Scl
The Gobhilagrhyasutra
Front matter
प्राप्तिस्थानम्-
-
चौखम्बा संस्कृत पुस्तकालय
बनारस सिटी।
ANJAAAAAAJ
गोभिलीयगृह्यसूत्रस्यभूमिका समुपजोषमद्य मुद्रापयित्वा प्रकाश्यतेऽदःकौथुमीयानान्त्रैवर्णिकानां कृते म- हर्षिणा (पारस्कराऽपरपर्याय-कात्यायन-पित्रा) श्रीमद्गोभिलाचार्येण प्रणीतं गृह्य- (कल्प)सूत्रं, यत्र सर्वकर्मसाधारणविधिमुखेनाग्न्याधानप्रभृति-विवाहादि-दशक- मन्तिोभागः सपरिकरःप्रकाशितोऽस्ति । यद्यप्यत्र (गो० गृ०सूत्रे) अन्येऽपि- विधय उपनिबद्धा महर्षिणा किन्तु तेऽस्मिन्नलसप्राये त्रैवर्णिकसमाजे क्रमेण नामशेषतामापादिता इति पुरा महामहत्तकवीरेश्वरादिभिर्दशैव संस्कारविधयः प्रामाणिकगृह्यसूत्रानुसारिणस्सामगानां वाजसनेयिनाञ्च कृते सुस्पष्टम्पद्धतिरूपेण निर्माय प्रथिताः सन्ति । एष्वपि नित्या नामकरण-चूड़ाकरणो-पनयन विवाहा- एव यथाकथञ्चिदनुष्ठीयन्ते, नापरे । येषाञ्चातीवावश्यकत्वं स्मृतिशास्त्रेषूपवणि- तमस्ति । तथाहि-संस्काराएवात्रखलु सर्वेषां स्वरूपप्रतिपादका भवन्ति । यानन्तरा अचेतनाअपि व्यवहार्या न भवन्ति किमुतचेतनाः । मानुषादिशरीराणि हि शुक्रशोणितसम्बन्धारिपतृमातृतोभवन्ति संस्कारैरेव पूयन्ते । येषामेवहि ते. ( संस्कारा) भवन्ति त एव संस्कारोत्कर्षक्रमेण जात्युत्कर्ष भजन्ते । येषाञ्चते न कथञ्चिदपि सन्ति त एवासंस्कृतजातयोऽस्पृश्या अच्छोपाश्चाच्यन्ते । तथाचाहस्म भगवान्मनु:-"वैदिकैः कर्मभिः पुण्यनिषेकादिद्धिजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ।।" इति । निषेकादिः गर्भाधानादिः । प्रेत्य-परलोके । इह-अस्मिल्लोके । तथा-"गाभैहोमर्जातकर्म-चौल-मौजीनिबन्धनैः । वैजिकङ्गार्मिकन्चैनोद्विजानामपमृज्यते ॥" इति । गाम्मैं-गर्भसंस्कारार्थैः । होमशब्दोऽत्र जहदजहल्लक्षणया कर्मविशे- षोपलक्षकः । तेन गर्भाधानादेः परिग्रहः । बैजिक-शुक्रश्लेषजम् । गाभिकना - शयस्थशोणितसम्बन्धजम् । एनः पापम् । अत्र ययपि पापक्षयरूपफलदर्शना. सर्वेषां संस्काराणां काम्यत्वमेवायाति । तथापि चूड़ाकरणं नित्यम् । आव. श्यक(१)शिषाधारणार्थत्वात् । नामकरणमपि नित्यम् आवश्यकाभिवादनादिक आर्थत्वात(२)। अत एव यथोचितकालाननुष्ठिते नामकरण-चूड़ाकरण-कर्मणी उपनयनाव्यवहितपूर्वकालेऽनुतिष्ठन्ति शिष्टाः। उपनयनमपि तथा (नित्यम्) (१)"विशिषोव्युपवीतश्च यत्कराति न तत्कृतम्" इति कात्यायनवचनात् ॥ (२)"अभिवादात्परं विप्रो ज्यायांसमभिवादयन् । असौ नामाहमस्मीति स्वंता. मपरिको येत" इति स्मरणात् । विप्र इत्युपलक्षणम् ।
भूमिका । "अतऊर्ध्वम्पतन्त्येते सर्वकर्मबहिष्कृताः" इति याज्ञकल्क्येन गौणकालपर्यन्तमप्यनुपनीतेषु पातित्याभिधानात्। विवा- होऽपि नित्यः । आवश्यक-सत्प्रजोत्पादनार्थत्वात् । "तस्मात्सर्वप्रयत्नेन कर्त्तव्योदारसंग्रहः” इति देवलवचनात् । "दारान्सर्वप्रयत्नेन विशुद्धानुद्वहेत्ततः" इति कश्यपवचनाच्च । गर्भाधानादि तु न तथा । अतएवानावश्यकत्वान्नानु. तिष्ठन्ति बहव इति मुरारिमिश्रादयः । अत्र गर्भाधानं क्षेत्रसंस्कारद्वारा. अपत्यसंस्कारकम् । पात्रसंस्कारस्य प्रक्षालनादेस्तत्रस्थजलादिसंस्कारकत्व- वत् । पुंसवन-सीमन्तोन्नयने अपि तथा । स च क्षेत्रसंस्कारः प्रथमगर्भएव- संपन्नश्चेन्नैतेषान्त्रयाणां प्रतिगर्भमावृत्तिः । आरम्भरणीयान्यायात् । "सकञ्चसंस्कृता नारी सर्वगर्भेषु संस्कृता। यंयंगर्भ प्रसूयन्ते स सर्वः संस्कृतोमवेत्" इति हरीतवचनाञ्च । पत्नीभेदे तु भवत्येव त्रयाणामावृत्तिः । "प्रधानावृत्ती गुणावृत्तिरि"-तिन्यायात् । जातकर्मादिकन्तु न स्त्रीद्वाराऽपत्यसंस्कारकमिति न तत्प्रत्यपत्यमावर्तते । अत्र याज्ञवल्क्यः- "ब्रह्म-क्षत्रिय-विट्-शूद्रा वर्णास्त्वाद्यास्त्रयोद्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः" मातुर्यदने जायन्ते द्वितीयं मौजिबन्धनात् । ब्राह्मण-क्षत्रिय-विशस्तस्मादेते द्विजाः स्मृताः" " इति । इमे च संस्काराः पुंसामिव स्त्रीणामपि चातुर्वण्र्येषु नियमिता महर्षिभिः । केवलमेषु विवाह एव समन्त्रकोऽन्येसंस्कारा अमन्त्रका एव भवन्तीति- "तृष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः । इति स्मृत्योक्तम् । तूष्णीम्-अमन्त्रिकाः। एता-जातकर्मादिकाः । यत्त्वत्र "निषेकाचा" इति मुरारिमित्रैरुक्तन्तद्युक्तम् । जन्मत: पूर्व स्त्रीत्वनिर्णयास. म्भवात्। मनु:-"अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः । संस्कारार्थ शरीरस्य यथाकालयथाक्रमम् ।। वैवाहिकोविधिः स्त्रीणामौपनायनिकःस्मृतः । पतिसेवा गुरौ वासोगृहार्थोऽग्निपरिक्रिया" ।। इति । औपनायनिकः । उपनयनकार्य-(प्रायत्य-) कारी । स्त्रीणामुपन- नयस्थाने विवाहएवेति यावत् । गुरुशुश्रूषणस्थाने-पतिसेवा । अग्निपरिचरण. स्थाने गृहकार्यम् । एतेसंस्काराः शूद्राणाममन्त्रका भवन्ति । तथा च यमः ३ भूमिका। "शूद्रोऽप्येवं विधः कार्योंविनामन्त्रेण संस्कृतः । न केन चित्समसृजच्छन्दसा तं प्रजापतिः ॥" इति । एवंविधोऽदुष्टका । यथोदितकर्मा च । “अशूद्राणामदुष्टकर्मणा- मि"-ति आपस्तम्बनापनयने शूद्रपर्युदासात्तस्यामन्त्रकमप्युपनयनं निषि- द्धम् । अत एव- "तस्मादस्याधिकारोस्ति न वेदेषु न च स्मृतौ” इति तस्य वेदाद्यध्ययननिषेधः । तथा-"विवाहमात्रस्कारं शूद्रोऽपि लभतां सदा ।" इत्यत्र मात्रग्रहणाद्विशेषविहितव्यतिरिक्तनिवृत्तिरितिनोक्तवचनविरोधः । इदंवाक्यं विवाहे कन्यादानादिवाक्यसम्बन्धोभवति । संस्कारान्तरेषु च लौकिकवैदिक-सर्वविधवाक्यनिवृत्तिरित्येतत्तात्पर्यकमित्यपरे वदन्ति । अथास्य प्रकाशेन निदानम् एकदा वर्तमानमिथिलेश-तातपादा रहस्येतमर्थमस्माभिः सविनयं प्रबोधिता यदेते संस्कारा नाधुना पठनपाठनक्रमेण समादृताइति यथापुस्तकमधीतशास्त्रान्त. राअपि पौरोहित्यमनुतिष्ठन्तो "यथालिखितपाठक"-तया "गीती-शीघ्री-शिरः कम्पी यथालिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ।।" इति पाणिनिशिक्षया पाठकाधमेषु परिगणिताः सन्तोयथावत्कर्मकारयितु. मपारयन्तः पुरोहिताअपि पुरोऽहिताः प्रायोवृत्या सम्बोमुवति ततएष कर्मका- ण्डग्रन्थपठनपाठनक्रमोऽभिनवोद्घाटितमुजफ्फरपुरीयधर्मसमाजसंस्कृतमहा- विद्यालये धर्म्यइति कृत्वा स्थापितश्चेद्भविता तदा महती धर्मोन्नतिः (धर्म्य- कर्मज्ञानेन ) सम्पादिता स्यादिति । एवमस्मभ्यर्थनया लुप्तप्रचारस्यास्य (कर्मकाण्डग्रन्थपठनपाठनक्रमस्य ) सम्पाठनमुखेनराजकीयपरीक्षायामपिशास्त्रान्तरवदुपयोजयितुमावर्जितस्वान्तरु- क्तास्मत्प्रभुवरैम्मिथिलामहीमहेन्द्रः श्रीपमद्रमेश्वरसिंहवीरविक्रान्तविहारोत्क- लप्रान्तीयः सम्राद्वितीयप्रतिनिधिः सपुरस्कारन्तदर्थमार्थिकसाहायकदानेनानु- कूलितः। ततश्चास्य श्रोत-स्मार्त्ता-गमऽऽभेदभिन्नस्य त्रिविधस्यापि कर्मकाण्डस्य सर्वाअपि प्रथमादिका उपाध्यन्ताः परीक्षास्तेन तत्र महाविद्यालयेकालेन प्रवर्तिताः अथ तत्रोक्तविषयाध्यापनायोक्तप्रभुवरैर-हमेव तत्र नियोजयितुमुपश्लोकितो. ऽथानुमतश्च "गवर्निबड़ी"-समाख्यसभया समलमकार्षमुक्ताध्यापनस्थानम् । अथ गते बहुतिथे काले विहारोत्कलप्रान्तीय-"संस्कृत-को न्भोकेसन" सभायाः सभ्येष्वन्यतमः संवृत्तः। अथ तत्र ( सभायां ) सभ्यैरनतिप्रचाराणां दुर्बोधानाश्च कर्मकाण्डे पाठ्यप्रन्थनां ससरलव्याख्यं प्राकाश्यमभिलष्यमाणानां प्राचीनानाम्मध्ये भूमिका। लाट्यायनीय श्रौतसूत्रस्य तावज्ज्योतिऽष्टोमान्तभागस्य तत्प्रास्तुवन् । यत्रच पुरस्कारदानमपि यथानियम सभायामुद्घोषितमाकर्ण्य प्रावर्तिषि तन्निर्माणे- ऽन्तेवसङ्गिरभ्यर्थितः । सुसम्पाद्य च तां यथावकाशमग्रिमे वर्षे तस्यां (पूर्वोक्त- सभायां) समर्पितवान् । अथ यथाकालंसभ्यः सुपरीक्षितायां तस्यां पादोनशत. मुद्राः पारितोषिकन्ततोलब्ध्वा काश्यां कृतनिवासायै दरभङ्गामहीमहेन्द्रस्य स्व. वासि-श्रीमल्लक्ष्मीश्वरसिंहवीरविक्रान्तस्य ज्येष्ठायै धर्मपत्न्यै पूर्व द्वादशवर्षाणि यावत्संसेवितायै संक्षिप्त-तज्जीवनचरित्रवर्णनात्मकखण्डकाव्येन सह सादरं समर्पितवान्। ताञ्च काशिक-चौखम्बासंस्थानस्थित विद्याविलासयन्त्रालयाध्यक्ष द्वारा मुद्रापयित्वा परारि प्रकाशितवानस्मि। यत्रचसर्वोऽप्यधिकारः पुनर्मुद्रापणे तस्माएव प्रत्तोऽस्ति । अथापरंसामगानां गृह्य-(कल्प.) सूत्रमध्येतत्प्राधान्येन चन्द्रकान्तभाष्य- नारायणभाष्य-भवदेव-मुरारिमिश्र-तत्वकारादीनां व्याख्यानमवलम्ब्य स्वापक्ष व्याख्यया "मृदुलया" सह मुद्रापयितुमुपक्रान्तं प्रामाणिकैश्छन्दोगपरि शिष्ठ-गह्यासाङ्ग्रहादिभिःकातीयगोभिलीयै-रन्यैरपि वचनजातै-रुपबृंहितं मिथि. लामहीमहेन्द्र महाराजरुद्रसिंहस्य पौत्रपत्न्यै श्रीमज्जनेश्वरीदेव्यै संक्षिप्त तज्जी- वनचरित्रवर्णनात्मकखण्डकाव्येन सह सादरं समर्पितवांस्तामथैनां तेभ्यः का- शिक-चौखम्बासंस्थानस्थित विद्याविलस-यन्त्रालयाध्यक्षेभ्यःससर्वाधिकार सम. पितवानस्मि । अचास्यैव परिशिष्टरूपेण गोभिलीयं श्राद्धकल्पमपि राजकीयोक्तपरीक्षायां सन्निवेशितमिति तदपि महता यत्नेन सुसरलया दिशा भाष्याद्यनुसारिण्योक्त- व्याख्ययासंवलित-मनतिविस्तृतमुक्तवैश्यवरेभ्य एव मुद्रापयितुंसमर्पितवानस्मि । यदम्यल्पीयसैवकालेनैतत्प्रकाशनानन्तरं मुद्रापयितुं प्रतिश्रुतवन्तः सन्तीति सप्रमोदम्पाठकमहाभागेभ्यआवेदयामः । अथापरमप्येतदभ्यर्थयामहे । "मुद्राप्रमादजं दोषं दृष्टिदोषञ्च मामकम् । संशोध्य धीधनैरैतदुपयोज्यं स्वकर्मसु ॥ १॥ अथ च- गच्छतः स्खलनं कापि सुपथिष्वपि स्यानृणाम । हसन्त्यसावस्तत्र समादधति सज्जनाः ॥ २ ॥ इति सहृदयोक्तमनुस्मृत्य विरमामोनिरर्थकाद्विस्तरादिति शम्॥
श्रीगणेशायमनः । अथ गोभिलीयगृह्यसूत्राणि- १ अथातोगृह्याकाण्युपदेयामः ॥ २ यज्ञोपवीतिनाऽऽचान्तोदकेन च कृत्यम् ।। ३ उद्गयने पूर्वपक्षे पुण्येऽहनि प्रागावनादह्नः कालं विद्यात् ॥ ४ यथादेशश्च॥ ५ सर्वाण्येवान्वाहार्थ्यवन्ति ॥ ६ अपवर्गेऽभिरूपभोजनं यथाशक्ति ॥ ७ ब्रह्मचारी वेदमधीत्यान्त्यां समिधमाधास्यन् ॥ ८ जायाया वा पाणिजिघृक्षन ॥ ९ अनुगुप्ता अप आहृत्य प्रागुदमवणं देशं समं वा परिसमुह्योपलिप्य मध्यतःप्राची लेखामुल्लिख्यादी चीञ्च संहतां पश्चात् । मध्ये प्राची. स्तिस्त्र उल्लिख्याभ्युक्षेत् ॥ १० लक्षणावृदेषा सर्वत्र ॥ ११ भूर्भुवःस्वरित्यभिमुखमग्निं प्रणयन्ति ॥ १२ प्रेते वा गृहपतौ परमेष्ठिकरणम् ॥ १३ तथा तिथिनक्षत्रपर्वसमवाये ॥ १४ दशैं वा पौर्णमासे वाऽग्निलमाधानकुर्वीत ॥ १५ वैश्यकुलाद्वाऽम्बरीषाद्वाऽग्निमाहृत्याभ्यादध्यात् ।। १६ अपि वा बहुयाजिन एवागाराबाह्मणस्य वा राजन्यस्य वा वैश्यस्य वा॥ १७ अपिवाऽन्यं मथित्वाऽभ्यादध्यात् ॥ १८ पुण्यस्त्वेवाऽनर्धकोभवतीति ॥ १९ यथाकामयेत तथा कुर्यात् ॥ २० स यदेवान्त्यां समिधमादधाति जायाया वा पाणिज्जिघृक्षन् जु. होति तमभिसंयच्छेत् ॥ २१ स एवास्य गृह्योऽग्निर्भवति ॥ २२ तेन चैवास्य प्रातराहुतिर्हता भवति ।। २३ सायमाहुत्युपक्रम एवात ऊध्वं गृह्येऽग्नौ होमोविधीयते । २४ पुरा प्रादुष्करणवेलायाः सायम्प्रातरनुगुप्ता अप आहरेत्परिचरणीयाः॥. २५ अपि पा सायम् ॥ २६ अपि वा कुम्भावा मणिकाद्वा गृह्णीयात् ॥
( २ ) २७ पुरास्तमयादग्नि प्रादुकृत्यास्तमिते सायमाहुतिजुहुयात् ॥ २८ पुरोदयात्प्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतिजुहुयात् ॥ इति प्रथमप्रपाठकस्य प्रथमा कण्डिका ॥ १॥१॥* अथ द्वितीया कण्डिका- १ यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वाऽपि वा कुशरज्जुमेव ॥ २ दक्षिणं बाहुमुधृत्य शिरोऽवधाय सव्यं से प्रतिष्ठापयति, दक्षिणं कतमन्ववलम्ब भवत्येवं यज्ञोपवीती भवति । ३ सन्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणेऽसे प्रतिष्ठापयति, सब्यङ्क- क्षमन्ववलम्ब भवत्येवं प्राचीनावीती भवति ॥ ४ पितृयज्ञेत्वेव प्राचीनावीति भवति ॥ ५ उद्गग्नरुत्सृप्य प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचामेद्द्विः प्रमृजोत॥ ६ पादावभ्युदय शिरोऽभ्युक्षेत् ॥ ७ इन्द्रियाण्यद्भिः संस्पृशेत् ॥ - अक्षिणी नासिके कर्णाविति ॥ यद्यन्मीमांस्यं स्यात्चत्तदद्भिः संस्पृशेत् ॥ १० तत्रैतदाहुः॥ ११ नोपस्पृशेब्रुजन् ॥ १२ न तिष्ठन् ॥ १३ न विलोकयन् ॥ १५ नाप्रणतः॥ १६ नाङ्गुलीभिः॥ १७ नातीयंन । १८ न सशब्दम्॥ १४ नानवेक्षितम् ॥ २०न वाह्यांसः॥ २१ नान्तरीयैकदेशस्य कल्पयित्वोचरीबताम् ॥ २२ नोष्णाभिः॥ २३ न सफेनाभिः २४ न च सोपानका क्वचित् ॥ २५ कात्तिकः॥
( ३ ) २६ गले बद्धः॥ २७ चरणौ न प्रसार्य च ॥ २८ अन्ततः प्रत्युपस्पृश्य शुचिर्भवति । २९ हृदयस्पृशस्त्वेवाप आचामेत् ॥ ३० उच्छिष्टोहैवातोऽन्यथा भवति ॥ ३१ अथ प्रत्युपस्पर्शनानि ॥ ३२ सुप्त्वा-भुक्का-क्षुत्वा-स्नात्वा-पीत्वा-विपरिधाय च-रथ्यामाक्रम्य श्मशानचाचान्तः पुनराचामेत् ॥ इति प्रथम प्रपाठकस्य द्वितीया कण्डिका ॥१॥ २॥ * ॥ अथ तृतीया कण्डिका- १ अग्निमुपसमाधाय परिसमूह्य दक्षिणजान्वक्तो दक्षिणेनाग्निमदितेऽ- नुमन्यस्वेत्युदकालिं प्रसिञ्चेत् ॥ २ अनुमतेऽनुमन्यस्वेति पश्चात् ॥ ३ सरस्वत्यनुमन्यस्वेत्युत्तरतः ॥ ४ देवसवितः प्रसुवेति प्रदक्षिणमग्निं पर्युक्षेत् सकृद्वा त्रिर्वा ॥ ५ पर्युक्षणान्ताव्यतिहरन्नभिपर्युक्षन्होमीयम् ॥ ६ अथ हविष्यस्यान्नस्यानौ जुहुयात कृतस्य वाऽकृतस्य वा ॥ ७ अकृतञ्चेत्प्रक्षाल्य जुहुयात् प्रोदककृत्वा ॥ = अथ यदि दधि-पयो-यवागूवा, कंसेन वा चरुस्थाल्या वा ॥ ९ अग्नये स्वाहेति पूर्वी, तूष्णीमेवोत्तरां मध्ये चैवापराजितायां दिशी. ति सायम् ॥ १० अथ प्रातः-सूर्याय स्वाहेति पूर्वी, तूष्णीमेवोत्तरां मध्ये चैवापराजि- तायान्दिशि ॥ ११ समिधमाधायानुपर्युच्य तथैवोदकाञ्जलीन्प्रसिञ्चेदन्वमंस्था इति मन्त्रविशेषः॥ १२ प्रदक्षिणमग्निं परिक्रम्यापां शेषं निनीय पूरयित्वा चमसं प्रतिष्ठाप्य यथार्थम् ॥ १३ एवमत ऊर्ध्वगृह्येऽग्नौ जुहुयाद्वा हावयेद्वाऽऽजीवितावभृथात् ॥ १४ अथाप्युदाहरन्ति ॥ १५ कामं गृह्येऽग्नौ पत्नी जुहुयात्सायं प्रात)मौ गृहाः पत्नी गृह्य एषोऽ- ग्निर्भवतीति॥
१६ निष्ठिते सायमासप्रातराशे भूतमिति प्रवाचयेत् ॥ १७ ऋतेऽभगया वाचा शुचिर्भूत्वा ॥ १८ प्रतिजपत्यामित्युश्चैस्तस्मै नमस्तन्माता इत्युपांशु ॥ इति प्र० प्र० तृतीया कण्डिका ॥ १ ॥३॥ * ॥ अथ चतुर्थी कण्डिका- १ अथ वाग्यतोबलीन्हरेत् ॥ २भाषेतान्नसंसिद्धिमतिथिभिः काम सम्भाषेत ॥ ३ अथ हविष्यस्यानस्योद्धृत्य हविश्यैय॑क्षनरुपसिच्याग्नौ जुहुयात् तू. पणीपाणिनव॥ ४ प्राजापत्या पूर्वाऽऽहुतिर्भवति सौविष्टकृत्युत्तरा ॥ ५ अथ बलीन्हरेत् बाह्यतोवाऽन्तर्वा सुभूमिं कृत्वा ॥ ६ सकृद्पोनिनीय चतुर्धा बलिं निदध्यात् सकृदन्ततः परिषिञ्चेत् ॥ ७ एकैकं वाऽनुनिधानमुभयतः परिषिञ्चेत् ॥ ८ स यत्प्रथमं निदधाति स पार्थिवोबलिर्भवति । अथ यद्वितीयं स वायव्यो यत्तृतीयं स वैश्वदेवो यचतुर्थं स प्राजापत्यः ॥ अथापरान्बलीन्हरेत् । उधानस्य, मध्यमस्य द्वारस्यान्दैवतः प्रथमो. बलिर्भवत्योषधिवनस्पतिभ्यो द्वितीय, आकाशाय तृतीयः॥ १० अथापरं बलिं हरेत्-शयनं वाऽधिवों वास कामाय वा वलिर्भवति मन्यवे वा। ११ अथ संस्तूपं स रक्षाजनेभ्यः। १२ अथैतलिशेषमद्भिरभ्यासिच्यापसलवि दक्षिणा निनयेतत् पितृभ्यो भवति॥ १३ सीन एवानौ जुहुयात् ॥ १४ मासीनः पितृभ्यो दद्यात् यथोपपादमितरान् ॥ १५ स्वयन्त्वेवैतान्यावसेद्वलीन्हरेत् ॥ १६ मपि वाऽन्योब्राह्मणः ॥ १७ दम्पती एव । १८ इति गृहमेधिवतम् ॥ १९ स्त्री ह सायं प्रातः पुमानिति ॥ २० सर्वस्वत्वेवाऽन्नस्यैताम्बलीन्हरेत्-पित्र्यस्य वा स्वस्त्ययनस्य वाऽर्थी- स्य वा. २१ यहादेव निवर्तते।
( ५ ) २२ यद्येकस्मिन्काले व्रीहियवौ प्रक्रियेयाताम अन्यतरस्य कृत्वा कृतं मन्येत ॥ २३ यद्येकस्मिन्काले पुनः पुनरन्नं पच्येत सकृदेवैतद्वलितन्त्रं कुर्वीत ॥ २४ यद्येकस्मिन्कुले बहुधान्नं पच्येत गृहपतिमहानसादेवैतद्वलितन्त्र कुर्वीत ॥ २५ यस्य त्वेषामग्रतः सिद्धयेत् । नियुक्तमग्नौ कृत्वाऽयं ब्राह्मणाय दत्त्वा भुञ्जीत ॥ २६ यस्यो जघन्यं भुञ्जीतैवेति ॥ २७ अथाप्युदाहरन्ति ॥ २८ एतस्यैव बलिहरणस्यान्ते कामं प्रब्रुवीत भवति हैवास्य ॥ २९ स्वयन्त्वेवासस्यं बलिं हरेत् । यवेभ्योऽध्याव्रीहिभ्यः, ब्रीहिभ्योऽध्या. यवेभ्यः । स त्वासस्योनाम बलिर्भवति ॥ ३० दीर्घायुह व भवति ॥ ३१ विश्राणिते फलीकरणानामाचामस्यापामिति बलिं हरेत् स रौद्रो. भवति स रौद्रोभवति ॥ इति प्रथमप्र० चतुर्थी कण्डि का ॥१॥४॥ * ॥ अथ पञ्चमी काण्डका १ अथ दर्शपौर्णमासयोः॥ २ सन्ध्याम्पौर्णमासीमुपवसेत् ॥ ३ उत्तरामित्येके॥ ४ अथ यदहश्चन्द्रमा न दृश्येत ताममावास्याम् ॥ ५ पक्षान्ता उपवस्तव्याः पक्षादयोऽभियष्टव्याः॥ ६ मावास्येन हविषा पूर्वपक्षमभियजते पौर्णमासेनापरपक्षम् ॥ ७ यः परमो विप्रकर्षः सूर्याचन्द्रमसोः सा पौर्णमासी, यः परमः सङ्कर्षः साममावास्या॥ = यदहस्त्वेव चन्द्रमा न दृश्येत ताममावास्याङ्कुर्वीत ॥ दृश्यमानेऽप्येकदा गताध्वा भवति ॥ १० त्रयः पौर्णमासी काला भवन्ति, सन्ध्यावाऽस्तमितोदया वोच्चैर्वा । ११ अथ यदहः पूर्णोभवति ॥ १२ पृथगेवेतस्य बानस्याध्यायो भवति मधीयीत वा तद्विद्भयोवा प- र्यागमयेत॥
१३ अथ यदहरुपवसथो भवति तदहः पूर्वाह्न एव प्रातराहुति हुत्वैतदग्नेः स्थण्डिलङ्गोमयेन समन्तं पय्यु पलिम्पति ॥ १४ अथेमानुपकल्पयते, खाद्रिान्वा पालाशान्वा ॥ १५ खादिरपालाशालाभे-विभीतक-तिल्वक-बाधक-नीप-निम्ब-राजवृ. क्ष-शाल्मल्य-उरलु-दधित्थ-कोविदार-श्लेष्मातक-वर्ज, सर्ववन- स्पतीनामिध्मोयथार्थ स्यात् ।। १६ विशाखानि प्रतिलनाः कुशा बर्हिः ॥ १७ उपमूललुनाः पितृभ्यः॥ २८ तेषामलाभे-शुक-तृण-शर-शीयं-बल्वज-मुतव-नल-शुण्ठ-वज्ज, सर्वतृणानि ॥ १९ आज्य स्थालीपाकीयान्त्रीहीन वा यवान्वा चरुस्थाली मेक्षणं स्व- मनुगुप्ता अप इति । २० यानि चानुकल्पमुदाहरिष्यामः ॥ २१ न तदह प्रसृज्येत् ॥ २२ दूरादपि गृहानभ्येयात् ॥ २३ अबडुवादी स्थात्। २४ अन्यतस्तु धनं क्रीणीयान विक्रीणीत ॥ २५ सत्यं विवदिषेत् । २५ अथापराहू एवाप्लुत्यौपवसथिकन्दम्पती भुञ्जीयातां, यदेनयोः काम्यं स्यात् सपिमिश्र स्यात्कुशलेन ॥ इति प्र-प्र-पञ्चमी कण्डिका ॥१॥५॥७॥ -- अथ षष्ठी कण्डिका- १ मानतन्तव्योहोवाचाहुता वा एतस्य मानुन्याहुतिर्भवति य औपव. सथिकनाश्नाति ॥ २ अनीश्वरो ह क्षाधुकोभवत्यकाम्योजनानां, पापवसीयसी हास्य प्रजा भवति। ३ य औपवसथिकं भुङ्क्त ईश्वरोह भवत्यक्षोधुकः काम्योजनानां वसी- यसी हास्य प्रजा भवति ॥ ४ तस्माद्यकामयेतोपवसथिकं भुञ्जीयाताम् ॥ ५ मध एवैतार रात्रि शयीयाताम् ॥ १६ तो खलु जाग्रन्मिश्रावेवैता रात्रि विहरेयातामितिहासमिश्रेण वा केन चिद्वा॥
( ७ ) ७ जुगुप्सेयातान्त्वेवाव्रत्येभ्यः कर्मभ्यः ॥ न प्रवसन्नुपसेदित्याहुः॥ पत्न्या व्रतम्भवतीति । १० यथा कामयेत तथा कुर्यात् ।। ११ एवमेवाहिताग्नेरप्युपवसथो भवति ॥ १२ यच्चाम्नायो विद्ध्यात् ॥ १३ अथ पूर्वाह्न एव प्रातराहुति हुत्वाऽग्णाग्नि परिक्रम्य दक्षिणतोऽग्नेः प्रागग्रान्दर्भानास्तीयं ॥ १४ तेषां पुरस्तात्प्रत्यङमुखस्तिष्ठन्सव्यस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्या ब्रह्मासनात्तृणमभिसगृह्य दक्षिणापरमष्टमन्देशं निरस्यति "निरस्तः परावसुरिणति ॥ १५ अप उपस्पृश्याथ ब्रह्मासन उपविशत्या वसोः सदने सीदामीति ॥ १६ अग्निमभिमुखोवाग्यतः प्राञ्जलिरास्त आकर्मणः पर्यवसानात् ॥ १७ भाषेत यज्ञससिद्धिम् ॥ १८ नायझियां वाचं वदेत् ॥ १६ यद्ययशियां वाचं वदेत् वैष्णवीमृचं यजुर्वा जपेत् ॥ २० अपि वा नमोविष्णव इति ब्रूयात् ॥ २१ या वा उभयञ्चिकीर्षेद्धौत्रञ्चैव ब्रह्मत्वञ्चैवैतेनैव कल्पेन छत्रं वात्त. रासङ्गवोदकमण्डलं दर्भवटुवा ब्रह्मासने निधाय तेनैव प्रत्याव्रज्या- थान्यच्चेष्टेत ॥ इति प्रथमप्र० षष्ठी कण्डिका ॥ १ ॥६॥*। ante अथ सप्तमी कण्डिका १ अथोलुखलमुशले प्रक्षाल्य शूर्पञ्च पश्चादग्नेः प्रागग्रान्दर्भानास्तीयो. पसादयति ॥ २ अथ हविनिर्वपति व्रीहीन् वा यवान् वा करसेन वा चरुस्था. ल्यावा॥ ३ "अमुष्मै त्वा जुष्टं निर्वपामी"ति देवतानामादेशसकृत् द्विस्तूष्णीम् । ४ अथ पश्चात्प्राङमुखोऽवहन्तुमुपक्रमेत , दक्षिणोत्तराभ्यां पाणिभ्याम् ॥ ५ त्रिफलीकृतास्तण्डुलान् त्रिदेवेभ्यः प्रक्षालयेदित्याहुर्बिर्मनुष्येभ्यः, सकृत पितृभ्य इति । ६ पवित्रान्तहितांस्तण्डुलानावपेत् ।। ७ कुशलतमिव स्थालीपाकश्रपयेत् प्रदक्षिणमुदायुवन् ।
८ शृतमभिधार्योदगुद्वास्थ प्रत्यभिधारयेत् ॥ । मग्निमुपसमाधाय कुशैः समन्तं परिस्तृणुयात् । पुरस्तादक्षिणत उत्तरतः पश्चादिति ॥ १० सर्वतस्त्रिवृतं पञ्चवृतं वा ॥ ११ बहुलमयुग्मसंहतम् ॥ १२ प्रागौरग्रैर्मूलानिच्छादयन् ॥ १३ पश्चाद्वाऽऽस्तोऱ्या दक्षिणतः प्राञ्चं प्रकर्षति तथोत्तरेण ॥ १४ दक्षिणोत्तराण्यग्राणि कुर्यात् ॥ १५ एष परिस्तरणन्यायः सर्वेष्वेवाहुतिमत्सु ॥ १६ परिधीनप्येके कुर्वन्ति-शामीलान्पान्विा ॥ १७ उत्तरतोऽपां पूर्णः सुवः प्रणीता ॥ १८ भावे न वा स्यादित्येके ॥ १९ बर्हिषि स्थालोपाकमासाद्यध्मनभ्याधायाज्यसंस्कुरुते ॥ २० सपिस्तैलं दधिपयोयवावा ॥ २१ तत एव बहिषः प्रादेशमाने पवित्रे कुरुते ॥ २२ औषधिमन्तर्धाय च्छिनत्ति, न नखेन "पवित्रे स्थो नैष्णयाविति ॥ २३ अथैने मद्भिरनुमार्टि-"विष्णार्मनसा पृतेस्थ' इति ॥ २४ सम्प्योत्पुनात्युदगग्राभ्यां पवित्राभ्याम् ॥ २५ अङ्गुष्ठाभ्याञ्चोपकनिष्ठिकाभ्याञ्चाङ्गुलिभ्यामभिसंगृह्य प्राक्शस्त्रिरु. पुनाति-"देवस्त्वा सवितात्पुनात्वच्छिद्रेण पवित्रेण वसोःसूर्यस्य रश्मिभिरिणति सकृयजुषा द्विस्तूष्णीम् ॥ २६ मथैने अद्भिरभ्युदयाग्नावप्युत्सृजेत् ॥ २७ अथैतदाज्यमधिश्रित्योदगुद्वासयेत् ॥ २८ एवमाज्यस्य संस्करणकल्पो भवतीति॥ इति प्र०प्र०सप्तमी कण्डिका ॥१॥ ७ ॥ अथ-अष्टमी-कण्डिका- १ पूर्णमाज्यमपरः स्थालीपाकः। २.पर्युक्ष्य स्थालीपाक आज्य मानीय मेक्षणेनोपघातहोतुमेवोपक्रमते ॥ ३ युयुवा उपस्तीर्णाभिधारितजुहुयात् आज्यभागावेव प्रथमौ जुहुयात् चतुर्ग्रहीतमाज्यं गृहीत्वा पश्चावत्तन्तु भृमणाम् । “अग्नये स्वाहे". त्युत्तरतः "सोमाय स्वाहेति दक्षिणतः प्राक्शो जुहुयात् ॥
( 8 ) ५ अथ हविष उपस्तीर्यावधति ॥ ६ मध्यात्पूर्वार्धाचतुरवत्तीचेद्भवति ॥ ७ अभिधारयत्यवदानानि !! प्रत्यनक्त्यवदानस्थानान्ययातयामतायै ॥ ९ अग्नये स्वाहेति मध्ये जुहुयात् । १० सकृद्धा त्रिवैतेन कल्पेन ॥ ११ अथ स्विष्टकृत उपस्तीविद्यत्युत्तरार्द्धपूर्वार्धात्मकृदेव भूयिष्ठमवद्य द्विरभिधारयेत् ॥ १२ यधु पञ्चावत्ती स्याद्विरुपस्तीव्वदाय द्विरभिधारयेत् ॥ १३ न प्रत्यनक्त्यवदानस्थानम् यातयामतायै । १४ अग्नये स्विष्टकृते स्वाहेत्युत्तरार्द्धपूर्वार्द्ध जुहुयात् ॥ १५ महाव्याहृतिभिराज्येनाभिजुहुयात् ॥ १६ प्राक् स्विष्टकृत आवापः ॥ १७ गणेवेकं परिसमूहनमिध्मोवहिः पर्युक्षणमाज्यमाज्यभागौ च ॥ १८ सर्वेभ्यः समवदाय सकृदेव सौविष्टकृतं जुहोति ॥ १६ हुत्वैतन्मेक्षणमनुप्रहरेत् ॥ २० प्रक्षाल्य वैनेन (उद्धृत्य) भुञ्जीत ॥ २१ न खुवमनुप्रहरेदित्येक आहुः ॥ २२ आग्नेय एवानाहिताग्नेरुभयोईर्शपूर्णमासयोः स्थालीपाकः स्यात् ॥ २३ आग्नेयो वाऽग्नीषोमीयोवाऽऽहिताग्नेः पौर्णमास्याम् ॥ २४ ऐन्द्रोवैन्द्राग्नोवा माहेन्द्रोवाऽमावास्यायाम् ॥ २५ अपिवाऽऽहिताग्नेरप्युभयोईर्थपूर्णमासयोराग्नेय एव स्थात् ॥ २६ समिदाधायानुपर्युक्ष्य यज्ञवास्तु करोति । २७ तत एव वर्हिषः कुशमुष्टिमादायाज्ये वा हविषि वा त्रिरवदध्याद- ग्राणि मध्यानि मूलानी "त्यक्तं रिहाणा व्यन्तु वय" इति ॥ २८ अथैनमद्भिरभ्युदयाग्नावपर्य जपेत् “यः पशूनामधिपतीरुद्रस्तन्तिचरो- वृषा पशूनस्माकं माहिसीरेतदस्तु हुतन्तव स्वाहेति ॥ २६ एतघशवास्त्वित्याचक्षते ॥ इति प्र०प्र० अष्टमी काण्डका ॥१॥८॥ अथ-नवमी-कण्डिका- १ अयैतद्धविरुच्छिष्टमुदगुद्वास्योद्धृत्य ब्रह्मणे प्रयच्छेत् ॥ २ तं तितर्पयिषेत्॥ १ २
( १० )
३ "ब्राह्मणस्य तृप्तिमनुतृप्यामीति ह यज्ञस्य वेदयन्ते ।
४ अथ यदस्यान्यदन्नमुपसिद्ध स्यात् ॥
५ अथ ब्राह्मणान्भक्तेनोपेप्सेत् ॥
६ पूर्णपात्रोदक्षिणा तं ब्रह्मणे दद्यात् ॥
७ कसं चमसं वाऽन्नस्य पूरयित्वा कृतस्य वाऽकृतस्य वाऽपि वा
फलानामेवैतं पूर्णपात्रमित्याचक्षते ॥
८ ब्रह्मैवैक ऋत्विक् ॥
पाकयज्ञेषु स्वय होता भवतीति ॥
१० पूर्णपात्रोऽवमः पाकयज्ञानां दक्षिणा ॥
११ अपरिमितम्पराद्धयम् ॥
१२ अपि ह सुदाः पैजवन ऐन्द्राग्नेन स्थालोपाकेनेष्वा शतं सहस्राणि ददौ ।
१३ अथ यदि गृह्यऽनौ सायं प्रातह)मयोर्वा दर्शपूर्णमासयोर्वा हव्यं वा
होतारं वा नाधिगच्छेत् कथं कुर्यादिति ? ॥
१४ आसायमाहुतेः प्रातराहुति त्येत्याऽऽप्रातराहुतेः सायमाहुतिरामा.
वास्यायाः पौर्णमासं नात्येत्यापूर्णमास्या आमावास्यम् ॥
१५ एतेनैवावकाशेन हव्यं वा होतारं वा लिप्सेत् ॥
१६ अपि वा यशियानामेवौषधिवनस्पतीनां फलानि वा पलाशानि वा
श्रपयित्वा जुहुयात् ॥
१७ अप्यप एवान्ततो जुहुयादिति ह स्माह पाकयज्ञ ऐडोहुतं ह्येव ॥
१८ अहुतस्य प्रायश्चित्तं भवतीति ॥
१४ नावतो ब्राह्मणः स्यादिति ॥
२० अथाप्युदाहरन्ति ॥
२१ यावन्न हूयेताभोजनेनैव तावत्सन्तनुयात् ॥
२२ अथ यदाधिगच्छेत् प्रतिजुहुयात् ॥
२३ एवमस्य व्रत सन्ततं भवतीति ।
२७ एषोऽत ऊर्ध्वएहविराहुतिषु न्यायः॥
२५ मन्त्रान्ते स्वाहाकारः॥
२६ माज्याहुतिप्वाज्यमेव सस्कृत्योपघातं जुहुयात् नाज्यभागौ न
स्विष्टकृत् ॥
२७ आज्याङतिम्वनादेशे पुरस्ताञ्चोपरिष्टाच महाव्याहृतिभिर्होमः ॥
२८ यथा पाणिग्रहणे तथा चूड़ाकरणे चोपनयने गोदाने च ॥
२६ अपवृत्ते कर्मणि वामदेव्यगानशान्त्यर्थ शान्त्यर्थम् ॥
इति प्र०प्र०नवमी कण्डिका ॥ १॥ ९ ॥
समातश्च प्रथमः प्रपाठकः ॥1॥
( ११) अथ द्वितीयप्रपाठके प्रथमा कण्डिका- १ पुण्ये नक्षत्रे दारानकुर्वीत ॥ २ लक्षणप्रशस्तान्कुशलेन ॥ ३ तदलाभे पिण्डान् ॥ ४ वेद्याः सीताया हृदागोष्ठाच्चतुष्पथादादेवनादादहनादीरिणात् ॥ ५ सर्वेभ्यः सम्भाय्यं नवमम् ॥ ६समान् कृतलक्षणान् ॥ ७ पाणावाधाय कुमार्या उपनामये-"दृतमेवप्रथममृतं नात्येति कश्चनर्त- इयं पृथिवी श्रिता सर्वमिदमसौ भूयादिति तस्या नाम गृहीत्वैषा- मेकं गृहाणेति ब्रूयात् ॥ - पूर्वेषाञ्चतुर्णाङ्गृह्णन्तीमुपयच्छेत् ॥ ९ सम्भार्यमपीत्येके ॥ १० क्लीतकैर्यशैर्माणैर्वाऽऽप्लुतासुहृत्सुरोत्तमेन सशरीरां त्रिमूर्धन्य. भिषिञ्चेत्-"काम वेद ते नाम मदोनामासीति समानयामुमिति पतिनामगृह्णीयात्-स्वाहाकारान्ताभिरुपस्थमुत्तराभ्यां प्लावयेत् । ११ शातिकम्मैतत् । १२ पाणिग्रहणे पुरस्ताच्छालाया अग्निरुपसमाहितोभवति ॥ १३ अथ जन्यानामेको ध्रुवाणामपां कलशं पूरयित्वा सहोदकुम्भःप्रावृतो वाग्यतोऽग्रेणाग्निं परिक्रम्य दक्षिणत उद्ङ्मुखोऽवतिष्ठते । १४ प्राजनेनान्यः। १५ शमीपलाशमिश्रांश्च लाजांश्चतुरालिमात्रान् शूर्पणोपसादयन्ति । पश्चादग्नेः ॥ १६ द्वषत्पुत्रञ्च ॥ १७ अथ यस्याः पाणिं ग्रहीष्यन्भवति सशिरस्का साऽऽप्लुता भवति ॥ २८ अहतेन वसनेन पतिः परिदध्यात् "याअकृन्तन् एतयो"परिधत्त धत्त बाससेति च ॥ १९ प्रावृतां यज्ञोपवीतिनीमभ्युदानयन् जपेत् "सामोऽऽददद्गन्धर्वायेति ॥ २० पश्चादग्नः संवेष्टितङ्कटमेवं जातीयं वान्यत् पदा प्रवर्तयन्ती वा- चयेत्-"प्रमे पतियानः पन्थाः कल्पतामिति ॥ २१ स्वयं जपेदजपन्त्यां "प्रास्या” इति ॥ २२ वहिषोऽन्तं कटान्तं प्रापयेत् ॥ २३ पूर्वे कटान्ते दक्षिणतः पाणिग्राहस्योपविशति ।। २४ दक्षिणेन पाणिना दक्षिणमसमन्वारब्धावाः षडाज्याहुती हो-
( १२ )
ति-"अग्निरेतु प्रथम" इत्येतत्प्रभृतिभिः ॥
२५ महाव्याहृतिभिश्च पृथक् ॥
२६ समस्ताभिश्चतुर्थीम् ॥
इति द्वितीयपाठकस्य प्रथमा कण्डिका ॥ २ ॥ १ ॥
अथ द्वितीया कण्डिका-
१हुत्वोपोत्तिष्ठतः॥
२ अनुपृष्ठं पतिः परिक्रम्य दक्षित उद्ङ्मुखोऽवतिष्ठते । वध्वञ्जलि
गृहीत्वा ।
३ पूर्वा माता लाजानादाय भ्राता वा वधूमाकामयेदश्मानं दक्षिणेन
प्रपदेन ॥
४ पाणिग्राहो जपति "इममश्मानमारोहेति ॥
५ सकृत्सगृहीतं लाजानामञ्जलि भ्राता वध्वजलावावपति ॥
६ तं सोपस्तीर्णाभिधारितमग्नौ गुहोत्यविच्छन्दत्यञ्जलिं "इयं नार्यु-
पत" इति ॥
७ "अर्यमणन्नु देवं" "पूषणमि त्युत्तरयोः ॥
८हुते पतिर्यथेतं परिव्रज्य प्रदक्षिणमग्निं परिणयति मन्त्रवान्वा ब्राह्मणः
"कन्यलापितृभ्य" इति ॥
९ परिणीता तथैवावतिष्ठते तथाऽऽकामति, तथा जपति तथाऽऽवपति
तथा जुहोति ॥
१०एवं त्रिः॥
११ शुपण शेषमनावोप्य प्रागुदीचीमभ्युरकामय"न्त्येकमिष" इति ॥
१२ दक्षिणेन प्रक्रम्य सव्येनानुक्रामेत् ॥
१३ "भा सम्येन दक्षिणमतिक्रामेति ब्रूयात् ॥
१४ ईक्षकान्प्रतिमन्त्रयेत “सुमङ्गलीरियं वधू" रिति ॥
१५ परेणाग्निमौदकोऽनुसंबज्य पाणिग्राहं मूर्द्धदेशेऽवसिञ्चति, तथेतरां
"लमजन्वित्येतय ॥
१६.भवसिक्तायाः सव्येन पाणिनाऽञ्जलिमुपोद्गृह्य दक्षिणेन पाणिना
दक्षिणं पाणिए साङ्गुष्ठमुत्तानं गृहीत्वैताः षट् पाणिग्रहणीया जपति
"गृभ्णामित" इति ।
१७ समासासूद्वहन्ति ॥ * ॥
इति द्वितीयप्रपाठकस्य द्वितीया कण्डिका ॥ २ ॥ ३ ॥
। १३) ६ अथ तृतीया कण्डिका- १ प्रागुदीच्यान्दिशि यबाणकुलमभिरूपम् । २ तत्राग्निरुपसमाहितोभवति ॥ ३ मपरेणाग्निमानडुहं रोहितञ्चमं प्रागग्रीवमुचरलोमास्तीर्णम्भवति ॥ ४ तस्मिन्नेनां वाग्यतामुपवेशयन्ति । ५ सा खल्वास्त एवानक्षत्रदर्शनात ॥ प्रोक्त नक्षत्रे षडाज्याहुतीर्जुहोति 'लेखासन्धिविशत्येतत्प्रभृतिभिः॥ ७ आहुतेराहुतेस्तु सम्पातं मूर्धनि वध्वा अवनयेत् ॥ हुत्वोपोत्थायोपनिष्क्रम्य ध्रुवन्दर्शयति । ९ "ध्रुवमसि ध्रुवाहम्पतिकुले भूयासममुष्यासाविति पतिनाम गृह्णी. यादात्मनश्च। १० अरुन्धतीचा ११ "रुवाहमस्मीत्येवमेव ॥ १२ अथैनामनुमन्त्रयते "ध्रुवाोरिश्त्येतयर्चा ॥ १३ अनुमन्त्रिता गुरुं गोत्रेणाभिवादयते ॥ १४ सोऽस्या (वाम् ) विसर्गः॥ १५ तावुभौ तत्प्रभृति त्रिरात्रमक्षारलवणाशिनौ ब्रह्मचारिणौ सह शयी याताम्॥ १६ अत्राय॑मित्याहुः॥ १७ भागतेचित्येके। १८ हविष्यमन्नं प्रथमं परिजपितं भुञ्जीत ॥ १६ श्वोभूते वा समशनीय स्थालोपाकं कुर्वात ॥ २० तस्य देवता अग्निः प्रजापतिर्विश्वेदेवा अनुमतिरिति ॥ २१ उद्धृत्यस्थालीपाकं व्यूबैकदेशं पाणिनाऽभिमृशेत् "अन्नपाशेन मणिनेति ॥ २२ भुत्कोच्छिष्टं वध्वै प्रदाय यथार्थम् ॥ गौईक्षिणा ॥ इति द्वि० तृतीया कण्डिका ॥१॥३॥॥ - अथ चतुर्थी कण्डिका- १ यानमारोहन्त्या, "मुकिरसुकं शाल्मलिमित्येतामृर्च जपेत् ॥ २ अध्वनि चतुष्पथान्प्रतिमन्त्रयते नदीश्च विषमाणि च महावृक्षान् श्मशानश्च "मा विदन परिपन्थिन" इति ।
( १४ ) ३ अक्षमझे नद्धविमोक्षे यानविपर्यासेऽन्यासु चापत्सु यमेवाग्निं हरन्ति तमेवोपसमाधाय व्याहृतिभिर्हत्वाऽन्यद्रव्यमाहृत्य “यऋते चिद. भिश्रिषइत्याज्यशेषेणाभिव्यजेत् ॥ ४ वामदेव्यं गीत्वाऽऽरोहेत् ॥ ६ प्राप्तेषु वामदेव्यम् ॥ ६ गृहागतायां पतिपुत्रशीलसम्पन्ना ब्राह्मण्योऽवरोध्यानडुहे चर्मणि उपवेशयन्ति "इहगावः प्रजायद्ध्वमिति ।। ७ तस्थाः कुमारमुपस्थ माध्युः॥ - तस्मै शकलोटानञ्जलावावपेयुः ॥ ९ फलानि वा॥ १० उत्थाप्य कुमारं ध्रुवा आज्याहुती होत्यष्टा "विहधृतिरिति ॥ ११ समाप्तासु समिधमाधाय यथावयसं गुरुन्गोत्रेणाभिवाद्य मथार्थम् ॥ इति द्वि०प्र० च० कण्डिका ॥२॥४॥ * ॥ अथ पञ्चमी काण्डका १ अथातश्चतुर्थीकर्म ॥ २ अग्निमुपसमाधाय प्रायश्चित्ताज्याहुतीर्जुहोति "अग्ने प्रायश्चित्त" इति चतुः॥ २ अग्नेः स्थाने वायुचन्द्रसूर्थ्याः ॥ ४ समस्य पञ्चमी बहुवदूह्य ॥ ५ आहुतेराहुतेस्तु सम्पातमुदपात्रेऽवनयेत् ॥ ६ तेनैनाई सकेशनखामभ्यज्य हासयित्वाऽऽप्लावयन्ति ।। ७ ऊर्ध्वन्त्रिरात्रात्सम्भव इत्येके ॥ - यद मती भवत्युपरतशोणिता तदा सम्भवकालः ॥ ९ दक्षिणेन पाणिनोपस्थमभिसृशेद् "विष्णुर्योनि कल्पयत्वित्येतयर्चा "गर्भन्धेहि शिनीवाली" ति च ॥ १० समाप्यचौं सम्भवतः ॥ इतिद्वि०पञ्चमी कण्डिका ॥ २ ॥ ५॥ अथ षष्ठी कण्डिका- १ तृतीयस्य गर्भमासस्यादिसदेशे पुरसवनस्य कालः ॥ २ प्रातः सशिरस्काऽऽप्लुतोद्गमेषु दर्भेषु-, पश्चादग्नेरुद्गग्रेषु दर्भेषु प्राच्युपविशति ।
३ पश्चात्पतिरवस्थाय दक्षिणेन पाणिना दक्षिणमसमन्ववमृश्यान्त. हितं नाभिदेशमभिमृशेत् । “पुमाएसौ मित्रावरुणावियेतया ॥ ४ अथ यथार्थम् ॥ ५ अथाऽपरम् ॥ ६ प्रागुदीच्यान्दिशि न्यगोधशुङ्गामुभयतः फलामलामामकृमिपरिसू. प्तां त्रिसप्तैर्यतैर्वाि परिक्रीयोत्थापयेत् ॥ ७ "यद्यसि लौमी सोमाय त्या राशे परिक्रीणामि, यद्यसि वारुणी बह- णायत्वा राक्षे परिक्रीणामि, यद्यसि वसुभ्यो वसुभ्यस्त्वा परि- क्रीणामि, यद्यसि रुद्रेश्यो रुद्रेभ्यस्त्वा परिक्रीणामि, यद्यस्यादित्येभ्य आदित्येभ्यस्त्वा परिक्रोणामि, यद्यसि मरुद्भ्यो मरुद्भयस्त्वा परि क्रोणामि, यद्यसि विश्वेभ्यो देवेभ्यो विश्वेभ्योदेवेभ्यस्त्वा परिकृणामि ॥ = "ओषधयः! सुमनसोभूत्वाऽस्यांवीयं समाधत्तेयङ्कर्मकरिष्यतीत्यु" स्थाप्य तृणैः परिधायाऽऽहत्य हायसीं निदधात् ॥ द्वषदं प्रक्षाल्य ब्रह्मचारी व्रतवती वा ब्रह्मबन्धूः कुमारी वाऽप्रत्याह- रन्ती पिनष्टि। १० प्रातः सशिरस्काऽऽप्लुतोदगग्रेषु दर्धषु, पञ्चादग्नेरुदगग्रेषु दर्भेषु प्राक् शिराः संविशति ॥ ११ यश्चात्पतिरवस्थाय दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्या. ऽभिसगृह्य दक्षिणे नासिकास्रोतस्यवनयेत् । “पुमानग्निः पुमानि- न्द्र इत्यतेयच्र्चा १२ अथ यथार्थम् ॥ इति द्वि० प्र० षष्ठी कण्डिका ॥ २६ ॥ Womeone अथ सप्तमी कण्डिका- १ अथ सीमन्तकरणम्प्रथमगर्भे ॥ २ चतुएँ मासि षष्टेऽष्टमे वा । ३ प्रातः सशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु, पश्चादग्नेरुद्गग्रेषु दर्भेषु प्राच्युपविशति ॥ ४ पञ्चात्पतिरवस्थाय युग्मन्तमौदुम्बरं शलाटुअप्समाबध्नाति । "अयमुजोवतोवृक्ष' इति ॥ ५ अथ सीमन्तमुवनयति "भूरिति दर्भपिञ्जलीभिरेव प्रथम, "भुव- रिति द्वितीयं, "स्वरिणति तृतीयम् ।। ६ अथ वीरतरेण "येनादितेरे" तया ॥
( १६ ) ७ अथ पूर्णचात्रेण "राकामहमित्ये" तय ॥ ८ विश्वेतया च शलल्या "यास्ते राके सुमतय” इति ॥ ९ कृसरः स्थालीपाक उत्तरघृतस्तमवेक्षयेत् ॥ १० "किम्पश्यली" त्युस्का "प्रजामिति वाचयेत् ॥ ११ तं सा स्वयम्भुञ्जीत ॥ १२ “चोरसूर्जीवसृर्जीवपत्नी"ति ब्राह्मण्यो माङ्गल्याभिर्वाग्भिरुपासीरन् । १३ अथ सोयन्तीहोमः॥ १४ प्रतिष्ठिते वस्तौ परिस्तीर्याग्निमाज्याहुती र्जुहोति “या तिरश्ची" त्येतयर्या "विपश्चित्पुच्छमभरदिति च ॥ १५ "पुमानयं जनिष्यतेऽसौ नामेति नामधेयं गृहणाति ॥ १६ यत्तद्गुह्यमेव भवति ॥ १६ यदास्मै कुमारं जातमाचक्षीरन् , ब्रूयात् "काङ्क्षत नाभिकन्तनेन स्तनप्रतिधानेन च ॥ १८ व्रीहियवौ पेषयत्तशैवाऽऽवृता यथा शुङ्गाम् ॥ १४ दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्याऽभिसंगृह्य कुमारस्य जिह्वायां निमीष्टी-"यमाणति ॥ २० तथैव मेधाजननं सर्पिष्प्राशयेत् ॥ २१ जातरूपेण वाऽऽदाय कुमारस्य भुखे जुहोति "मेधान्ते मित्रावरुणा. वित्येतया "सदसस्पतिमद्भुतमि"ति च ॥ २२ कृन्तत नामिमिति यात्स्तनञ्च प्रतिधत्तेति ॥ २३ मत ऊर्ध्वमसमालम्भनमादशरात्रात् ॥ इति द्वितीयप्रपाठके सप्तमी कण्डिका ॥२॥७॥ अथाष्टमी कण्डिका- ९ जननाधस्तृतीयोज्योत्स्नस्तस्य तृतीयायां प्रातः सशिरस्कं कुमार माप्लाव्यास्तमिते वीते लोहितिम्न्यञ्जलिकृतः पितोपतिष्ठते ॥ २ अथ माता शुचिना वसनेन कुमारमाच्छाध दक्षिणत उदञ्चं पित्रे प्रयच्छत्युदशिरसम्॥ ३ मनुपृष्ठं परिक्रम्योत्तरतोऽवतिष्ठते ॥ ४ अथ जपति-"यत्ते सुसीम” इति । “यथायन्नप्रमीयेत पुत्रोजनिया- अधीति॥ ५ उदञ्चं मात्र प्रदाय यथार्थम् ॥ ६ अथ येऽतऊर्ध्वज्योत्स्नाः प्रथमोद्दिष्ट एव तेषु पितोपतिष्ठतेऽपामञ्ज- लिं पूरयित्वाऽभिमुखश्चन्द्रमसम् ॥ ७ "यददश्चन्द्रमसीति लवद्यजुषा द्विस्तूष्णीमुत्सृज्य यथा म् ॥ (अत ऊध्वं ज्योत्स्नेष्वेतकर्मासंवत्सरम) - जननादशाराने व्युष्टे शतरात्रे सवत्सरे वा नामधेयकरणम् ॥ अथयस्तत्करिष्यन्भवतिं पश्चादग्नेरुद्गग्रेषु दर्भेषु प्राद्भुपविशति ॥ १० प्रथमाता शुचिना वसलेन कुमामारच्छाद्य दक्षिणत उदञ्चं करें प्रय- च्छत्युदशिरसम् ॥ ११ अनुपृष्ठं परिक्रस्योत्तरत उपविशत्युदगग्रेषु दभषु ॥ १२ अथ जुहोति प्रजापतये थितये नक्षत्राय देवताया इति । १३ तस्य मुख्यान्प्राणान्संमृशन् "कोऽसि कतमोऽसीत्येतं मन्त्र जपति । १४ "माहरूपत्यं मालं प्रविशासावित्यन्ते च मन्त्रस्य घोषवदाद्यन्तर. न्तः स्थं दीर्धाभिनिष्ठानान्तं कृतं नाम दध्यात ' १५ एतद्तद्धितम् ॥ १६ मयुग दान्तं स्त्रीणाम् ॥ १७ मात्रे चैव प्रथम नामधेयमाख्याय यथार्थम् ॥ १८ गौईक्षिणा १९ कुमारस्य मासि मासि सम्वत्सरे, सात्सरिकेषु चा पर्वस्वग्नीन्द्रौ धावापृथिवी विश्वान्देवांश्च यजेत । २० दैवतमिष्वा तिथिन्नक्षत्रञ्च यजेत ॥ २१ विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्यां पाणिभ्यां मूर्धानं परिगृह्य जपेत् । यदा वा पिता म इति विद्यात् । उपेतस्य वा ऽङ्गादङ्गात् स . स्त्रवसीति ॥ २२ “पशूनान्त्वा हिङ्कारेणाभिजिघ्रामीणत्यभिजिब्रय यथार्थम् ॥ २३ एवमेवापरेषाम् । २४ यथा ज्येष्ठय्यथोपलम्भं वा॥ २५ स्त्रियास्तूष्णीं मूर्धन्यभिजिघ्रणं मूर्धन्यभिजिघ्रणम् ॥ इति द्वितीयप्रपाठकस्याष्टमी कण्डिका ॥ २ ॥ ८ ॥ ।। अथ-नवमी-कण्डिका- १ अथातस्तृतीये वर्षे चूड़ाकरणम् ॥ २ पुरस्ताच्छालाया उपलितेऽग्निरुपसमाहितो भवति ॥ ३ तत्रैतान्युपक्लृप्तानि भवन्ति । ४ एकविशतिर्दर्भपिखल्य उष्णोदककस औदुम्बरः क्षुर आदर्शो ३
( १८)
वा क्षुरपाणि पित इति दक्षिणतः ॥
६ आनडुहगोमयः कसरः स्थालीपाको वृथापक इत्युत्तरतः ॥
६ ब्रीहियवैस्तिलमारितिपृथपात्राणि पूरयित्वा पुरस्तादुपनिदध्युः ॥
६ कृसरोनापिताय सर्वबीजानि चेति ॥
= अथ माता शुचिना वसनेन कुमारमाच्छाद्य पश्चादग्नेरुदनेषु दर्भेषु
प्राच्युपविशति॥
९ अथ यस्तत्करिष्यन्भवति पश्चात्प्राङवतिष्ठते ।।
१० अथ जपत्या-"यमगात्सविता क्षुरेणेति सवितारम्मनसाऽऽध्यायः
नापितं प्रेक्षमाणः॥
११ "उष्णेन पाय उदकेनेधोति वायुं मनासाध्यायन् उष्णोदककसं
प्रेक्षणमाणः॥
१२ दक्षिणेन पाणिना अप आदाय दक्षिणाङ्कपुष्णिकामुन्दति "आप
उन्दन्तु जीवस" इति ॥
१३ "विष्णाष्ट्रोऽसीति औदुम्बरं क्षुरं प्रेक्षत आदर्श वा ॥
१४ “ओषधे त्रायस्वैनमि"ति सप्त दर्भपिखलीक्षिणायां कपुष्णिका.
यामभिशिरोग्रा निदधाति ॥
१५ तां वामेन पाणिना निगृह्य दक्षिणेन पाणिनौदुम्बर क्षुरं गृहीत्वा
(क्षुरमा )ऽऽदर्श वा ऽभिनिदधाति "स्वधिते मैनहिंसीरिणति ॥
"येन पूषा बृहस्पतेरिणति त्रिः प्राञ्चम्प्रोह'त्यप्रच्छिन्दन्सकृद्यजुषा
द्विस्तूष्णीम् ॥
१७ अथाऽऽयसेन प्राच्छिद्यानुडुहे गोमये निदधाति ।
१८ एतयैवाऽऽवृता कपुच्छलम् ॥
२६ एतयोत्तरां कपुष्णिकाम् ॥
२० उन्दनप्रभृत्येवाभिनिवर्तयेत् ॥
२१ उभाभ्याम्पाणिभ्याम्मुर्धानम्परिगृह्य जपेत् ।
२२ एतयैवावृता स्त्रियाः॥
२३ तूष्णीम् ॥
२४ मन्त्रेण तु होमः॥
२५ उद्गग्नेरुत्सृप्य कुशलीकारयन्ति यथागोत्रकुलकल्पम् ॥
२६ मानडुहे गोमये केशान्कृत्वाऽरण्यश्हत्वा निखनन्ति ॥
२७ स्तम्ब हैके निदधति ।
२८ यथार्थम् ।
२९ गौदक्षिणा॥
इति द्वि० प्र० नवमी कण्डिका ॥९॥
अथदशमी---- १ गर्भाष्टमेषु ब्राह्मणमुपनयेत् ॥ २ गब्éकादशेषु राजन्यम् ॥ ३ गर्भद्वादशेषु वैश्यम् ॥ ४ आषोड़शाद्वर्षाद्ब्राह्मणस्यानतीतः कालोभवत्याद्वाविशात्क्षत्रि. यस्थाचतुर्विरक्षाद्वैश्यस्य ५ अत ऊध्वंम्पतितसावित्रीका भवन्ति । ६ नैतानुपनयेयु नाध्यापयेयुन्नैभिविवहेयुः ॥ ७ यदहरुपैयन्माणवकोभवति प्रग एवैनं तदह जयन्ति कुशली. कारयन्त्याप्लावयन्त्यलङ्कुर्वन्त्यहतेन वाससाऽऽच्छादयन्ति ॥ स्मशाणकासौर्णान्येषां वसनानि ।। ऐणेयरौरवाजोन्यजिनानि ॥ १० मुञ्जकाशतामुन्यो रशनाः। ११ पाणल्वाश्वत्था दण्डाः ॥ १२ क्षौमशाणं वा वसनं ब्राह्मणस्य, काशं क्षत्रियस्याऽऽविकं - श्यस्य॥ १३ एतेनैवेतराणि द्रव्याणि व्याख्यातानि ।। १४ अलाभे वा सर्वाणि सर्वेषाम् ॥ १५ पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितोभवति ॥ १६ "अग्ने व्रतपते” इति हुत्वा पश्चादग्नेरुदगनेषु दर्भेषु प्राङाचाय्योs. वतिष्ठते । १७ अत्तरेणान्याचाय्यौँ माणवकोऽजलिकृतोऽभिमुख आचार्यमुदग. ग्रेषु दर्भेषु ॥ १८ तस्य दक्षिणतोऽवस्थाय मन्त्रवान्ब्राह्मणोऽपामञ्जलिम्पूरयति ॥ १६ उपरिष्टाच्चाचार्यस्य । २० प्रेक्षमाणेजपत्या"गन्त्रा समगन्मही"ति ॥ २१ "ब्रह्मचर्यमागामिति वाचयति ॥ २२ "कोनामासीति नामधेयम्पृच्छति ॥ २३ अभिवादनीयन्नामधेयङ्कल्पयित्वा । २४ देवताश्रयं वा नक्षत्राश्रयं वा ॥ २५ गोत्राश्रयमप्येके॥ २६ उत्सृज्यापामञ्जलिमाचार्योदक्षिणेन पाणिनां दक्षिणं पाणिसाङ्गुष्ट गृह्णाति "देवस्य ते सवितुःप्रसवेऽश्विनार्वाहुभ्यां पूण्णाहस्ताभ्याए.
(२०)
हस्तं गृभ्णाम्यसाविति ॥
२७ अथैः प्रदक्षिणमावत्यति "सूर्य्यस्यावृतमन्वावर्तस्वासाविति ॥
स दक्षिणेन पाणिना दक्षिणमसमन्ववमृश्यानन्तहितान्नाभिमभिमृशेत्
"प्राणानां प्रन्थिरसीति ॥
२९ उत्सृज्य नाभिदेश"महुर" इति ॥
३० उत्सृप्य हृदयदेशं "कृशन" इति ।
३१ दक्षिणेन पाणिना दक्षिणमएसमन्वालभ्य "प्रजापतये त्वा परिदा-
न्यसाविति ॥
३२ सव्येन सव्यं "देवायत्वा सवित्रे परिददाम्यसाविति ॥
३३ अथैनए सम्प्रेष्यति "ब्रह्मचार्यस्थलावि-ति ।
३४ "समिधमाधेापोऽशान कर्म कुरु मा दिवा स्वाप्सीरिणति ॥
३५ उदगग्नेरुत्सृप्य प्राङाचार्य उपविशत्युदगग्रेषु दर्भेषु ॥
३६ प्रत्यङ्माणषकोदक्षिणजान्वक्तोऽभिमुख आचार्य्य उद्गग्रेष्वेव
दर्भेषु ॥
३७ अथैनं त्रिः प्रदक्षिणं मुञ्जमेखलाम्परिहरन् वाचयति “इयं दुरुक्तात्
परिबाधमाने-ति "ऋतस्य गोत्री-ति च ॥
३८ अथोपसीद त्यधोहि भोः सावित्री मे भवाननुब्रवीत्वि-ति ॥
३९ तस्मा अन्वाह-पच्छो-ऽर्द्धश ऋक्छ इति ।।
४. महाव्याहृतीश्च विहृता ओकारान्ताः।
४. वासंचास्मै दण्डम्प्रयच्छन्वाचयति "सुश्रवः सुश्रवसं मा कुर्विशति ॥
४२ अथ भैक्षधरति ॥
४३ मातरमेवाने, द्वे चान्ये सुहदौ, यावत्यो वा सन्निहिताः स्युः ॥
४. आचार्याय भैक्षनिवेदयति ॥
४५ तिष्ठत्यहः शेषं वाग्यतः ॥
१६ अस्तमिते समिधमादधाति “अग्नये समिधमाहार्षमिति ॥
४७ त्रिरात्रमक्षारलवणाशी भवति ॥
४८ तस्यान्ते सावित्रश्चरुः ॥
५ यथार्थम् ॥
५० गौइक्षिणा॥
इति द्वि० प्र० दशमी कण्डिका ॥ १० ॥
इति द्वितीयः प्रपाठकः ॥ २ ॥
( २१ ) (अथसमावर्चनसूत्राणि) अथ तृतीयप्रपाठकस्य चतुर्थी कण्डिका- १ ब्रह्मचारी वेदमधीत्य ॥ २ उपन्याहृत्य गुरवे॥ ३ अनुज्ञातो दारान्कुर्वीत ॥ ४ असगोत्रान् ॥ ५ मातुरसपिण्डान् । ६ मग्निका तु श्रेष्ठा ॥ ७ अथाऽऽप्लवनम् ॥ = उत्तरतः पश्चाद्वाऽऽचार्यकुलस्य परिवृतम्भवति ॥ । तत्र प्रागनेषु दर्भेषाचार्य उपविशति ॥ १० प्राग प्रह्मचार्युदगग्रेषु दर्भेषु ॥ ११ शीतोष्णाभिराचार्योऽभिषिञ्चेत् ॥ १२ स्वयमिव तु॥ १३ मन्त्रवर्णा भवति ॥ १४ "येऽश्चन्तरग्नयः प्रविष्टा" इत्यपामञ्जलिमवसिञ्चति ॥ १५ “यदपां घोरं यदपां करं यदपामशान्तमिति च ॥ १६ "यो रोचनस्तमिह गृह्णामीगत्यात्मानमभिषिञ्चति ॥ १७ "यशसे तेजस" इति च । १८ "येन स्त्रियमकृणुतमि"-ति च ॥ १९ तूष्णीचतुर्थम् । २० उपोत्थायादित्यमुपतिष्ठते "उधन्भ्राजभृष्टिभि"-रित्येतत्प्रभृतिना मन्त्रेण ॥ २१ यथालिङ्गं वा विहरन् । २२ चक्षुरसोत्यनुबध्नीयात् ॥ २३ मेषलामवमुञ्चत "उदुत्तमं वरुणपाशमिति ॥ २४ ब्राह्मणान्भोजयित्वा स्वयम्भुक्का केशश्मश्रुलोमनखानि वापयीत शिखावजम् ॥ २५ स्नात्वाऽलङ्कृत्याऽहते वाससी परिधाय स्त्रजमावधनीत "श्रीरसि मयि रमस्वेति॥ २६ "नेव्यौ स्थो नयतम्मामि-त्युपानहौ । २७ "गन्धोऽसीति वैणवदण्डं गृह्णाति ॥
२८ आचार्य सपरिषत्कमभ्येत्याचार्यपरिषदमोक्षते ॥ "यक्षमिव च. क्षुषः प्रियो वो भूयासभि-ति ॥ २४ उपापविश्य मुख्यान्प्राणान्त्संस्पृशन् “ोष्टापिधाना नकुली"ति ॥ ३० अत्रैनमाचार्योऽहयेत् ॥ ३१ गोयुक्तं रथमुपसंक्रम्य पक्षली कूबरं बाहुं वाऽभिमृशेत् ॥ "वनस्पते वोड्वङ्गो हि भूया" इति ॥ ३२ 'प्रास्थाता ते जयतु जत्वानी-"त्यातिष्ठति ॥ ३३ प्राङ्बोदवाऽभिप्रयाय प्रदक्षिणमावृत्त्योपयाति ॥ ३४ उपयातायायमिति कोहलीयाः ॥ इति समावर्तनम् ॥ * ॥ maa अथार्हणा सूत्राणि- चतुर्थप्रपाठके दशमी कण्डिका-- १ उत्तरतोगां बध्वोपोत्तिष्ठेरन् "अहंणा पुत्रवासलेति ॥ २ "इदमहमिमा पद्यां विराजमन्नाधायाधितिष्ठामी-ति प्रतितिष्ठमा- नो जपेत् ॥ ३ यौनमर्हयिष्यन्तः स्युः॥ ४ यदावाऽहयेयुः॥ ५ विष्टरपाद्यार्थ्याचमनीयमधुपर्कानेकैकशस्त्रिस्त्रिवयेरन् । ६ "या ओषधीरि-"त्युचं विष्टरमास्तीर्याध्युपविशेत् ॥ ७ द्वौ चेत्पृथगृग्भ्याम् ॥ ८ पादद्यारन्यम्॥ 8 "यतादेवीरि-पत्यपः प्रेक्षते ॥ १. "सव्यं पादमवनेनिज" इति सव्यं पादम्प्रक्षालयेत् । “दक्षिणं पाद- मवनेनिज" इति दक्षिणं पादम्प्रक्षालयेत् ॥ ११ "पूर्वमन्यमपरमन्यमि-प्रत्युभौ शेषेण । १२ "अन्नस्य राष्ट्रिरसी-प्रत्यध्य प्रतिगृह्णीयात् । १३ "यशोऽसीत्याचमनीयमाचामेत् । १४ "यशसोयशोऽसी-"ति मधुपक्कं प्रतिगृह्णीयात् ॥ १५ “यशसोभाऽसि, महसोभतोऽसि, श्रीभक्षाऽसि श्रियम्मयि धेही" ति त्रि:पिबेत् ॥ १६ तम्णीञ्चतुर्यम् ॥ १७ भूय ऐवाभिपाय शेषं ब्राह्मणाय दद्यात् ॥
१८ श्राचान्तोदकाय गौरिति नापितस्त्रियात् ॥ १९ "मुञ्च गां धरुणपाशाद्विषन्तंम्मेऽभिधेहोति-तजामुष्पचभियोरु- रसृजगामस्तु तृणानि विबतूदकम्” इति ब्रूयात् ॥ २० "माता रुद्राणामिणत्यनुमन्त्रयेत् ॥ २१ अन्यत्र यज्ञात् ॥ २२ कुरुतेत्यधियक्षम्॥ २३ षड़या भवन्ति ॥ २४ माचार्य ऋत्विक स्नातको राजा विवाहः प्रियोऽतिथिरिति । २५ परिसम्वत्सरानहयेयुः । २६ पुनर्यज्ञविवाहयोश्च पुनर्यज्ञविवाहयोश्च ॥ इति च० प्र० दशमी कण्डिका ॥ १० ॥ * ॥ प्रपाठकश्चायं समाप्तश्चतुर्थः ॥ ४ ॥ * ॥ AN (अथ संस्कारकुशण्डिकापरिशिष्टसूत्राणिः) चतुर्थप्रपाठकेपञ्चमी कण्डिका- १ काम्येष्वत ऊर्ध्वम् ॥ २ पूर्वेषुचैके॥ ३ पश्चादग्ने मौन्यञ्चौपाणीप्रतिष्ठाप्ये-“दम्भुमेर्भजामह" इति ॥ ४ वस्वन्तएरात्रौ धनमिति दिवा ॥ ५ "इमंस्तोममिति तृचेनपरिसमूहेत् ॥ ६ वैरूपाक्षः पुरस्ताद्धोमानाम् ॥ ७ कास्येषु च प्रपदः॥ "तपश्चतेजश्चे-ति जपित्वा प्राणानायम्यार्थमना वैरूपाक्षमारभ्यो. च्छ्वसेत् ॥ इति गोभिलगृह्यसूत्रे चतुर्थं प्र०प०मकण्डिकायामादितोवसुसूत्राणि ॥ * ॥ - मथाभ्युदयिकश्राद्धसूत्राणि- चतुर्थी कण्डिका- अथाभ्युदयिके श्राद्धे युग्मानाशयेत्प्रदक्षिणमुपचार ऋजवादर्भा य- वस्तिलार्थः । सम्पन्न मिति तृप्ति प्रश्नोदधिवदाक्षतमिश्रान्पिण्डानान्दी. मुखाः पितरः प्रीयन्तामिति वा चयेदिति पितृभ्यः पितामहेभ्यः प्रपिता यहेभ्यो मातामहेभ्यः प्रमातामहेभ्योवृद्धप्रमातामहेभ्यः स्वाहाच्यतामि. त्यस्तुस्वाहेत्युक्ते नस्वधाम्प्रयुञ्जीत ॥४-१-१०॥ इति ।
S
weANImmmmmmmmm
प्राप्तिस्थानम्-
चौखम्बा संस्कृत पुस्तकालय
बनारस सिटो।
*श्रीः अथ- गोभिलगृह्यसूत्रे-- श्रीमदाद्यापदाम्भोजद्वन्द्वन्नत्वा सताम्मुदे । गोभिलीये गृह्यसूत्रे सद्याख्याम्मृदुलाम्ब्रुवे ॥१॥ महाराजाधिराजश्रीपरमेश्वरसुपालिता। नित्यं विजयते ह्येषा मिथिला कर्मठाऽऽवृता ॥२॥ तत्र ग्रामे हरिपुरे हाटीतप्पान्तरेऽभवम् । श्रीमत्कृष्णपदाम्भोजद्वन्द्वन्दिन्दिरमानसात् ।। ३।। नन्दलालाद्योगमायादेव्याङ्करमहान्वये । गौभिलः श्रीमुकुन्दोऽहम्प्रार्थितोऽकरवं पुरः ।। ४ ।। प्रकाशङ्कर्मकाण्डस्य मन्त्रार्थानान्निजैर्मुहुः । अन्तेवसद्भिः सुमना इमाङ्कुर्वेऽत्र (१)तन्मुदे ॥ ५ ॥ सूत्रोपन्यस्तमन्त्रार्थाश्छायया विवृता मया। अत्र, तत्रावशिष्टास्तु(२) कर्मकाण्डप्रदीपके ॥ ६ ॥ अस्य पूर्वैः कृता व्याख्या नकधा याऽस्फुटाशया । ततोऽपि प्रामाणिकार्था उद्धृताः पूर्वसम्मताः ।। ७ ।। अथ तत्रभवान्भगवान्सामगाचार्यः (पारस्करापराभिधानस्य कात्याय : नस्य पिता ) गोभिलः कृतसमावर्तनानाङ्कौथुमशाखिनाङ्कमकाण्डं यथाश्रुति- स्मृति दर्शयन्छास्त्रमिदमारेभे । यस्येदमादिमं सूत्रम्- अथातोगृह्या-काण्युपदेक्ष्यामः ॥ १॥ इति । अत्राथशब्दोग्रन्थारम्भार्थद्योतकोनिपात इति कश्चित् । अनन्तर्य- वचनोमङ्गलप्रयोजन(३)कश्चेति राद्धान्तिकाः ।। (१) गोभिलीये गृह्यसूत्रे तेषामन्तेवसतां श्रौतस्मात-कर्मकाण्ड-परीक्षादित्सुना. तिदर्थमधिजिगांसमानानां निरवशेषेण सताञ्चान्येषाङ्कर्मकाण्डतत्त्वबुभुत्सूनां मुद इत्युक्तार्थस्यैव विशदीकृतोऽर्थः पुनरुपनिबद्धः । (२) मन्त्रा-अर्था-स्तद्विशेषाश्च । तत्र-प्रसिद्ध कर्मकाण्डमन्त्रार्थप्रदीपे मयैव वि. वृता इत्यन्वितोऽर्थः । (३) यथा यात्राकाले दधि-मत्स्यादि-दर्शनम्मङ्गलं, यथा वा मृदङ्गादिध्वनिश्रव णम् । तथैतदुच्चारणस्मरणे महतेऽभ्युदयाय ग्रन्थारम्भेऽवकल्पेत इति भावः । अनुपदमुप. दर्शयिष्यमाणस्मृतौ मालिकावित्यस्य मङ्गलप्रयोजनकावित्यर्थे (पा० ५।१।१०९) ठका साधनात् । एतयोतकत्ववाचकत्वे उभावपि पक्षौ निपातेषु व्यवस्थितावित्येवमवतम् । MARIOR सर्वकर्मसाधारणविधयः । १ प्रपाठके- - "मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ" इत्यमरात् । ॐ कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ" ।। इति स्मरणाच्च ।। अथ-वेदाध्ययन-तदर्थावगमानन्तरम् यतोयथावद्विचारशास्त्र(१)मधिग- त्य स्थितानां स्नातकानां गार्हस्थ्यानुसरणं शास्त्रार्थः । "अतः परं समावृत्तः कुर्याहारपरिग्रहम्" इति । "वेदानधीत्य वेदो वा वेदं (२)वापि यथाक्रमम् । अविप्लुतब्रह्मचर्योगृहस्थाश्रममावसेत्" ।। इति चैवमादिस्मरणात । यतश्व- "यस्मात्त्रयोऽप्याश्रमिणोज्ञानेनान्नेन चान्वहम् । गृहस्थेनैव धार्यन्ते तस्माच्छष्टोगृहाश्रमी" ॥ इत्यादिस्मृतेस्तस्यो(३)त्तमत्वमवगतम् । अतः-एतस्मात्कारणाद्गृह्या क- आणि । गृहे गृहस्थाश्रमे साधूनि ( योग्यानि ) “तत्र साधुः" (पा० ४।४।९८) इति साध्वर्थे यत्प्रत्ययः । लक्षणया गृह्यामिसाध्यानि वा कर्माणि धर्मभूता. नि(४) आदित एव । उपदेक्ष्यामः(५)। कथयिष्याम इत्यर्थः। गृह्यति दीर्घ- श्छान्दस:(६) । (पा० ६।३।१६७ ) "छन्दोवत्सूत्राणि भवन्ती"ति हि पातज. (१) मीमांसाम् । (२) वेदशब्दोऽत्र विभिन्नशाखापरः। स्वशाखाध्ययनपूर्वकं वेदशाखानां त्रयं द्वयमेकां वा शाखां मन्त्रबाहह्मणक्रमेणाधीत्य गृहस्थाश्रमं गृहस्थविहितकर्माकलापरूपमावसेदन- तिष्ठेदिति तदर्थः । कृतदारपरिग्रहोगृहस्थः । (३) गृहस्थाश्रमस्य । (४) कर्माण्येव स्वव्यापाराष्टरूपेण परिणमन्ति धा इत्युच्यन्ते । तदेतद्भुतश ब्दप्रयोगेणावेदितम्भवति । तथाचान कर्मधारयः समासः । गृह्याकर्माणीति । (५) उपदेशशब्दार्थमाह-गृह्यभाष्यकार: “उपदेश उप्रसन्नस्यान्तेवासिनः स्वर्गाप. वर्गादिसाधकपदार्थसार्थकथनम्" इति। तथाचान दिशिरुच्चारणक्रियोभावे घञ् । उप. देशनमुपदेश इति । (६) यद्वा गृहे साध्वी गृह्या पत्नी तया सहितस्य यानि कर्माणि तानीत्यर्थः । मध्यम पदलोपी समासः । (पा. २११६० वा० ) अथवा गृह्या इति प्रस्तुतायाः स्मृतेरभिधा नम् । तथा-चाचार्यपुत्रेण कात्यायनेन कृतोऽस्या एव स्मृतेः श्लोकेन सङ्ग्रहोगृहासन हपदेनैवाभिधीयत इति । तथाच गृहासङ्ग्रह एव- "पत्न्यः पुत्राश्च कन्याश्च जनिष्याश्वापरे सुताः । गृह्या इति समाख्याता यजमानस्यं दायकाः ॥ ३९ ॥ तेषां संस्कारयोगेन शान्तिकमक्रियासु च । आचार्यविहितः कल्पस्त. स्माद्गृह्या इति स्थितिः ॥३६॥ इति । वस्तुतस्तु-गृह्यः शालाग्निरावसथ्यः । औपा. सन इत्यनान्तरम् । तस्मिन्स्मार्तेऽग्नौ यानि कर्तव्यानि कम्माणि तानि गृह्माका णि "शेवछन्दसि बहुलम् (पा०६।१९०) इति शेर्जसः स्थाने विहितस्य लोपः। गृहाणीति।
३ - asses १ कण्डिका ] गोभिलगृह्यसूत्रे- लमहाभाष्यम् ।। तदनेन सूत्रेणाभिधेयादीनि (१)शिष्यप्रवृत्त्युपयोगीनि स्वर- सतोदर्शितानि। तत्राभिधेयः कर्म यथोक्तम् । श्रेयः प्रयोजनम् । सम्बन्धोऽपि यथायथं सुखबोधः प्रतिपाद्यप्रतिपादकभावादिः । अथशब्देनानन्तर्यावगमादधिकार्यपि प्रतिपादितकल्प एवेत्यास्तां विस्तरः॥१॥ : तत्र तावत्साधारणकाङ्गभूताः केचन धर्माः परिभाष्यन्ते- यज्ञोपवीतिनाऽऽचान्तोदकेन च कृत्यम् ॥२॥ यज्ञार्थ-(२)मुपवीतं-ब्रह्मसूत्रय्यथावद्विहितय्यस्यास्ति स यज्ञोपवीती मत्वर्थे इनि: प्रत्ययः । (पा० ५।२।११५ ) तेन यज्ञोपवीतिना । आचान्तमा- चमनविधिनेष(३)द्भक्षित(म्पीत)मुदकंयेनासावाचान्तोदकस्तेन । चकाराद्वद्ध- शिखेन । कृत्यम्-कर्म "कर्त्तव्यमिति सूत्रशेषः । तथाचच्छन्दोगपरिशिष्टम्- "सदोपवीतिनाःभाव्यं सदा बद्धशिखेन च । विशिखोव्युपवीतश्च यत्करोति न तत्कृतम्" ।। १ ।। इति । यज्ञोपवीताचमनयोः स्वरूपमुपरिष्टाद्वक्ष्यति-"यज्ञोपवीतङ्कुरुते" (१।२।१) इत्यादिना। इदानीङ्कमाङ्गेषु वक्तव्येषु कालमेव तावत्परिभापते... उदगयने पूर्वपक्षे पुण्येऽहनि प्रागावर्तनादह्नः कालं विद्यात् ॥ ३ ॥ उद्गयनं मकरादिषण्मासय्याँवत्सूर्यस्योदग्गमनात्प्रसिद्धं ज्यौतिषे। तत्र पूर्वपक्षे “पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ” इत्यमराच्छुक्लपक्षे । पुण्ये- पुनीते (शोभने) विठ्यादि-दोषरहिते यथोक्ते । अहनि-दिवसे । तत्रापि अहो. वासरस्याऽऽवर्तनाच्छायायाः परिवर्तनात् । प्राक्-पूर्वम्पूर्वाद्ध इत्येतं कालं वि- द्यात्-जानीयात् । प्रकृतस्य कृत्यस्य (गृह्याकर्मण: ) इत्यर्थः । स्मरन्ति च-- "आवर्त्तनन्तु पूर्वाह्रोह्यपराहस्ततः परम्” इति । अत्र पूर्वाद्ध इत्येव वक्तव्ये प्रागित्याद्यभिधान “पूर्वाह्नोवै देवानाम्मध्य- (१) एतच्चतुष्टयमेवानुबन्धपदप्रतिपाद्यं पद्विना ग्रन्थादौ मङ्गलप्नुपनिबद्धमपि न शस्यते इत्युक्तमभियुक्तः । यथा- "विना विषयसम्बन्धौ तथैवार्थाधिकारिणौ । अभ्याख्येयोभवेद्ग्रन्थः स्याद्ग्रन्थे तच्चतुष्टयम्" इति ।। "विनाऽनुबन्ध ग्रन्थादौ मङ्गले नैव शस्यते” इति चैवमादि । तल्लक्षणञ्च "प्रन्थाऽध्य. यनप्रवृत्तिप्रयोजकज्ञानविषयत्त्वम्" इति। प्रवृत्तिजनकञ्चेष्टसाधनताज्ञानं, कृतिसाध्यता- ज्ञानश्च । तजनकन्चानुबन्धज्ञानम् । विशिष्टबुद्धौ विशेषणज्ञानं कारणम् । इति ॥ (२) अन्न तादर्थ्यचतुर्थ्या समासः । (३) आ-इतीषदर्थेऽव्ययम् ।
सर्वकर्मसाधारणविधयः। [१ प्रपाठक Homsmaema । न्दिनं मनुष्याणामपरालः पितृणाम्" इति श्रुत्युक्तदिनप्रथमतृतीयभागात्मक पूर्वाहव्यवच्छे(१)दायेति बोध्यम् ।। ३ ॥ एवन्तयुदगयनाद्यभावे शास्त्रबलादप्यनुष्ठीयमानस्य पिण्डपितृयज्ञादेः स. मयवैगुण्यं स्यादत आह- यथाऽऽदेशश्च ॥४॥ काले विद्यादित्यनुवर्तते । आदेश आज्ञा शास्त्रस्य । तमनतिक्रम्येत्यर्थः । आदिशति च शास्त्रं किञ्चित्कर्मोदगयनाद्यभावेऽपीति तत्राऽनङ्गतैवामीषा,- मङ्गता च यथोक्तानाम् ॥ ४॥ सर्वाण्येवान्याहार्यवन्ति ॥ ५॥ अनुपश्चादाहियते प्रकृतङ्कर्म यस्मादिति, अनुपश्चादाहियते यत्प्रस्तुतात्क- मणः । इति चान्वाहार्य नान्दीमुखश्राद्ध(२)न्दक्षिणा चोच्यते । अत एव गृ. ह्यान्तरम्- "यच्छ्राद्धकर्मणामादौ या चान्ते दक्षिणा भवेत् । अमावास्यान्द्वितीयय्यदन्वाहाय॑न्तदुच्यते” इति । तद्विद्यते येषान्तानि । तदयमर्थः । सर्वाण्येव प्रकृतत्वाद् गृह्यकर्माणि । अन्वाहार्यवन्ति तत्पूर्वकाणि । एवकारोऽयोगव्यवच्छे(३)दार्थः। अतोगृह्या- नुक्तेष्वपि अन्नप्राशनादिषु शास्त्रान्तराच्छाद्धं ( नान्दीमुखं ) दक्षिणा च न विरुद्धयते । कचित्तु-निषिध्यतेऽपि यथोक्तं कर्मप्रदीपे- "नाष्टकासु भवेच्छाद्धं न श्राद्धे श्राद्धमिष्यते । न शोष्यन्ती-जातकर्म-प्रोषितागतकर्मसु ॥" इत्यादि । अमावास्यामिति । अमावास्यां प्रकृत्य (प्रतिपदि)मासिकं श्राद्धं (साग्नीनाम् ) अन्वाहार्यम्(४) । यथाह मनु:- (१) बस्तुतस्तु-कर्मणोवृद्धिश्राद्धपूर्वकत्वाच्छ्राद्धस्य चोदयसनिधौ- "रात्रौ श्राद्धन्न कुर्वीत राक्षसी कीतिता हिसा। सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ॥ इति मनुना प्रतिषिद्धत्वात् । तथाभूत एव कालोऽनायत्या कम्ौपयिक इति बोध्यम् । विसमासकरणमेकैकस्य बाहुगुण्यद्योतनार्थम् । समुचितोपलब्धौ तु महानभ्यु- दय इति गृह्यभाष्यकारः। (२) याज्ञिकप्रसिद्धिरेषा आभ्युदयिकश्चाद्धस्य नान्दीमुखस्यनामेदमिति । एतच्च श्राद्धम्मातृकापूजापूर्वकं स्यात्तथा च छन्दोगपरिशिष्टम् । “कर्मादिषु तु सर्वेषु मातरः स. 'गणाधिपाः । पूजितव्याः प्रयत्नेन पूजिताः पूजयन्ति ता" इति । तद्विधिश्च वक्ष्यते (४११०)॥ (३) यथा-"शः पाण्डुर एवेश-त्यत्र पाण्डरवर्णायोगोव्यवच्छिद्यते । (४) अनु-पश्चादमावास्याया एतदाहियत इति ।
१ कण्डिका ] गोभिलगृह्मसूत्रे-- "पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्" । इति । गोभिलोऽपि-अमावास्यायां पिण्डपितृयज्ञमभिधाय "इतरदन्वाहार्य मा- सीनम्" (३॥५॥३) इत्याह । तदेतत्साग्निना प्रतिपदि आहियते ॥ ५ ॥ अपवर्गेऽभिरूपभोजनं यथाशक्ति ॥६॥ क्रियापरिसमाप्तिरपवर्गस्तस्मिन् । अभिरूपोविद्वान् कृतबुद्धिरनुष्ठाता चे- माहुः(१) । तादृशस्याभिरूपस्याभिरूपयोरभिरूपाणां वा भोजनम् । यथाश- क्ति-शक्तिमनतिक्रम्य वित्तशाठ्यमन्तरा "गृह्याकर्मसु विद्यादिति वाक्यशे- षः । तथा च शक्तिसत्त्वेऽन्यथाकरणं निषेधति मनुः-- "प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । न साम्परायिकन्तस्य दुर्मतेविद्यते फलम् ॥” इति । साम्परायिकं (२)पारलौकिकम् ।। ६॥ इति सर्वकर्मसाधारणविधयः ।।।। ( अथाग्न्याधानविधिः) एवं सर्वकर्मसाधारणं परिभाष्य प्रायेणाग्निसाध्यत्वात्कर्मणामन्याधान- कालन्तावदाह(३)- ब्रह्मचारी वेदमधीत्यान्ता समिधमाधास्यन् ॥ ७ ॥ बह्म वेदस्तध्ययनार्थ व्रतमपि ब्रह्म, तच्चरत्यनुतिष्ठतीति ब्रह्मचारी । ता- च्छील्ये णिनिः । (पा० २।२।७८) उपधावृद्धिः । उपकुर्वाण एव न नैष्ठिकः । तस्य गमरणङ्गुरुकुल एवावस्थानानुज्ञानम् । स वेदमिति जात्येकवचनम्- "वेदानधीत्य वेदो वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचयों लक्षण्यां स्त्रियमुद्हेत् ।।" . (१) तथाचामरः "प्राप्तरूपसरूपाभिरूपा बुधमनोज्ञयोः” इति । "अभिरूपोबुधे रम्ये" इति मेदिनी चा सर्वञ्चेदमुपनिबद्धं गृह्यासङ्ग्रहे-“यत्र विद्या च वित्तञ्च सत्यं धर्मः शमोदमः । अभिरूपः स विज्ञेयः स्वाश्रमे योव्यवस्थितः । इति । (२) "युद्धायत्योः सम्पराय" इत्यमरादायतिशब्देन परलोकमुच्यते । ततो "वि. मयादित्वात (पा०५।४।३४) ठक् । ठस्येकः (पा० ७३९) आदिवृद्धिः । (पा०॥ ११८) इति भानुजिदीक्षिताः । वस्तुतस्तु-"उत्तरः काल आर्यातरित्यमरादायति- शब्दउत्तरकालवचन इति काला? " (पा० ४।३।११) इति उवात्रेति बोध्यम् । (३) अन्ये तु व्याचक्षते-उक्तं गृह्याकाणीति तन्त्र कोऽसौ गृह्योऽग्निः ? इति प्रथमन्तावत्स एवोपदिश्यते-"ब्रह्मचारी"त्यारभ्य “स एवास्य गृह्योऽग्निर्भवतीति (१११२१) एतदन्तेन सूत्रसन्दर्भेणेति !
