Bharatiya Vidya Bhavan Library, Mumbai

Vedantadhikaranmala

Maharaj,pursottam · 2012/08

PDF Proofread

Front matter

24P
गा.पा. शहना उviiiदात
एक इंच तरको भेद,
BHAR
श्रीकृष्णाय नमः।
LP
वेदान्ताधिकरणमाला।
दशदिगन्तविजयि-
श्रीमद्गोखामिश्रीपुरुपोत्तममहाराजप्रकटिता।
वकील हाइ
संशोधको प्रभागको च,
मूलचन्द्र तुलसीदास तेलीवाला,
बी.ए., एलएल.वी.,
कोर्ट.
मुज गोकुल जी माला वेदान्तप्राइझमेन ।
धैर्यलाल व्रजदास सांकलीया,
वी.ए., एलएल.बी.,
वकील
हाइ
कोर्ट.
श्रीयलभाब्दाः ४४०. संवत् १९७६.
मूल्य मेकमुद्रिका।
1.

BHAVAN'S LIBRARY
This book is valuable and
NOT to be ISSUED
out of the Library
without Special Permission

सद्गत शेठ ईश्वरदास
श्रीमान् शेठ त्रिभुवनदास
8912-
www
lace
-
जन्म-सवत् १९४५
चत्र कृष्ण ३०
अवसान-सवत् १९७५
ज्येष्ठ शुग
जन्म-सवत् १९०४ फाल्गुन कृष्ण ४
Lakshm Art Bombay

il. Ris Berlingurlugtys N... 8982. "ट पर तरफथी भेट. EDITORS' NOTE. LIBRARY Salvv PUR The Vedantadhiharana-Mala has been published from funds supplied to us by Seth Tribhuvandas Varjivandas of Madhav Baug in order to perpetuate the memory of his youngest and most beloved son Is'rardus who died prematurely in May 1919 and who was known for his amiable nature and religious tendencies. Seth Tribhuvandís has set apart a good sum for the memory of his deceased son Is'wardås, and he has decided to devote a portion of the annual interest of this sum to the publication of the works of the Vallabhacharyan literature according to the sentiments expressed by his deceased son during his life-time. All the publications from these funds will be included in the series to be named after his son Is'wardås. For this act of judicious charity the literary world in general, and the Sampradâya in particular, will be very grateful to him. Our obligations are also due to Pandit Gattulala's library, and the Bhandarkar Oriental Research Institute for the loan of MSS. of the present work. Our best thanks are due to Bala Shastri of Kotah who very kindly sent to us his copy of this work, mostly copied and corrected by himself from the MSS. of the Nathadwåra library. Purushottamaji. Purushottamaji, the author of this work, was born at Gokula in Muttra district on Bhadrapada S'ukla 11th, 1724 Samwat. He was 7th in descent from Sree Vallabhacharya. He has written numerous works the bulk of which is said to equal nine Mahabharatas. They all bear the stamp of his masterly genious. Purushottamaji lived up to a very advanced age. In Samvat 1820 he is said to have had a religious discussion with one Venibhatta of Benaras. Serving his God Sree Bala-Krishnaji he lived at Surat in Gujarat, where he had come with his uncle Vrajarajaji. Vedântâdhikaranamâlâ. The text of this work is based on four MSS., two from the late Pandit Gațţulàli's library, one from the government collection now placed in the charge of the Bhandarkar Oriental Research Institute, and one kindly sent to us by BalaShastri of Kotah from Sri Vathad wåra. The MSS. from the Bhändårkar Institute contained the 1 and 4th Adhyâyas only, while the rest did not contain the 4th 2 Adhyâya. The 4th Adhyaya of this work seems to have been an extremely rare work. Yogi S'rco Gopes'varji did not get it and hence he wrote out tho Adhikaranamah of the fourth Adhyâya himself, as lo suy's at the end of the appendis printed here. During our tour at Kotali, Kankaroli, Nathadaira, and Junagadha wo did not find the 4th Adhyaya in the libraries there. So it is a great satisfaction to us that wo are ablo to publish the complete work liere. Gopes'marji's Adhikaranamali of the 4th Adhyâya has been thereforo published here as an appendix. Gopes'ırarji is also a great master like Purushottamaji, but his style is not as vigorous and concise as that of Purushottamaji. The object of this work as stated by Purushottamaji himself is to summarise the teaching of the satras according to the Aņu-Bhashya, and facilitate the understanding of the same by those who are unable to go through his Bhashya-Pralas'a. It seems to have been composed by him at a very advanced age-after he had finished his magnum opus- Bhashya Prakas'a, and the ancakteria perhaps. These thrce works viz. भाष्यप्रकाश, भावप्रकाशिका, and वेदान्ताधिकरणमाला deal directly with the Brahma- Satras. Of these we are concerned here chiefly with the area TUTT. It contains the last word of Puushottamaji on the Brahma-Sätras. Purushottamaji himself styles this work as art in the beginning and at the end; and there is some meaning in it. In an ordinary affim TAT VE should have found at best the purport of each sferatur with its so called five अंगs, vic विषय, संशय, पूर्वपक्ष, उत्तरपक्ष, and संगति. Purushottamaji in addition to these gives also the purport of all the Sætras except in the 3rd and 4th pâdas of the third state. In the beginning, he gives the purport of the whole stia, then be sets out the purport of the four pådas of each zegry at its beginning. At the beginning of the 96 he gives in brief the purport of the same. In the beginning of the arcot he states the object of the अधिकरण, and then mentions the विषय, संशय, पूर्वपक्ष, उत्तरपक्ष and at the end the ima--that is, shows the relation of the statut tvith what precedes and follows. The style here adopted throughout is explanatory, and not argumentative as in the 1975017. The perusal of this will be very instructive and delightful. With feelings of joy we offer this fruit of our labour of love at the lotus-feet of Lord Sree Krishna. M. T. TELIYALA. D. V. SANKALIA.

--
दशदिगन्तविजयिश्रीमगोस्वामि-
श्रीमत्पुरुषोत्तमचरणाः।
पूर्णवेत्तृश्रीमद्गोस्वामिश्रीगोपेश्वरचरणाः।
प्रादुर्भाव सवत् १७०४ भाद्रपद शुक्ल दशमी।
प्रादुर्भाव संवत् १८३२ ज्येष्ठ शुक्ल पञ्चमी ।

BGSe00005260
ममा मेवामिनर करए देकर नेतदर्शनानुस्मसंगनामिनिनला उपादानबार
गरिदिपलवल सकारातारा शप्रतिमाघचत्यनिराकर
पनि
मातरोमांसदमा विनिप्रातिलोमादान बजा तारकापरास्वंद
नम्योपस्कमेवापिकलित समाविकानदासाहटनेतन्मागलरूपरकेतन
कम बापन्न वरतीशिसम्भवत:तला कताति:नोभयातित मारना
भगवतमानिसहचाना नोबलराउपानिगाकर प्रबोधाया मोरयदरमुलकति
गरतेनवारयातायाध्यता स्त्रमवतारवारत्यादिरतेन्टीते
मालिस निमाध्यायस्यमिोजन नियाजादित्यादिरनिति बादारनिराकरण
मामाधामो सौकमाविस्तरेर वसातत्य भारतेनसामान्यविशषभावरूपातरनिनि
तो ATREETभाचार्यवानवनिरनिवारित यहांतेन तांबरामजनमत
अभीभत्रमाशेत्रमा गायत्यनःपाता प्रियमाभ्यायामान
::
नहतेला
@BOOd000000000
लेड
श्रीमत्पुरुषोत्तमचरणानां श्रीहस्ताक्षराणि ।

VIDYA
MAHAR
श्रीकृष्णाय नमः।
BBC
S.N...........
वेदान्ताधिकरणमाला।
श्रीपुरुषोत्तमविरचिता।
LIBRIR
प्रथमोध्यायः।
श्रीवालकृष्णमाचार्यान् प्रभून् श्रीविठ्ठलेश्वरान् । व्यासाचार्यास्तद्वचांसि प्रणमामि पुनः पुनः
भाष्यप्रकाशे विस्तीर्णार्थोवगन्तुं न शक्यते । सर्वैरतीर्थ सङ्ग्रह्य न्यायमाला वितन्यते ॥२॥
तत्र तावद व्यासचरणैरज्ञजनानुग्रहार्थ सर्ववेदार्थरूपस्य ब्रह्मणः स्वरूपसाधनफलमतान्तर-
निराकरणभेदेन चतुर्धा विचारोत्र शास्त्रे क्रियते । तत्र सर्ववेदार्थरूपं ब्रह्मैवेति ज्ञापयितुं
चतुर्लक्षण्यां तत्सम्बन्धि सर्व विचारितम् । तत्र प्रथमेध्याये सर्वेषां वेदान्तानां ब्रह्मण्येव
समन्वयः, वेदार्थनिश्चयश्च वेदान्तविचाराधीन इति सर्वोपि वेदो ब्रह्मण्येव प्रमाणमित्युक्तम् ।
हितीये च श्रुतीनां परस्परविरोधपरिहारेण विरुद्धस्मृतीनां दूपणेन च ब्रह्मैव प्रमेयमिति
निर्णीतम् । ततस्तृतीयेन्तरङ्गं बहिरङ्गं च साधनं सोपकरणं विचारितम् । ततश्चतुर्थे
फलप्राप्तिप्रकारस्तदनुभवप्रकारो ब्रह्मैव च फलमिति नितिमिति शास्त्रार्थसङ्ग्रहः ।
तत्र प्रथमेध्याये सर्वेषां वेदान्तानां ब्रह्मणि समन्वयश्चतुर्भिः पादैर्वक्तव्यः । तत्रास-
न्दिग्धेषु वेदान्तवाक्येषु विचारासञ्चारात्सन्दिग्धान्येव निर्णेतव्यानि । तानि चतुर्धा,
कार्यप्रतिपादकानि, अन्तर्यामिप्रतिपादकानि, उपास्यरूपप्रतिपादकानि प्रकीर्णकानि
चेत्यतश्चत्वारः पादाः।
तत्र प्रथमपादे ब्रह्मसम्बन्धिविचारं प्रतिज्ञाय ब्रह्म लक्षयित्वा ततः कार्यवाक्यानि
विचारितानि ।
तत्र प्रथमे एकसूत्रे जिज्ञासाधिकरणे पडडैरेव वेदार्थनिश्चयस्य सम्भवा-
दत्यन्तनिश्चयस्य तपःप्रभृतिभिरेव सम्भवात्तदर्थ किं वेदान्तविचारेणेत्याशा, ऋषिभि-
नानाशास्त्राणां कृतत्वात्तच्छ्वणेन बुद्धिदोपान्मन्दानां सन्देहसम्भवे तन्निवारणार्थ विचा-
रशास्त्रं कर्तव्यम् । तत्र यद्यपि 'सर्वे वेदा यत्पदमामनन्तीति 'वेदैश्च सर्वैरहमेव वेद्य'
इत्यादिश्रुतिस्मृतिभिर्बौव सर्ववेदार्थः, तथापीदं वाक्यं वेदान्ते श्रुतं 'तं त्वौपनिषदं पुरुष
पृच्छामी'ति, पुरुपरूपता च तत्रैव श्रुता, 'वेदान्तविज्ञानसुनिश्चितार्था' इतिवाक्येन
वेदान्तानामनिश्चायकत्वं च तत्रैव श्रुतम् , अत इदानीं तपःप्रभृतीनामसम्भवाद्वेदान्तविचा-
रेणैव वेदार्थरूपब्रह्मखरूपनिश्चय इत्यभिसन्धाय ब्रह्मसम्बन्धिविचारः श्रीवादरायणाचार्यः
ग्रस्तुत इत्युक्तम् । अतोनिमाणि यान्यधिकरणानि शास्त्रसमाप्तिपर्यन्तं तानि सर्वाण्यस्यैव
विषय इति तेपामस्य च विषयविपयिभावः सङ्गतिरित्यपि योधितम् ॥१॥

"
वेदान्ताधिकरणमाला।
ततो द्वितीये एकसूत्रे जन्माद्यधिकरणे ब्रह्म किंलक्षणकं किंप्रमाणक चेत्या-
काढायां जगदुत्पत्तिस्थितिकारणं ब्रह्मेति सूत्रांशेन लक्षितम् । ततोशान्तरेण वेदरू-
पशाखप्रमाणकं ब्रह्मेत्युक्तम् । तेन कर्तृरूपं निमित्ततया सिध्यति ॥ २॥
ततस्तृतीये एकसूत्रे समन्वयाधिकरणे ब्रह्म जगतः कर्तृ निमित्तं चेति चेत्,
किं जगतः समवायीत्याशङ्कायामनारोपितानागन्तुकरूपेण समनुगमाद्रह्मैव जगतः समवायीति
निर्णीतम् । तेनाभिन्ननिमित्तोपादानवादोस्मिन् शास्त्र इति बोधितम् ॥३॥
एवं त्रिसूत्र्या ब्रह्मणो जिज्ञासा ब्रह्मलक्षणं तद्विचारस्य कर्तव्यता च साविता ।
ये पुनः कर्तृत्वे वैपम्यादयो दोपाः, समवायित्वे च विकृतत्वादयः, ते सर्वेग्रिमाध्याये परि-
हर्तव्याः, विचारकर्तव्यतायाः प्रतिज्ञातत्वात् । तत्र सच्चिदानन्दरूपत्वस्य ब्रह्मणः स्वरूप-
लक्षणत्वात्पूर्वोक्त कार्यलक्षणं त्रिष्यप्यनुगतं वक्तव्यम् , अन्यथा लक्षणेऽव्याप्तिप्रसङ्गात् ।
अन्यतश्च निवारणीयम् , अन्यथातिव्याप्तिप्रसङ्गात् । असम्भवश्व निवारणीयः ।
तत्र द्वाभ्यामधिकरणाभ्यां सदूपे तल्लक्षणं योजितम् । अतःपरं चिद्रपेऽव्याप्तिनिवारणाय
प्रकृतिपरमाण्वादावतिव्याप्तिनिवारणाय च चतुर्थ सप्तसूत्रमीक्ष्यत्यधिकरणमारभ्यते ।
तत्र प्रथमसूत्रे 'यतो वाचो निवर्तन्त' इत्यादिश्रुत्या ब्रह्मणः सर्वव्यवहारातीतत्वेन सर्व-
प्रमाणागोचरतया तज्ज्ञानासम्भवाद्विचारो व्यर्थ इत्याशङ्का, ब्रह्म सर्ववेदान्तप्रतिपाद्यम् ,
'सदेव सौम्येदमग्र आसी'दित्युपक्रम्य 'तदैक्षत' 'वहु स्यां प्रजायेये'त्यनेनेक्षणस्य बहुभ-
वनस्य च श्रावणात् । अतः सृष्टेः पूर्वमव्यवहार्यत्वेपि तदनन्तरं तत्कर्तृत्वेन तदुपादान-
त्वेन च व्यवहार्यत्वं श्रुत्योच्यत इति तया तज्ज्ञानस्य सम्भवात्तद्विचारो न व्यर्थ इति
योधितम् । ईक्षणकर्तृत्वेन चेतने तस्मिन् पूर्वोक्तलक्षणसमन्वयाचिद्रूपे लक्षणाव्याप्तिरपि
परिहता । तेनैव प्रकृतिपरमाण्वादावतिव्याप्तिरपि निवारिता, असम्भवश्व निवारितः ।
ततो द्वितीयसूत्रे तस्सेक्षणकर्तुरात्मशब्दवाच्यत्वात्प्राकृतगुणवत्त्वं निवारितम् । तत-
स्तृतीये तदुपासकस्य मोक्षरूपफलकथनादपि तन्निवारितम् । ततश्चतुर्थे जगद्वद्धेय-
वस्थाकथनादपि तन्निवारितम् । एवं चतुःसून्यां कार्यविधिमुखेन तद्विचार उक्तः ।
ततोगे त्रिसत्यां कार्यनिषेधमुसेन तद्विचार्यते, निपेधश्च प्रलयात्मकः । तत्र पञ्चमे
खाप्ययसूत्रे जीवमुषुप्तिब्रह्मसम्बन्धेनोच्यते । सा च मोक्षभिन्नापि जाग्रदादिवत्कर्मसम्ब-
न्धरहितेति प्रलयतुल्या । सा च स्वसम्बन्धेनैव जायत इति भगवतस्तकर्तृत्वम् । ततः
पाठे मोक्षदशायां जीवस्य भगवत्तुल्यत्वं श्रुत्योक्तम् । तत्र मैत्रेयीव्राह्मण आदिमध्यावसा-
नेषु प्रमण एव योधनात् तद्दातृत्वं प्रमण एवेति योधितम् । ततः सप्तमे सर्वप्रलये
मौवारशिप्यत इति श्रुत्या योध्यते । अतः प्रलयो ब्रह्मकर्तृक एवेति योधितम् । एवमने-
नाधिकरणेन चित्तरूपे कार्यलक्षणयोजनादव्याप्तिः परिहता । चित्खरूपत्ववोधनात्य-
त्यादापनिन्याधिरपि परिहना ॥ ४॥

श्रीपुरुषोत्तमविरचिता। ततः पञ्चमेष्टसूत्र आनन्दमयाधिकरण आनन्दे लक्षणयोजनेन तवाव्याप्तिः परिहियते । तत्र प्रथमसूत्रेऽविशेपेण पुनःकथनरूपादभ्यासानन्दमयस्य ब्रह्मत्वं स्थापि- तम् । तत्र प्रथमवर्णके आनन्दस्वार्थतोम्यासः शब्दतश्च । दितीयवर्णके तु 'तस्मैप एव शारीर आत्मा यः पूर्वस्येतिवाक्याभ्यास उक्तः । एवमभ्यासेन मयट्रवाहानेदे साधिते आनन्दमयस्स ब्रह्मत्वम् । यथा पूर्वतत्रे यजत्यभ्यासाकर्मणस्तद्वत् । ततो द्वितीयसूत्रे मयटो विकारार्थत्वादानन्दमयस्य न ब्रह्मत्वमिति सूत्रांशेनाशय, मयटः प्राचुर्यार्थकत्वान्न मयदप्रत्ययेनाब्रह्मत्वं वक्तुं शक्यत इत्यंशान्तरेण समाहितम् । ततस्तृतीये सूत्रे आनन्द- जनकत्वेन तत्कारणत्वान्मयटो विकारार्थत्वं निवारितम् । ततश्चतुर्थसूत्रे 'सत्यं ज्ञान'- मितिमने योर्थ उक्तः स एव सम्पूर्णे प्रपाठके प्रपथ्य गीयते, अत आनन्दमयो अझैवेति नितिम् । ततः पुनरग्रिमया चतुःसूत्र्यायमेवार्थो निषेधमुखेन निर्णीयते । तत्र प्रथ- मेन जीवस्यानन्दमयत्वं निराक्रियते, जीवे निरङ्कुशजगत्कर्तृत्वादिरूपस माहात्म्यस्यानु- पपद्यमानत्वात् । द्वितीये 'चानन्दीभवती'त्यादिना जीवस्यानन्दनीयत्वमुच्यते, न त्वान- न्दत्वम्, अतो भेदव्यपदेशादपि जीवस्य नानन्दमयत्वमित्युक्तम् । ततस्तृतीये 'सोकाम- यते'तिचेतनधर्मस्य कामस्य जडायां प्रकृतावनुपपद्यमानत्वात्सापि नानन्दमयीत्युच्यते । ततश्चतुर्थेस्य जीवस्यानन्दमये ब्रह्मणि योगमुपसङ्कमरूपं फलत्वेन कथयति श्रुतिः, तेन जीवापेक्षया उत्कृष्ट एवानन्दमयो, न तु जीवादपकृष्टः । तस्मादानन्दमयो ब्रह्मैवेति नि- रूपितम् । एवं चतुःसूत्र्यां जीवजडनिषेधमुखेनानन्दमयो विचारितः । एवमष्टसूत्र्या- नन्दमयस्य ब्रह्मत्वे साधिते निरङ्कुशजगत्कारणत्वं तत्रैव पर्यवस्थतीत्यानन्देपि लक्षणसम- न्वयात्तत्राच्याप्तिः परिहृता । जीवजडयोर्निवारणादतिव्याप्तिश्च । एवमधिकरणचतुष्ट- येन सचिदानन्देषु लक्षणसमन्वयादसम्भवोप्यर्थादेव परिहृतः । तेन जन्मायधिकरणस्य शेषभूतमधिकरणत्रयमिति शेपशेपिभावः सङ्गतिः ॥५॥ ततः पष्टे दिसूत्रेन्तस्तद्धर्माधिकरणे आदित्यान्तरक्ष्यन्तश्च विद्यमानो हिर- ण्मयः पुरुष उदित्यादिब्रह्मधर्मोपदेशाद्रीवेत्युक्तम् । ततो द्वितीयसूत्रे 'यमादित्यो न वेदेतिश्रुत्यादित्याद्भेदनिर्देशेनापि तस्स ब्रह्मवं स्थापितम् । तदज्ञाने सति, यदि तस्स ब्रह्मत्वं न विचार्यत तदा, तदज्ञाने सति, ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः स य एवंविदि'त्युक्त्वाग्रे 'एतमानन्दमयमात्मानमुपसङ्कामती'त्यनेन श्रावितं तद्विदोक्षरसा- युज्यं परब्रह्मप्राप्तिश्च नोपपद्येत । तस्माद्धेनुतागर्भया प्रसङ्गसङ्गत्यैतद्विचारितम् । किञ्च, अयं जन्मादिसूत्रस्थविचारः सर्वस्याग्रिमविचारस्य मूलम् । तत्राग्रे 'फलमत उपपत्ते'रित्यनेन सर्वफलदाता भगवानेवेति वक्तव्यम् । ततोग्रे चतुर्थेध्याये निषेधमुखेन प्रतीकोपासना, विधिमुखेनाझोपासनाश्चादित्यादिमतिसूत्रे वक्तव्याः । तत्र मतान्तरोक्त- रीत्या प्रतीकोपासनानामब्रह्मपरत्वेपि तद्वाक्योक्तफलसिद्धिस्तत्तदन्तःस्थाद्ब्रह्मण एवेतिज्ञाप- वेदान्ताधिकरणमाला। नायाजोपासनानां ब्रह्मपरत्वे तदुक्तमवान्तरफल तरकतुत्वरूप मुख्य फल च भगवत एवेतिज्ञापनाय चाप्येतद् बोध्यम् ॥६॥ तत सप्तम एकसूत्रे तल्लिङ्गाधिकरणे, अष्टम एकसूत्रेतिदेशाधिकरणे च ब्रह्मप्रकरणे आकाशप्राणादिशब्दै ब्रह्मैवोच्यते, निरङ्कुशजगत्कारणत्वरूपब्रह्मलिङ्गादिति विचारितम् । तेन पूर्वोक्तलक्षणेतिव्याप्तिदोष परिहियत इति पूर्वोक्तशेपभूतमिदमधिकरण- दूयम् । पञ्चमाद्यविकरणद्वये प्रत्ययकृतसन्देहनिरास , सप्तमाघधिकरणेषु तु प्रकृतिकृतसन्दे- हनिरास इति विशेप , प्रकृतिप्रत्ययभेदेन शब्दस्य द्विविधत्वादिति । पष्ठाद्यधिकरणत्रयम्य विषयवाक्यान्युद्गीथनिधास्थान्युक्तानि । तेन कर्माङ्गोपासनाखपि ब्रह्मैव फलदम् , तज्ज्ञाने- नैव च कर्मणो वीर्यवत्तरत्वमित्यपि वोधितम् । तेन प्रसङ्गोपि सङ्गति ॥ ७ ॥८॥ ततो नवमे चतुःसूत्रे ज्योतिश्चरणाधिकरणे 'अथ यदित परो दिवो ज्योतिर्दीप्यत' इतिवाक्ये ज्योति शब्देन ब्रह्मैवोच्यत इति निर्णीतम् । तर प्रथमसूत्रे 'एतापानस्य महिमे'तिमन्त्रे भूतात्मकाना चरणाना ब्रह्मधर्मत्वाजयोति शब्देन ब्रह्मैवोच्यत इति निीतम् । ततो द्वितीयसूत्र एतत्सन्दर्भारम्भे गायत्रीछन्द एवोच्यत इति न चर- णाना ब्रह्मधर्मत्वमिति सूनाशेनाशझ्याशान्तरेण समाहितम् । भगवति चेतोर्पणार्थं सन्द- भादौ गायनी प्रस्तुता, तयोपासने ब्रह्मदर्शन भवतीति । तस्माद्ब्रह्मण एवं पादा, न गायन्या इत्युक्तम् । ततस्तृतीये गायत्रीछन्दो हि शब्दरूपम् , भूतपृथिवीशरीरहृदया- न्यर्थरूपाणि । तेपा शब्दरूपछन्द पादत्व न सङ्गच्छते । अतो ब्रह्मण एव पादा इत्यु क्तम् । ततश्चतुर्थसत्रे यद्यप्येव पादाना ब्रह्मधर्मस्वमायाति, तथापि 'एतावानितिमन्त्रे 'दिवी'तिमतम्पा पादाना धुलोकाधारतकथनेन विवक्षितस्य ज्योतिपस्तदाधारत्वमुक्तम् । 'अथ यदत परो दिव' इतिपञ्चम्यानाधारसमुच्यत इत्युपदेशभेदाड्योतिर्न ब्रह्मेत्याशङ्कय, यथा वृक्ष श्येनो वृक्षापात्परत श्येन' इतिविभक्तिभेदेपि यथैकार्थ्यप्रत्यभिज्ञा न विरुध्यते, तथानापीति न दोप इति समाहितम् । तस्मादन ज्योति शब्दवाच्य ब्रह्मैवेति निीतम् । यद्यपि पूर्वाधिकरणन्यायेन ज्योति शब्दम्य ब्रह्मवाचकत्वमायाति, तथाप्यन प्रकरणस्य लिङ्गस्य च सन्दिग्धत्वात्पुनर्पिचारितम् । तेन सामान्यविशेषभाव पूर्वाधिकरणसङ्गति । एतेनान्या अपि पादसम्बद्धा प्रणादिविद्या अपि ब्रह्मपरा इत्यपि वोधितम् ॥ ९॥ ततो दशमे चतु'मनेनुगमाधिकरणे कोशीतफिजाह्मणम्य इन्द्रप्रतर्दनसवादे 'प्राणोहमस्मि प्रजात्मेत्यादिनोच्यमान प्राणो ब्रह्मेव, नासन्यो, नापि जीव , तस्य ब्रह्म साङ्गीकार एव यायोक्तपदार्थसङ्गतरित्युक्तम् । तदुपपादित च माये । ततो छितीय- मृन्ने यरवेन्द्रेण प्रतर्दन प्रति सारमेर प्राणयेनोपदिश्यत इति न तस्य नायोधकन्य मिति सूत्राशनाशय, ततोशान्तरेण समाधानायास्मिन् प्रकरणे ब्रह्मसम्बन्ध एव भूयानु- पलभ्यते, तस्मादन प्रनिपाप प्राण परमात्मेत्येव प्रतिपादितम् । ततस्तृतीये यदि , - .

श्रीपुरुषोत्तमविरचिता।
ब्रह्मैवात्र प्रतिपाद्यं तदा 'मामेव विजानीही'तिस्वात्मोपदेशस्य का गतिरित्याशशायामयमु-
पदेशः शानदृष्टया, न तु लोकदृष्टया । शाख्ने च ब्रह्मज्ञाने सति ज्ञातुर्ब्रह्माभेदेन सर्वभाव
उच्यते । यथा श्रुत्यन्तरे वामदेवस सर्वात्मभाव उच्यते, 'तद्वैतत्पश्यन्वृपिर्वामदेव'
इत्यादिना, तद्वदनापि ज्ञानेन ब्रह्मात्मभावात्स्यस्योपास्यत्वेनोपदेश इत्युक्तम् । ततश्चतुर्थ
ननस्मिन्प्रकरणे जीवधर्मा मुख्यप्राणधर्माश्च भूयांस उपदिश्यन्त इति नास्य ब्रह्मप्रकरण-
त्वमिति सूत्रांशेनाशयांशान्तरेण समाधानमाह । यदि जीवप्राणब्रह्मणां धर्मदर्शनाप्रयाणां
मुख्यत्वं स्वीक्रियेत, तथा सत्युपासनात्रयप्रसङ्गाद्वाक्यभेद आपद्येत । स तु दुष्ट इति न
युक्तः । तथा सति योत्र जीवधर्माणां प्राणधर्माणां चोपदेशः, सोत्र जीवस्य ब्रह्माश्रित-
स्वात् , प्राणस्य तु तद्योगात् । तस्माते सर्वे ब्रह्मधर्मा एवेति प्राणो ब्रह्मैवेति प्रतिपादितम् ।
इदं चाधिकरणं पूर्वोक्तसर्वनिगमनार्थम् । इदं यथा तथा भाप्यप्रकाशादवगन्तव्यम् ।
भाप्ये तु चिदचित्संश्लेपनिवारणार्थमित्युक्तम् । ब्रह्मवादे केवलस्यैव ब्रह्मणो जग-
कारणत्वेन चिदचिच्छरीरापेक्षाराहित्यादिति । तेन न पुनरुक्तिदोपः । कार्यप्रतिपादन-
द्वारा वाक्यानां खरूपपरत्वं नवस्वप्यधिकरणेपु स्पष्टम् ॥१०॥
इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्बरात्मजपुरुपोत्तमस्य कृतौ
वेदान्ताधिकरणमालायां प्रथमाध्यायस्य प्रथमः पादः ॥
एवं प्रथमपादे कार्यप्रतिपादकानां वाक्यानां ब्रह्मणि समन्वयो विचारितः ।
प्रकृतिप्रत्ययभेदेन शब्दस्यान्यपरत्वसन्देहे तन्निवारणं च कृतम् । अतःपरं द्वितीयादिष्व-
थसन्देहो निवारणीयः । जीवजडतत्समुदायभेदेनार्थस्य त्रैविध्यात् । तत्र द्वितीयपादे
जीवपुरःसरेणार्थसन्देहो निवारणीयः । अन्तर्यामिप्रतिपादकानां वाक्यानां ब्रह्मणि सम-
न्ययो वक्तव्यः । तेन पादानामेककार्यत्वं सङ्गतिः ।
तत्र प्रथमे चतुःसूत्रे सर्वत्रप्रसिद्धोपदेशाधिकरणे छान्दोग्यस्था शाण्डि-
ल्यविद्या विचार्यते । तत्रास्यां विद्यायां 'मनोमयः प्राणशरीर इत्यनेन विज्ञानमयस्य जीवस्य
मनोमयत्वादिधर्मवैशिष्टये तैरेव च धर्मः कर्तृत्वनिर्वाहाद्ब्रह्मणो जगत्कर्तृत्वमपि नोपपद्यत
इत्याशङ्कायां, जीवस्य ब्रह्मत्वेनोपासनं निवार्य, सर्ववेदान्तप्रसिद्धस्य ब्रह्मण एवोपदेशा-
द्रदेवात्रोच्यत इति प्रथमसूत्रे आक्षेपनिवारणादाक्षेपोधिकरणसङ्गतिरित्युक्तम् । ततो
ठितीयसूत्रेस्यां विद्यायां फलत्वेन विवक्षिता ये गुणास्तेषां प्राप्तिर्मगवत्स्वरूपलामात्
तरसारूप्यलाभाद्वोपपद्यते, अतोपि तथेत्युक्तम् । ततस्तृतीयसूत्रे तिरोहितानन्दत्वेन
निराकारत्वादपि नात्र जीव उच्यते, किन्तु ब्रह्मैवेत्युक्तम् । ततस्तुरीये ब्रह्मात्र ध्येयत्वेन
प्राप्तत्वेन च व्यपदिश्यते, जीवस्तु प्राप्तृत्वेन ध्यातृत्वेन च व्यपदिश्यत इत्युक्तम् ।
तेनाप्रान्तर्यामिभूतं ब्रह्मैवोच्यत इति साधितम् ॥१॥

. वेदान्ताधिकरणमाला। ततो द्वितीये चतुःसूत्रे शब्दविशेषाधिकरणे वाजिशाखास्यं 'यथा वीहिी यवो वेत्यादिविषयवाक्यमुपन्यस्य, तत्रान्तरात्मन्युक्तो हिरण्मयः पुरुपो न जीवः, किन्तु प्रबैव, शब्देनोक्ताद्धिरण्मयत्वरूपाद्विशेषादित्युक्तम् । ततो द्वितीये सूत्रे 'ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठती'तिगीतास्मृतरपि हृद्देशे वर्तमानस्य ब्रह्मत्वमित्युक्तम् । तत- स्तृतीयसूत्रे व्यापकस्येश्वरस्याल्पे हृदयस्थाने स्थितेरयुक्तत्वाच्छ्रुती त्रीह्यादितुल्यताश्राव- णाच तस्य ब्रह्मत्वं न युक्तमिति सूत्रांशेनाशक्यांशान्तरेण समाहितम् । हृदये निदिध्या- सने कृते ब्रह्म ज्ञातुं शक्यते, तत्रैव साक्षात्कारात् । तस्माद् हृदयस्य स्थानत्वमुच्यते । अन्ये त्वत्र दृष्टान्तमप्याहर्यथा सर्वलोकपतिरप्ययोध्यापतिरिति । तस्मान्न व्यापकत्वहानिः । यत्पुनीह्यादितुल्यत्वकथनं तत्तु चतुर्विधभूतान्तरवर्तित्वज्ञापनार्थम् । अतो व्योमवत्सर्वत्र स्थिति/ध्यते । तस्मान्न दोष इत्युक्तम् । ततश्चतुर्थसूत्रे तस्य हृदये वर्तमानत्वे जीव- वत्सुखदुःखभोगोपि सम्भवतीति सूत्रांशेनाशयांशान्तरेण समाहितम् । तस्य स भोगो न सम्भवति, तस्य सर्वरूपत्वानन्दरूपत्वादिरूपाणां विशेपाणां विद्यमानत्वादिति । तस्माद्ब्रह्मैवात्रोच्यते । इदं चाधिकरणमन्तर्यामिणो रूपनिश्चायनार्थं हिरण्मयपुरुपत्वेना- न्तस्तद्धर्माधिकरणविपयवाक्योक्ताकारस्य मासाग्निहोत्रे नित्याग्निहोत्रधर्मवद्वक्तुं शक्यत्वा- दिति मम प्रतिभाति । सङ्गतिरत्र प्रसङ्गो वोध्यः ॥२॥ ततस्तृतीये दिसूत्रे अत्ता चराचरेत्यधिकरणे 'यस्य ब्रह्म च क्षनं चेति- काठकवाक्योक्तं ब्रह्मक्षत्रात्तृत्वं न जीवस्य, किन्तु ब्रह्मण एवेति निर्धारितम् । तत्र प्रथ- मसूत्रे चराचरग्रहणं हेतुः, चरो मृत्युरचरं कस्याप्यचाल्यम् , ब्रह्मक्षत्राणां संपद्यमानानां भोगः साधितः, सर्वरूपत्वात्मकं वैशेष्यं च । द्वितीयसूत्रे च प्रकरणं हेतुः । तथा च जीवाशक्यभोगस्य चराचरस्य ग्रहणरूपालिङ्गादस्य वाक्यस्य ब्रह्मप्रकरणपठितत्वाचात्रोक्तं ब्रह्मैवेति सिध्यति । मोक्षापेक्षिग्रह्मक्षत्रप्राणानामुत्क्रमणाभावेनान्तःप्रकटे भगवत्येव लया- दन्तर्यामित्वमपि सिद्धम् । पूर्वाधिकरणे ब्रह्मणो जीवविलक्षणस्य भोगस्योक्तत्वातत्साधना- यात्रोपोद्घातेनानन्दरूपाद्वैशेष्यात्सम्पन्नजीवसाहाय्येन भोगो विचारितः, अन्तर्यामिधर्मवि- चारस्यैव प्रकृतत्वादिति ॥३॥ ततश्चतुर्थे दिसूत्रे गुहां प्रविष्टावित्यधिकरणे 'ऋतं पिबन्ता वितिकाठक- वाक्यं विषयलेनोपन्यस्यात्र जीवद्वयं नोच्यते, किन्तु जीवब्रह्मणी उच्यते । अत्र जीवन- ह्मणोरेव प्रतिपाद्यत्वदर्शनात् । इतः पूर्व 'येयं प्रेते विचिकित्से ति 'अन्यत्र धर्मा'दिति- वाक्यद्वयेन तयोरेव पृष्टयादिति पूर्वसूत्र उक्तम् । ततो द्वितीयसूत्रे पूर्वप्रकरणोक्त- विशेषगवलादप्यत्र जीवब्रह्मणी एवोच्यते इति साधितम् । पूर्वाधिकरणोक्तब्रह्मक्षत्रभो- गोत्रैवेतिज्ञापनार्थम् । तेनानुप्रसङ्गः सङ्गतिः॥४॥ ततः पञ्चमे पञ्चसूत्रे अन्नर उपपत्तेरित्यधिकरणे छान्दोग्ये उपकोसल-

७
,
श्रीपुरुषोत्तमविरचिता।
विद्यासं 'य एपोक्षिणि पुरुषो दृश्यत इतिवाक्यं विपयत्वेनोपन्यस्य अक्षिपुरुपस्य ब्रह्मत्वं
निर्धारितम् । तत्र प्रथमसूत्र आपदर्शनस्योपपद्यमानत्वान्न तत्र प्रतिविम्बस्य ब्रह्मत्वेनो-
पासना विधीयते, किन्तु ब्रह्मवेत्युक्तम् । ततो द्वितीयसूत्रे सर्वलोकस्य भामवामनय-
नरूपस्थानादिव्यपदेशात्तदेव साधितम् । ततस्तृतीयेऽमृतादिपदकथनादपि तत्साधि-
तम् । ततश्चतुर्थसूत्रे तदुपासकस्य ब्रह्मविद्गतिकथनादपि तत्साधितम् । ततः पञ्चमसूत्रे
जीवो निवारितः । एवं चात्र पश्चसूत्र्यां स्थानमाहात्म्यादिरूपं वैशेष्यं घोधितम् ।
अक्षिस्थितस्य भोगस्तु वाजिनां मण्डलबाह्मणे प्रसिद्धः। एवमधिकरणत्रयेण भोगदोपा-
संसर्गहेतुभूतं वैशेष्यमक्षिस्थितस्य पुरुषस्यान्तर्यामित्वं च विचारितम् ॥ ५ ॥
ततः पप्ठे त्रिसूत्रे अन्तर्याम्यधिकरणे वृहदारण्यकस्थमन्तर्या मित्राह्मणं विप-
यवाक्यत्वेनोपन्यस्तम् । अन्तर्यामी सर्वत्रैकः, अथवाधिदैवादिशब्दमेदाद्भिन्नः, तत्तदभि-
मानी जीवो वेत्याशय प्रथमसूत्रे पृथिव्यादीनां तदभिमानिनां च ये धर्मास्तेषां भग-
वत्प्रयुक्तत्ववोधनादन्तर्यामी सर्वत्र भगवानेवेति निर्णीतम् । आधिदैवादिसञोपि स एवेति
च । ततो द्वितीयसूत्रेऽन्तर्यामी ब्रह्मवादे न प्रसिद्धः, जीवब्रह्मजडानामेव प्रसिद्ध-
त्वात् । ततोऽन्तर्यामी सायपरिकल्पितः कश्चिद्भविष्यतीत्याशय, नात्र साङ्ख्यमतम् ,
तद्धर्माणामनमिलापात्, अतोऽन्तर्यामी भगवानेवेति ब्रह्मवादसिद्ध इत्युक्तम् । ततस्तृती-
यसूत्रेऽन्तर्यामी जीवो न सम्भवति, काण्वशाखायां 'यो विज्ञाने तिष्ठ'निति माध्यन्दि-
निशाखायां च य आत्मनि तिष्ठन्नितिवाक्याभ्यां जीवाञदस्य श्रावणादित्युक्तम् ।अस्मि-
अधिकरणे स्थितिकर्तृत्वनिर्वाहकतयोपोद्धातेन सर्वनियमनं विचारितम् । गुहांप्रविष्टावि-
यधिकरणे प्रतिगुहं भिन्नतया प्रवेशादन्तर्यामिणां भेदे प्राप्ते तदभावाय तस्मैक्यमत्र साधि-
तम् । तेन रूपभेदाद्भिन्नोप्येक एवान्तर्यामी नामेत्युक्तं भवति ॥ ६ ॥
ततः सप्तमे त्रिसूत्रे अदृश्यत्वाधिकरणे 'अथ परा यया तदक्षरमधिग-
म्यत' इति गुण्डकथं वाक्यं विषयत्वेनोपन्यस्पेयमुपनिषत् साङ्ख्यविद्या ब्रह्मविद्या वेत्या-
शङ्कयेयं ब्रह्मविद्यैव । यद्यप्यत्राक्षरं पुरुपश्चेत्युभयमुच्यते, पुरुपस्याक्षरात्परत्वं चोच्यते,
एवं परापरभावेप्यक्षरं परमात्मैवेति निर्णीतम् । तत्र प्रथमसूत्रे अदृश्यत्वादिगुणकोऽक्ष-
रत्वेनोक्तः परमात्मैव, विश्वजनकत्वरूपस्य ब्रह्मधर्मस्य तत्रोक्तरित्युक्तम् । ततो द्विती-
यसूत्रे अवाक्षरपुरुपौ साङ्ख्यविद्यासिद्धप्रकृतिपुरुपावेवेत्याशङ्कय, तौ नात्र सम्भवतः,
अक्षरस्य सर्वज्ञत्वादिना पुरुषत्वेन च विशेषणात्, पुरुषस्य च दिव्यत्वादिना प्राणादि-
जनकत्वेन च विशेषणात् । न हीदं साङ्ख्ये सिध्यति । किञ्च, अत्र हि समाप्तावादी
मध्ये च ब्रह्मविद्या इति विद्याविशेषणमुक्तम् । तस्मादपि नात्र साङ्ख्यसिद्धौ प्रकृतिपु.
रुपावित्युक्तम् । ततस्तृतीयसूत्रे 'अग्निमूर्धे'त्यादिना यद्रपमुक्तं तद्विश्वकायस्य प्रमाण
एव सङ्गच्छते, न तु साङ्ख्यसिद्धसेत्युक्तम् । तेन सृष्टिपूर्वदशायामप्यक्षरनियामकत्वा-
दगवतोऽन्तर्यामित्वं नित्यमित्युपोदातेन वोधितम् ॥ ७ ॥

८ , वेदान्ताधिकरणमाला। ततोऽष्टमे नवसूत्रे वैश्वानराधिकरणे पूर्वाधिकरणोक्तं रूपं साङ्ख्यसिद्धस्य कार्येश्वरस्य कुतो न ? अक्षरपरमपुरुषयोर्मेदाभेदौ च कथमित्याकाङ्क्षायां, छान्दोग्यस्थां वैश्वानरविद्यां विपयवाक्यत्वेनोपन्यस्य, रूपस्य नित्यत्वं विरुद्धधर्माश्रयत्वं च तत्रोपो- द्वातेन विचारितम् । तत्र प्रथमसूत्रे वैश्वानरशब्दवाच्यो हिरण्यगर्भादिः परमात्मा वेति संशये, हिरण्यगर्भादिबोधकसाधारणशब्दाद्यो विशेषः प्रादेशमात्रस्यैवाभितो विगत- मानत्वरूपः, तस्मादित्युक्तम् । ततो द्वितीयसूत्रे 'केचित्खदेहान्तर्हृदयावकाश'इत्या- दिस्मृत्युक्तस्यानुमापकत्वम् । अतः प्रादेशमात्रो घुमूर्धत्वादिविशिष्टः परमात्मवेत्युक्तम् । ततस्तृतीयसूत्रे ननु प्रादेशमात्रस्मृत्या वैश्वानरपदस्य भगवत्परत्वं निर्णतुं न शक्यम् , 'अहं वैश्वानरो भूत्वे ति जाठराग्निपरत्वस्यापि स्मरणात् , समानप्रकरण 'एप वा अग्नि- वैश्वानर' इत्यग्निसमभिव्याहारेण श्रावणाद् भगवद्विभूतित्वाच । अत्राप्यग्नेः 'हृदयं गार्ह. पत्य' इत्यादिना प्रेताग्निकल्पनश्रावणात् पुरुपेऽन्तःप्रतिष्ठितत्वश्रावणाच न भगवत्परत्वं शक्यवचनमिति सूत्रांशेनाशय, नात्र भगवत्परत्वं निपेढुं शक्यम् , भगवतो भोक्तृत्वं वक्तुं श्रुतावग्निदृश्युपदेशाजाठरे घुमूर्धत्वादिधर्माणामसम्भवाच । नच तदुपासनार्थमिति शक्यम् , वाजसनेयिभिः पुरुषत्वस्य श्रावणादित्येवमंशान्तरेण समाहितम् । तस्माद्वैश्वानरः परमात्मैव । ततश्चतुर्थे उक्तहेतुभ्य एव जाठरोऽग्निदेवतारूपोनिश्च न सम्भवतीत्युक्तम् । एवं चतुर्भिः सूत्रैश्वानरस्य ब्रह्मत्वं निर्णीतम् । ततोनिमैः पञ्चभिः सूत्रैस्तस्य परि- माणं विचार्यते, पहिलवादिनिवृत्त्यर्थम् । तत्र पञ्चमे जैमिनिमतेन परिमाणविरोधपरिहा- रमाह, व्यापकस्य प्रादेशमात्रत्वं कल्पनां विना साक्षादपि सम्भवति, यथाकाशस्य । तथा च 'प्रादेशमात्रमभिविमान मित्यत्र शाब्दकमादर्थकमो बलिष्ठ इति जैमिनेराशयो चोधितः । ततः पठे निराकारमेव ब्रह्म मायाजवनिकाच्छन्नं विष्ण्वादिदेवताधिष्ठितेन पुरुषाकारणा- भिव्यक्तः पुरुपविधोऽन्तर्यामी, न तु स्वाभाविकस्तस्याकार इत्याश्मरथ्यस्य मतमुक्तम् । ततः ससमेऽनुस्मृतिवशापुरुषाकारो 'यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रण- यमे सदनुग्रहाये तिस्मृतेः साधकानुग्रहार्थमिति धादरिमतमुक्तम् । ततोष्टमे पूर्वोक्तं नियतपरिमाणवादयोधकं जैमिनिमतं तदेकदेशिनो, न तस्येतियोधनार्थ पुनर्जेमिनिमत- माह । श्रुती 'प्रादेशमात्रमिह पे देवा' इत्यारभ्य 'अभिसम्पादयिष्यामी तिकथनात्सम्पत्ति- निमित्तं प्रादेशमात्रत्वम्, न तु वास्तवमिति तदाशय उक्तः । ततो नवमे 'आमनन्ति चैनमस्मिन्निनिम्त्र 'एनं वैश्वानरमस्मिन्मूर्धचिबुकान्तराले जाबालाः समामनन्ति 'एपो- व्यक्त' इत्यादिना । तम्मायादेशमात्र एव व्यापकः, अतो वस्तुभावादेव विरुद्धधर्माश्रय इति वैवानरो भगवानेवेति म्वसिद्धान्त उक्तः । एवमस्मिन्पादे स्थितिरूपकार्यनिर्वाहार्थ- मन्तयामिप्रतिपादकानि यास्यानि विचारितानि ॥८॥ इति श्रीयालभाचार्गचरणदासस्य श्रीपीताम्बरात्मजपुस्पोत्तमस्य कृती घंटान्नाधिकरणमालायां प्रथमाध्यागम्य हितीयः पादः ।।

वोधनात् मुख्यवृत्यात्मशब्दपरिग्रहसम्भवाद् ब्रह्मणः सर्वशब्दवाचकत्वेन भाववाचक- , " श्रीपुरुपोत्तमविरचिता। अतःपरं मोक्षदातृत्वार्थमुपास्यरूपप्रतिपादकानि वाक्यान्यस्मिन्पादे विचार्गन्ते, सा- धनाध्याये गुणोपसंहारपादे तत्तन्मार्गभेदेनोपासनाया एव साधनत्वेन वक्ष्यमाणत्वात् । तत्र प्रथमे सप्तसूत्रे शुभ्वाधिकरणे 'यस्मिन् द्यौः पृथिवी'तिमुण्डकवाक्यं विप- यत्वेनोपन्यस्य, तत्र किं साङ्ख्यसिद्धं प्रधानमुच्यते, ब्रह्म वेति संशये, प्रधानं निरस्य ब्रह्मैवेति साध्यते । तत्र प्रथमसूत्रे स्वशब्दो हेतुत्वेन, स च श्रुतिस्थ स्वात्मान'मित्या- स्मशब्दस्य वाचकः । तथा च धुम्वादीनां भारत्वं तदा स्याद्यदि तेषां सूत्रे मणिगणवत् प्रोतत्वं स्यात्, न तु तथा, तेषां कार्यतयैतदात्मकत्वेनैतत्स्वरूपान्तःपातित्वात् । न च सेतुत्वेन साधनत्वयोधनात्फलरूपत्वाभावे सति न ब्रह्मत्वमिति शक्ष्यम् । 'अमृतस्य से- तु'रित्पन्न पष्ठयाऽभेदवोधकत्वेन फलरूपत्वानपायात् । तस्माद् द्युम्वाद्यायतनं ब्रह्मैव । ब्रह्मणो व्यापकत्वव्युत्पादनं तु पूर्वमने 'लक्ष्यं सर्वगतं चैव'त्यनेन ब्रह्मणः सर्वगतत्वक- थनात् तद्वोधनार्थमित्युक्तम् । ततो द्वितीयसूत्रे ननु भवतु ब्रह्मत्वं तथापि तज्ज्ञानेन सर्वविज्ञानस्योपक्रान्तत्वादन्यवाग्विमोकः कथं सङ्गत इत्याशय, ब्रह्मणि मुक्तोपसृप्यत्वं वक्तुं शररूपस्य जीवस्य पूर्वमन्त्रे ब्रह्मणि योजनस्योक्तत्वात् तस्य निरध्यस्तत्वरूपं मुक्त- त्वमन्यवाग्विमोकेन योध्यत इति तदपि सङ्गच्छत इत्युक्तम् । ततस्तृतीयसूत्रे एतत्प्र- करणे जडधर्मबाहुल्यस्य जडदृष्टान्तस्य चोक्तत्वादन प्रधानमेवाङ्गीकार्यमित्याशङ्कष, तदो- धकानां निःसन्दिग्धानां धर्माणामदर्शनाद्ब्रह्मबोधकानामात्मसर्वज्ञानन्दरूपादिशब्दानां निःसन्दिग्धानां दर्शनान्न प्रधानमङ्गीकर्तु शक्यम्, किन्तु परमात्मैवेत्युक्तम् । ततश्चतु- सूत्रे तर्हि जडजीवविशिष्टः साङ्ख्यवादोत्रास्त्वित्याशय, तद्वाचकनिःसन्दिग्धशब्दा- मावात् न जीवो, नापि प्रधानम्, किन्तु सर्वज्ञत्वादीनां ब्रह्मधर्माणां निःसन्दिग्धानां दर्शनाव । ततः पञ्चमसूत्रे 'तमेवैकं जानथात्मान'मिति ब्रह्मणि ज्ञानकर्मत्वस्य जीवे ज्ञानकर्तृत्वस्य वोधनेन भेदव्यपदेशात् न जीवपरत्वं तस्येत्युक्तम् । ततः पठे सूत्रे अस्य वाक्यस्य ब्रह्मप्रकरणपठितत्वादपि न जीवपरत्वमित्युक्तम् । ततः ससमे सूत्रे द्वा सुपर्णा'वितिश्रुतौ परमात्मनः शरीरे स्थितिमात्र प्रकाशकत्वं च श्राव्यते, जीवस्य तु कर्म- फलमोगोपीति स्थित्यदनाभ्यां ब्रह्मजीवौ पृथगेव निर्णीयेते । तस्मादपीदं ब्रह्मवाक्यमेव, न तु प्रधानजीवसन्देहात् साङ्ख्यपरमिति निर्णीतम् । तेन पूर्वपादोक्तमन्तर्यामिरूपमपि ध्यापकत्वसर्वात्मकत्वादिगुणविशिष्टमेवोपासनीयमिति सावितम् । अत्र शरधनुविश्राव- णात्पृथगुपासनं ज्ञानमार्गीयाणामपि कर्तव्यत्वेन बोधितम् ॥१॥ ततो द्वितीये दिसूत्रे भूमाधिकरणे यो वै भूमा तत्सुख'मिति छान्दोग्यस्थसनत्कु- मारनारदसंवादगतं वाक्यं विषयत्वेनोपन्यस्य, तत्र बाहुल्यं सुपुप्तिश्च नोच्यते, किन्तु ब्रह्मै- वेति साधितम् । तत्र प्रथम सूत्रे सुषुप्तेः सकाशादाधिक्यस्य स एवाधस्तादि'त्यादिना . २ वेदा.

