Sringeri Sharada Peetham
Vyavahara Balambhatti
Front matter
THE
ICHOWKHAMBA SANSKRIT SERIES,
A.
COLLECTION OF RARE & EXTRAORDINARY SANSKUIT WORKS.
NO.366
श्रीनागेशभट्टकृतः
वात्यताप्रायश्चित्तनिर्णयः ( महान् लघुश्च )
श्रीजयसिंहकारितः
व्रात्यताशुद्धिसङ्ग्रहश्च
Peristered according to act XXV. af 1867. (All Rights Reserved.)
साहित्याचार्य-खिस्ते-नारायणशास्त्रिणा तथा
साहित्योपाध्याय-होशिङ्ग-जगन्नाथशास्त्रिणा संशोधितः
THE
VRĀTYATĀPRĀYASCHITTANIRNAYA
( GREAT and SMALL ) BY
NAGES'A BHATTA and
THE VR-TYATĀS'UDDHISANGRAHA
compiled by order of
MAHARAJA JAYASINHĄ OF JAIPUR.
FASCICULUS 1-2,
PRINTED-PUBLISHED & SOLD BY THE SECRETARY,
CHOWKHAMBA SANSKRIT SERIES OFFICE.
Vidya Vilres Press, North of Gopal Manulir Benares,
1927.
-:.-
श्री आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता। सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतप्रन्थमाला सजुलदर्शना । रसिकालिकुलं कुर्यातमन्दाऽऽमोदमोहितम् ॥ २ स्तबकः-३६६ Printrd by Jai Krishna Das Gupta ..at the Vidyn Vilas Press, Benares. 1 : Agents: Luxauck.co, Booksellers, LONDON. (Otto Harrassowitz, Tieipzig: GERMANY The Oriental Book-supplying Agency, POONA. 3
THE
CHOWKHAMBA
SANSKRIT SERIES,
A
COLLICCTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.
NO. 366
THE
VRĀTYATĀPRĀYAS'CHITTANIRNAYA
( GREAT and SMALL )
BY
NAGES'A BHATTA
and
TAE
VRĀTYATĀS'UDDHISANGRAHA
compiled by order of
MAHARAJA JAYASINHA
OF JAIPUR.
Edited With a Prefatory Note by
Pt. Nārāyaṇa S'āstri Khiste, Sābityācbārya,
Assistant Librarian, Govt. Sanskrit Library,
Sarasvati Bhavana, Benares;
And
Pt. Jagannātha S'āstrī Hoshing Sāhityopādhyāya,
Late Sādholal Research Scholar,
Govt. Sanskrit College, Benares.
FASCICULUS 1-1,
PRINTED-PUBLISHED & SOLD BY THE SECRETARY,
CHOWK HAMBA SANSKRIT SERIES OFFICE,
Vidya Vilas Press, North of Gopal Mandir, Benares.
1927.
ॐGE
GOOcome fromoeacopoeopade
चौखम्बा-संस्कृत-ग्रन्थमाला
(ग्रन्थ संख्या ६६)
श्रीनागेशभकृतः
व्रात्यताप्रायश्चित्तनिर्णयः
LOOOOOO
(महान् लघुश्व)
श्रीजयसिंहकारितः
व्रात्यताशुद्धिसङ्ग्रहश्च
साहित्याचार्य-खिस्ते-नारायणशास्त्रिणा
तथा
DOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOKCOAGOVER
provobaroboor
साहित्योपाध्याय-होशिङ्ग-जगन्नाथशास्त्रिणा
संशोधित
(APERSA
प्रकाशक:-
जयकृष्णदास-हरिदासगुप्तः-
चौखम्बासस्कृतसीरीज आफिस, विद्याविलास प्रेस,
गोपालमंदिर के उत्तरफाटक, बनारस सिटी ।
अत्र . श्रीः अथेदमुपक्रम्यते ब्रात्यताप्रायश्चित्तविषयं ग्रन्थत्रयं मुद्रायित्वा प्रकाशयितुम् । (१)व्रात्यताप्रायश्चित्तनिर्णयः( महान् )= श्रीनागेशभट्टकृतः (२)व्रात्यताप्रायश्चित्तनिर्णयः ( लघुः )-ग्रन्थ- कर्तृनामनिर्देशाभावेऽपि ग्रन्थारम्भतदन्तर्गतबहुविषयसाम्यात् , नागेशभट्टस्य लघुबृहद्भेदेन द्विधा ग्रन्थनिर्माणप्रकारस्य बहुशोऽन्यत्र दर्शनात् अयमपि नागेशभट्टनिर्मित एवेति निर्विवादमेव । (३)वात्य- ताशुद्धिसङ्गहः श्रीमन्महाराजजयसिंहकारितोऽनेकैर्विद्वद्भिः कृतः । तत्र लधुव्हन् वा ब्रात्यताप्रायश्चित्तनिर्णयः कलौ क्षत्रियपदव्यवहा- याणां दशविंशतिपुरुषपर्यन्तं स्मर्यमाणोपनयनाभावानां तदग्रेऽप्य- स्मर्यमाणोपनयनानां संस्कारो न वेति' सन्देहं पुरस्कृत्य 'एवञ्च तादृश- क्षत्रियाणामुपनयनाभावः सिद्धः' इति सिद्धान्तं व्यवस्थापयति । अग्रे च स्पष्टमेवोक्तं नागेशेन - यावत्परीक्षितो जन्म यावन्ननन्दाभिषे- चनम् । एतद्वर्षसहस्रं तु कलौ पञ्चदशोत्तरम्' ।। इति विष्णुपुराणीय. वचनानुरोधेन वस्तुतः कलौ उपनयनयोग्यक्षत्रियाभाव एव । 'एतेन क्र- मयोगेन मनुपुत्रैर्वसुन्धरा । कृतत्रेतादिसंज्ञानि युगानि त्रीणि भुज्यते' । अत्र त्रीणि भुज्यते इत्यनेन तुर्ये कलौ पञ्चदशोत्तरसहस्ररूपात्यल्पकालं तत्सत्ता सूच्यत इति च । अपरोऽनेकविद्वन्निबद्धो व्रात्यताशुद्धिसङ्ग्रहस्तु विविधप्रमाणोपष्ट- म्भैः कलावपि क्षत्रियसत्तां तेषामुपनयनाईत्वं च व्यवस्थापयति । किञ्च-'चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः' इति वचनानुरोधेन शृङ्गग्राहिकया ब्राह्मणादीनामयमयं ब्राह्मणः क्षत्रियों वेति निर्ण यासम्भवेन पश्वाद्यपेक्षया मानुषकारवलक्षण्यस्यावयवसंस्थानरूपस्य प्रत्यक्षत्वेन मा- नुषस्वजातेातुं शक्यत्वेऽपि मानुषत्वावान्तरजातिभूतब्राह्मण्याद्यभिव्यञ्ज- कसंस्थानविशेषस्य चक्षुरादिमानगम्यस्याभावेन ब्राह्मण्यादिनिर्णयो भवितुं नाहति । अतस्तत्र तत्र तेषु तेषु जनपदेषु जनसमुदायो विरोध्यविरोधी ( २ ) वा यं यं समुदायं यद्यद्वर्णसमूहतया विना विगानं परम्परया वर्णयति स स तावत्तत्तद्वर्णसमुदायरूप एव । एवञ्चाऽविगीतव्यवहार एको जातिनिर्णा- यकः, एवमेव ये स्वस्वजात्युचितधर्माचरणरहिता अपि तत्तज्जात्युचितध- मांचरणशीलैः सह भोजनादिव्यवहारमविगीतमाचरन्ति, ये तद्व्यवहारमा. जस्तेऽपि तज्जातय एव, तव्यवहाराभावेऽपि तव्याप्यधर्मव्यवहारादपिव्या पकजातेनिर्णयो भवतीत्यादिसिद्धान्तो व्यवस्थापितः । एवमेव प्रयागादिप्र- देशेषु ब्राह्मणा इति व्यवह्रियमाणा राजपुत्रकन्योद्वाहिनो द्विकुलीना ब्राह्मणा अविगीतव्यवहाराब्राह्मणा एव तत्सम्बन्धिनो राजपुत्रा अपि क्षत्रिया एव । इत्थमेव पुरोहितगोत्रेण परम्परया गर्गादिगोत्रव्यवहाराद्वणिज इत्यव्य भिचरिताविगीतव्यवहारात् अगरवालाः सर्वेऽपि तृतीयवर्णाः प्रायेणो. पनयनादिसंस्कारभाजः शिष्टैः परिगृह्यमाणा भवन्ति । एते सर्वेऽपि प्रायश्चित्ते कृते तूपनयनाहीं भवेयुरिति । इत्थमनयोभिन्नकर्तृकयोग्रन्थयोः प्रतिपाद्ये वैलक्षण्यम् । नात्र वयं स्वमतं किञ्चिदपि प्रतिपादयामः । विचक्षणानां पुरो द्वयमपीदं न्यस्तं, येभ्यो यथा रोचते तैस्तथा प्रमाण- जातमवलम्ब्य तथा विधेयमिति सरलः पन्थाः । २ जयपुरमहीमहेन्द्रेण श्रीमता राजाधिराजेन श्रीसवाईजयसिंह नरपतिना क्षत्रियपदव्यवहार्याणामुपनयनार्हतामभिलषता प्रायो भारत वर्षीयाः सर्वेऽपि पण्डिताः सम्मेलिताः । तत्र पण्डितसमाजे प्रवृत्तं मत- द्वैविध्यम् । राजानुगमनप्राप्तजीविका वैभवानुभावविस्मारितस्मृति. रहस्या एके विद्वांसो ब्रात्यताशुद्धिसङ्ग्रहं प्राणयन् । यत्र ञ्चित् क्षत्रियनामभृतां वैश्यनामभृतामप्युपनयनाहत्वं निष्कण्टकमु- हङ्कितम् । लक्ष्मी तृणाय मन्यमाना अपरे शास्त्रमर्यादासंरक्षणप्राणाः श्रीनागेशभट्टा राजानुरोधमपि निर्धूय शास्त्रोपदिष्टमेवाध्वानमक्षुण्णं व्यवस्थापयन्तो लघु महान्तं च ब्रात्यताप्रायश्चित्तनिर्णयं प्राणयन्- इति शृणुमो वृद्धमुखेभ्यः । यथाकथ- ( ३ ) ३ प्रस्तुतप्रबन्धानामेकैकमेव पुस्तकं राजकीयसरस्वतीभवनपुस्त- कालयस्थमशुद्धिबहुलमवलम्ब्य प्रवृत्ते मुद्रणकार्ये निसर्गजा अशुद्धी. रुपेक्ष्य ग्रन्थसारमात्रमवगाहनीयं सुधीभिः । साम्प्रतिके शुद्धिप्रचार- प्रचुरप्रभावे काले यस्य कस्यापि येन केनाऽपि यथा तथा वा क्रियमा- णा शुद्धिर्न शास्त्रमुखप्रेक्षामपेक्षते इति साम्प्रतिकानां शुद्धिकार्यधुंधराणां सविधेऽनपेक्षित एवायं प्रबन्धसमुच्चयः, किन्तु ये शास्त्रैकदृशो धर्मप्रा. णास्तैः सकौतुकमयं नाऽतिप्राचीनः पण्डितानां विवादः प्रेक्षणीयो विचारणीयश्च । एतत्प्रबन्धत्रयमुद्रणे प्रचुरं साहाय्यमाचरतां साहित्योपाध्याय- होशिङ्ग-जगन्नाथशास्त्रिणां महान्तमुपकारभारं वहन् धन्यवादस्तेषामुचित- महणमाचरामि । येषां प्रेरणया मार्गप्रदर्शनानुग्रहेण प्रवृत्तोऽहमत्र कार्ये, तान् काशिकराजकीयपाठालयप्रधानाध्यक्षान् श्रीगोपीनाथकविराजशर्ममहो- दयान सविनयमनन्तैर्धन्यवादैः, 'चौखंबासंस्कृतसीरीज'नामकपुस्तक. मालाध्यक्ष बाबूजयकृष्णदासश्रेष्ठिवरांश्च शताधिकैराशीवचनैश्च सम्भाव्य विरमामीति शिवम् । सरस्वतीभवनम् । काशी। विदुषां कृपाभाजनम्- नरायण शास्त्री खिस्ते.
No text on this page.
॥ श्रीगणेशाय नमः ॥ व्रात्यताप्रायश्चित्तनिर्णयः । अथ कलापब्राह्मणत्वे सति शस्त्रग्रहणप्रजापालनमात्रेण क्षत्रिय. सादृश्येन क्षत्रियपदव्यवहार्याणां दशविंशतिपुरुषपर्यन्तमस्मर्यमा- णोपनयनानां तदरोऽपि तादृशानामुपनयनसंस्कारो भवति न चेति-सन्देहे निर्णयः क्रियते । तत्र नैव भवतीति निर्णयः, क्षत्रिय सादृश्येन तथाव्यवहारेऽपि मुख्यक्षत्रियत्वाभावात् । तथा च अर्जुनपौत्रपरीक्षिद्राज्यकाले मैत्रेयं प्रति पाराशरेणोपदिष्टे विष्णुपुराणे चतुर्थेऽशे सूर्यचन्द्रवंश्यानां तत्तत्क्षत्रियाणां वंशसमाप्तिमुक्त्वा परी- क्षिद्राज्योत्तरंक्षेमकान्तान् चन्द्रवंश्यान उक्त्वोक्तम्- ब्रह्मक्षत्रस्य यो योनिर्वशो देवर्षिसत्कृतः । क्षेमकं प्राप्य राजानं स संस्था प्राप्स्यते कलौ। इति । मात्स्येऽप्येवम्-'संस्थास्यति स वै कलौ' इति । तत्र तुर्यपादः-भागवतेऽपि नवमे- ब्रह्मक्षत्रस्य वंशोऽयं प्रोक्तो देवर्षिसत्कृतः। क्षेमकं प्राप्य राजानं संस्था प्राप्स्यति वै कलौ ॥ इति । अत्र वंशक्षत्रियाणां ब्राह्मणत्वप्राप्तेरुक्तत्वादस्य ब्रह्म- क्षत्रयोनित्वमुक्तम् । वंश इत्युक्त्या राज्यहीनोऽपि वक्ष्यमाणबार्हद्रथः बंशातिरिक्त एतद्वंशो नास्तीति सूचितम् । ततो भाविन इक्ष्वाकून् सुमित्रान्तानुक्त्वोक्तम्- इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति । यतस्तं प्राप्य राजानं स संस्था प्राप्स्यते कलौ॥ - . • व्रात्यताप्रायश्चित्तनिर्णयः। इति । स इक्ष्वाकुवंशः । अन्येषां सूर्यवंश्यानां समातिः पूर्व- मुक्तैव । नवमे भागवतेऽपि 'सुमित्रो नाम, निष्ठान्तः' इत्युक्तम् । निष्ठा बंशस्थितिस्तस्या अन्त इति तदर्थः। 'इक्ष्वाकूणामयं वंश' इति च पूर्ववदेव । तत्र संस्था प्राप्स्यति विकलो इति चतुर्थ. चरणपाठस्तत्र रिपुञ्जयान्ता भाविनो मागधा बार्हद्रथा उक्ताः । तत्र जरासन्धादिरिपुञ्जयान्तं सहस्रवर्षपर्यन्तं राज्यमुक्तम् । रिपुञ्जयमुक्त्वा- बाहद्रथाश्च भूपाला भाव्याः साहनवत्सरम् । । इति नवमें भागवतेऽपि । तत्र जरासन्धमारभ्याऽयुतायुपर्यन्त पञ्चशतं वर्षाणि परीक्षित्कालिकायुतायुतो रिपुअयान्तं पञ्चशत वर्षाणांति व्यवस्थातो नाऽग्रिमग्रन्थविरोधाता रिपुञ्जयमपुत्र हत्वा तक्मात्येन स्वपुत्रस्य प्रद्योतस्य राज्य दत्त, तद्वंशे चा- ऽत्रिंशदुत्तरमन्दशतं राज्यमुक्त्वा तितंगशिशुनागवंशे महा- नन्द्यन्तं द्विषष्टयधिकवर्षशतत्रयं राज्यमुक्तम् । द्वादशे भागवतेऽपि- शिशुनागा दशैवैते षष्ट्युत्तरशतत्रयम् । समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपाः ॥ इति । तदल्पान्तरत्वान्न विरुद्धम् । ततो महानन्दिसुतः शूद्रा. गर्भोद्भवोऽतिलुब्धो महापद्मो नन्दः परशुराम इवापरोऽखिलक्ष- प्रान्तकरो भविता । ततःप्रभृति शूद्रा भूमिपाला भविष्यन्ति । स चैकच्छत्रामनुल्लचितशासनो महापद्मः पृथिवीं भोश्यतीत्युक्तम् । अत्र परशुरामोपमया स्त्रीबालावधि निर्दयं हन्तृत्वं सूचितम् । महापन्न इत्यस्य तावत्सङ्ख्यधनस्तावत्सैन्य इति, चाऽर्थः। परशु- रामेणेव.कतिपयानामहननमपि स्यादत आह-अखिलक्षत्रान्तका. रीति । तेन क्षत्रियसामान्याभावः सूचितः । तदेवोक्तम्-'भूमि पालाः' इति । नन्दस्योगत्वेऽपि अनुलोमसङ्कराणां मातृजातीयत्वा- च्छूद्रा इत्युक्तम् । तत्तद्देशीयक्षत्रियान् हत्वा तत्सन्तानभूता उग्रा. .
ब्रात्यताप्रायश्चित्तनिर्णयः। * स्तत्सद्राज्ये स्थापिता इति तात्पर्यम् । भागवते द्वादशे- महानन्दिसुतो राजन् ! शुद्रागौद्भवो बली। महापश्नपतिः कश्चिन्नन्दः क्षत्रविनाशकृत् ।। ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिकाः । इति नन्दादीनामुग्रत्वात शूद्रप्राया इत्युक्तम् । एतेन राज्या- धिकारिणो मागधा एवाऽनेन नाशिता न तु देशान्तरस्थाः । शूद्रराज्योक्तिरपि मगधदेशविषयैवेति निरस्तम् । सामान्यप्रवृत्त- वाक्यस्य सङ्कोचे मानाभावात् वक्ष्यमाणवाक्यविरोधाश्च । मागध- रिपुञ्जयकाल एव सर्वक्षत्रियवंशशाखानाशाच । एतच्चाऽग्रे स्फुट भविष्यति । ततो नन्दपुत्राणाञ्च शतवर्षपयन्तं राज्यमुक्तम् । ततश्च कौटिल्यप्रधानत्वात् कौटिल्या-वात्स्यायनविष्णुगुप्तादिपर्यायःचा. णक्यो नन्दपुत्रानुच्छिद्य नन्दस्य कनीयस्यां भार्यायां मुरासंज्ञायां जातं चन्द्रगुप्त राज्येऽभिषेक्ष्यति । मौर्याणां सप्तत्रिंशदधिकं वर्षशतं राज्यम् । ततोऽन्त्यं मौर्य तत्सेनापतिः शुङ्गजातीयः पुष्पमित्रं हत्या राज्यं करिष्यति । तद्वंशे द्वादशाधिक वर्षशतं राज्यम् । तन्नोडल्यं शुङ्गं देवभूतिमपुत्रं तदमात्या कण्वजातीयो वसुदेवनामा ब्राह्मणो हत्वा स्वयं राज्यं करिष्यति। तद्वंशे शतत्रयं पञ्चचत्वारिं शव वर्षाणि राज्यम् । ततस्तभृत्य आन्ध्रजातिः शिप्रकनामा- ऽन्त्यं कण्वं सुशर्माणं हत्वा स्वयं राज्यं करिष्यति । तद्वंशे षट्पञ्चा शदधिकचतुरब्दशतं राज्यम् । ततः सप्ताऽऽभीराः, दश गर्दमिल्ला, षोडश कङ्का इति । भागवते-अष्टौ यवनाः, चतुर्दशं तुपारा, चतुर्दश पुक्कसा इति । भागनते-त्रयोदश गुरुण्डा,. एकादश मौता नवमवत्यधिकत्रयोदशवर्षशतानि राज्यं करिष्यान्तिः । तेषु छिन्नेषु कैलिङ्किला यवना भूपतयो भविष्यन्ति । तेषां षडधिकवर्ष- शतं राज्यामिति । भागवते-'मूर्धाभिषिक्तस्तेषां विन्ध्यशक्ति'- इत्युक्तम् । मूर्धाभिषिक्तो मुख्यः । मूर्धसिक्त इति पाठे तादृशक्ष-.
8 व्रात्यताप्रायश्चित्तनिर्णयः। त्रियवन्मुख्य इत्यर्थः। ततः पुरजयायो नव षड्वर्षाऽधिकं वर्ष- शतं राज्यं करिष्यस्ति । तत्पुत्रास्त्रयोदश वाहीकास्ततः पुष्प- मित्रादयस्त्रयः, ततस्त्रयोदश मेकला, सत्यकौशला निषधा नव, ततो मागधो विश्वस्फूर्जिसंशोऽन्यान् वर्णान् करिष्यति। कैवर्त- पटुपुलिन्दसंज्ञान म्लेच्छप्रायान् ब्राह्मणान् राज्ये स्थापयिष्यति । 'उत्साद्याऽखिलक्षत्रजातिम्' इत्युक्तम् । क्षत्रजातिमित्यस्य क्षत्रजा- तिमुग्रादिरूपामित्यर्थः । एतेन तावत्पर्यन्तमुग्रादिजातिस्थितिः । अने साऽपि नास्तीति सूचितम् । अतो नैतद्वलानन्दोत्तरं क्षत्रिय- सत्तासिद्धिरिति बोध्यम् । भागवतेऽपि- मागधानान्तु भविता विश्वस्फूर्जिः पुरञ्जयः। करिष्यत्यपरान्वर्णान् पुलिन्दपटुमद्रकान् ।। प्रजाश्चाऽब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः । वीर्यवान् क्षत्रमुत्साद्य पद्मावत्यां स वै पुरि ॥ गङ्गाद्वारादाप्रयागं गुप्तां भोश्यति मेदिनीम् । इति । अत्र क्षत्रपदं तान्यत्वादुम्रपरम् । मागधानामित्यस्य मगध- देशीयानां सङ्कीर्णराक्षामित्यर्थः। ततोऽन्ते व्रात्यद्विजाऽऽभीरशूद्राद्याः समकालं पृथ्वी भोश्यन्ति । ततोऽनुदिनमल्पहासाद्धर्मस्य व्यवच्छ- दादर्थस्य च सञ्जयो भविष्यति । ततश्च धनमेवाऽभिजनहेतु, रुचिरेव दाम्पत्ये हेतुः, आयतैव साधुत्वे हेतुः इत्येवमनेकदो. पोत्तरे भूमण्डले सर्ववर्णेषु यो बलवान् स भूपतिर्भविष्यतीत्युक्तं 'सर्ववर्णेषु' इति । अस्याऽवशिष्टेषु ब्राह्मणवैश्यशूद्वेष्वित्यर्थः। तेऽपि कलावतिव्रात्यतया शुद्रत्वेनैव पूर्व गणिता इति न विरोधः । 'अक्ष- त्रियाश्च राजानः' इति वक्ष्यमाणहरिवंशात् । एतेनैतद्वलात् क्षत्रियस. तासाधनमपास्तम् । यदि तु- कलौन क्षत्रियाः सन्ति कलौ नो वैश्यजातयः। ब्राह्मणाश्चैव शूद्राश्च कलौ वर्णद्वयं स्मृतम् ॥
व्रात्यताप्रायश्चित्तनिर्णयः। - इत्युक्त- नाधीयन्ते तदाग्नयः न यजन्ते द्विजातयः। उत्सीदन्ति तदा चैव वैश्यस्सार्द्धन्तु क्षत्रियाः ॥ इति मात्स्योक्तेश्च वैश्यस्याऽप्यभावस्तदा सर्वपदं बहुपदश्च व्य क्तिविषयं बोध्यम् । ब्रह्मविदक्षत्रशूद्राणां यो बली भविता नृपः। • इति भागवते । तत्तवृत्त्या ब्राह्मणेष्वेव विदक्षत्रव्यवहारो द्रष्ट: व्यः । एवमेव 'शूद्रप्रायेषु: वर्णेषु इत्यपि व्याख्येयम् । येपि तत्त वृत्त्या तत्तद्वर्णत्वेन व्यवहियमाणास्तेऽप्याचारतः शूद्रतुल्या एवे: त्यर्थः । तथा त्रेतायां ब्राह्मणोत्तराः प्रजा, द्वापरे ब्रह्मक्षत्रोत्तरा इत्युक्त्वा कलौ शूद्रदाशोत्तरा इत्युक्तं. द्वादशे भागवते । एवं क्रमेण कलियुगे क्षयमायाति सर्वधर्मेषु विप्लवङ्गतेषु भगवतो वासु. देवस्यांऽशः शम्भलग्रामप्रधानविष्णुयशसो गृहे कल्किरूपोऽवतीर्य सकलदस्युम्लेच्छदुष्टाचरणचेतसामशेषाणां क्षयं करिष्यति स्वधर्मेषु काऽखिलं जगत स्थापयिष्यति अनन्तरं. प्राचेतसा. अर्धकलेरवसाने प्रबुद्धानां तेषां जनपदानाममलस्फटिकविशुद्धा मतयो भविष्यन्ति । प्रबुद्धानामित्यनेन सत्त्वगुणोद्रेको दर्शितः। तेषाञ्च बीजभूतानामशेषमनुष्याणां परिणतानामपि तत्कालता. नामपत्यप्रसूतिर्भविष्यति, तेन कालेन कृतानामाहितशक्तीनामि- त्यर्थः । तानि च तदपत्यानि कृतयुगधर्मानुसारीणि भविष्यन्ती - त्युक्तम् । भागवते- दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृते भविष्यति यदा नृणां मन आत्मप्रकाशकम् ॥ इति । चतुर्थे तु कलावतीते संति यदा नृणां मन आत्मप्रकाशकं भ- विष्यति तदा कृतं भविष्यतीति तदर्थः ।
ब्रास्यताप्रायश्चित्तनिर्णयः। यदा चन्द्रश्च सूर्यश्च तथा तिष्यवृहस्पती। एकराशौ समेध्यन्ति भविष्यति ततः कृतम् ।। प्रतिद्वादशाब्दं कर्कस्थे गुरावेषां त्रयाणां पुज्येण योगादावृत्तिप्र. सङ्गादेकराशाविति । अनागतः क्षत्रियवंशः कियत्कालं स्थास्यतीत्य- पेक्षायां दाढायोक्तमेवाह- यावत्परीक्षितो राज्यं यावन्नन्दाभिषेचनम् । एतवर्षसहस्रन्तु कलौ पञ्चदशोत्तरम् ।। • तावत्पर्यन्तमेव शुद्धक्षत्रियवंशः स्थास्यति । अनन्तरं नन्देन सर्वक्षत्रियनाशादित्यर्थ · इति रत्नमः । 'परीक्षितों जन्म' इति पाठे पञ्चदशेत्यस्य पञ्चावृत्ता दशेत्यर्थः। उप्रादिरूपक्षत्रवंशस्योऽग्रे. ऽप्यवस्थानाच्छुद्ध इत्युक्तम् । अथ कलिकाललक्षणमाह-- सप्तर्षीणाश्च यो पूर्वी दृश्येते उदितौ दिवि । तयोस्तु मध्यनक्षत्रं दृश्यते यत्लम निशि ॥ तेनैव ऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् । प्रागनशकटाकारतारासप्तकसप्तर्षिमण्डलस्य पूर्वभागे ईष्वाकारे- नमध्यमूलेषु क्रमेण मरीचिसभार्यवसिष्ठाऽऽङ्गिरसा, पश्चाद्भागे ख- ट्वाकारे ताराचतुम्के ईशानादिविदिक्षु चतसृषु क्रमेणाऽत्रिपुलस्त्य. पुलहक्रतवः तेषां यो पूर्वावाद्युदितौ पुलहक्रतू दृश्येते दिवि तयो- मध्ये च समं दक्षिणोत्तरे रेखायां समदेशावस्थितं यदश्विन्यादिव. न्यतमऋक्ष श्यते निशि तेन तथैव युक्ताः सप्तर्षयो नृणामब्दशतं तिष्ठन्ति। रंशो यातो दिवं द्विजः। तस्तदैव कलिरागतः ॥ यावत्स पादपद्माभ्यां पस्पर्शमां वसुन्धराम् । तावत्पृथ्वीपरिप्वते समर्थो नाऽभवत् कलिः ॥
व्रात्यताप्रायश्चित्तनिर्णयः । गते सनातनस्यांग्शे विष्णोस्तत्र भुवो दिवम् । तत्याज तनुराज्ये यो धर्मपुत्रो युधिष्ठिरः ॥ विपरीतानि दृष्टा च निमित्तानि स पाण्डवः । याते कृष्णे चकाराऽथ सोऽभिषेकं परीक्षितः ।। प्रयास्यन्ति यदा चैव पूर्वाषाढ़ां महर्षयः । तदा नन्दात्प्रभृत्येष कलिवृद्धिं गमिष्यति ॥ . अथ कलिप्रवृत्तिमाह- ते तु पारीक्षिते काले मधास्वासन द्विजोत्तमाः । तदा प्रवृत्तश्च कलिङवशाब्दशताधिकः । इति देवमानेन सन्ध्यासन्ध्यांशाभ्यां सह सं द्वादशाब्दशनात्म- का कलिः पूर्वसन्ध्यारूपेण महतोऽपि सन्ध्यारूपमतिक्रम्य स्वेन रूपेण प्रवृत्तः प्रकोण वृत्त इत्यर्थ ति सलगभदिया । भागवतटिप्पणे श्रीधरोऽप्येवमेतवक्ष्यति यस्मिन्कृष्णो दिवं यातस्तस्मिन्नेव तदाऽहनि । प्रतिपनं कलियुगं तस्य संख्यां निबोध मे ॥ श्रीणि लक्षाणि वर्षाणां द्विजमानुषसंख्यया । षष्टिं चैव सहस्राणि भविष्यत्यष वै कलिः ।। इति स्वपुराणकथनकालादेतावान् भविष्यति मुख्यः कलिरि- त्यर्थः । सन्ध्यांशश्चोत्तरसन्ध्यारूपस्तदुत्तरभावीति बोध्यम् । किश्च- तदा नन्दात्प्रभृत्येष कलिर्वृद्धिङ्गमिष्यति । इत्युक्तम् । नन्दात्प्रभृति भूलोके क्षत्रियाणामभावान्यायदण्डा- भावेन कलेवृद्धिरिति भावः । अत एवं 'नन्दान्तं क्षत्रियकुलम्' इति सकलजनप्रसिद्धिः । अत्र नाशकवाच्यन्तशब्देन बहुव्रीहिः । मोक्षधर्मेषु नारायणीये. द्वापरस्य कलेश्चैव सन्धौ पार्यवसानिके। प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति।
वात्यताप्रायश्चित्तनिर्णया।
इत्युक्तं भगवता । पार्यवसानिके समाप्तिकल्पे इत्यर्थः । एवञ्च.
द्वापरान्ते हरेजन्म यदुवंशे भविष्यति।
इति ब्राह्मवाक्ये द्वापरधर्माणां केषाश्चिदनुवृत्तः कलिसन्ध्यापि
तत्त्वेन गृहीतेति बोध्यम् । तत्रैव मुचुकुन्दप्रस्तावे-
ततः कलियुगं ज्ञात्वा प्राप्तप्रायं ततो नृपः।
नरनारायणस्थानं.प्रययो. गन्धमादनम् ॥
इत्युक्तेः-
यस्मिन् दिने हरिातो दिवं सन्त्यज्य मेदिनीम् ।
तस्मिन्दिनेऽवतीर्णोऽयं कालकायः कलिः किल ।
इत्युक्तेश्च । भागवते एकादशे-
मया निष्पादितं छत्र देवकार्यमशेषतः ।
यदर्थमवतीर्णोऽहमंशेन ब्रह्मणाऽर्थितः ॥
न वस्तव्यं त्वया चेह मया त्यक्ते महीतले ।
हरिवंशे मुचुकुन्दजागरे तत्प्रश्ने कृष्णवाक्यम्-
त्रेतायुगे प्रसुप्तोऽसि विदितो मेऽसि जागरात् ।
इदं कलियुगं विद्धि किमन्यत्करवाणि ते ॥
महीतले जनोऽधर्मरुचिः सद्यो भविष्यति ।
कलौ युगे-
इत्युद्धवं प्रति भगवदुक्तेश्च । एतेनेदानी कले सन्ध्यवास्तीति
मन्दोक्तिः परास्ता । गदापर्वणि भारते--अधर्मेण दुर्योधनवधं दृष्टा
क्रुद्धं बलदेवं प्रति 'प्राप्तं कलियुगं विद्धि' इति कृष्णवचनाच्च ।
आसन्नं विप्रकृष्टं वा यतः कालं न विद्महे ।
तस्माद्वापरसविद्धं युगान्तं स्पृहयाम्यहम् ॥
प्राप्ता वयन्तु तत्कालमनया धर्मतृष्णया ।
आदद्यां परमं धर्मसुखमल्पेन कर्मणा ॥
इति हरिवंशे जनमेजयोक्तेश्च । कालं मोक्षस्य द्वापरेण समधर्माण
व्रात्यताप्रायश्चित्तनिर्णयः। संविद्धमधर्माधिक्या दूषितं, युगान्तं कलिम् , अतोऽस्माभिः कलौ जन्म प्रार्थितमित्यर्थः । अल्पेन कर्मणा- अनायाससाध्येन भगवन्ना. मकीर्तनेन। महापदमाख्यनन्देन क्षत्रियाणां नाशेऽपि पुनःप्रवृत्तिमाह- देवापिः पौरवो राजा मरुश्चेक्ष्वाकुसम्भवः । महायोगबलोपेतौ कलापग्रामसंश्रयौ ॥ कृते युग इहागत्य क्षत्रप्रवर्तकौ हि तौ। भविष्यतो मनोर्वशे बीजभूतो व्यवस्थितौ ॥ एतेन क्रमयोगेन मनुपुत्रैर्वसुन्धरा । कृतत्रेतादिसंशानि युगानि त्रीणि भुज्यते ॥ कलौ तु बाजभूतास्ते केचित्तिष्ठन्ति भूतले। यथैव देवापिमरू साम्प्रतं समवस्थितौ ।। प्रघटकान्तरेऽपि ततो मरुः पुत्रोऽभूत्, योऽसौ योगमास्थायाऽद्या. पि कलापग्रामाश्रितस्तिष्ठति । आगामियुगे सूर्यवंशक्षत्रप्रवर्तयिता भविष्यतीति क्षत्रस्य क्षत्रियवशंस्य प्रवर्तको भविष्यतः । यतो म. नोर्वशे सोमसूर्यवंशरूपे बीजभूतौ व्यवस्थितावित्यर्थः । कलेः सन्ध्या- यामेव क्षत्रियसत्त्वात् त्रीणि युगानि भुज्यते इत्युक्तमिति रत्नगर्भः। तत्र सन्ध्याशब्देन कालिप्रारम्भ उच्यते-यथा सूर्योद- योत्तरमपि सूर्यास्तापूर्वमपि किञ्चित्कालं सन्ध्याव्यवहार- स्तद्वत्कलिप्रवेशानन्तरमपि सहस्त्रवर्षपर्यन्तं सन्ध्यान्यवहार इति तदाशयः । वैश्यानामप्यभावे तु एतावेव तेषां प्रवर्तको बो. ध्यौ शुद्धवैश्याया अपि क्षत्रियावत्ताभ्यां सहवासात् । अत्रत्यक्षत. पदश ब्राह्मणावरजद्विजोपलक्षणम् । भागवतेऽपि- देवापिर्योगमास्थाय कलापग्राममाश्रितः। सोमवंशे कलौ नष्ट छतादौ स्थापयिष्यति । ૨ IHANI वचन प्रथयिष्यंत इति । कलापग्राम योगिनीमावासत्वन प्रसिद्ध इति श्रीधरः। एवञ्च- - अपारवान ब्रमही भारिपनि Nis IPTति समात्यकालोकस्य भविष हरिवंशे सलेनेदानी मुत्रियसभा परास्त देवापे सोना देवापे सखेन तदनुपपत्यभावात् । फलौ देवा- वनवाइप कलो बीजभूतानां स्थितिमाह-site पनि मिले योचितिष्ठन्ति भूतले। वरित PRITED मकास्थनी तथा व्याख्याय पतलन सम्प्रतिकात्रवसन्त ख्यिानन्धविरोधाता बिवालति चलति ब्राहोणादीनामिकत यामा सस्वैगुणोद्रकन तंत्रस्यानाकृतयुगानुसारिमतित्वोपपत्ती देवापिमर्वोरिहागत्य पत्रप्रवर्तकत्वोक्तवैयर्थ्यात् ब्राह्मणानामिव ते. व्चेति दिक् । मात्स्येपि- यषु सस्थास्यते क्षत्रमुत्पत्स्यन्ते नृपाश्च ये। - व्रात्यताप्रायश्चित्तनिर्णयः। -- तान् वद- इति ऋषीणां प्रश्न-- येषु संस्थास्यते तत्र ऐलेक्ष्वाकुकुलं शुभम् । तान् सर्वान कीर्तयिष्यामि भविष्ये कथितान् नृपः ॥ तेभ्योऽपरे तु ये त्वन्ये उत्पत्स्यन्ते नृपाः पुनः। उग्राः पारशवाः शूद्रास्तथाऽन्ये ये बहिश्चराः॥ आन्ध्राः शकाः पुलिन्दाश्च कलिङ्का यवनास्तथा । कैवर्ताभीरशवरा ये चाऽन्ये म्लेच्छसम्भवाः ।। पर्यायतः प्रवक्ष्यामि नामतश्चैव तान्नृपान् । इत्युपक्रमे क्षेमकान्तमैलं वंशमुक्त्वा- ब्रह्मक्षत्रस्य यो योनिर्वशो देवर्पिसत्कृतः। क्षेमकं प्राप्य राजानं स संस्था प्राप्स्यते कलौ।। इत्युक्तम् । तत्र पारशवा विक्रमादयः । ततोऽन्ते- पूरोवेशस्त्वया सूत! भविष्यति निवेदितः। सूर्यवंशे तथा ये तु भविष्यास्तान वदस्व नः ।। तथैव यादवे वंशे राजानः कीर्तिवर्द्धनाः। वसन्ति जातयो याश्च राज्यं प्राप्स्यन्ति सुव्रत ।। इति ऋषीणां प्रश्ने ततः सुमित्रान्तं सूर्यवंशमुक्त्वा- इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यन्ति । सुमित्रं प्राप्य राजानं स संस्थां प्राप्स्यते कलौ ।। - इत्युक्त्वा- प्रतिबाहुरभूद्वज्रात्सुबाहुस्तस्य चाऽऽत्मजः । सुबाहोः शान्तसेनस्तु शतसेनस्तुं तत्सुतः ।। शतसेनाद् यदोर्वशः संस्था प्राप्स्यति वै कलो। इत्युक्त्वा इतरसर्वक्षत्रियवंशशाखासमाप्त्याशयेन- अत ऊर्ध्व प्रवक्ष्यामि मागधा ये बृहद्रथाः। A वात्यताप्रायश्चित्तनिर्णयः। इत्यादिना रिपुजयान्तास्ते उक्ताः । श्रीधरस्वाम्यपि द्वादशे सर्वतो. भवंशशाखापेक्षया मागधवंश पवैकश्चिरस्थायीत्याह । ततो महानन्द्यन्तं क्षत्रबन्धून शैशुनागानुक्त्वा तत्समकालं चतुर्विशत्यै- क्ष्वाकान् सप्तविंशतिपाञ्चालान् चतुर्विंशतिकाशेयान् अष्टाविंशतिहै- हयान् द्वात्रिंशत्कलिङ्गान् . पञ्चविंशत्यश्मकान् पत्रिंशत्कुरुन् अष्टाविंशत्तिमौशिलान् त्रयोविंशतिशूरसेनान् विंशतिवीतिहोत्रान् क्षत्रबन्धूनेव नृपानुक्त्वा-- महानन्दिसुतश्चापि शूद्रायां कलिवर्द्धनः। उत्पत्स्यते महापश्नः सर्वक्षत्रान्तको नृपः॥ ततःप्रभृति राजानो भविष्याः शूद्रयोनयः । सर्वक्षत्रमथोत्साद्य भाविनाऽर्थन चोदितः॥ एकराट् स महापद्म एकच्छत्रो भविष्यति । तत्सन्ततौ राज्यं वर्षशतं, ततो मौर्याणां सप्तत्रिंशदधिकं शतं, ततः शुङ्गानां द्वादशाधिकं वर्षशतं, ततः काण्वायनानां पञ्चचत्वा- रिंशदधिकत्रिशतवर्षाणि राज्य, तत आन्ध्राणां षष्ट्युत्तरं चतुःशतं, ततः सप्ताभीराः, सप्त गर्दभिल्लाः, अष्टादश शका यवनास्तुषाराश्व- तुर्दश, त्रयोदश मुण्डाः, ततः कैलिङ्किला यवना इत्याद्युक्तम् । राजानः शूद्रभूयिष्ठाः पाखण्डानां प्रवृत्तये । इति चाऽन्यत्रोक्तम् । क्वचिद्राह्मणानां राज्यदर्शनाद् भूयिष्ठा इत्युक्तम्। महापद्माभिषेकासु यावजन्म परीक्षितः। एकवर्षसहस्रन्तु ज्ञेयं पञ्चाशदुत्तरम् ॥ परीक्षिताज्यान अनशोत्तरं सहस्र, पञ्चत्रिंशेऽतीतेर्हि तस्य विदाम् । यस्मिन्कृष्णो दिवं यातस्तस्मिन्नेव तदाऽहनि । प्रतिपन्नं कलियुगं प्रमाणं तस्य मे शृणु ॥
वात्यताप्रायश्चित्तनिर्णयः। श्रीणिशतसहस्रन्तु वर्षाणां तत्स्मृतं बुधैः । षष्टिवर्षसहस्राणि सङ्ख्यातं मानुषेण तु ।। दिव्यं वर्षसहस्रन्तु तदा सन्ध्या प्रवर्तते । निःशेषे तु तदा तस्मिन् कृतं वै प्रतिपत्स्यते । देवापिः पौरवो राजा ऐक्ष्वाकुश्चात्र वै मरुः । महायोगबलोपेतौ कलापग्राममाश्रितो ।। एतौ क्षत्रप्रणेतारौ नवविंशे चतुर्युगे । सुवर्चा मरुपुत्रस्तु ऐश्वाकाद्यो भविष्यति ॥ नवींवशे युगेऽसौ वै वंशस्यादिर्भविष्यति देवापिपुत्रः सत्यस्तु ऐडानां भविता नृपः ॥ क्षत्रप्रवर्तकावेतौ भविष्यौ च चतुर्युगे । अत्र पुत्र इत्युपलक्षणम् । एकैका कन्याऽपि तयोर्योध्या। भागवते नवमे जरासन्धपुत्रवंशे रिपुञ्जयान्तान् भाविनो राज्ञ उक्त्वा द्वादशे- स्वधामाऽनुगते कृष्णे यदुवंशविभूषणे । कस्य वंशो भवेत्पृथ्व्यामेतदाचक्ष्व मे मुने ॥ इति राज्ञः प्रश्नः । स्ववंशस्य क्षेमके संस्थाया नवमे उक्त त्वात्-अयं प्रश्नः । तत्र सोमवंशशाखापेक्षया चिरस्थायी माग धवंश एवेत्याशयेन शुकस्योत्तरम्-- योऽन्त्यः पुरञ्जयो नाम भविष्यो बार्हद्रथः। तस्याऽमात्यस्तु शुनकः- इत्यादिना रिपुञ्जय एव पुरञ्जयः । तेन च पञ्चशतवर्षोंत्तरमेव कलौ सङ्करादिदुष्टाः क्षत्रिया इत्युक्तं स्पष्टमेव । यत्तु वनपर्वणि भारते कलिधर्ममुपक्रम्य- परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः । भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः।।
व्रात्यताप्रायश्चित्तनिर्णयः। क्षत्रियाश्चाऽपि वैश्याश्च विकर्मस्था नराधिप । अल्पायुषः स्वल्पबलाः स्वल्पवीर्यपराक्रमाः ॥ ब्राह्मणाः क्षत्रियाः वैश्याः सङ्कीर्यन्तः परस्परम् । शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः ।। इत्युक्तम् । तत्र रिपुञ्जयहननोत्तरं तदमात्यादिषु महानन्यन्तं पञ्चशतं वर्षाणिः क्षत्रियाणां राज्यसत्त्वात्तेषाञ्च विकर्मस्थतायाः स्पष्टत्वात्तेषां मात्स्ये क्षत्रबन्धुत्वेन विशेषणाच न तद्विरोधः । तत्रैव- अन्त्या मध्या भविष्यन्ति मध्याश्चाऽन्त्या न संशयः । ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप । एकवर्णस्तदा लोको भविष्यति युगक्षये । इत्युक्तेः। युगक्षये कलावन्त्याः शूद्राः मध्याः क्षत्रियाः वैश्याः शूद्रास्तत्सदृशाः स्वधर्म सर्वथा त्यक्त्वा तिष्ठन्तीत्यर्थः । तत्र क्षत्रियवैश्यनाशो मात्स्यवैष्णवयोः स्पष्टमेवोक्तः सर्वथोच्छेदरूपः । ब्राह्मणनाशस्तु स्वधर्महान्येति बोध्यम् । विप्राणामपि शूद्राचार- त्वादेकवर्ण इत्युक्तम् । यथा सत्ययुगे सर्वेषां धर्मनिष्ठत्वादेकवर्णत्वं मात्स्यादिषूक्तम् । किञ्च- द्वापरे व्याकुलो धर्मः प्रणश्यति कलौ पुनः। वर्णानां द्वापरे ध्वंसः सङ्कीर्यन्ते तथाश्रमाः॥ नैका श्रुतिः स्मृतिश्चैव निश्चयो नाऽधिगम्यते । द्वापरे सन्निवृत्तास्तु वेदा नश्यन्ति वै कलौ ॥ ब्राह्मणैः कल्पसूत्रैश्च भाष्यर्वेदैस्तथैव च । व्याकुलो द्वापरेऽप्यर्थः क्रियते भिन्नदर्शनैः ॥ पूर्वस्वभावाम्सन्ध्यासु अवतिष्ठन्ति पादतः । इति मात्स्येन द्वापरेऽपि केषाञ्चिदेव स्वधर्मेऽवस्थितिबोधनेन सम्प्र. ति कलौ स्वधर्मेऽवस्थितिं लोकानां वदन्तो भ्रान्ता एवेत्यलम् ।
वात्यताप्रायश्चितनिर्णयः.! ५. -- नारदीयेऽपि- भविष्यन्ति कलौ प्राप्त राजानो ह्यन्तजातया इत्युक्तम् । ननु क्षत्रियशूदाभ्यामुत्पन्नस्योगस्य पितृत उपनयनादिप्राप्तिः कुतो न- यस्माद्वीजप्रभावेन तिर्यग्जा ऋषयोऽभवन् । पूजिताश्च प्रशस्ताश्च तस्माद्वीजं प्रशस्यते ॥ इति मनूक्तेरिति चेन्न, मनुनैव तेषां तदनधिकारबोधनात् । तथा हि- सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु । आनुलोम्येन सम्भूता जात्या ज्ञेयास्त एव ते ॥ तुल्यासु सवर्णासु। पत्नीविति विवाहितास्वित्यर्थक, यज्ञसंयोगे एव तथाप्रयोगात् । अक्षतयोनिषु अन्याभुक्तासु । द्वितीयेन तु यः पित्रा सवर्णायां प्रजायते । अवरोट इति ख्यातः शूद्रधर्मा स जातितः ।। बतहीना न संस्कार्याः स्वतन्त्रास्वपि ये सुताः। उत्पादिताः सवर्णेन व्रात्या इव बहिष्कृताः ॥ इति देवलोक्तेश्च । आनुलोम्येनेत्युत्तरास्वपि । स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान् ।। अनन्तरजातासु विवाहितक्षत्रियादिषु तान् मातुनिजातीयत्व. दोषेण गर्हितान् पितृसदृशान न तु तज्जातीयानाहुरित्यर्थः । एवञ्च ते मातृजातेरुत्कृष्टाः पितृजातेहींनाः । एषां मूर्द्धावसिक्तमाहिष्यक- रणेत्याख्या याज्ञवल्क्येनोक्ताः। धेकान्तरासु जातानां धर्म्य विद्यादिमं विधिम् । इमं वक्ष्यमाणमित्यर्थः। ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते ।
स प्रात्यताप्रायश्चित्तनिर्णयः। ऊढायामिति शेषः। निषाद शद्रकश्यायां यः पारशव उच्यते। क्षत्रियाच्द्रकन्यायां क्रूराचारविहारवान् ॥ सदवपुर्जन्तुरुनो नाम प्रजापत HTTER जन्तुरिस्यनेन निषादादप्यस्य नीचता सूचिता। विप्रस्य त्रिषुवर्णषु जपतेवर्णयोईयो। धैश्वस्य वर्षे चैकस्मिन् षडेतेऽपसदाः स्मृताः ॥ सम्पापुमको होना । यद्यपि पूर्वपूर्वस्मादुत्तरोत्तरे हीनाश्चेत्यर्थः। पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । ताननन्तरजातांस्तु मातृदोषात् प्रचक्षते ॥ अनन्तरेत्युपलक्षणम् । अनन्तरैकान्तरयन्तरजातिस्त्रीष्वानुलो. म्येनोत्पन्नाः पूर्वमुक्तास्तान् मातु_नजातित्वदोषात् अनन्तरनानो मातृजातीयान् प्रचक्षते, तेन मातृजातिसंस्कारस्तेषामित्यर्थः। एव- ञ्चोग्राणामुपनयनाभावः स्पष्ट एवोक्तो मनुना । 'बीजं प्रशस्यते' इति तु योनेधर्माधनाधिकारे बीजं प्रधानमिति सारम् । अप्सरस: शापेन गृहीतदेहान्तरा अपि धर्माद्यनधिकारिण एवेति बोध्यम् । [पूर्व हि] बीजं प्रधानमित्येके प्रशंसन्ति] क्षेत्रमन्ये मनीषिणः । बीजक्षेत्रे तथैवाऽन्ये तत्रेयं तु व्यवस्थितिः ॥ तत्रोभयप्रशंसावर्णविषये उभयप्राशस्त्य एव ब्राह्मणत्वाधङ्गीका- रात् । क्षेत्रप्रशंसा मूर्धावसिक्तादिविषये, बीजप्रशंसा प्रतिलोमवि- षये । ते हि बीजदोषवशादधमा एवेत्युक्त्वा तद्विषयेऽपि बीजप्रा- धान्यं वक्तं तेनेदमकम् । तथा च मनुरेव- जातो नार्यामनार्यायामार्यादार्यों भवेद् गुणैः । जातोऽप्यनार्येणाऽऽर्यायामनार्य इति निश्चयः॥ तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः। सुबीजश्चैव सुक्षेत्रे जातं सम्पद्यते यथा ॥ .
