Bharatiya Vidya Bhavan Library, Mumbai
Prapannch Hridayam No.xlv
Front matter
TRIVANDRUM SANSKRIT SERIES
No ILV
TUC
PRAPANCHAHRIDAYA
EDITED BY
T GAYAPATÍ SASIRÎ
Curator of the Deart it for the ul canon
nf Sanskrit MI Cusceprimandrum
IED U\DER THE ALTIORITY OF THE GOVERYVENT OF
218 HIGIINESS THE MAHARAJAJI OF TRAVANCORE
/
TRIVANDRUM
1
PRINTED AT TIL TRAVA CORE GOT EN JEVT PRESS
1915
Right Reserred)
PREFACE. This work is called Prapunchabridaya, and it briefly desribes, in eight chapters, the world of forms ( 214997) and the world of names (1969TE). In all the manuscripts consulted - for the edition, the sixth chapter is called Ten ot, while it describes the eight well-known schools of thought, viz., Lokâyata, Arbata, Buddha, Akshapada, Kaņâda, Kapila, Jaimini, and Badarayapa. While, therefore, that chapter should be called अष्टवर्गप्रकरण, the title षड्वर्गप्रकरण, I nk, has been given probably because the two schools of Aksliapâda and Kanada are considererl as one, and Lokůyata. "does not deserve the name of a school, as it is condemned by all the other schools. It is hoped that this book will be found useful by those desirous of acquiring a general kpowledge of the various departments of knowledge found in Sanskrit. It is a pity that the name of the author is not found in any the manuscripts. The following five manuscripts in Malyalam character are used for preparing this edition. Of these, the first is a paper manuscript and the others are palm-leaf ones, more than a century old. 1. # Belonging to Parameswaran Moottatù, Snclindram, running rip to the end of Upaveda Prakarana. Lent by Mr. Idappalli Ruja. 3Lent by Mr. Rurlran Numburi, Vaikam. 4. 7 Belonging to Mr. Idappallı Raja, beginníng with the Upânga Prakarana. 5. & Lent by Mr. Sridharan Monttatu, Ettumavur, running up to the end of Upaveda Prakirana. Trivandrum, T. GANAPATI SASTRI. 13-9-1915. of निवेदना। अस्मिन् प्रपञ्चहृदयेऽर्थात्मकः शब्दात्मकश्च प्रपश्योऽष्टभिः प्रकरणैः संक्षेपतो निरूपितः । तत्र प्रथमे तनुभुवनप्रकरणे भुवननिरूपणे पुराणसरणि- राश्रिता, न ज्योति शास्त्रसरणिः । षष्ठं प्रकरणं षड्वर्गप्रकरणमिति मातृकासु सर्वासु पठ्यते । किन्तु तत्राप्टानां (लोकायतार्हतबुद्धाक्षपादकणादकपिलजैमि- नियादरायणीयानां) दर्शनानां स्वरूपं वर्ण्यते । तेन 'अष्टवर्गप्रकरणम्' इति तद्यपदेशे युक्ते पड्वर्गप्रकरणव्यपदेशो, मन्ये, अक्षपादकणादमतयोरक्याभि- प्रायेण लोकायतमतस्यात्यन्तानुपादेयस्यादर्शनत्वाभिमानेन च कृतो भवेत् । लेखकप्रमादायातो वा स कामं स्यात् । सर्वथायं ग्रन्थः, याश्च यावत्यश्च विद्याः संस्कृतवालयकटाक्षिताः, तासां स्वरूपभेदप्रभेदेषु सामान्यतो विज्ञानमिच्छतां परमोपकारकः । एतद्वन्धकारस्य नामधेयं न क्वाप्यादर्शग्रन्थे दृष्टम् । अधो विवृतान् पश्चादर्शग्रन्थान् केरलीयलिपींस्तालपत्रात्मकान् अव- लम्च्यास्य संशोधनं निर्वर्तितम् । तत्र प्रथमः - (शुचीन्द्र) परमेश्वरमूत्ततुसम्बन्धी उपवेदप्रकरणान्तः क. संज्ञः (पत्रात्मकः) । द्वितीयः - इडप्पळ्ळिराजसम्बन्धी समग्रः ख. संज्ञः शताधिकवर्षवृद्धः। तृतीयः--(वैक) रुद्रनम्पूरिसम्बन्धी तथा ग. संज्ञः तथा। इडप्पळ्ळिराजसस्वन्धी उपाङ्ग- प्रकरणमारभ्य घ.संज्ञः पञ्चमः - (एत्तुमानूर्) श्रीधरमूत्ततुसम्बन्धी उपवेदप्रकरणान्तः इ. सज्ञः तथा। अनन्तशयनम् त. गणपतिशास्त्री १३-८-१९१५॥ चतुर्थः तथा। .
विषयसूची।
पृष्ठम्
...
१
•.
२१
,
....
....
२
१. तनुभुवनप्रकरणम्
२. वेदप्रकरणम्
३. पडङ्गप्रकरणम्
उपाङ्गप्रकरणम्
५. उपवेदप्रकरणम्
६. पडुर्गप्रकरणम्
ज्ञानप्रकरणम्
८. योगप्रकरणम्
..
५०
६९
....
॥ श्रीः ॥ प्रपञ्चहृदयम् । तनुभुवनप्रकरणम् । लोकदेहादिकार्याणां कारणस्यादिकारणम् । प्रपञ्चहृदयाधारं तं नमामि सदा हरिम् ॥ ३ अथेदानीमोपपुरुषार्थशेषतया सकलः प्रपञ्चोऽयमिह प्र- दश्यते । स तु त्रिविधो वेद्यविद्यावेत्तृप्रपञ्चभेदेन । तत्र वेद्यप्र- पञ्चोऽपि पुनहिविधस्तनुभुवनभेदेन । तत्र तनुर्द्विविधा स्थावर- जगमभेदेन । तत्र जगमशरीरं त्रिविधं सुरनरतिर्यग्भेदेन । तत्र सुरदेहोऽष्टविधो देवपितृयक्षराक्षसनागगन्धर्वभूतपिशाचभेदेन । एप्वेवान्तर्भूताः किन्नरचारणासुरसिद्धविद्याधरादयः । मनुष्यदे- हस्त्वेकविध एव । तिर्यग्देहः पशुमृगपक्षिमरीसृपभेदेन चतु- विधः । वृक्षवल्लीगुल्मतृणभेदेन चतुर्विधोऽपि स्थावर एक एव । ततः शरीग्जातिविशेपाश्चतुर्दशविधाः । तदेव प्रनिजातं सा- हयेन- . १ 'नाथ पर ब्रह्म पग्मा मानमव्ययम् ।' क पाठ . पाश' सपाट ४. 'या' पाट । स्थानर परिधा वा । म्यावररतु रक्ष दिय ।त' ख पार G. P. T. 137.500. 14 15 - प्रपशाहद "अष्टविकल्पो देवस्तर्यग्योनच पञ्चधा भवति । मानुप्यवेकविधः समासता भौतिकः सर्गः ॥" इति । तत्र जङ्गमजातिविशेषश्चतुरशीतिसहस्रविधः । स्थावर- जातिविशेषचतुःपष्टिसहस्रविधः । तदुभयवर्गाणां प्रत्येकं व्य- क्तिविशेपो न सहयायते , आनन्त्यादनवस्थाप्रसङ्गात्र । तथा तदाश्रयभुवनमपि चतुर्दशविध सप्तलोकसप्तपाता. लभेदेन , नरकैः सह पञ्चदशविधा वा । तत्र भूर्भुवःस्वमहर्ज- नस्तपरसत्यसंज्ञकाः सप्त लोकाः । अथातलवितलसुतलनितल- तलातलरसातलमहातलसंज्ञकाः सप्त पातालाः । तत्रायं भूर्लोकः सप्तद्वीपसमुद्राद्रिमुद्रितो बलयाकारः । तन्मध्यगतो जम्बूद्वीपो लक्षयोजनविरतीर्णो नवखण्डः । तत्ख- ण्डानामिलावृतो मध्यमखण्डः । तस्य पूर्वे भद्राश्वः, पश्चिमे के- तुमालो, दक्षिणे यो हरिवर्पकिम्पुरुपभारताः, क्रमेणोत्तरे रम्य- कहिरण्मयकुरवः । तत्रं कनकाद्रिर्मेरुरिलावृतमध्यंगतो लक्षयो- जनमितः । तस्य पोडशसहस्रयोजनं भूमेरधस्ताद् , उपरि परि- शिष्टम् । मूले पोडशसहस्रयोजनविस्तारो मूर्ध्नि द्वात्रिंशत्सहस्र- योजनविस्तारैः सुवर्णमयो भूपद्मस्य कर्णिकाकारः सकललेख- निलयः । तस्य पूर्वादिपु दिक्षु चत्वारो विष्कम्भशैलाः। ते म- न्दरगन्धमादनविपुलसुपार्धाः । तेषां शिरसि चत्वारो दिव्यतरवः १. 'सुरनरतिर्यग्देहानां त्रयोदशविधानामचान्तरजा', २ 'धः। सी', ३. मा त'ख. पाठः. ४. 'या । तत्राय' के. पाठः ५. 'था' स. पाठः. 'त्र मेर क. पाठः. ८ यतो घ. पार. ९.म् । तस्य भूपस्य कर्णिकाकारस्थितस्य ' स. पाठ:. १०. 'रः स स्वर्ण, ११. 'षु च घ. पाटः.
तनुभुवनप्रकरणम् । , . . सहस्रयोजनोच्छ्रिताः । तत्र मन्दरे कदम्बा , गन्धमादने जम्बूः, विपुलेऽश्वत्थः, सुपार्श्वे वटः । तन्निकटवर्तीनि चत्वारि सुरोद्या- नानि । तानि क्रमेण चैत्ररथनन्दनवैभ्राजकपितृवनानि । तथा चत्वारि सरांसि । तान्यरुणोदसितोदमानसमहादसंज्ञानि । इति प्रदर्शितो मध्यमखण्डः । तदन्येपामष्टखण्डानामष्टो सीमापर्वताः । तेपां दक्षिण त्रयो हिमवद्धेमकूटनिपधाः, क्रमेणोत्तरे नीलश्वेतशृङ्गिणः । पडेते मेरुसहिताः सप्त कुलपर्वताः । पूर्व माल्यवान् , पश्चिमे गन्धमा- दनः । तदेते प्रदर्शिता नव खण्डाः पर्वताश्च । तत्र दक्षिणाग्रे भारतखण्डो दशसहस्रयोजनमितः । स तु दक्षिणसमुद्रबिन्दुसरसोरन्तरालः । कर्मभूमिरियं केनचित् कारणेन सगरपुत्रैनवधा खण्डिता । ते खण्डाः कुमारीन्द्रनाग- सौम्यवारुणगन्धर्वगभस्तिकशेरुताम्रपर्णीः। सर्वे सहस्रयोजन- मिताः । तत्सीमामानं तदवशिष्टसहस्रयोजनम् । तत्र कुमारी- हीपे पडुपीपाः, सप्ताद्रयः। तत्राङ्गयवमलयशङ्खकुमुदवराहाः पड् दीपाः, ऋक्षमहेन्द्रविन्ध्यमलयसह्यशुक्तिमत्पारियात्राः सप्ता- द्रयः। वर्णाश्रमाश्चत्वाररतत्रैव व्यक्ततराः । तत्र मलयद्वीपमध्य- वर्तिनो मलयपर्वतस्य मध्यमशिखरे लङ्कापुरी। सा प्रसिद्धतरा। सापादे परशुरामभूमिः । सा सप्तकोङ्कणाख्या कूपककेरलमृपि- १. 'ताः । म स. पाटः. २. नि । ता, न्दुसरसोऽन्त', ५. 'र', ६. 'त'य पाय पाट. 'पर'म गाठ. ३. 'न। तन'क, पाट. ७. 'म्निमन्का' ग पाट ४ 'दाद ८. ' मह'न .
प्रपघाये काटुंबपशुकोकणपरकोङ्कणभेदने दक्षिगोत्तरायामन च व्यव- स्थिता । तत्रानन्तपुरविल्याद्रिगोकर्णसप्तकोटीश्वरभेदेन क्षेत्रचतु: प्टयमपि भुक्तिमुक्तिफलप्रदम् । सह्याद्रावामलकक्षेत्रम् । तदन्य. त्रापि श्रीरङ्गरामेश्वरवृषभाद्रिश्रीवेङ्कटगिरिमल्लिकार्जुनस्वामिहरि- हरमहालक्ष्मीपुरुषोत्तमसालग्रामगयायोध्याकाशीकुरुक्षेत्रप्रभृति- कमपि विद्यते । तथा गङ्गायमुनासरस्वतीनर्मदागोदावरीतुगभ- द्रांकृष्णापेण्णाकावेरीताम्रपणीपयोप्णीघृतमालानीलाद्या नद्यस्त- त्रोत्पद्यन्ते । तदन्येऽपीन्द्रहीपादयो नानानदनदीक्षेत्रसरिईनवि- शेपादिसमन्विता द्रष्टव्याः । इति संक्षेपेणायं प्रदर्शितो भार- तखण्डो नवखण्डः । तत्रैव युगधर्मो नान्यत्र । तदुक्तं-- "फलानि सस्यानि च भूतसंपदः शुभक्रियावृद्धिरधर्मसंक्षयः । गुणा नराणां च समस्तमीशं युगक्रमाद् भारत एव भिद्यते ॥" इति । तथा किम्पुरुपे जायमाना जनाः सर्वे दशसहस्रसमायुपः प्लक्षफलाशनाः कनकनिभाः । हरिवर्य द्वादशसहस्रसमायुपः शर्कराशना रजतनिभाः । भद्राश्वे निवासिनो दशसहस्रसमा- युपश्चूतफलाशनाश्चन्द्रनिभाः । केतुमालनिवासिनो दशसहस्र- - .. . 'ल', २. नाव', ३ 'द', ४ 'मा' क पाठ . ५ 'रम', ६ 'मान', , 'दासावेरीनिला' ख पाट.. ८. 'नानगजनवननदी', ९ द्विश' क पाठ . "या ।म ग्व, पार ११ 'वि' क पाठ १२ 'पवर्ष जायमाना स', १३. 'घायु' १४ ' द व पाठ.
तनुभुवनप्रकरणम् । समायुपो नीलनिभाः पनसाशनाः । इलावृतनिवासिनस्त्रयोदश- सहस्रसमायुषो जम्बूफलाशनाः पङ्कजनिभाः । रम्यकनिवा- सिनो द्वादशसहस्रसमायुपो न्यग्रोधफलाशनाः स्वच्छाः । हिर- ण्मयनिवासिनो लिकुचंफलाशना हिरण्यवर्णाः सार्धत्रयोदश- सहस्रसमायुपैः कनकनिभाः । कुरुनिवासिनः सार्धचतुर्दशसह- स्रसमायुपः कनकनिभाः कल्पद्रुमक्षीरपा मारतरुणा आमर- णान्तं मिथुनीकृताः । तत्रं माणिक्यमयी भूमिहेमसिकता। चन्द्रसूर्यकान्तावपि कुलगिरी विद्यते । इति संक्षेपणायं प्रदर्शितो जम्बूद्वीपी नवखण्डः । तहहिर्वलयाकारो लवादधिर्लक्षायतस्त्रिलक्षपरिणाहः । तत्रोत्तरस्यां दिशि सहस्रयोजनान्तरितश्चन्द्रद्वीपः सहस्रयोजन- मितः सुरगणसेव्यः । वायव्यायां दिशि चतुःसहस्रयोजनान्त- रितो दशसहस्रयोजनमितो भद्राकारः सुरासुरसेव्यः । तत्सम- न्तँतो वसन्तीन्द्रभयाद् हादश नगाः । ते धूम्रऋपभदुन्दुभि. मैनाकचक्रवलाहकसावनरदवराहचन्द्रद्रोणकङ्काः । ततो लव- णोदधर्वहिः प्लक्षद्वीपः । स तु सप्ताद्रिभिः सप्तधा खण्डितः। ते खण्डाः सुखोदयशिशिरक्षेमकरम्यकशान्तभयध्रुवाः । तत्सीमा- द्रयो गोमेदचन्द्रसुमनोदुन्दुभिवभ्राजकशारदसोमकाः । तहहि- रिक्षुदधिः । ततो वलयाकारः शाल्मलिद्वीपः । तत्रापि सप्तैते खण्डा लोहितवैद्युतहरितश्वेतसुप्रभजीमूतमानसाः। तत्सीमाद्रयो ३ १ 'गानना'घ पाठ ..'चाश' र पाट '५ । कु'ष पाट 'तम् । न', मुरणमा' 7 पाट ६ 'मि चब पार 'ताद' पाठ ७ ६ .4 प्रपञ्चहृदये महिपोन्नतकुमुदकुमुद्रोणकङ्कवलाहकाः । तबहिर्वलयाकारः सुरोदधिः । ततः कुशद्वीपः । तत्रापि सप्तैते खण्डा वेणुप्रभा- करोद्भिजाकारलम्बनधृतिमन्मण्डलरथकपिलाः। तत्सीमाद्रयो म- न्दरविद्रुमहेमपर्वतकुशेशयहरिगिरिपुष्पोज्ज्वलद्युतिमन्तः। तद्व- हितोदधिः । ततः क्रौञ्चहीपः । तत्रापि सप्तते खण्डाः प्रावा- रोप्णमनोन्धकारकुशलनामानुगदुन्दुभयः । तत्सीमाद्रयोऽन्धका- रक्रौञ्चदुन्दुभिवामनपुण्डरीकदेवाद्रिमूकाः। ततो दधिसमुद्रः। ततः शाकद्वीपः । तत्रापि सप्तैते खण्डाः मुकुमारकुमाररम्योन्नतकुमु- दमणिचयाः । तत्सीमादयो रजतकेसररैवतश्यामजलधररथाम्बि- केयाः । तहहिः क्षीरोदधिः । तत्रानन्तभोगे विमले साहिल- क्षयोजनमितः सकलजगत्कारणभूतो भगवान् सपरिवारो नारा- यणः शेते । ततः पुष्करहीः । प्लक्षादिपु शाकान्तेपु पञ्चसु द्वीपेपु जनाः पञ्चसहस्रवत्सरजीविनः । तेपु कालः सर्वदेव त्रेतायुगसमः । पुष्करद्वीपो वलयाकारेण द्विधा विभक्तो महा पीतं धातकीपण्डमिति । तन्मध्यगत उन्नततरो मानसोत्तरशैलः। तवीपवासिनो जनाः पडूस भुञ्जतेऽतीव भोगिनो दशसहस्रस- मायुष आमरणान्तं मिथुनीकृता देवैः सह चरन्ति । तह- हिः शुद्धोदकसमुद्रः । तहहिः काञ्चनी करतलाकारा द्विगुणा ह्यम्मयी भूमिः सर्वसत्त्वविवर्जिता । ततो लोकालोकपर्वतप- यन्ता समतला भूमिः । सर्वे ते प्रदर्शिताः पूर्वात् पूर्वादुत्तरोत्तरा ': 1 संतु पळ', 1. 'इ', २. 'म', ३. 'रजचित्रर', ४. 'द्वयल' घ. पाठ . #. 'ल: तहिः' म. पाठ.. ७, 'ति' पाठ, ..'त इनि। ने', ची: द्वि प. पाठ तितो'. पाट.
तनुभुवनप्रकरणम् । - द्विगुणपरिमिताः । तदुक्तं "जम्बूप्लक्षौ च शाल्मल्यथ च कुशमयकोच्चशाकाभिधाना द्वीपास्ते पुष्करान्ता लवणगुलसुरा सर्पिरोधश्चदा(नाध)ः । दोग्धः स्वाहम्बुरेते किल जलनिधय स्ते सिन्धोश्च सिन्धोः पूर्वात् पूर्वात् परैः स्याद् द्विगुणपरिमितो द्वीपतो हीपतोऽपि ॥" इति । तत्र प्लक्षादीनामपि पञ्चानां चक्राकारत्वं वर्णाश्रमधर्मकर- णत्वमपि प्रदर्शितं- - "ये प्लक्षाद्याः पञ्च शाकावसाना- श्चक्राकाराः सप्त सप्ताद्रिभिन्नाः । सर्वे धर्मास्तत्र वर्णाश्रमाणां त्रेतायां या सर्वदा सैव वृत्तिः ॥" इति । ततः शुद्धोदकसमुद्राद् बहिर्वलयाकारा लोकालोकपर्वतप- यन्ता समतला सौवर्गमयी भूमिः । तत्प्राकारायमाणो लोका- लोकपर्वतः । तदुभयप्रमाणमपि प्रदर्शितं- "सौवर्णी स्वादुवाधि बहिरपि परितो देवसञ्चारभूमिः कोटीनां योजनानां दशकपरिमितों तां परीत्य स्थितोऽभूत् । विस्तारायामयोरप्ययुतपरिमितो योजनानां नगेन्द्रो लोकालोकस्तमन्तः प्रतपति न बहिर्भानुराख्यानुरोधात् ॥' १. 'च', • रम्तात्', ३ 'सर्व' घ पाठ 'ता' पाठ, ८ प्रपनहृदय इति । तत्र लोकालोकपर्वत चतुर्दिक्षु चत्वारः पर्वताः । तेषां पूर्व वसुधामा. दक्षिणे शझपादः. पश्चिमे हिरण्यरोमा, उत्तरे केतु- मानिति । तेषु चतुर्यु पर्वतेषु चतुर्णामिन्द्रयमवरुणसोमानां चत्वारि नगराणि । तदुक्तं " चत्वारि स्वदिगाश्रयाणि नगराण्याहुश्चतुर्णा गिरी नाथानां ककुभाममुत्र कथिता वस्वौकसारा हरेः । रम्या संयमनी यमस्य पयसां पत्युः सुखावत्यसौ विख्याता च विभावरी हिमरुचेताः पदं संपदाम् ॥ पौग नाकसदो निपेयममृतं वाप्यः सहेमाम्बुजाः कामिन्यो मुजिकलत्रसहजाः कामप्रदाः गाखिनः । नानारत्नशिलामयानि भवनान्यस्तान्तरायं सुखं यासां तासु किमेतया बहिरसावास्तां कवर्णना ॥" इति । तस्य लोकालोकपर्वतस्य बहिरन्धकारः। तदवसाने - ह्माण्डकपालः । तस्य भूपद्मस्य कर्णिकाकागे मेरुः । तदनं द्वात्रिंशत्सहस्रयोजनविस्तीर्ण नाशृङ्गम् । तत्र मध्यमशृङ्गे म- नोन्मनी नाम ब्रह्मसभा । तदन्येप्वष्टशृङ्गेपु लोकपालानामष्टौ पुराणि । तदुक्तं- १ 'याद्रो च' कपाट २. 'मया ना' घ. पाठ ३ 'न्येषु' क पाट.
९ ४ - ६ तनुभुवनप्रकरणम् । "जम्भारेरमरावती हुतभुजस्तेजोवती दण्डिनो वैवस्वत्यसुरेश्वरस्य कथिता कृष्णा पुरी पाशिनः । रम्या शुद्धवती समीरनगरी या गन्धवत्याहया वित्तेशस्य महोदया स्मररिपोः ख्याता यशोवत्यपि ॥" इति । तत्र ब्रह्मसभायों केनचित् कारणेन निपातिता भगत गङ्गो । तदपि प्रदर्शितं- "जाता ब्रह्मकमण्डलोर्मुररिपोः पादाम्बुजस्पर्शिनी माला चन्द्रशिखामणेः पशुपतेर्जाता जटामण्डले। नेप्यन्ती त्रिदिवं भगीरथगुरून पुण्या महावाहिनी कान्तायां कमलासनस्य पतिता तस्यां सभायां दिवः ।। प्रदक्षिणीकृत्य सभा चतुर्धा विष्कम्भशैलेष निपात्यमाना। भद्राश्वकं भारतकेतुमालं कुरूंश्च गत्वा जलधिं जगाम ॥" इति । तदानीमगस्त्यपीतसलिलः संपूर्णो लवणोदधिः । इति संक्षेपेणायं प्रदर्शितो भूलॊको मेरुपर्वताप्रपर्यन्तः । तदूर्ध्व लक्षयोजनान्तरितं सवितृमण्डलम् । तदन्तरा- लदेशो भुवर्लोकः । स तु यक्षराक्षसनागगन्धर्वभूतपिशाचादिगण- १. 'ती रक्षस. कृष्णा नाम पुरी यमाविवसत्वैिवस्वती पा' घ पाठ , २. 'या भगी. रथेन राजर्षिणा के' क. पाठः. ३. 'शा ब्रह्मलोक्गतेन ब्रह्मणा कमण्डलूदन त' रा. पाट . ४, 'प्युक्त-, ५ जतस', ६ 'णो' घ पाट, C प्रपबहादये सम्पूर्णः । ततः सवितृमण्डलादूर्ध्वमा शिशुमारप्रजापतेरन्तरालः सोकचतुर्दशलक्षयोजनमितः। स तु विमानहसंश्रयो दिव्य- जनाकीर्णः । तदुक्तं- "रवेः शशी योजनलक्षतः पर- स्तथैव तस्मादपि तारकागणः। बुधोशनःशोणितमन्त्रिसौरयः क्रमेण लक्षद्वययोजनान्तराः॥ सौरेः परं योजनलक्षदूरात सप्त स्थिताः सान्द्ररुचो मुनीन्द्राः । तथैव तेभ्योऽपिच शिंशुमार- स्तारा यदङ्गानि चतुर्दशाङ्ग! ॥ स्वर्गगा ये विमानास्तेऽप्येष्टाविंशतिकोटयः। पुण्यकर्मजनाकीर्णाः सततं कामगामिनः ॥" इति । ततः स्वर्गात् परो महर्लोकः कोटियोजनमितः । स तु दक्षवसिष्ठपुलहपुलस्त्यादिमहर्पिगणपूर्णः । ततः परो जनलोकः कोटिद्वययोजनमितः। स तु भृग्वादिमहर्पिगणपूर्णः। ततः परस्त- पोलोकश्चतुष्कोटियोजनमितः । स तु सनकसनातनसनन्दनसन- कुमारादिमहर्पिगणपूर्गः । ततः परः सत्यलोकः पट्कोटियोजन- मितः । स तु सकललोकमौलिना ब्रह्मणा परमहंसपरिव्राजक- ५ १ 'महसकुली दि', '.'छ' स. पाट. ३ 'लो', ४ 'ब्रह्मप' क पाठ र तपो', ६.'त सन', ७ का कोस पाट ८.लिवेन 'घ. पाट तनुभुवनप्रकरणम् । कोटिभिः सह समाकीर्णः । तदुपरिष्टादाकाशः । तदवसाने ब्रह्माण्डकपालः। । २ तथा भूमेरधस्ताद् भूविशेपाः सप्त पातालाः । ते सर्वे प्रत्येक दशसहस्रयोजनमिताः । तेषां प्रथममतलम् । तदष्ट- महानागैर्महाबलिप्रमुखैश्च संपूर्णम् । ततो वितलं शिलामयं पुलोमाद्यसुरसंपूर्णम् । ततः सुतलं शर्करामयं हिरण्याक्षप्रमुख- संपूर्णम् । ततो नितलं पीतवर्ण कालनेमिप्रभृतिसंपूर्णम् । तत- स्तलातलं रक्तवर्ण प्रह्लादप्रमुखसंपूर्णम् । ततो रसातलं पाण्डुर- वर्ण हयग्रीवप्रमुखसम्पूर्णम् । ततो महातलं नीलवर्ण नमुच्या- द्यसुरसंपूर्णम् । इति प्रदर्शिताः सप्त पातालाः । तदधो विस्तीर्णतरो नरकलोकः । तत्र रौरवमहारौर- वघोरमहाघोरकुम्भीपाकतप्तशिलावैतरणीक्षुरधारासिपत्रवनकृमि- निचयकृमिभोजनाग्निज्वालाग्निकुण्डाङ्गारराशितप्त जतुतप्तकुम्भती- क्ष्णदण्डपूतिमांसावीचीप्रमुख(?)कालसूत्रपूयवहान्धकारसंदह्यक- ण्टकशल्मलीकूटशल्मलीयन्त्रपीडलोहतुण्डपङ्कलेपलावणलोहित. ऋकतैलधारा इति द्वात्रिंशदेते प्रधाननरकाः।सर्वे ते मायामय- शरीरविशेपोपभोग्याः। तत्समन्तादष्टोत्तरशतमुपनरकाः । तदै- धोऽधकारदेशो विपुलतरः । तदवसाने ब्रह्माण्डकपालः । उदुक्तं ४, १. 'रपि स', २. 'तिमि स क पाठ . ३ 'लामहाज्वालाम' स. पाट.. 'णपू' य. पाठ. 'चमूस्तै', ६, 'वे मा' क. ख पाठ ७ 'गविशेषशरीरयोग्या.' घ, पाटा. ८. 'दय' ख. पाठ.
१२ प्रपञ्चहृदये "शतमपि तेपामुपनरकाणामभिहितमन्यत् पुनरपि चाष्टौ । नरकसमूहात् परमपि देशो विपुलतरः स्यादथ जगदण्डम् ॥" इति प्रदर्शितश्चतुर्दशलोकात्मकः प्रपञ्चः । तत्र ब्रह्माण्डकपाल. योरन्तरालपरिमाणमपि प्रदर्शितम्- "ऊर्ध्व तिर्यगधश्च हाटकगिरेब्रह्माण्डयोरन्तरे प्रायोजनकोटयो दशपराः पञ्चापि संचिन्तिताः। आशान्तेषु दशवपि स्मररिपोर्योगाधिवासादथ ब्रह्माण्डान्तरवर्तिनो भगवतः ख्याता भवच्छेदिनः ॥" इति । तत्र तदन्तर्भूतानां चतुर्दशलोकानां तदवयवविशेषाणा- मपि सर्वेषां नामाकृतिप्रमाणादिपु बहवो बहुविधमाचक्षते । तथास्माभिरपि सर्वेषामनुभापणवदेकमार्गमाश्रित्य सर्वमनुभाषि- तम् । तत्र परमाण्वष्टकं रजः । रजोप्टकं बालाग्रम् । बाला- ग्राष्टकं लिक्षा । लिक्षाष्टकं यूकः । यूकाष्टकं यवः । यवाप्टक- मङ्गलम् । अङ्गुलचतुर्विंशतिको हस्तः। हस्तचतुष्कः पुरुषः । पुरुषसहस्रं क्रोश । क्रोशद्वयं गव्यूतिः । गव्यूतिद्वयं घातः । घातद्वयं योजनमिति । तदेवं सर्वत्र तनुभुवनात्मकप्रपञ्चे क्षेत्र- मानमभ्युपगन्तव्यम् । तंत्र तनुनां भुवनप्राप्तिर्द्विधा जन्मना कर्मणा च । तत्र जन्मना प्राप्तिस्तत्तद्देशदेहयोग्यजननप्रकारेण । कर्मणास्वदेशदेह- ५ ११ १. 'मः' क. पाट.. २ 'लम' क. पाठ ३, 'न्तिकव' घ पा३:. तद', ५. 'ते 1 अम्मा' स. पाठ:: 'णादे', . 'मिह प्रदर्शितम्' के पाट . 'कम् ।', ९ 'व' य पाट.. १०.'तत्या'. ११. 'दे, क. पाठ ८.
तेनुभुवनप्रकरणम् । योग्याचरणसामर्थ्यात् । तत्र भूलॊके भारतखण्डः कर्मभूमिः । तत्कर्मफलविषयाः सर्वे लोकाः सनरकाः । तत्र धर्मकरणादृर्ध्व- लोकप्राप्तिः, पापकरणान्नरकादिप्राप्तिः, मिश्रकरणान्मनुप्यलोक- प्राप्तिः। तत्रे मनुष्यलोके जरायुजाण्डजस्वेदजौद्भिदभेदेन चतुर्विध- देहो जायते। तत्र भूमिमुद्भिद्योद्गमनादौद्भिदः स्थावरविशेषः। सतु वृक्षलतावल्लीगुल्मतृणादिभेदेन बहुविधः । स्वेदजः स्विद्यमाने- भ्यो भूवयुदकेभ्यो जायमानः । सोऽपि यूकमत्कुणकीटाणु- स्त्री(?)प्रमुखो बहुविस्तरः । अण्डजो वर्तुलीभूतंशुक्लशोणितसंपुर्ट- सम्भवः सर्पगोधावयोभेदशिंशुमारादिर्बहुविधः । जरायुजस्त्रि- विधो मनुष्यपशुमृगभेदेन । तत्र मनुष्यशरीरं श्रेष्ठं ज्ञानाधि- क्याद् धर्माचरणक्षमत्वाच्च । तत्कारणं त्रिविधं निमित्तोपादाना- भिवृद्धिकारणभेदेन । तत्र निमित्तकारणं पूर्वकृतं कर्म । चतु- विशतितत्त्वमुपादानकारणम् । अभिवृद्धिकारणमन्नविशेपः। तत्र जनिष्यमाणस्य मातापित्रोरपि पूर्वकर्मानुगुणं यत्रक्वापि यदा- कदाचिद् यस्यकस्यचिदनुकूलायाः स्त्रियाः शुक्लशोणितयोः संयोगो जायते । तदा शुक्लाधिके' पुमान्, शोणिताधिके स्त्री, समत्वे नपुंसकम् । तद्भयमुमयात्मकं किट्टसारविभागेन । तत्र किट्टयं वृषणद्वयं भवेत् पुंसः, स्त्रिया नाभिव्यज्यते, नपुं- सकस्य किञ्चिदभिव्यक्तिः । तदुभयसारः शरीरारम्भकः । १. 'मणा मनु', २. 'त्र ज' घ. पाठः. ३. 'भ्यो व', ४. 'भ्यो यू', ५. 'तान्छु', ६. 'टात् सर्प', ७. मलद्रय', ८ 'तम् । तन्म' क. पाठः. * 'संयोगे' इति विशेष्य म्या।
इडा, दक्षिणे
१४
प्रपञ्चहृदये
तन्मध्ये सूक्ष्मतरा सुषुम्ना नाडी,
वामे
पिङ्गलो, समन्तात् पूपालम्बुषागान्धारीहस्तिजिह्वाकुहूशङ्खिनी-
त्याद्याः प्रधानतरा नाड्यः । तदन्या नाभिनाडी बहिर्मुखा
मातुरीहताहाररसकुल्यायमाना । तदनन्तरमेकोत्तरशतं नाड्यः
प्रधानाः । ततो हासप्ततिसहस्राणि । ततो रोमकूपाः सर्वे सि-
रामुखाः । तदुक्तं-
"नाड्यः प्रधानगदिता दश नाभिदेशा-
देकाधिकं च शतकं विदितं श्रुतिभ्यः ।
सैका विमुक्तिसरणिर्गदिता सुपुम्ना
यां ब्रह्मयोनिरिति वेदविदो वदन्ति ॥
मध्यस्थायाः सुषुम्नायाः पर्वपञ्चकसम्भवाः ।
शाखोपशाखतां प्राप्ताः सिरा लक्षत्रयात् परम् ॥
अर्धलक्षमिति प्राहुः
शारीरार्थविचारकाः।
तद्भेदांश्च बहूनाहुस्ताभिः सर्वाभिरेव च ॥
व्याप्नोति सर्वतो वायुर्येन देहः प्रवर्त्यते ॥"
इति । तत्र शुक्लशोणितसमुदाये चतुर्विशतितत्त्वानि सम्पद्य
न्ते । तंत्र मनोबुद्ध्यहङ्कारचित्तमन्तःकरणचतुष्टयं, श्रोत्रत्वक्च
क्षुर्जिहाघ्राणं ज्ञानेन्द्रियपञ्चकं, वाक्पाणिपादपायूपस्थं कर्मेन्द्रि
यपश्चकं, पृथिव्यप्तेजोवाय्याकाशं भूतपञ्चकं, शब्दस्पर्शरूप.