वेदान्ताधिकरणमाला। शब्दानामपि ब्रह्मपरत्वसम्भवाच भूमा भगवानेवेत्युक्तम् । ततो द्वितीयसूत्रे 'नान्यत्प- श्यती'त्यादिनोक्ता अन्यादर्शनादयो धर्मा अप्याविर्भूते परस्मिन् भगवति तदर्शनेन तदै- क्यात्तदविभागाद्वा तदेकतानतायां सम्भवन्तीति भूमा ब्रौवेति साधितम् । तेन नित्यनि- रवध्यानन्दरूप एवान्तर्याम्युपास्य इति पृथगपि भक्तिमार्गीयैरुपास्स इति बुद्धिस्थं प्रस- झादोधितम् ॥२॥ ततस्तृतीये त्रिसूत्रे अक्षराधिकरणे वृहदारण्यकस्थ मेतद्वै तदक्षरं गार्गी'ति- वाक्यं विपयत्वेनोपन्यस्य, सूत्रदयेनाज्ञया पृथिव्याघम्बरान्तधारकत्वेनाक्षरस्य ब्रह्मत्वं साधितम् । ततस्तृतीये सूत्रे तस्य प्रशासनस्य जीवधर्मत्वव्यावृत्त्याक्षरज्ञानफलबोध- नेन च ब्रह्मत्वम् । अत्र च पूर्वपादेऽदृश्यत्वाधिकरणेन विचारितस्याक्षरस्य विरुद्धधर्मत्व- वोधनमिति बुद्धिस्थोपोद्घातः सङ्गतिः । अक्षरोपासनं च ज्ञानमार्गीयाणां केपाश्चिन्मुख्यम् , 'ये त्वक्षरमनिर्देश्य'मित्यादिगीतावाक्यात् । भक्तिमार्गीयाणां त्वक्षरज्ञानमङ्गत्वेन प्रवि- शतीत्यने 'अक्षरधिया मित्सत्र वाच्यम् । तेनेदं मार्गद्वयोपयोगीति तदुभयोरन्तरं प्रसङ्गत उक्तम् । तेनात्र क्रमनियामिका प्रसङ्गः सङ्गतिः ॥३॥ ततश्चतुर्थ एकसूत्र ईक्षतिकर्माधिकरणे प्रश्नोपनिषत्पञ्चमप्रश्नस्थ 'मेतद्वै सत्य- काम परं चापर च ब्रह्म यदोङ्कार'इतिवाक्य विषयत्वेनोपन्यस्य, अत्र ध्येयः परमात्मैव, न तु विराट् , ब्रह्मा वा । 'परात्परं पुरिशयं पुरुषमीक्षत' इतिवाक्यशेपे ईक्षतिकर्मत्वेन जी- वघनादक्षरात्परस्यैवोक्तत्वात् । अन्न ध्यानविपयस्वेक्षतिकर्मत्वप्रतिपादनेनोपासनानां फलं साक्षात्कार इत्यप्यनेन साधितम् । तेन प्रसङ्गः सङ्गतिरिति वोधितम् ॥ ४ ॥ ततः पञ्चमे अष्टसूत्रे दहराधिकरणे 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्मे त्यादि छान्दोग्यस्यं वाक्य विपयलेनोपन्यस्य, तत्र दहरशब्दवाच्य आकाशः परमा- स्मैव, न जीन इति निणीयते । तर प्रथमसूत्रे उक्तछान्दोग्यवाक्ये वक्ष्यमाणेम्यो हेतुम्यो दहः परमात्मवेत्युक्तम् । ततो द्वितीयसूत्रे 'यया सुवर्णनिधि निहितमक्षे- प्रज्ञा उपर्युपरि सञ्चरन्तोपि न विदुः एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्म- .लोकं न विन्दन्ती'त्यनेनोक्त प्रजाशब्दवाच्यानां जीवानां यद् ब्रह्मलोके गमनं सा गतिः 'एप आत्मापहतपाप्मा सत्यसङ्कल्प'इत्यनापहतपाप्मत्वादिविशिष्ट आत्मशन्दः पूर्वोक्तो अबलोकशब्दश्च ताभ्यां हेतुभ्यां ‘दहरः परमात्मैव । न च जीवपरमात्मनोस्ततो भेदाभा- यात्स्वप्नदशायामनानकल्पितानामेर ब्रह्मलोकगमनमात्मशब्दश्च जीवसाधारण इति न ताम्यां परमात्ममिद्धिरिति शक्यम् । अन हि प्रजानां ब्रह्मलोके गच्छन्तीनां 'अमृतेन प्रत्यूहा' इति विशेषणं दृश्यते । तदर्थस्तु अनृतेन पिहितत्वम् । 'अनृतापिधाना' इतिश्रु- सन्तरे तयादर्शनात् । तच सुपुप्तौ 'मुखमहमस्खाप्सम्, न किचिदवेदिप मित्सनुभवस्तासां प्रजानामज्ञसं साधयति, न सज्ञानरुत्पितत्वम् , अज्ञानकल्पितत्वे सति ब्रह्मलोकगतिर्न

श्रीपुरपोत्तमविरचिता।
सङ्गच्छते, तथापहतपाप्मत्वादिविशेषणादात्मशब्दश्च न सङ्गच्छते, अतो गतिशब्दयो-
अपरत्वाद्दहरः परमात्मैव । किच, अत्र 'तद्य इहात्मानमननुविद्य वजन्ती'त्यात्माज्ञानं लो-
कक्षयहेतुत्वेनोच्यते । यद्यात्मा ब्रह्माभिन्नः स्यात्तदापहतपाप्मादिगुणकत्वात्स्वस्य स्वाज्ञानं
न सात् । अत इदमज्ञानं जीवस्य ब्रह्मभिन्नत्वं बोधयद् गतेब्रह्मविषयत्वे लिङ्गम् । एव-
मपहतपाप्मत्वादिविशेषणान्यप्यात्मशब्दस्य ब्रह्मपरत्वे लिइमिति प्रागेवोक्तम् । अतो दहरः
परमात्मैवेति साधितम् । ततः तृतीयसूत्रे य आत्मा सेतुर्विधृति'रितिश्रुतेः सर्वलोकविधा-
रकत्वात्स्वयं साधनीभूय संसारपारप्रापकत्वात् एकस्यैवाकाशद्यावापृथिव्यादेरन्तर्वहिःस्थाप-
नेन तस्य सर्वलोकधारणस्य महिमरूपत्वात् तस्य महिमो विरुद्धधर्माश्रयत्वरूपतया
श्रीयशोदादिभिरन्तर्वहिरुपलब्धश्च दहरः परमात्मैवेत्युक्तम् । ततश्चतुर्थे आकाशश-
ब्दवाच्यत्वप्रसिद्धरपहतपाप्मत्वादिप्रसिद्धेः प्रकरणोक्तसर्वधर्मप्रसिद्धेश्च दहरः परमात्मै-
वेत्युक्तम् । एवं चतुःसूत्र्या विधिमुखेन दहरस परमात्मत्वं विचारितम् ।
अतः परमग्रिमचतुःसूत्र्येतरनिषेधमुखेन तस्यैव परमात्मत्वं पुनः साधयति । ततः
पञ्चमे अस्मिन् प्रकरण आदिमध्यावसानेषु सम्प्रसादादिशब्दैजीवस्य परामर्शाजीव
एव दहर इति सूत्रांशेनाशय, जीवे जगदाधारत्वादेरसम्भवात् स न दहर इत्युक्तम् ।
ततः पष्ठ एतदनन्तरमुक्त इन्द्रप्रजापतिप्रकरणे जीवस्यैवामृताभयत्वादिरूपेणोक्त-
तयात्रापि स एव परामृश्यतामिति सूत्रांशेनाशय, तत्र प्रजापतिरुपदेशसमय आ-
विभूतब्रह्मरूपो जातः, यथा नृसिंहोपासको नृसिंहाविष्टो भवति, अतस्तथाभूतत्वात्स-
त्रात्मानं पश्यन्नुपदिष्टवान् , अतो न तत्र जीवः प्रकरणार्थः । अतस्तदनुरोधेनात्र जीवस्य
ब्रह्माभिन्नत्वं न वक्तुं शक्यम् । तस्मादहरः परमात्मैव । ततः सप्तमे तर्हि तत्र जीवप-
रामर्शस्य किं प्रयोजनमित्याकालायां पूर्वप्रकरणे सत्यनामकस्य ब्रह्मणो ज्ञानेन ब्रह्मसुख-
रूपं फलमुक्तम् । तदपेक्षायां तादृशं ब्रह्मज्ञानमावश्यकम् । तत्र सच्छब्देनामृतस्य जीवस्य,
तिशब्देन मर्त्यस्य जडस्य, यशब्देनोभयनियामकस्य ब्रह्मण उक्तत्वात् । नियम्यद्वयज्ञाना-
मावे नियामकस्य ब्रह्मणो ज्ञानासम्भवात् । तदर्थं शब्दोक्तस्य नियम्यस्य जीवस्य स्वरू-
पज्ञानाय जीवपरामर्शः, न तु प्रकरणित्वेनेत्युक्तम् । ततोऽष्टमे भवत्येवं तथाप्यल्पे हृद-
यपुण्डरीके आकाशरूपस्य ज्यायसो ब्रह्मणः स्थितिर्न सम्भवतीत्यतो जीव एवोच्यतामि-
त्याशङ्कायां 'निचाय्यत्वादेवं व्योमवचे'त्यत्र विरुद्धधर्माश्रयत्वेन ब्रह्मणः स्थितिर्वक्तुं शक्ये-
त्युक्तम् । तादृशत्वस्यात्राप्यनुसन्धेयत्वात्तेन तत्समाधिसिद्धिरिति दहरः परमात्मैव । अत्र
बुद्धिस्थस्य विचारादुपोद्घातगर्भः प्रसङ्गः सङ्गतिः । किञ्च, परामर्शसूत्रे जीवस्य सर्वाव-
स्थासु प्रमनियम्यत्वस्यैव सिद्धत्वात्, अतो जीवस्य परममुक्तिदशायामपि ब्रह्मनियम्यत्व-
मेव सिध्यति । वेदस्तुतावपि 'अजनि च यन्मयं तदविमुच्य नियन्तृ भवे'दित्यत्र तथैव
सिद्धत्वाच ॥ ५॥

१२ वेदान्ताधिकरणमाला। ततः पप्ठे दिसूत्रे अनुकृत्यधिकरणे 'न तत्र सूर्यो भाती'ति कठवल्लीखं वाक्यं विषयत्वेनोदाहत्य, लोकप्रकाशकानां सूर्यादीनां दहरान्तःस्थत्वकथनात् कठवल्लीस्थमु- क्तवाक्यं तद्विरुद्धमित्याशय, तेषां खतो न प्रकाशकत्वम् , किन्तु भगवदनुकारित्वाद्भ- गवत्प्रकाशेनैव प्रकाशकत्वं सर्वत्र सर्वदेतिप्रसङ्गान्निर्णीतम् । तेन जीवस्य मुक्तिदशायां तदनुकारित्वरूपमेव साम्यम् , न तु परममित्यपि वोधितम् । अन्यथैतद्विचारस्यान नि- प्रयोजनत्वापत्तेरिति ॥६॥ ततः ससमे दिसून्ने शब्दादेव प्रमित इत्यधिकरणे कठवल्लीस्थमङ्गुष्ठमात्र- वाक्यं विपयत्वेनोदाहृत्याङ्गुष्ठमात्रस्य भूतभव्येशानत्वं शब्दादेव प्रमीयते इति प्रथमसूत्रे निर्णीतम् । दितीये च तस्य तत्र थितिर्मनुष्याणामधिकाराषैति निर्णीतम् । अत्रापि प्रसङ्ग एव सङ्गतिः । इदं च जीवस्य मुक्तिदशायां ब्रह्माविर्भावेन विरुद्धधर्माश्रयत्वे फलिष्यति ॥७॥ ततोप्टमेष्टसूत्रे तदुपर्यपीत्यधिकरणे प्रसाद्देवादीनां ब्रह्मविद्यायामधिकारो विचारितः । तत्र प्रथमे सूत्रे मनुष्येषु त्रैवर्णिकानामुपनयनादिसंस्कारवतां कर्माधिका- राद् ब्रह्मविद्यायामप्यधिकार इति पूर्वतबादेव सिध्यति । ततो मनुष्याद्धीनजातीयानां तु योग्यताऽभावादेव नाधिकारः । अतः परं मनुष्यादुत्कृष्टानां ब्रह्मविद्यायामधिकारः सम्भ- वादुक्तः । यद्यपि देवादीनामुपनयनादिकं न प्रसिद्धम् , तथापि यज्ञोपवीतमने 'प्रजापते. यत्सहजं पुरस्तादितिश्रावणात्तन्न्यायेनान्यत्रापि जन्मानुग्रहविशेपतपःप्रभृतिभिर्मतङ्गविश्वा- मित्रादीनामिवाधिकारः सम्भवति । तस्मादप्यधिकार इत्युक्तम् । ततो द्वितीयसूत्रे पूर्वसूत्रोक्तस्स देवादीनामधिकारस्य विप्रतिपन्नतया तबलेन तेषु ब्राह्मण्यादेवक्तुमशक्यत्वात् , तेषां स्वर्गस्थत्वेन पृथिवीरूपदेशस्य, ब्रीद्यादिरूपद्रव्यस्स तत्र सूर्यगत्यभावेन दर्शादिरूप- कालस्य च, नदतिरिक्तदेवामावेनोद्देश्यदेवतान्तरस्यापि वक्तुमशक्यतया तदभावेपि कर्म- करणे श्रुतिविरोध इति सूत्रांशेनाशय, अंशान्तरेण प्रजापतिन्यायादू वर्णसत्तायाः साधि- तप्रायत्वात् , 'इन्द्रो द्वात्रिंशद्वर्षाणि प्रजापती ब्रह्मचर्यमुवासे'तिश्रावणादाश्रमसत्तायाः, 'साध्या चै देवाः सुवर्गकामा एत५पडानमपश्यन् तमाहरन् तेनायजन्ते'तियज्ञकरणश्रा- वणाद्, 'देवा वै सत्रमासते'त्यादौ भूमावागत्य ऋपीन् पृत्वा यज्ञकरणश्रावणाचानेकधो- पयोगो देवानां वेदे दृश्यते । भगवदवयवरूपा ये देवास्ते तेपामुद्देश्या अपि भवन्ति । 'उमी ये देवानार शमितारी अधृगुश्चापापश्ये त्यादौ ऋत्विजोपि श्राव्यन्ते । तस्मान्न श्रु- तिविरोध इत्युक्तम् । ततस्तृतीये ननु वेदात् कर्म ज्ञात्वा पश्चात् कर्तव्यं देवैः, तत्र देवानां कर्मकरणं वदन् वेदो देवानामधिकारं वदेत् । देवाय जन्या इति वेदार्थज्ञानस- मये तेपाममायाद, शमी चात्माश्रय इति कर्मकर्तृणांज्ञातृलेन वक्तुमशक्यत्वात् कर्मकर्तृ- विरोषः। वेदय तेपां वृत्तानं पदन् स्वयं कयं निरसो भवेत् । अतो वेदानित्यत्वापादक- १६ . १ श्रीपुरुषोत्तमविरचिता। वादयं देवाधिकारपक्षो न सङ्गत इति सूत्रांशेनाशय, अंशान्तरेण समाधिमाह, श- ब्दोक्ताः पदार्थाः सर्वे एवाधिदैविका भगवदवयवरूपाः, शब्द एव विद्यन्ते, निसास्तैः सह पदानां सम्बन्धोपि नित्य इति न वेदस्यानित्यत्वम् । इदमेव चतुर्थेन सूत्रेण वक्त- व्यम् । न च वैदिकपदार्थानामतिरिक्तवाङ्गीकारे प्रत्यक्षविरोधः शङ्यः । इदानीमपि यज- मानविक्प्रभृतीनां वेदादेव सपरिकरकर्मावगर्वृद्धव्यवहारादिना दर्शनेन वैदिकपदार्था- न्तरेष्वपि तेनैवावगतिसम्भवात् । अतो यैर्भगवान् दृष्टस्तेषां तु तत्रैव सर्वपदार्थदर्शनाचे- प्वेव सङ्केतग्रहः, ततोर्वाचीनानामिदानीन्तनपर्यन्तानां तूपमानात्तेषु सङ्केतग्रहः, भगवतः सर्वानुकारित्वात् । किञ्च, यथा 'जमदग्नीनां पञ्चावत्त'मित्यत्र खस्मिन् जामदश्य इति प्रत्यक्षज्ञानाभावेपि परोक्षानुभवो भवति, तथा वैदिकप्रपञ्चस्यापि परोक्षानुभवो भवत्येवेति वैदिकप्रपञ्चोतिरिक्त एव । तस्मान्न ज्ञाने कर्मकर्तृविरोध इति सूत्रद्वयेनोक्तम् । ततः पञ्चमे ननु भवत्वेवं वैदिकसृष्टिरतिरिक्ता, तथापि 'यतो वा इमानि भूतानि जायन्ते' इत्यादिपु सृष्टयादिरुच्यते इति तदनुरोधेनानित्यापि सृष्टिदे उच्यते इत्यङ्गीकार्यम् । तथा ये देवाः कर्म कुर्वन्ति तेप्यनित्या इति च । एवं सति वेदस्य तद्वाचकत्वे शब्दार्थयोनित्यसम्बन्धविरोधः, अतस्तदभावार्थमाकृतावेव सम्बन्धो वक्तव्यः । तथासति किं जैमिनिमतदूपणेनेत्याशय, लोकदृष्टिमङ्गीकृत्य तद्रीत्यापि समाधानमाह । यद्यपि सर्वस्य भगवद्रूपत्वादुत्पत्तिप्रलययोः सञ्चरप्रतिसञ्चररूपत्वेन वस्तुनित्यत्वाबाधकतया दर्शनादर्शनयोरेव नित्यानित्यत्वपर्यवसा- नम्, न तु वस्तुनीति न काचिदाशङ्का । तथापि लोकदृष्टया प्रपञ्चस्स देवादीनां चानित्य- त्यागीकारे तत्तत्प्रवाहे एव शब्दसम्बन्धः । लोकेपि शरीरगङ्गाप्रभृतिषु प्रवाहे एव शब्द- सम्बन्धदर्शनात् । अतो देवादीनां तत्कर्मणां चानित्यत्वेपि तत्प्रवाहस्य नित्यत्वात् तद्वो- धके वेदेपि नानित्यत्वं शङ्कितु शक्यते इति । ततः पष्ठसूत्रे ननु यद्यपि श्रुतिविरोधप- रिहारेण कर्मण्युपासने च देवानामधिकारः प्रतिपादितस्तथापि छान्दोग्ये 'असौ वा आ- दित्यो देवमध्वि'त्यादिनोक्तायां मधुविद्यायां स न सङ्गच्छते । तत्र मधुत्वेनोपवर्ण्यमानस्या- दित्यस्य विद्याविषयत्वात् स कमन्यमादित्यमुपासीत । एवं संवर्गविद्यादिपु वाय्वादीनां वि- पयत्वात्तेपामप्यनधिकारो वोध्य इत्यायुक्तम् । ततः सप्तमे 'अग्निः पुच्छस्य प्रथम काण्ड'- मित्यादिश्रुतिध्वम्यादीनां देवानां ज्योतिर्गणे विद्यमानत्वकथनात्तेषां च तर महाभोगक- थनात्प्राप्तफलस्त्रेनोपासनायामधिकारो न सङ्गत इत्येवं जैमिनिमतेनाशतितम् । ततोऽष्टमे तत्परिहारमाह, वेदे हि प्रजापत्यादीनां कर्माधिकारी निरूप्यते, 'प्रजापतिरकामयत प्रजा- येयेति', 'स एतमग्निहोत्रमिथुनमपश्यत्, तदुदिते सूर्येऽजुहोदि'त्यादिषु । तथा ज्ञानेपि श्रूयते, 'तद्यो यो देवानां प्रत्यबुध्यत स एव तत्तदभव'दित्यादिषु । अन च भूतार्थवादः, तेन स्वार्थे प्रमाणं न स्यात् तदा तादृशाग्निहोनहोमेन तादृशज्ञानेनान्यस्यापि फलं न २ विषयतया देवानामधिकार इति पाठ.। १ आदित्यानामिति पाठ।

, , १४ वेदान्ताधिकरणमाला। स्यात् । अतः कर्मणि ज्ञाने चाधिकारोयमवश्यमभ्युपेयः । ये पुनरुपास्यत्वेन तत्रोक्तास्ते भगवदंशा एव । 'न ह वै देवा अश्नन्ति न पिवन्ती'त्यनशनतादिरूपालिंगात् । इदं च पूर्वमेव साधितम् , तथापि जैमिनिमतनिराकरणाय पुनरुक्तम् । एवमष्टभिः सूत्रै- देवानामधिकारो वेदनित्यत्वं च प्रसङ्गानिर्णीतम् ॥ ८॥ ततो नवमे पञ्चसूत्रे शुगस्येत्यधिकरणे शूद्राणां ब्रह्मविद्यायामधिकारोनुप्रस- जानिराकृतः । तत्र प्रथमसूत्रे छान्दोग्यस्था संवर्गविद्या विपयत्वेनोपन्यस्ता । तत्र च जानश्रुति 'हा शूद्रे'त्येवं सम्बोध्य पश्चात् संवर्गविद्योपदिष्टा । तस्माजातिशूद्रस्याप्यधि- कार इत्याशङ्कायाम् , नात्र शूद्रशब्दो जातिवाची, किन्तु शुचा आद्रवतीति शूद्र इति यौगिकः । अतो योगेन जानश्रुतेर्मत्सरित्वं बोधयति । तेन पूर्व धिक्कारः, पश्चाचोपसरणेन मत्सरत्यागे विद्योपदेश इति नात्र जातिशूद्रस्याप्यधिकार इत्युक्तम् । ततो द्वितीयसूत्रे जानश्रुतिजातेः श्रुतावनुक्तत्वात् योगापेक्षया च रूढेः प्रबलत्वादत्र शूद्रशब्दो रूढ एव सन् जानश्रुतिजाति बोधयतीति जातिशूद्रस्याप्यधिकारोस्त्वित्याशङ्कायां जानश्रुतेः क्षत्रि- यत्वमुत्तरत्र प्रकरणान्तरे काक्षसेनिपदादवगम्यते । कक्षा स्पर्धास्थानं सेना रथा यस्येति कक्षसेनस्तस्यापत्यं काक्षसेनिरिति क्षत्रियलिङ्गात् । यद्यपि तत् प्रकरणान्तरम् , तथापि छन्दोगानां द्विराने 'एतेन वै चैत्ररथं कापेया अयाजय'नितिश्रवणात् 'समानान्वयानां स- मानान्वया एव याजका भवन्तीति कापेयसम्बन्धेन काक्षसेनेः क्षत्रियत्वमवगतम् । अतो लिङ्गयलादस्य क्षत्रियत्वावगतः जानश्रुतेः जातिनिर्धार्यते । तस्माजातिशूद्रस्य नाधिकारः । यत्र परम्परितब्रह्मविद्यायामपि नाधिकारस्तत्र साक्षाद्ब्रह्मविद्यायां तु शङ्कितुमपि न शक्यते इत्युक्तम् । ततस्तृतीये श्रौतेषु साधनेषु सर्वत्रोपनयनसंस्कारपरामर्शाच्छूद्रे च तदभावान्ना- धिकार इत्युक्तम् । ततश्चतुर्थे 'सत्यकामो ह जाबाल' इत्यत्र जावाले शूद्रत्वाभावनिर्धारण एव गौतमेन तस्मिन् शिष्यभावः प्रवर्तितः । तस्मादपि जातिशूद्रस्य नाधिकार इत्युक्तम् । ततः पञ्चमे शूद्रस्य वेदे श्रवणाध्ययनार्थज्ञानानां निषेधश्रावणात् स्मृतिष्वपि वेदाक्षरविचारेण शूद्रस्य पातकयनाच नाधिकार इत्युक्तम् । एवमिदं प्रासनिकमधिकरणद्वयम् ॥९॥ ततो दशमे एकसूत्रे कम्पनाधिकरणे कठवल्लीस्थं 'यदिदं किञ्च जगत् सर्व'- मितिवाक्यं विषयत्वेनोदाहृत्य, किमोन्द्रः प्राणो ब्रह्म वा निरूप्यते इति सन्देहे, प्राणेन्द्रौ निवार्य, सर्वजगकम्पनाद्धेतोर्मीवात्रोच्यते इति निर्धारितम् । तेनावतारदशायामपि भगवतो दण्डपाणित्वयोधनाय तर जीवानां सन्नतये च मगवत इदं कार्य प्रसङ्गेनाव- सरेण वा विचारितम् ॥१०॥ तत एकादशे एकसूत्रे ज्योतिर्दर्शनाधिकरणे दहरविद्यास्थं 'परं ज्योतिरुप- सम्मपतिवाक्यं विपयलेनोपन्यस्य, ज्योतिःशब्देन महाभूतरूपं ज्योतिरुच्यते, उत ब्रह्म वेति सन्देदे, महामूतरूपं ज्योतिर्निवार्य, सम्पत्तिरूपाद्दर्शनाद्रीवात्र निरूप्यते इति प्रस- १५ श्रीपुरुषोत्तमविरचिता। झाद्विचारितम् । तत्प्रयोजनं तूपसम्पत्तव्यत्वोपसम्पन्नस्वरूपाभिनिष्पादकत्वपूर्ववाक्यगतह- यत्वोत्तरवाक्यगतसत्यपदोक्तमामृतनियामकत्वरूपाणां चतुणां धर्माणां निष्कर्षार्थत्वान्न ज्योतिश्चरणाधिकरणेन गतार्थता ॥११॥ ततो द्वादशे एकसूत्रेऽर्थान्तरव्यपदेशाधिकरणे छान्दोग्यसमासिस्थमाकाशो वै नाम नामरूपयोनिहिते'तिवाक्यं विषयत्वेनोपन्यस्य, तत्र भूताकाशो ब्रह्म वेति सन्देहे, मूताकाशस्य यत्प्रयोजनं वायुजनन तस्माद्भिन्नस्य प्रयोजनस्य नामरूपनिर्वाहकत्वरूपस्य कथना, ब्रह्मादिश्रुतीनां च कथनाद्, प्रौवाकाश इत्युक्तम् । तेनान्यवाचकपद्- वाच्यस्य यत्रैव तद्धर्मातिरिक्तधर्मकथनं तत्रान्यवाचकपदस्य ब्रह्मपरत्व- मिति न्यायवोधकमिदमधिकरणमिति प्रसङ्गादुक्तम् । अतो न तद्धर्माद्यधिकरणादिना गतार्थता ॥१२॥ ततस्त्रयोदशे दिसूत्रे सुषुप्त्युत्क्रान्त्योरित्यधिकरणे बृहदारण्यकसं ज्यो- तिर्बाह्मणं शारीरव्राह्मणं चेत्युभयं विपयत्वेनोपन्यस्य, तयोः किं जीववाक्यत्वमुत ब्रह्मवाक्य- त्वमिति सन्देहे, उपक्रमस्यासजातविरोधत्वेन प्रायल्यात् , तत्र च 'कतम आत्मे' तिप्रश्ने 'योयं विज्ञानमयः प्राणेषु हृद्यन्तोतिः पुरुष' इति शारीरलिङ्गात् , 'योयं विज्ञानमयः प्राणे' ष्विति काण्वपाठे उपसंहारे च तादृशवाक्याद्, यद्यपि संसारी प्रतीयते, तथापि मध्ये 'ध्यायतीवेत्यादिसंसारिधर्मनिराकरणादुपसंहारे च 'स वा एप महानज आत्मेति- संसारधर्मरहितपरमेश्वरात्मवोधनादन्यैश्च हेतुभिः परमात्माभिन्नो संसारी मुक्तो जीवः प्रति- पाद्यते इति पूर्वपक्षे, यदि मुक्तो जीवो ब्रह्माभेदेनात्र प्रतिपाद्यः स्यात्तदावस्थाभेदस्याप्रयो- जकत्वात्सुपुप्तावुत्क्रान्तौ च जीवं परमेश्वरान्न भिन्यात् , प्रतिपिपादयिपितेऽभेदे अवस्थया भेदकथनस्य निष्प्रयोजनतया वैयर्थ्यप्रसङ्गात् , जाग्रत्स्वप्नयोरज्ञत्यादिवैशिष्टयस्य प्रत्यक्ष- सिद्धत्वेन सुषुप्तिमरणयोस्तमोभिभवादज्ञानादिवैशिष्टयाज्ञानेपि सौपुप्तिकस्मरणेन मृतानां भूतादिभावदर्शनेन चानुमानसिद्धतया तत्कथनवैयर्थ्यानपायाच । अतो यत् ज्ञायमानाव- सासिद्धं भेदमनुवदति तदसंसार्यवस्थायामपि भेदयोधनायैवानुवदति । 'यथोदकं शुद्धं शुद्धे आसिक्तं तागेव भवति एवं मुनेर्विजानत आत्मा भवति गौतमेति काठकेपि तथैव श्रावणात् । न च तईपक्रमाद्यनुरोधादसंसारी परमेश्वरसमानधर्मा जीवो वायोस्विति शक्यम् । उपक्रमादिष्वपि तयार्थाभावात् । तथाहि । उपक्रमे 'किं ज्योतिरयं पुरुप'इति प्रकाशकप्रश्ने 'आदित्यायनन्तरमात्मज्योतिरित्युत्तरे संसारिणः पुरुषस्य प्रकाशापेक्षित्वे- नाप्रकाशकत्वात् 'प्रकाशक आत्मा क' इत्याशयेन पृच्छति 'कतम आत्मेति । तत्र स्पष्टतया वक्तव्येप्युत्तरे याज्ञवल्क्यो 'न वदिष्ये' इति खाभिसन्धेर्वरदानस्य चानुरोधात् लिष्टमेवोत्तरं दत्तवान् । अतस्तद्विचारे 'अत्रायं पुरुषः स्वयं ज्योतिर्भवतीति निगमनवाक्ये परमात्मैव स्वयंपदवाच्यः सिध्यतीत्युपक्रमगतःप्रश्नः सामान्योप्युत्तरे तत्पर एव पर्यवसति ।

वेदान्ताधिकरणमाला। तथापि लिष्टप्रयोगात् जनकेन सोर्थः सम्यङ् न ज्ञातः, किन्वेतावत् ज्ञातं संसारिव्यतिरिक्त आत्मा प्रकाशक इति । ततस्तत्सन्देहवारणाय पृच्छति 'विमोक्षाय ब्रूही'ति । तदापि पूर्वो- तानुरोधात् 'स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वे'त्यादि श्लिष्टमेवोत्तरं दत्तवान् । तदा सुपुप्तौ जीवस्यासङ्गत्वे उक्तेपि जनकस्य सन्देहो न निवृत्त इति पुनर्मोक्षाय पृच्छति । तदा पुनरपि तथैव वदन् मत्स्यादिदृष्टान्तेन स्वप्नसुषुप्ती अवस्थे उक्त्वा, सुपुप्तौ असङ्गादपि जीवात् परमात्मानं भेदेनाह, सम्परिप्वक्तस्त्रीपुंदृष्टान्तेन । तदापि जनकस्य प्रकाशकसन्देहो न निवृत्त इति पुनर्मोक्षाय पृच्छति । तदा पुनरपि श्लिष्टवाक्येनैवोत्तरे, पुनरपि मोक्षाय पप्रच्छ । तदा याज्ञवल्क्यो राज्ञो मेधावित्वाद्रीतः संसारिणो जीवस्य मरणावस्थां वदन् परमेश्वराजीवस्य भेदमाह । तदापि श्लिष्टप्रयोगात्तस्य सन्देहो न निवृत्त इति तदानीमकाम- यमानस्य सद्योमुक्तिमाह । तत्र 'ब्रह्मैव सन् ब्रह्माप्येती'तिश्रुतेः 'प्राज्ञ आत्मा ब्रह्मैवेति च श्रुतेर्जीवस्य ब्रह्मभाव एव मुक्तिः । प्राज्ञ आत्मा ब्रह्म योस्ति स एव प्रकाशकस्तज्योतिपैवायं जीवः सर्वं करोतीति ज्ञात्वा जनकः 'सोहं भगवते सहस्रं ददामी'त्युक्तवान् । तदा याज्ञवल्क्यः श्लोकैः सर्व शास्त्रार्थमुक्त्वा स एष आत्मेत्यादिना तमेवार्थ स्पष्टमुक्तवान् । सदा जनको विदेहान् स्वात्मानं च तस्मै दत्तवान् । याज्ञवल्क्योपि तथा विद्यां समापितवान् । अत उपक्रमोपसंहारयोः परमात्मन एव प्रकृतत्वसिद्ध्या तस्यैव प्रकरणित्वम्, न तु ब्रह्म- भावापन्नस्य जीवस्येति सिध्यति, समाप्तौ पत्यादिशब्देभ्यश्च । तस्मादिदं ब्रह्मवाक्यमेवेति । अत्र पादे उपास्यरूपाण्याधाररूपाणि च विचार्य ब्रह्मातिरिक्तानामनुकारित्वं च वि- चार्य समाप्तौ यत् जीवब्रह्मणोर्भेदः साधितः, तेन मुक्तिदशायामपि जीवस्यानुकारित्वमेव, तदात्मकत्वात्, न त्वत्यन्ताभेदः, सर्वथा तौल्यं वेति प्रसङ्गादुपोद्घातादेति विचारितम् १३ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्बरात्मजपुरुपोत्तमस्य कृती वेदान्ताधिकरणमालायां प्रथमाध्यायस्य तृतीयः पादः ॥ . अतीतेपु पादेपु प्रथमे कार्यरूपवाक्यानि, द्वितीये अन्तर्यामिवाक्यानि, तृतीये उपास्यरूपवास्यानि विचार्य, सर्वेषां वेदान्तानां ब्रह्मणि समन्वयः प्रतिपादितः । तद्दा- यि प्रकीर्णकानि वाक्यानि विचार्यन्ते । तेपां च जीवजडसमुदायात्मकार्यनिरूपकतया कापिलमतीतताप्रमजनकत्वं प्रकीर्णत्वमिति तद्भमनिरासायोपोताततया तेषां विचारः । तत्र प्रधमस्य सप्तसूत्रस्यानुमानिकाधिकरणस्य प्रथमसूत्रे 'इन्द्रियेभ्यः परा पर्या' इति काठकवाक्यं विषयत्वेनोपन्यस्य, तत्र ज्ञानकर्ममयाणि दशेन्द्रियाणि भूतमा- पामेदमिन्ना दशार्या मनोवुझ्यहकारमहत्तत्त्वाव्यक्तपुरुषाः साइख्यमतसिद्धाः पदार्थास्तत्रो- च्यन्ते इति कापिठमतमपि श्रीतमिति 'आनुमानिकमप्येकपामिति चेदितिसूत्रांशेनाशक्य, अंशान्तरेण समाधानमाह । नात्र तन्मतसिद्धाः पदार्था उच्यन्ते, किन्तु पूर्वमात्मानं रयिनं क्यत्वम्, नान्येषामित्यत्र नियामकाभावेन प्रकरणस्यैव निर्णायकत्वं वक्तव्यम् । तच 'मतं - श्रीपुरुषोत्तमविरचिता। विद्धी'त्यादिना शरीररूपकं यदुक्तं तत्रत्या ये रथादिभावेन पदार्था निविष्टास्ते एवात्रा- स्मिन् वाक्ये गृह्यन्ते। एतद्धि जीवप्रकरणम् । अत्र च तस्य मुक्त्युपायो निरूप्यते । 'योग्यं शरीरमारुह्य हरेः पदं गच्छे दिति । तत्र योग्यं शरीरं रथः, आत्मा रथी, इन्द्रियाणि हयाः, बुद्धिः सारथिः, मनः प्रग्रहः, भगवदीया विषयाः, तेषां हयानामात्मरूपाः सम्यक्त्वेन भावितत्वात् । बुद्धरात्मा ब्रह्मविपयं विज्ञानं तन्महत्तत्त्वेनोच्यते । अव्यक्तं तु भगवत्कृपैव, पुरुषस्तु भगवानेवेति ब्रह्मवाद एवात्र सिध्यति, न साङ्ख्यमतम् । यतोग्रे 'एप सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वय्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिमि'रिति- मत्रेणात्मदर्शनपरिकरतयैवत उच्यन्ते । तस्माद्ब्रह्मवाद एवात्रेत्युक्तम् । ततो दितीये सूत्रे अव्यक्तशब्देन भगवत्कृपा वक्तुं न शक्यते, अत्र धर्मिप्रवाहमध्ये धर्मरूपायास्तस्या वक्तुम- शक्यत्वादित्याशय, अत्राव्यक्तशब्देन सूक्ष्ममुच्यते, तच्च ब्रह्मैव, धर्मधर्मिणोश्चाविनाभावेन स्थितत्वादभेद इति तदभिन्ना कृपैवात्रोच्यते इत्यदोप इत्युक्तम् , योग्यतावलात् । तथा चन प्रायपाठविरोध इत्युक्तम् । ततस्तृतीये ननु ययुक्तयुक्त्या कृपाया ब्रह्मत्वम् , तदाऽभिन्नत्वे ब्रह्मभिन्नत्वमसङ्गतम् । अथ कयाचिद्युक्त्या तस्या धर्मत्वम् , तदा धर्मिप्रायपाठविरोध इत्युभयथापि दोषात्पूर्वसूत्रोक्तमसगतमित्याशय, कृपाया ब्रह्माभिन्नत्वेपि ब्रह्माधीनत्वाद- सभिन्नत्वम् , ब्रह्मभिन्नत्वात् ब्रह्मनियम्यत्वम् । अतो यथैकरूप्येण ग्रहणमभेदे युक्तिः, तथा नियम्यनियामकभावोपि भेदे युक्तिरित्युभयथाप्युपपन्नम् । न चाभेदेनैकत्वे नियम्य- नियामकभावानुपपत्तिरिति शक्यम् । 'ब्रह्मविदाप्नोति पर'मित्यत्रैकस्यैव ब्रह्मणः सच्चिद्रपेण विषयत्वम् , आनन्दरूपेण फलत्वमितिवटुपपत्तेः । तथा च कृपाविष्टः साधनम् , आनन्द- रूपः फलम् । अथवा, अव्यक्तं सचिद्रूपमक्षरम्, आनन्दरूपः पुरुष इति तयोरभेदेपि परापरभावो युक्तः । अदृश्यत्वाद्यधिकरणे तथा साधितत्वात् । तस्मा दिन्द्रियेभ्यः परा' इतिवाक्ये आनुमानिकं न किञ्चिदस्तीत्युक्तम् । एवं त्रिभिः सूत्रैर्वाक्यानां पूर्वापरसम्य- न्धेन मतान्तरं निराकृत्य ब्रह्मवादः प्रतिपादितः । इदानीं तु केवलैतद्वाक्यविचारेण मता- न्तरं निराकरोति । ततश्चतुर्थेऽस्मिन् वाक्येऽव्यक्तं ज्ञेयखेनोच्यते । कापिलमते तु 'गुणपुरुपान्तरज्ञानात्कैवल्य'मितिप्रवचनसूत्रात् प्रकृतिपुरुपयोरन्तरं मोक्षार्थ ज्ञेयम्, न त्वव्यक्तरूपा प्रकृतिः । अतो ज्ञेयत्वावचनादपि नात्र तन्मतसिद्धिरित्युक्तम् । ततः पञ्चमे ननु ज्ञेयत्वावचनमसिद्धम् , एतदुत्तरवाक्ये 'अशब्दमस्पर्शमरूपमव्यय'मित्यत्रा- व्ययस्य 'महतः परमव्यक्त'मित्यत्र महतः परस्याव्यक्तस्य ज्ञानान्मुक्तिश्रावणादितिसूत्रांशे- नाशय, अंशान्तरेण समाधानमाह । अत्र सन्दर्भ श्रुतिलिङ्गवाक्यानां सन्दिग्धत्वान्न निर्णायकत्वम् , अतो महतः पर'मितिवाक्यस्या शब्दमस्पर्श' मितिवाक्यस्य चेति द्वयोरेकवा- पिबन्ता वित्यारम्य 'नाचिकेतमुपाख्यान'मित्यन्तमेकं प्रकरणम् । तत्र चात्मानावेव परा- ३ वेदा० वेदान्ताधिकरणमाला। मृश्य जीवात्मनो रथित्व तदुपकरण फल चोक्त्वा, अग्रे 'एष सर्वेषु भूतेष्वि'त्यारभ्यास. माप्ति परमात्मैव ज्ञेयत्वेन परामृश्यते इति मृत्युमुखाप्रमोकरूप फल चोच्यते । अतः प्राज्ञः परमेश्वर एवानार्थ., नाव्यक्त प्रधानम् । अतो ज्ञेयत्वावचन नासिद्धमित्युक्तम् । तेन प्रकरणस्य नियामकत्वादशब्दवाक्यमपि भगवत्सरमेवेत्युक्तम् । ततः पठे ननु नेदमेकं प्रकरणम् , फ़िन्त्विन्द्रियेभ्यः परा' इत्सारभ्य 'नाचिकेतमुपाख्यान'मित्येक भिन्न प्रकरणम् । तर प्रथमं पदार्थान्निर्दिश्य, ततोग्रे पुरुपज्ञान चोच्यते इति सासयमतस्यापि निरूपणात्तस्या- श्रौतत्वमसङ्गतमित्याशय, तर परिहारमाह । अब हि तय प्रश्नाः, अग्निजीवब्रह्मविषय- काः । तेषामुत्तराणि च त्रीणि । तर 'स त्वममि मितिप्रश्ने 'प्रतिब्रवीमी'त्याद्युत्तरम् , ततो 'येय प्रेते' इतिजीवप्रश्ने 'देवैरत्रापी'त्याद्युत्तरम् । ततो'न्यवधर्मादि तिब्रह्मप्रश्ने 'सर्वे वेदा' इत्याद्युत्तरम् । अतस्त्रय एव प्रश्ना. वीण्येवोत्तराणि च । यदि साहयमत मिन्द्रि- येभ्य' इत्यादि स्यात्तदा चतुर्थे प्रश्नोत्तरे स्याताम् । ते तु न स्त इति नान तन्मतसिद्धि- रित्युक्तम् । ततः सप्तमे ननु मतान्तरेन्यन प्रसिद्धा. शब्दा ब्रह्मवादे ब्रह्मपरतया कथ योजयितु शक्या इत्याशझ्य, महद्दृष्टान्त उक्त । यथा महच्छब्दो 'महान्त निभुमात्मान' मित्यादौ ब्रह्मपरः, तथाव्यक्तशब्दोप्यक्षरपरः । तस्मादिन्द्रियादिवाक्येन न साहयमतसि- द्धिः, किन्तु ब्रह्मवाद एवान सिध्यतीत्युक्तम् ॥ १॥ ततो द्वितीये त्रिसूत्रे चमसवदित्यधिकरणे 'अजामेका मित्यादीनि श्वेताश्वतर- वाक्यानि विपयत्वेनोपन्यस्य, एतेषु मन्त्रेप्वजादिशब्दै प्रकृति परामृश्यते, मुक्तामुक्तभेदे- न जीववैविध्यमजाया प्रकृतेरेकत्वमग्रे कपिलस्य नाम च पठ्यते । यद्यपि किंकारणेत्युपक्रमा- द्रह्मविद्यात्वेनोपनिपत् प्रतीयते, तथापि पूर्वकाण्डे यथा प्रणवादिमत्राणा नानास्थले विनि- योगान्न प्रकरणानुरोध., तथैतेष्वपि मधेपु कपिलमतप्रत्यभिज्ञानानोपक्रमाद्यनुरोध इति साहयमतमपि वैदिकमितिशहायाम् , पूर्वसूनेण समाविमाह । यथा 'अर्वाग्विलश्चमस' इतिवृहदारण्यकमन्ने कर्मविशेषः । तत्राग्विल चमस योरूप सोम सप्त होतारो भक्ष- येयुरिति कल्पयितु न शक्यते, तथा प्रकृतमत्रे लोहितशुक्लादिशब्दै. रज सत्त्वादि कल्प- यित्वा तद्वशेन सर्पमेन मत कल्पयितु न शक्यते, विशेषाभावात् । कपिलवाक्येपि कपि- रशन्देन ब्रह्मवोच्यते, न त्वनित्यर्पिः, नित्यानित्यसयोगप्रसङ्गादित्युक्तम् । ततो द्वितीय- सने ननूक्तम्य चमसमग्रम्य च्याख्यान 'शिरश्चमस'इत्यादिना श्रुतौ क्रियते, तथान मत्र- प्याख्यानाभावात्तद्दृष्टान्तोन न युक्त इत्याशदा तुशब्देन परिहरन्नजाशब्दार्थकथनमुपेन समाधत्ते । अनाजाशन्दन ज्योतिरच्यते, प्रथमकार्यरूपत्वाचतुर्मुसाजसन्यायेन । यथा- जान्पदोग्धी, तथरेय नवरफलदानीतियोवनाय चाजाशन्देनोच्यते । सत्यकामनादाणेनि- सोमसूर्यविद्युपयरणरूपतया हमेनोक्तचतुष्कलो यो ब्रह्मणः पादम्तपत्वात् ज्योतीरूपा निवृत्तवानिवर्णा ज्योतिरेवामाशब्देनोच्यते । अनोपक्रमे प्रमणः प्रकृतत्वात् 'तदेवाग्नि- . । .

