Banasthali University
Prayashchittaprakash
Front matter
No text on this page.
.. - 4 . ॥ श्रीः॥ •. प्रायश्चित्तप्रकाशः। -SS VIS 1 कोकानेरविषयान्तर्गत-रतगढनिवासिना कर्मकाण्डा- चार्याधुपाधिचतुष्टयविभूषितेन चतुर्थीलाल- शर्मणा विरचितः। - . . माविष्णु श्रीकृष्णदास गलिक-" लक्ष्मीवेङ्कटेश्वर" स्टीम् प्रेस, कल्याण-मुंबई, रा • संवत् १९८५, शके १८५०० 57 १२8 PRO .. -- ---- 4 २. मुद्रक और प्रकाशक- गंगाविष्णु श्रीकृष्णदास मालिक-"लक्ष्मीवेङ्कटेश्वर" स्टीम्-प्रेस, कल्याण-मुंबई. . ------ सन् १८६७ के आक्ट २५ के व मुजब रजिष्टरी मब हक प्रकाशकने अपने आधीन रखा है.
. "OD .ID-65 उपाहातः। paxy. अथ ग्रंथकर्तृणां जीवनचरित्रं वर्ण्यते ॥ अस्ति किल विद्धजनमानिते पावने भारते वर्षे भगवतस्तीर्थस्वामिनः श्रीब्रह्मपुष्करराजस्योत्तरस्यां दिशि कश्चिन्मरुस्थलो भागः । यत्र । राजते विविधराज्यसमावेशोपनीता धर्मोपवीता श्रीबीकानेरराजधानी तद्तमेवैकं द्विज- वर्यैरुपास्यमानं "रत्नगढ" नामक मनोहरं प्रसिद्ध नगरम्-तत्रैव ग्रंथकातणां बसति पूर्वपूरुषाः । चक्रुर्धर्मेण जीवन्तः सुधियश्चिरकालतः ॥१॥ प्रतिष्ठितो मान्यगणेषु गण्यो बभूव तद्वंशजजीवराजः । तदात्मनः पञ्चसुतास्त्वभूवनत्नानि सिन्धोरिव मथ्यमानात्॥२॥ श्रीरामकृष्णोऽमरचन्द्रनामा तथा चनीरामगुमानिरामी। श्रीलालचन्द्राभिध एषएव प्राधान्य- मनापतरामकृष्णः ॥३ ॥ अन्येपाश्चतुर्णामपि चाहुल्येन शाखिनां शाखाप्ररोहवदंश- विस्तरः संजातः विस्तृतिभपादक्तुं न शक्यः । विदच्छ्रीरामकृष्णो हि. पुत्ररत्नमजोजनत् । चतुर्भुजन्तु कस्तूरीचन्द्र ज्येष्ठमलं परम् ॥ ४॥ बलवतो भगवतः कालस्य वैपरीत्यादल्पा- युष्येव श्रीमान् चतुर्भुजस्तु पश्चत्वं लेभे । अपरः श्रीकस्तूरीचन्द्रस्तु स्वकीयपितृव्याऽमर- बद्रेण पुत्रीकृतस्तस्थौ । तृतीयः श्रीज्येष्ठमलो भक्तिदानसदाचारसंपन्नो विद्धासु नाम निवी- पयन् प्रियजनं विहाय स्वर्गलोकलगाम । यतो विकीर्यमाणं बपौत्रप्रभृतिसंकुलं वंश बहूनां वरीवात । न शक्यते तत् पत्रीकर्तुम् । भगवान् कस्तूरीचन्द्रस्तु-आस्थापयन्नात्मनि शान्तवृत्ति रेमे तदा पण्डितमण्डलीषु । शास्त्रीयभावेषु कृतप्रवृत्तिमैने प्रधानं किल कर्म- काण्डम् ॥ ५ ॥ जगन्नाथकाशीगयायातयात्रः सदा तीव्रतेजा यतः पुण्यपात्रम् । तथाऽशेषसत्कर्मभिः पूतगात्रः सुखं लब्धवान् प्रार्थितब्रह्ममात्रः ॥ ६॥ स तु १९६१ हायनस्प कार्तिक शुक्लषष्ठ्यां ६ परलोकवाश्रितवान् ॥ उदितौ दो सुतौ तस्य नानास- च्छास्त्रकोविदौ । अंशुमालिद्धयमिव तत्तेज उदयाचलात् ॥ ७ ॥ तत्र प्राथमिकः श्रीचतु- लालः सं० १९२४ आश्विन कृष्णचतुझं भौमवासरे मेषलग्ने जन्मावतरं प्राप । अपरः श्रीगुरुमुखरायस्तु सं० १९२७ कार्तिक शुक्लनवम्यां जन्म लभमानो व्याकरण-ज्योतिष साहित्य-काव्यालंकारेषु चाद्भुत्यं निदर्शयन् विधिवशात् कृतश्रीवद्रीनारायणयात्रः संग्रह- जीरोगमिषेण सं० १९५८ मार्गशीर्ष शुक्सप्तम्यां त्यक्तलीमात्रः परलोकमसेवत । श्रीचतु- र्थीलालस्तु-प्रारम्भतो जातकुशाग्रबुद्धिर्विवेद नूनं विषयं सदाशु अामान्तरे नाधिजगे कदापि स्थाने स्वकीये हि गृहीतविद्यः ॥ ८॥ बाल्यादेव विचित्रलेखलिखनेऽभ्यासोऽस्य पूर्तिङ्गतः श्लोकानान्तु शतत्रयं लिखितवान् सम्यक्तया प्रत्यहम् । आचार्याजयदेवतोऽ- लभत वै यज्ञोपवीवं शुभं ह्यायुर्दादशवार्षिकञ्च गमयन्नृप्यसिके ३७ सम्वति ॥९॥ पण्डित- श्री रोपदेशादधीतसंध्योपासनादिनित्यकभिवत् । अथ त्रयोदशे वर्षे चैत्र शुक्लपंचम्यां 'ग्रहणसंस्कारेण संस्कृतः सन् श्रीपं० वासुदेवतः कर्मकाण्डं वैद्यकविषयं श्रीमद्भागवतं 4. उीत् । पं०श्रीभूधरमलसाहाय्येन याकरण-पुराण-वेदान्तेषु शास्त्रेवन्येषु चाभ्यसितो- ऽभूत्। श्रीगौरीशंकरकृपयाऽयुर्वेदपयोनिधि पारङ्गतवान्।पं०श्रीरामप्रतापमिधज्योतिःशाचे गुरुं मेने । अधुना तु-धृतशास्त्रमतिः स्थितधर्मगतिः कृतशान्तिर तिस्तृतदानततिः। तुलसी- दलविल्वदलैः सततं प्रतिपूजति देवगणान् निरतः ॥ १० ॥ अथ १९४७ संवति मृतप्राक्तन- भायेणाऽपरोपि विवाहः समकारि सं १९५० ज्येष्ठशुकदादश्याम् पं० श्रीनानूरामशानिणा- मुपदेशेन खेमकोपाधिवा प्रेष्ठिश्रीस्नेहीरामगुप्तेन निर्मितधर्मसभायामाविंशतिवर्थश्रोतृगणा- नष्टादशमहापुराणानि श्रीमहाभारतं वाल्मीकिरामायणं धर्मशास्त्राणि च श्रावयामास । ततस्तु-मंत्रैः कर्माणि शूद्राणां कारयन्ति च पण्डिताः। मत्वेदं रचयामास तदर्थं बहुपद्धतीः ॥ १२ ॥ शूद्रवास्तुपद्धतिः-शूद्रश्राद्धपद्धतिः-शूद्रविवाहपद्ध तिश्चाऽपूर्वतां दर्शयाम्बभूवुः। लुप्यन्ते गौडग्रन्थाः प्रचरन्ति दाक्षिणात्यमैथिला इति मन्यमानोवाराणसीप्रभूति प्रधान- २ शारदास्थानेष्वपि च तदभावं विज्ञाय द्वादश महानिवन्धान बवन्ध हाते च-प्रतिष्ठाप्रकाश: १ जलाशयोलगप्रकाशः२गौडीयश्राद्धप्रकाशः देशान्तिप्रकाशः ४ मुहूर्तप्रकाशः ५अनुष्ठान- प्रकाशः ६ संस्कारप्रकाशः ७ व्रतोद्यापनप्रकाशः ८ प्रायश्चित्तप्रकाशः ९ दानप्रकाशः १०. शुद्धिप्रकाशः ११ चिकित्साप्रकाशः १२इति संज्ञां लभन्ते । नित्यकर्मप्रयोगमालापि श्रीमतव सम्पादिता एत उक्तग्रंथा मुंबईनिवासिश्रेष्ठिखेमराजेन स्वकीये "श्रीवेंकटेश्वर" मुद्रणालये मुद्रापिता|अथ कृतवारचतुष्टयश्रीजगन्नाथदर्शनोगङ्गा-यमुना-सरस्वती-प्रयाग-काशी-गया- मथुरा-वृन्दावन-श्रीरामेश्वर-धनुष्कोटि-श्रीरंग-चिदम्बर-काश्चीद्धय-वकटाचल-गोदावरी- त्र्यंबकेश्चर-ॐकारनाथ-महाकालनागेश्वर-वैद्यनाथ-हरिद्धार-उज्जैन-डाकोर-सिद्धपुर-गिरि नार-प्रभासक्षेत्र-सोमनाथ, सुदामापुरी-श्रीद्वारकादय-कुरुक्षेत्रपृथूदक-लोहार्गल-पुष्करादि- कृतयात्रश्च सर्वत्र गङ्गाजलं कूपोदकं च पिवन सदाचारयुतो विहितपारदकलेवरं कैलासवा- सिनं भगवन्तमुपास्त अपि न दष्टि देवताभ्यः काभ्यश्चिदिति । अपरञ्च-असत्येक ग्रामरतं स्थितिरपि नहि तस्यातिदूरे विभाति वासीत्तस्य त्वयं लवणितमहितं कृत्स्नशः क्षार- वारि । तवत्योऽशेपलोको वहुतरमभुनक् प्रत्यहं स्पष्टकष्टं सौख्यार्थ तजनानामयमिति प्रत- पन्तत्र फुण्ड चकार ॥ ५ ॥ धन्योयमेपां परिश्रमः सहस्त्रशो रूप्याणाञ्च व्ययो यदालम्ब्य धूलिभिरुदलिता आतपेन चातप्ताः श्रमिता पथिकजना उज्ज्वलितजाठरं भगवन्तं वैश्वानरं शमयन्ति । श्रीमती सं० १९६३ भाद्शकत्रयोदश्यां काश्यां श्रीमहामहोपाध्याय पं० श्रीशिव- कुमारशास्त्रिभिः "कर्मकाण्डाचार्य" इत्युपाधिः प्राप्तः । पुनः कलिकत्तानग- सं०१९७३ वैशाखशुक्लपूर्णिमावां वैष्णवसम्मेलनमहासभायां प्रतिवादिभयङ्करश्रीमदनन्ताचायः "कर्म- काण्डकोविद " इति पदेनोपाधत्त । अनन्तरं सं० १९७५ पौषकृष्णैकादश्यां श्रीभारतधर्मम- हामण्डलविराट्तभायां "ौतभूषण" इत्युपाधिदानं प्राप्तम् । पुनश्च ल० १९७८ आश्विन- कृष्णामावास्यायां श्रीशारदापीठाधीश्वरप्रभासपत्तनस्थ-जगद्गुरुश्रीशङ्कराचार्यश्रीत्रिविक्रम- तीर्थस्वामिभिः "कर्मकाण्डभास्कर " इति पदेन संमानतः । संवत् १९७७ वैशाखशुक्ल- पूर्णिमायां भवान् महाभारत-वाल्मीकिरामायणं-देवीभागवतम्-अष्टादशपुराणानि च भूसू- रेभ्योऽदात् । अनंतरं फाल्गुन शुक्लाष्टम्यां स्वगृहात् पश्चिमदिशि पञ्चमीवीभ्याम् "श्रीपतित- पावनेश्वर " नामानं शिवलिङ्गं स्थापितवान् श्रीमतो महादेवदत्तशर्माऽत्मभूर्विद्यालंकृतश्चोप. तिष्ठते । तिस्त्रः कन्या विवाहिताः पुत्रयुक्ताश्च अपरोलघीयांश्च माणवका पौत्रोऽप्येकः चिर- श्रीवेदिति । भवतां धर्मशालाविनोदनव कालो गच्छति चतुष्पंचाशदार्षिक आयुष्यधुनाम- वृत्तिमहताम् परमात्मैपां देशोपकाराय चिरस्थितिकुयादिति मतिः किं बहुना विज्ञेषु ॥ आश्विन शुक्ला १ सं १९७७ संपादयिता- रघुनन्दनो भिषगाचार्यः। अधुना उक्तमहानुभावोंका स्वर्गवास मुझ श्रीरङ्गनाथजीका तथा श्री श्रीनिवासजीका हार्दिकशोकमद है।
. ॥ श्रीगणेशाय नमः॥ अथ प्रायश्चित्तप्रकाशः। विचारकाण्डः। 'माधवो माधवौ वन्दे प्रतिमालिङ्गरूपिणौ । पूजितौ व्रतदानाद्यैः प्रायश्चित्त- विधायकौ ॥ १॥ धर्मशास्त्राणि बहुशो विचार्यैव पुनःपुनः । तद्वाक्पैः क्रियते ग्रन्यो युगधर्मानुसारतः ॥ २॥ युगेषु त्रिषु ये धर्माः प्रोक्ता मन्वादिभिः पुरा । शक्यन्ते नैव ते कर्तुं कलौ वर्णाश्रमादिभिः ॥३॥ यतो मन्दानयो द्वस्वा हीनसत्त्वा नराः कलौ । तयोग्या निष्कृतिश्चात्र प्रोच्यते धर्मशास्त्रतः ॥ ४ ॥ निबन्धो बहुसाहस्रश्चातुर्थीलालभास्करः । तत्राय नवमो ग्रन्थः पायाश्चत्तप्रकाशकः ॥५॥ अथ प्रायश्चित्तशब्दार्थः। प्रायस्य पापस्य चित्तं विशोधनं यस्मात्तत्मायश्चित्तम् । तथाच स्मृतिः-"प्रायः पापं समुद्दिष्टं चित्तं तस्य विशोधनम् ॥ यदा प्रायस्य तपसश्चित्तं निश्चय इति तस्य व्युत्पत्तिमाह आङ्गिराः-" प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम् ॥” इति । निश्चयसंयुक्तं पापक्षय- साधनत्वेन निश्चितमित्यर्थः । पापन्तु वैदिकप्रतिपाद्योऽनर्थः । अनर्थश्चानिष्ट- साधनम् । पापकारणमुक्तं याज्ञवल्क्येन यथा-" विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति ॥" मनुस्मृतावपि- "अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्ती- यते नरः ॥ शरीरजैः कर्मदोषयति स्थावरतां नरः । वाचिकैः पक्षिमगतां मानसैरन्त्यजातिताम् । इह दुश्चरितैः केचित् केचित्पूर्वकृतैस्तथा । प्रामुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः । सुवर्णचोरः कुनखी दुश्चर्मा गुरुतल्पगः ॥ चरितव्यमतो नित्यं प्रायश्चित्तं विशु- इये । निन्द्यहि लक्षणैर्युक्ता जायन्ते निष्कृतैनसः ॥" यमस्मृतौ-" सुरापो ब्रह्महा गोनः सुवर्णस्तेयकृन्नरः । पतितैः संप्रयुक्तश्च कृतघ्नो गुरुतल्पगः ॥ एते पतान्त सर्वेषु नरकेष्वनुपूर्वशः ॥” प्रायश्चित्तमाहात्म्यमाह अङ्गिराः-" उद्य- च्छन् यदादित्यस्तमः सर्वं व्यपोहति । तद्वत्कल्याणमातिष्ठन्सर्व पापं व्यपोहति॥ पापश्चेत्पुरुषः कृत्वा कल्याणमभिपद्यते । मुच्यते पातकैः सर्वैर्महाभैरिव चन्द्रमाः॥" कल्याणम् प्रायश्चित्तमित्यर्थः । श्रीमद्भागवतेऽपि-"न चेदिहैवापचिति यथाऽह सः कृतस्य कुर्यान्मनन्तिपाणिभिः। ध्रुवं स वै प्रेत्य नरकानुपैति ये कीर्तिता ॥
२ प्रायश्चित्तप्रकाशे- मे भवतस्तिग्मयातनाः ॥ १॥ तस्मात्पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविप- यतात्मना । दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक्चिकित्सेत रुजां निदानवित्॥२॥ कर्मणा कर्मनिहारो न ह्यात्यन्तिक इष्यते । अविद्वदधिकारित्वात्प्रायश्चित्तं विम- र्शनम् ॥ ३ ॥" महाभारतेऽपि-" अद्भिर्गात्रान्मलमिव तमो ह्यमिभयायथा । दानेन तपसा चैव सर्व पापमपोहति ॥” विष्णुधर्मोत्तरे-“प्रायश्चित्तैः शमं याति पापं कृतमसंशयम् । राजदण्डाच्छमं याति प्रायश्चित्तमकुर्वताम् ॥ प्रायश्चित्तवि- हीना ये राजभिश्चाप्यवासिताः । नरकं प्रतिपद्यन्ते तिर्यग्योनं तथैव च॥ मानुष्यम- पि चासाय भवन्तीह तथाङ्किताः । प्रायश्चित्तमतः कार्य कल्मषस्यापनुत्तये ॥" शातातपस्मृता-"प्रायश्चित्तविहीनानां महापातकिनां नृणाम् । नरकान्ते भवे- जन्म चिह्नाङ्कितशरीरिणाम।प्रतिजन्म भवेत्तेषां चिहं तत्पापसूचितम् । प्रायश्चित्ते कृते याति पश्चात्तापवतां पुनः।महापातकजं चिहंसप्तजन्मसु जायते । उपपापोद्भवं पञ्च त्रीणि पापसमुद्भवम् ॥दुष्कर्मजा नृणां रोगा यान्ति चोपक्रमः शमम् । जपैः सुरानोमैनिस्तेषां शमो भवेत्॥ " मनुस्मृता-"अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥ अकामतः कृतं पापं वेदा-. भ्यासेन शुद्ध्यति । कामतस्तु कृतं मोहात्मायश्चित्तैः पृथग्विधैः॥ चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । अज्ञानाद्यदि वा ज्ञानात्कृतं कर्म विगार्हतम् ॥ तस्मा- द्विमुक्तिमन्विच्छन्द्रितीयं नसमाचरेत् ॥ अथ प्रायश्चित्ताकरणे प्रत्यवायो याज्ञ- वल्क्येन दर्शितः-"प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । अपश्चात्तापिनः कष्टान्नरकान्यान्ति दारुणान् ॥ तामिसं लोहशङ्कुश महानिरयशाल्मली । रौरवं कुंड्मलं पूतिमृत्तिकं कालसूत्रकम् ॥ सङ्घातं लोहितोदश्च सविषं संप्रपातनम् । महानरककाकाले सञ्जीवनमहापथम् ॥ अवीचिमन्धतामिसं कुम्भीपाकं तथैव . च । आसिपत्रवनं चैव तापनं चैकविंशकम् ॥ महापातकजैघोरैरुपपातकजैस्तथा । अन्विता यान्त्यचरितप्रायश्चित्ता नराधमाः ॥ " मनुस्मृतावपि-" तामिस्र- मन्धतामिस्र महारौरवरौरवौ । नरकं कालसूत्रं च महानरकमेव च ॥ संजीवनं महावीचि तपनं संप्रतापनम् । संपातं च सकाकोलं कुड्मलं प्रतिमृत्तिकम् ॥ लोहशंकुमृजीर्ष च पन्थानं शाल्मलं नदीम् । असिपत्रवनं चैव लौहचारकमेव च।" अथ प्रायश्चित्तिनः पर्षदुपस्थानम् । अङ्गिरा:-"कृते निःसंशये पापे न भुञ्जीतानुपस्थितः । भुञ्जानो वर्द्धयेत् - पापमसत्यं पर्षदि ब्रुवन् ॥ सचैलं वाग्यतः स्नात्वा किन्नवासाः समाहितः । उप- स्थाय ततः शीत्रमातिमान् धरणीं गतः ॥गात्रैश्च शिरसा चैव न च किश्चिदुदाह- रेत् ॥” इति । उपस्थानं च ब्राह्मणान्वस्त्रादिना तोषयित्वा कार्यम् । महत्सु पापेषु विचारकाण्डः। राज्ञोप्युपस्थितिः कार्या। तथा च देवल:-" स्वयं वा ब्राह्मणैः कृच्छ्रमल्पदोषे विधीयते । राज्ञा च ब्राह्मणैश्चैव महत्सु परिचक्षते ॥" इति ॥ पारपल्लक्षणम् । परिषदमाह बृद्धपराशरः-"पर्षदशावरा प्रोक्ता ब्राह्मणैवेदपारगैः । सा यद्यात्स धर्मः स्यात्स्वयम्भूरित्यकल्पयत् ॥ वेदशास्त्रविदो विप्रा यं ब्रूयुः सप्त पञ्च वा । त्रयो वापि स धर्मः स्यादेको वाऽध्यात्मवित्तमः॥ न लक्षणापि मूर्खाणां न चैवाधर्मवेदिनाम् । विदुषां नापि लुब्धानां न चापि पक्षपातिनाम् ॥ श्रुताध्य- यनसम्पन्नः सत्यवादी जितेन्द्रियः । सदा धर्मरतः शान्त एका पर्षत्त्वमर्हति ॥ नसा वृद्धैर्न तरुणैर्न सुरूपैर्धनान्वितैः। त्रिभिरेकेन पर्षत्स्यादिवद्भिर्विदुषापि वा ॥न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । नासौ धर्मों यत्र नो सत्यमस्ति नो तत्सत्यं यच्छलेनाभ्युपेतम् ॥ निष्कृतौ व्यवहारे च व्रतस्याशंसने तथा। धर्म वा यदि वाधर्म परिपत्माह तद्भवेत्॥ प्रविश्य पर्षदं ते वै सभ्यानामग्रतः स्थिताः । यथाकालं प्रकुर्युस्ते प्रायश्चित्तं तदीरितम् ॥" वृद्धसूर्यारुणपि-"दश पञ्चाथ चतुर उपदेश्य द्विजाञ्छभान । तेषामनुज्ञया सर्व प्रायश्चित्तमुपक्रमेत् ॥ विधाय वैष्णवं श्राद्धं सङ्कल्पं निजकाम्यया । धेनुं दद्याद्विजेभ्योऽयं दक्षिणाश्च स्वशक्तितः ॥ अलंकृत्य यथाशक्त्या वस्त्रालङ्करणैर्द्विजान् ।. याचेत दण्डवन्नत्वा प्रायश्चित्तं यथोचितम् ॥ जपच्छिदं तपश्छिदं यच्छिद्रं यज्ञकर्मणि । सर्व भवति चाच्छिद्रं यस्य चेच्छन्ति वै द्विजाः। ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः। सर्वदेवमया विप्रा न तवचनमन्यथा ॥ उपवासो व्रतं चैव स्नानं तीर्थफलं तपः। विप्रैः सम्पादितं यस्य संपन्नं तस्य तद्भवेत् ॥ ब्राह्मणा जङ्गम तीर्थ निर्मले सार्व- कामिकम् । तेषां वाक्योदकेनैव शुद्ध्यन्ति मलिना जनाः ॥ सम्पन्नामति तद्वाक्यं वदन्ति क्षितिदेवताः । प्रणम्य शिरसा धार्यममिष्टोमफलं भवेत् ॥ प्रायश्चित्त- मकृत्वा तु न कुर्यात्कर्म किञ्चन । अनिस्तीर्यमघं नित्यं वर्धते द्विगुणं पुनः॥ दान- दयाभिरतिथिद्विजदेवतागोदेवार्चनप्रणातभिश्च जपैस्तपोभिः । इत्युक्तपुण्यनिचयै- रपचीयमानं प्राक्पापजातमशुभं प्रशमं नयन्ति ॥ निष्कृत्या कर्मजन्मोत्थौ दोष- जस्त्वौषधेन हि । उभयान्जायमानस्तु निष्कृत्यौषधसेवया" बृहत्पाराशर्याम्- यथा कृतं च यत्पापं तथैव विनिवेदयेत् । यस्तेषामन्यथा ब्रूयात्स पापीयान्न संशयः ॥ सत्यं चासत्यमेवात्र विपर्यस्तं च वेदितः । स एवानृतवादी स्यादनन्ते नरके व्रजेत ॥ ज्योतिष व्यवहारं च प्रायश्चित्तं चिकित्सितम् । अजानन्यो नरो ब्रूते साहसं किमतः परम् ॥” इति ॥ L ४ प्रायश्चित्तप्रकाशे- प्रायश्चित्ताकथने दोषः। यथा-"आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः। जानन्तो न प्रय- च्छन्ति तेऽपि तद्दोषभागिनः ॥ अनचितैरनाहूतैरपृष्टैश्चैव संसदि । प्रायश्चित्तं न वक्तव्यं जानद्भिरपि जल्पतः ॥ न्यायतो मार्गमाणस्य क्षत्रियादेः प्रणामिनः । अन्तरा ब्राह्मणं कृत्वा व्रतमेतत्समांदिशेत् ॥" हारीता-यथावयो यथाकालं यथामाणं च ब्राह्मणे । प्रायश्चित्तं प्रदातव्यं ब्राह्मणैर्धर्मपाठकैः ॥ तस्मात्कृच्छ्र- मथाप्यई पादं वापि विधानतः । ज्ञात्वा बलावलं कालं प्रायश्चित्तं प्रकल्पयेत् ॥" अशक्तावनुग्रहमाह पराशर:-"स्त्रीणां च वालवृद्धानां क्षयिणां कुशरीरिणाम् । उपवासायशक्तानां कर्त्तव्योऽनुग्रहश्च तैः ॥ दुर्बलेऽनुग्रहः कार्यस्तथा वै शिशु- वृद्धयोः । अतोऽन्यथा भवेदोषस्तस्मानानुग्रही भवेत् ॥ स्नेहादा यदि वा लोभा- न्मोहादज्ञानतोऽपि वा । कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति ॥ ज्ञात्वा देशं च कालं च वयः सामर्थ्यमेव च । कर्त्तव्योऽनुग्रहः सद्भिर्मुनिभिः परिकीर्तितः । लोभान्मोहाद्यान्मैव्या यदि कुर्युरनुग्रहम् । ते मूढा नरकं यान्ति शतधा प्राप्त- पातकाः ॥” अङ्गिराः--"अशीतिर्यस्य वणि बालो वाप्यूनषोडशः । प्राय- श्चित्ताईमर्हन्ति स्त्रियो रोगिण एव च ॥" विष्णु:-"स्त्रीणामई प्रदातव्यं वृद्धानां रोगिणां तथा। पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः ॥” अगिसः- "ऊनैकादशवर्षस्य पञ्चवर्षाधिकस्य च । चरेद्गुरुः सुहृदापि प्रायश्चित्तं विशुद्धये ॥ ततो न्यूनतरस्यास्य नापराधो न पातकम् । न चास्य राजदण्डोऽस्ति प्रायश्चित्तं न विद्यते॥" महाभारते-"आचतुर्दशकाद्वर्षान्न भविष्यति पातकम् । परेण कुर्वतामेवं दोष एव भविष्यति ॥” इति । इदन्तु अत्यन्तगुणवदालविषयकमिति शूलपाणिः॥ विश्वामित्रोऽपि-"जातिशक्तिगुणापेक्षं सकृदुद्धिकृतं तथा । अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत् ॥ " प्रायश्चित्तदाने फलमाह अङ्गिराः-"यत्पुण्यमुद्धृते विप्रे म्रियमाणे जलादिषु । तत्पुण्यं तारिते पापात्प्रायश्चित्तैस्तु मानवे ॥" इति ।। अथ पापनिष्क्रमणादि। प्रायश्चित्तविवेके मनुः-"ख्यापनेनानुतापेन तपसाऽध्ययनेन च । पापकृन्मुच्यते पापात्तथा दानेन चापदि ॥" आपदीत्यनेन अध्ययनतपसोर्दानम् अनुकल्प इत्युक्तम् । एतद्धिंसाव्यतिरिक्तविषयम् । हिंसायान्तु दानमेव मुख्यम् । तथा च भविष्ये-"हिंसात्मकानां सर्वेषां कीर्तितानां मनीषिभिः। प्रायश्चित्तकदम्बानां दानं प्रथममुच्यते ॥” मनुस्मृतावपि-"दानेन वधनिर्णेकं सादीनामशक्नुवन् । एकैकशश्वरेत्कृच्छ्र द्विजः पापापनुत्तये ॥" संवत्तोऽपि-" हिरण्यदानं गोदानं भूमिदानं तथैव च । नाशयन्त्याशु पापानि महापातकजान्यपि ॥" यमोऽपि-- LL विचारकाण्डः। ५ L शोषणेन शरीरस्य तपसाऽध्ययनेन च । पापकृन्मुच्यते पापादानेन च दमेन च ॥" मनुस्मृतावपि-" कृत्वा पापं हि सन्तप्य तस्मात्पापात्प्रमुच्यते । नैतत् कुर्यात्पुनरिति निवृत्त्या पूयते नरः ॥ " यमोऽपि-" गवाहिका देवपूजा वेदा- भ्यासः सरित्सवः । नाशयन्त्याशु पापानि महापातकजान्यपि ॥"महाभारते- " यद्यकार्यशतं कृत्वा कृतं गङ्गाभिषेचनम् । सबै दहति गङ्गाम्भस्तूलराशिमि- वानलः ॥ " श्रीमद्भागवते-"तपसा ब्रह्मचर्येण शमेन च दमेन च । त्यागेन सत्यशौचाभ्यां यमेन नियमेन च ॥ देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रझ्यान्विताः। क्षिपन्त्य महदपि वेणुगुल्ममिवानलः ॥ नानतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि। एवं नियमकृद्राजशनैः क्षेमाय कल्पते॥" विष्णुपुराणे--"प्रायश्चित्तान्यशे- पाणि तपःकर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ " श्रीमद्भागवतेऽपि-"न तथा ह्यघवाबाजन्पूयेत तपआदिभिः । यथा कृष्णा- पिंतप्राणस्तत्पूरुषनिषेवया ॥ केचित्केवलया भक्त्या वासुदेवपरायणाः । अघं. धुन्वन्ति कात्स्न्न नीहारमिव भास्करः ॥ प्रायश्चित्तानि चीर्णानि नारायण- पराङ्मुखम् । न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः ॥ स्तेनः सुरापो मित्र- ध्रुग्ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ सर्वेषामप्यघ- वतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ " महा- भारते-" कृत्वा पापं पूर्वमबुद्धिपूर्व पुण्यानि चेत्कुरुते बुद्धिपूर्वम् । स तत्पा नुदते कर्मशीलो वासो यथा मलिनं क्षारयुक्तम् ॥" देवलस्मृतौ-"कृत्वा पापम- विज्ञानाभ्रूणहत्यादि तत्पुनः । निरम्यति-महायज्ञैरथवा तीर्थचर्यया ॥ ॥ इति ॥ अथ पापशाधोकानि व्रतानि । प्रायश्चित्तविवेके विश्वामित्र:-"कृच्छ्चान्द्रायणादीनि शुद्ध्यभ्युदयकारणम् । प्रकाशे व रहस्ये च संशयेऽनुक्तकेऽस्फुदे ॥ प्राजापत्यः। सान्तपनः शिशुकृच्छ पराककः । अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छूकः ॥ महासान्तपन: शुद्धयै तप्तकुच्दूस्तु पावनः । जलोपवासकृच्छ्रश्च ब्रह्मकूर्चस्तु शोधकः ॥ एते व्यस्ताः समस्ता वा प्रत्येकमेकशोऽपि वा । पातकादिषु सर्वेषु पापकेषु प्रयत्नतः॥ कार्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये । शिशुचान्द्रायणं प्रोक्तं यतिचान्दा- यणं तथा ॥ यवमध्यस्तथा प्रोक्तस्तथा पिपीलिकाकृतिः । उपवासस्त्रिरात्र वा मासं पक्ष तदर्धकम् ॥ षडहद्वादशाहादि कार्य शुद्धिफलार्थिना । उपपातकयुक्ताना- मनादिष्टेषु चैव हि॥प्रकाशे च रहस्ये च अभिसन्ध्यायपेक्षया । जातिशक्तिगुणान् दृष्ट्वा सकुडुद्धिकृतं तथा। अनुबन्धादिकं दृष्ट्वासर्व कार्य यथाक्रमम् ॥ इति प्रकाश- कृते पापे मुख्यानि व्रतानि । रहस्यकृतेजपादीनि । तथाच मनु:-"एतद्विजातयः शोध्या व्रतैराविष्कृतैनसः । अनाविष्कृतपापांस्तु मन्त्रै)मैस्तु शोधयेत् ॥" -- ६ प्रायश्चित्तप्रकाशे-- अथ पूर्वोक्तवतरवरूपाणि। तत्र तावत्प्राजापत्यव्रतस्वरूपमाह पराशर:-"यह सायं व्यह प्रातस्यहमद्या- दयाचितम् । व्यहश्चैव न भुञ्जीत प्राजापत्यो विधिःस्मृतः॥सायं द्वाविंशतिसा प्रातः षड्विंशतिस्तथा । अयाचिते चतुर्विशः परश्चानशनं स्मृतम् ॥ कुक्कुटाण्ड- प्रमाणं तु यावान्वा प्रविशेन्मुखम्। एतं प्रासं विजानीयाच्छुद्ध्यर्थ कायशोधनम्॥” अथ सान्तपनम् । तत्र याज्ञवल्क्यः-" गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । जग्ध्वापरेऽपवसेत्कृच्छ्रे सान्तपनं स्मृतम् ॥ " इति द्वैरात्रः सान्तपन: कृच्छ्र: ॥ अथ पराकः। तत्र मनु:-“यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । पराको नामकृच्छयोऽयं सर्वपापापनोदनः ॥" बृहस्पतिरपि-"जपहोमरतः कुर्याद्वादशा- हमभोजनम् । पराक एष विख्यातः सर्वपापप्रणाशनः ॥" अथ शिशुकृच्छ्रव्रतम् । तत्र मनुः-"अहः कल्यमहः सायमहरयादया- चितम् । अहस्तु वायुभक्षः स्याच्छिशुकृच्छ्रे विधीयते ॥" अथातिकृच्छ्वतम् । तत्र प्रजापत्यमभिधायाह याज्ञवल्क्यः-"अयमेवाति- कृच्छ्रः स्यात्पाणिपूरानभाजनः"। पर्णकृच्छाख्यं व्रतमाह-"पोंदुम्बरराजीवविल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यह पीतैः पर्णकृच्छ्र उदाहृतः" । इति पञ्चाहसाध्यः पर्णकृच्छः ॥ सौम्यकृच्छ्वतमाह-" पिण्याकाचामतकाम्बुसत्तूनां प्रतिवासरम् । एकरा- त्रापेवासश्च कृच्छः सौम्योऽयमुच्यते ॥" पिण्याकस्तिलखलिः । आचामो भक्त- मण्डः । एष तु षडहसाध्यः सौम्यकृच्छ्रः । कृच्छ्रातिकृच्छ्वतमाह-"कृच्छातिकृच्छ्रः पयसा दिवसानेकविंशतिम्" । महासान्तपनाख्यं कृच्छमाह-" पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छोऽयं महासान्तपनः स्मृतः ॥” इति सप्ताहसाध्यं महासान्तपनं व्रतम् । यमस्मृतौ विशेष:-" व्यहं पिवेत्तु गोमूत्रं व्यहं वैगोमयं पिबेत् । व्यहं दाधि व्यहं क्षीरं व्यहं सर्पिस्ततः शुचिः ॥महासान्तपनं ह्येतत्सर्वपापप्रणाशनम् ॥" तप्तकृच्छमाहात्रिः “व्यहमुष्णं पिबेदारित्र्यहमुष्णं पयः पिबेत् । व्यहमुष्णं पिबेत्सर्वाियुभक्षो दिनत्रयम् ॥ षट्पलं तु पिवेदम्भस्त्रिपलन्तु पयः पिबेत् । पलमेकं पिबेत्सर्पिस्तप्तकृच्ट्र विधीयते ॥ " वायुभक्षणमुपवासः ॥ ब्रह्मकूर्चमाह पराशर:-"ब्रह्मकूर्च प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् । कृतेन येन मुच्यन्ते मनुष्याः सर्वकिल्विषैः ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । निर्दिष्टं पश्चगव्यं तु-पवित्रं पापशोधनम् ॥ गोमूत्रं कृष्णवर्णायाः श्वेतायाश्चैव गोम- विचारकाण्डः। ७ यम् ॥ पयश्च ताम्रवर्णाया रक्ताया गृह्यते दधिं । कपिलाया घृतं ग्राह्य सर्व कापिलमेव वा । मूत्रमेकपलं दद्यादङ्गुष्ठाई तु गोमयम् ॥ क्षीरं सप्तपलं दद्यादधि त्रिपलमुच्यते। घृतमेकपलं दद्यात्पलमेकं कुशोदकम् ॥ गायत्र्यादाय गोमूत्रं गन्ध- द्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिकाव्णस्तथा दधि ॥ तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् । पञ्चगव्यमृचा पूतं स्थापयेदनिसन्निधौ ॥ आपोहिष्ठेति चालोड्य मानस्तोकेति मन्त्रयेत् ॥ सप्तपत्रास्तु ये दर्भा आच्छिन्नानाः शुकत्विषः । एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ॥ इरावती इदं विष्णुर्मान- स्तोके च शंवती । एताभिश्चैव होतव्यं हुतशेष पिबेट्विजः ॥ आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु । उद्धृत्य प्रणवेनैव पिबेच्च प्रणवेन तु ॥ मध्येनैव पलाशस्य पद्मपत्रेण वा पुनः । स्वर्णपात्रेण तात्रेण ब्रह्मतीर्थेन वा पुनः॥ यत्त्वगास्थिगतं पापं देहे तिष्ठति देहिनाम् । ब्रह्मकूचों दहेत्सर्व प्रदीप्ताभिरिवेन्धनम् ॥ पवित्रं त्रिषु लोकेषु देवताभिरधिष्ठितम् । वरुणश्चैव गोमूत्रे गोमये हव्यवाहनः । दनि वायुः समुदिष्टः सोमः क्षीरे घृते रविः ॥" ब्रह्मकूर्चस्य कालमाह प्रजापतिः-"चतुर्दश्या- मुपोप्याथ पौर्णमास्यां समाचरेत् । ” जाबालिरपि-"अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं पिबेत्मातर्ब्रह्मकूर्चमिति स्मृतम् ॥ " देशविशेषे शातातपआह-"नदीतीरेषु गोष्ठेषु पुण्येष्वायतनेषु च। तत्र गत्वा शुचौ देशे ब्रह्म- कूर्चसमाचरेत् ॥ वृद्धपाराशर्या विशेषः-"निष्पन्नं पञ्चगव्यं च पात्रेषुक्रमतः पिबेत् । मध्यमेन पलाशस्य तत्पत्रेण पिबेद्विजः॥ द्वितीयं पद्मपत्रेण ब्रह्मपत्रेण चापरम्। चतुर्थ ताम्रपात्रेण तत्पिबेद्वतकृन्नरः॥ विष्णुं संस्नापयेद्भक्त्या पञ्चगव्येन चार्चयेत् । कूष्माण्डैर्जुहुयान्मन्त्रैः पञ्चगव्यं हुताशने ॥ सव्याहत्या च गायत्र्या तथैव प्रणवेन च । ब्रह्मकूर्चमिदं प्रोक्तं व्रतं पञ्चदिनात्मकम् ॥ पञ्चगव्यं च संप्राश्य पञ्चरात्रोपवासकृत्। नक्तेन वा समश्नीयाद्यावच्छत्त्युदितानि च ॥ पाञ्चाहिकं पार- णकं व्रतस्यास्य प्रकीर्तितम् । निर्दहेत्सर्वपापानि ब्रह्मकूर्चमिदं व्रतम् ॥ अन्ये वदन्ति कवय उपवासं विना व्रती । जाहोमादि कर्त्तव्यं देवतार्चनमेव वा ॥ पञ्च- गव्यं च होतव्यं पञ्चगव्यं समनियात् । ब्राह्मणान्भोजयेत्तापद्यावत्कुर्यादिदं व्रतम्।।” अथ चान्द्रायणव्रतम् । तथा च वसिष्ठः-"एकैकं वर्द्धयेत्पिण्डं शुक्त कृष्ण च हासयेत् । इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥" मनुस्मृतौ-"एकैकं हासयेत्पिण्डं कृष्णे शुक्ले च वईयेत् । उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥1 यतिचान्द्रायणम्। “अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिने स्थिते। नियतात्मा हविष्याशी यतिचान्द्रायणं चरन्।" शिशुचान्द्रायणम्-“चतुरः प्रातरधीयात्पि- ण्डान्विप्रः समाहितः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ यथाकथांच- त्पिण्डानां तिस्रोऽशीतीः समाहितः।मासेनानन्हविष्यस्य चन्द्रस्यति सलोकताम्॥"
L राजा प्रायश्चित्तप्रकाशे- पर्षदुपदिष्टव्रतग्रहणं तु व्रतानुष्ठानदिवसात्पूर्वेयुः सायाह्ने कार्यम् । यथाह वासिष्ठः "सर्वपापेषु सर्वेषां व्रतानां विधिपूर्वकम् । ग्रहणं संप्रवक्ष्यामि प्रायश्चित्ते चिकी- र्षिते ॥ दिनान्ते नखरोमादीन् प्रवाप्य स्नानमाचरेत् । भस्मगोमयमृद्वारिपश्चगव्या- दिकाल्पतैः ॥ मलापकर्षणं कार्य बाह्यशौचोपसिद्धये । दन्तधावनपूर्वेण पञ्चगव्येन संयुतम् ॥ व्रतं निशामुखे ग्राह्यं बहिस्तारकदर्शने । आचम्यातः परं मौनी ध्यायन दुष्कृतमात्मनः ॥ मनःसन्तापनं तीव्रमुद्दहेच्छोकमन्ततः ॥ " बहिरिति प्रामादहिनिष्क्रम्प । केशधारणेच्छायां द्विगुणवतमाह-हारीतः । वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः। केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥ केशानां धारणार्थं तु द्विगुणं व्रतमाचरेत् । द्विगुणे तु व्रते चीर्णे दक्षिणा द्विगुणा भवेत् ॥” इति ॥ एतानि पूर्वोक्तव्रतानि कृत्वा नरः पूतो भवति । तथा च वृद्धपराशर:-" यावन्ति पापानि भवन्ति दैवादकामतो वाप्यथ कामतो वा । उक्तानि तेषां मुनिभिब्रतानि शुद्ध्यर्थमेतानि पराणि चास्य ॥ धर्मार्थमेतानि कृतानि पुंसां दार्दिवौकस्त्वविमुक्तसिद्धीः । अत्रा- पि पूज्यत्वमशेषलोके तेजःशरीरे विचरन्विभाति ॥ यस्यास्ति भीतिः पुरुषस्य पापादिच्छेच्च कर्वे क्षयमेनसां यः । प्रेत्य व्रतं च व्रतदानजाप्यं प्रोद्दिष्टमतन्न तद- न्यदस्ति।" इति । कलौतु दानमेव मुख्यम् । चान्द्रायणादिवतानां कर्मशक्यत्वात्। तथा च पराशरः-"वदन्ति दानं मुनयः प्रधानं कलौ युगे नान्यदिहास्ति किश्चित् । विशोधनं स्वय॑मिहापि पूज्यं वदामि तस्मादथ दानधर्मान्॥"लघुपाराशरोऽपि- "तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे॥" आदित्यपुराणे विशेष:-“यस्तु कार्त्तयुगो धर्मों न कर्त्तव्यः कलौ युगे । पापम- सक्तास्तु यतः कलौ नार्यो नरास्तथा॥ इति । अतः कलौ प्राणिनां कष्टसाध्ये चान्द्रायणादिव्रतधम प्रवृत्त्यसंभवात्सुकरो दानधर्मोऽत्र कर्तुमुचितः ॥ अथ पूर्वो- क्तानां प्राजापत्यादिवतानां केनचिन्निमित्तेनानुष्ठानाशक्तौ यथायोगं प्रत्याम्नाया उच्यन्ते । तत्र प्राजापत्यस्य प्रत्याम्नायाश्चतुर्विंशतिमते दर्शिताः-"कृच्छो देव्य- युतं चैव प्राणायामशतद्वयम् । तिलहोमसहस्रन्तु वेदपारायणं तथा॥ विप्रा द्वादश वा भोज्याः पावकेष्टिस्तथैव च । अथवा पावमानेष्टिः समान्याहुमनीषिणः ॥” अपरार्केपि-"द्वादशैव सहस्राणि जपेदेवीमुपोषितः । जलान्ते विधिवन्मौनी प्राजापत्योऽयमुच्यते ॥ उपोष्य श्रद्धया युक्तस्तिलपात्राणि धर्मतः । द्वादश ब्रह्म- वादिभ्यः प्राजापत्येन तत्समम् ॥ दत्त्वा इति शेषः । पात्राणि तिलपूरिततान- पात्राणि॥तिलपात्रमानं कौमें-"तिलपात्रं विधाप्रोक्तं कनिष्ठोत्तममध्यमम् । ताम्र- पात्रं दशपलं जघन्यं परिकीर्तितम् ॥ द्विगुणंमध्यमं प्रोक्तं त्रिगुणं चोत्तमं स्मृतम्"। अपराके वसिष्ठः-" निश्यासीनो दिवा तिष्ठेत्रिरात्रं मारुताशनः । प्राजापत्यं ॥
विचारकाण्डः। ९ विजानीयात्कूष्माण्डैर्जुहुयाद्धृतम् ॥” इति ॥ कूष्माण्डैः " यद्देवादेवहेडनम्"इति त्रिभिमंत्ररित्यर्थः । पराशरमाधवीये-"प्राजापत्यं चरन्विनो यद्यशक्तः कथञ्चन । अहानि पञ्च विप्राश्यान्भोजयेत्सम्यगीप्सितान् । एकमध्ययनं कुर्यात्प्राजापत्य- मथापि वा । दद्याद्वादशसाहसं गवां मुष्टिं विचक्षणः॥"मुष्टिं तृणमुष्टिमिति भानः। "प्राजापत्यक्रियाशक्तौ धेनुं दद्यात्पयस्विनीम् । धेनोरभावे दातव्यं मूल्यं तुल्यं न संशयः ॥” इति । मूल्यं तु ब्रह्मपुराणे उक्तम्-“गवामभावे निष्कं स्यात्तद पादमेवावा ॥” इति । निष्क सुवर्णाश्चत्वारः। सुवर्णस्त्वशीतिगुञ्जापरिमितं रजतम् । वृद्धसूर्यारुणसंवादे-“यवद्रयस्य गुञ्जा स्यान्माषो गुञ्जाष्टकस्य च । सुवर्णों दशमापः स्याचे चत्वारः पलं स्मृतम् ॥ सुवर्णकर्षों तुल्यौ स्तो माने रजत- काञ्चने " इति पलं निष्कमित्यर्थः ॥ अथ कृच्छ्रव्रतप्रत्याम्नायाः। अपग-" समिद्धृतं हविर्धान्यं तिलान्या मारुताशनः । हुत्वा द्वादशसाहस्रं गायत्र्या कृच्छ्रमाप्नुयात् ॥ अन्नदानं हिरण्येन द्वादश ब्राह्मणान्शुचीन् । तर्पयेन्मारुताशी च श्रोत्रियान्कृच्छ्रमुच्यते॥" अङ्गिरा:- "कपिलायान्तु दुग्धायां धारोष्णं तु पयः पिवेत् । एष व्यासकृतः कृच्छ्रः श्वपाक- मपि शोधयेत् ॥ वसिष्ठश्च-" गोमूत्रेण समायुक्तं यावकं चोपयोजयेत् । कृच्ट्र- मेकाहिकं प्रोक्तं दृष्टमगिरसा स्वयम् ॥ स्वयमाहत्य यो मूर्धा तृणभारमुपोषितः । दद्याद्गोमण्डले कृच्छो द्वादशैवमसंशयः॥" भारो दिसहस्रपलपरिमितः । “प्राणा- यामशतं कृत्वा द्वाविंशोत्तरमात्तिषु । अहोरात्रोषितस्तिष्ठेत्प्राङ्मुखः कृच्छ्र उच्यते ॥ नमस्कारसहस्राणि द्वादशैव दृढव्रतः । गोविप्रपितृदेवेपु कुर्यात्कृच्छ्त्रयं भवेत् ॥" पराशरः-" कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् । पुण्यतीर्थेनार्दशिराः स्नानं द्वादशसंख्यया " ॥ षट्त्रिंशन्मते-“प्राजापत्ये तु गामेकामतिकृच्छे द्वयं स्मृतम् ॥” चतुर्विशतिमतेऽपि-" प्राजापत्ये तु गामेकां दद्यात्सान्तपने दयम् । पराके नव तप्तातिकृच्छ्रे तिस्तस्तु ताः स्मृताः ॥ अष्टौ चान्द्रायणे ज्ञेया- स्तिस्रो वा शक्त्यपेक्षया ॥" वृद्धसूरुणसंवादेऽपि-" गोदानं च तथा तेषु कर्तव्यं पापशोधनम् । एका कृच्छ्रेऽतिकृच्छे हे तिस्रश्चान्द्रायणे व्रते ॥ गवामभावे निष्का वा साशीतिशतकृच्छ्दाः । षड्वार्षिके महाभाग प्रायश्चित्ते यथोदिते ॥ यत्र यावत्संख्यया प्राजापत्यान्यावर्तनीयानि भवन्ति तत्र तावत्सङ्ख्यया गोदानान्यावर्व- नीयानि । तदापि चतुर्विंशतिमते दर्शितम्-"जन्मप्रभृति पापानि बहूनि विविधानि, च ।अर्वाकू तु ब्रह्महत्यायाः पडन्दं कृच्छमारचरेत् ॥ प्रत्याम्नाये गवां देयं साशीति धनिना शतम् । तथाष्टादशलक्षाणि गायत्र्या वा जपेद्बुधः ॥ गायत्र्यास्तु जपन् कोटि ब्रह्महत्यां व्यपोहति । लक्षाशीतिं जपेद्यस्तु सुरापानाद्विमुच्यते ॥ पुनाति १० प्रायश्चित्तप्रकाशे- ॥ हेमहारं गायत्रीलक्षसप्ततिः। गायत्र्याः षष्टिभिर्लक्षैर्मुच्यते गुरुतल्पगः ॥ कृच्छा- दिषु ब्राह्मणभोजनसङ्ख्या पराशरमाधवीये-"कृच्छ्रे पश्चातिकृच्छ्रे त्रिगुणम- हरहस्त्रिंशदेवं तृतीये चत्वारिंशच्च तप्ते त्रिगुणभगुणिता विंशतिः स्यात्पराके । कृच्छे सन्तापनाख्ये भवति षडधिका विंशतिः सैव हीना दाभ्यां चान्द्रायणे स्यात्तपसि कृशवलो भोजयेद्विप्रमुख्यान् ॥ धर्मनिष्ठास्तपोनिष्ठाः कदाचित्पापसागताः । जपहोमादिकं तेभ्यो विशेषेण विधीयते॥नामधारकविप्रा ये मूर्खा धर्मविवर्जिताः । कृष्ठूचान्द्रायणादीनि तेभ्यो दद्याद्विशेषतः ॥ धनिना दक्षिणा देया प्रयत्नविधिना तु या । एवं नरविशेषेण प्रायश्चित्तानि दापयेत् ॥" अथ कच्छ्रादिवतस्थानेषु तीर्थप्रत्यानायाः । तत्र समूलत्वदर्शनार्थमादित्यपुराणाक्तं किञ्चिल्लिख्यते-" पाण्डवा राज्य- लाभाय दुरितोपशमाय च । श्रीकृष्णनारद पासश्रीकण्ठेन्द्राजरोमशाः ॥ मार्क- ण्डेयपुलस्त्याजसप्तर्षिप्रमुखास्तथा। द्वादशद्वादशाव्दाभिः कृच्छ्राण्यादाय भक्तितः। तीर्थैरकुर्वन्नित्यादि पुराणे श्रूयते कथा ॥” इति । पराशरमधावे देवलोऽपि- " अभिगम्य च तीर्थानि पुण्यान्यायतनानि च। नरः पापात्प्रमुच्येत ब्राह्मणानां तपस्विनाम् ॥ सर्वाः समुद्रगाः पुण्याः सर्वे पुण्या नगोत्तमाः । सर्वमायतनं पुण्यं सर्वे पुण्या वनाश्रया :॥ इति । अत्रच स्मृतिसंग्रहस्मृत्यर्थसारादिभिरुक्तप्रकारोऽ- स्माभिरपि लिख्यते । भागीरथ्यां स्नानं पादचारेण षष्ठियोजनागतस्य षडब्दकृ- च्छ्रसमम् । अत्र यात्रायोजनवृद्धौ योजनस्याईकृच्छा वृद्धिः । एकायोजनागतस्य मध्ये पर्वतादिव्यवधाने कृच्छ्रत्रयम् । तृतीयांशाधिकक्रोशादागतस्य भागीरथ्यां विद्धयुक्तस्नाने एककृच्छः । प्रयागे द्विगुणम् । गङ्गाद्वारे गङ्गासागरसङ्गमे चैवम् । वाराणस्यामगणितम् । वाराणस्यां पातकं न प्रविशति । विंशतियोज- नागतस्य यमुनासरस्वत्योः स्नानमन्दसमम् । मथुरादारवत्योदिगुणम । प्रभासेऽ- प्येवम् । दृषद्धती-शत-विपाशा-वितस्ता-शरावती-मरुदूवृधाऽसिक्नी-मधुमती-पय स्विनीत्यादिषु देवनदीषु स्नान त्रिंशद्योजनागतस्याव्दसमम् । चन्द्रभागा-वेत्रवती- सरयू-गोमती-देविका-कौशिकी-मन्दाकिनी-पुनःपुना-पूर्णा-पुण्या-बाहुदा-वारुणी- गण्डक्यादि देवनदीषु द्वादशयोजनागतस्य षोडश कृच्छ्राणि । एतासांपरस्परसङ्गमे द्विगुणम् । अन्यासु समुद्रगासु नदीपु द्वादशयोजनागतस्य षट्कृच्यूव्समम् । कुरुक्षेत्रे सन्निहित्यां नर्मदायां चतुर्विंशतियोजनागतस्य चतुर्विंशतिकृच्छ्रसमम् । कुब्जिका- सङ्गमे द्विगुणं शुक्लतीर्थे चतुर्गुणम् । गोदावर्या षष्टियोजनागतस्य व्यब्दसमम् । वञ्जरा-प्रणीतयोर्नर्मदावत् । पूर्णायां योजनार्दै कृच्छ्रम् । कृष्णावेणी तुगभद्रयोरति- योजनं कृच्छम्। पम्पायां द्विगुणम् । हरिहरे द्विगुणम् । कुल्याः स्नानेन त्रिरात्रो - - विचारकाण्डः। .११ पवासफलदाः । सर्वत्र समुद्रस्नानं द” कार्यम् । समुद्रस्नाने पञ्चदशयोजनागतस्य पञ्चदश कृच्छ्राणि । उक्तान्यसर्वतीर्थेषु श्रीरामेश्वरपुरुषोत्तमक्षेत्र-श्रीरङ्ग-बदरीनारा- यणादिक्षेत्रषु योजनसंख्यया कृच्छ्रसङ्ख्या देवतासमीपे सरसरिनदीसङ्गमेषु च स्नानं सदा कार्यम् । इति । परार्थ गन्ता तीर्थषोडशाशं लभेत् । प्रसङ्गेन गन्ताई फलम् । पितृमातृजायाभ्रातृपितामहमातामहपितृव्यमातुलपुत्रपुत्रीश्वशुरपोषकार्थ गुर्वाचार्योपाध्यायार्थ तेषां पत्न्यर्थ पितृष्वसमातृण्वस्त्रर्थ च स्नात्वा स्वयमष्टमांशं लभते। तीर्थफलभागिनो काशीखण्डे-“यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमभुते ॥ प्रतिग्रहादुपावृत्तः सन्तुष्टो येनकेनचित् । अहङ्कारविमुक्तश्च स तीर्थफलमश्नुते॥ अदाम्भिको निरारम्भो लघ्वा- हारो जितेन्द्रियः । विमुक्तः सर्वसङ्गैर्यः स तीर्थफलमश्नुते ॥ अक्रोधनोऽमलमतिः सत्यवादी दृढव्रतः। आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः । हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः ॥" मत्स्य- पुराणे-"ऐश्वर्यलाभमाहात्म्यागच्छेद्यानेन यो नरः । निष्फलं तस्य तत्तीर्थ तस्माद्यानं विवर्जयेत् ॥” स्कान्दे तु-"पुण्याई हरते याने तदई छत्रपादुके । तदई तैलमांसाभ्यां सर्व हरति मैथुने ॥” इति । "तीर्थोपवासः कर्त्तव्यः शिरसो मुण्डनं तथा । शिरोगतानि पापानि यान्ति मुण्डनतो यतः । तीर्थ प्राप्य प्रसङ्गेन स्नानं तीर्थे समाचरेत् । स्नानजं फलमामोति तीर्थयात्राश्रितं नतु ॥ मुण्डनं चोप- वासश्च सर्वतीर्थेष्वयं विधिः । वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ॥" कलौ तु गङ्गास्नानमेव सर्वविधपापहरम् । तथा च महाभारते-"गङ्गास्नान सर्वविधं सर्वपापप्रणाशकम् । चान्द्रायणसहस्रं तु यश्चरेत्कायशोधनम् ॥ पिबेद्य- वापि गङ्गाम्भः समौ स्यातां नवा समौ । भवन्ति निर्विषाः सर्पा यथा तायनि- दर्शनात् ॥ गङ्गाया दर्शनात्तत्सर्वपापैः प्रमुच्यते ।" इति । नचैतदर्थवादः । तथा च भविष्यकूर्मपुराणयोः-" स्नानमात्रेण गङ्गायां पापं ब्रह्मवधोद्भवम् । दुराधर्षे कथं याति चिन्तयेद्यो वदेदपि ॥ तस्याहं प्रददे पापं ब्रह्मकोटिवघोद्भवम् । स्तुति- वादमिमं मत्वा कुम्भीपाकेषु जायते॥ आकल्पं नरकं भुक्त्वा ततो जायेत गर्दभः। पापानां पापहन्त्रीत्वं स्वर्गमोक्षकहेतुता ॥ स्वभाव एव गङ्गायाः शैत्यं शीतरु- चेर्यथा । न. गङ्गासदृशं तीर्थ न देवः केशवात्परः । ब्राह्मणेभ्यः परं नास्तीत्येव- माह पितामहः ॥" ब्रह्माण्डाग्नेययो:-" दृष्ट्वा तु हरते पापं स्पृष्ट्वा तु त्रिदिवं नयेत् । प्रसङ्गेनापि या गङ्गा मोक्षदा त्ववगाहिता" भविष्ये-" यत्फलं जायते पुंसां दर्शनात्परमात्मनः । तद्भवेदेव गङ्गाया दर्शने भक्तिभावतः ॥ " ब्रह्माण्डे- "यैः पुण्यवाहिनी गङ्गा सकृद्भक्त्याषगाहिता । तेषां कुलानां लक्षन्तु भवात्तारयते शिवा ॥ अनेकजन्मसंभूतं पापं पुंसौ प्रणश्यति।स्नानमात्रेण गङ्गायो सद्यः पुण्यस्य . प्रायश्चित्तप्रकाशे- ॥ भाजनम् ॥” महाभारते दानधर्मे-" अन्धाः क्लीबा जडा व्यङ्गा पतिता रोगिणोऽन्त्यजाः । गङ्गां संसेव्य पुरुषा देवैर्गच्छन्ति तुल्यताम् ॥ स्नानन्तु भक्त्या गङ्गायां कर्तुकामस्य गच्छतः । पदेपदेऽश्वमेधस्य फलं मर्त्यस्य जायते ॥" ब्रह्माण्डे-“ये गच्छन्ति स्वतो गङ्गां परांश्च प्रेरयन्ति ये । इह ते सर्वभोगानामन्ते ज्ञानस्य भाजनम् ॥ " स्कान्दे-“यज्ञो दानं तपो जाप्यं श्राद्धं च सुरपूजनम् । गङ्गायां यत्कृतं सर्व कोटिकोटिगुणं भवेत् ॥" गङ्गायां वर्जनकर्माणि।ब्रह्माण्डे- "गङ्गां पुण्यजलां प्राप्य त्रयोदश विवर्जयेत् । शौचमाचमनं सेकं निर्माल्यं मल- घर्षणम् ॥ गात्रसंवाहनं क्रीडा प्रतिग्रहमथो रतिम् । अन्यतीर्थरति चैव अन्यती- र्थप्रशंसनम् ॥ वस्त्रत्यागं तथाघातं संतारश्च विशेषतः॥ गङ्गाक्षेत्रफलं स्कान्दे- "तीरागम्यूतिमात्रन्तु परितः क्षेत्रमुच्यते । अत्र यद्यत्कृतं कर्म गङ्गायां नात्र संशयः । अत्रस्थास्त्रिदिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥” इति तीर्थप्रत्याम्नायाः॥ अथ महापातकानि । मनुस्मृतौ-"ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापितैः सह ॥"॥ ब्रह्महत्यासमानि ॥ यथाह-मनु:-"अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्वालीकनिर्बन्धः समानि ब्रह्महत्यया ॥" याज्ञ- वल्क्या-"गुरूणामध्यधिक्षेपो वेदनिन्दा सुहृधः । ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ॥"शातातपः-" गोभूहिरण्यग्रहणे स्त्रीसंवन्धकृतेऽपि वा । यमु- विश्य त्यजेत्माणांस्तमाहुर्ब्रह्मघातकम् ॥ रागाद्देषात्प्रमादादा स्वतः परत एव वा । ब्राह्मणं घातयेवस्तु तमाहुर्बह्मघातकम् ॥ प्रायश्चित्तं चिकित्सां च ज्योतिष धर्मनिर्णयम् । विना शास्त्रेग यो ब्रूयात्तमाहुर्ब्रह्मघातकम् ॥” इति ॥ अथ सुरापानसमानि । मनुस्मृती-" ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृदधः । गर्हितानाद्ययोजन्धिः सुरापानसमानि षट् ॥ " याज्ञवल्क्या-निषिद्धभक्षणं जैहयमुत्कर्षे च वचोऽनृतम् । रजस्वलामुखास्वादः सुरापानसमानि षट् ॥" मनुस्मृतावपि-" छत्राकं विद्धाहं च लशुनं ग्रामकुक्कुटम् । पलाण्टुं गृञ्जनं चैव मत्या जग्ध्वा पतेन्नरः ॥ ॥ अथ सुवर्णस्तेयसमानि ॥ मनुस्मृतो- " निक्षेपस्यापहरणं नराश्वरजतस्य च । भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥" याज्ञवल्क्योऽपि-" अश्वरलमनुष्यस्त्रीभूधेनुहरणं तथा । निक्षे- पस्य च सर्व हि सुवर्णस्तेयसंमितम् ॥" अथ गुरुतल्पसमानि । मनुस्मृतो-" रेतासेकः स्वयोनीषु कुमारीष्वन्त्य- जासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥” याज्ञवल्क्योऽपि-. " सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ पितुः स्वसारं मातुश्च मातुलानी स्नुषामपि । मातुः सपत्नी भगिनी- विचारकाण्डः। १३ माचार्यतनयां तथा ॥ आचार्यपत्नी स्वसुतां गच्छंस्तु गुरुतल्पगः । लिङ्गंछित्त्वा वधस्तत्र सकामायाः स्त्रिया अपि ॥" मिताक्षरायां नारद:-" माता-मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यत्री भगिनी तत्सखी स्नुषा ॥ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ आसामान्यतमा गच्छन्गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते॥" इति गुरुतल्पगसमानि । एतच्चतुष्टयान्यतमसंसर्गी पञ्चमः । अथोपपातकानि । मनुयाज्ञवल्क्यौ-"गोवधो व्रात्यता स्तेयमृणानां चानपक्रिया । अनाहिता- मिता पण्यविक्रयः परिवेदनम्। भृतादध्ययनादानं भृतकाध्यापनं तथा। पारदार्य पारिवित्यं वाधुण्यं लवणक्रिया ॥ स्त्रीशूद्रविदक्षत्रवधो निन्दितार्थोपजीवनम् । नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ॥ धान्यकूप्यपशुस्तेयमयाज्यानां च याजनम् । पितृमातृसुतत्यागस्तडागारामविक्रयः॥ कन्यासन्दूषणं चैव परिविन्द- कयाजनम् । कन्यादानं तस्यैव कौटिल्यं व्रतलोपनम् ॥ आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् । स्वाध्यायामिसुतत्यागो बान्धवत्याग एव च ॥ इन्धनार्थ दुमच्छेदः स्त्रीहिंसौषधजीवनम् । हिंस्रयन्त्रविधानं च व्यसनान्यात्मविक्रयः ॥ शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् । तथैवानाश्रमे वासः परानपरिपुष्टता ॥ असच्छास्त्राधिगमनमाकरेष्वधिकारिता भार्याया विक्रयश्चैषामेकैकमुपपातकम्॥" अथ जातिभ्रंशकराणि । मनुस्मृती-" ब्राह्मणस्य रुजाकृत्या प्रातिरप्रेयम- घयोः। जैहयं च मैथुनं पुंसि जातिभ्रंशकर स्मृतम् ॥ ॥ अथ संकरीकरणम् । मतु:-"खराश्वोष्ट्रमृगभानामजाविकवधस्तथा । संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥ " अथापात्रीकरणम् । “निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥" अथ मलिनीकरणम् । “कृमिकीट- वेयाहत्या मद्यानुगतभोजनम् । फलैधाकुसुमस्तेयमधैर्य च मलावहम् ॥” इति ॥ अथ महापातकप्रायश्चित्तानि । यद्यपि महापातकातिपातकेषु मनुविष्णुयाज्ञवल्क्यादिभिः प्राणान्तं प्रायश्चित्तम- तम,तथापि कलियुगीयजीवैस्तक मशक्यत्वात्पराशरव्यासादिभिनिषिद्धत्वाशुग- धर्मविरुद्धत्वाच्च नानुष्ठेयम् । अतो व्रतजपहोमदानब्राह्मणभोजनतीर्थयात्राकृ- ष्णानुस्मरणादिद्वारा सर्वविधमहापातकादिषु यादृक्प्रायश्चित्तं विधेयं तादृगत्र लिख्यते । अथ ब्रह्मवधप्रायश्चित्तम् । तत्र कामतो ब्राह्मणवधे निष्कृतिर्नास्ति । तथा च मतु:-" इयं विशुद्धिरुदिता प्रमाप्याऽकामतो द्विजम् । कामतो ब्राह्मण- 1.