व्रात्यताप्रायश्चित्तनिर्णयः। १७ तथार्याजात आर्यायां सर्वसंस्कारमर्हति । इति । अनार्या नारी शूद्रा । आर्यः शूद्राकश्चिच्छ्रेष्ठ इत्यर्थः । पाक- यज्ञाद्यनुष्ठानादिति भावः । अनार्यात् शूद्रात्, आर्या त्रैवर्णिकी, अना- यः सर्वधर्महीनः । तथाऽनुलोमान्तरं तेभोक्तम्- ब्राह्मणादुग्रकन्यायामावृतो नाम जायते । आभीरोऽम्बष्ठकन्यायामायोगव्यान्तु धिग्वणः॥ इति । अथ प्रतिलोमानाह- आयोगवश्च क्षत्ता च चण्डालश्चाऽधमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः॥ क्रमेण वैश्याक्षत्रियाविप्रासु वैश्यान्मागधवैदेही क्षत्रियाविप्र. योरिति शेषः। 'क्षत्रियात् सूत एव तु-विप्रायामिति शेषः। प्रतीपमेते जायन्ते परेणाऽपसदास्त्रयः । अपसदाः पुत्रकार्यादपगताः। लोमहर्षणोऽपि प्रतिलोमज एव । तथा हि- लोमानि हर्षयाञ्चक्रे श्रोतृणां यः स्वभाषितैः । कर्मणा प्रार्थितस्तेन लोमहर्षणसंशया ॥ इति । कौमें- वैन्यस्य तु पृथोर्यशे वर्तमाने महात्मनः। सुत्यायामभवत्सूतः प्रथमं वर्णवैकृतम् ॥ ऐन्द्रेण हविषा तत्र हविः पृक्तं बृहस्पतेः। जुहावेन्द्राय देवेन ततः सूतो व्यजायत । शिष्यव्येन संपृक्तमभिभूतं गुरोहविः। अधरोत्तरचारेण जशे तद्वर्णवैकृतम् ॥ इति वायुपुराणे । वर्णवैकृतं 'ब्राह्मण्यां क्षत्रियात्सूतः' इति याज्ञ- वल्क्यायुकं विलोमजत्वम् । अयं रोमहर्षण एव । - वात्यताप्रायश्चित्तनिर्णयः। अग्निकुण्डसमुद्भूत सूत निर्मलमानस । इति रोमहर्षणं प्रति शौनकवाक्यस्य पुराणान्तरे दर्शनात् । अस्य च तपोबलात् व्याससङ्कल्पात्पुराणाधिकारातत पव शौनकादिस- ङ्कल्पाद् ब्रह्मासनाईत्वम् । अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन । इति बलभद्रं प्रति शौनकोक्तेः । 'रोमहर्षणमासीनम्' इत्युपक्रम्य- कस्मादसाविमान् विप्रानध्यास्ते प्रतिलोमजः। धर्मपालांस्तथैवाऽस्मान्वधमर्हति दुर्मतिः ॥ इति तत्रैव बलभद्रोक्तेः। अयं न ब्राह्मणः, अत एव तद्वधस्त्व. जानतेवाचरितस्त्वया ब्रह्मवधो यथेत्यनेन ब्रह्मवधसादृश्यमुक्त्वा- ततश्च भारत वर्षे परीत्य सुसमाहितः । चरित्वा द्वादशात्मासांस्तीर्थस्नायी विशुध्यति ॥ इति अब्दमात्रङ्गुरुप्रायश्चित्तमुक्तम् । सूतानां मन्त्रित्वाऽश्वसारथ्या- दाविव पुराणाध्ययनतच्छ्रावणयोरप्यधिकारः । परन्त्वन्त्ययोब्राह्मण- सङ्कल्पादेव । यथा व्याससङ्कल्पादध्ययनं शौनकसङ्कल्पाच्छ्रावणं तदीयाऽतितपोवशाच्च तयोस्तथा सङ्कल्पेन नहीनता। 'परमभ्याददी- त' इति निषेधस्य नाऽत्रावकाशः, तेन सूतमात्रस्य नाऽत्राधिकारः। मन्त्रित्वादि तु सञ्जयाऽधिरथादेः प्रसिद्धमेव । 'ब्रह्मासनं दत्तम्' इति ऋप्युक्तेश्च ब्राह्मणानामेव श्रावणेऽधिकारो नाऽन्येषामिति सिद्धम् । अत एव जनमेजयस्य पुराणश्रावयितृत्वं वैशम्पायनस्य स्मयते । तत्पुत्रस्योग्रश्रवसोऽपि तत्सङ्कल्पादेव पुराणाध्ययनश्रावणादावधिकार इति सिद्धम् । एतेन लोमहर्षणो ब्राह्मण एव । सूतशब्दस्तु कथा. प्रवक्तृत्वसामान्यात् प्रोत्साहनाय प्राचीनराज्ञां शौर्यादिकथाकथन. स्याऽपि तद्वृत्तित्वादित्यपास्तम् । जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः । शूद्राजातो निषाद्यान्तु स वै कुक्कुटकः स्मृतः ॥
व्रात्यताप्रायश्चित्तनिर्णयः। १९ क्षत्तु तस्तथोग्रायां श्वपाक इति कीय॑ते । वैदेहकेन त्वम्बष्ठयामुत्पन्नो वेन उच्यते ।। द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् । तान्सावित्रीपरिभ्रष्टान् ब्रात्यानिति विनिर्दिशेत् ।। अव्रतान् अनुपनीतान्। कालेज्नुपनीतानित्यर्थ इत्यन्ये। अत ऊर्ध्व प्रयोऽप्येते' इत्युक्तस्याऽपि व्रात्यलक्षणस्य पुनः प्रतिलोमप्रकरणे कथनं प्रतिलोमपुत्रतुल्यत्वेन तद्वदेव पुत्रकार्याक्षमत्वप्रतिपादनार्थ- मिति तद्याख्यातारः । एषामत्र कथने बीजं मनुनाऽप्युक्तम्- व्यभिचारेण वर्णानामवेद्यावेदनेन च। खकर्मणाश्च त्यागने जायते वर्णसङ्करः॥ इति । व्यभिचारोऽन्योन्यस्त्रीगमनमविवाहसगोत्रादिविवाहोऽवेद्या. वेदनं स्वकर्मणामुपनयनादीनां त्यागः । एवञ्च व्रात्योत्पन्नत्वमेव ब्रा- त्योत्पन्नस्य सङ्करत्वबीजं न व्यभिचार इति बोध्यमिति तद्याख्यातारः । वात्यात्तु जायते विप्रात् पापात्मा भूर्जकण्टकः । आवन्त्यवाटयानौ च पुष्पशेखर एव च ॥ अत्र सवर्णास्वित्यनुवर्तते । 'पापात्मा' इत्यनेन निन्द्यतोक्ता । चत्वार्यकस्यैव नामानीति कोचित् । अन्ये तु भूर्जकण्टकाब्राह्मण्या- मावन्त्यस्तस्मात्तस्यां वाटधानस्तस्मात्तस्यां पुष्पशेखर इत्यर्थः । एवमग्रेऽपीति व्याचक्षते- झल्लो मल्लश्च राजन्याद्रात्यानिच्छिविरेव च। · नटश्च करणश्चैव खसो द्रुमिड एव च ॥ वैश्यात्तु जायते व्रात्यात्सुधन्वाचार्य एव च । कारूषश्च विजन्मा च मैत्रः सात्वत एव च ॥ इत्यादिना प्रतिलोमानुक्त्वा मनुराह- सजातिजानन्तरजाः षट् सुता द्विजधर्मिणः । शूद्राणान्तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः॥
ब्रास्यताप्रायश्चित्तनिर्णया 1 इति । त्रिभिर्वर्ग समानजातीयासु जातात्रयः, अनन्तरजात्रयः, ब्राह्मणेनाऽवात्येन क्षत्रियावैश्ययोः, क्षत्रियेणाऽव्रात्येन वैश्यायामे. वं षट् पुत्रा द्विजधर्मिण उपनेयास्तद्भिन्नाः सर्वे उक्ता अनुलोमाः प्रतिलोमाश्चापध्वंसजास्ते सर्वे शूद्रधर्माणों नेषामुपनयनमस्तीत्यर्थ इति मेधातिथिकुल्लूकभट्टौ । अपध्वंसजाः शूद्रा, विवाहन्यायोपेतत्वाच्छू- द्वाविवाहमुपक्रम्य- नेतन्मम मतं यस्मात्तत्राऽऽत्मा जायते स्वयम् । इति याज्ञवल्क्योक्तेः । अपध्वंसो व्यभिचारः स आनुलोम्येन प्रातिलोम्येन च सवर्णायामन्यपुरुषोत्पन्नस्य प्रालिखितदेवल- वचनेन शूद्रसधर्मत्वोक्तेः । ब्राह्मणाद्राह्मण्यां जातकुण्डादेरुपनयन- मात्र केचिदिच्छन्ति । तथा मूर्द्धावसिक्कादीननुलोमप्रतिलोमान् प्रक्रम्य ब्रह्मपुराणे उक्तं- एते मातृसधर्माणः' इति । वसिष्ठोऽपि ता. नेव प्रक्रम्य 'सर्वे बाह्याः सद्धर्मवहिष्कृता अन्यत्र प्राणिसंरक्षणादिति शिक्षा' इत्याह । अत्र सद्धर्मोऽनुलोमेषु पितृधर्मः, प्रतिलोमेषु मातृ- कञ्च वसिष्ठेन-'क्षत्रियवैश्याऽनुलोमानन्तरजातो स्येज्याध्ययनाधानोपनयनसंस्काराचाऽप्रति- षिद्धाः रथसूत्रवास्तुविद्याध्ययनवृत्तिता च' इति राजसदृशजस्य रथकारस्यैवोपनयनमुक्तम् । तथा मिताक्षरायां शङ्खः-'क्षत्रियवैश्या- नुलोमानन्तरोत्पन्नजो रथकारस्तस्याऽध्ययनेज्याधानोपनयनसंस्का- रक्रियाः' इति । माहिष्येण करण्यान्तु रथकारः प्रजायते । इति याज्ञवल्क्योत्तोऽयम् । वैश्याच्छूद्रायामुत्पन्नस्य करणस्याऽपि रथकारपदवाच्यता । 'वैश्याच्छूद्रायां रथकारः' इति बौधायनादिति मदनपारिजातकर्तृकर्तृकायां शुद्रधर्मोत्पलद्योतन्यां स्मृतिकौमुद्यां स्पष्टम् । पूर्वोक्तो वसिष्ठोऽपि तत्रैव स्पष्टः ! तथा व्रात्यवैश्योत्पन्नः सुधन्वाचा. .'
नात्यताप्रायश्चित्तनिर्णय ख्यिोऽपि रथकार इति जैमिनिः । तथा हि वचनाद्रथकारस्याधाने सर्वशेषत्वात् 'वर्षासु रथकार आदधीत' इति वाक्ये त्रैवर्णिकस्य रथकारस्याधानं वचनात् -अस्मादेव वाक्यात् । अस्य रथकारा- धानवाक्यस्य सर्वत्रैवर्णिकाधानविधायकवाक्यशेषेः पठितत्वात् । त्रैवर्णिकानामुक्तस्य कालस्य बाधे मानाभावेनेदं वचनमत्रैवर्णिकफ- रमिति तदर्थ इति तद्भाष्यम् । ते च के तत्राह सूत्रकारः- सौधन्वनास्तु हीनत्वान्मन्त्रवर्णात्प्रतीयते । इति । 'सौधन्वना ऋभवः' इति रथकाराधानमन्त्रैर्ऋभुपदवाच्यानां रथकाराणां सौधन्वना इत्यनेन सामानाधिकरण्याचेऽत्र रथकाराः सुधन्वनामाचार्याः सौधन्वनाः। ननुव्रात्यवैश्यादुत्पन्नस्य सुधन्वाचार्यस्य वैश्यत्वमेवेति तत्राह ही- नत्वात्-वैश्येभ्योऽपष्टत्वादित्यर्थः । अत एव मनुना सङ्करेष्- क्ताः । शूद्रेभ्यस्तूत्कृष्टास्ते इति शूद्रत्वप्रयुक्तो निषेधो नाऽस्मिन्निति शबरस्वामी : । इदश्वाऽधानं स्वतन्त्रविश्वजित्कल्पस्वर्गरूपफलं, न तु यशादिफलकमुपनयनाभावादिति । तत्र रत्नकृद्वचनादाधान- मिति वदता जैमिनिनापादं ध्वनितम् । एवञ्च वायवैश्योत्पन्नस्य नोपयनसंस्कार इति जैमिनिसम्मतम् । यद्यप्यस्य वृत्तिर्वसिष्ठेन, ब्रह्मपुराणे व्यासेन च प्रतिमादिस्थाने पूजोका, तथाऽपि जैमिनि- प्रामाण्यात् रथकरणवृत्तिरप्यस्य बोध्या । अत एव शबरस्वामिना 'सौधन्वना भवः' इत्यत्र ऋभुपदस्य रथकारशक्तत्वेनेति 'नयन्ति ऋभवो यथा' इति मन्त्रः प्रमाणत्वेन दर्शितः । 'नेमि नयन्ति' इत्यस्य काष्ठत्रययोजनेन नेमि निष्पादयन्तीत्यर्थः । एवञ्च योग- रूढस्तत्र रथकारशब्दः । अन्ये तु शुद्धरूढमेवेच्छन्ति । एवञ्च रूढेर्वास्तववादस्यैव ग्रहणं न्याय्यमि ब्राह्मणोत्पन्नोऽप्यसंस्कार्यः ।
व्रात्यताप्रायश्चित्तनिर्णयः। शनकैस्तु कियालोपादिमा क्षत्रियजातयः । षलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ पोण्डूकाधौद्रुमिडाः काम्बोजा यवना शंकाः । या पारदा पाहवाश्चीना..किराता दरदा खशाः। खि मनुना वृषलत्वेन .गणितद्बुमिडखशसंज्ञाया प्रात्यक्षत्रियस्य व्यवहारात क्रियोलोपनः वृषलत्वकथनाच्च । न च क्षत्रियाणां कलौ सन्यासनिषेधात्तत्सत्तानुमानमुपनयनाद्यनुमानश्चेति वाच्यम्। मुखजानामयं धर्मों यद्विष्णोर्लिङ्गधारणम् । न तु बाहूरुजातानामयं धर्मो विर्धायते ॥ इत्येव स्मरणात्। विष्णोर्लिङ्ग सन्यासः, तनिषेधस्य खपुष्पायमाण- त्वाच्च कापि युगे क्षत्रियाणां संन्यासास्मरणाञ्च । आपस्तम्बेन तु 'वसन्तो ब्राह्मणस्य, ग्रीष्मो राजन्यस्य हेमन्तो वा शरद्वैश्यस्य, वर्षा रथकारस्य, ये त्रयो वर्णानामेतत्कर्म कुर्युस्तेषामेष कालः' इत्याधानप्र. करणे उक्तम् । त्रयाणां वर्णानामन्तभूता गुणेच्छया कुर्वन्ति रथकरणं रथकारा इति तद्भाष्कृतः । श्रीष्मवर्षाशरत्सु क्षत्रियवैश्योपक्रुष्टाः' इति आश्वलायनसूत्रव्याख्यायामुपक्रुष्टो रथकारों वैश्यस्तक्षकर्मोप जीवी उपक्रुष्ट्र इत्युच्यते इति तब्याख्यातारः । न च त्रैवर्णिकस्य शि. ल्पोपजीवनप्रतिषेधात्तस्य रथकारत्वासम्भव इति वाच्यं, 'गुणा- फैन' इति सूत्रेण जैमिनिना समाहितत्वात् । न च तेषामेतद्विधिवि. षयत्वे रथकरत्वे निमित्त वर्षाविधानं वाक्येन कार्य मम तु या स्याप्राप्तन्तस्याधानविधानं श्रुत्येति वसन्तादिवाक्यैरैकरूप्यमिति वाच्यम् , आपस्तम्बवचनेन तस्य नैमित्तिकत्वबोधनेनाऽक्षतेः । न हि सर्वेषामैकरूप्यनियमः सर्वत्राऽस्ति । बौधायन उपनयनमपि वर्षासु रथकारस्याह । अनेकऋषिप्रामाण्यात्सर्वत्र श्रुतेस्तात्पर्य मिति तत्त्वम् । एतेन माहिष्यात्करण्यामुत्पन्नस्य रथकारस्य माधानाधिकार इति तन्त्ररत्नोक्तमपास्तं प्रागुक्तवसिष्ठशङ्खविरोधात् ।
व्रात्यंतापायाश्चनिर्णय नन्वस्तूग्राणां शूद्रत्वं तथापि तेषां कलौ कर्माधिकारोऽस्त्येव । तथा हि मात्स्ये- ब्राह्मणाः शूद्रयोनिस्थाः शुद्रा वै मन्त्रयोनयः । . इत्युक्तम् । अभिलिप्संवोधनमिति शेषः। वेदार्थमुपस्थास्यन्ति उपस्थापयिष्यन्ति बोधयिष्यन्ति । शूद्रयोनिस्थाः तत्तुल्या एव । मन्त्रयोनय इति मन्त्रयोनिब्राह्मणवदुपनयनादिसंस्कारवन्त इत्यर्थः । तथा कौमें-- अध्यापयन्ति वै वेदान् शूद्रान्धर्मार्थकोविदान् । इति । लिङ्गमात्स्ययो:- अधीयते तदा वेदान् शूद्रा धर्मार्थकोविदाः। यजन्ते चाश्वमेधेन राजानः शूद्रयोनयः॥ इति वाक्यजालेन तदधिकारबोधनादिति चेन्न- तस्मादायुर्बलं रूपं कालें प्राप्य प्रहीयते । इति लैङ्गस्थवाक्यशेषेणैतद्वाक्यानां कलावपि शद्रान् प्रत्येतन्निषिद्ध- मित्यत्रार्थ एव तात्पर्यात् । किञ्च- विक्रीणन्मद्यमांसानि ह्यभक्ष्यस्य च भक्षणम् । कुर्वनगम्यागमनं शूद्रः पतति तत्क्षणात ॥ कपिलाक्षीरपानेन ब्राह्मणीगमनेन च । वेदाक्षरावचारेण शुद्रश्चण्डालतां व्रजेत् ॥ इति पराशरोक्तेरयमेवार्थ उचितः । अभक्ष्यं गोमांसादि, वेदाक्ष- क्षरादिविचारस्तदुच्चारणन्तदर्थज्ञानंञ्च, चरेर्गतिभक्षणार्थत्वात् । तत्र गतिर्शानन्तच्चार्थविषयं सामर्थ्यात् । भक्षणञ्चोच्चारणमेव । त. था-अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रपूरणं याचा एतत् श्मशानं यच्छूद्रः' इति श्रुतेरुक्त एव मात्स्यादिवचनार्थः । यावा जङ्गमम् । भागवतेऽपि- स्त्रीशूद्राद्विजबन्धूनां न त्रयी श्रुतिगोचरा ।
बाल्यताप्रायश्चित्तनिर्णयः। इति । द्विजबन्धनो घात्या द्विजेभ्यः शदायामुत्पन्नाश्च । ब्रह्मपुराणेऽपि- विवाहमात्रं संस्कारं शूद्रोऽपि लभतां सदा । इति मात्रपदेन स्मृतिषु. शुद्ध प्रति . विहितगर्भाधाननामकरण- निष्कमणकर्णवेधान्नप्राशनविवाहातिरिक्तसंस्कारनिवृत्तेः। ननु वनपर्वणि युधिष्ठिराऽजगरसंवादे 'ये यजामहे' इति श्रुत्या ब्राह्मणत्वे सन्देहमुपन्यस्य शीलेन निर्णय इत्युक्तम् । तद्याख्यातृभिश्च ब्राह्मणत्वसन्देहे कथं यज्ञो नानिष्टफल इत्याशङ्ख्य यजमानस्य होत्राऽध्वर्युणा च प्रवरवरणेनाऽब्राह्मणस्यापि यजमानस्य ब्राह्मण्यं सम्पाद्यत इति व्याख्यातम् । तथेदानीमक्षत्रियाणामपि : क्षत्रि- यत्वप्राप्तिरस्त्विति चेन्न, ब्राह्मणत्वेन निश्चिते तच्छ्रोततात्पर्याभा. वात् । तथा हि सर्प उवाच- ब्राह्मणः को भवेद्राजन् ! वेद्यं किञ्च युधिष्ठिर!। वेद्य-ज्ञानमात्रप्राप्यम् । युधिष्ठिर उवाच-- सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा। दृश्यते यत्र नागेन्द्र ! स ब्राह्मण इति स्मृतः॥ सत्यं यथार्थमहिलं वचनम् । आनृशंस्यमनैष्ठुर्यम्। तपः स्व. धर्माचरणम् । घृणा कृपा। वेद्यं सर्प ! परं ब्रह्म निर्दुःखमसुखञ्च यत् । यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ॥ असुखत्वं कार्यसुखानाश्रयत्वात् । यत्र ब्रह्मणि न शोचन्ति पुनः संसारं न प्राप्नुवन्ति । सर्प उवाच- चातुर्वर्ण्य प्रमाणञ्च सत्यञ्च ब्रह्म चैव हि । शूद्वेष्वपि च सत्यञ्च दानमक्रोध एव च ॥ आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर!। वेद्यं यच्चात्र निर्दुःखमसुखश्च नराधिप!॥ ताभ्यां हीनं पदञ्चान्यन्न तदस्तीति लक्षये ॥
व्रात्यताप्रायश्चित्तनिर्णयः। . चातुर्वर्ण्य चतुर्वहितं सत्यं प्रमाणञ्च ब्रह्म धर्मध्यवस्थापक वेद- स्मृत्याचारादि । सत्यादीनां शुद्रेऽपि दर्शनार्ताऽतिध्याप्तिाह्मणल- क्षणस्येति भावः । एवं ब्रह्मापि नास्तीति प्रश्नः। युधिष्ठिर उवाच- शूद्रे तु यद्भवेलक्ष्म द्विजे तच्च न विद्यते । नैव शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥ यत्रैतल्लक्ष्यते सर्प! वृत्तं स ब्राह्मणः स्मृतः। यवतन्न भवेत्सर्प ! ते शूद्वमिति निर्दिशेत् ।। शुद्रलक्ष्म कामादिकं, ब्राह्मणलक्ष्म शमादिकं, तत्क्रमेण ब्राह्मणे शूद्रे च नास्तीत्यर्थः । शूद्रोऽपि शूद्रत्वेन निश्चितोपि शमायुपेतो ब्राह्मणसदृशो मान्यः। ब्राह्मणोपि कामादियुतः शूद्रतुल्यतयाऽनादर्त- व्यो न तु मुख्ये शूद्रे ब्राह्मणत्वादि वक्तुं शक्यमनेकश्रुतिस्मृति-विरो- धात् । पूर्वपक्षिणा मुख्यतत्त्वापत्तौ शङ्कितायाङ्गौणतत्पदप्रयोगे इष्टाप. त्तिः सिद्धान्तिनः, अन्यथा तादृशवृत्तवतः शूद्रस्य वेदाध्ययनापत्तेः । यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतीति च । सुखदुःखहीनन्नास्तीत्युक्तमित्यर्थः । एवमेतन्मतं सर्प! ताभ्यां हीनन्न विद्यते । कर्म प्राप्यमिति शेषः । वेद्यन्त्वस्त्येवेत्याह- यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता। एवं वै सुखदुःखाभ्यां हीनन्नास्ति पदं कचित् ॥ एषा मम मतिस्सर्प! यथा वा मन्यते भवान् । यद्यपि तत्कर्म प्राण्यन तथापि तनास्तीति नेति काकु:, शाम- प्राप्यस्य तस्य श्रुतिसिद्धत्वादिति भावः । सर्प उवाच- यदि तेऽवृत्ततो राजन् ! ब्राह्मण प्रसमीक्षितः। वृथा जातिस्तदा राजन् ! वृतं यावन विद्यते॥
२६ व्रात्यताप्रायश्चित्तनिर्णयः। युधिष्ठिर उवाच- जातिरत्र महासर्प ! मनुष्यत्वे महामते ।। संस्कारात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः॥ सर्वे सर्वास्वपत्यानि जनयन्ति सदा नराः ।' वाङ्मैथुनमथो जन्म मरणञ्च समं नृणाम् ॥ पागादिवन्मैथुनस्यापि साधारण्याजातिज्ञेयेति भावः । तत्र श्रुति प्रमाणयति । इदमार्ष प्रमाणश्च 'ये यजामहे' इत्यपि । ये वयं स्मो ब्राह्मणा अन्ये वा होत्रध्वर्युयजमाना वषट्कारहविःप्रक्षेपोद्देश. त्यागकर्तारस्ते यजामहे इत्यर्थकेन 'ये यजामहें' इत्यनेन ब्राह्मण्येना- ऽवधारणं दर्शयति । श्रुत्यन्तरमपि-'न चैतद्विमो ब्राह्मणाः स्मो वय- मब्राह्मणा वा' इति मन्त्रलिङ्गमपि य एवास्मि स सन्यजे' इति। एवंवि- धा विनयेन सत्योक्तिरेव शीलरूपा तेषां ब्राह्मण्यनिश्चायिकत्याह- तस्माच्छीलं. प्रधानेष्टं विदुर्ये तत्वदर्शिनः । ते शीलं प्रधानञ्च तदिष्टञ्चेत्यर्थः, जात्यनुमापकत्वादिति भावः । स्पष्टश्चायमर्थश्छान्दोग्ये जाबालोपाख्याने । नन्वेवं ब्राह्मण्यसन्देहे कथं यज्ञादी प्रवृत्तिरिति चेत्र, निश्चयस्यैव प्रतिबन्धकत्वात् । शीलादिना ब्राह्मण्यमौत्कण्ठ्येन सम्भाव्यमानस- व्यभिचारदुष्टमातापितृजन्यत्वप्रयुक्ताब्राह्मण्यस्यानुत्कटसन्देहविषय- स्य निवृत्तये 'आग्निहोता' इति मन्त्रेण गौतमवदपास्यव(?)दङ्गिरोवद्रा. ह्मणवदिति यजमानादेः प्रवरवरणड्डुर्वन्ति । तथा च श्रुतिः-'अग्निदै. वो होता' इत्याह। 'य एव देवानामवृणीत ततो देवा अभवन् परासुरा यस्यव विदुषःप्रवर वृणते भवत्यात्मनापरास्य भ्रातृव्यो भवति इति । न त्वनेनाऽब्राह्मणत्वेन निश्चितस्य ब्राह्मणत्वं भवति । अन्यथा विश्वा- मित्रस्य ब्राह्मण्यलाभाय गुरुतरतपःप्रयासवैयापत्तिः । अब्राह्म- णत्वेन निश्चितस्य सङ्करजस्यात्युग्रेणापि तपसा ब्राह्मण्याप्राप्तिर्मत- गोपाख्याने भारते स्पष्टा । अत एव द्विजातकुण्डगोलकावसंस्कार्या
वात्यताप्रायश्चित्तनिर्णयः।
विति मिताक्षरा । श्राद्ध कुण्डादिनिषेधस्तु ब्राह्मण्यां ब्राह्मणाज्जात
इति भ्रमप्राप्तस्येत्यपि तेनैवोक्तम् । स्मृत्यर्थसारकृतापि तथैवोक्त्वा-
केचिदाहुर्द्विजैर्जातौ संस्कारों कुण्डगोलको ।
इति मतान्तरमुपन्यस्य उपनयनपूर्व सन्ध्यावन्दनमात्रमुक्तम्। त्वद्रीत्या
प्रवरवरणेन तस्य यज्ञादेरप्यापत्तिीरति बोध्यम् । उक्तमुपसंहरति-
यत्रेदानी महासर्प! संस्कृतं वृत्तमिष्यते।
तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम !॥
इति। संस्कृतवृत्तं वैदिकसंस्कारपूर्वकं सत्यादिवचनरूपमतः सत्या-
दियुतस्यापि शूद्रस्य न ब्राह्मणत्वम् । ब्राह्मणत्वेन सम्भाविते च वि.
प्रत्वप्राप्तिकर्मविशिष्टं तत्तन्निर्णायकमतस्तद्विशिष्ट एव मे ब्राह्मणोमत
इति भाव इति । न तेनाऽक्षत्रियाणां क्षत्रियत्वप्राप्तिः ।
कर्मभिः शुचिभिर्देवि! शुद्धात्मा विजितेन्द्रियः ।
शूद्रोपि द्विजवत्सेव्य इति ब्रह्माऽब्रवीत्स्वयम् ॥
स्वभावः कर्म च शुभं यत्र शूद्रेऽधितिष्ठति ।
विशुद्धः स द्विजातिभ्यो विज्ञेय इति मे मतिः ।
तयोर्विनापि संस्कारोन श्रुतिन च सङ्गतिः।
कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥
इति ब्रह्मोक्तः । वृत्तसहितान्येवैतानि कारणं न तु केवलानीत्यर्थः।
यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् ।
यद्यन्यत्रापि दृश्येत तं तेनैव विनिर्दिशेत् ।।
इति भागवतस्थमपि तद्वन्मान्य इत्यर्थकं 'संस्कारा अविच्छिन्नाः सद्वि-
जोऽजो जगाद यम्' इति तत्रैवोक्तेः । यत्र यस्मिन्संस्कारा अविच्छिन्नाः
स द्विजः, यमेवम्भूतमजो ब्रह्माद्विज इति जगादेति तदर्थ इति दिक् ।
नन्वेवमपि भागवते दशमे चत्वारिंशेऽध्यायोऽक्रूरकृतस्तुती-
म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ।
इत्यनेन कलिकालपि क्षत्रियसत्तोक्तः कथमिदानी तदभाव इति चेन्न.
।
मापन निर्णय विशणैकवायतका तत्यक्षपदश्य सायशपरल्यात । खोकमावस्या मोसमापाबारेत्याः। प्रायः पापं विजानीयाला इति स्मृतेः.. प्रयास चित्तिचिल्योः' इति मला बताकर मतपय बादने कलावतार पलिकाको स्यूकोनिशो निहनिष्यति। इत्युक्तम्। अस्ता क्रियाहीमा रजसा तमसा वृताः। प्रजास्ते भक्षयिष्यस्ति म्लेच्छा राजन्यरूपिणः ॥ इति च तत्रोक्तम् । एकादशस्कन्धेऽपि भूमेर्भरावतरणाया यतुष्वजन्मा जातः करिष्यति सुरैरपि दुष्कराणि । वादविमोहयति यकृतोऽतदान शूद्वान कला क्षितिभुजो न्यहनिष्यदन्ते ॥ इति । अनदहनि दैत्यान्। अन्ते कलेस्ते करिकरूपेण । पवञ्च नृप- लिङ्गच्छद इत्यस्य राजपच्छमानित्यर्थः । तथाषिः विष्णुपुराणे चन्द्रसूर्यवंशानुक्त्वा प्लेषां सामलिजाबां पुरुषाणां महात्समम् । कथामावावशिष्टानां कीर्तिरेक हिथना भुवि । इत्युक्तम् । नामैवा लिङ्ग शापक येषां चन्द्रसूर्यवंशयाना क्षत्रियाणां कीर्तिरेवः स्थिता ननु साज्यं पुत्रदयो बेत्यर्थः अतिः श्रीधरस्वामी हरिवंशेपि। भविष्यो- नक्षत्राणि नियोक्ष्यास्ति विकर्मस्था द्विजातयः । चौरमायाश्च राजानो युगान्ते पर्युपस्थिते ।। इति । युगान्ते कलौ। क्षत्राणिः क्षत्रियान नियोक्ष्यन्ति लोकान्धर्म अतिशेषः । ज्याधिकारिणां तेषामभावादिति भावः । अत एव - प्रात्यताप्रायश्चित्तनिर्णयः। २९ . द्विजातयो ब्राह्मणाद्या विकर्मस्था राजानो योगमात्रेण भूपालाचौर- 'प्रायाः स्वयमेव पालकाः स्वयमेवापहार इत्यर्थः। कश्चिदेव तथेत्यतः प्राय इत्युक्तम् । यत्तु यतः स्वयं विकर्मस्था अतो ब्राह्मणाः क्षत्रियान् धर्म न नियोक्ष्यन्तीत्यन्वय इति तन्न विष्णुपुराणविरोधात् । तथा- वैश्वाचाराश्च राजन्या धनधान्योपजीविनः। इति। एतषस्थाभविष्यन्तीत्यस्य स्थास्यन्तीत्यर्थः । यथा सम्प्र. तिमाक्षत्रियत्वेत प्रसिद्धास्तथाचारादृश्यन्ते वाहीकास्ये मद्रदेश, ते परशुरामपा क्षत्रियधर्म त्याजिता इति पुराणेषु प्रसिद्धम्। तथा- अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः। शुद्भाव ब्राह्मणाचारा भविष्यन्ति युगक्षये ।। इति । युगक्षये कलौ । एतच्च स्पष्ट क्षत्रियाणां राज्याभाव बोध- यति । तस्मात्कलो राज्यपदस्थानां क्षत्रियपदव्यवहार्याणामुपनयनव. दध्ययनयज्ञाचनधिकारः सिद्धः, तदधिकारयोग्यमुख्यक्षत्रियत्वा- भावादित्यलं पल्लवितेन । अथ त्रिपुरुषापूर्वमप्यनुफ्नीतब्राह्मणकुलजस्योपनवनं भवति न वेति सन्देहे च निर्णयाय नात्यताप्रायश्चितनिर्णयः क्रियते, तदर्थः मुपनयनकालनिर्णयः । तत्र 'अष्टवर्षे ब्राह्मणमुपनयीत तमध्यापयोत' इति श्रुतिः । आश्वलायनोऽपि--'अष्टमे वर्षे ब्राह्मणमुपनयेत् गर्भा. टमे वा, एकादशे क्षत्रिय, द्वादशे वैश्यमाषोडशाब्राह्मणस्यानतीतः काला, आद्वाविंशाक्षत्रियस्याचतुर्विंशाचैश्यस्यास्त उर्व पतित. सावित्रीका भवन्ति नैतानुपनयेन्नाध्यापयेन याजयेभिर्व्यवहरेयुः' इति । अत्रायमुपनयननिषेधो चीर्णप्रायश्चित्तानां कैंश्चिदतिक्रान्त. निषेधैरुपमयनेऽपि नाध्यापन केनचिदतिक्रान्तनिषेधेनाध्यापनेऽपि नयागादीत्यर्थः । अयञ्चोपनयननिषेधोऽष्टवर्षान्तमुख्यकालपमेडश- वर्षास्तगौणकालोभयाभावेन. प्राप्तस्यैवोपनयनामावस्याऽनुवादः । यथा 'अशूद्राणामदुष्टकर्मणामुपनयनम्' इत्यापस्तम्बसूने शूद्रप्रतिषे.