1. ला तत्ममग पाठः *. 'राहा' . पाठः... 'सम् ।म' स. पाट:'
४.
'३', .. ' प. पाट.
६. 'तानि म', , 'मभेदनानारण चनिधी' फ. पाठ..
तनुभुवनप्रकरणम् । १५ रसगन्धमर्थपञ्चकम् इति चतुर्विंशतितत्त्वानि । तदभिवृद्धिकार- णमभ्यवहृतान्नरसविशेषः । स त्रिविधः स्थूलसूक्ष्मपरत्वेन । तत्र स्थूलः स्थूलशरीरपोपकः, सूक्ष्म इन्द्रियपोपकः, परोऽन्तःकरण- पोपकः। तत्र स्थूलशरीरे सर्वत्राग्निमारुतयोगादन्नरसपाकः । ता. वुभौ प्रत्येक दशविधौ । तत्र सप्तामयो धातुगताः, त्रयो दोप- गताः । तथा वायुः।प्राणापानव्यानोदानसमानाः पञ्चैते प्रधा- नवायवः । तदन्ये नागकूर्मकृकलदेवदत्तधनञ्जयाः । तेषां भुक्ताहारपचनार्थमूर्ध्वाधो गच्छतः प्राणापानौ, तद्रसमादाय सर्वधातून व्याप्नोति व्यानः, सर्वचेष्टाः कुर्वन् प्राणसहगो नि- मेषोन्मेपणकृद् उदानः, सर्वत्र समं नयति समानः, उद्गारका- रको नागः, उन्मीलकारकः कूर्मः, क्षुतकृत् कृकलः, देवदत्तो जृम्भणकरः, रवकृद् धनञ्जयश्च । इति प्रदर्शिताः सर्वे वायवो वह्निविशेषाश्च । तदुभयवगैरहरहः पच्यमानाः शरीरधातयः सर्वेऽन्न- रसमयाः । ते त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि । धातवो दे- हधारणा दृप्यन्ते त्रिभिःपैः । ते दोपा वातपित्तकफाः । शरी- रोन्द्रियान्तःकरणदूपणाद् दोपाः । तस्मादन्नरसस्य पाञ्चभौति- कत्वात् तत्परिणामशरीरं धातुदोपमलसमुदायः पाञ्चभौतिक स्थलान्नरसमयम् । 1. 'न्य तन्मानाप', २ 'ति प्रदर्शितानि समयायिकारणत' घ पाठ , ३ 'नाश्चैते' १० ४ ख.पाट.. 'नी' घ. पाटः. ५. 'तीति व्या' क. पाठ, ६. 'टा' स. पाट:. तीत स'क.पाठः. ८. 'करः कृ' स. पाठः. ९. 'तस्म' क. पाठः, १०. 'ते रसास्त्व' ख.पाट:. ११. 'सेच त्रि' क. पाठ;.
१६ प्रपञ्चहृदये सूक्ष्मान्नरसमयमिन्द्रियदशकम् । तद्वलादेव श्रोत्रादीना शब्दस्पर्शरूपरसगन्धपरिज्ञानं, वागादीनां वचनादानगतिविस- गानन्दकरणशक्तिश्च । परान्नरसमयमन्तःकरणम् । तद्वलादेव मनसो मननत्वं, बुद्धेर्बोधकत्वम् , अहंकारस्याहंकर्तृत्वं, चित्त- स्य चेतयितृत्वैम् । तत्र शरीरेन्द्रियान्तःकरणाभिवृद्धिक्रमेण ज्ञा. नवृद्धिरनुभूयते । तदुक्तं भगवता- " ज्ञातास्मीति यदा भावो मनोहंकारर्बुद्धिमान् । जातश्चित्पूर्वको जन्तोः स भावः क्रमवर्धितः ॥" इति । प्रतिदिनमभ्यवहृतान्नरसाभिवृद्धिक्रमेण ज्ञातृभावोऽभिव- र्धत इति वाक्यशेषः। तच्चैतन्याविर्भावे बहवो विप्रतिपद्यन्ते । तत्र लोकायत- श्वातुभौतिकशरीरेण परिपाकक्रमेण भूतसमुदायतो मदशक्तिव- चैतन्याविर्भावो भवतीति, दिगम्बरोऽन्नरसपरिपाकविशेषादिन्द्रि- यद्वारेणात्मनः६, बुद्धो बुद्धेरन्नायतनवृद्धिक्रमेण, वैशेपिकनैया- यिकभादृप्राभाकराः शारीरै तिकेन्द्रियैरर्थसंयोगे सत्यात्ममनः- संयोगात्(?) सांख्यो ज्ञानाश्रयः सूक्ष्मशरीरं तत् कर्मवशादितः कु. तश्चिदन्तराविर्भवतीति , मनुर्मातापितृशोणितशुक्लव्याप्तचैतन्य. मन्नाभिवृद्धिक्रमेणाविर्भवतीति, केचिद् वैदान्तिकाः ब्रह्मावयवाः क्षेत्रज्ञास्तत्तत्कौनुगुणशरीरेवाविर्भवन्तीति, ब्रह्मवादिनो ब्रह्म- १.'मनवि' क पाठ.. २. 'कृत्व', ३. 'त्वम् । अन्तःकरणात्मसमुदायः पुरुषोडम. रसमराचैतन्यत्माश्रयः। 'स. पाठः. ४. 'अत:', 'मूर्तिमान्', ६. 'मवाय', ७. 'रोऽरममप' क. पाठः, ८. भूद्र रा. पाटः. ९. 'दावि', १०. 'स्तरक'. ११.'श' स पार:. पाठ:. हमानिर्मा' इति संबन्धनीयमिति माति ।
तनुभुवनप्रकरणम् । मात्रमेव तनुभुवनव्याप्तमात्मचैतन्यमन्नरसाभिवृद्धिक्रमेण शरीरे- न्द्रियान्तःकरणान्तराविर्भवतीति । किं बहुना देहेन्द्रियान्तःकर- णात्मसमुदायः पुरुपो लवत्रुटिकलामुहूर्ताहोरात्रपक्षमासत्वयना- दिकालविशेषैः कर्मविशेषैश्च कललबुबुधनवर्तुलदीर्घचतुरश्र- करचरणंशिरोधरादिरूपेण सम्पूर्णावयवो जायते। तस्य जनन- काले गर्भद्वारविनिर्गमनक्लेशातिशयात् संपिण्डितशरीर आ. परिरोदिति । तदानीमक्षरस्रोतोमार्गस्याविभक्तत्वाच्चतुप्पदा वा- • णी वर्णतया नाभिव्यज्यते यावदक्षरस्रोतोमार्गशुद्धिस्तावत् । तदुक्तं भगवता- मूलाधारात् प्रथममुदितो यस्तु भावः पराख्यः पश्चात् पश्यन्त्यपि हृदयगो बुद्धियुङमध्यमाख्यः । वके वैखर्यपि रुरुदिपोरस्य जन्तोः सुपुम्ना- बद्धस्तस्माद् भवति पवनप्रेरितो वर्णसङ्घः ॥ स्रोतोमार्गस्याविभक्तत्वहेतो. स्तत्रार्णानां जायते न प्रकाशः। यावत् तावत् कण्ठमूर्धादिभेदो वर्णव्यक्तिस्थानसंस्था यतोऽतः ॥" इति । ततो मनुष्यशरीरे सकलपुरुपार्थप्रदर्शनपरायणा वाणी .. ३. 'रो ' क. १. 'गच्छती' क. पाठ. २. 'रोन्तरधिरू' क. ख पाठः. ४. 'गे'ध, पाठः, ५. 'देव । त' के पाठ.. पाठ. * अर्णा वर्णाः। 'अत्रियो वर्णमण च' इति वैजयन्ती।
प्रपञ्चहृदये वर्णपदादिरूपेणाविर्भवति , नान्यत्र पशुमृगपक्षिसरीसृपस्थाव. रादौ करणवैकल्यात् पुरुषार्थाभावाचेति ॥ इति प्रपञ्चहृदये तनुभुवनप्रकरणं नाम , प्रथम समाप्तम् । । अथ वेदप्रकरणम् । अथेदानीमस्मिन् देहे विद्याप्रपञ्चोऽपीह प्रदर्श्यते, तदाश्रयभूतस्यं वर्णकलापस्यात्रैवाविर्भावात् । तदाविर्भावप्रकार- ---मूलाधारात् प्राणवायुना समुत्पाद्यमाना वाणी परापश्यन्ती- मध्यमा भूत्वा वैखरीभावमपि भावयितुः कण्ठादिस्था विशे- पसंयोगादकारादिवर्णतया जायते । तस्याः कण्ठसंयोगादवर्ण- कवर्गहकारविसर्जनीयाः संजायन्ते, तालुसंयोगादिवर्णचवर्ग- यकारशकाराः, मूर्धसंयोगाद् ऋवर्णटवर्गरेफषकाराः, दन्तसं- योगाद् लवर्णतवर्गलकारसकाराः, ओष्ठसंयोगादुवर्णपवर्गोप ध्मानीयाः सन्ध्यक्षराश्चत्वारश्चतुर्भिरिकारादिभिरकारयोगादेका- रादयो जायन्ते । स्थानद्वयनिप्पन्नास्ते । वकारो दन्तोष्ठस्थानीयः सर्वेषामेकस्थानजनितानामक्षरविशेपाणामवान्तरविशेषः प्राण- प्रयत्नजनितो वायवीयः । तस्मादकारादयः पञ्चाशदक्षरविशेषाः प्रसिद्धतराः। तदक्षरसमुदायविशेपः पदम्। पदसमुदायो वाक्यम् । . 'वन'घ पाठ. २ च भा'ख. पाठ, ३. 'भि प पाठ. ४. 'नस क. प.पाट, ५ 'न्ते, तया ता' घ. पाठ . ६ “दिशयचवर्गा, मू' रा. घ पाट .
वेदप्रकरणम् । वाक्यसमुदायः प्रबन्धः । स प्रबन्धो द्विविधः पौरुषेयापौरुपेयभे- देन । तत्रापौरुषेयो वेदः । पौरुषेयास्तदङ्गोपाङ्गोपवेदाश्चतुर्दशवि- धास्तदन्ये प्रबन्धविशेषाश्च । तत्राद्यो वेदश्चतुप्पादः शतकोटिप्रविस्तरः । तदध्ययना- थज्ञानानुष्ठानानुपपत्तिमभ्युपगम्य कलियुगादौ भगवता व्यास- नाम्ना व्यस्ताश्चत्वारो वेदा ऋग्यजुःसामाथवलक्षणलक्षिताः। ते पुनः प्रत्येक शाखाभेदेनोपि प्रविभक्ताः । तत्र सामवेदः सहस्रधा, यजुर्वेद एकोत्तरशतधा, वाढच एकविंशतिधा, अथ- र्ववेदो नवधा । तत्र केनचित् कारणेन शतक्रतुना वज्रघातिता वेदशाखाः, तत्रावशिष्टाः सामबाढचयो दश द्वादश, यजुर्वे- दस्य पत्रिंशत् । नवैवाथर्वणस्य । ताः सर्वाः प्रथमाध्ययनाद् ऋपिनामधेयाः शाखाः । तत्र सामवेदस्य तलवकारच्छन्दो- गशाट्यायनैराणायनिदुर्वासस)भागुरिगौरतलबकारालिसावर्ण्य- गार्यवार्पगण्यौपमन्यवशाखाः । बाचस्यैतरेयबाष्कलकौषी. तकजानन्तिवाहविगौतमशाकल्यबाभ्रव्यमाण्डव्यपैङ्गमुद्गलशौन- कशाखाः । यजुर्वेदस्य माध्यंदिनकण्यतित्तिरिहिरण्यकेशापस्त- म्बसत्यापाढवौधायनयाज्ञवल्क्यभद्रञ्जयवृहदुक्थपाराशरवामदे. वजातुकर्णतुरुष्कसोमशुप्मतृणबिन्दुवाजिञ्जयश्रवसबर्षवरूथस - नहाजवाजिरत्नहर्यश्वर्णजयतृणजयकृतञ्जयधनञ्जयसत्यञ्जय॑सह - अयमिश्रञ्जयत्र्यरुणत्रिवृपत्रिधामश्विञ्जफलिङ्गुखात्रेयशाखाः।आ- थर्वणिकाः पैप्पलादयोदतोदमोददायढब्रह्मपदशौनकाङ्गिरसदेव- । येचा .क.पाठ:. २. 'न प्र' घ. पाठः, ३. 'ध्यायनामर्पिना' ख. पाठः. ४. निप्राणायनिगुयाम', ५. वानवर्णिगौ', ६. यभूमिअयभूत्यरु' . पाठः. ५. 'स्थि जफ' घ.पाठः, . , २० प्रपञ्चहदये ४ र्षिशाखाः । सर्वे ते प्रदर्शिताश्चत्वारो वेदोः प्रविभक्तशाखाः । तेषामेकैका शाखा दिङ्मात्रेणात्र प्रदर्श्यते सर्वशाखा- प्रदर्शनत्वेन । तत्र पादव्यवस्था ऋगिति बावृचलक्षणम् । गीतिपु समाख्या सामलक्षणम् । शेपे यजुरिति यजुर्लक्षणम् । ऋग्यजुर्मयोऽथर्वा इत्यथर्वलक्षणम् । इति सामान्यलक्षणं चतु. विधम् । तत्र बाढचंलक्षणस्यैतरेयशाखायां मन्त्रसंहिता पाद- मिताँ । तत्प्रमाणमृचां दशसहस्रं पञ्चशताधिकम् । अशीतिः पादाश्च । तध्यायाश्चतुरुत्तरपष्टिः । अष्टावष्टकाः प्रथमाष्टकहि- तीयाप्टकादिभेदेन । तहाह्मणं पञ्चाशदध्यायाः । तद् दशकप- ञ्चकम् । पञ्चमदशकमारण्यकम् । तदन्यत् कर्मकाण्डविष- यम् । तथा सामवेदस्य रथन्तरादिगानविशेषाणां प्रमाणं चतु:- शताधिकमेकादर्शसहस्रम् । सर्वेषां गानविशेषाणामृचो योनिः । तत्र तलवकारशाखायां प्रथमपादो मन्त्रः। स तु बहध्यायनि- बद्धोऽनीन्द्रादिस्तुतिविषयः । तद्राह्मणमुत्तरपादः खण्डसमूहः । तत्प्रमाणं सहस्राधिकमष्टचत्वारिशदुत्तरं शतत्रयम् । तदार- ण्यकं पञ्चाशदुत्तरशतं खण्डाः । तेपा त्रिशदुत्तमाः । तत्रापि चत्वारो ब्रह्ममात्रविपयाः । तथा यजुर्वेदे तैत्तिरीयशाखा मन्त्रब्राह्मणमिश्रा । सा द्विविधा सहिताशाखाभेदेन । तत्र संहि- ता चतुष्पादा सप्तकाण्डा चतुश्चत्वारिंशत्प्रश्ना च । तत्र प्रथम- काण्डोऽष्टौ प्रश्नाः, द्वितीयसप्तमौ पञ्च पञ्च, तृतीयचतुर्थी सप्त 'दा । त', पाठ ४ २ 'सानाप्र'क पाठ. ३. 'न तन पास नस्य' य पाठ ताया पा' रा पा८. १. दिवतुसपघ १० Jचतुष्पा' व पाट ८ शरशम . डे' घ.पाठ.
, वेदप्रकरणम् । सप्त, पञ्चमपष्ठौ पडेकैको(?)। तस्मादेकादशैकादश प्रश्नाश्चत्वारः पादाः । तथार्थप्रकरणवशाच्चतुर्विधा शाखा । तत्र प्रथमद्वितीये प्रत्येकमष्टावष्टौ प्रश्नाः, तृतीयं त्रयोदश प्रश्नाः, चतुर्थप्रकरणमा- रण्यकं दश प्रश्नाः । तथाथणिके पैप्पलादशाखायां मन्त्रो विंशतिकाण्डः । स तु द्विविधः, ऋग्यजुर्मन्त्रभेदेन । तत्र यजु- मन्त्रो बहुविधः । ऋङ्मन्त्रभेदो द्वादशसहस्रं त्रिशताधिकम् । तब्राह्मणमध्यायाष्टकम् । तत्र दिव्याः सांप्रदायिकाः प्रायश्चित्ती- या आभिचारिकाश्चेति चतुर्विधप्रयोगा व्याख्याताः संक्षेपेणात्र प्रदर्शिताः । तथा चतुर्णामपि वेदानां मन्त्रब्राह्मणलक्षणाश्चतस्रो वेदशाखाः। तद्वदन्याश्चापि तथाविधा द्रष्टव्याः सविशेषाः। तथा पौरुषेयास्तदङ्गोपाङ्गोपवेदाश्चतुर्दशविधाः पूर्वमिह प्रदर्शि- ताः। तेऽपि वेदवत् पदपदार्थरूपेण नित्याः । तदाक्यप्रबन्धर- चनायामेव पुरुषव्यापारो न पदपदार्थशिक्षायाम् । अतः पौरु- घेयापौरुपेययोरुभयवर्गथोरङ्गाङ्गिविरोधो नोपपद्यते । तत्र वेद- स्यान्तरङ्गमङ्गम् । बहिरङ्गमुपाङ्गम् । उपायप्रदर्शनमुखेनाम्नाय- मानस्तूपवेदः । शाक्षाव्याकरणनिरुक्तच्छन्दोज्योतिषकल्पसू - त्राणि पडङ्गानि । मीमांसान्यायपुराणधर्मशास्त्राण्युपाङ्गानि । आयुर्वेदधनुर्वेदगान्धर्वार्थवेदाश्चत्वार उपवेदाः। चतुर्दश विद्या अपि वेदवत् पदपदार्थरूपेण नित्याः। तदेवाभ्युपगम्य भग-. वता मनुना समानतयाप्टादशविधी विद्याप्रपञ्चः प्रदर्शितः-- ३. 'नवि', ४. 'क्यच' ख. . 1. 'णि स पाठ . २. 'योऽयम् क क पाट . पाठ, ५. 'वनित्या.', ६. 'यो द व पाठ..
२२ प्रपञ्चहृदये "अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ आयुर्वेदो धनुर्वेदो गान्धर्वो वेद एव च । अर्थवेदश्चतुर्थश्च विद्या ह्यष्टादश स्मृताः ॥" इति । तस्मादेकजातीयोऽष्टादशविद्याप्रपञ्चः। तत्र वेदस्याङ्गानामुपाङ्गानामुपवेदानामङ्गोपाङ्गोपवेदोपका- रकत्वं किमिति चेद् , उच्यते । शब्दात्मकस्य वेदस्यान्यस्य वा प्रथममुच्चारणापेक्षायामुच्चारणलक्षणप्रतिपादकं शीक्षाशा- स्त्रम् । तदुच्चारितस्य पदसंहितापेक्षायां तदुभयलक्षणप्रदर्शनपरं व्याकरणम् । पदार्थपरिज्ञानापेक्षायां पदनिर्वचनलक्षणप्रदर्शन- परं निरुक्तम् । मन्त्रादीनामक्षरपरिमाणविशेषापेक्षायां तल्लक्षणप्र- दर्शनपरं छन्दोविचितिसंज्ञकम् । कर्मविशेषानुष्ठानापेक्षायां तस्य कालाधीनत्वात् तत्कालविशेषप्रदर्शनपरं ज्योतिःशास्त्रम् । कर्मा- नुष्ठानविषये प्रयोगक्रमविवक्षायां तत्क्रमलक्षणप्रदर्शनपरं कल्प- सूत्रमिति । तत्र पूर्वत्रयमर्थज्ञानार्थम् , उत्तरत्रयमनुष्ठानार्थम् । अतः शीक्षाव्याकरणनिरुक्तैर्वेदार्थोऽवगम्यते । छन्दोज्योति- पकल्पसूत्रैस्तदनुष्ठानमुपपद्यते । ततोऽन्तरङ्गभूतानीमानि पड- ङ्गानि । तस्यैव वाक्यार्थविचारविपये पुरुषार्थशेषतयान्तरङ्गन्या- ४. तदनु.. 1. 'होपात्रो', २. 'दोमा' म. पार . ३. 'शा क. पाठ धानकाला!' स. १८, ५. 'पापे प पाठ ६ 'उगल' स पाठ ५. 'दनि शी', ८. विहितान', ९. 'म् । स' के पाठ १., "नि । त' ग, पास - ३ वेदप्रकरणम् । यविचारपरायणं मीमांसाशास्त्रम् । तदनिर्णयशेपतयो लौकि- कैः प्रमाणप्रमेयविशेषैर्बहिरङ्गन्यायविचारपरायणं न्यायशा- स्त्रम् । नष्टशाखार्थविशेषाणामनुपलभ्यमानत्वादशेषवेदार्थोप- बृंहणकं पुराणम् । तदधिकारिणो गर्भाधानाद्युपनयनपर्यन्तम- ध्ययनयोग्यत्वमापाद्य वर्णाश्रमकर्मधर्मप्रविभागपूर्वकमध्ययनार्थ- ज्ञानानुष्ठानधर्मत्वं नियमयति धर्मशास्त्रम् । इति प्रदर्शितमु- पाङ्गानामपि चतुर्णामुपकारकत्वम् । अतोऽन्तरङ्गाद् बहि- रङ्गानीमानि च प्रदर्शितानि मीमांसान्यायपुराणधर्मशास्त्राणि । तदधिकारिणोऽन्यस्य च हेतुलिङ्गौषधस्कन्धेरायुरारो- ग्यप्रदर्शनपर आयुर्वेदः । तस्य परिपन्थिनिरासपूर्वकं परि- पालनाच्चतुर्विधपुरुषार्थप्रवर्तको धनुर्वेदः । तदध्ययनार्थज्ञानानु- छानफलस्य निदर्शनत्वेन लौकिकयागफलप्रदर्शनपरो गान्ध- र्ववेदः । तदधिकारिणोऽन्नपानादिप्रदानमुखेन चरुपुरोडाशाज्य- हविर्दक्षिणादिद्वारेण सकलपुरुपार्थप्रवर्तकोऽर्थवेदः । इति चतु- विधमुपायोपदेशप्रदर्शनपरायणत्वादुपवेदोपकारकत्वम् । इति प्रदर्शितमङ्गोपाङ्गोपवेदोपकारकत्वमिति । सोऽयमिह प्रदर्शितो वेदः साङ्गोपाङ्गः । स चतुर्विधो विध्यर्थवादमन्त्रनामधेयभेदेन । तत्र विधिरज्ञातार्थज्ञापकोऽप्रवृ- त्तप्रवर्तको वा । भूतार्थकथनमथर्वादः, गुणप्रशंसा वा। तत्त्व- २. १. 'म् । तस्यैव त' क. पाठा. 'या प्रा' ख. पाठः ३. 'थानाम', ४. 'नानु क. पाठः. ५. 'मशास्त्रत्व', ६. 'ति । तदधि', ७. 'णो हेस. पाट:. ८. 'नज्ञा' घ. पाठः १, 'गविचारपरायणो गा' क. पाठः. १०. 'ति प्रदर्शितो वेदः' ख.पाट:. ११. 'गश्चतु' क. पाठः २४ ४ प्रपञ्चहृदये प्रकाशको मन्त्रः, करणाङ्गभूतो वा । कर्मप्रापको नामधेयः, अन्यव्यावर्तको वा । त्रिविधो वा वेदः, नामधेयस्य त्रयाणा- मनन्यत्वात् । तत्प्रदर्शितार्थश्चतुर्विधः पुरुषार्थः कामार्थधर्ममोक्षभेदेन । तत्र कामो द्विविधो नित्यानित्योपभोगभेदेन । तत्र नित्योप- भोगो ब्रह्मलोकादौ शाश्वतोपभोगः । तथानित्यो मानुपोप- भोगः । तथार्थो द्विविधश्वेतनाचेतनभेदेन । तत्र चेतनार्थों भार्यापुत्रमित्रदासीदासगजतुरगगोमहिषाजादिलक्षणः । तदन्यो गृहशयनक्षेत्रधनधान्यादिलक्षणः । धर्मोऽपि द्विविधः प्रवृ. त्तिलक्षणो निवृत्तिलक्षणश्चैति । तत्र प्रवृत्तिलक्षणो वर्णाश्रम- विहितः कामसंकल्पपूर्वकः श्रुतिस्मृतिचोदितो जन्ममरणसुख- दुःखफलाश्रयः । निवृत्तिलक्षणो नित्यनैमित्तिकतया वर्णाश्र- मविहितः कामसंकल्पवर्जितः परमेश्वरार्पणनबुयो क्रियमाणः सम्यग्ज्ञानप्राप्तिहेतुः । मोक्षोऽपि द्विविधः , सोपाधिकनिरु- पाधिकभेदेन । तत्र सोपाधिकः सशरीरो मुक्तेपुवत् प्रार- ब्धभोगक्षयपर्यन्तः शरीरेन्द्रियान्तःकरणप्रवृत्तिप्रतिभासपूर्वक- सम्यग्ज्ञानलक्षणः । निरुपाधिकरतनुभुवनप्रपञ्चप्रतिभासरहि- तो नित्यशुद्धबुद्धमुक्तपरमानन्दाद्वैतब्रह्मभावो मोक्षः । इति .. १ 'य. व्या' स. पाठ. .. 'धर्माधराममी' पाठ . ४. 'सभो', 'तभी', 'पभो' ग पार. 'ण । धर्मो', ८. 'मो दि' क. पाठ 'ध । त', १०. 'राधन' स. पाठ:. ११. 'ध्या स', १२. 'रक्षण । मो', १३ 'रमा', १४. 'मग', पारः. ६ पडङ्गप्रकरणम् । चतुर्विधपुरुषार्थप्रदर्शनपरायणः साङ्गोपाङ्गोपवेदो वेदः सविशेषः प्रदर्शितः ॥ इति प्रपञ्चहृदये वेदप्रकरण नाम द्वितीय समाप्तम् । पडङ्गप्रकरणम् । अथेदानीमत्र प्रदर्शितप्रकारेणापेक्षितान्यङ्गशास्त्राण्यर्थ- ट्या प्रदर्श्यन्ते । तत्र शीक्षाशास्त्रं शब्दविपयम् । शब्दो वर्ण- स्वरमात्रावलसामसंतानभेदेनायं पड्धिः । तत्र वर्णास्त्रिपष्टिः । तेप्वेकविंशतिः स्वराः । पञ्चविंशतिः स्पर्शाः। यादयोऽष्टौ व्या- पकाः । चत्वारो यमाः । जिवामूलीयोपध्मानीयबिन्दुविसर्गा दुस्पृष्टाश्चेति प्रदर्शिताः । तदेव प्रतिज्ञातं ब्रह्मणा--- "स्वरा विंशतिरेकश्च स्पर्शाहाः पञ्चविशतिः । व्यापकाश्च तथाह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ अनुस्वारो विसगश्च क पौ चापि पराश्रितौ । दुस्पृष्टाश्चेति विज्ञेयाः सर्वे ते सगुणाः स्मृताः ॥" इति । तद्गुणो द्विविधो बाह्याभ्यन्तरभेदेन । तत्राभ्यन्तरगुण- चतुर्विधः स्पर्शाल्पस्पर्शसंवारविवारभेदेन । तत्र स्पर्शः पञ्च- विधस्तन्मात्रखरस्तोकगम्भीरबाह्यभेदेन । तद्गुणाः पञ्चविंश- तिवर्णाः। तत्र स्पर्शमात्रगुणाः कचटतपाः । खरस्पर्शगुणाः ख- छठथफाः । स्तोकस्पर्शगुणा गजडदबाः। गम्भीरस्पर्शगुणा घझ- ढधभाः। बाह्यस्पर्शगुणा ङञणनर्माः । इत्येते पञ्चविशतिवर्णाः स्पर्शगुणाः । तथाल्पस्पर्शगुणाश्चत्वारो यरलवाः । शषसहाः १ 'झो वेद स क पाट २ 'टा इति ।त' रा पाठ ३ 'यादयभ' पाठ . ४ 'माधति प' पाठ y प्रपञ्चहृदये सरवरा विवृतगुणाः । संवृतगुणोऽकारश्च । इत्याभ्यन्तरगुणा वर्णाः प्रदर्शिताः । बाह्याः श्वासनादघोषाघोषाल्पप्राणमहाप्राणा- दयो वर्णगुणोः । ततः सर्ववर्णाः सगुणाः । तथा स्वरः प्राणप्रयत्नजनितः स्वरवर्णाश्रयो वायवीयः। स तूदात्तानुदात्तस्वरितभेदेन त्रिविधः । तत्कारणमपि भगवता प्रदर्शितम्- "उच्चैरुन्मार्गगो वायुरुदात्तं कुरुते स्वरम् । नीचैर्गतोऽनुदात्तं च स्वरितं (तिर्यग ?) स्तथा ॥" इति । तद्विकारा निषधगान्धारादयः सप्त स्वराः । तत्रोदात्ते निषधगान्धारी, अनुदात्ते धैवतर्षभौ, स्वरिते पड्जमध्यमपञ्च- माः। ते सर्वे प्रत्येकं सप्त सप्त संभिन्नाः। तस्मात् सप्तस्वरप्र- भवा एकोनपञ्चाशत् स्वराः । तद्दिकाराश्चतुर्दशसहस्रंसख्याः । ते सर्वे सामगान्धर्ववेदयोस्तत्प्रकरणादौ च प्रसिद्धतराः । तथा मात्राविशेषः कालकृतो.वर्णधर्मः । स तु स्वरादि- वद् वर्णविशेपपूपलभ्यते। ततः सर्वे वर्णा मात्राविशेपोपल- क्षिताः। तदुक्तं भगवता पाणिनिना-'ऊकालोऽज्झस्वदीर्घप्लुतः' (१. २. २७) इति । तथान्यैरपि- "एकमात्रो भवेदस्वो द्विमात्रो दीर्घ उच्यते । त्रिमावस्तु प्लुतो ज्ञेयो व्यजनं त्वर्धमात्रिकम् ॥" . 'णा. । तथा', .. 'यभगतु तस्य प्रयाविशेषादुदा', ३. 'नाय निक पार . .. 'न',५. 'यो प्रगि' स पाट . ६ 'वणं' य. पाट. पारा पाठ. ७ पडसप्रकरणम् । २७ इति । तत्र केचिद् वर्णाः पादमात्रिकाः, केचनार्धमात्रिकाः, केचिदेकमात्रिकाः, केचिद् द्विमात्रिकाः, केचित् त्रिमात्रिकाः, तदधिका वा केचिदिति । , तथा बलमन्तःकरणप्रयत्नजनितमाभ्यन्तरात्माश्रयं वर्ण- विशेपाभिव्यञ्जकम् । तथा माम सैमानभावनया मध्यम- वृत्त्योच्चारणे, नातिद्रुतविलम्बिताभ्यामवपीड्यमानम् । तथा स- न्तानः शब्दसंततिलक्षणः संहिता।ततो वर्णस्वरमात्रावलसामसं- तानविशेपलक्षणप्रदर्शनपरं शीक्षाशास्त्र । तथा पदसंहितालक्षणप्रदर्शनपरं व्याकरणम् । तद्वि- पयं सर्व पाणिनिसंज्ञयाँ प्रदर्यते । तत्र संहिता 'परः संनिकर्षः संहिता' (१. ४. १०९) इति प्रदर्शिता । सा वर्णानां गमना- गमनोभयानुभयव्यत्याससमुच्चयभेदेन पड़िधा । तत् पदं द्वि- विधं सुबन्ततिङन्तभेदेन । तदुभयमप्युभयात्मकं प्रकृति- प्रत्ययभेदेन । तत्र सुबन्तपदप्रकृतिस्त्रिविधा ड्यन्ताबन्तप्राति- पदिकभेदेन । तत्र ड्यन्तापि त्रिविधा ङीबन्तीपन्तडीनन्त- भेदेन । आबन्ता च त्रिविधा टावन्तडाबन्तचाबन्नभेदेन । अतः स्त्रीप्रत्ययान्ता प्रकृतिः पड्डिधा। प्रातिपदिकप्रकृतिश्चतु- विधा कृत्तद्धितसमासकेवलभेदेन । तत्र कृदन्तास्तद्धितान्ताश्च बहुविधाः । समाप्रिकृतिश्चतुर्विधा तत्पुरुषाव्ययीभावबहुव्रीहि- १ 'सामान्यभा' क पाठ २ गाति', ३ या मर्गमिह प्र' क पाठ गाश्च पाट 'म्वाभ्यास पाट ७ 'न'स पाट 'य पा', ६ ८, २८ प्रपञ्चहृदये । द्वन्द्वभेदेन । केवला पञ्चविधा सत्तालिङ्गपरिमाणवचनसंबोधन- भेदेन । अतो बहुविस्तरा सुबन्तपदप्रकृतिः । तत्प्रत्ययः स्वादिविभक्तिः । सा सप्तविधा प्रथमाद्वि- तीयातृतीयाचतुर्थीपञ्चमीषष्ठीसप्तमीभेदेन। तैदर्थभेदा बहुविधाः । तत्र प्रथमार्थः प्रातिपदिकार्थलिङ्गपरिमाणवचनसंबोधनभेदेन पञ्चविधः । द्वितीयार्थः कर्मानीप्सितान्तराबाहियोगभेदेन चतु- विधः । तृतीयार्थः कर्तृकरणहेत्वप्रधानसहार्थसंबन्धावयवभेदेन सप्तविधः । चतुर्थ्यर्थः संप्रदानतादर्थ्यभेदेन द्विविधः । पञ्चम्य- र्थोऽप्यपादानहेतुभेदेन द्विविधः । षष्ठ्यर्थः स्वस्वामिकार्यकारण- जातिव्यक्तिगुणगुणिसामान्यविशेषगम्यगमकादिसंबन्धविशेषेण बहुविधः । सप्तम्यर्थोऽधिकरणभावहेतुसद्भावभेदेन चतुर्विधः । तस्मादेते सप्तविभक्त्यर्थविशेषाः प्रदर्शिताः । ताः सर्वाः सप्त विभक्तयस्त्रिविधा एकवचनद्विवचनबहुवचनभेदेन स्त्रीपुंनपुंस- कलिङ्गेषु समानाः । तस्मादेकविंशतिविधं विभक्त्यन्तपदम् । तथा तिडन्तपदप्रकृतिः क्रियावाचकलक्षणो धातुः । स हिविधः कर्मसापेक्षनिरपेक्षभेदन । अयं भूवादिगणः सनायन्तो वा धातुसमूहः। तेभ्यः सर्वेभ्यो धातुभ्यः परे भूतभविष्यवर्तमान- कालीनक्रियाविशेषाभिधायका दश लकाराः संपद्यन्ते । ते च लट् लिट् लुट् लट् लेट् लोट् लङ् लिङ् लुङ् लङ् इति १. 'स्वालिय. पाठ.. .. 'तो नि' स. पाट, ३. 'न्त' क. पाट.. पुनरभिदान पदविधा । न', ५. 'पी' न पाठः. ६. 'नुगणरा', ७. ह । य' पाठः.