१९ , श्रीपुरुपोत्तमविरचिता। स्तद्वायुस्तदादित्यस्तदु चन्द्रमा'इतिकथनाच । सा च चेतनाधिष्ठिता, मध्ये 'द्वासुपर्णे'ति मत्रकथनात् , अजद्वयं च जीवब्रह्मरूपं ताभ्यामधिष्ठिता । सा च प्रथमसृष्टिरवादिजननेन बहुप्रजास्रष्ट्री चेति । एतच्छन्दोगशाखायामधीयते । अतस्तदनुसारेणायमेवार्थः, न तु मतान्तररूप इत्युक्तम् । ततस्तृतीये ननु शब्दस्य वृत्तिद्वयं योगो रूढिा । तत्र न जायते इति योगः प्रथमसृष्टौ न सङ्गच्छते, जननात् । रूढिस्तु छाग्याम् , साप्यत्र न सङ्गच्छते, तदाकाराभावात् । अतः कथमजाशब्देन प्रथमसृष्टिप्राप्तिः । सास यमते तु प्रधानस्य जननानङ्गीकाराद्योगो निर्वाधः । तस्मात्सास यमतमेवादर्तव्यमित्याशङ्कायां समा- धिमाह । अन्न हि किञ्चित्कार्यार्थ परोक्षवादेनाजाशब्दस्तस्यां कल्पनयोपदिश्यते । यथाजा चर्करसहिता सवत्सा स्वामिहिता, तथेयं जीवविशिष्टा कार्यवती भगवल्लीलोपयोगायेति भगवतः परोक्षप्रियत्वाचेति । तथा च यथा मध्वादिविद्यायां 'असावादित्यो देवमध्वि' यादौ ( कल्पना, तथैवात्र)। अतो गौण्या तथोपदिश्यते । तस्मानाजामश्रेण साक्ष्य- मतसिद्धिरित्युक्तम् ॥ २॥ ततस्तृतीये त्रिसूत्रे न सङ्खयोपसङ्ग्रहाधिकरणे 'यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठित'इतिवाक्यं विषयत्वेनोपन्यस्य, तत्र 'पञ्च पञ्जजना' इतिशब्दे पञ्च च ते पञ्च च पञ्चपञ्च, तादृशाश्च ते जनाश्च पञ्चपञ्चजना इत्येवं समस्य, अनेन शब्देन पञ्च- विंशतिसङ्घचासङ्ग्रहादत्र साञ्जयसिद्धानि पञ्चविंशतितत्त्वान्युच्यन्ते इति साक्ष्यमतसिद्धिरि- त्याशय निषेधति । अत्रानेन समासेन पञ्चानां समूहानां पञ्चतया तदुक्ता सहया सिध्य- ति, न त्वन्यथा । तेषां तु न समूहाः पञ्च । 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । पोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुष' इतिभिन्नप्रकारेण सङ्घयाव्युत्पादनात् । मत्रे आकाशस्यात्मनश्च ततोतिरेकेणोक्तत्वाच । तस्मान्न तन्मतसिद्धिरिति प्रथमसूत्र उक्तम् । ततो द्वितीयसूत्रे तहि को वा मन्त्रार्थः, किं च तत्र प्रमाणमित्याकालायां युद्धेः संश- याद्याः पञ्च वृत्तीर्जनयन्तीति पञ्चजनास्तादृशा ये प्राणादयः पञ्च तेत्र पञ्च पञ्चजनशब्दे- नोच्यन्ते । अत्र 'प्राणस्य प्राणमुत चक्षुपश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदु'रितिवाक्यशेपः प्रमाणम्, 'सन्दिग्धेषु वाक्यशेषा' दितिन्यायात् । तस्मान्न तन्मत- सिद्धिरित्युक्तम् । ततस्तृतीयसूत्रे ननु वाक्यशेपे कण्वशाखायां 'अन्नस्यान्न मिति पाठा- भावात् पञ्चवृत्तिजनकानां प्राणादीनां पञ्चसङ्ख्याकत्वं नास्तीति न वाक्यशेपस्य निर्णाय- कत्वमितिशङ्कायाम्, 'तद्देवा ज्योतिपां ज्योतिर्वायुर्होपासतेऽमृत'मिति पञ्चमस्य ज्योतिषः पाठातेन सध्यापूर्तिरिति वाक्यशेपस निर्णायकत्वमक्षुण्णम् । तस्माद्ब्रह्मवाद एवात्र, साह्ययमतसिद्धिरित्युक्तम्। एवमेतैस्त्रिभिरधिकरणः श्रुतीनां ब्रह्मणि समन्वयार्थमुपोद्धातेन साइचमतस्य श्रौतत्वं निराकृतम् ॥३॥ अतः परमग्रिमैः श्रुतिविप्रतिषेधं निराकरोति । तत्र चतुर्थे एकसूत्रे यथाव्यपदि- .

२० वेदान्ताधिकरणमाला। टाधिकरणे ननु श्रुतौ सृष्टिप्रकारा बहुधा दृश्यन्ते, क्वचिदाकाशादिका, कचित्तेजआदि- का, क्वचिच युगपत् सर्वसृष्टिः । तकस्य पदार्थस्य नानाप्रकारतया वक्तुमशक्यत्वात्सृष्टि- वाक्यानामर्थवादत्वेन ब्रह्मस्वरूपमानज्ञापकत्व वक्तव्यम् ,न तु सृष्टौ तत्प्रकारे वा तात्पर्यम् । अतोध्यारोपापवादेन ब्रह्मणस्तटस्थत्वसिझ्या न पूर्वोक्तरूप कारणत्व सिध्यतीति श्रुति विहाय कपिलस्मृत्युक्तप्रकारेणैव जगद्व्यवस्थाङ्गीकार्येत्याशङ्कायाम्, आकाशादिवाक्येषु यद्यपि क्रमादिविप्रतिपत्तिः, तथापि ब्रह्मणः कारणत्वरिप्रतिपत्तिास्ति । एकत्र यादृश ब्रह्मोच्यते तादृशमेव सर्वेषु सृष्टिवाक्येषु कारणत्वेनाभिप्रेयते । क्रमप्रकारादिभेदस्तु माहात्म्यस्यैव सूचकः । तस्मात् श्रुत्यैव निर्णय इति कारणत्वाशे स्मृतिन ग्राह्येत्युक्तम् ॥ ४ ॥ ततः पञ्चमे एकसूत्रे समाकाधिकरणे ननु श्रुतौ क्वचित्सतः कारणत्वमुच्यते, क्वचिदसतः, क्वचिदुभौ निपिध्य तमसः, क्वचिदव्याकृतस्पेत्येव विप्रतिषेधाद् ब्रह्मणोपि कारणत्वं न सिध्यति । तस्मात्स्मृतिरेव कारणबोधिका ग्राह्येत्याशङ्कायाम्, असदादिशब्देपु न निरात्मकत्वाद्यर्था उच्यन्ते, किन्तु ततः समाकर्ण्य सर्वै. शब्दैौवोच्यते । सर्वेषां शब्दानां प्रणवनिकृतित्वेन प्रणवार्थे एव पर्यवसानात् । प्रणवस्य च ब्रह्मनाचकत्वात् । तस्मान्न विप्रतिषेध इत्युक्तम् । एव दाभ्यां श्रुतौ शब्दविप्रतिपेध उपोद्घातेन परिहृतः ॥ ५॥ ततः पठे त्रिसूत्रे जगद्वाचित्वाधिकरणे कौषीतकिब्राह्मणपष्ठाध्यायस्थ बाला- क्यजातशत्रुसवाद विपयत्वेनोपन्यस ता किं ब्रह्मसहितो जीवः कर्तृत्वेनोच्यते, उत ब्रह्मै- व वेतिसन्देहे, ब्रह्मसहितस्स जीपस्सैव कर्तृत्वमाशका, 'यो यै चालाक एतेषां पुरुषाणां कर्ता यस्य वै तत्कर्म स वै वेदितव्य' इत्यजातशत्रुणा सिद्धान्तकथनोपक्रमे एतच्छन्देना- दित्यमण्डलादिजडोलेसात्पुरुपशब्देन च जीवोल्लेसात् जीवजडात्मक जगद्यत्कर्तृक तस्स वेदितव्यत्वकथनेन श्रुत्यन्तरसिद्धब्रह्मण एव कर्तृत्वम् , न प्रकृत्यमिमानिजीवस्येति प्रथम- सूत्रे उक्तम् । ततो द्वितीयसून्ने जीवमुख्यप्राणलिङ्गदर्शनान्न ब्रह्मण, कर्तृत्वमितिसूत्रां- शेनाशझ्य, अशान्तरेण पूर्वमनुगमाधिकरणे उक्त समाधान स्मारयामास । जीवस्य ब्रह्माश्रितत्वान्मुख्यप्राणस्य च ब्रह्मयोगादन तथालेन कथन न स्वेन रूपेण । तस्माद्र- सैय कनियुक्तम् । ततस्तृतीये सूत्रे प्रकृत्यभिमानिजीवम्य कर्तृत्वमप्यस्मिन् वा- क्येऽनभिमतम् , जीवलयोहमयोब्रह्मप्रतिपत्त्यर्थवात् । प्रश्नव्याख्यानाम्यां तथावसायात् । वाजसनेयिनामेतत्समानप्रकरणेपि तयानसायावेत्युक्तम् । एवमन जीवब्रह्मवादनिराफरणेन जीविशिष्ट प्रकृतिरेव कारणमित्येतदुपोद्घातेन निराकृतम् ॥ ६ ॥ तत सप्तमे चतुःसूत्रे धारयान्वयाधिकरणे जीवब्रह्मनादनिराकरणेन प्रकृति- कारणवादो निराफियते । तत्र बृहदारण्यकस्य मैत्रेयीबाह्मणद्वय विषयत्वेनोपन्यस्य, तर जीपम्प प्रकरणित्व ब्रह्मणो वेति सशये, वेदरूपमहावाक्यस्य प्राण्येवान्वयदर्शनात् , मुयरूपभगवदन्वयेनैव जीासापि प्रियत्वात् , सर्वोपनिषदनुरोधेनास्यापि वाक्यस्य ब्रह्म- ~ नाधिष्ठितं शरीरं तस्य शुक्रशोणितजन्यत्वदर्शनात् तत्र ब्रह्मणो निमित्तत्वम्, प्रधानस्य तु नात् ब्रह्मैवोमयरूपम् , अन्यथावधारणविरोधापत्तेः । किश्च, 'कतारमीशं पुरुषं ब्रह्मयोनि' २१ , श्रीपुरुपोत्तमविरचिता। ण्येवान्वयादत्रापि ब्रह्मैवोच्यत इत्युक्तम् । ततो दितीयसूत्रेऽस्मिन् वाक्ये ब्रह्मैवोच्यते इत्यवान्येपां ब्रह्मवादैकदेशिनां सम्मतिं वक्तुं प्रथममाश्मरथ्यमतेनाह । तन्मते हि ब्रह्मणा खस्य भोगनिष्पत्त्यर्थ विस्फुलिङ्गवत्प्रकटीकृतः खांशो जीवः, तेन जीवेनोपक्रमः, तस्यैव प्रियत्वेन संसूचनात् , उपक्रमस्य च वलिष्ठत्वात् जीवात्मैव प्रकरणीति स एव ज्ञेयत्वे- नोपदिश्यते इतिशङ्कायाम्, नात्र जीवात्मनो ज्ञेयत्वेनोपदेशः, किन्तु परमात्मन एव । जीवेनोपक्रमस्तु 'आत्मनि वा विज्ञाते सर्वमिदं विज्ञातं भवतीतिप्रतिज्ञायाः सिद्धिः तस्याः लिङ्गम् , यदि हि जीवः परमात्मनः सकाशादिन्नः स्यात्, तदा परमात्मज्ञाने तदज्ञानादात्मज्ञानेन सर्वज्ञानप्रतिज्ञा न सिध्येत् । अतस्तदर्थमुपक्रमे जीवः परामृश्यते, न तु प्रकृतिसंसृष्टस्य जीवस कारणत्वार्थमित्याश्मरथ्यमतमुक्तम् । ततस्तृतीये सूत्रे, यदत्रोपक्रमे गौणप्रियवैराग्यार्थ जीवकयनं, तत्त्वनादिसिद्धस्यापि जीवस्य संसारभावादु- स्क्रमिष्यतो मुक्तौ जीवो भगवानेव भविष्यतीति बोधनार्थ लिङ्गम्, नतु प्रकृतिसंसृष्ट- जीवस्य कारणत्वार्थम् । तस्मान्नात्र प्रकृतिसंसृष्टजीवकारणवाद इत्यौडुलोमिमतमुक्तम्।ततश्च- तुर्थे सूत्रे कयाचिदवस्थयावस्थितं ब्रह्मैव जीवः । अतः संसारदशायामपि जीवो ब्रसवेति ज्ञापनार्थ तदुपक्रमो, नतु प्रकृतिसंसृष्टस्य जीवस्य कारणत्वार्थमितिकाशकृत्स्नमतमुक्तम् । तस्माद्रीवात्र कारणत्वेनोच्यते ॥७॥ ततोप्टमे पञ्चसूत्रे प्रकृतिश्चेत्यधिकरणे प्रकृतिः समवायिकारणम् , ब्रह्म तु नि- मित्तादिकारणमित्येवमाशय, प्रकृतिशब्दवाच्यं ब्रह्मैवेति साधितम् । छान्दोग्ये एकविज्ञा- नेन सर्वविज्ञानं यत् प्रतिज्ञातं, मृत्पिण्डादिदृष्टान्तवयं च यदुक्तं, तदनुपरोधादितिहेतुश्च प्रथमसूत्रे उक्तः । तथा च यदि मूलकारणे ब्रह्मणि समवायिकारणत्वरूपं प्रकृतित्वं न वीक्रियेत, तदा प्रतिज्ञादिसामजसं न स्यात्, अतस्तथेत्युक्तम् । ततो दितीयसत्रे सृष्टौ भगवत्कृतमभिध्यानं 'बहु सां प्रजायेयेति खस्स बहुरूपत्वेन उच्चनीचभावेन च यद्विचारणं तद्धेतुत्वेनोक्तम् । तेन खयमेव तत्तद्रप इति सिध्यति । किञ्च, 'सर्व खल्विदं ब्रह्म तालानिति शान्त उपासीत' इत्येवमुपासनाप्युपदिश्यते । अतोपि प्रकृतिशब्दवाय ग्रदेव । ततस्तृतीये 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाश प्रत्यस्तं यन्तीतिश्रुत्या ब्रह्मणः प्रपञ्चोत्पत्तिलयाधारत्वं साक्षादेवोच्यते । तच्च समवायित्व- स्यैव लिङ्गम् । अतोपि प्रकृतिशब्दवाच्यं ब्रह्मैव । ततश्चतुर्थे 'तदात्मानं स्वयमकुरुतेति- श्रुतिः ब्रह्मणः परिणाममाह । परिणामथोपादानसमसत्ताककार्यापत्तिरूपः । अतोषि अझैव प्रकृतिशब्दवाच्यम् । ततः पञ्चमे ननु जडस्य समवायिकारणं ब्रह्मास्तु, यत्तु चेत- समवायित्वमित्यस्त्वित्याशङ्कायाम्, 'सदेव सौम्येदमित्यादिपु सृष्टिबोधकश्रुतिष्ववधारणदर्श । २२ वेदान्ताधिकरणमाला। मित्यादिपु योनित्वमपि ब्रह्मण एवोच्यते, पुरुषत्वं च । तस्मादक्षरपुरुषभावेनोभयरूपो भगवानेव, योनिर्बीजं च । अतः कथञ्चिदपि न प्रकृतिप्रवेशः । एवं विभिरधिकरणैरुपो- द्धातेनार्थविप्रतिषेधः परिहृतः । अतः सायमतमशब्दमेव ॥ ८॥ ततो नवमेधिकरणे एकसूत्रे अन्येपि स्मार्ता वादाः येषु ब्रह्मणः सर्वविध कारणत्वं नोच्यते, ते सर्वे अौता एवेत्यतिदिष्टम् । तदेवानिमाध्याये विस्तरेण वक्ष्यते ॥९॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्बरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां प्रथमाध्यायस्य चतुर्थः पादः। प्रथमाध्यायः समाप्तः। द्वितीयोध्यायः। प्रथमाध्याये सर्वासां श्रुतीनां ब्रह्मणि समन्वयः प्रतिपादितः । स तदा स्थिरो भवति यदा श्रुतीनां परस्परविरोधः परिहियते, अन्ये विरुद्धाःस्मार्ता वादाश्च निराक्रियन्ते। अतस्तदर्थ द्वितीयेध्याये श्रुत्यविरोधं प्रतिपादयति, विरुद्धवादांश्च निराकरोति । तत्र प्रथमे पादे युक्त्या श्रुतिविरोधपरिहारः । ततो दितीयपादे स्मृतीनां वेद- बोधकत्वाभावेपि ताभिः स्वातत्र्येण कश्चित् पुरुषार्थः सेत्स्यतीत्याशङ्कानिवृत्त्यर्थं वाह्या- वाह्यमतान्येकीकृत्य तेपां निराकरणम् । मतैकीकरणं च भ्रान्तेस्तुल्यत्ववोधनार्थम् । तृतीयपादे प्रथमं भूतानामुत्पत्तिस्वरूपमुत्पत्तिकमश्च विचायते, ततो जीवात्मस्वरूपं तद्धर्माश्च । चतुर्थे च इन्द्रियोत्पत्तिकमस्तत्स्वरूपादिकं च विचार्यते । तत्र प्रथमाध्याये 'अपि स्मयते, स्मृतेथे तिकथनेन स्मृतिप्रामाण्याङ्गीकारात् तयैव श्रुत्यर्थनिर्णयः कार्यः, अन्यथा तद्वैयर्थ्यप्रसङ्ग इत्याशङ्कानिवृत्त्यर्थं प्रथमं सूत्रत्रयेण साथ- योगस्मृत्योर्नित्यानुमेयश्रुतिमूलकत्वाभावाय प्रामाण्यमुपोद्घातेन निराकृतम् । ततः प्रथमे सूत्रे साघस्मृतेमक्षिकोपयोगित्यात् तत्प्रामाण्यमगीकृत्य तदनुरोयेनैव श्रुतिविप्रतिषेधः परिहार्यः, अन्यथा तद्वैयर्थ्यप्रसङ्गादितिसूत्रांशेनाशय, तत्प्रामाण्याङ्गीकारे 'अहं सर्वस्य जगतः प्रभवः प्रलयस्तथे' त्यादिगीतास्मृतिविरोधः । तदप्रामाण्याङ्गीकारे च ब्रह्मकारणत्वयोधकश्रुतिवि- रोषः । अतो गीतास्मृतिप्रामाण्यमावश्पकम् । तेन श्रुतिविप्रतिपेपनिराकरणे कपिलस्मृतेन प्रामाण्यमित्युक्तम् । ततो द्वितीये सूत्रे प्रकृतिव्यतिरिक्तानां महदादीनां लोके वेदे घानुपलम्भात् तदुक्तयुक्तीनामप्रयोजकत्वमित्युक्तम् । ततस्तृतीये सूत्रे पूर्वोक्तश्रुतिस्मृ- तिविरोधाद योगस्मृतिरपि सात्यवत् प्रधानकारणत्वांशेऽप्रमाणमित्युक्तम् । एतेषु पूर्व- पादोक्तवार्थस परामशीत् तदुपोदातगर्भः प्रमशः सहतिः । एवमपि वोध्यम् । प्रोग्येतानि प्रत्येकमधिकरणानीति भाप्यप्रकाशादवगन्तव्यम् ॥ १,२,३ ॥ ततचतुर्थे नियत्रे न विलक्षणत्याधिकरणे प्रथममन्नम्येन पूर्वः पक्षः ।

श्रीपुरुषोत्तमविरचिता। २३ एकेनाने सिद्धान्तः । तत्र प्रथमसत्रे चेतनं ब्रह्म जगदुपादानं न भवति, जगतो जडत्वेन ब्रह्मणस्तद्विलक्षणत्वात् । विलक्षणत्वस्य 'विज्ञानं चाविज्ञानं चेतिश्रौतशब्दादेव प्रतीतेरि- त्युक्तम् । ततो द्वितीये सूत्रे ननु 'मृदब्रवी'दितिश्रुतौ मृदादेर्वक्तृत्वादिकथनेन मृदा- दिष्वपि चेतनत्वस्य श्रुत्यभिप्रेतत्वात् जगतोपि चेतनतया ब्रह्मसालक्षण्याद् ब्रह्मकार्यत्व- मिति सिद्धान्तिनाशङ्किते, अत्र मृदायभिमानिनी देवतैव वक्तृत्वादिरूपेण व्यपदिश्यते, अन्यया 'विज्ञानं चाविज्ञानं चेतिचेतनाचेतनविभागरूपो विशेपो नोच्येत । 'अग्निर्वाग भूत्वा मुखं प्राविश'दितिश्रुतौ देवताप्रवेशो वागादिपु नोच्येत । तस्माचेतनाचेतनात्मक जगत् न ब्रह्मोपादेयमिति सूत्रद्वयेन पूर्वपक्ष उक्तः । ततस्तृतीये समाधिमाह । कार्य- कारणयो(लक्षण्यं लोके गोमयवृश्चिकादौ देहकेशादौ च दृश्यते । अतो विलक्षणत्वेन हेतुना जगति ब्रह्मोपादेयत्ववाधनं न शक्यवचनम् । सदंशस्य कार्यकारणयोस्तुल्यत्वेन सालक्षण्याच । तस्मान्न जगतो ब्रह्मकार्यत्वप्रतिषेधः ॥ ४ ॥ ततः पञ्चमे पञ्चसूत्रे असदिति चेदित्यधिकरणे असत्कारणत्वसत्कारणत्वबोध- कश्रुत्योः परस्परविरोधः परिहियते । तत्र प्रथमे सूत्रे 'असद्वा इदमग्र आसी'दितिश्रुता- वसतः कारणत्वमुच्यते । 'सदेव सौम्येद'मित्यत्र च सतः कारणत्वमुच्यते, तयोः कथं विरो- धपरिहार इत्याशक्य, उक्तश्रुतौ 'असदि'ति यत् कथनं तत् छान्दोग्ये 'कथमसतः सजायते'ति- कथनात् असतः कारणत्वनिषेधार्थम् । यत् पुनस्तैत्तिरीये तथावचनं तत् स्रक्ष्यमाणापेक्षया पूर्वसृष्टस्यासाधुत्वार्थम् , असाधुन्यप्यसदितिप्रयोगात् । कार्यस्थूलरूपसत्ताभावार्थ वा । अतो न श्रुत्योर्विरोध इत्युक्तम् । ततो द्वितीये सूत्रे ब्रह्मकारणवादे पूर्वपक्ष उच्यते । नझकारणवादे यदा कार्यस्य ब्रह्मणि लयः, तदा कार्यधर्माः परिच्छिन्नत्वाशुद्धत्वादयो ब्रह्मणि मविष्यन्तीत्यसङ्गतं अझकारणत्वमित्येवं शङ्काकरणात् । ततोनिमेषु तत्परिहार उक्तः । ततस्तृतीये ब्रह्मकारणवादो नासंगतः । कार्यस्य कारणे लये कार्यधर्मा न कारणे दृश्यन्ते, शरावरुचकादीनांमृदि लये शरावादिधर्मादर्शनादित्युक्तम् । ततश्चतुर्थे प्रतिवन्दी उक्तः । तवापि सत्कार्यवादित्वात्सविशेषस्य कार्यस्य ये धर्माः परिच्छिन्नत्वव्यक्तत्वादयस्ते अव्यक्त प्रधाने भविष्यन्ति । अतो न वयं पर्यनुयोक्तव्या इत्युक्तम् । ततः पञ्चमे सावद्यतर्कस्या- प्रतिष्ठितत्वात्प्रतिवादिना तदनगीकारेण दोपादविमोक इत्युक्तम् ॥ ५ ॥ ततः पष्टे एकसूत्रे एतेनेत्यधिकरणे सांख्यनिराकरणेनान्येपि वादा निराकृता इत्युक्तम् ॥६॥ ततः सप्तमे एकसूत्रे भोप्रापत्तेरियाधिकरणे ननु प्रलये सर्वस्य कार्यस्य कारणरू- पतया एकरूपत्वे जाते पुनरुत्पत्तिदशायां भोग्यस्य स्रश्चन्दनादेः भोक्तृत्वापत्तिः, मोक्तुओत- नस्य भोग्यत्वापत्तिरित्येवमविभागः स्यादितिसूत्रांशेनाशंक्य, अंशान्तरेण समाहितम् । यथा लोके कटकमुपमृद्य रुचके क्रियमाणे कटकत्वं न भवति, तथोत्पत्तिदशायां भोग्यस्य भोग्य- - वेदान्ताधिकरणमाला। खेनैवोत्पत्तिः, भोक्तुभॊक्तृत्वेनैवेति न विभागाभावः। कारणस्य चेतनत्वेन तस्य तस्य तथैवो. सादनादित्युक्तम् । तेन 'विज्ञानं चाविज्ञानं चेति श्रुतौ कार्य विभागाभावरूपो दोपः परिहृतः ॥७॥ ततोष्टमे त्रिसूत्रे तदनन्यत्वाधिकरणे छान्दोग्यस्थे वाचारम्भणवाक्ये कार्यस्य का- रणाभिन्नत्वं प्रतिपादितम् , न तु कार्यमिथ्यात्वमित्युक्तं प्रथमसूत्रे । ततो द्वितीयसूत्रे कार्यस्य घटादेविद्यमानत्व एवोपलम्भः । नत्वविद्यमानत्वे । अतः श्रुत्सविरुद्ध प्रत्यक्षमपि कार्यस्य कारणानन्यत्वे प्रमाणमित्युक्तम् । ततस्तृतीये प्रपञ्चस्य सदैव सत्त्वम्, 'सदेव सौम्येदमन आसी'दित्यादिश्रुतौ परिदृश्यमानयोधकादिदंपदात् । तदेतदक्षयं नित्यं जग- न्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पव' दिनिविष्णुपुराणवाक्याच । एव- मनेनाधिकरणेन श्रुतिप्रत्यक्षाभ्यां कार्यस्य सदात्मकत्वेन ब्रह्मानन्यत्वं साधितम् ॥ ८॥ ततो नवमे चतुःसूत्रे असह्यपदेशाधिकरणे असत्कार्यवादो निराकृतः। ततः प्रथमसूत्रे 'असदा इदमग्र आसी'दितिश्रुतौ कार्यमसदितिव्यपदेशात् असत्कार्यवाद आ- स्थेय इतिसूत्रांशेनाशंक्य, सूत्रांशेन समाहितम् । एतद्वाक्यशेपे 'स आत्मानं स्वयमकुरुते'- तिश्रावणात् कार्यस्य प्रागुत्पत्तेरात्मत्वेनैव रूपेण सत्त्वम्, नतु व्याकृतस्वरूपेण । तस्मादसत्त्वमुच्यते, न त्वसत्त्वेनेत्युक्तम् । ततो द्वितीयसूत्रे सत्कार्यवादस्थाभियुक्तिमि- रात्मानमितिशब्दान्तराच नासत्कार्यवाद आस्थेय इत्युक्तम् । युक्तयस्तु माध्यप्रकाशादवग- न्तव्याः । ततस्तृतीये पटदृष्टान्त उक्तः । यथा पटः संवेष्टितो न तावान् प्रतीयते, कारणे कार्य सूक्ष्मरूपत्वान्न प्रतीयते, प्रकटं तु प्रतीयत इत्युक्तम् । ततश्चतुर्थे प्राणादि- दृष्टान्त उक्तः। यथा प्राणादीनां नियमने जीवनमात्रम् , अनियमने त्वाकुञ्चनादिः संभवति, तथा जगदपि कारणे प्रविष्टं सन्मानं तिष्ठति, पहिःप्रकटं कार्य करोति । अतोऽसत्कार्यवादो न प्रामाणिक इत्युक्तम् ॥ ९॥ ततो दशमे त्रिसूत्रे इतरव्यपदेशाधिकरणे चेतनकारणतायां प्राप्ता दोषाः परिहियन्ते । तत्र प्रथमे चेतनस्य जीवस्यापि ब्रह्मत्वात्सृष्टौ तस्य प्रवेशे दुःखित्वादिकं भवति । तच ब्रह्मणो हिताकरणत्वादिदोषप्रसक्त्या असंगतमित्याशक्य, अग्रिमसूत्रद्वये परिहारमाह। तत्र द्वितीये ब्रह्म जीवादधिकम् , न तु जीवमानम् , तेन तद्दोपेपि न दुष्यति । यथा सुवर्णसण्डस्यान्यमेलनेन दुष्टत्वेपि न सुवर्णस्य दुष्टत्वम् , तद्धिताहितं च करोति, लोके स्वदेहेपि नखनिकृन्तनकेशप्रसाधनादिदर्शनात् । जीवपरमात्मनोहेंदस्तु विज्ञाना- नन्दप्राधान्यभेदात् । आनन्दस्याधिक्यं तु भूमविद्यायां तत्रैव ज्ञेयत्वस्य पर्यवसानात् । ततस्तृतीये यथा पार्थिवत्वाविशेषेपि हीरकपाषाणयोश्चन्दननिम्बयोश्च स्वभावभेदः, तथा जीवानामपि । तथा च ब्रह्मवादे लोकन्यायेन प्रत्यवस्थानं नोचितमिति साधितम् ॥१०॥ तत एकादशे पटूमूने उपसंहारदर्शनाधिकरणे तत्रैकस्यैव ब्रह्मणः सर्वविध- तथा । श्रीपुरुषोत्तमविरचिता। २५ कारणत्वे ये दोपास्ते परिहियन्ते । तत्र प्रथमसूत्रे लोके मृत्कुलालचक्रचीवरादीनाम- पादानकर्तृ निमित्तान्तराणां परस्परभिन्नानां दर्शनादेकस्यैव सर्वविधकारणत्वमसंगतमिति सूत्रांशेनाशंक्य, क्षीरं यथा यदा दध्याकारेण परिणमति, तदा नान्यत्किञ्चिदपेक्षते, तथा ब्रह्मापीत्यंशान्तरेण समाहितम् । ततो द्वितीयसूत्रे यथा देवर्पिपितर इतरनिरपेक्षा योगवलेन सर्व कुर्वन्ति, तथा ब्रह्मापीच्छयेति समाधानान्तरमुक्तम् । ततस्तृतीयें ब्रह्मण उपादानत्वे कृत्स्नप्रसक्त्यादिर्दोष आशंकितः । ततश्चतुर्थे ब्रह्मणः खरूपं कारणत्वं च न लोकगम्यं येनैवमाशंक्येत, किन्तु श्रुत्येकसमधिगम्यम् । सा च खत एव प्रमाणम् । सा च यथा वदति, तथैवांगीकार्यमित्येवं समाहितम् । ततः पंचमे ब्रह्मणः सर्वविधकार- णत्वेपि देशकालाधिकरणापेक्षा त्यावश्यकीत्याशक्य, परास्य शक्ति'रिति श्रुतेब्रह्मणो विचि- शक्तित्वाद्देशकालाधनपेक्षा युक्ता । 'आत्मन्येवात्मनात्मानं सृजेहमनुपालय' इत्यात्मन्यपि सृष्टिर्युक्तेत्युक्तम् । ततः पठे प्रधानकारणवादेपि ते दोपास्तुल्या ये ब्रह्मकारणवादे दीयन्ते । तस्मात्पर्यनुयोगो न युक्त इत्युक्तम् ॥ ११ ॥ ततो दादशेष्टसूत्रे सर्वोपेता इत्यधिकरणे भगवतः कर्तृत्वे दोपान् परिहरति । तत्र ‘स विश्वकृ'दिति श्रुतौ कर्तृलं वोध्यते, निर्वाहकाभावे तत्कथं संगच्छत इत्याकांक्षायां मथमसूत्रे सर्वशक्तियुक्तत्वं साधितम् । ततो द्वितीयसूत्रे ब्रह्मणो निरिन्द्रियकत्वात्कथं कर्तृत्वम् । ततस्तृतीयसूत्रे ब्रह्मणः प्रयोजनाभावात्किमर्थं कर्तृत्वमित्येवमाशंकितम् । ततश्चतुर्थे लोकवलीलया समाहितम् । ततः पश्चमे ब्रह्मणः सृष्टिकरणे जीवानां सुखदुःख- संभवात् वैषम्यनैपुण्ये स्थातामित्याशक्य, जीवकर्मसापेक्षत्वान्न ब्रह्मणि दोप इत्युक्तम् । कर्मसापेक्षलेपि नेश्वरत्वहानिरिति चोक्तम् । ततः पठे जीवानां प्रपञ्चप्रलयदशायां ब्रह्मावि- भागात्कथं कर्मसत्तेति सूत्रांशेनाशंक्य, बीजाकुरवत्प्रवाहानादित्वादिति सूत्रांशेन समाहितम् । ततः सप्तमे उपपत्या श्रुतिस्मृत्योस्तदुपलम्भाच जीवस्यानादित्वं समर्थितम् । ततोष्टमे ब्रह्मणः सर्वसमर्थत्वात्सर्वं संगच्छत इत्युक्तम् । एवं चास्मिन्पादे पूर्वाध्यायचतुर्थपादस्थितं हृदिकृत्य सर्व चिन्तितम् । तेन बुद्धिस्थानात्मकोपोद्घातात्तगर्भः प्रसङ्गः सङ्गतिरिति ॥१२॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्बरात्मजपुरुपोत्तमस्य कृतौ चेदान्ताधिकरणमालायां द्वितीयाध्यायस्य प्रथमः पादः । अथ द्वितीयपादे वेदविरुद्धा बाह्या अवाह्याश्च स्मृतयो दूष्यन्ते, तासां न परमफलसाध- कत्वमिति ज्ञापनार्थम् । तत्र प्रथमे पटसूत्रे रचनानुपपत्तेरित्यधिकरणे प्रधानस्य कर्तृत्वं दूष्यते । तत्र प्रथमसूत्रे अचेतनस्य प्रधानस्य बुद्धिपूर्वकक्रियारूपा या रचना सा नोपपद्यते, प्रधानस्याचेतनत्वेन क्रियाकारणभूताया बुद्धस्तत्र वक्तुमशक्यत्वादित्युक्तम् । ततो - १ कर्मसत्तेति मूले पाटः। x वेदा २६ वेदान्ताधिकरणमाला। द्वितीये सूत्रे लोकरचना यथा केवलादचेतनान्नोपपद्यते, तथा शुक्रशोणितजन्या शरीररचनापि । तर मातापिनोरुभयोश्चेतनयो प्रवृत्तिदर्शनात् , अचेतने केवले तादृश- प्रवृत्त्यदर्शनादित्युक्तम् । ततस्तृतीये ननु केवलाचेतनेपि दुग्धे फेनरचनादयो विचिना दृश्यन्ते, तादृशे नदीजले च स्पन्दनादय । तदृष्टान्तेनाचेतनस्य केवलस्य प्रधानस्यापि रचनाकर्तृत्व प्रवृत्तिश्चास्त्विति सूत्राशेनाशक्य, अशातरेण समाधत्ते । तनापि दोह- नाधिश्रवणयोश्चेतनकर्तृकयोनिमित्तत्वेन दर्शनात् । नदीजले च मेधाना चेतनाना निमि- तत्वेन दर्शनादित्युक्तम् । ततश्चतुर्थे एव निभि सूनै केवलप्रधानस्य कर्तृत्व दूपयित्वा केवलस्य तस्य परिणाम दूपयति । केवल प्रधान चेत् खत परिणमेत् , सर्वदैव परिण- मेत् , तथा सति प्रलयो न स्यात् । गुणाश्च साम्यावस्थयावस्थिता स्वत एव सक्षुभ्येरन् , तदा सृष्टिस्थितिप्रलया युगपदेव स्यु , कार्य च सात्त्विकादिभेदेन न विभज्यतेत्युक्तम् । तत. पञ्चमे ननु तृणपल्लवादय पशुभक्षिता स्वभावादेव क्षीरभावेन परिणमन्ते इत्याशङ्काया समाधीयते । यदि तृणादिक स्वभावत एव क्षीरभावेन परिणमेत, तदा शृङ्गेपि क्षीर लभ्येत, तत्तु न लभ्यते, धेन्वादिकृता भक्षणक्रिया च तर सहकरोतीति न केवलस्य प्रधा- नस्य परिणाम. शक्यवचन इत्युक्तम् । तत पष्ठे 'तुप्यतु दुर्जन' इति न्यायेन केवलस्य प्रधानस्य परिणाममभ्युपगम्य पुनर्दूपयति । यदि केवलस्य प्रधानस परिणामोऽभ्युपगम्यते, तदापि स किमर्थ । न च पुरुषार्थ इति वक्तव्यम् । प्रयोजनप्रेक्षापूर्वकप्रवृत्तेश्चेतनधर्मत्वेन केवले प्रधाने सा न वक्तु शक्यते । तस्माद् दूपणतादवस्थ्यम् । एवमनेनाधिकरणेन केवल- प्रधानकारणवादो निराकृत ॥१॥ ततो दितीये चतुःसने पुरुपाश्मवदित्यधिकरणे पुरुपप्रेरितप्रधानकार- णवादो निराक्रियते । पग्वारूढोन्धो यथा गच्छति, तथा पुरुपाश्लिष्ट तत्प्रेरित प्रधान मह- दादिसृष्टिं करोतीत्येक मतम् । अन्यच्च, यथा अय कान्तसन्निधौ लोहस्य क्रिया, तथा पुरुषसन्निधानमाण प्रथानस्य महदादिकर्तृत्वमिति द्वितीयम् । तत्पुन सूनाशेनाशक्य, अशान्तरेण दूषयति । प्रधानपुरुषयोप्पकत्वेन ससर्गस्य सन्निधेश्च सार्वदिकत्वात्पूर्वोक्त- दोपस्तदवस्थ. । अनिर्मोक्षश्वाधिक । तस्मान्मतद्वयमप्यसगतमिति पूर्वसूने उक्तम् । ततो द्वितीयसूत्रे प्रधानपुरुपयोर्मध्ये किं पुरुषस्यागित्व प्रधानस्य वा । तर नाव , सर्वेपा पुरुषाणा समत्वेनेकस्य नियामकलम् , नान्येपामिति विभागोन स्यात् । न द्वितीय , स्वत- घेण प्रधानेन पुरुपाय म्बदोपा न प्रदर्शनीया । तथा सति दु साभारेन वैराग्याभावात् मोक्षार्थ प्रयत्न उन्छियेत । तस्मादगित्वमनुपपामित्युक्तम् । ततस्तृतीये ननु गुणा एव पिमागश प्रवृतिमन्त , चलम्समावनात्, चलदरदरमदित्येवमनुमाने पूर्वोत्ता सर्वे दोपा निराकृता स्युरित्याशहर, तर दूपणमाह । एव प्रकारान्तरेणानुमितावपि न दोप- परिदार , कार्यक्रमानुपपत्त्यादिपणग्रामात् । नहि गुणे कालो ब्रायते, येन प्रथम रज २७ , श्रीपुरुषोत्तमविरचिता। शुन्यति, ततः सत्त्वम् , ततस्तम इति । अतो गुणेषु ज्ञानशक्तिवियोगात् सर्वमसमक्षस- मित्युक्तम् । ततश्चतुर्थे सांख्यमतवर्तिनां नानाविधानि मतानि लोके दृश्यन्ते । एका- दशस्कन्धे उद्धवप्रश्ने भगवता चानूदितानि । अतः परस्परविरोधादपि तन्मतमसंगतमि- त्युक्तम् । एवं दशभिः सूत्रैरधिकरणद्वयेन प्रधानकारणवादो निराकृतः ॥२॥ ततस्तृतीये सससूत्रे महद्दीर्घवदेत्यधिकरणे न्यायवैशेषिकादिमतमवसरसंगत्या दृष्यते । ते हि परमाणूनां समवायित्वमंगीकृत्य, ईश्वरकृतात्तत्संयोगाद्भूतादिसृष्टिमंगी- कुर्वन्ति । तत्र संयोगप्रकारो दृष्यते । परमाणूनां खरूपं हखं परिमण्डलं च । तयोर्य- र्युपर्युपरि संयोगः, तदा कार्य यष्टिवन्महत्स्यात् । यदि तिर्यक्, तदा नौकादिवदीर्घ स्यात् । पुखसंयोगस्तु तैर्नेष्यते । अतस्तन्मतमसंगतमिति प्रथमसूत्रेणोक्तम् । ततो द्वितीयसूत्रे परमाणुद्वयसंयोगः सार्वदेशिको वैकदैशिको वा । नान्त्यः । प्रदेशाङ्गीकारे प्रदेशवत्त्वस्य सावयवत्वव्याप्यत्वात्परमाणोः सावयवत्वमनित्यत्वं चापद्येत । नायः । संयोगस्यान्याप्य- वृत्तिलनियमात् । किञ्च, कर्मजोऽवयवजश्व संयोगो द्विविधः । तत्र निरवयवत्वान्नावयवज इत्युक्तम् । अथ कर्मजः। तत्र किं स्वभावादुत्पद्यते, ईश्वरसिसृक्षया वा। तयोरुभयोरपि नित्य- त्वात्सर्वदा सृष्टिप्रसङ्गः । तस्मान्न स वक्तुं शक्यते इत्युक्तम् । ततस्तृतीये समवायो दूष्यते । स हि संबन्धः, संवन्धिद्वयनिरूप्यः। तथा सति घ्यणुकस्य पूर्वमभावेन स कथं वक्तुं शक्यत इत्युक्तम् । ततश्चतुर्थे, किञ्च, परमाणोः समवायिन ईश्वरेच्छाजीवादृष्टयोनिमित्तयोश्च सृष्टिप्राक्काले सत्त्वात् सामग्रीसमवधानजन्यस्य परमाणुकर्मणस्तजन्यस्य संयोगस्य च सर्वदा आपत्त्या तयोरपि नित्यत्वापत्तिरित्युक्तम् । ततः पञ्चमे परमाणुनित्यत्वं दूष्यते । परमाणुषु तै रूपायंगीक्रियते । यञ्च रूपादिमत्, तदनित्यं लोके दृष्टम् । अतः परमाणुरनित्य इत्युक्तम् । ततः पप्ठे यदि परमाणुपु रूपादिकं नांगीक्रियते, तदा व्यणुकादिपु रूपाधभावापत्तिः । कारणगुणाः कार्यगुणारंभका इति तन्नियमात् । अतो रूपाचंगीकारे तदनंगीकारे च दोपाद- सङ्गतः परमाणुकारणवाद इत्युक्तम् । ततः सप्तमे सर्ववैदिकानादृतत्वादप्यसङ्गतः पर- माणुकारणवाद इत्युक्तम् ॥३॥ ततश्चतुर्थे दशसूत्रे समुदाय उभयहेतुकेपीत्यधिकरणे। एकोनविंशतिसूत्रैर्वाह्य- मतान्यवसरसंगत्या निराक्रियन्ते । तत्र सौगताश्चतुर्विधाः, वैमापिकसौत्रान्तिकविज्ञानवादि- माध्यमिकभेदात् । तत्र पूर्व वैमापिकमतं निराक्रियते । तेषां मते समुदायद्वयं जीवभोगार्थ संहन्यते । तत्र पृथिव्यादिपरमाणुसमुदाय एकः । रूपादिस्कन्धसमुदायश्चापरः। रूपवि- ज्ञानवेदनासंज्ञासंस्कारनामकाः पञ्चस्कन्धाः । तदुभयसंवन्धे जीवस्य संसारः, तदपगमे मोक्ष इति तेषां मतं प्रथमसूत्रे दूषयति । जीवस्य क्षणिकत्वेन तदुभयसमुदायाप्रातिः, तेन तदुक्तः संसारप्रकारो मोक्षश्चासंगत इत्युक्तम् । ततो द्वितीये क्षणिकत्वदूपणपरिहारं सूत्रांशेनोद्भाव्य, अंशान्तरेण दूषयति । तन्मते प्रत्ययः कारणसमुदायः । तत्र संस्कारः ।

