University Of Allahabad

The Shath Trimshat Tattva Sandoha

Rajanaka Ananda · 2006/06/15

PDF Proofread

Front matter

3HL Tivis
KASHMIR SERIES OF TEXTS
AND STUDIES.
No. XIII.
THE
SHATH TRIMSHAT TATTVA SANDOHA
WITH COMMENTARY
BY
RĀJĀNAKA ANANDA.
EDITED WITH NOTES
BY
MAHĀMAHOPADHYAYA PANDIT MUKUNDA RĀMA SHASTRI,
OFFICER-IN-CHARGE RESEARCH DEPARTMENT,
JAMMU AND KASHMIR STATE,
SRINAGAR.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT
OF HIS HIGHNESS LIEUT.-GENERAL MAHĀRĀJA
SIR PRATAP SINGH SAHIB BAHADUR,
G. C. S. I., G. C. I. E.,
MAHĀRĀJA OF JAMMU AND KASHMIR STATE.
JAMMU
DEPARTME
sco
POUVASAH
BOMBAY :
PRINTED AT THE TATVA-VIVECHAKA
1918.
PRESS.
(All rights reserved.)

श्रीमच्छ्रीकण्ठनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गों
लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः ।
कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेश्यान्
देशेऽप्यस्मिन्नदृष्टो घुसृणविसरवत्स्तान्मुदे सज्जनानाम् ॥१॥
तरत तरसा संसाराब्धि विधत्त परे पदे
पदमविचलं नित्यालोकप्रमोदसुनिर्भरे ।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं
प्रसभविलसत्सद्युक्त्यान्तःसमुत्प्लवदायिनम् ॥ २॥

ॐ पट्रिंशत्तत्त्वसंदोहः SUYASH JHL HEAVIst काश्मीर-संस्कृतग्रन्थावलिः। ग्रन्थाङ्क: १३ श्रीमद्राजानकानन्दविरचितविवरणोपेतः श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज- श्रीप्रतापसिंहवर-प्रतिष्ठापिते प्रत्नविद्याप्रकाश-(रिसर्च) कार्यालये तदध्यक्ष-महामहोपाध्याय-पण्डित-मुकुन्दराम-शास्त्रिणा उद्दिष्ट कार्यालयस्थेतरपण्डितसहायेन संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य मुम्बय्यां तत्त्वविवेचकाख्य-मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतः संवत् १९७५ खैस्ताब्दः १९१८ काश्मीर-श्रीनगर ( अस्य ग्रन्थस्य सर्वे प्रकाशन-मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः स्वायत्तीकृताः सन्ति) NT JAMMU & DEPARTME SHMI

Printed by
Bhiwaji Hari Shinde at the “Tatva-Vivechaka " Press,
Nos. 1, 2, 3, Khetwadi Back Road, Bombay;
and Published by
the Research Department, Srinagar, Kashmir.

ओं नमोऽद्वैतसंविद्वपुषे क्षित्यादितत्त्वात्मने शंकराय । ~ अथ षट्रिंशत्तत्त्वसंदोहः श्रीमद्राजानकानन्दविरचितविवरणोपेतः यदयमनुत्तरमूर्ति- निजेच्छयाखिलमिदं जगत्स्रष्टुम् । पस्पन्दे स स्पन्दः प्रथमः शिवतत्त्वमुच्यते तज्ज्ञैः ॥१॥ इह हि स्वतन्त्रशिवाद्वयदर्शने परमेश्वरः स्वतन्त्रश्चिद्धनसं- वित्स्वभावः स्वया स्वातत्र्याख्यया शक्त्या सततं शिवा- दिधरण्यन्ततत्तद्भुवनभूततत्त्वात्मना क्रीडनादिशीलत्वात् कृ- त्यपञ्चकविधायी, वस्तुतः क्रमराहित्येऽपि विश्वसृष्टौ आभा- सनमात्रसारेण पारमार्थिककार्यकारणभावेन क्रममपि उद्भाव- यन् , अनाख्यत्वेऽपि स्वेच्छयैव स्वात्मभित्तौ तत्तच्छिवा- दितत्त्वाभिख्याम् अवभासयति । तथात्वेऽपि षट्दिशत्तत्व-

२
पविंशत्तत्त्वसंदोहः
मयकुलस्वरूपपरामर्शनात् आखण्ड्येन विश्वभरितां स्वचम-
कारविमर्शसाराम् अनुत्तरानन्दघनावस्थां नोज्झति, इति
वास्तवाशयावबोधनाय कश्चिन्महामाहेश्वरः परमेशशक्तिपा-
तानुगृहीतः तत्त्वक्रमप्रक्रियाम् आर्याभिरेकविंशत्या समुप-
निबबन्ध,- यदयमित्यादिना ।
अनुत्तरमूर्तेर्भगवतः परमेश्वरस्य प्रकाशघनस्वात्मैकात्म्येन
अवस्थितं विश्वं सिसृक्षोः दर्पणनगरवत् स्वेच्छयैव स्वात्मनि
आधा मोन्मिमीलयिषावस्था शिवतत्त्वव्यपदेश्या पञ्चशक्ति-
निर्भरत्वात् स्वातन्त्र्यात् चिदादिप्राधान्येन क्रमशः शुद्धा-
ध्वनि तत्त्वसृष्टयवभासनम्, मायाविद्यादेः संवित्प्रकाशघन-
परमशिवात् व्यतिरेकानतिरेकविकल्पैरुपहतत्वात् स्वातन्त्र्य-
मेव केवलं विश्वोत्पत्तिसंहरणादौ मूर्धाभिषिक्तं - तत्तदनन्त-
शक्तिनिचयानां क्रोडीकारित्वात् , वक्ष्यमाणेऽपि तत्तद्रूपोप-
ग्रहणे स्वातन्त्र्यामुक्तत्वान माच्यस्वभावापायः ॥ १॥
~
इच्छा सैव स्वच्छा
संततसमवायिनी सती शक्तिः ।
सचराचरस्य जगतो
बीजं निखिलस्य निजनिलीनस्य ॥२॥

श्रीमद्राजानकानन्दविरचितविवरणोपेतः ३ तस्य स्वाभिन्ना स्वतत्रेच्छाशक्तिरेव उद्भविष्यतो विश्वस्य स्वान्तर्निलीनत्वात् बीजभूता शक्तितत्त्वतां याति, शक्तेः शक्तिमद्धमत्वेऽपि न अन्यदर्शनाभिमतवत् तस्मात् व्यतिरेकः, नैष्कर्येण अत्र इच्छायाः स्वच्छत्वात् हृदय-विमर्श-सारोर्मि- प्रभृतिभिः संज्ञाभिः तत्तद्दर्शनेषु अभिधानम् । परमेश्वर एव हि स्वैश्वर्योच्छलत्तया पूर्णाहन्ताचमत्कारतारतम्येन शक्तिद- शामधिशेते, इत्यत्र आनन्दशक्तिप्राधान्यम् ॥ २ ॥ स्वेच्छाशक्त्युद्गीर्ण जगदात्मतया समाच्छाद्य । निवसन्स एव निखिला- नुग्रहनिरतः सदाशिवोऽभिहितः ॥३॥ तस्यैव परमेश्वरस्य स्वस्वातन्त्र्योद्भासितस्य विश्वस्य वि- शुद्धसंविन्मात्राधिकरण्येन स्वात्मन्येव समुल्लासनात् सदि- त्याख्यानात् सदाशिवतत्त्वावस्था, तत्र प्रोन्मीलितमात्रचि- कल्पतया इदमंशस्य अस्फुटत्वात् इच्छाप्राधान्यम् , अतः स भाविनः समस्तभावराशेः सम्यक् बहिरवबिभासयिषा- लक्षणक्रीडारसिकत्वात् अनुग्रहनिरतस्तद्भूमिकां गृह्णाति इ- त्यतो निवसन्नित्युक्तम् ॥ ३ ॥ .

षट्रिंशत्तत्त्वसंदोहः
विश्वं पश्चात्पश्यन्-
. इदन्तया निखिलमीश्वरो जातः ।
सा भवति शुद्धविद्या
येदन्ताहन्तयोरभेदमतिः॥ ४ ॥
एवं क्रमावभासनात् विश्वस्य शुद्धसंविन्मात्राधिकरण एव
स्फुटतया परामृश्यमानस्य अहमंशेऽभिषेचनात् स एव पर-
मेश्वरः ईश्वरतत्त्वदशामधिश्रयति, अत्र वेद्यजातस्य स्फुटाव-
भासनात् ज्ञानशक्त्युद्रेकः । आन्तरदशाया उद्रिक्तत्वात् स-
दाशिवावस्था, बहिर्भावपरतोद्रेकात् तु ईश्वरावस्था इत्य-
नयोर्विशेषः । प्ररूढभेदस्य इदन्तांशस्य समधृततुलापुटन्या-
येन अहमंशस्फुरणायां शुद्धविद्यातत्त्वम् । अत्र विश्वस्य स्फु-
टतरं परामर्शनात् क्रियाशक्तिः प्रधाना । इयति च शुद्ध-
स्वातन्त्र्यमेव तत्तद्वैचित्र्येण प्रस्फुरति, इति शुद्धोऽध्वा ॥ ४॥
माया विभेदबुद्धि-
निजांशजातेषु निखिलजीवेषु ।
नित्यं तस्य निरङ्कुश-
विभवं वेलेव वारिधे रुन्धे ॥५॥

श्रीमद्राजानकानन्दविरचितविवरणोपेतः
अशुद्धे पुनरध्वनि परमेश्वर एव स्वात्मप्रच्छादनक्रीडया
अघोरभट्टारकभूमिं मत्रमहेश्वररूपां गृहीत्वा दुर्घटसंपादनसा-
मर्थ्येन मायाशक्त्या स्वतोऽन्योन्यतश्च भिन्नम् अणूनां भोग-
सिद्धये कलादिक्षित्यन्तं जडाजडवर्ग क्रमतोऽक्रमतोऽपि अव-
भासयति, तत्र भिन्नभिन्नपथात्मकमायीयमलेन स्वाङ्गकल्पे-
ष्वपि जडवेद्यवर्गेषु विभिन्नतया बुद्धिरेव मायाख्यं तत्त्वं,
येन तस्य निरर्गलं स्वातन्त्र्यं प्रतिहन्यते, वेलयेव अब्धितर-
गाणां वैभवम् ॥ ५॥
CREATRINARUWEARIORapmanateAHARAN
स तया परिमितमूर्तिः
संकुचितसमस्तशक्तिरेष पुमान् ।
रविवि संध्यारक्तः
संहृतशक्तिः स्वभासनेऽप्यपटुः ॥६॥
अविकार्यस्यापि तस्य चिदात्मनः स्वशक्तीनां संकोचन-
पुरःसरं शक्तिदारिद्यमापन्नस्य अण्वपरपर्याया पुरुषसंज्ञा,
संहृतशक्तित्वेन परिमितात्मा स स्वात्मैश्वर्यमपि प्रत्यभिज्ञातु-
मपटुः संचरति विचित्रयोनिषु । यदा पुनः शक्तिपाततार-
तम्यात् विद्याभिज्ञापितैश्वर्यः स्वाङ्गकल्पमेव विश्वं प्रत्यभि-
जानीयात् तदा जीवच्छिवभावं प्रत्यापद्यते ॥ ६ ॥

षष्टुिंशत्तत्त्वसंदोहः संपूर्णकर्तृताद्या बह्वयः सन्त्यस्य शक्तयस्तस्यं । संकोचात्संकुचिताः कलादिरूपेण रूढयन्त्येवम् ॥७॥ शक्त्यन्तरक्रोडीकारिण्या स्वातन्त्र्यशक्त्यावियुक्तत्वादेव परमेश्वरस्य बहुशक्तित्वं, संकोचग्रहणादेव सर्वास्तच्छक्तयः सं- कुचितीभूय कलादितत्त्वपञ्चकेन प्ररोहमुपगच्छन्ति । ता यथा- सर्वकर्तृता सर्वज्ञता वृतिः नित्यता स्वातन्त्र्यमिति, एतत्पञ्चकं शुद्धाशुद्धभेदेन द्विधा,-परमेशविषयतया शुद्धं, संसारविषय- तया तु अशुद्धम् ॥ ७॥ तत्सर्वकर्तृता सा संकुचिता कतिपयार्थमात्रपरा। किंचित्कर्तारममुं कलयन्ती कीर्त्यते कला नाम ॥८॥ गोपितस्वरूपत्वान्निरुद्धशक्तेः परमेश्वरस्य सर्वकर्तृता- शक्तिः प्राणादिपरिमितममातृभावे किंचित्कर्तृतोद्वलनात्मना श्रीमद्राजानकानन्दविरचितविवरणोपेतः 19 कलनेन अधःप्रक्षेपात् कलातत्त्वात्मतां याति, यद्वशात् किं- चिदेव कर्तुमुत्सहतेऽणुः न सर्वत्र कर्तृत्वमिति ॥ ८ ॥ सर्वज्ञतास्य शक्तिः परिमिततनुरल्पवेद्यमात्रपरा। ज्ञानमुत्पादयन्ती विद्येति निगद्यते बुधैराद्यैः॥९॥ एवं तस्यैव सर्वज्ञताशक्तिः संकोचं गृहीतवती किंचि- ज्ज्ञेयमात्रपरत्वेन ज्ञानोत्पादनात् विद्यातत्त्वं, विद्ययैव बुद्धिद- पणे प्रतिफलिता भावा विविच्यन्ते - गुणसंकीर्णतया तस्या विवेत्तुमक्षमत्वात् , तस्मात् विद्ययैव अर्थविवेकः ॥ ९ ॥ नित्यपरिपूर्णतृप्तिः शक्तिस्तस्यैव परिमिता तु सती। भोगेषु रञ्जयन्ती सततममुं रागतत्त्वतां याता ॥१०॥ परमेश्वरस्य नित्यपरिपूर्णप्तिर्नाम शक्तिः पारिमित्यं याता यत्र कचन उपादेयाद्यभिमते 'किंचिन्मे भूयात्' इति

८
षट्रिशत्तत्त्वसंदोहः
सामान्येनाभिष्वङ्गमात्रादापद्यते रागतत्त्वम् । विशेषाभिष्व-
ङ्गस्तु अस्यैव पल्लवितप्राय इति एतदेव कलाविद्ययोः मागु-
क्तयोः किंचिद्भागे निमित्तम् ॥ १० ॥
सा नित्यतास्य शक्ति-
निकृष्य निधनोदयप्रदानेन ।
नियतपरिच्छेदकरी
कुप्ता स्यात्कालतत्त्वरूपेण ॥११॥
अकालकलितस्य चिदात्मनो नित्यत्वाख्या शक्तिः न्य-
ग्भावमाश्रित्य कार्यारूषितकर्तृत्वकलनया अणुं तुट्यादिक्र-
माभासनात्मना कालेन संयोज्य कालतत्त्वव्यपदेश्या क-
ल्प्यते, येन अयमणुः भूतादिक्रियाक्रमकलितः कालवशता-
मापद्यते ॥ ११ ॥
..
यास्य स्वतन्त्रताख्या
शक्तिः संकोचशालिनी सैव ।
कृत्याकृत्येष्ववशं
नियतममुं नियमयन्त्यभून्नियतिः॥१२॥