पडप्रकरणम् । दश लकाराः। तेषां सर्वपा प्रत्येकमष्टादश तिविभक्तय आदेशा भवन्ति । तदादौ नव परस्मैपदसंज्ञकारतदुत्तरा आत्मनेपद- संज्ञकाः । तदुभयनवके प्रथमत्रिकं प्रथमपुरुषसंज्ञकं, मध्यम- त्रिकं मध्यमपुरुपसंज्ञकम्, उत्तरत्रिकमुत्तमपुरुषसंज्ञकम् । तदेतत् पुरुषत्रयं यथाक्रमं तद्युप्मदस्मद्विशेषविषयम् । तदुभयवर्गत्रिक प्रत्येकमेकवचनद्विवचनबहुवचनभेदेनाष्टादशविधं तिङन्तपदम्। तदेतदपि स्त्रीपुंनपुंसकलिङ्गेपु समानम्। एतत्सर्वप्रदर्शनपर व्या- करणम्। तथा पदनिर्वचनलक्षणे निरुक्तम् । तत् पदं चतुर्विधं नामाख्यातोपसर्गनिपातभेदेन । तत्र नाम सत्तामात्रमशेष(विशे- प)रहितं वस्तुमात्रम् । तदवबोधकं नामपदम् । आख्यातो भावः। स तु पड्विधः, जायते अस्ति विवर्धते विपरिणमति अपक्षी- यते विनश्यतीति। एतदुपलम्भकमाख्यातपदम् । तदुभयसाधा- रणतयाँ निरुक्तनिपातितमनभिव्यक्तोभयात्मकमर्थविशेषाभि- द्योतकं निपातपदम् । उपसर्गः स्वार्थरहितोऽनन्यसाधारणो भा. वसंयोगयोग्यः । तदुपसर्गपदम् । इत्येतानि चतुर्विधपदानि । तान्यवयवप्रत्यवयवविभागपूर्वकं वर्णस्वरमात्रादिभेदेनार्थनिर्वच- नार्य निर्वचनीयानि । इत्येतत्सर्वप्रदर्शनपरं निरुक्तशास्त्रम् । तत्र शीक्षाव्याकरणनिरुक्तैर्विदिते वेदार्थे तदनुष्ठानापेक्षा- यां तत्कर्मकरणतया मन्त्रविशेपो विवक्षितः । स तु त्रिविधो ३. 'गपर', ४. या निपा' रु.पाठ.. १. 'त्रय प्र', २. 'म् । त' क. पाठ . ५, 'ग्य', ६. 'नि' क, स, पाटः.
। - प्रपञ्चहृदये गद्यपद्यमिश्रभेदेन । तत्र गद्यं वर्णपदसमुदायः, पद्यं पादनिब- इं, मिश्रं तदुभयात्मकम् । तदेव प्रदर्शितं “गा पद्यं च मिश्रं च तत् त्रिधैव व्यवस्थितम् । पद्यं चतुप्पदं तच्च वृत्तं जातिरिति द्विधा । छन्दोविचित्यां सकलस्तत्प्रपञ्चो निदर्शितः॥" इति । तत्प्रमेयं त्रिविधं छन्दोवृत्तजातिभेदेन । तत्रच्छन्दांति पड्विंशतिः । तान्येकाक्षरवृद्धिक्रमाद् उक्तात्युक्तामध्याप्रतिष्ठासु- प्रतिष्ठागायत्र्युष्णिगनुष्टुव्हतीपतित्रिष्टुब्जगत्यतिजगतीशक्क यतिशकर्यष्टयत्यष्टीधृत्यतिधृतिकृतिप्रकृत्याकृतिविकृतिसंकृत्य - भिकृत्युत्कृतय इति । एतत्परिमाणं पद्यं चतुप्पांदम् । तद् ऋग वैदिके , लौकिके श्लोकः । तदाश्रितं गणनियतं वृत्तम् । तत् त्रिविधं समाधसमविपममेदेन । तत्र समवृत्तं समपादम् । अर्धसमेंवृत्तं त्रिविधं प्रथमस्य हितीयेन तृतीयेन चतुर्थेन स- मानतया । विपमं वृत्तं गणवैपम्यनिवन्धनेन बहुविधम् । मा- त्रानियोजिता जातिः । सा त्रिविधा आर्यादितालीयादिरच- लधृत्यादिश्च । इति प्रदर्शितं छन्दोवृत्तजातित्रितयम् । तत्र वृत्त- जातिपरिज्ञानाय पट् प्रत्ययविशेपाः प्रदर्शिताः। ते-- "प्रस्तारो नष्टमुद्दिष्टमेकहिनिलगक्रियाः । संख्यानमध्वयोगश्च पडेते प्रत्ययाः स्मृताः॥" इति । तद्विस्तरो बहुविस्तरः । ततः पड्विंशतेरूर्ध्वमक्षरपरि- -- २. 'द्विषय., ३. 'अक्षरादिपाटपरि', ४. 'प' य.रा. पाट:. १. 'दी' क. पाट.. २. 'मनि'रा, पाय:.
पडद्मकरणम् । माणं दण्डकमालावृत्तादिभेदेन बहुविधम् । तदेतत्सर्वप्रदर्शनप- रं छन्दोविचितिसंज्ञक छन्दःशास्त्रम् । तथा सर्वकर्मण्यधिकरणकालविशेषप्रदर्शनपरं ज्योतिः- शास्त्रम् । स कालो लवत्रुटिकलामुहूर्ताहोरात्रपक्षमासयन- संवत्सरयुगमन्वन्तरकल्पप्रलयादिलक्षणः । स कालविशेषो ग्रह- चक्रपरिभ्रमणोपलक्षितः । तत्र ग्रहाः सूर्यसोमाङ्गारकबुधवृहस्प- तिशुक्रशनैश्चरराहुकेतवः । तां चक्रार्धपादराशिहोराद्रेक्काणन- बहादशांशत्रिंशदंशकलोविकलातत्पराद्यवयवात्मकं चक्रम् । त- दुभयभ्रमणोपदेशशास्त्रं विस्कन्धं प्रमाणफलभेदेन । तत्र प्रमाणस्कन्धः पञ्चविधश्चक्षुःशास्त्रजललेख्यगणि- तभेदेन । तत्र चक्षुश्चन्द्रादीनामश्विन्यादिसंयोगदर्शनपरम् । शास्त्रं ग्रहचक्रपरिभ्रमणोपदेशः। जलं घटिकायन्त्रमुखादिपरिज्ञा- नम् । लेख्यं ग्रहबिम्बविष्कम्भादिपरिलेखनपरम् । तद् गाणितं तु पञ्चविधं सिद्धान्तभेदेन । तत्र पौलिशरोमकवासिष्ठसौर्यपै- तामहाः पञ्च सिद्धान्ताः । ते प्रत्येकमष्टाधिकारसंभिन्नाः। तेषां ते सकलभिन्नमिश्रराशिकश्रेढीक्षेत्रचितिखाता अष्टाधिकाराः । तदधिकाराणां सर्वपामष्टौ परिकर्माणि । तानि गुणहारकवर्गव- गमूलघनघनमूलसंकलितव्यवकलितानि । इत्यतश्चतुःपष्टिभेद. भिन्नाः प्रत्येकं पञ्च सिद्धान्ताः । १. 'न्दःशा' क. पाठः. २. 'कम् । त' ख. पाठ:. ३. 'स तु ल' क. पाटः ४. 'दिभेदल' स. पाठ . ५. 'णः । का', ६. 'थार्धराशिपा' क. पाठः, ७. "दश' ८. 'शानि' क. पाठ. ९. 'लात' ख पाठ. १० 'श । ज' क. ग, पाठः, •११. मिस. पाठः. १२. 'श', १३. "नि । ते च चतु., १४. "माः प' क. पाठः, स.पाठ.
प्रपञ्चहृदये २ तत्र फलस्कन्धोऽपि द्विविधो होरास्कन्धः संहितास्कन्ध. चेति । तत्र संहितास्कन्धः सर्वजनसाधारणफलप्रदर्शनपरः। तत् फलं सूर्यादीनां सर्वेषां वक्रानुवक्रसमगतीनां सप्तपीणामपि सञ्चा- रजनितं शुभमशुभं मिश्रामिति । ग्रहणग्रहयोगशृङ्गोन्नतिपरिवेष- भूकम्पोल्कापातकेतुधूमदिग्दाहमहेन्द्रचापादिभिरतिवृष्टयनावृष्टि- क्षामक्लेशमहाव्याधिपरिज्ञानं पुरनगरग्रामगृहप्रतिमाप्रासादगोपुर- गोष्ठचतुप्पथचैत्यकृपतटाकोद्यानादीनां स्थानप्रमाणलक्षणं स्त्रीपु- रुपगजतुरगगोमहिषादिलक्षणमपि संहितास्कन्धे प्रतिपाद्यते । तथा होरास्कन्धः सर्वेषां प्रतिपुरुषफलप्रदर्शनपरः । सो- ऽपि त्रिस्कन्धो जातकप्रश्नमुहूतभेदेन । तत्र जातकस्कन्धो जायमानफलप्रदर्शनपरः। तत् फलं त्रिविधं जात्यायुर्भोगभेदेन। तत् पुनस्त्रिविधं दृढकोपार्जितमदृढकोपार्जितं मिश्रकर्मोपार्जि- तं चेति । तत्र धर्मफलसूचकौ शुक्रगुरू । पापफलसूचकाः सू- ङ्गिारकशनैश्चरराहुकेतवः । मिश्रफलसूचकौ बुधसोमौ । सर्वग्र- हाणां लग्नादिद्वादशभावाश्रयादिष्टानिष्टफलहेतुत्वम् । तदायु- रानयनप्रकारश्चतुर्विध उच्चनीचाष्टवर्गाशकक्रमजीवशीयभेदे- न । तदायुरानीतं कर्मफलत्वादिष्टानिष्टफलोपपन्नं दशाफल. मित्युच्यते । तदेव आ जन्मनो मरणान्तमनुभूयते ।। प्रश्नस्कन्धोऽपि पुनः सर्वेषां साध्यासाध्यपरिज्ञानमुखेन १. 'मपि । ' क. पाठः. २. 'पि तत् प्र' ख. पाठः, ३. 'तेविषयभे', ४. च नि', ५. 'चन्द्रमसौ । स', ६. 'पामिह प्रदर्शिताना ल' क 'सर्वपदार्थदर्शनपरायणपरः । तद्विषय नि' स. पा3:. पाठः...
पडाप्रकरणम् । शुभाशुभफलप्रदर्शनपरायणः । तत्प्रमेयं त्रिविधं, धातुमूलजीव- भेदेन नष्टमुष्टिचिन्तागतभेदेन च । सर्वमिदं द्वादशराशिभिनव. ग्रहसहितैरवयवप्रत्यवयवविभागपूर्वकैनिणीयते । तथा सर्वेपामभीष्टफलहेतुप्रदर्शनमुखेन सकलपुरुषा- र्थप्रवर्तको मुहूर्तस्कन्धः । स तु गर्भाधानपुंसवनसीमन्तजातक- मनामकरणान्नप्राशनचौलोपनयनगोदानविवाहादिपु यात्राकृ- षिप्रतिष्ठाभिषेकप्रवेशप्रासादगोपुरगोष्ठचैत्यचतुष्पथकूपतटाकारा- मादिकरणे च तत्र तत्र विहितनक्षत्रतिथिकरणवारगोचरयोगा- दिविधायको मुहूर्तस्कन्धः । तस्मात् सर्वेषां सकलपुरुषार्थप्रदर्श- नपरायणं ज्योतिःशास्त्रम् । तथा वैदिकानुष्ठानविशेषप्रदर्शनपरं कल्पसूत्रम् । तदा- श्वलायनवोधायनजैमिन्यगस्त्यप्रभृतिभिरसाधारणतया प्रविभ- क्तम् । तत्राश्वलायनेन द्वादशाध्यायैर्बाढचैविषयमैतरेयशाखा- प्रयुक्तं सर्वमपि प्रदर्शितम् । याजुर्वेदिकं तैत्तिरीयशाखाप्रयुक्तं बोधायनापस्तम्बवाधूलकादिभिर्विस्तरेण प्रदर्शितम् । तलवका- रशाखाप्रयुक्तं सामवैदिकविषयं चतुरशीतिपटलैजैमिनिना प्रद- र्शितम् । पैप्पलादिशाखाप्रयुक्तमाथर्वणिकं सप्तभिरध्यायैरग- स्त्येन प्रदर्शितम् । इति चतुर्णामपि वेदानां प्रतिशाखं प्रविभक्त कल्पसूत्रम् । तत्र सर्वशाखाप्रत्ययमेकं कर्मेति प्रदर्शितत्वाचातुई- दिकानि त्रैवैदिकानि वा कर्माणि कल्पसूत्रेपु प्रदर्शितानि । तानि चतुर्दशविधानि । तत्राग्न्याधेयामिहोत्रदर्शपूर्णमासाग्र. ३ 'य स' क..पाट. १. 'रपि सा', २ 'चमै ख, पाठ 'मन्त्राणि क', ५. 'नि च' स पाठः, - ३४ . । प्रपञ्चहृदये यणचातुर्मास्यदाक्षायणीसौत्रामण्यः सप्त हविर्यज्ञसंस्थाः । तथा- ग्निष्टोमात्यग्निष्टोमोक्थ्यपोडशिवाजपेयातिरात्राप्तोर्यामाः सप्त सो- मसंस्थाः । तथेलिजश्चत्वारः प्रथमद्वितीयतृतीयचतुर्थाः । ते. ऽध्वर्युब्रह्महोत्रुद्गातारः । सर्वे ते प्रत्येक द्वितीयतृतीयचतुर्थ- पुरुपैः समन्विताश्चत्वारो वर्गाश्चातुर्वैदिकास्त्रैवैदिका वा स्व. (त्व ? स्व)प्राधान्यविवक्षया पोडशविधाः। तत्राध्वर्युप्रतिप्रस्था- तृनेष्टोन्नेतारो याजुदिकाः प्रथमपुरुषाः । ब्रह्मब्राह्मणाच्छंस्या- भीध्रपोतार आथर्वणिकाः, तदितराणामेकत्रा वा द्वितीय- पुरुषाः । होतृमैत्रावरुणग्रावस्तुदच्छावाका बाढचास्तृतीय पुरुपाः । उद्गातृप्रस्तोतृप्रतिहर्तृसुब्रह्मण्याः सामवैदिकाश्चतुर्थ- पुरुपाः । सर्वे ते प्रदर्शिताश्चतुर्वगाः । प्रत्येकं प्रथमद्वितीय- तृतीयचतुर्थपुरुषाचे क्रमेणैव प्रदर्शिताः। तदिदं प्राधान्यमन्त- राग़मनदक्षिणादौ, न तु कर्मकरणबाहुल्यात् । अतः सर्वे यज- मानार्थ यजन्तो भिन्नविधाः। तत्राग्न्याधेयं वसन्तादौ । तद् द्विजातीनां क्रमेणा- नीनां त्रयाणां पञ्चाना वाप्याधानम् । तत्राग्नीनां प्रकृतिर्वि- वाहाग्निः । तेऽप्याहवनीयान्वाहार्यगार्हपत्यास्त्रयोऽग्नयः। सभ्या- वसथ्यौ द्वौ । तत्विजोऽध्वर्युब्रह्महोतोद्गातारश्चत्वारो दक्षिणा- र्थिनो, न तु कर्मफलभागिनः । तत्राहिताग्निः पञ्चमो यज- मानः फलभागी । तत्र यज्ञपात्राणि रफ्यकपालाग्निहोत्रहव- A १. 'दृस्विज', २. 'वं प्र', ३. '' ख, पाटः, 'याह्याधानता प्र', ६. 'धीयो द्वौ' इ. पाठः, 'श्च प्र क. पाठः पडप्रकरणम् । णीशूर्पकृष्णाजिनमुसलोलुखलदृपदुपलवेदपात्रीप्राशित्रहरणसु- वाज्यस्थालीचमसमुक्कूर्चप्रोक्षणीडापात्रप्रणीताचरुस्थालीकम- ण्डलुप्रभृतीनि · साधारणभूतानि विशेषविहितानि च । तदनु- छानमृत्विग्वरणपूर्वकं सम्भारसम्भरणोपस्थानविगृह्यामिपरिग्रह- प्रायश्चित्तब्रह्मोदनपूर्णाहुतिपर्यन्तम् । तथाग्निहोत्रमेकाध्वर्यवम् । तद् द्विविधं सायंप्रातर्भेदेना- नेयसौ(म्य ? यीभेदेन च । तदग्निहोत्रहोमः सर्वहोमानां प्रकृतिः । तथा दर्शपूर्णमासेप्टिरिष्टीनां प्रकृतिः । तथाध्वर्यु- ब्रह्महोत्राग्नीध्राश्चत्वारस्तत्विजः । तत्र पञ्च प्रयाजाः, पड् यागविशेषा विहिताः। 'प्रकृतिवद् विकृतिः कर्तव्या' इति विधानाद् दर्शपूर्णमासेष्टिवदाग्रयणचातुर्मास्यादीष्टयः सर्वाः प्रदर्शिताः। तथाग्रयणेष्टिार्षिकधान्यानां प्रथमोपभोगविषया । सा त्रिविधा धान्यभेदेन, वर्षासु श्यामाकानां, शरदि बीहीणां, वसन्ते यवानां वर्षे वर्षे करणीया । तथा चातुर्मास्येष्टिश्चतुर्विधा फाल्गुन्यां चैत्र्यां वा पौर्ण- मास्यां चै(श्वानरे ? श्वदेवे)प्टिः । तच्चतुर्थे वरुणप्रघासम् । तच्चतुर्थे साकमेधः । तच्चतुर्थे शुनासीरीयम् । तच्चातुर्मा- स्ये पशूपैकरणत्वात् प्रतिप्रस्थाता पञ्चमः । नव नव प्रया- .. . ३. 'मप्र', ४. 'थे अमि (1) १ 'णीपा', २. 'तिविशेषविहितानि प' स. पाठ . सप्तदश दुन्दुभय' क. पाठः, ५ 'पा' इ. पाठः, A २ ३६ प्रपञ्चहृदये जानूयाजौ । अष्टौ हवींपि । द्वौ द्वावाश्विनौ । पशुः सारस्वती मेपी । सुराग्रहो विशेषः । तत्र मैत्रावरुणः पष्ठः । सर्वे ते प्रदर्शिता आघाराज्यभागाविति त्रिंशद् यागविशेषाः । तथैव दाक्षायण्यां विशेपः -वन्ध्या पशुमैत्रावरुणीयो, द्रव्यमामिक्षा। सौत्रामण्यामैन्द्राश्विनौ। पशुः सारस्वती मेषी । सुरा- ग्रहो विशेषः । तत्र मैत्रावरुणः षष्ठः । सर्वे ते प्रदर्शिताः सप्त हविर्यज्ञसंस्थाः। तथा सप्तसोमसंस्थानामुत्तरकतुविशेपाणामतिविस्तीर्ण- तरत्वात् .स्वरूपलक्षणप्रदर्शनमिह नोपदिश्यते । तत्सामा- न्यमभ्युपगम्य विशेपमात्रमीषदुपदिश्यते । तत्र सोमसंस्था- नामग्निष्टोमः 'प्रकृतिः । तद्विकृतयोऽत्यग्निष्टोमप्रभृतयः क्रतुविशेषाः । तत्राग्निष्टोमस्य स्तुतिविशेषः शस्त्रविशेषश्च द्वादशविधः । अत्यग्निष्टोमस्य त्रयोदशविधः। उक्थ्यस्य पञ्च- दशविधः । षोडशिनः पोडशविधः । वाजपेयस्य सप्तदशविधः । अतिरात्रस्यकोनशिद्विधः । अप्तोर्यामस्य त्रयस्त्रिंशद्विधः। (तद् ?) अग्निष्टोमस्य यत् ऋतुकरणं तदत्यग्निष्टोमस्य । यदु- क्थ्यस्य तदेव पोडशिवाजपेययोः। यदतिरात्रस्य तदप्तो- मस्य । वाजपेये चतुर्विंशतिः पशवः । तेपां सप्तदश प्राजापत्याः तदन्येऽग्नीपोमीयाः। तत्र माध्यन्दिनसवने दक्षि- णार्थ सप्तदश द्रव्यसङ्घाः प्रदर्शिताः । ते सप्तदशगजाः, सप्तदश रथाः, सप्तदश शकटाः, सप्तदश गवां शतानि , सप्त- ३.'स्नु' स. पाठः. पाठ:: ५. 'यादयः । त', ६.'' , पाठ.. .. 'य', २. 'पद्यते' इ. पाठः. ४. 'स्य तदेव प' ग.
पडप्रकरणम् । ३७ N २ - दश दुन्दुभयः, सप्तदश निकाः, सप्तदश कृष्णलानि, सप्त- दश वासोभाराः, सप्तदश वसनानि, सप्तदश शरावाः, सप्त- दशारं चक्र, सप्तदश फलकानि, सप्तदशारत्नी दीर्घिका , सप्त- दश गोधूमपिष्टकलापिनः, सप्तदशोपपुटानि, सप्तदश वाय- व्यानि, सप्तदशोपयामानीति । सर्वेषामपि प्रत्येकमीशविशेषा द्रष्टव्याः । तत्र सत्रयागश्वेशविषयः परस्परमितरेतरविवक्षा- यां पोडशविजो यजमानाश्च भवन्ति । ते धर्मभागिनो, न तु दक्षिणार्थिनः । स तु सत्रयागो वाजपेयाप्तोर्यामयोर्न वि- हितः । तदन्यत्रामिष्टोमादिपञ्चके विकल्पविहितः । तत्र सर्वेषां स्वकीयाग्नीन् गृहपतिगृहे नीत्वा तदग्नौ संयोज्य सत्र- यागः । यदा सत्रमुपसंहृत्य गृहपतिगृहादग्नीनां विभागे- च्छवः, तदा पूर्ववत् समुदायाग्निभ्यः स्वकीयाग्नीस्त्रीन् पञ्च वा समारोप्य स्वं खं गृहं यास्यन्ति । इत्यादिप्रदर्शिताः सप्त . ६ सोमसंस्थाः । क्षत्रियविहिता राजसूयाश्वमेधपुरुषमेधसर्वमेधसोमसव- प्रतिसवमृत्युसवकारण्डयज्ञविशेषाणां शुनाकर्णयज्ञप्रभृतयः । सर्वेषामिह प्रदर्शितानां यज्ञविशेषाणां कल्पसूत्रेषु मन्त्र- हविर्देवतासम्बन्धसंस्कारकरणादिकमित्थमित्थमिति तत्र तत्र प्रदर्शितम् । -- सप्तविः पाकयज्ञो गृह्येषु प्रदर्शितः । सोऽपि हुता- 'ध --प' क. ६ 'भागिन.', १. 'प्तदशदशा' ग, घ पाद:. २ 'नीति स' स. पाठ. ४. 'क्षया पोक स. ग, घ, पाठ . ५. 'समभा' इ. पाठ. घ पाठः, ५. 'धपा क. पाठ.
प्रपञ्चहृदये हुतेप्र९तशेलगववलिहरणप्रत्यवरोहणाष्टकाहोमभेदेन । अयमेक- विशतिविधो यज्ञः कल्पसूत्रप्रकरणप्रदर्शितः । तस्मादत्र शीक्षा- व्याकरणनिरुक्तच्छन्दोज्योतिपकल्पसूत्राणि प्रदर्शितानि ।। ५ इति प्रपञ्चहृदये पडङ्गप्रकरणं नाम तृतीयं समाप्तम् । उपाङ्गप्रकरणम् । अथेदानीमुपाङ्गानि मीमांसान्यायपुराणधर्मशास्त्राणीह प्रद- यन्ते । तत्र मीमांसाशास्त्रमशेषवेदार्थनिर्णयपर वाक्यार्थविचार- मुखेन पुरुषार्थशेषतया। तत्र शीक्षाव्याकरणनिरुक्तैर्विदिते वेदार्थे सति किमिदानीम् अशेषवेदार्थनिर्णयपरं मीमांसाशास्त्रमिति प्रदर्शितम् । नायं दोषः। वेदार्थस्य दैविध्यात् पदार्थवाक्यार्थभे- देन । तत्र पदार्थपरिज्ञानमेवात्र प्रदर्शितम् । इदानीं पुरुषार्थशे. पतया मीमांसाशास्त्रमन्तरेण वाक्यार्थनिर्णयाभावात् तदर्थमि- दमारभ्यते । तत्र साङ्गोपाङ्स्य वेदस्य पूर्वोत्तरकाण्डसंमिन्नस्या- शेषवाक्यार्थविचारपरायणं मीमांसाशास्रम् । तदिदं विंशत्यध्यायनिवद्धम् । तत्र षोडशाध्यायनिबद्ध १. 'तशलाहुतगविन स. पाठ २. 'भू', ३. 'गविम' ग घ. पादः. ४ णीति प्रक.पाठ:. ५. 'नीति । ख, ग. पाठ, ६. 'याँ निरुत्वशास्त्रेण पूर्वमिह प्रदर्शित, । इदानी मी' क. पाटः । ५. 'इवे-स, ग, घ पाठ , ८. 'न पूर्वका घ, पाठ, साफ. ग. पाठ. ..'य पूक. ग. पाय:
उपाइप्रकरणम्। पूर्वमीमांसाशास्त्रं पूर्वकाण्डस्य धर्मविचारपरायणं जैमिनिकृतम् । तदन्यदध्यायचतुष्कम् उत्तरमीमांसाशास्त्रम् उत्तरकाण्डस्यै व्र- ह्मविचारपरायण व्यासकृतम् । तस्य विंशत्यध्यायनिवहस्य मीमांसाशास्त्रस्य कृतकोटि- नामधेयं भाष्यं बोधायनेन कृतम् । तद् ग्रन्थबाहुल्यभयाँदुपेक्ष्य किञ्चित् संक्षिप्तम् उपवर्पण कृतम् । तदपि मन्दमतीन् प्रति दु- प्रतिपादं विस्तीर्णत्वादित्युपेक्ष्य पोडशलर्क्षणपूर्वमीमांसाशास्त्र- मात्रस्य देवस्वामिनातिसंक्षिप्तं कृतम् । भवदासेनापि कृतं जै- मिनीयभाष्यम् । पुनर्हिकाण्डे धर्ममीमांसाशास्त्रे पूर्वस्य तन्त्रका- ण्डस्याचार्यशबरस्वामिनातिसंक्षेपेण संकर्षकाण्डं तिहीयमुपेक्ष्य कृतं भाष्यम्। तथा देवताकाण्डस्य संकर्षेण । ब्रह्मकाण्डस्य भगव- त्पादेब्रह्मदत्तभास्करादिभिर्मतभेदेनापि कृतम्। तथा शाबरभाष्य वाक्यार्थभेदमभ्युपगम्य भट्टप्रभाकराभ्यां द्विधा व्याख्यातं - तत्र भावनापरत्वेन भट्टकुमारेण, नियोगपरतया प्रभाकरेण । । तस्य विंशत्यध्यायनिबहस्य मीमांसाशास्त्रस्य प्रत्यध्याय- १० - १ 'याप्टकम् उ' क ग पाट २ स्त्र ब्रह्मका' क पाठ ३. 'स्य मन्त्रदेव- तान' क'स्य देवतान' ग पाठ. 'णम् । तस्य' घ पाठ 'तम् । तना- ध्यायचतुष्क देवमाण्डस्य मन्नदवतातत्त्वविचारपरायणम् । तदितरद् ब्रह्मकाण्डस्य ब्रह्मवि चारपरायणम् । तस्य' क, 'तम् । तनाध्यायचतुष्टय दवतामाण्डस्य देवतातत्त्वविचार परायणम् । तदितरचतुष्टयं ब्रह्माण्डस्य ब्रह्मविचारपरायणम् । तस्य' ग पाठ . भा' घ पाट. ७ 'यात् पुराचार्यण शवरस्वामिना पूर्वमीमासाशास्त्रस्या' ग 'यात पुनराचार्येण शबरस्यामिना पूर्वमीमासाशास्त्रस्य चतुर्विंशतिसहस्रैरतिसक्षपेण कृत भाष्यम् । ।' ८. 'क्ष मी' घ. पाठ. ९ 'कमा' ख पाठ. क.पाठ १० 'पें।' ख ,'पणेन व्र'ग, पाठ ११ 'द' ख. पाठ १२ 'ति' ग. पाठ. १३. 'ध्यवा' ग पाठ. 'र्थम' ग पाठ , प्रपञ्चहृदये मर्थविशेषः प्रदर्श्यते । तत्र मीमांसाशास्त्रे प्रमाणप्रमेयविचारः क्रियते । तत्र साङ्गोपाङ्गो वेदः प्रमाणम् । प्रमेयः पुरुषार्थः । तस्य प्रमाणभूतस्य वेदस्य प्रत्यक्षादिलौकिकप्रमाणैः पभिरमा- माण्यं कृतैकत्वानित्यत्वपौरुषेयत्वपरतन्त्रत्वादिदोषकलापैराश- कार्य प्रामाण्यं प्रथमाध्याये प्रतिपाद्यते। तस्य सर्वदोषरहितस्य वेद- स्य भेदाभेदो द्वितीये। तत्र सर्ववेदवाक्यानां पुरुपार्थपर्यवसानाद भेदमाशङ्कय शब्दान्तराभ्याससंख्यागुणप्रक्रियानामधेयैरन्तरङ्गप्र- माणैर्विधिभेदः समर्थ्यते । तत्र विधिभेदे विद्यमाने सर्वेपां वि- धिवाक्यानां स्वप्राधान्यमाशङ्कय श्रुतिलिङ्गवाक्यप्रकरणस्थान- समाख्याभिः परदौर्बल्यैरन्तरङ्गप्रमाणैः शेषशेपिभावविचारस्त- तीये । स एव क्रतुपुरुषयोरपि प्रसक्तः । तत्र ऋतुशेषः पुरुष- इत्याशङ्कय तत्प्रमाणैः पुरुषशेषः क्रतुरिति चतुर्थे निर्णीयते । पञ्चमे क्रमविचारः । तत्र श्रुतिचोदितानुष्ठाने सर्वेषां क्रियावय- वविशेषाणामनुष्ठेयमात्रविवक्षया तत्क्रमोऽविवक्षित इत्याशङ्कय श्रुत्यर्थपाठकाण्डप्रवृत्तिभिरन्तरङ्गप्रमाणैस्तदनुष्ठानक्रमो विवक्षित इति निर्णीयते । षष्ठे तदधिकारविचारः । तत्र सर्वेषां स्थि- रचराणामविशेषेणाध्ययनार्थज्ञानानुष्ठानाधिकारमाशङ्कय पशुम- गपक्षिसरीसृपस्थावराणां करणवैकल्याद् अन्येपामपि स्त्रीशूद्रप- तितचण्डालानां प्रतिषेधाद् अधिकाराभावः। ततस्त्रैवर्णिकाना- 'स्वामि १. '' क, 'झोपवे ग घ पाठ २. 'भि प्रा' स. पाट.. घ.पाट. ४. 'झ्याशङ्कय प्रा' स ग. घ. पाट , ५. 'नाम' ग. पाठ. स.ग. ५ पाउ. 'नक' ग, पाठ, 'व ' पाठ क. पाठ. ८ ९. 'अ' उपासप्रकरणम् । ४१ चतुराश्रमिणां तदधिकारो निीयते । सप्तमे सामान्यातिदेशः। प्रकृतिवद् विकृतिः कर्तव्येति विधानमतिदेशः । तत्र प्रकृती यान्यङ्गसाधनानि विहितानि, तानि सर्वाण्यविशेपेण तद्विकृ- तावतिदिश्यन्ते। अष्टमे विशेपातिदेशः। तत्र होमानां प्रकृतिर- ग्निहोत्रहोमः । इष्टीनां प्रकृतिर्दर्शपूर्णमासेष्टिः । यागानां प्रकृ. तिरग्निष्टोमयागः । तत्र विहितान्यङ्गसाधनानि तत्तद्विकृतावति- दिश्यन्ते । तदतिदिश्यमानार्थविशेषेपूहो नवमे । स तु द्वारा- न्तरसंचरणलक्षणो मन्त्रसामसंस्कारविषयः । तत्र मन्त्रसामसं. स्काराणां प्रकृतौ श्रूयमाणानां विकृतौ कथं प्रयोग इत्यूहो वि. स्तरतः । तत्रैव मन्त्रसामस्तुतिप्रसङ्गाद् देवतार्यों विग्रहादिप कनिराकरणमपि क्रियते । दशमे बाधः । सोऽपि क्रियोपरम- लक्षणः प्राप्तप्रतिपेधः पूर्वविषयाणां मन्त्रसामसंस्काराणाम् । एकादशे तन्त्रम् । तत्र कालकर्तृकरणाथैक्ये बहूनामगृह्यमाण- विशेषतया साधारणप्रयोगस्तन्त्रम् । द्वादशे प्रसङ्गः। पूर्वविष- याणामेव प्रयुज्यमानानां पृथक् प्रयोगस्य प्रयोजनाभावात् प्र- युज्यमानोपयोगः प्रसङ्गः। एवं द्वादशस्वध्यायेष्वर्थविशेषः पूर्वगी- मांसाशास्त्रस्य प्रदर्शितः। तथा देवताकाण्डस्य प्रथमाध्याये सर्वेषां मन्त्रविशेषाणां देवतातत्त्वप्रदर्शने तात्पर्यमिति प्रदर्शितम् । द्वितीयाध्याये विध्यर्थवादनामधेयानां मन्त्रदेवताविशेषत्वम् । तृतीयाध्याये 'श: । स तु म' क., 'शः । यत्र' ग. पाठः, २ 'नम् । त' क. पाठ:. 'न्याधाना' ग. पाठ:. ४. ३ 'या यागधि' ख. पाठः, 'ध. सर्वत्र व्याप्त पू' ६. पाठ.. ६. 'गः । तथा' स ग, घ, पाटः, ७. 'क्षदेमन्त्र' क. पा. I ४२ प्रपञ्चहृदये देवतातत्त्वं खेच्छोविग्रहत्वादिगुणगणालङ्कतम् । चतुर्था- ध्याये देवतो फलं सत्कर्मणामपवर्गाधिकारिणस्तादात्म्यलक्ष- णमपवर्गफलमिति । ब्रह्मकाण्डस्य प्रथमाध्याये सकलवेदान्तवाक्यानांव- मणि समन्वयः प्रदर्शितः । ततो मायाशबलब्रह्मणि समन्व- यादविरोधो द्वितीये । तृतीये. ब्रह्मज्ञानस्य श्रवणमनननिदिध्या- सनानामन्तरङ्गसाधनत्वम् ।' चतुर्थे सकलसंसारदुःखानां नि- वृत्तिलक्षणमात्माद्वैतब्रह्ममात्रमोक्षफलम् । इति प्रदर्शितं मी- मांसाशास्त्रम् । - तथा वेदार्थनिर्णयशेषतया लौकिकन्यायविचारपरायणं - न्यायशास्त्रम् । तदक्षपादसूत्रमार्गेणात्र प्रदर्श्यते । तत्रोदेशतः पोडश पदार्थाः प्रथमसूत्रेण प्रदर्शिताः । प्रमाणप्रमेयसंशय- प्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वा- भासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानं निःश्रेयसहेतुरिति प्रदर्शिताः सर्वे पदार्थाः। तत्र प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि । आत्मश- रीन्द्रियार्थबुद्धिमनःप्रवृत्तिदोपप्रेत्यभावफलदुःखापवर्गास्तु प्रमे- यम् । अनवधारणज्ञानं संशयः । यदुद्दिश्य प्रवर्तते, तत् प्रयोजनम् । लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं, स. 'छया वि' ग. पाठ २. हात्त्वा' क पाठ.. ३. 'ता तरफ' क, प, ग 'लं सर्वकर्म' स. ग., 'लमप' क. पाठः. ५. 'दयल' ग, पाठ. ६. 'गि मायावेषस्य निवर्तक्लादि द्वि', ७. 'रनि' दृ, पाठ "यप' य. पाठः 'ता: तदपि ' स. ५. पाठः १०. 'ता.त' स. प. पाठः.