२८ वेदान्ताधिकरणमाला। सर्वक्षणिकत्वेपि मध्यपातिभ्योऽविद्यादिभ्यः स्कन्धप्रत्ययेभ्यो जन्मादयः, जन्मादिभ्यः प्रत्य- येभ्यश्चाविद्यादय इत्येवं चक्रवत्परिवृत्तावपि न कारणव्यक्तिं प्रति कार्यव्यक्तेः प्रत्ययता, किन्तु पूर्वपूर्वप्रत्ययस्योत्तरोत्तरप्रत्ययं प्रति कारणत्वम् । उत्तरोत्तरक्षणिकविज्ञानसंततेरेव जीवत्वम् , तादृशार्थ संततेरेव जडत्वम् । अतः क्षणिकविज्ञानसंतल्यात्मकस्य जीवस्य क्षणि- कार्थे संतत्यात्मकसविपयेन्द्रियशरीराख्यरूपस्कन्धसंवन्ध इति संसारः । रागादिरूपसं- स्कारस्कन्धविरामादेव तदभावरूपो मोक्षः। अतो न काप्यनुपपत्तिरितिसूत्रांशेनाशंक्य, अंशांतरेण तद्रूपयति । ये हि प्रत्यया उक्तास्ते सदृशीं संततिमुत्पाद्य नश्यन्ति । तथा सति विज्ञानसंततिरूपस्य जीवस्य पूर्वकालीनप्रियाप्रियसंस्पर्शाननुसन्धानात् कथं वेदनादिस्कन्धा- स्मसंसारसिद्धिः, कथं च तदभावसिद्धिः, स्थिरस्य कस्याप्यभावात् । तस्मादसंगतं तन्म- तम् । ततस्तृतीये । किञ्च, तन्मते स्थितिक्षणस्याभावात्प्रथमक्षणे उत्पत्तिः, द्वितीयक्षणे नाश इति प्रत्ययत्वस्यैवासंभवः, संघातस्य चासंभव इत्युक्तम् । एवं त्रिभिः सूत्रः पुञ्जस्य कारणता पिता । ततश्चतुर्थे । अससे हेती फलोत्पत्तिरित्याकस्मिकत्वपक्षं दूपयति । तेषां हि प्रतिज्ञाद्वयम् । एका तु सर्व क्षणिकमिति प्रतिज्ञा । द्वितीया तु आलंबनप्रत्यय- समनंतरप्रत्ययाधिपतिप्रत्ययसहकारिप्रत्ययाख्यांश्चतुर्विधान् हेतून् प्राप्य विज्ञानस्कन्धा- त्मकं चित्तं वेदनास्कन्धात्मकाश्चैत्ता उत्पद्यन्त इति । तत्र द्वितीयांगीकारे वस्तुनः क्षणा- न्तरसंबन्धात्प्रथमप्रतिज्ञा नश्यति । द्वितीया चेन्नांगीक्रियते, तदा प्रतिनियतहेत्वभावात्सर्वं सर्वतो युगपदेव स्यात् । तस्मात्तदसंगतमित्युक्तम् । ततः पञ्चमे एवं तदुक्तमुत्पत्तिप्रकार दूपयित्वा नाशप्रकारं दूपयति च । तत्र तेषां मते पञ्चपदार्थाः। एनं नाशयामीति बुद्धिपूर्व- को विनाशः प्रतिसंख्यानिरोधः। तां विनायो नाशः स अप्रतिसंख्यानिरोधः। आकाशश्च । एतत्रयं निरूपाख्यम् । अवस्त्विति यावत् । तत्राकाशस्वरूपं तद्रूपणसूत्रे वाच्यम् । क्षणिक संस्कृतं चेति पञ्च । तत्र क्षणिक संस्कृतं चेति द्वयं पूर्वसूत्रेषु दूपितम् । अधुना निरोधयं दूप्यते । तन्मते पदार्थाः सर्वे क्षणिकाः महामंतालजनसमानाः । क्षणि- कानां च नाशकसंवन्धो न पूर्व दृष्ट इत्यन्त्यानामपि पदार्थानां नाशकसंवन्धाभावात्पूर्ववदेव संततिप्रतिबंधाभाव इत्यविच्छेदादित्युक्तम् । एवमत्र कार्यविचारेण निरोधद्वयं दूपितम् । ततः पठे तहयस्वरूपविचारेण तद्पयति । तत्र वैमापिकाः सौत्रान्तिका योगाचाराश्च उक्तनिरोधैकदेशभूतेऽविद्याविनाश मोक्षस्तद्दर्शनोक्तरीतिको भवतीति मन्यन्ते । तदसंग- तम् । अविद्या(या)निर्हेतुके नाशेंगीक्रियमाणे तन्मतीयसायन विधायकशास्त्रवैफल्यम् । सहेतु- कनाशांगीकारे निर्हेतुकत्वप्रतिज्ञाहानिरित्युमययापि दोष इत्युक्तम् । एवं सूत्रद्वयेन तदु- क्तनाशप्रकारो दूषितः । ततः सप्तमे आकाशं दूपयति । तेषां मते आवरणाभाव एवा- काशः । सोपि निरूपाख्यः । तादृशेपि भूतान्तरवद्वस्तुत्वव्यवहारस्याविशिष्टत्वात् । अत्र गृधः, मत्र श्येन इत्यादिव्यवहारस्य तत्रापि दर्शनात् । अवकाशरूपेण प्रत्यक्षवाचावस्तु- २९ श्रीपुरुषोत्तमविरचिता बमसंगतमित्युक्तम् । ततोऽष्टमे पुनःसंक्षेपेण क्षणिकवादं निराकरोति । सर्वत्र स एवाय- मिति प्रत्यभिज्ञा दृश्यते । क्षणिकत्वे तु तस्य नष्टत्याकालान्तरे प्रत्यभिज्ञा वाध्येत । तस्माद- सङ्गतः क्षणिकवाद इत्युक्तम् । ततो नवमे तदभिमतामभावाद्भावोत्पत्तिं निराकरोति । ते हि बीजोपमदं विनांकुरोत्पत्ति, दुग्धोपमर्द विना दध्युत्पत्तिमपश्यन्तो नटेश्य एव चीजा- दिन्यस्तत्तदुत्पत्तिं पश्यन्तः केवलादभावादेव भावोत्पति मन्यन्ते । तथाचालीकादेवोत्पत्ति- रिति सिध्यति । तदसंगतम् । दृष्टविरोधात् । यदि ह्यलीकादभावादेव केवलात्कार्य स्सा- तदा वीजाद्दधि स्यात् , दुग्धादङ्कुरं च । तत्तु न दृश्यते । तस्मान्नाभावाद्भावोत्पत्तिरित्युक्तम् । ततो दशमे यद्यमावादेव सर्वं स्यात् , तदा तस्य सर्वत्र सुलभत्वात् कृपिहलादिसाध- नरहितानामपि धान्यादिः सिध्येत् । तत्तु न दृश्यते । अतोपि नाभावाद् भावोत्पत्तिरि- त्युक्तम् । एवं दशभिः सूत्रः वैभापिकसौत्रान्तिकयोर्मतं निराकृतम् ॥ ४ ॥ ततः पञ्चमे पञ्चसूत्रे नाभाव उपलब्धेरित्यधिकरणे कारणांशे पूर्व निराकृतो. पि विज्ञानवादी कार्याशे निराक्रियते । विज्ञानवायेव योगाचारः । स हि याचं प्रपश्यं नीलं पीतं घट इत्येतत्सर्व विज्ञानाकारं मन्यते, न तु वाह्यार्थोस्तीति । अनादिवासनयैव च भासत इति तन्मतम् । एवं यस्तेन याह्याभाव उक्तः, स न युक्तः । यदि सर्व ज्ञाना- कारमेवानादिवासनया भासेत, तदा वासनाया अन्तः विद्यमानत्वात् सर्व सर्वदा सर्वत्र भासेत । तत्तु नास्ति । अतः कदाचित्कचिदुपलंभात् वाद्यार्थोस्तीति मन्तव्यमित्युक्तम् । ततो द्वितीये उपलब्धिमात्रेण वस्तुसत्त्वं चेत्तदा स्वप्नमायाभ्रमादिषु ये उपलब्धास्तेपि सत्याः स्युः। तस्मान्नोपलब्धिमानेण वस्तुसत्त्वं वक्तुं शक्यमित्याशङ्कय निराकरोति । याह्यः प्रपञ्चः स्वप्नादिविलक्षणः, बहुकालस्थायित्वात् । नहि तथा स्वप्नादिपु दृश्यते । तस्मात्तदृष्टान्तो- प्यसङ्गत इत्युक्तम् । ततस्तृतीये यत्त द्या) विनैव वासनया ज्ञानवैचित्र्यमंगीक्रियते, तत्र वाह्यार्थ विना वासनैवानुपपन्ना, बाह्यार्थस्यैव वासनाजनकत्वात् । तस्य च तन्मतेऽ- भावादित्युक्तम् । ततश्चतुर्थे वासनाया आधारभूतस्य, अहमित्याकारो रूपादिविषय इन्द्रियादिजन्योयं क्षणिकविज्ञानसंतानः कर्ता भोक्तेत्यभिमानवान् आलयविज्ञानाख्यः, तस्स क्षणिकत्वाद्वासनायाः आधारोपि न वक्तुं शक्यः । तस्मादपि तन्मतमसजतमित्युक्तम् । ततः पञ्चमे सर्वथानुपपन्नत्वादपि तन्मतमसङ्गतम् । तेन माध्यमिकोप्यसंवद्धभापित्वादु- पेक्षित इत्यपि सूचितम् । एवं पञ्चदशभिः सौगता निराकृताः ॥५॥ ततः पप्ठे चतुःसूत्रे नैकस्मिन्नसंभवादित्यधिकरणे विवसनस्स स्याद्वादिनो निराकरणम् । स हि स्यादस्ति, स्यानास्ति, स्यादस्ति नास्ति, स्याद्वक्तव्यः, स्यादस्ति चाव- क्तव्यः, सान्नास्ति चावक्तव्यः, स्यादस्ति नास्ति चावक्तव्य इत्येवं सप्तभङ्गी मन्यते । सप्तभङ्गी नाम सप्तानां भंगानां समाहारः । सा च सार्वत्रिकी । तदिदं प्रत्यक्षविरुद्धम् । न द्यस्तिनास्त्यादिभंग एककालं सर्वेषां दर्शनगोचरीभवतीति । तस्मादसंभवन्नसङ्गतः।

वेदान्ताधिकरणमाला। किञ्चेयं सप्तभंगी सार्वत्रिकीति तदुक्तसाधनेषु तदुपदेष्टुपु तीर्थकरेपु तदुक्ते मोक्षरूपे फले चानुवर्तमाना सर्वेष्वेव तदुक्तेष्वनाखासं जनयतीत्यतोऽप्यसङ्गतस्तद्वाद इत्युक्तम् । ततो द्वितीयसूत्रे तदुक्तमात्मस्वरूपं दूष्यते । स हि आत्मानं कृत्स्नं मन्यते । सृष्टिं च परमाणु- भ्योऽङ्गीकरोति । मोक्षे च निरावरण आत्मा तिष्ठतीति । तदिदं दूष्यते । परमाणुभ्य एव सृष्टयङ्गीकारेणात्मनो वस्तुपरिच्छेदाझीकारादकात्न्यं सर्वत्वं न भवति । तथा च मोक्षद- शायामवलोकाकाशवर्तित्वेन तत्कृतावरणसंभवान्निरावरणप्रतिज्ञाहानिः । किञ्च, सर्ववस्तु- ध्वात्माभावादात्मनामस्तिकायत्वप्रतिज्ञाहानिश्चेत्सर्थ इत्युक्तम् । ततस्तृतीये तदभ्युपगतो देहपरिमाणात्मवादो दृष्यते । स हि देहपरिमाण आत्मेति मन्यते । सूक्ष्मदेहे सूक्ष्मः । स एव स्थूलदेहे स्थूल इति । एवं पर्यायेण तत्तत्परिमाणांगीकारे अवयवोपचयापचया- भ्यामात्मनोपि विकारापत्तिः । संकोचविकाशेपि विकारस्य दुःपरिहारत्वादित्युक्तम् । तत- श्चतुर्थे तदुक्तमात्मपरिमाणमेव दूष्यते । स हि मोक्षावस्थावस्थितजीवस्य परिमाणं नित्यं वदति । तदने देहाभावात् । संसारावस्थायां त्वनित्यम् । तथा सति संसारावस्थायां चार्वा- कवदात्मन अनित्यत्वापत्तिः। तथा सति मोक्षः कस्य स्यात् । अतः संसारावस्थाया- मपि तस्य नित्यं परिमाणमङ्गीकार्यम् । अणु वा महदा । तथा सति देहपरिमाणात्मवाद- स्त्वसङ्गत इत्येवं दूपितमित्युक्तम् । एतेपु पट्स्वप्यधिकरणेषु ब्रह्म जगदुपादानं न वेति सन्देहः, तत्तन्मतविरोधः सन्देह- वीजम्, नेति पूर्वः पक्षः, सर्वसमयानामयुक्तत्वाद् ब्रह्मैवोपादानमिति सिद्धान्तो ज्ञेयः। पष्ठे तु ब्रह्मैव विरुद्धधर्माधारम् , नेतरदिति नियमो युक्तो न वेति सन्देहे, स्याद्वादिभिः सर्वत्र तथाभ्युपगमान्नेति पूर्वः पक्षः, स्याद्वादस्सासंगतत्वाद्रव तथेति नियमो युक्त एव, श्रुत्या भक्तप्रत्यक्षेण च प्रमितत्वादिति सिद्धान्त इति प्रकारान्तरमधिकं ज्ञेयम् ॥ ६॥ ततः सप्तमे पञ्चसूत्रे पत्युरसामञ्जस्यादित्यधिकरणे नैयायिकवैशेषिकहैरण्य- गर्भपातअलकापालिककालामुखपाशुपतैशवा ईश्वरस्य निमित्तमात्रत्वं मन्यन्ते, न तूपा- दानत्वम् , तद्रूपयति । यदीश्वरः निमित्तमात्रं स्यात्तदा केपाञ्चित्सुखं केपाश्चिदुःखं ददद्विपमो निघृणश्च स्यात् । अतोसामनस्यात्तन्मतमसङ्गतम् । ततो द्वित्तीये तन्मते जीवब्रह्मणोर्वि- मुत्लादजसंयोगस्य वक्तुमयुक्तत्वेन पतित्वानुपपत्तिः । यदि च संवन्धोङ्गीक्रियेत, तदापि विभुत्वनित्यत्वाम्यां तुल्यत्वापत्त्या नियम्यनियामकभावानुपपत्तेः संबन्धानुपपत्तिरित्युक्तम् । ततस्तृतीये ईश्वरः शरीरं किश्चिदाधारं चाधिष्ठाय करोति, तद्विना वा । आये तन्नित्यम- नित्यं वा । आये परमाणुपुखरूपस्य तस्य कार्यानिर्वाहकत्वम् , अवयवित्वाभावात् । द्वितीये तु जन्यत्वम् । तथा सति तत्कर्तुनिर्वक्तुमशक्यत्वादनवस्थापत्तिः । अथाशरीर एव करो- तीति मतम् , तदा तु मुक्तानामिव तस्यापि कर्तृत्वानुपपत्तिः। अतोधिष्ठानानुपपत्त्या तन्मत- मसद्गतम् । ततश्चतुर्थे यथा जीवोऽशरीर एवेन्द्रियादीनि करणान्यधितिष्ठति, निय- श्रीपुरुपोत्तमविरचिता। मयति, तथेश्वरोप्यशरीर एव जीवान् नियमयिष्यतीति सूत्रांशेनाशश्य, सूत्रांशेन समाहि- तम् । यदि जीवदृष्टान्तेन तथाङ्गीक्रियते, तदा तद्दृष्टान्तेनैव तस्य सुखदुःखभोगाद्यापतिः । (ततः पञ्चमे तैर्जडजीवनियमनार्थ हीश्वरोभ्युपगम्यते । नियमनं चेयत्तायां संगवति । ततश्च तेपामियत्तापत्तिः । तथा सति तेपामन्तवत्त्वम् । इयत्तापरिच्छिन्नेषु घटादिष्वन्तव- त्वस्य दृष्टत्वात् । एतद्दोपपरिहाराय जीवानां व्यापकत्वमसंख्येयत्वं चाह्रीक्रियते, तदा असंख्येयत्वस्य सर्वाज्ञेयत्वनियमात् सर्वतद्विपयकज्ञानस्येश्वरेऽभावेनासर्वज्ञता स्यात् ।) तदनापत्तौ नियामकाभावादित्युक्तम् । तेनेश्वरविषयेपि तन्मतमसङ्गतमित्युक्तं भवति ७ ॥ ततोष्टमे चतुःसूत्रे उत्पत्त्यसंभवादित्यधिकरणे पाश्चरात्रमते योशो हि श्रुति- विरुद्धः सोशो दूष्यते । पञ्चरात्रस्य भगवत्प्रणीतत्वेपि तावतोंशस्य बुद्धिपूर्वकमेव गौतम- शप्तानामृपीणामर्थे स्थापनात् । सोशस्त्वयम् । ते हि परब्रह्मणो वासुदेवात् संकर्षणस्य जीवस्य, तस्मात्प्रद्युम्नस्य मनसः, ततोऽनिरुद्धस्याहंकारस्योत्पत्तिं वदन्ति । तेषां चतुर्णा व्यूहतां च वदन्ति । तदेतच्छृतिविरुद्धम् । एवमुत्पत्तौ व्यूहत्वासंभवात् । व्यूहत्वे चैवमुत्पत्त्यसंभ- वात् । जीवोत्पत्तौ मोक्षस्याप्यसंभवात् । तस्मादयमंशो विरुद्ध इति पूर्वसूत्रे दूपितः । ततो दितीये संकर्षणात्प्रद्युम्नोत्पतिर्दूष्यते । कर्तुर्जीवात् करणस्य उत्पत्तिलॊकविरुद्धा; मनसः करणादहंकारोत्पतिरपि तथा । अतः प्रद्युम्नादनिरुद्धोत्पत्तिरप्यसंगता । ततस्तृतीये तेषां सर्वेषां परमेश्वरत्वं चेदङ्गीक्रियते, तदा अनेकेश्वरत्वापत्तिरित्युक्तम् । ततश्चतुर्थे शाण्डि- ल्यश्चतुर्यु वेदेषु परं श्रेयः अलब्ध्वा इदं शास्त्रमधीतवान् । तथा तप्तचक्रादिधारणं च तन्न विहितम् । तदेतच्छृतिविरुद्धम् । तप्तचक्रादिधारणस्य पुराणेषु शूद्रधर्मत्वेनोक्तत्वात् । वेदेषु परमश्रेयोलाभाभावकथनस्यापि तथात्वात् । तस्मादेतत्सूत्रचतुष्टयोक्तं दूष्यं यत् तवेदविरुद्धम् । एवं स्मृतिषु वेदविरुद्धांशदूपणेन सर्वाण्येव वेदविरुद्धानि शास्त्राण्युप- लक्षणविधया दूपितानि ज्ञेयानि ॥ ८॥ इति श्रीवल्लभाचार्यचरणदासस्य पीताम्बरात्मजपुरुपोत्तमस्य कृती वेदान्ताधिकरणमालायां द्वितीयाध्यायस्य द्वितीयः पादः । - , अथ ततस्तृतीये पादे पूर्व क्रमसृष्टौ भूतोत्पत्तिप्रकारस्तत्वरूपं च विचार्यते । तत्र प्रथमे सप्तसूत्रे न वियदित्यधिकरणे आकाशोत्पत्तिर्विचारिता । तत्र छान्दो- ग्ये तेजआदिका सृष्टिः, तैत्तिरीयके आकाशादिका, तत्रासृजतेति पदाभावादाकाशस्योत्पत्तिः संदिग्धा । तत्र प्रथमसूत्रे आकाशस्योत्पत्तिः छान्दोग्ये न श्रूयते । तस्मान्नोत्पत्तिरित्या. शंकितम् । ततो द्वितीये तैत्तिरीये द्वितीये सृष्टिप्रकरणे 'इदं सर्वमसृजतेति श्रावणात् पूर्व 'चात्मन आकाशः संभूत' इति कथनादस्त्युत्पत्तिरित्युक्तम् । तेन छान्दोग्येपि तत्राष्टि- रनुमातव्येति सिध्यति । ततस्तृतीये आकाशस्य निरवयवत्वेन व्यापकत्वेन चाकाशस्यो- - , वेदान्ताधिकरणमाला। ३२ त्पत्तिर्न संभवति । तस्मादाकाशोत्पत्तिौणीत्याशंकितम् । ततश्चतुर्थे 'वायुश्चान्तरिक्षं चेति श्रुतावमृतत्वश्रवणादपि नोत्पत्तिः संभवतीत्युक्तम् । ततः पञ्चमे ननु तैत्तिरीये संभूत इतिपदस्य सर्वत्रानुवृत्तिदर्शनादेकत्र गौणी, अन्यत्र मुख्या, संभूतिपदस्य वृत्तिरिति न वक्तुं शक्यम् । युगपवृत्तिद्वयविरोधादित्याशंक्य, यथा 'तपसा ब्रह्म विजिज्ञासख, तपो ब्रह्मे'- तिश्रुतौ एकस्यैव ब्रह्मशब्दस्यैकत्र मुख्या, तपसि गौणी, तथानापि पदावृत्या विरोधाभावो भविष्यतीत्युक्तम् । एवं त्रिभिः सूत्रैः पूर्वपक्षमुक्त्वा, पष्टे सप्तमे च समाधानमाह । तत्र स्यादेवं यदि छान्दोग्योक्ता एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा न वाध्येत । तत्रैकवि- ज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्ते कार्यकारणभावेन तद्युत्पादितम् । तदनंगीकारे तदाध्येत । तस्मादाकाशोत्पत्तिरंगीकार्यवेत्युक्तम् । ततः सप्तमे ननु निरवयवत्वादीनां वाधकानामुक्तत्वात्सा कथं संभवतीत्याशङ्कायाम् , आकाशो नोत्पद्यते, निरवयवत्वादित्येवं साधने, उत्पद्यते लौकिकव्यवहारविषयत्वादित्येवं साधने, उत्पद्यते, लौकिकव्यवहारवि- पयत्वादित्येवं सत्प्रतिपक्षत्वेन युक्तीनामप्रयोजकत्वमुक्तम् । तस्माच्छ्रुत्युक्ता आकाशोत्प- तिरंगीकार्यत्युक्तम् ॥१॥ ततो द्वितीये एकसूत्रे एतेन मातरिश्वत्यधिकरणे एवमेव वायूत्पत्तिरिति साधितम् ॥२॥ ततोनिमसूत्रे ब्रह्मणोप्युत्पत्तिरस्त्विति वितण्डयाशय, मूलभूतस्य सतः नित्यत्वव्यापक- त्वयोनिरंकुशत्वादुत्पत्तिन संभवतीत्युक्तम् ॥ ३॥ ततश्चतुर्थे एकसूत्रे तेजोत इत्यधिकरणे वायुतस्तेजस उत्पत्तिः समर्थिता ॥४॥ ततः पञ्चमे एकसूत्रे आप इत्यधिकरणे तेजस अपामुत्पत्तिः समर्थिता ॥५॥ ततः पप्ठे एकसूत्रे पृथिव्यधिकारेत्यधिकरणे छान्दोग्ये अद्भ्यः सकाशाद- नोत्सत्तिरुक्ता, तैत्तिरीये च पृथिव्युत्पत्तिरिति विरोधपरिहारार्थमनशब्देन पृथिव्येवोच्यते। छान्दोग्ये भूताधिकारात् 'यत्कृष्णं तदन्नस्येति नीलरूपकथनात्तैतिरीये अङ्ग्यः पृथिवीति शब्दान्तराचेत्युक्तम् ॥६॥ ततः सप्तमे एकसूत्रे तदभिध्यानादेवेत्यधिकरणे आकाशभावापन्नात्परमेश्व- राद्वायोरुत्पत्तिः, एवं वाग्वादिभावापन्नादग्रेपि तेजआदीनां ज्ञेया । सर्वकर्तृत्वस्य ब्रह्मलिङ्ग- स्वादित्युक्तम् ॥ ७॥ ततोप्टमे एकसूत्रे विपर्ययेणेत्यधिकरणे प्रसङ्गात्यलयप्रकारो विचारितः । मसृष्टौ येन क्रमेणोत्पत्तिस्तद्विपरीतक्रमण प्रलय इत्युक्तम् ॥ ८॥ ततो नवमे दिसूने अन्तरा विज्ञानमनसीत्यधिकरणे विज्ञानशब्देन जीवः मगध एतयोरपि क्रमेण मध्ये उत्पत्तिरिति सूत्रांशेनाशंक्य, अंशांतरेण समाहितम् । विज्ञा- नमयो जीवात्मकः, मनोमयस्तु वेदात्मकस्तैत्तिरीये उक्तः । अतस्तयोरुत्पत्तिर्न वेदामि- . .

श्रीपुरुपोत्तमविरचिता। घेता । नामरूपव्याकरणात्मिकायां सृष्टौ जीवस्य करणत्वेन वेदस्य च द्वारत्वेन तत्पूर्वमावि- तया सृष्टावुत्पत्त्यभावात् । यद्यपि न्यूनांशपूरणाय प्राणेन्द्रियमनसां क्वचिदुत्पत्तिर्वक्तव्येति चेत् ? पुराणानां श्रुत्युपहणत्वात्तदनुसारेणाकाशात्पूर्वमेव तत्कारणभावापन्नाद्ब्रह्मण एवेति जानीहि । ततो द्वितीये ननु विज्ञानमयस्स जीवस्यानुत्पत्तौ सर्वव्यवहारोच्छेदप्रसङ्ग इत्याशंक्य, जीवस्यापि स्थावरजंगमशरीरे समागमरूपोत्पत्तिस्तु भवत्येव, न तु खरूपो- पत्तिरूपा । अतो न व्यवहारोच्छेद इत्युक्तम् । तेन जीवोत्पतिर्भाक्तेति चितम् ॥९॥ ततो दशमे एकसूत्रे नात्माऽश्रुतेरित्यधिकरणे जीवस्य खरूपत उत्पत्तिनि- वारिता । देवदत्तो जात इत्यादौ देहोत्पत्तेरेव श्रवणेन जीवोत्पत्स्यश्रवणात् । 'न जायते न मियते वा विपश्चि'दित्यादिपु जन्ममरणाभावश्रावणेन नित्यत्ववोधनाचेति ॥ १० ॥ तत एकादशे एकसूत्रे ज्ञोत एवेत्यधिकरणे जीवो ज्ञानखरूपो ज्ञानधर्मा च विज्ञानमयः, 'विज्ञानं यज्ञं तनुते' इत्यादिस्वरूपवोधकश्रुतिभ्यः । 'न पश्यो मृत्यु पश्यति' 'द्रष्टा श्रोता मन्ते'त्यादिज्ञानधर्मत्वयोधकश्रुतिभ्यश्चेत्युक्तम् ॥११॥ ततो द्वादशे दशसूत्रे उत्क्रान्तिगत्यागतीनामित्यधिकरणे तत्र जीवस्य नित्य- त्वेन मध्यमपरिमाणस्य वक्तुमशक्यत्वात्परमाणु वा परिमाणं महद्वा संभवति । तत्र किं युक्तमि- साकांक्षायां परिमाणं विचारितम् । तत्र प्रथमसूत्रे स यदास्माच्छरीरादुत्क्रामतीति 'ये के चास्माल्लोकात्प्रयान्तीति तस्मालोकात्पुनरेत्यस्मै लोकाय कर्मण' इति श्रुतिपु उत्कान्तिगत्या- गतिश्रावणात् जीवोऽणुरित्युक्तम् । ततो द्वितीये 'ऊर्णनाभिर्यथा तन्तून्सृजते हरत्यपि, जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुन'रिति श्रुताविन्द्रियरहितस्य केवलस्यैव गत्यागतिश्रवणादपि तथेत्युक्तम् । ततस्तृतीये जीवोऽणुर्भवितुं नाईति, 'स वा एप महानज आत्मा योयं विज्ञानमयः प्राणेष्विति विज्ञानमयस्य जीवस्य महत्त्वश्रावणात् जीवो नाणुरिति सूत्रांशेनाशंक्य, अंशान्तरेण समाहितम् । उक्तश्रुतेमप्रकरणपठितत्वान्न तया जीवमहत्त्वसिद्धिरित्युक्तम् । ततश्चतुर्थे 'स्वयं विहृत्य स्वयं निर्मायेति स्वप्नविषयक- श्रुतौ खशब्दः जीवस्याणुत्वं बोधयति । स्वप्ने शरीरमध्ये तावत्परिमाणस्य व्यापकस्य च विहारकर्तृत्वासंभवात् । 'यालाग्रशतभागस्य शतधा कल्पितस्य तु भागो जीवः स विज्ञेयः स चानन्याय कल्पते' इतिश्रुतौ जीवमुपकृत्य तत्परिमाणयोधनाचाणुरित्युक्तम् । ततः पञ्चमे अणोर्जीवस्य सर्वशरीरव्याप्तिः कथं संगच्छते इत्याशंकायां यथा स्वल्पश्चन्दनखण्डः महाकटाहे तप्ततैले निक्षिप्तस्तैलं शीतलं करोति, तथा जीवोपि सामर्थ्यात्करोतीति व्याप्ती युक्तिरुक्ता । ततः पष्टे ननु चन्दनस्यावस्थानं प्रत्यक्षतो निश्चितम् , तेन तस्य तथात्वम् । जीवस्य स्थितिस्तु नैकन निश्चितेति स दृष्टान्तो न वक्तुं शक्यते इति सूत्रांशेनाशंक्य, 'गुहां प्रविष्टा वितिश्रुत्या जीवस्य हृदि स्थितिः शास्त्रान्निवितेति न दृष्टान्तवैषम्यमित्युक्तम् । ततः सप्तमे जीवस्य यो गुणश्चैतन्यं तेन जीवः सर्वशरीरं व्याप्नोति । यथा मणेः कान्ति- ५ वेदा० वेदान्ताधिकरणमाला। पहुदेशव्यापिनी, तद्वदित्युक्तम् । ततोष्टमे चैतन्यगुणस्य खाश्रयाधिकदेशवृत्तित्वं चम्प- कादिगन्धवदवगन्तव्यमित्युक्तम् । ततो नवमे चैतन्यगुणेन सर्वशरीरव्याप्तौ कौशीत- किब्राह्मणे 'हिता नाम पुरुषस्य नाड्य' इत्यादिना तासां नाडीनामणुत्वं तासु जीवस्य स्थितिं चाभिधाय, स एप इह प्रविष्टः 'आलोमभ्य आनखाग्रेन्य' इत्यनेन व्याप्ति प्रदर्श- यति । तस्मात्सामर्थ्येन गुणेन च व्याप्तिरुपपन्नेत्युक्तम् । ततो दशमे 'प्रज्ञया शरीरं स- मारुह्येति श्रुतौ प्रज्ञायाः करणत्वनिर्देशात्खरूपचैतन्याद्भिन्नं गुणरूपं चैतन्यं निरूपितम् । अतो गुणेन व्याप्तिरुपपन्नेति साधितम् ॥ १२ ॥ ततस्त्रयोदशे चतुःसूत्रे तदुणसारत्वादित्यधिकरणे जीवे ब्रह्मत्वव्यपदेशो मुख्यो गौणो वेत्साशंकायाम्, सुपुप्तिसाक्षिणि प्राज्ञे यथा ब्रह्मत्वव्यपदेशो गौणस्तथा 'प्रज्ञा- नधनस्तत्त्वमसी'यादावपि ब्रह्मगुणसारत्वाद्ब्रह्मत्वव्यपदेशो गौण इत्युक्तम् । ततो द्वितीये ननु नीचस्यात्युकृष्टत्वव्यपदेशो न युक्तः । न च प्राज्ञवदिति वाच्यम् । तथा सति प्राज्ञ- वत्तत्तिरोहितं स्यात् । तथा सति किं व्यपदेशेनेत्याशंक्य, समाधानमाह । यावदात्मा वर्तते, तावत्सर्वोत्कृष्टत्वं तस्य स्फुरति । अर्थादात्मा नित्य इति सर्वदैव स्फुरति । तस्मान्न दोप इत्युक्तम् । ततस्तृतीये (ननु)जीवे आनन्दांशाभिव्यक्त्या ब्रह्मधर्माविर्भाव इत्युक्तम् । तन्न युक्तम् । आनन्दांशस्य पूर्वमसत्त्वेन पश्चाजन्यत्वात् , जन्यत्वेन नश्वरत्वेन च व्यास्या तस्य नश्वरत्वप्रसंगादित्याशंक्य, यथा बालकस्य सदेव पुंस्त्वं यौवनेऽभिव्यज्यते, तथा पूर्व सूक्ष्मरूपेण वर्तमान एवानन्दो ब्रह्मभावे सत्यभिव्यज्यते । अतो न तस्य नश्वरत्वमि- त्युक्तम् । ततश्चतुर्थे नन्विदानी सचिदांशावेव प्रकटौ, मोक्षे त्वानन्दांशोपि प्रकटो भव- तीत्येवमवस्थाभेदेन विभाग को हेतुरित्याशंक्य, तत्र हेतुमाह । यदीदानीमप्या- नन्दः प्रकटः स्यात्तदा सचिदंशवदिदानीमप्यानन्द उपलभ्येत, संसारश्च न स्यात् । यदि कदापि न स्यात्तदा मोक्षावस्था विरुध्येत । नित्यनिरतिशयसुखाभिव्यक्तरेव मोक्षत्वात् । यदि जीवो निरानन्द एव, ब्रह्मैवानन्दमयमिति नियमोऽङ्गीक्रियते, तदा 'ब्रह्मैव सन् ब्रह्माप्येती'तिश्रुतिर्विरुध्येत । अतः प्रमाणाद्यविरोध एवमङ्गीकारे हेतुरित्युक्तम् ॥ १३ ॥ ततचतुर्दशेऽष्टसूत्रे कर्ता शास्त्रार्थवत्त्वादित्यधिकरणे जीवस्य कर्तृत्वं व्यवसापितम् । सांत्यैः प्रकृतिगतमेव जीवे तत् प्रतीयत इत्यंगीक्रियते, तन्निवृत्त्यर्थम् । तत्र प्रथमसूत्रे शास्त्रार्थवत्त्वं हेतुरुक्तः । वेदादिषु जीवमेवाधिकृत्याभ्युदयनिःश्रेयसफ- लकानां यज्ञोपासनारूपाणां कर्मणां विज्ञानदर्शनादित्युक्तम् । ततो दितीये जीवस्य स्वतः कर्तृत्वाभावेपि संसारदशायां प्रकृतिसंसृष्टत्वेन विवेकाग्रहानाकृतकर्तृत्वग्रहणेपि न शास्त्रान- र्थक्यमित्याशंस्य, निहारोपदेशादिति हेतुरुक्तः । विहारः खेच्छाक्रीडात्मकमोगरूपो दह- रवियायामुपदिश्यते, स च दहरविदः कर्तृत्वमाक्षिपतीति जीव एव कर्ता इत्युक्तम् । तत- स्तृतीये 'तदेपां प्राणानां विज्ञानेन विज्ञानमादाये'तिश्रुतौ विज्ञानादानकयनेन जीवस्य श्रीपुरुषोत्तमविरचिता। सातव्यबोधनात्तस्यैव कर्तृत्वमित्युक्तम् । ततश्चतुर्थे 'विज्ञानं यज्ञं तनुते कर्माणि तनुतेपि चे'तिश्रुतौ साक्षादेव कर्मकर्तृत्वव्यपदेशात् । तचेन्नाङ्गीक्रियते, तदा श्रुतौ प्रथमानिर्देशो विरुध्येत । प्रथमानिर्देशाविपरीतस्तृतीयाविभक्तिनिर्देशश्चापद्यतेत्युक्तम् । ततः पञ्चमे यदि जीवस्य कर्तृत्वं स्यात्तदा स्वतत्रत्वात्स्वाहितं न कुर्यादित्याशंक्य, यथा चक्षुषेष्टमनिष्टं चो- पलभते, तथैवेन्द्रियैः कर्म कुर्वन्निष्टमनिष्टं चाप्नोति । तथाच सांख्यवत् केवलभोक्तृत्वांगीका- रेप्ययं दोपस्तुल्य इति कर्तृवे पर्यनुयोगोन कार्य इत्युक्तम् । ततः पठे ननु खतत्रवेदीश्वर- वत् स्वार्थमन्यथा न कुर्यादित्याशंक्य, अस्स शक्तिस्तिरोहितेति तथा करोति । तावता न कर्तृ- वहानिरित्युक्तम् । ततः ससमे जीवस्य शक्तितिरोभाव एव कुत इत्याशंक्य, जीवस्य क्रिया- ज्ञानशक्तियोगेन घृतद्रवत्ववत् सिध्यति । अतस्तदभावाच्छक्तितिरोभाव इत्युक्तम् । ततोष्टमे ननु कर्तृत्वभोक्तृत्वयोन्निधर्मत्वं दृष्टम् , यथैको गृहं निर्मिमीते, अन्यस्तु तद्भुक्ते, तस्मान्नेदं साधीय इत्याशंक्य, यथा तक्षा रथं पीठं वा निर्माय तत्रारूढो विहरति, तथा तयोरैकाधि- करण्यस्यापि दर्शनान्न दोप इत्युक्तम् । एवमनेनाधिकरणेन जीवस्य कर्तृत्वं साधितम् ॥१४॥ ततः पञ्चदशे दिसूत्रे परात्तु तच्छुतेरित्यधिकरणे जीवस्य कर्तृत्वं स्वतो वा भगवतो वेत्याशंकायां भगवद्गतमेव कर्तृत्वं भगवदंशत्वाजीवे भासते । 'एप एव साधु कर्म कारयती तिश्रुतेः । ब्रह्मणः सर्वरूपत्वान्न वैपम्यर्पण्यादिदोप इति प्रथमसूत्रे उक्तम् । ततो द्वितीयसूत्रे क्रीडार्थ यो भगवता उद्यमः कृतो वर्तते, तदपेक्ष एव भगवान् स्वांशं जीवं तत्र तत्र तथा प्रवर्तयतीत्युक्तम् । दोपपरिहारस्तु सर्वरूपत्वादेव कृतः ॥१५॥ ततः पोडशे एकादशसूत्रे अंशो नानाव्यपदेशादित्यधिकरणे जीवस्य ब्रह्मसंवन्धिरूपमुच्यते। तत्र प्रथमसूत्रे जीवो ब्रह्मणोंश एव । 'सर्व एवात्मानो व्युच्चरन्ति, कपूयचरणा रमणीयचरणा'इतिश्रुतौ बहुत्वेन व्यपदेशाद् 'ब्रह्मदाशा ब्रह्मदासा ब्रह्मेमे कि- तवा उते'तिश्रुतौ ब्रह्मत्वेन च व्यपदेशाच । नोकस्य जीवस्य बहुत्वं ब्रह्मरूपत्वं चेत्युभय- मंशत्वं विना संगच्छते । तस्मादंश इत्युक्तम् । ततो द्वितीये 'पादोऽस्य विश्वा भूतानी तिमत्र- वणे जीवस्य पादत्वादप्यंशत्वमित्युक्तम् । ततस्तृतीये 'ममैवांशो जीवलोके जीवभूतः सनातन'इति स्मृतौ कण्ठत एवांशत्वमुक्तम् । एवं त्रिभिः सूत्रैर्जीवस्य ब्रह्मसंवन्धिरूपमुक्तम् । ततश्चतुर्थे जीवस्य ब्रह्मांशत्वे तहारा ब्रह्मण्यपि या दोपसंवन्धशंका सा द्वाभ्यां परिहृता इति न वक्तुं शक्यम् । जीवस्य दुःखित्वेन तदंशिभूते ब्रह्मण्यपि दुःखित्वादिप्रसंगात् । पाददुःखे पुरुषदुःखवदित्याशक्य, तस्स परिहार उक्तः । तथाहि प्रकाशादीनां दुष्टप्रकाश्यसंसर्गेपिन सूर्यादेर्दुष्टत्वम् , तथा ब्रह्मणोपि । वस्तुतस्तु दुष्टप्रकाश्यसंसर्गेपि प्रकाशस्यापि न दुष्टत्वम् । कुतः सूर्यादेः,तथा जीवस्य ब्रह्मणश्चेत्यदोष इति । ततः पंचमे स्मृत्यादिदोपपरिहार उक्त तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवांभसे ति। 'कर्मा- रमाप्यपरो योसौ मोक्षवन्धैः स युज्यते' इति जीवस्य दोपसंसर्गों, न ब्रह्मण इति । ततः पठे - " , वेदान्ताधिकरणमाला। ननु जीवस्य यदि ब्रह्मांशत्वम् , तदा विधिविषयत्वाभावात्कर्मसंवन्धाभावः फलासंवन्धश्चे- साशंक्य, जीवस्यापि न खतो विध्यादिविषयत्वम् , किन्तु देहयोगादेव विधिनिषेधा- धीनत्वमपि । तत एव यथा शवाग्निश्चण्डालोदकं तदटादिश्च परिहियते, शिष्टसंवन्धिनस्ते गृह्यन्ते, एवं जीवस्य देहसंवन्धकृतौ गुणदोपौ न खत इत्युक्तम् । तेनैव फलसंवन्धश्चेत्यपि साधितम् । ततः सप्तमे जीवस्य देहसंबन्धाद्गुणदोपसंसर्गकथनं न युक्तम् , कालिकनित्य- प्रलयेन देहस्य प्रतिक्षणमन्यान्यत्वादाधानकाले प्रामण्यस्य वक्तुमशक्यत्वेन कर्मानधिकार- प्रसक्तेींवैक्यमादायाधिकारसाधने तु देहान्तरेपि तदापत्तेरित्याशंक्य, देहान्तरे पूर्वदेह- संतत्यभावान्न पूर्वदैहिककर्माद्यापत्तिः । एकस्मिन् देहे तु संततिसामान्यात्कर्माधिकारः सुघटः । ततः सिद्धे देहसंतत्यैक्ये तहारा जीवस्य गुणदोपसंसर्गों न दुर्घटावित्युक्तम् । ततोऽष्टमे सचिदानन्दस्य ब्रह्मणोंशोपि तादृश एव वक्तव्यः तथासति कथं नस्य देहसंवन्ध इत्याशंक्य, जीवो ब्रह्माभास इत्युक्तम् । यथा अनाचारी ब्राह्मणो ब्राह्मणाभासः, अखिल- ब्राह्मणधर्माणामभावात् , एवमानन्दांशस्य तिरोधानेन ऐश्वर्यादीनां ब्रह्मधर्माणामभावात् तादृशाकारस्य चाभावात् जीवोपि ब्रह्माभासः। तथा चानन्दांशाभावाद्देहसंवन्ध इत्युक्तम् । एवं त्रिभिः सूत्रैर्जीवस्य स्वतो निर्दुत्वे देहसंबन्धादोपसंयन्धो देहसंबन्धहेतुश्च साधितः । ततोनिमेषु त्रिपु यन्नैयायिकादिभिर्भोगव्यवस्थया जीवनानावं व्यापकत्वं चांगीकृतं तद्- प्यते । तत्र प्रथमे तेपामात्मनां व्यापकत्वेन सर्वमनइन्द्रियदेहसंवन्धाधेनकेनचित्करणग्रामेण यत् कर्म क्रियते, तजन्यादृष्टस्य सर्वत्र तुल्यत्वाददृष्टनियमो न स्यात् । तस्मात्तदुक्तप्रकारेण जीवव्यापकत्वनानात्वस्थापनमसंगतमित्यर्थः । ततो द्वितीये विलक्षणमनःसंयोगेन पूर्वोक्तं सर्व साधयन्ति । तदृष्यते । तत्र दृष्टादृष्टकारणकलापसामान्ये एकस्यैव वैलक्षण्यम् , नान्यस्ये- त्यन हेतोर्वक्तुमशक्यत्वादिति घोधितम् । ततस्तृतीये जीवस्य व्यापकत्वेपि प्रदेशभेदान्न दोष इति ते वदन्ति । तद्रूष्यते । यदि तथांगीक्रियते, तदा यत्र कर्मकरणेन यस्मिन्प्रदेशे- ऽदृष्टमुत्पन्नं, तस्य प्रदेशस्य देशान्तरेऽभावात् तत्रोत्पन्नानां वस्तूनां भोगो न स्यात् , अदृष्टस्या- चञ्चलत्वात् । तस्मान्न तदुक्तरीत्या तन्मतसिद्धिरिति त्रिभिः सूत्रैरुक्तम् । एवमेकाद- शभिः सूत्रैर्जीवस्य ब्रह्मसंवन्धिरूपमुक्तम् ॥ १६ ॥ इति श्रीवल्लभाचार्यचरणदासस्य पीताम्बरात्मजपुरुपोत्तमस्य कृती वेदान्ताधिकरणमालायां द्वितीयाध्यायस्य तृतीयः पादः । पूर्वपादे जीवस्स स्थूलशरीरनिप्पादकानां भूतानां स्वरूपमुत्पत्यादिकं च विचारितम् । अस्मिन् पादे इन्द्रियादीनां तदवसरसंगत्या विचार्यते । तन प्रधमे पश्नमूने तथा प्राणा इत्यधिकरणे इन्द्रियाणां भूतवत् कार्यत्वं वा, जीवपदंश वेति संदेहे जीववदंशसमिति निर्णीतम् । तर प्रथमसूत्रे पूर्वपादे नि- १. परतुन इति पार ।

, . श्रीपुरुषोत्तमविरचिता। रूपितजीवस्य ये चिदंशलातिरिक्ता धर्मा उत्क्रान्त्यादयस्ते सर्वेतिदिश्यन्ते । ततो द्वितीये ननु प्राणेपु नित्यत्वाश्रवणादुत्लान्त्यादिश्रुतिौणी भविष्यतीत्याशंक्य, एकैव श्रु- तिजीवे मुख्या, प्राणादौ गौणीति वक्तुं न शक्यत इत्युक्तम् । ततस्तृतीये सृष्टेः पूर्वमपि प्राणादीनां स्थितिः श्रूयते । 'असद्वा इदमग्र आसी'दित्यारभ्य, 'प्राणा वा ऋपय' इत्यन्तेन तन्निगमनात् । ततश्चतुर्थे मनःपूर्वो वागुत्तर' इतिश्रुतेर्मनसो वाक्पूर्वरूपत्वात् । वाचश्च वेदरूपाया 'वाचा विरूपनित्ययेति श्रुत्या नित्यत्वश्रावणात्तत्पूर्वरूपस्य मनसः कथमनित्यत्वं भवेत् । ततः पश्चमे 'तमुत्क्रामन्तं प्राणोऽनूकामती'तिश्रुतौ सप्तानां गति- मिर्जीवगतिविशेष्यते । अतो जीवसमानयोगक्षेमत्वात्तेपामपि जीवतुल्यत्वमित्युक्तम् ॥१॥ ततो द्वितीये एकसूत्रे हस्ताय इत्यधिकरणे उत्क्रान्तिश्रुतौ प्राणानां जीवेन सहोत्क्रमणकथनात् तेषां नित्यत्वमंशत्वं चांगीकृतम् । अतः परं ते कतीति विचार्यते । श्रुतौ कचित् सप्तोक्ताः, क्वचिदष्टौ, कचिन्नव, कचिद्दश, क्वचिदेकादशेति नानापक्षाः श्रूयन्ते । तद्विप्रतिपेधपरिहारार्थ विचारः । तत्र 'हस्तौ चादातव्यं चेति श्रुतौ हस्तोपस्थपायुपादानां सप्तम्योधिकानां कथनात् चक्षुस्त्वग्वाणरसनश्रवणमनोवाचां सप्तानां पूर्व कथनाचैका- दश, न तु सप्तैवेत्युक्तम् । तेषु पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, उभयनायकमन्तः- करणं मन इत्येवं तेषां विभागो ज्ञेयः ॥२॥ ततस्तृतीये एकसूत्रे अणयश्चेत्यधिकरणे तेषां जीववत् परमाणुपरिमाणं विचारितम् । ततश्चतुर्थे दिसूने श्रेष्ठश्चेत्यधिकरणे मुख्यप्राणस्थाणुवं विचारितम् । 'आनीद- वातं स्वधया तदेक'मितिश्रुत्या अननात्मकत्वेन सृष्टेः पूर्वं सत्ता च प्रदर्शिता । ततो हि- तीयसूत्रे वायुर्वा, इन्द्रियक्रिया वा, मुख्यः प्राणोस्त्वित्याशंक्य, 'एतस्माजायते प्राणो मनः सर्वेन्द्रियाणि च, खं वायुयोतिरापः पृथ्वी विश्वस्य धारिणी'तिश्रुतौ वायुभिन्नत्वेन पृथगुपदेशात् । वृत्तिवृत्तिमतोरभेदेन क्रियाया इन्द्रियान्तःपातित्वे सिद्ध तेभ्योपि प्राणस्य पृथक्त्वात् मिन्न एवासन्य इति साधितम् ॥ ४ ॥ ततः पञ्चमे चतुःसूत्रे चक्षुरादिवत्त्वित्यधिकरणे प्राणः स्वतत्रः, परतत्रो वेति शंकायाम्, मुख्यः प्राणोपि आसन्यत्वाद्भगवदधीनः । व्यवहारे तु जीवाधीनः । श्वेताश्वतरे इन्द्रियादिजयवत् तजयस्याप्यनुशासनादित्युक्तम् । ततो द्वितीये प्राणश्चेजीवाधीनः, तदा करणवत् किश्चिद्व्यापारं कुर्वन् जीवोपकरणरूपो भवेत् । तत्तु न करोतीनि कथं तस्य जीवो- पकरणत्वमित्याशंक्य, मुख्यप्राणस्य यः व्यापाराभावः सः करणत्वाभावात् । उपकरणत्वं तु देहस्थितिरूपकार्यय करणात् । अतो व्यापाराभावेपि तस्य जीवोपकरणत्वं न विरुद्धमित्यु- क्तम् । ततस्तृतीये ननु व्यापाराभावे तस्य जीवोपकारित्वमसमअसमित्याशंक्य, श्रुती 'अहमे- वैतत् पञ्चधात्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामी'ति व्यपदिश्यते । अतो यथा मनसो द्वारभेदेन स्वरूपत एकादशवृत्तयस्तथा प्राणेपि पञ्चवृत्तयो व्यपदेशप्रामाण्यादंगीक्रियन्ते । . .