१४ पायाश्चत्तप्रकाशे- वधे निष्कृतिर्न विधीयते ॥ " प्रायश्चित्तविवेके अङ्गिराः-"यः कामतो महापापं नरः कुर्यात्कथञ्चन । न तस्य शुद्धिविज्ञेया वह्नौ प्रपतनाहते ॥ शरीरं न दहेद्याव- ब्रह्महा पापकृत्तमः । तावत्तस्य न शुद्धिः स्याद्भगवान्मनुरब्रवीत् ॥ अथाकामतो ब्राह्मणवधे प्रायश्चित्तमाह मनु:-" ब्रह्महा द्वादशसमा कुटीं कृत्वा वने वसेत् । भैक्ष्याश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥ कृतवापनो निवसेद्रामान्ते गोव्रजपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजेत् । मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥ सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् । धनं वा जीवनायालं गृहं वा स परिच्छदम् ॥" इति । एतच्च जातिमात्रब्राह्मणवधे ब्राह्मणस्य प्रायश्चित्तम् । तथा च भविष्ये " जातिमात्रं यदा हन्याब्राह्मणं ब्राह्मणो गुह । वेदाभ्यासविहीनो वै धनवा- ननिवर्जितः ॥ प्रायश्चित्तं तदा कुर्यादिदं पापविशुद्धये। धनं वा जीवनायालं गृह वा सपरिच्छदम् ॥ शंखस्मृतौ-"नित्यं त्रिषवणस्नायी कृत्वा पर्णकुटी वने । अधाशायी जटाधारी पर्णमूलफलाशनः । ग्रामं विशेच भिक्षार्थ स्वकर्म परिकी- तैयन् ॥ एककालं समश्नीयावर्षे तु द्वादशे गते । हेमस्तेयी सुरापश्च ब्रह्महा गुरुत- ल्पगः ॥ व्रतेनतेन शुद्धयन्ते महापातकिनस्त्विमे । व्रतस्थं च द्विजं हत्वा पार्थिवं च कृताश्रमम् ॥ एतदेव व्रतं कुर्याद्विगुणं च विशुद्धये । क्षत्रियस्य च पादोनं वधेऽई वैश्यघातने ॥ अर्द्धमेव सदा कुर्यात्स्त्रीवघे पुरुषस्तथा । पादं तु शूदह- त्यायामुदक्यागमने तथा ॥" याज्ञवल्क्यः-“दीर्घतीवामयग्रस्तं ब्राह्मणं गाम- थापि वा । दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥ आनीय विप्रसर्वस्तं हतो धातित एव वा । तन्निमित्तं क्षतः शस्त्रैर्जीवन्नपि विशुद्धयति ॥" विष्णु- स्मृतौ-" अश्वमेधेन शुद्धयेयुर्महापातकिनस्त्विमे । पृथिव्यां सर्वतीर्थानां तथानु- सरणेन वा ॥".प्रायश्चित्तविवेके च्यवन:-" आसेतुदर्शनात्पूतो भवत्यश्वमेधाव- भृथस्नानात्पूतो भवत्युभयशिरसं वा प्रदाय ब्राह्मणेभ्यः पूतो भवति " उभ- यशिरसमुभयतोमुखीं गामित्यर्थः । पराशरस्मृतौ-" चातुर्विद्योपपन्नस्तु विधि- वद्ब्रह्मघातके । समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ।। सेतुबन्धपथे भिक्षां चातु- वात्समाहरेत् । वर्जयित्वा विकर्मस्थाञ्छतोपानद्विवर्जितः ॥ अहं दुष्कृतकर्मा वै महापातककारकः । गृहदारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥ गोकुलेषु च गोष्ठेषु ग्रामेषु नगरेषु च । तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥ एतेषु ख्यापयेदेनः- पुण्यं गत्वा तु सागरम् । दशयोजनविस्तीर्ण शतयोजनमायतम् ॥ रामचन्द्रसमा- दिष्टं नलसञ्चयसञ्चितम् । सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति ॥ पुनः प्रत्या- गतो वेश्म वासार्थमुपसर्पति । सपुत्रः सहभृत्यश्च कुर्याद्राह्मणभोजनम् ॥ गाश्चै- विचारकाण्ड १५ वैकशतं दद्याचातुर्विद्येषु दक्षिणाम् । ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते ॥” तत्रैव धतुष्कोटिनिमज्जने विशेषः । स्कान्दे ब्रह्मखण्डे-"ब्रह्महत्यायुतं चापि सुरापानायुतं तथा । अयुतं गुरुदाराणां गमनं पापकारणम् ॥स्तेयायुतं सुव- र्णानां तत्संसर्गश्च कोटिशः । ब्रह्महत्यासमानानि सुरापानसमानि च ॥ गुरुस्त्री- गमनेनापि यानि तुल्यानि चास्तिकाः। सुवर्णस्तेयतुल्यानि तत्संसर्गसमानि च॥ तानि सर्वाणि नश्यन्ति धनुष्कोटिनिमजनात् । उक्तेष्वेतेषु सन्देहो न कर्तव्यः कदाचन ॥ जिताने परशुं तप्तं धारयामि न संशयः । अर्थवादमिम सर्व घुपन्वै नारकी भवेत् ॥ " इदं तु पादचारेण बहुयोजनादागतस्य विष- येऽस्ति । अध्यात्मरामायणे-" सेतुमारभमाणस्तु तत्र रामेश्वरं शिवम् । संस्थाप्य पूजयित्वाह रामो लोकहिताय च ॥ प्रणमेत्सेतुबन्धं यो दृष्ट्वा रामेश्वरं शिवम् । ब्रह्महत्यादिपापेभ्यो मुच्यते मदनुग्रहात् ॥ सेतुबन्धे नरः सात्वा दृष्ट्वा रामेश्वरं हरम् । सङ्कल्पनियतो भूत्वा गत्वा वाराणसी नरः ॥ आनीय गङ्गास- लिलं रामेशमभिषिच्य च । समुद्रे क्षिप्ततद्भारो ब्रह्म प्रामोत्यसंशयम् ॥” कालि- कापुराणेपि-"वृत्रं हत्वा ततः शको माहेन्द्र स्थाप्य शङ्करम् । लिङ्गं विमुक्तः पापौघैस्ततः स त्रिदिवं गतः ॥ रावणं सूदयित्वा तु रामो दाशरथिस्तथा । विमुक्तो ब्रह्महत्यायाः स्थाप्य लिङ्गं सुतेजसम् ॥ अद्यापीन्द्रेश्वरं दृष्ट्वा तथा रामे- श्वरं प्रभुम् । मुच्यते ब्रह्महत्याया नरो वै नात्र संशयः ॥ " अत्र विशेषो भविष्ये भणित:-"ययुत्तरे वसेत्पाद्यं विन्ध्यस्य सुरसत्तम । दक्षिणे वसतश्चेदं न भवेदिति तच्छृणु ॥" लिङ्गस्थापने विशेषो वायुपुराणे-" वेदमातुर्जपान्माध्यां स्नानाद्रस्य स्थापनात् । ब्रह्महत्याशतेनापि सद्यो मुक्तो मुनीश्वरः॥" मुनीश्वरो विश्वामित्रः। "गायत्री जपते नित्यं नित्यं माघे जलाप्लुतः ॥ न लिप्यते पातकेन पद्मपत्रमि- वाम्भसा ॥ माध्यां स्नात्वा तु यो दद्यादश्वं लक्षणसंयुतम् । गुरुतल्पादिमुक्तः स्यादेवमाह जनार्दनः ॥" प्रायश्चित्तविवेके व्यास:-"प्रायश्चित्तान्यथो वक्ष्ये संक्षेपेण निवोध मे। ब्रह्महाऽन्दत्रयं विप्रो गायत्रीमन्यसेत्सदा ॥ प्राणायामशतं कुर्यात्मत्यहं नियतः शुचिः । भिक्षाशी निवसेन्नित्यमरण्ये संयतेन्द्रियः ॥ षोडश ब्राह्मणान्विप्रो भोजयित्वा समाहितः । प्रयच्छेदस्त्रयुग्मानि हिरण्यं चापि शक्तितः" इति । एतत्पतितब्राह्मणवधविषयभिति शूलपाणिः कैवल्योपनि- पादि-" यः शतरुद्रियमधीते सोऽमिपूतो भवति । स वायुपूतो भवति । स सुरा- पानात्पूतो भवति । स गुरुतल्पगमनात्पूतो भवति । स स्वर्णस्तेयात्पूतो भवति । स ब्रह्महत्यायाः पूतो भवति । अकृत्यात्पूतो भवति । अनेन ज्ञानमामोति संसा- रार्णवतारकम् । तस्मादेवं विदित्वैव कैवल्यमश्नुतें" इति । पराशरोऽपि- मचं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मच्छन्नो " १६ प्रायश्चित्तप्रकाशे- भस्मशय्यां शयानो रुद्राध्यायी मुच्यते सर्वपापैः ॥” तत्रैव-" रुद्राध्यायी भवद्भक्त्या मासमेकमतन्द्रितः । प्रायश्चित्तं भवेदेतदहस्यस्य न संशयः॥" वृद्ध- सूर्यारुणसंवादे-"प्रयोगं शृणु गायत्र्याः सर्वकामफलप्रदम् । रहस्यं परमं पुण्यं महापातकनाशनम् ॥ ब्रह्महा कोटिमेकं तु जप्त्वा शुद्धिं समाचरेत् । तथैव पक्षि- शार्दूल पितृमातृवधोद्यतः ॥ सुवर्णहारी सततं मद्यपश्च विशेषतः । गुरुतल्पगतो यस्तु लक्षं जप्त्वा विशुद्ध्यति ॥ महापातकिनां सङ्गी सोऽपि लक्षात्प्रमुच्यते । गोनः कृतघ्नो बालनः स्त्रीघाती दिजद्रव्यहृत् ॥ बाह्मण्यां च सगोत्रायां व्यभि- चारपरो नरः । जप्यमानस्तु सावित्र्या लक्षार्ध शुद्धिमाप्नुयात् ॥ व्यभिचारी स्वगोत्रघ्नः कन्याघातनतत्परः । स्वामिद्रोहादिपापेभ्यस्तदर्धान्मुच्यते ध्रुवम् ॥ परवभूमिहरणात्परपीडाप्रदानतः । जीवघातान्महापापादमिदाहकृतात्तथा ॥ दुष्टप्रतिग्रहात्पापाद्देवभङ्गात्प्रमादतः । कूटसाक्ष्यप्रदानाच्च नित्यलोपादिपापतः ॥ गायत्र्यष्टसहस्रन्तु जप्त्वा शुद्धिं लभेदिह । अशक्तो ब्राह्मणद्वारा जपं कुर्याद्विधा- नतः ॥ आसनैर्भूषणैर्वस्त्रैः पात्रै रनैश्च पूजयेत् । स्वशक्त्या दक्षिणां दद्या- यथोक्ता कार्यसाधिनीम् ॥ अयुतस्य जपस्यात्र सुवर्णमितिसंयुताम् । यो जप्त्वा विधिना मन्त्रं गायत्र्यास्तु विधानतः । कोटिलक्षं तदर्थं वा होमयेत्स्वदशांशतः ॥ गामेकां कपिलां दद्यात्सर्वस्वार्ध तदर्धकम् । दक्षिणां ब्राह्मणेभ्यश्च स याति परमां गतिम् ॥ आजन्मोपार्जितं पापं त्रिविधं नाशमाप्नुयात् । शोधनं सर्वपापानांप्रयोग- मिदमद्भुतम् ॥ अकृत्वा शोधनं चैतत्पङ्के गौरिव सीदति ॥" सहसब्राह्मणभोजना- महापापानां प्रायश्चित्तं भवति । तथा भविष्यपुराणे-"ब्रह्महा च सुरापीच पर- द्रव्यापहारकः । मातृगामी च गोप्नश्च परदाररतः सदा॥ ज्ञानतोऽज्ञानतो वापि पापकारी यथेच्छया । सदाचारविहीनस्तु दमदानविवर्जितः ॥ ईदृशोऽपि द्विजो यः स्यात्सहस्रदिजभोजनम् । कुरुते सद्य एवेह स पुनाति न संशयः ॥ ब्रह्मा- नन्दपदं गच्छेत्तेन पुण्येन चैव हि । सहस्रभोजनाच्चैव नानाविधमनोरथान्। भुंक्ते सकामान्सकलान्भोगानपि च पुष्कलान्॥" अथ ब्रह्मवधे संक्षेपतो व्यवस्था । कामतो ब्राह्मणकर्तृकब्राह्मणवधे याज्ञवल्क्योक्तेन प्रकारेण भरणं चतुर्विंशति वा- पिकं वा व्रतम् । अकामतो मनुप्रोक्तं द्वादशवार्षिकं व्रतं कर्त्तव्यम् । तच्च द्वादश दिनान्येकैकमाजापत्यस्यान्ते व्यहसुपवासोऽधिकस्तथाप्यत्रं वनवासजटाधारण- वन्याहारत्वादिरूपतपोविशेषयुक्तत्वादुपवासाभावेऽप्येकैकस्य द्वादशाहस्य प्राजाप- त्यतुल्यम् । ततश्च “प्राजापत्यक्रियाशक्तौ धेनुं दद्याद्विचक्षणः । गवामभावे दातव्यं तन्मूल्यं वा न संशयः॥"इति वाक्येन प्रतिप्राजापत्यमकैकस्यां धेन्वां दीय- मानायां धेनूनामपि षष्टयाधिकं शतत्रयं भवति । मूल्यं च यथाशक्ति देयम् । अत " विचारकाण्डः। १७ एव पराशरमाधवभाष्ये ब्राह्मे च -“गवामभावे निष्कं स्यात्तदई पादमेव वा इति वाक्येन प्रतिधेनुमूल्यं निष्कं रजतं देयम् । अत्यशक्तौ निष्का निष्कपादं वा रजतं गोमूल्यं देयं नतु न्यूनम् । ( अष्टगुञ्जात्मकमाषरीत्या चत्वारिंशन्माषो निष्कः ।) यत्र यावत्संख्यानि प्राजापत्यान्यावर्तनीयानि भवन्ति तावत्संख्यया गोदानान्यावर्तनीयानि । इति ब्रह्महत्याप्रायश्चित्तम् ॥ अथ सुरापानप्रायश्चित्तम् । तत्र तावत्तत्पानं महापातकमिति निरूप्यते । प्रायश्चित्तविवेके मनुहारीतयमाः-"सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥” तथा च श्रुति:-"सुरा वै मल मन्नानामनृतं पाप्मातमः सुरा " इति । सुरा त्रिविधा । तथा च मनुहारीतो "गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा। यथैवैका तथा सर्वा न पातल्या द्विजोत्तमैः । । यमस्मृतौ-" एका माध्वी च पैष्टी च गौडी च विविधा सुरा। द्विजातिभिर्न पातव्या कदाचिदपि कहिँचित् ॥ " सुरामधयोर्भेदमाह पुलस्त्यः "पानसं द्राक्षमाधूकं खारं तालमैक्षवम् । माध्वीकं टांकमाध्वीकमरेयं नारिके- रजम् ॥ समानानि विजानीयान्मधान्येकादशैव तु । द्वादशं तु सुरामधं सर्वेषाम- धमं स्मृतम् ॥” तत्र ज्ञानतो ब्राह्मणस्य पैष्टीसुरापाने दिरभ्यस्तगौडीमाध्वीपाने च अग्निसमस्पर्शानां सुरागोमूत्रजलदुग्धघृतगोमयरसानामन्यतमस्यामरणात् पा- नम् । चतुविशतिवार्षिकव्रतं वा कार्यम् । तथा च मनु:-"सुरां पीत्वा द्विजो मो- हादमिवर्णी सुरां पिबेत् ।तया स काये निर्दग्धे मुच्यते किल्विषात्ततः ॥ गोमूत्रमनिवर्ण वा पिबेटुदकमेव वा । पयो घृतं वामरणाद्गोशकृदसमेव वा॥" अज्ञानतो ब्राह्मणस्य तासां पाने द्वादशाब्दिकव्रतम् । तथा च प्रायश्चित्तविवेके शङ्ख:-"अधाशायी जटाधारी पर्णमूलफलाशनः । एककालं समभानो वर्षे तु द्वादशे गते ॥ रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । व्रतेनैतेन शुद्धयन्ति महा- पातकिनस्त्विमे॥"तत्रैव मनु:-कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि। सुरा- पानानुपत्त्यर्थ वालवासा जटी ध्वनी॥"बृहस्पतिः-"गौडौंमाध्वी सुरां पैष्टीं पीत्वा विप्रः समाचरेत् । तप्तकृच्छ्रे पराकं वा चान्द्रायणमनुक्रमात् ॥ विप्रस्य काम- नया सकृन्मद्यभक्षणे पराशरो यथा-" अगम्यागमने चैव मद्यगोमांसभक्षणे । शुद्ध्यै चान्द्रायणं कुर्यान्नदीं गत्वा समुद्रगाम् ॥ चान्द्रायणे ततश्चीणें कुर्याद्राह्म- णभोजनम् । अनडुत्सहितां गां च दद्याद्विप्राय दक्षिणाम् ॥ " अकामतः सकृत् पाने विष्णु:-"पीत्वा प्रमादतो मद्यमतिकृच्छ्रे चरेद्विजः । कारयेत्पुनःसंस्कार भक्त्या विप्रांश्च भोजयेत् ॥" मनुस्मृतौ-"अज्ञानात्माश्य विण्मूत्रं सुरासंस्पृष्ट मेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः । वपनं मेखला दण्डो भैक्ष- चर्या व्रतानि च । निवर्तन्ते द्विजातीनां पुनःसंस्कारकणि॥" सकृद्रोणसुरापाने . ३ १८ प्रायश्चित्तप्रकाशे- माधवभाष्ये अङ्गिरा:-" भूमिप्रादानं वा कुर्यात्सुरां पीत्वा द्विजोत्तमः । पुनर्न च पिवेज्जातु संस्कृतः स विशुद्धयति ॥" मद्यपाने निन्दामाह महाभारते शुक्र:-" यो ब्राह्मणोऽद्यप्रभृतीह कश्चिन्मोहात्सुरां पास्यति मन्दबुद्धिः । अपेतधर्मा ब्रह्महा चैव स स्यादस्मिँल्लोके गर्हितः स्यात्परे च ॥” मनुस्मृ- तावपि-" यस्य कायगतं ब्रह्म मधेनाप्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥" ज्ञानतः क्षत्रियस्य पैष्टीसुरापाने अष्टादशवार्षिकव्रतम् । अज्ञानतः क्षत्रियस्यांपैष्टीसुरापाने नववार्षिकव्रतम् । अज्ञानतो वैश्यस्य पैष्टीसुरा- पाने षाड्वार्षिकव्रतम् । ज्ञानत एतद्विगुणं कार्यम् । स्त्रीबालवृद्धानामादिकं कार्यम् । अनन्यौषधसाध्यब्याध्युपशमनार्थे सुरापाने त्वज्ञानकुने त्रैमासिकमन्द- पादं चान्द्रायणं वा कृत्वा पुनरुपनयनम् । मद्यपाने तु तथा कृते तप्तकृच्दूसहित पुनःसंस्कारः । मत्स्यसूक्ते विशेषः-"पैष्टीपाने ब्राह्मणस्य मरणान्तिकमुच्यते । माध्वीगौडीसुरापाने दादशाब्दं विधीयते॥इतरेषां तु पानेन शुद्धिश्चान्द्रायणेन तु । मुखप्रवेशमात्रे तु प्रायश्चित्ताईमाचरेत् ॥ अनुपातीतो देवेशिवतं त्रैवार्षिकं चरेत् । राजन्यवैश्ययोश्चापि गौडी मध्वी न शस्यते॥ मोहाक्षत्रश्च वैश्यश्च पीत्वा कृच्छ- दयं चरेत् । शूदोऽपि गौडी पैष्टीं च न पिवेद्धीनसंस्कृताम् ॥ कामात्पीत्वा सुरां विप्रो मरणान्तिकमाचरेत् । चरेच्चान्द्रायणं ज्ञानारक्षत्रियो वैश्य एव च ॥ पैष्टीपाने तु शूद्रस्य प्राजापत्यं विनिर्दिशेत् । नारिकेलं तथा ज्ञानादिप्रश्चान्द्रायणेन तु ॥ क्षत्रियश्चैव वैश्यश्च प्राणायामेन शुद्ध्यति ॥ . इति ॥ सुरापानप्रायश्चित्तम् । अथ सुवर्णस्तेयप्रायश्चित्तम् । अज्ञानतो ब्राह्मणकर्तृकब्राह्मणस्वामिकाशीतिरक्तिकापीरमितसुवर्णस्तेये अपहत- द्रव्यं तस्यानुरूपं मूल्यं वा स्वामिने दत्त्वा द्वादशवार्षिकव्रतं करणीयम् । ज्ञानतः कृते एवद्विगुणं चतुर्विंशतिवार्षिकवतं गुणवद्राह्मणकर्तृके तु सर्व- त्राईम् । ज्ञानतः क्षत्रियवैश्यशूद्रकर्तृकब्राह्मणस्वामिकाशीतिरक्तिकापरिमितसु- वर्णस्तेये राजकर्तृकमुसलाघातेन मरणम् । चतुर्विंशतिवार्षिकं वा व्रतं करणी- यम् । अज्ञानतस्तत्कर्तृकतत्स्वामिकतत्सुवर्णस्तेये द्वादशवार्षिकव्रतम् । स्त्रीबालवृ- छातुराणामईम् । एकस्योभयधर्मत्वे पादः। अशीतिरक्तिकान्यूनपरिमाणेषु हेमसु व्रतभेदाः पराशरमाधवभाष्ये षट्त्रिंशन्मते दार्शताः " वालाग्रमात्रेऽपहृते प्राणायाम समाचरेत् । लिक्षामात्रेऽपि च तथा प्राणायामत्रयं बुधः ॥ राजसर्षप- मात्रे च प्राणायामचतुष्टयम् । गायत्र्यष्टसहस्रं च जपेत्पापविशुद्धये ॥ गौरसर्षप- मात्रे तु सावित्री वै दिनं जपेत् । यवमात्रसुवर्णस्य प्रायश्चित्तं दिनद्वयम् ॥ सुव- र्णकृष्णलं ह्येकमपहृत्य द्विजोत्तमः । कुर्यात्सान्तपनं कृच्छ्रे तत्पापस्यापनुचये ॥ - ॥
विचारकाण्डः। १९ अपहृत्य सुवर्णस्य माषमात्रं द्विजोत्तमः । गोमूत्रयावकाहारस्त्रिभिर्मासैविशुद्धयति॥ सुवर्णस्यापि हरणे वत्सरं यावको भवेत् । ऊर्ध्व प्राणान्तिकं ज्ञेयमथवा ब्रह्महाव- तम् ॥” तत्रैव चतुर्विंशतिमते-"आत्मतुल्यं सुवर्ण वा दद्यादिष्ट्वाथवा ऋतुम् । षडव्द वा चरेत्कृच्छू जपयज्ञपरायणः ॥ तीर्थाभिगमने विद्वांस्तस्मात्स्तेयात्प्रमु- च्यते । तत्रात्मतुल्यसुवर्णदानमित्यत्यन्तधनिकविषयकम् । ऋतुर्धनिकश्रोत्रियवि- षयः ॥ षड्वार्षिकं तु तीर्थयात्रासहितं निईनश्रोत्रियविषयमिति (माधवभाष्ये स्तेयप्रायश्चित्तं सर्वत्रापहतं धनं स्वामिने दत्त्वैव कार्यम् ) तथाच स्मृतिः-"स्तेये ब्रह्मस्वभूतस्य सुवर्णादेः कृते पुनः । स्वामिनेऽपहृतं देयं हर्ता त्वेकादशाधिकम्॥" वृहद्विष्णुस्मृती-" दत्वैवापहतं द्रव्यं धनिकस्याप्युपायतः । प्रायश्चित्तं ततः कुर्यात्कल्मषस्यापनुत्तये " गारुडेऽपि" ब्रह्मनश्च सुरापश्च स्तेयी च गुरुतल्पगः । सेतुं दृष्ट्वा विशुद्धयन्ते तत्संयोगी च पञ्चमः॥ ततो धेनुशतं याद्राह्मणानां तु भोज- नम् ॥ 7 मनुस्मृती-" तपसाऽपनुनुत्सुस्तु सुवर्णस्तेयज मलम् । चौरवासा दिनोऽरण्ये चरेब्रह्महणो व्रतम् ॥ एतैर्वतैरपोहेत पापं स्तेयकृतं द्विजः । गुरुस्त्री- गमनीयं तु व्रतैरेभिरपानुदेत् ॥” इति सुवर्णस्तेयप्रायश्चित्तम् ॥ अथ गुरुतल्पगमनप्रायश्चित्तम् । गुरुरत्र पिता तल्पस्तत्पलीगमनं चात्र रेत सेकपर्यन्तं चेन्महापातकम् । ततोऽर्वानिवृत्तौ त्वनुपातकम् । ज्ञानतो गुर्वङ्गनागमने-अर्थाद्विमातृगमने शूदस्य ब्राह्मणीगमने च खपापमभिभाष्य तप्ते लोहमये स्वप्यात् । ज्वलन्ती लोहप्रतिमा मृण्मयी प्रतिमा वा आलिङ्गय म्रियेत । स्वयं वा पुरेण सलिङ्गौ वृषणावुत्कृत्य अञ्जलौ निधाय आमरणात् नैर्ऋती दिशमातिष्ठेत् । तदशक्तौ चतुर्विंशतिवार्षिक- व्रतं वा कुर्यात् । गुर्वङ्गनयाप्येतत् कर्त्तव्यम् । अज्ञानतो गुर्वङ्गनागमने द्वादश- वार्षिकवतम् । वालवृद्धयोरर्द्धम् । एतचातुर्वर्ण्यविषयमिति । तथाच मनु:- "गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये । सूर्मी ज्वलन्तीं स्वाश्लिष्येन्मृत्युना स विशुध्यति । स्वयं वा शिनवृषणांबुत्कृत्याधाय चाञ्जलौ । नैर्ऋती दिशमाति- ष्ठेदानिपातादजिह्मगः ॥” अज्ञानकृते तु मिताक्षरायां शङ्खन द्वादशवार्षिक व्रतमुक्तम् । “अधाशायी जटाधारी पर्णमूलफलाशनः । एककालं समनीत वर्षे तु द्वादशे गते । रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । तेनतेन शुद्धयन्ति महापातकिनस्त्विमे ॥"याज्ञवल्क्या-"प्राजापत्यं चरेत्कृच्छं समा वा गुरुतल्पगः। चान्द्रायणं वा त्रीन मासानभ्यसेद्वेदसंहिताम् ॥ मनुस्मृतौ-"खष्ट्वाङ्गी चीर- वासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः॥चान्द्रा- यणं वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः । हविष्येण यवाग्वा वा गुरुतल्पाघनुत्तये॥" इति । तदज्ञानतो व्यभिचारिणीगुरुपलीगमनविषयमिति प्रायश्चित्तविवेकः ॥ A २० प्रायश्चित्तप्रकाशे- ॥ अथ मात्रादिगमनप्रायश्चित्तम् । तत्राज्ञानकृते मात्रादिगमने प्रायश्चित्तमाह पराशर:-" मातरं यदि गच्छेत्तु भगिनी स्वसुतां तथा। एतासु मोहितो गत्वा त्रीणि कृच्छ्राणि सञ्चरेत् ॥ चान्द्रायणत्रयं कुर्याच्छिश्नच्छेदेन शुद्ध्यति ॥” इति । एतत्पक्षत्रयं लघुमध्य- गुरुपातकमायश्चित्तविषयम् । अकामकृते मातृष्वसृगमने प्रायश्चित्तमाह पराशर:- "अज्ञानेन तु यो गच्छेत्कुर्याच्चान्द्रायणद्वयम्। दश गोमिथुनं दद्याच्छुद्धिं पाराशरोऽ- ब्रवीत् ॥" माधवीयभाष्ये बृहन्मनु:-" चाण्डाली पुल्कसी म्लेच्छी स्नुषां च भगिनी सखीम् । मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥ मातुलानी प्रबजितां सगोत्रां नृपयोषितम् । शिष्यभार्या गुरोर्भायौं गत्वा चान्द्रायणं चरेत्॥" तत्रैव चतुर्विंशतिमते-"पितृव्यभ्रातृभायर्या च भगिनी मातुरेव च । श्वश्रूमारोह्य धात्रीं च तप्तकृच्छू समाचरेत् ॥” तत्रैव संवत्तॊऽपि-"भगिनी मातुराप्तां च स्वसारं चान्यमानृजाम् । एता गत्वा स्त्रियो मोहात्तप्तकृच्छं समाचरेत् ॥” जननीव्यति- रिक्तपितृभार्यागमने प्रायश्चित्तमाह पराशरः-"पितृदारान्समारुह्य मातुराप्तां तु भ्रातृजाम् । गुरुपत्नी स्नुषां चैव भ्रातृभायौं तथैव च ॥ मातुलानीं सगोत्रां च प्राजापत्यत्रयं चरेत् । गोद्वयं दक्षिणां दद्याच्छुद्धयते नात्र संशयः ॥” इति । मातुराप्ता मातुःप्रियसखी। एतत्सर्वमज्ञानतः सकृद्धिषयम् । कामतस्त्वमिप्रवेशः। तदुक्तं पराशरमाधवीयभाष्ये-“ मातरं गुरुपत्नी च स्वसारं स्वसुतां तथा । गत्वा तु प्रविशेदनि नान्या शुद्धिर्विधीयते ॥" प्रायश्चित्तविवेके बृहद्विष्णुस्मृति:- "मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि ॥ अतिपातकिनस्त्वेते प्रविशेयुर्हताशनम् । न ह्यन्या निष्कृतिस्तेषां विद्यते हि कथंचन ॥” इति । पुरु- षवच्च स्त्रीणामपि प्रायश्चित्तं कार्यम् । तदुक्तं मिताक्षरायां कात्यायनेन-“एष दोषश्च शुद्धिश्च पतितानामुदाहता । स्त्रीणामपि प्रसक्तानामेष एव विधि:स्मृतः ॥" इति । अतस्तासामपि कामतः प्रवृत्तौ मरणान्तिकं याज्ञवल्क्येन प्रायश्चित्तं प्रोक्तम् । अकामस्तु मनुनोक्तम्-"एतदेव व्रतं कार्य योषित्सु पतितास्वपि ।” इतिद्वादश- वार्षिकमेवाईकल्पनया कार्यम् । इतिगुरुतल्पगमनप्रायश्चित्तम् ॥ अथ पतितसंसर्गप्रायश्चितम् । यस्तु पतितब्रह्महादिभिः सह संवत्सरं संसर्ग करोति स स्वयमपि पतितस्तस्य प्रायश्चित्तं मनुराह-“यो येन पतितेनैषां संसर्ग याति मानवः । स तस्यैव व्रतं कुर्यात्संसर्गस्य विशुद्धये ॥” इति । एतद्युगान्तरविषयमिति हेमादिः। भगवता पराशरेणापि कलियुगे संसर्गदोषाभावमभिमेत्य संसर्गप्रायश्चित्तं नाभ्यधात् ।
विचारकाण्डः। २१ अतएव स्मृत्यर्थसारे कलौ वानामनुक्रमणे 'संसर्गदोषः पापेषु' इत्युक्तम् । हेमाद्री स्मृतिकामधेनौ च “संसर्गदोषो नैव स्यान्महापातकिनः कलौ । संस- दोषस्तेनायैर्महापातकनिष्कृतिः ॥" पद्मपुराणेऽपि-"इत्थं ह्यदत्तान्यपि पुण्य- पापान्यायान्ति नित्यं परसंचितानि । कलौ त्वयं वै नियमो न कार्यः कत्तैव भोक्ता खलु पुण्यपापयोः ॥ कलौ ज्ञानं दृढं नास्ति कलौ गर्वेण सत्किया। कलौ दम्भा- वितो योगो नश्यत्येव न संशयः ॥ देशग्रामकुलानि स्यु गभाञ्जि कृतादिषु । कलौ तु केवलं कर्त्ता फलभुक् पापपुण्ययोः ।” पराशरोऽपि-"त्यजेद्देशं कृत- युगे त्रेतायां प्राममुत्सृजेत् । दापरे कुलमेकं तु कर्तारं तु कलौ युगे ॥' कर्तार तु कलौ युगे इत्यनेन कर्तुसंसर्गस्य निषिद्धत्वात्तकर्ता कलावपि पापी भवति न तु पतितो भवति । पतनन्तु स्वयंकृते वधादिकर्मणैवेति भावः। तत्रैव-"कृते सम्भाषणात्सापं त्रेतायां स्पर्शनेन तु । द्वापरे त्वन्नमादाय कलौ पतति कर्मणा ॥" इति । यद्यपि संसर्गदोषस्य पातित्यापादकत्वाभावेऽपि पापमात्रापादकत्वमस्ती- त्याह पराशरः । “आसनाच्छयनाधानासम्भाषात्सहभोजनात् । संक्रामन्तीह पापानि तैलबिन्दुरिवाम्भास ॥” इति। अस्य प्रायश्चित्तमुक्तं पराशरेण-"चान्द्रा- यणं यावकं च तुलापुरुष एव च । गवां चैवानुगमनं सर्वपापप्रणाशनम् ॥” इति । तुलापुरुषः कृच्छ्रविशेषः । तदुक्तं विष्णुना-"पिण्याकाचामतकाम्बुसक्तूनां प्रति- वासरम् । उपवासान्तराभ्यासात्तुलापुरुष उच्यते ॥” इति । एकैकदिनेषूपवास- पूर्वमेतानि भक्षयेत् । एतच्च दशदिनसाध्यम् । प्रायश्चित्तविवेके बृहस्पात:- "पाण्मासिके तु संयोगे याजनाध्यापनादिना । एकत्रासनशय्याभिः प्रायश्चित्ता- ईमाचरेत् । पतितानां गृहं गत्वा भुक्त्वा च प्रतिगृह्य च। मासोपवासं कुर्वीत बान्द्रायणमथापि वा।" इति । 'मासोपवासो ज्ञानाभ्यासे तत्र च पञ्चदश धेनवः । चान्द्रायणमज्ञानाभ्यासे तेन साध सप्त धेनवः' इति शूलपाणिः ॥ अथ बलात्कारेण म्लेच्छोकतानां द्विजानां प्रायश्चित्तम् । अविस्मृतौ-"राजन्यैः श्वपचैर्वापि वलादिचलितो नरः । पुनः कुर्वीत संस्कारं पश्चात्कृच्छ्रत्रयं चरेत् ॥” इति । कृच्छ्वयं प्राजापत्यत्रयमेव कुर्यात् । नतु तत्प्रतिनिधिधेनुदानादिद्वारा कार्यमित्यर्थः । देवलस्मृती-" अपेयं येन संपीतमभक्ष्यं चापि भक्षितम् । म्लेच्छैनीतेन विप्रेण अगम्यागमनं कृतम् ॥ तस्य शुद्धिं प्रवक्ष्यामि यावदेकं तु वत्सरम् । चान्द्रायणन्तु विप्रस्य सपराकं प्रकीर्ति- तम् ॥ पराकमेकं क्षत्रस्य पादकृच्छ्रेण संयुतम् । पराकार्द्धन्तु वैश्यस्य शूद्रस्य दिन- पञ्चकम् ॥ नखलोमविहीनानां प्रायश्चित्तं प्रदापयेत् । चतुर्णामपि वर्णानामन्य- थाऽशुद्धिरस्ति हि ॥ प्रायश्चित्तविहीनन्तु सदा तेषां कलेवरम् । कर्त्तव्यस्तत्र संस्कारो मेखलादण्डवर्जितः ॥ संस्कारान्ते च विप्राणां दानं धेनुश्च दक्षिणा । दातव्यं - तु २२ प्रायश्चित्तप्रकाशे-- शुद्धिमिच्छद्भिरश्वगोभूमिकाञ्चनम् ॥ अथ संवत्सरादूर्ध्व म्लेच्छनींतो यदा भवेत् । प्रायश्चित्ते तु संचीणे गङ्गास्नानेन शुद्ध्यति ॥ बलादासीकृता ये च म्लेच्छचाण्डा- लदस्युभिः । अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ॥ रच्छिष्टमार्जनं चैव तथा तस्यैव भोजनम् । खरोष्ट्रविड्वराहाणामामिषस्य च भक्षणम् । तत्स्त्रीणां च तथा सङ्गं ताभिश्च सहभोजनम् ॥ मासोषिते द्विजातौ तु प्राजापत्यं विशो- धनम् । चान्द्रायणं त्वाहिताग्ने पराकस्त्वथवा भवेत् ॥ चान्द्रायणं पराकं च चरेत्संवत्सरोषितः । संवत्सरोषितः शूद्रो मासाधः यावकं पिबेत् ॥ मासमात्रोषितः शूद्रः कृच्छ्रपादेन शुद्धयति । ऊर्ध्व संवत्सरात्कल्प्यं प्रायश्चित्तं द्विजोत्तमैः॥संवत्स- रैश्चतुर्भिश्च तद्भावमधिगच्छति । बलाम्लेच्छैस्तु यो नीतस्तस्य शुद्धिस्तु कीदृशी ॥ संवत्सरोषिते विप्रे शुद्धिश्चान्द्रायणेन तु । पराकं वत्सरार्धे च पराकाई त्रिमासिके । मासिके पादकृच्छ्रश्च नखरोमविवर्जितः । पादोनं क्षत्रियस्योक्तमई वैश्यस्य दाप- येत् ॥ प्रायश्चित्तं द्विजस्योक्तं पादं शूद्रस्य दापयेत् । प्रायश्चित्तावसाने तु दोग्धी गौर्दक्षिणा मता ॥ तथासौ तु कुटुम्बान्ते झुपविष्टो न दुष्यति । अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ॥ प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो रोगिण एव च ॥ उनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चरेद्धाता पिता वान्योऽपि वर्धिता। म्लेच्छर्हतानां चौरैर्वा कान्तारेषु प्रवासिनाम् । भुक्त्वा भक्ष्यमभक्ष्यं वा क्षुधार्तेन भयेन वा॥ पुनः प्राप्य स्वकं देशं चातुर्वर्ण्यस्य निष्कृतिः। कृच्छ्रमेकं चरेदिप्रस्तदई क्षत्रियश्चरेत् ॥ पादोनं च चरेद्वैश्यः शूद्वः पादेन शुद्धयति । गृहीतो यो वला- म्लेच्छैः पञ्च षद् सप्त वा समाः ॥ दशादिविंशति यावत्तस्य शुद्धिविधीयते ॥ प्राजापत्यट्यं तस्य शुद्धिरेषा विधीयते । अतः परं नास्ति शुद्धिर्यस्तु म्लेच्छैः सहोषितः ॥ पञ्च सप्ताष्ट दश वा द्वादशाहोऽपि विंशतिः। म्लेच्छर्नीतस्य विप्रस्य पञ्चगव्यं विशोधनम् ॥ अथ म्लेच्छैनौतानां स्त्रीणां प्रायश्चित्तम् । देवलस्मृतौ--" अतः परं प्रवक्ष्यामि प्रायश्चित्तमिदं शुभम् । स्त्रीणां म्लेच्छैश्च नीतानां बलात्संवेशने कचित्॥ ब्राह्मणी क्षत्रिया वैश्या शूद्रा नीता यदान्त्यजैः। ब्राह्मणाः कीदृशं न्याय्यं प्रायश्चित्तं विधीयते ॥ ब्राह्मणी भजते म्लेच्छमभक्ष्यं भक्षयेद्यदि । पराकेण ततः शुद्धिः पादेनोत्तरतोत्तरान् ॥ न कृतं मैथुनं ताभि- रभक्ष्यं नैव भक्षितम् । शुद्धिस्तदा त्रिरात्रेण म्लेच्छान्ने नैव भक्षिते ॥ गृहीता स्त्री बलादेव म्लेच्छैणुर्वीकृता यदि । गुर्वी न शुद्धिमानोति त्रिरात्रेणेतरा शुचिः ॥ येषां गर्भ विधत्ते या म्लेच्छात्कामादकामतः । ब्राह्मणी क्षत्रिया वैश्या शूदा वर्णे- तरा व या ॥ अभक्ष्यभक्षणं कुर्यात्तस्याः शुद्धिः कथं भवेत् । कृच्छ्रे सान्तपनं विचारकाण्डः। २३ शुद्धिवृतैयौनश्च पावनम्।। असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते । अशुद्धा सा भवेन्नारी यावच्छल्यं न मुञ्चति ॥ विनिःसृते ततः शल्ये रजसो वापि दर्शने । तदा सा शुद्धयते नारी विमलं काञ्चनं यथा ॥ स गर्भो दीयतेऽन्यस्मै स्वयं प्रायो न कर्हिचित् । स्वजातौ वर्जयेद्यस्मात्संकरः स्यादतोऽन्यथा ॥ " अविस्मृता- सकृद् भुत्ता तु या नारी म्लेच्छैा पापकर्माभिः । प्राजापत्येन शुद्धयेत ऋतु- प्रस्त्रवणेन तु ॥ बलाद्धृता स्वयं वापि परप्रेरितया यदि । सकृद् भुक्ता तु या नारी प्राजापत्येन शुद्ध्यति ॥ प्रारब्धदीर्घतपसां नारीणां यदजो भवेत् । न तेन तद्रुतं तासां विनश्यति कदाचन ॥ पूर्व स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः । भुञ्जन्ते मानवाः पश्चान्न ता दूष्यति कहिचित् ॥" अथ पतितनीचादिसंसर्गप्रायश्चित्तम् । मनुस्मृतौ-"एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः । पतितैः संप्रयु- कानामिमाः शृणुत निष्कृतीः॥ संवत्सरेण पतति पतितेन सहाचरन् । याजना- ध्यापनाचौतान्न तु यानासनाशनात् ॥ यो येन पतितेनैपां संसर्ग याति मानवः । एतस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥ " उशनःस्मृतौ-"पतितेन तु संस्पर्श लोभेन कुरुते द्विजः । सकृत्पापापनोदार्थ तस्यैव व्रतमाचरेत् ॥तप्तकृच्छं चरेद्वाथ संवत्सरमतन्दितः । पाण्मासिकेऽथ संसर्गे प्रायश्चित्ताधमाचरेत्॥"संवतस्मृतो- "पतितेन तु सम्पर्क मासं मासाईमेव वा । गोमूत्रयावकाहारो मासाद्देन विशु- यति ॥ पतिताद्रव्यमादत्ते भुंक्ते वा ब्राह्मणो यदि । कृत्वा तस्य समुत्सर्गमति- कृच्छ्रे चरेविनः॥ "पाराशरस्मृती-“यो वै समाचरेदिमः पतितादिष्वकामतः। पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा ॥ मासार्धं मासमेकं वा मासदयमथा- पि वा । अव्दाईमब्दमेकं वा भवेदूर्ध्वं हि तत्समः ॥ त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रमाचरेत् । तृतीये चैव पक्षे तु कृच्छ्रे सान्तपनं चरेत् ॥ चतुर्थे दशरात्रं स्यात्पराकः पञ्चमे ततः । कुर्याच्चान्द्रायणं षष्ठे सप्तमे चैन्दवद्वयम् ॥ शुद्ध्यर्थ- मष्टमे चैव पाण्मासात्कृच्छ्रमाचरेत् । पक्षसंख्याप्रमाणेन सुवर्णान्यपि दक्षिणा ॥" इति पञ्चमहापातकप्रायश्चित्तानि ॥ अथोपपातकमायश्चित्तम् । तत्रतावद्गोवधप्रायश्चित्तम् । बृहत्पाराशरे-" अथ गोनस्य वक्ष्यामि निष्कृति श्रोतुमर्हथ ।.यथा यथा विपत्तिः स्याद्गवां तथा तथोच्यते ॥ गोपाती पञ्चगव्याशी गोष्ठशायीच गोनुगः । मासमेकं व्रतं चीवा गोनदानेन शुद्धयति ॥ चौरव्याघ्रादिकेभ्यश्च सर्वप्राणैः समुद्धरेत् । गर्तप्रपातपङ्काच्च तथान्यत्रोपकारतः ॥ भोजयेद्वाह्मणान्पश्चात्पुष्पधूपादिपूर्वकान् । दद्याद्गां वृषभं चैकं ततः शुद्धयेत.