उपाङ्गप्रकरणम्। दृष्टान्तः । (तन्त्राधिकरणाभ्युपगमसंस्थितिः) सिद्धान्तः । स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमभेदेन । तत्र सर्व- तन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः। समानतन्त्र- सिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः। यत्सिद्धावन्यप्रकरण- सिद्धिः, सोऽधिकरणसिद्धान्तः । अपरीक्षिताभ्युपगमात् तद्वि- शेषपरीक्षणमभ्युपगमसिद्धान्तः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः। साध्यनि- र्देशः प्रतिज्ञा । उदाहरणसाधात् साध्यसाधनं हेतुः । साध्य- साधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणं, तद्विपर्ययाही वि- परीतम् । उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्यो- पनयः । हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् । अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्त- कः । विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः । प्रमाणत- कंसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रति- पक्षपरिग्रहो वादः । छलजातिनिग्रहस्थानसाधनोपालम्भो ज- ल्पः । स प्रेतिपक्षस्थापनाहीनो वितण्डा । सव्यभिचारविरुद्ध- प्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः । वचनविघातोऽर्थविकल्पोपपत्त्या छलम् । तत् त्रिविधं . वाक्छलं सामान्यच्छलमुपचारच्छलं चेति । अविशेपाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् । संभवतोऽर्थस्याति- १. 'द्विप' ग. घ. पाठ.. २. 'स्वपक्ष' ड. पाठः. + 'यथोकोपपनच्छल' इति मुद्रितन्यायसूनपाठः ।
प्रपञ्चहृदये सामान्ययोगादसंभूतार्थकल्पना सामान्यच्छलम् ! धर्मविकल्प- निर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् । २ साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः । पराजयनिमि- तं निग्रहस्थानम् । तद् बहुविधम् । प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्र. तिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञा- तार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानम- प्रतिभौं विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो- ऽपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि। इत्येतत्सर्वप्रदर्शनपरं न्यायशास्त्रमिति । तथा पुराणं जायमानस्य तनुभुवनात्मकप्रपञ्चस्य सर्गप्र- तिसर्गवंशमन्वन्तरवंशानुचरितप्रदर्शनपरायणम् । तत्र मूलप्रकृ- तेः परमपुरुषाधिष्ठितायाः प्रथमं महानुत्पद्यते । स तु सकलज- गत्कारणभूतो बुद्धिलक्षणः । ततोऽहंकारः । सोऽयं त्रिविधः सा. त्त्विकराजसतामसभेदेन । तत्र सात्त्विकाहंकाराच्चतुर्विधमन्तःक- रणं मनोबुद्धयहंकारचित्तविशेषोपलक्षितमुपजायते, राजसाहंका- रादुभयविधमिन्द्रियदशकं, तामसाहंकारात् पञ्च तन्मात्राणि । तेभ्यः शब्दस्पर्शरूपरसगन्धेभ्यस्तन्मात्रेम्यः क्रमेणाकाशवायुते- जोजलपृथिवीनामधेयानि शब्दस्पर्शरूपरसगन्धगुणोचराणि सं- जायन्ते । तस्मादेतानि चतुर्विशतितत्त्वानि प्राकृतानि प्रथममु- त्पद्यन्ते । . . 'न्यसयो' ग. पा. 'भा कथावि', 'म्।', ६ 'सतिवि फ. पाट २. 'प्रतिराग प. पाठ ३ 'त'. पा. ७ 'तम् । रा' स ग पाट.
. उपाइप्रकरणम् । तन प्रथमकारणभूतो महानयं बुद्धिलक्षणस्तत्कार्यवि शेपानहंकारादीनात्मतया परिगृह्य स्वयमुपक्रमोपसंहारार्थ हि- रण्यगर्भतया जायते । तत्र सिसृक्षोभंगवतोऽन्तःकरणे प्रादु- भूतो गर्भश्चतुर्दशभुवनेषु देवपितृयक्षराक्षसनागगन्धर्वभूतपिशा- चमनुष्यपशुमृगपक्षिसरीसृपस्थावरविशेषाणां जात्यायुर्भोगमवग- म्य चतुर्विशतितत्त्वविशेषैर्यथायागमहरहश्चतुर्दश मनून देवान सेन्द्रान् सप्तर्पिप्रमुखानन्यानपि सुरनरतिर्यग्देहान् सविशेपान देशकालकर्मानुगुणमविरतं सृजति । तद्विपरीततया सर्वमिह प्रदर्शितं मूलकारणपर्यन्तमुपसंहरति । तदेव तत्र प्रतिज्ञातं--- "सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥" इति। तत्र सर्गस्त्रिविधः प्रथममध्यमान्त्यभेदेन । तत्र प्रथम- सर्गो मूलप्रकृतेश्चतुर्विंशतितत्त्वप्रादुर्भावः । मध्यमसर्गस्तत्त्व- विशेषैश्चतुर्दशलोकमनुप्रजापतीन्द्रदेवसप्तर्षिप्रमुखारम्भः । अ- न्त्यसो भूलोके मनुष्यपशुमृगपक्षिसरीसृपस्थावरविशेषाणां प्रतिशरीरारम्भः। प्रतिसर्गः प्रदर्शितसर्गस्य त्रिविधस्य प्रतिलो- मसर्गः प्रलयः । वंशो ब्रह्मादेः पुत्रपौत्रपरम्परानुगतः शरीरसं- ततिप्रवाहोऽद्यापि वर्तमानः । मन्वन्तरं ब्रह्मणो दिवसः कल्पः। तस्मिन् कल्पे चतुर्दश मनवः, द्वासप्ततिचतुर्युगावृत्तिरेको । 'णः सकलगुणगणालकृतो माययाह', २. 'वेदः साझोपाङ्गः. सपिशेषः । तेनैव परमपुरुषो भगान् तनुभुवनात्मप्रपञ्चस्स नामरूपाकृतिप्रमाणादिकमवगम्य तथाविधं प्रत्यह चतुर्दश मन्' पाठः. ३. 'तिसमारम्भश' ग. पाउ:. ४. 'रय प्र' ख, ग पाठ , प्रपञ्चहृदये मनुः । मनोर्मन्वन्तरप्राप्तिकथनं मन्वन्तरम् । अथवा लवतुटि- कलाकाष्ठामुहूर्ताहोरात्रैपक्षमासर्वयनसंवत्सरयुगमन्वन्तरकल्पप्र- लयादिकालविशेपोपलक्षणं मन्वन्तरम् । वंशानुचरितं वंश- जानां महतामाचारगुणसंकीर्तनम् । इति पुराणं पञ्चलक्षणम् । तदेतत्सर्वप्रदर्शनपरं पुराणं शतकोटिप्रविस्तरं ब्रह्मकृ- तम् । तदद्यापि देवलोके प्रवर्तते । तत् संक्षेपाच्चतुर्लक्षप्रमाणे- नाष्टादशविधं पुराणमिह लोके व्यासकृतम् । तदपि-ब्राह्म, पाझं, वैष्णव, शैवं, भागवतं, नारदीयं, मार्कण्डेयम्, आग्नेयं, भविष्यद् , ब्रह्मवैवर्त, लैङ्गं, वाराहं , स्कान्दं, वामनं, कौम मात्स्य, गारुडं, ब्रह्माण्डमिति प्रदर्शितमष्टादशविधं पुराणम् । तेषां ग्रन्थप्रमाणमपि प्रत्येकं प्रदर्श्यते । ब्राह्मं दशस- हस्रं, पानं पञ्चाशत्सहस्रं, वैष्णवमष्टसहस्रं, शैवं द्वादशसहस्रं, भागवतमष्टादशसहस्र, नारदीयं चतुर्विंशतिसहस्र, मार्कण्डेयं द्वात्रिंशत्सहस्रम्, आग्नेयमष्टसहस्रं, भविष्यदेकत्रिंशत्सहस्रं, ब्रह्मवैवर्त द्वादशसहस्र, लैङ्गमेकादशसहस्र, वाराहं चतुर्विंश- तिसहस्रं, स्कान्दं लक्षं, वामनं चतुर्विंशतिसहस्रं, कौम पट्- सहस्रं, मात्स्यं त्रयोदशसहस्र, गारुडं षोडशसहस्रं, ब्रह्माण्डं द्वादशसहस्रमिति प्रत्येकं प्रमाणम् । समुच्चितं लक्षचतुष्टयम् । भारताख्यानमपि लक्षं पुराणार्थोपहितमष्टादशपर्वभे- देन व्यासकृतम् । रामोपाख्यानं शतकोटिप्रविस्तरं ब्रह्मकृतं 'नुरिति । म' रा. ग पाउ . 'मा' स.ग. पाठ ३. 'के', 'व चतुर्विशतिरा', ५ 'थं परविंशतिस', ६ 'मैं सप्तदशस', ७. रस्य चतु देशस', ८ सौपर्णमेकोनविशस' ह पाट , , 'उपाङ्गप्रकरणम् । पुराणवद् देवलोके वर्तते । तत्र गत्वा नारदेन श्रुत्वा वाल्मीकये, व्याख्यातम् । तेन पुनः पटकाण्डभेदेन चतुर्विंशतिसहरि- हलोकानुग्रहाय संक्षिप्तम् (?) । इति प्रदर्शितमितिहासपुराणम् । तथा धर्मशास्त्रमध्ययनार्थज्ञानानुष्ठानाधिकारिणां धर्म- कर्मप्रदर्शनपरायणम् । तद्धर्मः पड्निधः स्मार्तः वर्णधर्म आश्र- मधर्मों वर्णाश्रमधर्मः सामान्यधर्मः प्रायश्चित्तधर्मो गुणधर्म- श्रेति । तत्र वर्णो ब्राह्मणक्षत्रियवैश्यशूद्रभेदेन चतुर्विधः । तत्र ब्राह्मणाद् ब्राह्मण्यामुत्पन्नो ब्राह्मणः। क्षत्रियात् क्षत्रियायां क्षत्रियः, वैश्याद् वैश्यायां वैश्यः, शूद्राच्छूद्रायां शूद्र इति चत्वारो वर्णाः । तत्र ब्राह्मणक्षत्रियवैश्यानां दानाध्ययनयागा वर्णधर्माः। त्रयाणां वृत्त्युपायधर्मास्त्रिप्रकाराः। तत्र ब्राह्मणानामध्यापनया- जनप्रतिग्रहाः, क्षत्रियाणां परिपालनयुद्धपरराष्ट्रनिवेशनाः, वै- श्यांनां कृषिगोरक्षावणिज्याः, शूद्राणां द्विजातीनां त्रयाणी मनोवाकायशुश्रूपाः । तदुभयविधमाशौचमपि वर्णधर्मः । स्त्रीपुरुपयोरसमानजातेरुत्पन्नः संकरवर्णः पञ्चमः। स तु द्विविधः प्रतिलोमानुलोमभेदेन । तत्रानुलोमाः पडेते-मू- र्धावसिक्तभृज्जकण्ठमाहिप्यपारशवयवनकरणाः । ब्राह्मणस्य क्ष- त्रियायामुत्पन्नो मूर्धावसिक्तः, वैश्यायां भृज्जकण्ठः, शूद्रायां ६ , ४. 'दी' क. 1. 'मैं', २. 'ध' क. पाठ . ३. 'ति। मानुपस्तत्र' पाठः. 'पि चातुर्वर्ण्यध' क. पाठः, ग.घ.पाठ:. ५. 'णां शु' ख. ग. पाठः. ६ प्रपञ्चहृदये पारशवः । क्षत्रियस्य वैश्यायां माहिप्यः, शूद्रायां यवनः । वैश्यस्य शूद्रायां करणः । सर्वे ते प्रदर्शिता मातृपक्षधर्मवि- कल्पाः। तथा प्रतिलोमाः पडेते-सूतमागधचण्डालधीवरपुल्क- सवैदेहकाः । तत्र ब्राह्मण्यां क्षत्रियाज्जातः सूतः, वैश्यान्मा- गधः, शूद्राञ्चण्डालः । क्षत्रियायां वैश्याद् धीवरः, शूद्रात पुल्कसः । वैश्यायां शूद्राद् वैदेहकः । पडेते धर्मबहिष्कृताः कर्मकरणोपजीविनः । तदुभयवर्गाणामितरेतरनिबन्धनः संकर- वर्णों बहुविस्तरः। तथा द्विजातीनां ब्रह्मचारिगृहस्थवानप्रस्थसंन्यासिभे- देनाश्रमाश्चत्वारः । ते पुनः प्रत्येकं चतुर्विधाः। तत्र सावित्रो- पकुर्वाणप्राजापत्यनैष्ठिकाश्चत्वारो ब्रह्मचारिणः । गृहस्था वृत्ति- भेदेनाग्निभेदेन वा चतुर्विधाः। तत्र वृत्तिभेदेनाश्वस्तनिकोञ्छ- वृत्तिशालीनयायावराः। तत्राग्निभेदेन पञ्चामिस्त्रेताग्निरेकाग्निः पाक्षिकाग्निश्चेति चतुर्विधाः । तथा वानप्रस्था वैखानसोदुम्बर- बालखिल्यफेनपाश्चेति चतुर्विधाः । तथा संन्यासिनः कुटीच- कंबहूदकेहंसपरमहंगभेदेन चतुर्विधाः । तत्र सामान्यविशेपभेदेनाग्निगुरुपरिचर्यास्वाध्यायभिक्षा- चरणादयो बहुविधा ब्रह्मचारिधर्माः । तद् ऋतुगमनपाकय- ज्ञपञ्चयज्ञाप्टकाश्राद्धविशेषादयो गृहस्थधर्मा बहुविधाः । तत्र श्राद्धं नित्यनैमित्तिककाम्यनान्दीमुखपार्वणभेदेन पञ्चविधम् । १ 'कनिदपिन्ह' क ग पाठ २. 'कनिदण्डिह घ पाठ ४९ उपाङ्गप्रकरणम् । तथा बाह्याभ्यन्तरभेदेन वानप्रस्थधर्मो द्विविधः । तत्र वाह्यो वन्यमूलफलादिभिरहरहरग्निहोत्रादिकर्मविशेपः । तथाभ्यन्तर- रतीव्रतपश्चर्यापूर्वको यमनियमासनप्राणायामप्रत्याहारधारणा- ध्यानसमाधिलक्षणः । तथा सन्न्यासधर्मः सकलकर्मफलसंन्यास- पूर्वको वेदान्तश्रवणमनननिदिध्यासनलक्षणश्चेत्यादिः प्रदर्शि- तश्चतुराश्रमधर्मः। तथा तदुभयसंयोगाद् वर्णाश्रमधर्मः । तत्र ब्राह्मणब्रह्म- चारिणो ब्राह्मणगृहस्था ब्राह्मणवानप्रस्था ब्राह्मणसंन्यासिन- वेति पोडशविधो ब्राह्मणवर्णाश्रमः । क्षत्रियब्रह्मचारिणः क्षत्रि- यगृहस्थाः क्षत्रियवानप्रस्थाश्चेति द्वादशविधः क्षत्रियवर्णाश्रमः । वैश्यब्रह्मचारिणो वैश्यगृहस्थाश्चेत्यष्टविधो वैश्यवर्णाश्रमः । शूद्रगृहस्था वृत्तिभेदेन चतुर्विधाः । तस्माच्चत्वारिंशद्विधो वर्णाश्रमधर्मः । स तु 'ब्राह्मणब्रह्मचारी पलाशदण्डं गृह्णीयाद्' इत्यादिविस्तरतो द्रष्टव्यः। तथा सामान्यधर्मः सर्वेषां वर्णानामाश्रमाणामन्येषामपि साधारणत्वेन विहितः । स तु ब्रह्मचर्याहिंसोपवासक्षेत्रतीर्थ- गमनादिर्बहुविस्तरः। प्रायश्चित्तधर्मो दोषनिष्कृतिलक्षणः । तत्र दोपप्राप्ति- ढिविधा विहिताकरणप्रतिपिद्धकरणभेदेन । तत्र विहिताकरणं नित्यनैमित्तिककर्मलोपः । प्रतिपिद्धकरणं शास्त्रप्रतिपिद्धानुष्ठा- नम् । तद्धों मरणान्तिककृच्छ्रसान्तपनचान्द्रायणप्राजापत्यत्र- तहोमदानतीर्थगमनादिभेदेन बहुविस्तरः। २. णः। दो' स. ग. प पाठ १, 'म । तद ब्रा' क. स. ग पाठ. II . प्रपश्चहृदये। गुणधर्मः; समानजातिभ्यः सर्वेभ्यो वृत्तविद्याविशेषैः स्वधर्माग्रयवर्तित्वं स्वगुणः । स तु सर्वेषां वर्णानामाश्रमाणा- मुपपद्यते । तत्र ब्राह्मणगुणधर्मश्चत्वारिंशत्संस्कारसंस्कृतः स्नात- कः, क्षत्रियगुणधर्मः सार्वभौमो राजा, वैश्यगुणधर्मो वाणिज्या- दिमर्यादास्थापकः पत्तनाधिपतिः, शूद्रगुणधर्मः परिपालनपरः सामन्तः । तथा ब्रह्मचारिगुणधर्मो बहुशाखाध्यायी नैष्ठिकः, गृहस्थगुणधर्मो वसन्तयाजी सर्वातिथ्यः, वानप्रस्थगुणधर्म- स्तीव्रतापसो निराहारः, संन्यासगुणधर्मः स्वशास्त्रकारी परम- हंसश्चेति प्रदर्शितो वर्णाश्रमोभयसामान्यप्रायश्चित्तगुणधर्मभेदे- नायं षड्विधः रमार्तधर्मः । तदेतत्सर्वप्रदर्शनपरायणं धर्मशास्त्रम्। तदष्टादशविधं मन्वादिमहर्षिभिर्मतिभेदेनापि प्रदर्शितम् । इति मीमांसान्यायपुराणधर्मशास्त्राणीह प्रदर्शितानि ॥ - इति प्रपञ्चहृदये चतुर्थमुपात- प्रकरणं समाप्तम् । उपवेदप्रकरणम् । अथेदानीमायुर्वेदादीनामपि चतुर्णामुपवेदानामर्थविशेषाः प्रदश्यन्ते । तंत्र तावदायुर्वेदस्त्रिस्कन्धो हेतुलिङ्गौपधस्कन्ध- भेदेन । तत्र हेतुर्निदान, रोगो लिङ्ग, चिकित्साकरणमौषधम् । तत्र रोगनिदानं धातुदोपमलसमुदायशरीरम् । तद् द्विविध स्थूलसूक्ष्मभेदेन । तत्र स्थूलशरीराश्रया वातपित्तकफाः । सूक्ष्मशरीरव्याप्ताः कामक्रोधलोभाः । तदुभयशरीरदूपणादुभय- वर्गगताः पडेते दोपविशेषाः । तत्र दोपवैपम्यं रोगः, दोष- साम्यमारोग्यम् । १. 'ति', . रो', पाट.
उपवेदप्रकरणम् । तत्र रोगकारणं त्रिविधं निमित्तोपादानसहकारिका. रणभेदेन । तंत्र निमित्तकारणं कर्म । तत् पूर्वकृतमिदानी क्रि- यमाणं मिश्रं चेति त्रिविधम् । तदुपादानकारणमुभयविधदोषाः। सहकारिकारणं भक्ष्यभोज्यलेह्यपेयभेदेनायं चतुर्विधोऽन्नरसवि- शेषः । त्रिभिः कारणविशेषैरेभिर्जायमाना रोगाः शाराि मा- नसाश्चेति द्विविधाः । तत्र शारीरा वातपित्तकफप्रभवा ज्वरकुट- शूलभगन्दरादयो रोगविशेषाः । मानसा रागद्वेषलोभमोहमंद- मात्सर्यशोकक्रोधेतृष्णादय आधिविशेपाः । तत्र पुराकृत- दोषाणां प्रायश्चित्तजपहोमदानादिकर्मविशेपैरुपशमः, इह क्रिय- माणानामौषधविशेषैः, मिश्रप्रभवाणामुभयात्मकप्रयोगविशेपैः । तत्र मानसानामात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोपप्रेत्यभा- वफलदुः :खापवर्गादिपरिज्ञानादुपशमः । तथा शारीरविशेषाणा- मौषधविशेषैः । तदोपधं द्रव्यरसगुणवीर्यविपाकप्रभावभेदेन पड्दिधम् । तत्र द्रव्यं पाञ्चभौतिकं पञ्चगुणाश्रयम् । तदपि पार्थिवमाप्यमाग्नेयं वायव्यं मिश्रीमति पञ्चविधं द्रव्यम् । तदाश्रया रसादयः पञ्च पदार्थाः । तत्र स्वादम्ललवणतिक्तो- प्णकपायभेदेन पड्डिधो रसः। तत्संयोगजनिताः सप्तपञ्चाशन्मिश्र- रसाः। तत्प्रभवा बहुविधाः सम्पद्यन्ते। तथा गुरुलघुमन्दतीक्ष्णहि- मोष्णस्निग्धरूक्षश्लक्ष्णखरसान्द्राच्छ(?) मृदुकठिनस्थिरचलस्थूल- सूक्ष्मविशदपिच्छिलभेदेन विंशतिविधो गुणः। वीर्य गुरुस्निग्ध. हिममृदुलघुरूक्षोणतीक्ष्णभेदेनोप्टविधम् । तद् गुणवदुपलभ्य- २. 'मष्टविध गु', ३. 'न । त' क. पाठा, १. 'धाद'.ग. घ. पाठः.
५ - ५९ प्रपञ्चहृदये ते, न तु गुणः । तथा विपाकस्त्रिविधः स्वाहम्लकटुकभेदेन । प्रभावः कार्यानुमेयः सर्वगतो विभुरेकः । तस्मादौषधविशेषो द्रव्यरसगुणवीर्यविपाकप्रभावाश्रयः । तत्प्रयोगविशेपश्चिकित्सा- करणम् । तदेतत्सर्वप्रदर्शनपर आयुर्वेदः । स तु ब्रह्मप्रजापती- न्द्रात्रेयाग्निवेशादिभिरध्ययनाध्यापनपरम्परानुगतोऽग्निवेशादि- भ्यः शास्त्रत्वमापन्नः । ततोऽग्निवेशादिभिर्बहुविधानि शास्त्राणि सम्प्रणीतानि । तेभ्यश्चरकसुश्रुतवाहटादिभिरपि बहुविधानि कृतानि।तत्र चरकमुनिना हेतुलिङ्गौषधस्कन्धार्थाः सर्वे विस्तरेण प्रदर्शिताः । तथा सुश्रुतेनापि महता तन्त्रयुक्तिन्यायेन ,व्या- दयः षट् पदार्थाः प्रदार्शताः। तथा वाहटेन "कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषाः। अष्टावङ्गानि तस्याहुश्चिकित्सा येपु संश्रिता ॥" इति प्रतिज्ञाय, "भिषगू द्रव्याण्युपस्थाता रोगी पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्विधम् ॥" इत्याद्यष्टसहस्रश्लोकैरारोग्यकरणं सम्यगेव प्रदर्शितमिति । तथा धनुर्वेदश्चतुष्पादः। तत्र प्रथमो दीक्षापादः, द्वितीयः संग्रहपादः, तृतीयः सिद्धिपादः, चतुर्थः प्रयोगपादः । तत्र दी. 'पा द्रष्टव्या । द्र', 'या' स. ग. घ. पाठ:. ३. प्रद' ख. ग. पाठः. ४. 'रमिदमायुर्वेद ब्रह्मा प्रजापतिमध्यापयामारा, प्रजापतिरश्विनी, ताविन्द्रम्, इन्द्र आत्रेयादीन् मपीस्तेऽग्निशादीन्, अग्निवेशादिभ्य.', ५. 'मम् । 1. 'तेरमि', ७. 'म्पन्नानि', 'सर्वमपि प्र', ९. 'तम्।' क. पाठः. ... 'गुणम्' क. ग.घ.पा. १५. लो' स. पाठः. १२. 'दः । धनु ' ब. ग. प. पाठ..
उपवेदप्रकरणम् । क्षापादे धनुर्लक्षणमधिकारिविचारश्च क्रियते । तत्र धनुःशब्द- श्वापे रूढो योगवृत्त्या चतुर्विधशस्त्रेपु वर्तते । तदपि मुक्तम- मुक्तं मुक्तामुक्तं यन्त्रमुक्तं चेति चतुर्विधम् । तत्र मुक्तं चक्रवज्रवलयशक्तितोमरकुन्तपाषाणादिकम् । अमुक्तमकुश- पाशक्षुरिकासिगदामुसलदण्डादिकम् । मुक्तामुक्तं पाशवागुरार- ज्जुवलयादिकम् । यन्त्रमुक्तं चाशतनीशल्यकमञ्जूषाकवर्णा- दिकमिति । तत्र सर्वशस्त्राणां प्रवरं धनुः । तदङ्गं बाणार्धचन्द्र- शिलीमुखनाराचमोचकोंदिकमिति । तदन्येपामङ्गमपि यथास- म्भवमुन्नेयम् ।तथास्त्रपपि मन्त्राक्षरप्रतिलोमपठितं साधिदैवतम् । तदपि प्रतिमन्त्रदेवभेदादनेकविधम् । ब्राझं प्राजापत्यं वैष्णवं शैवमैन्द्रं वारुणमाग्नेयं वायव्यं सौम्यमादित्यं दौर्ग गाणेश्वरं स्कान्दं शाक्तेयं याक्षं राक्षसं नागं गारुडं गान्धर्व पैशाचं पैत्रं पार्थिवमाप्यं तैजसं पौवनं नाभसं सामुद्रं पार्वतं गायत्रं त्रैष्टु- भमानुष्टुभमित्यादिबहुविधैमस्त्रम् । सर्वेषामिह प्रदर्शितानाम स्त्रशस्त्रविशेपाणामधिकारः क्षत्रियकुमाराणामन्येपां वा तदनुया- यिनाम् । ते च सर्वे चतुर्विधाः पदातिरथगजतुरगारूढाः । ११ १. 'धायुधविशेषेषु' क. पाठ. २ 'क्क चापादिकमिति चतुर्णा प्रक, पाठः. ३. 'त क्वणादि। यन्त्र' पाठ. ४. 'पादिकम् । त' म. पाठ.. ५. 'ना' क. पाठ.. ६ 'स्त्र मन्त्रा'क पाठः, ७ 'त् प्र' स ग घ. पाठ. ८. नभेक. १०, 'व वा' ख घ पाठ . पाठः ९. 'द बहुवि' क पाठ ११. 'ध मन्त्रम् ।' क. पाठ . ग. घ.पाठ १२. 'वामन' ख ग. पाठ, सर्वे चतुविधा रथगजतुरगारूढाः पदातय । ते' क. स. पाठ 'ग गान्य' ख प्रपञ्चहृदये तेषां दीक्षाभिषेकशकुनमगलकरणादिकं सर्वमपि प्रथमपादे प्रद- शिंतम् । सङ्ग्रहपादे सर्वेषामस्त्रशस्त्राणां सङ्ग्रहः, सिद्धिपादे सगु- हीतानामस्त्राणां सर्वेषां पुनःपुनरभ्यासोमन्त्रदेवतासिद्धिकरणमपि दर्शितम् । तत्र मन्त्रमयी देवता सकला निष्कला च । सा पञ्च- गुणौ । तद्गुणाश्चेतनावत्त्वमिच्छाविग्रहवत्त्वं यष्टव्यत्वं तुष्टिमत्त्वं फलदातृत्वं चेति । तदर्चनायामावाहनासनार्घ्यपाद्याचमनमधुप- कस्तानवस्त्रोपवीतगन्धपुष्पधूपदीपनैवेद्यप्रदक्षिणनमस्काराः षो. डशोपचाराः । तदर्चनया संसिद्धानामस्त्रशस्त्रविशेषाणां प्रयोग- श्चतुर्थपादे प्रदर्शितः । सामदानभेदैरशक्यतरे पुरुष चतुर्थेऽपि शरीरदण्डे प्राप्ते बहूनां ब्राह्मणानामात्मनो वानुग्रहायात्ययिके कार्ये देशकालावस्थाकर्तृकरणाद्यनुगुणमापदि प्रयोज्योऽस्त्रशस्त्र- विशेषः । इत्येतत्सर्वप्रदर्शनपरायणो धनुर्वेदो ब्रह्मप्रजापतीन्द्र- मनुजमदग्निसुतादिभिरध्ययनाध्यापनपरम्परानुगतो विश्वामित्रा- दिभिरनन्तरं शास्त्रत्वमापन्नः । तथा गान्धर्ववेदो लौकिकयोगप्रदर्शनपरायणः । तद्यो- गस्त्रिविधो गीतनृत्तवाद्यभेदेन । तत्र सामवेदसंम्भवं गीतं, । . करणम् । स ग घ पाठ 'णाश्रया । तदपि सविक्षिणी स्वेच्छावि प्रवती यष्टव्या तुष्टिमती फलदानी चोते प्रदशिता मन्त्रदेवता । तद' क पाठ पणग' स ग पाठ ४ 'तन अपार्चनया सिदमन्त्रस्याक्षरप्रतिलोमपादाभिमन्त्रितमनम् । प्रयागपादे तदुभयवर्गाणामस्नशस्त्रविशेषाणा बहूनामनुप्रहाय वात्मनो वापसु प्रयोग । तदे 'तत्सर्व ख. पाठ. ५. 'तोऽपि वि क पाठ ६. 'जमदमिप्रभृतिभि शा' पाट 'द । तद्वेध गो' स ' गीत साम', ९. 'समुद्भव, नृत्त यजुर्वेदसमुद्भव, पापम् ऋग्वेदसमुद्भूतम् ।' क, पाउ . ग. य पाठ उपवेदप्रकरणम् । ७ यजुर्वेदसम्भवं नृत्तम् , ऋग्वेदसम्भवं वाद्यम् । तत्र गानं स्वर- विशेषाभिव्यञ्जकम् । तदुदात्तादिभेदेन पूर्वमिह प्रदर्शितम् । तदैन्यदपि देशभापानिबन्धं बहु विस्तृतम् । नृत्तमभिनयलक्षणम् । तदाङ्गहार्यमाङ्गिकमान्तःकरणिक वाचिकं चेति चतुावधम् । तदेतच्चतुर्विधं नृत्तमुभयविधं के- वलनृत्तं नाट्यं चेति । तत्र केवलनृत्तं प्रचारसमूहः । प्रचारोऽङ्ग- हारसंमूहः । अङ्गहारः करणसमूहः । करणमङ्गप्रत्यङ्गविन्यास- विशेषः । तस्मात् करणाङ्गहारप्रचारैक्रियाविशेषात्मकं केवल- नृत्तम् । तथा नाट्यनृत्तं नटनलक्षणम् । तदेतदष्टभावानां नवरसानामाश्रयभूतम् । ते च प्रदर्शिताः "रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चैवेत्यष्टौ भावाः प्रकीर्तिताः॥ शृङ्गारहास्यकरुणा वीररौद्रभयानकाः । बीभत्साद्भुतशान्ताच नव नाट्यरसाः स्मृताः॥" इति । तत्रष्टिौ भावाः पूर्वरूपाः । तदुत्तररूपा नवरसाः । नटनं भावविशेषः । तद्भावनया नाट्यरसो जायते । तत्र रतिभावे. १. 'म् । एते त्रयो वेदास्त्रयो देवास्तदन्ये च शब्दब्रह्मसमुद्भवाः । तस्मादुभयवर्गयोरेक- जातीयत्वाद् वेद्यवेदकन्व, यजनयष्टव्यत्व स्तुतिस्तुत्यत्वमिति । त' ख. ग. घ. पाठ २. 'नमुदात्तानुदत्तस्वरितविशेषात् सप्तस्वरप्रभवेरवान्तरनिशेषश्चतुर्दशसहस्रविधमिति पूर्व', ३. 'दाश्रय दे', ४ 'पादिनि', ५ 'स्तर लौकिक्गानम् । तथा नृ', ६. 'शिकम् आहार्यमान्तः' क. पाठः. ७. 'पुनविविध केवलनाट्यभेदन ।' के पाठ . ८. ९.१०. १२. 'रात्मक' क. पाठः, 'कलापः । 'क', ... 'दनेकक' क. पाठ.. १३. 'म् । ना त चतुर्वर्ग फलायत्त चतुरोदात्तनायकम् । तदेवाष्टभावनवरसाश्रयम् । क. पाठः. १५. 'व तेऽटौ' क. पाठः. १६. भावाः पूर्वरूपाः । रसास्तदुत्तररूपा. ! तन र' क १८. 'न रति', १९. 'वः श'. पाठ. 'णरौद्रवीरभ' क. पाठः, . पाठ. १५. ''क.पाट प्रपञ्चहृदमे नया शृङ्गाररसो जायते, हासभावनया हास्यरसः । शोकभाव- 'नया करुणरसः । क्रोधभावनया रौद्ररसः । उत्साहभावनया वीररसः । भयभावनया भयानकरसः । जुगुप्साभावनया बीभ- त्सरसः । विस्मयभावनया तरसः । तदष्टभावानामभावो नव- म इति केचिदाहुः । तदसमन्जसम् । नाट्यशास्त्रे नवरसानाम- भ्युपगमात् । अतः सर्वेन्द्रियोपरमलक्षणः शान्तो नवमरसः । ते भावा नव रसाश्च लोके प्रसिद्धतरा नाट्यस्य नटनकाले नटमुखादवगन्तुं शक्यन्ते । भावरसयो ल्पतरमन्तरम् । वि- 'दुषां भावे भावान्तरं रसे रसान्तरमपि किलेप्यते । भावनं भावः क्रियाविशेषः । रस्यते सज्ज्यते रसः । तावुभौ परस्परस- म्बदौ । नर्तकप्रेक्षकयोरिव नामजातिगुणक्रियाद्रव्यभावोऽपि (वि?)भोवरसाश्रयः । प्रदर्शितमुभयविधं नृत्तम् । तथा वाद्यं घनं ततमवनद्धं सुपिरं चेति चतुर्विधम् । तत्र घनं तालकृतम् । तदपि दक्षिणोत्तरबाहुविशेपाञ्चपुटं चापु- टं चेति द्विविधौ । तदुभयं द्रुतमध्यविलम्बितभेदेन प्रत्येकं त्रिविधम् । ततं तन्त्रीवीणादिजनितम् । अवनई मुरजभेरी- पटहादिजनित । सुपिरं वेणुकाहलशङ्खादिजनितमिति प्रदर्शितं गीतवाद्यनृत्तत्रयमें। १. 'स, हा', २. 'चो हा', ३. 'यः , ४. 'बो रौ', ५. 'योनी', ६. 'वो भ', ७ 'वो वी', ८. 'वोऽद्ध', ९. 'सः । सन्द्रियान्त.करणोपशमरक्षण: शान्तरसः । भावे', १०. 'ते । भावस्य रसव्यतिरिक्त पुरुपदेशकालावस्थाद्रव्यजा', क. पाठः. ११. 'दिविशेषप्रदर्शनमिति प्र' क. पाठ.. १२. 'म् । तत' स ग. घ. पाठः, १३. 'म् । तदुभय द्रुतमध्यविरम्बितभेदेन प्रत्येक निविधमिति' ख. ग. घ. पाठः, "म् । प्रयो' म. ग. प. पाठ , १४.
