Central Archaeological Library_asi_new Delhi
The Tristhali Setu Tirthendusekhara & Kasi Mokshavichara
Front matter
THE
PRINCESS OF WALES
SARASWATI BHAVANA TEXTS.
DEXTS
Nos. 65-67.
EDITED BY
MAHAMAHOPADHYAYA
GOPI NATH KAVIRAJ, M. A.
THE
TRISTHALI SETU
TIRTHENDUSEKHARA &
KASI MOKSHAVICHARA
Printed by Ali Bukhsh at the Royal Printing
Works, Godowlia, Benares City and
published under the authority of the Government,
United Provinces by the Superintendent,
Government Printing, Allahabad.
1936.
OENTRAL Akui LORDUAL LIBRARY NEW DELHI.
त्रिस्लीसेतुः (भट्टोजीदीक्षितकृतः), तीर्थेन्दुशेखरः (नागेशभट्टकृतः ), तथा काशीमोक्षविचारः ( सुरेश्वराचार्यकृतः) वाराणसीस्थराजकीयसंस्कृत महाविद्यालयाध्यापकेन लब्ध- व्याकरणन्यायाचार्य मीमांसाशिरोमण्याधुपाधिकेन शुक्लोपाह सूर्यनारायण शर्मणा संशोधिताः । THA New Delhi. ANCILORICAL THE TRISTHALI SETU BY BHATTOJI DIKSHITA. THE TIRTHENDUSEKHARA BY NAGESA BHATTA. THE KASI MOKSHA-VICHARA BY SURESWARACHARYA. 24130 Edited with Introduction BY SURYA NARAYAN SUKLA, NYAYA VYAKARANACHARYA, Assistant Professor, Govt. Sanskrit College, Benares. Sa38 D. N.S/Suk 0-2015 1936. 2241
OAL
OENTRAL ARCI
LIBRARY NEV
Acr. Vu...24130
11:7.56
35/D.N.S.fsuk
त्रिस्थलीसेतुसारसंग्रहस्य भूमिका । नाविदितमिदं प्रेक्षावतां यदहरहः सुख प्राप्त्यर्थं यतमानेष्वपि मर्वप्राणिषु येन पथा कस्य चित्सुखप्राप्तिस्तेनैव पथाऽपरस्य दुःख प्राप्तिरिति सुख दुःखोपभोगे अदृष्टमेवैकं निदानमवशिष्यते । तश्चादृष्टं यागतीर्थदर्शनादिजन्यं तत्र च यागोऽर्थसाध्य इति अर्थरहितैरनु- ष्ठातुमशक्य इति अर्थरहितानां कृते तीर्थदर्शनमेव अदृष्टार्जनाय सुकर साधनं तच्च कथं कर्तव्यं कानि च तीर्थानि इति पुराणोपपुराणेषु स्फुट निरूपितमपि पुराणादिग्रन्थानां बृहत्कायत्वात्सर्वैर्दुज्ञेयत्व मिति तैस्तै- महाभागैस्तीर्थनिबन्धा निबद्धास्तद्यथा- तीर्थचिन्तामणिः, तीर्थकल्पलता, तीर्थकौमुदो, तीर्थमञ्जरी, रघुनन्दनभट्टाचार्यकृतं तीर्थतत्त्वम् नृसिंहप्रसादान्तर्गतस्तीर्थसारः, वीरमित्रोदयान्तर्गतस्तीर्थप्रकाशः, तीर्थरत्नाकरः, त्रिस्थलीसेतु- नारायणभट्टप्रणीतः, त्रिस्थलीसेतुमारः कमलाकर भट्टषणीतः । तेष्वेव निबन्धेषु एकतमोऽयं निबन्धः त्रिस्थलीसेतुसारसंग्रहो. नाम अत्र च काशी प्रयाग गया तीर्थयात्रा साधु निरूपिताः। अस्य ग्रन्थस्य निर्माता च सुगृहीतनामधेयो महाराष्ट्रब्राह्मणो भट्टोजिदीक्षितो नाम । तत्प्रणीता ग्रन्थाश्च वैयाकरणसिद्धान्तकौमुदी, प्रौढमनोरमा, शब्दकौस्तुभः, तन्त्राधिकारनिर्णयः, चतुर्विंशतिमत- संग्रहः, वैयाकरणसिद्धान्तकारिका, त्रिस्थलीसेतुसारसंग्रहः, तत्त्व- कौस्तुभः, अद्वैतकौस्तुभः, आचारप्रदीपः, आशौचनिर्णयः आह्निकम्, .
( २ ) कालनिर्णयसंग्रहः, गोत्रप्रवरनिर्णयः, चन्दनधारणविधिः, तत्त्व. विवेकदीपनव्याख्या, तन्त्रसिद्धान्तदीपिका, तामृतं. तिथि. निर्णयः, तिथिनिर्णयसंक्षेपः, तिथिप्रदीपः, दशश्लोकीव्याख्या, धातु- पाठनिर्णयः, प्रायश्चित्तनिर्णयः, भट्टोजिभट्टीयम्, मासनिर्णयः लिङ्गा नुशासनसूत्रवृत्तिः, श्राद्धकाण्डः, संध्याभाष्यं चेति । तेषु आदिमाः षड् मुद्रिताः सप्तमश्चायमेव भवन्नयनगोचरः अष्टमश्च यन्त्रस्थोऽन्ये च नाममात्रेण श्रुता इह संकीर्तिताः । अयं च भट्टोजिदीक्षितः सप्तदशखैष्टशताब्द्यां बभूव पण्डितरा. जजगन्नाथाप्पयदीक्षितयोः समकालिकस्तत्रापि अप्पयदीक्षितात्कनी- यान् पण्डितराजजगन्नाथाच्च वृद्धः इतिप्रसिद्ध इतिहासः । अस्य त्रिस्थलीसेतुसारसंग्रहस्य प्रकाशनावसरे एक सरस्वती भवनस्थमपरं च मदीयमिति पुस्तकद्वयमेवावलम्बनम् । तत्र मदीयं कसंज्ञया सरस्वतीभवनस्थं च वसंशया व्यवहृतम् यत्र च पाठ भेदः स टिप्पण्यामवस्थिापित-इति सूर्यनारायण शुक्लः ।
त्रिस्थलीसेतुसारसंग्रहस्थविषयानुक्रमणिका। पृष्ठम् १ २ ... ३ .. ... 8 ... विषयाः तीर्थयात्राधिकारिनिरूपणम् तीर्थफलतारतम्यकारणानि यानविशेषकृतं फलतारतम्यम् নাযাকাল্কাতৰিকাৰ तीर्थगमनविधिः तीर्थयात्रानियमाः तीर्थप्राप्तिदिनकृत्यम तीर्थोपचास तीर्थमुण्डनम् तीर्थस्नानविधि: तीर्थतर्पणम् नदीनां रजोदोषविचारः নীখান तीर्थश्राद्धनिषिद्धानि ঋদ্ধমখাবিলা जीवत्पितृकस्य गयाप्राप्तौ कर्तव्यम् तीर्थश्राद्ध संप्रदाननिर्णयः तीर्थेऽस्थिप्रक्षेपविचारः प्रकीर्णकाः धर्माः प्रयागप्रकरणम् प्रयागे मुण्डनविचारः माघस्नानारम्भकाल: प्रयागमरणविचारः काशीप्रकरणम् गयाप्रकरणम् ... २० २३ ... २४ ... .. ... ३२ ...
No text on this page.
श्रीहरिः शरणम्।
श्री भट्टोजिदीक्षित विरचितः
त्रिस्थलीसेतुसारसंग्रहः।
साधारणस्तीर्थविधिः प्रथम सम्यगुच्यते ।
प्रयागादित्रयविधिः पश्चादित्यत्र संग्रहः ।।
अथ अधिकारिनिरूपणम् ।
Domeste
या याः काश्चित्तीर्थयात्रा मुनीन्द्रैः
कृता प्रयुक्ता अनुमोदिताश्च ।
ता ब्रह्मचारी विधिवत्करोति
सुसंयतो गुरुणा सन्नियुक्तः ।
-
इति ब्रह्मपुराणवचनात् गुरुनियुक्तस्यैव ब्रह्मचारिणोधिकारः ।
गृहस्थस्य तु सपत्नीकस्यैवाधिकारः, ब्रह्मपुराणे कृकलावेरेयोपाख्याने-
पूतां पुण्यतमा भार्यां यो वा त्यक्त्वा प्रयाति हि ॥
तस्य पुण्यफलं सर्वं वृथा भवति नान्यथेत्युक्तः।
विधुरस्थापि यज्ञाधिकारे 'यथा वा निवृत्तेः' इतिवचनादरूत्यधि.
कारः। वानप्रस्थस्यापि-
D
ऋणानि त्रीण्यपाकृत्य कुर्यात्तीर्थस्य सेवनम्
विधाय वृत्तिं भार्यायाःपुत्रेषु विनिधाय चेतिकूर्मोक्तेः ॥
२
त्रिस्थलीसेतुसारसंग्रहे-
संन्यासिनोपि प्रामैकरात्रवासिनो 'नगरे तीर्थं च पञ्चरा वसन्त'
इतिकात्यायनोक्तेर्मुमुक्षुभिस्तीर्थगत द्विजेन्द्रः कार्यमितिकाशीखण्डाच्च । क्षत्रि-
यस्य तु नृपस्य ब्राह्मणपुर:सरस्यैवाधिकारः 'सर्वस्वनाशेप्यथवा
नृपस्तु स ब्राह्मणानग्रत एव कृत्वा' इति ब्रह्मपुराणात् । वैश्यशूद्रयोरपि-
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम ।
न धियोनि व्रजन्त्येते स्नातास्तीर्थे महात्मनः ॥
इति भारतवचनात् ।
यस्तु मनु:-
जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् ।
देवताराधनञ्चेति स्त्रीशूद्रपतनानि षट् ॥
इति तद्विप्रसेवाविरोधेन निरन्तरं तीर्थयात्रादि न कार्यमित्येवं.
परम् खियाश्च भर्तृशुश्रूषात्यागेन तीर्थयात्रानिषेधपरम्। मात्राद्यस्थि.
क्षेप्तुकामस्य सर्वस्यापि “मातुः पितुः क्षेप्तुमनास्तथे" तिवचनात् ।
तस्मात्सर्वेषां तीर्थयात्रायामधिकारः।
अथतीर्थफलतारतम्यकारणानि ।
शंख:-
तीर्थं प्राप्य प्रसङ्गेन स्नानं तीर्थे समाचरेत्।
स्नानजं फलमाप्नोति तीर्थयात्राकृतं न तु ॥
प्रसङ्गेन-वाणिज्यराजसेवादिप्रसङ्गेन ।
यत्तु पैठीनसिः-
अर्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति ।
षोडशांशं तु लभते यः परार्थेन गच्छति ॥
तत्र प्रसङ्गेनोद्देश्यतीर्थान्तरप्रसङ्गेन । परार्थेन वेतनं गृहीत्वेत्यर्थः ।
प्रभासखण्डे तु परान्नेन गच्छतीतिपाठः । तत्र परान्नं भुञ्जान इत्यर्थः ।
प्रभासखण्डे..-
यश्चान्यं कारयेत्या तीर्थयात्रा तथेश्वरः ।
wrni aETTINणम
॥
३ -- तीर्थविधिप्रकरणम् । विशिष्टनयने त्वष्टगुणम् । तदुक्तं भारते युधिष्ठिरंप्रति 'नेता च त्वमृषीन्यस्मात्तस्मात्तेऽष्टगुणं फलम्' इति । अथ यानविशेषकृतं फलतारतम्यम् । गोयाने गोवधः प्रोक्तो हययाने तु निष्फलम् । नरयाने तदर्धं स्यात् पट्यां तत्स्याश्चतुर्गुणम् ॥ इतिमात्स्यकर्मियोः । चतुर्गुणमित्यत्र कृते चतुर्गुणो धर्म इतिवत् गुणशब्दः पादापर- पर्यायचतुर्थांशपरः। तथा च पद्भयां गच्छतस्तत्फलं चतुर्गुणं चतु. श्वरणं पूर्णमितियावत् । अत्र पद्भयामितिनिरुपानकाभ्यामित्यर्थः । तथा च जावालि:- द्विर्भोजनं तृतीयांशं हरेत्तीर्थफलस्य च । यानमधू चतुर्थाशं छत्रोपानहमेव च ॥ तस्मादेतैविहीनस्तु सर्व तीर्थफलं लभेदिति । अयं च निषेधः शक्तस्य । तथा च कौमें- नरयानं चाश्वतरी हयादिसहिती रथः। तीर्थयात्रास्वशक्तानां यानं दोषकरंन हीति ॥ यत्र च नावा विना गमनं न संभवति शङ्खोद्धारगङ्गासागरादौ। यावति च मार्गप्रदेशे नद्याक्रान्ते पद्भयां गमनासंभवस्तत्रैव नौकागमनं न दोषाय । तदुक्तं 'नौकायानमयानं स्यात्' इति। येषामप्यङ्गवङ्गादि- देशानां गमनं निषिद्धं तत्रापि तीर्थयात्रोद्देशेन गमने न दोषः । अङ्गवङ्गकलिङ्गेषु सौराष्ट्र मगधेषु च । तीर्थयात्रां विना यातः पुनः संस्कारमर्हति ॥ इतिस्मृतेः॥ अथकालविचारः। यात्राविशेषे गुरुमौढ्यादिकं न दोषाय । तदुक्तम्- त्रिस्थलीसेतुसारसंग्रह- गोदावयाँ गयायां च श्रीशैले ग्रहणद्वये। सुरासुरगुरूणां च मौढ्यदोषो न विद्यते ॥ इतिवायुपुराणे। गयायां सर्वकालेषु पिण्डं दद्याद्विधानतः । अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः । न त्यक्तव्यं गयाश्राद्ध सिंहस्थे च बृहस्पताविति ॥ अत्रश्राद्धस्य यात्रापूर्वकत्वात् तीर्थयात्रापिन निषिद्धत्याहुः। अधिमासे च जन्मः अस्ते च गुरुशुक्रयोः । तीर्थयात्रा न कर्तव्या गयां गोदावरी विनेति ॥ पामे काशीमुद्दिश्य यातानां सर्वः स्यात्समयः शुभः ॥ मङ्गलं सकलं वस्तु न किंचिद्धि विचारयेदिति । अथतीर्थगमनविधिः। - स्कान्दे- तीर्थयात्रां चिकीर्षुः प्राग्विधायोपोषणं गृहे । गणेशं च पितॄन विधान बन्धूशक्त्या प्रपूज्य च। कृतपारणको हृष्टो गच्छेनियमधृक् पुनः । आगत्याभ्यर्च्य च पितृन यथोक्तफलभाग्भवेत् ।। आगत्येतितीर्थयात्रां कृत्वा गृहागतेन पुनः श्राद्धं कार्यमित्यर्थः । श्राद्धं चोपवासोत्तरदिने 'उपोष्य रजनीमेकां प्रातः श्राद्धं विधाय च' इति स्कान्दे शिवशोपाख्यानात् । उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः। विधाय कार्पटीवेषं कृत्वा ग्रामं प्रदक्षिणम् ।। ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् । ततः प्रतिदिन गच्छेत् प्रतिग्रहविवर्जितः ॥ इतिविष्णुपुराणवचनात् तीर्थविधिप्रकरणम् । श्राद्धानन्तरं कार्पटिकवेषोपि कार्यः । केचित्तु गयामुपक्रम्यैव विधानाद् गयायामेवेषविधिरित्याहु # प्रयागे तीर्थयात्रायां पितृमातृवियोगतः । कचानां वपनं कुर्याद् वृथा न विकचो भवेत् ।। इति विष्णुपुराणात् उपवासदिने श्राद्धात्पूर्व मुण्डनमपि कार्यम् । केचित्तु प्रायश्चित्तार्थतीर्थयात्रायामेवेदमित्याहुः । कार्पटिकवेषेण तीर्थगमने तदित्यप्याहुः । श्राद्धं च तीर्थश्राद्धधदेव षड्दैवतं नवदैवतं द्वादशदैवतं (१) वा मतभेदेन पार्वणं कार्यम् । इदं च घृतमात्रद्रव्यकम् 'श्राद्धं कुर्यात्तु सर्पिषा'इतिविष्णुपुराणोक्तेः सर्पिषेतितृतीयया निरपेक्षसाधनताबोधमा. दितिकेचित् । घृतप्रचुरमित्यन्ये । घृतप्रधानद्रव्यकमिति तु स्मृतिरत्नावली मदनपारिजातादयः। कार्पटिकवेषधारणं च गमनकाल एव न तु भोज. नादिकालेपोतिकेचित् । भोजनादिकालपीत्यन्ये ॥ अथ तीर्थयात्रानियमाः । भारते- संप्रस्थितस्तीर्थयात्री ब्राह्मणानधमन्यते । नासौ प्रतिनिवर्तेत तदन्तं तस्य जीवनम् ॥ तथा- तीर्थे गच्छन् चरेत्संध्यास्तिस्त्र एकत्र मानवः । नास्नातो नाशुचिर्गच्छेन्न भुक्त्वा न च सूतकी । अनेन रात्रौ कृतमाध्यान्हिकेन प्रातश्चाकृतनित्यक्रियेण न गन्तव्य- मित्युक्तंभवति। अशुचिः-मूत्रं पुरीषं या कृत्वा कृतशौचः चाण्डालो. दक्यादिस्पर्श स्नानाचमनादिनिमित्ते सति अकृतस्नानाचमना तिश्च ।। (१) द्वादशदैवतमिति पाठः खपुस्तके नास्ति ।
६ त्रिस्थलीसेतुसारसंग्रहे- यत्तुपत्रिशन्मते-~~ देवयात्राविधाहेषु यशेषु प्रकृतेषु च । उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिन दुष्यतीति । वृहस्पतिश्च- तीर्थ विवाह यात्रायां संग्रामे देशविप्लवे। नगरग्रामदाहे च स्पृष्टास्पृष्टिर्न दुष्यतीति॥ एतद्यत्राहमनेन स्पृष्ट इतिज्ञानं नास्ति तद्विषयकमितिमदनपारिजातः । अन्ये त्वनिवार्यस्पर्श देवपूजायात्रादिमात्रकायें दोषाभावः भोजनादौ तु स्नानव्यतिरेकेण नैव शुचितेत्याहुः । न च सूतकीति नाशौचवानित्यर्थः । यत्तु प्रारब्धे सूतकनास्तीति तत्परिगणितव्रतानिमात्रविषयम्- व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे। प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकमिति ।। सूतकाभावो विष्णुपुराणवचनात् । अतएव प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः। नान्दीमुखं विवाहादौ श्राद्ध पाकपरिक्रियेति ॥ तावन्मात्रविषय एवारम्भो विष्णुनोक्तोऽग्रिमवाक्ये । अन्येतु यत्र नैरन्तर्येणानुष्ठानं बोधितं मासोपवासादौ तद्विषयमिदम्, न च तीर्थयात्रायां नैरन्तर्येणानुष्ठानम्, तस्मात्प्रारब्धे नैतद्विषयः, अतएव सहस्रभोजनादौ सूतकं भवत्येवेत्याहुः । उभथा- पि यात्रामध्ये सूत के सत्याशौचकालं तत्रैव परिकल्प्य शुद्धौ सत्यां गच्छेदितिसिद्धम् ॥ यत्तु-विवाहदुर्गयज्ञेषु यात्रायांतीर्थकर्मणि, न तत्र सूतकं तद्व- कर्मयज्ञादिकारयेदिति पैठोनसिवचनम्, तन्मार्गवैषम्यादिना गत्यन्त. राभावे सति तीर्थयात्रायामाशौचनास्तीत्येवं परम् । अनयैव दिशा रज स्वलानी चत्वारि दिनान्यतिवाह्य पञ्चमेह्नि व्रजेत् दैवेकर्मणि पित्र्येच तीर्थविधिप्रकरणम् ॥ तीर्थान्तरात्तीर्थान्तरप्राप्तौ स्नानश्राद्धे आवश्यक उपवासक्षौरे तु उद्दे. श्यतीर्थ एवेतिकेचित् । तीर्थयात्रायें चलितो यदि दैवात् परावृत्तस्तदा विशेषो गरुडपुराणे दर्शितः। तीर्थं चलित्वायः कोऽपि पुनरायाति वै गृहे । अनुज्ञातः शुभैविप्रैः प्रायश्चित्तं समाचरेदिति। संकल्पवानिमित्तमितिभावः । तथाचात्रैव. यस्तीर्थसन्मुखो भूत्वा व्रजननशने कृते । चेन्नियेदन्तराले तु ऋषीणां मर डलंबजेत् । अनशने मासीपवालादिरूपोपवालवते च कृते-इति चकारो. ध्याहार्यः। द्विविधस्याप्यन्तराले मृतस्य ऋषिलोरप्राप्तिर्भवतीत्यर्थः । यदा तु अन्तरा कर्मनाशा नदी पतति तदा तज्जलपर्णी यथा न भवति - तथा गन्तव्यमा कर्मनाशाजलस्पर्शात् करतोयाविल वनात् । गण्डकीबाहुतरणात् पुनः संस्कारमहति ॥ इतिवचनात् । प्राच्यास्तु- करतोयाजलरूपर्शात्कर्मनाशाविलङ्घनादितिपठन्ति तन्न- करतोयां कुरमञ्च त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिरिति । भारते दानधर्मेषु स्नानश्रवणात्। यात्राकर्तुश्चानृतौ ब्रह्मचर्यम् 'तीर्थानि गच्छता नित्यमनृतौ ब्रह्मचारिणा'इतिस्मृतेः ।। अथतीर्थप्राप्तिदिनकृत्यम् । यानानि तु परित्यज्य भाव्यं पादचरैनरैः । लठित्वा लोठनी चैव कृत्वा कार्पटिकाकृतिम् ।।
त्रिस्थलीसेतुसारसंग्रहे-
लोठनों लुठित्वेति साष्टाङ्गं प्रणम्येत्यर्थः ।
अष्टाङ्गप्रणामस्तु-
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा तथा।
मनसा वचसा दृष्टया प्राणमोऽष्टाङ्ग उच्यते ॥
कृत्वा कार्पटिकाकृतिमिति यदि यात्राप्रक्रमे कार्पटिकाकृतिनं कृता
तदा प्रवेशदिने कार्येत्यर्थः।
ततः-
गत्वा स्नानं प्रकुर्वीत वपनं तदनन्तरम् ॥
स्नानं सचैलमाप्लुत्य (कुर्याद्विद्वान) जलेऽमले।
इतिकाशीखण्डात् ।
अथ तार्थोपवासः।
तत्रकाशीखण्डे-
यदह्नि तीर्थप्राप्तिः स्यात्तदह्नः पूर्ववासरे ।
उपवासः प्रकर्तव्यः प्राप्तेऽह्रि श्राद्धदो भवेत् ॥
इति तीर्थप्राप्तिपूर्वदिने उपवासो विहितः। प्रभासखण्डेतु 'उपवासं.
ततः कुर्यात्तस्मिनहनि सुव्रत' इतितीर्थप्राप्तिदिने उपवासो विहितः ।
तथा-मुण्डनं चोपवासश्चेत्यस्य स्वरूपमात्रविधौ कालवयस्योत्पन्न
शिष्टस्य तुल्यवलत्वेनाग्निहोत्रे पयोदध्यादिवद्विकल्पः (१) । तत्राद्ये पक्षे
प्राप्तिदिने तीर्थश्राद्धशेषभोजनमपि संभवति । द्वितीये तु श्राद्धशेषस्य
आघ्राणं कृत्वोपवास एकादश्यादिवत् ॥
(१) पयोदध्यादिवद्विकल्प इति । यथा अग्निहोत्रं जुहोति इति वाक्यविहितमनि-
होत्रमुद्दिश्य पयसा जुहोति दना जुहोति इति वाक्यविहितयोरुत्पन्नशिष्टयोः पयोदधिगुणयो-
सानाटिन्यर्थ
तीर्थविधिप्रकरणम्। अथ तीथे मुण्डनम् । देवल:- मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः। वर्जयित्वा कुरुक्षेत्र विशाल विरजां गयाम् ॥ विरजम्-उत्कलदेशे यत्रधर्मराजेन गयासुरनाभौ विरादिः स्था- पितः वायवीये । दक्षिदेशस्थलोणारक्षेत्रं विरजमित्यादित्यपुराणे । क्वचित्तु नैमिषं पुष्करं गयामितिपाठः। नचास्य प्रयागे वपनं कुर्यादित्यादि वच- नान्तरे विशेषे उपसंहारश्चतुर्धाकरणवदितिवाच्यम् (२) सर्वतीर्थेवि- ति सामान्यविधेः सर्वशाबहुवचनलादशेषपरतायाः स्पष्टत्वादुप संहारासंभवात् यदेव विद्ययेतिवत् । तदुक्तं 'सामान्यविधिर- रूपष्टः संह्रियेत विशेषत' इति । इदं च मुण्डनं दशमासानन्तरं पुन. स्तीर्थप्राप्तौ कर्तव्यम् ॥ संवत्सरे द्विमासोने पुनस्तीर्थं व्रजेद्यदि । मुण्डनं चोपवासश्च ततो यत्नेन कारयेत् ॥ इतिस्मरणात् दशमासोत्तरप्राप्ती अवश्यं कार्यम् । अन्तरा तुफले- च्छया भवति न तु नियमत इतियत्नेनेत्यस्यार्थः। प्रयागेतु विशेषो व- क्ष्यते । मुण्डने संकल्पश्च वपनं कारयिष्य इति। वापनं करिष्ये इति वा। न तुं वपनं करिष्य इति । वपनस्य नापितकर्तृकत्वात् । गङ्गां प्राप्य सरि च्छेष्टां वपनं यो न कारयेदिति वचनस्वरसाश्चेतिकेचित् । नहवस्तु केश- वियोगसंविधानरूपस्य वपनस्य स्वकर्तृकत्वे वाधकाभावात् । यानि कानि च पापानि ब्रह्महत्यासमानि च। केशेषु तानि तिष्ठन्ति तस्मारकेशान्वपाम्यहमिति ॥ (२) चतुर्धाकरणवदिति । 'तं चतुर्धा कृत्वा पुरोडाश बर्हिषदं करोति' इति सामान्यवचनम् आग्नेयं चतुर्धा करोति' इति विशेषवचनानुरोधेन आग्नेये उपसहियत तद्वदित्यर्थः ।
१० त्रिस्थलीले तुसारसंग्रहे- इति मन्त्रलिङ्गाश्च वपनं करिष्य इत्येव संकल्प इत्याहुः । इदं च অযুল ঈমুসঙ্গ ক্ষাখ- गत्वा स्नानं प्रकुर्षोत वपनं तदनन्तरम् । वपेत्केशांश्च श्मश्रणि नखानि च निकृन्तयेत् ॥ इति ब्रह्मपुराणश्रवणादितिकेचित् । अन्येतु-एतद्वचनस्य वपनमाञविधायकत्वात्क्रमस्यापि विधा. नेन गौरवाद्वाक्यभेदप्रसङ्गाश्च । 'देवा वै यज्ञमकुर्वते' त्यादिना केशप्रथ- मवपननिन्दापूर्वकश्मवादिवपनप्रशंसाया आपस्तम्बानां श्रुतौ प्रती- तेश्च श्मश्रुकूर्चयोरादौ वपनमिल्याहुः । तत्राप्युदकसंस्थायै दक्षिणश्मनु घपनमादौ पित्रादिमृतौ तु दक्षिणसंस्थत्वाद्वामश्मश्रुवपनमादाविति । वपनप्रकारश्चापराकें- walaamrpana उदङ्मुखः प्राङ्मुखो वा वपनं कारयेत्सुधीः । केशश्मश्रुलोमनखान्युदक्संस्थानि वापये दिति ॥ - तत्र यतिभिः 'कक्षोपस्थाशिखावर्जमृतुसंधिषु वापयेदिति' ऋतुसं. धिष्वेवेति परिसंख्यानात् ऋतुसन्धिव्यतिरिक्तकाले तीर्थप्राप्तावपि न कार्यम् । यतिशिष्टानामाचारोप्येवमेव । आहिताग्निभिस्तु पर्वव्यति- रिक्तकालेऽपि तीर्थनिमित्तकं मुण्डनं कार्यम् । एतस्य नैमित्तिकतया पित्रादिमरणनिमित्तकमुण्डनवत् पर्वनियमाभावादाचाराच जीवत्पि. तृफेणापि तीर्थे मुण्डनं कार्यम्- विना तीथं विना यज्ञं मातापित्रोद्मति विना । यो धापयति लोमानि स पुत्रः पितृघातकः ॥ इतिवचनात् । तत्रापि तीर्थान्तरे आद्ययात्रायामेव प्रयागे तु प्रतियात्रमित्याहुः । Prastaत:
तीर्थविधिप्रकरणम् ।
रव्यारसौरिवारेषु रात्रौ पाते व्रताहनि ।
श्राद्धाहः प्रतिपद्रिक्ता भद्रा औरेषु वर्जयेत् ।
आरौ भौमः । शौरिः शानः | पातो व्यनिपातः । रिक्ताश्चतुर्थी
नवमीचतुर्दश्यः । भद्राः द्वितीयासप्तमीद्वादश्यः ।
गार्ग्य:-
emato
षष्ठ्यमापूर्णिमापातचतुर्दश्यष्टमी तथा ।
आसु संनिहितं पापं त्रिषु तैले भगे क्षुरे।
व्यासः
नक्षत्रेण न कुर्वीत यस्मिन् जातो भवेन्नरः।
न प्रोष्ठपक्ष्योः कार्य नैवाग्नेये च भारत ।
दारुणेषु तु सर्वेषु प्रत्यरोच विवर्जयेत् ।
कुम्भे कर्कटके चैव कन्यायां कार्मुके रखो।
रोमखण्डं गृहस्थस्य पितृन्प्राशयते यमः ।
विवाहमौजीचूडासु वर्षमधं तदर्धकम् ।
अन्तवल्यांच जायायां नेष्यते केशावापनमित्यादि।
अथ तीर्थस्नानम् ।
तञ्च यत्र स्थलविशेषे विपरीतप्रवाहादि तत्र न कार्य तदुक्तं
'प्रत्यावृतोदके स्नानं वज्यं नद्यां द्विजातिभिः' इति । अस्य गङ्गाया-
मपवाद:-
प्रतिस्नोतो रजोयोगोरथ्याजलनिवेशनम् ।
गङ्गायां न प्रदुष्यन्ति सा हि धर्मद्रवा स्वयम् ॥
निषेधान्तरमपि-
शाल्मली तित्तिणी निम्बकराव हरीतकी।
कोविदारकपित्थार्कवदर्येरण्डशिप्रवः
त्रिस्थलीसेतुसारसंग्रह- शालूरः रवादिरश्चैषां स्नानं छायासु वर्जयेत् ॥ बदरी च विभीतकीति पाठान्तरम् । यश्वरात्रिसंध्यासु निषेधः सोप्याकस्मिकतीर्थप्राप्तौ न प्रवर्तते । तदाह वृद्धयाज्ञवल्क्यः - ग्रहणोद्वाहसंक्रान्तियात्रार्तिप्रसवेषु स्नानं नैमित्तिक शेयं रात्रावपि तदिष्यत इति ॥ एतच्चाद्यान्त्यप्रहरद्वय विषयम् । 'महानिशा तु विज्ञ या मध्यस्थ. प्रहरद्वयम् । प्रदोषपश्चिमौ यामौ दिनवत्स्नानमाचरेत्' इतिपराशरोक्ते- रिति केचित् । परार्थस्नाने विशेषो मार्कण्डेयपुराणे- REA मातरं पितरं जायां भ्रातरं सुहृदं गुरुम् । यमुद्दिश्य निमजेत अष्टमांशं लभेत सः ॥ स्मृतिदर्पणे-दशमाशं लभेत स इति पाठः। पैठीनसिः- प्रतिकृति कुशमयों तीर्थवारिणि मजयेत्॥ मजयेश्च यमुद्दिश्य सोष्टभागं फलं लभेत् । तत्रमन्त्रः- कुशोऽसि कुशपुत्रोऽलि ब्रह्मणा निर्मितः पुरा। त्वयि नाते से च स्नातो यस्येदं ग्रन्थिबन्धनमिति ॥ कुशप्रकृतिः-कुशप्रतिमैव कार्येत्येके । प्रन्थिबन्धनमिति मन्त्र- लिङ्गात् तन्नाम्ना प्रन्थिबन्धनमा प्रतिकृतिरित्यपरे । इदं परार्थस्नानं प्रतिकृतिस्नानं च जीवतामेवोद्देशेन कार्यम् । मृतानां तु तर्पण १३ तीर्थविधिप्रकरणम् । प्रधाहाभिमुखो मजेद्यत्रापः प्रवहन्ति वै। स्थावरेषु च सर्वेषु आदित्याभिमुखस्तथेति । - स्नानमन्त्रश्च-प्रभासखण्डे. - - - ॐनमो देवदेवाय शितिकण्ठाय दण्डिने । रुद्राय चापहस्ताय चक्रिणे वेधसे नमः ॥ सरस्वती च गायत्री वेदमाता गरीयसी। सन्निधात्री भवत्वत्र तीर्थ पापप्रणाशिनी ॥ सर्वेषामेव तीर्थानामयं मन्त्र उदाहृतः । इत्युच्चार्य नमस्कृत्वा स्नानं कुर्याद्यथाविधि ।। अत्र-इत्युच्चार्य नमस्कृत्वेत्युक्तरयं मत्रो न स्नाने करणं किन्तु प्रार्थ. नामात्रे । स्नानकरणत्वे च मन्त्रालिङ्गबाधः स्यात् । यद्वा अर्थमन्त्रः सागरस्वननिर्घोष दण्डहस्तासुरान्तक । जगत्स्रष्टर्जगन्मदिनमामि त्वां सुरेश्वर । तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ।। इदं मन्त्रं समुच्चार्य तीर्थे स्नानं समाचरेत् । अन्यथा तत्फलस्याधं तीर्थेशो हरति ध्रुवम् ॥ अनयोश्च मन्त्रयोः प्रार्थनाख्यकार्यकत्वाद्विकल्पः ॥ इति स्नानविधिः॥ Adme- - अथ तर्पणम्- तश्चादौ स्वशास्त्रानुसारेण स्नानाङ्गं कृत्वा पश्चात्तथैव देवर्षितर्पणं कृत्वा श्राद्धात्प्रागेव पितृतर्पणमपि कार्यम् । तत्र तर्पणक्रमः- आदौ पिता ततो माता सापत्तजननी तथा । मातामहाःसपत्नीका आत्मपत्नी ततः परम् ॥ maa
...
...
D
त्रिस्थलीसेतुसारसंग्रहे-
सुतभ्रातृपितृव्याश्च मातुलाश्च सपलिकाः ॥
दुहिता च स्वसा प्रोक्ता दौहित्रो भागिनेयकः ।
पितृष्वसा मातृष्वसा श्वश्रूश्च श्वशुरो गुरुः ॥
रिक्थदो
एते स्युः पितरस्तीर्थे तर्पणे च महालये।
पितेति पित्रादित्रयमित्यर्थः । एवं मातेत्यत्रापि । एवं सर्वान
पितून संतमे एकतिलाञ्जलिं(१)सर्वेभ्यो दद्यात् । तत्रमन्त्री वायवीयः-
आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥
अतीतकुलकोटीनां सप्तद्वीपनिणसिनाम् ।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ॥
पूर्वोक्तसकलतर्पणाशक्तौ ब्रह्मेत्यादिनैव श्लोकद्वयात्मकेन मन्त्रेण
सतिलकुशास्त्रीनञ्जलीन्दद्यात् । अत्र प्रत्यञ्जलि मन्त्रावृत्तिः संध्या.
य॑वदित्येके । अन्येतु ब्रुवन्नितिशतृप्रत्ययेन समानकालतावगमात् युवा
सुवासा इतिवत्क्रियमाणानुवादितया करणत्वाभावात्सकदेव मन्त्रं
पटनञ्जलिं दद्यादित्याहुः । यश्च तर्पणे तिलनिषेधः-
भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च ।
पिण्डदानं मृदा
स्नानं न कुर्यात्तिलतर्पणम् ॥
इतिमरीचिः॥
सप्तम्यां रविवारे च गृहे जन्मदिने तथा।
भृत्यपुत्रकलत्रार्थो न कुर्यात्तिलतर्पणम् ॥
पक्षयोरुभयोरात्रौ सप्तम्यां निशिसंध्ययोः ।
विद्यापुत्रकल त्रार्थी तिलान् सप्तम वर्जयेत् ॥
इतिस्मृत्यर्थसारे ॥
(१) एकालिम् इति क पाठः।
तीर्थविधिप्रकरणम्।
विवाहे चोपनयने चौले सति यथाक्रमम् ।
वर्षमधं तदर्धं च नेत्येके तिलतर्पणमिति ।
वृद्धौ सत्यां च तन्मासि नेत्याहुस्तिलतर्पणमिति ।
अयं तीर्थतर्पणे न प्रवर्तते-
तीर्थ तिथिप्रवेशे (१) च मयायां प्रेतपक्षके ॥
निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितमितिवचनात् ।
विधवयापि तीर्थे तर्पणं कार्यम् ।
तर्पणं प्रत्यहं कार्य भर्तुः कुशतिलीदकैः ॥
तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकमिति स्कान्दोक्तेः ।
तीर्थ नैमित्तिकतया सुतरां तदधिकारात् ।
इदं च पुत्रपौत्राभावविषयकमितिमदनपारिजातकारादयः । संन्यासि.
