Sringeri Sharada Peetham

Muka Panchashati

Mukakavi · 2005/03/10

PDF Proofread

Front matter

आर्याशतकम् ॥ कारणपरचिद्रूपा काश्चीपुरसी ने कामपीठगता । काचन विहरति करुणा काश्मीरस्तवककोमलाङ्गलता ॥१॥ कञ्चन काञ्चीतिलक करधृतकोदण्डबाणमृणिपाशम् । कठिनस्तनभरनम्र कैवल्यानन्दकन्दमवलम्बे ॥२॥ चिन्तितफलपरिपोषण- चिन्तामणिरेव काश्चिनिलया मे । चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुधाधारा ॥३॥ कुटिलकचं कठिगकुचं कुन्दस्मितकान्ति कुमच्छायम् ।

मूकपश्चशत्यां
कुरुते मिहति काञ्च्यां
कुलपर्वतसार्वभौमसर्वस्वम् ॥ ४॥
पञ्चशरशास्त्रबोधन
परमाचार्येण दृष्टिपातेन ।
काञ्चीसीनि कुमारी
काचन मोहयति कामजेतारम् ॥५॥
परया काञ्चीपुरया
पर्वतपर्यायपीनकुचभरया ।
परतन्त्रा वयमनया
पङ्कजसब्रह्मचारिलोचनया ॥६॥
ऐश्वर्यमिन्दुमौले-
कात्म्यप्रकृति काश्चिमध्यगतम् ।
ऐन्दकिशोरशेखर
मैदंपर्य चकास्ति निगमानाम् ॥७॥
श्रितकम्यासीमानं
शिथिलितपरमशिवधैर्यमहिमानम् ।
कलये पाटलिमानं
कंचन कञ्चुकितभुवनभूमानम् ॥ ८॥

आयशतकम् । आहतकाञ्चीनिलया- माधामारूडयौवनाटोपाम् । आगमवतंसकलिका- मानन्दाद्वैतकन्दली वन्दे ॥ ९॥ तुङ्गाभिरामकुचभर- शृङ्गारितमाश्रयामि काश्चिगतम् । मङ्गाधरपरतन्त्रं शृङ्गाराद्वैततन्त्रसिद्धान्तम् ॥१०॥ काञ्चीरनविभूषां कामपि कंदर्पमतिकापाङ्गीम् । परमां कलामुपासे परशिववामाङ्कपीठिकासीनाम् ॥ ११ ॥ कम्पातीरचराणां करुणाकोरकितदृष्टिपातानाम् । केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥१२॥ माग्रतरुमूलवसते- रादिमपुरुषस्य नयनपीयूपम् ।

मूकपश्चशत्यां
आरब्धयौवनोत्सव-
माम्नायरहस्यमन्तरवलम्वे ॥१३॥
अधिकाश्चि परमयोगिभि-
रादिमपरपीठसीग्नि दृशेन ।
अनुबद्धं मम मानस-
मरुणिमसर्वखसंप्रदायेन ॥१४॥
अङ्कितशंकरदेहा-
मङ्कुरितोरोजकङ्कणाश्लौः ।
अधिकाश्चि नित्यतरुणी-
मद्राक्षं कांचिदद्भुतां बालाम् ॥१५॥
मधुरधनुषा महीधर-
जनुषा नन्दामि सुरभिवाणजु ।
चिद्वपुषा काश्चिपुरे
केलिजुषा बन्धुजीवकान्तिमुषा ॥ १६ ॥
मधुरस्मितेन रमते
मांसलकुचभारमन्दगमनेन ।
मध्येकाञ्चि मनो मे
मनसिजसाम्राज्यगर्वबीजेन ॥१७॥

आयशतकम् । घरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोत्मयीं । अम्बुमयीमिन्दुमयी- मम्बामनुकम्पमादिमामीचे ॥१८॥ लीनस्थिति मुनिदये ध्यानस्तिमितं तपस्यदुपकम्पम् । पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥ १९॥ श्वेता मन्थरहसिते शाता मध्ये च वाङ्मनोऽतीता । शीता लोचनपाते स्फीता कुचसीनि शाश्वती माता ॥ २०॥ पुरतः कदा नु करवै पुग्वैरविमर्दपुलकिताङ्गलताम् । पुनतीं काश्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१ ॥ पुण्या कापि पुरंधी पुखितकंदर्पसंपदा वपुषा ।

मूकपश्वशत्यां
पुलिनचरी कम्पायाः
पुरमथनं पुलकनिचुलितं कुरुते ॥ २२ ॥
तनिमाद्वैतवलयं
तरुणारुणसंप्रदायतनुलेखम् ।
तटसीमनि कम्पाया-
स्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥ २३ ॥
पौष्टिककर्मविपाक
पौष्पशरं सविधसीम्नि कम्पायाः ।
अद्राक्षमात्तयौवन-
मभ्युदयं कंचिदर्धशशिमौलेः ॥ २४ ॥
संश्रितकाञ्चीदेशे
सरसिजदौर्भाग्यजाग्रदुत्तंसे ।
संविन्मये विलीये
सारस्वतपुरुषकारसाम्राज्ये ॥२५॥
मोदितमधुकरविशिख
स्वादिमसमुदायसारकोदण्डम् ।
आहतकाञ्चीखेलन-
मादिममारुण्यमेदमाकलये ॥ २६ ॥

आर्याशतकम् । उररीकृतकाञ्चिपुरी- मुपनिषदरविन्दकुहरमधुधाराम् । उन्नम्रस्तनकलशी- मुत्सवलहरीमुपास्महे शंभोः ॥ २७ ॥ एणशिशुदीर्घलोचन- मेनःपरिपन्थि संततं नमताम् । एकाम्रनाथजीवित- मेवंपददूरमेकमवलम्बे ॥ २८॥ स्मयमानमुखं काञ्ची- मयमान कमपि दवताभेदम् । दयमानं वीक्ष्य मुहु- वयमानन्दामृताम्बुधौ मनाः ॥ २९ ॥ कुतुकजुषि काश्चिदेशे कुमुदतपोराशिंपाकशेखरिते । कुरुते जनो मनोऽयं कुलगिरिपरिबृढकुलैकमणिदीपे ॥ ३० ॥ बीक्षेमहि काश्चिपुरे विपुलस्तनकलशगरिमपरवशितम् ।

मूकपश्चशत्यां
विदुमसहचरदेह
विभ्रमसमवायसारसंनाहम् ॥ ३१ ॥
कुरुविन्दगोत्रगात्रं
कूलचरं कमपि नौमि कम्पायाः ।
कूलङ्कषकुचकुम्भ
कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२ ॥
कुड्मलितकुचकिशोरैः
कुर्वाणैः काश्चिदेशसौहार्दम् ।
कुंकुमशोणनिचितं
कुशलपथं शंभुसुकृतसंभारैः ॥ ३३ ॥
अङ्कितकचेन केनचि-
दन्धकरणौषधेन कमलानाम् ।
अन्तःपुरेण शंभो-
रलंक्रिया कापि कल्प्यते काऽच्याम् ।।
उररीकरोमि संतत-
मूष्मलफालेन लालितं पुंसा ।
उपकम्पमुचितखेलन-
मुर्वीधरवंशसंपदुन्मेषम् ॥ ३५ ॥

आयशतकम् । अंकुरितस्तनकोरक- मकालङ्कारमेकचूतपतेः । आलोकेमहि कोमल- मागमसंलापसारयाथार्थ्यम् ॥ ३६ ॥ पुञ्जितकरुणमुदञ्चित- शिञ्जितमणिकाश्चि किमपि काञ्चिपुरे । मञ्जरितमृदुलहासं पिञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७॥ लोलहृदयोऽस्मि शंभो- लौं चनयुगलेन लेह्यमानायाम् । लालितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥ ३८॥ मधुकरसहचरचिकुरै- मैदनागमसमयदीक्षितकटाक्षैः । मण्डितकम्पातीरे- मङ्गलकन्दैर्ममास्तु सारूप्यम् ॥ ३९ ॥ वदनारविन्दवक्षो- बामाङ्कतटीवशंवदीभूता ।

मूकपश्चशत्यां पुरुषत्रितये त्रेधा पुरंधिरूपा त्वमेव कामाथि ॥४०॥ बाधाकरी भवाब्धे- राधाराद्यम्बुजेषु विचरन्तीम् । आधारीकृतकाञ्ची बोधामृतवीचिमेव विमृशामः ॥ ४१ ॥ कलयाभ्यन्तः शशघर- कलयाङ्कितमौलिममलचिलयाम् । अलयामागमपीठी- निलयां वलयाङ्कसुन्दरीमम्बाम् ॥ ४२ ॥ शर्वादिपरमसाधक- गुर्वानीताय कामपीठजुषे । सर्वाकृतये शोणिम- गर्वाय समय॑ते हृदयम् ॥ ४३ ।। समया सांध्यमयूखैः समया बुद्धया सदैव शीलितया । उमया काञ्चीरतया न मया लम्येत किं तु तादात्म्यम् ॥

आयशतकम् । जन्तोस्तव पदपूजन- संतोषतरङ्गितस्य कामाक्षि । बन्धो यदि भवति पुनः सिन्धोरम्भासु बम्भ्रमीति शिला ॥ ४५ ॥ कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे । गुणिनि गुहारिणि गुह्य गुरुमूर्ते त्वां नमामि कामाथि ॥ अभिदाकृतिभिदाकृति- रचिदाकृतिरपि चिदाकृतिर्मातः । अनहन्ता त्वमहन्ता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥ शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषः । विपिनं भवनममित्र मित्रं लोष्ठ च युवतिबिम्बोष्टम् ।। १८॥ कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते ।

मूकपञ्चशत्यां
कामदुधा भव कमले
कामकले कामकोटि कामाक्षि ॥४९॥
मध्येहृदयं मध्येनिटिलं
मध्यशिरोऽपि वास्तव्याम् ।
चण्डकरशनकार्मुक-
चन्द्रसमाभां नमामि कामाक्षीम् ॥ ५० ॥
अधिकाश्चि केलिलोले-
रखिलागमयन्त्रतन्त्रमन्त्रमयः ।
अतिशीतं मम हृदयं
विषमशरद्रोहिजीवनोपायैः ।। ५१ ।।
नन्दति मम हृदि काचन
मन्दिरयन्ती निरन्तरं काञ्चीम् ।
इन्दुरविमण्डलकुचा
बिन्दुवियन्नादपरिणता तरुणी ॥५२॥
शम्पालतासवर्ण
संपादयितुं भवज्वरचिकित्साम् ।
लिम्पामि मनसि किंचन
कम्पातटरोहि सिद्धभैषज्यम् ॥ ५३ ॥

आयशतकम् . अनुमितकुचकाठिन्या- मधिवक्षःपीठमङ्गजन्मरिपोः । आनन्ददां भजे ता- मानङ्गब्रह्मतत्त्ववोधिसिराम् ॥५४॥ ऐक्षिपि पाशाङ्कुशधर- हस्तान्तं विस्मयाहवृत्तान्तम् । अधिकाश्चि निगमवाचा सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५ ॥ आहितविलासभङ्गी- माब्रह्मस्तम्बशिल्पकल्पनया । आश्रितकाञ्चीमतुला- माद्यां विस्फूर्तिमाद्रिये विद्याम् ॥ ५६ ॥ मूकोऽपि जटिलदुर्गति- शोकोऽपि स्मरति यः क्षणं भवतीम् । एको भवति स जन्तु- लोकोत्तरकीर्तिरेव कामाक्षि ॥ ५७॥ पञ्चदशवर्णरूपं कञ्चन काञ्चीविहारधौरेयम् ।

मूकपञ्चशत्यां
पञ्चशरीयं शंभो-
वचनवैदग्ध्यमूलमवलम्बे ॥५४॥
परिणतवती चतुर्धा
पदवीं सुधियां समेत्य सौषुम्नीम् ।
पश्चाशदर्णकल्पित-
पदशिल्पा तां नमामि कामाक्षीम् ।। ५९ ॥
आदिक्षन्मम गुरुरा-
डादिक्षान्ताक्षरात्मिकां विद्याम् ।
स्वादिष्ठचापदण्ड
नेदिष्ठामेव कामपीठगताम् ॥ ६॥
तुष्यामि हर्षितस्मर-
शासनया काञ्चिपुरि कृतासनया ।
स्वासनया सकलजग-
शासनया कलितशम्बरासनया ॥१॥
प्रेमवती कम्पायां
स्थेमवती यतिमनासु भूमवती ।
सामवती नित्यगिरा
सोमवती शिरसि भाति हैमवती ॥२॥

आयशतकम् । कौतुकिना कम्पायां कौसुमचापेन कीलितेनान्तः । कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नः प्रतिमा ॥६३ ॥ केनापि मिलितदेहा यूना स्वाहासहायतिलकेन । सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥ ६ ॥ कुसुमशरगर्वसंप. कोशगृहं भाति काश्चिमध्यगतम् । स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ॥ ६५ ॥ दग्धषडध्वारण्य दरदलितकुसुम्मसंभृतारुण्यम् । कलये नवतारुण्यं कम्पातटसीम्नि किमपि कारुण्यम् ॥ ६६ ।। अधिकाश्चि वर्धमाना- मतुलां करवाणि पारणामक्ष्णोः ।

मूकपश्चशत्यां
आनन्दपाकमेदा-
मरुणिमपरिणामगर्वपल्लविताम् ॥ ६७॥
बाणसृणिपाशकार्मुक-
पाणिममुं कमपि कामपीठगतम् ।
एणधरकोणचूडं
शोणिम परिपाकभेदमाकलये ॥ ६८ ॥
किं वा फलति ममान्यै-
विम्बाधरचुम्बिमन्दहासमुखी ।
संबाधकरी तमसा-
मम्बा जागर्ति मनसि कामाक्षी ।। ६९ ॥
मंचे सदाशिवमये
परशिवमयललितपौष्पपर्यङ्के ।
अधिचक्रमध्यमास्ते
कामाक्षीनाम किमपि मम भाग्यम् ॥
लक्ष्योऽस्मि कामपीठी-
लासिकया घनकृपाम्बुराशिकया।
श्रुतियुवतिकुन्तलीमणि-
मालिकया तुहिनशैलबालिकया ॥ ७१ ॥

आयशतकम् । लीये पुरहरजाये माये तव तरुणपल्लपच्छाये । चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ ७२ ॥ मूर्तिमति मुक्तिबीजे मूनि स्तनकितवकोरसाम्राज्ये । मोदितकम्पाकूले मुहुर्मुहुर्मनसि मुमुदिषास्माकम् ॥ ७३ ॥ वेदमयीं नादमयीं बिन्दुमयीं परपदोधदिन्दुमयीम् । मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥ ७४॥ पुरमथनपुण्यकोटी पुञ्जितकविलोकयक्तिरसधाटी । मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥ ७५ ॥ कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।

१८
मूकपञ्चशत्यां
अवलोकितमालम्बित-
माधकम्पातटममेयमस्माभिः ॥ ७६ ॥
+
प्रत्यङ्ख्या दृष्टया
प्रसाददीपाङ्कुरेण कामाक्ष्याः ।
पश्यामि निस्तुलमहो
पचेलिम किमपि परशिवोल्लासम् ।। ७७॥
विधे विधातृविषये
कात्यायनि कालि कामकोटि कले ।
भारति भैरवि भद्रे
शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥ ७८ ॥
मालिनि महेशचारिणि
काञ्चीखेलिनि विपक्षकालिनि ते ।
शूलिनि विद्रुमशालिनि
सुरजनपालिनि कपालिनि नमोऽस्तु ॥ ७९ ॥
देशिक इति किं शङ्के
तत्तादृक्तव नु तरुणिमोन्मेषः ।
कामाक्षि शूलपाणेः
कामागमतन्त्रयज्ञदीक्षायाम् ॥ ८॥

आयशतकम् । वेतण्डकुम्भडम्बर- वैतण्डिककुचभरातमध्याय । कुङ्कुमरुचे नमस्यां शङ्करनयनामृताय रचयामः ॥८१॥ अधिकाश्चितमणिकाञ्चन- काञ्चीमधिकाश्चि कांचिदद्राक्षम् । अवनतजनानुकम्मा- मनुकम्पाकूलमस्मदनुकूलाम् ।। ८२ ॥ परिचितकम्पातीरं पर्वतराजन्यसुकृतसंनाहम् । परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ॥ ८३ ।। दग्धमदनस्य शंभोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् । तव देवि तरुणिमश्री- चतुरिमपाको न चक्षमे मातः ॥ ८४॥ मदजलतमालपत्रा क्सनितपत्रा कराहतखनित्रा ।

मूकपञ्चशत्यां
विहरति पुलिन्दयोषा
गुञ्जाभूषा फणीन्द्रकृतवेषा !! ८५ ॥
अङ्के शुकिनी गीते
कौतुकिनी परिसरे च गावकिनी।
जयसि सविधेऽम्ब भैरव-
मण्डलिनी श्रयसि शङ्खकुण्डलिनी ॥ ८६ ॥
प्रणतजनतापवर्गा
कृतरणसर्गा ससिंहसंसर्गा।
कामाक्षि मुदितभर्गा
हतरिषुवर्गा त्वमेव सा दुर्गा ॥ ८७ ।।
श्रवणचलद्वेतण्डा
समरोदण्डा धुतासुरशिखण्डा ।
देवि कलितान्त्रषण्डा
धृतनरमुण्डा त्वमेव चामुण्डा ॥ ८८ ॥
उर्वीधरेन्द्रकन्ये
दर्वीभरितेन भक्तपूरेण ।
गुर्वीमकिंचनाति
खर्वीकुरुषे त्वमेव कामाक्षि ॥ ८९॥