वेदान्ताधिकरणमाला। तामिरेव देहं स्थापयञ्जीवस्योपकरणं संभवतीत्युक्तम् । ततश्चतुर्थे तस्याप्यणुत्वं साधितम् ॥५ ततः पप्ठे एकसूत्रे ज्योतिराद्यधिष्टानं त्वित्यधिकरणे वागादयः किं देवता- पिष्ठानेन खस्वकार्ये प्रवर्तन्ते, खत एवेत्याशंक्य, आधिभौतिकाः आध्यात्मिकास्ते खखाधि. दैविकाधीना इत्यम्यादिखखदेवताधिष्ठानेनैव प्रवर्तन्ते, न तु खत इति निर्णीतम् ॥६॥ ततः सप्तमे दिसूत्रे प्राणवतेत्यधिकरणे अग्न्यादिदेवताः किं स्वत एव केवला वागादीनधितिष्ठन्ति, मुख्यप्राणसहिता वेत्याशय, मुख्यप्राणसहिता एवाधितिष्ठन्ति । 'सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यत' इतिश्रुतेरित्युक्तम् । ततो द्वितीये प्राणस्य तसंवन्धस्य च नित्यत्वमुक्तम् । तेन प्राणसहिता एव देवा वागादीनधितिष्ठन्ति । तेनैव जीवस्य भोगसिद्धिः, तेषां जीवोपकारकत्वं च सिद्धमित्युक्तम् ॥७॥ ततोष्टमे त्रिसूत्रे इन्द्रियाणि तद्व्यपदेशादित्यधिकरणे इन्द्रियाणांप्राणाधीन- सर्वव्यापारत्वात् प्राणशब्दवाच्यत्वाच्च प्राणवृत्तिरूपाणीन्द्रियाणीत्याशंक्य, तत्त्वान्तराणीति सिद्धान्तितम् । एतस्माजायते प्राणो मनः सर्वेन्द्रियाणि चेति तत्त्वोत्पत्तिबोधकश्रुतौ प्राणाद्भिन्नतयेन्द्रियत्नेन व्यपदेशात् । नन्वेवं व्यपदेशमात्रेण भेदे सति प्राणापानादिव्यप- देशमेदादासन्योपि प्राणादिभ्यो भिन्नः स्यादिति नाशंकनीयम् । प्राणादिशब्दानां पाचक- पाठकादिवदासन्ये यौगिकत्वान्न तद्भेदकत्वम् । इन्द्रियशब्दस्य तु न यौगिकत्वम् । अतो नैतदृष्टान्तेनाशंकनीयमित्युक्तम् । ततोऽग्रिमसूत्रदये हेत्वन्तरमित्युक्तम् । यत्रापि प्राणशब्दप्रयोगस्तत्रापि भेदेन श्रूयते । 'तमुत्तामन्तं प्राणोऽनूत्कामती'ति 'प्राणमुकामन्तं सर्वे प्राणा अनूकामन्तीति । वैलक्षण्यं च, प्राणस्य चेन्द्रियाणां च । 'सुप्तेषु वागादिषु प्राणो जागर्ति । स्वामिसेवकवचाने वैलक्षण्यम्' ॥८॥ ततो नवमे एकसूत्रे संज्ञामूर्तिकृप्तिरित्यधिकरणे भूतभौतिकसृष्टिः परमेश्व- रादेवेति निर्णीय, नामरूपव्याकरणमपि परमेश्वरादेवेति निर्णीयते । तत्र नामरूपव्याक- रणं लोके जीवानामेव दृष्टमिति हिरण्यगर्भादेव तयाकरणमित्याइसक्य., नासम्म कर्ता परमेश्वर एव । छान्दोग्ये 'हन्ताहमिमास्तिस्रो देवताः अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी'तिश्रुतौ नामरूपव्याकर्तृत्वेन निवृत्कुतिः परमेश्वरस्यैवोक्तत्वात् । नामव्याकरणं हि वारसायम् । रूपन्याकरणं कियासाव्यम् । वाकिये च शरीरं विना जीवस न संभवतः । शरीरं नामरूपव्याकरणोत्तरं मावि । तस्मान्न जीवस्तत्का, किन्तु परमेघर एव तत्कर्तेत्युक्तम् ॥ ९ ॥ ततो दशमे दिसूत्रे मांसादिभीममित्यधिकरणे 'एतस्माजायते प्राण' इति- श्रुती प्राणम्मेन्द्रियाणां च मगरतः सकाशात्मष्टिरुक्ता । छान्दोग्ये तु 'अन्नमशितं धा विधीयत' इतिश्रुती मनःप्राणवाचां भौतिकतं श्राव्यते । 'अन्नमयं हि सौम्य मनः, आ- पोमयः प्राणः, तेजोमयी वागि'सनेन, 'एतस्माआयत' इतिश्रुत्युकाया उत्सत्तेः परम्पर- श्रीपुरुपोचम विरचिता। याप्युपपद्यमानत्वात् । 'अन्नमय'मित्यादिश्रुतेस्तु मांसादिसाहचर्येण विशेषयोधकत्वात् । मनआदीनां भौतिकत्वमेवेति प्रथमसूत्रेणाशक्य, द्वितीयसूत्रे तेषां तत्त्वान्तरत्वमेवेति स्थापितम् । मनःप्रभृतीनामन्नमयत्वादिकं तु अन्नादिपोपितत्वेनाप्युपपद्यते । 'पञ्चदशाहानि माशी'रित्याधुपपादकदर्शनात् । सर्ववाक्ये साक्षात्स्टेरुक्तत्वेन तत्र परम्परायाः प्रवेष्टुम- शक्यत्वात् । तस्मात्तत्त्वरूपाणि तानि भगवत एवेति सिद्धान्तितम् । एवमस्मिन्नध्याये सर्वोपि विरोधः परिहतः॥१०॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्बरात्मजपुरुषोत्तमस्य कृती वेदान्ताधिकरणमालायां द्वितीयाध्यायस्य चतुर्थः पादः । द्वितीयाध्यायः समाप्तः। तृतीयोध्यायः। तृतीयाध्यायस्याधिकरणार्थसंग्रहः । ततस्तृतीयेऽध्याये जघन्यमध्यमाधिकारिणां सा- धनसंपचावुपनिषदां विद्याजनकता, अन्यथा तु सत्संप्रदायेपि परोक्षज्ञानजनकतैवेत्यतः प्रथमे पादेऽधिकारिणो जन्मनिर्धारः क्रियते । तत्र पञ्चाग्निविद्यया निष्पन्नदेहः स्वरूपतो- अधिकारीति तदर्थ तद्विद्यास्थाः पश्चाप्याहुतयो विचार्यन्ते । तत्र ब्रह्मसंवन्धिविचारविशेप- रूपत्वाच्छास्त्रसंगतिः । साधनविचारशेपत्वादध्यायसंगतिः । तत्राष्टावधिकरणानि । तत्र प्रथमेऽधिकरणे जीवेन्द्रियाणां होमाभावेनाशुद्धिमाशय, तेपामपि शुद्ध्यर्थ जीवस्सेतो लोकान्तरगमनावसरे संस्कृतभूतसूक्ष्मेन्द्रियसाहित्यं सप्तभिः सूत्रैः साध्यते । तत्र प्रथमसूत्रेसंस्कृतभूतसूक्ष्मैः संपरिष्वक्त एव परलोकं गच्छतीत्युच्यते । ततो दितीये सूत्रे श्रुत्युक्तप्रश्ननिरूपणाभ्यामद्भिः संपरिष्वक्त एव गच्छतीति ज्ञायते, नतु भूतान्तरसंपरिष्वक्त इत्याशंक्य, अपां भूतत्रयात्मकत्वं साध्यते । ततस्तृतीयसूत्रे, प्राणस्यापि गमनं पोध्यते । ततश्चतुर्थे प्राणगमनस्याश्यादिभावश्रुत्या वाधमाशंक्य, तन्निवारणेन प्राणानां परलोकगतिः साध्यते । ततः पञ्चमे श्रुतौ श्रद्धापदान्नापां होम इत्याशय, श्रद्धापदेनाप एवोच्यन्ते इति निर्धार्यते । ततः पप्ठे सूत्रे, सर्वे जीवास्तथा गच्छन्ति, उत ज्ञानोपयोगिन एवेत्याशंक्य, ज्ञानोपयोगिनो यज्ञादिकृतो गच्छन्तीति निर्णीयते । ततः सप्तमे तेषां होमेन सोमभावेऽनिष्टमाशंक्य, तन्निवार्यत इति । एवं प्रथमाहुतिः सफला विचारिता भवति ॥१॥ ततो द्वितीये चतुःसूत्रे कृतात्ययाधिकरणेऽवसरसंगत्या सोमभावोत्तरं वृष्टि- भावं प्राप्नोतीति द्वितीयाहुतिर्विचार्यते। तत्र प्रथमसूत्रे सानुशयो वृष्टिभावं प्राप्नोतीति चोधनार्थमनुशयो विचार्यते । अनुशयो द्विविधः । 'यद्यत्र नः खर्गसुखावशेपित'मिति श्रीभागवतवाक्याद्भोगसाधकसामग्रीशेपरूपं यत् फलं तदात्मकः सुखलेशरूप एकः, कर्म- शेषरूपो द्वितीय इति निर्णीतम् । ततो द्वितीयसूत्रे आचरणाचत्तयोनिप्राप्तिमाशंक्य, वेदान्ताधिकरणमाला। . ताभिरेव देहं स्थापयञ्जीवस्योपकरणं संभवतीत्युक्तम् । ततश्चतुर्थे तस्याप्यणुत्वं साधितम् ॥५ ततः पष्ठे एकसूत्रे ज्योतिराद्यधिष्ठानं त्वित्यधिकरणे वागादयः किं देवता- पिष्ठानेन खखकार्ये प्रवर्तन्ते, खत एवेत्याशंक्य, आधिभौतिकाः आध्यात्मिकास्ते खस्वाधि. दैविकाधीना इत्यग्यादिखस्वदेवताधिष्ठानेनैव प्रवर्तन्ते, न तु खत इति निर्णीतम् ॥६॥ , ततः सप्तमे दिसूत्रे प्राणवतेत्यधिकरणे अग्न्यादिदेवताः किं स्वत एव केवला वागादीनधितिष्ठन्ति, मुख्यप्राणसहिता चेत्याशन, मुख्यप्राणसहिता एवाधितिष्ठन्ति । 'सोऽयमग्निः परेण मृत्युमतिकान्तो दीप्यत' इतिश्रुतेरित्युक्तम् । ततो द्वितीये प्राणस्य तत्संबन्धस्य च नित्यत्वमुक्तम् । तेन प्राणसहिता एव देवा वागादीनधितिष्ठन्ति । तेनैव जीवस्य भोगसिद्धिः, तेपां जीवोपकारकत्वं च सिद्धमित्युक्तम् ॥७॥ ततोप्टमे त्रिसून्ने इन्द्रियाणि तद्व्यपदेशादित्यधिकरणे इन्द्रियाणां प्राणाधीन- सर्वव्यापारत्वात् प्राणशब्दवाच्यत्वाच प्राणवृत्तिरूपाणीन्द्रियाणीत्याशंक्य, तत्त्वान्तराणीति सिद्धान्तितम् । एतस्माजायते प्राणो मनः सर्वेन्द्रियाणि चेति तत्त्वोत्पत्तिवोधकश्रुतौ प्राणाद्भिन्नतयेन्द्रियत्वेन व्यपदेशात् । नन्वेवं व्यपदेशमात्रेण भेदे सति प्राणापानादिव्यप- देशमेदादासन्योपि प्राणादिभ्यो भिन्नः स्यादिति नाशंकनीयम् । प्राणादिशब्दानां पाचक- पाठकादिवदासन्ये यौगिकत्वान्न तद्भेदकत्वम् । इन्द्रियशब्दस्य तु न यौगिकत्वम् । अतो नैतदृष्टान्तेनाशंकनीयमित्युक्तम् । ततोऽग्रिमसूत्रद्वये हेत्वन्तरमित्युक्तम् । यत्रापि प्राणशब्दप्रयोगस्तत्रापि भेदेन श्रूयते । 'तमुल्लामन्तं प्राणोऽनूत्कामतीति 'प्राणमुत्क्रामन्तं सर्वे प्राणा अनूकामन्तीति । वैलक्षण्यं च, प्राणस्य चेन्द्रियाणां च । 'सुप्तेपु वागादिपु प्राणो जागर्ति । स्वामिसेवकवचाने वैलक्षण्यम् ॥ ८॥ ततो नवमे एकसूत्रे संज्ञामूर्तिकृप्तिरित्यधिकरणे भूतभौतिकसष्टिः परमेश्व- रादेवेति निर्णीय, नामरूपव्याकरणमपि परमेश्वरादेवेति निर्णीयते । तत्र नामरूपव्याक- रणं लोके जीवानामेव दृष्टमिति हिरण्यगर्भादेव तद्व्याकरणमित्याशंक्य, नामरूपव्या- कर्ता परमेश्वर एव । छान्दोग्ये 'हन्ताहमिमास्तिस्रो देवताः अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी'तिश्रुतौ नामरूपव्याकर्तृत्वेन त्रिवृत्कुतिः परमेश्वरस्यैवोक्तत्वात् । नामव्याकरणं हि वाक्साध्यम् । रूपव्याकरणं क्रियासाव्यम् । वाक्रिये च शरीरं विना जीवस्य न संभवतः । शरीरं नामरूपव्याकरणोत्तरं मावि । तस्मान्न जीवस्तत्कर्ता, किन्तु परमेश्वर एव तत्कर्तेत्युक्तम् ॥९॥ ततो दशमे दिसून मांसादिभीममित्यधिकरणे 'एतस्माजायते प्राण' इति- श्रुती प्राणस्पेन्द्रियाणां च भगवतः सकाशात्सृष्टिरुक्ता । छान्दोग्ये तु 'अन्नमशितं त्रेधा विधीयत' इतिश्रुतौ मनःप्राणवाचां भौतिकवं श्राव्यते । 'अन्नमयं हि सौम्य मनः, आ- तेजोमयी वागि'त्यनेन, 'एतस्माआयत' इतिश्रुत्युक्ताया उत्पत्तेः परम्पर- . पोमयः प्राणः, - भावं प्राप्नोतीति द्वितीयाहुतिर्विचार्यते। तत्र प्रथमसूत्रे सानुशयो वृष्टिभावं प्राप्नोतीति वोधनार्थमनुशयो विचार्यते । अनुशयो द्विविधः । 'यद्यत्र नः स्वर्गसुखावशेपित मिति शेषरूपो द्वितीय इति नितिम् । ततो द्वितीयसूत्रे आचरणात्तत्तद्योनिप्राप्तिमाशंक्य, श्रीपुरुपोत्तमविरचिता। याप्युपपद्यमानत्वात् । 'अन्नमय'मित्यादिश्रुतेस्तु मांसादिसाहचर्येण विशेषवोधकत्वात् । मनआदीनां भौतिकत्वमेवेति प्रथमसूत्रेणाशंक्य, द्वितीयसूत्रे तेषां तत्त्वान्तरत्वमेवेति स्थापितम् । मनःप्रभृतीनामन्नमयत्वादिकं तु अन्नादिपोपितत्वेनाप्युपपद्यते । 'पञ्चदशाहानि माशी'रित्याद्युपपादकदर्शनात् । सर्ववाक्ये साक्षात्सृष्टेरुक्तत्वेन तत्र परम्परायाः प्रवेष्टुम- शक्यत्वात् । तस्मात्तत्त्वरूपाणि तानि भगवत एवेति सिद्धान्तितम् । एवमस्मिन्नध्याये सर्वोपि विरोधः परिहतः ॥१०॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्बरात्मजपुरुषोत्तमस्य कृती वेदान्ताधिकरणमालायां द्वितीयाध्यायस्य चतुर्थः पादः । द्वितीयाध्यायः समाप्तः। तृतीयोध्यायः। तृतीयाध्यायस्याधिकरणार्थसंग्रहः । ततस्तृतीयेऽध्याये जघन्यमध्यमाधिकारिणां सा- धनसंपत्तावुपनिषदां विधाजनकता, अन्यथा तु सत्संप्रदायेपि परोक्षज्ञानजनकतैवेत्यतः प्रथमे पादेऽधिकारिणो जन्मनिर्धारः क्रियते । तत्र पञ्चानिविद्यया निष्पन्नदेहः खरूपतो- ऽधिकारीति तदर्थ तद्विद्यास्थाः पञ्चाप्याहुतयो विचार्यन्ते । तत्र ब्रह्मसंवन्धिविचारविशेष- रूपत्वाच्छास्त्रसंगतिः । साधनविचारशेषत्वादध्यायसंगतिः । तत्राष्टावधिकरणानि । तत्र प्रथमेऽधिकरणे जीवेन्द्रियाणां होमाभावेनाशुद्धिमाशय, तेपामपि शुद्ध्यर्थं जीवस्येतो लोकान्तरगमनावसरे संस्कृतभूतसूक्ष्मेन्द्रियसाहित्यं सप्तभिः सूत्रैः साध्यते । तत्र प्रथमसूत्रे संस्कृतभूतसूक्ष्मैः संपरिष्वक्त एव परलोकं गच्छतीत्युच्यते । ततो द्वितीये सूत्रे श्रुत्युक्तप्रश्ननिरूपणाभ्यामद्भिः संपरिष्वक्त एव गच्छतीति ज्ञायते, नतु भूतान्तरसंपरिष्वक्त इत्याशक्य, अपां भूतत्रयात्मकत्वं साध्यते । ततस्तृतीयसूत्रे, प्राणस्यापि गमनं चोध्यते । ततश्चतुर्थे प्राणगमनस्याश्यादिभावश्रुत्या वाधमाशंक्य, तन्निवारणेन प्राणानां परलोकगतिः साध्यते । ततः पञ्चमे श्रुतौ श्रद्धापदान्नापां होम इत्याशक्य, श्रद्धापदेनाप एवोच्यन्ते इति निर्धार्यते । ततः पप्ठे सूत्रे, सर्वे जीवास्तथा गच्छन्ति, उत ज्ञानोपयोगिन एवेत्याशक्य, ज्ञानोपयोगिनो यज्ञादिकृतो गच्छन्तीति निर्णीयते । ततः सप्तमे तेपां होमेन सोममावेऽनिष्टमाशंक्य, तन्निवार्यत इति । एवं प्रथमाहुतिः सफला विचारिता भवति ॥१॥ ततो द्वितीये चतुःसूत्रे कृतात्ययाधिकरणेऽवसरसंगत्या सोमभावोत्तरं वृष्टि- श्रीभागवतवाक्याझोगसाधकसामग्रीशेपरूपं यत् फलं तदात्मकः सुखलेशरूप एकः, कम ४० , , वेदान्ताधिकरणमाला। चरणस्य पूर्वजन्मीनकर्मोपलक्षकत्वम्, नत्वग्रिमजन्मनि समीचीनकरणाहेतुत्वम् । तस्मा- दनिमार्थ कर्मशेषरूपोऽनुशयोऽवश्यमपेक्षणीय इत्युच्यते । ततस्तृतीयसूत्रे चरणस्य पूर्व- जन्मीनकर्मोपलक्षकत्वे प्रयोजनाभावेन चरणश्रुतेरानर्थक्यप्राप्तौ तस्याः जन्मविधायकत्वम- गीकर्तव्यम् । तथा सति कर्मशेपरूपानुशयवैयर्थ्यमित्याशक्य, निष्कामसकामगेदेन द्विविधानां कर्मिणां मध्ये निष्कामस्य पूर्वोक्तफलशेपरूपोनुशयः । द्वितीयस्य तु सुकृतदुः- कृतकर्मशेषरूप इति तस्य दुःशरीरप्राप्तिः, 'सुखानन्तरं दुःख'मितिन्यायेनोपपद्यते, तन्नि- वारणार्थ चरणश्रुत्या शरीरप्राप्तिरिति बोध्यत इति दुःशरीरनिषेधार्थ सा धूममार्गमुप- कम्योक्ता । अतो धूममार्गस्य तदपेक्षत्वान्न सा कमशेषरूपानुशयप्रतिपेधिका । तस्मान्न सोमभावापन्नस्य वृष्टिभाववाधः, अन्यथा तादृशशरीरप्राप्तेराकस्मिकता स्यात् , अतोनुशय आवश्यक इति निर्णीयते । ततश्चतुर्थे द्विविधकर्मशेषरूप एवानुशय इति बादरिमतम् । तेन मोक्षपर्यन्तमनुशयानुवृत्तिरिति बोध्यते । एवं द्वितीयाहुतिः सफला विचारिता ॥२॥ ततोऽनिष्टादिकारिणामिति पञ्चसूत्रे तृतीयाधिकरणे इष्टादिकारिव्यतिरि- क्तानां पश्चाहुतिधूममार्गयोः संवन्ध इति प्रथमसूत्रे आशंक्यते । तेन सर्वेषां सोमभावप्रा- प्यनन्तरं जन्मेत्याशंक्यते । ततो द्वितीयसूत्रे तन्निपिध्यते । यदि सर्वेषां सः स्यात्तदा यम- गतिश्रुतिर्विरुध्येत । तस्मान्न सर्वेषां सोममावः । ततः सूत्रद्वयेन स्मृत्यापि यमगतिः स्थाप्यते । ततः पञ्चमे सूत्रे चित्रगुप्तादीनामपि यमसेवकत्वं निर्णीयते । तेन यमगतेरपि सत्वान्न सर्वेषां सोमभावः, किन्तु मार्गद्वयस्थानामेवेत्युपोद्घातप्रसंगाभ्यां निर्णीयते ॥ ३ ॥ ततश्चतुर्थे चतुःसूत्रे विद्याकर्मणोरित्यधिकरणे । सर्वेषां चन्द्रलोकप्राप्तिः श्रुता । पश्चाग्निविद्याप्रस्तावे यमगतिस्तु नोक्ता । अतो विद्यया कर्मणा सोममार्ग इति न यममार्ग इति आशंक्य, वेदान्ते गौणमुख्यफलमेदार्थ तत्कारणत्वेन विद्याकर्मणोरुक्तत्वान्न तृतीयमा- नवादकत्वमिति प्रथमसूत्रे निर्णीयते । ततो दितीये सूत्रे 'जायस्व म्रियस्खे'तिश्रुत्युक्तस्य तृतीयमानत्वमाशंक्य,तस्मिन्मार्गे पुण्यपापमोगस्यातिखल्पत्वान्न तेन यममार्गवाध इत्युक्तम् । अयं च पश्चाहुतिनियमो मर्यादामागें एव, न सर्वत्र चेति निर्णीतम् । ततः सूत्रद्वये स्मृतिलौकिकदर्शनाम्यां यममार्गसत्ता साधिता। तेन 'जायखेति मार्गो विवेचकसापेक्षत्वात् यममार्गे एवं प्रविशतीति साधितम् ॥४॥ ततः पञ्चमे त्रिसूत्रे तृतीयशब्दावरोध इत्यधिकरणे । वृष्टेरन्नमावस्तृतीयाहुतेः फलम् । तत्र वीजावापं विना केवलवृष्टेरनासंभवात्प्रत्यक्षविरोधमाशय, तृतीयाहुती देवहो- मात्कारणभूतमेव जलं वर्पतीत्युच्यते । तस्माचान्नं श्रुतावेवोक्तम् । 'ता आप अन्नमराज- न्तेति । तस्मात्प्रत्यक्षस्य लौकिकत्वात्तद्विरोधो न दोपायेत्युक्तम् । ततो द्वितीयसूत्रे, 'वायुवा धूमो भवतीतिश्रावणात्ते वाग्वादयोजन्या इति तदनन्तरभाविनी वृष्टिरपि जन्या, अपामिवेति कारणभूतं जलं न वक्तुं शस्यत इत्याशंक्य, वाग्वाद्याकृतिमात्रेण स्वरूपान्य ४१ , . श्रीपुरुषोत्तमविरचिता। याभावाभावाद्वायुभवनाथुक्तिौणी । अतस्तदनुरोधेन वृष्टौ जन्या आपो वक्तुमशक्याः । तस्मात्कारणभूता एव ता आप इति निर्वाधमित्युक्तम् । ततस्तृतीये सूत्रे, शीघ्रमेव वृष्टेः सकाशादन्नरूपो भवतीत्युक्तम् । तेन तृतीयाहुतिः सफला विचारिता ॥५॥ ततः पठे मिसूत्रे, अन्याधिष्ठित इत्यधिकरणे, अन्नाद्रेतोभवनरूपा चतुर्थी आहुतिर्विचार्यते । तत्रान्नस्य कण्डनपाकादौ क्रियमाणे जीवस्यापगमात्कथं जीवस्य रेतोमाव इत्याशक्य, उप्ते बीजे पापिजीवान्तराधिष्ठितेऽन्नरूपेण जायमाने पश्चादृष्टौ देवहुतौ जीवोऽन्ने प्रविश्यातिथिवनिरभिमानस्तत्र तिष्ठतीति न तस्य कण्डनादिक्लेशः, किन्तु पापिन एव सः । न च तस्यापगमः शंकनीयः।सिद्धान्नादेर्वहुकालपर्युपितत्वे कृमिभावदर्श- नात् । एवं तस्यान्नस्य भक्षणेपि पापिन एवान्नभूतस्य जरणादिक्लेशः, नास्स निरभिमानस्पति तस्स रेतोभावो युक्त इत्युक्तम् । ततो द्वितीये सूत्रे तस्मिन्नन्ने पापिजीवसहभावादन्नस्या- शुद्धौ कथं तेन योग्यदेहसंपत्तिरित्याशंक्य, यथा वैदिकेन प्रोक्षणादिसंस्कारेण लौकिक- बीहीणां शुद्धिः, तथा वैदिकेन देवकृतहोमरूपसंस्कारेण तस्यान्नस्य शुद्धिरिति । तेन योग्यदेहनिष्पत्तिः निष्प्रत्यूहेत्युक्तम् ॥ ६ ॥ ततः सप्तमे एकसूत्रे रेतःसिगधिकरणे, रेतसः पुरुषभावो विचारितः ॥७॥ ततोष्टमे एकसूत्र योनेःशरीरमित्यधिकरणे, गर्भस्य न पुरुषत्वम् , किन्तु घ- हिनिर्गतस्यैव पुरुषत्वमिति निर्णीतम् । अत्र सर्वत्रावसर एव संगतिरिति बोध्यम् ॥ ८ ॥ तेन जघन्याधिकारिणो देहनिष्पत्तिविचारः, मध्यमस्य च योगादिना देहसंपत्तौ पुन- विचालनामावाय वैराग्यविचारः पादार्थत्वेन सिध्यति । मुख्याधिकारिणां तु वरणादेव तत्सिद्धिरिति नात्र तद्विचार इति बोध्यम् ।। इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्बरात्मजपुरुषोत्तमस्य कृती वेदान्ताधिकरणमालायां तृतीयाध्यायस्य प्रथमः पादः । अथ द्वितीये पादे जीवस्य स्वरूपतो मुक्तियोग्यता विचार्यते । प्रथमपादोक्ताया यो- ग्यताया ज्ञानोक्तिरूपे साधने एव पर्यवसानात् । तदुत्तरं विपयनिश्चयश्च क्रियते । तेना- धिकारसिद्ध्यनन्तरं विषयस्य निश्चयो वेदान्तार्थरूपब्रह्मस्वरूपस्य शान्दं परोक्षज्ञानं हृदि स्थिरीभवतीत्येतदर्थ पादारम्भः । तथा सति पादयोरेककार्यत्वं सङ्गतिः । आनन्तर्यनिया- मक उपजीन्योपजीवकभावश्चेति षोध्यम् । अत्रैकादशाधिकरणानि । तत्र प्रथमै- त्रिभिः जीवस्य खमसुषुप्तिजामदवस्था मुक्तियोग्यताज्ञापनार्थमुपोदातेन विचार्यन्ते । अन्तिमैरटभिः प्राखरूपम्। तत्र प्रथमे पट्सूत्रे सन्ध्याधिकरणे द्वाभ्यां स्वप्नसृष्टिर्भगवतस्तत्कर्तृत्वं च यदृह- दारण्यके काठके च श्रावितं तत्सृष्टिसंवन्धो जीवस्य भवतीति निरूपिता शुद्धिय॑र्थत्या- ६ वेदा.

४२ , वेदान्ताधिकरणमाला। शंक्य, तृतीये तस्याः सृष्टेः मायामात्रत्वेन मिथ्यात्वं साध्यते । तेन जीवस्य तत्कृतगुण- दोपैसंवन्धाभावान्न पूर्वोक्तशुद्धिनिरूपणस्य वैयर्थ्यम् । ततश्चतुर्थे स्वप्नसृष्टेमिथ्यात्वे तत्करणस्य किं प्रयोजनमित्याकांक्षाया खप्नस्य कचित् शुभाशुभसूचकत्वात्फलतः सत्यत्वम् , अन्यत्र तु तादृशमगवल्लीलाप्रदर्शनमात्र प्रयोजनमित्युच्यते, तच वैराग्याय फलिष्यति । ततः पञ्चमे जीवस्यापि भगवदंशत्वात्कथं स्वप्ने दुःखसंवन्धः, दुःखाघभिमानो वेत्याकांक्षायां भगवदभिध्यानात् जीवस्यैश्वर्यादिपधर्मतिरोभावेन जीवस्य बन्धो भगवद्धर्मविपरीतधर्मवत्त्वं च भवति । तेन दुःखित्वादिकं तदभिमानश्च । ततो भगवदिच्छया कथश्चिन्मोक्षश्चेति खमतमुक्तम् । ततः पष्टे देहयोगाद्वा ऐश्वर्यादितिरोभावो बन्धदुःखादिकं चेति मतान्तर- मुक्तम् । अस्मिन्पक्षे देहवियोगे सत्येवैश्वर्यायाविर्भावः, पूर्वस्मिन्पक्षे तु देहसद्भावेऽपि भगवदिच्छया ऐश्वर्यादाविर्भावो पन्धाभावश्चेत्यैश्वर्याधाविर्भावदशायां दुःखित्वादिसर्व- दोपाभावाद् मुक्तियोग्यता निष्प्रत्यूहेति सिद्धम् ॥ १॥ ततः द्वितीये एकसूत्रे तदभावो नाडीस्वित्यधिकरणे जीवस्य द्विविधा सुषुतिः । एका नाडीपु, द्वितीया सत्संपत्तौ । तत्र प्रथमायां दुःखाभावमात्रम् , द्वितीयायां तु सुखमपीति द्विविधायामपि सुषुप्तौ न प्रपञ्चसृष्टिरिति प्रसंगाद्विचारितम् ॥ २ ॥ ततस्तृतीये त्रिसूत्रे अतःप्रबोध इत्यधिकरणे प्रथमसूत्रे जाग्रदवस्थापि भगवत एव भवतीति, यत्र स्वपिति तत्रैव जागर्ति, पश्चाद्धृदयं समागच्छति चेति निरूपितम् । ततो द्वितीये सूत्रे स एव जीवः समायाति, अन्यो वेत्याशंक्य, कर्मानुस्मृत्यादिमिर्हेतुभिः स एव समायातीति निर्णीतम् । ततस्तृतीये सूत्रे मूर्छाविशेषेऽतिमुग्धे कर्मानुस्मृत्यादयो न संभवन्ति । तत्र स एवान्यो वेत्याशंक्य, तत्र स वाऽन्यो वेति संदेह एव पर्यवस्यतीति सिद्धान्तितम् । अयं च विचारः प्रसंगानुप्रसंगायात एव । एवमधिकरणत्रयेण स्वप्नसुपुतिजाग्रद्रपावस्थात्रयं भगवत्कृतमेव । तत्र जाग्रति जीवस्य मात्रासंसर्गवारणार्थमुपनिपदर्थनिश्चय आवश्यक इति सूचितम् । एताश्च गुणलो युझ्य- वस्थाः । तत्र स्वप्नो राजसः, सुपुप्तिः तामसी, जाग्रदवस्था सात्विकी । जीवस्तु देहयोगेन खस्मिन्नभिमन्यते, तस्मादेक एव जीवः स्वप्नादिदोपसंवन्धरहितस्तादृशजन्मयुक्तो भगव- ज्ज्ञानरहितो ज्ञानाधिकारीति त्रिभिरधिकरणैः सिद्धमिति ज्ञेयम् ॥३॥ ततश्चतुर्थे त्रिसूत्रे उभयलिङ्गाधिकरणे ब्रह्मणः साकारत्वं निराकारत्वं चेत्यु- मयं सर्वत्र श्रूयत इति स्थानोपाधिकं तत्तदवच्छेदभेदेन च न वक्तुं शक्यत इत्युच्यते । न चोक्तप्रकारेण ब्रह्मभेदेनीकृते न दोप इति वक्तुं शक्यम् , सर्वत्र ब्रह्मण एकस्यैव कथ- नाद्, भेददर्शने दोपकथनाच । एवमुभयलिङ्गविरोधे सिद्धे उपनिपदां पूर्वाध्यायद्वयोक्ता अयोधकता वक्तुं न शक्यत इत्याक्षेपसंगत्योक्तम् ॥ ४॥ १दोपबन्धाभानादसनत्यादिति पाठ. । , श्रीपुरुषोत्तमविरचिता। ततः पञ्चमे पञ्चसूत्रे अरूपवदेव हीत्यधिकरणे एकदेशिमतेन समाधानमुच्यते । सत्यमुभयलिंगविरोधस्तथापि 'सर्वकामः सर्वगन्धः' इत्यादयो जडजीवधर्मा ब्रह्मण्युपदिश्य- माना उपसनार्था भवन्ति । न च जडस्य भगवत्कार्यत्वाजीवस्य भगवदंशत्वात्तद्धर्मा अपि भगवद्धर्मा एवेति कथमुपासनार्थत्वमिति शंक्यम् । 'बहु स्या'मितीच्छया भगवत एवं कार्यरूपतयांशरूपतया चैकदेशेन भवनाकारणरूपस्य ततो भिन्नतया तस्मिन् रूपे जडजीवधर्मनिपेध एव युक्तः । तथा चाद्वैतपक्षे जडजीवधर्माणामपि प्रक्षात्मकत्वाद् ब्रह्मत्वमेव, न तु ब्रह्मधर्मत्वम् , अतः सर्वकर्मत्वादीनां ब्रह्मण्युपचार एव, अरूपवतः सर्वप्रपञ्चविलक्षणस्यैवास्थूलादिवाक्यैः प्रधानलेन निरूपणात् । ततो द्वितीयसूत्रे एवं ब्रह्मणः सर्वव्यवहारातीतत्वे शास्त्रवैफल्यम्, 'मनसैवैतदाप्तव्य'मित्यादिश्रुतिविरोधश्चेत्या- शंक्य, यथा सौरः प्रकाशो व्यवहार्योऽव्यवहार्यश्च स्वतो न कर्तुं शक्यते, आगते तु सूर्ये मेघाद्यभावेन सान्निध्यात् व्यवहर्तुं शक्यते, तथा लौकिकवाध्मनोभिर्ब्रह्म खतो न व्यवहाँ शक्यते, ईश्वरसंनिधाने तु शक्यते, अतोऽसन्निधाने सर्वव्यवहारातीतत्वम् , सन्निधाने तु धर्मवत्त्वेन व्यवहार्यत्वमिति न शास्त्रवैफल्यम् । नापि श्रुतिविरोधः । अन्यथा 'तत्वोपनिषदं पुरुपं पृच्छामि' 'यतो वाचो निवर्तन्त' इत्यादिष्वन्यतरवैयथ्यं स्यात् । अतः सन्निधानासन्नि- धानाम्यां सधर्मकत्वनिर्धर्मकत्वयोधनव्यवस्था मन्तव्येत्युक्तम् । ततस्तृतीयसूत्रे 'आसीनो दूरं ब्रजति,' 'अपाणिपादो जवनो ग्रहीते'त्यादौ परस्परविरुद्धा अलौकिकधर्माः अकारणक- कार्यवचनान्नित्याः श्राव्यन्त इत्यव्यवहार्येपि तादृशधर्मसिद्ध्या शास्त्रवैफल्यनिरास इति किमर्थ सन्निधानासन्निधानाम्यां व्यवस्थांगीक्रियते, अलौकिकानीन्द्रियाण्येव कुतो नांगी- क्रियन्त इत्याशंक्य, वृहदारण्यके स यथा सैन्धवघन' इत्यादिना कृत्स्सस्य ब्रह्मणः प्रज्ञान- घनत्वश्रावणान्नेन्द्रियाणि कल्पयितुं शक्यानि । नच क्रियाभावोपि । तत्रैव वेदानां निःश्वसि- तत्वस्य भूतसमुत्थानादेश्च श्रावणेन, तत्रैव निःश्वासोत्थानक्रिययोरुतत्वात् । अतो प्रदेव सर्वाकारखरूपं, कृत्लत्वश्रावणात् । तस्मादिन्द्रियकल्पनया विरोधपरिहारो न युक्त इत्युक्तम् । ततश्चतुर्थे सूत्रे नन्वभिन्ननिमित्तोपादानतया ब्रह्म जगत्कारणत्वेन सिद्धम्, कारणधर्मा एव च कार्ये भवन्ति, कामादयस्तु श्राव्यन्ते निषिध्यन्ते च, वेदवादिमिस्त्व- ण्वप्यन्यथा न कल्पनीयम्, अतः कथं विरोधपरिहार इत्याशंक्य, मूर्तामूर्तब्राह्मणे ब्रह्मणो रूपद्वयमुक्त्वा, 'अथात आदेशो नेति नेती तिवारद्वयं कयनेन कार्यकारणयोः समान- प्रकारनिषेधः, कारणस्य ब्रह्मण एव त्वनिषेधश्च क्रियते । एवं रूपं निरूप्य 'सत्यस्य सत्यमिति नाम च श्राव्यते, तेन प्रपञ्चातिरिक्तस्य ब्रह्मणो विद्यमानत्वात् तस्मिन् जडजीव- धर्माणामौपचारिकत्वमेव युक्तम् । गीतास्मृतावपि सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जित' मिति 'अनादिमत्परं ब्रह्म न सत् तन्नासदुच्यते' इति चोच्यते । तेन श्रुतिस्मृतिभ्यां जड- जीवधर्मरहितं ब्रह्मेति सिध्यतीत्युक्तम् । ततः पञ्चमे प्रपञ्चधर्मा ब्रह्मण्यौपचारिका इत्यत्र , , , वेदान्ताधिकरणमाला। निदर्शनान्तरमप्युच्यते, 'यथा ह्ययं ज्योतिरात्मा विवखानपो भिन्ना पहुधैकोनुगच्छन् , उपाधिना क्रियते मेदरूपो देवः क्षेत्रेष्वेवमजोयमात्मेतिस्मृती उपाधिना रूपमेदकय- नात् , 'सम लुपिणे'त्यादावपि निरुपमस्य भगवतो यत् प्लष्यादिकमुपमानं तदप्युपाधि- संबन्धादेव जलसूर्यन्यायेन संभवति । तस्मात् साकारेपि ब्रह्मणि ते धर्मा न सन्तीत्यौप- चारिका मन्तव्याः, उपासनार्थमिति नोभयलिंगविरोध इत्येकदेशिमतेन समाधानम् । एतस्य मतस्य किञ्चिदशेनोपादेयत्वाय प्रसंगादुक्तम् ॥ ५ ॥ ततः पठे चतुःसूत्रे अम्वुवग्रहणादित्यधिकरणे एकदेशिमतं दूपयित्वा खमतेन विरोधः समाधीयते । यदुक्तं समवाय्यतिरिक्तस्य ब्रह्मणः समवेतजडजीवसं- चन्धात् सर्वकामत्वादयः प्रतिबिम्बे बिम्बधर्मवत् प्रतीयन्ते, तस्मादौपचारिका इति । तदयुक्तम् । तथाहि । समवाय्यतिरिक्तस्य ब्रह्मणो जडजीवेषु प्रतिविम्बो न वक्तुं शक्यः, तेषामस्वच्छत्वेन प्रतिविम्याग्राहकत्वात् । ब्रह्मणो व्यापकत्वेन तत्र विद्यमानत्वाच । यदि ह्यखच्छे व्यापकस्य प्रतिविम्वः स्यात्, दारुण्याकाशस्य स्यात् , स तु न दृश्यत इति । तस्मादुक्तरीत्यौपचारिकत्वमंगीकृत्य समाधानमसंगतमिति प्रथमसूत्रे उक्तम् । ततो द्वितीयसूत्रे यथा व्यापकस्याप्याकाशस्य करकादिप्रवेशे वृद्धिहासभाक्त्वं, महाना- काशः स्वल्प आकाश इत्याद्यभ्रमप्रतीतेः । नच महत्वाल्पत्वादीनामोपाधिकत्वम् । कर- कादीनां व्यञ्जकत्वेन जनकत्वानङ्गीकारात्। तथा च यथाकाशे सदोदितव्यंग्यभेदेन व्यापक- त्वाल्पत्वयोः सामञ्जस्यम् , तथा ब्रह्मणि निर्धर्मकत्वसधर्मकत्वयोरपि सामञ्जस्यात् ब्रह्मगता एव सर्वकामत्वादयो जडजीवाम्यामभिव्यन्यन्ते । तस्मात्ते ब्रह्मगता एवेति आकाशधर्मवदु- मयलिङ्गत्वविरोधपरिहारः । ततस्तृतीये सूत्रे दर्शनादपि विरोधपरिहारः क्रियते । न हि दृष्टेऽनुपपन्नं नाम, व्याघातात् , अतो विरुद्धधर्माश्रयमेव ब्रह्मेत्यवगन्तव्यम् । दर्शनं च मृत्लाभक्षणोलूखलबन्धनादिपु स्पष्टमिति परमार्थतः खरूपविचारेण ब्रह्मस्वभावादेव विरोधपरिहारः । ततश्चतुर्थे युक्त्यापि विरोधः परिहियते । प्रकृते ब्रह्मणि लौकिका जडजीवधर्माः निषिध्यन्ते । अस्थूलादिवाक्येषु स्थूलादिपर्युदासस्यैव दर्शनात् । तथा च पर्युदासः सदृग्ग्राहीति स्थूलसदृशं ब्रह्मेत्येवं सर्वत्र ब्रह्मस्वरूपं ग्राहयति । तथा सति सदोदितमेव तत् । न च व्यंग्यमेव तदिति वाच्यम् । यतो यत्रैव धर्मान् निषेधति, तत्रैवालौकिकान् पक्ति, ययाऽस्थूलादिवाक्ये 'एतस्मैवाक्षरस प्रशासने गागी'त्यादि- नालौकिकं प्रशासितृत्वादिकं वदति, तथा सति तरसहचरितत्वात् स्थूलत्वादयोप्यली- किका एष सदोदिताः सेत्स्सन्तीति लौकिकानां निषेधः, अलौकिकानां सत्ता, इति युक्या विरोधपरिहार इति मतेन शन्दवलविचारेण द्वेषा समाधानम् ॥ ६॥ ततः सप्तमे दिसूत्रे तदव्यक्तमाह हीत्यधिकरणेऽर्थयल विचारेण विरोधः परि- हियते, अन्यया अर्थवलेन विचारकाणामृपीणामाक्षेप उत्तिष्ठेदिति तन्निवारणायायमारंमः ।