वात्वताप्रायश्चित्तनिर्णयnt घो नित्यप्राप्तानुवादः । दुष्टकर्मप्रतिषेधार्थ नामात्रैवर्णिकस्यैवो पनयनविधानेन शूद्रस्य तदप्राप्तेरिति हरदत्तेनोचम् । तदनुवादफल: न्तु ब्राह्मणादिभ्यः शूद्रायामुत्पत्रस्य ब्राह्मणादिजन्यत्वेन्युपनयना: भावबोधनम् । बौधायनोऽपि-'अथातो गर्भाष्टमेषु वर्षेषु माझणमुपन- यीत, गर्भकादशेषु राजन्य, गर्भद्वादशेषु वैश्वमाषोडद्राह्मणस्य नात्ययः इत्येवमेवेतरयोविंशतिश्चतुर्विंशतिचाsareकाम्यानि भवन्ति, सप्तमे ब्रह्मवर्चसकाममष्टमे आयुकबम, लावणे निजारका .... दशमेऽनाधकाममेकादशे इन्द्रियकाम, द्वाद” पशुकाम, बसन्ते ब्राह्मणमुपनयीत, प्रीष्मे राजन्यं, शरदि वैश्य, वर्षासु रथकारं सर्वानेव वा वसन्ते' इति । रथकारः पूर्वमेव निरूपितः । आपस्तम्बो- ऽपि-गृह्ये गर्भाष्टमेषु ब्राह्मणानुपनयात, गर्भकादशेषु क्षत्रियं, गर्भ- द्वादशेषु वैश्यं वसन्तो प्रष्मिः शरहतवो वर्णानुपूयेण' इति । गर्भाष्टमेषु गर्भषष्ठसप्तमाष्टमेषु विप्रस्य क्षत्रस्य नवमदशमैकादशेषु वैश्यस्य दशमतस्त्रिविति तदर्थ इति सुदर्शनः। धर्मप्रश्ने आपस्तम्बः- 'आषोडशाद्वाह्मणस्यानात्यय आद्वाविंशात्क्षत्रियस्याचतुर्विंशावैश्य- स्य' इति । आङभिविधौ, मर्यादायामिति मिताक्षरा। सावित्री पतिता यस्य दश वर्षाणि पश्च च। समतिक्रान्तकालाश्च पतिताः सर्व एव ते ॥ : सशिस्त्रं वपनं कृत्वा बतङ्कुर्यात्समाहितः। एकविंशतिरात्रश्च पिबेत्प्रसूतियावकम् ।। हविषा भोजयेच्चैव ब्राह्मणान् सप्त पञ्च वा । ततो यावकशुद्धस्य तस्योपनयनं स्मृतम् ॥ इति । यमस्मृतौ पञ्चदशोवं पतितसावित्रीकत्वोक्तरिति. तदाश- यः। अभिविधिपक्षेऽपि षोडशग्रहणङ्गर्भत इति कैश्चिद्विरोधः । अ. त्ययोऽतिक्रमः स च प्रकरणादुपनयनस्येति गम्यते । तदभावो- नात्ययः। आर्षो दीर्घः,आङो.वा.दीर्घः । अधिकमप्याह-यथा घतेछु 2 व्रात्यताप्रायश्चित्तनिर्णयः । ३६ " समर्थः स्याद्यानि वक्ष्यामः' । वक्षमाणवतेषु यथा समर्थः स्यात्ताव कालं प्रतीक्षा कार्येति तदर्थः । एवञ्च पूर्वमेव सामर्थ्येऽष्टवर्षाति- क्रमेऽपि वक्ष्यमाणं प्रायश्चित्तं भवत्येव । एवं षोडशादिभ्य ऊर्व कियत्कालमसमर्थानां यदा सामर्थ्यन्तदा विनैव प्रायश्चित्तमुपनय- नम् । लामोत्तरमपि किञ्चित्कालातिक्रमे प्रायश्चित्तं पूर्वमेव । तत्प्रायश्चित्तमाह-'अतिक्रान्ते सावित्र्या ऋतुं त्रैविद्यकं ब्रह्म चर्य चरेत् । यस्य यः सावित्र्याः कालस्तदतिक्रमे व्यवयवविद्या- ध्येतसम्बन्धि ब्रह्मचर्यमग्निसेवाध्ययनगुरुशुश्रूषातिरिक्तं सर्व ब्रह्म चारिधर्म चरेत् । ऋतुमिति कालविधानं, तेन त्वारम्भे प्रायश्चि. त्तारम्भः। अन्ये तु वेदब्रह्मचर्यमित्येव सिद्ध त्रैविद्यकमित्युक्त्या प्रतिवेदं ऋतुमिति ऋतुत्रयन्तदित्याह ।। अथोपनयम् । एवं चरितत्रत उपनेतव्यः । ततः संवत्सरमुद. कोपस्पर्शनम् । तत उपनयनोत्तरं संवत्सरस्नानम् । शक्तस्य त्रिषव. णमशक्तस्य यथाशक्ति। तच्च वक्ष्यमाणपावमान्यादिभिरिति हरदत्तः। तूष्णीमित्यन्ये । अथाध्याप्य इति । अवै विषये वसिष्ठः आहोहालकवतम् । 'पतिः तसावित्रीक उद्दालकव्रतञ्चरेत द्वौ मासौ यावकेन वर्तयेत् मासं पयसाऽऽमिक्षयाऽष्टरात्रं, घृतेन षडात्रम् , अयाचितेन त्रिरात्रम्, अ- भक्षोऽहोरात्रमुपवसेदश्वमेधोवभृथङ्गच्छेत् व्रात्यस्तोमेन वा य. जेत'-इति । उपवसनमश्वमेधावभृथमिति पाठान्तरम् । याज्ञवल्क्यः- आषोडशादाद्वाविंशाश्चतुर्विंशाच्च वत्सरात् । ब्रह्मक्षत्रविशां काल औपनायनिकः परः । अत ऊर्व पतन्त्येते सर्वधर्मबहिष्कृताः । सावित्रीपतिता व्रात्या वात्यस्तोमाते क्रतोः॥ इति। मनुरपि- आषोडशाब्राह्मणस्य सावित्री नातिवर्तते ।
ब्रात्यताप्रायश्चित्तनिर्णयः। तथा शातात- आद्वाविंशात्क्षत्रबन्धोराचतुर्विशर्विशः ।। बत ऊर्ध्व प्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविहिताः॥ इति । व्रात्यसंज्ञाप्रयोजनञ्च व्रात्यानां याजनकृत्वा श्रीकृच्छ्रा- नाचरेदिति । त्रीन् कृच्छानाचरेद्वात्ययाजकोऽभिचरन्नपीति मनुया. ज्ञवल्क्याधुक्तप्रायाश्चत्तप्राप्तिरिति तव्याख्यातारः । पोऽपि-पतितसावित्रीकानोपनयेन्नाध्यापयेत् य एतानुपनप येदध्यापयेत् याजयेद्रा स उद्दालकवतञ्चरेत्' इति । तदुद्दालकवतङ्कामकृते इति मिताक्षरा । अत्र मुख्योपनेतुरंभावेन तसमर्थस्याऽष्टवर्षाापनयनकालातिकमे . . मासं पञ्चगव्याशने, चान्द्रायणं, मासं पयोव्रतं वा पराको वा अनापद्यतिक्रमें उपन- यीत केपूक्तं मानवं त्रैमासिकं पञ्चदशतः षोडशतो घा व. दूर्व कियतः कालस्यातिक्रमे उद्दालकवतवात्यस्तोमो बोध्या- विति निवन्धकृतः । यत्तु शङ्खन गोदानसहितं चान्द्रायणमुक्तन्तदुहाल- कवतसमानविषयम् । उद्दालकवतशलोक्तयोः सपाददशधेनवः देश- विप्लवादिना कालातिपाते सशिखं वपनङ्कत्वेत्यादियमोक्तं द्रष्टव्यम् । आलस्यादिना कालातिपाते एव द्विगुणं शोक्तं वसिष्ठोक्तं वा । कथ- मप्युपनेतुरभावेन कालातिपाते मनुविष्णू - येषां द्विजानां गायत्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन्कृच्छ्रान् यथाविध्युपनाययेत् ।। इति । पित्रादीनामप्यनुपेतत्वे आहाऽऽपस्तम्ब:-'अथ यस्य पिता पितामह इत्यनुपेतौस्यातान्ते ब्रह्महसंस्तुता।यस्य माणवक्रस्य, जा. तावेकवचनम् । येषां माणवकानां पिता पितामह इत्यनुपेतौ स्व. यञ्च ते तथाविधा माणवका ब्रह्महसंस्तुता ब्रह्महण इत्येवकीर्तिताः। अस्मिंस्तच्छस्तद्धर्मप्राप्त्यर्थः। ततश्च यथा ब्रह्महसहिते गृहे नाध्येय यमेवं तैरपि तत्प्रायश्चित्तप्राय॑थस्तच्छब्द इति. हरदत्तः । एवञ्च ब्रह्म वात्यताप्रायश्चित्तनिर्णयः। ३३ हत्याप्रायश्चित्तेन समुच्चयो वक्ष्यमाणस्येति लभ्यते । अत्र व्याख्याने स्वयश्चेत्यत्र यथाकालमनुपेत इति शेषः। 'यस्य प्रपितामहादि' इति सूत्रे हरदत्तेन तथाव्याख्यानात्। 'तेषामभ्यागमनं भोजनं विवाहमिति च वर्ज- येत्' । अभ्यागमनं आभिमुख्येन गमनम् । मातापितृपुत्रदारशरीररक्ष. णार्थमपि वर्जयेत् । रक्षायाः सर्वतः प्रतिग्राह्यत्वे पितृतस्तत्प्रतिग्रहे निषेधः । दुकूलकारिणामप्युद्यतं भोजनं यद्यप्यत्याज्यन्तथाप्यस्य ताशमपि त्याज्यम् । दुष्कुलादपि स्त्रीरत्नस्य ग्राह्यत्वं यद्यपि, त. थाप्येतदीयकन्याया अपि विवाहो वयः। तेषामिच्छतां प्रायश्चि- त्तम् । इच्छतामिति वचनान्न बलात्कारेण प्रायश्चित्तम् । अत्र वदन्ति आधेऽतिक्रमे प्रायश्चित्तपदमनुक्त्वाऽत्र प्रायश्चित्तमि त्युक्त्या ब्रह्महपदस्य च पूर्व प्रयोगात्तत्प्रायश्चित्तमित्यर्थः । अत एव तेषामिच्छतां ब्रह्मचर्यमिति नोक्तम्। एतदभिप्रायेणैव हरदत्तनातस्मिस्त- च्छब्दप्रयोगःप्रायश्चित्तप्राप्त्यर्थति व्याख्यातम् । ब्रह्मचर्यन्तु अधिक मिति। यथा प्रथमेऽतिक्रमे ऋतुरेवं संवत्सरः। यथाप्रथमातिकमे ब्रह्मच- र्यस्य ऋतुःकाल एवमत्रातिक्रमे संवत्सर इत्यर्थः। अत्र 'अथ यस्य' इति सुत्रे पितामह इत्यसमस्तोपादानापितृमात्रनुपनीतत्वे इदं पितामह- स्यापि तत्त्वे द्विगुणमेतत् , द्विगुणब्रह्महत्याप्रायश्चित्तेन सह । अत्र संवत्सरं ब्रह्मचर्यमिति सूचितम् । एवञ्चार पितृमात्रस्याऽनुपनीतत्वे त्रिवत्सरमित्यादि बोध्यमिति वदन्ति । अथोपनयनम् । तत उदकोपस्पर्शनं स्पष्टम् । तत्र विशेषमाह-'प्र. तिपुरुषं संख्याय संवत्सरान् यावतोऽनुपेताः स्युः । यदि पितैवा- नुपेतस्तदा संवत्सरमेकं, यदि पितामहोऽपि ततो दौ, अथ स्वय- मपि यथाकालमनुपेतस्ततः संवत्सरानिति हरदत्तः। स्नाने मन्त्रा व्याहृतयः । पक्षान्तरेण मन्त्रान्तरापयपि धर्मप्रश्ने द्रष्टव्यानि । अथाध्याप्यः। स्पष्टम् । अत्र यस्येत्युपक्रमे एकवचनमन्ते- ऽन्यथाध्याप्य इति एकवचनम् । मध्ये तु ते ब्रह्महसंस्तुतास्तषा. .
AN प्रात्यताप्रायश्चित्तनिर्णयः। अभ्यागमनमित्यादि बहुवचनं, तत्रोपक्रमोपसंहारानुसारेण एकस्यैक प्रायश्चित्तोपनयनाध्यापनानि न पित्रादेः। बहुवचनञ्चमाणवकबहुत्वा- पेक्षम् । जातौ चैकवचनामिति हरदत्तः । युक्तञ्चैतत् , संन्यासोत्तरं माहस्थ्यस्येव विवाहोत्तरं ब्रह्मचर्यस्याऽप्राप्त्या तत्प्रसङ्गाभावादिति निरूपविष्यामः । मध्ये तेषामिति बहुवचनेन पित्रादिसहभ्रमव्या. सत्यमादावन्ते चैकवचनमिति बोध्यम् । अथ यस्य प्रपितामहा- विनानुरमर्थ उपनयनं ते स्मशानसंस्तुतास्तेषामभ्याममनं भोजन विवाहमिति च वर्जयेत् , तेषामिच्छता प्रायश्चित्तं द्वादशवर्षाणि विद्यकं ब्रह्मचर्यचरेत्। अथोपनयनं, तत उदकोपस्पर्शनं पाषमान्यादिभिरिति । प्रपिता- महादि प्रपितामहमारभ्य पितामहः पिता स्वयञ्च यथाकालमनु- पेतास्ते तथाविधा माणवकाः स्मशानसंस्तुताः यथा स्मशानस्य सर्वतः शम्याप्राप्तपर्यन्तनाध्ययनन्तथा एषामपि सन्निधौ नाध्ये- यमित्यर्थ: । स्नानं माणक्कबहुत्वाभिप्रायेत्यादिभिरित्युक्त्या प्रतिपुरुषं संख्याय संवत्सरानित्येतदप्यत्र द्रष्टव्यमिति सूच- यति । अथापि बहुवचनं माणवकबहुत्वाभिप्रायेणैकवचनं जाती। अत्र 'अथ गृहमेधोपदेशनम्' इत्युक्त्या प्रतिपुरुष संख्यायेत्युक्तेश्च । तेषामिति तत्पदन यत्परपरामृष्टमाणवकग्रहणमेवाचितं, न तु पित्रादीनामित्याहुः । 'अथ गृहमेधोपदेशनम्' । गृहमेघो गृह्यशास्त्रं गृहस्थाश्रमश्च नाध्या. पनं कृत्स्नस्य बेदस्य न गृहमन्त्राणान्तु भवति मायत्रीजपोऽस्य सन्ध्याकाले आशौचिन इक दशकारं स्मरणमात्रम् । तथा च प्रपञ्चसारे- जप्यः स्यादिह परलोकसिद्धिकामै--- मन्त्रोऽयं महिततरो द्विजैर्यथावत् । भूदेवा नरपतयस्तृतीयवर्णाः सम्प्रोक्ता द्विजवचनेन तत्र भूयः : धात्यताप्रायश्चित्तनिर्णयः। विजवचनेन द्विजशब्देनोच्यन्त इति शेषः । तत्र भूयः तेषु मध्ये पुनरित्यर्थः। तेषां शुद्धकुलधयोत्थमहसामारभ्य तन्तुक्रियां तारव्याहृतिसंयुतां सहशिरोगायत्र्युपास्या परा। सन्ध्योपासनया जपेन च तथा स्वाध्यायभेदैरपि प्राणायामविधानतो मतिमता ध्यानस्तथा नित्यशः। इति । अत्र शुद्धकुलेत्याधुकेरनुपनीतजानामयथाकालोपनीतजा- नाश्च शुद्धमातापितृजत्वाभावेन तदुपासनानधिकारः सूचितः । खा- ध्यायभेदो ब्रह्मयशः सम्पूर्णप्राणायामे । इतरत्र प्रणवव्याहृतिसंयुता गायत्रीति स्पष्टं तद्विदाम् । भागवतेऽपि सप्तमे- संस्कारा यत्राविच्छिन्नाः स विजोऽजो जगाद यम्। इज्याध्ययनदानानि विहितानि द्विजन्मनाम् । जन्मकर्मावदातानां कियाश्चाश्रमनोदिताः। इति। संस्काराःसोपनयना यत्र यवशेऽविच्छिमाविच्छेदरहिता स विजः। यमेवंगुणमजो ब्रह्मा वेदो वा द्विज इति जगाद जन्मना विशुद्धकुलेन कर्मणा आचारेण शुद्धानां विजन्मनां तश्यानामि स्यादीनि विहितानि ब्रह्मचर्याद्याश्रमविहिताः क्रियाश्च तेषामेव विहिता इति तदर्थः । पवश्व वात्यानां तान्यानां वा तत्राऽनधि- कार इति स्पष्टमेवोक्तम् । महाभाष्येऽपि ''योगा'दिति सूत्रे उक्तम्- श्रीणि यस्यावदातानि विद्या योनिश्च कर्म च । एतच्छिवे ! विजानीहि ब्राह्मणत्वस्य लक्षणम् । इति । ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे, एवमाचरितप्रायश्चित्तात् गृहस्थीभूताद्यो निर्वर्तते उत्पद्यते तस्यो- पनयनसंस्कारो यथा प्रथमेतिक्रमे ऋतुं विद्यकं ब्रह्मचर्य तथा तच्चारयित्वा कार्योऽथाध्याप्य इत्यन्तः। तत ऊर्व प्रकृति- यत् । ततस्तु योनिवर्तते तस्य प्रकृतिवद्यथाप्राप्तं यथाकालमुपनयनङ्क- - ब्रात्यताप्रायश्चित्तनिर्णयः। तव्यमित्यर्थः । तदने तु न प्रायश्चित्तं नाप्युपनयनं मनूक्तेरिति बोध्यम् । एवमेवैषा स्मृतिः पराशरस्मृतिव्याख्याने माधवन व्याख्याता । यत्तु 'यस्य प्रपितामहादि' इति सूत्रे प्रपितामहादीनामिति पाठकल्पनं, तत्त्वसङ्गत हरदत्तमाधवादिविरोधात् , अध्येतृसम्प्रदायविरोधाच्च । यत्तु 'यस्य प्रपितामहादि' इति सूत्रं प्रपितामहादारभ्य पूर्वे उत्तरे चे. ति व्याचक्षते, इदमेवाभिप्रेत्य हरदत्तेन यस्य प्रपितामहस्य पितुरारभ्य नानुस्मयते उपनयन तत्र प्रायश्चित्तं नोक्तमित्युक्त्वा धर्मशास्त्रैस्तु विहितमेवं पूर्वेष्वपीत्युक्तम् । तस्यार्थः-धर्मशास्त्रैस्तच्छास्त्रनिबन्धका- रैरुक्तरीत्या स्मृति व्याख्याय तत्रापि प्रायश्चित्तं विहितमिति वदन्ति तत्तुच्छम् , कात्यायनगृह्यस्मृतिविरोधात् । तत्र हि 'आषोडशाब्राह्मण- स्य' इत्यादि आश्वलायनवाक्यसमानार्थकतैर्व्यवहारैरित्यन्तं पठि- तम् । व्यवहारपदार्थश्चाऽत्र तेषामभ्यागमनमित्यादिरापस्तम्बोक्तः । ततः स आह कालातिक्रमे नियतवत् । अत्र हरिहरादयः गर्भाधाना- घुपनयनान्तानां कर्मणां कालातिक्रमे नियतवत् । नियतेषु श्रौतेषु वित्रिषु यद्विहितमनादिष्टविषयं महापाहृतिहोमाख्यं सर्वप्रायः श्चित्तं तत्कृत्वा तानि कार्याणीत्यर्थ इति । अन्ये तु षोड. शाविरूपस्योक्तकालस्यैव कालातिक्रमे इत्यत्र ग्रहणमुचितम् । तत्र तु नेदृशं प्रायश्चित्तमुचितमत्यल्पत्वात् । तस्मानियतवः दित्यस्य ब्रह्मचारिणो : नियतं यद्वेदाध्ययनार्थ ब्रह्मचर्यन्तद्वत्त स्कृत्वोपनयनकार्यमित्यर्थः । तद्वदित्यनेनाऽग्निसेवाऽध्ययनगुरुशु- श्रूषात्यागो बोधितः, कालश्चास्यापस्तम्बोक्त एव । एवञ्चातिक्रान्त सा- वियाः काले इत्यन्तसमानार्थमिदं, तन्त्रेणाऽस्यार्थरूपपरताचेत्याहु: अथाऽनेकपुरुषपतितसावित्रीकविषये आपस्तम्बेन निषिद्धस्योपन. यनस्य प्रतिप्रसवं वदन् कियत्पर्यन्तं संस्कार्यतेत्याकांक्षायां नि. यममाह-'त्रिपुरुषं पतित सावित्रीकाणामपत्ये संस्कारो नाध्यापन- च' । त्रिपुरुषमिति "संख्यावश्येन" इत्यव्ययीभावः । पतितसावित्री- वात्यताप्रायश्चित्तनिर्णयः। काणां वंश्यानां त्रयाणां पुरुषाणां यदपत्यञ्चतुर्थ तत्र संस्कार उपन यनं भवति, अध्यापनन्तु नेति तदर्थः। चस्त्वर्थे तदधिकपतितसा- वित्रीकस्य तु न । तदाह हरिहर:-'प्रपितामहस्य पितरमारभ्य चतुर्णा पातेतसावित्रीकाणामपत्ये तु न संस्कारः पूर्वनिषधात्' इति । 'यस्य प्रपितामहादि' इति प्रक्रम्य उपनयनं नाध्याप्य इत्यापस्तम्बोक्तरस्याय- मेवार्थ उचितः । यत्तु कात्यायनसूत्रव्याख्यात्रा गदाधरेण-'तेषामपत्य संस्का- रोनाध्ययनञ्च न' इत्येवमेतत् सुत्रं व्याख्यातं हरिहरस्तु मृग्य इति चोक्तं, तदनन परास्तं पूर्वनिषेधेनैव सिद्धेश्च । स च बहुदोषश्र. वणाद्वहुपुरुषं पतितसावित्रीकविषयोऽपि संस्काराभावे अध्यापना. प्रसक्त्या नाध्यापनमित्यस्य वैयापत्तेश्च । न च चतुरादिपुरुषपर्यन्तं पतितसावित्रीकाणामपत्ये त्रिपुरुषं पतितसावित्रीकाणामयत्यत्वमप्यस्तीति वाच्यं व्यापकसंख्या व्यवहारांवषये व्याप्यसंख्याव्यवहाराभावात् । अत एव न हि त्रिपु. त्रो द्विपुत्रव्यपदेशत्वं लभत इति 'अ इ उण्' सूत्रे भाष्यो उक्तम् । अन्य. थाऽत्र बहुपुरुषमित्येव वदेत् । एवञ्चैतदेकवाक्यतया 'यस्य प्रपिता. महादि' इत्यापस्तम्बस्मृतिरपि त्रिपुरुषं पतितसावित्रीकविषयैव । किञ्च य. वंश नोपनयनं स्मर्यत इत्येव सिद्धे यस्य प्रपितामहादीति विशिष्यो. क्तिनिष्फला । अत एव धर्मशास्त्रस्तु विहितमिति वाक्य हरदत्तेन तु नाचिोंधिता। तद्वीजन्तूक्तमेव । स्मृत्योरेकमूलकल्पनालाघवा. नुरोधनकार्यु सम्भवति भिन्नार्थत्वमन्याय्यमिति सर्वधर्मशास्त्रनि- बन्धकृतां सिद्धान्तात् । अभ्युपेत्याऽपि ब्रूमः-पूर्वे इत्यत्र 'कपिञ्जलाधिकरण'न्यायेन प्रया- णामेव ग्रहणापत्तौ सप्तमस्योपनयनलाभेऽपि तदूर्ध्वस्याष्टिमादेरुपनयने मानाभावः । किञ्चायं प्रायश्चित्तविधिर्येषां वंश उपनय समयते तद्विषये एव, न तु तदस्मरणे । यस्य प्रपितामहादीत्येतद्विषये पाव. मान्यादिभिः स्नानमित्यर्थके प्रतीके प्रतिपुरुष संख्याय संवत्सरानि.
६ वात्यताप्रायश्चित्तनिर्णयः । त्येतत्रापि द्रष्टव्यमिति हरदत्तोः । तदस्मरणे समनाया असम्भ वात् । किञ्च- जात्युत्कर्षो युगे शेयः सप्तमे पाश्चमेऽपि वा। व्यत्यये कर्मणां साम्यं पूर्वमानसेलरम् । इति याज्ञवल्क्यस्मृतिविरोधान्न पञ्चमादीनामुपनयनम् । तथाहि सा स्मृतिरित्थं विज्ञानेश्वरेण व्याख्याता जातयो मूवासिताखारतासामु. स्कर्षों ब्राह्मणत्वादिजातिप्राप्तिः।युखे जन्मनि संतमे पंचमें, अधिशब्दाट षष्ठे बोद्धयः । व्यवस्थिनश्वायं विकल्पः । व्यवस्था चेत्थम् ब्राह्म. जेन शूद्रायामुपादिता निषादी, सा ब्राह्मणेनोढा दुहितरं काश्चिज नयति सापि ब्राह्मणेनोढाऽन्यामित्यनेन प्रकारेण षष्ठी सप्तमं ब्राह्मणं जनयति । एवं ब्राह्मणेन वैश्यायामुत्पादिता षष्ठी साऽप्यनेन प्रकारे. ण पञ्चमी षष्ठं ब्राह्मणं जनयति । ब्राह्मणेन क्षत्रियायामुत्पादिता मू विसिक्ता साप्यनेन प्रकारेण चतुर्थी पञ्चमं ब्राह्मणं जनयति । एवं शूद्रायां क्षत्रियजोया क्षत्रियेणोढ़ा क्रमेण पञ्चमं क्षत्रियं जनयति । वैश्यायां क्षत्रियजा महिष्या क्षत्रियोढा क्रमेण पञ्चमं क्षत्रिय जनयति । तथा करणी वैश्योढा पञ्चमं वैश्यमित्याग्रुह्यम् । तथा क भणां वृत्त्यर्थानां व्यत्यये विपास सप्तमषष्ठपञ्चमेषु तत्साम्यम् । तथा हि ब्राह्मणो मुख्यया वृत्याऽजीवन् क्षात्रण कर्मणा जीवेदित्य नुकल्पः । तेनाऽप्यजीवन् वैश्यवृत्त्या तयापयजीवन् शूद्रवृत्या । एवं क्षत्रियस्य वैश्यशूद्रवृत्ती अनुकल्पः । वैश्यस्य शूद्रवृत्तिरिति । एवं कर्मणां विपर्यये सति यद्यापद्विमोक्षेऽपि तां वृत्ति न त्यजति, तदा सप्तमादिजन्मनि साम्यं यस्य हीनवर्णस्य कर्मणा जीवति तत्समा. नजातिः । तद्यथा ब्राह्मणः शूद्रवृत्त्या जीवन् यदि पुत्रमुत्पादयति सोऽपि तयैव वृत्त्या जीवन् पुत्रान्तरमित्येवं परम्परायां सप्तमं शूद्र- मेव जनयति । वैश्यवृत्त्या जीवन् षष्ठे वैश्यम् । क्षत्रियवृत्त्या जीवन पञ्चमे क्षत्रियम् । क्षत्रियोऽपि शूद्रवृत्त्या जीवन् षष्ठे शूद्रम् । वश्य:
व्रात्यताप्रायश्चित्तनिर्णयः । ३९ वृत्त्या जीवन् पञ्चमे वैश्यं, शूद्रवृत्त्या जीवन तामपरित्यजन् पुत्रप. रम्परया तदत्यागे पञ्चमे शुद्रं जनयति। पूर्ववच्चाधरोत्तरमपि वर्ण- सङ्करा अनुलोमाः प्रतिलोमाश्च दर्शिताः । तत्र मूर्द्धावसित्त्या क्ष- त्रियवैश्यशूद्ररुत्पादिता अम्बष्ठायां वैश्यशूद्राभ्यां निषाद्यां शूद्रेणी- त्पादिता अधराः प्रतिलोमजा इत्यर्थः । एवं मूर्द्धावसिक्त्यम्बष्ठीनि. षादीषु ब्राह्मणोत्पादिता माहियोग्योाह्मणक्षत्रियाभ्यां करण्या ब्राह्मणक्षत्रियवैश्यैरुत्पादिता उत्तरेऽनुलोमजा इत्यर्थः । वैश्याशूद्रयोस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृती। वैश्यात्तु कः उपनयाभावादेव ब्राह्मणादिवृत्तिहीनतया शूद्रवृत्त्यैव जीवनञ्चेति दोषाधिक्यादम्य पशम शूद्रताप्राप्त्योपनयनप्राप्त्यभा- वात् । एवमेवंविधस्य क्षत्रियस्य तुर्ये एव शूद्रता, न हि शुद्रस्य प्रा- 'यश्चित्ससहस्रैरण्युपमयमाहता भवति । न हि शूद्रवृत्त्या जीवतो ब्राह्मणस्यापि सप्तममपत्यमुपनयनाहमिति कस्यापि सम्मतम् । 'क. मणां व्यत्यये साम्यम्' इत्यस्य तज्जातिधर्मप्राप्त्यर्थातिदेशरूपत्वात् । एतन्मूलकमेव कात्यायनेन ब्राह्मणविषये चतुर्थस्यैवोपनयनमुक्तन्न प- ञ्चमादीनाम् । एवञ्च तुल्यन्यायात् क्षत्रियस्य ताशस्य तृतीयस्थै- वोपनयनन चतुर्थादः, वैश्यस्य द्वितीयस्यैव न तृतीयादेः । वस्तुतः क्षत्रियवैश्ययोः प्रथमवात्यपुत्रयोरपि नोपनयनाहतेति प्रागुक्तम्। एत- न्मूलकमेव हरदत्तेनापि पञ्चमादेः प्रायश्चित्तं नोक्तमित्युक्तं तदनहत्यादि- ति तदाशयः। एवं जातापत्यानांपितृपितामहप्रपितामहादीनामपिनो. बनयनं, 'यस्य प्रपितामहादि' इत्यापस्तम्बोक्तेः 'पतितसावित्रीकाणामप. त्य' इति कात्याय नोक्तश्च । किञ्चोपनयनं संस्कार आश्रमप्राप्तारं यथा- धान संस्कारो यशद्वारम् । एवञ्च प्रागेव गृहस्थाश्रमप्राप्तौ तदनुष्ठान वैफल्यं तत्प्राप्याश्रमाभावादिति दिक । 'त्रिपुरुषं पतितसावित्रीका. णामपत्य संस्कारो नाध्ययनञ्च' इति सूत्रान्तरम् । 'तपां संस्कारे. प्सुळत्यस्तोभेनेष्ट्वा काममधीयीरन व्यवहार्या भयन्ति' इति सूत्रम् ।
व्रात्यताप्रायश्चित्तनिर्णयः। तदित्थं व्याचक्षते केचित्-स चतुर्थस्य संस्कारः कथकर्तव्यस्तत्रा ह-तेषां संस्कारप्सुव्रात्यस्तोमेनेष्टा संस्कारं कुर्यादिति शेषः । सं. स्कार उपनयनं, तेषां पतितसावित्रीकाणां वंश्यानां त्रयाणां पुरुषा. णां यान्यपत्यानि तेषां मध्ये या संस्कारप्सुंः संस्कारं प्राप्तुकामः स व्रात्यस्तोमनेष्टा गुरुणाऽऽस्मानं संस्कुर्यादित्यर्थः । ननु वात्यस्तोमर्यक्ष्यमाणः पृथगग्नीनाधीय यज्ञोपकरणानि चष्ठा 'य एतेषामध्ययने नाभिक्रान्ततमः स्यादभिजनेन तदभावेऽपि भो. गलाभेन तस्य गाहपते दीक्षरन् भक्षांश्चाऽनुभक्षयेयुः' इति छन्दोग- गृह्ये उक्तत्वेनोपनयनात्प्राक्कथन्तत्राधिकारः। दृष्ट्वा सम्पाद्य अभि- कान्ततमोऽतिशयि उत्कृष्ट इति यावत् । भोगो धनम् । अत्यन्तं क्रूरक- र्मा यस्तेषां स वा गृहपतिः' इति कात्यायनसूत्रे उक्त व्रात्यस्तोमार्थमेवा. ऽऽधानेन पृथगनीनुत्पाद्य विद्यया धनेन कुलेन क्रूरकर्मणा चासम्पन्न. स्य गृहपतेरग्निषु त्रयाणां त्रयाणां स्वामीनासाभिचाय्यङ्कत्वा प्रा. त्यस्तोमदीक्षाङ्कुर्युः, इतरे च व्रात्यास्तु गृहपतेर्भक्षमनु सोमादि भक्षयेयुरिति तदर्थः । मानवेऽपि सूत्रे अग्नीनाधाय. गृहपतेरग्निषु संयुज्य यजेरनिति पूर्वोक्ताः पतितसावित्रीकाः व्रात्याः । अन्येऽपि द्विजातिकर्महीना विहिताकर्तारो निाषद्धकर्तारः क्रूरकर्माणो वा- त्याः।(१)एतद्धि ताण्डिब्राह्मणे स्पष्टम् । अयञ्च गणयज्ञो गणत्रयस्त्रिंशता. म् । 'त्रयस्त्रिंशद्दडान्प्राध्वर्यन्' इति ताण्डिश्रुतेः।(१) तेषां ते प्रत्येकं त्रयस्त्रि- शतं त्रयस्त्रिंशतं गा दृशिणं हृद्यःऋत्विगन्यः' (१)इति ताण्डिसूत्रम् । 'ता ब्रात्यानन्ये ब्राह्मणा ऋत्विजां भूत्वा याजयेयुः' इति देवयाज्ञिकः । 'इमा गावो व्रात्येभ्यो देया येस्मा एतहदति तस्मिन्नेव मृजानवन्तीति सा- धारण्योक्त' (१)इति ताण्डिब्राह्मणभाष्यम् । एवञ्चान्ये व्रात्या एवा तत्र ऋत्वि. ज इति लभ्यते तत्कथमस्मिन्ननुपनीतानामधिकार इति चेन्न, वचना- देव तेषामप्यधिकारात् । तथा च कात्यायनगृह्यकारिकाकृत्- अथार्यस्यानर्धातस्य स्यादाधानं तदर्थवत् ।
धात्यताप्रायश्चित्तनिर्णयः इति । इदमनुपेतस्याप्युपलक्षणं तदुपयोग्यध्ययनमपि तेषां भ. यति त्रिवर्षस्य पित्रादिक्रियोपयोगिमन्त्राध्ययनवत् । निषादस्य च अवकीर्णिनो गईभेज्यो लौकिके वैतानिकेषु सर्वमित्यधिकारे कात्यायनोक्तरिति देवयाज्ञिकः । कर्कस्तु तेषां लौकिके शावे च प्रात्य. स्तोमाद्वा अपत्नीकस्यानधातवेदस्याकृताधानस्यावकीर्णी पशुश्च त- द्वदिति । षाष्ठन्यायेन वचनादधिकारो लौकिकाग्नौ च स इति वृद्धशङ्क- रभाश्च । कात्यायनस्मृताववकीर्णिनो गईभेज्येति अनाहिताग्निकर्तृककर्मों. पलक्षणमिति तदाशयः । युक्तञ्चैतत् स्मृतेायसिद्धार्थत्वलाभात् । ते व्रात्यस्तोमाश्चत्वारस्तेषामितिकर्तव्यतास्तदधिकारिणश्च कात्यायनसूत्रछन्दोगसूत्रताण्डिब्राह्मणेषु स्पष्टाः । संस्कृतानामपि तेषां पूर्व नि- विद्धमध्ययनं पुनराह-'काममधीयीरन् व्यवहार्य्या भवन्ति' इति वच- नादिति व्रात्यस्तोमेनेच्छेत्यनुवर्तते । तेनैव पुनरिच्छा कामं वेदमवेद. मधीयीरन्नित्यर्थः । व्रात्यस्तोमेन पतिता अपि व्यवहार्या भवन्ति अध्यापनादियोग्या भवन्तीति वचनात् श्रुतेरित्यर्थः । एतेन पाप्मनो निधिमुच्यते' इति व्रात्यस्तोमं प्रक्रम्य ताण्डिब्राह्मणोक्तः 'व्रात्यस्तोमेन यजेत पुनस्सवनमायाति' इति बौधायनगौतमादिधृतश्रुतेश्च । तपाशूतेषां तत ऊर्ध्व मुजीनापि चैतान कामयाजयेत्' इति छान्दोगसूत्राचेति वदन्तस्तदयु. तं याज्ञवल्क्येन प्रथमेऽतिक्रमे एव तदुक्तेः । अत एव विज्ञानेश्वरेण गाव. ल्क्यमन्वादिवचांस्युदाहृत्य पित्रादीनामनुपेतत्वे त्वापस्तम्ब आहेत्युक्तम्। तस्मादापस्तम्बोक्तप्रायश्चित्तेनोपनयनसंस्कारः, अध्ययनाधिकार एव तु नात्यस्तोमेन । सूत्रार्थस्त्वेवं-तेषां पतितसावित्रीकापत्यानां मध्ये ये संस्कारप्सवो वेदाध्ययनजसंस्कारप्राप्तिकामा इति ।जातावेकवच- नम् । व्रात्यस्तोमेनेष्टा काममधीयीरन् इत्यर्थः। शिष्टः प्राग्वादेति । इत्तरे तु सावित्रीपतितसंशिकत्वं पतितसावित्रीकसंज्ञाकत्वं व्रात्यसंज्ञकत्व- ञ्च षोडशाधूर्वमनाचरिताऽऽपस्तम्बाक्तव्रतानां जातोपनयनानामेव । अत ऊर्ध्व पतन्त्येते सर्वधर्मवहिष्कृताः ।
वात्यताप्रायश्चित्तनिर्णयः। --- सावित्रीपतिता वात्या:- इति याज्ञवल्क्यवाक्ये अत ऊर्ध्वमापस्तम्बोक्तप्रायश्चित्तानुष्ठानं विना संस्कृता अपि ते व्रात्यस्तोमानुष्ठानं विना सावित्रीपतितसंज्ञा वा- त्यसंज्ञाश्चात एव सर्वधर्मबहिष्कृता इत्यर्थः। सावित्रीपतिता इ- त्यस्य स्वकालात्पतिता सावित्री येषामित्यर्थः । आहिताग्न्यादित्वा. त्परनिपातः पतितशब्दस्य । अत एवार्थे पतितसावित्रीका इत्यपि साधु । अत एव मनुवाक्ये- अत ऊर्च पतन्त्येते यथाकालमसंस्कृताः। सावित्रीपतिता तात्या सर्वकर्मविगहिताः ।। इत्यत्र यथाकालमित्युक्तः । तेनाऽयथाकालं संस्कृता इति लभ्य- ते। अत एव कथमप्युपनेत्रभावन कालातिपातकृतवात्यताया निब- न्धोदाहते मनुविष्णुवाक्ये येषां द्विजानां गायत्री नानूच्येत यथाविधि । तांश्चारयित्वा श्रीन्कुच्छ्रान् यथाविध्युपनाययेत् ॥ इत्यस्मिन् उभयत्रापि यथाविधीत्युक्तं तन्न, विधिश्च शास्त्रोक्तकालि. कत्वरूपः पूर्वार्द्ध । तेनाकाले उक्तत्यर्थलाभः। उत्तरार्द्ध यथाविधीत्यस्य पूर्वतनोपनयनस्याऽशास्त्रीयत्वात् । पुनर्मुख्योपनयनविध्युक्तप्रकारेणे. त्यर्थः । अत एव 'यस्य पिता पितामह इत्यनुपतौ' इति सूत्रे इत्यनु- पेतावित्युक्तमिति प्रकारे, उक्तकालिकत्वेन प्रकारेणानुपनीतावित्य- र्थः । तेनाकाले षोडशाधूर्ध्वप्रकृतप्रायश्चित्तावुपेतौ इत्यर्थलाभः । अत्र सूत्रेऽतिक्रान्ते सावित्र्या ते ब्रह्महसंज्ञका इत्यर्थः । अत एव यस्य पिता पितामहादि' इति सूत्रे स्वयञ्च यथाकालमनुपेत इत्युज्वलायां व्या. ख्यातम् । युक्तञ्चैतत् , अन्यथा त्रैवर्णिकस्य त्रयाणामाश्रमाणां क्रमि- कत्वेन वेदाध्ययनफलकब्रह्मचर्याश्रमस्योपनयनं विना सम्भवेन त- त्संस्कारं विना ब्राह्मणत्वाब्राह्मणत्वाधनभिव्यक्त्या विवाहासम्भवेन पुत्राव्युत्पत्तेरेवासंभवात् । यस्यां कस्याश्चित्पुत्राथुत्पत्तौ तु तत्र त्रै .