आयशतकम् । २१ ताडितरि पुपरिपीडन- भयहरणनिपुणहलमुसला । क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाथि ॥ ९॥ स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला । कनकरुचिचौर्यशीला त्वमम्ब बाला कराजधृतमाला॥९१ ।। विमलपटी कमलकुटी पुस्तकरुद्राक्षश्वस्तहस्तपुटी । कामाक्षि पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरिश्ची ।। ९२ ।। कुंकुमरुचिपिङ्गमस्- क्पङ्किलमुण्डालिमण्डितं मातः । जयति तव रूपधेयं जपपटपुस्तकवरामयाब्जकरम् ॥ ९३॥ कनकमणिकलितभूषां कालायसकलहशीलकान्तिकलाम् ।

२२
मूकपञ्चशत्यां
कामाक्षि शीलये त्वां
पालशूलामिरामकरकमलाम् ॥ ९४॥
लोहितिमपुञ्जमध्ये
मोहितभुवनं मुदा निरीक्षन्ते ।
वदनं तव कुचयुगलं
काञ्चीसीमां च केऽपि कामाथि ॥ ९५ ॥
जलधिद्विगुणितहुतवह-
दिशादिनेश्वरकलाश्विनेयदलैः ।
नलिनैर्महेशि गच्छसि
सर्वोत्तरकरकमलदलममलम् ॥ ९६ ॥
सत्कृतदेशिकचरणाः
सबीजनिर्बीजयोगनिश्रेण्या ।
अपवर्गसौधवलभी-
मारोहन्त्यम्ब केऽपि तव कृपया ॥९७॥
अन्तरपि बहिरपि त्वं
जन्तुततेरन्तकान्तकृदहंते ।
चिन्तितसन्तानवता
संततमपि तन्तनीषि महिमानम् ॥९८॥

आयशतकम् । २३ कलमजुलवागनुमित- गलपञ्जरशुकग्रहौत्कण्ठ्यात् । अम्ब रदनाम्बरं ते विम्बफलं शम्बरारिणा न्यस्तम् ॥ ९९ ॥ जय जय जगदम्ब शिवे जय जय कामाक्षि जय जयाद्रिसुते । जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥१०॥ आर्याशतकं भक्त्या पठतामार्याकटाक्षेण । निःसरति वदनकमला. द्वाणी पीयूषधोरणी दिव्या ॥ ११ ॥ इति आर्याशतकं संपूर्ण ॥

॥ श्रीः॥ ॥ पादारविन्दशतकम् ॥ महिम्नः पन्थान मदनपरिपन्थिरणयिनि प्रभुनिणेतुं ते भवति यतमानोऽपि कतमः। तथापि श्रीकाञ्चीविहृतिरसिके कोऽपि मनसो विपाकस्त्वत्पादस्तुति वधिषु जल्पाकयति माम् ।। गलग्राही पौरंदरपुरवनीपल्लवरुचा धृतप्राथम्यानामरुणमहसामादिमगुरुः । समिन्धेि बन्धूकस्तबकसहयुवा दिशि दिशि प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥ २॥ मरालीनां यानाम्यापनकलनापूलगुरवे दरिद्राणां त्राणव्यतिकरसुरोधानतरवे । तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥३॥ वहन्ती सैन्दूरी सरणिमवनम्रामरपुरी- पुरंधीसीमन्ते कविकमलबालार्कसुपमा ।

पादारविन्दशतकम् ।
२५
त्रयीसीमन्तिन्याः स्तनतटनिचोलारुणपटी
विभान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥४॥
प्रणम्रीभूतस्य प्रणयकलहनस्तमनसः
स्मरारातेश्चूडावियति गृहमेधी हिमकरः ।
ययोः सांध्यां कान्ति वहति सुषमाभिश्वरणयो.
स्तयोमें कामाक्ष्या हृदयमपतन्द्रं विहरताम् ॥ ५ ॥
ययोः पीठायन्ते विबुधमुकुटीनां पटलिका
ययोः सौधायन्ते स्वयमुदयभाजो भणितयः ।
ययोर्दासायन्ते सरसिजभवाद्याश्चरणयो-
स्तयोर्मे कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ।। ६॥
नयन्ती संकोचं सरसिजरुचं दिक्परिसरे
सृजन्ती लौहित्यं नखकिरणचन्द्रार्घखचिता ।
कवीन्द्राणां हृत्करवविकसनोद्योगजननी
स्फुरन्ती कामाक्ष्याश्चरणरुचिसंध्या विजयते ।।
विरावैर्माञ्जीरैः किमपि कथयन्तीव मधुरं
पुरस्तादानने पुरविजयिनि स्मेरवदने ।
वयस्येव प्रौढा शिथिलयति या प्रेमकलह-
प्ररोह कामाक्ष्याश्चरणयुगली सा विजयते ॥८॥

मूकपञ्चशत्यां सुपर्णखीलोलालकपरिचितं पट् पदकुलैः स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुगैः । भृतं कान्त्यम्भोभिर्विसमरमरन्दैः सरसिजै- विधत्ते कामाक्ष्याश्चरणयुगलं बन्धुपदवीम् ॥९॥ रजःसंसर्गेऽपि स्थितमरजसामेव हृदये परं रक्तत्वेन स्थितमपि विरक्तैकशरणम् । अलभ्यं मन्दानां दधदपि सदा मन्दगतितां विधत्ते कामाक्ष्याश्चरणयुगमाश्चर्यलहरीम् ॥ १० ॥ जटाला मञ्जीरस्फुरदरुणरत्नांशुनिकरै- निपीदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम् । जगत्त्राणं कर्तुं जननि मम कामाक्षि नियत तपश्चर्या धत्ते तव चरणपाथोजयुगली ॥ ११ ॥ तुलाकोटिद्वन्द्वक्कणितमणिताभीतिवचसो- विननं कामाक्ष्या विसृमरमहःपाटलितयोः । 'क्षणं विन्यासेन क्षपिततमसोम ललितयोः पुनीयान्मूर्धानं पुरहरपुरन्ध्री चरणयोः ॥ १२ ॥ भवानि दुह्येतां भवनिबिडितेभ्यो मम मुहु- स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ ।

पादारविन्दशतकम् ।
ययोर्लाक्षाबिन्दुस्फुरणधरणाधूर्जटिजटा-
कुटीरा शोणाझं वहति वपुरेणाङ्ककलिका ॥ १३ ॥
पवित्रीयुनः पदतलभुवः पाटलरुचः
परागास्ते पापप्रशमनधुरीणास्तव शिवे ।
कणं लब्धं येषां निजशिरसि कामाक्षि नियतं
वलन्तो व्यातन्वन्त्यहमहमिकां वासवमुखाः ॥ १४ ॥
बलाकामालाभिनखरुचिमयीभिः परिवृते
विनम्रस्वारीविकचकचकालाम्बुदकुले ।
स्फुरन्तः कामाक्षि म्फुटदलितबन्धूकसुहृद-
स्तडिल्लेखायन्ते तव चरगपाथोजकिरणाः ॥ १५॥
सरागः सद्वेपः प्रसूमर मरोजे प्रतिदिन
निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् ।
कथंकारं मातः कथय पदपभस्तव मत्तां
नतानां कामाक्षि प्रकटयति कैवल्यमरणिम् ॥ १६ ॥
जपालक्ष्मीशोणो जननि परमज्ञाननलिनी-
विकासव्यासङ्गो विफलितजगजाड्यगरिमा।
मनःपूर्वादि मे तिलकयतु कामाक्षि तरमा
तमस्काण्डद्रोही तव चरणपाथोजम्मणः ॥ १७ ॥

मूकपञ्चशत्यां नमस्कुर्मः प्रेवन्मणिकटकनीलोपलमहः- पयोधौ रिङ्खद्भिर्नखकिरणफेनैवलिते। स्फुटं कुर्वाणाय प्रबलचलदौनिलशिखा- वितर्क कामाक्ष्याः सततमरुणिम्ने चरणयोः॥१८॥ शिवे पाशायेतामलघुनि तमःकूपकुहरे दिनाधीशायेतां मम हृदयपाथोजविपिने । नभोमासायेतां सरसकवितारीतिमरिति त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥ १९ ॥ निषक्तं श्रुत्यन्ते नयनमिव सद्वृत्तचिरैः समैर्जुष्टं शुद्धरधरमिव रम्यजिगणैः । शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे त्वदीयं कामाक्षि प्रणतशरणं नौमि चरणम् ॥ २० ॥ नमस्यासंसजनमुचिपरिपन्थिप्रणयिनी. निसर्गप्रेढोलत्कुरलकुलकालाहिशबले । नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां प्रचारं कामाक्षि प्रचुरयति पादाब्जसुषमा ॥ २१॥ कदा दूरीका कटुरितकाकोलजनितं महान्तं संतापं मदनपरिपन्थिप्रियतमे ।

पादारविन्दशतकम् ।
क्षणात्ते कामक्षि त्रिभुवनपरीतापहरणे
पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥ २२ ॥
ययोः सान्ध्यं रोचिः मततमरुणिम्ने स्पृहयते
ययोश्चान्द्री कान्तिः परितपति दृष्टा नखरुचिम् ।
ययोः पाकोद्रेकं पिपठिपति भक्त्या किसलयं
प्रदिनः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥ २३ ॥
जगन्नंद नेदं परमिति परित्यज्य यतिभिः
कुशाग्रीयस्वान्तः कुशलधिषणैः शास्त्रमरणौ।
गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते
गिरामैदम्पयं तव चरणमाहात्म्यगरिमा ॥ २४ ॥
कृतस्त्रानं शास्त्रामृतसरसि कामाक्षि नितरां
दधानं वैशधं कलितरसमानन्दसुधया ।
अलंकारं भूमेर्मुनिजनमनश्चिन्मयमहा-
पयोधेरन्तःस्थं तव चरणरत्नं मृगयते ॥ २५ ॥
मनोगेहे मोहोद्भवतिमिरपूर्ण मम मुहु-
दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणैः ।
विधत्तां कामाक्षि प्रसृमरतमोवञ्चनचणः
क्षणाध सानिध्यं चरणमणिदीपो जननि ते ॥ २६ ॥

३० मूकपञ्चशत्यां कवीनां चेतोवनखररुचिसंपर्क विबुध. स्रवन्तीस्रोतोवत्पटुमुखरितं हंसक वैः । दिनारम्भश्रीवन्नियतमरुणच्छायसुभगं मदन्तः कामाक्ष्याः स्फुरतु पदपकेहयुगम् ॥ २७ ॥ सदा किं संपर्कात्प्रकृतिकठिन किमुकुटै- स्तटैर्नीहारानेरधिकमणुना योगिमनसा । विभिन्ते संमोहं शिशिरयति भक्तानपि दृशा- मध्य कामाक्षि प्रकटयति ते पादयुगलम् ॥ २८ ॥ पवित्राभ्यामम्ब प्रकृतिमृदुलाभ्यां तव शिवे पदाम्यां कामाक्षि प्रसभमभिभूतैः सचकितैः । प्रवालैरम्भोजैरपि च वनवासव्रतदशाः सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥ २९ ॥ चिराद्दश्या हंसैः कथमपि सदा हंससुलभं निरस्यन्ती जाड्यं नियतजडमध्यैकशरणम् । अदोषव्यासङ्गा सततमपि दोषाप्तिमलिनं पयो कामाक्ष्याः परिहसति पादाब्जयुगली ॥ ३०॥ सुराणामानन्दप्रबलनतया मण्डनतया नखेन्दुज्योत्स्नाभिर्विसृमरतमःखण्डनतया ।

पादारविन्दशतकम् ।
३१.
योजश्रीद्वेषव्रतरततया त्वचरणयो.
विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥ ३१ ॥
सेतिम्ना कान्तीनां नखरजनुषां पादनलिन-
च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने।
ठभन्ते मन्दारग्रथितनवबन्धूककुसुम
स्रजां सामीचीन्यं सुरपुरपुरन्ध्रीकचभराः ॥ ३२ ॥
खश्रीसंनद्धस्तवकनिचितः स्वैश्व किरणः
पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः।
उतां गम्यः शङ्के सकलफलदाता सुरतरु-
स्त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥ ३३ ॥
कुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसां
वहन्नब्ज चक्रं दरमपि च लेखात्मकतया ।
श्रेतो मात्स्यं रूपं श्रियमपि दधानो निरुपमा
विधामा कामाक्ष्याः पदनलिननामा विजयते ॥ ३४॥
अषट्कुर्वन्माजीरजकलकलैः कर्मलहरी-
हवींषि प्रोद्दण्डं ज्वलति परमज्ञानदहने ।
महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां
मनोवेद्यां मातस्तव चरणयज्वा गिरिसुते. ॥ ३५ ॥

३२ मूकपञ्चशत्यां महामन्त्रं किंचिन्मणिकटकनादेरित्र जप- न्क्षिपन्दिक्षु स्वच्छं नखरुचिमयं भास्मनरजः । नतानां कामाक्षि प्रकृतिपटुरुच्चाट्य ममता- पिशाची पादोऽयं प्रकटयति ते मान्त्रिकदशाम् ॥३६ ।। उदीते बोधेन्दौ तमसि नितरां जग्मुपि दशां दरिद्रां कामाक्षि प्रकटमनुरागं विदधती । सितेनाच्छाद्याझं नखरूचिपटेनातियुगली- पुरन्ध्री ते मातः स्वयमभिसरत्येव हृदयम् ॥ ३७॥ दिनारम्भः सध्यङ्नलिनविपिनानामभिनवो विकासो वासन्तः सुकरिपिकलोकस्य नियतम् । प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन- श्वकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥ ३८॥ धृतच्छायं नित्यं सरसिरहमैत्रीपरिचितं निधानं दीप्तीनां निखिलजगतां बोधजनकम् । मुमुक्षुणां मार्गप्रथनपटु कामाक्षि पदवीं पदं ते पातङ्गी परिकलयते पर्वतसुते ॥ ३९ ॥ शनैस्ती, मोहाम्बुधिमथ समारोढुमनसः श्रमाकैवल्याख्यां सुकृतिसुलभा सौधवलभीम् ।

पादारविन्दशतकम् । ३३ ३ लभन्ते निःश्रेणीमिव झटिति कामाक्षि चरणं पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः॥ ४० ॥ 'प्रचण्डार्तिक्षोभत्रमथनकृते प्रातिभसरि- त्प्रवाहनोद्दण्डीकरण जलदाय प्रणमताम् । प्रदीपाय प्रौढे मनमावि र म प्रसादौन्मुख्याय स्पृहयति जनोऽयं जननि ते ॥४१॥ मरुद्भिः संसेव्या सततमपि चाश्चन्यरहिता सदारुण्य यान्ती परिणनिदरिद्राणसुपमा । गुणोत्कर्षान्मजीरजकलकलैस्तनपटुः प्रवालं कामाक्ष्याः परिहसति पादाब्जयुगली ॥ ४२ ॥ जगद्रक्षादक्षा नलिनरुचिशिक्षापटुतरा सुरैर्नम्या रम्या सततमभिगम्या बुधजनैः । द्वयी लीलालोला श्रुतिषु सुरपालादिमु कुटी- तटीसीमाधामा तब जननि कामाक्षि पदयोः ॥४३॥ गिरां दूरौ चोरौ जडिमतिमिराणां कृतजग- परित्राणी शोणौ मुनिहदयनीलेकनिपूणौ । M.3

मूकपञ्चशत्यां
नखः स्मेरौ सारौ निगमवचसा खण्डितभव-
ग्रहोन्मादौ पादौ मम मनसि कामाक्षि कलये॥ ४४
अविश्रान्तं पङ्कं यदपि कलयन्यावकमयं
निरस्सन्कामाक्षि प्रणमनजुमा एकमसिलम् ।
तुलाकोटिद्वन्द्वं दधदपि च गछन्नलतां
गिरां मागं पादो गिरिवरसुते वयति ते ॥ ४५ ॥
प्रवालं सवीडं विपिन विवरे वेपयति वा
स्फुरल्लीलं बालातपमधिकबालं दधति या।
सचिं सांध्यां वन्ध्यां विरचयति या वर्षयतु सा
शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥४६॥
किरञ्ज्योत्सारीति नखमणिरुचा हंसमनसां
वितन्वानः प्रीति विकचतरुणाम्भोरहरूचिः।
प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते
शरत्कालप्रौढिं शशिशकलचूडनियतमे ॥ ४ ॥
नखाकूरस्मेरद्युतिविमलगङ्गाम्मसि सुख
कृतस्त्रानं ज्ञानामृतमलमास्व ध नियतम् ।
उदञ्चन्माजीरम्फुरणमणिदीपे मम मनो
मनोज्ञे कामाक्ष्यावरणमणिहर्ये विहरताम् ॥ ४ ॥

पादारविन्दशतकम् । my भवाम्भोधौ नौकां जडिमविपिने पावकशिखां प्रणनेन्द्रादीनामधिमुकुटमुत्तंसकलिकाम् । जगत्तापज्योत्स्नामकृतकवचःपञ्जग्पुटे शुकस्त्री कामाक्ष्या मनसि कलये पादयुगलीम् ॥ ४९ ॥ परात्मप्राकाश्यप्रतिफलनचुचुः प्रणमतां मनोज्ञस्त्वत्पादो मणिमुकुरमुद्रां कलयते । यदीयां कामाक्षि प्रकृतिमसृणाः शोधकदशां विधातुं चेष्टन्ते वलरिपुवधूटीकचभराः ॥ ५० ॥ अविश्रान्त तिष्ठन्नकृतकवचकंदरपुटी. कुटीरान्तः प्रौढां नखरुचिसटाली प्रकटयन् । प्रचण्डं खण्डत्वं नयतु मम कामाक्षि तरसा तमोवेतण्डेन्द्रं तव चरणकण्ठीरवपतिः ।। ५१ ॥ पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी- पुरंध्रीणां लास्यं तव ललितमालोक्य शनकैः । नखश्रीमिः स्मेरा बहु वितनुते नपुररवै- श्चमत्कृत्या शङ्के चरणयुगली चाटुरचनाः ॥५२॥ सरोज निन्दन्ती नखकिरणकर्पूरशिशिरा निषिक्ता मारारेमुकुटशशिरेखाहिमजलैः।