श्रीमद्राजानकानन्दविरचितविवरणोपेतः ९ स्वातन्त्र्यमेव अस्य परममातुः संकुचत् नियतितत्त्वतामा- भासयति, यतः कार्याकार्येषु नियमाधानात् विशिष्ट कार्ये विशिष्ट कारणमेव आदध्यान्नानियतमिति । एतेन कलादिना कक्षुकेन आवृतोऽयं शक्तिदारिद्यमनुभूय कलादिमुखेनैव स्ववैभवात् प्रतिवितीर्णकिंचिदंशः पशुरित्युच्यते ॥ १२ ॥ इच्छादित्रिसमष्टिः शक्तिः शान्तास्य संकुचद्रूपा । संकलितेच्छाद्यात्मक- सत्त्वादिकसाम्यरूपिणी तु सती ॥१३॥ HTAsite बुद्धयादिसामरस्य- स्वरूपचित्तात्मिका मता प्रकृतिः। इच्छास्य रजोरूपा- हंकृतिरासीदहंप्रतीतिकरी ॥१४॥ अस्य शान्ताख्या शक्तिरक्षुब्धत्वात् इच्छादीनां शक्तीनां गर्भीकरणात् समष्टिरूपा, पारिमित्यग्रहणाच गुणानामवि- भागावस्था प्रकृतितत्त्वम् । गुणानामिच्छादिशक्तित्रिकेन अ- १० षष्ट्रिंशत्तत्त्वसंदोहः न्वारब्धत्वात् त्रित्वं-- यत्प्रक्षोभात् प्राकृतिकसर्गस्य प्रसरः । तत्र चित्तात्मके बुद्धयहंकृन्मनांसि साम्यावस्थामधिश्रयन्ति । अत्र तत्त्वक्रमप्रसरे शिवादिसकलान्तेषु प्रमातृवर्गेषु ज्ञानक्रि- याशक्ती एव मुख्यमुपकरणं, ते एव संकुचद्रूपे ईश्वर-शुद्धविद्ये, संकुचिते विद्याकले, अत्यन्तं संकुचिते बुद्धिकर्मेन्द्रियाणि, क्रियायाः संकोचसीम्नि भूतसूक्ष्मादि इति विज्ञेयम् । अणोः रजःपरिणामिणी इच्छाशक्तिः अहमित्यभिमानलक्षणा अहं- कृतिः ॥ १३-१४ ॥ ज्ञानापि सत्त्वरूपा निर्णयबोधस्य कारणं बुद्धिः। तस्य क्रिया तमोमय- मूर्तिर्मन उच्यते विकल्पकरी ॥१५॥ सत्त्वपरिणामिनी ज्ञानशक्तिरेव अर्थाध्यवसायलक्षणा बुद्धिः । तमःपरिणामिनी क्रियाशक्तिः। विकल्पकरणलक्षणं मनस्तत्त्वमुच्यते ॥ १५॥ वामादिपञ्चभेदः स एव संकुचितविग्रहो देवः।

श्रीमद्राजानकानन्दविरचितविवरणोपेतः ११ ज्ञानक्रियोपराग- प्राधान्याद्विविधविषयरूपोऽभूत् ॥१६॥ स एव क्रीडादिसतत्त्वो वामदेवादिपञ्चमूर्तित्वात् संकु- चितो भूत्वा ज्ञानशक्त्युपरञ्जनप्रधानतया ज्ञानेन्द्रियतद्विषय- शरीरता, क्रियाशक्त्युपाधिमाधान्यात् कर्मेन्द्रियव्यापारवत्त्वं च उपादत्ते । शक्तिपञ्चकोपादानात् करणानां पञ्चधात्वं बोध्यम् ॥ १६॥ श्रोत्रं चक्षुः स्पर्शन- जिह्वा-घ्राणानि बोधकरणानि । शब्द-स्पर्शी रूपं रस-गन्धौ चेति भूतसूक्ष्माणि ॥१७॥ श्रोत्रादीनि ज्ञानेन्द्रियाणि, शब्दादीनि तन्मात्राणि ॥१७ अयमेवातिनिकृष्टो जातो भूतात्मनापि भूतेशः।

१२
षट्रिशत्तत्त्वसंदोहः
गगनमनिलश्च तेजः
. सलिलं भूमिश्च पञ्चभूतानि ॥१८॥
अत्यन्तसंकोचग्रहणात् अचिद्रूपतामवभास्य आकाशा-
दीनि पञ्चभूतानि ॥ १८॥
marate
श्रोत्रादिकरणवेद्याः
शब्दाद्यास्तानि वेदकान्येषाम् ।
वचनकरी वागासीत्
पाणिः स्यात्करणभूत आदाने ॥ १९॥
शब्दादिज्ञानसाधनानि श्रोत्रादिकरणानि, वचनादिक्रि-
यासाधनानि वागादीनि कर्मेन्द्रियाणि ॥ १९ ॥
गमन-विसर्गानन्द-
त्रितये पादादिकं करणम् ।
गन्धवती भूमिः स्या-
दापः सांसिद्धिकद्रवास्तेजः ॥२०॥

श्रीमद्राजानकानन्दविरचितविवरणोपेतः १३ उष्णस्पर्शमरूप- स्पर्शो वायुरम्बरं सशब्दम् । षदिशत्तत्त्वमयं वन्दे कौलं कुलातिगं शंभुम् ॥२१॥ . आदिना पायूपस्थौ गृह्यते । गन्धवत्वं भूमेर्लक्षणम् , सां- सिद्धिकद्रवत्वमब्लक्षणम् , उष्णस्पर्शेन तेजो लक्ष्यते, अ- रूपस्पर्शो वायुलक्षणम् , शब्द आकाशस्य इति प्रत्येकं मु- ख्यगुणनिर्देशः । तत्त्वानामुत्तरोत्तरं व्याप्य-व्यापकभावेन भूमिप्प्या जलादिशिवान्तं व्यापकानि पञ्चत्रिंशत् , एवं भूतसृष्टौ भूमौ व्योमादिगुणा व्यापकत्वेन अनुगताः सन्ति । परमशिवतत्त्वस्य सर्वत्र अनुगतत्वात् विश्वमयतदुत्तीर्णयाम- लकौलस्वरूपमेव भक्तानां समावेशाहम्, इति वन्दनोपसं- हारोक्त्या उपक्षिप्तम् इति शिवम् ।। . इति षट्विंशत्तत्त्वसंदोहः श्रीमद्राजानकानन्दाचार्य- विरचितविवरणोपेतः समाप्तः ॥

40 षष्ट्रिंशत्तत्त्वसंदोहः सद्विद्यानां संश्रये ग्रन्थविद्वद्- व्यूहे हासं कालवृत्त्योपयाते । तत्तत्सद्धर्मोदिधीपैकतान- सत्प्रेक्षौज शालिना कर्मवृत्त्यै ॥ १ ॥ श्रीमत्कश्मीराधिराजेन मुख्यै- धर्मोद्युक्तैर्मत्रिभिः स्वैर्विवेच्य । प्रत्यष्ठापि ज्ञानविज्ञानगर्भ- ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः ॥ २ ॥ तत्राजीव निर्विशद्भिर्मुकुन्द- रामाध्यक्षत्वाश्रितैः सद्भिरेषः । पूर्त्या शुद्धया व्याख्यया संस्कृतः स्तात् पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् ॥ ३ ॥ तिलकम् ॥ श्रीशिवार्पणं भूयात् ॥

THE KASHMIR SERIES
OF
TEXTS AND STUDIES.

No text on this page.

EHL V VIS MIWHS
KASHMIR SERIES OF TEXTS
AND STUDIES.
No. XIV.
THE
BHĀVOPAHARA
OF
CHAKRAPĀŅI NATHA
WITH COMMENTARY
BY
RAMYA DEVA BHATTA.
EDITED WITH NOTES
BY
MAHĀMAHOPĀDHYAYA PANDIT MUKUNDA RĀMA SHẬSTRÍ,
OFFICER-IN-CHARGE RESEARCH DEPARTMENT,
JAMMU AND KASHMIR STATE,
SRINAGAR.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT
OF HIS HIGHNESS LIEUT.-GENERAL MAHĀRĀJA
SIR PRATAP SINGH SAHIB BAHADUR,
G. C. S. I., G. C. I. E.,
MAHĀRĀJA OF JAMMU AND KASHMIR STATE.
NOUVASSA
BOMBAY:
PRINTED AT THE “ TATVA-VIVECHAKA
1918.
PRESS.
(All rights reserved.)

श्रीमच्छीकण्ठनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गों
लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः ।
कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रअयन्सर्वदेश्यान्
देशेऽप्यस्मिन्नदृष्टो घुसृणविसरवत्स्तान्मुदे सजनानाम् ॥ १॥
तरत तरसा संसाराब्धि विधत्त परे पदे
पदमविचलं नित्यालोकप्रमोदसुनिर्भरे।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं
प्रसभविलसत्सद्युक्त्यान्तःसमुत्प्लवदायिनम् ॥ २॥

ॐ काश्मीर-संस्कृतग्रन्थावलिः। ग्रन्थाङ्क: १४ भावोपहारः श्रीमच्चक्रपाणिनाथविरचितः श्रीमदाचार्य-भट्टरम्यदेवविरचितविवरणोपेतः श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज- श्रीप्रतापसिंहवर-प्रतिष्ठापिते प्रत्नविद्याप्रकाश-(रिसर्च) कार्यालये तदध्यक्ष-महामहोपाध्याय-पण्डित-मुकुन्दराम-शास्त्रिणा उद्दिष्ट कार्यालयस्थेतरपण्डितसहायेन संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य मुम्बय्यां तत्त्वविवेचकाख्य-मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतः JAMMU DEPARTMENT 18 HMIR प्रशस्तारवारमा RESEA IHI HOTIVAS संवत् १९७५ स्रेस्ताब्दः १९१८ काश्मीर-श्रीनगर अस्य ग्रन्थस्य सर्वे प्रकाशन-मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः स्वायत्तीकृताः सन्ति)

Printed by
Bhiwaji Hari Shinde at the “ Tatva-Vivechaka” Press,
Nos. 1, 2, 3, Khetwadi Back Road, Bombay;
and Published by
the Research Department, Srinagar, Kashmir.

ओं नमोऽनन्तशक्तये शिवाय । अथ भावोपहारः श्रीमचक्रपाणिनाथविरचितः श्रीभट्टज्योग्देवात्मजभट्टरम्यदेवाचार्यविरचितविवरणोपेतः । स्वविमर्शविकचकानन- समुन्मिषद्विषयकुसुमसंतत्या। करणेश्वरीभिरभितः समर्चितो बोधभैरवो जयति ॥१॥ विमर्शमय्या निजशक्तिदेव्या विश्वप्रथाभैरवकृप्तपूजः। जयत्यकामोदितरश्मिरूप- स्वशक्तिपुतात्मजचक्रनाथः ॥२॥ क्रमाक्रमक्रियाक्रान्ति- व्यतिक्रमनिकृन्तनम् । देवं चक्रं श्रये क्रीडा- क्रोडीकृतकृतान्तकम् ॥ ३॥ - पं०० ख० पु. पुाकरेति पाठः।

भावोपहारः इह हि निरुत्तरनिनिकेतनावटविटङ्कसंकलित- सकलकलनाकुलं परमभैरवचक्रेश्वरसतत्त्वमवाच्य- वाचकमवर्णनिर्वर्णनमनाद्यनन्तमन्तर्बहीरूपमपू- ज्यपूजकमपि प्रसरदाद्योद्यन्तृतावतारक्रमावता- रितपञ्चवाहप्रपञ्चमयाकृत्रिमपूज्यपूजकक्रमेण प्रो- स्फुरति इति रीतिरविगीतसुखसंप्रदायसरणि- समनुगतसर्वागमान्तरघुमघुमायमानश्रीविज्ञान- भैरवादिषु स्वकण्ठेनैव भगवता निर्णीता, श्रीस्व- तत्रभट्टारकादिषु च अकृत्वा मानसं यागम्' इत्या- दिवाक्यैर्ध्वनिता मानसयागातिरेकिणी सर्वभा- वोपहृतिः, तामेव भट्टारकपादाः स्तोत्रमुखेन प्रकटयन्त आदिश्लोकेन आसूत्रयन्ति ओं नमः सूर्यकलाजाल- कालदेहापहारिणे। पं० १ ख. पु० निनिकेतसंकेतावटेति पाठः । पं० २ ख. पु. कुलपरभैरवेश्वरेति पाठः । पं०६ ख० पु. स्वगीति इति पाठः ।

श्रीमच्चक्रपाणिनाथविरचितः आधाराधेयपीठाय भवायाभवदायिने ॥१॥ भवाय हेलामात्रोद्भावितभवाभवाय नमः । नम इति नमः-शब्दगतवर्णद्वयवित्यासेन चतु- yन्तपदावेदिततत्स्वरूपसर्वावेदननयेन उन्मनी- भावः तत्समाविष्टेन सूचितः, तेन तत्र मनो विलापयामि इत्यर्थः । कालदेहं वा कालविक- ल्पनोल्लासिकामीहां वा सूर्यकलाजालेन द्वाद- शात्मकमरीचिचयेन योऽपहरतीति तच्छीलोऽ- यमक्रमपदेन दर्शितः, सूरीनामकलाजालेन मध्य- मधामानुवेधेन भावाभावभूम्युल्लङ्घनात्मना का- लदेहापहारी महाहङ्कारात्मकमहाकालदेहमपहर्तु शीलं यस्य स तथोक्तः । तदुक्तं 'काली महाकालमलंग्रसन्तीम् ' इत्यादि । ततश्च सूर्यकलाजालेन वा सूर्यकला- जालमेव वा कालदेहमपहरति इति अलंयासम- पं० १२ ख० पु० देहाहंकारेति पाठः ।