। १ प्रपाठके - MAHAAN अग्न्याधानविधिः । (कुशण्डिका) इति मनुस्मरणात् । यथाशक्ति-अधीत्य अन्त्यामन्ते ब्रह्मचर्यावसाने भ- वाम् । “भवेच्छन्दसि" (पा० ४।४।११०) इति यत्प्रत्ययः । समिधं यथोक्त- लक्षणाम्(१) आधास्यन् आऽऽभिमुख्येन (प्रातराहुतौ) धास्यन्नग्नौ प्रक्षेप्स्यन् "अग्निसमाधानकुर्वीत" ( श२।१४) इति परस्मात् सिंहावलोकितकेन स- म्बध्यते । तथा च ब्रह्मचारिणा ब्रह्मचय समाप्य गृहस्थाश्रमं प्रविविक्षुणा या पश्चिमा समिदाधेया सा अपामाहरणादिपूर्वकमग्निप्रणयनं कृत्वैव (२)तत्र स्व- कीयेऽग्नौ तामन्त्यां समिधमादधीतेति सूत्रकदस्वार्थः । अत्र च"निराश्रमी न ति. टेत क्षणमेकमपि द्विजः" इति दक्षस्मरणात्स एवादधीत यस्मै पूर्वमेव काचित्कन्या केन चिद् वाचा दत्ताऽऽसीदिति स्पष्टयति कात्यायन:- "यस्य दत्ता भवेत्कन्या वाचा सत्येन केन चित् । सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥” इति ॥ ७ ॥ अथाधानस्य कालान्तरमाह- जायाया वा पाणिं जिघृक्षन् ॥ ८॥ यदि ब्रह्मचर्यसमापकान्त्यसमिदाधानकाले देवादग्निग्रहणं न कृतम्भवेत्तदा पूर्वपूर्वदिनवद्गुरोरग्नावेव तामन्त्यां समिधमादधीत । पुनः कोऽग्निग्रहण. कालः ? इत्याह जायायावेति । वा-अथवा । जायाया जायात्वेनाभि(३)संहि- ताया पाणिङ्करं जिघृक्षन्-ग्रहीतुमिच्छन् (पाणिग्रहणात् पूर्वमेव ) अग्निस- माधानकुर्वीत ( १।१।१४)। तदत्र "भार्यादिरग्निः” इति शास्त्रदर्शनाद्भार्यास. म्बन्ध एक एव निमित्तमग्न्याधानस्य । तस्य च कालद्वयमुक्तम् “आधास्यन्नि"- ति । “जिघृक्षन्नि"ति च ॥८॥ (१) तथाच वक्ष्यति-"अथेमानुपकल्पयते' (११५।१४-१५) इत्यादि । इन समिदित्यनर्थान्तरम् । यल्लक्षणमाह कर्मप्रदीपः- "नाङ्गुष्टादधिका पासा समित्स्थूलतया क्वचित् । नवियुक्ता त्वचा चैव न सकीटा न पाटिता ॥ प्रादेशान्नाधिका नोना न तथा स्याद्विशाखिका । न सपर्णा न निर्वीर्या होमेषु च विजानता" ॥ इति । अन्त्यालक्षणमाह गृह्यासङ्ग्रहा- "आचार्येणाभ्यनुज्ञात आचार्यानौ विधिर्यथा। प्रणीतेऽनौ समिद्दद्यादन्त्या सा ब्रह्मचारिणाम् ॥ इति ॥ (२) न तु यथाऽन्वहमाचार्याग्नावेव "न स्वेऽग्नावन्यहोमः स्यान्मुक्त्वैका समिदाहु- तिम् । स्वगर्भसंस्क्रियार्थाश्च यावन्नासौ प्रजायते” । इति कर्मप्रदीपवचनात्समिधमादधा. तिस्म तथा तदानीमादधीतेति । (३) भाविनि भूतवदुपचारेणेदम् । तथा च श्रुतिः "पतिर्जायां प्रविशति गर्भोभूत्वे. ह मातरम् । तस्यां पुनर्नवोभूत्वा दशमे मासि जायते ॥ तज्जाया जाया भवति यदस्यां जायते पुनः" इति । एष चोपचारः सूत्रशाटकवत् ॥ MINAR १ MMENTS कण्डिका ] गोभिलगृह्यसूत्रे- জথ হালধি: अनुगुप्ता अप आहृत्य प्रागुदक्प्रवणन्देशं समं वा परिसमुह्योपलिप्य मध्यतः प्राचील्लेखामुल्लिख्योदीचीञ्च संहतां पश्चात् मध्ये प्राची- स्तिस्त्र उल्लिख्याऽभ्युक्षेत् ॥ ६ ॥ अनुगुप्ता आच्छादिताः "कुशैरि-"ति शेषः । “कृशैराच्छादिता अप श्रा- नयम्ती-"ति गृह्यान्तरसंवादात् । प्रच्छादनञ्च पतितादिभिरुदकदर्शनं मा भू- दित्येतदर्थम् । अदृष्टाथ वा । अप उदकम् आहृत्य-अनिषिद्धजलाशयादानी(१) य । प्रागुदक्प्रवणम्-प्राग्वा उदग्वा प्रागुदग्वा(२) प्रवणं क्रमनिम्नम् । “प्रवणं क्रमनिम्नोाम्" इत्यमरः । देश-भूमिभागं, समं-अपाङ्नीचादिरहितम् । वाशब्दो विकल्पार्थः । तद्यवस्थामाह-गृह्यासङ्ग्रहः "प्राङ्नीचं ब्रह्मवर्चस्यमुदड्नीचं यशोन्नतम् । पित्र्यन्दक्षिणतोनीचं प्रतिष्ठालम्भकं समम्" ।। इति । प्रतिष्ठालम्भकम्-प्रतिष्ठाप्रापकम् ॥ परिसमुह्य-परि-सर्वतः । समुह्य- कुशैः पांश्वादिकमपसार्या । तथाच भरद्वाज:-- "कुशैः संमार्जयेद्भमिं शुद्धामादौ, शुचिस्ततः । हस्तमात्राञ्चतुरस्राङ्गोमयेनोपलेपयेत्” ॥ इति । यद्वा "परिसमुह्य वितस्तित्रये उत्तरत उत्करं करोती"ति गृह्यान्तरदर्शना- दुत्तरस्यान्दिशिवितस्तित्रयोपरिदेशे प्रक्षिप्य । वितस्तिादशाङ्गलः । अत्र-मान कर्तारमाह कर्माप्रदीपः- "मानक्रियायामुक्तायामनुक्ते मानकर्तरि । मानकृयजमानः स्याद्विदुषामेष निर्णयः" ।। इति । परिसमूहनकुशानाञ्च परित्यागोविधेयः । अन्यत्र त्वात् । यथा “सम्माजनान्यपास्यती"ति । परित्यागश्चैशान्याम् "द्वारमेव हि द्रव्याणां प्रागुदीच्यान्दिशि स्मृतम्” इति वचनात् । प्रागुदीची-ऐशानी ॥ उपलिप्य-गोमयोद(३)केनेति वाक्यशेषः । “गोमयोदकेन समन्तं (स्तं) पर्यु. wasa - तथादृष्ट- (१) अत्र "ताभिः प्रक्षालितपाणिपादः” इति भट्टभाष्यन्त"दाचान्तोदकेनेति (११२) सूत्रेण गतार्थम् । (२) अत्र "दिङ्नामान्यन्तराले" (पा०२।२।२६)इति बहुव्रीहिणा ऐशानीति तदर्थः । (३) गोमयमिश्रितोदकेनेति मध्यमपदलोपी समासः (पा०२।१।६० वा०) एतेन गो. मयोदकाभ्यामिति वक्तव्ये "सर्वोद्वन्द्वोविभाषेकवद्भवतीति परिभाषाश्रयणं मुरारिमिश्रा- णामपार्थकम्बोध्यम् । तथा चोक्तभारद्वाजवचने "गोमयेने ति सवारिणेत्येतदाक्षिपति । तथा च शौनक: "गोमयेन सवारिणा ! उपलिप्य स्थण्डिलन्तु चतुरस्त्रन्तु सर्वतः” इति ।
अग्न्याधानविधिः। [१ प्रपाठके- Mamme तथा. - पलिम्पती-"ति गृह्यान्तरदर्शनात् ॥ देशमिति सम्बध्यते । मध्यतः स्थण्डि- लाभ्यन्तरे । दक्षिणांश एव न तु मध्यांशे । हस्तमात्रस्थण्डिलेऽपि उद्ग्गतैक- विंशत्यगुलरेखायास्तन्मूललग्नायाः करणोपदेशात् । अत एव च स्मर्यते- "अगुष्ठमात्रं भूभागं त्यत्का दक्षिणतः सुधीः । उत्तरे द्वयगुलन्त्यका पश्चिमेऽप्यङ्गुलद्वयम्” इति। प्राची-प्राग्गताम् । लेखां-द्वादशाङ्गुलप्रमाणां पार्थिवीम्पीतवर्णा दक्षिणहस्तेन(१) कुशेन (२)फलपुष्पान्यतरेण वा उल्लिख्य । उदीचीमु- दग्गताञ्च लेखामेकविंशत्यङ्गुलप्रमाणामाग्नेयीं लोहितवर्णामुल्लिख्य। चका. रोलेखामुल्लिख्येत्यनुषङ्गार्थः । ताभिमा(मुदीची लेखां)विशिनष्टि-संहताम्-प्राग्ग- स्थण्डिलं मार्जनादिसंस्कृता समभूमिः । गोमयं च बन्ध्यादीनां न ग्राह्यम् । चशाव्यायन:- "अमेध्यसेविनी-बन्ध्या-प्रसूतानाञ्च गोमयम् । जीर्णायाश्चोपलेपार्थ नाहर्त्तव्यं कदा- धन ॥ इति । अमेध्यसेविनी-पुरीषादिभक्षिणी । प्रसूता अनतीतदशरात्रप्रसवा ॥ अत्र भूमावुपलेपनवन्मृदाच्छादनमपि केचिदाचक्षते । तथाच गृह्यासङ्ग्रहः- "मेदस्युद्धियमाणे तु शेषङ्किञ्चिञ्च तिष्ठति । अन्तर्धन मृदा चेदि दीयते वेदनिश्च यः" इति । ननु-"विष्णुपादपरिक्रान्ता वराहेणोद्धता मही। अतः पृथ्वी सदा प्रता किमर्थमुपलिप्यते ?" ॥ इति चेदनाहाङ्गिराः-"इन्द्रेण वज्राभिहतः पुरा वृनोमहासुरः । मेदसा तस्य सङ्कीर्णा तदर्थमुपलिप्यते” इति । (१) तथाच कात्यायन:-"कर्मोपदिश्यते यत्र कर्तुरङ्गन चोच्यते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः" इति । (२) तथाच कात्यायन:-"लक्षणे प्राग्गतायास्तु प्रमाण द्वादशाङ्गुलम् । तन्मूल- लग्ना योदीची तस्या एतन्नवोत्तरम् ॥ उदग्गतायाः संलग्नाः शेषाः प्रादेशमात्रिका। सप्तसप्ताङ्गुलांस्त्यत्का (लास्तास्युः ) कुशेनैव समुल्लिखेत् । इति ॥ लक्षणे-अनुपदं (१।१।१०) वक्ष्यमाणलक्षणे। एतद्-द्वादशाङ्गुलम् । अवोत्तरं-नवाधिकम् । कुशेनैवे. स्येवकारोविशेषविहितफलाद्यतिरिक्तव्यवच्छेदकः । तथाचाङ्गिराः "न नखेन न काठेन ना. श्मना मृन्मयेन वा । प्रोल्लिखेल्लक्षणं विप्रः सिद्धिकामस्तु योभवेत् ॥ भवेनखेन कुनखी काष्ठेन व्याधिमृच्छति । अश्मना धनहानिः स्यान्मृन्मयेन कलिध्रुवम् ।। फलेन फलम . नोति पुष्पेण श्रियमृच्छति । पर्णन चार्थकामानिर्दीर्घायुस्तु कुशेन वै ॥ तस्मात्फलेन प गैन पुष्पेणाथ कुशेन वा । प्रोल्लिखेल्लक्षणं विप्रः सिद्धिकामस्तु योभवेत" इति ॥ अन्नान्ते "कर्मसु" इति पाठान्तरम् । अतएव फलपुष्पकुशानामन्यतमेन लेखाकुर्यादिति महामहत्तकवीरेश्वरादिपद्धतिलेखनमपि सङ्गच्छते । अन्न सप्ताङ्गलान्तरालात्वं कुशेनैवरे- खाकरणमभिप्रेत्य । गृझासङ्ग्रहे-"सूक्ष्मास्ता ऋजवः कार्या लेखास्ताः सुसमाहिता" इत्युपसंहारदर्शनात । तस्योपलक्षणतया फलादिना लेखाकरणे तु तासां स्थूलत्वात्ता भ्यामङ्गुलित्रयस्थलव्यापनात् षडमुलांस्त्यत्त्केत्येव युज्यते । अत एव षडङ्गुलान्तरालाः ससससाङ्गुलान्तराला वो। श्रीदत्तोपाध्यायाः स्वाहिके प्राहुः। प्रादेशमात्रिका इत्यत्र तु विशेषोऽनुपद द्रष्टव्यः ।
ne- १ कण्डिका गोभिलगृह्यसूत्रे-- 8 तायाः संलग्नां, पश्चात्-पश्चिमे-प्राग्गताया इत्यादिः । मध्ये-अनन्तरोक्तत्वादु- दग्गतायाः । संलयाः प्राचीः प्राग्गतास्तिस्रोलेखाः । तत्र मध्ये द्वे प्रादेशप्रमाणे । अन्त्या द्वादशाङ्गुला । सर्वाः षडङ्गुलान्तराला(१) दक्षिणत उपक्रमदर्शनादु- त्तरोत्तरा उल्लिख्य । आसाञ्च तिसणां लेखानामेका प्राजापत्या कृष्णवर्णा, द्वितीया चैन्द्री नीलवर्णा, तृतीया सौमो शुक्लवर्णेत्यवगन्तव्यम् ।। तदेतत्सर्व छन्दोगपरिशिष्टवचनात्स्मृत्यन्तरसंवादाचावसीयते । तथाचा. गिरा:- "प्राग्गता(२) पार्थिवी ज्ञेया चाग्नेयो चाप्युदग्गता। प्राजापत्या तथा चैन्द्री सौमी च प्राक्कृता(३) स्मृता ।। पर्थिवी पीतवर्णा स्यादाग्नेयी लोहिता भवेत् । प्राजापत्या भवेत्कृष्णा नीलामैन्द्रीं विनिर्दिशेत् ।। श्वेतवर्णा च सौमी स्याद्रखाणां वर्णलक्षणम् ॥" इति । रेखाणां-लेखानाम । “लेखालिपिराजिकयोमता" इति मेदिन्यां "लेखास्तु राजयः” इत्यमरे च लादित्वस्यैव श्रवणात् । रलयोरैक्याडे. खामुल्लिख्येति पाठः। आसां वर्णाश्च यथोदिष्टा ध्येया एव न तु द्रव्या- न्तरेण तद्वर्णकरणम् । “विनिर्दिशेदि"ति वचनस्वरसादिति शुभकर्मनिर्णये मुरारिमिश्राः । अतएव ध्येयपीतवर्णा लेखा लिखितव्येति पद्धतिकृतः ( महामहत्तकवीरेश्वरादयः ) पठन्ति । एतच्च लेखोल्लेखनं यावदग्निस्थापनं सव्यहस्तं भूमौ निधाय कर्त्तव्यम् इत्याहाङ्गिराः- "सव्यं भूमौ प्रतिष्ठाप्य प्रोल्लिखेदक्षिणेन तु । तावन्नोस्थापयेत्पाणिं यावदग्निं निधापयेत् ।। (१) तथाचाङ्गिराः- “पार्थिवीं चैव सौमीश्च लिखेवे द्वादशाङ्गुले । एकविंशति. राग्नेयी प्रादेशिन्यावुभे स्मृते ॥ षडङ्गुलान्तराः कार्या अग्नेयी संहतास्तु याः। पार्थिव्या. चैव रेखाया-स्विस्त्रस्ता उत्तरोसराः ॥ इति ॥ ननु-"शेषाः प्रादेशमात्रिका इति कात्यायनवचनेन सौम्या अपि प्रादेशप्रमाणकत्वबोधनाद्विरोध इति चेन्मैवम् । तस्य न्यूनसंख्याव्यवच्छेदमात्रपरत्वात् । अन्यथा विरोधस्य परिहर्जुमशक्यत्वात् । अत एवं "द्वादशाङ्गुलप्रमाणा सोमदेवताका" इति निर्विचिकित्सितं स्वल्वपद्धतौ पोरेश्वरादयो. लिखितवन्तः । यद्वा ऐच्छिकोविकल्पः । फलभूमा व्यवस्थितेति दिक् । द्वादशाङ्गुलत्वा दिकन्तु यजमानाङ्गुलिबृहत्पर्वभिः कार्यम् । तथाच कात्यायन:- "मानक्रियायामुक्कायामिणत्याधुक्रवचनान्ते "अङ्गुष्टाङ्गुलिमानन्तु यत्र यत्रोपदि. श्यते। तत्र तत्र बृहत्पर्वग्रन्थिनिर्मिनुयात्सदा ॥ इति॥ (१२) (३)अन श्रिता इति मुरारिमिश्रसम्मतः पाठः । प्राक् श्रिता-पूर्वाग्रा-इत्येवन्त- ध्याख्यानं शुभकर्मनिर्णये । अन्न ( गृह्यासङ्ग्रहवचने ) पार्थिवीसौम्योः क्रमेण शुक्लपीतत्वा. भिधानं वीरेश्वरायननुमतत्वात्पाठभ्रमेणैवेति बोध्यम् । २ गो० गृ० सू० अन्याधानविधिः। [१ प्रपाठके- इति । एवमुल्लेखनानन्तरमेव ताभ्य (१)उत्कर(म्मृद)मुद्धृत्य प्रागुदीच्या- न्दिश्यरत्निमात्रे(२) निधाय । अभ्युक्षेत्-“उक्षसेचन" (भ्वा०प०) इति स्मरणादाभिमुख्येन- "उत्तानेनैव हस्तेन प्रोक्षणं समुदाहृतम् । न्यञ्चताऽभ्युक्षणं प्रोक्तं तिरश्चावोक्षणं मतम् ॥" इति स्मृत्यन्तरोक्तप्रकारेण सिञ्चेत् । अद्भिरिति सामर्थ्यात् । यथोक्तरेखा इत्यर्थः ॥ ९॥ लक्षणाऽऽवृदेषा सर्वत्र ॥ १० ॥ परिसमू(३)हनादि अभ्युक्षणान्तं कर्म लक्षणसंज्ञ,तस्य आवृत्-परिपाटी। "आनुपूर्व्या स्त्रियां वाऽवृत्परिपाटीअनुक्रमः" इत्यमरः । एषा अनन्तरोक्ता न तु विपरीता। सर्वत्र । यत्र यत्रवचनादर्थयुक्त्या वाऽग्निःप्रणीयते तत्र तत्रेत्यर्थः । इदञ्च 'भूसंस्कारकङ्कर्म, अग्निसंस्कारकञ्च' (४)तथा च गृह्यान्तरम् "सम्मृज्योपलिप्योल्लिख्योद्धृत्याभ्युक्षेदेष भूसंस्कारोऽग्नावनुगते भूय"इति । इति भाष्यकारः ॥ १०॥ "भूर्भुवः स्वरि"त्यभिभुखमग्निम्प्रणयन्ति ॥ ११ ॥ अग्नि-वक्ष्यमाणयोनि कांस्यपात्रस्थं कृत्वा तथा नीत्वा(५)आवर्त्य स. म्यग्भ्रामयित्वा च अभिमुखं-यथा भवति (आत्मनः ) तथा "भूर्भुवःस्वः" इति-अनेन मन्त्रेण प्रणयन्ति प्रणयेयुः। लिड्थें लेट् (पा०३।४।७) (१) यच्चा-"प्युद्धत्याभ्युक्षे”-दिति क्त्वा श्रवणादानन्तर्यमनयोरित्येके प्रवदन्ति । तन्मुधैव । पूर्वोत्तरभावस्यैव "समानकर्तृकयोः पूर्वकाले" (पा० २।४।२१) इति क्त्वा. विधिस्मृत्या बोधनात् । अतएव “उल्लिख्योद्धृत्याभ्युक्षेदि-ति कात्यायनसूत्रमनुसन्धाय "उत्करं गृह्य रेखाभ्योऽरत्निमात्रेनिधापयेदिति गृह्यासङ्गहताङ्गिरोवचनमपि सङ्गच्छते॥ (२) ऐशान्याम् । अरनिश्चतुर्विशाङ्गुलः । यथाह कात्यायन:- "अङ्गुलस्य प्रमाणान्तु षड्यवाः पाश्वसम्मिताः । चतुविशाङ्गुलोरनिर्वितस्तिाद. - शाङ्गुलः ।" इति। (३) अबाहरणांधभ्युक्षणान्तमिति केषाञ्चिद्वयाख्यानम् । ४) यत्र यत्राग्निप्रणयनं क्रियते तत्र तत्र भुवः संस्कारविधाना संस्कारकम् । अनुगतेऽनौ संस्कृताया अपि भूमेः पुनः संस्कारविधानादग्निसंस्कारकम् ।। (६) प्राचं नीत्वाऽऽवयं स्थापयन्तो-ति स्मरणात् । गृह्यासयहे तु-"लक्षणन्त. त्प्रवक्ष्यामि प्रमाणन्दैवतञ्च यत्।" इत्येवमभिधानादखाकरणमात्रं लक्षणमिति प्रती. यते । किन्तु मुरारिमिश्रादिभिःकर्मठप्रसिद्धयोभयमेव व्याख्यातम् ॥
१ कण्डिका गोभिलगृह्यसूत्रे- लेखोपरिस्थाप(१)येयुरित्यर्थः । एवमग्रेऽपि यथायथमूह्यम् ।(२) पात्रविशेषो- (१) सर्वकर्मसु सवै रेवकम्मिभिरेवमग्निप्रणयनकार्यमिति सामान्यविधित्वख्याप नायैव बहुवचनं, सर्वे प्रणयेयुरिति ।। (२) अन्न "क्रव्यादमग्निम्प्रहिणोमि दूरं यमराज्यङ्गच्छतु रिप्रवाहः" इत्यर्द्धचन ऋव्या. दाग्निमितोनिः सार्याग्निप्रणयनमिदाय्यम् । "आनीयाग्नि सुपान्त्रेण क्रव्यादांगं परित्य. जेदि-ति-अग्निपुराणवचनात् । मन्त्रलिङ्गाच्च । तथाहि-अहे अव्यादमाममांसादं "क्र- व्ये च (पा० ३१२१६९) इत्यदेविप्रत्ययः । आममांसशब्दस्य ऋव्यादेशः पृषोदरादि- त्वात् (पा० ६।३।९०) तन्नामकर्मान दूर विप्रकृष्टदेश (लोकान्तरं ) प्रहिणोमि प्र. स्थापयामि । असौ मानुषानत्तुम मिलध्यतीत्यमङ्गलत्वात यमराज्य यमाधिकारं गच्छतु । किम्भूतः ? रिप्रवाहः रिप्रं पापं वहतीति कर्मण्यण् (पा० ३।३।१) तथाच निरुक्तम् "रि. पोरिप्रमिति पापनामनी भवतः" (४।२१) इति । अत्राङ्गिराः- "सर्वतः पाणिपादश्च सर्वतोऽक्षिशिरोमुखः। विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु" हति । इबञ्च ध्यानपरम् । स्वरूपाख्यानस्य प्रयोजनान्तराभावादिति द्रष्टव्यम् ।। यथाहुः "अविदित्वा तु योगनि होमयेदविचक्षरणः । न हुतं न च संस्कारान स कर्मफलं लभेत् ।। ज्ञात्वा स्वरूपमाग्नेयं योऽनेराराधनञ्चरेत् । ऐहिकामुष्मिकैः कामैः सारथि. स्तस्थ पावकः ॥ आहूयैव तु होतव्यं योयत्र विहितोभवेत्” इति । अन्न "तमिति" शेषः । एवञ्च स्थापनावसरे सवत्र विश्वरूप एवाग्निरुक्तरूपोध्यातव्यः । ततोविशेषतो. यस्मिन्कमणि योऽग्निरुक्तः स चिन्तनीयः । तमाह-गृद्यासङ्ग्रहः- "लौकिके पावकोपिः प्रथमः परिकीर्तितः । अग्निस्तु मारुतोनाम गर्भाधानेऽभिधीयते ।। पुंसवने चन्द्रनामा शुङ्गाकमणि शोभन: सीमन्ते मङ्गलानाम प्रगल्भोजातकर्मणि ।। नाम्नि स्यात्पार्थिवोद्यग्निः प्राशने च शुचिस्तथा। सत्यनामा च चूडायां व्रतादेशे समुद्भवः ।। गोदाने सूर्यनामा स्यात्केशान्ते ह्यनिरुच्यते । वैश्वानरोविसर्ग च विवाहे योजकः स्मृतः॥ चतुर्थ्यान्तुशिखी नाम तिरग्निस्तथा परे । प्रायश्चित्ते विधुश्चैव पाकयज्ञे च साहसः॥ लक्षहोमे च वह्निः स्यात्कोटिहोमे हुताशनः । पूर्णाहुत्यां मृडोनाम शान्तिके वरदस्तथा ॥ पौष्टिके बलदश्चव क्रोधोऽग्निश्चाभिचारिके। कोष्टे तु जाठरोनाम व्यादोमृतभक्षणे ॥" इति । बतादेश उपनयनम् । व्रतस्य ब्रह्मचर्यस्य तत्र क्रोडीकारात् ॥ ततश्च तन्तम निमावास स्थापयित्वा सम्पूज्य च होतव्यमिति सकलवाक्यपर्यवसितार्थ इति ध्येयम् ॥ वहिस्थापनानन्तरच "इहैवायमितरोजातवेदा देवेभ्योहव्यं वहतु प्रजाननू" इति मन्त्रे- णाग्नरुपस्थानं, मन्त्रलिङ्गात् । मन्त्रार्थस्तु-अयमितरः क्रव्यादादन्योमङ्गल्यः । इहैव मदीयगृह एव जातवेदाः जातप्रज्ञः जातधनोवा । वेत्तेर्सानाल्लिाभार्थाद्वा असुन ( उ० ४।१८८) अग्निः। वेद इत्यसुबन्तोधननामसु (निधं० २।१०।४) पठ्यते । प्रजानन्- १२ अग्न्याधानविधिः। [१ प्रपाठक Ramba पादानमाह-गृह्यासङ्ग्रहः "कपालभिन्नपात्रैर्वा न त्वामैर्गोमयेन वा। अग्निप्रणयनकार्य यजमानभयावहम् ।। अल्पः प्रणीतोविच्छिन्नोऽसमिद्धश्चापरिश्रुतः । त्वरया पुनरानीतोयजमानभयावहः ।। तस्माच्छुभेन पात्रेण अविच्छिन्नाकृशं वहु । अग्निप्रणयनं कुर्याद्यजमानसुखावहम् ॥ शुभं पात्रन्तु कांस्यं स्यात्तेनाग्नि प्रणयेद्बुधः । तस्याभावे शरावेण नवेनाभिमुखञ्च तम् ॥” इति । यत्त-"शरावे भिन्नपात्रे वा कपाले वोन्मुकेऽपि वा। नाग्निप्रणयन कुर्यायाधिहानिभयावहम्" ।। इति स्मृत्यन्तरन्तदुदाहृतवचनविरोधात्कौथुमादिव्यतिरिक्तविषयम् । कांस्यादिपात्रसद्भावे शरावनिषेधकमिति राघवभट्टप्रभृतयः ॥ ११ ॥ एवं लक्षणादिकाभिधायाथान्यानपि आधानकालानुपदिशति- त्रिभिः सूत्रः प्रेते वा गृहपतौ परमेष्ठिकरणम्॥ १२ ॥ वा-अथवा गृहपतौ गृहस्वामिनि पितरि । अत्र वा शब्दोवैकल्पिकत्वमस्य (आधानकालस्य ) दर्शयति(१) । प्रेते-इति प्रपूर्वा "दिणगतावि"-ति (अ० ५०) धातोः “गत्यर्थाकर्मके'-(पा० ३।४।७२ )-त्यादिना कर्तरि क्तः । प्रक- पेण इते गते अस्माल्लोकाल्लोकान्तरं , मृते इति तदर्थः । भ्रातृमतस्तु ज्येष्टेन सर्वानुमतेन पैतृकधनविभागकाले(२) परमेष्ठिकरणम् । परमे श्रेष्ठे स्थाने ति. स्वीयमधिकार प्रकर्षेण जानानः । देवेभ्योऽस्मत्प्रतं हव्यं हवनीयं ( हविः) वहतु- commen । , प्रापयतु । इति॥ (१) वस्तुतस्त्वनास्थायाम् । अग्रिम-(११०२०)-सूत्रदर्शनेन कालद्वयस्यैव मुख्यत्वेन सूत्रकृतोपसंहृतत्वावगमात् ॥ (२) एतच्च गौतममतम् । वस्तुतस्त्वेतज्ज्येष्टक्रमन्नानुरुन्धे । पृथक् पृथक् धन. स्वाम्यात् । यद्येकन तिष्ठेत्तदा तत्र-"ज्येष्ठः कुर्यात्तथाधानम्" इति कात्यायनस्वरसः । तथाच गौतमः | "भार्यादिरग्नियादिवा" इति । "दायाधकाल एकेषाम्" इति च गृह्या- न्तरम् । दायः पैतृकन्धनम् । परेते हि गृहस्वामिनि दायसम्बन्धः पुत्राणामिष्यते । "ऊर्ध्वस्पितुश्च मातुश्च समेत्य भ्रातरस्समम् । भजेरन्पैतृकमृक्थमनीशास्ते हि जीवतोः॥ इति"पितर्युपरते पुना विभजेयुर्धनं पितुः । अस्वाम्यं हि भवेदेषां निर्दोषे पितरि स्थिते इति चैवमादि । तच्चैकादशेऽहनि स्यात्प्रागनधिकारात् । दोषश्चाऽयथाविनियोत्कृत्वादिः । तथाच याज्ञवल्क्या "अयथा विनियोक्ता च न विभागे पिता प्रभुइति । कर्कोपाध्यायां. स्त्वाहुः व्यवस्थितोऽयं गौतमायुत्तोविकल्पः । अभ्रातृकस्य दारकालः । भ्रातृमतोदायाध.
metimIROIN १ काण्डका ] गोभिलगृह्मसूत्रे-- १३ टतीति परमेष्ठी अग्निस्तस्य करणं यथोक्तन विधिना स्वीकरणं समाधान "कर्त्तव्यमिति वाक्यशेषः । अन्येत्वाचक्षते-क्रियाविशेषणमेतत् । परमेष्ठि- तयाग्नेः स्वीकरणं यथा स्यात्तथाऽग्निसमाधानं कुर्वीत ( १११।१४) इति । त- न्मते तु परमेष्टीकरणमिति पाठः । एतच्चैकादशेऽहनि स्यात्प्रागनधिकात् । इति भट्टभाष्यम् ॥ कात्यायनस्तु- "एतद्गृहपतौ प्रेते कुर्यादेकादशेऽहनि । प्रागेवैकादशाच्छाद्धात्सद्योजागरणादिकम्” इत्यभिधाय- "ज्येष्ठः कुर्यात्तथाधानं कनीयांश्च विवर्जयेत् । सैकादशेऽह्निकुर्वीत द्वादशे वा विचक्षणः” ।। इत्याह । तत्र वृद्धिश्राद्धन्न भवति-- "न तत्पूर्वयतः प्रोक्तः सपिण्डनविधिः कचित् । वृद्धिश्राद्धस्य लोपः स्यादुभयोरपि पक्षयोः” । इति कर्मप्रदीपदर्शनात् ।। १२ ।। तथा तिथिनक्षत्रपर्वसमवाये ॥१३॥ तथेति । अग्न्याधाने यथाऽन्त्यसमिदाधानादिः (१)कालोऽपेक्षितस्तद्वदित्य- र्थः । तिथिनक्षत्रपर्वणान्त्रयाणामेवैषां शुभानां यथोक्तानां समवाये-संयोगे सति अग्निसमाधानकुर्वीते-(१११११४ )-ति परेणाभिसम्बन्धः । केचित्तु व्याचक्ष. ते-तथेति वैकल्पिकत्वं दर्शयति । नक्षत्रशब्दश्चैकोलुप्तवद्दष्टव्यः(२) ति काल इति । तेषामयमाशयः विभागमन्तरेण साधारणधनस्य परित्यागासम्भवादनधि- कार एवाविभक्तानां धनसाध्येष्वाधानादिषु । अतो भ्रातृमतोविभागकाले एवाधि- कारः । स एव कालोदायाद्यकाल इत्युच्यते । इति । गोभिलाचार्गस्तु-"प्रेते वा गृह- पतावि-ति द्वितीयवाशब्देन त्रिविध एव कालोऽनुमन्यते । तत्राद्यौ मुख्यावन्त्योगौणः। न चाविभक्तधनस्य कथं परित्याग इतिवाच्यम् । स्वस्वत्वस्य तथाप्यविशेषात् । नि. >षे पितरि स्थिते पुत्राणामस्वाम्यमिति स्मरन्मुनिः प्रेते पितरि स्वाम्यमेषामनुमन्यते । मारदोऽपि स्मरति- "यद्योकजाता बहवः पृथग्धाः पृथक क्रियाः। पृथक् कर्मगुणोपेता न चेत्कार्येषु सम्मताः ॥ स्वभागादथ दास्ते विक्रीणीयुस्थापि वा। कुर्युर्यथेष्टन्तत्सर्वमीशास्ते स्वधनस्य व ॥” इति ॥ (१) आदिना जायापरिग्रहेच्छा-पितृमरणे । यत्तु- "आधानस्य तु चत्वार उक्ताः कालाः पृथक पृथक। अन्त्या समिद् १ विवाहश्च २ विभागः३ परमेष्टिनः४॥" इति गृह्यासंग्रहवचनम् । तत्र तृतीयः कालोगौतमीयानाम् । तदितरे रांणायनीयकौथुमानाम् ॥ (२) तन्त्रावृत्तिन्यायेन सोऽत्रार्थवशादुन्नेया । तिथिनक्षत्रपर्वणामेकत्र समवाया. - अग्न्याधानविधिः। [प्रपाठक । , HIROINS थिश्च नक्षत्रं च तिथिनक्षत्रे । नक्षत्रञ्च पर्व च नक्षत्रपर्वणी । तयोस्तयोश्च समवायः संयोगस्तस्मिन् । तिथिरन पर्वतरा(१)पति पुनः करणात् । नक्षत्रं (२)मघामृगशिरोहस्तादि । तयोः समवाये । पर्वाणि तु(३)- "चतुर्दश्यष्टमीचैव अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥ इत्यन्यत्रोक्तानि । अत्र रविसङ्क्रान्तिरित्येकम्पदम् । “पञ्च पर्वाणी"ति पृथक् स्मृतेः । ततश्च तिथिनक्षत्रयोः, नक्षत्रपर्वणोश्च समवाये इत्यर्थः । उपलक्ष णञ्चदम्- "वह्निग्रहं कुज-गुरू-ज्ञ-दिनेश-वारे माघादिषट्सु च मृदुध्रुववाह्नभेषु । कुम्भान्तभांशकविलग्नमशुद्धकालं लग्नस्थशीतगुसितौ च विहाय कुर्यात्" इत्यादे ज्योतिः शास्त्रोक्तकालविशेषस्य ।। १३ ॥ तादृशः समयः शीघन घटेत चेत्तत्राह- दर्श वा पौर्णमासे वाऽग्निसमाधानकुर्वीत ॥१४॥ वा-अथवा दर्श-अमावास्यायाम् । पौर्णमासे-पूर्णिमायाम् वा अग्नि समाधानम् । अग्नेः सम्यक्(४) (यथाशास्त्रम् ) आधानम्-आभिमुख्येन स्था- सम्भवात । एवमर्थकरणं युज्यत एव । भट्टभाष्येतु-"नक्षत्रशब्दः काकाक्षिगोलकन्याया- दुभयत्र संबध्यते” इत्युक्तम् । वाशब्दोलुप्तवद्रष्टव्य” इतिच ॥ (१) "पौर्वापये सति पूर्वदौर्बल्यम्" इतिन्यायात् । एषन्यायः "विप्रतिषेधे परं कार्यम्" ( शा२) इति पाणिनिस्मृतिमूलकः ॥ (२) अत्र नक्षत्रं माससंज्ञानिमित्तं चित्रादिकमितिचन्द्रकान्तभाष्यम् । वसन्ततॊ. रेवाग्न्याधानकालत्वेन विप्रेषु प्रसिद्धश्चित्रायाः स्वोपलक्षितमासस्य वर्षादिव्यापकत्वात्। वस्तुतस्तु न चित्राया एवस्वोपलक्षितमासान्तस्य वर्षादिज्ञापकत्वम् । अतएवाग्रहायणिक इतिसमाख्या कोशेषु वर्षादिमासस्योपपद्यते । मघाद्यानामेवाधानत्वंज्योतिषे । यथा- चोपरिष्टाद् व्यक्तीभविष्यति ॥ (३) अनपर्व पौर्णमासम् । तयोः समवाये वाऽग्निसमाधानं कुर्वीतेति चन्द्रकान्त. भाष्यम् । यद्वाऽन्न (उत्तरवाक्ये) नक्षत्रपदं श्रुत्युक्तनक्षत्रपर, तथाच "कृत्तिकासु रोहिण्यां भृगशिरसि फल्गुनोषु विशाखयोरुत्तरयोः प्रौष्ठपदयोरेतेषां कस्मिंश्चित्" इतिश्रोताच. लायनयोः “या वैशाखस्यामावास्या रोहिण्या सम्बध्यते तस्यामादधीत" इति श्रुत्यु- रुयोर्वा समवाये इत्यर्थः । तदिदमाधानकालद्वयं, यश्च तिथिनक्षत्रसमवायः । यश्च नक्ष. अपर्वसमवायः । इति ।। भट्टभाष्येतु तिथिना पौर्णमास्या यानि नक्षत्राणि समाख्या- यन्ते तानि तिथिनक्षत्राणि मघादीनि द्वादश । तेषामन्यतमस्य पर्वणा पौर्णमासेन सम- वायः संयोगस्तिथिनक्षत्रपर्वसमवायस्तस्मिन् इत्युक्तम् । अस्मिश्च नयेऽनेन सूत्रेणैक एवाधानकालोऽभिहित इत्यवगन्तव्यम् ।। (४) अन्ये तु व्याचक्षते-समेत्य मिलित्वा आधानं समाधानम् । अन्यथाजन्या- धान कुर्वीतेत्युक्त्यापि प्रकृतार्थसिद्धिसम्भवात्समिति व्ययं स्यादिति । केनेति सहका. । ।
READ -- । tum १ कण्डिका ] गोभिलगृह्यसूत्रे- पनं तदनु पोषणं (रक्षण) (१)च कुर्वीत । इञ्चाधानमग्रजे क्लीबत्वादिदोषरहिते तदैव कार्य, यदासोऽनुमन्यते नान्यथा। तथा चोक्तं शङ्खन- अग्रजः स्याद्यदाऽनग्निरधिकार्यनुजः कथम् ? । अग्रजानुमतः कुर्यादग्निहोत्रं यथाविधि" । इति पितर्यनग्नावपि पुत्रस्याधानाऽधिकारोन विहन्यते तथाचोक्तं तेनैव(श०) "पितुर्यस्य न चाधानं कथम्पुत्रस्तु कारयेत् ? । अग्निहोत्राधिकारोऽस्ति शङ्खस्य वचनं यथा" || आधानपरिपाटी चाचार्येणानुक्ताऽपि- "परिधायाऽहतं वासः प्रावृत्त्य च यथाविधि" इत्येवमादिकमप्रदीपवच- नेभ्य एवावगन्तव्यन्नत्वध्वर्युभ्योगृहीतव्यम् । परोक्त(२)त्वात् । वा शब्दद्वयं तुल्यवद्विकल्पार्थम् । इति भाष्यकृतः । वस्तुतस्तु । कालविलम्बस्य सोदुमयो- ग्यत्वात् यदा तदा वा झटिति समाधान(३)मग्नेः कुर्वीतेति-अनास्थायामप- रोवाशब्दः ॥ १४॥ यांकाक्षायामाह कर्मप्रदीप:-"नैकयाऽपि विना कार्यमाधानं भार्यया द्विजैः । अकृत. न्तद्विजानीयात्सर्वा न त्वारभन्ति यत्" इति । अत्र विशेषमाह-कात्यायनः- "वर्णज्यैष्ठयेन बह्वीभिः सवर्णाभिश्च जन्मतः । कार्यमग्निच्युते नाभिः साध्वीभिर्मथनं पृथक् ।। नात्र शूद्रां नियुञ्जीत न द्रोहद्वेषकारिणीम् । नाशासनस्थां नान्येन पुंसा च सह संगताम् ।। ततः शक्तिवरा पश्चादासामन्यतमैव या। उपेतानाञ्चान्यतमा मन्थेदग्नि निकामतः ।।" इति ।। (१) दधाते रणपोषणोभयार्थत्वस्मरणात् । पोषणमत्र संरक्षणन्दधातेरथः । (२) परोक्तत्वेनाक्रियात्वात् । तथाचच्छन्दोगपरिशिष्टम् - "अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्मकारिणाम् । अक्रिया च परोक्ता च तृतीया चायथाक्रिया । स्वशाखाश्रयमुत्सृज्य परशाखाश्रयञ्च यः । कर्तुमिच्छति दुर्मधा मोवन्तत्तस्य चेष्टितम् ।।" इति । (३) दश वो पौर्णमासे वा यस्मिन्कस्मिन्नप्येकस्मिन्न तु नक्षत्रयोगाद्यपेक्षया करणविलम्बी स्यात् । “न श्वश्वरुपासीत कोहि मनुष्यस्य वोवेद" इति श्रुतेः । "व: कार्यमय कुर्वीत पूर्वाहे चापराह्निकम् । नहि प्रतीक्षते मृत्युः कृतं वाऽस्य न वाकृतम्” इति स्मृतेश्च । कालाऽतिक्रमेऽप्यग्न्याधानस्य प्रायश्चित्तमाहकात्यायनः “यावन्त्यब्दान्यती तानि निरग्नेविप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धौम्यन्दद्याद्यथाविधि ॥ इति । तथा चातिक्रान्तसम्वत्सरसंख्यया प्राजापत्यव्रतरूपं प्रायश्चित्तम्मुख्यविधिना चरित्वा तद. शक्ती प्रतिप्राजापत्यन्धेनुं तन्मूल्यं वा दत्वा द्वादशब्राह्मणभोजनमयुतगायत्रीजपं वा गायत्र्या तिलाज्यसहस्रहोम वा शक्त्यपेक्षयाऽन्यतमं विधाय होम्यं-सायम्प्रात)मध्य प्रत्यहमाहुतिचतुष्टयपर्याप्तमतिक्रान्तदिवसान्गणयित्वा ब्राह्मणेभ्योदयात् । अत्र प्रशंसा - MAHARAS अग्न्याधानविधिः। [१ प्रपाठके- अथ कुतोऽग्निरुपादेय इत्यग्नियोनयस्त्रिभिः सूत्रैरभिधीयन्ते- वैश्यकुलाद्वाऽम्बरीषाद्वाऽग्निमाहृत्याऽभ्यादध्यात् ॥ १५॥ वैश्योद्विजेपु तृतीयोवर्णः शुद्ध एवाभिजनतस्तस्य कुलाद्गृहात् "कुलज- नपदे गोत्रे सजातीयगणेष्वपि । भवनेऽपि तनौ क्लीबं कण्टकाय?षधे कुली" इति मेदिनी । वा-अथवा । अम्बरीषात्-भ्राष्ट्रात् । (यवादिभर्जनसाधनात् ) "अम्बरीषञ्च भ्राष्ट्रोना"इत्यमरः । अग्निमाहृत्यानीय अभि-आभिमुख्येनादध्या- स्थापयेत् - वा शब्दौ(१) व्याख्यातौ । स खल्वयमग्निहुँतोच्छिष्टः संस्कृतोवा गृह्यते । अविशेषादिति कोपाध्यायाः ॥ १५॥ अपिवा बहुयाजिन एवागारादब्राह्मणस्य वा राजन्यस्य वा ॥१६॥ अपिवा-अथवा । इत्यम्बरीषात्पक्षान्तरमुपदिशति । बहुभिः ( सोमैः ) येनेष्टं स बहुयायीत्युच्यते । तस्यैवेत्येवकारस्तदितरं व्यवच्छिनत्ति । (२)अगा. रात्-गृहात् । “गृहङ्गाहोदवसितं+ + + भवनागारमन्दिरम्" इत्यमरः । अग्निमाहृत्याभ्यादध्यादिति गतेनाभिसम्बध्यते । कस्य बहुयाधिन इत्यपेक्षाया- माह ब्राह्मणस्य वेत्यादि । तदयमर्थः । बहुयाजिनोऽग्न्याहरणं विधेयम् । स च त्रयाणामन्यतमोयः कश्च न भवेन्नाम । वाशब्दत्रयं तुल्यवद्विकल्पार्थम् । वैश्य- कुलादिति सामान्यतोऽभिधाय तस्यैव बहुयाजित्वविशेषणेन पुनरुपादानमपुन- रुक्तिरेव । पूर्वत्रानुपादाने बहुयाजिन एव ततोऽग्निराधेयः स्यान्नाबहुयाजिनो- पीत्वत उभयत्रोपादानम् ।। १६ ।। अपिवाऽन्यं (३)मथित्वाऽभ्यादध्यात् ।। १७ ॥ अपिवा-अथवा मथित्वा । "अरणिद्वयमि"-ति शेषः । तल्लक्षणन्तु. "अश्वत्थोयः समीगर्भः प्रशस्तोर्वीसमुद्भवः । तस्य या प्राङ्मुखी शाखा वोदीची वोर्ध्वगाऽपिवा। वाक्यं तत्र गृहकाण्डे- "नावसथ्यात्परोधर्मोनावसथ्यात्परन्तपः नावसथ्यात् परन्दानं नावसथ्यात्परन्धनम् ॥ नावसथ्यात्परं श्रेयोनावसथ्यात्परोयशः । नावसथ्यात्परा सिद्धिर्नावसथ्यात्परा गतिः ॥ नावसथ्यात्परं स्थानं नावसथ्यात्परं व्रतम् ।" इत्यावश्यकत्वानित्यम् । श्रुतिरपि-"यावज्जीवमग्निहोत्रजुहुयादिति । तस्मा. त्तदकरणे प्रत्यवाय इति तत्क्षयार्थम्प्रायश्चित्तमुचितम् ॥ (१) अनुपदं १४ सूत्रे ॥ (२) कथनाम यद्योनिकः प्रथमाधानेऽग्निराहितोऽनुगतोऽपि पुनस्तख्या एवं योने- राहार्य इति । तथाच शाखान्तरम् “पूर्व वाऽनुगतेऽसौ योनिः पुनराधेये-ति । (३)परिशिष्टप्रकाशे तु "मपिवारणिम्" इति पाठः । - १ कण्डिका गोभिलगृह्यसूत्रे- अरणिस्तन्मयी प्रोक्ता तन्मय्येवोत्तरारणिः” इति कर्मप्रदीपोक्तम् ।। अरणिः-अधरारणिः । गृह्यासङ्ग्रहेऽपि- "देवयोनिः स विज्ञेयस्तत्र मथ्योहुताशनः" इति । मथनप्रकारोऽपि- "बिभृयात्प्राङ्मुखोयन्त्रमावृत्त्या वक्ष्यमाणया" इत्यादिना कर्मप्रदीप एवोक्तः । अन्यम् । अपरम् । नूतनमेवाग्निम् अभ्याध्यात् । “अराणप्रदानमेके” इति "आरणेयमुरु(१)पुण्यकोषकाम" इति च गृह्यान्तरदर्शनात् ।। १७॥ पुण्यस्त्वेवानटुकोभवतीति ॥१८॥ यथाकामयेत तथा कुर्यात् ॥१६॥ ऋद्धिरिति ब्रह्मवर्चसादिकमुच्यते । तां न जनयतीत्यनर्द्ध कः । आर्षः प्रयोगः । प्रकृतत्त्वादयमारणेयोऽग्निरनई कः । ऋद्धिजनकोन अपितु पुण्यस्त- जजकएव भवति । तुश(२)ब्दोवैशेष्यमवगमयत्यारणेयस्य । ब्राह्मणकुलादियो- नयः खल्वनियोजनयन्ति ब्रह्मवर्चसादिकामृद्धिम् । अयन्तु न तथेत्यनर्द्धक इत्याह। तथाच गृह्यान्तरम-"ब्राह्मणकुलाब्रह्मवर्चसकामोऽग्निमाहृत्याभ्यादधीत । रा- जन्यादो(३)जोवीर्यकामः । वैश्यात्पुत्रपशुकामः । अम्बरीषाद्धनधान्यकामः । आरणेयमुरुपुण्यकोषकाम" इति। इति-रेतावत्यएवाग्निजोनयइतिदर्शयति । अ- न्ये(४)त्वाचक्षते इतिहेतौ। अतोहतौः यथाकामयेत तथाकुर्यात् ।। स यदि ऋद्धिं कामयेत तदा ब्राह्मणादिकुलादेरग्निमाहृत्याभ्याध्यात् । यदि तु पुण्य- मात्र कामयेत तरिणिन्निर्मथ्यैवेति ॥ १८ ॥ १९ ।। स यदेवान्त्यां समिधमादधाति, जायाया वा पाणिजि- क्षज्जुहोति, तमभिसय्यच्छेत् ॥ २०॥ (१) उरुपुण्यकोषञ्जनयन्नारणेयस्तेनैव ब्रह्मवर्चसमधिकमपि जनयितुमलं भवति तदधीनत्वात्तेषां, तथाच स्मर्यते-"नहि पुण्यकृतः किञ्चित्रिषु लोकेषु दुर्लभम् । दुष्प्राप. मपि येनाप्तं ब्राहाम्यं गाधिसुनुनी इति। स्वाधीनाचेयमन्त्या योनिः पराधीना चान्या । दैवाञ्च पुनराधातव्ये पूर्नेव योनिराश्रयितव्या भवति । “पूर्वव योनिः पूर्वाऽऽवृत्पुनरा. धानकर्मणि" इति कात्यायनस्मरणात् । तत्र च स्वाधीनाऽन्त्यैव योनिः सुलभा । न तथान्येति तदलाभे पुनराधाता प्रत्यवेयादेव । अन्येऽग्नयः कर्मणैवाधानेनार्धकः । अयन्तु आरणेयः स्वनिष्ठद्धिसाधनहोमः शक्नोति प्रणाल्या ऋद्धि साधयितुमित्यदोषः । अतए. वाह कर्मप्रदीप:-"पुण्यमेवादधीतानि स हि सर्वैः प्रशस्यते । अनर्द्धकत्वं यत्तस्य का. म्यैस्तनीयते शमम्" इति ॥ (२) तदेतदनुपदमुक्तं गृह्यान्तरव्याख्यायाम् । (३) राजन्यात्तत्कुलादेवमग्रेऽपि व्याख्येयम् ॥ (४) एतञ्च चन्द्रकान्तव्याख्यान, तन्मते उसरसूत्रस्य सत्स्वेतेष्वाधानकालेषु सतीषु चैतास्वग्नियोनिषु यथा कामयेतेच्छेताधानकर्ता तथा कुर्यादाधानमिति वाक्यशेषः । ३ गो० गृ० सू० अग्न्याधानावधिः। १ प्रपाठके स-यथोक्तः कर्ता । यदेव(१) यस्मिन्नेवाग्नौ-अन्त्यां .समिधमादधाति । यस्मिन्नेव वा जायायाः पाणिनिवृतजुहोति । लाजादिकमित्यर्थवशादुन्नेयम् । तमनिमभिसय्यच्छेत्-यत्नेनरक्षेत् ॥ २० ॥ स एवास्य गृह्योऽग्निर्भवति ॥ २१ ॥ सं यथोक्त एव न पुनरन्य इत्यन्यस्मिन्नग्नावस्य होमस्य प्रतिषेधोगृह्याग्निसं- पाद्यकर्मसु, अन्याहिते गृह्येऽपीति विज्ञायते(२)। अस्य-आधातुः गृह्यः गृहाय हितः । गृहकोपयोगी (३)गृह्यनामा वा ऽग्निर्भवति । सोऽयमग्निरस्याधातुरेव गृह्योभवति । न पुनरन्यस्येति वा सूत्रार्थः । तदेतत्सर्वमाह कात्यायन:- "नह्याहिताग्नेः स्वङ्कम लौकिकेऽनौ विधीयते" इति । SummaNP तथा- "यस्याग्नावन्यहोमः स्यात्स वैश्वानरदैवतम्- चरुं निरुप्य जुहुयात्प्रायश्चित्तन्तु तस्य तत् ॥” इति । "परेणानौ हुते स्वार्थ परस्याग्नौ हुते स्वयम" ।। इति चैवमादि । अस्य चापवादः पुरस्तादेवोक्त:(४) ॥ २१ ॥ अपिच- तेनैवास्य प्रातराहुतिर्हता भवतीति ॥ २२ ॥ तेनैव अन्त्यसमिदाधानेन लाजहोमेन वा अस्यामेराधातुः प्रातरा- हुतिः हुता दत्ता भवति । तदिने अपरा प्रातराहुतिर्नापेक्ष्यते(५) इतिभावः । अयमर्थः । दिवा रात्रौ वा विवाहे तदिनेऽपरदिने वा सायमेवाहुतिर्भवति नापरेयुः प्रातरिति । तथाचोक्तम्- "यदा अह्नि विवाहहोमस्तदा सायं काले. होमोरम्भः । यदा तु रात्रौ विवाहहोमस्तदोत्तरेधुः सायङ्काल एव होमारम्भः" इति । तथाच स्मृत्यन्तरम्- "यस्मिन्नह्नि विवाहः स्यात्सायमारभ्य तस्य तु । परिचा विवाहानेर्विधीत स्वयंद्विजः ।। (१ चन्द्रकान्तस्तु-एवकारादितिकर्तव्यतान्तरं व्यवच्छिनत्ति। तथाच तमेवा. निमाभिमुख्येन ( पूर्णाहुत्या संस्कृतम् ) सय्यच्छेद्धारयेत् (रक्षेत्) नान्यामिति कर्म- व्यतामपेक्षेतेति तदर्थः ॥ आधानं प्रत्यविलम्बित्वज्ञापनाय हि पुनर्वचनम् । इति । अत्र यदितियस्मिन्नर्थेऽव्ययम् ॥ (२) एवकारस्वरसात् । (३) गृहपदमत्र गृहस्थपरं तदाश्रमस्थस्य सायम्प्रातराहुत्यादिसकलनौतस्मार्त मात्र गृहकाभिधीयते । न लौकिकाग्निसाध्यम्पाकादीति बोध्यम् ॥ (४) ब्रह्मचारोत्यादिसूने (१।१।७)। (५) तत्कार्यस्य तेनैव निष्पत्त्यभ्युपगमात् ॥ IHARIOR १ कण्डिका ] गोभिलगृह्यसूत्र- BAD- यदि रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति । उत्पन्नस्योत्तरस्याह्नः सायं परिचरेदमुम्" ।। इति । इति शब्द आधानप्रकरणसमाप्तिद्योतकः ।। २२ ॥ ( हत्यग्न्याधानप्रकरणम् ) उक्तमर्थमनुवद-नित्यहोमकालारम्भ उच्यते- सायमाहुत्युपक्रम एवात जव गृह्येऽनौ होमोविधीयते ॥ २३ ॥ अतः यथोक्ताग्निपरिग्रहात् । ऊर्ध्वम् अनन्तरम् । प्रातराहुत्युपक्रमः । प्रातरा- हुत्या य उपक्रम्यत आरभ्यते स तथाविध एव होमो(१)गृह्येऽस्मिन् अग्नौ । विधीयते-उपदिश्यते(२) । आचार्येण । एवकारेणैतदर्शयति यत्केषाञ्चिच्छा- खिनामग्निहोत्रं यथाप्रातराहुत्याऽऽरभ्यते सायगाहुत्या च सन्तिष्ठते(३) न तथा कौथुमादीनामिति । तदत्र सायमाहुत्युपक्रमं प्रातराहुत्यन्तमेकङ्कम्मति विज्ञा- यते । यथाह कात्यायन:- "सायमादिप्रातरन्तमेकङ्कर्म प्रचक्षते” इति ।। २३ ॥ पुरा प्रादुष्करणवेलायाः सायम्पातरनुगुप्ता अप आहरेत्परिचरणीयाः ॥ २४ ॥ प्रादुष्करणवेलायाः "पुरस्तादग्निम्प्रादुष्कृत्ये"---( १-१-२२८)-त्या- दिसूत्राभ्यां वक्ष्यमाणायाः पुरा पूर्व सायं प्रातश्च(४) अनुगुप्ता अप आहरेत् काः ? परिचरणीयाः परिचर्यन्ते निर्वाह्यन्ते आचमनादीनि याभिरिति बाहुल- कात् (पा० ३।३।११३) करणेऽनीयर् ॥ २४ ॥ अपि वा सायम् ॥ २५ ॥ अपि वा-अथवा सायम् । पुनर्वचनात्सायमेव अप आहरेत्परिचरणीया इति सम्बध्यते । सायमाहृताभिरेवाद्भिः सायम्प्रातश्च परिचरेदित्यर्थः ।। २५ ।। अपि वा कुम्भाद्वा माणिकाद्वा गृह्णीयात् ॥ २६ ॥ (१) देवतोदेशेन समन्त्रं व्यत्यागोहोमः । स च येनैव हविषा कृतेनाकृतेन वा ना पयसा वा सायं होमः कृतस्तेनैव प्रातीमोऽपि समोपनीयोऽन्यत्र प्रतिनिधेः । प्रति. निधिश्च कात्यायनेनोकः । यथोक्तवस्त्वसम्पत्तो प्रान्तदनुकारियत। यवानामिव गोधूमाः बीहीणामिव शालयः ॥" इति ॥ (२) अत्राऽपवर्गविहितमप्यभिरूपभोजनं प्रातराहुत्यनन्तरमेवेति बोध्यम् ॥ अनु- पदं प्रदर्शयिष्यमाणकात्यायनवचनात् । उपदेशश्च तत्प्रकारस्यानन्तरसूत्रैः पञ्चभिः । (३) समातिङ्गच्छति। "संस्थाऽऽधारे स्थितौ मृतौ" इत्यमरः ।। (४) आदिना राणायनीयपरिग्रहः ॥ (५) विनाऽपि ई समुच्चयो धोत्यते "गामक पुरुषं पशुम्" इत्यत्र यथा ।
श्रन्याधानलमयविधिः। [प्रपाठके १ ? Ans- अपिवा-अथवेत्याहरेदित्यपेक्षया विकल्पार्थः । अपिवा गृहीयादिति । कुम्भान् घटात् वा मणिरव माणिकस्तस्मात् अलिजरात् वा “अलिश्चरः स्यान्मणिक" इत्यमरः । महतोजलकुम्भाद्वा। वाशब्दद्वयन्तुल्यवदनयाविक- स्पार्थम् । गृह्णीयात्-प्रकृतत्वादपः परिचरणीयाः । “निर्णिक्तकरचरणमुखी- पत्नी शिष्योवाऽऽचम्य कुम्भादेरप उद्धृत्याऽऽचमनन्दद्यात्ताभिः परिचरेदिति भट्टभाष्यम् ॥ ६॥ पुरास्तमयादग्निं प्रादुष्कृत्यास्तमिते सायमाहुतिजुहुयात् ॥ २७ ॥ पुरा-प्रथमम् । कस्मात् ? अस्तमयाद् अर्थात्सवितुः । कात्यायनोऽप्याह- "सूर्येऽस्तशैलमप्राप्ते त्रिशद्भिरथाङ्गुलैः । प्रादुष्करणमग्नीनां पुरा भासाञ्चदर्शनात्" ।। इति । तस्मिन्काले अग्निमाहितं प्रादुष्कृत्य प्रकटीकृत्य प्रज्वाल्य अस्तमिते स- वितरि। "यावत्सम्यङ् न भाव्यन्ते नभस्य॒क्षाणि सर्वतः । न च लौहित्यमापैति तावत्सायञ्च हूयते” । इति कर्मप्रदीपपरिदर्शिते काले सायमाहुति-मग्निहोत्रलक्षणा क्षुहुयात् २७ पुरोदयात्मातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतिजुहुयात् ॥२८॥ इतिगोभिलीये गृह्यसूत्रे प्रथमप्रपाठकस्य प्रथमाकण्डिका ॥ १ ॥१॥ * ॥ - - पुरा-पूर्वमुदायात् सवितुः । तमिमं सामान्येनाभिहितं कालं विशिनष्टि प्रा. तरिति "चतस्रोघटिकाः प्रातररुणोदय उच्यते” इति स्मृत्युक्तक्षणे इत्य- र्थः । अत एव कात्यायनोऽपि "प्रातर्भासाञ्च दर्शनात्" इत्याह । एतस्मिन्नेव खलु काले प्राचीदिगरुणकिरणारुणीकृता भवति स्मिन् काले प्रादुष्कृत्य प्रज्वाल्य प्रकृतत्वादग्निम् । उदिते उद्गते रवौ- "हस्तादृर्व रविर्यावद्गिरि हित्वा न गच्छति । तावद्धोमविधिः पुण्यो नान्योऽभ्युदितहोमिनाम्" ।। इति कर्मप्रदीपस्पष्टीकृते काले अनुदितेऽल्पो(१)दित इति चन्द्रकान्त(२) (१) नोल्पार्थत्वमनुदराकन्येत्यादौ दृष्टम् । यथाहुः “तत्सादृश्यमभावश्च तद. न्यत्वं तदाल्पता । अप्राशस्त्यं विरोधश्च नमर्थाः षट् प्रकीर्तिताः" इति ॥ (२) तस्यायमाशयः "रेषामात्रन्तु दृश्येत रश्मिभिश्च समन्वितम् । उदयन्तं विजा. नीयात् होमर्याद्विचक्षणः" इति गृह्यपरिशिष्ट-(गृ० सं०)-वचने उदयमित्यल्पोदयपरं "अल्पत्वादसत्त्वमुपचर्यते” इति न्यायस्याल्पधनोऽधन एकपुत्रोऽपुत्र इत्यादौ दर्शनात् । तथाभूत उदयोऽनुदय एव । अत एवोदितहोमिनाङ्कालः कर्मप्रदीपेन "हस्तादूचं रवि कण्डिका ] गोभिलगृह्मसूत्रे- भाष्यम् । रात्रेः षोडशमे भागे इति प्रामाणिकाः। तथाच गृह्यासङ्ग्रहे कात्यायन. । "रात्रेः षोडशमे भागे ग्रहनक्षत्रभूषिते । अनुदयं विजानीयाद्धोमन्तत्र प्रकल्पयेत्” । इति । तथाचानुदित इत्यस्योदयमप्राप्त इत्येवार्थः । प्रातराहुतिमग्निहोत्रल- क्षणाम् जुहुयात् । वाशब्दादुदितानुदितहोमयोवैकल्पिकत्वं दर्शयति । यथाह मनुः "उदितेऽनुदिते चैव समयाध्युषिते तथा । सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥" इति । सम्पूर्णादित्यमण्डलरूपदर्शनोपलक्षितः काल उदितः। उदयात्पूर्व मरुणकिरणवान्प्रविरलतारकोऽनुदितः । सूर्यनक्षत्रवर्जितः कालः सम(१)या- ध्युषितः । अनयोरनुदित एवान्तर्भावः । तत्र वाजसनेयिनां नियमेनानुदितहो. मः । “सूर्योह वा अग्निहोत्रम्" इत्यारभ्य "तस्मादुदितहोमिनां विच्छिन्नमग्नि- होत्रं मन्यामहे” इत्यन्तेन (श० थ-) श्रुतिसमाम्नायेनोदितहोमनिन्दापूर्वकम- नुदितहोमस्य समर्थितत्वात् । छन्दोगानामुदितानुदितयोविकल्पः । आश्वलाय- नानां पुनरुदितहोमनियमः । तथाच तैत्तिरीयब्राह्मणम्- "प्रातः प्रातरनृतन्ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम् । दिवा कीर्त्यमदिवा कीर्तयन्तः सूर्योज्योतिर्नच ज्योतिस्तदेषाम" ।। इति अनुदितनिन्दार्थवादपुरस्सरमुदितहाभस्यैव "उदिते होतव्यम्" इति श्रुत्या बोधनात् ।। अत्र भट्ठभाष्ये-"प्रादुष्करणोपदेशाच पृथगन्यगारन्दर्शयति पृथक् च महानसम् । अग्न्यगारात्प्रभृति धूमं शातयन्निति च लिङ्गात् । अन्यथा सदैव प्रादुष्कृतत्वात् प्रादुष्करणमेव न स्यात् । यत्रार्थयुक्त्या महानसादावग्न्यवयवाः विदित त्यादिना स्पष्टीकृतः । व्याख्यातञ्च परिशिष्टप्रकाशकृता "अभ्युदित" इत्यभि- बाब्दस्य सर्वतोभावार्थकस्योपादानात्सम्पूर्णसूर्यमण्डलदर्शने उदितहोमो न त्वोदिता दावित्यवगन्तव्यमिति । अत एव मन्वर्थमुक्तावल्या हरिहरभाष्ये च सम्पूर्णसूर्यमण्डल. रूपदर्शनोपलक्षितः कालएवोदितपदेनोकः । एवमुक्तलक्षणे रेखामानोदितरूपानुदिते कुतश्चित्प्रतिबन्धाद्धोतुमशक्नुवतामनुदितहोमिनां लोप एव प्रातराहुतेरापयेतातस्त. आशक्तोऽभ्युदिते जुहुयादिति कर्मप्रदीपवचनार्थः । श्रुतिश्चास्यामेवाशक्तिदशायामुदित- होमं निन्दति "श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोती ति। "यथाऽति. थये प्रद्रतायान्नमाहरेयुस्ताहकू तद्यदुदये जुहोतीति" चैवमादिका ॥ यावः श्वानविशेषः। sali द्वौश्यावशवलौ वैवस्वतकुलोद्भवौ । ताभ्यां पिण्डं प्रयच्छामि स्यातामेताव हिंसकौ ॥ इत्यत्र तथाभिधानात् ॥ (१) तथाच "ततः प्रभातसमये नष्टे नक्षत्रमण्डले । रविबिम्ब न दृश्येत समयाध्यु- पितं स्मृतम्" इति ॥ मन्वनुक्कावल्यादावप्येवमेव ॥
अन्याधानललयविधिः । [ प्रपाठक प्रणीयन्ते । तत्र तदर्थनिवृत्तौ पुनस्तत्रैवोल्मुकं नयेत् । यत्र तु वचनात्-यथा "पुरस्ताच्छालाया उपलिप्य शालाग्नेरग्निं प्रणयन्तीति तत्र नेति(१) ।। २८ ।। इतिश्रीमहोमिलीयगह्मसूत्रव्याख्यायां "मृदुलाख्यायां मुकुन्दशर्मसङ्कलितायां प्रथमप्रपाठकस्य प्रथमा कण्डिका ॥ १ ॥१॥ * ॥ अथ द्वितीया कण्डिका। ( अथोपवीताविधिः) पूर्व “यज्ञोपवीतिनाऽऽचान्तोदकेन च कृत्यम्" इत्यनेन यज्ञोपवीताचम. नयोः काङ्गतोक्ता । अथेदानीन्तदुभयमपि क्रमेण व्याचिख्यासुः शिष्यानुजि. वृक्षया यज्ञोपवीतन्तावदाह- यज्ञोपवीतङ्कुरुते सूत्रं वस्त्रं वाऽपि वा कुशरज्जुमेव ॥ १॥ कुरुत इति विधौ लेट् (पा० ३।४।७) कुर्वीत-धारयेदित्यर्थः । कीदृशन्त- दित्याह-सूत्रम्-सूत्रनिम्मितम् । तच्च नवभिस्तन्तुभिस्त्रिवृद्भवति । तथाचwom "त्रिवृ(२)दूर्ध्ववृतङ्कार्य्यन्तन्तुत्रयमधोवृतम् । त्रिवृतञ्चोपवीतं स्यात्तस्येकोप्रन्थिरिष्यते"॥ इति कर्मप्रदीपक्तिलक्षणमित्यर्थः । अत्र मनु:- "कार्पासमुपवीतं स्याद्विपस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिका || इति चैवमादि स्मृत्यन्तरेभ्योऽवगन्तव्यम् । त्रिवृदिति नवगुणं सूत्रनवकमि- त्यर्थः । "नवैव त्रिवृदि"ति श्रुतेः । तथाच देवलः “यज्ञोपवीतङ्कुर्वन्ति सूत्रेण नवतन्तुकम्" इति । मुख्यश्चायं पक्ष:(३) । इह वाशब्दाभावात् । उत्तरत्र वा- (१) अन पांशुतुपारादिनाऽन्तहिते रखौ कर्माह कात्यायनः- "रजोनीहारधूमावृक्षाग्रान्तरिते रवी । सन्ध्यामुद्दिश्य जुहुयाद्वतमस्य न लुप्यते" इतिः सन्ध्यामुभयामेव सायं प्रातश्च विधेयाम् । तामुद्दिश्य यथा यदा सा समुपास- नीया तथा तदैव जुहुयादपि । उभयोरेक एव काल इत्यर्थः । (२) "ऊर्ध्वन्तु त्रिवृतङ्कार्यमिति प्रचुरः पाठः । तत्रायमर्यः । वामावर्त्तवलितसूत्र. अयं त्रिगुणं कृत्वा तदेव त्रिगुणं सकृद् दक्षिणावर्त्तवलितं कार्यन्तदेव त्रिवृतं त्रिसरं सदेक- मुपवीतम् । तस्य चैकोग्रन्थिरेकमेव कौटिल्यं, भ्रमिस्तु प्रवरानुसारेणेति । (३) अत्र संस्कारदीपके निगमे-"कार्पास-क्षौम-गोबाल-शण वल्क-तृणोद्भवम् । सदा सम्भवतोधार्यमुपीतं द्विजातिभिः।"इति । तृणमुलपादि । सम्भवत इत्यभिधानात्पूर्वपू. वाभावे : तरोतरविधिः । अत्र निगमपरिशिष्टम् "वाससा यज्ञोपवीतङ्करते तदभावे त्रिवृता सूत्रेण । कुश-मुञ्ज बाल प्रतिसर-रज्जुभिर्वा इति। बालोगोबालः । प्रतिसर उलपादि। witten- । ।
। " १ कण्डिका गोभिलगृह्यसूत्रे- शब्दाम्नानात् । वस्त्रं वा। वाशब्दोऽभावविकल्पार्थः । अरण्यादावुपवीतनाशे सूत्रलोभासम्भवात् । तद्यज्ञोपवीतङ्कुरुते । अन्यथा व्युपवीतस्य मेहनादावनर्थः स्यात् । उद्भूतमूत्रपुरीषक्षुत्पिवासादिवेगस्य क्षणमपि स्थातुमशक्यत्वात् । "पिबतोमेहतश्चापि भुखतोऽनुपवीतिनः । प्राणायामत्रिकं षट्कं नवकञ्च क्रमान्मतम्” । इति स्मरणात् । अपिवा-अथवा (चौरादिमिररण्यादौ वस्त्रस्याप्यपहारे ) कुशरज्जुमेव यज्ञोपवीतङ्कुरुते । एवकारो(१)ऽत्र सदोपवीतित्वनियमार्थोऽन्यथा कर्माधिकार एवाम्नानात्काङ्गमेव यज्ञोपवीतमिति मन्यमानः कर्मण्येवोप- वीती स्यान्न सदैवेति वदेत् । तञ्च नो युज्यते तथाचोक्तम्मनुकात्यायनाभ्याम्- "सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखो व्युपवीतश्च यत्करोति न तस्कृतम्" ।। इति । अस्य लम्बत्वप्रमाणमाह मनु:- "पृष्ठवंशे च नाभ्याञ्च धृतव्यद्विन्दते कटितम् । तद्धार्यमुपवीतं स्यान्नातोलम्बं न चोच्छ्रितम्" इति । इञ्च वामस्कन्धे धृत्वा परिमेयम । अत्र स्मृत्यर्थसारे. "विच्छिन्नं वाप्यधोयातं भुत्का निम्मितमुत्सजेत् ।।" मनु:- "मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृहणीतान्यानि मन्त्रवत्" इति । मन्त्रवत्-समन्त्रकम् । मन्त्रश्वान उपनयनप्रकरणे प्रदर्शयिष्यते ।।१।। तस्यैव खल्विदानी यज्ञोपशीतस्य विन्यासविशेष: परिभाष्यते विनियोग विशेषविवक्षया-द्वाभ्याम- दक्षिणं बाहुमुद्रद्धृत्य शिरोऽवधाय सव्येऽशे प्रतिष्ठापयति । दक्षिणं कक्षमन्ववलम्ब भवत्येवं ज्ञयोपवीती भवति ॥२॥ दक्षिणं बाहुमुद्धृत्य उत्क्षिप्य शिरः मूर्द्धान-मवधाय वेष्टयित्वा सव्ये दक्षि णेतरे वामेंऽशे स्कन्धे इत्यर्थः । प्रति विशिष्टेन प्रकारेण स्थापयति । यज्ञोपवी. तम् (तथासति) दक्षिणं कक्षं बाहुमूलकोटरप्रदेशम् अनुअधः अवलम्ब लम्ब- मानं भवति यज्ञोपवीतमर्थात् । पुरुषस्तु एवमनेन प्रकारेण यज्ञोपवीती भवति । अन्न वस्त्राभावे सूत्रविधानं नितन्तुकमात्रपरमतोन प्रकृतसूत्रविरोधः । अत्र वासला यज्ञोपवोवार्थः स्त्रीशूद्राणाकृते देवपितृकर्मणोरुपपद्यत इति द्रष्टव्यम् ॥ (१) अन्नसंस्कारदीपके मैथिलमहामहोपाध्यायहर्षनाथशम्र्माणस्तु-"एवकारोऽयं वस्त्रकुशरज्वोर्यज्ञोपवीतानुकल्पयोस्त्रिसरत्वादिव्यवच्छेदकः सूत्रं - सूत्रविशेषः । इत्येवमाहुः ॥ - anam उपवीतविधिः। [१ प्रपाठके- सेयं परिभाषा कर्मार्था । "उपवीतं देवानामुपव्ययते” इत्येवमादिशास्त्रशेषभूता च । विध्येकवाक्यतया खल्वर्थवादानां प्रामाण्यमनुमन्यन्ते तान्त्रिकाः “विधिना चैकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युरि-"ति (जै० सू० १।२।१)॥२॥ सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणेऽशे प्रतिष्ठापयति । सव्यं कक्षमन्ववलम्बं भवत्येवं प्राचीनाचीती भवति ॥३॥ सव्यं वामम् “वामं शरीरं सव्यं स्यादपसव्यन्तु दक्षिणम्" इत्यमरः । व्याख्यातमन्यत् । यज्ञोपवीतिना कृत्यमित्येतद्याचिख्यासुराचार्यः प्राचीनावी- तित्वमप्यभिधानायज्ञोपवीतमस्यास्तीत्यमुमेवार्थन्तत्रावगमयति भाष्यकल्पा- खल्वेषा काण्डिका यज्ञोपवीतिनेति सूत्रस्य ।। ३॥ यदर्थ विन्यासविशेषः परिभाषितः स विनियोगविशेष इदानीमभिधीयते- पितृयज्ञे त्वेवं प्राचीनावीती भवति ॥४॥ पितृभ्यः पितणां वा यज्ञः “यजति चोदनाद्रव्यदेवताक्रिय समुदाये कृता- र्धत्वात” ( जै० सू० ४।५।२२ ) इत्युक्तलक्षणस्तस्मिन् पितृयज्ञे पितृकर्मणि । तु शब्दश्वशब्दार्थोऽन्यदपि सव्यजान्वञ्चनादि समुच्चिनोति । तदाह कात्यायन.- "दक्षिणं पातयेज्जानु देवान्परिचरन् सदा । पातयेदितरज्जानु पितन्परिचरन्नपि ॥” इति । एवशब्दश्चान्यदैवतकर्ममध्यपातिन्यपि पित्र्ये कर्मणि प्राचीनावीतित्वं निय- मयति । स्मरति च भगवान्मनुः- प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा। पित्र्यमा निधनात्कार्य विधिवदर्भपाणिना" ।। इति । ऋज्वर्थमन्यत् ॥ ४॥ (इत्युपवीतविधिः) ( अथाचमनविधिः) एवं यज्ञोपवीतिना कृत्यमित्यंशं व्याख्यायाचान्तोदकेन कृत्यमित्येतदिदानी व्याख्यायते- उदगनेरुत्सृष्य प्रक्षाल्य पाणी पादौ चौपविश्य त्रिराचामेद्विः परिमृजीत ॥ ५॥ अग्निसाध्यस्याग्निहोत्रस्य प्रकृतत्वाद्गृह्यकर्मणाश्च प्रायेणाग्निसाध्यत्वादु- दगग्नेरित्याह । उद्गुत्तरतः । कस्य ? अग्नेः । उत्सृप्य-उत्क्रम्य गत्वेत्यर्थः । सपिर्गत्यर्थः (भ्वा. प.) पाणी हस्तौ पादौ चरणौ च प्रक्षाल्य प्रकर्षणाद्भिः शोध-. यित्वा । "क्षलशौचकर्मणि" (चु. प.) तदितिक-व्यतामाह देवलः ! DAI कण्डिका १] na गोभिलगृह्यसूत्रे- "प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेच्छनैः । उदङ्मुखा वा दैवत्ये पैतृके दक्षिणामुखः” इति । क्रमश्च पादप्रक्षालने "सव्यं पादमवनेनिजे” इति सव्यं पादं प्रक्षालयेत् । "दक्षिणं पादमवनेनिज" इतिदक्षिणम्पादं प्रक्षालयेदि"-(४-१०-१०) ति लिङ्गदर्शनादवगन्तव्यः । "सव्यं प्रक्षाल्य दक्षिणं प्रक्षालयतीति गृह्यान्तरम। उपविश्य । "अन्तर्यानु शुचौ देशे उमाविष्ट उदङ्मुखः । प्राग्या ब्राह्मण तीर्थेत द्विजोनित्यमुपस्पृशेत् ।।" इतिस्मृत्यन्तरोक्तप्रकारेणेत्यर्थः । त्रिः त्रिवारम् । क्रियाभ्यावृत्तिगणने "द्वित्रिचतुर्थ्यःसुच" (पा०५।४।१८) इति सुन्प्रत्यय एवमग्रेऽपि । आचामेत् । "आचान्तोदकेन कृत्यम्” इत्यस्य परिदर्शकतया अप इति वाक्यशेषः । “त्रिः पिबेदम्बुवीक्षितम्" इति च स्मृत्यन्तरम् । अत्र त्रिराचामेदित्यभिधान आचा. >स्त्रिरभक्षणमाचमनमन्यदितिकर्तव्यतेति दर्शयति । मन्वर्थमुक्तावल्यामप्ये- वम् । द्विः द्विवारम् परिमृजीत(१) "संवृत्त्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम्" इतिदक्षस्मरणात्संवृतं मुखमङ्गुष्ठमूलेन प्रमृज्यादित्यर्थः ॥ ५॥ पादावभ्युक्ष्य शिरोऽभ्युक्षेत् ।। ६ ।। अद्भिरिति सामर्थ्यात्। ऋज्वन्यत् । विसमासकरणं पादाभ्युक्षणशेषेण शि- रोऽभ्युक्षणनिषेधार्थमिति भट्टभाप्यम् ॥ ६ ॥ इन्द्रियाण्यद्भिः संस्पृशेत् ॥ ७॥ इन्द्रियाणि । इन्द्रियाणाममूर्त्तत्वात्तदायतनानि । अद्भिः करणभूताभिः उदकाइँण हस्तेन प्रतीन्दियमित्यर्थतः। संस्पृशेत् । सम्यक् स्मृत्यन्तरोक्त(२) प्रकारेण स्पशेत् ॥७॥ कानि तानीन्द्रियाणीत्याह- (१) “मृजूशौचालङ्कारयोः" (चु०उ०) इत्यस्याषीयत्वाणिजभावपक्षे विधा लिङि रूपम् । प्रमृज्यादिति तु "मृज्रशुद्धौ” (अ०प०) इत्यस्य । अत्र कात्यायन: "त्रिः प्राश्यापोद्विसन्मृज्य मुख, मेतानुपस्पृशेत्। आस्यनाशाक्षिकांश्वनाभिवक्षः शिरोंsसकानू" इति । एतच्चानान्तोदकेनेति सूत्रांशं स्फुटीकरोति । वारत्रयमपः प्रकर्षेण भक्षयेत् । भक्षण- प्रकर्पश्च कर्भकरणकर्तृप्रकर्षात् । तत्रकर्मप्रकर्षाऽनुष्णत्वाऽफेनत्वाबुद्बुदत्वहृदयगामित्वा. दिरूपः । कर्तृप्रकर्पश्च कृतपाणिपादशौचत्वासीनत्वप्राङ्मुखत्वादिरूपः । करणप्रकर्षश्चात्र ब्राह्मतीर्थत्वादिः । एवमपोभक्षयित्वा मुखं वारद्वयमूर्ख लोमस्थाने मार्जयेत । नत्वलोमके। पुनराचमनेऽनवस्थाप्रसङ्गात् । तथाच परिशिष्टम् “आचान्तःपुनराचामेत् वासश्चपरिधायो. टौ संस्पृश्य यन्त्रालोमकौ” इति । (२) तथाच मनुः "निराचामेदपः पूर्व द्विःप्रमृज्यासतोमुखम् । खानि चैव स्पृशेद- निरात्मानं शिर एव च ॥” इति । अस्यार्थः । प्राङ्मुख उदङ्मुख ऐशान्याभिमुखोवाऽनु- मामRANCS - ४ गो० गृ० सू० आचमनविधिः। [१ प्रपाठके- mube अक्षिणी नासिके कर्णाविति ॥८॥ संस्पशेदिति सम्बध्यते । इतिशब्दोऽन्यदपि स्मृत्यन्तरोक्तं समुचिनोति । आद्यर्थत्वात्तस्य । “ज्वलितिकसन्तेभ्योः” (पा. ३।१।१४०) इत्यत्र यथा । उपन्यासमात्रमेतत् । क्रमश्च- "त्रिःप्राश्यापोद्विरुन्मृज्य मुखमेतानुप(१)स्पृशेत् । भास्थनासालिकणांश्च नाभिवक्षःशिरोंऽसकान्" ।। इति कर्मप्रदीपोक्त एव भवति । तमेतं स्पष्टमाह दक्षः- "प्रक्षाल्य पाणी पादौ च त्रिःपिबदम्बु वीक्षितम् । संवृत्त्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततोमुखम् ।। संवृत्त्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ।। अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनःपुनः । नाभिं कनिष्ठाङ्गुष्ठेन हृदयन्तु तलेन वै ।। सर्वाभिश्च शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत्” । इति । तिसृभिरित्यङ्गुलीभिस्तर्जनीमध्यमानामिकाभिः । उपस्पृशेत् । ओष्ठौ । तदेतद्भोक्ष्यमाणविषयम् । तथाचापस्तम्ब:-"भोक्ष्यमाणस्तु-प्रयतोऽपि द्विराचा- मेद्द्विः परिमृजेत्सकृदुपस्पृशेत्" इति । एतच्चाङ्गुलिनयेणेत्याचारचिन्तामणिः । मुखमिति-संवृतस्यावान्ताधरोष्ठम् । पुनःपुनरिति चक्षुयश्रोत्रद्वयाभिप्रायेण । तेनैकं चक्षुः स्पृष्ट्वाऽपरं स्पृशेदक्षिणवामक्रमेण । अत्र प्रमार्जनानन्तरं प्रभूतज- लेन दक्षिणहस्तं प्रक्षाल्य तत एवम्भूतमेवास्यं मुखमोष्ठौ श्मश्रुतोऽधः स्यावा. दुपरि द्विरुपस्पृशेत् । ततोदक्षिणपाणिं प्रक्षाल्य वामपाणिं पादौ शिरश्वाभ्यु- क्ष्या(२)ङ्गुष्ठानामिकाभ्यां सजलाभ्यामक्षिणी स्पृष्ट्वा -तर्जन्यङ्गुष्ठाभ्यां सजला. ष्णाभिरफेनाभिरद्भिाह्मण कायदशिकान्यतरेण वा ताथन स्तोकं हृत्कण्ठतालुगाभिरि- त्यन्यनाभिधानात् क्रमेण द्विजातिभित्रिरपः प्राश्यानन्तरं संवृत्यौष्ठाधरौ वारद्वयमङ्गुष्ठ- मूलेन संसृज्यात् । खानीन्द्रियाणि मुखस्थानिात्रीणि चान्नाभिं जलेन स्पृशेत् । तत्र तर्ज. न्यङ्गुष्ठाभ्यां दक्षिणवामक्रमेण नासिका पुटे अङ्गुष्ठमध्यमाभ्यां नेत्रे अङ्गुष्ठानामिकाभ्या कर्णो अङ्गुष्ठकनिष्ठाभ्यां नाभिं स्पृष्ट्वा पुनर्जलं स्पृशेत् । ततस्तलेन हृदयं स्पृष्ट्वा जलं स्पृष्ट्वा सर्वा. गुलीभिः शिरश्चागिरेव स्पृशेत् । पादौ शिरश्च पृथग्जलेन स्पृशेत् । इति ॥ अत्रान्ते चका रादाहुमूले अपीति दक्षस्मृत्याऽनुपद व्यक्तीभविष्यति । (१) एवमादावुपेत्यविवक्षितम् । तेन "उपस्पर्शस्त्वाचमनम्" इत्याग्नेयकोशेन सम नविरोधः॥ (२) तथाचापस्तम्बः "त्रिरोष्ठौ परिमृजेद्विरित्येके, सकृदुपस्पृशेत् । दक्षिणेन पा- णिना सव्यं प्रोक्ष्य पादौ शिरश्च इन्द्रियाण्युपस्पृशेत्" इति । सकृदिति ओष्ठावित्यनु. षडः । उपस्पृशेत-उपसमीपे स्पृशेत् । तेन स्यावोपरि लोमोदयादधास्पृशेत् । तदेतन्नि बन्धेषु व्यक्तम्। Depe . .