-- . - श्रीपुरुषोत्तमविरचिता। तत्र सर्वाणि विरुद्धवाक्यान्युदाहृत्य चिन्यन्ते, 'न चक्षुषा गृह्यते,' 'कबिद्धीरः प्रत्यगा- त्मानमैक्षत,' 'अपाणिपादः,' 'विश्वतश्चक्षु'रित्यादीनि विरुद्धवाक्यानि श्रौतत्वात् प्रमाणानि । वस्तुविचारे तु एक वस्तु द्विरूपं न संभवति । अतः प्रमाणान्तरानुरोधेन एकस्य खार्थे प्रामाण्यमन्यस्योपचरितार्थत्वं वक्तव्यम् । तत्र कस्य स्वार्थत्वं, कस्योपचरि- तार्थत्वमित्याकांक्षायां 'अगृह्यो नहि गृह्यते,' इति श्रुतिः प्रत्यक्षानुरोधिनी । नहि व्रक्ष केनचित् चक्षुषा वा मनसा वा दृष्टमस्ति, सर्व(ख)रूपत्वे तु सर्वैर्द्रष्टुं शक्येत, तस्मात् सर्वधर्मवत्त्वेन प्रतिपादकानि वचनान्युपचरितार्थानि, अनुभवविरोधात्, अव्यक्तत्वबोध- कानि तु स्वार्थप्रतिपादकानि, अनुभवसंवादादिति प्रथमसूत्रे पूर्वपक्षमुक्त्वा,अपि संरा- धन इति द्वितीयेन समाधानमाह । 'श्रद्धाभक्तिज्ञानयोगादवैहि,' 'यमेवैष वृणुते' इत्यादिश्रुतिभिः, 'मक्या त्वनन्यया शक्य' इत्यादिस्मृतिभिश्च साकारब्रह्मणो दर्शनमु- च्यते । 'ततस्तु तं पश्यते निष्कलं ध्यायमान' इत्यनेन निष्कलस्यापि दर्शनमुन्यते । मतः प्रत्यक्षस्य रूपद्वयसाधारणत्वात् साकारमनन्तगुणपरिपूर्ण निर्गुणं विरुद्धधर्माश्रयं न. झेति साक्षाक्रियमाणार्थवलेन साक्षात्काररूपार्थचलेन वा निर्णय इति साधितम् ॥७॥ ततोष्टमे त्रिसूत्रे प्रकाशादिवच्चेत्यधिकरणे पूर्वोक्त एवार्यः प्रकारान्तरेण सिरी- क्रियते । तत्र यथा सूर्यचन्द्रमणिप्रकाशादिपूष्णशीतो उभयरूपाः स्पर्शाः प्रतीयमाना अपि तेजसि तावन्तो नाङ्गीक्रियन्ते, किन्तूष्ण एव स्पोंगीक्रियते, एवं हिमतप्तकुण्डादिषु प्रतीयमाना अपि जले तावन्तो नांगीकियन्ते, किन्तु शीतस्पर्श एवाङ्गीक्रियते, एवं सु- वणे वर्णभेदा अपि, अतो न ते स्वाभाविका', तेजस्त्वादिखभावहानिप्रसङ्गात् , तथा ब्रह्म- गोऽपि निर्विशेषत्वमेवाङ्गीकर्तव्यं, सर्वत्र निर्विशेषं ब्रह्मेत्येव प्रसिद्धेः । अत एव 'भगृह्यो नहि गृह्यते' इत्यादिश्रुतयोऽपि सङ्गच्छन्ते। न च पूर्वोक्तश्रुतिप्रत्यक्षादेः का गतिरिति शंकनीयम् । तपःप्रणिधानादिकर्मणि यथा तेपामुपासकानां कामस्तथा प्रकटीमवतीति तस्कामहेतुक ताशप्रत्यक्षम् । अतएव कचित्प्रत्यक्षं कचिदन्यथाप्रत्यक्ष च । यद्येकवारमेकरूप एव प्रकटः स्यात्ताशरूपमझीक्रियेतापि, किन्तु वारवार किश्चिद्वैलक्ष्यण्येन प्रकटीभवति । अतः प्रका- शोऽपि कृत्रिम एव, दीपप्रकाशवदित्येका शंका । तस्मान मक्तप्रत्यक्षेण निर्णय इति प्रथमसूत्रे उक्तम् । ततो द्वितीयसूत्रे एकस्य वस्तुनः निमित्तं विना प्रतिक्षणमन्या- न्याशत्वं न वक्तुं शक्यते, अतोनन्तरूपेणाविर्भावे भक्तकाम एव निमित्तम् । तथा सति तद्विग्रह एव, न तु ब्रह्मखरूपम् । अतएव 'यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वयुः प्रणयसे सदनुग्रहायेति तृतीयस्कन्धे ब्रह्मणाप्युक्तम् । अतस्तच्छरीरमेव, न तु ब्रह्मख- रूपमिति द्वितीया शंका । तस्मान्न श्रुत्या निर्णयः, नापि भक्तप्रत्यक्षेणेति सूत्रद्वयेनाशंक्य, तृतीयसूत्रेण सिद्धान्तमाह । नैव केवलयुक्त्या लौकिकदृष्टान्तेन निर्णयः कर्तुं शक्या, विधांभयत्वरूपप्रत्यक्षप्रामाण्य रवीक्रियते । २ शीतानुभवरूपा इति पाठ । . , परम्, नान्यदिति समाहितम् । ततस्तृतीये यथा भूतादि पादवत्त्वेनोपासनीयम् , . वेदान्ताधिकरणमाला। शास्त्रवैयर्थ्यप्रसंगात् । अत्र हि वेदादेव ब्रह्मस्वरूपमवगम्यते, तत्कथं खरूपशक्त्यैकतर- निर्णयः, वेदे निर्गुणत्वेनानन्तगुणपूर्णत्वेन च व्यपदेशात् । तर्खेकस्यानेकधाभानं कथमिति तु न शक्यम् । यथा एक एव सर्प ऋजुरनेकाकारः कुण्डलश्च भवति, तद्वदुभयरूपताया उपपत्तेः । न चैवं यथाश्रुताङ्गीकारे शास्त्रवैफल्यं शवयम् , नानास्वभावैः सूरिव्यामोहे तन्निवारणार्थत्वेन शास्त्रसाफल्यात् । तस्माच्छुतिप्रत्यक्षाभ्यां यत्पूर्व निर्णय उक्तः, स एव सिद्धान्त इत्युक्तम् ॥ ८॥ ततो नवमे त्रिसूत्रे प्रकाशाश्रयवद्वेत्यधिकरणे धर्मखरूपविचारेण ब्रह्म सगुण निर्गुणमिति पक्षद्वयमपि स्थाप्यते । तत्र धर्मा यदि ब्रह्मस्वरूपाद्भिन्नास्तदा कार्याः, यद्यभिन्नास्तदा ब्रह्मवेत्याशंक्य, प्रकाशाश्रयवत् मिन्नाभिन्ना इति सिद्धान्त उक्तः । यथा प्रकाशाश्रयाः सूर्यादयस्तेजःप्रकाशाद्भिन्नाः प्रकाशधर्मकत्वात् , अमिन्नाश्च तेजस्त्वात् , एवं परास्य शक्तिरित्यादौ पष्ठीनिर्देशाद्भिन्नाः, सचिदानन्दरूपत्वेनामिन्नाश्च । तथा च धर्माणां भिन्नत्वेन ब्रह्मणोनन्तगुणपूर्णत्वं, तेपामपि सच्चिदानन्दरूपत्वेन ब्रह्माभिन्नत्वाद्र- पणो निर्गुणत्वमित्युभयमप्युपपन्नमिति खमतम् । ततः पूर्वं ब्रह्म निर्गुणमेव, पश्चादिच्छा- रूपेण, ततो धर्मरूपेण, ततः प्रपश्वरूपेणाविर्भवतीत्युत्पत्तिविचारेण धर्माणां पश्याद्भि- नत्वेपि कार्यत्वाद्ब्रह्मत्वं कटककुण्डलादीनां सुवर्णत्ववदित्येकदेशिमतमपि सूत्रद्वयेनांगी- कृतम् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया अत्राप्युपपत्तेरिति । एतयोः प्रथममेव ज्याय इति भाष्यप्रकाशादवगन्तव्यम् । एतेषां पञ्चानामप्यधिकरणानामेककार्यकारित्वं संगति- रवगन्तव्या । पञ्चभिरपि श्रुतेर्वोधकताप्रकारस्यैव निश्चायनात् ॥९॥ ततो दशमे सप्तसूत्रे परमतः सेतून्मानेत्यधिकरणे, 'य आत्मा स सेतुर्विध- रण' इत्यादिभिः श्रुतिभित्रमणः सेतुत्वादिकमुक्तम् , ब्रह्मणस्तथात्वे परत्वं न संगच्छते, सेवादीनां साधनादिरूपत्वात् । अतो देशकालवस्तुखरूपकृतचतुर्विधपरिच्छेदरहित ब्रह्मणोऽन्यदेव किश्चित्परं वक्तव्यमिति प्रथमसूत्रे आशंक्य, दितीये 'सेत्वादिसामान्या- सत्यादिव्यपदेशार्थः । संसारसागरतरणोपायत्वात्सेतुत्वम् , निर्लेपत्वायाकाशस्वमित्या- दिकं गौण्या व्यपदिश्यते । यथा कुण्डपायिनामयने 'मासमग्निहोत्रं जुहोती ति, तस्मात् गुणार्थमेव तदुक्तिः, न तु सर्वप्रकारकसाम्यार्थम् । अतः सेत्वादिदोपाभावात् ब्रह्मव तथा गौण्यान्यसमानधर्मवत्त्वव्यपदेशस्य किंप्रयोजनमित्याकांक्षायां सेवादिधर्मवत्वेनोपास- नीयमित्युपासनार्थत्वं प्रयोजनमुक्तम् । ततश्चतुर्थे स एवायमित्यतिदेशेप्युपासना- संपत्तेः किमर्थो धर्मातिदेश इत्याशंक्य, यथा चन्द्रादित्यामितेजसां तेजस्त्वेनैक्येपि स्था- नविशेषान्न समानप्रकाशकत्वम्, तथा स एवायमित्यतिदेशेऽपि न समानधर्मवत्त्वमिति ज्ञानसंभवात् , तन्निवृत्त्यर्थं धर्मातिदेश इति प्रयोजनमित्युक्तम् । तेन ब्रझैव सर्वोत्कृष्ट- श्रीपुरुषोत्तमविरचिता। मिति साधितम् । ततः पञ्चमे ब्रह्मणोऽन्यत् परमितिमतस्य दूपणार्थ, यदि हि सत्यज्ञाना- द्युक्तधर्मविशिष्टब्रह्मणोऽन्यत्किञ्चित्सरं सात् , तदा येनकेनचित्प्रमाणेन प्रमितं स्यात् , यतो नैवमतो नैवमितिप्रमाणाभावरूपा युक्तिरुक्ता । ततः पठे यथा ब्रह्मणि सेतुत्वादिकं श्रुयोक्तम् , तथा 'न तत्समचाम्यधिकश्थ दृश्यते' इति श्रुत्या समान्यधिकनिषेधोप्युक्तः । यदि ब्रह्मणः सकाशादधिकं परमन्यत्स्यात्तदा तन्ननिषेधेत् , यत एवमतो नैवमिति युक्त्य- न्तरमुक्तम् । तस्मात्सेत्वाद्युक्तिगौण्येवेति साधितम् । ततः सप्तमे ब्रह्मणोन्यस्य परत्व- निरासेन 'आकाशवत्सर्वगतश्च निस' इत्यादिश्रुतिभ्य एव ब्रह्मणः सर्वगतत्वम् , नत्व- । नुमानैकशरणम् । अनुमानं तु श्रुतिसंवादित्वात्प्रमाणमस्त्विति फलितमुक्तम् । तेन ब्रह्मण एव परत्वम् , नान्यस्य । यद्यपि समन्वयविचार एवैताः श्रुतीः विचार्य दोषाः परिहताः, । तथापि खरूपविरोधपरिहारप्रस्तावात्पुनरुच्यन्ते । सर्ववाक्यप्रतिपाद्यमेकमेव ब्रह्मेत्यपि । अर्थवलविचारेण न सिद्धम् , अतो विशिष्टज्ञानोत्पादनार्थ पुनः अर्थवलेन विचारितम् ; । अतो न दोप इति ज्ञेयम् । अर्थवलं च समाम्यधिकरहितं यत्स्वरूपं तद्बलम् । एवं सर्वोत्तमत्वनिरूपणेनोत्तमाधिकारिणां भजनीयत्वप्रयोजकं रूपं वक्ष्यमाणोपोद्धाततया निरूपितम् । एवमग्रेऽपि ॥१०॥ तत एकादशे चतु:सूत्रे फलमत इत्यधिकरणे जघन्यमध्यमानामर्थे ब्रह्मणः फलदत्वं सूत्रद्वयेनोच्यते । ततस्तृतीये श्रुत्युपपतिभ्यां जैमिनिमतेन धर्मस्य फलदातृत्व- माशंक्य, चतुर्थेन भगवत एव कर्मकारयितृत्वान्न धर्मस फलदाने खातभ्यम्, किन्तु ब्रह्मण एव इत्येवं तन्मतं दृष्यते ॥ ११ ॥ एवमष्टभिरधिकरणैः श्रुतीनां बोधकताप्रकारविचारेण तत्तदधिकारिणं प्रति श्रुतीनां तादृशतादृशयोधजनकत्वमित्यस्मिन्पादे निर्णीतमिति चोध्यम् । इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्बरात्मजपुरुपोत्तमस्य कृती वेदान्ताधिकरणमालायां तृतीयाध्यायस्य दितीयः पादः । , अत्र पूर्वपादे श्रुतीनां योधकताप्रकारनिरूपणेन यथा परोक्षज्ञानजनकत्वं तथा निरू- पितम् । अतःपरं यथा साक्षात्कारो भवति, तथा तत्साधनमुपासनारूपं वक्तव्यम् । उपासनायां च क्रियमाणायां धारणासिद्धौ मानसी मूर्तिरभिव्यक्ता भवति । तत उपासना- परिपाके साक्षात्कार इति तदर्थमस्मिन्पादे गुणोपसंहारोन्तरङ्गविचारेण कर्तव्यतया विचा- यते । तत्र किमन्तरङ्गमित्याकांक्षायां 'योगास्त्रयो मया प्रोक्ता' इति भगवदुक्तेषु त्रिपु साधनेषु ज्ञानमती अन्तरङ्गे । तत्र निर्विष्णाधिकारकत्वात् ज्ञानस्यान्तरङ्गता । निर्वेदाभावेपि लौकिकात्यासक्तिरहिताधिकारकत्वाद्भक्तेरन्तरगतेति भेदः । कर्म तु कामाधिकारकत्वादहिर- साधनम् । अतः कर्मोपसंहारात्पूर्वं ज्ञानभक्त्युपयोगित्वात् पूर्व गुणोपसंहारो विचार्यते ।

४८ - वेदान्ताधिकरणमाला। स कयं कर्तव्य इत्याकांक्षायां ज्ञानभक्त्योः सविपयत्वात् पूर्व विपयो विचारणीयः । तत्र विषयः पूर्वसिद्धं ना, तदेव च फलदाने समर्थमिति द्वितीयपादान्ते स्थितम् । तदे- तत्स्मारयितुमुपसंहारोपोदातत्वेन ज्ञानभक्त्योर्विषयतया ब्रह्मणः ज्ञानभक्तिपु युक्ततयो- पासनायाश्च सर्ववेदान्तप्रत्ययत्वं सूत्रद्वयेन विचारितम् । तेन ज्ञानाधिकारिमिस्तथैवोपासना कार्येति सेत्स्यति ॥१॥ तत इदानीन्तनानां सर्वशाखाज्ञानामावेन सर्ववेदान्तप्रत्ययत्तस्सावधारयितुमशक्यत्वा- तेपामुपकाराय भक्तिमार्गीयोपासनोपकाराय काम्योपासनोपकाराय च तत्तन्छाखानुरुद्धशि- धाचारमनुरुध्य, तत्चद्भक्तिमनुरुध्य, तत्तत्काममनुरुध्य च स्वाध्यायादिसूत्रद्वयेऽनुपसंहार- हेतुकथनेन तत्तद्गुणोपसंहाररूपः संकोचो विचारितः ॥ २॥ ततो गुणोपसंहार एवास्य पादस्पार्थ इति योधयितुमुपसंहारसूत्रेण सर्वोपसंहारतत्सं- कोचयोः काम्योपासनोपयुक्तोपसंहारस्य च चीजमुक्तम् । ततोऽन्यथात्वादिसूत्रत्रयमध्ये प्रथमेन सर्वोपसंहारपक्षेऽब्रह्मत्वरूपं बाधकं निवारितम् । ततो द्वाभ्यां संकोचपक्षे तदेव पाधकान्तरेण भक्तिमार्गीयोपासकानामर्थे निवारितम् । ततश्च अनित्यत्वेन प्रतीयमानानां खरूपधर्माणामेकेन नित्यत्वं, तदग्रिमे तदुपपत्त्ययं भक्तनित्यलं, लीलापदार्थानां भगवद- भेदश्वोपपादितः । एवं लीलापदार्थानां भगवदोदे सति भगवत्तुल्यत्वं स्यादिति तन्निवृ- त्यर्थ पूर्णानन्दत्वादीनां भगवदसाधारणधर्माणां तेष्वभाव आनन्दादिस्त्रेण प्रतिपादितः । तेन भक्तेषु तदनुपसंहारः सिध्यति । ततः प्रियशिरस्त्वसूत्रे अधिकारिभेदेन स्वरूपोपा- सकस्स प्रियवादीनां शिरस्त्वादिरूपेणानुपसंहारस्तदुपसहारथ प्रतिपादितः । तत एकेनो- पसंहारपक्षे वीजमुक्तम् । तत आध्यानादिसूत्रद्वये उपसंहारसंकोचे वीजमुक्तम् । एवमस्मि- नधिकरणे पादार्थरूप उपसंहारप्रकारः सपरिकरो विचारितः । भगवतः कैवल्यरूपं मुख्यत्वरूपमैक्यं च समर्थितम् । ततोगे एतसैव प्रपञ्चः ॥१॥ ततोग्रे चतुर्भिरधिकरणैरुपासनानियामकसंबन्धिभेदे रूपात्मकः संवन्धी विचार्यते । तत्रादौ द्वितीये द्विसूत्रे आत्मगृहीत्यधिकरणे तद्गुणोपसहारनियमनाय तत्तद्विभू- तिद्वारा ब्रह्मण एव फलदातृत्वसमर्थनाय भक्तिज्ञानमार्गोपकारकशान्त्युत्पादनाय विभूतीनां ब्रह्मात्मकत्वभावनाय च अन्नमयादिषु विभूतिष्वानन्दमयस्यैव शरीराभिमानि विचारितम् । ततस्तृतीये षट्सूत्रे कार्याख्यानादित्यधिकरणे प्रथमसूत्रवर्णकद्वयमध्ये प्रथ- मवर्णकेन विभूत्युपासनेषु आनन्दमयस्साध्यात्मिकरूपेणैव फलदातृत्वरूपविशेषसमर्थ- नाय पूर्वोक्तविभूतीनामन्नमयादीनां चतुर्णा पुरुषाणामाधिभौतिकत्वनिराकरणेनाध्यात्मि- कत्वं समर्थितम् । द्वितीयेन वर्णकेन सर्वगुणोपसंहारायानाविभूतपुरुषोतमविग्रहस्सैवा- स्मत्वं ज्ञानभक्तिमार्गीयसाधारण्येन विचारितम् । ततो द्वितीयसूत्र आविर्भूतस्य श्रीकृष्णा- १ प्रभमेति मूलपाठ. 1 3 सर्ववेदान्तप्रत्ययस्वेन । ..

श्रीपुरुपोत्तमविरचिता। दिरूपस्याप्यात्मत्वमेवेति व्यापकत्वैकरसत्वसचिदानन्दवादयः सर्वे धर्मा उपसंहर्तव्या इति केवलभक्तार्थ विचारितम् । ततस्तृतीयसूत्रे आवेशिनि गुर्वादावाविष्टे रूपे सर्व- भगवद्गुणोपसंहारः ज्ञानिभक्तार्थ विचारितः । ततनिभिरावेशिनि गुरुप्रतिमादावाविष्टे रूपे तदनुपसंहारः केवलभक्तार्थ विचारितः ॥ ३ ॥ ततश्चतुर्थे एकसूत्रे पुरुपविद्यायामित्यधिकरणे उत्तमाधिकारिभिरशेषगुणपूर्ण, परं ब्रह्मैवोपास्यम् , न विभूतिरूपमिति साधितम् । आध्यात्मिकेपु विभूतिरूपेषु सर्वगुणा- नुपसंहारेऽसाधारणगुणानामानरूपो हेतुश्चोक्तः ॥ ४ ॥ ततः पञ्चमे द्विसूत्रे वेधाद्यधिकरणे पूर्वसूत्रेणासन्यरूपे चेतनविभूती भगवत्सं- वन्धाद्दोपाभावनिरूपणाकैमुतिकन्यायेन मूलरूपस्य निर्दोपत्वं समर्थितम् , आधिभौतिक- रूपाणां जीवानां सदोपत्वं च चोधितम् । ततो द्वितीये सूत्रे तत्सदोपत्वं भगवत्सकाशात् विभागदशायामेव, तथा सति मुक्तिदशायां तारतम्याभावे प्राप्ते भगवत्तुल्यतापि स्यादिति तन्निवारणार्थं तदापि न्यूनगुणकत्वं स्थापितम् । तेनाध्यात्मिकरूपेषु कतिपयगुणोपसंहारः, मूलरूपे सर्वगुणोपसंहारः । लौकिकरूपेषु मुक्तिदशायामेव निर्दोपत्वपरिमितगुणोपसंहारौ, न संसारदशायामिति निर्णीतम् । एवं चतुर्भिरधिकरणैः रूपभेदः प्रपञ्चितः ॥ ५ ॥ ततः पष्ठाधिकरणमारभ्य पञ्चदशभिरधिकरणैरुपसंहारनियामकस्तत्तन्मार्गरूपः संबन्धि- भेदस्तत्तदधिकारनियामकं मार्गतारतम्यं च निरूप्यते । तत्र पठे दिसूत्रे संपरायाधिकरणे अन्तरगसाधनयोञ्जनभक्त्योर्मूलरूपोपासना- संभवादविशेपे प्रासेवसरसङ्गत्या स्वरूपतो मर्यादामक्तेमा॑नाज्ज्यायस्त्वस्य भक्तौ दोपामाव- स्य च निरूपणेनान्तरङ्गतरत्र निरूपितम् ॥६॥ ततः ससमे एकसूत्रे गतरर्थवत्त्वमित्यधिकरणे हेतुबोधनेन तदेव दृढीकृतम् , मार्गभेदेन पुष्टिभक्तेरन्तरङ्गतमलं च निरूपितम् ॥ ७॥ ततोप्टमे उपपन्नाधिकरणे पुष्टिभक्तरन्तरगतमत्वं दृढीकृतम् । एवं विमिरधिकरणै- रन्तरगसाधनानां त्रैविध्ये निर्णीते पूर्व 'इतरे त्वर्थसामान्या'दित्यादिसूत्रत्रयेणोपसंहा- रानुपसंहारवीजवोधने कृते किमीयोपासनायां के के गुणा उपसंहार्या इत्याकांक्षापि पूरिता । ज्ञानमार्गीयोपासनायां तदुपयोगिनः सर्वे, तत्तद्भक्तिमार्गीयोपासनायां तु तत्तदुपयोगिनस्ते ते इत्यर्थादेव सिद्धेरिति ॥ ८॥ ततो नवमेऽनियमाधिकरणे ज्ञानापेक्षयान्तरङ्गाणां भक्तीनां मुक्तिसाधने समुच्चयनि- कल्पयोरनियमः प्रसङ्गेन विचारितः । पादार्थसङ्गतिस्तु पूर्वसिद्धैवात्रापि ॥९॥ ततो दशमे आधिकारिकाधिकरणे आधिकारिकाणां मुक्तिसाधने प्रवृत्त्यर्थमाधि- कारिकाणां भगवद्धर्माणां मुक्तिसाधनत्वाभाव उपोद्घातगर्भप्रसङ्गसङ्गत्या प्रतिपादितः। भौतिक इति पाठ.। २ भक्ति इति पाठ.। ७ बेदा० वेदान्ताधिकरणमाला। आधिकारिकाणां धर्माणां भगवत्संवन्धितया साधनत्वप्राप्तावपवादसङ्गत्या उपोदातगर्मप्रसार सङ्गत्या वा मुक्तिसाधनत्वाभावः प्रतिपादितः । उपसंहारस्तु ज्ञानादिमागीनुरोधीति तद. नुसारेणायातीति पादार्थेनापि संगतिः॥१०॥ ततः पूर्व संपरायायधिकरणेपु ज्ञानमत्त्योः स्वरूपतस्तारतम्यसाधनेपि विषयफलयोरविशेषा- दन्तरगतरत्वादिकस्याप्रयोजकत्वं प्राप्तमिति तन्निवारणार्थमेकादशे दिसूत्रेऽक्षरधिया- मित्यधिकरणे ज्ञानभक्तिसंवन्धिविषयफलयोर्मेदवोधनात् भक्त्यपेक्षया ज्ञानस्यापकर्षयोधनेन भक्तावन्तरङ्गतरत्वादिकं तयैव सङ्गत्या दृढीकृतम् । उपसंहारस्तु तत्तदुपयोगी प्रागेव सिद्धः । ततो दादशे त्रिसूत्रेन्तरा भूतग्रामवदित्यधिकरणे श्रुतावहंग्रहोपासनस्य मुख्यत्व- कथनात् ज्ञाने भक्तौ च तस्य तुल्यत्वादुमयोस्तौल्यस्य ज्ञानाधिक्यस्य वा प्राप्तौ तस्सा उपासनाया भक्त्येकदेशत्वकथनेन ज्ञानापेक्षया मुख्यभक्तेविरहरूपान्तरङ्गसाधनत उत्कर्पः पूर्वोक्तसङ्गत्या प्रतिपादितः ॥ १२ ॥ ततस्त्रयोदशे दिसूने सैव हीत्यधिकरणे प्रथमसूत्रेण विहिताविहितरूपाया द्वि- विधाया अपि मध्यमभक्तेः पूर्वोक्तसङ्गत्या साधनत उत्कर्षः प्रतिपादितः । द्वितीयसूत्रेण भगवद्विषयककामादीनामपि मुक्तिफलकत्वकथनेन मुक्ती भगवद्विपयकत्वरूपसाक्षात्संबन्ध- स्यैव मुक्तिसाधनतावच्छेदकत्वम् , न तु ज्ञानत्वं भक्तित्वं वेति निरूपितम् ॥ १३ ॥ ततश्चतुर्दशे दिसूत्रे आदरादित्यधिकरणे कैमुतिकन्यायेन कर्मापेक्षया भक्ति- साधनानामुत्कर्षः कर्मिप्रत्यवस्थाननिवृत्त्यर्थं प्रतिपादितः ॥ १४ ॥ ततः पश्चदशे एकसूत्रे तन्निर्धारणाधिकरणे खकृतवेदमर्यादारक्षार्थ विहितावि- हितभक्तिमार्गीयस्य कर्मकरणाकरणयोर्हेतुफले बोधिते । द्वितीयपक्षेपि मुख्यभक्तेः पूर्वोक्त- भक्तिद्वयादुत्कर्षः साधनतः फलतश्च प्रसङ्गात् प्रतिपादितः ॥ १५ ॥ ततः पोडशे प्रदानवदित्यधिकरणे सर्वात्मभावात्मकमुख्यमक्तेविहितयावत्साधनसा- ध्यत्वनिराकरणेन वरदानवत्प्राप्तिरित्युक्तम् ॥ १६ ॥ ततः सप्तदशे दशसूत्रात्मके लिङ्गभूयस्त्वाधिकरणे सर्वात्मभावात्मकमुख्य- भक्तेः स्वरूपमन्तरगतमत्वकाष्ठावोधनाथं श्रुतिवाक्यैः अपश्चितम् ॥ १७ ॥ ततोऽष्टादशे त्रिसूत्रे व्यतिरेकाधिकरणे ज्ञानिनां पूर्णाक्षरज्ञानामावस्य प्रतिपादनेन अ- ग्रिमसूत्रद्वये निदर्शनकथनेन च भक्तानां पूर्णतज्ज्ञानकथनात्सर्वात्मभावरूपमुख्यभक्तिफलस्य भोग्यस्य पुरुषोत्तमज्ञानमध्यमभक्तिफलरूपपुरुषोत्तमसायुज्यादाधिक्यमर्थतः प्रतिपादितम् । तत ऊनविंशे एकसूत्रे भून इत्यधिकरणे फलविचारेण सर्वात्मभावस्य साधन- दशायां दुःखरूपदोपः परिहृतः ॥ १९ ॥ एवञ्च पञ्चदशमिरधिकरणैः संबन्धिरूपमार्गस्तत्तारतम्यं च निरूपितम् । एवं स्वरूप- परासूपासनासु तारतम्यवोधनेन तासु तासु तत्तद्ध्यानोपयोगिनो गुणा उपसंहार्या इति पादार्थसङ्गतिः । , श्रीपुरुपोत्तमविरचिता। ततो विशे एकसूत्रे नानाशब्दादिभेदादित्यधिकरणे ततो न्यूनासु सत्त्वोपहि- तावताररूपोपासनासु नानात्वं विचारितम् ॥ २० ॥ ततोनिमे एकसूत्रे एकविंशे तासां तासां विकल्पो विचारितः । गुणोपसंहारस्तु तत्तयानोपयोग्यवेति पूर्वोक्तव व्यवस्था ॥ २१ ॥ ततो द्वाविंशे काम्योपासनासु समुच्चयविकल्पो यथाकामं विचारितो, तेन तासु तत्त- स्कामोपयोगी गुणोपसंहारो योधितः ॥ २२ ॥ ततस्त्रयोविंशे द्विसूत्रे अङ्गेष्वित्यधिकरणे उपासनाङ्गानां व्रतानामाश्रयनित्यत्वं प्रसङ्गाद्विचारितम् ॥ २३॥ ततोऽग्रिमे द्विद्विसूत्रे समाहारादित्यधिकरणद्वये ज्ञानमार्गीयोपासनासु सर्वगुणोपसं- हारानुपसंहारावधिकारिभेदेन विचारतौ । तेन ज्ञानमार्गीयो विचार एवान मुख्यो, भक्ति- मार्गविचारस्तु भक्तौ भगवत्कृपारूपस्याधिकस्य साधनस्य प्रवेशान्न सर्वोपयोगी यद्यपि, तथापि शास्त्रारंभे ब्रह्मसंवन्धिजिज्ञासाप्रतिज्ञानुरोधात्कृतः, तत्प्रयोजनं त्वग्रिमपादे 'भक्ति- मार्गप्रचारैकहृदयो बादरायण' इति श्लोकेन वक्तव्यमिति ॥ २४,२५ ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्बरात्मजपुरुषोत्तमस्य कृती वेदान्ताधिकरणमालायां तृतीयाध्यायस्य तृतीयः पादः। वेदान्तेषु कर्माङ्गभूता उगीयाद्युपासना उक्ताः । आचार्येणापि अङ्गेषु यथाश्रयभाव इत्यादिना पूर्वपादान्ते ता विचारिताः । भाष्यकारैरपि प्राचीनवृत्तिकारादिसंमतं पूर्वोत्तर- काण्डयोरैकशाख्यमङ्गीकृतम् । तृतीयाध्यायारम्भे च चतुर्थपादस्य कर्मोपसंहारोथै उक्तः। तथा सति ज्ञानेपि कर्मापेक्षास्तीति सिद्धम् । प्रकृतपादारम्भे च प्रथमसूत्रेण खमतमुक्त्वा, ततः पदसूत्रैरीश्वरस्य ज्ञानस्य च कर्मशेषयोधकं जैमिनिमतं पूर्वपक्षत्वेनोपन्यस्य, अधिकोपदेशादि- त्यादिभिर्नवभिः सूत्रैनिस्सेश्वरस्य च यज्ञादिकर्मशेषत्वं निराकृतम् । ततः ऊर्ध्वरेतःसु चेति सूत्रेण ज्ञानस्य संन्यासाश्रमिणः कर्मशेपत्वमपि निराकृतम् । तेन ज्ञानस्य न कर्मशेषत्वम् । तेन पूर्वकाण्डवैयर्थ्यापत्तौ यज्ञादिकर्मणां यथाकथञ्चित्परंपरया मोक्ष एव फलत्वेन परामृश्यत इति नैकशास्यादिहानिरित्यभिसंहितम् । ततः परामर्शसूत्रे तदपवादं पूर्वपक्षी- कृत्य, अनुष्ठेयसूत्रे ज्ञानसाधनत्वेन तत्करणमंगीकृत्य कर्मस्वातव्यं निवारितम् । अग्रिमैः पञ्चभिः सूत्रैस्तदेव समर्थयित्वा ज्ञानसोत्कृष्टत्वं साधितम् । एवं पञ्चविंशतिसूत्रात्मकेना- द्याधिकरणेन उपसंहारोपोद्घातत्वेन कर्मणः खातघ्याखातन्ये विचारिते । तत्र भगवत्प्रा- प्तिरूपस्य पुरुषार्थस्स सर्वात्मभावरूपपुरुषोत्तमज्ञानकलभ्यत्वमिति स्थितम् ॥१॥ ततः कर्मणः किं परोक्षज्ञानसाधनत्वमपरोक्षज्ञानसाधनत्वं वेत्यपेक्षायां सर्वापेक्षेति पसूत्रे दितीयाधिकरणे साक्षात्कारस्य स्वरूपोपकारार्थ कर्मज्ञानभक्त्यपेक्षा प्रति- ५२ , वेदान्ताधिकरणमाला। ज्ञाय तत्तन्मार्गोक्तकर्मसापेक्षत्वं साधितम् । पूर्वपाद एवान्तरङ्गसाधनविचारे ज्ञानभक्त्याव- श्यकताया निरूपितत्वात् । ततो द्वितीयसूत्रे शमदमादीनां सत्त्वशोधावे तैरेव ज्ञानसिद्धवा यज्ञादिकर्मनिरपेक्षत्वमाशंक्य, तेषां विशेपानुष्ठेयत्वम् , न तु कर्मनिवारकत्वमिति तदानी- मपि यज्ञादिकर्म कर्तव्यमेवेति सिद्धान्तितम् । ततः ज्ञानिनः सर्वान्नभक्षणस्यानुज्ञानाका- मतः सर्वभक्षणे प्राप्ते आहारशुक्ष्यमावेन शमायसंभवात् पयोत्रतायभावेन यज्ञादेरप्यस- भवायज्ञशमदमादीनां साक्षात्कारजनकत्वमसनतमित्याशक्य, सर्वान्नानुमतेः प्राणात्यया- यापत्तिविषयत्वेनान्यदा तदप्राप्त्या तदानीं कामचाराभावात् यनशमदमादिसम्भवेन तेषां ज्ञानप्रतिवन्धनिवर्तकतया कारणत्वं निर्वाधम् । यद्यपि पूर्णस्य ज्ञानस्य कर्म- नाशकत्वम् , तथापि साधनदशायां तदपेक्षास्तीत्युपसंहारहेतुतया सर्वान्नानुमत्यादिसूत्र- चतुष्टये साधितम् ॥२॥ ततस्तृतीयेऽष्टसूत्रे विहितत्वाचाश्रमकर्मत्यधिकरणे प्रथमसूत्रद्वंयेन जातज्ञान- स्थापि ज्ञानमार्गीयस्याश्रमधर्माणां नित्यत्वेन प्रत्यवायपरिहारकतया शमदमादिसहकारि- तया च कर्तव्यत्वं निर्णीतम् । तेनैव कर्ममार्गीयस्य निष्कामतायामपि तदावश्यकत्वमित्यर्था- देव घोधितम् । ततोऽग्रिमैः सर्वथापीत्यादिभिः पभिः स्वैर्विहितानां भगवच्छूषणा- दीनां पूर्वोक्तेभ्यः सर्वेभ्य आधिक्यं, तदविरोधेनैवाश्रमधर्माणां कर्तव्यत्वं, भगवद्धर्मक- तुरनभिभवं, आश्रमधर्माणां फलसिद्धावन्तरायरूपत्वादविरोधेनैव कार्यत्वं, भगवद्धर्माणां भक्तेस्तत्फलस्य च ज्ञानादिफलाज्ज्यायस्त्वमन्तरङ्गतरविचारेण निरूपितम् , तेन भगव. धर्माविरोधेनैव ते कर्तव्या इत्युपसंहारप्रकारो दर्शितः ॥३॥ ततस्तत्फलं किं, कथं च तस्स ज्ञानफलादाधिक्यमित्याकांक्षायां चतुर्थे एकसूत्रे तद्भूतस्येत्यधिकरणे भगवद्धर्माणां साधनदशायामुत्कृष्टत्वेपि फलदशायां मुक्तिभवने फलतो न कश्चिद्विशेष इत्याशंक्य, नियमादिभिहेतुभिस्तस्य नित्यत्वं, भक्तानां मुक्त्यनिच्छया तत आधिक्यं च मुख्यभक्तिमार्गस्योत्कर्पार्थं प्रसङ्गात्प्रतिपादितम् ॥ ४॥ ततः पञ्चमे द्विसूत्रे न चाधिकारिकमित्यधिकरणे मर्यादापुष्टस्यापि यत् भग- वदीयत्वरूपमन्तनिष्ठारूपं यत्फलं तन्नित्यं, ज्ञानमार्गीयमुक्तेः सकाशादधिकमित्यनुप्रसझेन निरूपितम् । एवमधिकरणद्वयेन पूर्वोक्तकर्मोपसंहारप्रकारे वीज बोधितम् ॥५॥ ततः पठे चतुःसूत्रे पहिस्तृभयथेत्यधिकरणे सर्वविधस्य पुष्टिमार्गीयस्य आश्रम- रूपसंन्यासधर्मानुपसंहारार्थ साधनत उत्कर्पयोधनायानुप्रसझेन गृहत्यागो विचारितः । सच मध्यमाधिकारे एवेति फलति ॥६॥ ततः सप्तमे एकसूत्रे सहकार्यन्तराधिकरणे गृहत्यागिनो मर्यादापुष्टिमार्गीयस्य शमादिकं भावनासहकारित्वेन कर्तव्यम् , पुष्टयंशबाहुल्ये तु तेनापि भावनामात्रमेव कर्त- व्यमिति साधनव्यवस्थानुप्रसङ्गाद् दर्शिता ॥७॥ , .

, श्रीपुरुपोत्तमविरचिता। ततोऽष्टमे चतुःसूत्रे गृहिणोपसंहाराधिकरणे, प्रथमसूत्रेण पूर्वोक्तेभ्यो.जघन्याधिका- रिणां सागानुकल्परूपं गृहे स्थित्वा भगवद्भजनं कर्तव्यमिति विचार्य, द्वितीयादिमिस्तस्य करणप्रकारस्तदाधिक्यं, भगवद्भावस्य लोकेष्वप्रकटनं, भगवद्भजनव्यतिरिक्तसमये लौ- किककरणं, गृहिणोपसंहारश्रुतिमनुसृत्यानुप्रसङ्गाद्विचारितम् । तेन विहितत्वाचाश्रम- कर्मापीत्यनेन यत्पूर्वमुक्तं तस्य प्रकारो चोधितः॥८॥ ततः नवमे एकसूत्रे एवं मुक्तिफलानियम इत्यधिकरणे तादृशस्य देहपातो- त्तरं मुक्तिर्वा भगवदीयत्वं वेति संशये मुक्तिस्तु नियतैव, भगवदीयत्वं तु भगवत्कृपाधी- नमित्यनियमो निर्णीतः । तेनानुकल्पोपि मर्यादामार्गादधिकः, निरवध्यानन्दपुरुपो- तमसायुज्यादिति ॥ ९॥ एवमस्मिन्पादे पहिरङ्गविचारेण सप्रकारः कर्मोपसंहारो दर्शितः । एवमस्मिन्नध्याये चतुर्भिः पादैः सर्वसाधनं सप्रकारमुपदिष्टम् ॥ इति श्रीवल्लभाचार्यचरणदासस्य पीताम्बरात्मजपुरुषोत्तमस्य कृती वेदान्ताधिकरणमालायां तृतीयाध्यायस्य चतुर्थः पादः समाप्तः । तृतीयाध्यायः समाप्तः। चतुर्थोध्यायः। अथ चतुर्थाध्यायेवसरसङ्गत्या फलं निरूप्यते । तच्च फलं ब्रह्मविद इति चतुर्भिः पादै- जीवतो प्रियमाणस्य गच्छतः प्राप्तफलस्य च क्रमेण तस्य यथाधिकारमवस्था निरूप्यन्ते । तत्र प्रथमपादस्य द्विसूत्रे प्रथमेधिकरणे प्रथमवर्णकेन श्रवणादीनामवान्तरफल- त्वाय तेपामावृत्तिः कर्तव्येत्युच्यते । तेन पूर्वपादान्ते गृहिणोपसंहारे सर्वेन्द्रियाणामात्मनि प्रतिष्ठापनमुक्तम् , तत्प्रकारोब दर्शित इति पूर्वेण सह प्रकारप्रकारिभावः सङ्गतिरिति चोध्यम् । द्वितीयवर्णकेन तु ज्ञानभक्त्योः फलत उत्कृष्टत्वाय कर्ममार्ग आवृत्तिव्युत्पादनेन फलजघन्यत्वमपि वोधितम् । तेन कर्मणि तत्फले चानासक्तिरपि तत्प्रकारत्वेन वोध्यत इति सैव पूर्वेण सह सङ्गतिरिति बोध्यम् ॥१॥ ततो द्वितीये त्रिसूत्रे आत्मेतीत्यधिकरणे प्रथमवर्णकेन ज्ञानफलं द्विविध विचार्यते । मुख्यं त्वात्मप्रवेशरूपमनश्वरम् , द्वितीयं त्वधिकारिपूपस्थितेषु तेभ्यो ज्ञानोप- देशरूपमवान्तरफलम् , भगवदाज्ञापरिपालनात्मकम् , न त्वाचार्यत्वकामनाकृतमित्यु- च्यते । द्वितीये ननु 'न स पुनरावर्तत' इतिश्रुत्युक्तो ज्ञानभक्त्योः फलरूपः पुनरावृत्त्य भावः किं सावधिक उत निरवधिक इत्याशङ्कायाम् , निरवधिक इति सिद्धान्त उच्यते ।. नित्ये भगवद्रूप आत्मनि ब्रह्मविदो जीवात्मनः शुद्धजले जलस्येव प्रवेशेन तादृक्त्वस्यैव श्रुतावुक्तत्वादिति, भक्तिमार्गे च भगवतो मुक्तोपसृप्यत्वेन सेवाथै तन्निकटस्थितेरपि वेदान्ताधिकरणमाला। नित्यत्वादिति । एवमात्मोपदेशस्यावान्तरफलत्वं त्वत्रापि समानम् । ततो द्वितीयसूत्रे प्रतीकोपासकानां न मोक्षः, अतद्रूपे तत्त्वेनोपासनादिति । अतः सा न कर्तव्येति योधितम् । तृतीये सर्वत्र ब्रह्मदृष्टिः कर्तव्येति चोधितम् । तथा च सर्वत्रात्मभावनात् तथा स्फुरणाच दुःखस्स निवृत्तेस्तस्याप्यवान्तरफलत्वम् । पूर्वपाद उक्तानां गृहत्यागिनां यदान्तरं याचं च साधनं तदनोपदिश्यत इत्यत्रापि तेन सह प्रकारप्रकारिमाव एव सातिरिति योधितम् ॥२॥ ततस्तृतीये पञ्चसूत्रे आदित्यादिमतय इत्यधिकरणे प्रथमसूत्रे प्रतीकोपासना न कर्तव्या एव चेत्, ताः किमर्थमुपदिश्यन्ते, (नन्वेवमझोपासना एव?) सिद्धान्ते प्रतीकोपासना इत्याकांक्षायाम् , अवसरसङ्गत्या सिद्धान्ते अगोपासना एव प्रतीकोपासना इति तत्स्वरूप- मुच्यते । ताथ्योपासना जघन्याधिकारिणां फलदानद्वारा माहात्म्यज्ञापनेन भक्तिद्वारा आधि- भौतिकसर्वात्मभावरूपज्ञान एवोपकुर्वन्तीत्युच्यते, अग्रिमसूत्रैस्तथैव प्रतिपादनात् । ततो द्वितीयसूत्रे भावनोत्कट्ये बहिर्भगवदध्यासरूपं प्राकटयं फलमुच्यते । ततस्तृतीये ध्यानात्मनो मानसीमूर्तिसिद्धिरूपं फलमुच्यते । ततश्चतुर्थे लीला अपि भगवान् तथा प्रकटयतीत्युच्यते । ततः पञ्चमे अधिकारौत्कट्येन तेपां तत्रैव फलत्वं भासत इति श्री- भागवतोक्तस्मृतियलेनोच्यते । तस्मात् तासां ज्ञानोपकार एव फलमिति सिध्यति ॥ ३॥ ततश्चतुर्थे एकसूत्रे यत्रैकाग्रतेत्यधिकरणे वहिरन्तर्भगवत्प्राकट्यवतोरुपास- कयोर्न तारतम्यमिति सिद्धान्तः प्रसङ्गेन क्रियते ॥४॥ ततः पञ्चमे एकसूत्रे आमायणेत्यधिकरणे भगवत्याप्तिरूपपरमफलपर्यन्तं तस्य सैवावस्था तिष्ठति । परमफलं च तस्य साक्षाद्भगवत्सेवनरूपं सिध्यतीत्यनुप्रसङ्गेन पुष्टि- मार्गीयस्योक्तम् । इदमेव च पूर्व तद्भूताधिकरणे प्रतिपादितमत्राङ्गोपासनाविपयेपि स्मा- यते । तेन पुष्टिमार्गीयस्य जीवत इदमवान्तरफलमिति बोधितम् ॥ ५ ॥ ततः पप्ठे चतुःसूत्रे तदधिगम इत्यधिकरणे मर्यादामार्गीयस्यावान्तरफलमव- सरसङ्गत्योच्यते । तत्र प्रथमसूत्रे (चित्तशुद्धौ) ज्ञानोदये सति पूर्वपापनाशः, तदनन्तरं पापस्यानुत्पत्तिः । द्वितीयसूत्रे पूर्वपुण्यस्य नाशः, तदनन्तरं तदनुत्पत्तिः । कदाचित् प्रारब्धवशाद्भगवद्भावाश्युतौ उत्तरकर्मण उत्पत्तिरित्युक्तम् । ततस्तृतीये ज्ञानात् कर्मनाशे सति कर्मजन्यदेहस्यापि नाशादाचार्याभावेन ज्ञानादिसंप्रदायोच्छेद इत्याशक्य, अनार- ब्धकार्याणामेव तेषां नाशः, न प्रारब्धकार्याणामिति, तेषां भोगैकनाश्यत्वादित्युक्तम् । ततचतुर्थे ब्रह्मविदोग्निहोत्रादिकरणमपि प्रारब्धमोगरूपकार्यायैव, येपामग्निहोत्रकरणरूपं प्रारब्धमस्ति तेपां तत्करणरूपेण भोगेन तन्निवृत्तेः, न तु तस्य कर्मणः संश्लेप इत्युक्तम् । तेन मर्यादामार्गीयस्य कर्मसंसर्गाभाव इत्यनेनाधिकरणेनावसराद्वा प्रसङ्गाद्वा साधितम् ॥६॥ ततः सप्तमे त्रिसूत्रे अतोन्यापीत्साधिकरणे पुष्टिमार्गीयस्य 'तस्य पुत्रा दाय- मुपयन्ति सुहृदः साधुकृत्याम् द्विपन्तः पापकृत्या मिति श्रुतिवलात् विनैव भोगं प्रारब्ध- .

