Indian Institute Of Technology Kanpur
Shrirudrabhashyam
Front matter
श्रीरुद्रभाष्यम्॥
श्रीमत्परमहंसपरिव्राजकसार्वभौम
श्रीमद्वैतमतप्रतिष्ठापन
श्रीमदभिनवशंकराचार्यः
विरचितम् ।
ग
श्रीरङ्गनगरे
श्रीवाणीविलासमुद्रायबालबे
संमुद्रितम् ।
१९१३.
Copyright Registered.
PREFACE. HIS excellent commentary was printed some time ago in Grantha characters by the late Mahamahôpadhyâya Vedantakesari Brahmaşri Ganapati Şastrigal of Pañgånad. Since it is more elaborate and helpful than that of the famous Şri Vidyâranya and since it even criticises the latter in some places, I thought it could be very usefully included among the Sastra Booklets that are issued from the Sri Vani Vilas Press and thus made available for a larger Public The author of the commentary is stated to be one Abhinava Şañkara whose identity is not quite clear. But I am led to consider him as one with the Guru of Veñkatapâtha, the author of Brahmanandagirithe most excellent commentary on the Bhagavad Gita, .published some months ago in the Sri Vani Vilas Sastra series. Veñkatanatha speaks of his Guru as Abhinava Sankara Rama Brabmånanda and mentions a work named Påsbandagajakesari as his. This commentator also is named as Ahbipava Şañkara and he also mentions the above work as his (vide p. 77). It is quite probable that the two Abhinava Şañkaras were one nd same and that Veñkatanatha wrote commentary on the Påsbaņdagajakesari of his Guru. a
ii
These are but sarmises and we have to reste satisfied
with them till any manuscript of Pashandagajakesari
is found out. I would be very thankful if any of the
numerous readers of this book who come across such
manuscript, kindly send the same to me.
&
Thelbelasıbsalumsuygens
॥श्रीरु भाष्यः॥ उपोद्धातः॥ ईशानः सर्वविद्यानामीश्वरो निखिलात्मनाम् । जयत्वखण्डसर्वज्ञो जगदादिगुरुः शिवः ॥ १ ॥ प्रसाधितयजुःशाखं प्रपद्ये शतरुद्रियम् । सारमुद्धृत्य रुद्राणां सम्यग्व्याख्या विधीयते ॥२॥ भसितकवचितानां बद्धरुद्राक्षदाना- ममृतकिरणमौलेरतिमूले स्थितानाम् । प्रतिदिनशतरुद्रप्रभशुद्धाशयाना. ममरपतिनुतानामस्मि दासानुदासः ॥ ३ ॥ इह किल श्रुतिस्मृतीतिहासपुराणप्रसिद्धमेव श्रीरुद्रोपनि- षदः सर्ववेदोत्तमत्वम् । तथा हि जाबालोपनिषदि तावत्-- R. B. 1 श्रीरुद्रभाष्यम् । . अर्थ हैन ब्रह्मचारिण ऊचुः, किं जप्येनामृतत्वं ब्रूहि' इति मोक्षसाधनजप्यप्रश्ने ‘स होवाच याज्ञवल्क्य: शतरुद्री- येणेति एतानि ह वा अमृतस्य नामधेयानि एतैर्ह वा अमृतो भवति' इति शतरुद्रीयशब्दवाच्यश्रीरुद्रोपनिषदः प्राधान्येन मोक्षसाधनत्वं प्रतिपाद्यते । शतं रुद्रा देवता अ. स्येति शतरुद्रियम् ; 'सास्य देवता' इत्यधिकारे 'शतरुद्रा. द्वश्च' इति सूत्रेण शतरुद्रशब्दाद्देवतार्थे घप्रत्ययस्य चकारेण छप्रत्ययस्य च विधानेन शतरुद्रियं शतरुद्रीयमिति रूपदयस्य वैयाकरणैर्युत्पादनात् । शतपदं चानन्त्यपरम् , 'शतमनन्तं भवति' इति श्रुतेः, 'विश्वं शतं सहस्रं च सर्वमक्षय्यवाचकम्' इति महाभारतवचनाच्च । अनन्ताश्चेह रुद्राः प्रतिपाद्यन्ते, 'सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम्' 'ये चेमां रुद्रा अभितो दिक्षु श्रिता: सहस्रशः' इति श्रवणात् । मन्त्रप्रति. पाद्यतया तेषां देवतात्वम् , ' मन्त्रवाच्यार्थो देवता' इति निरुक्तकारवचनात् । यद्वा रुद्रस्येदं रुद्रीयम् ; 'वृद्धाच्छ:' इति छप्रत्ययः; तथा घप्रत्ययश्च, केवलादपि रुद्रशब्दात्संब- न्धार्थेषु घप्रत्ययस्य ‘या ते अग्ने रुद्रिया तनूर्यथातोकायम्' इत्यादिषु दर्शनात् । एवं च रुद्रीयपदं रुद्रसंबन्धि श्रीरुद्रो- पनिषत्परम् ; शते शाखासु पठ्यते रुद्रीयं शतरुद्रीयम्। तदुक्तं उपोद्धातः । स्कान्दे सूतसंहितायाम्- 'शतशाखागतं साक्षाच्छतरुद्री- यमुत्तमम् । तस्मात्तजपमात्रेण सर्वपापैः प्रमुच्यते' इति । भट्टभास्करेणाप्युक्तम्-- 'एकशतं यजुःशाखास्तासु रुद्रो- पनिषदानायते' इति । अथवा रुद्रस्येमानि रुद्रीयाणि रुद्र- नामधेयानि, शतमनन्तानि रुद्रनामधेयानि यस्मिंस्तच्छत- रुद्रीयम् ; तदिदमुक्तम्-- 'एतानि ह वा अमृतस्य नामधे- यानि' इति । उक्तं च कूर्मपुराणे भगवतैव- 'इमानि मे रहस्यानि नामानि शृणु चानघ' इति। भारते च द्रोणपर्वणि शतरुद्रीयाध्यायो वर्ण्यते । तत्र 'नामधेयानि लोके. ऽस्मिन् बहून्यस्य यथार्थवत्' इति परमेश्वरनामानन्त्यं प्र. तिज्ञाय 'वेदे चास्य समानातं शतरुद्रीयमुत्तमम्' इति वेदगतशतरुद्रीयानातं तदुपपादकत्वेनोदाहृतम् । तेन च रुद्र- नामानन्त्यं शतरुद्रीयपदप्रवृत्तिनिमित्तमित्युक्तं भवति । न च परमेश्वरनामत्वेन नैघण्टुकादिभिरननुशिष्टानां कथं तन्ना- मत्वमिति वाच्यम् , 'एतानि ह वा अमृतस्य नामधेया- नि' इति साक्षाद्वेदेनोक्तस्यार्थस्य निघण्टुनुक्त्या परित्यागा. योगात् , ' इमानि मे रहस्यानि नामानि' इति कूर्मपुराणव- चनेन वेदरहस्यनामधेयतयावगतत्वेन तेषु नैघण्टुकापरिग्रह- स्यान्यथासिद्धत्वाच । लोकप्रसिद्धकाव्यनाटकादिप्रयुक्तकति- श्रीरुद्रभाष्यम् । - - पयनाममात्रसंग्राहिणो हि नैघण्टुकाः, न वेदरहस्येषु व्याप्रि. यन्ते । दृश्यन्ते हि नैघण्टुकैरपरिगृहीतान्येतादृशानि परः सहस्रं वैदिकनामधेयानि; यथा 'तदिति ह वा एतस्य महतो भूतस्य नाम भवति' 'एतद्वा अपां नामधेयं गुह्यं यदा- धावाः' 'तस्योदिति नाम' इत्यादीनि । न ह्येतेषु नैघण्टु- कापरिग्रहस्तन्नामत्वमपनेतुं प्रभवति ; प्रत्युत वेदरहस्यत्वमेव तेषामुपोदलयति । 'ॐ तत्सदिति निर्देशो ब्रह्मणविविधः स्मृतः' इति 'आतानतप्ता इव धावसंघाः' इत्यादिभारत- वचनप्रयोगात्तेषां तन्नामत्वमवगम्यत इति चेत् , अहो देवानांप्रियस्य श्रद्धा, योऽयं वेदोक्तमश्रद्धधानः केनचि- दितिहासपुराणवचनेन तदभ्युपगच्छति । अस्ति च तादृशं भारतवचनम्-- 'नामधेयानि लोकेऽस्मिन् बहून्यस्य यथा. थंवत् । वेदे चास्य समानातं शतरुद्रीयमुत्तमम्' इति प्रागु- दाहृतम् । सन्ति च प्रत्येकमपि प्रयोगाः, 'हरिकेशस्तथेत्युक्ता दीर्घदर्शितया प्रभुः' 'न ते गिरित्राखिललोकपालविरिश्चि. वैकुण्ठसुरेन्द्रगम्यम्' 'ततो मीढ़ा समामन्त्र्य' 'ततो मीढु- ष्टमोदितम्' इत्यादिभारतभागवतवचनेषु श्रीरुद्रानातहरि- केशमीदुष्टमादीनां प्रयोगात् । तस्मादेतादृशेषु नामसु न नैघण्टुकानां संबन्धोऽस्तीत्यास्तां तावत् । प्रस्तुतमेव रुद्रा- उपोद्धातः । ध्यायस्य महिमानमनुसरामः । यद्यपि स होवाच याज्ञव- ल्क्यः शतरुद्रीयेण' इत्युक्त्या शतरुद्रीयस्य मोक्षसाधनज. प्यत्वमात्रं प्रतिपाद्यते, तथापि प्रश्नोत्तरस्वरूपपर्यालोचनया तस्य सर्वोपनिषदुत्तमत्वं प्रतिपाद्यत इति ब्रूमः । तथा हि- औपनिषदब्रह्मात्मतत्त्वज्ञानैकसाध्यं मोक्षं प्रति अन्वयव्यतिरे- काभ्यामुपनिषदां साधनत्वात् मोक्षसाधनजप्यान्युपनिषद इति वस्तुस्थितिः । सा च ब्रह्मचारिभिर्वस्तुस्थितियद्य. वगता, तदा प्रश्नासंगतिः; न युपनिषदां मोक्षसाधन- जप्यत्वावगमे जाते किं जप्येनामृतत्वम्' इति पुन: प्रश्नो घटते । यदि च नावगता, तदा 'शतरुद्रीयेण' इत्युत्तरं न संगच्छते । न ह्युपनिषदां मोक्षसाधनजप्यत्वं वस्तुवृत्तमनवगत्य 'किं जप्येनामृतत्वम्' इति प्रश्ने शतरुद्रीयेणेत्युत्तरं संगच्छते; किं तु उपनिषदस्तथेत्येव तदुत्तरं युक्तम् । अन्यथा 'विशेषग्रहणं शेषप्रतिषेधार्थम्' इति न्यायेन शतरुद्रीयातिरिक्तानामुपनिषदां मोक्षसाधन. जप्यत्वाभावप्रसङ्गात् । यथा खलु को वास्मिन्ग्रामे पण्डित इति प्रश्ने, देवदत्तः पण्डित इत्युक्ते हि तव्यतिरि- तानां यज्ञदत्तादीनामपण्डितत्वं भवति, तद्वत् । तस्मादित्थं प्रश्नोत्तरयोः सामानाधिकरण्यं वक्तव्यम्- सामान्येनोपur श्रीरुद्रभाष्यम् । - निषन्मानं मोक्षसाधनजप्यमिति निश्चित्य, तन्मध्ये किमुत्तमं जप्यमिति प्रश्नः; तथाभूतं शतरुद्रीयमिति 'शतरुद्रीयेण' इत्युत्तरं चेति । अत एव कथं शतरुद्रीयस्य सर्वोपनिषदुत्त- 1 मत्वमिति शङ्कायाम् एतानि ह वा अमृतस्य नामधेयानि' इत्यादिना तदुपपाद्यते । एतानि शतरुद्रीयानातानि अमृत- स्य नित्यमुक्तस्य परमेश्वरस्य नामधेयानि- इत्यर्थः । अस्तु, ततः किम् ! अत्राह-एतैर्ह वा अमृतो भवति', हवा इत्ये. तवधारणार्थे, एतैरेव नामधेयैर्मुक्तो भवति ; तिष्ठत्वेतत्प्रतिपा. यब्रह्मात्मतत्त्वानुसंधानम् । एतद्गतानि परमेश्वरदिव्यनामा. न्येव केवलं जपमात्रेणैव मोक्षप्रदानि ; उपनिषदन्तरे तु नैव- म्; अतः सर्वोपनिषदुत्तमत्वमस्येति भावः । एतानि ह वा इत्यनेन शतशास्वागतत्वप्रसिद्धिः सूच्यते । तेन चायमर्थः प्रदर्शितो भवति । यद्यपि सर्वाण्यपि परमेश्वरस्यैव नामधे. यानि- अत एव 'इमा रुद्राय स्थिरधन्वने गिरः' इति श्रुति: प्रत्यक्षसंनिधापितसकलशब्दराशेः परमेश्वराभिधानत्वं प्रतिपादयति ; अत एवाश्वलायनेन शिवं प्रस्तुत्योक्तम् 'सर्वाणि ह वा एतस्य नामधेयानि' इति- तथापि शतशाखानातत्वेन मोक्षसाधनत्वेन च प्रसिद्धतया मु. रूयत्वादेतानि नामधेयानीत्युक्तिरुपपद्यते, 'पत्रिंशदहो वा उपोद्धातः । एष यज्ञो यहादशाहः' इति षट्त्रिंशताहोभिः साध्यस्यापि क्रतोः द्वादशसुत्याहानि मुख्यानीति द्वादशाहव्यपदेशवदि. ति । सोऽयमर्थः सर्वोऽपि कूर्मपुराणे दर्शितः । तत्र हि वसु- मनसो राजर्षेः ब्रह्मवरलब्धसाप्रसंवत्सरशतानुष्ठितगायत्र्युपा- सनया प्रसन्नं परमेश्वरं प्रस्तुत्येदं पठ्यते- 'तदा प्राह महा- देवो राजानं प्रीतमानसः । इमानि मे रहस्यानि नामानि शृणु चानघ । सर्ववेदेषु गीतानि संसारशमनानि च । नम- स्कुरुष्व सततमेभिर्नामपदैः शुचिः । अध्यायं शतरुद्रीयं यजुषां सारमुत्तमम् । जपखानन्यचेतस्को मय्येवासक्तमा- नसः । ब्रह्मचारी मिताहारो भस्मनिष्ठः समाहितः । जपेदा मरणादुद्रं स याति परमां गतिम्' इति। अत्र ' यजुषां सार- म्' इति यजुःसारत्वेनैव यजुर्वेदोत्तमत्वे सिद्धे पुनरुत्तमपदमू- ग्वेदाद्यपेक्षया उत्तमत्वपरम् । एवं च सर्ववेदोत्तमं शतरुद्रीय. मध्यायं जपेदिति विधिः । तेन स होवाच याज्ञवल्क्यः' इति श्रुतिसाराभिप्रायो दर्शितः । तत्र कथं सर्ववेदोत्तमत्वमि- त्याकाङ्क्षायां तदुपपादनाय 'संसारशमनानि' इति नामवि. शेषणम् । न केवलं जपमात्रतः संसारमोचकमदीयनामनिकु. रुम्बकरम्बितत्वमात्रेणास्य सर्ववेदोत्तमत्वम् , किं तु तादृश- मदीयनमस्कारकरम्बितत्वेनापीत्यभिप्रायेणोक्तम् - 'नम- ८ श्रीरुद्रभाष्यम् । स्कुरुष्व सततमेभिर्नामपदैः' इति । नमस्कारपटिततत्त- नामपदात्मकतत्तन्मन्त्रजपस्य वाचिकमदीयनमस्काररूपत्वा. त् जपं कुर्वस्त्वं नमस्कारानपि कृतवान्भवेरित्यर्थः । तथा च केवलनामधेयान्येव संसारनाशकानि, तैनमस्का- रोऽपि चेत्, किमु वक्तव्यम् ; संसारदुःखमुन्मूलयन्ती- त्यभिप्रायः । तदनेन 'एतैर्ह वा अमृतो भवति' इति श्रुतिभागो व्याख्यातः । 'इमानि मे नामानि' इत्यनेन च 'एतानि ह वा अमृतस्य नामधेयानि' इत्यंशो व्याख्यायते । अत्रैतानीत्यस्य प्रतिपदम् इमानीति । अमृतशब्दार्थप्रदर्शनं मे इति । सर्ववेदेषु गीतानीत्यनेन 'एतानि ह वै' इति निपा. तनार्थः शतशाखाम्नातत्वरूपा प्रसिद्धिर्दर्शिता। रहस्यानीत्य- नेन वेदरहस्येऽर्थे नैघण्टुकाद्यप्रसिद्धिकुतर्कानवकाश इत्युक्तम् । अनघेत्यनेन च सासवर्षशतानुष्ठितगायत्र्युपासनापरिक्षीणपा- पस्य तव रुद्राध्याये निरवग्रहोऽधिकार इत्युक्तं भवति । तथा च जपमात्रेण मोक्षदातयस्मिन् सत्यप्यश्रद्धादोषेण लोकः संसारे मज्जति ; अहो पापमहिमेति भावः । तेन च ब्रह्मो. त्तरखण्डे कथा स्मार्यते । तत्र हि-श्रीरुद्रजपादखिलेषु पात. केषु नष्टेषु जगति पापिष्ठस्यैवाभावात् निरधिकारवैवस्वतचि- त्रगुप्तादिभिर्विज्ञापितेन ब्रह्मणा नियोजिताभ्यामश्रद्धादुमें- ।
उपोद्धातः । or . . धाभ्यामुपहतो लोक: श्रीरुद्रविमुखो जात इत्युपाख्यायते । तानि वचनान्यनुपदमेवोदाहरिष्यामः । तस्मादेतस्थितम् , ए- तत् कूर्मपुराणोपबृंहितजाबालोपनिषद्रुद्राध्यायस्य सर्ववेदोत्त- मत्वं प्रतिपादयतीति । सोऽयमर्थः पण्डितानां हृदयंगम एव । जाबालोपनिषत्साध्वी मम ज्ञानस्य सिद्धये । प्रधानसा- धनान्याह प्राणिनामादरेण तु । अविमुक्तं मम क्षेत्रं मन्नाम परमं शुभम् । शतरुद्रीयजापित्वं तथा संन्यासमुत्तमम्' इति पराशरोपपुराणवचनान्यत्र उपबृंहणम् , शतरुद्रीयस्य ज्ञानं प्रति साधनत्वं जाबालश्रुत्यर्थ इति कण्ठरवेणैवाभिधानात् । तत्र च 'मनाम परमम्' इत्यविमुक्तस्य विशेषणं प्रणवाख्येन मन्नाम्ना परममुत्कृष्टमित्यर्थः , 'अत्र हि जन्तो प्राणेषुत्क्रम- माणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे' इति श्रुतेः । एवं चोपा- सनानां मध्ये अविमुक्तोपासनम् , जप्यानां मध्ये शतरुद्री- यम् , आश्रमाणां मध्ये संन्यासश्च ज्ञानमुख्यसाधनमिति प्रतिपादयद्भगवतः पराशरस्य वचनं सर्ववेदोत्तममिति दर्श- यति ; तदुपबृंहितजाबालश्रुतिस्तत्र प्रमाणम् । एवं कैवल्यो- पनिषद्यपि ब्रह्मविविदिषयोपसन्नमाश्वलायनं प्रति परमेष्ठि- ना ब्रह्मामतत्त्वमुपदिश्य तत्साधनत्वेनेदमाम्नायते-- 'य: शतरुद्रीयमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति . R. B. la १० श्रीरुद्रभाष्यम् । ब्रह्महत्यात्पूतो भवति कृत्याकृत्यात्पूतो भवति तस्मादविमु. कमाश्रितो भवत्यत्याश्रमी सर्वदा सकृद्वा जपेत् अनेन ज्ञानमाप्नोति संसारार्णवनाशनम्' इति । अत्र संसारतारण. ज्ञानकामः शतरुद्रीयं जपेदिति प्रथमो विधिः । तत्र च क. मोपासनज्ञानकाण्डात्मके वेदराशौ सर्वमन्यत्परित्यज्य शत- रुद्रीयस्य ज्ञानसाधनत्वोपदेशे को हेतुरित्याशङ्कय सर्ववेदो- त्तमत्वं वक्तुं प्रथमं कर्मकाण्डापेक्षया तस्योत्तमत्वं प्रतिपा- दयति- 'य: शतरुद्रीयम्' इत्यादिना ‘कृत्याकृत्यात्पूतो भवति' इत्यन्तेन । एतच्च सूतसंहितायामुपबृंहितम्- 'यः श्रद्धया युतो नित्यं शतरुद्रीयमभ्यसेत् । अग्निदाहात्सुरापाना- दकृत्याचरणात्तथा । मुच्यते ब्रह्महत्याया इति कैवल्यशाखिनः' इति । अत्राकृत्याचरणादित्यनेन ‘कृत्याकृत्यात्पूतः' इति व्या- ख्यातम् । कृत्यवदाचरितं यदकृत्यं तत्कृत्याकृत्यम् , अकृत्या. चरणमिति यावत् ; तस्मात्पूतो भवतीति तदर्थः । तथा च कद्राध्यायी न केवलं ब्रह्महत्यासुरापानमात्रात्पूतो भवति, किं तु सर्वस्मादपि पापादिति श्रुत्यभिप्रायः प्रदर्शितो भवति । ब्रह्मोत्तरखण्डे चायमर्थः प्रपञ्चेनोपपादितः । तत्र हि-'सर्गा- पुरा निरालोके पदे तनिष्कलं परम् । चिदानन्दमयं ज्योतिः स आत्मा केवल: शिवः । स एवादी रजोरूपं दृष्ट्वा ब्रह्मा.
उपोद्धातः । णमात्मनः । सृष्टिकर्मनियुक्ताय तस्मै वेदांश्च दत्तवान् । पुनश्च जगतामीश आत्मतत्त्वैकसंग्रहम् ॥ सर्वोपनिषदां सारं रुद्राध्यायं च दत्तवान् । स एष मुनिभिः पूर्वैर्मरीच्यत्रि- पुरोगमैः ॥ स ह देवैधृतस्तेभ्यस्तच्छिष्या जगृहुः शतम् । एष वः परमो मन्त्र एष वः परमं तपः ॥ रुद्रा. ध्यायजप: पुंसां परं कैवल्यसाधनम् । ये महापातकैर्युः का उपपातकिनश्च ये ॥ रुद्राध्यायजपात्सद्यस्तेऽपि यान्ति परां गतिम्' इति प्रस्तुत्यैव पठ्यते- 'पुण्यकर्मफलं स्वर्गो नरकस्तद्विपर्ययः । तयोवधिपौ धात्रा कृतौ शतमखा- न्तकौ । कामः क्रोधश्च लोभश्च मदमानादयस्तथा । अधर्मस्य सुता आसन्सर्वे नरकनायकाः ॥ क्रोधापितृवधो जात- स्तथा मातृवधोऽपरः । ब्रह्महत्या तु कन्यैका पश्चात्समभव- त्ततः ॥ गुरुतल्पः सुरापानस्तथान्यत्पुल्कसीगमः । कामस्य तनया ह्येते प्रधाना: परिकीर्तिताः ॥ देवस्वहरणं चैव ब्रह्म- स्वहरणं तथा । सुवर्णस्तेय इत्येते लोभस्य तनयाः स्मृताः ॥ एतानाहूय चण्डालान्यमः पातकनायकः । नरकस्य विवृ. द्वयर्थ पट्टबन्धं चकार ह ।। ते यमेन समादिष्टाः सर्वे पात. कनायकाः । नरकान्पूरयामासुः स्वभृत्यैश्वोपपातकैः ॥ रुद्रा- ध्याये भुवं प्राप्ते साक्षात्कैवल्यसाधने । भीताः प्रदुद्रुवुः १२ श्रीरुद्रभाष्यम् । सर्वे ते वै पातकनायकाः ॥ यमे विज्ञापयामासुः सह तैश्चोपपातकः । नरकस्य विवृद्धयर्थ साधिकारा. स्त्वया कृताः॥ अधुना वर्तितुं लोके न शक्ताः स्मः स्वयं प्रभो । रुद्रजाप्यप्रभावेन निर्दग्धाश्चैव विद्रुताः ॥ प्रामे प्रामे नदीतीरे पुण्येष्वायतनेषु च । रुद्रजाप्येन पर्याप्ते कथं परिचरेमहि ॥ प्रायश्चित्तसहस्रं वा गणयामो न किंचन । रुद्रजाप्यं क्षणेनापि सोढुं शक्ता वयं न च ।। महापातकमुख्यानामस्माकं सोपजीविनाम् । रुद्रजाप्यं परं घोरं रुद्रजाप्यं महद्विषम् ।। इति विज्ञापितः साक्षाद्यमः पातकनायकैः । ब्रह्मणोऽन्तिकमासाद्य तस्मै सर्व व्यजिज्ञ. पत् ॥ इति विज्ञापितो धाता यमेन परिखिद्यता । रुद्रजा- प्यविघातार्थमुपायं पर्यकल्पयत् ॥ अश्रद्धां चैव दुर्मेधामवि- द्याया उभे सुते । श्रद्धामेधाविघातिन्यौ मर्येषु समचोद. यत् ॥ ताभ्यां विमोहिते लोके रुद्राध्यायपराङ्मुखे । यमः स्वस्थानमासाद्य कृतार्थ इव सोऽभवत्' इति । एवं पुरा, णान्तरेष्वपि सर्वत्रायमर्थः सूचितः ; तत्सर्वे विस्तरभयान . लिख्यते ।। इत्थं श्रुतिसिद्धं पुराणैश्चोपबृंहितं रुद्राध्यायस्य निखिल- पातकप्रायश्चित्तत्वं स्मृतिकारा अपि स्मरन्ति । यथा- उपोद्धातः। १३ 'मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापैः' इति शातातपस्मृतिवचनम् । 'ए- कादशगुणान्वापि रुद्रानावृत्य धर्मवित् । महापापरपि स्पृष्टो मुच्यते नात्र संशयः' इत्यत्रिस्मृतिवचनम् । 'सु. रापी स्वर्णहारी च रुद्रजापी जले स्थितः । सहस्रशी- पंजापी च मुच्यते सर्वकिल्बिषैः' इति याज्ञवल्क्यस्मृति. वचनम् । 'वेदमेकगुणं जप्त्वा तदद्वैव विशुध्यति । रुदै- कादशिनी जप्त्वा तत्क्षणादेव शुध्यति' इति स्मृतिवचनम् । एवमन्यान्यप्युदाहरणीयानि । तदेवम् ‘यः शतरुद्रीयमधीते सोऽग्निपूतो भवति कृत्याकृत्यात्पूतो भवति' इति शतरुद्री- यस्य सकलपापनिवर्तकत्वोक्त्या कर्मकाण्डोत्तमत्वं दर्शितं भवति- ज्ञानापेक्षितचित्तशुद्धिजनकत्वेन हि कर्मकाण्डस्य ज्ञानोपकारकत्वम् , सा च कर्मकाण्डोक्तसर्वकर्मानुष्ठानज- न्यपापनिवृत्तिरूपा चित्तशुद्धिरेकस्मादेव रुद्रजपासिध्य. तीति तस्य कृत्स्नकर्मकाण्डोत्तमत्वसिद्धिरिति । न च श्रीरुद्रस्य कर्मकाण्डफलभूतचित्तशुद्धिजनकत्ववत् तत्फलभूतस्वर्गादि- जनकत्वाभावात्कथं तदपेक्षयोत्तमत्वमिति वाच्यम्। 'वृक्षस्य मूलसेकेन शाखाः पुष्यन्ति वै यथा । शिवे रुद्रजपात्प्रीते श्रीरुद्रभाष्यम् । प्रीता एवास्य देवताः । अतो रुद्रजपादेव भुक्तिमुक्ती प्रसि- ध्यतः' इति सूतसंहितोत्तरीत्या परमेश्वरं प्रीणयत: श्रीरुद्रा- ध्यायिनस्तवयवेन्द्राग्न्यादिप्रीतिफलभूतस्वर्गादितुच्छफलापे- क्षासत्त्वे तेषामेव फलानामहमहमिकया स्वत एव पुरतोऽव- स्थानस्य ' यद्यदिच्छजपेत्तत्तदाप्नोति हि न संशयः' 'तदेत- पापक्षयार्थी व्याधिमोचनार्थी श्रीकामः शान्तिकाम आयु- काम आरोग्यकामश्च कुर्यादेतत्सर्वमाप्नोति' इत्यादिवचन- सिद्धत्वात् ; 'शतरुद्राखपेद्यस्तु ध्यायमानो महेश्वरम् । यश्च सागरपर्यन्तां सशैलवनकाननाम् ।। दद्यात्काञ्चनसंयुक्तां भूमिमोषधिसंयुताम् । तस्मादप्यधिकं तस्य सकृद्रुद्रजपाद्- वेत्' इत्यादिशैवपुराणवचनैः श्रीरुद्रजपस्य प्रतिपदोक्ततत्त. कर्मफलाधिकफलजनकत्वप्रतिपादनाच्च । तस्मात्सिद्धं श्रीरुद्रस्य कृत्स्नकर्मकाण्डफलजनकत्वेन तदुत्तमत्वम् । अत एव खल्व- मिहोत्रदर्शपूर्णमासपशुचातुर्मास्यज्योतिष्टोमसहस्रसंवत्सररू- पसर्वकर्मणामपि फलत: श्रीरुद्रान्तर्भावेन तदङ्गत्वमभिप्रेत्य श्रीरुद्रलघुन्यासे 'अग्निहोत्रात्मने हृदयाय नमः' इत्यादिना तेषां तदङ्गकोटौ निवेशः कृत इत्यास्तां तावत् । प्रस्तुतमे- वानुसरामः ॥ इत्थं शतरुद्रीयस्य कर्मकाण्डोत्तमत्वमुक्तम् । इदानीमु- उपोद्धातः । १५ पासनाकाण्डोत्तमत्वमाह- तस्मादविमुक्तमाश्रितो भवति' इति । तस्मादित्यनेन ‘शतरुद्रीयमधीते' इति पूर्ववाक्योक्तं शतरुद्रीयाध्ययनं परामृश्यते ; तथा चायमर्थः- शतरु- द्रीयाध्ययनात्तस्मादविमुक्तमाश्रितो भवतीति । अविमुक्ता. श्रयणरूपं तदुपासनं कृतवान्भवतीति ; अविमुक्तोपासनाफलं प्राप्नोतीति यावत् । अनेनोपासनाकाण्डोचमत्वं सिध्यति । तथा हि जाबालोपनिषदि- 'तस्मादविमुक्तं निषेवेत' इत्यविमुक्तोपासनम् ‘प्राणेषुत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्या- चष्टे येनासावमृती भूत्वा मोक्षी भवति' इति तत्फलं चोक्तम् । तत्राविमुक्तोपासनं द्विविधम्- आध्यात्मिक- माधिभौतिकमिति; तत्र ध्रुवोर्घाणस्य च य: संधिस्त- स्मिन्संधावीश्वरोपासनं त्वाध्यात्मिकम् , काश्यामविमुक्त- क्षेत्रे परमेश्वरदर्शनमाधिभौतिकमिति शास्त्रव्यवस्था तदेतद्विविधोपासनफलमपि तारकब्रह्मविद्याख्यमात्मतत्त्वज्ञा- नं श्रीरुजद्रपमात्रेणानायासेन भवति, न त्वविमुक्तोपा- सनायामिवायासो भवति । अविमुक्तोपासने काशीमरणं विना तारकब्रह्मविद्या न लभ्यत इति तदर्थ प्रयासो- अपेक्षितः । आध्यात्मिके तु यद्यपि काशीमरणापेक्षा नास्ति, 'तस्माद्यत्र त्वेव गच्छति तदेव मन्यत इतीदं वै कुरुक्षेत्र श्रीरुद्रभाष्यम् । - देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमत्र हि जन्तोः प्राणेषुत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति' इति श्रुतेः; तथापि जपापेक्षयाविमु- तोपासनायामस्त्येव भूयान्प्रयासः । अत एव जाबालोप- निषदि अविमुक्तोपदेशानन्तरं चित्तैकाग्र्यादिप्रयाससाधनमु. पासनं कर्तुमशक्त्या केवलं जपमात्रेण मोक्षमिच्छतां ब्रह्म- चारिणाम् ‘किं जप्येनामृतत्वम्' इति प्रश्ने 'शतरुद्रीयेण इत्युत्तरम्, 'एतैरेवामृतो भवति' इति तदुपपादनं च कृतं प्रदृश्यते । तथा चाध्यात्मिकाविमुक्तोपासनापेक्षयानायासेनैव तत्फलदं शतरुद्रीयमिति तत्तस्य तदुत्तमत्वं सिध्यत्सर्वोपास. नोत्तमत्वरूपमेव सिध्यति । सर्वासामुपासनानां चित्तैका- ग्रयक्लेशसाध्यतयानायासेनैव तत्फलजनकस्य श्रीरुद्रस्य सर्वो. पासनाकाण्डोत्तमत्वलाभात् । एवं च सर्वाण्युपासनानि कृ. तवान्भवतीति वक्तव्ये 'अविमुक्तमाश्रितो भवति' इति वि. शिष्याविमुक्तग्रहणं जाबालोपनिषद्यविमुक्तश्रीरुद्रयोरपि ज्ञान. साधनत्वोपदेशात्तयोस्तुल्यत्वमुत्तानहष्ट्या प्राप्यत इति तन्निवारणाय तदपेक्षया उत्तमत्वं प्रदर्शयितुमिति सर्वमति. रमणीयम् ॥ इत्थमुपासनाकाण्डोत्तमत्वमुक्तम् । शानकाण्डोत्तमत्व- उपोद्धातः । १७ माह-'अत्याश्रमी सर्वदा सकृद्वा जपेत् अनेन ज्ञानमाप्नोति संसारार्णवनाशनम्' इति । अत्र 'सर्वदा सकृद्वा जपेत्' इति विकल्पेन श्रीरुद्रस्य सहजपादपि ज्ञानलाभोक्त्या तस्य ज्ञान- काण्डोत्तमत्वमुक्तं भवति ; 'ज्ञानकाण्डो झुपनिषदः, ताश्च ज्ञानार्थमावर्तनीया इत्यावृत्त्यधिकरणे व्यवस्थापितम् । तथा चावर्तनीयत्वेन सर्वदा जप्याज्ज्ञानकाण्डात्सकृनपेन ज्ञानजनकस्य श्रीरुद्रस्योत्तमत्वं सिध्यति । यद्यप्युपनिषद- न्तरेष्विव श्रीरुद्रोपनिषद्यपि प्रतिपाद्यब्रह्मतत्त्वसाक्षात्कारप- र्यन्तं श्रवणमनननिदिध्यासनानामावर्तनीयतया तत्प्रयुक्तो- पनिषदावृत्तिरपेक्षितैव, तथापि द्वेधात्र ज्ञानोत्पत्ति:- एका श्रवणमननादिप्रणाल्या, एका तु श्रवणादिकं विनापि 'एते. है वा अमृतो भवति' इति जाबालश्रुत्युक्तरीत्या केवलं जप- मात्रेणैवाहमहमिकया मोचकैः परमेश्वरदिव्यनामभि: स्व. यमुपनतादीश्वरप्रसादाज्ञानोत्पत्तिः । तत्राद्यपक्षे श्रवणाद्या. वृत्तिप्रयुक्ता श्रीरुद्रावृत्तिरस्ति ; द्वितीयपक्षे तु कूर्मपुराणोक्त- भस्मनिष्ठापरमेश्वरासक्तिपूर्वकात् प्रतिदिनं सकृद्रुद्रजपादेव शिवानुग्रहेण ज्ञानोत्पत्तिः । तमिमं पक्षमादाय श्रीरुद्रस्य स- र्वोत्तमत्वसिद्धिरिति श्रुत्यभिप्रायः । अत्याश्रमी जपेत्' इति नेतराश्रमिपरिसंख्या क्रियते, जाबालोपनिषदि ब्रह्मचारिण: R. B 2 १८ श्रीरुद्रभाष्यम् । प्रत्यपि श्रीरुद्रजपोपदेशेन 'गृहस्थैश्च वनस्थैश्च तथैव ब्रह्म चारिभिः । शतरुद्रीयसंज्ञस्तु मन्त्रो जप्यो महत्तमः' इत्या- दितदनुसारिपुराणवचनसहस्रदर्शनेन च तद्विरोधात् । नापि संन्यासिनं प्रति रुद्रप्राप्त्यर्थम् ‘अत्याश्रमी जपेत्' इति वि. | घिभावः, 'सर्वोपनिषदां सारं रुद्राध्यायं च दत्तवान्' इति तस्या उपनिषत्त्वेन श्रीरुद्रस्य संन्यासिनं प्रति प्राप्तेः; 'सर्वेष्वामरणमावर्तयेदुपनिषदमावर्तयेत्' इति संन्यासि. नामुपनिषदामावृत्तिविधानाच्च । न च श्रीरुद्रस्योपनिषत्त्वे मानाभावः; 'सर्वोपनिषदां सारो रुद्राध्यायः समर्थितः । भोगार्थिनो मुमुक्षोर्वा प्रायश्चित्तार्थिनोऽपि वा ॥ रुद्रोपनि- गतिरन्या न विद्यते' इत्यादिशिवपुराण- वचनैः, 'एकशतं यजुःशाखास्तासु रुद्रोपनिषदाम्नायते' इति भट्टभास्कराद्यभियुक्तव्यवहारेणोपनिषच्छब्दार्थपर्यालो- चनया च श्रीरुद्रस्योपनिषत्त्वावगतेः । द्वेधा ह्युपनिषच्छब्दः सांप्रदायिकैर्युत्पादित:- उप समीपे परब्रह्मणो निषीद- न्ति वर्तन्ते इत्युपनिषदो वेदान्ताः; ते हि साक्षाद्ब्रह्मणि तात्पर्येण वर्तन्ते, न तु कर्मकाण्डवत्तदाराधनयज्ञादिविधान- द्वारेति; अथवा उपनिपूर्वात् षद्लधातोरवसादनकर्मण: किपि निष्पन्नोऽयमुपनिषच्छब्दः साक्षात्संसारमूलाविद्याव- षदं मुक्त्वा उपोद्धातः । १९ M सादिनी ब्रह्मविद्यामाचष्टे, तत्साधनतया तु वेदान्तेषु 'ला- अलं जीवनम्' इत्यादिवद्वर्तत इति । सेयं द्विधा व्युत्पत्तिः श्रीरुद्रेऽतिस्वरसैव । तस्मादत्याश्रमिग्रहणमिह 'छत्रिणो ग- च्छन्ति' इत्यादाविवाजहल्लक्षणयात्याश्रमितदितरसाधारण्येन सर्वेषामप्याश्रमाणामुपलक्षणार्थम् ; चतुर्वाश्रमेषु यः कोऽपि प्रतिदिनं श्रीरुद्रस्य सर्वदा सकृद्वा जपेन ज्ञानमाप्नोतीति । एवं च 'यः शतरुद्रीयमधीते' इत्युपक्रम इव · अत्याश्रमी जपेत्' इत्युपसंहारेऽप्यत्याश्रमिपदस्य श्रीरुद्रजपाधिकारिपुरु. षमानपरत्वादुपक्रमोपसंहारयोरेकवाक्यत्वं भवति । तथा 'यः पुमाछतरुद्रीयं पठति श्रद्धया सह । दिने दिने महा- विष्णो मरणादूर्ध्वमैश्वरम् । ज्ञानं लब्ध्वा स विज्ञानादेव याति परां गतिम् । गृहस्थैश्च वनस्थैश्च तथैव ब्रह्मचारिभिः' इति सूतसंहितावचनान्यप्येकवाक्यतापरत्वेन समर्थितानि भवन्ति । यद्येवम् , ' यः शतरुद्रीयम्' इत्युपक्रमगतकर्तृसा- मान्येन 'सर्वदा सकृद्वा जपेत्' इत्युपसंहारगतजपक्रियापे. क्षितकर्वाकाङ्घानिवृत्तेरत्याश्रमिपदं दत्त्वा तेन कर्तृसामान्यो- पलक्षणस्य किं प्रयोजनमिति चेत् , आकर्णय ; कैवल्योपनि. पदुपक्रमे- 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृत- त्वमानशुः' इति मोक्षहेतुत्वमुपदिष्टम् ; जाबालोपनिषदि च २० श्रीरुद्रभाष्यम् । श्रीरुद्रस्य मोक्षसाधनत्वोपदेशानन्तरम् 'अथ जनको ह वै याज्ञवल्क्यमुपसंगम्येत्युवाच भगवन् संन्यासमनुब्रूहि' इति प्रभे तं प्रति सपरिकरं संन्यासस्वरूपमुपदिश्य परिवाड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षमाणो ब्रह्मभूयाय भवति' इति तस्य मोक्षसाधनत्वमुपदिष्टम् । तथा च संन्यासश्रीरुद्रयोस्तुल्यमेव ज्ञानसाधनत्वमिति प्राप्ते तद्वारणार्थमत्याश्रमिग्रहणम् । तेन च संन्यासिनामपि ज्ञान- सिद्धयर्थ मुख्यतया रुद्रजपविधानात्तस्य ततोऽप्यतिशयः प्र- दर्शितो भवति । ज्ञानोत्पत्तौ संन्यासस्य श्रीरुद्रसापेक्षत्वात् श्रीरुद्रस्य तु ब्रह्मचार्यादीन्प्रत्यपि मोक्षसाधनजप्यत्वेन सं. न्यासत्वानपेक्षत्वादिति । तदेतदत्याश्रमिपदेन सर्वाश्रमोपल. क्षणकरणस्य प्रयोजनम् । न चैवं संन्यासिनः प्रणवं विना मन्त्रान्तरनिषेधविरोध इति वाच्यम् , 'उपनिषदमावर्तयेत्' इत्यारण्योपनिषद्वचनेन सामान्यतः संन्यासिनः प्रति उपनि- पत्त्वेन श्रीरुद्रविधानेन, तत्रापि श्रीरुद्रं प्रणवं चैव नित्य- मावर्तयेद्यति:' इति विश्वेश्वरस्मृत्यादिवचनैः तान्प्रति विशि- ज्य रुद्रविधानेन, 'अत्याश्रमी सर्वदा सकृद्वा जपेत्' इति कैवल्योपनिषदि कृत्वज्ञान काण्डापेक्षया मुख्यज्ञानसाधनतया श्रीरुद्रविधानेन च विविदिषुसंन्यासिन: श्रीरुद्रजपावश्यं- उपोद्धातः। २१ भावेन तं प्रति मत्रान्तरनिषेधवचनस्य श्रीरुद्रव्यतिरिक्तमत्र- विषयत्वेनावश्यवाच्यत्वात् । विद्वत्संन्यासिनस्तु कृतकृत्य- तया 'तस्य कार्य न विद्यते' इति शास्त्रोक्त्या तं प्रति प्रणव- विधेः मत्रान्तरनिषेधस्य चासंभवात्सर्वाणि विधिनिषेधशा- खाणि अविद्वद्विषयाणीति । तस्मात्सिद्धम् 'अत्याश्रमी स. र्वदा सकृद्वा जपेत्' इति वचनेन श्रीरुद्रस्य ज्ञानकाण्डोत्तम- त्वमिति । न चेदं वचनं न श्रीरुद्रस्य सकृजपाज्ञानजनक- त्वपरम् , किं तु कैवल्योपनिषद एव तथात्वपरम् ; श्रीरुद्रस्य तु 'यः शतरुद्रीयमधीते' इत्यारभ्य 'तस्मादविमुक्तमाश्रितो भवति' इत्येतदन्तमेव प्रकरणमिति वाच्यम् ; तथा सति कै. वल्योपनिषदि शतरुद्रीयाभिधानस्य संबन्धाभावेन तद्वाक्यस्य वैयर्थ्यप्रसङ्गात् । ज्ञानसाधनतया नात्र शतरुद्रीयाभिधानम् , कैवल्योपनिषदुपक्रम एव 'वेदान्तविज्ञानसुनिश्चितार्थाः सं. न्यासयोगाद्यतयः शुद्धसत्त्वाः' इति वेदान्तानां ज्ञानसाध- नत्वोक्त्या तद्विषयाकाङ्क्षाविरहेण श्रीरुद्रस्य तत्साधनत्वोक्ते- रनाकाङ्किताभिधानत्वात् ; किं तु ज्ञानापेक्षितचित्तशुद्धयुपा- यतामात्रेण तदुक्तिरिति वाच्यम् , चित्तशुद्धयुपायस्यापि वेदा- न्तसंन्यासयोगादेरुपक्रम एवोक्तत्वेन तदभिधानस्याप्यना. काङ्क्षितत्वात् । न च संन्यासाद्यपेक्षयापि मुख्यचित्तशुद्धयु.