१ काण्डका ] गोभिलगृह्यसूत्र भ्यां नासापुटद्वयं स्पृष्ट्वाऽङ्गुष्ठकनिष्ठाभ्यां सजलाभ्यां करें स्पृष्ट्वा कनिष्ठाङ्गुष्ठा- भ्यां नाभि स्पृशेत् । प्रकृतसूत्रानुसाराह क्षोक्तः क्रमोऽत्र कल्पे न विवक्षितः । स हि सर्वशाखिसर्ववर्णसाधारणः कल्प (१)। तत्र तर्जन्यङ्गुष्ठाभ्यां सोदका- भ्यां नासापुटे स्पृष्ट्वाऽङ्गुष्ठानामिकाभ्यां सोदकाभ्यामक्षिणी स्पृष्ट्वा एवमेव(२) श्रोत्रे तत; कनिष्ठाङ्गुष्ठाभ्यां नाभि स्पृशेदिति । तथाच शङ्ख:---- "तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम् । अङ्गुष्ठमध्यायोगेन स्पृशेन्नेत्रद्वयं ततः ।। अङ्गुष्ठानामिकायोगे श्रवणौ समुपस्पृशेत्” । इत्येवं विशेषोदृश्यते । परिगृहीतश्चायमाचारेणापि बहूनाम्-अत्र कर्ण- स्पर्श कनिष्ठाङ्गुष्ठयोगः । “कनिष्टाङ्गुष्ठाभ्याञ्च कर्णावालभते ततः” इत्या- चारविवेकधृतभविष्यपुराणवचनात् । ततः पाणिं प्रक्षाल्य करतलेन हृदयं स- र्वाङ्गुलीभिः शिरोऽङ्गुल्यणांसद्वयं स्पृष्ट्वा शेषं जलङ्किञ्चिद्वामहस्ते दद्यात् । इदमाचमने, द्विरचमने तु पादप्रक्षालनवर्जमखिलमावर्तते । भोजनोपक्रमाच- मने सकृदेवोष्ठस्पर्श इति निबन्धारः ॥ ८॥ यधन्मीमांस्यं स्यात्तत्तदद्भिः संस्पृशेत् ।। ६ ॥ यद्यत् इन्द्रियमन्यद्वाऽङ्ग मीमांस्यं विचाय्य ( विचारार्ह ) स्यात्तत्तदद्भिरु- दकैः संस्पृशेत् । प्रक्षालयेत् । न तु (३)संशयनिरासाय विचारमेव कुर्यादित्यर्थः तत्रैतदाहुः ॥१०॥ तत्र तस्मिन्नाचमने एतत्-"नोपस्पृशेद्बजनि"त्यादि-"उच्छिष्टाहैवातोऽन्यथ भवति" (१।२।३०) इत्येतदन्तं वक्ष्यमाणमाहुर्ब्राह्मणवाक्यानी"ति वाक्यशेष:१० नोपस्पृशेदवजन् ॥ ११॥ ब्रजन्-गच्छन् । नोपस्पृशेत्-नाचामेत् । “उपस्पर्शस्त्वाचमनम्" इत्य- मरः ।। ११ ।। न तिष्ठन् ॥ १२ ॥ स्थितिरूविस्थानम् । उपस्पृशेदित्यग्रेऽपि यथायथमभिसम्बध्यते ॥१२॥ न हसन् ॥ १३॥ न हसन्हास्यकुर्वन्स्मयमानोवा । तन्मनाः सुमनाश्चेत्यर्थः ।। १३ ।। न विलोकयन् ॥ १४ ॥ (१) तत्र प्राण पश्चादनन्तरं चक्षुरित्येव तदभिममिति कश्चित् ॥ १२) अङ्गुष्ठानामिकाभ्यां सोदकाभ्याम् ॥ (३) मीमांसा-विचारः इदमङ्ग शुद्धं जातन्न वेति सन्देहनिरासायेत्यर्थः । meterstuantitaaran স্বল্পলবামঃ। ।प्रपाठक विलोकयन्-इतस्ततः किचित्पश्यन् । अन्यमनस्क इत्यर्थः ॥ १४ ॥ नाप्रणतः ॥१५॥ उपविष्टोऽपि । अप्रणतः अनवनतशरीरः । उच्छिमानामपामङ्गपु पात: म्भवादितिभावः । अत्यन्तावनतकायस्तुन "तिष्ठन्नाचामत्प्रोवे" त्यापस्तम्ब. सम्बादात् ।। १५॥ नाङ्गुलीभिः ॥ १६ ॥ अङ्गुलीभिर्ध्वमुदकमुक्षिप्य "कायत्रैदशिकाभ्यां वे"ति मनूक्ताचमनती- थविकल्पपक्षेऽपि नोत्क्षेपस्तत्र(१) कार्यः किन्तु संहताभिरङ्गुलीभिः सावधानः शनैराचामेत् । नित्यन्तु ब्राह्मतीर्थमेवाचमने विप्राणाम् । "ब्राह्मण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत्" इति मनूक्तेः ॥ १६ ॥ नातीर्थेन ॥ १७ ॥ तीर्थादाचमनार्थ विहितादन्येन प्रकारेण । प्रतिषिद्धतीन(२) पित्र्येण वा। तथाच मनुः "ब्राह्मण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् । कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन" ॥ इति । विप्र इत्याचमनकर्तृमात्रोपलक्षणम् । आचमनोद्देशेन तीर्थविधानात् । कार्य-प्राजा(३)पत्यम् । त्रैदशिकन्दैवम् । अत्र सम्भवे ब्राह्मतीथनैवाचमनम् । नित्यकालमितिश्रवणात् । त्रणादिना ब्राह्मतीर्थावरोधे कायदशिकाभ्यांवेति व्य. वस्थितोविकल्पः । पित्र्यन्तु सदा निषिद्धं "न पित्र्येण कदाचने"ति निषेधादि. त्याचारादर्शादयः । पित्र्येण तजन्यङ्गुष्ठमध्येन । तान्येतानि तीर्थानि-. 'कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य तु । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥" इति याज्ञवल्क्योक्तान्यवगन्तव्यानि ॥ १७ ॥ न सशब्दम् ॥ १८॥ शब्देन सह यथा भवति तथा नाचामेत् । क्रियाविशेषणमेतत् । "क्रिया- विशेषणानाकर्मत्वं नपुंसकत्वञ्चे-"त्यनुशासनप्रसिद्धयाऽत्र द्वितीयान्तमे- तत्पदम् ॥ १८॥ Naton । (१) पामरास्तु-अङ्गुलोभिर्मुदादिना दन्तान्प्रक्षाल्याचामन्ति तेऽप्यनेन निराकृता वैदितव्याः पृथगपि ( दन्तधावनप्रकरणे ) निषिद्धं तदन्यत्रेत्यवगन्तव्यम् । (२) तथाचात्राप्राशस्त्यार्थे नज बोध्यः । "अपशवोऽन्ये गोऽभ्या' इत्यत्र यथा । (३) को ब्रह्मा देवताऽस्येत्यर्थेऽण । "कस्येत्" (पा० ४।२।२५) इति-अस्येत्वे वृद्धिरायादेशश्च ॥ - काण्डका मानसून-- , नाम क्षितम् ॥ १६ ॥ अनवेक्षित-टचा अमृतम् । हस्तहीन मुहमाननवेदोन थपालब्धं दृश्य- केशकीटादिसहितं नोपस्पशन् । “नावविनाणि शुद्धिरता मनीषिभिः ।" इति स्मरणादानावेप नियमोन । कि त (स) बसपूतन्तदपेक्षितमिति द्रव्यम् ॥ १५॥ नवाबादसा ।। १२ । बाह्यौ जानुभयो बाहे कृतावनी कुन्टो (१) यस्य तथासूत: गुल्म लोगस्पृशन् । "अन्तवाररती कृत्वा त्रिपाहादी: (क) पदनिहारी ततिदर्शनात् ॥२०॥ नान्तरीयैकदेशस्य कल्पावितलोतरीयताम् ॥ २१ ॥ अधः परिधानवस्त्रमन्तीमयुच्यते तदेकदेशस्य तदव पवस्य ! उत्तरीयता- कल्पयित्वा। एकवासा इत्यर्थः । याजुपान्तु, तद्विधारते । (पा० २।६।२२) २१ नोष्णाभिः ।। २२ ॥ उष्णाभिर्वहितप्ताभिरभिन पुनर्घातत्राभिरतीत्यर्थः । भट्टभाष्येतु-अ. स्यापवादकवचनमुपन्यस्तम "उदगातुराणाञ्च तथोष्णेनोष्णपायिनाम्" इति२२ न सफेनाभिः ॥ २३ ॥ अद्भिरेव ॥ २३ ॥ न च सोपानकः कचित् ।। २४ ॥ चशब्दोऽप्यर्थोभिन्नक्रमश्च । उपानही प्रसिद्ध ताभ्यां सहित: सोपानकः : क्वचिच कचिदपि कस्याञ्चिदप्यवस्थायालागस्पृशेत् । देवल:- "सोपानकोजलस्थोवा मुक्तकेशाऽपि वा द्विजः । उष्णीपी वापि नाचामेद्वलोणाऽऽवेष्टय वा शिरः ॥” इति । अत्र विशेषोगोभिलीये- "जानुभ्यामूर्ध्वमाचस्य जले तिष्ठन्न दुष्यतीत्युक्तम् । सोपानत्क इत्युपलक्षणम् । पादुकास्थोऽपि नाचामेत् । तथाच मरीचि:- "न बहिर्जानु न त्वरया नासनस्थोन चोत्थितः । न पादुकास्थानान्यचित्तः शुचिः प्रयतमानसः ।। उपस्पृशेद्विजोनित्यं शुद्धः पूतोभवेन्नरः । मुक्त्वाऽऽसनस्थाऽप्याचामेन्नान्यकाले कदाचन ॥” इति ।। २४ ।। कासक्तिकः ॥ २५॥ नोपस्पृशदित्यनुवर्तते । के शिरसि-आसक्तिका-आवेष्टिका (वस्त्रबन्धन) (१) तत्प्रधानो बाहू इति तदर्थः । (२) हृदूगाः। एतच्च विप्रविषयम् । “हृद्राभिः पूयते विप्रः" इत्याद्यनुपर्द (२९ सूत्रे) व्यको भविष्यति ॥ HIMAN Rob आचमनविधिः। [प्रपाठके कृता येन सोऽयं कामक्तिकः । कृतशिरोवेष्टन: । उपलक्षणमेतत् । बद्धपरिकरः कञ्चुकीचैवमुच्यत इत्यन्ये ॥ २५ ॥ एवम्- गले बद्धः ॥२६॥ गलावलम्वितवासाः । प्रावृतोत्तरासङ्गः । नोपस्पृशेत् ॥ २६ ॥ चरणौ न प्रसार्यच ॥ २७॥ उपस्पृशदित्यनुवर्तते । चरणौ-पादौ । प्रसार्य-वितत्य । चशब्द:--"प्रा. सनारूढचरणोनाचामन्न जपेत्वचित्” इति स्मृत्यन्तरोक्तं समुच्चिनोति ।। २७ ॥ अन्ततः प्रत्युपस्पृश्य शुचिर्भवति ॥ २८ ॥ अन्ततः । अन्ते । सावविभक्तिकस्तसिः । (पा० ५।४।४४ वा०) आर. ब्धवैधकर्मणाम् अनुपदवक्ष्यमाणशयनादीनाच्चान्तेऽवसाने प्रत्युपस्पृश्य- पुनराचम्य शुचिः शुद्धोभवति । अत्र “सावधारणं सर्व वाक्यमब्भक्षोवायु- भक्ष" इति वदुपस्पृश्यैव शुचिर्भवति नान्यथेत्यर्थः । अत्र प्रत्युपस्पृश्येत्यस्य स्पृष्टवोदकम्पाणिनेति भट्टभाष्यसम्मतोऽर्थः । सचायं जलस्पर्शः पूर्व[८]सूत्र- व्याख्याने स्पष्टमभिहितः। अन्येत्वाहुः-अन्ततोमध्यत इन्द्रियायतनानि उपस्पृश्य(१) शुचिर्भवति न पार्श्वत इति ।। २८ ।। हृदयस्पृशस्त्वेवापआचामेत् ॥ २६ ॥ हृदयस्य स्पृशः(२) । किबन्तमेतत्पदम् । अपः । ब्राह्मणविषयमेतत्(३)। wwwb (१) उपस्पयित्वा । “जलेनेति शेषः । अत्राचमनविध्यनन्तरं देवल:- "रतोमूत्रशकृन्मोक्षे भोजनेऽध्वपरिश्रमे । शौचमेवं विधम्प्रोक्तमीपञ्चान्यत्र वर्तते " इति । एवं विधं-यथोक्तसकलाङ्गसम्पन्नम् । ईषत्-आचमनमानमपि । इन्द्रियरूपादिर. हितम् । त्वरादिवशादन्यत्र शुद्धये भवतीत्यर्थ इत्याचारचिन्तामणौ वाचस्पतिमिश्राः प्राहुः। अन्यत्रेत्युक्तिधकर्मव्यतिरिक्तविषया । तत्र विशिष्य तद्विधानात्। अत्र (आचमने ) प्रौढपादत्वं निषेधति कात्यायन:-"स्नानमाचमनं होम भोजनं देवता- चनम् । प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् ॥ तल्लक्षणं यथा-- "आसनारूढपादस्तु जानुनोर्जयोस्तथा । कृतावसक्थिकोयस्तु प्रौढपादः स उच्यते ॥ इति । आसनारूढपाद आसनारूढपादतलः । जानुनोर्जङ्घयोः कृतावसक्थिकः, कृतजानुज. वाबन्धः । तुद्वयेन भेदप्रतोतेः । अत्रचा-"नेकोद्वा दारुशिले भूमिसमे । इष्टकाश्च सड़ी- र्णीभूता" इति बौधायनवचनात्तथाविधपादोऽपि तत्र कुर्यात् । इति बोध्यम् ॥ (२) षष्ठी समासः । यत्तु हृदयं स्पृशन्तीति विजग्राह कश्चितन्न तथासति "कर्म- ग्यण" (पा० ३।२१) इत्यगोपधागुणे हृदयस्पर्शीरिति प्रसज्येत ।। (३) महभाध्ये तु हृदयस्पृश एव यथा भवन्ति तथाचामेन्नान्यथेति । तथा च त्रिः SCHEMISLED कण्डिका ] मोमिलगृह्यसूत्रे- यद्वा चार्थेतु शब्दो- "हृद्भाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शूद्र' स्पृष्टाभिरन्ततः ।। इति मनूक्तं समुचिनोति । प्राशिताभिरन्तरास्यप्रविष्टाभिः कण्ठमप्रा- ताभिरपि । शूद्रस्तु जिह्वोष्ठान्तेनापि स्पृष्टाभिरद्भिः पूतोभवति । अन्तत इति तृतीयान्तात्तसिः । (पा० ५।४।४४ वा०)।। २९ ।। उच्छिष्टोहैवातोऽन्यथा भवति ॥ ३० ॥ हेत्यैतिह्याख्यापकमव्ययम् । अतोऽस्माद्यथोक्ताचमनादन्यथाऽन्येन प्रका- रेण कृताचमनोऽपि उच्छिष्टएवमवतीतिवृद्धराम्नायते । इतिर्ब्राह्मणवाक्यस. माप्तिं द्योतयति ।। ३० ।। अथ प्रत्युपस्पर्शनानि ॥ ३१ ॥ अथ-उपस्पर्शनकथनानन्तरं प्रति-पुनरुपस्पृश्यन्ते येषु ( निमित्तेषु ) तानि प्रत्युपस्पर्शनानि । द्विराचमाननिमित्तानि “वक्ष्यन्ते” इति शेष:(१) ।। ३२ ।। सुप्त्वा, भुक्त्वा, क्षुत्वा, स्नात्वा, पीत्वा विपरिधायच, रथ्या- माक्रम्य, श्मशानञ्चान्ततः पुनराचामेत् ॥ ३२ ॥ इति गोभिलीये गृह्यसूत्रे प्रथमप्रपाठकस्य द्वितीया कण्डिका ॥१॥२॥ सुप्त्वा-निद्रामासेव्य । भुक्त्वा-अन्नादि भक्षयित्वा। जुत्त्वा-क्षुतं कृत्वा । स्नात्वा-आप्लुत्य । पीत्वा-पेयमुदकादि । विपरिधाय वास' । चः समुच्चये- "होमे भोजनकाले च सन्ध्ययोरुभयोरपि । आचान्तः पुनराचामेद्वासोविपरिधाय च ॥" इत्येवमादि स्मृत्यन्तरोक्तनिमित्तान्तरं समुच्चिनोति । रथ्या-प्रतोली-वि- शिखेति समानाऽभिधानम् । तामाक्रम्य श्मशानं (२) चकारादाक्रम्येत्यनुषज्यते । A प्राशिता आपोयदि हृदयङ्गमा न भवन्ति तदा चतुः प्राशयेत् । तथाच गौतमः-"त्रिश्च- तुर्वाऽपआचामेदिति । तुशब्दात्क्षत्रियस्तु कण्ठगाभिरेव शुधेत । वैश्योभक्षितमात्राभि- रेव । शूद्रोमुखप्रविष्टाभिरेवेत्युक्तम् ॥ (१) एतान्येव प्रत्युपस्पर्शनपदाऽभिधेयानि पुनराचमननिमितान्यष्टौ सांख्यातानी. ति सत्यव्रतसामश्रमिणः ॥ (२) शवानी शयनम् । इति चन्द्रकान्तः । निरुक्त तु श्मशयनं वमशानम् । श्मश. रीरम्" (३।५।३) इति । तच्चशवस्यैव । तथाचोक्तं स्कान्दे काशीखण्डे---"मशब्देनशवः प्रोक्तः शानं शयनमुच्यते । निर्वचन्ति श्मशानार्थ मुने शब्दार्थकोविदाः" इति । (अ० ३० श्लो० १०३)।
३२ आचमनविधिः। [१ प्रपाठके- आचान्तः कृताचमनोऽपि पुनराचामेत् । तथाच (१)द्विराचमनेषु निमित्तेषु कर्तव्यमन्यन्त्र कर्मकालान् । तथाच पराशर:- "शुदे निछीविते जुटे परिधानेऽनुपातने । कर्मस्थ एएनाचाने दक्षिणं श्रवणं स्पृशत्()" | इति । निष्टीविते-नुखेन कठिनश्लेप्नत्यागे! नासानिस्सृते कठिनश्लेष्मणि च । पतितानाञ्चसम्भापेऽधोवायुसनुस्खागऽनृतभाषणे । एवमन्येवाणिनिमित्तेषु स. . कम्र्मस्थोऽसमर्थः सार्थोऽपि नावानेत् किन्तु-दक्षिणं इति स्मृतिदीपिकाया महामहो वासदेवोपाध्यायाः। तथा च वृद्धशातातप:- 'वातकर्मणि निष्टीव्य दन्ताश्लिष्ट तथाऽनृते । चुतं पतितलम्भाषे दक्षिणं श्रवणं स्परोत् ॥” इति ।। ३२ ॥ ( इति सर्ववर्णसाधारणप्रकरणम ) इति श्रीमद्भगोभिलीयगृह्यसूत्रव्याख्यायां "मृदुलायायां मुकुन्दशर्मसङ्कलिता- पाम्प्रथमप्रपाठकस्य द्वितीया कण्डिका ॥१॥२॥ * ॥ कर्णमेव स्पृशेत् । (1) द्विराचमनानन्तरं-विष्णुस्मरणमाह-आचारचिन्तामणितं ब्रह्मपुराणम्- "द्विराचम्य ततः शुद्धः स्मृत्वा विष्णु सनातनम्" इति । (२) एतच्च विप्रसदैव । "विप्रस्य दक्षिणे कर्णे सर्वास्तिष्ठन्ति देवताः" इति परा- शरवचनात् । विप्रान्यस्तु-भूपृष्ठादिस्पशेनमनुकल्पान्तरं कुर्यात् । तथा च वामदेवोपा. ध्यायकृतस्मृतिदीपिकाश्त-मार्कण्डेयपुराणम् । "कुर्थादाचम रूपर्श गोष्टरूयार्कदर्शनम् । कुर्वीताऽऽलस्मनञ्चापि दक्षिणश्रवणस्य च ॥ यथाविभवतोहोतत्पूर्वाभावे ततःपरम् । न विद्यमाने पूर्वस्मिन्नुत्तरप्राप्तिरिष्यते ॥” इति ॥ गोपृष्ठस्य-भूतलस्य । “गौरिला कुम्भिनी क्षमा" इति भूमिपर्यायेऽमराभिधानात् । उपक्रान्तवचने एध्वित्युक्त्या एकदेशानुमत्या तुल्ययुक्त्या चान्यन्नाप्येतत्कर्मस्थस्यानु जानाति । भूतलम्गदमित्याचारदीपिकाकाराः । “आन्तृणम्भूमिङ्गोमयञ्चोपस्पृशेत" इति बौधायनस्सरणाद् । आचमननिमित्तानि विशेषतोनित्यकृत्यार्णवे द्रष्टव्यानि । तत्र कम्मस्थस्य रौद्रादिमन्त्रजपादौ-आचमनमाह-योगियाज्ञवल्क्य:- "रौद्रपन्नासुरान्मन्त्रांस्तथा चैवाऽभिचारिकान् । व्याहत्यालभ्य चात्मानमपःस्पृष्ट्वाऽन्यदाचरेत् ॥" अत्मानमालभ्य हृदय स्पृष्ट्वा । स्वं स्तुत्वा वा । अपास्पृश्या-आचम्येत्याचारचि- ,न्तामण्यादयः । एतेनात्मस्तुतिरात्मवधतुल्येति महाभारतोक्तं समर्थितम्भवति । अप्रा. यत्यस्मरणात्॥ Some कण्डिका १] गोभिलगृहासूत्रे ( अथनित्वहोमप्रकरणम् ) उक्तौ सायस्प्रातहासकालौ । उक्ता च सर्वकर्मसाधारणी परिभाषा। सा. म्प्रतं पूर्वप्रकृतस्य होमकाण इतिकर्तव्यतामभिवत्ते---- अग्निमुपसमाधाय परिसमुख दक्षिणजान्वकोदक्षिणेनानि"म- दितेऽअनुमन्यस्वे"त्युदकालिम्पसिञ्चेत् ॥ १॥ प्रादुष्कृतमग्निमुपसमीपे होमकालस्य । यद्वाऽऽत्मनः । समाधाय इन्धनेन सम्य- गाधाय । यद्वा सम्मुखमाधाय स्थापयित्वा(१) परि-सर्वतोभावन-समुह्य-नि- षिद्धतरशुष्कन्धनानि अमन्त्रमग्नौ(३) प्रक्षिप्य(३)दक्षिणजान्वक्त:-दक्षिणं जा. (१) अनार्थे प्रज्वालनं, स्थापनकायस्य तद्विनाऽनिष्पत्त्याऽर्थायातमेव । यथा घटमानय जलमारिष्य इत्युक्तौ निश्छिन्द्रत्वादिगुणयोगोऽनुत्तोऽपि जलाहरणाऽन्यथा- ऽनुपपत्त्याऽभ्यूयते तद्वत् । (२) एतेन “इमस्तोममि-त्यादिमन्त्रकरणकमुपसमूहनमन नास्तीत्यावेद्यते । क्षि. प्रहोमत्वादस्य । यथाह कर्मप्रदीपे कात्यायन:- "न कुर्यात्क्षिप्रहोमेपु द्विजः परिसमूहनम् । वैरूपाक्षं न च जपेत्प्रपदञ्च विवर्जयेत् ॥ इति । लमिदादिषु होमेषु मन्त्रदैवतवजिता पुरस्ताच्चोपरिष्टाच इन्धनार्था समिद्भवेत् ॥ इति च । क्षिप्रं हूयन्ते ये ते शिप्रहोमाः । सायं प्रात:मादय उच्यन्ते । वैरूपाक्ष-विरूपाक्ष. शब्दोयस्मिन्नस्ति तम् । मत्वर्थीयाच्प्रत्ययान्तात्स्वार्थेऽण ( पा० ५।४।३८) "भूर्भुवः. स्वरोंमहान्तमात्मानम्प्रपद्ये" इत्यादिकम् । प्रपदन्तु-"तपश्च तेजश्चेत्यादि-"मामव- नित्वात्यन्तन् । तदेतदुपरिष्टाध्यक्तीभविष्यति । (४।५।६) एवं स्तरणमप्यत्र न कर्त व्यम् । इतःपर स्तरणान्नानात् । तदप्याह कमप्र कात्यायन: "यान्यधास्तरणानानात्र तेषु स्तरां भवेत् । एककार्यार्थसाध्यत्वात्परिधीनपि वर्जयेत् ॥ इति । ब्रह्मस्थापनमपि नास्त्येव । क्षिप्रहोमत्वादेव । अतएवगृह्मान्तरम् । "एकसाध्येष्ववहिप्पुनस्यात्परिसमूहनम् । नोदगासादनञ्चैव क्षिाहोमा हि ते स्मृताः ॥ इति । न्यञ्चकरणन्तु-"इदम्भूमेर्भजामहे” इति कर्तुमुचितम् । “पूर्वेपु चैके” (४।१।२) इति तस्य पक्षप्रासत्वात् । तत्स्वरूपन्तु- "दक्षिणं वामतोबाटमात्माभिमुखमेव च । करं करस्य कुर्वीत करणे न्यज्ञकर्मण" ॥ इति कर्मप्रदीप उक्तम् । नखल्वेतत्प्रतिपिध्यतेऽपि। तथाच पक्षप्रातस्यानिषिद्धस्या. स्य करणेऽभ्युदयोऽकरणे दोपाभाव इत्यवगन्तव्यम् । भट्टभाष्येऽप्येवमेवाऽमन्त्रक परि. समूहनमुक्तम् । ३) तथाचाहुः स्वपद्धतौ महामहत्तक बीरेश्वरादयः-"परिसमूहनं च शुष्कनिषि- तिरेन्धनस्यामौ प्रक्षेप इति । समिदाधान दें सम्प्रोक्ष्य कार्यमित्याहापस्तम्बा 'त. स्पोक्षितमिन्धनमन्नावादध्यादिति । ५ गो० गृ० सू० आचमनविधिः। [१ प्रपाठके- । L नु-अक्तं भूमिगतं यस्य स । “अजव्यक्तिम्रक्षणकान्तिगतिषु" (रु०प०) इत्यस्माद् "गत्यर्थाकर्मके"-(पा० ३।४१७२) त्यादिना कर्तरि क्तः । कुत्वं, भूगतदक्षिणजानुः । दक्षिणेनाग्निम् । दक्षिणस्यामदूरवर्तिन्यां दिश्यग्नेः । अत्र "एनबन्यतरस्यामदूरेऽपञ्चम्या" (पा० ५।३।३५) इति विहितेनबन्तयोगे"एनपा द्वितीया" (पा० २।३।३१) इति द्वितीया षष्ठ्यर्थे । "उपपदविभक्तित्वात् । “उप. पदविभक्तीनां सम्बन्धोऽर्थः षष्ठ्यपवादत्वात् । "उत्सर्गसमानदेशा ह्यपवादा भव- न्ती"ति महाभाष्योक्तेः । एवमग्रेऽपि यथायथमूह्यम् । “अदिते अनुमन्यस्व" इति अनेन मन्त्रेण करणभूतेन । तेन मन्त्रं पठित्वेत्यर्थः । “मन्त्रान्ते कादी. न्सन्निपातयेत्” (जैसू० १२॥३॥१२ ) इत्यधिकरणसिद्धान्तात् । मन्त्रार्थस्तु- हे अदिते ! देवि ! मामनुमन्यस्व अनुजानीहि । त्वयाऽनुमतः कर्मफलं लब्धास्मीति । एवमग्रेतनयोरपि । एताभिस्तिस्मृभिरनुमतः कर्म कुर्वाणस्तत्फ- लभाग्भवतीति आनायते । उदकाञ्जलिम्-उदकपूरितमञ्जलिम् । वस्तुतस्तु- अञ्चलावुकमिति सप्तमीसमासे "राजदन्तादित्वात्” ( पा० २।२।३१) उद- कस्य पूर्वनिपातः । अवच्छेदकत्वरूपविषयता सप्तम्यर्थः । “गृहीत्वाचाऽऽस्य- केशेष्वि"तिवत् । असल्यवच्छिन्नमुदकमिति तदर्थः । प्रसिञ्चत्-प्रा(१)गर्ग सिञ्चेत् ॥१॥ "अनुमतेऽअनुमन्यस्वे"तिपश्चात् ॥ २ ॥ पश्चात्-पश्चिमायां दिशि अग्नेः । उदकाञ्जलिं प्रसिञ्चेत् । इत्यनुवर्तते । उदगग्रमित्यर्थः ॥२॥ "सरवत्यनुमन्यस्वेत्युत्तरतः ॥ ३॥ उत्तरतः । उत्तरस्यान्दिशि । अग्नेः । उदकाञ्चलिं प्रसिञ्चत्पूर्वाग्रम् ॥ ३ ॥ "देवसवितः प्रसुवे"ति प्रदक्षिणमग्निम्पर्युक्षेत्सकृद्वा त्रिर्वा ॥ ४ ॥ "देवसवितःप्रसुवे"त्येवमादिना मन्त्रेण करणभूतेन । तथाच मन्त्रः “देव. सवितःप्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय । दिव्योगन्धर्वः केतपुः केतन्नः पुनातु वाचस्पतिर्वाचं नःस्वदतु !” इति । अस्याः-हेदेव ! सवितः ! यज्ञप्रसुव, क. तव्यतयाऽनुजानीहि । यज्ञपति-यजमानमाञ्च भगाय भजनीयाय कर्मफलाय प्रसुव कर्मभागिनं कुर्वित्यर्थः। दिव्यो-दिविभवोगन्धर्वः रसानां धारयिता। केतपूः प्रज्ञाप्रदः । (निघं० ३।९।१) स केतं प्रज्ञां नः पुनातु ! (२)निर्मलाङ्क- (१) अग्ने खलु दक्षिणस्यामदूरवर्तिन्यां दिशि अये प्रसेकः । पूर्वाभिमुखश्च कर्ता भवति । "प्राञ्च्युदनि वा कम्ाण्यनुतिष्ठेरनिति च ब्राह्मणम् । (२) अत्रैक एवादित्योगन्धर्वरूपेण प्राणरूपेण च स्तूयते । तत्र प्रथमं प्रत्यक्षकृतः । पश्चात्परोक्षकृत इत्येवं निगमवाक्यशैली बहुत्रोपलभ्यत इतिद्रष्टव्यम् ।
१ काण्डका गोभिलगृह्यसूत्रे-- रोतु । वाचरपतिः(१)प्राणः । नोऽस्माकं वाचं स्तुतिरूपां स्वदतु स्वादयतु । देव- ताप्रीतिकरीकरोतु । अन्तर्भावित एयर्थोऽत्र स्वदतिः । व्यत्यनेन पदस्यात्रोपन्य. स्तः । ( पा० ३।१.८५ ) इति । प्रदक्षिणं यथा भवति तथा अग्निं पर्युक्षेत् । परित उक्षेत् सिञ्चन् । “उक्षसेचने" (भ्वा० ५० ) विधौलिङ् । उदकाजलि. धारया प्रदक्षिणमग्निं वेष्टयेत् । इत्यर्थः । सकृद्वा त्रिवेति क्रियाविशेषणम् । वा. शब्दद्वयेन तुल्यवद्विकल्पेऽपि त्रिरावृत्तिपक्षे तद्विधेरननुष्ठानलक्षणाऽप्रामाण्यभि- या फलभूमा कल्पनीयः । अतएवाह कात्यायन: “यत्र स्यात्कृच्छ भूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्त्वं त्रुवते तत्र कृच्छाच्छेयोझवाप्यते” इति ॥ ४॥ पर्युक्षणप्रकारमाह- पर्युक्षणान्तान्व्यतिहरन्नभिपर्युक्षन् होमीयम् ॥ ५ ॥ अन्त-शब्दोऽत्राद्यर्थः । अग्निष्टोमे द्वितीयायाधुरि "तस्यान्तेऽक्षरेसल्लँग्ने" इत्यत्र तदर्थकत्वदशनादिति शुभकर्मनिर्णये मुरारिमिश्राः प्राहुः । भाष्यान्तरेऽ- प्येवमेव । व्यतिहरन्-व्यतिषजन्प्रतिलोमीकुर्वन् । बहुवचनश्रुतिस्त्रिवतिपक्षा. भिप्राया। तदयमर्थः । पर्युक्षणानाम्पर्युक्षणोदकधाराणा(२)मन्तान् आरम्भान् व्यतिहरन्नभ्यन्तरतः कुर्वन् । इति । अनेनैतदुक्तम्भवति-पर्युक्षणारम्भकोटि- मभ्यन्तरतोऽवसानकोटिञ्च बहिः कुर्यादिति । वीरेश्वरादयोऽप्येवमेवाहुः । हो. मीयम्-होमार्थमुपक्लृप्तं ब्रीह्यादि । तस्मै हितमित्यर्थे-"विभापा हविरपूपादिभ्यः" पा० ५।१४) इतिछस्तस्येयादेशः । (पा० ७१।१) अभिपर्युक्षन-पर्युक्षण- धारयाऽभ्यन्तरतः कुवन इत्यर्थः । यद्वाऽाभिमुख्येन सिञ्चन्स्पर्शयन्पयुक्षेद- ग्निम् इति सम्बध्यते ॥ ५॥ अथहविष्यस्यान्नस्याग्नौ जुहुयात्कृतस्यवाऽकृतस्यवा ॥६॥ अथ-इत्यानन्तर्याविशिष्टमानन्तर्यमभिद्योतयति-पर्युक्ष्य तूष्णी समिध- माधायाथजुहुयात इति चन्द्रकान्तभाष्यम् । तेन हि प्रथमसूत्रे परिसमुह्येत्यस्य विक्षिप्तानग्न्यवयवानकीकृत्यामन्त्रकमितिव्याख्यातम् । तदेतदननुमतं पूर्वषाम् । यच्चोद्धृतन्तेन- "समिदादिषु होमेषु मन्त्रदैवतवर्जिता । पुरस्ताच्चोपरिष्टाञ्च इन्धनार्था समिद्भवेत्" । इति कर्मप्रदीपवचनं तदपि पूर्वार्थापरिज्ञानविजम्भितमितिनकिञ्चिदेतत् । हविष्यस्य-हविषि होतव्ये वस्तुनि साधोः “तत्र साधुः" (पा०४।४।९८) इति (१) तथाच "पुनरेहि वाचस्पते" ( ऋ० सं० १०६।१३।७) इतिमन्त्रे वाचस्पति. पदेन प्राण एव संबोधितः सायणाचार्यदुर्गाचार्यादिमिः । (४) तथाचात्रोक्षतेः करणे ल्युटि योरनादेशाइत्यवगन्तव्यम् । WRITRA आचमनविधिः। [प्रपाठके १ साध्वथें यत्प्रत्ययः । "हविः सर्पिषि होतव्ये" इति हैमः। अन्नस्य-अदनीयस्य मायकोद्रवादि(निषिद्ध)(१)भिन्नस्य यवादेः । अवयवलक्षणाऽत्र षष्ठी। तेनाऽव: शेषोऽप्यस्योक्तोभवति । तथा चनिर्वापप्रमाणे कात्यायन:- "यावता होमनिष्पत्तिर्भवेद्या यत्र कीर्तिता। शेषञ्चैव भवेत्किञ्चित्तावन्तं निर्वपेच्चरुम्” ॥ इति । अग्नौ-सुसमिद्धे(२) वह्नौ । जुहुयात् । हविष्याण्याह बृहस्पतिः-- "हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः । कलायकङ्कुनीवारा वास्तू कं हिलमाचिका ॥१॥ पष्टिका कालशाकञ्च मूलकङ्के(३)मुकेतरत् । कन्दं, (४)सैन्धवलामुद्रे गव्ये च दधिसर्पिषी ॥२॥ (१) तथाच च्छन्दोगपरिशिष्टम्- "हविष्येषु यवा मुख्यास्तदनु नीयास्मृताः । माषकोदवगौरादीन्सर्वालाभेऽपिवर्जयेत् ॥ इति । गौरो-गौरसर्षपः । आदिना कुलत्थमसूरादिपरिग्रहः । (२) तदेतदुक्तप्रायमपि प्रतिविशिष्टज्ञापनायाग्निपदोपादानमवगमयति । तदुक्त कम्मैप्रदीप कात्यायनेन- "योऽनर्चिपि जुहोत्यग्नौ व्यङ्गारिणि च मानवः । मन्दाग्निरामयावी च दरिद्रश्चैव जायते ॥ तस्मात्समिद्धे होतव्यं नासमिद्धे कदाचन । आरोग्यमिच्छताऽऽयुश्च श्रियमात्यन्तिकीन्तथा ॥ इति । आत्यन्तिकी-पुत्रपौत्रानुवतिनीम् । समिन्धनञ्चाग्नेयंजनादिना कार्य, मुखेनैव वेत्ये. के । तदप्याह स एव- "जुहुषश्च हुते चैत्र पाणिशूर्पस्फ्यदारुभिः । न कुर्यादग्निधमनं कुर्याद्वा व्यजनादिना ॥ मुखेनेके धमन्यग्नि मुखादेषोऽध्यजायत । नाभिं मुखेनेति च यल्लौकिके योजयन्ति तत् ॥ इति । जुहूषनू-होतुमिच्छन् । हुते वा पाण्यादिना वहिसन्दीपनं न कुयात् । किन्तु व्यजनादिनैव कुर्यादिति पूर्ववचनार्थः । कुर्याचेति चकारोऽवधारणे । इत्थंहि स्वमतमभि- धाय मतान्तरमुपन्यस्यति-मुखेनैक इति। "मुखादग्निरजायते”-ति श्रुतेरग्नेर्मुखप्रभवत्वा. न्मुखेनैव दीपनम् । औचित्यात् । "नामि मुखेनोपधमेदिति श्रुतेरसंस्कृताग्निविषय. वेन योजनादित्यर्थः । इदञ्च न स्वसतम् । “कुर्याञ्चव्यजनादिनेति सिद्धान्तिते आका- वानिवृत्तौ मुखेनेति पुनरभिधानायोगात् । (३) कचित्कन्दं वै केमुकेतरत" इतिपाठः । आचारचिन्तामणौ "केचुकेतरत" इतिपठितम् । तत्र केचुकं "क्रनु" इति मिथिलाभाषायां प्रसिद्धम् । (४) "लवणे सैन्धवसामुद्रे" इति स्मृतिसुधाकरतः पाठः । सामुद्रम्-समुद्रीति प्रसिद्धम् । पुरुषोत्तमक्षेत्रादौ "खरलेति प्रसिद्धम् । । । - कण्डिका ] गाभिलगृह्मसूत्रे- पयोऽनुद्धृतसारञ्च पनसानहरीतकी । पिप्पली जीरकचैव नागरनाञ्च ति-ितळी ।। ३ ।। कदली लवली धात्री फलान्य,-गुडमैक्षवम । अतैलपकं मुनयोहविष्यान्नं प्रचक्षते" ।। ४ ।। इति । हैमन्तिकम्-वार्षिक(१)धान्यव्यतिरिक्तम । सितपदेन श्यामतुष-श्यामत- ण्डुलयोनिवृत्तिः । अस्विन्नपदेन स्विन(२)निवृत्तिः । कलायपदेन बत्तुलोग्रा- ह्यः । "कलायस्त्रिपुटोज्ञेयः" इति वैद्यशास्त्रोक्तस्तु "कलायश्चातिवातुलः” इति प्रकरणीयः "क्षेत्रशाली"पदप्रतिपाद्याऽग्राह्य एवात्र(३) । अत्रा--"तिवर्तुल" इत्यपि पाठः कचित् । कगुः कङ्कुणिकः(४)। नीवारो-जलधान्यविशेषः । वास्तूकं-लम्बपत्रम् । क्षारवास्तूकस्य निषिद्धत्वात् । हिलमोचिका-"हहाँच" ( सोची) । साँची इति नाम्ना तत्र २ (देशविशेषेषु) प्रसिद्धः । जलप्रभव- स्तिक्तशाकविशेष इति स्मृतिसुधाकरकारः । षष्टिका-शारदधान्यविशेषः । “स. ट्ठी"ति प्रसिद्धः । अत्राप्यस्विन्नेति विशेषणीयम् । कालशाक:-कालत्वेन पर्व- तप्रसिद्धः । ईपच्छयामपनशाकविशेषः । केमुकम् "किउआ" "केचुआँ" इति वा प्रसिद्धः कन्दविशेपस्तदितरत्कन्दं (५)शूरणादीत्यर्थः । पयोऽपि गव्य- मेव दधिसन्निधानात् । तिन्तिळी चिञ्चेति आग्नेयकोशे। "अविली"ति मध्यदे- शे। "तेतरि" इति मिथिलायाम्प्रसिद्धा । लवलीस्थान दाडिमीति कचित्पाठः । लवलीति तु धात्रीसमानाकृति. पाण्डुवर्णफलविशेषः । “हर्का" इति मिथिला. यां प्रसिद्धा । धात्री-आमलकी । अगुडमित्यैक्षवविशेषणम् । तथाचेक्षुरस इत्यर्थः । अन्येतु-अगुडपदेनेझुविकारसितशर्करादिपरिग्रह इत्याहुस्तदसत् अ- गुडपदेन तद्विकारस्यापि निषेधप्राप्तेः । अन्यथा गुडस्याप्यपराधाभावात् । गु- डापेक्षया सितशर्करादौ प्राणिमरणाधिक्यात् । अवैलपक्वमिति तैलपाकनिषे. धः । तेनाऽपकं घृतपक्कं वा हविष्यमुक्तद्रव्यम् । अन्येत्याहुः-अतैलपक्कमि युक्तद्रव्यस्यैव निशेषणम् । तेन हविष्यमपि यदा तैलेन पच्यते तदा न हविष्यमिति ॥ इदमुपलक्षणं निषिद्धेतरत्स्वयमरण्यसम्भवम्पुष्पमूलफलशाका- दिकं सर्व हविष्यम् । “शाकेषु मुख्या खल काकमाची"ति वामनपुराणादिति (१) वाषिकं वर्षत्प्रभवम् । तत्र"त्र्यतुः सव्वत्सरः” इति मतेन श्रावणादिमासच. तुष्टयं वर्षर्तुः। (२) हरिद्रागोरसन्धान्यमित्यादिवचनेन दिनान्तरेण स्विन्नधान्य पुनः पाकेन शु. भुक्त्वाऽपि न दोष इति स्मृतिसुधाकरकारादयः ॥ (३) हविष्यप्रकरणेय । अयं च मिथिलायां "खेसाड़ी" वदेन प्रसिद्धः ॥ (४) "कडुनीति गौडभाषायाम् । “काउनि" इति तु मिथिलायां प्रसिद्धः ॥ (५) "जिमीकन्द" इति पश्चिमोत्तरे। “ओल" इति मिथिलायां प्रसिद्धः । “अ. शोधः शूरणः कन्दम" इत्यमरः ।
३८ प्राचमनविधिः। [प्रपाठक Suma - स्मृतिदीपिकाया: वामदेवोपाध्यायाः प्राहुः। अयश्च होमः पाणिनैव कार्यः । तथा च कर्मप्रदीप.- "होमपात्रमनादेशे प्रवद्रव्ये खुवः स्मृतः । पाणिरेवेतरस्मिंस्तु खुचा चात्र न हूयते ॥” इति ।। आहुतिप्रमाणमपि तत्रैव--(क० प्र०) "पाण्याहुतिर्दादशपर्वपूरिका कंसादिना चेत्सवमात्रपरिका । देवेन तीयेन च हूयते हविर्व्यङ्गारिणि स्वर्चिषि तच्च पावके ॥ इति । अत्रापि विशेषः स्मर्यते- "उत्तानेनैव हस्तेन अङ्गुष्ठाग्रेण पीडितम् । संहताङ्गुलिपाणिस्तु वाग्यतोजुहुयाद्धविः ॥” इति । अन्नस्येति विशिष्टिकृतस्य-ओदनादेः । अकृतस्य ब्रीह्यादेर्वा, तदाह कात्यायन:- "कृतमोदनसत्कादि तण्डुलादि कृदाकृतम् । त्रीह्यादि चाकृतम्प्रोक्तमितिहव्यं त्रिधामतम् ॥” इति । व्याख्यातौ वा शब्दौ । प्रतिनिधिरपि यथोक्तवस्त्वलाभे कात्यायनोक्त उक्तः प्राक् । (१२१२२३)॥६॥ अकृतश्चेत्यक्षाल्य जुहुयात्मोदकं कृत्वा ॥७॥ अकृतं-ब्रीह्यादि चेज्जुयातर्हि पूर्वमेव (१)तत् प्रक्षाल्य "त्रिदेवेभ्यः (२)प्र. क्षालयेत्” ( १७१५) इति दर्शनाद्देवार्थत्वाच्चास्य "वारत्रयमि"ति शेषः । प्रो- दक-प्रगतोदकम् । “प्रादिभ्योधातुजस्य वाच्यो वा चोत्तरपदलोपः" (पा० २। २॥२४ वा०) इति बहुव्रीहौ गतपदलोपः । शुष्कञ्च कृत्वा जुहुयात् ॥ ७ ॥ अथ यदि दधि पयोयवाणू वा कंसेन(३) वा चरुस्थाल्या वा वेण वैवा ॥८॥ अथ-व्रीहियवयोरलाभे यदि दधि पर्यायवागू (४)जुहुयात्तदा केन ? (१) होमदिनात्पूर्वदिन एव तथाभृतं सम्पाद्य शुचो भाजने स्थापयेत्। होमस. मये तत एवोद्धृत्योश्त्य शुष्कन्तज्जुहुयात् । सद्यः प्रक्षालने प्रगतोदकेनापिवरपचयस- म्भवादिति भावः। (२) अत्र प्रक्षालनं दानस्याप्युपलक्षणम्मत्वा पुष्पापि त्रिवेभ्योऽर्पयन्ति । तत्र कृच्छ्रभूयस्त्वेन फलभूमैव (१३) ) उक्तकातीयवचनादवकल्पते। अन्येतु निःप्रक्षा. लितस्य कृतप्रायत्वं मन्यन्ते। मनुष्येभ्योऽपि द्विानन्दध्यादेराजानिकशिष्टाचारानुगतं दृश्यत इति ॥ वस्तुतस्तु "निष्कृतमथेन्देवामन्यते इति शतपथश्रुतिरेवत्रिः पुष्पादिदाने मूलमिति द्रष्टव्यम् ॥ (३) मद्भाध्येऽबेन सुत्रद्वयं कृतम् । (४) यवागूभृष्टयवचूर्ण दुग्धपकम् ॥
INORILA AND Murasana १ कण्डिका गोभिलगृह्यसूत्रे- तत्राह-कंसेन। कांस्य(१)मयभाजनविशेषेण । चरुस्थाल्या चयंत्रस्थाप्यते सा चरुस्थाली तया- "तिर्यगूज़ समिन्मात्री दृढा नातिबृहन्मुखी। मृन्मय्यौदुम्बरी वापि चरुस्थाली प्रशस्यते ।। इति कर्मप्रदीपोक्तलक्षणा । तिर्यगिति । विशालतोन्चैस्त्वाभ्यां प्रादेशप्र- माणा "प्रादेशमात्राः समिध” इत्यन्यत्राम्नानात् । मृन्मयी-मृदा निम्मिता। हस्तघटिता । न तु कुलालचक्रनिर्मितेत्या प्याह-स एव -- "कुलालचक्रघटितमासुरं मृन्मयम्भवेत् । तदेव हस्तघटितं स्थाल्यादि खलु दैवतम् ॥” इति ॥ औटुम्बरी-ताम्रमयी । "औदुम्बरंभवेत्तानं फलादौ यज्ञशाखिनः" इत्य. जयः । स्रवेणवै वा । अत्र विषमशिष्ट(२)त्वादेवमवगम्यते-शक्त्यपेक्षयाऽत्र विकल्पो नत्वभिधानक्रमापेक्षयेति । स्रुवोनामाऽरत्निमात्रः खादिरादिर्यज्ञकाष्ठ- मयो होमपात्रमुच्यते । तथाच कर्मप्रदीपः- "खादिरोवाऽथ पार्णोवा द्विवितस्तिः सुवः स्मृतः । सुग्वाहुमात्री विज्ञेया वृत्तस्तु प्रग्रहस्तयोः ।। सुवाग्रे प्राणवत्खातं यङ्गुष्ठपरिमण्डलम् । त्रुचः शराववत्खातं सनिर्वाहं षडङ्गुलम ।। प्राक शस्तेषां कुशैः कार्यः सम्प्रमार्गोजुहूषता । प्रतापनञ्च लिप्तानां प्रक्षाल्योष्णेन वारिणा ॥” इति । पार्ण:- पालाशः । “पलाशः किंशुकः पर्ण"इत्यमरः । तस्येदमित्यर्थेत्राण । प्रगृह्यतेऽत्रेति प्रग्रहोदण्डः । स च तयोः वस्रुचोवृत्तोवर्तुलः कार्यः । वत्-नासास्रोतोवत् । तेन द्विपुष्करत्वमायाति । तथा चोक्तम्- "युवाने खननं कुर्यात्पङ्के मृगपदाकृति ।" इति । अत्र विशेषमाह-श्रीदेवभाष्ये-आपस्तम्बः- "वैकङ्कत्यग्निहोत्रह्वणी बाहुमात्री अरनिमात्री वा प्रसृताकृतिरि"ति । वैक- कृती-सुबावृक्ष-(गम्भारी-) सम्भवा । "वैकङ्कतः वावृक्षः” इत्यमरः ।। अ. ग्निहोत्रहवणी-जुक । सुवश्च । "आकुञ्चितपाण्याकृतिहस्ताकृतिः सुव" (१) व्रीहियवयोः पाण्याहुतेरुक्तत्वात् ॥ (२) सुवोयत्रोत्पत्तिशिष्टः । अन्यौ चोत्पन्न शिष्टौ । अयमर्थः। सुवेण वा जुहुयात् वै इति प्रसिद्धार्थकोनिपातः सुवस्यैवं विधेषु होमेषु प्रसिद्धिन्द्योतयति । कात्यायनोऽ. प्याह-"होमपात्रमनादेशे द्रवद्रव्ये स्नुवः स्मृतः" इति। तस्मात्सुवेणैवेति प्रथमः क. ल्पः । तदमावे कसेन वा चरुस्थाल्यावेति । अभावविकल्पोऽयं तुल्यबलः । दधिपय आ- दावपि पूर्वपूर्वाभावे उत्तरात्तरोविधीयत इति । ब्राण- आचमनविधिः। [१ प्रपाठक- । । RAN इति स्मृतिसुधाकरः(१) । सनिर्वाह-वृतनिर्गममार्गसहितमित्यर्थः प्राकशः मृलमारभ्य तदप्रदेशाभिमुखम् । तेषां-वादीनाम । संप्रमार्गः । सं. प्रमार्जनम् । जुहूपता-होतुमिच्छता । अत्र कातीयश्रौतसूत्रम्-"विपर्यस्य बहि. मृलेः" इति ! तथा च पद्धतिकृतोवीरेश्वरादयोलिखन्ति-सम्मार्जनकुशानाम- रन्तरतोसूलैर्वाह्यतः सवं संमृज्ये-"ति । लिप्तानां घृतादिलेपवताम् । उभयोः संस्कार असक्त स्त्रुव एवादौ संस्कार्य्यः । “स वै स्रुवमेवाने सम्माष्टर्यथेतरा त्रुचः" इति मुरारिमिश्रधृतशतपथश्रुतेः । प्रतापनञ्च सर्वेषां ( लिप्तानामलिप्ता- नाश्च ) उक्तं चैतत्कारिकायाम- "प्रतापयेत्ततोवह्नौ रक्षसां वारणाय च । वखाते च ये सन्ति पापिष्टाः पापयोनयः ।। वह्निप्रतापिताः सर्वे भस्मीभवन्ति तत्क्षणात् ॥” इति । अत एवाधोमुखस्य प्रतापनं निबन्धभिलिखितं, तथासति खाततापस्य सुकरत्वात् ।।८ ॥ अथ सामवेदिनां सायमारभ्यैवोपासनपरिचरणस्योक्तत्वात् (१।१।२३) तत्प्रकारन्तथैवाह- अग्नये स्वहेति पूर्वी, तूष्णीमेवोत्तराम् । मध्ये चैवाऽपराजितायाश्चैव दिशीति सायम् ।। ६ ।। पुर्वाम्-प्रथमामाहुतिं मध्य एवाग्नेर्जुहुयात् । इति प्रकृतमनुवर्तते । उत्तराम्-द्वितीयाम-च आहुतिं तूष्णीम-अमन्त्रकमेव । मनसा प्रजापतये स्वाहेति मन्त्रदेवते अनुसन्धाय अपराजितायामैशान्यां दिशि अग्नेर्जुर्हयात् । तथाच कात्यायन:- "आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ॥” इति । १ MALHAR (१) प्रकारान्तरं यथा-प्रहयागपद्धती. "खादिरन्तु सुवं निद्याच्चतुर्विंशाङ्गुलं बुधः । चतुर्थांशेन पाणिः स्यालावता कलशौ स्मृतौ ॥ सभूषणौ भागयुगे ग-डी कार्या सुवर्तुला । एकाङ्ग्लोऽत्र कण्ठः स्यात्ततस्त्र्यङ्गुलहानियुक् ॥ हस्तोनिकुडजाङ्गुलिकोमाध्यन्दिनकाराकृतिः । समीपाङ्गुलिसलग्नाश्चतस्रोऽङ्गुलयोऽन्तरे ॥ बहिः किञ्चिद्विभिन्नाः स्युरङ्गुष्ठस्तलसंस्थितः। अनामिकामध्यपर्वा धोरेखा गतोभवेत् ॥ पवित्रञ्चाङ्गरीयच पाण्योस्तलगतं भवेत् । अङ्गुष्टपृष्ठसंलग्नं पुष्करन्नखतः पृथक् ॥ तन्मध्ये निखनेत्कूपं कर्षाज्यग्रहणक्षमम् । कलशौ तत्राकर्तव्यों मणिबन्धे परान्तिके । प्रथमंत्र्यकुलं विद्याद्वितीयञ्चतुरङ्गुलम् । तयोः पार्थेषु कार्याणि कङ्कणानि विशारदैः ॥" इति । गण्डी-दण्डा ! कर्षः शोडशमोषमितः "गुजाः पञ्चाद्यमाषकाः। ते षोडशा- क्षः कर्षोऽस्त्री" इत्यमरः । मणिबन्धः पाणिप्रकोष्टसन्धिः ।
कण्डिका १] गोमिलगृहासूत्रे-- ४१ अनादेशे द्रव्यस्य, आज्यं(१) गव्यं घृतमेव द्रव्यम् । जुहोतिषु-होमक्रि- यासु । "इश्तिपौ धातुनिर्देशे"(२) (पा० ३।३.१०८ वा०) इति स्मरणात् । धातुपदमत्र तदर्थस्यापि बोधकम् । शब्दार्थयोरभेदात् । अनादेशे-इत्युत्तरार्द्ध. ऽप्यनुषज्यते । मन्त्रस्यानादेशे-प्रजापतिस्तहेवत्योमन्त्रः "भूर्भुवाःस्वरि"ति। स एव च देवता । तथाच मनुः-- "अकारञ्चाप्युकारञ्च सकारच प्रजापतिः । वेदत्रयालिरदुहद्भूर्भुवः स्वरितीति च ॥” इति ।। स्थितिः शास्त्रमर्यादा। तदेतद्रूयं-साराम अग्नये च प्रजापतये च सायं जुहोती"ति। "तस्मात् प्राजापत्यां मनसा जुहोति मनाहि प्रजापतिः" इति च ब्राह्मणम। “अग्नये स्वाहा प्रजापतये स्वाहा” इति सायम् । “सूर्याय स्वाहा प्रजापतये च स्वाहेति च प्रातः” । इति च गृह्यान्तम् । अत्रचन्द्रकान्तमा. ष्यम् ---"ताञ्चेमां मध्य एवाग्नेर्जुहुयान तु दध्यादिहोमपक्षेऽग्नेरपचयाशङ्कों कुर्यात् । इत्येवकारार्थः । स्तूष्णीमेवेत्येवकारोवागव्यापारप्रातषेधनियमयत्युत्ते. रस्यामाहुतौ । न खलु वगव्यापारप्रतिषेधनियमेऽपि मनसोव्यापारः प्रतिषिद्धो भवति । तस्मात्प्रजापतये स्वाहेत्ययं मन्त्रोमनसैवोच्चारणीयोहोमार्थमि"ति ॥९॥ अथ प्रातः सूर्याय स्वाहेति पूर्वी, तूष्णीमेवोत्तराम् , मध्ये चैवाप- राजितायाञ्चैव दिशि ॥ १० ॥ अथेति पूर्वप्रकृतार्थम् । येनैव हविषा तायं हीमः कृतस्तेनैव प्रातरपि होतब्यमन्यत्र प्रतिनिधेरित्यवोचाम । (११११२३ ) प्रातर्यथोक्तलक्षणे । अप. राजिवायामैशान्याम् ॥ १०॥ समिधमाधायानुपर्युक्ष्य तथैवोदकाञ्जलीन्प्रसिञ्चे-"दन्व- मंस्था" इति मन्त्रविशेषः॥ ११ ॥ समिधम्मन्त्रदैवतवर्जितां प्रकृतहामापवर्गविहितामिन्धनार्थमाधाय निःक्षि- प्याग्नौ अनुपयुक्ष्य अग्निम् । “देवसवितरि"-त्यादिना पूर्व-(१।३।४)-प्रकृ. तेन मन्त्रेणेत्यर्थः । तथैव-तेनैव प्रकारेण ( पूर्वोक्तयैवाऽऽवृता) उदकाज- (१) आज्यलक्षणमाह-कात्यायनः (गृ० सं०) "अग्निना चैव मन्त्रेण पवित्रेण च चक्षुषा । चतुभिरपि यत्पूतन्तदाज्यनितरघृतम् ॥ धृतं वा यदि वा तैलं पयोवा यदि. यावकम्। आज्यस्थाने नियुक्तानामाज्यशब्दोविधायते ॥ आज्यानां सर्पिरादीनां संस्कारे विधिवोदिते । अनधिश्रयणंदधनः शेषाणां अपणं स्मृतम् ॥ यथा सीमन्तिनो नारी पूर्वगभेण संस्कृता । एवमाज्यस्यसंस्कार संस्कारे विधिनोदितः ॥ इति । (२) "आहौ प्रभूतादिभ्यः” “पृच्छतौ सुस्नातादिभ्यः (पा० ४।४।३ वा०) इत्यादौ तथा दर्शनातू ॥ - ६ गो० गृ० सूर नित्यहोमविधिः [१ प्रपाठके- - लीन् । अनेन त्रिरित्युक्त-( १।३।४)-पक्षस्य मुख्यत्वमवगमयति । प्रसिञ्चेत् "अदिते" इत्येवमादिभिर्मन्त्रैः। इत्येतस्मिंश्च स्थानत्रये "अन्वमंस्था” इति मन्त्रविशेषः । मन्त्रविशेषः । कचित्तथैव पाठः । “कर्त्तव्य" इति शेषः । अस्या- थस्तु हे अदिते ! त्वमनुज्ञातवत्यसीति कम्मदं फलवदभूद्भवतु वेति ॥ ११ ॥ प्रदक्षिणमग्निम्परिक्रल्यापां शेषन्निनीय पूरयित्वा चमसं प्रतिष्ठाप्य यथार्थम् ॥ १२ ॥ प्रदक्षिण-दक्षिणेन प्रगतं यथा भवति तथाऽग्नि परिक्रम्य अपां-परि- चरणीयानां शेषम् अवशिष्टं (परिचणकर्मणः) निनीय-पात्रादपनीय(१)। पुनरुदकान्तरेण सपुष्पं पूरयित्वा चमसं(२)-पात्रविशेष प्रतिष्ठाप्य-स्वान स्थापयित्वा यथार्थ-कर्मापवर्गविहितं ( १९२९) वामदेव्यगानं(३) प्रातरा- हुतिपश्चाद्विहितं ब्रह्मयज्ञ(४) वा “कुर्यात्" । इति वाक्यशेषार्थः ॥ १२॥ (१) भूमौ निक्षिप्येत्यर्थः । (२) बमसमित्यस्य स्थाने आचमनमित्यपि पाठोऽर्थतौल्यादाचम्यतेऽनेनेति । तदेतज्जलपानधारणं कम्मन्तिदक्षिणोत्सर्थ काम्येषु । नैमित्तिकोदकालम्भनार्थञ्च । अन्यथाऽष्टार्थमेवैतत्स्यादिति मुरारिस्मिा: प्राहुः । उदकालम्भनिमित्तानि चो कानि। यथा- "पिन्यमन्त्रानुवणे आत्मालम्भेऽधमेक्षणे । अधोवायुसमुत्सर्ग प्रहासेऽनृतभाषणे ॥ मार्जारमूषिकास्पर्श आक्रुष्टे काधसम्भवे । निमित्तेष्वेषु सर्गेषुकर्म कुर्वन्नपः स्पृशेत॥ इति। अनुवर्णामहोच्चारणम् आत्मालम्भोहृदयस्पर्शी आत्मस्तव इति केचित् । तस्या- पि अप्रायत्यजनकत्वेन स्मरणात् ॥ गृह्यान्तरञ्च "रौदन्तु राक्ष पित्र्यमासुरश्चाभिचारि- कम् । उत्का मन्त्रस्पृशेच्चाप आलभ्यात्मानमेव च ॥ इति । "सकृत्कृते कृतःशास्त्रार्थ, इति माभूदिति सायम्प्रातहीमयोरहरहरावृत्तये इदमारभ्यत इति भट्टभाष्यस्वरसः । (३) तथाच सूत्रम् " अपवृत्ते कमणि वामदेव्यगानं शान्त्यर्थं शान्त्यर्थम्" [१॥९॥ २९) इति । तदेतदुपरिष्टादुषणदयिष्यते ॥ (४) तथाच कात्यायनः । "योऽयं श्रुरिजपः प्रोक्तोब्रह्मयज्ञास उच्यते । स चार्वातपंणात्कायः पश्चाद्वा प्रातराहुतेः ॥ वैश्वदेववावसाने वानान्यत्रत्तें निमित्तकात् ॥” इति। निमित्तमेव निमित्तकन्तस्मादन. न्तरोक्कात् निमिचत्रिकात् । अयञ्च व्यवस्थितोविकल्पः। तत्र-तर्पणात्पूर्व श्रुति (गायत्री) अपरूपोयाजुषानाम् । सामगानांचपश्चात् ।। अतएवपश्चादित्यत्र देहलीदीपन्यायआश्रितः। प्रातराहुत्यनन्तरमध्ययनाध्यापनरूपा "द्वितीये च तथा भागे वेदाभ्यासोविधीयते इति दक्षोक्तः । २ । वैश्वदेवावसाने वामदेव्यजपरूपः । ३ । ब्रह्मयज्ञ इतीह स नोकिन्तु तत्रैव (शा२९) वक्ष्यते । अतएव कात्यायनः “वामदेव्यं गणस्यान्ते बल्यन्ते वैशः देविके। इत्यभिदधौ। तस्याथे उपरिष्टात् (१।९।२९) व्यक्तीभविष्यति । नच वामदे. व्यजात्य व देवादिकम्माङ्गत्वाब प्रधानब्रह्मयज्ञरूपति वाच्यम् । तर्पणवत्सम्भवात् । (यथास्नानागमपि तर्पण पितृयज्ञतयाऽभिहितम् “यदेव तप्यत्यद्भिः पितृत्स्नात्वा द्विजो. नमः । तेनैव कूत्स्नमाप्नोति पितृयज्ञक्रियाफलम्" इतिस्मृत्या) अनोपन्यस्ते दि.
१ कण्डिका ] गोभिलगृह्यसूत्रे- । एवमतऊर्ध्वगृह्येऽग्नौ जुहुयादाऽऽजीवितावभृथात् ।। १३ ॥ एवम् अनेन प्रकारेण । अत एतस्मादनुपदोक्ताद्धामद्वयात् । अर्ध्वम्- परतः । गृह्येऽनौ। पुनरुपादानादन्यान्यपि यानि कर्मणि गृह्येऽग्नौ विधीयन्ते तेष्वपि, न पुनरग्निहोत्रमात्रे । जुहुयात् । स्वयम् । सति सम्भवे । वा--अथवा (स्वयमसम्भवे ) हावयेद्वा-पुत्रादिभिः असम्भवकारणं चोक्तं कर्मप्रदीपे- "सूतके च प्रवासे च अशक्तौ श्राद्धभोजने । एवमादिनिमित्तेषु हावयेदिति योजयेत् ।।" इति । यदा पुनरसमर्थोव्याध्यादिना हावयति । तदा यत्कर्त्तव्यन्तदप्याइ-स एव-(क०प्र०) "सायं होमाऽसमर्थस्य समीपमुपसर्पणम् । तत्राऽप्यशक्तस्य सतः शयनाचोपवेशनम् ॥" इति । तदनेन नायन्तुल्यवद्विकल्पः किन्तर्हि ? व्यवस्थितः । सम्भवे जुहुयादसम्भवे हावयेदिति यथोक्तव व्यवस्था ॥ "सन्ध्याकर्भावसाने तु स्वयं होमोविधीयते । स्वयं होमे फलं यत्तु तदन्येन न जायते" ।। इति च स्मृत्यन्तरम् ।। तत्राद्यमग्निहोत्रहोमद्वयं स्वयमेव कत्तव्यम् । अत ऊर्ध्वमित्यभिधानात् । तस्यास्यावधिरुच्यते-आजीवितावभृथादिति । अवभृथशब्दोयज्ञान्तवचनोऽपीह जहदहलक्षणया विनाशमात्रमभिधते जीवितक्षयपर्यन्तमित्यर्थः । तथा च श्रूयते-"यावज्जीवमग्निहात्रजुहोती"ति । ब्राह्मणे तु-"एतद्वै जरामयं सत्रं यदग्निहोत्रम् । जरया वा ह्येवास्मान्मुच्यते मृत्युना चै"वमादि । अन्येतु व्या- चक्षते-जीविताऽवभृथमिति समाहारद्वन्द्वः । तथा चाऽऽजीवितादाऽवभृथात् ज्योतिष्टोमादेरित्यर्थः । तथाच वक्ष्यति “यज्ञादेव निवर्त्तत" (२४।२१) इति(१)॥१३॥ विधे(ऽध्ययनाध्यापनरूपे) ब्रह्मयज्ञे आद्य एव मुख्यः । “अहरहास्वाध्यायमधीयीते"-ति ब्रह्मयज्ञोत्पत्तिश्रुतेः। अत्र श्रुतिजप एव ब्रह्मयज्ञः कार्य इति साम्प्रदायिकाचार इत्या. चारद्वैतविवेके विभाकरोपाध्यायाः प्राहुः । आचारचिन्तामणिस्वरसाऽप्येवम् । तथाशत्र वा शब्द एवार्थः पूर्वपक्षेऽस्वरसमेव सूझ्यताति ध्येयम् । भट्टभाष्ये तु अग्न "अथवाग्यतो- बलान्हरेत्" इति । इत्युक्तम् । युक्त चैतत्तथा सति "देवभूतपितृब्रह्ममनुष्याणा मनुक्रमादि" ति कर्मप्रदीपोक्तः पञ्चमहायज्ञक्रम उपपन्नाभवति । “हामादेवाबलिर्भात" इति च तदु. कक्रमः । पितृयज्ञस्त्वत्र “श्राद्धं वा पितृयज्ञः स्यास्पियोबलिरथापिवति तेनैवोक्त एव । यसु "पितृयज्ञस्तु तर्पणम्" इत्यतः प्राक्तेनोक्तं तत्स्नानोत्तरकृत्यतया. तेनैवोक्तम् । "यदेव तपयस्यनिरिण इत्यादि पूर्वोत्तम् । (१) यद्यपीदं बलिहरणमुपक्रम्यवाभिहितं तथापि तद्धोमादीनामप्युपलक्षणमिति तत्रैव वक्ष्यते।
नित्वहोमविधिः [ प्रपाठक १ अथाऽप्युदाहरन्ति ॥१४॥ अथे-ति पूर्वप्रकृताऽनेन ! अथयत्प्रकृते-हावयेदिति । तदस्यार्थस्य द्र- ढिम्ने ब्राह्मणवाक्यमपि । उदाहरन्ति-अभिदधति "याज्ञिका" इतिशेषः ॥१४॥ कामं गृह्येऽग्नौ पत्नी जुहुयात्सायम्पातहोंमी । गृहाः पनी । गृह्य एषोऽग्निर्भवतीति ॥१५॥ काममित्यनुमत्यर्थको(१)निपातः । स्वस्यासामर्थ्य गृह्योऽग्नौ सायम्प्रातह)- मौ पत्नी (पत्यनुमता) जहुयात् । कुतः ? समा(२)ख्याबलादित्याह-गृहा इति । तथा च स्मर्यते- "न गृहं गृहमित्याहुहिणी गृहमुच्यते । तया हि सहितः सर्वान्पुरुषार्थान्समश्नुते ॥" इति । ततश्च यावता होमसम्पत्तिभवति तावन्मानं मन्त्रजातं पत्नीमध्या- पयेत् । इति पत्नी जुहुयादिति विधेर्गम्यते । आश्वलायनोऽपि-"पाणिग्रहादिगृह्य परिचरेत्स्वयं, पल्यपित्रे'-त्याह । अतएव च गृह्य एषोऽग्निर्भवति । गृहेषु साधु(३)रित्यर्थे यत् (पा० ४।४।९८) प्रत्ययः । इतिर्बाह्मणवाक्यपरिसमाप्त्यर्थः । सायम्प्रात)मसमाप्त्यर्थोवा ।। १५ ।। अथ वैश्वदेवप्रकरणम् ) तदेवमुपदिष्टः सायम्प्रात)मः । उपदिष्टश्च तदनन्तरविहितो ब्रह्मयज्ञो(४) ऽपि-( १।३।१३) अथ वैश्वदेवं तुरीयकण्डिकया विवक्षुस्तदङ्गभूतङ्कमाह- निष्ठिते सायमाश-प्रातराशे “भूतामि"-ति प्रवाचयेत् ॥१६॥ on (१) तथाचामरः "काम प्रकामं पर्या निकामेष्टं यथप्सितम्" इति । (२) समाख्या यौगिक शब्दः । (३) गृहदा रैः परिचरणीय इत्यर्थः । (४) यथार्थमित्युक्त्या तदर्थबोधनस्य प्रागुक्तत्वात् । स खल्वयं पञ्चसूनापनुत्तयै म- स्वादिभिः (ज० ३६८१७१) विहितानाम्पञ्चमहायज्ञानामादिभूतोमुख्यइत्यर्थः । तथा च कर्मप्रदीपे- "देवभूतपितृब्रह्ममनुष्याणामनुक्रमात् । महासत्राणि जानीयात्त एवं हि महामखाः॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमोदेवोबलिभतोनृयज्ञोऽतिथितर्पणम् ॥ इत्युक्तम् । अत्रानुक्रमादिति प्रकृतक्रमविधिः । तेन प्रथमोदेवयज्ञः । ततोभूतयज्ञः । ततः पितृयज्ञः श्राद्धरूपः । ततोमनुष्ययज्ञः । इति क्रमः । ब्रह्मयज्ञस्तु-"सचार्वाकर्षणा. कार्य: । इत्यादिना पृथगेवोक्तः। तथा तर्पणोत्तरकालोऽप्यसौ शाट्यायनायुक्तः। तपंण- मपि "स्नात्वा पञ्चमखानान्तु प्रथम तर्पणं स्मृतम्" इति जावालोक्तकालमिति तदुभयं- विहायोतक्रमादरः । अत्र विशेषोनित्यकृत्यार्णवे व्यक्कोद्रष्टव्यः । । ।
कण्डिका ] गोभिलगृह्मसूत्रे- निष्ठिते(१)-सम्पन्न । सायमश्यत इति सायमाशः । एवं प्रातरश्यत इति प्रातराशः । “अशभोजने" (क्रया०प० ) कर्मणि घमू, उपधावृद्धिः । स च स चेति द्वन्द्वैकवद्भावः । तस्मिंस्तथोक्त। अत्राङ्पूर्वत्वमभिमत्य रात्रिन्दि- वभोजनाय पर्याप्तेऽन्नपाकेऽभिनिष्पन्न इति तदथ इतिचन्द्रकान्तः। तथाचात्र सायं प्रातः शब्दौ दिवारात्रिपरौ-"मुनिभिदिरशनमुक्त विग्राणाम्मर्त्यवासिनां नित्यम् । अहनि च तथातमस्विन्यां सार्द्धप्रहरयामा(२)न्तः" ।। इति कर्मप्रदी- पदर्शनात् । भूतम् ? निष्पन्नम् ? इति पत्नीम् । सवर्णा वा स्त्रियं पाकेऽधिकृता- मिति चन्द्रकान्तः[३] । प्रवाचयेत् । प्रश्नपूर्वकं वाचयेत् । शब्दकर्मकत्वाद्वचेः कर्मणि द्वितीया। (पा०१।५।५२ ) भट्टभाष्ये तु-"भूतमिति" बृहीत्यक्त्वा प्रकर्षेण वाचयेत् । कः ? प्रकृतत्वात् गृहपतिः। कां ? पत्नीम्। अन्नपक्त्या- म्पल्या एवाधिकारात् । तथा च मनु:- "अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेऽन्नपक्त्याञ्च पारिणाह्यस्य चे(वे)क्षणे" ।। इति । धनस्य संग्रहणे विनियोगे च । द्रव्यशरीरशुद्धौ भमिश्रुनषादिकेऽ- न्नपचने गृहोपकरणस्य शय्यासनकुण्डकटाहादेरवेक्षणे-एनां-पत्नी नियोजयेत्।। वेक्षण इति पाठेऽवस्यादिलोपो द्रष्टव्यः(४)॥ १६ ॥ अथ प्रवाचनस्य कालप्रकारावाह- ऋते भगया वाचा शुचिर्भूत्वा ॥ १७ ॥ ऋते-गते-"ऋगतो" (भ्वा० ५०) कतरिक्तः (पा० ३।४।७२) प्रकृतत्वा- दन्ने । होमार्थमग्निसन्निधावासादिते सति-इत्यर्थः। अस्मिन्काले प्रवाचयेत् । भगया-भजनीयया(५) ( सेवनीयया ) वाचा । “भजसेवायाम्" ( भ्वा०० ) (१) "निष्ठा निष्पत्तिनाशान्ताः" इत्यमरानिष्ठा-निष्पत्तिः सा सञाता अस्येत्यर्थे (पा०२।२।२६) इतन्प्रत्ययः । पाके सम्पन्न इति फलितोऽर्थः । (३) तथाच भहभाष्यमपि-"एतच्च भूतप्रवाचन पत्न्याः-कुतश्चित्कारणादस. निधौ-अन्ययापि सवर्णया पाकेऽधिकृतया कार्यम् । अपि वा प्रणवादि कुर्यात् । तथा. चोक्तम् (गृ० सं०)। "भूतप्रबाचने पत्नी यशसन्निहिवा भवेत् । रजोयोगादिना तत्र कथनुवन्ति याज्ञिका ॥ महानसेऽनं या कुर्यात्सबर्णान्तां प्रवाचयेत्। प्रणवाद्यपिवा कुर्यात् कात्यायनवचोयथा ॥ इति । अत्र सा यदि भूतमिति वक्तुं न शक्नोति तदान्यदप्योंकारादि-सम्मतिप्रति- पादकं कुर्यादित्यर्थ इति रत्नाकरः । तथाच भूतप्रवाचनमिह सिद्धेऽन्ने पत्न्या भूतमिति प्रश्नपूर्वकं वाचमम् । (४) तथाचाक्तम्-"वष्टि भागुरिल्लोपमवाप्योरुपसर्गयोः। आपञ्चैव हलन्तान यथा वाचा निशा दिशेति । (५) चन्द्रकान्तस्तु-अभगया वाचेतिच्छित्वा पञ्चम्यर्थऋते योगे तृतीयामभि- M नित्यहोमविधिः। [प्रपाकेश कर्मणि घः(१) । (पा० ३।३।१२५ ) "चजोरि०" (पा० ७१३१५२ )ति कु. त्वम् । टाप् । तथा च गृहपतिना भगया (शोभनया(२)विस्पष्टया) वाचा "बृही"त्येवमभिहिता पत्नी-शुचिर्भूत्वा आचमनादिना । तथाभूतयैव वाचा- "भूतम्" इति "बयादिति" शेष. । गृहपतेस्तु -"आचान्तोदकेन कृत्यम्" (१११।२ ) इति पूर्वमभिधानाच्छुचिर्भूत्वेति पत्नीसम्बन्धविवक्षयैव सूचित- माचार्येण ॥ १७ ॥ प्रतिजप"योमि"त्युच्चैः। "तस्मै नमस्तन्माक्षाः" इत्युपांशु ॥१८॥ इति प्रथमप्रपाठकस्य तृतीया कण्डिका ॥१॥३॥ * ॥ ॐ इति उच्चैः प्रतिजपति । गृहपतिः । "तस्मै नमस्तन्माता" इति च उपां- शु-अव्यक्तम् यथा भवति तथा प्रतिजपतीत्यर्थः। उपांशु लक्षणमाह-रत्नाकर धृतं नरसिंहपुराणम्- "शनरुच्चारयेन्मन्त्रमीषदोष्ठौ च चालयेत् ।। किञ्चिच्छब्दं स्वयं विद्यादुपांशुः स जपः स्मृतः॥" इति ॥ मन्त्रार्थस्तु-श्रोमित्यङ्गीकारे अनुमतौ कोपसंग्रहे वा। मरः-"ओमेवं परमं मते" इति । मते-अङ्गीकारे । "ओमित्यनुमते प्रोक्तं प्र-वणे ( णवे ) चाप्युपक्रमे" । इति च विश्वः । तस्मै-सुसम्पन्नायान्नाय नमः। तत्-अन्नम् । मा-मां प्रति । अक्षाः। प्रत्यहमश्नोतु-व्याप्नोतु । "अशूव्याप्तौ" (स्वा० ० ) प्रतिदिनमुपतिष्ठतामिति । “अक्षाः अश्नोतेरित्येवमेके” इति (५।३।१) निरुक्तम् ॥ १८ ॥ हति श्रीमदगोभिलीयगृह्यसूज्ञव्याख्यायां "मृदुला"ssख्यायो मुकुन्दशम्मसङ्कलितायां प्रथमपाठकस्य तृतीया कण्डिका ॥ १ ॥३॥ * ॥ तथाचा- । Ameermaneumeaninanda । प्रयन् अभजनीयया अभगया ऋते-बिना। शोभनयेत्येवं कष्टकल्पनामीचकार । अ. न्यस्तु ऋते-प्रज्वलिते प्रकृतत्त्वादनौ "वैश्वदेवार्थमिति शेषः। भगया विस्पष्टयेत्येवं व्याख्यो (१) यद्यपि लिङ्गानुशासने-"पुमान्-"इत्यधिकृत्य "धनवन्त: "धाजन्तश्वेत- ति पाणिनिनोकम् । तथापि-भावार्थएवेदम् । नपुंसकत्वविशिष्टे भावे क्तल्युड्भ्यां, खी. त्वविशिष्टेतु तिनादिभिर्वाधेन परिशेषात्। कर्मादौ तु धनाद्यन्तमपि विशेष्यलिङ्गम् । तथाच भाष्यं "सम्बन्धमनुवत्तिष्यते” इति । इतिदीक्षितचरणास्तवृत्तावाहुरिति स्वी. लिङ्गतयात्र निशः। (२) केचित्त्वाचक्षते-भजनीया वाक् नित्य था व्यवहियते देशभाषारूपा सेह १ कण्डिका ] गोभिलगृह्यसूत्रे- ४७ LABE MINS चतुर्थी कण्डिका। ( अथ बलिवैश्वदेवप्रकरणम् ) अथ पत्न्योपक्लुनस्यान्नस्य विनियोगमाचष्टे- अथ वाग्यतोबलीन्हरेत् ॥ १ ॥ अथेति-प्रकृतापेक्षार्थकम् । प्रक्रान्तेनान्नेन वाग्यतः सरयतवाक् (मौनी) सन् बलीन्-देव-भूत-(१)पितृ-बलोन वक्ष्यमाणान् । हरेत्-दद्यादित्यर्थः । अलिपदं चोपलक्षणं होमादेरपि(२)। "स्वशखाविधिना हुत्वा तच्छेषेण बली. न्हरेत" इति कात्यायनवचनात् ॥ १॥ अथ वाग्यत इत्यस्यापवादमाह- भाषेतान्नससिद्धिम् । अतिथिभिः काम सम्भाषेत ॥ २॥ अन्नसंसिद्धिम्-उपक्लुप्तस्यान्नस्य सम्यक् सिद्धिं "प्रकृत्य" इति शेषः । किमिदमन्नमुपसिक्तं न वेति भाषेत-वदेत् । एवम् अतिथिभिः(३) अभ्यागतैः सह कामम्-इच्छया सम्भाषेत । बलिहरणकालेऽपि । अतिथिगुणविशेषादिकं ज्ञात्वा इच्छया सम्भाषेत न वा सम्भाषेतेत्यनियमोऽत्र कामम्भदेन दर्शितोभवति एतदुभयादन्यन्न मौनमित्यर्थः ॥२॥ अथ हविष्यस्यानस्योद्धृत्य हविष्यैव्य॑ञ्जनैरुपसिच्याग्नौ जु- हुयातूष्णीम्पाणिनैव ॥ ३॥ अथेति प्रकृतापेक्षममन्त्रकपरिसमूहनादिपर्युक्षणान्तं कर्म स्मारयति । क. मप्रदीपोऽप्याह- "पर्युक्षणञ्च सर्वत्र कर्त्तव्यमदितेऽन्विति । अन्ते च वामदेव्यस्य गानकुर्यादचस्त्रिधा ॥" इति । सर्वत्र-सर्वस्मिन्होमकर्मणि “वामदेव्यगानं शान्त्यर्थ शान्त्यर्थम्" ( १।९।२१) इति । हविष्यस्यानल्य पूर्वोक्त-(११३६) रूपस्य । अवयव लक्षणाऽत्र षष्ठी । सावशेषः खल्वेष होमोभवति । एतदवशिष्टेनैवान्नेन बलि- (१) यद्यपि-कात्यायनेन "होमोदैवोबलिभीतः" इत्युक्तं, तथापि देवपदमिह देह. लोदीपन्यायेन पूर्वोत्तरयोरन्वयि हटव्यम् । एवं "पित्र्योबलिरथापि वेत्युक्त्या तृतीयो. ऽपि । मनुष्येभ्यस्तु-हन्तेत्युक्तर्न बलित्वेन प्रदानमभिहितमितित्रयोबलयोऽत्र ( वैश्व. देवे) बहुवचनेनोपात्ताः । नमोऽन्तएवार्यबलिभवतीति । (२) आदिनाऽतिथिभोजनम् । ततश्व स्वेभ्योऽपि । (३) न द्वितीया-तिथिरस्येति अतिथिरुच्यते। बहुवचननिदेशात्सतिसम्भवे बह- वोऽप्यतिथयोभवन्ति इति दर्शयति ।
बलिवैश्वदेवविधिः [१ प्रपाठके- । हरणस्योक्तवान् । गृहमैधिनोभोजनमप्येतदवशिष्टेनव । अमृत(१)रूपत्वादस्य अन्नस्येत्युक्त्या नात्र चरोरावृदन्तीति(२) बाध्यते । स्थालीपाके खलु चरौ ता- मावृतं वक्ष्यति । नात्र स्थालीपाकः श्रूयते । मनुरप्याह- "वैश्वदेवस्यसिद्धस्य गृह्योऽग्नौ विधिपूर्वकम् आभ्याकुर्याइवताम्याब्राह्मणोहोममन्वहम् ॥" इति । विश्वेषां ( सर्वेषां ) देव-भूत-पितृ-मनुष्याणामिदमित्यर्थेऽण (पा० ४।३।१२० ) वैश्वदेवमन्नम् तस्येत्यर्थः । व्यञ्जनैरिति । चारलवणासंसृष्ट. रित्यर्थः । “न ज्ञारलवणहोमो विद्यते, तथा परान्नसंसृष्टस्ये"-त्यापस्तम्बस्मर- णात् । क्षारलवणसंमृष्टेन हविषा न होतव्यमिति मदनपारिजाते. व्याख्या- तम् । क्षारलव(३)णमिति समाहारद्वन्द्वः । “क्षारञ्चलवणं सर्व वैश्वदेवे विंवर्ज- येन्" इति मदनपारिजातधृतस्मृतेः । तत्र क्षारगणः शुभकर्मनिर्णयेस्मर्यते- "तिलमुद्गाहते शिस्विसस्ये गोधूमकोद्रवौ । चीनकन्देवधान्यञ्च सर्वशाकन्तथैव च । स्विन्नधान्यन्तथौषय स्थूलं क्षारगणः स्मृतः ॥" इति । लवणं च सर्वविधं निषिद्धम् । उपसिच्य । सन्नीय । तूष्णीमिति वाग्व्यापारप्रतिषेधान्मनसा मन्त्रमुच्चार्येत्यर्थः(४) । पाणिनैवेत्येवकारः सुवा. दिपात्रान्तर(५) व्यवच्छिनत्ति । अन्न (पाण्याहुतौ ) अङ्गुष्टयोग आवश्यकः । (१) यज्ञाऽवशिष्टस्यामृतत्वमभिधीयते "अमृतं विषसोयज्ञशेषभोजनशेषयो। इति । भगवानप्याह-"यज्ञशिष्टामृतभुजोयान्ति ब्रह्म सनातनम्" इति । एतच्चान्नं पर्यु- षितादि न ग्राह्यम् । “अपर्युषितञ्चैव परान्नं पायसन्तथा। दग्धमन्नं तथा क्षारं वैश्वदेवे विवर्जयेत् । इति धर्माधर्मप्रबोधिन्यां प्रेमनिधिठकुराः प्राहुः । (२) तथाच! गृह्मपरिशिष्ट-"अथवैश्वदेवोदिवास्य प्रारम्भोनानपाकयज्ञतन्त्रमौपा. सनवचनं वा परिसमुह्य पर्युक्ष्यायतनमल कृत्य सिद्ध हविष्यमधिश्रित्याशिः प्रोक्ष्योदगु. द्वाल्याने प्रत्यक् दर्भेषु निधाय सर्पिषाऽभ्यज्यासव्यं पाणितलं हृदये न्यस्य सकृदवदानेन जुहुयात् । अज्ञाभावे तण्डुलादिभिः कुर्यात् ।' अन्ने च परिसमुह्य पर्युक्षेदेवं नात्र तन्त्र. मिति । अन्नम्-भक्तम् । “भिस्सास्त्रीभक्तमन्धोऽन्नम्" इत्यमरः । (३) पारस्कारोऽपि-"निरानमक्षारलवणाशिनौ : स्याता मति वधूवरनियमप्रक्रमे पृथगेव क्षार-लनणावभिहितवान् । तत्र क्षारञ्च लवणञ्चति हरिहरादिभाष्येषु स्पष्टम : भिहितम् । (४) "वाग्यतोबलीन्हरेदि--(६।४।१)ति बलिहरण एव वाग्यतत्वमुक्तमि तोह,होमे न प्राप्नोतीत्यतोऽन्नतूष्णामित्युक्तम् । (५) तदेतद्धवनं देवतीर्थेन जानुमध्यस्तकरेण च कार्यम् । तथाच हारीत:-"मार्जना. चमनमोजनानि देवेने"-ति । बौधातनश्च-"भोजनं हवनं दानमुपहारः प्रतिग्रहः । बहि- नि न कार्याणि तदाचमनं स्मृतमिति ।
कण्डिका १] गोमिलगृह्यसूत्रे-- वैश्वदेवाहुतिस्तु-द्वादशपर्वपूरिका मुख्या- "पाण्याहुतिर्दादशपर्वपूरिका रसाहुतिश्चेत्नुवमात्रपूरिका । देवेन तीर्थोन च हूयते हविः स्वङ्गारिणि स्वचिंषि तञ्च पावके ॥" इतिच्छन्दोगपरिशिष्टात् । तथा चच्छन्दोगाह्निके श्रीदत्तोपाध्यायाः प्राहुः । "क्षारं लवणं परान्नं च विहाय हविष्यमन्नं हविष्यव्यब्जनान्वितं घृताक्तं दध्यक्तं पयोक्तं वा, असम्भवे जलाक्तमपि, दक्षिणकराङ्गुलिद्वादशपर्वपूरकं स्वङ्गा. रिणि स्वर्चिषि वह्नौ कालीकरालीप्रभृतिसप्तजिह्वा लेलिहाना ध्यायन प्राङ्मुखा बाहुजान्वासनारूढपादोऽकृतावसक्थिकोजानुद्वयमध्यगतबाहुः साङ्गुष्ठदक्षिणक- राग्रेण जुहुयादिति । अत्र होमात्माक अग्नि: पूज्य: ।- तथाच वायुपुराणम्- "दानं प्रतिग्रहोहोसोभोजनं बलिरेवच । साङ्गुष्ठेव सदा कार्यमसुरेभ्योऽन्यथा भवेत् ।” इति । "पूजयेच्च ततोवह्निं दद्यादाहुतयः क्रमात्” । इति च मार्कण्डेयपुराणात् ।। ३।। प्राजापत्या पूर्वाऽऽहुतिर्भवति । सौविष्टकृत्युत्तरा ॥४॥ प्राजापत्या-प्रजापतिदेवताका । पत्युत्तरपदत्त्वाण्ण्यत् ( पा० ४।१।८५) पूर्वा प्रथमा। आहुतिर्भवति । सौविष्टकृती-स्विष्टकृ-दग्नि-देवताका(१)। उत्तरा-द्वितीया ऽऽहुतिर्भवति । अत्र “प्रजापतयेस्वाहा” “अग्नये स्विष्टकृते स्वा- हा" इत्येवं होममन्त्रः पर्यवस्यति । स्वाहायोगे चतुर्थ्या (पा० २ । ३ । १६) विधानात् । अत्राद्या मनसैवेत्युक्तमधस्तात् ( )। "होमोदेव" इतिवचनादयन्तावद्देवयज्ञो-वैश्वदेव-इतिवोच्यते । एष आहिताग्नेविधिरुक्तः । अनाहिताग्नेस्तु कर्त्तव्यमाह-कात्यायन:- "अग्न्यादिगौतमेनोक्तो होमः शाकल एव च। अनाहिताग्नेरेवैष युज्यते बलिभिः सह ॥" इति । यःखलुअग्न्यादिहोमः "अग्ना-वग्निर्धन्वन्तरिविश्वेदेवाः(२) प्रजा- (१)सु-शोभनमिष्टभिलषितं करोतीति स्विष्टकृत् । यद्वा-इष्ट-यजनं शोभनं यथाविहितफलसम्पादकं करोतीति स्विकृत, अग्निरुच्यते । "अग्नये स्विष्टकृते स्वाहे- त्युत्तरार्द्ध-पूर्वाद्ध जुहुयात्" (१।८।१४) इतिलिङ्गात् । “देवा वै अग्निं स्विष्टकृत. मब्रुवन् हव्यं भोवहेति । सोऽब्रवीकिम्मे ततः स्यात् इति । यत्कामयसइत्यब्रवन् । सोऽब. वात्सर्वत्रेष्टिपु केवला सौविष्टकृतीति । तथेतिसोऽवहद्धर्वीपि” इति च ब्राह्मणं भवति। स देवताऽस्याहत्यर्थं तस्येदमित्यर्थ वाण (पा० ४ । २ । २४+४।३।१००) तस्मिन् "न य्वाभ्यामि (पा०७।३।३)ति वृध्यपवादभूत आद्यच ऐजागमः। डीप । (२) अग्नावित्युवेर्गौतमकल्पेन लौकिकानावति छन्दोगाक्षिके श्रीदत्तोपा. ध्यायाः । तदेतत् पयुक्षणान् विधाय कायम् । एतदन्त पित्र्येन विधिना "पितृभ्या गो० १ गृ० सू० नित्यहोमविधिः। [१ प्रपाठके- pun पतिःस्विष्टकृतितिहोमाः” इत्येवं गौतमेनोक्तः । स तदुक्तैरेव बलिभि: "दिग्देवता. भ्यश्च यथान्वं द्वारेघु मरयोगृझदेवताभ्यः, गृहं प्रविश्य ब्रह्मणे मध्ये, अद्भय. उदकुन्भे, आकाशायेत्यन्तरीक्षे, जनश्चरेभ्यश्च सायम्" इत्येवलक्षणैः सहित इत्येकः कल्पः । चश्वशाकलहोमो(१) "देवकृतस्यैनसः” इत्याद्यष्टाहुत्यात्मकः स सामवेदयठितः । संचाग्निपुराणायुक्तवलिभिः सहित इत्यन्यः कल्पः । तथा- चाग्निपुराण-योगियाज्ञवल्क्यो- "अन्नं व्याहृतिभिर्हत्वा(२) तथा मन्त्रैश्च शाकलैः । भूतेभ्यश्च बलिन्दत्त्वा(३) ततोऽश्नीयाइनग्निमान्" । इति । भूतेभ्यश्चेति चकारादादौ देवबलिरन्ते च पित्र्यवलिरित्याचक्षते । (४) तस्मादनग्निनाऽपि गृह्योक्ता बलयोदेया । काम्याश्च बलयो विष्णुपुराणादौ पठितास्ते नौतम-शाकला-न्यतरकल्पं कृत्वा भूतोपकारार्थ शुचिभूमौ देयाः । ते यथा--- "ततोऽन्यदन्नमादाय भूमिभागे शुचौ पुनः । दद्यादशेषभूतेभ्यः स्वेच्छया तत्समाहितः।।" स्वधेति पितृबलिं हरेत् । अत्रैव वामदेव्यगानडेचिदिच्छन्ति । वस्तुतस्तु । काम्यबलौ क्रियमाणे तदन्त एव तत्कार्यम्। नित्यकृत्यार्णवे तु-अग्नौ गौतमकल्पेन वैश्वदेवहोमम- भिधाय अथवाऽरनेः पश्चिमतः एकव स्थाने अविकृष्टान् परस्परासलमान्सर्वानेतान्बलीन् प्राच्यादिदिक्षु तथैव दद्यात् । अस्मिश्च पक्षेउदकुम्भवलि मावेव । आकाशबलौ त्वन्त- रिक्षक्षेपऽपि अविरोधः । ततोबलीनग्नौ जले वा प्रक्षिप्यारम्याग्निं प्रदक्षिणीकृत्य पात्रस्थ- मुदकोष भूमौ निःक्षिप्याद्भिः पात्र प्रपूर्य ताः स्पृष्ट्वा वामदेव्यं गायेत्" इतिगौतमकल्प. इत्युक्तम् । (१) काष्ठशकल-(खण्ड-)-साध्योज्योतिष्टोमे होमः शाकल इत्युच्यते । अनयोः (गौ० शा०) कल्पयोः पद्धतिनित्यकृत्यार्णवादौ द्रष्टव्या । अत्र "मन्त्रान्ते स्वाहाकारः" (१।९।२६) इति सुत्रणात्स्वाहान्ततैवाऽमीषाम् । यत्तु श्रौतसूत्रम्" अष्टावष्टौ शक. लान्याहवनीये प्रहरेयुर्देवकृतस्येत्येतत्प्रभृतिभिरिकान्तैरि" (ला० औ० सू० २।१।१४ ) ति तन्मन्त्रस्वरूपज्ञापनार्थम् । तदेतदग्निस्वामिभाष्ये दृष्टव्यम् ।। अयमपि अमौ पूर्वव. परिसमूहनाद्यग्निपूजान्तं कृत्वा कार्यः । (२) व्यस्तैः समस्तैश्चेति चतु होमः । (३) स्विष्टकृद्धोमश्च शाकलाष्टहोमान्ते स्वाहान्त एव । “मन्त्रान्ते स्वाहाकार" इति (१।९।२५) सूत्रणात् । पितृभ्यश्च स्वधान्तः । पितृभ्यः स्वधेति । तत्र देवे. भ्योभूतेभ्यश्च नमोऽन्ता एव,बलिर्भूमौ स्वाने अग्नेर्जलादेवा तत्स्थानीयात्पश्चात् । पितृ- भ्यश्च दक्षिणस्यामपसव्येन चेति व्यक्तमन्यत्र । तताभृतबलिस्तथाच स्कान्दे शाकलहो. मान्ते + तथास्विष्टकृदग्नये । विश्वेभ्यश्चापि देवोभ्योभुमो दद्यात्ततो वलिम् । सर्वे. भ्यश्चापि भृतेभ्योनमोदद्यात्तदुत्तरे दक्षिणेऽपि पितृभ्यश्च प्राचीनाचीतिकोददेत्" इत्यादि। (४) अन्नाटबल्यन्ते "ॐ अग्नये स्विष्टकृते स्वाहेति स्विष्टकृद्धोमोऽन्त्रकल्पे पर्व. स्माद्विशेषः। -- १ कण्डिका ] गोभिलगृह्यसूत्रे- ५१ (तत्रमन्त्राः) "देवा मनुष्याः पशवोवयांसि सिद्धाः सयक्षोरगदैत्यसङ्घाः । प्रेताः पिशाचास्तरवः समस्ता ये चानमिच्छन्ति मया प्रदत्तम् ।। पिपीलिकाः कीटपतङ्गकाद्या बुमुक्षिताः कर्मनिबन्धबद्धाः । प्रयान्तु ते तृप्तिमिदं मयान्नं तेभ्योविसृष्टं सुखिनोभवन्तु ।। येषां न माता न पिता न बन्धुवान्नसिद्धिर्न तथान्नमस्ति । तत्तप्तयेऽन्नम्भुवि दत्तमेतत्तेयान्तु तृप्तिम्मुदिता भवन्तु ।। भूतानि सर्वाणि तथान्नमेतदञ्च विष्णुर्न यतोऽन्यदस्ति । तस्मादहं भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषाम् ।। चतुर्दशाभूतगणोय एष तत्र स्थिता येऽखिलभूतसङ्घाः । तृप्त्यर्थमन्नं हि मया विसृष्टं तेषामिदन्ते मुदिता भवन्तु ।। इत्युच्चार्य नरोदद्यादन्नं श्रद्धासमन्वितः । मुविभूतोपकाराय गृही सर्वाश्रयोयतः ।। श्वचाण्डालविहङ्गानां श्वपचां पापरोगिणाम । वायसानाकृमीणाञ्च शनकैनिःक्षिपेद्भुवि ।” इति । अत्रान्यदन्नमादाये. युक्त्या काम्यबलिदानमन्येनाऽपि भवितुमर्हतीतिबोध्यते । श्वादिबलिदानञ्च यत्र तेषामुपयोगस्तत्र विधेयमिति निबन्धारः। क्रमस्त्वत्र नाद्रियते किन्तुअन्य- त्रोक्तक्रमेण वायसबलिः श्वबलिस्तत: पतित-चाण्डाल-पापरोगि-कृमिबलयः । इदञ्च काम्यबलिदानं सर्वशाखिसाधारणं सङ्कोचे मानाभावात् । एवमेवा- चारादर्शादयः । तदत्र "देवा मनुष्या” इत्यादिकां पञ्चश्लोकीमुच्चार्य एकएव. बलिर्दातव्यः । इतिना प्रकृतवाचिना पञ्चश्लोक्याः परामर्शात् । अन्नमिति चैकवचननिर्देशादिति वाचस्पतिमिश्रादयः । एवमन्येऽपि कल्पास्तन्त्रान्तरे द्रष्टव्याः । स खल्वयं वैश्वदेवहोमो(१) लौकिकाग्नौ जलादावपि कर्तव्यः । शाकलकल्पेन । "लौकिके वैदिके वाऽपिःहुतोच्छि(स्ट)टे,(२) जलेक्षितौ ।। (१) अत्र द्वैतपरिशिष्टे-केशवमिश्राः। यदा च नित्यश्राद्ध करणं तदा ततः प्रागेव वैच- देवबलिकर्मणी कर्तव्ये । यदातुपार्वणमेकोदिष्टं वा तदा पार्वणानन्तरं वैश्वदेवबलिकर्म णी । एकोदिष्टानन्तरन्तु वश्वदेवबलिनित्यश्राद्धन्तदानीमितिविशेष" इत्याहुः । एते पञ्च महायज्ञाः पञ्चशूनापनुत्तये विहिता इति शूद्रस्यापि कर्त्तव्या भवन्ति । "दानन्दधाच. शुद्रोऽपि पाकयज्ञैर्यजेत चेति विष्णुपुराणात् । शूद्र इत्यनुवृत्तौ "भारतः शुचिर्भूत्य. भर्ता श्राद्धक्रियान्वितः । नमस्कारेण मन्त्रेण पञ्चयज्ञान हापयेदिति याज्ञवल्क्यवव. नाच । भारतः स्वभार्यामात्ररतः। एवञ्च होमोऽपि "ब्रह्मणे नमः" इत्यादिक्रमेण तो कार्योन तु स्वाहान्तदेवतानाम्नेति बोध्यम् । (२) एष "हुतोत्सृष्ट" इति पाठोरत्नाकरीयः। dia- ५२ नित्यहोमविधिः। [ प्रपाठके १ । वैश्वदेवन्तु कुर्वीत पञ्चसूनापनुत्तये । वैश्वदेवेन ये हीना प्रातिथ्यन विवर्जिताः। सर्वे ने पला शेयाः प्रावेदा अधिद्विजा." इति शातातपीयान् । लौकिके पाकसाधने । वैदिके आवसथ्याग्नौ । एतच्च साग्निपरं, शेषं निरग्नेः । हुतोच्छिष्टे-अन्येन हुत्वा त्यक्ते । इदं त्वन- श्नताऽपि गृहस्थेनातिथ्याद्यनुरोधेन द्विष्पाकतापक्ष द्विरवश्यङ्कार्यम् । "सायं प्रातवैश्वदेवः कर्तव्योवलिरेव च । अनश्नताऽपि सततमन्यथा किल्विषी भवेत् ॥" इतिच्छन्दोगपरिशिष्टादित्याचारचिन्तामणिः । अत्र जलादावपि होमे पर्यु- क्षणमाचरन्ति प्रामाणिकाः । युक्तञ्चैतन् । पर्युक्षणं हि होमाङ्गं न वह्नयङ्गम् । तथाच वह्निबाधे तदाधानाङ्गं परिसमृहनादिकं बाध्यता, होमाङ्ग पर्युक्षणं कथं बाध्येतेत्याचोरविवेकः । वाचस्पतिमिश्रास्तु जलक्षित्योः पर्युक्षणादिकमपि नास्त्येव । अग्नावेव तदाम्नानादित्याहुः ॥ ४ ॥ अथवलीन्हरेवाह्यतोवाऽन्तर्वा सुभूमिकृत्वा ॥ ५ ॥ अथेति पूर्वप्रकृतार्थम् । अथ पूर्वप्रकृतेनैवान्नेन होमावशिष्टेन । "देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलि हरेदि"ति याज्ञवल्क्योक्तेः । अपचारे चशेषस्य, अन्य दप्युपादाय वलीहरेत् । पाकासम्भवे एकादश्यादौ तण्ड्डलैवा पयोदधिधृतफलोद- कादिभिर्वा कार्य इति धर्मसिन्धुः । वाह्यतो-बलिविधानावहिर्वा प्रकृतत्वादग्न्य गारस्य । तथाचाग्न्यगारान्निष्क्रम्य तस्मिस्वस्मिन्प्रदेशे तं तं बलिं हरेत् । यो- योयस्मिन्यस्मिन्प्रदेशे समाम्नातः । अन्त-मध्येवाऽग्न्यगारस्यैव । एकस्मिन्ने- व प्रदेशे यथासम्भवं बलीह्नरेन् । सुभूमि कृत्वा । यथासम्भवं सम्मार्जनोपलेपना- दिभिः । तथाचापस्तम्ब:-"बलीनान्तस्यतस्य देशस्य संस्कारोहस्तेनोपमृज्यावो. क्ष्य न्युष्य पश्चात् परिषेचनम् ।" इति। तस्यतस्येति वीप्सातः प्रत्येकम्मार्जनादि । अबोक्ष्य-सित्का । न्युष्य बलिन्दत्त्वा । परिषेचनं-बलेरुपरिसेक:(१) ॥ ५ ॥ सकृदपोनिनीय चतुर्दा वलिं निदध्यात्सकृदन्ततः परिषिश्चेत् ।।६।। सकृदे-कवारमप(२) उदकं निनीय-भूमौ निषिच्य चतुर्की चतुर्षु स्थानेषु बलि-(३)जातावेकवचनम् बलिचतुष्टयम् । निध्यात्-स्थापयेत् । अत्र समा- चारात्तदन्नं बलिचतुष्टयमात्रं सकृद्गृहीत्वा चतुर्पु स्थानेषु नियात् । बलिमि- त्येकवचनाञ्चतुर्धति वचनाच्च । तथाच बलिचतुष्टयाथै सकृदेव सेकः । अन्तत:- (१ परिषेचनं बलीनामुपरि उदकेन वेष्टनमिति कल्पतरुः। (२) अन "एकस्य सकच्च" (पा० ५।६।४।१९) इति क्रियाऽभ्यावृत्तिगणने सुचः संयोगान्तलोपः । एकशब्दस्य सकूदादेशश्चेति बोध्यम् । (३) प्रकारार्थेन धाप्रत्ययः तदभेदश्च स्थानभेदादित्ये व्याख्यातम् । - ५३ कण्डिका ] गाभिलगृह्मसूत्रे-- अन्ते । सार्वविभक्तिकस्तसिः । (पा० ५। ४ । ४४) उपरिष्टादपि सकृदेक- वारमेव परिषिञ्चत्-बलीन् । बलिप्रमाणमाह कर्मप्रदीप :----- 'न चावरार्या बलयो भवन्ति महामाजारश्रवणप्रमाणात् । एकत्र चेदविकृष्टा भवन्ति इतरेतरमसय्युक्ताश्च ॥" इति । अवरार्याः । अवरस्मिन्नधभवा इत्यर्थे यत् (पा० ४ । ३ । ५) ऊनपरिमाणा इत्यर्थः । असम्भवे त्वशुष्कामलकमाना अपि कार्याः । "आमलकमानेन कुर्याद्धोमहविलीन् । प्राणाहुतिबलिञ्चैव मृदङ्गात्र विशोधिनीम् ।।" इति छन्दोगपरिशिष्टटीकालिखितवचनादित्याचारचिन्तामणि: । एकत्र चेदित्यादिना नानास्थाने बलिदानासम्भवे एकस्मिन्नेव रादा बलयादीयन्ते तदा अविकृष्टा अव्यवहिता इतरेतरमसंयुक्ताः परस्परमसंलग्नाश्च दातव्या इत्यर्थः । एतच्च परिमाणमङ्गुष्ठपर्वमात्रमिति भहभाष्यम् ॥ ६॥ एकैकं वाऽनुनिधानमुभयतः परिषिञ्चेत् ।। ७ ।। एकैकमेकमेकं वा बलिम् । अनुनिधानम् निधानमनु- लक्षीकृत्य । प्रत्येक निहितान्बलीन्प्रत्येकमेवोभयतः पुरस्ताचोपरिष्टाञ्च परिपिञ्चेत् ।। ७ ।। किन्देवत्या एते बलय इत्याह--- स यत्प्रथमं निदधाति स पार्थिवो बलिभवति । अथ यद्वितीयं स वायव्यो, ऽथयत्तृतीयं स वैश्वदेवो, यचतुर्थ स प्राजापत्यः ॥ ८॥ स यजमानः प्रथमं यन्निदधाति इति यदर्थोनिधानक्रियाविशेषणम् । व्य- त्ययाद्वा नपुंसकम् । यद्यं बलिं प्रथमं निदधाति स पार्थिवः पृथिवीदेवताकः । बलिर्भवति । अनेनैव सूत्रशेपोव्याख्यातः । “अनिरुक्तं प्राजापत्यम्" इतिवच- नान्मानसः प्राजापत्यबलिः । तदन्न मन्त्रानुपदेशात्- "ओंकारादिसमायुक्तं नमस्कारान्तकीर्तितम । स्वनाम सर्वसत्त्वानां मन्त्र इत्यभिधायते ॥" इति स्मृत्यन्तरदर्शनात् “ॐ पृथिव्यैनमः” इत्येवमादिकोबलिमन्त्रः सि- द्धयति । यत्तु-आचार्य एव वक्ष्यति "नमोब्रह्मणे इति दिवि” इति तदपि पवयकीर्तनाभिप्रायं न क्रमपरम् । अत एव- "पायसोवाऽपि दातव्यः स्वनाम्ना सर्वतः क्रमात् । नमस्कारान्तयुक्तेन प्रणवाद्येन सर्वतः।" इति वास्तुबलावेव स्मृत्यन्तरम् । एवमेवाचार्याशयं स्पष्टयाञ्चकार क- । gav नित्यहोमविधिः। [प्रपाठके१ । मप्रदीपे कात्यायन:- "अनुम्मै नमः" इत्येवं बलिदान विधीयते । बलिदानप्रसिद्ध्यर्थनमस्कारः कृतोयतः ॥" इति । अत्र इति: पदद्वयकीर्तनार्थो न तु परिच्छेदार्थः । एवमिति क्रमार्थम्ट अथापरान्बलीत्हरेदुदवानस्य, मध्यमस्य द्वारस्याब्दैवतः प्रथमोव लिभवति, ओपधिवनस्पतिभ्यो द्वितीयः । आकाशाय तृतीयः।। अथेति पूर्वविद्धयनुकर्षणार्थम् । पूर्वेषामिवामीपामपि बलीनामुभयतः परिपेक इत्यर्थः । कर्मप्रदीपोऽप्याह "सर्वेषामप्युभयतः परिषेक" इति ॥ अ- परानन्यान् । एषां स्थानान्याह-उधानस्य । उदकं धीयत अस्मिन्नित्यधिकरणे ल्युट (पा० ३।३।११७ ) "उदकस्योदः संज्ञायाम्" ( पा० ६।३।५७ ) इति उदकस्योदादेशः । मणिकस्य कलशस्यवा, सामीप्येऽत्र षष्ठी। एवमग्रेऽपि । द्वारस्येतिअग्निशरणगृहस्येत्यर्थात् । अब्दैवतः आपोदेवता अस्येत्यर्थेऽण् (पा० ४।२।२४) शिवभागवतवत्तद्धितार्थे समासः (पा० २१११५१) प्रथमः प्रकृतानां वलीनामाद्यो बलिर्भवति । द्वितोयस्तु गृहमध्यमद्वारसमीपनिहित ओषधिवन- स्पतिभ्यः भवति । तृतीयश्चाकाशाय । स चान्तरीक्षे (तदुद्दिश्य) निधातव्यः । "आकाशायेत्यन्तरीक्षे” इति गौतमीयस्मरणात् । तथाच "ओमद्भयोनमः।" "अोमोषधिवनस्पतिभ्योनमः" । "ओमाकाशायनमः' इत्येवं मन्त्रप्रयोगः ।। एवमग्रेऽपि ॥९॥ अथापरं बलिं हरेत् शयनं वाऽधिवक़वा(१), स यमाय बलिर्मन्यवे चा ॥१०॥ अथापरं बलिं हरेदित्युक्तार्थम् । वलिमित्येकवचनात्स्थानद्वयनिर्देशान बलिद्वयमात्रं सकृद्गृहीत्वा द्विधा निदध्यादिति भट्टभाष्यम् । शयनं शय्येत्यन- र्थान्तरम् । अधिवों मूत्रोच्चारप्रदेशः । वा शब्दाश्च(२) कारार्थाः । शयनञ्चा- (१) अधिव, वेति भहभाष्ये पाठः । स च "येसान्तास्तेऽइन्ता' इति न्यायमू- लकः । सान्तपाठस्तु सर्वन्न दृश्यते । सोऽपि विष्ठाऽथे । तथाचामरः "तेजः पुरोषयोः इति । "वर्बोनपुंसक रूपे विष्ठायामपि तेजसि । पुंसि चन्द्रस्य तनये” इतिमेदिनीच । पा. णिनिरपि "ब्रह्महस्तिभ्यां वर्चस" (पा०६।४।७८) इति वदस्तेजसि पुरीषे च प्रयोजयति। ब्रह्मवर्चसं हस्तिवर्चसमिति । मूत्रार्थे तु न कापि प्रयुक्तोऽन्यत्र । तथापिअधिश- ब्देन बहुव्रीहिणासो ऽर्थउनीतोभभाष्यादी । अत्र द्वितीया प्रतिशब्दाध्याहारार्थत्यपि. भहभाप्यम् । (२) अन्ये तु वाशब्दान्विकल्पार्थानाहुः। एक एवार्य बलिः शयनं वा प्रति देयोऽधि व का । स च कामदेवत्योभवति मन्युदेवत्यो वा । अपरे तु विनिवेशविकल्पमाहुः। शय नं प्रति कामाय रात्रौ अधिवर्च प्रत्यहनि । तदेतदुभयमपि युक्तम् । कुतः ? "अथ तद्वि । ११ ॥
anya १ कण्डिका माभिलगृह्यसूत्र- धिवर्चश्व प्रति बलिं हरेत् । इतश्च स बलिः कामाय भवति मन्यते च । इनि यथासङ्ख्यम् । तदयमर्थः शियन(२)प्रति योवलिनिधीयते स सन्यदेवताया अवतीति । अत्र कामो मन्मथः । मन्नुहुः क्रोधः ॥ १० ॥ अथ संस्तूपं स रक्षोजनेभ्यः ॥११॥ अथेति विशिष्टमानन्तर्यन्द्योतयति । मन्युबलिदानानन्तरगिन्द्राय वाम् . कये ब्रह्मणे इति बलित्रयं दत्त्वाऽथानन्तरमित्यर्थः । तथा चायमाचार्यो बगरतु. बलौ दशदिक्षु इन्द्रादिबलिदशकमभिधायासूत्रगत “गाच्यूर्वापाचीभ्योऽहर - हनित्यप्रयोग” इति । प्राच्यूर्वाधोदिक्ष खल्विन्द्र-ब्राम-वासुकिदेवत्या बायो वास्तुकर्मणि समाम्नाताः । तेषामहरहन्नित्यं प्रयोगोभवतीति सूत्रयन्नाचार्य: स्पष्टमिदमाह यदहरहरिन्द्र ब्रह्मवासुकि बलयोभवन्तीति । परिशिष्ट्रप्रकाशेऽयु. क्तम "गृह्यान्तरानुसारेण मन्युबलेरनन्तरमिन्द्र ब्रह्म वासुकिदेवल्या बलपादेया स्ततोरक्षः पितृबली" इति । “चतुर्दश नित्याः' इति च कर्मपदोपः । संस्तूपः सम्माजनरेणुपुजादिप्रक्षेपस्थानम् । तम्प्रति रक्षाजनेभ्यः बलि होदित्यर्थः ॥११॥ अथैतद्बलिशेषमद्भिरभ्यासिच्यापसलवि दक्षिणा निन- येत्तत्पितृभ्योभवति ॥ १२ ॥ अथ शब्दः प्राचीनावीतित्व-सव्यजानुपात-दक्षिणामुरवत्वानि स्मारयति । एतद्वलिशेषम् एतद्वालिदानावशिष्टमन्नम । अद्भिरभ्यासिच्याऽऽल्पान्य(२) 'प्र. पसलवि अपसव्येन पितृतीर्थेन चेत्यर्थः । तथाचशान्तरम् “प्रदेशिन्यङ्गुष्टयार न्तराऽपसलवि अपसव्यं वा, तेन पितृभ्यो ददाती"--ति । दक्षिणा दक्षिणम्या मदूरे दिशि । अत्र "दक्षिणादाच' (पा०५।३।३६) इत्युकार्थे आचप्रत्ययेऽ- व्ययत्वम् । (पा० २११३८) । निनयेत् हरेत् । तदिदं पितृभ्यो भवति । तथाच पित्रर्थत्वान्नात्र नमस्कारप्रयोगः किन्तु "पितृभ्यः स्वधे"ति स्वधाकारणव बलि- तव्यः । तदाह कात्यायन:- स्वाहाकारनमस्कारवषट्कारा दिवौकसाम् । स्वधाकारः पितणाञ्च हन्तकारो नृणाम्मतः ।। स्वधाकारेण निनयेत्पित्र्यं बलिमतः सदा । तमप्येके नमस्कारैः कुर्वते नेति गौतमः ॥" utpawapNHamanarvinaameemeHimanitatements " न्या" इत्यारभ्य बलिद्वयस्यापि सायं प्राविधानात् “सर्वेषान्दक्षिणात पितृभ्य इतिचतु. देश निन्या इति सङ्ख्यावचनस्यार्थपरत्वात् । (१) अन्न योग्यतावशात्तत्सनिहित स्थानमभिधित्सितमाचार्यस्य । नहि खां बलि निधीयते । नापि वर्चसि । तथाचोदिश्येत्यध्याहारेणा द्वितीयाबोध्या। (२) तदिदमाप्लावन रक्षाबल्यवशिष्टत्वादनस्य संस्काराथम्भवति। तच सकदेव त्रिदेवेभ्यो द्विमनुष्येभ्यः सकृत्पितृभ्यः (१) इति प्रक्षालनप्रकरणेऽभिधानातू! ।
बलिवश्वदेवविधिः। [१ प्रपाठके- - इति । एके-वाजसनेयिनः । तथाच तेषां स्वधानम(१) इत्येवं पित्र्यबलि- दानम् । नेति गौतम इतिच्छन्दोगानभिप्रेत्य । अथास्य निधानक्रम एकत्र- चेदित्याधुक्तचने कत्र चेत्समें बलया निधीयन्ते तर्हि यथा निधातव्यमित्यु- पक्रम्य (१३-१४) कर्मप्रदीपे (१४-१) कात्यायनः ॥ "अथ तद्विन्यासो वृद्धिपिण्डानिवोत्तरोत्तरांश्चतुरोबलीन्निध्यात्-"पृथि- व्य," "वायवे" "विश्वेभ्योदेवेभ्यः" "प्रजापतये” इति । सव्यत एतेषामे- कैकस्यैकैकम् “अद्भयः" "ओषधिवनस्पतिभ्य." "आकाशाय” "कामाय" इ. ति । एतेषामपि "मन्यवे" "इन्द्राय" "ब्रह्मणे" "वासुकये" इति । एतेषामपि रक्षोजनेभ्यः" इति । "सर्वेषान्दक्षिणतः पितृभ्यः" इति । चतुर्दश नित्या। आसस्यप्रभृतयः काम्याः । सर्वेषामुभयतः परिषेक: । पिण्डव पश्चिमा प्रतिपत्तिरि"ति पिण्डवच्चेति । यथा पिण्डप्रतिपत्तिर्विप्रगवादिषु तथा बली. नामपि चरमा प्रतिपत्तिरित्यर्थः ॥ आधानदिने च वैश्वदेवबलिकर्मणी सायमाहुत्यनन्तरं रात्रावेव कर्त्तव्ये । तदाइ-कर्मप्रदीपः "ऊर्ध्वम्पाण्याहुतेः कुर्यात्सायं होमादनन्तरम् । वैश्वदेवन्तु पाकान्ते बलिकर्मसमन्वितम् ।। ब्राह्मणान्मोजयेत्तश्चादभिरूपान्स्वशक्तितः । यजमानस्ततोऽश्नीयादिति कात्यायनोऽब्रवीत् ।।" इति । सोऽयं भूतयज्ञ: "बलिभीतः' इति वचनात् । एतदनन्तरं वामदे. व्यगानं कर्त्तव्यं “बल्यन्ते वैश्वदेविकम्" इति वचनात् । स खल्वयं ब्रह्मय- ज्ञस्य पूर्वोक्तस्तृतीयः कालः । (२)अथेदानीम्मनुष्ययज्ञः । तदर्थमतिथिम्भो. जयेदिति मुख्यः पक्षस्तमाह कात्यायन:-"नृयज्ञोऽतिथिभोजनम्(२)” इति । (१) तथाच वाजसनेयकल्प शुदाधिकारस्तत्र वैदिकमन्त्रसम्बन्धाभावात् । “शुद्रा वाजसनेयिनः" इत्यतएव प्रसिद्धेश्चेति आवारविवेके शूलपाणिमहामहोपाध्यायाः प्राहुः । (२) पितृयज्ञस्तु तर्पणरूपः कात्यायनोक्तः स्नानानन्तरं विहितः । यतः प्रग्गिायत्री जपरूपो ब्रह्मयज्ञः स एष स्नानसूत्रमुपक्रम्याने व्यक्तः । यश्च श्राद्धरूपोबलिरूपोवा "श्राद्ध वापितृयज्ञः स्यात्पित्र्योबलिरथापिवेति कात्सायनेनोक्तः। स साग्नेनैश्वदेवान्तएव निय- मतः । तथाच लौगाक्षि: "पक्षान्तङ्कम निर्वर्त्य वैश्वदेवं च साग्निकापिण्डयज्ञन्ततः कुर्या- ततोऽन्वाहार्यकं बुधः" इति । पक्षान्तमन्वाधानम् । अन्वाहार्यकन्दर्शश्राद्धम् । देवलोड. प्याह"अकृते वैश्वदेवे तु स्थालोपाकः प्रकीत्तितः । अन्यन्न पिण्डयज्ञातु सोऽपराहे विधी यते इति । स्थालीपाशब्देनान स्थालीपाकसाध्यानि कम्ाण्युच्यन्ते । एतानि पक्षा- न्तादीनि कर्माणि वैश्वदेवात्पूर्वमेव कर्तव्यानि । पिण्डपितृयज्ञस्यापि स्थलीपाकसाध्य- त्वेन तस्यापि पूर्वत्र कर्तव्यतायाम्प्राप्तायामपवादः । अन्यत्रेति । पिण्डपितृयज्ञादन्यत्रेत्य. । दर्शनादस्य पिण्डपितृयज्ञानन्तर्यमाह मनुः "पिण्डयज्ञन्तु निर्वयं विप्रश्चन्द्रक्षयेऽ
No text on this page.