प्रात्यताप्रायश्चित्तनिर्णयः। - वणिकत्वसन्देह एव । अत एवोपनयनानन्तरं ब्रह्मचर्य सर्वेषां समा. नमित्यापस्तम्बः । सर्वेषां गृहस्थवानप्रस्थयतीनां तं विना कस्याप्या- श्रमस्याप्रवृत्तेः' इति हरदत्तः । बौधायनोऽपि- नास्य कर्माणि कुर्वन्ति किञ्चिदामौञ्जबन्धनात् । वृत्त्या शूद्रसमो ह्येष यावद्वेदैन जायते ॥ इति । अत एव- वेदं वतानि वा पारं नीत्वा झुभयमेव वा। अविप्लुतब्रह्मचर्यों लक्षण्यां स्त्रियमुद्हेत् ॥ इति याज्ञवल्क्येन ब्रह्मचर्याश्रमानन्तरमेव विवाह उक्तः । ब्रह्मचर्याश्रम- परिग्रहश्च उपनयनं विना नेति ततः प्राग्विवाहाप्रसक्तिः। अविप्लु- तब्रह्मचर्यः अस्वलितब्रह्मचर्यः। तत्स्वलने तु तत्स्रवलननिमित्तप्रा- यश्चित्तपूर्वमेव विवाहः । मनुरपि- गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि। उद्वहेत द्विजो भार्या सवर्णी लक्षणान्विताम् ।। तथा- - ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । पते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः॥ सर्वेऽपि क्रमशस्त्वते यथाशास्त्रं निषेविताः। यंधोक्तकारिणं विप्रं नयन्ति परमाङ्गतिम् ॥ इति।गृहस्थप्रभवत्वं तदुपाजीवित्वम् । अश्वस्तनवृस्यादेर्गृहस्थस्यापि गृहस्थोपजीवित्वाच्चतुर्णान्तविशेषणम् । त(१)वामस्ते येन गार्हस्थ्य- माचार्यकुलं मौनं वानप्रस्थमिति गार्हस्थ्योत्तरं ब्रह्मचर्याश्रमोक्तर्विरो- धा, तस्योद्देश्यमात्रे तात्पर्येण क्रमे तात्पर्याभावात् । अत एव तदने तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छतीत्युक्तम् । तत्र यथोपदेशमित्यस्य मन्यायुक्तक्रमोपदेशमनतिक्रम्येत्यर्थः ।
४४ नात्यताप्रायश्चित्तनिर्णयः। तथा च दक्षः- प्रयाणामातुलोम्यं स्यात्प्रातिलोम्यं न विद्यते । प्रातिलोम्येन यो याति न तस्मात्पापकन्नरः॥ इति प्राह । त्रयाणामिति । ब्रह्मचर्योत्तरेषाङ्ग्रहणम् । ब्रह्मचर्यस्तु सर्वेषां समानत्वेनेत्यावश्यकत्वान्न ग्रहणम् । यद्वा त्रयाणां ब्रह्मचारि- गृहस्थवानप्रस्थानामानुलोम्यं क्रम एव लगतु पूर्वपूर्वानुष्ठानं विनो- त्तरोत्तरोनुष्ठानम् । तदाह प्रातिलोम्यन्न विद्यते इति । चतुर्थस्य संन्या- सस्य तु न नियमः। यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा ब. नाद्वेति जाबालश्रुतेरित्यर्थः । कात्यायनवाक्येऽपि पतितसावित्रीकाणा- मपत्ये संस्कार उपनयनं भवति आपस्तम्बोक्तं प्रायश्चित्तपूर्वकम् । ना. ध्यापनन्तु इत्यर्थः । एकद्विपुरुषपतितसावित्रीकविषये तदीयस्यैवा. ऽनुष्ठेयत्वात् । तेषां मध्ये यः कश्चिन्माणवको वेदाध्ययनकृतसंस्कार प्राप्तमिच्छुर्भवति । जातावेकवचनम् । 'ते व्रात्यस्तोमेनेष्ट्वा काममधी- यीरन् ब्रात्यस्तोमयष्टारो व्यवहार्य्या भवन्ति' इति वचनात् श्रुतेरित्य- र्थः। यस्य तूपनयनमेव नास्ति तस्य कदाचिदुपनीतत्वभ्रमेण विवा- हेऽपि तदपत्ये न प्रायश्चित्तप्रवृत्तिर्नापि संस्कारः त्रैवर्णिकत्वहाने, असंस्कृतमातापितृजत्वात् । किञ्च 'व्यत्यये कर्मणां साम्यम्' इति स- कलब्राह्मणसंस्कारवतां वृत्तिमात्रेण समस्य शूद्रतोक्ता । तेन न्या. येनासंस्कृतजन्यस्य द्वितीयस्यैव शूद्रवृत्तिर्युक्ता । अत एव मनुना वा- त्योत्पन्नस्य प्रतिलोमसङ्करेषु कथनं विना प्रायश्चित्तम् । अतिक्रान्ते काले उपनयनवतां सर्वधर्मबहिष्कृताइति स्मृत्या सकलद्विजातिकर्महा. न्या शुद्रवृत्तेरेव प्राप्त्या च पञ्चमस्य शुदतव । एतन्मूलकमेव कात्याय- नापस्तम्वाभ्यां चतुर्थस्यैवोपनयनमुक्तं न पञ्चमादीनामित्याहुः। एव: ञ्चेशविप्राणामप्युपनयनाभावस्सिद्धः। अत एव 'ऐन्द्राझं पुनरुत्स- एमालभेत त्रिपुरुषा सोमपीथिनः आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मणः सोमं पिपासेत्' इति श्रुतिश्चतुर्थपुरुषस्यैव प्रायश्चित्तेन
ะ
-
वात्यताप्रायश्चित्तनिर्णयः।
सोमपानमाह न पञ्चमादेरधिकप्रायश्चित्तानुक्तेः। गोभिलोऽपि-
सोमेन यक्ष्यमाणस्य यस्य पित्रादयस्त्रयः ।
नेजिरे सोमयागेन स स्याद्विच्छिन्नसोमकः ।।
आलभत स ऐन्द्राग्नमवशीर्णगवं पशुम् ।
यस्य घेदश्च घेदी च विच्छेद्यते त्रिपूरुषम् ।।
स वै दुर्ब्राह्मणो नाम यश्चैव वृषलीपतिः।
आलभेताश्विनं धूम्रललामं सत्वजं पशुम् ॥
इति। अत्र दुर्ब्राह्मण इति ब्राह्मणपदोपादानादीशान्यवर्णस्य सो.
माभाव एवेति बोधितः। काणाजिनिः-
अनाहिताग्नौ पित्रादौ यक्ष्यमाणः सुतो यदि ।
स हि वात्येन पशुना यजेत्तनिष्कताम्यायतु(?) ॥
इति । तत्र पित्रादावित्यस्य पितृपितामहप्रपितामहवित्यर्थः । अ.
धिकृतस्यानाहिताग्नित्वे गोवधोक्तवतचतुष्टयं वत्सरादूर्ध्वमापदि
शक्त्यपेक्षया योज्यमाना यदि मानवं त्रैमासिकमिति मिताक्षरा । व.
त्सरादीक्तु कार्णाजिनिः-
काले त्वाधाय कर्माणि कुर्याद्विप्रो विधानतः ।
तदकुर्वत्रिरात्रेण मासि मासि विशुञ्चति ॥
तथा-
कृतदारो गृहे ज्येष्ठो यो नाध्यादुपासनम् ।
चान्द्रायणञ्चरेवर्ष प्रतिमासमहोपि च ॥
इति । द्विपुरुषाः सोमपीथीनोप्यैन्द्राग्न एवोक्तः कात्यायनेन ।
'ऐन्द्रामम्पुनरुत्सृष्टमालभ्य द्विपुरुषाः सोमपीथिनः' इति । द्विपुरुषाः
सोमपीथिनो यजमानस्य तमालभ्य सोमा भवतीत्यर्थस्तथाशा-
खान्तरे श्रवणात् इति व्याख्यातारः। यस्य पिता पितामहो वा सोमपीथी
स ऐन्द्राममिति शाखान्तरे पाठात् । एकपुरुषाः सोमपीथिनोप्ययन.
..
व्रात्यताप्रायश्चित्तनिर्णयः । चैवमुत्तरोत्तरं प्रायश्चित्ताधिकार्यादागमिष्यति तदा त्रेतापरिग्रहः । सन्न्यासश्च न कर्तव्यो ब्राह्मणेन विजानता। इति । यावर्णस्य वात्यतान्यायेनानावश्यकत्वादिदमनुचितमिति वाच्यम् । न च पुरुषीयसोमपानाभावप्रयुक्तस्मार्तप्रायश्चित्तेन स. हास्यानुष्ठानेनादोषात् । एवञ्च पितर्यसोमपे यत्तदधिकं पितामहे ता- हशे तदधिकंवप्रपितामहे तादृशे ति विशेषातातस्य च वात्यताविषये आपस्तम्बोक्तवत् कल्पना द्रष्टव्या।यथाशुद्धिः 'पूतो मेध्यो विपाप्मा' इति बौधायनवचनेनापतनीयानां पतनीयानां वा कर्मणां स्मार्तप्रायश्चित्तं कृत्वा कूष्माण्डीहोमः कार्य इति श्रौतसर्वस्वादावुक्तम् । तद्वत्स्मार्त- प्रायश्चित्तेन यथावदाचरितेन शुद्धोऽप्यात्मानमपूतं मन्यते ‘स कूष्माण्डीहोमैः पूतः। अत एव विपाप्मा मेध्यो यशाईस्तदधिका. रीति तदर्थः । पित्रादिदोषेणोत्तरोत्तरं पुत्रस्याप्यधिकदोषवञ्चाया(?) नात्यतासुत्रे आपस्तम्बेनोक्तत्वात् । देशं कालं वयः शक्ति पापञ्चापेक्ष्य यत्नतः। प्रायश्चित्तं प्रकल्प्यं स्यायंत्र चोक्का न निष्कृतिः॥ इति याज्ञवल्क्योक्तेः । श्रौतस्मातत्यागवेदत्यागयोरुपपातकत्वेऽपि 'उपपातकमभ्यस्त महापातकवदेव' इति स्मृत्याऽऽत्यन्तिकस्य तस्य पतनहेतुत्वात् । अस्तु वा तत्र यथाकथञ्चित् सर्वथा चतुष्पञ्च पुरुषाः सोमपीथिनः । चतुष्पञ्चपुरुषं वेदमुच्छेदवन्तो दुर्ब्राह्मणस्य वा तत्र यथाधानादिसंस्कार इति सिद्धम् । तन्न्यायेन चतुर्थस्यै- वोपनयनानुष्ठानं, न पञ्चमादेरित्यभिप्रायेणैव कात्यायनीयापस्तम्बाभ्यां तथोक्तम्। संप्रत्यग्निहोत्राधननुष्ठाननिबन्धनवात्यता तु नास्ति । तथा च संन्यासपद्धतौ व्यासः-- चत्वार्यब्दसहस्राणि चत्वार्यब्दशतानि च । कलेयंदा गमिष्यन्ति तदा त्रेतापरिग्रहः ॥ सन्न्यासश्च न कर्तव्यो ब्राह्मणेन विजानाता।
व्रात्यताप्रायश्चित्तनिर्णयः।
इति ।
यावर्णविभागोऽस्ति यावद्वेदः प्रवर्तते ।
अग्निहोत्रञ्च सन्न्यासं तावत्कुर्यात्कलौ युगे ॥
इति देवलाच्च । अत्र वर्णविभागो नाम सङ्करेभ्यो वर्णानां पृथक्क
रणम् । न च तदधुनास्ति नापि वेदस्य नियमाध्यापनरूपाप्रकर्षण
बृत्तिरस्ति अन्यस्य वर्णविभागपदार्थस्य दुर्वचत्वात् । क्षत्रियाणां
सर्वथाऽभावेन तद्धटितविभागासम्भवात् । भारते वनपर्वणि-
नाशुचिर्नाप्यनिर्णिक्तपादो
नाब्रह्मविज्जुहुयानाविपश्चित् ।
बुभुत्सवः शुचिकामा हि देवा
नाश्रद्दधानाद्धि हविर्जुपन्ति ॥
नाश्रोत्रिय देवव्ये नियुज्या-
न्मोघं पुरा सिञ्चति ताशो हि ।
अपूर्वमश्रोत्रियमाह ताय !
न वै तारक जुहुयादग्निहोत्रम् ॥
अनिर्णिक्तपादः अप्रक्षालितपाणिपादः अनाचान्तश्च । अब्रह्मवित्
वेदं पठतोऽर्थतश्चाविद्वान् । अविपश्चिद्वेदादधिगतार्थस्यानुभवहीनः ।
अनेन तयोर्विहीनत्वं सूचितम् । चुभुत्सवः परिचितं ज्ञातुमिच्छवः ।
ऋत्विगप्येवंविध एवेत्याह नाश्रोत्रियमिति । देवव्ये यज्ञादी, मोघं
निष्फलं, सिञ्चति जुहोति । पुरा शीलगोत्रादिशानात्माक् ।अश्रोत्रि-
यपदार्थमाह अपूर्वमश्रोत्रियमिति । अपूर्वमशातकुलशीलमाह-वेद
इति शेषः । ईदृशस्यैवाग्निहोत्राधिकारो नान्यस्येति भावः।
अ धानं स्मृतं श्रौतस्माःग्न्योस्तु पृथकृतिः।
सर्वाधानं तयोरैक्यकृतिः पूर्वयुगाश्रिता ॥
इति लौगाक्षिवाक्ये पूर्वयुगानि द्वापरान्तानि तदाश्रितेत्यर्थः ।
कलाव धानमेव तदपि चतुःशताधिकचतुःसहस्रवर्षपर्यन्तम् ।
वात्यताप्रायश्चित्तनिर्णयः । श्राद्धं प्रकृत्य-- त्रिषु वर्णेषु कर्तव्यं पाकभोजनमेव तु । शुश्रूषामभिपन्नानां शुद्राणाञ्च वरानने । इति पाकश्राद्धमुक्तम् । तच्छूद्रायां द्विजोत्पन्नविषयमिति केचित् । युक्तन्तु तस्मिन् शूद्रत्वाभावात्। 'शुद्राश्वपाककर्तारः' इत्यापस्तम्बोक्तम् । यत्तु पाककर्तृगोपालादिसच्छूद्रपसमिति, तच्च कलियुगातिरिक्तयु- गविषयमिति । यत्तु भविष्यपुराणे- आवाहनादि कर्तव्यं तथा शूद्रेण तच्छृणु। देवानां देवनाम्ना तु पितॄणां नामगोत्रतः ॥ पिण्डांश्च निर्वपेद्वारनामतोगोत्रतस्तथा । इति शूद्राणाङ्काश्यपगोत्रमुक्तम् । 'तस्मादाहुः सर्वाः प्रजाः का- श्यपः' इति सामान्यदर्शनात्सर्वशूद्राणां काश्यप गोत्रम् । तस्य च श्राद्ध एवोत्कीर्तनं नान्यत्र ‘यावद्वचनं वाचनिकम्' इति न्या- यात् । अन्यथा सर्वशुद्राणामेकगोत्रत्वादविवाहः प्रसज्येतेति । अन्ये तु मुख्याशुद्रस्य (?) सत्यर्थान्यतमापत्यत्वाभावाच्छूद्रायामुत्पन्न: पारशवो गृह्यत इत्याहुः । युक्तन्तु ब्राह्मणेनोत्पादितः पारशवस्तेन ऊढावदुत्पन्नेन पुनः शुद्रोढेत्येवंसप्तमे शुद्रो भवति । तस्य परम्परया सत्यर्थः । यतमापत्यत्वेन गोत्रसत्त्वात्तत्परमेवेति । वस्तुतस्तु 'तस्मा. दाहुः सर्वाः प्रजाः' इति तु यस्य नाम्ना ते गोत्रं तद्विषयमवेति व्यासेनोक्तम् । यत्नु युगस्य पूर्व पूर्वयुगे कलेः पूर्वभाग इति तन्न, पूर्वाणि च तानि युगानि चेति कर्मधारयस्यैवौचित्यात् । द्वापरकल्क्योः सन्धावेव स्मृतीनां प्रवृत्या तथार्थस्यैव युक्तत्वाच्चत्यलं पल्लविते- न। (१) 'अरुक्तंदुरुकमिति य आह स गराशी' इति ताण्डिब्राह्मणम् ॥ इति शिवभसुतसतीगर्भजनागोजीभकतो व्रात्यताप्रायश्चित्तनिर्णयः - समाप्तः॥
॥ श्रीगणेशाय नमः॥ व्रत्यताप्रायशित्तनिर्णयः। अथ कलौ क्षत्रियपदव्यवहार्याणां दशविंशतिपुरुषपर्यन्तं स्मा प्रयमाणोपनयनाभावानां तदग्रेऽप्यस्मर्यमाणोपनयनानां संस्कारो न वेति सन्देहे निर्णयाय व्रात्यताप्रायश्चित्तनिर्णयः क्रियते । ताऽऽपस्तम्ब:-'आषोडशाब्राह्मणस्य नात्यय आद्वाविंशात्क्षत्रिय- स्थाच चतुर्विशाद्वैश्यस्य' आङभिविधौ। अत्ययोऽतिक्रमः, प्रकरणा- दुपनयनस्येति गम्यते। इदंचाऽष्टवर्षत्वादावपि ब्रह्मचर्यव्रतासमर्थान्प्र. त्यनुकल्पविधानम् । यथा व्रतेषु समर्थः स्यात्तावत्कालं प्रतीक्षा।पूर्वमेव सामर्थ्य सति अष्टवर्षाद्यतिक्रमे वक्ष्यमाणं प्रायश्चित्तं कात्यायनोक्तं वा 'कालातिक्रमे नियतवत्' इति । षोडशाधूर्ध्वमपि किञ्चित्कालमसमर्था- नां पश्चात्सामय प्रायश्चित्तं भवत्येव । तदाह-'अतिक्रान्ते साविश्या: काले ऋतुं विद्यकं ब्रह्मचर्य चरेत् । विद्यकं वेदत्रयसम्बन्धि । अग्नि- सेवाऽध्ययनगुरुशुश्रूषातिरिकं सर्व ब्रह्मचारिधर्म कुर्यात् । तब ऋतु- मिति कालविधानं, तेन त्वारम्भे प्रायश्चित्तारम्भः । एवच प्रतिवे. दस्तुमिति ऋतुत्रयं तत् । 'अथोपनयनं, ततः संवत्सरमुदकोपस्पर्श- नम् । उपनयनादारभ्य संवत्सरपर्यन्तं त्रिषवणं स्नानं पावमान्यादि- भिरशतस्य यथाशक्ति । 'अथाध्याप्य'इति । अत्रैव वसिष्ठोक्तमुहाल- कवतं शङ्खो गोदानसहितं चान्द्रायणं द्रष्टव्यम् । एतयोः सपादनव- धेनवः । एवं यममन्वायुक्तमपि । अत्रैव विषये सत्यशक्तिकालाधि- क्यन्यूनत्वालस्यदेशविप्लयोपनेत्रमावाविकृतत्वादिपर्यालोचनीयानि, तानि च मिताक्षरादौ स्पष्टानि । अथ 'यस्य पिता पितामह इत्यनुपेतौ २ व्रात्यताप्रायश्चित्तनिर्णयः । स्यातां ते ब्रह्महसंस्तुताः' । यस्य माणवकस्य जातावेकवचनम् । ते माणवकाः ब्रह्महण इत्येवं संस्तुताः कथिता, तेन ब्रह्महसमीप इव तत्समीपेऽध्ययननिषेधः । तेषामभ्यागमन भोजनं विवाह- मिति वर्जयेत्' । अभ्यागमनं प्रत्युत्थानादि, स्वरक्षाद्यर्थ तत्समीप- गमनं च । भोजनमुद्यतमपि त्याज्यं तस्याऽत्याज्यताया उक्तत्वेऽपि । विवाहश्च तादृशकन्याया अपि पुंसश्च वयः । तेषामिच्छतां प्राय- श्चितम् । तेषां माणवकानाम् । इच्छतामित्यनेन बलात्कारोनेति सूच- यति । 'यथा प्रथमेऽतिक्रमे ऋतुरेवं संवत्सर । प्रतिवेदं प्रतिपुरुषं च संवत्सर इत्यर्थः। एवं चैकैकस्य व्यब्द वेदत्रयार्थ ब्रह्मचर्य, पितर्येवा- नुपनीतेऽ ब्दद्वयं, पितामहेऽपि तादृशे त्वब्दत्रयम् ॥ 'अथोपनयनं, तत उदकोपस्पर्शनं, प्रतिपुरुषं सङ्ख्याय स. वत्सरान्यावन्तोऽनुपेताः स्युः' । यदि पितैवाऽनुपेतस्ततः संवत्सरमे. कम् । अथ पितामहोऽपि ततो द्वौ। अथ स्वयमपि यथाकालमनुपे- तस्तदा संवत्सरानिति । एतद्तविषयेऽपि योज्यम् । तत्र स्नाने मन्त्रा 'यदन्तिके' इत्यादि सप्त पावमान्यः। 'येन देवाः पवित्रेण' इति यज्ञप- वित्रम् । 'कया नश्चित्र' इति सामपवित्रम् । 'हंसः शुचिषद्धि'त्याङ्गिरस. मिति। व्याहृतय एव ताः । अथाध्याप्यः। अत्र यस्येत्युक्तेर्माणवकस्यैव प्रायश्चित्तपूर्वमुपनयनादि न पित्रादेरिति बोध्यम् ॥ 'अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं ते श्मशानसंस्तु- तास्तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्तेषामिच्छता प्रायश्चित्तं द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्य चरेदथोपनयनं तत उदकोपस्पर्शनं पावमान्यादिभिरथ गृहमेधोपदेशनं नाध्यापनम्' इति । एतच्चेत्थं व्याख्यातमुज्ज्वलायां हरदत्तेन-प्रपितामहादि प्रपिता- महादारभ्य प्रपितामहः पितामहः पिता स्वयं यथाकालमनु पेस्तास्ते श्मशानसदृशा इति तत्सन्निधौ नाध्ययनम् । अत्रापि प्रतिपुरुषं सङ्ख्याय संवत्सरानिति द्रष्टव्यमिति । गृहमेधो गाह- व्रात्यताप्रायश्चित्तनिर्णया ३ . , स्थ्यम् । कृत्स्नस्य वेदस्य नाध्यापनं गृह्यमन्त्राणां तु भवतीति। अने- न चैकैकस्य प्रतिवेदं द्वादशाब्दमिति षट्त्रिंशब्दमिति द्रष्टव्यम् । 'ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेतिक्रमे त्रैविद्यकं ब्रह्म चर्य चरेत् । अथाध्याप्य इत्यर्थः। 'तत ऊर्ध्व प्रकृतिवत्'। यथाप्राप्तमु. पनयन कार्यमित्यर्थः । एवमेवैषा स्मृतिः पराशरीये माधवेन व्याख्याता । यतु 'यस्य प्रपितामहादीति सूत्रे प्रपितामहादीनामिति पाठकल्पनं तत्वसङ्गतमेव हरदत्तमाधवादिविरोधात्, अध्येतृसम्प्रदायविरोधाच्च । यत्तु केनचित् ग्रन्थकृता तदनुसारिणऽन्येन च ग्रन्थकृता प्रपिताम- हादारभ्य विनिगमनाविरहेण पूर्व अर्वाञ्चश्चेति पूर्वे उत्तरे चेति व्या- ख्यातम् । अत एवोज्ज्वलायां हरदत्तेनोक्तं-'यस्य प्रपितामहस्य पितुरारभ्य नाऽनुस्मयंत उपनयनं तत्र प्रायश्चित्तं नोक्तमित्युत्का धर्मशास्त्रैस्तु विहितमेवं पूर्वषु याति' । तस्यार्थः-धर्मशास्त्रैस्तच्छास्त्रनिबन्ध. कारैरुक्तरीत्या स्मृति व्याख्याय तत्रापि प्रायश्चित विहितमिति तत्तुच्छं, कात्यायनस्मृतिविरोधात्। तथा हि तेन-'आषोडशाद्राह्मणस्या- नतीतः कालो भवति आद्वाविंशाद्राजन्यस्याचतुर्विंशाद्वैश्यस्य, अत ऊर्ध्व पतितसावित्रीकाभवन्ति, नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्न चैभियवहरेयुः' इति । अत ऊर्ध्वमित्यस्य मन्त्रादिविहितप्रायश्चित्तपूर्व कमुपनयनाभाव इति शेषः । पतितसावित्रिका इत्यस्य ते तदपत्य- परम्परा च । तथाऽनुपेता इति शेषः। तादृशेषु सर्वकर्मनिषेधो नैनामि. त्यादिनोक्तः । तत्रोपनयननिषेधकालाभावप्राप्तोपनयनामावस्यैवानु- वादः, अष्टवर्षादिकालाभावेन तत्राप्राप्तेः । 'अष्टवर्षे ब्राह्मणमुपनयीत' इति श्रुतिवाक्यमिति सुदर्शनकृते आपस्तम्बगृह्यभाष्ये स्पष्टम् । कैश्चिदतिका- न्तनिषेधैरुपनयनादावपि न तदुत्तराः क्रिया कार्या इत्यर्थः, नैनानि- त्यादिना वहुदोषश्रवणात् । अनेकपुरुषाणां पतितसावित्रीकविषयो निषधःसर्वथात्याज्यत्वबोधनायोपनयननिधेत मिप्यन्यका नम्। 'तेपामभ्यागमनं विवाहं वर्जये'दित्यापस्तम्ब व्रात्यताप्रायश्चित्तनिर्णयः। स्मृतौ व्यवहारपदार्थः। तत आह 'कालातिक्रमे नियतवत्। गर्भाधाना- घुपनयनान्तकर्मणां कालांतिक्रमे नियतवत् नित्यवत् नित्येषु यद्वि- हितं तद्वदनादिष्टं प्रायश्चित्तं महाव्याहृतिहोमाख्यं सर्वप्रायश्चित्तरूपं कृत्वा गर्भाधानाडुपनयनान्तानि कार्याणि । इदं चाऽटवर्षादिरूपमुख्यो- पनयनकालातिक्रमे बोध्यमत्यल्पत्वात् । षोडशादिरूपगौणकालस्या- ऽप्यत्यये तु-'अतिक्रान्ते सावित्र्याः काले' इत्यादिनापस्तम्बाद्युक्तं द्रष्टव्यम् ॥ अथाऽनेकपुरुषपतितसावित्रीकविषये प्रतिप्रसवमाह-'त्रिपुरुष पतितसावित्रीकाणामपत्ये संस्कारो नाध्यापनं च।एषामपत्ये चतुर्थ संस्कार उपनयनं भवति अध्यापनं तु नेति तदर्थः। चस्वर्थे । प्रपि- तामहमारभ्य चतुर्णी पतितसावित्रीकत्वे तदपत्ये तु न संस्कार पूर्वनिषेधादिति हरिहरः । 'यस्य प्रपितामहादीति सूत्रे 'उपनयनं ना- ध्याप्य' इत्यापस्तम्बोक्त्याऽस्याऽयमेवार्थ उचितः । यत्तु कात्यायनसूत्रव्या- ख्यात्रा गदाधरेण तेषामपत्ये संस्कारो नाध्यापनं च नेत्येतत्सूत्रं व्या- ख्यातं हरिहरस्तु मृग्य इत्युक्तं च, तदेतेन परास्तम् , अन्यथा पूर्वनि- षेधेनैव सिद्धरस्य वैयापत्तेः। स च बहुदोषश्रवणादापस्तम्बैकवाक्य- तया बहुपुरुषं यावत् पतितसावित्रीकविषयक एव, स नाऽऽद्यातिक- मविषय इत्युक्तम्। एवं चैतदेकवाक्यतया यस्य प्रपितामहादी'त्यापस्त- म्बस्मृतिरपि त्रिपुरुषं पतितसावित्रीकविषयैव । अत एव धर्मशास्त्रैस्तु विहितेऽत्र वाक्ये हरदत्तेन तु नाऽरुचिर्बोधिता। तद्वीजंतूक्तमेव । स्मृ. त्योरेकमूलकल्पनालाघवानुरोधेनैकार्थत्वे सम्भवति भिन्नार्थत्वमन्या- व्यमिति सर्वशास्त्रनिबन्धकृतां सिद्धान्तात् । अभ्युपेत्यापि ब्रम:- पूर्वे इत्यत्र 'कपिञ्जलाधिकरण'न्यायेन त्रयाणामेव ग्रहणापत्तौ सप्त- मस्योपनयनलाभे तदूर्ध्वस्याऽष्टमादेरुपनयने मानाभावः । किं चाऽयं प्रायश्चित्तविधिर्येषां वंशे उपनयनं स्मर्यते तद्विषय एव, न तु तद- स्मरणे । 'यस्य प्रपितामहादीति सूत्रस्थे 'पावमान्यादिभिः स्नान'- वात्यताप्रायश्चित्तनिर्णयः । मिति प्रतीके प्रतिपुरुषं सङ्ख्याय संवत्सरा'नित्येतदत्रापि द्रष्टव्यामिति हरदत्तोक्तः। तदस्मरणे तद्गणनासम्भवादिति दिक्.॥ स च चतुर्थस्य संस्कारः कथं कर्तव्यस्तत्राह कात्यायन:-तेषां संस्कारेसुर्वात्यस्तोमेनेष्टा' ! संस्कारं कुर्यादिति शेषः। तेषां त्रिपुरुषं यावत् पतितसावित्रीकाणां यान्यपत्यानि तेषां मध्ये या संस्कारेप्सुः संस्कार प्राप्तुकामःस व्रात्यस्तोमेनोपनेतृद्वारा इष्ट्वा गुरुद्वाराऽऽत्मानं संस्कुर्यादित्यर्थः । तेषां निषिद्धमप्यध्ययनं पुनराह-'काममधीयी. रन् व्यवहार्या भवन्तीति वचनादिति । व्रात्यस्तोमेनेष्वाऽधायीरन् वे. दमिति शेषः । व्रात्यस्तोमेन पतिता अपि व्यवहार्या भवन्ति अध्य- यनादिकर्मयोग्या भवन्ति इति वचनात् श्रुतेरित्यर्थः । तथा च गौ- तमीये-'यथैतदयाज्ययाजनं, अभक्ष्यभक्षणं, अवन्धवन्दनं, शिष्टस्याकि या, प्रतिषिद्धसेवन मिति पापान्युक्त्वा प्रायश्चित्तं कुर्यात् । न कुर्या- दिति मीमांसते' न कुर्यादित्याहुः । न हि कर्म क्षीयते कुर्यादित्यपरे । पुनः स्तोमेनेष्वा सवनमायान्तीति विज्ञायते । 'वात्यस्तोमैश्चेष्ट्वा तरति सर्व पाप्मान'मिति पूर्वसूत्रे नाध्यापनं घेत्युक्तेरापस्तम्बसूत्रेऽपि यस्य प्रपितामहादीति उपक्रम्य 'उपनयनं नाध्यापन'मित्यापस्तम्बोक्तेश्च सं. स्कारमात्रेणाऽध्ययनस्याऽप्युक्तत्वात् । व्रात्यस्तोमेनेष्टुत्यनुवृत्त्या वा- क्यभेदेन व्याख्यातः इदृशे विषये व्रात्यस्तोमापस्तम्बोक्तप्रायश्चित्त. योर्विकल्पो बोध्यः । अत्रत्यं हरिहरभाष्यमपि पोषपूरणयैव व्याख्येयम् । एवं च तादृशक्षत्रियाणामुपनयनाभावः सिद्धः ॥ वस्तुतः कलावुपनयनयोग्यक्षत्रियाभाव एव । तथा च चतुर्थेऽशे विष्णुपुराणे- यावत्परीक्षितो जन्म यावन्नन्दाभिषेचनम् । एतद्वर्षसहस्रं तु कलौ पञ्चदशोत्तरम् ॥ महानन्दिनः शुदायामुत्पन्नो नन्दाख्यः सकलक्षत्रजात्यन्तकारी, ततःप्रभृति शूद्रा भूमिपाला भविष्यन्ति ।
६
व्रात्यताप्रायश्चित्तनिर्णयः ।
देवापिः पौरवो राजा मरुश्चेष्वाकुसम्भवः ।
महायोगबलोपेतौ कलापग्रामसंश्रयौ ॥
कृते युगे समागत्य क्षत्रपार्वतकौ हि तौ।
भविष्यतो मनोवंशे बीजभूतौ व्यवस्थितौ ।।
एतेन क्रमयोगेन मनुपुत्रैर्वसुन्धरा ।
कृतत्रेतादिसंज्ञानि युगानि त्रीणि भुज्यते ॥
अत्र त्रीणि भुज्यते इत्यनेन तुर्ये कलौ पञ्चदशोत्तरसहस्ररूपा-
त्यल्पकालं तत्सत्ता सुच्यते ।
कलौ तु बीजभूतास्ते कोचित्तिष्ठन्ति भूतले ।
यथैव देवापिमरू सांप्रतं समवस्थितौ ॥
इति ।
ब्रह्मक्षत्रस्य या योनिशो राजर्षिसत्कृतः।
क्षेमकं प्राप्य राजानं स संस्थां प्राप्स्यते कलौ॥
इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति । इति च ।
इमौ च नन्दराज्यात् पञ्चशतवर्षतः पूर्वमित्यपि तत्रैव स्पष्टमित्यः
मत्सरैर्धर्मविरोधं परिहाय विचार्यमित्यलम् ॥
..
इति व्रात्यताप्रायश्चित्तनिर्णयः समाप्तः ॥
श्रीगणेशाय नमः। व्रात्यताशुद्धिसङ्ग्रहः। वात्यताशुद्धिरखिळस्मृतिवाचा विवेचनात् । सर्वविद्वजनमुदे यथामति निरूप्यते ॥१॥ 'आषोडशावर्षात् ब्राह्मणस्य नातीतः कालो भवत्याद्वाविंशावा- जन्यस्याचतुर्विशाद्वैश्यस्याऽत ऊर्च पतितसावित्रीका भवन्ति नै. नानुपनयेयुर्नाध्यापयेयुर्न याजयेयुन चैभिर्व्यवहरेयुः। कालातिक्रमे नियतवत्रिपुरुषं पतितसावित्रीकाणामपत्येऽसंस्कारो नाध्यापनश्च। तेषां संस्कारप्सुळत्यस्तोमेनेष्वा काममधीयीरन व्यवहार्वा भवन्ती- ति वचनात्' इति पारस्करसूत्रे ॥ अथापस्तम्बधर्मसूत्रम्-'आषोडशाब्राह्मणस्यानात्यय आद्वाविंशात्क्ष. त्रियस्याचतुर्षिशाद्वैश्यस्य यथा तेषु समर्थः स्यात्तानि वक्ष्यामः' । अतिक्रान्ते सावित्र्याः काले ऋतुं त्रैविद्यकं ब्रह्मचर्यञ्चरेत् । अथोपनय- नम्। ततः संवत्सरमुदकोपस्पर्शनम् । अथाध्यायः । अथ यस्य पिता. पितामह इत्यनुपेतो स्यातान्ते ब्रह्महसंस्तुताः, तेषामभ्यागमनम्भो. जनं विवाहमिति वर्जयेत् । तेषामिच्छताम्प्रायश्चितम् । यथा प्रथमे- अतिक्रमे ऋतुरेवं वत्सरः । अथोपनयनम् । तत उदकोपस्पर्शनं प्रतिपु- रुषं संख्याय संवत्सरान् यावन्तोऽनुपेताः स्युः सप्तभिः पावमानीभिः यदन्ति यश्च दूरके' इत्येताभिर्यजुःपवित्रेण सामपवित्रेणाङ्गिरसेने ति । अपि वा व्याहृतिमिः । अाध्याप्यः। अथ यस्य प्रपितामहादीनां नाऽनुस्मयंत उपनयनं ते स्मशानसंस्तुताः। तेषामभ्यागमनम्भोजनं विवाहमिति च वर्जयेत् । तेषामिच्छताम्प्रायश्चित्तं द्वादशवर्षाणि . विद्यकं ब्रह्मचर्यञ्चरेत् । अथोपनयनम् । तत पदकोपस्पर्शनं पावमान्या.