४ भावोपहारः होघः प्रकटितः, न ह्यक्रमानाख्यपरचिच्चक्रेश्वरी- समुदये कालो नाम कश्चित् उपपद्यते । तदुक्तं मयैवाक्रमकल्लोलकारिकासु कालः कालेन काल्यश्चेत्कालः काल्येत केन वा । अकाल्य एव कालश्चेत्काल्य एव तथा न किम् ॥ मृत्युः स्फुरत्प्रकाशान्तर्निगीर्णो निगिरेत्कथम् । अस्फुरन्नप्रकाशत्वान्नान्तर्ग्राह्योऽथ वा न किम् ॥ इति । तथा आधाराधेयौ षडध्वतदुत्तीर्णरूपो भवाभवौ तत्स्थस्यैवास्य, उद्योगावभासचर्वणवि- लापनतदुत्तरकृत्ययोगात् पीठ इव पीठो यस्य 'आधारध्येयपीठाय' इति तु पाठे आधारे ध्येया शक्तिरेव तदधिष्ठानेन साधिष्ठानत्वात् पीठो यस्य तस्मै भवाय, अभवदायिने अशिवपरिखण्डनाय मोक्षप्रदाय वा नमः इत्यनेन कालदेहापहारिणा आधाराधेयपीठत्वप्रतिपादनेन सर्वात्मसात्करण- लक्षणः सततोदितोऽकृत्रिमपूजानय उदृङ्कितः। अत्र अपहारिपदेन संहार उक्तः, पीठपदेन स्थि- तिक्रमो, भवपदेन सृष्टिः, इत्यक्रमोघः सृष्टिपर्यव- श्रीमच्चक्रपाणिनाथविरचितः ६ सानेन अनेन श्लोकेन चर्चितः। चतुर्थस्य सक- लक्रमाक्रमभित्तिभूतत्वात् पृथक् अनभिधान- मेव ॥१॥ अथ स्थितिप्रधानसृष्टिसंहारपरिघट्टनेन द्वि- तीयं पूजाक्रमं दर्शयति नमः शिशुनिशाकान्त- कलाकमलमालिने। परमानन्ददेहाय शिवायाव्यक्तमूर्तये ॥२॥ अव्यक्ता भवाभवस्थितिप्राधान्यात् उदृक- खेन अप्रकटिता मूर्तिर्यस्य तस्मै शिवाय महत्या- वेशेऽपि अपरिभ्रंशशीलाय । नम इति व्याख्या- तम् । शिशुतया आद्या भेदस्वभावेन स्थिता या- इयं निशाकान्तस्य कालरात्रीरमणस्य परभैरवस्य कलनात् कला सैव अघोरघोराघोरातिघोरावर- पं० १० ख० पु० अटङ्कत्वेनेति पाठः । पं० १३ क. पु. आयोगवस्वभावेनेति पाठः । 1 eur भावोपहार: . णत्रयोपेतवर्गाष्टकदललालिता, सैव कमलं तन्मा- लिने तदाधाराय तदाधेयाय वा । निशाकान्त- कला संहारदेवी, तथा चास्मत्पुत्रः 'शिव शिवासनमूर्ध्नि सदा स्थिता विगतकालकलाकलनाक्रमा । कृशतया क्रशिमव्यपलापिनी जयति कापि कला विगतक्रमा ॥' इति । वाजसनेयभट्टारिकायामपि अवधूता निराचारा सर्वभूतान्तरे स्थिता । क्रीडत्यात्ममयैर्भावलिः क्रीडनकैरिव ॥ प्रबुद्धपूर्णभावाभ्यां विभज्यात्मानमात्मना । अप्रबुद्धमबुद्धन क्रीडार्थ भावयेनृशम् ॥' इति । मालिने धारिणे इति स्थितिः। आन- न्ददेहाय इति सृष्टिः तस्या आनन्दरूपत्वात्, अव्यक्तमूर्तये इति संहारः । अयमपि सततसिद्ध एव पूजाक्रमः ॥२॥ पं० १ ख. पु० लालितमिति पाठः । पं० ९ख० पु० भावान्तरस्थिता इति । पं० १२ ख. पु. भावयेत्स्वयमिति पाठः।

श्रीमच्चक्रपाणिनाथविरचित. अथ गुणीभूतसृष्टिस्थितिरूपतृतीयचक्राक्रम- पूजां प्रतिजानीते नमः पाशौघसंघट्ट- लयविश्लेषकारिणे। मन्त्रगर्भोदरस्थाय हराय परमात्मने ॥३॥ पाशानाम्-आणवमायीयकार्मिकाणां मला- नामोघः तस्य संघटः अहेतुकेन केनापि क्रमेण उल्लासः, तेन वा तत्र वा तस्य वां योऽयं लयः, तथा विश्लेषः पृथग्भावस्तत्करणशीलत्वेन वर्तमा- नाय सदा त्रितयकारित्वान्नान्तरीयकं तिरोधाना- नुग्रहकारित्वं ध्वनितम् । मन्त्रगर्भोदरस्थाय इत्यत्र त्रिधा गुर्वानायः-मन्त्रा वर्णरूपा गर्ने यस्याः सा मालिनी मन्त्रगर्भा तदन्तर्गता तस्या उदरे वाच्य- खेन अभ्यन्तरे तिष्ठति इति स तथा, अथ वा मन्त्राणां गर्भो मन्त्रगर्भः तदन्तर्गतः प्रथमस्वरः ८ भावोपहारः तस्य उदरम् उत्तरपक्षप्रतिक्षेपेण मध्यमकला तुट्य- धरूपा तत्र स्थिता, अथ वा मननत्राणधर्मित्वात् मरीचिषु स्थित्युदितासु मन्त्र इत्यादिरूपतया योऽयम् अनारावरावो-रावसंघट्टकतया 'त्वामजामकृतपञ्चकारण- द्रावणोइमरधामभैरवीम् । स्तौम्यनाहतहतव्यतिक्रम- स्फाररावकृतवीरघटनाम् ॥ इत्याद्यस्मद्विरचिताकुलकौलिकात्रिंशिकोक्तस्व- रूपः तस्य गर्भ गहनम् अवटरूपं तदुदरे तद्गमनि- कागम्ये धाम्नि तिष्ठति इति स तथोक्तः, सर्वत्र चात्र आद्यभट्टारकोपदेश एवं विराजते तस्यैव परमात्मत्वात्, अत एवात्र भव-शिव-हर-शब्दैः श्लोकत्रयोदितसृष्ट्याद्युपदेशचरमस्य अनाख्यस्य सर्वान्तश्चारित्वमवाग्गोचरत्वात् सूचितमेव । अत्र ओघसंघदृशब्दाभ्यां सृष्टिस्थित्योः, हरश- ब्देन संहारस्य द्योतनेऽकृतका कापि पूजा निरू- पितेव ॥३॥ . पं० ख० पु० तुटिरूपेति पाठः।

श्रीमच्चक्रपाणिनाथविरचितः तदेवमनवच्छिन्नसततसिद्धनिरुपादानानन्ता- नव धिकस्वरूपभूतपूजासंभवे शम्भोर्निर्गुणस्य अनन्तगुणस्य वोपचारैरान्तरैर्बार्वाि कायिक- र्वाचिकैर्मानसैर्वा पूजयितुमशक्यत्वात् कोऽयं भावोपहारो नाम इत्याशङ्कयाह यद्यपि त्वं गुणातीतो वाक्पतेरप्यगोचरः। तथाप्या हृदयात्स्तोतु- मुद्यता वाक्सदा मम ॥४॥ अतिभक्तिरसावेश- विवशा विश्वतो मुख। खत्प्रेरिता यतो नाथ नापराधोऽस्ति मे क्वचित् ॥५॥ यद्यपि-तथापि-शब्दाभ्यामनुपपत्तावपि उप- पत्तिं प्रकाशयनामनुपपत्तिरेव सर्वोपपत्तिरिति १० भावोपहारः कापि युक्तिरुक्ता, तथाहि गुणातीतोऽपि तस्यैव विषयोऽपि तदुल्लासितेन केनापि दुर्घटघटनान- येनार्वाचीनभूमिमूर्तित्वेन विषयधाम अश्नुते । तदुक्तं तपस्विप्रबोधनाथेन 'परतरतयापि रूपं यद्यत्कलयामि तत्तदधरं ते । अधरतरापि न कलना सा काचिद्यत्र न स्थितास्यभितः।। इति । आ हृदयात् आ परधाम्नः पश्यन्त्यादिरू- पेण सदोदितापि वैखर्यात्मना त्वयैव एतेन आ- द्यभट्टारकेण प्रकर्षण ईरिता सती प्रसरति, इति मम न कश्चित् अपराध इत्यहं तत्समावेशित एवोदितः, यदि अहं नाम कश्चित् अन्यो भवेयं, भवेत् नाम अपराधो, यदि परमपराधोऽपि अह- मपि भवानपि एकमेव तत्त्वं, ततश्च कोऽपराध- शब्दार्थः । तदुक्तं मयैव शिवरवस्तोत्रे अथ वा हृदम्बरगतेन जनिनिधनहीनमूर्तिना। पं० ३ ख० पु. भूमिवर्तित्वेनेति पाठः ।

श्रीमचक्रपाणिनाथविरचितः ११ चन्द्रविमलमुकुटेन नुता- वनुमोदिता मम मतिः प्रवर्तते ॥' इति । अतिक्रान्ता भक्तिरसाविभागभूमिर्येन तादृक् योऽयमावेशः सर्वतो-दिक्कतन्मयतोदयः तेन विवशा विशिष्टा वशेव करेणुरिव निजबो- धरसचर्वणसदावरणनिरावरणमदविधूर्णितत्वात विश्वतः सर्वतो मुखानि यस्य स तथा, इत्यनेन एतदुक्तं भवति-न तत् वाच्यं कृत्यं वा किञ्चन यत् त्वत्परिचर्वणचारुरूपतया न चकास्ति । ततश्च सुप्तप्रलापगालिदानादिभिरपि त्वमेव स्तू- यसे इत्याह 'विश्वतो मुख' इति विश्वत आ मु- खम् यस्य इति वा । पशुकुक्कुटादिमूर्तिपर्यन्तमस्य आविर्भूतत्वमबाध्यमित्यर्थः । सर्वथापि अनुदि- तानस्तमितापरिमितचिदेकघनमिति प्रतिपादि- तम् ॥ ४॥५॥ खत्पादाब्जरजःपूत- चिताभूतिविभूषितात् । . पं० २ क० पु० ननु मतिः इति पाठः ।

१२ भावोपहारः गृहाण मत्तः श्रीकण्ठ? भावपूजामकृत्रिमाम् ॥६॥ श्रीविश्ववैचित्र्यशोभोद्भाविनी शक्तिः कण्ठे अविभागधानि यस्य तस्यामन्त्रणम् , गृहाण इति संप्रदानसंप्रदेयतया त्वमेव स्फुरसि इति याञ्चार्था अकृत्रिमशब्देन सूचिता । तव पादाः पिण्ड- स्थादिभेदेन चतस्रोऽवस्थाः ता एव अब्जं तत्र तदुल्लासितज्ञेयकार्यवस्तु विकल्परूपं, रञ्जनात् रजः तेन पूता ततो वा पूता सद्यक्तिपरिपवनेन क्षपिता या चिताभूतिः सर्वसंक्षयपरचिद्रूपा सर्वो- तिरूपा वा तया विशिष्टायां भुवि उषितात् प्रस्तोष्यमाणात् मत्तो मम सकाशात् त्वमपि मत्तो निजानन्दनिर्भरो भावपूजाम् आत्मसा- करोषीति ॥६॥ तामेव स्नानक्रमण प्रस्तौति हृत्पुष्कराख्ये स्नात्वान्त- स्तीर्थे योगिनिषेविते।

श्रीमच्चक्रपाणिनाथविरचितः
,
संबोधधौतवसनः
श्यामकण्ठं यजाम्यहम् ॥७॥
हृत्पुष्करं हृत्पद्मं तत्र बद्धलक्ष्यतया स्नात्वा स-
कलमलविधूननं विधाय, अथ वा हरतीति हृत्
संहारसंहारिणीरूपम्, एतदेव हृत्पुष्कर तीर्थ
सर्वचक्राणां तत्रैव परमविश्रान्तिलाभात्, तत्र
सर्वविशुद्धिमादाय योगिनोऽत्र पररश्मिरूपाः,
सम्यक् बोधः संबोधः तदेव धौतं सकलकालि-
काविशुद्धं वसनम् अशेषाच्छादकतया वर्तमानं
यस्य, इति सर्वोत्तीर्णसर्वमयतोक्तिः, श्यामकण्ठः
सर्वघडकमहातमिस्रारूपसंकलनधामात्मिका श्या-
मा कण्ठे गले यस्य । यथोक्तम
--
पानाशनमसाधन-
संभुक्तसमस्तविश्वया शिवया ।
मलयोत्सवसरभसया
दृढमुपगूढं शिवं वन्दे ॥ (उ० स्तो० १६-२९)
इति ॥७॥

भावोपहारः अर्धपात्रमाह प्रभूतभूतसंभूत- शोणितैरर्घभाजनम् । क्रियते ते महाकाल- कायकंकालकन्दले ॥ ८॥ प्रभौ व्यापके भैरवधाम्नि ऊतानि अनुस्यूतानि यानि भूतानि पञ्चात्मकशक्तिविवर्तभूतानि पृथि- व्यादीनि, तत्र संभूतानि यानि शोणितानि तत्स्वरूपविगलनसमुदितचिद्रसरूपाणि, तैरर्घभा- जनं महाविमर्शमयपूजनपात्रम् एकशक्तिशुक्ति- विगलनरूपं सर्वेषामविकल्पभूम्यधिरोहविदारित- विकल्पमयमहाकालकलेवरकरकपाले कालसं- कर्षिणीधाममध्ये विधीयते इत्यलं रहस्योद्घाट- नेन ॥ ८॥ यद्यहिकल्पनाजालं बाह्यार्थप्रतिपत्तये।

श्रीमच्चक्रपाणिनाथविरचितः १६ तत्तद्वाराधिपकुलं लव पूज्यं मनस्विभिः ॥४॥ बाह्यविषयाक्षेपकत्वात् मनोन्मनालक्षणं द्वार तद्वासि कुलं द्वाःस्थकुलं द्वाःस्थसमूहः, विकल्प- रसा एव हि स्वरूपरसावेशद्रवणेन असंविभक्ता बाह्यकक्ष्यासु क्षिपन्ति, तदनु चैवं मानितास्ते स्वरूपनरपतिसमीपमर्पयन्ति, इति स्वशक्तिभा- गावधानेन पूज्यं स्वीकृतमनस्कैः ॥ ९ ॥ अशेषावरणोन्मुक्त- गुप्तसौषुप्तमण्डले। पूज्यसे नगजाकान्त! ग्रहणे चन्द्रसूर्ययोः ॥ १०॥ चमनादबाह्यत्वेन अन्तरेव चिमिचिमायमा नत्वात् , द्रवणाच्च बहिर्लोकयात्रात्मना प्रसरणात्, तथा सुष्टु ऊरणात् इति चन्द्रशब्देन सूर्यशब्देन च जाग्रत्स्वप्नयोहणम् , तयोर्ग्रहणे आत्मसात्क- पं०८ ख० पु० शक्तिभावावधानेनेति पाठः ।

१९ भावोपहारः रणे सति, अशेषावरणः सर्वोपाधिभिः, उन्मुक्ते गुप्तसौषुप्तमण्डले गुप्तं तिरोहितं सौषुप्तं मण्डलं यत्र तस्मिन् तुरीये धानि, नगजा अविचलकू- टस्थधामसमुल्लसिता शक्तिः तस्याः कान्त ? विश्रामधामन्, पूज्यसे सततं संबोधनेनानुभूयसे ॥ १०॥ हानादानोदयारम्भ- सदसद्विभ्रमोज्झितम् । ज्ञप्तिमात्रप्रतिष्ठान- मासनं त्रिजगत्पते ॥ ११॥ त्यागग्रहोगमक्रियाभावाभावविकल्पनिर्मुक्तम् अत एव मातृमानमेयोल्लङ्घनेन प्रमितिमात्रं निर्विशेषेण फलरूपमासनमुपलक्षणतया तस्यापि सापेक्षत्वात् तदपि उल्लवितवतोऽव्यपदेश्यस्य तव,ते निवेद्यत इति पाठे निवेद्यते निःशेषेण वेद्यते तद्भावेन अनुभूयते, त्रिजगतो मातृमानमेयलक्ष- पं० १६ ख० पु. भावनानुभूयते इति पाठः ।