मूकपश्चशत्यां स्फुरन्ती कामाक्षि स्फुटरुचिमये पल्लवचये तवाधत्ते मैत्री पथिकसुदृशा पादयुगली ।। ५३ ॥ नतानां संपत्तेरनवरतमाकर्षणजपः प्ररोहत्संसारप्रसरगरिमस्तम्भनजपः । त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः पटीयानः पायात्पदनलिनमञ्जीरनिनदः ॥ ५४ ॥ वितन्वीथा नाथे मम शिरशि कामाक्षि कृपया पदाम्भोजन्यासं पशुपरिबृढपाणदयिते । पिबन्तो यन्मुद्रां प्रकटमुपकम्पापरिसरं दृशा नानन्यन्ते नलिन पवनारायणमुखाः॥ ५५ ॥ प्रणामोद्यबृन्दारकमुकुटमन्दारकलिका- विलोलल्लोलम्बप्रकरमयधूमप्रचुरिमा । प्रदीप्तः पादाजधुतिविततिपाटल्यलहरी- कृशानुः कामाक्ष्या मम दहतु संसारविपिनम् ।। वलक्षश्रीब्रक्षाधिपशिशुसहक्षा तव नखै- र्जिवृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे । क्षणान्मे कामाक्षि क्षपितभवसंक्षोभगरिमा वचोवैचक्षण्यं चरणयुगली पक्ष्मलयताम् ॥ ५७ ।।

पादारविन्दशतकम् । ३७ समन्तात्कामाक्षि क्षततिमिरसंतानसुभगा- ननन्ताभिर्भाभिनिमनु दिगन्तान्विरचयन् । अहंताया हन्ता मम जडिमदन्तावलरिपु. विभिन्तां संतापं तव चरणचिन्तामणिरसौ ॥ ५८॥ दधानो भास्वत्ताममृतनिलयो लोहितवपु- विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् । गतौ मन्दो गङ्गाधरमहिपि कामाक्षि भजतां तमाकेतुर्मातस्तव चरणो विजयते ।। ५९ ॥ नयन्ती दासत्वं नलिनभवमुख्यानसुलम् प्रदानादीनानाममरतरुदोर्भाग्यजननीम् । जगजन्मक्षेमक्षयविधि कामाक्षि पदयो- धुरीणामीप्ट कस्तव भणितुमाहोपुरुपिकाम् ।। ६० । जनोऽयं संतप्तो जननि भवचण्डांशुकिण- रलवकं शीत कणमपि परज्ञानपयसः । तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिरां पदाम्भोजच्छायां परमशिवजाये मृगयते ॥ ६१ ॥ जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं वितानं बिभ्राणे सुरमुकुटसंघट्टमसृणे ।

मूकपञ्चशत्यां
निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा
बुधैः संविनारी तव चरणमाणिक्यभवने ॥ ६२ ॥
प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण-
श्रियो मूलद्रव्यं तव चरणमद्रीन्द्रतनये ।
सुरेन्द्राशामापूरयति यदसौ ध्वान्तमखिलं
धुनीते दिग्भागानपि च महसा पाटलयते ।। ६३ ।।
महाभाष्यव्याख्यापटुशयनमारोपयति वा
स्मरव्यापारेापिशुननिटिलं कारयति वा ।
द्विरेफाणामध्यासयति सततं वाधिवसति
प्रणम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥ ६४ ॥
विवेकाम्भःस्रोतानपनपरिपाटीशिशिरिते
समीभूते शास्त्रस्मरणहलसंकर्षणवशात् ।
सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणौ
महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥ ६५ ॥
दधानो मन्दारस्तबकपरिपाटी नखरुचा
वहन्दीप्तां शोणाङ्गुलिपटलचाम्पेयकलिकाम् ।
अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो
विकासी वासन्तः समय इव ते शर्वदयिते ॥६६॥

पादारविन्दशतकम्। नखांशुवाचुर्यप्रसूमरमरालीधवलितः स्फुरन्मञ्जीरोद्यन्मरकतमहाशैवलयुतः । भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो नदः शोणाभिख्यो नगपतितनूजे विजयते ।। ६७ ।। धुनानां पङ्कोध परमसुलभ कण्टककुलै- विकासव्यासङ्गं विदधदपराधीनमनिशम् । नखेन्दुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितरा- मसामान्यं मन्ये सरमिजमिदं ते पदयुगम् ॥ ६८॥ करीन्द्राय द्रुह्य त्यलसगतिलीलासु विमलैः पयोर्मात्सर्य प्रकटयति कामं कलयते । पदाम्भोजद्वन्द्वं तव तदपि कामाक्षि हृदय मुनीनां शान्तानां कथ पनिशनस्मै स्पृश्यते ।। ६९ ॥ निरस्ता शोणिम्ना चरणकिणानां तव शिवे समिन्धाना संध्यारुचिरच नरा जन्यतनये । असामर्थ्यादेनं परिभवितुमेतत्समरुचां सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥ ७० ॥ उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ मरालानां शङ्के मसृणगतिलालित्यसरणौ ।

मूकपञ्चशत्यां अतस्ते निस्तन्द्रं नियतममुना सख्यपदवीं प्रपन्नं पाथोज प्रतिदधति कामाक्षि कुतुकम् ।। ७१॥ दधानः संसर्ग प्रकृतिमलिनैः एड्पदकुलै- द्विजाधीशलाघाविधिषु विदधद्भिर्मुकुलताम् । रजोमित्रैः पद्मनियतमपि कामाक्षि पदयो- विरोधस्ते युक्तो विपशवैरिप्रियतमे ॥ ७२ ।। कवित्वश्रीमिश्रीकरणनिपुणौ रक्षामणी विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ । मुनीन्द्राणामन्तःकरणारया मा दसरमा मनोज्ञौ कामाक्ष्या दुन्तिहणौ नौमि चरणौ ॥ ७३ ।। परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयो- नखश्रीषु ज्योत्स्नाकुलिततुलयोस्तानतलयोः। निलीये कामाक्ष्या निगमनुतयोन किनतयो- निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥ ७४ ॥ स्वभावादन्योन्यं किसलयमपीदं तव पदं प्रदिना शोणिम्ना भगवति दधाते सदृशताम् । वने पूर्वस्येच्छा सततमबने किं तु जगतां परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ।।७५ Parliamwikipe पादारविन्दशतकम् । कथं वाचालोऽपि प्रकटमणिमञ्जीरनिनदैः सदैवानन्दाान्विरचयति वाचंयमजनान् । प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो मनीषानैमल्यं कथमिव नृणां मांसलयते ॥ ७६॥ चलत्तृष्णावीचीपरिचलनपर्याकुलतया मुहुर्धान्त्वा तान्तः परमशिववामाक्षि परवान् । तितीर्घः कामाक्षि प्रचुरतरकर्माम्बुधिममुं कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥ ७७ ॥ विशुष्यन्त्यां प्रज्ञासरिति दुरितग्रीष्मसमय- प्रभावेण क्षीणे सति मम मनाकेकिनि शुचा । त्वदीयः कामाक्षि स्फुरितचरणाम्भोदमहिमा नभोमासाटोपं नगपतिसुते किं न कुरुते ॥ ७८॥ विनम्राणां चेतोमवनवलभीसीम्नि चरण- प्रदीपे प्राकाश्यं दधति तव निधूततमसि । असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी विघूर्णन्ती शान्ति शलभपरिपाटीव भजते ॥ ७९ ॥ विराजन्ती शुक्तिनखकिरणमुक्तामणितते- विपत्पाथोराशौ तरिरपि नराणां प्रणमताम् ।

मूकपञ्चशत्यां त्वदीयः कामाक्षि ध्रुवमलघुवह्निर्भववने मुनीनां ज्ञानाग्नेररणिरयमद्धिर्विजयते ॥ ८० ।। समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः। भवत्या भिन्दानो भवगिरिकुलं जम्भिततमो- वलद्रोही मातश्चरणपुरुहूतो विजयते ॥ ८१ ॥ वसन्तं भक्तानामपि मनसि नित्यं परिलस- द्धनच्छायापूर्ण शुचिमपि नृणां तापशमनम् । नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकर नमामः कामाक्ष्याश्चरणमधिकाचर्यकरणम् ॥ ८२॥ कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः- प्रपञ्चव्यापारप्रकटनकलाकौशलनिधिः । अधाकुर्वनजं सनकभृगुमुख्यैर्मुनिजनै- नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥ ८३॥ भवत्याः कामाक्षि स्फुरितपदपङ्केरुहभुवां परागाणां पूरैः परिहृतकलङ्कव्यतिकरैः । नतानामामृष्टे हृदयमुकुरे निर्मलरुचि- प्रसन्ने निःशेष प्रतिफलति विश्वं गिरिसुते ॥ ८४ ॥ ARE पादारविन्दशतकम् । तव वस्तं पादाकिसलयमरण्यान्तरमगा- त्परं रेखारूपं कमलममुमेवाश्रितमभूत् । जितानां कामाक्षि द्वितयमपि युक्तं परिभवे विदेशे वासो वा शरणगमनं वा निजरिपोः ।। ८५॥ गृहीत्वा याथार्थ निगमवचसा देशिककृपा- कटाक्षार्कज्योति शमितममताबन्धतमसः । यतन्ते कामाक्षि प्रतिदिवस मन्तद्रढयितुं त्वदीय पादाब्जं सुकृतपरिपा केन सुजनाः ॥८६॥ जडानामप्यम्ब स्मरणसमये त्वचरणयो- भ्रमन्मन्थक्ष्माभृघुमधुमितसिन्धुप्रतिभटाः । प्रसन्नाः कामाक्षि प्रसभमधरस्पन्दनकरा विभान्ति स्वच्छन्दं प्रकृतिपरिपक्वा भणितयः॥ ८७॥ वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ तमेवाधःक किमिा यतते केलिगमने। भवस्यैवानन्दं विदधदपि कामाक्षि चरणो भवत्यास्तद्बोहं भगवति किमेवं वितनुते ॥ ८८ ॥ यदत्यन्तं ताम्यत्यलमगतिवार्तास्वपि शिवे तदेतत्कामाक्षि प्रकृति मृदुलं ते पदयुगम् ।

१४
मूकपञ्चशत्यां
किरीट संघट्ट कथमिव सुरौघस्य सहते
मुनीन्द्राणामास्ते मनसि च कथं सूचिनिशिते ॥ ८९ ॥
मनोरङ्गे मत्के विबुधजनसंमोदजननी
सरागव्यासङ्गं सरसमृदुसंचारसुभगा।
मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं
रणन्मञ्जीरा ते चरणयुगलीनर्तकवधूः ॥९॥
परिष्कुर्वन्मातः पशुपतिकपदं चरणराट
पराचां हृत्पद्म परमभनितीनां च मुकुटम् ।
भवाख्ये पााधौ परिहरतु कामाक्षि ममता-
पराधीनत्वं मे परिमुषितपाथोजमहिमा ।। ९१ ॥
प्रसूनैः संपर्कादमतरुणीकुन्तलभवे-
रभीष्टानां दानादनिशमपि कामाक्षि नमताम् ।
खसङ्गात्कङ्केलिप्रसवजनकत्वेन च शिवे
विधा धत्ते वार्ता सुरभिरिति पादो गिरिसुते ॥ ९२॥
महामोहस्तेनव्यतिकरभयास्पालयति यो
विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम् ।
स रागस्योद्रेकात्सततमपि कामाक्षि रुचिरां
किमेवं पादोऽसौ किसलयरुचि चोरयति ते ॥ ९३ ॥

पादारविन्दशतकम् । १५ सदा स्वादुंकारं विषयलहरीशालिकणिकां समास्वाध श्रान्तं हृदयशुकपोतं जननि मे । कृपाजाले कालेक्षणमहिपि कामाक्षि रभसा- गृहीत्वा रुन्धीथाश्चरणयुगलीपञ्जरपुटे ॥ ९४ ॥ धुनानं कामाक्षि स्मगलबमा जडिम- ज्वरोडिं मूस्थिति निमनहरे । अलभ्यं सतां कलिचा लभन्ते सुकृतिन- श्चिरादन्विष्यन्तस्तव च प्रसिद्वौषधमिदम् ॥ ९५ ॥ रणन्मजीराभ्यां ललिगमनाममा सुकृतिनां मनोवास्तव्यासपिनिनिराम्यां नखरुचा। निधेयाभ्यां पत्या निजशिगी कामाक्षि सतत नमस्ते पादाभ्यां नलिन मृदुलाभ्यां गिरिसुते ॥ ९६ ॥ मुरागे राकेन्दयतिनिधिमुवे पर्वतसुने चिरालय भक्त्या शमधनजनानां परिपदा। मनोमृङ्गो मत्कः पदकमलयुग्मे जननि ते प्रकाम कामाक्षि त्रिपुरहवामाथि रमताम् ।। ९७ ॥ शिव संवित्पाशैः शशिशकलचूउप्रियतमे शनैर्गत्यागत्या जितमुश्वरेभे गिरिसुते ।

मूकपञ्चशत्यां यतन्ते सन्तस्ते चरणनलिनालानयुगले सदा बधु चित्तप्रमदकरियूथं दृढतरम् ॥ ९८ ॥ यशः सुते मातर्मधुरकविता पक्ष्मलयते श्रियं दत्ते चित्त कमपि परिपाक प्रथयते । सतां पाशग्रन्थि शिथिलयति किं किं न कुरुते प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः ।। ९९ ॥ मनीषां माहेन्द्रीं कामिव ते कामपि दशां प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः । यदीये संपर्के धृतरसमरन्दा कवयतां परीपाकं धत्त परिमलवती मुक्तिनलिनी ॥ १०॥ पुरा मारारातिः पुरमजयदम्ब स्तवशतैः प्रसन्नायां सत्यां त्वयि तुहिनशैलेन्द्रतनये । अतस्ते कामाक्षि स्फुरतु तरसा कालसमये समायाते मातर्मम मनसि पादाब्जयुगली ॥ १०१ ।। पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां गिरामन्ते भ्रान्तं कृतकरहितानां परिबृढे । जनानामानन्दं जननि जनयन्तं प्रणमतां त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥ १०२ ।।

पादारविन्दशतकम् । इदं या कामाक्ष्याश्चरणनलिनस्तोत्रशतकं जपेन्नित्यं भक्त्या निखिलजगदाह्लादजनकम् । स विश्वेषां वन्द्यः सकलकविलोकैकतिलक- श्चिरं भुक्त्वा भोगान् परिणमति चिपकलया ॥ १०३ ॥ पादारविन्दशतकं संपूर्णम् ।।

|| श्रीः ॥ ॥ स्तुतिशतकम् । पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां वैरिश्चान्यपि गुम्फनानि विगलनर्वाणि शर्वाणि ते। स्तोतु त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः॥१॥ तापिञ्छस्तवकत्विषे तनुभृतां दारित्र्ययुद्राद्विपे संसारख्यतमोमुपे पुररिपोर्वामाइसीमाजुषे । कम्पातीरसुपेयुपे कवयतां जिह्वाकुटी जग्मुपे विश्वनाणपुषे नमोऽस्तु सततं तस्मै परंज्योतिपे॥२॥ ये संध्यारुणयन्ति शंकरजटाकान्तारचन्द्रामक सिन्दूरन्ति च ये पुरन्दरवधूसीमन्तसीमान्तरे। पुण्य ये परिपक्वयन्ति भजतां काञ्चीपुरे माममी पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ।। ३ ।। कामाडम्बरपूरया शशिरुचा कास्मितानां त्विषा कामारेरजुरागसिन्धुमधिकं कल्लोलितं तन्वती ।

स्तुतिशतकम् । कामाक्षीति समस्तसज्जननुना कन्याणदात्री नृणां कारुण्याकुलमानला भगवती कम्पातटे जृम्भते ॥ ४ ॥ कामाक्षीणपराक्रमप्रकटनं संभावयन्ती दृशा श्यामा क्षीरसहोदरमिचिप्रक्षालिताशान्तरा। चामाक्षीजनमौलि अपणमणिचा परा देवता कामाक्षीति विभाति कापि करमा कम्पातटिन्यास्तटे ।। श्यामा काचन चन्द्रिकान भुमने पुण्यात्मनामानने सीमाशून्यकवित्ववपजननी या कापि कादम्बिनी। मारारातिमनोविमोहनविधौ काचित्तमाकन्दली कामाक्ष्याः करूणाकटाक्षलहरी कामाय मे कल्पतात् ॥६॥ प्रौढध्वान्तकदम्बके कुमुदिनीपुण्याङ्कुरं दर्शय- ज्योत्स्नासंगमनेऽपि कोकमिथुनं मिश्रं समुद्भावयन् । कालिन्दीलहरीदशां प्रकटयन्कम्रो नभस्यद्भुतां कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥७॥ तन्द्राहीनतमालनीलसुपमैस्तारुण्यलीलागृहै- स्तारानाथकिशोरलाञ्छितकचैस्ताम्रारविन्देक्षणैः । मातः संश्रयतां मनो मनसिजपागल्भ्यनाडिधमैः कम्पातीरचीनस्त नभरैः पुण्याकुरैः शांकरैः ॥८॥ M.4 ५० मूकपञ्चशत्यां नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधि पुष्णती तेजासंचयपाटवेन किरणानुष्णद्युतेर्मुष्णती। काञ्चीमध्यगतापि दीप्तिजननी विश्वान्तरे जम्भते काचिच्चित्रमहो स्मृतापि तमसां निर्वापिका दीपिका ॥९॥ कान्तः केशरुचां चर्यभ्रमरितं मन्द स्मितैः पुष्पितम् कान्त्या पल्लवितं पदाम्बुरुहयो त्रविपा पत्रितम् । कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली काञ्चीमध्यमहामणिविजयते काचित्कृपाकन्दली ॥ १० ॥ राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम् । श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सता- मेका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥ ११ ॥ जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां लोकानां क्षणमात्रसंस्मरणतः संतापविच्छेदिनी। आश्चर्य बहुखेलनं वितनुते नैश्चल्यमाविभ्रती कम्पायास्तटसीम्रि कापि तटिनी कारुप्यपाथोमयी ॥ १२ ॥ ऐक्यं येन विरच्यते हस्तनौ दम्भावपुंभावके रेखा यत्कचम्नि शेखरदशां नेशाकरी गाहते ।