व्रात्यताशुद्धिसङ्ग्रहः । दिभिः । अथ गृहमेधोपदेशनं नाध्यापनम् , ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे । तत ऊर्व प्रकृतिवदिति ॥ माज्ञवल्क्ये प्रथमेऽध्याय ब्रह्मचर्यप्रकरणे- आषोडशादाद्वाविंशाच्चतुविशाच वत्सरात् । ब्रह्मक्षत्रविशाङ्काल औपनायनिकः स्मृतः ॥ अब ऊ पतन्त्येते सर्वधर्मबहिष्कृताः। सावित्रीपतिता बात्या प्रात्यस्तोमाइते क्रतोः॥ इति । मनौ द्वितीयाध्याये- अषोडशाब्राह्मणस्य सावित्री नातिवर्तते । आद्वाविंशात्रबन्धोराचतुर्विंशतोर्विशः॥ अत ऊर्व त्रयोऽप्येते यथाकालमसंस्कृताः। सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ नैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित् । ब्राह्मान् यौनांश्च सम्बन्धानाचरेद्राह्मणः सह ॥ इति । यमः सावित्री पतिता यस्य दश वर्षाणि पञ्च च । सशिखं वपनत्वा ब्रतकुर्यात्समाहितः ॥ एकविंशतिरात्रश्च पिबेत्प्रसूतियावकम् । हविषा भोजयेश्चैव ब्राह्मणान् सप्त पञ्च च ॥ ततो यावकशुद्धस्य तस्योपनयनं स्मृतम् । इति । वसिष्ठः-'पतितसावित्रीक उद्दालकवतञ्चरेत् । द्वौ मासौ या- वकेन वर्तयेत्, मासं पयसा, पक्षमामिक्षया, अष्टरात्रं घृतेन,' पर रात्रमयाचितेन, त्रिरात्रमभक्षोऽहोरात्रमुपवसेत् । अश्वमेधावभृथङ्ग- छेत् । व्रात्यस्तोमेन वा यजेद्वा यजेत्' इति ॥ मनावकांदशे- येषां द्विजानां सावित्री नानूच्येत यथाविधिः। तांश्चारयित्वा श्रीकृच्छ्रान्यथाविध्युपनाययेत् ॥ इति ।
है 1 नात्यताशुद्धिसङ्ग्रहः । अत्राषोडशादित्याङ् यदि मर्यादायान्तर्हि षोडशमारभ्य प. तितसावित्रीकत्वं, यद्यभिविधौ तर्हि सप्तदशमारभ्य तत्संपद्यते । तत्र यमवचने 'दश वर्षाणि पञ्च च' इति निर्देशात् आषोडशादित्या. दौ मर्यादैवाखोच्यते नाभिविधिरिति केचित् । परे तु यमवचनमिदन पतितसावित्रीकप्रायश्चित्तपरं येनाऽऽषोडशादित्यादावाङ् मर्यादायां स्यात् । किन्तु यथाकालमुपनीतस्य तदूर्ध्वहितामापनस्यानापन- स्य वा देवामानुषाद्वाऽपराधात् पञ्चदशवर्षपर्यन्तं सावित्री प्रतिता ग्रस्य सन्ध्यावन्दनादित्यागो यस्य तस्येदं यावकव्रतं पुनरुपनयनञ्च । अत्र पतितसावित्रीक इति समासानादरात् । 'अष्टवर्षे ब्राह्मणभुपन यीत, एकादशे राजन्यम् , द्वादशे वैश्यम्' इति निर्देशात् । मुख्यका लाद्विगुणकालपर्यन्तङ्गोणकालत्वनिरूपणात् । तत्रास्त्रध्याङ एव प. तीतेमर्यादार्थकत्वाप्रतीतेश्च । तथा च षोड़शादिवर्षाचं पतितसा वित्रीकत्वं भवतीत्यर्थः । नैनानिति निन्दार्थवादाः । कालातिकम इत्यादि प्रायश्चित्तपरम् । कालातिक्रमे सजातोपनयनसंस्कारस्थ गृ. हिणोऽगृहिणो वा सन्ध्यावन्दनादीनां बहुकालमतिक्रमे सति नि. यतवत्स्मृतिषु नियतं नियमितं प्रायश्चित्तमिव कृतेऽपि प्रायश्चित्त म् । तत्र यमवचनं पञ्चदशवर्षपर्यन्तं सावित्र्या उपनयनात्तरप्र. वृत्ताया लोपे यावकवतोपनयनपरम्, तथैवेहापि पतितसा. वित्रीकस्य बालकस्योपनयनं याचकवतपूर्वकं विज्ञेयम् । एवं पि. रम्यनुपनयने त्रिगुणं यावकवतकार्यम् । पितामहस्याप्यनुपनयने ष. झुणं यावक्रवतङ्कार्यम् । केवलयावक्रवतस्य बालकगतस्यैकर्तुब्रह्मचर्य समत्वात् । सस्य चैक ब्रह्मचर्यस्य 'यस्य पिता पितामह इत्यनुपेत्री स्थाताम्' इत्युपक्रम्य 'यथा. प्रथमे कातुरेवं अत्सरः' इति एकर्तुततस्त पाड्गुण्यविधानेन यावकवतस्त्रापि पाड्गुण्यौनित्यात्। मञ्च कालपति- क्रम इति सूत्र बालकस्यैकस्य तस्य पितुश्च जयोस्तयोः पितामहस्य व त्रयाणां पतितसावित्रीकत्वप्रायश्चित्तपरम् । यद्यथाऽषोडशादि- ।
वास्यताशुद्धिसङ्ग्रहः। स्युपक्रम्याऽत ऊर्वमित्यनन बालकस्यैव पतितसावित्रीकत्वमित्युका कालातिकम इति सूत्रं पठितं बालकस्यैव पतितसावित्रीकत्वप्रा. यश्चित्तपरं भवितुमर्हति, तथापि त्रिपुरुषं पतितसावित्रीकाणामिति त्रिपुरुषपतितसावित्रीकापत्यप्रायश्चित्तविधानेन प्रथमप्रायाश्च पु- रुषत्रयसाधारणत्वेनैव नेतुमुचितमिति दिक् ॥ अपरे तु कालातिक्रमे नियतवनियते नित्ये कालातिक्रमे व्याहृतिः- होमः प्रसिद्धस्तद्वत्तेन तुल्यं व्याहृतिहोमात्मकं प्रायश्चित्तम्भवति । तञ्च प्रायश्चित्तमेकर्तुब्रह्मचर्योहालकवतयावकवतसाम्यसम्पत्तये उहालकवतप्रत्याम्नायत्वेन चतुर्दशप्राजापत्यनिर्णयात् । तथैव सह- नव्याहृतितिलहोमस्यैकप्राजापत्यतुल्यत्वाच्चतुर्दशसहस्रव्याहृतिहो. मः कालातिकमे बालकस्य प्रायश्चित्तरूप इति पितृपितामहवोरपि पतितसावित्रीकत्वे चतुर्दशषड्गुणाश्चतुरशीतिसहस्रव्याहृतिहोमाः प्रायश्चित्तरूपा बालकपित्रोरुभयोरेव पतितसावित्रीकत्वे द्विचत्वारिं- शत्सहनन्याहृतिहोमा भवेयुः प्रायश्चित्तरूपा इति विवेचयाम्बभूवुः ॥ याज्ञवल्क्ये- उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा । पयसा वापि मासेन पराकेणाऽथवा पुनः ॥ मनौ- एतदेव व्रतकुमुरुपपातकिनो द्विजाः । अवकीर्णिवर्ज शुद्ध्यर्थ चान्द्रायणमथापि वा ।। पवङ्गोवधप्रायश्चित्तेनेत्यर्थः। पतितसावित्रीकताया उपपातकरू- पत्वेन स्मर्तृभिः पापगणनादुपपातकशोधकानि यानि कर्माणि प्रसि- द्वानि तानि सर्वाण्यपि यथायोगं सङ्ग्रहीतुमेव: कालातिक्रमे यो. भ्यतयोपपातके कालातिक्रमोपलक्षिते वात्यत्वे नियतवन्नियतेनोफ- पातकनिवृत्तिनियतेन प्रायश्चित्तेन तुल्यं प्रायश्चित्तं विधेयमिति बहु विधवैकल्पिकप्रायश्चित्तपरिग्रहाय 'कालातिक्रमे नियतवत्' इति 'सामान्यात्मना सूत्रं रचितमिति दिक् ॥ - - -- व्रात्यताशुद्धिसङ्ग्रहः। अथ कालातिक्रमे नियतवदिति पुरुषत्रयपर्यन्तमपि वृद्धिक्रमेण पतितसावित्रीकत्वे प्रायश्चित्तपरम ! तत्प्रायश्चित्तं वृद्धिमत् त्रिपुरुः षादूर्व पतितसावित्रीकत्वे भवेदपि, परन्तु तेन प्रायश्चित्तेनोपनयनसं. सकारेंऽपि नैवाध्यापनमधिकप्रायश्चित्तं विना, किन्तु व्रात्यस्तोमेने त्याह-त्रिपुरुषमिति । संस्कारो नोपनयनलक्षणोऽध्यापनञ्च नेत्यन्वयः। तेषां पुरुषाणां त्रयाणां पुत्रस्य च चतुर्णा मध्ये कोऽपि जनः व्रात्य- स्तोमेनष्टवा संस्कारप्सुरुपनयनसंस्कारेप्सुमवेत् । व्रात्यस्तोम विना नियतवदिति प्रायश्चित्तेन वर्द्धितेन संस्कारेऽप्यधिकप्रायश्चित्तं विना नाध्यापनेच्छुर्भवेदिति यावत् । तत्र प्रमाणमाह-'काममधीयीरन् व्यवहार्या भवन्तीति वचनात्' इति । काममधीयोरन्नित्यर्थपरं ताण्ड्यब्राह्मणवचनात् । ताण्ड्यब्राह्मणे ईदृग्वचनाभावनैतदर्थस्य तत्रा. थैसिद्धत्वनैतदर्थपरवचनादित्येव व्याख्यातुमुचितत्वात् । 'तैरिष्ठवा विद्यवृत्ति समातिष्ठेयुः, तेषां तत ऊर्ध्व भुञ्जीत. याजयेच्चैनान्' इति छन्दोगसूत्रात् । 'व्रात्यस्तोमेनेष्वा व्रात्यभावाद्विरमेयुर्व्यवहार्या भ. वन्ति' इति कात्यायनसूत्रात् । एवञ्च व्रात्यस्तोमोऽतिविशिष्टत्वात्प्रबलै. नोनिबहको भवति प्रबलपातकनिवर्तकस्य क्षुद्रपातकनिवर्तकत्वं साहजिकमिति याज्ञवल्क्येन प्रथमादिवात्यतायामपि निवर्तकत्वेन वा. त्यस्तोमो निबद्धो 'वात्यस्तोमाहृते क्रतोरिति । व्रात्यस्तोमं विना सर्वधर्मबहिष्कृताः सावित्रीपतिता वात्याः । वात्यस्तोमे कृते सति सर्वधर्माधिकारिणो निष्पापाः शुद्धा इति तदाशयात् । अत्र त्रिपुरुषं पतितसावित्रीकापत्यत्वं व्रात्यस्तोमे निमित्तं तत्र त्रिपुरुषाधिकपति. तसवित्रीकत्वेऽपि सहने शतमितिवत्रिपुरुषपतितसावित्रीकापत्यत्वं भवेदेवेति चतुरादीनां पतितसावित्रीकत्वेऽपि व्रात्यस्तोमानुष्ठानं भव: तीति 'ऐन्द्राग्नं पुनरुत्सृष्टमालभेत य आतृतीयात्सोमं न पिबेत्' इति वाक्यविचारावसरे निरूपयिष्यामः-इति पारस्करसत्रयोजना ॥ अथाऽपस्तम्बसूत्रयोजना वर्णविभागेन विहितनुपाला - '- ६ प्रात्यताशुद्धिसङ्ग्रहा। वर्षे ब्राह्मणमुपनयीतैकादशे राजन्यं द्वादशे वैश्यम्' इत्येवंलक्षणादूर्व मुख्यकालसमसङ्ख्याकंगौणकालं मनसि निधायाह-आषोडशादिति । यथेति । वक्ष्यमाणवतसामर्थ्यसम्पत्तिपर्यन्तमेव गौणोऽपि कालः प्र- सीश्यो नाऽधिकागौणकालेऽपि सामथ्र्योत्तरकालो नातिक्रमणीयः। अतिक्रमामे तु तदुञ्चित प्रायश्चित्तमतिविधेयमिति भावः गौण. कालस्यः सर्वस्थापि उलझने प्रायश्चित्तं किञ्चिदर्शयक्ति अतिक्रान्त इति । वयचा विद्यामधीवतंति विद्यास्तेषामिवां विद्यकम् । वेदत्रयग्रहणोचित ब्रह्मचर्य वेदाध्ययनवर्ज गुरुसेवादिलक्षणं तत्तवेदयावं तत्ततन्त्रग्रहणकाले यो यो धर्मो विशिष्योक्तो गामुखरी- त्या भोजनसमिदाद्याहरणविशेषादि च तत्तदुक्तं ऋग्यजुःसामगुरु- अवस्य कालविभागेन यथायोग सेवनेन संवलितं निखिलमपि च. पेदित्यर्थः । अथेति । ऋतुकालव्यापिब्रह्मचर्यानन्तरं यथापूर्वमुपनयनं कार्यम् । तत इति । उपनयनानन्तरं त्रिषवणवानमुचितं नियत- मन्त्रत इति भावः । अथेति । संवत्सरवानेनाधिकारसिद्धौ सत्या- मध्याप्योऽध्यापना) भवति । अत्रैतावता अन्येन बालकस्यैकस्यैव प्रतितसावित्रीकत्वे प्रायश्चित्तरूपैकर्तुब्रह्मचर्यपूर्वकमुपनयनं संव- सरस्नानपूर्वकाध्यापनाहत्वञ्च निरूपितम् । सम्प्रति बालकतपितृपितामहानां पतितसावित्रीकत्वे त्रैविद्यत्र- ह्मचर्यलक्षणप्रायश्चित्त,सत उपनयन , तत: स्नानभेदेनाऽध्ययनाई- तांच दर्शयति-अथ यस्येति अथाऽस्मिन्विषये प्रायश्चित्तादि निरूप्य- ते 'यस्य पिता पितामह इत्यनुपेतौस्याताम्' इति। अत्र पितृपितामह- योरनुपनीतत्वानुवादपूर्वकं त्रयाणां 'ते ब्रह्महसंस्तुता' इति निन्दाबोध- नादुपनयनविधानपूर्वकमेकस्याध्याप्यताया 'अथाध्याय' इति निर्दे- 'शात् यस्येति पदमनुपनीतबालकपरम्। बहुवचनञ्च तेब्रह्महसंस्तुता- स्तेषामभ्यागमनम्' इति निन्धबहुत्वात्सङ्गतमिति मेदनिर्देशाकरणे संवत्सरमात्रमेव साधारज्येन ब्रह्मचर्ये पमित सङ्गतं भवति ।
ब्रात्यताशुद्धिसङ्ग्रहः। वस्तुतस्तु बालकस्य पितुः पितामहस्य च संवत्सरंविधकं ब्रह्म- चर्य समानमेव त्रयाणामपि पतितसावित्रीकत्वम् । तत्रैव विभजनीयम् पितामहव्रत्यतानिमित्तमेकर्तुब्रह्मचर्य,पितृवात्यतानिमित्तं धर्तुब्रह्मचर्य, बालकवात्यतानिमित्तं व्यतुब्रह्मचर्यमुत्तरोत्तरं व्रात्यताभिवृद्धः । एवं च बालकस्य सांवत्सरब्रह्मचर्यमपेक्षितम् । पितामहस्य पुनः स्वार्थमे- कर्तुब्रह्मचर्य वात्यतादशायां व्रात्यपुत्रोत्पादनाद्रात्यताऽभिवृद्धति द्या तुब्रह्मचर्य, व्रात्यपुत्राद्वात्यपुत्रजननादात्यतायाः पुनरतिवृद्धः व्यर्तु ब्रह्मचर्यञ्चापेक्षितमिति संवत्सरब्रह्मचर्यमपेक्षितम् । पितुरुपनयन एवम् । पितुः पुनः स्वपितुर्वात्यतानिमित्तमेकर्तुब्रह्मचर्य, स्वार्थ धर्तु. ब्रह्मचर्य, पुत्रार्थ व्यर्तुब्रह्मचर्य व्रात्यतादशायां स्वस्योत्पत्तेः स्वपुत्रो. स्पत्तश्चोत्तरोत्तरं व्रात्यताप्राबल्यात् । एवञ्च बालकस्यैवैकस्याऽनुपन- यनेन व्रात्यतायामेकर्तुब्रह्मचर्य, पितुश्चाऽनुपनयनेन व्रात्यतायां धर्तु. ब्रह्मचर्य, पितामहस्याऽनुपनयनेन व्रात्यतायां व्यर्तुब्रह्मचर्यमपेक्षित- मिति विभजनीयम् । अत्र पिता पितामहश्चानुपेतौ स्यातामिति व. क्तव्ये सति 'पिता पितामह' इती तेरधिकस्य कथन मितेः प्रका. रपरत्वेनान्येषामपि परिग्रहाय । एवञ्च यस्येति यत्पदार्थों यथाऽनु- पनीत इति सिद्ध्यति । एवं प्रपितामहादीनामप्युपनयनं सूचितं भव- ति । अत्रानुपेताविति द्विवचनान्निरुच्यमानमिदं प्रायश्चित्तं संवत्स- रब्रह्मचर्यादिलक्षणं न प्रपितामहादीनां भवति किन्त्वन्यदेवेति सूचि- तम् । तचैकर्तुब्रह्मचर्यस्यैकोत्तराभिवृद्धिक्रमसूचनात्प्रपितामहावल- म्बने ऋतुचतुष्टयब्रह्मचर्य संवत्सरादूर्ध्वमधिकमपेक्षितम् । प्रपिता: महादग्रपुरुषपरिग्रहे पञ्चर्तुब्रह्मचर्यमधिकमपेक्षितम् । एवञ्च वत्सरदः यादूर्व व्यर्तुब्रह्मचर्यमधिकं सञ्जातम् । एवमग्रे पुरुषवृद्ध्या एकर्तुत्र- हह्मचर्यवृद्धिादशवर्षपर्यन्तं नेयेति सूचितं भवति । एवञ्चैकादशपुरुषे एकादशाब्दा जायन्ते तदूर्ध्व द्वादशाब्दसङ्ख्या वचनादेवेति दिक ॥ 'ते ब्रह्महसंस्तुतास्तेषामभ्यागमनं ते ८ ब्रात्यताशुद्धिसङ्ग्रहः। त्रयोऽपि जीवन्तःप्रायश्चित्ताहीं इति सूच्यते। इच्छतामिति निर्देशा- दनिच्छतः प्रायाश्चत्तं बलान कारणीयम् । अनिच्छुना कृतेऽपि प्रा. यश्चित्ते तम्मर्यादा न पालयेत् शुद्धमर्यादां जह्यादेवाऽतोऽरुचिढा जाता चेत्तर्हि प्रायश्चित्तं कारणीयमिति भावः । तथा चेच्छा चेत्र याणामपि पृथक् पृथक् प्रायाश्चित्तं भवति यदि ते जीवन्तः स्युः । यदि तेषु कश्चिदिवङ्गतः स्यात्तर्हि स तावदनिच्छत्पुरुषसमो नेयः । ते इति । ते बालकपितृपितामहाः ब्रह्महत्वेन निन्दिता तेषामेतत्स- म्बन्धिभोजनाभ्यागमनविवाहान् वर्जयेत् । इतिपदं प्रकारपरम् । अन्यदपि निरुक्तसमं वर्जयेत् । अथ प्रयाणामिच्छतां प्रायश्चित्तस्व. रूपमाह-यथेति । अत्र प्रथमेतिक्रम इति निर्देशाद्वितीयतृतीयाध. तिक्रमा अपि ज्ञापिताः । तत्र बालकस्यैकस्य कालातिक्रमः प्रथमः । पितुः कालातिक्रमो द्वितीयः । स च द्विविधः-पितुः कालातिक्रमः बालकस्य पितुश्च द्वयोरपि कालातिक्रम इति द्विविधोऽप्ययं द्विवि- धः-पिता जीवन्नजीवन्निति । पितृपितामहयोः कालातिक्रमस्तृती- यः। सोऽपि द्विविधः-बालकेन सह कालातिक्रमो बालकं विना चेति । पितृपितामहयोर्जीवनं पितुरेव जीवनं पितामहस्यैव जीवन- अति । सोऽपि त्रिविधः । सकलपक्षेपीदं प्रायश्चित्तं साधारणमुक्तम् । प्रथमातिक्रमे ऋतुरिव द्वितीयतृतीयातिक्रमयोर्वत्सर इति । अयमाशयः-बालकपितृपितामहानामतिक्रमे त्रयाणामिच्छायां त्रिभिरपि प्रत्येक वत्सरं विद्यकं ब्रह्मचर्य विधेयम् । यदि बालकस्य कालो नातिकान्तः स्यात्तद्यपि पितृपितामहाभ्यां सह बालेनैकर्तनव- त्सरब्रह्मचर्य कर्तव्यम् । यदि पितृपितामहयोः कश्चिदनिच्छन् मृतो वा द्वावपि मृतौ त_पि यो य उपनयनेच्छुस्स संवत्सरब्रह्मचर्य कु. यात् । उपनयनवान् स तावदुचितलोकादिभाग्भवति । इतरस्तुन तथा भवतीति विवेक इति दिक् ॥ ... एवञ्च त्रयाणामपि. पुरुषाणां नियमेनानुष्ठानाभावात् कदाचिदे- वात्यताशुद्धिसङ्ग्रहः। कस्य कदाचित् द्वयोः कदाचित् त्रयाणाञ्चाऽनुष्ठानदर्शनात्सकलपक्ष- साधारण्येन अपरपरपदाद्विवचनादिनिर्देशमन्तरा यथा प्रथमेऽति- क्रमे ऋतुरेवं वत्सरः॥ अथोपनयनम् । एकस्य द्वयोस्त्रयाणां वा उदकोपस्पर्शनमप्येका- दीनां यथायोगं वक्ष्यमाणवत्सरपर्यन्तमिति सूत्रं रचितम् । अत्रोद. कोपस्पर्शनस्योपनयनोत्तरभाविनोऽध्ययनाङ्गतवा . संस्काररूपत्वेन बालकपितृपितामहानां बालकमात्रस्य सपितृकस्य वोपनयने उदको- पस्पर्शनं वत्सरमात्रमेव प्रथमपर्यायवदित्याशङ्क्य मध्यमपर्याये- ऽस्मिन्वत्सरभेदं स्नानमन्त्रभेदश्च दर्शयति प्रतिपुरुषमिति । याव. न्तोऽनुपेतास्तावद्वर्षपर्यन्तमुदकोपस्पर्शनं सप्तभिरित्याम्नातमन्त्ररि- त्यर्थः । नेदं प्रतीतिसूत्रं प्रतिपुरुषं संवत्सरन्यायेन ब्रह्मचर्यविधिपरं, तथा सति यथा प्रथम इति सूत्रसन्ष्टमेव पठितं स्यात्, न तथा पठितं, किन्तूदकोपस्पर्शनस्तानमन्त्रान्तराले पठितम् । तेनोदकोप- स्पर्शन एवेदं सूत्रमन्वियात् न पूर्वत्र । यद्यन्वियात्तथा सति यथा प्रथमेऽतिक्रमे ऋतुरेवं प्रतिपुरुषं सङ्ख्याय संवत्सरान्यावन्तोऽनुपेताः स्युरिति सूत्रघटनं कृतं स्यात् । न तथा कृतं प्रत्युताऽधिकं वत्सर इति पदमुपादायैव सूत्रं रचितमुपलभ्यते । अतो निरुतयोजनमेव समुचि. तम् । एवञ्च यथा प्रथम इति वचनं बालकपितृपितामहानां मध्ये य उपनयनेच्छुस्तस्य वर्षमात्रब्रह्मचर्यविधानपरमिति विवेचनीयम् । आङ्गिरसेनेतीतिपदं मन्त्रान्तरसङ्ग्रहार्थम् । अनेन प्रथमे पर्याये उद. कोपस्पर्शनेन मन्त्रा नियताः साधारणस्नानमन्त्रा एव तत्र भवेयुः। विशिष्य कथनान्मध्येऽन्त्ये च मन्त्रा नियता अपि भवन्ति । अपि बेति व्याहृतयो विकल्पेन स्नानमन्त्राः । अथेति । अथाध्याप्य इत्येक- वचनात् त्रयाणां मध्ये य इच्छन्नमृतो भवन् सन् उक्तब्रह्मचर्यवानुप- नेयो भवति पश्चात् स्नाने जातेअध्याप्य इत्यर्थः । अत्र त्रयाणां सम्भू. यैवाधिकारो नेतरथेति शङ्का अध्याप्य इत्येकवचनेन परिहता वेदि. . . .
१० 'बास्यताशुद्धिसङ्ग्रहः । तव्या। केचित्तु पितृपितामही प्रायश्चित्तोसरमुपनयनेऽपि स्लाने - तेऽपि नाध्याप्यो बालक एवाध्याप्य इत्येकवचनेन धोत्यत इति प्रा- हुः । तत्र बालकपितृपितामहेत्तरोत्तरमपैनस्त्वात्समैनस्त्वाद्वा बा- लकस्याऽतिपावित्र्येणाऽध्यापनाईता, नेतरयोरित्यस्य नियुक्तिकत्वा- दिति दिक। अथ पूर्व पितामह इतीतिपदेन प्रपितामहादीनामुपनयनं 'सूचितम् । तत्र प्रपितामहादावनुपनयनानुस्मरणे पितामहोत्तरमेव प्रायश्चित्तम् । बालकः पितामह इति संवत्सरत्रये स्पष्टे एकं हो त्रीन्वा वत्सरानिति विवेचनेनैवं सम्भवति प्रतिपुरुषं सजधाय संवत्स- रान्याक्न्तोऽनुपेताः स्युरित्यानद्धारितत्वेन निर्देशात् । प्रपिता- महादिषु शातानुपनयनस्थले सोपनयनंपुरुषं निर्णीय तदर्वाक्प्रति- पुरुषं संवत्सरस्नानमधिकं भवेत । ब्रह्मचर्यमपि प्रपितामहादौ यत्पु- रुषे उपनयनं स्मृतं तदधस्तनपुरुषमारभ्य बालकपर्यन्तमेकोत्तर - विवृद्धिक्रमेण यावत्पुरुषं विधेयम् । प्रपितामहादि नाऽनुस्मर्यत इ- त्युपलक्षणम् । पित्रादिः प्रपितामहादिर्वा नानुस्मर्यत इति । तथा चोपनयनावधौ विज्ञाते पूर्वोक्तं प्रायश्चित्तम् । अज्ञाते द्वादशवर्षप्राय- श्चित्तमिति प्रायश्चित्तविशेषं निन्दाविशेषकथनपूर्वकं दर्शयति-अ- थेति । 'यस्य पिता पितामह इत्यनुपेतो' इत्यत्र पूर्वस्योपनीतत्वप्रेत- नानुपनयनानुकादनैरर्थक्यात् अप्रिमानुपनयनानुवादसामर्थ्यात्पूर्वा- नुपनयनसिद्धेस्तथैव सर्वेषामपि 'ते ब्रह्मसंस्तुतास्तेषामभ्यागमनम्' इत्यनुपनयनप्रयुक्तनिन्दावादस्य साधारण्येन प्रत्ययात् । प्रकृते यस्य प्रपितामहादीति निर्देशानु प्रपितामहादीनामनुपनयनं सिद्ध्यति। पूर्वे. षामुपनयनकथनात्सर्वेषां बालकपितृपितामहादीनामनुपनयन एवाग्रे- तनानुपनयनोक्तिसार्थक्यात् । उत्तरत्र ते स्मशामसंस्तुतास्तेषामभ्या- गमनम् इति बालकादीनामनुपनीतत्वेन निन्दादर्शनात् प्रपिताम- हादि नाननुस्मयंत उपनयनमिति चाऽनुस्मरणाभावनिर्देशन प्र.
। .. पितामहावी ते इति तत्पदेन प्रपितामहादी- नामेव ब्रहण सत्यवश्यसङ्ग्राह्यत्वात् । एचश्चात्र करणात् यथा प्रथमेऽतिक्रम इति बालकातिक्रमस्या ममत्वानिदेशेत पित्रतिक्रमस्य द्वितीयत्वं, पितामहादिक्रमस्य तृतीयत्वमिति सूचनात् प्रपितामहादीत्यादि- पदमग्रेतनानेव गृहाति योग्यत्वात् , न पूर्वतनान् तेषां प्रकारान्तर णैव निरुक्क दिशानुपचयनलाभसम्भवेन पुनरनुचितादिपदेन ग्रहणे प्रयोजनाभावात् । एवञ्च यस्य बालकस्य पितृपितामहसहितस्य प्र. पितामहादि उपनयनं नानुस्मयते ते बालकादयः स्मशानत्वेन निन्दिता इत्यर्थ: । पूर्वमताविति प्रत्यक्षीभूतत्त्वेन निर्देशात् नानुस्मयत इति स्मरणाभावनिर्देशात्प्रापतामहादयः प्रायेण मृताः यथायोगमित पितृपितामही प्रायेण जीवन्तावि. ति सूचितं भवति प्रपितामहस्य जीवत इच्छा चत्प्रायश्चित्तं भव- ति । तत्र बालकास्वैवानुमनायनेऽल्पं प्रायश्चित्तम् । अग्रिमाग्रिमपुरु षानुपनयने तु प्रायश्चित्तं गुरु भवतीत्यर्थः । तेषामिति जीवतामिच्छ: तां वंशजपुरुषाणां मध्ये यस्य यस्योपनयनमपेक्षितं तेन तेन द्वादश- वर्षे ब्रह्मचर्य कर्तव्यमित्यर्थः। तदनूपनयनं तत उदकोपस्पर्शनं पाव- मान्यादिभिमन्वैरित्यर्थः । अत्र बालकादिषु बहुषु जनेषु पूर्व पिता. महान्तं सक्क्यानिश्चयापतिपुरुषमिति सुत्रं प्रवर्तितम् । संवत्सर सङ्ख्यानिर्णयेनोवकोपर सम्भवात्प्रपितामहादीत्यादौ, पुरुष, सङ्ख्यानयत्वाभायत उनको मस्पर्शने प्रतिपुरुषमिति सङ्ख्या न निबद्धा किन्तु प्रावणासनसो निवृत्तये द्वादशवर्ष ब्रह्मचर्य विहि: तम् । तदनन्तरमुपनयनमुक्त्वा उदकोपस्पर्शनं रावमान्यादिभिरिति स्नानं सामान्यतो विहितम् । तच उदकोपस्पर्शनं सकृदनुष्ठान एव कालानादेशार्पयवस्यति । तावतैव शास्त्रार्थस्याऽष्टावहस्य सिद्धेः । सकृत्स्नाने जाते सिद्धमधिकारं दशर्यति १२ ब्रात्यताशुद्धिसङ्ग्रहः । थशानानुष्ठानगृह्यशास्त्रोपदेशनं भवति । सकृत्स्नानेन स्मातकर्माधि- कारः सूचितः।यथा गृहधर्मेऽधिकारस्तथा श्रौतेऽप्यधिकारोऽस्त्वि- त्याशझ्याह-नाध्यापनं श्रुत्यध्यापनन्तु न भवति। तेन सकृत्स्नानेन श्रौतार्थानुष्ठानाधिकारसिद्धिरिति सिद्धयति । अयं भावः प्रथमे पर्याये संवत्सरमुदकोपस्पर्शनमिति । द्वितीये पर्याये प्रतिपुरुषं सङ्ख्याय संवत्सरानिति स्पष्टं स्नानकालनि- देशात् । तृतीये पर्याये तत उदकोपस्पर्शनं पावमान्यादिभिरिति मन्त्रवत्कालस्य विशिानिर्देशात् । द्वादशवर्षे ब्रह्मचर्य कर्तुमुप- नयन जाते आलस्यादिना बहुकालमुदकोपस्पर्शनाकरणेऽपि पा. धमान्यादिभिः सदुदकोपस्पर्शनन्तु कर्तव्यमेव । - द्वादशव- र्षब्रह्मचर्यानुष्ठानस्याऽधिकारसम्पादकत्वेनोपनयनद्वारा फलपर्य न्तानुधावनावश्यंभावनाऽधिकारसम्पादनस्य कर्मानुष्ठान पर्यव- सानौचित्येन आलस्यादिना बहुकालमुदकापस्पर्शना करणेऽपि बहुकालं ब्रह्मचर्यकरणेन प्रायेण विनष्टस(नस्त्वात् स्मार्तकर्मा- धिकारसम्पतये सकृत्स्नानं पावमान्यादिभिः कार्यमिति हृदये- नोक्तम् । तत उदकोपस्पर्शनमिति । इदश्च कालनिर्देशाभावात्सकृदनु. ष्ठान एव पर्यवस्यति 'सर्वोषधस्य पूरयित्वोलूखलमवहन्ती'तिवत् । अथ गृहमेधोपदेशनमित्यनेनालस्यादिना बहुकालमुदकोपस्पर्शाभा- वेऽपि स्मार्तधर्मानुष्ठानन्तु भवेदेव,श्रौतधर्मानुष्ठानाभावेऽपि । एवञ्चै- तावता द्वादशवर्षब्रह्मचर्यानुष्ठानं सफलमेव संपन्नं भवति । द्वादश- वर्षब्रह्मचर्यानुष्ठातरि स्मार्तकर्मानुष्ठानमात्रेणोपरते सति स्मातकर्मा- नुष्ठानकाले सजातपुत्रस्य तु पितुः प्रायश्चित्तेन द्वादशवर्षलक्षणब्रह्म चर्येणोपनयनद्वारा स्मार्ताधिकारात् । एतस्यापि तावत्येवाधिकारों न श्रौते कर्मण्यपि । पितुः पितामहस्य वा पूर्वपुरुषाणां सोमपानाभा वेन सोमानधिकार ऐन्द्राग्नाकरणेन सोमपीथित्वाभावे तत्पुत्रस्य विनन्द्राग्न सोमाधिकारात् प्रकृतेऽपि द्वादशवर्षब्रह्मचर्यवतः स्मार्ता वात्यताशुद्धिसङ्ग्रहः। नुष्ठातुः पुत्रस्य पूर्णोदकोपस्पर्श सत्यवाध्ययनेऽधिकारो नान्यथेत्याह 'ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रम' इति । अत्र प्रथमातिक्रमे तावत् अतिक्रान्ते सावित्र्याः काले ऋतुं - विद्यकं ब्रह्मचर्यचरेत् । अथोपनयनं, ततः संवत्सरमुदकोपस्प. र्शनम्, अथाध्याप्य इत्याम्नातम् । तत्र पुषस्य उपनीतस्मात- कर्मठपुत्रत्वात् ऋतुं विद्यकं ब्रह्मचर्यमित्यकरणेऽप्युपनयन भ- वेदेव । पितुरैन्द्राग्नेन सोमपीथित्वे पुत्रस्यैन्द्राग्नानपेक्षणात् । वे. दाध्ययनेऽपि अत्रैवालस्यादिना पूर्वणोदकोपस्पर्शनाकरणेनाधिका- रासम्पादनात् । परिशेषात् तस्य संस्कारो यथा प्रथमेऽतिक्रमे इति कथन वेदाध्यापनाधिकारसम्पादकसंवत्सरोदकोपस्पर्श एव प. यवस्यति । एवं तृतीयपर्याये आलस्यादिनोदकोपस्पर्शनाभाववत् प्रथमद्वितीयपर्याययोरपि आलस्यादिना शास्त्रोदितकालमभिव्या- प्योदकोपस्पर्शनाभावे सकृदेवोदकस्पर्श सति गृहमेधायोपदेशनं भवति । श्रुत्यध्ययनन्तु न भवेदेव स्मातकर्मानुष्ठान एव तस्याधिका- रो भवति। तत्कर्मानुष्ठानसमये सञ्जातपुत्रस्य श्रौतपरिग्रहमन्तरा पित- र्युपरते सति तत्पुत्रस्य तु प्रकृतवदुपनीतस्य संवत्सरोदकस्पर्शादेव तृतीयपर्याय इव वेदाध्ययनाधिकारः । एवं प्रथमद्वितीयपर्याययोरि- व बहुकालं तृतीयेऽपि पर्याये उदकोपस्पर्शे सति तत्पुत्रपर्य- न्तानुधानमन्तरैव स्मृतिवच्छुतेरप्यध्ययनमनुष्ठानोपयोगि भवति पितुः । तत्र द्वादशवर्षाणीत्युपनयनात्पूर्वमेव ब्रह्मचर्यबहुकालग्रह- णात्तेनैवैनसः प्रायेण निवृत्तेरुत्तरत्र यथा प्रथमेऽतिक्रम इति सं. वत्सरमात्रोदकोपस्पर्शनपरिग्रहात्तत्सामान्यात्तृतीयेऽपि पर्याये प्र- थमवदेवोदकस्पर्शनमिति विवेच्यते । एवञ्चाऽर्थात्संवत्सरपरिमि- तमुदकोपस्पर्शनं द्वादशवर्षब्रह्मचर्यकर्तुरालस्यं विनाऽध्ययनाधि- कारसम्पादने पर्यवस्यति । उपक्रमे संवत्सरारम्भात् प्रान्तेपि संव- त्सरोक्तेस्तत्स्थानसन्निकर्षेण तृतीयपर्यायेपि वत्सरस्यैवोचितत्वात् ।
व्रात्यताशुद्धिसङ्ग्रहः । एवञ्च पर्यायत्रयेऽपि आलस्यादिनकस्नानोत्तरं कालान्तरे शास्त्रन्या यसिद्धं स्नानं विधेयमितीच्छायां प्रथमस्नानमात्रेण स्मार्तकर्माधि. कारसिद्धिः । सम्पूर्ण स्नाने जाते तु वेदाध्ययनात् श्रौतकर्माधिका- रसिद्धिरिति सिद्धम् ।।. अथायमत्र निष्कर्षः-प्रथमपर्याये द्वितीयपर्याय च समुह ब्रह्मचर्यानुष्ठानानन्तरं पुरुषसङ्ख्यानिर्णयेन तावत्संवत्सरंपर्यन्तं स्नाने सति अध्ययनं वेदस्यानुष्ठानपर्यवसायि भवति । शास्त्रो तपूर्णस्नानाभावे तु स्नानमात्रे जाते स्मातऽधिकारः। का लान्तरे सम्पूर्ण स्नाने जाते वेदाध्ययनादि न भवेत् । पूर्णस्नाना भावे स्मातकर्मानुष्ठानकाले जातपुत्रस्य तु पित्रा यावत्कृत तावदुप. नयनादिकालानतिक्रमे प्रकृतिवदेव । वेदाध्ययनन्तु पितुर्वेदाध्यायना- धिकाराय यत्परिमाणं स्नानं शास्त्रेणादिष्ट तत्प्रमाणस्नाने कृते त्व- ध्ययनेऽधिकारो नो चेन्नाधिकारः । एवं तृतीये पर्यायेऽपि द्वादशवर्षब्रह्मचर्येण प्रायः सर्वैनसां निवृत्तेरुपनयने वृत्ते प्र- थमपर्यायवत्संवत्सरोदकोपस्पर्श अध्ययने वेदस्यानुष्ठाने चाधिका- र।वार्षिकस्नानापूतौ स्नानमात्रे जाते पूर्ववदेव स्मार्तमात्रेऽधिकारः। कालान्तरे स्नाने पूणे तु अध्ययनेऽपि वेदस्याधिकारः । अपूर्णस्नान- समये स्मार्तकर्मानुष्ठानकाले जातपुत्रस्य तु पितृवत्स्मार्तकर्मान्ताधि- कारो लोकवदेव । वेदाध्ययनकर्मानुष्ठानाधिकारस्तु संवत्सरस्नाने पूर्णे एव भवेदिति । तत इति । अध्ययनाङ्गस्नानवत्पुरुषादूर्व प्रकृति वत्सामान्यद्विजवदिति भावः । अथ यस्य प्रपितामहादि नानुस्म. र्यत इति तृतीये पर्याये उदकोपस्पर्शनपदं स्मार्ताङ्गभूतसदुदकोप स्पर्शनपरतयाऽध्ययनाधिकारसम्पादकप्रायश्चित्तभूतमुद्रकोपस्पर्श- नान्तरं न्यायतो न सङ्ग्रहाति येन सदुदकोपस्पर्शने गमिति स्मा. तकर्मण्येवाधिकारः । प्रायश्चित्तभूतस्नानपूर्ती तु श्रुत्यध्ययनप्यधि- कार इति सिद्धयेत् । किन्तूदकोपस्पर्शनपदं प्रायश्चित्तभूतसम्पूर्ण मात्यताशुद्धिसङ्ग्रहः। १५ स्नानपरमेव । एवञ्च प्रथमद्वितीयपर्यायवत् स्नानोत्तरमेव वेदाध्य 'यनाधिकारस्तृतीये पर्याये भवत्विति शङ्का तावत् 'अथ गृहमेघो- पदेशनं नाध्यापनम्' इति सूत्रेण वारिता भवति। तथा च द्वादशवर्षे विद्यकब्रह्मचर्ये वृत्तेऽपि उदकोपस्पर्शने पूर्णे जातेऽपि चतुर्थादेन वेदाधिकारः, किन्तु स्मार्त एवाधिकारः। ततो यः पुत्रो भवति प्रा- 'यश्चित्तोत्तरं तस्य प्रथमपर्यायवदेकर्तुब्रह्मचर्ये संवत्सरस्नाने उफ. नयनवेदाध्ययनाधिकारसाधनभूते 'ततो यो निर्वर्तत' इत्यादिनोच्यते इति योज्यतामिति चेत्-अत्रोच्यते । अत्र प्रथमद्वितीयपर्याययोर्य- 'स्योपनयनं ब्रह्मचर्येणाम्नातं तस्यैव नियतकालस्नानेनाऽध्ययनार्हता 'गदिता । न तु दैवान्मानुषाद्वा अपराधातु स्नानं सम्पूर्णे तावदवृत्ते सति तं तत्पुत्रं वाऽवलम्ब्य किञ्चिदुदितम् । तृतीये पर्याये तु स्नाने तावत्सकृदादिपदं समुचितमापनैव समाम्नातं पूर्वपर्यायद्वयानाम्नात- 'मपि स्मृत्यध्ययनमाम्नाय वेदाध्ययननिषेधोऽभिहितः । तदनन्तर- श्व द्वादशवर्षे त्रैविद्यकब्रह्मचर्यकर्तृपुत्रमादाय प्रथमपर्यायधर्मातिदे. शः कृतः। एवञ्च तत्र देवाद्यपराधादुपनयनोत्तरं स्नानापूर्विव पुत्रे जाते संस्कृते चोपरते सति तत्पुत्रस्य कर्तव्यांशाकथनान्यूनता स्यात् । उपनयनतोप्युपनयनानन्तरं कर्तव्यपदार्थानामनाम्नानात् स्नानपूर्तिपर्यन्तं स्मातकर्मानुष्ठानं प्रसज्येत । एवञ्च जातमष्युपनयः ने स्नानापूतौ कर्माप्रयोजकत्वादनर्थकमेव स्यात् । एवमत्रोप- 'नयनमात्रस्यैव कथनात्तत्पूर्वतनकादिकमप्यकर्तव्यमेव भवेत् । उपनयनोत्तरं विवाहादिक्रियापि नाऽऽवर्तनीया भवेत् । इष्टापत्तौ त्रैवर्णिकोचितविवाहाद्यभावात्स्नानाऽध्ययनाधिकारेऽपि स्मृ. न्युक्तविवाहादेस्त्रैवर्णिकसम्बन्धिनोऽसम्पत्तेरध्ययनोत्तरमपि ज्यो- तिष्टोमाद्यधिकारो न स्यात् । इष्टापत्तौ च विशिष्टलोकहेतुभूतकर्म- परिग्रहबुद्ध्वा प्रायश्चित्तविधानमनर्थकं स्यात्। तस्मादुपनयननिर्दे- शसामर्थ्यात्तदन्तन्यायेन जातकर्मादिसंस्कारा अभ्युपेता इत्येष्टव्यं नात्यताशुद्धिसङ्ग्रहः। भवति । एवमुपनयनोत्तरकर्माण्यपि तदादिन्यायेन यथायोगमनुष्ठे- यानीत्यभ्युपेतमित्याश्रयणीयम् । इतरथा तत्र सर्वकर्मबहिष्कृत इति वात्यताविशेषेण सकलस्मार्तश्रोतकनिधिकारकथनात्प्रायश्चित्ते. भोपनयनविधानेऽपि यावद्वचनं वाचनिमिति केवलोपनयनमेव भ- त्, न तदादितदन्तन्यायाभ्यां जातकर्मविवाहाधनुष्ठानं स्यात् । प्रात्येतरस्थले उपनयने वृत्ते वेदाध्ययनाघधिकारवत तदादितब- न्तन्यायतोऽध्ययनजातकर्माद्याधेकारबुद्धेरुदकोपस्पर्शनं । प्रायश्चि- चभूतं विनाऽध्ययनाद्यनधिकार इति सुचनेन प्रतिरोधात् सर्वक- मणामप्युपनयने कथितेऽपि तदादितदन्तन्यायतः परिग्रहबुद्धे प्रतिरोधात्' उदकोपस्पर्शनं, ततोऽध्याप्य इत्यध्ययनपदस्य श्रोत- स्माभियग्रन्थाध्ययनपरत्वस्यासङ्कुचितार्थप्रहे न सङ्कुचितग्रहण- मुचितमिति न्यायानुगृहीतत्वात। विदितकर्मसामान्याधिकारबुद्धि- प्रतिरोधात्स्मार्तधर्मसामान्यमात्रपरिग्रहाय तदादितदन्तन्यायमवता. रयितुमिहाऽऽपस्तम्बेन सूत्रकृता प्रमाणमवश्यमुपक्षेपणीयं भवति । तत्र 'तत उदकोपस्पर्शनं पावमान्यादिभिः' इति वचसोऽपि प्रायश्चि. तरूपपूर्णस्नानपरत्वे तदादिन्यायप्रतिरोधः । प्रथमद्वितीयपर्यायस- मान एव चेत्युपनयनोत्तरसमये प्रायश्चित्तारम्भात्पूर्वश्च स्मार्तधर्म- स्याप्यप्रवृत्तिरेव स्यात् । दैवाद्यपराधादुपनयनोत्तरं प्रायश्चित्तं स्नानानारम्भे सति स्मार्तधर्मेऽप्यनधिकारेण कृतमपि तावदुपनय- नमनर्थकमेव भवेत् । अतस्तृतीये पर्याये तत उदकोपस्पर्शनामिति घचो न प्रायश्चित्तरूपपूर्णस्नानपरं न तदादिन्यायप्रतिरोधकं विव. क्षितं, किन्तु तदादिन्यायेनोपनयनाव्यवधानेन श्रौतस्मार्तधर्मप्रवृत्ती सकृत्स्नानं धर्मारम्भाङ्गत्वेन विद्यते । तत्र श्रौतस्मार्तद्वयस्यापि तदादिन्यायात्प्रवृत्तौ सत्यां स्मार्तेऽधर्म एव तदादिम्यायो, न तु श्रौते धर्मे इति हृदयेनोक्तम् । ततो गृहमेधोपदेशनं नाध्यापनमिति ।। अयश्चात्र विवेकः-प्रथमद्वितीयपर्याययास्ततः संवत्सरमुदकोप- नात्यताशुद्धिसङ्ग्रहः । स्पर्शनम् ततोऽध्याप्य इत्यादौ श्रुतिगृहमेधीयांवध्याप्य इलेवार्थः स्यात् विशेषत्राहकमानाभावात् । तेन श्रौतस्मार्तसाधारण्येन तदा दिन्यायाप्रवृत्तिः सूचिता भवेत् । तृतीयपर्याये उदकोपस्पर्शनः स्याङ्गत्वे सति तदादिन्यायेन श्रौतस्मार्तधर्मप्रवृत्तौ 'अथ. गृहमे- धोपदेशनम्' इति वचसा स्मार्तधर्मानुग्रहे सत्यर्थात् श्रौतधर्मनिवृत्ति- सम्भवेन पुनरपि नाध्यापनमिति विशदकथनमिह सर्वाऽध्याप- नपदं वेदाध्ययनपरमिति विभागसूचनाय । एवञ्च प्रथमद्वितीयप- याययोरध्ययनपदं वेदाध्ययनपरमिति नियमयति । एवञ्च पूर्वपर्या- ययोस्तदादिन्यायेनोपनयनोत्तरमेव गृहमेधीयधर्मस्य प्रवृत्तिरस्ति न श्रौतस्येति गमितं भवति । एवञ्च प्रथमद्वितीयपर्याययोः सकृ. स्नानभूताङ्गे सत्येव स्मार्तधर्मप्रवृत्तिः । प्रायश्चित्तरूपसंवत्सरादि. स्नानोत्तरं श्रौतधर्मप्रवृत्तिरिति सूचनायैव तृतीये पर्वणि 'तत उद- कोपस्पर्शनं पावमान्यादिभिरथ गृहमेधोपदेशनं नाध्यापनम्' इति विरूपं वाक्यं विरचितम् । 'ततो यो निर्वर्तते' इति कथनमपि प्रथमद्धि- तीयपर्याययोरपि प्रायश्चित्तस्नानापूर्तावेवोपनीतपरमेतत् । कर्म- दावस्थपुरुषपुत्रस्य तृतीयपर्यायगतपुत्रवत्पित्रननुष्ठितप्रायश्चित्तमेव कर्तव्यमिति गमयति । एवं तृतीये पर्याये पित्रा समादरणीयं संघ- त्सरस्नानं पुत्रवाक्य एवं पठितं न पितृवाक्ये, पठिते सति तु पूर्व पर्याययोरिव प्रायश्चित्तेन श्रौतेप्वधिकारसम्पत्तेः पूर्वपर्यायवत्के- वलगृहमेधीयोपदेशनं 'अथ गृहमेधोपदेशनम्' इति कर्तुमशक्यमेव स्यात् । तदर्थ संवत्सरोदकोपस्पर्शनं पितृवाक्ये पठितुमुचितमपि पुत्रवाक्य एवातिदेशेनोक्तम् । यदि तु 'तत उदकोपस्पर्शनं पावमा. न्यादिभिः' इति वाक्यं पूर्वपर्याययोरिवाऽभ्यस्यमानं प्रायश्चित्तरूपव. त्सरादिस्नानपरं भवति । एवञ्च स्नाने प्रायश्चित्ते पूर्णे सत्यपि स्वातुः श्रुतावनधिकार एव । केवलगृहमेधीय एवाधिकार इत्याग्रहस्तहि 'त्रिपुरुषं पतितसावित्रीकाणामपत्ये' इति पारस्करसूत्रे स्मर्यमाणास्मर्य- व्रात्यताशुद्धिसङ्ग्रहः । माणोपनयनसाधारण्येन चतुर्थादिपुरुषेषु व्रात्यस्तोमेन प्रायश्चित्तं विधाय 'काममर्धायीरन्' इति वेदाध्ययनादिकथनमसङ्गतमेव भवेत् । भवन्मते प्रायश्चित्ते कृतेऽपि प्रपितामहाद्यस्मर्यमाणानुपनयनस्थले घेदाध्ययनानधिकारनिर्णयात् । एवं वसिष्ठोद्दालकव्रताश्वमेधाभू- थवात्यस्तोमानां पितृपितामहप्रपितामहादिलक्षणानुपादानात् स्मर्य- माणास्मर्यमाणोपनयनावधिकसकलपुरुषसाधारण्येन प्रायश्चित्तत्वेन सिद्धत्वात् । तथैव याज्ञवल्क्यस्मृतावपि व्रात्यस्तोमस्य निखिलपुरुष. साधारण्येन प्रायश्चित्तत्वसिद्धेरापस्तम्बसूत्रे चतुर्थादिस्थले सर्वथा वेदाध्ययनानधिकारसूचनमसङ्गतमेव भवति । अत ऊर्व पतन्त्येते सर्वधर्मबहिष्कृताः। सावित्रीपतिता वात्या वात्यास्तोमारते क्रतो । इत्यत्र व्रात्यस्तोमे सति श्रौतस्मातसकलकर्माधिकारसूचनात् नात्यस्तोमादिप्रायश्चित्तेनाऽकामैरपि भवद्भिः श्रौतेऽधिकार एष्टव्य एष भवेत् । एवञ्चाऽऽपस्तम्बसूत्रेऽतिगुरुतरद्वादशवर्षत्रैविद्यकं ब्रह्मचर्य निर्दिश्यमानं श्रुत्यध्ययनानधिकारे निरर्थकमेव स्यात् । अन्यैस्तृ.. तीये पर्याये पवङ्गुरुभूतप्रायश्चित्तानाम्नानात्स्मृत्यन्तरानुरोधेनाऽऽपस्त- म्बसूत्रे विसंष्टुलतापरिहाराय चतुर्थादिपुरुषस्थले श्रौताधिकार पू. वोक्तरीत्वा स्वीकर्तव्य एव । अन्यै त्यस्तोमेन व्रात्यतानिहरणेन वेदाध्ययनाधिकारकथनात्स्मृत्यन्तराविरोधेनवाऽपरस्मृतिनियोजन स्य सति सम्भवे कर्तुमुचितत्वात् । 'तत उदकोपस्पर्शनं पावमान्या. दिभिः' इत्यस्याभ्यासपरकालनिर्देशमन्तरा प्रायश्चित्तत्वनिर्णायकमा नाभावात् प्रायश्चित्तपरतया नेतुमशक्यत्वाच्च । आपस्तम्बेनाऽपि उप- नयनात्पूर्वमेव गुरुतरद्वादशवर्षब्रह्मचर्याम्नानात् उपनयनोत्तरं वेदा. धिकृतये क्षुद्रमेव संवत्सरस्नानमभिमतं भवति । अत एव पितुः संवत्सरस्नानाभाचे पुत्रेण तावद्वेदाध्ययनाधिकृतये संवत्सरस्नान कर्तव्यमिति हृदयेन 'ततो यो निर्वर्तते' इत्यादिवाक्यं प्रवतितं स.