२२ श्रीरुदभाष्यम् । - तथा पायः क इत्याकाङ्क्षायां श्रीरुद्राभिधानं युक्तमिति वाच्यम्; तथा सति संन्यासवेदान्ताधतिशायिचित्तशुद्धयुपायत्वेनावि- मुक्तोपासनाफलजनकत्वेन चोद्यमानस्य सर्वोत्तमत्वाप्त्या घट्टकुटीप्रभातन्यायापातेन श्रीरुद्रस्य सर्वोत्तमत्वाभाववादिना त्वया तथापि वक्तुमशक्यत्वात् । तस्मादित्थं वक्तव्यम्- ज्ञानसाधनत्वेन पूर्वोक्तानामपि वेदान्तशब्दवाच्योपनिषदा मध्ये किमुत्तममित्याकाङ्क्षायाम् ' य: शतरुद्रीयम्' इ. त्यादिवाक्यं तस्य सर्वोत्तमत्वं प्रतिपादयतीति । च श्रीरुद्रस्य प्रतिपादनपरेऽस्मिन्वाक्यसंदर्भ यद्यत्या- श्रमीति वचनं तस्य ज्ञानकाण्डोत्तमत्वं न प्रतिपादयेत् , तदा विवक्षितार्थप्रतिपादनं विना स्वयमप्यपर्यवस्यदिदं वाक्यमसंबद्धप्रलाप एव स्यादिति तेन तस्य ज्ञानका. ण्डोत्तमत्वप्रतिपादनमवश्याभ्युपेयमिति युक्तमुत्पश्यामः । ननु तथापि श्रीरुद्रस्य न सर्वोपनिषदुत्तमत्वं सिध्यति, योऽथर्वशिरसं ब्राह्मणो नित्यमधीते तेन रुद्राणां श. तसहस्राणि जप्तानि भवन्ति' इत्यथर्वशिरोवचनेन श. तसहस्ररूपजपफलस्य सकृदथर्वशिरोजपमात्रादेव सिद्धि- वर्णनेन श्रीरुद्रादप्यथर्वशिरस एवोत्तमत्वप्राप्तेः । न चेदम- थर्वशिरः प्रशंसापरतयान्यथासिद्धमिति वाच्यम्, 'सर्वदा उपोद्धातः । २३ सकृद्वा जपेत्' इत्यादेरपि श्रीरुद्रप्रशंसामात्रत्वस्य सुवचत्वा. दिति चेत् , उच्यते ; अथर्वशिरस्येव खलु तद्वचनं श्रूयते, न तु तत्सजातीयोपनिषदन्तरे; तथा च प्रकरण्यथर्वशिरःप्रशंसा- परत्वेन तस्य वचनस्यान्यथासिद्धिरुपपद्यते । श्रीरुद्रोत्कर्षवच- नंतु न श्रीरुद्रोपनिषदि श्रुतम् , येन तद्वदन्यथासिद्धिः स्यात् । किं तु श्रीरुद्रोपनिषत्समानस्कन्धेषु जाबालकैवल्योपनिषदा- दिषु तत्र यदि तद्वचनं श्रीरुद्रप्रशंसार्थवादमात्रमेव स्यात् न स्वार्थपरम् , तदा रुद्रप्रशंसायाः कैवल्यजाबालादिविध्यसं. बन्धात् तदनन्वितस्य स्वतःप्रामाण्यासंभवादर्थवादाधिकरण- पूर्वपक्षन्यायेन तद्वचनमनर्थकमेव स्यात् । अतः स्वार्थपरमेव तदभ्युपेयम् । तथा च तीर्थे तीर्थान्तरस्तुतिन्यायेन प्रतिवा- दिकरार्पितजयपत्रिकान्यायेन च जाबालकैवल्यश्रुतिगतश्री- रुद्रोत्कर्षवचनं तस्य सर्वोत्तमत्वं प्रतिपादयन केनापि वार- यितुं शक्यत इत्यलं बहुना ।। इत्थं श्रुतिसिद्धमेव श्रीरुद्रस्य सर्वोत्तमत्वं धर्मशास्त्रकारै- रपि स्मयते । यथा च भगवता बोधायनेन श्रीरुद्रमहान्या- सविधौ- 'शिवसंकल्पं हृदयं पुरुषसूक्तं शिरः उत्तरनारा- यणं शिखा अप्रतिरथं कवचम्' इत्यादिना शिवसंकल्पा- दीनां मन्वादिभिरखिलपापनिवर्तकतया महाफलत्वेन प्रद- श्रीरुद्रभाष्यम् । सितानामन्येषां च त्र्यम्बकपञ्चब्रह्ममन्त्रादीनामपि श्रीरुद्रा- जतया प्रतिपादनात्तस्य सर्ववेदोत्तमत्वं दर्शितम् । एवम- न्यदप्युदाहार्यम् । अत: सिद्धं श्रुतिस्मृतिपर्यालोचनयास्य सर्ववेदोत्तमत्वम् । 'वेदमेकगुणं जप्त्वा तदद्वैव विशुध्यति । रुद्रैकादशिनी जस्वा सद्य एव विशुध्यति.' इति यमस्मृतिः । एवम् ‘रुद्रजापी जले स्थितः सहस्रशीर्षजापी च 'इत्या- दिना तत्तद्धर्मशास्त्रेषु पुरुषसूक्तादिप्रायपाठः पापहरत्वांशाभि- प्रायेण, न तु समानप्रधानतया , अङ्गाङ्गिनोस्तारतम्ययोगा- दिति स्मृत्यभिप्रायः ॥ एवमितिहासोऽपि श्रीरुद्रस्य सर्ववेदोत्तमत्वं प्रतिपा- दयति । तथा हि महाभारते आनुशासनिके पर्वणि- 'दुर्वासस: प्रसादात्ते शंकरस्य महात्मनः । आसीरिकलेह विज्ञानं तन्मे व्याख्यातुमर्हसि ॥ महाभाग्यं यच्च तस्य नामानि च महात्मनः । सर्व तच्छ्रोतुमिच्छामि शर्वस्य वद. तां वर' इति युधिष्ठिरप्रश्ने, 'हन्त ते कथयिष्यामि नम- स्कृत्वा कपर्दिनम्' इति तं प्रति श्रीकृष्णस्य वचनं प्रस्तु. त्येदं श्रूयते-- 'नामधेयानि लोकेषु बहून्यस्य यथार्थवत् निरुच्यते बहुत्वाच विभुत्वात्कर्मभिस्तथा ॥ वेदे चास्य विदुः प्राज्ञा: शतरुद्रीयमुत्तमम्' इति । द्रोणपर्वण्यप्यर्जुनं प्रति उपोद्धातः । २५ । एवमेव व्यासवचनं दृश्यते । अवोभयत्रापि 'शतरुद्रीयमुत्त- मम्' इति शतरुद्रीयस्योत्तमत्वं किमपेक्षयेत्याकाडायां वेदे चेति पूर्ववाक्यश्रुतवेदपरित्यागेनाश्रुतप्रतियोगिकल्पनायोगा- संनिहितवेदस्यैव प्रतियोगित्वेनान्वय इति श्रीरुद्रस्य वेदो- तमत्वं कण्ठत: प्रतिपादितं भवति । तत्र हेतुरपि जपमात्रेण सर्वपुरुषार्थप्रदत्वरूप इति तत्रैव भगवता प्रदर्शितम् ‘प्रयत: प्रातरुत्थाय यदधीते विशां पते। प्रावलिः शतरुद्रीयं नास्य किंचन दुर्लभम्' इति भगवता श्रीरुद्रं जपतः सर्वार्थ- लामः स्वस्थानुभवसिद्ध इति स्वाभिप्रायः प्रदर्शितो भवति । तेन च कूर्मलैङ्गहरिवंशाद्युक्तं भगवतो वासुदेवस्य तत्तदि- ष्टावाप्तिफलकं श्रीरुद्रपञ्चाक्षरजपानुष्ठानं प्रत्यभिज्ञाप्यते । श्रूयते हि कूर्मपुराणे- 'अत्र पूर्व हृषीकेशो विश्वात्मा देवकीसुतः । उवास वत्सरं कृष्णः सदा पाशुपतव्रत: ।। भ- स्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः । आराधयन्हरिः शंभुं कृत्वा पाशुपतव्रतम्' इति । लैङ्गे ‘एवं स्तुत्वा महादेवं दण्डवत्प्रणिपत्य च । जजाप रुद्रं भगवान्कोटिवारं जले स्थितः' इति । हरिवंशे च 'भास्वस्त्रिपुण्ड्रो भसितैः सित: सन्मौनी जटी वल्कलवान्मुकुन्दः । निरन्तरं चेतसि चन्द्र. चूडं विचिन्तयन्पश्च जजाप वर्णान्' इति । एवं भारते . R. B.2a २६ श्रीरुद्रभाष्यम् । यद्य. कैलासयात्रायां मानससरःस्थितपाशुपतास्त्रप्रसादनार्थ श्रीम. कृष्णकृतश्रीरुद्रजपवचनान्यप्युदाहरणीयानि । एवं च यद्य- प्यवाप्तसमस्तकामस्य परब्रह्मणो वासुदेवस्य न किंचि. जयं वा ततः प्राप्यं वा विद्यते, तथापि दाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते' इति गीतोक्तरीत्या लोकसंग्रहार्थ तद. नुष्ठानमुपपद्यत एव । उक्तं हि महाभारते भगवतैव- 'मया प्रमाणं यदतो लोकस्तदनुवर्तते । न ह्यादेयोऽस्ति कश्चिन्मे वरः पाण्डवनन्दन ॥ इति संचिन्त्य मनसा पुराई विश्वमीश्वरम् । पुत्रार्थमाराधितवानहमात्मानमात्मना' । कूर्मपुराणे न वै पश्यन्ति तं देवं मोहिता मायया मम । ततोऽहं स्वात्मनो मूलं ज्ञापयन्पूजयामि तम्' इति । तथा च लोकशिक्षार्थमाचरितश्रीरुद्रजपो भगवान्वासुदेव एवास्माकं तन्महिन्नि प्रमाणमिति सिद्धम् । एवमितिहासेनापि श्रीरु- द्रस्य सर्वोत्तमत्वम् ।। एवं पुराणेनापि तस्य सर्वोत्तमत्वमवगम्यते । ब्रह्मोत्तरखण्डकूर्मपुराणादिवचनानि कानि चित्पूर्वमेवो- दाहृतानि । अन्यान्यपि परःशतानि दृश्यन्ते । तेषां सर्वेषामुदाहरणे बहुविस्तरः स्यादिति स्थालीपुलाकन्यायेन तत्र उपाद्धातः । २७ किंचिदुदाह्रियते-- सूतसंहितायाम् 'रुद्रजापी विमुच्येत महापातकपश्चरात् । सम्यग्ज्ञानं च लभते तेन मुच्येत वन्धनात् ।। अनेन सदृशं जप्यं नास्ति सत्यं श्रुतौ स्मृतौ' इति । तदेवं श्रुतिस्मृतीतिहासपुराणावगतमहामहिमशालिनि रुद्राध्याये यदर्वाचीन मूर्खतान्त्रिकैः प्रलपितं तन्निराकुर्मः । ते खल्वेवमाहुः- अमिपरमेव शतरुद्रीयम् , न परमेश्वर- परम् ; अग्निचयने ‘रुद्रो वा एष यदग्निः स एतर्हि जातो यहि सर्वश्चित:' इति चितिसंपूर्तिकालोत्पन्नमग्निं रुद्रमुक्त्वा 'स यथा वत्सो जातः स्तनं प्रेप्सत्येवं वा एष एतहि भा. गधेयं प्रेप्सति तस्मै यदाहुतीन जुहुयादध्वर्यु च यजमान च ध्यायेच्छतरुद्रीयं जुहोति' इति तस्मिन्नग्नौ शतरुद्रीय- होमविधानेन तस्याग्निपरत्वावगमात् । ‘गौणं लाक्षणिक वापि वाक्यभेदेन वा पुनः । वेदोऽयमाश्रयत्यर्थ को न्वत्र प्रतिकूलयेत्' इति भट्टवातिकोत्तरीत्या साक्षाद्वेदेन कृतं व्याख्यानमनादृत्य श्रुतिलिङ्गादिन्यायैरन्यपरत्वस्य वक्तुम- शक्यत्वात् । न हि 'सप्तदश प्राजापत्यान्पशूनालभते' इति साप्तदश्योक्तिबाधितं बहुवचनस्य त्रित्वे पर्यवसानं कपि- जलाधिकरणन्यायेन कल्पयितुं शक्यम् । अस्तु वा परमेश्व- रपरम् ; तथापि न ततः सर्वेश्वरत्वादेस्तात्त्विकत्वसिद्धिः ।
२८ श्रीरुद्रभाष्यम् । नमस्कारैरिष्टानिष्टप्राप्तिपरिहारप्रार्थनालिङ्गश्च श्रीरुद्रस्य स्तुति. परत्वावसायादिति । अत्र ब्रूमः-यथा हि 'रुद्रो वा एष यद- निः' इत्यग्निपरत्वव्याख्यानश्रुतिः, एवम् ‘एतानि ह वा अ. मृतस्य नामधेयानि' इति परमेश्वरपरत्वव्याख्यानश्रुतिरुपल- भ्यते; सा च वेदे चास्य समानातं शतरुद्रीयमुत्तमम् । इमानि मे रहस्यानि' इति पूर्वोदाहृतैरितिहासपुराणैरुपबृंहितत्वात् नार्थान्तरपरत्वशङ्कास्पदम् । ' इतिहासपुराणाभ्यां वेदं समुप- बृहयेत्' इति वचनेन श्रुतिस्मृतीतिहासपुराणानां वनसिंह- न्यायेन परस्परानुग्राह्यानुप्राहकभावापन्नतया प्रबलत्वेन तद. वगतार्थस्याप्रकम्प्यत्वात् । एवं चाग्निपरत्व इव ब्रह्मपरत्वे- ऽपि साक्षादेन कृतं व्याख्यानमविशिष्टमिति कथमत्र निर्णय इति संशये न्यायतो व्यवस्था कर्तव्या । त- दुक्तं भट्टवार्तिक-- 'धर्मे प्रमीयमाणे हि वेदेन कर- । इतिकर्तव्यतामागं मीमांसा पूरयिष्यति' इति । ततश्च श्रुतिलिङ्गादिन्यायैः श्रीरुद्रस्य ब्रह्मपर- त्वमेवावधार्यते । यथा खलु ' अङ्गुष्ठमावः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य' इति कठवल्ली- श्रुतिरीशानश्रुतिबलात्परमेश्वरपरैव न तु जीवपरेति 'शब्दा- देव प्रमितः' इत्यधिकरणे व्यवस्थापितम् , तथात्रापि शिव- णात्मना उपोद्धातः। २९ - शंकरभवशर्वपशुपतिरुद्राद्यभिधानश्रुतिशतबलाब्रह्मपरैव श्री- रुद्रोपनिषदिति व्यवस्था आश्रीयते । यथा च 'आकाशस्त. लिङ्गात् ' ' अन्तस्तद्धर्मोपदेशात् ' ' अन्तर्याम्यधिदेवादिषु त- द्धर्मव्यपदेशात्' 'अदृश्यत्वादिगुणको धर्मोक्तेः' इत्याद्य- धिकरणेषु 'अस्य लोकस्य का गतिरिति आकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव स- मुत्पद्यन्ते' 'य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते' इत्यादिश्रुतीनां सर्वभूतकारणत्वसर्वात्मकत्वलिङ्गबलाद्ब्रह्मपर- त्वं व्यवस्थापितम् , तथात्रापि सर्वेश्वरत्वसर्वात्मकत्व. सर्वान्तर्यामित्वादिलिङ्गबलाद्ब्रह्मपरत्वमाश्रयितव्यम् । दृश्य- ते हि श्रीरुद्रोपनिषदि- दिशां च पतये नम:' इत्या- दिना प्रपञ्चान्तर्गतैकैकवस्त्वाधिपत्यप्रदर्शनपूर्वकमुपपाद्यमा. नम् ‘जगतां पतये नमः' इति सर्वजगदीश्वरत्वम् , ' इषुम- द्भयो धन्वाविभ्यश्च' इत्यादावेकैकात्मकत्वप्रदर्शनपूर्वकमुप- पाद्यमानं सर्वात्मकत्वम् , 'नम: स्रुत्याय च' इत्यादिना तथै- वोपपाद्यमानं सर्वान्तर्यामित्वं च ब्रह्मासाधारणधर्मः । एवं नी- लग्रीवत्वकपर्दित्वपिनाकपाणित्वादिविशिष्टं पारमेश्वरासाधा- रणं निरूपितम् ; अन्यानि च तथाभूतानि लिङ्गानि वाक्यानि च द्रष्टव्यानि । न ह्येतत्सर्वेश्वरत्वादिकममेः संभवति। श्रूयते .
श्रीरुद्रभाष्यम् । हि तलवकारिणामुपनिषदि-पुरा देवासुरयुद्धे स्वस्वमहि अव जयो जात इति गर्विष्ठानां देवानां दर्पमपनेतुं तेष पुरतो यक्षरूपेण शिवः प्रादुर्भूय निजस्वरूपजिज्ञासय समीपमागतस्य सकलजगदहनसामर्थ्यमदावलिप्तस्यानेः पुर- तस्तृणमेकं निधाय तावन्मात्रमपि दग्धुं तस्यासामर्थ्यम् . तथैव वायोः तचालयितुमप्यशक्तिमापाद्य स्वयं तिरोदघे, ततः कोऽसौ यक्षरूपी दिव्यः पुरुष इति जिज्ञासय, खिद्यतां देवानां पुरस्तात्तत्स्वरूपोपदिदिक्षया परब्रह्मविद्या. धिदेवता भगवती हैमवती उमा स्वयमाविर्भूय परमेश्वर. एव यक्षरूपेणाविरासीदित्युपदिदेश । देवाश्च पारमेश्वरमेव तं जयमहिमानमन्वजानन्नित्युपाख्यानं पुराणेषु च प्रपश्चितम् । एवम् ‘जनिताग्नेर्जनिता सूर्यस्य' 'भीषास्मादग्निश्वेन्द्रश्च' 'यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वाभु- वनाविवेश' इत्युपाख्यानमप्यनुसंधेयम् । तथा च परमे- श्वरसृष्टस्य तनियम्यस्य तदायत्तशक्तिकस्याग्नेः सर्वान्तर्यामि- त्वसर्वात्मकत्वाद्यसंभवात् सानीन्द्रादिसकलजगत्स्रष्टुः तन्नि- यन्तुः परमेश्वरस्यैव तदसाधारणं लिङ्गम् । तदेवं श्रुतिलिङ्गा- दिन्यायैः तदुपोलितैरितिहासपुराणबोधायनधर्मशास्त्राद्युप- बृंहणैः तदुभयोपबृंहितत्वेनाप्रकम्प्यस्वार्थतया, तथादित्यादी.
उपोद्धातः । नामयनेषु संवत्सरसनेष्वहर्गणत्वसामान्याहादशाहिकविध्य- न्तप्राप्तौ संवत्सरसत्रत्वेनान्तरणासाहश्यात् गवामयनविध्यन्त एव ग्राह्य इतिवदुपनिषदर्थनिर्णये उपनिषत्कृतमेव व्याख्यान प्राह्यमन्तरङ्गसादृश्यात्, न तु कर्मकाण्डकृतं व्याख्यानमिति प्रत्यासत्यतिशयेनावश्यग्राह्यतया, तथा ' यत्किचित्प्राचीनम- नीषोमीयात्तेनोपांशु प्रचरन्ति' इति सावकाशादुपांशुस्वरवि. धानात् 'मन्द्रं प्रायणीयायामनुब्रूयान्मन्द्रतरमातिथ्यायाम्' इति प्रायणीयादिगतस्वरान्तरविधानस्येवार्थवादत्वेन स्तुत्या. दिपरतया सावकाशात्तद्राहित्येन निरवकाशतया च प्रबलेन 'एतानि ह वा अमृतस्य नामधेयानि' इति जाबालोपनिष. ब्याख्यानेन पारमेश्वरमेवेदं शतरुद्रीयमिति व्यवस्थी- यते । यदग्निचयनहोमविध्यर्थवादकोणे स्थितम् ‘रुद्रो वा एष यदग्निः' इति व्याख्यानम् , तत्तु मन्त्राधि- करणसिद्धदृष्टार्थकत्वनिर्वाहाय शतरुद्रीयमन्त्रस्य तत्प्रतिपा- धरुद्रात्मना अग्नेः स्तुत्यभिप्रायेणाग्नौ विनियोग इति ताव. न्मात्ररूपं तद्विवरणमिति न तत: शतरुद्रीयस्य श्रुतिलिङ्गा- धननुगुणाग्निपरत्वसिद्धिः । स्वारसिकप्रतीतिरहितेऽर्थे विनि- युज्यमानस्य मन्त्रस्य यथाकथंचिल्लक्षणागौण्यध्याहारादि- भिस्तदर्थप्रकाशकत्वेऽपि तत्परत्वाभावात् । एतदभिप्रायक- ३२ श्रीरुद्रभाष्यम् । मेव गौणं लाक्षणिकं वा' इति वार्तिकवचनम् । अत एव 'ऐन्द्रया गार्हपत्यमुपतिष्ठते' इति गार्हपत्योपस्थाने विनियो- गेऽप्यन्द्रया ऋचो न गार्हपत्यपरत्वमिष्यते । अत एव च पुरुषसूक्तव्य 'पुरुषादक्षिणतः पुरुषेण नारायणेन ब्रह्माभिष्टौ- ति सहस्रशीर्षा पुरुषः' इति शतपथब्राह्मणेन ‘उपाकृतवान् दक्षिणतोऽवस्थाय ब्रह्मा सहस्रशीर्षा पुरुष इति पुरुषेण नारायणेन पराचानुशंसति' इत्यापस्तम्बसूत्रेण च पुरु- षमेधे पशुत्वेन विनियुक्तानां स्तवने, तथा । पुरस्तात्प्र. तीचीनं पुरुषाकृति चिनोति पुरुषशिराः स्याः शिरो भवति' इति महाग्नौ पुरुषाकृत्युपस्थानं विधाय । सहस्र- शीर्षा पुरुष इत्युपसंनिहितां पुरुषेण नारायणेन यज. मान उपतिष्ठति' इत्यापस्तम्बसूत्रेण पुरुषाकृत्युपस्थाने वा, 'यजेत्पुरुषसूक्तेन वरुणं विश्वरूपिणम् । यजेत्पु. रुषसूक्तेन धनदं विश्वरूपिणम्' इति शातातपस्मृत्यादिषु वरुणधनदादियजने विनियुक्तत्वेऽपि न तत्परत्वमिति भू- यानस्य विषयः । तस्मादहून्पश्यन्त्या बहुभिर्भाषमाणाया अपि पतिव्रताया हृदयं पत्याविव बहुभिर्वचनैरितस्ततो नी- यमानाया अपि भगवत्या श्रीरुद्रोपनिषदो हृदयं श्रीमति साम्बपरब्रह्मण्येव व्यवतिष्ठत इति तामन्यपरां चिकीर्षमाणा .