नित्यहोमविधिः। [१ प्रपाठके- 88 MERO "कृत्वैतद्वलिकम्मेवमतिथिम्पूर्वमाशयेत् । भिक्षाञ्च भिक्षवे दद्याद्यथावद्ब्रह्मचारिणे ॥" इति स्मरति । अतिथावनागच्छति ब्राह्मणायान्यस्मा अपि भोजनन्दद्यात् । भोजनासम्भवे हन्तकार(१)-पुष्कल-भिक्षो-दपात्राणाय्यथासम्भवमेकतमन्द- द्यात् । यथाह- "भिक्षा वा पुष्कलं वापि हन्तकारमथापि वा। असम्भवे सदा इद्यादुपदात्रमथापि वा ॥" इति ॥ तन्मानमाह- प्रासमात्री भवेद्भिक्षा पुष्कलन्तच्चतुर्गुणम् । पुष्कलानि च चत्वारि हन्तकारं विदुर्बुधाः ॥" इति ।। तत्प्रकारमाह- "इदमन्नं मनुष्येभ्योहन्तेत्युक्त्वा समुत्सृजेत् ॥” इति ।। तथाचाभ्यागताय, यतिने, ब्रह्मचारिणे, वा, अन्यस्मै ब्राह्मणाय वा प्राङ्मुखोपविष्टाय भोजनपर्याप्तमन्नन्तदभावे षोडशग्रासरूपं हन्तकारं वा, चतुर्मासरूपनग्रं वा ग्रासमात्ररूपां भिक्षां वा, फलमूलादिकं वा यथाविभव मुदङ्मुखो निवीती कुशत्रयतिलजलैः इदमन्नं ॐ मनुष्याय हन्त इतिप्राजाप- त्यतीर्थेन दद्यात् । यत्याद्यभावेऽपि इदमन्नम् “ॐ सनकादिमनुष्येभ्यो हन्त" इस्युक्तविधिना दद्यात् । अथ गोग्रासः । तत्र सानघासमुष्टिं परस्य गवे दद्यात् । तामुद्दिश्य बोत्स्टजेत् । तत्र मन्त्रः "ॐ सौरभेय्यः सर्वहिताः पवित्राःपुण्यराशयः। प्रतिगृह्णन्तु मे प्रासं गावस्त्रैलोक्यमातरः" इति ।। ( इतिपञ्चमहायज्ञविधि ) अथेदानीमुक्तस्यैव विशेषोऽभिधीयते- आसीन एवाग्नौ जुहुयात् ॥ १३ ॥ आसीन उपविष्ट एव नोवों न वा प्रहः ।। १३ ।। (२) नित्यकृत्याणेवे तु-मनुष्य यज्ञे चात्रातिथित्वमविवक्षितमतिथेरनित्यत्वान्म. नुष्ययज्ञस्य नित्यत्वात्तेनातिथ्यभावेऽन्येनापि ब्राह्मणेन मनुष्ययज्ञसिद्धिः। अत एव अहरहाह्मणेभ्योऽन्ने दहादामूलफलशाकेभ्योऽथैनं मनुष्यय समाप्नोति ।" इति ब्रा. झणमा विवक्षति । एवञ्च सनकाद्यन्नदानरूप एव मनुष्ययज्ञ इति भ्रमो हेयः । सति- सम्भवेऽतिथये तदभावे ब्राह्मणाय कस्मं चिदय, सनकादिभ्योऽपीति । अयमपि वक्ष्यति "अगं ब्राह्मणाय दत्त्वा भुनाते ( १।४।२६) ति ॥ अत्रातिथिपूजाप्रयोगोनित्यकृत्त्यावे प्रयोगपद्धतावन्यत्र च द्रष्टव्यः ।। (१) एवञ्चायम्मनुष्यज्ञोऽपि त्रिविधः । तत्र मुख्योऽतिथिभोजनम् । तदसम्पत्ती इन्तकारादिदानम् । तदसम्पत्तावृदपात्रदानमपीति ॥ RAM - ४ कण्डिका गोभिलगृह्यसूत्रे- me- । आसीनः पितृ(१)भ्यो दद्यात् । यथोपपादमितरान् ॥ १४ ॥ आसीन उपविष्टः पितृभ्यो बलिन्दद्यात् हरेत् । इतरान् पित्र्यबलेरन्यान् बलीन् यथोपपादं यथोपपद्यते दानन्तथैव दद्यात् न पुनरासीन एवेत्यस्ति नियम इत्यर्थः । तेनाधिवर्चः प्रदेशस्याशुचितया दूरस्थ एव प्रक्षिप्य यादूर्ध्वः सन् । एवमन्यत्रापि । कचित्प्रः कचिच्चान्यादृश एवेति यथायथमूहनीयम्॥१४॥ स्वयन्त्वेवैतान्यावद्वसेवलीन्हरेत् ॥१५॥ यावत् गहे वसेत् तावत् एतान्सर्वान्बलीन्न पुनः पित्र्यबलेरवरानेवेत्यर्थः ।। स्वयमेव यजमानो हरेत्-निदध्यात् । अनलस: । अत्र यावद्वसेदित्युक्त्या प्रव. सन्नन्यद्वारापीति सूचयति । एतद् ( बलिहरणं ) होमादीनामप्युपलक्षणम् । तुशब्दः स्वयङ्करणपक्षे फलविशेष द्योतयति ॥ १५ ॥ अपिवाऽन्योब्राह्मणः॥१६॥ अपिवा अथवाऽशक्तौ यजमानस्य, प्रवासे वा अन्यो ब्राह्मणो बैलीन्हरेत् ॥ तथा च स्वयमशक्तावत्रि:- "पुत्रोभ्राताऽथवाऋत्विक् शिष्यस्वतीयमातुलाः । पस्नी श्रोत्रिय याज्याश्च दृष्टाश्च बलिकर्मणि ॥" इति । दृष्टाः । "प्रतिनिधित्वेने"ति शेषः ।। अथवाऽपिवेति क्षत्रियविषयमाचार्यस्य पक्षान्तरम् । तथा च मर्नु:- "पुरोहितश्च कुर्वीत वृणुयादपि चत्विजम् । तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च ॥” इति ॥ १६ ॥ तत्रापि विशेपमाह- दम्पती एव ॥ १७॥ दम्पती जाया च पतिश्चेति द्वन्द्वे "राजदन्तादित्वात्" (पा० २।२।३१) निपातितम् । “दम्पती जम्पती जायापती भार्यापती च तौ" इत्यमरः । पतिः पत्नीचोभौ एव बलीन्हरेतामिति वचनव्यत्ययेन पूर्वोक्तनाभिसम्बन्धः । अत्रै पाककरणेन सहावस्थानेन च (२)साहित्यम् । “न स्त्री जुहुयान्नानुपेत" इति वचनेन वैश्वदेवहोमे पल्या अनधिकारात्तत्सहभूतबलिहरणमपि पल्याः साग्निपतिवैदेश्ये सायमेव । तदपि सति पाके पतिताद्यन्नदानान्तं ह्येव । "साय- न्त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत्" इति मनुना बोधितमिति स्मृतिदा. पिकाकारः । इदंपत्नीकर्त्त कबलिहरणं यजमानानुपस्थितावित्याचारादर्शः॥१॥ (१) अन्नदद्यादित्यन्तः पाठोभट्टभाष्ये पूर्वसूत्र एव दृष्टः॥ (२) द्वन्द्वार्थोहि साहित्यन्तदेत-"वैश्वदेव निमित्तन्तु पतल्या सार्द्ध बलिं हरेदिति विष्णुपुराणीयवचनव्याख्यायाम्पत्न्या सार्द्ध मिति वाक्यमुपादाय स्मृतिदीपिकायां व्या. ख्यातमित्यनुपदं स्फुटीभविष्यति ॥ ।
६० बलिहर णविधिः। [१ प्रपाठके min इति गृहमेधिव्रतम् ॥१८॥ इति एवमहरहः पञ्चानां यज्ञानामनुष्टानं गृहमेधिव्रतम् गृहै रैमेधन्ते सङ्गच्छन्त इति गृहमेधिनः । “मेधृसङ्गमे" ताच्छील्ये णिनिः (पा० ३।२।७८) सपत्नीकास्तेषां व्रतम् शास्त्रविहितोनियमइत्यर्थः । तदेवम् । पञ्चयज्ञावशिष्ट- मन्नन्दम्पती भुजीयाताम्- "भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैवहि । भुजीयातान्ततः दश्चादवशिष्ठन्तु दम्पती ॥" इति-स्मरणात् । खेषु-आत्मीयेषु गृहस्थितबन्धुवर्गेषु बालवृद्धातुरपूर्व- केषु ।। अकृत्वा च पञ्च महायज्ञान्भुञ्जतोस्तयोर्बतलोपोभवति । ऋते सुवासि. नीप्रभृतिभ्यः । तदाह मनु:- "सुवासिनी: कुमारीश्च रोगिणो गर्भिणीस्तथा। अतिथिभ्योऽय एवैतान्भोजयेदविचारयन् ।। अदत्त्वा तु य एतेभ्यः पूर्व भुङ्क्तेऽविचक्षणः । स भुजानो न जानाति श्वगधे ग्धिमात्मनः ॥" इति । गौतमोऽपि भोजयेत्पूर्वमतिथि कुमारव्याधितगर्भिणीसुवासिनी- स्थविराजघन्यांश्चे"ति ।। १८॥ स्त्री ह सायं प्रातः पुमानिति ॥ १६॥ स्त्री-पत्नी ह किल। स खल्वयमैतिद्यार्थो(१) निपातः। एवं ह्याख्यायते बृद्धः। सेयं पत्नी सायं रात्रौ (पुनः पाके सति(२)) बलिं हरेदमन्त्रं तूष्णीमि- (१) इति होचुर्वृद्धा इत्यति प्रमुच्यते। इतिहेति निपातसमुदायात्स्वार्थेभ्यप्रत्ययः। (पा० १।४।२३) वस्तुतम्तु प्रसिद्धार्थ एवेति बोध्यम् । (२) एष कुण्डलितः पाठः वैश्वदेवहोमस्य पाकसंस्कारकत्वपक्षं कक्षीकृत्य । तथा चाचारचिन्तामणौ सायं प्रातर्वेश्चदे कत्तव्योबलिरेव च । अनकाताऽपि सततमन्यथा किल्विषोमवेत् ॥” इति च्छन्दोगपरिशिष्टादनश्नताऽपि गृहस्थेनातिथ्याधनुरोधेन द्विः पाकतापक्षे द्विरवश्यवैश्वदेवकार्यमिति वाचस्पतिः ॥ स्मृतिदीपिकायां वामदेवमहामहो- पाध्याया अपि-वैश्वदेवमुपक्रम्य-पुनः पाकाभावे तु नेदङ्कायंमित्याहुः ॥ वस्तुतस्तु-पुरुषसंस्कारेषु पञ्चयज्ञानाम्पाठोगौतमेन कृतः b...सहधर्मचारिणो- संयोगः । पञ्चानांमहायज्ञानामनुष्ठानन्देव-पितृ-मनुष्य-भूत-ब्रह्मणाम्" इति । "वैश्वदेवं हि नामेतत्सायं प्रातर्विधीयते” इति मनुनाविशेषतयवास्य विधानेनापि पुरुषार्थत्वम. वगम्यते । "स्वाध्यायेन व्रतामैस्खंविद्येनेज्यया सुतैः । महायाज्ञैश्च यज्ञश्वब्राह्मीयं क्रियते तनुः ॥ इत्यादिमानवादिस्मरगाच पुरुषार्थामदङ्कर्म यथाकथञ्चिन्निपर्तनीयमिति स्थि. ति। अत एव स्मृतिदीपिकायामुक्तम् "वंदेवश्च नानसंस्कारकः । मानोभावात् । "आय्याः प्रयता अन्नसंस्कारकाः" इत्यापस्तम्बवचनन्तु अन्नपाचकत्वं प्रयतानाम्बो- धवति न तु वैश्वदेवस्य सिद्धान्नसंस्कारकत्वम् । अत एवाऽकृते वैश्वदेवे श्राद्धं सिद्धान्नेन ॥ - ४ कण्डिका ] गाभिलगृह्मसूत्रे- AN MED त्यर्थः । तथाच मनुः- "सायन्त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् । वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ॥" इति । तदनेन रोत्रावपि वैश्वदेवबलिकर्मणोरविशेषेण कर्त्तव्यत्वन्दर्शि- तम्(१) । प्रातरहनि पुमान् समन्त्रमित्यर्थः । बलिं हरेत् । अत्र स्मृतौ-सिद्ध- स्यान्नस्येति पक्षप्राप्तमनद्यते न तु विधिस्सितम् : सायं बलिं हरेदित्येव । तचा. नाभावे फलादिनाऽपि । तथाच चतुर्विशतिमते- "अलाभे येन केनापि फलशाकोदकादिभिः । पयोदधिकृतैर्वापि वैश्वदेवं स्रुवेण तु ।। हस्तेनान्नादिना कुर्यादभिररूजलिना जले ।।" इति । तत्रापि यदनीयन्तेनैव होमस्तथाच परिशिष्टे- "शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । सङ्कल्पयेद्यदाहारं तेनैव जुहुयाद्धविः ॥" इति । इतिकरणं बलिप्रकरणसमाप्तिख्यापकम् ।। १९ ॥ तदिदं बलिहरणंमहरहर्यत्पच्यते तेनैवान्नेन कर्तव्यम् । न खल्वेष निय. मोवैश्वदेवेनैवान्नेन विधेयमित्याह- सर्वस्य त्वेवान्नस्यैतान्बलीन्हरेत् पित्र्यस्य वा स्वस्त्ययनस्य वार्थार्थस्य वा ॥ २०॥ सर्वस्येत्यनेन येन केनाऽपि बलीन्हरेत् । पित्र्यस्य पितृकर्मार्थ शृतस्य अमावस्यादावन्वाहार्याद्यर्थस्येत्यर्थः । अत्र तस्येदमित्यर्थे "पितुर्यच्च” (पा. ४।३।७९ ) इति यति "रीतः” ( पा० ७।४।२७ ) इति रीडो “यस्येतिच" HAHDOL युज्यते वैश्वदेविकाकान्ननिषेधश्च भोजनप्रकरणीयो। वैश्वदेवविमुखस्वामिकान्नविषयको "नात्माम्पाक्यदन्नमिति निषिद्धपाकान्नपरोवेति ॥ (१) अत्र च्छन्दोगााह्नके श्रीदत्तोपाध्याय। आहुः "इदै पत्नीकर्स के बलिहरणं यज मानतत्पुत्रादीनामसन्निधान इति केचित्। अन्ते तु-"स्वयन्त्वेवैतान्बलीनित्यारभ्य- "स्त्री हि सायं प्रातः पुमानिति गोभिलगृह्यानुसारागृहमेधिवतपक्षे सायं पत्नीकर्तृकमेव बलिहरणं तत्परन। मानववचनमिति वर्णयन्तीति । वसिष्ठ: "वैश्वदेवं सायम्प्रातर्गृह्येऽनो जुहुयात्" इत्यादि। वैश्वदेवं विश्वदेवदेवताकम्। सायमिति । पुनः पाकान्नेन। "पुनः पाक. सुपादाय सायमप्यवनीपते । वैश्वदेवनिमित्तन्तु पत्न्या साई बलि हरेत ॥ तत्रापि वपचा. दिभ्यस्तथैवान्नापवर्जनम् ।" इति विष्णुपुराणवचनात् । गृह्य-आवसध्यानौ इति तु सामिविषयम् । इत्याचारचिन्तामणिः । पत्न्या साईमिति पाककरणेन सहावस्थानेन च साहित्यम् । ।
[१ प्रपाठक । ६२ बलिहरणविधिः। (पा० ६।४।१४८) इतीकारलो. ॥ वा-अथवा स्वस्त्ययनस्य(१) तदर्थ पक्कस्य । अर्थार्थस्य स्वसमीहितसिद्धयर्थस्य। (२)वाशब्दोऽयां कैमुतिकन्यायम- नुस्मारयति। पूर्वतनावनास्थायान्तेन यथाकथञ्चित्पक्वस्येत्यर्थ आयाति । अत्र तु शब्दोऽस्यैव बलिहरणस्य कालविशेषद्योतनार्थः । पूर्वन्तु तावद्वलिहरणकुर्या- त्पश्चाब्राह्मणं भोजयेदिति चन्द्रकान्तभाष्यम् ।। २० ।। तदिदं वलिहरणम्। यज्ञादेव निवर्तते ॥२१॥ यज्ञो ज्योतिष्टोमादिस्तस्माद्धेतोनिवर्त्तते । यद्वा सप्तम्यर्थे व्यत्ययेन (पा० ३।११८५ ) पञ्चमी। यज्ञे निवर्तते । बलिहरणञ्च होमादीनामप्युपलक्षणम् । "तस्माद्दीक्षितो न ददाति, न पचति, न जुहोति" इति च ब्राह्मणम् । न ददा. तीत्यादि दीक्षणीयेष्टेरन्यत्र बोध्यम् । एवशब्दो बलिहोमादेरावश्यकत्वप्रद- र्शनार्थ. । नान्यथा आपद्यपि निवर्तते इति । तथा च स्मरन्ति- "आपद्यपि हि कष्टायां पञ्चयज्ञान हापयेत् । स्वर्गापवर्गयोः प्राप्तिं महायज्ञैः प्रचक्षते॥" इति । सोऽयं सामान्यविधिरपवादविधिनाऽनेनोपरुध्यते । न पुनरेतावता- ऽशोचेऽपि कर्त्तव्यतैवामीषामिति भ्रमितव्यम्- "सन्ध्यां पञ्चमहायज्ञान्नैत्यकं स्मृतिकर्म च । तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया ॥" इति-स्मरणात् ॥ “पञ्चयज्ञविधानञ्च न कुर्यान्मृत्युजन्मनोः" इतिचैव- मादिस्मरणात् ।। २१॥ यद्यकस्मिन्काले व्रीहियवौ प्रक्रियेयातामन्यतरस्य कृत्वा कृतम्मन्येत २२ यदि-एकस्मिन् भोजनकाले दिवैव वा रात्रावेव वा-इत्यर्थः । व्रीहियवौ उभौ। नानाजातीयानोपलक्षणमेतदित्याचारचिन्तामणिः । प्रक्रियेयाताम् । प्रकण भक्तकरम्भपायसशक्कुल्यादिभेदेन क्रियेयाताम् कृतौ भवेतान्तर्हि अन्यतरस्य एकतरस्य व्रीहे र्यवस्य वा विकारैः कृत्वा बलिहरणं कृतं सम्पादितं मन्येत जानीयात् । न पुनरन्यस्यापि कर्त्तव्यमित्यर्थः ॥ २२ ।। यद्यस्मिन्काले पुनः पुनरन्नं पच्येत सकृदेवैतबलितन्त्रं कुर्वीत २३ (१) स्वस्तीलभिप्रेतार्थ सिद्धि माचष्टे-तस्यायनं प्रापकं यत्कर्म ब्राह्मणभोजना. दिफन्तस्वस्त्ययनं, स्वस्ति ईयते प्राप्यतेऽनेनेति करणे ल्युट्। "स्नेहवदमांसमन्नं ब्राह्म. णान्मोजयित्वा स्वस्ति हैषाम्भवतीत्येव नादिवचनात् । (२) चन्द्रकान्तभाष्ोतु-अर्थोधनम् अर्थः प्रयोजन यस्य पुरुपस्य सोऽयमर्थार्थः । यस्मात्पुरुषादर्थभाशास्यते तदर्थम्पकस्येत्यर्थ इत्युक्तम् ॥ अवयवलक्षणा चात्र षष्ठी पूर्ववत् । - " Mamo ४ कण्डिका ] गोभिलगृह्यसूत्रे- ६३ यद्येकस्मिन्काल इत्युक्तार्थम्। पुनः पुनर्भूयोभूयः । अन्नं पच्येत अतिथ्यादि. बाहुल्यवशात् । तथापि सकृदेकवारमेव एतदलितन्त्रम्बलिहरणं कुर्वीत न प्रति. पचनमित्यर्थः ॥ २३॥ भ्रातणां मिन्नपाकत्वेऽपि मुख्यपाकादेव बलिहरणमित्याह-- यहोकस्मिन्कुले बहुधाऽन्नं पच्येत गृहपतिमहानसादेवैतद्ध लिकर्म कुर्वीत ॥ २४ ॥ यदि-एकस्मिन्कुले गृहे एकपाकोपजीविभ्रात्रादिवर्गेवा। तथाच मेदिनी "कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने च तनौ क्लोबम्" इति ।। बहुधा बहुप्रकारेण ( बहुषु महानसेषु ) अन्नं पच्येत कुतश्चित्कारणात्कदाचि. व्रातपुत्रादीनां भोजनसौकर्याथै वा, तर्हि एषां यो गृहपतिस्तस्य महानसादेव नप्रति महानसात् । स्मरति च बृहस्पतिः "एकपाकेन वसतां पितृदेवद्विजाऽर्चनम् । एकं भवेद्विभक्तानां तदेव स्याद् गृहे गृहे ।।" इति । देवार्चनं वैश्वदेवः । कः कुर्वीतेत्यपेक्षायां ? गृहपतिस्तदशक्तौ त. प्रतिनिधिर्वेति बोध्यम् ।। २४ ।। अमीषाम्मध्येऽमुख्यस्यादौ पाके तेन तूष्णीमेवाग्नौ किञ्चिदलवणं प्रक्षिप्य किञ्चिच बाह्मणाय दत्त्वा भोक्तव्यमित्याह- यस्य त्वेषामग्रतः सिद्धयेत् (१)नियुक्तमग्नौ कृत्वाऽयं ब्राह्मणाय दत्त्वा भुञ्जीत ॥ २५ ॥ एषामेकपाकोपजीविनाम्मध्ये यस्य तु अग्रतः प्रथमम् । गृहपतिपाकात् सिद्ध्येत् निष्पद्येत पाकः, स किञ्चिदन्नम् अग्नौ नियुक्तं कृत्वा-हुत्वा । अग्रं चतुर्मासमितमन्नं ब्राह्मणाय दत्त्वा भुजीत ॥ तुशब्दो विशेषार्थः । अनावश्य- कत्वेऽपि वैश्वदेवादीनामयमस्य विशिष्यते यदग्नौ नियोज्यमनं च ब्राह्मणाय दातव्यमिति ॥२५॥ यस्योजघन्यं भुञ्जीतैवेति ॥ २६ ॥ उ इति पुनरर्थोनिपातः । अपार्थोंवा । (२)यस्य पुनर्जघन्यं पश्चात् गृहपति- पाकात् सिद्ध्येत्पाकः स भुञ्जीतैव न पुनरग्नौ नियुब्जीत ब्राह्मणाय वा दद्या. द्वलि वा हरेत् । अन्ये तु पठन्तियः सोजघन्यं भुजीतैवे"ति । मुखीतेति पूर्वप्रकृतमनुवर्तते । य: जघन्यं पश्चाद्भुजीत स उ भुजोतैव ना. न्यत्किञ्चित्कुर्यादित्यर्थः । अत्रार्थे सोर्लोपा-(पा० ६।१।१३२) भावश्छान्द- (१) “स निहनुतमेवानौ हुत्वाऽमित्येवं पाठः क्वचित्पुस्तके निहनुतंतूष्णीम् । (२) निस्थकः । ( निरु० १६६) - अत्र पाठे बलिहरणविधिः। [१ प्रपाठके- सः । इति निमलिक मप्रकरणसमाप्तिं द्योतयति(१) ।। २६ ।। अथाऽप्युदाहरन्ति ।। २७ ॥ अथ-अनन्तरं यत्कर्तव्यन्तदप्युदाहरन्ति "ब्राह्मणवाक्यानि इति शेषः २७ एतस्यैव बलिहरणस्यान्ते कामं प्रबुवीत भवति हैवास्थ ॥ २६ ॥ एतस्य नित्यस्य एव बलिहरणस्यान्तेऽवसाने, न पुनः काम्यानामपि बलीनामनन्तरमित्यर्थः । कामं काम्यत इति कामस्त(२)मभिलषितमायुरारो. ग्यादिकं प्रब्रुवीत प्रकर्षेण लामार्थङ्कथयेत् । अग्निमुद्दिश्य प्रार्थयेदित्यर्थः । "मनोह वै देवा मनुष्यस्य जानन्ती"ति श्रवणान्मनसैव प्रार्थना माभूदिति व्यक्तवागर्थस्य ब्रवीतेः प्रार्थनार्थकलिङन्तस्य प्रयोगः । प्रार्थनाचेयं वामदेव्य. गानात्पुरस्तात्कर्त्तव्या तदाह नित्यान्बलीनभिधाय कात्यायन "स्पृष्ट्वापो वीक्ष्यमाणोऽग्नि कृताञ्जलिपुटस्ततः । आयुरारोग्यमैश्वर्य प्रार्थयेद्रविणोदसम् ।।" इति । द्रविणोदसमग्निम्(३)। तथा- "आयुरारोग्यमैश्वयं धीधृतिः शं बलं यशः । ओजोवर्धः पशून्वीर्य ब्रह्म ब्राह्मण्यमेव च ।। सौभाग्यङ्कर्मसिद्धिञ्च कुलज्यैष्ठं सकर्तृताम् । सर्वमेतत्कर्मसालिन्द्रविणोदो रिरीहि नः ।।" इति । रिरीहि-प्रयच्छ। आयुरारोग्यमित्यादिप्रार्थनामन्त्रः । सखल्वयं प्रा- थितः कामो भवति निष्पद्यत एव ह किल । अस्य प्रार्थयितुरित्यर्थः ॥ २८ ॥ स्वयन्त्वेवासस्यं बलिं हरद्यवेभ्योऽध्याब्रीहिभ्यो ब्रीहेिभ्योऽध्या- यवेभ्यः । सत्वासम्यो नाम बलिर्भवति ॥२८॥ तुशब्दः सुभूमिकरणादिकं विशेष स्मारयति । नित्यबलिवत्सुभूमिकरणम् (१) अन चन्द्रकान्तभाष्यम् "सेयम्पन्चसूत्री द्रव्यस्य कर्थितामाह । कर्मणश्च पुरुषार्थताम् । कर्मणां द्रव्यार्थत्वे खल्वावत प्रति व्यङ्कर्म, तदननुजानान आचार्य: पुरुषार्थत्वममीषान्दर्शयति । द्रव्यार्थत्वे खल्वमीषां वचनानामष्टार्थत्वकल्पनीयं स्यान्न चैतदुचितं सम्भवन्त्यां गतौ । तस्माद्यथोक्त एवार्थः । इति ॥ (२) काममित्येकवचनेनायुरादीनामन्यतमं ये यमिच्छे तन्तमेव प्रार्थयेत् नैकस्मि- काले बहूनिति । "दीर्घायुष्यं मेऽस्तु “ऐवयंम्मेऽस्तु" "पशवो मे सन्तु" इत्येवमादी. नामेकामति भहभाष्यम् । (३) तथाच निरुक्तम् "अयमेवाग्निविणोदा इति शाकपूणिः (८२६) द्रविणसू शब्दोऽयालोकेऽदन्तः प्रयुज्यते । तथाच हैमः "द्रविणं काञ्चने धने । पराक्रमे बले च स्यादिति॥ । ।
" SONING काण्डका गोमिलगृह्यसूत्रे- उभयतः परिषेक इत्येवमादिकया रीत्या बासस्यं तन्नामकं बलिं स्वयमेव हरेत् न पुनःप्रवासादावप्यन्येन तं कारयेत् । उक्तश्चायमर्थः स्वयमेव हरेत्कामान्" इत्यादिगृह्यान्तरेण । कोऽयमालस्बोनाम बलिः कस्यै च हर्तव्यः ? इत्यत्राह- यवेभ्य इति । अत्र चतुर्थ्या त्यागोदेश्यत्वलक्षणं देवतात्वं यवानामभिधीयते । यथाचोक्तम्- "तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन चेष्यते । देवतासङ्गतिस्तत्र दुर्बलन्तु परं परम् ।।" इति । तस्माद्यवदैवतोऽयं वलिः “यवेभ्योनमः” इति प्रयोक्तव्यः । बलि. कालमाह-अधि उपरि । अर्थाद्यवोत्पत्तरेव ! अवधिकालमाह बाबीहिस्य इति । व्रीयुत्पत्तेरा-अर्वाक् । इत्यर्थः । एतेन त्रीहिभ्योऽध्यायवेभ्य इति व्याख्यातम ।। स त्वासस्य इति । स इति प्रकृतपरामशिना सर्वनाना नि- रपेक्षं बलिद्वयं परामृश्यते। तुशब्दोऽन्येभ्योवलिभ्योऽस्य वैशेष्यमवग- मयति(१) । स खल्वयं बलिरेकस्मात् सस्यादारभ्यापरसस्यपर्यन्तं कर्तव्यत्वा- दासस्योनाम(२) भवति ॥ २९ ॥ दीर्घायुहेव भवति ॥ ३०॥ दीर्घमायुर्यस्य सोऽयं दीर्घायुह-किल(नून) भवत्येव । नाऽल्पायुरयं य. जमानोभवतीत्यर्थः ॥ ३०॥ विश्राणिते फलीकरणानामाचामस्यापामिति बलिं हरेत् स रौद्रो भवति स रोद्रो भवति ॥ ३१ ॥ इति गोमिलीयगृह्यसूत्रे चतुर्थी कण्डिका ॥१॥४॥ * ॥ विशेषेण श्राणिते "श्रणुदाते" (चु०प० ) इति स्मरणादत्तेऽन्ने क्षीण- प्राये इत्यर्थः । एवञ्च रात्रा(३)वयं बलिर्भवति । तत्र हि सर्वमन्नं श्राणितन्दत्तं तीणप्रायं भवतीति भट्टभाष्यम् ।। शिष्टान्नानां फलीकरणानां तुषाणामाचाम- स्य भक्तमण्डस्य "मासराचामनि (वि)लावा मण्डे भक्तसमुद्भवे" इत्यमरः । स्मयते च "ओदनापद्रवं प्राहुराचामं हि मनीषिणः” इति । अपाम् उदकस्य च । अवयवार्थेऽत्र षष्ठ्यः । इतिना मिलितमुच्यते । त्रीण्येतान्येकीकृत्येत्यर्थः । (१)स्वयमेव खल्वयं बलिहर्तव्योलोप एवास्य प्रवासादावित्युक्तप्रायम् । (२) अन्ना हीयं संज्ञा आशारत्सस्यादावसन्तसस्येन यस्य हरणम् । एवमावस- न्तसस्यादाशरत्सस्येनेति । सोऽयमासस्योनामेति ॥ (३) तथाच गृह्यान्तरम्- "यक्ष्मणे चोदकन्दद्याद्यक्ष्मैतत्त इति ब्रुवन् । आरोग्यमस्य तेन स्यात्सायं रौद्राद्यथेप्सित- म्॥” इति । अत्रयथेप्सितमिसि वचनाद्यत्किञ्चित्कामयते तद्रौदबले: फलमवगच्छामः ॥ ९ गो० गृ० सू० - ।
अथ दर्शपौर्णमासविधिः। [१प्रपाठके- बलिं हरेत् । स खल्वयं बलिः रौद्रो रुद्रदेवताको भवति ॥ अन्तेऽभ्यास: क. ण्डिकापवर्गद्योतनार्थः ॥ ३१ ॥ इति श्रीमदोभिलीयगृह्यसूत्रव्याख्याया-'मृदुला" ख्यायां मुकुन्दशर्मसङ्कलितायां प्रथमप्रपाठकस्य चतुर्थी ऋण्डिका ॥१॥४॥*॥ अथ पञ्चमी कण्डिका- ( अथ दर्शपौर्णमासप्रकरणम् ) पञ्चमहायज्ञानभिधायेदानीन्तद्वन्नित्यौ दर्शपौर्णमासौ विवक्षुराह-- अथ दर्शपौर्णमासयोः॥१॥ अथे-त्ययमधिकारार्थः । दर्शश्च पोर्ण पासश्च(१) तयोरधिकार "इदानी वतिष्यत" इति वाक्यशेषः ॥ १॥ तत्र तावदुपवासपूर्वकत्वादर्शपौर्णमासयोरुपवासव्यवस्थैव प्रथममभिधा- तव्या । तत्रापि-"दर्शान्तं पौर्णमासाद्यमेकमेव प्रचक्षते', इति कर्मप्रदीपवच. नात्पौर्णमासादित्वावगमात् पौर्णमास्यास्तावद्वयवस्थोच्यते. सन्ध्यां पौर्णमासीमुपवसेत् ॥२॥ राज्यह्रोः सन्धिः सन्ध्या-(स्वार्थे(२)यत्प्रत्ययः) "अहोरात्रस्थ यः सन्धिः सूर्यनक्षत्रवजितः। सा च सन्ध्या समाख्याता मुनिभिस्तत्त्वदर्शिभिः॥" इत्युक्तलक्षण । सा खल्वियं परैव सन्ध्या गृह्यते इति वक्ष्यामः । यद्वा(३) सन्धिकालावच्छिन्नां, यस्यां किल वोर्णमास्यां सन्ध्यायामेव-( सवितुरस्तमय- समकालमेव ) पूर्णश्चन्द्रमाः समुदेति सा पौर्णमासी सन्ध्येत्युच्यते । तामिमा- म्प्राप्य-तस्यामुपवासङ्घर्यादित्यर्थः । उपवासः खल्वयमुपावृत्तस्य पापेभ्यो गुणैः सह वासोवक्ष्यमाणोपवसथानुष्ठानं यथोक्तकारालञ्चाभोजनमुच्यते । न पुनर- होरात्रमभोजनम् । "औपवथिक दम्पती भुजीयाताम्" इति तदहर्मोज- नोपदेशात् । (१) ततश्च यथा पूर्वत्र विकल्पो जुहुयाद्वा हावयेद्वेति एवमिहापीति बोध्यम् । (२) "तद्धिता.” (पा० ४।११७६) इत्यधिकारसूत्रे बहुवचनमनुक्तानामिटिक- न्यदादीनामपि विधानायेति व्यक्तं मनोरमादौ। (३) पूर्वव्याख्यायां लक्षणामपेक्ष्यावच्छेदकत्वलक्षणविषयसतम्यन्ताद्भवाथै (पा० अश११.) यदवकल्पे साधीयान्प्रति भाति । दृष्टश्चायमवच्छेदकत्वलक्षणसप्तम्यर्थः । "गृहीत्वा चास्य केशेवि-मत्यादिषु ॥ (मा० पु० दे०मा०) - ६ कण्डिका ] गाभिलगृह्यसूत्रे- "उपावृत्तस्य पापेभ्यो यस्तु वासोगुणैः सह । उपवासः स विज्ञेयो न शरीरविशोषणम्” इति च स्मरणम् । एके पुन: "उपास्मिन् श्वोयक्ष्यमाणा देवा वसन्ति एवं विद्वानग्निमुपस्तृ- णाति" इति तैत्तिरीयत्राह्मणं पश्यन्तः "उपवासोऽग्न्याधानम्" इतिवर्णयन्ति। तदप्यादरणीयम् “पुर्वेधुरग्नि गृह्णाति उत्तरमहर्देवतां यजते" इत्येवमादिशा- स्त्रादप्येतदवगमात् ॥ २॥ उत्तरामित्येके ॥३॥ सन्ध्याम्पौर्णमासीमनुपोष्य पौर्णमासीमुपवसेत्सखण्डामपीत्येक आचार्या मन्यन्ते । अपरे पुनरुत्तराम्पौर्णमासीतः, प्रतिपदमुपवसेत् । इति मन्यन्ते । न वयमेवं ब्रूम इत्यर्थः । तथाच रौरकीये ब्राह्मणम् । “द्वे ह वै पौर्णमास्यौ द्वे अ- मावास्ये, तस्मात् प्रतिपद्युपवसन् यजेतापरेधुः” इति । तस्मात्परशाखिकोऽयं पक्षः कौथुमीयो न भवति ॥ ३ ॥ अत्र "त्रयः पौर्णमासीकाला भवन्ती" त्यत्र पौर्णमासीकथायाः सम्भाविनं प्रसङ्गमपर्यवस्यन्नेवामावास्यायाः खल्विदानी व्यवस्थोच्यते- अथ-यदहश्चन्द्रमा न दृश्येत ताममावास्याम् ॥ ४ ॥ अथ-उभयत्रामावास्यालाभे यद्हर् यस्मिन्नहनि चन्द्रमा न दृश्येत नावल्लो- क्येत । ताममावास्यामुपवसेदित्यनुवर्तते । सा खल्वियं कुहूरुच्यते इति सैवो- पवस्तव्या न सिनीवाली। तस्यां खल्ववलोक्यते प्रातश्चन्द्रमाः। तस्मान्नात्र क्षयलक्षणा । तदिदं सूत्रं वर्द्धमानाभिप्रायम् । कात्यायनोऽप्याह- "वर्द्धमानाममावास्यां लक्षयेदपरेऽहनि । यामांस्त्रीनधिकान्वापि पितृयज्ञस्ततोभवेत् ॥” इति ॥ ४॥ कस्याश्चिदमावास्यायाः कस्याश्चिच्च पौर्णमास्या उपवासव्यवस्थामभिधाय अथेदानीन्दर्शपौर्णमासयोः कश्चिनियमः पौर्णमास्यमावास्ययोश्च स्वरूपं वक्त व्यमित्युत्तरोग्रन्थ आरभ्यते-अथ तत्र- कस्मात्पुनः कारणात्पौर्णमास्याममावास्यायाञ्चोपवासो व्यवस्थाप्यते ? न पुनश्चतुर्दश्यामुपोष्य तयोरेवेन्यते(१)इत्यस्यां जिज्ञासायामिदं सूत्रमारभ्यते। पक्षान्ता उपवस्तव्या पक्षादयोऽभियष्टव्याः ॥५॥ पक्षोऽर्द्धमासः । स च शुक्लकृष्णभेदाद्विविधः । तदन्तातिथिश्च द्वयी पौर्ण- मासी अमावास्या च । बहुवचनं व्यक्तिभेदाभिप्रायम् । तदयमर्थः । पक्षाणा- (१) तथा चामरः “सा दृष्टेन्दुः सिनीवाली सानष्टेन्दुकला कुहूः" इति । सा अमा. वस्या । अमा-सह-वसतश्चन्द्राकौं यस्यां सा । अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौस त्यां पाक्षिकोहस्वश्चनिपात्यते इति “अमावस्यदन्यतरस्याम्" (पा० ३३०१२) इति सूत्रवृत्तिकृतः प्राहुः॥
Num दर्शधौर्णमालविधिः। [१ प्रपाठक मन्ता अवसानतिथय उपवस्तव्याः। पक्षाणामादयः प्रतिपदाश्च अभियष्टव्याः आभिमुख्येन यष्टव्या इति। अस्मादपि कारणात् पौर्णमासीमुपवसेन्नोत्तरा- मित्यवधार्यते॥५॥ आमावास्येन हविषा पूर्वपक्षममियजते पौर्णमासेनापरपक्षम् ॥६॥ अमावास्यायाय्यदुपक्लुप्लं हविस्तदामावास्यम् इत्युच्यते । तेनामावास्येन हविषा पूर्वपक्षं शुक्लपक्षमभियजते । पौर्णमासेन पौर्णमास्यामुपक्लुप्तेन हविषा अपरपक्ष कृष्णपक्षम् अभियजत इत्यनुषज्यते । पूर्वपक्षप्रतिपदिष्टया कृत्स्न एव पूर्वः पक्ष इष्टोभवति । अपरपक्षप्रतिपदिष्ट्या च कृत्स्नोऽपरपक्ष इत्यभिप्रायः । न खलु पक्षमभिव्याप्यष्टिराम्नायते तस्माद्यथोक्त एवार्थः ॥ ६ ॥ अथ केयं पौर्णमासी का वाऽमावास्या ? तदुच्यते- यः परमोविश्कर्षः मूर्याचन्द्रमसोः सा पौर्णमासी यः परमः सङ्कर्षः सामावास्या ॥७॥ यः परमो महान् विप्रों व्यवधानं सप्तमराश्यवस्थानं सूर्याचन्द्रमसोः सा पौर्णमासी पूर्णिमा । इत्येकोऽर्थः । सा इति विधेयपौर्णमास्यपेक्षया स्त्रीत्वम् । यः खलु परमः सङ्कर्षः सन्निकर्षः । एकराश्यवच्छेदेनैकांशावस्थानं सूर्याचन्द्रम- सोः सा अमावास्या दर्शः सूर्येन्दुसङ्गम इत्यनर्थान्तरम् ॥७॥ एवं प्रासङ्गिकाङ्कथामवसाय प्रकृतामेवामावास्याव्यवस्थामाह- यदहस्त्वेव चन्द्रमा न दृश्येत, ताममावास्यां कुर्वीत ॥८॥ न दृश्यत न दर्शनं सम्भाव्येत आगमबलात् क्षीण इत्यवगम्येत ताममावा. स्यां कुर्वीत । तुशब्दश्चशब्दार्थः समुच्चये । एवशब्दोऽवधारणार्थः । उपवास- मन्यञ्च यद्विहितम् "अमावास्यायां तच्छाद्धमितरदन्वाहा~म्" इति । तदपि तस्यामेव कुर्वीतेत्येवमवध्रियते । तदनेन उपवासपिण्डपितृयज्ञान्वाहार्म्यश्राद्धा. नामेकस्मिन्काले कर्त्तव्यत्वमवगम्यते । अत एव कात्यायनोऽमीभिरेव वचनैः श्राद्धमपि व्यवस्थापयाञ्चकार ।। तदिदं क्षीणामावास्याऽभिप्राय सूत्रम् । क्षय. श्चात्र लक्ष्यते अतो “यदइश्चन्द्रमा न दृश्येत ताममावावस्याम्" इत्य- नेन सूत्रेण न पौनरुक्त्यम् । तत्र खल्ववलोकनाभावोऽर्थः, वर्द्धमानाभिप्रायब्च वचनम् । इत्यवोचाम । तदाह कात्यायन:- "पिण्डान्वाहार्मकं श्राद्धं क्षीणे राजनि शस्यते । वासरस्य तृतीयांशे नातिसन्ध्यासमीपतः।। यदा चतुर्दशी यामं सुरीयमनुपूरयेत् । अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते ।। यदुक्तं यदहस्त्वेवं दर्शनं नैति चन्द्रमाः। 1 Bemisa ...
६ कण्डिका ] गोभिलगृह्यसूत्रे- ६९ । -- अतएव - तत्क्षयापेक्षया शेयं क्षीणे राजनि चेत्यपि ।। इति । तथाच श्रूयते "अपराले ददाति तस्मिन् क्षीणे ददाति" इति । “एष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः । स एतां रात्रि क्षीयते तस्मिन्क्षीणे ददाति" इति च शतपथीये ॥ ८॥ यस्माच्चतुर्दश्यामपि चन्द्रमाः क्षीयते-तस्मात-- दृश्यमानेऽप्येकदा गताध्या भवतीति ॥ ४ ॥ दृश्यमानेऽपि चन्द्रे । तदिदं चतुर्दशीमभिप्रेत्य वचनम् । अस्यापि ख. ल्वमावास्याविषयत्वे पूर्वेणैव सूत्रेण सिनीवाल्या विधानादर्थत एव तत्र प्रात. श्चन्द्रमसोदर्शनस्य प्राप्तत्वादनुवादापत्तः । एकदा-एकस्मिन्काले । यदा खलु विप्रकृष्टायाममावास्यायामपेक्ष्यमाणायां सन्ध्यासमीपमुहूर्त स्यात्तदैव न स- वंदा इत्यर्थः । गताध्वा-गतः प्राप्तो देवपितृलोकप्रापणाय अध्वामार्गः अनया सेयं गताध्वा प्रशस्ता भवति चतुर्दश्यपि । तदाह कात्यायन:- "यच्चोक्तं दृश्यमानेऽपि तच्चतुर्दश्यपेक्षया । अमावास्यां प्रतीक्षेत तदन्ते वापि निवपेत् ॥” इति । "दर्शस्तत्र निमित्तं वै कालश्चन्द्रक्षयात्मकः ।” इति क्षीणामावास्याविषयं स्मरणम् । इतिरमावास्याव्यवस्थोपसंहारार्थः।।९।। एवममावास्याकथामवसाय पर्यवसिताम्पौर्णमासीकथामनुवर्त्तयति- त्रयः पौर्णमासीकाला भवन्ति, सन्ध्यावाऽस्तमितोदया वोच्चैर्वा ॥१०॥ त्रय-स्त्रिसंख्याका एव । ते खल्विमे विभज्य प्रय॑न्ते-सन्ध्या वेति । सन्ध्या तावदुक्तलक्षणा सा वा। अस्तमितोदितावा। अस्तमिते सवितरि चन्द्रमाउदितो यस्यां सेयमस्तमितोदिता सो वा । उसैर्वा । यस्यामुच्चैः स्थिते कलाहीने समुदिते चन्द्रमसि पश्चात्सवितुरस्तमयः स्यात्सेयमुच्चैः पूर्णमास्युच्यते । सा वा । इयं किल चतुर्दशीमिश्रा भवति । पुराणेऽपीत्थमेव पौर्णमासीप्रकारा वर्णिताः- "राका चानुमती चैव द्विविधा पूर्णिमा मता। पूर्वोदितकलाहीने पौर्णमास्या निशाकरे ॥ पूर्णिमाऽनुमती ज्ञेया पश्चास्तमितभास्करे। यस्मात्तामनुमन्यन्ते देवताः पितृभिः सह ॥ तस्मादनुमती नाम पूर्णिमा प्रथमा स्मृता । यदाचास्तमिते सूर्ये पूर्णचन्द्रस्य घोद्गमः ।। युगपत् , सोत्तरा रागात्तदानुमतिपूर्णिमा । राकान्तामनुमन्यन्ते देवताः पितृभिः सह ॥ रखनाच्चैव चन्द्रस्य राकेतिकवयोऽब्रुवन् ॥ इति । ON दर्शपौर्णमासविधिः। [१ प्रपाठक । IN- .. पश्चास्तमितेति पृपोदरादित्वात् (पा०६।३।१०९) साधुः । यद्वा "पश्चपश्चा च छन्दसि" (पा० ५।३३३३) इति निपातितस्यात्रार्षे वचसि प्रयोगः। कलाहीने निशाकरे पूर्वमुदिते सति यत्रभास्करोऽस्तमेति सेयमनुमती नाम पूर्णिमो- च्यते। इयवेम "उच्चै"रिति सूत्रिता । अस्तमिते सूर्ये चन्द्रस्योद्गमः, युगपञ्च सूर्यस्यास्तमयः पूर्णचन्द्रस्याद्गमश्च, इति द्वयी राका भवति । अत्राद्या अस्तमितोदिता । द्वितीया सन्ध्येत्यस्मदीयन्दर्शनम् । एतस्मा- ल्लिङ्गात् । सन्ध्या पौर्णमासी अपि अस्तमयसन्ध्यासम्बन्धिनी गृह्यते न पुनरुदयसन्ध्यासम्बन्धिन्यपि इति युक्तम् । सेयमभिद्यमानेऽप्यर्थे भिन्नयोराचार्ययोभिन्नरीतिरित्यनवद्यम् ॥ ( इति चन्द्रकान्तभाष्यम् ) ॥१०॥ उच्चैः पौर्णमासी तावञ्चतुर्दशीमिश्रा भवति, सेयमुदयदिनगामिनी । क. तरा पुनरत्रोपोष्या ? तत्राह- अथ यदहः पूर्णोभवति ॥११॥ अत्यनन्तरायामुच्चैः पौर्णमास्याम् एष एव विधिरिति दर्शयति। अथ शब्दः सूत्रभेदप्रज्ञापनार्थः। अन्यथा पूर्वेण सूत्रेणास्यैकसूत्रता स्यात् । उच्चैर्वा यदहः पूणे भवति" इत्येके वर्णयन्ति । यदहर्यस्मिन्नहनि पूर्ण:-सकलकलोपचया. दखण्डमण्डलश्चन्द्रमा भवति । तामुपवसेदित्यर्थः ॥ ११ ॥ कदा पुनरेवं भूतश्चन्द्रमा भवति ? कः खलु ज्ञानोपायोऽस्यार्थस्येत्याका- क्षायामाह- पृथगेवैतस्य ज्ञानस्याध्यायो भवति, अधीयीत वा तद्विद्भ्यो वा पर्वागमयेत् ॥ १२ ॥ पृथक् अन्य एव एतस्य पूर्वविवक्षितस्य उपायभूतो ज्ञानस्य अध्यायः अधीयत इत्यध्यायो ग्रन्थः । नित्यमधिपूर्वका“दिङध्यन" (अ० आ०) इत्यस्मात्कम्मणि धम् (पा० ३।३।१२२ ) वृद्धिः । भवति । तमधीयीत । स्वयं पठेत् । वा अथवा तज्ज्ञानं ये विदन्ति त इमे तद्विदो-ज्योतिश्शास्त्रविदः । तेभ्यः सकाशादेव(१)। .पर्व-दर्शपौर्णमासाख्यमागमयेत्। सम्यग् मर्यादया जानीयात् । कस्मिन्काले चन्द्रमाः क्षीयते? इति । तत्र क्षयकालः कात्यायनेनैव तत आकृष्य दर्शित:- "अष्टमांसे चतुर्दश्याः क्षीणो भवति चन्द्रमाः । अमावास्याऽष्टमांसे च ततः किल भवेदणुः ॥" इति । पूर्णताकालः परमस्ममाभिर्वक्तुमवशिष्यते। पञ्चदश्यां मुहूर्ते चन्द्रमाः सकलकलोपचयादखण्डमण्डलो भवति । इति ज्योतिर्विदः कथयन्ति । । ses MINS (१)वा-बाब्वश्वायें।
६ कण्डिका] गोभिलगृह्यसूत्रे- श्लोकमप्युदाहरन्ति- "पञ्चदश्याम्पञ्चदशे मुहूर्ते चन्द्रमण्डलम् । तथा भवति, तद्वक्त्रं सदा तव नृपोत्तम!"(१)इति ॥ स्मरन्ति च- 'राकामध्यगतश्चन्द्रः पर्ण इत्यभिधीयते" इति । कालवशात्पुनरेतस्याप्यन्यथात्वं जातं, युगपरिवृत्त्या किल कारणभेदो. गणितागतवस्तुषु भवति । इति सौरागमादिषु व्युत्पादितम् । अत एव ततः पराचीनेन ज्योतिश्शास्त्रविदा भास्कराचार्यण सिद्धान्तशिरोमणावुक्तम्-. "कक्षाचतुर्थस्तरणेहि चन्द्रः कर्णान्तरे तिर्यगिनोयतोऽब्जात् । पादोनषटकाष्टलवान्तरेऽतोदलं नृश्यस्य दलस्य शुक्लम्" इति ॥१२॥ अथ यदहरुपवसथा भवति तदहः पूर्वाह्न एव प्रातराहुति हुन्वै तदग्नेः स्थण्डिलं गोमयेन समन्तं पर्युपलिम्पति ॥ १३ ॥ अथेति पूर्वप्रकृतार्थम् । पूर्वप्रकृते यहः यस्मिन्नहनि उपवसथो भवति । तदहस्तस्मिन्नहनि प्रातराहुतिं पूर्वाह्न एव अग्नेः । एतद्-अधिकृतं(२)स्थण्डि- लम-अग्न्यगारं गोमयेन ( सोदकेन ) समन्तं चतुरस्रं परि-सर्वतोभावेन । उपलिम्पति । उपलिम्पेत् । पूर्वाह्न एव ! उपलिम्पतीति सम्बन्धादेवकाराच्च पूर्वाह्न एव उपवसथन्दर्शयन्ति चतुर्दश्यामपि । अन्यथा “प्रागावर्त्तनाद- ह" ( १११।३ ) इति सिद्धत्वादनुवादापत्तेः। अतएव पूर्वाह्न एव प्रातराहुति हुत्वा इत्यपि न वर्ण्यते । सिद्धायामपि प्रातराहुतौ प्रातराहुति हुत्वेति वचनमो- पवसथिकेऽहनि स्वयं होमकरणसूचनार्थम् । हुत्वा पर्युपलिम्पतीति होमपर्यु. पलेपनयोरेककर्तृत्वाऽवगमात् । स्वयङ्करणोपदेशोहि फलविशेषार्थः । अत्र स्वयं होमे कृते सर्वदैव स्वयं कृतं भवति । तथा च ब्राह्मणम्- "एते वै रात्री सर्वा रात्रयः समवयन्ति । या आपूर्यमाणपक्षस्य रात्र. यस्ताः सर्वाः पौर्णमासी समवयन्ति । या अपक्षीयमाणपक्षस्य रात्रयस्ताः सर्वाः अमावस्यां समवयन्ति । स योह वै विद्वान्स्वयमुपवसथन्जुहोति सर्वदा हैवास्य स्वयं कृतं भवति" इति ॥ १३ ॥ (१) के नचिज्योतिः शास्त्रकुशलेन कश्चिद्राजैवमुपवलोकितः । (२) एतस्य अधिकृतस्य (प्रातराहुत्यादिसाधनस्य) वाअग्नेः स्थण्डिलम् ॥ एत दिति रसवतीनिरासार्थम् । तत्खल्वस्य द्वितीयमग्न्यगारम् । स्थण्डिलग्रहणं लौहादिभा. ण्डस्थेअग्नौ होमनिषेधार्थम् । अत्रैतदादि (पर्युपलेपनादि) । दर्शकर्तव्यतयोपन्यस्ता नि कर्माणि तन्नैतदाद्यम् । अथेन्मानिति द्वितीयम् । कुशासादनन्तृतीयम् तत्र पित्रथै. विशेषितचतुर्थम् । आज्यासादनं पञ्चमम् । हविः सम्पादनं षष्ठम् । चरस्थालीसम्पा दनं सप्तमम् । मेक्षणासादनमष्टमम् । सुवसम्पादनं नवमम् । अबाहरणन्दशमम् । इति ।
दर्शपौर्णमासविधिः। [१ प्रपाठके- अध्मानुपकल्पयते, खादिरान्यान्यालाशान्वा ॥१४॥ अथानन्तरं श्वोयागार्थम् । इध्मान-समिधः- "प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्तितम् । एवं विधाः स्युरेवेह समिधः सर्गकर्मसु । समिधोऽष्टादशेध्मस्य प्रवदन्ति मनीषिणः । दर्श च पौर्णमासे च क्रियास्वन्यासु विंशतिम् ।।" इति कर्मप्रदीपोक्तलक्षणसंख्याकाः । उपकल्पयते-उपसमीपेऽर्थादग्नेः । कल्पयते-प्रासादयेदित्यर्थः । इध्मान विशिनष्ठि-खदिरान-खा दरमयान(१) । पालाशान् । खदिरपलाशौ प्रसिद्धौ । वाशब्दयतुल्यवद्विकल्पार्थम् ॥ १४ ॥ खादिर-पालाशालाभ-विभोतम-निल्या-बायक-नोप-निम्ब राजा. शाल्मल्य-ऽलरु (रलु-दधित्थ-कोविदार श्लेष्मातक-व सर्ववन- स्पतीनामिध्मोयथार्थ स्यात् ॥ १५ ॥ खादिर-पालाशयोरलाभेऽसम्भवे विभीतकादिवजम् अन्येषां-वनस्पती. नामश्वत्थप्रभृतीनामिध्मोयथार्थ यथा प्रयोजनं ग्रहणीयः स्यात् ! आसादनीयो. भवति । तदलाभ- इत्यनभिधाय खादिरपालाशाला इति जात्या द्रव्यमुपलक्ष- यन्नाचार्गस्तयोरलाभ एव सर्ववनस्पतीनामुपादानन्न तु तत्प्रतिनिधेरप्यलाभ इति दर्शयति । विभोतकादयोवृक्षजातिविशेषाः(२) ।। १५ ।। विशाखानि प्रति लूनाः कुशा वहिः ॥ १६ ॥ विशाखानि--विकृष्टाः पृथग्भूताः शाखाः पत्राणि येभ्यःस्थानेभ्यस्तानि वि- शाखानि । कुशस्कन्धप्रदेशाः । तानि प्रति-लक्षीकृत्य लूनाश्छिन्नाः समूला:(३) कुशा वहिः। वहिस्तरणार्थमासादयितव्या इत्यर्थः । वर्हिः संज्ञका इति वा व्याख्येयम् । तदत्र विधेयप्राधान्यविवक्षया एकवचनं द्रष्टव्यम् । वर्हिष इति बहु- वचनमेव शूलपाण्युपाध्यायाः पठन्ति तदा व्यक्त एवार्थः(४) ।॥ १६ ॥ । - (१) अवयवार्थेऽत्र मययट् । ( पा० ४।६।१२५ )। (२) तत्र विभीतको-बहेडा-इति प्रसिद्धः । तिल्वकोलोध्रः । बाधकस्तबाम्नवी- दीच्ये प्रसिद्ध । नीपः कदम्बः । निम्बः प्रसिद्धः । राजवृक्षो-"sम्लतास" इति नाम्ना प्रसिद्धः। शाल्मली “सीमर नाम्ना प्रसिद्धः । अरलु:-"सोनपत"-"सोनपाठा" एवं नामा । दधित्यः कपित्थः ( कैथ ) कोविदारः "कचनार" नाम्ना प्रसिद्धः। श्लेष्मातको बहुवारकः “बहुआर" शब्देन प्रसिद्धः । (३) अनन्तरसूत्रे उपमूललनानां पित्रर्थत्वाभिधानात् ॥ (१) एतद्व्याख्याने पत्रत्रयात्मके एकस्मिन् कुश एव वर्हिःपदप्रयोगः । “वहिः कु भाग्न्यादितः” इति कोशोऽपीममर्थं पुष्णाति ॥
६ काण्डका गोभिलगृह्यसूत्रे- उपमूललूनाः पितृभ्यः ॥ १७ ॥ उपमूले-मूलसमीपदेशे लूना-श्छिन्नाः कुशाः पितृभ्यः पितृकार्थमासाद- यितव्या इति प्रसङ्गादिहोच्यते । ते खल्विसे मूलसमीपेऽप्यधोभाग एव लवित. व्या नो भागे। "हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञियाः । समूलाः पितृदेवत्याः कल्माषा वैश्वदेविकाः ॥" इति कर्मप्रदीपे समूलत्वोपदेशात् । कल्माषाश्चित्राः । "चित्रं किम्झेरक- ल्माषशक्लैताश्च कर्बुरे" इत्यमरः ।। १७ ॥ तेषामलाभे शुकतृण-शर-शीर्य-बल्बज-मुतव, नल-लुण्ठ ( शुण्ठ ) वर्ज सर्वतृणानि ॥१८॥ तेषां यथोदिष्टानां कुशानामलाभे शूकतृणादिवजे सर्वतृणानि वहिषस्तरणा- र्थमासादयितव्यानि । वर्हिः संज्ञकानि वा भवन्ति । : कुशार्थः कर्त्तव्य इ. त्यर्थः । शूकतृणं-शुकमुक्तं तृणं, शुकानि फलपुष्पमचर्यः । यद्वा-शुकतृणं-यव. गोधूमादिः। शरादयस्तृण(१)जातिविशेषाः ॥ १८ ॥ आज्यं स्थालीपाकीयान्त्रीहीन् वा यवान्वा चरुस्थाली- मेक्षणम् अनुगुप्ताअप इति ॥ १६ ॥ अत्र प्रतिपदं कल्पयते । इति सम्बध्यते। स्थालीपाकीयान-स्थालीपाक- समर्थान् । यावद्भिः स्थालीपाकोनिर्वहति तावतोत्रीहीन्वा यवान्वोपकल्पयते । चरुस्थालीम् उक्तलक्षणाम् । मेक्षणम---- "इध्मजातीयमिध्माचप्रमाणं(२) मेक्षणं भवेत् । वृत्तञ्चाङ्गुष्ठपृथ्वग्रमवदानक्रियाक्षमम् ।। एषैव दर्वी.यस्तत्र विशेषस्तमहब्रुवे। दर्वीयङ्गुलपृथ्वया तुरीयोनन्तु मेक्षणम् ॥" इति कर्मप्रदीपोक्तलक्षणम् । अनुगुप्ताः सुरक्षिताः । अपोजलानि । इति शब्द आद्यर्थः । अन्यदप्येवं भूतं दर्वीप्रभृतिकं सूचयति ॥ १९ ॥ (१) तत्र "शरस्तु-मुनोवाणाख्योगुन्द्रस्तेजनकः सरः" इति वाचस्पत्याभिधाना. द् दन्त्यादिरपि सरः । मुञ्जमध्यवर्ती "शरकण्डा" इति प्रसिद्धः । शीर्य "ओदाड" इति मिथिलाभाषायां प्रसिद्धः । बल्वजः "सावय" इति प्रसिद्धः । अयं बहुवचनान्ततयाऽमरे पठितः । "एको बल्वज" इति महाभाष्यकारवचनादेकवचनान्तोऽपि। (२) प्रादेशप्रमाणान् । स्पष्टमभिहितोऽयमोंगृहासङ्ग्रहे- "प्रादेशमानं कुर्वीत मेक्षणं समिधस्तथा। इध्मः समानवृक्षाणां द्विप्रादेश- प्रमाणतः ॥ इति ॥ १० गो० गृ० सू० अथ दर्शपौर्णमालविधिः। [१ प्रपाठके- ( अथ तदिनप्रतिपाद्यनियमानाह) यानि चानुकल्पमुदाहरिष्यामः ॥ २०॥ यानि-तैलादीनि । अनुकल्पं स्वकल्पवस्त्वनुरूपम्(१)। घृतादि प्रतिनि- धिभूतानीतियावत् । चशब्दात् यान्युलू (दू) खलादीन्युदाहरिष्यामः । तान्य- प्युपकल्पयते ॥ २०॥ न तदहः प्रसृज्येत ॥ २१॥ तदह-स्तस्मिन्नहनि न प्रसज्येत । प्रकर्षण ( अत्यन्तं ) सज्येत(२) त्य- जेत् "गृहम्” इति शेषः । सृजतिरिह त्यजतिकर्मा । तदनेनास्याधातुः प्रवासो- ऽत्र दिने निषिद्ध्यते । एषप्रथमोनियमः ।। २१ ॥ दूरादपि गृहानभ्येयात् ॥ २२ ॥ तदहरिति वर्तते । अभ्येयात्-आगच्छेत् । स्वयं होतुं दूरादूरं गतोऽपि । एष द्वितीयः । एवमग्रेऽपि बोध्यम् । गृहानिति बहुवचनं पुंस्येव(३) नियतं "गृहाः पुंसि च भूमन्येवे-"त्यमरात् ।। २२ ।। अबहुवादी स्यात्(४) ॥ २३ ॥ बहुवदितुं शीलमस्येति बहुवादी तद्भिन्नोऽबहुवादी स्याद्भवेत्तदहरित्यनुवर्स- ते । ताच्छील्येऽत्र णिनिः । (पा० ३२२१७८ ) तेन तत्स्व(५)भावोवाचालोन स्यात् ।। २३॥ अन्यतस्तु धनं क्रीणीयात् ॥ २४ ॥ तदहरित्यनुवर्तते । अन्यतः सकाशाद्धनं द्रव्यं क्रीणीयान्न तु स्वयं विक्री- रणीतान्यस्मै । तदत्र तुशब्दोभिन्नक्रमोद्रष्टव्यः ।। २४ ।। सत्यं विवदिषेत् ॥ २५॥ ऋजुरक्षार्थः । वदेदिति वक्तव्ये सनेमिच्छार्थमन्तर्भावयन्मनसाऽप्यसत्यं वक्तु नेच्छेदित्यभिप्रेति । तथाच श्रूयते “सत्यसंहिता(६)वै देवा अनृतसंहिता मनुष्याः" इति । (ऐ० ब्रा० ३।१३) ॥ २५ ॥ अथाऽपराह्न एवाप्लुत्यौपवसथिकन्दम्पती भुञ्जीयातां यदेवैनयोः काम्यस्यात्कुशलेन ॥ २६ ॥ इति गोभिलीये गृह्यसूत्रे प्र० प्रपाठके पञ्चमी कण्डिका ॥ १॥ ५॥ * ॥ (१) सादृश्यरूपे यथाशब्दार्थेऽत्रानुशब्द इत्यव्ययीभावः समासः॥ (२) अतिदूरं ( यावद्गत्वाऽगन्तुन्तदहनि न शक्यते)न गच्छेदित्यर्थः ॥ (३) नित्यबहुवचनान्तो गृहशब्दः स्येव भवतीत्यर्थः । (४) क्वचित्पुस्तके इदं सूत्रमुत्तरसूत्रानन्तरं पठितम् ।। (५) सततकरणं हि ताच्छील्थम् । (६) तथाच "देवोभूत्वा यजेद्देवानि-ति स्मृतिरप्यनेनानुगृह्यते ॥
५ कण्डिका गाभिलगृह्यसूत्रे- अथ-इध्माधोहरणानन्तरम् । आलुत्य-स्नात्त्रा। अपराल एव । दम्पती मुखीयाताम् । इति भिन्नक्रमेण योजनीयम् । पूर्वाह्य एव स्नानस्याम्नानात् । तद्वाधे च कारणविशेषाभावात् । तथाच स्मर्यते- "मैत्रं प्रसाधनं स्नानं दन्तधावनमजनम् । पूर्वाह्न एव कुर्वीत देवतानाञ्च पूजनम्" इति । "चतुर्थे च तथा भागे स्नानार्थ मृदमाहरेत् । तिलपुष्पकुशादीनि स्नानं चाकृत्रिमे जले”। इति चैवमादि । “अपराह व्रतोपाय(१)नमश्नीयात्" इति च तन्त्रान्तरेऽप. राख एवानयोभोजनमुपदिश्यते। तस्माद्यथोक्त एवार्थः । अहोरोभागोऽ(२)प. राखः। तत्रैव भुञ्जीयातामित्येकदैव भोजनमत्र नियम्यते। "सायम्प्रातर्द्विजाती- नामशनं देवकल्पितम्" इति द्विभौजनस्य नैसर्गिकस्य पक्षप्राप्तत्वात् । किम् ? औपवसथिकम् । उपवसथेनोपवासेन संसृष्टम् (पा० ४।४।२२) ठक् । ठस्येकः । आदिवृद्धिः । तत्राऽपि यदविरुद्धम् । यच्चैनयोईम्पत्योः काम्यं-कमनीयं रुचितं स्याद्भवेत् । तदपि सर्पिमिश्रं स्यात् । यत्खलु कुशलेन सुखेन । “परिणमेदि"ति शेषः । एतदुक्तम्भवति । इत्थमौपवसथिकमल्पं भुजीयातां यद्भक्तमनयाः सु. खेन परिणमति । न मनागपि शरीरवैषम्यमुत्पादयति । येन खल्वविघ्नेन श्वोयागः सम्पत्स्यत इति । किंतदोपवसधिकन्तदाह-स्मृत्यन्तरम्- "लवणं मधु मांसं च क्षारांशोयेन भूयते । उपवासे न भुजीत नोरुरात्रौ च किञ्चन ॥" इति । अत्र-उरुरात्रावित्यधिकरात्रौ भोजननिषेधादिवा दैवादभोजने रात्रेः प्रथमयामेऽपि भोजनन्दर्शयति- "दिवोदिनानि कर्माणि स्वकाले न कृतानि चेत् । शवर्याः प्रथमे याम तानि कुर्यादतन्द्रितः ॥” इति च स्मृत्यन्तरमिति च- न्द्रकान्तः । वस्तुतस्तुअपराल एवेत्यक्षरस्वारस्यादेकभक्तरूपस्यौपवसथिकाशनस्य स एव मुख्यः कालः । ततः सूर्यास्तपर्यन्तं गौणस्तथाच निर्णयसिन्धौ स्कान्दे- "दिनार्द्धसमयेऽतीते भुज्यते नियमेन यत् । एकभक्तमिति प्राक्तमतस्तस्त्यादिवव हि"इति । दीपिकायान्तु-मध्याह्ना न्त्यदले त्रिभागसमये स्यादेकभक्तमि"त्युक्तम् ॥ २६ ॥ हात श्रीमगोभिलीयगृह्यसूत्रव्याख्याया-"म्मृदुला" ख्यायां मुकुन्दशम्मसङ्कलितायां प्रथमप्रपाठकस्य पञ्चमी कण्डिका ॥१॥६॥॥ (१) ब्रतमुपेयते स्वीक्रियत अनेनेति-अयतेःकरणे ल्युट् योरनः । (२)तृतीयः। ANDED दर्शपौर्णमासविधिः। [१प्रपाठके अथ षष्ठी कण्डिका अथोपवसथिकभोजननियमद्रढिम्ने ब्राह्मणमुदाहरति- मानतन्तव्योहावाचाहुता वा एतस्य मनुष्याहुतिर्भवति य औपवसथिकन्नाश्नाति ॥१॥ मानतन्तव्योनामाचार्यः । ह-किल-उवाच । किम् ? अहुता-हुतफलर. हिता वै-नियमेन एतस्य औपवसथिकमनश्नुवानस्य मनुष्याहुति-मनुष्योपका- रार्था-आहुतिः सायम्प्रात:म-वैश्वदेवादि-लक्षणा भवति। सर्वोऽपि होमानि- कलोभवतीत्यर्थः । मनुष्याहुतिः प्राणाग्निहोत्रलक्षणा वा । तथा च स्मर्यते- "गृहस्थोब्रह्मचारी च यस्त्वनश्नस्तपश्चरेत् । प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत्तु सः ॥” इति । "अनड्वान्ब्रह्मचारी च आहिताग्निश्च ते त्रयः । अश्नन्त एव सिद्धयन्ति नैषां सिद्धिरनश्नताम् ॥" इति चैवमादि । एतस्येत्याचार्य एव विवृणोति य इत्यादि । नाश्नाति- नभुङ्क्ते ॥१॥ अनीश्वरोहि क्षोधुकोभवति, अकाम्योजनानाम् पापवसीयसी हास्य प्रजा भवति ॥ २ ॥ क्षोधुकः क्षुधातः । अनीश्वरो-ऽकल्पः । (कनिहः ) ह-किल भव- ति । अतृप्तः सदा भवतीत्यर्थः । अकाम्योऽकमनीयोऽस्पृहणीयोजनानां-लो- कानां भवति । किञ्च- पापवसीयसी पापशीला-ह-किल अस्य औपवसथिकमनश्नुवानस्य प्रजा. सन्ततिर्भवति । पापं प्रसिद्धम् । वसीयः पुण्यं तदुभयवत्यस्य प्रजा भवतीति वा वर्णनीयमितिचन्द्रकान्तभाष्यम् ॥२॥ एवमनश्नुवानस्य दोषमभिधायाश्नुवानस्य गुणनाह- य औपवसथिकं भुङ्क्त ईश्वरो ह भवत्यक्षोधुकः काम्योजनानां वसीयसीहास्य प्रजा भवति ॥३॥ वयसीयसी कल्याणी पुण्यवतीत्यनान्तरम् । सुस्थिता इति भट्टभाष्यम् । अपापवसीयसीति वाठे उक्तवैपरीत्येनार्थों निर्वक्तव्यः । स्पष्टमन्यत् ॥ ३ ॥ तस्माधकामयेतोपवसथिकम्भुञ्जीयाताम् ॥४॥ यस्मादनश्नुवानस्यैते दोषा, अश्नुवानस्य चैते गुणा भवन्ति, तस्मात् यत् औपवसथिक मुपवासानुरूपं सुहितं कामयेत गृहपतिः। तद् उभावपि दम्पती मुखीयाताम् । पल्याः पतिचित्तानुवर्तनस्यासकृच्छुतावनुविधानात् । wo- AHAN ६ कण्डिका] गोभिलगृह्यसूत्रे- MILARISM ७७ Hasyatara व्यत्ययोवा वचनस्य (पा० ३११८ ५) कामयेयातामिति ॥ ४ ॥ अथ व्रतान्तरमभिदधाति- अध एवैताधाविशयीयाताम् ॥ ५॥ अधः भूमावेब कुशास्तरणादौ न पल्यङ्कादावित्यर्थः । एतामुपवसथदिव- सीयां रात्रिम् । एतस्यां रात्रौ अत्यन्तसंयोगे द्वितीया (पा० २१३१५) दम्पती शयीयाताम् ॥ ५ ॥ कथम् ? शयीयातामित्याह- तौ खलु जाग्रन्मिश्रादेवैतारात्रि विहरेयाताम् । इतिहासमिश्रे- ण वा केनचिता ॥ ६॥ तौ-दम्पती। खलु निश्चयार्थोनिपातः । जात्रान्निौ (१)जापवस्थयैव स्वापं मिश्रयन्तावेवैतामोपवसथिकां रात्रि व्याथ विहरेयाता-नयेयाताम् । विरत्र सहार्थों हरतिर्नयतेरर्थे ( प्रापणे ) वर्तते । अतिवाहनमिह नयत्यथः । कथञ्च जाग्रन्मिश्री भवेतान्तदुपायमाह-इतिहासमिश्रेणेति । इतिहासः पुरा- वृत्तम् तन्मिश्रेण(२) केन चित्सद्वयहारेण परस्परसंलापादिना । इत्थम्भूतल- णणे तृतीया (पा०२।३।२१ ) केन चिदन्येन वा पुण्यकथादिनेत्ययमभ्युपायो- जाप्रन्मिश्रणे ।। ६॥ जुगुप्सेयातान्त्वेवाव्रत्येभ्यः कर्मभ्यः ॥ ७ ॥ जुगुप्सेयाताम्-निन्देताम् । गुपेनिन्दायांसन(३)। व्रते साधु ब्रत्यं “तत्र साधुः” (पा० ४।४।९८) इति साध्वर्थे यत्प्रत्ययः । तन्न भवतीत्यव्रत्यं व्रतविरुद्धम् । तेभ्यः कर्मभ्यः । ग्राम्य(४)धादिभ्यः । तानि कर्माणीत्यर्थः । अत्र "जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्” (पा० २।३।२८ वा० ) इति पञ्चमी । तुशब्दः सम्भवकालं व्यवच्छिनत्ति । एवशब्दश्च प्रकृतं नियमयन् व्यतिरेके व्रतभङ्गमवगमयति। अत एव-स्मर्यते- (१) सिद्धा ( नाड़ी) मनः संयोगावस्था स्वापः । त्वङ्मनोयोगोज्ञानसाधन- तस्तत्राप्यनुवर्तत इति । बहिरिन्द्रियमनः संयोगावस्था च जाग्रदवस्थेति विवेकः ॥ अं. शशोनिद्रितावंशशोजागरितौ। (२) अन भावप्रधानो निदशः । इत्थम्भावे तृतीया । इतिहासमिश्रतया तदालो- चनयेति चन्द्रकान्तभाष्ये व्याख्यानम् ॥ (३ ) अत्र 'गोप्तुमिच्छा वा जुगुप्सोच्यते । तदा खल्बव्रत्येभ्यः ( कर्मभ्यः) आ- त्मानं रक्षितुम् इच्छेतामिति व्यक्तैव वचनव्यक्तिरित्येवं व्याख्यश्चन्द्रकान्तोऽपाणनीय. त्वमात्मनोव्यनक्ति । “गुशिकिद्रयः सन्" (पा० ३।११५) इति सूत्रे "गुपेनिन्दा- .. Con trai याम्" इति वार्तिकात ॥ (४) "ग्राम्यधर्मोमैथुनमित्यमरः ॥
दर्शपौर्णमासविधिः। [१ प्रपाठके "मरणं कीर्तनङ्केलिः प्रेक्षणं गुधभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानितिरेव च ॥ एतन्मैथुनमष्टाङ्गम्प्रवदन्ति मनीषिणः । ( अनुरागात्कृतश्चैव ब्रह्मचर्यविरोधकम् ) विपरीतम्ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥” इति ।। "उपवासे तथा यौनं हन्ति सप्तकुलानि वै । स्त्रीणां सम्प्रेक्षणात्स्पर्शात्ताभिः सङ्कथनादपि । ब्रह्मचर्य विपद्येत, न दारेष्वृतुसङ्गमात् ॥ "इति चैवमादि ।। अत्र च संप्रेक्षणात्सङ्कथनादित्यत्र सरागत्वं संशब्दार्थः । साहचर्यास्प. शेऽपि तथा इति शूलपाण्युपाध्यायः । तुशब्दश्वशब्दार्थोंवा गा. त्राभ्यङ्गादीनि समुच्चिनोति । "गात्राभ्यङ्गं शिरोऽभ्यङ्गं ताम्बूलञ्चानुलेपनम् । व्रतस्था वर्जयेत्सर्व यच्चान्यद्बलरागकृत् ॥" इत्येवमादि स्मरणात् ॥७॥ न प्रवसन्नुपवसेदित्याहुः ॥८॥ प्रवसन्-प्रवासमनुतिष्ठन् । न उपवसेत् इत्याहुरेके आचार्याः । एतस्मादे- वावगम्यते--प्रवसन्नप्युपवसेदित्यन्ये आचार्या मन्यन्ते इति ॥ ८॥ यदातु खलु प्रवसन्गृहपतिर्नोपवसति तदापि- पल्या व्रतं भवतीति ॥8॥ व्रतम्-औपवसथिकम् । इति आहुराचार्याः॥९॥ तदेवं प्रवसतानोपवस्तव्यमित्येकेषामाचार्याणाम्मतम् । प्रवसताऽप्युपव- स्तव्यमिति चापरेषाम्-एतस्मिंश्च विकल्पे सति- यथा कामयेत तथा कुर्यात् ॥ १० ॥ स्पष्टोऽर्थः॥०॥ एवमेवाहिताग्नेरप्युपवसथोभवति ॥ ११ ॥ आहिताग्निरिह पञ्चाग्निरुच्यते । स च "पवनः पावननेता पञ्च यस्याग्नयोगृहे ॥" इति स्मृत्युक्तः । पवन श्रावसथ्योऽग्निः । पावनः सभ्योऽग्नियः शीतापनो- दनार्थ बहुषु देशेष्वपि विधीयते । इति कुल्लूकभट्टः । त्रेता-"दक्षिणाऽग्नि- गाहपत्याऽऽहवनीयास्त्रयोऽग्नयः । अग्नित्रयमिदन्त्रेता" इत्यमरोक्तः । ऋज्व- न्यत् । औपासनाग्निमधिकृत्योपवसथस्य सूत्रितत्वादाहिताग्नेरेष न प्राप्नोती. स्येवमविदिश्यते ॥ ११॥ mein - ६ कण्डिका] गोभिलगृह्यसूत्रे- RS यच्चाम्नायोबिदध्यात् ॥ १२॥ आ-मर्यादया (परिपाट्या) म्नायतेऽभ्यस्यतेऽसावाम्नायोवेदः । आङ्. पूर्वाम्नातेरभ्यासार्थात् (भ्वा०प०) कर्मणि घञ् (पा० ३।३।१९) "बातो- युगि" (पा० ७१३।३३)ति युक् । स खलु शाखान्तरीयोऽपि यदन्यद्विद्ध्या(१)- दस्य कृते । “तदपि कर्त्तव्यम्" इति वाक्यशेषः ॥ शास्त्रान्तराधिकरणन्याया- दित्यभिप्रायः । चः पूर्वोक्तमेव समुचिनोति ॥१२॥ अथ पूर्वाह्न एव प्रातराहुति हुत्वाऽ(२)ग्रेणाग्नि परिक्रम्य दक्षिणतोऽग्नेः प्रागग्रान्दर्भानास्तीर्य ॥ १३ ॥ अथ अपरदिने । प्रातराहुति हुत्वेति सिद्धाया अपि प्रातराहुतेः पुनरभि- धानक्रमार्थम् । कथं नाम ?-प्रातराहुति हुत्वा समिदाधानान्तं विधाय व. क्ष्यमाणङ्कर्म कुर्यात् । इति । कुतः ? "आधाय समिधञ्चैव ब्रह्माणमुपवेशयेत् ।।" इति कर्मप्रदीपदर्शनात् । “अग्निमुपसमाधाय दक्षिणतोब्रह्मासनमास्ती. र्य" इति च गृह्यान्तरम् । तदयमर्थः । प्रातरहुति हुत्वा पूर्वाह्न एव प्रति- पदभावेऽपि । अथ ब्रह्मस्थापनप्रकारमाहाग्रेणाग्निमिति । अप्रेण-पूर्वया दि. शाऽग्नि परिक्रम्य प्रदक्षिणीकृस्य-- गत्वा । दक्षिणतोदक्षिणस्यान्दिश्यग्नेः । सार्वविभक्तिकस्तसिः । ( पा० ५।४।४४ वा० ) प्राङ्मुख उपविश्य- "उदधा(३)रामविच्छिन्नामग्निमारभ्य दक्षिणम् । दद्याद्ब्रह्मासनस्थाने प्राङ्मुखी सर्वकर्मसु ।" इति गृह्यासङ्ग्रहवचनादविच्छिन्नां पूर्वानां वारिधारां ब्रह्मासने दत्त्वा तत्र प्रागग्रान्दर्भान् । ब्रह्मोपवेशनार्थम् आस्तीर्य तृणं निरस्यतीति वक्ष्यमाणेन स. म्बन्धः । अत्रोपवेशनं प्राङ्मुखता च परिभाषाबलात् । तथाचकात्यायन:- "आसीन ऊध्वः प्रहोवा नियमोयत्र नेशः । तदासीनेन कर्त्तव्यं न प्रहेण न तिष्टता ॥" - (१) "यनाम्नातं स्वशाखायां पारक्यमविरोधि च । विद्वद्भिस्तदनुष्टेयममिहोत्रा दिकमवता इतिकात्यायनोक्तेः॥ (२) अन समिधमाधायाग्रणेत्यादिशूलपाणितः पाठः साधीयाम्प्रतिभाति । ताथच तदीयं व्याख्यानम्-समिमिति । समिदिमिन्धनत्वेनाधेया तूष्णीमेव । (३) “समिदादिषु होमेषु।मन्त्रदैवतवर्जिता। पुरस्ताचोपरिष्टाच इन्धनार्था समि- अवेता इति । एवमादि । तदेतत्प्रदर्शितमधस्तोत् । (१३६) तथाच कात्यायन:- पोणेपासविधिः। [१ प्रपाठक- Des । इति । पढेण-अवनतेन । न तिष्ठता-नोजानुना । तथा- “यत्र दिनियमोनास्ति जपहोमादिकर्मसु । तित्रस्तत्र दिशोज्ञेया ऐन्द्री सौम्याऽपराजिता ॥" इति । ऐन्द्री-पूर्वा । सौमी-उत्तरा। अपराजिता-ऐशानी ।। १३॥ तेषाम्पुरस्तात्मत्यङ्मुखस्तिष्ठन्सव्यस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चागुल्या ब्रह्मासनात्तणमभिसङ्ग्रह्य दक्षिणापरमष्टमन्देशभिर- स्थति "निरस्तः परावसुरि-"ति ॥ १४ ॥ तेषाम्--आसनास्तृतदर्भाणां पुरस्तात्-पूर्वदिशि । प्रत्यङ्ग्मुख:-पश्चिमा- भिमुखस्तिष्ठन्-ऊर्ध्वावस्थितः । सव्यस्य-वामस्य । पाणे:-करस्य । अङ्गुष्ठे न(१) उपकनिष्ठिकया अनामिकया चाङ्गुल्या तृणं दर्भ सामान्यशक्तस्यापि वा- क्यैकवाक्यतया विशेषे तात्पर्यनिर्णयात् । दक्षिणापर-दक्षिणस्याश्चापरायाश्च- दिशोर्यदन्तरालं स दक्षिणापरस्तमष्टमंदेशं(२)नितिकोणलक्षणमुद्दिश्य(३) निरस्यति-क्षिपति । तत्र करणमन्त्रमाह "निरस्त" इति। मन्त्रार्थस्तु-अपकृ. टोभागोरक्षोऽधिष्ठानभूतः "परावसुः' इत्युच्यते । स चानेन तृणनिरसनेन स्थानादस्मान्निरस्तानिराकृतः वेदितव्यः । “पत्यादिष्टोनिरस्तःस्यात्पत्याख्या- तोनिराकृतः” इत्यमरः । तेनैतत्स्थानं पवित्रतरमुपजातमित्यर्थः ॥ १४ ॥ अप उपस्पृश्याथ ब्रह्माऽऽसन उपविशति । "पावसोः सदने सीदामी"-ति ॥१५॥ अप उदकम् । उपस्पृश्य(४)-आचम्य । “उपस्पर्शस्त्वाचमनम्" इत्यमरः । अन्यच्चेष्टेत" इति वक्ष्यमाणेन ( १।६।२१) अस्याभिसम्बन्धोवर्णनीयः । तथा च श्लोकम्पठति- "येन यस्याभिसम्बन्धो दूरस्थस्यापि तस्य सः । अर्थतोह्यसमर्थानामानन्तर्यमकारणम् ।।" । । ama (१) कनिष्ठामुपगतोपकनिष्ठिकेति तत्पुरुषः समासः । (पा० ११४७९) चन्द्रकाः न्तभाष्येषु तु कनिष्ठिकाया उपसमीपे तिष्ठतीति व्युत्पत्तिद्दर्शिता ॥ (२) प्रत्यमुखावस्थितस्य यजमानस्य प्रथमोदेशः प्रत्यग्भवति सम्मुखः, ततश्चा- टमः प्रादक्षिण्येन नितिकोण एव भवतीति साधीयसी वचनव्यक्तिः । (३) तथाचाहिश्येत्यध्याहार्यम् । चन्द्रकान्तभाष्ये तु सप्तम्यर्थे व्यत्ययेन (पा० ३३१२८५) द्वितीया दर्शिता॥ (४) अत्राचमने निमित्तं नैऋतस्य (निर्ऋतिदेवताकस्य) आसुरस्य मन्त्रस्य जप एवेति प्रतिभाति । "रौदपत्राऽऽसुरान्मन्त्रांस्तथा चेवाभिचारिकान् । व्याहृत्यालम्य चात्मानमा स्पष्टा शविर्भवेताद्वतिकातीयमाणात -- ६ काण्डका गोभिलगृह्यसूत्रे-- इति । अत्र ( तत्रानि च) यजमान एव ततः परं या एकाली- पदिशति-अथेत्यादि । अथानन्तरं ब्रह्मा आमने-यजमानोपकाल्पिते लमा- स्तृतदछे । उपविशति । तत्र मन्त्रनाइशोरिति ! अस्वार्थः । अनुध. नम् । (१)दक्षिणाद्रव्यम् । आ तलाते ! सह-कुशास्तरयमानेऽई लीदाम्यु. पविशामीति ॥ वोरेश्वरादिपद्धतिषु तु ॐ त्रा(२)सोः सादने सीद" इत्येवं यजमानेन धृतदक्षिणकरः स्वारसद उपदेशिनोब्रा ॐ जीवामीति” अगादि- स्युक्तम् ॥ १५॥ स खल्वयम्- अग्निमभिमुखोवाग्यता प्राष्टिाचल आता पर्यवसायात् ॥१०॥ अग्निमभिमुखः । आभिमुन्टोनाग्नेजस्थितः । उदष्टख इत्यर्थः । वाग्यतः संयतवाक् । प्रावलिः कृतालिगुट' लगायो-उपविशति । क्रियन्तं का- लम् ? पा कर्मणः पर्यवसानात् । कळलमाहिपान्तरित्यर्थः !! १६ ॥ वाश्यत इत्यत्र प्रतिप्रसवमाह- भाषेत यज्ञसंसिद्धिम् ॥ १७ ॥ यज्ञसंसिद्धिम्-"अधिकृत्ये'-ति शेषः । होत्राऽन्यथा क्रियामाणे कर्मणि तत्संसिद्धयर्थमेतदेवं कुरुष्वतस्कृत्वैतत्कुरुष्वेत्यादि भारत । एतदन्यत्रास्य वाग्य- तत्वमित्यर्थः । कृताऽकृताऽवेक्षणं हि तत्कर्म निर्दिष्टं ल च "ब्रह्मा चतुर्विद्योभव- ती"ति । चतुर्विद्यः(३) सर्वार्थविदिति सर्वकम यथाजदुपदेष्टुमीष्टे । तथाचै- तदन्यत्रास्य मौनमुक्तम्भवति ॥ १७ ॥ तदेवाह- नायज्ञियां वाचं वदेत् ॥ १८॥ अयज्ञियाम् । यज्ञा(४)नाम् । संस्कृतामपि बाचन्न वदेत् । कुतः पुनर- संस्कृताम् । यत्र हि “साधुभिर्भाषितव्यं न म्लेच्छित-(५)नापभाषितवै” इति श्रुतिविरुध्यते ॥ १८ ॥ (१)"द्रव्यं वित्त स्वापतेयं रिक्शकलं ध इत्यमरः । लिङ्गव्यत्यय आः । (२) मन्त्रार्थस्तु-हे ब्रह्मन् ! त्वं वसोदक्षिणाले सदन पासीद उपविश । अत्राको व्यवहितप्रयोगः ( पा० ११४६८२ ) छान्दसः । इनके व्याचक्षते । एतत्तत्त्वमग्रेऽनुपर्द स्फुटीभविष्यति ॥ (३) चतमोविद्या यस्य सः । "आन्वीक्षिकी त्रयी वाता-दण्डनीतिश्च शास्वती विधाताश्चतनव धर्मसंस्थितिहेतवः ॥ इत्याग्नेयं वचनम्। (४) अन्न यात्विग्भ्यां घखो” (पा० ६।१७) इत्यहाथै वस्येयः । (पा०७१।१) (१) अन्न तव्यार्थे तवै छान्दसः ( पा० ३।४।१४) अस्यैव व्याख्यानं "जापभा. षितवा" इति। ११ गो० गृ० सू० 4000NRIO - बाथ दर्शौर्णमासविधिः। [१ प्रपाठके- यद्यज्ञियां वाचं वदेत् वैष्णवीरचयजुर्वा जपेत् ॥ १६॥ यदि-कुतश्चित्कारणात्(१) अयज्ञियां यज्ञानहीं वाचं वइत्तहि वैष्णवीं वि- ष्णुदेवताकाम ऋचम् इदविष्णुर्विचक्रमे"-इत्यादिलक्षणाम् । तद्ज्ञाने-यजु रपि(२) "विष्णोरराटमसि" इत्यादिकम् । जपेत्तदोषशान्त्या इत्यर्थः । "प्रमादाकुर्वताङ्कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति श्रुतिः" इति स्मृत्यन्तराभिधानञ्चात्रोपोलकं द्रष्टव्यम् ।। १९ ॥ अपि वा "नमोविष्णवे" इति ब्रूयात् ॥ २० ॥ अपि वा-अथवा । तयोरज्ञानदशायां क्रियालाघवेन वा । विष्णुस्मरणमा. श्रत्य विधेयस्य तावताऽप्युपपत्तरित्यर्थः ॥२०॥ यधु वा उभयचिकीर्षेद्धोत्रं चैव ब्रह्मत्वञ्चैवैतेनैव कल्पेन छन वोत्तरासंगं वोदकमण्डलुं दर्भवटुं वा ब्रह्मासने निधाय तेनैव प्रत्याव्रज्यान्यच्चेष्टेत ।। २१ ।। इति गोभिलगृ० प्र० प्रपाठके षष्ठी कण्डिका ॥१॥६।।।। यदि-पुनरन्योब्राह्मणो ब्रह्मकर्म सम्पादनसमर्थोन कथञ्चिल्लभ्येतेत्येवं वि. तकउः प्रयुक्तः । तदा निश्चयेन स्वयमेवोभयश्चिकीर्षेत् । कर्तुमिच्छेन् । इति निश्चयार्थे वै शब्दः प्रयुक्त:(३)। किन्तदुभयम् ? तदाह-होत्रञ्चैव-ब्रह्मत्व- ञ्चैवेति । हौत्रं-होतुः कर्म । "तस्येदमित्यर्थे (पा० ४।३।१२० ) अण्णादिवृ- द्धिः । ब्रह्मत्वं-ब्रह्मणः कर्म । अत्र कम्मणि(४)त्वः । कथमित्यपेक्षायामाह- एतेनैव कल्पेन पूर्वोक्तयैवावृता(५) । अप्रेणाग्निमित्यादिकया । अत्रास्वर- (१) अज्ञानाद्वा प्रमादाद्वा सर्वथा यथाभिमतब्रह्मकर्मनिळदुद्विजस्य सवदा सर्व. त्राभावादेवमुक्तम् ॥ (२) तथाच द्वितीयावाशब्दोऽप्यर्थेऽत्र द्रष्टव्यः॥ (३) एतेनाय "यावा" इति निपातशब्दोयथर्थे । अनर्थ कोवा-उवा इत्येवं व्या- ख्यान हेयमेव ॥ (४) तथाच "आ च त्वादि (पा० ५।१३१२०)ति सुत्रे गुणवचनादिभ्यः कर्मणि- त्वविधानार्थमिति वृत्तिकृतः (भ० दी०) प्राहुः ॥ (१) अन सुरारिमिश्रा:-अन्नाचेतनब्रह्मपक्षे "आवसोगारति मन्त्रस्य होतृपठनीय यतया सम्बोध्यच्छन्त्रादीनाञ्चोपवेशनीयतया मन्त्रोच्चारणासनोपवेशनयोः समानकर्तृक. त्वाभावादुत्तमपुरुषप्रयोगासम्भवेन सीदेति मध्यमपुरुषप्रयोग जयः । एवकारस्य चोह. प्रतिषेधे सामर्थ्याभावादिति तात्पर्यगत्या महामहोपाध्यायवीरेश्वरधीरेश्वरादयः स्व स्वपद्धतावाहुः । सूत्रव्याख्याकृतोनारायणोपाध्यायास्तु-एतेन कल्पेनेति वक्तव्ये यदेते. नैवेत्येवकारकरणं तदस्मिन्नपि पक्षे सीदामोत्यत्रोहप्रतिषधार्थमेवेत्याहुः । तेषामयमाश- यः । न हि च्छत्रादय एव ब्रह्माण इति प्रकृतसूत्रार्थः । अचेतनस्य कृताकृतावेक्षणे सा.
