः२ कथनीयं येन स्खलनं मात् ।

१६-सहसा किमपि नाचरणीयम् ।
२०-गुरूणां पार्वे तिरोभूय न स्थातव्यम् ।
२१.- जात्वपि मृषा भाषणं न विधेयम् ।
२२-समन्ततो मेघा वर्षन्ति, विद्युच्च विद्योतते ।
२६-पठितुं त्वरस्व येनोपाध्यायस्तुभ्यं न कुव्यंत
पञ्चदशःपाठः >
१-पापण्यकः पण्यवाधिकायां (दुकान) वस्तुनि
विक्रीणाति ।
२-अस्मिन्नुत्सवे बह्वयस्स्त्रियां बालाइच समागताः।
३-महाशय ! हस्तौ प्रक्षाल्य भोजनं विधेयन।
४-अतिभोजनन्तु रोगस्य निदानम् ।
५-देवदत्त ! त्वं मिथ्यावादी न भवः ।
६-अन्यथा लोकानामविश्वासः स्यात् ।
७-इमे प्रस्तरफलकेषु किञ्चिल्लिखन्ति ।
८-चित्रकाराश्च निजकृत्यं कुर्वन्ति ।
-अस्माकम्पाठालये रुचिराः प्रतिकृतयः सन्ति।
१०-किन्त्वं निजवस्त्रं मृगयसे।

११-लेखनी मसिपात्रञ्च गृहीत्वाऽध्येतुं सजो.
भव।
१२-आर्यमर्यादा विपत्तावपि नोल्लंघनीया ।
१३-सहसा तमाहूय, वयं गच्छामः ।
१४-यदि यूयं धर्म त्यक्ष्यथ तर्हि दुःखभाजो-
भवेत्।
"८-युष्माभिः पठनसमये सावधानर्भवितव्यम् ।
१६-शिशिरकाले गङ्गाया जलमतीव निर्मलं
जायते ।
१७-वर्तुलकन्दुकं मयं रोचते ।
१८-ते रात्रौ काष्टशय्यायां स्वपन्ति ।
१०.-धर्मसमये शरीरात्प्रस्वेदो निस्सरति ।
२०-ब्रह्मचारिणस्तव क्रन्दनं नोचितम् ।
२१-अद्य मदीयोऽपराधो भवता क्षन्तव्यः ।
२२-अत्र हासस्थावसरो नास्ति ।
२३-मालिकः कुसुमानि चिनोति ।
२४-इमे सारथयः पशुकशया ताडयन्ति ।
२५-इदानीं भृत्येन षड् वादितानि !
२६-अतोऽत्र न निलम्बितव्यम् ।
२७-अस्मदूधटीयन्त्रं पञ्च पलान्यवशिष्टानि ।

२१
२८-एतेन वारवादेनालम् ।
२९-तत्र झटिति गन्तव्यम् ।
३०-तेऽपि तु श्रेणीबद्धाश्चलन्ति ।
३१-अद्य पूर्वमालेख्यं करणीयम् ।
३२-किन्त्वं मह्यं साहाय्यं दास्यसि ।
३३-अवश्यं दास्यामि यदि त्वं मया सह कलह
न कुर्याः ।
३४-यद्यहं तथा कुर्याम्, तर्हि गुरव एव मां
शिक्षयेयुः।
षोडशः पाठः।
(पश्वादिप्रकरणम्)
१--गावो वत्साश्च संसारमुपकुर्वन्ति ।
२--ताभ्यो जाता वृषभाः शकटं वहन्ति ।
३-धान्यक्षेत्रे च ते हलं कर्षन्ति ।
५--महिष्योऽपि दुग्धं बहु ददति ।
५- इमे महिषाः कर्णकटु शब्दायन्ते ।
६-उष्ट्राणां तेषां च स्वाभाधिकं वैरम् ।
-सर्वेषां पशूनां सिंहो राजा।

-शाल [स] स्तरचुध [चीता] ततो- ऽल्पक्लो ९--वन्या शूकरोती बलवान् । १०-गण्डकोऽपि [गैंडा] भयंकरो भवति । ११. भल्लूका [ रीछ ] वानराश्चापि वने निक- सन्ति । १२-शिवा [ गीदड़ी] कदाचिद्रात्रौ रौति । १३- श्वाविद्य साही गोधेरौ गोह] त्वया दृष्टौ। १४--अस्माभिस्तु धावन्तो मृगा दृष्टाः । १५-मकरी कोष्ठीकोली' इति ख्यातस्य संज्ञा १६-गोसदृशो गवय इति कथ्यते । १७--शशः स्वभावरमणीयो भवति । १८--कपोतपालिका गृहस्योपरितने भागे Tar Mus द्रष्टव्या १६--सरटः [गिरगट पल्ली [छिपकली] च क्षुद्र- जन्तून मारयतः। २०--लूता [ मकड़ी] निजष्ठीवनेन जालं रचयति २१--रात्रावुलूकः पश्यति। १२२--गन्धोल्या [प] वनमक्षिकया वादष्टोऽयम् । २३-चटका कुलायं निर्मायाण्डानि रचति ।