२४ प्रायश्चित्तप्रकाश- स किल्विषात् ॥” याज्ञवल्क्योऽपि-“ पञ्चगव्यं पिबेदूगोनो मासमासीत संयमी । गोष्ठेशयो गोनुगामी गोप्रदानेन शुद्धयति ॥ कृच्छ्रे चैवातिकृच्छ्रे च चरेद्वापि समाहितः । दद्यात्रिरात्रं चोपोष्य वृषभैकादशास्तु गाः ॥"मनुस्मृती- " उपपातकसंयुक्तो गोनो मासं यवान् पिबेत् । कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ॥ चतुर्थकालमश्नीयादक्षारलवणं मितम् । गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥ दिवानुगच्छेगास्तास्तु तिष्ठत्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥ तिष्ठन्तीष्वनुत्तिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् । आसीनासु तथासीनो नियतो वीतमत्सरः ॥ आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः । पतितां पङ्कलमां वा सर्वोपायैविमोचयेत् ॥ उष्णे वति शीते वा मारुते वापि वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथवा खले । भक्षयन्ती न कथयत्पिबन्तं चैव वत्सकम् ॥ अनेन विधिना यस्तु गोनो गामनुगच्छति । स गोहत्याकृतं पापं त्रिभिर्मासळपोहति ॥ वृषभैका- दशा गाश्च दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविद्भयो निवेदयेत् ॥ एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः । अवकीणिवज्यै शुद्धयर्थ चान्द्रायणमथापि वा ॥ प्रायश्चित्तविवेके बृहस्पतिः-" शस्त्रादिना तु हत्वा गां मानवं व्रतमाच- रेत् । रोधादिना त्वाङ्गिरसमापस्तम्वोक्तमेव वा॥” इति । आदिशब्दान्मुष्टिलोधू- लगुडविषानीनां प्रायिकमृत्युफलकानां ग्रहणम् । रोधादिनति यथाकथंचिन्निमित्त- मात्रस्य बन्धनादेश्च ग्रहणम् । आङ्गिरसस्मृती-"दमने दामने रोधे अवघाते च वैकृते । गवां प्रभवतां घातैः पादोनं व्रतमाचरेत् ॥ शृङ्गभङ्गे त्वस्थिभङ्गे चर्मनि- मोचने तथा । दशरात्रं चरेत्कृच्छ्रे यावत्स्वस्था भवेत्तदा ।। गोमूत्रेण तु सम्मिश्र यावकं चोपजायते । एतदेव हितं कृच्छ्रमित्थमङ्गिरसा स्मृतम् ॥" आपस्तम्ब- स्मृती-“पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योजने पादहीनं च चरेत्सर्व- निपातने ॥ दमने वा निरोधे वा सङ्घाते चैव योजयेत् । स्तम्भशृङ्खलपाशैश्च मृते पादोनमाचरेत् ॥ पाषाणैर्ल गुडैवापि. शस्त्रेणान्येन वा बलात् । निपातयन्ति ये गास्तु तेषां सर्व विधीयते ॥ व्यहं निरशनात्पादः पादश्चायाचितं व्यहम् । पादः सायं व्यहं पादः प्रातर्भोज्यं तथा व्यहम् ॥ प्रातः पादं चरेच्छूद्रः सायं वैश्यस्य दापयेत् । अयाचितन्तु राजन्ये त्रिरानं ब्राह्मणस्य च ॥" गोमृत्युस्था- नानि बृहत्पराशरे-" मुनयः केचिदिच्छन्ति विचित्रासु विपत्तिषु । यथासम्भ- वतस्तासु निष्कृतीश्च पृथक् पृथक् ॥ शस्त्रवस्त्राश्ममृत्पिण्डयष्टिमुष्टिप्रघातनम् । योकणं तारणं रोधं बन्धनं विद्युदग्नयः ॥ गृहकुड्यप्रपातश्च बद्धव्यावादिभक्षणम् । शुत्तृड्रोगचिकित्सासु तथातिदोहवाहने।मृत्युस्थानानि चैतानिगवामाप्रिधावनम् । ॥
विचारकाण्डः। २५ प्राबवीत्पृथगतेषु प्रायश्चित्तं पराशरः। उपेक्षणे च पङ्कादौ तथोपविषभक्षणे। वक्ष्यमाणक्रमेणैतच्छृणुध्वं द्विजसत्तमाः ॥ शस्त्रेण त्रीण कृच्याणि तदर्ध वा समा- चरेत् । अश्मना दे चरेत्कृच्छ्रे मृत्पिण्डेनापि कृच्छ्रकम् ॥ यष्टया तु दे चरेत्कृच्छे साक्षान्मुष्टया तु तच्चरेत् । योऋणे पादमेकं तु तारणे पादमेव तु ॥ रोधने कृच्छ्र- पादे हे कृच्छमेकन्तु वन्धने । कूपपाते चरेत्कृच्छमई वाप्यां समाचरेत् ॥ गोशक- पिण्डघाते च प्राजापत्यं चरेविजः । क्षुत्तोगचिकित्सासु कृच्छ्रमुत्प्रेक्षणे चरेत् ॥ पतितां पङ्कलमां गामवलप्तां च यो नरः। स्वस्य वान्यस्य वोमेश्य सोऽईकृच्छं चरन् राचिः ॥ एका चेद्दवभिर्वद्धा वेडिता चेन्नियेत गौः। पादं पादं चरेयुस्ते माह पाराशरो मुनिः ॥ सुबद्धा येऽवलप्तांगां पश्यन्तो नोपकुर्वते । पातनात्मेक्षणं प्रोक्तं चरेयुस्ते व्रतं नराः॥ या गर्तादौ विपद्येत वेडिता संप्रपद्य वा। पादंश्वडितयोरुक्तं तत्कर्ता व्रतमाचरेत् ॥प्रबद्धा रज्जुदोषेण गौर्विपयेत यस्य सः । व्रतपादं चरे- च्छुड्यै किंचिद्दद्याच्च दक्षिणाम् ॥ योगामपालयन्दुह्यादत्यर्थ वाहयेदृषम् । यदा म्रियेत तदोषात्तदा कृच्छाईमाचरेत् ॥ घास यो न क्षुधाञ्जस्य तृषार्तस्य न वा जलम् । स्वीकृतस्य न चेद्दद्यात्स तत्पादव्रतं चरेत् ॥ एकपादे तु लोमानि दाभ्यां श्मश्नु निकृन्तयेत् । पादत्रये शिखावर्ज सशिखं तु निपातने ॥ सशिखं वपनं कृत्वा त्रिसन्ध्यमवगाहनम् । गवांमध्ये वसेदात्रौ दिवा गाः समनुव्रजेत् ॥ तिष्ठन्तीभिश्च तिष्ठत्तु व्रजन्तीभिः सह व्रजेत् । शृङ्गकर्णादिसंयुक्तं चोत्कृत्य तदा- वृतः ॥ विप्रौकस्सु चरेदिक्षा स्वकर्म ख्यापयन् व्रती । गोनस्य देहि मे भिक्षामिति वाच मुदीरयेत् ॥ मासमेवं व्रती चीा गोपदानादिशुद्धयति ॥" अथ गोवधाप- वादोऽपि तत्रैव-"या च वद्धा, चिकित्सार्थ विशल्यकरणाय च । औषधादि- प्रदानाय विपत्तौ नास्ति पातकम् ॥ विद्युत्पातामिदाहाभ्यां कुड्यस्य पतनादिभिः । गोभिर्विपत्तिमापनस्तत्र दोषो न विद्यते ॥ पालस्य पश्यतोऽरण्ये गौस्तु व्याघ्रादि- भिर्हता । अकुर्वतः प्रतीकारं कृच्छाई तस्य पावनम्॥ शृण्वत्स्वन्येषु पालेषु तथा- न्यारण्यगामिषु । पाले संघोषयत्युच्चैर्हता तत्र न दोषभाक् ॥ गर्भिणी गर्भशल्या तु तद्गर्भन्तु विशल्यतः'। यत्नतो गौर्विपधेत तत्र दोषो न विद्यते ॥ गर्भस्य पातने पादो दौ पादौ गात्रसम्भवे । पादोनं व्रतमाचष्टे हत्वा गर्भमचेतनम् ॥ अङ्गप्रत्यङ्गसंभूते तद्गर्भ चेतनान्विते । द्विगुणं गोव्रतं कुर्यादेपा गोतस्य निष्कृतिः॥वस्त्रायत्रासने गौश्च गलदामैकदोपतः । पादयोर्वन्धने चैव पादोनं व्रतमाचरेत् ॥ घण्टाभरणदोषेण गौश्वेइन्धनमाप्नुयात् । चरेदर्धव्रतं चैव भूषणार्थ कृतं यतः ॥ गोविपत्तावघाशङ्का कुर्यायो नैव निष्कृतिम् । स तद्गोरोमतुल्यानि नरकान्याविशेत्समाः ॥ यः स्नात्वा पापसंभीतो विप्राराधनतत्परः । तदत्तां निष्कृति कुर्याद्गतैनाः शुभ- मनुते । " संवर्तस्मृती-“गोमः कुर्वीत संस्थानं गोष्ठे गोरुपसन्निधौत तत्रैव holi th Tihratt २६ प्रायश्चित्तप्रकाशे- क्षितिशायी स्यान्मासादै संयतेन्द्रियः ॥ स्नानं त्रिषवणं कुर्यान्नखलोमविवर्जितः। सक्तुयाक्कपिण्याकपयोदधिशकन्नरः॥ एतानि क्रमशोऽश्रीयादिजस्तत्पापमोक्षकः । गायत्रीं च जपन्नित्यं पवित्राणि च. शक्तितः ॥ पूर्णे चैवाईमासे च स विप्रान्भोजयेद्विजः । भुक्तवत्सु च विप्रेषु गां च दद्याद्विचक्षणः ॥” पराशर- माधवेऽप्याह वृद्धप्रचेताः-"एकवर्षे हते वत्से कृच्छ्रपादो विधीयते । अबुद्धि- पूर्वे पुंसां स्वाद्विपादस्तु द्विहायने ॥ निहायने त्रिपादः स्यात्माजापत्यमतः परम्॥" तत्रैव विश्वामित्र:-"कृच्छांश्च चतुरः कुर्याद्गोवधे बुद्धिपूर्वके । अमत्या तु इयं कुर्यात्तदर्ध वृद्धवालयोः। तत्रैव व्याघ्रपादः-"गाञ्चेद्धन्यान्नरोऽकामात्पणसप्तशतं तथा । श्रोत्रियाय दरिद्राय दद्याच्छद्धयर्थमात्मनः ॥" बृहस्पति:-"गर्भिणी कपिलां दोग्धी कामधेनुं च सुव्रताम् । रोधादिना घातयित्वा द्विगुणं व्रतमा- चरेत् ॥ अतिवृद्धामतिकृशामतिबालां च रोगीणीम् । हत्वा पूर्वविधानेन चरेदर्ध व्रतं द्विजः ॥ ब्रह्मणान्भोजयेच्छक्त्या दद्यामितिलांश्च गाः । हेमगोतिलदानेन नरः पापात्प्रमुच्यते । प्रायश्चित्तपरीक्षणमाह हारीत:-" स्वशिरसा यवसमादाय गोभ्यो दद्यायदि ताः प्रमुदिता गृह्णीयुरप्येनं प्रवर्तयेयुरिति " यवसं तृणम् एनं कृतप्रायश्चित्तं प्रवर्त्तयेयुः कर्मणीति शेषः । यदि गावस्तदत्ततृणं न गृहीयुस्तदा पुनः प्रायश्चित्तमित्यर्थः ॥ " अथोत्सृष्टवृषवत्सतर्योधप्रायश्चित्तम् । ब्रह्म- वैवर्त हेमाद्रौ च “यो विप्रो वृषभं हन्याच्छिवलिङ्गाङ्कितं तनौ । भाले तप्तशिवं कृत्वा निःसार्य ध्वनयेत्स्वयम् ॥ त्रिवारमा परिक्रम्य ब्रह्मचर्यव्रते स्थितः। पश्चा- तापं समागम्य गन्धमादनपर्वते ॥ तत्र स्नात्वा त्रिवारं च रामलिङ्ग निरीक्षयेत् । पश्चात्तापमुपागम्य सभां नत्वा तदाज्ञया ॥ चान्द्रायणं ततः कुर्यादयाद्विप्राय गां शिवाम् । पञ्चगव्यं ततः पीत्वा शुद्धो भवति नान्यथा॥राजा हन्यात् पूर्वमुक्तं वृषभ शिवलाञ्छितम् । दद्यादात्मसमं हेम सहस्रं वा गवां चरेत् ॥ वैश्यस्य राजवत्प्रोक्तं तत्तत्स्त्रीणां तथैव च । शूद्रं हन्याददो हन्ता तत्र तं निखनेद्धवि ॥ सहस्रेणाथवा दण्ड्यादन्यथा दोषमामुयात् ॥ अथ बलीवर्दहननप्रायाश्चत्तम् । शिव- धर्मोत्तरे-"अनड्वान हन्यते विगैरज्जुदण्डशिलादिभिः। गृहे वा विपिने तोये भारो- दहनकर्मणि॥ ज्ञानतोऽज्ञानतो वापि रोपादा मत्सरादपि । न तेषां निष्कृतिश्चास्ति तप्तकृच्छतिभिर्विना ॥"अथ गोवत्सहननप्रायश्चितम् । हेमाद्रौ स्कांदे-" यो बालवत्सं कामेन निमित्तैर्वा स्वयं हनेत् । तत्र देहविशुद्धयर्थ प्राजापत्ययं चरेत्॥ विप्रस्त्रीणां तदई स्याहालवत्सविहिंसने । क्षत्रियाणां द्विगुणितं वैश्यानां त्रिगुणं भवेत् ॥ तत्तत्स्त्रीणां तदई स्यात्पादनं दण्डयेच्छतम् ॥" अथ महिषवधप्राय- श्चित्तम् । हेमाद्रौ लैङ्गे-“माहिषं कृषिकाले तु ताडनैरश्मपातनैः । गृहे वा गृहदाहे वा यो हन्यात्पूर्वजोरुषा।मृत्वानुभूय नरकं म्लेच्छो भवति भूतले। तस्यैव निष्कृति- विचारकाण्डः। २७ रिय सृष्टा मुनिपरायणैः ॥ अज्ञानात्तप्तकृच्छं स्यात्माजापत्यं निमित्ततः। पर- प्रेरणया वापि ज्ञात्वा वा द्विगुणं चरेत् ॥” उत्सृष्टमहिषहनने द्विगुणं प्राय- श्चित्तम् । वृषभवृषणाभिघाते प्राजापत्यमिति शातातपस्मृतौ ॥ अथ क्षत्रियादिवधप्राश्चित्तम् । तत्र मनुः-"तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्येऽष्टमांशो व्रतस्थे शूद्रे ज्ञेयस्तु षोडशः ॥ अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । वृषमेक- सहस्रा गा दद्याच्छुद्ध्यर्थमात्मनः॥ व्यब्दं चरेद्रा नियतो जटी ब्रह्महणो व्रतम् । वसन्दूरतरे ग्रामादृक्षालेनिकेतनः।। एतदेव चरेदब्दंप्रायश्चित्तं द्विजोत्तमः । प्रमाप्य वैश्यं व्रतस्थं दद्यादेकशतं गवाम् ॥ एतदेव व्रतं कृच्छ्रे षण्मासान् शूदहा चरेत् । वृषभैकादशा वापि दद्याद् विप्राय गाः सिताः ॥" आपस्तम्ब:-" निपात्य क्षत्रियं चैव त्रिभिः कृच्छविशुद्धयति । वैश्यहत्यान्तु सम्प्राप्य कथञ्चित्काममो- हितः ॥ कृच्छातिकृच्छौ कुर्वीत स नरः संयतेन्द्रियः । कुर्याच्छूद्रवधं प्राप्य तप्त- कृच्छ्रे समाहितः ॥"शातातपोऽपि-"राजन्यवैश्यशूदाणां षत्रीण्येकं चरेद्धे । वर्षाणि ब्रह्मचर्य च विशुद्ध्यर्थ क्रमेण तु ॥" निषिद्धसंसर्गोत्पन्नप्रतिलोमवधे प्राय- श्चित्तमाह याज्ञवल्क्य:-" चान्द्रायणं चरेत्सर्वानवकृष्टान्निहत्य तु ।” शङ्खोऽपि- "सर्वेषामवकृष्टानां वधे प्रत्येकं चान्द्रायणम्" इति ॥ अमतिपूर्वके वधे तु मिताक्ष- रायाम् अङ्गिराः-"सर्वान्त्यजानां गमने भोजने संप्रमापणे । पराकेण विशुद्धिः स्यादित्याङ्गिरसभाषितम् ॥” इति पराकं कुर्यात् ॥ कारुकचण्डालादिवधप्रा- यश्चित्तमाह पराशरः-"शिल्पिनं कारुकं शूदं स्त्रियं वा यस्तु घातयेत् । प्राजापत्य- व्यं कृत्वा वृषैकादश दक्षिणाः॥ चाण्डालं हतवान् कश्चित् ब्राह्मणो यदि कंचन । प्राजापत्यं चरेत्कृच्छ्रे गोदयं दक्षिणां ददेत् ॥ क्षत्रियेणैव वैश्येन शूद्रेणैवेतरेण च। चाण्डालस्य वधे प्राप्ते कृच्छ्रार्दैन विशुद्धयति ॥ चौरः श्वपाकश्चाण्डालो विप्रेणा- मिहतो यदि । अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुद्धयति ॥” इति ॥ अथ स्त्रीवधप्रायश्चित्तम् । प्रायश्चित्तविवेके हारीत:-" षड्वणि राजन्ये त्रीणि वैश्य एक शूद्रे क्षत्रि- यवब्राह्मणीषु वैश्यवत् क्षत्रियासु.शूदवदितरासु । तेन ब्राह्मणीवधे षाड्वार्षिक महाव्रतम् । क्षत्रियावधे त्रिवार्षिकम् । वैश्यावधेशूद्रावधे च वार्षिकम् इति । मनु- स्मृतौ-" स्त्रीशूदविदक्षत्रवधो नास्तिक्यं चोपपातकम् ॥" यमस्मृतौ-"हत्वा सवनगं वैश्यं राजन्य वापि दीक्षितम्। हत्वा तु ब्रह्महत्त्यैव तथात्रेयींच ब्राह्मणीम्।।" आङ्गिराः-" आहितामेदिजाग्यस्य हत्वा पत्नीमनिन्दिताम् । ब्रह्महत्यावतं कुर्या- दात्रेयीनस्तथैव च ॥ " आत्रेयी चात्रिगोत्रजा । ऋतुस्नाता गर्भिणी चोच्यते । LL.
२८ प्रायश्चित्तप्रकाशे- L यत्र यवर्णात्रेयी तंत्र तद्वर्णवधोक्तं प्रायश्चित्तं कार्यम् । तथा च याज्ञवल्क्य:-"याग- स्थक्षत्रविड्याती चरेट्रह्महणि व्रतम् । गर्भहा च यथावर्ण तथात्रेयीनिषूदकः ॥" इति । एतेन ब्राह्मणीवधे षाड्वार्षिकं व्रतम् । तदशक्तौ धेनूनां नवतिर्दया । क्षत्रि- यावधे तु त्रैवार्षिकम् । अशक्तौ पञ्चचत्वारिंशद्धेनवो वैश्यावधे शूद्रावधे च वार्षि- कम् । अशक्तौ पञ्चदश धेनवः । अत्यशक्तौ तु सर्वत्र तन्मूल्यं देयम् ॥ अथ व्यभिचारिणीस्त्रीवधप्रायश्चित्तम् । मनुस्मृतौ-" जीनकार्मुकवस्तावीन् पृथग्दद्याद्विशुद्धये । चतुर्णामपि वर्णानां नारी हत्त्वाऽनवस्थिताम् ॥" याज्ञवल्क्योऽपि-“दुर्वृत्तब्रह्मविदक्षत्रशूद्र- योषाः प्रमाप्य तु । दृति धनुर्वस्तमवि क्रमाद्दद्याद्विशुद्धये ॥” इति । दृर्ति जलाधारचर्मकोशम् । धनुः कार्मुकम् । वस्तं छागम् ॥ आवि मेषं च दद्यादित्यर्थः। अधुना मनुष्यहत्यायां सर्वत्र राजनि निवेद्य प्रायश्चित्तं कार्यम् । तथाच वसिष्ठः- राजभिधूतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥" विष्णुधर्मोत्तरे-" प्रायश्चित्तैः शमं याति पापं कृतमसंशयम् । राजदण्डाच्छमं याति प्रायश्चित्तमकुर्वताम् ॥" अथ गर्भवप्रायश्चित्तम् । प्रायश्चित्तविवेके तत्र पुंस्त्वेन ज्ञाते पुरुषवधप्रायश्चित्तम् । स्त्रीत्वेन ज्ञाते स्त्रीवधप्रायश्चित्तम् । अविज्ञाते तु पुंवधप्रायश्चित्तं चाह मनु:-" हत्वा गर्भमवि- ज्ञातमेतदेव व्रतं चरेत् । राजन्यवैश्यौ चेज्ज्यानावात्रेयीमेव च स्त्रियम् ॥ एत- देवेति ब्रह्महत्याव्रतमित्यर्थः । ब्राह्मणगर्भविषयमिदं तस्यैव प्रकृतत्वात् ॥ क्षत्रादि- गर्भवधे तु यदो गर्भस्तद्वधप्रायश्चित्तम् । यथाह याज्ञवल्क्यः-" यागस्थक्षत्र- विट्याती चरेद्ब्रह्महणि व्रतम् । गर्भहा च यथावर्ण तथात्रेयीनिषूदकः ॥" व्रतपदोपादानात् ज्ञानत इदम् । अज्ञानतस्तदर्धम् । तेन ज्ञानकृते ब्राह्मणगर्भवधे द्वादशवार्षिकम् । क्षत्रियगर्भवधे त्रैवार्षिकम् । वैश्यगर्भवधे सार्द्धवार्षिकम् । शूद्र- गर्भवधे नवमासिकम् । धेनुसंकलनमप्यूहनीयं सर्वत्र ॥ अथ गजाश्वादिपशुवधप्राश्चित्तम् । यद्यपि गजाश्वादिवधः सङ्करीकरणपापमिदं तथापि हिंसायाः साजात्यादुप- पातकप्रकरणे तत्प्रायश्चित्तं निरूप्यते । हिंसायां दानस्य मुख्यप्रायश्चित्तत्वात् । दाने विशेषमाह मनु:-" वासो दायाद्धयं हत्वा पञ्च नीलान् वृषान् गजान । अजमेषावनड्वाहं खरं हत्वैकहायनम् ॥” अजमेषखरान्हत्वा एकहायनं वृष दद्यादित्यर्थः । याज्ञवल्क्योपि-" गजे नीलवृषाः पञ्च शुके वत्सो दिहायनः ।
विचारकाण्डः। -- खराजमेपेषु वृषो देयः क्रौञ्चे दिहायनः ॥” इति । पूर्वोत्तानां गजादीनां व्यापादने निर्धनत्वेन नीलवृषपञ्चकादिदानं कर्तुमशक्नुवन् प्रत्येकं कृळू चरेत् । तया च याज्ञवल्क्यः-" तित्तिरौ तु तिलद्रोणं गजादीनामशक्नुवन् । दानं दातुं चरेत्कृच्छमेकैकस्य विशुद्धये ॥" पराशरस्मृतौ-"गजस्य च तुरङ्गस्य महिपोप्रनिपातने । शुद्धयते सप्तरात्रेण विप्राणां तर्पणेन च ॥ कुरङ्गं वानरं सिंह चित्रं व्यानं च घातयेत् । शुद्धयते स त्रिरात्रेण विप्राणां तर्पणेन च ॥" संवर्त्त- स्मृतो-" हस्तिनं तुरंग हत्वा महिपोĀ कार्प तथा । एतत्सर्वेषु कुर्वीत सप्तरात्रम- भोजनम् ॥ " अशक्तौ तु विशेषमाह-काश्यपः । मृगमहिषवराहकुञ्जरगण्डक- तरक्षुऋक्षवानरसिंहव्यात्रपृपतचमररुरुकादीनामन्येषां च वधेहोरात्रोषितश्चीर्णान्ते घृतं दद्यात् । एतच्चाज्ञानतः सकृविपयमिति धर्मप्रदीपः। घृतपरिमाणं च घृतकुम्भं दद्यादित्यर्थः । संवतस्मृतौ तु-"सर्वासामेकजातीनां, मृगानां वनचारिणाम् । अहोरात्रोपितस्तिष्ठेजपन्वै जातवेदसम् ॥" जातवेदसं “जातवेदसे सुनवाम" इतिमन्त्रमिति निष्कर्षः । हिंसाप्रायश्चित्ते तु दानमेव मुख्यम् । तथा च मनुः- क्रव्यादांस्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादान्वत्सतरीमुष्ट्रं हत्वा च कृष्णलम् ॥” इति । एतच्चाज्ञानतः सकृद्रविषयम्।क्रव्यादा व्यावादयः। कृष्णलं गुञ्जापरिमितसुवर्णमिति भावः । कृष्णलदानं त्वत्यन्तापद्विषयम् । अथ पक्षिवधजलचरवधप्रायश्चित्तम् । तथाच पराशरः । क्रौञ्चसारसहंसांश्च चक्र- वाकं व कुक्कुटम् । जलपादं च शरभमहोरात्रेण शुद्धयति ॥ वलाकाटिट्टिभी वापि शुकपारावतावपि । अहिनकविघाती च शुध्यते नक्तभोजनात् ॥ वृककाककपो- तानां शारितित्तिरिघातकः । अन्तर्जलमुभे सन्ध्ये प्राणायामेन शुद्ध्यति ॥ गृध्र- श्येनशशादानामुलकस्य च घातकः ।अपक्काशी दिनं तिष्ठेत्रिकालं मारुताशनः ।। भेरुण्डचापभासांश्च पारावतं कपिञ्जलम् । पक्षिणां चैव सर्वेपामहोरात्रमभोजनम् ॥ हत्त्वा मृपिकमार्जारसजिगरडण्डभान् । कृशरां भोजयेदिमान् लोहदण्डं च दक्षिणा ॥ शिशुमारं तथा गोधां हत्वा कूर्म व शल्लकम् ॥ वृन्ताकफलभक्षी वाप्य- होरात्रेण शुद्ध्यति ॥" कृशरां खिच्चडीमित्यर्थः । अथ व्रात्यताद्युपपातकप्रायश्चित्तम् । तत्र प्रात्यतायां मतुः-"येषां द्विजानां सावित्री नानून्येत यथाविधि । ताश्चा- रयित्वा त्रीन कृच्छान् यथाविध्युपनाययेत् ॥” यमस्मृता-" सावित्री पतिता यम्य दशवर्षाणि पञ्च च । सशिखं वपनं कृत्वा व्रतं कुर्यात्समाहितः ॥ एकविं- शतिरात्रं च पिवेत्प्रसूतियावकम् । हविपा भोजयेञ्चैव ब्राह्मणान् सप्त पञ्च च ॥ ततो यावशुद्धस्य तस्योपनयनं स्मृतम् ॥" याज्ञवल्क्येऽपि-"टपपातकशुद्धिः ३० प्रायश्चित्तप्रकाशे- स्यादेवं चान्द्रायणेन वा। पयसा वापि मासेन पराकेणाथवा पुनः ॥” इति । एवमुक्तेन गोवधव्रतेन मासं पञ्चगव्याशनादिनेति भावः । वसिष्ठस्मृतौ-"पति- तसावित्रीक उद्दालकवतं चरेत् " उद्दालकव्रतमपि तत्रैव-" द्वौ मासौ यावकेन वर्तयेन्मासं पयसा पक्षमामिक्षयाऽष्टरात्रं घृतेन षड्रात्रमयाचितेन त्रिरात्रमभक्षोऽ- होरात्रमुपवसेदश्वमेधावभृथं गच्छेद्रात्यस्तोमेन वा यजेत ।" इति । अत्रेयं व्यवस्था । यस्योपनेत्रायभावेन तत्कालातिक्रमस्तस्य याज्ञवल्कीयव्रताना- मन्यतमं शक्त्यपेक्षया भवति । अनापद्यतिक्रमे तु मानवं त्रिमासिकम् । तत्रैव षोडशवर्षादूर्ध्वमपि कियत्कालातिक्रमे वसिष्ठोक्तमुद्दालकव्रतं व्रात्यस्तोमो वेति । तथा च याज्ञवल्क्यः-"आषोडशादाद्वाविंशाच्चतुर्विशाच्च वत्सरात् । ब्रह्म- क्षत्रविशां काल औपनायनिकः परः ॥ अत ऊर्ध्व पतन्त्येते सर्वधर्मवहिष्कृताः । सावित्रीपतिता ब्रात्या व्रात्यस्तोमाहते क्रतोः ॥” इति । व्रात्यस्तोमः श्रौतयागवि- शेषः । येषान्तु पित्रादयोऽप्यनुपनीतास्तेषामापस्तम्बोक्तं संवत्सरं त्रैविद्यकं ब्रह्म चर्यव्रतम् । यस्य प्रपितामहादेरप्युपनयन नानुस्मर्यते तस्य द्वादशवाणि त्रैविद्यक ब्रह्मचर्यव्रतं कारयित्वा तस्योपनयनं कार्यम् । व्रतकरणाशक्ती मातृपितृरहितस्य निःस्वजनस्य मनुप्रोक्तप्राजापत्यत्रयस्थाने धेनुत्रयम्, तदशक्तौ तन्मूल्यम् । आल- स्यानवधानादिना सावित्रीपाते याज्ञवल्क्योक्तं व्रात्यस्तोमयज्ञम् । अथवा वसि- ठोक्तं दिनत्रयाधिकमासचतुष्टयसाध्यमुद्दालकव्रतम् । तदशक्तौ सपादनवनवो देयास्तद्दानाशक्तौ सर्वत्र प्रतिधेनु निष्कादिपरिमितरजतं दातव्यम् । अथवा प्रति प्राजापत्यं दशसहस्रगायत्रीजपम् । अधुना ये ब्राह्मणा धनलोभेन क्षत्रियवैश्यान- विवाहादूर्ध्व सन्तानोत्तरं च उपनयनसंस्कारं कुर्वन्ति तेषां का गतिर्भविष्यति । प्रायश्चित्तप्रमाणाभावात् ॥ अथ स्तेयप्रायश्चित्तम् । तत्र मणिमुक्तादिस्तेयप्रायश्चिते मतुः-"मणिमुक्ताप्रवालानां सर्वस्याश्ममयस्य च। अयःकांस्योपलानां च द्वादशाहं कणान्नता ॥” इति । द्वादशाहं तण्डुलकण- भक्षणं कुर्यादित्यर्थः। अपहृतद्रव्यप्रदानपूर्वकञ्चैतत्कार्यम् । यथा विष्णुस्मृती- " दत्त्वैवापहृतं द्रव्यं धनिकस्याभ्युपायतः । प्रायश्चित्तं ततः कुर्यात्कलुपस्यापनु- तये । रजताऽश्वादिस्तेये हारितः-रजतस्तैन्ये चान्द्रायणम् । जाबाल:- "अश्वगोभूमिकन्याश्च हृत्वा चान्द्रायणं चरेत् । क्षुद्रपशूनपहत्य प्राजापत्यं समाच- रेत् । मनुस्मृतौ-" मनुष्याणां च हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवापीजलानां च शुद्धयै चान्द्रायणं स्मृतम्॥' अत्र मनुष्यस्त्रियौ दासदास्यौ न तूत्कृष्टौतद्धरणेतु मनुना विशेष उक्तः । “पुरुषाणां कुलीनानां नारीणां च विशेषतः । मुख्यानां. LL ॥
विचारकाण्डः। ३१ चैव रत्नानां हरणे वधमर्हति ॥ निक्षेपस्यापहरणं नराश्वरजतस्य च । भूमिवज्र- मणीनां च रुक्मस्तेयसमं विदुः ॥' अथ धान्यादिस्तेये मतुः-"धान्यानधन- चौर्याणि कृत्वा कामाद्विजोत्तमः । स्वजातीयगृहादेव कृच्छ्राब्देन विशुद्ध्यति ॥" इति । अन्नं कृतान्नं धनं गवादि । अथ गुडादिस्तेये जावाल:-"गुडकार्पासधा- न्यानि सपिलवणमेव च । पक्वान्नमापधं तैलं शय्या वास उपानही ।। कांस्याय- स्तानसीसं वा अई कृच्छाईमेव च । उदके फलमूलेषु पुष्पपर्णसुगन्धिषु ॥ मृद्भा- ण्डमधुमासेषु सन्तोष्य स्वामिनं ततः। पापं निवेद्य विप्रेभ्यः प्रायश्चित्तेन युज्य- ते ॥” इति । अईमिति कृच्छाईस्याई पादमित्यर्थः । मनुस्मृता-"तृणकाष्ठ- दुमाणां च शुष्कान्नस्य गुडस्य च । चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ।। कार्पासकीटचोर्णानां विशफैकशफस्य च । पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यह पयः॥" पयो दुग्धम् । “भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । फलमूलफलानां च पञ्चगत्यं विशोधनम् ॥' अथ जीविकाहरणे प्रायश्चित्तमाह शङ्ख:-“यस्य यस्य तु वर्णस्य वृत्तिच्छेदं समाचरेत् । तस्य तस्य वधे प्रोक्तं प्रायश्चित्तं समा- चरेत् ॥" वायुपुराणेपि-"यदेतद्रविणं नाम प्राणास्ते तु वहिश्चराः । स तस्य हरते प्राणान् यो यस्य हरते धनम् ॥" अथाविक्रेयविक्रयप्रायश्चित्तम् । तत्र विष्णुस्मृता-" रक्तवस्त्ररङ्गरत्नगुडगन्धमधुररसोर्णाविनयी त्रिरात्रमुप- वसेत् " पैठीनसि:-" अथाविक्रयाणि ब्राह्मणस्य लवणं पक्वान्नं मधु क्षीरं दधि घृत मुदकं सर्वगन्धोपललाक्षारक्तवासोगुंडतैलं ग्राम्यपशूनामेकशफाः केशिनः सर्वे चारण्याः पशवो विद्या पूर्त्तमिष्टं गावः शङ्खश्चोर्णा चेति विक्रयणे तेषामेकैकस्मिन् प्राजापत्यं चरेत् " पराशरमाधवभाष्ये चतुर्विंशतिमते विशेषः-" सुराया विक्रयं कृत्वा चरेत्सौम्यचतुष्टयम् । लाक्षालवणमांसानां चरेच्चान्द्रायणत्रयम् ॥ मध्वाज्यतैलसोमानां चरेच्चान्द्रायणद्वयम् । पयःपायसापूपानां चरेच्चान्द्रायणव- तम् ॥ ध्याज्यक्षुरसानां च गुडखण्डादिविक्रये । सर्वेषां स्नेहपक्कानां पराकं तु समाचरेत् ॥ सिद्धान्नविक्रये विप्रः प्राजापत्यं समाचरेत् । उपवासं तु तक्रस्य नक्तं काञ्जिकविक्रये ॥ पूगीफलानि मञ्जिष्ठा द्राक्षा खजूरमेव च । एतेषां विक्रये कृच्छ्रे पनसस्य दिनत्रयम् ॥ कदली नारिकेलं च नागरं बीजपूरकम् । एतेषां पाद- कृच्छ्रः स्याज्जम्बीरादेस्तथैव च ॥ कस्तूरिकादिगन्धानां विक्रये कृच्छ्रमाचरेत् । कर्पूरादेस्तदई स्यादिन हिंग्वादिविक्रये ॥ तिलानां विक्रय कृत्वा प्राजापत्यं समाचरेत् । यज्ञार्थ कृषिजातांश्च दानलब्धांश्च विक्रये ॥ रक्तपीतानि वस्त्राणि कृष्णाजिनमथापि वा । विक्रये त्र्यहमेतेषां। गर्गस्य वचनं यथा ॥ गोविनयं नरः ३२ प्रायश्चित्तप्रकाशे- कृत्वालाभार्थ धनमोहितः। प्राजापत्यं प्रकुर्वीत गजानामैन्दवं स्मृतम् ॥ खराश्वा- जाविकानां च करभाणां च विक्रये । पराकं तत्र कुर्वीत नृणां दिगुणमाचरेत् ॥ नारीणां विक्रयं कृत्वा चरेच्चान्द्रायणं व्रतम् । द्विगुणं पुरुषाणां च व्रतमाहुर्मनी- षिणः ॥चान्द्रायणं प्रकुर्वीत एकाहं वेदविक्रये । अङ्गानान्तु पराकं स्यात् स्मृतीनां कृच्छमाचरेत् ॥ इतिहासपुराणानां चरेत्सान्तपनं द्विजः । रहस्यपंचरात्राणां कृच्छ् तत्र समाचरेत ॥ गाथानां नीतिशास्त्राणां प्राकृतानां तथैव च । सर्वासामेव विद्यानां पादकृच्छ समाचरेत् ॥" वसिष्ठस्मृतों-"सद्यः पतति मांसेन लाक्षया लवणे न च । व्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ।" अथ ऋणानामपाकरणप्रायश्चित्तम् । गृहीतस्य सुवर्णादेरमदानमृणानामपाकरणम् । तथा देवर्षिपितॄणां संवन्ध्य- णस्यानपाकरणं च । तथा च विष्णुधर्मोत्तरे-" देवानां च पितॄणां च ऋषीणां च तथा नरः । ऋणवाञ्जायते यस्मात्तन्मोक्षे प्रयतेत्सदा ॥ " तत्परिशोधनमपि तत्रैव देवानामनृणो जन्तुर्यज्ञैर्भवति मानवः । अल्पवित्तश्च पूजाभिरुपवासवतै- स्तथा ॥ श्राद्धेन प्रजया चैव पितॄणामनृणो भवेत् । ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा ॥" इति । ऋणापाकरणे याज्ञवल्क्या-"उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा । पयसा वापि मासेन पराकेणाथवा पुनः॥ " इत्यनेनोपपातक- सामान्यविहितं व्रतचतुष्टयम् ऋणं दत्त्वा शक्त्यपेक्षया कार्यम् । तथाधिकृतस्याना- हितामित्वेऽप्येतदेव व्रतचतुष्टयं वत्सरादूर्ध्वमापदि शक्त्यपेक्षया योज्यम् । अनापदि मानवं त्रिमासिकम् अर्वाक् पुनर्वत्सरात् मिताक्षरायां काष्र्णाजिनिर्विशेष- माह-"काले त्वाधाय कर्माणि कुर्यादिमो विधानतः । तदकुर्वन् त्रिरात्रेण मासि मासि विशुद्ध्यति ॥ कृतदारो गृहे ज्येष्ठो यो नादध्यादुपासनम् । चान्द्रायणं चरेद्वर्ष प्रतिमासमहोऽपि वा ॥" अथ परिवेदनपरिवित्त्योः प्रायश्चित्तम् । सहोदरस्य ज्येष्ठस्य तिष्ठतः कनीयसो भ्रातुर्दारामिसंयोगः परिवेदनम् । कनी- यसि कृतविवाहे ज्येष्ठस्य विवाहराहित्यं पारिवित्त्यम् । तत्मायाश्चत्तमाह पराशर:- " परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजक- पञ्चमाः॥ द्वौ कृच्छौ परिवित्तेस्तु कन्यायाः कृच्छ्र एव च । कृच्छ्रगतिकृच्छ्रौ दातुस्तु होता चान्द्रायणं चरेत्॥" तदपवादमपि तत्रैव “कुब्जवामनषण्ढेषु गदातेषु जडेषु च । जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥ पितृव्यपुत्रसापल्याः परनारी- सुतस्तथा । दारामिहोत्रसंयोगे न दोषः परिवेदने ॥ ज्यष्ठभ्राता यदा तिष्ठेदाधानं नैव कारयेत् ॥ अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥” इति । तु " विचारकाण्डः। ३३ अथ मृतकाध्यापकंकृतकाध्यापितयोश्च प्रायश्चित्तम् । पराशरमाधवेहारीत:-"भृतकाध्यापनं कृत्वा भूतकाध्यापितश्च यः। अनु- योगप्रदानेन त्रीपक्षांस्तु पयः पिवेत् ॥" हेमाद्री प्रायश्चित्तखण्डे जाबालि:- "अब्दं यो भृतकं धृत्वा वेदपाठी दिजो यदि । तस्य चान्द्रत्रयं प्राक्तं भृतकं यो वदेहिनः ॥ अब्दयं वदेवस्तु तस्य पापस्य शोधनम्। पश्चात्तापसमायुक्तः कुर्या- चान्द्रचतुष्टयम् ॥ अन्दत्रये तु शुद्धः स्यात्पनिश्चान्द्रेर्यथाक्रमम् । तत ऊर्ध्व ब्रह्म- हन्ता ललाटे द्विजवर्जितः ॥ ब्रह्महत्यावतं कुर्यात्कपालध्वजवर्जितम् ॥ अथ परस्त्रीगमनप्रायश्चित्तम् । पराशरस्मृतौ-"अगम्यागमने चैव शुद्ध्यै चान्द्रायणं चरेत् ॥ प्रायश्चित्ते ततश्वीरें कुर्याबाह्मणभोजनम् ॥ गोदयं वस्त्रयुग्मं च दद्यादिप्रेषु दक्षिणाम् ॥" चाण्डालीगमनशायश्चित्तम् । तत्रैव "चाण्डाली वा श्वपाकी वा अनुगच्छति यो द्विजः । त्रिरात्रमुपवासित्वा विप्राणामनुशासनात् ॥ सशिखं वपनं कृत्वा प्राजा- पत्यइयं चरेत् । गोइयं दक्षिणां दद्याच्छद्धिं पाराशरोऽब्रवीत् ॥ क्षत्रियो वा वैश्यो वा चाण्डाली गच्छतो यदि । प्राजापत्यदयं कुर्यादद्याद्गोमिथुनद्वयम् ॥ श्वपाकी वाथ चाण्डालीं शूद्रो वा यदि गच्छति । प्राजापत्यं चरेत्कृच्छ्रे चतुगॉमिथुनं ददेत् ॥ ॥ पराशरमाधवीये अङ्गिराः-" पतितान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृहा च । मासोपवासं कुर्वीत चान्द्रायणमथोऽपि वा ॥" भ्रातृभार्यादिगमने विशेषोऽपि तत्रैव चतुर्विंशतिस्मृतिमते च "भ्रातुश्चैव कनिष्ठस्य भार्या गत्वा तु कामतः। सान्तपनं प्रकुर्वीत कृच्छ्रदयमथापि वा। मातु- लस्य स्त्रियं गत्वा पितृव्यतनयां तथा । तप्तकृच्छ्रे प्रकुर्वीत षड्रानं तत्सुतासु च॥ गुरोहितरं गत्वा पराफन्तु समाचरेत् । भागिनेयीं दिजो गत्वा चरेच्चान्द्रायगं व्रतम् ॥ मातुलस्य सुतां गत्वा पितुश्च स्वस्त्रियां तथा । प्राजापत्यं प्रकुर्वीत हारी- तवचनं यथा ॥ मातुश्च स्वस्त्रियस्यैव भायौं गत्वा तु कामतः । पितृव्यतनयस्यैव सपादं कृच्छ्माचरेत् । दौहित्री पुत्रतनयां चरेच्चान्द्रायणं व्रतम् । तत्सुतां च स्नुपां गत्वा पराकन्तु समाचरेत् ॥ चरेच्चान्द्रायणं विप्रो गत्वोपाध्याययोपितम् । आचार्यस्य पराकन्तु वौधायनवचो यथा ॥ सम्बन्धिनः स्त्रियं गत्वा सपादं कृच्छ्रमाचरेत् । विधवागमने कृच्छूमहोरात्रसमन्वितम् ॥ व्रतस्थागमने कृच्छं सपादन्तु समाचरेत् । सखिभार्या समारुह्य ज्ञातिस्वजनयोपितम् ॥ स कृत्वा प्राकृतं कृच्छू पादकृच्छ्रे ततः पुनः । कुमारीगमने विप्रश्वरेच्चान्द्रायणवतम् ॥ पतितान्तु द्विजो गत्वा तदेव व्रतमाचरेत् ॥” संवर्तस्मृतौ-"क्षत्रियामथ वैश्यां वा गच्छेद्यः काममोहितः । तस्य सान्तपनः कृच्छ्रो भवेत्पापापनोदनः ॥ शूद्रां तु ब्राह्मणो गत्वा मासं मासार्द्धमेव वा । गोमूत्रयावकाहारो मासाद्वैन विशुः ३४ प्रायश्चित्तप्रकाशे- 11 LL श्यति ॥ विप्रस्तु ब्राह्मणीं गत्वा प्राजापत्यं समाचरेत् । क्षत्रियां क्षत्रियो गत्वा तदेव व्रतमाचरेत् ॥ कथंचिद्राह्मणीं गत्वा क्षत्रियो वैश्य एव च । गोमूत्रयावका- हारो मासेनकेन शुद्ध्यति ॥ ब्राह्मणी शूद्रसंपर्के कदाचित्समुपागते । कृच्छ्चान्द्रा- यणं तस्याः पावनं परमं स्मृतम् ॥ एतदत्यन्तव्यभिचारिब्राह्मणीविषयम् । इतरविषये वधस्मरणात् । वेश्यागमने प्रायश्चित्तम् । यमस्मृती-"वेश्याभिगमने पापं व्यपोहन्ति द्विजातयः । पीत्वा सकृत्सुतप्तं च पञ्चरात्रं कुशोदकम् ॥ गुरु- तल्पद्रत केचित्केचिद्ब्रह्महणो व्रतम् । गोनस्य केचिदिच्छन्ति केचिच्चैवावकी- णिनः ॥ " स्वैरिणीगमने शङ्खलिखितौ “स्वैरिण्यां वृषल्यां चावकीर्णः सचेल- स्नान उदकुम्भं दद्यात् । ब्राह्मणो वैश्यायां चतुर्थकालाहारी ब्राह्मणान् भोजयेत् । क्षत्रियायां त्रिरात्रोपोषितो यवाटकं दद्यात् । ब्राह्मण्यांव्यहमुयोप्प घृतपात्रं दद्यात् । रजस्वलागमने । याज्ञवल्क्य:-"त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां शुचिर्भ- वेत् । त्रिरात्राशक्तौ चतुर्विंशतिपणाः देया इति शूलपाणिः। एतत् कामतः सकृ- द्मने । अभ्यासेतु विशेषः संवर्त आह रजस्वलां तु यो गच्छेद्गर्भिणी पतितां तथा । तस्य पापविशुद्धयर्थमतिकृच्छ्रो विशोधकः ॥” मतुरपि-“अमानुषीषु. गोवर्जमुदक्यायामयोनिषु । रेतःसिक्त्वा जले चैव कृच्छू सान्तपनं चरेत् ।। " अमानुषीषु वडवाद्यासु न गवि । गोप्ववकीर्णी संवत्सरं प्राजापत्यं चरेत् ॥” इति शङ्खलिखितादिभिर्गुरुप्रायश्चित्ताभिधानात् । उदक्यायां रजस्वलायाम् । अयोनिषु योनितश्चान्यत्र स्त्रियामित्यर्थः । पराशरः “पशुवेश्याभिगमने महिष्युटी की तथा । खरौं च शूकरौं गत्वा प्राजापत्यव्रतं चरेत् ॥” एतदसकृद्गमने ज्ञेयम् । "गोगामी च त्रिरात्रेण गामेकां ब्राह्मणो ददत् । महिष्युष्ट्रीखरीगामी त्वहोरात्रेण शुद्ध्यति ॥” एतत्सकृद्गमनविषयम् । अथ ऋतौभायानभिगमनप्रायाश्चत्तम्।। तथाच बृहस्पतिः-"ऋतौ भार्या न गच्छेयः सोऽपि कृच्छ्राईमाचरेत् ।” कृच्या शक्तौ चतुर्विंशति पणा देयाः। पर्वसु स्वस्त्रीगमने दिनमेकमभोजनम् । अभ्यासे कृच्छ्रम् । श्राद्धदिने मैथुनेऽपि एतदेव मायाश्चत्तम् । दिवामैथुनेऽपि स्नात्वा माणायामं कुर्यात् ॥ अथावकीर्णिप्रायश्चित्तम् । हेमाद्रौप्रायश्चित्तखण्डे गालव:-" मौञ्जीव्रतदिनादाजन् ब्रह्मचर्मकल्म- पम् । चरन्त्रतीह दुःसंगायोनौ रेतः समुत्सृजन् ॥ अवकीर्णी स विज्ञेयः सर्वदा तं परित्यजेत् । तस्य देहविशुद्ध्यर्थ पराकं कृच्छ्मीरितम् ॥ तथा गर्दभमालभ्य- शुद्धिमानोति पौर्विकीम् । पुनःसंस्कारपूतात्मा पञ्चगव्यं पिवेत्ततः ॥ एतेन शुद्धि- मानोति ब्रह्मचारी न चान्यथा ॥" पराशरमाधवे शङ्ख:-"गुप्तायां वैश्याया- मवकीर्णी संवत्सरं त्रिषवणमनुतिष्ठेत् । क्षत्रियायां दे वर्षे ब्राह्मण्यां त्रीणि वर्षाणि ।" ।
विचारकाण्डः। ३५ एतदीपद्व्यभिचारिणीविषयम् । अत्यन्तव्यभिचारिणीषु पुनः शङ्ख आह-"स्वैरि- ण्या ब्राह्मण्यामवर्कीणः पात्रमुपोषितो गां दद्यात् । क्षत्रियायामुपोषितस्विरात्रं घृतपात्रं दद्यात् । वैश्यायां चतुर्थकालाहारो ब्राह्मणान् भोजयित्वा यवसभारंच गोभ्यो दद्यात् । वृषल्यामवकीर्णः सचैलनात उदकुम्भ ब्राह्मणाय दद्यात् । गोष्व- वकीर्णः प्राजापत्यं चरेत् । रण्डायामवकीर्णः पलालभारं शीशमाष दद्यात् ॥ पलालः सस्यशून्यवान्यनालादिरित्यर्थः । यतिवनस्थयोस्त्वधिकं व्रतमाह शा- ण्डिल्यः-“वानप्रस्थो यतिश्चैवखण्डने सति कामतः। पराकत्रयसंयुक्तमवकीर्णिव्रतं चरेत् ।” यतेः पुनगार्हस्थ्यस्वीकारे संवर्तआह-" संन्यस्य दुर्मतिः कश्चित् प्रत्यापत्तिं व्रजेद्यदि । स कुर्यात्कृच्छ्रमश्रान्तः पण्मासान्प्रत्यहं व्रतम्॥" वृद्धपरा- शरोपि-"यः प्रत्यवसितो विमः प्रवज्यातो विनिर्गतः। अनाशकनिवृत्तश्च गाई- स्थ्यं च चिकपिति ॥ चरेत्पाण्मासिकं कृच्छू नियतात्मा समाहितः । चरेत्रीणि च कृच्छ्राणिं त्रीणि चान्द्रायणानि च ॥ जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिमानु- यात् ॥"अत्रेयं व्यवस्था-ब्राह्मणस्य पाण्मासिकः कृच्छ्र क्षत्रियस्य चान्द्रायण- द्वयम् । वैश्यस्य कृच्छ्त्रयम् ॥ ब्रह्मचारिणो बतान्तरलोपेऽपि मनुराह-"अकृत्वा भैक्षचरणमसमिध्य व पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥" अथ पुत्रपुत्रीविक्रयप्रायश्चित्तम् । तत्र शङ्ख:-"देवगृहमतिश्रयोद्यानारामसभाम. पातडागपुण्यसेतुसुतविक्रयं कृत्वा तप्तकृच्छं चरेत् ।" कन्याविक्रये वृद्धपरा- शरः-"विक्रीय कन्यकां गां च कृच्छ सान्तपनं चरेत् ॥” एतदापद्यकामतो द्रष्टत्यम् । यत्तु चतुर्विंशतिमतेऽभिहितम्-" नारीणां विक्रयं कृत्वा चरेच्चान्दा- यणव्रतम् । द्विगुणं पुरुपस्यैव व्रतमाहुर्मनीषिणः ॥ " तत्तत्रैव कामतो दष्टव्यम् । तदाह पैठीनसिः-" आरामतटाकोदपानपुष्करिणीसुकृतसुतविकये त्रिषवणस्ना- य्यधाशायी ब्रह्मचारी चतुर्थकालाहारः संवत्सरेण पूतो भवति । " कन्यादूषणे प्रायश्चित्तमाह शङ्ख:-"कन्यादूषी सोमनिक्रयी च कृच्छान्दं चरेयाताम् ।" हारितोऽपि-कन्यादृषी सोमविक्रयी वृषलीपतिः कौमारदारत्यागी सुरामद्यपः शूदयाजको गुरोः प्रतिहन्ता नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्रह्मनो मित्रानो मिथ्याभिशंसी पतितसंव्यवहारी मित्रभुक् शरणागतघाती प्रति- रूपकवृत्तिरित्येते पञ्चतपोभूजलासनाद्यनुतिष्ठेयुः ग्रीष्मवर्षा हेमन्तेषु । मासं गोमूत्रयावकमश्रीयुः।" शूद्रसेवादिकरणे प्रायश्चित्तम् । तत्र बौधायन:-"समुद्रयाने ब्राह्मणन्यासापहरणे सर्वापण्यैर्व्यवहरणे भूम्यनृते शूद्रसेवायां च शूदायामभिजायते तदपत्यं च भवति । तेषां च निर्देशः चतुर्थ- .
३६ प्रायश्चित्तप्रकाशे- कालमितभोजनाः स्युः । अपोऽभ्युपेयुः । सवनानुकल्पस्थानासनाभ्यां विहरन्त एते त्रिभिवरेस्तदपहरन्ति पापम्" इति । एतद् बहुकालाभ्यासविषयम् ॥ अनाश्रमवासे प्रायश्चित्तम् । तत्र हारीतः-अनाश्रमी संवत्सरंप्राजापत्यं कृच्च्छू चरित्वाश्रममुपेयात् । द्वितीयेऽतिकृच्छ्रे तृतीये कृच्छातिकृच्छूमंतऊर्ध्वं चान्द्रा- यणम् ।" अथ द्रुमादिहिंसाया प्रायश्चित्तम् । तत्र मनुः-"फलदानान्तु वृक्षाणां छेदने जप्यमुक्शतम् । गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ कुष्ट- जानामोषधीनां जातानां च स्वयं वने । वृथालम्भेऽनुगच्छेगा दिनमेकं पयो- व्रतम् ॥" एतच्च यज्ञार्थवृक्षच्छेदनादिव्यतिरिक्तविषयम् । यमस्मृतौ-“वृक्षलता- गुल्मच्छेदने वृद्धकृच्छ्रम् । फलवतां प्राजापत्यम् ।" वृद्धकृच्छ्वतं शङ्खलिखितोक्त- मष्टदिवससाध्यम् । स्थानविशेषजातानामुपजीव्यानां च छेदने दण्डद्वैगुण्यमाह याज्ञवल्क्यः ।"चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । जातद्वमाणां द्विगुणो दमो वृक्षेऽथ विश्रुते ॥ गुल्मगुच्छापलताप्रतानौपंधिवीरुधाम् । पूर्वस्मृतादर्ध- दण्डाः स्थानेषूक्तेषु कर्त्तने ॥ प्ररोहशाखिना शाखास्कन्धसर्वविदारणे । उपजी- व्यगुमाणां च विंशतिदिगुणा दमाः ॥ एतेषां छेदनमुपपातकमध्ये पठितम् । उपपातके च-"उपपातकिनस्त्वेते कुर्युश्चान्द्रायणं नराः" इत्यनेन विष्णुनैव चान्द्रायणं विहितम्।। अश्वत्थच्छेदने विशेषः पाझे क्रियायोगसारे-" यत्पापं ब्रह्महत्यायां गुरुस्त्रीगमने च यत् । सुरापाने तथा स्तेये न्यासापहरणे तथा ॥ यत्पापं भ्रूणहत्यायां गोहत्यायां द्विजोत्तम । स्त्रीहत्यायां च यत्पापं परस्त्रीगमने तथा ॥ शरणागतहत्यायां हत्यायां सुहृदां तथा । विश्वासवाक्याकथने परहिंसा- विधौ च यत् ॥ यत्पापं परनिन्दायां हरिवासरभोजने । अश्वत्थच्छेदनाद्धोरं तत्पापं प्राप्यते जनः । अश्वत्थशाखामेकां हि स्वल्पामपि निहन्ति यः। स कोटिब्रह्म- हत्यानां फलं प्रामोति मानवः ॥ अश्वत्थश्छेदितो 'येन छेदिताः सर्वदेवताः । अश्वत्थः पूजितो येन पूजिताः। सर्वदेवताः ॥ तरुज्ञानाहिजश्रेष्ठ योऽश्वत्थं हन्ति मानवः । संसारे नास्ति तत्कर्म यत्कृत्वा स च शुद्ध्यति ॥ विलोक्याश्वत्थहन्तारं यः शक्तो न निवारयेत् । तन्नेत्रयुग्मं बडिशैर्यमेनोत्पाट्यते स्वयम् ॥" हेमाद्री कोर्मे-"उदुम्बरे च न्यग्रोधे पराकात्पूर्ववच्छचिः। विल्वाऽश्वत्यौ यदा भिन्द्यात्तदा चान्द्रायणं चरेत् ॥” यज्ञार्थ छेदने दोषाभावः । तदुक्तं पामोत्तरखण्डे-"यज्ञार्थ छेदितोऽश्वत्थः सर्वोरोग्यप्रदो भवेत् ।" अमावास्यायां वृक्षमात्रछेदने दोषो विष्णु- पुराणे-"छिनत्ति वीरुधो यस्तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्येकं ब्रह्म- हत्यां स विन्दति ॥" वीरुत्संस्थेमावास्यायाम् । अत्र ब्रह्महत्याप्रायश्चित्ते यमो तगायत्रीजपः शतावृत्त्या करणीयः । कृष्याद्यर्थच्छेदने तु न दोषः। तथा च वसिष्ठः-“फलपुष्पोपगां पादपान् न हन्यात् । कर्षणार्थ चोपहन्यात् ।" गाई- विचारकाण्डः। ३७ स्थाङ्गे च-"लाङ्गलाद्यर्थ यज्ञपात्रायर्थ च वृक्षादिच्छेदने दोषाभावः । एतच्चा- मावास्यातिरिक्तविषयम् ॥ अथ वाईष्यजीवने प्रायश्चित्तम् । हेमादौ प्रायश्चित्तखण्डे नृसिंहपुराणे-“मासं जीवेघदा वृझ्या तदा यावक- मुच्यते । मासद्धये तु तप्तं स्याच्चान्दै मासत्रये स्मृतम् ॥ षण्मासे तु महाचान्द्र वत्सरे द्विगुणं चरेत् । पतितः स्यात्परं विप्रः सर्वकर्मबहिष्कृतः ॥" वत्सरादूर्व वार्द्धष्यजीवने पतितप्रायश्चित्तं कृत्वा शुद्धिमामोति । आपत्काले कृषिवाणिज्य वार्द्धप्यजीवने दोषाऽभावः। तथा च बृहस्पतिः। "कुसीदकृषिवाणिज्यं प्रकुर्वीता- ऽस्वयंकृतम् । आपत्काले स्वयं कुर्वन्ननसा युज्यते द्विजः ॥ बहवो वर्तनोपाया ऋषिभिः परिकीर्तिताः । सर्वेषामपि चैवैषां कुसीदमधिकं विदुः ॥ लब्धलाभ: पितृन् देवान् ब्राह्मणांश्चैव भोजयेत् । ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः॥ वर्णिलसीदो दद्यात्तु वस्त्रं गां. काञ्चनादिकम् । कृषीवलोऽन्नपानानि यानशय्या- सनानि च ॥ पण्येभ्यो विंशतिं दत्त्वा पशुस्वर्गादिकं शतम् । पादेनायस्य पारक्य कुर्यात्संचयमात्मवान् ॥ अर्धेन चात्मभरणं नित्यनैमित्तिकान्वितम् । पादं च प्रार्थमायस्य मूलभूतं विवर्धयेत् ॥ वणिक्कुसीधदोषः स्याद्राह्मणानां च पूजनात् । राज्ञे दत्त्वा तु षड्भागं देवतानां च विंशकम् ॥ त्रिंशद्भागं च विप्राणां कृषि कृत्वा न दोषभाक् ॥" अथ हिंसायन्त्रविधानप्रायश्चित्तम् । हेमाद्रौ गौतमः-"पर्वते वा जले वापि गृहे वारण्यदेशतः । द्विजः कुर्यात्संग- दोषाड़िसायन्त्रविधारणम् । स वै नरकमासाद्य मृगयुर्जायते भुवि । तस्य दोष- विशुद्ध्यर्थं पराकद्धयमीरितम् ॥ संवत्सरात्परं राजन् चान्द्रद्वयमुदाहृतम् । अतः परं न शुद्धोऽभूद्यथा व्याधस्तथैव सः ॥" संवत्सरात्परं विप्रस्तु यन्त्रनिर्माणे पतितप्रायश्चित्तं कृत्वा शुद्धिमानोति । एवमेव तिलधान्येक्षुपीडनयन्त्रद्वारा जीवि- काकरणे प्रायश्चित्तं बोद्धयम् । अवशिष्टोपपातकानामेतेष्वेवान्तर्भावो ज्ञेयः । याज्ञवल्क्योक्तं च प्रायश्चित्तं तत्तदोषापनुत्तये विधेयम् ॥ अथ जातिवंशकरप्रायश्चित्तम् । तत्र मनु:-"जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया । चरेत्सान्तपनं कृच्छं प्राजापत्यमनिच्छया ॥ तत्रापि पुंसि मैथुने प्रायश्चित्तम्। देवलस्मृतौ-"यो विमः पुरुषं गच्छेत्पञ्चवाणातुरः खलः । स्वदारेषु मुखे वापियभेत्सापपरायणः।तस्य वीर्य क्षयं याति मृतो नरकमश्नुते ॥" हेमाद्रौजाबालि:-"पश्चात्तापमवाप्याथ यदी- च्छेच्छुद्धिमात्मनः । एकस्मिन्दिवसे तप्तं मासे चान्द्रं ततः परम् ॥ अन्दात्परं ३० प्रायश्चित्तप्रकाशे-- ॥ मुनिश्रेष्ठ षडब्दं कृच्छमाचरेत् ॥ तस्योपनयनं भूयः पटगर्भ विधानतः। पञ्चगव्यं पिवेत्पश्चात्पूतो भवति सर्वदा ॥"कटादो शुक्रोत्सगै प्रायश्चित्तमाहतुर्मनुमार्क- ण्डेयौ-"पशुपक्षिजले मार्गे कटायां बीजमुत्सृजन् । अयोनौ च वियोनौ च पशु- योनौ च भारत ॥ समुत्सृजन्ते ये शुक्र ते वै निरयगामिनः । परेर्वा तदानी वा सचैलं स्नानमाचरेत् ॥ जपेत्सहस्त्रं गायत्री ततः शुद्धिरवाप्यते ॥ अन्यथा शुद्धिरेतस्य हुत्वा पापापनुत्तये ॥ " क्षत्रियवैश्ययोर्विप्रप्रायश्चित्ताहिगुणम् ॥ अथ संकरीकरणादिप्रायश्चित्तम् । तत्र मनु:-"संकरापात्रकृत्त्यासु मास शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्थाद्यावकैरूयहम् ॥" मिताक्षरायां यमः-"संकरीकरणं कृत्वा मासमन्नाति यावकम् ।कृच्छ्रगतिकृच्छमथवा प्रायश्चित्तं समाचरेत्।अपात्रीकरणं कृत्वातप्तकृच्छ्रेण शुद्ध्यति । शीतकृच्छ्रेण वा शुद्धिर्महासान्तपनेन वा। मलिनीकरणीयेषु तप्तकृच्छं विशोधनम् ॥ ॥ तत्रैव वृहस्पतिना विशेष उक्त:-" ब्राह्मणस्य रुजः कृत्वा रासभादिप्रमापणम् । निन्दितेभ्यो धनादानं कृच्छा व्रतमाचरेत् ॥" एतेषां च जातिभ्रंशकरादिप्रायश्चित्तानां मन्वायुक्तानां जातिशक्त्याद्यपेक्षया विषयो विभजनीयः॥ अथाभक्ष्याक्षणप्रायश्चित्तम् । तत्राभक्ष्यं पड्विधमुक्तं भविष्ये-" जातिदुष्ट क्रियादुष्टं कालाश्रयविदूषितम्। संसर्गाश्रयदुष्टं च सहल्लेख स्वभावतः॥ इति । जातिदुष्टं लशुनगृञ्जनपलाण्डुच्छत्रा- कादि।क्रियादुष्टं पतितसंस्पृष्टम्।कालाश्रयविदूषितं ह्यस्तनं चिरसंस्थितं चासंसर्गदुष्टं सुरालशुनादियुक्तम्। सहल्लेखं विचिकित्सितान्नम्। स्वभावदुष्ट पुरीषादि इत्यर्थः । तत्र सामान्याभक्ष्यभक्षणे प्रायश्चित्तमाहविष्णु:-"अभोज्यानामपेयानामभक्ष्याणां च भक्षणे । कृच्छ्पादं विशुद्ध्यर्थं चरेयुः क्षिप्रशोधनम्॥" संवर्तस्मृतौ-" अभो- ज्यभोजनं कृत्वा ब्रह्मक्षत्रविशां गणः । गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति ॥" बृहस्पतिः-"अलेह्यानामपेयानामभक्ष्याणां च भक्षणे। रेतोमूत्रपूरीषाणां शुद्ध्यै चान्द्रायणं चरेत् ॥” एतत् गुरुतरविषयम् । पराशरः "अमेध्यरेतोगोमांसं चाण्डा- लान्नमथापि वा। यदि भुक्तं तु विप्रेण कृच्छ्र चान्द्रायणं चरेत्॥अमेध्यं विषमूत्रादि । तथैव क्षत्रियो वैश्योऽप्य चान्द्रायणं चरेत् शूदोऽप्येवं सदा भुक्ते प्राजापत्यं समा- चरेत्॥पञ्चगव्यं पिवच्छूदो ब्रह्मकूर्च पिवेद्विजः । एकदित्रिचतुर्गा वा दद्याद्विपादनु- क्रमात् ॥" वृद्धपराशरः-"अगम्यागमने चैव मद्यगोमांसभक्षणे।शुद्धयै चान्द्रायणं कुर्यान्नदीं गत्वा समुद्रगाम् ॥ चान्द्रायणे ततश्चीण कुर्याद्राह्मणभोजनम् । अनु डुत्सहितां गां च दद्याद्विप्राय दक्षिणाम् ॥” संवतः-"श्वविडालखरोष्ट्राणां कपे- .