- ब्रास्यताशुद्धिसङ्ग्रहा। गतं भवति ॥ वस्तुतस्तु यत्तावत् यस्य प्रपितामहादि नानुस्मयते' इति तृती. यपर्याये उदकोपस्पर्शनलक्षणप्रायश्चित्तेऽपि श्रौताध्ययनन्न भव- तीत्येतदर्थकं नाध्यापनमित्येतदापस्तम्बसूत्रमित्युक्तं तत्तावद्वात्यस्तो माद्यसमर्थपरं विज्ञेयम् । पारस्करेण "त्रिपुरुषं पतितसावित्रीकाणामप- त्ये चतुर्थरूपे संस्कारो नाध्यापनञ्च' इत्यभिधाय 'तेषां संस्कारप्मुर्ता- त्यस्तोमेनेष्वा काममर्धायीरन् व्यवहार्या भवन्ति इति कथितम् । तत्रेष्टवा संस्कारेप्सुर्भवेदित्यन्वयः । एवञ्च चतुर्थप्रभृतिषु प्रायश्चित्तान्तरकरः णे व्रात्यस्तोमाद्यकरणे स्मातकर्मानुष्ठानमात्रम् । कृते तु व्रात्यस्तो- मादौ सर्वपातकनिवृत्तौ भवत्येव श्रौताध्ययनम् । अत एष याज्ञव- ल्क्यनापि- अत ऊर्व पतन्त्येते सर्वधर्मवाहिष्कृताः। सावित्री पतिता व्रात्या- इत्यभिधाय- व्रात्यस्तोमारते क्रतो। इत्यनेन व्रात्यस्तोमे कृते श्रौतस्मातसर्वधर्माधिकार इति स्पष्टी. कृतम् । एवं च वसिष्ठेनापि 'व्रात्यस्तोमेन वा यजेत' इति अश्वमेधावभृथ- स्नानविकल्पितत्वेन सर्वव्रात्यतानिवर्तकत्वेन सर्वश्रौतस्मातांधिकारो निबद्धस्तस्मानाध्यापनामिति सकलस्मृतिवचनानुरोधेन व्रात्यस्तो माद्यसमर्थपरमिति विशेयम् । त्रिपुरुषं पतितसावित्रीकाणामपत्ये' इत्यत्राऽपत्यपदं चतुर्थपरमात्रमिति न भ्रमितव्यम् । न पतन्त्वनेनेति न्युत्पत्त्या चतुर्थप्रभृतीनामपि तद्वाचकमिति विवेचनीयम् । 'त्रिपुरुष पतितसावित्रीकाणामपत्ये' इत्यनेन चतुर्थादौ व्रात्यस्तोमाभावे ना- ध्यापनमित्युक्तं पारस्करेण । तद्विषय एवाऽऽपस्तम्बेन कृतोदकस्पर्शस्या- पि नाध्यापनमित्यध्याएनाभावो निरुक्तः। स चैकविषये व्रात्यस्तो- भकरणाकरणाभ्यामेवाध्ययनानध्वयने इति नाम:
२० वास्थताशुद्धिसङ्ग्रहः। सम्भवत्यर्थे विरोधस्याऽनुचितत्वात् । तस्मात्सकलस्मृतिवचनानुरो: धेन नाध्यापनमिति वचन व्रात्यस्तोमाघसमर्थविषयमिति सम्य- गिदमवदातमित्यापस्तम्बवचनयोजना ॥ अथ याज्ञवल्क्यवचनयोजना। आषोडशादिति । आङभिविधावि- त्याधर्थः पारस्करसूत्रबदेव योजनीयः, अत ऊर्ध्वमुपनयनाभावात् । षो- डशवर्षांपूर्व सर्वधर्मबहिष्कृताः स्मार्तधौतधर्मबहिष्कृताः सन्तः सावित्रीपतिता व्रात्याः व्रात्यशब्दाहींः ब्रात्यस्तोमाइते पतन्ति स्वो: चितस्थानादधः पतन्ति, व्रात्यस्तोमे सति तु अव्रात्या अपतित. सावित्रीकाः श्रौतस्मार्तधर्माधिकारिणो न पतन्तीत्यर्थः । अत्रा. ऽऽपस्तम्बायुक्तप्रायश्चित्तानां क्षुद्रत्वात्तत्रोपनयनाधिकारकरमेकं वेदा- ध्ययनाधिकारपरमन्यदिति विभागः समादृतः। व्रात्यस्तोमस्तु सर्वो- सरत्वानिरवशेषं, सर्वैनोनिहन्तृत्वात् व्रात्यस्तोमेनैकेनैवोपनयन- स्मार्तश्रौतकर्माधिकारासद्धर्याज्ञवल्क्येन व्रात्यस्तोम एवैको निरुक्तः प्रायश्चित्तत्वेन । अत एव वसिष्ठवचने उद्दालकवतादश्वमेधावभृथ- स्नानमधिकफलं ब्रह्महत्यादिमहापातकनिवर्तकस्य क्षुद्रोपपातकनि- वर्तकत्वे सन्देहाभावादिति पठित्वा ततोऽप्यश्वमेधावभृथस्नाना- दतिप्रशस्तो व्रात्यस्तोम इति पश्चात्पाठो व्रात्यस्तोमस्याऽऽतः स- तो भवति । अत एव च पारस्करसूत्रे आषोडशादित्यादिना पतित- सावित्रीकत्वं निरुच्य पतितसावित्रीकताया उपपातकरूपत्वात् 'का: लातिक्रमे नियतवत्' इति उपपातकनियतं यद्यत्प्रायश्चित्तं तद्वत् प्रा- यश्चित्तं विधेयमिति सामान्यप्रायश्चित्तमापस्तम्बसमं विधाय 'त्रिपुरुषं पतितसावित्रीकाणामपत्ये' इत्यादिना 'कालातिक्रम' इत्युपपातकप्रा. यश्चित्तेन न विस्पष्टा शुद्धिरिति नोपनयनादिसंस्काराध्ययनादि भ- वितुमर्हतीति 'तेषां संस्कारेप्सुत्यिस्तोमेनेष्टा' इति बालकपितृपिता- महादीनां व्रात्यस्तोमोत्तरमुपनयनाध्ययनादित्यसकलसंस्कारार्हतेति मनसि निधाय . ब्रात्यस्तोममतिविशिष्टं गाज्ञवल्क्यववनवदेवादाय को व्रात्यताशुद्धिसङ्ग्रहः । २१ बलवत्तरदोषेऽपि बहुजनवात्यतालक्षणे प्रायश्चित्तरूपस्यैकवित्रादि- प्रात्यतानिवर्तकता सहजसिद्धति त्रिपुरुषमिति कथं सङ्गतं भवति । अथ मनुवचनयोजना। आषोडशादित्यादि । अत्राङादिविवेचन पारस्करसूत्रवदेव । नैतैरपूतैर्विधिवत्' इति मनौ विशिष्य पतितसावित्री- कत्वनिवृत्तये याज्ञवल्क्यादिवत् प्रायश्चित्तं नाऽऽस्नातं, परन्तूपपातक स्वादस्योपपातकसामान्यप्रायश्चित्तं चान्द्रायणपराकादिकं याज्ञवल्क्योक्तं नात्यस्तोमोहालकव्रतादि च पतितसावित्रीकत्वदोषनिबहणायाऽभि- प्रेतमिति नैतैरित्यादिना सूच्यते । येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन्कृच्छान्यथाविध्युपनाययेत् ।। इति मनुवचनं न पतितसावित्रीकत्वदोषपरिहारपरम् , अविध्यु- पनयने घनगर्जनादिना विध्युल्लङ्घनेनोपनयने कृच्छ्रत्रयानुष्ठापनेन पुनरुपनयनपरम् , इतरथा पतितसावित्रीकप्रायश्चित्तत्वे 'नानूच्येत यथाविधि' षोडशवर्षादिमध्ये उपनयनाभावात् कृच्छ्रत्रयानन्तरं यथाविधि षोडशवर्षमध्ये एवोपनयेदित्यर्थासङ्गतः। अतीते षोडशे पुनः षोडशवर्षमध्यत्वसम्पादनायोगात् षोडशवार्षिकताया गतायाः 'पुनरागमनायोगात् । धनगर्जनादौ जाते उपनयने पुनर्घनगर्जनादि. रहिते काले उपनयनं विधेयमिति तु सङ्गतं भवति । स्वाध्यायधन- गर्जनादिरहितकालस्याभ्यां वर्तमानतया तत्प्रतीक्षणसम्भवात् । षोडशवार्षिकत्वे जातेऽष्टवर्षत्वादेः सम्पादनानहत्वादिति यावक- व्रतपरं यमवचनमुपनयनोत्तरं दैवान्मानुषाद्वापराधात् पञ्चदशवर्ष- पर्यन्तं नित्यसन्ध्यावन्दनाविलोपे उपपातकत्वात्तत्प्रायश्चित्तपरम् । तदपि प्रायश्चित्तं 'कालातिक्रमे इति सूत्रेणोपपातकसामान्यप्रायश्चि तेन सह सहीतं भवति । वसिष्ठवचने तूहालकवताश्वमेधावभृथ- स्नानव्रात्यस्तोमा विकल्पेन पतितसावित्रीकत्वप्रायश्चित्तभूता इति केचित् । उहालकव्रतेन सहाऽश्वमेधावभृथम्नानवान्यम्तोमान्यतया .
२२ व्रात्यताशुद्धिसङ्ग्रहः । समुचित इत्यपरे । अश्वमेधस्नानव्रात्यस्तोमयोरतिविशिष्टत्वात्स्वतः न्त्रावेव, नोहालकवतसमुच्चयापेक्षिणौ याज्ञवक्येन केवलवात्यस्तोमः स्य परिग्रहादित्यन्ये । अत्रायं सङ्ग्रहः-याज्ञवल्क्यवचनेन व्रात्यस्तोमतः सर्वकर्माहतासू. चनादुपनयनमध्ययनश्च भवति । अत्र प्रथमपर्वणि आपस्तम्बोक्त ऋतुं त्रैविद्यकं ब्रह्मचर्य यमोक्तं यावकवतं वसिष्ठोक्तमुहालकव्रतमुपपात- कप्रायश्चित्तचान्द्रायणादिकञ्च याज्ञवल्क्योक्तवात्यस्तोमेन वैकल्पिकमु. पनयनाधिकारसम्पादकम् । वेदाध्ययनाधिकारसम्पादकं पुनरापस्त- म्बोक्तं संवत्सरोदकोपस्पर्शनम् । वसिष्टोक्ताश्वमेधावभृथस्नानवात्यस्तो- मान्यतरच वैकल्पिकम् । अथ द्वितीये पर्याये ऋतुं त्रैविद्यकं ब्रह्मचर्य अमोक्तयावकवतं वसिष्ठोक्तोहालकवतश्चेत्येतानि वैकल्पिकानि षड्गुणि. तानि पितृपितामहानुपनये उपनयनाधिकारकरप्रायश्चित्तानि । तत्र यथा 'प्रथमेऽतिक्रमे ऋतुरेवं वत्सर' इत्यापस्तम्बवचने 'अस्य पितामह' इत्युपक्रमात 'तेषां प्रायश्चित्तम्' इति निर्देशात् त्रिभिरपि संवत्सरब्रह्म चर्य कर्तव्यम् । तत्राऽयं विभाग:-पितामहब्रात्यतानिमित्तमेकर्तुब्रह्मच. यमुत्तरोत्तरं व्रात्यताभिवृद्धर्बालकस्य वत्सरब्रह्मचर्यमपेक्षितम्। पिता. महस्य पुनः स्वार्थमेकर्तुब्रह्मचर्य व्रात्यतादशायां व्रात्यपुत्रोत्पादनात् व्रात्यताऽभिवृद्धति द्यर्तुब्रह्मचर्य व्रात्यपुत्राद् व्रात्यपुत्रजननाद व्रात्य- तायाः पुनरतिवृद्धः व्यर्तुब्रह्मचर्यञ्चापेक्षितमिति संवत्सरब्रह्मचर्यमपे- क्षितम् । पितुः पुनः स्वपितुर्वात्यतानिमित्तमेकर्तुब्रह्मचर्य स्वार्थ धर्तु ब्रह्मचर्य पुत्रार्थ व्यर्तुब्रह्मचर्य व्रात्यतादशायां स्वस्योत्पत्तेः स्वपुत्रो. त्पत्तेश्चोत्तरोत्तरं व्रात्यताप्राबल्यात् । तथा च स्वस्यैव बालकस्या- ऽनुपनयने एकर्तुब्रह्मचर्य, पितुश्चानुपनयने व्यर्तुब्रह्मचर्यमिति विभ- जनीयम् । एवञ्च त्रयाणामपि बालकपितृपितामहानां व्रात्यतासु या. घकादीनां षाड्गुण्यानि कथितानि । तत्र ऋतुब्रह्मचर्यवदेव स्वस्य बालस्य पितुश्च ब्रात्यतायां त्रिगुणमेवानुष्ठेयमिति सिद्धम् । वेदा.
धात्यताशुद्धिसङ्ग्रहः। २३ ध्ययनाधिकारसम्पादकं पुनरापस्तम्बोक्तपुरुषसङ्ख्याममितवत्सरोदको. पस्पर्शनं वसिष्ठोक्ताश्वमेधावभृथस्नानं तदुक्तवात्यस्तोमो वा । अथ तृतीये पर्याय उपनयनाधिकारसम्पादकं द्वादशवर्षत्रैविद्यकं ब्रह्मचर्य- मापस्तम्बोक्तं, यमोक्तद्विसप्ततियावकव्रतानि, वसिष्ठोक्तद्विसप्तत्युहालकत्र वानि याज्ञवल्क्योक्तव्रात्यस्तोमो वा । द्वादशवर्षब्रह्मचर्यव्रतादिनाऽतिक्ले- शादालस्यादिना सकृदेवैकस्मिन्दिने पावमान्यादिभिः स्नान करोति चेत्तर्हि तहिनमारभ्यैव स्मार्तधर्मपरिग्रहाधिकारः। कालेत्याद्यनुसन्धे. यम् । कालातिकमे बहुकालरूपे यावकप्रत्याम्नायचतुर्दशप्राजापत्या- नि ग्राह्याणि । अल्पकाले सति उद्दालकव्रतप्रत्याम्नायसपाददशप्रा. जापत्यानि, एकर्तुब्रह्मचर्यप्रत्याम्नायप्राजापत्यानि, कालातिक्रमाल्प. त्वबाहुल्याभ्यां सपाददश चतुर्दश वा भवन्ति । अयञ्च विभागो बा. लक एव । पितृपितामहवात्यतायां चतुर्दशप्राजापत्यान्येव भवेयुः, कालदैयनैयत्यादित्यनुसन्धेयम् । पूर्व महत्तरवतानुष्ठानादेनसां नि- वृत्तेरल्पमात्रे एनसि सति तत्रालस्यादिना सकदेव स्नानात्स्मात- धर्मपरिग्रहेण कालयापने कालान्तरं सम्पूर्णोदकस्पर्शादध्ययनं स. म्पादनीयमितीच्छायां सत्यां सम्पूर्णोदकस्पर्शमन्तराऽस्मिन्दिवङ्गते सति स्मार्तानुष्ठानकाले जातपुत्रस्य संस्कारो 'यथा प्रथमेऽतिक्रम' इति निर्देशात् पितुरुपनयनपर्यन्तमनुष्ठानेन पुत्रस्याप्युपनयनपर्यन्ता- धिकारादुपनयने जाते पश्चादध्ययनाय पित्रा सम्पूर्णोदकस्पर्शाकर. णात् पुत्रस्य संवत्सरपर्यन्तोदकोपस्पर्शेऽध्ययनेऽधिकारः । तत्पुत्रा- दूर्वन्तु प्रसिद्धद्विजपुत्रादीनां यथातथैव कर्तव्यं स्वाभाविकमेव । एवञ्च पितुरपि. पूर्वमुपनयनात् द्वादशवर्षव्रतेनैव सर्वेनसां विलयात् स्वल्पैनस्त्वात्प्रथमपर्याये यत्संवत्सरोदकोपस्पर्शनं तावतैवाध्ययना- धिकार इति गमितम् । तत्रालस्यादिना कालान्तरे उदकोपस्पर्शनं विधेयमितच्छायामेव मरणे तत्पुत्रे संवत्सरोदकोपस्पर्शनेनाऽध्यना- धिकारे पितुः सुतरां संवत्सरोपस्पर्शनेनाऽधिकारौचित्यात् । एवं २४ व्रात्यताशुद्धिसङ्ग्रहः । तृतीये पर्याये न स्नाने गौरवं किन्तु प्रथमपर्यायवदेव स्नानं ब्रह्म चर्यादावेवाऽतिगौरवपरिग्रहात् । एवञ्च संवत्सरस्नानं तस्लमकल्प- मश्वमेधावभृथस्थानं व्रात्यस्तोमो वैकोऽध्ययनाधिकारहेतुरिति वि. वेचनीयम् । तत्र संवत्सरोदकोपस्पर्शे त्रिषवणमुदकोपस्पर्शनिर्देशा- त् दिनचतुष्टयेनैकं प्राजापत्यं द्वादशस्नानेनैकप्राजापत्यस्मरणात् । तथा च संवत्सरस्नानस्य नवतिप्राजापत्यानि भवन्ति । यमोक्तया वकवतप्रत्याम्नायानि चतुर्दश प्राजापत्यानि । उद्दालकवतप्रत्थाम्ना- यानि सपावदशप्राजापत्यानि । संवत्सरस्नानस्थानेऽश्वमेधावभू- थव्रात्यस्तोमयोर्वसिष्ठेन निर्देशात् त्रयं समबलमेव ॥ " अथ 'त्रिपुरुषं पतितसावित्रीकाणामपत्ये' इत्यत्र पतितसावित्री काणां चतुराद्याधिक्येऽपि ब्रात्यस्तोमनिमित्तमस्ति 'ऐन्द्राग्नस्थल इव' इत्युक्तं, तत्कथमिति चेदित्थम् । तथा हि-ऐन्द्राग्नम्पुनरुत्सृष्टमालभेत य आतृतीयात्पुरुषात्सोमं न पिबेत्' इति सोमपानाभाव ऐन्द्राग्नप्रयो- जक उक्तः । एवम्-'आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मणः सोमं पिपासेत्' इति दौाह्मण्यसमेता सोमपिपासा आश्विनप्रयोजिको- ता। एवम्- यस्य वेदश्च वेदी च विच्छिद्यते त्रिपूरुषम् । स वै दुब्राह्मणो नाम न सोमं पातुमर्हति ॥ : 'यश्चैव वृषलीपतिः', 'सर्वकर्मबहिस्कृत' इति पाठभेदः । तत्रानया स्मृत्या दौर्ब्राह्मण्यं समाम्नातम् । अत्रैन्द्राग्नाश्विनप्रयोजके स्मार्त- ञ्चेत्येतानि दौर्ब्राह्मण्यानि त्रीणि किं विजातीयानि । किं वा सर्वमेक विधमेव दौर्ब्राह्मणश्चमाहोस्वित् नानापि दौर्ब्राह्मण्यानि वैरात्रनयेन ऐन्द्राग्नप्रयोजकतयाऽऽश्विनप्रयोजकतया च श्रुतिभ्यां परिगृहीतानि। स्मृतिस्तु श्रुतिद्वयानुमतदोर्ब्राह्मण्यद्वयप्रकाशिकेति विषये प्रमाणभे- दादिह त्रीणि दौर्ब्राह्मण्यानीति कश्चित् । तन्न, त्रिभिरपि प्रमाणैर्न त्रि. विधं दौाह्मण्यं प्रतिपाद्यते, किन्तु श्रुतिभ्यां द्वे दौाह्मण्ये प्रतिपाः वात्यताशुद्धिसङ्ग्रहः । घेते । स्मृतिस्तु विविधदौर्ब्राह्मण्यानुवादिका, न तु तृतीयं दौाह्म- ण्यं प्रतिपादयति । तद्दौब्राह्मण्ये निमित्ते नैमित्तिकस्यापरस्याऽकथ: नात् । तत्र स्मृतावन्द्रानो वेदीसम्बन्धविच्छेदनिमित्तकः ।वेदीविच्छे. दश्च सोमविच्छेदलक्षण एव । 'ऐन्द्राग्नं पुनरुत्सृष्टम्' इति मूलभूतनु- त्या सोमपानाभावस्य निमित्तत्वेन स्पष्टं प्रत्यायनात् । आश्विनस्तु पशुदौर्ब्राह्मण्यनिमित्तकः ।यस्य वेदश्चेति स्मृत्या वेदच्छेदस्य दौर्ब्राह्म- ण्यसम्पादकतया प्रत्यायनात्तहोर्ब्राह्मण्यस्य 'आश्विने अश्विनम् ' . त्यादिश्रुत्या निमित्तप्रत्ययात् । अथ यस्य वेदश्चेति स्मृत्या वेदवेदी. विच्छेदस्य दौर्ब्राह्मण्यहेतुत्वेन प्रत्यायनात् सोमविच्छेदस्य च. वेद. विच्छेदान्तर्गतत्वादश्विनमित्यादिश्रुतिविहिताश्विनेनैव वेदवेदीवि. च्छेदजनितदोषसामान्यनिवृत्तेराश्विने कृते नैन्द्राग्नः कर्तव्य इति चेत्, निमित्तभेदादुभावपि समुचितावैन्द्राग्नाश्विनावित्युपदेश इति केचित् ।। अत्रायमाशयो माधवाचार्योंल्लिखितः- पुनरुत्सृष्टे पशौ विच्छिन्नो वा एतस्य सोमपीथी यो ब्राह्मणः सन्नातृतीयात्पुरुषात्सोमं न पि. बति' इति निर्देशन सोमपानविच्छेदप्रयुक्तदौर्ब्राह्मण्येन क्रत्वनधिकार इत्येन्द्राग्नेन त्वधिकारः सिद्यति । आश्विने तु 'यो दुर्ब्राह्मणः सोमं पिपासेत्' इति निर्देशात् सोमपानश्रद्धालुत्वे सति दुर्ब्राह्मणोऽधिक्रि- यते । एवञ्च ब्रह्मवर्चसप्रतिबन्धकीभूतदौर्ब्राह्मण्यापनुत्तये आश्विनः पशुः, क्रत्वधिकारप्रतिबन्धकीभूतदोब्राह्मण्यहरणायैन्द्राग्नः पशुरिति सिद्धं भवति । तत्राश्विनवाक्ये प्रान्ते 'यभूमो भवतिधूनिमाणमेवा- स्मादपहन्ति ललामो भवति मुखत पवास्मिन् तेजो दधाति इति वचसि पशोधूमवर्णन दौर्ब्राह्मण्यलक्षणं धूम्रिमाणं मालिन्यमस्माद्य- जमानादपहन्ति ललामशौक्ल्येन त्वस्मिन् यजमाने मुखत एव मु. ख्यमेव ब्रह्मवर्चसलक्षणं तेजो दधातीत्यर्थक ब्रह्मवर्चसफलस्थ स्पष्ट- वादब्रह्मवर्चसप्रतिबन्धकीभूतदौाह्मण्यसामान्यमाश्विनेन निव~- ते । अत्रैन्द्रामाश्विननिवत्यै दौर्ब्राह्मण्यद्वयं यस्य वेदश्चेति स्मृत्या व्रात्यताशुद्धिसङ्ग्रहः । निरूपितम् । अत्र वेदविच्छेदकथनादेव वेदिविच्छेदस्याऽप्यर्थसि. द्धत्वाछेदपूर्वकत्वादेः पुनरपि वेदिविच्छेदकथनमर्थभेदसूचनायैव भवति । तत्र वेदस्याध्ययनद्वारा ब्रह्मवर्चससम्पादकत्वं मन्त्ररूपप- दार्थविधया अर्थशानद्वारा च कर्मोपयोगित्वञ्चति द्वे रूपे भवतः। तत्र कर्मोपयुक्तरूपद्वारा वेदिनिर्वर्तकत्वं, रूपान्तरेण ब्रह्मवर्चसहेतुत्वम् । तत्र वेदविच्छेदकथनं ब्रह्मवर्चसप्रतिबन्धकीभूतदौर्ब्राह्मण्यपरम् । वेदिविच्छेदकथनन्तु क्रत्वनधिकारनिमित्तभूतदौाह्मण्यज्ञापकम् । एवं वेदी चेति चकारेणैवोक्तसमुच्चयसम्भवावेदश्चेति चकारोऽनतिप्रयोज- नः सन्ननुक्तसमुच्चयपरः। एवञ्च 'यथाकानायथाचाना'इतिश्रुतिगमि ताचारस्य शीलादिलक्षणस्य समुचितस्य विच्छेदो वेदविच्छेदसमो व्रात्यस्तोमनिवर्त्यव्रात्यतारूपस्ताण्डब्राह्मणेन परिगृहीत इह सङ्गन्हीतो भवति । अत्र 'आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मणः सोमं पिपा- सेत्' इत्यत्र पिबेदित्यनुक्त्वा पिपासेदिति सनो निर्देशात् प्राथमिकक- तुप्रयोगेच्छैव परिगृहीता भवति न तु तदुत्तरक्रतुप्रयोगेच्छापि । 'अ. श्विनौ वैदेवानामसोमपावास्तांतो पश्चात्सोमपीथं प्राप्नुतामश्विना- वेतस्थ देवता' इति वाक्यशेषे प्रथमसोमपानस्यैव प्रत्यायनेन तद्देव- ताकयजमानस्यापि यादृत्वौचित्यात । अत्र वेदादिविच्छेदमूलकदौ ब्राह्मण्यनिबर्हणाधीयमानब्रह्मवर्चसफलाय प्राथमिकसोमप्रयोगमाधि- त्याश्विनो विधीयते । तत्र 'सप्तदशारनिर्वाजपेयस्य यूपः' इत्यत्र सा- क्षाद्वाजपेये साप्तदश्यान्वयायोगेऽपि तदङ्गपशुद्वारा यथाऽन्वयस्तथा साक्षात्सोमस्य पश्वाश्रयत्वाभावेऽपिसामाङ्गभूताग्नीषोमीयतन्त्रद्वारा- श्रयत्वकटते । ननु सवनाय पशुतन्त्रमेव कुतो नाश्रयः, अग्नीषोमीय. पर्यन्तानुधावने को हेतुरिति चेत्सत्यं, पिपासेदिति स्पष्टमिच्छाका- लिकसोमाजाश्रयणस्य सूचनात् । सवनीयपशुकाले ऋत्विकर्तृक- सोमयागस्य शास्त्रयजमानानुमतिपूर्वकस्य प्रवृत्तत्वेन पिपालेदि. सोमप्रवृत्तीच्छयेत्यनिच्छाकालत्वाभावात्सवनीयपशोराच- त्यस्य -- व्रात्यताशुद्धिसङ्ग्रहः। २७ यत्वं प्रमाणाननुरूपमेवेत्यमषिार्मायस्यैवाश्रयत्वं प्रमाणानुगुणत्वात्प- रिग्राह्यम् । तथा चाऽऽश्विनपशुवचनं गुणफलविधिोदोहनेन पशु- कामस्येति वचनवदिति सिद्धं भवति। ऐन्द्राग्नस्तृतीयपुरुषपर्यन्तसो. मविच्छेदसम्भूतदोषोपशमनद्वारा सोमाधिकारसम्पादकत्वादाधा- नोत्तरं सोमात्पूर्व यथायोगं कर्तव्यो भवति । आश्विनः पुनरग्नीषो. मीयकाल एव प्रथमसोमाश्रयकत्वात् । एवञ्च प्रथमसोमात्पूर्वभावि. ब्रह्मवर्चसाभावनिदानीभूतदोब्राह्मण्यप्रथमसोमाश्रितेनाश्विनेन निव- तते । तथाचाश्विनः काम्यो गोदोहनवत् , न तु क्रत्वनाधिकारहेतुदौ- ब्राह्मण्यनिवतर्कः । ऐन्द्राग्न एव तादृग्दौर्ब्राह्मण्यनिवर्तनद्वाराऽधिका- रसम्पादकः । अत एव कात्यायनेन क्रत्वनधिकारव्यावर्तनद्वाराऽधि. कारसम्पादनपर ऐन्द्राग्न एव सुत्रितो न त्वाश्विनः। यदि वाऽऽश्वि- नोऽप्येन्द्राग्नवदधिकारे हेतुः स्यात्समुच्चित्य तर्हि 'सर्वशाखाप्रत्यय' न्यायेन त्वधिकारप्रतिपत्तये ऐन्द्राग्नवदाश्विनोऽपि सूत्रितः स्यात्, न तथा, तस्मादाश्विनो ब्रह्मवर्चसप्रतिबन्धकीभूतदोषनिहरणपरत्वेन भिन्नफल एव।अत एव कात्यायनिनः केवलैन्द्राग्नानुष्ठानेनैव क्रतुं स. गुणं मन्यते । एवञ्च कात्यायनिनामितरेषां वा ब्रह्मवर्चसप्रतिबन्धकी- भूतदोषनिहरणकामनायांप्रथमसोमप्रयोगे सति पशुराश्विनः कर्तव्यः। पेन्द्राग्नेनैव प्रथमप्रयोगे सति तु ब्रह्मवर्चसप्रतिबन्धकीभूतो दोषस्त- दवस्थ एव भवेत् । प्रथमसोमोत्तरं ब्रह्मवर्चसप्रतिबन्धकदोषनिई- रणकामनायां तु ताब्यब्राह्मणाधुक्तत्रात्यस्तोमादय एवाऽनुष्ठेयाः। तत्र वारयता नानाविधा । तृतीयपुरुषपर्यन्तवेदाचारादिविच्छेदस्ताण्डयुपा- त्ता चेति । तत्रानुपनयनादिप्रयुक्तवात्यतादिनिवृत्तावपि तत्तत्प्रमा. णप्रर्वतनं समर्थमिति विवेकः। त्रिकाण्डमण्डनास्तु पक्षान् बहूनिह सञ्चिक्षिपुः । एकस्य सोमविच्छेदे केचिदन्द्राग्नमब्रुवन् । प्रयाणां सततं लुप्ते सोमे त्वेन्द्राग्नमाश्विनम् ॥ M - - ६८ व्रात्यताशुद्धिसङ्ग्रहः। पिता पितामहो वापि सोमं यस्य न पीतवान् । दुर्ब्राह्मणं तमाचष्टे कर्कः शाखान्तरश्रुतेः ॥ इति । गोपालास्तु-- सोमेन यक्ष्यमाणस्य यस्य पित्रादयस्त्रयः। नेजिरे.सोमयागेन स स्याद्विच्छिन्नसोमपः॥ आलभेत स ऐन्द्राग्नमवशीर्णगवं पशुम् । पुनरुत्सृष्टवाच्यो हि बाहोत्सृष्टः पुनर्वहन् ॥ छागेऽपि संभवत्येतद्वहत्येव हिमाचले । स्वकण्ठेन भरद्वाजः सुस्पष्टमिदमब्रवीत् ॥ विच्छिन्नसोमपीथो वा दुर्ब्राह्मण इतीरितः । इति। अत्र'य आतृतीयात्पुरुषात्सोमं न पिबेत्' इत्यत्र यष्टुः पुरुषा. नृतीयः पितामहः । आङ् मर्यादायाम् । एवञ्च पितुः सोमपानाभावे ऐन्द्राग्नः । अयमर्थ एकस्येति प्रथमकल्पेन गृहीतः। यदि चाङ- भिव्याप्ती, तर्हि पितृपितामहयोः सोमापाने ऐन्द्राग्नः । अममर्थः पितेत्यादितृतीयकल्पेन गृहीतः। यदि च यष्टारमपहाय पितर- मारभ्य त्रिपुरुषपरिग्रहस्तहि प्रपितामहपर्वन्तं सोमापाने ऐन्द्राग्नः । अयमर्थस्त्रयाणां पित्रादयस्त्रय इत्येताभ्यां परिगृहीतः । तत्र 'विच्छिन्न- सोमपीथो वा दुर्ब्राह्मण इतीरित' इति पक्षण दौर्ब्राह्मण्यहराऽऽश्विनस्यैः न्द्राग्नेनाऽसोमपबाहुल्यात्समुश्चितः । अयमर्थस्त्रयाणामिति मध्यक- ल्पेन सगृहीतः । तत्र कर्कपक्ष एव साधुः, यष्टुरेव तृतीयावधित्वौ- चित्वात् । यस्य पिता न सोमं पिबेदिति स्पष्टममुक्त्वा आतृतीया- दिति गुरुतरनिर्देशेनाऽऽङोऽभिव्याप्तिपरत्वौचित्यात् । असोमपबा. हुल्यादौर्ब्राह्मण्येनाश्विन इत्यप्यसङ्गतं कात्यायनसूत्रविरोधात् । तत्रा. ऽसोमपत्वदोषपरिहारायाश्विनाश्विबन्धनात् । अत एव दौर्ब्राह्मण्यं नाऽसोमपत्वप्रयुक्तं किन्तु वेदाचारविहीनत्वप्रयुक्तम् । ब्रह्मवर्चसाभा- वीजभूतकलुषं विलक्षणमिति विवेकः ।
प्रात्वताशुद्धिसङ्ग्रहः। केचित्तु- सावित्रीमात्रसारोऽपि नाऽसौ दुर्ब्राह्मणो भवेत् । इति स्मृतेरतिक्रान्ते सावित्र्याः काले 'यस्य पिता पितामह इत्यनुपेतौ स्याताम्' इति आपस्तम्बवचनात्, आषोडशादाद्वाविंशाच्चतुर्विंशाच वत्सरात् । ब्रह्मक्षत्रविशां काल औपनायनिकः परः॥ अत ऊर्व पतन्त्येते सर्वधर्मबहिष्कृताः। इति याज्ञवल्क्यवचनात्, आषोडशाद ब्राह्मणस्य सावित्री नातिवर्तते। आद्वाविंशात्क्षनबन्धोराचतुर्विशतेर्विशः ॥ अत ऊर्व त्रयोऽप्येते यथाकालमसंस्कृताः। सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः। इति मनुवचनतः, 'अत ऊर्ध्व पतितसावित्रीका भवन्ति' इति पार- स्करवचनात् मानान्तरश्च ज्ञापितदौाह्मण्यनिवृत्तयेऽपि आश्विनः पशुः। ऐन्द्रामस्तु सोमविच्छेदप्रयुक्तक्रत्वनधिकारपरिहारायेत्याहुः ॥ तदेतदतिपेशलं, 'सावित्रीमात्रसारोऽपीति स्मृति सौ दुर्ब्राह्मणो भवेदिति पातित्याभावमेव ब्रूते न तु ब्रह्मवर्चसप्रतिवन्धकीभूतदौर्बा- ह्मण्याभावम् । 'यस्य वेदश्च वेदीचे ति स्मृतिरन्यथाऽनर्थिकैव भवेत् । एवं 'यो दुर्ब्राह्मणः सोम पिपासत्' इति वाक्ये सोमं पिपासेदित्यंशो- ऽनर्थकः स्यात्। 'आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मण' इत्येताव- तैवाऽभिमतार्थलाभसम्भवात् । अतः प्रागुक्तरीत्यैवाश्विनविनियोगः समुचित इति दिक् ॥ अथ 'य आतृतीयात्पुरुषात्सोमं न पिबेत्' इत्यत्र तृतीयम्पुरुषं मर्यादीकृत्याऽभिव्याप्तीकृत्य वा सोमपानाभावस्येन्द्राग्ननिमित्तत्वात् पुरुषत्रयादूर्ध्वमपि सोमपानाभावे कथमैन्द्राग्नानुष्ठानं निमित्ताला. भादिति चेत्सत्यम्, सहने शतसङ्ख्यावद्वहुपुरुषाणां ब्रह्मसृष्टिमारभ्य ३० व्रात्यताशुद्धिसङ्ग्रहः । प्रवृत्तानां सोमपानाभावे सति तत्र त्रिपुरुषसोमपानामावोऽपि सिद्ध इति निमित्तसत्त्वादैन्द्राग्नो भवेदेव । न च त्रिपुरुषोर्ध्वमधिकपुरुष- सोमपानाभावे एनसो बाहुल्यादेकेनैन्द्राग्नेन तदेनसः कथं विलय इति वाच्यम, सोमपानाभावबाहुल्यप्रयुक्तैनसां बहुत्वेऽपि सर्वेनसां सन्निधाने जायमानन्द्राग्नादृष्टवशतो नाशसम्भवात् । अतिक्षुद्राग्नि किरणस्पर्शमात्रेण तूलराशेरल्पस्य महतो वा नाशे भेदाभावात् । एवं त्रिपुरुषमित्यादि पारस्करसूत्रमपि योजनीयम् । कालातिक्रमे निय- तवदिति सूत्रं बालकस्यैकस्य पिनुश्च द्वयोः पितामहस्य च त्रयाणां पतितसावित्रीकत्वप्रायश्चित्तपरम् । यद्यप्याषोडशादित्युपक्रम्याऽत ऊर्ध्वीमत्यनेन बालकस्यैव पतितसावित्रीकत्वमित्युक्त्वा कालाति. क्रम इति सूत्रं पठितं बालकस्यैव पतितसावित्रीकत्वप्रायश्चित्तपरं भवितुमर्हति, तथापि त्रिपुरुषं पतितसावित्रीकाणामिति त्रिपुरुषप- तितसावित्रीकापत्यप्रायश्चित्तविधानेन प्रथमप्रायाश्चत्तस्य पुरुषत्रय. साधारणत्वौचित्यात् । अथ कालातिक्रमे नियतवदिति पुरुषत्रयप. यन्तपतितसावित्रीकप्रायश्चित्तं त्रिपुरुषपर्यन्तं भवेदेव । त्रिपुरुषादूर्य पतितसावित्रीकत्वे तु नानेन प्रायश्चित्तेन शुद्धिः, तेन नोपनयनसं. स्कारो न वाऽध्यापनं किन्तु व्रात्यस्तोमेनेत्याह त्रिपुरुषमिति । संस्कारो नाऽध्यापनञ्च नेत्यन्वयः। तेषां चतुर्णा मध्ये जनः कोपि ब्रा- त्यस्तोमेनेष्ट्वा संस्कारेसुर्भवेत् उपनयनसंस्कारेच्छुर्भवेत् । व्रात्य- स्तोमं विनोपनयनेच्छा न कार्येत्यर्थः । तत्र प्रमाणमाह काममिति । 'काममधीयरिन् व्यवहार्या भवन्ति इति वचनात् । ताण्डिब्राह्मणवचनता. त्पर्यादिति भावः। ताण्डिब्राह्मणे ईदृशवचनाभावेन वचनादित्यनेन वचन- तात्पर्यादिति लक्षणादिति विवेचनीयम् । अत्राऽनेकपतितसावित्री. काणां त्रिपुरुषं पतितसावित्रीकोपि भवतीत्येन्द्राग्नपशुन्यायेन सर्वे- नसां वात्यस्तोमेन नाशः सम्भवति। विस्फुलिङ्गसम्पर्कतस्तूलराशेर- रूपस्य महतो वा नाशदर्शनेन ब्रात्यस्तोमाग्निना सर्ववाल्यतातूलानां ब्रात्यताशुद्धिसङ्ग्रहः। युगपदेव विलयनात् । एवञ्चोपनयनाध्ययनाधिकारः सम्भवति, स- वस्मादपि प्रायश्चित्ताद्रात्यस्तोमस्य बलवत्तमत्वात् । एतत्तुल्यप्राय- श्चित्तस्याऽपरस्यालीकत्वात्। अत एव याज्ञवल्क्येन प्रथमपर्वण्यपि व्रात्य- स्तोमः प्रायश्चित्तमिति गमितम् । आपस्तम्बसूत्रे 'वर्षा रथकारस्य ये त्रयाणां वर्णानामेतत्कर्म कुर्युस्तेषामेव काल' इति त्रयाणां वर्णानामन्त. भूता ये रथकुर्वन्ति ते रथकारा इत्यर्थ इति व्याख्यातारः । आश्वलायनसूत्रे 'ग्रीष्मवर्षाशरत्सु क्षत्रियवैश्योपक्रुष्टा' इति उपकृष्टो रथकारो वैश्यस्त- क्षकर्मोपजीवीति तयाख्यायां पूर्वतन्त्रे षष्ठेऽध्याये 'सौधन्वनास्तु हीनत्वान्मन्त्रवर्णात् प्रतीयेरन् , इति । मनौ-- बात्यात्तु जायते वैश्यात्सुधन्वाचार्य एव च । कारुषश्च विजन्मा च मैत्रः सात्वत एव च ॥ इति । एवञ्च मनूक्तो यः सुधन्वा ब्रात्यवैश्यपुत्रस्तत्पुत्राः सौधन्वना ऋभवः। 'ऋभूणान्त्वे'त्याधानमन्त्रानुगृहीतास्ते शुद्धत्रैवर्णिकेभ्य आचा. रादिमन्यो विवाहितायां सवर्णायां जाता अपि हीना आचाराद्यभा. वात् । तेषां विना प्रायश्चित्तमधिकाराभावादाधानान्तरं वर्षासु विधी- यते । ते च रथकाराः नेमि नयन्ति, इति ऋभूणामेव सौधन्वनानां नि. देशेन मन्त्रवर्णत एव रथकरणयोगसूचनात् । एवञ्च सवर्णायां सव. द्विवाहितायामेवोपनयनसंस्काररहिता व्रात्यपरम्परागता रथकारा भवन्ति । आपस्तम्बवचनात्तु ब्राह्मणादिभ्यस्त्रिभ्योपि बात्येभ्यः सवर्णा. सु विवाहितासु जाता निरुपनयना रथकारा इति सिद्ध्यति : आश्वला- यनवचनमपि मनुवचनसममेव नेयम् । मनौ पूर्वमुपनयनप्रकरणे आषो. डशादित्यादौ कालातिक्रमे व्रात्यतायाः प्रायश्चित्तेन तत्परिहारस्य च निर्देशेन ताण्डिब्राह्मणोक्तवात्यस्य काप्यपरिग्रहात् , मनुवचनगतव्रात्य- पदं निरुपनयनत्वापत्तेर्वात्यतापरं, न तु ताण्डिकथितपरम् । उपनय- नाभावेन व्रात्यत्वेऽपि विवाहितसवर्णायामेव सन्तानपरम्परेति त्रैव- नात्यताशुद्धिसङ्ग्रहः। र्णिकत्वेनाऽऽपस्तम्बनिर्देशः । आश्वलायनवचनेऽपि क्षत्रियवैश्याभ्यां सह- पाठश्च रथकारस्य त्रैवार्णिकत्वनिर्णायक इति विवेकः।। याज्ञवल्क्ये- वैश्याशूद्योस्तु राजन्यान्माहिध्योनौ सुतौ स्मृती। वैश्यात्तु करणः शून्यां विनास्वेष विधिः स्मृतः ॥ माहिष्येण करण्यान्तु रथकारः प्रजायते । 'इति समुपात्तो रथकार आधानेन ग्राह्यो रथकारपदरूढिमत्त्वेऽपि छागन्यायेन मन्त्रवर्णोदितस्यैव परिग्राह्यत्वेन याज्ञवल्क्योदितरथकार- स्थ मन्त्रवर्णविरुद्धत्वात्। शङ्ख:-'क्षत्रियवैश्यानुलोमानन्तरोत्पन्नजोरथ. कारस्तस्याध्ययनेज्यादानोपनयनसंस्कारक्रियाश्चाऽप्रतिषिद्धा रथसू- अवास्तुविद्यध्यायनवृत्तिता च'इति । एवमेव वसिष्ठोपि। इदं वचनद्वयमपि प्रत्यक्षमन्त्रवर्णविरोधात् याज्ञवल्क्योक्तरथकारपरिग्रहायोगात् 'वर्षासु रथकार" इति वचसो मनूक्तपरत्वात् रथकारपदभ्रमायत्ततयाऽऽधान- 'स्योपनयनाद्याक्षेपकत्वसामर्थ्याभावेन तदाक्षेपकत्वभ्रमायत्ततया च न्यायाभासमूलकं विवेचनीयम् । एवं बौधायनसूत्रमपि रथकारोपनय. नादिपरं न्यायाभासायत्तमिति दिक् ।। 