२४.-अजया सह मेषोऽपि चरति ।
२५-खजनः [गोरैया ] कीशो, जानासित्वं ।
२६-कुकुटाः प्रातः शब्दं कुर्वन्ति ।
२७-राजहंसास्तु ते चञ्चु, चरगलोहितःसिताः।
२८--दीपस्योपरि शलभा निपतन्ति ।
२९--वर्षासु खद्योता [जुगनू ] द्योतन्ते।
३०-अब्जानां गन्धेष्ठ मधुकरो [भ्रमर मुह्यति ।
३१--एतानि केषां नामानिः-मयूरः, खगः, तित्तिरिः,
मक्षिकाः, कुकुरः, गर्दभः, मतंगजः ।
३२-आत्मनो गुणदोषेण बध्यन्ते शुकसारिकाः।
सप्तदशःपाठः-
(भोज्यप्रकरणम्)
१-गोधूमस्प रोटिकाःप्रायो भुञ्जते ।
२-केचिद्रोगिणः कृशरा (खिचडी) सेवन्ते ।
३-किमय महानसे (पाकशाला) पायसं (खीर)
mmms
पक्कम् ।
४-पयसः फेनान्यपि मधुराणि भवन्ति ।
५-अतीव पकं दुग्धमेव किलाटकः (खोवा)
सम्पद्यते।

महा
fo
१-सन्तामिकाया (मलाई) मझ्या रुचि वर्तते ।
७-मह्यं दाधिकं वस्तु स्वदते।
८-तक्रण कथिता जायते ।
९-अस्यां वरिका (वडी) अपि दृश्यन्ते ।
१०-शकुलीसहशमाषोदरी (कचौड़ी) भवति।
११-इमाः कुण्डिलिन्यः (जलेबी) पिष्टिक्रया
निर्मिताः।
१२-सयावा (गूंझा) अपूपाश्चेभ्यो रोचन्ते ।
१३--केचन पावनालस्य (ज्वार) लप्सिकांविदधते।
१४-ग्रीष्मी रसाला (शिखरिन) सुखकरी।
१५-केचिच्च तस्मिन्शर्करोदकं पिबन्ति ।
१६-दुग्धा६नो वा नवनीत (मक्खन) मुत्पद्यते ।
१७-भ्रष्टाश्चणका 'होलका' इत्युच्यन्ते।
१८-भ्रष्टायवाः धानाः' इत्युच्यन्ते ।
१६-पर्वतीयदेशेषु कुलत्थान केचिदुपभुजते ।
२०-मिता शर्करा च गुडस्यैव विकारः ।
२१-गुडश्चेचुरसाज्जायते ।
२२-किन्त्वया विन्दुमोदका (बूंदीकेलड्डू)
भक्षिताः।
२३-हस्ताभ्यां ऋनीषमुत्तारयति ।
२४-दर्वी [कईली] कटाहे [कडाही] निक्षिपति।
(१)-'कढ़ी' इति भाषा ।