विचारकाण्डः। ३९ . गौमायुकाकयोः । प्राश्य मूत्रं पुरीष वा चरेच्चान्द्रायणं व्रतम्॥" मतुरपि-"अज्ञा- नात्माश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमहन्ति त्रयो वर्णा द्विजातयः॥" अथ शूद्रावनभोजने प्रायश्चित्तनाह पराशरः-"शूदानं सूतकानं च अभोज्य- स्यान्नमेव च । शक्तिं प्रतिपिद्धान्नं पूर्वाच्छिष्टं तथैव च ॥ यदि भुक्तं तु विप्रेण अज्ञानादापदोऽपि वा । ज्ञात्वा समाचरेत्कृच्छ् ब्रह्मकूर्च तु पावनम् ॥" सुमन्तु- रपि-" राजान्नं तेज आदत्ते शूद्रानं ब्रह्मवर्चसम् । आयुः सुवर्णकारान्नं यशश्च- विकर्तिनः ॥ कारुकानं प्रजा हन्ति बलं निर्णेजकस्य च । गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति।। पूर्य चिकित्सकस्यांनं पुंश्चल्याश्चान्नमिन्द्रियम् । विष्ठा वार्धषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥” एतेभ्योऽन्ये त्वभोज्यानाः क्रमशः परिकीर्तिताः। तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः । भुञ्जानोन्यतमस्यान्न- ममत्या क्षपणं व्यहम् । मत्या भुक्त्वा चरेत्कृच्छं रेतोविण्मूत्रमेव च॥" अङ्गिराः- "अभोज्यानान्तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् । अन्त्यावसायिनां भुक्त्वा पादकृच्छ्रेण शुद्धयति ॥" पराशरः-" बालैनकुलमाजीरैरन्नमुच्छिष्टितं यदा । तिलदोदकैः प्रोक्ष्य शुद्धयते नात्र संशयः॥'मोक्षणमकृत्वा भुक्ते सति पञ्चगव्य- पानमाह संवतः-" श्वकाकोच्छिष्टगोच्छिष्टभोजने तु व्यहं क्षिपेत् । विडालमूष- कोच्छिंटे पञ्चगव्यं पिवेद्विजः॥"शूद्रााच्छिष्टभोजने प्रायश्चित्तमाह शंखः “शू- द्रोच्छिष्टाशने मासं पक्षमेकं तथा विशः । क्षत्रियस्य' तु सप्ताहं ब्राह्मणानां तथा दिनम् ॥” पराशरः-" एकपतयुपविष्टानां विप्राणां सहभोजने । योकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत् ॥ मोहाडीत यस्तत्र पंक्तावुच्छिष्टभोजने । प्रायश्चित्तं चरेविप्रः कृच्छ्रे सान्तपनं तथा ॥ यस्तु भुंक्ते द्विजः पंक्ताबुच्छिष्टायां कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति । उप्रीक्षीरादिभोजनेऽपि पराशर:-" उष्ट्रीक्षीरमवीक्षारमज्ञानाद्भुञ्जते दिजः । त्रिरात्रमुपवासेन पञ्चगव्येन शुद्धयति ॥"शातातपः-" लशुनं गृञ्जनं चैव पलाण्डु कृष्णवृन्तकम् । छत्राक विड्वराहं च ग्राम्यकुकुटमेव च । उनीं च मानुषीं वापि रासभीक्षीरभोजनात् । उपायनं पुनः कुर्यात्तप्तकृच्छ्रे चरेन्मुहुः ॥ " उष्ट्रीं मानुषी च इत्यनेन लक्षणया तयोर्दुग्धमवगन्तव्यम् । चाण्डालपतितादिस्पृष्टान्नभक्षणे प्रायश्चित्तमाह- शंख:-" अमेध्यचाण्डालपतितपुक्कसरजस्वलाऽवधूतकुणीकुष्ठीस्पृष्टानि भुक्त्वा कृच्छ्रे चरेत् । " पठीनसि:-" महापांतकिसंस्पर्शे स्नानमेव विधीयते । संस्पृ- ष्टस्तु यदा भुंक्त तप्तकृच्र् तदा चरेत् ॥" जाबाल:-"केशकीटावपन्नं च स्त्रीभिः स्पृष्टं तथैव च।श्वोदक्याशूद्रसंस्पृष्टं पञ्चगव्येन शुद्ध्यति ॥" अवपन्नं केशादिभिः सह पक्कम् । स्त्रीशब्दश्चात्र शूद्रस्त्रीपरकः । ब्रह्मपुराणे-"चाण्डालपतितामेध्यैः कुनखैः कुष्टिना तथा । ब्रह्मप्रसूतिकोदक्याकौलेयककुटुम्बिंभिः ॥ दृष्ट वा केश- ४० प्रायश्चित्तप्रकाशे- कीटाक्तं' मृगस्मकनकाम्बुभिः । शुद्धमद्यात्सहल्लेखं प्रभूतं विष्टमेव च ॥" कौले- यका श्वा । कुटुम्बी प्राणिविशेषः । सहल्लेख सन्दिग्धम् । विष्टं पर्युषितम् । प्रभू- तमधिकम् अभ्युक्ष्य भक्षणीयमिति निष्कर्षः। हेमाद्री गौतमः-"अन्ने वा पक्कशाके वा केशमात्रव्यवस्थिते । कवले वापि राजेन्द्र कवलं तत्परित्यजेत् ॥ गण्डूपमेक कृत्वा तु शेषानं प्रोक्षयेज्जल।मृद्भस्म वा पिवेत्तत्र पाश्चद्भुक्त्वा न दोषभाक् ॥" सूतकमृतकान्नभक्षणे प्रायश्चित्तम् । तथाच पराशर:-"अज्ञानाद्भुञ्जते विप्राः सूतके मृतकोपि वा । गायत्र्यष्टसहस्रेण शुद्धिः स्याच्दसूतके ॥ विशः पञ्च शतेनैव क्षत्रियस्य शतेन च । ब्राह्मणस्य यदा भुते प्राणायामेन शुद्धयति ॥ अथवा वामदेव्येन साम्नैवैतेन शुद्ध्यति ॥" एतदामानभक्षणविषयम् । पक्वान्नभ- क्षणे तु शङ्खवाक्यम्-“शूद्रस्य सूतके भुक्त्वा पण्मासान्त्रतमाचरेत् । वैश्यस्य च तथा भुक्त्वा त्रीन्मासान्त्रतमाचरेत् ॥ क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतमाचरेत् । ब्राह्मणस्य तथा भुक्त्वा मासमेकं व्रती भवेत् ॥ अत्र व्रतशब्देन प्रायश्चित्तसमाप्तिपर्यन्तं यावकाहारो ज्ञेयः। ब्रह्मचारिणो विशेषमाहाङ्गिराः-"सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः । पिवेत्पानीयमज्ञानात्समश्नीयात्स्पृशेत वा ॥ पानीयपाने कुर्वीत पञ्चगव्यस्य भक्षणम् । त्रिरात्रं भोजने प्रोक्तं स्पृष्ट्वा स्नानं विधीयते ॥" अथैकादशाहादिश्राद्धानभोजनप्रायश्चित्तमाह शङ्ख:-"चान्द्रा- यणं नवश्राद्धे पराको मासिके मतः । पक्षत्रयेऽतिकृच्छ् स्यात्षाण्मासे कृच्छ्मेव च ॥ आब्दिके पादकृच्छ्रे स्यादेकाहः पुनराब्दिके ॥ नवश्राद्धं चतुर्थाहादिश्रा- छम् । ब्रह्मचारिणो मधुमासादिभक्षणे प्रायश्चित्तम् । देवल:-"मृतान्नं मधुमांसं च ययनाति व्रती क्वचित् । त्रिरात्रोपोषितः सम्यकू रात्रिमेकां जले वसेत् ॥” यमेन तुं तप्तकृच्छ उक्तः "मधुमांसं च योऽश्रीयाच्याई सूतकमेव च । प्राजापत्यं चरे- स्कृच्छं व्रतशेष समापयेत् ॥ लघुहारीत:-"आमिषस्य तु यो भाण्डे पक्वमभाति सव्रतः । कुशमूलविपक्केन ज्यहं क्षीरेण वर्तयेत् ॥ एतत् प्रमादासकृद्भक्षणे । ज्ञाने तु तद्वैगुण्यादिकम् । क्षीरपानाशक्तौ पुराणमेकं देयम् । अथाकृतापोशानाकृतमौन- भोजनप्रायश्चित्तमाह संवतः॥"आपोशानमकृत्वा तु यो भुङ्क्तेनापदि द्विजः।भुञ्जा- नश्च यदा ब्रूयात् गायत्र्यष्टशतं जपेत् । अष्टशतम् अष्टोत्तरशतम्। यज्ञोपवीतं विना भोजने हारीत:-"विना यज्ञोपवीतेन भुङ्क्ते च ब्राह्मणो यदिास्नानं कृत्वा जपं कृत्वा उपवासेन शुद्ध्यति।। मृल्लोष्टभक्षणे भविष्ये-"अङ्गुल्या दन्तकाष्ठं च प्रत्यक्ष लवणं तथा । मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणम् ॥" प्रत्यक्षलवणंचात्र सैंधवातिरि- क्तविषयम्। तथाच वायुपुराणे । “सैन्धवं लवणं चैव तथा सामुद्रकं भवेत्।पवित्रे परमे ह्येते प्रत्यक्षेपि च नित्यशः ॥" ब्रह्मपुराणे "भुक्त्वा तु क्षारलवणं त्रिरात्रं तु वने वसेत् ।" प्रचेताः "मृल्लोष्टखादनेऽहोरात्रमभोजनाच्छादिः। एतत् सकृद्भक्षणे।
विचारकाण्डः। ४१ दिनाभ्याने तु तप्तकृच्छमाह उशनाः -"मृल्लोष्टनाशने तप्तकृच्छम् तप्तकृच्छ्र- करणाशक्तौ सपादधेनुदानम् ।” अस्थ्यादिदूषितान्नभोजनमायश्चित्तं ब्रह्म- पुराणे-"अन्थ्यादिट्टापितान्नं तु भुञ्जानश्च यदा भवेत् । स्नात्वार्कमर्चयित्वातु घृतं नाम्य विशुद्धयति । हारीतः “मत्स्यकण्टकशम्बूकशक्तिकपर्दकान् । पीत्वा नबोदकं बंद पञ्चगव्येन शुयति ॥ शंखलिखितौ-"केशमक्षिकारुधिरप्राशने आममांसकृमिभक्षणे रुधिरच्छर्दने रजस्वतावधूताभिगमने रात्रिरात्रोपवासं घृत- प्राशनं च कुर्यात्" अथ जातकादिसंस्कारभोजनप्रायश्चित्तम् । तथा च व्यासः । “निवृत्ते चूडहोमे च प्राङ्नामकरणात्तथा । चरेत्सान्तपनं भुक्त्वा जातनर्माण चैवहि ॥" आपस्तम्बः-"याजकान्नं नवश्राद्धं संग्रहे चैव भोजनम्। स्त्रीणां प्रथमगर्भे च भुक्त्वा चान्द्रायणं चरेत् ॥ ब्रह्मोदने च सोमे च सीमन्तोन्न- यने तया । जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत् ॥' अथ भोजनकाले गुदलावे प्रायश्चित्तम् । तथा चापस्तम्बा-"भूञ्जानस्य तु विप्रस्य कदाचित सकते गुदम् । आदौ कृत्वा तु शौचं वै ततः पश्चादुपस्पृशेत्॥अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥"वृद्धशातातपः-"निगिरन्यदि मेहेत भुक्ते वा मेहने कृते। अहोरात्रोषितोभूत्वा जुहुयात्सर्पिषाहती।मूत्रोच्चारसमुत्सर्गे मोहाद्भुक्तेऽथवा पिबेत्। त्रिरानं तत्र कुर्वीत इति शातातपोऽब्रवीत्॥' अथ भोजकाले दीपनिवारणपाय- श्चित्तमाह देवल:-" वात्यया दीपनिर्वाणे भोजने नाशमाप्नुयात् ।धृत्वा पात्रं तदा दो| संस्मरन्भानुमव्ययम् ॥ पुर्नदीपागमे तात गायत्र्याने जलं क्षिपेत् । तदन्नमत्यजन्युक्त्वाशुद्धिमामोतिदीपतः। अन्यदन्नं पुनर्भुक्त्वा पञ्चगव्यं पिबेत्तदा।" भोजनकाले सूतकाद्याशाचप्रायश्चित्तमाह स एव । " यदा भोजनकाले तु अशुचिर्भवति द्विजः । भूमौ निक्षिप्य तद्भासं स्नात्वा विप्रो विशुद्धयति ॥ भक्ष- यित्वा तु तं प्रासमहोरात्रेण शुद्ध्यति । आशित्वा सर्वमेवान्नं त्रिरात्रेण विशुद्ध्यति। तैलाभ्यङ्गानन्तरं कृतभोजनस्य प्रायश्चित्तमाह संवतः-" समुत्पन्ने दिजः स्त्राने भुञ्जीतान्नं पिवेत्तथा । गायव्यष्टसहस्रं तु जपेत्स्नात्वा समाहितः ॥माने समुत्पन्ने तैलाभ्यङ्गलौरादिना अष्टोत्तरसहसं जपेदित्यर्थः । नीलीवस्त्रधारिणो भोजने प्रायश्चित्तम् । तथा च शङ्ख:-" नीलीवस्त्रं परिधाय भुक्त्वा स्नानाईक- स्तथा । त्रिरात्रं तु व्रतं कुर्याच्छित्वा गुल्मलतास्तथा ॥ " अथोच्छिष्टभक्षणे प्रायश्चित्तम् । “ समुच्छिष्टं तु यो भुक्ते यो भुक्ते त्यक्तभाजने । एवं वैवस्वतः प्राह भुक्त्वा चान्द्रायणं चरेत् ॥ ॥ शंखलिखितौ-" ब्राह्मणोच्छिष्टमोजने महाव्याहृतिभिरभिमन्व्यापः पिवेत् ।" विवाहादिषु भोजने विशेषमाह यमः- "देवद्रोण्यां विवाहेषु यज्ञेषु प्रततेषु च । काकैः श्वभिश्च संस्पृष्टमन्नं' तन्न विवर्जयेत् ॥ तन्मात्रमन्नमृद्धत्य शेष: संस्कारमर्हतिः॥ " अकृतसंस्कारभा- or LL .. C ". ર प्रायश्चित्तप्रकाशे- जने तु विष्णु:-" पक्षिश्वापदजग्धस्य रसस्यान्नस्य भूयसः । संस्काररहि- तस्यापि 'भोजने कृच्छ्रपादकम् ॥" अथापेयपानप्रायश्चित्तम् । तत्र मनुः अपः सुराभाजनस्था मयभाण्डस्थितास्तथा । पञ्चरात्रं पिबेत्पीत्वा शंखपुष्पी शृतं पयः ॥" शंखपुष्पी औषधिविशेषः । यमस्मृता-" सुराभाण्डस्थिताश्चापो यदि कश्चिद्दिजः पिबेत् । द्वादशाहं तु पयसा पिबेद्ब्रह्म सुवर्चलाम् । गायत्र्य- ष्टसहस्रं वा जपं कुर्वीत मानसम् ॥" अष्टसहस्रमष्टोत्तरसहसमिति भावः । कुक्कु- रोच्छिष्टपाने स एव-"शुनोच्छिष्टाः स्थिताश्चापो यदि कश्चित्पिवेहिजः । शंखपुष्पीविपक्केन व्यहं क्षीरेण वर्तयेत् ।। " लघुविष्णु:-" शुना संस्पृष्टभाण्डे तु रेतोमूत्रादिदूषिते । जलक्षीरादिकं पीत्वा तप्तकृच्छ समाचरेत् ॥ ? चाण्डाल कूपादिजलपाने प्रायश्चित्तमाह । देवल:-"चाण्डालकूपभाण्डेषु यस्त्वज्ञाना- ज्जलं पिवेत् । स तु त्र्यहेण शुद्धयेत शूद्रस्त्वेकेन शुद्धयति ॥” अङ्गिराः- यस्तु चाण्डालसंस्पृष्टं पिबत्किचिटकामतः । स तु सान्तपनं कृच्ळू चरच्छु- यर्थमात्मनः ॥" अज्ञाने त्वापस्तम्बः-"चाण्डालेन तु संस्पृष्टा अपो यः पिवति द्विजः । त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुद्धयति ॥ अन्त्यजैः खानिताः कूपास्तडागानि तथैव च । एषु स्नात्वा च पत्विा च पञ्चगव्येन शुद्धयति ॥" शद्रोदकपाने प्रायश्चित्तमाह शातातप:-" यदि विप्रः प्रमादेन शूद्रतोयं पिवेत्स्वयम् । उपोष्य बिल्वपमानां पलाशस्य कुशस्य च । एतेषामुदकं पीत्वा तेन शुद्धिर्भविष्यति॥"शूद्रतोयं शूद्रभाण्डस्थतोयम् । तथा च जाबाल:- भाण्डेषु पानीयं शूद्रविदक्षत्रजन्मनाम् । पेयं तदपि विप्राणां पयो दधि तथैव च। घृतं तैलं पयःक्षीरं तथैवेचरसो गुडः। शूद्रभाण्डस्थितं तकं तथा मधु न दुष्यति ॥" यम:-" आममांसं घृतं क्षौदें स्नेहाश्च फलसंभवाः । म्लेच्छभाण्डस्थिता दुष्टा निष्क्रान्ताः शुचयः स्मृताः ॥ अथ पीतशेषजलपाने प्रायश्चित्तं भविष्यपुराणे- " प्रासशेष तु नाश्नीयात्पीतशेष पिवेन तु । शाकमूलफलक्ष्वादि दन्तच्छेदैर्न भक्ष- येत् ॥ " शंखस्मृता-"पीतावशेषितं पीत्वा पानीयं ब्राह्मणः क्वचित् । त्रिरात्रं तु व्रतं कुर्यादामहस्तेन वा पुनः ॥ " शातातपः-" उद्धृत्य वामहस्तेन यत्तोयं पिवति द्विजः । सुरापानेन तत्तुल्यं मनुराह प्रजापतिः ॥” लघुहारीत:- "प्रपाजलं शीरघटस्य चैवं द्रोणीजलं कोषविनिर्गतं च । पीत्वावगाहेत जलं संवासा उपोषितः शुद्धिमवाप्नुते च ॥ " अथ विण्सूत्रसंस्पृष्टकूपजलपाने प्राय- श्चित्तमाहाङ्गिराः-" कूपे विण्मूत्रसंस्पृष्टे पीत्वा तोयं द्विजोत्तमः । त्रिरात्रेण विशुद्धयेत्तु कुम्भे सान्तपनं स्मृतम् ॥"विष्णु:-"जलाशयेष्वथाल्पेषु स्थाव- रेषु महीतले । कूपवत्कथिता शुद्धिमहत्सु च न दूषणम् ॥ "अथ शवदूषितकूप- जलपाने प्रायश्चित्तमाह हारीत:-"यस्तु कूपापिवेत्तोयं ब्राह्मणः शवदूषितात् । L LL विचारकाण्डः। उपवासत्रयं कृत्वा पञ्चगव्येन शुद्धयति ॥" विष्णु:-" मृतपश्चनखात्कूपात् अत्यन्तोपहताचोदकं पीत्वा ब्राह्मणस्त्रिरात्रमुपवसेत् । यहं राजन्यः । एकाहं वैश्यः । शूद्रो नतम् । सर्वे चान्ते व्रतस्य पञ्चगव्यं पिवेयुः । एतद्वयं ज्ञाने । अज्ञाने अईन् ।" देवला-" क्लिन्नो भिन्नः शवश्चैव कूपस्थो यदि श्यते । पयः पिवे. त्रिरात्रं तु मानुये द्विगुणं स्मृतम् ॥" कामाभ्यासे आपस्तम्ब:-"क्लिन्ने भिन्ने शवे वैव तत्रस्ये यदि तत्पिबेत् । पराकेण विशुद्धिः स्याद्राह्मणानां च भोजनात् ॥" अथापेयक्षीरपानप्रायश्चित्तम् । तत्र मतुः-"अनिर्दशाया गोः क्षीरं औष्ट्रमैकशर्फ तथा। आविक संधिनीक्षीर विवत्सायाश्च गोः पयः ॥ आरण्यानां च सर्वेषां मृगाणां महिषीं विना । स्त्रीक्षीरं चैत्र वानि सर्वशुक्तानि चैव हि। दधि भक्ष्यं च शुक्तेषु सर्व च दधिसंभवम्।।" इत्युक्त्वा शेपेषूपवसेदहारति मनूक्त उपवासो द्रष्टव्यः । कामतस्तु याज्ञवल्क्योक्तं स्त्रिरात्रोपवासो द्रष्टव्यः इति । मिताक्षरायाम् हेमाद्री मार्कण्डेयगौ- तमा-"मृतवत्सापयः पीत्वा मुखे पीत्वा जलं द्विजः। उपोष्य रजनीमेकां पञ्च- गव्येन शुद्ध्यति ॥" मुखेनोदकपानं हस्तेन विना इत्यर्थः। अथ ताम्रपात्रस्थित गव्यपाने प्रायश्चित्तम् । तथा च देवला-"ताम्रपानस्थितं दुग्धं गोमूत्रं तकमेव वा। दधि वा ताम्रपात्रस्थं नारिकेलोदकं तथा॥ द्विजः पीत्वा सुरापानं कृतवान्नात्र संशयः । अज्ञानाज्ज्ञानतो वापि सुरापानसमं विदुः ॥ हेमाद्री यम:-"ताम्र- पात्रस्थितं गव्यं कांस्ये कूर्चकलोदकम् । लवणाक्तं पयश्चैव मद्यगन्धं तथैव च । पीत्वा दिजश्चरेच्चान्द्रं प्राजापत्यमकामतः॥” इति । "दैववशान्मयगन्धं वायुक्शा प्राप्तं प्रात्वा पश्चात् विप्रस्य दक्षिणहस्तमानाय शुध्यति । तदभावे मार्तण्डं पश्यन् स्वस्य दक्षिणकर्ण स्पृष्ट्वा हरि मनसा स्मरन् शुद्धयति । ततः परं नासिका पिधाय गच्छेत् " इति हेमाद्रौ। स्मृत्यन्तरे-"अनृतं मयगन्धं च दिवामैथुनमेव च । पुनाति वृपलस्यान्नं संध्या वहिरुपासिता ॥' अथ सूर्यसोमग्रहणलोजनप्राय श्चित्तमाह मतुः । “सूर्योपरागे यो भुंक्ते तस्य पापं महत्तरम् । तस्य पापविशु- ड्यर्थ तप्तकृच्छ्रमुदीरितम् ॥ चन्द्रोपरागकाले तु भुक्त्वा कार्य समाचरेत् । उभयो- भोजने विप्रः पुनःसंस्कारमर्हति ॥' अथ भिन्नपात्रभोजने प्रायश्चित्तमाहागालवा "स्वर्ण कांस्यं तथा राजन राजतं भिन्नमेव यत्। तत्र भुक्त्वा चरेकायमन्यथा दोष- माप्नुयात् ॥' अथ संध्याभोजनादिकालेषु चाण्डालध्वनिश्रवणप्रायश्चित्तमाह देवलः । “नाने भोजनवेलायां जपहोमेषु पैतृके। संध्यादिनित्यकाम्येषु देवपूजासु सर्वदा ॥ चाण्डालास्त्रिविधाः प्रोक्तास्तेषां संभाषणादिकम् । कृत्वा कर्म परित्यज्य दृष्ट्वा तत्पुनराचरेत् । अन्यथा दोषमामोति कर्मभ्रष्टोऽभिजायते ॥ चाण्डालस्यैव ४४ प्रायश्चित्तप्रकाशे- तत्कर्म तत्तु दृष्ट्वा परित्यजेत् ॥" ग्रामचाण्डालानां तत्तत्साधनध्वनिश्रवणं कृत्वा भोजनादिकं परित्यजेत् । तत्तत्साधनानि यथा हेमाद्रौ-"रजकस्य वस्त्रसंहननम् । चर्मकारस्य चर्मताडनम् । स्वर्णकारस्य सुवर्णादिताडनम् । तक्षकस्य दारुसौष्ठवार्थ तक्षणम् । तिलघातस्य तिलयन्त्रध्वनिः । कुलालस्य आर्दभाण्डताडनम् । एतेषां तत्तत्साधनभूतानां ध्वनिश्रवणे च तद्दर्शने च त्याज्यं भोजनं पुनः करणीयं वा । तदेव आह तत्रैव मार्कण्डेयः “एतेषां साधनानां च ध्वनि श्रुत्वा स्वकर्मसु॥कर्म तत् संपरित्यज्य श्रोत्रं स्पृष्ट्वा च दक्षिणम् ॥ अक्षिणी पयसा स्पृष्ट्वा दृष्ट्वा सूर्य विशुध्यति । दर्शनं संपरित्यज्य पुनः कर्म समाचरेत् ।अन्यथा भोजयेदिनः कर्म कुर्यात्तथा यदि । अष्टोत्तरशतं जप्त्वा गायत्री वेदमातरम् । एतेन शुद्धिमामोति त- द्विना नात्र कर्मणा।"अथ रजस्वलाकृतान्नभोजनप्रायश्चित्तमाह देवला-रजस्व- लानं यो भुंक्ते द्विजोऽज्ञानात्सकृद्यपि । रौरवं नरकं याति स भवेत्सद्विगर्हितः ॥" मार्कण्डेय:-"अज्ञात्वा पुष्पिणी नारी कृत्वा वै पचनक्रियाम् । पश्चान्छुष्कं रजो दृष्ट्वा तस्माद्देशादपक्रमेत् ॥ तां दृष्टा भाषणं श्रुत्वा भोजनं द्विजनायकाः । कृत्वा शुद्धिमवापुस्ते व्रतं चान्द्रं विधाय च ॥ पञ्चगव्येन शुद्धाः स्युरन्यथा पापिनोऽ- भवन् ॥ "अथ देवपूजावैश्वदेवादिपरित्यागप्रायश्चित्तमाह-हेमाद्रौ जाबालिः "वैश्वदेवं देवताची नित्यहोमं तथाऽतिथिम् । ब्रह्मयज्ञं पितॄणां च तर्पणं पितृव- ल्लभम् ॥ त्यक्त्वा भुक्त्वा तथा विप्रः सुरापीत्युच्यते बुधैः । तप्तकृच्छ् चरेत्पापी तस्मादोषात्प्रमुच्यते ॥ पञ्चगव्येन पूतात्मा नान्यथा शुद्धिरस्ति हि ॥" पराशर- माधवे मतुः-"वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे चप्राय- श्चित्तमभोजनम् ॥ ॥ अथ खरोष्ट्रयानारोहणे याज्ञवल्क्यः-"प्राणायामं जले स्नात्वा खरयानोष्ट्रयानगः । नमः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥” मनुस्मृतौ-"उष्ट्रयानं समारुह्य खरयानं तु कामतः । सवासा जलमाप्लुत्य प्राणायामेन शुध्यति ॥ अथाऽशुचिभोजने प्रायश्चित्त- माह । शातातप:-" सूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः । मोहा- टुक्त्वा त्रिरात्रं स्यादुध्वा सांतपनं चरेत् ॥ मूत्रयित्वा वजन्मार्गे स्मृतिभ्रं- शाजलं पिवेत् । अहोरात्रोषितः स्नात्वा जुहुयात्सर्पिषाहुतीः॥ " बृहस्पतिः-. "अस्नात्वा तु यदा भुंक्ते पिण्डं दत्त्वापि तद्गती । स्पृष्ट्वा शवमुदक्यां वा चण्डालं सूतिकां तथा ॥ अकामतस्त्रिरात्रं स्याहुट्या सान्तपनं चरेत् ॥ " अथाप्सु सूत्रपुरीषादिकरणे मनुः-"विनादिरप्सु वाऽप्यातः शारीरं सन्निवेश्य तुः। सचेलो बहुधाप्लुत्य गामालभ्य विशुद्ध्यति॥" इति । इदमकामकारविषयम् । कामकारे तु यम आह-"आपद्गतो विना तोये शारीरं यो निषेवते । एकाहं क्षपणं कृत्वा विचारकाण्डः। ४५ सचेलं स्नानमाचरेत् ॥ अथ पतितादिसन्निधावध्ययने । वसिष्ठः-“पतित- चाण्डालादिश्रवणे त्रिरात्रं वाग्यतोनभन्नासीनः सहस्रपरमां वाचमभ्यम्य ततः पृतो भवति इति विज्ञायते । एतद्धिपूर्वकविपयकम् । अवृद्धिपूर्वके पविपत्मते- ऽभिहितम् । “चाण्डलश्रोत्रावकाशे कृते श्रुतिरमृतिपाठे एकरात्रमभोजनम् । " पनिनादिसंभाषणे तु गांतमः -"न म्लेच्छाशुन्यधार्मिकैः सह संभाषेत । मंभान्य पुण्यकृतो मनमा ध्यायेत् ब्राह्मणन वा संभाषेत" ब्रह्मसूत्रं विना मूत्र- पुरीपकरण प्रायश्चित्तम् । पराशरमाधवे-"विना यज्ञोपवीतेन याच्छिष्टो भवेहिनः । प्रायश्चित्तमहोरात्रं गायच्यष्टशतं जपेत ।। " इदं कामकारविषयम् । अकामतन्तु-" पिवतो महेतश्चैव भुञ्जतोऽनुपातिनः । प्राणायामत्रयं पटकं नक्तं व त्रितयं क्रमात् ॥ " भोजनानन्तरमाचमनमकृत्ववासनादुत्थानेऽपि तत्रैव । "यत्तिष्ठापनाचान्तो भुक्तवानामनात्ततः । सद्यः नानं प्रकुर्वीत सोऽन्ययाऽप्रयतो भदेन : अपक्तियपंक्ती भोजने । मार्कण्डेय:-"अपांनेयस्य यः कश्चित् पंक्ती भुंने द्विजोत्तनः । अहोरात्रोपितो भृत्वा पञ्चगव्येन शुद्ध्यति ॥" नीलीरक्तव- बधारणे त्वापस्तम्ब आह “नीलीरतं यदा वम्बं ब्राह्मणोऽङ्गेपु धारयेत् । अहो- गोपितो भृत्वा पञ्चगव्येन शुध्यति ॥ रामकृपैदा गच्छेदसो नील्यास्तु कस्य वित । त्रिवर्णेषु च सामान्यं तप्तकृचं विशोधनम् ॥ पालनं विक्रयश्चैव तद्वृत्त्या तृपजीवनम् । पानकं तु भवेदिने त्रिभिः कृच्ळपोहति ॥ नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् । वृथा तस्य महायज्ञो नीलीसूत्रस्य धारणात् ।। नीली- मध्ये नु गच्छेदा प्रमादाद्राह्मणः कचित् । अहोरात्रोपितो भूत्वा पञ्चगव्येन शुध्यति ॥ त्रीणां कीडार्थसंभोगे शयनीये न दुष्यति । नीलीरक्तेन वस्त्रेण यदन्न- मुपनीयते । दातारं नापतिप्टेत भोक्ता भुञ्जीत किल्विपम् ॥ कम्बले पट्टसूत्रे च नीलीरागो न दुप्यति "ब्राह्मणाद्यन्तरागमने । शङ्क:-"ही विप्रो ब्राह्मणामी या दम्पती गोद्विजोत्तमौ । अन्तरणे यदा गच्छेत्कृच्छं मान्तपनं स्मृतम् ॥ होम- काले तथा दोहे स्वाध्यायें दारसंग्रहे । अन्तरेण यदा गच्छेहिजश्चान्द्रायणं चरेत् ॥' अथ सूर्योदयादिकालशयनं प्रायश्चित्तमाह मनु:-" तश्चेदभ्युदि- यात्सूर्यः शयानं कामकारतः । निम्लोचेदाऽप्यविज्ञानानपत्रुपवसेदिनम् ॥" ब्रह्मचारिणो विशेषमाह गौतमः " सूर्याभ्युदितो ब्रह्मचारी तिष्ठेदहरभुञ्जानोऽ- स्तमितश्च रात्रि जपेत् सावित्रीम् " यतिवनस्थयोविशेपमाह वसिष्ठः-"वन- स्थश्च यतिश्चैव सूर्येणाभ्युदितो यदि । ब्रह्मकूर्चाशिनी भूत्वा जपेतां प्रणवं त्वहः ॥" ब्रह्मचारिणः संध्याग्निकार्यलोपे । संवतः-"संध्यामापदि नोपास्ते अग्निकार्य यथाविधिासावित्र्यष्टसहसं तु जपेत्स्नात्वा समाहितः। "अष्टसहसमष्टो त्तरसहसमित्यर्थः । ब्रह्मचारीणो दण्डकमण्डल्वादिविनाशे प्रायश्चित्तमाह प्रायश्चित्तप्रकाशे- ॥ पैठीनसि नष्टे दण्डकाष्ठे भैक्षं गत्वा तदत्त्वा ब्राह्मणाय तदहरुपवसेत् । अन्यत् प्रयच्छेत् गुरुः। कमण्डलावप्येवमेव । नष्टायां मेखलायां त्रिवृतमाचरेत् । "स्वश- कृनिरीक्षिणे यमः " प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् । दृष्ट्वा सूर्य निरीक्षेत गामानं ब्राह्मणं तथा ॥ श्राद्धे निमन्त्रितस्य कालातिक्रमे यम आह " केतनं कारयित्वा तु योऽतिपातयते द्विजः। ब्रह्महत्यामवामोति शूदयोनौ प्रजा- यतेः॥ एतस्मिन्नेनसि प्राप्ते ब्राह्मणो नियतव्रतः । यतिचान्द्रायणं चीत्वा ततश्चा- न्द्रायणं चरेत् ॥ अथ क्षत्रियाद्याभिवादने हारीत आह"क्षत्रियाभिवादनेऽहो- रात्रमुपवासः स्यात् । वैश्यस्यापि । शूदस्याभिवादने त्रिरात्रमुपवासः । तथा शय्याऽऽरूढपादुकोपानदारोपितपादोच्छिष्टान्धकारस्थश्राद्धकृनपदेवतापूजाभिरता भिवादने त्रिरात्रमुपवासः स्यात् । अन्यत्रनिमन्त्रितेनान्यत्रभोजनेऽपि त्रिरात्रमु- पवासः " एवमेव एकहस्ताभिवादने ज्ञेयम् । अथ मिथ्याभिशंसने पाय- श्चित्तमाह याज्ञवल्क्यः " महापापोपपापाभ्यां योऽभिशंसन्मृषा नरम् ॥ अभक्षो मासमासीत स जापी नियतेन्द्रियः ॥ " जपश्च शुद्धवतीनां कार्यः । हारीत:-" अनृताभिशंसनाकोशे गुरूणां पैशुन्ये च एकविंशतिरात्रं तु पिबे- द्वामी सुवर्चलाम् । "शंखलिखितौ“ नारितकवृत्तिः कृतघ्नः कूटव्य-वहारी ब्राह्मणवृत्तिम्रो मिथ्याभिशंसन इत्येते पञ्चसंवत्सरान् ब्राह्मणगृहे भैक्षं चरेयुः संवत्सरं धौतं भैक्षमभीयुः । षण्मासान् गा अनुगच्छेयुः। ॥ एतेषां वचनानां यथायोगं व्यवस्था द्रष्टव्या । अभिशस्तप्रायश्चित्तमाह पैठीनसि:-"अनुते- नाऽभिशस्तः कृच्छं चरेन्मासं पातकेषु महापातकेषु द्विमासम्" । आभिशस्तः परस्त्यां परपुरुष वा मैथुनं प्रति मिथ्यादूषितः । मिथ्याकलङ्कितइत्यर्थः। हेमाद्रो गालव:-" मिथ्यावादिकया बद्ध अभिशस्त इतीरितः। पापमस्ति सदा लोके वार्ता सर्वत्र गण्यते ॥ तदोषपरिहारार्थ प्राजापत्यद्वयं चरेत् । ततः शुद्धो भवत्येव मिथ्यात्वे विप्रपुङ्गवः ॥ " अथ शूद्रादिप्रतिग्रहयाजनप्राय- श्चित्तमाह मनुः “ यद्गहितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्धयन्ति जप्येन तपसैव वा ॥ जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहिताः। मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ हिरण्यं भूमिमश्वं गामन्नं वास- स्तिलान्घृतम् । अविद्वान्प्रतिगृह्णानो भस्मीभवति दारुवत्॥” अथ राजप्रतिग्रह- प्रायश्चित्तमाह हारीत:-"राज्ञः प्रतिग्रहं कृत्वा मासमप्सु सदा वसेत् । षष्ठे काले. पयोभक्षी पूणे मासे प्रमुच्यते। तर्पयित्वा द्विजान्कामैः सततं नियतव्रतः । तपसा चेज्यया. चैव राजपापात्प्रमुच्यते ॥ मनु:-"यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः । स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥” बृह- " - विचारकाण्डः। ४७ स्पतिः-"पतितानां गृहं गत्वा भुक्त्वा च प्रतिगृह्य च । मासोपवासं कुर्वीत बान्द्रायणमथापि वा।" अयाचितस्यापवादः। मनुस्मृती-"शय्यां गृहकुशान् गन्धानपः पुप्पं मणीन दधि । धान्यान्मत्स्यान्पयो मांसं शाकं चैव न निन्देत्।।? अन्त्यजादिप्रतिग्रहे विशेपमाह यमः-"रजकश्चर्मकारश्च नंटो.बुरुड एव च । कैवत्तों मेइभिल्लाश्च सप्तैते त्वन्त्यजाः स्मृताः । एतेषां च स्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य त्र । पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥” मनुस्मृतावपि- "चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥” इति पंतितत्त्वात् द्वादशवार्षिक प्रतीयते अज्ञानात्सकृत्कृते तप्तकृच्छ चान्द्रायणाई वा तत्र धेनुचतुष्टयमिति शूलपाणिः । अथ प्रायश्चित्तद्रव्य ग्रहणप्रायश्चित्तम् । हेमाद्रौप्रायश्चित्तखण्डे-"प्राच्याङ्गभूर्यदा धेनुः साधेनुः पाप दायिनी । प्रतिग्रहीतुःसा सयासर्वश्रेयोविनाशिनी ॥ ब्राह्मणैरभ्यनुज्ञातश्चरेच्चान्द्राय- णत्रयम् । पश्चान्मनसि पूतात्मा पञ्चगव्यं पिवेत्ततः । एवं शुद्धिमवामोति नान्यथा शुद्धिरीरिता॥ तत्रैव लिङ्गपुराणे-"द्विजो यः परितुष्टात्मा प्रायश्चित्ते नृपोत्तम । धेनुं द्वितीयां गृह्णीयादुदीच्याङ्गपयस्विनीम् ॥ चान्द्रायणद्वयं कुर्यात् पूर्ववदाज- सत्तम । ततः शुद्धिमवामोति परत्रांऽमुत्र च महात् ॥” अथातुवादकपापप्राय- श्चित्तमाह गालवा-"सभामध्ये द्विजो यस्तु पापान्यनुवदेन्नृणाम् । स तुल्य- पापी तेनाश महान्तं नरकं व्रजेत् ॥ पश्चान्महानदीं गत्वा स्नात्वा शुद्धजलैर्मदा । गोमयैर्मृत्तिकाभिश्च अष्टोतरशतं चरेत् ॥ पश्चादेहविशुद्धयर्थ चान्द्रायणपरायणः । स्मरन्नारायणं देवमनन्तमपराजितम् ।। व्रतान्ते पञ्चगव्येन शुद्धिं कृत्वा विचक्षणः । दयादिप्राय गामेकां तत्पापपरिशोधिनीम्॥" अथ परिषद्विप्रप्रायश्चित्तमाह देवल:-" पर्पत्स्थितस्य विप्रस्य दोपवाहुल्यमस्ति चेत् । तत्पापस्य विशुद्धयर्थ प्राजापत्यत्रयं चरेत् ॥" जावालि:-"परिषदक्षिणाभागं गृहीत्वा द्विजपुङ्गवः। पाददोपी भवत्याहस्तस्मादेतत्परित्यजेत् ॥ प्राजापत्यत्रयं कृत्वा शुद्धिमामोति निश्चितम् । पञ्चगव्यं पिवेत्पश्चान्नान्यथा शुद्धिरिष्यते ॥" अथ प्रायश्चित्तविधान यकप्रायश्चित्तमाह देवलः-"विधायकश्च पापानां तदई दोषभाग्भवेत् । तप्त- कृच्छ्रद्ध्यं कृत्वा शुद्धिमामोति पूर्वजः ॥ पञ्चगव्यं ततः पश्चापीत्वा शुद्धिमवाप्नु- यात् ॥' अथ तुलादानादिदुष्टप्रतिग्रहप्रायश्चित्तं मनुस्मृता-"यद्गहितेना: जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्धयन्ति जप्येन तपसैव वा ॥" हारीत:-"मणिवासो गवादीनां प्रतिग्रहे सावित्र्यष्टसहसं जपेत् ॥" सूर्यारुण- संवादेपि-" दुष्टप्रतिमहात्पापाद्देवभङ्गात्प्रमादतः !! गायत्र्यष्टसहस्रं तु जावा शुद्धिं लभेदिह ॥" निन्दितदेशगमनप्रायश्चित्तमाह देवल:-"सिन्धुसौराष्ट्रसौ. वीरांस्तथा मत्यन्तवासिनः । अङ्गवङ्गकलिङ्गांश्च गत्वा संस्कारमर्हति ॥ ".