ना तु तर्पणं न कार्यम् । 'न कुर्यात्सूतकं भिक्षुः श्राद्धपिएडोदकक्रियाम्'
ईतिस्मृतः ॥
अंथनदीनां रजोदोष:-
।
-
व्याघ्रपाद:-
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः ।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगा इति।
भविष्योत्तरे ।
आदौ तु कर्कटे देवि महानद्यो रजस्वलाः ।।
त्रिदिनं तु चतुर्थेऽहि शुद्धाःस्युर्जाह्नवी यथा ।।
महानद्यश्च ब्रह्मपुराणे-
गोदावरी भीमरथी तुङ्गभद्रा च वेणिका।
तापी पयोष्णी विन्ध्यस्य दक्षिणेतुप्रकीर्तिताः ॥
भागीरथी नर्मदा च यमुना च सरस्वती।
(१)तिथिविशेषे इतिकपाठः ।
त्रिस्थलीसेतुसारसंग्रहे-
विशोकाध वितस्ता च विन्ध्यस्योत्तरतःस्थिताः ।
द्वादशैता महानद्यो देवर्षिक्षेत्रसम्भवाः ॥ इति ॥
इत्यल्पनदीषु अगस्त्योदयावधि रजस्वलात्वमुक्तं मात्स्ये-
यावन्नोदेति भगवान दक्षिणाशाविभूषणम् ।
ताबद्रजोवहा नद्यः करतोयाः प्रकीर्तिताः ॥
करतोया:स्वरूपतोयाः ।।
गङ्गाविषये देवल:-
गङ्गा च यमुना
चैव "क्षजाता
सरस्वती॥
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञिताः
शोणसिन्धुहिरण्याख्याः कोकलोहितघर्घराः॥
शतद्रुश्च नदाः सप्त पावनाः परिकीर्तिताः ।
अयं रजोदोषस्तीरवासिनां नास्ति । तदुक्तं निगमे-"न तु
तत्तीरवासिनामिति"।
योगियाज्ञवल्क्य:-
अजा गौमहिषी चैव ब्राह्मणो च प्रसूतिका ।
भूमेनवोदकं चैव
दशरात्रेण शुद्धयति ॥ इति ।
नूतनखानितकूपाधुदकं नवोदकम् । वसिष्ठः-
उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च ॥
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते ।
अथतीर्थश्राद्धम्।
ब्रह्मपुराणे-
Naute
परकीय गृहे यस्तु स्वान्पित स्तर्पयेजनः।
तद्भूमिस्वामिनस्तस्य हरन्ति पितरो वलात् ॥
अग्रभागं ततस्तेभ्यो दद्यान्मूल्यं च जीवताम् ।
तीर्थविधिप्रकरणम् । अत्र परगृहादयो निषिद्धाःन तु तीर्थादयः तेषामस्वामिकत्वात् । तदुक्तं कौमें- वनानि गिरयो नद्यस्तीर्थान्यायतनानि च ॥ देवखाताश्च गर्ताश्च न स्वामी तेषु विद्यते । गर्ताः-अकृत्रिमक्षेत्र विशेषाः ब्रह्मयोन्यादयः॥ भारते- -- भुक्तो पाप्यथवा भुक्तो रात्रावहनि खेवर । न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वराम् ॥ इति तीर्थे कालविशेषानादर उक्तः-'पर्वकालेऽथवाकाले शुचि प्यिथवाशुचिः' अशुचिराशौचयुक्तोऽपि । तथा च पैठीनासिः- विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि न तत्र सूतक तद्वत्कर्म यज्ञादि कारयेदिति ॥ इदं चामहेमश्राद्धविषयम् । अन्नश्राद्धं तु रात्रिसंध्ययोर्भुक. वतश्च तीर्थप्राप्तौ द्वितीयदिने आशौचे तु तीर्थप्राप्तावाशौचापगमे मलमासे तीर्थप्राप्तौ तदा श्राद्धं कृत्वा शुद्धमासे पुनः कार्यम्- योगादिकं मासिकं च श्राद्धं चापरपक्षिकम् । मन्वादिकं तैर्थिकं च कुर्यान्मासद्वयेपि चेति ।। स्मृतिचन्द्रिका लिखितवचनात् । अत्रापरपक्षिक प्रतिमासं कृष्णपक्ष- श्राद्धम् न तु महालयश्राद्धं तस्य तत्र निषेधात् । स्कान्दे- न परीक्ष्यो द्विजस्तीर्थे ह्यन्नार्थी भोज्य एव तु ॥ एतच श्राद्धाहब्राह्मणाला वेदितव्यम् । तत्रापि गुणैर्न परीक्षेत। पातित्याद्यत्यन्तदोषयुक्तस्तु परिहर्तव्य एवेति स्मृतिरत्नावलीकारः । - त्रिस्थलीसेतुसारसंग्रहे- अथतीर्थश्राद्धे निषिद्धानि । देवीपुराणे- श्राद्धं च तत्र कर्तव्यमावाहनवर्जितमिति । तथा- अर्घामावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् । तृप्तिप्रश्नं च विकिरं तीर्थश्राद्धे विवर्जयेत् ॥ नावाहनं न दिग्बन्धो न दोषो दृष्टिसंभवः । सकारुण्यं च कर्तव्यं तीर्थश्राद्धं विचक्षणैः ।। भविष्य- - आवाहनं विसृष्टिश्च तत्र तेषां न विद्यते ॥ इति । अग्नौकरणम् तीर्थश्राद्ध न कार्यमिति स्मृतिरत्नावल्याम् । अयं चाया- दिनिषेधस्तीर्थप्राप्तिनिमित्तक एव । श्राद्धे च तदधिकरणकश्राद्धमात्रे क्षयाहादावपि। अयनद्वितये श्राद्धं विषुवद्वितये तथा ॥ संक्रान्तिषु च कर्तव्यं पिण्ड निर्वपणाद्वते ॥ इतिसंक्रन्त्यादिनिमित्तक एव पिण्डनिषेधो न तु वार्षिके तद्वत् । तदुक्तम् । नत्वत्रान्यनिमित्त के पितृयज्ञे पिएडप्रहाणंभवेदिति । विष्णुः- मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः । मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितमिति ॥ ऊहे न्यायश्च भट्टरुतः॥ मुख्यदृष्टार्थतास्वार्थसमवेतार्थतादिभिः । प्रयुक्ताः प्रकृतौ मन्त्रा गताः कार्यातिदेशतः ॥
तीर्थ विधिप्रकरणम् । विकारेष्वनिषिद्धोहाः कार्यापन्नेषु पञ्चधा । अर्थान्तरेष्वपूर्वार्थद्वारेणोहं व्रजन्ति ते इति ॥ पञ्चधा कार्यापत्तिस्तु- प्रत्यक्षविधिना भावे विधानेन विकारतः। स्वशब्दाच निषेधानुवादात्तत्कार्यकारिता ॥ इति । एवं च पितॄन्हविषा इत्यत्र पितृशब्दस्य समवेतार्थत्वादर्थान्तरे प्रयोगाभावानोहः । पितृशब्दो हि द्वयर्थः । जनकवाची, सपिण्डीकर पान्तश्राद्धजनितपितृभवोपाधिना स्त्रीपुंससाधारणश्च । प्रेते पितृत्व- मापन्ने सपिण्डीकरणादनु इतिविष्णुस्मृतेः । शुन्धन्तां पितरइन्यत्र- न्यायादूहः। अत्र हि पूर्वोत्तोपाधिना पितृपक्षप्रवृत्तौ शुन्धन्तां पिता- महाः शुन्धन्तां प्रपितामहाः इति मन्त्रद्वयभागो ऽनर्थकः स्यात् । अतोजनकत्वोपाधिनैव प्रवृत्तिः । तेन विकृतौ मातामहादिश्राद्ध "अन्तिरत्वादहः”। सोपि प्रतिपदिकमात्रस्यैव बहुवचनं तु प्रकृता- वेकस्मिन्नपि पितर्यसमवेतार्थमिति नोह्यम् । ततश्च शुन्धन्तां मातरः शुन्धन्तां मातामह्यः इत्याधुह्यम् । एवं पितामहादावपि । शेषाणां मन्त्र- वर्जितमितिविष्णुवचनल्यायमर्थः। शेषाणामिति कर्तरि षष्ठी। ततश्च धर्णशेषाणां शूद्राणाम् । तत्तुल्यानामनुपनीतानां स्त्रीणां कर्तव्यं श्राद्धं तै रमन्त्रक कार्यमित्यर्थः। - बाराहपुराणे- अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः। अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रण गृह्यते ॥ गृह्यते संबध्यत इत्यर्थः । अस्याश्च परिभाषात्वेन प्रकरणानियम्यतया शूद्रस्य स्नानदा. नादावपि विप्रेण मन्त्रः पठनीय इतिशूलपाणिः । अत्रामन्त्रकमितिवैदि- त्रिस्थलीसेतुसारसंग्रह- कमन्त्रस्यैव प्रतिषेधः। तीर्थश्राद्ध च विश्वेदेवा धुरिलोचनौ यदा काम्यप्रयोगः। नित्यप्रयोगे तु पुरुरवोमाद्रवसावेवेति ॥ । अथान्नहेमश्राद्धविचारः। सुमन्तु:- तीर्थे श्राद्धं प्रकुर्वीत पक्कानेन विशेषतः। आमान्नेन हिरण्येन कन्दमूलफलैरपीति ।। अत्रान्नश्राद्धं मुख्यमुत्तरोत्तरंत्वनुकल्प इतिमदनपारिजातादिवोदासादयः । स्मृतिरत्नावलीकारादयस्तु ग्रहणे तीर्थश्राद्धौ चामश्राद्धं हेमश्राद्धं घा मुख्यम् । सदैव हि जलान्तेषु आमश्राद्धप्रचक्षत इतिवचनात् पाकश्राद्धं न भवत्येवेत्याहुः । अन्ये तु तीर्थजलसमीपे वैदामेन हेना वा जलान्तेष्वि- त्युक्तः । गृहे त्वन्नेनैव पक्वान्नेन विशेषत इति वचनादित्याहुः । शूद्रेण- त्वामेनैव सदा कार्यम् । 'सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधा' इतितुमन्तूक्तेः । आमश्राद्धेच विशेषः स्मर्यते। आम ददाति चेद्राजन्नन्नात्तद्विगुणं भवेत् । त्रिगुणं चतुर्गुणंचापि नत्वेकगुणमर्पयेत् ॥ अन्नात्पुरुषाहारादित्यर्थः। अत्रोत्तरोत्तरपक्षो मुख्यः। हिरण्यं त्वगुणं चतुर्गुणं द्विगुणं वा । अशक्तौ तु सममप्यामं हेमं वा देयम् । । । उशना:- आमश्राद्धं यदा कुर्याद्विधितः श्राद्धतस्तथा । हस्तेग्नौकरणं कुर्याद्वाह्मणस्य विधानतः ।। तथा- दद्याद्यचद्विजातिभ्यः शृतं वावृतमेव वा। तेनाग्नौकरणं कुर्यात्पिण्डास्तेनैव निर्वपेत् ॥ षड्विंशन्मते ॥
तीर्थविधिप्रकरणम् ।
आमश्राद्धं यदा कुत्पिण्डदानं कथं भवेत् ।
गृहपाकात्समुद्धृत्य सक्तुभिः पयसेन वा ॥
पिण्डदानं भवतीति शेषः। आमगृहपाकसक्तुपायसानां विकल्पः।
आमश्राद्धे च भोजनसंबद्धापोशनाल्यो लुप्तप्रयोजना निवर्तन्ते ॥
कृष्णलेवघात(१)वत् । तदुक्तम्-
तृप्तिप्रश्नोऽवगाहश्च जुषप्रशनो यथासुखम् ।
आमश्राद्ध भवेन्नैतदापोशानं च पञ्चमम् ।।
अवगाहोऽङ्गुष्ठनिवेशनम् । हेमश्राद्धे पिएडनिवृत्तिरिति दिवोदासः ।
स्मृत्यर्थसारे तु विकल्पः आमश्राद्ध केषां चिन्मन्त्राणामूहोऽपि भवति-तथा
चमगचिः-
आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने
अन्यकर्मण्यनूह्याः स्युरामश्राद्धविधिः स्मृतः ॥
आवाहने पितॄन्हविषे अत्तवे इति मन्त्रे 'अत्तवे' इति पदस्थाने
स्वीकर्तव्य इति पदोहः । स्वधाकारे नमो वः पितर इषे इतिपदे आप्रा.
येति पदोहः कार्यः। विसर्जने 'वाजे वाजे' इतिमन्त्रे तृप्ता यातत्यत्र तृप्ता
इति तृप्तिप्रश्नस्थाने तृप्यतेति पदोहः। यद्यपि यूप इति वा एतदक्षरं
यदेनमभ्यूहतीतितत्रोहो निषिद्धस्तथापि वचनादूहः । यदा ब्राह्मणा
वहवो न लभ्यन्ते तदैकेनापि श्राद्ध कार्यम्-
अन्नाभावे द्विजाभावे तीर्थरूपे महालये
एकस्मिन्दीयते चान्नमान् पिण्डान पृथक् पृथम् ।।
(१) 'प्राजापत्यं घृते चरुं निवपेच्छतकृष्णालमायुष्कामः' इति काचिाद्वकृतिरूपष्टिः
श्रूयते कृष्णलशब्द: सुवर्णशकलवाचो तत्र प्रकृती 'ब्रीहानवहान्त' इत्यवघातस्य विहेततया
प्रकृतिवद्विकृतिः कर्तव्येतिवचनबलात् चरहेता कृष्णले प्राप्तोऽप्यवधातः वितुषीकरणरूपस्य
पूयोजनस्य लोपान्निवर्तते ।
२२ त्रिस्थलीसेतुसारसंग्रहे- इति वचनात् यदा एकोऽपि न लभ्यते तदा दर्भचयोपरि श्राद्धं कार्यम्। । पात्राभावे खिलं कृत्वा पितृयज्ञविधि नरः। प्रेषानुप्रैषसंयुक्त विधानं प्रतिपादयेत् । सर्वाभावे क्षिपेद्वन्हौ गवे दद्यादथाप्नु वेति देवलोक्तेः ।। प्रैषानुप्रैषसंयुक्तमिति श्राद्ध सपन्नमिति प्रश्नप्रतिवचने स्वयमेव वदेदित्यर्थः। आमहेमपक्षयोस्तु श्राद्धं निर्वयं कालान्तरे ब्राह्मणाय तद्रव्यं दद्यात् । यस्तु श्राद्ध अशक्तः स पिण्डदानमात्रं कुर्यात् ॥ तथाह-देवलः पिण्डमात्र प्रदातव्यमभावे द्रव्यविषयोरिति । पिण्डद्र- व्याणि देवीपुराणे- सक्तुभिः पिण्डदानं च संयावैः पायसेन वा । कर्तव्यमृषिभिः प्रोक्तं पिण्याकेनेङ्गुइन ॥ गुडेन वेति पाठान्तरम् । संयावो गोधूमविकारः। पिण्याकस्ति- लकल्कः ॥ इदं तापसतरुफलम् । अत्र पूर्वपूर्वालामे उत्तरोत्तरं ग्राह्यमित्याहु: पिण्डप्रदानमाहांगिरा:- कपित्थविल्वमाम्रान्वा पिडान्दद्याद्विधानतः । कुक्कुटाण्डप्रमाणान्या केषां चामलकैः समान् ॥ वदरेण समान्वापि दद्याच्छ्रद्धासमन्वितः। तीर्थश्राद्ध च पिण्डानां जले प्रक्षेप एवप्रति पत्तिः 'तीर्थश्राद्ध सदा पिएडान् क्षिपेत्तीर्थे समाहितः' इतिवचनात् पिण्डदाने ऽप्यशकस्तु तिलतर्पणमा कुर्यात् । 'ति लैः सप्ताष्टभिर्वापि समवेतं जलाञ्जलि. मिति वचनात् । तदयं सक्षेपः । शक्तेन तर्पणश्राद्धपिण्डदानानि त्री- एयपि कार्याणि । अशक्तन तर्पणपिण्डौ । अशक्ततरेण तर्पणमात्रमिति । - कात्यायन:- वे बहूनि निमित्तानि जायेरन्नेकवासरे। नैमित्तिकानि कार्याणि निमित्तोत्पत्त्यनुक्रमादिति ॥
तीर्थविधिप्रकरणम् । ૩ तथाचैकस्मिन्नपि दिने क्रमेण एकतीर्थप्राप्तौ वहूनि श्राद्धानि कार्याणि दर्श उपरागश्राद्धवत् । यत्तु 'नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित्' इति प्रचेतोवचनं तत्समानतिथिकश्राद्धविषयं संक्रान्त्यमावास्यादिनिमित्तकश्राद्धानां तु देशाद्यैक्यैनागृह्यमाणविशेषत्वात्तन्त्रेणानुष्ठानम् । यदि तु तीर्थप्रा. प्तिदिने वार्षिकं स्यात्तदा पृथगेव कार्यम् । तदुक्तं कालादर्श-- प्रत्याब्दिकेषु चालभ्ययोगेषु विहितस्य च । संपाते देवताभेदाच्छाद्धयुग्मं समाचरेत् ॥ इति । तत्राप्यादौ तीर्थश्राद्धं पश्चाद्वार्षिकमिति विवेकः । इदं च तीर्थ- श्राद्धं दशमासानन्तरं तीर्थप्राप्तावावश्यकम् । अन्तरा तु फलेच्छया कृताकृते संवत्सरे द्विमासोने इतिप्रागुदाहृतवचने चकारेण तीर्थश्राद्ध- स्यापि संग्रहादिति बृद्धाः ।। इतितीर्थश्चाद्धविचार:॥ मैत्रायणीयपरिशिष्टे महानदीषु सर्वासु तीर्थेषु च गयामृते । जीवत्पिताऽपि कुर्वीत श्राद्ध पार्वणधर्मवत् ॥ मृतमातृकस्य तु प्रासङ्गिको गयाप्राप्तौ प्रतिप्रसवः श्रूयते परिशिष्टे- अन्वष्टक्यां गयाप्राप्तौ सत्यां पञ्चमृतेऽहनि । मातुःश्राद्धं सुतः कुर्यात् पिनर्यपि च जीवति । इतिप्रासङ्गिकप्राप्तौ सत्यां कार्यं न तूद्दिश्य गत्वेत्यर्थः । ततश्च गयातिरिक्ततीर्थे जीवत्पितृकेण वक्ष्यमाणसर्वोद्देश्येन श्राद्धं कार्यम् गयायां तु यदि प्रसङ्गाद्याति मृतमातृकस्तदा मातृपार्वणमात्र कुर्यात् । अमृतमातृकस्तु नेत्येव कालदर्शस्मृतिरत्नावत्नीकारादयः । अपरे तु जीव. रिपतृकश्राद्धविधायकवाक्यानां साधारण्याद् गयायामपि जीवत्पि. तृकेण पितृपित्रादिभ्यो वक्ष्यमाणेभ्यः श्राद्धं कार्यम् एतस्मिन श्राद्ध - त्रिस्थलीसेतुसारसंग्रह- मृतमातृकस्य पितृपत्नीत्वेन मातृश्राद्धसिद्धावपि अन्वष्ठत्यामित्यादि. वचनं मातृत्वादिरूपेण पृथक् पार्वणप्राप्त्यर्थम् । गयाश्राद्धं निषेधवच- नानि तु मृतमातृकेणापि तछाद्धोद्देशेन न गन्तव्यमित्येवंपराणीत्याहुः । भ्रातरस्तु यदि विभक्ताः युगपदयुगपद्वा तीर्थं गतास्तदा पृथक श्राद्धं कुर्युः । अविभक्तास्तु युगपद्गताश्चेत्तदा ज्येष्ठेनैव कार्यम् । 'एकेनैगविभक्तेन कृते सर्वैस्तु तस्कृतमि तिवचनात् कुर्युर्गयाश्राद्धम् पृथक् पृथक् । विधवा अपुत्रा चेत् कुर्यात् 'सपुत्रया न कर्तव्यं भर्तुः श्राद्धं कदाचन'इतिस्मतेः। अपुत्रया तु कार्यमेव । 'अपुत्रा पुत्रवद् पत्नी' इतिवचनात् । केचित्तु पुत्रवत्यापि पुत्रासन्निधाने ब्राह्मणद्वारा श्राद्धं कारणीयमित्याहुः । संकल्पेच वानाह वसिष्ठः- आवाहनं स्वधाशब्दमाग्नौ करणं तथा । विकिर पिण्डदानं च सङ्कल्पे षड्विवर्जयेत् पाझे सृष्टिव एडे। एतामन्त्रकनामगोत्राभ्यां कुयुः । देवोभ्यो नमः स्वधा पितृभ्यो नमः इति मन्त्राभ्यां वेति एवंचानुपनीतोऽपि कुर्यात्सर्वेषु पर्व इति- स्मृत्यर्थसारे अनुपनीताः स्त्रीशूद्राश्च श्राद्धमूत्विजा कारयेयुः स्वयंवा । अथाधिकारापवादः। तत्र यतिना न कार्यम् 'न कुर्यात्सूतकं भिक्षुः श्राद्ध पिण्डोदक- क्रिया' मिति वचनात् । द्विजातिकर्मभ्यो हानिः पतनमिति वचनात् उपपातक्यादिना कार्यमेव । तस्य नित्यनैमितिकयोर्विशेषाभावात् । थतीर्थ श्राद्धे संप्रदाननिर्णयः ।। गयातिरिक्ततीर्थेषु पितृपार्वणं मातामहपार्वणं चेतिद्वैविध्यम् । कसमन्वितं मुरका तदन्यच्छाद्धषोडशम् ॥ प्रत्याब्दिकं च शेषे तु पिण्डास्तु षडितिस्थितिरिति ॥ स्मृतिरत्नावलीकारादयः ।
तीर्थविधिप्रकरणम् । स्मृत्यर्थसरे तु-तत्रमातृश्राद्धं पृथक् प्रशस्तमिति कृताकृतत्वमुक्तम अन्ये तु मातामह्यादिपार्वणं परि पृथगित्याहुः ॥ पित्रादिनवदैवत्यं. तथा द्वादशदैवतमित्यग्निपुराणोक्तेः । विकल्पार्थस्तथाशब्दः ॥ मातृ- मातामही यदा पार्वणे पृथक् न स्तस्तदा पित्रादीनां मातामहादीनां च सपत्नीकत्वेन निर्देशः मात्रादीनां पृथक्श्राद्धपक्षे तु यदि ताः कृत- सहगमनास्तदा भवता चोद्दिश्य सहैवायुग्मव्राह्मणभोजनं पिएडोऽपि चोभयोद्देशेन एक एवेति मदनपारिजातकारादयः । हेमाद्रिप्रभृतयस्तु सांव- त्सारकमात्रं सहैव कार्यम् तीर्थादौ तु पृथगेव देयमित्याहुः । सपत्न. भ्रातृसपत्नपितामहीसपत्नप्रपितामहीभ्योऽपि दद्यात् । सपत्नमाताम- हीभ्योपि । मातृसपत्नीनां तु पुत्रवतीनां कृपया सपत्नीपुत्रो दद्यात् । एवं पितृभ्योपि देयम् । तच्चैकोद्दिष्टमेव 'पितृव्यभ्रातृमातृणामेकोद्दिष्टं सदैवहि' इतिजातुकर्ण्यवचनात् । अत्र मातृग्रहणं सपत्नमातृपरमिति हेमाद्रिः भ्रांत्र भगिन्यै पुत्रीयस्वामिने मातुलाय च । मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्वणमिति सुमन्तूक्तः ॥ यत्तु वचनम्- पितृव्यभ्रातृमातृणामपुत्राणां तथैवच । मातामहस्यापुत्रस्य श्राद्धादि पितृवद्भवेत् इति ॥ तदावश्यकतया तुल्यत्वार्थ न तु पार्वणविधानेन तुल्यत्वार्थम् । अत्र च पितृमातामहपार्वणे नित्यमन्यानि तु पार्वणैकोहिष्टानि का- म्यानि । गयायां तु नित्यपार्वणे नित्यम् | अन्यानि तु पार्वणैकोद्दि ष्टानि काम्यानि । गयायां तु नित्यपार्वणमावश्यकमिति वक्ष्यते । अत्र च तन्त्रणव पाकः । बहूनामथवा द्वाभ्यां श्राद्ध चेत्स्यात्समेऽहनि । तन्त्रेण श्रपणं कृत्वा पृथक् श्राद्धानि निर्वपेदित्य त्रिस्मृतेः । अत्र चाशक्तनै कस्मिन्ब्राह्मणे सर्वारयेकोद्दिष्टानि कार्याणि-अत एव चतुर्विशन्मते । - ope २६ mea त्रिस्थलीसेतुसारसंग्रहे- तीर्थेषु चैव सर्वेषु माघमासे मधासु च । एकस्मिन्ब्राह्मणे सर्वानाचार्यादीन् प्रपूजयेवित्युक्तम् ॥ पिण्डदानं तु पृथगेव- अदैवं च सर्वर्वणनां तन्त्रमेव च । कालभेदेन मन्त्रं स्याद्देशभेदेन चैव हि ॥ तस्मात्तन्त्रविधानात्तु योगपद्यं प्रतीयत इति । संग्रहकारोक्तः। यस्तु परार्थं तीर्थ याति तेनादौ तत्पितृश्राद्धकार्य पश्चात्स्त्री- यानामिति प्रपञ्चितम् । हेमाद्रौ विधवा तु भर्तृपार्वणं स्वपितृपार्वर्ण च कुर्यात् । स्वभर्तृप्रभृतित्रिभ्यः स्वपितृभ्यस्तथैव च । विधवा कारयेच्छाद्धं यथाकालमतन्द्रिता ॥ इति स्मृतिदर्पण (धृत) लिखितस्मृतेः । यस्यास्तु श्वशुरो जीवति सा भर्तृत पितामहप्रपितामहेभ्यः । स्वपितरि जीवति तु द्वारलोपारिपतृपार्वणलोप एव । मृतश्वश्रादेस्तु- श्वश्रादिपार्वणं कृताकृतमेव न दैवतम् । केचित्तु मात्रादिपावणेन सह द्वादशदैवतमित्याहुः। अपरे तु स्वमा. तामहपार्वणेन सह द्वादशदैवतमित्याहुः । अन्ये तु स्वमातामहादिपार्वणे. न सह अष्टादशदैवतम् । एतच्च त्रयमप्यपुत्रविषयमिति केचित् । जीवरिपतृके तु विशेषः। बृद्धौ तीर्थे च संन्यस्ते जाते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्योदद्यात्स्वयं सुतः ॥ विष्णुना त्वन्योऽपि विशेष उक्तः-पितरि जीवति येषां पिता कुर्यात् तेषां कुर्यात् पितरि पितामहे च जीवति येषां पितामहः । पितरि पितामहे प्रपितामहे जीवति नैव कुर्यादिति ॥ - तीर्थविधिप्रकरणम् । २७ तस्मात्पितुरेव पित्रादयो मातामहादयो मातामह्यादयश्च जीवत्पिकत- स्य तीर्थश्राद्धदेवताः एवं च स्वमातुः पितपत्नीत्वेनैकोद्दिष्टं माता. महस्य च स्वपितृश्वसुरत्वेन स च यदि द्रव्यादिनानप्रेरितपुमंतर. वत् । पितृनियुक्तस्तत्पुत्रार्थमेव याति यदा तदा यजमानस्य पितृ पितामहप्रपितामहानामित्येवमाकरकवाक्यरचनया एक श्राद्धं कृत्वा स्वस्यापि श्राद्धाहे तु प्रासङ्गिकतीर्थप्राप्तः कृतत्वात्पितुः पित्रादीना- मित्येवं विधवाक्यरचनया श्राद्धान्तरं कुर्यात् । न तु तन्त्रं प्रसङ्गो वा भिन्नाधिकारित्वात् । यदा मृतमातृकः पित्रथं गयां याति तदा प्रथमश्राद्धे यजमानपत्नीत्वेन स्वमात्र एकोद्दिष्टम् । द्वितीये तु पितृ. पत्नीत्वेनैकोद्दिष्टमेव ततो मात्रादिपार्वणम् कालदर्शादिमते तु गयायां जीवरिपतृकस्य श्राद्धानधिकारात्। पितृपत्नीत्वेन श्राद्ध नास्त्येव ।। गयातिरिक्ततीर्थेषु तु पितृपत्नीत्वेनैकोहिष्टमेव । न तु पार्वणं बचना- भावात् । यत्तु जोवेर्घ दचवर्गाद्यस्तद्वर्ग तु परित्यजेदिति तदमावा- स्यादिविषयम् । एवं च श्राद्धं पिण्डांश्च कृत्वा सामान्यपिएडोऽपि देयः । यदाह देवल:- एक पिएडमुपादाय संस्कृत्य च यथाविधि । शातिवर्गस्य कृत्स्नस्य सामान्यमितिनिर्वपेत् ।। इतिवक्ष्यमाणमंत्रण सच मंत्र:- पितृवंशे मृता ये च मातृवंशे च ये मृताः । गुरुश्वसुरबन्धूनां येचान्ये खान्धवाः स्मृताः ॥ ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः । क्रियालोपगताश्चैव जात्यन्धाः पङ्गवस्तथा ॥ विरूपा आत्मगर्भाश्च ज्ञाताज्ञाar: कुले मम । तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठतामिति । अत्रश्लोकत्रयस्यापि-एकमत्रता। तावतैव तथा वाक्यार्थपरि- समाप्तः।
२८ त्रिस्थलीसेतुसारसंग्रहे- आब्रह्मणा ये पितृवंशजाताः मातुस्तथा वंशभवा मदीयाः। वंशद्वये ये मम दासभूता भृत्यास्तथैवाश्रितसेवकाश्च ॥ मित्राणि सख्यः पशवश्च वृक्षाः स्पृष्टादृष्टाश्च कृतोपकाराः । जन्मान्तरे ये मम संगताश्च तेभ्यः स्वधापिएडमहंददामि ॥ इतिश्लोकाभ्यां पिण्डान्तरं देयम् । अत्रापि पूर्ववदेकमन्त्रना। यस्य त्वेतावन्तं श्राद्ध कलापं प्रत्येकं च पिण्डदान रोगादिना कर्तुमश- कियाध्यादिना तावतः कालस्याभावो वा ससंक्षेपश्राद्धं कुर्यात् । तच "शत्तया श्राद्धमहं करिष्ये' इतिसंकल्प्य- ॐपिता पितामहश्चैव तथैव प्रपितामहः । मातामहस्तत्पिता च मातृमातामहादयः ॥ तेषां पिएडो मया दत्तो ह्यक्षय्यमुपतिष्ठतामिति । मन्त्रेणकपिण्डं दद्यात् । अथ तीथें अस्थिप्रक्षेपविधिः ॥ यमः - गङ्गा तोयेषु यस्यास्थि क्षिप्यते शुभकर्मणः । न तस्य पुनरावृत्तिर्ब्रह्मलोकात्सनातनात् ॥ अत्र कालविशेषः- अस्तं गते गुरौ शुक्र तथा मासे मलिम्लुचे ॥ गङ्गायामस्थिनिक्षेपं न कुर्यादितिगौतमः । तथा- अस्थिक्षेपं गयाश्राद्धं श्राद्धं चापरपक्षिकम् ॥ प्रथमाब्दे न कुर्वीत यदि न स्यात्सपिण्डनम् ॥ कृते तु सपिण्डने इतिपाठान्तरम्। तथा- अस्थिक्षेपं गयाश्राद्धं श्राद्धं चापरपक्षिकम् ।
तीर्थविधिप्रकरणम्।
प्रथमेऽब्दे न कुर्वीत कृतं यस्योर्ध्वदैहिकम् ॥
"यदि स्यात् भक्तिमान सुत" इति पाठान्तरम् । दशाहाभ्यन्तरे तु
न दोषः।
दशाहाभ्यन्तरे यस्य गङ्गातोये ऽस्थि मजति ।
गङ्गायां मरणं यादृक् तादृक् फलमवाप्नुयात् ॥
इतिवचनात् ॥
पुराणे-
मातुः कुलं पितुः कुलं वर्जयित्वा नराधमः।
अस्थीन्यन्यकुलस्थानि नीत्वा चान्द्रायणं चरेत् ॥
इदं च द्रव्यादिलोभविषयकम् । दयादिना तन्नयने फलश्रवणात् ।
श्रथ प्रकीर्णका धर्माः।
एका चण्ड्यां रवौ सप्त तिस्रः कुर्याद्विनायके ।
चतम्रो विष्णवे कार्याः शिवस्यार्धप्रदक्षिणम् ॥
शिवं प्रदक्षिणं कुर्वन् सोमसूत्रं न लक्षयेत् ।
सोमसूत्रादिपरिमाणं विश्वेश्वरादौ दोषाभावं च काशीप्रकरणे
वक्ष्यामः॥
नमस्कारेऽपि विशेष:-
अग्रे पृष्ठे वामभागे समीपे मन्दिरेऽपि च ।
जपहोमनमस्कारान्न कुर्याद् देवतालये ॥
अग्रे मृत्युमवाप्नोति पृष्ठे त्वपचयःस्मृतः ।
वामभागे भवेन्नाशो दक्षिणे सर्वकामदः ॥
शिवस्य त्वग्रेऽपि कार्य:-
पशुः पशुपतेरने दण्डवत्पतितो भुवि ।
पतन्ति पातकाः सर्च नोत्तिष्ठन्ति तदा सहेति वचनात् ।
पाझे-
द्रव्यमन्नं फलं तोयं शिवस्वं न स्पृशेत्कचित् ।
३० त्रिस्थलीसेतुसारसंग्रह- लयेन्नैव निर्माल्यं कूपे सर्वं विनिक्षिपेत् ॥ बाझे तु- ब्रह्माङ्गलग्नं विप्रेभ्यो वैष्णवं च प्रदापयेत् । रुद्राङ्गलग्नमग्नौ च दहेत्सर्वं च तत्क्षणात् ॥ अन्येभ्यस्त्वथ देवेभ्यो यत्तद्दीनेषु निक्षिपेत् । विप्रेभ्यस्त्वथ देवेभ्यो मातृभ्यो यन्निवेदितम् ॥ ब्राह्मणेभ्यस्तु तद्देयं गणेशादिनिवेदितम् । विश्वेश्वरादौ त्वपवाद वक्ष्यामः । महादानानि ये विप्रा गृह्णन्ति ज्ञानदुर्बलाः । वृक्षास्ते द्विजरूपेण जायन्ते ब्रह्मराक्षसाः ॥ अपि चेत् प्रतिगृह्णीयात् ब्राह्मणो वृत्तिकर्षितः । दशांशमर्जितं दद्यादेवं धर्मो न हीयते ॥ देवल:- - न नदीषु नदी ब्रूयात्पर्वतेषु च पर्वतम् ।। स्कान्दे- स्नानकालेन्यतीर्थेषु जप्यतां जान्हवी जनैः । यदा मार्गगामिनोऽन्तरा सरस्वतीव्यतिरिक्ता नदी आपतति तदा परपारे स्नानादिकं कार्यम् । सरस्वत्यास्त्वक्तिीरे तदुक्तम् । मार्गेऽन्तरा नदीप्राप्तौ स्नानादि परपारतः । अर्वागेव सरस्वत्या एष मार्गगतो विधिः ।। यत्र त्वक्तिीर एव तीर्थ विशेषः । सरस्वत्यां वा पर पारे तीर्थविशेषस्तत्रोक्तनियमानावरेण विशिष्टतीर्थ एव सर्व कर्तव्यम् । नारदीये- यः शूद्रेणार्चितं लिङ्गं विष्णु वा प्रणमेन्नरः । न तस्य निष्कृतिॉस्ति प्रायश्चित्तायुतैरपीति ।।
तीर्थविधिप्रकरणम्। - योषिद्भिः पूजितं लिङ्गमित्यादि स्मृत्यन्तरे । इदं चेदानीतनप्रतिष्ठा- पितविषयकम् न तु पुरासिद्धविषयकम् तथा- शूद्रो वानुपनीतो वा स्त्रियो वा पतितोऽपि वा। केशवं वा शिवं वापि स्पृष्ट्वा नरकमश्नुते ॥ तथा- वपनं मैथुनं तीर्थं वर्जयेद् गर्भिणीपतिः । श्राद्धं च सप्तमान्मासादूवं सर्वत्र वेदवित् ।। श्राद्धम्-श्राद्धभोजनम्। तथा- न देवः पर्वतानेषु न देवो विष्णुसमनि । देवश्चिदानन्दमयो भक्तिदायेन लभ्यते ॥ इतिसाधारणस्तीर्थविधिः । अथ प्रयागप्रकरणम् । इह च त्रिस्थलीयात्रामहं करिष्ये' इति सामान्यतो वा, 'प्रया. गादियात्राः करिष्ये' इतिविशेषतो वा युगपत् संकल्पो न घटते एक- प्रयोगविधेरभावात् किन्तु, अन्तिममेव तीर्थमुद्दिश्य संकल्पः कार्यः आन्तरालिकं तु सर्व प्रासङ्गिकम् 'अतोऽद्धं तीर्थफलमस्य' इति वच- नात् । यात्रायाः अर्धमेव फलं स्नानश्राद्धादेस्तु पूर्णम् । यद्वा दाक्षिणात्ये. नादौ प्रयागयात्रैव तन्मात्रसंकल्पपूर्वकं कार्या। ततः प्रयागे काशी- यात्रासंकल्पः ततः काश्यां गयायाः । तत्र च तत्तयात्राफलं पूर्ण भवत्येव किन्तु दूरस्थसमीपस्थकर्तृकयात्रायामिव योजनतारतम्येन प्रयासतारतम्ये फलतारतम्यं बोध्यम् । अथ मुण्डनविचारः। तत्र विधवानां साधारणतीर्थविधावेष मुण्डनमुक्तं सधवानां तु विशेषः।
३२ त्रिस्थलीसेतुसारसंग्रह- विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम् । सर्वान् केशान् समुद्धृत्य च्छेदयेदङ्गुलद्वयम् ॥ तीर्थादिषु समत 'णां स्यादेवं केशवापनम् । इतिवचनात् । प्रयागे सभर्तृकाणां सर्वकेशसमुञ्चयस्य (१) व्यङ्गुल. च्छेदमा कार्यमिति दिवोदासाये । अन्ये तु समूलमेव वपनमाहुः । तत्प्रापर्क तु मुण्डनं चोपवासश्चेति सामान्यवचनम्, तीर्थान्तरेषु शिष्टाचाराभा- वान्न कार्यमिति वदन्ति | इदश्च प्रयागमुण्डनं योजनत्रयाधिकदेशागतेन कार्यम् न न्यूनदेशादागतेन । ऊर्ध्वमन्दाद्विमासोनाद्यदा तीर्थं व्रजेन्नरः । तदा तद्वपनं शस्तं प्रायश्चित्तमृते द्विजः ॥ प्रयागे प्रतियात्रं तु योजनत्रय इष्यते । यत्तु 'नैकसंवत्सरे कुर्यात्प्रयागे वपनद्वयम्' इति तद्योजनत्रयान्त. सिविषयम्। अथ माघस्नानारम्भकाल: । - - विष्णुः-सौरमासमभिप्रेत्याह- 'तुलामकरमेषेषु प्रातः स्नायो सदा भवेत्' इति । ब्राह्मे तु सावनम्- एकादश्यां शुक्लपक्षे पौषमासे समारभेत् । द्वादश्यां पूर्णिमायां च शुक्लपक्षे समापनम् ॥ विष्णु:- दर्श वा पौर्णमासी वा प्रारभ्य स्नानमाचरेत् । पुण्या न्याहानि त्रिंशत्तु मकरस्थे दिवाकरे ॥ इति ॥ अत्रैकादश्यां पौर्णमास्यां वा आरम्भे यदा माघस्याधिकमासता भवति तदा काम्यानां तत्र समाप्तिप्रतिषेधान्मासद्वयं स्नानं तनि- यमाश्चानुवर्तन्ते । सौरपक्षे तु न काचिदनुपपत्तिः । अत्र च- - (१) सर्वकेशसमूहस्येति पाठो युक्तः प्रतिभाति ।
गयाप्रकरणम्।
३३
माघमासमिमं पूर्ण स्नास्येऽहं देव माधव ।
तीर्थस्यास्य जले नित्यमिति संकल्प्य चेतसि ॥
इतिविष्णुवचने अस्य तीर्थस्येति मन्त्रलिङ्गाद्यत्र तीर्थ स्नाना.
रम्भस्तत्र समापन कार्यम् । एकप्रयोगाणामेकदेशत्वस्यैककालत्वस्य
साधनाच्च। प्रत्यहं संकल्पमन्त्रश्च पाझे-
मकरस्थे रवौ माघे गोविन्दाच्युतमाधव ।
स्नानेनानेन मे देव यथोक्तफलदो भवेति ॥
अथ प्रयागमरणविचार:--
-
दुष्कृतोऽतिदुराचारो ब्रह्महत्यादिपातकी।
हरि ध्यात्वा त्यजेदेहं प्रयागे मुक्तिमान्भवेत् ॥
इत्यादिनानापुराणवचनैः प्रयागे मरणं नानाफलार्थत्वेन मोक्षा.
र्थत्वेन च विधीयते । श्रुतिरपि 'सितासिते' इत्यादिका। अत्रकेचित्-
प्रयागे मरणं न सर्ववर्णसाधारणम्-
शूद्राश्च क्षत्रिया वैश्या अन्त्यजाश्च नराधमाः ।
एते त्यजेयुः प्राणान्वै वर्जयित्वा द्विजं नृप ।
पतित्वा ब्राह्मणस्तत्र ब्रह्महा चात्महा भवेत् ।
इति ब्रह्मणस्य निषिद्धत्वादित्याहुः । ततूतवाक्यस्य निर्मूलत्वा-
दुपेक्ष्यम् । अत्र च यथाशक्ति प्रायश्चित्तं कृत्वा स्वीयश्राद्धाधिका-
र्यभावे जीवश्राद्धं च पिण्डान्तं निर्वयं कृतोपवासः । परेन्हि लेख.