'अथाधावेति शूद्रस्य अष्ठीवद्दन्नं शूद्रस्य मस्तु शूद्रस्य' इति श्रुतौ लिङ्गदर्शनात् परम्परया शूद्रासम्बन्धात् याज्ञवल्क्योक्तरथकारस्या- धानोपनयनादिकं श्रुत्यनुमतमेव । अत एवाऽऽपस्तम्बोपि दर्शपूर्णमास- प्रकरणे-'एहीति ब्राह्मणस्याऽऽगहीति राजन्यस्याऽऽद्रवेति वैश्यस्याss धावेति शूद्रस्येति' शूद्रस्य दर्शपूर्णमासाधिकारं सूचयति स्मेति चेत् सर्वमिदं श्रुत्यननुमतमेव । तथा हि शतपथदर्शपूर्णमासंप्रकरणे-'अथ ह. विष्कृत मुदादयति हषिष्कदेहीति वाग्वै हविष्कृद्धाचमेवैतद्विसृजते वा- ग्वै यज्ञस्तद्यज्ञमेवैतत्पुनरुपह्वयते' इति हविष्कदाह्वानकाले वाग्विसर्गात् मन्त्रादिवागधीनत्वाद्यज्ञानुष्ठानस्य हविष्कद्धाग्विसर्गयोः समकालत्वा- त् वाग्रपेणैवं मन्त्रोपात्ता हविष्कृत्संस्तुता तदनन्तरश्चैहीति मन्त्र- व्रात्यताशुद्धिसङ्ग्रहः। ३३ गतपदप्रशंसाथै प्रवृत्तं ब्राह्मणं, 'तानि वा एतानि चत्वारि वाचः पही- ति ब्राह्मणस्यागह्याद्रवेति वैश्यस्य राजन्यबन्धोश्चाधावेति शूद्रस्य स यदेव ब्राह्मणस्य तदाह तद्धि यज्ञियतममेतदुह वै वाचःशान्ततम 'यदेहीति तस्मादेहीत्येव ब्रूयादिति' । अत्र राजन्यबन्धोरिति निर्देशा- दुत्तमक्षत्रियस्येहशमाहानं न भवतीति गमितम्। आगह्याद्रवेति युग- पनिर्देशात् ब्राह्मणशूद्रयोरिव पृथक्शब्दनिर्देशाभावादेतत्पदद्वयमु. भयत्रापि समानमिति ज्ञापितम् । अत एत्रोत्तमक्षत्रियत्वाभावाद्वैश्य- निर्देशोत्तरमेव राजन्यबन्धोः पाठः कृतो वैश्यादपि जघन्यतासूचनेन वैश्यपदार्हतापि भवति । राजन्यबन्धोर्यत्पदं तत्पदं तत्पदाहता वैश्य- स्थापीति ज्ञापनाय । अत एवाऽऽपस्तम्बेन राजन्यवैश्ययोव्यत्ययेन पद- निर्देशः कृतः । अत्र मन्त्रगत एहीतिपदस्य नित्यवच्छुतस्य लौकिक ब्राह्मणाद्याह्वानवाक्चतुष्टयानुवादेन वात्रयस्य एहीत्येव ब्रूयादिति निराकरणपूर्वकं यज्ञियत्वादिगुणेन प्रशंसा कृता क्रतौ नित्यता च गमिता । अत एव कात्यायनेन शतपथभावाभिशेनेहीति वागेव क्रत्वङ्गत्वे. न परिगृहीता। आगह्यादिवाक् चापरिगृहीता । आपस्तम्बवचनन्तु तैत्तिरीये क्वापि वाक्चतुष्टयस्यापि क्रत्वङ्गतानवबोधनादेहीत्यस्यैव तद. ङ्गताविधानात् शतपथवचने सामान्यतः प्रतीयमानन्यायाभासमूल- कमेव । एवं चयनप्रकरणे स्मशाने चयनाय वेदिपरिमाणमाम्नायते । शतपथे-'यावानुदाहुस्तावत्क्षत्रियस्य कुर्यात् मुखध्नं ब्राह्मणस्योप- स्थदनं स्त्रिया ऊरुदन्नं वैश्यस्याऽष्ठीवघ्नं शूद्रस्यैवं धीर्या ह्यते' इति । अधोजानु त्वेव कुर्यादिति । अत्र चयनं कर्तुं स्मृतिप्राप्तवेदिरनूद्यते । तत्र सर्वजातिसाधारण्येन वेद्यनुवादेऽपि त्रैवर्णिकानामेव चयनं सि- यति, न रथकारस्य, तस्येतरानाहितब्राह्मणानामिव स्मृतिसमाय. त्तवेदिकामात्रानुवाद एव । एवं कात्यायनसूत्रमपि श्रुतिवदेव योजनीय- म् । तथा हि-'ऊर्ध्वप्रमाणमास्यं ब्राह्मणस्य, उरः क्षत्रियस्याबाहुर्वा, ऊरूवैश्यस्य, उपस्थः स्त्रियाः, जानुः . व्रात्यताशुद्धिसङ्ग्रहः । पयोप्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्य, मस्तु शूद्र- स्य' इति । अत्र ब्राह्मणादिवर्णानां लौकिकनियमाद्यङ्गभूतपयआदिक वर्णचतुष्टयोचितमनूद्य सम्भावितक्रतूनां त्रैवर्णिकानां पयआदित्रयं क्र. तो नियम्यते । न त्वेतावता शूद्रस्य क्रत्वधिकारः सिध्यतीति दिक् ।। वस्तुतस्तु यदि शङ्खवसिष्ठबौधायनवचस्सु याज्ञवल्क्योक्तो माहिष्यकर- णीभवः परम्परया शूद्राभवो न गृह्यते किन्तु वैश्याक्षत्रियभवमाहिष्य- स्य वैश्यायाञ्जातो रथकार इति तर्हि तस्य भवतु नामाऽध्ययनाद्यधि: कारः । 'वर्षासु रथकार आदधीत' इति वचने तु मन्त्रवर्णानुरोधान्मनू- करथकार एव ग्राह्यो न तु शङ्खाद्युक्त इति दिक् ॥ अथ वसिष्ठवाक्ये उहालकवताश्वमेधावभृथस्नानवात्यस्तामाः परिदृश्यमावाः परस्परं वैकल्पिकास्सन्तःसाऽध्ययनोपनयननिमित्तभूः ता भवन्तु किमित्युद्दालकवतमुपनयननिमित्तमश्वमेधावभृथस्नानवा- त्यस्तोमान्यतरोऽध्ययनाङ्गमापस्तम्बवचनपरिपाट्येत्युच्यते । आपस्तम्ब- वचनमुखनिरीक्षणमन्तरैव वसिष्ठवचनप्रवृत्तौ बाधकाभावात् । अपिच- सावित्रीपतितावात्या व्रात्यस्तोमादृते कतोः। इति याज्ञवल्क्यवचनं,वसिष्ठवचनश्च'व्रात्यस्तोमेन वा यजेत' इत्येवं लक्ष- णं ताण्डिश्रुतिमूलकमेव भवदुपनयननिमित्तं भवतु न तु व्रात्योपनयनो- त्तरभाविनोऽध्ययनस्य निमित्तम् । 'हीनावाएते हीयन्ते ये व्रात्यां प्रव. सन्ति न हि ब्रह्मचर्यश्चरन्ति' इति ब्रह्मचर्यस्योपनयनावलम्बिनोऽभा- वेन ब्रात्यतासूचनेन निरुपनयनत्वप्रयुक्तवात्यतापरिहारपरत्वेनैव व्रात्यस्तोमस्य ताण्ड्यब्राह्मणेन विधानमावृत्तमिति प्रत्ययादिति चेद- रोच्यते, ताण्ड्यब्राह्मणं तावदुपनयनकालापराधप्रयुक्तव्रात्यतापरिहा. राय न व्रात्यस्तोमान् विधत्ते ताण्ड्यभाव भावाभिज्ञैः कात्यायनाऽऽपस्तम्बशा- ह्वायनादिभिरन्यथैव तद्योजनसूचनात् । तथा हि ताण्ड्यब्राह्मणे सप्तदशेऽध्याये प्रथमतश्चतुर्भिः खण्डैः क्रमेण चत्वारो व्रात्यस्तोमाः समाम्नाता:-देवा वै स्वर्ग लोकमापन्' इत्यादिना । तत्र प्रथमे खण्डे ३५ प्रात्यताशुद्धिसाहः। 'हीना वा एते हीयन्ते ये बात्यां प्रवसन्ति न हि ब्रह्मचर्यचरन्ति न कृषि-न वणिज्यां षोडशो वा एतत्स्तोमः समाप्तुमर्हति' इति व्रात्य. स्तोमे चतुर्विधे षोडशस्तोमके व्रात्यानां समान्यतोऽधिकारमुक्त्वा 'भूतौ प्रतिष्ठापयति' इत्यन्तेन प्रन्थेन व्रात्यस्तोमचतुष्टयसाधारण्येन पित्रादिलक्षणदेवानां मरुताञ्च संवादः षोडशस्तोमस्य छन्दसश्च स्वर्ग: योग्यस्य मरुभ्यो लाभः स्तोत्रीयाऋग्भेदोऽनेकयजमानकत्वं साम- भेदो निधनविभेदश्च प्रपञ्चितः । तदनन्तरञ्च 'गरगिर' इत्यादिना खण्डान्तेन प्रथमतो निरुक्तवात्यस्तोमचतुष्टयधर्मसमवलम्बनेन प्र- थमव्रात्यस्तोमो निरूपितः। तदनन्तरं द्वितीयखण्डेन 'अथैष. षट्- षोडशी' इत्यादिना द्वितीयो व्रात्यस्तोमस्तदुत्तरं तृतीयेन खण्डेन 'अथैष द्विषोडशी' इत्यादिना तृतीयो व्रात्यस्तोमस्तत्पश्चात् अथैष शमनीचामेद्राणां स्तोम' इत्यादिना चतुर्थवात्यस्तोमश्च क्रमेण निरू. पितः । तत्र प्रथमं व्रात्यस्तोमचतुष्टयसाधारण्येनाऽधिकारिणो ये व्रात्या निरूपितास्ते क्रमेण चतुष्वपि व्रात्यस्तोमेषु पृथक् पृथक विशिष्य विवृताः। तथा हि प्रथमे वात्यस्तोमे 'गरगिरो वा एते ये ब्रह्माद्यं जन्यमन्नमदन्ति अदुरुक्तवाक्यं दुरुक्तमाहुरदण्ड्यं दण्डेन नन्तश्चरन्त्यदीक्षिता दीक्षितवाचं वदन्ति षोडशो वा एतेषां स्तोमः पाप्मानं निहन्तुमर्हति' इति वचसा 'हीना वा एते हीयन्ते ये व्रात्यां प्रवसन्ति न हि ब्रह्मचर्यञ्चरन्ति न कृर्षि न वणिज्यां षोडशो वा पतत्स्तोमः समाप्तुमर्हति' इति वाक्यार्थो विवृतो भवति। तत्राऽन्ति- मवचसः षोडश इत्यादेः षोडश इत्यादिवाक्यं स्पष्टमेव व्याख्यारूपं षोडशस्तोमेन व्रात्यतापापनिहरणात् । क्रत्वाद्यधिकारे स्वर्गादि. गतानूचानतमपितृपितामहादिलक्षणादेव प्राप्तिफलबोधस्योभयत्र तुल्यमेव प्रादुर्भावात् । एवं पूर्व 'न कृषि न वणिज्यां चरन्ति' इति जी. विकाहेतुभूतशास्त्रीयवृत्यननुष्ठानं कथितम् । सम्प्रति गरगिरी वा पते ब्रह्माद्यं जन्यमन्नमदन्ति' इत्युक्तम् । एते विषमक्षका एव ये ब्राह्म वात्यताशुद्धिसङ्ग्रहः। णेनाऽदनीयं जन्यं जनपदभवमन्नं हहेनातीत्यर्थः(१) । एवञ्च समुचित- वृत्ति जीवनाय कृष्यादिलक्षणां न कुर्वन्ति । तद्विपरीतामशास्त्रीया- मेव ब्रह्मस्वापहरणादिलक्षणां कुर्वन्तीति प्रतिपादनेनार्थान्न कृषिमि- त्यादिवाक्यं विवृतं भवति । एवञ्च न कृर्षि ब्रह्माद्यमित्युभयत्रापि क्रमेण शास्त्रीयवृत्तिसामान्यमशास्त्रीयवृत्तिसामान्यञ्चोपलक्षणवि. धया परिग्राह्यम् । तथा च शास्त्रीयां जीविका परिहरन्ति, अशा- स्त्रीयां जीविकाञ्च स्वीकुर्वन्तीति सिद्धं भवति । अत एवाऽदण्ड्यं दण्डग्रहणानहें जनं दण्डेनोपायभेदतो दण्डग्रहणेन, ततो भर्त्सनाभि- शापनिरोधादिना द्रव्याद्यादानेन हिंसन्तश्चरन्तीत्यशास्त्रीया वृत्ति- रुता । अत एव च 'अदीक्षिता दीक्षितवाचं वदन्ति' इति स्वयं दी- क्षादिरहिता अपि दीक्षिता वयं क्रत्वर्थ द्रव्यमपेक्षितमिति मिथ्यादी- क्षितवेषधारणेन 'दीक्षितो.भृति चिन्वीत' इति शास्त्रार्थ प्रकाशयन्तो द्रव्यमर्जयन्तो जीविकापरा इत्यशास्त्रीया वृत्तिरुक्ता । एवञ्च 'हीना वा एते हीयन्ते' इत्यादिवाक्यविवृतिपरेऽस्मिन् वाक्ये 'गरगिर' इत्यादौ परिशेषेण 'न ब्रह्मचर्यश्चरन्ति' इति स्थाने अदुरुक्तमाहुरिति लमापतितम् । एवञ्च- स्मरणं कीर्तनं केलि प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिवृतिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः। विपरीतं ब्रह्मचर्यमेतदेवाऽष्टलक्षणम् ॥ इति ब्रह्मचर्यन चरन्ति । दुरुक्तं शृङ्गाराशुक्तिस्तल्लक्षणवाक्यस्यान परस्त्रीजनं प्रति दुरुक्तं शृङ्गाराझुक्तिं वदन्ति । अत्र शृङ्गाराथुक्तिः क्रियानिवृतिपर्यन्ता ब्रह्मचर्यपरा । एवञ्च 'न हि ब्रह्मचर्यम्' इति वा. क्यम् 'अदुरुक्तम्' इति वाक्यश्च द्वयमपि समार्थ सिद्धं भवति।यद्वान ब्रह्मचर्यचरन्ति' इत्यनेन समार्थ मा भवत्वदुरुक्कामति वाक्यं, स्पष्टम- र्यसाम्याप्रतीतेः । अदुरुकवाक्यं दुरुक्तवाक्यानहे जनं गुरुपितृमातृ- मयलागुखिरहा। प्रमुखं प्रति दुरुक्तं वदन्तीत्येवार्थोऽस्तु । परन्तु 'न हि ब्रह्मचर्य मिति वाक्यं स्मरणं कीर्तनमित्युक्ताऽब्रह्मचर्यपरमेव न तूपनयनाभावपरं तत्र तवशक्तेः । उपनयनोत्तरमेव ब्रह्मचर्यधर्माणामक्षारालवणाशन- गुरुकुलवासादीनां प्रवृत्त्योपनयने ब्रह्मचर्यपदप्रयोगादर्शनात् । लक्ष. णया तत्परत्वे लक्षणाया एव दोषत्वात् । अत एवैतच्छुतेरभिप्रायजा- नताऽनुपनीतव्रात्यो नेह विवक्षित इति मनसि निधाय शालायनेन अध्य. यनेऽभिक्रान्तितमः स्यात् इति, कात्यायनेन 'अनूचानतमोवा' इति निर्दि- टम् । व्रात्यस्तोमप्रकरणसमातावपि शाङ्खायनेन 'व्रात्यस्तोमेनेष्ट्वा त्रै. विद्यवृत्ति समातिष्ठेयुः' इति कात्यायनेन 'वात्यस्तोमेनेष्ट्वा व्रात्यभावा- द्विरमेयुर्व्यवहार्या भवन्ति' इति पुनर्यथेष्टाचरणं न विधेयं वैदिकचर्यै- वाऽऽदरणीयेति कथितं, न तूपनेय इति । किञ्च-'उष्णीषञ्च प्रतोदश्च ज्यागुलिका ज्याहोडः होडश्च वियथश्च फलकास्तीर्णः कृष्णसंवास: कृष्णवलक्षे अजिने रजतो निष्कस्तद्गृहपतेर्वलू कान्तानिदाम- तुषाणीतरेषां द्वे द्वे दामनी द्वे द्वे उपानही द्विषं हितान्यजिनान्येतदै व्रात्यधनम् (१) इति व्रात्यस्तोमचतुष्टयार्थ व्रात्यस्वामिकं धनमाना तम् । तत्रयदि न हि ब्रह्मचर्यञ्चरन्ति' इत्यनुपनीतपरं स्यादिदं ब्रात्य- धनमुच्यमानं सकलवात्यसाधारणमसङ्गतमेव स्यात् । न ह्यनुपनी. तवात्यस्येदमसाधारणं धनं किन्तु धूर्तजनानामेवाऽतो नात्र चतुर्विधे व्रात्यस्तोमेऽनुपनयनाय व्रात्यपरिग्रहः । किञ्चादीक्षिता इति निर्दे- शेन दीक्षार्हाणामेवाऽदीक्षितत्वात्कीर्तनतो निन्दाबोधनेन दीक्षातः पू. र्वतनोपनयनादिसंस्काराणां विस्पष्टमेव ज्ञापनाद् येऽनुपनीता इति क्वापि पाठादर्शनाच्चेदं प्रकरणमनुपनीतंपरमपीति वक्तुमशक्यमे वेति दिक् ॥ एवं द्वितीये खण्डे द्वितीयव्रात्यस्तोमे 'ये नृशंसा निन्दिताःसन्तो प्रात्यां प्रवसेयुस्त एतेन यजेरन्' इति धातुकत्वेन निन्दिततया ब्रह्म चर्याभावब्रह्मस्वापहरणादिलक्षणव्रात्यभावङ्गतत्वोत्कीर्तनेन नशंस.
३८ व्रात्यताशुद्धिसङ्ग्रहः। तातः पूर्वमव्रात्यतावात्यतयोः समतया सूचनात् । नृशंसतायां व्रात्यतायाञ्च यो नियमाभावेन वृद्धतायामपि तत्संभवात्पूर्व शुद्ध- द्विजाताया एव सिद्धेनूशंसताधीननिन्दोत्तरत्वनियमस्यानुपनयना. यत्तव्रात्यतायामभावात् ।न तत्राप्यनुपनीतवात्यपरिग्रहः । एवं तृतीये खण्डे तृतीये व्रात्यस्तोमे ये कनिष्ठाः सन्तो व्रात्यां प्रवलेयुस्त एतेन यजेरन् इति प्रजननसामर्थ्य रूपकनिष्ठत्ववत्त्वे सति ब्रह्मचर्याभावब्रह्म. स्वापहरणाद्यन्यतमलक्षणवात्यभावं गतानां तृतीयव्रात्यस्तोमविधा- नात् । प्रजननसामर्थ्यानन्तरं व्रात्यभावस्य कथनेन प्रजननसमर्थस्य च बहुकालमपि सम्भवेनाऽनुपनयनस्य तदनन्तरभावित्वनियमाभा- वेन नाऽत्राप्यनुपनयनायत्तव्रात्यपरिग्रहः। एवं चतुर्थे खण्डेपि चतुर्थे प्रात्यस्तोमे 'अथैष शमनीचामेद्राणां स्तोमो ये ज्येष्ठास्सन्तो वाया प्रवसे युस्त एतेन यजेरन्' इति प्रजननाभावरूपज्येष्ठत्वे सति परस्वा- पहरणाद्यन्यतमलक्षणव्रात्यभावंगतानां चतुर्थस्तोमविधानात् । वार्ध- क्योत्तरं व्रात्यभावप्राप्तिकथनेनाऽनुपनयनलक्षणवात्यभावस्य वार्ध- क्योत्तरभावित्वाभावेनास्त्रापि नानुपनयनप्रयुक्तवात्यतापरिग्रहः॥ अत्रायं विभाग:-निन्दाहनृशंसतोत्तरं ब्रह्मस्वापहरणाब्रह्मचर्या- धन्यतमवात्यत्वे सति द्वितीयोवात्यस्तोमः। प्रजननसामर्थ्यानन्तर- मब्रह्मचर्यपरस्वापहरणादिलक्षणवात्यतायां सत्यां तृतीयवात्यस्तो- मः । वार्धक्ये अजननलक्षणे सति पश्चात्परस्वापहरणाद्यन्यतम- लक्षणव्रात्यतायां चतुर्थः स्तोमः । प्रजननसामर्थ्याविर्भावात्पूर्व पर- स्वापहरणादिलक्षणे वात्यत्वे नृशंसतानुत्तरभाविनि सति प्र. थमो व्रात्यस्तोमः । यौवनात्पूर्व नृशंसतोत्तरभाविनि ब्रात्यत्वे द्वितीयो व्रात्यस्तोमः । यौवनवार्धक्योत्तरमपि नृशंसतोत्तरभा. वित्वे व्रात्यताया द्वितीयव्रात्यस्तोम एव । यौवनवार्धक्ये च नृशंसतायाः पूर्वमेव व्रात्यत्वे सति तृतीयचतुर्थों क्रमेण वा- त्यस्तोमौ भवेताम् । यौवनवार्धक्ययोः सर्वथा नृशंसत्वाभावे. तु । व्रात्यताशुद्धिसङ्ग्रहः। यथायोगं तृतीयचतुर्थावेव नियतौ । युवभावात्पूर्व सर्वथा नृशंसत्वा. भावे नृशंसत्वात्पूर्वश्च व्रात्यत्वे सति प्रथम एव । नृशंसतोत्तरं व्रात्य त्वे तु द्वितीय एव । अत्र त्रयस्त्रिंशद्यजमानानामेकरूपतया नृशंसत्वे युः वत्वे वृद्धत्वे वाक्रमेण निरुक्तरीत्या त्रयःस्तोमा भवन्ति।यदि सङ्कीर्णाः केचन वृद्धवात्याः, केचन युवानः, केचन निन्दिताः, केचन बाला इति क्रमेणाऽनियमेन त्रयस्त्रिंशद्यजमानाः सम्पद्यन्ते तर्हि प्रथम एव व्रात्य स्तोमनियतनिरुक्तलक्षणाभावे प्रथमस्यैव साधारणस्योचितत्वात् । अत एव शाङ्खायनेन 'ये केचन व्रात्याः सम्पादयेयुस्ते प्रथमेन यजेरन्' इति कात्यायनेन 'ये व्रात्यगणस्य सम्पादयेयुस्ते प्रथमेन यजेरन्' इति व्रात्यसामान्यमात्रमेव प्रयस्त्रिशत्सङ्ख्याकं वक्ष्यमाणनियमत्रयरहितं प्रथमत्रात्यस्तोमाधिकारीति निरूपितम् । एवं ताण्ड्यब्राह्मणानुरोधेन चतुर्विधोऽपि व्रात्यस्तोमोग्नुपनीतव्रात्यपरः, किन्तूपनीतविवाहवर्ज नपरः । 'न कृषि न वणिज्याम्' इति 'अदीक्षितम्' इत्यादिना विवाहव. दुचितक्रियाया एव समुल्लेखात् । अत एव श्रुतिभावाभिशेन शाङ्खायनेन सस्त्रीकान् मनसि निधाय 'व्रात्यस्तोमर्यक्ष्यमाणाः पृथगग्नीनाधाय'इ. त्युक्तं सङ्गतं भवति । एवञ्च याज्ञवल्क्यवसिष्ठवचनयोः पतितसावित्रीकत्व- निबर्हणपरत्वेन ब्रात्यस्तोमे श्रवणं न ताण्ड्यगतं, 'न हि ब्रह्मचर्यञ्चर- न्ति' इति वाक्यमूलकम् । तत्वे सति न्यायाभासमूलककत्वेन प्रामा- ण्यमेव परिपतेत् । एवञ्च वसिष्ठयाज्ञवल्क्यवचसोर्वचनान्तरमेव किञ्चि- न्मूलमित्यनुमेयम् , तत्र यावत्तन्मूलभूता श्रुतिः प्रत्यक्षतो न दृश्यते तावन्यायाभासमूलकत्वशङ्कयाऽननुष्ठानलक्षणमप्रामाण्यं सिद्धमेव । एवञ्च सति विरोधाभावादापस्तम्बोक्तमेव पतितसावित्रीकत्वे प्रायश्चि. त्तमुचितम् । वसिष्ठोक्ते उद्दालकवतमश्वमेधावभृथस्नानञ्च विरोधाभा. वादनुष्टाना । आपस्तम्बसूत्रे 'बालकापतृपितामहा' इति बालकपितृ- पितामहप्रपितामहादय इत्यनुपनीतान् विभज्य तत्राप्युपनयनमध्यय. ञ्चति विशिष्य विभज्य विद्यकक्रतुव्रतमिति वैविटाकतrira.
व्रात्यताशुद्धिसङ्ग्रहः। तमिति विद्यकद्वादशवर्षव्रतमिति विशेषतः पर्वत्रयभेदेनोपनयन- निमित्तमभिधाय संवत्सरस्नानमिति निर्णीतप्रतिपुरुषसङ्ख्याकस्नान- मिति पर्वद्वयेऽध्ययननिमित्तं स्पष्टमाभिधाय तृतीये पर्वणि पुरुषसङ्ख्या- निर्णयाभावात्स्नानकालनिर्णयाभावादेनसः शङ्कया नाध्यापनमिति- विस्पष्टं कथनात् । उहालकवतस्यैव भूतसकृदनुष्ठितोहालकवतनि- वय॑त्वकल्पनायाः स्वबुद्धिप्रभवत्वेन न्यायविरोधादापस्तम्बविभा- गेन कथनाभावात् गुरुतरैनसोऽतिलघूपायाऽऽपस्तम्बवचनानुरुद्धमेव योजनमुचितं भवति । अत्र यदि याज्ञवल्क्यवमिष्ठवचसो त्यस्तोमा- नुष्ठानपरयोर्मूलभूतं वचनं ताण्ड्यश्रुतेरन्यत्र कल्प्यते तर्हि ततिक विभि- भप्रकरणगतं किं वा ताण्डितुल्यचतुर्विधवात्यस्तोमविधायकप्रकरण- गतम् । तत्र प्रथमे पक्षेप्रकरणान्तरत्वात्कर्मान्तरमेव । तत्र यदि कर्मान्तरं साङ्गमेव विहितं तर्हि वसिष्ठयाज्ञवल्क्यवचसो ममात्रे- णैव व्रात्यस्तोमसूचनात्तदितिकर्तव्यतानिर्देशाभावात्तदनुष्ठानमेव यावन्मूलदर्शनं रुद्धं स्यात् । यदि कर्मान्तरं प्रकरणान्तरग- तं' न साङ्गं विहितं नामातिदेशेन ताण्डितो विरुद्धधर्मपरिहारे- णाविरुद्धा धर्मा नीयन्ते तर्हि तत्कर्म साङ्गमनुष्ठातुं शक्यम् । परन्तु प्रकरणान्तरेऽङ्गानि न सन्ति नामातिदेश एवेति प्रकरणान्त- रदर्शनं विना निर्णयानुपपत्तेः सन्देहादननुष्ठानमेव पुनरवशिष्टं या. वन्मूलदर्शनम् । यदि च सर्वशाखाद्रष्दृभिः पारस्करप्रभृतिभिरनुप- नयनायत्तवात्यताप्रायश्चित्तत्वेन व्रात्यस्तोमपरिग्रहात् विशिष्य तद- शान्तरानाम्नानात्ताण्डिब्राह्मणगतधमैरेवेतिकर्तव्यता ग्राहोति नामाति- देशावलम्बेन सूचनात् । प्रकरणान्तरे निरङ्ग कर्मान्तरमिति निर्णीतं स्यात्तर्हि नामातिदेशतोविरुद्धा धर्मास्ताण्डिव्रात्यस्तोमान्नेयाः । तत्र तिर्यगुष्णीषादिब्रात्यधनानि सम्पाद्य ब्रह्मबन्धवे क्षुद्रगायकाय मा. गधदेशीयायाऽविरतव्रात्याचाराय वा देयानीत्यशो लुप्यत एव, पतितसावित्रीके तादृशत्रात्यताया अभावेन द्वारलोपात्। यजेतेत्ये. , .
मात्थताशुद्धिसङ्ग्रहा कवचननिर्देशेन गणयशत्वाभावसूचनादेकयजमानकत्वात् । प्रतिपुरु- षं त्रयस्त्रिंशद्गोसम्पादनमपि लुप्यत एव । गृहपतिस्थाने एक एव यजमान इति त्रयस्त्रिंशदाव एव दक्षिणा भवन्ति । पक्षान्तरे त्रयः स्त्रिंशद्वां यद्वैगुण्यं गृहपतित्वप्रयुक्तं तदपि न प्रवर्तते गृहपति- त्वाभावादगणयज्ञत्वात् । तत्रापि चतुर्विधेषु व्रात्यस्तोमेष्वपि प्रथ- मस्यैव धर्मातिदेशेन गच्छन्ति नेतरेषाम् । अन्येषामपि प्रथमत एव धर्माणां नेयत्वेन प्रकृतित एव धर्मग्रहणौचंत्यात् साधारणरूपत्वाच प्रथमस्य । एवञ्च प्रथमत एव सामादिधर्मा नेया इति सिद्धम् । स्मार्तोऽयं व्रात्यस्तोमो यापनयननिमित्तं यदि वाऽध्ययननिमित्तमु- भयथाऽप्यग्निलौकिक एवाऽवकीर्णिनिषादस्थपतिवत्, तत्राऽनुपनी. तब्रह्मचारिणोराधारानधिकारात् । इतरथावकीर्णिनोऽप्याधाना- द्यापद्येत । यदि च ताण्डितुल्यचतुर्विधवात्यस्तोमविधायकप्रकरण. गतमित्युच्यते तर्हि कर्मभेदाभावात् ताण्डिसमाम्नातप्रथमवात्यस्तो. म एव पुरुषभेदेन निमित्तान्तरे विहितो भवति । तत्रापि न तिर्य. गुष्णीषादिव्रात्यधनसम्पादनं न वाऽऽधानं न वा गणयशत्वमित्यादिक- मन्तिरं कल्पवदेव । अथ यदि व्रात्यस्तोमो व्रात्यतापरिहाराय वि. हितस्तर्हि तत्राऽधिकारिभूतानां व्रात्यानां नानात्वात् । ये तावदाहि- ताग्नयः कृताग्निष्टोमास्तेषां व्रात्यानां समुचितमेवाऽनुष्ठानम् ।ये ता- वदाहिताग्नयोऽपि नैव कृतज्योतिष्टोमाः, ये चाऽनाहिताग्नय एव. गृहिणस्सस्त्रीकाः, ये चाऽऽहिताग्नयोपि पूर्व पश्चाद्विधुराः, ये चाऽवि. वाहिता एव स्नातका, ये च ब्रह्मचारिणो, ये चानुपनीताः तेषां व्रात्य- स्तोमानुष्ठानं कथं भवति 'एष वा प्रथमो यज्ञो यशानां यो ज्योतिष्टो- म' इति वचनेन विना ज्योतिष्टोमानुष्ठानं यागान्तरेऽनधिकारात् । ज्योतिटोमे च-'अर्थी समर्थो विद्वान् शास्त्रेणानपहतश्च यः । इति वचनेन व्रात्यस्य सम्भाषणभोजनयाजनादौ निषिद्धस्य विना प्राथचिलमलाह्यत्वात् । अधिकाराभार --- ६ ४२ व्रात्यताशुद्धिसङ्ग्रहः। छानमिति चेदबोच्यते-ताण्डिब्राह्मणविहितो व्रात्यस्तोमः सोमयागः, विद्याग्न्याधाक्षेपकत्वाभावात् सिद्धविद्याग्नि कृतप्रथमयज्ञं त्रय- त्रिंशद्गणं परिगृह्य चरितार्थों भवति, इतरांस्तु नैव परिगृण्हा- ति, अन्यत एवं चारितार्थ्यात् । अन्येषां तु प्रायश्चित्तं नेदं भवितु- मर्हति प्रथमयशादीनां यथायोगाभावात् , प्रात्यस्तोमस्यान्यतश्च- रितार्थस्य तदाक्षेपकत्वसामर्थ्याभावात् । तस्मादन्येषां स्मृतिविहि. तमन्यदेव प्रायश्चित्तं वात्यतायाः परिहाराय भवितुमर्हति । पतितसा- वित्रीकत्वलक्षणवात्यतायाः प्रायश्चित्तं पुनरापस्तम्बोकं वसिष्ठोक्तं वा। वात्यस्तोमस्तु वसिष्ठयाज्ञवल्क्यपरिगृहीतो वचनसार्थक्याय, अन्यथाऽनु- प्रपच्या रथकाराधाननिषादस्थपतियज्ञावकीर्णिपशुवदनुष्ठय एव । स च प्रागुक्तरीत्योपनयनाध्ययनाधिकारकारी । तत्र चाऽसम्भवतां व्रात्यधनत्रयस्त्रिंशद्गणान्याधानादीनां लोप एव । अथ शाहलयनेन 'व्रात्यस्तोमर्यक्ष्यमाणाः पृथगग्नानाधाय' इति स्पष्टमाधानस्यापूर्वस्य विधानादनुपनीतस्याप्याधानपूर्वकमेव व्रात्यस्तोमानुष्ठानमुचितमि. ति चेन्न, सूत्र मूलभूतताण्डिब्राह्मणेऽपूर्वाधानविधेरभावात् गणयशत्वशा. पनात् तदन्यथानुषपत्त्या त्रयस्त्रिंशद्यजमानाग्नीनां सत्रवत्संमेलना. वश्यम्भावात्सिद्धमग्नि समुपादाय संयोगविधिपरमेवेदं सूत्रं लक्षण. येत्यभ्युपेयम् । तथा च पृथग्विद्यमानानग्नीनेकत्राऽऽधाय संयोज्येति सूत्रार्थः सम्पन्नो भवति । इतरथा श्रुतिविरुद्धमेव सूत्रमिदमापद्यत । एवञ्च लौकिकाग्निष्वेवाऽकीणिनिषादस्थपतिवष्टात्यस्तोमस्य स्मात स्य सावित्रीपतिते प्रवर्तनमुत्रितम् । आपस्तम्बवसिष्टोक्तं प्रायश्चित्तं तु यथायोगं साक्षात्प्रतिनिधितो वा निर्विशङ्कं भवेदेवेति दिक् ।। अथाऽयं व्रात्यताप्रायश्चित्तविचारो विफलत्वादसङ्गतः, कलौ चा- तुर्वर्ण्यविभागाभावेन प्रायश्चित्तकारयितृणां वात्यस्तोमादिक्रतुप्रवर्त- कानामृत्विजासुपनेतॄणां द्विजानां ब्राह्मणादीनामभावेन प्रायश्चित्ता- नुष्ठानामवृत्तः॥
४३ प्रात्यताशुद्धिसङ्कामा सौराष्ट्रावन्त्यभीराश्च शुद्रा अर्बुदमालया। व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः ॥ सिन्धोस्तटं चन्द्रभागां कौन्ती काश्मीरमण्डलम् । भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश्चाऽब्रह्मवर्चसः॥ इत्यादिवचनेन द्विजसामान्यविप्लवप्रत्ययात् । ब्रह्मक्षत्रस्य यो योनिशो राजर्षिसत्कृतः। क्षेमकं प्राप्य राजानं स संस्था प्राप्स्यते कलौ ॥ इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति । यतस्तं प्राप्य राजानं संस्था प्राप्स्यति वै कलौ । इति चन्द्रसूर्यवंशविलयनिर्देशात् । अग्निहोत्रं च संन्यासं तावदेव समाचरेत् । यावर्णविभागोऽस्ति याववेदः प्रवर्तते ॥ इति कलिमध्ये वर्णविलयसूचनात् । एवं योऽयं पुरञ्जयनामा बाहथोऽन्त्यस्तस्य सुनिको नामाऽमात्यो भविष्यति, स चैनं स्वामि- नं हत्वा वपुत्र प्रद्योतननामानमभिषेक्ष्यतीत्यादिना प्रद्योतपालक. विशाखयूपजनकनन्दिवर्द्धनशिशुनागकाकार्णक्षेमधर्मक्रत्वौजोबिन्दु. साराऽजातशत्रुदमकोदपावनन्दिवर्द्धनमहानन्दिपर्यन्तं परम्परां नि- रुच्य महानन्दिसुतश्च शूद्रागर्भोद्भवोऽतिलुब्धो महापनः परशुरा• म इवाऽखिलक्षत्रान्तकारी भविष्यति । ततः प्रभृति च शूद्रा भूमि- पाला भविष्यन्तीति मागवंशनिरासपूर्वकं क्रमेण शूद्राणामेवाने भूगलस्वनिर्देशाच्च । एवञ्च नन्दोत्तरं त्रैवर्णिकसामान्यस्य शशश- कल्पत्वात् राजन्या एव न सन्तीति चेत्-अत्रोच्यते, कलौ कदापि न सर्वथा चातुर्वर्ण्यविलयः। केचन पुत्रस्वर्णिका व्रात्या भवेयु- स्तत्रापि कलेरन्ते बहुशो वात्या आदौ परिमिता मध्ये च मध्यमवि- धा एव न तु सर्वथा ब्राह्मणादीनामभाव एव कल्प्यते ॥
ब्रात्यताशुद्धिसङ्ग्रहः। सम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः । भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति । वासुदेवस्यांशः सम्भलग्रामब्राह्मणप्रधानविष्णुयशसो गृहेषु अष्ट- गुर्द्धिसमन्वितः कल्किरूपधरो जगत्यत्राऽवतीर्य सकलम्लेच्छदस्यु. दुष्टाचरणवतामशेषाणामविच्छिन्नशक्तिमाहात्म्यः क्षयं करिष्यति, स्वधर्मे चाऽशेषमेव संस्थापयिष्यतीति ब्राह्मणस्थितिप्रदर्शनात् ॥ एवं प्रजाभिर्दुष्टाभिराकोणे क्षितिमण्डले। ब्रह्मविदक्षत्रशूद्राणां यो बली भविता नृपः। इति कलिमध्येऽन्त्ये च ब्राह्मणादिवर्णसिद्धवत्कारेण बलवतो भू- पालकत्वकथनेन सर्वथा चातुर्वर्ण्यविलयायोगात् ॥ एतेन क्रमयोगेन मनुपुत्रैर्वसुन्धरा । कृतत्रेतादिसंज्ञानि युगानि त्रीणि भुज्यते ॥ कलौ तु बीजभूतास्तु केचित्तिष्ठन्ति वै मुने। यथैव देवापिपुरू साम्प्रतं समवस्थितौ ॥ इति देवापिपुरुवदेव केचनाऽन्येऽपि बीजभूताः सार्वभौमत्वरहि- ताः राजवंशप्रवर्तका भवेयुरिति निरूपणात् ॥ देवापिः पौरवो राजा मरुश्चक्ष्वाकुवंशजः। महायोगबलोपेतौ कलापग्रामसंस्थितौ ।। कृते युग इहागत्य क्षत्रप्रावतको हि तो। भविष्यतो मनोर्वशबीजभूतौ महाबलौ ॥ देवापिः शन्तनो_ता मरुश्चक्ष्वाकुवंशजः। कलापग्राम आसाते महायोगबलान्विती ॥ ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ । वर्णाश्रमयुतं सर्व पूर्ववत्प्रथयिष्यतः ॥ इति धर्मप्रवर्तकत्वकथनेपि क्षेत्रान्तरव्यावर्तनाकथनातू ।
प्रात्यताशुद्धिसङ्कलन एष तूहेशतो वंशस्तवोक्ता भूभुजां मया । निखिलो गदितुम्नैव शक्यो जन्मशतैरपि । इति सूर्यसोमवंशबाहुल्यनिर्देशेन सार्वभौमवंशयोरिक्ष्वाकुवंशै- कदेशभूतबृहबलवंशकदेशस्य सुमित्रान्तस्य सोमवंशैकदेशभूतपरी. क्षिद्वशैकेदशस्य क्षेमकशिरस्कस्य विलयकथनेऽपि वंशान्तराणां विलयाकथनात् । मागधवंशेऽपि बाहद्रथवशैकदेशजरासन्धर्वशैकदे- शस्य पुरञ्जयान्तस्य सुनिकामात्यकृतराज्यापहारस्य पुरञ्जयवधपू. वकस्य च निर्देशेऽपि तद्वंशसामान्यविलयानिर्देशात् । नन्दप्रभृति शूद्रा भूमिपाला भविष्यन्तीति मगधदेशावलम्बेन सार्वभौमविभेदा. नामेव शूद्रादिभेदेन निर्देशेन क्षत्रसामान्यस्य पृथिव्यामसत्त्वाप्रतिपा- दनात् । महापनः परशुराम इव सकलक्षत्रान्तकारी भविष्यतीति वचसोऽपि राज्याभिषिक्ततत्तत्क्षत्रान्तपरत्वेन क्षत्रजातिसामान्याभा- परत्वस्य परशुरामदृष्टान्तेन ब्रह्मविदक्षत्रेत्यादिनिरुतवचनादिना च वक्तुमशक्यत्वात् । यवनादीनामपि ततःशकाः षोडश भूपतयो भवि. तार इत्यादिना सार्वभौमत्वायोगात् । ब्रह्मविदक्षत्रेत्यादिवचनेन ख- ण्डितभूपतित्वेन क्षत्रादीनामपि विनिर्देशात् । अनन्तरञ्चाऽशेषक- लेरवसाने निशावसान इव प्रबुद्धानां तेषामेव जनपदानाममलस्फटि- कशुद्धा मतयो भविष्यन्ति । अनन्तरं तेषामेव बीजभूतानामशेषम. नुष्याणां परिणतानामपि तत्कालतानामपत्यप्रसूतिर्भविष्यतीति तानि च तद्पत्यानि कृतयुगधर्मानुसारिण्येव भविष्यन्ति ॥ अथ तेषां भविष्यन्ति मनांसि विशदानि वै। वासुदेवाङ्गरागातिपुण्यगन्धानिलस्पृशाम् ॥ पौरजानपदानां वै हतेप्वखिलदस्युषु । तेषां प्रजानिसर्गश्च स्थविष्ठः भविष्यति ।। इति कल्पान्तस्थपौरजानपद्जनानामेव कृतयुगगतब्राह्मणादिस.