प्रायश्चित्तप्रकाशे- : वायुपुराणे-“कारस्करे कलिङ्गे च औडान्ध्रशवरेषु च । पीत्वा चापो भूमिलये गत्वा चैव युगन्धरम् ॥” इत्यभिधायोक्तम् । तीर्थयात्राव्यतिरेकेण एतान् गत्वा तत्रैव चिरमुषित्वा गङ्गादिगमनं प्रायश्चित्तम् । तदशक्तौ पुनरुपनयनम् । अतिचि- रवासे पुनरुपनयनं कृत्वा सर्वपापक्षयार्थ चान्द्रायणं कर्त्तव्यम् ॥ अथ समुद्रयात्रापायश्चित्तम् । यदि कश्चिद्धाणिज्याथै राजाज्ञाप्रतिपालनार्थच धूमगन्त्री(रेल)नौयानादियोगेन समुद्रयात्रां करोति तत्काले चाऽसौ स्वधर्ममनुतिष्ठति म्लेच्छयवनवौद्धादिवि- धर्मिपतितादिभिः सह गुरुतरसंसर्ग नाचरति तत्स्पृष्टमन्नं जलं च न सेवते अहर- हरुपासनीयं सन्ध्यावन्दनादिकं परित्यजति तथापि तदानी ब्राह्मणक्षत्रियवैश्यैः प्रायश्चित्तान्ते पुनरुपनयनं कार्यम् । तेषामव्यवहार्यता तदानीं नास्ति पतिता भावत्वात् ॥ तथा च मनु:-"विहितस्याननुष्ठानानिन्दितस्य च सेवनात् । अनि- ग्रहाचेन्द्रियाणां नरः पतनमृच्छति ॥” इति । " उषित्वा यत्र कुत्रापि स्वधर्म- प्रतिपालनम् । षट् कर्माणि प्रकुर्वीरन्निति धर्मस्य निश्चयः ॥" तत्रैव प्रसंगेन नौकादिषु स्पर्शदोषाभावमाह पराशरः “ रथ्याकर्दमतोयानि नावः पन्था- . स्तृणानि च । स्पर्शनान्न प्रदुष्यन्ति पक्केष्टकाचितानि च ॥ " एवमेव अङ्गवङ्ग कलिङ्गसिन्धुप्रत्यन्तवौद्धम्लेच्छयवनचीनादिविधर्मिंदेशेष्वपि ज्ञेयम् । यदि च धर्मार्थ समुद्रयात्रायां वा वाणिज्यनानाशिल्पकौशल्यम्लेच्छभाषादिविद्यार्थ रा- जाज्ञया राजकोपेन वा द्वीपान्तरगमनं करोति तत्र महानौकायां गमनकाले म्लेच्छ देशवासे च म्लेच्छादिसंस्पृष्टजलादिसेवनमन्नादिभक्षणं मद्यमांसवसास्नेहास्थिचूर्ण नीलीवस्त्रचर्मासनशय्यादिनानानिषिद्धतरगुरुसंसर्ग करोति सेवते च तदा कृतेऽपि प्रायश्चित्ते दिजानां पातित्यमनिवार्यम्, अव्यवहार्यता च स्पष्टा ज्ञेया । तथा च हरिहरभाष्ये हेमाद्री आदित्यपुराणे च ।“द्विजस्याब्धौ तु नौ यातुः शोधि- तस्याप्यसंग्रहः ॥. देवरेण सुतोत्पत्तिर्वानप्रस्थाश्रमग्रहः । दत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य च । समुद्रयातुःस्वीकार कमण्डलुविधारणमामहाप्रस्थानगमनं गोप- शुश्च सुराग्रहः । आमिहोत्रहवन्याश्च लेहो लोढापरिग्रहः । असवर्णासु कन्यासु विवाहश्च द्विजातिषु । व्रतस्वाध्यायसापेक्षमद्यसंकोचनं तथा ।अस्थिसंचयनादूर्ध्व मङ्गस्पर्शनमेव च । प्रायश्चित्तविधानं च विप्राणां मरणान्तिकम् । संसर्गदोषः पापेषु मधुपर्के पशोर्वधः। दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः । शामित्रं चैव विप्राणां सोमविक्रयण तथा । दीर्घकालं ब्रह्मचर्य नरमेधाश्वमेधको । कलौ युगे विमान्धर्मान् वानाहर्मनीषिणः॥” इति। अथ रहस्यप्रायश्चित्तान्यभिधीयन्ते। यत्पापं कर्तृव्यतिरिक्तेनाऽन्येन केनचिदपि न ज्ञातं तदहस्यम् । तत्र प्रायश्चित्त- विचारकाण्डः। ४९ मंपि रहस्येव कार्यम् । तदुक्तं याज्ञवल्क्येन-"विख्यातदोषः कुति पर्षदोऽनुमतं व्रतम्। अनभिख्यातदाषस्तु रहस्यं व्रतमाचरेत्॥" हारीतोपि-“अथ ब्राह्मणस्य श्रुतधर्मशास्त्रस्य रहस्यमनुक्रमिष्यामः । रहस्यकृते रहस्यमेव कर्त्तव्यम्, प्रकाशकृते प्रकाशमेव कर्तव्यम् ।" इति रहस्यत्वादेव नास्ति परिषदनुमत्यपेक्षा । न च विना परिपदं व्रतज्ञानाभाव इति शङ्कनीयम् । शास्त्रज्ञस्य तद्विज्ञानसंभवात् । इतरेणापि बुद्धिमता विगोष्ठयां केनचित् व्याजेनावगन्तुं शक्यत्वात् । अतःस्वयमनभिज्ञोऽ सौ केनचित् रहो ब्रह्महत्यादिकं कृतं तत्र किं रहस्यप्रायश्चित्तमित्यन्यव्याजेनाव- गम्य रहोव्रतमनुतिष्ठेत् । तत्र यागाद्यनुष्ठानशीलानां जपादिकं वाच्यम् । इत- रेषां तु तपः । तथा व मिताक्षरायाम्-" कर्मनिष्ठास्तपोनिष्ठाः कदाचित् पापमागताः । जपहोमादिकं तेभ्यो विशेपेण प्रदीयते ॥ ये नामधारका विप्रा मूर्खा धनविवर्जिताः । कृच्छ्चान्द्रायणादीनि तेभ्यो दद्याद्विशेषतः ॥" क्षत्रियादीनां तु कृतैनसां धर्मोपदेशे विशेषोऽगिरसा दर्शितः-"न्यायतो ब्राह्मणः क्षिप्रं क्षत्रियादेः कृतैनसः । अन्तरा ब्राह्मणं कृत्वा व्रतं सर्व समादिशेत् ॥ तथा सूद समासाद्य सदा धर्मपुरःसरम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जित्तम्॥” एवमेव स्त्रीणामपि ज्ञेयम् । अथ रहस्यप्रायश्चित्तमाह-याज्ञवल्क्या-" त्रिरात्रो- पोपितोजत्वा ब्रह्महा त्वघमर्षणम्।अन्तर्जले विशुद्धयेत दत्वा गांच पयस्विनीम्॥" बौधायन:-" अथातः पवित्रातिपवित्रस्याघमर्पणस्य कल्पं व्याख्यास्यामः ॥१॥ तीर्थ गत्वा स्नातः शुचिवासा उदकान्ते स्थण्डिलमुद्धृत्य सकृक्लिन्नेन वाससा सक- त्पूर्णेन पाणिनाऽदित्याभिमुखोऽघमर्षण स्वाध्यायमधीयीत॥२॥ प्रातः शतं मध्याह्ने शतमपराहे शतमपरिमितं वा॥३॥उदितेषु नक्षत्रेषु प्रसृतयावकं प्राश्नीयात् ॥ ४ ॥ ज्ञानकृतेभ्योऽज्ञानकृतेभ्यश्चोपपातकेभ्यः सप्तरात्रात्प्रमुच्यते॥५॥ द्वादशरात्राभ्रूणह- ननं गुरुतल्पगमनं सुरापानामिति च वयित्वैकविंशतिरात्रात्तान्यपि तरति तान्यपि जपति ॥६॥" मिताक्षरायां सुमन्तुः-" देवद्विजगुरुहन्ताऽप्सु निममोऽघमर्षणं सूक्तं त्रिरावर्तयेत् । मातरं भगिनीं गत्वा मातृष्वसारं स्नुषां सखी वान्यागमन कृत्वाऽघमर्षणमेवान्तर्जले त्रिरावर्त्य तदेतस्मात्पूतो भवति" इति । एतत्सकृदज्ञान- तविषयम् । वृहद्विष्णुस्मृता-"ब्रह्महत्यां कृत्वा ग्रामात्माचीमुदीची वा दिशमु- पनिष्क्रम्य प्रभूतेन्धनेनानि प्रज्वाल्याघमर्षणेनाष्टसहस्त्रमाज्याहुतीर्जुहुयात् । तत एतस्मात्पूतो भवति।" इति । तन्निर्गुणवधविषयमनुग्राहकाविषयं वा । अथाघमर्ष- णमाहात्म्यमाह हेमाद्री प्रायश्चित्तखण्डे पराशर:-" कृत्यादौ तु तुलादाने प्रायश्चित्तेषु कर्मसु । चाण्डालादिषु संस्पर्श स्वदारेषु दिवागमे ॥ दुरन्ने दुष्प्रतिग्रहे दुष्टसंसर्गसङ्गमोअपेयपाने सर्वत्र ह्यघमर्षणमीरितम् ॥ स्तेये स्वल्पेऽप्यनुप्राप्ते तुला- चार्यादिसंग्रहे । दुर्जनैः सह संभाषे ह्यघमर्षणमीरितम् ॥ सन्ध्यादिनित्यकर्माणि -- ५० प्रायश्चित्तप्रकाशे- परित्यज्य यदा भवेत् । शक्तेियादिषु मन्त्रेषु जपे चैवाघमर्षणम् ।। अकार्यकर्मकर्ता च महापुरुषभोजने । सर्वपापविशुद्धयर्थमघमर्षणमीरितम् ॥ एकोद्दिष्टेषु श्राद्धेषु सपिण्डीकरणादिषु । यो भोक्ता स द्विजः कुर्यादघमर्षणमादरात् ॥ पिता पितामह- चैव तथैव प्रपितामहः । यदाचरति पुत्रश्चेदन्यथाप्यघमर्षणः ॥ सूतकदितये भोक्ता भोक्ता वै चौलकर्मणि । यज्ञकर्मणि भोक्ता चेदघमर्षणमीरितम् ॥ यानि यानीह निन्यानि कम्माणि सुवहूनि च । तानि तान्याचरेविप्रस्तस्य स्यादघमर्षणम् ॥" मनुस्मृतौ-" व्यहं तूपवसेयुक्तस्त्रिरह्योऽभ्युपयन्नपः ! मुच्यते पातकैः सर्वस्त्रिज- पित्वाऽघमर्षणम् ॥ यथाश्वमेधः ऋतुराट् सर्वपापापनोदनः । तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ " प्राणायाममाहात्म्यमपि तत्रैव-" सव्याहतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रूणहणं मासात्पुनन्त्यहरहः कृताः॥" अविस्मृता- "प्राणायामांश्चरेत्रींस्तु यथाकालमतन्द्रितः। अहोरात्रकृतं पापं तत्क्षणादेव नश्यति॥" योगियाज्ञवल्क्यः-"द्विगुणं त्रिगुणं कृत्वा नियतात्मा जितेन्द्रियः । प्राणायाम- श्चतुर्भिस्तु मुच्यतेऽप्युपपातकात् ॥ प्राणायामशतं कार्य सर्वपापापनुत्तये । उप- पातकयुक्तानामनादिष्टस्य चैव हि ॥ ब्रह्महा च सुरापश्चागम्यागामी तथैव च । सुवर्णस्तयचौरस्तु गोनो विश्वासघातकः ॥ शरणागतवाती च कूटसाक्षी ह्यकार्य- कृत् । एवमादिषु चान्येषु पापेष्वभिरताश्चिरम् ॥ प्राणायामशतं कृत्वा सूर्यस्यो- दयनं प्रति । निर्मला स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥" विष्णुधर्मोत्तरें- श्रावण्यां पौर्णमास्यां च सोपवासो जितेन्द्रियः । प्राणायामशतं कृत्वा मुच्य- ते सर्वकिल्विषैः ॥" बृहद्विष्णुस्मृतौ-" 'प्रत्यहं षोडश प्राणायामान् कृत्वा एककालं हविष्याशी मासेन ब्रह्महा पूतो भवति । कर्मणोऽन्ते पयस्विनी दद्यात्।।" कूर्मपुराणे-“सुरां स्पृष्ट्वा द्विजः कुर्यात्माणयामत्रयं शुचिः अनस्थां चैव हिंसायां प्राणायामेन शुद्धयति ॥" योगियाज्ञवल्क्या-"अहा राज्या तु याञ्जन्तून् हिंस- त्यज्ञानतो यदि । तेषां स्नात्वा विशुद्धयर्थं प्राणायामान षडाचरेत् ॥ ॥ बृहद्य- मस्मृती-" चाण्डाली पुल्कसी मित्रकलत्रं स्नुषां वा गत्वा उपस्पृश्य वाम- देव्येन त्रीन् प्राणायामान् कृत्वा तदैव तस्मात्पूतो भवति" इति । वामदेव्यं 'कयान- श्चित्र' इत्यादि कण्डिकात्रयम् । एतत्मायश्चित्तं सकृदज्ञानकृतविषयम् । तत्रैव- "तथा रेतोमूत्रपूरीषप्राशनं कृत्वा लशुनपलाण्डुगृञ्जनककुम्भिक्यादीनामन्येषां चा- भक्ष्याणां भक्षणं कृत्वा हंससूकरकुक्कुटशृगालमांसभक्षणं कृत्वा कक्षमात्रमुदकमवतीर्य शुद्धवतीभिः प्राणायामं कृत्वा पूतो भवति " इति । शुद्धवतीः एतोविन्द्रस्तवामशु- दम्'इत्यादिमन्त्रत्रयम् । वृद्धमतुः-"बाह्मणोऽथ सुवर्णस्तेयं कृत्वा हिरण्यं शालायां प्रक्षिप्य अप्सु निमज्य श्रीवामात्रमुदकमवतीर्य चतसृभिर्हिरण्यवर्णाभिः प्राणायाम कृत्वा आत्मानं प्रक्षाल्य तस्मात्पापात्यूतोभवति"शालायां द्रव्यस्वामिनः शालाया। LL विचारकाण्डः। ५१ मित्यर्थः । अथ सप्रणवव्याहृतिसशिरस्कागायबीजपफलम् । विष्णुधर्मो- त्तरे-"सब्याहृतिः सप्रणवा जप्तव्या शिरसा सह । प्रणवेन तथा व्यस्तावाच्या व्या- हृतयः पृथक् ॥सव्याहृति सप्रणवां गायत्रीं शिरसा सह। ये जपन्ति सदा तेषां न भयं विद्यते काचित् ॥ दशकृत्वः प्रजप्ता सा राज्याना यत्कृतं लघु । तत्पापं प्रणुद- त्याशु नात्र कार्याविचारणाशतं जप्ता तु सा देवी पापोपशमनी स्मृता। सहस्त्र- नप्ता सादेवी उपपातकनाशिनी।लक्षजप्तेन हि तथा महापातकनाशिनी। कोटिजप्तेन राजेन्द्र यदिच्छति तदाप्नुयात् ॥ यक्षविद्याधरत्वं वा गन्धर्वत्वमथापि वा। देवत्व- मथवा राज्यं भूलोंके हतकण्टकम् ॥ दशसाहस्रजप्येन निष्कामः पुरुषोत्तमः । विधिना राजशार्दूल प्रामोति परमं पदम् ॥ यथाकथंचिजप्तेषा देवी परमपावनी । सर्वकामप्रदा प्रोक्ता विधिना किं पुनर्नुप ॥" शंखस्मृतौ-" सव्याहृति सप्रण- वां गायत्रीं शिरसा सह । ये जपन्ति सदा तेषां न भयं विद्यते कचित् ॥ शतं जप्ता तु सा देवी दिनपापप्रणाशिनी । सहस्त्रजप्ता तु तथा पातकेभ्यः प्रमोचिनी । दशसाहस्रनप्येन सर्वकल्मषनाशिनी । लक्षं जप्ता तु सा देवी महापातकनाशिनी।।" वृहद्यम:-"गोहत्यां स्त्रीहत्यां राजन्यवैश्यहत्यां न्यासापहरणं कन्यादूषणं कृत्वा ग्रामात्प्राचीमुदीची वा दिशमुपनिष्क्रम्य प्रभूतेनेन्धनेनानि प्रज्वाल्प गव्येन घृतेन व्याहृतिभिराइतिसहस्रं जुहुयात् । गायत्र्याष्टसहस्रमावर्त्य आदित्य प्रेक्ष्यमाण- स्तिसृभिर्हिरण्यवर्णाभिरात्मानं प्रोक्ष्य वामदेव्यं त्रिरावलं तदेतस्मात्पूतो भवति ।" अथ गायत्रीजपफलम् । अत्रिवृद्धापस्तम्बा-"सावित्र्यास्तु परं नास्ति शोधनं सर्वकर्मणाम् ॥" योगियाज्ञवल्क्यः-"गोनः पितृघ्नो मातृनो भ्रूणहा गुरुतल्पगः । ब्राह्मणः स्वर्ण- हारी च यश्च विप्रः सुरां पिवेत् ॥ गायत्र्याः शतसाहस्त्रात्पूतो भवति मानवः । वायुभक्षो दिवा तिष्ठेदात्रिं नीत्वाऽप्सु सूर्यदृक् ॥ जप्त्वा सहस्रं गायत्र्याः शुद्धो ब्रह्मवघाइते ॥ "मनुस्मृतौ-"सहस्रकृत्वस्त्वभ्यस्य बहिरेतक्रिकं निजः । महतो- ऽप्येनसो मासात्वचेवाहिर्विमुच्यते ॥ एतत्रिक प्रणवव्याहृतिसावित्र्यात्मकमि- त्यर्थः । वृद्धापस्तम्बः-"सर्वेषामेव पापानां संकरे समुपस्थिते । दशसाहस्रम- भ्यस्ता गायत्री पावनं परम् ॥" चतुर्विंशतिमते-" गायत्र्यास्तु जपेत्कोर्टि ब्रह्महत्यां व्यपोहति । लक्षाशीति जपेद्यस्तु सुरापानाद्विमुच्यते ॥ पुनाति हेमहर्तारं गायत्र्या लक्षसप्ततिः । गायत्र्या लक्षषष्ठया तु मुच्यते. गुरुतल्पगः ॥ " पत्रिं- शन्मते-"महाव्याहृतिभिहाँमस्तिलैः कार्यों द्विजन्मना । उपपातकशुद्ध्यर्थ सह- सपरिसंख्यया ॥ महापातकसंयुक्तो लक्षहोमेन शुध्यति ॥' याज्ञवल्क्या-“यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः। तत्र तत्र तिलहोंमो गायत्र्या वाचनं द्विजः॥"
५२ प्रायश्चित्तप्रकाशे। (स वाचनं दानमित्यर्थः । तथा च वसिष्ठः-" वैशाख्यां पौर्णमास्यां च ब्राह्मणान् पञ्च सप्त च । क्षौद्रयुक्तैस्तिलैः कृष्णैर्वाचयेदथवेतरैः ॥ प्रीयतां धर्मराजेति यदा.मनसि वर्तते । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥” इति । वाचयेत्तिलान् दद्यादि- त्यर्थः । कृष्णाजिनदानमपि तत्रैव-"कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुस- पिषीददाति यस्तु विप्राय सबै तरति दुष्कृतम् ॥"व्यासस्मृतौ "तिलधेनुं च यो दद्यात्संयतात्मा द्विजन्मने । ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः॥" एतत्सक- द्विषयकम्। यज्ञावल्क्या-"वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् । न स्पृशन्तीह पापानि महापातकजान्यपि ॥ मनुस्मृतौ "हत्वा लोकानपीमांस्त्रीनभन्नपि यत- स्ततः। ऋग्वेदं धारयन् विप्रो नैनः प्रामोति किञ्चन॥ ऋक्संहितां त्रिरभ्यस्य यजुषा वा समाहितः । साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥ "याज्ञवल्क्यः- "ब्राह्मणः स्वर्णहारी तु रुद्रजापी जले स्थितः । सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः ॥ गौदैया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी ॥” इति । इदमकाम- विषयकम् । शातातपः-"मयं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्माच्छन्नो भस्मशय्यां शयानो रुद्राध्यायी मुच्यते सर्वपापैः ॥” इति । जपश्चैकादशकृत्वः कार्यः । तथा च अविस्मृतौ-"एकादश गुणान् वापि रुद्रानावर्त्य धर्मवित् । महापापैरपि स्पृष्टो मुच्यते नात्र संशयः॥" रुद्रान् लघुरुद्र- महारुद्रातिरुद्रान् पापानुसारेण कृत्वा शुद्धो भवतीत्यर्थः। कूर्मपुराणे-"जपस्त- पस्तीर्थसेवादेवब्राह्मणपूजनम् । ग्रहणादिषु। कालेषु महापातकशोधनम् ॥ पुण्य- क्षेत्राभिगमनं सर्वपापप्रणाशनम् । देवताभ्यर्चनं नृणामशेषापविनाशनम् ॥ अमावास्यां तिथिं प्राप्य या समाराधयेद्भवम् । ब्राह्मर्णान् भोजयित्वा तु सर्व- पापैः प्रमुच्यते ॥ कृष्णाष्टम्यां महादेवं तथा कृष्णाचतुर्दशीम्। संपूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् । दृष्ट्वेशं प्रथम यामे मुच्यते सर्वपातकैः ॥ एकादश्यां निराहारः समभ्यर्च्य जनाईनम् । द्वादश्यां शुक्लपक्षस्य सर्वपापैः प्रमुच्यते ॥ उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः । यमाय धर्मराजाय मृत्यवे चान्तकाय चावैिवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्ब- राय दनाय नीलाय परमेष्ठिने ॥ वृकोदराय चित्राय चित्रगुप्ताय ते नमः । प्रत्येक तिलसंयुक्तान्दद्यात्सप्तोदकाञ्जलीन् । स्नात्वा नयान्तु पूर्वाह मुच्यते सर्वपातकै" तत्रैव-"अस्मिन् कलियुगे घोरे लोकाः पापानुवर्तिनः । भविष्यन्ति महाबाहो वर्णाश्रमविवर्जिताः॥ नान्यत्पश्यामि जन्तूनां मुक्का वाराणसी पुरीम् । सर्वपापप्र- शमनं प्रायश्चित्तं कलौ युगे॥"अथ सर्वविधपातकशुद्धिकारकविष्णुलक्षप्रणाम- विधानम् । प्रणामश्च कायिकवाचिकमानसभेदेन प्रत्येकं त्रिविधः। यथा कालिका पुराणे-“कायिको वाग्भवश्चैव मानसस्त्रिविधः स्मृतः । नमस्कारस्तु तत्त्वज्ञैरुत्त- ॥ ॥ - विचारकाण्डः। ५३ मायममध्यमः ॥ पादौ प्रसार्य हस्तौ च पतित्वा दण्डवत् क्षितौ । जानुभ्यामवनी गत्वा शिरसा स्पृश्य मेदिनीम् ॥ क्रियते यो नमस्कार उत्तमः कायिकस्तु सः। जानुभ्यां भूतलं स्पृष्ट्वा शिरसा स्पृश्य मेदिनीम् ॥ क्रियते यो नमस्कारो मध्यमः कायिकस्तु सः । पुटीकृत्य करौ शीर्षे दीयते यद्यथातथा ॥ अस्पृष्ट्वा जानुशी- पाभ्यां क्षिति सोऽधम उच्यते । यः स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः ॥ क्रियते भक्तियुक्तैर्वा वाचिकस्तूत्तमः स्मृतः। पौराणिकैवैदिकैर्वा मन्त्रैर्या क्रियते नतिः ॥ मध्यमोऽसौ नमस्कारो भवेदाचनिकः सदा । स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्रकौ ॥ इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं पुनः । मानसं मानसं प्रोक्त- मुत्तमाधममध्यमम् ॥ त्रिविधे तु नमस्कारे कायिकश्चोत्तमः स्मृतः । कायिकैस्तु नमस्कारैर्देवास्तुष्यन्ति नित्यशः ॥ अयमेव नमस्कारो दण्डादिप्रतिपत्तिभिः । प्रणाम इति विज्ञेयः स पूर्व प्रतिपादितः॥" अष्टाङ्गमणामः। विष्णुधर्मे-“पयां कराभ्यां जानुभ्यामुरसा शिरसा दृशा। वचसा मनसा चैव प्रणामोऽष्टाङ्ग ईरितः॥ भूमौ निपत्य यः कुर्यात्कृष्णेऽष्टाङ्गनति सुधीः । सहस्रजन्मजं पापं त्यक्त्वा वैकु- ठमाप्नुयात् ॥" पञ्चाङ्गप्रणामः-"वाहुभ्यां चैव जानुभ्यां शिरसा वचसा दृशा। पञ्चाङ्गोऽयं प्रणामः स्यात्पूजासु प्रवराविमौ । जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः । कृत्वा प्रणामं देवस्य सर्वान्कामानवाप्नुयात् ॥" हरिभक्तिसुधोदये- "विष्णोईण्डप्रणामार्थ भक्तेन पतता भुवि । पतितं पातकं कृत्स्नं नोत्तिष्ठति पुनः सह ॥" वाराहपुराणे-"वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत माम् । श्वित्री स जायते मूर्खः सप्तजन्मनि जन्मनि ॥ " अथ लक्षनमस्कारमाहात्म्यमाह भवि- प्योत्तरे अम्बरीष प्रति वसिष्ठः-"ब्रह्महत्यादिपापानां प्रायश्चित्तं यदीच्छसि । तदा लक्षनमस्कारं व्रतं कुरु महीपते ॥ संर्कीर्णकानां पापानां प्रायश्चित्तं यदीच्छसि । तदा लक्षनमस्कारं व्रतं कुरु महीपते। संकलीकरणानां च मलिनीकरणस्य च । अपा- त्रीकरणानां च प्रायश्चित्तं यदीच्छसि ॥ तदा लक्षनमस्कारंव्रतं कुरु महीपते । भ्रातृ- पत्नीसूतानांच गामिनः कामिनस्तथा । स्वसृभ्रातृवधूनां च स्वेच्छया गमनस्य च । दासीवेश्यासंगजस्य संक्षयं यदि वाञ्छसि । तदा लक्षनमस्कार व्रतं कुरु महीपते। परस्वहारकस्यापि देहस्य हरणस्य च । रहस्यभेदकस्यापि रहस्यकृतपापिनः । त्यागस्य पंचयज्ञानां दुःशास्त्राभिरतेस्तथा । गुरुनिन्दाश्रुतेश्चापि गुरुस्वहरणस्य च। लेह्यानां चैव चोष्याणां संक्षयं यदि वाञ्छसि । तदा लक्षनमस्कारं व्रतं कुरु महीपते । कृतस्य जन्म साहरुविन्ध्यसमस्य च । अत्युत्कटस्य पापस्य एत- जन्मकृतस्य च । सर्वपापस्य जातस्य संक्षयं यदि वाञ्छसि । तदा लक्षनमस्कार व्रतं कुरु महीपते । इदं व्रतं महापुण्यं पापारण्यदवानलेः । पापपर्वतकुलिशं पापा- ब्धितरणोडुपम् । सर्वपापहरं नृणां सयो विष्णोः प्रसादनम् । नानेन सदृशं किंचि- ५४ प्रायश्चित्तप्रकाशे विचारकाण्डः। " त्रिषु लोकेषु पठ्यते । सर्वेषामाश्रमाणां च विहितं श्रुतिचोदितम् । नारीणां सध- वानां च विधवानां विशेषतः । सर्वेषामपि पापानां प्रायश्चित्तमिदं भवेत् ॥" अस्योद्यापनाविधानं भत्कृते व्रतोद्यापनप्रकाशे द्रष्टव्यम् । अथ समस्तपातकनिव- त्तिकारकविष्णोः शिवस्य वा लक्षप्रदक्षिणाविधानम् । भविष्योत्तरे-" ब्रह्मनस्य सुरापस्य गुरुदारावमार्शिनः । अपात्रीकरणान्येवं सङ्कलीकरणानि च । प्रकीर्ण- कानि चरतो मलिनीकरणानि च । भ्रातृपत्नीसुतादीनां गामिनः काममोहितः । गरौ विश्वासहीनस्य व्रतभ्रष्टस्य पापिनः । सन्ध्याकर्मविहीनस्य जगढुङ्मार्ग- वर्तिनः । दासीवेश्यासङ्गिनश्च चाण्डालीगामिनस्तथा । परस्वहारिणश्चापि देव- द्रव्यापहारिणः । ब्राह्मणद्वेषिणश्चापि वृत्तिच्छेदकरस्य च । रहस्यभेदकस्यापि रह- स्यकृतपापिनः । ब्रह्मयज्ञविहीनस्य दुःशास्त्रनिरतस्य च । गुरुनिन्दादिश्रोतुश्च गुरु- द्रव्यापहारिणः। ब्रह्महत्यादिपापानां प्रायश्चित्तं यदीच्छति। लक्षपदाक्षणानाम व्रतं कुर्यान्महीपते॥"अथ स्त्रीणां समस्तपातकप्रायश्चित्तरूप लक्षवतिविधानम् । वामनपुराणे-“अथ सर्वाणि पापानि रहस्यानि कृतानि वै । नश्यन्ति ।तानि सर्वाणि व्रतस्यास्य प्रभावतः । चाण्डालगामिनी वापि तथा शूद्राभिगामिनी । कारूकरजकादीनांगामिनी इष्टचारिणी । ब्रह्मक्षत्रियविट्शूद्रप्रतिलोमाभिगामिनी मातुलेयपितृव्यादिभ्रातृपुत्राभिगामिनी। वालघी वा पतिघ्नी वा मातापित्रोर्वधे रता। गोनी वा तस्करा चापि रजःसंकरकारिणी । एवमादिमहापापैरावृतापि कुला- गना। कृत्वा चैतदतं सम्यमुच्यते नात्र संशयः । एवं वर्तिप्रदानेन विष्णो- रामिततेजसः। कोटयो ब्रह्महत्यानामगम्यागमकोटयः। तथैवात्युग्रमापानि कोटयोऽथ सहस्रशः । नश्यन्ति नात्र संदेहो नारीणां वा नरस्य च । सल्लक्षवत्तिभिर्विष्णोः कृते चारार्तिकार्पणे ॥" भविष्येपि-"दीपानां लक्षकं यस्तु कुर्यात्परमधार्मिकः । यावत्कालं प्रज्वलन्ति दीपास्ते लिङ्गसन्निधौ । ब्रह्मणो युगसाहस्रं दाता स्वर्ग महीयते ॥ ” एतद्दीपदानं कार्तिकमाघयोः कार्यम् । तद्विधानंतु मत्कृतो. दुद्यापनप्रकाशे द्रष्टव्यम् ॥ इति श्रीबीकानेरराज्यान्तर्गतश्रीरत्नगढनिवासिना कर्मकाण्डाचार्य-कर्मकाण्डकोविद- कर्मकाण्डभास्कर-श्रौतभूषण इत्युपाधिचतुष्टयविभूषितेन गौडपण्डितश्रीचतुर्थी- लालशर्मणा विरचिते प्रायश्चित्तप्रकाशे विचारकाण्डः प्रथमः समाप्तः ॥
श्री। अथ सर्वपातकोपयोगि- सर्वप्रायश्चित्तप्रयोगः। कर्ता सर्वा प्रायश्चित्तसामग्री सम्पाद्य अपराह्ने चतुरो धर्मशास्त्रज्ञान् विपान पर्पत्त्वेनोपवेश्य सचै वाग्यतः स्नात्वा शक्तश्चेजिनवासा सदस्यान् प्रदक्षिणीकृत्य "समत्तसम्पत्समवाप्तिहेतवः समुत्थितापकुलधूमकेतवः। अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपासवः ॥१॥ आपद्धनध्वान्तसहस्त्रभानवः समीहि- तार्थार्पणकामधेनवः । समस्ततीर्थाम्बुपवित्रमूर्तयो रक्षन्तु मां ब्राह्मणपादपांसवः ॥२॥ विप्रौपदर्शनात् सद्यः क्षीयन्ते पापराशयः । दर्शनान्मङ्गलावाप्तिरर्चनात् सर्वसम्पदः ॥३॥ आधिव्याधिहरं नृणां मृत्युदारिद्यनाशनम् । श्रीयशःकीर्तिदं वन्दे विमश्रीपादपंकजम् ॥ ४॥” इति प्रार्थनापूर्वकं सभ्यान गन्धाक्षतपुष्पैः सम्पूज्य ज्ञानाज्ञानकृतपापप्रायश्चित्ताङ्गत्वेनेदं गोपनिष्कयद्रव्यं सदस्येभ्यो दातु- महमुत्सृजे इति संकल्प्य निष्कादिपरिमितरजतद्रव्यं प्रत्येकं दत्त्वा साष्टाङ्गं भूमौ नमस्कुर्यात् । ततो द्विजास्तं पृच्छेयुः “किन्ते कार्ग वदास्माकं किं वा मृगयसे निज । तत्त्वतो ब्रूहि तत्सर्वं सत्यं हि गतिरात्मनः ॥ १ ।। अस्माकं चैव सर्वेषां सत्यमेव परं वलम् । यदि चंद्रक्षसे सत्यं नियतं प्राप्स्यसे शुभम् ॥ २॥ यद्या- गतोऽस्यसत्येन न त्वं शुद्धयसि काहचित् ।" इति । अतो मिथ्या मावादीः सत्य- मेव वदेति पृष्टः प्रायश्चित्ती ब्रूयात्-अमुकनानो मम जन्मप्रभृति अद्यदिनया- वत् ज्ञाताज्ञातकामाकामसकृदसकृत्कायिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्ट- भुक्तामुक्तपीतापीतसकलपातकातिपातकमहापातकोपपातकलघुपातकसंकरीकरण- मलिनीकरणापात्रीकरणजातिभ्रंशकरप्रकीर्णकपातकानां मध्येसम्भावितपातकानां निरसनार्थमनुग्रहं कृत्वा प्रायश्चित्तमुपदिशन्तु भवन्त इति वदेत् । उपदिशाम इति विजाः । (पुत्रादिः प्रतिनिधिश्वेन्मम पितुर्जन्मप्रभृतीत्यादि वदेत् । एकपापकृते तु किन्ते कार्यामिति प्रश्ने मयामुकवधः कृतोऽमुकभक्षणं वामुकागम्यागमनं कृतमि- त्यादि प्राकृतमेव पापमुच्चार्य तत्मायश्चित्तमुपदिशन्तु भवन्त इति वक्तव्यम्। जन्म- प्रभृति अद्ययावदित्यादिकं न वदेत् ) ततो ब्राह्मणान् प्रार्थयेत् । आब्रह्म स्तम्बपर्यन्तं भवबंश इदं जगत् ॥ यक्षरक्षःपिशाचादि सदेवासुरमानुषम् ॥१॥ सर्वे धर्मविवेत्तारो गोप्तारः सकला द्विजाः । मम देहस्य संशुद्धिं कुर्वन्तु द्विजसत्तमाः ॥२॥ मया कृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् । प्रसादः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥३॥ पूज्यैः कृतः पवित्रोऽहं भवेयं द्विजसत्तमैः ॥ ॥ इति प्रार्थयित्वा मामनुगृह्णन्तु भवन्त इति नमेत् । अनुगृह्णीम' इति द्विजा ब्रूयुः । ततः सभ्यः शत्त्यादि विचार्य प्रायश्चित्ते निश्चित कर्ता ॐ करिष्यमाणप्रायश्चिताङ्गत्वेन निव- धपूजामनुवादकपूजां च करिष्य इति. संकल्प्य,गन्धाक्षतपुष्पादिभिः पुस्तकपूजा- " ५६ प्रायश्चित्तप्रकाशे- मनुवादकपूजां च कृत्वा निबंधपूजात्वेन किंचिगव्यं निधाय अनुवादकाय यथा- शक्ति रजतादिद्रव्यं पापानुसारेण दद्यात् । ततः सभ्याः पुस्तकवाचनपूर्वकमनु- वादकस्याने कथयेयुः । अनुवादकश्च कर्तारं वदेत् । तद्यथा अमुकस्य ते जन्म प्रभृति अद्ययावत् ज्ञानाज्ञानकामाकामसकृदसकृत्कायिकवाचिकमानसिकसांसर्गि- कस्पृष्टास्पृष्टभुक्तामुक्तपीतापीतसकलपातकातिपातकोपपातकसंकरीकरणमलिनी- करणापात्रीकरणजातिभ्रंशकरणप्रकीर्णपातकानां मध्ये सम्भावितपापानां निरा- साथै पर्षदुपदिष्टं पड़न्दप्रायश्चित्तममुकप्रत्याम्नायद्वारा अथवा अशीत्यधिकशत- गोनिष्क्रयभूतयथाशक्तिरजतप्रत्याम्नायद्वारा प्राच्योदीच्यांगसहितं त्वया आचरि- तव्यं तेन तव शुद्धिर्भविष्यति त्वं कृतार्थों भविष्यसीति त्रिरुपदिशेत् । कर्त्ता च ॐ भवदनुग्रह इत्यङ्गीकृत्य प्रणम्य पर्षद विसृजेत् । इत्यपराह्नकर्म । ततो ग्रामा- इहिः सायाह्ने देशकालौ संकीर्त्य-अमुकशर्मणो मम जन्मप्रभृति अद्ययावत् ज्ञानाज्ञान-कामाकाम-सकृदसकृत्कापिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ता- भुक्तपीतापीत-सकलपातकातिपातकोपपातक-संकरीकरण-मलिनीकरणापात्रीकरण- जातिभ्रंशकरणप्रकीर्णपातकानां मध्ये सम्भावितपापानां निरासार्थ श्रीपरमेश्वर- प्रीत्यर्थ पर्षदोपदिष्टं पडब्दप्रायश्चित्तं प्राच्योदीच्यांगसहितं अशीत्यधिकशत- गोनिष्क्रयरजतद्रव्यप्रत्याम्नायेनाहमाचरिष्ये । तदङ्गत्वेन वपनं दन्तधावनं दश- विधस्नानानि च कारण्ये इति संकल्प्य । शिरसि हस्तं निधाय "यानि कानि च पापानि ब्रह्महत्यासमानि च । केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम् ॥" इति पठित्वा वपनं कारयेत् । (वपनं च शिखाकक्षोपस्थवर्न नसकेशरोमणामुदङ- मुखसंस्थं कार्यमिति सर्वत्र ज्ञेयम् । क्षौराभावे षडव्दादिवतं द्विगुणं पर्षदक्षिणापि द्विगुणा । यत्र तु सभर्तृकस्त्रिया जीवरिपतृकादेश्च क्षौरं निषिद्ध तत्र न द्विगुणं व्रतम् । ) ततः क्षौरान्ते गण्डूषान् कृत्वा द्वादशाङ्गुलादि यथोक्तदन्तधावनकाष्ठेन ॐआयुर्वलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञा च मेधां च त्वन्नो देहि वनस्पते ॥ १॥ ॐ अन्नाधाय व्यूहवठसोमो राजायमागमत् । स मे मुखं प्रमाक्ष्यते यशसा च भगेन च ॥२॥ मुखदुर्गन्धनाशाय दन्तानाञ्च विश्वद्धये। ठीवनाय च गात्राणां कुर्वेऽहं दन्तधावनम् ॥ ३ ॥ इति मन्त्रैर्दन्तशादं कृत्वा जिह्वामुल्लिख्य स्नात्वा भस्मादिना दश लानानि कुर्यात् । तत्र वामहस्ते दक्षिण- हस्तेन यज्ञियभस्म गृहीत्वा । जलमिश्रणानन्तरं दक्षिणहस्तेन सम्मभिमन्त्र- येत् । तत्र मन्त्राः । ॐ अमिरिति भस्म । ॐ वायुरिति भस्म । ॐ जलमिति. भस्म । ॐ स्थलमिति भस्म । ॐ व्योमेति भस्म । ॐ सर्वठ ह वा इदं भस्म । ॐ मन एतानि भस्मानीत्यभिमन्व्य । ॐ ईशानः सर्वविद्यानामीश्वरः सर्वभू- तानाम् । ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम ॐ ईशा- सर्वप्रायाश्चत्तप्रयोगः। ५७ नाय नमः इति शिरसि मर्दयेत् । ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॐ तत्पुरुपाय नमः ॥ इति मुखे । ॐ अधोरेभ्योऽथ घोरेभ्यो घोरवोरतरेभ्यः । सर्वेभ्यः सर्वशर्वेभ्यो नमस्तेऽअस्तु रुद्रूपेभ्यः । ॐ अघोराय नमः इति हृदये ॥ ॐ वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुवाय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमः । ॐवामदे- वाय नमो गुह्ये ।। ॐसद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः । भवेभवेना- तिभवे भवस्व मां भवोद्भवाय नमः ॥ ॐ सद्योजाताय नमः पादयोः॥ ॐप्रसय भस्मना योनिमपश्च पृथिवीमने ॥ सर्ड.सृज्य मातृभिष्वज्योतिष्मान पुनरासहः ॥ इति मन्त्रेण प्रणवेन वा सर्वाङ्गेषु भस्म विलिम्पेत् । ततः स्नात्वाचम्य गोमय- लानं कुर्यात् । तद्यथा-शुद्धगोमयमादाय । प्रणवेन दिक्षु दक्षिणभागं तीर्थे चोत्त- रभागं प्रक्षिप्य शेषम् ॐ अनमग्रं चरन्तीनामोषधीनां रसं वने । तासां वृष- भपत्नीनां पवित्रं कायशोधनम् ॥ यन्मे रोगांश्च शोकांश्च पापं मे हर गोमये । ॐ मानस्तोके तनये मान आयुपि मानो गोषु मानोऽअश्वेषु रीरिषः । मानो ब्बीराचन्द्रभामिनो व्वधर्हिविष्मन्तः सदमित्वा हवामहे ॥ इत्यभिमन्त्र्य सूर्याय दर्शयित्वा ॥ ॐ गन्धद्वारा दुराधर्षा नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभू- नानां तामिहोपह्वये श्रियम् ॥ इति मन्त्रेण दक्षिणहस्तगृहीतेन गोमयेन शिरसो नाभ्यन्तं वामहस्तगृहीतेन मन्त्र्यावृत्त्या नाभितः पादपर्यन्तं विलेपनमिति सर्वा- अमालिप्य लात्वा द्विराचामेत् ॥ अथ मृत्तिकानानम् ॥ शुद्धतीर्थमृत्तिका- मादाय। अश्वकान्ते रथकान्ते विष्णुकान्ते वसुन्धरे। मृत्तिके हर मे पापं यन्मया कायसंचितम् ॥ १॥ उद्धृतासि वराहेण कृष्णेन शतवाहुना । मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥२॥ त्वया हतेन पापेन सर्वपापैः प्रमुच्यते ॥ इत्यभि- मन्त्र्य । ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।। समूढमस्य पाळसुरेस्वाहा । इति मन्त्रेण शिरःप्रभृत्यङ्गानि विलिम्पेत् । ततो द्विराचम्य शुद्धोदकस्नानं कुर्यात् । ॐ आपो हि ष्ठा मयो भुवस्तानाऊने दधातन ॥ महेरणाय चक्षसे ॥१॥ यो वः शिवतमो रसस्तस्य भाजयतेहनः॥ उशतीरिव मातरः ॥२॥ तस्माऽअरङ्गमामवो यस्य क्षयाय जिन्वय ॥ आपो जनयथा च नः ॥ ३ ॥ इति स्नात्वा आचम्य पञ्चगव्यस्नानं कुर्यात् । गायत्र्या गोमूत्रम् ॥१॥ गन्धद्वारेति गोमयम् । गन्धद्वारा दुराधा नित्यपुष्टां करीषिणीम् ॥ इश्वरौं सर्वभूतानां तामिहोपह्वये श्रियम्॥ २ ॥ आप्यायस्वेति पयःस्नानम् । ॐ आप्यायस्वसमेतुते विश्वतः सोमवृष्ण्यम् । भवाव्वाजस्य संगथे ॥ ३॥ दधिक्रान्णेति दधिस्नानम् ॥ ॐ दधिकाव्णोऽ अकारिषञ्जिष्णोरश्वस्यव्वाजिनः । सुरभिनोमुखाकरत् प्रणऽआयुषि तारिषत् ॥ तेजोसीत्याज्यस्नानम् ॥ ॐ तेजोसि शुक्रमस्यमृतमसि धामनामासि प्रियं ५८ प्रायश्चित्तप्रकाशे- देवानामनाधृष्टं देवयजनमसि ॥ ५ ॥ देवस्य त्वेति कुशोदकस्नानम् । ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ॥ ६॥ एवं पञ्चगव्यस्नानं कृत्वा शुद्धोदकेन स्नात्वा जले अघमर्षणम् । दुपदांदिवेतिच वारत्रयमावर्तयेत् । ततः स्नानाङ्गतपर्णम्। सव्येन प्राङ्मुखा-भूर्दैवांस्तर्पयामि । ॐ भुवर्देवांस्तर्प- यामि । ॐस्वर्देवांस्तर्पयामि । ॐ भूर्भुवःस्वर्देवांस्तर्पयामि । निवीतिना ॐभूः ऋषींस्तः । ॐभुव;षींस्त० । ॐस्वर्ऋषींस्त० । ॐभूर्भुवः स्वः ऋषींस्तर्पयामि । अपसव्येन-ॐ भूः पितृस्तर्पयामि । ॐ भुवः पितॄः । ॐस्वः पितः । ॐभूर्भुवः स्वः पितृस्तर्पयामि । ततः सख्येन ॐब्रह्मादयो देवास्तृप्यन्ताम् ॥१॥ ॐ गौत- मादय ऋषयस्तृप्यन्ताम् ॥ १॥ इति देवतीर्थेन एकैकमञ्जलि जले क्षिपेत् । तत उदङ्मुखो यज्ञोपवीतं कण्ठीकृत्य ॐसनकादयो मनुष्यास्तृप्यन्ताम् ॥ २॥ इति प्रजापतितीर्थेन अञ्जलिद्वयं दद्यात्। ततोऽपसव्येन दक्षिणामुखः कृष्णतिलो- दकैः ॐ कव्यवाडनलादयो देवपितरस्तृप्यन्ताम् ॥ ३ ॥ ॐअस्मपितृपितामह- प्रपितामहास्तृप्यन्ताम् ॥ ३ ॥ ॐ अस्मन्मातृपितामहीप्रपितामद्यस्तृप्यन्ताम् ॥३॥ ॐ अस्मन्मातामहप्रमातामहवृद्धप्रमातामहास्तृप्यन्ताम् ॥ ३ ॥ ॐ अस्म- न्मातामहीप्रमातामहीवृद्धप्रमातामह्यस्तृप्यन्ताम् ॥ ३ ॥ ॐ आब्रह्मस्तम्बपर्यन्तं जगन्तृप्यताम् ॥ ३ ॥ एवं तर्पणं कृत्वा । ॐ यन्मया दूषितं तोयं मलैः शारीरस- म्भवैः । तस्य पापस्य शुद्ध्यर्थ यक्ष्मैतत्ते तिलोदकम् ।। इति यक्ष्मणे जलं दद्यात् । ततस्तीरमागत्य ॐ अमिदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम। भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥ ३ ॥ इति जलाञ्जलिं तटे निःक्षिपेत् । एवं स्नानाङ्गतर्पणं कृत्वा स्थले स्नानवस्त्रं संपीडय सव्येनाचम्य सूर्यायार्घ दद्यात् ॥ ॐ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । अनुकम्पय मां देव गृहाणाय नमोऽस्तु ते ॥ १॥ ततो जलादहिनिष्क्रम्य अहतं श्वेतं सदशं धौतं वस्त्रं परि- धाय उपवस्त्रं गृहीत्वा दिराचामेत् । ततो यथाचारं भस्मचन्दनादिना तिलक कुर्यात् ॥ अथ प्रायाश्चत्ताङ्गविष्णुपूजाप्रयोगः । देशकालौ संकीर्त्य श्रीविष्णु- प्रीत्यर्थ प्रायश्चित्ताङ्गत्वेन पुरुषसूक्तेन श्रीमहाविष्णुपूजां करिष्ये इति संकल्प्य स्वपुरतः चतुरस्र हस्तमात्रं स्थण्डिलं कृत्वा तदुपरि श्वेतवस्त्रं प्रसार्य तत्र तण्डुलैरेष्ट- दलं कृत्वा तन्मध्ये ताम्रकलशंस्थापयेत् ॥ तद्यथा । ॐ भूरास भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धीम् ॥ पृथिवीं यच्छ पृथिवीं दुर्छ-ह पृथिवीं मा हिठ सीः ॥ इति कलशाधारभूाम स्पष्ट्वा ॥ १ ॥ तत्र ॐ धान्यमसि धिनुहि देवान् प्राणाय खोदानाय त्वा व्यानाय वा दीर्घामनुप्रसितिमायुषेधान्देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनाम्पयासि ॥ इति धान्यं विस्वा ॥२॥ तस्योपरि ॐ आजिनकलशं मह्या त्वा विशन्त्विन्दवः।
सर्वप्रायश्चित्तप्रयोगः। पुनरू निवर्तस्व सा नः ॥ सहस्रं धुत्वोरुधारा पयस्वतीः पुनाविशता. द्रायः ॥ इति ताम्रकलशं स्थापयेत् ॥ ३ ॥ ततः वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनीस्थो वरुणस्यऋतसदन्यसि ज्वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद ॥ इतिकलशे जलमापूर्य ॥ ४ ॥ ॐ त्वां गन्ध- अिखनस्त्वानिन्द्रस्त्वां वृहस्पतिः ॥ त्वामोषधे सोमो राजा विद्वान् यक्ष्माद- मुच्यत॥" इतिगन्धम् ॥ ५॥ ॐ याओषधीः पूर्वा जाता देवेभ्यस्त्रियुगम्पुरा ॥ मनैनुवभ्रूणामहर्छशतं धामानि सप्त च ॥ इति सर्वोषधीः ॥ ६ ॥ ॐ काण्डा- काण्डात् मरोहन्ती परुषः परुषस्परि । एवानोदूर्वप्रतनुसहस्रेणशतेन च ॥ इतिदूर्वान् ॥ ७ ॥ ॐ अश्वत्येवो निषदनं पणेवो व्वसतिष्कृता ॥ गोभान इकि , लासथयत्सनवथ पूरुषम् ॥ इति पञ्चपल्लवान् ॥८॥ ॐ स्योना पृथिवि नो भवानुवरा निवेशनी ॥ यच्छानः शर्म सप्रथाः॥ इति सप्तमृदः ॥९॥ ॐ याः फलिनीर्याऽअफलाऽअपुष्पा याश्च पुष्पिणीः ॥ बृहस्पतिः प्रसूतास्तानो मुञ्जन्त्व- हसः ॥ इति पूगीफलम् ॥ १० ॥ ॐ परिवाजपतिः कविरमिहव्यान्यक्रमीत् । धवलानि दाशुषे ॥ इतिपञ्चरत्नानि ॥ ११ ॥ ॐ हिरण्यगर्भः समवर्तताने भूतस्य जातः पतिरेक आसीत् ॥ सदाधार पृथिवी द्यामते मां कस्मै देवाय हविषा विधेम ॥ इतिहिरण्यम् ॥ १२ ॥ ॐ सुजातो ज्योतिषा सह शर्मव्वरूथमास- दल्यः ॥ ब्वासोऽअमेविश्वरूपठ-संव्ययस्व विभावसो ॥ इति वस्त्रं कण्ठे वेष्ट- येत् ॥ १३ ॥ ॐपूर्णादविपरापत सुपूर्णा पुनरापत । वस्नेव विक्रीणावहांइषमू- र्ज शतक्रतो ॥ इतिपूर्णपात्रं निधाय ॥ १४॥ ॐ मनोजूतिर्जुषतामाज्यस्येति प्रतिष्ठां कृत्वा तत्र ॐ तत्वायामि ब्रह्मगावन्दमानस्तदाशास्ते यजमानोहविभिः । अहेडमानो व्वरणे हवोदयुरुशर्छ-समान आयु:प्रमोषीः ॥ ॐ भूर्भुवः स्वः वरुण इहागच्छ इह तिष्ठ इत्यावाह्य ॐ अपां पतये वरुणाय नमः । इति षोडशोपचारः संपूज्य । कलशस्य मुखे विष्णुः० इत्यायभिमन्व्य ॥ ॐ देवदानवसंवादे इति कलशं प्रार्थयेत् । ततस्तदुपार पट्टवस्त्रं प्रसार्य तत्र गन्धेन अष्टदलं यंत्र विलिख्य तन्मध्ये तुलसीदलोपरि शालग्रामप्रतिमाम् अथवा स्वर्णमयीं विष्णु- मूर्तिम अग्न्युत्तारणपूर्विका स्थापयेत् । तत्र स्वर्गमूर्तिश्चेत्तर्हि मूर्ति पाने निधाय घृतेनाभ्यज्य तदुपरि दुग्धजलधारां दधात् । सूक्तं च पठेत् । तत्र मन्त्राः ॥ ॐ समुद्रस्य त्वा वकयानेपरिव्ययामसि ॥ पावकोऽअस्मभ्यर्छः शिवो भव ॥१॥ हिमस्य त्वा जरायुणाग्ने परिव्ययामास ॥ पावकोऽअस्मभ्यर्छ-शिवो भव ॥ २ ॥ अपामिदंन्ययनठ समुद्रस्य निवेशनम् ॥ अन्याँस्ते अस्मत्तपन्तु हेतयः पावकोऽ- अस्मभ्यर्छ-शिवो भव ॥ ३ ॥ नमस्ते हरसे शोचिषे नमस्तेऽअस्त्वर्चिषे ।। अन्या- स्तेऽअस्मत्तपन्तु हेतयः पावकोऽअस्मभ्यर्छ शिवो भव ॥ ४ ॥ प्राणेदाऽअपानदा .