। ६ काण्डका ] गोभिलगृह्यसूत्रे- समनुसन्धायाह-छत्रं वेति । छत्रादीनामन्यतमं स्वीयं ब्रह्मासने निधाय स्था. पयित्वा । तेनैव पथा। येन पूर्व परिक्रमणं कृतम् । प्रदक्षिणेनाग्नि प्रत्या- व्रज्य-परिक्रम्य । अथानन्तरम् । अन्यत्-वक्ष्यमाणं भूमि(१)जापरिसमूह- नादिकं चरुनपणादिकं वा कर्म चेष्टेत-कुर्यादिन्यर्थः । छन्नमातपत्रम् । छाद- यते छाययावा त्रायते इति व्युत्पत्तेः । उत्तरालङ्गामुत्तरीयम् । उदकमण्डलुः । उदकपूर्णपात्रम् । “उदकस्योदः संज्ञायाम्” (पा० ६।११५) इत्युदादेशः ।द- भवटुः । ब्रह्मप्रन्थियुतमृजुकुशत्रयम् । “कुशाः पवित्रम्" इत्युक्तरत्र कुशत्र. यमुपादीयते । कात्यायनेन तु- "यज्ञवास्तुनि मुष्ट्याश्च स्तम्ब दर्भवटौ तथा । दर्भसंख्या न विहिता विष्टरास्तरणेष्वपि" ।। इत्युक्तम् । यज्ञवास्तुनि-दर्भजूटिकाहोमे । मुष्टयाम्-"पत्नी सकृदाच्छिन्नां दर्भमुष्टि स्तृणाति" इति विहितायाम् । स्तम्बे-“उत्तरतोऽग्नेर्दर्भस्तम्ब निदधा. ती-"ति श्रवणाकर्मोक्त। दर्भवटौ कुशमय्यां ब्रह्मप्रतिकृतौ ॥ गृह्यासङ्ग्रहे तु मीभावात् सम्बोध्यत्वाभावेन मन्त्रालङ्गविरोधाच। किन्तु होतैव ब्रह्मा तस्य चैक. तया स्थानद्वये उपवेशनासम्भवात् तेन स्वस्थानीयं छत्रादीनामन्यतमं ब्रह्मासने स्थाप. नीयमिति । तदुक्कं होनं ब्रह्मत्वञ्चाभयं स्वयमेव चेत्कर्तुमिच्छेदिति । एचञ्चोपवेशन-म. न्त्रोच्चारणयोः सामानाधिकरण्यासम्भवनोत्तमपुरुषप्रयोगेऽनुपपत्त्यभावान्न "सीदेशतिम- ध्यमपुरुषप्रयोगऊहनीयोमानाभावादचेतनस्य सम्बोध्यत्वासम्भवेन मन्त्रालिङ्गविरोधा. च । नचेहापि तथा, छत्रादिरूपेणाह मेवसोदामीत्यर्थात् । सम्बदतिचामुम) दक्षिणाप्रक. रणथं कात्यायनवचनम् । तथाहि- "विदध्यादौत्रमन्यश्चेद्दक्षिणाद्धेहरोभवेत् । स्वयञ्जेदुभयङ्कर्यादन्यस्मै प्रतिपादयेत् ॥" इति ॥ (१) एतच्च चर्चन द्रष्टव्यम् । चन्तु कर्मणि ब्रह्मोपवेशनानन्तरं वरुपणमेवेति । "ब्रह्माणमुपसङ्कल्प्य चरनपणमाचरेता इत्यजिरोवचनात् । तदेततस्वयमनुपदं वक्ष्यति-"अथोलखलमुशले" (१८१) इ. त्यादिना ॥ भूमिजप-परिसमूहनादिकमने (१३) पश्चादग्ने मावित्यादि-सूत्रकद. म्बकेन प्रदयिष्यते सूत्रकृता । तस्येहानुपन्यसने बीजन्तु-"काम्येष्वत ऊद्धम्" (४।१११) इत्युपक्रम्य तत्कर्मोपादानात् । “पूर्वषु चेके" (४।१२) इत्युक्त्या चेहापि प्राधम् । पूर्वेष्वित्यस्य नित्यनैमित्तिकेष्वित्यर्थः । वस्तुतस्तु "दर्शपौर्णमासाभ्यां स्वर्गकामोय. जेतेति श्रुत्वाऽनयोरपि काम्यत्वम् । “यावजी दर्शपौर्णमासाभ्यां यजेतेति श्रुत्या च नित्यत्वम् । अतएव "सफलोभयत्वे संयोगपृथक्त्वम्" (४१३३ ) इति जैमिनीयोन्या. योऽत्र प्रदशितस्तान्त्रिकैः ।। (२) तजिम्माणप्रकारमा कालिकापुराणम्- "द्विरावृत्त्याऽथ मध्ये वै अर्द्धावृत्त्याऽन्तदेशतः । ग्रन्थिः प्रदक्षिणावत्तः स ब्रह्मपन्थि. संशितः इति ॥ - Mamta ভালবেলে । [१ प्रपाठक संख्या मोल अङ्गिरत:--- नाविष्टर दिलन्देहः सपरितः। अतिभिस्तुशा कातिभिः स्मृतः ।। पञ्चाशद्धिः करतबर्द्धन तुविष्टरः । अवशोषवेला लन्नकेशस्तु विष्टरः ।। इक्षावत्तभाव वालावतरतु विष्टरः ।" इति ।। कुशरिपलाएं, तन्न "पञ्चाशतन्त्रकोनमा तदर्द्धन तु विष्टरः” इति वचन संगच्छत । एवञ्चकातीयसाऽनियमोक्तिरेताबकुशायभावे इति द्रष्टव्यम् २१ इति श्रीमद्रोभिलीगृह्यसूत्रव्याख्या "मृदुलाख्यायां मुकुन्दशर्मसङ्कलितायां प्र० प्रपाठकल्य षष्ठी कण्डिका ॥१॥६॥ * ॥ HITERATION अथ सता काण्डका-- अथोलू(ोखलमुशले प्रक्षाल्य शूर्पश्च पश्चादग्नेः प्रागग्रान् द- भीनास्तीर्योपसादयति ॥१॥ अथ द्रव्याण्यासाच (१)सम्प्रोक्ष्य च पूर्वमासादिते उलू(दू) खलमुशले शूर्पञ्चेत्येतत्रयम्- "भुशलोलूखले(२)वाच्छे स्वायत्ते सुदृढ़ तथा । इच्छाप्रमाणे भवतः शुर्य वैणवमेव च ॥" इति कर्मप्रदीपोक्तलक्षणं प्रक्षाल्य पश्चादग्नेः प्रागप्रान्दर्भानास्तीर्य तत्रो- पसादयति-स्थापयेदित्यर्थः(३)। पूर्व खल्वनेरुत्तरतः समासादितानां शूर्पोलू. (१) अथात्र चन्द्रकान्तभाष्ये विशेषः । अनाथेति विशिष्टमानन्तर्य द्योतयति कि. न्तत् ! यथोपयोगमुसरतोजनेव्याणामधोमुखानामुदगग्राणां पूर्वपूर्वक्रमेणासादनम् । वीक्षण प्रोक्षणाशिः कृत्वा । तथाच कर्माप्रदीप: "प्रा प्राञ्चमुदगग्नेख्दगर्ग समीपतः । तत्तथाऽसादयेद्रव्यं यद्यथा विनियुज्यते ॥” इति । समस्यायनगृहाचा "उत्सरतोजनेर्यथोपयोगमवाञ्चि पात्राण्यासादयेत्” इति । "द्रव्याणासुपक्लमानां होमीयानां यथाक्रमम् । सादयन्वीक्षणर्यादनिरभ्युक्षणन्तथा ॥ इति च स्मृत्यन्तरम् ॥ (२) पलाशादियशियकाष्ठनिम्मिते । अत्र "शूर्पन्त्वैषीकमेवतु" इति कचित्पाठस्त- बाप्यैषीकपदं वैणवस्याप्युपलक्षणम् । स्मृत्यन्तरसंवादात्॥ (३) से विधी द्रव्य एवमग्रेऽपीत्युक्तमधस्तान्न विस्मर्तव्यम् ।
Faces ७ कण्डिका] गोभिलगृह्यसूत्र- खलमुशलानामिदानीमग्नेः पश्चिमतः स्थापनं कर्त्तव्यम् निर्वापाद्यर्थम् ।। १ ॥ नव हविनिर्वपति वीहीन्वा यवान्वा कसेन चरुस्थाल्या वा ॥२॥ अथेति उलूखलमुशलासादनानन्तरम। इत्यर्थः । हविहवनीयं निर्वप- ति-उलूखले निःक्षिपेत् । हविर्विशेषाकाङ्क्षायामाह-व्रीहीन्वा (१)यवान्वा । वाशब्दौ तुल्यवद्विकल्पार्थो । एवमग्रेऽपि । निर्वापसाधनमाह कंसेनेति । तत्र कंसं(२) वर्तुलाकारयज्ञियपात्रभेद इति शब्दकल्पद्रुमः । “कंसोऽस्त्री तेजस- द्रव्ये कांस्ये माने ऽसुरे तु ना" इति मेदिनी । “कंसोऽत्री पानभाजन. मि"त्यमरः ॥२॥ तत्र मन्त्रमाह "अमुष्मै त्वा जुष्टं निवपामी"ति देवतानामादेशसकृद्द्विस्तूष्णीम्॥३॥ अदः शब्दोविप्रकृष्ट(३)मभिमतमनिर्दिष्टनामानमभिद्धदिहाग्न्यादिषु क- श्चिदभिधातीत्यमुष्मै-इत्यादिना"ऽग्नये त्वा जुष्टं निर्वपामी"त्येवं देवताया वेदमेय-त्यागोद्देश्याया नान्न आदेशम् समु(४)ञ्चारणं यथा भवति तथा । सकृदेकवारम् (५) । निर्वपति । द्वि-(६)वारद्वयं तूष्णीममन्त्रं निर्वपामीति स. म्बन्धः । अत्र च यावता निरुप्तेन होमोनिर्वय॑ते किञ्चिञ्चावशिष्यते ताव- त्परिमितमेव हविनिर्वतव्यम् । बहुदेवत्ये च चरौ न प्रत्येकमेवानुनिर्वापो क- व्यौ किन्तु तन्त्रेण द्वावेवानुनिर्वापो सर्वशेष करणीयौ तदेतत्सर्वकर्मप्रदीप शाह- "चह: समशनीयोयस्तथा गोयज्ञकर्मणि । वृषभोत्सर्जने चैव अश्वयज्ञे तथैव च ।। श्रावण्यां वा प्रदोषे यः कृष्यारम्भे तथैव च । कथमेतेषु निर्वापाः ? कथञ्चैव जुहोतयः ? ॥ (१) एदतलामे शाल्यादिकमपि। "यथोकवस्त्वसम्पत्चौ ग्राह्यन्तदनुकारि यत् । यवानामिव गोधूमा ब्रीहीणामिवाशालयः ॥” इतिकर्मप्रदीपोक्तः । (२) सच (कंसः) कास्यनिम्मित इति मुरारिमिश्राः ॥ (३)तथाचाहुरभियुक्ताः "इदमस्तु सन्निकृष्टे समीपतरवर्ति चैतदोरूपम् । अइसस्तु विप्रकृष्ट तदिति परोक्षे विजानीयात् इति । (४) "आइ पूर्वोदिशिरच्चारणक्रिय” इति वृत्तिकृतः प्राहुः । (६) अत्रक्रियाभ्यावृत्तिगणने कृत्वसुचः (पा० ५।४।१७) अथेंसुच् "एकस्य सन (पा०५४१९)ति सकूदादेशे संयोगान्तलोपः। (६) अत्र "द्वित्रिचतुर्थः सुच" (पा० ४।१८) इति कृत्यसुचोऽर्थे सुच् । अ- भ्यातिणनम् ।
MES হাম্বালম্মিখিঃ [१ प्रपाठक देवतासंख्यया प्राधा निर्वापाश्च पृथक्पृथक् । शेषश्चैव भवेत्किञ्चित्तावन्तं निर्वञ्चलम् ॥" इति । अत्र एतेषु इति-एतत्प्रकारेध्वन्येष्वपीत्यर्थः ॥३॥ अथ पश्चात्माङ्मुखोऽवहन्तुमुपक्रमते दक्षिणोत्तराभ्यां पाणिभ्याम् ४ अथेति पूर्वप्रकृतार्थम् । अथ पूर्वप्रकृतेनासादितेन मुशलेन पश्चात्-निर्व- वनस्य उदूखलस्य वा । प्राङ्मुख आसीनश्च । परिभाषाबलात् । पूर्वप्रकृतानेव निरुतान्त्रीहीन्वा यवान्वा, अवहन्तुं-कण्डितुम् । उपक्रमते-आरभेत । कथम् ? दक्षिणोत्तराभ्यां दक्षिण: ( करः ) उत्तर उपरि गतोययोस्ताभ्यां पा. णिभ्यां गृहीतेन मुशलेनेत्यर्थः । उपक्रमत इति वचनादुपक्रम एवायं नियमः । ततश्च शिज्येनापि पश्चादवहननङ्कारयतोन दोषः । इति भट्टभाष्यम् । मुरारि. मित्राश्चैवमेवाहुः ॥ ४ ॥ त्रिः फली कृतास्तण्डुलास्त्रिदेवेभ्यः प्रक्षालयेदित्याहुर्मिनुष्ये- भ्यः सकृपितृभ्यः ॥ ५ ॥ त्रि-वारत्रयं, फली(१)कृतान्निस्तुषीकृतान्शूर्पण, तण्डुलानित्युपलक्षणम् यवादीनामपि । देवेभ्योदेवानुद्दिश्य त्रिष्प्रक्षालयेदित्येवमाहुराचार्याः ॥ ५॥ पवित्रान्तर्हितांस्तएडुलानावपेत् ॥ ६॥ "अनन्त(२)भिणं साग्रं कौशं द्विदलमेव च । प्रादेशमानं विज्ञेयं पवित्रं यत्र कुत्र चित् ॥" इति कम्मेप्रदीपोक्तलक्षणेन अन्तर्हितान्व्यवहितान (पूर्व चरुस्थाल्यामुत्तरा. ग्रं पवित्रं निधाय तदुपरि) तण्डुलानावपेत्-निःक्षिपेत् । चरुस्थाल्यामित्यर्थः।।६।। कुशलशृतमिव स्थालीपाक श्रपयेत् प्रदक्षिणमुदायुवत् ॥ ७॥ कुशलेन पाकक्रियानिपुणेन शृतम्पकमिव स्थालीपाकं श्रपयेत्-पचेत् । (१), फलनिष्पत्तो” (भ्वा०प०) इति धातोनिष्पाद कर्मयोग्यतासम्पादन मर्थः । तच्च निस्तुषीकृतानामेव सम्भवति । एतदेव च शुर्णकर्म। तेन कण्डनेऽपि त्रि- त्वान्वयोवचनान्तरादेवावगन्तव्यः । तथाच स्मरणम् । "कण्डनं सेचन चौव तथैवोलखलक्रिया। सकृदेव पितॄणां ल्याइवे त्रित्वं विधीयते" इति । एतेन पुष्पादिदानेऽपि त्रित्वमनुगमयन्ति शिष्टाः ॥ वस्तुतस्तु"निष्कृतमथं देवा मन्यन्ते" इति श० प्रा० मप्यत्राथें विनिगमकं द्रष्टव्यम् ।। (२) अनन्तर्गभिणमन्तर्गतगर्भशून्यगभिमिन्नमिति यावदिति केचित् । अपरे तु अन्तर्गतोगर्भीयस्य तदन्तर्गर्भ गभिदलम् । तेदस्यास्तीति अन्तर्गर्भि। गर्भात्तृतोय. दलम् । तदिन्नमनन्तर्गमिणम् । आर्णत्वाद्विभकेरलुक् । इत्याहुः। विशेषस्त्वस्याग्रे स्फुटिष्यति । (२३॥२१॥ ।
HIReem ७ कण्डिका गोभिलगृह्यसूत्रे- "श्रापाके" ण्यन्तालिछ । पुगागमः । मित्त्वाद्धस्वत्वमपधायाः (पा० ६।४।९२) तवादग्धमकठिनमनतिशिथिलमवीतरसं, लाकप्रसिद्धः । कर्मप्रदीपोऽप्याह-- "स्वशाखोक्तविधिस्विन्नो दग्धोऽकठिनः शुभः । न चातिशिथिल: पाच्योन च वीतरसश्चतः।।" इति । प्रदक्षिणं-दक्षिणावर्त स्थाभवति तथा मेक्षणेनोक्तलक्षणेन (१।५।१९) उदायुवन् “युमिश्रणे" (अ० ५०) इति स्मरणादृर्ध्वमीषन्मिनयन् । श्रपये. दिति सम्बन्धः । मैक्षणेनेति तु "तस्मिन्नेवाग्नौ अपयत्योदनचरुञ्च मांसच- अञ्च पृथङ्मक्षणाभ्यां प्रदक्षिणमुदायुवन्” इति (४।२।१४) अग्रिमसूत्रात् ॥७॥ शृतमभिधार्योदगुदास्य प्रत्यभिधारयेत् ॥ ८॥ शृतम्पकचरुम् । अभिधाये-सुवगृहीतेनाज्येनाप्लाव्य । उदगुत्तरस्या- मग्नेः । उद्धास्य उत्तार्य प्रत्यभिधारयेत् पुनस्तथाऽऽप्लावयेत् । गृह्यासंग्रह- "पवित्रमन्त(१)रा कृत्वा चरुम्प्राज्ञोऽभिधारयेत् । उद्वास्य चैवं विधिवदेवन्तत्र न लुप्यते ॥” इति ॥ "चतुर्मुष्टिश्चरुः कार्यश्चतुर्णामुत्तरोऽपि वा” इति च ॥ ८ ॥ अग्निमुपसमाधाय कुशैः समन्तं परिस्तृणुयात्पुरस्तादक्षिणत उत्त- रतः पश्चादिति ॥३॥ अग्निम् उपसमाधाय-समिद्भिः समिध्य (प्रज्वाल्य ) कुशैः पूर्वासादितै. वहिः स्वरूपैः (विशाखाप्रतिलूनैः ) ( १।५।१६ ) समन्तं-समन्तात् । सर्वतः सर्वासु दिक्षु ) अग्नेर्वहिः । परिस्तृणुयात्-आच्छादयेत् । " स्तृआच्छादने" (स्वा० उ०) लिविधौ । स्तरणक्रममाह पुरस्तादिति । पूर्वस्यां दक्षिणस्यामु- त्तरस्याम्पश्चिमायामित्येवं क्रमेणेत्यर्थः । अत्र समन्तमिति द्वितीया पञ्चम्यर्थे व्यत्ययेन । (३।१२८५) समस्तमिति पाठः प्रामादिकः ॥ ९ ॥ सर्वतस्त्रिवृतं पञ्चतं वा ॥ १० ॥ सर्वतः सर्वासु दिक्षु । त्रिवृत-त्रिवार, पञ्चवृतं-पञ्चवारं वा ।परिस्तृणुया- दित्यनुवर्तते ॥ १०॥ अथ कथम्पुनरेकं परिस्तरणं सम्पद्यपते ? यस्य त्रिःपञ्चकृत्वोवा करणमुप- दिश्यते । तदुच्यते- बहुलमयुग्मसंहतम् ॥ ११ ॥ बहुलं-बहुतृणकम् (२)। अयुग्माः (३)संहताः परस्परं संलमाः कुशा यत्र (१) पवित्रान्तर्हितं कृत्वेत्यपिपाठः कचित् ।। (२) बहून्कुशान लाति गृहातीति बहुलम् । परिस्तरक्रियाविशेषणमेतत (३) मुरारिमिभास्तु-अयुग्मञ्च तत्संहतञ्चेत्ययुग्मस्हतम् । त्रिवृतं पशवृतं वेत्यने- । - दर्शपौर्णमासविधिः। [१ प्रपाठक- तत् । तदेवं प्रतिदिशमयुग्मैः परस्परसंलग्नैः कुशैरेकम्परिस्तरणं सम्पद्यते । तस्य खल्वस्य त्रिः पञ्चकृत्वो वा.करणमुपदिश्यत इत्यर्थः । तदिदं परिस्तरणं पूर्वस्यामुत्तरान्तादक्षिणान्तं यावत् । दक्षिणस्यां पूर्वान्ताल्पश्चिमान्तं यावत् । यथा दक्षिणस्यान्तथोत्तरस्याम् । यथा पूर्वस्यान्तथा पश्चादिशि कर्त्तव्यम् । प. रिस्तरणक्रियाविशेषणमेतत्सर्वन्द्रष्टव्यगिति मुरारिमिश्नाः प्राहुः(१) ॥ ११ ॥ अथेदानीम्परिस्तरणप्रकारोऽभिधीयते----- पागोरग्रैर्मूलानि च्छादयन् ॥ ११ ॥ प्राक् प्रथमं पतितान्यप्राणि येषान्तैस्तथाभूतैः कुशैः समन्तं परिस्तृणुया. दिति सिंहावलोकितकेन समन्वयितव्यम । तथैव कर्मठप्रसिद्धे । कथमित्यपे. क्षायामाह-अप्रैरिति । अनमूलक्रमेण स्थापितकुशानास्मूलानि स्थाप्यमानकु- शाप्रैश्छादयन्नीशानादाग्नेयान्तं वायव्यान्नैऋतान्तं प्राक् प्रतीच्योः । प्राक्प्रत्य- वक्रमेण च दक्षिणोत्तरयोरित्येष परिस्तरणक्रम आयोति । किन्तु-"प्राच्युञ्चि वा कम्माणि सन्तिष्ठन्ते” इति श्रुतेराजानिकशिष्टाचारपरिगृहीतत्वादाग्नेय्या- मुत्तरापास्तीणकुशाग्राधस्तादास्तीर्यमाणकुशमूलङ्कार्यमित्येवमुदक्संस्थाभवति । तथाच साङ्ख्यायनीये-"प्रागप्रैः कुशैः परिस्तणो"ति-इत्युपक्रम्य “सर्वाश्चावृतो. दक्षिणप्रवृत्तय उदकसंस्था भवन्ति" इत्युक्तम् । श्रावृतः प्रक्रिया: परिपाट्योवां "आवृत्पपरिपाटी अनुक्रमः” इत्यमरः ॥ आश्वलायनोऽपि-"दिक्षु सर्वासूद- क्संस्था-प्राच्यादिषु परिस्तुतिः” इत्युक्तवान् । अतएव पार्वणे पश्चिमादारभ्य पूर्वान्तम् । आभ्यदयिकेच दक्षिणादारभ्योत्तरान्तमादिक्रमः सकलशिष्टा- चारपरिगृहीत उपलभ्यते । वीरेश्वरादयोऽपि-"आग्नेयादीशानान्तम्” इत्येवं परिस्तरणकमं स्वपद्धतौ वाजसनेयके लिखन्ति स्म । यत्तु-प्रागरित्यनेन प्रा- पश्चिमयोरपि पूर्वाग्राणामेव कुशानाम्परिस्तरणमिति केषाञ्चिन्मतं तत्र परि. धिकार्यनिर्वाहकताऽने (१।७।१६) वक्ष्यमाणा नोपपद्यते। इति द्रष्टव्यम् ॥१२॥ परिस्तरणे प्रकारान्तरमाह- पश्चाद्वाऽऽस्तीर्य दक्षिणतः प्राञ्चं प्रकर्षति तथोत्तरेण ॥१३॥ वा-अथवा । पश्चात्--प्रतीच्यामग्नेः । प्राच्यामिवास्तीर्य । दक्षिणतः-- दक्षिणस्यां, प्राञ्चं पूर्वपूर्वाग्रक्रमेण यथास्यात्तथा (अर्मूलानिच्छादयन् ) प्रकर्षति । प्रकीर्णयति । (परिस्तृणाति ) तथा- तेनैव पकारेण । उत्तरेण उत्त- । Rama नैवायुग्मत्वे प्राडे एकवृतस्यापि प्राप्त्यर्थमिदम् "शब्दाधिक्यादि-तिन्यायोत्। तथा- चगृह्यान्तरम्-"सकृत्रिर्वा प्रदक्षिणं प्रतिदिशमग्नेरि"-ति । संहतमन्तरालशून्य, सर्व- मिदं क्रियाविशेषणमिति द्रष्टव्यम् । अब प्रदक्षिणमिति शाखान्तराभिप्रायमित्याहुः ॥ (१) अनारुचिविशेषोऽनुपदं मूलएव द्रष्टव्यः॥ .
Is- RE- ७ कण्डिका गोभिलगृह्यसूत्रे- ८8 रतः । पूर्वतस्तुसूर्यएव कार्यनिर्वाहको भावनया याज्ञिकानामित्यवगन्त(१). व्यम् ॥ १३॥ दक्षिणोत्तराशयग्राशि कुर्यात् ।। १४ ॥ दक्षिणानि च तान्युत्तराणि चेति दक्षिणोत्तराणि । अग्राणि । “कुशाना. म्” इति शेषः । पश्चात् पुरस्ताद्वा यानि वहीपि स्तृतानि भवन्ति । तेषामग्राणि दक्षिणोत्तरक्रमैग्ण कुर्यात् इत्यर्थः । गृावृत्तिकृतोभट्टनारायणोपाध्यायास्तु--पूर्व. सूत्रे उभयहस्तेन कुशान गृहीत्वा दक्षिणहस्तगृहीतर्दक्षिणत' परिस्तृणाति । स- ध्यहस्तगृहीतैरपि सव्यत इत्यभिधायात्र सूत्रे दक्षिणहस्तगृहीतकुशाग्राणि उत्त राणि-उपरिष्टात् ऊर्ध्वम्पूर्वस्यां दिशि, अर्थात्सव्यहस्तगृहीतान्यधराणि पश्चादि- शि इत्यर्थ इत्याहुः । महाममहो-मुरारिमिश्रास्तु-दक्षिणहस्तगृहोतकुशाग्राणि उत्तराणि-उपरिश्रात्कुर्यात् । एवञ्चार्थात्सव्यहस्तगृहीतानि अधराणीत्यर्थ इत्या. हुः । कतमोऽर्थोऽत्र याज्ञिकावृत्सिद्ध इति विद्वांस एव विदाकुर्वन्तु ॥ १४॥ एष परिस्तरणन्यायः सर्वेष्वाहुतिमत्सु ॥ १५ ॥ एषोऽनन्तरोक्तः परिस्तरणस्य न्यायः प्रकारः । सर्वेष्वाहुतिमत्स्तु । यत्र २ आहुतयस्तत्र २ भवति । अन्यत्र सायम्प्रातहोमादिभ्यः । तथाच कात्यायन:: "यान्यधस्तरणाम्नानान्न तेषु स्तरणं भवेत् । एककार्यार्थसाध्यत्वात्परिधीनपि वर्जयेत् ।।" इति । स्तरणाम्नानादधः पूर्व यानि आम्नातानि प्रातहाँमादीनि तेषु स्तरणं न भवेत् , एकेति-स्तरणवैकल्पिकान्-स्तरणैककार्यकारित्वात्परिधीनपि तेषु वर्जयेदित्यर्थः ।। १५॥ कुशानां परिधीनाञ्च (२)खल्वभावे-- परिधीनप्येके कुर्वन्ति शामीलान्पान्विा ॥ १६ ॥ परिधीन्- "बाहुमात्राः परिधय ऋजवः सत्वचोऽत्रणाः। त्रयाभवन्त्यशीर्णाग्रा एकेषान्तुचतुर्दिशम् ।।" इति कर्मप्रदीपोक्तलक्षणसंख्याकानपि । एके आचार्याः कुवन्ति । परि. स्तरणार्थम् । तानेव विशिनष्टि-शामीलान्-शमीमयान् । “शम्याः प्लब्” (पा० ४।३।१४२) इति विकारार्थे प्रत्ययः । तदलाभे पार्णान्-पलाशमयान् वा । "प. लाशे किंशुकः पर्णीवातपोथ:' इत्यमरः ।। परिधीनां विन्यासप्रकारमाह-कम- (१) परिस्तरणं कुशानान्देवतोपवेशनायेति तान्त्रिकप्रसिद्धिः । असुरोपघातनि. वृत्तये च परिधिः । तथाचानुपदं सूत्रयिष्यति-"परिधीनप्येके कुन्तीति ॥ ( २ ) तथाच गृह्यान्तरम् "दर्भाणां स्थाने शरैः प्रस्तरितव्यम्” इति। शरैरित्युप- लक्षणम्॥ १२ गोगृ० सू० SOD ।
अथ दर्शपौर्णमालविधिः। [१ प्रपाठके- RANERS प्रदीपः- "प्रागप्रावभितः पश्चादुदगग्रमथापरम् । न्यसेत्परिधिमन्यश्चेदुदगमः स पूर्वतः ॥” इति । अत्र-एके कुर्वन्तीत्यनेनैतदपि सूचयत्याचार्यः । स्तरणकल्पे परिधिरनर्थ- कः । स्तरणेनैव तत्कार्यस्य कृतत्वात् । परिधिहि-असुरोपघातप्रतिषेधाय चतु- हिक्षु क्रियते । गृह्यासङ्ग्रहेतु- "परिधींस्तु न कुर्वीत गृह्याकर्मसु याज्ञिकः । उदकाखलयस्तित्रस्ते वै परिधयः स्मृताः॥" इत्युक्तम् ॥१६॥ उत्तरतोऽपां पूर्णः ब्रुवः प्रणीता ॥ १७ ॥ उत्तरत उत्तरस्यान्दिशि अग्नेः । अपाम-अद्भिः । शेषे षष्टी (पा०२।२०५०) उदकेन पूर्णः सम्भृतः । स्वोयथोक्तलक्षणः । स एव प्रणीता-तत्कार्यकृद्भवति । तदनेन संस्कारविशेषादप एवाभिधीयन्ते ताभिश्च पर्युक्षण-पवित्रमार्जनादय उदकार्थाः कर्त्तव्या इत्यभिप्रायः । "प्रणीताभिरुदकार्थः कार्य" इति च गृह्या- न्तरम् । अत्र गृह्यासमहे-"विहितप्रतिषिद्भाञ्च प्रणीतां नोपकल्पयेत्" इति । प्रणीतान्तत्पात्रम् ॥१७॥ भावे न वा स्यादित्येके ॥ १८॥ भावः सत्तेत्यनन्तरम् । भावे अन्यस्य महत: पात्रस्य प्रणीतादेः। अन. न्तरोक्तः स्रवः प्रणीतार्थक(१)नवा नैव स्यादित्येके आचार्या मन्यन्ते ॥१८॥ वर्हिषि स्थालीपाकमासाद्यध्ममभ्याधायाज्यसंस्कुरुते ॥ १६ ॥ वहिषि आस्तृते स्थालीपाकं चरुम् । आसाद्य-स्थापयित्वा इध्ममित्येकव चनं जात्यपेक्षमिमान्यथोक्तानभि-आत्मनोऽभिमुखम् आधाय-"इध्मोऽप्येधा. (२)थमेवाग्नेह विराहुतिषु स्मृतः” इति कर्मप्रदीपदर्शनादमन्त्रकमग्नौ प्रक्षिप्य । अन्यत्राङ्ग(३)होमादिभ्य इति चन्द्रकान्तभाष्यम् । भट्टनारायणोपाध्याया अ. प्येवमेवाहुः । वस्तुतः समन्त्रकमिध्मस्येन्धनस्याप्याधनं वचनबलात् । तथा- । (१) चन्द्रकान्तभाष्ये तु-स्याद्वाऽदृष्टार्थमिति वाशब्दस्वारसिकार्थमाहुः ॥ (२) इन्धनमेधः । एधार्थमग्निसमिन्धनार्थम् ॥ "भिहन्धीदीप्तौ" (रु० आ०) अ. स्माद् धनि निपातः । (पा०६।४।२९) ॥ "इध्ममेधः समित्वियामि, त्यमरः । (३) कात्यायन:-"अङ्गहोम-समित्तन्त्र-सोष्यन्त्याख्येषु कर्मसु । येषाम्चेत. दुपयुक्तन्तेषु तत्सदृशेषु च ॥ अक्षभङ्गादिविपदि जलहोमादिकम्र्मणि । कृत्याहुतिषु स- वासु नैतेष्विघ्मो विधीयते ।" इति । अङ्गहोमाः सर्वप्रायश्चित्तादयः । समिसन्न-ब्रह्म- चारिणां समिदाधानहोमः। येषामिति-येषाङ्कर्मणामुपरि सूत्रकृता इध्मोविहितस्तेषु तत्सदृशेषु क्षिप्रहोमादिषु,चेत्यर्थः ॥ क्षिप्रहोमोऽनुदितादिहोमः ॥
७ कण्डिका ] गोभिलगृह्यसूत्रे- a MAIN । चाङ्गिराः- "इध्मसन्नहनाधानं चरुश्रपणमेव च ! तूष्णीमेतानि कुर्वीत समन्त्रञ्चेममाव्हेत् ॥" इति । यद्यपि समन्त्रकत्वे तूष्णीमिति विरुद्धम् । तथापि-तूष्णीमिति द- र्शनान्मन्त्रस्य स्मरणमात्रं न तु पाठोऽतोन विराधः। अतएव प्रजा(१)पति- म्मनसा ध्यात्वेति वीरेश्वरादिपद्धतिषु समिदाधान उक्तम् । मन्त्रश्चात्र महाव्या- हृतिरूप एव । तदुक्तं छन्दोगपरिशिष्ट- "आज्यन्द्रव्यमनादेशे जुहोतिपु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ॥" इति । अनादेशे-अविधाने । “होमद्रव्यस्येति शेषः । मन्त्रस्य देवतायाश्चे. त्यत्रानादेश इति सम्बध्यते । मन्त्रस्यानादेशे प्रजापतिदेव(२)ताको महाव्याहृति- मन्त्रः । स च समस्तव्याहृतित्रयात्मकः । देवतायाश्चानादेशे प्रजापतिर्देवतेति- एकस्यैव प्रजापतिरित्यस्यार्थ इति कल्पतरुकारादयः । अत एव वचनान्तरमपि सङ्गच्छते । तथाहि- "यत्र मन्त्रा न विद्यन्ते व्याहृतीस्तत्र योजयेत् । मन्त्राणामेव चोद्देशे मन्त्रैः कर्म समाचरेत् ।। भूरादयोव्याहृतयो वेदेभ्योनिःसृताः (३)पुरा । महत्त्वं व्याहृतित्वञ्च व्याप्तास्तेनैव कर्मणा ॥ ॐकारजननात्तासां महत्त्वं प्रतिभाष्यते । व्याप्त्या च व्याहृतित्वञ्च तेन त्रैविद्यतां यजुः ॥" इति । अत एवाहामेऽपि सामगब्राह्मणकत्तूंकजलाहरणे व्याहृतीनामेव विनियोग इति सकलसमाचार इति शुभकर्मनिर्णये महामहो० मुरारिमिश्रा- प्राहुः ।। इध्मस्वरूपमुक्तमधस्तात् (१-५-१४-१५) अथ तत्र विशेषमाह- (१) प्रजापतिन्देवतात्वेन, मन्त्रञ्च भूर्भुवस्वरित्येतद्रूपं मनसा ध्यात्वा स्मृत्वेति तदर्थः । देवतास्मरणपूर्वकमन्त्रोच्चारण एवादृष्टविशेषोत्पत्तेः श्रवणात् ॥ (२) यद्यपि-"त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता, मन्त्रस्तुत्या चेति जैमिनी. यपरिभाषणाव्याहृतीनाम्प्रजापतिदेवताकत्वं नोपपद्यते । तथापि प्रकृत-( पूर्वोत्तर-) वचनेभ्यस्तथात्वं श्रद्धेयव्याख्यात-पद्धतिकारादिलिखनादवसीयते । अन्न मन्त्रे स्वाहा. कारोनिषिद्धोऽङ्गिरसैव "स्वाहान्तत्र न कारयेदि। मन्त्रश्चोकः समन्त्रश्चेष्ममादहेदि. ति। तथाचोक्काङ्गिरोवचनेन तूष्णोममन्वं समिदाधानमिति व्याख्यानमनादेयमेव । यथोक्तमधस्तात् (१-२-९) टिप्पने ॥ (३) तयाच-मनुः-अकारश्चाप्युकारञ्चमकारश्चप्रजापतिः । वेदन्नयान्निरदुहद्भूर्भु. वास्वरितीति" इति। tra ।
९२ । D दर्शपौर्णमालविधिः [१ प्रपाठक अङ्गिरा:- "इध्मः समानवृक्षाणां द्विप्रादेशः प्रमाणत: ।" कात्यायनोऽपि- "समिधोऽष्टादशेमस्य प्रवदन्ति मनीषिणः । दर्श च पौर्णमासे च क्रियास्वन्यालु विशतिम् ॥” इति । तथा- "मूलमध्यापदेशेषु ईषसिक्तांस्तु निर्वपेत् ।” इति । अयञ्च सेको घृतादिनन । अत एवोक्तं वीरेश्वरादिभिः स्वस्वपद्धती "मूलमध्याग्रक्रमेणघृताक्तानि"ति । स्थौल्यादिकन्तु यथोक्तं ( १।११७ ) धर्मा. न्तरमिध्मस्य । समित्समानमेव ग्राह्यम् । तथाच समित्स्वरूपमुक्त्वा कात्यायन:- "प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्तितम् । एवं विधाः स्युरेवेह समिधः सर्वकर्मसु ॥" इति । इह गृह्यकर्मणि । समिध्यतेऽग्निरेभिरिति व्युत्पत्त्या समिध इध्मा एवं विधा एव समित्समाना एवेत्यर्थ इतिमुरारिमिश्राः। आज्यमिति । अन- (१)च्यनेनेत्याज्यं सर्पिरादि । संस्कुरुते-संस्कुयोद्वक्ष्यमाणेन विधिना ॥ १९ ॥ किन्तदाज्यन्तदाह- सर्पिस्तैलं दधि पयो यवागू वा ॥२०॥ सर्पितम् “घृतमाज्यं हविस्सर्पिः" इत्यमरः । तैलम् तिलस्नेहम् । यवा- गूः । भृष्टयवचूर्ण षडगुणजले (दुग्धे वा ) सिद्धं द्रवद्र्व्यम् । यूयते मिश्रय- तेऽसाविति "युमिश्रणे" (अ०प०) इत्यस्मात्कर्माणि ( उ० ३।८१) अगूच्य. त्ययः । “यवागूः पड्गुणजले सिद्धा स्यात्कृशरा घना" इति शाङ्गधरीये (म०ख०२०) अत्र पूर्वपूर्वासम्भवे उत्तरोत्तरोपादानमिति द्रष्टव्यम् ॥ सर्व. मतदाज्यमुच्यते तदाह गृह्यासङ्ग्रहे कात्यायन:- "अग्निना चैव मन्त्रेण पवित्रेण च चक्षुषा । चतुभिरेव यत्पूतन्तदाज्यमितरद् घृतम् ।। घृतं वा यदि वा तैलं पयो वा यदि यावकम् । आज्यस्थाने नियुक्तानामाज्यशब्दो विधीयते ॥” इति । थावकम् । यवागूः ॥२०॥ आज्यसंस्कारप्रकारमाह- तत एव वर्हिषः प्रादेशमात्रं पवित्र कुरुते ॥२१॥ (१) "अजूव्यक्तिनक्षणकान्तिगतिषु" (रु०प० ) इत्यस्मात् “अजेः संज्ञा. याम्" (पा० ३।१।१०९ वा०) इति क्यपि बाहुलकावृद्धिः । तेनाअन-(स्निग्धीकरण) साधनमुच्यते । यस्तु इज्यत अनेनेति आज्यामिति चन्द्रकान्तभाष्यादावुकन्तदर्थसङ्गति. मनुसत्य व्याख्यानमात्रम् ॥ - -
No text on this page.
[१ प्रपाठके ७ दशेपौर्णमासविधिः। शङ्गच्छते । एवञ्च "पवित्र स्थो वैष्णव्यावि"त्यादि मन्त्रस्थपवित्रपदानन्तरं यत्र यत्र द्विवचनविभक्तिरस्ति तत्र तत्र पवित्रपदं शक्यैकदेशदलपरमेव श्रोत्रि- यपदवत् । देवस्त्वेति मन्त्रस्थ पवित्रपदश्च मुख्यपरमेव, अनुपपत्त्यभावात् । अतएव तत्र पवित्रणेत्येकवचनमपि सङ्गच्छते इति दिक् । कश्चित्तु-कौश. न्द्विदलमेवचे"ति पवित्रलक्षणे दलपदं न पत्रपरमपि तु तदुभयपार्श्वपरमि- त्येकमेव पवित्रपदार्थस्तथा च न द्विवचनानुपवत्तिरिति प्रकृते समाधानमाह तन्न-एवमप्यर्यादावेकपत्रात्मकपवित्रदानापत्तावाचारविरोधस्य "आज्यस्यो. त्पवनार्थ यत्तदप्येतावदेव तु" इति परिशिष्टवचनविरोधस्य, सूत्र "प्रादे- शमात्रे" इति विशेषणवैयर्थ्यस्य चापरिहारादिति मुरारिमिश्राः प्राहुः ।। २१ ॥ ओषधिमन्तायच्छिनत्ति न नखेन, "पवित्र स्थो वैष्ण- व्या"विति ॥२२॥ ओषधिम्-व्रीह्यादिकम् अन्तर्बीय-अन्तरा कृत्वा "पवित्रस्थ" इति मन्गेण छिनत्ति कुशेनैव कुशाग्र इत्यर्थः ।। हेपवित्रे ! युवां "वैष्णव्यो” बिष्णु- देवताके 'स्थः' भवथः । इतिमन्त्रार्थः ।। २२ ।। अथैने अद्भिरनुमार्टि "विष्णोर्मनसा पूतेस्थ" इति ॥२३॥ अथानन्तरमेवाविमुञ्चन् एने पवित्रे कुशपने अनुमाटि सव्यहस्तेन मूल- प्रदेशे गृहीत्वा दक्षिणहस्तेन प्रणीतोदकेन "विष्णोर्मनसे"-ति मन्त्रेणानुमृ- म्यादित्यर्थः ॥ हेपवित्रे ! युवां 'विष्णोः' 'ममसा' सम्यगनुध्यानेन 'पू' पवि. स्थः' भवत इति मन्त्रार्थः ॥ २३ ॥ सम्पूयोत्पुनात्युदगग्राभ्यां पवित्राभ्याम् ॥ २४ ॥ सम्पूयेति-प्रकृतत्वादाज्यम् । अत्राङ्गिराः- "पवित्रमन्तरा कृत्वा स्थाल्थामाज्यं समावपेत् । एतत्सम्पूतनं नाम पश्चादुत्पवनं स्मृतम् ॥" इति । स्थाल्याम् तेजस्यां मन्मय्यां वा । तथाच कात्यायन:- "आज्यस्थाली तु कर्त्तव्या वैजसद्रव्यसम्भवा । माहेयी वाऽपि कर्त्तव्या नित्यं सवामिकम्मसु ।" आज्यस्थाल्याः प्रमाणन्तु यथाकामन्तुकारयेत् । सुदृढामव्रणाम्भद्रामाज्यस्थालीम्प्रचक्षत।।" इति । माहेयी-मृन्मयी। सा च हस्तमात्रघटिता न तु कुलालचक्रनिष्पन्ना गया। तथाच स एव- "कुलालचक्रनिष्पन्नमासुरंन्मृ मयं भवेत् ।
७ कण्डिका] गोभिलगृह्यसूत्रे- gaon - तदेव हस्तघटितं प्रशस्तं हव्यकव्ययोः ॥" इति । उदगग्राभ्यां पवित्राभ्यां-पवित्रघटितदलाभ्यामित्यर्थः । उत्पुनाति ऊर्ध्व शोधयति ।। २४ ॥ कथमिति ? तत्प्रकारमाह- अङ्गुष्ठाभ्याञ्चोपकनिष्ठिकाभ्याञ्चाङ्गुलिभ्यामभिसंगृह्य प्राक्- शस्विरुत्पुनाति "देवस्त्वासवितोत्पुनावच्छिद्रेण पवित्रण वसोः मूर्यस्य रश्मिाभ"रिति सकृयजुषा द्विस्तृष्णीम् ॥२५॥ तथाकहस्तानामिकाङ्गुष्ठाभ्यां मूलदेशे अपरहस्तानामिकाङ्गुष्ठाभ्यामग्रदे- शेऽभिसंगृह्य-अर्थात्पवित्रे गृहीत्वोत्तराग्राभ्यान्ताभ्यामाध्यमादाय "देवस्त्वे"ति यजुषा प्राङ्मुखं प्राकशः । त्रिरिति । मन्त्रेण सकृदुत्पुनाति ऊर्ध्वन्नीत्वा क्षिप. ति । द्विस्तष्णीमित्यर्थः ॥ अत्र व्यस्तहस्तानामिकाङ्गुष्ठाभ्याम्पवित्रग्रहणमिति पद्धतिकृतोधीरेश्वरादयः ।। मन्त्रार्थस्तु हे आज्य ! 'त्वा' स्वां 'सविता' 'देवः' आभ्याम् 'अच्छिद्रेण' अच्छिद्राभ्यामव्यवच्छिन्नाभ्याम् 'पवित्रण' पवित्राभ्या. म् । 'उत्' अधिकं 'पुनातु' अज्ञातकेशकीटादिदोषमपनयतु । किञ्च वसु तेजः रश्मिा (निघं० ११५॥१०) तत्प्रधानत्वात्सोऽपि ( सूर्यः) तथोच्यते । तस्य 'वसोः' तेजोनिधेः 'सूर्य्यस्य 'रश्मिभिः' किरणैः “किरणप्रग्रहौरश्मी" इत्यमरः। त्वामुत्पुनात्विति सम्बन्धः । अभिधानभेदाभिप्रायेण सविता(१)सूर्यादन्यः । पवित्रेणेति व्यत्ययेन एकवचनम् ।। २५ ।। अथैने अगिरभ्युक्ष्याग्नावप्युत्सृजेत् ॥ २६ ॥ अथानन्तरमेवाविमुञ्चन्नेव एने पवित्रे सव्येन गृहीत्वा दक्षिणेन अद्भिः प्रणीताजलेनाभ्युच्य दक्षिणेनैवामावपि उत्सृजेन्निः क्षिपेदित्यर्थः ।। २६ ।। अथैतदाज्यमधिश्रित्योदगुद्वासयेत् ॥ २७ ।। अथोत्पवनानन्तरम् । एतद् अनन्तरोक्तं सर्पिरादिरूपमाज्यम् । अधिश्रि- त्य-अग्नेरुपरि कृत्वा प्रतप्य उदगुत्तरस्या मग्नेः कुशोपरि उद्वासयेत् । अवतार्य स्थापयेत् । अत्र चाधिश्रयणन्दधिभिन्नानामेवाज्यानान्न तु दध्नोऽपि तत्र निषे- धात् । तथाच कात्यायन:- "आज्यानां सर्पिरादीनां संस्कारे विधिचोदिते । अनधिश्रयणन्दनः शेषाणां श्रपणं स्मृतम् ।।" इति । तथा- "यथा सीमन्तिनी नारी पूर्वगर्भेण संस्कृता। (१) मन्त्रमयी| देवता इति हि कर्ममीमांसकानामालाः। तस्य शब्दात्मिका इत्यर्थः । अत एव चणकमसूरादयोऽपि देवतास्तेषामाम्नायन्ते । तदधिष्ठात्र्यो देवता इति हि तत्त्वविदः प्राहुः॥
ভুতুর ন্যানিজিং [१ प्रपाठके- एवमाज्यस्य संस्कारः पूर्वणैवोत्तरस्य तु ॥" इति । एवञ्च यत्किञ्चिदवशिष्टे संस्कृते धृतादौ पुनवृतान्तरप्रवेशने तत्र न संस्कारान्तरापेक्षा । सर्वापचारे पुनस्तदपेक्षव तत्र संस्काराभावादिति द्रष्ट- व्यम् ॥ वारत्रयमेपमाज्यसंस्कार इति पद्धतिकृतीधीरेश्वरादयः ।। एवमाज्यस्य संस्करणकल्पोभवतीति ॥२८॥ इति गो० गृ० प्र० प्र० के सप्तमी कण्डिका ।। १॥७॥ ॐ ।। एवमनेन प्रकारेण आज्यस्य संस्करणकल्पोमबति। यत्र यत्राज्यं संस्क्रि. यते तत्र तत्रैवर्त्तव्यमित्यर्थः । इतिः कण्डिकापरिसमाप्त्यर्थः । सुवादिसंस्कार. समुच्याओं वा । तथाच गृह्यान्तरम-"वं प्रतघ्य दभैः सम्भृज्याभ्युक्ष्य पुनः प्रतप्य निदध्यात्" इति । कर्मप्रदीपोऽप्याह-- "तेषां:प्राक्शः कुशैः कार्य्यः सम्प्रमार्गोजुहूषता। प्रतापनञ्च लिप्तानां प्रक्षाल्योष्णेन वारिणा ॥" इति ॥ २८॥ इति श्रीमद्दोभिलीयगृह्यसूत्रव्याख्यायाम्मृदुलाख्यायां मुकुन्दशर्मकृतायाम्प्रथ. मप्रपाठकस्य सप्तमी कण्डिका ॥१॥७॥ * ॥ अथाष्टमी कण्डिका- पूर्वमाज्यमपरः स्थालीपाकः ॥१॥ पूर्वापरदेशत्वादनयोरपि पूर्वापरव्यपदेशः । पूर्वस्यान्दिश्याज्यम् आसाद- यितव्थम् । अपरस्याञ्च स्थालीषाक आसादयितव्य इति शेषः । पूर्व खल्बग्ने रुत्तरतः समासादितयोरनयोरिदानीतियासौकर्यामग्नेः पश्चिमतः पूर्वापरभावेन समासादनमिति बोद्धव्यम् । तथाच गृह्यान्तरम्--"होत्रग्न्योरन्तरा आज्यह- विषी श्रासादयेत्” इति । इदानीं हविषः पश्चिमतः समासादनादेव वक्ष्यत्या- चार्यः "अथैतद्धविरुच्छिष्टमुदगुद्वास्य" इति ।। १ ।। पर्युक्ष्य स्थालीपाक आज्यमानीय मेक्षणेनोपघात होतुमेवोपक्रमते २ "अदितेऽनुमन्यस्व" इत्येवमादिनाऽग्निं पर्युक्ष्यस्थालीपाके चरौ श्राज्य- मानीय--प्रक्षिप्य मेक्षणेन यथोक्तेन ( ११५६१९ सू०) उपघातम्---उपघात- नामा यथा भवति होमस्तथा होतुमेवोपक्रमते--प्रारभेत इत्यर्थः । विद्ध्यर्थेऽत्र- लेट् । एवकारोऽवधारणार्थः । नान्यत् किञ्चिदभिधारणादिकं कुर्यादिति तदर्थः । "चरावाज्यमानीय प्रपदविरूपाक्षो जपित्वा समिधमाधाय जुहुयादेव" इति भट्टभाष्यम् । तदनेनोपघातहोमे अभिधारणादिकमाज्यभागौ च न भवतीति ८ कण्डिका गोमिलगृह्यसूत्र- सूचयति । द्विविधः खलु होमो याज्ञिकप्रसिद्धः। उपघातः उपस्तीर्णाभिधारितश्च । चरावाज्यं निः क्षिप्य विनवाभिधारणादिकम्धूयते स उपधातः । यश्च स्रुचि खुवेणाज्येनाभिधार्य चरुमवदाय पुनराज्येनाभिधार्य हूयते सउपस्ती र्णाभिधारित इत्याख्यायते । चुवेण सूचि यदाज्य प्रथमङ्गृह्यते तदुपस्तीर्ण, हविरवदायानन्तरं यदाज्यन्दीयते तदभिधारितम इति व्यपदिश्यते। यथाचो. पस्तीर्णाभिधारितं होतव्यन्तदनुपदं व्युत्पादयिष्यते । यथाचोपघातहोमस्तदन सूयते । तथा च गृह्यासङ्ग्रहः- पाणिना मेक्षणेनाथ सुवेणैव तु यद्धविः । हूयते चानुपस्तीर्य उपघातः स उच्यते ।। यद्यपघातजुहुयाचरावाज्यं समावपेत् । मेक्षणेनच होतव्यं नाज्यभागौ न स्विष्टकृत् ।।" इति । तदेवमुपघातमितिपारिभाषिकी संज्ञा होमविशेषस्य । स खल्वयमु. पघातहोमः समशनीयचरु-पितृयज्ञचोरन्यत्रापि बहुदैवत्ये चरौ आन्वष्ट- क्यचरौ च भवति । तदाह कर्मप्रदीप:- "चरौ समशनीये तु पितृयज्ञचरौ तथा । होतव्यं मेक्षणेनान्यदुपस्तीर्णाभिधारितम् ॥" इति । "चरौ तु बहुदैवत्ये होमस्तस्योपघातवत्" इति चस्मरणम् । वक्ष्य- ति चान्वष्टक्ये "कसे चरुं समादाय मेक्षणेनोपघातजुहुयात्" इति || "त- त्रान्वष्टक्यपितृयज्ञयोः क्षिप्रहोमधर्मः । समशनीयेतु ब्रह्मोपवेशनादितन्त्रधर्म" इति भट्टनारायणोपाध्यायाः । वृषोत्सर्गहोमस्य तु बहुदैवत्येऽपि नोपघातत्वं, MED तदाह कर्मप्रदीपः- " "एतेभ्य एव जुहुयान्मेक्षणेनावदाय च । स्रुच्याहुतीश्चरोः पृथक् सिञ्चेदाज्याभिघारितम्" इति । "चतुर्गृहीतं कृत्वाज्यमाभिधंग्भिः पृथक् पृथक् ॥ स्वाहाकारावसानाभि-र्जुहुयाद्विधिवत्सदा ॥” इति च ॥ २ ॥ यावा उपस्तीर्णाभिषरितज्जुहुयात् आज्यभागावेव प्रथमौ जुहुयात् ।। ३ ।। उ-इति वितर्कार्थको निपातः। वै-इति निश्चयार्थः । यद्युपस्तीर्णाभिधारितं यथानुपदोक्तलक्षणं जुहुयात्(१) । तर्हि आज्यभागावेव प्रथमो जुहुयात् । यद्वा तर्चेवाज्यभगौ प्रथमौ' जुहुयादित्येवमवधियत एवकारेण । तदिमावाज्य- भागौ उपघातहोमे न भवत इति दर्शयति । मुरारिमिश्रास्तु-उपस्तीणोमि- (१) अन्न जुहूषेदिति चन्द्रकान्तभाष्यादौ पाठः । होतुमिच्छेदिति तदर्थः । १३ गोगृ० सू० २८ अथ दशैपौर्णमासविधिः। १ पाठक- घारितं लक्षयित्वा तथा वा जुहुयात् । एवकारोभिन्नक्रमस्तथा चोभयोरपि कल्पयोराज्यभागौ प्रथमौ जुहुयादेवेत्यर्थः । विकल्पश्च मेक्षणहोमेन सह व्यव. स्थितः । व्यवस्थायामाह कात्यायनः । 'चरौ समशनीये तु पितृयाचरौ तथा । होतव्यं मेक्षणेनान्यदुपर्णाभिधारितम्” इति ॥ ३ ॥ अथ कथमाज्यभागी जुहुयात्तदुच्यते--- चतुहीतमाज्यं गृहीत्वा पञ्चावत्तन्तु भृगृणाम् । अग्नये स्वाहेत्युत्तरतः सोमाय स्वाहेति दक्षिणतः प्राक्शो जुहुयात् ४ चतुः कृत्वोगृहीतम् उत्रेण(१) । सुची(२)ति शेषः । गृहीत्वा कृत्वा (३)। "अग्नये स्वाहा” इतिमन्त्रणाग्नेरुत्तरभागे प्राक्शः प्राग्गतं (४) यथा स्यात्त था स्युचैव जुहुयात् । एवं (तयैव गृहीत्वा ) "सोमाय स्वाहा” इत्यग्नेर्दक्षिणभागे प्राग्गतञ्जुहुयात् । अन्यावाहुतयोऽग्नेमध्यभागे होतव्या इत्यर्थादवगम्यते । तथा च साङ्खयायनगृह्यम्-"उत्तरमाग्नेयं दक्षिणे सौम्यम्मध्येऽन्या आहुतयः इति । वक्ष्यति चाचार्यः "अग्नये स्वाहेति मध्ये जुहुयात्" इति । अत्रा- ज्यग्रहणे-गोत्रकृतां व्यवस्थामाह पञ्चावत्तन्त्विति । पञ्चावत्तं-पञ्चकृत्वोव- दानेन गृहीतन्तु भृगूणाम् भृगुगोत्रापत्यानाम् । अत्र "अत्रिभृगुकुत्सवसि- गौतमाङ्गिरोभ्यश्च" (पा० २।४।६५ ) इति गोत्रप्रत्ययस्याणोलुक् । भृगुगो. त्राणां भार्गवप्रवराणाश्चेति भवदेवभट्टः । भार्गवप्रवराणामिति भट्टनारायणो पाध्यायाः । तन्त्रान्तरकारास्तु स्मरन्ति--- "जामदग्न्या वत्सविदा वाटिषेणास्तथैव च । भार्गवाश्च्यवना और्वाः पञ्चावत्तिन ईरिताः ॥” इति ॥ ४ ॥ अथ हविष उपस्तीविद्यति ॥ ५॥ अथानन्तरम् । उपस्तीर्य-प्रकृतत्वादाज्यं खुवेण चि निधाय । हविषः इत्यवयवलक्षणा षष्टी । तथाच हविषोऽवयवं मेक्षणेन अवद्यति-अवदाय स्त्र- चि गृहातीत्यर्थः ॥ ५ ॥ () आज्यधारणे तस्य गुणत्वात् । (२) अत्र मुरारिमिश्राः सुचैव जुहुयात् कुतः ? होमार्थत्वादेव तस्या इत्याहुः । जुहू प्रदाने गुणभूतेति तान्त्रिकसमयात् । “यस्य पर्णमयी जुहूर्भवति न स पाप लो. के शृणोति यस्य खादिरी न सोऽन्नात्परिच्यवते" इति च श्रवणात् । पर्णमयो-पलाशम. यो। तथाचोक्लं "दव्यसंस्कारकर्मसु फलार्थवादः स्यात्" (जै० सू०.४।३।१) इति । अनेन गृहीतं जुह्वा जुहोति" इति च गृह्यान्तरम् ।। (३) “अन्धालम्भनमालभेत इत्यादिवदिहापि प्रत्ययार्थमात्रविवक्षा इष्टव्या ॥ (४) प्राङ्मुख इति मुरारिमिश्राः । ।
८ कण्डिका गाभिलगृह्यसूत्रे- PAL कथमवद्यतीत्युच्यते- मध्यात् पूर्वाद्धाच्चतुरवत्ती चेद्भवति, मध्यात्पूर्वार्द्धात पश्चार्दादिति पञ्चावती चेद्भवतीति ॥ ६ ॥ मध्यात्-चरोर्मध्यप्रदेशात् । पूर्वार्धात्-चरोरित्येव । चशब्दश्च समुश्च. यार्थोलुप्तवद्रष्टव्यः । तथाचान्यत्राप्युक्तम् "विनापि चं समुच्चयो द्योत्यते गाम. श्वं पुरुषम्पशुमिति यथे" ति । तथाच गृह्यान्तरं "मथ्यात्पूर्वाद्धोच्च हविषोऽव- द्यति" इति । चतुःकृत्वोऽवत्तान्यवदानानि सन्त्यस्येति (१)मत्वर्थ इनिः । (पा० ५।२।११५) एवमग्रेऽपि । चेद्यदि अवदाता भवति तर्हि मध्यात्पूर्वार्धा. च्चावद्यतीति गतेन सम्बन्धः । चेत्-यदि पुन: पञ्चावत्ती अवदाता भवति, तदा चरोर्मध्यात्-पूर्वार्द्धात् पश्चार्द्धात्-अपरार्धाच्च(२) अवद्यतीत्यर्थः । इति-एवमवदानं भवतीति मन्तव्यम् ॥ ६॥ अभिधारयत्यवदानानि ॥७॥ अवदानानि-यथा श्रुचि गृहीतानि हवींषि अभिघारयति-प्राज्यसुवेणा- प्लावयति । बहुवचनं वक्ष्यमाणत्रिोंमापेक्षया । व्यक्तिभेदापेक्षया वा ॥ ७ ॥ प्रत्यवनक्त्यवदानस्थानान्ययातयामतायै ॥८॥ अवदानानां स्थानानि येभ्योऽवद्यति तानि मेक्षणक्षतस्थानानीत्यर्थः । बहु- वचनं पूर्ववद्व्याख्येयम् । प्रति प्रत्येकम अनक्ति-अक्तानि करोति । आज्यस्रु- वेणाप्लावयतीत्यर्थः । किमर्थम् ? अयातयामतायै। यज्ञायोग्यता यातयामते- त्युच्यते(३) । न यातयामताज्यातयामता तस्यै । एतदुक्तं भवति । मेक्षणक्षतेन यातयामता चरोरुत्पद्यते । आज्याप्लावनेन पुनरयातयामता तस्य भवतीति ॥८॥ एवंखल्ववदाय- अग्नये स्वाहेति मध्ये जुहुयात् ॥ ६ ॥ मध्ये-अग्नेरेव ॥ ९॥ (१) यद्यपि "न कम्मधारयान्मत्वर्थीयो बहुवाहिश्चेतदर्थप्रतिपत्तिकर इति न्याय पाणिनीयैराहतस्तथाप्येष "कृष्णशर्पवान्वल्मीक.” इत्यादौ व्यभिचरित इत्यु. षेक्षितोऽत्र तस्य परिग्रहः ॥ (२) पश्चिमार्धात् । “अपरस्याङ्के पश्वभावो वक्तव्य" (पा१२।११९८ वा०) इति साधुः ॥ (३) तथाच "यो ह वा अविहितायच्छन्दोदैवतमन्त्रेण यजति याजयति अधी. तेऽध्यापयति xxxxवा यातयामाज्यस्य च्छन्दांसि भवन्तीति ॥ उद्धत्य शिष्ट- मुच्छिष्टमित्येष दोषोऽपनीयते प्रत्यञ्चनेनेति वदन्ति ।।
दर्शपौर्णमासविधिः। [१ प्रपाठके कति जुहुयादित्युच्यते- सकृद्रा त्रितेन कल्पेन ॥ १० ॥ एतन कल्पन-अनन्तरोक्तयाऽऽवृता ( परिपाट्या ) इत्यादरार्थमुक्तम् सकृद्धा निर्वा जुहुयात् । वाशब्दद्वयन्तुल्यवद्विकल्पार्थम । त्रित्वपक्षे च-"ए. का देया तिस्रोदेया" (१)इत्यादिवच्छेयसोभूयस्त्वं कल्पयितव्यम् । अन्ये. स्वाहुः अभावविकल्पोऽयं, त्रित्वपक्षाशक्तौ सकृत् ।। १० ॥ अथ स्विष्टकृत उपस्तीविद्यत्युत्तरार्द्धपूर्वार्धात् । सकृदेव भूयिष्ठमवद्य द्विरभिधारयेत् ॥ ११ ॥ अथ-प्रधानहोमानन्तरं विष्टकृतः(२) अर्थे । अवधति अवदाय(३) सु. चि गृह्णाति । किकृत्वा ? उपस्तीर्य-सकृदाज्यं सुवेण स्रचि निधाय । कथम् ? चरोरुत्तरार्द्धपूर्वार्धात्-अपराजिताया (ऐशान्या ) दिशः । सकृदेक- वारमेव भूयिष्ठं बहुतरं यथा स्यात्तथा अवद्य-हविरिमिधारयेत् । आज्य- स्रवेण वारद्वयमाप्लावयेत् । एवं किल चत्वार्यवदानानि सम्पद्यन्ते । सकृदु- पस्तरणमवदानं हविषोद्विरभिधारणञ्चेति ॥ ११॥ या पावत्ती स्याद्विरुपस्तीसंवदाय द्विरभिघारयेत् ॥ १२ ।। उ वित(४)। यदि पुनरयं यजमान: पञ्चावत्ती(५) स्यात् तहि द्विरु- पस्तीर्थ अवदाय हविद्विरभिधारयेत्-द्विवारमाप्लावयेत् । पञ्चावदानसम्पत्य. थम् ॥ पञ्चावत्तिनस्तु- "जामदग्न्या विदा वत्सा वाष्टिषेणास्तथैव च । भावाश्च्यवना और्वाः पञ्चावत्तिन ईरिताः" । इति गोभिल गृह्यभाष्योक्ता बोध्याः ।। १२ ।। न प्रत्यवनक्तयवदानस्थानान्ययातयामतायै ॥ १३ ॥ स्विष्टकृतोऽर्थेऽवद्य होमान्तरकर्तव्यताभावात्तदर्थ-मयातयामताय प्रत्यवने. जनमवदानस्थानस्य नोपयुज्यत इति न प्रत्यवनक्तीति समासार्थः । अत्र "मश. काय धूम" इतिवन्निवृत्त्यर्थे (६)भाक्तमिदमयातयामताया इति । केचित्तु- (१)कात्यायनोऽपि “यत्र स्यात्कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्त्वं ब्रुवते तत्र कृच्छ्राच्छ्रेयोविशिष्यते इति । (३) चतुर्यान्तपाठे वादळें चतुर्थी बोध्या ॥ (३) द्यतिरत्र खण्डने (दि०प०॥ (४) “यधुवा” इति पाठे सोऽयं निपातसमुदायो यद्यर्थ इति भाष्यम् ॥ (६) अन "कृष्णसर्पवान्बल्मीक इतिवन्मत्वर्थीय इनिबोध्या । पञ्च-संख्याकम् बत्तमवदानमस्यास्तीति कर्तरि पटवणे इनिः॥ (६)लाक्षणिकम् ।
८ कण्डिका ] गोभिलगृह्यसूत्रे-- संहितापाठे षष्ठ्यन्तं पठन्ति । तत्र निवृत्त्यर्थमित्यस्याच्याहारः क्लेशः । पञ्च. म्यन्तत्वे तु हेतौ पञ्चमी "विभाषा" (पा० २१३१८५ ) इति योगविभागाद्वो. ध्या । यातयामं पयुषितम् ॥ १३ ॥ अग्नये स्विष्टकृते स्वाहत्युत्तरपूर्वाद्धे जुहुयात् ॥ १४ ॥ उत्तरपूर्वार्द्ध-अग्नेरेव । ऐशान्यामिति तदर्थः ।। १४ ।। महाव्याहृतिभिराज्येनाभिजुहुयात् ॥१५॥ भू-र्भुवः-स्वरिति तिस्रोमहाव्याहृतयः प्रसिद्धाः । कर्मप्रदीपोऽप्याह- "भूराद्यास्तिस्त्र एवैता महाव्याहृतयोऽव्यया:" इति । ताभिः सुवेण (१)कृत्वाऽऽज्येनाभिमुग्व्येन जुहुयात् । स खल्वयम्म हाव्याहृतिहोमश्चरुहोमे पश्चादेव । तथैवोपदेशात् । आज्याहुतिषु तु पुरस्ता- परस्ताच कर्त्तव्य इति वक्ष्यत्युपरिष्टात् ॥ १५ ॥ प्राक्स्विष्टकृत आवापः ॥१६॥ स्विष्टकृत-स्तद्धोमात्प्राक' आउप्यत इत्यावापः । प्रधानहोमः "कर्त्तव्यः" इति शेषः । मुख्यहोममात्रे-स्विष्टकृत्तदन्ते महाव्याहृतिहोमः । ततः कर्मापवर्ग- विहिता समिधमाधाय प्रायश्चित्तहोम आज्येनाज्यतन्त्रेण कार्यः। हविषोऽना- देशात् । स च यद्यपि “सर्वस्यैव प्रायश्चित्तिः” इति श्रुतेरुल्लिखितुमुचितः । भट्टभाष्येऽपि "एतत्सर्व प्रायचित्तं क्षिप्रहोमवर्ज सर्वत्रैव स्यादि"त्युक्तन्तथा- प्ययं प्रकृतहोमवैगुण्य एव तत्प्रशमनार्थोविधीयते, इति नाऽसाववैगुण्ये कर्तव्य इति नात्र सूत्रित आचार्येण । अनियतत्वादिति द्रष्टव्यम् । अत्र मुख्यहोमेऽकृते यदि चरुन्नष्टोदुष्टोवा भवति तदान्यः पाच्यः । मु. ख्ये कृते चेन्नाशदुष्टी स्यातान्तदाऽऽज्येनैव स्विष्टकृद्धोम इति सरलाकार आह । चन्द्रकान्तस्तु-"एकदेशद्रव्यञ्चोत्पत्तौ विद्यमानसंयोगात्" (४-१-२८) इति जैमिनीयसिद्धान्तात्स्विष्टकृद्धोमस्य प्रतिपत्तिरूपत्वात्पतिपत्तेश्च प्रतिपाद्याभावे लोप एवाकरणे निरूपित इत्येवमाह । मुख्यहोमार्थमवत्ते हविषि नष्ठे दुष्टे वा खल्वाज्येन होतव्यम् । न पुनरवदातव्यं न वान्यत्पाच्यं कुतः ? "निर्देशाद्वाड- न्यदागम्यते" (४।४।२) इति जै० सिद्धान्तात् । “यस्य सर्वाणि हवींषि नश्ये. युर्दुष्येयुरपहरेयुर्वा, आज्येन ता देवताः परिसंख्याय यजेरन्” इति च हविषो- नाशे आज्यविधानात् । “तत्र सर्वशब्दस्य निमित्तविशेषणत्वेनाविवक्षितत्वान्ना. शमात्र सर्वत्राज्यस्य विधिः" इत्यधिकरणमालायां माधवाचार्याः । स खल्वयं प्रायश्चित्तहोमः व्यस्तसमस्तमहाव्याहृतिभिर्वा । "आज्ञातमि" (१)द्रवदूदव्यकत्वात् ॥
[१ प्रपाठक PARDANA दर्शपौर्णमासविधिः। त्यादिना मन्त्रेण वा प्राजापत्य मन्त्रेण वा कर्त्तव्यः । "तस्मादेतामेव जुहुयादपि- वाऽऽज्ञातं यदनाज्ञातमि"-त्येवमादिकायां श्रुतौ विकल्पोपदेशात् । व्यक्तमाह कर्मप्रदीपः- “यत्र व्यातिभिहाँमः प्रायश्चित्तात्मकोभवेत् । चतस्रस्तत्र विज्ञेयास्त्रीपाणिग्रहणे यथा ।। अपि वाज्ञाऽऽतमित्येषा प्राजापत्याऽपि वाऽऽहुतिः । होतव्या त्रिविकल्पोऽयं प्रायश्चित्तविधिः स्मृतः ॥” इति ।। तदन्न त्रिविकल्प इत्यनेन कल्पान्तरस्य प्रतिषेधोऽवगम्यते । केचित्र "पाहिनो यज्ञ एनसे स्वाहा” ! इत्यादिकमधिकं प्रायश्चित्तहो- ममाचक्षते । तदसारम् । इह तस्यानुपदेशात् । यदपि शाट्यायनक ग्रन्थान्तर मत्राधीयते । तदप्यप्रमाणम् । अनार्षत्वात् । परिशिष्टमध्यान्तः-पातित्वासम्भ. वाच्चेति भट्टनारायणपाध्यायाः । शाट्यायनहोमस्य समूलत्वेऽपि शाखान्तरी- यवचनमिति(१)तत्त्वकारः ।। १६ ।। गणेष्वेक परिसमूहनमिध्मोवर्हिः पर्युक्षणमाज्यभागौ च ॥१७॥ गणेषु-एकदा क्रियमाणेष्वनेकहोमषु । एकम् एव परिसमूहनम् । एकशब्दः परस्तादपि प्रत्येकमनुषञ्जनीयः । अनेनैव सूत्रशेषोव्याख्यातः । प्रत्येकं तत्रविधा- ने प्राप्त यानि तन्त्रेण कर्तुं शक्यन्ते तेषान्तन्त्रभाव इहोपदिश्यते । परिकीर्तन- ञ्च परिसमूहनादीनामुदाहरणप्रपञ्चाथ न परिसंख्यानाथं , तेनोलुखलमुसला- दिकमपि एकमेव भवतीति द्रष्टव्यम् । गणेषु इति सामान्यतोऽभिधानाद्विभिन्नदे. वताकेष्वपि होमेषु एकदा क्रियमाणेष्वेकमेव परिसमूहनादिकमित्यवगम्यते । तथा च गृह्यान्तरम्- "पाकयज्ञात्समासाद्य एकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यान्नानापि सति देवते" ।। इति ।। १७॥ सर्वेभ्यः समवदाय सकृदेव सौविष्ट कृतं जुहोति ॥ १८॥ गणेष्विति सम्बध्यते । सकृदेकवारं न पृथक्पृथगित्यर्थः । उपलक्षणमेतत् । महाव्याहृत्याद्यपि सकृदेव भवतीति सरलाकारः ॥ १८ ॥ (१) अत्र मुरारिरामेश्रा:-क्रियार्थस्य मेक्षणस्य तदनन्तरमेव प्रतिपत्तिा भूदिति हुत्लेति । व्याहृतिमिरपि हुस्वेत्यर्थः ॥ अनुप्रहरेत्-जुहुयात् । अनुप्रहरतिशब्दोहामव- चनः । तथाच श्रौतसूत्रम् “अष्टावष्टौ शकलानि आहवनोयेऽनुप्रहरेयुदेवकृतस्येति (ला. २।१२।१४)। - कण्डिका गोभिलगृह्यसूत्रे- १०३ ANSTHD हुत्वैतन्मक्षणमनुषहरेत् ॥ १६ ॥ एतदिति सन्निकृष्ट लौविष्टकृतं परामृश्यते। मेक्षणमुक्तलक्षणम् । अनु- प्रहरेत् अग्नौ क्षिपेत् । सेयर्मार्थस्य मेक्षणस्य अनन्तरमेव कर्मणः प्रतिप. त्तिराख्याता ! अन्येवाहुः-महाव्याहृतिभिरपि हुत्वा मेक्षणमनुप्रहरेन्न स्विष्ट- कृद्धोमानन्तरमेवेति । स खल्वयं मेक्षणप्रक्षेपोऽन्यब्रह्मकेषु होमेषु प्रत्येतव्यः । तत्र चरुशेषस्य तस्मै प्रतिपादयितव्यस्य वक्ष्यमाणत्वात् । अन्यत्र च मेक्षणेनै- वोद्धृत्य तद्भोजनस्य सूत्रणात् । न चानुप्रहितेनैव मेक्षणेनोद्धरणन्तस्माद्यथोक्त एवाथः॥ १९॥ प्रक्षाल्य वैनेनोद्धृत्य(१: भुञ्जीत ॥ २० ॥ प्रक्षाल्य वा मेक्षणम् । एनेन-मेक्षणेनाद्धृत्यचरुशेष भुजीत यजमानः । तथा च यत्र होत्रं ब्रह्मत्वच स्वयमेव करोति सोऽस्य विषयः । यत्र चान्योत्र- झा भवति तत्र वक्ष्यति "अथैतद्धविरुच्छिष्टम्" ( ११९।११ ) इत्यादि । अन. न्वादेशेप्येनादेशश्छान्दस:(२) ॥२०॥ न सूवमग्नौ प्रहरोदित्येक आहुः ॥ २१ ॥ सवमग्नौ न क्षिदित्येके आचार्या वदन्ति । अस्मादेवावगम्यते सुव. मग्नौ तिपेदिति-अन्ये वदन्तीति । तस्मादत्र विकल्पः ॥ २१ ॥ आग्नेय एवाऽनाहिताग्नेरुभयोर्दशपौर्णमासयोःस्थालीपाकः स्यात् ॥२२॥ अनाहिताग्निः। श्रौताग्निरहितः स्माताग्निरित्यवगन्तव्यम् । स्पष्ठम न्यत् ॥ २२॥ आग्नेयो वाऽग्नीषोमीयो वा माहेन्द्रो वा अमावास्यायाम् ॥ २३ ॥ ऋज्वथं सूत्रम् ।। २३ ॥ एन्द्रो वा ऐन्द्राग्नी वा माहेन्द्रो वा अमावास्यायाम् ॥२४॥ आहिताग्नेरेव । ऋजुरक्षरार्थः । अत्रैके विनिवेशविकल्पमाहुः। ऐन्द्रमा. हेन्द्रौ सोमयाजिनः । ऐन्द्राग्नस्त्वसोमयाजिनः। अत्राप्येकेनेष्टवत ऐन्द्रो, बहु- भिरिष्टवतोमाहेन्द्र इति । अन्ये तु इच्छाविकल्पमाहुः ॥ २४ ।। अपिवाऽऽहिताग्नेरप्युभयोईर्शपौर्णमासयोराग्नेय एव स्यात् ॥२५॥ ऋज्वर्थम् ॥ २५ ॥ समिधमाधाचानुपर्युक्ष्य यज्ञवास्तु करोति ।। २६ ।। (१) उद्धृत्येति पाठोमुरारिमिङ रेव पृतः ॥ (२) अत्र केचिन् एनः प्रकृत्यन्तरमिति पठन्ति । अग्रेऽप्येवं क्वचिदृश्यते पाठः।
२०४ [१ प्रपाठके- - दापोगमालविधिः समिधमाधायानुपयुदयेत्युक्तार्थम् । तदिदमभिधानक्रमार्थम्भवति । अ- नन्तरं यज्ञवास्त्विति ।।२६।। किमिदं यज्ञवास्तु ? इत्याह-- तत एव बहिषः कुशमुष्टिमादायाज्ये वा हविषि वा त्रिरवदध्यादग्रााण मध्यानि मूलानी "श्यक्तं रिहाणा व्यन्तु वय"इति ॥ २७॥ ततस्तस्मादाहृतादेव (१)वहिष इति नियमादन्यद्वहिर्व्यवच्छिद्यते ।कुशमु. ष्टिम् अनियतसंख्याक कुशमादायाज्ये-यथोक्ते । हविषि-चरौ वा त्रिरवदध्या. द्वारत्रयमञ्जयेत् । अत्राणि-मध्यानि-मूलानीति क्रमेण । “अक्तमि”-त्यादिम- न्त्रेण वारत्रयपठितेन क्रमशः । प्रधानानुयायित्वाद्गुणानाम्- "कर्मावृत्तौ तु मन्त्रस्याऽप्यावृत्तियकर्मणि" इत्यभियुक्तवचनात् । यत्र खल्वनावृत्तिरिष्यते मन्त्राणां, प्रायेण तत्रो- त्तरत्र तूष्णोमिति करोति । सकृयजुषा द्विस्तूष्णीमित्येवम् ।। मन्त्रार्थस्तु- 'वयः' पक्षिणः । “वि-विष्किरपतत्त्रयः" इति पक्षिपर्यायेऽमरः । 'अक्त' घृतेनाभ्यक्त- मिदं तृणं "रिहाणाः' लिहानाः । आस्वादयन्तः लिहेर्वर्णव्यत्ययः । 'व्यन्तु खादन्तु इति ॥ २७॥ अथैनमद्भिरभ्युक्ष्याग्नावर्ण्य जपेत् “यः पशूनामधिपतीरुद्रस्तन्तिच- रोटपा । पशूनस्माकं माहिरासीरेतदस्तु हुतं तव स्वाहा" इति।।२८॥ अथानन्तरमेवाभिमुचन्नेनं कुशमुष्टिमद्भिरभ्युक्ष्यामावर्य-प्रक्षिप्य । ज- पेत्-पठेत् । य इत्यादिस्वाहान्तमन्त्रम् । “एतद्धुतन्तवास्तु" इति मन्त्रलिङ्गात् । "अपवर्जयेत्” इति पाठे अपवर्जनन्दानमर्पणमिह तदर्थः। तदिदं प्रतिपति- कर्म कृतार्थानां बहिषामिह विनियोगाम्नानात् । तस्मान्नष्टेषु बहिःषु न भवति । अत्र "अग्नावप्युत्सृजेदि-"ति मुरारिमिश्रधृतः पाठः । दहेदिति तदर्थः। समग्र- मन्त्रलेखनं पारशाखिकत्वख्यापनाय । मन्त्रार्थस्तु-'यः' 'पशूनाम्' गवाश्वादी- नामधिपतिः' स्वामी (अध्यक्षः) 'रुद्रः' रोदयिता परेषाम् । (शत्रूणाम् ) 'त- न्तिचरः(२) अन्तरिक्षगामी । 'वृषा' वर्षिता कामानामभिवर्षको वा जला- नाम् । इति परोक्षमुक्त्वा-अधुना प्रत्यक्षीकृत्योच्यते-हे रुद्र! त्वम् 'अस्माकम्' 'पशून्' गवाश्वादीन् 'माहिंसीः' मा वधीः । 'एतत्' मयाभ्युद्यतं 'हुतम' हव्यं 'तव' प्रीतये 'स्वाहा' सुहुतम् 'अस्तु' भवतु ॥२८॥ एतद्यज्ञवास्त्वित्याचक्षते ॥ २६ ॥ इति श्रीमद्गोभिलीये गृह्यसूत्रे प्रथमप्रपाठकस्याष्टमी कण्डिका ॥१८॥ (१) तदेतञ्चन्द्रकान्तभाष्यमतम् । वीरेश्वरादयस्तुल्तृतादित्यन्यत्र व्याचख्युः । (२) "तनुविस्तारे" (त० उ० ) संज्ञायां क्तिच् (पा. ३३१०१०४ ) "तितुति" (पा० ७॥२॥९) नेट् । तनोतीति तन्तिरन्तरिक्षम् ।
६ कण्डिका] गोमिलगृह्यसूत्रे- १०५ तत एव बहिष इत्यादि यदुक्तन्तदेतत्कर्म यशवास्तु (१) इत्याचक्षते आचा- योः । किमर्थमिदमुच्यते ? "यज्ञवास्तु करोति" इति यदुक्तं ( १२८।२६) तदत्र निगमनेन ज्ञाप्यते । अवचने खाल्वेतस्य हवि' शेषार्पणमपि यज्ञवास्त्वित्याशं- क्येतेति । अथात्र(२) पूर्णहोमः ! तत्र शौनक:-- "अथ पूर्णाहुतिन्दद्याद्गन्धपुष्पफलान्विताम् । साक्षतामूलकायश्च समपाच्छऋदिङ्मुखः" ।। इति । ऊर्ध्वकायस्तिष्ठन् । एतेन परिभा(३)षाबलादासीनेन होमोऽयङ्कार्य इति परास्तम् । सकल देशीयाचारविरोधाच । कात्यायन:- "ततः पूर्णाहुतिकृत्वा सर्वतन्त्रसमन्विताम् । गान्दद्याज्ञवास्त्वन्ते ब्रह्मणे वाससी तथा ।।" इति । वस्त्रदक्षिणा च विशेषोपदेशस्थल एव । अन्यथा-पूर्णपात्रादिकमेव "या यत्र परिकीर्तिते"ति वचनात् ।। २९ ।। इति दर्शपौर्णमासहोमप्रकरणम् ) इति श्रीमदगोभिलीयगृह्यसूत्रव्याख्यायां मृदुलाख्यायां मुकुन्दशर्मसङ्कलिता. यां प्रथमप्रपाठकल्याष्टमी कण्डिका ॥१॥८॥॥ (१) संज्ञेषा । यज्ञः (प्रति) वसत्यस्मिन्निति व्युत्पत्तः । एतच्चावश्यकत्वख्याप. नाय । तथाचैतद्वर्हिविनाशेऽपि अन्यदादागैतत्कुर्यादेवेति भाष्यकृतः ।। (२) तथाच गोभिलीये "पूर्णाहुतिञ्च मूर्वानन्दिव इत्यभिपातयेत्" इति । पद्धतौ तु "पूर्णहोम यशसे” इतिमन्त्रेणार्य पूर्णहोम उक्तः । मन्त्रलिङ्गात्तदप्यविरुद्धमिति दिक् । ततो “वसुभ्यः स्वाहेत्यविचिछनामाज्यधारान्दद्यात् । तत्र गृह्यासङ्ग्रहकार:- "यज्ञवास्तुक्रियाङ्कृत्वा विधिदिष्टेन कर्मणा । आज्यधारामविच्छिन्नाम्पातयेदन- लोपरि ॥” इति । ततःस्नुवलनभस्मना त्र्यायुषकरणम् । तत्र च "ततोऽनामिकया कुर्या. द्विन्दु सघृतभस्मना । हृधसयोललाटेच न्यायुषेतिपदैःक्रमात । इति वचनं प्रमाणयन्ति शिष्टाः । तथाच प्रयोगः । ॐन्यायुषं यमदग्ने"रिति हृदि । “ॐकश्यपस्य व्यायुषम्" इति दक्षिणबाहुमूले । “ॐ अगस्त्यस्य व्यायुषम्" इति वामबाहुमुले । “यहेवाना. न्यायुषन्तन्मेऽअस्तु व्यायुषम्” इतिशिरसि बिन्दुं कुर्यादिति । मन्त्रार्थस्तु-त्रीणिमा- यूंषि समाढतानीति व्यायुषम् । आयुश्च “शतं वै पुरुषस्यायुरितिश्रुतिसिद्धं वर्षशतम् । तदेतद्यत्कश्यपागस्त्यदेवानां तन्ममाप्यस्त्विति । अत एवच "भूयश्च शरदः शतात"। इत्याशास्यते नित्यं सन्ध्यावन्दने याजुङ्गः ॥ (३) "आसीन ऊना: प्रबोवा नियमोयन नेशः । तदासीनेन कत्र्तव्यं न प्रहेन न तिष्ठतेति कर्मप्रदीपः ॥ १४ गो० गृ० सू० १०६ दर्शपौर्णमासविधिः। [१ प्रपाठके- CAPITAD প্রথলী জাঙ্কিা अथ हविःशेषप्रतिपत्ति ब्राह्मणोक्तामाह--- अर्थतद्धविरुच्छिष्टसुदगुहास्योद्धृन्य ब्रह्मणे प्रयच्छेत् ॥ १ ॥ अथे--त्यानन्तर्यार्थम् । तदत्र प्रदक्षिणप्रणीताविमोकोदपात्रपूरणानि कृत्वाऽनन्तरमिति भट्टभाष्यम् । एतदभिप्रेतं हविरुच्छिष्टमवशिष्ठमुदगु(१)त्तर- स्यामुद्वास्योद्धृत्य पात्रान्तरे कुत्वा ब्रह्मणे प्रयच्छेत्-दद्यात् । एतदिति सम- शनीय-नवयज्ञ-वास्तृपशमनादि-चरुभ्योऽन्यद् गृह्यते । तत्रतत्रान्यस्या अन्यस्याः प्रतिप्रत्तेरुपदेशादिति । एतदपि भिन्नब्रह्मपक्षेऽन्यथा पुरोहितायैवेति शुभकर्मनिर्णये मुरारिमिश्राः प्राहुः ॥ १॥ न केवलं चरुशेषस्य ब्रह्मणे प्रदानमात्र किन्तहिं ? तन्तितर्पयिषेत् ॥ २॥ तं ब्रह्माणं तितर्पयिषेत् । तर्पयितुमिच्छेन् । यथासौ तृप्यति तथा कर्तव्य- मित्यर्थः । सनः प्रयोगोऽत्र मनोविशुद्धप्रदर्शनार्थः । श्रद्धास्तिक्यादिगुणवता मनसा ब्रह्माणं तर्पयितुमिच्छेत् । तत्कृतमतिशयजानानस्तथाच स्मरणम्- "श्रद्धाविधिसमायुक्तं कर्म यत्क्रियते नृभिः । सुविशुद्धेन भावेन तदाऽऽनन्त्याय कल्पते ॥" इति । श्रद्धारहितस्यान्नमभोज्यमाहुराचार्याः(२)॥२॥ "ब्राह्मणस्य तृप्तिमनुतृप्यामी"ति हि यज्ञस्य वेदयन्ते ॥३॥ ब्राह्मणस्य तृप्तिमनु (३)लक्षीकृत्याहन्तृप्यामीत्येवं हि किल यज्ञस्याभिप्राय वेदयन्ते-ज्ञापयन्त्याचार्याः । एतस्मात्कारणात्तं तितर्पयिषेत् । सोऽयं ब्राह्मण- शब्दोब्रह्मपर एवोपक्रमानुरोधात् । एतच्च ब्राह्मणे श्रुतमेवेहोद्धृतम् । यस्मादेवं ब्रह्मणस्तर्पणं तस्माच्चरुशेषस्यापचारे तेन वातृप्त्यसम्भत्रेऽन्ये. नाप्यन्नेन तन्तयेदित्याह- अथ यदस्यान्यदन्नमुपसिद्धं स्यात् ॥ ४॥ अथानन्तरमेव भोजयेत् नात्मीयम्भोजनकालमपि प्रतीक्षेतेत्यर्थः । अस्य यजमानस्य उप समीपे यत्किञ्चिच्चरोरन्यदन्नं सिद्धं निष्पन्नं स्यात्तेन esses (१) एतस्मादवगम्यते । होमकाले होत्ररन्योरन्तरा हविषः समासादनमिति ॥ (२) तथाच स्मृत्यन्तरे "दीक्षितस्य कर्यस्य वदान्यस्य च वाधुषेः । मीमां- सन्तः समन्देवाः सममन्नमकल्पयन् ॥ तान्प्रजापतिराहैत्यमा कृध्वं विषम समम् । श्रद्धा. पुतं वदान्यस्य हतमश्रद्धयेतरत् ॥ इति॥ (३) ब्राह्मणस्य तृप्तौ जातायां मम तृतिर्भवतीति ॥