उपोद्धातः । रामानुजादयः भगवती सीतामात्मसात्कर्तुं प्रवृत्तरावणवत् महापापिष्ठा इत्यास्तां तावत् ॥ यत्तूक्तं नमस्कारिष्टानिष्टप्राप्तिपरिहारप्रार्थनालिङ्गः श्री- रुद्रस्य स्तुतिपरत्वान्न सर्वेश्वरत्वसर्वान्तर्यामित्वादिकं ता- त्त्विकं सिध्यतीति, तत्तुच्छम् ; नमस्कारो हि नमस्कार्यो- स्कर्षप्रयुक्तः, लोके तथैव दर्शनात् , आराधयितुरा- राधनीयोत्कर्षानुसंधानपूर्वकः प्रह्वभावो नमस्कार इति शास्त्रकारैः नमस्कारशब्दार्थनिर्वचनाच्च । नमस्कार्योत्कर्ष- गवेषणायां च श्रुतविशेषणसमर्पितमुत्कर्षमपहायोत्कर्षान्त- रपरिग्रहायोगात् नमस्कारमन्त्रगततत्तद्विशेषणसमर्पितः स- र्वेश्वरत्वसर्वान्तर्यामित्वादिरूपस्तात्त्विक एव सिध्यति । कुत- स्तस्मिन्नतात्त्विकत्वशङ्का ? यद्यपि उत्कर्षादिव भयादपि लोके नमस्कारो दृश्यते, श्रुतावपि दृश्यते- 'नमस्ते हरसे शो- चिषे नमस्ते अस्त्वर्चिषे अन्यन्ते अस्मत्तपन्तु हेतयः पाप- कोऽस्मभ्यं शिवो भव' इति च, तथा च परमेश्वरस्य भी- मत्वेन भयप्रयुक्तोऽयं नमस्कार इत्यन्यथासिद्धिः शङ्कितुं शक्या, तथापि भयप्रयुक्तोऽपि नमस्कारः श्रुतावस्योक्तर्ष विना न संभवति । अत एव ‘नमस्ते हरसे शोचिष इत्याह नमस्कृत्य हि वसीयांसमुपचरन्ति' इति तन्मत्रब्राह्मणे तन्न- R. B.3 श्रीरुद्रभाष्यम् । मस्कारस्यौत्सर्गिकस्वविषयोत्कर्षापरित्यागो वर्णितः । वस्तुतो भयप्रयुक्तत्वेऽपि तन्नमस्कारस्य न क्षति:, श्रीरुद्रस्यानितर. साधारणनमस्कारभूयस्त्वस्य भयभूयस्त्वप्रयुक्ततयोत्कर्षज्ञाप- कत्वस्यापरिहार्यत्वात्। भयभूयस्त्वं हि परब्रह्मलिङ्गम् , 'भी- पास्माद्वातः पवते' 'महद्भयं वनमुद्यतम्' इत्यादिश्रुतेः । अतो नमस्कारो न स्तुतिलिङ्गम् । इष्टानिष्टपरिहारप्रार्थना तु यद्यपि स्तुतिलिङ्गं भवति, तथापि परमेश्वरादन्यत्रैव सा तथा, न तु परमेश्वरे । तथा सति पुरुषसूक्तैकवाक्यतापन्ने 'अद्भयः संभूतः' इत्युत्तरनारायणानुवाके 'इष्टं मनिषाण अमुं मनिषाण सर्व मनिषाण' इति प्रार्थनादर्शनेन पुरुषसू- तस्यापि स्तुतिमात्रपरत्वात्तदुपनीतममृतेशानत्वविराट्स्रष्ट्र त्वादिकमप्यतात्पर्यमिति चोये तव किमुत्तरम् ? अतो यत्कि- चिदेतदित्यास्तामतिविस्तरः ॥ . इत्थं श्रीरुद्रस्य श्रुतिस्मृतीतिहासपुराणप्रसिद्धं सर्ववेदोत्त. मत्वं तत्तात्पर्य च प्रपञ्चन विवेचितम् ; इदानीं बोधायनो- क्तश्रीरुद्रमहान्यासो जपादिकृतामुपकाराय संप्रदायेनार्थतो विविच्यते- 'अथात: पञ्चाङ्गरुद्राणां महान्यासपूर्वक जपहोमार्चनाभिषेकविधि व्याख्यास्यामः' इति । अत्र प- ञ्चाङ्गरुद्रस्यायमर्थ: पञ्च प्रकारा अङ्गन्यासा येषाम् , ते उपोद्धातः । पञ्चाङ्गरुद्राः; तथा हि-शिखाद्यस्त्रान्तमेकत्रिंशदङ्गन्यासः प्रथमः, मूर्धादिपादान्तं दशाङ्गन्यास: द्वितीयः, पादादिमूर्धान्तं पञ्चाङ्गन्यास: तृतीयः, गुह्यादिमस्तकान्तं पश्चाङ्गन्यासश्चतु- र्थः, हृदयाद्यस्त्रान्तं पञ्चाङ्गन्यासः पञ्चमः। तत्राद्यन्यासं दर्श- यति- 'या ते रुद्र इति शिखायाम् , अस्मिन्महत्यर्णव इति शिरसि, सहस्राणीति ललाटे, हंस: शुचिषदिति भ्रुवोर्मध्ये, त्रियम्बकं यजामह इति नेत्रयोः, नमः नुत्याय चेति कर्णयोः, मानस्तोक इति नासिकायाम् , अवतत्येति मुखे, नीलग्रीवौ द्वौ कण्ठे, नमस्ते अस्त्वायुधायेति बाह्वोः, या ते हेतिरित्युपबा- होः, ये तीर्थानीति हस्तयोः, सद्योजातमिति पञ्चानुवाका- न्पञ्चस्वङ्गुलीषु, नमो वः किरिकेभ्य इति हृदये, नमो गणे- भ्य इति पृष्ठे, नमो हिरण्यबाहव इति पार्श्वयोः, विज्यं धनु- रिति जठरे, हिरण्यगर्भ इति नाभौ, मीढुष्टमेति कट्याम् , ये भूतानामिति गुह्ये, ये अन्नेष्वित्यण्डयोः, सशिरा जातवेदा इत्यपाने, मा नो महान्तमित्यूर्वोः, एष ते रुद्र इति जान्वोः, संसृष्टजिदिति जङ्घयोः, विश्वं भूतमिति गुल्फयोः, ये पथा- मिति पादयोः, अध्यवोचदिति कवचम् , नमो बिल्मिन इत्युपकवचम् , नमो अस्तु नीलग्रीवायेति तृतीयनेत्रम् , प्रमुञ्च धन्वन इत्यत्रम् , य एतावन्तश्चेति दिग्बन्धः' इति । अ- १ श्रीरुद्रभाष्यम् । स्यार्थ:-'या ते रुद्र शिवा तनूः' इति मन्त्रानुक्त्वा शिखायै नम इत्युच्चार्य शिखादीन्स्पृशेत् । नीलग्रीवौ द्वौ कण्ठ इत्यत्र कण्ठस्योत्तरदक्षिणभागयोः क्रमेण नीलग्रीवमन्त्रद्वयन्यासः । या ते हेतिरित्युपबाह्वोरित्यत्रोपबाहुशब्देन मणिबन्धादुपरि. भागावुच्यते । सद्योजातमिति पञ्चानुवाकान् पञ्चस्वङ्गुली- ध्वियत्र सद्योजातमन्त्रमुक्त्वाङ्गुष्ठाभ्यां नम इत्युच्चार्याङ्गुष्ट- योन्यसेत् । एवं तर्जन्योर्वामदेवं मध्यमयोरघोरम् अनामि- कयोस्तत्पुरुषं कनिष्ठिकयोरीशानं च न्यसेदित्यर्थः । सशिरा जातवेदा इति ‘सशिरा जातवेदा अक्षरं पदं वेदानां सार- मुद्धृतं जातवेदसे शिरसे स्वाहा' इत्ययं मन्वः सशिरा जात- वेदा इत्यनेनोच्यत इत्येकः संप्रदायः; 'जातवेदसे' सोम- मरातीयतः' 'अग्ने त्वं पारय' 'अग्ने नय सुपथा राये' 'विश्वानि नो दुर्गहा' 'पृतनाजितं सह' इत्येते षण्मन्त्राः सशिरा जातवेदाः' इत्यनेन गृह्यन्ते इत्यपरः संप्रदायः; आचारतो व्यवस्था । अध्यवोचदिति मन्त्रेण कवचाय हुमि- ति न्यसेत् । नमो बिल्मिने चेत्यनेनोपकवचाय हुमिति न्य- सेत् । नमो अस्तु नीलग्रीवायेत्यनेन तृतीयनेत्राय नम इति न्यसेत् । प्रमुञ्च धन्वन इत्यनेनास्त्राय फडिति न्यसेत् । सोऽयं शिखाधनान्तो दिग्बन्धसहित: प्रथमो न्यासः । - - उपोद्धातः। ३७ - अथ द्वितीयन्यासमाह 'ओं नमो भगवते रुद्राय' इति नमस्कारं न्यसेत् । 'ओंकारं मूर्ध्नि विन्यस्य न. कारं नासिकाग्रतः । मोकारं तु ललाटे स्याद्भकारं मुखमध्यत: ॥ गकारं कण्ठदेशे च वकारं हृदि विन्यसेत् । तेकारं दक्षिणे हस्ते रुकारं वामतो न्यसेत् ॥ द्राकार नाभिदेशे तु यकारं पादयोन्यसेत्' इति । अस्मार्थः पूर्वोक्तदिग्बन्धनसहितप्रथमन्यासानन्तरम् , 'ओं नमो भग- वते रुद्राय' इति मन्त्रमुच्चार्य नमस्कृत्य ‘ओं मूत्रे नमः इति मूत्रिं, 'नं नासिकायै नमः' इति नासिकायाम् , ' मों ललाटाय नमः' इति ललाटे, 'भं मुखाय नमः' इति मुखे, 'गं कण्ठाय नमः' इति कण्ठे, 'वं हृदयाय नमः' इति हृदये, 'तें दक्षिणहस्ताय नमः' इति दक्षिणहस्ते, 'रं वाम- हस्ताय नमः' इति वामहस्ते, 'द्रां नाभ्यै नमः' इति नाभौ, 'यं पादाभ्यां नमः' इति पादयोः न्यसेदिति; सोऽयं द्वि- तीयन्यासः । अथ तृतीयन्यासमाह- सद्यं च पादयो- यस्य वामं न्यस्योरुमध्यतः। अघोरं हृदि विन्यस्य मुखे तत्पुरुषं न्यसेत् ॥ ईशानं मूनि विन्यस्य हंसो नाम सदाशिवः । एवं न्यासविधिं कृत्वा ततः संपुटमारभेत् ॥' त्रातारमिन्द्रम्' 'त्वं नो अग्ने' 'सुगं नः पन्थाम् ' 'असुन्वन्तम्' 'तत्त्वा- श्रीरुद्रभाष्यम् । , यामि''आनोनियुद्भिः' 'वयं सोम' 'तमीशानम्' 'अस्मे रुद्रा 'स्योना पृथिवी' इत्येतत्संपुटमिन्द्रादिदिक्षु विन्यस्य एवमेवा त्मनि रौद्रीकरणं कृत्वा त्वगस्थिगतैः सर्वपापैः प्रमुच्यते सर्व भूतेष्वपराजितो भवति । ततो भूतप्रेतपिशाचब्रह्मराक्षसयक्षय- मदूतशाकिनीडाकिनीसर्पश्वापदतस्करायुपद्रवाद्युपघाताः सर्वे ग्रहा ज्वलन्तं पश्यन्तु' इति । अस्यार्थः- सद्योजातमन्त्र- मुच्चार्य पद्भ्यां नम इत्युच्चार्य पादौ स्पृशेत् । एवं वामदेवादि- भिसर्वादिमूर्धान्तं न्यसेत्। अनन्तरं हंसहसेत्युक्त्वा मूर्धानं स्पृशेत् । हंसो नाम सदाशिव एव ; तथा चैवं कुर्वन् हंसो नाम हंस इति प्रसिद्धः सदाशिव एव भवतीति । एतदनन्तरकृत्य- माह-'तत: संपुटमारभेत्' इति । संपुटशब्दवाच्यामजलि- मुद्रां विधाय तां प्रथमं प्राङ्मुखी कृत्वा 'त्रातारमिन्द्रम्' इति मन्त्रमुच्चार्य इन्द्राय नम इति ब्रूयात् । तत आग्नेयाभिमुखी कृत्वा 'त्वं नो अग्ने' इति मन्त्रमुच्चार्य अग्नये नम इति ब्रूयात् । एवं याम्यादीशानान्तं कुर्यात् । तदनन्तरं रौद्रीकरणं कुर्वी. त । तच्च द्विविधम्- 'विभूरसि प्रवाहणः' इत्यादि 'अ. हिरासि बुद्धियः' इत्यन्तेषु सर्वेष्वपि मन्त्रेषु 'रौद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिंसीः' इत्यनुषङ्गेणानुष्ठीयमानं रौद्रीकरणमेकम् । अन्यत्तु 'प्रजनने ब्रह्मा तिष्ठत्वित्यारभ्य उपोद्घातः। ३९ - सर्वतोऽग्निज्वालामालापरिवृतास्तिष्ठन्तु मां रक्षन्तु' इत्येतेन वक्ष्यमाणरीत्या स्वशरीरे देवतास्थापनरूपं रौद्रीकरणम् । यथा संप्रदायमाचरणीयम् । तदेतस्य सर्वस्य फलमाह- 'त्वगस्थिगतैः सर्वपापैः प्रमुच्यते' इत्यादिना । सोऽयं तृ. तीयो न्यासः । अथ चतुर्थन्यासमाह- 'मनोज्योति- रबोध्यग्निरग्निं मूर्धा मूर्धानं मर्माणि ते जातवेदा इति गुधना- भिहृदयकण्ठमुखशिरांस्यभिमन्व्यामरक्षा कर्तव्या' इति । अस्यार्थः- मनोज्योतिरिति मन्त्रमुच्चार्य गुह्याय नम इत्यु- क्त्वा गुह्यं स्पृशेत् । एवमबोध्यग्निरित्यादिभिः नाभ्यै नम इत्युक्त्वा नाभिहृदयकण्ठमुखशिरांसि स्पृशेत् । इदमेव गुह्याद्यभिमन्त्रणमात्मरक्षेति व्यपदिश्यते । सोऽयं चतुर्थो न्यास: । अथ पञ्चमन्यासमाह-'शिवसंकल्पं हृदयं पुरु- षसूक्तं शिर उत्तरनारायणं शिखा अप्रतिरथं कवचं प्रति- पुरुषमिति नेत्रं शतरुद्रीयमित्यत्रं भूर्भुवःसुवरोमिति दि- ग्बन्धः' इति । अस्यार्थः-- 'येनेदं भूतं भुवनं भविष्यत्' इत्यादिषट्त्रिंशन्मत्रात्मकं शिवसंकल्पसूक्तं पठित्वा हृदयाय नम इति हृदये न्यसेत् । पुरुषसूक्तं पठित्वा शिरसे स्वाहेति शिरसि विन्यसेत् । 'प्रतिपूरुषमेककपालं निर्वपति' इत्य- नुवाकः 'जात एव प्रजा रुद्रान्निरवदयते' इति तद्ब्राह्मणा- । - श्रीरुद्रभाष्यम् । नुवाकश्च प्रतिपूरुषं तत्पठित्वा — नेत्रत्रयाय वौषट्' इति नेत्र- त्रयं स्पृशेत् । 'त्वमग्ने रुद्र' इत्यनुवाकः, तथा 'देवा देवेषु श्रयध्वम्' इत्यनुवाकश्च शतरुद्रीयम् । यद्यपि त्वमग्ने रुद्र' इत्यत्र न प्रागुक्तशतरुद्रीयपदप्रवृत्तिनिमित्तम् , तथापि विश्वदेवदेवत्यस्य 'विश्वेदेवस्य नेतुः' इति मत्रस्य 'द्युम्नं वृणीत पुष्यस इत्याह पौष्ण्येतेन' इति पौष्णत्ववत् 'उद्बुध्यस्वाग्ने इति मन्त्रस्य बुधप्रातिपदिकयोगमात्रात् बुधदैवत्यत्ववत् । नो देवीः' इत्यादेः शनिप्रातिपदिकावयवाच्छनिदेवत्यत्ववा अग्निदेवत्यस्यापि 'त्वमग्ने रुद्र' इत्यस्य रुद्रपदयोगमात्राच्छ. तरुद्रीयत्वं मन्यते । वस्तुतस्तु त्वमग्ने रुद्र' इत्यनुवाकप्रति. पाद्यस्याग्नेः शतरुद्रात्मना स्तुतिरिति तस्य शतरुद्रीयत्वव्य- पदेशः । देवा देवेषु' इत्यनुवाकस्य ' देवास्त्रिरेकादशाखिस्त्र. यस्त्रिंशाः' इति शतरुद्रप्रतिपादनेन तत्र किंचिदवयवार्थानु. गमाच्छतरुद्रीयत्वं द्रष्टव्यम् । तावेतावनुवाको पठित्वा अ- स्त्राय फडिति न्यसेत् । सोऽयं पञ्चमो न्यासः । अथ पञ्चाङ्गन्यासानन्तरकृत्यमाह--'पञ्चाङ्गं सकृजपेदष्टाङ्गं प्रण- म्य' इति सद्योजातादिरूपपञ्चाङ्गं सकृजपेत् ; अथाष्टाङ्गकं प्रणामं कुर्यात् । तानेवाष्टमन्त्रानाह हिरण्यगर्भः' 'य: ' 'ब्रह्मजज्ञानम्' 'मही द्यौः' उपश्वासय' । अग्ने प्राणतः उपोद्धातः। 'या ते अमे' 'इमं यमप्रस्तरम्' इत्यष्टाङ्गं प्र. णम्य इति । एतेषां मन्त्राणां पाठमात्रेण निवृत्तः प्रणाम इत्येकः पक्षः; एभिमन्त्रैः साष्टाङ्ग दण्डवत्प्रणाम इत्यपरः पक्षः । तदनन्तरंकृत्यमाह- अथामानं श्रीरुद्ररूपं ध्या- येत्- 'शुद्धस्फटिकसंकाशं त्रिणेवं पञ्चवक्रकम् । गङ्गाधरं दशभुजं सर्पाभरणभूषितम् ॥ नीलग्रीवं शशाङ्काभं नागयज्ञो- पवीतिनम् । व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् । कम- ण्डल्वक्षसूत्राद्यैरन्वितं शूलपाणिनम् । ज्वलन्तं पिङ्गलजट शिखामुद्योतकारिणम् । अमृतेनाप्लुतं हृष्टमुमादेहार्धधारिणम् । दिव्यसिंहासनासीनं दिव्यभोगसमन्वितम् । दिग्देवतासमा- युक्तं सुरासुरनमस्कृतम् ॥ नित्यं च शाश्वतं शुद्धं ध्रुवमक्षर- मव्ययम् । सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् । एवं ध्यात्वा व्रतं सम्यक्ततो यजनमारभेत्' इति । अभिषेकवि- धिव्याख्यामाह- 'अथातो रुद्रस्नानार्चनाभिषेकविधिं व्या. ख्यास्यामः । आदित एव तीर्थे स्नात्वोदेत्याहतं वासः परि. धाय शुचिः प्रयतो ब्रह्मचारी शुक्लवासाः ईशानस्य प्र- तिकृतिं कृत्वा तस्य दक्षिणतः प्रत्यग्देशे तन्मुख: स्थित्वा आ. मनि देवताः स्थापयेत् - प्रजनने ब्रह्मा तिष्ठतु । पादयो. विष्णुस्तिष्ठतु । हृदये शिवस्तिष्ठतु । उदरे पृथिवी तिष्ठतु | R. B.3a -- ४२ श्रीरुद्रभाष्यम् । जठरे अग्निस्तिष्ठतु । कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्वायुस्तिष्ठतु । नयनयोश्चन्द्रादित्यौ तिष्ठे. ताम् । कर्णयोरश्विनौ तिष्ठेताम् । ललाटे रुद्रास्तिष्ठन्तु । पृष्ठे पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु । पार्श्वयोः शिवा. शंकरौ तिष्ठेताम् । सर्वतो वायुस्तिष्ठतु । ततो बहिः सर्वतो. ऽग्निालामालापरिवृतस्तिष्ठतु । सर्वेष्वङ्गेषु सर्वा देवतास्ति- ष्ठन्तु । मां रक्षन्तु । 'अग्निमें वाचि श्रितः' इति यथालिङ्गम- गानि संस्पृश्यात्मानं गन्धपुष्पधूपदीपनैवेद्यैर्मानसैराराधयेत् । अथैनं प्रसाधयेत्- 'आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरा- दिभिः । आराधयामि भक्त्या त्वां मां गृहाण महेश्वर' इति; त्रियम्बकमिति च। एवमात्मपूजानन्तरं बाह्यपूजाप्रकारमाह- आत्वा वहन्तु हरयः सचेतसः श्वेतैरश्वैः सह केतुमद्भिः । वाताजितैबलवद्भिर्मनोजवैरायाहि शीघ्रं मम हव्याय शर्वोम्' इत्यावाहयति । स्थापिते तु नावाहनम् । अथासनं ददाति 'सद्योजातम्' इति । 'भवे भव' इति पाद्यम् । 'भवोद्भवाय नमः' इत्यय॑म् । 'वामदेवाय नमः' इत्याचमनीयम् । अथैनं स्नापयति आपो हि ष्ठादिभिस्तिसृभिः, हिरण्यवर्णा इति चतसृभिः, पवमानः सुवर्जन इत्यनुवाकेन मार्जयित्वा, 'सर्वो वै रुद्रः' 'कया नश्चित्रः' ' आपो वा इदं सर्वम्' इत्येतैश्च ।
उपोद्धातः ।
४३
'का-
तम्,
'वामदेवाय नमः' इति वनम् , 'ज्येष्ठाय नमः' इत्युपवी-
'रुद्राय नमः' इत्याचमनीयम्, प्रणवेन भूषणम् ,
लाय नमः' इति गन्धम् , 'कलविकरणाय नमः' इत्यक्षतम् ,
'बलविकरणाय नमः' इति पुष्पम् , 'बलप्रमथनाय नमः' इति
धूपम् , 'सर्वभूतदमनाय नमः' इति दीपम् , ' मनोन्मनाय
नमः' इति नैवेद्यं ददाति । अथास्मै अष्टभिर्मन्त्रैरष्टौ पुष्पाणि
ददाति 'भवाय देवाय नमः' इति । अथास्य रुद्रतनूरुप.
तिष्ठते 'अघोरेभ्योऽथ घोरेभ्यः' इति । अथ रुद्रगायत्री जपेत्
तत्पुरुषाय विद्महे' इति शतकृत्वोऽपरिमितकृत्वो वा
दशवारं वा। अथैनमाशिषमाशास्ते 'ईशानः सर्वविद्या.
नाम्' इति । अथास्य मूर्धनि कलशधारया संततमभिषिञ्चन्
'नमस्ते रुद्र मन्यवे' इत्येकादशानुवाकाजपेत् । 'सर्वो वै
रुद्रः' 'इमा रुद्राय' इति द्वादशर्चमन्यांश्च रौद्रमन्वाजपेत् ।
जपानन्तरम् 'अग्नाविष्णू सजोषसेमा' इत्येकादशानुवाका.
नामेकैकमनुवाकं जपेत् । एतत् पापक्षयार्थी व्याधिमोचनार्थी
श्रीकाम: शान्तिकाम आयुष्काम आरोग्यकामश्च कुर्यात् ;
एवं कुर्वन्नेतत्सर्वमाप्नोति । पायसादिमहाहविनिवेदयति । अथ
दक्षिणां ददाति दश गा एकादश, तदभावे एकां गां
दयादित्याह भगवान् बोधायन इति । इत्थं श्रीरुद्रस्य
,
।
श्रीरुद्रभाष्यम् । सकलपापनिवर्तकत्वेन, सर्वोपासनाफलप्रदत्वेन, सकृजपादे- ज्ञानप्रदत्वेन च कर्मोपासनाज्ञानकाण्डामकसकलवेदोत्तमत्व- म्। तत्र च श्रुतिस्मृतीतिहासपुराणतात्पर्य तभ्यासविधिश्चेत्ये तत्सर्व निरूपितम् । इदानीं श्रीरुद्रोपनिषदमर्थतो व्याख्या. स्यामः॥
॥ॐ॥ ॥ श्रीरु.भाष्यम् ॥ ॐ नमस्ते रुद्र मन्यव उतो त इषवे नमः । नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः॥ आनन्दमानन्दकरं प्रसन्न निजस्वरूपं निजबोधयुक्तम् । योगीन्द्रमीड्यं भवरोगवैद्य श्रीमद्गुरुं नित्यमहं नमामि ॥१॥ विद्यागुम्भसुधापूरहृद्याननसुधांशवे । रक्षिणे सर्वलोकानां दक्षिणामूर्तये नमः ॥२॥ इदानी रुद्रोपनिषदर्थ व्याख्यास्यामः- अत्र ह्ये- कादशानुवाकाः; तत्र आये भगवतः प्रसादः, द्विती- यादिष्वष्टसु सर्वेश्वरत्वसर्वात्मकत्वसर्वान्तर्यामित्वादिरूपेण भगवन्नमस्कारः; ततो दशमे भगवतः प्रार्थना; एकादशे ४६ श्रीरुद्रभाष्यम् । भगवदंशभूतरुद्रसंघप्रार्थनेत्येकादशात्मकश्रीरुद्राध्यायार्थः तत्र तावन्निजपापक्षयार्थमीश्वरं प्रसादयितुं नमस्करोति- नमस्ते रुद्रेति । हे रुद्र प्रणतदुःखद्रावक, ते तर मन्यवे क्रोधाय, नमः अस्तु । न च निरस्तसमस्तदोषनि खिलकल्याणगुणगणसमुद्रे भगवति कथं क्रोधप्रसंक्तिरिति वाच्यम् , दुष्टनिग्रहशिष्टानुग्रहस्वभावे निग्राह्यविषये क्रोध. स्यालंकारत्वेनादोषत्वात् ; 'श्रुतिस्मृतिर्ममैवाज्ञा यस्तामुलाय वर्तते । आज्ञाच्छेदी मम द्वेष्यः स मे वध्यश्च जायते इति भगवतैवोक्तत्वात् । न चैवं वैषम्यनैघृण्यप्रसक्तिरिति वा- च्यम्, तत्तत्प्राणिकर्मानुसारेण निग्रहानुग्रही कुर्वतस्तस्य तदप्रसतेरिति ब्रह्ममीमांसायां प्रपञ्च: । अत्र रुद्रेति हेतु. गर्भ संबोधनम् । अत्र रुद्रशब्दो हि रुतं द्रावयतीत्यर्थे 'रुदुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः । रुद्र इत्युच्यते तस्माच्छिवः परमकारणम् इति पौराणिकैयुत्पादितः पृषोदरादिः; तथा च प्रणतदुःखतद्धेतुभूतपापद्रावकस्य तव प्रणते मयि पापनिमित्तकः क्रोधः परिहतु युक्त एवेति भावः। एवमपि रुद्रपदसंबोधनाभिप्रायो द्रष्टव्यः । इत्थं भगवन्तं प्रसाद्य तदायुधान्यपि नमस्कारेण प्रसाधयति-उतो त इति ; उतो अपि चेत्यर्थः ; हे रुद्र, ते तव, इषवे बाणाय, नमः ! , श्रीरुद्रभाष्यम् । अस्तु ; तथा इध्वपादानभूताय तव धन्वने धनुषे, नमः अस्तु उत अपि च, धनुर्बाणव्याप्ताभ्यां हस्ताभ्यां नमः अस्तु श्रुतिस्मृतिरूपस्वाज्ञातिलचिने पापिष्ठाय परमेश्वरः क्रुध्यति, ततस्तत्प्रहरणार्थमिषुरुपतिष्ठते, ततस्तदपादाने धनुषि दृष्टि- भवति, ततो धनुर्बाणग्रहणाय बाहू व्याप्रियते इति क्रमः । अनेनैव क्रमेणात्र नमस्कारक्रमः । अनन्तविचित्रशक्तेः भगवतो दिव्यशक्तिविलासरूपा जगदुपास्यदेवतामूर्तय इव इध्वादय इति तन्नमस्कारप्रार्थनादिकं युक्तमेव । श्रूयते हि महाभारते--- विस्मृतपाशुपतास्त्रसंधानप्रकारविशेषपरि- ज्ञानाय कृष्णार्जुनयो: कैलासयात्रायां तत्र कचिदिव्यसरस्य- वस्थितं तदस्त्रमिहानयेति परमेश्वरनियोगेन तदर्थ गतयोः तत्र चानेकफणिमण्डलमुखोद्वान्तविषानलज्वालाकरालमति. भयंकरं पाशुपतास्त्रमासीत् ; तच्च भगवतः श्रीकृष्णस्य शतरु- द्रीयाध्यायजपमहिम्ना शान्तरूपं भूत्वा हस्तगतमासीदिति । तदेतदत्रानुसंधेयम् । अथास्य मन्त्रस्य ऋषिच्छन्द्रोदेवताः प्रदर्श्यन्ते, तज्ज्ञानं विना मन्त्रजपत्य निषिद्धत्वात् । अत एव छन्दोगा अधीयते- 'यो ह वा अविदितार्षेयच्छ. न्दोदेवतेन ब्राह्मणेन मन्त्रेण यजति वाध्यापयति वा स्थाणुर्वा भवति गर्ने वा पद्यते प्र वा मीयते पापी- ४८ श्रीरुद्रभाष्यम् । यान्भवति तस्मादेतानि मन्त्रे विद्यात्' इति । 'नमैसे रुद्र मन्यवे' इति मन्त्रस्यावेयऋषिः, अनुष्टप्छन्दः, श्रीरुझे देवता। ध्यानम्- 'आकर्णकृष्टे धनुषि ज्वलन्ती देवी. मिधू भास्वति संधानम् । ध्यायेन्महेशं महनीयवेष देव्या. युतं योधतनुं युवानम्' । प्राजापत्यकृच्छ्रानुष्ठानपू. र्वकमेकादशसहस्रजपादस्य मन्त्रस्य सिद्धिः। अनेन मन्त्रे. ण प्रदक्षिणनमस्काराभ्यां परमेश्वरप्रसादः पापक्षयः गा. णपत्यं च भवति । तत्प्रयोगभेदास्तु रुद्रकल्पार्णवादी द्रष्ट- व्याः, विस्तरभयान्नेह लिख्यन्ते । इति प्रथममन्त्रः ॥ या त इषुः शिवतमा शिवं बभूव ते धनुः । शिवा शरव्या या तव तया नो रुद्र मृडय ॥ एवं प्रथममन्त्रेण भगवन्तं सपरिकरं प्रसाद्य द्वितीयेन स्वस्य सुखं प्रार्थयते- या त इषुरिति । हे रुद्र, या ते तव, इषुः शिवतमा शान्ततमा बभूव, पूर्व पापिष्ठे मयि घोररूपा सति नमस्कारेण शान्तरूपा जातेत्यर्थः । एवं यह ते धनुः शिवं शान्तरूपं वभूव, या च तव शरव्या शिवा बभूव, शरव्येति हिंसाहेतुरायुधविशेषः, 'अवसृष्टा परापत- श्रीरुद्रभाष्यम् । ४९ , शर्रव्ये ब्रह्मसंशिता' इति श्रवणात् ; यद्वा शृणोतेहिंसाकर्मणः उप्रत्यये शरुः, शरवः शराः, तेभ्यो हिता शरव्या इषुधिः, तया शरव्यया- उपलक्षणमेतत्- तेन धनुषा, तया इध्वा च नः अस्मान् , मृडय सुखय । अस्य मन्त्रस्य आत्रेयऋषिः, अनुष्टुप्छन्दः, शंभुर्देवता। ध्यायेद्देवं सस्मितं स्यन्दनस्थं देव्या सार्ध तेजसा दीप्यमानम् । इविष्वासालंकृताभ्यां भुजाभ्यां शूराकारं स्तूयमानं सुरौधैः'। द्वादशदिनानि नित्यकर्मावि- रोधेन निशीथिनीव्यतिरिक्तकाले निरन्तरजपात्पुरश्चरणसि- द्धिः ; ततः प्रयोगार्हो भवति । दुर्भिक्षराष्ट्रक्षोभादिपरिहार- प्रधानोऽयं मन्त्रः ।। या ते रुद्र शिवा तनूरघोरापापका- शिनी । तया नस्तनुवा शंतमया गिरि- शंताभिचाकशीहि ॥ एवं द्वितीयेन सांसारिकसुखमाशास्य तृतीयेन मोक्षहेतु- ज्ञानमाशास्ते- या ते रुद्रेति । हे रुद्र, ते तव, या तनूः प्रसिद्धा, श्रूयते हि- 'तस्यैते तनुवौ घोरान्या शिवान्या इति ; भारतेऽपि 'द्वे तनू तस्य देवस्य देवज्ञा ब्राह्मणा विदुः । घोरा चान्या शिवा चान्या ते चैव शतधा पुनः' R. B.4 श्रीरुद्रभाष्यम् । इति । सा तनूः कीदृशी-- अघोरा आयुधैरकारणभयंकरी घोरा, सा न भवतीत्यघोरा; न केवलं भयंकरत्वाभावमात्र. वती, किंतु शिवा शिवंकरी सुखप्रदा, न केवलं सांसारिक सुखमात्रप्रदा, किं तु परमपुरुषार्थभूतमोक्षहेतुज्ञानप्रदापी. स्याह-- अपापकाशिनीति । अपापशब्देन पापविरोधिन- यात्मतत्त्वज्ञानमुच्यते, तद्यथेषीकातूलमग्नौ प्रोतं प्र- दूयेत एवं ह वास्य सर्वे पाप्मानः प्रदूयन्ते' इति श्रुतेः, 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' इति स्मृतेश्च । अपापस्य काशिनी प्रकाशयित्री ज्ञानप्रदेति यावत् , 'आत्मबुद्धिप्रकाशम्' इति श्रुतेः । एवंविधा या तव तनू- रस्ति, तया शंतमया निरतिशयसुखरूपया तन्वा, नः अ. स्मान् , अभिचाकशीहि अभितः सर्वत: प्रकाशयुतान् कुरु; अद्वितीयब्रह्मात्मतत्त्वमेव सर्वत: प्रकाशय, 'यस्मिन्विज्ञाते सर्वमिदं विज्ञातम्' इति श्रुतेः । अभिचाकशीहीति यङ्लुग- न्तप्रयोगेन भृशार्थरूपक्रियासमभिहारः प्रदर्शितः; अप्रति- बद्धापरोक्षब्रह्मसाक्षात्कारयुक्तान्कुर्वित्यर्थः । शंतमया अभि- चाकशीहीत्यनेन परमेश्वरस्य चिदानन्दविग्रहत्वं प्रदर्शितम् । ननु मन्नमस्कारमात्रेण मोक्षमिच्छसि, तस्य श्रवणमनननिदि. ध्यासनादिबहुयत्नसाध्यत्वादित्याशय संबोधयति-गि- श्रीरुद्रभाष्यम् । . रिशंतति । गिरि प्रतिज्ञारूपायां वाचि स्थित्वा लोकानां शं मोक्षसुखं तनोतीति गिरिशंतः, श्रवणाद्यायासं विनापि केवलं भगवन्नमस्कारघटितदिव्यनामधेयात्मकश्रीरुद्रजपमा- त्रेण युक्तो मोक्षाभिलाष:, 'एतैर्ह वा अमृतो भवति' इति श्रुतेः- इति द्वितीयसंबोधनस्वारस्यम् । अस्य मन्त्रस्य स्वाराट् ऋषिः, त्रिवृदनुष्टुप्छन्दः, शंभुर्देवता; 'स्मेराननं चन्द्रकलावतंसं गङ्गाधरं शैलसुतासहायम् । त्रिलोचनं भ. स्मभुजंगभूषं ध्यायेत्पशूनां पतिमीशितारम्' । नित्यकर्मा. विरोधेन त्रिरात्रं निरन्तरजपात्पुरश्चरणसिद्धिः। गोशान्या- दिफलप्रदोऽयं मन्त्रः । इति तृतीयः ।। यामिषु गिरिशंत हस्ते बिभयंस्तवे । शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् ॥ एवं द्वितीयतृतीयाभ्यामिष्टसिद्धिः प्रार्थिता; अथ चतुर्थ- मन्त्रेणानिष्टपरिहारं प्रार्थयते--यामिषुमिति। गिरौ कैलासे स्थित्वा लोकानां शं शिवं तनोतीति गिरिशंत:, हे गिरि- अन्त, यामिषु हस्ते बिर्षि धारयसि ; किमर्थम् ! अस्तवे असितुं पापिष्ठान् क्षेप्तुम् ; छन्दसि तुमर्थे तवेन्प्रत्ययः ।
५२ श्रीरुद्रभाष्यम् । अत तामिछु शिवां कुरु शिवंकरस्त्वम् इषु शिवां कर्तुमर्हसीति संबोधनाभिप्रायः । कीडशमिषोः शिवत्वम् । तत्राह- मा हिसीरिति । पुरुषम् अस्मदीयं पुत्रपौत्रादिरूपम्, तथा जगत् अस्मदीयगोमहिष्यादिकं गृहारामक्षेत्रादिकं च, मा हिंसीः; एतदेवेषोः शिवत्वकरणमिति भावः । अब गिरिशंतेत्यनेनैव चरितार्थतया पुनः 'गिरित्र' इति सं. बोधनमधिकं सत् अर्थविशेषं ज्ञापयतीति तं दर्शयामः- अकृत्याकार्यकृदपि मां भजते चेदवश्यं रक्षिष्यामीति परमेश्वरस्य प्रतिज्ञा; एव खलूपानुवाक्यकाण्डे 'मनुः पुत्रेभ्यो दायं व्यभजत्सनाभानेदिष्ठं ब्रह्मचर्यम्' इति प्रस्तुत्य 'तं पशुभिश्वरन्तं यज्ञवास्तौ रुद्र आ. गच्छत्सोऽब्रवीत् मम वा इमे पशव इत्यदुवै मामिमानि- त्यब्रवीन वै तस्य त ईशत इत्यब्रवीत् यद्यज्ञवास्तौ हीयते मम वै तदिति तस्माद्यज्ञवास्तुनाभ्यवेत्यम्' इति नाभानेदि. ष्ठस्याकृत्यमुक्त्वा तं प्रति 'यज्ञे मा भजाथ ते पशूना- भिमस्ये' इति भगवतः प्रतिज्ञा श्रूयते । पुराणेति- हासेषु च एवंजातीयकानि भूयांसि वचनान्यस्य वि. षयः । तथा च गिरि प्रतिज्ञारूपायां वाचि स्थित्वा भजतस्त्रायत इति गिरित्र:, हे गिरित्र, अकृत्यकारिणो- - श्रीरुद्रभाष्यम् । ऽपि मम नाभानेदिष्ठस्येव त्वां भजतः पुत्रपौत्रादिकं पाल- येति संबोधनाभिप्रायः । इति चतुर्थः ।। शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वमिजगदयक्ष्मर सुमना असत् ॥ तदेवं नमस्ते रुद्रेति नमस्कृत्य द्वितीयंतृतीयचतुर्थैरिष्ट- प्राप्यनिष्टपरिहारौ प्रार्थितौ; इदानी स्तुतिपूर्वकं तदुभयं प्रार्थयते-शिवेन वचसेति । गिरिशब्देन गिरिरूपा वेदा उच्यन्ते, तत्र श्रुतिः-- 'तं ह त्रीन् गिरिरूपानविज्ञातानिव दर्शयांचकार' इति प्रस्तुत्य, 'वेदा वा एते' इति । तथा च गिरिरूपेषु वेदेषु शेते तिष्ठतीति गिरिशः वेदप्रतिपाद्यः, हे गिरिश, अच्छा निर्मलम् , त्वां शिवेन वचसा वदा- मसि स्तुम इत्यर्थः । कीदृशी स्तुतिस्तत्राह- यथा येन प्रकारेण कृतया स्तुत्या, नः अस्माकं संबन्धि, सर्वमित् सर्व- मपि, जगत् पशुपुत्रादिरूपं जङ्गमजातम् , अयक्ष्मम् अरोगम् , सुमनाः सौमनस्योपेतं सुखितं च, असत् स्यात् , तथा स्तुम इति । अत्र गिरिशेत्यनेन निखिलवेदवर्णनीयस्य स्तोत्रं युक्त. मेवेति दर्शितम् । तत्र पापिष्ठस्य उक्तिसंबन्धात्परमेश्वरस्य श्रीरुद्रभाष्यम् । - मालिन्यमाशङ्कय अच्छ' इति पुनः संबोधयति । निलं निरवद्यस्य मलिनमदुक्तिसंबन्धेऽपि न काचित् क्षतिः, न हि गङ्गाजलस्य रथ्योदकसंयोगेन पावनता गच्छति, प्रत्युत गङ्गानुषङ्गादथ्योदकमेव स्वयं च पावनीभूय यमुनोदकनि- विशेषत्वं प्रतिपद्यते, एवं परमपावने भगवति निवेशितं म. द्वचनमेव वेदवचनवल्लोकमान्यं भवतीति संबोधनाभिप्रायः। अत एव गङ्गाप्रवाहपतितस्य रथ्योदकस्य गङ्गात्वमिव शिवे पतितस्यापि मद्वचनस्य अतिशोभनतया शिवत्वमेव संपन्न मित्यभिप्रेत्य शिवेन वचसेत्युक्तम् । तदेतत् चतुर्थपञ्चमम- न्त्रद्वयं मिलित्वा एको मन्त्रः । अस्य मन्त्रस्य गौतम ऋषिः गायत्रीछन्दः, रुद्रो देवता; 'सांप्रामिकेन 'सांप्रामिकेन वपुषा प्रविराज- मानं देवं पुरत्रयविनाशनमन्दहासम् । दैत्यान्दिधक्षुमचले. श्वरचापपाणिं ध्यायेत्पुरारिमथ भूमिरथाधिरूढम् । एताभ्यां मन्त्राभ्यामकालमरणपरिहारादिर्भवति । एकविंशतिदिनानि निरन्तरजपात्पुरश्चरणसिद्धिः । इति पञ्चमः ।। अध्यवोचदधिवक्ता प्रथमो दैव्यो भि- षक् । अहीश्च सर्वाञ्जम्भयन्सर्वाश्च या- तुधान्यः॥ नन्वेवं नमस्कारस्तोत्राभ्यां मयि प्रसादितेऽपि वैवस्वतचि- श्रीरुद्रभाष्यम् । गुप्तादीनामतिदुर्दान्तानामन्येषां च त्वदीयपापसाधिभूता- नामन्येषां देवानां सत्त्वेन कथं तवानिष्टपरिहारः स्यादित्या- शक्य त्वत्प्रसादे सति ते सर्वेऽप्यकिंचित्करा इत्याह- अध्यवोचदिति । पक्षपातवचनमधिवचनम्, 'यद्राह्मण- : :श्वाब्राह्मणश्च प्रश्नमेयातां ब्राह्मणायाधिब्रूयात्' इति अब- णात् । तथा चायमर्थः-- अधिवक्ता भक्तेभ्योऽधिवचनख- भावः, प्रथमः प्रधानभूतः श्रेष्ठ इति यावत् , देव्यः देवेषु भवः देवान्तर्यामीत्यर्थः, भिषक् पापरोगसंसार- दारियादिसकलव्यसनचिकित्सकः, 'भिषक्तमं त्वा मिषजां शृणोमि' इति श्रुतेः ; एवंविधो भगवान् , अध्यवोचत् म. धिब्रवीतु, 'छन्दसि लुङ्' इति लोडणे लुङ्, मदीयोऽयमिति पक्षपातं करोत्वित्यर्थः । किं कुर्वन् ! सर्वानपि अहीन सर्पवृश्चिकचोरव्याघ्रादीन्प्रत्यक्षहिंसकान् , सर्वाश्च यातुषा- न्यः यातुधानजाती: रक्षःपिशाचाद्यपस्माररूपाः परोक्षाह- सिकाः, जम्भयन् नाशयन् अध्यवोचदिति । भत्र सर्वसमस भगवतः कथं त्वयि पक्षपातवचनम् , तथा सति वैषम्पने- घृण्यप्रसङ्ग इति शङ्कापरिहारार्थमधिवक्तेत्युक्तम् ; भक्तवधि- वचनं हि भजनकर्मप्रयुक्तम् , अतो नेश्वरस्य दोषमावहति । 'वैषम्यनैर्गुण्ये न सापेक्षत्वात्' इति न्यायादिति भावः । ..