श्रीमच्चक्रपाणिनाथविरचितः १७ णस्य अधिष्ठातः! हानादानादिपदार्थषट्रनिर्देश- खानपेक्षमासनं सूचितम् ॥ ११ ॥ मूर्तिदानमनाभास- शक्तिभासोपटंहितम् । तुर्यपीठप्रतिष्ठानं वितरामि जगत्पते ॥ १२॥ उपवृंहितम् उपवृंहणम् , बाह्यावभासरहिता- नवच्छिन्नचमत्कारसारशक्त्यवभासरूपं, मूर्तेः मूर्छितसतत्त्वस्य किञ्चिदुच्छूनतात्मनः पारिपू- र्योल्लेखस्य दानं, वितरामि विमृशामि, पूर्णाह- न्तया च परपदनिविष्टम् ॥ १२ ॥ दिक्कालदेशकलना- कलङ्कोज्झितचेतसः। कः करोति बुधः स्थाणो- राह्यानादिविसर्जनम् ॥ १३ ॥ 3 १८ भावोपहारः स्थाणोः स्थास्नोरप्रचलितसर्वगतचिन्मात्रव- पुषः पृथक् दिग्देशकालपरिगणनकल्पनाभावात् आह्वानोपक्रमं विसर्जनमवगततत्त्वः कः करोति, व्यतिरिक्तदेशकालसंभवे हि कस्यचिदानयनं कुत्र- चित् प्रहाणं संभाव्येत, इह तु सर्वस्यैव तन्म- यत्वात् कस्याहानं कुत आह्वानं, कस्य विसर्जन कुत्र च विसर्जनमिति तत्समावेशेनैव सर्वसंस- तिरुक्ता ॥१३॥ सूर्यशीतांशुनेत्राभ्यां मथित्वा शक्तिवारिधिम् । परामृतरसाभ्यङ्गं शिवाय विनिवेदये ॥१४॥ अभ्यज्यते अनभिव्यक्तमपि व्यक्तिमानीयते सृष्टिक्रमावद्योतिता येन सोऽभ्यङ्गः उपस्नेहकः, नेत्रे प्रथमसूत्रेऽपि ॥ १४॥ पं० १५ ख० पु० नेत्रमथनसूत्रे इति पाठः ।

श्रीमच्चक्रपाणिनाथविरचितः १९ इन्द्रियेष्विन्द्रियार्थेषु रागलोभानुयायिषु । निःस्नेहत्वं प्रभुत्वं च रूक्षमुहर्तनं तव ॥ १५॥ इन्द्रियार्थेषु शब्दस्पर्शरूपरसगन्धेषु विषयभू- तेषु, इन्द्रियेषु रागलोभानुयायिषु सत्सु इति व्यधि- करणे सप्तम्यौ, निःस्नेहत्वं प्रभुत्वं चात्यन्तायुक्ति- रनभिष्वङ्गस्तदधिष्ठातृत्वेन वा स्फुरणम् 'बुद्धवत्सर्वरागी स्यात्सर्वद्वेष्योऽथ भैरवः ।' इति न्यायेन उद्वर्तनमशेषवासनोन्मूलनम्॥१५॥ संशोध्यानच्छकलया बैन्धवं तीर्थमञ्जसा। तहिरामरसस्नानं देयं चन्द्रार्धमौलये ॥ १६॥ महानादाद्यकलावचूलाय षोडशस्वररूपकला- पं० १५ ख० पु० षोडशांशरूपकलाकलापारम्भकावर्णशिरोडशेति पाठः।

२० भावोपहारः कलापारम्भाद्यवर्णरूपशिरोङ्कुशरूपया अनच्छक- लया बैन्धवं तीर्थम् उभयशून्यबिलरूपं संशोध्य निर्ग्रन्थिबन्धं विधाय, निरोधनादनादान्तवर्ति- परमवृप्तितालक्षणरसेन कार्यमभिषेचनम् ॥१६॥ स्वप्रबोधाम्बरोदार- विकसहस्त्रघर्षणम् । विनिवेश्य भवत्संवि- द्विकिरान्विकिरामहे ॥ १७॥ स्वप्रबोधः स्वविमर्श एव अम्बरम् अनावर- णत्वात् व्योम अत एवोदारमुद्भट्ट विकसत् सर्वा- त्मतया प्रसरत् सोल्लासितकार्याच्छादकतया वस्त्रं तेन घर्षणं प्रत्यावृत्तिनयेन स्वावधानं विधाय, प्राप्ते महासामरस्ये, विगलितेषु द्वैतोदयमहासंत्रा- सडम्भरेषु अखण्डितस्वावबोधनिर्मत्सरबलीन् सर्व- तोदिकं क्षिपामः ॥ १७॥ पं० १२ ख० पु० महामन्त्राडम्बरेषु इति पाठः ।

श्रीमच्चक्रपाणिनाथविरचित: २१ ज्ञानज्ञेयपरित्याग- नमनिर्झरविस्रुतम् । परमानन्ददं मेऽन्त- स्तव पाद्यमनाबिलम् ॥ १८ ॥ उभयोरपि सापेक्षत्वेन अनुपपद्यमानस्वरूप- त्वात् जडाजडयोः त्रिष्वपि कालेषु चिदतिरेकेणा- भाव एव अगमनात् अविचलत्वात् नगः तत्र यो निर्झरो निर्गतो झरो वयोहानिरूपः कालः यस्मात् तादृक्स्वरूपं ततः प्रवृत्तं परचमत्कार- रूपं पाद्यम् ‘पृष्-वयोहानौ' इत्यस्य झर इति रूपम् 'ऋदोरम् ॥१८॥ अमन्दानन्दनिःष्यन्द- स्पन्दमन्दिरकन्दरात्। गलत्कैवल्यसलिल- मादत्स्वाचमनं विभो ॥ १९ ॥ गुणादिस्पन्दनिःष्यन्दिषु यत् सामान्यस्प- २२ भावोपहारः न्दरूपम् अक्रमप्रकटितनिमेषोन्मेषसृष्टिस्थिति- प्रकारम् ईषदुच्छूनतया किंचिच्चलनात्मकमपि तदेव मन्दिरं सर्वस्य प्रथमनिवासित्वात् अम- न्दोऽनवच्छिन्न आनन्दनिःष्यन्दोऽहमित्युल्लेख- चमत्कारप्रसरो यत्र तादृशस्पन्दमन्दिरस्य कन्द- रात् अगाधात् धानः, उन्मिषदनन्यत्वरसरूपमा- चमनं गृहाण कैवल्यरसमपि संहर, इति कोऽपि बन्धमोक्षोत्तीर्णो नय उन्मीलितः 'मन्दरकन्द- रात्' इति वा पाठः ॥ १९ ॥ प्रक्षाल्य धारणाम्भोभि- ग्रन्थिपञ्चकमौक्तिकम् । अनय॑मर्घ पादेभ्यः प्रयच्छामि वृषाकपे ॥२०॥ हे वृष स्वशक्तिरसवर्षणप्रवण! तथा अकपे अचपल-कूटस्थ! ग्रन्थिपञ्चकम् इन्धिका-दीपि- पं० ३ ख० पु० निवासत्वात् इति पाठः ।

श्रीमच्चक्रपाणिनाथविरचितः २३ का-रोचिका-मोचिका-ऊर्ध्वगालक्षणं, मनोग्रथ- नात् धारणा वारुण्याद्या देशबन्धरूपाश्चित्तस्य ता एव अम्मासि तैरष्टोत्तरशतसंख्यातान्तिकमु- ख्यसंप्रदायसिद्धिभूमिकोलड्डनक्रमेण अमलता- मासाद्य, अनर्घ्यममूल्यम्-अतुल्यत्वात् ॥२०॥ तुरीयोद्यानविकस- संवित्सौरमनिर्भरैः। गिरीश तिमृभिर्वाग्भिः स्तुतिपुष्पैः प्रपूज्यसे ॥२१॥ गिरि वाग्विषये ईश स्वामिन्, तुरीयोद्याने परास्वरूपकानने विकसत् यदेतत् संवित्सौरभं बोधामोदः तन्निर्भरैः, स्तुतिरूपैः पुष्पैः, तिसृभि- वाग्भिः पूज्यसे । तत्र पश्यन्त्याः तावत् स्वरूपा- व्यतिरिक्तान्तास्फुटतेदन्ताहन्तावभासपरमसाम- रस्यरूपा स्तुतिः, मध्यमाया अपि ग्राह्यग्राह- काकल्पकल्पनानल्पस्फुरत्तातात्पर्यपर्यवसितोऽपि २४ भावोपहारः अविलुप्तस्वावभासस्तव स्तवस्तवकः, वैखर्यास्तु मौखर्येण स्फुटघटपटादिनटनलाम्पट्येऽपि सर्व- तोदिक्कप्रथितपरमेश्वररूपातिरेकिवाच्यान्तरविर- हात् सततमेव तदनुशंसैव कुसुमिता मिताभि- धाननिर्णयनिर्दलनतात्पर्यपर्यवसिता इत्युक्तं भवति ॥ २१ ॥ प्राणवह्निशिखास्त्रण भक्त्वा ब्रह्मबिलं लसत् । धूपवर्तिनिभाभासो धूपस्ते नगजाधव ॥२२॥ प्राणोद्दीपिता येयं वह्निशिखा-आग्नेयधाम- कोटिः, सैव अस्तात् त्रायते इति अस्त्रम्, अथ वा निष्कलनाथोऽत्र उद्धृतः, तेनैव हिक्कापातोद्दीपि- तेन ग्रन्थिभेदनक्रमेण ब्रह्मग्रन्थिभेदात्, तत्र प्राणो 'ह' वह्निशिखारूपमस्त्रम् इत्यादि, सर्वप्र- पं० ९क० पु० धूपयन्ति निभेति पाठः ।

श्रीमचक्रपाणिनाथविरचितः २५ मेयजातं धूपयति सर्व स्वपरिस्पन्देनाधिवासय- तीति धूपः॥ २२॥ अनाहता नदत्यन्त- र्या गौर्धाम्नि परे परा। सा घण्टा वाद्यते शम्भो- रग्रे ग्रन्थार्थगर्भिणी ॥२३॥ अर्घटसिदिति त्रोटयति इति अघण्टा, परा प्रकृष्टा, ग्रन्थार्थगर्भिणी-अन्तरितसकलवाच्य- वाचककलापा ॥ २३ ॥ कन्दानलोल्लसच्छक्ति- शिखां दीपशिखोपमाम् । उद्दीपयामि भगव- न्मोहध्वान्तापनुत्तये ॥ २४॥ अस्य पद्यस्य व्याख्यानमसमञ्जसं खण्डितपूर्वभागं च प्रतिभाति द्वयोरादर्शपुस्तकयोस्तथादर्शनात् यथावदेवोपन्यस्तम् । [परे धान्नि द्वादशान्ते अन्तरस्फुटतया अनाहता स्वयमुच्चरन्ती या परा वाक् नदति, सा घण्टा वाद्यते इत्यन्वयेन संगतः पदार्थः ] 4

२६
भावोपहारः
कन्दानलात् आधारमध्यधाम्नः उल्लसन्ती
शक्तिशिखा बिन्दुरूपा, तां शाक्तस्फारोद्दीपनात
दीपरूपां नादसूचिशेखरमुद्रानुप्रवेशेन उद्दीप-
यामि ॥ २४॥
वृत्तित्यागामृतकला-
चन्द्रश्चन्द्रकिरीटिनः।
समालम्भनवेवास्तु
मुमुक्षूणां विमुक्तये ॥२५॥
प्रमाणविपर्ययविकल्पनिद्रास्मृतिवृत्तिप्रहाण-
परिशिष्टतदनुप्राणकाविनाशबोधघनसाररूपं स-
म्यक् आलम्भनं समालम्भनं, सर्वाच्छुरणात्
समालम्भकं वा तादृशा एव हि मुमुक्षवो मुच्य-
न्ते इति । तदुक्तमुत्पलदेवपादैः
'योऽविकल्पमिदमर्थमण्डलं
पश्यतीश निखिलं भवद्वपुः।
स्वात्मपक्षपरिपूरिते जग-
त्यस्य नित्यसुखिनः कुतो भयम् ।।
इति ॥२५॥

श्रीमच्चक्रपाणिनाथविरचितः २७ नादशक्त्युदितं धाम मलत्रयविवर्जितम्। उष्णीषमस्तु ते रुद्र विद्रावितनभोगलम् ॥ २६॥ नादशक्तेः बिन्दूर्ध्वकलाया उदितम् उपरि- गतं नादान्ततेजोव्यपदेश्य प्रकाशकत्वात् धाम, तदेव अवच्छेदहेतुना आणवादिना मलत्रयेण विरहितम् , तथा विद्रावितनभोऽर्गलम् क्षपित- परव्योमानुवेधनिरोधकयन्थिचक्रम, उषणे विक- ल्पप्लोषणे ईशम् उष्णीषमिति अक्षरसाम्येनापि निरुक्तिः ॥ २६ ॥ भवद्भक्तिसुधासार- संप्लावितहृदम्बुधेः । प्रोल्लसब्रह्मकमल- ममलं तेऽस्तु शेखरम् ॥ २७॥ , पं० ६ ख० पु० नादान्तभैदेन व्यपदेश्यमिति पाठः ।

२८
भावोपहारः
अनुग्रहशक्तिरूपभत्त्यमृतवर्षागाधीकृतहत्समु-
द्रप्रतिभातब्रह्मपुण्डरीकं शिखान्तप्रान्तकोट्यवभा-
सनातं शेखरम् ॥ २७॥
बोधारबिन्दसंदोहो
हर हारलता तव ।
नित्योदितान्तरव्याप्ति-
कला चन्द्रकला च ते ॥२८॥
नानाकारकरणेश्वरीसमुपहृतविषयोपहारहार-
लतावतस्तदैक्यसमापत्तिमहाकाशव्याप्तिरेवाला-
दनदीप्तिधात्वर्थानुगमात् चन्द्रकला, तवेति चन्द्र-
कमलमीलननयः कोऽपि गुरुमुखरहस्यक्रम उद्दी-
पितः ॥ २८॥
आकृष्यार्ककरैः शाक्तै-
विश्वाकाशकुशेशयात्।
चिच्चन्द्रामृतनिःष्यन्द-
मास्वादय जगत्पते ॥ २९॥

श्रीमच्चक्रपाणिनाथविरचितः २९ , विश्वाकाशकुशेशयात् प्लावकरसयुक्त्या अखि- लविगलनक्रमेण । तदुक्तं मया चक्रेश्वरभैरवाष्टके 'भूतचतुष्टयकवलन- इंहिततनुगगनमप्यनुच्चण्डम् । परमाणुवत्महीणं यत्र नभस्तन्नुमः शैवम् ॥ इति।शाक्तैरर्ककरैर्महाकालसंकर्षिणीकिरणः चिद्रू- पचन्द्रपीयूषरसचर्वणेन चिन्नभसोऽपि उ. 'णतापादनानन्तरसकलधाम- घटनात् घोराघोरघस्मररावारावविद्रावणचक्राति- चक्रोत्तरमहास्फारमयमहामुद्राविद्रावणानुत्तरप- रपरिस्पन्दसौन्दर्यावद्योतनेनामावस्यावासनावा- सितः कोऽपि संप्रदाय उदृङ्कितः ॥ २९ ॥ मन्त्रं मनसि तच्छत्तौ तां स्वधानि सदोदिते । कृत्वा जपविधि सम्यक् शिवाय विनिवेदये ॥ ३० ॥ पं० ४ ख. पु० गगनमध्यमुच्चण्डम् इति पाठः ।