व्रात्यताशुद्धिसङ्ग्रहः। कलवर्णवीजभूतत्वेन निर्देशेन कलौ सर्वथा चातुर्वर्ण्य नेति वक्तु. मशक्यत्वात् ॥ अचन्द्राग्रहा भूमिर्मवेदपि न संशयः । अपौरवा न तु मही भविष्यति कदाचन ॥ इति स्पष्टमेव सर्वदा पैारवाणां भूमाववस्थानकथनाच । एवञ्च कलौ क्षत्त्रसत्त्वं नियतमेव । एवञ्च चातुर्वर्णाभावनिरूपणं कलाव- सङ्गतमेव ॥ देवापिः पौरवो राजा मरुश्चक्ष्वाकुवंशजः। कृते युग इहागत्य क्षत्रधर्मप्रवर्तकौ । इति निर्देशनाऽचन्द्रग्रहेति वाक्यं देवापिपरमेव भवतु, न तु तदतिरिक्तक्षत्रसामान्यपरमिति चेदत्रोच्यते । हरिवंशे षडशीतितमे- ऽध्याये- जनमेजयस्य के पुत्राः पठ्यन्ते लोमहर्षण। कस्मिन् प्रतिष्ठितो वंशः पाण्डवानां महात्मनाम् ॥ इति शौनकीये जनमेजयस्य शतानीकादिक्षेमकान्ता परम्परा नश्यत्येवाऽन्ते तथा न नश्यति कलौ सर्वदा तिष्ठत्येवेत्येवंरूपपरम्परा- परे प्रश्ने सौतेरुत्तरम्-- पारिक्षितस्य काश्यां तु द्वौ पुत्रौ सम्बभूवतुः । चन्द्रापाडश्च नृपतिः सूर्यापीडश्च मोक्षवित् ॥ चन्द्रापीडस्य पुत्राणां शतमुत्तमधन्विनाम् । जानमेजयमित्येवं क्षात्रं भुवि परिश्रुतम् ॥ तेषां ज्येष्ठस्तु राजामीत्युरेवारणसाहये। सत्यको महाबाहुर्यज्वा विपुलदक्षिणः ।। सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् । सयुनः स तु धर्मात्मा प्रविवेश तपोवनम् ॥
वात्यताशुद्धिसङ्ग्रहः। तस्माद्वनगताद्गर्भ यादवी प्रत्यपद्यत । मुचारुदुहिता सुभूमालिनी भ्रातृमालिनी ॥ सत्त्वजन्मनि गर्भस्य श्वेतकर्णः प्रजेश्वरः। अन्वगच्छद्गतं पूर्वैर्महाप्रस्थानमच्युतम् ॥ सा दृष्ट्वा सम्प्रयातं तं मालिनी पृष्ठतोऽन्वयात् । पथि सा सुषुवे सुभूवने राजीवलोचनम् ॥ कुमारं सम्परित्यज्य भर्तारं साऽन्वगच्छत । पतिव्रता महाभागा द्रौपदीव पुरा पतीन् ।। सुकुमारः कुमारोऽसौ गिरिकुओ रुरोद ह । पुष्टयर्थ तस्य मेघास्तु प्रादुरासन् महात्मनः॥ अविष्टायास्तु पुत्रौ द्वौ पैप्पल्यादिश्च कौशिकः । दृष्टा कृपान्वितौ गृह्य तं प्रक्षालयतां जले ॥ निघृष्टौ तस्य तो पाश्र्वो शिलाया रुधिरनवौ । अजश्यामौ तु पाचौं तावुभावपि समाहितः ॥ तथैव च समारूढावजपार्श्वस्ततोऽभवत् । ततोऽजपार्श्व इति तौ चक्राते नाम तस्य ह ॥ स तु वेमकशालायां द्विजाभ्यां परिवर्द्धितः । वेमकस्य तु भार्या तमुद्वहत् पुत्रकारणात् ॥ वेमक्याः स तु पुत्रोऽभूत् ब्राह्मणौ सचिवौ च तौ । तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः ॥ स एव पौरवो वंशः पाण्डवानां प्रतिष्ठितः। श्लोकोऽपि चात्र गीतोऽयं नाहुषेण ययातिना ॥ जरासङ्क्रमणे पूर्व भृशं प्रीतेन धीमता। अचन्द्रार्कग्रहा भूमिर्भवेदपि न संशयः॥ अपौरवा न तु मही भविष्यति कदाचन । इति जनमेजयस्य प्रपौत्रश्वेतकर्णपुत्रमजपावें परिगृह्य तत्स- व्रात्यताशुद्धिसङ्ग्रहः। न्तानस्थैर्यपरत्वेनाऽचन्द्रार्कग्रहां भूमिरिति श्लोकप्रवर्तनेन केवलदेवा. पिमादायैव पर्यवसानायोगात् । अतोऽन्येऽपि बहवो राजानो बी- जभूताः कलावादौ मध्येऽन्त्ये च सन्त्येव । अपि च राज्याभिषिक्त. योयोरेव क्षेमकसुमित्रयोशविलयकथनेन राज्यानभिषिक्तानां तत्प- रम्पराभवानां क्षत्रियाणां वंशविनाशाकथनेन यथायोगं तेषां क- लावपि सन्तत्यनुवर्तनं घटत एव । न हि पाण्डथादिनिखिलराज- वंशानां निरन्वयो विनाशः काऽप्यास्नातः । ब्रह्मसूत्रमेव विप्रत्वे हे- तुः, लिङ्गधारणमेवाश्रमे हेतुरित्यादिनिन्दावादाः कलिपराः प्राये- णाऽधर्मप्रवृत्तिपरा न तु ब्राह्मणाश्रमादिसामान्याद्यभावपराः प्रागुः तप्रमाणवर्णाश्रमाणां बीजभूततया सत्त्वाभ्युपगमात् ॥ स्त्रीशूद्रद्विजवन्धूनां त्रयी न श्रुतिगोचरः। तस्माद्भारतमाख्यानं कृपया मुनिना कृतम् ।। इति श्रूयते । अत्र द्विजबन्धुपदमनुपनीतव्रात्यपरं, न तु वेदा- मध्ययनप्रयुक्तवात्यतापरम् । उपनीतमात्रस्य वेदश्रवणेऽधिकारम- न्तरा तदध्ययनायोगात् । अत एव छान्दोग्ये-'नानूच्य ब्रह्मयन्धुरिव भव- तीति वेदानध्ययने ब्रह्मबन्धुसदृशो भवतीति कथनेन ब्रह्मबन्धुपदम- नुपनतिवात्यपरमिति स्पष्टीकृतम् । एवञ्च शूद्राश्च द्विजवन्धुश्च शू. द्रद्विजबन्धवः, स्त्रियश्च शूद्रद्विजवन्धवश्च स्त्रीशूद्रद्विजवन्धवः । अत्र शुद्रपदं जातिपरं, तेन शुद्रायाः शूद्रस्य च ग्रहणं भवति । द्विज. बन्धुपदं तु केवलपुरुषपरमेव ॥ पुराकल्पे तु नारीणां मौजीबन्धनमिष्यते । इति वचनेन त्रैवर्णिककन्यानां त्रैवर्णिकपुरुषवदेवोपनयनाध्यय. नाधिकारसत्त्वेपि त्रैवर्णिककन्यानां मौजीबन्धनाध्ययनाभावकल्प. स्थापि सर्वकल्पसूत्रकारसंमतत्वेनोपनयनायभावे पुरुषवदयात्यत्वेन द्विजबन्धुत्वाभावात्। अत्र स्त्रीपदं न स्त्रीसामान्यपरं, किन्तु शूद्भद्विज. बन्धुविवाहितस्त्रीपरं सन्निधानात् । न तु त्रैवर्णिकविवाहितत्रैवर्णि- सत्यतामहः। कस्लीपर तासां वैदिकैरेव मन्त्रैरुद्वाहात् बृहस्पतिसववाजपेयराज- स्यज्योतिष्टोमादिक्रतुम्वप्यधिकारात् 'पती वाचयती'त्या- दिश्रवणात् । उच्चरुच्चार्यमागणादकमन्त्रश्रवणस्य कर्मसु ताला दर्शनात् । सन्ततमपि पुत्रशिष्यादिधुण्यमाणवेदश्रवणस्य सर्वसम्म- तत्वात वैवाहिकाग्निसंयोजनवियोजनयोः कर्माधिकारस्य च साहित्येन दर्शनाच्च । तत्र त्रैवर्णिककन्या द्विविधा सोपनयना. ध्ययना तद्रहिताचेति । पुराकल्पे तु नारीणां मौजीवन्धनमिष्यते । पुराकल्पः परकृतिरर्थवादभेदः, तत्र पुराकल्पोऽर्थवादविशे. षः, न तु प्राचीनकल्पस्तथैव पूर्वमीमांसासिद्धान्तात् । एतस्मिन्व- चने स्पष्टमेव त्रैवर्णिककन्यानामुपनयनादिविधानात् कल्पसूत्रेषुस- वैष्वपि जातकर्मादीन्यमन्त्रकमेवाऽम्नायोपनयनाऽनाम्नानात् सोपन. यनाध्यना तु पूरुषवदेव । यथा गार्गी मैत्रेयी च । पक्षे निरुपनयनाध्य- यनात्रषर्णिकी, तस्या विवाह एवोपनयनस्थाने भवति । अत एव पूर्वाह्न शुक्ले पक्षे इत्यादिवचनं तच्चक्षुरिति सूर्योपस्थानं, आधु- घदर्शनं प्रतीक्षाते कथनं च सङ्गतं भवति ।राज्यादिविवाहोऽत्रैवर्णि- कपरः । अयश्चाऽपरो विशेषः-त्रैवर्णिकपुरुषस्य कालानुपनयने वा- त्यताकन्यायास्तु न व्रात्यता, उपनयनाभावपक्षस्योपि मानसिद्धत्वा- त्तदतिक्रमप्रयुकवात्यताया वक्तुमशक्यत्वादिति । तत्र वात्यस्य पुत्रो वात्यो भवति कालातिक्रमे सर्वस्मृतिप्वपि कालातिक्रमं पुरस्कृत त्यैव व्रात्यतानिर्देशात् । कालातिक्रममायत्तैव व्रात्यता, कालानति- क्रमे तु स्वयमवात्यो व्रात्यपुत्रत्वात्तत्प्रयुक्तं प्रायश्चित्तं तेन वि. धेयं भवति । अथ व्रात्यपुत्रः कालानतिक्रमे विनाप्रायश्चित्तमुपनयना. धिकारी भवतु । प्रात्यपुत्रत्वेन पृथक् प्रायश्चित्ताकथनादिति चेत् न, 'ततो यो निर्वते तस्य संस्कारो यथा प्रथमेतिक्रमे तत ऊर्ध्व प्र. कृतिवत्' इत्यापस्तम्बनिर्देशन व्रात्यतापन्नपुरुषपुत्र एव प्रकृतिवत्संस्कृत- प्रात्यताशुद्धिसङ्ग्रहः। पुत्रपरम्परावदिति स्पष्टीकरणपूर्वकं ततः संस्कृतावस्थातः पूर्वमप्र- कृतिवदिति सूचनेन प्रायश्चित्तं ब्रात्यपुत्रस्य कालानतिक्रमेऽपि कि- चिदस्तीति शापनात् । आपस्तम्बेनैव 'अथ यस्य पिता पितामह इत्य- जुपेतौ स्याताम्' इत्यत्र 'तेषामिच्छतां प्रायश्चित्तं यथा प्रथमेऽतिक- मेऋतुरेवं वत्सर' इति कथनेन बालकपितृपितामहानां कालातिक्रमे बालकस्य च कालातिक्रमे ऋतुर्वात्यपुत्रत्वाहतुद्वयं व्रात्यपौत्रत्वाहतु- प्रयमपरमिति स्पष्टीकरणेन व्रात्यपुत्रस्य कालानतिक्रमे व्रात्यत्वा- भावाद्वात्यताप्रयुक्तकर्तुब्रह्मचर्य नापेक्षितं व्रात्यपुत्रत्वप्रयुक्तमृतुद्वयं, ब्रात्यपौत्रत्वप्रयुक्तमपरमृतुत्रयं त्रैविद्यकब्रह्मचर्यमक्षितमिति सूच- नात् । तत्रैव प्रकरणे 'तत उदकोपस्पर्शनं प्रतिपुरुषं सत्थाय सं- वत्सरान्यावन्तोऽनुपेताः स्युः' इति निर्देशन समुचितकालेग्नुपेता इति स्पष्टीकरणेन बालकस्य कालानतिकमे ब्रात्यत्वाभावेन वात्यपु- त्रत्वपौत्रत्वादिप्रयुक्तवत्सरस्नानाभ्युपगमेन बालकस्य व्रात्यत्व एव स्ववात्यताप्रयुक्तस्नानमपि बालस्य कालानतिक्रमेणाऽवात्यत्वे स्व- ब्रात्यताप्रयुक्तसंवत्सरस्नानविलोपो व्रात्यजन्यत्वप्रयुक्तं स्नानं त्व- पेक्षितमिति प्रकटीकरणात् । एवं तत्रैव प्रकरणे 'अथ यस्य प्रपिताम- हादि नानुस्मयंत उपनयनम्' इत्यत्र 'तेषामिच्छता प्रायश्चित्तं द्वादश- वर्षाणि विद्यकं ब्रह्मचर्यञ्चरेत्' इति वचनेनोपयनाधिकारहेतुप्रायश्चि- त्तस्य तस्य 'संस्कारो यथा प्रथमेतिक्रम' इति स्वाध्यायाध्ययनाङ्गसं. वत्सरस्नानस्थ चाऽस्नानेन बालकस्य कालानतिक्रमे द्वादशवर्षमध्ये एकर्तुब्रह्मचर्यविलोपः, संवत्सरस्नाने द्वादशपुरुषपर्यन्तावलम्बन द्वादशवर्षब्रह्मचर्यादरेण प्रतिपुरुषं सङ्ख्यायेति न्यायेन द्वादशमास- स्नानमध्ये बालकवात्यताप्रयुक्तमासस्नानविलोप इति ज्ञापनाच । पारस्करसूत्रेऽपि 'कालातिकमे नियतवत्रिपुरुषं पतितसावित्रीकाणाम- पत्ये संस्कारो नाध्यापनञ्च'इति वचने बालकस्य कालातिकमे 'काला तिक्रमे नियतव'दिति संस्कारी नाध्यापनञ्चभवति। कालानतिक्रमे तु .
वात्वताशुद्धिसङ्ग्रहः। कालातिक्रमे नियंतवदिति प्रायश्चित्तं न भवत्यवात्यत्वादिति शापनेन बालकस्य कालानतिक्रमे व्रात्यता नेति सूचनाच्च । एवं प्रात्यपुध्या- स्तु पुत्रवत् प्रायश्चित्तं न भवेदेव पुत्रस्योपनयनाधिकारात् । उपयनय: नपूर्वकाध्ययनार्थ ब्रात्यजन्यत्वस्ववात्यताप्रयुक्तप्रायश्चित्तकरणेनो. पनयनाध्ययनाधिकारनिर्देशेन स्त्रीणामुपनयनाध्ययनाभावायत्तस्वी- कारेणोपनयनाभावप्रयुक्तवात्यताया उपनयनाभावप्रयुक्तवात्यतावत्पुः रुषजन्यत्वप्रयुक्तोपनयनानधिकारस्य चाभावे स्मर्तृभिः कैरपि पुरुष वत्स्त्रीणां व्रात्यभावनात्यजन्यत्वप्रयुक्तप्रायश्चित्तानाम्नातन शुद्धबी. जोत्पन्नत्वमात्रण कन्यानां शुद्धत्वं संस्कृताऽसंस्कृतजनविवाह्यत्वञ्च घटते । शूद्रकन्याविवाहस्य त्रैवर्णिकेश्वभ्युपगमेन त्रैवर्णिकब्रह्म- क्षत्रवैश्यबन्धुकन्याविवाहे दोषोद्भावनस्य कर्तुमशक्यत्वात् । तत्र बात्यत्रैवर्णिककन्याविवाहे तस्यां दोषाभावात्स्मार्तरीतिरेव संमन्त्रा ऽऽदरणीया । शूद्रायास्तु वर्णस्वाभाव्यादमन्त्र एव विवाहः । तेषा. मभ्यागमनं भोजनं विवाहमिति च वर्जयेत्' इत्यत्र व्रात्योद्देशन संस्कृ. तेनाभिगमनशिष्टाचारादि कुर्यात् भोजनं वर्जयत् व्रात्यपक्वमन्नं संस्कृतो न भुञ्जीत। ब्रात्यञ्च स्वगेहे दैवपित्र्यादिकर्मसु न भोजयेत् । अन्नस्य क्षुधितमिति रीत्या तु भोजयीत । संस्कृतवरालाभे क. न्येच्छया बात्यायाऽमन्त्रकमेव स्वकन्यां संस्कृतो दद्यात, शूद्रा- पत्, न तु समन्त्रकमिदमेव विवाहवर्जननाम यत्समन्त्रकविवाहा- भावः । स्वयं व्रात्यकन्यां कन्यान्तराभावे सन्ततिसम्पत्य थै स्वेच्छया सामगताञ्च न शूदावत् विवहेत् किन्तु सम- न्त्रकमेवोद्वहेत् । विवाहोत्तरं श्वशुरे समागते मधुपर्कादिसत्कारः शास्त्रीयो न भवेदेव । श्वशुरगृहेऽपि स्वस्य विवाहादिकाले मधुपर्क- श्राद्धायुत्सवभोजनादि न भवेदेव । 'यौनांश्च सम्बन्धान् वर्जये दिति यौनास्सम्बन्धास्तत्तदागमनादौ मधुपर्कश्राडाढयो ये तान वर्ज. येत् । पुराकल्परीत्या सोपनयनाध्ययनकर ।
५२ ब्रात्यसाशुद्धिसङ्ग्रहः। सर्वथा न कारयेत् ब्रात्यस्योपनयनादिमत्कन्यानहत्वात् , वेदश्र- वण एवाऽनधिकारात्, वरालाभे कन्यैव तिष्ठेत् । एवं यस्य वेदश्चेति' दुर्ब्राह्मणकन्या सोमपेन विवाहिता विनैवैन्द्राग्नं क्रत्वाद्यधिकारिणी भवति, सोमपकन्यापि दुर्ब्राह्मणेन विवाहिता विनैद्राग्नं न सोमा. धिकारिणी भवति, पुरुषप्राधान्येन कतौ गुणभावेनैव साहित्यवि- वक्षणेन प्रधानानुरोधेनैवैन्द्राग्नप्रवृत्तेः। एवं व्रात्याव्रात्यकन्यासम्ब. धस्थलेऽपि विवेचमीयामति दिक् ॥ अथेदं व्रात्यप्रायश्चित्तविवेचनं निष्प्रयोजनम् । चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः ॥ इति पारोक्ष्येण चातुर्वर्ण्यज्ञानेऽपि शृङ्गग्राहिकयाऽयमयं ब्राह्म. णोऽयमयं क्षत्रियोऽयमयं वैश्योऽयमयं शूद्र इति निर्णयाभावात् तत्तवर्णोचितवृत्तीनां जीविकालोभेनाऽन्यत्रापि दर्शनात् समुचिता- ध्ययनादिकर्मणामप्यालस्यादिहेतुना परम्परया त्यागदर्शनात् घ. टत्वादिजातीनां संस्थानादिव्यङ्गयत्वात् पश्वाद्यपेक्षया मानुषाकार- बैलक्षण्यस्यावयवसंस्थानरूपस्य प्रत्यक्षत्वेन माषनुत्वजातातुं श- क्यत्वेऽपि मानुषत्वावान्तरजातिभूतव्राह्मण्याद्यभिव्यञ्जकसंस्थानवि- शेषस्य चक्षुरादिमानगम्यस्याऽभावेन ब्राह्मण्यादिनिर्णयायोगात् ब्राह्मणादिवर्णोचित्तधर्माणामपि प्रतिव्यक्ति नियमेन दर्शनाभावात्स्व- स्वोचितं कर्माऽनुष्ठीयत एव तेन तेनेत्यत्र मानभावात् स्वोचित- कर्मानुष्ठातॄणामपि बहुलमुपलम्भादिति चेत् सत्यम्, तत्तजातिनि- श्चये हेतवो नानाविधा एव । तत्र तेषु तेषु जनपदेषु जनसमुदायो विरोध्यविरोधी वा यं यं समुदायं यद्यद्वर्णसमूहतया विना विगानं प. रम्परया वर्णयति स स तावत्तत्तद्वर्णसमुदायरूप एव । एवञ्चाऽवि- गीतव्यवहार एको जातिनिर्णायकः । निर्णीतजात्युचिताविगीतध. र्माचरणं येषु तद्व्यवहारास्पदेषु वर्ततेपि निःसन्दिग्धं तजातय एव । तज्जात्युचितधर्माचरणरहिता अपि तद्धर्माचरणशीलैस्सह वात्यताशुद्धिसङ्ग्रहः भोजनादिव्यवहारमविगतिमाचरन्ति । ये तयवहारमाजस्तेऽपि त. जातय एब तद्यवहाराभावेपि तयाप्यधर्मव्यवहारादपि व्यापक- जातेनिर्णयो भवति । यथा गर्गादिव्यवहारात्तयापकब्राह्मण्यनिर्णयः॥ यथा वा यादवरघुवंशीयादिव्यवहारात्तद्यापकक्षत्रियत्वादिनिर्णयः। अविगीततत्तद्वर्णव्यवहारे सति तजात्युचितधर्माचारवत्संसर्गवत्त्वं तद्वोचितवर्णान्तरसहभोजनादिकं च सुतरां तवर्णनिर्णायकम् । यथा क्षत्रियेषु तत्तजनपदस्थितेषु तदुचितधर्मवत्त्वं ब्राह्मणैस्सह भोजनादि क्षत्रियत्वे सुतरां निर्णायकम् । ताम्रपर्णीदशे दक्षिणका- चीनगरेशानां शत्रूपद्रवेण पर्वतं समीप एवाधिरूढानां पाण्ड्यानां क्षत्रोचितधर्माचरणतत्सहभोजनविवाहादि चाऽविगीतं क्षत्रियत्व. निर्णायकम् । यथा वा गुर्जरक्षत्रियेषु क्षत्रियत्वब्यवहारस्तदुचितध. र्माचरणं सारस्वतब्राह्मणैः : सह भोजनादि च । यथा वा लाभपुरक्ष- त्रियेषु तद्यवहारतद्धर्माचरणे सारस्वतानां पौरोहित्यसहभोजनादि च । यथा वा प्रत्यन्तदेशेषु ब्राह्मणोचितधर्मव्यवहारस्य प्रायेणाऽ. भावेऽपि ब्राह्मणव्यवहारोपि ब्राह्मण्यनिर्णायकः । यथा वा केरल- द्रविडदेशेषु सर्वदेशवैलक्षण्येन पुरश्चूडत्वेऽपि ब्राह्मणव्यवहारेण तदुचितधर्माचरणेन तदाचारवजनैः सह भोजनादिना च ब्राह्मण्यनि- र्णयः। यथा वा गुर्जरतैलङ्गदेशेषु ब्राह्मणाऽनुचितहलचलनादिक्रिया- वत्त्वेऽपि तुलुवकोङ्कणकर्णाटकवङ्गदेशेषु ब्राह्मणानुचितक्रमुकनाग वल्ल्यादिवनपालत्वेन तिष्ठन्मूत्रत्वेऽपि ब्राह्मण इत्यविगीतव्यवहारेण ब्राह्मण्यनिर्णयः । एवमन्येष्वपि तैलङ्गनियोगिद्रविडकैशियत्तुवमु. काणिप्रभृतिषु ब्राह्मणोचितधर्माचरणाभावेऽप्यविगीतव्यवहारेण ब्रा. ह्मण्यनिर्णयः । एवं तुलुवदेशेषु विद्यारण्यादिकालमारभ्य किष्किा न्धाप्रदेशे वरपतिनामानो राजानस्तत्सम्बन्धिनश्च क्षत्रिया अविगी- तव्यवहारेण । एवं त्रैलिङ्गदेशे राजसंज्ञया प्रसिद्धा युद्धवृत्त्या जी. वन्तो यजनाध्ययनादिरहिताः क्षत्रियब्यवहारादेव सिद्धा । एवमेव बात्यताशुद्धिसङ्ग्रहः। लङ्गदेशे वैश्याः कोमठीति व्यवहाराहीः परम्परया सोपनयना वैश्या यजनादिधर्मरहिताः सहस्रशो भवन्ति । एवं कर्णाटकमहा. राष्ट्रदेशयोरादियुधानाः चाटभटसंशका ब्राह्मणव्यवहारमात्रेण ब्राह्म- णाः | वैश्या अपि सुवर्णकारक्रियावन्तः केचन चन्द्रपुरादिषु प्राम- गैरतिसान्निहितयुगपद्भोजनादिव्यववहारादेव वैश्या भवन्ति । प्रध्न पुरादिषु पूर्व वैश्याः केचनाऽग्निहोत्रादिशालिनोऽभूवन् । एवं कोङ्कणदे- शे मत्स्यभुजोऽपि प्रायेण वेदाध्ययनशून्या नौकाव्यापारिणो ब्रा. ह्मणव्यवहारेणैव ब्राह्मणा निर्णीयन्ते । एवं पुरुषोत्तमक्षेत्र गजपति सोपनयनादिसंस्कारं तत्सम्बन्धिजनानपि क्षत्रियव्यवहारेण क्षत्रिः यान् अभिजना वदन्ति । एवं बान्धवरत्नपुरप्रदेशविन्ध्यवासिन्यादि. प्रदेशेष्वपि राजपुत्रेषु नियतोपनयनादिदर्शनात् क्षत्रियत्वनिर्णयः। एवं कामरूपादिप्राच्यादिप्रदेशेषु वेदाध्ययनश्रौतकर्माद्यनुष्ठानाभावेप्युप- नयनादिस्मार्तानुष्ठानब्राह्मण्यव्यवहारादिना ब्राह्मणत्वनिर्णयः । नी. लकण्ठनेपालप्रदेशेपि नेवारब्राह्मणा इति व्यवहारादुपनयनाधाभा. ससंस्कारदर्शनात्तद्राजस्वपि उपनयनादिधर्माभासदर्शनात् त्रैव. र्णिकव्यवहारः । एवं प्रयागादिप्रदेशेषु ब्राह्मणा इति व्यवढियमाणाः सोपनयना विरलवेदाध्ययना राजपुत्रकन्योद्वाहका द्विकुलीना इति प्रसिद्धाः प्रयागपालसंशया व्यवलियमाणा ब्राह्मणाः स्वसम्बन्धि. राजपुत्रेषु क्षत्रियत्वव्यवस्थापकाः राजपुत्रेषुपनयनात् द्विकुलीनब्राह्म ण जनादिनिखिलसद्यवहारादध्यभिचरिताद्राजपुत्रेषु तेषु क्षत्रिय स्वं निर्णयमेव । एवमेव गङ्गायमुनामध्यप्रदेशादिश्वविगीतोपनयना- दिदर्शनाद्राजपुत्रत्वव्यवहाराश्च राजकुमाराः त्रैवर्णिका एव । एवं भदावराऽम्बापुरोदयपुरादिप्रदेशेषु राजपुत्रा यादवरघुवंशचन्द्र सोमवंशादिव्यवहारात्परम्परयाऽविगीतमागतादुपनयनादिदर्शनादु- पनीतजनकन्याविवाहसहभोजनादित्रैवर्णिकव्यवहारादेस्तहशगता राजपुत्राः क्षत्रिया एव । एवं हिमाचलेवपि धर्माचलश्रीनगरादिरा- यताशुद्धिसङ्ग्रहः। जाना निदानात् क्षत्रियत्वं निराघाटमेव । एवं कुरु गरमागोडैरध्ययनादिषट्कर्मनिरतैः सहाऽविगी- लिया परम्परया बालकादिद्वारा भोजनादिव्यवहारात् पुरोहि. तगोत्रेण परम्परया समादिगोत्रव्यवहारावणिज इत्यव्यभिचरितावि. गीतव्यवहारात अगरवाला सर्वेऽपि तृतीयवर्णाः प्रायेणोपनयनादि. 'संस्कारमाजस्तशिष्टः परिगृह्यमाणा भवन्ति । एवं काश्मीरमण्डले श्री. नगरकूर्माबलादिमण्डलेषु सोपनयाध्ययनादिषट्कर्मशालिनो ब्राह्म- णाः कठवाजसनेयादिशाखाध्यायिनो भवन्ति । एवं मूलस्थानादिष्वपि यथायोग त्रैवर्णिका व्यवहारादिना समुन्नेयाः। एवं गुर्जरदेशेपि वैश्या वतिकसंख्या ज्यवाहियमाणा बहुकालमारभ्योपनयनरहिता आश्वला- यनोक्तरीत्या रथकारपदार्हा भवन्ति । प्रायश्चित्ते तूपनयनाहीं भवेयुः। पवमन्यत्रापि निर्णयो विधेय इति दिक् ॥ इति श्रीजयपुराधीशश्रीमन्महाराजाधिराजमहाराजराजराजेन्द्र श्रीसवाई जयसिंहकारितो ब्रात्यताशुद्धिसङ्ग्रहः समाप्तः॥ Finar
eos
0000000000
9000000000000D
विशेष-सूचना।
हमारे यहां हर तरह की संस्कृत पुस्तकें मै
भाषा टीका के हरवक्त तैय्यार रहती हैं इसके
अलावे हर तरह की छपाई तथा जिल्द के
बंधाई का कार्य भी होता है।
संस्कृत तथा भाषा भाष्य पुस्तकों का बड़ा सूचीपत्र
मुफ्त मंगाकर देखिये ।
नीचे लिखे पते पर पत्र व्यवहार करें।
3000000000000000000000000000000000000000000000000000000000000000000000000000
000000000000000000000
जयकृष्णदास-हरिदासगुप्तः-
00000000
चौखम्बा संस्कृत सीरीज आफिस ।
विद्याविलास प्रेस, गोपालमंदिर लेन ।
बनारस सिटी।
काशीसंस्कृतसीरीज-पुस्तकमाला । इयं काशी-संस्कृतग्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राचीनाः नवीनाश्च दुर्लभाः सुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृतपाठशालीयैः पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संमुद्रिता भवन्ति । अस्यां प्रका- श्यमाणानां प्रन्थानां मूल्यं सूचीपत्रे प्रकाशितं वर्तते । परंतु एतस्या नियमेनाऽविच्छिन्नतया निश्चितग्राहकमहाशयानां प्रतिमुद्रा- शतकं पञ्चविंशतिमुद्राः । कमिशन ) परावर्तिता भवेयुः मार्गव्यायश्च न पृथक् दातव्यो भवेत् । टिप्पण्या च समलङ्कृतम्। तत्र मुद्रितग्रन्थनामानि । मूल्यम्। १ नलपाकः नलविरचितः। संपूर्णः ( पाकशास्त्रम् १) २ संक्षेपशारीरकम् । रामतीर्थस्वामिकृतान्वयार्थबोधिनीटीका- सहितम् । (वेदान्तं १) रु०८-० ३ वैशेषिकदर्शनम् । पं० श्रीदुण्डिराजशास्त्रिकृतविवरणोपेताभ्यां प्रशस्तपादभाष्योपस्काराभ्यां समन्वितम् (वैशेषिक१)रु०२-८ ४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधरश्रीकण्ठाचार्यकृतभाष्यत्रयण (वैदिकं १) रु००-६ ५ लघुशब्देन्दुशेखरः ( भैरवी ) चन्द्रकलाटीकासहितः-प्रथम भाग अव्ययीभावः। ५ लघुशब्देन्दुशेखरः (भैरवी ) चन्द्रकलाटीकासहितः तत्पुरुषादि- समाप्तिपर्यन्तः । द्वितीय भाग (व्याकरणं १) रु०८-० ६ कारिकावली मुक्ता दिन राम० शब्दखण्डसहिता तथा "गुण निरूपणदिनकरीय" महामहोपाध्याय पं० श्रीलक्ष्मणशास्त्रि. कृतव्याख्यासहिता । ( न्यायं १) रु०६-० ७ पञ्चकिरणम् । वार्तिकाभरणालङ्कतवार्तिकटीकया-तत्त्वचन्द्रि- कासमवेतविवरणेन च समन्वितम् । (वेदान्तं २)रु००-८ ८ अलङ्कारप्रदीपः। पण्डितवरविश्वेश्वरपाण्डेयनिर्मितः। ५. अनङ्गरङ्ग:महाकविकल्याणमल्लविरचितः। (कामशास्त्रं१) रु० ०-१२ १० जातकपारिजातः। श्रीवैद्यनाथशर्मणा विरचितः। (ज्यां०१) रु.२--० ११ पारस्करगृह्यसूत्रम् । कात्यायनमूत्रीयश्राद्ध-शौच-स्नान-भोजन- कल्पसहितम। ( कर्मकाण्डम् १) रु० --: १२ पुरुषसूक्तम् । सायणभाष्य-महीधरभाष्य-मंगलभाष्य-नि- म्बाकमतभाष्यचतुष्टयसहितम् । (वैदिकं २) ० १--४ १३ श्रीमत्सनन्सुजातीयम्-श्रीमच्छङ्करभगवत्पादविरचितभाष्येण नीलकण्ठीव्याख्ययाच संबलित। (वेदान्तं ३ ) ०१ काशीसंस्कृतसीरीज़ । १४ कुमारसंभवंमहाकाव्यम् । महाकवि-श्रीकालिदासवि० । सञ्जी- वनी-शिशुहितैषिणी-टीकाद्वयोपेतम् सम्पूर्णम् । (काव्यं२) दपणा। १५ श्रुतबोधश्छन्दोग्रन्थः । आनन्दवर्द्धिनीतात्पर्यप्रकाशाख्यसंस्कृत- भाषाटीकासहितः। (छंद: १) रु००- १६ कारिकावली। मुक्तावली-न्यायचन्द्रिकाटीकाद्वयसहिता सटि- (न्याय २) रु० १ १७ पारस्करगृह्यसूत्रम्। काण्डद्वये हरिहर-गदाधर० तृतीयकाण्डे ह. रिहर-जयराम-प्रणीतभाष्येण समलङ्कृतम् । हरिहरभाष्यस हितस्नानत्रिकण्डिकासूत्र-गदाधरभाष्यसहितश्राद्धनवक- ण्डिकासूत्रैः यमलजननशान्ति-पृष्टोदिवि-शौच-भोजन कामदेवकृतभाष्यसहितोत्सर्गपरिशिष्टसूत्रैः परिष्कृत-टिप्प- ण्यादिभिः सहितं च । { कर्मकाण्ड २)रु०३-० १८ संक्षेपशारीरकम्-मधुसूदनीटीकासहितम् संपूर्ण (वेदान्तं४) २०८-० १९ लघुजूटिका-अर्थात् अभिनवा परिभाषेन्दुशेखरपरिष्कृतिान- मितिः। (व्याकरणं२) रु. ०-८ २० कातीयेष्टिदीपकः । (दर्शपौर्णमासपद्धतिः) महामहोपाध्याय- पं० श्रीनित्यानन्दपन्तपर्वतीयविरचितः । (कर्मकाण्ड) रु०१-० २१ सप्तपाठि-श्रीशिवमाहम्नस्तोत्रम् श्रीगन्धर्वराज पुष्पदन्ताचार्य- विरचितम् । हरिहरपक्षीय-मधुसूदनीटीकया (संस्कृतटी- का-संस्कृतपद्यानुवाद-भाषाटीका-भाषापद्यानुवाद-भाषा बिम्ब) पञ्चमुखीनाम्या टोकया-शक्तिमहिम्नस्तोत्रण च समन्वितम् । (स्तोत्रवि०१) रु. १-० २२ बौद्धाऽऽचार्यश्रीधर्मकीर्तिप्रणोतः सटीकन्यायबिन्दुः-भाषा- टीकासहितः ( बौद्धन्याय वि०१) रु०१-८ २३ सपरिष्कृत-दर्पणसहितवैयाकरणभूषणसारः (व्याकरणं ३) रु. ४.-० २४ न्यायवार्तिकतात्पर्यटीका श्रीवाचस्पतिमिश्रविरचिता। सम्पूर्ण ( न्यायविभाग ३) रु०६-० २५ मीमांसान्यायप्रकाशः (आपदेवीयः) श्रीचिन्नस्वामिशास्त्रिकृतया सारविवेचिन्या व्याख्यया सहितः ( मीमांसा १) रु०२-० २६ पौरोहित्यकर्मसारः ( टिप्पणीसमलंकृतः) प्रथमो भागः श्रीरमा- कान्तशर्मणा संगृहीतः। ( कर्मकाण्डवि० ३) रु० --- २७ लघुशब्देन्दुशेखरः म० म. श्रीनागेशभट्टविरचितः। अव्ययी. भावान्तो भागः, म०म० पण्डित श्रीनित्यानन्दपन्त -पर्वतीय- कृतशेखरदीपकाख्येन टिप्पणेन समुज्ज्वलितः। (व्या०४)रु०४-.. २८ रघुवंशमहाकाव्यम्। महाकविश्रीकालिदासविरचितम् पञ्चसर्गा. त्मकम् । म० म० श्रीमल्लिनाथसूरिकृतसञ्जीविनीटीकया पं० श्रीकनकलालठक्कुरकृतार्थप्रकाशिकाटीकया च सम. लङ्कतम् । (काव्यवि०३) रु००-१२ काशीसंस्कृतसीरीज़ । २९ कामसूत्रम् । श्रीवात्स्यायनमुनिप्रणीतं बहुयत्नरासादितथा पूर्णया जयमङ्गलरचितया टीकया समेतम् । बहुखण्डितपाठान् परिपू. र्य,सूत्राकांश्च संयोज्य, परिष्कृत्य संशोधितम्। (काम०२)रु०८-० ३० न्यायकुसुमाञ्जलीः । न्यायाचार्यपदाङ्कितश्रीमदुदयनाचर्यविरचि. तः । महामहो पाध्यायरुचिदत्तकृतमकरन्दोद्भासितमहामहो पाध्याय वर्द्धमनोपाध्यायप्रगितप्रकाशसाहतः (न्यायंट) रू०६-० ३१ परिभाषेन्दुशेखरः । म०म० श्रीनागेशभट्टरचितः। म०म० भैरव- मिश्रविरचितया भैरवीत्यपराख्यया परिभाषाविवृत्या-तत्व- प्रकाशिकया टीकया च सहितः। व्याकरणं ४) रु०३-० ३२ अर्थसंग्रहः । पूर्वमीमांसासारसंग्रहरूपः। श्रीलौगाक्षिभास्करविरचि. तः। श्रीमत्परमहंसपरिव्राजकाचार्यश्रीरामेश्वरशिवयोगिभिक्ष. विरचितमीमांसार्थकौमुद्याख्यव्याख्यासहितः।(मीमां०२ रु०१-० ३३ न्यायवोत्तिकम् न्यायदर्शनवात्स्यायनामाग्यो हणम् । परमर्षि भारद्वाजोहयोतकरविरचितम् । महर्षि-गोतमादिचरितसम्ब. लितबृहत्भूमिकासहितम् । न्यायं) रु०६-० ३४ शुक्लयजुर्वेदसंहिता । वाजसनेयिमाध्यन्दिनशाखीया। श्रीमदुन्व- टाचार्यविरचितमन्त्रभाष्येण श्रीमन्महीधराचार्यविरचितवेद- दीपेन च सहिता। (भाग १-२-३-४)(वैदिकं ३) रु०८-. ३५ शुक्लयजुर्वेदकाण्वसंहिता । श्रीसायणाचार्यविरचितभाष्यसहिता। १ अध्यायादारभ्य २० अध्यायपर्यन्ता । (वैदिकं ४) रु०६-० ३६ सिद्धान्तलेशसंग्रहः । श्रीमदष्पयदीक्षितविरचितः। श्रीमत्परमहंस- परिव्राजकाचार्यकृष्णानन्दतीर्थविरचितथा कृष्णालङ्काराख्य- या व्याख्यया समलंकृतः। (वेदान्तं ४) रु०६-० ३७ काशिका | श्रीपाणिनिमुनिबिरचितव्याकरणसूत्राणां वृत्तिः वि- द्वद्वर-वामन-जयादित्यविनिर्मिता। (व्याकरणं ५) रु०६-० ३८ प्राकृतप्रकाशः । भामहकृतः। श्रीमद्वररुचिप्रणीतप्राकृतसूत्रसहि- तः। टिप्पण्या च संयोजितः । (व्याकरणं ६) रु०१-४ ३९ जीवन्मुक्तिविवेकः श्रीमद्विद्यारण्यस्वामिविरचितः। भाषानुवा- दसमेतः। (वेदान्तं ५) रु० २- ४० श्रीनारदीयसाहता । ब्रह्मणोपदिष्टो नारदमहामुनिप्रोक्तो ज्यौतिष- (ज्योतिष २) रु००-६ ४१ मोदनीकोश:-मेदिनीकारविरचितः । (कोशं १) रु०१-८ ४२ मीमांसादर्शनम् । श्रीशबरस्वामिविरचितभाप्यसहितम् (भाग-२) (मीमांसा ३) २०१०-० ग्रन्थः ।