स्तुतिशतकम् ।
औनत्यं मुहुरेति येन स महान्मेनासखः सानुमा-
न्कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥१३॥
अक्षणोश्च स्तनयोः श्रिया श्रवणयोर्वाह्वोश्च मूलं स्पृश-
न्नुत्तसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने ।
माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां हृपय -
न्काञ्चीसीनि चकास्ति कोऽपि कवितासंतानवीजाङ्कुरः ॥
खण्डं चान्द्रमसं वतंसमनिशं काञ्चीपुरे खेलनं
कालायश्छवितस्करी तनुरुचिं कर्णे जपे लोचने ।
तारुण्योष्मनखंपचं स्तनभरं जङ्घास्पृशं कुन्तलं
भाग्यं देशिकसंचितं मम कदा संपादयेदम्बिके ॥ १५ ॥
तन्वानं निजकेलिसौधसरणि नैसर्गिकीणां गिरां
केदारं कविमल्लमूक्तिलहरीसस्यश्रियां शाश्वतम् ।
अंहोवञ्चनचुञ्चु किंचन भजे काञ्चीपुरीमण्डनम्
पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥ १६ ॥
आलोके मुखपङ्कजे च दधती सौधाकरीं चातुरीम्
चूडालंक्रियमाणपङ्कजवनीवैरागमप्रक्रिया।
मुग्धस्मेरमुखी धनस्तनतटीमूर्छालमध्याञ्चिता
काञ्चीसीमनि कामिनी विजयते काचिजगन्मोहिनी ॥१७॥

मूकपश्चशत्यां यस्मिन्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित- ज्योत्स्नासंस्खपिता भवत्यमिमुखी तं प्रत्यहो देहिनम् । द्राक्षामाक्षिकमाधुरीमदभरनीडाकरी वैखरी कामाक्षि स्वयमातनोत्यभिमृति वामेक्षणेव क्षणात् ॥ १८ ॥ कालिन्दीजलकान्तयः स्मितलचिवाहिनीपाथसि प्रौढचान्तरुचः स्फुटाधरमहोलौहित्यसंध्योदये । माणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः कल्याणैकनुवः कटाक्षलुपमाः कामाक्षि राजन्ति ते ॥ १९ ।। कलकलरणत्काञ्ची काञ्चीविभूषणमालिका कचभरलसचन्द्रा चन्द्रावतंससधर्मिणी। कविकुलगिरः श्रावधानं मिलत्पुलकाङ्कुरा विरचितशिरकम्मा कम्पातटे परिशोभते ॥ २०॥ सरसवचसां वीची नीचीभवन्मधुमाधुरी भरितभुपना कीतिमतिर्मनीमवजित्वरी। जननि मनसो योग्यं भोग्यं नृणां तव जायते कथमिव विना काञ्चीभूपे कटाक्षतरङ्गितम् ॥ २१ ॥ भ्रमरितसरित्कूलो नीलोत्पलप्रभया भया- नतजनतमाखण्डी तुण्डीरसीनि विजृम्भते ।

स्तुतिशतकम् ।
५३
अचलतपसामेकः पाकः प्रसूनशरासन-
प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥ २२॥
मधुरखचसो मन्दस्मेरा मतङ्गजगामिन-
स्तरुणिमजुषस्तापिञ्छामास्तमःपरिपन्थिनः ।
कुचभरनताः कुर्युर्भद्रं कुरङ्गविलोचना:
कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥२३॥
कमलसुषमाकक्ष्यारोहे विचक्षणवीक्षणाः
कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः।
रुचिररुचिभिस्तापिञ्छश्रीप्रपञ्चनचुञ्चवः
पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः॥ २४ ॥
कलितरतयः काञ्चीलीलाविधौ कविमण्डली-
वचनलहरीवासन्तीनां वसन्तविभृतयः ।
कुशलविधये भूयासुभे कुरङ्गविलोचनाः
कुसुमविशिखारातरक्ष्णां कुतूहलविभ्रमाः ॥ २५॥
कवलिततमस्काण्डास्तुण्डीरमण्डलमण्डनाः
सरसिजवनीसंतानानामरंतुदशेखराः ।
नयनसरणेर्नेदीयांसः कदा नु भवन्ति मे
तरुणजलदश्यामाः शंभोस्तपःफलविभ्रमाः ॥२६॥

मूकपञ्चशत्यां अचरममिषु दीनं मीनध्वजस्य मुखश्रिया सरसिजभुवो यानं म्लानं गतेन च मञ्जुना। त्रिदशसदसामन्नं खिन्ने गिरा च वितन्वती तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥ २७॥ जननि भुवने चङ्क्रम्येऽहं कियन्तमनेहसं कुपुरुपकरभ्रष्टैर्दुदैर्धनैरुदरंभरिः। तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने नमति मयि ते किंचित्काञ्चीपुरीमणिदीपिके ॥२८ ।। मुनिजनमनापेटीरत्नं स्फुरत्करुणानटी- विहरणकलागेहं काञ्चीपुरीमणिभूषणम् । जगति महतो मोहव्याधेनृणां परमौषधं पुरहरदृशां साफल्यं मे पुरः परिज़म्भताम् ॥ २९ ॥ मुनिजनमनोधाम्ने धाम्ने वचोमयजाह्नवी- हिमगिरितटप्रारभारायाक्षराय परात्मने । विहरणजुषे काञ्चीदेशे महेश्वरलोचन- त्रितयसरसक्रीडासौधाङ्गणाय नमो नमः ॥ ३०॥ मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषा- ममृतलहरीपूरं पारं भवाख्यपयोनिधेः।

स्तुतिशतकम् ।
सुचरितफलं काञ्चीभाजो जनस्य पचेलिमं
हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥३१॥
प्रणमनदिनारम्भे कम्पानदीसखि तावके
सरसकवितोन्मेषः पूषा सतां समुदश्चितः।
प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वती
नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥ ३२॥
शमितजडिमारम्भा कम्पातटीनिकटेचरी
निहतरितस्तोमा सोमामुद्रितान्तला।
फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता
सफलयतु मे नेत्रे गोत्रेश्वरप्रियनन्दिनी ॥ ३३ ॥
मम तु धिपणा पीड्या जाड्यातिरेक कथं त्वया
कुमुदसुपमामैत्रीपात्रीवतंसितकुन्तलाम् ।
जगति शमितस्तम्भां कम्मानदीनिलयामसौ
श्रयति हि गलत्तन्द्रा चन्द्रावतंसमधर्मिणीम् ॥३४॥
'परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने
शिखरिणि पुनद्वैधीभावं शशिन्यरुणातपम् ।
अपि च जनयन्कम्बोलक्ष्मीमनम्बुनि कोऽप्यसौ
कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥ ३५ ॥

मूकपञ्चशत्यां पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया सरसकवितामाजा काञ्चीपुरोदरसीमया । तटपरिसरैनींहारा।वचोभिरकृत्रिमैः किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥ ३६॥ नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं विदधति गतौ व्याकुर्वाणा गजेन्द्रचमक्रियाम् । मरकतरुचो देहे माहेश्वराः स्तननम्रिताः सुकृतविभवाः प्राञ्चः काञ्चीवतंसधुरंधराः ॥ ३७॥ मनसिजयशःपारस्पयं मरन्दझरीसुवां कलिकुलगिरां कन्दं कम्पानदीतटमण्डनम् । मधुरललितं मत्कं चक्षुर्मनी पिमनोहर पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥ ३८ ॥ शिथिलिततमोलीलां नीलारविन्दविलोचनां दहनविलसत्कालां श्रीकामकोटिमुपास्महे । करधृतलसच्छूलां कामारिचित्तहरां परां मनसिजकृपालीलां लोलालकामलिकेक्षणाम् ॥ ३९ ॥ कलालीलाशाला कविकुलवचाकैरववनी- शरज्ज्योत्स्नाधारा शशधरशिशुश्लाघ्यमुकुटी ।

स्तुतिशतकम् ।
पुनीते नः कम्पापुलिनतटसौहार्दतरला
कदा चक्षुर्मार्ग कनकगिरिधानुष्कमहिषी ॥ ४० ॥
नमः स्ताननेभ्यः स्तनगरिमगर्वेण गुरुणा
दधानेभ्यश्चूडाभरणममृतस्यन्दिशिशिरम् ।
सदा वास्तव्येभ्यः सविधभुवि कम्पाख्यसरितो
यशोव्यापारेभ्यः सुकृतविभवेभ्यः पशुपतेः ॥४१॥
असूयन्ती काचिन्मरकतरुचो नाकिमुकुटी-
कदम्ब चुम्बन्ती चरणनख चन्द्रांशुपटलैः ।
तमोमुद्रां विद्रावयतु मम काञ्चीनिलयना
हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥ ४२ ॥
अनाद्यन्ता काचित्सुजननयनानन्दजननी
निरन्धाना कान्ति निजरुचिविलासैजलमुचाम् ।
स्मरारेस्तारल्यं मनसि जनयन्ती स्वयमहो
गलत्कम्पा शम्पा परिलमति कम्पापरिसरे ॥४३ ।।
सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं
परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः।
स्तनाम्यामानम्रा स्तबकयतु मे कांक्षिततरूं
दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ॥४४॥

"५८ मूकपञ्चशत्यां कृपाधारा द्रोणी कृपणधिषणानां प्रणमतां निहन्त्री संतापं निगममुकुटोत्तंसकलिका । परा काञ्चीलीलापरिचयवती पर्वतसुता गिरां नीवी देवी गिरिशपरतन्त्रा विजयते ॥४५॥ कवित्वश्रीकन्दा सुकृतपरिपाटी हिमगिरे- विधात्री विश्वशां विषमशरवीरध्वजपटी। सखी कम्पानद्याः पदहसितपाथोजयुगली पुराणी पायान्नः पुरमथनसाम्राज्यपदवी ॥ ४६॥ दरिद्राणां मध्ये दरदलितता पिञ्छसुषमाः स्तनाभोगक्लान्तास्तरुणहरिणाङ्काङ्कितकचाः । हराधीना नानाविबुधमुकुटीचुम्बितपदाः कदा कम्पातीरे कथय विहरामो गिरिसुते ॥४७॥ वरीवर्तु स्थेमा त्वयि मम गिरा देवि मनसो नरीनतु प्रौढा वदनकमले वाक्यलहरी । चरीचर्तु प्रज्ञाजननि जडिमा नः परजने सरीसतु स्वैरं जननि मयि कामाक्षि करुणा ॥४८॥ क्षणं ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् ।

स्तुतिशतकम् ।
५९
रीिनतु स्वैरं वचनलहरी निर्जरपुरी-
सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥ ४९ ॥
रस्तान्मे भूयः प्रशमनपरः स्तान्मम रुजां
प्रचारस्ते कमातटविहति संपादिनि दृशोः ।
मां याच्न मूरी कुरु सपदि दूरीकुरु तमः-
परीपाकं मकं सादि बुधलोकं च नय माम् ॥ ५० ॥
दश्चन्ती काञ्चीनगरनिलये त्वत्करुगया
समृद्धा वाग्धाटी परिहसिनमाध्वी कायताम् ।
पादत्त मारप्रतिभटजटाजूटमुकुटी-
कुटीरोल्ल सिन्याः शतमखतटि-या जयपटीम् ।। १ ।।
श्रेयं वियां दद्या जननि नमतां कीर्तिममितां
सुपुत्रान् प्रादत्ते तव झटिति क माक्षि करुणा।
त्रैलोक्यामाधिक्य त्रिपुरपरि पन्यिप्रणयिनि
प्रणामस्त्वत्पादे शमिनदुरिते किं न कुरुते ॥ ५२ ।।
मनःस्तम्भं स्तम्भ गमयदुपकम्प प्रणमतां
सदा लोलं नीलं चिकुरजितलोलम्बनिकरम् ।
गेरां दूरं स्मेरं धृतशशिकिशोरं पशुपते-
दृशां भोग्यं योग्यं तुहिनगिरिभाम्य विजयते ॥ ५३॥

६० मूकपञ्चशत्यां घनश्यामान कामान्तकमहिषि कामाक्षि मधुरा- दृशां पातानेतानमृतजलशीताननुपमान् । भवोत्पाते भीते मयि वितर नाथे दृढभव- न्मनःशोके मूके हिमगिरिपताके करुणया ॥ ५४॥ नतानां मन्दानां भवनिगलबन्धाकुलधियां महान्ध्यं रुन्धानामभिलषितसंतानलतिकाम् । चरन्ती कम्पायास्तटभुवि सवित्रीं त्रिजगतां स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥ ५५ ॥ परा विद्या हृद्याश्रितमदनविद्या मरकत- प्रभानीला लीलापरवशितशूलायुधमनाः । तमापूर दूरं चरणनतपौरन्दरपुरी- मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥ ५६ ॥ अहंताख्या मकं कबलयति हा हन्त हरिणी हठात्सं विद्रूपं हरमहिपि सस्यांकुरमसौ। कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलै- रिमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया ॥ ५७ ।। बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ कटाक्षः कामाक्षि प्रकटजडिमक्षोदपटिमा ।

स्तुतिशतकम् । कथंकारं नास्मै करमुकुलचूडालमुकुटा नमोवाकं ब्रूयुनमुचिपरिपन्थिप्रभृतयः॥ ५८॥ प्रतीची पश्यामः प्रकटरुचिनीवारकणिश- प्रभासधीचीनां प्रदलितपडाधारकमलाम् । चरन्तीं सौपुणे पथि परपदेन्दुगविगल तुधा कामाक्षी परिणतपरज्योतिरुदयाम् ॥ ५९॥ जम्भारातिप्रमृतिमुण्टीः पादयोः पीठयन्ती गुम्फान्याचां कविजनकृतान्स्वैरमारामयन्ती। शमालक्ष्मी मगिगणरुवापाटलैः प्रापयन्ती कमातीरे कपिपरिसदां जम्भते भाग्यसीमा ॥६० ॥ चन्द्रापीडां चतुरबदनां चञ्चलापाङ्गलीला कुन्दस्मेरा कुचमानता शुन्तलोद्भूतभृङ्गाम् । मारारानेर्मदनशिखिनं मांसल दीपयन्ती कामाक्षी तां कविलगिय कल्पवल्लीमुपासे ॥६१ ॥ कालाम्भोदप्रकरसुपमा कान्तिभिस्तजयन्ती कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् । कंदरः प्रियसहचरी कल्मपाणां निहन्त्री काञ्चीदेशं तिलकाति सा कापि कारुण्यसीमा ।। ६२ ।।

मूकपञ्चशत्यां ऊरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां पाथोजानां नयनयुगले पारिपन्थ्यं वितन्यन् । कम्पातीरे विहरति रुचा मोघयन्मेघशैली कोकद्वेयं शिरसि कलयन्कोऽपि विद्याविशेषः ॥ ६३॥ काञ्चीलीलापरिचयवती कापि तापिञ्छलक्ष्मी र्जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः। माकन्दश्रीर्मधुग्कविताचातुरीकोकिलानां मार्गे भ्यान्मम नयनयोभन्मथी कापि विद्या ॥ १४ ॥ सेतुर्मातर्मरकतमयो भक्तिभाजां भवाब्धौ लीलालोला कुवलयमयी मान्मथी वैजयन्ती। काञ्चीभूषा पशुपतिदृशां कापि कालाञ्जनाली मत्कं दुःखं शिथिलयतु ते मजुलापाङ्गमाला ॥६५॥ च्यावृण्वानाः कुवलयदलप्रक्रियावरमुद्रां व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् । काञ्चीलीलाविहृतिरसिके काक्षितं नः क्रियासु बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥ ६६ ।। कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती मध्येसौदामिनि मधुलिहां मालिकां राजयन्ती ।

स्तुतिशतकम् ।
हंसारावं विकचकमले मजुमुल्लासयन्ती
कम्पातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ।।
चित्रं चित्रं निजमृदुतया भलैयन्पल्लवाली
पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् ।
जातः शैलान तु जलनिधेः स्वैर संचारशीली
काञ्चीभूपा कलयतु शिवं कोऽपि चिन्तामणि ॥
ताम्राम्भोज जलदनिकटे तत्र बन्धूकपुष्पं
तस्मिन्मल्लीकुसुमसुषमा तत्र वीणानिनादम् ।
व्यावृण्वाना सुकृतलहरी कापि काञ्चीनगर्या-
मैशानी सा कलयतितरामैन्द्रजालं विलासम् ॥ ६९ ॥
आहारांशं त्रिदशसदमामाश्रये चातकाना-
माकाशोपर्यपि च कलयन्नालयं तुङ्गमेपाम् ।
कम्पातीरे विहरतितरां कामधेनुः कवीनां
मन्दस्मेरो मदननिगमप्रकियासंप्रदायः ॥ ७० ॥
आभूतरविरलकृपैरातलीलाविलास-
रास्थापूर्णैरधिकचपलैरश्चिताम्भोजशिल्पैः ।
कान्तैर्लक्ष्मीललितभवनः कान्तिकैवल्यसारैः
काश्मल्यं नः कबलयतु सा कामकोटी कटाक्षः॥ ७१ ॥