भावोपहारः . 'सहस्रो मानस' इति नीत्या मन्त्रमनाहतस- ततोचरदकुलभट्टारकाकारम् आ गोपालाङ्गनाबालम्लेच्छाः माकृतभाषिणः । अन्तर्जलचराः सत्त्वास्तेऽपि नित्यं ब्रुवन्ति तम् ॥ इति प्राणात्मिककलांशांशिकास्थितसमस्ततिथि- विषुवदयनपरिगमपूरपूरिताशेषजपफलमेकोचार- विप्रसृताक्षमालाक्षमालोपरिगताद्यन्तकर्मस्पन्दमे- रुपर्यावृत्तिदर्शितसृष्टिसंहारं मनसि अवधानमये कृत्वा, तदपि मनःप्राप्तमन्त्रसामरस्यं शक्तौ प्रथ- नप्रथमवीर्ये कृत्वा, शक्तिमपि निजमहिमनि नित्यमपरित्यक्तसार्वात्म्यसर्वोत्तीर्णतातिरेकमहो- दये सर्ववर्णानां शक्तिक्रमस्फुरिततत्तत्स्वरूपानु- प्राणनेन स्वरूपलाभात् । तदुक्तम् तदाक्रम्य बलं मन्त्राः' इति । एवं विधं जपमकरणकरणेन निर्वर्त्य, शिवाय स्वात्ममहेश्वरे तादर्सेन विशेषेण निरवशेष बुद्ध्ये सम्यक्, इत्येवंविधमहावीर्यस्फारसामरस्यमयसत- श्रीमच्चक्रपाणिनाथविरचितः ३१ , तोदितजपावधानातिरेकेण पशूनां जप उच्चरित- प्रध्वंसिवर्णनिर्वर्त्यः, एतत्परमार्थतायामपि निर्वी- र्यबीजतया न सम्यसिद्धिसाधनभावमश्रुत इति उक्तं भवति ॥ ३०॥ निःशेषार्थपरित्यागे ग्रहणे वामितद्युते । अनाबिलां परां व्याप्तिं मुद्रां बनामि धूर्जटे ॥३१॥ धुनोति सर्वे, रंहति सर्वत्र, जनयति सर्व, टीकते सर्वत्र इति आगूरिताक्रमचतुष्टयार्थों धू- जटिः। एतां लयोदयमुद्रामेकामपि पञ्चधा वक्ष्य- माणनयेन स्फुरन्ती बध्नामि आत्मसात्करोमि । अखिलार्थपरिहारे वा स्वीकारे वा अस्खलनात् अपरिच्छिन्नमहिमन्?, वेद्यवेदककालिकाभिः अक- लुषिताम् , अकृत्रिममहाव्याप्तिमयीम् । इयमेव च अन्तर्लक्ष्यबहिर्दृष्टिभावेन त्यागग्रहाभ्यां भैरवी, अखिलास्वादचमत्कारस्फुरणाभ्यामपि त्यागग्रह- ३२ भावोपहारः विग्रहा लेलिहाना, सर्वपरिक्षपणेन च स्वावशेष- मात्रेणापि त्यागग्रहात्मिकैव करङ्किणी, स्वरूपा- क्षमतायामपि तद्रासग्रनुस्फुरत्तासारैव तद्रूपैव कोधिनी, परव्योम्नि व्याप्त्युन्मिमिषासंजिहीर्षा- त्मकोल्लासोपशमसाध्यैव खे चरतीति खेचरी इत्ये- तल्लक्षणलक्षिततयैव सर्वमुद्राणामियमेकैव पञ्चधा प्रसरन्ती तत्तद्वचनभेदैश्चय॑ते चर्च्यते च ॥३१॥ शष्कुलकर्णयोद्धा यो रावोत्र विजृम्भते। तद्गीतमथ ते वाद्य- माद्यसंपुटघट्टनात् ॥ ३२॥ श्रोत्रपुटिकाबन्धयोः योऽन्तर्निनदन्निव सामा- न्यस्वररूपो योऽसौ, गीतं स एव, आद्यकन्दो- भयपक्षसंकोचात् नानानाडीवेणुवने विचरन् उप- जनितततधनसुषिरतारमन्द्रमध्यमभेदाङ्कुरितक- लाप्रस्तारास्तृतचञ्चत्पुटचाषपुटपञ्चपाणिप्रमुख- श्रीमच्चक्रपाणिनाथविरचितः मुखरतरतारभेदो वाद्यभावं भजते। 'शष्कुलीक- र्णयोरन्तर' इति वा पाठः-गोलकतच्छक्त्यारे- न्तरित्यर्थः । गोप्य इति पाठे भगवत आमन्त्रणम् स्वप्रकाशत्वादनन्यप्रकाश्य! इत्यर्थः, शष्कुलीक- र्णयोराद्यसंपुटघटनात् यो रावस्तद्गीतमिति अ- न्वीयते॥ ३२॥ भवद्भावरसावेशा- त्ताण्डवाडम्बरोडतः। मन्त्राध्वनि नदाम्यन्तः किमु बाह्यार्थभावनैः ॥३३॥ त्वन्मयतोत्कर्षेषु शृङ्गारादिष्वपि रसेषु आवे- शात्त्वदनुकारिविकीर्णनिजमरीचिमयकरकल्पित- संकीर्णासंकीर्णपताकादिसमुद्रोधितभाववैभवाभि- नयो भवाभवोद्धट्टनविघटनजवनिकाप्रवेशनिर्गम- नाकम्पितस्वरूपोऽपि नृत्तमारभे, तदुक्तं मया शिवरात्रिविचारवार्तिके पं० १ क० पु. बाह्यभावमिति पाठः । पं० ७ ख० पु. भवद्भक्तिरसेति, डम्बरोद्यत इति च पाठः । 5 ३४ भावोपहारः 'नित्यमात्तकरणक्रमोन्मिष- चित्रभावशतसंनिवेशिनी। निष्क्रियो निजमरीचिनर्तकी- नर्तयामि परवृत्तदैशिकः ॥ इति । मन्त्राध्वनि ध्वनिधामनि गुप्तभाषणप्रवण- पश्यन्तीपदे, यद्वा वाच्यवाचकाध्वषटूमध्यवर्ति- पञ्चमन्त्रमहिमनि, नदामि चिभैरवैकघनताप्रमोदेन गर्जामि । किं वराकैर्बाह्यविषयविकल्पातङ्कः, इति पररसपरितृप्तिमहोद्वारं प्रकटयति 'न माम्य- न्तः किमु बाह्येऽत्र भौवने' इति वा पाठः, तत्र न मामि न वर्ते किमु भौवने कलादौ अकलान्ते भुवनाध्वनि इत्यर्थः॥३३॥ अखण्डमण्डलाकार- शिवताभावनाम्बरम्। उपरिष्टान्मया शम्भो- वितानमुपकल्पितम् ॥ ३४॥ पं० ८ ख० पु० विकल्पाडम्बररिति पाठः । ,

श्रीमचक्रपाणिनाथविरचितः
वितनोति सर्व वितन्यते वा सर्वत इति
वितानम् ॥ ३४॥
रेचयित्वा करन्ध्रेण
भाचक्रं हृदयाम्बरात्।
धार्यते धूर्जटेरग्रे
चारुचामरवन्मया ॥३५॥
प्रबुद्धकुण्डलिनीस्पष्टीभावभासुरमध्यमधामद-
ण्डानुप्रेरणप्रयत्नप्रसृतब्रह्मबिलोत्कालितबैन्धवदी-
प्तिवृन्दं हृदयगगनप्रसृतं त्रिविधतापहारितया
चामरं धारयामि ॥ ३५॥
नासापुटकुटीकोटि-
विमृतैः प्रसृतैः पुरः।
तालवृन्तैरिव विभो
वीज्यसे हंसमारुतैः ॥ ३६॥
विसृतः प्रविष्टैः, प्रसृतैर्निर्गतैः, हंसमारुतैः
प्राणपवनैस्तालवृन्तैरिवोत्क्षेपकतुल्यैः ॥ ३६ ॥

भावोपहारः सर्वातपविनिर्मुक्तं भवद्भक्तिसुधासितम्। आतपत्रमथास्माभि- र्धार्यते ते महाशय ॥ ३७॥ विषयासङ्गकलिलरहितं, त्वन्मयतामृतविमलं छत्रं धार्यते ॥ ३७॥ ममतामन्दुरात्यागा- बैलोक्याकर्षणक्षमः। अहंकारतुरङ्गस्ते वाहनाय प्रकल्पितः॥३८॥ भवनिरावरणविजययात्रोपक्रमे नियताहन्ता- ममतापरिक्षये पूर्णाहन्तात्मकोऽहङ्कारो हयस्त्व- दतिवाहनाय ॥ ३८॥ स्वसंविन्नन्दनानन्द- नागवल्लीदलोज्वलम् ।

श्रीमच्चक्रपाणिनाथविरचितः वात्, . स्फुरत्स्पन्देन्दुसुरभि ताम्बूलं ते निवेद्यते ॥ ३९ ॥ ताम्बूलं -ताम्रभवामूलम् अखिलोपरञ्जक- निजबोधानन्दनन्दनोद्यानप्रफुल्लो, नागः शारीरः पवनविशेषः तस्य वल्ली प्रथमप्राणोद्भेद- शक्तिः तत्संपत्तिकासुन्दरम्, उद्गच्छदाद्येच्छाचि- मिचिमिकाकर्पवासिता-उभयोरपि सर्वचम- कारकत्वात् ॥ ३९ ॥ भोग्यभोक्तृविभेदोत्थ- वासनेन्धनसंचयम् । अद्वैताग्नौ जुहोम्यन्तः शांकरे श्रेयसां निधौ ॥४०॥ भोग्यभोक्तृविभागतद्गतवासनादारुविसरम् अविभागशम्भुधानि सामरस्य लम्भयामि ॥४०॥ प्रकाशाकाशहस्ताभ्या- मवलम्ब्योन्मनासुचम् ।

भावोपहार:
धर्माधर्मगलत्स्नेह-
पूर्णा वह्नौ जुहोम्यजे ॥४१॥
अजे सर्वादिसिद्धे पूर्वोदिते शिवधामहव्यभुजि
ग्राह्यग्राहकभेदवासनेन्धनदहनसमेधिते स्वरस-
विगलितप्रियाप्रियफलधर्माधर्मनिबद्धवासनाघृत-
पूर्णाहुतिं जुहोमि अविमर्शतद्विरामरूपसमनोन्म-
नापाणिभ्यां सूक्ष्मकरणशक्तितदुपरमाङ्गलिपञ्च-
कोपशोभिताभ्यां तदुपरिवर्तनात् 'उन्मन्यन्ते
परः शिव' इति दृशा उन्मनासूचं परिगृह्य पूर्णा
जुहोमि, इति संक्षयप्रधानायामपि वृत्तौ अविलु-
प्तमेव पारिपूर्ण्यम् - इति पूर्णकृशदेवतैकात्म्यमयः
कोऽपि नयः प्रथितः । उक्तं च मयैवाकुलका-
लिकात्रिंशिकायाम्
'स्वानन्दतस्त्रिभुवनं कवलं विधाय
स्वात्मानमप्यतितरां समदा असन्ती ।
तृप्ता तथाप्यपरिखण्डितनित्यसिद्ध-
स्वातन्त्र्यपूर्णविभवा कृशमूर्तिरव्यात् ।।'
इति ॥४१॥

श्रीमच्चक्रपाणिनाथविरचितः ३९ युष्मद्याननिशानाथ- किरणैरुपरञ्जितः। अन्तर्मानविधौ तेऽस्तु चित्तचिन्तामणिर्मम ॥४२॥ बाह्यव्यावृत्तिविगमपूर्वकम् अन्तर्मननम् अ- नन्यतया स्फुरणम् अन्तर्मानं तद्विधौ, त्वदनुभ- वशशिप्रकाशविवशीकृतः, चित्तमेव चिन्तामणि- र्भवत्समावेशेन तहदेव संकल्पमात्रेण सर्वसमुल्ला- सात् ॥ ४२ ॥ मोक्षलक्ष्मीकराम्भोज- पात्रे विन्यस्य संस्कृताम् । निवेदयामि भगवन् प्राणसर्वस्वदक्षिणाम् ॥४३॥ प्राणा एव तेषां वा सर्वस्वम् आणवं स्वरूप, तत् निवेदयामि-मायीयपारिमित्याभासनिरास- समुपलब्धसततसिद्धपरपारिपूर्ण्यवृंहिततया निः- भावोपहारः , शेषतो वेदयामि । मोक्षलक्ष्म्या भवौन्मुख्यपरावृ- त्तायाः संविद्देव्याः कराम्भसि परमवीचिनिः- घ्यन्दे जातं यत् पात्रं पातत्राणात्मकम् अवि- लुप्तम् अवधानं, तदर्पितं कृत्वा, संस्कृतां कृतशा- स्त्राचार्यसंप्रदायोपस्कराम् । तदेवं मायोपकल्पित- तत्तदवच्छेदविच्छेदिक्रमाक्रमचक्रचारमहासामर- स्यसमापत्तिप्रतिपादनेन यदेव 'नमः सूर्यकला' इत्यादिना प्रक्रान्तं तदेव पर्यवसितम् ॥ ४३ ॥ संसारवारिधेः सन्तः परं पारं तितीर्षवः। चन्द्रमौलेः श्रयन्तूच्चै- र्भावपूजातरण्डकम् ॥४४॥ श्रयन्तु अवधानेन सेवन्ताम् , भावपूजामयं तरण्डकं पोतम् ॥ ४४॥ इत्थमीशानचरण- नुतेर्यत्समुपार्जितम्। पं० १५ ग० पु० ईशानचरणौ नुत्वा इति पाठः ।