। . उपवेटप्रकरणम् । ५७ तत्प्रयोगश्चतुर्विधः। त्रयाणामेकैकं प्रधानीकृत्यान्याभ्यां द्वाभ्यामङ्गभूताभ्यां त्रयः प्रयोगविशेपाः । सर्वेषां सेमप्रयोगश्चतु- र्थः । स तु प्रयोगविशेपैः सप्ताङ्गकः । तत्र सभा सभापतिः सभ्य उपाध्यायो गायिका वादको नर्तक इति सप्तविधं प्रयोगाङ्गम् । तत्र सभा राजगृहे देवगृहे ग्राममध्ये वा लक्षणलक्षिता प्रति- ठितदेवता कृतकौतुका। सभापतिरीश्वरो देवो वा सर्वज्ञः सर्व- जनप्रियः। सभ्याः सभायोग्यास्तत्प्रयोगज्ञा धनिनो युवानः कृत- कृत्याः। उपाध्यायः सर्वज्ञः सर्वजनप्रियः कथासंवेदकः।गायिका गानविशारदा ललिता विशदाक्षरा सपरिवारा सुवेपा सुस्वरा च। वादको वाद्यविशारदो लघुहस्तः प्रयोगज्ञः सपरिवारः । नर्तकः शिक्षितकायः समशरीरः सर्वज्ञः सर्वजनप्रियः प्रयोगज्ञः सुस्वर- वेषश्चेति प्रदर्शितं प्रयोगाङ्गमित्येतत्सर्वप्रदर्शनपरो गान्धर्ववेदः । तत्प्रयोगविस्तारार्थी ब्रह्मा जगदादौ सुतास्तदर्हान भर- तशाण्डिल्यवत्सकोहलधूर्तिलजटिलाम्बष्ठकण्वाग्निशिखधूम्रायण- कपिञ्जलदीर्घगोत्रगार्ग्यपीठमुखादीनध्यापयामास । ते पुनः सर्वे प्रत्येक गान्धर्ववेदप्रकरणानि कृतवन्तः । तत्र केचिद् गीतशास्त्राणि, केचिद् नृत्तशास्त्राणि, केचिद् वाद्यशास्त्राणि, केचित् सर्वसमुच्चयानीति प्रदर्शितो गान्धर्ववेदः । तथा अर्थवेदोऽर्थस्य योगक्षेमप्रदर्शनपरायणः । स तु स्वभार्यापुत्रमित्रदासीदासगजतुरगगोमहिषगृहक्षेत्रशयनासनध - नधान्यादिभेदेन पूर्वमिह प्रदर्शितः । तत्र योगक्षेमविधाननय- , 'पस्तावदय स' क, पाठ, 'यकी वा', १. 'भ्याम' ड पाठ २. 'सम्प्रयो', ३ ६. 'तमिह प्र' ह. पाठ. 1 ५८ .. प्रपञ्चहृदये नादर्थवेदो नीतिशास्त्रम् । तत्राविद्यमानापादनं योगः, विद्य- मानपरिरक्षणं क्षेमः । विद्यमानाविद्यमानशब्दाभ्यामभिहितो धर्मशास्त्रविहितः स्वस्वामिसम्बन्धः । स द्विविधो जन्मना कर्म- णा च । तत्र जन्मना पैतृकद्रव्यसम्बन्धः । कर्मणा स्वार्जनंद्र- व्यसम्बन्धः । चतुर्णामपि वर्णानामर्थार्जनकर्म त्रिविधम् । ब्राह्मणानामध्यापनयाजनप्रतिग्रहैः, क्षत्रियाणां परिपालनयुद्ध- परराष्ट्रनिवेशनैः, वैश्यानां कृषिगोरक्षावाणिज्यैः, शूद्राणां ब्रा- ह्मणक्षत्रियवैश्यशुश्रूषणैः । अनुलोमानां मातृपक्षकर्मविशेषैरिति पूर्वमेव प्रदर्शितम् । तदन्येषां प्रतिलोमानामहरहींचकर्मकर- गैरहरहर्नयनमात्रम् , अर्थसञ्चयो न विहितः। तदुभयविध- द्रव्यार्थमीश्वरमधिगच्छेत् । तदुक्तम्- " उपेयादीश्वरं चैव योगक्षेमार्थमेव च" इति । स राजा सप्तप्रकृतिः- " स्वाम्यमात्यौ जनपदो दुर्गद्रविणसञ्चयो । दण्डं मित्रं च सप्तैते राज्ञां प्रकृतयो मताः॥" इति। तस्यास्य चान्यस्य चार्थस्य योगक्षेमौ समानौ । तदर्थस्य पुरुषस्य च साधका बाधका उपेक्षका इति विविधाः पुरुषों लोके । तत्र बाधकेपूपद्रवकारिपु चतुरुपायाः प्रदर्शिताः। ते सामभेददानदण्डाः क्रमेणैव प्रयोक्तव्याः । प्रबलेपु सन्धिविग्र- हयानासनद्वैधीभावसंश्रयाः पडुपायाः । दुर्बलानां वशीकरण- मपि प्रदर्शितम्- - ३ १ 'कसक पाठ . 'कम' क , 'नस'ड पाठ ४ पा । त'स. गच पाठ गमेषु चतारपप्रयोगा । तेऽपि उत्त' फ पाठ 'स्यान्य' क. पाठ । ते नारि पृथक् पृथग् यहुविधा । दुर्घलेषु ३ उपवेदप्रकरणम् । "उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रसादेन समं तुल्यपराक्रमैः ॥ लुब्धमर्थेन गृह्णीयात् स्तब्धमञ्जलिकर्मणा । मूर्ख छन्दानुवृत्त्या चे याथातथ्येन पण्डितम् ॥" इति । सर्वानर्थयोगक्षेमायात्मवशं नयेदिति वाक्यशेषः । तत्रं स्वकीयं द्रव्यं चतुर्धा विभज्य चतुर्णी पुरुषार्थानां परिकल्प- नीयम् । तत्र कामार्थभागेनारोग्यकरणशयनासनप्रीतिदानादि- कं क्रियते । अर्थार्थभागेन काम्यकर्मक्षेत्रकरणाभिवृद्धिराजसेवा- दिकं, धर्मार्थभागेनाध्ययनयागदानादिपूर्वकं वर्णाश्रमविहितं नित्यनैमित्तिकं, मोक्षार्थभागेनान्तःकरणशुद्धिकारणं वेदान्त- श्रवणमनननिदिध्यासनपूर्वकमीश्वरार्पणम् । तत्र मोक्षपरः पु- रुषः सर्व तत्रैव नियोजयति, धर्मपरो धर्म, अर्थपरोऽर्थे, काम- परः कामे, समुच्चयपरः समुच्चये । तदेतत्सर्वप्रदर्शनपराय- णोऽर्थवेदः । सोऽयमध्ययनाध्यापनपरम्परानुगतो ब्रह्मप्रजापती- न्द्रमनुकुबेरादिभिरनन्तरं शुक्रबृहस्पतिप्रमुखैः शास्त्रत्वमापन्न इत्यायुर्वेदधनुर्वेदगान्धर्ववेदार्थवेदाश्चत्वार उपवेदाः प्रदर्शिताः संक्षेपेणेति ॥ इति प्रपञ्चहृदये उपवेदप्रकरणं नाम पञ्चमं समाप्तम् । ३. 'ति ।त' ग. पाठः, ४. 1. 'सारेण या कु. पाटः. २. 'तु'ख, 'या' घ., 'प्रद्र' ग., 'व्य' ख. घ. पाठः, ५. 'ते । द्रव्याचतुर्थ' क., 'ते द्रव्यार्थ', ६. 'मे । तदधिकारवशात् पुरुषस्य पुरुषार्थशेषोऽर्थः । शेपी पुरुषः । त' ख, पाठः, 'रोऽर्थ' क, पाठः.
अथ पर्गप्रकरणम् । अथेदानीमशेपपुरुपाय्यः सकलसंसारदुःखप्रवाहनिव- तको मोक्षोऽपीह प्रदर्श्यते।स तु बृहस्पत्यार्हतबुद्धाक्षपादकणादक- पिलजैमिनिबादरायणानां मतभेदेनाष्टविधः। तत्र लोकायतश्चतु- विधपरमाणूनां तत्त्वान्तरँनिरपेक्षं पूर्वकर्मज्ञानवासनया सृष्टिप्र- लयावङ्गीकरोति । तत्र पार्थिवा आप्या आग्नेया वायव्याश्चे- ति चतुर्विधाः परमाणवः । ते सृष्टिमुखे तनुभुवनाकारण सहसा संहन्यन्ते । तत्र भुवनं परिदृश्यमानम् । कार्यविशेषा भूर्लोकतनवो मनुष्यपशुमृगपक्षिसरीसृपस्थावरविशेषाः षड्वि- धाः । तदवान्तरजातिविशेषः शतसहस्रविधः। सर्वेषां शरी- रजातिविशेषाणां जन्यजनकभावेन बीजाङ्कुरभावेन सर्वशरी- रसन्ततिप्रवाहः । तत्र शरीरविशेषश्चतुर्विधपरमाणुलक्षण(न?) भूतसमवायात् । अन्नाहरण(त्व')कमेण चैतन्याविर्भावः । तत्र सर्वभूतानां मनुष्यशरीरं श्रेष्ठ, ज्ञानाधिक्याच्चतुर्विधपुरुषार्थ- साधकत्वाच्च । तत्र कामार्थधर्ममोक्षभेदेन चतुर्विधः पुरुषार्थः । तत्रेष्टेन्द्रियानुभवः कामः । तत्साधनभूतोऽर्थः । तत्प्राप्तिहेतुर्ध- मः । सकलसंसारनिवृत्तिलक्षणो मोक्षः । तत्र प्रत्यक्षं प्रमाणम् । शारीरैौतिकेन्द्रियैरर्थनिर्णयः 'वाईम' स २ 'ति' ख ग. पाठ 'ध ।प' ग.घ पाट र नि' ख पाठ ५ 'कवी' ग पाट ६. 'पचतु' स. पाठ 'स मुदाया' घ पाठ ८. 'म । तत्र घ पाठ ४ ७ पड्वर्गप्रकरणम् । प्रत्यक्षम् । तत्पूर्वकेण लोकायतशास्त्रश्रवणेन तुच्छलक्षणो भू- तपञ्चमो मोक्षो भवतीति लोकायतमतम् । तथाहतश्चतुर्भूतपरमाणुकार्यस्य तनुभुवनात्मप्रपञ्चस्य सृ- ष्टिप्रलयावङ्गीकरोति । तत्राकाशो द्विविधो लोकालोकाख्यभेदेन। तत्र लोकाकाशे त्रिविधाः पुरुषाः सिद्धा बद्धा नारकीया इति । तत्र नारकीयाः सर्वे पापफलभोक्तारो नरकवासिनः । सिद्धा. स्ते त्रिविधाः मन्त्रसिद्धा औषधसिद्धाः परमसिद्धाश्च । बद्धाः सप्तविधाः सुरनरपशुमृगपक्षिसरीसृपस्थावरभेदेन । आत्मनो बन्धकारणमष्टविधं तुङ्गभावनातृप्णोपादानभवजातिजरामरणभे- देन। तदाश्रयभूता आत्मानः सर्वे परमा(णु?न)परिमिता नित्या वि- ज्ञानलक्षणाः । तदात्मना देशकालकर्मसंस्कारभोगानुगुणं चतु. विधपरमाणुभिः सुरनरपशुमृगपक्षिसरीसृपस्थावरशरीरारम्भः । तत्रात्मनोऽथग्रहणाय निर्गमनद्वाराणीन्द्रियाणि। सर्वेषां सिद्धबद्ध- मुक्तानामपि समानम् । तत्र बद्धस्य संसारविरक्तस्य मोक्षो ज्ञानकर्मसमुच्चयादलोकाकाशप्राप्तिलक्षणो मूपानिषिक्तद्रुतताम्र- देहवद् दिव्यशरीरो देहावसाने। तत्र प्रमाणं त्रिविधं प्रत्यक्षानु- मानागमभेदेन । तत्रेन्द्रियद्वारेणात्मनोऽर्थविज्ञानं प्रत्यक्षम् । तत्पूर्वकलिङ्गाल्लिङ्गिनि ज्ञानमनुमानम् । आईतशास्त्रमागमः। केशोल्लु(ण्ठीच)नपाणिपात्रमौनवीरासनतप्तशिलारोहणादिकं मो- क्षसाधनं कर्मेति प्रदर्शितमाहतमतम् । तथा बुद्धितत्वे व्यवस्थितो बौद्धः । तदृत्तिईिविधा ज्ञानाज्ञानभेदेन । तत्र मूलाज्ञानवृत्तिप्रभवः स्कन्धायतनक- प्रपश्चहदये ल्पनाविषयस्तनुभुवनात्मकः : प्रपश्चः । तत्र मूलाज्ञानवासना- निबन्धनः संस्कारस्कन्धः । तन्निबन्धनो वेदनास्कन्धः । तन्निबन्धनो विज्ञानस्कन्धः । तन्निबन्धनो रूपस्कन्धः । तत्र द्वादशायतनम् । श्रोत्रत्वगक्षिजि घ्रिाणानि प्रत्ययपञ्चकम् । वाक्पाणिपादपायूपस्थास्ते कारकपञ्चकम् । मन इत्येकं करण- म् । बुद्धिरिति सामुदायिकचैतन्यम् । तदेहकलापः सर्वोऽपी- दृशः । तदाश्रयं नामजातिगुणक्रियाद्रव्यभेदेन पञ्चविधं कल्पनामतं तनुभुवनम् । तदुभयात्मकं बौद्धशास्त्रप्रमे- यम् । तत्प्रमाणं द्विविधं प्रत्यक्षानुमानभेदेन । तत्र प्रथमम- क्षसन्निपातजनितं ज्ञानं प्रत्यक्षम् । लिङ्गदर्शनाल्लिङ्गिज्ञानमनु मानम् । तदुभयप्रमाणप्रमेयव्यवहरणचतुर्विधज्ञाननिवृत्तिस्त- निवृत्तिमूलाज्ञानम् । (?) तत्कार्ये शुद्धबुद्धिरवशिष्यते । सा मुक्त- स्य मुक्तिरित्यभिहिता । तदेव प्रतिज्ञातं बुद्धमुनिना- "उत्पादस्थितिभङ्गदोषरहितां सर्वागमोन्मूलिनी ग्राहोत्सर्गवियोगयोगजनितां नाभावभावान्विताम् । तामन्तईयवर्जितां निरुपमामाकाशवन्निर्मला प्रज्ञापारमितां जनस्य जननीं शृण्वन्तु बोध्यर्थिनः ॥" इति। प्रज्ञापारमिता शुद्धबुद्धिरशेषसंसारदुःखनिवारणी- ति प्रदर्शितं बौद्धमतम् । ४ १. २ 'त्मन' ख. ग. पाठः, 'नो रू' ख. ग. पाठः. 'कालाः स' ग., 'कालावयवः सख, पाठः, ४. 'शिनि ज्ञा' ग. पाठः, ५. 'बी' घ. पाठ:. तिज्ञा' ग. पाठः ७. 'द्वि' ख, पाठः, ८. 'पदः' ग. पाठः पड्वर्गप्रकरणम् । १३ तथाक्षपादोऽपि तनुभुवनात्मकप्रपञ्चस्य सृष्टिप्रलयावङ्गी- करोति । तत्र सृष्टिमुखे सगुणा आत्मानः सर्वे सर्वगता नि- त्या निरवयवा जडाश्चतुर्विधाः । परमाणुकालाकाशदिगादयो- ऽपि जडाः । सर्वे ते कारणविशेषाः । परमेश्वरो निमित्तकार- णम् । स तु सर्वज्ञः सर्वगतः सर्वशक्तिः । तदिच्छया सर्वे पामात्मनां चतुर्विधपरमाणुभिर्देश(कर्म?)कालकर्मसंस्कारभोगानु- गुणं सुरनरपशुमृगपक्षिसरीसृपस्थावरा उत्पद्यन्ते विपद्यन्ते च । तत्र भौतिकेन्द्रियाणां विषयसंयोगे सत्यात्मनः संयोगादर्थवि- ज्ञानं ज्ञानम् । अज्ञानं तदभावः। तदेव मिथ्याज्ञानम् । तदु- भ(या ? यमा)त्मगुणः । तत्रात्मनो मिथ्याज्ञाना(गतीद) द्वेषलोभ- मोहादिदोषविशेषः प्रवर्तते । दोपो मनोवाकार्यप्रवृत्तिः । प्रवृत्तेः सुरनरतिर्यग्जननम् । जननाद् दुःखत्रयानुभवः । तन्निवृत्तिः स्वकारणनिवृत्तिक्रमेण विज्ञेया। मिथ्याज्ञाननिवृत्तिः पोडशपदा- थंपरिज्ञानात् । ते पदार्थाः प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसि- द्वान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनि- ग्रहस्थानभेदेन पूर्वमिह प्रदर्शिताः । तत्र प्रमाणं चतुर्विधम् । प्रनेयं द्वादशविधम् । तत्रेन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं प्रत्यक्षम् । तत्पूर्वलिङ्गाल्लिङ्गिज्ञानमनुमानम् । तेनेदं सदृशं तदनेनं वोप- मानम् । आप्तवचनमागमः । तदिच्छाद्वेषप्रयत्नसुखदुःखज्ञाना- न्यात्मलिङ्गम् । चेष्टेन्द्रियार्थाश्रयः शरीरम् । श्रोत्रत्वक्चक्षुर्जि- हाघ्राणानीन्द्रियाणि । शब्दरपर्शरूपरसगन्धास्तदर्थाः । बुद्धि- १. 'त्मप्र ख. ग, पाठः, २. 'दिग्देश' ग. पाठः. ३. 'य' ख. पाठः, ४. ति. ५. 'मोपमानेनाप्त' ध. पाठः. पर्यन्ता । तनिवृत्तिः षो' ख. ग, पाठः ।
प्रपञ्चहृदये निम्। युगपज्ञानानुत्पत्तिर्मनसो लिङ्गम्। मनोवाकायप्रवृत्तिः प्रवर्तनालक्षणो दोपः। पुनरुत्पत्तिः प्रेत्यभावः। प्रवृत्तिजनितोऽर्थः फलम् । बाधनालक्षणं दुःखम् । तदत्यन्तविमोक्षोऽपवर्गः । इति प्रमाणचतुष्टयं प्रमेयद्वादशकं चेति षोडश पदार्थाः । तदु- भयवर्गपरिज्ञानादात्यन्तिकदुःखनिवृत्तिलक्षणा केवलात्ममोक्षो भवतीति नैयायिकमतम् । तथासमानतन्त्रो वैशेषिकः सर्वमिदमङ्गीकरोति । मो- क्षपदार्थपरिज्ञाने मतभेदः । तत्र द्रव्यगुणकर्मसामान्यविशेष- समवायानां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुरिति । तत्र पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसीति नव द्रव्याणि । शब्दस्पर्शरूपरसगन्धसंयोगविभागसङ्ख्यापरिमाणपरत्वापरत्वपू. थक्त्वगुरुत्वद्रवत्ववेगबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्का- राश्चतुर्विंशतिगुणाः । कर्म पञ्चविधम् उत्क्षेपणावक्षेपणाकु. ञ्चनप्रसारणगमनभेदेन । सामान्यं द्विविधं परमपरं च । परं सत्तासामान्यम् । अपरं मनुष्यत्वपशुत्वादिकम् । विशेषो व्य- क्तिविशेषगतोऽनन्तः । समवायः सर्वत्राधाराधेयभूतयोः पृथ- क्सियोरपृथग्भूतसम्बन्धः । पडेते वैशेषिकपदार्थाः । तेषां साधर्म्य समानधर्मत्वम् । वैधयं विषमधर्मत्वम् । तदुभयज्ञानं शास्त्रप्रमेयं मोक्षहेतुः । तत्प्रमाणं त्रिविधं प्रत्यक्षानुमानागमभे- देन । तत्रात्ममनइन्द्रियार्थसंयोगक्रमजनितं ज्ञान प्रत्यक्षम् । २ १ 'ति'क. ग पाठ, २. 'दि विष पाठ, ५ पङ्घर्गप्रकरणम् । १५ लिङ्गदर्शनाल्लिङ्गिनि ज्ञानमनुमानम् । आप्तप्रणीतमागमः । त- स्मादेतत्प्रमाणप्रमेयपूर्वकेण वैशेपिकशास्त्रश्रवणज्ञानेनात्यन्तिक- दुःखनिवृत्तिलक्षणः पाषाणसदृशो मोक्षो भवतीति वैशेषिकमतम्। तथा कपिलोऽपि तनुभुवनात्मकप्रपञ्चस्य सृष्टिप्रलयाव- ङ्गीकरोति । तत्रात्मानो बहवः । सर्वे सर्वगता नित्या निरवयवा - विज्ञानलक्षणाः सर्वकर्मसाक्षिणः। प्रकृतिरेका त्रिगुणा परमार्थस्व- . रूपिणी नित्या निरवयवा जडा । सा सकलजगदाकारेण परि- णमते। तत्र प्रकृतेमहांस्तथाविधो बुद्धिलक्षणो जायते । ततोऽह. ङ्कारः। सोऽयं त्रिविधः सात्त्विकराजसतामसभेदेन।तत्र राजसाह- ङ्कारादुभयात्मकं मन इन्द्रियान्तःकरणभेदेन । ततो मनोह- कारबुद्धिभेदेनान्तःकरणं त्रिविधम् । सात्त्विकाहङ्कारादिन्द्रि- याणि श्रोत्रत्वक्चक्षुर्जिबाघ्राणानि शब्दस्पर्शरूपरसगन्धपरिज्ञा- नाय । वाक्पाणिपादपायूपस्था 'वचनादानगतिविसर्गानन्द- करणाय । तामसाहङ्काराच्छब्दतन्मात्रम् । ततः शब्दलक्षण आकाशः। ततः स्पर्शतन्मात्रम्। ततः स्पर्शलक्षणो वायुः। ततो रूपतन्मात्रम् । ततो रूपलक्षणं तेजः । ततो रसतन्मात्रम् । ततो रसलक्षणमुदकम् । ततो गन्धतन्मात्रम् । ततो गन्ध- लक्षणा पृथिवी चेति पञ्च महाभूतानि शब्दस्पर्शरूपरसग- न्धगुणोत्तराण्याकांशवायुतेजोजलपृथिवीनामधेयानि त्रिविधा- नि सूक्ष्माणि शरीरारम्भकाणि प्रभूतानीति । तत्र सूक्ष्मभूते- न्द्रियान्तःकरणविरचिताः सूक्ष्मशरीरविशेषा जीवाः । शरीरा- रम्भकभूतविशेषैर्विरचिताश्चतुर्दश लोकाः। तत्र सृष्टिस्थिति- 1. स्थाश्च व घ. पाठः.