श्रीरुद्रभाष्यम् । सत्यपि भगवत्पक्षपाते वैवस्वतादिदेवतान्तरप्रयुक्तः पापफ- लानुभवः कुतो न स्यादिति शङ्कानिरासाय प्रथम इत्युक्तम् । 'यो देवानांप्रथमः पुरस्ताद्विश्वाधिको रुद्रो महर्षिः', 'तमी- श्वराणां प्रथमं महेश्वरं तं देवतानां प्रथमं च दैवतम्', 'यो देवः सर्वदेवेषु महादेव इति स्मृतः । तस्मै नमस्तु कुर्वा- णा दिवि तिष्ठन्ति देवताः' इत्यादिश्रुतिस्मृतीतिहाससहस्राव- गतसर्वदेवताश्रेष्ठभावे भगवति मत्पक्षपातिनि सति न तदु. पजीविदेवतान्तरप्रयुक्तदुःखशङ्कावकाश इति भावः । न के वलं मे देवतान्तरप्रयुक्तदुःखाभावमात्रम्, प्रत्युत सकलदे. वतापूज्यत्वमपि ; यतः तदन्तर्यामितया तदीयपूज्यताबुद्धिप्रेर. को भगवान् मत्पक्षपाती जात इत्येतदैव्य इत्यनेन देवान्तर्या- मित्ववाचिना दर्शितम् । भिषगित्यनेन 'निदानज्ञस्य भिषजो रुग्णे हिंसां प्रयुजतः । न किंचित्र नैपुण्यं घृणैवात्र प्रयो. इति शिवपुराणोक्तभिषग्दृष्टान्तदर्शनेनोपपादितं भ- गवत: परमकारुणिकत्वमुक्तम् । तेन च अहियातुधानी: हिं. सतः तद्विषयेऽपि दयालुत्वमेव प्रदर्शितं भवति । यथा व्रण- वैद्यः क्षारच्छेददाहादिभिः ब्रणिनस्तात्कालिकदुःखकरोऽपि व्रणनिवारणेन तं सुखयन् दयालुरेव, तथा संसारवैद्यः परमेश्वरोऽपि अहियातुधानी: हिंसन्नपि तदीयक्रूरजन्महेतु- जिका' श्रीरुद्रभाष्यम् । दुरितनिवारणेन ताननघान् कृत्वा क्रमेण सुखं करोतीति न तस्य दयालुत्वक्षतिरिति । अधिब्रुवन् , जम्भयतु इत्यनु- 'क्त्वा जम्भयन्नध्यवोचदित्युक्त्या भगवतः निरङ्कुशमीश्वरत्वं प्रदर्शितम् , अहियातुधानीनां तत्प्रेरकमृत्युदेवतानां च निग्रहे स्वयमशक्तश्चेत्खलु मदीयोऽयं न हिंसितव्य इति तदनुनय- पूर्वकमहियातुधानीभ्यः प्रणतं मोचयन्भगवानधिब्रुवन् ज. म्भयत्विति प्रायंत, न त्वेवम् ; किं तु स्वयं तच्छक्तः प्रथ. ममहियातुधानीनाशनेन प्रणतं पालयन् देवैरागत्य कथमयं पापिष्ठः पाल्य इति पृष्टे मदीयोऽयं कुतोऽस्य पापमिति पक्षपातवचनं करोति, अत एव महापातकिनः किरातादीन निनीषतो यमभटानिजदूतैर्घातयित्वा परमेश्वरेण तेषु कैला- समानीतेषु यमचित्रगुप्तादिभिः तद्वृत्तान्ते विज्ञापिते तान्प्रति भगवता यदृच्छयापि मयि बिल्वदलक्षेपप्रणामादिकमाच. रितवन्तो मदीयाः, तस्मान्नैतेषु भवतामधिकारोऽस्तीति उक्त- मिति पुराणेषु बहुशः कथा जोघुष्यते । तदेतदभिप्रेत्य अग्रे 'रक्षा च नो अधि च देव ब्रूहि' इति प्रथमं रक्षणं पश्चाद- धिवचनं प्रतिपादयतीति सोऽयं मन्त्री विषज्वररक्षःपिशाचा- दिनिखिलपीडानिवर्तकः ; अत एव कवचमित्यस्य नामधेयम्, यदाह भगवान् बोधायन: ‘अध्यवोचदिति कवचम्' इति ।
श्रीरुद्रभाष्यम् । अस्य मन्त्रस्य कण्वऋषिः, अनुष्टुप्छन्दः, शंभुर्देवता, 'चन्द्रा- धमौलि कालारिं व्यालयज्ञोपवीतिनम् । ज्वलत्पावकसंकाई 'भ्यायध्वं त्रिलोचनम् । पञ्चायुतजपादस्य पुरश्चरणस्य सिद्धिः । इति षष्ठः। असौ यस्ताम्रो अरुण उत बभ्रुः सुमः ङ्गलः । ये चेमा रुद्रा अभितो दिक्षु । श्रिताः सहस्रशोऽवैषा हेड ईमहे ॥ इत्थं षड्भिर्मरैः परमेश्वरः प्रसाद्य प्रार्थितः । इदानी. मखिलकर्मसाक्ष्यादित्यात्मा भगवान् द्वाभ्यां प्रसाद्य प्रार्थ्य ते- असौ यस्ताम्र इति । यः पूर्वोक्त: भगवान् स एव असौ प्रत्यक्षं परिदृश्यमानः सूर्य इत्यर्थः, प्रत्यक्षं परिदृश्य- मानमेव तद्रूपं विशेषणैर्दर्शयति- ताम्रो अरुण उत बभ्रुः सुमङ्गलः उदयकाले अत्यन्तरक्तवर्णः ताम्रः, तदनन्त- रमीषद्रक्त: अरुणः, तत ऊर्ध्व पिङ्गलवर्णः बभ्रुः, यदा: हु:-'पिङ्गलो नकुलश्चैव खलतिर्विष्णुरेव च । चत्वार एतै- नैरक्तैर्बभ्रवः समुदाहृताः ' इति । स चान्धकारहिमादिवारणेन जगत्सौख्यहेतुत्वात् सुमङ्गलः; असति ह्यादित्यरूपे अस्मि- भगवति अन्धकारादिप्रस्तं जगदमङ्गलमेव स्यादिति भावः ।
श्रीरुद्रमाष्यम् । एवंभूत आदित्यात्मा भगवान्रुद्रः, ये च अन्ये रुद्रा आ- दित्येन सहकीभूताः, इमाम् अभितः अस्या भूमेः परितः, दिक्षु श्रिताः परमेश्वरनियोगेन जनानां पुण्यपापानुरूपतया- नुग्रहं निग्रहं च कर्तुं प्राच्यादिदिक्षु स्थिताः, ते च सहस्रशः अनेकसहस्रसंख्याकाः ‘सहस्राणि सहस्रशः' इत्यने वक्ष्य- माणाः, एषाम् आदित्यरूपाणां रुद्राणाम् , हेडः विहितीक- रणनिषिद्धसेवानिमित्तक्रोधम् , अवेमहे स्तुतिनमस्कारादि- भिः अपनयामः, ते अस्माकं प्रसन्ना भवन्त्वित्यर्थः । इति सप्तमः ॥ असौ योऽवसर्पति नीलग्रीवो विलो- हितः । उतैनं गोपा अदृशन्नदृशन्नुदहा यः। उतैनं विश्वा भूतानि स दृष्टो मृड- याति नः॥ एवं सप्तमेन प्रसाद्य अष्टमेनेष्टसिद्धिं प्रार्थयते- असौ योऽवसर्पति इति । य: नीलग्रीवः 'त्रिलोचनं नीलकण्ठम्' इत्यादिश्रुतिप्रसिद्धः, स एव असौ विलोहितः विशेषेण लोहितः सन् , अवसर्पति प्रवर्तते, किमर्थ प्रवर्तते । तत्राह उतैनम् इति । एनम् आदित्यरूपं परमेश्वरम् , गोपा - ६० श्रीरुद्रभाष्यम् । । उत अज्ञानां प्रथमोदाहरणभूता गोपालका अपि, अदृशन् पश्यन्ति, तथा अदृशनुदहार्यः उदकस्य हारिकाः गोपाले- भ्योऽप्यज्ञाः पश्यन्ति, कियदिति विभज्याभिधेयम् उतैनं विश्वा भूतानि गोमहिष्यादयः सर्वेऽपि प्राणिनः पश्यन्ति ; तथा च सर्वानपि स्वदर्शनेनानन्दयितुमेव परमेश्वरः सूर्यामा अवसर्पति । श्रूयते हि- 'उद्यन्तं वा एतं सर्वाः प्रजा: प्रतिनन्दन्ति' इति । वेदान्तैकसमधिगम्यं तु सच्चिदानन्दा- द्वैतरूपमतिदुर्विज्ञेयं कैलासादिवर्ति सगुणरूपमुपासकैरेव दृश्यं न तु सर्वैः, अतः सर्वप्रत्यक्षमेनं सर्वोऽप्युपास्य कृतकृत्यो भवति ; अहो महिमेति भावः । सः तादृश आ- दित्यात्मा, दृष्टः अनुचिन्तितः, नः अस्मान् , मृडयाति सुख- यतु । 'एताभ्यां मन्त्राभ्यामादित्यात्मा भगवानुपस्थेयः' इति ब्राह्मणम् । अत्र ' असौ यस्ताम्रः' इत्यस्य आस्तारप- विच्छन्दः, 'असौ योऽवसर्पति' इत्यस्य षट्पदाजगती- च्छन्दः, द्वयोरपि मरुत्वानृषिः, आदित्यरूपी भगवान्देवता; 'मण्डलान्तरगतं हिरण्मयं भ्राजमानवपुषं शुचिस्मितम् । चण्डदीधितिमखण्डितद्युतिं चिन्तयेन्मुनिसहस्रसेवितम्' । एवं कृच्छाचरणपूर्वकं षोडशदिनेषु निरन्तरजपात्पुरश्चरण- सिद्धिः । अनावृष्टिपरिहारकोऽयं मन्त्रः । इति अष्टमः ।।
श्रीरुद्रभाष्यम् । 'विश्वं नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीदुषे । अथो ये अस्य सत्त्वानोऽहं ते- भ्योऽकरं नमः॥ एवं सप्तमाष्टमाभ्यामादित्यरूपं प्रसाद्य, नवमेन भूकैला- सिनं श्रीनीलकण्ठमूर्ति प्रसादयितुं नमस्करोति-नमो अ. स्त्विति । नीलग्रीवाय नीलकण्ठमूर्तये नमो अस्तु, कीड- शाय ? सहस्राक्षाय अपरिमितवाचकः सहस्रशब्दः, शतं सहस्रं च सर्वमक्षयवाचकम्' इति स्मृतेः, सहस्रमक्षीणि यस्य, तस्मै सहस्राक्षाय अपरिच्छिन्नदृष्टये इत्यर्थः । अनेन कैलासवासिनोऽपि तव अत्र मदीयनमस्कारः दृष्टिविषय इ- त्युक्तं भवति । पुनः कीदृशाय ? मीदुषे प्रणतकामवर्षिणे, अ. नेन समस्तेष्टसिद्धिरूपनमस्कारफलप्रदत्वं दर्शितम् ; नीलग्रीवा- येत्यनेन च कालकूटप्रसनकृतनीलकण्ठत्वशालिने इत्यर्थेन 'गुणदोषौ बुधो गृहन्निन्दुक्ष्वेलाविवेश्वरः । शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति' इति प्रसिद्धो भगवन्महिमा स्मर्यते । तेन कालकूटविषतुल्यं दोषजालमन्तरेव नियम्य, कलामात्रमपि गुणं शिरसा श्लाघमानः परमेश्वरः सुखो- पास्यो व्यज्यते । एवं भगवन्तं नमस्कृत्य तत्पारिषदान्नम- स्करोति- अथो य इति । अथो अपि च, अस्य नील.
श्रीरुद्रभाष्यम् । कण्ठमूर्तेः, सत्त्वानः सदनशीला: प्रत्यासन्नाः प्रमथगणाः ये वर्तन्ते ; प्रसिद्धा हि 'दिव्या गणा बहुरूपाः पुराणा: इति श्रुतिषु भगवतः पारिषदाः; सामवेदे च-'अधिपता. इ क्षत्रपताइ' इत्यादिना सर्वाधिपत्येनोक्ताः; भारतेऽपि सौ- पुप्तिके पर्वणि- 'कामकारकराः सिद्धात्रैलोक्यस्यैश्वरे- श्वराः। नित्यानन्दाः प्रमुदिता वागीशा वीतमत्सराः ।। प्राप्याष्टगुणमैश्वर्य येऽपि यान्ति न विस्मयम् । येषां विस्म. यते नित्यं कर्मभिर्भगवान्भवः ।। श्रुतेन ब्रह्मचर्येण तपसा च दमेन च। ये समासाद्य शूलाई भवसायुज्यमागताः' इति ; द्रोणपर्वणि च-'तस्य पारिषदा दिव्या नानारूपधराः प्रभोः' इत्यादिना प्रपञ्चिताः । पुराणेषु च परःसहस्रं तन्माहात्म्य. वचनानि, तत्र 'सहस्राणि सहस्रशः' इत्यत्र कियदपि उदा. हरिष्यते । एवमथो ये अस्य सत्त्वानः प्रमथगणाः तेभ्यः नमः अकरं नमस्करोमि । अस्य मन्त्रस्य ऋषिः देवता च भगवानेव । त्रिष्टुप्छन्दः । 'शरश्चन्द्रप्रकाशेन वपुषा शीतल. द्युतिम् । ध्यायेत्सिंहासनासीनमुमया सहितं शिवम्' । सुपु. त्रावाप्तिप्रधानोऽयं मन्त्रः । पुरश्चरणविधिः सर्वोऽप्यर्णवे द्रष्टव्यः । इति नवमः ।। प्रमुश्च धन्वनस्त्वमुभयोरानियोा- श्रीरुद्रभाष्यम् । म् । याश्च ते हस्त इषवः परा ता भगवो वप॥ अथ दशमादिषड्भिरायुधान्युपसंहारयितुं प्रार्थयते । यद्यपि 'शिवां गिरित्र तां कुरु मा हिंसीः' इत्यादिना पूर्व- मेव प्रार्थितम् , तथापि भयातिशयात्पुनः प्रार्थ्यते ; अतो न पुनरुक्तिशङ्कावकाशः। प्रमुश्चेति । हे भगवः भगवन् , ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययो- भैव षण्णां भग इतीरणा' इति वचनोक्तसमप्रैश्वर्यादिषड्गुण- संपन्नम् , ' मतुवसो रु संबुद्धौ छन्दसि' इति रुत्वम् । धन्वनः त्वदीयधनुषः संबन्धिन्यौ ये आनी कोटी, तयोः स्थितां ज्यां मौर्वी त्वं प्रमुश्च शिथिलीकुरु ; न हि समप्रै- श्वर्यादिसंपन्नस्य तव धनुरन्यः कश्चिदवरोपयितुं शक्नोति,. 'इमा रुद्राय स्थिरधन्वने गिरः' इत्यादिश्रुतेः ; अतस्त्वमेव प्रसन्नो भूत्वा धनुरवततज्यं कुर्वित्यर्थः । एवं धनुषि अवरो- पितेऽपि शराः कबलयन्त इव दृश्यन्ते, अत: हे भगवः भगवन् , याश्च ते तव हस्ते इषवः वर्तन्ते, ताः परा वप राङ्मुखीकुरु । इति दशमः ॥ अवतत्य धनुस्त्व५ सहस्राक्ष शतेषुधे।
६४ ४ श्रीरुद्रभाष्यम् । निशीर्य शल्यानां मुखा शिवो नः सु मना भव ॥ एवं पराङ्मुखीकरणमर्थयित्वा तावन्मात्रेण भयशान्ति- मलभमान इषूणां कुण्ठिताप्रत्वमाशास्ते-- अवतत्येति । शतसहस्रशब्दांवानन्त्यवाचिनौ, हे सहस्राक्ष अनन्तलोचन, शतेषुधे अनन्ततूणीरेत्यर्थः, इषुधीनामानन्त्यादेव इवान- न्यमप्युक्तं भवति ; लोके हि परिमितदृष्टिः परिमिततूणीरश्च वेद्धा धानुष्को दृष्टिपथपरिहारे बाणव्यये वा सति वेळू न प्रभवतीति कथंचिदनुवतितुं शक्त्यः, त्वं तु अपरिच्छिन्न- दृष्टिरपरिमितबाण: न कथंचिदनुवर्तितुं शक्य इति संबो. धनद्वयस्वारस्यम् ; अतः मदीयोपायदुष्परिहरे अस्मिन्नर्थे त्वमेव धनुः अवतत्य अवरोपितज्याकं कृत्वा, शल्याना बाणानाम् , मुखा मुखानि, निशीर्य इषुधिषु न्यग्भावेन शी. र्णानि कुण्ठिताग्राणि कृत्वा, एवंकृतेऽपि वेद्धरि क्रूरे सति मनो न विश्राम्यति, अतो विशिनष्टि-- शिव इति । सौम्याकार इत्यर्थः; हार्द विना बहिः सौम्याकृतित्वमानं न विनम्भपदमित्यतः सुमना भवेति । शरणागतोऽयमनुप्राह्य इति दयामृतशीतलो भवेत्यर्थः । इत्येकादशः ॥
श्रीरुद्रभाष्यम् । विज्यं धनुः कपर्दिनो विशल्यो बाण- वा उत । अनेशन्नस्येषव आचरस्य नि- षङ्गधिः॥ इदानी कुण्ठिताग्राणामपि बाणानामदर्शनं प्रार्थयन्नाह- विज्यमिति । कपर्दिनः परमेश्वरस्य, धनुः विज्यं विज्या- कम् , अस्त्विति शेषः ; बाणवान् उत इषुधिरपि, विशल्यः विगतबाणोऽस्तु । इषुधेर्विशल्यत्वेऽपि अन्यत्र स्थितैः शल्यै. वेंधमाशङ्कयाह-- अनेशनिति । अस्य कपर्दिनः इषवः अनेशन् वेद्भुमसामर्थ्यरूपं विनाशं प्राप्नुवन्तु, नशेराशिषि छन्दसि लङ् । किं च, अस्य निषङ्गधिः खगकोशः, आभुः ईषत्प्रभुरस्तु, खड्गं धारयितुमेव समर्थः न तु खण्डनार्थ खङ्गा- कर्षणपर्यन्तकार्यक्षम इत्यर्थः । अत्र प्रमुश्च धन्वन इत्याद्यालय एको मन्त्रः; अस्य त्र्यचस्य नारद ऋषिः, अनुष्टुप्छन्दः, श्रीरुद्रो देवता। 'उद्यद्भास्करकोटिप्रकाशमादीसदहनधामा- नम् । भीषणभुजंगभूषं ध्यायेद्विविधायुधं रुद्रम्'। अनेन शववो नश्यन्ति । इति द्वादशः ॥ या ते हेतिीदुष्टम हस्ते बभूव ते R. B.5 श्रीरुद्रभाष्यम् । धनुः । तयास्मान्विश्वतस्त्वमयक्ष्मया प. रिन्भुज॥ एवं त्रिभिर्मन्त्रैरायुधोपसंहारमर्थयित्वा तैरिदानीमात्मर- क्षणमाशास्ते- या ते हेतिरिति । हे मीढुष्टम अतिशयेन भक्तकामवर्षिन् इति हेतुगर्भसंबोधनम् , या ते तव, हेतिः खगाद्यायुधम् , यदपि ते हस्ते धनुः बभूव भवति, तया अयक्ष्मया भक्तारोग्यहेतुभूतया हेत्या, ते तव धनुषा चेत्यपि द्रष्टव्यम् ; त्वम् अस्मान् विश्वतः सर्वस्माहुरितात् , परि- भुज परिपालय । इति त्रयोदशः ।। नमस्ते अस्त्वायुधायानातताय धृष्ण- वे । उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ अथैवं प्रार्थ्य पुनर्नमस्करोति-नमस्ते इति । हे भ. गवन् , तव, आयुधाय नमः अस्तु । कीदृशाय ? अना. तताय प्रहर्तु व्यापृतम् आततम् , तदन्यत् अनाततम् , तस्मै; धृष्णवे स्वरूपेण प्रहर्तुं समर्थाय, उत किंच, ते तव, उभाभ्यां बाहुभ्यां नमः अस्तु, बाहुभ्यामिति द्विवचनेनैव द्वित्वे सिद्धेऽपि वे मुद्यतं बाहुद्वयमुपलभ्य भयातिरेकात् ते श्रीरुद्रभाष्यम् । , नमो हरिकेशायोपवीतिने पुष्टानां प. । तये नमः॥ अथ पञ्चमः-- नमो हरिकेशायेति । नीलालकमूर्ध- जसहितो हरिकेशः, नित्ययुवेति यावत् ; उपवीती यज्ञोपवी. तवान् , आदिब्राह्मणः, सामवेदे- 'विरूपाक्षोऽसि दन्ता- निः' इति प्रस्तुत्य त्वं देवेषु ब्राह्मणोऽसि अहं मनुष्येषु ब्राह्मणो वै ब्राह्मणमुपधावति उप त्वा धावानि' इति प्रप. दब्राह्मणश्रुतेः, 'आदिब्राह्मणमीशानमुपधावेन चेतरम् । ब्र- प्रतेजोधिकं राजन्न क्षात्रं वैश्यसंभवम् ।। सर्वेषामधिको यस्माद्भगवान्ब्राह्मणः शिवः' इति पराशरसंहितादिवचनात् । पुष्टशब्दश्च देवेन्द्रादिपदप्रज्ञैश्वर्यादिपरिपूर्तिमद्वाची, ब्रह्मादि. स्थावरान्तेषु ये ये पुष्टाः तेषां स्वामी, पुष्टानां पतये नमः इत्यर्थः । अत्र आदिब्राह्मणस्य परमेश्वरस्य ब्रह्मादिसर्वोपा. स्यत्वावश्यंभावेन स्वोपासकांस्तान् पुष्टिदानेनानुगृह्णतस्तस्य पुष्टानां पतित्वमुपपन्नमित्येतत् 'उपवीतिने' इत्यनेन प्रद. शितम् । स्वयं पुष्टः परस्मै पुष्टिं प्रयच्छति, परमेश्वरस्य नित्ययूनोदेहेन्द्रियादिपुष्टिनित्यसिद्धति लोकेभ्यस्तस्य तत्प्र- दत्वमुचितमित्यौचित्यरूपं वस्तुसामर्थ्य हरिकेशपदेन व्य- ज्यते ॥
श्रीरुद्रभाष्यम् । नमो भवस्य हेत्यै जगतां पतये नमः ।। इत्थं पञ्चभिर्मन्त्रदिगादिकतिपयवस्त्वाधिपत्यप्रदर्शनपूर्व. कमीश्वरो नमस्कृतः । इदानी प्रतिवस्त्वाधिपत्यवचनपूर्वक- नमस्कारस्याशक्यतया जगत्पतित्वेन तं नमस्कतु षष्ठो मन्त्रः प्रयुक्त:- नमो भवस्येति । भवः संसारः, तस्य च्छेदने हेतिः आयुधम् , संसारवृक्षस्य च्छेत्तेत्यर्थः । स्थावरजङ्गमानां लोकानां स्वामी जगतां पतिः, तस्मै नमः । यद्यपि 'पशूनां पतये नमः' इत्यत्रैव ब्रह्मादिस्थावरान्तसकलजग. पतित्वमुक्तम् , तथापि संसारपाशबन्धहेतुत्वेन तदुक्तम् । अत्र संसारमोचकत्वेनेति भेदः, उभयोरपि ब्रह्मधर्मत्वात् ।। नमो रुद्रायातताविने क्षेत्राणां पतये नमः॥ अथ उक्तमेव जगत्पतित्वमुपपादयितुं श्रमावधि धावन- न्यायेन पुनरपि तत्तद्वस्त्वाधिपत्येन भगवन्तं नमस्कर्तुमारभते सप्तमादिभिः- नमो रुद्रायेति । रुद्रः संसारदुःखद्रावकः, अत एव आततज्येन धनुषा अवति रक्षतीति आततावी क्षेत्राणि शरीराणि, 'इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते' इति स्मृतेः, तेषां स्वामी क्षेत्राणां पतिः, तस्मै नमः इत्य- र्थः । लोके हि देशाधिपतिरुपद्रवेभ्यो देशवासिनो रक्षति, श्रीरुद्रभाष्यम् । उभाज्यामिति पुनर्ब्रवीति । तथा तव धन्वने नमोऽस्तु इति । इति चतुर्दशः ॥ परि ते धन्वनो हेतिरस्मान्वृणक्तु वि. श्वतः। अथो य इषुधिस्तवारे अस्मन्नि- धेहि तम् ॥ अथ नमस्कृत्य पुनः प्रार्थयते-परि ते धन्वन इति हे भगवन् ते धन्वनः धनुषः संबन्धिनी, धनुष्यारोपितेति यावत् ; एतादृशी या हेतिः बाणरूपमायुधम् , सा हेति: अस्मान् विश्वतः सर्वस्मादुपद्रवात् , परिवृणक्तु परिवर्जि- तान् करोतु, रक्षत्वित्यर्थः । कथं पुन: पापराशौ विद्यमाने तव उपद्रवपरिहारः स्यात् ! तवाह- अथो अपि च, यः वव इषुधिः यत्र तीक्ष्णा इषवस्तिष्ठन्ति, तम् अस्मत् अस्माकं संबन्धिनि, आरे अरीणां समूहे पापराशी, निधेहि स्थापय, नाशयेत्यर्थः । इति पञ्चदशो मत्रः। अत्र या ते हेतिरि- त्यादिव्यचस्य अनुष्टुप्छन्दः, ऋषिदेवता च भगवानेव। 'प्रण. मदमरसंघमौलिमालाकुसुमरजोरुणपादपद्मयुग्मम् । अनवर- तमनुस्मरेद्भवान्या सह जगतां पितरं पिनाकपाणिम् । शत्रुनाशप्रधानोऽयं मनः ॥
श्रीरुद्रभाष्यम् । नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तका' विकाग्निकालाय कालाग्निरुद्राय नीलक- ण्ठाय मृत्युंजयाय सर्वेश्वराय सदाशि- वाय श्रीमन्महादेवाय नमः ॥ इति प्रथमोऽनुवाकः ॥
द्वितीयोऽ वाकः॥ । नमो रिण्यबाहवे सेनान्ये दिशांच पतये नमः॥ तदेवं प्रथमेऽनुवाके पञ्चदशभिमन्त्रैर्भगवान् सपरिकरः प्रसाद्य प्रार्थितः । अथेदानी द्वितीयाद्यैरष्टभिरनुवाकैः सर्वे. श्वरत्वसर्वान्तर्यामित्वरूपेण भगवन्तं नमस्करिष्यन् प्रथम सर्वेश्वरत्वेन नमस्करोति । एतदारभ्य एतदारभ्य 'श्वभ्यः श्वप. तिभ्यश्च वो नमः' इत्यन्तं सर्व एव उभयतो नमस्कारा एते मन्त्राः । सर्वत्र च नमआदिनमोऽन्त एकैको मन्त्रः, यथा 'नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमः इति । एवमप्रेऽपि । तत्र तावत् प्रपञ्चान्तर्गतकैकवस्त्वा- धिपत्यप्रदर्शनपूर्वकं भगवत: सर्वेश्वरत्वमुपपादयन् नमस्क. तुमारभते- नमो हिरण्याबहवे इति । हिरण्यबाहवे हि- रण्मयकेयूराद्यलंकृतबाहवे, बाहुग्रहणं चोपलक्षणम् , आपाद- मस्तकमतिदिव्यकनकखचितभूषणतया स्वरूपेण च सर्वोऽपि कनकवर्ण एव दिव्यमङ्गलविग्रह इति हि श्रुतयः प्रथयन्ति । यथा-'नमो हिरण्यबाहवे हिरण्यवर्णाय''आप्रणखात्सर्व श्रीरुद्रभाष्यम् । एव सुवर्णः' 'यदापश्य: पश्यते रुक्मवर्णम्' इत्याद्याः; रुक्माभं स्वप्नधीगम्यम् ' 'चारुचामीकराभासम्' इत्या- द्याः स्मृतयोऽपि । सेनान्ये सेना: नयतीति सेनानीः, देवा- पुरसिद्धान्धर्वमनुष्यादिसंघातरूपनानासेनापतिः; उक्तं हि आश्वलायनेन शिवं प्रस्तुत्य- 'सर्वाणि ह वा एतस्य नामधेयानि । सर्वाश्च सेनाः सर्वाणि चोच्छ्रयणानि' इति । तस्मै सेनान्ये, तथा दिशां प्राच्यादीनाम् , पतये स्वामिने, नमः अस्तु, 'षष्ठीयुक्तश्छन्दसि वा' इति घिसंज्ञा; अत्र दिशां पतये नमः' इति प्रथममन्वयः । तत्र कथं परमेश्व. रस्य दिक्पतित्वम् ! इन्द्राग्न्यादीनामेव तथात्वादिति शङ्का. निरासाय 'सेनान्ये' इति विशेषितम् । तेन सकल- देवतासङ्घाधिपतेः परमेश्वरस्यैव दिगाधिपत्यम् , इन्द्रादयस्तु वदाज्ञया तत्तदिगधिष्ठातार इति प्रदर्शितम् । परमेश्वरस्य इन्द्राद्याधिपत्यं कथमित्याकाडायां हिरण्यबाहव इति विशे- षितम् । तेन हि ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषः' इति अन्तरादित्यविद्योपास्यं पारमेश्वररूपमुच्यते, अत एव 'नमो हिरण्यबाहवे' इत्यस्य अन्तरादित्यविद्योपा- सने पुराणादिषु विनियोगः कृतः ; 'ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च' इति अन्तरादित्यवि.
श्रीरुद्रभाष्यम् । सवाक्योक्तस्वर्गादिलोकतद्भोगैश्वर्यविशिष्टं परमेश्वररूपमुप- भापयता 'हिरण्यबाहवे' इत्यनेन स्वर्गतद्भोगादीनीन्द्रादि- भ्यः प्रयच्छतस्तस्य तदधिपतित्वं युक्तमिति प्रदर्शितं भवति । प्रसिद्धं च परमेश्वरस्य श्रुत्यादिष्विन्द्रायाधिपत्यम् , यथा- सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते संप्रसूयन्ते' 'कारणं तु ध्येयः सर्वैश्वर्यसंपन्नः शंभुः' इति, 'भीषास्मादग्निश्चे- न्द्रश्च' इत्यादयः । इतिहासपुराणेषु च ; यथा भारते-'स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः । शक्रादिषु च देवेषु तस्यैवैश्वर्यमुच्यते' इति । भागवतेऽपि 'ब्रह्मादयो यत्कृत. लोकपालाः' इति । शिवपुराणेषु च प्रपश्चितम् । तदेवमि- न्द्रादिलोकपालविशिष्टसकलदिक्पतित्वेन परमेश्वरनमस्कारः प्रथममन्त्रार्थ इति ।। नमो वृक्षेभ्यो हरिकेशेभ्यः पशूना प- तये नमः॥ अथ द्वितीयः-नमो वृक्षेभ्यः इति । अत्र ‘पशूनां पत- ये' इति प्रथममन्वयः; पशुपदं चेह न गवादिमात्रपरम् , कि अद्विपाश्चतुष्पात्साधारणप्राणिमात्रपरम् ; 'एषामीशे पशुपति: पशूनां चतुष्पदामुत च द्विपदाम्' इति, एतावन्तो वै पशवो द्विपादश्च चतुष्पादश्च' इत्यादिश्रुतेः । तथा च सकलपाण्य- ७२ श्रीरुद्रभाष्यम् । धिपतये इत्यों भवति । तत्र कथं प्राणिनाम् ईश्वरं प्रति पशुत्वम्, कथं च भगवतस्तत्पतित्वम् इत्याकाङ्क्षायां तदु- पपादनाय वृक्षेभ्यो हरिकेशेभ्यः इत्युक्तम् । अत्र हरि- तवर्णाः केशाः पलाशरूपा येषाम् , तेभ्यो वृक्षेभ्यो रुद्ररूपे- भ्यो नमः ; तथा पशूनां पतये च नमः- इति प्राची. नव्याख्यानमनेन निरस्तम् । अस्मिन्पक्षे वृक्षपदस्य पाशुप. त्योपपादकत्वाभावात् 'पशूनां पतये' इत्यनेन सह न संब- न्धः, नापि सर्वेश्वरत्वप्रकरणे वृक्षात्मत्वप्रतिपादनसंगतिः, न वा हरिकेशेभ्य इति विशेषणस्य किंचित्प्रयोजनम्, अमे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय' इति वृक्षात्म- कत्वस्य वक्ष्यमाणत्वात्पुनरुक्ति: । अतः अत्रार्थविशेषेण भ. वितव्यम् । तमेनं दर्शयामः- वृक्षपदमिह संसारवृक्षपरम्, 'ऊर्ध्वमूलमवाक्शाखम्' 'वृक्षं यो वेद संप्रति' 'अहं वृक्षस्य रेरिवा' इत्यादिश्रुतेः ; 'अव्यक्तमूलप्रभवस्तस्यैवा- नुग्रहोत्थितः । बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः' 'ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्' इति स्मृतेश्च । अत्रापि 'भवस्य हेत्यै जगतां पतये नमः' इत्यप्रेतनमन्त्रे परमेश्वरस्य संसारच्छेदकायुधत्वोक्त्या संसारस्य वृक्षत्वा- विष्करणाच्च । हरिकेशपदमपि हरितवर्णत्वोपलक्षितत्रिगुः .