" , श्रीपुरुषोत्तमविरचिता। निवृत्तिरिति प्रथमसूत्र उच्यते । ततो द्वितीये 'यदेव विद्ययेति श्रुत्या ब्रह्मविदः कर्मकरणप्राप्तौ तत्संक्षेपमाशय, इदं वाक्यं कर्माङ्गभूतोद्गीथोपासनाविषयम्, न तु ब्रह्म- विद्याविषयम् , अतो न तस्य आपादयितुं शक्यते कर्मसंश्लेपो ब्रह्मविदः । किच, यद्य- नया कर्मकरणं प्रसक्तं क्रियते, तदा ब्रह्मवित्कर्ममोक्षायैव कर्म करोतीति तच्छेपाभावा- यैव तत् फलिष्यतीति तु मर्यादामार्गरीत्या समाधानम् । पुष्टिमार्गीयस्तु केवलं भगवदा- सक्तः, भगवद्गुणानां च जीवगुणाः अंशाः, जीवनिष्ठं विद्यारूपं यज्ज्ञानं तद्भगवज्ज्ञानस्य अंश इति सिध्यति । तथा सति जीवनिष्ठविद्ययापि चेत् न मर्यादामार्गीयस्य कर्मश्लेपः, तदा भगवत्स्वरूपासक्तस्य पुष्टिमार्गीयस्य कर्मक्षेपः कैमुतिकन्यायेनैवापास्त इत्युक्तम् । ततस्तृतीये पुष्टिमार्गीयः पूर्वोक्तप्रकारेण स्थूललिङ्गशरीरे क्षपयित्वा ततो यथाधिकार भगवत्साक्षात्कारादिरूपेण फलेन सम्पद्यत इति परमफलमुक्तम् । अत्र क्षपणं च कुरु- क्षेत्रप्रसङ्गे ब्रजभक्तानां जीवकोशध्वंसरूपम् । भोगश्च तदनन्तरदर्शनादिरूपो जीवद्द- शायामेव भवतीत्यवान्तरफलपरिसमाप्तिरिति मम प्रतिभाति । इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्बरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य प्रथमः पादः । अथ द्वितीयपादे म्रियमाणस्य ब्रह्मविदोवान्तरफलव्यवस्था अवसरसङ्गत्योच्यते । तत्र प्रथमे चतुःसूत्रे वाइमनसीत्यधिकरणे तत्र प्रथमसूत्रे 'अथाकामयमान' इति वाजसनेयिश्रुतिमालम्ब्य प्रियमाणस्य पुष्टिमार्गीयस्य नियमाणदशायां वहिर्मनसि वा दर्शनं वेणुनादश्रवणं वा भवति, तदा तस्य वामनसि संपन्ना भवतीत्युक्तम् । ततो द्वितीयसूत्रे पूर्वोक्तेनैव हेतुना अन्यान्यपीन्द्रियाणि मनसा सह सङ्गतानि भवन्तीत्युक्तम् । ततस्तृतीये सर्वेन्द्रियविशिष्टं मनः प्राणे सगतं भवतीत्युच्यते । ततश्चतुर्थे तत्सर्वविशिष्टप्राणो हृदि वा बहिर्वा प्रकटे भगवति लीनो भवतीत्युच्यते । तथा चानेन क्रमेण तस्येन्द्रियाणि भगवति लीयन्ते, आत्मापि लीयते, 'न तस्मात्प्राणा उत्क्रामन्ति, अत्रैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुतेरित्युच्यते । तस्यालौकिकदेहप्राप्तिश्चतुर्थे पादे वक्ष्यते ॥१॥ ततो द्विसत्रे द्वितीये भूतेग्वित्यधिकरणे प्रियमाणस्य मर्यादामार्गीयस्य व्यव- स्था अवसरगर्भेण प्रसङ्गेनोच्यते । तत्र प्रथमसूत्रे तस्पेन्द्रियाणि भूतेषु लीयन्त इत्यु- च्यते, स्वयं तु हृद्येवं भगवन्तं प्राप्य मुक्तो भवतीत्यपि तेन सूच्यते । ततो हितीये सूत्रे भक्तो ज्ञानी च मर्यादामार्गीयौ भवतः । तत्रोभयोरियं व्यवस्था, उत भक्तस्य पुष्टिमार्गे प्रवेश इत्याशक्य, द्वयोरपीयं व्यवस्थेत्युच्यते ॥२॥ ततस्तृतीये नवसूत्रे समाना चामृतीत्यधिकरणे उभयोर्मुच्यमानत्वेपि प्राणा- दिलयप्रकारे पुष्टिमर्यादास्थयोः कुत एवं (विशेषादेव) विशेष इति वक्तुं पुष्टिमार्गीयस्य मर्या- वेदान्ताधिकरणमाला। दामार्गादाधिक्यमुपोदातेन विचारितम् । तत्र प्रथमसूत्रे साधनद्वारा मोचनेच्छा हि मर्यादामार्गीया मर्यादा, विहितसाधनं विनैव मोचनेच्छा पुष्टिमार्गमर्यादा । अतस्तयोः संकरः कदापि न भवतीति विशिष्टेच्छया आधिक्यमुक्तम् । ततो द्वितीये पुष्टिमार्गीयमु- क्तिदशायां मर्यादामार्गीयमुक्तेः संसारतौल्यव्यपदेश इत्युक्तम् , तेन पुष्टिमार्गस्याधिक्यं सूच्यते । ततस्तृतीये यदि तस्याः संसारतुल्यत्वं तदा तस्या हेयत्वं स्यात् , तद्बोधकथु- तेः प्रतारकत्वं चेत्याशङ्कायाम् , पुष्टिमार्गीयं तत्त्वं दुर्जेयम् । अतस्तदज्ञानान्मर्यादामार्गीय- मुक्तिर्येपामीप्सिता तान् प्रति तामेवोपादेयत्वेन श्रुतिर्वदति, रागिणः प्रति स्वर्गादि उपदि- श्यते (तद्वत् । ततश्चतुर्थे तर्हि ब्रह्मविदामिव तादृशानां भक्तानामपि खमार्गोपदेशनं क्वचिच्छ्र- येत ), यतो नैवम् , अतो नैवमित्याशङ्कायाम् , तदनुपदेशने चीजमाह । पुष्टिमार्गीयाणां हि अवस्थाद्वयम् , विरहः प्रियसङ्गो वा । तत्राये स्वास्थ्याभावान्नोपदेशः । द्वितीये तु भ- गवत्सनिधानेन तदने धार्यस्य कर्तुमशक्यत्वान्नोपदेशः । अत उपदेशाभावान्न तस्या- सत्ता वक्तुं शक्येत्युक्तम् । ततः पञ्चमे भगवदीयानां विरह एव कथमित्याशङ्कायाम् , पुष्टिमार्गे भगवतो रसात्मकत्वस्यैव प्राकट्यात् तेनैव तदुपपत्तिरिति युक्त्या समाहितम् । ततः पष्ठे विरहाङ्गीकारे श्रुतिविरोधमाशक्य, श्रुतौ शरीरसंवन्धिन एव दुःखस्य निषेधो, न भगवद्विरहजन्यसेत्येवं समाहितम् । ततः सप्तमे श्रुत्या, अष्टमे च स्मृत्या तदृढीकृतम् । ततो नवमे सर्वासां रसावस्थानां सत्ता श्रीगोकुल एव विद्यत इति श्रुत्या व्यवस्थापि- तम् । एवं पञ्चभिः सूत्रः प्रमाणपूर्वक रसावस्थास्थापनेन पुष्टिमार्गस्य सर्वोत्कृष्टत्वं व्यव- स्थापितम् । अतः पुष्टिमर्यादायामुपदेशेपि न कश्चिद् दोष इत्यर्थात् सूचितं भवति ॥३॥ ततश्चतुर्थे एकसूत्रे अविभागो वचनादित्यधिकरणे प्रसङ्गात् पुष्टिमार्गीयस्य नित्यलीलारूपफलानुभवस्य नित्यत्वं मर्यादामार्गात् फलतो विशेषप्रतिपादनाय पिचारितम् । ततः पञ्चमे एकसूत्रे तदोकोग्रज्वलनाधिकरणे मर्यादामार्गीयस्य ब्रह्माण्डमध्ये सद्यो मुक्तिप्रकारो विचारितः । तदग्रिमे च अवसरसङ्गत्या मर्यादामार्गीयस्य जीवोत्क्रा- न्त्यनन्तरं क्रममुक्तिप्रकार उच्यते । तर साधारणम्यापि जीवस्य इन्द्रियरूपाभिस्तेजोमा- प्राभिः सहैव येन केनचिहारेण निर्गमनम् , तथापि यस्य साधनेन (परमात्मा तुष्टः,) स जीवस्तु एकशतनाडीपु या शताधिका मूर्धन्या नाडी, तया अवं त्यक्त्वा' निष्कामति, साधनेन तुष्टो यो हृदयवर्ती परमात्मा तदनुग्रहाद्विघासामर्थ्याच या भगवत्स्मृतिपरंपरा, तया तस्यानुग्रहः, तेन मूर्धन्यनाड्या निष्क्रमणमित्युक्तम् ॥५॥ ततः पप्ठे चतुःसूत्रे रश्म्यनुसायधिकरणे । तत्र प्रथमसूत्रे यः क्रमेण मो- क्षाधिकारी रश्म्यनुसारी मूर्धन्यनाड्या निःसरति तस्यापि हृदयाने प्रकाश इत्युक्तम् । ततो द्वितीये तृतीये च रात्रिकृतोऽयनकृतो विशेषश्च नास्तीत्युक्तम् । ततश्चतुर्थे चिदान्तर्गतफकिया त्रुटितेति प्रतिभाति । २६त पर सूत्रत्रय मिन्नाधिकरणरवेन श्रीगपेश्वरा इपान्ति, गायप्रकाशिकारा श्रीकृष्णचन्दाथ ।

श्रीपुरुषोत्तमविरचिता। स्मृतौ धूममार्गस्याप्युक्तत्वात् तत्र च रात्रिदक्षिणायनादीनामुक्तत्वादर्चिरादिमार्गे च ज्यो- तिरुत्तरायणादीनामुक्तत्वान्मुच्यमानस्य कथं न विशेष इत्याशंक्य, स विशेपो योगिन एव, गती च ते स्माते, अतो न ज्ञानिनः, तेन ज्ञानिन उत्कमणे सर्वोपि कालः समान इत्युक्तम् । एतस्य करणग्रामनिष्पत्तिस्तु यत्र प्रारब्धसमाप्तिस्तत्र भूतेष्वेव भविष्यतीति ज्ञेयम् । उपक्रमे तथैवोक्तत्वादिति ॥६॥ एवमस्मिन् पादे पुष्टिमर्यादामार्गीययोम्रियमाणावस्था विचारिता ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्बरात्मजपुरुपोत्तमस्य कृती वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य द्वितीयः पादः । अथ तृतीयपादे क्रममुक्त्यधिकारिणो ब्रह्मविदोचिरादिमार्गेण गच्छतो व्यवस्थाव- सरप्राप्तीच्यते। तत्र प्रथमे चतुःसूत्रे अचिरादीत्यधिकरणे ज्ञानमार्गीयस्स भक्तस्स चेत्युभयो- रचिरादिमार्गेण गमनम् , उत सद्योमुक्तिरितिसंशये, यथा ज्ञानिनो नियमाभावस्तथा भक्तस्यापीति पूर्वपक्षे, पञ्चाग्निविद्यायां ज्ञानमार्गीयाणामेवोपक्रान्तत्वात्तेपामेव तेन मार्गेण गतिः, न तु भक्तस्यापीति निश्चीयते । ततस्त्रिभिः सूत्रैस्तन्मार्गपर्वनिर्धारः क्रियते । श्रुतिभेदेन पर्वभेदानामनेकधोक्तत्वात् मार्गभेदे प्राप्ते देवयानस्य मार्गस्य श्रुत्यन्तरे यदैक्य- मुक्तं तद्विरोधसंभवात् । पर्वसु निर्धारितेषु तु यस्य यत्पर्वभोगो भावी तं प्रति तत् पर्व, अन्यंप्रत्यन्यत् । यथा महामार्गे नानाग्रामेषु सत्खपि कस्यचित् कस्मिंश्चिद् ग्रामे अवान्तर- निवासः, अन्यस्यान्यस्मिन् ग्रामे सः, तद्वत् । एवं पर्वभेदेप्युपपत्तौ ब्रह्मलोकगमनस्यैक एवार्चिरादिमार्गो देवयानाख्यः सिध्यतीति निर्णीतम् ॥१॥ ततो दितीये त्रिसूत्रे आतिवाहिकाधिकरणे तेन मार्गेण कथं गच्छतीत्या- कांक्षायामवसरगर्भेण प्रसङ्गेन गमनप्रकारो निर्धार्यते । तत्र पर्वभूतविद्युल्लोकपर्यन्तं विद्या- सामर्थ्येनैव गच्छति । ततो विद्युल्लोके अमानवः पुरुपो ब्रह्मलोकगमयिता तत्रागत्य तं विद्युल्लोकस्खं गन्तारं ब्रह्मलोकं प्रापयतीति श्रावितम् । एवं सति येषां विद्युल्लोकभोगोस्ति ते वरुणादिलोकं गच्छन्ति । तंत्र सः ब्रह्मलोकप्रापयिता आयाति न वेति संशये, तत्रा- प्यायाति, श्रुत्यन्तरे प्रजापतिलोकानन्तरमपि ब्रह्मलोकस्योक्तत्वात् , ब्रह्मलोकप्रापयितॄणां पुरुषाणां च बहुत्वात् , यस्य यलोकभोगेन प्रारब्धसमाप्तिस्तं तत एव लोकाब्रह्म प्रापयन्तीति प्रथमसूत्रे निणीतम् । तेषां ब्रह्मलोकप्रापका ये पुरुषास्ते आतिवाहिकशब्द- नोच्यन्त इत्यपि । ततो द्वितीये सूत्रे अपुनरावृत्तिश्रुत्या देवयानं पन्थान प्राप्तानां ब्रह्मवित्त्वात्तेषां सद्योमुक्तिरेवोचितेति तेषामवान्तरलोकभोगजनिका कामनैव कुतः । किञ्च, 'यत्कर्ममियत्तपसे ति भगवद्वाक्ये मर्यादामक्तस्य या लोकान्तरकामनोक्ता सापि कुतः । तेषां ८ वेदा.

. वेदान्ताधिकरणमाला। सद्योमुक्तरेव प्रथमाधिकरणे निधारादित्याशय, केपाञ्चित् ज्ञानिनां मर्यादाभक्तानां व्यामोहितत्वात् सा । व्यामोहश्च लीलासिद्ध्यर्थ, येऽवान्तर्लोकाः कृतास्तत्सृष्टिसार्थ- कत्वाय भगवतैव क्रियते । अतो नानुपपत्तिरित्युक्तम् । ततस्तृतीयसूत्रे ये वरुणादि- लोकं गतास्तेषां खत एव ब्रह्मप्राप्तिरस्तु । आतिवाहिकस्य विद्युलोकीयत्वश्रावणेन तेषु लोकेषु तदभावादित्याशय, श्रुतावातिवाहिकस्य न विद्युल्लोकीयत्वमभिप्रेतम् । 'पुरुपोऽ- मानव एत्येति श्रावणाद्ब्रह्मलोकीयत्वम् । वैद्युतत्वं तु तस्य विद्युल्लोकपर्यन्तमागमनात् । अतो लोकान्तरादपि ब्रह्मलोकप्राप्तावातिवाहिकापेक्षास्तीत्युक्तम् । किञ्च, वाजसनेयके 'ब्रह्म- लोकान् गमयतीति श्रावितम् । छान्दोग्ये तु 'ब्रह्म गमयतीति श्रावितम् । तेन मर्यादा- मागीयं भक्तं वैकुण्ठलोकान् गमयति । ज्ञानमार्गीयं त्वक्षरब्रह्म गमयतीत्यपि तत्र निर्णीतम् । एवमेतेन गमनप्रकारो निर्णीतः ॥२॥ ततस्तृतीये अष्टसूत्रे कार्य बारिरित्यधिकरणे पूर्वसूत्राधिकरणश्रुत्युक्तस्य प्राप्तव्यस्स ब्रह्मणः किमविकृतब्रह्मत्वम् , उत कार्यब्रह्मलोकत्वमिति संशये, प्रथमं पञ्च- सूत्रैर्यद्वादरिमतमुक्तम् , तत्राधिकृतस्य परब्रह्मणो व्यापकत्वादत्रोक्तं गमनं न सङ्गच्छते तस्मात् । किञ्च, श्रुत्यन्तरे 'ब्रह्मलोका'निति तेषु वसन्तीति च बहुत्वेन वासाधिकरणत्वेन च विशेपितत्वादपि तथा । तत्र ब्रह्मत्वव्यपदेशस्तु ब्रह्मसामीप्यात् । कल्पसमाप्तौ कार्यब्रह्मलोकस्य नाशे चतुर्मुखेन ब्रह्मणा सह तस्यापि चतुर्मुखवत् परब्रह्मप्राप्तेः श्रुतौ स्मृतौ चाभिधानादपि प्राप्यब्रह्मलोकोऽपर एव, न तु परब्रह्मेति पूर्वपक्षत्वेनोक्तम् । ततस्त्रिभिः सूत्रैर्जेमिनिमतं सिद्धान्तत्वेनोक्तम् । तत्र प्रथमसूत्रे ब्रह्मशब्दस्य वृहत्त्वा- दिगुणविशिष्टत्वेन परस्मिन्नेव मुख्यवृत्तत्वात् गौण्याऽपरब्रह्माङ्गीकारो न युक्त इत्यु- क्तम् । ततो द्वितीये कौपीतकिश्रुतौ प्रजापतिलोकाद्ब्रह्मलोकस्य पार्थक्येनोक्तत्वात् छा- न्दोग्ये अधिरादिमार्गप्राप्यत्वेन समाप्तौ 'ब्रह्म गमयती'त्युक्तत्वात् प्रजापतिलोकादन्यस्य कार्यब्रह्मलोकस्य कुत्राप्यश्रवणाद्गमनस्य प्रारब्धहेतुकत्वेन विलम्ब्यप्राप्तेः संभवाच न गमना- दिश्रुतिस्मृतिविरोध इत्युक्तम् । ततस्तृतीये 'ब्रह्मविदाप्नोति पर मिति श्रुती परप्राप्तियां उक्ता सैवाग्रिमर्चा वित्रीयते । तस्यां च ब्रह्मणा सह सर्वकामभोगलक्षणा या प्रतिपत्तिरुच्यते, सापरेणैव सह । कुनापि श्रुती कार्यरूपे प्रतिपत्तेरनभिप्रेतत्वात् । अतो ब्रह्मशब्देन परग्रीवो- च्यत इति सिद्धान्तितम् । एवमष्टमिः सूत्रैः गन्तव्यत्रह्मस्वरूपं प्रसङ्गानिरूपितम् ॥ ३॥ ततश्चतुर्थे एकसूत्रे अमतीकालम्यनाधिकरणे पूर्वोक्तप्रकारेणातियाहिकप्रा- पिता ब्रह्मप्राप्तिः किं सर्वेपामुपासकानाम् , उत केपाश्चिदेवेति संशये, अप्रतीकालम्बनाने- वातिमाहको नयतीति निश्रीयते । तत्र प्रतीकोपासका द्विधा । केचिदतस्मिंस्तत्त्वेनोपास- काः, अन्ये तु तदनेषु तत्वेनोपासकाः । तनाद्यानामुपासनेव व्यगा । 'योऽन्यथा सन्तमारमान मिति पायोक्तदोपप्रसङ्गात् । द्वितीयानां तूपासनाव्यङ्गत्वाभावेपि 'याव- ।

श्रीपुरुषोत्तमविरचिता। ५९ न्मनसो गतं तत्रास्स कामचारो भवती'त्यादिश्रावणेन तक्रतुन्यायतस्तत्रैव पर्यवसानेन नेपां ब्रह्मप्राप्तेरनभिप्रेतत्वात् । पञ्चामिविद्यायास्तु अझोपासनात्वेन प्रतीकवेपि वाचनि- कत्वात् तेषां नयनम् । तस्मात् ये परब्रह्मोपासकास्तानेय नयतीति ज्ञानमार्गीया व्यवस्था । भक्तिमार्गीयस्तु निष्कामाझोपासनकर्ता भक्तः सन् भक्तिवलादेवातिवाहिकं विनैव स्वयं गच्छतीति तत्कतुश्चेति सूत्रशेपेण निथीयत इत्युक्तम् । एवमत्र चतुर्भिरधिकरणैः सप्रकारा गच्छद्रह्मविद्व्यवस्थोक्ता । सङ्गतिस्तत्रावसर एव ॥४॥ ततः पञ्चमे एकसूत्रे विशेषं च दर्शयतीत्यधिकरणे भक्तिमार्गीयाणां ज्ञान- मागीयाणां चाविशेषेणैव ब्रह्मप्राप्तिः, उत गमने विशेषात् फलप्राप्तावपि कश्चिद्विशेषोस्तीति सन्देहे, 'ब्रह्मविदाप्नोति पर मिति यजुर्व्याख्यानरूपायां 'सत्यं ज्ञान मित्यस्सामूचि ज्ञान- मागीयस्य अक्षरप्राप्तिरेव, भक्तिमार्गीयस्य तु 'यमेवैप वृणुते' इति श्रुत्युक्तवरणेन भत्त्या हृदि अक्षरब्रह्मप्रादुर्भावात्तत्र स्थितेन पुरुषोत्तमेन सह भोग उच्यते । तत्र भक्तिमार्गः पुष्टि- मर्यादाकेवलपुष्टिभेदेन द्विविधः । तपाद्यस्य यथाधिकारं पुरुषोत्तमानुभवरूपो भोगः । द्वितीयस्य तु यथाधिकारं ब्रह्मणा सह सर्वकामाशनरूप इति विशेपं श्रुतिर्दर्शयति । तस्मात् ब्रह्मप्राप्तावस्ति तयोविशेष इति प्रसङ्गगर्भया पूर्वोक्तसङ्गत्यैव निर्णीतम् ॥५॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्बरात्मजपुरुषोत्तमस्य कृती चेदान्ताधिकरणमालायां चतुर्थाध्यायस्य तृतीयः पादः । " ततश्चतुर्थे पादे पञ्चभिरधिकरणैः प्राप्तफलस्य ब्रह्मविदो व्यवस्था वक्तव्या । तत्र ब्रह्मविदो भक्तिज्ञानमार्गभेदेन द्विविधाः । भक्तिमार्गीया अपि मर्यादापुष्टिकेवलपुष्टिभेदेन द्विविधाः । अवान्तरभेदास्त्वनेके । तत्र ज्ञानमार्गीयाः पुष्टिमर्यादामार्गीयाश्च प्रायशः कमेणैव मुच्यन्ते । अतिकृपया तु केचित् सद्योऽपि । पुष्टिमार्गीयास्तु सद्य एव । एव- मेतेपु ब्रह्मवित्सु ज्ञानमार्गीया अक्षरोपासकत्वात्तत्रैव पर्यवसन्नाः सद्यः क्रमेण वा तमेव प्रविशन्ति । पुष्टिमर्यादामार्गीयास्तु सद्यः क्रमेण वा नित्यं ब्रह्मलोकं प्राप्नुवन्ति । तेषां लौकिक्यामेव गुहायामक्षरम् । तत्र स्थितं पुरुषोत्तमं चानुभूय पुरुषोत्तमस्वरूपे प्रवि- शन्तीत्येतावत्पूर्वपादान्ते सिद्धम् । ये पुनः क्रमेण नित्यं भगवल्लोकं प्राप्नुवन्ति, ते तत्रैव भगवन्तं भिन्नमीश्वरत्वेनानुभवन्तो यथाधिकार सेवौपयिकदेहं प्राप्नुवन्तीत्यर्थात् सिध्यति । तदपि तृतीयस्कन्धे 'अथो विभूति मम मायाविनस्ता'मिति कपिलदेववास्यादवसीयते । अतःपरं पुष्टिमार्गीयस्य प्राप्तफलस्य 'सोऽश्रुते सर्वान् कामान्' इति श्रुत्युक्ता व्यवस्थाव- शिष्यते । सा विशेषदर्शनसूत्रे संक्षेपेण सिद्धास्मिन्यादे प्रपश्यते । ततः सम्पद्याविर्भाव इति चतुःसूत्रे प्रथमाधिकरणे प्रथमसूत्रे भगवत्स्वरूपे तीनस पुष्टिमार्गीयस्य स्खलीलानुभावनार्थ . भगवता पहिराविर्भावः क्रियते, अनुगृ- वेदान्ताधिकरणमाला। हीतत्वात् । स चाविर्भावो भगवत्स्वरूपवलेनैव लीलाधिकरणे मवति, न तु प्रपन्च इति श्रुतिबलादुक्तम् । ततो द्वितीये तस्सैवमाविमापि मुक्ततं नापैतीत्युक्तम् । ततस्तृतीये एवं फलदातुः परमात्मत्वमेवेत्युक्तम् । ततश्चतुर्थे 'सत्यं ज्ञान'मित्यम्या प्राचः 'अनविदा- मोती' त्यनेनैकवास्यत्वं व्याख्यानव्याख्येयमावादस्ति, तस्मादयमेवार्थ इति निर्धारितम् ।। ततो द्वितीये अष्टसूत्रे नाणेत्यधिकरणे येन देहेनायं जीवो लीलानुमवं करोति तादृशो देह उपोद्घातेनावसरेण वा विचारितः। तत्र प्रथमसूत्रे सचिदानन्दात्मके- नैव देहेन ब्रह्मणा सह भोगान् भुक्त इति स देहस्तादृशो ब्रह्मणा सम्पादित इति साधितम् । तत्प्रकरणे ब्रह्मात्मकानामेवान्नमयादिविमूतीनामुपन्यासादिति जैमिनिमतकयनमुखेन त- सम्मतिश्च प्रदर्शिता । ततो दितीयसूत्रे प्रज्ञानघनश्रुत्या केवलज्ञानात्मको ब्रह्मणो विग्रहो चोध्यते । अतस्तादृशेन सह भोगका ज्ञानात्मकेनैव भवितव्यम् । नचैवमान- न्दानुभवेन सर्वकामाशनवाधः शङ्कनीयः । भगवतः पूर्णानन्दत्वात् तत्सम्बन्धेनैवा. नन्दानुभवः सिद्धः । तस्माद्विग्रह विनैव केवलस्वरूपेण भुरु इसीडलोमिमतमु- क्तम् । ततस्तृतीये सूत्रे 'सत्यं ज्ञान'मित्यस्यामृचि गुहाया उक्तत्वात् तस्याश्च विग्रह एव संभवात् श्रुतौ विग्रहत्वेनैवोपन्यासः । ते च विग्रहा भगवद्धानि पूर्वमेव वर्तन्ते भगवद्धर्मरूपाः । तेपु कस्मिंश्चिदयं चिन्मात्र एवाविश्याभिमानं कृत्वा भगवदिच्छानुरूपलीलात्मकान् भोगान् भुते । तस्मान्न चिन्मानत्वस्य नित्यवि- ग्रहवत्त्वस्य च विरोध इति मतद्वयं संगृह्य तादृशविग्रहेणैव मुक्त इति स्वमतमुक्तम् । तत- श्चतुर्थे सूत्रे तादृशदेहप्राप्तौ भक्ते भगवदनुग्रह एव हेतुरित्युक्तम् । तेन तादृशो भोगो न सर्वेषाम् , किन्त्वत्यन्तभगवदनुगृहीतानामेवेति वरणश्रुत्या सिध्यति । ततः पञ्चमसूत्रे अतो हेतोः भगवाननन्याविपतिः । अनन्याश्च त एव ये साधनत्वेन (फलत्वेन) च भगवन्तमेव जानन्ति । तस्मात्तदर्थमेवं भगवतः सङ्कल्प इत्युक्तम् । तेन तदेकतानतया तदाश्रयतया च ते सर्वदा तिष्ठन्तीति सिध्यति । ततः पठे सूत्रे मुक्तस्य देहाङ्गीकारप्रतिकूलं वादरि- मतमाह । 'यत्र हि द्वैतमिव भवती'त्यादिश्रुतिरमुक्तिदशायां द्वैतदर्शनमुक्त्वा यत्र त्वस्य सर्वमात्मैवाभूदित्यादिना मुक्तस्य द्वैतदर्शनं निषेधति । तथा सति द्वितीयदर्शनाभावे काम- भोगवाव दूरेति तदाक्षेप्यो देहोपि दूरतरः । एतन्मते 'ब्रह्मविदाप्नोति पर मित्यादि- श्रुतिः पूर्वकक्षाविश्रान्ता । ततः ससमे वादरिविरुद्धं जैमिनिमतमाह । जैमिनिस्तु मुक्तस्य देहसत्तां मन्यते । 'ब्रह्मविदाप्नोती ति श्रुतिः पूर्वकक्षाविश्रान्तेत्यन्त्र मानाभावान्न वादरिमतं साधीयः । अनेन श्रुतिविरोधापत्तेः । श्रुतौ हि 'ब्रह्मविदामोती'त्यत्र ज्ञानस्य तत्प्राप्तिसाधनत्वमुच्यते, 'नायमात्मे'त्यत्र वरणैकप्राप्यत्वम् । अतः साधनवोधकश्रुयोः 'परस्परविरोधः। 'सोश्नुत' इत्यादिना परप्राप्तिरुपन्यस्यते । 'ब्रह्मैव सन् ब्रह्माप्येती'त्यत्र ब्रह्मणि जीवस्य लय उच्यते । अतः फलबोधकश्रुत्योर्विरोधः । एवं विरोधे सति तदभावाय । श्रीपुरुषोत्तमविरचिता। गतिरवश्यं कल्पनीया । तत्र पुष्टिमर्यादाम्यां मार्गभेदस्य सिद्धत्वात् तत्तन्मार्गीयस तत्त- देव फलं परममिति व्यवस्थितविकल्प एव ज्यायानिति नैकतरादरणं युक्तमिति । ततो- प्टमे भगवान् व्यासः स्खसिद्धान्तमाह । लोके हि शरीरं भूतजन्यं मोगायतनं च दृष्टम् । मुक्तस्य तु शरीरतदभावावाक्षेपलभ्यो न निवारयितुं शक्यौ । अतः शरीरमेव तादृशं कल्प- नीयं येन श्रुत्सविरोधः । तत्र भूमविद्याया 'मात्मतः प्राण' इत्युपक्रम्य 'आत्मत एवेदं सर्व'- मित्यन्तेन मगवत एव सकाशादोगोपयोगिसर्वसामग्रीश्रावणान्मुक्तस्य शरीरं न भूतजन्यम् , तस्मादशरीरम् । तत्रैव 'आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्द' इति श्रावणाचच्छ- रीरं भोगायतनम् । तस्माच्छरीरमपि । एवमुभयविधत्व आस्थिते श्रुतीनां न कश्चिद्विरोधः ॥ ततस्तृतीये दिसून्ने तत्त्वभावाधिकरणे गुणोपसंहारपादोक्तं निर्दोषपूर्णगुणं भग- वत्स्वरूपमेव फलमिति विचारितम् ।तत्र पूर्वसूत्रे दोषरूपाणामज्ञवादीनां भगवति या प्रती- तिः, सा प्रान्ता, स्वप्नवदर्थाभावेपि प्रतीयते । तस्माद् ब्रह्म निर्दोपमित्युक्तम् । ततो दितीये सूत्रे याः पोगण्डादयोवस्थाः, ये च गुणास्ते सर्वे सन्त एव मायापसारणाद्भक्तानां प्रती- यन्ते । तस्माद् ब्रह्मानन्तगुणपूर्णमवतारेपीत्युक्तम् । तथा चावसर एव सद्भतिरित्यर्थः ॥३॥ ततश्चतुर्थे दिसूत्रे प्रदीपवदित्यधिकरणे फलानुभवोपकरणं प्रकृतत्वाद्विचायते। पूर्वाधिकरणयोः फलप्राप्त्युपकरणस फलखरूपस्य च विचारितत्वात् । अतोवस- रोत्र सङ्गतिः । तत्र प्रथमसूत्रे मुक्तस्य भगवत्कृपयामिव्यक्ताभ्यां जैवज्ञानक्रियाभ्यां योगेपि न ताभ्यां भगवता सह कामभोगकरणसमर्थो भवति, किन्तु यथा प्राचीनः प्रकृष्ट दीपः स्नेहयुक्तायामर्वाचीनायां वा प्रविष्टस्तां समान कार्यक्षमां करोति, तथा भगवानपि स्वदत्ते मुक्तदेहे जीवेन सह प्रविष्टस्तं देहं स्वभोगरूपकार्यक्षमं करोति । यतो 'भर्ता स' निति भर्तृसूक्तारम्भमचे भगवतः क्रीडार्थ बहुधा आवेश उक्तः । तेनैवं ज्ञायते फ्रीडोपयो- गिमगवदावेश एव फलानुभवोपकरणमिति । ततो दितीयसूत्रे अस्थूलादिश्रुतेः सर्व- कामभोगचतेश्च यो विरोधः स सुपुप्तिमोक्षभेदेन भगवदाविर्भावप्रकारभेदात् परिहतः ।। ततः पञ्चमे पसूत्रे जगद्व्यापाराधिकरणे भोगप्रकारो विचारितः । तत्र प्रथ- मसूत्रे 'सोचते सर्वान् कामानिति श्रुतिर्मुक्तिप्रकरणस्था । तस्मात्तन न जगत्संवन्धः । किच, भगवल्लीला कालमायाद्यतीता । तेन प्राकृतं जगत् ततो दूरतरमिति न तत्संबन्धः । अतो लौकिकव्यापाररहितमेव मुक्तस्स भोगकरणमित्युक्तम् । ततो द्वितीयसूत्रे 'सर्व हि पश्यः पश्यती'तिश्रुत्युक्तप्रत्यक्षोपदेशेन तस्य जगन्यापारसाहित्यमाशय, श्रुतौ सर्वपदेन न जगदुच्यते, किन्तु लीलासाः पदार्या एवोच्यन्ते । तेषामेव दर्शनम् । अतो न श्रुति- विरोधः । किश्य, पूर्वोक्तश्रुत्यनन्तरं 'स एकधा भवतीति भक्तस्य नानारूपयोधिका श्रुतिः पच्यते । तेन नानारूपैर्नानालीलां भगवदनुभावितामनुभवतीति न लीलानामनि- सत्वम्, नापि काचिदन्यानुपपत्तिरित्युक्तम् । ततस्तृतीये सूने 'आयास्स' इत्यागमन- वेदान्ताधिकरणमाला। भविष्यत्त्ववोधकमगवद्वाक्यालीलानां भक्तरूपाणां चानित्यत्वमाशझ्य, भगवालीला प्राकृत- विलक्षणा भगवदिच्छयैवोपपद्यमाना न कुतर्करन्यथा भाव्या, किन्तु श्रुत्या नित्य येनो- क्तत्वादलौकिकानुसरणमेव कर्तव्यमित्युक्तम् । ततश्चतुर्थ सूत्रे अस्मिन् सूत्रे कुनणा- न्यथाभावनं न कर्तव्यमिति यदुक्तं तदेव श्रुतिप्रत्यक्षाम्यां साधितम् । ततः पश्चममूने जीवस्य भोगमात्र एव भगवत्साम्यम् , न तु सर्वथेति 'न तत्समचाभ्यधिकश्च दृश्यते' इतिश्रुतेन विरोध इत्युक्तम् । एवमत्र पञ्चसूत्र्या भगवतः परमफललमर्यादुक्तं भवति । ततः पष्ठे ईदृशं परमफलं प्राप्य भक्तानां ज्ञानिनां चावृत्तिर्नास्ति । तत्र प्रमाणं च शब्दः श्रुतिरूपः स्मृतिरूपश्येत्युक्तम् । एवं पद्धिः सूर्फलभोगप्रकारो विचारितः ॥ ५॥ वेदान्तीयन्यायमालामणुभाष्यानुसारिणीम् । सौकर्यायार्थबोधस्स चकार पुरुषोत्तमः ॥१॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीताम्यरात्मजपुस्पोत्तमस्य कृती वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य चतुर्धः पादः । चतुर्थाध्यायः समाप्तः॥ . परिशिष्टम् । श्रीगोपेश्वरकृता चतुर्थाध्यायाधिकरणमाला। पूर्वाध्याये साधनं निरूपितम् , इदानीं मुख्यमवान्तरं चेति द्विविधं फलमत्र निरू- प्यते, कार्यकारणभावसङ्गत्यावसरसङ्गत्या च । तेन ब्रह्मणस्तत्सम्बन्धिप्राप्तेर्वा फलत्वेन . ब्रह्मविचाराद्ब्रह्मसम्बन्धिन्या विचाराद्वा शास्त्रसङ्गतिर्विपयविपयिभावः। अध्यायसङ्गती तूक्ते । सूत्रपादाधिकरणानां सङ्गतयोऽये स्फुटाः । तत्र प्रथमे दिसूत्रे आवृत्त्यधिकरणे अवान्तरफलमुच्यते । तत्र प्रथमसूत्रे 'आत्मा वा अरे द्रष्टव्यः श्रोतव्य' इत्यादिवाक्यैर्वि- हितं श्रवणादिकं किं सकृदेव कर्तव्यमुतासकृदिति संशये, सकृदेव कर्तव्यम् , तावतैव शास्त्रार्थस्य कृतत्वसिद्धेरिति पूर्वपक्षे, छान्दोग्ये 'ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' इति वाक्येन जडजीवयोर्ब्रह्मात्मकत्वस्य नवकृत्व उपदेशाच्छ्रवणा- दीनामावृत्तिः कर्तव्येति सिद्धान्तः । ततो द्वितीयसूत्रे 'यथात्मा परिमृन्यतेसौ मत्पुण्य- गाथाश्रवणाभिधानः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाचनसम्प्रयुक्तम्' इति स्मृतिरप्युक्तार्थे लिङ्गम् । श्रुत्यनुमापकत्वात्स्मृतिर्लिङ्गम् । अत्र च परिमार्गस्य दृष्टद्वारता- जनदृष्टान्तेन वोध्यत इत्युक्तम् । तेनात्र श्रवणादीनां खेन स्वरूपेण साधनवेपि तेपामा- वर्त्यमानत्वेन रूपेण फलत्वम् । 'आत्मा वा अरे' इति वाक्ये दर्शनकथनानन्तरं श्रवणा- दिकथनात् । तेनात्मनः परोक्षज्ञानमप्यवान्तरं फलमिति सिध्यति । ततो द्वितीयवर्णके श्रुतौ कर्मज्ञानभक्तीनामुक्तत्वेऽपि न त्रयाणां फलतस्तौल्यम्, किन्तु ज्ञानभक्ती फलत ३ श्रीगोपेश्वरविरचिता। उत्कृष्टे इति ज्ञापयितुं कर्मफलजाघन्यमप्यत्र बोध्यत इत्याशयेन आवृत्तिः पुनः पुनर्जन्म कर्मफलं तत्सकृदसकृद्वेति संशये, सकृदिति पूर्वपक्षे, वृहदारण्यके 'तद्यथा तृणजलायुके'त्यु- पक्रम्य 'एवमेवायं पुरुष इदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं तनुते, पित्र्यं वा गान्धर्व वा बाह्यं वा प्राजापत्यं वा दैवं वा मानुषं वान्येभ्यो वा भूतेभ्यः' इत्युक्त्वा 'प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययं, तस्मालोकात्पुनरेत्यस्मै लोकाय कर्मण' इत्येवं पुनरुपदेशादसकृदिति सिद्धान्तः। द्वितीयसूत्रेच 'विद्या मां सोमपाः पूतपापा' इत्या- रभ्य एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्त' इत्यादिस्मृतिर्लिङ्गमित्युक्तम् ॥१॥ ततो द्वितीये त्रिसूत्रे आत्माधिकरणे प्रथमसूत्रे ज्ञानभक्त्योरनावृत्तिसाधकत्वेनोत्तम- त्वाय यत्कर्मणो जापन्यमावृत्तिसाधकत्वादुक्तं, ज्ञानाद्यगकर्मणस्तच्छेपत्वादनावर्तकत्वं च, तच 'न स पुनरावर्तत' इति श्रुतियलेनोक्तम् । सा श्रुतिः ज्ञानिनां सर्वथानावृत्तिमाहोत सावधिकी ताममरशब्देन तन्निवृत्तिमिवेति संशये, सावधिकीमेवेति पूर्वपक्षे, सर्वथाऽनावृत्ति- माहेति सिद्धान्तः । एवं विद्याया अवान्तरं फलं खतबकर्मफलं च विचार्य ज्ञानमत्योः आत्मत्वेन ज्ञानान्मोक्षरूपं फलं विचारितम् । अगृह्यत्वस्य गृह्यत्वस्य च विरोधपरिहारस्तु जीवंसामर्थ्यश्वरेच्छाभ्यां पुरैव कृत इति नाधिकमत्र निरूप्यम् । सर्वधर्माश्रयत्वेपि यदा यं धर्म पुरस्कृत्य लीलां करोति तत्कार्यमेव तदा सम्पद्यते, आत्मत्वेन हितकारिखभावात्तस्य । ततो द्वितीयसूत्रे आत्मत्वेन ज्ञानस्य न मोक्षसाधकत्वं, आत्मेत्येवोपासीतेत्यत्र तस्योपासनार्थ- त्वावगतेरित्याशय, तदाशय उच्यते । अतद्पे तत्त्वेनोपासनं हि प्रतीकमित्युच्यते । तथा च तादृशेन तेन मोक्षो न भवतीति श्रुत्या योध्यते, न तु आत्मत्वेन ज्ञानान्मोक्षो न भवतीत्युच्यते । ततस्तृतीयसूत्रे 'आत्मैवेदं सर्वमिति प्रपञ्चे आत्मदृष्टोक्षफलमुक्तम् , सा च प्रतीकरूपैव कार्यविषयककारणदृष्टित्वेनातस्मिंस्तदृष्टिरूपत्वादित्याशक्य, प्रपञ्चस्य ब्रह्मा- त्मकत्वेन न सा प्रतीकरूपेत्युक्तम् ॥२॥ ततस्तृतीये आदित्यायधिकरणे पञ्चसूत्रे अगोपासनफलमुच्यते । तत्र प्रथमसूत्रे छान्दोग्ये 'अथ होवाच सत्ययज्ञं पौलुपि'मित्यादौ आदित्यवायुप्रभृतीनामात्मत्वेनोपासना उक्ता । तत्र प्रतीकोपासनत्वमस्ति न वेति संशये, आदित्यादीनां प्रत्येकमुपास्यश्रुतेस्तद्वाक्योक्तमुपासनं प्रतीकं भवितुं युक्तम् । न च सर्वत्र ब्रह्मदृष्टेन प्रतीकत्वमिति पूर्वमुक्तं तद्विरोधः शक्यः । उक्तश्रुतिविरोधात् । न च तच्छुत्यनु- रोधेनेदमेबायुक्तमिति वाच्यम् , ब्रह्मण एकत्वादेकप्रकारकेणाप्युपासनेन सर्वेषां फलसिद्धेः पृथक्पृथगुक्तौ गौरवात् प्रयोजनविशेषाभावाच्च । अतः सर्वस्य ब्रह्मत्वं नाभिमतम्, किन्तु यथा आदित्यादीनां प्रतीकत्वम् , तथा सर्वस्यापीति प्रतीकोपासनादेव तत्तत्फलमिति पूर्वपक्षे, वैश्वानरविद्यायां 'तस्य मूर्धेव सुतेजा' इत्यादिनादित्यादीनामङ्गतोक्ता । अगस्य च ब्रह्मवान्नेयं प्रतीकोपासनेति । तेनात्र फलदानोपपादनेन भक्ष्यगभूतमाहात्म्यं ज्ञापितात्फ- लदात् भगवत एव फलत्वमिति दृढीकृतम् । द्वितीयसूत्रे च यहि प्राकट्ययोधनेन - . , चतुर्थाध्यायाधिकरणमाला। पूर्वोक्त एव सिद्धान्तः ससाधनः प्रकाशितः। ततस्तृतीये भावनोत्कय्यदशायां सततस्मृति- रूपध्यानादपि हृदि प्रकटः सन्नासीनो भवतीत्युक्तम् । तेन स्थैर्यमुक्तं भवति । ततश्च- तुर्थसूत्रे भक्तेच्छामपेक्ष्याचलत्वं चकाराञ्चलत्वमपीत्युक्तम् । तथा च पूर्व भक्तेच्छया प्रा- कट्यं निरूपितम् अत्र तु तदिच्छानुसारेण लीलानामपि तदुक्तम् । ततः पञ्चमे सूत्रे 'अथ ह वाव तब महिमे'ति स्मृत्युक्तमपवर्गान्तविस्मरणरूपं फलान्तरमप्युक्तम् । अथवा 'अहं भक्तपराधीन' इत्यादिस्मृतिः पूर्वोक्त प्रमाणमित्युक्तम् । तेनाङ्गोपासनफलं निर्णी- तम् ॥३॥ तत एकसूत्रे यत्रैकाग्रताधिकरणे बहिराविर्भावो येभ्यो येभ्यश्चान्तस्तेपा तेषां भाववैविध्यं सूचितम् , पूर्वत्राधिकरणे तत्र तयोर्द्वविध्ये मावभेद एव हेतुरिति तयोमि- यस्तारतम्यमस्ति, किंवा भावविपयस्य रूपस्पैक्यात्तत् न वेति संशये, विपयैक्येपि प्राकट्य- प्रकारभेदस्य भावभेदकृतत्वादस्तीति पूर्वपक्षे, उक्तमक्तयोर्मध्ये यस्सैकाग्रता तत्र भक्तेन्त- स्त्ववहिष्कृतविशेषाभावात्तयोभक्तयोरपि न तारतम्यम् , किन्तु तौल्यमेव । तेनानकाय्ये एव भावतारतम्यम् , तेन तयोस्तारतम्पम् , न तु प्राकटाप्रकारभेदादिति साधितम् ॥४॥ ततो ह्येकसूत्रे पञ्चमे आमायणाधिकरणे उक्तेर्थे एव अन्तःप्राकट्यवतो यदा वहिःसंवे- दने सत्यपि पूर्वानुभूतभगवत्स्वरूपानुभवस्तदा पूर्वमन्तरन्वभूवमधुना वहिरनुभवामीत्यनुव्य- वसायो भवति न वेति संशये, देशकालात्मकविशेषणप्रयुक्तवैलक्षण्याद्भवितुमर्हतीति पूर्वपक्षे, एकैवावस्था सार्वदिकी, न तु बहिःप्राकट्येपि वहिष्ट्वानुसन्धानमिति सिद्धान्तः । ततः प्रायणरूपे परमफले सायुज्यमवश्यं भविष्यतीति संशये, प्रभुणा सममालापावलोकनश्री- चरणनलिनस्पर्शादिकं दृष्टमेव फलम् , नत्वदृष्टं सायुज्यमिति अनुप्रसङ्गान्निर्णीतम् । तेन पुष्टि- मार्गीयस्य फलं निरूपितम् ॥५॥ ततः पठे चतुःसूत्रे तदधिगमाधिकरणे प्रथमसूत्रे मर्यादामागें ज्ञानानन्तरं भक्तिरिति तादृशज्ञानार्थ चित्तशुद्धिः। चित्तशुद्ध्यर्थ कर्म । तच 'नाभुक्तं क्षीयते कर्मेति वाक्यादभुक्तं न क्षीयत इति भोगो वक्तव्यः । एवं च भोगानुकूलकर्मणा खसजातीयकमजननात्तत्सन्ताने चित्तशुद्ध्यभावः, तेन च ज्ञानाभावाद्भक्त्यभावे मुक्त्यभाव इति पूर्वपक्षे, ज्ञानेनैवोत्तराघस्यानुत्पादः, पूर्वापस्य च नाशः, तेन मुक्तिरिति सिद्धान्तः । ततो द्वितीयसूत्रे पुण्यस्याप्यसंश्लेष उक्तः । ततस्तृतीयसूत्रे उभयकर्मनाशे देहनाशापत्त्या प्रवचनानुपपत्तिस्तदभावे च ज्ञानभक्त्योरप्यनुत्पाद इत्याल, अनुत्पादितशरीरे एव पुण्यपापे ज्ञानेन नाश्यते । तेन देहजनककर्मसद्भावान्न तदनुपपत्तिः । यद्यपि सर्वकर्मनाशः श्रुत्युक्त- स्तथापि भगवदिच्छातोऽयं सङ्कोचः । ततश्चतुर्थसूत्रे वशिष्ठादिमिर्ब्रह्मविद्भिः कर्मकरणादुत्तरस्य कर्मणः संश्लेषमाशय, तेपा तत्तु प्रारब्धनाशायैवेति । येपामग्निहोत्रादिकारके प्रारब्धमस्ति तेरेव भोगवत्तत्तक्रियते, न तु सनकादितुल्यैरतो न तेनादृष्टान्तरसंश्लेप इत्युक्तम् ॥ ६ ॥ ततः सप्तमे त्रिसूत्रे अतोन्पाधिकरणे प्रथमसूत्रे पुष्टिमार्गीयस्य विनैव भोगं प्रारब्धं नश्यत्युत भोगेन वेति संशये, प्रारब्धस्स भोगैकनाश्यस्वभावत्वातं विना न नश्यतीति श्रीगोपेश्वरविरचिवा। पूर्वपक्षे, पुष्टिमार्गीयाणां प्रारब्धाप्रारब्धे 'तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विपन्तः पापकृत्या मिति श्रुतेभोंग विनैव नश्यतीति सिद्धान्तः । ततो द्वितीयसूत्रे 'यदेव विद्ययेति श्रुतौ ज्ञानिना कृतस्य कर्मणो वीर्यवत्तोक्त्या ज्ञानिनोपि कर्मफलस्सावश्यं वाच्य- वेन कर्मश्लेपमाशय, अन्यकृतात्कर्मणस्तस्कृतकर्म वीर्यवत्तरमतः कर्मान्तरं निवार्य स्खय- मपि निरिन्धनवह्निवनश्यतीति न तेन श्लेप इत्युक्तम् । ततस्तृतीयसूत्रे पुष्टिमार्गीयफलप्राप्ति- प्रतियन्धाभावमुक्त्वा तत्प्राप्तिप्रकार उच्यते । इतरे अग्रे प्राप्यालौकिकदेहाद्भिन्ने स्थूल- लिङ्गशरीरे क्षपयित्वा पूर्वोक्तरीत्या कर्मनिवर्तनेन दूरीकृत्य अथ भगवल्लीलोपयोगिदेह- प्राप्यनन्तरं भोगेन सम्पद्यते इत्युक्तम् । तेनास्मिन्पादे ब्रह्मज्ञानवतस्ततन्मार्गभेदात्प्रकार- भेदेन कर्मक्षये स्थूलसूक्ष्मशरीरक्षपणोत्तरं ब्रह्मप्रातिरुक्ता भवति ॥ ७ ॥ इति श्रीविद्धन्मण्डनगोइलोत्सयात्मजगोपेश्वरविरचिताया- मधिकरणमालायां चतुर्थाध्यायस्य प्रथमः पादः ॥ इदानीं स्थूलशरीरत्यागस्य स्फुटत्वात्सूक्ष्मशरीरत्यागप्रकारोऽस्मिन्पाद उच्यते । तत्र प्रथमे चतुःसूत्रे वाानोधिकरणे प्रथमसूत्रे भगवत्कृपारूपस्य साधनद्वारा तद्रूपस्य वा साधनस्य भेदात् द्विधा सद्योमुक्तिः । तत्र प्रथमायां किं प्राणा युगपलीयन्त उत क्रमेणेति संशय विलंबे हेत्वभावाद्युगपदेवेति प्राप्ने क्रमेणेति वक्तुं वामनसि लीयत इत्युक्तम् । ततो द्वितीयसूत्रे अन्येन्द्रियाणां मनसि लय उक्तः । ततस्तृतीयसूत्रे सर्वेन्द्रियविशिष्टमनसः प्राणे लय उक्तः । ततश्चतुर्थेसूत्रे सर्वेन्द्रियविशिष्टमनोविशिष्टस्य प्राणस हृदि प्रत्यक्षविपये भगवति लय उक्तः। एवं पुष्टिमार्गीयवागादिलयप्रकार उक्तः ॥१॥ ततो द्वितीये दिसूत्रे भूताधिकरणे ननु मर्यादामार्गीयाणामपि एवमेव वागादिलय उतान्यथेति संशये एवमेवेति पूर्वपक्षे तेषां ते भूतेषु लीयन्ते न तु भगवति । ततो द्वितीयसूत्रे ननु मर्यादामागीयो भक्तो ज्ञानी च भवतः, उक्तनिर्णयस्तु ज्ञानमार्गीयविषय एव । भक्तं तु तादृशमपि कदा- चित्पुष्टावपि प्रवेशयतीति आशय एकस्मिन् ज्ञानिनि भक्ते वा मर्यादानियमो न किन्तू- भयोरपि ॥२॥ ततस्तृतीये नवसूत्रेसमानाधिकरणे अतीताधिकरणद्वयेन पुष्टिमर्यादा- स्थयोः क्रमेण वागादिलयव्युत्पादनात्तहाार्थ तास्ताः शङ्का निराक्रियन्ते । तत्र प्रथमे सूने पुष्टिमर्यादयोन कदाचिदन्यथाभाव इत्यत्र हेतुः क इत्याशङ्का निराक्रियते । साधनक्रमेण मो- चनेच्छा हि मर्यादामार्गीया मर्यादा। विहितसाधनं विनैव मोचनेच्छा पुष्टिमार्गमर्यादा । तथा सति सदैकरूपत्वं तयोर्युक्तमिति । एवं च 'एप उ एवेति श्रुत्युक्तेच्छाविप'स्ते नाधीतश्रुति- गणा' इति वाक्यविषयस्तत्तन्मार्गस्वरूपमेव हेतुः, यथैकनगरप्रापकयोगियोस्तत्प्रापकले मार्गत्वे च समानेपि कस्यचित्केवलपान्थप्रापकत्वं कस्यचित्सपरिकरपान्थप्रापकत्वं तद्वदि- त्युक्तम् । ततो द्वितीयसूत्रे पुष्टिमार्गीयमुक्तिदशायां मर्यादामा:याया मुक्तेः संसार इत्येव' ९दा.