श्रीमच्चक्रपाणिनाथविरचितः श्रेयस्तेन जगत्कृत्स्नं वेपदोषाद्विमुच्यताम् ॥४५॥ नियतदर्शनावग्रहग्रहसमुद्गतदर्शनान्तरनिर्भर्स- नाखण्डनसमयलोपात् जगत् विमुक्तमस्तु, निय- तदर्शनहेवाकिता हि सर्वोदयविश्रामभूमिभूतपर- तत्त्वपरिखण्डनत्वामरत्वात् सर्वस्यैव परः प्रकारः। तदुक्तं मया कृतान्ततान्तिशान्तिस्तवे 'मायेयं बहुरूपतामुपगता नाना यथा ते विभो विद्याप्येवमनन्तभेदगहना नो चेत्कथं स्यादिदम् । नैःस्वाभाव्यगमेन केचन परे वैविक्त्यतः केऽपि वा सार्वात्म्येन परे तदुत्तरदृशा मुक्ताः परे सर्वतः ॥' इति । अद्वयद्वादशिकायामपि 'यद्यतत्त्वपरिहारपूर्वक तत्त्वमेषि तदतत्त्वमेव हि । यद्यतत्त्वमथ तत्त्वमेव वा तत्त्वमेव ननु तत्त्वमीदृशम् ॥ इति ॥ ४५ ॥ पं० ६ ख० पु० संसारस्यैवापर इति पाठः । - पं० १६ ख० न च तत्त्वमिति पाठः । 6 भावोपहार: स्तोत्रं गृहाण परमेश्वर विश्वसाक्षिन् मानावमानममतोज्झितचित्तवृत्तेः । मत्तस्त्वदलियुगपीठनिलीनमौले- भस्मावगुण्ठिततनोर्चकपालपाणे:४६ विश्वस्य साक्षी विश्वरूपोवा आमच्यते, मानाव- मानयोः ग्रहणाग्रहणयोः निष्प्रपञ्चप्रपञ्चयोः मम- तया उज्झिता चित्तवृत्तिर्यस्य तयुक्ता वा त्यक्ता चित्तवृत्तिर्येन, अंहः पापं हरति इति, अहंकृदेव वा अभिः तद्युगम् अनावरणज्ञानक्रियारूपं तस्य पीठं परमशिवरूपं तत्र निलीनमौलेः प्रशान्तक- रणचन्द्रपञ्चककचितचित्तशेखरस्य, तथा भस्मना कारणपञ्चककञ्चकोपचयप्लोषपरिशिष्टेन अखिल-. भूतिहेतुना अवबोधभूतिविभवेन अवगुण्ठिता आच्छादिताः तनवः मिततया स्फुरन्तः सर्वभावा येन, नुः अणोर्यकपालं, के महास्वातन्यरूपम् अनवच्छिन्नं ब्रह्म पालयति गोपायतीति नृकपालं श्रीमच्चक्रपाणिनाथविरचितः OC AN कपरं तत् पाणौ एकस्मिन् उद्दुभूषामरीचिलक्षणे मिततया इयत्तया तुलितं यस्य स तथोक्तः ४६ महापाशुपतोद्याने कश्चिदिश्रम्य तापसः। चक्रे चिच्चक्रनाथस्य शम्भोर्भावनुतिं पराम् ॥४७॥ निरस्तशास्त्रार्थविकल्पजाला देव्यः श्मशाने करवीरकाख्ये ।' इति दृशा भस्मशब्दव्याख्यानवर्णितस्वरूपे महा- पाशुपतोद्याने, भैरवाणां पशूनां पतिरकलित- चिच्चक्रेश्वरात्मकः तदुद्याने तदूर्ध्वयाने सर्वाति- शायिनि, विश्रम्य अनन्यतया प्रतिष्ठां प्राप्य, अत एव कश्चित् अज्ञायमानपशुपरिकल्पितनियतसं- ज्ञावच्छेदो, महति तपसि चित्समावेशमये भवः तापसः चिच्चक्रनाथस्य सर्वसंविनदीभेदाभिन्नविश्रामभूमये । नमः प्रमातृवपुषे शिवचैतन्यसिन्धवे ॥ - भावोपहारः इत्यादिना राजानकोत्पलदेवनिर्वर्णितस्वरूपस्य शम्भोः श्रेयःप्रभवस्य भावेन सर्वभावैक्यसमाप- त्तिसमावेशमयेन नुतिं परां चक्रे, इति चक्रना- थ-चक्रेशब्दाभ्यामात्मनः चक्रपाणिनाम द्योत- यति ॥४७॥ 'अदृष्टविग्रहागतं मरीचिचक्रविस्तरम् । अनुग्रहैककारणं नमाम्यहं गुरुक्रमम् ॥' योगानन्दाभिधानद्विजवरवदनायातपीठेशिदेवी- पादावद्योतिताज्ञप्रणयनजनितानन्तसोत्साहहर्षः । स्तोत्रे भावोपहारे विवरणमकरोद्रम्यदेवो द्विजन्मा जन्माद्यायासभङ्गप्रवणमतिलसत्सदहस्योपदेशः ।। इति श्रीचक्रपाणिनाथविरचिते भावोपहारस्तोत्रे विवरण समाप्तम् कृतिस्तत्रभवद्भज्योग्देवात्मज-भश्रीरम्यदेवस्य ।।

श्रीमच्चक्रपाणिनाथविरचितः सद्विद्यानां संश्रये ग्रन्थविद्वद्- व्यूहे ह्रासं कालवृत्त्योपयाते । तत्तत्सद्धर्मोदिधीकतान- सत्प्रेक्षौजाशालिना कर्मवृत्त्यै ॥१॥ श्रीमत्कश्मीराधिराजेन मुख्यै- धर्मोद्युक्तैर्मत्रिभिः स्वैर्विवेच्य । प्रत्यष्ठापि ज्ञानविज्ञानगर्भ- ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः ॥ २ ॥ तत्राजीवं निर्विशद्भिर्मुकुन्द- रामाध्यक्षत्वाश्रितैः सद्भिरेषः । पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात् पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् ॥ ३ ॥ (तिलकम् ) श्रीस्वात्मशिवार्पणमस्तु ॥ 7

No text on this page.

ओं नमोऽनन्तचिन्मूर्तये शंकराय ।
N
अथ
बोधपञ्चदशिका।
श्रीमदाचार्याभिनवगुप्तपादविरचिता
ओं अनस्तमितभारूप-
स्तेजसां तमसामपि।
य एकोऽन्तर्यदन्तश्च
तेजांसि च तमांसि च ॥१॥
स एव सर्वभूतानां
स्वभावः परमेश्वरः।
भावजातं हि तस्यैव
शक्तिरीश्वरतामयी ॥२॥
शक्तिश्च शक्तिमद्रूपा-
यतिरेकं न वाञ्छति ।
तादात्म्यमनयोर्नित्यं
वह्निदाहिकयोरिव ॥३॥

बोधपञ्चदशिका स एव भैरवो देवो जगद्भरणलक्षणः। स्वात्मादर्श समयं हि यच्छक्त्या प्रतिबिम्बितम् ॥४॥ तस्यैवैषा परा देवी स्वरूपामर्शनोत्सुका। पूर्णत्वं सर्वभावेषु यस्य नाल्पं न चाधिकम् ॥५॥ एष देवोऽनया देव्या नित्यं क्रीडारसोत्सुकः। विचित्रान्सृष्टिसंहारा- विधत्ते युगपद्विभुः ॥६॥ अतिदुर्घटकारित्व- मस्यानुत्तममेव यत् । एतदेव स्वतन्त्रत्व- मैश्वर्यं बोधरूपता ॥७॥ परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ।

बोधपञ्चदशिका यत्तत्त्वस्य परिज्ञानं स मोक्षः परमेशता। तत्पूर्णत्वं प्रबुद्धानां जीवन्मुक्तिश्च सा स्मृता ॥ १३ ॥ एतौ बन्धविमोक्षौ च परमेशस्वरूपतः। न भिद्यते न भेदो हि तत्त्वतः परमेश्वरे ॥१४॥ इत्थमिच्छाकलाज्ञान- शक्तिशूलाम्बुजाश्रितः। भैरवः सर्वभावानां स्वभावः परिशील्यते ॥१५॥ सुकुमारमतीशिष्या- प्रबोधयितुमञ्जसा। इमेऽभिनवगुप्तेन श्लोकाः पञ्चदशोदिताः॥१६॥ समाप्ता चेयं बोधपञ्चदशिका । कृतिमहामाहेश्वराचार्यवर्य-श्रीमदभिनवगुप्तपादानाम् । प्रकाशिता च काश्मीरमहाराजाश्रितपण्डित-मुकुन्दराम-शास्त्रियम् । मुंबई- तत्त्वविवेचक" प्रेस.

ओं नमोऽनुत्तरप्रकाशशंकराय । હાથ अनुत्तरप्रकाशपञ्चाशिका। श्रीआद्यनाथविरचिता । अकृत्रिमाहमामर्शप्रकाशैकघनः शिवः । शक्त्या विमर्शवपुषा स्वात्मनोऽनन्यरूपया॥१॥ शिवादिक्षितिपर्यन्तं विश्वं वपुरुदश्चयन् । पञ्चकृत्यमहानाट्यरसिकः क्रीडति प्रभुः ॥२॥ पृथगर्थमर्थवत्ता विश्वविश्वशरीरयोः। न विश्वविश्ववपुषोभिन्नता कापि तात्त्विकी ॥३॥ भेदे सत्तास्फुरत्ताभ्यां भिन्नं किं तु जगद्भवेत् । सत्तास्फुरत्तासंबन्धात्सत्ता भानं च तन्न चेत्॥४॥ असतः किं सतस्ताभ्यां संबन्धः सोऽयमिष्यते। स्वरूपलाभसुलभः संबन्धो नह्यवस्तुनः ॥५॥ न लब्धरूपसंबन्धे ताभ्यां किंचिदपेक्ष्यते ।

अनुत्तरप्रकाशपञ्चाशिका अपेक्षायामवस्थानं न स्यादेतस्य किंचन ॥६॥ स्वभावतः स्फुरत्ता च सत्ता च न विनाशिनी। विनाशानभ्युपगमे जडतापि निवर्तते ॥७॥ ततो गत्यन्तराभावाच्चिदेव परिशिष्यते । सतश्चिदैक्यं प्रकृतं कदाचिन्न निवर्तते ॥८॥ प्रकाशोऽनन्यतो भावः स्वातन्योल्लासकेवलः । परिच्छिन्नात्मिका शक्तिः शम्भोविश्वातिशायिनः ॥९॥ यत्प्रकाशात्मकं सर्व तमःकेवलतां गतम् । यच्च किंचिजगदेतत्प्रकाशादतिरिच्यते ॥१०॥ विमृश्यसरणी प्राप्तमित्येषा तात्त्विकी मतिः। अवभासैकतानानां मतिरेकात्र साक्षिणी ॥११॥ किं प्रमाणैर्वराकैस्तैश्चिदनुप्राणितात्मभिः । नहि वैकर्तनं ज्योतिर्दीपालोकमपेक्षते ॥ १२॥ शक्तिपातपवित्रेऽस्मिन्धीतत्त्वे च परीक्ष्यताम् । आदर्शविमलाभोगे न तु सर्व प्रकाशते ॥१३॥ :

श्रीआद्यनाथविरचिता इत्थं चिदात्मकं सर्वं षट्विंश दतत्त्वतः। आदौ शुद्धात्मकं तत्त्वं पञ्चधा तमसः परम् ॥१४॥ शिवः शक्तिश्च सादायमीशो विद्येति भिद्यते। अक्षादिशान्तवर्णात्मा निरमायि शिवेन तु ॥१५॥ कलाविद्यारागकालनियतिबन्ध उच्यते । मायापूर्वो वकारादिक्षकारान्ताक्षरात्मकः ॥१६॥ पुमाशक्तिर्मनो बुद्धिरहंकारादिपञ्चकम् । श्रोत्रादिपञ्चकं तादि टादि वागादिपञ्चकम् ॥१७॥ तन्मात्रपञ्चकं चादि कादि व्योमादिपञ्चकम् । सिमृक्षोः प्रथमस्पन्दः शिवतत्त्वं विभोः स्मृतम् ॥१८॥ इच्छैव सापरिम्लाना शक्तितत्त्वमुदञ्चयन् । स्वेच्छया सूचितं विश्वमाच्छाद्याहन्तया स्थि- तम् ॥ १९॥ १ इत्थमित्यादि पद्यपञ्चकं ग्रन्थान्तरैर्विसंवाद्यर्थकमादर्शान्तरानुप- लब्ध्या यथावदुपन्यस्तम् ।

४ अनुत्तरप्रकाशपञ्चाशिका स एव तत्त्वं सादाख्यं सर्वानुग्रहणोद्यतम् । स एवेश्वरतत्त्वं स्यात्पश्यन्विश्वमिदन्तया॥२०॥ इदन्ताहन्तयोरैक्यमिति विद्या निगद्यते । स्वाङ्गकल्पेषु भावेषु मायातत्त्वं विभेदधीः॥२१॥ मायागृहीतसंकोचः शिवः तत्त्वमुच्यते । अयमेव हि संसारी जीवो भोक्तैव दृश्यते ॥२२॥ ज्ञत्व-कर्तृत्व-पूर्णत्व-नित्यत्वान्यस्य शक्तयः । तत्संकोचात्संकुचितः कलाद्यात्मतया मतः॥२३॥ मायात्मकं कला नाम किंचित्कर्तृत्वकारणम् । विद्या किंचिज्ज्ञताहेतू रागोऽभिष्वङ्गकारणम् २४ कालः परिच्छेदकरो नियतिश्चेदमेव मे । कर्तव्यं नान्यदित्येषा व्यवस्था यन्त्रणाकृतिः २५ प्रकृतिर्गुणसाम्यं स्यादहंकारादिजन्मभूः । अहं ममेदमित्येतद्बुद्धिहेतुरहंकृतिः॥२६॥ बुद्धिरध्यवसायस्य कारणं निश्चयात्मनः । संकल्पस्य विकल्पस्य बीजं मन उदीर्यते॥२७॥ वचनादेश्च शब्दादेर्वागादि-श्रवणादिकम् ।

श्रीआद्यनाथविरचिता कारणं श्रवणादीनां ग्राह्यं तन्मात्रपञ्चकम्॥२८॥ आकाशाद्यवकाशादिकारणं भूतपञ्चकम् । परापराशक्तिमये शुद्धे विद्यादिपञ्चकम् ॥२९॥ तदन्यदपराशक्तिरित्येतत्तत्त्वमीरितम् । इयं देवी पराशक्तिः शुद्धाशुद्धाध्वगर्भिणी॥३०॥ पृथिव्यादीनि तत्त्वानि यदा लीनानि कारणे । तदा कारणमात्राणि बहिरुद्वमते विभुः ॥३१॥ अनुत्तरेच्छे उन्मेष आनन्देशनमूनता । क्रियेच्छाज्ञानशक्तीनां सत्ता षट् ॥ ३२॥ इच्छेशनान्तरारूढा स्फुटास्फुटजगन्मयी । चत्वारः परतो वर्णाः षण्डात्मानः प्रचोदिताः ॥३३॥ अनुत्तरानन्दरूढा स्फुटास्फुटजगन्मयाः। चत्वारः परतो वर्णाः षण्डात्मानः प्रचोदिताः ॥३४॥ अनुत्तरानन्दशक्तिस्त्रिकोणादृत्तियोगतः । १ अनुत्तरेत्यादित्रिपद्येष्वर्थासंगत्या पाठाशुद्धिः प्रतिभाति ।

अनुत्तरप्रकाशपञ्चाशिका -- तथैवोन्मेषयोगेन क्रियाशक्तेः स्फुटं वपुः॥३५॥ उक्तं त्रिशक्तिसंघट्टात्रिशूलं द्वैतघस्मरम् । परस्परविरोधे तु कार्येषु प्रविरोहति ॥ ३६॥ न कथंचिदुपादेयमासां रूपमिदं भवेत् । बिन्दुर्वेद्यस्य संस्कारो विमर्शः सर्ग इत्यसौ॥३७॥ कलाषोडशकाकारा शक्तिर्विजयते परा। तिथयः प्रतिपत्पूर्वाः पञ्चदशेति मायया ॥३८॥ सूर्याचन्द्रमसौ स्वान्तश्चरन्तौ स्थितिहेतवे । यथा विमर्शवपुषः सर्गस्याद्याः कलाः स्मृताः ॥३९॥ द्विधेयं मातृका देवी बीजयोन्यात्मना स्थिता। नित्यप्रवृत्तशृङ्गाटवपुर्विश्वस्य जन्मभूः ॥ ४०॥ हृदयं बीजमेतस्यां सारं यत्तत्परं महः । वटबीजे यथा वृक्षस्तथात्र निहितं जगत्॥४१॥ विचार्यमाणे नैवेदं कारणादतिरिच्यते । मृदादेः कलशादीनां तत्त्वं नान्यन्निरूपणे॥४२॥ इत्याहुस्तत्त्ववादिन्यः श्रुतीनामन्तिमा गिरः ।

श्रीआद्यनाथविरचिता
इदं सर्वं सदेवासीदने इति विनिश्चयात् ॥४३॥
सत्तावाचिनि बीजेऽस्मिन्भाति माया त्विदं जगत्
विल्लुप्तप्रत्ययाकारमेतत्स परिशिष्यते ॥४४॥
ततो ज्ञानक्रियासारविद्येश्वरसदाशिवाः ।
शक्तित्रिशूले लीयन्ते चतुर्दशकलात्मनि॥४५॥
ऊर्ध्वाधः सृष्टिवपुषि सर्व लीनमतः [परम् ] ।
इत्थं परस्यां संवित्तौ सर्वं संकुचितं क्रमात्॥४६॥
अथ वा मनसातीते यत्र कापि निरञ्जने ।
पर्दिशत्तत्त्वलहरीकलहातीतगोचरे ॥१७॥
विश्वात्मनि महामन्ने स्वभावे सा विलीयते ।
कुतश्चिन्मथिते धाम्नि दीप्ते केनापि हेतुना॥४८॥
सर्व हविरिदं जुह्वन्न दारिद्येण पीड्यते ।
पञ्चपञ्चात्मकं विश्वं पञ्चस्पन्दविजृम्भितम्॥४९॥
संकोचयत्परामर्शात्सामान्यस्पन्दकेवलम् ।
अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः॥५०॥
पराक्रमपरो भुङ्के स्वभावमशिवापहम् ॥ ५१॥

८ अनुत्तरप्रकाशपञ्चाशिका इति षडधिकत्रिंशद्भेदप्रसक्तजगत्तनुः प्रसरति महाशक्त्युल्लेखविचित्रमहापटी। जयति बहुशः स्पन्दाकारा परा चिदनुत्तरा विमृशत जनाः किं नो भूयः स्वभावविज- म्भितम् ॥ इति श्रीमदाद्यनाथविरचिता अनुत्तरप्रकाशपञ्चाशिका समाप्ता ॥ सेयं काश्मीरभूपालसंश्रितेन प्रकाशिता । सता मुकुन्दरामेण सन्मदेऽस्तु शिवेऽर्पिता ॥ मुंबई-"तत्त्वविवेचक " प्रेस.