२५-स्पास्यामोदनं भुज्यते । २६-पानपात्रेण पानीयम्पीयते। ११ अष्टादशः पाठः- १-पक्कमानं बलं सुखं च ददाति । २-पानबीजं ( आमगुठली ) कषायं हृदयाय हितं च। ३-दुर्बलेन पनसं ( कटहर ) नातव्यम् । ४-पके कदलीफलं ( केला ) स्वादु शीतलं च । ५-नारिकेलो (नारियल) दरे फलं जलं च भवति । ६-तस्य जलं हृद्यं फलं तु दुर्जरम् । ७-कालिन्, (तरबूजा) शीतलं गुरु, पकं पित्त- लमपि । ८-खबूंजं मिष्टमेव बल्यम् । ९-बिल्व एव श्रीफल इति कथ्यते। १०-बिल्वफलमाम सेवनीयम् । ११-पुण्यपत्तने (पूना) नागरजा (नरंगी) भुक्ता। १२-जम्बूफलानि (जामून ) रुचिकराशि तानि । १३-बदुर, (बेर ) लघुमहदूभेदेन विविधम् । १४-तत्र लघु सर्वथाऽग्रायम् । ३ २३ Women १५-प्रियाल (पियाल ) पदमपीजं च किं खा- दितम् । १६-शृङ्गाटकं (सिंगाड़ा) जलस्य फलम् । १७-पूर्वदेशे केचन मधूक (महुआ) मभ्यवहरन्ति। १८-लवणजीरका मिश्रित मल्लिकारसं (इमली) पिव। १९-परूषक, (फालसा ) तूत, दाडिमा,एषु दा. डिमफलस्याधिका गुणाः। २०-बहुवारस्य (ल्हिसोड़ा) गुणा वैद्यात्प्रष्टव्या। २१-द्राक्षा द्विविधा-सबीजा अबीजा ( किस- मिस)च। २२-खर्जरिका (खजूर) त्रिविधा। भूमिखजूरि- का, पिण्डखजूरिका, खर्जुरी च । एतासु तृ- तीयस्या नाम छुहारेति प्रसिद्धम् । २३-अचोटः (अखरोट) वातादः, (बादाम) सेवं, अमृतफलं (नासपाती) च सुखप्रदमस्ति । २४-मधुकर्कटी ( चकोतरा) हिकां नाशयति । २५-निम्बुकमम्लं पाचनं दीपनं च । २६-अपृष्ट्वा नपुसं (खीरा) न सेव्यम् । २७-वीरिकायाः (खिरनी) कर्मरंगस्य (कमरख) च गुणान् जानासि ?।

१०१ एकोनविंशः पाठः »
-
१-कस्मिन्नगरे ते गृहं वर्तते ?।
२-लवपुरे यत्र बह्वयो रथ्याः (गली) सन्ति ।
३-वेणुकस्टकादीनां कृतेः “प्राचीर" मितिनाम ।
४-गङ्गातीरेऽनेके उटजा (मुनिस्थान ) आसन् ।
५-अहो पुरा भारते मठावेशन (शिल्पिशाला)
प्रपादयो (जलशाला) बहवोऽभूवन् ।
६-वातायन ( झरोखा) मिवान्तारं (खिड़की)
प्रतीयते ।
७-प्रघणे (दर्वाजे का कोठा)तस्य पादः स्खलितः।
८-पटले (छत) द्वारे वा निःश्रेणिः(सीढ़ी)स्यात् ।
९-अर्गलं कपाटमवरुणद्धि ।
१०-शोधन्याऽवकरो (कूड़ा) बहिनिष्कासनीयः ।
११-वेदिकायां पङ्को वर्तते ।
१२-चुल्ल्या उपरि ऋचीषं ( तवा) रक्ष ।
१३-अङ्गारधानिकायां (अंगीठी) वन्हिरस्ति ।
१४-प्रास्तरण (बिछौना) स्योपरि, उपधानं
रक्षणीयम् ।
१५-चालनी शुर्प (छाज) चादाय धान्यं शोधय ।
१६-घटीयन्त्रं कङ्कतं (कङ्गी ) चैकत्र वर्तते ।

JAPA Rinama १७-व्यजन (पंखा)मानय, उष्णताऽधिकास्ति । १८-पर्वते मयूरो नृत्यति, न था। १९-पटोलः (पर्वल) कारवेल्लच (करेला) को भवतः? २०-अस्यामुपवाटिवायां कानि२ भवन्ति । २१-शृणु-मूलकं, कूष्माण्डकः, वास्तुकं, (बथुआ) कर्कटी(ककड़ी)तुम्बी, पलाण्डुः,(प्याज) शत- पुष्पा (सौंफ) दयः । २२-अस्यां नमी खदिरवृक्षाः (खैर ) गोक्षुरका- श्च (गोखरू) यह भवन्ति । २३-निवः पिप्पलोषटश्चन दृश्यते,शाल्मलीवृक्षा- (सैमर ) बहन भान्ति । २४-जन्तुफलस्य (गूलर ) पर्णानि वल्कल वा कीदृग् । २५-वने, ओषध्यो लता (बेल) गुल्मादयश्च शोभन्ते। २६-होमाय समिधो घृतं चाहर । २७-वृन्तं, (जिसमें फूल बँधे ) कोरका, (कली) स्तयकः (गुच्छा ) इमानि केषां नामानि ।