६६ चतुर्थाध्यायाधिकरणमाला। व्यपदेशो भजनानन्दानुभवाभावात् , 'नारायणपराः सर्वे न कुतश्चन विम्यति । स्वर्गापवर्गनर- केष्वपि तुल्यार्थदर्शिन' इति वाक्यात् । ततस्तृतीयसूत्रे एतादृशवाक्यानां पुष्टिमार्गस्तुति- परत्वमाशय तत्र 'यतो वेति श्रुतिरपि प्रमाणमित्युक्तम् । ततश्यतुर्थे तर्हि ब्रह्मविदामिव तादृशानां भक्तानामपि खमार्गोपदेशकत्वं क्वचित् श्रूयेत, न चैवमतः पूर्वोक्तं न साधीय इति भातीत्युत्सूत्रमाशमय तत्र हेतुरुच्यते । ज्ञानिनामिव भक्तानां स्वास्थ्याभावान्नोपदेशः सम्भवति । यतस्तेषां विरहिदशा प्रियसङ्गमदशा वेति दशाद्वयमेव । तत्र पूर्वस्यास्तस्यास्तु अतिदुःसहत्वेन सर्वेषां भावानामुपमर्दैन तिरोधानात् उपदेशो न सम्भवति । सङ्गमे तु पुरः- प्रकटपरमानन्दस्वरूपाद्भगवत एव अन्यस्मै उपदेशो न सम्भवति । न हि मगवदग्रे उपदेशः सम्भवतीत्युक्तम् । ततः पञ्चमे सूत्रे आनन्दप्राप्त्यनन्तरं विरहस्य दुःसहत्वेनाशक्यवचनत्वं, किश्च तदानन्दतिरोभाव एव सिद्ध इति नित्यनिरतिशयसुखाभिव्यक्तिरूपादक्षरैक्यरूपाद्वा मोक्षात्कथं तस्याधिक्यमित्याशयानन्दस्यैवायं धर्मो विरहतापरूपः इत्युक्तम् । ततः पष्ठे सूत्रे 'न पश्यो मृत्यु पश्यति न रोगं नोत दुःसता' मिति दुःखनिषेधकश्रुतिविरोधमाशश्य तत्र कर्मजन्यतापस्यैव निषेधो न तु कर्माजन्यविरहस्य । यदि चास्य दुःखत्वेन कर्मजन्यत्वम- नुमीयते, तदा मोक्षसुखस्यापि सुखत्वेन कर्मजन्यत्वशङ्कया मोक्षसुखस्यापि विप्लव इत्युक्तम् । ततः सप्तमे लौकिकत्वस्य उपाधित्वसमर्थनाय विरहस्य कर्माजन्यत्वं श्रुतिमूलकमित्युक्तम् । ततोऽष्टमे सूत्रे 'धारयन्त्यतिकृच्छ्रेणेति वाक्येनोपष्टब्धं च तदित्युक्तम् । ततो नवमे सूत्रे तादृशरसानुभवस्य फलत्वं कापि न श्रुतमिति साधनत्वमस्त्वित्याशक्य 'ता वां वास्तूनीति श्रुतावुश्मसीति काम्यत्वलिङ्गात्फलत्वमित्युक्तम् । तेन मर्यादामार्गीयतत्त्वात्पुष्टिमार्गीयं तत्त्वमुत्कृष्टमिति साधितम् ॥३॥ ततश्चतुर्थे एकसूत्रे अविभागाधिकरणे ताशली- लाया नित्यत्वेन तन्मध्यपातिनां तद्दर्शनं यथा नित्यं तथा ताइकूसाधनाभावेपि निजानुक- म्पया कदाचित्कमपि भक्तं तत्र नयति चेत् तदा कंचित्कालं स्थापयित्वा ततस्तं वियो- जयति न वेति संशये, तोपस्य कादाचित्कत्वात् तत्साध्या स्थितिरपि तथैवेति वियोजय- तीति पूर्वपक्षे, नैव वियोजयतीति सिद्धान्तः । एतेनापि लीलानित्यत्वं सिध्यति । एतद्यथा तथा रश्मिभाष्यप्रकाशाभ्यामवगन्तव्यम् ॥ ४॥ ततः पञ्चमे एकसूत्रे तदोकोधिकरणे पुष्टिमार्गीयव्यवस्थां द्विविधं सद्यो मुक्तिप्रकारं च दर्शयित्वा ज्ञानमार्गीयस्य क्रममुक्तौ निर्गम- नप्रकार उच्यते । हृदयानप्रद्योतनपर्यन्तं विद्वदविद्वतोस्तुल्यं । निर्गमनमार्गः प्रकारश्च विदुपो भिन्नः । तथा हि । जीवस्थानस्य हृदयस्य यदग्रं नाडीमुखं तस्य ज्वलनं प्रकाशनं क्रियते। चक्षुरादिभिरिन्द्रियैः खखकार्य विहाय पराडावर्तनेनैकीभूतैः, अन्यथा श्रुतिस्तेपां तेजो- मात्रात्वं न वदेत् । तदा जीवस्तत्प्रकाशितनिर्गमनमार्गः सन् देहान्निर्गच्छति चक्षुपो वा अन्येभ्यो वा शरीरप्रदेशेभ्यः । इदं च सकलजीवसाधारणम् । विदुषस्त्वेतावान्विशेषः । उपासनासामर्थ्यात् संन्यासाइभगवदनुस्मृतिनैरन्तर्याच हृदि स्थितेन परमात्मनानुगृहीतः श्रीगोपेश्वरविरचिता। - सन् एकशततम्या मूर्धन्यया नाड्या निष्कामतीति ॥ ५॥ ततः पठे एकसूत्रे रश्म्य- धिकरणे छान्दोग्ये 'या एता हृदयस्य नाड्य' इत्यारभ्य पठ्यते 'असौ चा आदित्यः पिङ्गल' इत्यादि । अग्रे च 'अथैतैरेव रश्मिभिरूद्धमाक्रमत' इति । अन ज्ञानिनो यथा विलक्षणा गतिरुक्ता, तथा रश्म्यनुसारित्वमपि लोकसाधारणं वा विदुप एवेति संशये, रश्म्यनुसारी विद्वानेव निःक्रामतीति निर्णयः॥६॥ ततःससमे त्रिसूत्रे निश्यधिकरणे विदुप उत्क्रमणे हार्दानुग्रहकृतविशेषवत्कालकृतविशेपोस्ति न वेति संशयेस्तीति पूर्वपक्षे, पूर्वोक्तभगवदनुस्मृतिसम्बन्धस्य देहस्थितिपर्यन्तं सत्त्वात्तत्कार्यस्यानुग्रहस्यापि तथात्वेन कालोऽप्रयोजको नापेक्षणीय इत्युक्तम् । ततो द्वितीयसूत्रे दक्षिणायनं कृष्णपक्षश्च न बाधकमित्युक्तम् । ततस्तृतीये सूत्रे ननु गीतायामुत्तरायणादिकं गत्यनुकूलत्वेनोच्यते इत्याशप ज्ञानमार्गावोगमार्गो भिन्नः । तथा च योगिनमुद्दिश्यैव कालविशेपस्स गति- विशेषहेतुत्वं स्मर्यतेऽतः कालप्रतीक्षावत्यौ गती स्मार्ने स्मार्तस्यैव, न तु ज्ञानमार्गीयस्य औतस्य, इतरनिरपेक्षत्वात् । तेन विद्यावतः क्रमेण मुक्ति प्रामुक्तोपि न साधनान्तरापेक्षे- त्युक्तम् । तेनास्मिन्पादे पुष्टिमार्गीयस्य ततो मर्यादामार्गीयस्य सद्योमुक्तिप्रकारः क्रममुक्ती निर्गमनप्रकारादिकं च दर्शितम् ।। ७॥ इति श्रीविदन्मण्डनगोकुलोत्सवात्मजगोपेश्वरविरचिताया- मधिकरणमालायां चतुर्थाध्यायस्य द्वितीयः पादः ॥ अस्मिन्पादे तु तेन द्वारेण निर्गतस्य ब्रह्मप्राप्तिमार्गः तल्लोकः तत्प्राप्तिप्रकारश्चोच्यते । तत्र प्रथमे चतुःसूत्रे अर्चिरायधिकरणे प्रथमसूत्रे ज्ञानमार्गीयस्येव मर्यादामार्गीय- भक्तसाप्यचिरादिमार्गेणैव गमनमुत सद्योमुक्तिरेव भवतीति संशयः । तत्र यथा ज्ञानिनो नियमामावस्तथाऽनापीति पूर्वपक्षे ज्ञानी एव तेन मार्गेण गच्छति, भक्तस्तु प्रायशः सब एव मुच्यत इति सिद्धान्तः । ततश्च क्रममुक्तिबोधकतत्तदुपासनावाक्ये 'स एतं देवयानं पन्थानमापयामिलोकमागच्छति स वायुलोक मित्येवं भिन्नभिन्नपर्वकथनानानामार्गतास्त्वि- त्याशङ्कार्चिरादिनेत्येकवचनेन नानापर्वविशिष्ट एको मार्ग इति ज्ञापनात् एक एव मार्ग इति पोधनानिरस्तेति च । ततो द्वितीयसूत्रे वायोरप्रवेशेन मार्गभेदमाशय संवत्सरलोकान- न्तरं वायुलोको निवेशनीय इति न मार्गभेद इत्युक्तम् । ततस्तृतीयसूचे पूर्ववदाशकायां तडिल्लोकोपरि वरुणलोको निवेशनीय इत्युक्तम् । ततश्चतुथपि पूर्ववदेवाशङ्कय वरुणलोको- परि इन्द्रप्रजापतिलोको निवेशनीय इत्युक्तम् ॥१॥ ततो द्वितीये त्रिसूत्रे आतिवा- हिकाधिकरणे प्रथमसूत्र विद्युदनन्तरं 'तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयती'त्यत्र भवति संशयः । उक्तश्रुतेर्गमयित्रैव ब्रह्मप्राप्तिरिति निश्चीयते । एवं सति यस्य वरुणादिलो- कगमनं तस्य वचनाभावेन गमयितृप्रात्यभावात् ब्रमप्राप्तिर्मवति नवेति । वचनाभावेन चतुर्याध्यायाधिकरणमाला । पापकाभावात् ता न भवतीति पूर्वपक्षे तत्राप्यातिवाहको भगवदीय एवं ब्रह्म प्रापयति । प्रजापतिलोकोत्तरं ब्रह्मलोकस्य सत्त्वात्तत्प्राप्तिरपि मार्गक्यात् प्रापकममानवं पुरुपमपेक्षतेऽतो यन स नोक्तस्तत्रापि सोवगन्तव्य इति । ततो द्वितीये सूत्रे अचिरादिमार्गगतानामपुनरावृ- त्तिश्रवणात् देवयाने पथि ब्रह्मविदामेवाधिकाराच तादृशब्रह्मज्ञानेन सद्योमुक्तिसम्भवे क्षयि- प्णूनां लोकानां परप्राप्तिविलम्यजनकानांवाञ्छायां 'यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतथ्य यदि- त्युपक्रम्य 'सर्व मद्भक्तियोगेन मद्भक्तो लभतेजसा । स्वर्गापवर्ग मद्धाम कयचिद्यदिवानछतीति वाक्योक्तभक्तिसुखं हित्वान्यवाञ्छायां को हेतुरित्याकाहायां खसृष्टदेवयानमार्गानर्थक्य- परिजिहीर्पया कांधिज्ज्ञानिनो भक्तांश्च व्यामोहयतीति व्यामोह एव हेतुरित्युक्तम् । तत- स्तृतीये तडिल्लोकावरुणलोकादिप्राप्त्यनन्तरं यस्य प्रमप्राप्तिस्तस्य तलोकसम्बन्धी ब्रह्मप्रापकः पुरुपोस्ति न येत्याशङ्कायां विद्युल्लोकस्य ब्रह्मपुरुषेणैव वरुणादिलोकगतस्यापि ब्रह्मप्राप्तिः न तु तल्लोकस्यात् , नापि पुरुपं विना 'तान् वैद्युतात्पुरुपो मानस एत्य ब्रह्मलोकान् गम- यती'ति श्रुतेरित्युक्तम् । वृत्तौ वितरलोकन्यायेन विद्युल्लोकस्यातिकान्तत्वादरुणलोकादि- स्थस्यैव ग्राह्यत्वेनास्तीति पूर्वपक्षोप्युक्तस्तेनाधिकरणान्तरत्वं सूचितम् । भाष्ये तु पूर्य- पक्षो न दृश्यते । इयं च वाजसनेयके ब्रह्मलोकान् गमयतीति पठ्यते । छान्दोग्ये तु ग्रीति पाठभेदेन पठ्यते । तत्राय भावः । भक्तं तु चैकुण्ठलोकं नयति, ते वैकुण्ठा बहु- विधा इति ब्रह्मलोकानित्युक्तम् । ज्ञानमायिं त्वक्षरब्रह्म प्रापयतीति ब्रह्मत्युक्तम् । तेन क्रममुक्त्यै मार्गो विचारितः ॥२॥ ततस्तृतीयेप्टसूत्रे कार्याधिकरणे क्रममुक्तौ फलं चिन्यते । तत्र प्रथमे सूत्रे ‘स एतान् ब्रह्म गमयती'त्यत्र ब्रह्मपदेनाविकृत परब्रह्मोच्यत उत कार्यरूपो ब्रह्मलोक इति संशये ब्रह्मपदेन परब्रह्मात्र नोच्यते, तस्य च्यापकत्वेन देशविशेप- गमयित्रोरनपेक्षितत्वात्कार्यब्रह्मलोकोत्र वक्तव्य इति वादरिराचार्यों मन्यते इत्युक्तम् । ततो द्वितीयसूत्रे 'ब्रह्मलोकान्गमयति तेषु तेषु लोकेपु पराः परावतो वसन्ती'ति श्रुतौ बहु- त्वेन वासाधिकरणत्वेन च विशेपितत्वादपि कार्यरूप इत्युक्तम् । ततस्तृतीयसूत्रे उपा- सनाप्राप्यस्य कार्यत्वे ब्रह्मपदव्याकोपमाशय ब्रह्मसामीप्याब्रह्मत्वव्यपदेशः । तलोकस्थि- तानां ब्रह्मप्राप्तावन्यलोकाव्यवधानात्सामीप्यं, तेन लक्षणया ब्रह्मपदप्रयोग इत्युक्तम् । तत- चतुर्थसूत्रे तस्य कार्यत्वे 'आब्रह्मभवनालोकाः पुनरावर्तिनोऽर्जुने ति वाक्यातत्तः पुनरा- वर्तन्ते । अन तु 'न तेपामिह पुनरावृत्तिरस्ती'त्युच्यत इति कथं तस्य कार्यत्वमित्याशय कल्पसमाप्तौ कार्यस्य ब्रह्मलोकस्य नाशे चतुर्मुखेन ब्रह्मणा सह ततोऽपि परं ब्रह्म प्रानु- वन्ति । 'वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्व' इति श्रुतेरित्युक्तम् । ततः पञ्चमे 'ब्रह्मणा सह ते सर्वे सम्प्राप्त प्रतिसञ्चरे । परस्यान्ते कृतारमानः प्रविशन्ति परं पदमिति स्मृतिरपि प्रमा- णत्वेनोक्ता । एवं पञ्चसूत्र्या पूर्वपक्षः । ततः पठे सूत्रे गोण्या मुख्यवृत्त्यपेक्षया निर्यलत्वेन श्रीगोपेश्वरविरचिता। मुख्यया वृत्त्या परमेव ब्रह्मानोच्यत इति जैमिनिसिद्धान्त उक्तः । ततः सप्तमे सूत्र कौशीतकिश्रुती अश्यादिलोकवत्प्रजापतिलोकप्राप्तिमुक्त्याने स ब्रह्मलोकमिति ब्रह्मलोकस्स चतुर्मुखलोकातिरेकेण दर्शनान ब्रह्मलोकः प्रजापतिलोक इत्युक्तम् । तेन 'वेदान्तविज्ञाने'ति श्रुतेः 'ब्रह्मणा सह ते सर्व' इति स्मृतेश्च प्रलयविषयत्वेनात्र तद्विपयाभावान्न ताभ्यां 'नस पुनरावर्तत' इति श्रुतिविरोध इति सिद्धम् । ततोऽष्टमे 'ब्रह्मविदाप्नोति पर मित्यस्य विवरण परेणैव ब्रह्मणा सह कामभोगलक्षणा प्राप्तिः फलवेन सिद्धा, अतः परप्राप्तावेव श्रुतितात्पर्य- मित्यस्सा अपि श्रुतेने कार्यलोके तात्पर्यम् , किन्तु नित्यलोक इति युक्तिरुक्ता । पादरिमतं पूर्वपक्षवेनोक्त्वा सिद्धान्तत्वेन जैमिनिमतकथनांदयमेव पक्षो वेदव्याससम्मतः तेनादावत्रिप ततोऽहस्ततः सितं पक्षं तत उदगयनं ततः संवत्सरं ततो वायु ततो देवलोकं तत आदित्यं ततश्चन्द्रमसं ततो विद्युतं ततो वरुणं तत इन्द्रं ततः प्रजापति ततश्चामानवेन पुरुपेण ब्रह्मप्राप्तिरिति निर्णयः सम्पद्यते ॥३॥ ततश्चतुर्थ एकसूत्रे अप्रतीकाधिकरणे अर्चि- रादिलोकप्राप्तिर्हि उपासनाफलम् । एवं सत्यमानवः पुरुषस्तान् सर्वान् ब्रह्म प्रापयत्युत का- श्चिदेवेति संशये अविशेपेण सर्वानेवेति पूर्वपक्षे, ये हि उपास्येषु भगवद्विभूतित्वं ज्ञात्वोपासते तान्नयति, न तु श्रुतिब्रह्मत्वेनोपासनायाः फलसाधनस्वमाह, न तूपास्येषु ब्रह्मत्वमित्येवं ज्ञात्योपासते तान वाऽसत्त्वमनुसन्धायाप्युपासनायाः फलत्वाय ब्रह्मत्वेन भावकान्नयतीति था- दरायण आचार्यों मन्यते । भक्तस्य तु अमानवपुमपेक्षाभावात् स्वयमेव ब्रह्मलोकान् प्राप्नोति इत्युक्तम् । तेनात्रोपास्यानां लिङ्गवलेन ब्रह्मत्वं, तथा तदुपासने परम्परया साक्षाद्वा ब्रह्मा- प्तिरिति सिद्धम् ॥४॥ततः पञ्चमे एकसूत्रे विशेषाधिकरणे ज्ञानमागीयाणां भक्ति- मार्गीयाणां चाविशेषेणैव परप्राप्तिरुत कश्चिद्विशेषोस्तीति संशये, विशेपो नास्ति, उभयोरपि परश्योपासकत्वादिति पूर्वपक्षे, 'बयविदामोति परं सत्यं ज्ञानमनन्तं ब्रह्म यो बेद निहितं गुहायां परमे व्योमन् सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' इति श्रुतिविशेष दर्श- यति । तथा हि ब्रह्मविदक्षरब्रह्मविदाप्नोति सान्निध्यादक्षरमेवाप्नोति एतावानर्थों यो वेदे- त्यन्तर्चयोक्तः । अथ परमाप्नोतीत्यस्यार्थ उच्यते निहितमित्यादिना । अत एव मध्ये क्रियापदमुभयसम्बन्धित्वज्ञापकमुक्तम् । तत्प्राप्तिश्च मर्यादापुष्टिभेदेन द्वेधा । तत्रादौ मर्यादायामुच्यते । इहायमाशयो ज्ञेयः । 'नायमात्मा प्रवचनेनेति श्रुत्या भगवद्वरणातिरि- तसाधननिरासः क्रियते पुरुषोत्तमप्राप्तौ । एवं सत्यक्षरब्रह्मज्ञानस्य तत्साधनत्व उच्यमाने तद्विरोधः स्यात्, तेनैवमों निरूप्यते । ज्ञानमार्गीयाणामक्षरज्ञानेनाक्षरप्राप्तिस्तेषां तदेकप- यवसायित्वात् । भक्तानामेव पुरुषोत्तमपर्यवसायित्वात् । तथा च ब्रह्मविदं चेद्भगवान् वृणुते तदा मक्तिरुदेति । तत्प्रचुरभावे सति स्वयं तवृदि प्रकटीमविष्णुः स्वस्थानभूतं व्यापिवैकुण्ठं तद्गुहायां हृदयाकाशे प्रकटीकरोति तत्परमव्योमशब्देनोच्यते । तया च गुहायां परमे व्योग्नि निहितं यो वेद स परमाप्नोतीत्यर्थः सम्पद्यते । अथ शुद्धपुष्टिमार्गे- ऽङ्गीकृतस्य व्यवस्थामाह-सोभुत इत्यादिना । अत्रायममिसन्धिः । यथा स्वयम्प्रकटी- चतुर्थाध्यायाधिकरणमारा। तथाप्यासुरमोहाध परेपां च कचित् क्वचित् । दुःसाज्ञानश्रमादींश्च दर्शयेच्छुद्धसद्गुणः । क व्रणादि क चाज्ञान स्वतत्राचिन्त्यसद्गुणे । दौर्लन्याचैव मोक्षस्य दर्शयेत्तानजो हरिः । कृष्णो ह्यत्यक्तदेहोपि त्यक्तदेहस्स देहवत् । लोकानां दर्शयामास खरूपसदृशाकृतिम्' इति ब्रह्माण्डपुराणे ब्रह्मवाक्येभ्य इत्युक्तम् । ततो द्वितीयसूने एवमन्येपामपि धर्माणां दर्श- नमस्त्वित्याशन 'लोकवत्तु लीलाकैवल्य'मिति न्यायेन ते सन्त एव प्रतीयन्ते, ये रिंगणादि- लीलासु परिच्छिन्नत्वादय. तेपा कैवल्य एव प्रशश्चेत्युक्तम् ॥३॥ ततश्चतुर्थे ठिसूत्रे प्रदीपाधिकरणे प्रथमसूने ननु पूर्णज्ञानक्रियाशक्तिमता ब्रह्मणा सह अतादृशस्य भक्तस्य भोगकरण सम्भवति नोति सशये 'न तत्सम' इति श्रुत्या ब्रह्ममाम्यम्य काप्यभावान सम्भ- वतीति पूर्वपक्षे भगनास्तस्मिन्नाविशति यदा तदाऽयमपि तथैव गवतीति नमावेशेन तौल्यसम्पादनात्सर्वमुपपद्यते । यथा प्राचीन. प्रकृष्टो दीपः स्नेहयुक्तायां वामर्वाचीनाया- माविष्ट स्वसमानकार्यक्षमा ता करोति, नेहाधीनस्थितिश्च भवति स्वय तथानापीत्यर्थः । तथा च श्रुति 'भर्ता सन् म्रियमाणो निभर्ति एको देवो वहुधा निनिष्ट'इति । न चाना- न्तर्यामिरूपेण प्रवेश शदनीयः । तस्यैकविधत्वेन बहुधेतिपदव्याकोपात् । अतः 'सोश्नुत' इति श्रुत्युक्तफलभोगो यया भवति तदनुरूपो य प्रवेशः सोन बहुधेति पदेन अभिप्रेयते । अत एव देवपदम् । स्वरूपानन्ददानाद्भामोद्दीपनात् पूतनादिमुक्तिदानेन खमाहात्म्यद्योतनाद्वैकुण्ठादिस्थितेश्च । तदुक्त निरुक्ते 'दिवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा यो देव' इति । किञ्च, भक्ताना कामभोजनार्थ नीडाकरणात्कीडा- यामेव जयेच्छाकरणाद्भक्तै सह व्यवहारकरणाद्भक्तेषु स्वमाहात्म्येच्छादिद्योतना'न्न पारयेह त्वादशी प्रणयिनी'मित्यादिभि स्तुतिकरणाद्भक्तप्रतिपत्तिदर्शनेन कालीयदमनादी मोद- करणात् तेष्वेव भक्तिमदकरणात् ते स्वप्नेपि प्रियमेव पश्यन्तीति स्वप्नकरणात्तेपा कान्तिक- रणादिच्छाकरणाद्वा तन्निकटे गमनादपि देव । तदुक्त धातुपाठे 'दिवु कीडाविजिगीपा- व्यवहारद्युतिस्तुतिमोदमदस्खमकान्तिगतिपु' इति । ततो द्वितीयसूचे तादृशमोगाह्रीकारे 'न तदश्नोति कञ्चन न तदश्नोति कश्चन' इति श्रुतौ भोगाभावकथनात्तद्विरोधमाशय सुषुप्तौ ब्रह्मप्राप्तौ च ब्रह्माविर्भावात् सुषुप्तिरस्या विषय , न तु ब्रह्मप्राप्तिरिति विपयभेदान्न श्रुयोर्विरोध इत्युक्तम् ॥४॥ तत पञ्चमे पट्सूत्रे जगह्यापाराधिकरणे प्रथमसूने ब्रह्मणा सह भोगकरण लौकिकव्यापारयुतमुत नेति सशये भोगस्य सर्वन लौकिकव्यापारयु- तत्वादिदमपि तद्युतमिति पूर्वपक्षे 'ब्रह्मविदाप्नोति परम्' इति मुक्ते प्रकरणात् 'न यन कालोनिमिपा पर प्रभु कुतो नु देवा जगता य ईशिरे न यत्र सत्त्व न रजस्तमश्च न वै विकारो न महान्प्रधानमिति वाक्याजगतोसन्निहितत्वाच्च लोकसम्बन्धिव्यापाररहितमित्यु- क्तम् । ततो द्वितीयसूले 'सर्वरहि पश्य पश्यतीति मुक्तिप्रकरणे सर्वविषयकदर्शनमुच्यते इति मुक्तस्य जगण्यापारराहित्य नोपपद्यते इत्याशयान सर्वपद लीलासम्वन्धि यत्सर्वं तत्पर, .. श्रीगोपेश्वरविरचिता। सर्वे ब्राह्मणा भोजयितच्या इतिवदिति जगण्यापारराहिलं सूपपन्नम् । तेन मुक्तिप्रकरणान- वेशालीलानामपि नित्यलं चितम् । ततस्तृतीयसूत्रे लीलाविशेषणीभूतानां तत्तद्देशतत्व- कालतत्तद्भक्तदेहानां नित्यत्वेन 'वस्त्वदहमायास्य' इति प्रभुणोक्त तदाशया तस्य भक्तस्य स्थितिनोपपद्यते । लीलानां नित्यत्वेन द्वितीयदिनरूपस्य कालस्य तदागमनस्य पूर्वदिवस उक्तिसमयेपि सत्त्वात् । तथा श्व इति प्रभूतिरपि तत एव नोपपद्यत इत्याशब्द 'सर्वमा- मोति सर्वश' इति श्रुतिरेकस्यैव भक्तस्य सर्वेः प्रकारैः सर्वलीलारसाप्तिं वदति । तथा चैत- छुतिप्रामाण्याद्यत्स्वरूपं प्रति 'श्वस्त्वमायास्य' इति वदति तस्य खगेहे प्रथमदिने भगव- स्थितिज्ञानं न भवति । यथा नित्यव्यापकशब्दवादिजैमिनीयमते व्यञ्जकस यायोर्धने- भावेन न वर्णात्मकशब्दस सर्वत्र सदा ज्ञानं, तथा लीलादिव्यजकमगवदिच्छाभावेन न भगवस्थित्यादिज्ञानं भवतीत्युक्तम् । ततश्चतुर्थे सूत्रे एतद्रूपे युक्तिगम्यत्वाभाव इत्या- शश्य 'नेपा तर्केण मतिरपनेया, परास्य शक्तिर्विविधैव श्रूयते खाभाविकी ज्ञानवलक्रिया चे'त्यादिश्रुतिः 'अलौकिकास्तु ये भावा न तांस्तर्केण योजयेत्' 'न हि विरोध उभयं भगव- तीति स्मृतिश्च तमेवार्थमाहेतीयापत्तिरित्युक्तम् । तेन लीलाविशिष्टमेव ब्रह्म परमफलं 'रसो वै सः रस५ वायं लब्ध्वानंन्दी भवतीति श्रुतेश्चेति साधितम् । ततः पञ्चमे सूत्रे लीलावि- शिष्टस्यैव परमफलले हेत्वन्तरमुच्यते । सोऽश्रुत इति श्रुतौ भक्तस्य सर्वकामभोगे ब्रह्मणः सहभावःश्राव्यते । स च भोगमात्रे, भोग एव यत्साम्यं भक्तानुरूपत्वेन तत्तौल्यं तस्य ज्ञाप- कम् । अतोपि फलं लीलाविशिष्टं ब्रह्मैवेति सिद्धम् । मात्रपदेन 'न तत्समचाम्यधिकश्च दृश्यत' इति श्रुतिविरोधोपास्तः । ततः पठे सूने कर्मफलभोगानन्तरमावृतिवदवाप्यावृत्तिर्भविष्यती- त्याशक्ष्य 'न तेषां पुनरावृत्तिरस्ती'ति श्रुते निनां न सा, 'यमेवैप वृणुत' इति श्रुतेर्वरणलभ्यः पुरुषोत्तमः फलं, स चाक्षरात्परतः पर इति श्रुतेरक्षरात्परस्ताप्तियविदित्यनेन बोध्यते । अत इदं वाक्यं परप्राप्तिप्रकाशनसामर्थेन भक्तानामनावृत्ति वोधयतीत्युक्तम् । अन्न मायावादिनो मोक्षे भोगं नाझीकुर्वन्ति, ते त्वेवं निरसनीयाः । 'ससम्बोधं मोक्षं श्रुतिसिद्धं निश्चित्याचार्येणायं विभागो दर्शितस्तमिमं नास्तिक्यमवलम्ब्य भ्रान्त्या चा सूमार्थान्यथाकरणेन मान्यथन्तु । श्रुतीनां नार्थवादत्वम् , सर्वत्रार्थवादत्वप्रसङ्गात् । निःसम्बोधे तु मोक्षे न प्रेक्षापूर्वकारी प्रवर्तते । संसारावस्थायां तावदेवलोकादिपु पर्या- येण सुखतारतम्यं लभन्ते, मुक्तः पुनः सुपुप्तवन्न किञ्चित् । स्वरूपचैतन्यं तु विद्यमा- नमप्यसत्सममेव । न हि तचैतन्यान्तरेण संवेद्यते । तस्यैवाभावात् । न च वचैतन्यतः संविदस्तु । चैतन्यव्यतिरिक्तसंविदनम्युपगमात् । अभ्युपगमे च भेदप्रसङ्गेन मायावाद- हानिरेव स्यात् । ससम्बोधे तु मोक्षे सर्वमाविर्भूतं सल्लक्षणं बोधस्य रूपम् । मनः सर्वज्ञं सर्व- शक्तिभिन्नाभिन्नरूपं च । तेन तदवगति तोन्ययेति । 'अत्रैतत्सिद्धम् । ज्ञानमार्गीवाणां तद्रीत्याऽदृश्यत्वादिगुणकाक्षरोपासने तत्कन्यायेन तादृशेक्षरे ब्रह्मैव सन् ब्रह्माप्येतीति श्रुत्यु- १० वेदा० .

चतुर्थाध्यायाधिकरणमाला। भूय लोके लीलां करोति, तथात्यनुग्रहवशात् वान्तास्थितमपि भक्तं प्रकटीकृत्य तस्नेहा- तिशयेन तद्वशः सन् स्खलीलारसानुभवं कारयतीति स भक्तो प्रक्षणा परब्रह्मणा पुरुषो- त्तमेन सह सर्वान्कामानश्नुत इति । चकारा देवं सततयुक्ता ये' इति प्रश्ने 'मय्यावश्य मनो ये मां' 'ये त्वक्षरमनिर्देश्यमि'सादिस्मृतिसाहः । एवं सति ज्ञानमार्गीयाणामक्ष- रप्राप्तिरेव, भक्तानामेव पुरुषोत्तमप्राप्तिरिति सिद्धम् ॥ ५॥ इति श्रीविद्धन्मण्डनगोकुलोत्सवात्मजगोपेश्वरविरचिताया- मधिकरणमालायां चतुर्थाध्यायस्य तृतीयः पादः ॥ द्वितीयपादे सद्योमुक्तिक्रममुक्त्योः प्रकार दर्शयित्वा तृतीये प्राप्यस्वरूपं प्राप्तिप्रका- रथ क्रममुक्तौ दर्शितः। समाप्तौ च ज्ञानमार्गीयभक्तिमार्गीययोः सद्योमुक्तावपि तत्क्रतुन्या- यादक्षरप्राप्तिपुरुषोत्तमप्राप्तिरूपो विशेपः फले दर्शितः । इदानीं तादृशफलानुभवे प्रकार- श्चिन्त्यते । तत्र प्रथमे चतुःसूत्रे सम्पद्याविर्भावाधिकरणे 'ब्रह्मविदाप्नोति पर'- मित्युपक्रम्य 'सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'त्यत्रेदं सन्दिह्यते । किमन्तः- स्थित एवाक्षुत उत पुनर्जन्म प्राप्येति । 'न स पुनरावर्तत' इति श्रुतेरन्तःस्थित एवेति पूर्व- पक्षे प्रभोरत्यनुग्रहवशात् स्वरूपात्मकभजनानन्ददित्सायां तत्कृत आविर्भावो मुक्तानामपि भवत्येव । भूमविद्यायां आत्मत आविर्भावतिरोभावावितिश्रावणात् । न चापुनरावृत्तिश्रु- तिविरोधः । तत्रेहेतिपदेन प्रपञ्च एव तन्निषेधात् । लीलायाश्च प्रपञ्चातीतत्वात् । तेनास्यां श्रुतौ ब्रह्मणा सह भोगो जीवस्य शरीरमन्तरानुपपद्यमानस्तदाक्षिपतीत्युक्तम् । ततो द्वितीयसूत्रे आविर्भूतस्य सृष्ट्यादाविव वन्धसम्भवमाशङ्कय 'ब्रह्मविदाप्नोति पर'मित्यत्र मुक्तिप्रतिज्ञानादाविर्भूतौ मुक्त एवेत्युक्तम् । ततस्तृतीयसूत्रे ब्रह्मणा सहेत्सत्र ब्रह्मपदं सगु- णपरमेव युक्तं, भोगस्य गुणसाध्यत्वादित्याशङ्कय 'ब्रह्मविदाप्नोति पर'मित्युपक्रम्य तत्पाठा- द्गुणातीतस्यैव प्रकरणमिति ब्रह्मपदं गुणातीततत्परमेव । ततश्चतुर्थसूत्रे ब्रह्मविदिति मिन्नं वाक्यं सत्यं ज्ञानमनन्तमिति भिन्नं वाक्यमतः कथं साकाइत्वमित्याशङ्कयैतयोमध्ये तदे- पाभ्युक्तेति श्रुतिदर्शनादस्ति साकाइत्वमित्युभयोरैकार्थ्यमविवादमित्युक्तम् । तेन ब्रह्मसा- युज्यं प्राप्तोप्यतिकृपया बहिराविभूतो ब्रह्मणा सह सर्वान्कामानश्चत इति पूर्वसूत्रद्वये सि- द्धम् । अग्रिमसूत्रद्वये च तद्ब्रह्म न सगुणं किन्तु परमेवेति सिद्धम् ॥१॥ ततो द्वितीयेष्ट- सत्रे ब्राह्माधिकरणे प्रथमसूत्रे आविर्भूतो जीवः प्राकृतेन शरीरेण भजनानन्दं मुझे उताप्राकृतेनेति संशये, भोगस्य लौकिकत्वात्तदायतनमपि प्राकृतमेव युक्तमतः प्राकृतेनेति पूर्वपक्षे, अप्राकृतेनैव सत्वज्ञानानन्दात्मकेन शरीरेण पूर्वोक्ताननुते इति जैमिनिराचार्यो मन्यते । अक्षरब्रह्मणः पुरुषोत्तमायतनरूपत्वात् तदात्मकमेव शरीरं तस्य वक्तुमुचितं, न तु प्राकृतम् । ततो द्वितीयसूत्रे चिन्मात्रेण रूपेण कामान् भुते, न तु विग्रहेणेति औडुलो- १ विषयवास्यं पूर्वोक्तमेव । २ भाष्योपन्यस्तश्रुत्या तथेत्यर्थः नस्विदं विषयवाक्यम् । , श्रीगोपेश्वरविरचिता। मिराचार्यों मनुते । ततस्तृतीयसूत्रे 'कृत्वः प्रज्ञानधनः' 'ब्रह्मविदाप्नोति परम्' इति श्रुत्यो- रविशेषेण प्रामाण्याद्वायत्वचिन्मात्रत्वाभ्यां युक्तेन शरीरेणेति चादरायणाचार्यों मन्यते इति सिद्धान्त उक्तः । ततश्चतुर्थे तादृशविग्रहप्राप्तौ ब्रह्मसङ्कल्परूपो हेतुरुक्तः । तथा च यस्य तादृशसहल्पविपयत्वं तस्य तादृशविग्रहप्राप्तिर्न सर्वस्स, 'यमेवैप वृणुते तेन लभ्य' इति श्रुतेरित्युक्तम् । ततः पञ्चमे सूत्रे पुष्टिमार्गीयस्यैव तादृशविग्रहदाने अनन्याधिपतित्वरूपो हेतुरुक्तः । ततः पठे सूत्रे 'यत्र त्वस्य सर्वमात्मैवाभूतत्केन कं पश्येदिति श्रुतिब्रह्मविदो द्वितीयज्ञाननिषेधमाहेति कामभोगासम्भवात्तदाक्षेप्यो देहोपि न सम्भवतीति वादरिराचार्यो मनुत इत्युक्तम् । ततः सप्तमसूत्रे 'ब्रह्मविदाप्नोति परम्' इति श्रुत्या ब्रह्मज्ञानं परप्रातिसा- धनमित्युच्यते, नायमात्मेति श्रुत्या तु वरणं तत्प्राप्तिसाधनमित्युच्यते । तथे हैव समवनीयन्ते नौव सन्ब्रह्माप्येती'ति श्रुत्सालयः फलमुच्यते, सोश्चत इत्यत्र कामभोगः फलमुच्यते । एवं सति श्रुतिविरोधपरिहाराय ज्ञानमार्गीयस्य ब्रह्मज्ञानेनाक्षरप्राप्तिः सा लयरूपा । पुष्टिमा- र्गीयस्स तु भक्तस्य 'सोश्नुत' इत्यादिनोक्ता पुरुषोत्तमप्राप्तिरूपा । सा च वरणेन तत्सहितया भक्त्या वेति श्रुतिव्यवस्थया पुष्टिमार्गीयस्य भक्तस्य भोगसाधनभूतविग्रहो निष्प्रत्यूहः । 'तत्केन कं पश्येदिति श्रुतिस्तु मर्यादामार्गीयस्य ब्रह्मज्ञानसामयिकीमवस्थामाहेति जैमिनिः शरीरसद्भावं मनुते । ततोप्टमे सूत्रे तच्छरीरं कीदृशमित्यपेक्षायां आत्मतः प्राण आत्मत आशे'- यादिना प्राणाशास्मराकाशतेजोवाविर्भावतिरोभावान्नवलविज्ञानध्यानचित्तसङ्कल्पमनोवाना- ममत्रकमैतत्सर्वान्तानामुक्तत्वाद्भमजन्यं केवलानन्दप्रधानमिति बादरायणाचार्यों मन्यते । तथा च मुक्तस्य यच्छरीरं तदेवमात्मजन्यत्वेन भूताजन्यत्वादशरीरं, विषयश्रुतौ तदायत- नत्वाच शरीरमित्युभयविधमिति न पूर्वोक्तश्रुतिविरोधः । नन्वेकस्स मुक्तजीवदेहस्स विरु- द्धोभयधर्मवत्त्वं कथमिति चेन्न । द्वादशाहस्य 'यः कामयेत प्रजायेयेति स द्वादशरानेण यजेते'ति यजतिचोदनया द्विरात्रादिवदहीनत्वं, 'द्वादशाहमृद्धिकामा उपेयु'रित्युपैतिचोद- नया च सत्रत्वं तद्वदविरोधादित्युक्तम् । तेनास्मिन्नधिकरणे सम्पद्याविभीषसूत्रोक्तो मुक्त- स्थाविर्भावो विचारितः ॥२॥ ततस्तृतीये दिसूत्रे तत्त्वभावाधिकरणे आत्माप्रकरणा- दिति सूत्रद्वयोक्तब्रह्मस्वरूपं विचार्यते । तत्र प्रथमसूत्रे भगवच्छरीरे अप्राकृतत्वं निर्णीयते । खमे यथा वासनावशादविद्यमानानामप्यर्थानां दर्शनं भवति तथा भगवदिच्छावशात्तत्रापि प्राकृतानां प्रणश्रमादीनां दर्शन मिति ज्ञेयम् । भगवान् : आसुराणां प्राकृतगुणे तमसेव दु:- खात्मके लयं चिकीर्षुः स्वस्मिन् प्राकृतत्वबुद्धिसम्पादनाय तादृशीमिव लीलां प्रदर्शयत्यतो न प्राकृतत्वशकागन्धोप्यत्र । भगवति विपरीतलीलादर्शनं तु आसुरव्यामोहाय । 'निर्दोपचे. स्कथं विष्णुर्मनुष्येषु प्रजायते । चिन्ताश्रमत्रणाज्ञानदुःखयुग्दश्यते कथम् । एवं मे संशयो ब्रह्मन् हृदि शल्य इवार्पित' इति नारदमश्ने 'स्त्रीपुंमलानुपङ्गात्मा देहो नास्य विजायते । किन्तु निर्दोपचैतन्यसुखनित्यां खकां तनुम् । प्रकाशयति सैवेयं जनिर्विष्णोर्न चापरा ।

चतुर्थाध्यायाधिकरणमाला। क्तो लयः। अक्षरस्य तद्वाम परमं मम' इति वाक्योस्तमगवद्धामत्वज्ञानपूर्वक नित्यमगणतो- कत्वेन भगवदमिन्नत्वेन दहरायुक्तरीयोपासने ययाधिकारं सालोक्यादिचतुष्टयप्रामिः। दित्यायुपासनानामहोपासनात्वादचिरादिनमण गत्याउमानवेन पुरुषेण भगवालोकप्राप्ति श्वर्यादिमोगश्च । उपासनायां मर्यादामक्तिसाहित्ये वैकुण्ठादिलोकेषु भगवत्सेवकत्वमधिकम् । तदा भगवदनुभवः । तत्रापि भक्तेरुत्कटले तु भगवचरणे कौस्तुमादी या प्रवेशेन मग- वत्सायुज्यम् । अनुग्रहविशेषेण पुष्टिमक्ती तु 'भक्त्या मामभिजानाति' इत्युक्तरीत्या खस्मिन्प्रवेश्य भूमविद्योत्तरीत्या पुनः पृथगाविर्भाव्य मजनानन्दानुभावने 'सोश्रुत' इति श्रुत्युक्तरीतिक भोगं कारयतीति' । आचार्यकृपयैवायमध्यायार्थः प्रकाशितः । अतो विशेपजिज्ञासा प्रकाशेन अपूर्यताम् ॥१॥ फलमालामलब्ध्वास्य रचितां पुरुषोत्तमैः । कृता गोपे धरेणेयं नातो व्यर्थः परिश्रमः ॥२॥ इति श्रीविदन्मण्टनगोकुलोत्सवात्मजगोपेश्वरविरचिता- यामधिकरणमालायां चतुर्थाध्यायस्य चतुर्धः पादः ॥

Vedantadhikaranmala

Author
Maharaj,pursottam
Title
Vedantadhikaranmala
File name
Vedantadhikaranmala
Text
OCR done
Citation
1919
Published
2012/08
Publisher
Mulchand Tulasidas Teliwala
Language
Sanskrit
Pages
83
Library
Bharatiya Vidya Bhavan Library, Mumbai
Classification
Devotional
DLI number
405044
Barcode
99999990292155.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
d670K84JUfY
Download PDF

Vedantadhikaranmala