पूर्वकं सङ्कल्प्य विष्णु ध्यायञ्जलप्रवेशादि कुर्यादिति संक्षेपः ।
एवं मृतानां त्रिरात्रमेवाशौवं सर्ववर्णसाधारणम् ।
दशरात्रादि। तदुकम्- 'आशौचं स्यात् व्यहं तेषाम्' इति ।
आत्मानं घातयेद्यस्तु भृग्वान्यनशनाम्बुभिः ।
तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसंचयः॥
तृतीये तूदकं दत्वा चतुर्थे श्राद्धमाचरेदिति ।
-
। त्रिस्थलीसेतुसारसंग्रहे- श्राद्धमैकादशाहिकम् । पुत्रस्यापि व्यहमेवाविशेषादिति दिवो- दासीये । इदानीं तु सपिण्डाद्याः सर्वेऽपि दशाहाद्यवाचरन्ति । यमुना- सनानेच विशेषः- आदित्य दुहितर्देवि यमज्येष्ठे यशस्विनि । त्रैलोक्यावन्दिते पुण्ये पापं मे यमुने हर ॥ इत्युक्त्वा च निमज्यादौ उन्मज्याचम्य भक्तितः । तर्पयेच यमं वाभि भिमात्रे जले स्थितः ॥ यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्ताय कालाय सर्वभूतक्षयाय च ॥ औदुम्बराय दनाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥ देवतर्पणवद्याश्चतुर्दशाञ्जलीनिति पाने । इति प्रयागप्रकरणम् । अथ काशीप्रकरणम् । जन्मान्तरसहस्रेण यत्पापं पूर्वसंचितम् ॥ अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयमिति ॥ तथा- - मेरुमन्दरमात्रोपि राशिः पापस्य कर्मणः । अविमुक्तं समासाद्य तत्क्षणाद् व्रजति क्षयमिति ॥ अत्र प्रारब्धव्यतिरिक्तसकलाधर्मक्षयो बोध्यः । काशीप्रवे- शादेतजन्मार्जितमेव पापं नश्यति तत्तत्तीर्थस्नादिना तु प्राग्भधीय- पापक्षय इति केचित् । अन्ये तु अत्र प्रवेशादखिलजन्मीयपापनाशः । स्नानादिना तु तद्वासनानिवृत्तिरित्याहुः । अपरे तु प्रवेशादशेषमेव पार्ष - । काशीप्रकरणम् । नश्यति तत्तीर्थस्नानादिना तु काश्यामुत्पन्नानां निवृत्तिः । न च तेषामपिलिङ्गशरीरस्य काशीप्रवेशात्सकलपापनिवृत्तिर्जातेति वाच्यम्। पाष्ठतियंगधिकरणन्यायेन (१)- यतो विधिनिषेधे तु मनुष्याणामधिक्रिया। अतः पशुपिशाचाद्या धर्माधर्मबहिष्कृताः ॥ इतिपद्मपुराणाञ्च । मनुष्याधिकारिकत्वाच्छास्त्रस्य लिङ्गशरीरे पापनाशासंभवात् । अतस्तत्तीर्थस्नानादेकद्वया दिजन्मीयपापनाशवच. नानि काश्युत्पन्नविषयाणि । अन्येतु गमनादिना प्रत्येकं सर्वपापना. शेऽपि प्रवेशाधजातीयं सर्व पापं नष्टं तद्विजातीयमेव स्नानादिना नश्यतीत्याहुः । काशीखण्डे द्विपञ्चाशेऽध्याये ज्येष्ठशुक्लप्रतिपदो दशम्य- वधि दशाश्वमेधे स्नानायुक्तम् । जेष्ठे मासि सिते पक्षे प्राप्य प्रतिपदं तिथिम् । दशाश्वमेधिके स्नात्वा मुच्यते जन्मपातकैः ॥ ज्येष्ठशुक्ल द्वितीयायां स्नात्वा रुद्रसरोवरे । जन्मद्वयकृतं पापं तत्क्षणादेव नश्यति ॥ एवं सर्वासु तिथिषु क्रमस्नायी नरोत्तमः । आशुक्ल पक्षदशमी प्रतिजन्माधमुत्सृजेत् ॥ तिथि दशहरां प्राप्य दशजन्माघहारिणीम् । दशाश्वमेधिके स्नातो यामी (म्यां) पश्येन यातनाम् ।। लिङ्ग शाश्वमेधेशं दृष्ट्वा दशहरातिथौ । । (१) पाष्ठतिर्यगधिकरणन्यायेनेति । अयं न्यायः षष्ठाध्यायप्रथमपादस्थ चतुर्थपञ्चमाभ्यां सूत्राभ्यां मीमांसायां निरूपितः । तथा हि तिरश्चां पङ्ग्वन्धमूकवधिराणां च यागेऽधिकारोऽस्ति न वेति संशये प्रधानवाक्येन 'स्वर्गकामो यजेत' इत्यनेन स्वर्गकाममात्रस्याधिकारश्रवणात् तेषामपि स्वर्गेच्छासत्वादस्ति अधिकारः इति पूर्वपक्षे आज्यावेक्षणक्लप्तिवाचनादीनां क्रत्व र्थतया तल्लोपे ऋत्वनिष्पत्त्या नाधिकार इति सिद्धान्तः ।
३६
त्रिस्थलीसेतुसारसंग्रहे-
दशजन्मार्जितैः पापैस्त्यजगते नात्र संशयः ।।
स्नातो दशहरायां यः पूजयेल्लिङ्गमुत्तमम् ।
भक्त्या दशाश्वमेधेशं न तं गर्भदशा स्पृशेत् ॥
ज्येष्ठ मासि सिते पक्षे स्नात्वा रुद्रसरे नृपः ।
कुर्वन्वै वार्षिकी यात्रां न विघ्नैरभिभूयते ॥
दशाश्वमेधावभृथैर्यत्फलं सम्यगाप्यते ।
दशाश्वमेधे तत्तूक्तं स्नानाद् दशहरातिथौ ।।
स्वर्धन्याः पश्चिमे तीरे नत्वा दशहरेश्वरम् ।
न दुर्दशामवाप्नोति पुमान्पुण्यतमः क्वचित् ॥
इति काशीपूकरणम् ।
अथ गयापूकरणम् ।
तत्र गयाश्राद्धे ऽधिकारिणः प्रघट्टकादेव शेयाः। विशेषस्तु-
'पुत्रेषु विद्यमानेषु नान्यं वै कारयेत्स्वधाम् इत्यस्यापवादः-
आत्मजो वान्यजो वापि गयाकूपे यदा तदा ।
यन्नाम्ना पातयेत्पिण्डं तनयेद् ब्रह्मशाश्वतम् ।।
संन्यासिना तु श्राद्धस्थलीषु दण्डरूपर्शनमात्र कार्य । न तु
श्राद्धतर्पणादि । तदुक्तं वायवीये-
दण्डं प्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः ।
दण्डं स्पृष्ट्वा विष्णुपदे पितृभिः सह मुच्यते ।
स्पृष्ट्वैत्यतर्भावितण्यर्थः स्पर्शयित्वेत्यर्थः ।
तथा-
गयायां मुण्डपृष्टे च कूपे यूपे क्टे तथा ।
दण्डं प्रदर्शयभिक्षुः पितृभिः सह मुख्यते ॥
अथ गयाश्राद्ध कश्चिविशेषो हेमाद्रौ-
गयाप्रकरणम् । महालये गयाश्राद्ध प्रेतश्राद्ध दशाहिके। पिण्डशब्दप्रयोगः स्यादन्नमन्यत्र कीर्तयेत् ॥ अयं पिण्डः स्वधा नमः इत्यादिनिगमे पिएडशब्दप्रयोगः।। तथा- - re ad वृद्धिश्राद्ध गयाश्राद्ध प्रीतिश्राद्ध तथैव च । सपिण्डीकरणश्राद्धे न जपेरिपतृसूक्तकम् ।। इत्यभिश्रवणनिषेधः । अब्दमध्ये गयाश्राद्धकरणे बृद्धिप्राप्ताविव मालिकान्यपकृष्य कृत्वा गयाश्राद्धं कुर्यादिति केचित् । तत्र मूलं. मृग्यम् । महापातकिविषये तु विशेषो ब्रह्मपुराणे- कियते पतितानाच गते सम्वत्सरे क्वचित् । देशधर्मप्रमाणत्वाद् गयाकूपे स्वबन्धुभिः ॥ संग्रहे- महालये गयाश्राद्धे मातापित्रोम तेऽहनि । कृतोद्वाहोऽपि कुवीत पिण्डनिर्वणंसुतः ॥ गयाश्राद्धं च नित्यं- गयायां पिण्डदानेन पितृणामनृणो भवेत् । 'ब्राह्मणस्य तु सोमविद्याप्रजमृणवाक्येन संयोगात्' इति अ. ६ पा २ स. ३१) (१) पाष्ठन्यायाञ्च । अत एव कौमें- (१) ब्राह्मणस्येति । 'सोमेन यजन' 'स्व.ध्यायमधीयीत' 'प्रजामुत्पादयेत' इति श्रूयते यत्र सोमः काम्यः 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इति कामसंयोगेन पठितत्वात् एवमध्ययनप्रजोत्पादनयोरपि विश्वजिन्न्यायेन स्वर्गः फल मिति त्रयाणां काम्यत्वमिति प्राप्ते सिद्धान्त: 'वसन्ते वसन्ते ज्योतिषा यजेत' इति वीप्सया प्रति वसन्तं निमित्तीकृत्व सोमयागस्य विधानानित्यत्वम्। एव मध्ययनमपि दृष्टप्रयोजन- स्यानुष्टेयार्थज्ञानस्य संभवेनन स्वर्गफलकम् किन्तु ऋत्वनुष्ठानस्य नित्यत्वेन तद्ध तुतया नित्यम् । 'अनुत्पाद्य सुतान्न लोकंगच्छति' इति स्मृतेोकसिद्ध्यर्थमुत्पादन मपि नित्यमिति । अत एव 'जायमानो ह वै ब्राह्मणस्त्रिभिणवा जायते ब्रह्मचर्येण ऋषिभ्यः यज्ञेन देवेभ्यः प्रजया पितभ्यः एष वा अनृणो यः पुत्री य:वा ब्रह्मचारो' इति । अत्र ब्राह्मण ग्रहां क्षत्रियवैश्ययोपलक्षणम् इति । ८ त्रिस्थलीसेतुसारसंग्रह- गयाभिगमनं कर्तुं यः शक्तोपि न गच्छति । शोचन्ति पितरस्तस्य वृथा चास्य परिश्रमः ॥ इति । तस्माद् गयाकृत्यं नित्यं पुत्रस्य । अतो यथाशक्तयप्यनुष्ठेयम् । तत्रापि सकृत्करणमेव नित्यम् । तावतैव च शास्त्रार्थसिद्धः। आवृत्ति- बोधकवीप्साधभावाञ्च चातुर्मास्यवत् । पुनःकरणे तु फलमधिकं तद्वदेव । तस्मादमुक्ते पित्रादौ नरकोद्धारादि यथायथं फलम् । काशी- मरणादिना मुक्ते तु तस्मिन्कर्तृगतः प्रत्यवायाभाव एव फलं भवतीति सिद्धम् । इति गयाप्रकरणम् । (१) - अथ परिशिष्टम् । प्रघट्टके शङ्खलिखितौ। । प्रतिग्रहादुपावृत्तः संतुष्टो येन केनचित् । अहंकारविमुक्तश्च स तीर्थफलमश्नुते ॥ अनेन तीर्थयात्रागतेन प्रतिग्रहो निषिध्यते । पाझे - न तीर्थे प्रतिगृहणीयात् प्राणैः कण्ठगतैरपि । अपि कामातुरो जन्तुर्यथा रक्षति मातरम् ॥ तीर्थे प्रतिग्रहो यस्तु तीर्थविक्रय एव सः। विक्रीतायां तु गङ्गायां विक्रीतः स्याजनार्दनः ॥ जनादने तु विक्रीते विक्रीतं भुवनत्रयम् । यस्तु लोल्याद्विजः क्षेत्र प्रतिग्रहरुचिर्भवेत् ॥ नैव तस्य परो लोको नायं लोको दुरात्मनः। (१) इति श्रीधर्मशास्त्रसर्वस्वाख्ये निबन्धे तीर्थविषयककर्तव्यताधिकारे श्रीलक्ष्मीधरसूनुना भट्टोजिदीक्षितेन कृते त्रिस्थलीसेतुः समाप्तः ॥ इति ख. पुस्तके अत्रैव ग्रन्थसमाप्तिर्दृश्यते । अग्रेतनः पाठस्तु कपुस्तकमात्रवती ।
परिशिष्टप्रकरणम् ।
ब्रह्मपुराणे-
प्रवाहमवधि कुत्वा यावद्धस्तचतुष्टयम् ।
तत्र नारायणः स्वामी नान्यः स्वामी कदाचन ।
नत्र न प्रतिगृह्णीयात् प्राणैः कण्ठगतैरपि ।
दानधर्मे-
भाद्रशुक्ल चतुर्दश्यां यावदाक्रमते जलम् ।
तावद्गर्भ विजानीयात्तदूध्वं तीरमुच्यते ।
ब्राहो.
--
सार्द्धहस्तशतं यावत् गर्भतस्तीरमुच्यते।
।
स्कान्दे-
तीराद् गव्यूतिमात्रं तु परितः क्षेत्रमुच्यते ॥
अत्र वानं जपो होमो गङ्गायां नात्र संशयः ॥
तटयोः प्रत्येक क्रोशद्वयाख्यं गङ्गायां क्षेत्रमन्यत्रानुक्तो न (२) ।
भविष्ये ऽपि-
गङ्गासीमां न लङ्कुन्ति सर्वपापाण्यशेषतः।
दिशो दश पलायन्ते सिंहान्दृष्ट्वा यथा मृगाः ।।
एकयोजनविस्तीर्णा दिक्षु सीमा तटद्वयम् ।
अत्र गुरुचरणा:- गर्भ प्रतिग्रहनिषेधः प्रसिद्धनदीषु, प्रतिषिद्धे.
तरगण्डक्यादितीरेऽपि । गङ्गायां तु क्षेत्रेपोति शिष्टाः ।
पामे-
--
अथ चेत्प्रतिगृह्णीयाद् ब्राह्मणो वृत्तिकर्षितः ।
दशांशमर्जितं दद्यादेवं धर्मों न हीयते ॥ इतिशंकरभट्टीये-
(२) 'अन्यत्रोक्तम्' इति पाठः सम्यक् प्रतिभाति ।
४० त्रिस्थलीसेतुलारसंग्रहे- अथ गयाविधिः। फलवान् प्रातः सिद्धखातोत्पादितं जलं प्रणवेन स्पृष्ट्वा तत्र सङ्कल्पपूर्वकं सचैल स्नात्वा यथाविधि तीर्थश्राद्धमामेनान्नेन हेम्ना घा ब्राह्मणेषु कुशवटुषु वा यथासंभवं स्वगृह्योक्ताकारेण कृत्वेति प्रथम- दिनकृत्यम् । द्वितीयदिने फलवान प्रातःस्नानादिकं कृत्वा प्रेतपर्वतं गत्वा तन्मूलभागे ब्रह्माकुण्डे स्नानतर्षणतीर्थश्राद्धविधिना श्राद्धं पिण्डदानमात्रं वा कृत्वा ततः प्रेतपर्वतशिरसि पूर्ववत्प्रकारेण श्राद्ध कृत्वा कव्यवाडो नल इत्यादिमन्त्रैः पितॄनागा गयापद्धतिविधिना पितृषोडशी मातृषोडशी च कुर्यात् । ततो रामतीर्थे पूर्वप्रकारेण पिण्डदानादि कृत्वा प्रेतशिलां गत्वा पिण्डदानादि सर्व कुर्यात् तदनन्तरं श्यामशवलाभ्यां वलिं दत्वा इति द्वितीयदिनकृत्यम् । अथ तृतीयदिने पञ्चती यात्रां कृत्वा तत्र विधिवत् पिण्डदानादिकं सवं कुर्यात् । चतुर्थदिने धारण्यं पञ्चमदिने ब्रह्मसरोवरं गत्वा । अथषष्ठदिने पदेषु श्राद्ध कार्यम् । तत्र प्रथमदिने सप्त पिण्डाः । द्वितीयन्हि तिलगुडपिण्डाः ।। चतुर्थेन्हि दुग्धतर्पणम् पञ्चमे दीपप्रदानम् । - इति पञ्चदिनकृत्यम् । अनन्तरं वटमुले श्राद्धम् । ततोष्टतीर्थी यात्रा। तत्र तीर्थेषु पिण्डदानादिकं कृत्वा अनन्तरं त्रिकालसन्ध्यां कृत्वा अनन्तरं यात्रासाङ्गतासिद्धयर्थ गदाधास्य पूजनम् । इतिसंक्षेपविधिः॥ इति भट्टोजीदीक्षितकृत त्रिस्थलीसेतुसारसंग्रहः ॥
तीर्थेन्दुशेखरभूमिका। काशीप्रयागगयातीर्थयात्राप्रतिपादकेषु ग्रन्थेषु अयं श्रीमन्नागोजी भट्ट प्रणीतस्तीर्थेन्दुशेखरो नाम ग्रन्थो मुद्रयित्वा प्रकाश्यते । अयं नागोजीभट्टः अष्टादशशताब्द्यां बभूवैतत्प्रणीता ग्रन्थाश्च- लघुशब्देन्दुशेखरः, वैयाकरणसिद्धान्तलघुमञ्जूषा, रामायणटीका, रसमजरीप्रकाशः, महाभाष्यप्रदीपोद्योतः, प्रायश्चितेन्दुशेखरः, परिभाषेन्दुशेखरः, परमलघुमञ्जूषा, सप्तशतीटीका, चण्डीस्तोत्र- प्रयोगविधिः, रसगङ्गाधरटीका गुरुमर्मप्रकाशः, काव्यप्रदोपोद्योतः, पातजलसूत्रवृत्तिः, पातञ्जलसूत्रवृत्तिः भाष्यच्छायाव्याख्या, तीर्थे- न्दुशेखरः, तिथीन्दुशेखरः, श्राद्धेन्दुशेखरः, बृहच्छब्देन्दुशेखरः, कुवल- यानन्दव्याख्या अलङ्कारसुधा, अष्टाध्यायीपाठः, आचारेन्दुशेखरः, आशौचनिर्णयः, महाभाष्यप्रत्याख्यानसंग्रहः, इष्टिकालनिर्णयः, कात्या- यनीतन्त्रम्, तर्कभाषाटीका युक्तिमुक्तावली, तिङन्तसंग्रहः, त्रिस्थली. सेतुः, धातुपाठवृत्तिः, णेरणिवादार्थः, पदार्थदीपिका, प्रभाकरचन्द्रः तत्वदीपिका, सरणि:- रसतरङ्गिणीटोका लक्षणरत्नमाला, विषम- पदी-शब्दकौस्तुभव्याख्या, वेपसूक्तभाष्यम्, व्याख्या, व्याससूत्रेन्दुशेखरः लघुसांख्यसूत्रवृत्तिः, सापिएडयमञ्जरी, स्फोटवादः, शब्दानन्तसागरसमुच्चयः, तिङन्तसागरसमुच्चयश्चेति । एषु आदिमाश्चतुर्दशग्रन्था मुद्रिताः पञ्चदशश्चायमेव। अन्ये च के चनमदुपलम्भगोचरा बहवस्तु नाममात्रेण श्रुताः। एतस्य प्रकाशनसमये सरस्तीमधनादेकमपरं च सुगृहीतना- मधेय-पण्डितप्रवर-सर्वतन्त्रस्वतन्त्र वाराणसेयश्रीजोखीराममटरूम. लगोयनकासंस्कृतमहाविद्यालयप्रधानाध्यापक-व्याकरणाचार्यधर्म- मूर्ति-सरयूपारीणवंशावतंस-श्रीरामयशस्लिपाठिमहोदयेभ्य दितं मया तत्रादिम कसंशयाऽपरं च खसंशया व्यवहृतमिति- वैयाकरणभूषणसार आसा- - सूर्यनारायण शुक्लः।
तीर्थेन्दुशेखरभूमिका। ७ काशीप्रयागगयातीर्थयात्राप्रतिपादकेषु ग्रन्थेषु अयं श्रीमन्नागोजी भट्ट प्रणीतस्तीर्थेन्दुशेखरो नाम ग्रन्थो मुद्रयित्वा प्रकाश्यते । अयं नागोजीभट्टः अष्टादशशताब्द्यां बभूवैतत्प्रणीता ग्रन्थाश्च- लघुशब्देन्दुशेखरः, वैयाकरणसिद्धान्तलघुमञ्जूषा, रामायणटीका, रसमञ्जरीप्रकाशः, महाभाष्यप्रदीपोद्योतः, प्रायश्चितेन्दुशेखरः, परिभाषेन्दुशेखरः, परमलघुमञ्जूषा, सप्तशतीटीका, चण्डीस्तोत्र. प्रयोगविधिः, रसगङ्गाधरटीका गुरुमर्मप्रकाशः, काव्यप्रदीपोद्योतः, पातञ्जलसूत्रवृत्तिः, पातञ्जलसूत्रवृत्तिः भाष्यच्छायाव्याख्या, तीर्थ- न्दुशेखरः, तिथीन्दुशेखरः, श्राद्धेन्दुशेखरः, बृहच्छब्देन्दुशेखरः, कुवल- यानन्दव्याख्या अलङ्कारसुधा, अष्टाध्यायीपाठः, आचारेन्दुशेखरः, आशौचनिर्णयः, महाभाष्यप्रत्याख्यानसंग्रहः, इष्टिकालनिर्णयः, कात्या. यनीतन्त्रम्, तर्कभाषाटीका युक्तिमुक्तावली, तिङन्तसंग्रहः, त्रिस्थली- सेतुः, धातुपाठवृत्तिः, णेरणिवादार्थः, पदार्थदीपिका, प्रभाकरचन्द्रः तत्त्वदीपिका, सरणि:- रसतरङ्गिणीटोका लक्षणरत्नमाला, विषम- पदी-शब्दकौस्तुभव्याख्या, वेदसूक्तभाष्यम्, वैयाकरणभूषणसार व्याख्या. व्याससूत्रेन्दुशेखरः. लघुसांख्यसूत्रवृत्तिः, सापिएडयमञ्जरी, स्फोटवादः, शब्दानन्तसागरसमुच्चयः, तिङन्तसागरसमुश्चयश्चेति । एषु आदिमाश्चतुर्दशग्रन्था मुद्रिताः पञ्चदशश्चायमेव। अन्ये च के चनमदुपलम्भगोचरा बहवस्तु नाममात्रेण श्रुताः। एतस्य प्रकाशनसमये सरस्तीमघनादेकमपरं च सुगृहीतना- मधेय-पण्डितप्रवर-सर्वतन्त्रस्वतन्त्र वाराणसेयश्रीजोखीराममटरूम. लगोयनकासंस्कृतमहाविद्यालयप्रधानाध्यापक-व्याकरणाचार्यधर्मः मूर्ति-सरयूपारीणवंशावतंस-श्रीरामयशस्त्रिपाठिमहोदयेभ्य दितं मया तत्रादिम कसंशयाऽपरं च खसंशया व्यवहृतमिति- आसा. - सूर्यनारायण शुक्लः।
तीर्थन्दुशेखरस्थविषयानुक्रमणिका । विषयाः पृष्ठम् तीर्थयात्राधिकारिनिरूपणम् १ तीर्थप्राप्तौ मुण्डनोपवासादिविचार: तीर्थस्नानकाल: 10. ... तीर्थ तर्पणश्राद्धविचार: जीवत्पितृकस्य तीर्थकर्तव्यताविचार: --- प्रयागमरणविचारः २३ काशीप्रकरणम् २७ .. काशीमाहात्म्यम् ३८ ... काशीपरिमाणकथनम् ... ... काश्या अन्तर्धानन्तर्धान विचार: मोक्षस्वरूपनिरूपणम् ५० गयाप्रकरणम् ५५ गयायात्राधिकारिणः ... पिण्डद्रव्याणि गयाश्राद्धकालनिर्णयः ...
तीर्थन्दुशेखरस्थविषयानुक्रमणिका । विषयाः पृष्ठम् तीर्थयात्राधिकारिनिरूपणम् १ 59. ... तीर्थप्राप्तौ मुण्डनोपवासादिविचारः तीर्थस्नानकालः W 89. तीर्थे तर्पणश्राद्धविचारः १० जीवत्पितृकस्य तीर्थकर्तव्यताविचारः १५ प्रयागमरणविचारः २३ ७.. काशीप्रकरणम् २७ काशीमाहात्म्यम् काशीपरिमाणकथनम् ... काश्या अन्तर्धानन्तर्धानविचार: ... मोक्षस्वरूपनिरूपणम् ५० ... गयाप्रकरणम् 4. गयायात्राधिकारिणः .m- ५६ ... ५६ पिण्डद्रव्याणि गयाश्राद्धकालनिर्णयः ...
श्रीहरिः शरणम्। श्रीनागेशभट्टविरचितः तीर्थेन्दुशेखरः। अथ तीर्थयात्राधिकार्यादिनिर्णयः । अधिकारिण:- -- 'कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत्' इत्यादिस्मृतिभि- धर्मस्यावश्यकर्त्तव्यतोक्ता । तत्र यज्ञादिधर्मस्य बहुधनादिलाध्यत्वेन तत्रासमर्थान्प्रति तीर्थयात्रा (१) विहिता मात्स्ये-भारते च- यो दरिद्रैरपि विधिः शक्यः प्राप्तुं जनेश्वर । तुल्यो यज्ञफलैः पुण्यैस्तं निबोध महीपते ।। ऋषीणां परमं गुह्यमिदं भरतसत्तम । तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च । अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते (२)॥ अग्निष्टोमादिभिर्यज्ञैरिष्ठवा विपुलदक्षिणैः। न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥ इति । तत्र ब्रह्मचारिणो (३) गुर्वनुज्ञयैवाधिकारः, गृहस्थस्यापि यागा- धनुष्ठानासमर्थस्य तत्रानधिकारिणो वा, साग्नेस्तु सपत्नीकस्यैव, १ असमर्थस्य तीर्थयात्रा इति ख.पु. पाठः। २ ख.पु. जायते इत्यनन्तरं 'तेषु मध्य इति' इत्यधिकः पाठो वर्ततेऽगिमः श्लोकश्च न वर्तते । (३) ख. गुज्ञियैव इतिपा. ।
२
तीर्थेन्दुशेखरे-
प्रायश्चित्तार्थं तद्रहितस्यापि, यतेरप्यधिकारः, 'नगरे तीर्थे च पञ्चरात्रं
बसन्त' इति कात्यायनोक्तः, ब्रह्मसंस्थस्य तु न, क्षत्रियादेरपि-
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम ।
न वियोनि व्रजन्त्येते स्नातास्तीर्थेषु सत्तम ॥ इतिभारतात् ॥
तत्र शूद्रस्य द्विजलेवाऽविरोधे एव तद्विरोधे तु-
जपस्तपस्तीर्थयात्रा प्रवज्या मन्त्रसाधनम् ।
देवताराधनं चेति स्त्रीशूद्रपतनानि षट् ॥ इति मनुः ।
अत एव (स्त्रियाः) सधवायाः भर्ना सहैवाधिकारः, विधवाना.
मपि पुत्राद्यनुमत्या, अनुलोमसङ्कराणामपि तेषां द्विजधर्माधिकारात्,
प्रतिलोमसङ्कराणामपि शूद्रसधर्मत्वात्तेषाम् ।
तीर्थयात्राफलतारतम्यम्-
पाणिज्यराज्यसेवादिप्रसङ्गेन तीर्थगमने स्नानादिजन्यमेव
फलम् न यात्राजन्यम्, उद्देश्यतीर्थान्तरप्रसङ्गेन गमने त्वधं यात्रा-
फलम्, वेतनग्रहणेन परार्थं व्रजतोऽपि षोडशांशं यात्राफलम्,
परानभुजोऽप्येवम्, अन्नदानादिनाऽन्यस्य तीर्थकारणे चतुर्गुणम्,
विशिष्टस्य तथा तत्कारणे त्वष्टगुणम् ।
मात्स्यादौ-
गोयाने गोवधः प्रोक्तो हययाने तु निष्फलम् ।
नरयाने तदर्धं स्यात्पद्भ्यां तत्स्याश्चतुर्गुणम् ॥
चतुर्गुणं- चतुरंशं पूर्णमित्यर्थः। तत्र स्नातकस्य सोपानद्भ्यामेव
पदुभ्यां गमनम् 'सोपानत्कः सदा ब्रजेत्' इति स्नातकप्रकरणे उक्तः।
द्विभॊजनं तृतीयांशं हरेत्सर्वं प्रतिग्रहः ।
यानमधं चतुर्थांशं छत्रोपानहमेव च ।
इति जाबाल्युक्तं तु अस्नातकविषयम्,' यानममित्यन्तं तु
सर्वविषयम्।
अधिकार्यादिनिर्णयः।
अन्ये तु अस्य वचनस्य सर्वविषयतां मत्वा निरुपानद्भ्यामेव
पद्भ्यां पूर्णमित्याहुः।
कल्पतरौ तु-गोयाने इत्यादि मात्स्यं प्रयागप्रकरणात् तद्विषयमेव
जाबाल्यादिवचसि त्वनाश्वास इत्युक्तम् ।
अशक्तस्य तु यानेन गमनेऽपि पूर्ण फलम्, यानमर्धमित्युक्ते.
नौकायानमपि शक्तस्य दोषाय, नावादिना गमनासम्भव.
स्तत्र नौ दोषाय, यानि त्वनेकदिनकनौकायानमात्रसाध्यानि
समुद्रद्वीपादिनिष्ठानि तत्र द्विजैर्न गन्तव्यम् 'द्विजस्याग्धौ तु
नौयातुः शोधितस्यापि सङ्गहः' इति कलिनिषिद्धषक्तः, प्रहरादि-
मात्रगम्ये तु न पातकप्रसक्तिः। अङ्गादिदेशेष्वपि तीर्थार्थ गमने न
यत्र तु
दोषः।
वायवीये-
अधिमाले च जन्मलं अस्ते च गुरुशुक्रयोः।
तीर्थयात्रा न कर्तव्या गयां गोदावरी विना ॥ इति ॥
अत्र चेन ज्योतिःशास्त्राद्यक्तसकलदोषसङ्गहः ।
तीर्थप्राप्तौ कर्तव्यतानिर्णय :-
तीर्थे स्थित्वा तीर्थान्तरं न स्मरेत् नच ब्रूयात् । गङ्गां तु सर्वत्र
स्मरेत् । तथा तीर्थमधिगम्य व्रतोपवासनियमयुक्तस्यहमवगाहमान.
त्रिरात्रमुषित्वा सर्वपापेभ्यो मुच्यते इति देवलः ।
मा (!) गैऽन्तरा नदीप्राप्तौ स्नानादिपरपारतः।
अर्वागेव सरस्वत्यामेष मार्गगतो विधिः॥
स्नानतर्पणाधकृत्वा नदी नातिकामेत् 'न सवन्तीमतिकामे.
दनवसिच्य' इति शङ्खात. इदश्चार्वाक तीरे तीर्थविशेषाभावे । सर.
स्वत्यां परपारे तीर्थविशेषसत्त्वे तीरद्वयेऽपि स्नानादीति बोध्यम् ।
तीरद्वयेऽपि तीर्थविशेषसत्त्वे नधन्तरेऽप्येवमेव ।
..
तीर्थेन्दुशेखरे- तीर्थयात्राविधि:- तीर्थ जिगमिषुः पूर्वदिने एकभुक्तहविष्यभोजनब्रह्मचर्यादि नियमग्रहणपूर्वकमुपोष्यापर दिने गणेशेष्टदेवते सम्पूज्य घृतमुख्य. द्रव्यकं तीर्थश्राद्धीयदेवतानां पार्वणविधिना श्राद्धं विधाय यथाशक्ति वस्त्रादिभिर्ब्राह्मणान् सम्पूज्य यात्रासङ्कल्पं विधाय मुहर्तसमये प्रामानिर्गत्य तं प्रदक्षिणीकृत्य क्रोशाभ्यन्तरस्थनामान्तरं गत्वा श्राद्धशेषघृतेन पारणां कृत्वा दिनान्तरे स्नानादि विधाय नियमवान् गच्छेत् । उपवासदिने एवापररात्रादौ मुहूर्ते फलंवस्त्रादिप्रस्थान कार्यम् उपवासासामर्थ्य तु एकादशीप्रकरणोक्तनताद्यन्यतमम् । गयायात्रायां मार्गगमनकाले कार्पटीवेषकरणम् । कार्पटीवेषश्च शस्त्रोष्णीषादित्यागो न त्वेतद्वलान्मुण्डनसिद्धिरिति बोध्यम् । मुण्डनोपवासविचार:- प्रायश्चित्तार्थ तीर्थयात्रायामुपवासदिने मुण्डनमपि कार्यम् । केचित् तीर्थयात्रासामान्ये मुण्डनमिच्छन्ति । गयायात्रायां तु वायुपुराणे कार्पटीवेषोक्तेर्मुण्डनमावश्यकमित्यन्ये । परावृत्त्य गृहप्राप्तावपि समीप. ग्रामान्तरे घृतश्राद्धं कार्यम् । अत्रोपचासमपि केचिदिच्छन्ति । अन्यत्रापि तीर्थं तत्प्रवेशदिने कार्पटीवेषः कार्यः। स चोष्णीषशस्त्रा- दित्यागरूपः । तीर्थयात्रायां कामक्रोधलोभा वाः । शीतातगदि. द्वन्द्वानि च सोढव्यानि । अनृतौ ब्रह्मचर्यं च कार्यम्। प्रतिग्रहं बिना जीवननिर्वाह ततो निवृत्तिश्च कार्या । यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ हस्तसंयम :-परस्वाग्रहणम् । पादसंयमोऽगम्यदेशे गमन. निवृत्तिः । मनः संयम :-परानिष्टाधचिन्तनम् । विद्या-तीर्थमहिम- ज्ञानम् । तप-उपवासादिः। कीति:-सश्चरित्रत्वप्रसिद्धिः । एवमह- म्भावत्यागोऽपि । दुष्प्रतिग्रहार्जितधनेन च यात्रा न कार्या । दुष्ट. - ५ अधिकार्यादिनिर्णयः। भावस्य भक्तिहीनस्य न तीर्थफलम् | शमदमादयोऽप्यत्राङ्गम् । रात्री कृतमाध्याहि केन प्रातवाकृतनित्यक्रियेण मार्गे न चलितव्यम् । शक्तः स्नात्वैव गच्छेत् । तीर्थे विवाहे यात्रायां संग्रामे देशविप्लवे । नगरपामदाहे च (१) स्पृष्टास्पृष्टिर्न दुष्यति । साक्षादस्पृश्यस्पर्शे ज्ञाते तु दोष एव । मध्ये सूतकादिप्राप्तो आशौचकालं तत्रैव समाप्य गच्छेत् । मार्गे (ग) वैषम्यादिना स्थातु. मशक्तौ तु यात्रायां नाशौचम् । मध्यत एव निवृत्तौ सङ्कल्पबाधनि- मितकं प्रायश्चित्तं कार्यम् । मध्ये मृतस्य सप्तर्षिलोकप्रातिः। मध्ये तीर्थान्तरप्राप्तौ तत्रापि स्नानादि कार्यम् । कर्मनाशाजलस्पर्शात् करतोयाधिलङ्घनात् । गएडकीबाहुतरणात्पुनः संस्कारमर्हति ॥ करतोयाजलस्पर्शस्तु न निषिद्धः- करतोयां कुरङ्गं च त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिः ॥ इत्युक्तः। करतोयां (यायाः) केवलमुल्लङ्घनं न निषिद्धं किन्तु स्नात्ववेत्यन्ये । तीर्थप्राप्तौ यानारूढो यानम्परित्यज पादचारेण गत्वा तीर्थे दृष्टिपथं गते साष्टाङ्गं प्रणम्य शिरोवेष्टन (व) शस्त्रादीन्परित्यज्य धिनीतवेषण तीर्थं प्रविश्य प्रणवेन तीर्थ स्पृष्ट्वा सचैल स्नात्वा वपनं कृत्वा पुन- मन्त्रवत्स्नानं कृत्वा तहिने उपवासं कुर्यात् । तत्पूर्वदिने उपवास इति कश्चित् । उपवासः काम्य एव पापक्षय- फलको नत्वावश्यक इति कल्पतरुः । अग्रिमकार्येषु शुद्धिजनक इत्यन्ये मुण्डनोपवासौ च देवलेनोक्तो- मुण्डन चोपवासश्च सर्वतीर्थेष्वयं विधिः । वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ॥ (१) स्पृष्टस्य स्पृष्टिः स्पृष्टास्पृष्टिः 'अन्येषामपि दृश्यते' इति दीर्घः । ..