२९ 49 विंशः पाठः - (संख्याप्रकरणम्) १-एकः। २-हो । ३-त्रयः। ४-चत्वारः । ५-पन्च । ६-षट् । ७-सप्त। ८-अष्टौ ( अष्ट) । -नव । १०-दश । ११-एकादश । १२-बादश । १३-त्रयोदश । १४-चतुर्दश । १५-पञ्चदश । १६- षोडश । १७-सप्तदश । १८-अष्टादश । १९-एको- न विंशति (नवदश)। २०-विंशति । २१-एकविं- शति । २२-दाविंशति । २३-त्रयोविंशति । २४- चतुर्विशति । २५-पञ्चविंशति । २६-षड्विंशति । २७-सप्तविंशति । २८-अष्टाविंशति । २९-एकोन- त्रिंशत् (मवविंशति ) । ३०-त्रिंशत् । ३१-एक- त्रिंशत् ३२-बात्रिंशत् । ३३-त्रयस्त्रिंशत् । ३४- चतुस्त्रिंशत् । ३५-पञ्चत्रिंशत् । ३६-पत्रिंशत् । ३७-सप्तत्रिंशत् । ३८-अष्टात्रिंशत् । ३९-एकोन- चत्वारिंशत् (नवत्रिंशत् )। ४०-चत्वारिंशत् । ४१-एकचत्वारिंशत् । ४२-विचत्वारिंशत् (बाच- स्वारिंशत् )। ४३-त्रिचत्वारिंशत् (त्रयश्चत्वारिंशत्) ४४-चतुश्चत्वारिंशत् । ४५-पञ्चचत्वारिंशत् ।

४६-षट्चत्वारिंशत् ४७-सप्तचत्वारिंशत् । ४८-अष्ट चत्वारिंशत् (अष्टाचत्वारिंशत् )। 18-एकोनप- उचाशत् (नवचत्वारिंशत् ) । ५०-पञ्चाशत् ५१-एकपञ्चाशत् । ५२-द्विपञ्चाशत् । ५३-त्रिप- उचाशत् (त्रयःपञ्चाशत् )। ५४-चतुष्पञ्चाशत् । ५५-पच्च पञ्चाशत् । ५६-षट्पञ्चाशत् । ५७- सप्तपञ्चाशत् । ५८-अष्टौ पञ्चाशत् । ५९-एकोन- षष्टि (नवपञ्चाशत् )। ६०-पाष्ट । ६१-एकषष्टि ६२-द्विषष्टि । ६३-त्रिषष्टि । (प्रयःषष्टि)।६४- चतुष्षष्टि। ६५-पञ्चषष्टि। ६६-षट्षष्टि । ६७- सप्तषष्टि। ६८-अष्टषष्टि । ६६-एकोनसप्तति (न- वषष्टि)। ७०-सप्तति। ७१-एकसप्तति । दिसप्तति । ७३-त्रिसप्तति ( त्रयस्सप्तति)। चतुस्सप्तति । ७५-पञ्चसप्तति । ७८-षड्सप्तति । ७७-सप्तसप्तति । ७८-अष्टौसप्तति । ७९-एकोनाशी- ति (नवसाति)। ८०-अशीति। ८१-एकाशीति । ८२-व्यशीति । ८३-व्यशीति। ८४--चतुरशीति।८५- पञ्चाशीति । ८६-षडशीति। ८७-सप्ताशीति । अष्टाशीति । ८६-एकोननवति (नवाशीति)।९०. नवति । ९१-एकनवति । १२--बिनवति ।९३--त्रिनव- ति (प्रयोनवति)। १४--चतुर्नवति। ९५--पञ्चन- ७४- वति। ९६. षण्णवति। ९७- सप्तनवति । अष्टन. वति ।-नवनवति [एकोनशतम् । १००..शतम् । २००-वेशते। ३००.-त्रीणि शतानि । ४००--चत्वारि शतानि । ५००-पञ्च शतानि । ६००--षड् शतानि । ७००-सप्त शतानि ।८००-अष्टौ शतानि । ९००-नव शतानि । १०००-सहस्रम् । एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः । अवुदमन्जं खर्वनिखर्वमहापद्मशंकवस्तस्मात् ॥ जल- धिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः। संख्यायाः स्थानानां व्यवहारार्थ कृताः पूर्वैः ॥ १॥ इति बोध्यम् ॥ शुभम् ।

No text on this page.

प्रथमपुस्तकम्

Author
Sharmaa Bhiimasen
Title
Prathamapustakam`
File name
प्रथमपुस्तकम्
Text
OCR done
Citation
1906
Published
2005/11/21
Publisher
Anantaraam Sharmaa Sadharm Paraaccharak Yantraalay Jaalandhar
Language
Sanskrit
Pages
33
Library
University Library,gurukul Kangri Vishwavidyalaya
Classification
LANGUAGE LINGUISTICS LITERATURE
DLI number
477122
Barcode
99999990172950.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
VMLT id
ckRauEiBwtx
Download PDF

प्रथमपुस्तकम्