THE KASHMIR
KASHMIR SERIES
OF
TEXTS AND STUDIES.

No text on this page.

PARA PRĀVESHIKĀ
DEPARTMENT JAMMU.
KASHMIR SERIES OF TEXTS
AND STUDIES.
No. XV.
THE
OF
KŞHĒMARĀJA.
EDITED WITH NOTES
MAHĀMAHOPADHYAYA PANDIT MUKUNDA RĀMA SHASTRI,
OFFICER-IN-CHARGE RESEARCH DEPARTMENT,
JAMMU AND KASHMIR STATE,
SRINAGAR.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT
OF HIS HIGHNESS LIEUT.-GENERAL MAHĀRĀJA
SIR PRATĀP SINGH SAHIB BAHADUR,
G. C. S. I., G. C. I. E.,
MAHĀRĀJA OF JAMMU AND KASHMIR STATE.
BY
HVASTI
JIWHS
THI copy Links
BOMBAY:
PRINTED AT THE TATVA-VIVECHAKA
1918.
PRESS.
(All rights reserved.)

श्रीमच्छ्रीकण्ठनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गों
लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः ।
कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रजयन्सर्वदेश्यान्
देशेऽप्यस्मिन्नदृष्टो घुसृणविसरवत्स्तान्मुदे सजनानाम् ॥ १॥
तरत तरसा संसाराब्धि विधत्त परे पदे
पदमविचलं नित्यालोकप्रमोदसुनिर्भरे।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं
प्रसभविलसत्सद्युक्त्यान्तःसमुत्प्लवदायिनम् ॥२॥

काश्मीर-संस्कृतग्रन्थावलिः । ग्रन्थाङ्क: १५ पराप्रावेशिका श्रीमन्महामाहेश्वराचार्यवर्य-श्रीक्षेमराजाचार्यविरचिता श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज- श्रीप्रतापसिंहवर-प्रतिष्ठापिते प्रत्नविद्याप्रकाश-(रिसर्च) कार्यालये तदध्यक्ष-महामहोपाध्याय-पण्डित-मुकुन्दराम-शास्त्रिणा उद्दिष्ट कार्यालयस्थेतरपण्डितसहायेन संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य मुम्बय्यां तत्त्वविवेचकाख्य-मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीता Polincil शस्ता रणवीरता MA POHVASILE JHLA AS संवत् १९७५ खैस्ताब्दः १९१८ काश्मीर-श्रीनगर अस्य ग्रन्थस्य सर्वे प्रकाशन-मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः स्वायत्तीकृताः सन्ति)

Printed by
Bhiwaji Hari Shinde at the “ Tatva-Vivechaka " Press,
Nos. 1, 2, 3, Khetwadi Back Road, Bombay;
and Published by
the Research Department, Srinagar, Kashmir.

ओं नमः शिवाय निखिलतत्त्वात्मने अथ पराप्रावेशिका श्रीमन्महामाहेश्वराचार्यवर्यक्षेमराजविरचिता । विश्वात्मिकां तदुत्तीर्णी हृदयं परमेशितुः । परादिशक्तिरूपेण स्फुरन्तीं संविदं नुमः॥ इह खलु परमेश्वर प्रकाशात्मा, प्रकाशश्च विमर्शस्वभावः, विमर्शो नाम विश्वाकारेण विश्वप्रकाशेन विश्वसंहरणेन च (१) ननु परमेश्वरः प्रकाशस्वभावत्वेऽपि किं शान्तब्रह्मवादिनामिव केवलबोधस्वभावः स्यादित्याशङ्कयाह प्रकाशश्चेति । (२) विमर्शी हि परिमितापरिमितत्वाभ्यां द्विधा, तत्र परिमितत्वे शून्यादिप्रमात्रुचितेन तेन संवित्प्रकाशस्य परिच्छिन्नत्वं मा भूदित्याश- २ पराप्रावेशिका अकृत्रिमाहम् इति विस्फुरणम् । यदि निर्विमर्शः स्यात् अनी- श्वरो जडश्व प्रसज्येत । एष एव च विमर्शः-चित् , चैतन्यं, स्वरसोदितापरावाक् , स्वातन्त्र्यं, परमात्मनो मुख्यमैश्वर्य, कर्तृ- त्वं, स्फुरत्ता, सारो, हृदयं, स्पन्दः इत्यादिशब्दैरागमेघूद्धोध्यते, येनाह विमर्शी नामेति, स च विमझे विश्वाकारेण सृष्टौ, तत्प्रकाशेन स्थितौ, स्वात्मसात्कारात्मना संहरणेन संहारे च पूर्णाहन्ताचमत्कारात्मक इति यावत् । (३) यदीति । विमर्शविकल: सूर्यादिप्रकाशो यथा परापेक्षत्वात् जडपक्षपाती अस्वातन्त्र्यमाश्रितवान् तथैव निर्विमर्शतया संवित्प्रकाशेऽपि प्रसक्तिरापतेदिति भावः। (४) इह शैवशासननये संवित्प्रकाशस्य विमर्शप्राधान्यमेव तत्तदा- गमेषु समुद्भुष्टं, स एव भिन्नभिन्नाभिरागमभाषाभिराम्नायते, यथा-चैत- न्यमिति विमर्श एव मुख्यमात्मनो रूपमित्यभिप्रेत्य धर्मवाचिना शब्देन निर्देशः कृतः । तथा स्वरसोदितापरावाक् इति - वक्ति विश्वमभिलपति प्रत्यवमर्शेनेति वाक्, सैव परामर्शान्तराणामाधारभूतत्वात् पूर्णत्वाञ्च परा, अत एव अनिरुद्धप्रसरत्वात अहमिति परिपूर्णचिद्वपुषा सदोदितत्वात् स्वरसोदितेति । तथा स्वातत्र्यमिति, स्वातन्त्र्यं च संयोजनवियोजनादि- रूपं स्वस्मात् बहिष्कृतमिदन्तापदं स्वात्मनि संयोजयति, संयोज्यापि वि- योजयति, शून्यादिभूमिकायां च न्यग्भावयति,- इत्यादिलक्षणत्वेन जडाद्वैलक्षण्याधायीति । तथा ऐश्वर्यमिति विश्वसर्गादावनन्यापेक्षित्वं न तु अस्य मायागर्भाधिकारिणो ब्रह्मादेरिव परेच्छावशवर्तित्वेन नियतिनियन्त्र- णावस्वम् इति । तथा कर्तृत्वमिति, एतदेव कर्तृत्वं यत् अलौकिकेन श्रीमन्महामाहेश्वराचार्यवर्यक्षेमराजविरचिता अत एव अकृत्रिमाहमिति-सतत्त्वः स्वयंप्रकाशरूपः परमे- श्वरः पारमेश्वर्या शक्त्या शिवादि-धरण्यन्तजगदात्मना स्फु- रति प्रकाशते च । एतदेव अस्य जगतः कर्तृत्वमजडत्वं च, जगतः कार्यत्वमपि एतदधीनप्रकाशत्वमेव, एवंभूतं जगत् , कार्यकारणभावेन स्वान्तःप्रकाशैक्येन स्थितस्य शिवादेः पृथिव्यन्तस्य विश्वस्य इदन्तया समुन्मीलनं योगिनिर्माणवत् इति । तथा स्फुरत्तेति स्फुरणसंबन्धः, तटादेर्नास्ति, तथात्वे हि सर्वेषां सदैव घटादिकं प्रस्फुरत् न कस्यचिद्वति सर्वसर्वज्ञता तद्विपर्ययो वा प्रसज्येत, अतो मम स्फुर- तीति मदीयं स्फुरणमाविष्ट इत्यर्थः । सारमिति अतुच्छं रूपं, सा परमे- श्वरस्य विमर्शशक्तिरेवेति । हृदयमिति विश्वप्रतिष्ठास्थानत्वात् । स्पन्द इति अचलस्य चित्प्रकाशस्य चलत्ताभासनं, यत् तत्र अनतिरिक्तत्वेपि अतिरिक्ततयेव विश्वावभासनमित्यर्थः । (५) विमर्शशक्तिमाहात्म्यादेव परमेश्वरो विश्ववैचित्र्यप्रथात्मना स्वा- मनैव समुल्लसतीति प्रतिपादयन् विमर्शशक्तिलक्षणमुपसंहरति अत एवेति । मायाप्रकृत्यादेर्जगत्सृष्टौ कारणान्तरस्य भेदाभेदविकल्पैरुपह- तत्वात् न तत्कर्तृत्वमुपपद्यते इति भावः । (६) यद्विश्वात्मना परमेश्वरस्य प्रस्फुरणम् इदमेव पारमार्थिकं कर्तृत्वं, तत्स्फुरणात्मनैव प्रकाश्यमानस्य विश्वस्याजडभावोऽपि स्यादित्याह एतदेवेति । (७) ननु जगद्विषयं कीदृक् कार्यत्वं भेदेनाभेदेन वा, भिन्नत्वे त- पं० २० ख० पु० भिन्नत्वे हि इति पाठः ।

४ पराप्रावेशिका प्रकाशरूपात् कर्तुमहेश्वरादभिन्नमेव, भिन्नवेद्यत्वेऽप्रकाशमा- नत्वेन प्रकाशनायोगात् न किंचित्स्यात्, अनेने च जगता अस्य भगवतः प्रकाशात्मकं रूपं न कदाचित् तिरोधीयते, एतत्प्रकाशनेन प्रतिष्ठां लब्ध्वा प्रकाशमानमिदं जगत् आत्मनः पाणभूतं कथं निरोढुं शक्नुयात्, कथं च तन्निरुथ्य स्वय- मवतिष्ठेत, अश्विास्य वस्तुनः साधकमिदं बाधकमिदं प्रमाण- मित्यनुसंधानात्मकसाधकबाधकममातृरूपतया चास्य सद्भावः, तत्सद्भावे किं प्रमाणम्? - इति वस्तुसद्भावमनुमन्यतां, ताह- स्वभावे किं प्रमाणम् ? - इति प्रष्टरूपतया च पूर्वसिद्धस्य स्कर्तुः परमेश्वरस्य स्वातच्यं नाम विघटेत, अभिन्नत्वे कथं तत् इत्या- शङ्कयाह जगत इति । अस्य जगतः परप्रकाशं विना अचेत्यमानत्वात् स्वात्मलाभो दुर्घटः, तदाश्रयत्वावलम्बनात् तत् प्रकाशशरीरतामेतीत्ये- तदेव कार्यत्वं, केवलं मायास्वातन्त्र्येण भेदोद्भासनादभिन्नत्वेऽपि भिन्न- व्यवहार इति भावः । (८) अभेदत्वे विश्वं भातुं प्रगल्भेत, अन्यथा स्वरूपशून्यत्वात् वि- श्वव्यवहारो हानादानादिरूपो विनश्येदित्याशयेनाह भिन्नवेद्यत्वे इति । (९) ननु यदि जगत् परमेश्वरादभिन्नं तत् प्रकाशैकरूपस्य जगतो भासमानत्वात् परमेश्वरे सारूप्यभेदो दुर्वारः, तेनापि तस्य तिरोधीय- मानत्वं भवेदिति शङ्कां निवारयन्नाह अनेनेति । प्रत्युत स्वात्मनि लब्धे- ऽपि प्रकाशावरणात् स्वयमेव नष्टं भवेदित्यर्थः । (१०) ज्ञापकादिकारकाणि पूर्वसिद्ध ईश्वरे व्यापरीतुं न शक्नुवन्ती- श्रीमन्महामाहेश्वराचार्यवर्यक्षेमराजविरचिता महेश्वरस्य स्वयंप्रकाशत्वं सर्वस्य स्वसंवेदनसिद्धम् । किं च प्रमाणमपि यमाश्रित्य प्रमाणं भवति तस्य प्रमाणस्य तद- धीनशरीरप्राणनीलमुखादिवेद्यं चातिशय्य सदा भासमानस्य वेदकैकरूपस्य सर्वप्रमितिभाजः सिद्धौ अभिनवार्थप्रकाशस्य प्रमाणवराकस्य कचोपयोगः। एवं च शब्दराशिमयपूर्णाह- त्याशयं गृहीत्वा तद्विध्यादिकर्तुः प्रमातुरपि ताप्येण सत्वात् न तसिद्धिः प्रमाणाधीना, इत्यतः स्वप्रकाशस्वं तस्यानुभवसिद्धमित्याह अतश्चास्यति (११) संवित्प्रकाश एव सर्वजीवितभूतो मायीयव्यवहारे प्रमाण कल्पयति इत्यतः पूर्वसिद्धत्वात् तत्र प्रमाण किमपि नोपयुज्यते इत्याह किं चेति । परप्रकाशापेक्षयान्यत्सर्वं जडतया स्वात्मानमपि भासयितुम- शक्तं कथं परं व्यवस्थापयितुमुद्यच्छेदिति यावत् । (१२) कश्च उपयोग इति, प्रमाणं नाम अभिनवाभासरूपं प्रमातरि प्रमितिलक्षणां विश्रान्ति विदधत् प्रमाणं भवति, प्रमाता च नित्यावभा- सितत्वादविच्छिन्नाभासः सर्वाः प्रमितीः स्वात्मनि अन्तर्मुखरूपे भजते, तत् तस्मिन् कथमभिनव आभास उपयुज्यताम् तत्प्रमितिश्च कुत्रान्यत्र विश्राम्यतु, तस्मात् देहप्राणनीलसुखादिवेद्य एव प्रमाणोपयोगः न तु प्रमाणजीवितभूते परमेश्वरे । तदुक्तम् 'प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते । तेषामपि परो जीवः स एव परमेश्वरः ॥' इति । (१३) शब्दराशिमयेति, शब्दराशिः - अकारादि-हकारान्तो वर्णस- 2 पराप्रावेशिका our न्तापरामर्शसारत्वात् परमशिव एव पड्रिंशत्तत्त्वात्मकः प्र- पञ्चः । षट्त्रिंशत्तत्वानि च,- १ शिव २ शक्ति ३ सदा- शिव ४ ईश्वर ५ शुद्धविद्या ६ माया ७ कला ८ विद्या ९ राग १० काल ११ नियति १२ पुरुष १३ प्रकृति १४ बुद्धि १५ अहंकार १६ मनः १७ श्रोत्र १८ त्वक् १९ चक्षुः २० जिह्वा २१ घ्राण २२ वाक् २३ पाणि २४ पाद २५ पायु २६ उपस्थ २७ शब्द २८ स्पर्श २९ रूप ३० रस ३१ गन्ध ३२ आकाश ३३ वायु ३४ वह्नि ३५ सलिल ३६ भूमयः, इत्येतानि । अथैषां लक्षणानि । तत्र शिवतत्त्वं नाम इच्छा-ज्ञान-क्रि- यात्मककेवल पूर्णानन्दस्वभावरूपः परमशिवें एव । अस्य ज- गत् स्रष्टुमिच्छां परिगृहीतवतः परमेश्वरस्य प्रथमस्पन्द ए- मूहो गर्भीकृतसमस्तविश्वस्तन्मयो योऽनन्यमुखप्रेक्षित्वस्वातत्रयविश्रान्ति- रूपः 'अहमेव प्रकाशात्मा प्रकाशे' इत्येवं-रूपः पूर्णाहन्तापरामर्शः स एव सारम् अतुच्छं रूपं यस्य तस्य भावस्तस्माद्धेतोरित्यर्थः । (१४) षदत्रिंशत्तत्त्वानि, तस्य भावस्तत्त्वम् इति भिन्नानां वर्गाणां वर्गीकरणनिमित्तं यदेकमविभक्तं भाति तत्तत्त्वम् , यथा गिरिवृक्षपुर- प्रभृतीनां नदीसरःसागरादीनां च पृथिवीरूपत्वमब्रूपत्वं चेति (१५) सर्वप्रमातॄणामन्तः परिस्फुरत्पूर्णाहन्ताचमत्कारमयं सर्वतत्त्वो- त्तीर्ण सकलतत्त्वराशिगतसृष्टिसंहारशतसहस्रप्रतिबिम्बनसहिष्णु महाप्र- काशवपुः शिवतत्त्वम् ।