६ । तीर्थन्दुशेखरे- विरजमुत्कलदेशे । दक्षिणदेशस्थलोणारक्षेत्रमपि विरजम् । क्वचित्तु नैमिषं पुष्करं गयामिति पाठः। विशाला पुष्कर गयामित्यन्यत्र, वर्जयित्वा गयां गङ्गामित्यन्यत्र पाठः । गङ्गाम्प्राप्य सरिच्छेष्ठां वपनं यो न कारयेत् । स कोटिकुलसंयुक्त आकल्पं रौरवं व्रजेत् ॥ इत्यादि तु यदि प्रामाणिकं तदा प्रयागमायापुरीकाश्यादितीर्थ समीपस्थगङ्गापरमित्याहुः । यत्त्वत्रत्यसर्वतीर्थशब्दो बहुब्रीहिणा रुढ्या च प्रयागमात्रपरो- ऽतस्तत्रैवोपवास वपने इति तन्न बहुवचनानुपपत्तेः । देवप्रयागा- दिषु न बहुव्रीह्यर्थ इति न तान्यादाय बहुवचनोपपत्तिः। किञ्चैतत्ल- मानाकरं वचनमग्निवायुपुराणयोर्गयाप्रकरणे, स्कान्दे च प्रभास (प्रयाग) प्रकरणे पठ्यतेऽतो न प्रयागमापरता । मात्स्ये- अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः । तस्मात्कुरुष्व कौन्तेय सर्वतीर्थाभिषेचनम् ॥ इति प्रयागप्रकरणे पाठस्तत्र रूढेरसम्भवाञ्च (श्च)। 'प्रयागं सर्वतीर्थेभ्यः प्रवदन्त्यधिकं विभो' ।। इति भारतविरोधाच। अपि च विशालादिपर्युदासानुपपत्तिस्तस्य प्रयागपरत्वे प्राप्त्यभा- चेनपर्युदासानौचित्यात्। दोषाधिक्यपरता तु वाक्यार्थानुपपत्तेरस- म्भवदुक्तिका सामान्यनिषेधेनैव सिद्धेः विशेषनिषेधस्य हि तदाधिक्य- परता दृष्टा । 'गङ्गायां भास्करक्षेत्रे' इत्यादिवाक्ये गङ्गापदं च तीर्थमा- त्रोपलक्षणं 'विना तीथं विना यज्ञम्' इत्यादिवक्ष्यमाणवाक्यात् । एतेनानेन नियमेनान्यत्र प्राप्त्यभावाद्वर्जयित्वा गयामित्यादि व्यर्थ- मित्यपास्तम् ।
अधिकार्यादिनिर्णयः। तत्र वाक्ये कुरुक्षेत्रपदेन काश्यपि वक्ष्यमाणश्रुत्यादिस्वर- सादित्यन्ये (न्यत्)। यदपि- गयायां भास्करक्षेत्रे मातापित्रोम॒तौ गुरोः। आधाने सोमपाने च वपनं सप्तसु स्मृतम् ।। तत्र प्रयागे इतिवाक्ये भास्करक्षेत्रपदेन प्रयागमुक्त्वा तदवच्छिन्नगङ्गायां मुण्डनमिति आचक्षते-तदपि न प्रयागस्य प्रजापतिक्षेत्रत्वात् । 'प्रजाप- तेरिदक्षेत्रं प्रयागमिति विश्रुतम्' इति मात्स्यात, 'एतत् प्रजापतिक्षेत्र त्रिषु लोकेषु विश्रुतम्' इति प्रयागमुपक्रम्य कौर्माच्च । 'तत्र यः सवितुः क्षेत्रे प्राणांस्त्यजति मानवः । स सूर्यलोकमवाप्नोति' इत्यादिना तदन्तर्गतकोणादित्यादेरेव भास्करक्षेत्रत्वप्रतीतेश्च । सप्तस्वित्युपात्तसंख्याविरोधाच। इमौ च मुण्डनोपवासौ काम्यौ- तीर्थेषु वपनं धन्यमुपवासश्च स्वर्गदः । दानमक्षय्यमुदितं जन्ममृत्युजरापहम् । इति ब्राह्मात् । अत एव बहुषु तीर्थेषु तदनाचारोऽपि शिष्टानाम् । उदकं शोणितं दद्यात् पिएडं दद्यादमेध्यवत् । नोपतिष्ठति तत्सर्वं यो विना मुण्डितं शिरः ।। इत्यादि यदि प्रामाणिकं तदा तत्प्राशस्त्यपरं बोध्यम् संवत्सरं द्विमासोनं पुनस्तीथं व्रजेद्यदि ॥ मुण्डनं चोपवासं च ततो यत्नेन कारयेत् ।। इत्यभियुक्ताः । यत्ने नेत्यस्य सत्यां तत्फलकामनायामित्यादिः । फलं च मुण्डनमन्त्रे स्पष्टमेव । तत्र वपनं कारयिष्ये इति संकल्पः। - - तीर्थेन्दुशेखरे- वपाम्यहमितिमन्त्रे ऽस्तावितण्यर्थों वपतिरिति बहवः । वपनं करिष्य इति सङ्कल्पोऽपि तादृशएवेत्यन्ये । तत्रादौ श्मश्रुकूर्चयोर्वपनं ततः केशा. नामित्युचितम् । तत्र तीर्थे दक्षिणभागमारभ्य मुण्डनम् । पित्रादिमृतौ तु वामभागमारभ्य उदङ्मुखः प्राङ्मुखो वा वापयेत् । प्रायश्चित्तार्थ सशिखं वपनम् । 'यतिः शूद्रश्च विधवा सशिखं वपनं चरेत्' तत्र यतयः ऋतु- सन्धिभिन्नकाले तीर्थप्राप्तावपि न वपन्तीति तदाचारः । आहिताग्न- यस्तु पर्वभिन्नेऽपि काले तीर्थप्राप्तौ वपन्ति पित्रादिमरणे निमित्ते यथा तद्वत् । सधवानां प्रयागादितीर्थेषु व्यङ्गुलच्छेद एव मुण्डनम् । सर्वान्केशान् समुद्धृत्य छेदयेदङ्गुलद्वयम् । एवमेव तु नारीणां मुण्डमुण्डनमादिशेत् ॥ इति प्रायश्चित्तप्रकरणपठितस्मृत्युत्तरार्धेन यत्र यत्र वैधं मुण्डनं प्राप्नोति तत्र सधवानामेवमेवेत्यर्थकेनान्यत्रापि तथैवेति बोधनात्। सर्वान् केशानित्याद्युक्त्वा 'तीर्थादिषु सभर्तृणां स्यादेवं केशवापनम्' इति दिवोदासीये उक्तश्च। 'केशमूलान्युपाश्रित्य सर्वपापानि देहिनाम्' इत्यनेन तु न विरोधः । वचनात्तावच्छेदेनैव मूलगपाप- नाशकल्पनात् । यद्वा तद्वलाच्छिरःपृष्ठभागे मूले एव व्यङ्गुलमितदेशे मुण्डनं तासाम् तच्च क्षुरेणैव । आधानप्रकरणे आपस्तम्बोऽपि एवम् पत्नीकेशवर्जमिति पठति। रामयुधिष्ठिरभरततत्पन्यादीनां मुण्डना. श्रवणात् क्षत्रियाणां तदनधिकारं वदन्ति । केचित्तु- राजा कुमारी नारी च जीवतश्च पितुः सुतः । मुण्डनं सर्वतीर्थेषु न कुयाद् गर्भिणीपतिः ॥ इति पठन्ति । तनिर्मूलम्- विना तीर्थ विना यज्ञं मातापित्रोम तिं विना । यो वापयति लोमानि सपुत्रः पितृघातकः ॥ इत्युक्तरित्यन्ये ।
अधिकार्यादिनिर्णयः । एवं च सधवानां प्रयागे सर्वमुण्डनेऽन्यत्र तीर्थे व्यङ्गुलच्छेद- स्याप्यकरणे भ्रम आचारो वा मूलम् (१) । क्षौरं नैमित्तिक कार्य निषेधे सत्यपि ध्रुवम् । पित्रादिमृतिदीक्षासु प्रायश्चित्ते च तीर्थक । इतिस्मृतेर्योतिःशास्त्रादिनिषिद्धकालेऽपि मुण्डनम् । गङ्गातीरे मुण्डनं तथा कार्यम् यथा वायुना केशादि तीर्थे पतति । विष्णु- पादाङ्गुष्ठविनिर्गतजलस्य हि तन्माहात्म्यं यन्न केवलमभिसन्धिपूर्वक स्नानाद्युपभोगेषूपकारकं किन्त्वनभिसंहितमपि अपेतप्राणस्याप्यस्थि- चर्मस्नायुकेशाद्युत्सृष्टं स्वशरीरजं सद्यः (२) प्राणिनं स्वर्ग नयतीति विष्णुपुराणात् स्वयमपि मृतास्थ्यादिवद्गङ्गाजले प्रक्षेप्तव्यम् । तुषकेश- पुरीषभस्मास्थिश्लेष्मनखलोमान्यप्सु न क्षिपेदिति शङ्खोक्तनिषेधस्तु जलान्तरपर इत्यन्ये ॥ तीर्थस्नानकाल:- प्रत्यावृत्तोदके रजोयोगे च स्नानं गङ्गातिरिक्तनद्यां दुष्टम् । आकस्मिकतीर्थप्राप्तौ तत्र रात्रावपि स्नानम्, बुद्धिपूर्व तु रात्री तीर्थे न प्रवेष्टव्यम् । गङ्गायां त्विदं निर्विवादम् - भुक्त्वा वा यदि वाऽ भुक्त्वा दिवा वा यदि वा निशि । न कालनियमः कश्चिद् गङ्गां प्राप्य सरिद्वराम् ॥ इति भारतात् । (१) तत्र प्रयाग नोन्मुक्तकेशवपनं किन्तु वेणी कृत्वा कुकुमादिद्रव्यालङ्कृता भर्तारं नमस्कृत्य तदनुज्ञाता वापयेत् तां च वेणीमञ्जली निधाय तत्र यथाशक्ति कृतां स्वर्णमयीं वा वेणी मुक्ताप्रवालादि च निधाय वेण्यां वेणीप्रदानेन सर्व पाप प्रणश्यतु । जन्मान्तरेष्वपि सदा सौभाग्यं मम वर्तताम् ॥' इत्युक्त्वा वेणी क्षिपेत् एतच्च प्रथमयात्रायामेव न प्रतियात्र- मिति सर्वशिष्टानामाचार इति प्रयागसेतौ नारायणभट्टाः । (२) 'शरीरिणं' क. पा.।
तीर्थेन्दुशेखरे- मातरं पितरं जायां भ्रातरं सुहृदं गुरुम् । यमुद्दिश्य निमजेत अष्टमांशं लभेत सः ॥ इतिमार्कण्डेयपुराणे । दशमांशमित्यन्यत्र पाठः। प्रतिकृति कुशमयों तीर्थवारिणि मजयेत् । मजयेञ्च यमुद्दिश्य सोऽष्टभागं फलं लभेत् ॥ कुशोऽसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः स्वयम् । त्वयि स्नाते स च स्नातो यस्येदं ग्रन्थिबन्धनम् ।। इतिमन्त्रलिङ्गात् । तद्ग्रन्थिबन्धनमेव तत्प्रतिकृतिर्बोध्या (३) । इदं च जीवदजीवत्सर्वविषयम् । तर्पणश्राद्धविधी- स्नानोत्तरं तर्पणश्राद्ध । ते च- अकालेऽप्यथवा काले तीर्थे श्राद्धं च तर्पणम् । अविलम्बेन कर्त्तव्यम् नैव विघ्नं समाचरेत् ॥ इति स्कान्दे । सर्वपितृतर्पणानन्तरम् । आब्रह्मस्तम्बपयन्तं देवर्षिपितृमानवाः । तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥ अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् । आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ॥ कामोदकप्रदानं ते मयैतत्कथितं नृप । यहत्त्वा प्रोणयत्येव मनुष्यः सकलं जगत्॥ इत्युक्तेरिदमपि कार्यम् । येषां शाखिनां श्राद्धाङ्गं तर्पणमस्ति तैस्तद्धमश्राद्धपक्षे विप्रविसर्जनानन्तरं कार्यम् । (३) सा च सप्ताभः कुशः कार्या 'सप्तभिस्तु प्रकुर्वीत कुशः प्रतिकृति नरः। यमुद्दिश्य निमजेत सोऽष्टमांशं फलं लभेत् । इति स्मृत्यन्तरात् । ।
अधिकार्यादिनिर्णयः। पक्षश्राद्धे हिरण्ये चाप्यनुव्रज्य तिलोदकम् । इत्युक्तः। सर्पणमस्तु- ताताम्बा त्रितयं सपत्नजननी मातामहादित्रयं सस्त्रि स्त्रीतनयादितानजननीस्वभ्रातरस्तत्स्त्रियः । ताताम्बात्मभगिन्यपत्यधवयुक् जाया पिता सद्गुरुः शिष्याप्ताः पितरो महालयविधौ तीर्थ तथा तर्पणे॥ इत्यभियुक्तोक्तः। अत्रसस्त्रीत्युक्तया सपत्नीकं मातामहमित्या- दिवाक्यमुधारयन्ति दाक्षिणात्याः। (तद्भान्त्या ) अतएवाप्रे तत्रिय इति पाठः। अत्र प्रत्यञ्जलि मन्त्रावृत्तिरुचिता । सकृदेव मन्त्रपाठी ऽञ्जलित्रयदानं चेति कश्चित् । तीर्थे तिलतर्पणञ्च रविभौमशुक्रनन्दासप्तमीत्रयोदशीमधाज- न्मदिनगृडशनिषु विवाहे वय॑म्, उपनयनेऽर्धवर्षम्, मैले तदधं वृद्धिश्राद्धे मासमित्येवं निषिद्धेष्वपि कालेषु कार्यम् । विधवाया: पुत्राद्यभावे प्रत्यहमेव तीर्थेऽपि तर्पणं कार्यम् । तीर्थश्राद्धं महाफलम् पुष्करादीन्यनुक्रम्य 'एषु तीर्थेषु यच्छाद्धं तत्कोटिगुणमिष्यते' इति मात्स्यादिभ्यः । तच्च स्नानतर्पणानन्तरमविलम्बेन कार्यम् । रात्र्यादौ कृतभोजनेनापि तीर्थश्राद्धं कार्यमेव । निषिद्धकाले सायाह्नादौ तन्न कार्यमति शूलपाणिः । ततः सायाह्नदत्तं हि राक्षसैविप्रलुप्यते । ग्रहोपरागसंक्रान्तितीर्थश्राद्धादिकं विना ॥ इति विष्णूतस्तदयुक्तमित्यन्ये । एतचाकस्मिकतीर्थप्रामौ द्रष्ट- व्यम् । बुद्धिपूर्वं त्वनिषिद्धकाल एव तीर्थप्रवेशः कार्यः । यदा तु प्राप्तिदिने दैवमानुषविघ्नेन प्रतिबन्धस्तदा दिनान्तरे कार्यम् । यदा तु तेन विघ्नेनाकृतश्राद्ध एव बहियाति तदा तल्लोप एव। एष एव - तीर्थेन्दुशेखरे- न्यायो मुण्डनेऽपि नैमित्तिकत्वेन साम्यात् । अत एव मलमासेऽप्ये- तच्छाद्धम् । तत्र रात्रादायामश्राद्धं हेमश्राद्धं वा । अन्नश्राद्धं राज्यादौ भुक्तवतश्च तीर्थप्राप्तौ परदिने एव । 'तथा ब्राह्मणं न परीक्षेत तीर्थे कालं न चिन्तयेदिति' पाझे । पातित्यादिदोषदुष्टस्तु त्याज्य एव । तीर्थनिमित्ते श्राद्धे ऽावाहनद्विजाङ्गुष्ठनिवेशतृप्तिप्रश्नविकिरदिग्व- न्धाग्नौकरणानि कार्याणि । तत्र तीर्थजलसमीपे आमहेमान्यतर. श्राद्धमेव, गृहादौ तु पक्कानेन । पाकब्राह्मणासम्भवे गृहेऽप्यामम्, तदसम्भवे हैमम् । 'सदैव तु जलान्तेषु आमश्राद्धं प्रशस्यत' इत्युक्तः। तत्रामं चतुर्गुणं द्विगुणं वा अशको समपि । हिरण्यं त्वष्टगुणं चतु. गुंणं द्विगुणं वा अशक्तौ ब्राह्मणभोजनसममपि । शूद्रस्य तु सर्वत्रा- मेनैव । आमश्राद्धे तृप्तिप्रश्नोङ्गुष्ठनिवेशो जुषप्रश्नो यथासुखमिति अपोशनं च न भवति, हैमश्राद्धे पिण्डदानं कृताकृतम् । विप्रालाभे तु- पात्राभावेऽखिलं कृत्वा पितृयज्ञविधि मरः (१)। निर्दिश्याशनमुद्धत्य यत्र पात्रं ततो गतिः ॥ निधायैवं दर्भवटूनासनेषु समाहितः । प्रैषानुप्रैषसंबद्धं (२) विधानं प्रतिपादयेत् । तदन्नं च क्षिपेदग्नौ गवे दद्यादथाप्सु वा ॥ नैव प्राप्तस्य लोपोऽस्ति पैतृकस्य विशेषतः । इति देवलः ॥ - आमादिश्राद्धे तु तदामादि कालान्तरे ब्राह्मणाय देयम् । आमादिश्राद्धं सति सम्भवे पूर्वाह्न एव आकस्मिके तु तीर्थप्रवेशे राज्यादावपि सर्वथा श्राद्धाशको सक्तुसंयावपायसपिण्याकाद्यन्यतमेन पिण्ड- दानमा तीर्थे । तत्राप्यशक्तौ तिलतर्पणमुपवासो वा। तीर्थश्राद्ध पिण्डानां जले एव प्रक्षेपः । यत्र काश्यादावेकस्मिन्महातीर्थे ऽवान्तर. (१) पानाभावे खिलां कृत्वा पितृयज्ञचितिं नरः इति ख. पाठः । (२) सहितं निधानं ख. पा. ।
। अधिकार्यादिनिर्णयः। तीर्थान्यनेकान्येकदिने गम्यन्ते तत्र सकलनिमित्तकं श्राद्धं तन्त्रण कारयिष्ये इतिसङ्कल्पः (३)। व्यापकतीर्थस्यैव सङ्कल्पे उद्देश इत्यन्ये । पञ्चक्रोशसीमायां स्थितौ तु काशीमात्रनिमित्तकं तत्रैवोचितम् । तैर्थिकवार्षिकयोरेकदिने प्राप्तौ तैर्थिकं कृत्वा वार्षिक कार्यम् । दार्शिकानि (४) प्रसङ्गासिध्यन्ति। यदि तीर्थे आमश्राद्धादि तदातानि पृथक् कार्याणि । तेषां पक्वान्नसाध्यत्वात् । यदि तान्यपि अशक्तयादिना ऽऽमेनैव चिकीर्षति तशा प्रसङ्गासिद्धिः । मुण्डनवच्छाद्धमपि दशमासोत्तरं तीर्थप्राप्तावेवाचारात् । बृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः॥ इत्युक्ते जीविपितुरपि तीर्थे श्राद्धे (५) अधिकारः । अत्र पित. पितामात्राइयस्तन्मातामहादयश्च देवताः। स्वमाताऽपि पितृपत्नीत्वेन देवता स्वमातामहोऽपि पितृश्वसुरत्वेनैव । मृतमातृकेण प्रसङ्गाद् गया. गमने मातृपार्वणमेव कार्यम् न पितृपित्रादिश्राद्धम् । दर्शश्राद्धं गयाश्राद्धं श्राद्धं वापरपक्षिकम् । न जीवत्पितृकः कुर्यात्तिलैः कृष्णश्च तर्पणम् ।। इति निषेधात् न तु तच्छ्राद्धोद्देशेन गयागमनं कार्यम् । 'गयां प्रसङ्गतो गत्वा मातुः श्राद्धं समाचरेत्' इत्युक्तेः ।। केचित्तु तस्य गयायामुभयमिच्छन्ति । अचाराव्यवस्था । एवञ्च पितरि तीर्थवासिनि देशान्तरादागतेन पुत्रेण श्राद्धं कार्यमेव पित्रा सहगतस्यापि तदावश्यकमेव लोकविद्विष्टत्वात् तदनाचारः । यस्य तु पित्रादित्रयं जीवति स नैव कुर्यात् । विधवा तु यदि पुत्रवती तीर्थ गता तदा श्राद्धतर्पणे न कुर्यात् । । (३) करिष्ये इति ख. पा । (४) दर्शिकादीनि ख पा । (५) भाद्धेऽपि क. पा.
तीर्थेन्दुशेखरे- यत्तु पुत्रवत्यापि पुत्रासंनिधाने ब्राह्मणद्वारा सङ्कल्पश्राद्धं कार्य- मिति तन्निर्मूलम् । अपुत्रया तु कार्यमेव तादृश्या स्त्रियानुपनीतेन च यथाचार विप्रद्वारा कारणीयम् अमन्त्रकं वा नामगोत्राभ्यां स्वयंकार्यम् । देवेभ्यो नमः पितृभ्यः स्वधा नम इति मन्त्राभ्यां वा। रिक्थहारी तत्स्वामिनः श्राद्धं कुर्यात् । यतिपतितादीनां तु श्राद्ध नाधिकारः। श्राद्धं च गयातिरिक्ततीर्थे षड्दैवत्यमेव । मातृमातामह्यादिपार्वणं पितृव्यादेरेको द्दिष्टं च कृताकृतम् । यदा मात्रादिभ्यो देयं तदा पितुः पश्चिमभागे । मात्रादीनां पृथक्श्राद्धपक्षे तासां कृतसहग. मनत्वे उभयोद्देशेन ब्राह्मण एक एच पिण्डोऽप्येक एव मृताहे मृततिथ्येकत्वे पूर्ववत्संक्षेपेणैव श्राद्धम् । तिथिभेदे तु पृथगेव नवश्राद्धं तु पृथगेव दर्शादिष्वपि संक्षेपेणैव । अनेदमातृकत्वेऽाः पृथक्, पिण्डस्तु सर्वासामेक एव । महालयेऽप्येवम् । अन्ये तु पिण्डपृथक्त्वमपीच्छन्ति । सापनमातामहादि तत्पत्नीनां पितृपितामहसपत्नमात्रोः पितृव्यतत्सुताचार्यगुरुशिष्यसखिमातुलादि शातितत्पनीदौहित्रपुत्रतत्पत्नीकनिष्ठसोदराणां स्ववंश्यसंततियतिव्र. मचार्यादीनांचेच्छन्ति । तत्र पितृव्यादीनामेकोद्दिष्टमेव । तत्र पितृमाता- महपार्वणमावश्यकम् । अन्यत्तु न तथा गयायां तु सर्वमप्यावश्यकम् । अनेकपार्वणानामेकोहिष्टनां च युगपत्प्राप्तौ तन्त्रेण श्रपणं, दैवं व तन्त्रेण पार्वणोत्तरं चैकोद्दिष्टम् अशक्तौ तु पार्वणैकोहिष्टयोरपि तन्त्रम् तीर्थे एक ब्राह्मणेऽपि सर्वै कोद्दिष्टान्यशक्ती, पिएडास्तु पृथगेव. पित्रादिपावणेष्वप्येक एव ब्राह्मणोऽशक्तौ। यस्तु दानादिना प्रेरितो. ऽन्यार्थ तीर्थ याति स प्रथमं यजमानपित्रादेः श्राद्ध दत्त्वा स्वपितृ. भ्योऽपि दद्यात् । विधवा तु स्वभर्तृ पार्वणं स्वपितृपार्वणं च कुर्यात् । क्षयाहे तु तस्या भत्रैकोद्दिष्टमेव । श्वसुरे जीवति भत्तत्पितामह - अधिकार्यादिनिर्णयः। प्रपितामहेभ्यो दद्यात् । उभयोजींवतोभर्तृतत्प्रपितामहबृद्धप्रपिताम- हेम्यः स्वपितरि जीवतिहारलोपात्तत्पार्वणलोप एव श्वश्रूमातामहयो: स्वमातुर्मातामह्याश्च पार्वणं कृताकृतम् । यत्तु पितृमातामहादीनां सपत्नीकानामित्युचारणेन श्राद्धमिति तन्न विनापि तदुल्लेखं तदनुयायितया तच्छाद्धन तासामपि तृप्तेः । स्वेन भी समं श्राद्धं माता भुङ्क्ते सुधासमम् । इति देवलात् । स्वेन भर्ना समं भत्तुर्दीयमानं मातापि भुक्ते इति तदर्थः । एवञ्च मातृमातामह्यादिश्राद्धमनावश्यकमेव । जीवत्पितविषये विष्णुः पितरि जीवति यः श्राद्धं कुर्याद्येषां पिता कुर्यात्तेषां कुर्यात् । पितरि पितामहे च जीवति येषां पितामहः । त्रिषु जीवत्सु नैव कुर्यात् । यस्य पिता प्रेतः स्यात्म पित्रे पिण्ड निधाय पितामहात्पराभ्यां द्वाभ्यां दद्यात् । यस्य पिता पितामहश्च प्रेती स्यातां स ताभ्यां पिएडं दत्त्वा पितामहपितामहाय दद्यात् । यस्य पितामहः प्रेतः स्यात्स तस्मै पिएडं निधाय प्रपितामहात्पराभ्यां द्वाभ्यां दद्यात् । यस्य पिता प्रपितामहश्व प्रेतो स्यातांल पित्रे पिण्ड निधाय पितामहात्पराभ्यां द्वाभ्यां दद्यात् । मातामहानामप्येवमिति । अत्र यत्तच्छब्दाभ्यां पितृसंबद्धा एव मात्राक्ष्यो मातामहाश्च पितृमातृत्वादिना जीवत्पितृकस्य तीर्थश्राद्धादौ देवताः स्वमातुः स्वमातामहस्य च पितृपत्नीत्वेन तच्छ्वशुरत्वेन च देवतात्वम् तदप्येकोदिष्टमेव । पितुस्तस्यैव प्राप्तेर्यस्य पिता प्रेतः स्यादित्यादि मृतपितृकविषयमिति स्पष्ट मेव । तद्विषय एव मातामहानामप्येव. मित्यति देशः । यस्य पितामह इत्यादेर्जीवत्पितृविषयत्वेऽपि तद्विषये नातिदेशस्तस्य मातामहत्वेन स्वमातामहाप्राप्तेः। न जीवत्पित्तकः कुर्याच्छाद्धमग्निमृते द्विजः ॥ येभ्य एव पिता दद्यात्तभ्यः कुर्वीत साग्निकः ॥ इति तु पिण्डपितृयज्ञविधिं धिना श्राद्धनिषेधपरमिति केचित् ।
तीर्थेन्दुशेखरे- अन्ये त्वेतद्वलाच्छौतस्माभियाग्निरहितस्य जीवत्पितकस्य श्राद्ध ऽनधिकार एव अग्निहोनस्य पिण्डपितृयज्ञविधानेन श्राद्धाप्राप्तेस्त- द्वैयपित्तरित्याहुः। यदा जीवत्पितृकोऽपि पितृनियुक्तस्तत्फलार्थमेव तीर्थं याति तदा यजमानस्य पितुरित्यादिवाक्यरचनया प्रथम श्राद्धं कृत्वा स्वस्यापि प्रसङ्गतस्तीर्थप्राप्तिनिमित्तमत्त्वान् पितुः पित्रादीनामिति वाक्यरचनया श्राद्धान्तरमपि कार्यम् । एवं यदा मृतमातृकः पितृप्रेर- णया तत्फलार्थं गयां याति तदा तेन प्रथमं यजमानपत्नीत्वेन मात्रे एकोद्दिष्टं कृत्वा पितृपत्नीत्वेनैकोद्दिष्टं कार्यम् । ततो मातृपार्वणमपि- कार्यम् । प्रसङ्गात्तस्य गयालाभे पितृपत्नीत्वेने कोहिष्टं कृत्वा मातृत्वा. दिना मातृमात्र पार्वणमपि कार्यम् । गयामिन्नतीर्थे तु यथायोगं यजमानपत्नीत्वेन पितृपत्नीत्वेन चैकोद्दिष्टमेव कार्यम् न तु पार्वणम् । अन्येतु जीवत्पितृकस्य गयायां श्राद्धनिषेधात्पितपितृत्वादिना श्राद्ध नास्त्येवेत्याहुः । मातरि मातामहे मातामह्यां वा जीवन्त्यां तत्तत्पार्वणलोप एव । विस्तरेण श्राद्धकरणाशक्तौ पित्रादीन्सर्वानुदि. श्यकः पिएडो देय इति केचित् । तीर्थे मृतास्थिप्रक्षेपो मृतस्य स्वर्गदः गङ्गायां ब्रह्मलोकद इत्यन्यत्र विस्तरः । अस्थिक्षेपं गयाश्राद्धं श्राद्धं चापरपक्षिकम् । प्रथमेऽब्दे न कुर्वीत यदि न स्यात् सपिण्डनम् ॥ कृतेऽपि तु सपिएडने इति कश्चित्पठति । प्रथमेऽन्देऽपि कुति कृतं यस्यौदेहिकम् ॥ इत्यन्यत्र पूर्वार्धंतुसमम् । यदि स्याद्भक्तिमान्सुत इति त्तुर्यपादमन्ये पठन्ति । दशाहाभ्यन्तरेऽस्थिप्रक्षेपस्तु प्रशस्ततः देवदर्शने प्रणामे च- अग्रे मृत्युमवाप्नोति पृष्ठे त्वपचयः स्मृतः । वामभागे भवेत्राशो दक्षिणे सर्वकामदः ॥ ।
अधिकार्यादिनिर्णयः। शिवे स्वप्रेऽपि (१)- येषु तीर्थेषु ये देवा येषु तीर्थेषु ये द्विजाः । येषु तीर्थेषु यत्तीयं विचिकित्सेन तत्र तत् ॥ इतिबाझे। एतेषूपहतेष्वपि न दोष इत्याशयः । यदन्यत्र कृतं पापं तीर्थे तधाति सर्वथा। न तीर्थकृतमन्यत्र कचित्पापं व्यपोहति ॥ इति पाये। गारुडेऽपि- गृहे तु यत्कृतं पापं तीर्थस्नानेन शुध्यति । कुरुते तत्र यत्पापं वज्रलेपसमं हि तत् ॥ इति ब्रह्मवैवत्तेऽपि- NON- अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति । पुण्यक्षेत्रे कृतं पापं गङ्गातीरे विनश्यति ॥ गङ्गातीरे कृतं पापं वाराणस्यां घिनश्यति । वाराणस्यां कृतं पापमविमुक्त विनश्यति ॥ अविमुक्त कृतं पापमन्तगैहे विनश्यति । अन्तगेंहे कृतं पापं वज्रलेपो भविष्यति ॥ बज्रलेपच्छिदं ह्येततत्पञ्चक्रोशप्रदक्षिणम् । इति । अत्र गङ्गातीर वाराणस्यनवच्छिन्नम् । एवञ्च काशी सर्वतीर्थ कृतपापनाशिका दर्शनमात्रेण । अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति । पुण्यक्षेत्रे कृतं पापं वाराणस्यां विनश्यति । (१) इदं पुस्तकद्वये दृश्यमानमाप अनन्वितम् ।
- तीर्थेन्दुशेखरे- वाराणस्यां कृतं पापं गङ्गातीरे विनश्यति । गङ्गातीरे कृतं पापमन्तर्गेहे विनश्यति । अन्तगैहे कृतं जपं वज्रलेपो भविष्यति । इत्यन्यत्रोक्तः। अत्र गङ्गातीरे कृतं पापं गङ्गास्नानेन शुध्यति ॥ इति भविष्या. धुक्तेरिदमन्तहस्तुत्यर्थम् । गङ्गेतिकीर्तनं च तनाशकम् । गङ्गागङ्गेतियन्नाम योजनानां शतैरपि ॥ स्थितैरुचारितं हन्ति पापं जन्मत्रयार्जितम् ॥ इति विष्णुपुराणाश्च। अन्तहे कृतानां पापानामपि पञ्चकोशीयात्रा प्रायश्चित्तम् । ज्ञानस्वरूपा काशीयं पञ्चक्रोशीपरीमिता। तस्याः प्रदक्षिणं कृत्वा सर्वपापैः प्रमुच्यते । क्षेत्रे कृतानां पापानां प्रायश्चित्तं न चेतरत् । इतिब्रह्मवैवर्तात् । अल्पव्ययायाससाध्याया अपि. तस्या वस्तुमाहात्म्यात्सर्वपाप- नाशकत्वं नानुपपन्नम् । एतेन पञ्चकोशीयात्रायां पञ्च प्राजापत्यानि कल्पयन्त: परास्ताः । धनिकानामेतत्सहितं गृहदानं सर्वप्रायश्चित्तम् । वाराणस्यां गृहं कृत्वा ब्राह्मणाय प्रयच्छति। काश्यां कृतानां पापानां कायवाङ्मनसा वलु। नाशः परोऽयं संदिष्टः शुभकृद्यदि लभ्यते । इति तत्रैवोक्तः। काश्यां जलाशयकरणं जीर्णजलाशयोद्धारश्चात्यन्तं पापनाशाय पुण्याय चेत्यपि तत्रैव। पङ्ग्वादीनां केवलं गृहदानमपि सर्वप्राय- श्चित्तमित्यपि तत्रैव । एवं गङ्गास्नानविष्णुस्मरणे तद्भक्तानां सर्वप्रा. - अधिकार्यादिनिर्णयः। यश्चित्तम् । न च तत्साधारणं, तावता क्षत्यभावात् । न चेतरदित्या- घुक्तिस्तु तयोर्भक्तयभाववत्पुरुषपरा । मन्वाद्युक्तप्रायश्चित्तानां तद्विषयताया एवाभियुक्तरुक्तत्वात् । विष्णुस्मरणमुपक्रम्य- प्रायेण वेद तदिदं न महाजनोऽयं देव्या विमोहितमतिर्वत माययाऽलम् । प्रय्या जडीकृतमतिर्मधुपुष्पितायां वैतानिके महति कर्मणि युज्यमानः ॥ इति भागवताच्च । महाजनो मन्वादिः । न वेद विष्णुस्मरणस्य सर्वप्रायश्चित्तत्वं न वेदेत्यर्थः। तत्र हेतुर्मायाविमोहितत्वम् । यद्वा महाजनो लोकः । त्रय्यां जडीकृतमतिः सन् बहुवित्तव्ययायाससाध्यत्वेन महति वैतानिके कर्मणि युज्यमानः श्रद्धालुन तु विष्णुस्मरणादावन: श्रद्धा- भावात्तान्प्रतीदं नोक्तवानिति तदर्थः । तथा सन्निकर्षोऽत्र मा. नामनादरणकारणम् । 'गाङ्गं हित्वा यथाऽन्याम्भस्तत्र त्वायाति शुद्धये' इति भागवते उक्तम् । भविष्ये- स्नानमात्रेण गङ्गायां पापं ब्रह्मषधोद्भवम् ॥ दुराधर्षं कथं याति चिन्तयेद्यो वदेदपि ॥ तस्याहं प्रदहे पापं कोटिब्रह्मषधोद्भवम् ॥ स्तुतिवादमिमं मत्वा कुम्भीपाकेषु जायते ॥ आकल्पं नरकं भुक्त्वा ततो जायेत गर्दभः ।। तीर्थमन्यत्प्रशंसन्ति गङ्गातीरस्थिता अपि॥ पण्डितंमन्यमाना ये ते वै निरयगामिनः ॥ इति ।
तीर्थेन्दुशेखरे-
कालिकापुराणे-
गङ्गाम्प्राप्यापि ये माः शुद्धां भकिं न कुर्वते ।।
तीर्थान्तरे रतिं कुर्युस्ते वै निरयगामिनः ॥
सर्वोत्तमां महादेवीं सर्वोत्कृष्टां वरप्रदाम् ।।
अन्यतीर्थसमां ब्रूयुस्ते वै निरयगामिनः ।
घरः श्रेष्ठो मोक्षः।
स्कान्दे-
गङ्गातीर्थम्परित्यज्य येऽन्यतीर्थाभिलाषुकाः ॥
ब्रह्महत्याफलं तेषां सततं संशयात्मनाम् ॥ इति ।
मनुदेवलौ ॥
RI
क्षेत्रस्थ उद्धृतं वापि शीतमुष्णमथापि वा ।।
गाङ्गं तु हरते तोयं पापमामरणान्तिकम, ॥ इति ।
भनेकजन्मार्जितमपीति शेषः ।
लैङ्गे-
ब्रह्महा गुरुहा गोनः स्वर्णहृद् गुरुतल्पगः ।
गङ्गाम्भसा तु पूयन्ते नात्र कार्या विचारणा ॥ इति ।
सकलप्रायश्चित्तपथाऽतीतांनां गङ्गाजलस्पृष्टभस्मनां सगर.
पुत्राणां समुद्धारस्य रामायणेषु सर्वपुराणेषु च श्रवणाञ्च ।
योगियाज्ञवल्क्य:-
न तावत् पापमस्तीह यन्नाम्ना न हृतं हरेः।
अतिरेकभयादाहुः प्रायश्चित्तान्तरं वृथा ।। इति ।
च्यवन:-
-
श्रुतिस्मृतिपुराणेषु रामनाम समीरितम् ।।
सर्वेषामेव पापानां प्रायश्चित्तमिदं स्मृतम ॥ इति ।
अधिकार्यादिनिर्णयः। २१ .0 अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा॥ यः स्मरेत्पुण्डरीकाक्षं स बाह्माभ्यन्तरः शुचिः ।। इति पायादा ॥ अपवित्रः आचरितपापकर्मा पवित्रः अतादृशो ऽनाचरित. स्नानादिः, सर्वावस्था विष्णोरभक्तिकावस्था । स्मरणं च विष्णुः सर्वकारणम् स अहमपि इति ज्ञानम् । पराशरादिसंहितासु- - अर्थवादं हरेर्नाम्नि सम्भावयति यो जनः । स पापिष्ठो मनुष्याणां निरये पतति स्फुटम् ॥ इति । विष्णुपुराणेऽपि- कलिकल्मषमत्युग्रनरकार्तिप्रदं नृणाम् प्रयाति विलयं सद्यः सकृयत्रानुसंस्मृते ।। स सर्वः सर्ववित्सर्वस्वरूपो रूपवर्जितः। सर्वभूतश्च सर्वात्मा कीर्त्यतां भगवान्हरिः ॥ इति । किञ्च 'न युष्मे वाजबन्धवो निनित्सुश्च न मर्त्यः अवद्यमधिदी. धरत्' इति मन्त्रोऽपि महतां नामकीर्तनस्य पापनाशकत्वमाह। तथा हि वाजमित्यन्ननाम अन्नदानेन ये सर्वबन्धवस्तेषां संबोधनं हे बाजबन्धवः युष्मे युष्मासु अधिः सप्तम्यर्थानुवादः। समासस्तु बाहुलकान | निनित्सुश्च न निन्दनेच्छशीलोऽपि मः अवद्यं पापं न धारयति । भवदनुसन्धानमात्रेण निष्पापत्वात् । निनित्सुरपी- त्युक्तया निन्दन् अपि किमुत स्तुवन्निति गम्यते । तावपि पुण्यश्लोकनाम गृणन्तौ शुद्धौ नितरां स्त इति तदर्थः । अक्षाश्वमेध नानो राज्ञो दानस्तुतिरियम् । एवञ्च जगत्पालकस्य भगवतो नाम- कीर्तनं सर्वपापनाशकमिति कैमुतिकन्यायसिद्धम् । अपि च 'तमुस्तोतार: पृव्यं यथाविद ऋतस्य गर्भ जनुषा पिपर्त. न अस्य जानन्तो नामचिद्विविक्तन महस्ते विष्णो सुमतिं भजामहे तीर्थेन्दुशेखरे- इति मन्त्रोऽपि भगवन्नामकीर्तनस्य ज्ञानप्रदत्वमाह । अस्यार्थ:- उ इति छन्दःपूरणाय। हे जानन्त :-कुशलाः तं देवम्-अस्ति कश्चि- दीश्वर इत्याघालप्रसिद्धम् । पूयं पुरातनं सर्वकारणं ऋतस्य वेदस्य गर्भ सकल वेदप्रतिपाद्यं स्तोतारः स्तुध्वमिति प्रत्ययवि. परिणामः यथाविदो यथाविदन्ति तथा स्तुध्वमिति श्रौतपौराणता. न्त्रिकपौरुषेयशब्दैः तत्स्तुतिप्रतिपादकैर्यथाज्ञानं स्तुध्वमित्यर्थः । भागवते- स्तवैरुच्चावचैः स्तोत्रैः पौराणः प्राकृतैरपीत्युक्तः । एवं सति जनुषा जन्मना पिपर्तन तनश्छान्दसः। पिपृत जन्मानि समापयत मुक्तिप्राप्त्येत्यर्थः । यद्येवं स्तोतुमसमर्थास्तहस्य विष्णो मचित् नामापि विविक्तन सदा कीर्तयत । कीर्तनफलमाह-हे विष्णो ते महः महसः प्रकाशस्वरूपस्य प्रकाशिकामपीतिशेषः । सुमतिं भजामहे लकारव्यत्ययः । एवञ्च तत्त्वज्ञानमाशासानाः कीर्तयतेत्यर्थः । विधिशक्तिर्न मन्त्रस्य वियोगेनापनीयते ॥ स्वतो विधास्यति ह्येष नियोगात्रुमारयिष्यति ॥ इति भट्टाः । तापनीयेऽपि- तान्प्रजापतिरब्रवीदेभिर्मन्त्रैः स्तुध्वं ततो देवः प्रीतो भवति स्वात्मानं दर्शयति तस्माद्य एतैर्मन्त्रैः स्तौति सोऽमृतत्वञ्च गच्छती. त्यार्या विभावयन्तु। तथा ऋग्विधाने- वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः। तावन्ति हरिनामानि कीर्तितानि न संशयः॥ इति अनेन सर्वनाम्नां श्रुतिसमत्वमिति सूचयति । अल्पा- याससाध्यस्यापि महापुण्यजनकत्वमत्यल्पसुराविन्दुप्राशनस्य महा. पापजनकत्ववन्नानुपपन्नम्। कीर्तनं च तत्त्वावबोधपर्यवसायि श्रवण- अधिकार्यादिनिर्णयः। २३ पर तेन निदिध्यासनान्ततल्लाभः । यद्यप्येतत्काशीवासस्यावश्यकर्त- व्यत्वार्थमुक्तं तथापि तुल्यन्यायादन्यविषयेऽपि बोध्यम् । इति प्रायश्चित्तं तीर्थविषयम् । गङ्गायमुनयोश्चैव सङ्गमो लोकविश्रुतः । स एव कामिकस्तीर्थस्तत्र स्नानेन भक्तितः॥ भोगकामस्य भोगाः स्युः राज्यं स्याद्राज्यकामिनः । यस्य यस्य तु यः कामस्तस्य तस्य भवेद्धि सः॥ इति भविष्यपुराणे। इति तीर्थाधिकार्यादिनिर्णयः। अथ प्रयागमरणविचारः। तत्र स्कान्दे- - यथा कथञ्चित्तीर्थेऽस्मिन्प्राणत्यागं करोति यः। तस्यात्मघातदोषो न प्राप्नुयादीप्सितां गतिम् ॥ एतन्मूलकमेव शस्त्रादिना मरणमाधुनिकानाम् । कौमें रुग्णादीन् क्रुद्धान्प्रक्रम्य- गङ्गायमुनमासाद्य यस्तु प्राणान्परित्यजेत् । ईप्सितान लभते कामान् नैव दोषः स्वघातजः ॥ इति पाझे ॥ देह त्यागं तथा वीराः कुर्वन्ति मम सन्निधौ । मत्तनुं प्रविशन्त्येव पुनर्जन्म न ते नराः । इति विष्णुः । कौमें- वटमूलं समाश्रित्य यस्तु प्राणान् परित्यजेत् । सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ॥ गङ्गायमुनयोर्मध्ये कार्षाग्निं यस्तु साधयेत् ॥ अहीनाङ्गोऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥
२४
तीर्थेन्दुशेखरे-
यावन्ति रोमकूपाणि तावत्स्वर्गे महीयते ॥
अधःशिरास्तु यो ज्वालामूर्ध्वपादः पिबेन्नरः ॥
सूर्यलोकमवाप्नोति सूर्येण सह मोदते ॥
जलप्रवेशं यः कुर्यात्सङ्गमे लोकविश्रुते ॥
सोमलोकमवाप्नोति सोमेन सह मोदते ॥
यः स्वदेहं विकर्तित्वा शकुनिभ्यः प्रयच्छति ।।
शतवर्षसहस्राणि स्वर्गलोके महीयते ॥
मात्स्ये-
उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे ॥
कोटितीर्थे च रम्येऽत्र यस्तु प्राणान्परित्यजेत् ॥
बहुवर्षसहस्राणि स्वर्ग लोके महीयते ॥
इत्यर्थकमुक्तम् ।
तथा-
शृणु राजन् प्रयागे तु अनाशकपलं महत् ॥
मुच्यते सर्वपापेभ्यो गच्छेच्च परमं पदम् ॥ इति ।
पञ्चयोजने प्रयागमएडले यत्र कापि प्राणत्यागस्य महाफलत्व.