श्रीरुद्रभाष्यम् । . जात्मककर्मकाण्डरूपपलाशलक्षणकेशवैशिष्टयपरम्, 'त्रैगु- ग्यविषया वेदाः' 'छन्दांसि यस्य पर्णानि' इति च स्मृतेः । यथा वृक्षस्य रक्षार्थानि पर्णानि भवन्ति, तथा सं- सारवृक्षस्य रक्षार्थानि कर्मकाण्डात्मकानि छन्दांसि, तेषां संसाराभिवृद्धिकरकर्मप्रतिपादकत्वात् ; तानि च शिरोरुह- बदानन्यत्वात्केशत्वेन निरूपितानि । एवं च नमो वृक्षेभ्यो हरिकेशेभ्यः' इति मन्त्रभागस्य विविधकर्मजालानुविद्धसं- सारवृक्षात्मकत्वेन परमेश्वरनमस्कारोऽर्थः पर्यवसितः। अ- नेन च कथं पशुत्वम् , कथं पतित्वमिति प्रश्नद्वयमुत्तरितं भवति ; संसारपाशबद्धत्वेन प्राणिनां पशुत्वम् , तैः स्वकार्य- कारयितृत्वेन परमेश्वरस्य तत्पतित्वमिति च तदर्थलाभा- त् । तदेतल्लैङ्गे स्पष्टमुपबृंहितम्- 'ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य शूलिनः । पशवः परिकीर्त्यन्ते संसारवशवर्तिनः ॥ तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः । ब्रह्मादिस्तम्बप- यन्तान्पशून्बद्धा महेश्वरः ॥ पाशैरेतैः पतिर्देवः कार्य कार- यति स्वयम् । स एव मोचकस्तेषां भक्त्या सम्यगुपासितः' इति । एवं स्कान्दशैवकूर्मपुराणवचनान्यप्युदाहार्याणि । अत्र 'ब्रह्माद्याः स्थावरान्ताः' इत्युक्त्या 'एषामीशः' इति मन्त्रे द्विपाश्चतुष्पाहणं चेतनाचेतनात्मकसकलप्रपञ्चोपलक्षणमिति श्रीरुद्रभाष्यम् । व्याख्यातं भवति । यथा गवाश्वमहिषादयस्तत्स्वामिभिः पा. औराबध्य स्ववशीकृत्य स्वाराधनरूपतया तदुपयोगितया वा स्वकीयेषु तत्तद्वस्तुषु तत्तद्वस्तुसामर्थ्याधीनेषु कर्मसु विनियु- ज्यन्त इति ब्रह्मादिस्थावरान्तानां पशुत्वं परमेश्वरस्य तत्पतित्वं चेत्यभिप्रायः । यत्पुनः श्रूयते- 'सोऽब्रवीद्वरं वृणा अह- मेव पशूनामधिपतिरसानीति तस्माद्रुद्रः पशूनामधिपतिरिति भगवत: पाशुपत्यं वरलब्धम्' इति, तत्तु अज्ञानमोहितो लोक: पशुपाशपशुपतीन्विवेत्तुमसमर्थतया स्वतो न मोक्तुं शक्त इति करुणया स्वकीयं पाशुपत्यं वरव्याजेन लोके स्पष्टीकृतमिति शिवपुराणेष्वेव 'स्वत:सिद्धं पतित्वं मे युष्माकं पशुतापि च । तदेतद्ढयाम्यद्य वरबन्धविनोदनैः इत्यादिना व्याख्याताभिप्रायम् । युक्तं च संसारबन्धरूपप- शुत्वस्यानादितया तद्वन्धकत्वरूपपतित्वस्याप्यनादित्वप्राप्या तस्य वरलब्धत्वोक्त्ययोगात् । न हि बन्धक विना बन्धः संभवति । श्रुतिस्मृत्याधुद्धोषितस्वत:सिद्धपरमेश्वरभावे भग. वति पाशुपत्यवरणस्य तल्लाभस्य तं प्रति कस्यचिद्वरदातुश्च कथमपि विचारासहत्वाचेत्यास्तां तावत् ॥ नमः सस्पिचराय त्विषीमते पथीनां. पतये नमः॥
श्रीरुद्रमाण्यम् । । अथ तृतीयः- नमः सस्पिञ्जरायेति । समिति बालतृणमुच्यते, पिजर इति पीतरक्तः संकीर्णवर्णः, बाल- तृणवपिजरः सस्पितरः तस्मै; त्विषीमते प्रकाशवते, पयीनां पतये वैदिकतान्त्रिकमार्गाणां स्वामिने नमः इत्यक्ष- रार्थः । अन त्विषीमत इत्यनेन ज्ञानरूपः प्रकाश उच्यते, तेन चेयं शङ्का निरस्ता भवति । एवं छत्र शङ्कावतरति- कथं परमेश्वरेण तान्त्रिकमार्गाः प्रदर्शिताः? 'या वेद- बाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फला: प्रेय निष्ठा तेषां हि तामसी' इति तेषां निन्दितत्वादिति । अत्र चेदमुत्तरम्- सत्यमेव तान्त्रिकमार्गाणां निन्दितत्वम् , तत्तु वैदिकान् प्रत्येव; वेदबाह्यानां तु तान्त्रिकमार्गा एवो- पकारकाः, तदेतदालोच्य सर्वज्ञेन परमेश्वरेण तन्त्राणि प्र. णीतानि; यदि ह्येतानि न स्युः, ततो वेदबाह्याः पापिष्ठाः स्वतो वैदिकमार्गविमुखाः श्रेयःसाधनमन्यच्च शास्त्रमजानन्त: खेच्छाचारप्रावण्यविवशाः प्रणष्टा एव भवेयुः। अतस्तान्त्रिक- मार्गप्रवर्तनमुचितमिति । तदेतत्कूर्मपुराणे स्पष्टमुपबृंहितम् , तत्र हि- ‘स तेषां मायया जातं गोवधं गौतमो मुनिः । केनापि हेतुना ज्ञात्वा शशापातीव कोपनः । भविष्यथ त्रयी- बाह्या महापातकिनः समाः' इति वेदबाह्यत्वेन महापापि.
श्रीरुद्रभाष्यम् । छत्वेन च गौतमशप्तान प्रस्तुत्य, 'ते सर्व प्राप्य देवेशं शंकर विष्णुमव्ययम् । अस्तुवन्विविधैः स्तोवैरुच्छिष्ठा इव सेव. काः' इत्यादिना तेषां शंकरविष्णुसंनिधौ प्रार्थनामुपन्यस्य, 'तस्माद्वै वेदबाह्यानां रक्षणार्थ च पापिनाम् । विमोहनाय शास्त्राणि करिष्यावो वृषध्वज ॥ एवं संचोदितो रुद्रो माध. वेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरि. तः ॥ कापालं लागुडं शाकं भैरवं पूर्वपश्चिमम् । पाश्चरात्रं पाशुपतं तथान्यानि सहस्रशः' इत्यादिनां वेदबाह्यानां पापि- ष्ठानां रक्षणाय पाशुपतपाञ्चरात्रादितन्त्रमार्गः प्रवर्तित कम् । विमोहनाय इत्यस्य चायमर्थः पाश्चरात्रादितन्त्रेषु वेदविरुद्धार्थप्रतिपादनम् ; यथा-केवल- निमित्तेश्वरवादः, जीवोत्पत्त्यादिवर्णनम् , तद्विषये वेदनिन्दा चेति; तच्च सर्वमप्रमाणमेव, व्यवस्थापितं हि तदंशे तदप्रा- माण्यं ब्रह्ममीमांसायाम् ; तेषु च वेदनिन्दायास्तद्विरुद्धवर्ण- नस्य च प्रयोजनम्- ये वैदिका एव सन्तः पापवशाद्वेदेष्व. विश्वासं कुर्वन्ति, तान्विमोहयितुम् ; तच्च विमोहनं तेषामनु- प्रहायैव । ते हि वेदद्विषस्तन्त्रेषु स्थितां वेदनिन्दामुपश्रुत्य बहुमन्यमाना वेदं विहाय तान्त्रिकमार्गमनुप्रविश्य तेन वि- धिना परमेश्वरमाराध्य तत्पुण्यक्षतवेदद्वेषदोषाः क्रमेण ज- अस्ति च पाशुपत.
श्रीरुद्रभाष्यम् । मान्तरे वेदनिष्ठां प्रतिपद्य कृतकृत्या भवन्ति । अत एव वैदिकस्यैव सत: शाण्डिल्यस्य वेदनिष्ठां विहाय पाञ्चरात्रा- दिदीक्षाविधिना विष्णुमाराधितवतो निन्दापूर्वकं तं प्रति चिराय वेदमागै गमिष्यसीति भगवता वासुदेवेन वरो दत्त इति वासिष्ठलैङ्गे श्रूयते- मत्तन्त्राश्रयणेनैव मत्पूजा च कृता त्वया । तया न प्रीतवानस्मि तव शाण्डिल्य ते प्रियः ।। कुमार्गेणापि शाण्डिल्य कृता पूजा मम त्वया । अतः कालेन महता वेदमागै गमिष्यसि' इति । पापिष्ठविषये परमेश्वरस्य मोहकत्वं तद्विषये द्वेष इव तदनुग्रहपर्यवसितत्वान्न दोषमा- वहति । अत एव खलु बुद्धाद्यवतारेषु भगवतो नारायणस्य विमोहकत्वं बहुशः प्रख्यायते । न हि तत्तस्य दूषणं भवती- ति। तदेतत्सर्वमत्र' विमोहनाय शास्त्राणि' इत्यनेनाभिप्रेतम्। एवमन्यान्यप्यस्मिन्विषये बहूनि वचनानि सन्ति ; तानि सर्वाण्यप्यस्माभिः पाषण्डगजकेसरिण्युदाहृतानि ; तवैव द्रष्ट. च्यानि । तदेवं वेदबाह्यानां रक्षणाय सर्वज्ञेन भगवता तान्त्रिकमार्गः प्रवर्तित इत्येतत् 'त्विषीमते' इत्यनेन प्रद- शितम् । तदुपरि कांश्चिद्वेदाधिकारिणः कांश्चिद्वेदबाह्यांश्च स. जत: परमेश्वरस्य वैषम्यनैघृण्यदोषमाशङ्कप 'सस्पिनराय' इत्यनेन संकीर्णवर्णविशेषवाचिना तथाभूतत्रैगुण्यप्रधानत्वरू.
श्रीरुद्रभाष्यम् । पार्थद्योतकेन तत्परिहृतम् । अनाद्यविद्योपचिततत्तद्गुणकर्मा- नुसारेण तथा सृजतो न वैषम्यादिप्रसक्तिः, 'पुण्यः पुण्येन कर्मणा भवति पापः पापेन' इत्यादिश्रुतेरिति भावः ।। नमो बभ्रुशाय विव्याधिनेऽन्नानां प. तये नमः॥ अथ चतुर्थः- नमो बभ्रुशायेति । बिभर्ति परमेश्व- रमिति बभ्रुः वृषभः, 'कुर्धश्च' इत्युणादिसूत्रेण भृब्धातो: कुप्रत्यये द्विवचने धातोर्यणादेशे कित्त्वात् गुणवृद्धिप्रतिषेधे च सति बभ्रुरिति रूपनिष्पत्तिः । बभ्रौ शेते तिष्ठतीति बभ्रुशः वृषवाहनः ; 'बभ्लुशाय' इति पाठे लकारे बभ्लुरेव बभ्रुरिति व्याख्येयम् । विशेषेण विध्यतीति विव्याधी, अ- भानाम् अदनीयानां भक्ष्यभोज्यलेह्यशोष्यरूपाणां पदार्थानां खामी, तस्मै नमः इत्यर्थः । अत्र बभ्रुशायेत्यनेन धर्मरूपवृ. षभमधितिष्ठतोऽन्नस्वामित्वं युक्तम् , 'यज्ञाद्भवति पर्जन्यः पर्जन्यादन्नसंभवः' इत्यन्तस्य धर्मकार्यत्वश्रवणादिति प्रदर्शि- तम् । 'विव्याधिने' इत्यनेन 'ये अन्नेषु विविध्यन्ति' 'येषामन्नमिषवः' इति च श्रुते: अन्नेन इषुणा विध्यतोऽनप. तित्वमुचितम् । तन्नियम्यस्यैव तदिषुत्वादिति हेत्वन्तरम् ।।
श्रीरुद्रभाष्यम् । ८१ " तेषु च स्वाश्रितान्सुखविशेषेण संयोजयति, तथा क्षेत्राधि- पतिः परमेश्वरोऽपि क्षेत्रस्थितान्रक्षति, न ह्यन्यः परमेश्व- বন্ধীরি ; येन जातानि जीवन्ति' इति श्रुतेः । अत एव खल्वाशास्यते- 'तयास्मान्विश्वतस्त्वमयक्ष्मया परि- म्भुज' इति । तदेतदातताविपदेनोक्तम् । क्षेत्रस्थितेष्वपि स्वा- श्रितान्सुखविशेषेण योजयतीत्येतत् रुद्रपदेनोक्तम् , 'जन्तो- नियमाणस्य रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति' इति श्रुतेः । क्षेत्रपदस्याविमुक्तादिक्षेत्रपरत्वे विशेषस्वारस्यं द्रष्टव्यम् ॥ नमः सूतायाहन्त्याय वनानां पतये अथाष्टम:- नमः सूतायेति । जगद्यन्त्रसारथिः सूतः, 'ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति । भ्रामय- सर्वभूतानि यन्त्रारूढानि मायया' इति स्मृतेः । हन्तुमश- क्य इति अहन्त्यः, वनानाम् अरण्यानाम् , पतिः स्वामी, तस्मै नम इत्यर्थः ; तथा वनस्वामित्वे जगन्नियन्तृत्वरूपहेतुः सूतशब्देन प्रदर्शितः । जगन्नियच्छतोऽपि तद्विकारैः नोप- इतिरित्येतदहन्त्यपदेन ज्ञाप्यते च ॥
८२ श्रीरुद्रभाष्यम् । नमो रोहिताय स्थपतये वृक्षाणां पतये नमः॥ अथ नवमः - नमो रोहितायति । लोहितवर्णो रो- हितः, स्थाता चासौ पाता चेति स्थपतिः, पृषोदरादिः; एवंभूताय वृक्षाणां पतये स्वामिने नमः इत्यर्थः । अत्र स्थपतिशब्देन वृक्षस्वामित्वे हेतुरुच्यते, वृक्षेषु स्थित्वा वृक्षान्पालयतस्तत्स्वामित्वौचित्यात् । रोहितशब्देन वृक्षाधि. ष्ठातुः परमेश्वरस्य स्वरूपमुक्तं भवति, 'ये वृक्षेषु सस्पिखरा नीलग्रीवा विलोहिताः' इति हि वक्ष्यते । इति नवमः ।। नमो मन्त्रिणे वाणिजाय कक्षाणां प. तये नमः॥ मन्त्रिण इति । वनगुल्मादयोऽतिगहन- पदार्थाः कक्षाः तेषां स्वामी कक्षाणां पतिः, तस्मै नमः इति प्रथममन्वयः ; ननु अतिगहनेषु कथमीश्वरस्याधिपत्यं स्या. त् ! दुरवगाहत्वादित्याशक्य विशिनष्टि-वाणिजायेति। वणिजां समूहो वाणिजः, यथा वणिक् सर्वजनपदव्यवहारा. परिच्छिद्य विशदीकरोति, तथा अयमपि सकलवस्तुजात- मिति, नास्य किंचिडुरवगाहमस्तीति भावः । कैमुति- अथ दशमः श्रीरुद्रभाष्यम् । ८३ इन्यायेनापि कक्षाणां पतित्वमुपपादयति- मन्त्रशब्देन सप्तकोटिमहामन्त्राः, तथा वेदरहस्यभूता उपनिषदः, सर्व. गुप्तवादाश्चाभिधीयन्ते ; तेषां स्वामी मन्त्री, धनस्वामी धनी- तिक्त्; न हि धनसंबन्धमात्रेण धनवोढारं धनीति व्यव- हरन्ति । तथा च एवंविधेष्वपि गहनेषु यस्य स्वामित्वम् ईशानः सर्वविद्यानाम्' इत्यादिश्रुतिपूदुष्यते, तस्य किमु वक्तव्यं कक्षाणां पतित्वे इति भावः । इति दशमः ।। नमो भुवंतये वारिवस्कृतायौषधीनां पतये नमः॥ अथैकादश:- नमो भुवंतय इति । भुवं तनोतीति भुवंतिः, तस्मै, वारिवस्कृताय वरिवः परिचर्या, अस्य क- तारः वरिवस्कृताः भक्ताः, तेषु तिष्ठतीति वारिवस्कृतः सर्वगतस्यापि परमेश्वरस्य भक्तेषु सांनिध्यातिशयवशादियमु. क्तिः । अत एव खलु यथायोऽग्निसमावेशानायो भवति केवलम् । तथैव मम सांनिध्यान्न ते केवलमानुषाः ॥ शि- वस्य परिपूर्णस्य किं नाम क्रियते नरैः । यत्कृतं शि- वभक्तानां तच्छिवस्य कृतं भवेत् ॥ अकायो भक्तकाय: स्यात्' इति पुराणवचनानि श्रूयन्ते । ओषधीनां ब्री- श्रीरुद्रभाष्यम् । ह्यादीनाम् , पतिः स्वामी, तस्मै नमः इत्यर्थः । अत्र भुवंतय इत्यनेन ओषधिस्वामित्वे हेतुरुच्यते, सकलभूवल- यस्रष्टतया तत्स्वामिनः परमेश्वरस्य भूविकारौषधिस्वामित्व. स्यापि तत एव प्राप्तेः; वारिवस्कृतायेत्यनेन च भक्तकाय- स्थत्वोक्त्या 'नाहं तथाग्नि यजमानहविर्विताने च्योतद्भुत- प्लुतमदन्हुतभुमुखेन । यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासं तुष्टस्य मय्यवहितैर्निजकर्मपाकैः' इति भगवतोक्तं भक्तमुखेन भग- वतो भोक्तृत्वमाविष्कृतम् । तेन चौषधिफलभोक्तृत्वेनापि परमेश्वरस्यौषधिस्वामित्वं तत्फलभोक्तुस्तत्स्वामित्वौचित्यात् इत्युक्तं भवति । एवं परमेश्वरभोजनरूपत्वातिशयमभिप्रेत्यैव उपासकैः कृतमेव मे भोजनं नान्यैः कृतमिति श्रुतिस्मृत्यादि. भिरामायते- 'अन्तरिच्छति तं जनो रुद्रं परमो मनीषया गृहाति जिह्वया रसं केवलाघो भवति केवलादी' इत्याद्याः श्रुतयः, 'अन्तरिच्छति यो रुद्रं सदा वन्धं मनीषया। गृहाति जिह्वया सोऽनं रसपूर्णामृतोदकम् । अन्तर्नेच्छन्ति ये रुद्रं भवान्या सहितं भवम् । पुरीषमेव गृहन्ति जिह्वया ते न संशयः' इत्यादिपराशरपुराणवचनानि । इत्येकादशः ॥ नम उच्चै?षायाक्रन्दयते पत्तीनां प. तये नमः॥ - श्रीरुद्रभाष्यम् । ८५ अथ द्वादशः- नम उच्चै?षायेति । युद्धादिषु उच्चैर- च्छितो घोषो यस्य उच्चै?षः, तस्मै ; आक्रन्दयते वैरिणां रोदयित्रे, तन्नाशकायेति यावत् ; पत्तीनां पदातीनाम् , स्वामिने नमः इत्यर्थः । अत्र पत्तीनां पतये इत्यनेन पदा- दिसापेक्षमीश्वरस्य शौर्यमिति प्राप्त तन्निवारणाय स्वयमेव शत्रुनाशने सामर्थ्य दर्शयितुम् आक्रन्दयते इत्युक्तम् । स्वयं शत्रुनाशनेऽपि नायुधायपेक्षा, किं तु हुंकारमात्रेण तदिति दर्शयितुम् उच्चै?षाय इत्युक्तम् । तथा च आयु- धपरिवारादिकमलंकारमात्रम् , हासवीक्षणनखादिभित्रिपुर- मन्मथयमादीन् नाशितवतस्तदपेक्षाविरहादिति भावः । इति द्वादशः ॥ नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः॥ अथ त्रयोदशः- नमः कृत्स्नवीतायेति । कृत्स्नं ज- गत् वीतम् अधिष्ठानतया अन्तर्यामितया च व्याप्तं येन, स कृत्स्नवीतः, तस्मै ; धावते भक्तान रक्षितुं पृष्ठतोऽनुव्रजते, 'वत्सं गौरिव गौरीशो धावन्तमनुधावति' इति वचनात् ; सत्त्वनां सात्त्विकानाम् , पतये स्वामिने नमः । अत्र स- श्रीरुद्रभाष्यम् । स्वनां पतित्वे धावते इत्यनेन हेतुरुक्तः, गोवत्सन्यायेन पृष्ठतोऽनुव्रज्य सास्विकारक्षतस्तत्स्वामित्वौचित्यात् ; कृ. त्सवीताय' इत्यनेन तदेव धावनमुपपाद्यते, सर्वव्यापिना सर्वतो भक्ताननुधावितुं शक्यत इति । इदमेव खलु कृत्स्न- वीतत्वेन भगवतः सर्वतो रक्षकत्वं वाजसनेयिनां गृह्ये श्रूयते- 'अपः प्रवेक्ष्यमनुमन्त्रयते नमो रुद्रायाप्सुषदे स्वस्ति मा संपारय इति, पन्थानं गच्छन्ननुमन्त्रयते नमो रुद्राय पथि- षदे स्वस्ति मा संपारय इति, वनं प्रवेक्ष्यन्ननुमन्त्रयते नमो रुद्राय वनसदे स्वस्ति मा संपारय इति, तस्माद्यत्किंचि. कुर्वन्स्यात् तत्सर्वम् नमो रुद्राय इति कुर्यात् , सर्वेषु रुद्र इति श्रुतेः' इति । सोऽयं द्वितीयानुवाक एको मन्त्रः । अस्य च मण्डूक ऋषिः; महागायत्रीच्छन्दः, श्रीरुद्रो देवता। मुक्तालंकृतसङ्गिमिन्दुगङ्गाधरं हरम् । ध्यायेत्कल्पतरोर्मूले समासीनं सहोमया' शत्रुनाशनवशीकरणाद्यैश्वर्यलाभप्रधानो- ऽयं मन्त्रः ॥ .. इति द्वितीयोऽनुवाकः ॥
तृतीयोऽनुवाकः ॥ । नमः सहमानाय निव्याधिन आव्या. धिनीनां पतये नमः॥ अथ द्वितीय इव तृतीयेऽपि आदावष्टभिमन्त्रैः सर्वेश्व- रत्वेन भगवान्नमस्क्रियते । तत्र प्रथम:- नमः सहमा- नायेति । सहमानाय शत्रून् अभिभवते, यद्वा, भक्तापरा- धान्क्षममाणायेत्यर्थः । नितरां विध्यतीति निव्याधी, तस्मै; भा समन्तात् विध्यन्तीति आव्याधिन्यः शूरसेनाः, तासां स्वामिने नमः। अत्र आव्याधिनीनां पतित्वे सहमानाय निव्याधिने इति हेतुगर्भे विशेषणे, विध्यतां मध्ये नितरां विध्यतो निखिलपरिभवशक्तस्य च श्रेष्ठत्वेन तथाविधस्य तत्स्वामित्वौचित्यात् ; सहमानपदस्य भक्तापराधसहमाना- यत्वे तु तस्येत्थं स्वारस्य द्रष्टव्यम्- ननु यदि परमेश्वरः सर्वापेक्षया स्वयमतिशयेन वेधकृत् आव्याधिनीनां पति:, तहि लोकाः सर्वेऽपि दत्तजलाबलय इव स्युः; पापरहितस्य कस्याप्यभावेन प्राणिमात्रस्यापराधितया परमेश्वरवध्यत्व- श्रीरुद्रभाष्यम् । स्यापरिहार्यत्वादित्याशङ्कय, भक्तापराधसहनस्वभावे भगवति नेयं शङ्केत्याह- सहमानायेति । इति प्रथमः ।। नमः ककुभाय निषङ्गिणे स्तेनानां पत- ये नमः॥ अथ द्वितीयः- नमः ककुभायेति । ककुभाय महते, निषङ्गिणे खगवते, स्तेनानां गुप्तचोराणां स्वामिने नमः। अत्र ककुभशब्दवाच्यमहत्त्वस्य प्रतियोग्याकाङ्क्षायाम् , स्व. वाक्योपात्तस्तेनानामेव तत्प्रतियोगित्वेनान्वयः ; तथा च स्ते- नेषु महत्त्वं स्तेनस्वामित्वे हेतुः ककुभाय इत्यनेन चोच्यते । निषङ्गिणे इत्यनेन स्तेनक्रियापेक्षितोपकरणसंपत्तिः प्रदर्श्य- ते । इति द्वितीयः॥ नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमः ॥ अथ तृतीयः- नमो निषङ्गिण इति । धनुषि संधातुं हस्ते धृतो बाणः निषङ्गः, पृष्ठे बद्धो बाणाधारः इषुधिः, तदुभययुक्ताय ; तस्कराणां प्रकाशचोराणां स्वामिने नमः। अत्र तस्कराधिपत्यानुगुणरूपप्रदर्शनार्थत्वेन विशेषणे संगम- यितव्ये । इति तृतीयः ॥
श्रीरुद्रभाष्यम् । नमो वश्चते परिवश्चते स्तायूनां पतये नमः॥ भूत्वा अथ चतुर्थः-- नमो वश्चत इति । ये स्वकीया एव अन्यैरज्ञाताः सन्तः द्रव्यमपहरन्ति, ते स्वायवा, तेषां स्वामिने नमः। देवस्य स्तायुस्वामित्वमुपपादयितुं. बचते परिवञ्चत इति विशेषणे ; स्वामिन आप्तो भूत्वा तदीयद्रव्यक्रयविक्रयादिव्यवहारेषु यत्र कुत्रापि यत्किंचिद्र- व्यापहारी वञ्चन्नित्युच्यते, सर्वेष्वपि व्यवहारेषु अपहव- कृत् परिवञ्चन्नित्युच्यते, तद्रूपायेत्यर्थः । इति चतुर्थः ।। नमो निचेरवे परिचरायारण्यानां पतये नमः॥ नमो निचेरव इति । अरण्येषु वर्तमा- नाश्वोरा आरण्याः, तेषां स्वामिने नमः, एतदेवोपपाद- यति-- नमो निचरेवे परिचरायेति । आरण्यकचोरा- पेक्षयाप्यपहारविषये नितरां संचरणशीलो निचेरुः, एवं तदपेक्षया परितोऽपहर्तु संचरणशीलः परिचरः, तादृश- स्य तेषु श्रेष्ठत्वात्तत्स्वामित्वं युक्तमिति भावः । इति अथ पञ्चमः पचमः ॥
श्रीरुद्रभाष्यम् । नमः काविभ्यो जिघा सद्भयो मु. ष्णतां पतये नमः॥ अथ षष्ठः-- नमः मुकाविभ्य इति । सुकेण यन्त्रे. णाल्मानमवन्तीति मुकाविणः, प्राणिनो हन्तुमिच्छन्तो जिघांसन्तः, तदुभयरूपाय ; मुष्णता केदारादिषु धान्य- चोराणां स्वामिने नमः । अत्रापि मुष्णतां पतित्वं समये रक्षणचतुरस्य तद्विरोधिनो जिघांसत एव भवतीति विशे- *षणद्वयम् । बहुवचनं छान्दसम् , अन्यथा विशेषणविशेष्य- भावायोगात् । एवमुत्तरमन्त्रेऽपि । इति षष्ठः ॥ नमोऽसिमझ्यो नक्तंच ज्यः प्रकृन्तानां पतये नमः ॥ नमोऽसिमय इति । असिमन्तः खड्गधारिण:, नक्तंचरन्तः राविचराः, तद्रूपायेत्यर्थः । ह- त्वैवापहरन्तश्चोरा: प्रकृन्ताः, तेषां स्वामिने नमः । अत्र प्रकृन्तस्वामित्वानुगुणस्वरूपप्रदर्शनाय विशेषणद्वयम् । इति अथ सप्तमः- “सामः ॥ नम उष्णीषिणे गिरिचराय कुलुश्चा- नां पतये नमः॥
श्रीरुद्रभाष्यम् । अथाष्ठम:--उष्णीषिण इति । कुं भूमि गृहक्षेत्रादिरूपां लुश्चन्त्यपहरन्तीति कुलुश्वाः, तेषां स्वामिने नमः । द्विवि- धाः कुलुश्चा:- -मामेषु स्थित्वा उष्णीषिणो दुष्प्रवर्तकतया दुर्बलानां क्षेत्राद्यपहर्तारः केचित् , केचित्तु गिरिवनाद्याश्रयेण बलिष्ठाः सन्तो लोकानां क्षेत्रादीनपहरन्ति ; तदुभयरूप. त्वम् उष्णीषिणे गिरिचरायेति विशेषणाभ्यां क्रमेण प्रद- द्वितम् । तादृशस्य कुलुश्चस्वामित्वं युक्तमिति भावः ॥ नम इषुमन्यो धन्वाविभ्यश्च वो नमः ॥ तदेवम् 'नमो हिरण्यबाहवे' इत्यादिभिरेतदन्तैरेकवि- शत्या मन्त्रैर्दिगाचेकैकवस्त्वाधिपत्यप्रदर्शनेन 'जगतां पतये नमः' इति साक्षाच कण्ठरवेण भगवतः एष सर्वेश्वर एष लोकाधिपतिः' इति श्रुतिप्रसिद्धमखिलजगदीश्वरत्वमुक्त्वा, इदानीमेकैकवस्त्वात्मकत्वेन भगवतः सर्वात्मकत्वं वर्णयन्त्र- मस्कर्तुमारभते- नम इषुमद्भय इत्यादिना। लोकानवि. तुमिषून धनुश्वाहवे हस्ते वहन्तः इषुमन्तः धन्वाविनः, ते च देवासुरमनुष्यरूपेण जगति यावन्तो वर्तन्ते, तद्रू- पेभ्यो वः युष्मभ्यं नमः; परमेश्वरांशानां वस्तुतस्तदमि- नानां च घोरतररुद्राणां बहुत्वात्तत्संबोधनामिप्रायेण व इति बहुवचनम् । तथा च असह्या ह्येते घोरतरा रुद्रा ये ९२ श्रीरुद्रभाष्यम् । उभयतो नमस्काराः, अथैते शान्ततरा रुद्रा ये अन्यतो नमः स्कारा इति ॥ नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमः॥ अथ द्वितीयः-- नम आतन्वानेभ्य इति । धनुपि ज्यामारोपयन्तः आतन्वानाः, आततज्ये धनुषि शरान् संदधानाः प्रतिदधानाः; ते च जगति यावन्तः तद्रूपेभ्यः वो नमः इति पूर्ववत् ॥ नम आयच्छन्यो विसृजयश्च वो नमः ॥ अथ तृतीयः-- नम आयच्छय इति । ज्याकर्षणं कु. वन्तः आयच्छन्तः, आकृष्य बाणान् मुश्चन्तः विसृजन्तः शेषमन पूर्ववद्रष्टव्यम् ॥ नमोऽस्यद्भयो विध्ययश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नमः स्वपद्भयो जाग्रयश्च वो नमो नम- स्तिष्ठयो धावद्भयश्च वो नमो नमः स- भाभ्यः सभापतिभ्यश्च वो नमो नमो श्रीरुद्रभाष्यम् । अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ।। अथ चतुर्थ:-- नमोऽस्यय इति । मुक्तस्य बाणस्य लक्ष्यपर्यन्तं गमनम् असनम् , तत्कर्तारः अस्यन्तः; लक्ष्य- समीपगतस्य लक्ष्ये प्रवेशो वेधः, तत्कर्तारो विध्यन्तः, 'नम भासीनेभ्यः' इत्यादयः 'अश्वपतिभ्यश्च वो नमः' इत्यन्ताः पञ्च.मन्त्राः स्पष्टार्थाः । सोऽयमुभयतो नमस्काररूपसप्तदश- यजुरात्मकावान्तरमन्त्रसमुदायरूपस्तृतीयोऽनुवाक एको म- न्त्रः; अस्य भगवानेव ऋषिः, स एव देवता, बृहतीच्छ- न्दः । ध्यानम्-- रूपयौवनसंपन्ना मूर्तेव वनदेवता । पुष्पि- तानेकपुनागसहकारशिखोपमा ॥ पञ्चविंशतिनक्षत्रमयूराक- तिशेखरः । अकलङ्कशरत्पूर्णचन्द्रबिम्बसमाननः ॥ प्रातर्वि- बुद्धपद्माभं वसानं चर्म कोमलम् । सव्यापसव्यविधृतकृत- मालाविभूषितः ॥ धराकदम्बपुजेन नाभिदेशप्रलम्बिना । आजच प्रेक्षणीयेन प्रेक्षणीयोऽपि शत्रुभिः ॥ भूधरस्य च चार्वङ्गी कन्यालंकारशोभिता । आदर्शमूर्तिः शोभानामन्या नारीव निर्मला ॥ तस्या हस्ते धनुर्दत्त्वा शरमेकं च निर्म- लम् । तदीयमंसमालम्ब्याश्लिष्टं वामेन बाहुना ।। सुगन्धि- पुष्पस्तबकमाघ्रायाघ्राय पाणिना । वीज्यमानो मन्दमन्दं वन- पल्लवशाखया ॥ समावृतो बालकैश्च श्वभिश्चापि मनोहरैः ।
९४ श्रीरुद्रभाष्यम् । गच्छद्भिरागतो दृष्टैर्ध्यातव्यो जगतां गुरुः ।। एवंरूपो महा- तेजाः किरातवपुरीश्वरः' इति । स्वराष्ट्रव्याधिपरराष्ट्रामि- चारशत्रुनाशनादिफलप्रदोऽयं मन्त्रः । प्राजापत्यपूर्वकपञ्च. सहस्रजपादयं मन्त्रः सिध्यति । ततः प्रयोगार्हो भवति ॥ इति तृतीयोऽनुवाकः ।।
चतुर्थोऽ. वाकः॥ नम आव्याधिनीभ्यो विविध्यन्तीभ्य- नवो नमः॥ अथ चतुर्थानुवाक:-- तृतीय इव चतुर्थेऽपि भगवा- सर्वात्मकत्वेन नमस्क्रियते । तत्र प्रथम:- नम आव्या- घिनीभ्य इति । आ समन्ताद्वेढुं शक्ताः स्त्रियः आव्याधि- न्यः, विविधं वेढुं शक्ताः स्त्रियः विविध्यन्त्यः, ताश्च जग. ति यावन्त्यः सन्ति, तावद्रूपेभ्यो वः नमः इति पूर्ववत् ॥ नम उगणाभ्यस्तुरहतीभ्यश्च वो नमः ।। अथ द्वितीयः-- नम उगणाभ्य इति । उत्कृष्टगणाः उगणाः सप्तमातृकाधाः, तथा हिंसितुं समर्था दुर्गाथा उप- देवता: तूंहन्त्यः, तद्रूपेभ्य इति पूर्ववत् ॥ नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमः॥ अथ तृतीय:-नमो गृत्सेभ्य इति । गर्धनशीला गृत्साः श्रीरुद्रभाष्यम् । - विषयलंपटाः, तेषां पतयः गृत्सपतयः; शेषं पूर्ववत् ॥ नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमः॥ अथ चतुर्थः- नमो वातेभ्य इति । नानाजातीयाः संघाः वाताः, तेषां पतयः व्रातपतयः ।। नमो गणेभ्यो गणपतिभ्यश्च वो नमः॥ अथ पञ्चमः नमो गणेभ्य इति । गणाः प्रमथाः, तेषां पतयः नन्दिकेश्वरादयः ॥ नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः॥ अथ षष्ठः नमो विरूपेभ्य इति । विरूपाः विकृत- रूपाः, नानारूपाः विश्वरूपाः; यद्वा, ब्रह्मणो वस्तुतोऽवि. कारत्वेन परमार्थतो विगतरूपाः, 'समारोप्यस्य रूपेण विषयो रूपवान् भवेत्' इति न्यायेन शुक्तिकायां रजतमिव ब्रह्मणि अध्यस्तं विश्वरूपमिति विश्वरूपाः ॥ - नमो महद्भयः क्षुल्लकेभ्यश्च वो नमः ॥ अथ सप्तमः-- नमो महद्भय इति । अणिमाद्यष्टैश्वर्यो.