६० ६ प्रायश्चित्तप्रकाशे- व्यानदाब्वच्चोंदावरिवोदाः ॥ अन्याँस्तेऽअस्मत्तपन्तु हेतयः पावकोऽअस्मभ्यर्ड शिवो भव ॥ ५॥ इत्यम्युत्तारणसूक्तम् ॥ ततः पंचामृतेन संस्नाप्य । ॐ आपो- हिष्ठेत्यादि त्र्यचेन शुद्धजलेन प्रोक्ष्यं । स्थापितकलशोपरि संस्थाप्य ॥ ॐ मनो- जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञठ-समिमं दधातु ॥ विश्वे- देवासाइह मादयन्तामोरेम्प्रतिष्ठ ॥ १॥ इति प्रतिष्ठाप्य पुष्पाणि विकीर्य स्वश- रीरे देवाने च पुरुषसूक्तन्यासं कुर्यात् ॥ “देवो भूत्वा देवं यजेत" इति वाक्यात् ॥ अथाङ्गन्यासः । सहस्रशोत्यादिषोडशर्चमूक्तस्य नारायण ऋषिः । पुरुषो देवता । अनुष्टुप् छन्दः । अन्त्यायास्त्रिष्टुप् छन्दः । न्यासे पूजायां च विनियोगः ॥ ॐ सहस्सशीर्षा० ॥ इति वामकरे ॥ १ ॥ ॐ पुरुषड- एवेर्छ-सर्वम् ॥ इति दक्षिणकरे ॥ २ ॥ ॐ एतावानस्य महिमा० ॥ इति वामपादे ॥ ३ ॥ ॐ त्रिपादूर्ध्व० ॥ इति दक्षिणपादे ॥ ४ ॥ ॐ तताविराद ।। इति वामनानुनि ॥५॥ ॐ तस्माद्यज्ञात्सर्वहुतः ॥ इति दक्षिणजानुनि ॥ ६ ॥ ॐ तस्माद्यज्ञात्सर्वहुतऋचः ॥ इति वामकटौ ॥ ७॥ ॐ तस्मादश्वा० ॥ इति दक्षिणकटौ ॥ ८॥ ॐ तं यज्ञम् ॥ इति नाभौ ॥ ९ ॥ ॐ यत्पुरु० ॥ इति हृदये ॥ १० ॥ ॐ ब्राह्मणोस्य० ॥ इति कण्ठे ॥ ११ ॥ ॐ चन्द्रमा मनसो० ॥ इति वामवाही ॥ १२ ॥ नाभ्याऽआसीत् ॥ इति दक्षिण बाहौ ॥ १३ ॥ ॐ यत्पुरुषेण० ॥ इति मुखे ॥ १४ ॥ ॐ सप्तास्यासन्० इति नेत्रयोः॥ १५॥ ॐ यज्ञेन यज्ञमय० ॥ इति मूर्ध्नि ॥१६॥ अथ पञ्चाङ्गन्यासः । ॐ अद्यः संभृतः ॥ इति हृदये ॥ १ ॥ ॐ व्वेदाहमेतम् ॥ इति शिरसि॥२॥ ॐ प्रजापतिश्च० ॥ इति शिखायै वषट् ॥ ३ ॥ ॐ यो देवेभ्याआतपति० ॥ इति कवचाय हुम् ॥ ४ ॥ ॐ रुचम्ब्राह्मञ्जनयन्तो० ॥ इत्यस्त्राय फट् ॥५॥ एवं न्यासं कृत्वा कलशं शंखघण्टे' च संपूज्य देवं ध्यायन् घण्टानादं कृत्वा पूजा कुर्यात् ॥ तत्र प्रयोगः ॥ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ सभृमिठ सर्वतस्पृत्वात्यतिष्ठदशाङ्गुलम् ॥ ॐ श्रीमहाविष्णवे नमः ॥ आवाहनं समर्प- यामि । इत्यावाहनम् ॥ १॥ ( शलग्रामपूजायामावाहनाभावात्पत्रपुष्पं निवेद- येत् । ) ॐ पुरुषऽएवेदई सर्वं यद्भूतं यच्च भाव्यम् ॥ उतामृत्वस्येशानो यदन्ने- नातिरोहति ॥२॥ ॐ महाविष्णवे नमः आसनं सम० ॥ ॐ एतावानस्य महि- मातो ज्यायांश्च पूरुषः॥ पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतन्दिवि ॥ ३ ॥ ॐ महाविष्णवे नमः पायं सम०॥ ॐ त्रिपादूर्ध्वऽउदैत्पुरुषः पादोस्येहाभवत्पुनः। ततो विष्वङ् व्यकामत्साशनानशने अभि ॥ ४ ॥ ॐ महाविष्णवे नमः अर्घ्य समः ॥ ॐ ततो विराडजायत विराजोऽअधिपूरुषः ॥ स जातोऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः॥ ॐ महाविष्णवे नमः आचमनीयं सः । ॐ तस्माद् यज्ञात् सर्वप्रायश्चित्तमयोगः। ६१ ॥ सर्बहुतः सम्भुतम्पृषदाज्ज्यम् । पशूस्तांश्चक्रे व्वायव्यानारण्या ग्ग्राम्याश्च ये॥५॥ ॐ महाविष्णवे नमः स्नानं स० । ॐ पयः पृथिव्यामित्यादिमन्त्रैः पृथकू पृथकू पंचामृतस्नानं शुद्धोदकानानं च पुरुषसूक्तेनाभिषेकश्च कार्यः ॥ ॐ तस्माद्यज्ञात्स- बहुतऋचः सामानि जज्ञिरे ॥ छन्दासि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥७॥ ॐ महाविष्णवे० वस्त्रंस ॥ वस्त्रान्ते आचमनं स० ॥ ॐ तस्मादश्वाऽअजायन्त येचोभयादतः ॥ गावोह जज्ञिरे तस्मात्तस्माज्जाताऽअजावयः ॥ ८ ॥ ॐ महा- विष्णवे. उपवीतं स० ॥ उपवीतान्ते आचमनं स० । ॐ तं यज्ञम्बर्हिषि प्रौक्षन्पु- रुपञ्जातमन्नतः । तेन देवाऽअयजन्त साध्याऽऋषयश्च ये ॥ ९॥ ॐमहाविष्णवे नमः चन्दनं स०॥ॐयत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ॥ मुखङ्किमस्यासीकि वाह किमुरू पादा उच्यते ॥ १०॥ ॐमहाविष्णवे नमः । पुष्पाणि तुलसीपत्राणि व स० ॥ ॐब्राह्मणोऽस्यमुखमासीद वाहू राजन्यः कृतः॥ ऊरू तदस्य यदैश्यः पड्याशूद्रोऽअजायत ॥ ११ ॥ ॐमहाविष्णवे नमः धूपं स० ॥ ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्योऽअजायत ॥ श्रोत्राद्वायुश्च प्राणश्च मुखादमिरजायत ॥१३॥ ॐ महाविष्णवे नमः दीपं समः ॥ ॐनाभ्याऽआसीदन्तरिक्ष शीष्णोद्यौः समवर्तत ॥ प्रदूभ्याम्भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ अकल्पयन् ॥ १३ ॥ ॐमहाविष्णवे नमः नैवेद्यं स० ॥ नैवेद्यान्ते आचमनं स० ॥ ॐ यत्पुरुषेण हविपा देवा यज्ञमतन्वत ॥ वसन्तोस्यासीदाज्ज्यङ् ग्रीष्माइध्मः शरविः॥१४ ॥ महाविष्णवे नमः मुखवासार्थ ताम्बूलं स० ॥ ॐ हिरण्यगर्भः समवर्तता० ॥१५॥ ऑमहाविष्णवे नमः दाक्षिणां स० ततो नीराजनं कुर्यात् असप्तास्यासन्पारधयस्त्रिः सप्त ममिधः कृताः ॥ देवा यद्यज्ञन्तन्वानाऽअवधन्पुरुषम्पशुम् ॥ १५ ॥ ॐ महाविष्णवे नमः प्रदक्षिणाचतुष्टयं स० ॥ ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ॥ तेह नाकम्महिमानःसचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६ ॥ महाविष्णवे नमः मन्त्रपुष्पाञ्जालैं स० ॥ ततः साष्टाङ्गप्रणामः ॥ ॐ अद्यः सम्भृतः ॥ १॥ ॐ वेदाहमेतम् ॥२॥ ॐ प्रजापतिश्चरति. ॥ ३ ॥ ॐ यो देवेभ्य आतपतिः ॥ ४ ॥ ॐ रुचम्ब्राह्मञ्जनयन्तो० ॥५॥ ॐ श्रीश्च ते लक्ष्मीश्च० ॥ ६॥ ॐ महाविष्णवे नमः स्तुतिपाठं स०॥ ॐ अनेन पोडशोपचारपूजनेन पापहा श्रीमहाविष्णुः प्रीयताम् इति परमेश्वरापणं कुर्यात् । पवं विष्णुपूजां कृत्वा पुरुषसूक्तेन प्रत्यूचं सन्तर्प्य मन्त्रान्ते सर्वत्र भगवान् पापा- पहा महाविष्णुस्तृप्यताम् इति पठेत्॥ इति विष्णुतर्पणम् ॥ अथ विष्णुश्राद्धम् । आचभ्य देशकालौ संकीर्त्य प्रायश्चित्ताङ्गतया विष्णुश्राद्धसम्पत्तये श्रीविष्णूदेशन ध्यधिकयुग्मबाह्मणभोजनपर्याप्तमाम तनिष्कयद्रव्यदानं करिष्ये ॥ इति संकल्प्य । ब्राह्मणं गन्धादिना सम्पूज्य पापापहश्रीविष्णुप्रीतये विष्णुश्राद्धस्य सम्पूर्णता- ६२ प्रायश्चित्तप्रकाशे- ॥ सिद्ध्यर्थे युग्मब्राह्मणभोजनपर्याप्तमामानं तनिष्क्रयद्रव्यं वा अमुकशमणे ब्राह्म- णाय तुभ्यमहं संप्रददे । एवं चतुभ्यो ब्राह्मणेभ्यो दत्त्वा प्रायश्चित्ताङ्गमादौ गोदानं तन्निष्क्रयद्रव्यं वा दद्यात् ॥ तत्र प्रत्यक्षगोदानपक्षे-देशकलौ संकीर्त्य प्रारीप्सित- प्रायश्चित्तस्य पूर्वाङ्गतया विहितं गोदानं करिष्ये । इति संकल्प्य ब्राह्मणं वृत्वा यथाविधि ब्राह्मणपूजनं धेनुपूजनं च कुर्यात् । ततो गोपुच्छे देवर्षिपितृतर्पणं कृत्वा कांस्यपात्रे गोपुच्छं निधाय दुग्धतिलकुशसुवर्णयुतं कृत्वा दक्षिणहस्तेन गृहीत्वा देशकालौ संकीर्त्य मम समस्तपापक्षयार्थ पापापहश्रीमहाविष्णुप्रीत्यर्थ- मिमां गां सवत्सां सोपस्करां यथाशक्तिविभूषितां रुद्रदैवतां तुभ्यमहं संप्रददे इत्युच्चार्य संकल्पजलयुतं गोपुच्छं विप्रहस्ते दद्यात् ॥ ॐ यज्ञसाधनभूता या विश्वस्याघौषनाशिनी । विश्वरूपधरो देवः प्रीयतामनया गवा ॥ १॥ इति प्रार्थयेत् । ततः गोदानसाङ्गतासिद्धयर्थ विप्राय दक्षिणां दत्त्वा अनेन गोदानक- मणा पापापहश्रीमहाविष्णुः प्रीयताम् इति जलमुत्सुनेत् । गोदानासम्भवे यथा- शक्ति तन्मूल्यं देयम् । तद्यथा देशकालौ संकीर्त्य प्रायश्चित्तपूर्वाङ्गतया विहितं यथाशक्ति गोनिष्क्रयीभूतद्रव्यदानं करिष्य इति संकल्प्य । ब्राह्मणं सम्पूज्य देयद्रव्यं. गृहीत्वा देशकालौ संकीर्त्य प्रायश्चित्तपूर्वाङ्गतया विहितमिदं गोनिष्क्रयीभूतं यथा' शक्ति रजतद्रव्यं तुभ्यमहं सम्प्रददे इति दद्यात् । नात्र दक्षिणा ॥ इति प्रायश्चित्तधे- नुदानम् ॥प्रायश्चित्तहोमः॥ तत्रादौ शुद्धमृदा चतुरसं स्थण्डिलं कृत्वा देशकालौ संकीर्त्य अद्य प्रायश्चित्तपूर्वाङ्गतया विहितमाज्येन सह पञ्चगव्यहवनं करिष्ये।तदङ्ग- तया पंचभूसंस्कारपूर्वकमनिस्थापनं च करिष्ये इति संकल्प्य । पञ्चभूसंस्कारान्कुर्यात् तद्यथा-हस्तमात्रपरिमिते चतुरंगुलोच्छूिते तुषकेशशर्करादिरहिते चतुरस्ने वा वर्तुले स्थण्डिले भूमिं कुशैः परिसमुह्य तान्कुशानेशान्यां परित्यज्य गोमयोदकेनोप लिप्य सुवमूलेन प्रागप्रमादेशमात्रमुत्तरोत्तरक्रमेण त्रिरुल्लिख्य उल्लेखनक्रमेणैवाना- मिकांगुष्ठाभ्यां मृदमुद्धृत्य जलेनाभ्युक्ष्य ततः कांस्यपात्रस्थं वाहि द्वितीयकांस्य पात्रेणापिहितमुपसमाधाय आनीतमान स्थण्डिलस्यानेय्यां निधाय ॐ हुं फट् इति मन्त्रेण क्रज्यादांश नै त्यां दिशि किञ्चित्परित्यज्य । ततः ॐ अनिन्दूतम्पुरोदधे हव्यवाहमुपन्दुवे। देवां आसादयादिह॥१॥इति मन्त्रेणात्माभिमुखं स्थापयेत् । ततः आनीतानेयपात्रयोः साक्षतोदकं निषिच्य । अग्निमुखं कृत्वा ध्यायेत्॥ ॐ चत्वारि शृङ्गा त्रयोऽअस्य पादा द्वे शीर्षे सप्त हस्तासोऽअस्य । त्रिधा वद्धो वृषभो रो- रवीति महो देवो मया २ आविवेश॥१॥ अग्ने वैश्वानर शाण्डिल्यगोत्र शाण्डिल्या- सितदेवलेतित्रिप्रवरान्वित भूमिमातः वरुणपितः मेषध्वज प्राङ्मुख मम संमुखो भव इत्यानि प्रतिष्ठाप्य ॐ विट्नाम अमिपुरुषाय नमः । इति मन्त्रेण वायव्य- कोणे बहिः आमिं षोडशोपचारैः सम्पूज्य प्रार्थयेत्। आमें प्रज्वलितं वन्दे जातवेद सर्वप्रायश्चित्तप्रयोगः। ६३ हुताशनम् ॥ हिरण्यवर्णमनलं समृद्ध विश्वतोमुखम.॥ इत्यग्निस्थापनम् । ततोमेर्द- क्षिणतः परिस्तरणभूमि त्यक्त्वा ब्रह्मणे कुशाद्यासनं दावा तदुपरि मागग्रान्कुशाना- स्तीर्य ब्रह्माणमनिप्रदक्षिणक्रमेणानीय अस्मिन्प्रायश्चित्तहोमकर्मणि त्वं मे ब्रह्मा भव इत्यभिधाय पञ्चाशत्कुशनिर्मितं कल्पितासने उपवेशयेत् ॥ ततः प्रणीतापात्र पुरतः कृत्वा वारिणा परिपूर्य कुशत्रयेणाच्छाद्य ब्रह्मणो मुखमवलोक्य अनेरुत्तरतः कुशोपरि निदध्यात् ॥ परिस्तरणम् ॥ बर्हिपश्चतुर्थभागमादाय चतुर्भिश्चतुभिर्द- मस्तरामाच्याम् शप्रागगर्दक्षिणस्याम् । उद्गः प्रतीच्याम् ॥ पुनः प्रागौ- रमितः उदीच्याम् ४ परिस्तरणं कुर्य्यात् ॥ ततोमेरुत्तरतः पश्चिमदिशि पवित्रच्छे- दनार्थ कुशत्रयम् ३ पवित्रकरणाथै पवित्रे साने अनन्तर्गर्भ हे कुशपत्रे २ प्रोक्ष- णीपात्रम् १आज्यस्थाली १ सम्मार्जनकुशाः पञ्च ५ उपयमनकुशाः सप्त ७ समि- धस्तितः पालाश्यः प्रादेशमात्राः स्वः खादिरो हस्तमात्रः १ आज्यं गव्यम् । तत्रैव पलाशपत्रं यज्ञियकाष्ठं हरितानि सप्त कुशपत्राणि गोमूत्रादीनि पृथक् पृथक् पञ्चगव्यानि पूर्णपात्रम् १ दक्षिगावरो वा । एतानि द्रव्याणि पवित्रच्छेदनकुशानां पूर्वपूर्वदिशि क्रमेणासादनीयानि ॥ ततः पवित्रच्छेदनम् ॥ पवित्रकरणम् ॥ द्वयोः पवित्रयोरुपरि कुशत्रयं निधाय अप्रतः प्रादेशमात्रं विहाय त्रिभिः कुशैर्दै कुशतणे प्रच्छिद्य योर्मूलं त्रीणि चोत्तरतःक्षिपेत्।।ततःसपवित्रहस्तेन प्रणीतोदकंत्रि मोक्षणी- पात्रे निक्षिप्य । अनामिकाङ्गुष्ठाभ्यामुत्तराने पवित्रे गृहीत्वा त्रिरुत्पवनम् ॥ प्रोक्ष- णीपात्रस्य सव्यहस्ते करणम्-अनामिकाङ्गुष्ठाभ्यां पवित्रे गृहीत्वा त्रिरुद्दिगन्नम् ॥ ततः प्रणीतोदकेन प्रोक्षणीप्रोक्षणम् ॥ प्रोक्षणीजलेन आज्यस्थाल्यादीनि पूर्णपात्र- पर्यन्तानि क्रमेणैकैकशः प्रोक्ष्य असञ्चरे प्रणीताग्न्योरन्तराले प्रोक्षणीपात्रं निधाय आसादितमाध्यं पश्चादनेनिहितायामाज्यस्थाल्यां प्रक्षिप्याधिश्रित्य । आज्याधिश्र- यणानन्तरं पलाशपत्रपुटे ताम्राया गोमूत्रम् अष्टमार्ष गायत्र्याऽदाय। श्वेताया गोमयं पोडशमापं गन्धद्वारेतिमन्त्रेण निक्षिप्य पीताया गोः क्षीरमष्टमाषम् ॐ आप्या- यस्वति मन्त्रेण ग्राह्यम् । नलिाया गोर्दधि पण्माषकम् अदधिक्राणेति । कृष्णाया गोघृतमष्टमाषकम् अतेजोसीतिमन्त्रण गृह्णीयात् । यथोक्ताया गोरभावे श्वेतायाअपि गोमूत्रादिकं ग्राह्यम् । तत अंदेवस्यत्वा इतिमन्त्रेण कुशोदकं चतुर्मापं च प्रक्षिप्य । यज्ञकाष्ठेनालोड्य प्रणवेनाभिमन्त्रयेत् । ततो ज्वलत्तृणोल्मुकं प्रदक्षिणं साज्यस्य पञ्चगव्यस्योपरि समन्ताभ्रामयेत् । ततो दक्षिणपाणिना सुवमादाय अधोमुख- मग्नौ तापयित्वा सव्ये पाणौ कृत्वा दक्षिणेन सम्माजनागैर्मूलतोनपर्यन्तं मूलैरन- मारभ्य अधस्तान्मूलपर्यन्तं सम्मृज्य प्रणीतोदकेनाभिषिच्य पुनः प्रताप्य दक्षि- णतो निदध्यात् ॥ तत आज्यमुत्थाप्य पूर्वेण नीत्वामेरुत्तरतः स्थापयित्वा त्रि: प्रोक्षणीवदुत्पूय अवेक्ष्य सत्यपद्रव्ये तन्निरसनं पुनः प्रोक्षण्युत्पवनम् । तत उत्थाय प्रायश्चित्तप्रकाशे-- उपयमनकुशान् वामहस्ते कृत्वा प्रजापतिं मनसा ध्यात्वा तूष्णी घृताक्ताः तिस्रः समिधः प्रक्षिपेत् । उपविश्य सपवित्रप्रोक्षण्युदकेन प्रदक्षिणक्रमेणार्मि पर्युक्ष्य प्रणीतापात्रे पवित्र निधाय पातितदक्षिणजातुर्ब्रह्मणाऽन्वारब्धः समिद्धतमेऽनौ सुवेणाज्याहुतीर्जुहुयात् ॥ (तत्राहुत्यनन्तरं सुवावस्थितहुतशेषस्य घृतस्य प्रोक्षणी पाने प्रक्षेपः ) ॥ अथ होमः ॥ ॐ प्रजापतये स्वाहा। इदं प्रजापतये न मम ॥१॥ [ इतिमनसा ] ॐ इन्द्राय स्वाहा । इदमिन्द्राय न मम ॥ २॥ [इत्याघारौ] ॐभूः स्वाहा इदममये । अभूवः स्वाहा इदं वायवे न मम ॥ ॐ स्वः स्वाहा इदं सूर्याय न मम । ॐभूर्भुवः स्वः स्वाहा इदं प्रजापतये न मम ॥ (एवं सप्तवारान् कृत्वा अष्टाविंशत्याहुतयो भवन्ति । एवं सप्तविंशतिवारान् कृत्वा अष्टोत्तरशताहु- तयो भवन्ति )। एवमष्टोत्तरशताहुती?ला पञ्चगव्यहोमं कुर्यात् । तत्र साप्रैः सप्तपत्रकुशैः पञ्चगव्यं गृहीत्वा दशाइतीर्जुहुयात् । ॐइरावती धेनुमती हि भूत सूयवसिनी मनवे दशस्या । व्यस्कन्ना रोदसी विष्णवे ते दार्थ पृथिवीमभितो मयूखैः स्वाहा । इदं पृथिव्यै न० । १। ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पा सुरे स्वाहा । इदं विष्णवे न०।२। ॐ मानस्तोके तनये मान आयुषि मानो गोपु मानोऽअश्वेषु शरिषः । मानोवीरान् रुद्रभामिनो व्वधर्हिविष्मन्तः सदमित्वा हवामहे स्वाहा । इदं रुद्राय न० । ३ । अत्रोदकोप- स्पर्शः। ॐशन्नो देवीरभिष्टय आपो भवन्तु पीतये । शय्योरभिस्रवन्तु नःस्वाहा इदमदभ्यो न०। ४ । ॐब्रह्मजज्ञानम्प्रथा पुरस्ताद्विशीमतः सुरुचो वेन आवः । सबुभ्याउपमाऽअस्यविष्ठाः सतश्च योनिमसतश्च विवः स्वाहा । इदं ब्रह्मणे न मम । ॐअनये स्वाहा। इदममये न मम ।। अंसोमाय स्वाहा इदं सोमाय । ७ । ॐ तत्सवितुर्वरेण्यम्भुर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्स्वाहा । इदं सवित्रे न० 1 ८। ॐ स्वाहा इदं परमेष्ठिनोन मम । ९ । ॐभूर्भुवः स्वः स्वाहा । इदं प्रजापतये न मम । १० । *अमये स्विष्टकृते स्वाहा । इदमनये स्विष्टकृते न० । ११ । ततो ब्रह्मणान्वारब्धः आज्येन-अनये स्विष्टकृते स्वाहा इदमनये स्विष्टकृते न मम । ततो भूराद्या नवाज्याहुतयः । ॐ भूः स्वाहा इदमनये न मम १ ॐ भुवः स्वाहा इदं वायवे न मम २ ॐ स्वः स्वाहा इदं सूर्याय न मम ३ ॐ त्वन्नोऽअने व्वरुणस्य विद्वान् देवस्य हेडोऽअवयासि सीष्ठाः यजिष्ठो व्वहितमः । शोशुचानो विश्वादेषार्ड.सि प्रमुमुग्ध्यस्मत्स्वाहा ४ इदमग्रीवरुणाभ्यां न मम । ॐसत्वन्नोऽअमे व्वमो भवोतीनेदिष्ठोऽअस्याऽउषसो व्युष्टौ । अवयव नो वरुणधरराणोवाहिमुडीकसुहवोनऽ एधि स्वाहा ॥ इदमनीवरुणाभ्यां नमम । ॐ अयाश्चानस्यनाभिशस्तिपाश्च सत्यमित्वमयाऽआस । अयानोयझं व्वहास्ययानोधेहिभषजस्वाहा ६ इदममये न मम । ॐ ये ते शतं वरुण- सर्वप्रायश्चित्तप्रयोगः। ६५ ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिन!अद्य सवितोतविष्णुर्विश्वे मुञ्चन्तु मरुतः स्वाः स्वाहा ७ इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मध्यः स्वभ्यश्च न मम । ॐ उदुत्तमं वरुणपाशमस्मदवाधर्म विमध्यमश्र- थाय। अथावयमादित्यव्रते तवानागसो आदितये स्याम स्वाहा ८ इदं वरुणायादि- त्यायादितये च न मम । ॐ प्रजापतये स्वाहा ९ इदं प्रजापतये. न ममः । इंति नवाहुती त्वा ततः उत्थाय पुष्पफलचन्द्रनयुतघृतपूर्णस्रवेण ॐ मून दिवोऽअरतिम्पृथिव्या वैश्वानरमृतआजातमामिम् कविसंम्राजमाती/ जनानामा- सन्नापात्रं जनयन्त देवाः स्वाहा। इदं मृडामये न मम इति पूर्णाहुति दद्यात्।। ततः संस्त्रवप्राशनमाचमनं च कुर्यात् । ततो देशकालौ संकीर्त्य । अद्य कृतैतत्माय- श्चित्तहोमकर्मणि कृताकृतावेक्षणरूपब्रह्मकर्मप्रतिष्ठार्थमिदं पूर्णपात्रं प्रजापतिदैवतं सदाक्षिणाकममुकगोत्रायामुकशर्मणे ब्राह्मणाय ब्रह्मणे दक्षिणात्वेन. तुभ्यमहं संप्र- ददे इति ब्रह्मणे दक्षिणां दद्यात् । ॐ स्वस्तीति प्रतिवचनम् । ततो ब्रह्मप्रन्थिवि- मोकः । ॐ सुमित्रियान आपओषधयः सन्विति पवित्राभ्यां प्रणीताजलेन शिरः संमृज्य । ॐ दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्मः । इत्यै- शान्यां प्रणीतान्युजीकरणम्। अग्नौ पवित्रप्रतिपत्तिः । ततः स्तरणक्रमेण वहिरु- स्थाप्याज्येनाभिवार्य हस्तेनैव जुहुयात् । ॐ देवा गातु विदोगातुं वित्वा गातु- मित । मनसस्पताऽइमं देवयज्ञ स्वाहा ब्वातेधाः स्वाहा १ इति वाहिहोमः । ॐ व्यायुपं जमदरिति ललाटे। ॐ कश्यपस्य व्यायुयमिति ग्रीवायाम् । ॐ यद्देवेषु व्यायुपमिति दाक्षिणांसे । ॐ तन्नोऽअस्तु न्यायुपमिति हृदि । इत्यनामिकामगृहीत- भस्मना व्यायुपं कुर्यात् । एवं प्रायश्चित्तहोमशेष समाप्य । व्रतग्रहणं करिष्ये इति दिजान् पृष्ट्वा कुरुष्वेत्यनुज्ञातः । ॐयत्वगस्थिगतं पापं देहे तिष्ठति मा- मके । प्राशनं पंचगव्यस्य दहत्यनिरिवेन्धनम् ॥ १॥ इति पठित्वा ॐ प्रणवेन गृहीत्वा ॐ प्रणवेनैव सर्व पञ्चगव्यं पिवेत् । (अशक्तौ गोमूत्राद्यल्पं ग्राह्यं सर्वस्य पेयत्वात् । एतच्च सर्व ग्रामादहिनद्यादेस्तीरे नक्षत्रदर्शने कार्यम् । व्रतं निशा- मुखे ग्राह्य बहिस्तारकदर्शने । इति स्मृतिवाक्यात् ) मुमूर्षास्तु गृहादावेव कार्यम् । अस्मिन् दिन उपवासः। अशक्ती हविष्याशनम् । (अयं च पञ्चगव्यस्य दशा- इतिहोमो ब्रह्मकूर्चाख्यपञ्चगव्यपाने सर्वत्र ज्ञेयः) ततो गृहमागत्य प्रातरारभ्य संकल्पितप्रायश्चित्तं संकल्पितप्रत्याम्नायानुसारेणानुष्ठायोत्तरांगानि कुर्यात् गोनि- एक्रयरजतादिदानपक्षे तु पञ्चगव्यप्राशनान्ते देशकालौ संकीर्त्य । अमुकशर्मणो मे जन्ममभृत्यद्य यावज्ज्ञाताज्ञातकामाकामसकृदसकृत्कायिकवाचिकमानसिकसांस- प्रायश्चित्तप्रकाशे- . गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीत-सकलपातकातिपातकोपपातक-लघुपातकसङ्क- रीकरणमलिनीकरणापात्रीकरणजातिभ्रंशकरणप्रकीर्णपातकानांमध्ये संभावितानां पापानां निरासार्थ गोनिष्क्रयरजतद्रव्यदानप्रत्याम्नायेनाङ्गीकृतस्य षडब्दप्रायश्चि- तस्य संसिद्ध्यर्थमशीत्यधिकशतगोनिष्क्रयभूतं प्रतिकृच्छ्रे निष्कं वा तदर्ध वा तदर्धप्रमाणरजतं चन्द्रदैवतं नानानामगोत्रेभ्यो ब्राह्मणेभ्यो दातुमहमुत्सृजे । इति द्रव्यदानसंकल्पं कृत्वा तदैव द्रव्यं विभज्य ब्राह्मणेभ्यो दत्त्वोत्तराङ्गानि कुर्यात् । तद्यथा देशकालौ संकीर्त्य । आचीर्णस्य प्रायश्चित्तस्य साङ्गतासिद्ध्यर्थ मुत्तराङ्गानि करिष्ये । इति सङ्कल्प्य । पूर्ववत् स्थंडिलेऽग्नि प्रतिष्ठाप्य ब्रह्मोपवे- शनायाज्यमांगपर्यन्तं कृत्वा व्याहृतिभिराज्यहोममुक्तसंख्यया कुर्यात् । नात्र पञ्चगव्यहोमः । ततो भूरादिस्विष्टकृदंतमाहुतिदशकं जुहुयात् । ततःपूर्ववत् होम समाप्य विष्णुभाइसम्पत्तये आमानचतुष्टयनिष्क्रयभूतं द्रव्यं दत्त्वा गोदानं कृत्वा । कृतैतत्मायश्चित्तकर्मणः साङ्गतासिद्ध्यर्थ ब्राह्मणान्भोजयिष्ये इति संकल्प्य । प्रायश्चित्तानुसारेण यथाशक्ति संहसं शतं पश्चाशतं पञ्चविंशति द्वादश वा ब्राह्मणान् भोजयेत् । ततो यस्य स्मृत्येत्युक्त्वा परमेश्वरार्पणं कुर्यात् । इति सर्वप्रायश्चित्तप्रयोगः॥अथ स्वीकृतप्रायश्चित्ते विशेषः॥स्त्रीणां होमः कृताकृतः। करणपक्षे विधवायाः क्षौरान्ते पूर्ववत् कृत्वा अमन्त्रकाणि दश स्नानानि । सधवा- यास्तु सङ्कल्पान्ते दन्तधावनं कृत्वा ताणी दश स्नानानि । वस्त्रपरिधानान्ते विष्णुश्राद्धगोदानानि कृत्वा प्रायश्चित्तहोमार्थमाचार्य त्वां वृणे इति विमं वृत्वा पूर्ववद्विपद्वारा सर्व पूर्वाङ्गं कारयित्वा स्वयं पञ्चगव्यं तूष्णीं प्राश्य मुख्यप्रत्या- नायव्यं विसृज्योत्तराङ्गानि कारयेत् ॥ होमाभावपक्षे दशविधस्नानान्ते विष्णु- श्राद्धगोदाने कृत्वा विप्रेण पञ्चगव्यं कारयित्वा तूष्णीं प्राश्य प्रायश्चित्तद्रव्यं सङ्कल्प्य दत्त्वोत्तराङ्गविष्णुश्राद्धगोदानदशदानानि कुर्यात् ॥ अथ शूद्रस्य संकल्पान्तमवि- कृतं प्राग्वत् ॥ ततः क्षौरान्तेऽमन्त्रकदशस्नानानि वस्त्रतिलकधारणान्ते विष्णुश्रा- द्धगोदाने कृत्वा विप्रद्वारा पंचगव्यं कारयित्वा तूष्णीं पिवेत् ॥ शूद्रेण कापलायाः पञ्चगव्यानि न पेयानि ॥ नास्यविनद्धारापिहोमः । प्रायश्चित्तद्रव्यं संकल्प्य देवो- तराङ्गविणुश्राद्धगोदानानि दशदानानि च कुर्यात् ॥ इति स्त्रीशूद्रप्रयोगः ॥ एवमेव व्रात्यानांज्ञेयम् । अथ शक्तौ सत्यां दश दानानि । तत्रादौ गोदानम् । बाह्मणं सम्पूज्योति सर्वत्र बोध्यम् । देशकालौ स्मृत्वा गोदानलभ्यफलप्राप्तिकाम इदंगोनिष्क्रयभूतं द्रव्यंगोत्राय शर्मणे सुपूजिताय तुभ्यमहं सम्पददे । यज्ञसाधन- भूता या विश्वस्याधौधनाशिनी । विश्वरूपधरो देवः प्रीयतामनया गवा ॥गवामङ्गेषु सर्वप्रायश्चित्मयोगः। ६७ तिष्ठन्ति भुवनानि चतुर्दश । यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ॥ इति प्रार्थयेत् । अथ भूमिदानम् । सर्वपापक्षयकाम इदं निवर्तनपरिमित(३००हस्त) भूमिनिष्क्रयभृतं द्रव्यं तुभ्यमहं सम्प्रहे । भूमिदानपक्षे इमां निवर्त्तमितां भूमि बहुसत्यमद्रां विष्णुदेवतां तुभ्यम० इति संकल्पः । प्रार्थना-सर्वेषामाश्रया भूमिर्व- राहेण समुद्धृता । अनन्तपुण्यफलदा अतः शान्ति प्रयच्छ मे ॥१॥ यस्यां रोहन्ति वीजानि काले चैत्र महीतले । त्वत्प्रसादाच्च सफला मम सन्तु मनोरथाः ॥ २ ॥ इति । भूमिदानपक्षे कृतैतद्भूदानकर्मणः साङ्गतासिद्ध्यर्थं हिरण्यं तुभ्यमहं सम्भ- दः इति विशेषः । अथ तिलदानम् । इमां द्रोणत्रय ( ४८ सेर) परिमितान् तिलान् प्रजापतिदैवतान् सर्वपापक्षयकामस्तुभ्यमहं सम्प्रददे । हिरण्यं दक्षिणा । प्रा० महगोत्रसम्भूताः कश्यपस्य तिलाः स्मृताः। तस्मादेषां प्रदानेन मम पापं एपोहतु इति ।अथ हिरण्यदानम्।इदं हिरण्यं निष्क (४०मासा) परिमितमग्नि- दवंत गोत्रा० रजतं हिरण्यं वा दक्षिणा । हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्ति प्रयच्छ मे ॥अथ आज्यदानम् । प्रस्थ (१ सेर) पारमितमाज्यं विष्णुदैवतं सोमदैवतं वा तुभ्यमहं सम्प्रददे । हिरण्यं दक्षिणा। कामधेनोः समुद्भूतं सर्वक्रतुषु संस्थितम् । देवानामाज्यहारश्चात शान्ति प्रयच्छ मे॥ अथ वस्त्रदानम् । अयेत्यादि पठित्वा इमे वाससी अष्टहस्तमिते वार्हस्पत्ये सूक्ष्मे सर्वपापक्षयकामः तुभ्यमहं' सम्प्रददे । हिरण्यं दक्षिणा । शीतवातोष्णसन्त्राणं लनाया रक्षणं परम् । देहालंकरणं वस्त्रमतः शान्ति प्रयच्छ मे ॥ अथ धान्य- दानम् ॥ अद्येत्यादि अमुकगोत्राय अमुकशर्मणे इदं खारी (६ मन १६ सेर) परिमितं धान्यं प्रजापतिदैवतं विश्वेदेवदैवतं वा तुभ्यमहं संप्रददे । “सर्वदेवमयं धान्यं सर्वोत्पत्तिकरं महत् । प्राणिनां जीवनं यस्मादतः शान्ति प्रयच्छ मे । हि- रण्यं दक्षिणा ॥ अथ गुडदानम् ॥ इमं षष्टिपल ( ३॥ सेर ) परिमितं गुडं रसवय सोमदैवतं तुभ्यमहं संप्रददे । हिरण्यं दक्षिणा । यतो रसानां प्रवरः सदैवे- चरसो मतः दानेनानेन मे तस्य परा लक्ष्मीः स्थिरा गृहे ॥ अथ रजतदानम् ॥ देशकालौ संकीर्त्य इदं. निष्कत्रयपरिमितं रजतं चन्द्रदैवतं तुभ्यमहं संप्रददे । ) हिरण्यं दक्षिणा । प्रीतिर्यतः पितॄणां च विष्णुशंकरयोः सदा शिवनेत्रोद्भवं रूप्यमतः शान्ति प्रयच्छ मे ॥ अथ लवणदानम् ॥ अद्येत्यादि इदं सार्थखारी (९मन २६ सेर ) परिमितं लवणं सर्वरसोत्कृष्टं सोमदैवतं तुभ्यमहं संप्रददे । हिरण्यं दाक्षिणा । यस्मादन्यरसाः सर्वे नोत्कृष्टा लवणं विना । शम्भोः प्रीतिकरं यस्मादतः शान्ति. प्रयच्छ मे।।एवं दशदानानि दत्त्वा मन्त्रहीन क्रियाहीनं भक्तिहीनं सुरेश्वर। यन्मया , ६८ प्रायश्चित्तप्रकाशे- दूषितं देव परिपूर्ण तदस्तु मे ॥ इति विष्णुं संपार्थ्य परमेश्वरापर्ण कुर्यात् ॥ अथ गोवधायेकैकपापे प्रायश्चित्तप्रयोगः॥ पूर्ववत् पर्षदं प्रदक्षिणीकृत्य साष्टाङ्गं. प्रणमेत् । विप्रैः किं ते कार्यमित्यादिपृष्टे गोवृषनिष्क्रय संकल्प्य ब्राह्मणाने निधाय मयाऽमुकगोवधः कृतः । अथवा पलाण्डुगुञ्जनमांसादिभक्षणं कृतम् । यदाऽमुक- स्त्रीगमनं कृतं तत्प्रायश्चित्तमुपदिशन्तु भवन्तः । इति यथापापमुच्चार्य स्पष्टं वदेत्। ततः सर्वे धर्मविवेत्तारः।' इत्यादि प्रार्थनापूर्वकं का निबन्धपूजाऽनुवादक- पूजने कृते सभ्याऽनुवादकमुखेन प्रायश्चित्तं कथयेयुः । त्वयाऽमुकगोवधः कृतस्त- प्रायश्चित्तं त्रैमासिकवत सप्तदशप्राजापत्यप्रत्याम्नायद्वारा वा सप्तदशगोदानतन्मू- ल्यदानेन वा पूर्वोत्तराङ्गसहितं त्वयाऽचरितव्यं तेन तव शुद्धिर्भविष्यतीत्यादि पूर्ववत् । अथवा त्वया मत्याऽभ्यासेन पलाण्डुगृञ्जनं कुक्कुटमांसं वा भक्षितं तत्मा- यश्चित्तं यतिचान्द्रायणं पुनःसंस्कारसहितं प्राच्योदीच्याङ्गसहितमाचरणीयं तेन तव शुद्धिर्भविष्यतीत्यादि । एवमगम्यागमनादावूह्यम् । ततः कर्ता देशकालौ संकीर्त्य पर्षदुपदिष्टं गोवधप्रायश्चित्तं त्रैमासिकव्रतममुकप्रत्याम्नायेन प्राच्योदी- च्याङ्गसहितमाचरिष्ये । इति संकल्य । ततो वपनदंतधावनदशविधस्नानपूर्वाङ्ग- विष्णुपूजनविष्णुश्राद्धगोदानाज्यहोमपञ्चगव्यप्राशनान्ते यथासंकल्पितं मुख्यप्राय- श्चित्तं कृत्वोत्तराङ्गानि कुर्यात् । इदं सर्वत्र सामान्यम् । एवमभक्ष्यभक्षणेऽपि पलाण्डु- गृञ्जनकुक्कुटमांसादिभक्षणजनितपातकनिरासार्थ पर्षदुपदिष्टं पुनःसंस्कारसहित यतिचान्द्रायणममुकप्रत्याम्नायेन प्राच्योदी याङ्गसहितमाचरिष्ये । इति संकल्प्य क्षौरादिपञ्चगव्यप्राशनादि पूर्ववत् कृत्वा चान्द्रायणं तत्प्रत्याम्नायं वा पुनरुपनयनं च कृत्वोदीच्याङ्गानि कुर्यात् । एवमेवागम्यागमनादौ द्रष्टव्यम् । रहस्यप्रायश्चित्ते तु न पर्षद्रुपस्थानं सभ्यानुवादकपूजनादिकम् । किंतु तत्प्रायश्चित्तं स्वयमेव ज्ञात्वा अथवा व्याजान्तरेण किंचित् दृष्ट्वा रहस्योक्तं प्रायश्चित्तं स्वयमेव रहसि संकल्प्य । महच्चेत् क्षौरसहितमन्यथा क्षौररहितं कार्यम् । इति श्रीरतगढनिवासिना कर्मकाण्डाचार्य-कर्मकाण्डकोविद-कर्मकाण्डभास्कर-- श्रौतभूषण-इत्युपाधिचतुष्टयविभूषितेन पण्डितगौडश्रीचतुर्थीलालशर्मणा विरचिते प्रायश्चित्तप्रकाशे सामान्यतः सर्वप्रायश्चित्तप्रयोगः समाप्तः ॥
प्रयोगकाण्डः । ६९ . अथ चान्द्रायणन्तप्रयोगः। चतुर्दश्यां कृतनित्यक्रिया भस्मगोमयमृत्तिकापंचगव्यगन्धाक्षतपुष्पाण्यपामार्ग- दूर्वाद दीनि गृहीत्वा प्रामाइहिर्जलस्थाने गत्वा तत्राचम्य, प्राणानायम्य देश- कालौ संकीर्त्य अमुकपापक्षयकामः अमुकशहि चान्द्रायणव्रतं करिष्ये इति संकल्प्य । अग्रे व्रतपते व्रतं चारप्यामि तच्छकेयं तन्मेराध्यताम् इदमहमनृतात्स- त्यमुपैमि ॥ १॥ इति मन्त्रेण व्रतमादित्याय निवेद्य कृताञ्जलिनवा केशश्मश्रु- लोमनखानि श्मश्रुणि वा वापयित्वा । यदि तु प्रायश्चित्तार्थव्रतोदेशो नो चेत्तदा वपनं विहायादित्याय व्रतं निवेद्य स्वगृह्योक्तविधिना स्नात्वा तदिने उपोष्य पर- दिने अमा चेत्तत्राप्युपोप्य पौर्णिमा चेत्पञ्चदश प्रासान भुञ्जीत ॥ इति व्रतग्रह- णम् । अथ नित्यप्रयोगः । तत्र प्रतिदिनमुदिते चन्द्रे दुग्धगन्धाक्षतपुष्पाणि दर्भाणि गोमयमश्वत्थपालाशान्यतमसमिधापकं घृतं प्रासाहिविषमिन्धनमाचम- नादिपात्राणि प्रादेशमानस्थण्डिलस्योत्तरतः संस्थाप्य आचम्य प्राणानायम्य सुमुखश्चैक० इत्यादि पठित्वा देशकालौ संकीर्त्य ममाऽमुकपापापनोदनार्थ यव- मध्यपिपीलिकामध्यान्यतमचान्द्रायणव्रताख्यं कर्माहं करिष्ये इति संकल्प्य उदितं चन्द्रमसं मानसोपचारैः संपूज्य दुग्धेन त्रिवारं तर्पणं कुर्यात् । तत्र मन्त्राः- ॐ आप्यायस्व समेतु ते विश्वतः सोमवृष्ण्यम् भवाब्वाजस्य संगथे ॐ सोमं तर्पयामि । ॐ सन्तेपयास समुयन्तु व्वाजाः संवृष्ण्यान्यमिमातिपाहः । ॐ चन्द्रं तर्पयामि । ॐ नवो नवो भवति जायमानोहांकेतुरुषसामेत्यनम् । भागं देवेभ्यो विदधात्यायन्प्रचन्द्रमास्तिरतदीर्घमायुः । चन्द्रमसं तर्पयामि ॥ ३ ॥ इति तर्पयित्वा । एतत्कर्माङ्गभूतं स्थण्डिले पञ्चभूसंस्कारपूर्वक लौकिकाग्निस्थापन करिष्ये इति संकल्प्य दभैः परिसमुह्य ३ गोमयोदकेनोपलिप्य ३ यज्ञकाष्ठेनो- ल्लिख्य ३ अनामिकाङ्गुष्ठेनोदृत्य ३ उदकेनाभ्युदय ३ अनिमुपसमाधाय इत्यानि संस्थाप्य पूजयेन्नान्यत्पात्रासादनम् ॐ चत्वारि शृङ्गा त्रयोअस्य पादा दे शीर्षे सप्त हस्तासोऽअस्य । त्रिधा बद्धो वृषभो रोरवीति महोदेवो मया आविवेश ॥ १ ॥ मुखं यः सर्वदेवानां हन्यभुक् कव्यभुक् तथा । देवानां व नमस्तस्मै विष्णवे पावकात्मने ॥ २ ॥ इति मन्त्रेणामि संमुखीकृत्य ॐ अमये गन्धं नम इत्यादि पञ्चोपचारैः संपूज्य तर्पणोक्तमन्त्रैरेवाज्यहोम कुर्यात् । मन्त्राः ॐ आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् भवाब्वाजस्य संगथे स्वाहा । इदमनये न मम ॥१॥ ॐ सन्ते पयासि समयन्तु व्वाजाः संवृष्ण्यान्यमिमातिषाहः स्वाहा इदमग्नये न मम । ॐ नवो नवो भवति जाय- मानोह्रीं केतुरुषसामेत्यग्रम् ।भाग देवेभ्यो विदधात्यायन्सचन्द्रमास्तिरते दीर्घमायुः स्वाहा इदममये न ममं ३ इति आहुतित्रयं हत्वा । आयसादिवजितपात्रस्थं हवि- H . ७० प्रायश्चित्तप्रकाशे- रभिमन्त्रयेत् । तत्र मन्त्राः पूर्वोक्तास्त्रयः ॐआप्यायस्व० १। ॐसन्ते पया०२। ॐ नवो नवो ३ इत्यभिमन्त्र्य अथोदतिष्ठन् चन्दाभिमुखः सन् कृताञ्जलिरुपस्थायातत्र मन्त्राः पूर्वोक्ता एव ॐ आप्यायस्व १ ॐ सन्ते पया०२ ॐ नवो नवो० ३ एतै- रुपस्थाय । अथ प्रदीप्तेऽसौ आज्यहोंमें कुर्यात् । तत्र मन्त्राः-ॐ यदेवा देवहेडनं देवासश्चकृमा व्वयम्। अनिर्मातस्मादेनसो विश्वान्नमुश्चन्त्वठ-हसः स्वाहा इदग्नये न मम । ॐ यदिदिवा यदि नक्तमेनासि चकमा ब्वयम् । व्वायुर्मा तस्मादेनसो विश्वान मुश्चन्त्वठ-हसः स्वाहा । इदमनये न सम २। ॐ यदि जायद्यदि स्वप्न एनास चकमा व्वयम् । सूर्यो मा तस्मादेनसो विश्वान्मुञ्चन्त्वठ-हसः स्वाहा इदमनये न मम । ॐ यदामे यदरण्ये यत्सभायां यदिन्द्रिये यच्छूटे यदर्येषदेन- श्वकृमा व्वयं यदेकस्याधिधर्मणि तस्यावयजनमसि स्वाहा इदमग्नये न मम ४ अत्र इदममये न ममेति सर्वत्र त्यागः (वैश्वदेववत्केवलं त्यागशब्दोच्चारणमेव प्रोक्षण्यां, तस्याः स्थापनाभावात् )॥ अथ समिद्धोमः॥ ॐ देवकृतस्यैनसोऽन्व- यजनमसि स्वाहा ॥ १॥ ॐ मनुष्यकृतस्यैनसोऽध्वयजनमास स्वाहा ॥२॥ ॐ पितृकृतस्यैनसोऽव्वयजनमसि स्वाहा ॥ ३ ॥ ॐ आत्मकृतस्यैनसोऽव्ययजन- मसि स्वाहा ॥ ४ ॥ ॐ एनस एनसोऽव्वयजनमास स्वाहा ॥ ५॥ ॐ यच्चाह- मेतो विद्वांश्चकार यच्चाविद्वांस्तस्य सर्वस्यैनसोऽब्वयजनमसि स्वाहा ॥ ६ ॥ इति समिधो हुत्वा ॥ अथ प्रासाभिमन्त्रणम् ॥ ॐ भूरित्यनेन पात्रस्थप्रथमग्रासम- भिमन्त्र्य मनसा नमः स्वाहेत्युक्त्वा अमुल्यनासं गृहीत्वा सावित्र्याभित्र्य ॐ प्राणाय स्वाहा ॐ अपानाय स्वाहा ॐ व्यानाय स्वाहा ॐ उदानाय स्वाहा ॐ समानाय स्वाहेति पञ्चमन्त्रान्ते प्रासं भक्षयेत् । आचम्य । एवं द्वितीय दिने प्रासद्धयपक्षे ॐ प्राणाय स्वाहा ॐ अपानाय स्वाहा ॐव्यानाय स्वाहा इति मन्त्रैः प्रथमम् । ॐ उदानाय स्वाहा ॐ समानाय स्वाहा इति द्वितीयम् ॥ तृतीयदिने पासत्रयपक्षे ॐ प्राणाय स्वाहा ॐ अपानाय स्वाहा इतिप्रथमम्। ॐ ध्यानाय स्वाहा ॐउदानाय स्वाहा । इति द्वितीयम् । ॐ समानाय स्वाहा इति तृतीयम्॥ चतुर्थ- दिने ग्रासचतुष्टयपक्षे ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । इति प्रथमम् । ॐव्यानाय स्वाहा ॥ द्वितीयम् । ॐ उदानाय स्वाहा । तृतीयम् । ॐ समानाय स्वाहा । चतुर्थम्।। पञ्चमदिने यथाक्रमम् । षष्ठदिने पञ्चभिरेकं पञ्चभिः पञ्च एवम- ग्रेऽपि पूर्ववत् । एवं द्वितीयादिदिनेषु । ॐ भूः १ ॐ भुवः २ ॐ स्वः३ ॐ महः ४ ॐजनः ५ ॐ तपसे ६ ॐसत्याय ७ ॐ यशसे ८ ॐ श्रीऊके ९ ॐ इंटे १० ॐ ओजसे ११ ॐ तेजसे १२ ॐ पुरुषाय १३ ॐ धर्माय १४ ॐ शिवाय १५ इत्येतैः पञ्चदशभिरेकैककमेण तिथिवृद्ध्या पात्रस्थप्रासमनुमन्य मनसा 'नमः स्वाहा' इत्युक्त्वा सर्वाननुमन्त्र्य एकैकं प्रासमङ्गुल्यौहीत्वा सावित्र्याऽनुमन्त्र्यं प्रयोगकाण्डः। ७१ एकनासे प्राणादिपञ्चमन्त्रान्ते असेत्। योसियोरायस्त्रिभिर्मन्त्रैरैकं द्वाभ्यामपरम् । त्रिषु ग्रासेषु दाभ्यां दाभ्यां दौ एकेनान्त्यः । चतुर्यु ग्रासेषु द्वाभ्यां पूर्वमेकेना- न्यान् । पञ्चग्रासेषु पृथक् पञ्चभ्यः । पञ्चभ्योऽधिका प्रासास्तूष्णीमेव भक्षणीयाः इति । आचमनानन्तरं प्रार्थयेत् । यस्य स्मृत्या च नामोक्त्या जपयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां यातु सद्यो वन्दे तमच्युतम् ॥ १ ॥ अनेन यवमध्यचान्द्रायणम् वा० पिपीलिकामध्यचान्द्रायणव्रतान्तर्गतप्रथमदिनकृत्येन भगवान् परमेश्वरः प्रीयतां न मम । समाप्तौ व्यवरान् विप्रान् भोजयित्वा गां दक्षिणां दद्यात् । आसमाप्ति प्रत्यहं त्रिषवणं स्नानम् । सौरमन्त्रैः कृताञ्जलिरादित्योपस्थानम् । गायच्या व्याहृतिभिः कूष्माण्डैर्वाऽऽज्यहोमः । दिवा स्थितिः रात्रावुपवेशनम् । अशक्तौ भूशयनम् । यथाशक्ति आपोहिष्ठेति सूक्तम् । एतोन्विन्द्रम् ऋतंचेति त्र्यचम् । शन्न इन्द्रामी । स्वस्ति नो मिमीताम् । पुनन्तु मा देवजनाः । ऋषभं विरजं जपेत् । सामनी च पठेत् । एतेषामसम्भवे गायत्रीं व्याहतीः प्रणवं वाजपेत् । विष्णुसहस्त्रनामगीतादीनि वा पठेत् । देवलस्मृती-"इदं चान्द्रायणं कृत्वा यव- मध्यं सुपावनम् । ब्रह्महत्यादिभिः पापैर्मुक्तो भवति तत्क्षणात् ॥ विष्णुप्रियकर चैतत्सर्वदुःखप्रणाशनम् । नारीणां विधवानां च यतीनां ब्रह्मचारिणाम् ॥ गृहस्थानां विशेषेण महापातकनाशनम् ॥” इति चान्द्रायणवतप्रयोगः ॥ अथ प्राजापत्य- व्रतविधिमाह । हेमाद्री जाबालिः-"ब्रह्महत्यादिपापानामितरेषां मुनीश्वराः । तुलादिदानगन्तॄणां पापांनां साधनं नृणाम् ॥ प्रजापतिरिदं साक्षात् सृष्टवान् देव- सन्निधौ । सर्वलोकोपकाराय सर्वपापापनुत्तये ॥ दिनत्रयं दिवा भुक्तिस्तथा रात्री दिनत्रयम् । अयाचितं स्यात्रिदिनं निराहारो दिनत्रयम् ॥ प्राजापत्यकृच्छ्रमिदं सर्वपापप्रणाशनम् । गोदानं पञ्चगव्यान्ते शुद्धिमामोत्यनुत्तमाम् ॥"अर्थतदाचर- णाशक्तानां प्रत्यासायाः। लिङ्गपुराणे-"प्राजापत्ये तु गौरेका द्वादशबाह्मणा- नम् । समुद्रगनदीस्नानं संहितामात्रमुच्यते ॥ प्राणायामाश्च द्विशतमयुतं जप उच्यते । तिलहोमः सहस्रं स्यात्प्रत्याम्नायास्तु सप्तथा ॥” इति । द्वादशब्राह्म- णार्चनम् दांदशसंख्याकविप्रभोजनम्। संहितामात्रम्-संहिताया एकवारं पठनम् । अयुतम्-अयुतसंख्यापरिमितं गायत्रीजपम् । तिलहोमसहस्रम्-गायच्या सहसं तिलाइतीर्जुहुयात् ॥ अथ पतितादीनां पुनरुपनयनविधानम् ॥ तत्र तावत् प्रायश्चित्तविधिलिख्यते । तत्रादौ पापानुसारेण चान्द्रायणादिवतम्, तदशक्ती धेनुदानम्, अयुतादिगायत्रीजपम्, पादचारेण तीर्थयात्रादिद्वारा प्रायश्चित्तं संस्का येण पर्षदुपदिष्टं कारयेत् । तत आचार्यों देशकालौ स्मृत्वा अमुकनानोऽस्य अमुक- पापपरिहारार्थ पुनरुपनयनसंस्कारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं स्वस्योपनेत- वाधिकारसिद्धयर्थं च कृच्छ्नयात्मकमायश्चित्तं तत्प्रत्याम्नायगोनिष्क्रयाभूतयथा- तु .७२ प्रायश्चित्तप्रकाशे- शक्तिरजतद्रव्यदानपूर्वक द्वादशसहस्रगायत्रीजपमहं स्वयं ब्राह्मणद्वारा वा कार यिष्ये । इति संकल्प्य तदैव जपं कुर्यात् । एवमेव संस्कार्योऽपि देशकालौ संकीर्त्य ममामुककामचाराऽसुककासवादामुकाऽभक्ष्याभक्षणागम्यागमनामुक-म्लेच्छादिदेश- गमनसमुद्रयात्राकरणादिदोषपरिहारार्थ मम पुनरुपनयनाधिकारसिद्धिद्वारा श्रीप- रमेश्वरप्रीत्यर्थ कृच्छ्त्रयात्मक-प्रायश्चित्तप्रत्याम्नाय-गोनिष्क्रयाभूत-रजतदानपूर्वक त्रिगुणं द्वादशसहसं गायत्रीजपं ब्राह्मणद्वाराऽहमाचरिष्ये इति संकल्प्य । षट्त्रिंशत् सहस्रगायत्रीजपं कारयित्वा प्रायश्चित्तहोमं कुर्यात् । तद्यथा-हस्तमात्रं चतुत्रं स्थण्डिलं कृत्वा कुशैः परिसमुह्य तानशान्यां निक्षिप्य गोमयेनोपलिप्य सुवमूलेन प्रागनं प्रादेशमात्रं त्रिरुल्लिख्य अनामिकाङ्गुष्ठाभ्यां मृदमुकृत्य जलेनाभ्युक्ष्य कास्य- पात्रेणानि प्रतिष्ठापयेत् । ततो ब्रह्मोपवेशनादि अग्निपर्युक्षणान्तं कुशकण्डिका कृत्वा ब्रह्मणान्वारब्धः सुवेणाज्यहोमं कुर्यात् ॐ प्रजापतये स्वाहा इदं प्रजा- पतये न मम ॥ १॥ ॐ इन्द्राय स्वाहा इदमिन्द्राय न मम ॥ २॥ (इत्याघारौ) *अनये स्वाहा इदमनये न मम ॥ ३ ॥ ॐ सोमाय स्वाहा इदं सोमाय न मम ॥४॥ (इत्याज्यभागी) ततोऽनन्वारब्धकर्तृकहोमः । आज्यप्लुतपलाशसमिध- मादाय ॐ पुनस्त्वादित्या रुद्राव्वसवः समिन्धताम्पुनर्ब्रह्माणो व्वसुनीथयज्ञैः। घृतेनत्वन्तन्वंवर्धयस्वसत्याः सन्तु यजमानस्य कामाः स्वाहा ॥१॥ ॐपुनर्मनः पुनरायुर्मऽआगन् पुनः प्राणः पुनरात्मा मऽआगमन् पुनश्चक्षुः पुनः श्रोत्रम्मऽआ गन् । वैश्वानरोऽअदब्धस्तनूपाऽअग्निन्नः पातु दुरितादवद्ध्यात्स्वाहा ॥२॥ ततश्चरु- होमः॥ ॐ सप्त तेऽअनेसमिधः सप्त जिह्वाः सप्त ऋषयः सप्तधामप्रियाणि । सप्त होत्राः सप्तधात्वा यजन्ति सप्तयोनीरापृणस्वाघृतेन स्वाहा ।१ । ॐ यत्ते पवित्रमञ्चि- ध्यनेविततमन्तरा । ब्रह्मतेन पुनातु मा स्वाहा ॥२॥ ॐपवमानः सोऽअधनः पवित्रेण विचर्षाणिः । यः पोतास पुनातु मा स्वाहा॥३॥ ॐ उभाभ्यान्देव सवितः पवित्रेण सवेन च। माम्पुनीहि विश्वतः स्वाहा ॥४॥ इति । ततोऽन्वारब्धः स्थाली- पाकेन ॐ अमये स्विष्टकृते स्वाहा इदमनये स्विष्टकृते ॥ १ ॥ तत आज्येन। ॐ भूः स्वाहा इदमम ॥१॥ ॐ भुवः स्वाहा इदं वायवे ॥२॥ ॐ स्वः स्वाहा इदं सूर्याय ॥ ३ ॥ ॐ त्वन्नोऽअने व्वरुणस्य विद्वान् देवस्य हेडोऽअवयासि सीष्ठाः । यजिष्ठो वहितमः शोशुचानो विश्वाट्टेषासि प्रमुमुग्ध्यस्मत्स्वाहा ॥ ४॥ इदमग्रीवरुणाभ्यां न मम। ॐ सत्वन्नोऽअने वमो भवोतीनेदिष्ठोऽअस्याऽउषसो व्युष्टौ । अवयवनो वरुणठ रराणो वाहिमुडीकठ-सुहवो न एधि स्वाहा ॥५॥ इद मनीवरुणाभ्यां न ममः। ॐ अयाश्चामेऽस्यनभिशस्तिपाश्च सत्यमित्वमया असि। अयानो यज्ञं वहास्ययानो धेहि भेषजस्वाहा ॥ ६ ॥ इदममये अयसे न मम । ॐ येते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभितॊऽअध प्रयोगकाण्डः। ७३ सवितात विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वः स्वाहा॥खाइदं वरुणाय सवित्रे विष्णवें विश्वेभ्यो देवेभ्यो मरुभ्यः स्वर्केभ्यश्च न मम । ॐ उदुत्तमं वरुणपाशमस्मदवाधर्म विमथ्यमश्रयाय । अथाव्वयमादित्यव्रते तवानागसोऽअदितये स्याम स्वाहा ॥८॥ इदं वरुणायादित्यायादितये य न मम । ॐ प्रजापतये स्वाहा ॥९॥ इदम्प्रजा पतये न मम । इति नवाहुती त्वा । ततः पुष्पफलचन्दनघृतपूर्णवेण ॐ मूर्धान- न्दिवोऽअरतिम्पृथिव्या वैश्वानरमृतऽआजातमामिम् । कविठ संम्राजमतिथिं जनाना मासन्नापात्रं जनयन्त देवाः स्वाहा इदममये । इति पूर्णाहुति दद्यात् । ततः ॐ व्यायुषं जमदमोरिति ललाटे । कश्यपस्य व्यायुपमिति ग्रीवायाम् । यद्देवेषु व्यायु- पमिति दक्षिणांसे । तन्नोऽअस्तुव्यायुपमिति हृदि । इत्यनामिकामगृहीतभस्मना व्यायुपं कुर्यात् । ततः संसवप्राशनमाचमनं च कृत्वा ब्रह्मणे पूर्णपात्रदानं ब्रह्मा- न्थिविमोकं च कुर्यात् । ततः प्रणीतोदकेन ॐ सुमित्रिया न आपओषधयः सन्तु इति मूर्धानमभिपिय ॐ दुर्मिंत्रियास्तस्मै सन्तु योस्मान्देष्टि यं च वयं द्विष्मः । इतीशान्यां प्रणीतां न्युजीकृत्वा वर्हिरुत्थाप्य ॐ देवागातु० इति मन्त्रेण हस्तेनैव जुहुयात् । एवं होमशेष समाप्य आचार्याय सवत्सां गांदद्यात् । अदाने प्रत्यवायी भवति तस्मादेन दद्यात् ॥ इति प्रायश्चित्तविधानम् ॥ अथ पुनरुपनयनप्रयोगः। कृतमङ्गलस्नानो धृतकुंकुमादितिलकः कर्ता शुभासने प्राइमुख उपविश्य स्वद- क्षिणतः संस्कार्य चोपवेश्य आचम्य प्राणानायभ्य देशकाली स्मृत्वा अस्य संस्का- र्यस्य अमुकदोपपरिहारपूर्वकं पुनःसंस्कारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमुपनयनसं- स्कारं करिष्ये । इति संकल्प्य तदङ्गतया गणपतिपूजनं पुण्याहवाचनादिनान्दीश्रा- शान्तं कृत्वा अधिकारार्थ ब्राह्मणत्रयं संस्कार्य च भोजयित्वा शिखावज वपन कार- यित्वा तं नापयित्वा मेखलाजिनदण्डभैत्यचर्याव्रतादिभिर्विना प्रयोगानुसारेण उप- नयनं कुर्यात् । ब्रह्मचर्याभावात् । तथा च मनुपराशरों-"अजिनं मेखला दण्डो भैत्यचर्या व्रतानि च । निवर्तन्ते द्विजातीनां पुनः संस्कारकर्माण ॥ " ततो बहिः शालायां हस्तमात्रपरिमितं चतुरसं स्थाण्डिलं कृत्वा कुशत्रयेण परिसमुह्य तान कुशानशान्यां निःक्षिप्य गोमयोदकेनोपलिप्य सुवमूलेन प्रागप्रमादेशमात्रमुत्तरो- तरक्रमेणं त्रिरुल्लिख्योल्लेखनक्रमेण अनामिकाङ्गुष्ठाभ्यां मृदमुद्धृत्यैशान्यां क्षित्वा तं देशं जलेनाभिषिच्य नवीनकांस्यपात्रेणाभिमानीय स्वाभिमुखं समुद्भवनामा- नममि प्रतिष्ठापयेत् । तत आचार्यः संस्कार्य पश्चादनेः स्वस्य दक्षिणतोऽवस्थाप्य ब्रह्मचर्यमागामिति नूहीति संस्कार्य प्रति वदति । ब्रह्मचर्यमागामिति संस्कार्यः प्रतिबूयात् । ब्रह्मचार्यसानीति बृहीत्यांचार्येणोक्ते ब्रह्मचार्यसानीति संस्कार्यों श्रूयात् । तत आचार्यः ॐ येनेन्दा बृहस्पतिर्वासः पर्यधादमृतं तेन त्वा १० .. ७४ प्रायश्चित्तप्रकाशे- परिदधाम्यायुषे दीर्घायुत्वाय बलाय वर्चस ॥१॥ इति मन्त्रेण यथोक्तम धोवासः परिधापयति । तत आचमनं कृत्वा यज्ञोपवीतधारणाधिकारार्थ यज्ञोपवीतसहितं सदक्षिणं भाण्डाष्टकं ब्राह्मणेभ्यो दत्त्वा यज्ञोपवीतं परिद- ध्यात् । तत्रादौ आचार्यों यज्ञोपवीतमभिमन्त्रयेत् । तद्यथा आपोहिष्ठेति तिस- भिम्भिरुपवीतं प्रक्षाल्य ॐ ब्रह्मजज्ञानम् ॥१॥ ॐ इदं विष्णुर्विचक्रमे ॥ २॥ • “ॐ नमस्ते रुद्र० ॥ ३ ॥ इति तिसभिऋम्भिरुपवीते अङ्गुष्ठे भ्रामयेत् । पुनस्तथैव नवतन्तुषु देवताः विन्यसेत् । तद्यथा प्रथमतन्तौ औङ्करं न्यसामि ॥ १॥ द्वितीये. ॐ अमिं न्यसामि ॥ २॥ तृतीये० ॐ नागान् न्यसामि ॥ ३॥ चतुर्थे० ॐ सोमम्॥ ४ ॥ पञ्चमे० ॐ इन्द्रम् ॥ ५॥ षष्ठे० ॐ प्रजापतिम् ॥ ६॥ सप्तमे ॐ वायुम् ॥ ७॥ अष्टमे० ॐ सूर्यम् ॥ ८ ॥ नवमे० ॐ विश्वान देवान् न्यसामि ॥ ९ ॥ इति नवतन्तुदेवताः न्यस्य गन्धादिभिः संपूज्य ॐ ऊपयांम गृहीतोऽसि सावित्रोऽसि च नो धाश्च नो धाऽअसि च नो मायि धेहि ॥ जिन्व यज्ञ जिन्व यज्ञपति भगाय देवाय त्वा सवित्रे ॥ १ ॥ इति मन्त्रेण सूर्यायं प्रदर्शयेत् ॥ तत उपवीतं करसम्पुटे निधाय दशवारं गायत्र्याभिमन्त्रयेत् ॥ॐ तत्सवितु०॥१०॥ ततो यज्ञोपवीतधारणम् । ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यरसहज पुरस्तात् । आयुष्यमयं प्रतिमुश्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ १ ॥ इति मन्त्रं पठि- तवतः संस्कार्यस्य दक्षिणबाहुमुद्धृत्य वामस्कन्धे यज्ञोपवीतं निवेशयति ॥ ततः आचमनम्।तत आचार्यः स्वकीयमञ्जलिं जलेन पूरयित्वा तेन जलेनाञ्जलिस्थेन संस्कार्यस्याञ्जलिं पूरयति । ॐ आपो हि ष्ठा मयो भुवस्तानऽऊर्जे दधातन ।। महेरणाय चक्षसे ॥ १ ॥ ॐ यो वाशिवतमो रसस्तस्य भाजयतेह नः ॥ उशती- रिव मातरः ॥ २॥ ॐ तस्माऽअरङ्ग मामवो यस्य क्षयाय जिन्वथ ॥ आपो जन- यथा च नः ॥ ३ ॥ इति तिसृभिक्रग्भिः सूर्यायायं दद्यात् ॥ ततो गुरुः संस्कार्य प्रेषयति सूर्यमुदीक्षस्वति । माणवकश्च प्रेषितः । ॐ तच्चक्षुर्दैवहितम्पुरस्ताच्छुक- मुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतठ शृणुयाम शरदः शतं प्रबवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥ १॥ इति मन्त्रेण सूर्यमुदीक्षते ॥ तत आचार्यों माणवकस्य दक्षिणांसस्योपरि स्वदक्षिणं हस्तं नीत्वा हृदयमालभते । ॐ मम व्रतं ते हृदये दधामि मम चित्तमनुचित्तं ते अस्तु । मम वाचमेकमना जुषस्व बृहस्पतिष्ट्वा नियुनत्तु मह्यम् । इति मन्त्रेण । तत आचार्यों माणवकस्य दक्षिणं हस्तं सांगुष्ठं गृहीत्वा को नामासीत्याह । एवं पृष्टः संस्कार्यः अमुकशाहं भोः । एवं त्रिः प्रतिप्रत्याह । पुनराचार्यः पृच्छति । कस्य ब्रह्म चार्यसीति । भवत इति माणवकेनोच्यमाने ॐ इन्द्रस्य ब्रह्मचार्यस्यग्निराचार्यस्त- वाहमाचार्यस्तवामुकशमत्याचार्यः पठेत् ॥अथैनं संस्कार्य भूतेभ्यः परिददात्याचार्यः तत्र मन्त्रः। ॐ प्रजापतये त्वा परिददामि । देवाय त्वा सवित्रे परिददामि।
---- प्रयोगकाण्डः। ७५६ . अयस्त्वौषधीभ्यः परिददामि । द्यावापृथिवीभ्यां त्वा परि ददामि । विश्वे- भ्यस्त्वा देवेभ्यः परिददामि । सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्टयै ॥.१ ॥ अथ संस्कार्यः अनि प्रदक्षिणीकृत्य आचार्यस्योत्तरतः उपविशति । आचार्यश्च । ब्रह्मोपवेशनादि पर्युक्षणान्तं चरुवयं कुशकण्डिकां कृत्वा पर्युक्षणानन्तरम् आघा- रावाज्यभागौ महाव्याहतयः सर्वप्रायश्चित्तं प्राजापत्यान्तं स्विष्टकच्चैताश्चतुर्द- शाहुतीर्जुहुयात् । तद्यथा ॐ प्रजापतये स्वाहा । इदं प्रजापतये न मम ॐ इन्द्राय स्वाहा । इदं०॥२॥ ॐ अमये स्वाहा । इदन्नमये ॥ ३ ॥ ॐ सोमाय. स्वाहा । इदं सोमाय० ॥ ४ ॥ ॐ भूः स्वाहा । इदमनये न मम ॥५॥ ॐ भुवः स्वाहा । इदं वायवे ॥ ६ ॥ ॐ स्वः स्वाहा । इदं सूर्याय० ॥ ७॥ ॐ त्वन्नोऽअमे० समत्स्वाहा । इदमनीवरुणाभ्यां ॥८॥ ॐ सत्वन्नोऽअमे० एघि स्वाहा इदमनीवरुणाभ्यां ॥ ९॥ ॐ अयाश्चाने जई.स्वाहा । इदममय अयसे ॥१०॥ ॐ येते शतं वरुण ये सहसं० स्वः स्वाहा । इदं वरुणाय सवित्रे विष्णवे विश्वे- भ्यो देवेभ्यो मरुद्भ्यः स्वभ्यश्च ॥ ११ ॥ ॐ उदुत्तमम् स्याम स्वाहा । इंद वरुणायादित्यायादितये ॥ १२॥ ॐ प्रजापतये स्वाहा । इदं प्रजापतये॥१३॥ ॐ अग्नये स्विष्टकृते स्वाहा । इदममये स्विष्टकृते ॥ १४ ॥ ततः संस्त्रवप्राशनं पवित्राभ्यां मार्जनम् अग्नौ पवित्रप्रतिपत्तिः पूर्णपात्रवरयोरन्यतरस्य ब्रह्मणे दानम् । प्रणीताविमोकश्च । एवं होमं समाप्य अनन्तरम् एनं ब्रह्मचारिणं संशास्ति। कथम् ! ब्रह्मचार्यसीत्याचायों वदति। असानीति ब्रह्मचारी। अपोशानेत्याचार्यः । अनानीति ब्रह्मचारी । कर्म कुर्वित्याचार्यः । करवाणीति ब्रह्मचारी । मा दिवा सुषुप्स्व इत्याचार्यः। न स्वपानीति ब्रह्मचारी । वाचं यच्छेत्याचार्यः । यच्छानीति ब्रह्मचारी । समिधमाघेहीत्याचार्यः । आदधानीति ब्रह्मचारी। अपोशानेत्याचार्यः । अश्नानीति ब्रह्मचारी । अथास्मै एवं शासिताय ब्रह्म- चारिणे आचार्यः सावित्रीमन्वाह । कीदृशाय ?. उत्तरतोऽनेः प्रत्यङ्मुखो- पविष्टाय पादोपसंग्रहपूर्वकमुपसन्नाय आचार्य समीक्षमाणाय स्वयमप्याचार्येण समीक्षिताय । कथम् ? ओङ्कारव्याहतिपूर्वकं प्रथमं पच्छः । एकैकपादम्। तथा द्वितीयमईर्चशः । तथैव तृतीयं सर्वो स्वयं च ब्रह्मचारिणा सह पठेत् ॥ तत्र मन्त्रः ॥ हरिः ओम् भूर्भुवः स्वः तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥१॥ अनावसरे ब्रह्मचारी समिदाधानं करोति । तत्रादौ आचार्यस्य दक्षिणदिशि अमिपश्चिमोपविष्टो घृताक्तशुष्कनिषिदेतरेन्धनं दक्षिणहस्तेन जुहुयात् । तत्र मन्त्राः । ॐ अमे सुश्रवः सुश्रवसं मा कुरु ॥ १॥ ॐ तथा त्वममे सुश्रवो सुश्रवा असि ॥२॥ ॐ एवं मा सुकंवा सुश्रवसं कुरु ॥ ३ ॥ ॐ यथा त्वममें देवानां यज्ञस्य निधिपाऽसि ॥४॥ ॐ एवमहं मनुष्याणां वेदस्य निधिपो भूया- सम् ॥ ५॥ इत्येतैः पंचभिर्मन्त्रैः प्रतिमन्त्रमिन्धनप्रक्षेपः। (शिष्टास्तु शुष्कगो- ७६ मायश्चित्तप्रकाशे- मयखण्डैरेतत् कुर्वन्ति) ततः प्रदक्षिणमनिं पयुय उत्थाय स्वपादेशमिता घृताक्त- पलाशसमिधशमादाय तिष्ठन् ॐ अग्नये समिधमाहार्ष बृहते जातवेदसे यथा त्वममे समिधासमिध्यस एवमहमायुषा मेधयावर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन समिन्धे जीवपुत्रो ममाचार्यों मेधान्यहमसान्यनिराकरिष्णुयशस्वी तेजस्वी ब्रह्म- वर्चस्व्यन्नादो भूयास स्वाहा ॥ १ ॥ इतिमन्त्रेण जुहुयात् ॥ ततोऽनेनैव मन्त्रेण समिदन्तरद्वयं जुहुयात् । तत उपविश्य पूर्ववत् । ॐ अमे सुश्रवः सुश्रवसं मा कुरु॥१॥ ॐ यथा त्वममे सुश्रवः सुश्रवाआसि॥२॥ॐ एवं मा सुश्रवः सुश्रवसं कुरु ॥ ३ ॥ ॐ यथात्वममे देवानां यज्ञस्य निधिपाऽआसि ॥ ४ ॥ ॐ एवमहं मनुष्याणां वेदस्य निधिपो भूयासम् ॥ ५॥ इति पञ्चभिर्मन्त्रैः प्रतिमन्त्रमिन्धनप्र- क्षेपः । ततस्तुष्णी पाणी प्रतप्य वक्ष्यमाणः सप्तभिर्मन्त्रै प्रतिमन्त्रं मुखमवमृशति । ॐ तनूपाऽअमेसि तन्वम्मे पाहि ॥ १॥ ॐ आयुर्दाऽअनेऽस्यायुमें देहि ॥२॥ ॐ बच्चोंदाऽअमेसि वच्चों मे देहि ॥ ३ ॥ ॐ अमे यन्मेऽऊनन्तन्म आपूण ॥ ४ ॥ ॐ मेधाम्मे देवः सविता आदधातु ॥ ५॥ ॐ मेधाम्मे देवी सरस्वती आद- धातु ॥ ६॥ ॐ मेधाम्मे अश्विनौ देवावाधत्तां पुष्करसजौ ॥ ७ ॥ इत्येते मुख- मार्जनमन्त्राः । अथ शिष्टाचारपरिप्राप्ताः केचन पदार्था लिख्यन्ते । ॐ अङ्गानि च मआप्यायन्तामिति मन्त्रेण शिरप्रभृति पादान्तं सर्वांगान्यालभते । दक्षिणह- स्ताग्रेण । ॐ वाक् च मऽआप्यायताम् । इति मुखालम्भनम् । ॐ प्राणश्च मेऽ- आप्यायतामिति नासिक्योरालम्भनम् । ॐ चक्षुश्च माआप्यायतामिति चक्षुषी युगपत् । ॐ श्रोत्रं च माआप्यायतामिति दक्षिणोत्रम् । अनेनैव मन्त्रेण वाम- श्रोत्रम् । ॐ यशो बलं च मआप्यायतामितिबाहोरुपस्पर्शनम् । ततस्यायुषकर- णम् । सुवेण भस्मानीय दक्षिणकरानामिकामगृहीतभस्मना । ॐ घ्यायुषंजमदने- रितिललाटे । ॐ कश्यपस्य व्यायुषमिति ग्रीवायाम् । ॐ यद्देवेषु व्यायुषमिति दक्षिणांसे । ॐ तन्नोऽअस्तु व्यायुषमिति हृदि । इति व्यायुषाणि कुरुते । अथ स्मृत्यन्तरोक्तमभिवादनं लिख्यते । व्यस्तपाणिभ्यां पृथिवीं स्पृशन अमुक- गोत्रोऽमुकप्रवरोऽमुकशर्मा भो वैश्वानर त्वामभिवादये इति त्रिः वैश्वानरमभिवाय पुनस्तेनैव क्रमेण । अमुकगोत्र भो आचार्य त्वामभिवादये । इत्युक्त्वाभिवाद्य वृद्धानभिवादयेत् । आयुष्मान् भव सौम्य अमुकशर्मन्नित्याचार्यो ब्रूयात् । एवमेव सूर्य वरुणं चाप्यभिवादयेत् । इत्यभिवादनम् । तथा च योगियाज्ञवल्क्या- "दक्षिणं पादमालभ्य पाणिना दक्षिणेन तुसिव्येन सव्यं स्पृष्टव्यमभिवादनकर्मणि । व्यत्यस्थपाणिना कार्यमग्निं सूर्य गुरुं तथा॥ "पुनरुपनयने भिक्षाचर्या न कार्या । ततं आचार्यादीन गन्धादिभिः संपूज्य तेभ्यो दक्षिणां दत्वा तैराशिषो गृहीत्वा स्थापितदेवताः विसृज्य प्रायश्चित्तानुसारेण ब्राह्मणान् भोजयेत् ॥ इति प्रायश्चित्तप्रकाशे पुनरुपनयनप्रयोगः समाप्तः ॥