2 मूकपञ्चशत्यां आधून्यन्त्यै तरलनयनराङ्गाजी वैजयन्ती- मानन्दिन्यै निजपदजुमामात्तकाञ्चीपुरायै । आस्माकीनं हृदयमखिलैरागमानां प्रपञ्चै- राराध्यायै स्पृहयतितरामादिमायै जनन्यै ।। ७२ ।। दूरं वाचां त्रिदशसहसां दुःख सिन्धोस्तरित्रं मोहवेलक्षितिरुहबने तीक्ष्णधारं कुठारम् । कम्पातीर प्रणयि कविभिर्वर्णितोद्यचरित्र शान्त्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ।। ७३ ॥ खण्डीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री- शुण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती । तुण्डीराख्यें महति विषये स्वर्णवृष्टिप्रदात्री चण्डी देवी कलयति रति चन्द्रचूडालचूडे ॥ ७४ ॥ येन ख्यातो भवति स गृही पूरुपो मेरुधन्वा यद्दकोणे मदननिगमताभ बोभवीति । यत्प्रीत्यैव त्रिजगदधिपो जम्भते किंपचानः कम्पातीरे स जयति महान्कश्चिदोजोविशेषः ॥ ७५॥ धन्या धन्या गतिरिह गिरा देवि कामाक्षि कामं निन्यां भिन्द्यात्सपदि जडतां कल्मपादुन्मिपन्तीम् ।

स्तुतिशतकम् ।
साध्वी माध्वीरसमधुरताभञ्जिनी मजुरीति-
बाणीवेणी झटिति वृणुतात्स्वधुनीस्पर्धिनी माम् ॥
बस्या वाटी हृदयकमलं कौसुमी योगमाजां
यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दै।
यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची
सा मे सोमाभरणमहिषी साधयेत्कांक्षितानि ॥ ७७ ।।
'एका माता सकलजगतामीयुपी ध्यानमुद्रा-
मेकाम्राधीश्वाचरणयोरेकतानां समिन्धे।
बाटोद्यन्मणिगणरुचाताम्रकर्णप्रदेशा
तारुण्यश्रीस्तपकितरुचा तापसी कापि वाला।। ७८ ॥
दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयानैः
मन्दाराणां मदपरिणति मथ्नती मन्दहासैः ।
अंकूराभ्यां मनसिजतरोरङ्कितोराः कुचाभ्या-
मन्तःकाश्चि स्फुरति जगतामादिमा कापि माता ॥
त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरा
पुलिन्दपतिसुन्दरी त्रिपुरभैरवी भारतीम् ।
मतगाकुलनायिका महिषमर्दिनीं मानको
भणन्ति विबुधोत्तमा विहतिमेव कामाक्षि ते ॥ ८॥

६६ मूकपश्चशल्या महामुनिमनोनटी महिताम्यकम्पातटी- कुटीरकविहारिणी कुटिलबोधसंहारिणी । सदा भवतु कामिनी सकलदेहिनां स्वामिनी कृपातिशयकिंकरी मम विभूतये शांकरी ॥ ८१ ॥ जडाः प्रकृतिनिधना जनविलोचनारुंतुदा नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते । वचासु मधुमाधुरीं प्रकटयन्ति पौरंदरी- विभूतिषु विडम्बनां वपुपि मान्मथीं प्रक्रियाम् । ८२ ।। घनस्तनतटस्फुटस्फुरितकचुलीचश्चली- कृतत्रिपुरशासना सुजनीलितोपासना । दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे परा परमयोगिनां मनसि चित्कला पुष्कला ।। ८३ ।। कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी निरूढकरुणाझरी निखिललोकरक्षाकरी। मनःपथदवीयसी मदनशासनप्रेयसी महागुणगरीयसी मम दृशोऽस्तु नेदीयसी।। ८४ ॥ धनेन न रमामहे खलजनान्न सेवामहे न चापलमयामहे भवभयान द्यामहे ।

स्तुतिशतकम् । ६५ स्थिरां तनुमहेतरां मनसि किं च काञ्चीरत- स्मरान्तककुटुम्बिनीचरणपल्लवोपासनाम् ।। ८५ ।। सुराः परिजना वपुर्मनसिजाय वैरायते त्रिविष्टपनिम्बिनीकुचतटी च केलीगिरिः । गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥ ८६ ॥ पवित्रय जगत्लयीविबुधबोधजीवातुभिः पुरत्रयविमर्दिनः पुलककञ्चुलीदायिभिः । भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणे- निरक्षरशिरोमणि करुणयैव कामाक्षि माम् ।। ८७॥ कदा कलितखेलनाः करुणयैव काञ्चीपुरे कलायमुकुलत्विपः शुभकदम्बपूर्णाकुराः । पयोधरभरालसाः कविजनेषु ते बन्धुराः पचेलिमकृपारसाः परिपतन्ति मार्गे दृशोः ॥ ८८। अशोध्यमचलोद्भवं हृदयनन्दनं देहिना- मनमधिकाश्चि तत्किमपि रत्नमुद्दयोतते । अनेन समलंकृता जयति शङ्कराकस्थली कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥ ८९ ।।

मूकपञ्चशल्यां धरामृतझरीप्लुता जगति नित्यमन्तश्वरी नृणामपि बहिश्चरी परमसं विदेकात्मिका । महद्भिरपरोक्षिता सततमेव काञ्चीपुरे ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ।। ९० ॥ स्वमेव सति चण्डिका त्वमिह देवि चामुण्डिका त्वमेव परमातृका त्वमपि योगिनीरूपिणी । स्वमेव किल शांभवी त्वमपि कामकोटी जया त्वमेव विजया त्वयित्रिजगदम्ब कि बमहे ॥ ९१ ॥ परे जननि पार्वति प्रणतपालिनि प्रातिभ- प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वते । त्रियम्बककुटुम्बिनि त्रिपदसङ्गिनि वीक्षणे त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाथि ते ॥ ९२ ।। मनोमधुकरोत्सवं विदधती मनीषाजुमा स्वयंप्रभववैखरीविपिनवेदिकालम्बिनी। बहो शिशिरिता कृपामधुरसेन कम्पावटे चराचरविधायिनी चलति कापि चिन्मअरी ॥ ९३ ॥ कालावति कलाभृतो मुकुटसीनि लीलावति स्पृहावति महेश्वरे भवनमोहने भावति ।

स्तुतिशतकम् ।
प्रभावति रमे सदा महितरूपशोभावति
त्वरावति परे सतां गुरुकृपाम्बुधारावति ॥ ९४ ॥
त्ववैन जगदम्बया भुवनमण्डली सूयते
त्वयैव करुणाया तदपि रक्षणं नीयते ।
स्वयैव खरकोपया नयनपावके हूयते
त्वयैव किल नित्यया जगति संततं स्थीयते ॥१५॥
चराचरजगन्मयीं सकलहन्मयीं चिन्मयीं
गुणत्रयमयी जगत्त्रयमयीं विधामामयीम् ।
परापरमयीं सदा दशदिशां निशाहर्मयों
परी सततसन्मयी परमचिन्मयी शीलये ॥ ९६ ।।
जय जगदम्बिके हरकुटुम्बिनि नेत्ररुचा
जितशरदम्बुजे घनविडम्बिनि केशरुचा ।
परमवलम्बनं कुरु सदा पररूपधरे
मम गतसंविदो जडिमडम्बरताण्डविनः ॥ ९७ ॥
भुवनजननि भूषाभूतचन्द्रे नमस्ते
कलुषशमनि कम्पातीरगेहे नमस्ते ।
निखिलनिगमवेधे नित्यरूपे नमस्ते
परशिवमयि पाशच्छेदहस्ते नमस्ते ॥ ९८ ॥

मूकपश्वशत्यां तमोविपिनधाविनं सततमेव काञ्चीपुरे विहाररसिका परा परमसंविदुर्वीरुहे । कटाक्षनिगलैईहें हृदयदुष्टदन्तावलं चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥ ९९ ॥ कणत्काञ्ची काञ्चीपुरमणिविपञ्चीलयझरी- शिरःकम्पा कम्पावसतिरनुकम्पाजलनिधिः । 'घनश्यामा श्यामा कठिनकुचसीमा मनसि मे मृगाक्षी कामाक्षी हरनटनसाक्षी विहरताम् ।। १०० ।। समरविजयकोटी साधकानन्दधाटी मृद्गुणपरिपेटी मुख्यकादम्बबाटी। मुनिनुतपरिपाटी मोहिताजाण्डकोटी परमशिववधूटी पातु मां कामकोटी ॥ १०१ ॥ इति स्तुतिशतकं संपूर्णम् ॥

।। श्रीः ।। ॥ कटाक्षशतकम् ॥ women मोहान्धकारनिवहं विनिहन्तुमीडे मूकात्मनामपि महाकवितावदान्यान् । श्रीकाञ्चिदेशशिशिरीकृतिजागरूका- नेकाम्रनाथतरुणीकरुगावलोकान् ॥ १॥ मातर्जयन्ति ममताग्रहमोक्षणानि माहेन्द्रनीलरुचिशिक्षणदक्षिणानि । कामाक्षि कल्पितजगत्त्रयरक्षणानि त्वद्वीक्षणानि वरदानविचक्षणानि ॥२॥ आनङ्गतन्त्रविधिदर्शित कौशलाना- मानन्दमन्दपरिघूर्णितमन्थराणाम् । तारल्यमम्ब तव ताडितकर्णसीनां कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥ ३॥ . कल्लोलितेन करुणारसवेल्लितेन कल्मापितेन कमनीयमृदुस्मितेन ।

मूकपनशखा
मामश्चितेन तव किंचन कुञ्चितेन
कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥ ४॥
साहाय्यकं गतवती मुहुरर्जुनस्य
मन्दस्मितस्य परितोषितभीमचेताः ।
कामाक्षि पाण्डवचमूरिव तावकीना
कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥ ५ ॥
अस्तं क्षणानयतु मे परितापसूर्य-
मानन्दचन्द्रमसमानयतां प्रकाशम् ।
कालान्धकारसुषमां कलयन्दिगन्ते
कामाक्षि कोमलकटाक्षनिशागमस्ते ॥६॥
बाटङ्गमौक्तिकरुचांकुरदन्तकान्तिः
कारुण्यहस्तिपशिखामणिनाधिरूढः।
उन्मूलयत्वशुभपादपमस्मदीयं
कामाक्षि तावककटाक्षमतङ्गजेन्द्रः ॥ ७॥
छायाभरेण जगतां परितापहारी
ताटङ्करत्नमणितल्लजपल्लवश्रीः।
कारुण्यनाम विकिरन्मकरन्दजालं
कामाक्षि राजति कटाक्षसुरदुमस्ते ॥ ८ ॥

कटाक्षशतकम्। सूर्याश्रयप्रणयिनी मणिकुण्डलांशु- लौहित्यकोकनदकाननमाननीया । बान्ती तव स्मरहराननकान्तिसिन्धु कामाक्षि राजति कटाक्षकलिन्दकन्या ॥९॥ प्रामोति यं सुकृतिनं तव पक्षपाता- कामाक्षि चीक्षणविलासकलापुरन्ध्री। सघस्तमेव किल मुक्तिवधूवणीते तस्मानितान्तमनयोरिदमैकमत्यम् ॥ १० ॥ यान्ती सदैव मरुतामनुकूल भावं भ्रवल्लिशक्रधनुरुल्लमिता रमा । कामाक्षि कौतुकतरङ्गितनीलक ठा कादम्बिनीव तव भाति कटाक्षमाला ॥११॥ गङ्गाम्मसि स्मितमये तपनात्मजेव गङ्गाधरोरसि नवोत्पलमालिकेत्र । बकत्रप्रभासरसि शैवलमण्डलीव कामाक्षि राजति कटाक्षरुचिच्छटा ते ।। १२॥ संस्कारतः किमपि कन्दलितान्रसज्ञ- केदारसीनि सुधियामुपभोगमाग्यान् ।

Mrint मूकपञ्चशत्यां कल्याणसूक्तिलहरीकलमांकुरान्नः कामाक्षि कन्दलयतु त्वदपाङ्गमेघः ॥ १३॥ चाञ्चल्यमेव नियतं कलयन्प्रकृत्या मालिन्यभूः श्रुतिपथाक्रमजागरूकः । कैवल्यमेव किमु कल्पयते नतानां कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥ १४ ॥ संजीवने जननि चूतशिलीमुखस्य संमोहने शशिकिशोरकशेखरस्य । -संस्तम्भने च ममताग्रहचेष्टितस्य कामाक्षि वीक्षणकला परमौषधं ते ॥ १५ ॥ नीलोऽपि रागमधिकं जनयन्पुरारे- लोलोऽपि भक्तिमधिकां द्रव्यन्नराणाम् । चक्रोऽपि देवि नमतां समतां वितन्व- न्कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥ १६ ॥ कामहो हृदययन्त्रणजागरूका कामाक्षि चञ्चलगञ्चलमेखला ते । आश्चर्यमम्ब भजतां झटिति स्वकीय- संपर्क एव विधुनोति समस्तवन्धान् ।। १७॥ .

कटाक्षशतकम्। कुण्ठीकरोतु विपदं मम कुञ्चितचू. चापाश्चितः श्रितविदेहभवानुरागः । रक्षोपकारमनिशं जनयञ्जगत्यां कामाक्षि राम इव ते करुणाकटाक्षः ॥ १८ ॥ श्रीकामकोटि शिवलोचनशोषितस्य शृङ्गारवीजविभवस्य पुनः प्ररोहे । प्रेमाम्भसामचिरात्प्रचुरेण शङ्के केदारमम्ब तब के लष्टिपातम् ॥ १९ ॥ माहात्म्यशेवधिरमौ तब दुविलय- संसारविष्यगिरिकुण्ठन केलिचुचुः । धैर्याम्बुधि पशुपतेश्चुलकीकरोति काभाक्षि वीक्षणविजृम्भणशुम्भजन्मा ॥ २० ॥ पीयूपवर्षशिशिग स्फुटदुत्पलश्री- मैत्री निसर्गमधुग कृततारकाप्तिः । कामाक्षि संश्रितवती वपुष्टमूर्ते- ज्योत्स्नायते भगवति त्वदपाङ्गमाला ॥ २१ ॥ अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञ- मम्भोजकाननमिवाश्चितकण्टकामम् ।

मूकपश्चशल्यां
भृङ्गीव चुम्बति सदैव सपक्षपाता
कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥ २२ ॥
केशप्रभापटलनीलवितानजाले
कामाक्षि कुण्डलमणिच्छविदीपशोभे ।
कने कटाक्षरुचिरङ्गतले कृपाख्या
शैलूषकी नटति शङ्करवल्लभे ते ॥ २३ ॥
अत्यन्तशीतलमतन्द्रयतु क्षणार्थ-
मस्तोकविभ्रममनङ्गविलासकन्दम् ।
अल्पस्मिताहतमपारकृपाप्रवाह-
मक्षिप्ररोहमचिरान्मयि कामकोटि ॥ २४ ॥
मन्दाक्षरागतरलीकृतिपारतन्त्र्या-
कामाक्षि मन्थातगं त्वदपाङ्गदोलाम् ।
आरुह्य मन्दमतिकौतुकशालि चक्षु-
रानन्दमेति मुहुरधशशाङ्कमौलेः ।। २५ ॥
यम्बकं त्रिपुरसुन्दरि हHभूमि-
रङ्ग विहारसरसी करुणाप्रवाहः ।
दासाश्च वासवमुखाः परिपालनीयं
कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥ २६ ॥

कटाक्षशतकम् । वागीश्वरी सहचरी नियमेन लक्ष्मी- भ्रूवल्लरीवशकरी भुवनानि गेहम् । रूपं त्रिलोकनयनामृतमम्ब तेषां कामाक्षि येषु तव वीक्षणपारतन्त्री ॥२७॥ माहेश्वरं झटिति मानसमीनमम्म कामाक्षि धैर्यजलधौ नितरां निममम् । जालेन शृङ्खलयति त्वदपाङ्गनाम्ना विस्तारितेन विषमायुधदाशकोऽसौ ॥ २८॥ उन्मथ्य बोधकमलाकरमम्ब जाड्य- स्तम्बेरमं मम मनोविपिने भ्रमन्तम् । कुण्ठीकुरुष्व तरसा कुटिलाग्रसीना कामाक्षि तावककटाक्षमहाङ्कुशेन ॥ २९ ॥ उद्वेल्लितस्तब कितैललितविलास- रुत्थाय देवि तव गाढकटाक्षकुञ्जात् । दूरं पलाययतु मोहमृगीकुलं मे कामाक्षि सत्वरमनुग्रहकेसरीन्द्रः ॥ ३० ॥ स्नेहादृतां विदलितोत्पलकान्तिचोरां जैतारमेव जगदीश्वरि जेतुकामः।

मूकपश्चशत्यां मानोद्धतो मकरकेतुरसौ धुनीते कामाक्षि तावककटाक्षकृपाणवल्लीम् ।। ३१ ॥ श्रौती व्रजन्नपि सदा सरणि मुनीनां कामाक्षि सन्ततमपि स्मृतिमागंगामी । कौटिल्यमम्ब कथम स्थिरतां च धत्ते चौयं च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२ ॥ नित्यं श्रुतेः परिचितौ यतमानमेव नीलोत्पलं निजसमीपनिवासलोलम् । प्रीत्यैव पाठयति वीक्षणदेशिकेन्द्रः कामाक्षि किं नु तव कालिमसंप्रदायम् ॥ ३३ ॥ भ्रान्त्वा मुहुः स्तबकितस्मितफेनराशी कामाक्षि वक्त्ररुचिसंचयवारिराशौ। आनन्दति लिपुरमर्दननेत्र लक्ष्मी- रालम्ब्य देवि तव मन्दमपाङ्गसेतुम् ॥ ३४ ॥ श्यामा तव त्रिपुरसुन्दरि लोचनश्री: कामाक्षि कन्दलितमेदुरतारकान्तिः । ज्योत्स्नावती स्मितरुचापि कथं तनोति स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥३५ ।।