मुक्तम् ।
तत्र ब्रह्माण्डपुराणे-
ध्यात्वा विष्णुपदाम्भोज प्रयागे विष्णुतत्परः।
तनुं त्यजति वै माघे तस्य मुक्तिन संशयः ।।
श्रुतिरपि पाराशष्टे
S
सितासिते सरिते यत्र सङ्गते
तत्राप्लुतासो दिवमुत्पतन्ति ।
ये वै तन्वं विसृजन्ति धीरा-
स्ते जनासोऽमृतत्वं भजन्ते ॥ इति ।
प्रयागमरणनिर्णयः। यत्र गङ्गा च यमुना यत्र प्राची सरस्वती। यत्र सोमेश्वरो देवस्ता माममृतं कृधि ॥ इति । इन्द्रायेन्द्रो परिस्रवेति च । भारतमात्स्यकीमादिषु--- न लोकवचनत्तात न वेदवचनादपि। मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥ इति । J तत्र मरणनिषेधकं चेदं वचनम् । (१) ('तस्मादुह न पुरायुषः स्वः कामी प्रेयदिति' स्मृतिरप्येतदर्थकोका । अत्र स्वाकामी न प्रेयादि त्यनेन स्वर्गकामस्य शास्त्रण विहितं यन्मरणं तन्निषिध्यते। अक्षर- स्वारस्यात् । तस्य जीवता यज्ञादिभिरपि साधयितुं शक्यत्वादिति सदाशयः । एवञ्च यथामरणे काम्यार्थसिद्धिर्दोषश्चेत्युभयम्) । एवञ्च यज्ञाद्यममर्थस्य तदनधिकारिणो वा तत्र प्रवृत्तिरूचितैव । तदधि- कारिणोऽपि स्वर्गों में शीघ्रं भवत्वित्युत्कटेच्छावतो दोषज्ञानेऽपि प्रवृत्तिर्भवत्येव। परन्तु दोषोऽप्युक्तश्रुतिवशात् । एवमेव सहगमने स्त्रीणां सर्वस्वारयज्ञेन यजमानस्याग्निप्रवेशे प्रवृत्तिः । ये तु आयुः शेषेण कदाचित्तत्त्वज्ञानसंपत्त्या मोक्षस्यापि सम्भ- वादनित्याल्पस्वर्गसुखार्थमायुषः प्राङ् न प्रेयान्मोक्षार्थीति श्रुत्यर्थं वदन्ति ते मान्या एव, अक्षरैरलाभात् । स्वःकामिनो मोक्षार्थित्वाभा- वाश्च स्वःकामिन एव निषेधात् । मोक्षकामस्य न तनिषेधः । प्रयागमरणेनापि तत्त्वज्ञानद्वारैव मोक्षोऽतस्तमेव विदित्वेति श्रुत्या न विरोधः । 'ब्रह्मज्ञानेन मुच्यन्ते प्रयागमरणेन वा' इत्यत्र ब्रह्मज्ञानपदं करणव्युत्पत्त्या शमदमादिपरम् । तैरिव प्रयागमरणेनापि श्रवणादिद्वारा शीघ्रं ब्रह्मज्ञानोत्पत्तेरतोन तेन विरोधः। (१) तस्मादुहत्यारभ्य-उभयामत्यन्तः पाठः ख, पुस्तके नास्ति ।
तीर्थेन्दुशेखरे- प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात् । प्रयागादपि तीर्थाग्रयादिदमेव विशिष्यते ॥ इतिकाशीप्रकरणस्थं वाक्यं तु काशीमरणे (१) धीरत्वगुणान पेक्षणेन तदनपेक्षाकृतवैशिष्ट्यबोधनपरम् (२) । प्रयागमरणे च ब्राह्मणस्य नाधिकारः। शूद्राश्च क्षत्रिया वैश्या अन्त्यजाश्च तथाधमाः । एते त्यजेयुः प्राणान्वे वर्जयित्वा द्विजं नृप ॥ पतित्वा ब्राह्मणस्तत्र ब्रह्महा चात्महा भवेत् ॥ इत्युक्तः। द्विजपदं वाक्यशेषाद्विप्रपरम् । न लोकवचनादित्यादेराग्नेयस्य (३) वशिष्ठं संबोध्य प्रवृत्तावपि तद्विषयत्वे मानाभावात् । ब्रह्महा चात्महा भवेदित्युक्त्या ऽन्येषामप्यात्मघातदोषोऽस्त्येव । यज्ञेषु पशु- हिंसाजन्यपापवत् । एतच्चान्यत्र प्रपञ्चितम् । फलस्य महत्त्वाद्यज्ञवत्त- त्रापि अन्येषां प्रवृत्तिः। ब्राह्मणस्य महादोषश्रवणादप्रवृत्तिरेवोचिता । अन्ये त्वस्य निर्मूलत्वात्सर्ववर्णानां तत्राधिकारमाहुः । लुप्तशौचक्रियस्य प्रत्याख्यातभिषक्क्रयस्य वृद्धविप्रादेरत्र मरणविधौ न विवादः । परन्तु तन्मरणस्य कलिवज्येषु परिगण. नात्साम्प्रतमनधिकार एव। विष्णुधर्मोत्तरेऽपि- व्याधितो भिषजा त्यक्तोऽपूर्णे (४) आयुषि चात्मानः। यथायुगानुसारेण सन्त्यजेदात्मनस्तनुम् ॥ इति । परे तु व्याधित इत्याद्यपक्रम्य- तस्मिन्काले तनुत्यागाद्यथोक्तफलभाग्भवेत् । आयुषस्तु पुरा दृष्टं मरणं ब्राह्मणस्य च ॥ aun - (१) 'काशीमरणे' ख, पु. नास्ति । (२) तदनपेक्षाकृत'इति ख, पु. नास्ति । (३) आग्नेयस्येति ख. पुस्तके नास्ति । (४) 'पूर्वे' इति ख. पाठः ।
प्रयागमरणनिर्णयः। २७ न कन क्षत्रियस्य तु सङ्गामे मृते भर्तरि योषितः । सर्वे ह्यप्राप्तकालेऽपि गतिमप्रथामवाप्नुयात् ॥ इति। विष्णुधर्मोत्तरे यथोक्तफलभागित्युक्तेः। फलार्थं विहितप्रयागमरणे आतुरादेरेवाधिकारो न त्वन्यस्य । सोऽपि युगान्तरे एव न तु कलौ यथायुगानुसारेणेत्यत्रैवोक्तरहीनाङ्गोऽप्यरोगश्चेत्यादेरपिशब्द- घटितत्वान्न स्वार्थे तात्पर्यमित्याहुः । गर्भिण्या बालापत्याया भर्ना- ननुमतायाश्च स्त्रिया अनधिकारस्तु सर्वसम्मत इत्यलं पल्लवितेन । इतिप्रयागमरणनिर्णयः । अथ काशीप्रकरणम् । श्रीगङ्गाकाश्योर्मोक्षदत्वमुक्तं मनुना- यमो वैवस्वतो राजो यस्तवैष हदिस्थितः। तेन चेदविवादस्ते मा गङ्गां मा कुरूनगमः ॥ इति । यमयति नियमयतीति यमः अन्तर्यामी 'य आत्मानमन्तरो यमयति एष त आत्मान्तर्याम्यमृत' इति श्रुतेः। वैवस्वतो विवस्वदधि- ष्ठाता, राजा स्वप्रकाशः यस्तवैष हृदि स्थित इति स्वानुभवप्रत्येयत्वं तस्याह 'अन्तप्रविष्ट : शास्ता जनानाम्' इति श्रुतेः । तेन परमात्मना- ऽविवादः- ऐकात्म्यं यद्यस्ति तदा मा गङ्गां मा कुरून गच्छ अन्यथा तेन एकात्म्यज्ञानप्राप्तये तत्रैव तिष्ठेति तद्भावः । अत एव- गङ्गायां मरणं चैव दृढा भक्तिश्च केशवे । ब्रह्मविद्याप्रशोधश्च नारूपस्य तपसः फलम् ॥ इतिवेदव्यासेनोक्तम् ॥ मरणे स्मरणं विष्णोः कथ्यतेऽत्यन्तदुर्लभम् । तदल्पेन हि कालेन गङ्गां संसेव्य लभ्यते ॥ इति च । । - तीर्थेन्दुशेखरे- कुरुशब्देनात्र काशी। (तथा च (१) तापनीय जावाले च श्रूयते । बृहस्प- तिर्याज्ञवल्वयं पप्रच्छ वद नः कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमिति स होवाच यानु कुरुक्षेत्र देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमधिमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र वचन गच्छति तदिदं मन्ये देवानां देवयजनं मर्वेषां भूतानां ब्रह्मसदनमत्र हि जन्तोः प्राणेधूत्क्रममाणेषु रुद्रस्तारक ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति तस्मादविमुक्तं निषेवेत' इत्युक्तं न विमुञ्चेतेत्याहैवमेवैतद्याज्ञवल्क्येति । अथ हैनमत्रिः प्रपच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति सोऽविमुक्त प्रतिष्ठित इति सोऽविमुक्तः कस्मि- प्रतिष्ठित इति चरणायां नास्यां च मध्ये प्रतिष्ठित इति का वरणा भवति का च नासीति सर्वानिन्द्रियकृतान्दोषान्वारयति तेन वरणा भवति सर्वानिन्द्रियकृतान्पापानाशयतिं तेन नासीति कतमश्चास्याः स्थानं भवति भ्रुवोणिस्य यः स एष द्यौर्लोकस्य परस्य च सन्धिर्भ धति एवमेवैतं सन्धिं सध्यां ब्रह्मविद उपासते इति सो विमुक्त उपास्यो याऽविमुक्त ज्ञानमाचष्टे यो वै एतदेवं वेदेति पृथिव्यामेव । अनुः प्रसिद्धौ कुरुशब्दः पापवाची कुत्सितावरणजनकत्वात्तस्य क्षेत्रक्षेपणा. स्वाणकर पापक्षयकरं देवानामपि देवयजनं ब्रह्मोपास्तिस्थानं सर्वेषां भूतानां भवन्ति उत्पद्यन्ते तानि भूतानि उत्पत्तिधर्मकाणि जरायुजा. एडजस्वेदजोद्भिजानि तेषां ब्रह्मसदनं ब्रह्मप्राप्तिकरं स्थानम् । (१) () रेखामध्यस्थस्थाने 'तथा च तापनाये जाबाले चोक्तं बृहस्पतिर्याज्ञवल्क्यं पप्रच्छ वद नः कुरुक्षेत्रं देवानां देवयजनं ब्रह्मोपास्तिस्थानं सर्वेषां भतानां भवन्ति उत्पद्यन्ते तानि भूतानि उत्पात्तेधर्मकाणि जरायुजाण्डजस्वेदजाद्भिज्जानि तेषां सर्वेषां ब्रह्मसदनं ब्रह्मप्राप्तिकरं स्थानं किामात प्रश्न उत्तरम् अनु प्रसिद्धं यत्तथाप्रसिद्धं तदविमुक्तमेव' इति ख. पुस्तके पाठः लेखकप्रमादन सजातत्रुटिकः ।
काशीप्रकरणम्।
२६
अत एवोक्तं पौष्करेऽष्टादशे-
तत्रैव ब्रह्मसदने निस्तृणद्रुमकण्टके ।
प्रांजेन्धनतृणे देशे? पुण्ये पर्वतरोधसि ॥
वासमत्र प्रकुर्वन्ति दृष्ट्वा भगवतः क्रियाम् ।
तपोऽर्थिनो महाभागा ब्रह्मचर्यव्रते स्थिताः॥
गृहस्थधर्मनिरता जितक्रोधाः समाहिताः (१)।
यतयश्चापि काङ्क्षन्ति धर्मेणेह विकाङ्क्षणाः ।
वन्यैः कर्मफलैश्चैव रता ब्राह्मणपुङ्गवाः॥
अग्निहोत्रव्रतस्नाता जितक्रोधाः समाहिता।
दैवयुक्तेन वा युक्ताः कर्मणा ब्रह्मसत्तमाः ॥
चीरवल्कलसंवीना नियता नियतेन्द्रियाः ॥ इति ।
तत्रैव पृथिव्यामेव सदने उक्तश्रुतिप्रसिद्ध वाराणस्यन्तर्गते
ऽविमुक्ते तत्रैवेतिविशेषणमाध्यात्मिकभ्रूघ्राणसन्ध्याख्यब्रह्मसदननिवृ
त्यर्थम् । तदुपास्त्यनधिकारिणामेव प्रस्तुतत्वात् । क्षेत्रमेवात्र ब्रह्मसदन
शब्दार्थः। पर्वतस्य विन्ध्यस्य रोधसि समीपे भगवतः क्रियां गत्यागति-
रूपांतपोऽर्थिनः तप अलोचने । अत्र हि जन्तोरित्यादि भवतीत्यन्त
श्रुतिप्रसिद्धमोक्षहेतुतत्त्वज्ञानार्थिनइत्यर्थः दानप्राप्तेन शुद्धिं प्राप्तेन
दैपूशोधने अस्य ल्युडन्तस्य रूपं दानमिति । यतय इति संन्यासिनां
ग्रहणम् । चोऽप्यर्थे । यतयोऽपि इह काङ्क्षन्ति वासमित्यनुषज्यते ।
तेषामपि अविमुक्ते प्रविष्टानां विहारो नैव नैव विद्यते इति काशीतो.
ऽन्यत्र गमननिषेधात् । विकाङ्क्षिण:- विशेषेण काला इच्छा
विकाङ्क्षा तद्वन्तः । इह वस्तुमित्यर्थ. । वानप्रस्था अपि एतदेव
काङ्क्षन्तीत्याह वन्यैरिति द्वाभ्याम् । एतेऽपीह वासं काञ्जन्तीत्युनु-
षज्यते इति तदर्थः । किमिति प्रश्ने उत्तरम् अनु प्रसिद्धं यत्तथाप्रसिद्ध
-
(१) अन्य श्लोकस्याचरार्द्धस्त्रटितः प्रतीयते अग्रे दानप्राप्तनति प्रतीकधाणात् ।
- 1 तीर्थेन्दुशेखरे- तदविमुक्तमेव )। ईश्वरेण कदाचिदपि मुक्तं न भवतीत्यविमुक्तम । वै एवार्थे । तस्मादविमुक्तादन्यत्र यत्र क च यत्र क्वापिऽमोक्षेच्छयान गच्छति न गच्छेत् । लेट् । तदिदमेव देवयजनत्वादिगुणविशिष्टं कुरु- क्षेत्रपदवाच्यं मन्ये ऽवगच्छामि तत्र हेतुमाह हि यतः अत्र जन्तोः प्राणेषुत्क्रममाणेषु रुद्रस्तापत्रयात्मकं संसारदुःखं रुत् तत् द्रावयतीति रुद्रोऽन्तर्यामी तारक तत्वमस्याद्यैक्यबोधक व्याचष्टे उपदिशति । येनासावमृती ब्रह्मरूपो निवृत्ताज्ञानतत्कार्यको वाभूत्वा मोक्षीभवति मुक्तो भवति 'ब्रह्मैव सन् ब्राह्मप्येति विमुक्तश्च विमुच्यत' इति श्रुतेः च्विस्तु छान्दसः । तस्माद्ध तोरविमुक्तमेव निषेवेत न त्यजेचा मरणान्तिकम्। यद्वा विमुक्तं तदाख्यं रुद्रं तारकप्रदातारं निषेवेत आचार्योपासनस्य विद्याङ्गत्वात् । एवमेवैतदवगन्तव्यमिति बृहस्प. तिपृष्टो याज्ञवल्क्यः सनेहमुवाचेति । अविमुक्तमिदं मुक्त्वा देशं संसारनाशनम् । नान्यत्र निवसेत्प्राज्ञः क्षणमात्रमपि प्रिये ॥ अत्रैवोत्क्रममाणस्य जन्तुमात्रस्य केवलम् । वेदवेदान्तसारस्य प्रणवाख्यस्य पार्वति ॥ ब्रह्मणस्त्वर्थभूतोऽहं संसारद्रावको विराट् । आनन्दं सत्यचिद्रूपं तारकं तमंसः परम् ॥ स्वयं भान्तं निराधारं दास्यामि प्रत्यगात्मना । येनैवाशु महद् दुःखं प्रणश्येत महेश्वरि ॥ परित्यज्य स्वसंसारं परानन्दो भवेच्छिवे। इत्येतच्छ्रत्यर्थानुवादकपराशरोपपुराणात् ॥ अथ हैनमित्यादेरयमर्थः । कथमित्यस्य केत्यर्थः । अविमुक्ते प्रतिष्ठित इत्युत्तरानुसारात् । अविद्याकल्पितावच्छेदो जीवोऽविमुक्तः न विमुक्तो देहबन्धनेनेति योगात् । तत्र परमात्मा प्रतिष्ठितस्ता. दाम्यात् । अविमुक्तप्रतिष्ठास्थानं च वरणा नासी मध्यं ततो वरणा.
काशीप्रकरणम् । ३१ । e नासीशब्दार्थं निरुच्य तयोस्तन्मध्यस्य च स्पष्ट कथनाय पुनः प्रश्ने भ्रूघ्राणस्य सन्धिरित्युत्तरम् । भ्रूवरणा नासी च घ्राणमिति प्रथमाध्यायद्वितीयपान्ते भाष्यवाचस्पत्यादिषु स्पष्टम् । एवञ्चाविमुक्त- व्यवहारादिदमप्यविद्यावच्छिन्नब्रह्मरूपम् । अत्रापि मृतानां मुक्तिदत्वेन परमात्मा स्थित इत्यर्थलब्धम् । पुराणे मदीयमविमुक्तमित्यस्य कल्पितभेदेन मदाधारभूतविमुक्त मि- त्यर्थः। इन्द्रियकृता दोषा गगद्वेषादयः तत्कृतानि पापानि सुरापानब्रह्म- वधादीनि । सर्वानिन्द्रियकृतान्पापानित्यत्र लिङ्गव्यत्ययश्छान्दसः । कचित्पापानिनाशयति तेन नासीति पाठः । ब्राणशब्देन (घ्रा ) प्राण वायुसञ्चारकघ्राणमूलमुच्यते। धुलोकतत्परलोकयोः सन्धिः सन्ध्येनि चोच्यते सः एवमेवता सन्ध्यां ब्रह्मविदो भूस्था विमुक्तत्वेनोपासते। ईश्वरोऽविमुक्तत्वेन ध्यातोऽस्मिन्स्थाने उपास्यः योऽविमुक्त ज्ञान- माचष्टे । तथोपासका नामपि वाराणसीमृतानामिव यश्चैवमुपासना. प्रकारं वेद तस्य चेति । तत्र भूस्थे क्षेत्रे मुख्योऽविमुक्तशब्दः तदारो. पस्थानागौण्या भ्रूमध्यमपि। तात्स्य्यादुद्रोऽप्यविमुक्तः तत्प्रसादल. भ्यत्वाज्ज्ञानमप्यविमुक्तम्। ज्ञानसाधनध्यानेऽपि लक्षणयाऽविमुक्त- शब्दः यथा भ्र घाणस्य वरणानासीत्वं गैणमेवं तयोः सन्ध्यावि. मुक्तत्वं गौणम्, अस्यां श्रुतौ भ्रूघ्राणमेव वरणानासिशब्दितं न तु प्रसिद्धमिति शांकरभाष्योक्तेः । यदा योगी सन्धिमात्रनिष्ठो भवति तदा सर्वदोषपापनाशो प्रसिद्धम् । भवतीति एवञ्च भूस्थं क्षेत्रमितरनिरपेक्ष मोक्षजनक ज्ञानसाधनमितर दुपासनासापेक्षमिति बोध्यम् । वरणानासिसंशं यत्तस्थानं सर्वदेहिनाम् । भ्र वोर्घाणस्य यः सन्धिस्तस्मिन्नेव प्रतिष्ठितम् ॥ मदीयमविमुक्त तश्चिन्तनीयं मुमुक्षुभिः । केवलं चिन्तनेनास्य सर्वपापं प्रणशयति । इतिपराशरोपपुराणात् । -- ३२ तीर्थेन्दुशेखरे- तथा तत्रैव... . पुराऽत्रिः श्रद्धया पूर्व पुण्यराशिबलेन तु । याज्ञवल्क्यं मुनिश्रेष्ठमपृच्छज्ज्ञानसाधनम् ॥ योगीश्वरो मुनिश्रेष्ठः साक्षाद्विज्ञानसिद्धये । मामुपास्यतया प्राह साक्षाद्विज्ञानसिद्धये ॥ अन्ये च योगिनोऽध्यात्मे भ्रुवोणिस्य मध्यमे प्रकाशमएडलं शुद्धं वरणानासिकाभिधम् ।। केवलं भावनागम्यमुपदिश्य सुलोचने ? | तन्मध्ये मामकं क्षेत्रमविमुक्तसमाह्वयम् ॥ ओङ्कारहृदयं सूक्ष्ममुपदिश्य ततः परम् । तदने मामनाद्यन्तमशक्तं सर्ववस्तुनि ॥ मोक्षसाधनविज्ञानसाधनत्वेन केवलम् । प्राहुः सर्वमुमुक्षूणामुपास्यत्वेन केवलम् ॥ भ्र वोणिस्य यः सन्धिस्तं धियामरनासिके । द्यलोकस्य परस्यायं सन्धिरित्यपि भावयेत् ।। सन्धिसंज्ञं च मामेवं सन्धिभूतमुपासते । पूर्वेऽपि ब्रह्मविद्वांस इति द्वितीयश्रुत्यर्थों दर्शितः। एवञ्च कुरुक्षेत्र- शब्दस्य श्रुत्याऽविमुक्तक्षेत्रे मुक्तिजनके शक्तिसिद्धौ मनुवाक्येऽपि नामैकदेशे नामग्रहणनिति न्यायेन कुरुपदेन ग्रहणमिति सिद्धम् । न तु प्रसिद्धस्य सरस्वतीनदीतीरस्थस्य परशुरामकृतपञ्चह्रदवतः कुरुक्षे. त्रस्य ग्रहणम् । निषेधमुखेन मुक्तिदत्वप्रतिपादनात् । वनपर्वणि महाभारते तत्क्षेत्रमुपक्रम्य ते वसन्ति त्रिविष्टपे' स्वर्गलोके महोयते' इत्यादिना स्वर्गफलस्यैव श्रवणाञ्च (बहुवचनं त्ववान्तरक्षे. त्राभिप्रायम् ) (१)। (१) रेखामध्यस्थः पाठः ख. पु. नास्त ।
জুাহীম। यत्तु तत्प्रकरणे- मनसाप्य भिकामस्य कुरुक्षेत्रं युधिष्ठिर । पापानि विप्रणश्यन्ति ब्रह्मलोक व गच्छति ॥ इत्युक्तम्। तत्र ब्रह्मलोकशब्देन ब्रह्माण्डान्तर्गतचतुर्मुखलोक- कपः स्वर्गविशेष एव, 'मनसाप्यभिकामस्येत्युपक्रमात् न तु तत्काशीपरं मरणेनैव तत्र मोक्षस्य श्रुत्या प्रतिपादनात् । वनपर्वणि तदुपक्रम्याग्रे ब्रह्मलोके महीयत इत्युक्तेश्च । उपक्रमोपसंहाराभ्यां तस्य कुख्यराजविशेषकृष्टक्षेत्रपरत्वाच । तत्र कर्षणफलस्य युद्ध- मृतानां स्वर्गप्राप्तिरूपस्य स्मरणाश्च । अतएव कौरवपाण्डवयुद्धे तत्रापि युद्धेन मृतानां तत्तल्लोकवास उक्तः । तत्रात्र हि जन्तोः प्राणे. पूत्क्रममाणेत्रित्युक्तेर्वरणासिमध्यवर्तिनां मनुष्यव्यतिरिकानां स्था. धराणां जङ्गमानां च तस्यां प्राणप्रयाणसमये उत्पत्तिस्थितिप्रलय- कारणानां पुण्यपापकर्मणां मध्ये प्रारब्धेन शरीरेण क्रियामाणयोः पुण्यपापयोरभावात्प्रारब्धकर्मणां भोगादेव परिक्षयात् विद्यमानस्यापि तत्कालमेव मायया स्वप्ने इव भोगसम्पाद्याधिकारिदेहं च सम्पाद्य सर्वज्ञः सर्वशक्तिः सर्वान्तर्यामी परमकारुणिकः स्वतः सिद्धमात्मरू- पमविद्याप्रहाणादवगमयति । मनुष्येषु ये सगुणब्रह्मोपासकाः ये च केवलं फलनिरपेक्षतया श्रुतिस्मृत्युक्तस्ववर्णाश्रमोचितकर्मानुष्ठातार. स्तेषां सर्वेषां चत्वारिंशत्संस्कारैः संस्कृतानामसंस्कृतत्वेपि अष्टभिरा. त्मगुणैर्युक्तानां प्राणप्रयाणसमये पूर्वोक्तरीत्यैव तदवगमयति । अन्ये. षामपि मनुष्याणामुत्कटपापेभ्यो निवृत्तानां गङ्गावगाहनदेवदर्शनज. पदानादिभिः क्षीणपुराकृतपापकर्मणामवशिष्टकाम्यपुण्यकर्मणामल्पा- वशिष्टक्षुद्रपापानां प्राणप्रयाणाव्यवहितपूर्वक्षणे सर्वान्तर्यामी भगवा. न्माययैव तादृशकर्मफलभोगयोग्यशरीराणि उद्भाव्येष्टानिष्टान्हवतक- ल्पान्भोगाननुभाव्य उक्तरीत्यैव अवगन्तव्यमवगमयति ।
३४ तीर्थंन्दुशेखरे- तदुक्तं सूतसंहितायाम्- ईदृशी परमा निष्ठा गुरोः साक्षानिरीक्षणात् । कर्मसाम्येप्यनायासारिसध्यत्येव न संशयः । इति । कर्मणः सुकृतदुष्कृतयोः फलभोगेन क्षयसाम्येऽपीत्यर्थः । वासिष्ठेऽपि- यथा स्वप्ने मुहुर्ते स्यात्संवत्सरशतभ्रमः । तथा मायाविलासोत्थो जायते जाग्रति भ्रमः ॥ इति । एतदभिप्रायेणैवोक्तम् कृत्वा कर्माण्यनेकानि शुभानि चेतराणि च । तानि क्षणात्समुक्षिप्य काशीसंस्थोऽमृतो भवेत् ॥ इति । लब्धवाक्यानामीदृशानां मृतदेहः शिवस्य प्रतिमेति विश्वेश्वर. लिङ्गवन्नम्यः पूज्यश्चेति श्राश्वमेधिके पर्वणि महत्तसंवर्तोपाख्यानाल्लभ्यते। तथा हि महत्तो राजा बृहस्पतिना याजकैन प्रत्याख्यातश्चिन्ताविष्टो नारदेनैवं बोधितः । काश्यामुन्मत्तवञ्चरन् बृहस्पतिभाता संवर्तोऽस्ति सत्वां यांजयिष्यति स मया कथं परिचय इति राजप्रश्ने यो विश्वेश्व- रदर्शनार्थी मार्गे शवं दृष्ट्वा तं प्रणम्य संपूज्य च निवर्तते स संवर्तः इति शेय इति तत्रोक्तम् । ये तु उत्कटपापा गङ्गादिदेवेष्वप्यनाश्वस्ता दम्भेनाश्वासनाटका घा काश्यां महस्सु पापेषु रतास्तेषां तु यातनान्तेऽवगन्तव्यमवगमयति। - अधर्मिष्ठस्य तन्क्षेत्रे यातनान्ते दिशेन्मतिम् । काश्यां कृतस्य पापस्य भोगो रुद्रपिशाचता ॥ एकैकस्य च पापस्य समानामयुतत्रयम् ॥ इति पायोक्तेः ।
काशीप्रकरण - अत्र यातनान्तकालिके देहेऽधिकारः संपद्यते । तदेहेऽपि मुमू- धूत्वादत्र हि जन्तोरिति श्रुत्या तु न विरोधः । जाबालश्रुतावपि पापिन उपक्रम्य भैरवी धोरां यातनां नानाविधां काश्यां परेता भुक्त्वा ततः शुद्धामाप्रपद्यन्ते इत्युक्तम् । एवमुत्कटकाम्यपुण्यवतामपि तत्तत्पुण्य- भोगान्ते मुक्तिरुक्ता मात्स्ये- चन्द्राधमौलिनः सर्वे ललाटाक्षा वृषध्वजाः । शिवे मम पुरे देवि मोदन्ते तत्र मानवाः ॥ इति । गारुडेऽपि- वाराणस्यां स्थितो यो वै पातकेषु रतः सदा । योनि प्रविश्य पैशाची वर्षाणामयुतत्रयम् ॥ पुनरेव च तत्रैव ज्ञानमुत्पद्यते ततः । मोक्षं गमिष्यते सोऽपि सत्यमेतत् खगाधिप ।। इति । तथा ब्रह्मवैवर्ते शिवशर्माधुपाख्यानेन यातनान्ते मुक्तिरिति स्पष्ट- मेवोक्तम् । मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः । यथा मोक्षमवाप्रोति न तथान्यत्र कुवचित् ॥ इति मात्स्येन ईदृशस्यैव सद्योमोक्षप्रतिपादनाश्च । तस्मादुक्तश्रुतौ जन्तुपदं मनुष्यविषये ईदुशमनुष्यपरमेव । जन्तुपदं सकलस्थावरमनु- व्येतरसकलजङ्गमसंग्रहाय चेति तत्त्वम् एतत्सर्वमने पालेखने स्पष्टम् । यस्य तु पापिनोऽनेकजन्मारम्भककर्मणारब्धोदेहस्तस्य काश्यां मृत- स्यापि काश्यामेव तावजन्मप्राप्त्या शनैर्मुक्तिर्भवति । अत एव कस्य चिल्लुब्धकस्यः काश्यामोङ्कारेश्वरसन्निधौ मृतस्यापि जन्मानन्तरं
तीर्थेन्दुशेखरे-
मुक्तिरुक्ता शिवपुराणे । पाझे च काशीकृतपापल्य तत्रैव मृतस्य कस्य
चिदशजन्मानि अग्रे काञ्चनमालिनीदत्तमाघस्नानपुण्येन देवजन्म च
धूयते । यस्तु काशीकृतपापोऽन्यत्र मृतः सविविधयमयातनानन्तरं
भैरवकृतां रुद्रपिशाचतामनुभूय काश्यां देहग्रहणपूर्वकं मुच्यते
इति काशीखण्टे ।
यत्तु
अशनं वसनं वालो काश्यां येषाममार्गतः ।
की कटेन समा काशी गङ्गाप्यङ्गारवाहिनी ॥ इति ।
तत्तु--तेषां सद्योमुत्यभावपरम् काशीविषयपुराणानामर्थवादत्वं
मा जानीहि अर्थवादत्वमात्मतत्त्वविनिर्णये इत्यनेन निराकृतं ब्रह्मवैवर्ते ।
यस्तु देशान्तरस्थः कृतमहापातकोऽपि काशीमागत्य नियते तस्य
सद्योमुक्तिरेव ।
ब्रह्महाऽप्यभिगच्छेत्तु अविमुक्ते महावने ।
तस्य क्षेत्रस्य माहात्म्याद् ब्रह्महत्या निवर्तते ॥
न केवलं ब्रह्महत्या प्राकृतं च निवर्तते ।
प्राप्य विश्वेश्वरं देवं न स भूयोऽभिजायते ॥
इति मात्स्यात् ।
जन्मान्तरसहस्रेषु यत्पापं पूर्वसंचितम् ।
अविमुक्तप्रविष्टस्य सर्व व्रजति वै क्षयम् ॥
इति लैङ्गाच्च ।
बुद्धिपूर्वमविमुक्ते प्राणत्यागिनामपि मोक्ष एव भवति ।
अग्निप्रवेशं ये कुयुरविमुक्ते विधानतः ।
प्रविशन्ति मुखे ते मे निःसंदिग्ध वरानने ।।
इति मात्स्यात् ।
काशीप्रकरणम् । एवमनशनेनापित्यपि तत्र । ब्राह्मे- mmons अविमुक्ते म्रियेद्यस्तु प्रत्याख्यातभिषक्रियः। काष्टपाषाणभूतस्तु जाह्नवीजलमध्यगः । अविमुक्तोन्मुखस्तस्य कर्णभूलगतो हर: ॥ प्रणवं तारकं ब्रूते' इत्युक्तेश्च । तत्र वैधप्राणत्यागिनां सद्योमोक्षः अवैधेन तथाकुर्वतां किंचिद्विलम्बेनैवेति बोध्यम् । इयमाधिभौतिकी वाराणसी विराजो ब्रह्मणः सकलतत्तद्ब्रह्माण्डजीवसमष्टे वोर्म- ध्यस्थिता व्यष्टिजीवानां प्रत्येकं भ्रुवोर्मध्ये अध्यात्मभूता केवलोपदे- शगम्या एतदध्यात्मस्थानम् एतदधिदैवमपि तत्तदेव लोके ऊह्यम् । तेष्वादिभौतिकी मुख्या अध्यात्मे तस्या ध्येयत्वस्य श्रवणात् स्मरणाञ्च (१)। कुरुक्षेत्रं यत्प्रसिद्धं भूम्यां पापनिवर्तकम् । तदाश्रयफलं चापि लभतेऽस्यैव सेवया ॥ देवानां देवयजनं प्रसिद्धं यन्महेश्वरि । सर्वेषामपि भूतानां तद्ब्रह्मसदनं परम् ॥ इति पराशरोपपुराणाच्च । पापसंघातनिवर्तकतयैव च । प्रसिद्धं सर्वलोकेषु स्थानं तीर्थं च यत्प्रिये ! इदमेव हि तत्सर्वमविमुक्तं यदव्ययम् । यस्यैव संवया तानि सेवितानि भवन्ति वै॥ इत्यपि तत्रैवोक्तम् । तीर्थार्थी न बहिर्गच्छन्न देवार्थों कदाचन । सर्वतीर्थानि देवाश्च वसन्त्यत्राविमुक्तके ॥ अन्यच (१) स्मरणाच' इति ख. नास्ति ।
तीथेन्दुशेखरे- तथा सर्वाणि तीर्थानि सप्तपुर्यश्च मानदे। वसन्ति काशीमाश्रित्य स्वसामर्थ्य विवृद्धये ॥ इतिब्रह्मवैवर्ते। स्कान्दे- श्रीशैल हिमशैलाद्यान्यन्यान्यायतनानि च । तपांसि नानारूपाणि संन्यासः सर्वकर्मणाम् ॥ विष्णोराराधनं श्रेष्ठं मुक्तयेऽभिहितं किल । पुर्यश्चापि समाख्याता मृतजन्तुविमुक्तिदाः ॥ एतानि यानि प्रोक्तानि काशीप्राप्तिकराणि हि। काशीम्प्राप्य भवेन्मुक्तो जन्तुर्नान्यत्र कुत्रचित् ॥ इति । एतेन सर्वपुण्यजनकसमष्टित्वं काश्या उक्तम् ॥ अथ स्फुटकाशीमाहात्म्यबोधकपद्मपुराणस्थ- पञ्चाध्यायीसारो लिख्यते। तत्र हि काशीमुपक्रम्य- प्रभावः श्रूयतामस्य नित्यानन्दस्वरूपिणः । अत्र त्यक्तासवः सन्तः सच्चिदानन्दरूपताम् ॥ यथायोगं लभन्ते हि नात्र कार्या विचारणा। अत्र प्रविष्टमात्रस्य जन्तोः पापं पुरार्जितम् ॥ विनाशमाप्नोति परं पुण्यराशिश्च वर्धते (१)। निर्वाणपदमेवैतदधितिष्ठामि नित्यशः नियमाणस्य जन्तोश्च वाक्यं कर्णे समुच्चरन । वाक्यं तत्त्वमसीति त्वमोमसीति वा । शुद्ध शूद्रदेहे तु श्रीरामस्त्वमसीति । ॥ (१) 'जायते' ख. पाठः ।
কামুগ্ধতা । । विना वाक्योपदेशेन ब्रह्मात्मैक्यं न मासते । ब्रह्मात्मैकत्वविज्ञानादृते मुक्तिर्न जायते ॥ नियमेनेह कथये तदहं यस्य कस्यचित् । स्वे स्वे कर्मणि निष्णातानुत्तमाधममध्यमान् ।। अधमानपि मार्गस्थानयामीह परां गतिम् । पण्डितो वाथ मूखों वा मुखजो वा तथान्त्यजः ॥ अमिल्लिङ्गे त्यजत्प्राणान् धर्मकृन्मुक्तिमाप्नुयात् । अनेन मरणकाले एव तत्त्वज्ञानं पापेभ्यो निवृत्तस्य धर्मिष्ठ- स्यैवेति बोधिनम्। पापकृन्म्रियते काश्यां यदि प्रावपुण्यगौरवात् । न जातु नरकं याति का कथा धर्मतत्परे॥ पापकृत् काशीभिन्नदेशे। भूमौ जलेऽन्तरिक्षे वा यत्र कापि मृतो द्विजः। ब्रह्मात्मैकत्वमाप्नोति काशीशक्तिरूपाहिता ॥ आप्नोति जानाति । काशीति वर्ण द्वितयं स्मरस्त्यजति पुद्गलम् (१)। यत्र कापि भवेत्तस्य कैलासे वसतिः सतः॥ ततः पुनः सः पुण्यात्मा काश्यां मुक्तिमवाप्स्यति (२) । अधर्मिष्ठस्थ तत्क्षेत्रे यातनान्ते दिशेन्मतिम् ॥ काश्यां कृतस्य पापस्य भोगो रुद्रपिशाचता। एकैकस्य च पापस्य समानामयुतत्रयम् ॥ पुरुषस्य यावन्ति पापानि तेष्वेकैकस्य समानामयुतत्रयमि. त्यर्थः । एतदने स्फुटीभविष्यति । 'ऊषरः पुण्यपापानां धन्या धारा- णसी पुरी' इति तु तत्रार्जितानां तेषां जन्मान्तरानारम्भकत्वपरम् ।। (१) 'यस्तनुम्' ख. पाठः । (२) 'मवाप्नुयात्' ख. पाठः।
तीर्थेन्दुशेखरे- यत्त्वेतलान्मार्कण्डेयदृष्टमायावदत्यल्पकालेनैव कोटिकल्पयो- ग्ययातनानुभवः न तु कान्त्यनन्तरं प्राणेषूत्क्रममाणेष्विति वर्तमान- कालश्रुतिविरोधादिति तन्न ईदृशैरुपबृंहणैस्तत्र जन्तुपदस्य काश्यर्जि- तपापहीनजन्तुपरत्वात् । अन्यदेशार्जितपापानां वाराणसीदर्शनेनैव निवृत्तेः। पुण्यफलस्य सायुज्यादेत्कान्त्यनन्तरं प्राप्तिपत् उत्कट- पापफलस्थापि प्राप्तौ बाधकाभावात् । प्रभावत: - तस्मात्पापं न कर्त्तव्यं मनागपि विभोः पुरे । काश्यां यो निजधर्मेण मुमुक्षुस्तिष्ठति द्विजः ॥ अनायालाविलम्बाभ्यां स मोक्षं लभते ध्रुवम् । ये काश्यां संशयाविष्टा मुक्तौ तेषां शरीरिणाम् ॥ प्राणप्रयाणसमये प्रमाणं परमेश्वरः । तत्र स्वल्पं हुतं जप्तं दत्तं तप्तं द्विजोत्तमाः॥ भूयादनन्तफलदं तत्क्षेत्रस्य आनन्दकाननं तद्धि शङ्करस्यातिवल्लभम् ॥ न विमुञ्चति विश्वात्मा अविमुक्तं ततः स्मृतम् । द्विजं स्वधर्मनिरतं यो वर्षासनदानतः ॥ स्थापयेच्छद्धया युक्तस्तस्य पुण्यफलं शृणु। यावत्यः सिकताः सन्ति गङ्गायां मुनिसत्तम ॥ तावद्वर्षसहस्राणि क्रीडेदिन्द्रेण सङ्गतः । पश्चादत्र महाराजो जायते निर्मले कुले ॥ अन्ते च लभते काशी ततो निर्वाणमाप्नुयात् । अश्वत्थं पिचुमन्दं वा सहकारमथो लताम् ॥ यो रोपयति यत्नेन तस्याप्येतत्फलं भवेत् । वाराणस्यां मृतः पापो नोपैति यमयातनाम् ॥ नियन्ता भैरवस्तस्य कालकालः कपालभृत् । आसीत्कमेलको नाना शूद्रः काशीपुरे पुरा ॥
ततः
-
काशीप्रकरणम् ।
धर्मात्मा द्विजभक्तश्च दयावाननसूयकः ।
कालक्रमेण तत्रैको
विप्रो वेदविचक्षणः ॥
भागुरिः समुपागच्छनिवासाय विभोः पुरे ।
स तु क्रमेलकगृहं जगाम सुबुभुक्षितः ॥
तस्य द्वारि समासीनो याचते स्म विनीतवत् ।
क्रमेलकश्च तं दृष्ट्वा पूर्वपापनियन्त्रितः ॥
भसयामास सततं ताडयामास पाणिना ।
अथ कालेन महता व्याधिग्रत्तो बभूव सः॥
तत्याजासून शिवक्षेत्रे मणिकर्णीजलाश्रितः ।
स भैरवगणैर्यातनासु नियोजितः ॥
क्रमेलकस्नु मूषासु ध्मातो वर्षसहस्रकम् ।
तावत्कालं शीतहदे बुभुजे दुःखमुत्करम् ॥
ततो निर्जलनिर्भक्षे कृमिदेहधरोऽभवत् ।
तत्रैव सारमेयोऽभूद् गलन्मांसः सुदुःखितः ॥
त्रिंशत्त्रिशत्समाः पश्चात्तावत्काल गजोऽभवत् ।
ततः सङ्कीर्णयोनीनि शरीराणि व्यधारयत् ॥
अथ शूद्रशरीरं स दधे तत्र क्रमेलकः ।
ततो भैरवदूतैस्तैः स नीतो भैरवाग्रतः ॥
कालभैरवदृष्टयैव रुद्रपैशाच्यमाप्तवान ।