৩৩ प्रयोगकाण्डः। अथ विस्तरतः सर्वप्रायश्चित्तप्रयोगो हेमाद्री प्रायश्चित्तखण्डे-फर्ता पूर्वेगुः प्रातः सन्ध्यामुपास्य देवालये नदीतीरे स्वगृहे वा सभामुपवेश्य सचैल- मलापकर्षणं स्नात्वा आईवासाः सभां गत्वा परिषदुपदिष्टसर्वप्रायश्चित्तं कर्तु- कामो मदीयपापजातं निवेदयितुं शरीरशुद्धयर्थ मृत्तिकास्नानमहं करिष्य इति सङ्कल्प्य कल्पोक्तविधानेन मृत्तिकास्नानं कृत्वा द्विराचम्य पूर्वोक्तलक्षणोपेतपरि पत्सन्निधिं गत्वा गन्धकुसुमाक्षतादिभिः परिषद्मभ्यर्च्य प्रायश्चित्तद्रव्यदशांश- दक्षिणां कुसुमाक्षतांश्च गृहीत्वा समस्तसम्पदादिमन्त्रस्त्रिवारप्रदक्षिणीकृत्य दक्षिणां पुरतो निधाय प्रणम्योत्थाय च प्राञ्जलिविज्ञापयेत् । नमः सकलकल्याणदायिने ब्रह्मरूपिणे । सदसे सर्वपूज्याय दुष्कृतारण्यवह्वये ॥ हे परिषत् काश्यपगोत्रेण नक्षत्रे राशौ च जातेन अमुकनामधेयेन मया समर्पितामिमां परिषद्दक्षिणां स्वीकृत्य मदीयां विज्ञापनामवधार्य मामनुगृहाण इति पुनः प्रणमेत् । तत उत्थाय काश्य- पगोत्रः नक्षत्रे राशौ जातः अमुकनामधेयोऽहं परिषदुपदिष्टसर्वप्रायश्चित्तं कर्च- कामो मदीयपापजातं परिषत्सन्निधौ निवेदयिष्य इति सङ्कल्प्य एवं निवेदयेत् । गोत्रादियुक्तेन मया जन्मप्रभृत्येतत्क्षणपर्यन्तं मध्यवर्तिनि काले बाल्यकौमार- यौवनवाईकेषु जामत्स्वमसुषुप्त्यवस्थासु मनोवाक्कायकर्मभिः कामक्रोधलोभमोह- मात्सर्यस्त्वक्चक्षुःश्रोत्रजिह्वाग्राणवाक्पाणिपादपायूपस्यैः कृतानां प्रकाशकृतम- हापातकचतुष्टयतव्यतिरिक्ततत्संसर्गादिपातकानां रहस्यकृतब्रह्महत्यासुरापानसु- वर्णस्तेयगुरुतल्पगाख्यानां महापातकानां तसंसर्गित्वानुग्राहकत्वप्रयोजकत्वमित्र- भावोपदेष्मृत्वमन्त्रित्वप्रोत्साहकत्वादिमहापातक-प्रतिदिष्टादिपातकानां गुनधिक्षेप- वेदनिन्दासुहृदधाधीतनाशनादिब्रह्महत्यासमपातकानाम् अश्वरत्नमनुष्यहरणनिक्षे- पहरणदेवब्रह्मस्वभूधेनुहरणादिसुवर्णस्तेयसमरूपपातकानां पितृण्वसमातृष्वसमातु- लभार्याज्येष्ठभ्रातृपत्नी-हीनवर्णमातृसपत्नीसखिभार्याकुमार्ययोन्यन्त्यजासगोत्रासू- तस्त्रीसामान्यनृपतिपत्लीरमणादिगुरुतल्पसमपातकानां गोवधवात्यत्वसामान्यस्ते- यापात्रीकरणानाहितामित्वापण्यविक्रयपरकातितृष्णादिपातकानां सोमयागस्थक्ष- त्रियवैश्यवधाविज्ञातगर्भरजस्वलात्रिगोत्रदीक्षितस्त्रीगर्विणीवधादिमहापातकसमपा- तकानाम् उत्कर्षानृतभाषणकलञ्जादिनिषिद्धभक्षणरजस्वलादिमुखास्वादकूटसाक्ष्य- सुहृदन्धनादिपरिवेदनभृतकाध्यापनपारदार्यपारिवित्त्यवाधुष्यलवणविक्रयस्त्रीशूद्ध- विदक्षत्रियवधनिन्दितार्थोपजीवननास्तिक्यव्रतलापकरणसुतविक्रयधान्यपुष्पपशु- स्तेयायाज्ययाजनपितृमातृसुतादित्यागतटाकारामविक्रयकन्याविक्रयकन्यादूषणप- रिविन्नकन्यादानकौटिल्यव्रतलोपात्मार्थक्रियारम्भमद्यपस्त्रीनिषेवणोपाध्यायामिपरि त्यागेन्धनार्थगुमच्छेदनस्त्रीहिंसनयन्त्रविधानव्यसनात्माविक्रयशूदद्रव्यहीनसख्यही- नयोनिनिषेवणानाश्रमवासंपरान्नपरिपुष्टत्वासच्छास्त्राभिगमनाकराधिकारताभार्या प्रायश्चित्तप्रकाशे- विक्रयायुपपातकानाम्' अजाऽविखरोष्ट्रमृगेभमीनाहिमाहषाश्ववधादिसंकलीकरणा- नां कृमिकीटवयोवधमद्यानुगतद्रव्यभोजनफलेक्षुकुसुमस्तेयादिमलिनीकरणानां नि- न्दितधनधान्यकरीषजीवनासत्यभाषणशूद्रसेवायपात्रीकरणानांमद्यगन्धवाणब्राह्म- णपीडनसामान्यस्त्रीपुंमैथुनादिजातिभ्रंशकराणां विहितकर्मत्यागनिषिद्धाचरणेन्द्रि- यानिग्रहपरमौद्घाटनसूचकत्वाशौचस्नानसन्ध्यावन्दनजपहोमपञ्चमहायज्ञरहितभो जनाकालभोजगदिवाद्विवारभोजनसस्यच्छेदनतरुगुल्मलतादिच्छेदनक्कैव्यस्त्रीवश्य- श्वपतित-क्लीबव्रात्यपरिवित्रशूद्रसेवक-वाधुषिकनिजकविहीनान्नभोजन-यत्यनभो- जनपतितप्रेरितान्नयतिपक्कान्नयतिपात्रस्थान्नयतिस्पृष्टयतिदापितान्नभोजनशूद्रस्पृष्ट- शूद्रदृष्टशूदानुमतशूद्राधिकृतशूद्रयाचितान्नभोजन-ग्रहणकालभोजनग्रहणकालपक्का- त्रभोजनपर्वकालरात्रिभोजनैकादश्यहोरात्रभोजना-निवेदितान्नभोजन-हस्तदत्तान- भोजनप्रेतपिशाचोद्देशभोजन-वटाश्वत्थादिनिषिद्धपत्रभोजन-बलिदत्तात्रभोजननीरा जितान्नभोजन-ग्रामयाजकवृषलीपतिमाहिषिकशिवद्विजशाक्तकाषायपाशुपतचिहि- ताङ्गचिकित्सकाशौचिक-ज्यौतिषिकान्नभोजन-भिन्नकांस्यपात्रभोजनताम्रालाबुदा- रुपात्रमृत्पात्रभोजन-रजस्वलान्न-चाण्डालादिवाक्यश्रवणभोजनदग्धपर्युषितपूतिग- न्धभुक्तोच्छिष्टान्नभोजन-गणान्न-दीक्षितान-शूदपुरोहितान्न-पर्यायान्नभोजनशूद्रपात्र- स्थान्नभोजन-महापुरुषार्चितानभोजन-शूदभुक्तशेषान्न भोजन-प्रामान्त्यजदत्तशेषा- नभोजनभिक्षान्नभोजनदम्पतिभुक्तशेषान्नभोजनबौद्धशाक्यब्राह्मणान्नभोजन-कारा- गृहवासभोजनखरोष्ट्राजाविकमहिषीक्षीरादिपानविवत्सविगतगर्भनिर्देशगोपयःपान- स्तन्यपानपिण्याककृसरसंयावपायसापूपमांसपुरोडाशादिवृथाभक्षण-वामहस्तैकह- स्तवर्षधारारूप-जलपान-रेतोविण्मूत्रकीटास्थिमिश्रितजलपान-तन्मिश्रितान्नभोजनः . वार्ताक-कालिङ्गगृञ्जनरक्तमूलक-वर्नुलालाबुश्वेतवृन्ताकादिनिषिद्धद्रव्यभक्षणनिषि- इशिवनिर्माल्यादिभक्षणोपपातकिपकतण्डुलानभोजनयोनिप्रेक्षण-योन्यास्वादनदि- वास्खापनदिवासङ्गमदासीवेश्याकुलटावितन्तुपरावरुद्धप्रसवोन्मुखस्त्रीगमनसाधार- णीभूतस्त्रीपरस्त्रीगमनतिर्यग्योनिगमनमुखमैथुनवल्मीकराजमार्गच्छायावृक्षदेवालय- गृहाङ्गनगोष्ठवृन्दावनजलाशयादिस्थलरेतोविण्मूत्रकरणजलमध्यष्ठीवनदूषणापित- मात्राचार्यादिशुश्रूषाराहित्यदर्शमहालयसंक्रान्तिव्यतीपाताष्टकालभ्ययोगत्यागश्रा- विस्मरणग्रहणादिपुण्यकालस्नानदानराहित्य-सन्ध्यात्रयवस्त्रपारर्वत्तेनापासनादि- राहित्यसन्ध्याकालसंलापताम्बूलचर्वणभोजनमैथुननिदादिपारवश्य-पुण्यकालो- पणोदकस्नाननमस्नानपैतृकादिनानिषिद्धदिनाभ्यङ्गस्नानसन्निहिततीर्थोल्लङ्घनती- र्थस्नानकच्छराहित्यकौपीनधारणकच्छपुच्छकतिर्यकटिसूत्रकच्छादिधारणस्वग्राम- देवोत्सवादर्शनतदुत्सवजनपदग्रामकुलाचारोल्लङ्घनगुर्वाचार्यविप्रश्रोत्रियाहितामि- नृपकायॉल्लङनाविमत्वङ्कारहङ्कारतिरस्कारवादपराजयप्रापणासहायारण्यमार्गगम- :
प्रयोगकाण्डः। ७९ . . नब्राह्मणदण्डन शोणितस्त्रावणमालिनामेध्याविलकषाय-नीलादिवस्त्रधारणहरिहरगु- चार्यनिन्दाश्रवणब्राह्मणदूषणक्षोभकरणसंहतिपरित्यागक्षत्रियादिवृत्तिद्रव्यानगो- विप्ररोधनस्वयंधृतहलकर्षणकृषिजीवनक्रौञ्चजीवनपीतावशिष्टोदकपानचाण्डालका- । रितकृषिधान्य-शालादुग्धपुष्पफलभोगचाण्डालकारितवापीकूपतटाकादेकपानान्य- कारितप्रपाजलपानकरमथिततक्रपान-दीपोच्छिष्टाभ्यगावशिष्टतैलपानसाभिलाषप- रदारनिरीक्षणविवस्त्रस्त्रीनिरीक्षणमिथुनीभूतस्त्रीनिरीष्टणगुर्वाचार्यनृपादिमैथुनादिद- निशब्दश्रवणमैथुनविघ्नाचरणहीनवर्णाभिवादनराजासनाक्रमणराजत्वङ्कारहुंकारर- धान्वेपणमर्मोद्घाटनासाधूपदेशन्यायाप्रवर्तकरणचार्वाकपाषण्डादिपूजितदेवताभि- वादनपरोपतापकरण-परोपकारनाशन-तृणगुल्मलतादिनाशन-गोमांसगन्धघ्राणचा- ण्डालस्पर्शनदर्शनभाषणपाकभेदपक्तिभेदकरणतुरुष्कादिम्लेच्छमध्यनिवासम्लेच्छ- द्रव्योपभोग-याचमानदीनान्धकृपणावेक्षण-मुष्टिमात्रतिलसाहितैरकादिनानाप्रकारदु- प्रतिग्रहनियमराहतवेदपुराणशास्त्राध्ययनाध्यापनव्यवहारपक्षपातसाधारणबाम- णसीमाकुल्यातटाककूपारामाद्यपहरणपशुपक्षिवन्धनशीतवातातपवर्षचौराद्यापद्गत- दुःखा-निवारणानहासनशयनप्रदान-विषमभाषण-वापारुप्यदण्डपारुण्याविहित- कालाविहिताचरणमित्रस्वामिसुहृदाचार्येष्टभार्यादेवतावञ्चनपरमात्मस्मरणराहित्या- दीनां प्रकीर्णकानामज्ञानतः सकृत्कृतानां ज्ञानतोऽभ्यस्तानां ज्ञानतः सकृत्कृतानाम- त्यन्तचिरकालनिरन्तराभ्यस्तानां प्रकाशकृन्महापातकव्यतिरिक्तानां रहस्यकृतम- हापातकादीनां प्रकीर्णकान्तानां नवविधानां बहुविधानां च सर्वेषां पापानामप- नोदकं प्रायश्चित्तं प्रतिनिमित्तं कर्तुमक्षमस्यामुकगोत्रस्यामुकनामधेयस्य मम सकलपापापनोदकमेकविधं सर्वप्रायश्चित्तं धर्मशास्त्रपर्यालोचनया निश्चित्यादि- श्यामुकगोत्रजममुकनामधेयं मां सर्वस्मादेनसः समुदर इति त्रिवारं प्रणमेत् । ततः परिषदपि यजमानविज्ञापनमाकर्ण्य तत् समर्पितां परिषदक्षिणां स्वीकृत्य धर्मशास्त्राणि पर्यालोच्यैकविधं सर्वप्रायश्चित्तं निश्चित्य अस्मिन् सर्वप्रायश्चित्ते परिपदनुज्ञया भवद्भिर्विधायकैर्भवितव्यामिति दक्षिणादानपूर्वक यजमानेन विधा- यकान् वरयित्वा विधायकान् प्रत्येवं वदेत् । परिषद्वाक्यप्रकारः । भो भो विधायकाः अमुकनामधेयेनास्मत्सन्निधौ विज्ञापितानां नवविधानां पापानां धर्मशास्त्रपालोचनया पडव्दमाजापत्यकृच्छात्मकं सर्वपापप्रायश्चित्तमपनोदकं : भवति । एतदेव पापानां मत्या करणे द्विगुणम् । अत्यन्ताभ्यासे त्रिगुणम् । निरन्तराभ्यासे पड्गुणम् । तदेव षड्गुणितषडब्दम् । अशीत्यधिकसहस्र- संख्याकं प्राजापत्यकृच्छद्रात्मकं सर्वप्रायश्चित्तमस्मन्निीत सर्वपापापनोदकं भव- तीति भवन्तो विधायका अनुवादकमुखेन यजमानायोपदिशन्तु । ततोऽभिधा- यका यजमानसमर्पितां दक्षिणां स्वीकृत्य विविधप्रायश्चित्तपापानुवादकुशलमेक 44 . प्रायश्चित्तप्रकाशे- विपश्चितमनुवादकं दक्षिणादानपूर्वकमस्मिन् प्रायश्चित्ते भवतानुवादकेन भवि- -तव्यमिति यजमानेन वरयित्वा अनुवादकमेवं ब्रूयुः । विधायकवाक्यम् । अहो विद्वन् विदुषामग्रेसरः प्रायश्चित्तापनोद्यस्य बहुविधस्य पापस्यानुवादकुशल हे अनुवादक अमुकगोत्रेण अमुकनामधेयेन यजमानेन परिषत्सन्निधौ विज्ञापितानां प्रकाशकृतपहापातकानां व्यतिरिक्तानां च तत्संसर्गायतिपातकानां रहस्यकृत महापातकादि-प्रकीर्णकान्तानां नवविधानामज्ञानतः कृतानां ज्ञानतः सकृत् कृतानामत्यन्तनिरन्तरचिरकालाभ्यासवशात् षड्गुणितं षडब्दं प्रायश्चित्तमशी- त्यधिकसहस्रसंख्याकमाजापत्यकृच्च्यात्मकसर्वप्रायश्चित्तं सर्वेषां पापानामपनोदकं भवतीति अशेषविद्वत्सभया निर्णीतमस्यां निणीत सर्वप्रायश्चित्तमनुवादमुखेन यजमानायोपदिशन्तु इति परिषदस्मानाज्ञापयते वयमपि अमुकगोत्रेण अमुकना- मधेयेन यजमानेन परिषत्सन्निधौ विज्ञापितानां प्रकाशकृतमहापातकव्यति- रिक्तानां तत्संसर्गातिपातकानां रहस्यकृतब्रह्महत्यादिपातकानां तद्रूपोपदिष्टव- तातिदिष्टातिपातकानां संकरीकरणानां मलिनीकरणानां प्रकीर्णकादिनवविधानाम- ज्ञानतः सकृत्कृतानाम् एकगुणम् । ज्ञानतः सकृत्कृतानां दिगुणम् । ज्ञानतोऽभ्य- स्तानां त्रिगुणितम् । अत्यन्ताभ्यस्तानां चतुर्गुणम् । निरन्तराभ्यस्तानां पञ्चगुणम् चिरकालाभ्यस्तानां षड्गुणम् । अशीत्यधिकसहस्रसंख्याकप्राजापत्यकृच्छात्मक षड्गुणितं षडब्दं सर्वप्रायाश्चित्तं सर्वेषां पातकानामपनोदकं भवतीति विज्ञाय अमु- कगोत्राय अमुकनामधेयाय अस्मै यजमानाय भवन्मुखेन विज्ञापयामः। तदेतदस्मद् विहितं सर्वप्रायश्चितं पापानुवादपुरःसरमुपदिश अस्मै यजमानाय इति त्वां नियोजयामः। त्वमपिउच्चैरूर्वबाहुः सुविस्पष्टं गीर्वाणभाषया यजमानाय त्रिवारम् अनुवद । अनुवादकोऽपि यजमानसमर्पितदक्षिणां स्वीकृत्य द्विराचम्य प्राणाना- यम्य उत्थाय यजमानाभिमुखं स्पष्टमूर्ध्वबाहुदैवभाषया परिषन्नितिविधायक- विहितं सर्वप्रायश्चित्तोपदेशपूर्वकमुच्चैस्त्रिवारमनुवदेत् । ब्राह्मणानां ब्राह्मणस्त्रीणां प्रायश्चित्ते तु यजमानस्य पुरस्तात् कञ्चन ब्राह्मणं स्थापयित्वा तं प्रत्यनुवदेत् ॥ अथानुवादकवचनरचनाप्रकारः ॥ भो यजमान अमुकगोत्र नक्षत्रे राशौ जात अमुकनामधेय अशेषा विदुषां परिषत् त्वया विज्ञापितानां प्रकाशीकृतमहा- पातकव्यतिरिक्तानां तत्संसर्गायतिपातकानां रहस्यकृतमहापातकानाम् अतिपात- कानाम् उपपातकानां सङ्करीकरणानां मलिनीकरणानाम् अपात्रीकरणानां जाति- भ्रंशकरणानां प्रकीर्णकानां बहूनां नवविधानाम अपनोदकानि प्रायश्चित्तानि प्रतिनिमित्तं कर्तुम् अक्षमस्य तव सर्वपापापनोदकमेकविधं प्रायश्चित्तं षड्गुणित- षडब्दमाजापत्यकृच्छात्मकं धर्मशास्त्रपर्यालोचनया निश्चित्य यजमानाय पापानुवा- दपुरःसरं त्रिवारम् उपदिश इति विधायकमुखेन मामादिष्टवती अहमपि तदेतत् .
प्रयोगकाण्डः। परिषन्निांतविधायकविहितं सर्वप्रायश्चित्तं तवोपदिशामि।सावधानः समाकर्णय । भो यजमान अमुकगोत्रे नक्षत्रे राशौ जात अमुकनामधेय तव जन्मप्रभृत्येत- क्षणपर्यन्तं मध्यवर्तिनि काले बाल्य-कौमार-यौवन-वाईकेषु जाग्रत्स्वमसुषुप्त्यव- स्थासु मनोवाक्कायकर्मभिः काम-क्रोध-लोभ-मोह-मद-मात्सयस्त्वक्चक्षुः- श्रोत्र-जिला-वाण-वाक्-पाणि-पाद-पायूपस्थैः ज्ञानतोऽज्ञानतश्च सम्भावितानां प्रका- कृतमहापातकव्यतिरिक्तानां तत्संसर्गतद्रूपातिदिष्टरूपातिपातकानां रहस्यकृतब्रह्म- हत्यादिमहापातकानां महापातकरूपातिदेशिकमहावतातिदेशिकातिपातकसमरूप- पातकानाम् उपपातकानां मलिनीकरणनाम् अपात्रीकरणानां जातिभ्रंशकराणाम् प्रकीर्णकानामज्ञानतः सकृत्कृतानाम् अज्ञानतः ज्ञानतश्चाभ्यस्तानामत्यन्ताभ्यस्तानां निरन्तराभ्यस्तानां चिरकालाभ्यस्तानां बहूनां बहुविधानां सर्वेषां पापानां साशी- तिसहस्रसंख्याक-प्राजापत्यकृच्छणात्मक षड्गुणित-षडन्दरूपं प्रायश्चित्तमपनोदकं भवति तदेतदशेषपरिषत्रिणीतं साङ्गोपाङ्गं त्वया अनुष्ठेयम् । त्वं साक्षाचर्यायाम्। असमर्थश्चेत् विहिततत्संख्याकधेनुदानतन्मूल्यदानायुतगायत्रीजपप्राणायामशतद्ध- यतिलहोमसहस्रसंहितामात्रवेदपारायणद्वादशब्राह्मणभो जनविधिवदनुष्ठितसमुद्रग- नदीनानादिप्राजापत्यकृच्छ्रप्रत्याम्नायरूपेणाचर । शुद्धः पूतो भविष्यसि । अमुके गोत्रे नक्षत्रे राशौ जातेन अमुकनामधेयेन त्वया परिषन्निीते साङ्गोपाङ्गे सर्व- प्रायश्चित्ते शक्यप्रत्याम्नायरूपेण सम्यगनुष्ठिते सति त्वया परिषत्सन्निधौ विज्ञा- पितेभ्यः प्रारब्धत्वत्कृतपातकव्यतिरिक्तेभ्यः तत्संसर्ग-तद्रूपातिदिष्टवतादिष्टादिपा- तकेभ्यः तत्समरूपपातकेभ्यः रहस्यकृतब्रह्महत्यासुरापानसुवर्णस्तेयगुरुतल्पगम- नाख्यमहापातकेभ्यः तत्संसर्गित्वानुग्राहकत्वप्रयोजकत्व-मैत्रीभावोपदेष्तृत्वानुम- न्त्रित्वप्रोत्साहकत्वादिमहापातकरूपातिदेशकातिपातकेभ्यः सोमयागस्थक्षत्रियवै- श्यवधाविज्ञातगर्भर्तुमत्यत्रिगोत्रादिदीक्षितस्त्रीवधादिमहापातकव्रतातिदेशिकपातके भ्यः गुर्वविक्षेपवेदनिन्दासुहृद्धाधीतनाशनादिब्रह्महत्यासमपातकेभ्या उत्कर्षानृत- भाषणाभक्ष्यभक्षणपुष्पवतीमुखास्वादादिसुरापानसमपातकेभ्योऽश्वरलस्त्रीधेनुनिक्षे- पब्राह्मणभूमिहिरण्यादिसुवर्णस्तेयसमपातकेभ्यः सखिभार्याकुमारी जातिस्त्रयन्त्यज- स्त्रीस्नुषापितृव्यपत्नीमातुलपत्नीनृपपत्नीपितृष्वसमातृष्वसमातृसपत्नीभगिनाश्रोत्रि- यत्विगुपाध्यायाचार्यमित्रपत्नीदुहितरजस्वलाशरणागताप्रबजितानिक्षिप्तस्त्रीगमना- दिगुरुतल्पसमपातकेभ्यः गोवधवात्यत्वसामान्यद्रव्यस्तयानपाकरणानाहितानि- त्वापण्यविक्रय-परिदेवनभृतकाध्ययनभृतकाध्यापनपारदार्यपारिवित्त्यवार्द्धयलव- णविक्रय-स्त्राशूद्रविदक्षत्रियवधनिन्दितार्थोपजीवननास्तिक्यव्रतत्यागसुतविक्रयधा- न्यकुष्य-पशुस्तेया-याज्ययाजन-पितृमात-सुतत्याग-तटाकारामादीविक्रय-कन्यादू. षणपरिविन्दक-कन्याप्रदानकौटिल्यवतलोपनान्यार्थक्रियारम्भमद्यपस्त्रीनिषेवणस्वा ११ ८२ प्रायश्चित्तप्रकाशे- ध्यायामिपरित्यागवान्धवत्यागेन्धनार्थदुमच्छेदनस्त्रीहिंसौषधजीवनहिंसायन्त्रवि- धानन्यसनात्मविक्रयशूद्रप्रेष्यत्वहीनसख्यहीनयोनिनिषेवणानाश्रमवासपरानपरिपु- टतासच्छास्त्राधिगमनाकराधिकारित्वभाविक्रयायुपपातकेभ्यः खरोष्ट्रमृगेभाजा- विकाश्चमीनाहिमहिषवधादिसङ्कलीकरणेभ्यः कृमिकीटवयोवधमयानुगतद्रव्यभो- जनफलेकुसुमस्तेयादिमलिनीकरणेभ्यः निन्दितधनादानवाणिज्यकसीदजीवना- सत्यभाषणंशूद्रसेवाद्यपात्रीकरणेभ्यः ब्राह्मणेपीडाकरणमयाघ्राणजेयपुमैथुनादि- जातिभ्रंशकरभ्यः विहितकर्मत्यागनिषिद्धाचरणेन्द्रियानिग्रहपरमर्मभेदनसूचकत्व- शौचसन्ध्यावन्दनजपहोमपञ्चमहायज्ञराहित्यकालाभोजनाकालभोजनदिवादिवा- रभोजनसस्यच्छेदनतरुगुल्मलताच्छेदनक्कैव्यस्त्रीवश्यत्वपतितक्लीवनात्यपरिविन्द- कपरिवित्तिशूद्रसेवकवा पिकनिजकर्महीनान्नभोजनयत्यन्नयतिप्रेरितान्नयतिपात्र- स्थान्नयतिपक्वान्नयतिस्पृष्टयतिदापितान्नभोजनशूद्रस्पृष्टशूद्रवीक्षितशूद्रानुमतशूद्रा- धिकृतशूदयाचितान्नभोजनग्रहणकालपक्कानभोजनपर्वकालरात्रिभोजनैकादश्यहो- रात्रभोनानिवेदितान्नभोजनहस्तदत्तात्रभोजनप्रेतपिशाचोदेशभोजनवटाश्वत्थादि- निषिद्धपत्रभोजनबलिदत्तान्नभोजननीराजितान्नभोजनग्रामयाजकगणकवृषलीपति- माषिहिकशिवद्विजशाक्तपाषाण्डपाशुपतचिहिताङ्गचिकित्सकसौचिकज्यौतिषिका- नभोजनभिन्नकांस्यपात्रभोजनताम्रालाबुदारुपात्रभोजनरजस्वलाचाण्डालादिवा- क्यश्रवणदग्धान्नभोजनपर्युषितपूतिगन्धभुक्तोच्छिष्टान्नभोजनगणानदीक्षितानशूद- पुरोहितानपर्यायान्नभोजनशूद्रपात्रस्थान्नभोजनमहापुरुषार्चितानाभोजनशूदभुक्त- शेषात्रभोजननामान्त्यजदत्तशेषान्नभोजनभिक्षानभोजनदम्पतीभुक्तानशेषभोजन- बौद्धमखब्राह्मणान्नभोजनकारागृहवासभोजनखरों प्राजाविकमहिषीक्षीरादिपानवि- वत्सविगतगर्भनिर्दशगोपयःपानस्तन्यपानपिण्याककृतरससंयावपायसापूपमांसपु- रोडाशादिवृथाभक्षणवामहस्तकहस्तवर्षधारापरदत्तधारारूपजलपानरेतोविण्मूत्र- कीटास्थिमिश्रितजलपानतादृमिश्रितान्नभोजनवाकिकतककालिङ्गगञ्जनरक्तमू- लकवर्तुलालाबुश्वेतवृन्ताकादिनिषिद्धद्रव्यभक्षणनिषिद्धशिवनिर्माल्यभक्षणोपपात- कीपकतण्डुलान्नभोजनयोनिवीक्षणयोन्यास्वादनदिवास्वापदिवासंगमदासीवेश्या- कुलटावितन्तुपरावरुद्धप्रसूतोन्मुखस्त्रीगमनसाधारणीभूतपरस्त्रीगमनतिर्यग्योनिग- मनमुखमैथुनरथ्याराजमार्गच्छायावृक्षदेवालयगृहाङ्गणगोष्ठवृन्दावनजलाशयादिरे- तोविण्मूत्रकरणजलमध्यनिष्ठीवनदूषणपितृमात्राचार्यादिशुश्रूषाराहित्यदर्शमहालय- संक्रान्तिव्यतीपाताष्टकालभ्ययोगश्राद्धविस्मरणग्रहणादिपुण्यकालस्नानदानादिरी- हित्यसन्ध्यात्रयवस्त्रपरिवर्तनोपासनादिराहित्यसन्ध्याकालसँलापताम्बूलचर्वणभो- . जनमैथुननिदादिपारवश्यपुण्यकालोष्णोदकस्नाननमस्नानपैतृकादिनिषिद्धदिनाभ्य- गस्नानसन्निहिततीर्थोल्लङ्घनतीर्थस्नानकच्छराहित्यकौपीनधारणद्विकच्छत्वपुच्छक- - प्रयोगकाण्डः। ८३ च्छत्वतिर्यकटिसूत्रकच्छादिधारणस्वग्रामदेवोत्सवादर्शनतदुत्सववर्जनपुरग्रामकुला- चारोल्लङ्घनगुर्वाचार्यविप्रोत्रियाहितामिनृपच्छायोल्लङ्घनविप्रत्वङ्कारहुङ्कारतिरस्का- रवादपराजयप्रापणासहायारण्यमार्गगमनब्राह्मणेतरदण्डनभर्सनताडनशोणितसा- । वणमलिनामेध्यानिलकषायविदशादिवस्त्रधारणहरिहरपुर्वाचार्यादिनिन्दाश्रवणबा- ह्मणदूषणक्षोभकरणस्ववृत्तिपरित्यागक्षत्रियादिवृत्तिद्रव्याजनगोतिरोधानस्वयंधतह- लकर्षणकृषिजीवनकौश्वजीवनपीतावशिष्टोदकपानचाण्डालकारितकृषिधान्यशाल- दुग्धपुष्पकलोपभोगचाण्डालकारितवापीकूपतटाकोदकपानान्यकारितप्रपाजलपा- नकरमथिततक्रपानदीपोच्छिष्टाभ्यगावशिष्टरात्रितैलजलपानसाभिलाषपरदारनि- रीक्षणनमस्त्रीनिरीक्षणमिथुनीभूतस्त्रीनिरीक्षणगुर्वाचार्यनृपादिमैथुनदर्शनशब्दश्रवण- मैथुनाविनाचरणहीनवर्णाभिवादनराजासनाक्रमणराजत्वङ्कारहुङ्काररन्ध्रान्वेषणदूष- णमोंदाटनासाधूपदेशान्यायप्रवर्तनकरणचार्वाकपाषण्डादिपूजितदेवताभिवादन- परोपतापकरणपरोपकारनाशनतृणगुल्मलतादिनाशनगोमांसगन्धाघ्राणचाण्डाल- स्पर्शनदर्शनसम्भाषणपाकपभेदपंक्तिभेदकरणतुरुष्कादिम्लेच्छालयनिवासम्लेच्छद- व्योपभोगयाचमानदीनान्धकृपणोपेक्षणमुष्टिमात्रतिलसहितैरकादिनांनाप्रकारदुष्प्र- तिग्रहनियमरहितवेदशास्त्राध्ययनाध्यापनव्यवहारपक्षपातसाधारणबाह्मणसीमाकु- ल्यातटाककूपारामायहरणपशुपक्षिबन्धनशीतवातातपवर्षचोरव्याध्याद्यापद्गतगवा- दिदुःखानिवारणानहाँसनशयनप्रदानविषमभाषणवाक्पारुष्याकालविहिताचरणमि- त्रस्वामिसहदाचार्येष्टमार्यादेवतावश्चनपरमात्मस्मरणराहित्यादिप्रकीर्णकेभ्यः अज्ञा- नतः सकृत् कृतेभ्यः ज्ञानतः सकृत् कृतेभ्यः ज्ञानतोज्ञानतश्चाभ्यस्तेभ्यः निर- न्तराभ्यस्तेभ्यः चिरकालाभ्यस्तेभ्यः नवविधेभ्यः बहुभ्यः पापेभ्यः काश्यपगो- वनक्षत्रे राशौ जातदेवदत्तनामधेयस्त्वं मुक्तः पूतो भूया इति त्रिवारमनुवदेत् । तत् श्रुत्वा परिषदपि सर्वेभ्यः पापेभ्यो मुक्तो भूया इति त्रिवारमुच्चैः ब्रूयात् । ततो यजमानः महान् प्रसादः इत्युक्त्वा प्राणानायम्य सङ्कल्प्य परिषदुपदिष्टसर्व- प्रायश्चित्तं साङ्गोपाङ्गं कर्तुकामः शरीरशुद्धयर्थं प्रायश्चित्तागभूतं वपनं करिष्य इति सङ्कल्प्य विज्ञाप्याऽज्ञा लब्ध्वा-यानि कानि च पापानि ब्रह्महत्यासमानि च । केशानाश्रित्य तिष्ठन्ति तस्मात्केशान् वपाम्यहम् ॥” इति मन्त्रेण जङ्घोरुरक्षाकचानुक्तरीत्या वापयित्वा स्नानं कुर्यात् । ततः परम्-आयुर्वलं । यशो पर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञांच मेधां च त्वं नो देहि वनस्पते ॥ इति मन्त्रेण क्षीरकण्टकवृक्षस्य दन्तकाष्ठं गृहीत्वा दन्तधावनं कृत्वा द्वादशवार- गण्डूषण मुखशुदि विधाय पाणिपादं प्रक्षाल्य पुनराचम्य व्रतग्रहणयोग्यतासि- इयर्थ दशविधस्नानान्याचरिष्ये इति सङ्कल्प्य । शक्तश्चेत्स्वयमेव स्नानादि कुर्यात अशक्ता व्याधिताः सुवासिन्यो मूभिषिक्ताः शूदाश्च ब्राह्मणेनैव कारयेयुः ।
८४ प्रायश्चित्तमकाशे- तत्र द्रव्याणि मन्त्राश्च क्रमेण लिख्यन्ते । ॐ अमिरिति भस्म । वायुरिति भस्म । जलमिति भस्म । स्थलमिति भस्म । व्योमेति भस्म । सर्व ह वा इदमेत- इस्म भवति भस्मैवैतत् प्रयुञ्जीतेति तस्मादू बुध्यति इति अमिरित्यादिभिर्मन्त्रैः भस्मना स्नानं कुर्यात् । गन्धद्वारेति मन्त्रेण गोमयेति द्वितीयकम् । स्योना- पृथिवीति मन्त्रेण मृत्तिकया तृतीयकम् । आपोहिष्ठेति मन्त्रेण उदकेन चतुर्थकम् । गायत्र्या गोमूत्रेण पञ्चमम् । गन्धद्वारेति मन्त्रेण गोमयेन षष्ठम् । आप्पायस्वेति क्षीरेण सप्तमम् । दधिकाव्ण इति दनाअष्टमम् । तेजोसि शुक्रमसीत्याज्येन नवमम् । देवस्यत्वेति कुशोदकेन दशमम् । ततो जलमवगाह्य सम्यक् स्नात्वा शुद्धवस्त्रे परि- धाय पवित्रपाणिबिराचम्य प्राङ्मुखः प्राणायामत्रयं कृत्वा व्रतग्रहणार्थ संकल्प कुर्यात् । देशकालौ संकीर्त्य अमुकगोत्रस्य अमुकराशौ जातस्य अमुकनामधेयस्य मम जन्माभ्यासाजन्मप्रभृत्येतत्क्षणपर्यन्तं मध्यवर्तिनि काले सम्भावितानां प्रका- शकृतमहापातकानां रहस्यकृतपातकादीनां प्रकीर्णकान्तानां सर्वेषां पापानामपनो- दकं साशीतिसहस्रसंख्यकमाजापत्यकृच्यात्मकं षड्गुणितषडव्दसर्वप्रायश्चित्तं परि- षदुपदृिष्टं पूर्वोत्तराङ्गकलापसहितं विहितशक्यप्रत्याम्नायरूपेणाहमाचरिव्ये इति संकल्प्य । ततो नान्दीश्राद्धवैष्णवश्राद्धे कुर्यात् । तत्र प्रयोगः देशकालौ संकीर्त्य अमुकगोत्रः अमुकशर्मा आस्मिन् प्रायश्चित्तकर्मणि नान्दीदेवतासन्निधानार्थ पितृ- तृप्त्यर्थं श्रीमहाविष्णुप्रीत्यर्थं च नान्दीआई च करिष्ये इति संकल्प्य । गोत्रा नान्दीप्रपितामहीपितामहीमातरः गोत्रा नान्दीमुखा उभाभ्याम् नान्दीप्रपितामह- पितामहपितरः गोत्रा नान्दीमुखा उभाभ्यां सपत्नीकमातामहमातापितामहमाल- प्रपितामहा गोत्रशाणो नान्दीमुखा उभाभ्यां सत्यवसुसंज्ञका विश्वेदेवा नान्दी- मुखा एता देवताः हिरण्येन तोषयिष्ये । ॐ हिरण्यगर्भगर्भस्थं हेमवीजं विभा- वसोः। अनन्तपुण्यफलदमतः शान्ति प्रयच्छ मे ॥ एतेभ्यो ब्राह्मणेभ्योऽमुकगो- प्रेभ्योऽमुकनामधेयेम्यो नान्दीदेवताप्रीति कामयमान आनेयं हिरण्यं दक्षिणां तेभ्यः संप्रददे न मम इति यज्ञेश्वरं विष्णुं हिरण्येन तोषयिष्य इति संकल्प्य हिरण्यगर्भ- मिति पठित्वा अस्मै ब्राह्मणाय श्रीमहाविष्णुप्रीत कामयमान आमेयों दक्षिणां तुभ्यमहं सम्प्रददे न ममेति च । चिकीर्षितसर्वप्रायश्चित्तसाद्गुण्यार्थ प्राच्याङ्गगोदानं करिष्य इति संकल्प्य । यज्ञसाधनभूता या विश्वस्यायप्रणाशिनी । विश्वरूप- धरो देवः प्रीयतामनया गवा ॥ अस्मै ब्राह्मणाय इमां गां सवत्सां श्रीमहा- विष्णुप्रीति कामयमानस्तुभ्यमहं सम्प्रददे न मम इति । ततः चिकीर्षितसर्वप्राय- श्चित्तसाद्गुण्याथै शालाग्निहोमं करिष्ये इति संकल्प्य स्थण्डिलोल्लेखनादि अग्नि- प्रतिष्ठापनान्तं कृत्वा अस्मिन्नन्वाहितामौ आनं जातवेदसमिध्मेन प्रजापति बाधा रदेवते आज्येन अमिष्टोमौ चक्षुषी आज्येन अनिर्वायुः सूर्यः प्रजापतिश्च प्रधान- प्रयोगकण्डाः। देवता आज्येन आज्यशषणे स्विष्टकृतमित्यादि यक्ष्ये इति संकल्प्य । चतसृभिर्व्या- हृतिभिराज्यहोमं कृत्वा प्रायश्चित्तादि शेषं समापयेत् । ततः मया आचरितसर्व- प्रायश्चित्तपूर्वाङ्गभूतपञ्चगव्यप्राशनं करिष्यमाणस्तदङ्गहोमं करिष्ये इति संकल्प्य स्थण्डिलोल्लेखनायमिप्रतिष्ठापनान्तं कृत्वा अस्मिन्नन्वाहितेनानिं जातवेदसमिध्मेन प्रजापति चाघारदेवते आज्येन । अमिष्टोमी चक्षुषी आज्येन अनि सोमं विष्णु रुदं परात्मानं सवितारं वायु सूर्य प्रजापति प्रधानदेवताः पञ्चगव्येन शेषेण स्विष्ट- कृतमित्यादि यक्ष्ये इत्यन्तं संकल्प्य अन्वाधेयपरिसमूहनपारस्तरणपात्रासादन माज्यसंस्कारान्तं कृत्वा पञ्चसु पात्रेषु गव्यपञ्चकमादाय पात्रान्तरे कुशोदकं च स्थापयित्वा अन्यस्मिन्पात्रे वक्ष्यमाणभागसंख्यया तत्तन्मन्त्रैर्योजयेत् । तद्यथा गायत्र्या एकभागं गोमूत्रम्, गन्धदारोति अंगुष्ठाप्रपरिमाणं गोमयम्, आप्याय- स्वेति सप्तमाङ्गं क्षीरम्, दधिकाव्ण इति भागत्रयं दधि, तेजोसीत्येकभागमा- ज्यम, देवस्यत्वेत्येकभागं कुशोदकं सर्व प्रणवेनालोड्य अनिमलंकृत्यध्ममाधाय आज्येन चक्षुषी हुत्वा वक्ष्यमाणमन्त्रैः पञ्चगव्यहोमं कुर्यात् । आमिन्दूतम, मेधा- तिथिरनियंत्री। आप्यायस्व, गौतम सोमो गायत्री, सोमायेदम् इरावती वसिष्ठो विष्णुस्त्रिष्टुप् विष्णवे इदम् । इदं विष्णुर्मेधातिथिर्विष्णुर्गायत्री विष्णवे इदम् । मानोमहान्तमिति मानस्तोक इति यम । कुत्सो रुद्रो जगती रुद्रायेदम् । प्रण- वस्यान्तर्यामी परमात्मा गायत्रीपरमात्मने इदम् । तत्सवितुर्विश्वामित्रसवितागायत्री सवित्रे इदम् ।व्याहृतीनां विश्वामित्रगौतमभरद्वाजा ऋषयः अनिर्वायुः सूर्यः प्रजा- पतिर्देवता गायत्रीछन्दः अनये इदम् । वायवे इदम् । मूर्याय इदम् । प्रजापतये इदम् । अथ स्विष्टकृदादिहोमशेष समापयेत् । ततो हुतशेष कुशपवित्रेण प्रणवेना- मन्त्र्य प्रणवेनाभिमन्व्य प्रणवेनोद्धृत्य मध्यमेनान्त्यमेनवा पलाशपर्णेन ब्रह्मतीर्थनवा यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके । प्राशनं पञ्चगव्यस्य दहत्वमिरिवेन्धनम्। इति मन्त्रं पठित्वा प्रणवेन पिवेत् । क्षत्रियादयः स्त्रियो रोगिणश्च ब्राह्मणेन होम कारयित्वा प्राशनं कुर्युः । स्त्रीशद्वाणाममन्त्रकमेव च । ततो यजमानः परमात्मस्म- रणादिना आसायं स्थित्वा सायंसन्ध्यादि कर्म निर्वर्त्य प्राणायामत्रयं कृत्वा अमुक गोत्रेण अमुकनामधेयेन मया परिषत्सन्निधौ विज्ञापितानां सर्वेषां पापानां सद्यः संक्षयार्थ परिषनिर्णीतसर्वपापापनोदकं षड्गुणितषडब्दप्रायश्चित्तं प्राजापत्यक- च्द्रशक्यप्रत्याम्नायरूपेणाचरिष्ये इति संकल्प्य। धेनुमूल्यादि कृच्छद्रव्यं कुशकुसु- माक्षतसहितं गृहीत्वा । यज्ञसाधनभूता या विश्वस्याघप्रणाशिनी । विश्वरूपधरो देवः प्रीयतामनया गया । इतिमन्त्रेण । हिरण्यगर्भगर्भस्थं हेमवीज विभावसोः। अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे । इति मन्त्रेण च श्रीमहाविष्णुःभीयता मिति मन्त्रेण चैतेभ्यो ब्राह्मणेभ्यो नानागोत्रेभ्य इमां परिषन्निर्णीतं षड्गुणितषड़- ।
८६ प्रायश्चित्तप्रकाशे- ब्दाशीत्युत्तरसहस्रसंख्याक-प्राजापत्यकृच्छ्रप्रत्याम्नायधेनुदानादि-प्रत्याम्नायभूतामा मेयहिरण्यदक्षिणं श्रीमहाविष्णुप्रीतिद्वारा मम समस्तपापक्षयं कामयमानोऽहं संप्रददे नमम इति भूमौ सजलं दद्यात् । ततस्तस्यां रात्रौ वेदपारायणपुराणश्रवणादिना जागरणं कृत्वा प्रातः स्नानादि कर्म निवर्त्य देशकालौ संकीर्त्य मयाऽऽचरितपरि- पन्नितिप्रायश्चित्तोत्तरांगभूतं शालामिहोत्रम् उदीच्यां गोदानं च करिष्य इति । संकल्प्य पूर्वोक्तरीत्या व्याहातीभराज्येन हुत्वा प्रायश्चित्तादिहोमशेष समाप्य यज्ञसाधनभूता या इति मन्त्रं पठित्वा इमां गां प्रायश्चित्तोदीच्यांगभूतां श्रीम- हाविष्णुप्रीतिद्वारा सर्वप्रायश्चित्तं साद्गुण्यं कामयमानस्तुभ्यमहं सम्पददे न मम इति दद्यात् । प्राच्योदीच्यां गोदाने धेनोरभावे तन्मूल्यं दक्षिणां च दद्यात् । ततः परं मयाऽऽचरितसर्वप्रायश्चित्तसाद्गुण्याथै न्यूनातिरिक्तदोषपरिहारार्थं च दश दानानि करिष्ये इति संकल्प्य। तत्र द्रव्याणि दक्षिणयासह दश ब्राह्मणेभ्यो दद्यात्।। दशदानानि । यथा-गोभूतिलहिरण्याज्यवासोधान्यगुडानि च । रौप्य लवणमि- त्येवं दशदानं प्रकीर्तितम् ॥ गोदानमन्त्रस्तु प्रागुक्त एव । भूमिदानमन्त्रः-सर्व सस्याश्रया भूमिर्वराहेण समुद्धृता । अनन्तपुण्यफलदा ततः शान्ति प्रयच्छ मे ॥ तिलदानमन्त्र:-तिलाः पापहरा नित्यं विष्णोदेहसमुद्भवाः। तिलदानादसत्यं मे पापं नाशय केशव ॥ स्वर्णदानमन्त्रः-स्वर्ण पवित्रममलं स्वर्ण पापप्रणा- शनम्। स्वर्ण हि शंकरो यस्मादतः शान्ति प्रयच्छ मे ॥ आज्यदानस्य-काम- धेनुसमुहूतं सर्वक्रतुषु संस्थितम् । देवानामाज्यमाहारस्ततः शान्ति प्रयच्छ मे ॥ वस्त्रस्य-शीतवातोष्णसन्त्राणं लज्जानिर्हरणं परम् । देहालंकरणं वस्त्रमतः शान्ति प्रयच्छ मे ॥ धान्यस्य-धान्यं करोषि दातारमिह लोके परत्र च । तस्मात्स मुच्यते धान्यमतः शान्ति प्रयच्छ मे ॥ गुडस्य-यस्मादसानां प्रवरमिक्षुदण्ड- समुद्भवम् । तस्मान्मम परां लक्ष्मी प्रयच्छ गुड सर्वदा ॥ रौप्यस्य-रुद्रनेत्र समुद्भूतं रजतं पितृवल्लभम् । तस्मादस्य प्रदानेन प्रीणातु मम शंकरः ॥ लवण दानस्य-लवणे वै रसाः सर्वे लवणे सर्वदेवताः । सर्वपाकायधिष्ठानं लवणं मे - स्तु सौख्यदम् ॥ इति मन्त्रापठित्वा एतेभ्यो ब्राह्मणेभ्य इमानि द्रव्याणि श्रीमहा- विष्णुप्रीति कामयमानोऽहं सम्प्रददे न ममेति दद्यात् । अतःपरमाचरितसर्वप्राय- श्चित्तसागुण्यार्थ भूदानं करिष्य इति संकल्प्य। हिरण्यगर्भगर्भस्थमिति मन्त्रं पठि- वा इमाम् भूरि दक्षिणां श्रीविष्णुप्रीतिं कामयमानो दीनान्धकृपणेभ्यः सम्प्रददे न ममेति दद्यात् ॥ अथालक्ष्मीपरिहारार्थमायुष्याभिवृद्ध्यर्थं निरीक्षितादिदानं करिष्य इति संकल्प्य । रूपंरूपमिति पठेत् । याऽलक्ष्मीर्यच मेऽदो मे सर्वाङ्गेषु व्यवस्थितम् । तत्सर्व नाशयाज्य त्वं श्रियं पुष्टिं च वर्धय ॥ इति पठित्वा अस्मै ब्राह्मणायेत्यादि इदं कांस्यपात्रपूरितं निरीक्षिताज्यं सदक्षिणाकं ममालक्ष्मीपरिहा- प्रयोगकाण्डः। ८७० रार्थमायुप्याभिवृद्ध्यर्थं च कामयमानस्तुभ्यमहं सम्प्रददे न ममेति मन्त्रेण दद्यात् । अनन्तरं मयाचीर्णसर्वप्रायश्चित्तसाद्गुण्यार्थ ब्राह्मणान् भोजयिष्ये इति संकल्प्य । सहसं पञ्चशतानि वा शतं पञ्चाशद वा ब्राह्मणान् स्वशयक्त्यनुसारेण भोजयित्वा आशीर्वाद गृहीन्या पश्चादिन्धुभिः सह स्वयं पारणं कुर्यात् । ततः परं-यस्य स्मृत्या च नामोन्या इति । प्रायश्चित्तान्यशेषाणि । इति च मन्त्रद्वयं यथा- शक्ति नामत्रयं च जत्वा गोत्रादियुक्तेन मया आचरितपूर्वोत्तरागसहितसर्वप्राय- श्चितकर्मणि अपयजरूपी भगवान् श्रीमहाविष्णुः प्रीयतामिति वदेत् । इदं च दिनत्रयमायश्चित्ताचरणशक्तविपयम् । अशक्तानां बालानां रोगिणां च मलापक- पणन्नानादि भूमिदानान्तं साङ्गोपाङ्गप्रायश्चित्तमेकस्मिन्नेव दिने उपवासं च कार- पिन्वा परेगाह्मणभोजनं व्रतपारणं च कारयेत् ॥ अथ तुवासिनीनां प्रायश्चित्ताचरणे-मृत्तिकास्नानशालामिहोमपञ्चगव्यहो- माद्याचरणं ब्राह्मणेन कारयेत् । वपननान्दीश्रावैष्णवादानि न सन्त्येव । पापनिवेदने प्रकीर्णकेषु परमात्मस्मरणराहित्यान्तमुक्त्वा स्वार्थपरार्थधर्मक्रियानु- कूलक्रियानिरोधनक्रियानिन्दनभर्तक्रियानिन्दनभर्तृवचोल्लङ्घनश्वश्रूश्वशुरदेवरा- दिवचनोल्लइनसावित्रीवतराहित्यसाभिलापपरपुरुपनिरीक्षणसम्भाषणपरिहसन- सहयानासनशयनावस्थानाज्ञातपरपुरुषसंसर्गपैतृकवतोपवासादिनिपिद्धदिनसङ्ग- मरहोवस्थानभर्तृदेवतासूर्यादिग्रहादर्शनभर्तसम्भाषणराहित्यगृहोपकरणादिद्रव्या- दर्शनोदक्याशूदनामान्त्यजस्पर्शनचाण्डालनिरीक्षणवाक्यश्रवणपतिकुलवचनभर्तृ- श्वदेवानिराहित्यशिशताडनात्परीतशिशुस्तन्याप्रदानभर्तश्वशुरादिमैत्रीभेदनपं- तिभेदव्यञ्जनादिप्रदानभर्दवशीकरणदोपचिन्तनदेवब्राह्मणगुरुदूपणभर्तप्रवासकाल हिवारभोजनपरगृहयानदेहलीवासपरगृहवासकुड्यजालवातायनादिविचरणरथ्यो- पमर्पणममाजोत्सवदर्शनजननीग्रयानदिवास्वापभर्तृश्वशुरश्वश्रूसमानासनशय्या- धवस्थानतदभिवादनराहित्यधान्यगृहोपकरणादिविक्रयभत्रननुज्ञातव्रतोपवासनिय- माचरण-देहलीगृहाद्यलंकरणराहित्य-सदानिशुरभापण-वृथाकोधनवोधनोर शिरोमु- खताइनक्षुधितदासीदासपशूपेक्षणभक्तामदानताम्बूलाञ्जनहरिदालेपनतिलकमङ्गल- सूत्रादिराहित्यकेशप्रसाधनराहित्यसदामलिनवस्त्रधारणस्वेच्छाकामुकत्वभर्तृत्वङ्का- रहुकारातिरस्कार स्वयम्प्रथमभोजन-शयनप्रबोधन-भतचित्तारञ्जनादि-प्रकीर्णकानां ज्ञानतोजानतश्चेति समानम् । अनुवादकवचनेऽपि स्वार्थपरार्थविप्रकीर्णकादिभत्- चित्तारञ्जनात् प्रकीर्णकानामिति ज्ञानतोऽज्ञानतो वेत्यादि यथायथम् अनुवादः कार्यः ॥ अथ विधवानां पापनिवेदने पापविशेषः कथ्यते । सुवासिनीत्वप्रयुक्त- स्वार्थपरत्वभर्तचित्तारंजनान्तमुक्त्वाअस्नातभोजन-द्विवारभोजनपर्युषितान्नभोजन- कांस्यपात्रभोजनरात्रिभोजनपुत्रायच्छिष्टान्न भोजनमदकरद्रव्यभक्षणताम्बूलचर्वण- प्रायश्चित्तप्रकाशे- बलीवारोहणकुसुमरक्तचित्रवस्त्रादिधारणतिलकांजनगन्धकस्तूरीकर्पूरघुसणसुर- भिपुष्पादिधारणभर्तृस्मरणतर्पणादिराहित्यभनिन्दाश्रवणस्वशरीरपोषणादिपकी- कानां यथायथं निवेशः। दासीकुलटावेश्यामैत्रीकरणसत्कथाश्रवणराहित्यभ्रात- भार्यादिमैत्रीभेदनस्वाधीनपरमैथुनशब्दश्रवणवीक्षणखष्ट्वाशयनयानारोहणोष्णोदक- स्नानतीर्थाचरणराहित्यादिप्रकीर्णकानां च यथायथं निवेशः । ज्ञानतोऽज्ञानत- श्चेति समानम् । विधवानां प्रायश्चित्ताचरणे शिरोमात्रवपनम्, पाणिपादनख कुन्तनम्, मृत्तिकास्नानम्, देशविधस्नानानि च सा स्वयमेव कुर्यात् ।नान्दीलाई विष्णुनादं चास्त्येव । पञ्चगव्यहोमं ब्राह्मणेन कारयेत् । शेषमन्यत् समानम् ॥ इति श्रीबीकानेरराज्यान्तर्गतश्रीरत्नगढनिवासिना कर्मकाण्डाचार्य-कर्मकाण्डकोविद- कर्मकाण्डभास्कर-श्रौतभूषण इत्युपाधिचतुष्टयविभूषितेन गौडपण्डितश्रीचतुर्थी- लालशर्मणा विरचिते प्रायश्चित्तप्रकाशे प्रयोगकाण्डो द्वितीयः समाप्तः ॥ कर्मविपाककाण्डः। अथ कर्मविपाककाण्डस्तृतीयः प्रारभ्यते । तत्र तावत्कर्मविपाकशब्दार्थः । कर्मणः अधर्ममूलकस्य अशुभफलजनकस्येति यावत् । विपाका परिणामः । अथवा कर्मणां विपाकः कर्मविपाकः । स च त्रिविधः । नरक-योनि-रोग- रूपात्मकः । इह योनिरोगादिभोगज़नकदुःखमयपरिणामः । अमुत्र नरकभोगा- दिजनकदुःखमयपरिणामश्च । कर्माऽपि विविधम् । संचितम्, आरब्धम्, क्रिय- माणं च । तथा च वृद्धसूर्यारुणसंवादे-"त्रिविधं संचितारब्धक्रियमाणमिति ध्रुवम् । प्रारब्धकर्मणां सूत भोगादेव क्षयो भवेत् ॥ संचितक्रियमाणानां प्राय- श्चित्तैस्तथैव च । कर्मणा कर्मणच्छेद इति वेदविदो विदुः ॥ आयसेन यथा यत्ना- दायसस्य निकृन्तनम्॥" मनुस्मृती-"चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये। नियहिँ लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः ॥ " याज्ञवल्क्योऽपि-"प्रायश्चित्तमकु- Cणाः पापेषु निरता नराः। अपश्चात्तापिनः कष्टान्नरकान्यान्ति दारुणान् । तस्मा- तेनेह कर्त्तव्यं प्रायश्चित्तं विशुद्धये । एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति ॥" मनुस्मृता-"शुभाशुभफलं कर्म मनोवाग्देहसंभवम् । कर्मजा गतयो नृणामुत्त- माधममध्यमाः ॥ परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम्॥पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः। असंबद्धमलापश्च वाङ्मयं स्याचतुर्विधम् ॥ अदत्तानामुपादानं हिंसां चैवाविधानतः । परदारोप- सेवा च शारीरं त्रिविधं स्मृतम् ॥ मानसं मनसैवायमुपभुक्ते शुभाशुभम् । वाचा वाचाकृतं कर्म कायेनैव च कायिकम् ॥ शारिजः कर्मदोषैर्याति स्थावरतां नर । वाचिकैः पक्षिमृगतां मानसैस्त्वन्त्यजातिताम्।।" अथ नरकानाह मतु:-"तामित्र- . कमविपाकाण्डः । ८९ मन्धतामिसं महारौरवरौरवौ। नरकं कालसूत्रं च महानरकमेव च ॥ संजीवनं महावीचिं तपनं संप्रतापनम् । संघातं च सकाकोलं कुड्मलं पूतिमृत्तिकम् ॥. लोहशङ्कुसृजीषं च पंथानं शाल्मली नदीम् । असिपत्रवनं चैव लोहदारकमेव च ॥ यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः । स पर्यायेण यातीमान्न- रकानेकविंशतिम् ॥ ॥ ब्रह्मवैवत्त विशेषः-" नरकाणां च कुण्डानि सान्त नानाविधानि च । नानापुराणभेदेन नामभेदानि तानि च ॥ विस्तृतानि गभी- राणि क्लेशदानि च जीविनाम् । भयङ्कराणि घोराणि हे वत्से कुत्सितानि च ॥ पडशीतिश्च कुण्डानि संयमन्यां च सन्ति च । निवोध तेषां नामानि प्रसिद्धानि अतौ सति । अन्यानि चामसिद्धानि तत्र क्षुद्राणि सन्ति वै ॥" अथ नरककुण्डनामानि । १ वहिकुण्डम्-(पापभेदान्नरककुण्डविशेषगामिनः ) कटुवाचा बान्धवदग्धकृद्गात्रलोमप्रमाणाव्दं तत्र स्थित्वा पशुयोनिमवानोति ॥ २ तप्तकुण्डम् ब्राह्मणं तृपितं क्षुब्ध गृहमागतमतिथि वा यो न भोजयति स प्रयाति ॥ ३ क्षारकुण्डम्-रविवारार्कसंक्रान्त्याममावास्यायां श्राद्धवासरे वा वस्त्रे क्षारसंयोजकः ॥ ४ विट्कुण्डम्- स्वदत्तां परदत्तां वा ब्राह्मणवृत्ति यो हरति स पष्टिवर्पसहस्राणि गच्छति ॥ ५ सूत्रकुण्डम्-परकीयतडागकूपादिषु तडागादिकं करोति तदुत्सर्ग च तदेणुमानवर्षाणि तत्र तिष्ठति ॥ ६ श्लेष्मकुण्डम्-एकाकी मिष्टान्नमश्नाति स पूर्णमन्दशतं श्लेष्मभोजी निवसति ॥ ७ गरकुण्डम्-पितृमा- तृगुरुभार्यापुत्रपुत्र्यादीन् यो न पुष्णाति संपूर्णसहस्राब्दम्।। ८ दूषिकाकुण्डम्- अतिथिं दृष्ट्वा वक्रदृष्टयावलोकनकर्ता ॥ ९ वसाकुण्डम्-विप्राय दत्त्वा तद्र- व्यमन्यस्मै प्रयच्छति ॥ १० शुक्रकुण्डम्-परस्त्रीगामी परपुरुषगामिनी च ॥ ११ असृकुण्डम्-गुर्वादिताडकस्तद्रक्तपातकारकश्च ॥ १२ अश्रुकुण्डम्- हरिभक्तमश्रुमन्तं गायन्तं दृष्ट्वा यो हसति ॥ १३ गात्रमलकुण्डम्-अशुद्धमानसः शश्वत् खलताकारी च ॥ १४ कर्णविट्कुण्डम्-वधिरोपहासकृत् ॥ १५ मज्जा- कुण्डम्-लोभात्स्वभोजनार्थ जीवहन्ता ॥ १६ मांसकुण्डम्-अर्थलोभात् कन्या- विक्रयी ॥ १७ नखकुण्डम्-आरोपवासादिषु संयमत्यागी ॥ १८ लोम- अण्डम् श्राद्धोपवासश्राद्धादिषु क्षौरकर्म कारयति सः ॥ १९ केशकुण्डम्- सकेशं पार्थिवं लिङ्गं योऽर्चयति ॥ २० अस्थिकुण्डम्-गयायां विष्णुपदे पितृ- पिण्डादाता ॥ २१ ताम्रकुण्डम्-गुर्विणीगामी ॥ २२ लौहकुण्डम्-अवी- रान्नमृतस्नातान्नं च भुते ॥ २३ तीक्ष्णकण्टककुण्डम्-कटुवाचा स्वामिताड- यिता ॥ २४ विषकुण्डम्-विषेण जीवहन्ता ॥ २५ धर्मकुण्डम्-स्वेदयुक्तहस्तेन देवव्यस्पर्शकृत् ॥ २६ तप्तसुराकुण्डम्-शूद्रानुज्ञातः शूद्रान्नभोजी ॥ २७ प्रत- ततैलकुण्डम्-दण्डेन वृषताडकः वृषवाहकश्च ॥ २८ कुन्तकुण्डम्-कुन्तलौ- १२ .