कटाक्षशतकम्। कालाञ्जनं च तव देवि निरीक्षणं च कामाक्षि साम्बपरणि समुपैति कान्त्या । निःशेषनेत्रसुलभं जगतीषु पूर्व- मन्यत्रिनेत्रसुलभ तुहिनाद्रिकन्ये ।। ३६ ।। धूमाकुरो मकरकेतनपावकस्य कामाक्षि नेत्ररुचिनीलिमचातुरी ते । अत्यन्तमद्भुतमिदं नयनत्रयस्य हर्षोदयं जनयते हरिणाङ्कमौले ॥३७ ।। . आरम्भलेशसमये तव वीक्षणस्य कामाक्षि मूकमपि वीक्षणमात्रनम्रम् । सर्वज्ञता सकललोकसमक्षमेव कीर्तिः स्वयंवरणमाल्यवती वृणीते ॥३४॥ कालाम्बुवाह इव ते परितापहारी कामाक्षि पुष्करमधः कुरुते कटाक्षः । पूर्वः परं क्षणरुचा समुपैति मैत्री- मन्यस्तु सन्ततरुचि प्रकटीकरोति ॥ ३९ ॥ सक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद- साहाय्यकेन विचरन्नपवर्गमागें।

मूकपश्वशत्यां
संसारपनिचये न पतत्यमुं ते
कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ॥ ४० ॥
कामाक्षि संततमसौ हरिनीलरत्न-
स्तम्मे कटाक्षरुचिपुञ्जमये भवत्याः ।
बद्धोऽपि भक्तिनिगलैर्मम चित्तहस्ती
स्तम्भं च बन्धमपि मुञ्जति हन्त चित्रम् ।। ४१ ।।
कामाक्षि कार्यमपि संततमञ्जनं च
विभ्रनिसर्गतरलोऽपि भवत्कटाक्षः।
बैमल्यमन्वहमनञ्जनतां च भूयः
स्थैर्य च भक्तहृदयाय कथं ददाति ॥ ४२ ॥
मन्दस्मितस्तबकितं मणिकुण्डलांशु-
स्तोमप्रवालरुचिरं शिशिरीकृताशम् ।
कामाक्षि राजति कटाक्षरुचेः कदम्ब-
मुधानमम्ब करुणाहरिणेक्षणायाः॥४३॥
कामाक्षि तावककटाक्षमहेन्द्रनील-
सिंहासनं श्रितवतो मकरध्वजस्य ।
-साम्राज्यमङ्गलविधौ मणिकुण्डलश्री-
नीराजनोत्सवतरङ्गितदीपमाला ॥४४॥

कटाक्षशतकम्। मातः क्षणं मपय मां तव वीक्षितेन मन्दाक्षितेन सुजनैरपरोक्षितेन । कामाक्षि कर्मतिमिरोत्करभास्करण श्रेयस्करेण मधुरद्युतितस्करेण ॥ ४५ ॥ प्रेमापगापयसि मजनमारचय्य युक्तः स्मितांशुकृतभसारिलेपनेन । कामाक्षि कुण्डलमणिद्युतिमिर्जटाल: श्रीक'ठमेव भजते तव दृष्टिपातः ॥ ४६॥ का कैवल्यदाय करुणारसकिंकाय कामाक्षि कन्दलितविभ्रमशंकराय । आलोकनाय तव भक्तशिवकराय मातर्नमोऽस्तु परतन्त्रितशंकराय ॥४७॥ साम्राज्यमङ्गलविधौ मकरध्वजस्य लोलालकालिकृततोरणमाल्यशोभे । कामेश्वरि प्रचलदुत्पलवैजयन्ती- चातुर्यमेति तव चश्चलदृष्टिपाता ॥४८॥ । मार्गेण मञ्जुकचकान्तितमोवृतेन मन्दायमानगमना मदनातुरासौ । 6

मूकपञ्चशत्या
कामाक्षि दृष्टिरयते तव शंकराय
संकेतभूमिमचिरादभिसारिकेत्र ॥ ४९।।
ब्रीडानुवृत्तिरमणीकृनसाहचर्या
शैवालितां गलरुचा शशिशेखरस्य ।
कामाक्षि कान्तिसरसीं त्वदपाङ्गलक्ष्मी-
मन्दं समाश्रयति मजनखेलनाय ।। ५० ॥
कापायमंशुकमिव प्रकटं दधानो
माणिक्यकुण्डलरुचि ममताविरोधी।
श्रुत्यन्तसीमनि रतः सुतरां चकास्ति
कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥ ५१।।
पाषाण एव हरिनीलमणिर्दिनेषु
प्रम्लानतां कुवलयं प्रकटीकरोति ।
नैमित्तिको जलदमेचकिमा ततस्ते
कामाक्षि शून्यमुपमानमपाङ्गलक्ष्म्याः ॥ ५२ ।।
भृङ्गारविभ्रमवती सुतरां सलज्जा
नासाग्रमौक्तिकरचा कृतमन्दहासा ।
श्यामा कटाक्षसुषमा तव युक्तमेत-
स्कामाक्षि चुम्मति दिगम्बरवक्त्र विचम् ॥५३॥

कटाक्षशतकम् । नीलोत्पलेन मधुपेन च दृष्टिपाता कामाक्षि तुन्य इति ते कथमामनन्ति । शैत्येन निन्दति यदन्वहमिन्दुपादा- पाथोरहेण यदसो कलहायते च ॥५१॥ मोष्ठप्रभाषटलविदुभमुद्रिते ते भ्रालिचीचिसुभगे मुखकान्तिसिन्धौ। कामाधि वारिभर पुरणलम्बमान- कालाम्मुवाहसणि लभते कटाक्षः ॥५५॥ मन्दस्मितैर्धवलिता मणिकुण्डलांशु- संपर्कलोहिनरुचिस्त्वदपाङ्गधारा । कामाक्षि महिलासुमनवपल्लवैश्च नीलोत्पलश्च रचितेव विभाति माला ॥ ५६ ॥ कामाक्षि शीतलकपारसनिझराम्भः. संपर्कपक्षमलरुचिमत्वदपाङ्गमाला । गोभिः सदा पुरिपोरमिलप्यमाणा किदम्बकविडम्बनमातनोति ॥ ५७॥ इत्पङ्कजं मम विकामयतु प्रमुष्ण- न्नुलासमुत्पलरुचेस्वमसा निरोदा ।

मूकपश्चशत्यां
दोपानुपङ्गजडतां जगतां धुनानः
कामाक्षि वीक्षणविलासदिनोदयस्ते ।। ५८ ।।
चक्षुर्विमोहयति चन्द्रविभूषणम्य
कामाक्षि तावककटाक्षतमःप्ररोहः ।
प्रत्यङ्मुखं तु नयन स्तिमितं मुनीनां
प्राकाश्यमेव नयतीति परं विचित्रम् ।। ५९ ॥
कामाक्षि वीक्षणरुचा युधि निर्जितं ते
नीलोत्पलं निरवशेषगताभिमानम् ।
आगत्य तत्परिसरं श्रवणावतंस-
व्याजेन नुनमभयार्थनमातनोति ।। ६० ।।
आश्चर्य मम्ब मदनाभ्यु ट्यावलम्बः
कामाक्षि चश्चलनिरीक्षणविभ्रमस्ते ।
धैर्य विध्य तनुते हदि शगवन्धं
शम्भोस्तदेव विपरीस्तया मुनीनाम् ॥ ६१॥
जन्तोः सकृत्प्रणमतो जगदीड्यां च
तेजस्वितां च निशितां च मति सभायाम् ।
कामाक्षि माक्षिकझरीमिव वैखरी च
लक्ष्मी च पक्षालयति क्षणवीक्षणं ते ॥१२॥

कटाक्षशतकम्। कादम्बिनी किमयते न जलानुषङ्गं भृङ्गावली किमुरीकुरुते न पद्मम् । किंवा कलिन्दतनया सहते न भङ्गं कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः॥३॥ काकोलपावकवृणीकरणेऽपि दक्षः कामाक्षि बालकसुधाकरशेखरस्य । अत्यन्तशीतलतमोऽप्यनुपारतं ते चित्तं विमोहयति चित्रमयं कटाक्षः ॥ ६४ ॥ कार्पण्यपूरपरिवर्धितमम्ब मोह- कन्दोद्गतं भव मयं विषपादपं मे । तकं छिनत्तु तुहिनाद्रिसुते भवत्याः काञ्चीपुरेश्वरि कटाक्षठारधारा ।। ६५ ॥ कामाक्षि घोरभवरोगचिकित्सनार्थ- मम्यर्थ्य देशिककटाक्षभिपक्प्रसादात् । तत्रापि देवि लभते सुकृती कदाचि- दत्यन्त दुभमपाङ्गमहोषधं ते ॥ ६६ ।। कामाक्षि देशिककृपांकुरमाश्रयन्तो नानातपोनियमनाशिताशवन्धाः।

मूकपश्चशत्यां
वासालयं तच कटाक्षममुं महान्तो
लब्ध्वा सुखं समधियो विचरन्ति लोके ॥१७॥
साकूतसंलपितगर्भितमुग्धहासं
बीडानुरागसहचारि विलोकनं ते ।
कामाक्षि कामपरिपन्थिनि माग्वीर-
साम्राज्यविभ्रमदशा सफली करे ति ।। ६८ ॥
कामाक्षि विभ्रमवलैकनिधिविधाय
भ्रूवाल्लिचापकुटिलीकृतिमेव चित्रम् ।
स्वाधीनता तब निनाय शशाङ्कमौले-
रङ्गाधराज्यसुखलाममपाङ्गवीरः ॥ ६९ ॥
कामांकुरैकनिलयस्तव दृष्टिपातः
कामाक्षि भक्तमनमां प्रददाति कामान् ।
रागान्वितः स्वयमपि प्रकटीकरोति
वैराग्यमेव कथमेष महामुनीनाम् ॥ ७० ॥
कालाम्बुवाहनिवहैः कलहायते ते
कामाधि कालिममदेन सदा कटाक्षः।
चित्रं तथापि नितराममुमेव दृष्ट्रा
सोत्कण्ठ एक रमते किल नीलकण्ठः ॥ ७॥

कटाक्षशतकम्। कामाक्षि मन्मथरिपुं प्रति मारताप- मोहान्धकारजलदागमनेन नृत्यन् । दुष्कर्मकन्चुकिलं कालीकरोतु व्यामिश्रमे चकरुचिस्त्वदपाङ्गकेकी ॥ ७२ ॥ कामाक्षि मन्मथरिपोरवलोकनेषु कान्तं पयोजमिव तावकमक्षिपातम् । प्रेमागमो दिवसवद्विकचीकरोति लज्जाभरो रजनिवन्मुकुलीकरोति ।। ७३॥ भूको विरिश्चति परं पुरुषः कुरूपः कंदर्पति त्रिदशगजति किंवानः । कामाक्षि केवलमुपक्रमकाल एव लीलातरङ्गितकटाक्षरुचः क्षणं ते ॥ ७४॥ -नीलालका मधुकरन्ति मनोज्ञनासा- मुकारुचा प्रकटरूढबिसाकुरन्ति । कारुण्यमम्ब मकरन्दति कामकोटि मन्ये ततः कमलमेव विलोचनं ते ॥ ७५॥ आकाक्ष्यमाणफलदानविचक्षणायाः कामाथि तावककटाक्षककामधेनो।

मूकपश्चशत्यां संपर्क एव कथमम्ब विमुक्तपाश- बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥ ७६ ॥ संसारधर्मपरितापजुषां नराणां कामाक्षि शीतलतराणि तवेक्षितानि । चन्द्रातपन्ति घनचन्दनकर्दमन्ति मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥ ७७ 18. प्रेमाम्बुराशिसततस्त्रपितानि चित्रं कामाक्षि तावककटाक्षनिरीक्षणानि । संधुक्षयन्ति मुहुरिन्धनराशिरीत्या मारद्रुहो मनसि मन्मथचित्रभानुम् ॥ ७४ ।। कालाअनप्रतिमटं कमनीयकान्त्या कन्दर्पतन्त्रकलया कलितानुभावम् काञ्चीविहाररसिके कलुपातिचोरं कल्लोलयस्व मयि ते करुणाकटाक्षम् ।। ७९ ॥ क्रान्तेन मन्मथमदेन विमह्यमान- स्वान्तेन चूततरुमूलगतस्य पुंसः । कान्तेन किंचिदवलोकय लोचनस्य प्रान्तेन मां जननि काश्चिपुरीविभूषे ।। ८० फटादाशतकम्। कामाक्षि केऽपि सुजनास्त्वदपाङ्गसंगे कण्ठेन कन्दलितकालिमसंप्रदायाः। उत्तंसकल्पितचकोरकुटुम्बपोषा नक्तंदिवप्रसवभूनयना भवन्ति ।। ८१ ।। नीलोत्पलप्रसवकान्तिनिदर्शनेन कारुण्यविभ्रमजुमा तव वीक्षणेन । कामाक्षि कर्मजलधेः कलशीसुतेन पाशत्रयाद्वयममी परिमोचनीयाः ॥ ८२ ॥ अत्यन्तचञ्चलमकृत्रिममञ्जनं कि झङ्कारभङ्गिरहिता किमु भृङ्गमाला । धूमांकुरः किमु हुताशनसंगहीनः कामाक्षि नेत्ररुचिनीलिमकन्दली ते ।। ८३ ॥ कामाक्षि नित्यम यमञ्जलिरस्तु मुक्ति- बीजाय विभ्रममदोदयघूर्णिताय । कन्दर्पदर्पपुनरुद्भवसिद्धिदाय कल्याणदाय तव देवि दृगञ्चलाय ॥ ८१ ।। दपांकुरो मकरकेतनविभ्रमाणां निन्दांकुरो विदलितोत्पलचातुरीणाम् ।

मूकपश्चशत्यां
दीपांकुरो भवतमिस्रकदम्बकानां
कामाक्षि पालयतु मां त्वदपाङ्गपातः ॥ ८५॥
कैवल्यदिव्यमणिरोहणपर्वतेभ्यः
कारुण्यनिर्झरपयः कृतमजनेभ्यः ।
कामाक्षि किंकरितशंकरमानसेभ्य-
स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥ ८६ ॥
अल्पीय एव नवमुत्पलमम्ब हीना
मीनस्य वा सरणिरम्बुरुहां च किं वा ।
दरे मृगीगसमञ्जसमञ्जनं च
कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥ ८७ ॥
मिश्रीभवद्गग्लपडिलांकरोग:-
सीमाङ्गणे किमपि रिक्षणमादधानः ।
हेलावधूतललितश्रवणोत्पलोऽसौ
कामाथि बाल इव राजति ते कटाक्षः ॥ ८८ ॥
प्रौढीकरोति विदुषां नवसूक्तिधाटी-
चूताटवीषु बुधकोकिललाल्यमानम् ।
माध्वीरसं परिमलं च निरर्गलं ते
कामाथि वीक्षणविलासवसन्तलक्ष्मीः॥ ८९ ॥

कटाक्षशतकम् । कलंकषं वितनुते करुणाम्बुवर्षी सारस्वतं सुकृतिनः सुलभं प्रवाहम् । तुच्छीकरोति यमुनाम्बुतरङ्गभङ्गी कामाक्षि किं तव कटाक्षनहाम्बुवाहः ।। ९०॥ जागर्ति देवि करुणाशुकसुन्दरी ते ताटङ्करत्नरुचिदाडिपखण्डशोणे । -कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज- माहेन्द्रनीलमणि ञ्ज मध्यभागे ॥ ११ ॥ कामाक्षि सकुवलयस्य सगोत्रभावा- दाक्रामति श्रुतिमसौ तब दृष्टिपातः । किं च स्फुटं कुटिलनां प्रकटीकराति भ्रूवल्लीपारचितस्य फलं किमेत् ।। ९२ ।। एषा तवाक्षि पुपमा विषमायुवस्य नाराचवर्षलहरी नगराजकन्ये । सङ्के करोति शतधा हदि धैर्यमुद्रा श्रीकामकोटि यदसो शिशिरांशुभौलेः ॥ १३ ॥ R बाणेन पुष्पधनुषः परिकल्प्यमान- तापेन भक्तमनसां करुणाकरेण ।

मूकपञ्चशत्यां कोणेन कोमलशस्तव कामकोटि शोणेन शोषय शिवे मम शोकसिन्धुम् ॥ ९४ ॥ मारगुहा मुकुटसीमनि लाल्यमाने मन्दाकिनीपयसि ते कुटिलं चरिष्णुः । कामाक्षि कोपरमसाइलमानमीन- सन्देहमङ्कुरयति क्षणमक्षिपातः ॥९५ ॥ कामाक्षि संवलितमौक्तिककुण्डलांशु- चञ्चत्सितश्रवणचामरचातुरीकः । स्तम्मे निरन्तरमपाङ्गमये भवत्या बद्धश्चकास्ति मकरध्वजमत्तहस्ती ॥ ९६ ।। यावत्कटाक्षरजनीसमयागमस्ते कामाक्षि तावदचिरान्नमत नराणाम् । आविर्भवत्यमृतदीधितिविम्बमम्ब संविन्मयं हृदयपूर्वगिरीन्द्रशृङ्गे ॥ ९७ ॥ कामाक्षि कल्पविटपीव भवत्कटाक्षो दित्सुः समस्तविभवं नमतां नराणाम् । भृङ्गस्य नीलनिलयस च कान्तिसंप- सर्वखमेव हरतीति परं विचित्रम् ।। ९८॥

कटाक्षशतकम्। अज्ञातभक्तिरसमप्रसरद्विवेक- मत्यन्तगर्वमनधीतसमस्तशास्त्रम् । मप्राप्तसत्यमसमीपगतं च मुक्तेः कामाक्षि नैव तव कांक्षति दृष्टिपातः ॥ ९९ ।। “अत्यन्तशीतलमनगलकर्मपाक- काकोलहारि सुलभं सुमनोमिरेतत् । पीयूपमेव तव वीक्षणमम्ब किंतु कामाक्षि नीलमिदमित्ययमेव भेदः ॥ १० ॥ पातेन लोचनरुचेस्तव कामकोटि पोतेन पातकपयोधिभयातुराणाम् । प्तेन तेन नवकाननकुण्डलांशु- वीदेन शीतलय भूधरकन्यके माम् ॥ १०१ ॥ इति कटाक्षशतकं संपूर्णम् ॥