श्रीमन्महामाहेश्वराचार्यवर्यक्षेमराजविरचिता वेच्छाशक्तितत्त्वम् अप्रतिहतेच्छत्वात् , सदेवाङ्करायमाण- मिदं जगत् स्वात्मनाहन्तयाच्छाद्य स्थितं रूपं सदाशिवत- त्वम् , अङ्कुरितं जगदहन्तयाऋत्य स्थितमीश्वरतत्त्वम् , अहन्ते- दन्तयोरैक्यप्रतिपत्तिः शुद्धविद्या, स्वस्वरूपेषु भावेषु भेदप्रथा मायाँ, यदा तु परमेश्वरः पारमेश्वर्या मायाशत्या स्वरूपं (१६) तस्यैव स्वस्वातन्त्र्यमाहात्म्यात् बहिरुल्लिलसिषया परानन्द- चमत्कारोद्रेकात् अहमिति परामर्शः शक्तितत्त्वम् । (१७) यदा परमेश्वरः शुद्धचिन्मात्राधिकरण एवाहमित्यंशे इदमंश- मुल्लासयति तदा तस्य प्रोन्मीलितमानचित्रकल्पभावराशिविषयत्वेन अ- स्फुटत्वात् इच्छाप्रधानं सदाशिवतत्त्वम् । (१८) स्फुटीभूते च इदमंशे यदाहमंशं निषिञ्चति तदा ज्ञानशक्ति- प्रधानमीश्वरतत्त्वम् । अनयोः प्रोक्तयोस्तत्त्वयोरहंविमर्शस्याविशेषेऽपि इद- मंशस्य ध्यामलत्वाध्यामलत्वाभ्यां विशेषः । (१९) यदा पुनः प्ररूढभेदभावराशिगतेदमंशस्फुरणे चिन्मात्रगत- त्वेनाहमंशः समुल्लसति भेदाद्वैतवादिनामिव ईश्वरस्य यः समवृततुला- पुटन्यायेनाहमिदमिति परामर्शः तत् क्रियाशक्तिप्रधानं विद्यातत्वम् । (२०) मायेति, दुष्करतमवस्तुसंपा इति दनाप्रतीघातरूपा अचिद्रूपे शून्यादौ च प्रमातृताभिमानं प्ररूढं कुर्वती चिदेकमयानपि भावान् भेदेन आभासयन्ती स्वरूपं तिरोदधती कलादिक्षित्यन्तानां भावानामुपादान- कारणं च माया। (२१) मायाशक्त्येति, स्वातन्यापरपर्यायया । पं. ६ क. पु० संकुचितग्राह्यग्राहकतामिति पाठः।

८ पराप्रावेशिका गृहयित्वा संकुचितग्राहकतामनुते तदा पुरुषसंज्ञः, अयमेव मायामोहितः कर्मबन्धनः संसारी, परमेश्वरादभिनोऽपि अस्य मोहः परमेश्वरस्य न भवेत् - इन्द्रजालमिव ऐन्द्रजालिकस्य स्वेच्छया संपादितप्रान्तेः, विद्याभिज्ञापितैश्वर्यस्तु चिद्धनो मुंक्तः परमशिव एव । अस्य सर्वकर्तृत्वं सर्वज्ञत्वं पूर्णत्वं नित्यत्वं व्यापकत्वं च, शक्तयोऽसंकुचिता अपि संकोचग्रहणेन कला-विद्या-राग-काल-नियतिरूपतया भवन्ति । अत्र कैला- (२२) कर्मबन्धन इति, कर्माणि स्वात्मनो बन्धकानि अभिमन्यमानः। (२३) संसारीति, संसरति इत्यतः संसारी, देहोऽपि स्वरूपसादृश्यं बाल्ययौवनादिषु अनुवर्तयन् संसरतीव, बुद्ध्यादेस्तु जन्मान्तरेऽपि संसर- णम् । (२४) विद्याभिज्ञापितैश्वर्यस्तु इति, विद्यया स्वरूपप्रकाशनशक्त्या अभिज्ञापदं प्रापितमैश्वर्यं यस्य, अत एव चिद्धनः शरीराद्यपि विश्वम- चिद्रूपव्यामिश्रणशून्यं संवेदनमेव अभिमन्यमान इत्यर्थः । (२५) मुक्त इति, पुनर्जन्मबन्धविरहात् देहे स्थितेऽपि मुक्त इति व्यपदेशयोग्य इति भावः । पतिते तु परमशिवस्वरूप एवेति । (२६) नियतिरूपतया भवन्तीति, यथा राज्ञापहृतसर्वस्वस्य अनु- कम्पया जीवनार्थ किंचित् स्तोकं धनं दीयते तथैव अणुत्वमापन्नस्य बो- धस्य अपहृतसर्वज्ञत्वादेस्तत्स्थाने किंचित्कर्तृतादिपरमार्थ कलादिकं वि- तीर्यते इति भावः। (२७) कलेति, यया सर्व कर्तुमसमर्थः किंचिदेव घटादिकं करोतीति। , १ श्रीमन्महामाहेश्वराचार्यवर्यक्षेमराजविरचिता नाम अस्य पुरुषस्य किंचित्कर्तृताहेतुः, विद्या किंचिज्ज्ञत्व- कारणम् , रोंगो विषयेष्वभिष्वङ्गः, कालो हि भावानां भास- नाभासनात्मकानां मोऽवच्छेदको भूतादिः, नियतिः ममेदं कर्तव्यं नेदं कर्तव्यम् इति नियमनहेतुः, एतत् पञ्चकम् अस्य स्वरूपावरकत्वात् कञ्चकमिति उच्यते, महदादि-पृथिव्यन्तानां तत्त्वानां मूलकारणं प्रकृतिः, एषा च सत्त्वरजस्तमसां सा- (२८) विद्येति, यया किंचिदेव पुरोवर्ति घटादिकं जानाति न पुन- दूरव्यवहितं वस्तु इति। (२९) राग इति, अपूर्णमन्यतया इदं मम उपयुज्यते, भूयासं, मा कदाचित् न भूवम् इत्येवंरूपः । (३०) क्रमोऽवच्छेदक इति, आज्ञासिषं जानामि ज्ञास्यामि इति, अकार्षे करोमि करिष्यामि इति ज्ञानक्रियास्वरूपेण भावानपि तथा कल- यन् अवच्छिनत्ति इति । (३१) नियतिरिति, ममेदं कर्तव्यमिति, इदं स्वर्गादिफलकमश्वमे- धादिकमेव मया कर्तव्यं न निरयादिफलकं ब्रह्महननादि इति । अथ च नियतादेव कारणानियतमेव कार्यमित्यादि बहुविधं नियतिरूपम् । (३२) कञ्चुकमिति, स्वरूपाद्वयतिरिक्तमपि अव्यतिरिक्ततया पूर्ण- संवित्स्वरूपमाच्छाद्य स्थितमित्यर्थः । (३३) सत्त्वरजस्तमसां सुखदुःखमोहात्मकानां प्रकाशक्रियानियमन- स्वभावानां साम्यावस्था सामान्य रूपं, यत्रैषामङ्गाङ्गिभावो नोपलभ्यत इत्यर्थः । १ १० पराप्रावेशिका म्यावस्था अविभक्तरूपा, निश्चयकारिणी विकल्पप्रतिबिम्ब- धारिणी बुद्धिः, अहंकारो नाम-ममेदं न ममेदमित्यभिमान- साधनम् , मनः संकल्पसाधनम् , एतत्रयमन्तःकरणम् । शब्द- स्पर्श-रूप-रस-गन्धात्मकानां विषयाणां क्रमेण ग्रहणसाधनानि श्रोत्र-त्वक्-चक्षुर्जिह्वा-घ्राणानि पञ्च ज्ञानेन्द्रियाणि । वचना- दान-विहरण-विसर्गानन्दात्मक्रियासाधनानि परिपाट्या वाक्- पाणि-पाद-पायूपस्थानि पञ्च कर्मेन्द्रियाणि । शब्द-स्पर्श-रूप- रस-गन्धाः सामान्याकाराः पञ्च तन्मात्राणि । आकाशम- वकाशमदम् , वायुः संजीवनम् , अग्निर्दाहकः पाचकश्च, सलिलमाप्यायकं द्रवरूपं च, भूमिर्धारिका, - (३४) निश्चयकारिणीति, इदमेतादृक् इत्येवंरूपो निश्चयः । (३५) सत्वप्रधानत्वेन स्वच्छतया प्रतिबिम्बग्रहयोग्यत्वात् विकल्प- प्रतिबिम्बधारिणीति भावः । (३६) अन्तर्वेद्यस्य सुखादेर्ग्रहणसाधनत्वात् अन्तःकरणम् । अङ्गा- ङ्गिभावेन गुणानां कार्य, वक्ष्यमाणस्य भूतेन्द्रियादेः कार्यवर्गस्य च कार- णम्। (३७) तन्मात्राणीति, तदेव नाधिकं तत्र अन्यदस्तीति तन्मात्र- शब्देनावान्तरविशेषरहिता शब्दाद्या उच्यन्ते ।

श्रीमन्महामाहेश्वराचार्यवर्यक्षेमराजविरचिता ११ यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः । तथा हृदयबीजस्थं विश्वमेतञ्चराचरम् ॥' इत्याम्नायनीत्या पराभट्टारिकारूपे हृदयबीजेऽन्तर्भूतमेतज्ज गत् । कथं ?- यथा घटशरावादीनां मृद्विकाराणां पारमा- र्थिकं रूपं मृदेव, यथा वा जलादिद्रवजातीनां विचार्य- माणं व्यवस्थितं रूपं जलादिसामान्यमेव भवति, तथा पृथि- व्यादिमायान्तानां तत्त्वानां सतत्त्वं मीमांस्यमानं सदित्येव भवेत् , अस्यापि पदस्य निरूप्यमाणं धात्वर्थव्यञ्जकं प्रत्य- यांशं विसृज्य प्रकृतिमात्ररूपः सकार एवावशिष्यते, तदन्त- र्गतमेकत्रिंशत्तत्वम् , ततः परं शुद्धविद्येश्वर-सदाशिवतत्त्वानि ज्ञान-क्रियासाराणि शक्तिविशेषत्वात् औकारेऽभ्युपगमरूपे- ऽनुत्तरशक्तिमयेऽन्तर्भूतानि । अतः परमूर्ध्वाधः सृष्टिरूपो वि- सर्जनीयः, एवं-भूतस्य हृदयबीजस्य महामन्त्रात्मको विश्व- मयो विश्वोत्तीर्णः परमशिव एवोदयविश्रान्तिस्थानत्वानिज- . - (३८) यथेति, यथा वटबीजे तत्समुचितेनैव वपुषा अङ्करपत्रफलानि तिष्ठन्ति एवं नानाविधतनुकरणादिवैचित्र्यशालि विश्वमिदं हृदयबीजा- न्तःस्थितं । मयूराण्डरसे सर्वशिख्यवयवानुप्रविष्टव)पवर्हादिपूर्णरेखादि- वैचित्र्यशिल्पकल्पनाकौशलवत् अवधानधनैः सूक्ष्मेक्षिकयावधार्यम् । (३९) विश्वमयो विश्वोत्तीर्ण इति, सर्वांकारस्वं निराकारत्वं चात्र क्रमेण हेतुः।

१२
पराप्रावेशिका
स्वभावः । ईदृशं हृदयबीज तत्त्वतो यो वेद समाविशति च
स परमार्थतो दीक्षितः माणान् धारयन् लौकिकवद्वर्तमानो
जीवन्मुक्त एव भवति, देहपाते परमशिवभट्टारक एव
भवति ॥
(४०) दीक्षित इति, तिलाज्याहुतिवर्जितमेतत्परिज्ञानमेव तत्त्वतो
दीक्षा इति भावः।
इति श्रीमन्महामाहेश्वराचार्यवर्यक्षेमराजविरचिता
पराप्रावेशिका समाप्ता॥

The Shath Trimshat Tattva Sandoha

Author
Rajanaka Ananda
Title
The Shath Trimshat Tattva Sandoha
File name
The Shath Trimshat Tattva Sandoha
Text
OCR done
Citation
1918
Published
2006/06/15
Publisher
Maharaja Of Jammu And Kashmir State
Language
Sanskrit
Pages
99
Library
University Of Allahabad
Classification
Literature
DLI number
485515
Barcode
5990010098552.00
Scanning centre
IIIT, Allahabad
Rights
In Public Domain
VMLT id
d6JmDQ5Siac
Download PDF

The Shath Trimshat Tattva Sandoha