९० प्रायश्चित्तप्रकाशे- हबडिशै वहन्ता ॥ २९ कृमिकुण्डम्-मत्स्यामिषभोक्ता विप्रो हरिनैवेद्याभुक् च ॥ ३० पूयकुण्डम्-शूद्रयाजी तच्छ्राइभुक् तच्छवदाही . च ब्राह्मणः ॥ ३१ सर्पकुण्डम्-श्रीकृष्णचन्द्रपदचिह्नमस्तकस्य सर्पस्य हन्ता सर्पमात्रहन्ता च ॥ ३२ मशकुण्डम्-विधि प्रकल्प्य क्षुद्रजीवान् यो हन्ति ॥ ३३ दंशकुण्डम्- विधि हित्वा जीवहन्ता ॥ ३४ गरलकुण्डम्-मधुमक्षिका हत्वा मधुग्राही ॥ ३५ वजदंष्ट्रकुण्डम्-अदण्डये दण्डकृतिप्रे शरीरदण्डकृच्च॥३६ वृश्चिककुण्डम्- अर्थलोभेन प्रजापीडको राजा ॥ ३७ शरकुण्डम्, ३८ शूलकुण्डम, ३९ खड्ग कुण्डम् बाह्मणः शस्त्रधारी, धावक, सन्ध्याहीनो हरिपूजाहीनश्च । शरादिषु त्रिषु कुण्डेषु स्वलोमान्दवर्षपर्यंत तिष्ठति ॥ ४० गोलकुण्डम्-अल्पेदोषेण सान्ध- कारे कारागारे यः प्रजा निवनाति ॥ ४१ नक्रकुण्डम्-सरोवरादुत्थितान्नक्रादीन हन्ता ॥ ४२ काककुण्डम्-कामेन परस्त्रीवक्ष:ोणीस्तनास्यं च योऽवलोकयति। ४३ सञ्चानकुण्डम्-स्वर्णकार स्वर्णव्यापारे स्तेयकर्ता च ॥ ४४ वाज- कुण्डम् ताम्रलौहचौरः ॥ ४५ वजकुण्डस्-देवचौरो देवद्रव्यादिहारकश्च ॥ ४६ तप्तपाषाणकुण्डम्-देवद्विजयो रौप्यगोवस्त्राणां चौरः ॥ ४७ तीक्ष्ण- पाषाणकुण्डम्-देवविप्रयोः पित्तलकांस्यपात्रचौरः॥ ४८ लालाकुण्डम्-पुंश्चल्य- भुक् तवृत्तिजीवी च ॥४९ मसीकुण्डम्-म्लेच्छसेवी मसीजीवी च ब्राह्मणः ॥ ५० चूर्णकुण्डम् देवदिजयोः शस्यधान्यताम्बूलासनचौरः ॥५१ चक्रकुण्डम्- विपद्रव्यं हृत्वा चक्रकारी ॥ ५२ वक्रकुण्डम्-विप्रवान्धवयोर्वक्रताकारी ॥ ५३ कूर्मकुण्डम्-हरिशयने कूर्ममांसभुक् ॥ ५४ ज्वालाकुण्डम्, ५५ भस्म- कुण्डम्-देवद्विजयोघृततैलादिहत् । ५६ दग्धकुण्डम्-देवदिजयोर्धात्रीगन्धतै- लद्रव्याणामपहर्ता ॥ ५७ तप्तशूम्र्मीकुण्डम्-बलखलत्वादिना परभूमिहरः ॥ ५८ असिपत्रकुण्डम्-अर्थलोभात् खड्नेन जीविनच्छेदी नरघाती च ॥ ५९ शुर- धारकुण्डम्-ग्रामनगरादिदाहकृत् ६० सूचीमुखकुण्डम्-परकर्णेः मुखं दत्त्वा परनिन्दकः परदोषश्लाघी वेदब्राह्मणनिन्दकश्च॥६१ गोधामुखकुण्डम्-गृहं भित्वा वस्तुगोछागमेषचौरः ॥ ६२ नक्रमुखकुण्डम्-सामान्यद्रव्यचौरः। ६३ गजदं- शकुण्डम्-गजतुरगनरचौरः ॥ ६४ गोमुखकुण्डम्-तृषितां जलं पिवंती गां वारकः ॥ ६५ कुम्भीपाककुण्डस्-गो-स्त्री-भिक्षु-भ्रूण-ब्रह्महा-अगम्यागामी-दीक्षा- संध्याहीनस्तीर्थप्रतिग्राही ग्रामयाजी देवलशूदसूपकारी वृषलीपतिश्च ॥६६ काल- सूत्रकुण्डम्-पुंश्चलीवेश्यान्नभुक् तत्संसर्गी च । ६७ अवटोदकुण्डम् कुलटों- पतिव्रतावेश्यादिषटूदुष्टस्त्रीगामी । ६८ अरुन्तुदकुण्डम्-चन्द्रसूर्यग्रहणे निषिद्ध- कालभोजी । ६९ पांसुभोजनकुण्डम्-एकस्मै वाक्प्रदत्तकन्याया अन्यस्मै दाता । ७० पाशवेष्टकुण्डम्-दत्तापहारी ॥ ७१ शूलपोतकुण्डम्-अभक्त्या शिवलिङ्ग कर्मविपाककाण्डः। ९१. . पूजकः । ७२प्रकर- पनकुण्डम्-विप्रदण्डकृत्तत्कम्पतझ्यदायी च । ७३ उल्का- मुखकुण्डम्-सकोपवदना स्वामिनि कटुवादिनी स्त्री । ७४ अन्धकूपकुण्डम्- दभोग्या ब्राह्मणी ७५ ॥ वेधनकुण्डम् वेश्या, सा च पञ्च वा षट्पुंगमना- द्भवति । ७६ दण्डताडनकुण्डम्-पुङ्गी,सा च समाष्टपुंगमनाद्भवति ॥७७ जाल- बद्धकुण्डम्-महावेश्या, सा च' अष्टाधिकपुंगमनाद्भवति । ७८ देहचूर्ण- कुण्डम्-कुलटा, सा च पुंठ्यगमनाद्भवति ।७९ दलनकुण्डम्-स्वैरिणी वृषली, सा चतुःपुंगमनाद्भवति। ८० शोषणकुण्डम्-धृष्टा पुंश्चली, सा च त्रिपुंगमना- द्भवति ।८१कषायकुण्डम्-सवर्णागामी । ८२ शूर्पकुण्डम-जाह्मणीगामी क्षत्रियो वश्यश्च ॥ ८३ ज्वालामुखकुण्डम्-करे तुलसीगङ्गाजलदेवशिलाश्च कृत्वा प्रति- ज्ञाकृत् । तदपालको मिथ्याशपथी। मित्रद्रोही विश्वासघाती मिथ्यासाक्ष्यदश्च ॥ ८४जिह्मकुण्डम्-नित्यक्रियाहीनः वेदवाक्यास्थारहितः मन्दोपहासीव्रतोपवास- होनश्च । ८५ धूमान्धकुण्डम्-देवविप्रयोईनहारी। ८६ नागवेष्टनकुण्डम् वैद्य दैवज्ञवृत्तिकारी, लाक्षालोहन्यापारी, रसादिविक्रयी च ब्राह्मणः ॥ अय नरकादागतानां योन्या कथ्यन्ते । मनुस्मृतौ-"बहून्वर्षगणान्धोरान् नरकान्प्राप्य तत्क्षयात् । संसारान्प्रतिपद्यन्ते महापातकिनस्त्विमान्॥यां यां योनि तु जीवोऽयं येन येनेह कर्मणा । क्रमशो याति लोकेमिस्तत्तत्सर्वं निवोधत॥ याज्ञवल्क्यस्मृतावपि-" महापातकजान्घोरान्नरकान्प्राप्प दारुणान् । कर्मक्ष- यात्प्रजायन्ते महापातकिनास्त्विह॥"अथ चतुरशांतिलक्षयोनिप्रकाराबृहना- रुडे-"चतुरशीतिलक्षाणि चतुर्भेदाश्च जन्तवः । अण्डजाः स्वेदजाश्चैव उद्भिजाश्च जरायुजाः ॥ एकविंशतिलक्षाणि ह्यण्डजाः परिकीर्तिताः । खेदजाश्च तथैवोक्ता उद्भिजास्तत्प्रमाणतः ॥ जरायुजाश्च तावन्तो. मनुष्याद्याश्च जन्तवः । सर्वेषामेव जन्तूनां मानुपत्वं सुदुर्लभम् ॥ " अथ मनुयाज्ञवल्क्यादिप्रोक्तमहापातका- दिजनितयोनयः क्रमेण लिख्यते। १ ब्रह्महा-श्वशूकरखरोष्ट्रगोऽजाऽविपक्षि- चण्डालपुक्कसानां क्रमेण,योनि प्रामोति । रसुरापी-कृमिकीटपतङ्गविद्भुपक्षि- हिनसत्त्वानां योनिम् ।३ स्तेयी-लूताहिसरटाम्बुचारिहिनपिशाचानां योनिम् । ४ गुरुतल्पगामी-तृणगुल्मलताक्रव्याददंष्ट्रिक्रूरकर्मकृताम् । ५. धान्यहारी- मूषकः । ६ यानहारी-उष्ट्रः । ७ फलमूलहारी-वानरः । ८ दुग्धहर्ता-काको वलाकश्च ।९ गृहोपस्करहारी-चटकः । १० मधुहारी-दंशः।११मांसहा- गृधः।१२ गोहर्ता-गोधा,सर्पश्च ।१३ अग्निहारी-बका१४ इक्ष्वादिरसहारी- श्वा । १५ लवणहारी-चीयाख्यः कीटः । १६ कांस्यहारी-हंसः । १७ वस्त्रा- पहारी-पतंगः । १८ शय्यापहारी-क्षपणकः । १९ शंखभुत्त्युपहराि- कपाली । २० दीपापहारी-उल्लूकः । २१ विद्याविक्रयी-पुरुषमृगः:। .
९२ प्रायश्चित्तप्रकाशे-- २२ वेदविक्रयी-द्वीपी । २३बहुयाजकः-जलप्लवः । २४ अयाज्ययाजक:- वराहः । २५ अनिमन्त्रितमोजी-वायसः । २६ मृष्टैकभोजी-वानरः । २७ यतस्ततोलोजी-मार्जारः । २८ वनदाही-खद्योतः । २९ दारका- चार्य:-मुखविगन्धी । ३० पर्युषितभोजी-कृमिः । ३१ अदत्तादायी-बली- वर्दः । ३२ मत्सरी-भ्रमरः । ३३ . चाण्डालीगामी-अजगरः । ३४ प्रव्र- जितागामी-मरुपिशाचः ॥३५ शूद्रागामी-दीर्घकीटः। ३६ सवर्णाभिगामी- दरिद्रः । ३७ जलहारी-मत्स्यः । ३८ अविक्रेयविक्रयी-गृध्रः । ३९ राजम- हिषीगामी-नपुंसकः । ४० नृपाक्रोशका-गर्दभः । ४१ गोगामी-मण्डूकः । ४२ अनध्यायाध्यता-शृगालः । ४३ परयोषिद्विप्रस्वहर्ता-ब्रह्मराक्षसः, ऋक्षश्च । १४ घृतहर्ता-नकुलः । ४५ तैलहर्ता-तैलपकः । ४६ दधिहर्ता- बलाका। ४७ कौशेयवस्त्रहारी-तित्तिरः । ४८ क्षौमवस्त्रहारी-मण्डूकः । ४९ कार्पासवस्त्रहारी-क्रौञ्चः । ५० गुडहर्ता-वाग्गुदनामा पक्षिविशेषः । ५१ सुगन्धिद्रव्यहर्ता-कुच्छन्दरिः । ५२ पत्रशाकहर्ता-मयूरः । ५३ सिद्धा- नहर्ता-शल्यः । ५४ व्रीहियवादिहर्ता-शल्यकः । ५५ मृगहस्तिहारी- वृकः । ५६ अन्वहारी-व्यावः । ५७ पञ्चमहायज्ञत्यागी विप्रः-विड्वराहः । ५८ बहुतर्जक:-मार्जारः ।।५९ अपात्राध्यापक:-बलीवर्दः । ६० पर्युषितान- दाता-कुक्कुरः । ६१ पुस्तकहारी-जन्मान्धः । ६२ विषदाता-सर्पः । ६३ अप्राप्तयौवनस्त्रीगामी-अजगरः । ६४ गुरुदाराभिलाषी-कृकलासः । ६५जलप्रवणभेदी-मत्स्यः ।६६अयोनिगामी-वृकः ॥६७क्रयवञ्चनकारी- उल्लूकः । ६८ प्रतिश्रुत्यादाता-जम्बूकः । ६९ पदाग्निस्पर्शक:-मार्जारः । ७० रजस्वलागामी-पण्ढः । ७१ उपानतृणकासिहर्ता-मेषः । ७२ मृग- याव्यसनी-वधिकगृहे छागः । ७३ विषपानेन सृतः-गिरौ कृष्णसर्पः। ७४निरंकुशस्वभाव-कुञ्जरः। ७५ सन्ध्यागायात्रीजपहीनो विप्रा-चकः । ७६ गुरुसेवारहितःशिष्या-गवयः।७७गुरुं हुंकृत्य त्वंकृत्य-वने ब्रह्मराक्षसो जायते।७८सतामसत्कारकारी-शिवा । ७९आशास्त्रहविघातका-चक्रवाकः। ८० मातृपितृगुरुभ्रातृवैरकृत्-असकृद् गर्भ योनौ च नश्यति । ८१ श्वथ्वी- गालीप्रदा नारी-जलौका । ८२ भर्तृभलिका-यूका । ८३ परपुरुषगामिनी- वल्गुली गृहगोधा द्विमुखी सर्पिणी च । ८४ स्वगोत्रीपघाती स्वगोत्रागामी च-तरक्षः, शल्लका, ऋक्षश्च। ८५ मित्रपत्नीगामी-गर्दभः । ८६ गुदगामी- विडवराहः । ८७ वृषलीपतिः-वृषः ।८८महाकामी-अश्वः ८९ एकादशाह- भोजी-श्वा। ९० देवलक:-कुक्कुटः। ९१ विप्रवृत्तिहारी-मर्कट:-श्वा कपिश्च । "एवं दुष्कर्मकर्त्तारो भुक्त्वा निरययातनाम् । जायन्ते पापशेषेण’ प्रोक्तास्वेतासु LL , कर्मविपाककाण्डः। ९३ योनिषु ॥ १ ॥ ततो जन्मसहस्रेषु प्राप्य तिर्यक्शरीरताम् । दुःखानि भारवहनो- द्भवादीनि लभन्ति ते ॥ २ ॥ पक्षिदुःखं ततो भुक्त्वा वृष्टिशीतातपोदवम् । मानुषं लभते पश्चात् समीभूते शुभाशुभे ॥ ३ ॥" अथमहापाताकोपपातकोद्भवा रोगास्तदुपायाश्चलिख्यन्ते । शातातपस्मृतौ वृद्धारुणसंवादे च-"प्राय- श्चित्तविहीनानां महापातकिनां नृणाम् । नरकान्ते भवेजन्म चिह्नावितशरीरि- णाम् ॥ १॥ प्रतिजन्म भवेत्तेषां चिह्न तत्पापसूचकम् । प्रायश्चित्ते कृते याति पश्चा- तापवतां पुनः ॥ २ ॥ महापातकर्ज चिहं सप्तजन्मनि जायते । उपपापोद्भवं पञ्च त्रीणि पापसमुद्भवम् ॥ ३ ॥ दुष्कर्मजा नृणां रोगा यान्ति चैव क्रमाच्छमम् । जपैः सुरार्चनैमिनिस्तेषां शमो भवेत् ॥ १ ॥ पूर्वजन्मकृतं पापं नरकान्ते परि- क्षयेत् । वाधते व्याधिरूपेण तस्य कृच्छादिभिः शमः ॥५॥ कृतकर्मक्षयो नास्ति कल्पकोदिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ६ ॥ कुष्ठं च राजयक्ष्मा च प्रमेहो ग्रहणी तथा । मूत्रकृच्छाश्मरी कासा अतिसारभगन्दरौ ॥७॥ दुष्टत्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम् । इत्येवमादयो रोगा महापापोद्भवाः स्मृताः ॥ ८॥ जलोदरयकृतप्लीहशूलशोफत्रणास्तथा । श्वासाजीर्णज्वरच्छर्दिभ्रम- मोहगलग्रहाः ॥९॥ रक्ताबुंदविसर्पाद्या उपपापोद्भवा गदाः । दण्डापतानक- श्वित्रवपुःकम्पविचर्चिका॥१०॥ वल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः । अर्श आया नृणां रोगा अतिपापाद्भवन्ति हि ॥ ११ ॥ अन्ये च बहुधा रोगा जायन्ते दोपसंकराः। उच्यन्तेऽथ निदानानि प्रायश्चित्तानि च क्रमात् ॥ १२ ॥ महापापेषु सर्वस्वं तदर्ध तूपपातके । दद्यात् पापेषु षष्ठांशं कल्प्यं व्याधिवलावलम् ॥१३॥" पातकी. रोगी. उपायाः। १.ब्रह्महा क्षयरोगी, पाण्डुकुष्ठी शातातपोक्तं विधिमाचरेत् २ सुरापः श्यावदन्तका,मूत्राघाती च कृच्छ्रे सान्तपनं कार्य सव- त्सां गां च दद्यात् । ३ स्वर्णस्तेयी कुनखी-मूत्रकृच्छी च चान्द्रायणत्रयं कृत्वा स्वर्णशतं दद्यात्। १ गुरुतल्पगः दुश्चर्मा शातातपोक्तं विधिं कुर्यात् । ५ ब्रह्महादिचतुर्णा तत्तद्ररोगवान शातातपोक्तं तत्तत् विवि कुर्या त। संसर्गी ६ अजाघाती अधिकाङ्गः विचित्रवस्त्रयुक्तामजां दद्यात् । ७ अश्वहन्ता. वक्रतुण्डः शतपलं चन्दनं दद्यात् । ८मेषघाती पाण्डुरोगी पलपरिमितकस्तूरीदानम् । -- - - .
९४ प्रायश्चित्तप्रकाशे- कुष्ठी, निर्वशश्च 4 ९ उष्ट्रहन्ता विकृतस्वरः पलपरिमाणं कपूर दद्यात् । १० काकघाती कर्णहीनः श्मश्रुहीनश्च कृष्णां गां दद्यात् स्त्रीचेत् श्मश्रुमती ।। ११ कारुहन्ता रूक्षः शुक्लवर्ण वृषभं दद्यात् । १२ खरहन्ता खररोमा निष्कसुवर्णनिर्मितप्रतिकृतिं दद्यात् । १३ गजघाती सर्वकार्येष्वसिद्धार्थः गणेशप्रतिमांप्रासादंकृत्वा स्थापयेत् । १४ गोत्रहा शतप्राजापत्यव्रतपूर्वकभूमिदान महाभारतश्रवणं च कुर्यात् । १५ गोहान्ता कुष्ठी शातातपोक्तं प्रायश्चित्तं कुर्यात् । १६ तरक्षुहन्ता केकराक्षः धेनुं दद्यात् । १७ पितृहन्ता कुष्ठी, चेतनाहीनश्च । शातातपोक्तं प्रायश्चित्तम् । १८ बालघाती मृतवत्सः ब्राह्मणोद्वाहनम्, हरिवंशश्रवणंच १९ भ्रातृहा मूकः चान्द्रायणत्रयंचरित्वा पलसुवर्णसहित. पुस्तकं दद्यात् । २० महिषांघाती कृष्णगुल्मी निष्कत्रयसुवर्णनिर्मितां प्रतिकृति दद्यात अन्धः पितृघ्नप्रायश्चित्तं कुर्यात् । क्षयरोगी गोभूहिरण्यमिष्टान्नजलवस्त्रघृत- धेनुतिलधेनुदानम् । २३ मार्जारहा पीतपाणिः पलसुवर्णनिर्मितं पारावतं दद्यात् । २४ बकघाती दीर्घनासः गां दद्यात् । रक्तार्बुदी चत्वारि प्राजापत्यानि चरित्वा सप्त धान्यदानम् । २६शुक्लसारिकाघाती स्खलितवाकू ससुवर्ण श्रेष्ठपुस्तकदानम्। २७ शूकरहन्ता दन्तुरः सदक्षिणं घृतकुम्भं दद्यात् । २८ शुद्रहन्ता दण्डापतानका प्राजापत्यव्रतं कृत्वा सदक्षिणां धेनुं दद्यात्। २९ शृगालहा विपादकः ३० स्त्रीहन्ता अतिसारी दशाश्वत्थवृक्षानोपयेत् शर्कराधेनुदानं शतविप्रभोजनं च। ३१ हरिणघाती खञ्जः पलपरिमितसुवर्णाश्वं दद्यात् । ३२ अभक्ष्यभोक्ता कृमिकोदरः पञ्चभीष्मव्रतं कुर्यात् । २१ मातहा २२ राजहा २५ वैश्यहन्ता ....
कर्मविपाककाण्डः। ९५ ३३ गर्भपातकर्ता यकृतप्लीहजलोदररोगी पलत्रयपरिमितसुवर्णरौप्यताम्रान्वित जलधेनुदानम् । ३४ दावाग्निदः रक्तातिसारी उदपानं वटवृक्षरोपणं च कुर्यात् । ३५ दुष्टवाग्मी खण्डितः दुग्धसमन्वितघटद्वयं पलद्वयपरिमितं रौप्यं च दद्यात् । ३६ कदन्नदः मन्दोदरामिः प्राजापत्यत्रयं कृत्वा शतं द्विजान् मोजयेत् । ३७ धूर्तः अपस्मारी ब्रह्मकूर्चमयीं धेनुं सदक्षिणां गांच दद्यात् । ३८ परनिन्दावान् खल्वाटः कांचनसहितां गां दद्यात् । ३९ परान्नविघ्नकर्ता अजीर्णी गायत्र्या लक्षहोमं कुर्यात् । ४० परोपतापी शूली अन्नदानं रुद्रजपं च प्रकुर्वीत । ४१ परोपहासकृत् काणः सकांचनां गां दद्यात् । १२ पिशुनः श्वासकासी सहस्रपलपरिमितं घृतं दद्यात् । १३ प्रतिमाभङ्गकारी अप्रतिष्ठः वत्सरत्रयपयन्त प्रतिदिनमश्वत्थसेचन विप्रकन्योद्वाहनं विघ्नराजप्रतिमां च स्थापयेत् । ४४ मद्यपः रक्तपित्ती श्यावदन्तश्च सर्पिषो घटं ससुवर्ण मधुनोर्धघटं च दद्यात् । ४५ मार्गहा पादरोगी अश्वं दद्यात्। ४६ रजस्वलादृष्टान्न कृमिलोदरः त्रिरात्रं गोमूत्रयावकं भक्षयेत् । भोक्ता १७ विषदः छदिरोगी दश पयस्विनीगा दद्यात् । १८ सभायांपक्षपाती पक्षाघातवान् निष्कत्रयपरिमितं हेम दद्यात् । ४९ सुराजले जले । गुदरोगी मासमेकं सुरार्चन गोद्वयदानं प्राजापत्य वा शकृन्मूत्र कृत मेकं च कुर्यात् । ५० अगम्यगामी ध्रुवमण्डली(कुष्ठवि- कार्पासभारं सवत्सकतिलहेमधेनुं दद्यात् । शेषयुक्तः) ५१ अश्वयोनिगामी गुदस्तम्भी शिवाय सहस्रकमलमर्पयेत् । ५२ आमान्नहारी हीनदीप्तिः निष्कद्वयसुवर्णनिर्मितावश्विनौ दद्यात् । ५३ इक्षोविकारहारी उदरगुल्मवान् गुडधेनुं दद्यात् । . १ प्रायश्चित्तंप्रकाशे- ५४ अर्णाहारी लोमशः कम्बलान्वितनिष्कसुवर्णनिर्मितवहिमूर्ति दद्यात् ५५ औषधहारी सूर्यावर्त्तरोगी मासपर्यन्तं सूर्यायायं दत्त्वा कांचनं दद्यात् । ५६ कन्दमूलफलहारी स्वपाणिः यथाशक्ति देवगृहमुद्यानं च कुर्यात् । ५७ कांस्यहर्ता पुण्डरीककुष्ठी शतपलकांस्यं दद्यात् । ५८ चाण्डालीगामी हीनाण्डकोषः शातातपोक्तं प्रायश्चित्तं कुर्यात् । ५९ तपस्विनीगामी प्रमेहरोगी मासमेकं रुद्राध्यायं जपित्वा यथाशत्ति सुवर्णदानम् । ६० ताम्बूलहारी श्वेतौष्ठः सदक्षिणं विद्रुमं दद्यात् । ६१ ताम्रचौरः रक्तकुष्ठी प्राजापत्यव्रतं कृत्वा शतपलपरिमितं तानं दद्यात् । ६२ तैलचोरः कण्ड्वादिपीडितः उपवासमकं कृत्वा तैलघटट्टयं दद्यात् । ६३ अपहारी नेत्ररोगी उपवासं कृत्वा धृतधेनुं दद्यात् । ६४ दधिचौरः मेदवान दधिधनुदानम् । ६५ दारुहारी स्विन्नपाणिः पलयं कुंकुम दद्यात् । ६६ दाक्षितस्त्री दुष्टरक्तहकूरोगी प्राजापत्यद्वयं कुर्यात् । प्रसङ्गी ६७दुग्धहारी बहुसूत्रक दुग्धधेनुं दद्यात् । ६८ देवहारी विविधज्वरी रुद्रं जपत् । ६९ नानाविध- ग्रहणीयुक्तः अन्नोदकवस्त्राणि सुवर्ण च दद्यात् । द्रव्यचौरः ५० पक्वान्नहारी जिहारोगी लक्षगायत्रीजपस्तइशांशतिलहोमश्च । ७१ पट्टसूत्रहारी विलोमा धेनुं दद्यात् । ७२ पशुयोनिगामी सूत्राघाती तिलपात्रद्वयदानम् । ७३ पितृप्वमृगामी दक्षिणांशवणी अजादानं कुर्यात् । ७४ पुत्रजायाभिगामी कृष्णकुष्ठी शातातपोक्तं प्रायश्चित्तं कुर्यात् । ७५ फलाहारी व्रणितांगलिः अयुतसंख्यकनानाफलदानम् । ७६ भ्रातृजायागामी गुल्मकुष्ठी शातातपोक्तं प्रायश्चित्तम् । ७७ मधुचारः नेत्ररोगवान उपवासं कृत्वा मधुधेनुं दद्यात् । ७८ मातुलानीगंता पृष्ठकुब्जा कृष्णाजिनदानं दद्यात् । ७९ मातृगामी लिङ्गहीनः शातातपोक्तं प्रायश्चित्तं कुर्यात् । . , कर्मविपाककाण्डः। ९७ ८० मातृष्वगन्ता नानांगे व्रणवान दासदानं कर्पासमारदानं हेमधेनुदानं च । ८१ मृतभार्यागामी मृतभार्यः एक ब्राह्मणं विवाहयेत् । ८२ स्वगोत्रागामी भगन्दररोगी महिषीं दद्यात् । ८३ स्वजातिवीगामी हृदयव्रणी प्राजापत्यद्वयं कुर्यात्। ८४ स्वसुतागामी रत्तकुष्ठी शातातपोक्तं प्रायश्चित्तं कुर्यात् । ८५ रक्तवस्त्रप्रवाल रक्तवातरोगी मणिरागसमन्वितां सवस्त्रां महिषी हारी दद्यात्। ८६ लोहहारी कधुरांगः एकदिनमुपोष्य शतपललौहं दद्यात् । ८७ वस्त्रहारी कुष्ठी निष्कमितहेमनिर्मितप्रजापति वस्त्र- युग्मं च दद्यात् । ८८ विद्यापुस्तकहारी सूकः अंधश्च सदक्षिणं न्यायेतिहासं दद्यात् । ८९ विप्ररत्नहर्ता अनपत्यः महारुद्रजपादिकं कृत्वा तदशांशपला- शसमिद्भिर्यथाविधि होम कुर्यात् । ९० विप्रहेमहत् कुलनः चान्द्रायणत्रयानन्तरं सुवर्णशतं दद्यात् । ९१ शोकहारी नीललोचनः महानीलमणिद्वयं दद्यात् । ९२ शुक्तिहारी पाण्डुमूर्धनः उपवासानन्तरं पलशतं शुक्तिं दद्यात् । ९३ सौगन्धिकहारी दुर्गन्धाङ्गः अग्नौ लक्षसंख्यकपर्दोमं कुर्यात् । ९४ अन्नहारी शलरोगी पलसुवर्णकृतं राजतं वा शूलं दद्यात् । ९५ नग्नपरस्त्रीद्रष्टा नेत्रशूली व!दा असि इति मन्त्रमयुतसंख्यक ९६ अस्तमयोदये जपेत् । वयः सुपर्ण इति अक्षिम्यामिति सूर्यद्रष्टा मन्त्रेण च वारिणा नेत्रे सिंचेत् । ९७ देवद्रव्यहारी विविधज्वरवान् रुद्रजपं कुर्यात् । ९८ कृतघ्नः श्वासकासवान् चान्द्रायणत्रयं कृत्वा पंचाशद्ब्राह्मणान भोजयेत् । कुरुक्षेत्रादितीर्थ सपामा श्वासकासवान् माहषीदानं गायत्रीजपश्च । स्थले प्रतिग्राही .१०० पिशुनः श्वासकासवान सहस्रपलं घृतं दद्यात् । १०१ राजमार्गादिषु श्वयथुरोगी . कृच्छ्त्रयं कृत्वा गायत्र्याऽयुतजप मूत्रपुरीषकारी, कुर्यात् । १३ . ९९ गोदानम् । १९८ प्रायश्चित्तप्रकाशे- १०२ वैश्यहन्ता তিন্ধান कृच्छ्रातिकृच्छं कृत्वा सतब्राह्मणान्. भोजयेत् । १०३ यज्ञविधनकारी अन्त्रवृद्धिमान सुवर्णमयी नारायणप्रतिमां दद्यात् । १०४ अत्युत्तमस्त्री मस्तकत्रणी प्राजापत्यचतुष्टयं कार्यम् । गामी १०५ सन्ध्यादिकर्म नासिकात्रणी आई- स्वर्णहारिणीदानं धेनुशन च । काले कुक्कुटखरा- नेत्रश्च दिद्रष्टा १०६ जलाग्निवन्ध उरसि व्रणवान् गोद्रयं दत्वा पंचाशन विप्रान् नादिना मृतः भोजयेत् । १०७ अदण्ड्यदण्डी गुल्मव्रणी १०८ हीनजातिगामी चरणव्रणी प्राजापत्य कुर्यात् । १०९ व्यभिचारिणी योनिवणी श्रीन् नीलवृषान् मधुसपिस्तिलांश्च विधवा गामी दद्यात् । ११० लोभादिना धर्म र पूयशोणितबहुव्रणी अतिकृच्छ्रे कृत्वा तिलप्रस्थं दद्यात् निर्णयेऽन्यथावादी १११ परमोंदाटक:-प्लीही श्लीपदरोगी च चान्द्रायणं कृत्वा कूष्मांडहोम कुर्यान् । ११२ स्वमृघाती वधिरः चान्द्रायणं कृत्वा सुवर्णकर्षयुत पुस्तकं दद्यात् । ११३ भ्रातृधाती मूकः चान्द्रायणं कृत्वा पलसुवर्णयुत पुस्तकं दद्यात् । ११४ कुकुटपाती वक्रनसः निष्कत्रयं सुवर्ण दद्यात् । ११५ बकघाती लम्बकण्ठः सर्वाभरणभूषितां श्वेतां गां दद्यात् । ११६ उच्छिष्टभोजी राज्यन्धः यथाशक्ति विप्रान्भोजयेत् । बिडालोच्छिष्ट- भोजीच ११७ परान्नविघ्नकारी अजीर्णरोगी लक्षहोम कुर्यात् । ११८ भ्रातृघातिनी स्त्री सूकत्ववती ब्रह्महत्यावत्प्रायश्चित्तम् । ११९ बालघाती मृतपुत्रः हरिवंशश्रवणं ब्राह्मणोद्वाहनं शंकर- पूजां च कुर्यात् । १२० मित्रहा वातरोगी वायुदेवतामन्त्रजपं तत्पूजां चकुर्यात् । १२१ विषेण पतिघ्नी स्त्री। वालविधवा विष्णोराराधनं गङ्गासेवनं कृच्छूनतं च कुर्यात् ।
कर्मविपाककाण्डः। -- -- १२२ अग्निना देवस्था- रक्तातिसारी . तद्देवताकमूर्तिदानं तत्स्थापनं च कार्यम् । नदाही १२३ देवागारगोष्ठश्म- अर्शोरोगी- मासमेकं विष्णुं शिवं च पूजयेत् । प्राजा- शानादिषु पत्यं कृत्वा गोभिथुनं च दद्यात् । विण्मूत्रकारी १२४ साध्वीस्त्रीघाती कायरोगी अनाथविप्रकन्योद्वाहः कार्यः। १२५ कन्यकाघाती कुष्ठी, कन्याजनकश्च लक्षपार्थिव शिवपूजनं तद्दशांशेन तिल- होम तद्दशांशेन ब्राह्मणांश्च भोजयेत् । तडागोसगं च कुर्यात् । १२६ गर्भपातक: जलोदरी जलोदर- जलधेनुदानम् । ताम्ररौप्यसुवर्णदानं च पातिकाच वती च कुर्यात् । मकरार्के प्रयागस्नानं च । १२७ कुक्कुरघाती चक्रपादपीडितः निष्कत्रयसुवर्णदानम् । १२८ नकुलहा बचमण्डलरोगातः निष्कद्वयसुवर्णनिर्मितं नकुलं दद्यात् । -१२९ शशघाती वेदपारगाय सोपस्करं शशं दद्यात् । १३० उलूकघाती पाण्डुरोगी कस्तूरिकापलं दद्यात् । १३१ द्रव्यहारी गलगण्डरोगी १३२ गुरुवश्चकः शि- ष्यवश्वकश्च माणिक्यादिरत्नमालादानम् । १३३ भुंजानश्चाण्डाल- पित्तोदेकी स्वर्णदानमजदानं च। कुजवर्णः वाक्यं भृण्वन् येत् । १३४ अनिर्दशायागोः बहुस्फोटवान् उपवासत्रयं कृत्वा निंशतिविप्रान् भोज- पयःपानकारी १३५ गुर्वप्रीतिकरः वातरोगी अच्युतानन्तगोविन्देति नामत्रयेण जप- होम कुर्यात् । १३६ त्रिमंबलाद्भोक्ता सर्वसन्धिषु वेदनः महिषीदानं कुर्यात् । १३७ लशुनरंजन वातपित्तरोगी चान्द्रायणं कुर्यात् । तालफलभक्षी १३८ भिन्नपात्रस्नायी शिरोरोगी अक्षिभ्यामिति सूक्तमष्टोत्तरशतं जपेत्तेनैव चेदू ब्रह्मचारी च होम कुर्याच्चरघृताभ्याम् ।
प्रायश्चित्तप्रकाशे- - 4 १३९ कूटसाक्षी वक्ररोगी कृच्छ्रातिकृच्छचान्द्रायणानि कुर्यात् ।। : १४० अनृतभाषी) जिहारोगी पराकव्रतं कृत्वा कूष्माण्डीहोम कुर्यात् । १४१ वेद-धर्मशा अपरिस्फुटवक्र: तामग्निवर्णाख्यं सूक्तमयुतत्रयं जपित्वा स्त्रविक्रेता जिह्वायां व्रणश्च सुवर्ण दद्यात् । मृतकाध्यापकश्च १४२ लवणहारी शीर्णवाणांत्रिपाणिः उद्यनद्येव्यूचं त्र्ययुतं जपित्वा रक्तव- स्त्रदानं देवद्विजपूजनं च कुर्यात् । १४३ परमैथुनद्रष्टा पूययुक्तनेत्रविकारी सहस्रकलशैः सूर्यस्य सानम् । १४४ स्वाम्यङ्गनागामी दट्ठमण्डलरोगी पष्टिपललोहमयीं धेनुं कार्पासमारयुतां सप्तधान्यसहितां दद्यात् । १४५ विश्वस्तभार्यागामी गजचर्मा कृच्छत्रतं कृत्वा सोपस्करां धेनुं दद्यात् । १४६ मयूरघाती कृष्णमण्डलरोगी निष्क्रत्रयसुवर्णरचितं मयूरं दद्यात् । १४७ हंसवाती श्वेतमण्डली पलनयरजतनिर्मितं हंसं दद्यात् । १४८ अमेध्यदाता विसर्परोगी मास पयोव्रतं कृत्वा पयस्विनी धेनुं दद्यात् । १४९ कन्यादूषी लीहवान् अयुतत्रयं श्रीसूक्तं पठेत् । १५० ब्रह्मविष्णुरुद्राणां कृच्छातिकृच्छचान्द्रायणानि कृत्वा उदररोगी भेदवादी सहस्रकलशैः शिवाभिषेक कार्यम् । १५१ धर्मनिश्चये नियुक्तो १५२ राजपुरोहि जलोदरी मासत्रयं पयोव्रतं कृत्वा सहस्रकलशैः तो मंत्रिी रुद्राभिषेकं कार्यम् । अन्यथाकारी १५३ गोमांसमक्षी मन्दामिरोगी प्राजापत्यत्रयं कृत्वा मेषदानं तण्डुलदानं च कुर्यात् । १५४ मातुःसपत्नीगामी अश्मरीरोगी त्रैमासिकवतं कृत्वा मधुधेनुं दद्यात् । १५५ भगिनीगामी बहुसूत्री पीतकुष्टी च पराकद्वयं कृत्वा सहस्रपुरुषसूक्तपादः ब्राह्मणभोजनं च। १५६ उपासनाग्नि अतिसारी अग्निरश्मीत्यूचं जप्त्वा तद्दशांशं तिल- नष्टकारी होमं च कृत्वा हिरण्यं दद्यात् ।
कर्मविपाकाण्डः। । स्वर्णधनुदानकुर्यात.। ... १५७ द्रव्यहारिणीस्त्री मृतपुत्रा १५८ प्राणघातिनीस्त्री एकपुत्रा १५९ ऋणाऽदात्री कन्याप्रजा १६० विरोधकारिणी काकवन्ध्या १६१ बालबातिनी स्रवद्गर्भा १६२ दुग्धहारिणी ' अदुग्धस्तनवती कांचनमयं यज्ञोपवीतं दद्यात् । :..: क्षीरानेन ब्राह्मणान् मोजयेत् विप्र- : चरणोदकेन स्तनौ, क्षालयेत् ..... इत्यादि। अथ कुष्ठरोगशांतिविधानम् । शातातपसंहितायां-"ब्रह्महा नरकस्यान्ते पाण्डुकुष्ठी प्रजायते । प्रायश्चित्तं प्रकुर्वीत स तत्पातकशान्तये । चत्वारः कलशा: कार्याः पञ्चरत्नसमन्विताः । पंचपल्लवसंयुक्ताः सितवस्त्रेण वेष्टिताः । अश्वस्था- नादिमृयुक्तास्तीथोंदकप्रपूरिताः । कषायपञ्चकोपेता नानाविधफलान्विताः । सर्वोषविसमायुक्ताः स्थाप्याः प्रतिदिशं द्विजैः । रौप्यमष्टदलं पद्म मध्यकुंभोपरि न्यसेत् । तस्योपरि न्यसेद्देवं ब्रह्माणं च चतुर्मुखम् । पलाईप्रमाणेन सुवर्णेन विनिर्मितम् । अ.त्पुरुषसूक्तेन त्रिकालं प्रतिवासरम् । यजमानः शुभैर्गन्धैः पुष्पै- धूपैर्यथाविधि । पूर्वादिकुंभेषु ततो ब्राह्मणां ब्रह्मचारिणः । पठेयुः. स्वस्ववेदास्ते ऋग्वेदप्रभृतीञ्छनैः। दशांशेन ततो होमो ग्रहशांतिपुरःसरम् । मध्यकुंभे विधा- तव्यो घृताक्तैस्तिलहेमाभिः । द्वादशाहमिदं कर्म समाप्य द्विजपुङ्गवः । तत्र पीठे यजमानमभिषिञ्चेद्यथाविधिाततो दद्याद्यथाशक्ति गोभूहेमतिलादिकम् । माह्मणेभ्य- स्तथा देयमाचार्याय निवेदयेत् । ॐ आदित्या वसवो रुदा विश्वेदेवा मरुद्गणाः। प्रीताः सर्वे. व्यपोहंतु मम पापं सुदारुणम् । इत्युदीर्य मुहुर्भत्त्या तमाचार्य क्षमापयेत्। एवं विधाने विहिते श्वेतकुष्ठी विशुद्धयति ॥ अथ गोवधजनितकुष्ठ- रोगशमन विधानम् । तत्रैव-"कुष्ठी गोवधकारीस्यानरकान्तेऽस्य. निष्कृतिः। स्थापयेद्धटमेकं तु पूर्वोक्तद्रव्यसंयुतम् । रक्तचंदनलिप्ताङ्गं रक्तपुष्पाम्बरान्वितम् । रक्तकुंभंतु तं कृत्वा स्थापयेदक्षिणां दिशम्। ताम्रा न्यसेत्तत्र तिलचूर्णेन पूरितम् । तस्योपरि न्यसेदेवं हेमनिष्कमयं यमन । यजेत्पुरुषसूक्तेन पापं मे शाम्यतामिति । सामपारायणं कुर्यात्कलशे तत्र सामवित् । दशांशं सर्षपैर्तुत्वा पावमान्यभिषेचने । विहिते धर्मराजानमाचार्याय निवेदयेत् । यमोऽपि महिषारूढो दण्डपाणिर्भयावहः । दक्षिणाशापतिर्देवो मम पापं व्यपोहतु ॥ १॥ इत्युच्चार्य विसृज्यैनं मासं मद्भक्ति- माचरेत्।ब्रह्मगोवधयोरेषा प्रायश्चित्तेन निष्कृतिः ॥ अथ पितृमातृवधजनितपा- १०२ प्रायश्चित्तप्रकाशे-- पशमनविधानम् । तत्रैव-"मितहा चेतनाहीनो मातहान्धः प्रजायते । नरकान्ते प्रकुर्वीत प्रायश्चित्तं यथाविधि । प्राजापत्यानि कुर्वीत त्रिंशच्चैव विधानतः ॥ व्रतान्ते कारयेन्नावं सौवर्णपलसंमिताम् । कुंभ रौप्यमयं चैव ताम्रपात्राणि पूर्ववत् । निष्कहेम्ना तु कर्तव्यो देवः श्रीवत्सलाञ्छनः । पट्टवस्त्रेण संवेष्टय पूजयेत्तं विधा- नतः । नावं द्विजाय तां दद्यात् सर्वोपस्करसंयुताम् । वासुदेव जगन्नाथ सर्वभू- ताशयस्थित । पातकार्णवमनं मां तारय प्रणतातिहत् ॥ १॥ इत्युदीर्य प्रणम्यार्थ ब्राह्मणाय विसर्जयेत् । अन्येभ्योऽपि यथाशक्ति विप्रेभ्यो दक्षिणां ददेत् ॥ " अथ स्वस्मृवधभ्रातृवधजनितवधिररोगनिष्कृतिविधानम् ॥ तत्रैव-"स्वसघाती तु बधिरो नरकान्ते प्रजायते। सूको भ्रातृवधे चैव तस्यैव निष्कृतिः स्मृता । सोऽपि पापविशुद्ध्यर्थ चरेच्चान्द्रायणव्रतम् । व्रतान्ते पुस्तकं दद्यात्सुवर्णफलसंयुतम् । इमं मंत्रं समुच्चार्य ब्रह्माणी तां विसर्जयेत् । सरस्वति जगन्मातः शब्दब्रह्माधिदेवते । दुष्कर्मकरणापापात्पाहि मां परमेश्वरि ॥ १ ॥ अथ मातृगमनचाण्डालीग मनजनितलिंगवृषणहीननिष्कृतिविधानम् । तत्रैव-" मातृगामी भेवधस्तु लिङ्गं तस्य विनश्यति । चाण्डालीगमने चैव हीनकोषः प्रजायते । तस्य पति- क्रियां कर्तुं कुंभमुत्तरतो न्यसेत् । कृष्णवस्त्रसमाच्छन्नं कृष्णमाल्यविभूषितम् । तस्योपरि न्येद्देवं कांस्यपात्रे धनेश्वरम् । सुवर्णनिष्कषट्केन निर्मितं नरवाहनम् । यजेत् पुरुपसूक्तेन धनदं विश्वरूपिणम् । अथर्ववेदविद्धिप्रो द्याथर्वणं समाचरेत् । सुवर्णपुत्रिकां कृत्वा निष्कविंशतिसंख्यया । दद्यादिमाय संपूज्य निष्पापोऽहमि- तिवन । निधीनामधिपो देवः शंकरस्य प्रियः सखा । सौम्याशाधिपतिः श्रीमान् मम पापं व्यपाहतु ॥ १ ॥ इमं मन्त्रं समुच्चार्य आचार्याय यथाविधि । दद्याद्देवं हीनको लिङ्गनाशे विशुद्धये ॥" अथ गुरुस्त्रीगमनदोषजनितमूत्रकृच्छरोग- शमनविधानम्।शातातपस्मृतौ गुरुजायाभिगमनान्मूत्रकृच्छः प्रजायते । तेनापि निष्कृतिः कार्या शास्त्रदृष्टेन कर्मणा । स्थापयेत्कुंभमेकं तु पश्चिमाया शुभे दिने । नीलवस्त्रसमाच्छन्नं नीलमाल्यविभूषितम् । तस्योपरि न्यसेदेवं ताम्रपात्रे प्रचे- तसम् । सुवर्णनिष्कषट्केन निर्मितं यादसांपतिम् । यजेत्पुरुषसूक्तेन वरुणं विश्व- रूपिणम् । सामविद्राह्मणस्तत्र सामवेदं समाचरेत् ॥ सुवर्णपुत्रिकां कृत्वा निष्क- विंशतिसंख्यया । दद्यादिप्राय संपूज्य निष्पापोहमितिलवन् । यादसामधिपो देवो विश्वेषामपि पावनः ॥ संसाराब्धौ कर्णधारो वरुणः पावनोस्तु मे ॥१॥ इम मंत्रं समुच्चार्य्य आचार्याय यथाविधि । दद्यादेवमलंकृत्य मूत्रकृच्छपशान्तये ॥ अथ स्वसुतागगजनितरक्तकुष्ठभगिनीगमनजनितपीतकुष्ठशमनविधानम् । तत्रैव-"स्वसुतागमने चैव रक्तकुष्ठं प्रजायते । भगिनीगमनेनैव पीतकुष्ठं प्रजायते ॥ - कर्मविपाकाण्डः। १.३ तम्य प्रतिक्रियां कर्नु पूर्वतः कलशं न्यसेत् । पीतवन्त्रसमाच्छन्नं पीतमाल्याविभूषि- नम । तस्योपरि न्यसेत्स्वर्णपात्रे देवं सुरेश्वरम् । मुवर्णनिष्कपट्केन निर्मितं धन- धारिणम् ॥ यजेत् रुपमक्तेन वासवं विश्वरूपिणम् | यजुर्वेदं तत्र साम ऋग्वेई च समाचंन्त् । सुवर्णपुत्रिकां कृत्वा सुवर्णदशकेन तु । दद्यादिमाय संपूज्य निष्पापाहमितिटवन । देवानामधिपो देवो पन्द्री विष्णुनिकेतनः । शतयज्ञः सह- वानः पारं मम निकृन्तत ॥ १ ॥ इमं मंत्र समन्चार्य आचार्याय यथाविधि । याद्देवं सहस्राक्षं स पापस्यापनुत्तय।। अथ भ्रातृभागमनजनितगलत्कुष्ट- स्वपुत्रभार्यागमनजनितकृष्णकुष्ठशमनविधानम् । तत्रैव-"भ्रातृभार्याभि- गमानाइलस्कुष्टं प्रजायते । स्ववधूगमने चैव कृष्णकुष्ठं प्रजायते । तेन कार्य विशुद्धयर्थं प्रागुक्तस्यार्थमेव हि । दशांशहोमः सर्वत्र घृताक्तैः क्रियते तिलैः । यद- गम्याभिगमनाजायते ध्रुवमण्डलम् । कृत्वा'लोहमयों धेनुं तिलपष्टिप्रमाणतः । कार्पासमारसंयुक्तां कांस्यदोहां सवास्तिकाम् । दद्याहिमाय विधिवदिमं मंत्रमुदीर- येत् । सुरभी वैष्णवी माता मम पापं व्यपोहतु ॥” इति कुष्ठादिरोगकर्मविपाफ- विधानम् । विशेषस्तु शातातपसंहितायां वृद्धमर्यारुणसंवादनिबंधे महार्णवे व सेयम् । अत्र विस्तरभयान लिख्यते ॥ दति श्रीवीका नरविषयान्तर्गतश्रीरस्नगढनगरनिवासिना कर्मकाण्डाचार्य-कर्मकाण्डकोविद-- कर्मकाण्टभूषण-धीतभूषण-न्युपाधिचतुष्टयविभूपितन पण्डितगोडश्रीचतुर्थी- लालशमणा विरचित प्रायश्चित्तप्रकाश कर्मविपाकविधायकस्तृतीयः काण्डः समाप्तः ॥ समाप्तोयं ग्रन्थः ॥ ॐ शिवार्पणमस्तु ।। पुस्तक मिलनेका ठिकाना- गंगाविष्णु श्रीकृष्णदास, खेमराज श्रीकृष्णदान, "लक्ष्मीवाटेवर"स्टीम प्रेस, " श्रीवेइटेवर"स्टीम अंस, कल्याण-मुंबई. खेतवाडी-मुंबई.
HAPTEMine श्रीगणेशाय नमः। 'लक्ष्मीवेंकटेश्वर "स्टीम्-यंत्रालयकी परमोपयोगी स्वच्छ शुद्ध और सस्ती पुस्तकें। . यह विषय आज ४० १५० वर्षसे अधिक हुआ भारतवर्ष में प्रसिद्ध है कि, इस यन्त्रालयकी छपी हुई पुस्तकें सर्वोत्तम और सुन्दर प्रतीत तथा प्रमाणित हुई हैं सो इस यन्त्रालयमें प्रत्येक विषयकी पुस्तकें जैसे-वैदिक, वेदान्त, पुराण, धर्मशास्त्र, न्याय, बीमांसा, छन्द, ज्योतिप, काव्य, अलंकार, चम्पू, नाटक, कोप, वैवक, साम्प्रदायिक तथा स्तोत्रादि संस्कृत और हिन्दी भाषाके ग्रंथ प्रत्येक अवसरपर विक्रीके अर्थ तैयार रहते हैं. शुद्धता स्व- च्छता तथा कागजकी उत्तमता और जिल्दकी बंधाई देशभरमें विख्यात है. इतनी उत्तमता होनेपरली दाम बहुतही सस्ते रक्खे गये हैं और कमीशनभी पृथक् काट दिया जाता है. ऐसी सर- लता पाठकोंको मिलना असंभव है। संस्कृत तथा हिन्दीके रसिकोंको अवश्य अपनी २. आवश्यकतानुसार पुस्तकोंके मंगानमें त्रुटि न करना चाहिये. ऐसा उत्तम, सस्ता और शुद्ध माल दूसरी जगह मिलना असम्भव है. ' सूचीपत्र ' मैंगा देखो। पुस्तकें मिलनेका ठिकाना- गंगाविष्णु श्रीकृष्णदास, लक्ष्मीवेङ्कटेश्वर " छापाखाना, कल्याण-मुंबई.