. प्रपञ्चदये संहारप्रवाहप्रवर्तको भावविशेपः । स चतुर्विधः प्रधानमहत्का- रणकार्याश्रयभेदेन । तत्र प्रधानाश्रितोऽष्टविधः अणिमा म. हिमा लघिमा गरिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वमिति । तथो महदाश्रितो धर्माधर्मज्ञानाज्ञानवैराग्यरागस्वतन्त्रपरतन्त्र- भावभेदेनाष्टविधः । कारणाश्रितो भावो द्वादशविधो ज्ञानकर्मे- न्द्रियमनोहङ्कारवृत्तिभेदेन । कार्याश्रितो भावः पड्डिधः अस्ति जायते विवर्धते विपरिणमतेऽपक्षीयते विनश्यतीति । एतैर्मूल- भूतैस्तद्विकारैरपि सञ्चरिष्णवो जीवविशेपाः । तद्वासनानिब- न्धनः सर्वेपामात्मनां संसारप्रतिभासो न परमार्थः । तद्वि- योगः केवलात्मभावो मोक्षः । स तु प्रकृतिपुरुषविवेकज्ञाना. दात्यन्तिकदुःखनिवृत्तिलक्षणः । कैवल्यसैमानुभवो मोक्षः । त- प्रमाणं त्रिविधं प्रत्यक्षानुमानागमभेदेन । तत्र श्रोत्रादिभिः शब्दस्पर्शरूपरसगन्धाध्यवसायः प्रत्यक्षः । तत्पूर्वकमनुमान त्रिविधं कार्यदर्शनात् कारणानुमानं , कारणदर्शनात् का. र्यानुमानम्, अविनाभूतलिङ्गदर्शनात् सामान्यतोदृष्टानुमा- नम् । आप्तवचनमागमः । तस्मादेतत्प्रदर्शितप्रमाणप्रमेय- व्यवहारेण प्रकृतिपुरुषविवेकज्ञानेनात्मनः केवलभावो मोक्षो भवतीति कपिलमतम् ।। तनुभुवनात्मप्रपञ्चमनादिकालप्रवृत्तमेवाभ्युपगम्य च. त्वारिशसंस्कारसंस्कृतस्य मुमुक्षोनित्यनैमित्तिककर्मणा कर्मक्ष- यलक्षणो मोक्षो भवतीति जैमिनिः । गर्भाधानपुंसवनमीमन्त- जातकर्मनामकरणान्नप्राशनचौलोपनयनचतुर्वेदव्रतस्नानविवा- ३ 'भावस्वानु', घ पाठ • 'न'स पाठ, ४ 'गपूर्वण प्र ख ग पाठ षड्वर्गप्रकरणम् । हपञ्चयज्ञसप्तपाकयज्ञसप्तहविर्यज्ञसप्तसोमसंस्थाश्चत्वारिंशत् सं. स्काराः । तत्र काम्यकर्माकरणाद् देवपितृयज्ञराक्षसनागगन्धर्व- भूतपिशाचमनुष्यशरीरनिवृत्तिः । प्रतिपिद्धवर्जनात् पशुमृग- पक्षिसरीसृपस्थावरशरीराभावः । ततः परिशेपाद् नित्यनैमि- त्तिकतया वर्णाश्रमतया विहितैः श्रुतिस्मृतिचोदितैः कामस- ङ्कल्पवर्जितैर्नरकादिप्रत्यवायपरिहारपूर्वकादशेषकर्मक्षयादात्मनः केवलभावो मोक्षो भवतीति । तत्प्रमाणं लौकिकप्रमाण- पूर्वकं वेदवाक्यम् । तत्र लौकिकप्रमाणं षड्विधं प्रत्यक्षानुमा- नोपमानार्थापत्त्यागमाभावभेदेन । तंत्र पुरुषस्येन्द्रियार्थसंयोग- जनितं ज्ञानं प्रत्यक्षम् । लिङ्गिनि ज्ञानमनुमानम् । तद् एतत्स- दृशैतरमुपमानम् । तेन विना यदनुपपद्यमानं तदर्थापत्तिः । शब्दजनितं ज्ञानमागमः। इन्द्रियैरनुपलभ्यमानो नास्तिबुद्धि- विषयोऽभावः। प्रमाणान्तरविषयातीतविशिष्टार्थावबोधकं वेद- वचनम् । षट्प्रमाणपूर्वकतदनुष्ठानद्वारेणात्मनः केवलभावो मोक्षो भवतीति जैमिनिमतम् । तथा बादरायणो भगवान् व्यासस्तनुभुवनात्मप्रपञ्च- प्रतिभासमज्ञानमात्रविजृम्भितमित्यभ्युपगम्य तद्वैतब्रह्मपरिज्ञा- नादात्मनः सकलसंसारदुःखनिवृत्तिलक्षणब्रह्मभावो मोक्षो भ- वतीत्युपदिशति । तत्र सदसद्रूपाभ्यामनिर्वचनीयं मायामात्रम्। निर्गुणब्रह्ममात्रं वाङ्मनसागोचरं चैतन्यमानं शिष्टम् । तदुभ- योरितरेतराध्यासादेकमेव मायाशबलब्रह्मरूपम् । तदुभयात्मक- मन्तर्बहिर्विभागेन द्विविधम् । तत्राभ्यन्तररूपमन्तःकरणसंज्ञम् । . २. 'शान्तर'घ, पाठ:. १. 'तदेद तेनेद सह' स. पाठ.. + उपमानम् इत्यतः प्राग् इतिशब्दोऽपेक्षितो भाति ।
प्रपञ्चहृदये तदेतदे(को ? क) मनोबुद्ध्यहङ्कारचित्तवृत्तिविशेषेण चतुर्विधम् । तदवच्छिन्नचैतन्यं जीवः । तदवच्छेदकादानन्दमयः कोशो जा. यते, ततो विज्ञानमयः,(ततो मनोमयः) ततःप्राणमयः, ततोऽन्न- मय इति क्रमेणायं पाञ्चकौशिको जीवः । ब्रह्मादिस्तम्बपर्यन्तश- रीरेन्द्रियान्तःकरणाश्रयतद्वाह्यरूपावच्छिन्नचैतन्यं परमेश्वरलक्ष- णं ब्रह्म । तदवच्छेदाच्छन्दस्पर्शरूपरसगन्धगुणोत्तराण्याकाश- वायुतेजोजलपृथिवीनामधेयानि पञ्च महाभूतानि । तेभ्यश्व- तुर्दश लोका ब्रह्मादिस्तम्बपर्यन्तशरीरविशेषा जायन्ते । त- स्मात् पाञ्चभौतिकाश्रयं ब्रह्म । ततो देवपितृयक्षराक्षसनाग- गन्धर्वभूतपिशाचमनुष्यपशुपक्षिसरीसृपस्थावरविशेषाः सञ्जा- यन्ते । सर्वेषां स्थितिमूलप्रदर्शनाय पुरुषाणां पुरुषार्थप्रदर्श- नाय च चत्वारो , वेदाः पडङ्गमीमांसान्यायपुराणधर्मशास्त्रायु- र्वेदधनुर्वेदगान्धर्वनीतिप्रभृतयो जायन्ते । तत्र स्थावरेषु यज्ञो. पभोगार्थमोषधयः सप्त ग्राम्याः सप्तारण्याश्च प्रविभक्ताः । ते बीहियवप्रियङ्गुगोधूमाणुतिलमाषा ग्राम्याः । नीवारश्यामाक- जतिलगवीथुक(गवामतवास्तुवेणुयवा ? गार्मुतमर्कटकवेणव) आ- रण्याः । तत्र सप्त पाकयज्ञाः सप्त हविर्यज्ञाः सप्त सोमसंस्था- वेति प्रदर्शित एकविंशतिविधो यज्ञः । तद्यजमाना द्विजा- तत्र कर्मकाण्डविहितैनित्यनैमित्तिककर्मवि- शेषैरिह प्रदर्शितैरन्यैर्वा ब्रह्मार्पणवुद्ध्या क्रियमाणैः (गृहस्थान्य- स्योपाध्याय?)श्रवणाधिकारि(ण ?णः शुद्धा)न्तःकरणैरुपजायन्ते। N । - तयो गृहस्थाः १.'ण्ड' घ.पाठः, * धनरेग्वान्तर्गत 'गृहात् सन्न्यस्यो। य' इति पठनीयम् ।
ज्ञानप्रकरणम् । तदधिकारिणो नित्यानित्यवस्तुविवेकः, इहामुत्रार्थभोगविरागः, शमक्षान्ती, मुमुक्षुत्वं चेति चतुर्विधं (साधनम)।तस्य साधनचतु- ष्टयसम्पन्नस्याधिकारिणस्तत्त्वम्पदार्थपरिशोधनपूर्वकैः सकलवेदा- न्तवाक्यश्रवणमनननिदिध्यासनधर्मविशेषैस्तनुभुवनात्मप्रपञ्च- प्रतिभासो निवर्तते । निवृत्ताशेषविशेषप्रपञ्चप्रतिभासोऽखण्डै- करसं नित्यशुद्धमुक्तपरमानन्दाद्वैतब्रह्ममात्रात्मतयावशिष्यत इति बादरायणमतम् । इति क्रमेण लोकायतार्हतबुद्धाक्षपादकणा- दकपिलजैमिनिबादरायणानामभिमतमिह प्रदर्शितमिति ॥ इति प्रपञ्चहृदये पड़र्गप्रकरणं नाम पष्ठ समाप्तम्। अथ ज्ञानप्रकरणम् । अथेदानीमस्य प्रपञ्चस्य वेत्तृरूपं प्रदर्श्यते । एतद् यत् कथितं वेद्यरूपं, तत् सर्व क्षेत्रमित्युच्यते । एतद् यो वेत्ति, स क्षेत्रज्ञः । आब्रह्मस्तम्बपर्यन्तानां सर्वप्राणिनां शरीरं क्षेत्रम् । यद्यत् सविकारं दृश्यते, तत्तत् क्षेत्रमित्युच्यते । तदप्यव्यक्त- महदहङ्कारभूततन्मात्रमहाभूतमनःश्रोत्रादीन्द्रियदशकरागद्वेषसु- खदुःखतत्सङ्घातचेतनाधृति । तद्वेत्ता क्षेत्रज्ञः सर्वात्मना संज्ञा- तव्यः । तं ज्ञात्वा मृत्युमत्येतीति । यतः क्षेत्रज्ञरूपं परं ब्रह्म नसत् तन्नासदनादिमत् सर्वतःपाणिपादं सर्वतोक्षिशिरोमुखं स- वेन्द्रियश्रुतिमत् सर्वमावृत्य स्थितं सर्वेन्द्रियप्रकाशकं सर्वेन्द्रि- यहीनं सर्वत्रासक्तं सर्वभृद् निर्गुणं गुणभोक्तृ भूतानामन्त- हिःस्थितमचरं चरं चाविज्ञेयं दूरस्थमन्तिकस्थं च भूतेष्वविभक्तं "घ त', २ . 'स'सघ पाठ प्रपञ्चहृदये विभक्तमिव स्थितं भूतानां प्रभविष्णु ग्रसिष्णु च ज्योतिषामपि ज्योतिर्ज्ञानं ज्ञेयं ज्ञानगम्यं सर्वहदि स्थितम् । एतद् ज्ञेयम् । ज्ञानरूपमुच्यते- "अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ इन्द्रियार्थेपु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोपानुदर्शनम् ॥" पुत्रदारगृहादिप्वसक्तिः समचित्तत्वमिष्टानिष्टोपपत्तिषु । परमपुरु- पेऽव्यभिचारिणी भक्तिः। " "विविक्तदेशसेवित्वमरतिर्जनसंसदि । अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ॥" इत्येतत् सर्वं ज्ञानमिति कथ्यते । ज्ञानस्य साधनत्वाद् ज्ञान- मेवेति कथितम् । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तदेव ज्ञानम् । अज्ञान- मन्यत् । तज्ज्ञानादेव मुक्तिर्भवति । प्रकृतिपुरुषावुभावप्यना- दी । तत्र गुणा विकाराश्च प्रकृतिजाः । कार्यकारणकर्तृत्वे हे. तुः प्रकृतिरुक्ता । सुखदुःखानां भोक्तृत्वे पुरुषो हेतुरित्युक्तः । प्रकृतिस्थः-पुरुषो गुणान् प्रकृतिजान् भुते । "कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु । उपद्रप्टानुमन्ता च कर्ता भोक्ता महेश्वरः ।। परमात्मेति चाप्युक्तो देहेऽस्मिन पुरुषः परः । य एनं वेत्ति पुरुपं प्रकृति च गुणैः सह ।
ज्ञानप्रकरणम्। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥" केचिद् ध्यानेनात्मानं मनसा पश्यन्ति साङ्खथेन योगे- नापरे कर्मयोगेन जानन्ति । अन्ये त्वेवमजानन्तोऽन्येभ्यः त्वोपासते । श्रुतिमात्रादेवं तेऽपि चातितरन्ति मृत्युम् । यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमं, तत्सर्व क्षेत्रक्षेत्रज्ञसंयोगादेव | सर्वेषु भूतेषु समं तिष्ठन्तं विनश्यत्सु भूतेष्वविनश्यन्तं यः पश्यति स पश्यति । "समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ अनादित्वान्निर्गुणत्वात् परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय! न करोति न लिप्यते ॥ यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत! ॥ क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुपा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥" इति क्षेत्रक्षेत्रज्ञविभागदर्शनाय भगवता वासुदेवेनोक्तम् । अ- न्यैरपि-
७२
-
प्रपञ्चहृदये
"इत्येतानि क्षेत्रमेतद् विजानन्
क्षेत्रज्ञस्थान् भोग्यभोक्तेन्द्रियैर्यः(?) ।
वेद्यादन्यं सर्वदा वेदितारं
तं यो जानात्यक्षरं ब्रह्मवित् सः ॥"
तथा साङ्खये-
"मूलप्रकृतिरविकृति-
महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारो
न प्रकृतिर्न विकृतिः पुरुषः ॥"
इति । अन्यच्च- 'तेनेदं पूर्ण पुरुषेण सर्वम्' इति श्रुतिः ।
तथान्यदपि-
"एकमेव परं तत्त्वं विज्ञानघनमहुतम् ।
जात्यादिकल्पनाहीनमद्वितीयमलक्षणम् ॥
स्वात्मसंवेदनं नित्यं सनातनमतीन्द्रियम् ।
चिन्मात्रममृतं ज्ञानमनन्तमजमव्ययम् ॥
व्यक्ताव्यक्तस्वरूपेण व्यवस्थितमचञ्चलम् ।
व्याप्त्या विष्णुरिति ख्यातमभिन्न भिन्नवत् स्थितम् ।।
योगिध्येयमविज्ञेयं परमार्थपराङ्मुखैः ।
लक्ष्यते बहुधा भिन्नमभिन्नमपि पापिभिः॥"
एतदेवार्थ ब्रह्मणोक्तं-
१, 'वि' प. पाठ.
ज्ञानप्रकरणम् ।
"यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः ।
सम्भवः सर्वभूतात्मा नर इत्यभिधीयते ॥
नराज्जातानि तत्त्वानि नाराणीति ततो विदुः ।
तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥
नारायणाज्जगत् सर्व सर्गकाले प्रजायते ।
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥
नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम् ।
अण्डाद् ब्रह्मा पुनर्जज्ञे तेन लोका इमे कृताः ॥"
तथा च श्रुतिः
"नारायणपरं ब्रह्म तत्त्वं नारायणः परः ।
नारायणपरो ज्योतिरात्मा नारायणः परः॥"
“स ब्रह्मा स हरिः स शिवः सेन्द्रः सोऽक्षरः परमः
स्वराड्" इत्यादि।
परादपि परश्चासौ तस्मान्नास्ति परात् परः ।
स, एव हि परो देवो विष्णुरित्यभिधीयते ॥
यो वासः सर्वभूतानां तत्त्वानां च युगक्षये ।
वासनात् सर्वभूतानां वासुदेव इति स्मृतः ॥
तमाहुः पुरुपं केचित् केचिदीश्वरमव्ययम् ।
विज्ञानमात्र केचिच्च केचिद् ब्रह्म परं तथा ॥
केचित् कालमनाद्यन्तं केचिज्जीवं सनातनम् ।
केचिच परमात्मानं केचिज्जीवमनामयम् ॥
केचित् क्षेत्रज्ञमित्याहुः केचिदै पञ्चविंशकम् ।
१.
'स' ग घ पाठ
१४
.
प्रपञ्चहृदये
केचित् पड्विंशकं प्राहुः सप्तविंशतिकं तथा ॥
अङ्गुष्ठमात्र केचिच्च केचित् पद्मरजोपमम् ।
एते चान्ये च मुनिभिः संज्ञाभेदाः पृथग्विधाः ॥
शास्त्रेषु कथिता विष्णोर्लोकव्यामोहकारकाः ।
एकं यदि भवेच्छास्त्रं ज्ञानं निःसंशयं भवेत् ॥
बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदुर्लभम् ।
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ।
तस्मात् तु गहनान् सर्वीस्त्यक्त्वा शास्त्रार्थविस्तरान् ॥
अनन्यचेतसा ध्येयः सदा नारायणः परः ।
मुहूर्तमपि यो ध्यायेन्नारायणमतन्द्रितः ॥
सोऽपि सद्गतिमाप्नोति किं पुनस्तत्परायणः ।
एतज्ज्ञात्वा तु परमं तत्त्वं नारायणाख्यकम् ॥
क्षिप्रं यास्यति तत्रैव सायुज्यं नात्र संशयः ।
नमो नारायणायेति यो वदेद् ब्रह्म शाश्वतम् ॥
अन्तकाले जपन्नेति तद्विष्णोः परमं पदम् ।
तस्मान्नारायणः सद्भिः परमात्मा सनातनः ।।
जगतः सृष्टिसंहारपरिपालनतत्परः ।
नारायणः परो धर्मस्तपो नारायणस्तथा ॥
नारायणः परं पुण्यं शास्त्राणि विविधानि च ।
वेदाः साङ्गास्तथा चान्ये विष्णुः सर्वेश्वरो हरिः ।।
पृथिव्यादीनि च तथा पञ्चभूतानि सोऽव्ययः ।
सर्व विष्णुमयं ज्ञेयं यदेतत् सकलं जगत् ।।
१ वाताः ।' घ. पाठ.
इदं गमिष्युत्तरेण सम्बध्यते ।
ज्ञानप्रकरणम् ।
७५
तस्यैव मायया व्याप्तं चराचरमिदं जगत् ।
तहक्तास्तद्गतप्राणाः पश्यन्ति परमार्थतः ।।
ईश्वरः सर्वभूतानां विष्णुस्त्रैलोक्यपालकः ।
तस्मिन्नेव जगत् सर्व तिष्ठति प्रभवत्यपि ॥
जगत्संहरणे रुद्रः पालने विष्णुरुच्यते ।
उत्पत्तौ चाहमेवास्मि तथान्ये लोकपालकाः ॥
सर्वाधारो निराधारः सकलो निष्कलस्तथा ।
अणुमहांस्ततोऽप्यन्यस्तस्माच्च परतः परः ॥
तमेव शरणं यान्ति सर्व संहारकर्मणि
स पिता जगतोऽस्माकं माता च मधुसूदनः ।।
श्रवणान्मननाच्चैव निदिध्यासनतस्तथा ।
५ आराध्यः सर्वदा देवः पुरुषेण हितैषिणा ॥
निःस्पृहा नित्यसन्तुष्टा ज्ञानिनः संयतेन्द्रियाः ।
निर्ममा निरहङ्कारा रागद्वेषविवर्जिताः॥
अपक्षपातिनः शान्ताः सर्वसङ्कल्पवर्जिताः ।
ध्यानयोगप(राः शा?रा दा)न्तास्तं पश्यन्ति जगत्पतिम् ॥
यथा जगदवस्थानं तथा कालान्तरादिपु ।
भूतं भव्यं भविष्यच्च विप्रकृष्टं तथैव च ॥
सूक्ष्मं स्थूलं तथा सम्यक् पश्यन्ति ज्ञानचक्षुषा ।
तच्चित्तास्तद्गतप्राणा नारायणपरायणाः ॥
अन्यथा मन्दबुद्धीनां प्रतिभाति दुरात्मनाम् ।
कुतर्कज्ञानदृष्टीनां विभ्रान्तेन्द्रियवाजिनाम् ॥
किं तत्र बहुभिर्मन्त्रैः किं तत्र बहुभिः स्मृतः ।
..
-
r - प्रपञ्चहृदये नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ चीरवासा जटी वापि त्रिदण्डी मुण्ड एव वा । पूजितो वा हिजश्रेष्ठ ! न लिङ्गं धर्मकारणम् ॥ ये नृशंसा दुरात्मानः पापाचारपरास्तथा। तेऽपि यान्ति परं स्थानं नरा नारायणाश्रयाः ॥ लिप्यते न स पापेन वैष्णवो वीतकल्मषः। पुनाति सकलं लोकं सहस्रांशुरिवोदितः ॥" उक्तं च भगवता नारायणेन- "ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥" "अपि चेत् सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥" इति । स क्षेत्रज्ञः परमात्मा नारायणः सम्यग्ज्ञानेनैव ज्ञेयः । उक्तं च भगवता स्कन्देन- "निर्वेदाच्च विरागः स्याद् विरागाज्ज्ञानसम्भवः । ज्ञानेन तं परं ज्ञात्वा विदेहः शान्तिमृच्छति ॥" इति । अन्यच्च- विनाशिनो ह्यध्रुवजीवितस्य किं बन्धुभिर्मित्रपरिग्रहैश्च । विहाय यद् गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ॥" 'चाम. पाठ.
ज्ञानप्रकरणम् । एवं सर्वार्थानामनित्यतां चिन्तयतः संसारे निर्वाणपु- रस्स(रे ? रो) निर्वेदः शीघं जायते । तेन निदेनास्य पुनर्विम- शों जायते । पुनर्विमर्शेनास्य सर्वत्र वैराग्यं जायते । वैरा- ग्येण परा शान्तिः । तस्माद् वैराग्यं मोक्षस्योपनिपदिति कीर्तितम् । तज्ज्ञानं साङ्ख्ययोगाभ्यां प्रायेणोत्पद्यते । तत्र साङ्ख्य. ज्ञानं पूर्व प्रवक्ष्यामि, यज्ञात्वा न पुनः संसारे प्रवर्तते मर्त्यः । ते साङ्ख्याः सन्न्यासकोविदा ज्ञानेनैव विमुक्ताः । घोरं शारीरं तपः साङ्ख्या निरर्थकमाहुः । तेषां ज्ञानं पञ्चविं- शतिविज्ञानमाहुः । तदपि मूलप्रकृतिरव्यक्तम् । अव्यक्तान्म- हज्जायते, महतोऽहङ्कारः, ततस्तन्मात्रपञ्चकम् | एकादशेन्द्रि- याणि तन्मात्रेभ्योऽभवन् , तेभ्यः पञ्चभूतानि । तेषां समु- -चयः क्षेत्रम् । पञ्चविंशतिस्तत्वानि । अस्य क्षेत्रस्य सक्षेप उक्तः । पञ्चविंशतिरिति पुरुषेण सार्धमाहुः । सत्त्वं रज- स्तम इति प्रकृतिसम्भवा गुणाः । तैरात्मजैर्गुणैरखिलं लोक प्रकृतिः सृजति । "इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः" इति प्रकृतेर्गुणा मनीषिभिर्वेदितव्याः । तेषां लक्षणं विकल्पश्च पृथक् प्रवक्ष्यते नित्यमेकमणु व्यापि क्रियाहीनमहेतुकम् । अग्राह्यमिन्द्रियैः सर्वैरेतदव्यक्तलक्षणम् ॥ १. स. पाठ.
प्रपञ्चहृदये अव्यक्तं प्रकृतिर्मूलं प्रधानं योनिरव्ययम् । अव्यक्तस्यैव नामानि शब्दैः पर्यायवाचकैः ॥ सूक्ष्मत्वात् तदनिर्देश्यं तत् सदित्यभिधीयते । तन्मूलं च जगत् सर्वं तन्मूला सृष्टिरुच्यते ॥ प्रकृतिजानां सत्त्वादीनां गुणाः कथ्यन्ते समासेन । सा. त्त्विका गुणास्त्रयः सुखं तुष्टिः प्रकाश इति । रागद्वेषौ सुख- दुःखे स्तम्भश्चेति रजोगुणाः । अप्रकाशतन्द्रीभयमोहास्त- मोगुणाः। श्रद्धा प्रहर्षी विज्ञानमसम्मोहो दया धृतिः । सत्त्वे प्रवृद्ध वर्धन्ते विपरीते विपर्ययः ॥ रागद्वेषौ मनस्तापो द्वेषो(१) लोभस्तथा तृषा । प्रवृहे परिव(त)न्ते रजस्येतानि नित्यशः ॥ विषादः संशयो मोहस्तन्द्री निद्रा भयं तथा । तमस्येतानि वर्धन्ते प्रवृद्धे हेत्वहेतुतः ॥ एवमन्योन्यमेतानि वर्धन्ते च पुनः पुनः। हीयन्ते वा तथा नित्यमभिभूतानि भूरिभिः ॥ तत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत् । वर्तते सात्विको भाव इ(त्युत्य)पेक्षेत तं तदा ॥ यदा सन्तापसंयुक्तं चित्तक्षोभकरं भवेत् । वर्तते रज इत्येवमित्युपेक्षेत तं तदा ॥ यदा सम्मोहसंयुक्तं यद् विपादकरं भवेत् । r . १. प. पाठ.
ज्ञानप्रकरणम् ।
अप्रतय॑मविज्ञेयं तमस्तदिति चिन्तयेत् ॥
समासात् सात्त्विको धर्मः समासाद् राजसं धनम् ।
समासात् तामसः कामस्त्रिवर्गे त्रिगुणाः क्रमात् ॥
ब्रह्मादिदेवसृष्टिर्या सात्त्विकीति प्रकीर्त्यते ।
राजसी मानुषी सृष्टिस्तैर्यग्योनीति तामसी ॥
अर्ध्व गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणमर्यादा अधो गच्छन्ति तामसाः ॥
देवमानुषतिर्यक्षु यद् भूतं सचराचरम् ।
आदिप्रकृतिसंयुक्तं व्याप्तमेभिस्त्रिभिर्गुणैः ॥
अत ऊर्ध्व प्रवक्ष्यामि महदादीनि लिङ्गतः।
विज्ञानविवेकौ महदादिलक्षणो(?) महान् बुद्धिर्मतिःप्रज्ञे-
ति महतो नामानि । गुणानां च महदादिक्रियायोगो विधीयते ।
वैकृतान्महतोऽभिमानः पुनर्भवेत् । समासतो लक्षणेनाहङ्कारः
स विज्ञेयः।
अहङ्कारेण भूतानां सर्गो नानाविधो भवेत् ।
अहङ्कारनिवृत्तिर्हि निर्वाणायोपपद्यते ॥
खं वायुरग्निः सलिलं पृथिवी चेति पञ्चमी ।
महाभूतानि सर्वेषां भूतानां प्रभवाप्ययौ ॥
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम्(?)।
स्पर्शस्त्व(ग्घा ? क्प्राणनं चेष्टा पवनस्य गुणाः स्मृताः ॥
रूपं पाकोऽक्षिणी ज्योतिश्चत्वाररतेजसो गुणाः ।
रसः स्नेहस्तथा जिह्वा शैत्यं च जलजा गुणाः ॥
गन्धो घ्राणं शरीरं च पृथिव्यास्ते गुणास्त्रयः।
.
८०
३
प्रपञ्चहृदये
इति सर्वगुणो दे(हो?हो) विख्यातः पाञ्चभौतिकः ॥
गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तराण्यपि ।
तस्मान्नैकगुणाचेह दृश्यन्ते भूतसृष्टयः ॥
उपलभ्याप्सु चेद् गन्धं केचिद् ब्रूयुरनैपुणाः ।
स तु गन्धस्त्वपां नास्ति पृथिव्या एव तद्गुणः ।
भूमिर्गन्धे रसे चापो ज्योती रूपे च संचितम् ।
प्राणापानाश्रयो वायुः खं(?) चाकाशः शरीरिणाम् ॥
केशास्थिनखदन्तत्वक्पाणिपादशिरांसि च ।
पृष्ठोदरकटिग्रीवं सर्वभूतात्मकं मतम् ॥
यत्किञ्चिदपि कार्येऽस्मिन् धातुदोषमलाश्रितम् ।
तत्सर्व भौतिकं ज्ञेयं देहे नैवास्त्यभौतिकम् ॥
बुद्धीन्द्रियाणि कर्णत्वगक्षिजिह्वाग्रनासिकाः ।
कर्मेन्द्रियाणि वाक्पाणिपादमेद्गुदं तथा ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
बुद्धीन्द्रियार्थाजानीयाद् भूतेभ्यस्तु विनिःसृतान् ॥
वाक्यं किया गतिः प्रीतिरुत्सर्गश्चति पञ्चधा।'
कर्मेन्द्रियार्थाजानीयात् ते च भूतोद्भवा मताः ॥
इन्द्रियाणां तु सर्वेपामीश्वरं मन उच्यते ।
प्रार्थनालक्षणं तच्च द्वीन्द्रियं तु मनः स्मृतम् ॥
नियुक्तेन सदा तानि भूतानि मनसा सह(?) ।
नियमे च विसर्गे च मनसः कारणं प्रभुः ॥
इन्द्रियाणीन्द्रियार्थश्च स्वभावश्चेतना धृतिः ।
भूतभूतविकाराश्च शरीरमिति संज्ञितम् ॥
१ विराग पाठ
• शारा' घ पाट
'खेधाका',
२ टीस पाठ
ज्ञानप्रकरणम् । ८१ शरीराच्च परो देही शरीरं च व्यपाश्रितः ॥ शरीरिणः शरीरस्य योऽन्तरं वेत्ति वै मुनिः । अरसस्पर्शगन्ध(श्च ?ञ्च) रूपशब्दविवर्जितम् ॥ अशरीरं शरीरेपु निरीक्षन्तं निरिन्द्रियम् ॥ अव्यक्तं सर्वदेहेपु मर्येष्वमरमानितम् । यः पश्येत् परमात्मानं बन्धनैः स विमुच्यते ॥ २ अन्यच्च "सव्यापारे शरीरेऽस्मिन् निर्व्यापारमकल्मपम् । चिन्तयेत् सर्वदात्मानं मुक्त एवेति वेदगीः ॥ नैवायं चक्षुपा ग्राह्यो नापरिन्द्रियैरपि । मनसैव प्रदीपेन महानात्मा प्रदृश्यते ॥ स हि सर्वेषु भूतेपु स्थावरेपु चरेषु च । वसत्येको महावीर्यो नानाभावसमन्वितः ॥ नैव चोर्ध्व न तिर्यक् च नाधस्तान्न कुतश्चन । इन्द्रियैरिह बुद्ध्या वा दृश्यते न कदाचन ॥ ईश्वरः सर्वभूतेषु वसत्येको निरञ्जनः । नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥ नवहारमिदं वेश्म विस्थूणं पञ्चसाक्षिकम् । क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेद स परः कविः॥ तमेवाहुरणुभ्योऽणुं महद्यश्च महत्तरम् ।" अस्मिन्नर्थे श्रुतिरपि - 'अस्थूलमनणु अहस्वमदीर्घमित्यादि । "ईश्वरः सर्वलोकस्य स्थावरस्य चरस्य च । 'ते।' घ पाठः २, 'रस स्पर्शश्च गम्धच रूप श',
प्रपञ्चहृदये
बहुधा सर्वभूतेषु व्याप्य तिष्ठति शाश्वतः ॥
क्षेत्रज्ञमेकतः कृत्वा सर्वक्षेत्रमथैकतः।
एवं तं विमुशेज्ज्ञानी संयतः सततं हृदा ॥
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
अकर्तालेपको नित्यो मध्यस्थः सर्वकर्मणाम् ॥
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥
अजरोऽयमचिन्त्योऽयमव्यक्तोऽयं सनातनः।
देहे तेजोमयो देही तिष्ठतीत्यपरे विदुः॥
ज्ञानमूष्मा च वायुश्च शरीरे जीवसंज्ञकाः ।
इत्येते निश्चिता बुद्ध्या तत्र ये बुद्धिचिन्तकाः ॥-
अपरे सर्वलोकांश्च व्याप्य तिष्ठन्तमीश्वरम् ।
ब्रुवते केचिदत्रैव तिले तैलमिव स्थितम् ॥
अपरे नास्तिका मूढा हीनत्वात् स्थूललक्षणैः ।
नास्त्यात्मेति विनिश्चित्य प्राहुस्ते नरकालयाः ॥
एवं नानाविधानेन विमृशन्ति महेश्वरम् ।
- रूढमा ब्रह्मणो लोका नित्यमव्ययमक्षरम् ॥
अध्यात्मा सर्वदेहेषु हेतुस्तत्र सुदुर्गमः ।
ऋषिभिश्चापि देवैश्च व्यक्तमेव न दृश्यते ॥
दृष्ट्वात्मानं महात्मानं पुनः स न निवर्तते ।
तस्यादर्शनतो मोहो विदिते परमा गतिः॥"
इति । अन्यदप्युच्यते देहदेहिनोविभागज्ञानाय
"सदेकसुखरूपस्य मायिनः परमात्मनः ।
-
.
'६. स ग पाठ.
ज्ञानप्रकरणम् ।
यदवच्छेदकं तद्धि देहो जन्मविनाशवत् ॥
चैतन्यावरको देहश्चैतन्यादेव जायते ।
यथैव कालिमादर्शे यथा धूमस्तु पावके ॥
पञ्चकोशमयो देहो रम्भास्तम्भोपमः स्मृतः ।
तदन्तःस्थः स्थिरो जीवो.रम्भाग पमः स्मृतः॥
बाह्यमन्नमय कोशमन्तः प्राणमयं तथा।
मनोमयं तदन्तस्तु विज्ञानमयमेव च ॥
आनन्दमयमित्येवं कोशं पञ्चविधं विदुः ।
मायया त्वधिकारिण्या यदात्मोपहितो भवेत् ।
खरूपैकरसः कोशस्तस्यानन्दमयस्तदा ॥
वटबीजे वटो वृक्षस्तदन्तर्हितविग्रहः ।
निभृतः सर्वरूपेण वर्तते तु यथा तथा ।।
त्रिपु बाह्येपु कोशेपु विज्ञानं तु यदा स्थितम् ।
तद् विसृज्य स्वयं भाति स विज्ञानमयः स्मृतः॥
लोहभावं तिरस्कृत्य वहिर्लोहगतो यथा ।
स्वं रूपं भासयत्येव स्वप्रकाशवशात् तथा ॥
सत्त्वादिगुणसंयुक्तमनःपूर्वान्तरेन्द्रियैः ।
युक्तो मनोमयः कोश आत्मनः परिकीर्तितः॥
क्षीरव्याप्तं यथा सर्पिः प्राणान्नमयकोशगम् ।
चतुर्दशाना प्राणादीनां तु संहतिम् ॥
वायूना
व्यापारशक्तियुक्तानां कोशं प्राणमयं विदुः ।
बाह्येऽन्नमयकोशेऽस्मिन् व्यापकत्वेन संस्थितम् ॥
1, 'स्तम्भोप' घ. पाठ,
८४ . प्रपञ्चहृदये यदा तु भौतिक शुक्लं शोणितं च सुसङ्गतम् । बाह्यरत्वन्नमयः कोशस्तदा समुपजायते ॥ श्रिते क्षीरे च तक्रेण युक्तं तद्वितयं यथा । जायते दधिरूपेण तथा देहोऽपि जायते ॥ सप्तधातुमयोऽन्नमयः कोशः स्थूलदेह इत्युक्तः । तद्व्यतिरिक्ताः प्राणमयमनोमयविज्ञानमयानन्दमयाख्याश्चत्वारः कोशाः सू. क्ष्मदेहत्वेनाभिहिताः । तयोः स्थूलसूक्ष्मयोर्देहयोदृश्ययोरचिदा- मनोर्द्रष्टा चिद्रूप आत्मा तत्पृथक्त्वेन संस्थितः सिद्धः । यद्यद् दृ- श्यजातं तत्तद् द्रष्टुः स्वस्माद् भिन्नमित्यवगन्तव्यं, यथा घटः । तस्माद् दृश्यात् प्रपञ्चाद् व्यतिरिक्तः क्षेत्रज्ञश्चिद्रूपः सत्यो नि- त्यः स्वयंप्रकाशः सुखरूपोऽव्ययोऽद्वयः परमात्मा द्रष्टा नाराय- णः परो ज्ञातव्यः श्रोतव्यो निदिध्यासितव्यः । तेनैव मृत्युमत्ये- ति । कपिलादिभिराचार्यैः सेवितः सनातनः साङ्ख्यधर्मः क; थितः ।। इति प्रपञ्चहृदये ज्ञानप्रकरणं नाम सप्तमं समाप्तम् । अथ योगप्रकरणम् । अथेदानीं योगधर्मोऽपि समासरूपेण कथ्यते । निरुद्धवृ. त्यन्तरस्य चित्तस्य परमेश्वरे निश्चला या वृत्तिःसा योग इत्युच्या ते।योगः पञ्चधा भिन्नः मन्त्रयोगस्पर्शयोगभावयोगाभावयोगम. हायोगभेदेन । तंदुक्तं- "मन्त्राभ्यासवशेनैव मन्त्रवाच्यार्थगोचरा। अव्याक्षेपा मनोवृत्तिर्मन्त्रयोग उदाहृतः ॥
योगप्रकरणम् ।
८५
प्राणायामसखा सैव स्पर्शयोगोऽभिधीयते।
सा मन्त्रस्पर्शनिर्मुक्ता भावयोगः प्रकीर्त्यते ॥
विलीनावयवं विश्वं खं रूपं भाव्यते यतः।
अभावयोगः सम्प्रोक्तो नाभावाद् वस्तुनः सतः॥
शिवस्वभाव एवैकश्चिन्त्यते निरुपाधिकः ।
यया सैव मनोवृत्तिर्महायोग इहोच्यते ॥"
इति । (स्व ? योस्य दृष्टे तथानुश्राविते विरक्तं मनो विषये
योगे तस्यैवाधिकारोऽस्ति कस्यचिन्नान्यस्येति ।
"विषयद्वयदोषाणां गुणानामीश्वरस्य तु ।
विमर्शादेव सततं विरक्तं जायते मनः॥"
इत्युक्तम् । स योगः समासतोऽटाङ्गः षडङ्गो वा । यमनियमा-
सनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि । तेष्वा-
सनादीनि पडङ्गानि ।
"अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
यम इत्युच्यते सद्भिः पञ्चावयवयोगतः॥
शौचं तुष्टिस्तपश्चैव दया प्रणिधिरेव च ।
इति पञ्चप्रभेदः स्यान्नियमः स्वांशभेदतः ॥
स्वस्तिकं पद्ममर्धेन्दु वीरं योगं प्रसारितम् ।
पर्यकं च यथेष्टं च प्रोक्तमासनमष्टधा ॥
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् ।
तद्रेचकं पूरकं च कुम्भकं च निधोच्यते ॥
1. , 'रयो घ. पाठः,
प्रपञ्चहृदये नासिकापुटमङ्गुल्यापीड्यैकमपरेण तु । औदरं रेचयेद् वायुं रेचनाद् रेचकः स्मृतः॥ बाह्येन मरुता देहं इतिवत् परिपूरयेत् । नासापुटेनापरेण पूरणात् पूरकं मतम् ॥ न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् । सम्पूर्णकुम्भवत् तिष्ठेदचलः स तु कुम्भकः ॥", रेचकाद्यत्रयं द्रुतविलम्बितं न कुर्यात् । उद्घा(र? त)क्रमयोगेना- भ्यसेन्नाडीशोधनपूर्वकम् । कन्यसक्रमादभ्यसेत् । उक्तं च- "कन्यसः सकृदुवातः स तु द्वादशमात्रिकः। मध्यमश्च हिरुद्धातश्चतुर्विशतिमात्रिकः ॥ उत्तमश्च त्रिरुद्धातः षट्त्रिंशत्तालमात्रकः । स्वेदकम्पादिजनकः प्राणायामस्तदुत्तरः॥ आनन्दोद्भवरोमाञ्चनेत्रोधूर्णाङ्गमोटनम् । जल्पभ्रमणमूर्जाद्यं जायते वात्र योगिनः॥ जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् । अङ्गुलिस्फोटनं कुर्युः सा मात्रेति प्रकीर्त्यते ॥ मात्रोक्रमेण विज्ञाय उद्घातकमयोगतः । नाडीशुध्यादिपूर्व च प्राणायाम समाचरेत् ॥" इति । अगर्भश्च सगर्भश्चेति द्विविधः प्राणायामः । तत्र जप- ध्यानरहितोऽगर्भः। जपध्यानोपेतः सगर्भः। अगर्भात् सगर्भः शताधिकः । तस्मात् सगर्भमेव कुर्यात् । प्राणविजयादेव दश वायवो वि(ज 'जी)यन्ते । तेऽपि प्राणापानव्यानोदानसमान- । योगप्रकरणम् । नागकूर्मकृकलदेवदत्तधनजयाः । तत्र प्रयाण(?)करणः प्राणः । अपा(न?)नयनादपानो मलादीनाम्। व्यानोऽन्नरसमशेषाण्यङ्गानि व्यान(श ?)यति । उद्वेजयति (?) कर्माणीत्युदानः। समं नयति गात्राणीति समानः । उद्गारकारको नागैः । कूर्म उन्मीलन- करैः । क्षुतकृत् कृकलः । जृम्भणकृद् देवदत्तः। धनञ्जयः सर्व- व्यापी मृतं च न विमुञ्चति । इति क्रमेणाभ्यस्यमानः प्रमाण- वत्प्राणायामोऽखिलं दोपं निर्दहति, देहं च रक्षति । प्राणे विजिते चिह्नानि लक्ष्यन्ते । विण्मूत्रश्लेष्मदोषाणाम् अल्पभावः बहुभोजनसामर्थ्य चिरादुच्छ्रासश्च, लघुत्वं शीघ्रगामित्वं स्व- रसौष्ठवमुत्साहश्च, सर्वरोगक्षयो बलं तेजश्च सुरूपता च, धृ. तिर्मेधा युवत्वं स्थिरता प्रसङ्गता(?) च । प्राणायामेन सर्वपापप- रिक्षयः स्यात् । स नित्यं कृतो भ्रूणहनमपि मासात् पुनाति । ऋतुइयाज्जन्मान्तरकृतादघात् पुनाति । संवत्सराद् ब्रह्म विद्वान् स्यात् । तस्मान्नित्यमभ्यसनीयः। "इन्द्रियाणि प्रसक्तानि यथास्वं विषयेविह। आहृत्य यन्निगृह्णाति प्रत्याहारः स उच्यते ॥" मनःपूर्वाणीन्द्रियाण्येव स्वर्गनरकौ । निगृहीतानि स्वर्गाय वि- सृष्टानि नरकायेति यतः, तस्मादिन्द्रियाश्वान् निगृह्य ज्ञान- वैराग्ययुक्तः स्वात्मनात्मानमुद्धरेत् । "धारणा नाम चित्तस्य स्थानबन्धः समासतः। स्थानं च शिव एवैको नान्यदृ दोषाश्रयं यतः ॥ कालं चाप्यवधीकृत्य स्थानेऽवस्थापितं मनः । १ 'ग ', २, र कूर्म । क्षु घ पाठ .