॥ मन्दस्मितशतकम् ॥
>Kexe
अधीमो वयमञ्जलिं प्रतिदिनं बन्धच्छिदे देहिनां
कन्दर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे ।
कामाक्ष्या घनसारपुञ्जरजसे कामदुश्चक्षुर्ण
मन्दारस्तवकप्रभामदमुपे मन्दस्मितज्योतिषे ॥१॥
सधीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे.
राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विषे ।
स्वर्धन्या सह युचने हिमरुचेरासनाध्यासिने
कामाक्ष्याः स्मितमञ्जरीधवलिमाद्वैताय तस्मै नमः॥
करद्युतिचातुरीमतितरामल्पीयसी कुर्वती
दौर्भाग्योदयमेव संविदधती दोषाकरीणां त्विषाम् ।
भुल्लानेव मनोझमल्लिनिकरान्फुल्लानपि व्यञ्जती
कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसूरस्तु मे ॥ ३॥
का पीनस्तनमण्डलोपरि लसत्कर्परलेपायते
या नीलेक्षणरात्रिकान्तिततिषु ज्योत्स्खापरोहायते।
का सौन्दर्यधुनीतरङ्गततिषु ब्यालोलहंसायते
कामाक्ष्याः शिशिरीकरोतु हृदयं सा ये स्मितमाचुरी ॥४॥

मन्दस्मितशतकम् । Papple देषां गच्छति पूर्वपक्षसरणि कौमुद्वतः श्वेतिमा येषां संततमारुरुक्षति तुलाकक्ष्यां शरचन्द्रमाः। येषामिच्छति कम्बुरप्यसुलभामन्तेवसत्प्रक्रियां कामाक्ष्या ममता इरन्तु मम ते हासत्विषामकुराः ॥५॥ माशासीमसु संततं विदधती नैशाकरी व्याक्रियां काशानामभिमानभङ्गकलनाकौशल्यमाबिभ्रती। ईशानेन विलोकिता सकृतकं कामाक्षि ते कल्मष- केशापायकरी चकास्ति लहरी मन्दस्मितज्योतिषाम् ॥ ६॥ बास्ढस्य समुन्नतस्तनतटीसाम्राज्यसिहासनं कन्दर्पस्य विभोर्जगत्त्रयजय प्राकट्यमुद्रानिधेः। यस्याचामरचातुरी कलयते रश्मिच्छटा चश्चला सा मन्दस्मितमञ्जरी भवतु नः कामाय कामाक्षि ते ॥ ७॥ शम्भोर्या परिरम्भसंभ्रमविधौ नर्मल्यसीमानिधि- गैर्वाणीव तरङ्गिणी कृतमृदुस्यन्दां कलिन्दात्मजाम् । करमापीकुरुते कलकसुषमा कण्ठस्थलीचुम्बिनीं कामाक्ष्याः स्मितकन्दली भवतु सा कल्याणसंदोहिनी ॥८॥ बेतुं हारलतामिव स्तनतटीं संजग्मुसी संततं गन्तुं निर्मलतामिव द्विगुणिता ममा कमस्रोतसि ।

मूकपश्चशयां
1.
लन्धुं विस्मयनीयतामिव हरं रागाकुलं कुर्वती
मञ्जुस्ते स्मितमञ्जरी भवभयं मनातु कामाक्षि मे ॥९॥
श्रेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती
शीतापि स्मरपावकं पशुपतेः संधुक्षयन्ती सदा ।
स्वाभाव्यादधराश्रितापि नमतामुचर्दिशन्ती गति
कामाक्षि स्फुटमन्तरा स्फुरतु नस्त्वन्मन्दहासप्रभा ॥१०॥
.
बक्तश्री परसीजले तरलितभूल्लिकल्लोलिते
कालिम्ना दधती कटाक्षजनुषा माधुवतीं व्यापृतिम् ।
निर्निद्रामाण्डरीकाहनापाण्डित्यपाबिभ्रती
कामाक्ष्याः स्मितचातुरी मम मनःकातर्यमुन्मूलयेत् ॥ ११ ॥
नित्यं बाधिनयन्धुजीवमधरं मैत्रीजु पल्लवैः
शुद्धस्स द्विजमण्डलस्य च तिरस्कारमप्याश्रिता ।
या वैमन्यवती सदैव नमतां चेतः पुनीतेतरां
कामाक्षा हृदयं प्रसादयतु मे सा मन्दहासप्रभा ॥१२॥
दुयन्ती तमसे मुहुः कुमुदिनीसाहाय्यमाविभ्रती
यान्ती चन्द्रकिशोरशेखरवपुःमौध ङ्गणे प्रेङ्क्षणम्
ज्ञानाम्भोनिधित्रीचिका सुमनसां कूलंकषां कुर्वती
कामापाः स्मितकौमुदी हरतु मे संपारतापोदयम् ॥१३॥

मन्दस्मितशतकम् । काश्मीरद्रवधातुकर्दमरुचा कल्माषतां बिभ्रती इंसौधै रेव कुती परिचितिं हारी कतैनौंक्तिकः । वक्षोजन्मतुषारशैलकटके संचारमातन्वती कामाक्ष्या मृदुल मतधु नेपयी भागीरथी भासते ॥१४॥ कम्बोवंशपरम्परा इत्र कृपासंतानवल्लीभुवः संफुलत्तयका इव प्रमृमरा मूर्नाः प्रसादा इव । बाक्पीयूकणा इव त्रिपथगापर्यायभेदा इव भ्राजन्ते तब मन्द हातकिरणाः काञ्चीपुरीनायिके ॥ १५॥ बमोजे घनमारपत्ररचनामङ्गीलपत्नायिता कण्ठे मौ.क्तकहारयष्टिकिरणव्यापारमुद्रायिता । ओष्ठश्रीनिकुरुम्बपल्लापुटे प्रेकप्रसूनायिता कामाक्षि स्फुरता मदीपहृदये त्वन्मन्दहास प्रभा ॥ १६ ॥ शेषां बिदुरियोपरि प्रचलितो नासाग्रमुकामणि- येषां दीन शाधिकष्ठ रयते हरः करालम्बनम् । येषां बन्धुरिवोष्ठयोररुणिना धत्ते स्वयं रञ्जनं कामाक्ष्याः अभवन्तु ते मम शिशोल्लासाय हासांकुराः ॥ या जाड्याम्बुनिधि क्षिणोति भजतां वैरायते कैरवै- नित्यं या नियमेन या च यतते कतुं त्रिनेत्रोत्सवम् । M7 .....

मूकपश्चशल्या
विम्ब चान्द्रमसं च वश्चयति या गर्वेण सा तादृशी
कामाक्षि स्मितमञ्जरी तव कथं ज्योत्स्नेत्यसौ कीयो ।
आरूढा रमसात्पुरः पुररिपोरा इलेपणोपक्रमे
या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम् ।।
ओष्ठं वेपयति ध्रुवो कुटिलयत्यानम्रयत्याननं
तां वन्दे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥ १९ ॥
वक्त्रेन्दोस्तव चन्द्रिका स्मितरुचिर्वन्गु स्फुरन्ती सतां
स्याचेद्युक्तमिदं चकोरमनसां कामाक्षि कौतुहलम् ।
एतचित्रमहर्निशं यदधिकामेषा रुचि गाहते
बिम्बोष्ठधुमणिप्रभास्वपि च यद्विब्बोकमालम्बते ।। २०॥
सादृश्यं कलशाम्बुधर्वहति ते कामाक्षि मन्दस्मितं
शोभामोष्ठरुचा च विदुमभवामेतद्भिदा बमहे ।
एकस्मादुदितं पुरा किल पपौ शर्वः पुगणः पुमा-
नेतन्मध्यसमुद्भवं रसयते माधुर्यरूपं रसम् ॥ २१ ॥
उत्तुङ्ग स्तनकुम्भशैलकटके विस्तारिकस्तूरिका-
पत्नश्रीजुषि चञ्चलाः स्मितरुचः कामाक्षि ते कोमला,
संध्यादीधितिरञ्जिता इव मुहुः सान्द्राधरज्योतिषा
भ्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥ २२॥

मन्दस्मितशतकम् । श्रीरं दूरत एव तिष्ठतु कथं वैमल्यमात्रादिदं मातस्ते सहपाठवीथिमयतां मन्दस्मितैर्मजुलैः । कि चेयं तु भिदास्ति दोहनवशादेकं तु संजायते कामाक्ष स्वयमर्थितं प्रणमतामेतत्तु दोदुयते ॥ २३ ॥ करैरमृतैर्जगजननि ते कान्तश्च चन्द्रातपै- मुंक्ताहारगुणैर्मुगालवलयैर्मुग्धस्मितश्रीरियम् । श्रीकाश्चीपुरनायिके समतया संस्तूयते सजने- स्तसादृङ्मम तापशान्तिविधये कि देवि मन्दायते ॥२४॥ मध्ये गर्मितमजुवाक्यलहरीमाध्वीझरीशीतला मन्दारस्तबकायते जननि ते मन्दस्मितांशुच्छटा। वस्था वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो बन्गुर्वी क्षणविभ्रमव्यतिकरो वासन्तमासायते ॥ २५॥ बिम्बोष्टद्युतिपुञ्जरञ्चितरुचिस्त्वन्मन्दहासच्छटा कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे। कुल्लन्मल्लिपिनद्धहल्लकमयीं मालेव या पेशला श्रीकाश्चीश्वरि मारमर्दितुरुरोमध्ये मुडुलम्बते ॥ २६ ।। विभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसो कामाक्षि स्मितमञ्जरी किरति ते कारुण्यधारारसम् ।

ܘܘܕ मूकपञ्चशत्या बाश्चयं शिशिरीकरोति जगतीमालोक्य चैनामहो कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम् ॥ २७ ॥ प्रेङ्खप्रौढकटाक्षकुञ्जकुइरेष्वत्यच्छगुरुछायितं . वक्वेन्दुच्छविसिन्धुवीचिनिचये फेनप्रतानायितम् । नैरन्तय विजृम्भितस्तनतटे नैचोलपट्टा यित कामाष काली करोतु मम ते कानाक्षि मन्दस्मिाम् ॥२८॥ पीयू तब मन्थरस्मितमिति व्यथैव सापप्रथा कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे । मन्दारस्य कयाल न सहते मथ्नाति मन्दाकिनी- मिन्दु निन्दति कीर्तितेऽपि कलशीपाथोधिमीया॑यते ॥ विश्वेषां नयनोत्सव वितनुतां विद्योततां चन्द्रमा विख्यातो मदनान्तकेन मुकुटीमध्येन संमान्यताम् । आः किं जातमनेन हाससुषमामालोक्य कानाक्षि ते कालङ्कोमबलम्बते खलु दशां कल्लापहानोऽन्यसौ ॥ ३० ॥ चेतः शीतलपन्तु नः पशुपतेरानन्दजीवातवो नम्राणां नयनाध्वसीमसु शरचन्द्रातपोपक्रमाः। संसारख्यसरे रुहाकरखलीकारे तुमारोत्कराः कामाक्षि स्मरकीर्तिवीजनिकरास्त्वन्मन्दहासांकुराः ॥३१ ।।

मन्दस्मितशतकम् । १.१ कौघाख्यतमाकचाकचिकरान्कामाक्षि संचिन्तये त्वन्मन्दस्मितरोचिपां त्रिभुवनक्षेमङ्करानरान् । ये वक्त्रं शिशिरश्रियो विकसितं चन्द्रातपाम्भोरुह द्वेषोद्घोषण चातुरीमिव तिरस्कतुं परिष्कुर्वते ॥ ३२॥ कुर्युनः कुलशैलराजतनये कूलंकष मङ्गलं कुन्दसाधनचुश्चवस्त्रव शिवे मन्दस्मितप्रक्रमाः । ये कामाक्षि समस्तसाक्षिनयनं संतोषयन्तीश्वरं कर्पूरप्रकरा इन प्रसृभराः पुंसामसाधारणाः ॥ ३३ ॥ कमेण रूपयस्व कर्मकुहनाचोरेग मारागम- व्याख्याशिक्षणदीक्षिन विदुप मक्षीणलक्ष्मीपुता। कामाक्षि स्मितकन्दलेन कलुपस्फोटक्रियाचुञ्चुना कारुपामृतीचिकाविहरणार्यधुर्येण माम् ॥ ३४॥ स्वन्मन्दस्मिकन्दलस्य नियनं कामाक्षि शङ्कामहे बिम्बः कश्चन नूतनः प्रचलितो नशाकरः शीकरः। किं च क्षीरपयोनिधिः प्रतिनिधिः स्वर्वाहिनीवीचिका- बिब्बोकोऽपि विडम्ब एव कुहना मल्लीमतल्लीरुचः ॥ ३५॥ दुष्कर्माकनिमर्गकर्कशमहासंपर्कतप्त मिल- त्पy शंकरवल्लमे मम मनः काञ्चीपुरालंक्रिये।

१०२
मूकपश्चशत्यां
अम्ब त्वन्मृदुलस्मितामृतरसे मफत्वा विधूय व्यथा-
मानन्दोदयसौधशृङ्गपदवीमारोढुमाकाङ्क्षति ॥ ३६ ॥
नम्राणां नगराजशेखरसुते नाकालयानां पुरः
कामाक्षि त्वरया विपत्प्रशमने कारुण्यधाराः किरन् ।
आगच्छन्तमनुग्रहं प्रकटयन्नानन्दबीजानि ते
नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥ ३७॥
कामाक्षि प्रथमानविभ्रमनिधिः कन्दर्पदपप्रसू.
मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्विषम् ।
यं द्रष्टुं विहिते करग्रह उमे शंभुत्रपामीलितं
स्मेरं कारयति स्म ताण्डवविनोदानन्दिना तण्डुना ॥३८॥
क्षुण्णं केनचिदेव धीरमनसा कुत्रापि नानाजनः
कर्मग्रन्थिनियन्त्रितैरसुगमं कामाक्षि सामान्यतः ।
मुग्धैर्द्रष्टुमशक्यमेव मनसा मूढस्य मे मौक्तिकं
मार्ग दर्शयतु प्रदीप इव ते मन्दस्मित श्रीरियम् ॥ ३९ ॥
ज्योत्स्नाकान्तिभिरेव निर्मलतरं नैशाकरं मण्डलं
हंसैरेव शरद्विलाससमये व्याकोचमम्मोरुहम् ।
स्वच्छैरेव विकस्वरैरुडुगणैः कामाक्षि बिम्ब दिवः
पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम् ॥ ४० ॥

मन्दस्मितशतकम् । १२ मानग्रन्थिविधुतुदेन रभसादास्वाद्यमाने नव- प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् । आलोक्य स्मितचन्द्रिका मुहुरिमामुन्मीलनं जग्मुषीं चेतः शीलयते चकोरचरितं चन्द्रार्धचूडामणेः ॥४१॥ कामाक्षि स्मितमञ्जरी तब भजे यस्यास्त्विषामकुरा- नापीनस्तनपानलालसतया निःशङ्कमङ्केशयः । ऊर्व वीक्ष्य विकर्षति प्रसृमरानुदामया शुण्डया सूनुस्ते विमशङ्कयाशु कुहनादन्तावलग्रामणीः॥४२॥ माढाश्लेषविमर्दसंभ्रमवशादुद्दाममुक्तागुण- प्रालम्बे कुचकुम्भयोर्विगलिते दक्षद्विषो वक्षसि । या सख्येन पिनाति प्रचुरया भासा तदीयां दशां सा मे खेलतु कामकोटि हृदये स्वच्छा स्मितांशुच्छटा । भन्दारे तव मन्थरस्मितरुचो मात्सर्यमालोक्यते कामाक्षि स्मरशासने च नियतं रागोदयो लक्ष्यते । सान्द्रीषु द्युतिमञ्जरीषु च महान्द्वेषाङ्कुरो दृश्यते शुद्धानां कथमीदृशी गिरिसुतेऽशुद्धा दशा कथ्यताम् ॥४४॥ पीयूषं खलु पीयते सुरजनैर्दुग्धाम्बुधिर्मथ्यते साद्देशैश्च जटाकलापनिगडैर्मन्दाकिनी नह्यते । t मूकपञ्चशत्या शीतांशुः परिभ्यते च तमसा तस्मादनेतादृशी कामाक्षि स्मितमञ्जरी तव वचोवैदग्ध्यमुल्लचन्ते ॥ ४५ ॥ आशङ्के तव मन्दहासलहरीमन्यादृशीं चन्द्रिका- मेकानेशकुटुम्बिनि प्रतिपदं यस्याः प्रभासंगमे । वक्षोजाम्बुरुहे न ते रचयतः कांचिदशां कौनली- मास्याम्भोरुहमम्ब किं च शनरालम्बते फुल्लताम् ॥ ४६॥ आस्तीर्णाधरकान्तिपल्लवचये पातं मुहुर्जग्मुषी कामद्रोहिणि मांसलस्मरशरज्वालावलि व्यञ्जती । निन्दन्ती धनसारहारवलयज्योत्स्नामृणालानि ते कामाक्षि स्मितचातुरी विरहिणारीत जगाहेतराम् ।। ४७ 10 सूर्यालोकविधौ विकासमधिकं यान्ती हरन्ती तम:- संदोहं नमतां निजस्मरणतो दोपाकरद्वेषिणी। निर्यान्ती बदनाविन्दकुहरान्निधूत जाड्या नृणां श्रीकामाक्षि तव स्मितद्युतिमयी चित्रीयते चन्द्रिका || ४८ कुण्ठीकुर्युरमी कुबोधघटनामस्मन्मनोमाथिनी श्रीकामाक्षि शिवंकरास्तव शिवे श्रीमन्दहासांकुराः । ये तन्वन्ति निरन्तरं तरुणिमस्तम्बरमग्रामणी- कुम्भद्वन्द्वविडम्बिनि स्तनतटे मुक्ताकुथाडम्बरम् ॥ ४९.।।