त्रिंशद्वर्षसहस्राणि क्षुत्तृषाभ्यां विशोषितः ।
ततोऽमुं क्षीणकलुषं शङ्करस्तारकं वचः ।
श्रावयामास विधिवत्सम्पाद्याधिकृति पराम ॥
अत्र ब्राह्मणावमाननरूपपापादेव तावद्रुद्रपिशाचतोत्या प्रतिपाईं
तावत्सेति गम्यते ।
यद्यत्पा काशिकायामवाप्त
स्थूलोत्कृष्टं जानताऽजानता वा ।
४२
उच्चावचा
तीर्थेन्दुशेखरे-
तत्तद्भोगप्रापणायैव देहा
अयोनिजा भैरवेच्छाविधानाः ||
আলনাঘানা
विद्यन्ते काशीकृताधात् (१)।
यथा याम्ये हि नरके यातना दुःखभागिनाम् ॥
अयोनिजादिदेहाः स्युस्तद्वदेवावधार्यताम् ।
गङ्गावितीर्थस्नानैश्च लिङ्गानां च समर्चनैः ॥
विनाशमाप्नोति पुनर्यदज्ञानादुपार्जितम् ।
स्वल्पं ज्ञानादपि कृतं विश्वस्य समर्चनात् ॥
नश्यत्येव न सन्देहो भूयस्तदमार्जनात् ।
उपपातक-सम्पत्तिमहापातक-सङ्गमः
कालभैरवनिर्दिष्टयातनां प्राप्नुयात्पराम्
स्थुलं यो दुरितं काश्यां कृत्वाऽन्यत्र मृतो भवेत् ।
स कल्पकोटिभिस्तस्य पापस्यान्तं न गच्छति।
अविमुक्त तु यस्तिष्ठेदाकलेवरपातनात् ।
तं विश्वेशोऽत्र जीवन्तं मृतं च परिरक्षति ।
क्षेत्रे पवित्रे मृतिमागतानां
ब्रह्मादिकीटान्तशरीरभाजाम् ।
कणे जपत्यक्षरतारकाख्यं
वाक्यं ततो ध्वस्तभवा भवन्ति ॥
वाक्यम्-त्वमोमसोतिवाक्यम् ।
मघवन्भगवानीशो भवान्या सहितोऽनिशम् ।।
अधितिष्ठति जन्तूनां मुक्त्यै क्षेत्रमिदं परि ।
वाराणसीस्थतीर्थाऽनामघगाहनतः
परम्॥
(१) अन्न छन्दोभङ्गः।
काशीप्रकरणम् । अन्त:करणसंशुद्धिं प्राप्नुयाद्विजितेन्द्रियः । तीर्थान्तराणि क्षेत्राणि विष्णुभक्तिश्च नारद ॥ अन्तःकरणसंशुद्धिं जनयन्ति न संशयः । वाराणस्यपि देवर्षे तादृश्येव परं तु सा ॥ प्रकाशयति ब्रह्मैक्यं तारकस्योपदेशतः । अनेनैव विशेषेण तां प्रशंसन्ति तात्त्विकाः॥ साक्षाद्वाराणसी मुक्तये विष्णोर्भकिस्तथाविधा। तथापि विष्णुभक्तिस्तु द्वित्रैरेव विभाव्यते । काशी तु तिर्यग्भूतानामपि साधारणी मता । काश्यां कृतेन पापेन यातनामतिभीषणाम् । प्राप्य पश्चाद्विमुच्यन्ते सर्वथा क्षीणकल्मषाः । वाराणस्यां कृतं कर्म नीलकण्ठाय चार्पितम् ॥ मनः शुद्धिं विधायाशु तत्त्वज्ञानाय कल्पते । यत्कर्म काश्यां कुर्वीत शुभं वा यदि वाऽशुभम् ॥ अक्षयं तत्प्रभवति नाऽत्र कार्या विचारणा । धर्मिष्ठस्यात्र दैत्येन्द्र शरीरत्यागमात्रतः ॥ अपवर्गों भवत्येव तदन्यस्य विलम्बतः। एतत्कृताघसंघातो घोरा भुत्वा तु याननाम् ॥ पैशाचं समवाप्नोति वर्षाणामयुतत्रयम्। प्रतिपापमितिशेषः। विहाय काममथं च दम्भ मात्सर्यमेव च । प्रतिग्रहपरावृत्तः शान्तिदान्तिसमन्वितः॥ अकुर्वन् कलुषं कर्म समलोष्ठाश्मकाञ्चनः । पञ्चाक्षरपरो नित्यं निषेवेत विभोः पुरीम् ॥ गृही चेद्धर्मनिरतो बहिरर्जितवित्तभुक् । व्यवहारोपयोग्यत्र गृह्णन्वा विमलं वसु॥
४४
तीर्थन्दुशेखरे-
प्रियातिथिस्तीर्थपरो मिषेवेत विभोः पुरीम् ।
स्वस्वजात्यनुसारेण यो धर्मों यस्य कल्पितः ॥
तत्तद्धर्मरतैरेव सेव्या वाराणसी पुरी ।
अन्यः संसेव्यमाना सा कोकटानातिरिच्यते ॥
कीकटत्वं च मुक्तौ विलम्बात्।
अन्यत्रापि-
अशनं वसनं (१) वासः काश्यां येषाममार्गतः।
कोकटेन समा काशी गङ्गाप्यङ्गारवाहिनी ॥ इति ।
काश्यादिपरिमाणकथनम्-
मध्यमेश्वरमारभ्य यावदेहलिविघ्नपम् ।
सूत्र संस्थाप्य तहिक्षु भ्रामयेन्मएडलाकृति ॥
तत्र या जायते रेखा तन्मध्ये क्षेत्रमुत्तमम् ।
काशीति यद्विदुर्देवास्तत्र मुक्तिः प्रतिष्ठिता ॥
काश्यन्तः परमं क्षेत्र विशेषफलसाधनम् ।
वाराणसीति यत्ख्यातं तन्मानं निगहामि वः ॥
दक्षिणोत्तरयो द्यौ धरणासिश्च पूर्वतः ।
जाह्नवी पश्चिमे चापि पाशपाणिर्गणेश्वरः ॥
तस्या अन्तःस्थितं दिव्यं विशेषफलसाधनम् ।
अविमुक्तमिति ख्यातं तन्मानं च ब्रवीमि वः ॥
विश्वेश्वराश्चतुदिक्षु धनुःशतयुगोन्मितम् ।
अविमुक्ताभिधं क्षेत्र मुक्तिस्तत्र न संशयः ॥
गोकर्णेशः पश्चिमे पूर्वतश्च
गङ्गामध्यमुत्तरे भारभूतः।
(१) 'शयनम्' ख, पाठः।
काशीप्रकरणम्। काश्यां ब्रह्मेशानो दक्षिणे संप्रदिष्ट- स्तत्तु प्रोक्तं भवन विश्वभर्तुः ॥ चतुर्विधेऽपि क्षेत्रेऽस्मिन् प्रमीतो गर्भयातनाम् । नैवाप्नोति मुनिश्रेष्ठ विशेषोऽयं परः स्मृतः ॥ मृतस्तु सालोक्यं साक्षात्प्राप्नोति सत्तमः । वाराणस्यां मृतो जन्तुः साक्षात्सारूप्यमश्नुते ॥ अविमुक्त विपन्नस्तु साक्षात्लान्निध्यमाप्नुयात् । ततश्चिदानन्दमये ब्रह्मण्येव विलीयते ॥ ततः तदन्तर्गतेऽन्तहे। सलोकतां सरूपतां सान्निध्यं चापि सत्तमः ॥ कल्पकालमवाप्नोति ततो ब्रह्मात्मको भवेत् । चतुर्धावितते क्षेत्रे सर्वत्र भगवान शिवः ।। व्याचष्टे तारकं वाक्यं ब्रह्मैक्यप्रतिबोधकम् तथापि तत्तत्सामर्थ्यात्तत्र तत्र मृतस्य हि ॥ भोगपूर्वापवर्गाप्तिर्जीवन्मुक्तिदशैव सा किमत्र चित्रं विप्रेन्द्राः काश्यां मुक्तिसमागमे ।। भागीरथीविमिश्रायां तीर्थसामर्थ्य सम्पदि । केवला जाह्नवी विप्रा ज्ञाताऽज्ञाताऽथवा पुनः अपवर्ग वितरति स्वतोऽपि त्यक्तदेहिनः । यस्य कस्यापि वा जन्तोर्भागीरथ्यां गतायुषः ॥ न दुर्लभी ब्रह्मभावस्तत्सङ्गक्षपितांहसः । चिदानन्दमयं ब्रह्म गङ्गाभावमुपागतम् ॥ ब्रवीमि सत्यमेवैतन्नात्र वः संशयो भवेत् । इयं सोमोद्भवा पुण्या सरितोऽन्याश्च या भुवि ॥ ताः सर्वा जाह्नवीनीरव्याप्लुता एव पाविकाः । एवंप्रभावा निर्वाणं तोयराशिवहा नदी । - तीथेन्दुशेखरे- भागीरथीतिविख्याता क्षेत्रे शम्भोविमुक्तिदे । एकैकमपि विप्रेन्द्राः साक्षाद्ब्रह्माप्तिसाधनम् ॥ न चित्रमा द्वितयं यनिर्वाणाय कल्पते । ईदशी स्वर्नदी यत्र सर्वतीर्थमयी शुभा ॥ तां काशी को न सेवेत भीम संसारमुक्तये ॥ इति पाभकाशीमाहात्म्यसारः। काश्या अन्तर्धानानन्तर्धानविचार :- ननु हरिवंशे काशीमुपक्रम्य- अकस्माश्च पुरी सा तु विद्रुता सर्वतो दिशम् । तस्यां पुर्या ततो देवो निर्ममे पदमात्मनः ।। पद-पार्वतीवासयोग्यमन्तःपुरम् (१)। रमते तत्र वै देवो रममाणो गिरेः सुताम् ।। न रति तत्र वै देवी लभते गृहविस्मयात् ॥ कलौ पापिनामपि मुक्तिदानेनाविवेककृतविस्मयादित्यर्थः । वसाम्यत्र न पुर्या तु देवी देवमथाब्रवीत् । देव उवाच । नाहं वेश्मनि वत्स्यामि अविमुक्तं हि मे गृहम् ॥ वेश्मनि त्वपितृगेहे। नाहं तत्र गमिष्यामि गच्छ देवि गृहं प्रति ।। पितृगृह प्रतीत्यर्थः। हसन्नुवाच भगवाँस्व्यम्मक्रस्त्रिपुरान्तकः । तस्मात्तदविमुक्तं हि प्रोक्त देवेन वै स्वयम् ॥ यस्मिन्वसति वै देवः सर्वदेवनमस्कृतः। युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ॥ (१) 'पदम्-आत्मवासयोग्यमन्तःपुरम् इति ख. पाठः ।
काशीप्रकरणम् । अन्तर्धानं कलौ याति तत्पुरं हि महात्मनः । अन्तहिते पुरे तस्मिन्पुरी तु घसते पुनः ।। इति सन्दर्भेण कलौ काश्या अन्तर्धानोक्तः का तस्यां मुक्तिकथेति चेन्न-तत्पुरशब्देन निर्ममे पदमात्मन इत्युक्तपदस्यैवाभिधानेन काश्या अन्तर्धानकथाया एवाभावात् । (हरिवंशे (१) एकोनविंशे दिवोदासमुपक्रम्य अकस्मादिति । पर्द. मोक्षलक्ष्मीविलासाख्यं देवः स्वरूपानुरूपे तत्र रमते देवी तु माया. स्वरूपा स्वोच्छेदहेतौ तत्र न रमत इति भावः । गृहविस्मयात्- गृहे अविमुक्ते यो विस्मय आश्चर्यमनधिकारिणामपि मुक्तिप्रशानं तस्मा. खेतोर्न रमते अत्र पुर्यामिति संबन्धः सार्धः अहं नित्यमुक्त ईश्वरो वेश्म गृहं शरीराख्यं न निवत्स्यामि निवासयितुं नेच्छामि हि यस्मान्मे मम गृहमविमुक्तं कालत्रयेऽपि न मुक्तमहयानुपादेयस्वरूपत्वात् तदेव प्रत्यक चैतन्यं मम गृहं स्वे महिन्नि प्रतिष्ठितोहं देहे न प्रतिष्ठो भविष्यामीत्यर्थः तत्र-त्वदिष्टे संसारप्रदेशे। गृहे-त्वत्पित्गृहे इति कथापक्षे, अन्यथा त्वमेव देहं प्राप्नुहि अहं तु असङ्ग एवास्मीत्यर्थः । एतेन काशीत्याग एव संसारस्वीकारः तदत्याग एव मोक्षाख्यस्वरूप- स्थितिरिति दर्शितम्। त्रीणि श्रवणमनननिदिध्यासनानि अम्बकानि नेत्राणीव ज्ञापकानि यस्य स त्र्यम्बकः तथा च श्रुतिः 'आत्मा पारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति आत्मदर्शनसाधन- त्वेन श्रवणादित्रयं विधत्ते । अत एव त्रिपुरान्तकः प्रयाणां स्थूलसू. क्ष्मकारणानां पुराणां शरीराणामन्तकः प्रविलापनकर्ता विद्यास्वरूपा. प्येषा पुरतत्त्वं न जानातीति हसन यस्मान्महादेवेन अविमुक्तं हि मे गृहमित्युक्तं तस्मादविमुक्तसझं वाराणसीक्षेत्रम् । अत्राप्रकृतस्याधिमु. (१) () एतादृशरेखामध्यस्थः पाठः केवलं ख पुस्तके दृश्यते ऽपक्षितश्चेति निवेशितः ।
तोर्थेन्दुशेखरे- तस्य कीर्तनमुपरिधारणन्यायेन (१) वाराणस्या मुख्यमविमुक्तत्वं दर्शयति। । तथाहि जाबालाः 'सोऽविमुक्त प्रतिष्ठित इत्यविमुक्तप्रतिष्ठ- त्वमात्मन उपक्षिप्य कुत्र तदविमुक्तमित्याकाङ्क्षायां वरणायाश्च नाश्याश्च मध्ये प्रतिष्ठित इत्याधिभौतिकम विमुक्तमुक्त्वा कतमञ्चास्य स्थानं ध्रुवोर्घाणस्य च यः संधिरिति प्रश्नपूर्वकं शरीरे तत्स्थानं भ्रूध्राणसंधिरित्यामनन्ति अन्तर्धानमिति सार्धः पुरमस्यास्तीति पुरी महादेवः अन्तर्हितायामपि पुर्यां स्वयमनन्तर्हितः सन्त्रसति देवताप्रति. माधुच्छेदेऽपि देवतासान्निध्यं न निवर्तत इत्यर्थः । पुनः कृतयुगारम्भे पुरी वसते इति व्यख्यानेऽपि अन्तर्धानमात्र पुर्या उक्तं नतूच्छेदः एवं पुरपतेरपीतिद्रष्टव्यम् । किं च यावत्कले संध्यां सोऽस्ति तावदत्र द्वापरधर्माणां कियंतामप्यनुवृत्तः । षट्त्रिंशत्सहस्रवत्सरपर्यन्तं कलावपि पुरी नान्तर्हिता भवति । तन्निवृत्तौ केवलस्य कले: प्रवृत्ती सत्यामेव च भवति अन्यथा संप्रत्युपलम्भो न युज्यतेति दिक् । हरिवंशे चतुर्विशे पितृकल्पप्रसङ्गेन- सप्तव्याधा दशाणेषु मृगाः कालञ्जरे गिरौ चक्रवाकाः शरदुद्वीपे हंसाः सरसि मानसे ।। तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः। प्रस्थिता दीर्घमध्वानं यूयं तेभ्योऽसीदथ ॥ - (२) उपरिधारणन्यायनेति । प्रेताग्निहोत्रे श्रूयते 'अधस्तात्समिधं धारयन्ननुद्रवेत् उपरि हि देवेभ्यो धारयति' इति अत्र "पित्र्यं हविहातुं हस्ते धारयन्यदा मन्त्रं पठति तदानीं झुग्दण्ड- स्याधस्तात्समिधं धारयेत्" इति यविधीयत तदेतद्वैविकेनोपरिधारणेन स्तूयते हिशब्देन अनुवादत्वप्रतांतरिति चेत् मैवम् दैविके हविषि झुग्दण्डस्योपरि समिद्धारणस्यापूर्वार्थस्वेन विधातव्यत्वात् अनुवादत्वगमको हिशब्दोऽसम्भवादुपेक्षणीयः इति न्यायमालविस्तरे उपरि- धारणन्यायः उक्तः अयम्भावः यथाऽप्रकृतं देवहविष उपरिधारणं कीर्त्यमानम् प्रेताग्निहोने हविष उपरिधारणं विधत्ते तथाऽप्रकृतस्याविमुक्तस्य कीर्तनं प्रकृतवाराणस्या मुख्यमविमुक्तत्वं बोधयतीति तत्त्वम् ।
काशीप्रकरणम् ।
तेषां मध्ये ऽभिजाताः कुलीनाश्चत्वारो वयमितिशेषः । अवसीदथ
योगाद्भष्टतया विशीर्णाः स्थेत्यर्थः ।)
दृष्ट्वा कलियुगं घोरं हाहाभूतमचेतनम् ।
यऽधिमुक्तं न मुञ्चन्ति कृतार्थास्ते नरा भुवि ॥
इतिमात्स्योक्तेः ।
कलौ
विश्वेश्वरो देवः कलौ वाराणसी पुरी।
कलौ भागीरथी गङ्गा दानं कलियुगे महत् ।।
इति ब्रह्मवैवतोंक्तेश्च ।
एवं व्याख्यानस्यैवौचित्याच्च ।
स्मशानसंस्थितं वेश्म दिव्यमन्तर्हितं च यत् ।
भूलोकेनैव संयुक्तमन्तरिक्षे शिवालयम् ॥
अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा ॥
इतिमात्स्योक्तेश्च ।
स्मशानं काशी। तत्र स्थितं वेश्म-उक्तं पदम् । तस्यान्तर्धानं न
तु काश्या इति स्पष्टं ततः प्रतीतेः। भवान्या तस्य त्यागे तदर्थनिर्मित.
पुरस्यान्तर्धानौचित्याञ्च।
यत्तु कालिकापुराणे-
वाराणसी नाम पुरी
नाम पुरी गङ्गातीरे मनोहरा।
वरणायास्तथैवासेमध्ये चापाकृति: सवा ॥
स्वयं वृषध्वजस्तत्र नित्यं वसति योगिनाम् ।
दयाप्रीतिकरो योगी स्वयञ्चाप्यात्मचिन्तकः ॥
वियत्स्था सा पुरी नित्यं तेन योगवलाद् धृता ।
दिव्यं शानं ददात्येव तत्र यो म्रियते जनः ।।
तस्मै स्वयं महादेवः संसारग्रन्थिमुक्तये ।
स भूत्वा परमो योगी मृतस्तत्र भवान्तरे ।।
-
५०
तीर्थन्दुशेखरे-
येन तेनैव निर्वाणमाप्नोति हरशासनात् ।
योगयुक्तो महादेवः पार्वत्या रहितः सदा ॥
देवगन्धर्वयक्षाणां मनुष्याणां च नित्यशः ।
शेयो हरः प्रकाशश्च क्षेत्रं तच्च प्रकाशितम् ॥
न तत्र कामदो देवो नाचिरात्सम्प्रसीदति ।
आराधितः शिवस्तत्र निर्वाणाय प्रसीदति ॥
गौर्या विवर्जिता सा तु पुरी तत्र न गच्छति ।
योगस्थानं महाक्षेत्र कदाचिदपि शाङ्करी ॥
इत्युक्तम् । तत्रापि कलाविति शेष: हरिवंशैकवाक्यत्वात् ।
यस्तु आदित्यपुराणे (१)-
गच्छ वाराणसी व्यास यत्र विश्वेश्वरः शिवः॥
न तत्र युगधर्मोऽस्ति नैव लग्ना वसुन्धरा ।
विश्वेश्वरस्य यल्लिङ्गं ज्योतिर्लिङ्गं तदुच्यते ॥
यस्मिन्दृष्टे क्षणाजन्तुः संसारं न पुनर्षिशेत् । इति ।
तदपि शिवनिर्मितस्वपदाभिप्रायम् । यत्र पदेऽन्तर्वतिनि पुरे
युगधर्मः पुण्यपापकृतो मोक्षप्रतिबन्धो नास्तीत्यर्थः।
यत्त्वेकाम्रवनमाहात्म्ये- 'कलावन्तर्हिता काशी मुक्तिरत्रैव लभ्यते'
इति तत्रापि काशीपदं तदन्तर्वर्त्तिशिवनिर्मितपदपरम् (२)। यद्वा
तत्क्षेत्रस्तुतिपरम् ।
मोक्षस्वरूपनिरूपणम् --
मोक्षश्चोपाधिभेदादनेकजीवभावं प्राप्तस्य चेतनस्योपाधिवि.
गमेन स्वस्वरूपेऽवस्थानम् । चेतनश्चैक एव ।
(१) यत्त इत्यारभ्य इत्यर्थः इत्यन्तः पाठो न संलगति ।
(२) परमित्यग्रे 'यद्यपीत्यादिः तथापि अत्रैव काश्यामेव मुक्तिरित्यर्थ': इति ख. पाठः ।
জাহান্ধতাম্। 'विभेदजनके ऽशाने नाशमात्यन्तिके गते॥ आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति । इतिविष्णुपुराणोक्तेः । सर्वस्याधारमचिन्त्यरूप- मणोरणीयांसमतिप्रमाणम् । सितालतं चेश्वरमीश्वराणा- माराधयिष्ये तपसैव विष्णुम् ।। इतिप्रघट्टकान्तरे तत्रैवोक्तश्व । सितं बद्ध जीवरूपेणासितमबद्धमीश्वरूपेणेत्यर्थः । बहवः पुरुषा लोके सांख्ययोगविचारणे ॥ समासतस्तु वै व्यासः पुरुषैकत्वमुक्तवान् । इतिमोक्षधमें भारतोक्तेश्च । तत्रैव आत्मा च परमात्मा च नमस्ते नलिनेक्षण ॥ विदितोऽसि दुराधर्ष नारदाद्देवलात्तथा । इतिकृष्णं प्रत्यर्जुनोक्तेश्च । गीतायामपि- अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ न तदस्ति विना यत्स्यान्मया भूतं चराचरम् । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ इति ॥ स एव शिवनारायणादित्यपदाभिधेयः । ब्रह्मोपनिषदि-'तुरीयमक्ष- रमादित्यो विष्णुश्चेतिश्रुतेः। कौमें उत्तरभागे ब्रह्मादिशक्तिकथनानन्तरम्- परस्ताद्भगवान्परमात्मा गीयते सर्वशत्तयात्मा शूलपाणिमहेश्वरः ॥ -- आभ्यः सनातनः । 24730 ५२ तीर्थन्दुशेखरे- एनमेके वदन्त्यग्निं नारायणमथापरे । इत्युक्तेश्च । तीर्थेषु केषु द्रष्टव्या तोतव्या कैश्च नामभिः ॥ इति सती प्रति दक्षप्रश्न- सर्वदा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि । सर्वलोकेषु यत्किञ्चिदस्ति तन्न मया विना ii वाराणस्यां विशालाक्षी प्रयागे ललिता तथा । इत्युपक्रम्य- रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने । इतिमात्स्योक्तेश्च । तादृशज्ञानं चेश्वरार्पणबुद्धया कृतैः कर्मभिश्चित्तशुद्धयाऽन्यत्रापि भवति । ईश्वरे कर्मसमर्पणं च- ALLERS - कामतोऽकामतो वापि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि संन्यस्तं त्वत्प्रयुक्त करोम्यहम् ॥ इतिचिन्तनम् । नाहं कर्त्ता सर्वमेतद् ब्रह्मैव कुरुते तथा । प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ इतिकौर्मात् । एतद्ब्रह्मार्पण भगवद्गीतायामपि- यज्ञार्थाकर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थ कर्म कौन्तेय मुक्तसङ्गः समानर तस्मादसक्तः सततं कार्य कर्म समाचार असक्ती ह्याचरन्कर्म परमाप्नोति पूरुषः॥ असक्तः-फलकमनाकरीत्वाभिमानरहितः । कार्यमवश्यंकार्यम् । यही विष्णुः । सङ्गः कर्तृत्वाभिमानः । तदर्थत्वं च कर्मणां तत्प्रेरणया कर्मकरणात्। - জাছীক্ষামু। ৰাজ मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीनिर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ अध्यत्मचेतसा-अहमन्तर्यामिभगवदधीनस्तस्मा एव भृत्य इव कर्माणि करोमीतिबुद्धया । ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ इति। तथा- mrosa यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ॥ अर्चा च- तस्य तत्प्रेरितत्वबुद्धया कर्मकरणम् । मन्मनाभव मद्भक्तो मधाजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ इति । सर्वकर्मकरणवेलायां मन्मना:-भगवत्प्रेरणया करोमीति बुद्धि- मान । अत एव भद्भक्तो-भृत्य इव राज्ञो मदानापालकः। अत एव तैः कर्मभिर्मद्याजी मत्पूजको मां नमस्कुरु अकृतदुष्कृतजदोषपरि. हाराय । तदेवाह- सर्वधर्मापरित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुत्रः ॥ इति परित्यागः स्वस्य कर्तृत्वाभिमानत्यागात् । शरणत्वं मत्प्रे- रणया प्रवर्त्तमानत्वात् । एवं सर्वकर्मफलानामीश्वरो भोक्तेति चिन्तन सर्वकर्मफलसंन्यासः। ईश्वरेण नियुक्ता हि साध्वसाधु च भारत । कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत् ॥
तीथेन्दुशेखरे- न चैतदिष्टं कौन्तेय यदन्येन कृतं फलम् । प्राप्नुयादिति तस्माच्चापीश्वरे तन्निवेशय ॥ इतिराजधर्मोक्तः। यदन्येन कृतं कर्म तस्य फलमन्यः प्राप्नुयादिति यत्तन्नेष्ट- मित्यर्थः। प्रघट्टकान्तरे- न हि कश्चित्स्वयंमर्त्यः स्ववशः कुरुते क्रियाः। ईश्वरेण नियुक्तोऽयं साध्वसाधु च पाण्डव ॥ करोति पुरुषः कर्म तत्र का परिदेवना । इति युधिष्ठिरं प्रति व्यासवाक्यम् । ईश्वरस्य तत्फलभोक्तत्वं च जीवैः कर्माणि कारयतस्तस्य प्रीतिरेव यथाऽर्थिभ्यो धनानि यच्छन् दाता तद्धनभोक्तत्यलं पल्लवितेन । इतिकाशीमुक्तिनिर्णयः । इति काशीप्रकरणम् । अथ गयाप्रकरणम् । गयायां श्राद्धेन तु अमुक्त पित्रादौ नरकोद्धारसर्वपापनाशस्वर्ग- लोकप्राप्त्यादि यथायथं फलम्। मुक्त ऽपि पित्रादौ प्रत्यवायाभावः ब्रह्महत्यादिपापनाशः, सत्यां कामनायां पुत्रादि च कर्तृगतं फलम् । तत्र पित्रुद्धारार्थं कृतैनैव गयाश्राद्धेन सत्यां कामनायां पुत्राद्यपि फल मित्येके । फलद्वयार्थ प्रयोगद्वयमित्यन्ये गयाश्राद्धं पुत्रस्य नित्यम् - गयाभिगमनं कर्तुं यः शक्तो नाभिगच्छति । शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥ इति कौर्मे निन्दाश्रवणात् । तत्र सकृत्करणमेव नित्यम् । पुनः करणे तु फलाधिक्यं न त्वावश्यकता । तत्रापि येषां प्रथमयात्रायां प्रेतत्व.
মাথাম।
निवृत्त्यर्थं प्रेतशिलायां पिण्डदानं भारडस्फोटनं च कृतं तेषां द्विती-
यादियात्रासुन कार्यम्।
कान्ति पितरः
पुत्रान्नरकाद्भयभीरवः ।
गयां यास्यति यः कश्चित्सोऽस्मान्संतारयिष्यति ॥
इतिबृहस्पतिः।
कृष्णशुक्लावुभौ पक्षौ गयायां यो बसेन्नृप ।
पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ॥
अनेन मासं वास उक्तः।
एष्टव्या बहवः पुत्रा योकोऽपि गयां व्रजेत् ।
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ।।
ब्रह्मज्ञानं गयाश्राद्धं गोग्रहे मरणं तथा ।
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ।
इतिवायवीये।
कुरुक्षेत्रमत्र काशी।
पितृक्षेत्रं गयानाम सर्वतीर्थाधिकं मतम् ॥
अत्र नरकभोगफलक प्रारब्धमपि कर्म गयाश्राद्धन नाश्यते
वचनवलादित केचित् ।
मुण्डपृष्ठाच पूर्वस्मिन्दक्षिणे पश्चिमोत्तरे।
सार्द्धकोशद्वयं मान गयेति परिकीर्तितम् ॥
पञ्चकोशं गयाक्षेत्रं गयाशिर इ (तीर्यते )।
इति वायुपुराणे।
गयाश्राद्धविधानार्थं मुक्त्वा यः कीकटं व्रजेत् ।
पापीयान जायते सद्यो मृतश्चेद्गर्दभो भवेत् ॥
दृष्टार्थगमने दोषस्तीर्थाद्यर्थं न दुष्यति ।
न जातु देशदोषोऽस्ति तीर्थ क्षेत्रे च दैवते ॥
५६ तोथैन्दुशेखरे- वायुपुराणे- उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः। विधाय कार्पटीवेषं ग्रामस्यापि प्रदक्षिणम् ॥ ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् । कृत्वा प्रतिदिनं गच्छेत् प्रतिमहाविवर्जितः ॥ इति । श्राद्धमत्र घृतप्रधानद्रव्यकं गयाश्राद्धवदखिलदेवताकमेतस् । षड्दैवत्यं वा । गयायां पक्षत्रयवासः क्वचिदुक्तः । क्वचिन्मासवासः । आमरणं वासोऽत्राधिकप्रशस्तः । ब्रह्मज्ञानाद्यथा मुक्तिस्तथाऽत्र मरणाद्भवेत् ॥ इत्युक्तेः । मुक्तिः सालोक्यमत्र बोध्यम् ।। अथ गयायात्राधिकारिण:- - तत्र पुत्रादयोऽधिकारिणो मित्रपर्यन्ताः । पुत्र नुजादीनां पिण्ड- दानेऽपि पित्रग्रजादीनामत्राधिकारः । सवर्णज्ञातिमित्रवान्धवसुहृदा चाधिकारः। यतेस्तु दण्डस्पर्शनमात्रं पितृस्मरणपूर्वक विहितम् । जीवत्पितृकस्तु प्रसङ्गतो गयां गत्वा मातृपार्वणं कुर्यात् । तदुद्देशेन तु गमनं न तस्य । यो यद्धनग्राही सोऽपि तच्छाद्धं गयायां कुर्यात् । भृत्यऋणिकयोरपि अधिकारः। महालये गयाश्राद्ध प्रेतश्राद्ध दशाह्निके । पिण्डशब्दप्रयोगः स्यादन्नमन्यत्र कीर्तयेत् ॥ बृद्धिश्राद्ध (१) प्रीतिश्राद्धसपिण्डीकरणेषु नाभिश्रवणजपः। अथ पिण्डद्रव्याणि- पिण्डद्रव्याणि पायसचस्यवसक्तुतण्डुल (२) मूलफलादीनि । पूर्वाभावे उत्तरोत्तरम् । पिण्याकतिलगुडादीनि धा । तिलाज्यमधु- (१) बृद्धिश्राद्धगयाश्राद्धप्रीतिश्राद्धसपिण्डीकरणेषु इति ख. पाठः । (२) तण्डुलत्यनन्तरं पिष्टतण्डुलेत्यधिकः पाठः ख. पुस्तके ।
गयाप्रकरणम्।
दध्यादिपिण्डेषु योजयेत् । पिएडप्रमाणं मुष्टिराामलकं शमीपत्रं पा
सर्वथाऽशक्तौ शमीपत्रप्रमाणं गयायाम् ।
अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः ।
न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च बृहस्पती॥
इतिवायवीये।
गयायां सर्वकालेषु पिण्डं दधाद्विचक्षणः । इति च ।
संक्रान्त्यादिग्रहणं च प्रशस्तम् । कृष्णपक्षश्च प्रशस्तः । मकरः
प्रशस्ततरः।
अस्थिक्षेपं गयाश्राद्धं श्राद्धं चापरपक्षिकम् ।
अब्दमध्ये (१) न कुचीत सपिण्डीकरणं विना ॥
इतिगारुडे।
प्रथमेऽब्दे न कुर्वीत कृतेऽपि तु सपिण्डने।
इत्यन्ये उत्तरार्धं पठन्ति । तदपवाद व अस्थिक्षेपमित्यादि
पूर्ववत् । प्रथमेऽब्देऽपि कुर्वीत यदि स्याद्भक्तिमान्नुतः । इतिपठन्ति ।
अब्दमध्येऽपि गयाश्राद्धं देवतात्वसिद्धये देवतासंस्कारकं तदैवत्यमेव
पार्वणं भत्त्याख्यं श्राद्धं कृत्वा स एव भक्त्याख्यश्राद्धवान् गयाश्रा-
द्धादि कुर्वीतेत्यर्थं कश्चित् । यथाश्रुतमर्थमन्ये । पतितानामपि गयायां
पिएडदानं वर्षोत्तरं कार्यम् ।
महालये गयाश्राद्ध मातापित्रोमृतेऽहनि ।
कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुतः । इतिसङ्गहे।
उद्वाहो वृद्धिश्राद्धनिमित्तोपलक्षणम् ।
उपरागे व्यतीपाते गयायामथ पर्वणि ||
पितृपक्षे च यज्ञेच गयायां च महालये।
निषिद्धेऽपि दिने कुर्यात्तिलयुक्तं तु तर्पणम् ॥ इति ।
(१) अब्दमध्ये इत्यस्य स्थाने प्रथमेऽब्दे इति ख. पाठः।
अत्र तीर्थेन्दुशेखरे- पितृपार्वणमातृपार्वणमातामहपार्वणमातामहीपार्वणानि कार्याणि । पितृव्यादिभ्योऽपि देयं तत्पत्नीभ्योऽपि भत्त पिण्डात्पृथगेव पिण्डाः । सम्बन्ध विनाप्यत्र स्मर्यमाणेभ्यः पिण्डदानम् । यन्नाम्ना पातयेत्पिण्डं तं नयेद्बह्म शाश्वतम् ॥ इत्युक्तेः । षड्दैवत्यमेवावश्यकमित्यन्ये । अत्र पक्षे मातामहानां सपत्नीकानामित्युल्लेख इतिस्मृत्यर्थसारे । मात्रा सह नवदैवत्यमित्यपि तत्र आत्मनोऽप्यत्र तिलकुशहीनं पिण्डदानं जनार्दनहस्ते एव कार्यम् । अन्यस्यापि जीवत एवमेव पिण्डदानं कार्यमिति स्पष्टं वायवीये । इदं जीवतः पिण्डदानम पुत्रादेरेवेति केचित् । तत्र मूलं मृग्यम् । गयायां निर्गुणा अपि तत्रत्या विप्रा एव भोजनीया इति हेमाद्रिः । अक्षय्यवट. स्नानतर्पणश्राद्धादि कृत्वा तहिने श्राद्ध एव तेषां भोजनमाचारादित्यन्ये। गयाप्रवेशदिने फलं वाञ्छन् प्रेतशिलायां सघृतचरुणा श्राद्धं प्रेतशिला श्राद्धेन प्रेतत्वविमोके श्राद्धान्तरोद्देश्यत्वयोग्यता भवति । तत्रैव रामतीर्थं स्नानपिण्डादि प्रेतत्वविमोचकम् यमराजभ्रम(धर्म)राजयोःश्यामशवलयोश्चात्र पिण्डदानम् । तत्रैव प्रभासे साग्रे? याम्यो वलिद यः । गयाप्राप्तिनिमित्तको मुण्डनोपवासौ नेत्युक्तम् । द्वितीयदिने प्रेतपर्वते श्राद्ध ततस्तत्रत्यब्रह्मकुण्डे श्राद्ध कार्यम् । इदं सर्व गयाश्राद्धप्रकृतिभूतम् । तृतीयदिने पञ्चतीर्थों तत्रादा. वुत्तरमानसाख्ये सूर्यकुण्डे स्नानश्राद्धादि । ततो दक्षिणमानसे तत् । तत्रैव मध्ये कनखलाख्यं तीर्थम् । उत्तरे उदीचीतीर्थं च । ततः फल्गु. तीर्थ स्नानांदि। तत्रैव पितामहं नमः शिवायेति नत्वा गदाधरं पश्येत् चतुर्थदिने धर्मारण्यं गत्वा मतङ्गवाप्यां स्नानादि । तत्र मतङ्गेशनतिः । तत्रैव ब्रह्मतीर्थे कूपे श्राद्धादि । तत्कूपयूपयोर्मध्ये च धर्मधर्मेश्वरौ नत्वा महाबोधितरूं नमेत् । पञ्चमे दिने ब्रह्मसरितः स्नानश्राद्धादि। तत्रैव गोप्रचारसमीपस्थानमूले पितृतर्पणम् । तत्रैव ब्रह्मयूपप्रदक्षिणम् ब्रह्मनमस्कारो यमवलिः श्ववलिः काकवलिश्च ततः स्नानम् । - ।
गयाप्रकरणम् । ५४ s ततः षष्ठेह्नि नित्यस्नानविधिना फल्गुस्नानम् । ततो गयाशिर :- स्थपदेषु स्नानम् । पदानि च विष्णुरुद्रब्रह्मकश्यपपञ्चाग्नीन्द्रागस्त्य- रविचन्द्रगणेशेन्द्रकार्तिकेयक्रौञ्चानाम् । एषु पदेषु प्रथमें सक्तु. पिण्डाः। द्वितीये तिलगुडस्य । तृतीये (१) पायसस्य च । चतुर्थे दुग्धतर्पणम् । पञ्चमे दीपदानमिति पञ्चदिनकृत्यम् । अनवकाशे त्रिषु द्वयोरेकस्मिन्नपि कार्यम् । तदग्रिमदिने गयालोले स्नानश्राद्धादि । ततो ऽक्षय्यवटेऽन्नेनैव श्राद्धम् । अत्र ब्रह्मकल्पितगयास्थब्राह्मणानेच पित्रादिस्थाने भोजयेत् ये युष्मानपूयिष्यन्ति गयामागता नराः। हव्यः कव्यैर्धनः श्राद्धेस्तेषां कुलशतं व्रजेत् ॥ इत्याग्नेयात् । तत्र वटेशवटनमस्कारौ । अन्यान्यपि तत्र तीर्थानि तत्र गायत्रीतीर्थसावित्रीतीर्थसरस्वतीतीर्थेषु सन्ध्यात्रयानुष्ठानम् । विशालालेलिहानभरताश्रयपादाङ्कितमुण्डपृष्ठाकाशगङ्गागिरिकर्णमुख- वैतरणीगोप्रचारघृतकुल्यामधुकुल्यामरकोटितीर्थरकमकुण्डपाण्डुशि- लाचम्पकवनदेविकामहानदीदशाश्वमेधहंसतीर्थमातङ्गपदमथोकुण्डग- याकूपमार्तण्डपादकूपमस्मकूपधौतपादरामपुष्करिणीसुषुम्नामहाका- लीवशिष्ठेश्वरतीर्थकामधेनुपदाङ्कितधेनुकारण्यकर्दमालयगयानाभिफ. ल्गुचएडीस्मशानसंगयागजगयादित्यपुण्डरीकाक्षभरताश्रमस्थराम. कुण्डपर्वतोद्यन्तकाद्रि उद्यन्तकुण्डवैकुण्ठलोहदण्डहेमकूटगृध्रवटगृध्र. गुहाऋणमोक्षपापमोक्षशिलोदरगजगणेशमुण्डपृष्ठारविन्दान्द्रयरविन्द. वनक्रौञ्चपादादीनि । इतिगयाप्रकरणम् । इति श्रीशिवभट्टसुत सतीगर्भज नागोजीभट्ट कृतस्तीर्थेन्दुशेखरःसमाप्तः । (१) तृतीये यावस्य इति ख. पाठः ।
No text on this page.