,
प्रपञ्चहृदये
न प्रच्यवति यल्लक्ष्याद् धारणा साभिधीयते ॥
मनसः परमं धैर्य धारणातः प्रजायते ।
तस्माद् धीरं मनः कुर्याद् धारणाभ्यासयोगतः ॥
अव्याक्षिप्तेन मनसा मुहुरीश्वरचिन्ता ध्यानं नाम ।
ध्येयावस्थितचित्तस्य सदृशप्रत्ययस्य यः ।
प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते ॥
सर्वमन्यत् परित्यज्य शिव एकः शिवङ्करः।
परो ध्येयोऽथवा सेति समाप्ताथर्वणी श्रुतिः ।
सर्वप्रभू शिवौ यस्मात् सर्वगौ सततोदितौ ।
सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः ॥
विमुक्तिप्रत्ययः पूर्वमैश्वर्य चाणिमादिकम् ।
इत्येतद् द्विविधं ज्ञेयं ध्येयस्यास्य प्रयोजनम् ॥
जपाच्छ्रान्तः पुनायेद् ध्यानाच्छ्रान्तः पुनर्जपेत् ।
जपध्यानाभियुक्तस्य क्षिप्रं योगः प्रसिध्यति ॥
धारणा द्वादशायामा ध्यानं द्वादशधारणा ।
ध्यानेद्वादशकं यावत् समाधिरभिधीयते ॥"
अष्टमं योगाङ्गं समाधिरिति वदन्ति । सर्वत्र प्रज्ञालोकः
समाधिना(सर्वत्र ?) प्रवर्तते ।
"यदर्थमात्रनिर्भासं स्तिमितोदधिवत् स्थितम् ।
स्वरूपशन्य(मीमा)ध्यानं तत् समाधिरिहोच्यते ॥
ध्येये मनः समावेश्य तिष्ठेदविचलश्विरम् ।
-
'न दास प पाट
• 'पु' प फ पाठ,
योगप्रकरणम् । निर्वाणानलवद् योगी समासीनः प्रकीर्तितः ॥ न शृणोति न चाघ्राति न रंस्यति न पश्यति । न च स्पर्श विजानाति न सङ्कल्पयते मनः ।। न चाभिमन्यते किंचिन्न च बुध्यति काठवत् । एवमीश्वरसंलीनः समाधिस्थ इहोच्यते ॥ यथा दीपो निवातस्थः स्पन्दते न कदाचन । तथा समाधिनिष्ठोऽपि तस्मान्न चलते सुधीः ॥" एवमुक्तं योगं साङ्गमभ्यस्यतो योगिनः तदन्तराया विनाः सर्वे शनैः शनैश्यन्ति । "आलस्यं व्याधयस्तीवाः प्रमादस्तत्त्वसंशयः । अनवस्थितचित्तत्वमश्रद्धा भ्रान्तिदर्शनम् । दुःखानि दौर्मनस्यं च विषयेषु च लोलता।" युञ्जतां योगिनामेते दशान्तरायाः। तत्र देहचेतसोर- लसत्वमालस्यम् । धातुवैषम्यजा दोषाः । कर्मयोगजा व्या- धयः। योगस्य साधनानामभाव(ता?ना) प्रमादः । इदं, न इत्यु. भयालम्बि ज्ञानं यत् तत् तत्त्वसंशयः । मनसोऽप्रतिष्ठा त्वनव- स्थितिः। योगे भावरहिता वृत्तिरश्रद्धा। विपर्यस्ता या मतिः सा भ्रान्तिः। पुंसामज्ञानजं चेतस्याध्यात्मिकं दुःखम् । आधिभौ- तिकं पुराकृतैः स्वतो दुःखमङ्गोत्थम् । अशैन्यस्त्रविषादिकमा- धिदैविकम् । इच्छाविघात(जीजो) दो(प?पो) दौर्मनस्यम् । विष- येषु विभ्रमो लोलता। एतेषु विभेपु शान्तेषु योगिनो योगास- । क्तस्य दिव्याः सिद्धिसूचका उपसर्गाः प्रवर्तन्ते- १ .'दा' ग पाठ २ 'जन्यस्तवि' ग. पाठ
१
प्रपञ्चहृदये
"प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः ।
उपसर्गाः षडियेते त्यागे योगस्य सिद्धयः॥
सूक्ष्मे व्यवहितेऽतीते विप्रकृष्टे त्वनागते।
प्रतिभा कथ्यते यार्थे प्रतिभा सा यथातथम् ॥
श्रवणं सर्वशब्दानां श्रवणं त्वप्रयत्नतः।
वार्ता वार्तासु विज्ञानं सर्वेषामेव देहिनाम् ॥
दर्शनं नाम दिव्यानां दर्शनं स्वप्रयत्नतः ।
तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते ॥
स्पर्शनाधिगमेस्तद्वैद् वेदना नाम विश्रुता ।
गन्धानां (च ? चापि) दिव्यानामाब्रह्मभुवनावधि ॥
उपतिष्ठन्ति रत्नानि धनानि च बहूनि च ।
स्वच्छन्दमधुरा वाणी विविधास्य प्रवर्तते ।।
रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा ।
सिध्यन्ति प्रणिपत्यैनं नयन्ति सुरयोषितः॥
योगसिद्धयेकदेशेऽपि दृष्टे मोक्षे भवेन्मतिः ।
दृष्टमेतन्मया यवत् तद्वन्मोक्षो भवेदिति ॥
हस्वता स्थूलता बाल्यं वार्धक्यं चैव यौवनम् ।
नानाजातिस्वरूपं च चतुर्णा देह(धारिणां?धारणम्)।
पार्थिवांशं विना नित्यं सुरभीगन्धसंग्रहम् ? हः)।
एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम् ॥
जले निवसनं चैव भूम्यामिव विनिर्गमः ।
'चाफ.ग पाठ
२. 'त' ग. पाट: २. 'रमा', ४. 'न' प. पाठ .
योगप्रकरणम् ।
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः॥
यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् ।
विना कुम्भादिकं पाणौ जलसञ्चयधारणम् ॥
रसाधिकं भवेच्चास्य त्रयाणां देहधारणम् ।
निर्बणत्वं शरीरस्य पार्थिवैश्च समन्वितम् ॥
तदिदं पोडशगुणमाप्यमैश्वर्यमद्भुतम् ।
शरीरादग्निनिर्माणं तत्तापभयवर्जनम् ॥
शक्यं ,जगदिदं दग्धुं यदीच्छेदप्रयत्नतः ।
स्थापनं चालनं चाप्सु पाणौ पावकधारणम् ॥
दग्धसर्गो यथापूर्व स्मृत्यैवान्नादिपाचनम् ।
द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम् ॥
एतच्चतुर्विशतिधा तैजसं परिचक्षते ।
मनोजवत्वं भूता(ङ्गः ?)) क्षणादन्तःप्रवेशनम् ॥
पर्वतादिमहाभारभरणं चाप्रयत्नतः ।
गुरुत्वं च लघुत्वं च पाणावनिलधारणम् ॥
अङ्गुल्यग्रनिपातायैर्भूमेरपि च कम्पनम् ।
.
एकेन देहनिप्पत्तिर्युक्तं भोगैश्च तैजसैः ॥
द्वात्रिंशद्गुणमैश्वर्य मारुतं कवयो विदुः ।
छौयाविहीननिप्पत्तिगिन्द्रियाणामदर्शनम् ॥
खेचरत्वं यथाकाममिन्द्रियार्थैः समन्वयः ।
आनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत् ॥
३. 'मा' घ, पाट:.
२. 'नस्याप्सु' स. ग. पाट::
१. 'वा' घ. पाठः.
, . प्रपञ्चहृदये ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तु प्रचक्षते । यथाकामोपलब्धित्वं यथाकामविनिर्गमः ।। सर्वस्याधुवश्चैव सर्वगुह्यार्थदर्शनम् । कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम् ॥ संसारदर्शनं चैव भोगैरेतैः समन्वितम्। । एतच्चान्द्रमसैश्वर्य मानसं गुणतोऽधिकम् ॥ छेदनं ताडनं चैव बन्धनं मोचनं तथा। ग्रहणं सर्वभूतानां संसारपरिवर्तनम् ॥ प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा । आभिमानिकमैश्वर्य प्राजापत्यं प्रचक्षते ॥ एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् । सर्गः सङ्कल्पमात्रेण त्राणं संहरणं तथा ॥ साधिकारश्चै बलतो लोकचित्तप्रवर्तकः । असादृश्येन सर्वस्य निर्माणं जगतां पृथक् ॥ शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् । एतच्चतुष्पष्टिगुणं ब्राह्ममैश्वर्यमुत्तमम् ॥ बौद्धादस्मात् परं गौणमैश्वर्य प्राकृतं विदुः। वैष्णवं तत् समाख्यातमस्यैव भवने स्थितम् ॥ ब्रह्मणा तद्गुणं सर्व वेत्तुमन्यैर्न शक्यते । तत्परं पौरुष गौणं गाणेशं पारमेश्वरम् ॥ विष्णुना तत्पदं किञ्चिद्वक्तुमन्यैर्न शक्यते । 'प्राणसख, पाठ 'च', ५ भु', ६. 'विद्यत' प. पाट . 'कम् ।' घ. पाठ ३ ४. 'त्र' घ पाठ
योगप्रकरणम् ।
व्युत्थानसिद्धयश्चैताः सर्वा एवौपसर्गिकाः ॥
निरोद्धव्यं प्रयत्नेन वैराग्येण परेण तु ।
प्रतिभादिपु क्षुद्रपु गुणेष्वासक्तचेतसः॥
न भवेत् परमैश्वर्यमक्षयं सार्वकामिकम् ।"
तस्माद् देवासुरमहीभृतां भोगांश्च सर्वोस्तृणवत् त्यजेत्।
तस्य योगसिद्धिः पराभवेदिति । अथवानुग्रहाय जगतां स्वेच्छया
विहर्तुमिच्छेत् । यथाकामं भोगान् भुक्त्वा पश्चान्मुक्तिं प्रयाति ।
अथ योगस्य प्रयोगं वक्ष्ये
"शुभे काले शुभे देशे शुभक्षेत्रादिके पुनः ।
विजने जन्तुरहिते निश्शन्दे बाधवर्जिते ॥
सूपलिप्तस्थले सौम्ये गन्धपुष्पाधिवासिते।
++मुक्तसमाकीर्णे वितानादिविचित्रिते ॥
तथा कुशसमित्तोयफलपुष्पसमन्विते ।
नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचयेऽपि वा ।
न देशमशकाकीणे सर्पश्वापदसेविते ।
न च दुष्टमृगाकीर्णे न भये दुर्जनावृते ॥
श्मशाने चैत्यवल्मीकजीर्णागारे चतुप्पथे।
नदीनदसमुद्राणां तीरे रथ्यान्तरेऽपि वा ।।
न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निन्दिते।
न जीर्णामरसोद्गारे न च विण्मूत्रवासिते ॥
नच्छा नातिसारे च नातिभुक्तश्रमान्वितः।
-
1. 'वाधने । न' ख ग पाठ .
१४
प्रपञ्चदये
न चातिचिन्ताकुलितो न चातिक्षुत्पिपासितः ॥
नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् ।
युक्ताहाराविहारश्च युक्तचेष्टः स्वकर्मसु ॥
युक्तनिद्रावबोधश्च सर्वायुक्तविवर्जितः।
आसनं विपुलं रम्यं मृदुलं सुसमं शुचिः ॥
मृदुचर्मपरीधानमथवान्यच्छुभं सुखम् । .
कल्पयित्वा समारुह्य समस्थिरसुखं यथा ॥
पद्मकस्वस्तिकादीनामभ्यस्तेनासनेन तु ।
नत्वा गुरुगणेशादीनपि वन्द्याननुक्रमात् ॥
ऋजुग्रीवाशिरोवक्षा नातिश्लिप्टोष्ठलोचनः ।
किञ्चिदुन्नामितशिरा दन्तैर्दन्तानसंस्पृशन् ।
दन्ताग्रसन्निधौ जिह्वामचलां सन्निवेश्य च ।
पाणिभ्यां वृषणौ रुक्षस्तथा प्रजननं पुनः (१) ॥
ऊर्वोरुपरि संस्थाप्य न भूतिर्यगयत्नतः।
दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि ॥
उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः ।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
संहृतप्राणसञ्चारः पाषाण इव निश्चलः ।
मैत्र्यादिवासनायुक्तः परं वैराग्यमाश्रितः ॥
स्वदेहायतनस्यान्तर्विचिन्त्य परमेश्वरम् ।
हृत्पद्मकर्णिकामध्ये ध्यानयज्ञेनं पूजयेत् ॥
मूले वा शाश्वते नाभौ कण्ठे वा तालुरन्ध्रके ।
भ्रूमध्ये द्वादशान्ते वा ललाटे मूर्ध्नि संस्मरेत् ॥
1. 'क्षिप्य चा' क. पाठः,
योगप्रकरणम् ।
९५
.. तत्र सावरणं वापि निरावरणमेव वा ।
द्विदले पाडशारे वा द्वादशारे यथाविधि ॥
दशारे वा पडश्रे वा चतुरश्रेऽथवा स्मरेत् ।
भ्रुवोरन्तरतः पद्मं द्विदलं तडिदुज्ज्वलम् ॥
मध्यस्थस्यारविन्दस्य क्रमादै दक्षिणोत्तरे ।
विद्युत्समानवर्णस्य वर्णों वर्णावसानके(?) ॥
पोडशारस्य पत्राणि स्वराः पोडशकानि वा ।
पूर्वादीनि क्रमादेतत् पद्मं कण्ठस्य मूलतः(?) ।।
ककारादिठेकारान्ता वर्णा वर्णान्यनुक्रमात् ।
भानुवर्णस्य पद्मस्य ध्येयं तदृदयान्तरे ॥
वर्णा वर्णानि पद्मस्य नाभेरुपरि तिष्ठतः।
गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमात् ॥
अधोमुखस्याम्बुजस्य शाश्वतस्य दलानि षट् ।
विधूमाङ्गारवर्णस्य वर्णा वान्तादयः क्रमात् ॥ -
मूलाधारारविन्दस्य दलानि च यथाक्रमम् ।
वकारादिसकारान्ता वर्णा वर्णमयाः स्थिताः ॥
एतेप्वाधारभेदेषु यत्रैवाभिरतं मनः।
N
तत्रैव देवं देवीं च चिन्तयेद् धीरया धिया ॥
अगुष्ठमात्रमचलं दीप्यमानं समन्ततः।
शुद्धदीपशिखाकारं स्वशक्त्या परिमण्डितम् ॥
इपुरेखासमाकारं तारारूपमथापि वा।
नीवारशूकसदृशं बिससूत्राभमेव वा ।।
-कदम्बगोलकाकारं तुषारकणिकोपमम् ।
१. 'भ',
२..'म' स. पाट:.
प्रपञ्चहृदये
क्षित्यादितत्त्वविजयं ध्यात्वा यद्यभिवाञ्छति ॥
तत्तत्तत्त्वाधिपामेव मूर्ति स्थूलां विचिन्तयत् ।
सदाशिवान्तं ब्रह्माद्याः शर्वाद्या अष्टमूर्तयः॥
शिवस्य मूर्तयः स्थूलाः शिवशास्त्रविनिश्चिताः ।
घोरा मिश्राः प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः॥
फलाभिलापवशतः चिन्त्याश्चिन्ताविशारदैः ।
घोराश्चेच्चिन्तिताः कुर्युः पापरो(गं ? गोरिपुक्षयम् ॥
सर्वसिद्धिकरा मिश्राः प्रशान्ताः शान्तिदायकाः।-
सिध्यन्ति सिद्धयः शीघ्र घोरे वपुषि चिन्तिते
चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि ।
सौम्ये मूर्तिविशेषेण शान्तिः प्रज्ञा प्रसाध्यते ॥
सिध्यन्ति सिद्धयश्चान्याः क्रमशो नात्र संशयः ।
श्रीकण्ठनाथं स्मरतां सद्यः सर्वास्तु सिद्धयः ॥
प्रसिध्यन्तीति मत्वैके तं वै ध्यायन्ति योगिनः।
स्थित्यर्थ मनसः केचित् स्थूलध्यानं प्रकुर्वते ॥
स्थूले तु निश्चलं चेतो भवेत् सूक्ष्मे तु सुस्थिरम् ।
ईशे तु चिन्तिते साक्षात् सर्वाः सिध्यन्ति सिद्धयः॥
मूर्त्यन्तरेषु ध्यातेपु परा सिद्धिर्न सिध्यति ।
रुच्यभ्यासादिना यद्यदीशरूपं विचिन्तितम् ॥
लक्षयेन्मनसः स्थैर्य तत्तद् ध्यायेत् पुनः पुनः।
ध्यानमादौ सविषयमन्ते निर्विषयं जगुः॥
तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् ।
बुद्धेहि सन्ततिः कापि ध्यानमित्यभिधीयते ॥
7
१ 'न्तयेत् ।ल' क ग पाठ .
९७
योगप्रकरणम् ।
न च निर्विपया बुद्धिः केवलेह प्रवर्तते ।
तस्मात् सविपयं ध्यानं स्थूलाकारसमाश्रयम् ।।
निराकारात्मसंवित्तिर्या तु निविषयं मतम् ।
निर्बीजं च सबीजं च तदेव ध्यानमुच्यते ॥
निराकाराश्रयत्वे सा साकाराश्रयतस्तथा ।
तस्मात् सविषयं ध्यानमादौ कृत्वा सवीजकम् ॥
अन्ते निर्विपयं कुर्यान्निबीजं सर्वसिद्धये ।
प्राणायामेन सिध्यन्ति दिव्याः शान्त्यादयः क्रमात् ॥
शान्तिः प्रशान्तिदीप्तिश्च प्रसादश्च ततः परम् ।
शमः सर्वस्य पापस्य शान्तिरित्यभिधीयते ॥
तमसोऽन्तर्बहिर्नाशः प्रशान्तिः परिगीयते ।
बहिरन्तःप्रकाशो यः स दीप्तिरिति कथ्यते ॥
स्वच्छता या तु सा बुद्धेः प्रसादः परिकीर्त्यते ।
करणानि च सर्वाणि बाह्यान्याभ्यन्तराणि च ।
वुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ॥
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ।
एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत् ॥
ज्ञानवैराग्यसम्पन्नो नित्यनिर्विण्णमानसः ।
श्रद्दधानः प्रसन्नात्मा ध्याता सहिरुदाहृतः ॥
ध्यै चिन्तायां स्मृतो धातुः शिवचिन्ता मुहुर्मुहुः ।
अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते ।
बुद्धिप्रवाहरूपस्य ध्यानस्यास्यावलम्बनम् ।
१. 'यम् । सूक्ष्माश्रय निर्विषय नापर परमार्थतः । यया सावपय ध्यान साकारा.
मिसमाश्रयम् । निरा' ख ग पाठ',
०
.
९८
प्रपञ्चहृदये
ध्येयमित्युच्यते सद्भिस्तत् स्वयं परमेश्वरः ॥
विमुक्तिप्रत्ययः पूर्वमैश्वर्य चाणिमादिकम् ।
शिवध्यानस्य तस्यास्य साक्षादुक्तं प्रयोजनम् ॥
यस्मात् सौख्यं च मोक्षं च ध्यानादुभयमाप्नुयात् ।
तस्मात सर्व परित्यज्य ज्ञाननिष्ठो भवेन्मुनिः ॥
नास्ति ज्ञानं विना ध्यानं नास्ति ध्यानमयोगिनः ।
ज्ञानं ध्यानं च यस्यास्ति तीर्णरतेन भवार्णवः ।।
ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम् ।
योगाभ्यासेन युक्तस्य योगिनस्त्वेष सिध्यति ॥
प्रक्षीणाशेषपापानां ज्ञानध्याने भवेन्मतिः।
पापोपहतबुद्धीना तहाःपि सुदुर्लभा ॥
धनुषां कोटिभिर्योगः समन्तात् परिरक्षति ।
सहस्रैः पष्टिभिर्गत धर्मक्षेत्रं तदर्धतः॥
अग्नौ क्रियावतामेव दिवि देवा मनीषिणः।
प्रतिमास्वप्रबुद्धानां योगिनामात्मनि स्थिताः
ईशमात्मनि पश्यन्ति प्रतिमासु न योगिनः ।
आत्मस्थं यः शिवं त्यक्त्वा बहिःस्थं यजते शिवम् ॥
करस्थं पिण्डमुत्सृज्य लिहेत् कोपरमात्मनः ।
तीर्थानि तोयपूर्णानि देवान् पापाणमृन्मयान् ॥
योगिनो न प्रपद्यन्ते स्वात्मप्रत्ययकारिणः ।
आत्मस्थं तीर्थमुत्सृज्य बहिस्तीर्थानि यो व्रजेत् ॥
करस्थं स महारत्नं त्यक्त्वा काचं विमार्गति ।
योगिनां हि वपुः सूक्ष्म भवेत् प्रत्यक्षमैश्वरम् ॥
'म' प. पाठ
२. 'रेटि योग पाट
योगप्रकरणम् ।
यथा स्थूलमयुक्तानां मृत्काष्ठायैः प्रकल्पितम् ।
यथेहान्तश्चरा राज्ञां प्रियाः स्युन बहिश्वराः ॥
तथान्तर्ध्यानरहिताः प्रियाः शम्भोर्न कर्मिणः ।
बहिःकर्मकरा यहन्नातीव फलभागिनः ।।
दृष्टा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ।
जिज्ञासुरपि योगस्य यां गतिं लभते मुनिः॥
न तां गतिमवाप्नोति सर्वैरेव महामखैः।
ज्ञानं योगश्च यस्यास्ति तीर्णस्तेन भवार्णवः ॥
यथा वह्निर्महादीप्तः शुष्कमाई च निर्दहेत् ।
तथा शुभाशुभं कर्म ज्ञानाग्निर्दहति क्षणात् ॥
अत्यल्पोऽपि यथा दीपः सुमहन्नाशयेत् तमः ।
योगाभ्यासस्तथाल्पोऽपि महत् पापं विनाशयेत् ॥
ध्यायतः क्षणमात्रं वा श्रद्धया परमं पदम् ।
यद् भवेत् सुमहत् पुण्यं तस्यान्तो नैव विद्यते॥
नास्ति ज्ञानसमं तीर्थ नास्ति ज्ञानसमं तपः ।
नास्ति ज्ञानसमो यज्ञस्तरमाज्ज्ञानं सदाभ्यसेत् ।।
यद्यन्तरा विपद्यत ज्ञानयोगार्थमुद्यतः।
प्राप्य पुण्यकृतां लोकानुपित्वा शाश्वतीः समाः॥
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ।
ज्ञानयोगाच तं लब्ध्वा ससारमातिवर्तते ॥
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
नैवास्ति किञ्चित् कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥
द्विजानां वेदविदुषां कोटि संभोग्य यत् फलम् ।
-
१
स पूत इति वेदगी ।य' घ पाठ
7
२
प्रपञ्चहृदये
भिक्षामात्रप्रदानेन योगिनां तत् फलं लभेत् ॥
यज्ञाग्निहोत्रदानेषु तीर्थवेदेषु यत् फलम् ।
ज्ञानिनामन्नदानेन तत् समग्रं फलं लभेत् ॥
ये पुनः सेततं भक्ता भवन्ति ज्ञानयोगिनाम् ।
ते विन्दन्ति महाभोगानन्ते योगं च शाश्वतम् ॥
भोगयोगार्थिभिस्तस्मात् संपूज्या ज्ञानयोगिनः ।
प्रतिश्रयान्नपानाद्यैर्ये तु(१) प्रावरणादिभिः ॥
योगधर्मः सुसारत्वादभेद्यः पापमुद्गरैः ।
वज्रतण्डुलवत् तस्मात् तस्यान्तो नैव विद्यते ॥
वर्तमानोऽपि याप्येन योगी तेन न लिप्यते ।
वर्तमानं सदा (ये?के)न पद्मपत्रं यथा तथा ॥
यहन्मन्त्रबलोपेतः क्रीडन् सर्ने दश्यते ।
कीडन् न दश्यते ज्ञानी तहदिन्द्रियपन्नगैः॥
यस्मिन् देशे वसेन्नित्यं ज्ञानयोगरतो मुनिः ।
सोऽपि देशो भवेत् पूतः स पूत इति किं पुनः ।।
तस्मात् सर्व परित्यज्य कृत्यमन्यद् विचक्षणः ।
सर्वदुःखप्रहाणाय ज्ञानयोगं समभ्यसेत् ॥
सिद्धयोगफलो देही लोकानां हितकाम्यया ।
भोगान् भुक्त्वा यथाकामं विहर(न्वा?त्या)त्मवत्तया ।।
सर्व शरीरिणा साध्यं शरीरं खलु दुर्लभम् ।
तत् कालवञ्चनेनैव कृत्वा देहं प्रतिष्ठितम् ॥ .
ज्ञाने च योगे चाभ्यासान्नित्यं कुर्याद् विचक्षणः ।
सर्वेषां मृत्युकालस्तु स्वस्वश्वासप्रकल्पितैः ॥
१ 'पापेन' ग पा.
१ '६' रा पाठ १ म्यर या' स ग पाउ.
- 'गाधाय', ५. 'दा' घ, पाठ,
७, 'त।'ग, पाठ..
तावेव ध(त्तात् ? त्तः)सकलं कालं रात्रिन्दिवात्मकम् ॥
योगप्रकरणम् ।
वत्सरैः स्यादतस्तस्य विजयात् कालवञ्चनम् ॥
योगाभ्यासवशादेव वायोर्विजयमाप्नुयात् ।
आयुरादौ परीक्षेत ततो विज्ञानमभ्यसेत् ॥
आयुर्विरहिते मत्र्ये विज्ञानं निष्फलं यतः ।
तस्मात् सर्वप्रयत्नेन ज्ञात्वा कालं हि योगवित् ॥
कालोत्तरं ततः कुर्याद् ध्यानधारणया भृशम् ।
कालं कलयते यस्मात् तस्मात् कालः प्रकीर्तितः ॥
स तुट्यादिविभेदेन कालः सर्वत्र संस्थितः ।
तुटिर्लबो निमेषश्च काष्ठा चैव कला तथा ॥
मुहूर्तश्चाप्यहोरात्रमिति कालप्रभेदकाः ।
कालो वायुः समाख्यातः कालः सर्वज्ञ उच्यते ॥
कालो यमश्च सूर्यश्च सोमो रुद्रस्तथैव च ।
सर्वदेवमयः कालः कालोऽनन्तहिंतः सदा ॥
अधोगतं भवेद् वाममूर्ध्वगं दक्षिणं भवेत् ।
अन्तर्गतिर्भवेत् सोमस्तथा सूर्यो बहिर्गतिः ॥
प्रविष्टश्चोत्तरो ज्ञेयो निर्गतः काल उच्यते ।
-
सर्वदेवमयो वायुस्तस्माज्ज्ञात्वाभ्यसेन्मुनिः।
इडा चन्द्रकला ज्ञेया पिङ्गला भास्करस्य तु ।
सुषुम्नाग्निकला ज्ञेया तिसृभिस्तु सदा बहेत् ॥
सुषुम्नावाहनं तत्र न (व?वि) जानन्ति मानवाः ।
तया विन्दन्ति सञ्चारं देवाः परमयोगिनः॥
इडायां पिगलायां च चरन्तौ चन्द्रभास्करौ।
१०२
प्रपउहृदये
भोक्री सुषुम्ना कालस्य गुह्यमेतदुदाहृतम् ।
शरीरादधिकं श्वासो निर्गमे द्वादशागुलम् ॥
प्रवेशऽष्टाङ्गुलो मध्ये विनष्टं चतुरङ्गुलम् ।
पष्टयुत्तरैस्तु त्रिशतैः श्वासैरेका तु नाडिका ।।
पञ्चभिर्नाडिकाभिस्तु राशिरेकः प्रकीर्तितः।
दिन मेपादिमीनान्तरेकं द्वादशराशिभिः ॥
अयुते हे सहस्राणि पट शतानि तथैव च ।
श्वासाः प्रयान्ति निर्यान्ति जन्तूनां तु दिने दिने ।
दिनानां पञ्चदश्यो तु पक्षः पूर्वापराह्वयः।
ताभ्यामेको भवेन्मासो द्वौ मासौ स ऋतुर्भवेत् ॥'
ऋतुभिश्च त्रिभिर्विद्यादयनद्वयमेव हि ।
तेनायनद्वयेनान्दं तच्छतं त्वायुरुत्तमम् ॥
इह प्राणवायु सदाभ्यासतो यो
नरो नूनं भावयत्येनमङ्गात् (?)।
समत्वं शरीरेण वा भूतलेऽस्मिन्
स पूज्यो बुधैरुत्तमो योगवित्सु ॥
इडाचारं निरुपन्ध्यात् तु विशेषेण जिजीविपुः ।
इडायां चरतः पुंसो मृत्युरेव न संशयः॥
शतं वा नवतिर्वापि ततोऽपि न्यूनमेव वा ।
यावत्कालं तु यस्यायुस्तत्तच्छासप्रमाणतः॥
श्वासचारवशादेव मृत्युकालः प्रतीक्ष्यताम् ।
वत्सरस्यादिकाले तु सजाते चोत्तरायणे ।।
वायुर्दक्षिणगे पञ्च नाडिका + + + + +।
ततः सव्ये तथा पञ्च शतायुश्चेदयं भवेत् ॥
1. 'या', ३. 'रनुत्त' उ. पाठ . ३. 'कीर्घाताम्' घ, पाउ .
१०३
--
योगप्रकरणम् ।
प्रवक्ष्यतेऽधुना चान्यत् भुक्तिमुक्तिप्रदायकम् ।
योगिनां हितकृच्छश्वदप्रकाश्यं सुदुर्लभम् ॥
यदि प्रवर्तते सौम्यः सततं प्राणिनां तथा ।
पञ्चाहोरात्रचारेण त्रीण्यव्दानि स जीवति ॥
‘दशाहोरात्रचारेण तथान्दद्वयमेव च।
पञ्चोत्तरदशाहेन तथैकाब्दं न संशयः ॥
अह्नां तु विंशतिस्तस्यां वहते यदि चानिलः ।
पण्मासं जीवितं सत्यमिति देवेन भापितम् ॥
पञ्चविंशदहोराने त्रिमासं तस्य जीवितम् ।
पदिशदिवसेनैव द्विमासं तस्य जीवितम् ॥
सप्तविंशदहोरात्रमेकमासं न संशयः ।
अष्टविंशदहोरात्रं त्रिदिनं नात्र संशयः ॥
द्वात्रिंशदिवसेनैव दिनयमिहोच्यते ।
त्रयस्त्रिंशदहोरात्रादेकाहं तस्य जीवितम् ॥
समासप्त(गते ? मगे) सूर्ये जन्मः यदि चन्द्रमाः।
पौष्णः कालः स विज्ञेयस्तदा श्वासं परीक्षयेत् ॥
मेपसिंहाघटिकाक्रमालेलक्षाश्रयो मरुत् ।
गतन्न नो रतिर्नाम्ना तुङ्गश्चेति ददत् समाः(1)॥
अन्यो मान्यो नाग इति नाडिकास्वेकगो मरुत् ।
अष्टाविंशत् पञ्चविंशत् द्वादशाब्दानि चेच्छति ॥
एकद्वित्रिश्च कृत्वाहामेकनाड्याश्रयोऽनिलः ।
दशाष्टौ पट् च चत्वारि वत्सराणि स जीवति ॥
१. 'नामपि । ', २. 'त् पक्षा' घ. पाठ.
३. 'दे' क, ग, पाठः.