मन्दस्मितशतकम् । १०५.. वन्तः शरदम्बुदा इव शनैः प्रेमानिलैः प्रेरिता मञ्जन्तो मदनारिकण्ठसुषमासिन्धौ मुहुर्मन्थरम् । कामाक्षि तव स्मितांशुनिकराः श्यामायमानधियो नीलाम्भोधरनैपुणी तत इतो निन्द्रियन्त्यञ्जसा ॥५०॥ पारं चतुराननकविहृतौ व्याकुर्वती कुर्वती रुद्राक्षग्रहगं करेण सत्तं वागूमिकल्लोलिता । स्फुल्लं धवलारविन्दमधरीकृत्य स्फुरन्ती सदा श्रीकामाक्षि सरस्वती विजयते त्वन्मन्दहासप्रभा ॥ ५१ ॥ पुरद्युतितस्करेण महसा कल्माषयत्याननं श्रीकाञ्च पुग्नायिके पति रिव श्रीमदहासोऽपि ते । लिङ्गत्यतिपीवरां स्तनतटीं बिम्बाधरं चुम्बति प्रौढं सगभर व्यक्ति मनसो धै धुनीतेतराम् ।। ५२ ।। शद्येन च विश्वतापहरणक्रीडापटीयस्तया पाण्डित्येन पवेलिमेन जगतां नेत्रोत्सवोत्पादने । माक्षि स्मिनकन्दलैस्तव तुलामारोढुमुद्योगिनी ज्योत्स्नासौ जलराशिपोषणतया दृष्यां प्रपन्ना दशाम् ।। गवण्याम्बुजिनीमृणालवलयैः शृङ्गारगन्धद्विप- ग्रामण्यः श्रुतिचामरैस्तरुणिमस्वाराज्यवीजांकुरैः ।

मूकपञ्चशत्यां
आनन्दामृतसिन्धुवीचिपृषतैरास्याब्जहंसैस्तव
श्रीकामाक्षि मथान मन्दहसितैर्मत्कं मनःकल्मषम् ॥५४॥
उत्तुङ्गस्तनमण्डलीपरिचलन्माणिक्यहारच्छटा-
चञ्चच्छोणिमपुञ्जमध्यसरणिं मातः परिष्कुर्वती।
या वैदग्ध्यमुपैति शङ्करजटाकान्तारवाटीयत-
स्वर्वापीपयसः स्मितातिर सौ कामाक्षि ते मजुला ॥५५॥
सन्नामैकजुषा जनेन सुलभं संसूचयन्ती शनै-
रुत्तुङ्गस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् ।
प्राथम्येन विकस्वरा कुसुमवत्प्रागल्भ्यमभ्येयुषी
कामाक्षि स्मितचातुरी तव मम क्षेमंकरी कल्पताम् ॥५६॥
धानुष्काग्रसरस्य लोलकुटिलभ्रलेखया बिभ्रतो
लीलालोकशिलीमुखं नववयःसाम्राज्यलक्ष्मीपुरः ।
तु मन्मथमदिनं जननि ते मन्दस्मिताक्रमो
वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥ ५७ ॥
.
-यन्नाकम्पत कालकूटकवलीकारे चुचुम्बे न यद्-
ग्लान्या चक्षुषि रूषितानलशिखे रुद्रस्य तत्तादृशम् ।
बेतो यत्प्रसभं स्मरज्वरशिखिज्वालेन लेलिह्यते
तत्कामाक्षि तब स्मितांशुकणिकाहेलाभ प्राभवम् ॥५८॥

मन्दस्मितशतकम् । १०७ संमिन्नेव सुपर्वलोकतटिनी वीचीचथैर्यामुनः संमिश्रेव शशाङ्कदीप्तिलहरी नीलैर्महानीरदैः। कामाक्षि स्फुरिता तव स्मितरुचिः कालाञ्जनस्पर्धिना कालिन्ना कचरोचियां व्यतिकरे कांचिद्दशामश्नुते ॥ ५९॥ आनीमो जगदीश्वरप्रणयिनि त्वन्मन्दहासप्रभा श्रीकामाक्षि सरोजिनीमभिनवा मेषा यतः सर्वदा । वास्येन्दोवलोकने पशुपतेरभ्येति संफुल्लतां तन्द्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ।। ६० ॥ बान्ती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमै- र्भान्ती बालगभस्तिमालिकिरणर्मेघावली शारदी । बिम्बोष्ठद्युतिपुञ्जचुम्बनकलाशोणायमानेन ते कामाक्षि स्मितरोचिषा समदशामारोढुमाकाङ्क्षते ॥६॥ श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दस्मितं तावकं नेत्नानन्दकर तथा हिमकरो गच्छेद्यथा तिग्भताम् । शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पदं श्वेत किंच तथा यथा मलिनतां धत्ते च मुक्त मणिः ॥ ६२ ।। त्वन्मन्दस्मितमञ्जरी प्रसृमरां कामाक्षि चन्द्रातपं सन्तः सन्ततमामनन्त्यमलता तल्लक्षणं लक्ष्यते।

मूकपञ्चशत्यां यन्नासौ विधुनोति तापमधिकं नाभ्यन्तरं मानस- ध्वान्तं तत्खलु दुःखिनो वयममी केनेति जानीमहे ।।६।। नम्रस्य प्रणयप्ररूढकलहच्छेदाय पादाब्जयो- मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते । बन्धूकप्रसवश्रियं जितवतो वंहीयसी तादृशीं बिम्बोष्ठस्य रुचि निरस्य हसितज्योत्स्ना वयसायते । मुक्तानां परिमोचनं चिदधतस्तत्प्रीतिनिष्पादिनी भयो द्रत एव धूतमरुतस्तपालनं तन्वती । उद्धृतस्य जलान्तगदविरतं तदुरतां जम्नुपी कामाक्षि स्मितमञ्जरी तय कथं कम्बोग्तुलामश्नुते ।। ६५ ।। । श्रीकामाक्षि तव स्मितातिझर्गवेटरभ्यलीलायितं पश्यन्तोऽपि निरन्तरं सुविमलं मन्या जगनपण्डले । लोकं हासयितुं किरार्थनानिशं प्राकाश्यमातन्वने मन्दाक्षं विरहय्य मङ्गळनरं मन्दारचन्द्रादयः ।। ६६ ॥ क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहामस्य च श्रीकामाक्षि वल क्षमोदयनिधेः किंचिद्भिदां महे । एकस्मैं पुरुषाय देवि स ददौ लक्ष्मी कदाचित्पुग सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मी च वागीश्वरीम् ।।

मन्दस्मितशतकम् । श्रीकाशीपु रत्नदीपकलिके तान्येव विश्वान्तरे चाकोर मणि चराचरेश्वरि परं धन्यानि मन्यामहे । कम्पाती कुटुम्बचंक्रमकलाचुञ्चूनि चञ्चूपुट- नित्यं यानि तव स्मितेन्दुमहसामास्वादमातन्वते ॥ ॥ ६८॥ शैत्यप्रामाश्रितोऽपि नमतां जाड्यथां धूनय- राजन्यञ्जनपेशलोऽप गिरिजे मल्य मुल्लासयन् । लीलालापुरमरोऽपि सततं वाचंयमान्प्रीणय- न्कामा क्षि स्नितरोचिषां तव समुल्लासः कथं वर्ण्यते ॥ ६९।। ओणीचाचलमेखलामुखरितं लीलागतं मन्थरं भ्रूवलीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम्। यद्वैदग्ध्या खेन मन्मथरिपुं संमोहयन्त्यञ्जसा श्रीकामाक्ष तब स्मिताय सततं तस्मै नमस्कुर्महे ॥ ७० ॥ श्रीकामाक्षि मनज्ञनन्दहसितज्योतिष्प्ररोहे तव स्पीरावेदननावभौमतरणिनागररूपमभ्येयुपि । चन्द्रोऽर्थसाराजतां कलयते चेटीधुरं चन्द्रिका गङ्गासा च सुबाझरी सहचरीसाधम्यं नालम्बते॥७९॥ me ज्योत्स्ना कितनुते फर्श तनुमतामोष्ण्य प्रशान्ति विना स्वमिन्दस्मितरोचिषा दनुसता कामाक्षि रोचिष्णु-गा।

मूकपञ्चशयां संतापोऽपि निवार्यते नववचःप्राचुयमकूयते सौन्दर्य परिपूर्यते जगति सा कीर्तिश्च संचार्यते ।। ७२ ॥ बैमल्यं कुमुदश्रियां हिमरुचः कान्त्यैव संधुक्ष्यते ज्योत्स्नारोचिरपि प्रदोपसमय प्राप्येव संपद्यते । त्वच्छत्वं नवमौक्तिकस्य पाम संस्कारतो दृश्यते कामाक्ष्याः स्मितदीवितेर्विशदिमा नैसर्गिको भासते ।। ७३ ।। प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः श्रीकामाक्षि मम क्षिणोतु ममतावचक्षणीमक्षयाम् । यद्रीत्येव निलीयते हिमकरो मेघोदरे शुक्तिका- गर्भ मौक्तिकमण्डली च सरसीमध्ये मृणाली च सा ।। हेरम्बे च गुहे च हर्षभरितं वात्सल्यमङ्क्रय- न्मारद्रोहिणि पुरुष सहभुवं प्रेमांकुरं व्यञ्जयत् । आनमेषु जनेषु पूर्णकरुणावेदग्ध्यमुत्तालय- कामाक्षि स्मितमञ्जसा तव कथंकारं मया कथ्यते ॥७५ ।। संक्रद्धद्विजगजकोऽप्यविरतं कुर्वन्द्विजैः संगम वाणीपद्धतिदूरगोऽपि सततं तत्साहचर्य वहन् । अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रति श्रीकामाक्षि व स्मितामृतरसस्यन्दो मयि स्पन्दताम् ।। ७६ ॥

मन्दस्मितशतकम् । श्रीकामाक्षि महेश्वरे निरुपमप्रेमांकुरपक्रम नित्यं यः प्रकटीकरोति सहजामुनिद्रयन्माधुरीम् । सत्तारक्तव मन्दहाससुषमा मातः कथं मानित तन्मूर्धा सुरनिम्नगां च कलिकामिन्दोश्च तां निन्दति ॥ ७७॥ के माधुर्यविहारमण्डपभुवो ये शैत्यमुद्राकरा ये वैशधदशाविशेषसुभगास्ते मन्दहासांकुराः । कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां वाणीगुम्फनडम्बरे च हृदये कीर्तिप्ररोहे च मे ॥ ७८ ।। कामाक्ष्या मृदुलस्मितांशुनिकरा दाक्षान्तके वीक्षणे मन्दाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षांकुराः । दाक्ष्यं पक्ष्मलयन्तु माक्षिकगुडद्राक्षाभवं वाक्षु मे सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥ ७९ ।। जात्या शीतलशीतलानि मधुराण्येतानि पूतानि ते गाङ्गानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम् । एनःपकपरम्परामलिनितामेकाम्रनाथप्रिये प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयन्तु क्षणात् ॥ ८॥ अश्रान्तं परतन्तितः पशुपतिस्त्वन्मन्दहासांकुरः श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे ।

११२ मूकपश्चशत्यां इन्दु नाकधुनी च शेखरयते मालां च धत्ते नव- बँकुण्ठेश्व कुण्ठनं च कुरुते धूनीच स्मनः ।। ८१ ॥ श्रीकाञ्चीपुरदेवते मृदुवचासौरभ्यमुद्रास्पदं प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् । मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे श्लक्ष्ण कुमलति प्रष्टपुलके चालणे फुल्लति ।। ८२ ।। किं स्रोतसमम्बिके परिणतं स्रोतश्चतुर्थ नवं पीयूषस्य समस्ततापहरणं किं वा द्वितीयं वपुः । किंस्विरमन्निकटं गतं मधु रेमाभ्यासाय गन्धं पयः श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम् ।। ८३ ॥ भूषा वक्त्रमरोरुहस्य सहजा वाचां सखी शाश्वती नीवी विभ्रमसंततेः पशुपतेः सोधी दृशां पारणा। जीवातुर्मदनश्रियः शशिरुबेरुचाटनी देवता श्रीकामाक्षि गिरामभूमिमयते हासप्रभानञ्जरी ॥ ८४ ॥ सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः । वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव श्रीकानाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी।। ८५ ॥

मन्दस्मितशतकम् । ११३ उत्तङ्गस्तनमण्डलस्य निलमल्लावण्यतीलानटी- रङ्गस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुपी। श्रीकामाक्षि तव स्मितद्युतिततिबिम्बोष्ठकान्त्यकुरै- चित्रां विद्रुममुद्रिकां वितनुने भौक्ती वितानश्रियम् ।। ८६ ॥ जन्तूनां जनिदुःखमृत्युलहरीसंतापनं कृन्ततः प्रौढानुग्रहपूर्णशीतलरुचो नित्यादय विभ्रतः ! श्रीकामाक्षि विसृत्वरा इव करा हासांकुरास्ते हटा- दालोकेन निहन्युरन्धतमसस्तोमस्य मे संततिम् ।। ८७ ॥ स्वाभाब्यात्तव वक्त्रमेव ललितं संतोषसंपादनं शंभोः किं पुनरश्चितस्मितरुचः पाण्डित्यपात्रीकृतम् । अम्भोज स्वत एव सर्वजगतां चक्षुःप्रियंभावुकं कामाक्षि स्फुरिते शरद्विकसिते कीग्विधं भ्राजते ॥ ८८॥ पुंभिनिर्मलमानसैविदधते मैत्रीरसं निर्मल कर्तुं कर्मलयं च निर्मलतमां कीर्ति लभन्तेतराम् । पक्तिं पक्षमलयन्ति निर्मलगुणां यत्तावकाः सेवका- स्तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः॥ आकर्षन्नयनानि कामदल शैल्मन संस्तम्भय- निन्दु किं च विमोहयन्पशुपति विश्वार्तिमुच्चाटयन् । M.8.

११४ मूकपञ्चशल्यां हिंसन्संसृतिडम्बरं तव शिवे हासायो मान्त्रिक श्रीकामाक्षि मदार्तितापतमसो विद्वेपणे चेष्टताम् ॥९॥ क्षेपीयः क्षपयन्तु कल्मषभयान्यस्माकमल्पस्मित- ज्योतिर्मण्डलचक्रमास्तव शिवे कामाक्षि रोचिष्णवः । पीडाकर्मठकर्मधर्मसमयव्यापारतापानल- श्रीपाता नवहर्षवर्षणसुधास्रोतस्विनीशीकराः ॥ ९१ ॥ श्रीकामाक्षि तव स्मितैन्दवमहःपूरे परिस्फूर्जति प्रौढां वारिधिचातुरी कलयते भक्तात्मनां प्रातिभम् । दौर्गत्यप्रसगस्तमःपटलिकासाधर्म्यमाबिभ्रते किं किं कैरवसाहचर्यपदवीरीत्यां न धत्ते पदम् ॥ ९२ ॥ मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीति निजां कादाचित्कतया विशङ्कय बहुशो वैशयमुद्रागुणः । श्रीकामाक्षि तदीयसंगमकलामन्दीभवत्कौतुकः सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् ॥ १३ ॥ इन्धाने भववीतिहोत्रनिवहे कौंधचण्डानिल- प्रौढिना बहुलीकृते निपतितं संतापचिन्ताकुलम् । मातर्मी परिषिश्च किंचिदमलैः पीयूषवरिव श्रीकामाक्षि तव स्मितद्युतिकणैः शैशियलीलाकरैः ॥ ९४ मन्दस्मितशतकम् । भाषाया रसनानखेलनजुषः शृङ्गारमुद्रासखी लीलाजातरतेः सुखेन नियमस्नानावनात्मजे । श्रीकामाक्षि सुधामयीव शिशिरा स्रोतस्विनी तावकी गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी ॥ ९५ ॥ संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना मजन्ती मधुरस्मितामाधुनीकल्लोलजालेषु ते । नैरन्तरमुपेत्य मन्मथमरुल्लोलेषु येषु स्फुटं प्रेमेन्दुः प्रतिविम्बतो वितनुते कौतूहलं धूर्जटेः॥९६ ॥ चेतःक्षीरपयोधिमन्थरचलद्रागाख्यमन्थाचल- क्षोभव्यापृतिसंभवां जननि ते मन्दस्मितश्रीसुधाम् । स्वादं स्वादमुदीतकौतुकरा नेत्रत्रयी शांकरी श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी ॥९॥ आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल- प्रेजन्मारुतघट्टनप्रचलितादानन्ददुग्धाम्बुधेः । काचिद्वीचिरुदञ्चति प्रतिनवा संवित्प्रगेहात्मिका तां कामाक्षि कवीश्वराः स्मि नमिनि व्याकुर्वते सर्वदा ।। सूक्तिः शीलयते किमद्रितनगे मन्दस्मितात्ते मुहु- माधुर्यागमसंप्रदायमथवा सूक्तेर्नु नन्दस्मितम् ।

मूकपश्चशल्या इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमि श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्ती निधत्ते पदम् ।। ९९ ।। क्रीडालोलकपासरोरुहमुखीसोधाङ्गणेभ्यः कवि- श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे । निर्वाणांकरसार्वभौमपदवीसिंहासनेम्पस्तव श्रीकामालि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः ॥ १० ॥ मन्दस्मितशतकं संपूर्णम् ॥ .

Muka Panchashati

Author
Mukakavi
Title
Muka Panchashati
File name
Muka Panchashati
Text
OCR done
Published
2005/03/10
Publisher
Sri Vani Vilas Press Sri Rangam
Language
Sanskrit
Pages
116
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
496414
Barcode
1990030070550.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
cnth2VK0y5S
Download PDF

Muka Panchashati