काशिमृतिमोक्षविचारस्य भूमिका । अस्य काशीमृतिमोक्षविचारस्य रचयिता सुगृहीतनामधेयः पर. महंसपरिव्राजकाचार्यः श्रीसुरेश्वराचार्यः । एतत्प्रणीता ग्रन्थाश्च बृहदारण्यवार्तिकम्, तैत्तरीयोपनिषद्भाध्यवार्तिकम्. दक्षिणामूर्ति- स्तोत्रवार्तिकम, नैष्कर्म्यसिद्धिश्चेति अयमेषपूर्वाश्रमे मण्डनमिश्र इति ख्यातिमाप इति बहवः परन्तु सुरेश्वराचार्यों विधिविवेक. भावना. विवेक, विभ्रमविवेक, स्फोटसिद्धि. ब्रह्मसिद्धिकतुर्मण्डनमिश्रादन्य एव भवभूतिरेव मण्डनमिश्र इति बहूनां मतं तदपि निर्मूलम् । प्रकृतस्य काशीमृतिमोक्षविचारम्य कर्ता कश्चिदन्य एव सुरेश्व. খাদাই ছুনি মনীষন যনীয় এলাকার প্রবাসী অন- मुपन्यस्तम् । संक्षेपशारीरक च सुरेश्वराचार्यशिष्यसर्वशमुनिकृतम् । वस्तुतस्तु संक्षेपशारीरकस्थं वचनं कैश्चिन्मूले प्रक्षिप्तम् यतः स्वमनपोषणाय श्रुतिस्मृतिवाक्यान्युद्धग्नयं ग्रन्थकारः कथंकारमाधु- निकग्रन्थस्थं वचनमुपन्यस्येत एवं च स्यापि ग्रन्थस्य प्रसिद्धसुरे. श्वराचार्यकृतित्वे न विचार इत्युत्पश्यामः । इदं पुस्तकं च वारद्वयं प्राप्तमुद्रणमपि अशुद्धिबहुलमिति महा. महोपाध्याय-प्राच्यप्रतीच्योमयदर्शनानिष्णात वाराणसेयराजकीय- संस्कृतमहाविद्यालयापक्ष श्रीगोपीनाथकविराज एम. ए. महोदया. नामाज्ञया संशोध्य प्रकाश्यते तदनेन व्यापारेण काशीविश्वेश्वरः प्रीयतामिति (२) तत्र तावद्विदुषां मनोविनोदाय काशीपदार्थों निरूप्यते-काशते. ऽनाख्येयं ज्योतिरत्रेति काशी-काशतेऽत्र यतो ज्योतिरनाख्येयं महे. श्वर । अतो नामापरं वास्तु काशीतिप्रथितं विभो" इति काशी. खण्डात् तत्परिमाणं च मध्यमेश्वराद् (गनेशगंज कम्पनीबाग) देहलीगणेश ( प्रसिद्ध ) पर्यन्तं सूत्रं स्थापयित्वा मण्डलीकृति भ्रामयेत् तन्मध्यस्थ क्षेत्र काशीत्यभिधीयते। वरणास्योरन्तरा वाराणसी-"वरणायास्तथैवास्या मध्ये वारा- णसी पुरी" इति वचनात् । तत्परिमाणं च दक्षिणे असी उत्तरे वरणा पश्चिमे पाशपाणिविनायकः ( महाल सदरबाजार लैन में ) पूर्वे गङ्गा एतन्मध्यं वाराणसी। । - शिवाभ्यां न विमुक्तम्, अविना पापेन मुक्त,वा अविमुक्तं-"मुने प्रल. यकालेऽपि तत्क्षेत्र न कदाचन । प्रविमुक्तं शिवाभ्यां यदधिमुक्तं ततः स्मृतम् ॥ अविशब्देन पापं तु कथ्यते वेदवादिभिः । तेन पापेन तत्क्षेत्र रहितं वरवर्णिनि ॥ इति वचनात् । तत्परिमाणं च विश्वेश्वराचतुर्विक्षु चतुःशतधनुर्मितं क्षेत्रमविमुक्तम् । एतत्क्षेत्रं ज्योतिलिङ्गस्वरूपम् "अधिमुक्तं महाक्षेत्रं पञ्चकोशी परीमितम् । ज्योतिर्लिङ्गं तदेकं हि शेयं विश्वराभिधम्" इति वचनात्। गृहस्य इति अन्तर्गृहम्-तत्परिमाणं च पश्चिमे गोकर्णेशः (दपलू की गली में) पूर्वे मणिकर्णिकेश्वरः ( गोमठकाकाराम की गली) उत्तर भारभूतेश्वरः ( मरहट्टा गोविन्दपुरा की गली ) दक्षिणे ब्रह्म- भ्वरः (शकरकन्दगली ) एतन्मितमन्तर्गृहम् । यद्यपि एकाम्रवनमाहात्म्ये कलौ काश्या अन्तर्धानमुक्तं तथापि युगान्तरप्रत्यक्षस्य सुवर्णविविधरत्नघटितस्य विशेषरूपस्य देवदेव निवासस्य ज्योतीरूपस्य अन्तर्धानेऽपि मुक्तिदायाः काशीपुर्या नान्त. र्धानम् "कलावन्तर्हितो देवस्तत्पुरं च विशेषतः। पुरी तु वसते नित्यं (३) सर्वप्राणिविमुक्तिदा" इति वचनात् । काश्यां प्रवेशादेव सर्वपापविलयः "अत्र प्रविष्टमात्रस्य जन्तोः पापं पुरार्जितम् । विनाशमाप्नोति परं पुण्यराशिश्च वर्धते" इति पचनात्। विगत्रं काशीवासादश्वमेधगजस्ययागयोः फलप्राप्तिः काश्यामे. कमासवासेन तु यत्र का पि मतस्य पुनः काश्यां जन्म नतो मोक्षः "यत्पुण्यमश्वमेधेन यत्पुण्यं राजसूयनः । काश्यां तत्पुण्यमाप्रोति त्रिरात्रवसनाधमी ॥ मासमेक वसेद्यस्तु लध्वाहारी जितेन्द्रियः । जन्ममृत्युभयं नीम यानि परमां गनिम ॥ बहुकालमषित्वापि नियतेन्द्रियमानसः । यद्यन्यत्र विपद्येन दैवयोगाच्छुमिमिते ॥ सोऽपि स्वर्गसुखं भुतवा भूत्वा क्षितिपतीश्वरः । पुनः काशीमवा- व्यायें विन्देनिःश्रेयसं परम्" ॥ इति वचनात् । यो हि अन्यत्र कृपापः काश्यामागतःश्यां मनस्य मद्यो मुक्तिः यस्तु काश्यां कृनपाप: काश्यां मनः म एकैकस्य पापम्य कने त्रिंशत्सहस्रवर्षपर्यन्तं रुद्रपिशाचतामाय भैरवयाननवा निष्कृत. पापः मुच्यने यस्तु कश्यां पापं विधायान्यत्र मनः सयामाख्यशिव. गणकनां यातनामनुभूय मुच्यते सर्वशाऽनयोर्यमयातना न भवति न वा जन्म अयोनिजशरीरेण पापभोगसंभावत् वाराणस्यां स्थिती यो वै पातकेषुरतः सदा। योनि प्राप्यापि गैशाची वर्षाणामयुनत्र. यम् ॥ पुनरत्रैव निवसञ्ज्ञानं प्राप्स्यत्यनुत्तमम् । तेन शानेन भोगान्त्ये मोक्षमाप्स्यत्यनुत्तमम्" "यदन्यत्रार्जितं पापं नत्काशीदर्शनाद्वजेत् । काश्यां तु यत्कृतं पापं तत्पैशाचपदप्रदम् ॥ महापातकसंयुक्तास्त्रिं. शदब्दसहस्त्रकम् । प्रत्येक प्राप्नुवन्त्येव यातनां कालभैरवीम" "तस्मा- न्मतम्यात्र न सर्वथास्ति पुनर्भवो मृत्युपरिग्रहो वा" "एकेन जन्मना. जन्तुर्मोक्षं च प्राप्नुयादिति” "चतुर्विधेऽपि क्षेत्रेऽस्मिन्प्रमीतो गर्भ यातनाम् । नैवाप्नोति मुनिश्रेष्ठा विषयोऽयं ब्रवीमि ' इति वचन जातेभ्यः: तदयं निष्कर्षः योऽन्यत्रे कृतपापः काश्यां मृतस्तस्य सद्योमुक्तिः, यः काश्यां कृतपापः काश्यां मतः सोऽयोनिजशरीरमवाप्य बहुकालं रुद्रपिशाचः सन भैरवयातनामनुभूय मुच्यते, यः काश्यां कृतपापो. ऽन्यत्र मृतः सोऽपिअयोनिजं शरीरमवाप्य यामाख्यशिवगणाख्यकृतां. यातनामनुभूयमुच्यते यस्तुकाश्यामेकमासकृतवासो बहिर्मृतः स स्वर्गादिसुखं भुक्त्वा पुनःकाश्यां जन्मावाप्य मुच्यते इति । इदं नागो. जीभट्ट नारायणभट्टयोर्मतम् । श्रीसुरेश्वराचार्यास्तु काश्यांमृतौ अनेकजन्मार्जितम्य काशीकृतल्य चपापस्य झटिति कायव्यूहेन भोगं कारयित्वा झटिति मोक्ष इत्याहुः । काशीकृतपापस्यापि तत्रापि काश्यां मृतस्य सालोक्यरूपा वारा. णस्यां मृतस्य सारूप्यलक्षणा अविमुक्त मृतस्य सान्निध्यरूपा अन्तर्गृहे मृतस्य ब्रह्मण्येव लयरूपा मुक्तिः। यत्तु काश्यां मृतस्य जन्म इति क्वचिदुक्तं तदर्थवादमात्रम् । काश्यां स्थावरजङ्गमाः सर्वे मोक्षेऽधिकारिणः जङ्गमेषु प्राणो. क्रमणं व्यक्तं स्थावरेष्वव्यक्तमेतावान् विशेषः प्राणोत्क्रमणवेलायां सर्वेभ्यो रुद्रमतारकं ब्रह्म व्याचष्टे ततश्च आत्मज्ञानान्मोक्ष इति तस्वम्। तारकं प्रणव:- प्रणवः-"ओङ्कारमोङ्कारयतीन्दुमौलिः" "प्रणवं तारक ब्रूते काश्यां देवो महेश्वरः" इतिवचनादिति सुरेश्वराचार्याः । तारकं तत्त्वमसीति महावाक्यम्-"प्रियमाणस्य जन्तोश्व वाक्यं कर्णे समुध्रन्" "उपदिशति सदान्ते वाक्येमकात्मनिष्ठं द्विजकुल. निरपेक्षो भाव्य तत्राधिकारम्" इतिवचनादिति नागोजीभट्टः। तारक रामषडक्षरो मन्त्रः-"आचष्टेतारकं ब्रह्म राममन्त्रं षड. क्षरम" इतिवचनात् ।
(५) ननु काश्यां मृतानां चाण्डलादीनां कथं तारकोपदेशः तेषां मन्त्रश्रवणानधिकारादिति चेदुच्यते "द्विजकुलनिरपेक्षो भाव्य तत्राधि. कारम्" "श्रावयामास विधिवत्संपाधाधिकृति पराम्" इत्यनेन चाण्डालादीनामप्यधिकार सम्पाद्य मन्त्रोपदेशात् । तारकं रामनाम-"श्रीरामरामरामेति एतत्तारकमुच्यते” इति- वचनात् एतत्पक्षेतु चाण्डालादिषु कथमुपदेश इतिशळेव न । ननु चाण्डालख्याधिकारसंपादनमिह देहे देहान्तरे वा नाद्यः चाण्डालादिदेहे ब्राह्मणत्वाद्यसंभवात् न द्वितीयः शरोरान्तरे मुमूर्षु. त्वासंभवेन "मुमूर्षोर्दक्षिणे कर्णे" इत्यस्य वाधप्रसङ्गादिति चेन्न-विश्वे. शानुग्रहात्तस्मिन्नेव शरीरे विश्वामित्रस्य ब्राह्मणत्वस्येव द्विजत्वस्य संभवात् स्वतन्त्रेच्छस्य विश्वेश्वरस्य चाण्डालस्यापि मन्त्रोपदेश. संभवाञ्चल्यलम् इति। सूर्यनारायण शुक्लः।
No text on this page.
श्रीविश्वेश्वरः शरणम्। श्रीमत्परमहंसपरिव्राजकाचार्य- श्रीजगद्गुरुसुरेश्वराचार्य कृतः काशीमृतिमोक्षविचारः। नमस्कृत्य जगन्नाथं मायया चन्द्रशेखरम् । गङ्गाधरं विष(१)च्छायानीलकण्ठमुपास्महे ॥१॥ वाराणसी पुरीं पुण्यां येऽधितिष्ठन्ति जन्तवः । व्याचष्टे तारकं ब्रह्म रुद्रस्तेषां दयानिधिः ॥२॥ प्राणप्रयाणसमये प्राप्य ज्ञानं महेश्वरात् । मुच्यन्ते जन्तवः सर्वे बद्धाश्चानाद्यविधया (२)॥३॥ मोक्षश्च तेषां तादात्म्यं घटेतरखयोरिव । पुनर्देहान्तरारम्भे कारणं नास्ति किञ्चन ॥४॥ सालोक्यादेन विद्वद्भिः साक्षान्मोक्षत्वमिष्यते । उपास्तेः फलरूपत्वात् (३) तारतम्यपदस्थितेः ॥५॥ शानाग्निा विनत्वात् विश्लेषः पूर्वकर्मणाम् । उत्तरेषां न च श्लेषो भवेन्मुक्तस्य जीवतः ॥ ६ ॥ प्रारब्धं कर्म भोगेन क्षीयते ऽज्ञानकारणम् । सतो विदेहकैवल्यं भवतीति सुनिश्चितम् ॥ ७ ॥ (१) 'गर' इति, क. पु. पाठः । (२) 'बद्धाः स्वाभाव्यविद्यया' इति अपपाठः । (३) पररूपत्वादिति पाठान्तरम् ।
२ ? A काशीमृतिमोक्षविचारः। काश्यां विदेहकैवल्यं भवतीति सुनिश्चितम् । काश्यां विदेहकैवल्यप्राप्तेरुत्तरकर्मणाम् ॥ ८॥ असंभवान संश्लेषो वेदितव्यो विचक्षणः ।। किमत्र प्रमाणम् ? तथाहि श्रूयते "यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते' इति. ( छा० उ० ५.२४.३.)। तर्हि पापकर्मणामेव विलयः (१) श्रूयते न पुण्यकर्मणामिति चेत् नेत्याह 'ब्रह्मादीनां शरीराणि श्वशूकरशरीरवत् । यतो जिहासितव्यानि (२) तस्मादु धर्मेऽपि पामगी। इति वचनात् पुण्यकारब्धानां ब्रह्मन्द्रादिशरीराणां पापकर्मा. रब्धश्वशकरादिशरीरवलि हासितत्वाविशेषात् पुण्यस्यापि कर्मण पाप्मत्वेन कीर्तनं युक्तम् । तथा च भगवद्गीतासु श्रूयते- यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ ४.३७ ॥ यथोक्तं जीवन्मुक्तस्य ज्ञानोत्तरकालीनकर्मणां श्लेषो न भवतीति सत्रेदं प्रमाणम्-"यथा पुष्करपलाशे आपो न श्लिष्यन्ते, एवं हैवं विदि पापं कर्म न श्लिष्यते" इति । (छा० उ० ४।१४।३) प्रारब्धस्य च कर्मणः कर्मत्वाविशेषाज ज्ञानेन बाध्यत्वमुपपद्यते इति चेद् न इत्याह- प्रारब्धस्योपजीव्यत्वात् तत्त्वज्ञानेन कर्मणः। अशक्यत्वाच मुक्तषोरिष बाधो न विद्यते ॥ इतिवचनात् । अथेदानों परमकृतेः (३) प्रमाणं प्रतिपाद्यते । यमो वैवस्वतो राजा यस्तवैष हदि स्थितः। तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥ ( मनुस्मृति ८.६८) (१) 'विश्लेषः' इति . क. पा.। (२) जिहासितान्येव' इति पाठान्तरम् । (३) परमप्रकृतेः' इति क. पा. । Ram - काशीमृतिमोक्षविचारः। ३ इति गङ्गाकुरुक्षेत्रयोः निषेधमुन्नतो मुमुक्षुप्राप्यत्वमाह स्म भग- वान् आचार्यों मनुः। यत्किचिन्मनुरवदत्तद्वेषज मितिश्रुतेः । यमः- यमयति-नियमयति । तथा च श्रूयते-“य आत्मनि तिष्टान्नात्मनो- ऽन्तरो यमात्मा न वेद यस्य आत्मा शरीरं य आत्मानमन्तरो यमयति एष त आत्मा अन्तर्याम्यमृतः, इति ॥ ( वृहदारण्यकोपनिषत् ३.७ ) वैव- स्वतः-विवस्वान सविता (१) तमधितिष्ठतीत्यर्थः राजा-राजते- दीप्यते-स्वयं प्रकाशते । ज्योतिर्ब्राह्मणवाक्योक्तं ज्योतिष्वम् प्रत्यगात्मनः । औपचारिकमन्यत्र भाल्यत्वाद् भास्वदादिवत् ॥१॥ इतिवचनात् । "यस्तवैष हृदि स्थितः" इति स्वानुभवप्रत्यत्वं दर्शयति । "हृदि स्थितः" इति सर्वेषां भूतानां हृद्देशे सदा सन्निहितः। “अन्तः प्रविष्टः शास्ता जनानाम" (तै० प्रा० ३.११ १-२) इति श्रुतेः। "शास्ता विष्णुरशेषस्य जगतो यो हृदि स्थितः" इति स्मृतेः । ते-तव यो हदि स्थितस्तेन परमात्मना अविवाद:-ऐकात्म्यं यद्यस्ति तदा गङ्गां मा गमः कुरुक्षत्रं च मा गमः। गङ्गायां मरणं चैव दृढा भकिश्च केशवे। बहाविद्याप्रबोधश्च नाल्पस्य तपसः फलम् ॥ इतिसमप्रधानभावेन श्रीव्यासेनोक्तम् । मरणे स्मरणं विष्णोः कथ्यतेऽत्यन्तदुर्लभम् । तवल्पेनैव (२) कालेन गङ्गां संसेव्य लभ्यते ॥ यस्य तत्त्वज्ञानं नास्ति तस्य गङ्गायां कुरुक्षेत्रे वा यावदेहावसानं तावत् स्थितौ सत्यां तत्त्वज्ञानावाप्त्या मोक्षो भवतीति भावः । (१) 'विवस्वान् पिता अस्येति' क. पा. । (२) 'तदन्ते बहुकालेन' पा. ।
काशीमृतिमोक्षविचारः। किं नाम तत् कुरुक्षेत्रं यत्र देहावसाने सर्वस्य जन्तोमोक्षः श्रूयते ? उच्यते "बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । तम्माद् यत्र कचन गच्छति तदेव मन्येत तदविमुक्तमेव । इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारक ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति तस्मादविमुक्तमेव निषे. वेत अविमुक्तं न विमुञ्चेदेवमेवैतद्याज्ञवल्क्य" इनि ( जाबालोपनिषत् १) बृहस्पतिर्याज्ञवल्क्यं पप्रच्छ यदनु कुरुक्षेत्रं देवानां देवयजन सर्वेषां भूतानां ब्रह्मसदनं तद्वद इति शेषः । तस्मै याज्ञवल्क्यः प्रत्युवाच अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसरनं मस्माद् यत्र कचन गच्छतीति । विश्वेश्वरेण कदाचि- दपि विमुक्तं न भवतीत्यविमुक्तम् । सर्वगतत्वेऽपि विशेषामि- व्यक्तिहेतो एवार्थः । कुरुक्षेत्रम् कुरुक्षेत्रशब्दितम् । देवानां देवयजनम् सर्वे देवा इज्यन्ते पूज्यन्ते यत्र इति' सो देवा यत्र विश्वेश्वरं यजन्ति पूजयन्ति वेति देवयजनम । सर्वेषां भूतानां ब्रह्मसदनम्-भवन्तीति भूनानि भवन्ति उत्पद्यन्ते उत्पत्तिमन्ति, कानि तानि ? जरायुजाएडजस्वेदजोद्भिजानि, तेषां सर्वेषां भूतानां ब्रह्मसदनम् ब्रह्मलोकः । तस्मात् अविमुक्ताद् यत्र क्वचन गच्छति यत्र क्यापि न गच्छेत् मोक्षार्थ क्षेत्रान्तरम् “व्यत्ययो बहुलम्" इति लकारव्यत्ययः । अविमुक्तं परित्यज्य क्षेत्रान्तरे मोक्षो न भव- तीति भावः । "साक्षान् मोक्षो न चैतासु पुरीषु प्रियभाषिणि' इति । ( का० ख० ८-३ ) स्मृतेः । तदिदं मन्ये देवानां देवयजनम् सर्वेषां भूतानां ब्रह्मसदनम् । तत्-तस्माद्देवानां देवयजनमिदमधिमुक्तं सर्वेषां भूतानां ब्रह्मसदनं ब्रह्मलोकं मन्ये अवगच्छामि । अत्र हि जन्तोः प्राणैरत्क्रममाणस्य रुद्रस्तारकं ब्रह्म व्यावष्टे। अत्र-अविमुक्त, हिः ५ . काशीमृतिमोक्षविचारः। प्रसिद्धौ, जन्तोः-चतुर्विधल्य जीवजातस्य, प्राणैरुत्क्रममाणस्य- प्राणैरुकान्ति कुर्वतः 'प्राणेषूत्क्रममाणेषु' इति केचित् पठन्ति । रुद्रः-तापत्रयात्मकं संसारदु खं-रुत्, दुःखहेतु;-रुत् । रुतं द्रावयतीति-रुद्रः। रुद् दुःखं दुःखहेतुर्वा द्रावत्येष नः प्रभुः । रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥ इति अशुभं द्रावयन रुद्रो यजहार पुनर्भवम् । ततः स्मृतामिधो रुद्रशब्देनाबाभिधीयते ॥ इति च स्मृतेः ॥ हता-वेदरूपया धर्मादीन बोधयति वा रुद्रः । रुता-प्रणवरूपया स्वात्मानं प्रापयनीति वा रुद्रः । रोरुयमाणो द्रवति-प्रविशति मानिति वा रुद्रः । त्रिधा बद्धो वृषभो रोरवीति महादेशो मान् माविवेश इति श्रुतेः। त्रिधाबद्धस्त्रिसबनेन बद्धः वृषभः श्रेष्ठः महाँ देवो मान् रोरवीति उपदेशशब्दं कुर्वत आविवेश आसमन्ताजीधेषु प्रवेशं करोति । रोधिका बन्धिका मोहिका शक्तिः-हत् । तां খনি আৰ নাম্বীনি বা :। মাথনি মক্কায় ছবি पा रुद्रः। रुतं शब्द वेदात्मानं कल्पादौ ब्रह्मणे ददातीति वा रुद्रः 'यो वै वेदांश्च हिणोति तहमै ( श्वेता. ६.१८) इति श्रुतेः (१)। एवमादिभिः प्रकारैः बहुधा रुद्रशब्दो निरूप्यते। तारकम्-तारक:-प्रणवः । तारयतीति तारः स्वार्थ कः प्रत्ययः संसारसागरादुत्तारकं-तारकं च तद् ब्रह्म इति तारक ब्रह्म उच्यते । "ओमितीदं ब्रह्म" ( तै० उ० ११।८) इति श्रुतेः । "ओमित्येतदक्षरमिदं सर्वम" इति श्रुतेः । (२) "ओमित्येकाक्षरं - ( (१) यो ब्रह्माणं विदधाति पूर्व या वै वेदांश्च पहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ (२) ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोकार एव । याच्चन्यत् त्रिकलातीतं तदप्योङ्कार एव ॥ ( माण्डूकोपनिषद् १) ६ काशीमृतिमोक्षविचारः। ब्रह्म"(१)इतिभगवान् व्याचष्टे। उपदिशति-येनासौ अमृतीमूत्वा मोक्षी भवति । येनोपदिष्टेन ज्ञानेनासौ जन्तुरमृतीभूत्वा इत्यत्र अभूततद्भावे च्विः न भवति, स्वतः सिद्धत्वात् अमृतोऽयमविद्यान्तर्हितो मर्त्यभाव. मापनो निवृत्ताज्ञानतत्कार्यों मोक्षोभवति । "मुक्त एव मुक्तो भवति" "ब्रह्मैव सन् ब्रह्माप्येति' (बृह ० उ० ४।४।६ ) “विमुक्तश्च विमुच्यते" इतिश्रुतेः । तस्मात्-ततो हेनोरविमुक्तमेव निषेवेत मजेत । अविमुक्तं न विमुञ्चेत्-न त्यजेदामरणान्तिकम् । एवमेवैतद् याज्ञवल्क्यो बृहस्पतिना पृष्टः सन्नेवमेवैतदवगन्तव्यमित्युवाच याज्ञवल्क्य इत्यर्थः। प्राणोत्क्रमणं न स्थावरविषयमिति चेत् न इत्याह-"ओषधिवन- स्पतयो यच किञ्चन प्राणभृत् इति श्रुतेः-यत् किञ्चेदं प्राणि जङ्गर्म च पतत्रि च यश्च स्थावर सर्व तत् प्रशाने प्रतिष्ठितम्' इति श्रुतेः(२) । प्राणोत्क्रमणं जङ्गमेष्वभिव्यक्त, स्थावरेवनभिव्यक्तमेतावानेव विशेषः। "भूतानां प्राणिनः श्रेष्ठा (३) इति मानवं वाक्यमपि प्राणाभिव्यक्त्य- भिप्रायं न प्राणित्वप्रतिपादनपरम् । षड्भावविकारत्वाविशेषात् । प्राणित्वाविशेषात् । स्थूलकारणोपाधिमरवाविशेषात् । जन्तुशब्द. त्वाविशेषात् । संसारचक्रे भ्राम्यमाणत्वाविशेषात् । तथा च स्मर्यते- स्थाल्यां धिपच्यमानायां यवादीनां यथैव हि । सुराणां नारकाणां च तथोधिः प्रवर्तनम् ॥ इति ॥ अत्राविमुक्त स्थावराः जङ्गमाश्च सर्वे प्राणिनो मोक्षेऽधिक्रियन्ते, . (१) ॐ मित्येकाक्षरं ब्रह्म व्याहरन् ममानुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ गीता ८१३॥ (२) बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वदेजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जगमं च पतत्रि च यच्च स्थावरं सर्वं तत् पूज्ञानेनं प्रज्ञाने प्रतिष्ठितम् । ( एत. उप० ५३) (३) भूतानां पाणिनः श्रेष्ठाः पाणिनां बुद्धिजीविनः । बुद्धिमत्सु नरा: श्रेष्ठाः नरेषु ब्राह्मणाः स्मृताः ॥ मनु०१-६६) । काशीमतिमोक्षविचारः। संकोचे करणाभावात् । अभ्यस्य ब्रह्मसदनं श्रुत्या तात्पर्यवत्तथा । सर्वस्य बोध्यते जन्तोर्मुक्तिरेकेन जन्मना ॥३॥ ते ब्रह्मलोकवाक्येन ब्रह्मलोकगता जनाः। यथा सर्वे विमुच्यन्ते तथैवात्रापि जन्तवः॥ १०॥ तत्र ब्रह्मोपदेष्टा स्यादत्र साक्षान्महेश्वरः । तस्यापि परमाचार्यों 'यो ब्रह्माणमिति श्रुतेः ॥ ११ ॥ अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्तः आत्मा तं कथमहं विजानीयामिति ? स होवाच याज्ञवल्क्यः लोऽधिमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्त प्रतिष्ठित इनि सोऽविमुक्तः कस्मिन् प्रतिष्ठित इति ? वरणायां नाश्यां च मध्ये प्रति- ष्ठित इति । का वै वरणा का च नाशीति ? सर्वान् इन्द्रियकृतान् दोषान वारयतीति तेन घण्णा भवतीति। सर्वान् इन्द्रियकृतान पापान् नाशय. तीति तेन नाशी भवतीति । कतमं चास्य स्थानं भवतीति । भ्रवो. ओणस्य च यः सन्धिः स एव धोलोकस्य परस्य च सन्धिर्मवति। एतदै सन्धिं सन्ध्यां ब्रह्मविद उपासते इति । सोऽविमुक्त उपास्यः इति सोऽविमुक्तं ज्ञानमाचष्टे । यो वैतदेवं वेदेति। (जा. उ. २) अथ हैनमत्रिः पप्रच्छ य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहमिमं विजानीयामिति ? "सोऽविमुक्के उपास्यः" इत्युवाच याज्ञवल्क्यः । "सोऽविमुक्तः कस्मिन् प्रतिष्ठितः"ति अत्रिः पप्रच्छ। “वरणायां नश्यां च मध्ये प्रतिष्ठितः" इत्युवाच याज्ञवल्क्यः । घरणायां, नाश्याम इत्यत्र विभक्तिव्यत्ययेन षष्ठी ज्ञातव्या । "काच धरणा भवति का च नाशी" इति अत्रिः पप्रच्छ । सर्वानिन्द्रियकृतान दोषान् व रयतीति 'वरणा' भवति, सर्वानिन्द्रियकृतान पापान् नाशयतीति तेन 'नाशी' इत्युवाच याज्ञवल्क्यः । सर्वान,इन्द्रियकृतान इत्युभयत्र सर्वाणि इन्द्रि यकृतानि पापानि इति लिङ्गव्यत्ययो बोध्यः। धारयति-निधारय- - - - काशीमृतिमोक्षविचार। तीति धरणा। अस्यति-निरस्यतीति असि: । सर्वानिन्द्रियकृतान पापानाशयतीति नाशीति केचित् पठन्ति । स्पष्टमन्यत् । “कतमश्चास्याः स्थानं भवति" इति अत्रि: पप्रच्छ । "भ्रुवोर्घाणस्य यः सन्धिः" इत्युवाच याज्ञवल्क्यः । अत्र घ्राणशब्देन घ्राणवायुप्रचारकं घ्राणमूलमुच्यते । वाराणसी ध्रुवोर्मध्यमविमुक्तं तयोर्भुवोः । अध्यात्मंतु त्वदिष्टं तद् ध्रुवोर्घाणस्य चान्तरम् ॥ १२ ॥ "भ्रुवोर्मध्ये प्राणमावेश्य"(१) इति भगवद्वाक्यमपि । अविमुक्ते प्राणान परित्यजतः परब्रह्मप्राप्ति प्रतिपादयति । दिवः परस्य लोकस्य सन्धिःसन्ध्येति चोच्यते। सैव सन्ध्याऽविमुक्काख्या तत्रेश्वरमुपासते ॥ १३ ॥ सगुणब्रह्मवेत्तारस्तेषां ज्ञानं स ईश्वरः । आचष्टे चाविमुक्ताख्ये य एतस्यैव सेवकाः ॥१४॥ जीवेश्वरविभागश्च प्रसङ्गात् प्रतिपाद्यते । प्रकृतस्योपयोगित्वात् शास्त्रदृष्टेन वमना ॥ १५ ॥ सृष्टश्च प्राक सच्चिदानन्दबोधरूपमखएडम द्वितीयं परं ब्रह्मैकमेव जागर्ति नान्यत् किञ्चिदस्ति। तथा च श्रूयते-१ "आत्मा(२)वा इदमेक एवान आसीत् । नान्यत् किञ्चन मिषत् इति । २ "सदेव सौम्येदमन आसीदेकमेवाद्वितीयं ब्रह्म' इति च । तन्मायया द्वैरूप्यं प्रतिपद्यते। माया च कार्यकारणरूपेण द्विरूपा । कारणोपाध्युपहितं यश्चैतन्यं नत् सर्वशं सर्वशक्ति सर्वेश्वरं जगत्सृष्ठिस्थितिप्रलयकारणं भवति । (१) प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव भुवोर्मध्ये प्राणमावेश्य सम्यक् स तं पर पुरुषमुपैति दिव्यम् । (भ० गीता ८१०) यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति कीर्त्यते ।
काशीमतिमोक्षविचारः । कार्योपाध्युपहितं यच्चैतन्यं तजोवसंज्ञमल्पशक्ति संसारि परतन्त्रं च भवति । कार्योपाधिषु जीवशरीरेषु कारणोपाधेरीश्वरस्य कार्येषु कारणानुवृत्तेरधिष्ठातृत्वमुपपद्यते । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।। तयोरन्यः पिप्पलं स्वाद्व. त्यनश्नन्नन्यो ऽभिचाकशीति ॥ इति। पर्यायत्वमविद्याया मायायाश्च तथाऽपरे। प्रयोगेषु प्रसिद्धत्वात् मन्यन्ते लोकवेदयोः॥ ॥१६॥ शक्तिद्वयमविद्यायाः कल्पयन्ति च ते ततः। *स्वाश्रयां मोहिनी कांचिन्मोहिनीमपरामपि ॥ १७ ॥ तमो मोहो महामोहस्तामित्रं ह्यन्धसंशितः । अविद्या पञ्चपर्वैषा प्रादुर्भूना महात्मनः ॥ १८ ॥ ब्रह्मदेवमनुष्येषु पशुषु स्थावरेषु च । पञ्चधा या विमुक्तात्मा वर्तते चिदुपाश्रया ॥ १६ ॥ तामविद्यां तथाभूतां भगवान् परमेश्वरः । संहरत्युदयेनैव सहस्रांशुस्तमो यथा ॥ २० ॥ "जन्तोरत्र हि प्राणैरुत्क्रममाणस्य रुद्रस्तारकं ब्रह्म व्याचष्टे" इत्यस्यायमर्थः-वाराणसीमध्यवर्तिनां मनुष्यव्यनिरिक्तानां जङ्गमानां स्थावराणां च वाराणसीप्राप्तिस्थितिप्रलय (कारणानां भूयस्त्वात् प्रारब्धेन शरीरेण क्रियमाणयोः पुण्यपापयोरसम्भवात् प्रारब्धस्य कर्मणो भोगादेव परिक्षयात् प्राणप्रयाणसमये सर्वज्ञः सर्व शक्तिस्सर्वान्तर्यामी परमकारुणिकः परमेश्वरः स्वत: सिद्धमात्मरूपम् अविद्याप्रहाणादभिव्यञ्जयति-अवगमयतीत्यर्थः। तथा च श्रूयते- पुण्यकर्मणां (१) प्रलयेत्यस्य स्थाने 'फल' इति ख, पु. पाठः ।
१० AMDARI काशीमृतिमोक्षविचारः। यो देवानां प्रथम पुरस्ता- द्विश्वाधिको यो रुद्रो महर्षिः। हिरण्यगर्भ पश्यति जायमानं स नो देवः शुभया स्मृत्या संयुनक्तु । इति । ईश्वरस्य सर्वशक्तिमत्त्वमपि श्रूयते- न तस्य कार्य करणञ्च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रयते स्वाभाविकी ज्ञानबलक्रिया चेति ॥ ( श्वेताश्वतर ६-८) मनुष्येषु ये जीवन्मुक्तास्तेषां प्राणोत्क्रमणं नास्ति । “न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते" (बृहदारण्यक ४. ४. ६.) इति श्रुतेः॥ ते यत्र क्वापि निवसन्तः प्रारब्धकर्मक्षये विदेहकैवल्यं प्राप्नुवन्ति । ये च सगुणब्रह्मोपासकाः, ये च केवलं निरपेक्षाः सन्तः श्रुतिस्मृ. त्युक्तम्ववर्णाश्रमोचितकर्मानुष्ठातारस्तेषां सर्वेषां चत्वारिंशत्संस्कारै- रशेषैरसंस्कृतत्वेपि दयाक्षान्त्य जुतानसूर्या मङ्गल्यानायासकार्पण्या- स्पृहाद्यष्टभिरात्मगुणैर्युक्तानां प्राणप्रयाणसमये पूर्वोक्तन्यायेन भगवान परमेश्वरस्तारकं ब्रह्मोपदिशति । अन्येषामप्यशेषाणाम् मनुष्याणां गङ्गावगाहनदर्शनाभ्यां यज्ञदानतपोभिश्च यादच्छिकै पुराकृतैः कर्मभिः सुकृतैः "ऊषरः पुण्यपापानां धन्या वाराणसी पुरी" "इदं प्रिये क्षेत्र- मतीव मे प्रियं संसारजीवोषरमूषराणाम्" इति वचनाभ्यामूषरत्वेन प्रसिद्धक्षेत्रप्रभावेण च नष्टावशिष्टपापकर्मणः काम्यस्यच पुण्यकर्मणः इहैव जन्मनि भोगः "मुक्तिरेकेन जन्मना" इति मुक्तरवश्यम्भावित्वात् । प्रारब्ध एव शरीरे भोक्तव्यत्वोपपत्तेः “अत्युकटैः पुण्यपापैरिहैव फल- मश्नुते” इति वचनात् काश्यां कृतयोः पुण्यपापयोरुत्कटत्वात् वर्तमान एव शरीरे भोक्तव्यत्व नियमाच्चानयोः पुण्यपापयोः फलदानाय- - कर्मसाम्ये कर्मणोः सुकृतदुष्कृतयोः फलभोगेन साम्ये सती. काशीमृतिमोक्षविचारः। "ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति । भ्रामयन सर्वभूतानि यन्त्रारूढानि मायया ॥" ( भ. गी० १८/६१) "मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्" ( श्वेता० ४।१०) इति वचनात् मयावी परमेश्वरः प्राणप्रयाणसमयात् पूर्वक्षणे- नैकेनानेककालीनेष्टानिष्टकर्मफलोपभोगयोग्यशरीरान्तरानुप्रवेशं माय- यैवोद्भाव्य इष्टानिष्टान् स्वप्नकल्पान् भोगान अनुभाव्य पश्चात् पूर्वो- कन्यायेन तारकं ब्रह्मोपदिशतीत्यवश्यमेवाभ्युपगन्तव्यम् तथा च सूतसंहितायाम् - दिशी परमा निष्ठा गुरोः साक्षानिरीक्षणात् । कर्मसाम्ये त्वनायासात् सिद्धत्येव न संशयः ॥ त्यर्थः । अन्यथा प्रत्यक्षश्रुतिविरोधात् प्राणैरुत्क्रममाणस्येति वर्त. मानार्थं विहितप्रत्ययसामान्यात् "मुक्तिरेकेन जन्मना" इति वचनात् "अत्रैव मृतमात्राणाम्" इति मात्रच्प्रत्ययप्रयोगप्राबल्यात् । “कालेन चातो व्यवधानवन्ति" इति वाराणसीमुक्तः कालान्तरेण व्यवधान. श्रवणात् । श्रुत्यनुगुणानामन्येषामपि पचनानां भूयसां सम्भवात् । प्रमाणवन्त्यदृष्टानि कल्पयानि सुबहून्यपि । वालाप्रशतभागोऽपिन कल्प्यो निष्प्रमाणकः ॥ इतिन्यायात् "पीनो देवदत्तो दिवा न भुङ्क्ते" इति वाक्ये रात्रिभोजनमन्तरेण पीनत्वानुपपत्तेर्यथा रात्रिभोजनं कल्प्यते तथैवात्रापि श्रुतिस्मृत्यन्य. थानुपपत्या मुक्तिरेकेन जन्मना जन्तोरेष्टव्या। जाग्रत्स्वप्नयोः कर्मफलभोगे न कश्चिद्विशेषोऽस्ति- "तस्य त्रय आवसथात्रयः स्वप्नाः" इति श्रुतेः॥ ( ऐत.० १ अ० ३ खं०) काशीमृतिमोक्षविचारः। मायाविमोहितानां क्षणेनैकेन विग्रहान्तरपरिग्रहात् विचित्रा- श्वानुभवाः श्रूयन्ते उक्तं व वासिष्ठे- यथा स्वप्ने मुहूर्ते स्यात् संवत्सरशतभ्रमः । तथा मायावलादेव जायते जाग्रति भ्रमः ॥ इति । सुप्तो जन्तुः स्वल्पमात्रेपि काले, कोटीः पश्येद् वृत्तसंवत्सराणाम् । कोटीः पश्येदेवमागामिनां च जामत्काले योजयेत् सर्वमेतत्(१)। (संक्षेपशारीरके २-१३०) शैवागमेऽपि- कपालमिन्दुः करिचर्म नागाः काशीपुरीकण्ठगतस्य जन्तोः। मूर्छासु मूर्छासु परिस्फुरन्ति संज्ञासु संज्ञासु तिरोभवन्ति ।। काशीखण्डेऽपि- कृत्वा कर्माण्यनेकानि कल्याणानीतराणि च । तानि क्षणात् समुत्क्षिप्य काशीसंस्थोऽमतो भवेत् ॥ महापापौघशमनी पुण्योपचयकारिणीम् । भुक्तिमुक्तिप्रदामन्ते को न काशी सुधीः श्रयेत् ॥ इति । पुराणेष्वपि स्मयते-भगवान्मायाविमोहितः कदाचिन्नारदः कन्यात्व- मवापत कश्चिदुदवहत् । तदा पुत्रान् बहूनजनयत् । सांसारिकं च दुःखमनेककालीनमन्वभूत् । भर्तुः पुत्राणांच वियोगजेन शोकेन पुनर्नारद एवासीत् इतिवाराहपुराणे (२) । गङ्गातटे वसन कश्चिन मुनिर्मायाविमोहितः (२) इदं पद्यं सुरेश्वराचार्यशिष्यसर्वज्ञमुनिकृतसंक्षेपशारीरकस्थं सुरेश्वराचार्यकृतेऽस्मिन् कथमापतितमिति चिन्त्यम् । (२) ख. पु. स्कन्दपुराणे इति पाठः ।