१०४ । प्रपञ्चहृदये शन्नो नेयो मया नारी मार इत्येकगोदिने । त्रिहथेकशरदां पड्भिर्मासानां चानिलो ददेत् ॥ मांसहन्दं मासमेकं मासार्धे दशवासरम् । क्षुद्रैः सारैहरैधीरैर्दिनैः पक्षानिचोदयेत् (१) ॥ नागः कालः खलो लोल इति पक्षोदितो दिनैः । अहानां पट्शिकहन्दं चैकं चानुग्रहे मरुत् ॥ यस्य कस्य च मासस्य शुक्लपक्षस्य चादितः । परीक्षेत तथा मृत्युं वायुचारवशाद् बुधः ॥ वामे यदि वहेद् वायुरेकाहोरात्रमेव च । वर्षत्रयाद् भवेन्मृत्युढिदिने वत्सरहयात् ॥ त्रिदिने वत्सरान्मृत्युर्दशाहे मासतो मृतिः। मासे त्वेकदिने मृत्युरेवं ज्ञेयं विपश्चिता ॥ प्रारभ्य दर्शे प्रथमामुदेति वामे पुटे त्रीणि दिनानि देवः । वामेतरे त्रीणि ततो दिनानि पूर्वा तिथिर्यावदथैवमेव ॥ अथारभ्य शुक्लान्यपक्षादिभूती तिथिं त्रीणि देवो दिनान्यभ्युदेति । पुटे दक्षिणे त्रीणि वामे तु यावत् कुहरेवमेवं सदा यक्षपन्ना(१)॥ एकस्य पक्षस्य विपर्ययेण रोगाभिभूतिर्भवतीह पुंसाम् । ४ 'शो ग पाठ २ 'दे' क ख पाठ पाठ . ५. 'तस्य निदानभूतम् ।' घ पाठ ३. 'ता', 'थिन्त्रीणि घ
योगप्रकरणम् ।
तयोईयोर्बन्धुसुहृद्विपत्तिः
पक्षयव्यत्ययतो मृतिः स्यात् ॥
अधुना वक्ष्यते कालो योगिनां भुक्तिमुक्तिदः ।
गुप्तः स सर्वशास्त्रेषु शिवेन कथितः पुरा ॥
सोमाधःस्थो यदा विन्दुर्न दृष्टो योगवित्तमैः
पण्मासं जीवितं तस्य(?) नात्र कार्या विचारणा ॥
तस्योपरि त्रिमासं स्याद् द्विमासं तस्य वामतः।
एकमासं भवेत् तस्य दक्षिणे चे न दृश्यते ॥
मध्ये मासार्धमुद्दिष्टं जीवितं हि न संशयः ।
सोमेऽमावास्यायां++ प्रविष्टे रविमण्डलम् ॥
तस्मिन् कालं ततो ज्ञेयाद् योगी योगपरायणः।
सूर्याधःस्थं दशाहं स्यात् पञ्चाहं तस्य चोपरि ॥
व्यहं वा वामतो ज्ञेयं व्यहं वा दक्षिणे तथा ।
अन्तरेकाहमुद्दिष्टं नात्र कार्या विचारणा ।।
अथान्यश्च प्रयोगोऽस्मिन्नधुना संप्रवक्ष्यते।
नानाभेदविभेदेन भेदितो योगिभिः पुरा ॥
शुद्धस्फटिकसंकाशं द्वादशान्तेऽवलोकयेत् ।
द्वादशाङ्गुलमायामं शरीरं कालरूपिणम् ॥
उन्मीलमीलकरणान्मुकुलीमुद्रया भृशम् ।
दृश्यते नात्र सन्देहो भ्रुवोर्मध्ये न चान्यथा ॥
अशिरः पश्यते तच्चेत् पण्मासं तस्य जीवितम् ।
३. 'न च ' ग..
1. 'जने विप' घ, पाट. २ 'ख, ग, पाट..
५. 'मी' ब पाट..
'
पाठः
-
प्रपञ्चहृदये.
नेत्रहीने यदा तस्मिन् नेत्ररोगो भविष्यति ॥
छिन्ने हस्ते यदा तस्मिन् हस्तरोगं विनिर्दिशेत् ।
धूम्रवर्ण यदा पश्येत् कलहः संप्रजायते ॥
अथवा कथ्यते चान्यत् प्रयोगो भुवि दुर्लभः ।
मनुजानां हितार्थाय शिवेन कथितः पुरा-॥
पृष्ठे तु घुमणिं कृत्वा स्वयं पद्मासने स्थितः ।
मुद्रां तु मुकुली वद्ध्वा ततश्छायां निरीक्षयेत् ।।
ततोऽनिमेपद्ग् भूत्वा व्यग्रे नभसि कालवित् ।
आत्मच्छायां पुनर्वीक्ष्य ततः खमवलोकयेत् ॥
शुद्धस्फटिकसंकाशं निर्मलं पापनाशनम् ।
विग्रहं दृश्यते तस्मिन् नात्र कार्या विचारणा ॥
यादृशेन प्रकारेण स्थितं तत्रैव मानवः ।
तादृशं पश्यतो व्योम्नि छायापुरुप उत्तमः (?)॥
उत्तमाङ्गविहीना तु छाया यद्यथ दृश्यते ।
षण्मासाभ्यन्तरे तस्य प्राणहानिन संशयः ॥
अदृष्टे दक्षिणे हस्ते त्रिमासं तस्य जीवितम् ।
वामहस्ते बिहीने तु मासमेक प्रकीर्तितम् ॥
अर्धे मासार्धमुद्दिष्टं दशाहं दक्षिणे पदे ।
वामे पञ्चाहमुद्दिष्टं नात्र कार्या विचारणा ॥
रक्तवर्णेऽर्थलाभः स्याद् विनाशः कृष्णवर्णके ।
स्थूले व्ययं कृशे लाभमित्थं ज्ञेयं विपश्चिता ॥
१
'मि' ग घ पाठः
ग. पाठ
२
योगप्रकरणम् ।
अथान्यश्च प्रयोगोऽस्मिन् कथ्यते कालवेदिनाम् ।
हिताय साधकेन्द्राणां संक्षेपादुत्तमोत्तमम् ॥
मुद्रां तु मुकुली सम्यक् संस्थाप्य शिरसि क्रमात ।
नासाग्रं वीक्षमाणस्य दृश्यते मुकुलं महत ॥
रम्भापुप्पसमाकारं शिशुकिजल्कसन्निभम् ।
दृश्यन्ते द्वादशदलान्यभ्यासात तस्य मन्त्रितात् ॥
यदाप्येकं दलं नष्टं रुद्रमासं स जीवति ।
दलहानिक्रमाज्ज्ञेया मासाः शेषाश्च योगिभिः॥
न दृश्यते चेन्मुकुलं सद्यो मरणमादिशेत् ।
स्वहस्ते मस्तके न्यस्ते तद्दण्डमवलोकयेत् ॥
विच्छिन्नं पश्यतो मृत्युः पण्मासात प्राङ् न संशयः ।
अरुन्धतीं ध्रुवं व्योम सरितो यो न पश्यति ॥
यः पश्येच्छर्दिविण्मूत्रान् रागरोप्यहिरण्यवत् (?) ।
गन्धर्वादिपुरं हैमौ वृक्षाद्री वा य ईक्षते ॥
यत्पदं पांसुपङ्कादावर्पितं खण्डितं भवेत् ।
अमेघे व्योम्नि यः पश्येद् विद्युतं दक्षिणागताम् ॥
सलिले शकचापं वा तस्यार्वाग् वत्सरान्मृतिः ।
काकारुणकपोतादि यमारोहति निर्भयम् ॥
कृष्णा स्त्री यच्छिरग्छिन्द्यात् स्वप्ने तस्याचिरान्मृतिः।
ऊर्ध्वाधःपार्श्वसम्मर्दे नेत्रयोस्तु न दृश्यते ।।
ज्योतिश्चेत् पत्रिकद्व्येकमासिकं तस्य जीवितम् ।
-
1. 'न्' ग पाठ.
प्रपश्चदर्य
कोष्ठौ चलतः स्थानाद् यस्य वक्रा च नासिका ॥
कृष्णा जिह्वा च लोमेहे पट्सप्ताह स जीवति ।
नाभिमाने जले स्थित्वा स्वलिङ्गमवलोकयेत् ॥
यस्य लिङ्गं जलस्यान्तः प्लवेदूर्ध्वमलाबुवत् ।
तस्याशु मरणं विद्यादासन्नमिति पण्डितः॥
दर्पणे वात्मनश्छायामप्सु वा यो न पश्यति ।
तथा प्रशान्ते दीपे तु गन्धाभावस्तु चेत् पुनः ॥
हानेरिन्द्रियशक्तीनां छायायाः परिवर्तनात् ।
हृदोषश्रवणदेश्च विज्ञानभ्रंशतो मृतिः ॥
अङ्गुष्ठागुलदोर्मध्यमणिबन्धध्वजादिषु ।
वायोरस्फुरणान्मृत्युः पांसुवर्षाच्च पृष्ठतः ॥
अदर्शनेन सूर्येन्द्रोः पुरुपस्याचिरान्मृतिः ।
दिवा सरश्मिः शीतांशुविरश्मिश्च दिवाकरः।
द्विधाभूतोऽथवा दीपो ज्वालयाधरत्ययान्वितः।
चन्द्रादित्यावसृक्सिक्तौ तद्रूपं वा वियत्तलम् ।।
यस्यैवाप्रतिभासैः स्यात् तस्य मृत्युः पुरः स्थितः।
पत्रिकद्व्येकमासार्धदशपञ्चाहजीवनम् ॥
दृष्टं पूर्वादिदिक्ष्वन्तश्छिद्रितं धूमसंकुलम् ।
भाति बिम्बक्रमाद् भानोरायुर्ज्ञात्वैवमात्मनः ॥
यत्नं कुर्यात् ततो योगी तज्जयायेतराय वा ।
कालचक्रमिदं ख्यातमथ तज्जय उच्यते ।।
दूरात् कालो यदि ज्ञातस्ततो विज्ञानमभ्यसेत् ।
१
'क'ख.प.पाठ.
व'ग पाठ.
योगप्रकरणम् ।
आसने चरतः काले त्यक्त्वा सर्व परिग्रहम् ।
आश्रयेत् परमं दिव्यं स्थानं पापविमोचनम् ॥
देवरुपासितः पूर्वमृपिभिश्च तपोधनैः ।
अथोच्यते हितार्थाय योगिनां कालवञ्चनम् ॥
वायुस्थाने मनः कृत्वा स्वाधारस्थेन वह्निना ।
प्रणवाभ्युत्थितेनैव स योगः कालवञ्चनम् ॥
यः सप्तमेन वर्णेन हृत्पद्मे संपुटीकृते ।
सुषुम्नाग्रेऽमृतं ध्यायेन्मृत्यं जयति योगवित्॥
निर्वाणयोगयुक्तात्मा हंसं नित्यं जपेद् बुधः ।
निर्वाणमूर्ध्वदेहं तु चतुरङ्गुलमीरितम् ॥
ऊर्च प्राणो हकारः स्यादधोऽपानस्तु सँ स्मृतः ।
प्राणापानसमायोगो हंसस्य जपतो भवेत् ॥
मुक्ताक्षरममुक्तेन
बड्दा
तत्कालवञ्चनम् ।
चर्मादिना निबन्धीयादण्डं लिङ्गविवर्जितम् ॥
बध्यते यदि लिङ्गेन सार्धं पण्डो भविष्यति ।
पंजाकामैरवश्यं तु सलिङ्गं नैव बध्यताम् ॥
बद्धं शनैः शनैरङ्गं पृष्ठपार्चे निवेश्य च ।
पद्मं वा खस्तिकं वापि बड्पान्यतरमासनम् ॥
मनसा वायुबीजं च वढेरुपरि संस्मरेत् ।
वहिमण्डलमध्यस्थं मनः कुर्यादतन्द्रितः ॥
वायुस्थितिस्तु-तत्रैव वह्निना सह निश्चलः।
३. '' ग. घ. पार.
१. 'चस' स.ग, पाठः. २. 'यत्तात्मा' ग. पाठ..
४. 'स'प. पाठ:. ५. स. पाठ:.
११०
प्रपञ्चहृदये
आयुर्विघातकृत् प्राणो दह्यते तेन वहिना ॥
एवमभ्यसतो नित्यमायुर्भूयो विवर्धते ।
एकमाससमभ्यासाज्जीवेद् वर्षशतं नरः॥
मासद्वयसमभ्यासाजीवेद् वर्पशतत्रयम् ।
संवत्सरसमभ्यासात् सहस्रायुभविष्यति ।।
वक्ष्यते पुनरन्यत् तु कालवञ्चनमुत्तमम् ।
योगिनां क्रीडनार्थाय लोकमध्ये निराकुलम् ॥
रसनां चोर्ध्वगां कृत्वा कामधेनुरतनं सदा ।
कर्पयेन्निर्विकल्पेन कैपमध्यस्थरूपकम् ॥
यदामृष्टं तदानीं तु मुश्चते परमामृतम् ।
तत्सेवया महासत्त्वो वलीपलितवर्जितः॥
अजरो ह्यमरः शुद्धो मासेनैव भविष्यति ।
दयुतं संस्मृतं दिव्यं बिन्दुमध्यॆतुरीयकम् ।।
कामधेनुस्तनं ह्येतदिति सिद्धैः प्रभाषितम् ।
अथान्यत् कथ्यते दिव्यं कालस्यास्य तु वञ्चनम् ॥
जिह्वां तथोर्ध्वगां कृत्वा लम्बिकायां निवेशयेत् ।
अभ्यसेद् यः प्रयत्नेन गजजिहां समाहितः ॥
घृताद्यास्वादविज्ञानं यावत् तावत् तदभ्यसेत् ।
कालबञ्चनमेतत् तु सर्वमुख्यं प्रचक्षते ॥
सर्वासामेव मुद्राणां मुद्रेय पारमेश्वरी ।
कथञ्चिद् बध्यमानापि त्रायते महतो भयात् ॥
जिह्वायां वायुमारोप्य जिह्वामूले निरोधयेत् ।
१ 'क्षसम' ख ग पाठ
०
'सूख ५ पाठ
३ '', ४ 'य', ग पाठ.
योगप्रकरणम् ।
श्रमदाही न तस्य स्तो व्याधिभिश्च विमुच्यते॥
आत्मन्यात्मानमिडया समानीय भ्रुवोस्तदा ।
पिबेद् यस्त्रिदशाहारं जराव्याधिविनाशनम् ॥
काकचञ्चपुटाकारं ध्यानधारणवर्जितम् ।
मारुतं यः पिवेन्नित्यं सर्वव्याधिविषापहम् ।।
सिद्धिः सारस्वती तेन सिध्यत्येव न संशयः।
अनेलमूकोऽपि भवेत् सर्वज्ञः किं पुनः सुधीः ।।
गुल्मशूलादिशमनमभ्यासात् कालवञ्चनम् ।
सव्यापसव्यतो नित्यं कर्णादिपरिवर्तनम् ॥
सर्वव्याधिहरं तच्च कालवञ्चनमेव च ।।
शतं कण्ठस्य बाहोश्च द्विशतं चोदरे शतम् ॥
पार्श्वयोर्दिशतं + + + + + + + + पुनः ।
अपानस्य शतं प्रोक्तं द्विशतं पादयोस्तथा ॥
यावत् तु शक्यं तावद्वा नित्यमेवं समभ्यसेत् ।
सर्वरोगविनाशः स्याज्जीवेद् वर्षशतं सुधीः ॥
गुह्याद्गुह्यतरश्चान्यः प्रकारः प्रोच्यतेऽधुना ।
गुह्याधारपरिस्पेन्दः सव्यासव्येन नित्यशः ।।
उत्कुटिकासने स्थित्वा पाणिनैकेन सध्वजः।"
मण्डं संगृह्यान्यपाणिमध्यमाङ्गल्याधारे समाहितः पूर्वाह्नमध्या-
हसायाहाख्यकालत्रितये परिवर्तनं कुर्यात् । पष्टयुत्तरं शतं
'
नित. सव्यभते.
, 'घ', २ निस्सव्यभतेहध्वत मासम् । उपार्टि' पाट
दरतमासरटि' ग. पाट,
- प्रपञ्चहृदये वामे । दक्षिणे च तावदेव । ऊर्ध्व च तावदेव प्राहें पित्तहरं, मध्याहे वातनाशनं, सायाहे श्लेप्महरं जरारोगविनाशनम् । एवं त्रिसन्ध्यं हस्तहयेनातन्द्रितः कुर्यात् । अनेनार्शःशूलगु- ल्मादीनि च नश्यन्ति । उक्तं च- "शरीरलघुता दीप्तिर्वर्जठरवर्तिनः । नादाभिव्यक्तिरित्येतचिह्न तत्सिद्धिसूचकम् ॥" इति अभ्यासात् कालवञ्चनमपि भवति । अन्यदपि वक्ष्यते बाह्यात् प्राणं समारोप्य पूरयित्वोदरस्थितम् । अङ्गुष्ठैनासिकाग्रेण मनसा धारयेत् सदा ।। शरीरं लघुतां याति पादाङ्गुष्ठे तु धारणात् । सर्वरोगविनाशः स्यान्नाभिमध्ये तु धारणात् ॥ नासामधारणादेव वायोर्विजयमाप्नुयात् । सर्वदा पूरकाभ्यासात् प्राणजयो भवति, रेचकाभ्यासादपानजयः, कुम्भकाभ्यासात् सर्ववायुजयः । उक्तं च- "रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत्"। अन्यदपि "इति रेचकपूरको विधाय स्थिरधीः केवलमेव कुम्भकं यः । सततं कुरुते मनोजवत्वं लभते वीतजरामयः स मर्त्यः ॥" - ३ ५ वि' ग.पाट २ ' नासामे म' घ., ३ '६' 'एनासामे म
योगप्रकरणम् ।
११३
-
अन्यच्च
"शक्यमासनमास्थाय समाहितमनास्तथा ।
करणानि वशीकृत्य विपयेभ्यो बलात् सुधीः ॥
अपानमूर्ध्वमाकृष्य प्रणवेन समाहितः ।
हस्ताभ्यां बन्धयेत् सम्यक् कर्णादिकरणानि च ॥
अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां च चक्षुपी ।
नासापुटावधान्याभ्यां यावच्छक्ति निरोधयेत् ।।
अनेनोत्पद्यते नादः शुद्धस्फटिकसन्निभः ।
ब्रह्मरन्ध्रे सुपुम्नायां मृणालान्तरसूत्रवत् ॥
आ मूर्भो वर्तते नादो वीणादण्डवदुत्थितः ।
शङ्खध्वनिनिभस्त्यादौ मध्ये मेघध्वनिर्यथा ॥
व्योमरन्ध्रगते नादे गिरिप्रस्रवणं यथा।
व्योमरन्ध्रगते वायौ मनसा च सहेन्द्रियैः॥
तदानन्दी भवेद् देही वायुस्तेन जितो भवेत् ।
वायुना पूरिते व्योम्नि साङ्गोपाङ्गकलेबरे ॥
तदात्मा राजते तत्र यथा व्योम्नि दिवाकरः ।
नादं चापि भ्रुवोर्मध्ये पश्येद् यावन्मनोलयम् ॥
जिह्वामूलेऽमृतस्राव(मे ? ए)वमभ्यस्यतो भवेत् ।
कम्पनं च तथा मूों मनसैवार्थदर्शनम् ॥
देवोद्यानानि रम्याणि नक्षत्राणि च चन्द्रमाः।
ऋषयः सिद्धगन्धर्वाः प्रकाशं यान्ति योगिनाम् ।।
:
१
'सस ग पाठ
"
प्रपञ्चहृदये
एवम्प्रकारतो नित्यं प्राणायामं च कुर्वतः ।
प्राणो यति तेनैव देहस्यान्तस्ततोऽधिकः ॥
देहश्वोत्तिष्ठते तेन कृतासनपरिग्रहः ।
निःश्वासोन्छासकौ तस्य न विद्यते कथञ्चन ॥
देहे यद्यपि तौ स्यातां स्वाभाविकगुणावुभौ ।
तथापि नश्यतस्तेन प्राणायामोत्तमेन तु ॥
तयोर्नाशे समर्थः स्यात् क(तुः'तु) केवलकुम्भकम् ।
एवं येन जितो वायुर्नास्ति तस्य हि दुर्लभः ॥
आकुञ्चनविधानं तु सततं कालदुर्लभम् ।
भूतानां विजयः प्रोक्तो भूतस्थानेषु धारणात् ॥
भवन्ति भूतविजयाद् योगिनो येन सिद्धयः ।
पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते ॥
आ जान्वोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् ।
आ पायोर्हदयान्तं यद् वह्नः स्थानं तदुच्यते ॥
आ हृन्मध्याद् ध्रुवोर्मध्यं यावद् वायुकुल स्मृतम् ।
आ भ्रूमध्यात् तु मूर्धान्तमाकाशमिति चोच्यते ॥
पृथिव्यां वायुमास्थाय लकारेण समन्वितम् ।
ध्यायश्चतुर्भुजाकारं ब्रह्माणं सृष्टिकारणम् ॥
धारयेत् पञ्च घटि(कां' काः) पृथिवीजयमाप्नुयात् ।
वारुणे वायुमारोप्य वकारेण समन्वितम् ।।
स्मरन् नारायणं देवं चतुर्बाहुं किरीटिनम् ।
'स्य' ग पाठ
योगप्रकरणम् ।
धारयेत् पञ्च घटिका अपां विजयमाप्नुयात् ॥
वौ चानिलमारोप्य रेफाक्षरसमन्वितम् ।
त्र्यक्षकं वरदं रुद्रं भस्माञ्चिततनुं स्मरन् ॥
धारयेत् पञ्च घटिका वतिनासौ न दह्यते ।
मारुते वायुमारोप्य महत्तत्त्वमनुस्मरन् ।
यकारं पञ्च घटिका धारयेद् व्योमगो भवेत् ।
आकाशे वायुमारोप्य हकारेण समन्वितम् ॥
बिन्दुरूपं परं तत्त्वं दिव्याकारमनुस्मरन् ।
धारयेत् पञ्च घटिका जीवन्मुक्तो भविष्यति ॥
वातात्मकानां सर्वेषां योगेपु रमतां नृणाम् ।
प्राणसंयमनेनैव शोषं याति कलेवरम् ॥
पित्तात्मकानां त्वचिरान्न शुष्यति कलेबरम् ।
कफात्मकानां कायस्तु संपूर्णमचिराद् भवेत् (?) ।
धारणां कुर्वतस्त्वग्नौ सर्वे नश्यन्ति वातजाः ।
पार्थिवे च जलांशे च धारणां कुर्वतः सदा ॥
नश्यन्ति श्लेप्मजा रोगा वातजाश्चाचिरात् तथा ।
व्योमांशे मारुतांशे च धारणां कुर्वतः सदा ॥
त्रिदोपजनिता रोगा विनश्यन्ति न संशयः ।
अपानमूर्ध्वमाकृप्य वायुमायुर्विघातकम् ॥
वह्निस्थाने निरुध्यैव चिरं तत्रैव धारयेत् ।
शरीरान्त स्थिता ये तु प्राणपूर्वाश्च वायवः ।।
सर्वान् संहत्य मनसा मध्यदेहे तु चिन्तयेत् ।
कालवञ्चनमेवं हि सूक्ष्मोपायं सुवर्णितम् ।।
प्रपञ्चहृदये
शङ्खकुन्देन्दुवर्णाभं प्रासादं हृच्छिरः स्मृतम् ।
षण्मासाभ्यासयोगेन मृत्यं जयति योगवित् ॥
प्रासादेन तु मेधावी हृत्पिण्डे संपुटीकृते ।
सुपुम्नाग्रे सदा ध्यायेदमृतं चन्द्रमण्डलात् ॥
मूर्ध्नि ऊन्नाभिदेशेषु प्लावयेदात्मविग्रहम् ।
मृत्युं जयति योगं स सहस्रायुर्न संशयः॥
यस्तुरीयेन वर्णेन चन्द्रमण्डलमध्यगम् ।
सम्पुटीकृत्य प्रासादमन्दमेकं समभ्यसेत् ॥
मृत्युजयमिमं योगमयुतायुभविष्यति ।
हंसेन केवलं नित्यं चन्द्रमण्डलमध्यगम् ॥
हृदयं चिन्तयेदेवं मृत्यु जयति वत्सरात् ।
ओकाराम्भोज आसीनं हंकारं शशिमण्डलम् ॥
संकोरममृतं ध्यायेन्मृत्युं जयति योगवित् ।
अपानं मुकुलीकृत्य वायुमाकृष्य चोन्मुखम् ॥
प्रणवेन समुत्थाप्य श्रीबीजेन + + + + ।
स्वात्मानं च श्रियं ध्यायेदमृतप्लावन तथा ॥
कालवञ्चनमेतद्धि सर्वमुख्यं प्रचक्षते ।
मनसा चिन्तितं सर्वमनायासेन सिध्यति ॥
हंसेन पङ्कजारूढं तन्मध्ये शिवरूपिणम् ।
अमृतेन तयोर्वेष्ट्य मृत्युनाशनमेव हि ॥
पिण्डस्थं पिण्डमध्यस्थः पिण्डोदरपुटीकृतः ।
पिण्डेन पिण्डितः पिण्डः पिण्डं पिण्डे विनिक्षिपेत् ॥
१ ३ प्र' रा प पार
विक्षि' ५ पाठ
३ 'ग' ५ पार
४ "
मिग पाट
योगप्रकरणम् ।
मृत्युजयमिमं योगमभ्यसेत् सततं नरः ।
अमरत्वमवाप्नोति नान कार्या विचारणा ॥
यत्पदेशे मनः कुर्याद् वायुस्तत्र गतो भवेत् ।
स तु वायुपशेनैव दह्यते तद्रतेन वै ॥
यावन्मनोलयं तावत् कुर्यात् स्थानेपु धारणाम् ।
समाधिमधुना वक्ष्ये परमं योगमुत्तमम् ॥
यस्यानुभूतिमात्रेण महायोगमवाप्स्यति ।
योगानां सारभूतत्वात पूर्वोक्तमपि कथ्यते ॥ .
प्रलीनसकलीभा(वीवा) जीवात्मपरमात्मनोः ।
तादाम्यभावना सद्भिः समाधिरिति कीर्तितः॥
अकारप्रतिपाद्यस्य ब्रह्मणः परमात्मनः ।
मकारप्रतिपाद्यस्य स्वस्य जीवात्मनस्तथा ॥
उकारेण हि तादात्म्यमवधारणवाचिना।
बुद्ध्वैवं प्रणवार्थ तु ब्रह्मैवाहमिति स्मरेत् ॥
नाभेरधः स्थितं जीवं परमव्योमवर्तिना ।
ब्रह्मणा सह युजीत प्रणवाकर्षणेन च ॥
-मूलाधारादिमूर्धान्तं स्थाणुवद् ब्रह्मरन्ध्रगम् ।
कदम्बगोलकाकारं विद्युत्पुञ्जसमप्रभम् ॥
सर्वव्यापि स्थितं सूक्ष्मं योगगम्यमनामयम् ।
आनन्दमचलं शुभ्रं मनसोऽतीतगोचरम् ।।
वाच्यवाचकरहितं हेयोपादेयवर्जितम् ।
अद्वयं निष्कलं सूक्ष्मं शून्यं शून्यविवर्जितम् ॥
२ 'च', ३ 'वोमिति सस्म' ण, पाठ
, 'मुच पाठ
• १९८
प्रपञ्चहृदये
स्वात्मानं मनसा ध्यात्वा नान्यत् किञ्चन चिन्तयेत् ।
एवं समाधिं कुर्वाणो मनोलयमवाप्नुयात् ॥"
अस्मिन्नर्थे माण्डूक्योपनिषत् -
* "प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्षमुच्यते।
अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥"
सुचोलोपनिषत् -
"ओङ्काररथमारुह्य विष्णुं कृत्वा तु सारथिम् ।
ब्रह्मलोकपदान्वेषी रुद्राराधानतत्परः ॥
आत्मानमरणिं कृत्वा प्रणवं चौत्तरारणिम् ।
योगाग्निमथनाभ्यासाज्ज्योतिः पश्येन्निगृहबत् ॥
सौषिर्य नास्ति देहेऽस्मिन् मांसास्थिरुधिरं न च ।
इन्द्रायधमिवाकारं(?) कायं वरत्वेव संस्मरेत् ।।
पृथिव्यादीनि भूतानि भौतिकानि तथैव च ।
शब्दादिविषयांश्चैव श्रोत्रादीनीन्द्रियाण्यपि ॥
स्वकारणेपु-संहृत्य मनसा सुस्थिरेण च ।
परमव्योमपर्यन्तं केवलं निर्गुणं स्मरेत् ।।
कार्यकारणभावेन स्थूलसूक्ष्मविकल्पितम् ।
स्कन्धशाखाफलादीनि वीजे वृक्षस्य वै यथा ॥
एकदेशविहीनं तु स्वदेहं मनसा स्मरेत् ।
क्रमात् सर्वाङ्गहीनं तु स्वात्मानं व्योम्नि संस्मरेत् ॥
जाग्रावस्थास्थितश्चापि तुर्यावस्थामवाप्नुयात् ।
१. ति' ५ पार
*
वास्यमिद माण्डपये नास्ति, मुण्डकोपनिषदिन दस्यते ।
योगप्रकरणम् । मनसि प्रलयं याते ब्रह्मनिर्वाणपृच्छति ॥ गगने कुरु चात्मानमात्ममध्ये तु खं कुरु । अशरीरं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ अर्ध्वाधः शून्यभावं तु खं शून्यं बिन्दुशून्यकम् । नादशून्यं शक्तिशून्यं सर्वशून्यं निरास्पदम् ॥ निरालम्बं निराधारं निराभासं निरामयम् । आदिमध्यान्तरहितं चिन्तयेत् परमाद्भुतम् ॥ एवं समाधिं कुरुते यस्त्रिसन्ध्यं समाहितः । अनायासेन तस्योक्ता मुक्तिरेकेन जन्मना । अवस्थाशून्यः परमात्मेति ज्ञापनार्थ जाग्रदादयोऽवस्थाः क- " थ्यन्ते - "बाबैराभ्यन्तरैर्युक्ता चतुर्दशभिरिन्द्रियैः । तेषां विषयसंयुक्ता जाग्रावस्था प्रकीर्तिता ॥ जाग्रज्जनितसंस्कारजनितैरान्तरेन्द्रियैः । यदा तु विषयान् भुते स्वप्नावस्था प्रकीर्तिता ॥ धूममध्ये यथा वद्विर्यथा तैलं तिले तथा । अविद्योपाधिसञ्छन्ना बोधरूपा सुपुप्तिका ।। अवस्थोद्भवसंहारहीनो मायानपौश्रितः । तुर्यावस्थो भवेदात्मा केवलानन्दविग्रहः ॥ तुर्यातीतं च यत् प्रोक्तमवाङ्मनसगोचरम् । जाग्रत्स्वप्नसुषुप्तिहीनं स्थितमप्रतियोगिकम् ॥" 'चा' प, पाठ
।
प्रपञ्चहृदये
इति ।
शरीरं विसिसक्षुश्चेन् सुखमासनमास्थितः ।
इदं ब्रह्मपुरं देहं पूरयेद् बाह्यवायुना ॥
सर्वहाराणि संयम्य मनो बाद्यान्निरुध्य च ।
पादाङ्गुष्ठादिकेष्वेव स्वेषु स्थानेष्ववस्थितान् ॥
निश्शेषान् संहरेद् वायून् सर्वानव्यग्रया धिया ।
मनसा वायुबीजेन संपुट्य प्रणव जपन् ।
पादाङ्गुष्ठादिमर्मभ्यो मर्मान्तरमुपागते ।,
वायुवृन्दे तु तत्रस्थो वह्निस्तमनुगच्छति ॥
प्राणादिवायुवृन्दे च नाभिमूलमुपागते ।
ऊर्ध्वदेहस्थितान् वायूनधस्तत्र समाहरेत् ॥
मूलाधारगतं वहि निश्शेषं तत्र कर्पयेत् ।
ततः प्रकृतिरूपा सा दग्धा भवति कुण्डली ॥
ततः सुपुम्नारन्ध्रेण वायुं वह्निपुरःसरम् ।
हृन्मध्ये च समारोप्य कण्ठकूपे ततः परम् ॥
भ्रुवोर्मध्ये समारोप्य शनैस्तत्र निरुध्य च ।
अकारप्रतिपाद्यस्य ब्रह्मणः परमात्मनः ॥
मकारप्रतिपाद्यस्य स्वस्य जीवात्मनस्तथा ।
उकारेणैव तादाम्यमवधारणवाचिना ॥
ब्रह्मैवाहमहं ब्रह्म प्रणवार्थमिति स्मरन् ।
एकाक्षरपरं ब्रह्म प्रणवं वाप्यनुस्मरन् ।
संभिय मनसा मूर्तिं ब्रह्मरन्ध्रस्थवायुना ।
प्राणमुन्मोचयेत् पश्चान्महामाणे खमध्यमे ॥
VIDUS
योगप्रकरणम् ।
१२१
देहातिगे जगत्प्राणे शून्ये नित्ये ध्रुवे पदे ।
आकाशे परमानन्दे खात्मानं योजयेद् धिया ॥
मूर्धरन्ध्राद् विनिष्क्रान्तं विद्युत्पुजसमं महत् ।
निरजनं परं ज्योतिरेकमेव भविष्यति।
वैश्वानरः स्वयं वह्निर्बह्मरन्ध्रविनिर्गतः ।
यथैव मथितो वह्निररणिं सन्दहेत् तथा ॥
सन्तापयति खं देहमापादतलमस्तकम् ।
ब्रह्मैवासी भवेदात्मा न पुनर्जन्मभाग भवेत् ॥
नानाविज्ञानजननं विद्वज्जनमनोहरम् ।
प्रपञ्चहृदयाख्यं हि प्रपञ्चोत्तमभूषणम् ॥
सम्यग्ज्ञानप्रदं शश्वदज्ञानां सर्ववस्तुपु ।
अप्रकाश्यमिदं तन्त्रं संसारवनदाहकम् ॥
इति प्रपञ्चहृदये योगप्रकरणं नामाष्टमं समाप्तम् ।
प्रपञ्चहृदय समाप्तम् ।
शुभं भूयात् ।
SN.
FHAVAH
LIBRAPY