S ९ कण्डिका गाभिलगृह्यसूत्रे- १०७ निषिद्धातिरिक्तन तं तितर्पयिषेदिति गतेन सम्बध्यते । प्रतिपत्तित्वैप्येतस्य वचनादन्नान्तरमुपादेयम् । चरुशेषप्रदानादनन्तरमन्यदप्यन्नं प्रयच्छेदिति वा वर्णनीयम् ॥ ४॥ अथ ब्राह्मणान्मक्तेनोपेप्सेत् ॥ ५ ॥ अथ स्वपाकसिद्धयनन्तरं ब्राह्मणाब्रह्मातिरिक्तान्मक्तेन उपेप्सेत् तर्पयितु मिच्छेत् । अपवर्गेऽभिरूपभोजनं ब्रह्मणस्तर्पणेनैव मामस्तेति पुनरसूत्रयत् ॥५॥ पूर्णपात्रोदक्षिणा तं ब्रह्मणे दद्यात् ॥ ६ ॥ पूर्णपात्रः पूर्णपात्रं पुंस्त्वं छान्दसम् । वक्ष्यमाणलक्षणम् दक्षिणा इत्युत्स. र्गः । तं ब्रह्मणे दद्यात् । दक्षिणा प्रहणं ब्रह्मणोऽभावेऽज्यन्यस्मै दानार्थम् । स्वयं कर्मकरणेऽपि तथैवाम्नायते । व्यतिरेके च वैगुण्यं, यथाह कर्मप्रदीप:- "ब्रह्मणे दक्षिणा देया यत्र चा परिकीर्तिता। कौन्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत् ।। विध्यादौत्रमन्यश्चेदक्षिणार्द्धहरोभवेत(१)। स्वयञ्चेदुभयङ्कुर्यादन्यस्मै प्रतिपादयेत् ॥" इति । अत्र पूर्णपात्रादिपदाक्षिणाविशेषालाभे मूल्यादिकमपि सङ्गृह्णाति । तथा च मैत्रावरुणीयपरिशिष्टम् “दक्षिणाभावे मृलानां भक्ष्याणान्दक्षिणान्द- दाति" इति । अत्र विशेषश्चन्द्रकान्तभाध्यादौ द्रष्टव्यः॥६॥ कंसं चमसं वाऽनस्य पूरयित्वा कृतस्य वाऽकृतस्य वाऽपि वा फलानामेवैतं पूर्णपात्रमित्याचक्षते ॥ ७॥ कंसं कांस्यभाजनं वर्तुलाकृति । चमसं वानस्पत्यं पानं वा । अन्न. स्येतितृतीयार्थ षष्ठी फलानां सुहित इति वत् । पूरयित्वा। कृतस्येति सक्कादेः । अकृतस्य यवत्रीह्यादेर्वा । कृताकृतस्य तण्डुलादेरपीति वाशब्दोऽवगमयति स्वरसतः । अपिवा-अथवा अन्नासम्भवे फलानाम्भोज्यानामेव । एतं पूर्णपात्र- मितिपुरः पुंस्त्वेन निर्देशात् ।। अन्नप्रमाणामाह गृयासमहः- "अष्टमुष्टिभवेत्कुश्चिः कुन्चयोऽष्टौ च पुष्कलम् । पुष्कलानि च चत्वारि पूर्णपात्रं विधीयते” इति ।। (१) इदच होतमिजब्रह्मपक्षे । याक एव हौत्रं ब्रह्मत्वच करोति तदा तु "विद. ध्यादौत्रमन्यश्चेदित्यादि कातीयवचनम् । अन्यः शिष्यादिः । एतञ्चाशक्तविषये । अ- न्यस्म अर्थात्पुरोहिताय । तदाह स एव "कुलत्विजमधीयानं सन्निकृष्टं गुरुन्तथा । नाति. कामेत्सदा दिस्सन् य इच्छेदात्मनोहितम्" इत्यादि। Rom १०८ दर्शपौर्णमालविधिः। [१ प्रपाठके असम्भवे पुनरतस्याह कर्मप्रदीप:--- "यावता बहुभोक्तुश्चतृप्तिःपूर्णेन जायते । नावरार्द्धन्ततः कुर्यात्पूर्णपात्रमिति स्थितिः ॥” इति ॥ ७॥ ब्रह्मैवैक ऋत्विक् ॥ ८॥ दर्शपौर्णमासप्रस्तावादेवमुच्यते । तेन सायम्प्रातह)मवैश्वदेवादीनामब्रह्मत्वे- ऽपि न क्षतिः । अयमर्थः । सर्वकर्मस्वेक एव ब्रह्मा ऋत्विक कर्तव्योन पुनः कर्मभेदे नाना । तदनेन ( यजमानेन ) ऋत्विगत्याज्योभवतीत्युपदिशति । तथाच स्मरणम्- "ऋत्विग्याज्यमदुष्टय्यस्त्यजेदनपकारिणम् । अदुष्टमृत्विजं याज्यो विनेयौ तावुभावपि ।। क्रमागतेष्वेष धम्मों वृतेष्वृत्विक्षु च स्वयम् । यादृच्छिके तु संयोज्ये तत्त्यागे नास्ति किल्विषम् ॥" इति ॥८॥ पाकयज्ञेषु स्वयं होता भवति ॥४॥ एकाग्नौ ये यज्ञास्ते पाकयज्ञा उच्यन्ते । तथाच लाट्यायन:-“पाकयज्ञा इत्याचक्षते एकाग्नौ यज्ञान्” इति । तेषु स्वयं होमे फलातिशयः स्मर्यते- "स्वयं होमे फलय्यत्तु तदन्येननजायते” इति ॥ अन्यो होता तु नानेन व्यवच्छिद्यते-तथाच कर्माप्रदीपः- "निःक्षिप्याग्नि स्वदारेषु परिकल्प्यत्विजन्तथा । प्रवसेत्कार्यवान्विप्रो वृथैव न चिरङ्वचित" ।। इति । "जुहुयाद्वा हावयेद्वे"ति समान्यतःसूत्रणाच्च ॥ ९ ॥ पूर्णपात्रोऽवमः पाकयज्ञानां दक्षिणा ॥१०॥ पुंस्त्वमत्र पूर्ववत् । अवमः अध्यमः । "रेफयाप्यावमाधमाः" इत्यमरः सर्वतोऽल्पः ॥१॥ अपरिमितं परार्धम् ॥ ११ ॥ अपरिमितं बहु,पराद्धर्य प्रशस्तम् । “परा प्रयप्राग्रहरप्राप्रापानीयमग्रि- मम्" इतिकोशेऽभिधानात् । "परावराधमोत्तमपूर्वाच्च" (पा० ४।३।५) इति यत्प्रत्यः शैषिकः । पराद्ध मन्तिमा संख्या तत्रभवम् ॥ ११ ॥ अस्मिन्नथ श्रुतिदृष्टान्तयति- अपि ह सुदाः पैजवन ऐन्द्राग्निना स्थालीपाकनेष्ट्वा शतं सहस्राणि ददौ ॥ १२॥ अपिरन्यानपि समुच्चिनोति । सुदाः शोभनदाता। कर्तर्यसुन (२०४।१८८) - - Domews ९ कण्डिका ] गोभिलगृह्यसूत्र- १०९ पैजवनः पिजवनपुत्रोऽपि ! शतमित्यादि संख्यामात्राभिधाने गा एव, तथाच द्राह्यायणसूत्रम् "संख्यामात्रे च दक्षिणा गावः" इति ॥ १२ ॥ अथ यदि गृह्येऽग्नो सायम्प्रात:मयोर्वा दर्शपूर्णमासयोर्चा हव्यं वा होतारं वा नाधिगच्छेत् कथं कुर्यादिति ? ॥ १३ ॥ स्वयमशक्तौ दैवाद्यदि गृोऽग्नौ यावज्जीवं कर्त्तव्ययोस्सायम्पात)मायो (१)हव्यादिकन्नाधिगच्छेन्न प्राप्नुयात्तदा कथकुर्यादिति प्रश्ने- उत्तरयति- आ सायमाहुतेः मातराहुवि त्येत्यानातराहुतेः सायमाहुरिरामा- वास्यायाः पौर्णमासनात्येस्थापौर्णमास्याआमावास्यम् ।।१४।। आसायमाहुतेः सायमाहुतिपर्यन्तम् । मर्यादायामाङ् । नास्येति नातिका. मति । तत्र प्रायश्चित्तमात्रं स्मर्यते- "स्वकाले सायमाहुत्या अप्राप्ती होतृहव्ययोः । प्राक्यतराहुतः कालः प्रायश्चित्ते कृतसति ॥ प्राक्सायमाहुतेः प्रातहाँमकालानतिक्रमः । प्राक्यौर्णमासाद्दर्शस्य प्राग्दादितरस्य च ॥" इति । प्रायश्चित्तब्च महाव्याहृतिहोमरूपमन्यत्र दृष्टमिहापि सामान्येन । एतेनैव सूत्रशेषोव्याख्यातः । तदिदं प्रदर्शनार्थम्परिकीर्तनं सायमाहुत्यादीनां, न नियमार्थम् । कुतः स्मृत्यन्तरदर्शनात् । तथाचोक्तम्- "मुख्यकाले यदा ऽवश्यङ्कर्म कर्तुं न शक्यते । गौणकालेऽपि कर्तव्यं गौणोऽप्यत्रेदशाभवेत् ॥ आसायमाहुतेः कालात्कालः स्यात्प्रातराहुतेः । प्रातराहुतिकालाप्राक् कालः स्यात्सायमाहुतेः॥" इत्यादि-एवम्- "गौणेषु तेषु कालेषु कर्मचोदितमाचरन् । प्रायश्चित्तप्रकरणप्रोक्तां निष्कृतिमाचरेत् ।।" इति । वैश्वदेवस्य पुनरतिक्रमेऽभोजनेऽपि प्रायश्चित्तानन्तरमेव कालान्त- रे तदनुष्ठितिः स्मर्यते- "वैश्वदैवे त्वतिक्रान्ते अहोरात्रमभोजनम् । प्रायश्चित्तमथो कृत्वा पुनः सन्तनुयाद्बतम् ।।" इति । प्रथमवैश्वदेवातिक्रमे दिवा अभोजनं, द्वितीये रात्रावभोजनमिति (ो प्रदर्शनमेतद्वश्वदेवस्यापि देवादन्यस्मद्वाकारणाख्यं हवनीयं वस्तु-हत्येवमर्थः यी NRNA BABA [१ प्रपाठक RE । दशंपोर्णमालविधिः। परिशिष्टप्रकाशः । वैश्वदेवद्वयातिक्रमे तु विशेषमाह कर्मप्रदीप:- "परेणाग्नौ हुने स्वार्थ परस्याग्नौ हुते स्वयम्। पितृयज्ञात्यये चैव वैश्वदेवद्वयस्य च ॥ अनिष्ट्वा नवयझेन नवान्नप्राशने तथा । भोजने पतितान्नस्य चरुवैश्वानरा भवेत् ॥” इति । प्राक्सूर्यास्तमयात्प्रथमावैश्वदेवानात्येति । प्राक् च रात्रेः सार्धात्प्रह- राद्वितीयः । यतस्तावानेव भोजनकालः पुरस्तादभिहितः ॥ १३ ॥ १४ ॥ एतेनैवावकाशन हव्यं वा होतारं वा लिप्सेत् ॥ १५ ॥ एतेनैवेति गौणकालपरामर्शः । लिप्सेत्-लब्धुमिच्छेत् । प्राप्तस्याप्यादरार्थ- मभिधानम् । तथा लिप्सेत् यथागौणकालोऽपि नातीयादिति ॥ तस्याप्यतिक्रमे कमैव लुप्येत । यदा पुनर्लभ्यते तदैव होतव्यम् ॥ तदाह कर्मप्रदीपः-- "पौर्णमासात्यये हव्यं होता वा यदहर्भवेत् । तदहर्जुहुयादेवममावस्यात्ययेऽपि च ॥” इति ।। १५ ।। अपि वा यज्ञियानामेवौषधिवनस्पतीनां फलानि वा पलासानि वा श्रपयित्वा जुहुयात् ॥ १६ ॥ अपिवेति-पक्षोविपरिवर्त्तते । एतेनाप्यवकाशेन हविष्यनुपलभ्यमाने । य ज्ञियानां यशार्हाणामनिषिद्धानामित्येतदोषधीनाम्- "ब्रीहयः शालयोमुद्गा गोधूमाः सर्षपास्तिलाः । यवाश्चौषधयः सप्त विपदोन्नन्ति धारिताः ॥" इति कर्मप्रदीपोक्तानां, वनस्पतीनामुदुम्बरादिवृक्षाणाञ्च फलानि सस्यानि वा पलाशानि-पत्राणि वा । “पत्रं पलाशं छदनं दलं वर्ण छदः पुमानि"-त्य- मरः। यथोपपन्नानि अपयित्वा विपच्य स्थालीपाकविधिना, जुहुयात् ।। १६ ।। अध्यपएवान्ततोजुहुयादिति ह स्माह पाकयज्ञ ऐडोहुतं ह्येव ॥१७॥ अन्ततः सर्वासम्पत्तौ अप उदकमपि। न त्वद्भिः कथं होम इति शङ्कत । इति हकिल आहस्म-उवाच खलु । नामतः पाकयज्ञः । ऐडः । इडस्यापत्यं कश्चि- दाचार्यः । हि यतः एवमपि कृते हुतमेव भवतीति च ॥ १७॥ कुतः ? अहुतस्य प्रायश्चित्तम्भवतीति ॥१८॥ यतोऽहुतस्य होममकुर्वतः । हुतइति कर्मणोऽविवक्षाया(१)मकर्मकत्वात् "गत्यर्थाकर्मके"-(पा० ३।४७२) ति कर्तरि क्तः। न हुतं येनेति वा । उदक- (१) अप्रावि तस्याविवक्षा बीजम् ।। mmmmmmmanee १ कण्डिका गोभिलगृह्यसूत्रे- MALS स्याप्यलाभाद्धोममकुर्वतः प्रायश्चित्तम्भवति । तच प्रायश्चित्तम्पुनराधानमुक्तम् । यथाच स्मर्यते.... "होमद्वयात्यये दर्शपूर्णमासात्यये तथा । पुनरेवाग्निमादध्यादिति भास्करशासनम् ॥” इति । इति शब्दोऽत्रा(१)यार्थः अन्यान्यपि पुनराधाननिमित्तानि समुचिनोति । तानि च कर्मप्रदीपादिध्वनुसन्धेयानि । पुनराधानप्रकारश्व- "पूर्वैव योनिः पूर्वाऽऽवृत्पुनराधानकर्मणि" इत्यादिना कर्मप्रदीप एवं वर्णितः ॥ १८॥ नाव्रतोब्राह्मण: स्यादिति ॥ १४ ॥ अवतोब्रतरहितोब्राह्मणेन स्यादल्पमपि कालम् । “मुहूर्तमपि नावतोबा- ह्मणः स्यादि"-ति पाठे व्यक्त एवार्थः । इति हेतौ । यस्मानाव्रतोब्राह्मणः स्यात्तस्मात्पुनराधाननिमित्ते जातेऽविलम्बमेवादध्यादिति ॥ १९ ॥ अथाप्युदाहरन्ति ॥२०॥ ऋजुरक्षरार्थः । अहुतस्य प्रायश्चित्तम्पुनराधानमुक्तमथेदानीमन्यदपि पक्षान्तरं तत्र दर्शयितुं ब्राह्मणवाक्योदाहरणाभासरूपं सूत्रजातमुदाहरन्तीत्यभिप्रायः॥२०॥ यावन्न हूयेताभोजनेनैव तावत्सन्तनुयात् ॥२१॥ हविषोऽलाभे यावन्न हूयेत(२) तावद् अभोजनेन भोजनामावेनैव सन्त- नुयात् । सन्ततमविच्छिन्नमलुप्तं कुर्यादग्निव्रतम् । इत्यर्थः । यावता कालेन हवि- लभ्यते तावति कालेऽभोजनेऽपि ब्रतमलुप्तं भवतीत्यभिप्रायः ॥ २१॥ अथ यदाऽधिगच्छेत्यति जुहुयात् ॥ २२ ॥ अथानन्तरं यदा हविरधिगच्छेत्प्राप्नुयात्तदा सायमाधुपक्रमत्वात् कर्मणां, सायमादिकालम्प्रति-प्रतीक्ष्य जुहुयात् । अत्र प्रतिशब्दोहोमप्रकारे-विशेष- मपि द्योतयति । अतिक्रान्ताः सर्वा आग्निदेवत्या आहुतीविगणय्य तावन्ति हवींषि पात्रं कृत्वा "अग्नये स्वाहे"-ति सकृदेव जुहुयात् । एवम्प्राजापत्या । एवमपराः । तदाह कर्मप्रदीपः- "अहूयमानेऽनश्नश्चेन्नयेत्कालं समाहितः । सम्पन्ने तु यथा तत्र हूयते तदिहोच्यते ।। - । (२)"ज्वलितिकसन्तेभ्योण" ॥ (पा०३।१११४०) इत्यत्र यथा। (१) भावेऽत्र लिङ् । अविवक्षितत्वात्कम्मणोऽकर्मकत्वंजुहोतेः । तथोक्तम्--"धा. तोरर्थान्तरे वृत्तात्वर्थनोपसङ्ग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकमिका क्रियेति ॥ धावोः क्रिया अमिका भवति । तत्र हेतुचतुष्टयम् । आधं स्पष्टम् । कर्मणोधात्वथनोप- संग्रहात् । कर्मणः प्रसिद्धः। कर्मणोऽविवक्षातः । इति ।
११२ চার্থীলিলিখিঃ [१ प्रपाठक- अहुताः परिसंख्याय पाने कृत्वाऽऽहुतीः सकृत् । मन्त्रेण विधिवद्धुत्वा एवमेवापरा अपि" ।। इति ।। २२ ।। एवमस्य व्रतं सन्ततम्भवतीति ॥२३॥ एवमपि कृतेऽस्य अतिनोव्रतं नियमः सन्ततमविलुप्तं भवति ॥ तस्मात्सत्यु- पाये पुनराधान न कर्त्तव्यम् । इतिर्ब्राह्मणवाक्यसमाप्तिज्ञापनार्थः । प्रकरण- समाप्त्यर्थोवा ॥ २३ ॥ एषोऽत उध्वं हविराहुतिषु न्यायः॥ २४ ॥ एषोऽनन्तरोक्तोन्यायः प्रकारः। अत ऊर्ध्वं वक्ष्यमाणासु हविराहुतिषु द्रष्ट. व्यः । इत्युक्तप्रकारः सर्वत्रादितिश्यते । न्यायग्रहणेन चैतदुक्तं भवति अत ऊच ये क्षिप्रहामा ब्रह्मचारिसमिदादयोवक्ष्यन्ते तेषु क्षिप्रहोमोक्त एव प्रकारा. भवति । ये पुनस्तन्त्रहामा वैवाहिकहोमादयस्तेषु ब्रह्मोपवेशनादितन्त्रं द्रष्टव्यम् । तथा कचित्प्राप्तोऽप्यर्थोनिवर्तते । यथाऽऽऽयतन्त्रेषु मुशलोलुखलादयोनिवर्तन्ते पाण्याहुतिषु मेक्षणमुगादय इति । अन्ये तु व्याचक्षते अत ऊर्ध्वमस्मात्परलो. वक्ष्यमाण एष न्यायाहविराहुतिषु । हूयत इति हविः । अविशेषात्समिदाज्यप- श्वपुपशाकादिकं सर्वमुच्यते । तस्याहुतिषु "बोद्धव्यम्" । इति शेषः(१)। परा- चीनस्यापि बुद्धया समाकृष्टस्यैतदा परामर्शः । न्यायग्रहणं कचिदाम्नातस्यापि प्रतिषेधार्थम् । यथा-समाम्नातोऽपि मन्त्रान्ते स्वाहाकारः स्वाहान्तमन्त्रे नाद्रि. यते । अन्यायत्वात् । तच्चोत्तरत्र वक्ष्याम एवमन्यदप्यूह्यमिति ॥ २५ ॥ मन्त्रान्ते स्वाहाकारः॥२५॥ होममन्त्राणामन्तेऽवसाने स्वाहाकारः "कर्त्तव्य" इति सूत्रशेषः । स खल्वयं हविस्त्यागार्थकः स्वाहान्तमन्त्रेषु नाद्रियतेऽनर्थकत्वात् । तथाच तन्त्रान्तरम्- "नमोऽन्ते न नमः कुर्यात्स्वाहान्ते द्विठमेव च । पूजायामाहुतौ चापि सर्वत्रायं विधिः स्मृतः॥" इति । द्विठं-स्वाहाकारम् । यत्र च मन्त्रादितोऽपि समाम्नातः स्वाहाका. रोहविस्त्यागार्थकोभवति तत्राऽप्यग्नौ करणहोले मन्त्रान्ते स्वाहाकारान्तरं न कर्तव्यमेव । न्यायस्याविशेषात् । तदाहात्र कर्मप्रदीपः । "स्वाहा कुर्यान्न चात्रान्ते नचैव जुहुयाद्धविः। स्वाहाकारेण हुत्वागी पश्चाद्धोमं समाचरेत् ॥" अत्र-अग्नौकारणहोमे । सहपठितानां होममन्त्राणाञ्चादौ न प्रत्येकमों- (१) इति परिभाष्यत इति चन्द्रकान्तभाष्ये।
१ कण्डिका ] गोमिलगृह्यसूत्रे- ङ्कारः करणीयः । तदप्याह-म एव..... "नोऽङ्गुद्धिोममन्त्राणां पृथगादिषु कुत्र चिन् । अन्येषाञ्च विकृष्टानां कालेनावमनादिना" ।। इति ।। २५ ॥ आज्याहुतिष्वाज्यमेवसस्कृत्योपघातजुहुयात् नाज्यभागौ न स्विष्टकृत् ॥ ३६॥ आज्यस्य यथोक्तस्याहुतिपु । यत्राज्यमेव हूयते तत्र, आज्यं संस्कृत्यैवपिघा- तं यथाभवति तथा जुहु याद्वद्रव्यकत्वात्रवेणेत्यर्थः । एक्कारेण यद्यवच्छि. द्यते तदप्युच्यते सुखावबोधार्थम्-नाज्यभागावित्यादि । तदेते अतिदेशागता इह प्रतिषिध्यन्ते ॥ २६॥ आज्याहुतिष्वनादेशे पुरस्ताचोपरिष्टाच महान्याहृतिहोमः॥२७॥ आज्याहुतिषु-यत्राज्यमेव हूयते नान्यञ्चर्वादि हविरन्तरमस्ति । तेषु नाम- करणादिकर्मसु । एवम् अनादेशे-यत्रहोम एवनादिश्यते पुंसवनादिषु । तत्र(१) च पुरस्ताच्चापरिष्टाञ्च-पूर्व पश्चाञ्च । व्याहृतिभिर्होमः कार्यइत्यर्थः । ताश्चा- क्ताः कात्यायनेन- "भूराद्यास्तिस्र एवैता महाव्याहृतयोऽव्य(२)याः।” इति । गृह्यासङ्ग्रहे- “यत्र व्याहृतिभिहामः प्रायश्चित्तार्थकोभवेत् । चतस्रस्तत्र विज्ञयाः स्त्रीपारिग्रहणे यथा ।।" इति । एवञ्च यत्र विशेषोपदेशातिदेशाभ्यां प्रायश्चित्ततया वा व्याहृतिहो- मलाभस्तत्र व्याहृतिभिस्तिस्रः समस्ताभिरेकेत्याहुतिचतुष्टयमन्यत्र व्याहृति- त्रयमिति न वचनयोविरोधः(३)॥३७ ॥ यथा पाणिग्रहणे तथा चूडाकर्मण्युपनयने गोदाने च ॥२०॥ यथा पाणिग्रहणे महाव्याहृतिभिर्व्यस्तसमस्ताभिश्चतस्त्र आहुतयोहूयन्ते तथा चूडाकर्मादावपि। सोऽयमनागतातिदेशः । चूडाकर्मादिव्यतिरिक्तेषु तु तित्र एवाहुतयोभवन्तीत्यवगमयति ॥ २८॥ mom 20MMARCH (१) अत्र "मध्यात्पूर्वार्दादि--(२८६) ति वच्चकारोलुसव द्रष्टव्यः ॥ (२) अविनाशिन्यः । एतेन त्रिवेदसर्वस्वत्वमासां ज्ञापयति । तथाच मनुः "अका- रञ्चाप्युकारञ्च मकारञ्च प्रजापतिः। वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥ इति । (३) मनुरपि "ॐकारपूर्विकास्तिस्रोमहाव्याहृतयोऽमला" इत्याह । पद्धतिकृ तस्तु-भूर्भुवस्वरिति प्रत्येकं तिस्रोव्याहृतयः। मिलितास्तु महाव्याहृतयः। सूत्रादौ च व्याहृतिष्वपि तिसृषु महाव्याहृतित्वोपचारात्प्रयोग इत्यर्थगत्या वदन्ति । १५ गो० गृ० सू० ফলল্লালিন্দ্রিঃ। [१ प्रपाठके- MESS अपहत्ते कमणि भामदेव्यगान शान्त्यर्थः शान्त्यर्थम् ॥ २६ !! इति श्रीमद्रोमिलीये गृह्यसूत्र प्र० प्र० नवमी कण्डिका ॥१॥९॥ अपवृत्ते-समाप्ने कर्मणि । वामदेव्यस्य "कयान"(१) इत्यादिकस्य (सा० ७० अ१ खं०२) गानं कर्तव्यमिति परिभाष्यते । तस्मात्सर्वेषामपि कर्मणामप. वर्ग वामदेव्यं साल गातव्यम् उमणीति सामान्यतयोपदेशात् । बहूनाङ्कर्मणा. चैकदा करणेऽन्ते सकृदेव तद्गानसित्याह कर्मप्रदीप:- "अहोमकेऽष्वपि भवेद्यथोक्तं चन्द्रदर्शने । वामदेव्यङ्गणस्यान्ते बल्यन्ते वैश्वदेविके॥" इति । गानस्याशक्तावपि ऋचोवारत्रयं पठनीया इत्याह स एव- "अन्ते च बामदेव्यम्य गानकाहचस्त्रिधा॥" इति । शान्त्यर्थमित्यर्थवादः । स्तूयते (२)हानेन गानम । अन्तेऽस्याभ्यासो- ऽत्र प्रपाठकपरिसमाप्तिद्योतकः ॥२९॥ इति श्रीमगोभिलीयगृह्यसूत्रव्याख्यायो "मृढलाध्यायां मुकुन्दशर्मसङ्कलिताया. म्प्रथमपाठकस्य नवमी कण्डिका ॥१॥९॥ REARRINTO mins प्रथमप्रपाठकेऽग्निसमाधानमुपक्रम्य तत्रावश्यकर्त्तव्यं सायम्प्रातहोमादि-दर्श. पौर्णमासान्तोविधिरभिहितः । तत्र च जायायाः पाणिब्जिवृक्षन्नित्याधानकाल- विशेषणतयाऽभिहितम । तत्प्रकारपरिदर्शनाय द्वितीयप्रपाठकारम्भः । अत्र ( द्वितीयप्रपाठके ) विवाहाद्युपनयनान्तोदशकमविधिरनुक्तपूर्व उच्यते- पुण्ये नक्षत्रे दारान्कुर्वीत ॥१॥ (१) कयान इति महावामदेव ऋषिगायत्रीच्छन्दोऽग्निदवताऽग्निष्टोमादौ द्वितीय. पृष्ठे शान्तिकम्मणि न जपे विनियोगः। ॐ कयानश्चित्र आभुवदूती सदावृधः । सखाकया सचिष्टया वृता॥१॥ कस्त्वा सत्योमदानां मंहिष्ठोमत्सदन्धसः। दृढाचिदारु ये वसु ॥२॥ अभीषुणः सवीनामविता जरित्रीणां, शतम्भवास्यूतये ॥३॥ स्वस्तिनइन्द्रोवृद्धश्रवाःस्व. स्तिनः पूषा विश्ववेदाः । स्वस्तिनस्ताक्ष्यो अरिष्टनेमिः ॥ ४॥ स्वस्तिनोबृहस्पतिर्दधातु ॐ ३ स्वस्तिनोबृहस्पतिर्दधात ॥ ४॥ ॐ प्राजापत्य वामदेव्यं प्रजापतावेव प्रतिष्ठा- योत्तिष्ठन्तु ॥ ६॥ ॐ पावोवैवामदेव्यं पशुष्वेव प्रतिष्ठायोत्तिष्ठन्तु ॥६॥ ॐ शान्तिः वैवामदेव्यै शान्तावेवप्रतिष्ठायोत्तिष्ठन्तु ॥ ७॥ ॐ अत एतत् कर्माऽच्छिद्रमस्तु । (अस्तु)॥ ८॥ इतिगानमन्त्रः ॥ अत्रान्तेऽस्त्वित्यवधारणं सर्वेषाम् ॥ अर्थोऽस्यास्म- स्कृते कर्मकाण्डमन्त्रार्थप्रदीपे द्रष्टव्यः । (२) गानमन "शब्दे (भ्वा०प०) इत्यस्मानावे ल्युटा साधुत्वं बोध्यम् । तेनास्य पाठमानमर्थः कार्यः ।
१०कण्डिका] गोभिलगृह्यसूत्रे Aparada । पुण्ये(१) शोभने । नक्षत्रे ज्योति(२)शास्त्रोक्त । विवाहे वश्यावरातिशयो. ऽनेन चोत्यते । दारान-"दाराः पुंसुम्नि चालताः” इत्यभिधानान्नित्यं पुल्लिङ्गो- बहुवचनान्तश्च दारशब्दः सहधर्मचारिणीवादकः । ताहु/त ? उद्धहेत ॥ १ ॥ कीदृशान्? तत्राह- लक्षणप्रशस्तान्कुशलेन ॥ २॥ लक्षणेन प्रशस्तानप्रशस्त(३)लक्षणापेतान् । यद्वाऽन्तनावितएयर्थोऽत्र प्रशंस- तिः। लक्षणपदञ्च तज्ज्ञे लाक्षणिकन्तेन लक्षणज्ञप्रशंसिता। कुशलेनेति लक्षण- पदार्थान्वयि । स्त्रीलक्षणाभिज्ञेनेति तदर्थः। तथाच तद्वारा लक्षणान्यवगन्तव्या- नि । नित्यसापेक्षस्थले एकदेशान्वयन देवदन्तस्य गुरुकुलमित्यादिषु दर्शनात् । यद्वा कुशलेन स्त्रीलक्षणविदा पुरुषेण लक्षणैरवैधव्यादिसूबकैनन्दाधुक्तः प्रश- स्तान्प्रशंसितान् परीक्षितानित्यर्थः । तथाच स्मरणम्- "सदा गृही सुखं मुळे स्त्री लक्षणवती यदि । अतःसुखसमृद्धयर्थमादौ लक्षणमीक्षयेत् ॥" इति । याज्ञवल्क्योऽपि- "धम्मार्थकाममोक्षाणां दाराः सम्प्राप्तिहेतवः । परीक्ष्यास्ते ततोयत्नात्पूर्वमेव करमहात् ॥” इति । "अविप्लुतब्रह्मचर्योलक्षण्यां त्रियमुद्हेत्” इतिच । लक्षण्यां-बाह्याभ्यन्तर-शोभन-लक्षणोपेताम् । प्रशंसायामत्र यत्प्रत्ययः । (पा०५।१।१२०वा०) तत्र-कुलमने परीक्षेते-" तिगृह्यान्तरवचनात्यादौ कुलं सदाचारादिगुणवत्तया हीनक्रियादिदोषहीनतया च परीक्ष्य तज्जाद्वाह्या। तदनु लक्षणाद्यपि परीक्ष्यम् । लक्षणानि च शुभाशुभसूचकानि तनुलोमकेशदशनत्वा. (१) अन "पुण्येऽहनी-ति सामान्यसूत्रादेनैतत्प्रातो तिथ्याद्यपेक्षया नक्षत्रप्राब. ल्यख्यापनाय पुननक्षत्रग्रहणमिति बोध्यम् ॥ (.) तथाच पारस्करः “त्रिषुत्रिपूतरादिषु' इति । उत्तरफल्गुन्यादित्रयोत्तराषाढा. दिनयोत्तरभाद्रादित्रयेषु नवसु नक्षन्नेष्विति तदर्थः । एवञ्चौतद्गृह्यानुसारिभिश्चित्राश्रवणा- धनिष्ठाश्चिन्योज्यौतिषेऽविहिता अपि ग्राह्याः । स्वगृह्योक्तत्वात । गोभिलीगैस्तु ज्यो. तिषोक्ता एव॥ (३) तथा च हेमाद्रौ स्कन्दपुराण -- "सुरूपां लक्षणापतामव्यङ्गाडीकुलोद्भवाम् । कन्या भ्रातृमतीनैव धर्मार्थार्थी समुद्हेत् ॥ विशालनेत्रां सुमुखों नीलकुञ्चितमुर्धजाम् । आताम्रपाणिपादानां कम्बुग्रीवां सुमध्यमाम् ॥ विशालजघनाचारुनितम्बस्थलभूषि- अस्थूलगुल्फरशनामश्यामाधरतालुकाम् ॥ अपिङ्गाक्षीमकपिलामस्फुरचरणां शुभाम् । अस्थूलगण्डनासानां शस्तामाहुर्मनीषिणः ॥ इति। शातातपः "हंसस्वनां मेघवर्णीमधुपिङ्गाललोचनाम् । इदशी वरयन्कन्यां गृहस्थः सुखमेधते" ॥ इति । मेघवर्णा स्निग्धश्यामरूपाम् । मधुइति । मधुवदीपत्पिङ्गले लोचने यस्यास्ताम् । ताम् ।
दर्शपौर्णमासविधिः [१प्रपाठक दीनि प्रत्यक्षगम्यानि बाह्यानि । तथाचमनु:---- "भव्यङ्गा(१)जीं सौम्यनाम्नी हंसवारणगामिनीम् । तनुलोमकेशदशनां मृढङ्गीमुद्रहेस्त्रियम् ॥” इति ॥ अव्यङ्गाङ्गीम्-अविकलाङ्गीम् । तनुलोमकेशदशनाम्-अनतिस्थूललोमकेश. दाताम् । स्त्रियमिति नपुंसकत्वनिरासार्थम् ॥ यान्याभ्यन्तराणि तान्युक्तान्या- श्वलायनगृह्ये "दुविज्ञेयानि लक्षणान्यष्टौ पिण्डान् कृत्वे"-त्यादिवाक्योक्तानि । तान्यवमप्यनुपदं सूत्रयित्वा दर्शयिष्यति ॥२॥ लक्षणावगतो प्रकारान्तरमाह- तदलाभे पिएडान् ॥३॥ तदिति प्रकृतः स्त्रीलक्षणवित् कुशलः परामश्यते "कुर्वीत" इति वाक्यशे- षः । तैश्च स्वयमेव दारानपरीक्षतेत्यर्थः । पिण्डानित्यविशेषोपादानेऽपि मृद एव तान्कुर्वीत । उत्तरसूत्रदर्शनात् ॥३॥ वेद्याः सीताया इदागोष्ठाच्चतुष्पथादादेवनादादहनादीरणात् ॥॥ वेदिः परिष्कृता भूमिरग्निष्टोमादौ विहिता यक्षस्थानमिति यावत् । तस्याः । सीता लागलपद्धतिः । कृष्ट क्षेत्रमिति यावत्तस्याः । ह्रदोऽगाधजलाशयस्तस्मा- त् । गावायत्र तिष्ठन्ति तद्गोष्ठन्तस्मात् । चतुष्पथः प्रसिद्धः। तस्मात् । आगत्या- क्षिकैर्दीव्यते यत्र तदादेवनं द्यूतस्थानन्तस्मादादेवनात् । आ मर्यादया दह्यते देहो- यत्र तदादहनं श्मशानन्तस्मात् । “ईरणन्तूपरे शून्येऽपी"-ति मेदिन्यभिधाना- दीरणमूषरं, यत्रोप्तं बीजन्न प्ररोहति तस्मात् । एताभ्योमृदमादाय पृथगेवाष्टौ पिण्डान कुर्वीतेत्यर्थः॥४॥ सर्वेभ्यः सम्भार्यनवमम् ॥ ५॥ सम्भाय संहार्य संहृत्य क्रियमाणम् । सम्पूर्वाद्धरतेः "ऋहलायेत्” (पा०३। श१२४ ) इतिण्यत्प्रत्यये आदिवृद्धिः । हस्य च भश्छान्दस: (पा०३११:८४वा०) सर्वेभ्योवेद्यादिभ्यः ।। ५॥ समान् कृतलक्षणान् ॥ ६ ॥ तांश्च नव पिण्डान समांस्तुल्यप्रमाणाम् । लक्षणं चिह्न, कृतं लक्षणं येषां स्तान् । यतम: पिण्डोयतमस्या मृदस्तञ्चिह्नकर्त्तव्यम् । वक्ष्यमाणकृत्यनि- हाय ॥६॥ (१) पुरम्मनुः "नोद्वहेत्कपिलान्यां नाधिकाङ्गीं न रोगिणीम् । नालोमिकामा तिलोम्नी न वाचालान्न पिङ्गलाम् ॥ नक्षवृक्षनदीनाम्नों नान्त्यपर्वतनामिकाम् । नाहि- पक्षिप्रेष्यनाम्नी न च भीषणनामिकाम् ॥ इत्यादिसंस्कारदीपके म. म. हर्षताथशम: कृते द्रष्टव्यम् ।
• कण्डिका गोभिलगृह्यसूत्रे- MISS तान्खल्विमान् पिण्डान्- पाणावाधाय कुमायाँ उपनामयेत् । "ऋतमेव प्रथममृतं नात्य ति कश्चनइयंपृथिवीश्रिता सर्वमिदमसौ श्रूयात्" (म० ब्रा-१।१११) इति । तस्या नाम गृहीत्वैपामन्यतमं गृहाणेति मात् ॥ ७ ॥ पाणौ स्वकीये (वर:) आधाय-धृत्वा । कुमार्या उप समीपे नामयेत्स्थापयेत् । "ऋतमि" त्यादिमन्त्रेण । अस्यार्थ---ऋतमिति सत्यनाम । (निरु०४।१९। ९) 'ऋतमेव'-सत्यमेव 'प्रथमम्'आयङ्कारणम् । तथाच श्रुति: "तस्य ह वैतस्य ब्रह्मणेनाम सत्यमिति । 'ऋतं' सत्यं 'नान नातिकामति कश्चिदपि । 'ऋते' सत्ये चेयं पृथिवी(आ)श्रिता' । न केवलम्पृथिव्येव, किन्तु 'सर्वमिदम् । चकारोलुप्तवद्रष्टव्यः । यथाचेदं सर्व वस्तु जातं सत्याश्रित न्तथा'ऽसौ' (यशोदादेवी) सत्त्या 'भूयात्'-भवतु ।। इति ।। अत्रासावित्यस्य स्थाने तस्याः कुमार्या नाम गृहीत्वोचार्य एवं सम्बोधनान्तं नाम मन्त्रान्ते गृहीत्वा एषां पिण्डानामेकं गृहाणेति तस्यै ब्रूयात् ।। ७ ।। पूर्वेषाञ्चतुर्णा गृह्णन्तीमुपयच्छेत् ॥ ८ ॥ पूर्वेषामिति । मध्ये-एकमिति शेषः । वेद्यादिपिण्डचतुष्टयान्यतममाददानां विवाहयेदित्यर्थः । गृहन्तीमित्यत्र नुम्छान्दसः ॥ ८ ॥ सम्भार्यमपीत्येके ॥४॥ सम्भार्य नवमपिण्डमाददानाऽपि विवाह्येत्येकदेशिमतम् । तथाच गृया- समहेऽङ्गिराः- "क्रियावती वेदिपिण्डं सीतायाः फलते कृषिः । अक्षोभ्या च हदे ज्ञेया गोष्ठे भवति गोमती ॥ चतुष्पथे प्रकीर्णा स्याङ्तस्थाने कलिप्रिया । श्मशाने म्रियते भर्ती बन्ध्या भवति चोपरे ।। नवमे सर्वमेतत्कन्यायास्तु परिग्रहात ॥" इति । प्रकीर्णा-स्वैरिणी । परिशिष्टान्तरम्- "गृहाना वेदिपिण्डन्तु प्रसूते याज्ञिकान्सुतान् । सीतापिण्डन्तु गृहाना सुतान्सूते कृषीवलान् ।। सर्वकामसमृद्धाश्च तृतीयस्य परिग्रहात् । गोष्ठपिण्डग्रहाचैव गोमतः सुखिनः सुतान् ।। इतश्चेतश्च गन्तारः पञ्चमेनास्थिराः सुताः । षष्ठेन तु गृहीतेन भवन्ति द्यूतदेविनः ॥ श्मशानपिण्डग्रहणाद्विधवा जायते ध्रुवम् । बन्ध्या वा विधवा वा स्यादृष्टमस्य परिप्रहात ।। AN-
No text on this page.
• कण्डिका] गोभिलगृह्यसूत्रे- maa 'हेकाम ! 'तेनाम' सर्वेऽपि 'वेद' जानाति । त्वं 'मदः मादको नाम प्रसि- हो ऽसि भवति । अतः 'अमुं' सम्माक्तिमेतस्याः पति समानय सङ्गमय । "एतये"-तिशेषिः । 'ते' सहायभृता 'सुरा' एषा स्नानार्थमेतस्या उपस्थिता "अभवत्" भवति । 'परं' किन्तु-हे "जन्माग्ने । जन्महेतु भूताग्निस्वरूप ! 'अत्र' अस्यां (निमित्तेसप्तमी) एतदर्थमेव ! 'तपसः प्रतिविशिष्टात्कर्मणः । त्वं प्रजापतिना'निम्मितोऽसि । तस्मै तुभ्यं जन्माग्निरूपाय स्वाहा' सुहुतमस्तु २ "इम" प्रत्यक्षभूतं 'ते' त्वदर्थमुपकल्पितम् 'उपस्थ गुप्ताङ्ग "मधुना' प्रिय. द्रव्येणोद्वर्त्तनभूतयवादिना । 'संसृजामि' संसर्गयामि । एतत्' उपस्थम् 'प्रजापतेः' लोकस्रष्टुः 'द्वितीयं मुखम' । पूर्वमसौ एकस्मान्मुखतः एवसंक. स्पामिलापकवचनेनासृजनप्रजाः । पश्चात्ततोयथाभिमतां वृद्धिमनालोच्य स्त्रीयो- नितः प्रजाः स्रष्टुमेतद् द्वितीयम्मुखं ससर्जेति पौराणिकी गाथाऽत्रानुसन्धेया। 'तेन' अनेन 'अवशान्' अजितेन्द्रियान कामिनः 'सर्वान्' एव 'पुंसः' पुरुषाम् 'अभिभवामि' सम्मोहयामि ( वशेस्थापयामि)। एवङ्काममुत्का कन्यामाह- हे कन्ये ! त्वं 'वशिनी' वशङ्करी। अतएव 'राज्ञी' राजमाना (सर्वश्रेष्ठा) 'असि' भवसि । तस्मै कामाय स्वाहा' सुहतमस्तु ॥ ३॥ 'पुराणाः' ग्राग्भवीयाः 'ऋषयः' 'गुहानाः' रहस्यमेतमर्थ संवृण्वानाः । 'स्त्री- णामुपस्थम्' गुह्याङ्ग 'क्रव्यादम्' (१)आममांसादं (पुरुषादम्) 'अग्निम्' तत्तुल्यम् 'अकृण्वन्' अकुर्वन् । 'तेन हेतुना 'शृङ्गम्' त्रिशृङ्गादुपस्थेन्द्रिया- दुत्पन्नम् रेतोरूपम् 'आज्यम्' वृतम् 'त्वाष्टम्' (२)त्वष्टुर्विश्वकर्मणः सर्व- स्रष्टुः प्रजापतेरुपकारकम 'अकृणन्' अकुर्वन् । (३)हे कन्ये ! 'त्वयि विषये 'तत्' आज्यभूतं रेतः 'दधातु' स्थापयतु । कः ? योसावदसा निर्दिष्टोऽमुमिति॥४॥ तस्मादेकैकामृचमुच्चाय्यकैकोऽभिषेकः कर्त्तव्यस्तत्रोत्तराभ्यामृग्भ्याम् "इम- न्तउपस्थम्" "अग्नि क्रव्यादम्" इत्येताभ्याम उपस्थं योनिप्रदेशं प्लावयेत् । एतदुक्तं भवति-तिसृभिरपि आभिस्तथाऽभिषेक: कर्तव्योयथा सर्व शरीरम. भिषिक्तं भवति । परमुत्तराभ्यान्तथाऽभिषेक्तव्यं यथोपस्थप्रदेशोविशेषतः प्ला. वितोभवतीति । अथेदानी मन्त्रे विशेषमाह-समानयामुमित्युक्तमन्त्रघटक- वाक्ये ऽमुमित्यस्य स्थाने पत्युवरस्य नाम गृहोयाम् । तदिदं सूत्रमुत्सज्य पाठ- क्रममनुसृत्यार्थक्रमं व्याख्यातम् ॥ १०॥ (१) अत्र "क्रव्येच" (पा० ३।२।६९) इत्यदेविट् । सचाममांसशब्दे उपपदेभवति । उपपदस्य चाक्रव्यादेशः पृषोदरादित्वात् । तथा चाममासमक्षकः क्रव्योत् । पकमांसभ- क्षकश्च क्रसाद इति सि. कौ. वृत्तिकृतः प्राहुः ॥ (२) त्वष्टाऽत्र बौव प्रजापतित्वेन भागलक्षणयाभिहितः॥ (३) विकरणव्यत्यय आर्षः (पा० ३३१) ।
নীয়াৰিখ্রিঃ। [१ प्रपाठक- झातिकम्#तत् ॥ ११ ॥ अथ सुहृत्पदार्थमभिव्यनक्ति-जातीति । आसन्ने विवाहसमये कन्यादौ. भांग्याऽपनोदकः शाखान्तरीयेणाऽपि कर्त्तव्योविरोधाभावादिति ॥ ११ ॥ ( अथ विवाह:-) अथेदानीम्पाणिग्रहणमभिधीयते- पाणिग्रहणे पुरस्ताच्छालाया अग्निरुपसमाहितोभवति ॥ १२ ॥ पाणिग्रहणे कर्मणि प्रक्रान्ते पुरस्तादग्रतः शालाया गृहस्य (१)प्राङ्गण "इत्यर्थः । अग्निः उपाये (२)( वरस्य ) सम्यक् आहितः स्थापितोभवति । पूर्वोक्तयाऽऽवृता। अनुपदेशात्कर्तुरनियमः । तेन यावद्वरोवधूमादाय गृहा- निष्क्रम्यागच्छति तावदन्य एव कश्चिदग्नि स्थापयति । आवृतमपि स एव करोति-इतिशब्दस्वरसादवगम्यते । अतएव सूत्रयिष्यति वहिषोऽन्तं कटान्तं प्रापयेत्” (२।१ । २२) इति । तदेद्भट्टभाष्यसम्मतञ्चन्द्रकान्तोऽप्यनुमन्यते. स्म स्वभाष्ये । वस्तुतस्तु । वर एवात्रकतेति तत्सूत्रे (२ । १ । २२) एव व्य- क्तीभविष्यति ॥ अग्निस्थापनाच वेदिमध्ये कार्य, वेदिश्च चतुर्विशाङ्गुलायता चतुरङ्गुलेोच्छिता च कार्येत्याह-गृह्यासंग्रहः- "उपलिप्ते महीपृष्ठे चतुर्विशाङ्गुलायता । वेदी वैवाहिकी कार्या चतुरगुलमुच्छिता॥ तां शूद्रोनोपलिम्पेत न बन्ध्याविधवास्त्रियो। पतिपुत्रवती या स्त्री सैव तामुपलेपयेत्” । इति । यद्यप्यत्राचार्येण कन्यायाप्रदानं प्रतिग्रहणञ्च व सूत्रितं तथापि अलङ्कृत्य कन्यामुदकपूर्वन्दद्यादि" त्येवमादि गृह्यान्तरदर्शनात्तदप्यादरणीयं तदेतत्सप्तद. शसूत्रान्ते यथाप्रसक्तमुपवर्णयिष्यते । अत्र चन्द्रकान्तः। पाणिग्रहणे शिष्यजिज्ञा- सा समुत्कटेति तन्निरसिसिषया खल्वाचार्यस्तदेव सूत्रयाञ्चकार न कन्यादान- मिति श्लिष्यते । प्रदानञ्चेदकन्यादातुः कर्म न प्रतिग्रहीतुः। प्रतिग्रहोऽपि दानाधीन एवेति । प्रदातारश्च याज्ञवल्क्येनोक्ताः- "पिता पितामहोभ्राता सकुल्योजननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥" इति । प्रकृतिस्थः प्रदानोचितपातित्योन्मादादिदोषरहितः । एवञ्च मात्रा (१) प्राङ्गणस्यौशान्यां जामातृहस्तेन चतुर्हस्तायाम विस्ताराया-वेणुनिम्मिताया वेदेमध्ये हा जामातृहस्तोन्मितान्तवेंदिस्तस्यामिति वीरेश्वरादयः स्वस्वपद्धतौ लिखन्तिस्म । व्यवहारोऽपि तथैवाजानिकः । तदेतदनुपदं स्फुटीभविष्यति । (२) रोपवेशनस्थानस्य ॥ Mamam
No text on this page.
१२२ विवाहविधिः। [१ प्रपाठके- al E- क्यवान्वयोऽस्त्येव । एकस्य हि पितृशरीरस्यावयवाः पुत्रद्वारा तास्वाहिता इति मिताक्षराकार मदनपरिजातादयः प्राहुः । कथञ्चिदेकपिण्डक्रियाप्रवेशेन निर्वाप्य सापिण्ड्यं चन्द्रिकाऽपराकमेधातिथिमाधवादयोवदन्ति । नन्वेवं(१) विधातृशरीरावयवान्वयेन सापिण्ड्यातिप्रसङ्गन एकपिण्डदानक्रियान्वयित्वेन वा गुरुशिष्यादेरपि श्राद्धदेवतात्वात्सापिण्ड्यमिति न काप्यसपिण्डेत्यत आह- याज्ञवल्क्य:- "पञ्चमात्सप्तमादूर्ध्व मातृतः पितृतस्तथा" इति । मातृतः मातुः सन्ताने पञ्चमादूर्व, पितृतः पितुः सन्ताने सप्तमा. दूर्ध्व सापिण्डर “निवर्त्तत"इतिशेषः । तथाच वृद्धशातातपः-- "पञ्चमात्सप्तमादूर्ध्व मातृतः पिकृतस्तथा । सपिण्डता निवर्तेत सर्ववर्णेष्वयं विधिः ॥” इति । अतश्चायं सपिण्डशब्दोऽवयवशक्त्य सर्वत्र वर्तमानोऽपि निर्मथ्य पङ्क जादिशब्दवत् नियतविषय एव । तथाच पित्रादय उपर्युपरि षट् आत्मा च सप्तम इति। अशौचप्रकरणे "दशाहेन सपिण्डास्त्वि"-त्यादौ सपिण्डपदं स्वकुलसपि. ण्डपरं-मातामहादावुक्तसापिण्डयसत्त्वेऽपि तत्राऽशौचविशेषस्य वाचनिकत्वा- दिति न दोषः । अत्र ( सपिण्डतायां) कूटस्थ (मूलपुरुष )-मादाय गणना कार्या । तदुक्तम्- "वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः । पञ्चमी चेत्तयोर्माता तत्सापिण्डयं निवर्त्तते ॥” इति ।। यत:(२)सन्तानभेदः स कूटस्थः । यवीयसीम् । स्वापेक्षया वयसा वपुषा (१) तथाच ऋग्वेदे--"पतिर्जायां प्रविशति गर्भो त्वेह मातरम् । तस्यां पुनर्ज. वोभूत्वा दशमे मासि जायते ॥ तञ्जाया जाया भवति यदस्यां जायत्ते पुनः ॥” इति । अत्र मातृत्वातिदेशेऽपि "दशास्यां पुत्रानाघेही तिश्रुतिबलानपुनरभिगमनादौ दोषः । एवम् "अस्थिभिस्तेऽअस्थीनि सन्दधामीति श्रुतिरपि । तथाच स्मयते-"एकत्वमागता यस्माचरुमन्त्राहुतिव्रतेंः " इति । तत्सपिण्डैस्तु तद्द्वारैव । एवञ्च साक्षात्परम्परया वैकशरीरान्वयित्वं सापिण्डयमिति लब्धम् । नन्वेतदतिप्रसक्तमष्टमादेरपि परम्परयैक. शरीरान्वयसम्भवादिति चेन्न मातृतः पितृतः पञ्चमहान्यतमत्वेनोपाहितत्वात् ॥ एतत्त. स्वमनुपदं स्माटीभविष्यति ॥ (.) सन्तानभेदेपि यतः सन्तानभेदातमादाय गणयेत् । यावत्सप्तम इति सर्वत्र योजनीयम् । तथाच मातरमारभ्य तपितृपितामहादिगणनया पञ्चमसन्तानवर्तिनी माता पञ्चमोत्युपर्यते । एवं पितरमारभ्य तत्पित्रादिगणनायां सक्षमपुरुषसन्तानवसिनी १. कण्डिका ] गोभिलगृह्यसूबे- च न्यूनाम् । अरोगिणीम्-अचिकित्ल्याराजयक्ष्मादि(१)रोगरहिताम् । भ्रातृ. IRCTapan पितः लक्षमीति । तथाच विश्वरूपनिबन्धे- "एवमुक्तप्रकारेण पितृबन्धुषु सप्तमात् । ऊर्ध्वमेव विवाह्यत्वं पञ्चमान्मातृबन्धुतः ॥ सन्तानोभिद्यते यस्मापूर्वजादुमयत्र च । तमादाय गणेद्धीमान्वर यावच्च कन्यकाम् ॥" इति । गणेत-गणयेत् । “अनित्यज्यन्ताश्चुरादय” इति ॥ यदपि वशिष्ठेनोक्तम्- पञ्चमी सक्षमी चैव मातृतः पितृतस्तथा” इति । श्रीमतीत्य मातृतः पञ्चातीत्य च पितृतः ॥” इति च पैठीनसिना तदप्याकनिषेधार्थम् । नपुनस्तत्प्राप्त्यर्थमिति सर्वस्मृ. तीनामविरोधः । गौतमः- "असमानप्रवरैर्विवाह ऊध्वं समात्पितबन्धुभ्योबीजिनश्च, मात्रबन्धुभ्यः पञ्च. मात।" इति । समानप्रवरत्वञ्च प्रवराणां संख्यायाः संज्ञायाश्चतुल्यत्वेन भवति । तत्र गोत्रभेदेऽपि यथा वत्स-सावर्ण-गोत्रया,रौर्वादीनां पनत्वेन संख्यया और्वादिरूपया संज्ञया च । यत्र तु प्रवरनामसाम्येऽपि न संख्यासाम्य, संख्यासाम्ये नामभेदोवा तत्राप्यसमा नप्रवरवेतिाबोध्यम् ॥ प्रवरस्तु-गोत्र(वंश)प्रवर्तकस्य मुनेयावतकोमुनिगण इति निबन्धारः । एवं नाना मुनिगणवचनानां सामञ्जस्य संस्कारदीपिकादौ दृष्टव्यम् । सिद्धान्तस्तु-मार्कण्डेयपुराणे- "उद्वहेपितृमानोस्तु पञ्चमी सलमीन्तथा ।" इति । एवं विष्णुपुराणे-"पञ्चमी मातृपक्षाच पितृपक्षाच ससमीम् । गृहस्थ उद्वहेत्कन्यां न्याय्येन विधिना नृपा इति । अत्र मातृपक्षेपञ्चमीपरिणयप्रसनदोषं, वर्जनस्मृतीनां "श्रीन्मातृतः पञ्चपितृत" इति पैठो. नसिवचनवदसमानजातीयपरत्वेन कौमुदीकार आह । यद्वा-आपत्काले समानजातीयेऽपि पञ्चम्यादिपरिणयनम् । अनापदि तु तत्पाहार इति च । वस्तुतस्तु-"सगोत्रे खलु सापिण्ड विजेय सातपौरुषम् । विगोत्रे तत्तु सर्वत्र विज्ञेयं पाञ्चपौरुषम् ॥” इत्यापस्तम्बवचनादसगोत्रे पञ्चमावधेरेव सापिण्ड्यात्तनिषेधः सर्वसम्मतः । पितृपक्षे सप्तमीपर्यन्तनिषेधस्तु स्ववंशबाजिनः स्वबन्धुबीजिनश्च तद्वारैव ससमीविषयस्तद्भिजे सप्तमीपरिणयोऽप्यविरुद्ध एव । नन्वं पितृमातृकादिद्वारा षष्ठीपरि- णयोऽप्यविरुद्धः स्यात् । इष्टत्वात् । अत एव पितृमातृपक्षस्तु पितृपक्षएवेत्यतस्तत्र षष्ठयपि परिणेयेति प्रतिहस्तकाः । अत एव च न मातृपक्षे पञ्चमोरिणयातिप्रसङ्गः। नचैवं क्वचिधवहितेऽपि सप्तमीपरित्यागः। कचित्सन्निहितेऽपि तदुपादानमित्यसङ्गतमिति वाच्यम् । वाचनिकेऽथे सविधानव्यवधानयोरकिञ्चित्करत्वात्। अत एव सपनीमातृसा. दरोपादानेऽपि सद्भातृपुत्रीपरित्याग इति वदन्ति । महामहो० महेशठक्कुरास्तु-तत्त- त्याठमन्यथयित्वा पितृपक्षे सर्वत्र समीपरिणयमनुजानन्ति । तत्र च शिष्टसंवादमाचा- रञ्चप्रमाणयन्तीत्थास्तां विस्तः॥ (१) आदिपदेन सवारी रोगः। यथाह याज्ञवल्क्य एवं "दशपूरुषविख्याताच्छो- त्रियाणां महाकुलात्। स्फीतादपि न सन्चारिरोगदोषसमन्वितादि-गति । पुरुष एव पुरुषः । दशभिः पितृतः पञ्चभिर्मातृतश्च । श्रोत्रियाणां श्रुत्यध्ययनसम्पन्नानाम् । "कन्या हरेदिति शेषः । अपवादमाह स्फीतादपीति । उक्तमहाकुलादपीत्यर्थः । समचारिणोरागाः कुष्ठापस्मारादयः। शुक्रशोणितद्वारा ये सञ्चरन्ति । तदुक्तं वैद्यके । "सव सञ्चारिणोरो- गावयित्वा प्रवाहिकाम् ॥ इति । अन्येदोषा हीनक्रियत्वादयामन्यादौ द्रष्टव्याः॥
विवाहविधिः। [१ प्रपाठके Momen MIN manome मतीमिति । पुत्रिका(१)करणशङ्कानिवृत्त्यर्थम् । यत्र तु पुत्रिकाकरणाभावनि- श्चयस्तामभ्रातृकामप्युद्हेत् ।। असमानार्षगोत्रजामिति । अत्र प्रत्येकमेव नना सम्बन्धः । ऋषेरिदमार्षम् । गोत्रप्रवर्तकस्य मुनेावरीकोमुनिगणः । प्रवर इत्यर्थः । गोत्रं वंशपम्पराप्रसिद्धम् । (स्व) समाने आर्षगोत्रे ( यस्य ) तस्मा- जाता या न भवति ताम् । एतत्परिणये प्रायश्चित्तमाह-स्मृतिः- "परिणीय सगोत्राञ्च समानप्रतरान्तथा । त्यागं कृत्वा द्विजस्तस्यास्ततश्चान्द्रायणञ्चरेत् ॥" इति । त्यागश्चोपभोगस्यैव न तस्या इत्याह-शातातपः- "सामानप्रवराङ्कन्यामेकगोत्रामथापि वा। विवाहयति योमूढस्तस्य वक्ष्यामि निष्कृतिम् ॥ उत्सृज्य तान्ततोभार्या मातृवत्परिपालयेत् ॥" इति । एतब्च ( असमानार्षगोत्रजामिति ) याज्ञवल्क्योक्तं द्विजपरमन्य. सर्व सार्ववर्णिकम् । तथा च विवाह्यकन्यां लक्षयतः मनुशातातपौ- "असपिण्डा च या मातुरसगोत्राचि या पितुः । सा प्रशस्ता द्विजातीनान्दारकर्मणि मैथुने ।।" इति । दारकर्मणि दारत्वसम्पादके कर्मणि विवाहे । मैथुने-मिथुनसाध्ये. ऽग्न्याधाने पुत्रोत्पत्त्यादौ च । तेन न केवलं विवाहनिषेधेोऽपितु मैथुननिषेधो. ऽपि । एवं सवणव गुणान्विता वाढव्येत्याह मनु:- "गुरुणाऽनुमतः स्नात्वा समावृत्तीयथाविधि । उद्वहेत द्विजोभार्या सवर्णा लक्षणाऽन्विताम ।। इति । यत्तु “शूदैव भार्या शद्रस्य सा च स्वा च विशः स्मृते । ते च स्वाचैव राज्ञस्तु ताश्व स्वा चाग्रजन्मनः ।।" इति । मनुवचनन्तद्यगान्तरपरमिति मन्तव्यम् । तथाच पारस्करीयगृह्य- सूत्रभाष्ये हरिहर-धृता स्मृति:- "देवरेण सुतोत्पत्तिर्वानप्रस्थाश्रमप्रहः । दत्ताक्षतायाः कन्यायाः पुनानं परस्य च ।। समुद्रयात्रास्वीकारः कमण्डलुविधारणम् । महाप्रस्थानगमनं गोपशुश्वसुराग्रहः ।। अग्निहोत्रहव(२)ण्याश्च लेहोलीढ़ापरिग्रहः । असवर्णासु कन्यासु विवाहश्च द्विजातिषु ।। (१) अपुत्रस्यकन्यादानसमये पुत्रिकापुत्रकरणमुक्तम् “अस्या योजायतेपुत्रः स मे प्रमोमविध्वतीति । (२)अग्निहानहवनी चुक ।
१. कण्डिका ] गोभिलगृह्यसूत्रे- ADD १२५ वृत्तस्वाध्यायसापेक्षमघसङ्कोचनन्तथा । अस्थिसञ्चयनादूर्ध्वमङ्गस्पशनमेव च । प्रायश्चित्ताऽभिधानञ्च विप्राणां मरणान्तिकम् । संसर्गदोषः पापेषु मधुपर्के पशोर्वधः ।। दत्तौरसेतरेषाञ्च पुत्रत्वेन परिग्रहः । शामित्रश्चैव विप्राणां सोमविक्रयणन्तथा ।। दीर्घकालं ब्रह्मचर्य नरमेधाश्वमेधको । कलौ युगे विमान्धन्विानाहुर्मनीषिणः॥" इति । अत्र (कन्यापरिग्रहे ) स्वयमयमाचायौवक्ष्यति समावर्तनप्रक्रमे । (३।४।४-५) तद्रष्टव्यम् ।। १२ ।। अथ जन्यानामकोध्रुवाणामपां कलशम्पूरयित्वा सहोदकु- म्भः प्राहतोवाग्यतोऽग्रेणाऽग्निम्परिक्रम्य दक्षिणत उदङ्मुखोऽव तिष्ठते ॥ १३ ॥ अथ अग्निस्थापनानन्तरम् । “जन्याः स्निग्धा वरस्य ये"इत्यमरः । नवो. ढ़ाज्ञा(१)तयोवेति चन्द्रकान्तः । तेषामेकोऽन्यतमः कश्चित्स च द्विज एव । तथाच गृह्यासहः- "गन्धमाल्यैरलङ्कृत्य(२) सकुम्भोवाग्यतः शुचिः। धारयेचिषु वर्णेषु प्रावृताङ्गोद्विजोत्तमः ॥" इति । अत्र धारयेदित्यत्र विभक्तिविपरिणतङ्कुम्भमित्यनुषज्यते । ब्राह्मणा- वरदिश्यः कलशधारीति होरिलपद्धतिरपि। ध्रुवाणाम्-अतिप्रखरतापेऽपि अशुष्कजलाशयोत्थितानामिति सत्यव्रतः। तदेतदज्ञानविजम्भितम् । तथाच गृहासमहेऽङ्गिराः- "महानदीषु या आपः कोप्यान्याश्च ह्रदेषु च । गन्धवर्णरसैयुक्ता ध्रुवाः स्युरिति निश्चयः ॥" इति । कोप्यान्याः अकूपसम्बन्धिन्यः । तथाच महानद्यायसम्भवे कूपोद- कभिन्ना याः काश्चिदप्यापोगन्धादिगुणयुक्ता ग्राह्या इत्यर्थः ध्रुवाणामपामिति षष्ठी तृतीयार्थे । सहोदकुम्भः । उदकपूर्णकुम्भसहिः। अत्र मध्यमपदलेापी समासः (पा० ६।३।५९) । “वोपसर्जनस्य"-(पा-६।३।८२) इति सहस्य JANA (१) "जन्योववधूज्ञातिप्रियभृत्यहितेषु च” इति विश्वप्रकाशः ॥ "भृत्याश्चापि न. वोदाषा जन्या" इति केशवः । (२)"अनात्मानम्" इति श्रेषः ।।
२ विवाहविधिः। [१ प्रपाठके सादेशः । प्रावृतः कृ-(धृ.) तोष्णीषइतिभाष्यकारः । वस्त्राच्छादितशरीर(१) इतिपद्धतिः । इक्षिणतः प्रकृतत्वादग्नेब्रह्मणश्च । अवतिष्ठत इति । ऊर्ध्वस्थितो. भवेदित्यर्थः । अत्रापि वाग्यमनलेोपे पूर्वोक्तमेव ( १-६-१९।पृ० ८२) प्रायश्चित्तं कारणस्याविशेषादिति द्रष्टव्यम् । एवमन्यत्रापि ।। १३ ।। प्राजनेनान्यः ॥१४॥ अन्योऽपरोवरपक्ष्यः । प्राजनेन-प्रतोदेन(२) गृहीतेनोपलक्षितस्तथैवावति- ष्ठते । अत्रोपलक्षणे तृतीया (पा०२।३।२१) "प्राजनंतोदनंतोत्रमि"-त्यमरः । एष समाचारोऽद्यत्वेनास्ति ॥१४॥ शमीपलाशमिश्रांश्च लाजाश्चतुरनलिमात्रान्सूर्पणोपसादयन्ति पश्चादग्नेः ॥१५॥ शमी-प्रसिद्धा । तस्याः पलाशानि पत्राणि तैम्मिश्रान् लाजान्- "अक्षतास्तु यवाः प्रोक्ता भृष्टा धाना भवन्ति ते। भृष्टास्तु ब्रीहयोलाजा घटः खाण्डिक उच्यते॥" इति कर्मप्रदीपोक्तलक्षणात् । चतुरञ्जलिमात्रान् । चत्वारोऽजलयः प्रामाणमेषामिति तद्धितार्थे समासः। (पा० २।१२८१) प्रामाणे च मात्रच्प्र. त्ययः । (पा० ५।२।३७ ) यावद्भिश्चत्वारोऽजलयः पूर्यन्ते तावतः । अग्ने; पश्चात् । शूर्पणापसादयन्ति । शूपस्थान्कृत्वा समीपे स्थापयन्ति ॥ १५ ।। हपत्पुत्रञ्च ॥ १६॥ हषत्पुत्रं-शिलापुत्रकम् “लोढ़ेति" प्रसिद्धम् । अग्नेः पश्चादुपसादयन्तीति पूर्वेणान्वितम् ॥१६॥ अथ यस्याः पाणिं ग्रहीष्यन्भवति सशिरस्का साऽऽप्लुता भवति ॥ १७॥ आप्लुता-अविधवोपनीतमङ्गलोदकस्त्रिभिर्घटः स्नाता। तथाच-गृह्यास- । (१) निवीतं प्रावृतं त्रिषु" इत्यमरटीकायां निवीतं प्रावृतमिति द्वे प्रावृतवस्त्र स्येति महेश्वरः । प्रकरणावृतं वेष्टित वस्त्रं येनेति तदर्थः ॥ (२) "चाबुक:-पदाभिधेयेन । प्रकर्षण तुदति व्ययत्यचादिकमनेनेति व्युत्पत्तः । यत्पर्यायः "कशेति ॥ "प्राजनं तोदनन्तोत्रम्" इत्यमरे तोदनं प्रतोद इत्यनर्थान्तरम् । आये "तुदव्यथने" इत्यतः करणे ल्युट (पा० ३।३।११५)। द्वितीये करणे घन (पा० ३।३।१९)। प्रेति प्रकर्षार्थकमत्र विशेषः । प्राजनमितितु "अजगतिक्षेपणयोरिणत्य- (म्बा०प०)-स्मात्करणे ल्युट् पूर्ववत् । प्रवीयतेऽनेनेति । "वायोग ( पा० २।४।१७) इति ब्यादेवोऽजेभवति ॥
१० कण्डिका] गोभिलगृह्यसूत्रे- apontome १२७ महः "स्नानञ्चतुर्भि:कलशैः प्लावनस्तु त्रिभिर्घटः” इति ॥ एतद्विधानमु. लमधस्तत् । (२२११०)॥ (अत्र विशेष उच्यते ) अथ कण्ठतः सूत्रकारानुक्तमपि कन्यादानमिदानीसेव "पति:-परिदध्यादि" त्यग्रिमसूत्रस्वरसात् । अन्यथा(१) तस्य पतित्वासम्भवेन तत्पदेन(२) वरोपा. -- (१) कन्यादानाभावे । तस्यवरस्य ।। (२) पतिपदेन प्रतिग्रहीतोच्यते । प्रतिग्रहश्चार्य ग्रहणविशेषः विवाहपदप्रवृत्तिनि- मित्तभूतः । स च स्वत्वविशेषोत्पत्त्यनुकूलव्यापररूपः स्वीकारविशेषः । तदुक्तमाचला. यनगृह्यभाष्ये-"उपयमनं नाम कन्यायाः स्वीकरणमिति । अत एवो-"पाद्यमः स्वकरण" (६-३-६६) इति पाणिनिस्मरणम् । उपयच्छत-इत्युदाहृत्योबहतीति विवरणं च वृत्ति कारोक्तं सङ्गच्छते । स्वत्वे विशेषत्वञ्च स्वनिरूपकपतिनाशादिदोषैरनवरत्वस्वरूपम् । अत एव मृतेऽपि पत्यौ तस्येयमिति प्रयोगः। स चायं स्वीकारोद्विविधः कन्यापित्रादि. कर्तृकदानादिप्रयोज्यः ॐ-इत्यादिप्रयोगादिप्रकाश्यप्रतिग्रहरूपः । “भगोऽर्यमासवि- तापुरन्धिर्मान्त्वादुर्गार्हपत्याय देवा" इत्यादिमन्त्रप्रकाश्यदेवकर्तृककन्यादानसम्पाद- कप्रतिग्रहस्वरूपश्च २। तत्प्रकाशकश्च "गृभ्णामि ते सौभगत्वाय हस्तम्" इत्यादिमन्त्रप्र. योगः । पाण्यवच्छेदेन कन्याग्रहणञ्च देवकर्तृकदानं मनुस्याह- देवदत्ताम्पतिर्भायों विन्दते नेच्छयाऽऽत्मनः" इति । तमिमद्विविधमपि दर्शयति नारदः--"स्त्रीपुंसयोस्तु सम्बन्धाद्वरणं प्राविधीयते । वरणाग्रहणं पाणेः स सम्बन्धोद्विलक्षणः" इति । विवृणो. ति चैतद्रत्नाकरः । सम्बन्धात्-वाणिग्रहणात्मकात् वरणात् वरणोत्तरं द्विलक्षणः वरणरूपः पाणिग्रहरूपश्चेति । वरण कन्यापित्रादिकत्Hकन्दानं "प्रत्यङ्मुखा वरयन्ति प्रतिगृह्णन्ति प्राङ्मुखाः” इत्यादौ तथा दर्शनात् । वरयन्ति-गोत्रप्रवराद्यभिधानपूर्वक ददतीत्यर्थ इति हि तव्याख्यातारोरत्नाकरादयः। तच्च प्रतियहपर्यन्तं विवक्षित पाणिग्रहणपदञ्च सक्षप. दीपरिणयनान्तकम्माभिधायकम् । अत एव कन्यादाननिष्पत्यानन्तरं पाणिग्रहणात्पूर्वमपि विवाह सम्पत्तिकथनं प्रथमप्रतिग्रहरूपस्यैकरूपस्य निष्पनत्वात् । यथा त्रिशकृपाख्याने- 'पाणिग्रहणमन्त्राणां विघ्नं चक्रे स दुर्मतिः । येन भार्या हृता पूर्व कृतोद्वाहा परस्य वै इति । कृतोद्वाहा पाणिग्रहात्पूर्व हृतेत्यर्थः । अयमन विवेकः। केवलेन प्रथमप्रतिग्रहेण कन्यायां पत्युः स्वत्वमुत्पद्यते । दातुः स्वत्वं निवत्तते । तथाच मनुः "मङ्गलार्थ स्वस्त्ययन यज्ञस्तासां प्रजापतेः । प्रयुज्यते विवाहे तु प्रदानं त्वाम्यकारणम्" इति । प्रदानं स्वाम्य- कारणं-प्रदानेनैव कन्यायां वरत्य स्वाम्य जायते दातुः स्वाम्यं निवर्तत इति रत्नाकरः । नचानेन दानमात्रस्य स्वाम्यकारणत्वमभिहितं न तु प्रतिग्रहस्येति वाच्यम् । दानस्य प्रतिग्रहपर्यन्तत्वात् । स्वनिरूप्कपतिनाशादिदोषानश्वरत्वविशिष्टस्वत्वोत्पत्तिस्तु सक्षपदी. परिणयनान्तकर्मरूपद्वितीयप्रतिग्रहसहकारेणैव । अत एव कन्यादानानन्तरं "गृभ्णामि ते सौभगत्वाय हस्तमित्येवमुक्तपाणिग्रहणमस्कारात्पूर्व वरमरणे वरान्तराय कन्यापितृक. तकं पुनहान सङ्गच्छते । तथाच वसिष्ठः "अद्भिर्वाचा च दत्तायां मृत ऊच बरोयदि। न च मन्त्रीपनीता स्यात्कुमारी पितुरेव सेति । एतद्वचनव्याख्याने रत्नाकरः । कन्यायाः सदानं यन्मन्वादिभिरुक्तन्तत्पाणिग्रहणान्तसंस्कारवत्कन्याविषयमिति ॥
विवाहविधिः। [१ प्रपाठके. दानानुपपत्तेः । तदुक्तं गृह्यासङ्ग्रहे- "पुनरुक्तमतिक्रान्तं यच्च सिंहावलोकितम । गोभिलेोक्तेन गृह्यन्ति न ते ज्ञा यन्ति गौभिलम् ॥" इति । गौभिलं-गोभिलकृतं गृह्यसूत्रम् । अतएव भाष्यकृतोऽपि-अनुपद. मुल्लिष्यमाणसूत्रे "परिदध्यादितिपदमुपादाय “पतिस्ताङ्कन्यामादत्तां सती परिधापयेत्"इतिव्याख्यातवन्तः ।। यत्तु कन्यादानानन्तरमेवाग्निस्थापनमिति तन्न “वराय शुचिसन्निधौ" इति कातीयसमयोद्बोधकवक्ष्यमाणबृहस्पतिवचनविरोधात् । शुचिरग्निः । 'शुचिमाग्निशृङ्गारेष्वि"ति मेदिनी। “अभ्युदानयनि"ति (२२१२१९) सू त्रविरोधाच्च । वीरेश्वरादिपद्धतिस्वरसोऽप्येवम् । मण्डपानयनानन्तरं कन्याया द्विराचमनम् । द्विराचामेदित्यनुवृत्तौ-"प्रारम्भे शुभकर्मणाम्" इति स्कन्दपुरा. रणवचनात् । वराचमनन्तु-अब्राह्मणादिस्पर्शसम्भवे । वीरेश्वरादिपद्धतिरप्येवम् कन्यादानाधिकारिण: पूर्वमुक्ताः (२।१।१२) तत्रर्तुमत्याः प्रदाने दोषमाह "अप्रयच्छन्समाप्नोति ब्रह्महत्यामृतावृतौ । गम्यन्त्वभावे दातृणाङ्कन्या कुर्यात्स्वयं वरम् ।।" इति । गम्यम्-गमनाहन्नारदोक्तसवर्णत्वादिधर्मवन्तम । कन्यैव वरयेत् । तदेततुत्रयान्ते बाद्धव्यम(१)। तथा च विष्णुः- "ऋतुत्रयमपाकृत्य कन्या कुर्यात्स्वयं वरम् । ऋतुत्रये व्यतीते तु प्रभवत्यात्मनस्तु सा। पितृवेश्मनि या नारी रजः पश्यत्यसंस्कृता। सा कन्या वृषली ज्ञेया हरंस्तां न च दुष्यति ॥" याज्ञवल्क्यः Mon (१) मनुस्तु-"त्रीणि वर्षाण्युपासीत कुमायूतुमतो सती । अव॑न्तु कालादेतस्मा द्विन्देत सदृश पतिम् ॥ अदीयमाना भर्तारमभिगच्छेत्स्वयन्तु सा । मैनः किञ्चिदवा. प्नोति न च यं साऽधिगच्छति ॥ अलङ्कारवाददीत पितृदत्तं स्वयंवरा । मातृतीभ्रातृदत्त वा स्तयं स्याद्यदि सा हरेत् ॥ पित्रे न दद्याच्छुल्कन्तु कन्यामृतुमती हरन् । स हि स्वा. म्यादतिक्रामेतूनां प्रतिरोधनात् ॥” इति। एनः पापमसतीत्वनिबन्धनम् । अत्रेदे बोध्यम् । योहि- "पितृगेहे तु या कन्या रजः पश्यत्यसंस्कृता। भ्रूणहत्या पितुस्तस्याः कन्या सावृषली एमृता ॥ यस्तु तां वरयेत्कन्यां ब्राह्मणाज्ञानदुर्बलः । अश्रद्धेयमपाकतेयं तं विद्यावृष- लोपतिम् ॥ इति काश्यपात्रिभ्यां व पतरि दोष उक्तः स कन्ययाऽधिगम्यमाने वरे नास्तीति न च यं साऽधिगच्छतीसत्यनेनाच्यते ? अत्र विष्णूक्त त्रयप्रतीक्षणं सदृश. वरलाभेऽपि पित्रादीनामुपेक्षादौ बोध्यम् ॥ पित्रादीनां यत्नवतामपि केनचिद्धतुना दा. नासम्भवे तु वनय प्रतीक्षरणं युक्त मेव॥
१ कण्डिका ] गोभिलगृह्यसूत्रे- १२९ g GOD asta असंस्कृता-विवाहसंस्कार(१)मनापन्ना । यत्तु-मनुवचनम्- "काममामरणात्तिष्ठेद्गृहे कन्यत्त मत्यपि। जातु तां न प्रयच्छेत गुणहीनाय कहिचित् ।।" इति । तन्न तावत्कालं कन्याधारणं बोधयति । किन्तु ततोऽपि (२)निर्गु- यणाय दानमत्यन्तनिषिद्धम् । “वरं विषम्भुञ्चे" तिवत् । तथाच स्मृत्यन्तरम्- "माता चैव पिता चैव ज्येष्ठोभ्राता तथैव च । त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ।।" इति । कात्यायन:- "स्वयमेवौरसीन्दद्यात्पित्रमावे स्वबान्धवाः ! मातामहस्ततोऽन्यां हि माता वा धर्मजां सुताम् ।। दीर्घप्रवासयुक्तेषु पोगण्डेषु च बन्धुषु । माता तु समये दद्यादौरसीमपि कन्यकाम् । गम्यन्वभावे दातणां कन्या कुर्यास्ववं वरम् ॥" इति । स्वयं-पिता । स्वपदेन कन्या तद्वान्धवाः पितामहादयोयाज्ञवल्क्यो काः । ततोऽन्यामनौरसीम् । वाशब्द एवार्थ । धर्मजां-नियोगधर्मेणोत्पादिताम्।। पोगाण्डोव्यवहारासमर्थः । “विकलाङ्गस्तुपोगण्ड" इत्यमरः । समये-कन्या- दानोचिते। स च सम्यग्वानि(३)पत्त्यनन्तराऽऽधरजोदर्शनात्याकालीन एव । ----- (१) अत्रेद बोध्यम् विवाहकाले कन्यारजोदर्शने कन्यायाः प्रायश्चित्तम् “उपोष्य निदिन कन्या रात्रौ पीत्वा गवां पयः । अदृष्टरजसे दद्यात्कन्यायै रत्नभूषणम् । इति । एवम् “तामुद्वहन्वरश्चापि कृष्माण्डैर्जुहुयाघृतम्" इत्याश्वलायनोकवचनमेवशरणीकर- णीयम् अत्र सहाथें तृतीया बोध्या ॥ (२) ऋतुमतीलरक्षणपापापि ॥ (३) सम्यक्-स्फुष्टाचासौ वाक् चेत्येवं विग्रहः । अन्नाहुः "वैवाहिकोविधिस्त्री. णामौपनायनिकः स्मृतः। पतिसेवा गुरौ वासो, गृहार्थोऽग्निपरिक्रिया इतिमनु-याज्ञव. ल्क्यादिभिरमिधानाधथावर्णम्-"गर्भाष्टमेऽष्टमे वादे ब्राह्मणस्योपनायनम् । राज्ञामे. कादशे सैके विशामेके यथाकुलम् ॥" इतियाज्ञवल्क्योक्तस्तस्य मुख्यः कालः । तत्रापि- "ब्रह्मवर्चसकामस्य कार्योंविप्रस्य पञ्चमे। राज्ञोबालर्थिनः पष्टे वक्ष्यस्येहार्थिनो- ऽष्टमे ॥ इति मनुनाऽभिधानासकामस्यायमपि मुख्य एव । गौणस्तु- "आषोड़शाब्राह्मणस्य सावित्री नातिवर्चते । आ द्वाविंशाच्छत्रबन्धोराचतुर्विशतेवि. शः" इति तेनैवाभिहितः । कन्याविवाहे तु-रजोदर्शनस्य गर्हितत्त्वात्तत्प्राक्तन एवं समयः। तच्च ( रजोदर्शनम् ) देश-खाद्यपदार्थभेदेनानियतकालिकमिति तत्प्रादुर्भा. वात्प्राक् अन्तारजोऽवगम एव तत्प्रापकः । अत्र मुरारिमिश्राः। वस्तुत औपनायनिक उपनयनकार्यकारोतिकुल्लूका दिव्याख्यानदर्शनास्त्रीणां विवाहः संस्कार इत्यायाति । न तु तत्कालेन कालवत्ता। न च कालातिदेश एवायम् । अन्यतराप्रामाण्यापत्तिभयेन विकल्पप्रसङ्गात् ।स्वोत्तरार्द्धविरोधाच्च । न च "अतध्वं रजस्वलेशत्युपदेशेन तदेशेऽति- १७ गो० गृ० सू० Mamme विवाहावाधा। पाठक- तत्परिज्ञानञ्चान्तारजोऽवगतिसापेक्षं यदेतन्मात्रादिभिरदुर्विज्ञेयम्भवति । यद्वि- षये च सूत्रयिष्यति "नग्निका तु श्रेष्ठे"-(३।४।६)ति(१)। गम्यं सङ्गमनाहम विवाहयोग्यम् । अत्रेदं बोध्यम् । दातुर्नग्निका श्रेष्ठा। यथाह-वशिष्ठः- "तस्मात्रग्निका दातव्ये"-ति । नग्निकालक्षणन्तु--- "यावन्न लज्जयाऽत्यर्थङ्कन्या पुरुषसन्निधौ । योन्यादीनुपगृहेत तावद्भवति नग्निका ॥" इति स्मृत्युक्तम् । अत्रार्थं आग्नेयमभिधानमपि "नग्निकाऽनागनातवे" ति। आर्तवमृतुः । स्वार्थेऽण (पा०५।४।३८) प्रत्ययः । अतएव "प्राग्वासः प्रतिपत्तेरि"-त्युक्तम् । सैषा दातुः श्रेष्ठा । प्रतिग्रहीतुस्तु- देशवाध एव कल्पनीयत्वेनातिदेशस्य दुर्बळत्वादिति वाच्यम् । निग्निका तु श्रेष्ठे-" (गो० ३।४६ ) त्युपदेशेनात्राप्यतिदेशवाधस्य तुल्यत्वात् । तस्मात्प्रमे पति था नः पन्था इति मन्त्रस्य कन्यापठनीयत्वेन वाहिनष्पत्तेपेक्षिततया तदनन्तरं फलविशेषा. थितया सामनयन्तरापेक्षया वा कन्याविनाहे शिष्टानां कालविलम्बोन त्वधिकाविलम्बे. नेति मम प्रतिभातीति ॥ अत्रेदं बोध्यम् । वानिष्पत्तावपि चतुर्वर्षाभ्यन्तरे कन्या नोद्वा. ह्या । यतोजननाद्वर्षद्वयं यावत्सोमस्य ततस्तावदेव सूर्यस्य तन्त्र भोगाधिकारस्था (२०१॥ १६)ले वर्णयिष्यमाणत्वात् । ततश्च-पञ्च मादिषु-मनुक्कसकामोपनयनकालेषु द्विजातिक न्यानामग्निसाक्षिकोविवाहस्ततोग्ने, "स्सोमोऽददित्यादिमन्त्रास्नातः कथञ्चिदुपपद्यते । वस्तुतस्तु-"अनवाप्रजा गौरी प्राप्ते रजसि रोहिणी। अव्यञ्जनकुचा कन्या कुचहीना च ननिकेति भविष्यपुराणवचनात् "सप्तवर्षा भवेद्वौरी दशवर्षा च कन्यके"-त्येवम्पुराणान्त. रसवांदाच कुचहीना दशवर्षा च विवाहिता प्रशस्ता भवतीति सैव नग्निकापदार्थः। अन्न व्यञ्जनंकुचादन्यस्य रोमादेः ॥ अन्येत्वाहुः "सप्तवर्या भवेद्गौरी"त्युक्त्या "सप्तसव्यत्सरा. दूध्वं विवाहः सार्ववणिकः । कन्यायाः शस्यते राजन्नन्यथा धर्मगहितः" इति वचना. तिरसादेन । एवम् "अष्टवर्षाभवेगौरी"त्युकाऽगिराववनेन च "विवाहस्त्वष्टवर्षायाः कन्यायाः शस्यते बुधैरिणति सबर्तवाक्यै कमूलकतया गर्भाष्टमपरतवोनेयम् । “गर्भा. ष्टमेऽन्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञोगर्भात्तु द्वादशे विशः ।" इति मनुनोपनयनकालस्य पुंसि तथैवाभिधानात्तत्स्थानीयेविवाहेऽपि स एव समय आदर्तव्य इतिसार्वजनीनः पन्थाः । (१) अन वदान्त-योग्यवरप्राप्त्यनन्तरमप्रासविवाहवयस्कोमपि कन्यां दद्यादिति । तथाच मनुः "उत्कष्टायाभिरूपाय वराय सहशाय च। अप्रासामर्पितान्तस्मै कन्यांदद्या. यथाविधिः ॥ इति । (९०) एतद्वयाख्यानं मन्वर्थमुक्तावल्यां कुल्लुकीयम्-कुलाचारा. दिभिरुत्कृष्टाय सुरूपाय समानजातीयवरायाप्रासकालामपि "विवाहयेदष्टवर्षामेवन्धर्मों न हीयते” इति दक्षस्मरणादिति । तथाचान्तारजोदर्शनरूपविवाहकालाप्राप्तावपि योग्य. वरला कन्यादानमुत्तमम् । एवमुत्कृष्टवरप्राप्तौ वाचा दत्तामपि कन्यामयोग्याय न दद्यादित्यस्याह मनुरेव "दत्तामपि हरेत् कन्यां श्रेयांश्चेदर आव्रजेदिति आव्रजेत्- स्पलम्थेत । इति। - ..