श्रीरुद्रभाष्यम्। घेताः महान्त, तद्रहिताः क्षुल्लकाः॥ नमो रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यो रथपथिभ्यश्च वो नमो नमः से- नाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्तु- भ्यः संग्रहीतृभ्यश्च वो नमो नमस्तक्ष. भ्यो रथकारेभ्यश्च वो नमो नमः कुला- लेभ्यः कारेभ्यश्च वो नमो नमः पुञ्जि- टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृ. यो धन्वकृद्यश्च वो नमो नमो मृगयु. भ्यः श्वनिभ्यश्च वो नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः॥ अथाष्टम:-- नमो रथिभ्य इति । रथवन्तः रथिनः, तद्रहिताः अरथाः; नवमादयः श्वपतिभ्य इत्यन्ता: नव मन्त्राः स्पष्टार्थाः । तत्र च रथचालकाः सारथयः क्षत्तारः, त एव रथं नियच्छन्तः संग्रहीतारः, तक्षरथकारयोरवान्त- रभेदाढ़ेदः; काराः लोहकाराः, पक्षिपुखानां घातुका: पुञ्जिष्ठाः, निषादाः श्वपचाः, शुनकगलबद्धपाशधराः श्व- R.B.7 ९८ श्रीरुद्रभाष्यम् । पतयः । शेषं स्पष्टम् । तदेतत् 'इषुमद्यः' इत्येतदन्तः षड्विंशतिमन्त्रैः प्रपञ्चान्तर्गतैकैकवस्त्वात्मकत्वप्रदर्शनेन वि. श्वरूपेभ्यः' इति साक्षात्कण्ठरवेण च भगवतश्चेतनाचेतना- त्मकसकलप्रपश्चरूपत्वमुपवर्णितम् । एतच्च 'नमो ज्येष्ठाय च' इत्यप्रे वक्ष्यमाणमपि सात्म्यिमुपलक्षयति, तेन च शि- वाद्वैतमुकं भवति । तथा च श्रुतयः- 'प्रपञ्चोपशमं शान्त शिवमद्वैतं चतुर्थ मन्यन्ते' 'न सन्न चासच्छिव एव केवलः' 'एक एव रुद्रो न द्वितीयाय तस्थे' 'विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्। सर्वो ह्येष रुद्रः 'सर्वो वै रुद्रः' 'अहमेव प्रथममासं वामि च भविष्यामि च नान्यः कश्चन मत्तो व्यतिरिक्तः' इति । स्मृतयश्च- 'भूतानि शंभुर्भुवनानि शंभुर्वनानि शंभुर्गिरयश्च शंभुः' इत्याद्याः । तत्र चेतनाचेतनात्मकानां चेतनस्वरूपैक्यम् 'त- स्वमसि' 'अहं ब्रह्मास्मि' इत्यादिप्रमाणसहस्रानुरोधात् । अचेतनात्मकत्वं तु आरम्भणाधिकरणन्यायेन तदध्यासाधि- ष्ठानत्वम् ; अध्यस्तस्य अधिष्ठानव्यतिरेकेणासत्त्वस्य शुक्ति- कारजतादौ दृष्टत्वेन रजताध्यासाधिष्ठानस्य शुक्तिकाया: रजतात्मकत्ववज्जगद्ध्यासाधिष्ठानस्य ब्रह्मणो जगदात्मक- त्वादिति ब्रह्ममीमांसायां प्रपश्चः । एतेन 'श्वभ्यः श्वपति- श्रीरुद्रभाष्यम् । श्रुत्या भ्यश्च' इत्यतिनिकृष्टैः श्वादिभिः सह भगवतः कथमैक्यं प्रतिपाद्यत इति शङ्का निरस्ता; न हि श्वशब्दवाच्यदे- हविशिष्टाभेदः श्रुत्योच्यते, किंतु तल्लक्ष्यं निष्कृष्टोपाधि यजीवचैतन्यम् उच्चनीचभावापन्नेषु शरीरेष्वनुस्यूतं तदात्म- कत्वम् । तदेतद्गीतायां स्पष्टीकृतं भगवतैव-विद्याविनय- संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डि- ताः समदर्शिनः' इति। न चैतावता परमेश्वरस्य तदुपाधि- गुणदोषसंबन्धलेशोऽस्ति ; न हि गङ्गायां तटाके सुरायां मूने वा प्रतिबिम्बमानस्यादित्यस्य तदुपाधिगुणदोषसंबन्ध इति सर्वमनवद्यम् । सोऽयमुभयतो नमस्काररूपः सप्तदशयजुरा- सकावान्तरमन्त्रसमुदायरूपचतुर्थानुवाक एको मत्रः ; अस्य दुर्वासा ऋषिः, महाविराट्च्छन्दः, शंभुर्देवता । ध्यानम्- 'भस्मोद्धूलितसर्वाङ्ग जटामण्डलमण्डितम् । ध्यायेहेवं वृषा- रुढं गणेश्वरयुतं हरम्'। राजयक्ष्मज्वरसंनिपातकुष्ठादिरोगप- रिहारकोऽयं मनः। साधप्राजापत्यपूर्वकं सहस्रवारजपा- मन्त्रसिद्धिः ॥ इति चतुर्थोऽनुवाकः ।।
पञ्चमोऽ वाकः॥ नमो भवाय च रुद्राय च नमः श वाय च पशुपतये च ॥ इत्थं चतुर्थे सर्वात्मकत्वेन भगवान्नमस्कृतः । इदानीं भगवदसाधारणधर्मरूपतन्महिमानुसंधानपूर्वकं तन्नमस्कार- मारभते । एतदारभ्य 'द्रापे' इत्येतत्पर्यन्तमन्यतो नमः स्काराः, सर्वत्र नमस्कारादिरेकैको मन्त्रः ; यथा- नमो भवाय च रुद्राय च' इत्यादि । एवमन्येऽपि ज्ञेयाः । तत्र प्रथमं द्वाभ्यां मन्त्राभ्यां जगजन्मस्थितिसंहारबन्धमो. झाल्यपञ्चकृत्यकारित्वरूपपरमेश्वरासाधारणमहिमानमनुसं- दधानस्तं नमस्करोति- नमो भवाय चेति । भवत्यस्मा- जगदिति भवः, अनेन 'सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते संप्र. सूयन्ते' इत्यादिश्रुतिप्रसिद्धं भगवतो जगज्जन्महेतुत्वं प्रद. शितम् । रुदं संसारदुःखं द्रावयतीति रुद्रः, अनेन ‘यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति' 'रुद्रस्तारकं ब्रह्म व्याचष्टे' इति श्रीरुद्रभाष्यम् । १०१ श्रुतिप्रसिद्धं मोक्षहेतुत्वमुक्तम् । शृणाति हिनस्ति सर्वमिति शर्वः, अनेन तस्मा उपसंहर्ने महापासाय नमः' इत्यादि- श्रुतिप्रसिद्धं जगत्संहर्तृत्वमुक्तम् । पशुपतिशब्देन बन्धस्थि- तिहेतुत्वमुच्यते, पशुशब्देन संसारबन्धस्य पतिशब्देन तद्र- क्षणस्य चोक्तेः । तथा च 'संसारमोक्षस्थितिबन्धहेतुः' इति श्रुतिप्रसिद्धं जगस्थितिबन्धहेतुत्वमुक्तं भवतीत्याहत्य पञ्चक- त्यहेतुत्वेन भगवन्नमस्कारो मन्त्रद्वयार्थः । अत्र नमःशब्द- स्य प्रत्येकं चतुर्थ्यन्तपदाभ्यामन्वयं द्रढयितुं समुच्चयार्थों च. कारी फलितौ । तेन भवाय च नमः शर्वाय च नमः इत्य- बयो भवति । एवमप्रेऽपि सर्वत्र द्रष्टव्यम् ।। नमो नीलग्रीवाय च शितिकण्ठाय च ॥ अथ तृतीयः-नमो नीलग्रीवायेति । कालकूटप्रसनेन नीला प्रीवा कण्ठो यस्य, स नीलग्रीवः, तहसनात्पूर्व शिति: धवलः कण्ठो यस्य, सः शितिकण्ठः । अनेन स्व- वो धवलकण्ठे कालकूटप्रयुक्तं नैल्यं दोषमविगणय्य जगदे- करक्षणाय विषं कबलितवतो भगवतः सर्वलोकदयालुत्वम् 'अहमिदं दयसे विश्वम्' इत्यादिश्रुतिप्रसिद्धं प्रदर्शितम् ।। नमः कपर्दिने च व्युप्तकेशाय च ।।
श्रीरुदभाष्यम् । वै अथ चतुर्थ:- नमः कपर्दिन इति । कपर्दः परमे- श्वरजटाकलापः, तद्वान् कपर्दी, अनेन 'दक्षं सयझं जहि तं भटानां त्वमग्रणी रुद्रजटांशको मे' इति भागवतादिप्र. सिद्धः भगवजटांशवीरमद्रमहिमा स्मयते । तेन च देवा यज्ञाद्रुद्रमन्तरायन् स यज्ञमविध्यत्' इत्यादिश्रुतिप्रसिद्ध- दक्षाध्वरध्वंसमहिमा दर्शितः। व्युप्ताः मुण्डिताः केशा: यस्य, स: व्युप्तकेशः, परमहंसपरिव्राजकः; 'अथ परि. ब्राडेकशाटी शिष्यपरिवृतो मुण्डोदरपात्री' 'ज्ञानशिखिनः ज्ञानयज्ञोपवीतिनः' इत्यादिश्रुतेः; तेन दत्तात्रेयदुर्वासःप्र- भृतयः जाबालोपनिषदादिप्रसिद्धाः, कलियुगे च 'चतुर्मि: सहित: शिष्यैः शंकरोऽवतरिष्यति' 'शंकरः सविताननः' इत्यादिपुराणप्रसिद्धपरमेश्वरावतारभावाः शंकराचार्यस्वामि- नः, तद्रूपायेत्यर्थः । अनेन 'ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः' इति श्रुतिप्रसिद्धं ब्रह्मविद्यासंप्रदायप्रवर्तकत्वमुक्तम् ॥ नमः सहस्राक्षाय च शतधन्वने च ॥ अथ पञ्चम:-नमः सहस्राक्षायेति । सहस्रम् अनन्ता- नि अक्षीणि यस्य, सः सहस्राक्षः, अनेन 'यः सर्वज्ञः' इत्यादिश्रुतिप्रसिद्धः सर्वज्ञत्वमहिमा दर्शितः । शतम् अनन्ता- नि धन्वानि धनूंषि वेदप्रणवमेादिरूपाणि यस्य, सः शत- श्रीरुद्रभाष्यम् । . धन्वा, ‘स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम् । शल्यमग्निं तथा कृत्वा धनुर्मेरुमकारयत् ॥ कृत्वा च धनुरों- कारं सावित्री ज्यां महेश्वरः' इत्यादिभारतोक्तवेदप्रणवमेरु- पिनाकाद्यनेकधनुर्युक्तायेत्यर्थः । अनेन 'तेषामसुराणां तिस्रः पुर आसन्' इति श्रुतिप्रसिद्धत्रिपुरसंहारमहिमा दर्शितः ॥ नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥ अथ द्वाभ्यां त्रिमूात्मकत्वम् , विश्वाधिकत्वं च दर्शयति नमो गिरिशायेति । गिरिः कैलासः, सोऽस्यास्तीति गिरिशः, लोमादित्वान्मत्वर्थीयः शः, तद्रूपाय इत्यर्थः । शिपिविष्टः विष्णुः, 'विष्णु: शिपिविष्टः' इति श्रुतेः; विष्णुरूपायेत्यर्थः । मीढुष्टमः अतिशयेन वीर्यसेचक: जग- स्वष्टा हिरण्यगर्भः, तद्रूपायेत्यर्थः । अनेन ‘स ब्रह्मा हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्' इत्यादिश्रुतिप्रसिद्धत्रि- मूर्त्यात्मकत्वमुक्तं भवति । प्रशस्तः इषुरस्यास्तीति इषुमान् , प्रशंसायां मतुप् ; प्राशस्त्यं च इषो: ‘स इषु समस्कु- वंताग्निमनीकर सोमर शल्यं विष्णुं तेजनम्' इत्यादिश्रु- त्युक्तं द्रष्टव्यम् । तेन च सर्वदेवानामपि त्रिपुरसंहारीयं भ- - श्रीरुद्रभाष्यम् । । गवत्परिकरत्वमनुस्मार्यते । तेन च 'यो देवानां प्रभवश्चोद्भ- वश्च' 'विश्वाधिको रुद्रो महर्षिः' ' अङ्गान्यन्या देवताः' इत्यादिश्रुतिप्रसिद्ध विश्वाधिकत्वं प्रदर्शितम् ।। नमो इस्वाय च वामनाय च ॥ नमो इस्वायति । शरीरे लघुप्रमाणो इस्वः, अनेन 'तत्रापि दहं गगनं विशोकः' इत्यादिश्रुति- प्रसिद्धं दहरविद्योपास्यत्वं प्रदर्शितम् । संकुचितपादाद्यवयवो वामनः महागणपतिः, तद्रूपायेत्यर्थः । महागणपतेः साक्षा- त्परमेश्वरावतारत्वस्य मन्त्रशास्त्रपुराणादिप्रसिद्धेः । अनेन 'गणानां त्वा गणपतिर हवामहे' इति श्रुतिप्रसिद्धो महिमा अथाष्टम:- दर्शितः ।। अथ नवमः नमो बृहते च वर्षीयसे च ॥ नमो बृहत इति । देशकालवस्तुकृत- त्रिविधपरिच्छेदराहित्यं बृहत्त्वमिति ब्रह्ममीमांसायां व्यव- स्थापितम् ; बृहते परब्रह्मण इत्यर्थः । 'अथ कस्मादुच्यते परं ब्रह्मेति यस्माद्वृहति यति तस्मादुच्यते परं ब्रह्म' इति अथर्वशिरःश्रुतेः । अनेन 'ऋतं सत्यं परं ब्रह्म' 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिश्रुत्युक्तं परब्रह्मत्वं दर्शितं भवति ।
श्रीरुद्रभाष्यम् । . . गुणैः समृद्धो वर्षीयान् , 'अनेन सत्यकामः सत्यसंकल्पः परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इत्यादिश्रुत्युक्तदिव्यगुणमहिमा प्रदर्शितः ॥ नमो वृद्धाय च संवृध्वने च ।। अथ दशमः नमो वृद्धायेति । सर्वापेक्षया वयो- ऽधिको वृद्धः सर्वैः स्वयं पूज्यः, न तु स्वस्य कश्चित्पूज्यो वन्द्यश्चास्तीत्यर्थः । अत एव खलु पुराणे श्रूयते- 'यस्या- स्ति शक्तिः स तु वन्दितव्यः स कः करोत्वङ्गुलिकां पुरो मे। कः पूजित: स्याच्छशिशेखरेण नाराधितो भूतपतिस्तु वा केः' इति । अनेन ' यस्मै नमस्तच्छिरोधर्म' इति श्रुति- प्रसिद्धं सर्वनमस्कारविषयत्वमुक्तं भवति । यद्यपि 'यस्मै नमस्तच्छिरः' इति सामान्येन श्रूयते, तथापि त्वं भूतानां श्रेष्ठोऽसि' इति परमेश्वरं प्रस्तुत्य 'सर्वे ते नमः' इत्युपसं- हारे सर्वस्यापि नमस्कारस्य तदीयत्वोक्त्या 'यस्मै नमः' इत्युपक्रमेऽपि नमस्कारविषयत्वेन निर्दिष्टः परमेश्वर एवेति निश्चीयते; तस्यैव निजचिच्छक्तिरूपशिंशुमाराद्याधारत्वेन प्रधानतया तच्छिरोरूपप्रधानावयवत्वेन निरूपणौचित्यात् देवतान्तराणां तदाकृति प्रति मूर्धहनुहृदयमध्यचरणपुच्छरू- पत्वेन स्वस्वनामभिः पृथनिर्दिष्टत्वादित्यन्यत्र विस्तरः । स- श्रीरुद्रमाष्यम् । , म्यक् असाधारण्येन स्तुतिनमस्कारैवर्धितः संवृध्वा, अनेन 'मा त्वा रुद्र चुक्रुधामानमोभिर्मासुष्टुतीवृषभमासहूती उद्यो- विरामर्पय भेषजेभिः' भिषक्तमं त्वा भिषजां शृणोमि' 'दुष्टुत्या सदृशस्तुत्या समानाह्वानकर्मणा । न वयं चुक्रुधाम त्वां सर्वदेवनमस्कृत' इति श्रुतिपुराणसिद्धमनितरदेवतासा- धारणस्तुतिनमस्कारैकविषयत्वं दर्शितं भवति ॥ नमो अग्रियाय च प्रथमाय च ॥ अथैकादश:- नमो अग्रियायेति । अग्रे जगदुत्प- चेः पूर्वमवस्थित: अग्रियः, इदमप्रियत्वं हिरण्यगर्भस्याप्य- स्ति, 'हिरण्यगर्भः समवर्तता' इति श्रुतेः; अतो वि- शिनष्टि-प्रथमायोति । हिरण्यगर्भादपि प्रथमः, तस्यापि कारणभूत इत्यर्थः । ' हिरण्यगर्भ जनयामास पूर्वम्' इति हि श्वेताश्वतरश्रुतिः । अनेन ‘यदातमस्तन्न दिवा न रात्रिन सन्न चासच्छिव एव केवलः' इत्यादिश्रुतिप्रसिद्धं जगत्का- रणत्वं दर्शितम् । यद्यपि 'नमो भवाय' इत्यनेनैव तदुक्तम्, तथापि जगदादिहिरण्यगर्भजनकत्वेन तदेवात्रोपपाधते ॥ नम आशवे चाजिराय च ॥ अथ द्वादश:- नम आशव इति । अमोति व्यानो.
श्रीरुद्रभाष्यम् । बीति आशुः, 'अशु व्याप्तौ' इति धातोरापूर्वादौणादिक उप्रत्ययः ; जगद्यापिन इत्यर्थः । तत्र हेतुः- अजिरायेति। गमनकुशलायेत्यर्थः । अनेन 'यो रुद्रो अग्नौ' इत्यादिश्रुति- प्रसिद्धं निखिलजगद्यापित्वमुक्तम् ।। नमः शीधियाय च शीभ्याय च नम जाय चावखन्याय च नमः स्रोतस्थाय च द्वीप्याय च ॥ अथ वयोदशचतुर्दशपञ्चदशा:- नमः शीध्रियाय- चेति। शीघ्रगास्वप्सु भवः शीघ्रियः, तदन्तर्यामीति यावत् । शोभे उदकप्रवाहे भवः शीभ्यः, ऊर्मिषु तरङ्गेषु भव: ऊHः, अवस्वने ध्वनिरहिते जले भवः अवखन्यः, स्रो- तसि प्रवाहे भवः स्रोतस्या, शीभस्रोतसोमहत्त्वाल्पत्वाभ्यां भेदः; द्वीपे भवः द्वीप्यः; यद्यपि 'नमो नाधाय च वैश- न्ताय च नमः सिकत्याय च प्रवाशाय च नम ऊर्याय च सूर्याय च' इत्यादिना शीघ्रशीभोादिरूपविविधजला- न्तर्यामित्वमन्तर्यामिप्रकरणे वक्ष्यते, तथापि 'आपो वा इदर सर्वम्' इत्यादिश्रुतिप्रसिद्धः सर्वोऽप्यपां महिमा तदन्तर्या- मिणः परमेश्वरस्यैवेति दर्शयितुमने वक्ष्यमाणमेव जलान्तर्या- १०८ श्रीरुद्रभाष्यम् । मित्वमत्रानूयते । श्रूयते हि- विचित्रशक्तेः परमेश्वरस्यः एका शक्तिरपां महिमानं निर्वहतीति ; यथा- 'अपामेका महिमानं बिभर्ति सूर्यस्यैका' इति । द्वीपशब्दोऽपि जला- न्तर्यामित्वपर एव, द्विधाभूता आपो यस्मिन्देश इत्यर्थे 'द्वय- न्तरूपसर्गेभ्योऽप ईत्' इत्यप्छब्दाकारस्य ईकारे सवर्णदी 'ऋक्पूरब्धःपथामानक्षे' इत्यकारे च समासान्ते सति तोपान निष्पन्नत्वात् । यद्वा, द्वीपशब्देन जम्बूप्लक्षादि- सप्तद्वीपवाचिना सर्वमपि जगदुपलक्ष्यते, तथा च सर्वेषु द्वीपेषु सर्वत्र लोकेऽपि विद्यमानः सर्वोऽप्यतिशयस्तदन्त- यामिणः परमेश्वरस्यैवेति तदर्थों द्रष्टव्यः ।। इति पञ्चमोऽनुवाकः ॥
षष्ठोऽ.पाकः॥ नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुनि- याय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम- उवाय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिभवाय च नम आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च ॥ पञ्चमे विविधमहिमोपेतत्वेन भगवान्नमस्कृतः, षष्ठे तु सर्वात्मकत्वसर्वान्तर्यामित्वाभ्यां नमस्क्रियते-- नमो ज्ये- ११० श्रीरुद्रभाष्यम् । । छायेति । क्योविद्याश्रमादिभिरधिको ज्येष्ठः, तैन्यूनः क- निष्ठः, तदुभयरूपायेत्यर्थः । पूर्वमावि मृदादि कारणं पूर्व- जम्, पश्चाद्भावि घटादिकं कार्यम् अपरजम् , तदात्मकाये- त्यर्थः । मध्यमः युवा, अपगल्भस्तु अप्ररूढेन्द्रियो बालः, तदु- भयरूपायेत्यर्थः । नमो जघन्यायेत्यादयः अन्तर्यामित्वप्रति- पादकाः; जघने पश्चाद्भागे भव: जघन्यः, बुध्ने मूले भवः बुध्न्या, उभाभ्यां पुण्यपापाभ्यां सह वर्तमानः सोमः मनु. ज्यलोकः, पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्' इति श्रुतेः ; तत्र भव: सोभ्यः, प्रतिसरति गच्छतीति प्रतिसरः जङ्गमप्रपञ्चः, तत्र भवः प्रतिसर्यः, यमलोके भवः याम्यः, क्षेमे स्वर्गलोके भवः क्षेम्यः, उर्वरा सर्वसस्यान्या भूमिः, तत्र भव: उर्वयः, खलः धान्यविवे. चनदेशः, तत्र भवः खल्यः, श्लोकेषु वेदमन्त्रेषु भवः श्लोक्यः, अवसानं वेदान्तः, तत्र भव: अवसान्यः, वने भवः वन्यः, कक्षेषु गुल्मेषु भवः कक्ष्यः। अथ सात्म्येिन नमस्करोति नमः श्रवायेत्यादिना । श्रूयते इति श्रवः शब्दः, प्रतिश्रवस्तु प्रतिध्वनिः, आशुः शीघ्रगामिनी सेना यस्य, स आशुषेणः; एवम् आशुरथः, शूरः शौर्यवान् , अवभिन्दन् भेत्ता ब्रह्मद्विषां मूों भिनत्तीति, वर्मी कच.
श्रीरुद्रभाष्यम् । कोपेतः, वख्यः सारथेः गुप्तिस्थानम् , बिल्मं बिलोपेतं युद्धे शिरोरक्षकम् , तदस्यास्तीति बिल्मी, कवचः शरीररक्षक कञ्चकम् , तद्वान् कवची, श्रुतः प्रसिद्धः, श्रुतसेनः प्रसिद्धसेनः ; देवासुरमनुष्यादिषु यो यस्तिष्ठति- आशु- घेण:, आशुरथः, शूरः, अवभिन्दन् , वर्मी, वरूथी, बिल्मी, कवची, श्रुतः, श्रुतसेनो वा, तद्रूपायेत्यर्थः । अस्य भगवा- नृषिः, स एव देवता, क्रमेण महाविराण्महापङ्किच्छन्दः । ध्यानम्-गौरीकराम्बुजन्यस्तं स्वर्णशैलशरासनम् । इक्षुहस्तं नरारूढं नरनारीतनुं स्मरेत् ॥ शत्रुविजयचिरायुष्यराज्याभि- वृद्धिसुपुत्रावाप्तिफलप्रदोऽयं मन्त्रः । त्रिरात्रचरुभोजननिर- न्तरैकादशदिनजपान्मन्त्रसिद्धिः ।। इति षष्ठोऽनुवाकः॥
. सप्तमोऽ वाकः ॥ नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायु- धाय च सुधन्वने च नमः स्रुत्याय च पथ्याय च नमः काव्याय.च नीप्यायच नमः सूद्याय च सरस्याय च नमो ना- द्याय च वैशन्ताय च नमः कूप्याय चा- व्याय च नमो वाय चावाय च नमो मेध्याय च विद्युत्याय च नमः ई- धियाय चातप्याय च नमो वात्याय च ष्मियाय च नमो वास्तव्याय च वा. स्तुपाय च ॥
श्रीरुद्रभाष्यम् । ११३ न्दुभ्यः, षष्ठ इव सप्तमेऽपि सर्वान्तर्यामित्वसर्वात्मत्वाभ्यां नम- स्क्रियते-- नमो दुन्दुभ्यायेति । दुन्दुभौ भयो भवः दु- आहन्यन्ते ताड्यतेऽनेनेति आहननः दुन्दुभ्याघाता- थों दण्डः, तत्र भवः आहनन्यः, नमो धृष्णवे चेत्यादयः सर्वात्मत्वेन भगवतो नमस्काराः । लोके यो धृष्णुः प्रमृश- न्दूतादिः तद्रूपायेत्यर्थः । धृष्णुः युद्धे पलायनरहितः, प्रमशः परमैन्यवृत्तान्तपरामर्शकः, दूतः तद्वृत्तान्तज्ञानकुशलः, प्र- हितः स्वामिप्रेरितः पुरुषः, निषङ्गीषुधिमन्तौ व्याख्याती । तीक्ष्णा इषवो यस्य सः तीक्ष्णेषुः, बहून्यायुधान्यस्येति आयुधी, शोभनम् आयुधं यस्येति स्वायुधः, शोभनं यस्येति सुधन्वा, नमः स्रुत्यायेत्यादिमिरन्तर्यामितीच्यते-- सुतिः पादसंघारमात्रयोग्यः क्षुद्रमार्गः, तत्र भवः चुत्यः स्थादिसंचारयोग्यः प्रौढर्मागः पन्थाः, तत्र भवः पथ्यः, कुत्सितमटति जलमत्रेति काटः अल्पजलप्रदेशः, भवः काव्यः, यत्र जलं न्यग्भावेन पतति स देशो नीपः, तत्र भवो नीप्यः, सूदः कर्दमः, तत्र भवः सूद्यः, सरः प्रसि- नद्यां भवः नायः, अल्पसरो वेशन्तः, तत्र भवः वैशन्तः, कूपे भव: कूप्यः, अवटे गर्ने भवः अवव्यः, वर्षे भवः वर्ण्यः, वर्षाभावो अवर्षः, तत्र भवः अवर्ण्यः, वर्ष- धनु- R. B.8 ११४ श्रीरुद्रभाष्यम् । तदभावयोः प्रेरक इत्यर्थः । मेघेषु भव: मेध्यः, विद्युति भवः विद्युत्यः, ईधं निर्मलत्वेन दीप्यमानं शरदभ्रम्, तत्र भवः ईध्यः, आतपे भव: आतप्यः, वाते भवः वात्यः, रिष्यन्ति नश्यन्ति भूतान्यत्रेति रेष्म: प्रलयकालः, तत्र भव: रेमियः, वास्तवं गवादिकं वस्तु, तत्र भव: वास्त. व्यः, गृहनिर्माणार्था भूमिः वास्तु, तत्पालकत्वेन तत्र तिष्ठन वास्तुपः, सोऽयमन्यतो नमस्काररूप: षोडशयजुरात्मकावा. न्तरमन्त्रसमुदायरूपः सप्तमोऽनुवाक एको मन्त्रः । अस्य रोमश ऋषिः, महानुष्टुप्छन्दः, रुद्रो देवता; 'जटामिलम्ब. मानाभिर्नृत्यन्तमभयप्रदम् । देवं शुचिस्मितं ध्यायेद्वधाघ्र. चर्मपरिष्कृतम्' । मेधायुष्यारोग्यलक्ष्मीपुत्रविद्यामोक्षफलप्र- दोऽयं मन्त्रः । एकोपवासपूर्वकशतजपान्मन्त्रसिद्धिः । इति सप्तमः ॥ नमः सोमाय च रुद्राय च ।। सप्तमे सर्वात्मकत्वसर्वान्तर्यामित्वाभ्यां भगवान्नमस्कृतः ; अष्टमे तु अखिललोकोपास्यत्वहेतुभिरसाधारणधमैरन्तर्यामि. तया च भगवान् नमस्क्रियते सप्तदशभिः । तत्र तावत्परमे. श्वरस्यैव मोक्षप्रदत्वात्स एव मुमुक्षुभिः सर्वैरुपास्य इति दयितुं प्रथमो मन्त्रः- नमः सोमायेति । अत्र रुद्राय श्रीरुद्रभाष्यम् । ११५ नम इति प्रथममन्वयः; रुतं संसारदुःख द्रावयतीति रुद्रः। श्रूयते हि श्वेताश्वतरोपनिषदि- 'यदा चर्मवदाकाशं वेष्ट- विष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भवि- यति' इति परमेश्वरं विना दुःखनिवृत्तेर्गगनवेष्टनवदत्य- न्तासंभावितत्वम् । एतदेवोपपादयितुं नमः सोमायेति वि. शेषितम् ; उमया सहितः सोमः, उमेति प्रणववर्णव्यत्यास- रूपः 'पराशक्तिः प्रणवः' इति लैङ्गादिषु प्रतिपादितं दिव्या- भिधानम् , तेन परब्रह्मविद्याधिदेवता पारमेश्वरी चिच्छक्ति- रुच्यते; तथा चाविद्यकसंसारनिवृत्तेब्रह्मविद्यासाध्यत्वात् तादशब्रह्मविद्याधिदेवतालंकृतः परमेश्वर एव संसारदुःखद्रा- वक इत्युपपादितं भवति । ब्रह्मविद्याधिदेवतात्वं च पराश- केरुमाया: वेदान्तेषु प्रसिद्धम् । तथाहि श्वेताश्वतरोपनिषदि -'ब्रह्मवादिनो वदन्ति किं कारणं ब्रह्म कुतः स्म जाता:' इति प्रस्तुत्य, 'ते ध्यानयोगानुगता अपश्यन्देवात्मशक्ति स्व- गुणैर्निगूढाम्' इत्यादिना पुनर्ब्रह्मवादिनां महर्षीणामुमानुग्रहा- देव ब्रह्मत्वनिश्चयो जात इति प्रतिपादितम् । उपबृंहितं च शैव- पुराणे 'मुमुक्षया पुरा केचिन्मुनयो ब्रह्मवादिनः । संशया- विष्टमनसो विमृशन्ति यथातथम् । किं कारणं कुतो जाता जीवामः केन वा वयम्' इति प्रस्तुत्योक्तम्-'ते ध्यानयोगा- श्रीरुद्रभाष्यम् । नुगताः प्रापश्यशक्तिमैश्वरीम् । पाशविच्छेदिकां साक्षानिगू. ढां स्वगुणैर्धशम् ॥ तया विच्छिन्नपाशास्ते सर्वकारणकारणम् । शक्तिमन्तं महादेवमपश्यञ्ज्ञानचक्षुषा' इति । कूर्मपुराणेऽपि 'समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः। वितेनिरे बहू. न्वादान्' इति प्रस्तुत्य ' इत्येवं मन्यमानानां ध्यानयोगावल. म्बिनाम् । आविरासीन्महादेवी गौरी गिरिवरात्मजा ॥ नि- रीक्षितास्ते परमेशपल्या तदन्तरे देवमशेषहेतुम् । पश्यन्ति शंभु कविमीशितारं बृहन्तमीशं पुरुषं पुराणम्' इति । तथा तलवकारिणामुपनिषद्यपि 'स तस्मिन्नाकाशे स्त्रियमाजगाम बहुशोभमानामुमा हैमवती तां होवाच किमेतद्यक्षमिति ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वम्' इत्यादिना पुरा शक्रादीनामुमानुग्रहादेव परब्रह्मावबोधो जात इत्युपाख्या- यते । कैवल्योपनिषदि च 'उमासहायं परमेश्वरं प्रभु त्रि. लोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षिं तमसः परस्तात्' इत्युमासाहित्येनैव परमे- श्वरस्य ध्यानं मोक्षप्रदत्वेनोच्यमानमुमाया: परब्रह्मवि. द्याधिदेवतात्वं गमयति, उक्तश्रुत्या एकार्थत्वात् ; 'पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी । तस्मात्सह तया शक्त्या हृदि पश्यन्ति ये शिवम् । तेषां शाश्वतिकी सिद्धिर्नेतरेषामिति श्रारुद्रभाष्यम् । तु सर्वज्ञत्व- श्रुतिः' इत्यादितदुपबृंहणानुरोधाच । न केवलं मोक्ष- प्रदत्वमेवोमासाहित्यप्रयुक्तं भगवतः, किं सर्वेश्वरत्वसर्वान्तर्यामित्वसर्वकारणत्वादिरूपः सर्वोऽपि म- हिमा परशक्तिविलास एवेति 'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च' इत्यादिश्रुतयः प्रथय- न्ति । प्रपञ्चयन्ति चेतिहासपुराणानि, प्रवदन्ति चाभियु. ता:- 'शक्तिः शरीरमधिदैवतमन्तरात्मा ज्ञानं क्रिया कर- णमासनजालमिच्छा । ऐश्वर्यमायतनमावरणानि च त्वं कि किं न यद्भवसि बालशशाङ्कमौलेः' इति, 'न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि' इति च । अत एव खलु ताह. शमहिमप्रयुक्तायामुमायामादरातिशयादेव तैत्तिरीयोपनिषदि 'अम्बिकापतये' इत्युक्त्वापि पुन: 'उमापतये' इति तत्पति- खेन भगवान्नमस्क्रियत इत्यास्तां तावत् ॥ नमस्ताम्राय चारुणाय च ।। अथ आदित्यरूपेण सर्वेषामप्यनायासेन प्रत्यक्षीभूय स. कलश्रेयःप्रदत्वादपि परमेश्वर एवोपास्य इति द्वितीयो म- न्त्रः-नमस्ताम्रायति । उदयकाले अत्यन्तरक्तवर्णः ताम्रा, तदनन्तरमीषद्रक्त: अरुणः, चकारादूर्ध्व बभ्रुवर्णः । एवं- श्रीरुद्रभाष्यम् । . भूताय, अष्टमूर्तेर्भगवतः सूर्यात्मको मूर्तिविशेष: तस्मै नम इत्यर्थः । लोके हि उपासकैर्महता नियमेन बहुकालमुपा- सने कृते तदनन्तरं देवताविर्भवति ; आदित्यस्तु भगवान- यत्नतः स्वयमेवाखिलप्राणिजातस्य पुरतोऽनुदिनमपि ताम्रा- रुणादिरूपेणाविर्भवति । उक्तं हि तदेतत्- 'उतैनं गोपा अदृशन्नदृशनुदहार्यः' इति । एवमाविर्भवतोऽस्याभिमुख्य- संपादनार्थमपि न यनो भवति, उदयन्नेव हि भगवान्प्रति- पुरुषमभिमुख एव उदेति ; श्रूयते च- 'तस्मात्सर्व एव मन्यते मां प्रत्युद्गात्' इति । इत्थं स्वयमेवाविर्भूय वरदा. नाभिमुखेऽवस्थिते परमेश्वरोऽयमिति बुद्धिमानं वितन्वन- खिलमपि श्रेयो लभते । तथा च श्रुति:- 'उद्यन्तमस्तं यन्तमादित्यमभिध्यायन्कुर्वन्ब्राह्मणो विद्वान्सकलं भद्रमश्नु- तेऽसावादियो ब्रह्म' इति । अतोऽनायासेनैवाखिलपुरुषा- र्थप्रदः परमेश्वर एव उपास्य इति भावः । 'उद्यन्तम्' इति श्रुतौ उदयकालावच्छिन्ने ताम्र एवाभिध्यानं विहितम् , भत्र तु सर्वस्यापि लोकस्य उदयकाले नियमो न संभ- वति, प्रमादालस्यभूयिष्ठत्वात् ; तदनुग्रहार्थमुदयकालध्या- नाशक्तानां तदुत्तरकाले अरुणवणे, तत्राप्यशक्तानां तदूर्ध्व- काले बभ्रुवर्णे सवितरि ब्रह्माभिध्यानं विधातुम् ‘नमस्ता- श्रीरुद्रभाष्यम् । ११९ प्राय चारुणाय च' इत्युक्तम् । अहो परमकारुणिकता बद्रोपनिषदः॥ नमः शंगाय च पशुपतये च ॥ अथ खलु सुखप्रदत्वादपि परमेश्वर एव सर्वसुखार्थिमि- स्पास्य इति दर्शयितुं तृतीयः-- नमः शंगायेति । सुखं गमयति प्रापयतीति शंगः, तत्र हेतु:- पशुपतय इति । पशूनां ब्रह्मादिस्थावरान्तानां पतिः पालकः । तथा च भगवानेव लोकजालस्य सुखहेतुः, पालनीयसुखस्य पाल- काधीनत्वादिति भावः ॥ नम उग्राय च भीमाय च ॥ अथ विश्वाधिकत्वात्परमेश्वर एव विश्वोपास्य इति दर्श- यितुं चतुर्थः-- नम उग्रायेति । उग्रः श्रेष्ठः, उत्पूर्वाद्रमः उद्गच्छतीत्यस्मिन्नर्थे 'ऋजेन्द्राऽप्र...' इत्युणादिसूत्रेण रन्प्र- त्ययः । अत एव 'उग्रोऽस्युमोऽहं सजातेषु भूयासम्' इति मन्त्रे ज्ञातिश्रेष्ठयप्रशंसाविषये स्वस्मिन्नुपशब्दः प्रयुक्तः । तत्र श्रेष्ठयसमर्पकस्य सजातपदस्येव ताशस्य कस्यचिदभा- वात्संकोचाभावन्यायेन सर्वश्रेष्ठत्वरूपं विश्वाधिकत्वं सिध्य- ति । तत्र हेतुः-- भीमायेति । भीमः भयंकरः 'भीषा- १२० श्रीरुद्रभाष्यम् । स्माद्वातः पवते' इति श्रुतेः । तथा च महानुभावादिन्द्रा- गन्यादीन्प्रत्यपि भयंकरत्वेन तन्नियन्तुर्भगवतः सर्वोत्तमत्व. मिति भावः ॥ नमो अग्रेवधाय च दूरेवधाय च ॥ अथ सकलजयहेतुत्वात्सर्वैरेव तदर्थिभिर्भगवानेव सेव्य इति दर्शयितुं पञ्चमः नमो अवधायेति । युद्धरणं प्रविष्टस्य स्वभक्तस्य अग्रे स्थित्वा तदीयशत्रूणां वधं कुर्वन् अग्रेवधः, युद्धारम्भात् पूर्वमेव दूरस्थितानामपि स्वभक्तविरो- धिनां बलतेजोभङ्गं कुर्वन् दूरेवधः । तत्र अग्रेवधत्वं ता- वद्रोणपर्वणि अर्जुनेनोक्तम्- 'संग्रामे शात्रवानीकं शरौ- धैर्विमृदब्रहम् । अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ।। ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते । तस्यां दिशि विशीयन्ते शत्रवो मे महामते ॥ ततो दग्धानरीन्सर्वान्पृष्ठ- तोऽनुवहाम्यहम् । तेन भन्मानरिगणान्मद्भग्नान्मन्यते जनः इति । आश्वमेधिके चायमर्थोऽनूदित:- 'ततः प्रभातां रजनीमर्जुनस्याग्रतः प्रभुः । जघान सैन्यं शूलेन प्रत्यक्षं स- व्यसाचिनः ।। कस्तां सेनां महाराज मनसापि प्रधर्षयेत् । द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः । ऋते देवान्महे. ध्वासाहुरूपान्महेश्वरात्' इति । दूरेवधत्वं तु मोक्षधर्मे ।
श्रीरुद्रभाष्यम् । १२१ भर्जुनं प्रति कृष्णेनोक्तम् । तत्र हि-- 'यस्तु ते ह्यप्रतो याति युद्धे संप्रत्युपस्थिते । तं विद्धि रुद्रं कौन्तेय' इति प्रस्तुत्योक्तम्- 'निहतान्तेन वै पूर्व हतवानसि वै रिपून् । अप्रमेयप्रभावं तं देवदेवमुमापतिम् ॥ भजस्व प्रयतो नित्यं विश्वेशं हरमव्ययम्' इति । गीतायामप्युक्तम् 'मयैवैते नि- हताः पूर्वमेव निमित्तमात्रं भव सव्यासाचिन्' इति । पर- मेश्वरावतारत्वेन श्रीकृष्णस्य तदमिन्नत्वात् 'मयैवैते निहताः' 'निहतांतेन वै पूर्वम्' इति वचनयोर्न विरोधः ।। नमो हब्रे च हनीयसे च ।। अथ परमेश्वरानादरस्य महानर्थहेतुत्वात्सर्वैरपि तदुपासनं विधेयमिति दर्शयितुं षष्ठः-नमो हन्त्र इति । अहमेव सर्वोत्रत इति गर्वेण निजानादरकारिणां हन्ता हिंसकः, द्वेषनिन्दापूर्वकं तत्कारिणामतिशयेन हिंसको हनीयान् । तत्र हन्तृत्वस्योदाहरणं रावणः; स किल बलैश्वर्यगर्वेण पर- मेश्वरमनादृत्य कैलाससंचिचालयिषया भुजानधःप्रसारयन् भगवद्गुष्ठापदरपरिस्पन्दनिपीडितकैलासहढघट्टितनिजभुज. व्यधया चिरमाक्रुश्य ततो दयया भगवतैव मुक्त इति रामा- प्रणादिषु प्रसिद्धम् । हनीयस्त्वस्योदाहरणं दक्षः; स किल १२२ श्रीरुद्रभाष्यम् । भगवाषरूषितो यष्टुमारेभे । तं वीरभद्रोऽनुदुद्राव, ततो द- क्षस्य शिरच्छेदः, यज्ञशालायाः दहनम् , कुण्डेषु मूबकरणम् , अग्नीनां विनाशनम् , यूपानुत्पाट्य तैरखिलदेवताप्रहार:, ऋत्विजां कशाघात:, भृगोः श्मश्रुलुञ्छनम् , पूष्णो दन्त- भङ्गः, भगस्य नेत्रोत्पाटनम् ; अहो महती हिंसा कृता । न हि तदा तेषां कश्चित्त्राता बभूव; अतो महानर्थकरः पर- मेश्वरानादर इति तदुपासनमवश्यं कार्यमिति भावः ॥ नमो वृक्षेभ्यो हरिकेशेभ्यः ॥ न केवलं विपक्षे बाधकभयादेव परमेश्वरस्योपास्यत्वम् , किंतु इह लोके पलाशबिल्वाश्वत्थादिरूपेण सकलयज्ञनिर्वाहक- तया परत्र च कल्पकवृक्षरूपेण सकलस्वर्गभोगनिर्वाहकतय च तदर्थभिः सर्वैरपि तदाश्रयणीयत्वमिति दर्शयितुं सप्तमः- नमो वृक्षेभ्य इति । हरितवर्णाः पलाशरूपा: केशा येषां तेभ्यः वृक्षेभ्यो नमः । हरितकेशपदेन पलाशानां वृक्षत्व- प्रयुक्त इव पर्णत्वप्रयुक्तोऽपि परमेश्वरविभूतिमहिमास्तीति दर्शितम् । अत एव 'ब्रह्म वै पर्णः यत्पर्णशाखया वत्सान- पाकरोति ब्रह्मणे वैनानपाकरोति' इति पलाशवृक्षत्वप्रयुक्त इव 'तस्मात्त्रीणि त्रीणि पर्णस्य पलाशानि त्रिपदा गायत्री' इति पर्णत्वप्रयुक्तोऽपि तस्य महिमा श्रूयते । बिल्वस्यापि - श्रीरुद्रभाष्यम् । १२३ आदित्यो यतोऽजायत ततो बिल्व उदतिष्ठत्' इति बिल्व- वृक्षत्वप्रयुक्त इव पत्नप्रयुक्तमहिमा पुराणेषु श्रूयते । एवम- न्यदप्युदाहार्यम् ॥ नमस्ताराय॥ अथ स्वर्णोपकरणत्ववन्मोक्षोपकरणत्वादपि भगवत एवा. श्रयणीयत्वं वक्तुमष्टम:- नमस्तारायेति । तारः प्रणवः, तद्रूपाय नमः । श्रूयते ह्यथर्वशिरसि- ‘स ओंकारस्तारः' इति प्रस्तुत्य ‘स एको रुद्रः स ईशानः' इति । तैत्तिरीये- ऽपि 'ब्रह्मा शिवो मे अस्तु सदाशिवोम्' इति । प्रणवरूपत्वं च भगवतस्तत्प्रतिपाद्यत्वमेव, 'शिवो वा प्रणवो ह्येष प्रण- वो वा शिवः स्मृतः। वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते कचित्' इति शिवपुराणवचनात् । 'तस्य प्रकृतिलीनस्य यः परः स महेश्वरः' इति श्रुतेश्च ॥ नमः शंभवे च मयोभवे च ॥ अथ वैश्वानरद्वादशकपालेष्टिफले पूतत्वादीनामिव निरति- शयानन्दमहासमुद्रे परमात्मनि ऐहिकामुष्मिकसकलसुखाना- मपि शीकरतयान्तर्भावात्तदर्थिभिः सर्वैरपि तदाश्रयणमवश्यं कार्यमिति दर्शयितुं नवमः-- नमः शंभव इति । शमि- .
१२४ श्रीरुद्रभाष्यम् । - किंतु . यैहिकं सुखम् , मय इत्यामुष्मिकं स्वर्गादिसुखम् , शं भवति प्रादुर्भवत्यस्मादिति शंभुः, एवं मयोभूः; तथा च श्रुति:- 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति ।। नमः शंकराय च मयस्कराय च ॥ न केवलं तटाकान्तस्थितस्योदकस्येव परमेश्वरान्तस्थितस्य सुखस्य लोकोपजीव्यत्वमात्रेण भगवतस्तदुपासकता, ऐहिकामुष्मिकसुखदाने स्वतन्त्रकर्तृत्वेनापीति दर्शयितुं द. शमः-नमः शंकराय चेति । यद्यपि नमः शंभवे' इत्य- नेनेदं पुनरुक्तम् , तत्र साक्षात्कर्तृत्वम् , अत्र तु परंपरयेति भेदः ॥ नमः शिवाय च शिवतराय च ॥ अथेदानीमखिलश्रेयःप्रदत्वेन परमेश्वरस्यैव जगदुपास्त्र- त्वप्रदर्शकम् अशेषदोषजालकूलंकषं हरिब्रह्माद्युपासनीयम् एकादशमन्त्रराजमाह- नमः शिवायेति । शिवशब्दः 'त. करोति' इति ण्यन्तात्पचाद्यचि निष्पन्नः शिवंकरत्ववाची; तथा अथर्वशिखाश्रुतिः- 'शिव एको ध्येयः शिवंकरः' इति । अत्र हि शिवशब्दव्याख्यानार्थ शिवंकरपदम् । 'सर्वै- श्वर्यसंपन्नः सर्वेश्वरः' इत्यत्र सर्वेश्वरपदव्याख्यानार्थ सर्वै-
श्रीरुद्रभाष्यम् ।
१२५
श्वर्यसंपन्न इति पदोपादानेन अत्रापि तथात्वावगमात् ।
समा भवन्ति मे सर्वे दानवाश्च सुराश्च ये। शिवोऽस्मि
तेन भूतानां शिवत्वं तेन मे सुराः' इति भारतवचनाच ।
यत्तु
भारते शिवमिच्छन्मनुष्याणां तस्मादेवः शिवः स्मृतः
इति शिवशब्दस्य व्याख्यानम् , तदपि शिवंकरत्वार्थपर्यवसि-
तमेव, इच्छैव संकल्पमात्रेण सकलजगत्स्रष्टुर्भगवतः करणम् ।
एवम् 'हिंसिधातोः सिंहशब्दो वशकान्तौ शिवः स्मृतः ।
अथवाशेषकल्याणगुणैकनिधिरीश्वरः॥ शिव इत्युच्यते सद्भिः
शिवतत्त्वार्थवेदिभिः' इत्यादीन्यन्यान्यपि पौराणिकवचना.
न्यथर्वशिखोक्तशिवंकरत्वपर्यवसितान्येव द्रष्टव्यानि । नन्विदं
शिवंकरत्वमन्यथापि दृश्यते 'पावको अस्मभ्यं शिवो भव
इति; लोकेऽपि दृश्यते- पन्थानः सन्तु ते शिवाः इति ।
अतो विशिनष्टि-शिवतराय चेति । लोके वेदे च या-
वन्त: शिवंकरास्तदपेक्षयाप्यतिशयेन शिवंकरः शिवतरः ।
अत एव भगवानेवोपास्य इति भावः । तदेतदथर्वशिरसि
स्पष्टमुक्तम् । तत्र हि-'किं तध्यानं को वा ध्याता कश्च ध्येयः'
इति प्रश्ने 'शिव एको ध्येयः शिवंकरः सर्वमन्यत्परित्यज्य
इति सर्वपरित्यागपूर्वकं शिवस्यैकस्यैव ध्येयत्वं शिवशब्दवा-
च्येन शिवंकरत्वेन उपपाद्य ततः सर्वापेक्षयातिशयितशिवं.
१२६ श्रीरुद्रभाष्यम् । करत्वेनाविष्कृतम् । सोऽयमखिलश्रुतिहारायमाणरुद्रोपनिष- मायकमणिः महामन्त्रः । यदाहुः- 'विद्यासु श्रुतिरुत्कृष्टा रुद्रकादशिनी श्रुतौ । तत्र पञ्चाक्षरी तस्यां शिव इत्यक्षर- द्वयम्' इति । जीवरत्नमिति च शिवशब्दस्य आगमेषु व्य- वहारः । सर्वाण्येव शिवपुराणवचनानि एतन्माहत्म्यप्रमा- णत्वेनोदाहरणीयानीति संक्षेपः ।। नमस्तीयाय च कूल्याय च नमः पा. योय चावार्याय च नमः प्रतरणाय चोत्त. रणाय च नम आतार्याय चालाद्याय च नमः शष्प्याय च फेन्याय च नमः सिक- त्याय च प्रवाह्याय च ॥ तदेवम् ‘नमः सोमाय' इत्यादिभिरेतदन्तैमन्त्रैरखिलो- पास्यत्वधर्महेतुविशिष्टतया भगवान्नमस्कृतः। अथान्तर्यामि- त्वेन च नमस्करोति नमस्तीर्थ्यायेत्यादिभिः- तीर्थेषु ग- ङ्गादिषु भवः तीर्थ्यः, कूलेषु भवः कूल्यः, नद्यादीनां परं तीरं पारम् , तत्र भवः पार्यः, अक्तिीरम् अवारम् , तत्र भव: अवार्यः, प्रकृष्टेन मार्गेण पापतरणहेतुः प्रतरणा, ततोऽप्युत्कृष्टेन ज्ञानमार्गेण अविद्यातरणहेतुः उचरणः इति श्रीरुद्रभाष्यम् । १२७ तादात्म्येन नमस्कारः । पुनरागमनं आतारः, तत्र भवः आतार्यः, अलं कर्मपूर्ण यथा भवति तथा कर्मफलमत्तीत्य- लादः जीवः, तत्र भव: अलायः, शष्पं बालतृणम्, भवः शष्प्यः, फेनेषु भवः फेन्यः, सिकतासु भवः सिकत्यः, प्रवाहेषु भवः प्रवायः॥ इति अष्टमोऽनुवाकः ॥
नवमोऽ वाकः॥ * नम इरिण्याय च प्रपथ्याय च नमः कि शिलाय च क्षयणाय च नमः कप- दिने च पुलस्तये च नमो गोव्य य च गृ- ह्याय च नमस्तल्प्याय च गेयाय च नमः काव्याय च गहरेष्ठाय च नमो हदय्याय च निवेष्प्याय च नमः पासव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम :- याय च सूयाय च नमः पाय च पर्णधाय च ॥ अष्टमे जगदुपास्यत्वहेतुभिरन्तर्यामितया भगवान्नमस्कृतः । नवमे पुनरन्तर्यामितया भगवान्नमस्क्रियते-नम इरिण्या- येति । इरिणम् ऊषरम् , तत्र भवः इरिण्यः, प्रपथः क्षुण्ण- मार्गः, तत्र भवः प्रपथ्यः, कुत्सिताः शिला यस्मिन् सः श्रीरुद्रभाष्यम् । १२९ किंशिलः, क्षयणः वासयोग्यो देशः, तदुभयरूपायेत्यर्थः । कपर्दी जटाजूटवान् , भक्तनां पुरतस्तिष्ठतीति पुलस्तिः, गवां स्थानं गोष्ठम्, तत्र भवः गोष्ठयः, गृहे भवः गृह्या, तल्पेषु भवः तल्प्यः, गेहे प्रासादे भव: गेहः, कुत्सितम- टति कण्टकलतादिपरिपूर्णतया दुष्प्रवेशत्वं प्राप्नोतीति काटः, तत्र भव: काट्यः, गह्वरे विषमे गिरिगुहादौ तिष्ठतीति गहरेष्ठः, इदेषु अगाधजलेषु भवः ह्रदय्यः, निवेष्पं नीहा- रजलम् , तत्र भवः निवेष्प्यः, पांसुषु परमाणुषु भव: पां- सव्यः, रजसि स्पष्टायां धूल्यां भवः रजस्यः, शुष्केषु का- ठेषु भवः शुष्क्यः, हरितेषु आर्टेषु भव: हरित्यः, लुप्यते तृणादिकमस्मिन्निति लोप: कठिनप्रदेशः, तत्र भवो लोप्या, उलपो बल्बजतृणादिः, तत्र भवः उलप्यः, उया पृथि- व्यां भवः ऊर्व्यः, दीर्घश्छान्दसः । शोभना ऊर्मयो यासां नदीनां ताः सूर्मयः, तत्र भवः सूर्यः, पर्णेषु भवः पर्ण्यः, शुष्कपर्णसंघात: पर्णशदः तत्र भव: पर्णशयः॥ नमोऽपगुरमाणाय चाभिघ्नते च नम आख्खिदते च प्रख्खिदते च । अथ नमोऽपगुरमाणायेति द्वाभ्यां जगन्निग्राहका भग. वदंशा रुद्रा नमस्क्रियन्ते- तत्र निग्राह्येषु पापिष्ठेषु उद्य- R. B.9 श्रीरुद्रभाष्यम् । तायुधः अपगुरमाणः, तान्प्रहरन् अभिनन् , पापानुसारेण कांश्चित् ईषत्खेदयन् आख्खिदन्, कांश्चित्प्रकर्षेण खेद- यन् पख्खिदन्, तद्रूपायेत्यर्थः । सोऽयम् ‘नमः सोमाय' इत्यादिभिरन्यतो नमस्काररूपैरेकत्रिंशद्यजुरात्मकावान्तर. मन्त्रसमुदाय एको मन्त्रः । अस्य भगवानेव ऋषिः । अनुष्टुप्छन्दः। स एव देवता । रूपयौवनेत्यादयस्तृतीयानु- वाकोक्ता ध्यानश्लोकाः । साम्राज्यैश्वर्यशिवपदादिफलप्रदो- ऽयं मन्त्रः । कृच्छ्रद्वयानुष्ठानपूर्वकं पञ्चशतजपादस्य मन्त्रस्य सिद्धिः ॥ नमो वः किरिकेभ्यो देवाना हृदये. भ्यो नमो विक्षीणकेभ्यो नमो विचिन्व- केभ्यो नम आनिहतेभ्यो नम आमीव- केभ्यः॥ नमो वः किरिकेभ्य इति पञ्चमन्त्रैर्गुप्तरूपेण जगन्निप्रा- हकरूपा रुद्रगणा नमस्क्रियन्ते । गुप्तत्वं च देवानां हृदयेभ्य इति विशेषणद्वयेनावगम्यते । देवानामेव हृदये वर्तन्ते, न वयं जानीम इत्यर्थः । एतच्च किरिकादीनां पञ्चानामपि विशे- षणम् । किरन्ति स्वेच्छया नाशयन्तीति किरिकाः। वि- श्रीरुद्रभाष्यम् । विधं क्षिण्वन्ति बाधन्ते इति विक्षीणकाः। निग्रहानुग्रहा- थम् इमे पापिन: इमे सुकृतिन इति विचिन्वन्तो वि- चिन्वत्काः । आमर्यादायाम् , पापिष्वेव निश्चयेन हननं कुर्वन् आनिहतं दुःखकरणम् , तद्वन्तः आनिहताः । पापि. धानामितस्तत: अपसर्पणाय समन्ताद्विजृम्भमाणाः आमी. बत्काः। एवंविधेभ्योऽयं वो नमः अस्तु । नमो वः किरि- केभ्य इत्यादिरेतदन्त: अन्यतो नमस्काररूपयजुरात्मका. वान्तरमन्त्रसमुदाय एको मन्त्रः । अस्य अग्निर्ऋषिः । त्रिष्टु- छन्दः । रुद्रो देवता । 'विश्वतः पाणिपादं तं विश्वतोऽक्षि- शिरोमुखम् । ज्वलन्तं शूलमावृत्य तेजोराशिं शिवं स्मरेत् । पराककृच्छ्रानुष्ठानपूर्वकं चत्वारिंशत्सहस्रजपान्मन्त्रसिद्धिः । सार्वभौमाधिपत्यलक्षसुवर्णवश्यवेधसुवककवित्वभोगशिवसा- क्षात्कारफलप्रदोऽयं मन्त्रः ।। इति नवमोऽनुवाकः ॥
शमोऽ पाकः॥ -*- . द्रापे अन्धसस्पते दरिद्रनीललोहित । एषां पुरुषाणामेषां पशूनां मा भेर्मा- रोमो एषां किं च नाममत् ।। इत्थं प्रथमेन प्रसाद्य द्वितीयादिनवमान्तैरनुवाकैः सर्वे- श्वरत्वसर्वात्मकत्वसर्वान्तर्यामित्वादिरूपेण भगवान्नमस्कृतः । इदानीं दशमेनानुवाकेन प्रार्थयते । तत्र ऋग्रूपा द्वादश म- न्त्राः । तबाद्यः- द्राप इति । द्राशब्दः कुत्सितवाची, कुत्सितां गतिमापयतीति द्रापिः, अन्धोऽन्नं तत्स्वामी अन्ध- सस्पतिः, दरिद्रव निष्किचनः, उमादेहतया अर्धे नीलम् अर्ध लोहितम् अस्येति नीललोहितः, एभिः शब्दैः संबो. ध्याभयं प्रार्थयते- एषामिति। एषामस्मदीयानां पुरुषाणां पुत्रपौत्रादीनाम् एषां पशूनां गवाश्वादीनां मा भेः एतान्मा भीषयेत्यर्थः । एषां मध्ये किंचन एकमपि वस्तु मारः मा गच्छतु, मा विनश्यत्वित्यर्थः । तथा मो आममत् मा व्या- धिप्रस्तं भवतु । अत्र मा भे: मारः मो आममत् इत्यत्र श्रीरुद्रभाष्यम् । १३३ द्वापे अन्धसस्पत इति च हेतुगर्भमिदं संबोधनद्वयम् , भय- रोगादिभिः कुत्सितगतिप्रापकस्य भयाद्यकरणेन वदनु- सादनात् अन्नस्वामितया अन्नं दत्त्वा रक्षितुं शक्यत्वाच । नीललोहितेत्यनेन च उमासहितत्वोक्त्या निजदयाशक्त्यलं- कृतविग्रहस्याभयारोग्यादिदानमुचितमिति दर्शिवम् । एवं निग्रहानुग्रहो कुर्वतो भगवतः न वैषम्यनैघण्यलेप इति स्वयं नैकिचन्यार्थकेन दरिद्रदित्यनेन दर्शितम् । अस्य मन्त्रस्य पुलस्त्य ऋषिः । भैरवरुद्रो देवता । आस्तारपङ्किच्छन्दः । 'आ- गुल्फास्तृतकञ्चुको डमरुकस्निग्धोल्लसत्कुण्डलः शूली कुण्ड- लितश्रवाः सुतिलको मञ्जुक्कणन्नूपुरः । निर्लिप्तस्वकदन्तपति- किरणश्वेतः कपर्दी हरो देवो भैरववेषभूषिततनुर्येयो मृडानीपतिः । सकलभूतभयज्वरशान्तिधनलाभभैरवसाक्षा- कारफलप्रदोऽयं मन्त्रः । एकदिनोपवासपूर्वकमयुतजपान्म- त्रसिद्धिः ॥ या ते रुद्र शिवा तनूः शिवा विश्वाह- भेषजी । शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥ अथ द्वितीयः- या ते रुद्रेति । हे रुद्र ते तव शिवा श्रीरुद्रभाष्यम् । शान्ता, शिवा शान्ततरा, या तनूः अस्ति, तया तन्वा, नः अस्मान् , जीवसे जीवितुम् , तुमर्थे च्छन्दसि सेप्रत्ययः मृडय यथा वयं स्वस्था जीवेम तथा सुखयेत्यर्थः । कथं तन्वाः शिवत्वम् ! तत्राह-विश्वाहभेषजीति । विश्वेषु सर्वेष्वपि अहःसु, भेषजी रोगदारियादेरौषधवद्विनाशहेतुः; यस्मादेवं तस्मात् शिवा । न केवलमैहिकसुखप्रदत्वमात्रेण शिवत्वम् , किं तु मोक्षसुखप्रदत्वेनापीत्याह-शिवा रुद्र- स्येति । रुद्रस्य संसाररोगवैद्यस्य तव स्वभूता भेषजी सं- साररोगहरदिव्यौषधिरूपा; यस्मादेवं तस्मात् शिवा । तया नो मृडय । अस्य मन्त्रस्य ऋषिदेवता च स्कन्दरूपी रुद्रः । 'द्रुतचामीकरप्रख्यं शक्तिपाणिं षडाननम् । मयूरवाहनारूढं स्कन्दरूपं शिवं स्मरेत्' । अष्टोत्तरशतप्राणायामपूर्वकं पच. सहस्रजपान्मन्त्रसिद्धिः । आभिचारभूतवैकृतदुःस्वप्नायुपशा- न्तिसुपुत्रपुष्टयारोग्यसंपत्तिप्रदोऽयं मन्त्रः ।। इमा रुद्राय तपसे कपर्दिने क्षयद्वी- राय प्रभरामहे मतिम् । यथा नः शमस. द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अ- स्मिन्ननातुरम् ॥
- श्रीरुद्रभाष्यम् । अथ तृतीयः- इमां रुद्रायेति। तपसे तपोबलवते, मत्वर्थीयलोपः । कपर्दिने जटाजूटवते, क्षयन्त: क्षीयमाणा वीराः प्रतिपक्षा यस्य, तस्मै क्षयद्वीराय रुद्राय, इमां मति बुद्धिम् , प्रभरामहे प्रकर्षण नैरन्तर्यरूपेण धारयामः, कुर्म इति यावत् । कीदृशी मतिरित्यपेक्षायामाह-यथेति। यथा येन प्रकारेण कृतया मत्या नः अस्माकं संबन्धिने, द्विपदे पुत्रपौत्रादये, चतुष्पदे गवाश्वादये च शं सुखम्, असत् स्यात्, अस्ते: पश्चमो लकारः, 'लेटोऽडाटौ' इत्यडागमः । न केवलमस्मदीयानामेव सुखम् , किं तु अस्सिन्ग्रामे स्थितं विवं सर्वमपि प्राणिजातं यथा पुष्टम् अनातुरं च स्यात्, तथा मतिं प्रभरामहे इति योजना । 'रुद्राध्यायी वसेद्यत्र प्रामे वा नगरेऽपि वा। व्याधिदुर्मिक्षचोरादिबाधा तत्र न जायते' इति पुराणवचनमिहानुसंधेयम् । अत्र उत्तरार्ध- गतसुखप्रदत्वे हेतुगर्भाणि रुद्रायेत्यादीनि चत्वारि पदानि । तत्र रुद्रायेत्यनेन दुःखद्रावकत्वमुक्तम् । तपस इत्यनेन ज्ञान- शक्तिः, 'यस्य ज्ञानमयं तपः' इति श्रुतेः । कपर्दिन इत्यनेन तु अनन्यसाध्यकार्यनिर्वाहकत्वम् , कं गङ्गाजलं पर्दयति पालयतीति कपर्दः जटाजूटः, तद्वान्कपर्दीति शब्दार्थपर्या- लोचनयानन्यसाध्यगनाधारकत्वप्रतीतेः । 'गङ्गायाः पतनं श्रीरुद्रभाष्यम् । राजन्पृथिवी न सहिष्यति । तां वै धारयितुं शक्तं नान्यं पश्यामि शूलिनः' इति रामायणादिवचनैर्गङ्गाधारणस्यान- न्यसाध्यत्वावगमात् । क्षयद्वीरायेत्यनेन वीर्यशक्तिः । एता. दृशस्य तद्युक्तमित्यभिप्रायः ।। मृडा नो रुद्रोत नो मयस्कृधि क्षयद्वी. राय नमसा विधेम ते । यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्र. णीती॥ , अथ चतुर्थः-मृडा नो रुद्रेति । हे रुद्र, नः अस्मान् , मृड इष्टार्थदानेन सुखय । उत अपि च, नः अस्माकम् , मयः मोक्षसुखम् , कृधि कुरु । ननु पापिष्ठाय तुभ्यं कथं मोक्षसुखं देयम् ? अत आह-क्षयद्वीरायेति । क्षपिता- स्मदीयपापाय ते तुभ्यम् , नमसा नमस्कारेण, विधेम ; त्वां परिचरामेत्यर्थः । तुभ्यं नमस्कारक्षपितपापस्य मे निर्विवाद एव मोक्षाधिकारः, ' एतैर्ह वा अमृतो भवति' इति श्रुतेरिति भावः । अयं च त्वत्प्रसादेन संपाद्यः भोगापवर्गरूपार्थः नेदानीतनप्राप्तः, किं तु परंपराप्राप्त इत्याह-यच्छं चेति । न: पिता मनु, येनास्माकं मनुजा इति प्रसिद्धिः, येनच श्रीरुद्रभाष्यम् । वर्णाश्रमधर्मोपदेशेन प्रजाः पालिताः; तादृशः श्रुत्यादिप्रसि- द्वमहिमा मनुः तव प्रणीतौ प्रणये प्रसादे सति, यच्छंच विषयभोगं च योश्च दुःखपृथग्भावेन मोक्षं चेति यावत् । आयजे संपादितवान् , तत्सर्व वयं हे रुद्र, तव प्रणीतो अश्याम अशीमहि ; त्वत्प्रसादात्प्राप्नुयामेत्यर्थः । अत्र च 'इमां रुद्राय' । मृडा नो रुद्र' इति ऋग्द्वयमेको मन्त्रः । अस्य मन्त्रस्य मार्कण्डेय ऋषिः। जगतीच्छन्दः । रुद्रो देवता। 'दिव्यसिंहासनासीनं स्तूयमानं महर्षिभिः । प्रसन्न- वदनं ध्यायेत्सोमं सोमार्धशेखरम्' । एककृच्छानुष्ठानपूर्वकं नवसहस्रजपात्पुरश्चरणसिद्धिः । गोतिर्यगादिशान्तिफलप्रदो- ऽयं मन्त्रः ॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । मा नोऽ- वधीः पितरं मोत मातरं प्रिया मा नस्त- नुवो रुद्र रीरिषः॥ अथ पञ्चमः- मा नो महान्तमिति । हे रुद्र नः अस्माकं संबन्धिनं स्थविरं स्थविरपुरुषम् , मा रीरिषः रो. गादिभिर्मा हिंसीः । उत अपि च, नः अर्भकं बालं मा ।
श्रीरुद्रभाष्यम् । रीरिष इति सर्वत्रान्वयः । उत नः संबन्धिनम् उक्षन्तं से- चनसमर्थ पुत्रम् , उत नः उक्षितं गर्भस्थं पुत्रम् , नः पितरं पातरपि मावधीः नः प्रियाः तनुवः शरीराणि च मा रीरिषः । आदरातिशयात्प्रतिपर्यायं निषेधार्थकमाश- ब्दः । स्वकीयजनापेक्षया न इति बहुवचनम् । तथा च मम मदीयानां जनानां महान्तमर्भकादींश्च मा रीरिष इत्यर्थः । अस्य मन्त्रस्य भृगुक्रषिः। नन्दीश्वरात्मको रुद्रो देवता । जगतीच्छन्दः । 'बालेन्दुमकुटं देवं तरुणादित्यविग्रहम् । ध्यायेन्नन्दीश्वराकारं गणेश्वरसमावृतम्' शान्तिप्रधानोऽयं मन्वः । उपवासत्रयपूर्वकं पञ्चसहस्रजपान्मन्त्रसिद्धिः ॥ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। वीरा- न्मा नो रुद्र भामितोऽवधीहविष्मन्तो नमसा विधेम ते ॥ अथ षष्ठः- मा नस्तोक इति । हे रुद्र, भामितः वि. हिताकरणेन जातक्रोधः त्वम् , नः अस्माकम् , तोके मात्रे तनये पुस्प्रजायां च विषये, मा रीरिषः हिंसां मा कृथाः । एवं मा नः आयुषि मा नो गोषु मा नो अश्वेषु अपत्य.