- काशीमृतिमोक्षविचारः। किरातकन्या समभवत् । तस्या पाणिं किरातः कश्चिदग्रहीत् । साच पुत्रान् बहूनसून. पौत्रांश्चापश्यत् सा कदाचिदुदकाहरणाय गङ्गातीरम. लीत। किरातजातिस्याभावाद्वासः कुम्भं च तीरे निधाय गङ्गान्तप्राथ: प्राविशत । प्रविष्टमात्रा क्षणेनैकेन स एव मुनिरभवत् । विलम्बितां तामालक्ष्य तद्भर्तृपुत्रसम्बन्धिवान्धवाः तद्देशमागत्य वासः कुम्भ च तदीयं तोरे दृष्ट्वा गङ्गाप्रवाहेण सा नीतेति निश्चित्य महान्तं विलाप चक्रः ततस्तेन मुनिना 'साऽहमस्मि' इति प्रबोधिताः प्रकृतिस्था नाम वन् । अथ विज्ञानैर्बहुभिः प्रबोध्यमानः यथागतं सत्यमित्थमेवैतविति शोकं परित्यज्यागच्छन्" इतिस्कन्दपुराणे(१) तथालवणाख्योराजा कश्चित् मन्त्रिसामन्तनृपतिभूयस्यां सभायां सिंहासनस्थो मायाविना केनापि विमोहितस्तदीयमाया दर्शितमश्वरत्नमधिरुह्य समस्तां पृथ्वीं बभ्राम। अथ जविना तेन पातितः कस्मिश्चिद्विजनेऽशयिष्ट । क्षुत्तृभ्यां परीत- श्वाग्मरण्ये व्यापारं किञ्चित् कुर्वतः पितुः कृते पानीयमन्नं चादाय गच्छन्ती चाण्डालकन्यकामेकामपश्यत् । तदन्तिकमुपसृत्याब्रवीत् । "क्षुत्पिपासादितस्य मे स्तोकमन्नं पानीयं च देहि" इति । ला च तमु. वाच "त्वं चेन्मम भर्ता भविष्यति तहि दास्यामि" इति । 'तथा' इत्यभ्युपगम्य अन्नैकदेशमन्नमभक्षयत् पानीयं चापिबत् । ततः सा तं पितुरन्तिकं नीत्वा वृत्तान्तमावेद्य तेनानुज्ञाता भाविना भर्ना साकं स्वभवनमयासीत् । मातृभ्रातृभगिनीनां चैनमदर्शयत् ते च ताश्नम भ्यनन्दन । [सच तामुद्वाहविधिना पर्यग्रहीत् । तया सह निरका- लमुवास तस्यां पुत्रान बहूनुदपादयत ॥] (२) अथ पुनः कालेन गच्छता दुर्भिक्षोपहतस्तस्माद्देशान् तया भार्यया ताभिश्च प्रजाभिः सार्द्ध देशान्तरमयासीत् । स कदाचिनिर्जले प्रदेशे कमिश्चिद् वृक्षमूले क्षुत्पिपासादिताभिः प्रजाभिः भार्यया च साद्धं परिश्रान्तोऽशयिष्ट । 'तात ! अन्नं पानीयं च देहि" इति क्षुत्पि- (१) ख. पु. वराहपुराणे शत पाठः । (२) [ रेखान्तर्गतः पाठः पुस्तकान्तरे नास्त । - :- काशीमृतिमोक्षविचारः। पासार्दितैः शिशुभिः प्राय॑मानस्तेभ्यस्तदानीं तहातुमुपायं कंचिदल- भमानस्तेषामार्तिपरवशं वचः सोदुमशक्नुवन् बलादेधांस्याहत्य सन्निपात्य प्रज्वाल्य “पक्कं शरीरमेते भक्षयन्तु" इति बुद्ध्या ज्वाला- जटिलमग्निं प्रविशत् । ततः क्षणात् उन्मील्य अक्षिणी विस्मयाविष्टः राजा क्षणेनैकेन तद् वृत्तं मन्त्रिसामन्तप्रभृतिभ्यः कथयामास-इति कथा वासिष्ठरामायणे । एवंजातीयकाः सन्त्यन्याश्चानेकशः कथाः । एवमुक्तप्रकारेण काश्यामपि केषाञ्चित् स्मर्यमाणः शरीरान्तरप्रवेशः कालभैरवयातनाद्यनुभवश्च मायामय एवेत्यभ्युगन्तव्यम् । अयमर्थः सनत्कुमारसंहितायां स्पष्टः .. अत्रैव पापैः सह चेन्मृतोऽसौ न जन्ममृत्यू लभते त्ववश्यम् । कालेन मे पापगणैः फलेषु नियोजितस्तञ्च फलं प्रभुज्य ॥ अल्पेन कालेन समस्तमेव सार्द्ध पुरा रुद्रपिशाचरूपैः । भवप्रसादेन (१) कृतोपदेशः पिशाचयोनेरपि मुक्किमेति ॥ "यथात्र पुण्यं कृतम अक्षयं स्यात्तथात्र पापं न रुयोर्विशेषः" इति तु स्तुतिनिन्दार्थवादः । अन्यथा सर्वेषां मनुष्याणां पुण्यपापयो- रल्पयोर्वा संभवात् तयोश्चाक्षयत्वाङ्गीकारे न कस्यापि मुक्तिः स्या. त्तदन्त्र मुक्तिप्रतिपादकयोः श्रुतिस्मृत्योर्वैयर्थ्यं स्यात् । अतो हेतोः कश्यां कंचित् कालमुषित्वा बहिर्गत्वा ये नियन्ते तद्विषयमेव तदि. त्यवगन्तव्यम् । “वाराणस्यां कृतं पापं वज्रलेपो भविष्यति" इत्यपि पचनं तथैव मन्तव्यम् । “पापकर्ता कश्चित् काश्यां म्रियते पुण्यकर्मा बहिनियते” इति नैवं विज्ञानवद्भिःविचारणीयम् । एकस्मिन्नेव जन्मनि पुण्यपापयोः परिच्छेत्तारो वयम्, अनादौ संसारे मनोवाकायैः कृतयोः पुण्यपापयोः परिच्छेत्ता महेश्वरः । तथा च ब्रह्मवैवर्ते स्कन्देनोक्तं मगस्त्यं प्रति- न ज्ञायते सुक्ष्मतरं हि किञ्चित् (१) ख. पु. तवप्रसादेनेतिपाठः।
काशीमृतिमोक्षविचारः।
कर्मास्ति लोकस्य सुदुविभाव्यम् ।
योगादियज्ञादितपोभिरु]-
र्युक्तस्य ते सम्प्रति नास्ति कशी।
न ज्ञायते कस्य किमस्ति पुण्यं
स्वल्पोपि काश्यां तनुभृत् सदास्ते ।
देवादयोऽपि प्रभवन्ति नैव
स्थातुं क्षर्ण काशिकायां किमन्ये ।
इति कृतप्रयत्नापेक्षस्तारकं ब्रह्म उपदिशति इत्यवगन्तव्यम् ।
अन्तर्बहिः करोतीति च प्रतिनियतैव वस्तुशक्तिः ।
यथाग्नदाहकशक्तिस्तथा काश्यां मोचकशक्तिः प्रतिनियतैव।
यथा शुक्तौ पयोवाहात् पतिता जलबिन्दवः ।
मुक्ताः स्युश्च तथा काश्यां संस्थिताः सर्वजन्तवः । (२१)
कोटाः पतङ्गा मशकाश्च वृक्षाः
जले स्थले ये विचरन्ति जीवाः ।
मण्डूकमत्स्याः कृमयोऽपि काश्यां
त्यत्तवा शरीरं शिवमाप्नुवन्ति ॥
पुण्यानि पापान्य खिलान्यशेषं
सार्थं सबीजं सशरीरमायें।
इहैव संहृत्य ददामि बोध
यतः शिवानन्दमवाप्नुवन्ति ।।
सूच्यग्रमात्रमपि नास्ति ममास्पदेऽस्मिन्,
स्थानं सुरेश्वरि मृतस्य न यत्र मोक्षः ।
भूमौ जले वियति वाशुचिमेध्यतो वा,
साग्निदस्युपविभिनिहतस्य जन्तोः ।
काशीमतिमोक्षविचारः। स्थिरा काश्मामिहैवैका प्रतिज्ञा हि मया कृता। अत्रैव मृतमात्रेण तिरश्चामपि देहिनाम् ॥ भक्तानामप्यभक्तानां पुण्यपापात्मनामपि मुक्किं दास्यामि सर्वेषां भक्तानामेव सा बहिः ।। विनापि योगैः साहितोऽपि भोगैः विनापि पुण्यैः सहितोऽपि पापैः । मृतः प्रयात्येव हि यत्र तत्र मामेव निर्दग्धसमस्त दोषः ॥ अत्र साक्षात् महादेवो देहान्ते स्वयमीश्वरः। व्याचष्टे तारकं ब्रह्म जन्तूनामपवर्गदः ॥ २२॥ सनत्कुमारसंहितायाम् - महात्मनां शान्ततपोधननां शापो मुनीनामपि यत्र भन्नः। तत्क्षेत्रमासाद्य महानिधानं वणिग जनोप्यत्र वसन कृतार्थः ।। योगोऽत्र निद्रा क्रतवः प्रचाराः, स्वेच्छाशनं देवि महानिवेद्यम् ॥ लीलात्मनो देवि ! पवित्रदानं, जपः प्रलापः शयनं प्रणामः ॥ मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् । अश्मना चरणौ हत्वां वाराणस्यां वसेन्नरः ॥ इदं कलियुगं घोरं सम्प्राप्तं पाण्डुनन्दन ! गतिमन्यां न पश्यामि मुक्त्वा वाराणसी पुरीम् ॥ जपध्यानविहीनानां ज्ञानविज्ञानवर्जिनाम् । व्रतस्वाध्यायहीनानां गतिर्वाराणसी नृणाम् । अस्यत्यसिर्वारयति प्रवेशे कर्माणि जन्तोवरणा वरेण्या।
काशीमृतिमोक्षविचारः।
वाराणसी मध्यगता तयोश्च
निश्शेषयत्यूषरताप्रभावात् ॥
अनिदमुदयमा धाम वामाईकान्तं,
स्वमहिमरसिकं यत् स्वानुभूत्यैकमानम् ।
अनवरतमपास्त
स्तद्वैतमात्मावबोधं.
प्रकटयर्यात पशूनां कालपाकेन काश्याम् ॥
जन्मान्तरसहस्रेषु मोक्षो लभ्येत वा न वा।
काश्यां तु लभ्यते जन्तोमुक्तिरेकेन जन्मना ॥
गर्भाधानाधखिलमपि यत् कर्मजातं द्विजाना-
मेकं न्यूनं मुनिमपि मुने! पातयिष्यत्यवश्यम् ॥
नो चेत् स्वर्गादिषु फलमदः सर्वशास्रप्रसिद्धम् ।
तस्मात् काश्यां कथमपि बसेद् बुद्धिमान मुक्तिसिद्धये ॥
काशि! श्रीमति ! सर्वकर्मशमनि स्वाभाविकी काचन
प्रत्यक्षं तव शक्तिरस्ति महती मातर्महीमण्डले ॥
यत् सर्वत्र सदा वसन्नपि शिवस्त्वय्येव लब्ध्वाल्पदं
विश्वं तारयते विशेषविमुखः पारं भवाम्भोनिधेः ॥
आब्रह्मणोऽनन्तभवेषु पुण्यं
मुत्तवावशिष्टार्जितमल्पमल्पम् ।
तत्तद्वशाद् यद्यविमुक्तमेकं-
कदाचिदायाति मम प्रसादात्
तीर्थानि सर्वाण्यापि मोक्षदानि
श्रुतानि शास्त्रेष्वखिलेषु राजन् ।
वाराणसीप्राप्तिफलानि शीघ्र
कालेन चातो व्यवधानवन्ति ।।
यत्राचार्यत्रिपुरविजयी साधनानां चतुणों
संपद्वासः सुलभमशनं स्वैरचारस्तपांसि।
mee
काशीमृतिमोक्षविचारः। श्रोतव्यस्य श्रुतिरपि तपः श्रूयते जन्मभाजां काले काश्यां सुकृतधनिकास्तत्र वासं लभन्ते ॥ जन्मान्तरसहस्रेषु सञ्चितैः पुण्यकर्मभिः (१) । प्राप्य (२) वाराणसी रम्यां प्रसादात पारमेश्वरात् ॥ ये काश्यां संशयाविष्टा मुकौ तेषां शरीरिणाम् । प्राणप्रयाणसमये प्रमाणं परमेश्वरः येन केनापि यः कश्चित् निमित्तेन परित्यजेत् । काश्यां प्राणान सर्वजन्तुर्मुक्त इत्यवगम्यताम् ॥ २३ ॥ मोक्षस्य निर्णयः काश्यामित्थमेकेन जन्मना । सर्वेषामेव जन्तूनां प्रमाणैः प्रतिपादितः ॥ २४ ॥ विश्वेश्वरो जयति विश्वविमुक्तिहेतोः काशीनिवासरसिकः करुणासमुद्रः। तत्पादपद्मयुगसौरभवासितस्य जन्तोर्भवत्यविकृतं शिवसामरस्यम्॥ २५ ॥ इति श्रीमत्परमहंसपारिव्राजकाचार्य सुरेश्वराचार्यविरचितः सकलश्रुतिस्मृतिपुराणवाक्यनिर्धारितः काशीमृतिमोक्षविचारः समाप्तः । इति शम् श्रीविश्वनाथो विजयतेतराम्। r (१) 'कोटिजन्माभिः' इति क. पु. पाठः । (२) 'प्राप्ता' इति क. पु पाठः ।
THE PRINCESS OF WALES SARASWATI BHAVANA TEXTS. Edited by GOPINATH KAVIRAJ, M. A. No. 1-The Kira navali Bhaskara, (on una mate*T) (axifr%], a Commentary on Udayana's Kiranavali, Dravya section, by Padmanabha Misra. Ed. with introduction and Index by Gopinath Kaviraj, M. A. Rs, 1-12 No. 2-The Advaita Chintamani, (galetaat) (acta), by Rangoji Bhatta, Ed. with Introduction etc. by Narayana Sastri Khiste Sahityacharya. Rs. 1--12 No. 3—The Vedanta Kalpalatika, (वेदान्तकल्पलतिका) (acima), by Madhusudana Saraswati. Edited with Introduction etc. by Ramajna Pandeya Vyakaranacharya. Rs. 1-12 No. 4-The Kusumanjali Bodhani, (Tercata) [cart], a commentary on Udayana's Theistic Tract, Nyaya Kusumanjali, by Varadaraja. Ed. with introduction etc. by Gopinath Kaviraj, M. A. Rs. 2-0 No. 5--The Rasasara (THEIT, [alfa], a commentary on Udayana's Kiranavali, Guna Section, by Bhatta Vadindra. Ed. with Introduction etc. by Gopinath Kaviraj, M. A. Rs. 1-2 No. 6-(Part I)-The Bhavana Viveka ( Hanfaa) (ATHIAT), by Mandana Misra, with a Commentary by Bhatta Umbeka. Ed. with Introduction etc. by M. M. Ganganatha Jha, M. A., D. Litt. Rs. 0-12 No. 6-(Part II)-Ditto Ditto Rs. 0-12 ( 2 ) No. 7—(Part 1)-The Yoginihirdaya dipika (oftantegetfo2t)(a), by Amritananda Nath, being a commentary on Yoginihridaya, a part of Vamakesvara Tantra. Ed. with Introduction etc. by Gopinath Kaviraj, M. A. Rs. 14-8 No. 7—(Part II)-Ditto Ditto Rs. 1-4 No. 8-The Kavyadakini (T645 ferit) (FTTE], by Gangananda Kavindra, Ed. with Introduction etc. by Jagannatha Sastri Hoshing Sahityopadhyaya. Rs. 0-10 No. 9—(Part I)-The Bhakti Chandrika (afeneft) (aft), a commentary on Sandilyas Bhaktisutras, by Narayana Tirtha, Ed. with a Prefatory Note by Gopinath Kaviraj, M. A. Rs. 0-15 No. 10-(Part I)-The Siddhantaratna, (fara ) (mista veeta], by Baladeva Vidyabhusana. Ed. with a Prefatory Note by Gopinath Kaviraj, M. A. Rs. 1-2 No. 10–(Part II)-Do. Do. Rs. 2-12 No. 1.-The Sri Vidya Ratna Sutras, (attarEET) lafa], by Gauda pada, with a Commentary by Sankararanya, Ed, with Introduction etc. by Narayana Sastri Khiste, Sahityacharya. Rs. 0-9 No. 12-The Rasa pradipa, (Tata) (TT), by Prabhakara Bhatta. Ed. with Introduction etc. by Narayana Sastri Khiste Sahityacharya. Rs. 1-2 No. 13-The Siddhasiddhanta Sangraha, (fasligira- संग्रह) (नाथमार्ग), by Balabhadra, ( 3 ) Ed. with Introduction by Gopinath Kaviraj, M. A. Rs. 0-14 No. 14-The Trivenika, by (frafarent) (UTC), by Asadhara Bhatta. Ed. with Introduction by Batukanatha Sarma Sahityopadhyaya, M.A. and Jagannatha Sastri Hoshing Sahityopadhyaya. Rs. 0-14 No. 15-(Part I)-The Tripurarahasya, (Jnana Khanda) (त्रिपुरारहस्य, ज्ञानखण्ड) [तान्त्रिकदर्शन, Ed. with a Prefatory Note by Gopinath Khviraj, M. A. Rs. 0--14 No. 15-(Part II)-Do. Do. Rs. 2-4 No. 15-(Part III)-Do. Do. Rs. 2-0 No. 15-(Part IV)-Do. with Introduction, etc. by Gopinath Kaviraj, M. A. No. 16-The Kavya Vilasa, (Fleyfie) (STC), by Chiranjiva Bhattacharya. Ed. with Introduction etc. by Batukanatha Sarma Sahityopadhyaya M.A.and Jagannatha Sastri Hoshing Sahityopadhyaya. Rs. 1-2 No. 17-The Nyaya Kalika, (tr) (RTT), by Bhatta Jayanta. Ed. with Introduction by M. M. Ganganatha Jha, M. A. D. Litt. Rs. 0–14 No. 18-(Part I)-The Goraksa Siddhanta Sangraha, (गोरक्षसिद्धान्तसंग्रह) नाथमार्ग), Ed. with a Prefatory Note by Gopinath Kaviraj M. A., Rs. 0-14 No. 19-(Part I)-The Prakrita Prakasa (Fraga) प्राकृतव्याकरण), by Vararuchi with the Prakrita Sanjivani by Vasantaraja and the Subodhini by Sadananda. Ed. with Prefatory note etc. by Batuk Nath Sarma, M. A. and Baladeva Upadhyaya M. A. Rs. 2-4 No. 19-(Part II) Ditto Ditto Rs. 2-12 No. 19—(Part III) Introduction etc. (In Preparation.) No. 20—The Mansa tattvaviveka ( मांसतत्त्वविवेक) [TÁRTIE], by Visvanatha Nyaya panchanana Bhattacharya, Edited with Introduction etc. by Pandit Jagannatha Sastri Hoshing Sahityopadhyaya, with a Foreword by Pandit Gopi Nath Kaviraja, M. A., Principal, Government Sanskrit Cellege, Benares. Rs. 0- 12 No. 21—(Part I) The Nyaya Siddhanta Mala (TTTT- सिद्धान्तमाला) [न्याय], by Jayarama Nyaya Panchanan Bhattacharya, Edited with Introduction etc, by Dr. Mangal Deva Sastri, M. A., D. Phil. ( Oxon), Librarian, Govt. Sanskrit Library, Sarasvati Bhavana, Benares. Rs. 1-4 No. 21 - (Part II) Ditto Ditto Rs. 2-0 No. 22-The Dharmanubandhi Slokachaturdasi ( Thf- नुबन्धिश्लोकचतुर्दशी) [धर्मशास्त्र,] by Sri Sesa Krisna with a Commentary by Rama Pandit. Edited with Introduction ete. by Narayana Sastri Khiste Sahityacharya, Assistant Librarian, Government Sanskrit Library, Saraswati Bhavana, Benares. Rs. 1-0 No. 23-The Navaratra pradipa (79199219) (), by Nanda Pandit Dharmadhikari. Ed. with Introduction etc. by Vaijanatha Sastri Varakale, Dharmasastra-Sastri, Sadho- ( 5 ) lal Research Scholar, Sanskrit College, Benares, with a Foreword by Pandit Gopi Nath Kaviraj, M. A. Principal, Government Sanskrit College, Benares. Rs. 2-0 No. 24-The Sri Ramata piniyopanisad (traatfaaſtatt- पनिषद्) [उपनिषद्], with the commentary called Rama Kasika in purvatapini and Anandanidhi in Uttaratapini by Anandavana. Ed. with Introduction etc. by Anantarama Sastri Vetala Sahityopadhyaya, Post-Acharya Scholar, Govt. Sanskrit College, Benares, with a Foreword by Pandit Gopi Nath Kaviraj, M. A. Principal, Government Sanskrit College, Benares. Rs. 3-12 No. 25-The Sapindyakalpalatika (Erfolguneqofact) [STARTET), by Sadasivadeva alias Apadeva with a commentary by Narayana Deva. Edited with introduction etc. by Jagannatha Sastri Hosinga, Sahityopadhyaya, Sadholal Research Scholar, Govt. Sanskrit College, Benares Rs. 1-4 No. 26-The Mrigankalekha Natika (angdaraft) [arfet), by Visvanatha Deva Kavi. Edited with Introduction etc. by Narayana Sastri Khiste Sahityacharya, Asst. Librarian, Government Sanskrit Library, Benares. Rs. 1–0 No. 27- The Vidvachcharita Panchakam (facultatime पञ्चकम् ) [निबन्ध], By Narayana Sastri Khiste Sahityacharya, Assistant Librarian, Govt. Sanskrit College, Sarasvati Bhavan aLibrary: Benares With an Introduction by Gopinath 1 ( 6 ) Kaviraj, M. A., Principal Govt. Sanskrit College, Benares. Rs. 2-0 No. 28-The Vrata Kosa (aanta) (RET), by Jagannatha Sastri Hosinga Sahityopadhyaya, late Sadholal Research Scholar, Sanskrit College, Benares. With a Foreword by Sri Gopinath Kaviraj, M. A., Principal, Govt. Sanskrit College, Benares. Rs. 4-0 No. 29-The Vritti dipika (afegifat) (24192], By Mauni Sri Krisna Bhatta. Edited with Introduction etc. by Pt. Gangadhara Sastri Bharadvaja, Professor, Govt. Sanskrit College, Benares. Rs. 1-2. No. 30-The Padartha Mandanam (TETAC59) [artform] By Sri Venidatta. Edited with Introduction ect. by Pandit Gopala Sastri Nene Professor Govt. Sanskrit College, Benares. Rs. 0-14 No. 31 (Part I)-The Tantratna (araca) [HTHIET], by Partha Sarathi Misra. Edited by M.M. Dr. Ganganatha Jha, M. A., D. Litt. Vice Chancellor, Allahabad University Allahabad. Rs.1--14 No. 31:(Purt II) Ditto. Ditto. Edited by Pt. Gopal Sastri Nene, Govt. Sanskrit College, Benares. No. 32-The Tattvasara (TAT) (PRT), by Rakhaldasa Nyayaratna. Edited with Introduction etc. by Harihara Sastri, Benares Hindu University. Rs. 1–0 No. 33-(Part I)-The Nyaya Kaustubha (zapreth) (pra), by Mahadeva Puntamkara Edited with Introduction etc. by ( 7 ) Umesa Misra, M. A.Allahabad University, Allahabad. Rs. 3--4 No. 34-(Part I)-The Advaita Vidyatilakam (ga- विद्यातिलकम्) [शाङ्करवेदान्त], by Sri Samarapungava Diksita. With a Commentary by Sri Dharmayya Diksita, Edited with Introduction etc. by Ganapati Lal Jha, M. A., Sadholal Research Scholar, Govt. Sanskrit Library, Benares. Rs. 1-4 No. 35-The Dharma Vijaya Nataka (qafa FeaT) (72), by Bhudeva Sukla. Edited with Introduction etc. by Pandit Narayana Sastri Khiste, Asst. Librarian, Govt. Sanskrit Library, Benares. Rs. 1-4 No. 36-The Ananda Kanda Champu (arcerer) [arg), by Mitra Misra. Edited, with a Foreword by Gopinath Kaviraj, M. A., by Nanda Kishore Sahityacharya, Research Scholar, Sanskrit College, Benares. Rs 3-4 No. 37-The Upanidana Sutra (sqfTaF) [a], Edited with Introduction by Dr. Mangaldeva Sastri M. A. D. Phil. Rs. 1-0 No. 38-The Kiranavali prakasa didhiti (Guna), (fotot- णावलीप्रकाशदीधिति) [वैशेषिक], by Raghunath Siromani. Edited by Pandit Badrinath Sastri, M. A., Lucknow University. Rs. 1-12 No. 39-The Rama Vijaya Mahakavya (रामविजयमहा- FT4) (7124], by Rupanatha. Edited by Pt. Ganapatilal Jha, M,A, Rs. 2–0 ( ( 8 ) Sarma No. 40-(Part I)-The Kalatattva Vivechana (toataferdan) (THE ) by Raghunath Bhatta, Edited with a Foreword by Gopinath Kaviraj, M. A., by Nanda Kishore Sahityacharya, Research Scholar, Sanskrit College, Benares. Rs. 4-0 No. 40-(Part II)-Do. Do. No. 41-(Part I)-The Siddhanta Sarvabhauma (fagra- सार्वभौम) [ज्यौतिष], by Sri Munisvara. Edited with Introduction etc. by Jyautisacharya Pandit Murlidhar Thakkura, late Sadholal Scholar, Sanskrit College, Benares Rs. 3–0 No. 42-The Bheda Siddhi (Far) (7372), by Visvater nath Panchanana Bhattacharya. Edited with notes etc. by Nyaya Vyakaranacharya Pandit Surya Narayana Sukla, Professor Govt. Sanskrit College, Benares. No. 43-(Part I)-The Smartollasa( FATTIGSTE) [HTT3) by Siva Prasada. Edited with Introduction, notes etc. by Vedacharya Pandit Bhagavat Prasad Misra, Professor, Govt. Sanskrit College, Benares. No. 44-(Part I)-Sudrachara Siromani(gigtarITHFT) [धर्मशास्त्र], Edited by Sahityacharya Pandit Narayana Sastri Khiste. No. 45-(Part I)-Kiranavali Prakasa (Guna) (font IT- वली प्रकाश) (गुण) [वैशेषिक], by Vardhamana.
( 9 ) Edited, with a Foreword by Pandit Gopinath Kaviraj, M. A., by Pandit Badrinath Sastri M. A. Lucknow University. Rs. 1-8 No. 45-(Part II)-Do. Do. No. 46-(Part I)-Kavya prakasa dipika (7724 tretfo- FT), (OTT) by Sri Chandi Dass. Edited by Sri Sivaprasada Bhattacharya, M. A., Professor Presidency College, Calcutta. Rs. 1-12 No. 47-Bhedajayasri (pit) (hteracted), by Sri Tarkavagisa Bhatta Venidattacharya Edited with Introduction etc., by Pandit Tribhuvan prasad Upadhyaya, M A., Inspector of Sanskrit Pathshalas, United Provinces, Benares. Rs. 1-4 No. 48-Samyak Sambuddha bhasitam Buddha pratimalaksanam (सस्यसंबुद्धभाषितं प्रतिमालक्षणम् ) [शिल्पशास्त्रम् ], With the Commentary Sambuddhabhasitapratimá-laksana Vivarani. Critically edited with Introduction etc. by Haridas Mitra, M.A. Visvabharati, Santiniketana. Rs. 1—4 No. 49-Bhedaratna (Hera) (free) by Sankara Misra, ** Edited with Introduction etc., by Pandit Suryanarayana Sukla, Professor, Govt. Sanskrit College, Benares. Rs. 1-8 No. 50-Matrika Chakra Viveka (Hamara) [ami], by Svatantrananda Natha, with a Commentary. Edited by Pandit Lalita Prasad Dabral Vyakaranacharya. With a Foreword by Pt. Gopinath Kaviraj, M. A., Principal Govt. Sanskrit College, Benares. Rs. 2-0 ( 10 ) No. 51-52. Advaita Siddhanta Vidyotana (gafastraferentaa) ( arra), by Brahmananda Sarasvati and Nrisimha Vijnapana (नृसिंहविज्ञापन) [वेदान्त], by Nrisim hasrama. Edited with notes, Introduction etc. by Pandit Surya Narayana Sukla, Professor, Govt. Sanskrit College, Benares. No, 53-Nrisimha Prasada-Vyavaharasara (afhETITE- व्यवहारसार) [धर्मशास्त्र], by Dalapati Raja. Edited with Introduction etc. by Pandit Vinayaka Sastri Tillu, Research Scholar, Sanskrit College, Benares. No. 54-Nrisimha Prasada-Prayaschitta Sara (afers प्रसाद-प्रायश्चित्तसार) [धर्मशास्त्र], by Sri Dalapati Raja. Edited by Pandit Nanda Kishora Sharma and Nanda Kumar Sharma Sahityacharya. No. 55-Nrisimha Prasada-Sraddha Sara ( AETETE श्राद्धसार) [धर्मशास्त्र], Edited by Pandit Vidyadhara Misra, College of Oriental Learning, Benares Hindu University, Benares. No. 56-Bhagavannama Mahatmya Samgraha (TOTA- माहात्म्यसंग्रह) [भक्तिशास्त्र], by Raghunathendra Yati, with Com. by Ananta Sastri Phadke. Edited by Pt Ananta Sastri Phadke. No. 57-(Part I)-Ganita Kaumudi ( गणित कौमुदी) [orfora) by Narayana Pandit. Edited by Pt. Padmakara Dvivedi, Professor, Govt. Sanskrit College, Benares. No. 58. Khyativada cenfeale) (ara) by Sankara Chaitanya Bharati.
( 11 ) Edited by Sankara Chaitanya Bharati, with Foreword by M. Gopinath Kaviraj M. A. No. 59-Sankhya Tattvaloka (FIECA) [Fier), by Hariharananda Aranya. Edited with Introduction by Jajneswar Ghosh M. A., With a Foreword by M. Pt. Gopinath Kaviraj, M. A. No. 60-(Part I) Sandilya Samhita (RITTER aikat) (912TT] Edited by Pt. Ananta Gopal Phadke Professor, Govt. Sanskrit College, Benares, No. 62-Nrisinha Prasada Tirtha Sara (FEE TATE: तीर्थसारः) [धर्मशास्त्र]. Edited by Pt. Surya Narayan Sukla. No. 63-Bhaktyadhikarana mala (771TATUATGT)[#Fetigrei] by Narayana Tirtha. Edited by Pt. Anant Gopal Phadke. No. 64-Vasistha Darsana ( facra ) (area], Compiled by Dr. B. L. Atreya. Edited by Dr B L. Atreya, M.A., Ph. D., Lecturer Benares Hindu University. No. 65-67-(a) Tirthendusekhara (atergatert:) (Terra) by Nagisa. (b) Tristhali Setu (footag:) [TASITET by Bhattoji Diksita. (c) Kasimoksavichara (vitatant: ) (açrra] by Sureswara Acharya. Edited with Introduction by Pt. Surya. narayan Sukla, Prof, Govt. Sanskrit College, Benares. No. 68-Madhvamukhalankara ( Aagaagt: ) [feaagra ] by Vamamali Misra.
( 12 ) Edited with Introduction by Pt. Narasinha Varakhedker. With a Foreword by M Pandit Gopinath Kaviraj M. A. WORKS IN THE PRESS. No. 1–Daksinamurti Samhita (prerafaelcat) (Pa), Edited by Pt. Narayana Sastri Khi-te. No. 2-Asvalayana Srauta Sutra with Sidhhanti Bhasya (सिद्धान्तिभाष्यसहित अाश्वलायनश्रौतसूत्र) [वेद], Edited by Dr. M. D. Sastri, M, A., D. Phil. No. 3—Niti manjari (atfs) (a), by Dya Dvivedi. Edited by Dr. Mangaldeva Sastri, M. A., D. Phil. No. 4-(Part II)-Nyaya Kaustubha-Anuinanakhanda (न्यायकौस्तुभअनुमानखण्ड) न्याय], by Mahadeva Puntamkar. Edited by Pt. Goswami Damodara Sastri. No. 5-Mimansa Chandrika (ATHIETT) (ATHIHT), by Brahmananda Sarasvati. Edited by Pt. Haran Chandra Bhattacharya Sastri. No. 6—(Part III)-Tantraratna (Tira) (ATHIET), by Partha Sarathi. Edited by Pt. Gopal Sastri Nene. No. 7—(Part 11)-Kavya prakasa dipika (Fra4444ereta furat) (Fort), by Sri Chandidass. Edited by Pt. Sivaprasada Bhattacharya, M. A. No. 8-(Part III)-Kalatattvavivechana (FTsarafarer) (Tümna], by Raghunatha Bhatta. Edited by Pt. Nanda Kishore Sharma. No. 9-(Part III)-Siddhanta Sarvabhauma (fag TENT- ( 13 ) र्वभौम) [ज्यौतिष], by Munisvara. Edited by Pt. Murlidhar Thakkur. No. 10-Upendra Vijnana Sutra (Jual Perage) (exta), Edited by Dr. M. D. Shastri. No. 11-Nyayamrita Saurabha (FTTEETCH) [H7eaatra), by Vanamali. Edited by Pt. Nrisimha Acharya. No. 12-Isvara pratyabhijna karikas of Utpala with the Vimarsini of Abhinava Gupta and Com. on Vimarsini by Bhaskara Kantha. Edited by K. Subrahmanya Iyer, M. A., and K. C. Pandey, M. A., Ph. D.