MMAR गोभिलगृह्यसूत्रे- कण्डिका] १ ALANKAR "एष्टव्या बहवः पुत्रा योकोऽपि गयां व्रजेत् । गौरी वाऽप्युद्वहेद्भार्या नीलं वा वृषमुत्सृजेत् ।।" इति स्मृत्या गौरीपरिणय एव श्रेयान् । सा च- "अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी। दशवर्षा भवेत्कन्या तदूर्वन्तु रजस्वला ॥" इत्यङ्गिरसोक्ता । तत्फलमपि सएवाह- "गौरीन्ददद्विष्णुलोकं ब्रह्मलोक्तञ्च रोहिणीम् । कन्यान्ददत्स्वर्गलोकं रौरवञ्च रजस्वलाम् ।।" इति । अत एवैतागौरीमभिप्रेत्यैव मनुनाऽपि प्रथममष्टवषैव (१)प्राप्त- यौवेनेनोपेया। तरुणेन तु द्वादशवर्षापीत्युक्तम् । यथा- "त्रिंशद्वर्षावहेत्कन्यां हृद्या द्वादशवार्षिकीम् । त्र्यष्टवर्षोऽष्टवर्षा वा धर्मे सीदति सत्वरः ॥” इति । अत्र द्वादशवर्षादरः कन्याप्रदानसमयसीमाऽवबोधकस्तथाच स्मर्यते । "प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति । REENato इति । वस्तुतस्तु-गौरीपदेनाऽपि नग्निकैवोच्यते यथाहाचार्य-(गो०) पुत्रोगृह्यासङ्ग्रहे- "नग्निकान्तु वदेत्कन्यां यावन्नत्तुमती भवेत् । ऋतुमती त्वनग्निका तां प्रयच्छेत्तु नग्निकाम् ।। अप्राप्ता रजसोगौरी प्राप्ते रजसि रोहिणी । अव्यजिता भवेत्कन्या कुचहीना तु नग्निका।। व्यञ्जनस्तु समुत्पन्नैः सोमोमुक्तेऽथ ( जीत ) कन्यकाम् ।। पयोधरैस्तु गन्धर्वा रजसाऽग्निः प्रकीर्तितम् (२)। तस्मादव्यन्जनोपेता अरजा(३) अपयोधरा ।। (१) तथाच सुश्रुतः । "आ षोडशावृद्धिरा पञ्चविंशतेयावनमाचत्वारिंशतः स्थि. रता ततःकिञ्चिद्धास" इति। अन्न आअभिविधौ । षोडशवर्षमारभ्येत्येवन्तदर्थः । एतेन ( वरवयः कथनेन ) कन्यातस्विगुणस्साद्विगणोवास उत्तमइत्युक्तम्भवति । अत एव पञ्चदशवर्षदेशीयेन रामेणषष्वर्षा मैथिलो समुपायतेति पुराणेषु श्रयते। "राज्ञोवल. निःषष्ठे इतिमानवस्मरणात् । एतच्च सकाम-(विशेषकामना)-विषयमित्यवो. (२) अन्न व्यञ्जनैरित्याधुपलक्षणे तृतीया। व्यञ्जनेर्लोमादिभिरुपलक्षितामित्ये. वमर्थः । अत्र "इति आचायेंणे-ति शेषः । अत्र प्रकोत्तित, इत्यपपाठः ॥ (३) अन्न द्वितीयान्ततया पाठे रजाशब्दोऽनादन्तः। "ये सान्तास्तेऽदन्ताः" इति. प्रायोवाददर्शनात् । अतएव "पिण्डन्दद्याद्याशिरे।" इतिस्मयते ॥ किन्तु तथापाठे तुरीय चरणे प्रथमान्ततया पाठोऽनोपपद्यते ॥ चाम॥
१३२ विवाहविधिः। [प्रपाठके । 6 अभुक्ता चैव सोमाद्यैः कन्यका तु प्रशस्यते ॥" इति । तदनेनाव्य(१)जनाऽरजस्काऽपयोधरा सोमाद्यैरभुक्ता कन्या प्रा. चार्येण प्रशश्यते । "नग्निका तु श्रेष्ठे"-(३।४।६) ति सूत्रेण(२) । अत्र तुशब्द- मभिदधान आचार्योऽस्याः प्रदानस्य विशेषतां सूचितवान् । यथाचाहाङ्गिराः- "सर्वेषामेव दानानामेकजन्मानुगं फलम् । हाटक-क्षिति-गौरीणां सप्तजन्मानुगम्फलम् ॥" इति । तथा च तत्तदपेक्षया नग्निकाऽधिकफलदात्रीति गोभिलीयतुश- दार्थः ॥ ( अथकन्यादानफलम् ) भविष्ये- "ब्रह्मदेयान्तु यः कन्यामलङ्कृत्य प्रयच्छति । सप्तभूतान्भविष्यांश्च स्वकुले सप्त मानवान् ।। तेन कन्याप्रदानेन तारयिष्यत्यसंशयम् । लोकमाप्नोति हि तथा दक्षस्यैव प्रजापतेः ।। कन्यया सह दत्तं हि द्रव्यय्यद्वसनादिकम् । सर्व, शतगुणन्तस्य फलमुक्तं पुरातनैः । विष्णुपूजासमं पुण्यं भवेत्तत्पूजया ध्रुवम् ॥ इति । तत्पूजया-वरपूजया । “विप्रोऽसौ विष्णुरूपेण प्रतिगृह्णात्वमुं वधिम् ।" इति कन्यादानकाले पठितमन्त्रशेषदर्शनात् । कश्यपः- "अग्निष्टामातिरात्राणां शतं शतगुणीकृतम् । तत्फलकन्यकान्दत्वा मन्त्रहोमैरलङ्कृताम् ॥" इति । अलङ्कृतां कन्याम्मन्त्रैहोंमैश्च दत्त्वा दानविधि सम्यक्सम्पाद्य । लेङ्गपुराणम्- "यावन्ति सन्ति रोमाणि कन्यकायास्तनौ पुनः । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ दासीदासासनाद्यञ्च भूषणाच्छादनादिकम् । क्षेत्राणि च धनञ्चापि तथान्यदपि दापयेत् ॥ यत्किञ्चिद्दीयते तत्र तदानन्त्याय कल्पते ॥" इति । दापयेत्-दद्यात् । स्वार्थे णिच् "रामाराज्यमचीकरदि-तिवत् ।। अत्र सव्वतः। (१)व्याने रोमादि । (१) अत्रैवं सुव्यवमुक्तवताचार्यपुत्रेणेदमेव सूत्रं व्याण्यातमित्यवगच्छामः॥ - गोभिलगृह्यसूत्रे- १ कण्डिका BANAON "अलङ्कृत्य तु यः कन्यां भूषणाच्छादनादिभिः। दद्यात्स्वगमवाप्नोति पूज्यते वासवादिभिः ॥" इति । अत्र “यच्छब्देन तु तच्छब्दोबोद्धव्यः स्यादुदाहृतः” इतियोगिवच. नात्स इत्यध्याहार्यम् । तथाच पद्धतिकृतोवीरेश्वरादयोऽपि "स्वर्गकाम” इत्येव कन्यादानसङ्कल्पवाक्ये लिखितवन्तः । युक्तञ्चैतत् । “अलङ्कृत्य कन्यान्दद्या- दि'-त्यम्यूहिते विधिवाक्ये "स: स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादि"-ति जैमि- नीयदर्शनेन विश्वजिन्न्यायएवाऽऽस्थेयः । अत एवान्यकृतकन्यादानपक्षेऽपि "कन्यापितुः स्वर्गकाम” इत्येवमेव सङ्कल्पवाक्ये (१)समुल्लिखन्ति शिष्टाः ।। विष्णुधर्मोत्तरे- "अनाथाङ्कन्यकान्दत्त्वा सहशे वाऽधिके वरे। द्विगुणं फलमाप्नोति कन्यादाने यदीरितम् ॥" इति । स्मृतिः- "सर्वत्र प्रामुखोदोता ग्रहीता चाप्युदङ्मुखः । एषदानविधिः प्रोक्तोविवाहे तु विपर्ययः ॥" इति । अत्र विपर्ययपदन्न प्रकृतवैपरीत्यमात्रपरमनेकविरोधादपि तु दातृ- प्रतिग्रहीत्रोः प्रत्यक्प्राङ्मुखत्वपरमिति । तथाच बृहस्पतिः । "प्राङमुखयाऽभिरूपाय वराय शुचिसन्निधौ । दद्यात्प्रत्यङ्मुखः कन्यां क्षणे लक्षणसंयुतः(२) ॥" इति । शुचिरग्निः । “शुचिर्णीष्माग्निशृङ्गारेवि"ति मेदिनी । क्षणे-शुभे मुहूर्ते । मनु:- (१) अन शुभकर्मनिर्णये मुशारमिश्रा:-"यावन्ती"-त्याधुक्त लिङ्गपुरोणादि. वचनान्युपादाय-"तदेतेषां दानफलानां योगसिद्धिन्यायेन विकल्पेनान्वयादेकदानेन कामनाविषयस्यैकल्यैव फलस्य सिद्धिः। अन्यथा तत्तत्संहितार्थवादमात्रस्य प्रवृत्त्या प्रयोजकत्वे संहिताक स्तत्करणानर्थक्यापत्तिः । एवञ्च प्रत्येकफलकामनवाधिकारिविशे. षणम् । अत एव "श्रीकामः शान्तिकामावा ग्रहयज्ञ समाचरेत् । वृत्यायुः पुष्टिकामोवा. तथैवाभिचरनपि" इत्यादौ विधिवाक्ये प्रत्येकफलकामनैदाधिकारिविशेषणम् । प्रत्ये. कोपस्थानेऽन्वया "यद्यदाकाशित योग्यमिग-ति न्यायात् । अतएव भोजराजोऽपि-"श्री कामः शान्तिकामोवृष्टिकामः पुष्टिकाम" इति लिखतिस्म । समुच्चये बाधकाभावेनैक देव सर्वेषाम्फलानां विधिसमन्वयाभावादिति । एवञ्चार्थवादोऽपि यत्र प्रत्येक क्रिया- समाधि शब्दश्रवणं वा तत्र प्रत्येकमेव फलसम्बन्धः। दशहरादौ विविगमनाविरहादे- कदेव सर्वेषां विविसमन्वयादविधपापक्षयरूपफलकामस्याधिकारः । अत एव "शर- स्काले महापूजेत्युपक्रम्य “भविष्यति न संशयः इत्युपसंहारात्तत्र तावदेव फलमिति । भन्न व स्वगतफलकामवस्पित्रादिगतफलकामाऽप्यधिकारीति वदन्ति । इति॥ (२) अन्न ससम्यन्त पाठः साधीयान्प्रतिभाति । विवाहसमयज्ञापक इति तदर्थः । MARA वाहापा। । प्रपाठक Sen "अद्भिरेव द्विजाप्रयाणाङ्कन्यादानं प्रशस्यते । इतरेषान्तु वणोनामितरेतरकाम्यया ॥" (अ०३ श्लो० ३५) इति । उदकदानपूर्वकमेव ब्राह्मणानाङ्कन्यादानं प्रशस्तं क्षत्रियादीनाम्पुन- विनाऽप्युदकं परस्परेच्छया वाङ्मात्रेणापि कन्यादानम्भवति । उदकपूर्वकमपी- त्यनियमः ॥ ऋष्यशृङ्गः । "वरगोत्रं समुच्चार्य प्रपितामहपूर्वकम् । मधुपर्कार्चितायनां दद्यात्कन्यां सदक्षिणाम् ॥" इति । सदक्षिणामिति । तथाच व्यासः- "श्रद्धायुक्तः शुचिर्दान्तोदानन्दद्यात्सदक्षिणम् । अदक्षिणन्तु यहानं तत्सर्वनिष्फलं भवेत् ।। दक्षिणाभिरुपेतं हि कर्मसिद्धयति मादवे । सुवर्णमेव सर्वासु दक्षिणासु विधीय (शिष्य ) ते ॥" इति । सुवर्णपदमिह विशेषविहितदक्षिणेतरपरं तेनोत्तरविवाहान्ते गौई. क्षिणेति वक्ष्यति । इह तु सुवर्णन्तौलकमितं स्वर्गकामके कर्मणि तस्यैव विशि- ध्य विधानात् । तथा च हेमाद्रौ नन्दिपुराणम्- "कृष्णलाः पश्च माषस्तु माषैः षोड़शभिः स्मृतम् । सुवर्णमेकन्तदानादाता स्वर्गमवाप्नुयात् ॥" इति । "सुवर्णशब्दोऽयं ( कन्यादानादिदक्षिणाविशेषपरः) पुल्लिङ्गएवा. गीतिगुजापरिमितहिरण्यवचनः प्रयोज्योनपुंसकन्तु तत्रचान्यत्रचे"तिमुरारि- मिश्रा अप्याहुः॥ तथा च मनुरपि- "पञ्चकृष्णलकोमाषस्ते सुवर्णस्तु षोडश' इति ।। गोमिथुनश्चापि सुवर्णाभावेऽत्र दक्षिणात्वेन वीरेश्वरानिभिःपद्धतिकृनि- हरिहरादिभि-(पार ) गुंह्यभाष्यक(१)द्भिश्चोक्तमितिध्येयम् ।। आश्वलायन:- "कन्यां वरयमाणानामेष धम्मोविधीयते । प्रत्यङ्मुखावरयन्ति प्राङ्मुखा प्रतिगृह्यते ॥ उभयस्यापि पक्षस्य पैतापौत्रीन्त्रिरभ्यसेत् ॥" इति । पैतापौत्रीमिति पदमुभयपदवृद्ध्या त्रैवार्षिकमितिवदिति मुरारि- मेश्राः । पितृनिर्देशानन्तरं पुत्रनिर्देशकर्तव्यतामात्रपरत्वेऽप्येतस्य, यद्दानवाक्ये (१) गोमिलोऽपि "गोदाने (षोड़शे वर्षे क्रियमाणे ) "गोमिथुनं दक्षिणा ब्राह्म: स्य" "अश्वमिथुन क्षत्रियस्या "गौ.वसर्वेषामिति वक्ष्यति (३३१०६-७)। अन्न चिदाविवाहे गोमिथुनं दक्षिणेति वदन्ति ।
१ कण्डिका] गोभिलगृह्यसूत्र- १३५ प्राक्प्रपितामहनिर्देशस्तद्वाक्यान्तरैकवाक्या क्यताबलात् । तथाच कात्यायन: "नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् । वाक्यमुच्चार ये(१)द्धीमानन्यत्र पितृपूर्वकम् ।।" इति । अत्रनान्दीमुखं विवाह विशेषणम् । नान्दी समृद्धिः । चकारस्तु पूर्वो. तकर्मसमुच्चयपरः॥ परिशिष्टान्तरम्--- "आर्षङ्गोत्रं समुच्चार्य प्रदद्याच्छद्धयाऽन्वितः । परितुष्टेन भावेन "तुभ्यं सम्प्रदे" इति ॥" इति । आर्ष-प्रवरम । स्मृति:- "मासपक्षतिथीनाञ्च निमित्तानाञ्च सर्वशः। उलेखनमकुर्वाणो न तस्य फलमश्नुते॥" इति । तस्यदानादेः कर्मणः । अत्र सर्वपदार्थप्रधानद्वन्द्वबलान्मासादीनां नैकोपसर्जनत्वेनापरोल्लेखः । किन्तु सर्वेषाम्प्राधान्येनैव । तेनाऽमुकेमास्यमु(२)के पक्षेऽमुकतिथावित्यभिलापाकारः सर्वत्रेति वदन्ति । तेनामुकमासीयेत्यादिसङ्क. ल्पवाक्योल्लेखश्चिन्त्य एव । विष्णुधर्मोत्तरे-- "अभयं सर्वदैवत्यं भूमिद॑विष्णुदैवता । कन्या दासस्तथा दासी प्राजापत्याः प्रकीर्तिताः । करे गृह्य तथा कन्यां दासदास्योर्द्विजोत्तमाः । करन्तु हृदि विन्यस्य धम्मोंज्ञेयःप्रतिग्रहः॥" तथा-"समापयेत्ततः पश्चात्कामं स्तुत्वा प्रतिग्रहम् ॥" इति । अत्र कामस्तुतौ शाखान्तराद्विशेषः पद्धतौ (गोभिलीये ) द्रष्टव्यः ।। कन्यादानादिवाक्येऽपि मासादिकीर्तनं सकृदेव आवृत्तौ मानाभावात् । ततोऽ मुकशर्मणः पुत्रीमित्येतद्घटितवाक्यस्य त्रिरभ्यास इतिस्मर्त्तव्यम् । शङ्खस्थ- तोयेनयदेतदानं तत्राजानिकाचार एव मानम् । वरस्य विष्णुरूपेणानुध्यानाद्वा । दानान्तरसाधारणमन्यत् ।। GURU (१) अत्र मुरारिमिश्रा:-उच्चारये दित्यत्र स्वार्थेणिच् । “रामोराज्यमचीकरदि- तिवत् । दाता वदेदित्यादिस्वरसात् । अत एवान्यद्वारा वाक्योच्चारणं पाश्चात्यानान्दुरा. चारः। मुलाभावेनान्धपरम्परानुपातत्वात् । शूद्रादेस्तु-"अमन्त्रकस्य शूद्रस्य विप्रा मन्त्रेण गृह्णते" इति स्मरणायुक्तम् ॥ इति । (.) “अत्रामुके मासे" इत्येवं सङ्कल्पवाक्यमनुपपन्नमेव । शास्त्रातिशययोगस्य फलातिशयाधायकत्वस्मरणात । तथाच महाभाष्यं "नाकपृष्ठं सुखं यान्ति येऽचीकमत. भाषिणः । ते च पत्काषिणोयान्ति ये चrisकमतभाषणः" इति । श्रुतिश्च "एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः शास्त्रान्वितः स्वर्गे लोके च कामधुग्भवतीति। शास्त्रान्वितः विशेषैः (स, रेवयथायोग) शासैः संस्कृत इत्यर्थः ॥
विवाहविधिः। [ २ प्रपाठके. adam । विवाहानुवृत्तौ शक्लिखितौ- "सर्वैरलङ्कारः स्त्रीधनञ्च देयम्" इति । द्वयमपि चेदं यथाशक्तीति राना- करः । मनु:- "न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कमण्वपि । गृहन्छुल्क हि लोभेन स्यान्नरोऽपत्यांवक्रयी । स्त्रीधनानि तु ये मोहादुपजीवन्ति मानवाः । नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ।। आर्षे गोमिथुन(१)शुक्लं केचिदाहुम॒षैव तत् । अल्पोऽप्येवं महान्वापि विक्रयस्तावदेव सः ॥" इति । विद्वान्-शुक्लग्रहणेन कन्याविक्रयदोषाभिज्ञः। अपत्यविक्रयोति । अनेनापत्यविक्रयप्रायश्चित्तभिया न गृह्णायाच्छुल्कमिति वाक्यार्थः । स्त्रोध. (१)तथाच "एकं गोमिथुनं द्वे वा वरादाय धर्मतः । कन्याप्रदानं विधिवदार्थों धर्मः स उच्यते ।" इति । (३।२९) स्त्रीगवी पुङ्गवश्वगोमिथुनम् । तदेकं द्वे वा वरात धर्मतः । धर्मार्थम् । सार्वविभक्तिकस्तसिः । यागादिसिद्धये कन्यागै वा दातुं न शुल्कबुद्धया आदाय-गृहीत्वा यद्यथाशास्त्र कन्यादान स आषं ऋषीणामयन्धर्मः। अर्थात् स विवाहोधयं एवेति तदर्थः। एवम् अल्पेनाऽपि हि द्रव्येणे-त्यापस्तम्बोयेऽनुपद प्रद. यिष्यमाणे वचने प्रकृत्यादितृतीयया (पा० २।३।१४) तद्ग्रहणपूर्वकं कन्यादान बहुव. व्यापकश्लेष्मादिभोजकनरकप्रदमिति यदुक्तन्तत्सर्वमपि स्वपोषणबुवा ग्रहणनिषेध तात्पर्यकमिति ममप्रतिभति । अतएव कन्यागै दातुं न शुल्कबुद्धोति कुल्लूकमहेव्या. ख्यानमस्य साधु सङ्गच्छते । सव्वदतिच्चामुमर्थमतोऽतनं मानवीयं वचनम् । "यासी नाददते शुक्लं ज्ञातयोन स विक्रयः। अर्हणतत्कुमारीणामानृशंस्यं च केवलम् ॥” इति । यासां कन्यानां प्रीत्या-( उत्कृष्टाभिजात्यादिसद्गुणलाभलोभेन ) वरेण दीयमानं धनं पित्रादयोन गृह्णन्ति किन्तु कन्याग समर्पयन्ति वराय वा योतकादिरूपेण प्रयच्छन्ति। सोऽपि न विक्रयः । यस्मात्कुमारीणामहणम्पूजनन्तत आनृशंस्यमहिसकं (विधिव- संप्रदानविधेरलोपक) केवलन्तदनुकम्पारूपम्। कन्या हि-वरात्तावद्ग्रहणेनानुकम्प्यते । याहि सत्कुलाभिजनादिलामलोभे नार्थप्रदानपूर्वक कन्या पितुर्ग्रहीता भवति सा वरेण सबै. दातितराम्मान्यते नान्या। तस्मात्कन्यासत्कृतये, नात्मसात्करणाय वरपक्षाद्धनग्रहणं यदि वरागैवाहणाबुद्या कन्यागैवा यौतकादिबुद्ध्या दीयते तर्हि नानृतम्भवतीति सकल. शिष्टैराचरितःपन्थाः । निषेधश्च स्वोपभोगल्यैवेति स्थितिः। अतएव विशिष्टशिष्टक्षत्रिये. ध्वपि कुलाभिमानेन कन्याशुक्लग्रहणं पुराणेष्वपि दृश्यते । तथाच श्रीमद्भागवते (स्क०९ अ० १५) "गाधिरासीत्कुशात्मजः । तस्य सत्यवतोडन्यामृचीकोऽयाचतद्विजः ॥ वरं विसहश मत्वा गाधिर्भार्गवमब्रवीत्। एकतः श्यामकर्णानां हयानां चन्द्रवचेसाम्। सहस्त्र. न्दीयतां शुक्लं कन्यायाः कुशिका वयम् ॥” इति । कुशिकाः कुशिकान्वयभुवः । इयं कुलाभिमानोक्तिः । तथाच कुलाभिमानरक्षणाय वरपक्षात् शुक्ग्रहणम्पुराप्यासीदिदानी. मपि कुलीनेषु मैथिलादिषु दृश्यते । परमेतवस्त्रोपभोगायेत्यसकदवाचाम ॥ - । ।
१ कण्डिका E- गोभिलगृह्यसूत्रे नानि-कन्यादानौ-पयिकधनानि । आपस्तम्बः- "अल्पेनाऽपि हि द्रव्येण यस्तुकन्यां प्रयच्छति । श्लेष्ममूत्रपुरीषाणि बहून्वर्षान्सम(१)श्नुते ।।" इति ।। एवमनेकानर्थहेतुत्वात्तदुक्तफलहानिप्रसङ्गाच पित्रा अन्येन वा केनापि स्त्री- विवाहोपाधिना धनत्रयाहामिति ॥ १७॥ अहतेन वसनेन पतिः परिदध्यात् “याअकृन्तन्" इत्येतयों । "परिधत्त धत्त वाससे-"ति च ॥१७॥ (म-ब्रा-१।११५.६) अहतेनेति । अत्राहतलक्षणमुक्तं गृह्यासङ्ग्रहे-- "सकृद्धौतं नवं श्वेतं सदसय्यन्न धारितम् । अहतन्तद्विजानीयात्सर्वकर्मसु पावनम् ॥" इति । अत्र श्वेतमित्युपलक्षणं नीलातिरिक्तस्य । तस्य विशिष्य शुभकर्म: सु शास्त्रतोलोकतश्च निषिद्धत्वात् । तेनोक्तलक्षणलक्षितेन वसनेन वस्त्रेण पतिः यस्याः पाणिं ग्रहीष्यन्भवति ताम् । परिदध्यात्-अन्तर्भावितण्यर्थतया परि- धापयेत् । अध उपरि च वेष्टनं गात्राणाङ्कारयेदित्यर्थः । कुत एतत् ? मन्त्रद्व- योपदेशात् “परिधत्स्व” “परिधत्त" इति मन्त्रलिङ्गदर्शनात् । गृह्यान्तरे परि- धापनोपदेशाच्च । तथा च गृह्यान्तरम्- "अथैनां वास:परिधापयति" इति “अथोत्तरीयम्" इति च । (पा-गृ०४।१२) "द्विकच्छः कच्छशेषश्च मुक्तकच्छस्तथैव च । एकवासा प्रवासाश्च नमः पञ्चविधः स्मृतः ॥" इत्येकवाससोनग्नत्वस्मरणाश्चैतद्वगन्तव्यम् । अत्र मन्त्रमाह-या अकृ- न्तन्निति । "परिधत्ते"-ति च । "उत्तरीयमि"-ति शेषः। क्रियानुषङ्गार्थश्चका- रः। तत आचाराद्वरोऽपि कन्याप्रदोपनीतं वासो(२)युगन्तूष्णीम्परिदध्यात् । अ- थ द्वयोराचमनम् । “वासोविपरिधाय चे"-त्युक्तवचनात् । ततः “समवन्तु(३) विश्वेदेवाः समापोहृदयानि नौ । सम्मातरिश्वे"तिवरोदाताप्रन्थिन्तुपातयेदि"ति परिशिष्टान्तरवचनादुत्तरीयाभ्यां वरपठितेनानेन मन्त्रेण कन्याप्रदकर्तृक (१) "वत्सरे वर्षमनियाम्" इत्यमरः । (२) इदन्त्ववधेयं कन्यादानकर्मणः पुरस्तादेव कन्यापक्षीयेन कन्यामानादिना पूगयज्ञोपवीतादिकं वंशपात्रे (डल्लके) कृत्वा वरायोपहियते "अस्मिन्काले निसानिये स्नातः स्नाते अरोगिणि। अव्यपतितेऽक्लीबे पिता तुभ्यं प्रदास्यति अमुकनाम्नी. हन्याम् । इतिमन्त्रेण वाक्येन च । वरोऽपि ततः किश्चिद्दूर्वाक्षतादिकहरेणादाय शिरसि निदधातीति व्यवहारपरम्पराप्राप्तपरस्परस्वीकृतिज्ञापका (पूगयज्ञोपवीतादिदामविधि. नाण्यातः) विधिः । तत्र यद्वालोयुगमुपनीतन्तदिहोपयुज्यते । इति । (३) मन्त्रोऽयं मूलएवोपरिष्टादू ( २।२।१५) व्यकोभविष्यति । १८ गो० गृ० सू० Soamma विवाहविधिः। [२ प्रपाठके- जन्मप्रन्थियन्धनम् । अथ मन्त्रो मूलोक्तौ- "या अकृन्तनवयन्या अतन्वत याश्च देव्योऽन्तानभितोऽततन्थ । तास्वा देव्योजरसा सव्ययन्त्वायुष्मतीएं परिधत्स्व वासः ॥ ५॥ याः स्त्रियः । इदं वलंपरिधीयमानम् 'अकृन्तन् कत्तितवत्यस्तन्तुरूपेण । 'या:' च 'अवयन्' उतवत्यः । 'याश्च प्रतन्वत' विस्तारितवत्यः । 'देव्यः' दानादिगुणयुक्ताश्च याः "अन्तान' पटसम्बन्धिनः प्रान्तमागान् 'अभितः उभय- पावें 'अततन्थ(१) प्रथितवत्यः । 'ता देव्यः' हे कन्ये ! 'त्या' त्वाम् । 'जर- सा' जरान्तं यावत(२) 'सळ्ययन्तु' परिधापयन्तु । हे 'आयुष्मति !' 'इदं' 'वासः' वसनम् । 'परिधत्व' अन्तरीयं कुरु ॥५॥ इति। अथ द्वितीयोमन्त्रः । "परिधत्त धत्त वाससैनां शतायुषीकृणुत दीर्घमायुः । शतञ्च जीव शरदः सुवर्धा वसूनि चायें ! विभृजासि जीवन्" ॥६॥ अस्यार्थः-हे उपाध्यायादयः । यूयम्। इदं वस्त्रम् ‘एनां' कन्याम् 'परिधत्त' परिधापयत अन्तर्भावितण्यर्थोत्रदधातिः। तथा 'वाससा' वस्त्रेण एनां "वत्त' धारयत । 'शतायुषीम्' चिरकालजीविनीम । 'कृणुत' कुरुत । स्वाशीभिः । एवं 'दीर्घमायुः बहुकालं यावज्जीवनम् । एवम्परिधापकानभिधाय कन्यामेवाह- हे कन्यके ! 'शतब्च, शरदः शतवर्षाणि 'जीव' । अथ 'च' हे 'आर्ये !' त्वां 'सुवर्चाः' शोभनकान्तिः 'जीवन' जीवन्ती च सती । (लिङ्गव्यत्यय आषः) 'वसूनि धनानि । 'विभृजासि' विभजसि । सेवख(३)॥६॥ इति ।। अथात्र कन्यावरयोः परस्पराभिमुखीकरणम् । तत्र मन्त्रः “समजन्तु" इत्याधुक्तपूर्वोवीरेश्वरादिपद्धतौ ब्यक्तो द्रष्टव्यः । ततोजन्मप्रन्थिबन्धनमितिक्रम उक्तपूर्नः ॥ अन कन्यादानात्पुरस्ताद्वरवध्वार्दक्षिणवामकरमूले कङ्कणबन्धन- माजानिकाचारपरिप्राप्तमावश्यकमित्यप्रेऽनुपदं विवृतौ स्फुटीभविष्यति ।। प्रावृतां तां यज्ञोपवीतिनीमभ्युदानयअपेत् “सोमोऽददग्धन्धर्वाये"सि१६ प्रावृता-कृतोत्तरीयां, कथं प्रावृतां ? यज्ञोपवीतिनीम् । तामिवे(४)त्यर्थः । (म०बा० १।१७) (१) अत्रव्यत्ययेन शेस्थः। (२) अवच्छेदकत्वमत्रप्रकृत्यादितृतीयार्थः । (३) भजतेर्मत्ययेन लोडणे लटि सिपि शपः श्लौ द्वित्वादि। अकारस्य ऋकारश्च । (४) यज्ञोपवीतवत्कृतोत्तरीयामित्यर्थः । अथवा प्रावृता प्रकर्षणावृतामाच्छादिता- म् । न नाभिन्दर्शयेत् कुलवभूरागुलफाभ्यां वासः परिदध्यान स्तनौ विवृतौ कुर्यादिति स्मृत्युकरीत्यापरिहिताधरीयवसनाम् । यज्ञोपवीतं (यज्ञोपवीतवद्धविन्यासविशिष्टमुत्तरीय तथल्याअस्ति सेयं यज्ञोपवीतिनी ताम् । तदाभ्यां पदाभ्यां पूर्वत्र सूचितयोसिसोविन्या. सविशेषमिह दर्शयति । यज्ञोपवीतपदचोत्तरीयेऽपि स्त्रीशूदाणाम्प्रयुज्यते विन्यासविशेष. लाभार्थमित्युक्तमधस्तात् । इत्येवं चन्द्रकान्तभाष्येसिद्धान्तितम् । वयन्तूत्पश्यामः । कन्यादानात्पुरस्तात्कन्याकर्तितसूत्रेणाष्ट्राभिर्दाह्मणैस्सह वरस्योलखलमुशलोपान्ते स्थि.
१ कण्डिका ematon गोभिलगृहसूत्रे- १३६ स्त्रीणामुपवीतस्यामावात् । अभ्युदानयनन् । "पित्रा प्रत्तामादाय गृहीत्वा निष्कागती"-ति गृहान्तरदर्शनात्करेण करे(१)महोत्वा गृहादग्नेरभिमुखीमान- यन् जपेत् पठेत् । पतिः । “सोमोऽदददि"त्यादिमन्त्रम् । स यथा- "सोमोऽद्गन्धर्वाय गन्धर्वोऽददग्नये । रयिश्च पुत्रांश्चादादग्निमयमथो इमाम् ॥” इति ॥७॥ अस्यार्थः-इमाजातमात्रां 'सोमः' चन्द्रः । यथाकाल(२)मुपभुज्य 'गन्ध- वाय'(३)सूर्याय । अददत् दत्तवान् । सच 'गन्धर्वः' सूर्यः। स्वाधिकारय्याँव(४). भुत्का । 'अग्नये' 'अददत्' दत्तवान् । 'अथा'(५)अनन्तरम् स 'अग्निः' रयिं' धनं (निघ-२२१०१८) 'पुत्रान् (६) 'इमाञ्च' 'मह्यम्' 'अदात्' ददातु(७)।१९। पश्चादग्नेः संबोष्टितङ्कटमेवं जातीय वाऽन्यत्पदा प्रवर्तयन्ती वाचयते "प्र मे पति या नः पन्थाः कल्पताम्" इति ॥ २० ॥ (म० ब्रा० श१८) तस्य नापितकर्तकत्रिवेष्टनं तदात्वे च तैनवभिरपि युगपदेवोलूखले ब्रीहीन मुबालेन पुश्व. सूक्तपाठपूर्वकं कण्डयनिस्विस्वहत्य वण्डलानां निष्पादने कृते तैश्चदध्यक्ौराम्रपल्लवोपहितैः कुछमारकतद्वेष्टनसूत्रबद्धैः कन्यावरयोः वामदक्षिणकरयोः कणबन्धनमाजाविकवृद्धपर- म्पराऽऽगतमतिरोहितकुमठानाम् । तदेव सूत्रं ब्राह्मणोपनीतमिह यज्ञोपवीतपदार्थः। "उ. पवीतं ब्रह्मसूत्रम्" इत्याग्नेयकोशेन स्मृत्या च ब्रह्मसूत्रमुपवीतन्तयज्ञोपयिकमिति यज्ञोप- वीतसमाख्याऽस्य तद्विषतेऽस्था इतिमत्वर्णेना तद्वतीमित्यर्थः । तेनातः पूर्वन्तदूबन्धनम. प्याचारपरम्परागतममुमर्थ प्रमाणयतीति ॥ (१) अवच्छेदकत्वमिहाविषयताविशेषरूपः सप्तम्यर्थः । तेन वषयिकाधारेऽत्र स. समी । “गृहीत्वा चाऽस्यकेशेष्विातिवत् ॥ (२) तथाच च्यवनः । “पलपमध्ये नोद्वाया कन्या, वर्षद्वयं यतः । सोमोभुङ्क्तेऽथ गन्धर्वस्ततःपश्चाधुताशनः ॥” इति । अत्रभोगोरसादानपूर्वक भरणम् ॥ (३) तथाच वाजसनेयश्रुतिः-"सनिहितोविश्वसामा। सूर्योगन्धर्वः ॥" इति।(शु० य० १८३९) (४) यथोकं वर्षद्वयम् । ततोऽभिर्वर्षद्वयमिति संख्याक्रमः । "ससवत्सरादूवं विवाहः सार्ववर्णिकः । कन्यायाः स्यते राजनन्यथा धर्मगहितः॥" इति स्मृत्यर्थमनुरुन्धे । केचित्तु-अग्नेः समयनियम उक्तच्यवनस्मृतौ न दर्शितः "ततः पश्चातधुतावानः" इति सामान्येनोक्सेस्तेन सप्तसवत्सरादारभ्य दशान्तं द्वादशा- न्तं वा यावद्विवाहमग्नेरेव तत्र पोषणाधिकार इति "सोमोददगन्धर्वायेषादिमन्त्रेण स्पष्टमावेधते । एतेन सतवर्षात्प्रागपि अग्नेः सकासात्कन्यापरिग्रह उक्तपूर्वोमुरारिभिश्व. सम्मतोऽप्युपपद्यते । अत एव व "मुरारेस्तृतीयःपन्था” इति लोकोक्तिरनुगृह्यते ॥ (५) अन्न "ओत (पा०१०१९) इति प्रगृह्यसंज्ञायां प्रकृतिभावः (पा०६।१।१२६)। (६) आशाध्यमानान् । (७)"छन्दसि लुक लइ लिट" (पा० ३४६) इति लोब्र्थे प्रार्थनायां लुङ् ॥
om- विवाहविधिः [2 प्रपाठके संवेष्टितं-सम्यगवाससाऽध उपरि च पार्थे चाहतेन वसनेनाच्छादितमि- त्यर्थः । कटं तृण-(वीरण-)-प्रथितमासनम् । तदलामे-एवजातीयं-तृणस- दृशम्(१) अन्यत् । तृणपुलकादि । पदा-चरणेन । प्रवर्तयन्ती-वह्निसन्निधानमुप. वेशनार्थ नयन्ती वधूं"प्र मे"-इत्यादिमन्त्रं पतिर्वाचयेत्-पाठयेत् । अत्रानुवादा. द्विधिरनुमीयते-वरववध्वोरुपवेशनार्थ कटः कर्तव्य इति । कत्तुश्चानियमः । मन्त्रोयथा- "प्र मे प्रति यानः पन्थाः कल्पता शिवाअरिष्टा पतिलोकं गमेयम् ॥ ८॥ इति । अस्यार्थः 'न' अस्माकम्(२) । पति-पतिः(३) । 'मे' मदर्थम् । 'पन्थाः' पन्थानम्(४) । 'प्रकल्पताम्' प्रकल्पयतु । अन्तर्भावितण्यर्थः । करोतु । 'या' येन(५)पथाऽई 'शिवा' सुखावहा 'अरिष्टा' अहिंसिता च सती 'पतिलोक' पतिगृहम्(६) । 'गमेयम्' (७)गम्यासम् ।। ८॥२०॥ स्वयञ्जपेदजपन्त्यां "प्रास्या" इति ॥ २१ ॥ बाल्याल्लज्जया वा तस्याम् अजपन्त्याम्-अनुच्चारयन्त्याम् । पतिः स्वयजपेत् । स्वयमुखारयेत् । तत्र जप्ये विशेषमाह-प्रास्याः । इति-एवमादि मन्त्रम् । प्र मे इत्यस्य स्थाने प्रास्या इति कृत्वेत्यर्थः । एवं गमेयम्-इत्यत्र गम्या इति । अन्यथाऽनन्वयप्रसङ्ग इति द्रष्टव्यम् । तथाच मन्त्रार्थः । अस्याः पतिः ( अयमहं ) न आत्मन: (८)कृते पन्थानं प्रकल्पयतु । येन पथा शिवा अरिष्टा च सती त्वं पतिलोकं पतिगृह गम्या गच्छ । आशिषि लिङ् । एतच्चामि- प्रदक्षिणानन्तरं, तथाच गृह्यासाहे- "यदा निष्कामयेत्कन्यां वरः पाणिजिघृक्षया । अग्निप्रदक्षिणं कृत्वा कटं स्तीर्णमिदजपेत् ॥" इति । अन पदानि कामयेदित्यपपाठः । अत्रपाठे तदेत्यध्याहार्यम् । "यच्छब्देन तु तच्छब्दोबोद्धव्यः सततं बुधैरि"ति योगिस्मरणात् । निष्कामये- पितृकुलान्मण्डपावेद्यामानयेत्तदा जपेदिद"म्प्रमेइति" "प्रास्याः” इति वा कन्या वा वरोवेति क्रमेणान्वेतव्यम् । पारस्करोऽपि-"प्रदक्षिणमग्निं परिक्र- म्योपविशति" इति । (१) प्रकारार्गेऽत्र (पा०५।३।६९ ) जातायरप्रत्ययः । (२) "अस्मदोद्वयोश्च" ( पा० १०१५९) इत्येकत्वेऽपि बहुवचनम् ॥ (३) "सुपी सुलु (पा०६१३९) इति सो क् ॥ (8)अत्रोक्तेनैव सूत्रेण (पा० ७१३९) अमः सुः ॥ (५) आगोऽत्र डादेशः (पा० ॥३९) । (६) पतिलॊकते हषयते यत्र तत् ॥ (७) "लिख्याशिष्य (पा०३।२८६) इति गमेरङ् ॥ (0) अस्मभ्यम् । चतुर्यथें षष्टी ( पा० २।३।६२ ) बहुवचनमेकत्वार्थे पूर्ववत् ॥
१ कण्डिका ) गोभिलगृह्यसूत्रे- १४१ बहिषोऽन्तं कटान्तं प्रापयेत् ॥ २२ ॥ बर्हिः पदमत्राग्निपरं “बर्हिः(१)शुष्मे"ति वह्निनाम पाठात्तत्रापि तस्य शक्तत्वात् । एवञ्चाग्नि-कटयोर्मध्यं(२) प्रापयेत्-नयेत् । प्रकृतत्वात्कन्यामि. त्यर्थ इतिमे प्रतिभाति । अत एवाग्निस्थापनं, ततो ब्रह्मोपवेशनादि -दृषत्पुत्रा- सादनपर्यन्ताऽग्निपरिचरणानन्तरं कन्यादानमितिपद्धतिक्रमः सङ्गच्छते । भाष्यकारस्तु-कटम्पदा प्रवर्तयन्तीमिति पूर्व मुक्तं तत्कियन्तं देशं प्रवर्तयेत् ? इत्यपेक्षायामाह-वहिषोऽन्तमिति । कटपूर्वप्रान्तमास्तृत(३)कुशपर्यन्तं नयेदि. त्यर्थः । एवञ्च कटप्रवर्त्तनात्पूर्वकन्यादानाद्यवसर एवाज्यसंस्कारान्तं कर्मान्य- द्वारा कारयितव्यम् । अन्यथा पूर्व वर्हिस्तरणस्य वरेणाकरणाद्वहिषोऽन्तमिति नोपपद्यतेत्युक्तम् । तन्मन्दम् । अन्यद्वारा करणे प्रमाणान्तरस्यामावादस्य चान्यथा व्याख्यातत्वादिति शुभकर्मनिर्णये मुरारिमिश्राः प्राहुः ॥ २२ ॥ पूर्वे कटान्ते दक्षिणतः पाणिग्राहस्योपविशति ॥ २३ ॥ अत्र वधूरिति शेषः । पूर्व कटान्ते कटस्य पूर्वस्मिन्मागे । दक्षिणतः दक्षि. रणस्यां दिशि। सार्वविभक्तिकस्तसिः । (पा० ५।४। ४४ वा० ) कस्य ? पाणिग्राहस्य । यः पाणिकरमस्या ग्रहीष्यति तस्य "कर्मण्यण" ( पा० ३।२।१) दक्षिणेन पाणिना दक्षिणमसमन्वारब्धायाः षड़ाज्याहुतीर्जुहोति । "अग्निरेतु प्रथमः" इत्येतत्प्रभृतिभिः ॥ २४ ॥ (मं० ब्रा०१।१।१०-१५) अन्वारब्धाया इति वर्तमाने कर्तरि निष्टा । ( पा०३।४।७२)। षष्ठी चेयं सम्बन्धार्था । अन्वारम्भणं स्पर्शः । तथाचायमर्थः । पत्युदक्षिणांस दक्षिणहस्तेन स्पृशन्त्यां वश्वा-“मग्निरेत्वि"त्यादि षड्भिमन्त्रैः पतिः षड़ाज्याहुतीर्जुहुया- दिति । मन्त्रा यथा- "अग्निरेतु प्रथमो देवताभ्यः सोऽस्यै प्रजाम्मुञ्चतु(४) मृत्युपाशात् । तयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्र मधं न रोदात्स्वाहा॥१०॥ (१) "बहि:शुष्मेति सङ्घातोविगृहीत नाम । बर्हते वर्धते इतिवहिः । इदन्तः सान्तोऽपीति । शुष्यत्यनेन शुष्मा। नान्तोऽदन्तोऽपि इति चामरटीकायाम्महेश्वरः । तथाच बाब्दार्णवः "शुक्रो वैश्वानरो वहिबहिः शुष्मा तनूनपात्" इति ॥ (२) अन्तशब्दोऽत्र समीपार्थकः । पुरतोबर्हिः पश्चात्कट इति तयोः समीपं मध्य- मेव भवतीति ॥ (३) मन बहिष इति आत्याश्रयमेकवचनम् । बहिषामास्तृतानामन्तं कटान्तं प्रा. पयेत् । अयमर्थः । कटस्तथापदा प्रावर्तितव्योबध्वा यथा तदन्तभाग आस्तृतबहिपाङ्कि- बिदुपरि स्यादिति ॥ (४) अत्र "मुचातु" इति कृतदीर्घपाठः संहितायाम् "पतिषु यथोल्लिखित एव ।
१४२ विवाहविधिः। [३ प्रपाठके क । अस्यार्थः । अस्मिन्प्रस्तुते कर्मणि । पूज्यमानाभ्यो देवताभ्यः' । ता अपे क्ष्य(१) 'प्रथमो' मुख्यः 'अग्निः' 'एतु' आगच्छतु । आगत्य च 'सः' अग्निः । 'अस्यै' अस्याः । षष्ट्यर्थ चतुर्थी । (पा० २।३।६२) 'प्रजा' भाविनी 'मृत्युपा- शात्' 'मुञ्चतु' मोचयतु(२)। 'तद्' एतन्मृत्युपाशविमोचनमग्नेः । 'अयं' 'राजा' अधिपतिरपां 'वरुणः' तदाख्योदेवः 'अनुमन्यताम्' अनुजानातु । 'यथा' येनानुज्ञानेन । प्रकारेण वा ( भगवतः शुभानुध्यानेन वा) 'इयं स्त्री' (३)भूता सती 'पौत्र' पुत्रभवम् (तत्सम्बन्धि ) 'अघं' दुःखं यमबन्धनात् । "दुःखौघव्यसनेष्वघम्" इत्यमरः । "प्राप्ये"तिशेषः । न रोदात' न रुद्यात्(४)। ताभ्यामग्नीवरुणाभ्यां 'स्वाहा' सुहुतमस्तु ।। १० ।। "इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै जरदष्टिं कृणोतु । अशुन्योपस्था जीवतामस्तु माता पौत्रमानन्दमभि विबुध्यतामियवाहा ॥११॥ 'गाईपत्यः' तदाऽऽख्यः 'अग्निः' योऽसौ (५)भाव्यः । 'इमां' कन्याम् (अग्निहोत्रिणीं कृत्वा ) 'त्रायताम्' पालयतु । किञ्च 'अस्यै अस्याः । पूर्वव- चतुर्थी षष्ठ्यर्थे । 'प्रजा' (६)सन्ततिम् । 'जरदष्टिं' जराव्यापिनीम्(७)(चिर. स्थायिनीम् ) 'कृणोतु' करोतु "कृविहिसाकरणयोश्च" ( भ्वा०प०) इत्यस्य लोटि रूपम् । किञ्च 'अशुन्योपस्था' नित्यं सुतपुर्णोत्सङ्गा । भर्तुः सङ्गता वा सती 'जीवतां' दीर्घायुषाम् । 'माता' जनयित्री 'अस्तु' भवतु । अतः 'इयं' 'पौत्रं' पुत्रसम्बन्धिनम् । 'आनन्दम्' सुखम् । 'अभि' अधिगत्य(१०) 'विबुध्यताम्' विविधं-सुख-मनुभवतु । तस्मै अग्नये 'स्वाहा' सुहुतमस्तु ॥ ११ ॥ (१ "ल्यवलोपे कर्मण्यधिकरणे च" (पा० १।४।२१ वा० ) इति पञ्चमी। (३) अन्तर्भावितण्यर्थः । आसंशायां टित्तान लोट् । (३) स्त्यायेते संहीभवतः!शुक्रशोणिते अस्यामित्यर्थे "स्त्यैशब्दसंघातयोरिति धातोई प्रत्य यौणादिकः । डिवाहिलोपे डीप् । (४) लिड” ले" (पा०६।४०) तस्याडागमः (पा०1४।४९) । (५) "गृहपतिना संयुक्तेश्या (पा०४४९०) इति ध्यप्रत्ययेन निष्पनोगार्हपत्य- शब्दः गृहपतिसंयोगप्रवृत्तिनिमित्तकः । गृहपतित्वं च दारसम्बन्धमन्तराऽसम्भवि "न गृहं गृहमित्याहुहिणी गृहमुच्यते "इति स्मरणात् । (६) "प्रजा स्यात्सन्ततो जने" इत्यमरः । (७) "अशूव्यातौ” (स्वा० आ०) इत्यस्मात्कर्तरि किन् । जरदेवस्थामश्नुते या स जरदष्टिस्ताम्। (4) "उपस्थः शेफसि कोड़े तथा मदनमन्दिरे" इति मेदिनी। (९)"जनयित्री प्रसूर्माता" इत्यमरः । (१०) अभिलक्ष्य विबुध्यता विवोध प्रबोध लभतामिति वार्थः । अत्र "सविशेषणे हि विधिनिषेधौ सति विशेष्येऽन्वयवाचे विशेषणमुपसंक्रामतः" इति न्यायेनानन्दमानं पुनमिति पौनमानन्दमित्यस्यार्थोषोध्यः । “निध्वनत्पाञ्चजन्यः श्रुत" इतिवत् ।
१ कण्डिका] गोभिलगृह्यसूत्रे- "यौत्ते पृष्ठं रक्षतु वायुरुरू अश्विनौ च स्तनन्धयस्ते पुत्रान्सविताऽभिर- क्षत्वावाससः परिधाजा बृहस्पतिर्विश्वेदेवा अभिरक्षन्तु पश्चात्स्वाहा" ॥१२॥ हेकन्ये ! 'धौः' धुलोकाभिमानी देवता सूर्यः ते तव 'पृष्ठं रक्षतु' 'वायुर- श्विनौ च उरू'रक्षन्विति वचनविपरिणामेनान्वयः । किञ्च स्तनन्धयः (१) स्तनाधारास्ते'तव पुत्रान्' 'सविता' आदित्यः 'प्रावाससः परिधानात्' वासः परिधानयोग्यावस्थात: प्राक् । 'अभिरक्षतु' ततः 'पश्चात्' 'वृहस्पतिर्विश्वेदे. वाघ' 'अभिरक्षन्तु तेभ्य: स्वाहा'सुहुतमस्तु ।।१२।। "माते गृहेषु निशि घोष उत्थादन्यत्र त्वद्रुदत्यः साबिशन्तु । मा त्वं रुद. त्युर आवधिष्ठा जीवपत्नी पतिलोके विराज पश्यन्ती प्रजां सुमनस्यमाना स्वाहा॥१३॥ हेकन्ये ! 'ते' तव गृहेषु' 'निशिरात्रौ 'घोषः' आक्रन्दरूपः शब्दः 'माउ. त्थात्' मोत्तिष्ठतु(२) । किञ्च त्वदन्यत्र'त्वद्भिन्ना(३)नान्त्वत्सपत्नानां गृहेषु 'रुदत्यः' स्त्रियः ‘सव्विशन्तु' (४)खपन्तु । किश्च 'स्व' 'रुदती'रोदनकुर्वाणा सती 'उरः' वक्षःस्थलम् । 'माऽऽव विष्टाः'मा त्वमुरोपातं रोदिष्यसीत्यर्थः।त- था-'जीवपत्नी' सभत्तु का त्वं 'सुमनस्यमानां'(५) सुप्रसन्नां 'प्रजां' सन्तति 'पश्यन्ती'सती 'पतिलोके' पतिगृहे विराज'शोभस्व । इदमनये 'स्वाहा' सहुतमस्तु॥१३॥ अपजस्यं पौत्रमत्यै पाप्मानमुत वाऽअघम् । शार्णः स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पाश-स्वाहा" ॥१४॥ हेकन्यके ! त्वदीयम् 'अप्रजस्यम'(६) अप्रजास्त्वं (बन्ध्यात्वम् ) पौत्र- मर्त्यम्' पुत्रसम्बन्धिमरणम(७)। 'पाप्मानम्' मरणं त्वदीयम्(८) 'उतवा' (१) अन्नासाः' (पा०३९) "स्तने घेटोनासिकायां ध्मश्चेति वाच्यम्" (पा० ३।२।२९ वा०) इतिखसि नुमागमः । (२) "मालि लु" (पा०३।३।१०५) इति लोथैलुए। "न माल्योगे" (पा० ६७४) इत्यड़ागमाभावः। (३) अन "अन्यारादि (पा० २३२९)ति परमी। (४) स्यानिशयन स्चाप: स्वप्न: संघेशा इत्यपी त्यमरः । (५) अन्न "भृशादित्वात्" ( पा० ३१२१२)क्यालि सलोपाभावपछान्दसोयोध्यः । "आने मुगि- (पा० १२१८२) ति क्योसुगागमः ॥ (६) अन्न अविद्यमाना प्रजा यस्या इति बहुवीही "नित्यमसिन्प्रजामेधयोः ( पा० १।४।१२२) हत्यसिसमासान्तस्ततोमवाणे यत् (प.० ४।४।११०) भवार्थोऽत्र भाव एवं तदमः॥ (0) "मृप्राणत्यागे" (तु०मा०)"हसिमृग्रिण. (१०३८६) इत्यादिना भावे तन् प्रत्ययः । स्वार्ग यत् ( पा० १।४।३६ वा०) मरर्थ मरणम् पुत्रस्येदंपौनं पौत्रच तन्मत्यवचेति कम्मधारयः समासः । (८) औपचारिकोऽयं प्रयोग इति गुणविष्णुभाष्यम् ।
विवाहविधिः। [ २ प्रपाठके- अथवा 'अघम्'दुःखम्(१)। एतत्सर्व “शोर्णाः' मूनः शकासात् 'सजमिव' मालाम् इव 'उन्मुच्य ऊर्ध्व त्वत्तोऽपसार्य (पृथक्कृत्य ) 'पाशम्' मृत्युपाश. भूतमेतत्सर्व ते 'द्विषद्भ्यः' (२)शत्रुभ्यः तानुदिश्य 'प्रतिमुश्वामि' तद्गलेषु स्थापयामि(३)। इदमग्नये 'स्वाहा'सुहुतमस्तु । अत्र "सर्वे विधयश्छन्दसि विक- रूपन्ते” इति नियमाद्-वा अघमित्यत्र सन्ध्यभाव आर्षः । अविवक्षया वा ॥१४॥ "परैतु मृत्यरमृतम्म आगाद्वैवस्वतोनोऽअभयं कृणोतु । परम्मृत्योऽनुपरेहि पन्थां यत्र नो अन्य इतरीदेवयानात्" । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषोमोतबीरान्स्वाहा ॥१५|| कन्यकैवाशास्ते-"मृत्युः' (४)मरणम् । मत्तः 'परतु' दूरङ्गच्छतु । 'अमृ. तम्' अमरणम् । 'मे' मम 'आगात्' आगच्छतु(५)। तथा 'वैवस्वतः' यमः । (६)'नः' अस्माकम्(७)। 'अभयम्' भयाभावम्(८)। 'कृणोतु' करोतु। एवम्प- रोक्षमुक्त्वा प्रत्यक्षीकृत्य मृत्युरेवाभ्यर्थ्यते-हे 'मृत्यो! मत्तः 'परम्' अन्य पन्था' पन्थानम्(९) । 'अनुपरेहि कमप्यनुगत्यापसर । यत्र 'नः' अस्माकम् 'अन्यः' परः शत्रुरस्ति । कोऽसौ पन्थाः ? 'देवयानात्' देवपथात् 'इतरः' अन्यः (१०)पि- तृपथः । यत्र गत्त्वा पुनरावर्त्तते मृत्युवशमापन्नः। किञ्च 'चक्षुष्मते शृण्वते' 'ते' तुभ्यं 'ब्रवीमि' प्रार्थये । यत् 'नः' अस्माकं 'प्रजा' सन्ततिम् । 'उत' अपि च 'बीरान(११) विक्रान्तान् पुरुषान् पतिपुत्रादीन 'मा रीरिषः' मा हिंसी.(१२) तस्मै मृत्यवे 'स्वाहा' सुहुतमस्तु । अत्र "प्रकृत्यान्तः पादमव्यपरे" (पा० ६।१।११५) इति नो इत्यस्य प्रकृतिभावात्पूर्वरूपाभावः ॥ १५ ॥ महान्यायतिभिश्च पृथक् ॥ २५ ॥ महाव्याहृतिभिर्भूरादिभिस्तिसृभिः । पृथक्-प्रत्येकं, क्रियानुषङ्गार्थश्चका. रः॥ १५॥ (१) "अंहोदुःसव्यसनेष्वयम्" इत्यमरः ॥ ( २ ) "रिपो वैरिसपचारिद्विषद्वेषणदुहृदः इत्यमरः ॥ (३) प्रतिपूर्वकोमुञ्चतिनिधापने वर्तते । एवमापूर्वोऽपि । इति बोध्यम् ॥ (४) "मृत्युमरणं निभनोऽखियाम्" इत्यमरः ।। (१) लोड़थै लुङ्ग (पा० ३।४६), (६) यमः । कालोदण्डधरः श्राद्धदेवोवैवस्वतोऽन्तका" इत्यमरः ॥ (0) "अस्मदोद्वयोश्च (पा० १२१५९) इत्येकत्वे बहुवचनम् ॥ (८) अर्थाभावेऽव्ययीभावः (पा० २।१६ ) समासः ॥ (९)नलोप आर्षः॥ (१०) "इतरस्त्वन्यनीचयोः इत्यमरः ॥ (११) "बोरविक्रान्तौ" [चु० मा० ] पचायच् ( या०३।१११३४ ) णिलोपः ।। (१२) "रिहिसायाम्" स्वार्थणिजन्तान्माडि लुङ् (पा० ३१३॥१५ ) इति लुइ "न माझ्योगे" (पा०६।४।७४) इत्यडभावः ॥ Lap ३ कण्डिका गोमिलगृह्यसूत्रे- १४५ समस्ताभिश्चतुर्थीम् ॥ २६ ॥ इरि श्रीम० गो० गृ० द्वि० प्र० स्य प्रथमा कण्डिका ॥२॥१॥।॥ भूर्भुवः स्वः स्वाहेति समस्ताभिः चतुर्थीमाहुतिं जुहुयात् । होमस्य खल्व. स्याज्यहविष्कतयाऽऽज्यतन्त्रविहितोमडाव्याहृतिहामः पुरस्तादपि भवति । आ- ज्यभागो स्विष्टकृच्च न भवन्ति । परन्तास्तिस्र एवाज्यतन्त्रोपक्रमविहिताः पुर- स्तात् । परस्तात्तु चतस्र इदानीलेव तथोपदेशादिति बोध्यम् ॥ १६ ॥ इतिश्रीमगोभिलीयगृह्यसूत्रव्याख्यायां मृदुलाख्यायां मुकुन्दशर्म सङ्कलितायां द्वितीयप्रपाठस्य प्रथमा कण्डिका ॥ २ ॥ १ ॥ * ॥ . अथ द्वितीया कण्डिका। हुत्वोपोत्तिष्ठतः ॥ १॥ उपेति-संहतहस्तत्वमुच्यते। हुत्वा संहतहस्तौ (१)दम्पती उत्तिष्ठतः । मुरा- रिमिश्रास्तु-उप-अग्निसमीपे होमानन्तरमेवाग्निसमीपे दम्पती उत्तिष्ठतइति- व्याख्यो । अत्रानन्तरमेवेत्यनेनानन्तर्यमानं क्तवार्थो न तु समानकत्तु कत्व. मपीत्युच्यते । दृश्यते चासमानकर्तृकेऽपि कर्मणि क्त्वाश्रुतिः। “आज्या- हुति हुत्वा मुख्यं धनं दद्यात्" इत्येवमादौ बहुलम् । अत्र खलु ऋत्विग्जु. होति यजमानोददाति । होमकुर्वाणस्य पत्युरंसमन्वारम्भमाणा वधूरपि कया चिद्विवक्षया होमानुकूलचेष्टावती भवति । इत्यस्ति समानकत्तृत्वमिति तत्त्वकारः । केचित्तु उपेत्याञ्जलिं वध्वेत्याहुः ।।१।। अनुपृष्ठं पतिः परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते वध्वञ्जलिगृहीत्वा ॥२॥ पतिश्चानुपृष्ठं-(२)वधू पृष्ठेन परिक्रम्य वधूदक्षिणतः । उदङ्मुख उत्तराभि- मुखोभूत्वा वध्वजलि-वध्वास्तस्या एवाजलिं दक्षिणेन पाणिना गृहीत्वा अव. तिष्ठेतेत्यर्थः(३)। स स्वल्वयमञ्जलिः पाणिग्रहणपर्यन्तं स्थास्यति । पतिश्च तावन्तं कोलममुमञ्जलिमनापत्सु न त्यजेत् । तथाच गृह्यान्तरम्- "हुत्वाऽऽज्यमथ जायाया अन्वारभ्यान्जलिम्पतिः । न विमुश्चेदनापत्सु यावत्पाणिग्रहोजपः" ।। इति ।।२।। (१) एतच्च भभाष्यानुसारि व्याख्यानम् ॥ (२) अत्रानुपूयेऽव्ययीभावः ( पा० २।१६ ) ॥ पृष्ठेनेति प्रकारित्वं तृतीयार्थः । (पा० २।३।१८ वा०)। "प्रकृत्यादिगणाजाता तृतीया तु तदात्मताम् । अवच्छेदकता- बुद्धिप्रकारित्वादि संशतीति हर्युक्तः । (३) ऊर्ध्वस्तिष्ठेत् । विधौ लेटिरूपमेतत् । अन्न "किं कृत्वा ? वध्वञ्जलिङ्गृहीत्वा १९ गो० गृ० सू० - विवाहविधिः। [२ प्रपाठक- पूर्वा माता लाजानादाय भ्राता वा वधूमाक्रामयेदश्मानं दक्षिणेन प्रपदेन ॥३॥ पूर्वा-पूर्व दिगवस्थिता । माता-प्रकृतत्वाद्वध्वाः । भ्राता वा तस्या एव । पूर्वदिगवस्थित एव सव्यहस्तेन लाजानादाय लाजपूर्ण शूर्प कृत्वा-श्रादाय । दक्षिणहस्तेन वधूं दक्षिणेन प्रपदेन पादानेण(१)। अश्मानं-शिलापुत्रकम् आक्रामयेत् । केचित्तु-पूर्वा बह्वीनां मातृणां प्रथमेति व्याचक्षते तन्न मातृबहु- स्वस्यासार्वत्रिकत्वात् ।। ३॥ पाणिग्राहोजपति “इममश्मानमारोहे"ति ॥ ४॥ (मं० ब्रा०२।१२१) स्पष्टार्थम् । मन्त्रस्तु-- "इममश्मानमारोहाश्मेव त्वं स्थिरा भव । द्विषन्तमपवाधस्व मा च त्वं द्विषतामधः" ।। ३ ।। इति । अस्यार्थ:-हे कन्यके ! त्वम् ‘इमं पुरःस्थम् 'अश्मान' दृषत्पुत्रम् । 'आ- रोह' आक्राम । किञ्च 'अश्मेव' पाषाणवत् 'त्वं स्थिरा भव' । ततश्च 'द्विष. न्तम् (२) शत्रुम् 'अपबाधस्व नितान्तं पीड़य । 'त्वञ्च' 'द्विषताम्' 'अधः' पादतले 'मा' "भू"रिति शेष:(३) ॥ ४ ॥ सकृत्संगृहीतं लाजानामञ्जलिं भ्राता वध्वञ्जलावापवति॥ ५ ॥ सकृत-एकवारं संगृहीतम्-सम्यग्गृहीतम् । अविकिरनिति यावत् । लाजानामखलिम् अञ्जलिपरिमितान् लाजान् । भ्रातेत्यनन्तरं “माता(४) वेति शेषः ॥ ५॥ तसोपस्तीर्णाऽभिधारितमग्नौ जुहोत्यविच्चिन्दस्यञ्जलिम् “इय- नायुपब्रूते" इति ॥ ६॥ (म० ब्रा० २।११२) स्वेनालिनेति भट्टाभाष्यम् । भवदेवभट्टादयश्च । पूर्वमालिकरणमनयोः सूत्रितं तदुभ. यमेवमुपयुज्यते । तदन पत्युञ्जलिकरणस्यार्थवत्तां न पश्यामः ॥ (१) “पादाग्रं प्रपदम्" इत्यमरः । (२) "रिपो वैरिसपत्नारिद्विषद्वेषणदुहृदः” इत्यमरः । (३) अनाशिपि लिछोऽर्थे लुङ् (पा० ३।३।१७५ ) ॥ (४) भ्राता सोदर्य एकपितृजो (बैमात्रेयो) वा । तदभावे म्रातृस्थानीयोयः क- श्चित् । तथाचायलायनायनगृह्यसूत्रम् "भ्राता भ्रातृस्थानोवा लाजानावपतीति। ते चोक्का गृह्यकारिकायाम्- "भ्रतृस्थानः पितृव्यस्य मातुलस्य च यः सुतः । मातृष्वसुः सुतस्तद्वत्सुतस्तद्वपितृष्वसुः ॥” इति ॥
२ कण्डिका गोभिलगृह्यसूत्रे-- । तल्लाजाञ्चलिम् । सा-वधूः । उपस्तीर्णाभिधारितम् । अचलावाज्यं सिक्त्वा(१) लाजान्निःक्षिप्य पुनराज्येनाभिधारितमित्यर्थः । अविच्छिन्दत्यञ्जलिम् । वरा- जलेविच्छेदमकुर्वती । होमप्रकारः शाखान्तरे पठ्यते-- "अमुल्यत्रैर्न होतव्यं तथाचाजलिभेदतः । अजलीवामपार्श्वन लाजहोमोविधीयते ।।" इति । अत्र होमे मन्त्रमाह--इयमिति । अत्रभाष्यकारः । अनेन वरपठि- तेन मन्त्रेणेत्यर्थः । इयमिति मन्त्रलिङ्गात् । 'अझैह वा एष आत्मनोयज्जाया नामे"ति वाजसनेये ब्राह्मणे पठ्यते । अतः शरीरार्द्धन चेतिक्रयते तहि स्वयमेव क्रियत इत्येवमभिधाय- "विवाहे योविधिः प्रोक्तोमन्त्री दाम्पत्यवाचकाः । वरस्तु ताजपेत्सर्वानृत्विग्राजन्यवैश्ययोः ॥" इति गृह्यासङ्ग्रहवचनं(२) प्रमाणयति । वस्तुतस्तु-सूत्राद्धोममन्त्रपाठयो. र्लाघवेनौत्सर्गिकसमानकर्तृकत्वलाभादियं मद्रूपा नारीत्यर्थकतया मन्त्रलिङ्गोप- पत्तश्च वधूकर्तृक एव मन्त्रपाठोऽपि । न च स्मृतेःश्रुत्यवाधकत्वान्मन्त्रस्या- र्थान्तरकरणं किन्तु सूत्रं यैकदेशकीर्तनमतस्तत्रैव शेषादिपूरणमवश्यकर्त्तव्यं मन्त्रलिङ्गादिति वाच्यम् । वरपठनीयत्वेऽपि दीर्घायुरस्तु मे पतिरित्यादिमन्त्र- लिङ्गस्य परिहर्तुमशक्यत्वात् । न च तत्र वरस्यानुवादकत्वं, वध्वाः पूर्वमनुक्त- स्वादिति। एवञ्च सकलमैथिलाचारोऽपि सङ्गच्छते। पद्धतिरप्येवं लिखित- (गृ० सं० ) वाक्यं विशेषविध्यबोधितपरमतो न विरोधइतिमुरारिमिश्राःप्राहुः । मन्त्रोयथा-"इयं नायुपबूतेऽग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिः शतं वर्षाणि तीवत्वेधन्तां ज्ञातयोमम स्वाहा” ॥२॥ इति ।। अस्यार्थ:-पतिब्रवीति-'इयं' 'नारी' स्त्री 'उपे'त्याग्निं 'व्रते' प्रार्थयते । किङ्कुर्वती 'अग्नौ' 'लाजान्' भृष्टधान्यान् 'आवपन्ती'मर्यादया क्षिपन्ती । किं ? 'मे' मम 'पतिः' भर्ती 'दीर्घायुरस्तुतदेव विवृणोति-'शतं वर्षाणि जीवतु' । (१) अभिधारणञ्चाज्येन शमीपलाशमिश्राणामेव लाजानामन्यथा तनिषेधात्। तदुक्तं गृह्यासाहे-"सोमप्रकृतिरेषा हि लाजानाश्रित्त्य तिष्ठति । विरुद्धमाज्यं सोमेन नाभि. धारणमर्हति ॥ शमीपलाशमिश्राणां लाजानामभिधारणम् । पूर्वाणासुपक्लसानामाचार्य: कल्पितं यथेति । लाजहोमश्चायं कनिष्ठामुलात्मकसोमतीर्थेन कार्य इतिमुरारिमित्राः प्राहुः । उक्तवचने-सोमाज्यविरोधे प्रमाणन्तु लाठ्यायनीयं सामश्रौतसूत्रमपि "न राजा. नमालभ्यानुपस्पृश्याप आज्यमालभेरन् । तथाऽऽज्य राजानं सर्वत्रेति। अस्यार्थः । सर्वत्र ऋतुषु । राजानं सोममालभ्य स्पृष्ट्वा अपोऽनुपस्पृश्य हस्तप्रक्षालनमकृत्वाऽऽज्य घृतं नालभेरन् । तथाऽऽज्यमालभ्यानुपस्पृश्यापो राजानं सोमन्त्रालभेरनस्पृशेयुरिति । (२) कर्तृपदमेतत् ।
१४- विवाहविधिः। [२ प्रपाठक - इति । किञ्च 'मम' 'ज्ञातयः' बान्धवाः । 'एधन्ताम्' वर्द्धन्ताम् , धनधान्यपुत्रा. दिभिः । इदचास्मा अग्नये स्वाहा' सुहुतमस्तु ॥२॥६॥ "अर्यमणन्तु देवं" "पूषणमि"-त्युत्तरयोः ॥ ७ ॥ (म० ब्रा० १।२ । ३-४) उत्तरयोाजहोमयोर्यथा "अर्यमणन्नु देवं" "पूषणन्नु देवम्" इति मन्त्री विनियोक्तव्यावित्यर्थः । तौ यथाक्रमम्- "अर्यमणन्नु देवं कन्या अग्निमयक्षत । स इमान्देवाऽअर्यमा प्रेतोमुञ्चातु माऽमुतः स्वाहा" ॥३॥ इति । अस्यार्थः-नुशब्दोऽत्र चार्थे । 'कन्याः' कर्व्यः । 'अर्यमणं' तदाख्यं 'देवम्' अभिमत दानादिगुणयुक्तम् । 'अग्नि' च 'अयक्षत' इष्टवत्यः । (पूजितवत्यः ) 'स' च ( अर्थमा अग्निश्च ) इष्टः सन् ‘इमां' कन्यां परिणी- यमानाम् । 'इतः' पितृकुलात् 'प्रमुञ्चातु' प्रमुञ्चतु-प्रमोचयतु । 'मा' न 'अमुतः' अमुष्मात्पतिकुलात् । तदेतत् ताभ्यां 'स्वाहा' सुहुतमस्तु । अत्र पूर्वा- ढेन विशेषोपसंहार इति गुणविष्णुः । मुञ्चात्विति दीर्घश्चान्दसः । अन्तर्भावि- तण्यर्थश्चैवमग्रेऽपि (पा०६।३।१३७ ) एवमग्रेऽपि । "पूषणन्नु देवं कन्या अग्निमयक्षत। स इमान्देवः पूषा प्रेतो मुश्चातु मा पतेः स्वाहा ॥४॥ इति । अर्थः प्राग्वत् । अत्र पतेरिति-पतिशब्दो न मुख्यार्थकः(१)। ला. जहोमकर्मण आसमाप्तस्तथात्वाभावादितिगुणविष्णुः ।। ४ ।। हुते पतिर्यथेतं परिक्रम्य प्रदक्षिणमग्निं परिणयति मन्त्रवान्वाब्राह्मणः "कन्यला पितृभ्य" इति ॥ ८॥(मं० ब्रा० १।२।५) हुते-वध्वा (२)लाजहोमे कृते पतिः यथेतं यथाऽऽगतं(३) परिक्रम्य पुन- रागम्य प्रदक्षिणं यथा भवति तथा पत्नीमग्निं परिणयति परिसर्वतोभावेन न येत् । अग्निप्रादक्षिण्येन भ्रामयेदित्यर्थः । "कन्यला पितृभ्य" इति-अनेन मन्त्रेण । यन्त्रोयथा- "कन्यला पितृभ्यः पतिलोकं यतीयमप दीक्षामयष्ट । कन्या उत त्वया वयं धारा उदन्या इवाऽतिगाहेमहि द्विषः" ||५|| (१) किन्तु-पतिरित्याख्यातः पतिः । "नष्टे मृते प्रव्रजिते की तु पतिते पतौ" इति- वत । अख्यानणिजन्तात्कर्मणि विपि टिपलोपे मिलोपे च कृते "इन्सर्वधातुभ्या इत्यौणा- दिकइन् प्रत्ययः । “गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः” इतिन्यायेन पतिसमास एवे" (पा०४८)ति नियमोन प्रवर्ततेऽत्र॥ (२)हुत इत्येकवचनसम्बन्धादेकस्मिन्नेव लाजाखलौ हुते इत्यर्थः । अन्यथैतदनर्थक स्यादिति चन्द्रकान्तः । (१) यथा वध्वाऽनुपृष्टमितमागमनं कृतं पत्नीदक्षिणस्यान्तथैव । - ।
२ कण्डिका गोभिलगृह्यसूत्रे- इति । अस्यार्थः । इयं' 'कन्यला' कन्या(१)। "पितृभ्यः' पितृकुलात(२) 'पतिलोक' पतिगृह (३) 'यती' (४)गच्छन्ती । 'अपदीक्षा' दीक्षां वर्जयित्वा(५) 'अयष्ट' इष्टवती। दीक्षापदेनाऽत्रवैवाहिक(६) व्रतमुच्यते । 'उत' अपि च । 'कन्या' हे कन्ये ! (७) त्वया' सहिता(८) “वयं' 'द्विषः' शत्रून् कामादीन् 'अतिगाहेमहि अतिक्राममहि(९) । अत्र दृष्टान्त:--'धाराः' जलस्य ( सुसी- तलाः) कर्व्यः 'उद्दन्याः' (१०)पिपासाः कर्मभूताः 'इव'। ता (धाराः) यथा ताः (पिपासाः) शमयन्ति तद्वत् ॥ ५ ॥ "यतीयमिति मन्त्रलिङ्गान्मन्त्रं पठन्परिणयतीति गम्यते । सोऽयम्पतिर. ब्जलिमविमुञ्चन्नेव पत्नीम्परिणयतीत्यवोचाम । कस्याञ्चिदापदि पत्युरसामर्थ्य अन्योवा मन्त्रवान् अधीतवेदोब्राह्मणः परिणयति । वाशब्दाजघन्योऽयं पक्ष आपत्सु समाद्रियते । अस्मिन्नपि पक्षे पतिरेव मन्त्रं पठति । "स्वया वयं द्धि- षोऽतिगाहेमही"ति मन्त्रलिङ्गात् । अत्र चाग्निप्रदक्षिणे लाजादीनामपि प्रदक्षि- णमुक्तं गृह्यासंग्रहे- "लाजानाज्यं स्रुवकुम्भं प्राजनाश्मानमेव च । प्रदक्षिणानि कुयोता दम्पती न विनाग्निकम् ।। प्राजग्राहमुदगग्राहं तथा ब्रह्माणमृत्युजम् । एतानि बाह्यतः कृत्वा शेषाणान्तु प्रदक्षिणम् ।। दक्षिणान्दिशमाश्रित्य यमोमृत्युश्च तिष्ठतः । तयोः संरक्षणार्थाय तस्माद्ब्रह्मा बहिर्भवेत् ॥" इति । लाजादीनाम्प्रदक्षिणकार्यम् । प्राजग्राहादीनान्न कार्यमित्यर्थः ॥ एव- ञ्चाग्निप्रदक्षिणकाले कलशः स्कन्धदेशावतार्य शुचौ देशे स्थाप्यस्तेन तस्य (१) स्वार्थ लंध् । "तद्धिता:" ( पा० ४।२७६ ) इत्यधिकारसूत्रे बहुवननिदेशेना- नुक्तेण्टिकनादिवदस्याष्यल्पाणे स्वार्थे वा विधानानुमानात् ॥ (३) पतिलोकमित्येतत्साहचर्यात् बहुत्वमार्षम् । (३) पतिर्लोक्यते दृश्यते यत्रेत्यर्थाद्गृहमुक्तम् । कुलं गृहमित्यनान्तरम् "कुलं जनपदे गोने सजातीयगणेष्वपि । भवने च तनौ क्लीबमिति मेदिन्यभिधानात् ॥ (४) एतेलेटःशतरि यण ( पा०६।४।८१) डीप् । (५) अपपरी वजेने भवतः ॥ (६) गुणविष्णुस्तु-त्रिरात्रमक्षारलवणाशिनावित्यादि व्रतमत्रोक्तवान् । (७) वर्णव्यत्ययआषः । (पा० ३।११८६)। (८) सहायोगे तृतीया (पा० २।३।१९)। (९) "गाहविलोड़ने" (भ्वा० आ०) विलोड़नं विनाशः। अतिगाहनमतिक्रमण विनाशनमित्यनान्तरम् ॥ (१०) "उदण्या तु पिमासा तृट् इत्यमरः ।
१५० विवाहविधिः। [२ प्रपाठक MARA प्रदक्षिणाऽन्तर्भावः । तद्धारकस्य बहिर्भावश्चोपपद्यत इति ध्येयम् । एवम- न्यत्र॥८॥ परिणीता तथैवाऽवतिष्ठते, तथा कामति, तथा जपति, तथाऽs वपति, तथा जुहोति ।। 8॥ परिणीता-बधः । तथैवानुपृष्ठगमनेन दक्षिणस्थामुदङ्मुखाऽवस्थितेन पत्या गृहीताऽब्जलिः प्राङ्मुखः । अवतिष्ठते-ऊर्ध्वस्तिष्ठति । तथेति । अश्मा रोहणादि परिणयनान्तङ्कम उक्तेनैव प्रकारेण वारत्रयङ्कुर्यात् । जपति-पठति ( "पाणिमाह" इति शेषः ) आवपति-अजलौ लाजान् । माता-भ्रातावा ॥९॥ एवन्त्रिः॥ १०॥ एवमुक्तप्रकारेणानन्तरोक्त सर्व त्रि-रित्रयङ्कर्त्तव्यमित्यर्थः । एवञ्च-"इम- मश्मानमिति "कन्यला पितृभ्य इति च मन्त्रावावर्तनीयौ। तत्रात्तरयोर्म- न्त्रविशेषावुक्तावेवेति ॥ १०॥ चतुर्था वेलायाम्- शूर्पण शेषमग्नावोप्य प्रागुदीचीमभ्युत्क्रामयन्ति-'एकमिष" इति ॥ ११॥ ( म० ब्रा० ११२:६) शूर्पण-शूर्पकुष्ठेन(१)। शेषं-लाजशेषम्(२)। अग्नौ समिद्धेोप्य(३) (१) तथाच पारस्करगृह्यम्-"चतुर्थं शूर्पकुष्ठेनेति । कुष्ठं-जिह्वास्य । तथाच गृ. ह्यासङ्ग्रहे-“यथा लाजाञ्जलिवंध्या हूयतेऽङ्गुलिपर्वभिः । एवं लाजहविःशेषो हृयते शूपैजिह्वयेति । यत्तु शूर्पकोणेनेति चन्द्रकान्तस्तन्न-"अग्रे च विधवा नारी कोणे चैव मृतप्रजा । जुहुयाच्छूपंकुष्ठेन न चाग्रेण न कोणयोः" इति परिशिष्टान्तरदर्शनात् । सौक- यार्थमेतत् । एवं हि सर्वेषां लाजानामावाद: सुकरो भवति । इतरथा विकीणीनामनमा. वपि पात: स्यात् ॥ (२) अनोपस्तीर्णाभिधारितमिति भवदेवभवादयः। शेष इति वचनात्सर्वावापो- ऽवगम्यते । न किञ्चिदवशेष्यमित्यर्थः । (३) अनोप्येति वचनातूष्णीमस्य प्रक्षेपः। मन्त्रदेवतयोरनुपदेशात् । तस्मादत्र स्विष्टकृत्रिवत्तते । इत्थमेव शेषस्योपक्षयात । तथाच गृह्यान्तरम् “शूपैपुटेनाभ्यात्म तू- ष्णीञ्चतुर्थम् ।" इति । अन्न तृष्णीमिति वचनं प्राजापत्यज्ञापनार्थमिति गार्यनारायणः । युक्तञ्चैतत् । "आज्यन्द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजाप- तिरिति स्थितिरिणति छन्दोगपरिशिष्टात् । "त्रिपरिणीता प्राजापत्ये जुहोतीति च गृ. शान्तरम् । तस्माद्वधः शेषजुहोति वरश्च प्रजापति ध्यायतीति सिद्धम् । स्मरन्ति च- "शुपांग्रेणैव होतव्यं तृष्णी निरवशेषतः । तस्मात्तूष्णीन्तु जुह्वत्यां वरोध्यायेत्प्रजाप- तिम् ।" इति । “प्रजापतिश्चतुर्थ्यन्तं स्वाहायुक्तं वरःस्मरेत् ।" इति चैवमादि। "त. स्मादग्नये स्विष्टकृते स्वाहेति लाजशेषं जुहुयादिति भवदेवरघुनन्दनादिमतमसङ्गतं, प्रमाणविशेषाभावाच्च । एतदनन्तरं वामदेव्यगानम् इति सरलाकारकल्पनायामपि प्रमा. णान्तरणपश्यामः । “वामदेव्यं गणेष्वन्ते" इति कर्मप्रदोपविरोधात् ॥ ।