श्रीरुद्रभाष्यम् । रीरिषः। अथ नः अस्माकम् , वीरान् भृत्यान् , माव- धीः कथं अपचारिणि त्वयि न हिंसितृत्वम् ! तत्राह- इविष्मन्त इति । हवि: चरुपुरोडाशादिकं भक्त्युपहाररूपं वा, 'स्वल्पं वा परिपूर्णस्य मम किं क्रियते नरैः । किंतु सर्वात्मना देवि मया भावो हि गृह्यते' इति भगवदुक्तेः; तिदहं भक्त्युपहृतमश्नामि प्रयतात्मनः' इति गीतोक्तेश्च । तादृशहविर्युक्ताः ते तुभ्यम् , नमसा नमस्कारेण, विधेम परिचरेम ; 'प्रणिपातप्रतीहारः सरम्भो हि महात्मनाम्' इति न्यायापापिष्ठोऽप्यहं दयनीय इति भावः । अस्य मन्त्रस्य ऋषिदेवता च भगवानेव । जगतीच्छन्दः । 'दधानमेकाद- शधा विभज्य देहं विशुद्धस्फटिकप्रकाशम् । तेजोमयं शूलि- नमिन्दुमौलिं विचिन्तयेदत्र सदैव रुद्रम्' । आयुष्यवृद्धिः राज्यवृद्धिः सुवृष्टिः द्यूते व्यवहारे चापराजयः सुवर्णसह- सलाभः महापातकनिवृत्तिः वश्यसिद्धिः सर्वजनजय इत्या- दीन्यस्य मन्त्रस्य फलान्यर्णवादिषु प्रपश्चितानि । मन्त्रसि- दिप्रकारोऽपि तत्रैव द्रष्टव्यः ।। आरात्ते गोन उत पूरुषन्ने क्षयद्वीराय सुन्नमस्मे ते अस्तु । रक्षा च नो अधि च देव ब्रूयथा च नः शर्म यच्छ द्विवर्हाः ।।
श्रीरुद्रभाष्यम् । . अथ सप्तमः- आराच इति । हे देव, गोने गोघ्नस्य, उत अपि च, पूरुषन्ने पूरुषघ्नस्य, षष्ठयर्थे चतुथ्यौँ; सकल- प्राणिसंहारिण इत्यर्थः । न चास्य सर्वलोकसंहारिणः कश्चि- द्विषयोऽस्तीत्याह- क्षयद्वीरायेति । देवासुरमनुष्येषु अप- रिमितबलपराक्रमशालिनो ये वीराः ते सर्वेऽप्येनं प्राप्य क्षयं गच्छन्तीति क्षयद्वीरः, तस्मै क्षयद्वीराय: क्षयद्वीरस्येत्यर्थः । 'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः। मृत्युर्यस्योपसे- चनं क इत्था वेद यत्र सः' इति श्रुतेः । एतादृशस्य ते तक यत्सुन्नम् अघोरं शिवरूपमस्ति, तद्रूपम् अस्मै अस्माकम् आरात् घोरं तु रूपं दूरत एवास्तामित्यर्था- दुक्तं भवति । 'आरादूरसमीपयोः' इति निघण्टुः । एतदु- कं भवति-प्रसन्नरूपेण संनिहितो भवेत्यर्थः । संनिधाय च नः अस्मान् रक्ष सर्वस्माहुरितादस्मान्परिपालय । तत्र कथं पापिष्ठः परिपाल्य इति देवाश्चेत्पृच्छेयुः, तदानीम् अ. विहि पक्षपातवचनं कुरु । न केवलमनिष्टनिवृत्तिमात्ररूप- लक्षणम्, अथापि च हे द्विबर्हाः द्वयोर्मोक्षसुखयोः बर्हयितः वर्धक, नः अस्माकं शर्म मोक्षसुखं च प्रयच्छ । अस्य म- न्त्रस्य शंभुर्देवता । त्रिष्टुप्च्छन्दः । 'कुर्वाणं संनिधौ देव्या देवमानन्दताण्डवम् । हुताशनयनं ध्यायेत्तप्तकाञ्चनसंनि- समीपे अस्तु । , श्रीरुद्रभाष्यम् । भम्'। आयुरैश्वर्यप्रदोऽयं मन्त्रः। त्रिरात्रोपवासपूर्वकं त्रिरात्रं निरन्तरजपान्मन्वसिद्धिः ॥ स्तुहि श्रुतं गतसदं युवानं मृगन्न भी- ममुपहनुमुग्रम् । मृडा जरित्रे रुद्र स्तवा- नो अन्यन्ते अस्मन्निवपन्तु सेनाः ।। अथाष्टम:-स्तुहीति । अत्र स्वात्मैव संबोध्यते, हे आत्मन् भगवन्तं स्तुहि; यद्वा हे वचः स्तुहीति । तत्र स्तु. तिहेतुभूतं पारम्यं दर्शयति-- श्रुतमिति । परमेश्वरत्वेन सर्वलोकप्रसिद्धमित्यर्थः । न चैतादृशे कथं मदीयस्तोत्रमुप- स्थास्यत इति शङ्कथम् , यतः गर्तसदं गर्ने हृदयकुहरे सीद- तीति गर्तसदम्, 'ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति' इति स्मृतेः । न केवलं पारम्यमात्रेण स्तोतव्यता, किंतु दिव्यमालविमहतयात्यद्भुतत्वेनापीत्याह-- युवानमिति । नित्यतारुण्यसुन्दरमित्यर्थः । एवं विहितस्य स्तोवस्य करणा- करणयोरिष्टानिष्टप्राप्तिं दर्शयन्प्रथममकरणेऽनिष्टमाह--उप- इत्नुमिति । वर्णाश्रमधर्माननुष्ठानेन निजाज्ञातिलविनामभ- कानामुपहलुम् उपसंहारमित्यर्थः । अत्र दृष्टान्तमाह- मृगन्न भीममिति । उपमानार्थो नकारः, मृगमिव भीम -- १४२ श्रीरुद्रभाष्यम् । । गजविदारणायोद्यतसिंहवदतिभयंकरमित्यर्थः । मृगन्नेति ह- ष्टान्तग्रहणान्मृगशब्दवाच्यस्य सिंहस्य स्वापेक्षयाधिकब- लेन शरभेणेव भगवतोऽपि स्वापेक्षयाधिकबलेन केनचिद- मिभवे तस्यैव स्तोतव्यता स्यादिति शङ्कापिशाचिकोच्चाटना- योक्तम्- उग्रमिति । केनाप्यनभिभवनीयमित्यर्थः । 'परा- स्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इति, 'न वा ओजीयो रुद्र त्वदस्ति' 'तमीश्वराणां परमं महेश्व- रम्' इत्यादिश्रुतिशतप्रसिद्ध नि:समाभ्यधिकमहाबलोचते सकललोकेश्वरेश्वरे कुतोऽभिभवशङ्केति भावः । एवं स्तोत्रा- करणे अनिष्टमुक्त्वा करणेऽपीष्टं दर्शयन्भगवन्तं प्रार्थयते- सूटेति । हे रुद्र, स्तवानः स्तूयमान: त्वम् , जरित्रे जरण- शीले अस्मिशरीरे स्थितानस्मान् मृड मृडय । यथाहम् पुरुषायुषमरोगहढगात्रः स्याम् , यथा च तदनन्तरमजरा- मरणो मुक्तः स्याम् , तथा सुखयेत्यर्यः । एतत्प्रतिकूलास्तव या: सेनाः सन्ति ‘नमो रुद्रेभ्यः' इत्यग्रे वक्ष्यमाणाः 'त्रिं. सत्रयश्च गणिनो रुजन्तः' इत्यादिषु प्रसिद्धाः, ताः सेनाः अस्मत् अस्मत्तः, अन्यम् अस्मद्वैरिणं पापं निवपन्तु ना. शयन्तु । अस्य मन्त्रस्य वैयाघ्र ऋषिः । त्रिष्टुप्छन्दः । श्रीरुद्रो देवता । 'उद्यद्भास्करकोटिप्रकाशमाकाशगं भीमम् । भीति- ।
श्रीरुद्रभाष्यम् । अथ नवमः प्रमभयवरदं ध्यायेद्रुद्रं सुरौघनुतम्'। एकरात्रोपवासपूर्वक त्रिरात्रसततजपात्पुरश्चरणसिद्धिः । शत्रुनाशनप्रदोऽयं मन्त्रः ।। परि णो रुद्रख हेतिवृणक्तु परि वे. षस्य दुर्मतिरघायोः। अव स्थिरा मघव- यस्तनुष्व मीढस्तोकाय तनयाय मृडय ।। परि णो रुद्रस्येति । रुद्रस्य हेतिः आ. युध नः अस्मान् परिवृणक्तु परिवर्जयतु, कदाचिदपि मा विध्यत्वित्यर्थः । हन्तुः हननबुद्धौ सत्यां हेतिपरिवर्जनमश- क्यमिति तद्बुद्धेः परिवर्जनं प्रार्थयते--- परि त्वेषस्येति । अघायोः अघं पापं क्रोधसाधनत्वेन इच्छतीति अघायुस्तस्य, परि परित:, त्वेषस्य क्रोधेन दीप्तस्य रुद्रस्य दुर्मतिः हनन- बुद्धिः, साप्यस्मान्वृणक्तु । विहिताकरणनिन्दितानुष्ठानरूपा- सापात्परमेश्वरस्य क्रोधः, ततो हन्तव्यताबुद्धिः, ततस्तु ऐहि- कामुष्मिकविविधदुःखसाधनदेशकालपुरुषादिनानापदार्थरूपैः परमेश्वरायुधैः वेधः, ततो दुःखानुभव इति क्रमः; तदन पापादिदुःखानुभवान्तं सर्वमपि प्रार्थितं भवति । ननु अमो- घा मदीयहेतिर्मतिश्च, कथं तत्परिहारः स्यात् । तत्राह-- अव स्थिरेति । हे मीदवः प्रणतकामवर्षिन्निति हेतुगर्भ सं. -- श्रीरुद्रभाष्यम् । । बोधनम् , तव स्थिरा अमोघा हेतिः मतिश्च, तां मघवत्यः मघवदर्थ स्तुतिनमस्कारादिरूपत्वदीयमघकृतामस्माकमर्थे अ- वतनुष्व अवततां अवरोपितां कुरु; अमोघापि ते तव हेति: मतिश्च प्रणतपालकेन त्वया मयि परिहरणीयेत्यर्थः । किंच हे मीढ्वः नः तोकाय अपत्यमात्राय विशिष्य तनयाय च मृडय सुखं देहि । अस्य मन्त्रस्य भगवानेव ऋषिः देवता च । त्रिष्टुप्च्छन्दः । ध्यानम्- गजचर्मावृततर्नु स्फुरत्य- हरणोज्ज्वलम् । सर्वपापहरं ध्यायेद्देवं कुञ्जरभेदिनम्' । सुपु. त्रादिफलप्रदोऽयं मन्त्रः । एककृच्छाचरणपूर्वकं नवदिनेषु प्रतिदिनं पञ्चसहस्रजपासिद्धिः ।। मीदुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्ष आयुध निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ॥ मीदुष्टमेति । हे मीढुष्टम अतिशयेन प्रणतकामवर्षिन् , हे शिवतम अतिशयेन शिवंकर इति च हेतुगर्भ संबोधनम् । नः अस्माकम् , शिवः शिवंकरः, सुमनाः शोभनमनस्कः अस्माकं प्रीतश्च भव । प्रीतस्य तवेदं लक्षणमित्याह-- परमे वृक्षेति । परमे अत्युनते वृक्षे वटादौ; श्रूयते हि कैलासे शतयोजनोन्नत: पञ्चसप्तत्यधिक. अथ दशमः।
श्रीरुद्रभाष्यम् । . योजनशतायतश्च भवदावासो दिव्यवटवृक्ष:-- ‘स योजन- शतोत्सेधः पादोनद्विशतायतः। पर्यक्कृतामलच्छायो नि- णिक्तस्तापवर्जितः ॥ तस्मिन्महामुमुक्षूणां शरणे सुवटे सुराः । ददृशुः शिवमासीनम्' इति । तस्मिन्परमे वृक्षे त्वदीयम् आयुधम् अतिभीषणं च निघाय, यत्र निहिते वयं न पश्यामः, तत्रावस्थाप्य आचर आगच्छ; मागच्छश्न त्वं कृत्तिं व्याघ्रचर्म, वसानः परिदधानः पिनाकं विभ्रत् भूषणार्थ धनुर्मात्रं हस्ते धारयन् आगहि समीपं आगच्छ ; 'पिनाकहस्त: कृचिवासाः' 'प्राणेश्वरः कृत्तिं- वासाः पिनाकी' इति श्रुतेः । तादृशमेव तव रूपं बहुश्रेयः प्रशस्यते । अयं भाव:- परमेश्वरस्य हि चर्मपरिधानं न वनालाभप्रयुक्तम् , ब्रह्मेन्द्रादिनिखिलेश्वर्यप्रदे नवनिधिप्रणी- तकुबेराधनुचरवति भगवति तदलाभोक्तेः परिहसास्पदत्वा- त्। किं तु निजानन्दपरिपूर्णत्वप्रयुक्तविषयवैतृष्ण्यं प्रकटयितुं विषयलम्पटजनादरणीयदिव्याम्बरस्थाने चर्माम्बरधारणम् । तदेतद्भागवते प्रतिपादितम्-- 'हसन्ति यस्याचरितं हि दुर्भगा: स्वात्मामृतस्याविदुषः समीहितम् । यैर्वनमाल्याभ- रणानुलेपनैः श्वभोजनं स्वात्मतयोपलाल्यते' इति स्वात्मा- रामस्य भगवतः समीहितं विषयवैतृष्ण्यस्फुटीकरणाभिप्राय- R. B. 10 श्रीरुद्रभाष्यम् । मजानाना देहात्मवादिनो दुर्भगा अभाग्याः, दुष्टभगजन्या: संकरयोनिजाता इति यावत् ; ते परमेश्वरं चर्माम्बरकपाल- भस्माङ्गरागादिपरीतं हसन्तीति श्लोकार्थः । महिम्नस्तवेऽप्यु- तम्- ‘महोक्षः खदागम्' इत्यादि, 'न हि स्वात्माराम विषयमृगतृष्णा भ्रमयति' इत्यन्तेन । तथा च स्वात्माराम- स्य सर्वविषयोपशान्तिसूचकं कृत्तिपरिधानं प्रीतिलक्षण- मिति । पिनाकं बिभ्रदित्यनेन पिनाकपदप्रवृत्तिनिमित्तं पातृ- त्वं विवक्षितम् , 'पिनाकादयश्च' इति आकप्रत्ययस्य इत्वस्य नुगागमस्य च प्रतिपादनात् । रक्षणप्रधानस्य पिनाकस्य धारणं प्रीतिचिहमिति । अस्य मन्त्रस्य वैराज ऋषिः । त्रिष्टुप् च्छन्दः । शंभुर्देवता । ध्यानम्- 'मङ्गलायतनं देवं युवा- नमतिसुन्दरम् । ध्यायेद्वनचराकारमागच्छन्तं पिनाकिनम्'। राजभयतस्करोपद्रवप्राणसंशयादिविपत्परिहारप्रधानोऽयं म- न्त्रः ॥ विकिरिद विलोहित नमस्ते अस्तु भ- गवः । यास्ते सहस्र हेतयोऽन्यमस्मन्नि- वपन्तु ताः॥ अथैकादश:- विकिरिदेति । विविधं किरन्ति हिं. सन्तीति विकिरयः पापरोगसंसारदारियादयः, तान् द्यति श्रीरुद्रभाष्यम् । .. . खण्डयतीति विकिरदः, हे विकिरिद ; हे विलोहित लोहि- तवर्ण, कर्पूरगौरेति यावत् । अत एव पञ्चाक्षरध्याने तान्त्रि- काः स्मरन्ति- ध्येयो मुक्तापरागामृतरसघटिताद्रिप्रभः' इति ; शुद्धसत्त्वाकारेति यावत् । हे भगवः षड्गुणैश्वर्य- संपन्न, ते तुभ्यं नमः अस्तु । एतच्च संबोधनत्रयमुत्तरार्ध- प्रतिपादितार्थे हेतुगर्भम् । इत्थं नमस्कृत्य प्रार्थयते-यास्त इति । याः सहस्रं हेतयः अनन्तान्यायुधानि सन्ति, ता: सर्वाः अस्मत् अस्मत्तः अन्यं पापं निवपन्तु नाशयन्तु न त्वस्मानित्यर्थः । अस्य मन्त्रस्य पुलस्त्य ऋषिः । त्रिष्टुप्च्छन्दः। शंभुर्देवता । 'प्रसन्नवदनं शान्तं चरितोद्वाहमण्डनम् । अम्ब- या सहितं ध्यायेत्सुरसङ्घरभिष्टुतम्' । महाजनाविरोधशत्रु- जयभयपरिहारादीन्यस्य फलानि । त्रिरात्रचरभोजनपूर्वक- दशसहस्रजपः, तदनन्तरं दशसहस्रं शिवप्रदक्षिणानि । एव- मस्य मन्त्रस्य पुरश्चरणविधिः ।। सहस्राणि सहस्रधा बाहुवोस्तव हेत- यः । तासामीशानो भगवः पराचीना मुखा कृधि । अथ द्वादशः- सहस्राणीति । बाहोरिति द्विवचनम- विवक्षितम् , बाहुवित्यर्थः । हे भगवः भगवन् , तव 1 १४८ श्रीरुद्रभाष्यम् । बाहोः यद्वा अनन्तबाहोरपि धनुर्वाणव्यापृततदाहुद्वयाभि- प्रायेण द्विवचने। हे भगवन् बाहोः हेतयः आयुधानि, स. इस्त्राणि सहस्रधा च विद्यन्ते । आनन्त्यवाची सहस्रशब्द:- धनुः खङ्गं शूलमित्येवंविजातीयधर्मिस्वरूपभेदेन अनन्तानि, तेष्वप्येकैकस्मिन्ननेकभेदादनन्तप्रकाराणि चेत्यर्थः । श्रूयते हि- 'शूलाच्छूलसहस्राणि निष्पतन्त्यस्य तेजसा' इति । तासां हेतीनां मुखा मुखानि पराचीना कृषि पराङ्मुखानि कुरु, यतस्त्वम् ईशानः सर्वेश्वरः; प्रयुक्तानामप्युपसंहारे शवोऽसीति भावः । अस्य मन्त्रस्य नारद ऋषिः । श्रीन्द्रो देवता । अनुष्टुप्छन्दः । ध्यानम्- 'सर्वपापहरं देवं सर्वा- भरणभूषितम् । सर्वायुधधरं देवं सर्वलोकमहेश्वरम्' । उप- द्रवपरिहारप्रधानोऽयं मन्त्रः । एककृच्छ्राचरणपूर्वकं सहस्र- जपान्मन्त्रसिद्धिः॥ इति दशमोऽनुवाकः ॥
..... एका शोऽ.. वाकः॥ । सस्राणि सहस्रशो ये रुद्रा अधि- म्याम् । तेषारसम्रयोजनेऽव धन्वानि तन्मसि ॥ एवं दशमेऽनुवाके भगवान् प्रार्थितः । एकादशे तु तदं- प्रभूता रुद्राः प्रार्थ्यन्ते । सन्ति हि सर्वलोकेश्वरस्य साम्ब- परब्रह्मणोंशभूतास्तत्तल्लोकगततत्तत्प्राणिकर्मानुगुणतत्तलोकनि- महानुग्रहार्थ तत्तल्लोकेश्वरत्वेन भगवता स्थापिता: निखिल- ब्रह्माण्डमण्डलाधिष्ठातारः निरतिशयमहिममहासमुद्राः रुद्राः 'य एको रुद्र उच्यते असंख्याताः सहस्राणि इति । उपबृंहिताश्च महाभारते- 'स देवः सर्वभूतानां महादेवः सनातनः । असंख्याताः सहस्राणि रुद्राणां स्थान- मव्ययम्' इति । शैवपुराणेषु च-- 'य एको रुद्र इत्युक्त: स विश्वमधितिष्ठति । असंख्याताः सहस्राणि रुद्रो भूत्वाखिलं अगत्' इति । तथा नित्यमुक्ता 'निरुपमा निर्द्वन्द्वा निरुप- प्रवाः । सशक्तयः सानुचराः सर्वलोकनमस्कृताः ॥ सर्वेषा- अता:- .
श्रीरुद्रभाष्यम् । मेव लोकानां सृष्टिसंहरणक्षमाः । परस्परानुरक्ताश्च परस्पर- नमस्कृताः ॥ शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः । सौ- म्या घोरास्तथा मिश्राश्चान्तरालद्वयात्मकाः ॥ विरूपाश्च सु. रूपाश्च नानारूपधराः प्रभोः । तस्य पारिषदा दिव्या नाना- रूपधराः प्रभोः ॥ वामना जटिला मुण्डाः कम्बुप्रीवा महोदरा: । शूलहस्ताः खगहस्ताः सर्वोच्छ्रितकिरीटिनः ॥ इन्तारो द्विषतां सैन्यं प्रसह्यासह्यविक्रमाः। कामकारकरा: सिद्धात्रैलोक्यस्येश्वरेश्वराः ॥ तैरात्मभूतैर्भगवान्पार्वत्या महेश्वरः । सर्वभूतगणैर्भुझे भूतभव्यभवत्प्रभुः' इति । अत्र सौम्या घोरास्तथा मिश्राः' इत्यनेन 'अघोरेभ्योऽय घोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः' इत्युक्ताः रुद्राः प्रदर्शिताः । तेषां च निग्रहा- नुग्रहकर्तृत्वरूपं घोरत्वाघोरत्वरूपं च लैङ्गे प्रतिपादितम् । तब हि- 'स्मरणादेव रुद्रस्य संप्राप्तास्ते गणेश्वराः । असं- स्याता महात्मानः' इत्युपक्रम्योक्तम्- 'ते गणेशा महा- सत्त्वाः सर्वलोकमहेश्वरम् । प्रणम्य देवं देवीं च इदं वचन- नमब्रुवन् । किमर्थं च स्मृता देव आज्ञापय महाप्रभो । किं सागरान्शोषयामो यमं वा हन्म किंकरैः ।। हन्म मृत्युमु. तामृत्युं विवस्वन्तं तु पग्रजम् । बढेन्द्रं सह देवैश्च सह - श्रीरुद्रभाष्यम् । स्तथा । विष्णुं सनातनम् ॥ आनयामोऽथ संकुद्धा दैत्यान्वा सह दानवैः । कस्याद्य व्यसनं घोरं करिष्यामस्तवावया ॥ कस्य वाद्योत्सवं देव देवकामसमन्वितम्' इति । 'तस्य पारि- पदा दिव्या नानारूपधरा: प्रभोः' इति भारतवचनेन तु 'दिव्या गणा बहुरूपाः पुराणाः' इति श्रुत्युक्ताः रुद्राः प्रद- श्यन्ते । एवं सामवेदेऽपि देवव्रताख्ये सामनि ये देवा दि- विषदस्थेत्यादिना तत्तल्लोकस्थिता रुद्राः प्रतिपादिताः । शैव- पुराणे चोपबृंहिता:- ते हि साक्षादिविषदस्त्वन्तरिक्षसद- पृथिवीषद इत्येवं देवदेवव्रतस्तुताः' इति । तेषां च तत्तल्लोकाधिपरुद्राणाम् 'अमृतस्य पुत्रा आये धामानि दिव्यानि तस्थुः' इत्यादिश्वेताश्वतरप्रसिद्धानि तानि धामानि तत्तन्नामधेयानि तदीयगणकोटिसंख्यातानि चरि- त्राणि चेत्यतत्सर्व शिवपुराणे प्रपश्चितम् । विस्तरभयानेह लिख्यन्ते । तानेतान्रुद्रानधिकृत्यायमनुवाकः । त्रयोदश मन्त्राः। तत्र आद्यः- सहस्राणीति। अनेकसहस्र- संख्यापरिमाणा:, ते च सहस्रशः सहस्रं सहस्रं भूत्वा अव- स्थिताः । एवंभूता ये रुद्राः अधिभूम्यां भूमेरुपरि तदी- श्वरत्वेन वर्तन्ते, अधिरैश्वर्ये ; तेषां धन्वानि धनूंषि सहस्र- योजने अस्मत्तः सहस्रयोजनव्यवहितदेशे अतिदूरे अवत- १५२ श्रीरुद्रभाष्यम् । न्मसि अवततज्यानि कुर्मः; स्तुतिनमस्कारैरिति शेषः । ते अस्मान हिंसितुं धनुरारोपणं न कुर्वन्त्वित्यर्थः ।। अस्मिन्महत्यर्णवेऽन्तरिक्ष भवा अधि । अथ द्वितीयः- अमिन्महतीति । अस्मिन्महति परि- दृश्यमाने महति अर्णवे अन्तरिक्षे च अधि उपरि वर्तमाना अर्णवान्तरिक्षयोः अधीश्वराः ये भवा रुद्राः, तेषां सहस्रयोजने अवधन्वानि तन्मसीति योजना । अब अस्मिन्महत्यर्णवेऽन्तरिक्षे इत्यर्णवान्तरिक्षयोः प्रत्यक्षोपल- भ्यमानमहत्वोक्तिः। यदाहुः- 'गगनं गगनाकारं सा- गरः सागरोपमः' इति । तेन च तदधिष्ठातॄणां रुद्राणां महत्त्वातिशयो युज्यते । एतन्मन्त्रमारभ्य नवमान्तेषु मन्त्रेषु 'तेषां सहस्रयोजने' इत्यनुषङ्गःतदनुषङ्गद्योतनायैव दशमे मन्त्रे 'तेषाम्' इत्यादि पुनः पठितम् ।। नीलग्रीवाः शितिकण्ठाः शर्वा अधः- क्षमाचराः॥ अथ तृतीयः-- नीलग्रीवा इति । कालकूटादनादुपरि परमेश्वरस्वरूपा: नीलग्रीवाः, ततः पूर्व तत्स्वरूपाः श्वेतप्रीवाः शितिकण्ठाः इत्यवस्थाभेदेन नीलग्रीवत्व शितिकण्ठत्वे
श्रीरुदभाष्यम् ।
पूर्वमेव व्याख्याते । एतादृशा ये शर्वाः रुद्राः अधाक्षमा-
चराः भूमेरधः पाताललोकेषु तदीश्वरत्वेन वसन्ति, तेषा-
मित्यादि पूर्ववत् ।।
नीलग्रीवाः गितिकण्ठा दिव रुद्रा
उपश्रिताः॥
अथ चतुर्थ:- नीलग्रीवा इति । दिवमुपश्रिताः इ--
दादीनां नियन्तृतया स्वर्गमुपसंप्राप्ताः; शेषं पूर्ववत् ।
'सहस्राणि सहस्रशः' इत्यारभ्य एतदन्तम् ऋक्चतुष्टयमेको
मन्त्रः । अस्य दुर्वासा ऋषिः । अनुष्टुप्च्छन्दः । रुद्रो देवता ।
'दंष्ट्राकरालवदनं भीषणं रक्तमूर्धजम् । त्रिनेत्रं त्रिशिखं दीप्तं.
ध्याये जगभूषणम्' । शत्रुनाशनफलप्रदोऽयं मन्त्रः। चान्द्रा-
गणपूर्वकं पश्चसहस्रजपात्पुरश्चरणसिद्धिः ।।
ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलो-
हिताः॥
अथ पञ्चमः--ये वृक्षेष्विति । यथा लोकेषु स्वामित्वेन
भूमौ रुद्रा अवस्थिताः, तथा वृक्षेष्वपि । तत्र केचित् स.
स्पिञ्जराः बालतृणवत्पिश्चरवर्णाः, केचित् विलोहिताः
विशेषेण रक्ताः रक्तवर्णाः; एतादृशा ये नीलग्रीवाः, तेषा-
मिति पूर्ववत् ।।
श्रीरुद्रभाष्यम् । ये भूतानामधिपतयो विशिखासःक पर्दिनः। अथ षष्ठः-- ये भूतानामिति । भूतानां बालप्रहादि. भूतगणानाम् अधिपतया ये रुद्राः, तेषु केचित् विशिखासः शिखारहिता:, केचित्तु कपर्दिनः जटाबन्धोपेताः; तेषा- मिति ये अन्नेषु विविध्यन्ति पात्रेषु पिवतो मथ सामः-- ये अन्नेविति । अन्नेषु अदनीयेषु क- स्तुषु मूढत्वेन तिष्ठन्तो ये रुद्राः विविध्यन्ति अनवैषम्या- दिना विविधव्याध्युत्पादनेन जनान् बाधन्ते, तथा पात्रे पातव्येषु नीरक्षीरादिषु गूढत्वेन तिष्ठन्तो ये रुद्राः पिबतः जनान् विध्यन्ति ; तेषामिति पूर्ववत् । अत्र ये वृक्षेषु' इत्या. रभ्य एतदन्तम् ऋक्त्रयमेको मन्त्रः । ऋष्यादिकं सर्व पूर्व- बत् । ये पथां पथिरक्षय ऐलवृदा यव्युधः ।। ये पयामिति । अत्र पथिशब्देन लौकि- कवैदिकमार्ग उच्यते, पथिरक्षय इति समस्तस्यापि रक्षि. पदस्य पथामित्यनेनाप्यन्वयः-पथां रक्षयः पथिरक्षय इति, अथाष्टमः -- श्रीरुद्धमाष्यम्। किकवैदिकमार्गरक्षका इत्यर्थः । एतदेव रक्षकत्वं विशेषणद्वयेनोपपादयति- ऐलबृदा यव्युध इति । इरा- शब्दोऽन्नवाची, इराणां समूह ऐरम् , ऐरमेव ऐलम् , तद्धि- भ्रतीति ऐलभृतः, त एव ऐलबृदा भकारस्य बकारः त- कारस्य दत्वम् अकारस्य दीर्घश्छान्दसः अन्नदातार इत्यर्थः । योति मिश्रीभवति पापेनेति यु: पापिष्ठः, युभियुध्यन्तीति यव्युधः, पूर्ववदेव छान्दसी रूपनिष्पत्तिः । पापिष्ठानां निरो- द्वार इत्यर्थः । एवं च लौकिकवैदिकमार्गरक्षकत्वं नाम सत्पु- रुषान् तेषु मार्गेषु प्रवर्त्य तेषां तत्फलैरन्नाद्यैः संयोजनम् , पापिष्ठानां तत्र निरोधनमित्येवंरूपमिति भावः। एतादृशा ये रुद्राः, तेषाम् ॥ ये तीर्थानि प्रचरन्ति मुकावन्तो नि- षङ्गिणः॥ अथ नवमः ये तीर्थानीति । एकावन्तः मृकाख्यायु. धवन्तः दीर्घश्छान्दसः, निषतिणः खगवन्तश्च ये रुद्राः, तीर्थानि गङ्गादीनि रक्षितुं प्रचरन्ति केषांचित्तीर्थफलं दातुं केषांचित्तनिरोढुं च, तेषाम् । अत्र ये पथां ये तीर्थानीति ऋग्द्वयमेको मन्त्रः । अस्य देवल ऋषिः । अनुष्टुप्छन्दः । कद्रो देवता। सुपुत्रफलप्रदोऽयं मन्त्रः। कृच्छाचरणपूर्वक १५६ श्रीरुद्रभाष्यम् । पचासहस्रजपात्पुरश्चरणसिद्धिः । अन्यत्सर्वम् ‘सहस्रा सहस्रशः' इत्यत्रोक्तम् ॥ य -- ग्तावन्तश्च भूयासश्च दिशो रुद्रा वितस्थिरे । तेषार सहस्रयोजनेऽव धन्वानि तन्मसि ॥ अथ दशमः य एतावन्त इति । 'सहस्राणि सह- स्रशः' इत्यारभ्य यावन्तोऽमी रुद्रा उक्ताः एतावन्तश्च, इतो- ऽपि भूयांसः बहुतरा: इयत्तामतीत्य वर्तमाना: ये रुद्राः दिशो रुद्रा वितस्थिरे सर्वा दिशो व्याप्य स्थिताः, तेषां सहस्रयोजनेऽव धन्वानि तन्मसीति । अत्र ऋष्यादिकं पूर्ववत् ।। नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिषवस्ते- भ्यो दश प्राचीर्दश दक्षिणा दश प्रती- चर्दिशोदीचीदशोस्तेिभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो देष्टि तं वो जम्भे दधामि ॥
श्रीरुद्रभाष्यम् । १५० अथ 'नमो रुद्रेभ्यो ये पृथिव्याम्' इत्यादिमिर्मन्त्रैः पृथिव्यन्तरिक्षधुलोकस्थितान् रुद्रान्नमस्कृत्य खस्य सुखं द्वे. षिणां दुःखं च प्रार्थयते । अत्रेत्थं मन्त्रत्रयविभाग:--'नमो रद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः तेभ्यो दश प्राचीर्द- श....दधामि' इत्येको मन्त्रः। 'नमो रुद्रेभ्यो ये अन्तरिक्षे येषां वात इषवः तेभ्यो दश प्राचीर्दश....दधामि' इति द्वि- तीयो मन्त्रः ।' 'नमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवः तेभ्यो दश प्राचीर्दश....दधामि' इत्येको मन्त्रः । तत्र प्रथमशायमर्थः- नमो रुद्रेभ्यो अस्तु ये पृथिव्यां वर्त- न्ते, येषां च अन्नम् इषवः इषुस्थानीयं हिंसासाधनम् ; अपथ्यान्नभक्षणम् अतिमात्राशनं च कारयित्वा तेन रोगा- नुत्पाद्य कांश्चिद्वाधन्ते, कांश्चिदन्नविघातेन क्षुधमुत्पाद्य पीड- यन्ति, कांश्चिदन्नाथै चौर्यादि कारयित्वावधाधिकं प्रापयन्ति ; एवं पापिष्टहिंसायाम् अन्नम् निमित्तमिति तदेव एषामिषवः । तेभ्यो रुद्रेभ्यो दश प्राचीः प्राङ्मुखाचलिरूपा अङ्गुली: करोमि । प्रामुखत्वेन अजलीकरणे हि दशाङ्गुलयः प्रागमा भवन्ति । एवं दक्षिणार्ध्वान्तेषु द्रष्टव्याः । ईदृशाचलिरू- पाडल्युपलक्षितान्नमस्कारान्करोमीत्यर्थः । अनेन कायिकन- मस्कारो दर्शितः, तेभ्यो नम इति मानसः, नमो रुद्रेभ्यो श्रीरुद्रभाष्यम् । इति मन्त्रस्यादौ यो नमस्कारः स वाचिकः । एवं त्रिकरणे. नमस्कुर्वाणा: वयं यं द्विष्मः यश्च नो अस्मान् द्वेष्टि, तम् अस्मत्पापतत्फलतदुपकरणरूपं द्वेषिणं हे रुद्राः, वः युष्माकं जम्भे विदारितास्ये दधामि स्थापयामि ; तं भक्षयतेत्यर्थः । एवं द्वितीयतृतीययोरपि योजनीयम् । ये अन्तरिक्षे रुद्रा व- र्तन्ते येषां वात इषवः बाणा:, वायुविकारप्रयुक्तविविधरोगो. त्पादनेन तीव्रतरवायूत्पादनादिभिश्च पापिनो हिंसन्तीत्यर्थः । ये दिवि रुद्राः दिवि वर्तन्ते येषां वर्षमिषवः अतिवृष्टयना- टयादिभिः हिंसन्तीत्यर्थः, शेषं पूर्ववदिति सर्व रमणी- यम् । अत्र 'नमो रुद्रेभ्यः' इत्यादि समाप्यन्तं यजु- खयमेको मन्त्रः । अत्र देवता ऋषिश्च रुद्र एव । ध्यानं तु- सहस्राणि सहस्रशः' इत्यत्र उक्तमेव प्राह्यम् । अन्न- समृद्धिप्रदोऽयं मन्त्रः । पुरश्चरणादिप्रकारः, कृत्योत्पादनजा- तिस्मरत्वादिफलभेदाश्च रुद्रकल्पादिप्रपञ्चिता द्रष्टव्याः ।। त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्ध- नम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् । यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु । तमुष्टुहि यः खि- श्रीरुद्रभाष्यम् । १५९. षुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य। यक्ष्वामहे सौमनसाय रुद्रं नमोभिर्देवम- धरं दुवस्य । अयं मे अस्तु भगवानयं मे भगवत्तः । अयं में विश्वभेषजोय शिवाभिमर्शनः । ये ते सहस्रमातं पा- शा मृत्यो माय हन्तवे । तान्यज्ञस्य मायया सर्वानव यजामहे । मृत्यवे खा- हा मृत्यवे स्वाहा । ओं नमो भगवते रुद्राय विष्णवे मृत्युम पाहि ।। इति श्रीमत्परमहंसपरिव्राजकसार्वभौम श्रीमदद्वैतविद्याप्रतिष्ठापक श्रीमदभिनवशंकरभगवता कृतं श्रीरुद्रभाष्यं संपूर्णम् ।।