RPAN २ कण्डिका]] गोभिलगृह्यसूत्रे- १५१ प्रक्षिप्य । शेषहोमकृत्वाऽवस्थितां वधू(१) प्रागुदीचीमैशानी दिशम् । अभि वराभि(२)मुखीम् । उत्क्रामयन्ति-दक्षिणपादाङ्गुष्ठमुन्नाम्य वामञ्चानु(३)गम. यन्ति “एकमिष" इत्येवमादिभिः सप्तभिर्मन्त्रावयवैः। प्रतिमन्त्रमेकैकः पाद- न्यास इत्यर्थः । बहुवचनादनियतः कर्त्ता । मन्त्रा यथा--. "एकमिषे विष्णुस्त्वा नयतु १ द्वे ऊर्जे वि०२ त्रीणि व्रताय वि० ३ चत्वा- रि मायोभवाय वि० ४ पञ्च पशुभ्यो वि० ५ षडायस्पोषाय वि० ६ सप्तसप्त- भ्योहोत्राभ्योविष्णुस्त्वा नयतु ७॥ ६॥ अस्यार्थ:-हे कन्ये ! विष्णु'विश्वव्यापकोनारायणः । 'त्वा' त्वाम् 'इथे' अन्नाद्यर्थलाभाय (नि० २७१४८) 'एक' पदम् । 'आनयतु।१। एवम् 'उर्जे' बललामाय(४)।२। 'प्रताय' यज्ञकर्मणे(५) (निघं०२:१११७ )।३। 'मायोभवाय' सुखप्राप्तये(६)1 (निघं० ३१६ । ७)। ४ । 'पशुभ्यः' (७)पशु- प्राप्तये । ५ । 'रायस्पोषाय' धनपुष्ट्य (८)। ६ । 'सप्तभ्यो' 'होत्राभ्यः' अच्छा- वाकादिभ्यः(९)। ७ । इति ।। ११ ।। दक्षिणेन प्रक्रम्य सव्येनानुक्रामेत् ।। १२ ॥ दक्षिणेन-पादेन । प्रक्रम्य-गत्वा । अनु-पश्चात् । सव्येन-चामेन । कामेत्। गच्छेत् । क्रममाणा सव्यं (१०)पादमप्रतो न कुर्यात् । इत्यर्थः ।। १२ ।। ताञ्च क्रामन्ती पतिः- "मा सव्येन दक्षिणमतिकामे"ति ब्रूयात् ॥ १३॥ अत्र “पतिर्वधूमि"ति शेषः । सव्येन-वामेन । दक्षिण-पादं माऽतिक्राम । अग्रतोवामपादम्मा कार्षीरित्येवं ब्रूयात् । अत्र “सखा सप्तपदी भवे"ति मन्त्र. (१)कउपपत्तये स्थितमित्यध्याहृतं वेदितव्यम् ॥ (२) वरन्तिर्यपश्यन्ती पृष्ठतोऽग्ने पादप्रक्षेपङ्कुर्यात् । इति भावः । (३) पश्चात्प्रक्षेपयन्ति । अनायमाशयः । वामाङ्गी जाया सा सर्वदा पश्चात्पत्युर. वतिष्ठेत । इत्येत्या दृष्टान्तभूतयाऽऽवृतेति । (४) "ऊर्जबलप्राणनयोः" (चु. ५०) किए ॥ (५) तथाच निरुकम् “व्रतमिति कर्मनाम वृणोतीति सतः" इति ( २११३५८) ॥ (६) मय इति सुखनाम ( निध० ३६७) दीर्घ आर्षः। (पा० ६॥३॥१३७) मा यसो भवनं मायोभवः । भवतेः "ऋदोर” (पा० ३।३।५७ ) इति भावेऽष्प्रत्ययः । (७) तादयें चतुर्थी ( पा० १।४।४४वा० ) वादथ्यमुपकार्योपकारकभावः । (८) रै इति धननाम ( निघे० २।१०।१६) ततः षष्ठी । पोषणं पोषोध।। षष्ट्याः पतिपुत्रे" (पा० ३।९३ )त्यादिना सत्वम् "अर्थ रैविभवाअपोणत्यमरोपि॥ (९) होत्राशब्द ऋत्विग्वाचीति "होत्राभ्यश्छन्दसी (पा० १२१३५)ति सूत्रे वृत्तिकृतः प्राहुः ॥ (१०) सव्यपादस्याने निधानं गमने स्त्रीस्वभाव इति प्रतिषिध्यते।। GHALI ૨૫૨ विवाहविधिः। [२ प्रपाठके- MARRIEDO । स्याशंसने पद्धतिकृता विनियोग उक्तः । युक्तश्च तथा मन्त्रलिङ्गात् । इतिमुरा- रिमिश्राः शुभकर्मनिर्णये प्राहुः । मन्त्रो यथा- "सखा सप्तपदी भव सख्यन्त गमेयम् । सख्यन्ते मा जोषाः । सख्यन्त मा योष्ठयाः ॥ ७॥ (मं० ब्रा० ०२१७) इति । अस्यार्थः । पतिः कन्यां प्रार्थयते-हे कन्ये! त्वं मम 'सखा' सखी(१) सती 'सप्तपदी' सप्तपदाऽऽक्रान्तेष्वर्थेषु सहचारिणी 'भव' अहं 'ते' तव 'सख्यं' (२)मैत्री 'गमेयं तव(३) सखा भवेयमित्यर्थः । किञ्च 'ते' तव । मया सह यत् 'सख्यं तत् अन्याः योषाः' स्त्रियः । तेसपल्यः 'मा' “छिन्दन्तु" इतिशेषः । किञ्च 'मायोष्ठयाः'(४) सुखकारिण्यः स्त्रियः । 'ते' त्वया(५) सह । 'सख्यं "कुर्वन्त्वि-"ति शेषः ॥ ७ ॥ ईक्षकान्प्रतिमन्त्रयेत "सुमालीरियं वधूरि-ति ॥ १४ ॥ (म० ब्रा० १२१८) ईक्षकान्-वधू प्रेक्षितुमागतान् । प्रतिमन्त्रण-मनुमन्त्रण-मित्यनर्थान्त. रम् । तश्चात्रेक्षकानवलोकयता कर्तव्यम् । योग्यत्वात् । तदाह कर्मप्रदीप:- "स्पृशन्ननामिकाग्रेण कचिदालोकयन्नपि । अनुमन्त्रणीयं सर्वत्र सर्वदेवाऽनुमन्त्रयेत् ॥” इति । मन्त्रोयथा- "सुमङ्गलीरियं वधूरिमा समेत पश्यत । सौभाग्यमत्यै दत्त्वायाथास्तं विपरत न ॥ ८॥ इति ॥ इति । अस्यार्थ:-हेप्रेक्षकाः ! 'इयं वधूः' 'सुमङ्गली: (६) प्रशस्तमङ्गल- वती परिणीता यतोऽतो यूयं 'समेत' समागच्छत । समागत्य च 'इमा 'पश्यत' । 'अथ' अनन्तरम्। 'अस्यै' वध्वै 'सौभाग्यं' सुभगात्वं 'दत्त्वाय' दत्त्वा । (७)यूय- म् 'अस्तं' स्वगृहम् (निपं० ३।४।५) 'विपरेतन' विपरेत(८)। गच्छत । यद्वा- - (१) "सख्यशिचीति भाषायाम्" (पा० ४११६२ ) इतिस्मरणाद्वेदे सखेत्येव- भवति॥ (२) "सख्युर्य (पा० १२१२६) इति भावे यप्रत्ययः । (३) अन्न "लिड्याशिष्य (पा० ३।२८६ ) इत्यड़ागमः। अत्र गमेयमित्यु. क्यात्वद्विरुद्ध नाचरेयमित्यपि गम्यते॥ (४) मय एव मायः । सुखम् (निध० ३।६७) दीर्घ आषः । (पा०६।३।१३७) तस्य स्थानं मायोष्ठम् । तत्र भवा मायोष्ठयाः । “भवेच्छन्दसि” (पा० ४।४।११०) इतियत्प्रत्ययः॥ (५) तृतीयायें षष्ठी ( पा० २।३०६८) बाहुलकात। (६) "छन्दसीवनिपौ च वक्तव्यो” (पा० दा२।१२२) इति मत्वर्थ ईप्रत्ययः । (७) "को यक् (पा०७२४७) इति यगागमः । (८) "तमनप्तनथनाश्च" (पा० ७॥१॥४६) इति तस्य तनबादेशः । - २ कण्डिका गोभिलगृह्यसूत्रे- दत्त्वा-याथ । यात(१) 'नविपरेत' विमुखतया न परा-इत ( नापगच्छत) किन्तु-पुत्रादिमङ्गलमाशास्य पुनरागमनाय बजतेत्यर्थः ॥ ८॥ १४ ॥ अपरेणाग्निमौदकोऽनुसंबज्य पाणिग्राहं मूर्द्धदेशेऽवसिञ्चति । तथेतरां "समञ्जन्त्वे"-तयर्चा ॥१५॥ (म०ब्रा०२।२।६) अपरेणाऽग्निम्(२) । अग्नेः पश्चिमया दिशा। औदक उदककलशधारी (३)पुरुषः । अनुसंबज्य संवृतगतिरेत्य "सप्तपदीस्थानमि"तिभवदेवभट्टः । पूर्वा- वस्थितः। पाणिग्राहं वरं मूर्द्धदेशे शिरसि । अवसिञ्चति-अभिषिञ्चति कलशस्थाभिध्रुवाभिरद्भिः । तथा-तेनैव प्रकारेण इतरां-वधूमप्यभिषिञ्चतीत्य. र्थः । तत्र मन्त्रमाह-"समब्जन्वि"तिएतया वरपठितया । मन्त्रालिङ्गात् । नहि नौ आवयोहृदयानि समब्जन्वेकीकुर्वन्वित्येतन्मन्त्रलिङ्गमौदकपठनीय- त्वे सङ्गच्छते । इति कौमुदी-नारायण-शुलपाणिप्रभृतयः। पद्धतिकृतस्तु- अवसेचनमपि वरकर्तृकमेव लिखन्ति । तेषामयमाशयः । क्रियाकरणयोः स. मानकर्तृकत्वे सम्भवति भिन्नकर्तृकत्वं न युज्यते इत्यवसेचनमपि वरकर्तृ कमेव । नच सूत्रविरोधः। सूत्र हि दिगुन्नायकमतस्तत्र शेषादिकल्पनेनापि सर्वसामञ्जस्यात् । तथाहि औदकोगत्वा ( तिष्ठति । स्वं ) प्राणिग्राहोऽवसि- ञ्चति । यद्वा-प्रौदकोऽवसेचयति तदनुकूलक्रियायाः प्रयोजकोभवति । अव- सेचने स्वतन्त्रः कर्ता वर एव प्रकरणान्मन्नलिङ्गाच्चेति । होरिलोऽप्येवम्" म- न्त्रोयथा-"समजन्तु विश्वेदेवाः समापोहृदयानि नौ । सम्मातरिश्वा सन्धाता समुदेष्ट्री दधातु नौ” ॥९॥ इति । अस्यार्थ:-हे कन्यके ! 'विश्वे' सर्वे 'देवाः' । यद्वा "विश्वेदेवा दश स्मृताः" इत्यभिधानाद्गणदेवताभेदाः । 'नौ' आवयोः 'हृदयानि' हृदये (४)मनसी) 'समजन्तु' शोधयन्तु (अकलुषीकुर्वन्तु(५) 'आप:' जलानि । तदधिष्ठा- त्र्योदेवताः 'सं' समजन्तु । “उपसर्गबलायोग्यक्रियाऽध्याहार इति नियमात् । एवमग्रेऽपि । अत्रापि कर्म त एव (हृदये)। एवम् 'मातरिश्वा' वायु:(६) । 'सं' । (१)तस्य थः (पा० १११४५)। (२) एनबन्तयोगेऽन्न द्वितीया (पा० २।३।३१) षष्ट्यर्थे । (३) गृहीतोदकुम्भएव । शैषिकोऽत्राणू । (पा० ४।२।९२) तद्वहतीत्यर्थे । (४) और शस् व्यत्ययेन । (पा० ३।११८२ ) “चित्तन्तु चेतोहृदयं स्वान्तं हृन्मा. नसमनः इत्यमरः॥ (५) सम्मेलयन्त्वित्येके प्राहुः । उपस्नेहयन्त्वित्यपरे। "अजूव्यक्तिम्रक्षणकान्ति. गतिषु" [रु०प०] लोट् ॥ (६) वसनः स्पर्शनोवायुम्मातरिया सदागतिरिश्त्यमरः । २० गो० गृ०सू विवाहविधिः। [२ प्रपाठके- । 'दधातु'(१) । तथा धाता' प्रजापतिः स धातु । 'देष्ट्रा' धर्माशुप(२) देष्ट्रा- (वाग देवता) 'सं' धातु । सुस्थिते करोतु। अत्र नौ इतिपुनः प्रयोग आदरार्थः। उ: पादपूरणः । यद्वा पलोप एवार्षः (पा० ३।११८५ ) ॥ इति ॥ ९ ॥ ऋगेषा पुरस्तादपि (२०१११८ सूत्रे) उपात्ता पद्धतिक्रमेण । स एष पुनरुपन्यासोऽस्या वरस्यानेन कन्याऽभिमुखीकरणाय । येन पश्चाद्वरोनानुतपेत् । अतएवात्रापि कन्यावस्योः सम्मुखीकरणं पद्धतिषूक्तम् ॥ अत्र वरवध्वोरभिषे. कमन्त्रस्याभ्यासः । “तथेतरामि"ति भेदेनोपन्यासादितरथा समासः स्यात् । तथाच सूत्रान्तरम्-"भेदे मन्त्रावृत्तिः सम्पातित्वादिति । तथा चोक्तम्-"क- मावृत्तौ तु मन्त्रस्याप्यावृत्तिर्गृह्यकर्मणि" इति । गृह्यासंग्रहे- "अभिषिक्तन्तु विधिना पाणिग्राहन्तु प्राजनी। रक्षार्थमनुगच्छेत सप्ताहन्त्र्यहमेव वा ॥” इति ।। प्राजनी-प्राजन-(प्रतोद-) वान् । पूर्वनिर्धारितः स्वकार्यमिदमनुतिष्ठे. दित्यर्थः । मत्वर्थ इनिः । (पा० ५।२।१२५)॥ १५ ॥ अवसिक्तायाः सव्येन पाणिनाऽञ्जलिमुपोद्गृह्य दक्षिणेन पाणिना दक्षिणम्पाणिसाङ्गुष्ठमुत्तानगृहीत्वैताः षद् पाणिग्रहणीया जपति"गृभ्णामिन"इति ॥ १६ ॥ (मं० ब्रा० ११२।१०-१५) अत्र सेकस्थानस्थाया एवान्जलिग्रहणप्राप्त्यर्थमवसिक्ताया इति निर्देश इति भाष्यकृतः । अवसिक्तायाः कृताभिषेकायाः । उपेतिसामीप्ये । तथाच म- णिबन्धप्रदेशे उत्तानं गृहीत्वेत्यर्थः । (३)पाणिग्रहणीयाः पाणिग्रहणकर्मणि नियुक्ताः(४)। जपति-प्रकृतत्वाद्वरः । “गृभ्णामित" इत्यादिका ऋचः । तायथा- "गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टियथासः । भगोअर्यमा सविता पुरन्धिर्मान्त्वादुर्हिपत्याय देवाः” ॥ १० ॥ हे कन्ये ! 'ते' तव 'हस्त' साङ्गुष्ठं करमहं 'गृभ्णामि' गृह्णामि(५) । 'यथा' (१) व्यवहितोपसर्गप्रयोगः (पा० १०४५८३ ) आर्षः ॥ (२) उपसर्गेण धातुरिव धातुनोपसर्गोऽप्यध्याहार्य इति । (३) "उत्तानेनोत्तानं गृह्णाति । नीचेन चोत्तानम्" इति शास्त्रान्तरदर्शनात् । अ. नेनेति सव्याभिप्राय, नीचेनाधोवनतेनेति दक्षिणाभिप्रायम् । तथाच सव्येन कर. स्य पृष्ठग्रहणं प्रतीयत इति रघुनन्दनवणेनं शोभनमेव ॥ (४) पाणिग्रहणार्थबोधिका इति यावत् । शैषिकरछस्तस्येयादेशः ॥ (५) "हमहोभक्छन्दसि" (पा० ३।१।८४ वा०) इति हस्य भत्वम् ।
MIND ३ काण्डका ] गामिलगृह्यसूत्रे- येन हस्तग्रहणप्रकारेण । 'पत्या' 'मया' सह त्वं 'जरदष्टिः' जर(१)च्छरीरा 'आसः' भवे:(२)। हस्तग्रहणे कुतस्तवाधिकार इत्याकाङ्घायामाह-'भग' इत्या- (३)दयः देवाः' 'वा' त्वाम् ‘मह्यम्' 'अदुः' दत्तवन्तः । किमर्थम् ! 'गार्हपत्या- य' गृहस्वामित्वाय । भाविगार्हस्थ्यं सेवितुं वा । गार्हपत्याग्निसेवायै वा । किञ्च 'सौभगत्वाय' सुभगानां समूहः सौभगं तस्याभावः सौभगत्वम् तस्मै ( तदर्थम् ) निरतिशयानन्दावाप्तये । इत्यर्थः । यद्वा-किमर्थ हस्तं ते गृह्णामि ? सौभगवाय सुभगात्वाय । ( सौभाग्याय ) मया गृहीतहस्तायास्ते सुभगात्वं-सुवासिनीत्वं भविष्यतीति स्वार्थेऽत्राप्रत्ययः ॥१६॥ "अघोरचक्षुरपतिन्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । बीरसूर्जीवसूदेवकामा स्योना शन्नो भव द्विपदे शञ्चतुष्पदे" ।। ११ ॥ अस्यार्थः-हे कन्यके ! त्वम् 'अघोरचक्षुः' सौम्यदृष्टिः । अपापदृष्टिा । 'अपतिधनी'जीवभर्तृका च 'एधि'भव । एतस्मात्संस्कारात् । एवं 'पशुभ्यः' गवादिभ्योऽस्मदाश्रितेभ्यः 'शिवा' हितैषिणी भव । 'सुमनाः' सुप्रसन्नचित्ता । 'सुवर्चाः' उज्ज्वलरूपा (वस्त्रालङ्कारादिभिः) 'बीरसू: सुपुत्रजननी । 'जीवसूः' अमृतप्रजा । 'देवकामा'देवानगन्यादीन्कामयतेऽभिलष्यति परिचरणाय । सा तथाभूता । यद्वा-देवनं देवः क्रीड़ा । तत्कामा । 'स्योना' सुखकरी (निघ० ३। ६।१५) त्वं 'नः' अस्माकं 'द्विपदे' भृत्यादिपोष्यवर्गाय(४)। तथा 'चतुष्पदे' पशुवर्गाय । 'शं' सुखहेतु भव' ॥ ११ ॥ इति ।। "आ नःप्रजां जनयतु प्रजापतिरा जरसाय समनरकर्यमा । अदुर्मङ्गलीः पतिलोकमाविश शन्नोभव द्विपदे शञ्चतुष्पदे" ॥१२॥ अस्यार्थः-'प्रजापतिः' स्रष्टा (ब्रह्मा) 'न:' अस्माकम् 'प्रजाम्' पुत्रपौत्रा. दिरूपाम् । 'आ जनयतु(५) समन्तात् उत्पादयतु। 'आ जरसाय' जरापर्य(६) न्तम् । अथ 'अर्यमा' देवः 'समनक्तु' प्रकटगुणां करोतु तामेव प्रजाम् ॥ हे कन्यके ! 'मङ्गलीः (७) मङ्गल्योमङ्गलवत्योदेवता. ! 'त्वा' त्वां, मह्यम् 'अदुः' दत्त- (१) बहुवर्षायुष्मतीवृद्धा । जरन्तं जरास्वम् ( वृद्धात्वम् ) अवनोतीति कित्संज्ञा- याम् । (पा० ३।३।१७४ ) शस्य षत्वं ष्टुत्वं च । (२) व्यत्ययश्चान्दसः । (३) अत्र भगोऽयमा इत्यसन्धिः (पा०६१११११५ ) प्रकृतिभावात ॥ (४) व्यवहितोपसर्गप्रयोगश्चान्दसः (पा० १४८२)। (६) व्यत्ययेन पञ्चम्यथें चतुर्थी । ( पा० ३३१४८५) "शरदादित्वात्" (पा०६।४ १०७) टसमासान्तः । “जराया जरश्चस्व" (ग० सु०) इति टच्सन्नियोगेन जरसादेशा (६) मत्वर्थे ई प्रत्ययः ( पा० ५।२।११२ वा० ) छान्दसः । "दीर्घाजसिवा. छन्दसि (पा०६।११०५-६ ) इति वा पूर्वसवर्णदोषः ।
विवाहविधिः। [२ प्रपाठके वत्यः । सायणस्तु-अदुमङ्गलीः । दुर्मङ्गलरहिता सुमङ्गलीस्त्वमिति व्याचख्यौ। (ऋ० सं० ८।३।२८।३)। अतस्त्वम् । 'पतिलोकम्' पदिगृहम् । 'आविश' प्राप्नुहि । अथ च 'नः' अस्माकं 'द्विपदे' चतुष्पदे' च 'शं' भवेत्युक्तार्थकम्॥१२॥ "इमान्त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृधि । दशास्यां पुत्रानाधेहि पतिमेकादशं कृधि ॥ १३ ॥ अस्यार्थ:-हे 'इन्द्र' ! 'वं' 'मीढ्वः' सेचकः। (निषेक्ता ) रसाधिष्ठात. स्वात्(१)। 'इमां' वधूं 'सुपुत्रां' शोभनपुत्रवतीं 'सुभगां' सौभाग्यवतीञ्च'कृधि' (२)कुरु । किञ्च 'अस्यां' वध्वां 'दश' दश संख्याकान् 'पुत्रान्' "आधेहि गर्भी- कुरु । 'पति' भारञ्चास्या माम् 'एकादशम्' एकादशानां संख्याना(३)पूरकम 'कृधि' कुरु ॥ १३ ॥ इति प्रार्थ्यते। "सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्वाम्भव । ननान्दरि सम्राज्ञी भव स. म्राज्ञी अधि देवृषु ॥ १४॥ अस्यार्थः हे कन्ये ! त्वं 'श्वशुरे' पत्युर्मम पितृविषये 'सम्राज्ञी' प्रधान सुवासिनी(४) 'भव' । एवं 'श्वश्वां' श्वश्रूविषये 'सम्राज्ञी' उक्तवदर्थिका 'भव' आदरार्थे पुनर्वचनम् । तथा 'ननान्दरि' पत्युमम भगिन्याम् । 'सम्राज्ञी भव' एवं 'देवृषु' देवरेषु(५) 'अधि' अधीश्वरी(६)सती 'सम्राज्ञी' भव ॥१४॥ "मम व्रते ते हृदयन्दधातु मम चित्तमनु चित्तन्तेऽअस्तु । मम वाचमेकमना जुषस्व वृहस्पतिस्त्व नियुनक्तु मह्यम्"।।१५।। अस्यार्थः हे कन्यके ! 'बृहस्पतिः' सुरगुरुः ( मेधाधिपतिः ) 'मम' पत्युः 'व्रते' परिचरणकमणि(७)। 'ते' तव 'हृदयं' मनः 'दधातु' स्थापयतु । (१) इन्द्रोहपां पतिः। आप एव हि वीयभावमापद्यन्ते-इति पदार्थतत्त्वविदः प्राहुः ॥ मीढ्व इति "दाचान्साहान्मीवांश्व" (पा०६।१११२ ) इति कस्वन्तोनिपा. तोऽयम् । “मतुवसोरुसम्बुद्धौ छन्दसि” ( वा० ८।३।१) इति रुत्वम् । (१) "कःकरत्करतिकृधी" (पा० ८।३।१०) त्यादिना निपातितोऽयम् । एवमग्रेऽपि॥ (३)"तस्य पूरणे डट् (पा० ५।२।४८ ) इति डटि टिलोपः । (पा०.६।४।१४४)॥ (४) प्रधानतयाऽन्याभ्यः सविशेष परिचर । (६)वयालाः स्युांतरः पत्न्याः स्वामिनोदेवृदेवरौ” इत्यमरः ॥ (६) अन्न "अधिरीघरे" (पा० १४१९४) इत्यधेः कर्मप्रवचनीयसंज्ञायां तयोगे "यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी" (पा० २।३।९) इति सप्तमी। यस्येति षष्ट्या हि-अत्र निरूपितत्वं निष्ठत्वं च सम्बन्धोऽर्थः । ईश्चरे इति भावप्रधानोनिदेशः। "धकयोरि"-(पा० २४२२ )ति वत् । तथाच यनिरूपितं यनिष्ठश्चैववर्यमुच्यते तत्र सप्तमीत्यर्थः । एवञ्च देवपदात्सप्तम्या तेषान्तस्याश्च परस्परमाधिपत्यं गम्यते । तेन च सविशेषस्सद्भावकोभवति मन्त्रहशा । तथाच वृत्तिकृद् वचनम् "ऐश्वर्णे तु अवस्था- मिम्यो पर्यायेण सप्तमीति ॥ (.)तथाच निरकम् "तमिति कम्मेनाम (निघ०२।१७)वृणोतीति सतः इति॥
२ कण्डिका गोभिलगृह्यसूत्रे- 'मम चित्तमनु मञ्चित्तानुकूलं 'ते' तव 'चित्तं मनः 'अस्तु' भवतु । 'एकमनाः' अनन्यचित्ता त्वम् 'मम वाचं' 'जुषस्व' सेवस्व(१)। हृष्टचित्ताऽऽदरेण कुरु । 'त्वा' त्वां स 'मह्यम्' मदर्थ (माम्प्रसादयितुम् ) नियुनक्तु' नियोजयतु अन्तर्भावितण्यर्थो युजिरत्र ।। इति ।। १५ ।। समाप्तास द्वहन्ति(२)॥१७॥ इति श्रीमद्गोभिलीये गृह्यसूत्रे द्वि० प्र० स्य द्वितीया कण्डिका ॥ २॥२॥ॐ॥ समाप्तासु पाणिग्रहणक्रियासु वरसहाया वधू विद्यादिसम्पन्नं ब्राह्मणकुलं यत्र तत्र उद्वहन्ति-उद्वहेयुर्नयेयुरित्यर्थः । तथाच गृह्यासंग्रहे- "यत्र विद्या च वृत्तञ्च सत्यं धर्मः शमोदमः । अभिरूपः स विक्षयः स्वाश्रमे योव्यवस्थितः॥" इति । अभिरूप इत्यस्यस्थाने "अभिवादे” इतिपठित्वा अभिवादे-प्रश. स्तक्रियाया"मुपग्राह्य" इति शेषइति चन्द्रकान्तभाप्ये व्याख्यानम् तदेतदुत्तर सूत्राननुगुणम् । यदेतदुत्तरसूत्रमेव स्पष्टयिष्यति । अत्र समाप्तासु-इत्यभिधाना- दत्रैव पाणिग्रहणक्रियायाः परिसमाप्तिरत्रैव च तन्त्रसमापनम् । दक्षिणा च गौरेव । उत्तरविवाहान्ते तथाऽभिधानात् ।। १७ ॥ इति श्रीमद्रोमिलीयगृह्यसूत्रव्याख्या "मृदुलाख्यायां मुकुन्दशर्म-सङ्कलितायां द्वितीयप्रपाठकस्य द्वितीया कण्डिका ॥२॥२॥*। ( अथोत्तरविवाहप्रारम्भः) प्रागुदीच्यान्दिशि यद्ब्राह्मणकुलमभिरूपम् ॥ १ ॥ प्रागुदीच्याम्-(३) ऐशान्याम । ब्राह्मणकुलम्-ब्राह्यणगृहम् । “कुलम्ज- नपदेगोत्रे सजातीयगणेष्वपि । भवने च तनौ क्लीबम्” इति मेदिनी" अस्योत्त- रेण सम्बन्धः । तपः स्वाध्यायव्रतादिभिरभिरूपं-(४)रमणीयम् । "अभिरूपो- (१)"जुषाप्रीतिसेवनयो" (तु. आ०) लोट् आशंसायाम् विधौ वा ॥ (२) अन मुद्रितपुस्तकेषु बहुषु एवं पाठदर्शनादित्थमेव धृतम् । भट्टभाष्ये-शुभक- मनिर्णये च "उद्वहन्तीत्युत्तरकण्डिकाया अङ्गमेव पश्यते । तथाच "समातासु" इत्ये- तदनन्तरम् "तन्त्रं समापयेत्" इतिवाक्यशेषः कार्यः । तत्त्वकारेण तु समस्तमेवेद सूत्र- मुत्तरसूत्रेण सहकत्र लिखितम् । एवन भट्ठादिमते "समासास्वित्येतदनन्तरमेव कण्डि. कासमाधिरिति बोध्यम् ॥ (३) अभिलक्ष्य रूपमस्येति विग्रहः ॥ (४)मत्र"दिङ्नामान्यन्तराले" (पा० २।२।२६) इति समासेन प्रागुदीच्योर. न्तरालं या दिक्कस्यामित्यर्थः ।
विवाहविधिः। [१ प्रपाठके . बुधे रम्ये” इति मेदिनी। अत्राभिरूप्यं ब्राह्मणाकुलं विशिषदस्य गुणोभवति । स चेदुपादीयमानः प्रधानमुपरुणद्धि, गुणत्वमस्य नावकल्पते । गुणाहि प्रधान- मुपकत्तुं व्याप्रियते नैतदुपरोद्धुम् । अतएव वेद्यामेवान्ततः कर्म कर्त्तव्यम् । कर्मणः प्रधानत्वात् । तथाच गृह्यान्तरम् -- "अथोत्तरविवाहः प्रागुदीच्याम- न्यत्र(१) वा ब्राह्मणकुले मन्त्रवति, वेद्यां वा"इति। अस्मादप्यवगम्यते । इतः प्रभृति "उत्तरविवाह"समाख्यं कम्मेति ॥ १ ॥ अत्राग्निरुपसमाहितोभवति ॥ २॥ अत्रोक्तविधे ब्राह्मणकुले । उपसमाहितः-लक्षणं कृत्वा स्थापितः। लक्षणं कृत्वेति सूत्रशेषतयैव केचित्पठन्ति । वेद्याञ्च करणे प्रधानमात्रस्यैव कर्तव्यता, आवृच्च तन्त्रेणैव स्यात् “गणेष्वेकम्परिसमूहनमि-"ति वचनात् । एवञ्च वेद्या. करणपक्षे एतस्यापि कर्मणेाऽनन्तरमेव मन्त्रसमापनं न तु पाणिग्रहणकर्मणः परत एवेति बोध्यम् ॥२॥ अपरेणाऽग्निमानडुहं रोहितश्चर्म प्राग्नीवमुत्तरलोमास्तीर्णम्भवति॥३॥ अपरेणाऽग्निम् । अग्नेः पश्चात् । आनडुहं-वार्षभं रोहितं लोहित(२)व- र्ण, तदभावेऽन्यदपि “गुणलापान प्रधानस्ये-"ति न्यायात् । चर्म-शुष्कम् । प्राग्नीवम्-पूर्वशिरस्कम् । उत्तरलोम-उत्तरे उपरिष्टालोमानि सन्त्यस्येति तथा- विधं यथाभवति तथा। आस्तीर्ण प्रसारितम्भवति । उपवेशनार्थ वध्वाः। क. तुरनियमः ॥३॥ तस्मिन्नेनां वाग्यतामुपवेशयन्ति ॥ ४॥ तस्मिंश्चमणि। एनां वधू वाग्यतां-नियमितवचनाम् । (कृतमौनाम् ) उपवेशयन्ति । य एव केचित्कन्यापक्षीयाः ॥४॥ सा खन्यास्त एवानक्षत्रदर्शनात् ॥ ५ ॥ सा वधूः । नक्षत्रदर्शनं यावदुपविष्टैव तत्र तिष्ठेत् । अन्यत्रात्ययिकादि- त्यर्थः । एवशब्दादधुनाऽपीत्यर्थ इति भाष्यकारः । दिवा विवाहविषयमेतद्व- चनम् ।। ५१ ॥ प्रोक्ते नक्षत्रे षड़ाज्याहुतीर्जुहोति "रेखासन्धिष्वे"-तत्मभृतिभिः॥६॥ (मं० ब्रा० ॥३॥१-६) प्रोक्ते-इति । केनापि नक्षत्रमुदितमित्युक्ते इत्यर्थः । अत्राज्यतन्त्रविहितो. (१) उक्कदिक्युकब्राह्मणगृहे । तदलामे वेद्यामपीत्यर्थः ॥ (२) "रोहितोलोहितोरक्त" इत्यमरावतवर्णमित्यर्थः ॥ एष आधारोयुगान्तर. विषयः।
२ कण्डिका] गोभिलगृह्यसूत्रे- महाव्यावृतिहोमः पुरस्ताच्चोपरिष्ठाच भवति । आज्यभागौ विष्टकृच्च न भवन्तीत्यवगन्तव्यम् ॥६॥ मन्त्रा यथा- " " " ॥४॥ 59 "रेखासन्धिषु पक्ष्मस्वावत्तेषु च यानि ते । तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहम् स्वाहा ॥ १ ॥ "केशेषु यञ्च पापकमीक्षिते रुदिते च यत् । ॥३॥ "शीले यच्च पापकम्भाषिते हसिते च यत् । "आरोकेषु च दन्तेषु हस्तयोः पादयोश्च यत् । "ऊर्वोरुपस्थे जङ्घयोः सन्धानेषु च यानि ते । यानि कानि च घोराणि सर्वाङ्गेषु तवाभवन् । पूर्णाहुतिभिराज्यस्य सर्वाणि तान्यशीशम स्वाहा ॥ ६ ॥ एषामर्थाः । हे कन्यके ! 'ते' तव 'रेखासन्धिघु' हन्तादिरेखासन्धिस्थानेषु । 'पक्ष्मषु'-नेत्रपिधानस्यानेषु । 'आवर्जूषु' ककुदावर्ताद्यभिधेषु लोमसन्निवेश- विशेषेषु । ककुन्दरादिद्वारेषु वा । (१) 'च' कारः समुच्चयार्थः । एवमनेकधा 'यानि' अलक्षणानि 'ते' तव सन्ति । 'तानि' 'सर्वाणि' अशेषाणि 'अहं' पाणिग्राहः 'शमयामि' शान्तिङ्गमयामि । तदेतत् 'स्वाहा' सुहुतमस्तु ॥१॥ हे कन्ये ? 'यत्' 'ते' तव 'केशेषु चिकुरेषु 'ईक्षिते' दर्शने । 'च' 'यत् 'रुदिते' अनुविमोचने यत् किञ्चित् 'पातकम्' अलक्षणमस्ति । 'तानि' 'सर्वाण्यपि 'ते' तवसम्बन्धीनि पूर्णाहुत्ये'-त्यादि गतार्थम् ॥२॥ हे कन्यको 'यत् 'ते' तव 'शीले' वृत्ते (चरित्र) 'चः कारादाभिरूप्ये 'भा- षिते' वचने 'हसिते' हसने 'च' काराद्गमने 'यत्पापकम्' अलक्षणमस्ति । ता- नि सर्वाणी"त्यादि गतार्थम् ॥३॥ हे कन्यके ? 'यत्' 'ते' तव 'या' समन्तात् 'रोकेषु' दन्तच्छिद्रेषु 'छिद्रं निर्व्यथनं रोकं रन्धं श्वभ्र"-मित्यमरः । 'दन्तेषु' 'यच्चहस्तयोः पादयोः' 'च' काराद्गुल्फयाः 'पापकम्' अलक्षणमस्ति । तानि सर्वाणीत्यादि गतार्थम् ॥ ४॥ एवं 'सन्धानेषु' रेखासन्धिव्यतिरिक्तेषु सन्धि- स्थानेषु 'च' कारान्मुखे यान्यलक्षणानीत्यादिगतार्थम् ॥ ५ ॥ 'यानि' प्रकृतान्य- प्रकृतानि च 'कानि च' कानिचित् । 'घोराणि' क्रूराणि लक्षणानि तव सर्वा- ङ्गेषु' अभवन् । तानि सर्वाणि 'आज्यस्य पूर्णाहुतिभिः' 'अहम्' 'अशीशमम्' अनाशयम् । तदेत स्वाहा' सुहुतमस्तु ॥ ६ ॥ आहुतेराहुतस्तु सम्पातं मूर्द्धनि वध्वा अवनयेत् ।। ७॥ आहुतेराहुतेरिति । प्रत्याहुति शेषं सुवलग्नमाज्यं वधूशिरसि दद्यात् । (१) नितम्बस्थौ ( पृष्ठवंशाधोभागे विद्यमानौ ) कूपको (गत्तौ) कुकुन्दरे उच्ये.
१६० विवाहविधिः २ प्रपाठके- इत्यर्थः । तु शब्दो व्याहृतिहोम-शेषनिपातन-निषेधार्थः(१)॥७॥ हुत्वोपोत्थायोपनिष्क्रम्य ध्रुवन्दर्शयति ॥८॥ हुत्वा-यथोक्ताज्यहोमानन्तरमेव न तु तन्त्रसमापनादपि परमित्यर्थः । उपेति सामीप्ये । वध्वाः समीप एवोत्थानम् । न व्यवधान इत्ययमर्थः । निष्क. म्य-आवृता-द्वहिर्गत्वा । दर्शयति-वधूम् । प्रकृतत्वावर: 'ध्रुवं पश्ये'-ति प्रैषो. ऽर्थादवमगम्यते ॥ ८॥ ध्रुवमसि ध्रुवाहं पतिकुले भूयासममुष्यासावि"ति पतिनाम गृहीयादात्मनश्च ॥ ६ ॥ अत्र वधूपठनीयम्मन्त्रमाह "ध्रुवमसी-"त्यादिम् । ( मं० ब्रा० ११३७) अत्रामुष्येति सर्वनाम्नि षष्ठयन्तं पतिनाम | असावित्यत्र प्रथमान्तमात्मीयं नाम गृह्णीयादित्यर्थः । ननु वाग्यताया मन्त्रपाठोविरुध्यत इति चेन्न अस्यार्थस्य वा. चनिकत्वात् । मनसैव वा मन्त्रं पठिष्यति । प्रतिषिद्धेऽपि वाग्व्यापारे मनसो- व्यापारस्याप्रतिषिद्धत्वात् ॥ ९॥ अरुन्धतीञ्च ॥१०॥ अरुन्धती सप्तर्षिसमीपवत्तिनी काञ्चित्सूक्ष्मतमान्तारां च दर्शयेत्(२) वरः। "अरुन्धतीम्पश्ये"-ति प्रैषः ॥ १०॥ वधूश्चारुन्धतीन्दृष्ट्वा जपति- "अरुन्धत्यसि-रुद्धाहमस्मी"त्येवमेव ॥११॥ एवमेव-पूर्ववदेव । सनामग्राहमा(३)त्मनः पत्युश्च । अयमन विशेषः । प- तिनाम तृतीयान्तं ग्राह्यमन्वयबलात् । प्रयोगस्तु-"अरुन्धत्यसि रुद्धाऽहमस्मि यशोदा देवदत्तेने"ति चन्द्रकान्तभाष्यम् ॥ ११ ॥ ते । तथाचामरः "कूपकौ तु नितम्बस्थौ द्वयहीने कुकुन्दरे” इति । द्वयहीने-क्लीये। अन्न द्वित्वमनित्यमित्यमरविवेके महेश्वरः ॥ (१) अत्र चन्द्रकान्तः । आहुतेराहुतेरितिसन्निहितपरिग्रहादनन्तरोकाया पड़ाहु- तेरेव सम्पातानां शिरस्यवनयनं न महाव्याहृत्यादीनामपि । अतएव तुशब्द इतरासामा. हुतीनां व्यवच्छेदकः । मुखसुखार्थोवेति ॥ (२) दर्शयतीति पूर्वतनादनुवर्तनादयमर्थः । (३) अत्र मुरारिमिक्षा आत्मादिनामनिर्देशं नानुमन्यन्ते । पद्धतिकृतस्तु-"यथासूत्रं पठन्ति । एवमेवेति वचनमत्र मूलम्प्रतिभाति । अनारुन्धत्यसीति पाठो यद्यपि कतिपय. गृह्यसूत्रपुस्तकेऽत्र (गोभिलीये) गुणविष्णवादिभाष्ये च न दृश्यते किन्तु रुद्धाहमस्मी- त्येवमेवेति । तथापि मुरारिमिश्रादिमिलिखितत्वादस्माभिराद्रियते । अत्रात्मनः पत्युश्च नाम न ग्राममिति भट्टभवदेव-रघुनन्दनादयः । तृतीयान्तं पत्यु म प्रथमान्तञ्चात्मनो- नाम ग्राह्यमेवेति नारायणमट्टाः प्राहुः॥ । - २ कण्डिका गोभिलगृह्यसूत्रे- ALBERS ध्रुवासः पर्वता इसे A अथैनामनुमन्त्रयते-"ध्रुवा द्यौरि-"त्येतयर्चा ॥ १२ ॥ ( मंत्रा० श३८) अथानन्तरमेव एनां-वधू प्रकरणाद्वरः । अनुमन्त्रणोक्तेरनामिकाग्रेण स्पृशन्निति गम्यते ! उक्त-( २।२।१४ सू० )-वचनात् । मन्त्रोयथा- "ध्रुवाचौर्धवा पृथिवी ध्रुवं विश्वमिदब्जगत् । ध्रुवा स्त्री पतिकुले इयम्" || ८॥ इति । अस्यार्थः । अत्र यथा-तथेत्यध्याहायमर्थसाङ्गत्यार्थम । 'यथा' 'चौः' अन्त. रिक्षम् । 'ध्रुवा' स्थिरा 'पृथिवी' च 'ध्रुवा' स्थिरा । 'विश्व' सर्वम् इदञ्जगत्' सचराचरं 'ध्रुवम्' । सद्रूपेणाऽवस्थितम् । यथा च 'इमे' 'पर्वताः' 'ध्रवासः' ध्रुवाः(१)। तथा 'इय खो' पतिकुले' पतिगृहे (२) 'ध्रुवा' स्थिरा"भवस्वि"-ति शेषः ॥ ८॥ इति ।।२१।। अनुमन्त्रिता गुरुं गोत्रेणाभिवादयते ।। १३ ।। अनुमन्त्रितैव(३) वधूरभिवादयते । न तु तन्त्रसमापनानन्तरम् । गुरुं पतिम् । तथाच याज्ञवाल्क्य:-"पतिरेकोगुरुः स्त्रीणामि"-ति । गोत्रेण-पतिः गोत्रेण । सान्निध्यात(४)। स्मृत्यन्तरसंवादाच। तदानीमेव तद्गोत्रत्वात्तस्याः। तथाच लघुहारीतः- "स्वगोत्राद्मश्यते नारी विवाहात्सप्तमे पदे । पतिगोत्रण कर्त्तव्या तस्याः सर्वक्रिया ततः ॥" इति । एवञ्च- "चतुर्थीहोममन्त्रेण त्वङ्मासहृदयेन्द्रियः । भों संयुज्यते नारी तद्गोत्रा तेन सा भवेत् ।।" इति बृहस्पतिवचनं शाखान्तरविषयम् ॥ तन्मन्त्रलिङ्गसंवादात् । तदुक्तं बृहस्पतिनैव । "पाणिग्रहरिणका मन्त्राः पतिगोत्रप्रदायकाः।" इति । एवञ्च प्रवरसापिण्डययोरपि इदानीमेव प्राप्तिः । गोत्रसमानत्वात् । अत्राभिषेकपाणिग्रहणमन्त्राणा(५)मेव शरीरैक्यनिमितत्वाच्चेति बोध्यम् ।। (१) “आजसेरसुन्' (पा. ७१५० ) इत्यसुगागमः ॥ (२)"कुल जनपदे गोत्रे सजातीयगणेष्वपि । भवने च तनो क्लीबमिति मेदिनी। (३) अनुपस्त्रितेतिरदोपादानमेवानुमन्त्रणानन्तरमेवाभिवादनप्राप्त्यर्थमिति भा. (४) गुरु गोत्रेणेति पदयोः । अतएव पद्धतिकृतोबारेश्वरादयः "अनुमन्त्रिता सती प्राप्ठेन गात्रेण पाणिग्राहमभिवादयेत्" इत्येवं लिखन्ति स्म॥ (५) अनुपन्त्रण-मन्त्रेणाऽव्ययमर्थोऽमिनिस्सरति "ध्रुवा स्त्रो पतिकुले इयमिति । कुलशब्दो-गोत्रार्थकोऽपि मेदिन्यामुक्त इत्यनुपदमेवोपदर्शितम् ॥ २१ गो० ० ब्यकार: ॥
विवाहविधिः। [ २ प्रपाठके- । अभिवादयते-अभिवादनञ्च पादोपसङ्ग्रहणपूर्वकं प्रणमनम् । “समे तु पाद. ग्रहणमभिवादनमित्युभे" इत्यमरः । तत्र मतु:- "भोः शब्द कीर्तयदन्ते स्वस्थ नाम्नोऽभिवादने । नाम्नां स्वरूपभावोहि भोशन्द ऋषिभिः स्मृतः ॥" इति । प्रबरोच्चारणमपि शिष्टाचरात् । प्रयोगस्तु-"अमुकगोत्राऽमुकाः मुकामुकप्रवरा श्री अमुकदेव्यहम्भो३ अभिवादये” इति ।। पद्धतिरप्येवम् ।।१३।। सोऽस्या वाग्विसर्गः ॥१४॥ स कालोऽस्या वध्वाः । वाग्विसर्गः। वागविसृज्यतेऽस्मिन्नित्यधिकरणे पञ् (पा० ३।३।१९) "चजोरि"-(पा० ७३५२)ति कुत्वम् गुणश्च । अयं वाक्संयमत्यागकालो(१)ऽतः परं यथारुचि वाच्यन्तयेत्यर्थः । शूलपाणि. प्रभृतयोऽप्येवम् ।। वेद्यामुत्तरविवाहपक्षे वैवाहिकेऽग्नौ प्रधानहोममात्रकर्त्तव्य. म् । तन्त्रसमापनमिदानीमेतत्पते। तन्त्रेणापि समापने ब्रह्मणे दक्षिणाद्वयन्दे- यमेव । कर्मणः पृथकात् । कर्मानुरूपत्वाद्वैतनस्य । तच्च पूर्णपात्रमेव । अनादेशादिति भाध्यकृतः ॥ १४ ॥ तावुभौ तत्प्रभृति त्रिरात्रमक्षारलवणाशिनौ ब्रह्मचारिणी भूमौ सह शयीयाताम् ॥ १५॥ तावुभौ-दम्पती। तत्प्रभृति-विवाइकमदिनमा(२)रभ्य । त्रिरात्रम्-त्री- ण्यहोरात्राणि । अक्षारेति । क्षारञ्च लवणञ्चेति क्षारलवणम् "जातिरप्राणि. नाम्" (पा० २।४।६) इति द्वन्द्वैकवद्भावः । तन्न भवतीत्यक्षारलवणम् । तदश्नीतस्तच्छीलो। ताच्छोल्येऽत्र णिनिः (पा० ३।२।७८) सततकरणञ्च ताच्छील्यमिति त्रिरात्रग्याँवत्तदनशनौ यथासमयं भवतइत्यर्थः । क्षारञ्च परिभाषितम्- "तिलमुद्गाहते शिम्बिसस्ये गोधूमकोद्रवौ । चीनकन्देवधान्यञ्च सर्वशाकन्तथैव च । स्विन्नधान्यन्तथौषर्य स्थूलं क्षारगणः स्मृतः" इति स्मृत्युक्तम् । अन्येत्वाहुः- "गोक्षीरं गोघृतश्चैव धान्यं मुद्गास्तिला यवाः । (१) एतेनाभिवादने वाग्व्यापारल्यावश्यकत्वंसूचितम् । लजयाऽव्यक्तमपि सकार- यितव्य एवेति गुरवः ॥ (२) तदिति विप्रकृष्टस्य विवाहकर्मणः परामर्थम् । नोत्तरविवाहस्य-पत्यभि- वादनस्य वा । तथासत्येतदा निद्देशः स्यात् । "इदमस्तु सन्निकृष्ट तमीपतरवत्ति चैतदो. रूपम् । भदसस्तु विप्रकृष्ट तदिति परोक्षे विजानीयादिति ॥ Bandan २ कण्डिका गोभिलगृह्यसूत्रे- अक्षारलवणा ह्यते क्षाराश्चान्ये प्रकीर्तिताः ॥” इति ।। एवं स्मृत्युक्तमक्षारलणमशितुं शीलं ययोस्तावक्षारलवणाशिनाविति । यत्तु-अक्षारलवणमकृत्रिमलवणनिति रघुनन्दनवर्णनन्तदसत्-क्षारपदस्य कृ. त्रिमपरत्वे लक्षणाप्रसङ्गादन्यद्वा किमपि नाशितव्यं स्यादिति न किञ्चिदेतत् ।। ब्रह्मचारिणौ-निवृत्त(१)मैथुनौ । भूमाविति खवायाः प्रतिषेधार्थम् । न तु प्रस्तरकम्बला(२)दोनामपि । सहेति । पृथकशय्याया निवृत्त्यर्थम् ।। १५ ।। अत्रायमित्याहुः ॥१६॥ अत्र-एतस्मिन्नवसरे। अर्य-महणं वरस्य । कन्यापित्रादिभिः कर्तः व्यमित्याहुराचार्याः । "षाभवन्ती"-ति वक्ष्यति (४।१।२३ ) तत्रयो- विवाह्यः सोऽयं वरः ।। १६ ॥ आगतध्वित्येके ॥ १७ ॥ एके तु आगतेषु प्राचार्या(३)दिपु (४।१।२४) षट् सुअयमहणङ्कत- व्यमित्याहुः । तथाच विवाहार्थमागत एव वरेऽध्यमुचितमिति-एके-इति- बहुवचनेन सपुरस्कार(४)मभिधानादुक्तम्भवति । अतएब- "मधुपर्काञ्चितायैनां दद्यात्कन्यां सदक्षिणाम" इत्यनेन न विरोधः । एवञ्च- "भुक्त्वा'समुद्वहेत्कन्यां सावित्रीग्रहणन्तथा । उपोषितः सुतान्दद्यादचिताय वराय तु ॥" इति वचनमेतस्मिन्कल्पे मधुपर्कभोजनपरम् । तथाच शास्त्रान्तरम्- "अशोककलिकापानं यज्ञ सोमलतारसम् । विवाहे मधुपर्कञ्च भुत्का कर्म समारभेत् ॥" (१) "त्रिंशद्वर्षावहेका हृद्यां द्वादशवार्षिकीम् इत्येवमादिके मन्वाधुक्तकल्पे व्यवायस्य रागतः प्राप्ठल्य निषेधार्थमिदम् ॥ (0) प्रस्तरः काष्टनिम्मितः । खट्वानुकल्पभूतः। आस्तरणञ्च कटादिकमिति बो. ध्यम् ।। क्वचित् "वस्तर"इति पाठः । तत्र स्वन्तरः कट एवेति सुव्यक्तमन्यन्त्र (पा० गृ)॥ (३) अन्येतु-बहुवचननिर्देशोऽत्र वरयातृपुरुषबाहुल्याभिप्रायेणातोऽन्येऽपि वरेण सह गच्छेयुरेव सम्बन्धिनोबान्धवाश्चेत्याजानिकवर यातृपुरुषसमारम्भगव्यवहारोपप- त्तिः। तेहि-कुलाभिजनसम्पन्ना उभयकुलपरिचयाभिज्ञाश्च ब्राह्मणवरेण्याः सविशेषमपेक्ष्यन्ते। येपाम्पुरस्तात्कन्या प्रदीयते । प्रदानवाक्पञ्चत्रिः कृत्वोचार्यते येन कापि सम्बन्धलेशो. विवाहप्रतिरोधकोऽविज्ञातोन भवेदिति। क्षत्रियादिवरे तु विजातीयाअपि शोर्यायवादिगुणो- पेता वरयातृका भवन्ति । तेषामन्यविधविवाहस्याप्यनुज्ञानाधन कन्याहरणप्रसङ्ग इति ॥ (४) तथाच मुरारिमिश्राः । अत्र चैके इति सपुरस्काराभिधानाद्वितीयपक्षे सूत्रक- सम्मांतरित्यवगन्तव्यमित्याहुः॥ पुरस्कारश्व-एकशब्दस्य नित्यं संख्यैकवचनान्तस्य ब. हुवचनेनोपन्यासोमुख्यार्थत्वमावेदयति । तथाचामरः "एके मुख्यान्यकेवला"इति ॥
विवाहविधिः [२ प्रपाठक इति स्मर्यते । एतेन कृताहारस्य तदिने(१) कन्यापरिणयार्थङ्गमनं, गत्वा वा तत्र ( श्वशुरकुले ) भोजनमनाचार एवेति मन्तव्यम् । सर्वथा चात्र सय्य. मो भोजनादेर्यज्ञकर्मान्तरवदित्यवगन्तव्यम् ॥ १७ ॥ हविष्यमन्नम्प्रथमं परिजपितम्भुजीत ॥१८॥ हविषि-साधु-हविष्यं “तत्र साधुः" (पा० ४।४।९८) इति साध्वर्थेय. प्रयेन होमावशिष्टमितिचन्द्रकान्तभाष्यस्वरसः । माषकोद्रवादि(२)वर्जम् । अन्नं वरेण तहिने प्रथमं परिजपितम् “अन्नपाशेन मणिने'-त्यादिमन्त्रणा- भिमन्त्रितम । उत्तरत्र तथा श्रवणात् । भुञ्जीत भोक्तव्यम् । अत्रापि "भुत्को. च्छिष्टं वध्धै प्रदाय यथार्थमि"-ति ( २१३१२२ ) वक्ष्यमाणं सिंहावलोकितकेन सम्बन्धनीयम । श्वस्तनप्रथमभोजने तथाचरणादिति ॥ १८ ॥ श्वोभूते वा शमशनीयस्थालीपाकं कुर्वीत ॥ १६ ॥ लग्नादिसाद्गुण्याद्रात्रौ विवाहे(३) भोजनकालस्य चालामे प्रकारान्तर- माह-श्वोभूतइति । श्वोऽग्रिमदिनेभूते(४)प्राप्ते प्रभाते जाते यथासमयं, सम. शनीयम् सम्यगशनार्थक्रियत इति तथाभूतं स्थालीपार्क मधुपर्कसमाख्यं कुर्वी- त । यथावद्विदधीत वाशब्दोविकल्पार्थस्तेन पूर्वदिनेऽपि समयलाभेऽमुङ्कुर्वीतैवे- ति बोधयति ॥ १९॥ तस्य देवता अग्निः प्रजापतिर्विश्वेदेवा अनुमातिरिति ॥ २०॥ तस्येति-तच्छब्देन पूर्वदिने परदिनेऽपि वा करणेऽपि स्थालीपाकस्यास्यैता देवता इति दर्शयति । तथाच-"अघं स केवलम्भुङ्क्ते यः पचत्यात्मकारणात्। यज्ञशिष्टाशनं ह्येव सतामन्नं विधीयते ॥” इति मनुवचनेन "केवलाघोभवतिके. वलादी"ति श्रुत्या च न विरोधः ॥ अत्र (सूत्रे ) असमासकरणम्पृथङ्गिाप. (१) विवाहदिने । कन्यायास्तु विवाह औपनायनिक इति उपनयने माणवकस्येव मोजनेऽपि न क्षतिरित्याचक्षते । किन्तु व्रतबन्धसमाख्यातोऽस्य भोजनं गोःपयआदिक. मेव । तथाच श्रुतिः “पयोव्रतोब्राह्मणोभवति, यवागूवतोराजन्य, आमिक्षावतोवैश्य" इति । यवागू ष्टयवचूर्णपायसम् । आमिक्षा-शुतोष्णे पयसि क्षिप्तं दधि । तथाच श्रुतिः "त पयसि दध्यानयति स वैश्वदेव्यामिक्षा भवति" इति । "यवागुरुष्णिका श्राणा विलेपी तरला च साइति चामरा॥ (२) हविष्यमिति तदर्थः । तल्लक्षणमुक्तमधस्तात् । (१३।६)। कात्यायन: "ह विष्वेषु यवा मुख्यास्तदनुव्रीहयोमताः । माषकोद्वगौरादीन्सर्वालाभेऽपि वर्जयेत्। इति । गौरी-गौरसर्षप इति मुरारिः । चीनक इति वयम् ॥ आदिना चणकादिपरिग्रहः ॥ (३) रात्रौ भोजनकालादुपरि विवाहे निवृत्त प्रक्रान्त विवाह होमविधिमा वा भोजपकालातिक्रमे इत्यर्थः॥ (४) भूपातौ आत्मनेपदी । कः कर्मणि ।
२ कण्डिका) गोभिलगृह्यसूत्र- । होमयोः प्राप्त्यर्थम् । तथाच च्छन्दोगपरिशिष्टम् - "चरूः शमशनीयोयस्तथा मोयज्ञकर्मणि । ऋषभोत्सजने चैव अश्वयज्ञे तथैव च ।। कथमेतेषु निर्वापः कथञ्चैव जुहोतयः ? । देवतासंख्यया ग्राह्या, निर्वापस्तु पृथक्पृथक् ।।" इत्यादि (१-७-३) पूर्वोक्तम् । तथा- "चरौःशमशनीये वा पितृयज्ञचरौ तथा । होतव्यं मेक्षणेनान्यदुपस्तीर्णाभिधारितम ।।" इति । देवतानामत्र प्राधान्यात्रिःप्रक्षालनन्तण्डुलानाम् । “त्रिदेवेभ्यः" (११७१५९) इत्युक्तत्वात् ॥ देवताभ्यः खल्वेताभ्योमेक्षणेनोपघात होतव्यं किञ्चिदवशेषमित्यवोचाम (१-४-३) ॥ २० ॥ उधृत्य स्थालीपाकं व्यूबैकदेशं पाणिनाऽभिमशेत् "अन्नपाशेन मणिने"-ति ॥ २१ ॥ (मं० ब्रा० ११३९-१०) स्थालीपाकम् । तत उद्धृत्य पात्रान्तरे कृत्वाऽवशिष्टं तं व्यू ह्य(१)एकीकृत्य । एकदेशं न सर्वमपि भाण्डस्थमन्नं पात्रान्तरेणावदाय स्वपात्रे स्थापयित्वा दक्षि. णेन पाणिना "अन्नपाशेन मणिने"-त्येवमादिना मन्त्रद्वयेन । अभिमृशेत्- स्पृशेदित्यर्थः । मन्त्रोयथा- 'अन्नपाशेन मणिना प्राणसूत्रेण पृश्निना । बध्नामि सत्यग्रन्थिना मनश्च हृदयञ्च ते" ॥ ९ ॥ इति ।। अस्यार्थः-हेवधु ! अहन्ते परिणेता 'ते' तव 'मनः' सङ्कल्लविकलात्मक वृत्तिकमन्तरिन्द्रियम् । 'हृदयम्' चित्तम(२) (बुद्धयधिष्ठानम्) 'च'-काराबु- द्धिञ्च । 'मणिना' मध्यमणिभूतेन(३)हृद्देशाधिष्ठितेनात्मना सहितेन'अन्न(४) पाशेन' अन्नरूपेण पाशतुल्येन बन्धनेन, 'प्रारणसूत्रेण' प्राणा एव सूत्रं सूत्रभूता यस्मिन्एवंभूतेन 'पृश्निना' अन्नेन गुलिकास्थानीयेन । “अन्नं वै देवाः पृश्नीति (१) स्थालीपाक शेषात् । केचित्तु-"व्यूह्या स्वरात्रेऽवदाय" "न्यूह्म पात्रान्तरे स्था- पयित्वा "सविशेषं वितक्यत्येवं नाना व्याख्युः । वस्तुतः पात्रान्तरे स्वभोजनपाने या स्थापनमिति स्वारसिकोऽर्थः । अदायेत्यपि च । व्यूहनन्तु सर्वमपि यथा न परिगृ. हीतम्भवति तदर्थम् पिण्डीभावेनावस्थापनम् ॥ (२) "वित्रन्तु चेतोहृदयम्" इत्यमरः॥ (३) मालया हि शोभनं वस्तु बध्यते। अत्रान्नरूगुलिकायां प्राणसुत्रनद्धायाम् आत्मा वरस्य मध्यमणिः सुमेरुपदव्यपदेश्यः। (४) अन्नेन पश्यते बध्यतेहात अन्नपाशः । “पशबन्धने" (चु० उ०) कर्मणि घम् ॥
LUM विवाहविधिः। [३ प्रपाठक वदन्ती"-ति श्रवणान्(१) । कथम्भूतेन ? 'सत्यग्रन्थिना' सत्यं प्रन्थिरिव यस्य तेन 'बध्नामि' स्वायत्तोकरोमि"इति ॥ ९॥ अत्र सूत्रे इतिशब्द आधर्थस्तेन- यदेतद्धृदयन्तव तदस्तु हृदयम्मम । अन्नं प्राणस्य पञ्चशस्तेन बध्नामि त्वाऽसौ" ॥ १० ॥ इत्येपोऽपि मन्त्रः परिगृहीतोवेदितव्यः ।। अस्यार्थः । हेवधु ! 'यदेतद्धृ. दयन्तव तदस्तु हृदयं मम' आवयोहइयैक्यम्भवतु । इति वरेणाशास्यते । त- प्रकार उच्यते-अन्नमित्यर्द्धर्चन । हेवधु ! 'अन्नम्' अदनीयं वस्तु प्राणस्य' श. रीरान्तःसञ्चारिणावायो:(२) । 'पड्वंशः' बन्धना(३)धिष्ठानम् । 'तेन' अन्नेन साधनभूतेन । 'त्या' स्वाम् । 'असौ' (४)अहं 'बध्नामि' संयम(५)यामि ॥१०॥ इति ॥ २१॥ भुक्त्वोच्छिष्टं वध्वै प्रदाय यथार्थम् ।। २२ ॥ परिजपितमन्नं पतिः किञ्चिद्भुक्त्वा उच्छिष्टम् । उद्धृतावशिष्टम् (भुक्तशे- षम् ) वच प्रदाय दत्त्वा यथार्थम् । यथाप्रयोजन(६)मन्यत्कुर्यादित्यर्थः । अत्र दिनभोजनपक्षेऽपि हविष्यानन्यूहनादिवामदेव्यगानान्तं कर्म कुर्यादेवेति भा. ध्यकारः । तेन रात्रिभोजन एतदावश्यकमित्यायातीति मुरारिमिश्राः प्राहुः ॥२२॥ गौईक्षिणा ॥ २३ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि०प्र०स्य तृतीया कण्डिका ॥२॥ ३ ॥ ॐ उत्तरविवाहकर्मणः । एतेन पूर्वविवाहेऽपीयमेव । अतस्तत्र पूर्णपात्रादि- कादक्षिणेति चन्द्रकान्तवचन सम्भ्रममूलकमेव । पद्धतिकृतोबोरेश्वरादयोऽपि तत्र गामेव दक्षिणत्वेनाल्लिखितवन्तः । इत्यलमत्यर्थकदर्थनयेतिशिवम् ॥२३॥ इति श्रीमद्गोमिलीयगृह्यसूत्रव्याख्यायां "मृदुलाख्यायां मुकुन्दशर्म-सङ्कलितायां द्वितीयप्रपाठकस्य तृतीया कण्डिका ॥२॥३॥ * । (१) श्रुतेः । निघण्टौ तु-"पृश्निधौरादित्यश्चे-ति पश्यते । (१९६१) प्रपूर्वाद. श्नोतेाप्त्यर्थात्स्पृशतेर्वा "घृणिधिन" ( उ० ४१५२) इत्यादिना निपातः। तत्प्रभ. वत्वादन्नं पृश्नीति श्रुतिवर्णः । (२) जातावेकवचनम् । (३) पडिति-"पशबन्धने" (चु० उ०) इत्यस्मास्क्रिपि रूपम् । अधिकरणेऽत्र विप् छान्दसः । उपमितसमासः । गुणविष्णुस्तु-"पड्विंश" इतिपठति । तन्मते विशतेः प्रवेशनार्थादिगुपधलक्षणः कः (पा० ३।१।१३५) नुम्छान्दसः॥ (४) "असाविति नाम गृहाती-गति सूत्रान्तरसंवादात् । अत्रासाविति सम्बोधना- न्तमेव नाम ग्राह्यमिति केषाञ्चिभ्रमः । (२३९) इति सूत्रविरोधात् ।। (६) "बन्धबन्धने (क्रया०प०) बन्धनं संयमनमेव ॥ (६) अर्थोऽभिधेयोरैवस्तुप्रयोजननिवृत्तिषु" इत्यमरः ॥
४ कण्डिका] गोभिलगृह्यसूत्रे- १६७ ( अथ चतुर्थी कण्डिका) (तत्रादौ कन्यकानयनम् ) यानमारोहन्त्यायेता, "सुकिशुक शल्मलिमि" स्पेतामृचं जपेत् ॥ १॥ अथ मत गृहगमनार्थ बध्वां यानं रथादि आरोहन्त्याम् । इति वचना- दारोहणकालिकत्वजपस्य । एतामिति करणाञ्च रथासम्भवे शिविकायानपतेऽपि एतामेवम्भूतामेव जपेन विलोपनमूह वा कुर्यादित्यर्थः । प्रकृतत्वादरः । ऋग्यथा- "सुकिश्शुक शल्मलिं विश्वरूपं हिरण्यवर्ण सुकृतं सुचक्रम् । आरोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व" ।। ११ ।। (ऋ० सं० ८।३।१३५) इति । अस्या अर्थः । 'सूर्ये !' नवोढ़े ! 'सुकिंशुकम्' शोभन. पलाश(१) वृक्षकाष्ठनिम्मितम् । तथा शल्मलि (२)शाल्मलिवृक्षनिर्मितम् । 'विश्वरूपम्' नानारूपं 'हिरण्यवर्ण (३) हितरमणीयवर्ण-हिरण्यालङ्कारयु. क्तं वा । 'सुवृतं' सुष्टुवर्ण ( सुखास्तीर्णम् ) 'सुचक्र' शोभनचक्रोपेतम् । 'अमृतस्य' निरतिशयसुखरूपस्य 'लोक' दर्शकम्(४) प्रापकं वा । एवम्भूतं रथं त्वम् 'आरोह' अधिरूढा भव । ततश्च 'स्योनं' सुखकरम् 'वहतुम्' आत्मनो(५)वहन मिति सायण: 'पत्ये मह्यं ( मदर्थ 'कृणुष्व' (१)(२) तथाचामरः" पलाशः किशुका पोवातपोत" इति । अत्र निरुकम् । सुकिंशुकं सुकाशन, शलमलि सन्नमलम् । ( निम्मलम् ) अपि वोपमा? स्यात् । सुकिशु- कमिव शल्मलिमिति । शल्मलिः सुशरः ( सुहिल्यः ) भवति । इत्यादि (१२१८ ) । किंशुकमिति पलाशपुष्पे प्रसिद्धिः । इहतु रक्तपुष्पत्वसामान्यात्सुपुष्पितमिव शाल्मलि. मिति सामर्थ्यात्तेनोपमानयोग इति दुर्गाचार्योऽत्र मन्त्रेव्याख्यत् । अत्र शाल्मलिवृक्षनि. स्मितत्वोक्त्यातिलनित्यर्थोऽवगम्यते । वेदे तु शल्मलिरेव कृतिहस्वः पश्यते । अभिधा- नेषु तु "पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिईयोरि-त्येवमाग्नेयेऽन्यत्र च पठ्यते "पष्टिवर्षसहनाणि वने जीवति शाल्मलिरिश-ति चान्यत्रात एवासौ स्थिरायुः। तेन च प्रतिविशिष्टत्वमस्यायुषोवृद्धिकरत्वात् । सूर्योति नवोढा वधूरुच्यते । यथाच श्रीमद्भाग. वते वसुदेवस्य देवकीमुद्वाह्य गृहमागच्छतोविषये "देवक्या सूर्यया साद्धं प्रयाणे रथमा. रुखत इति । अत्र सूर्यया नवोढ़येति श्रीधरस्वामिनः प्राहुः ॥ (३) एतच्च हिरण्यपदनिर्वचनमुखेनोत्तम् । (४) लोकदर्शने" (भ्वा० आ० ) अन्तर्भावितण्यर्थादस्मात्कर्तरि णमुल् । वोरक: प्रापकमित्यर्थवशाबानार्थत्वन्धातूनामनुसृत्योकम् । (१) "अध्ययकृतोमावे"इति नियमातुमत्र मान्तः कृदिति "कृन्मे जन्तः" (पा० । ११३९) इत्यव्ययत्वम् । मध्येऽकारस्योपजनआर्षः। ।
विवाहविधिः । [ ३ प्रपाठके- 11 (१)कुरु ॥१॥ अध्वनि चतुष्यथान्प्रतिमन्त्रयेत नदीश्च विषमाणि च महावृक्षाश्म शानश्च "माविदन्परिपन्थिन" इति ॥२॥ (मं० ब्रा० ११३।१२) वधा सह अवनि वर्तमानोनद्यादीनुपलब्धानधिमार्गम् “मा विदन्नि"ति मन्त्रेण प्रतिमन्त्रयेज्जपन्नवलोकयेदित्यर्थः । प्रतिमन्त्रणमनुमन्त्रणमालेोकनमि- त्यनर्थान्तरमित्युक्तमधस्तात् (२।२।१४), तत्र नदी:- "धनुः सहस्राण्यष्टौ च गतिर्यासां न विद्यते । न ता नदीशब्दवहा गस्तेि परिकीर्तिताः॥' इति कर्मप्रदीपोक्तलक्षणा । विषमाणि व्याघ्रादिभयस्थानानि । उन्नता. नतानि वा । महावृक्षा अतिप्रसिद्धास्तरवो प्रामादिसीमा( सामीप्य )ख्यापका. श्चैत्यापराख्याः । मन्त्रोयथा- "मा विदन्परिपन्थिनो य आसोदन्ति दम्पती। सुगेभिर्दुर्गमतीतामपद्रान्त्वरातयः ।। १२ ।। ( ऋ० सं०८।३।३२) इति । अस्यार्थः । 'परिपन्थिनः' पर्यवस्थातारः शत्रवः(३)। 'मा विदन् मा(३) जानम्तु । 'ये' परिपन्थिनः । 'दम्पती' जायापती(४) 'आसीदन्ति' आभि(५)मुख्येनागच्छन्ति । अभ्याजिगमिषन्तीति प्रकृतोऽर्थस्सन्नर्थम न्तर्भाव्य कार्यः। अत्र दम्पतीपदेन गुणवृत्त्याऽभिहिताऽपि पत्न्येवाभिजि- गमिषि-(घृक्षि-) तेत्युत्तरार्द्धन प्रतीयते । तथाहि-'सुगेभिः' (६)सुगैर्मार्गः । दुर्ग' दुःखेन गन्तुं शक्यं ( दुर्गमं ) देशम् 'अतीताम्'(७) अतिगच्छन्तीम् । (१) "कृविहिंसाकरणयोश्व" (भ्वा० प०) इत्यस्य लोटि पदव्यत्ययेन (पा० ३॥ ११८६)रूपम् ॥ (२) "सिौ वैरिसपत्नारिद्विषद्वेषणदुहृदः । अभिवातिपरारातिप्रत्यर्थिवरिपन्धिनः इत्यमरः । वैदिकोऽयं परिपन्थिशब्दोलोके न न्याय्यः प्रयोक्तम् । "छन्दसि परिपन्थिप. सिरिणौ पर्यवस्थातरिश ( १।२१८९) इति पाणिनिस्मरणात् ॥ (३) “विद्ज्ञाने" (अ.प.) "माडि लुङ् ( पा० ३।३।१७५ ) इति लोड़ सर्वलकारापादोलुङ् । (४) जाया च पतिश्चेति विग्रहे द्वन्द्वे "राजदन्तादित्वात् (पा०२॥२॥३१) जाया- शब्दस्पदम्भावोजमावश्व निपातितः॥"दंपती जंपती जाशपती भार्यापती च तौ" इत्यमरः (५) आ आसीदन्तीत्येवमाङ् आभिमुख्ये प्रथमः । सीदतिर्गत्यर्थः ( भ्वा०प०) स चाङ पूर्वः । अत्र "लुण्ठितुम्" इति शेषो बोध्यः। (६) सुखेन गच्छन्त्यत्रेतिसुगाः “सुदुरोरधिकरणे" (पा० ३।२।४.) इतिडप्रत्यये टिलोपः । “असोभिस ऐस्" "बहुलं छन्दसि (पा० ७१।९-१०) इत्यौसभाव एत्वम् (पा ११२३ ) ॥ एवं दुर्गमित्यत्रापि डप्रत्यमादि बोध्यम् । (0) अन्न वर्तमाने कर्तरि कः (पा०३।१।१८८)। ।
४ कण्डिका गोमिलगृह्यसूत्रे- 'अरातयः' शत्रवः(१) 'अपद्रान्तु' भीत(२)भीता अपगच्छन्तु ।। इति ॥१२॥ अक्षभन्ने नद्धविमोक्षे यानाविपर्यासेऽन्यासु चापत्सु यमेवाग्नि हरन्ति तमेवोपसमाधाय व्याहृतिभिर्हत्वाऽभ्यद्र- व्यमाहृत्य “यऋतेचिदभिधिष" इत्याज्य- शेषेणाऽभ्यञ्जत् ।। ३॥ ( मं० ब्रा० १।३।१३) अध्वनात्यनुवर्तते । (३)अक्षभङ्गे। अक्षोरथचक्रम् | नद्धविमोक्षे-नद्ध- स्य(४)योक्त्रादिबन्धस्याश्वादेर्वा विमोक्षे-अकस्माद्विमोके यानस्य रथादेवि. पर्यासे औत्तराधर्यप्रातिलाम्ये अन्यथागमने विपथगमने वा। अन्यासु चाप- सु-यानात्परिपतनादिकासु चौरव्याघ्रादिकृतासु वा। यमेवाग्निमौपासनं(५) हरन्ति नयन्ति । यमेव(६) वा कच्चिदग्निं लौकिकमपि सन्निधौ लब्ध्वाऽऽनय- न्ति तमेवानिमुपसमाधायेन्धनं सन्धुक्ष्य व्याह(७)तिभिराज्येन सुवेण हुत्वाऽ- न्यद्यदक्षादिद्रव्यन्तदाऽऽहत्यानीय “य ऋते चिदि"-त्यनयर्चा(८)। आज्य- शेषेण कृतहोमावशिष्टेनाज्येनाभ्यजेत् । अन्तर्भावितण्यर्थोऽजतिः । कचित्त- थैव पाठः । ऋग्यथा- “य ऋते चिदभिश्रिष: पुरा जत्रुभ्य आतृदः । सन्धाता सन्धि मघवा पुरुवसुरिष्का विह्न तं पुन:' ।। १३ ।। ( ऋ० सं० ८।१।१२) (१) "रादाने" (अ०प०) कसरि तिच् (पा०.३।३।१७४) नसमासः । “अभि घातिपराराती"ति शत्रुपर्यायेऽमरः । (३) "द्राकुत्सायां गतौ” (अ०प०) आशंसायां लोट् ॥ कुत्सितगमनेन हि मीतिरत्रावेचते । (३) "अक्षोज्ञातार्थ-पाकट व्यवहारेषु पाके" इति मेदिनी । (४) नद्धमिति भावे क्तः । नद्ध इति कर्मणि । बन्धनमाधनन्तु योक्त्रादि अर्थ. वशात् । योक्त्रश्च युगबन्धोपयोगिन्यां रज्जावित्यमरविवेके महेश्वरः । तथा चामरः "आ- बन्धोयोनं योक्त्रमिति (५)दाराहरणाऽऽधकालिकम् । (६ ) एतच्चानाहिताग्निविषयम् । अन्ये त्वाः-"सायमाहुत्युपक्रम एवात अवं गृह्येनी होमोविधीयते” (१-१-२३) इति सूत्रणात् सायमाहुतेः पूर्वमक्षभङ्गादौ जाते होमोऽयं विवाहाग्नौ न प्राप्नोति इति यमेवाग्नि हरन्तोति सूत्रितमिति ॥ (.) पूर्वोक्ताभिर्भूरादिभिः । (6)न साम्ना । ऋगधिकारात्साम्नेति चावचनात् । अन्न सत्यव्रतः। अमूलक साम (गे गा० ६।२।२२ ) गायन । अनादिष्टपरिभाषया च साम्न एव बोधः । सूत्रे ऋगादिपदानुल्लेखादिति । २१ गो० गृ०सू । ।
[२ प्रपाठके- विवाहविधिः। इति । अस्या अर्थः । 'य' इन्द्रः । 'अभिनिषः' अभिश्लिषः ( अभिश्लेष- णासन्धानद्रव्यात् ) 'ऋतेचिद् विनाऽपि 'जत्रभ्यः' प्रीवाभ्यः (स्कन्ध(१) सन्धिभ्यः ) सकाशात् 'मातृदः' आतईनात् । (श्रा रुधिरनिःस्रावणात् ) 'पुरा' पूर्वमेव 'सन्धि' सन्धातव्यं तं 'सन्धाता' संयोजयिता भवति, 'मघवा' धनवान(२) 'पुरुवसुः' बहुधनः स इन्द्रः , 'अविहुतम्' विच्छिन्नं तं 'पुनः' 'इष्कर्ता' संस्कर्ता भवति । इति सायणः ।। १३ ।। अभ्य जनमिह 'म्रक्षणम् (३) । अत्राहि व्याहृतिहोममात्रविधानाक्षिाहो. मोऽयम् । तत्र च न्यञ्चकरणपर्युक्षणाऽऽज्यसंस्कार-समिदाधान-व्याहृति- होम-पर्युक्षणान्येव कार्याणि ॥ ३॥ वामदेव्यङ्गीत्वाऽऽरोहेत् ॥ ४॥ वामदेव्यं नाम साम । गीत्वा-वधूसहितोवरोयानमारोहेत् । अपवृत्ते कर्मणि सिद्धस्यापि वामदेव्यगानस्य पुनरुपादानकर्मार्थम् । अन्यथा पर्युक्ष- णान्त एव स्यादिति ॥४॥ एवम्- प्राप्तेषु वामदेव्यम् ॥ ५॥ प्राप्तेषु वरवधूसहितेषु वरयातृषु । वामदेव्यं “साम गायेदि"-ति शेषः ।। अत्र कर्ता (गानस्य ) वरएव प्रकृतत्वात् ॥ ५॥ गृहागतां पतिपुत्रशीकसम्पन्ना ब्राह्मण्योऽनरोऽध्यानडु चर्मण्य- पवेशयन्ति "इह गावः प्रजायध्वम्" इति ॥ ६॥ (मं० ब्रा० ११३।१४) गृहागतां पतिगृहे प्राप्तामवरोप्य यानादुत्तार्य "इह गाव" इति वरपठितेन मन्त्रेणोपवेशयन्ति(४) । मन्त्रोयथा- "इह गावः प्रजायध्वमिहाश्व इह पूरुषः । इहो सहस्रदक्षिणोऽअपि पूषा निषीदतु" ॥१४॥ इति । अस्यार्थः। 'इह' कन्यानिवेशने स्थाने (गृहे) 'गावः' 'प्रजाय- (१) "स्कन्धोभुजशिरोंऽशोऽस्त्री सन्धी तस्यैव जवणी" इत्यमरा । (२) "मध" इति धननामधेयम् । "महतेहानकर्मणः" इति निकम् (क्षण) ततोवानम्मत्वर्थीयः (पा० १।९।१२२ वा०)। (३) स्निग्धीकरणम् "अजव्यक्तिम्रक्षणकान्तिगतिषु" (२०५०) विधौ लिन्। (४) एष चर्मोपवेक्षनाचारोयुगान्तरविषयः । सम्मति तदास्तरणमसाम्प्रतम् । "विवाहामशानयोगामः प्रमाणम्" इति हि श्रुतिः पारस्करीयेऽर्थत उपनिबढ़ा द्रष्टव्या प्रामोदेशाचार। .
कण्डिका ] गोभिलगृह्यसूत्रे- ध्वम्। प्रजा जनयन्तु(१)। 'इह' च 'अश्व:' निषीदतु' श्रावसतु। 'इ पुरुषः' परिचारकवर्गः । परिजनश्च निषीदतु । 'इह' 'उ' वितर्के। पदपूरणो. वा। 'सहस्रदक्षिणः सहस्रं दक्षिणा यत्र स महाधनसाध्योयज्ञः। 'अपि' च 'पृषा' तन्नामकोदेवः सर्वपोषकोऽपि निषीदतु । सम्भवतु-उपविशतु वेति क्रमे णार्थः ॥ १४ ॥ इति ॥ ६॥ तस्याः कुमारमुपस्थ आदध्युः ॥७॥ तस्या आनडुहे चर्मण्युपविष्टाया वध्वा उपस्थे उत्सङ्गे (कोड़े) "उप- स्थः शेफसि कोड़े तथा मदनमन्दिरे" इति मेदिनी । कुमारम्-अकृतचूड़ यं कश्चिद्वालकम(२) । आदम्युः । स्थापयेयुः । ता एव ब्राह्मण्यस्तासामेवो- बक्रमात् ॥ ७॥ तस्मै शकलोटानञ्जलावावेपयुः॥८॥ तस्मै इति व्यत्ययेन षष्ठयथें चतुर्थी । (पा० २।३।६२ वा०) तस्य वधू. त्सङ्गोपविष्टस्य बालकस्याजलो शकलोटान(३)शालूकान्। आवपेयुईद्युस्ता एवनायरायः॥८॥ फलानि वा ॥१॥ फलानि वा आम्म्रादीनान्तस्याअलावावपेयुस्ताः ॥९॥ उत्थाप्य कुमारं ध्रुवा आज्याहुतीर्जुहोत्यष्टा-"विहधृ. तिरि"-ति ॥ १०॥ (म० ब्रा० १-६१-४) कुमारं वधूत्सङ्गादुत्थाप्य तां सन्निधावुपवेश्य वरोजुहोति-जुहुयात् । ध्रुवास्तन्नाम्ना प्रसिद्धा (नित्या) अवश्यहोतव्या इत्यर्थः । यद्वा-आभिर्हताभिर्व- ध्वाः पतिगृहे ध्रुवत्व(स्थिरत्व)म्भवतीती ध्रुवाः । मन्त्राम्नाये छवसानत्वान्म- न्त्रस्य, आहुतिद्वयमेवेतिशङ्का(४)निरासायाष्टावित्युक्तम् । तथाच मन्त्रः "इहधृति-रिहस्त्रधृति-रिहरन्ति-रिहरमस्व, मयि धृति-मयिस्वधृति-मयि रमो-मयि रमस्व" इति । अर्थः सुगमः । (१) अन पदव्यत्ययआर्षः। (०२११८५)। (१) "कुमारः स्याच्छुके स्कन्धे युवराजेश्ववारके । बालके वरुणदो ना" इति मेदिनी । "आ धूड़ाकरणादूबाला दन्तजननाच्छिशुः । कुमारस्तावद्विज्ञेयोयावन्मौजी- निबन्धनम्" इति कात्यायनोकोऽपि ग्रहीतुं शक्योबालस्यापि कुमारत्वाविशेषादिति । (३) शके कर्दमे लोटन्तीति शकलोटाः। कलार-कुमुद-नीलोत्पलानां मूलामि "सालक-पदेन व्यवहतानि । (.) शान रेफल्याधिक्यभ्रमेण सम्भवति ।
विवाहविधिः [२ प्रपाठक तत्र होमे चतुर्थी न प्रयोज्या । यथाच छन्दोगपरिशिष्टे कात्यायन:- "धृतिहोमे न प्रयुज्याद्गोनामसु तथाष्टसु । चतुर्थी,-मध्न्य इत्येतद्गोनाम्नैव हि हूयते ॥! इति । धृतिहोमे-अस्मिन्नेव । तथा "आश्वयुज्यां पौर्णमास्यां गोनामभिश्च पृथक् “कान्यासी"त्येतत्प्रभृतिभिरि"त्यनेन गोभिलसूत्रेण काम्यासि-प्रियासि इडासि-रत्यसि-सरस्वत्यसि-मह्यसि हव्यासि-विश्रुतिरसि-इत्यन्यानामानि, एतदष्टनामभिः स्वाहान्तैहोमउक्तः । तत्र चतुर्थीन्न प्रयुञ्ज्यादित्यर्थः। एवञ्चे. "हधृतिःस्वाहे"त्यादिः । “काम्यासिस्वाहे"त्यादिश्च प्रयोगोद्रष्टव्यः। अध्न्या गौः (निघं २।११।१ ) अमरोऽपि “अर्जुन्यन्या रोहिणी स्यादि"त्याह । भारते ऽपि "अध्न्या इति गवां नामे"त्युक्तम् । अन्य स्वाहेति यत्र नवाहुतयस्तत्र बोद्धव्यमिति मुरारि(१)मिश्राः प्राहुः ॥ १० ॥ समाप्तासु समिधमाधाय यथावयसं गुरूनगोत्रणा भिवाघ यथार्थम् ॥ ११ ॥ इतिश्रीमद्गोभिलीये गृह्यसूत्रे द्वि-प्र-स्य चतुर्थी कण्डिका ।। २॥ ४ ॥ॐ॥ BAD समाप्तासु धृत्याहुतिषु अन्यास्वप्याज्यतन्त्रविहितासु आहुतिषु समिधमा- धायैवाभिवादयेनत्वनुपर्युक्षणादिकमपि कृत्वा। यथावयसम् । वयोऽनतिक्रम- णेन । यथार्थेऽव्ययीभावे (पा. २।१।६) "शरदादित्वात्" (पा, ५।४।१०७) इसमासान्तः । योयोवयसा बृद्धस्ततम्प्रथममित्यर्थः । गुरून् विद्यागुरु-मातृ. पितृ-प्रभृतीन् । तत्राऽपि प्रथमं विद्यागुरुम् । तथाच स्मयते- "लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा । आददीत यतोज्ञानं तं पूर्वमभिवादयेत् ॥ इति । "न चानिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत्" इतिच (मानवायम् ) गुरुणा ब्रह्मदेन अनिसृष्टोऽनाशप्तः स्वानात्मीया. न्गुरून्पित्रादीन् । तथा- "उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता" इति । मातापित्रोस्तु पूर्वम्मातरमेव(२)। (१) अतएव हि सूत्रेऽष्टावित्युक्तिरिति तनावः। (२) यत्तु कृष्णोऽपि वसुदेवस्य पादौ जमाह सत्वरम् । देवक्याश्च महाबाहुर्वसुदेव- सहायवानि-ति पौराणिकवचनात्मकल्पनाकुतोनेति । तन्मन्दं “यन्मनुरवदत्तभेष जम्भेषजताया" इति श्रुत्या मनूक्तक्रमस्य श्रुतिसम्मितत्वेन । “भगवानपि सर्वात्मा" इस्युपक्रम्य-ननाम दण्डवभूमौ मातरं पितरन्तथे-ति पुराणान्तरवचनेन च सत्प्रति. पक्षितत्वात् । किञ्चोकवचने सत्वरमित्युक्त्या ससम्भ्रममित्येवार्थ आयाति । इस्थञ्च Mas- - . - २ कण्डिका गोभिलगृह्यसूत्रे- Sadhana १७३ "सहस्रेण पितॄन्माता गौरवेणातिरिच्यते" इति मानवीयेन तत्र गौरवातिरेकबोधनात् । पितनिति व्यक्तिभेदाभिप्रायम् । सहस्रण गुणेन प्रकृत्यादित्वादुपलक्षणे वा तृतीया।। यथार्थमिति कर्मणः परिसमाप्तिरुच्यते । यथोक्तार्थकम् ॥ दक्षिणा चास्यानादेशात्पूर्णपात्रादिक वेति शुभम् ।। ११ ।। इति श्रीमदोभिलीवगृह्यसूत्रव्याख्यायां "मृदुलांख्यायां मुकुरदशर्मसङ्कलितायां द्वि-प्रस्य चतुर्थीकण्डिका ॥ २॥ ४॥ * ॥ (अथ पञ्चमी कण्डिका) अथातश्चतुर्थाकर्म ।। १॥ वत्तिष्यत इति शेषः । अथ शब्दोक्विाहानन्तर्यार्थः । अतः शब्दोहेत्वर्थः । यत एतस्मिन्नक्रियमाणे वध्वाः पापोलक्ष्मी शरीरान्नापैति । अत एतदवश्य- हुर्तव्यमिति । एवञ्चात्र कल्पे चतुर्थीहोमस्य पापीलक्ष्म्यादिरूपाऽलक्षण- फलन शाखान्तरवद्गोत्रसंक्रमणशरीरेक्यादि । अन्त एवतत्सम्भवादित्युक्तमेव (२।३६-१३) तथाच दैवादेतदनिष्पत्तो न विवाहवैगुण्यमपीतिस्मर्त्तव्यम् । अत्र च तैलोद्वर्तनादि कृत्वा युगकाष्ठ उपविश्य वध्वा सह यवमाषचूर्णेन स्ना- नमाचारादिति मुरारिमिश्राःप्राहुः ॥१॥ अग्निमुपसमाधाय पायचित्ताच्याहुतीर्जुहोति "अग्नेप्रायश्चित्त"इति चतुः॥२॥ अग्निमुपसमाधायेत्युक्तार्थम्। प्रायश्चित्तेति । प्रायश्चित्तलिङ्गमन्त्रैराज्या- हुतयः प्रायश्रित्ताज्याहुतयः । "अग्ने प्रायश्चित्ते" इत्यादिमन्त्रेण चतु-वारचतु. टयञ्जुहोति जुहुयात्। यधप्यत्र वीप्सा नश्रयते तथापि कल्प्या, वक्ष्यमाणकात्या- यनस्वरसात् तस्य तत्तात्पयोनायकत्वात् ॥२ तत्किमाम्नायपठितेनैव चतुश्चतुहोमो, नेस्याह- अग्ने स्थाने वायुचन्द्राः ॥३॥ क्रमशः सम्बोधनान्ताः "प्रयोक्तव्याः" इति सूत्रशेषः । समाम्नायपाठादेता. तदानी कंसवधान्ने सभायां वसुदेव एव पुरस्तादुपलब्धः सभ्येषु। देवकीस्वन्तःपुरिकत- याज्ञातस्वरूपतया च वसुदेवसहायेन तेन तत्र गत्वाऽवासपरिचया प्रणतेति क्रमकल्पना. न्तरकल्पनावसरः । उभयसन्निधाने तु-"मातरम्पतरश्चोभौ दृष्ट्वा पुत्रस्तु धर्मवित् । प्रणम्य मातरं पश्चात्पितरं प्रणमेद्गुरुम्" इति पुराण एवं प्रथम मातुः पुणामाभिधान. मिति न किञ्चिदेतत्।. HOU विवाहविधिः। [२ प्रपाठके वानेव विशेषोन पुनरपरःकोऽपि । प्रथमस्यैव मन्त्रस्याग्निपदस्थाने वायुचन्द्र. सूर्यपदप्रक्षेपमात्रेणाभ्यासोपदेशात् । तस्माश्चतसृष्वयाहुतिषु पापीलक्ष्मीरिति पदमेव स्यात् ।। ३ ॥ समस्य पञ्चमी वहुवदृय ॥४॥ समस्य-वायुचन्द्रसूर्या इत्युचार्य । बहुवदूह्य-प्रायश्चित्त योयूयमित्येवमादि- बहुवचनमूहयित्वा पञ्चमीमाहुतिब्जुहोति(१) । नचैवम्पञ्चममन्त्रस्य यथाम्ना- यपठितस्य काप्यत्राविनियोगे निरर्थकत्वापत्तिः । अत्र विनियुक्तस्यापि विनियो. गान्तरसम्भवादस्मदादिभिस्तत्परिशेषस्य कर्तुमशक्यत्वात् । अन्यत्रान्यथा पति- विनियोगस्य महर्षिणा दर्शितत्वेनापर्यनुयोज्यत्वात् । तथाचाग्नेः स्थाने वावा. चूहेनाग्न्यादिसमस्तवचनान्तोहेन च मन्त्रपञ्चकं सम्पन्नं तच्चतुर्द्धाभ्यसनीयमिति आहुतीनां विंशतिर्भवतीति शास्त्रार्थः । प्रयोगोयथा- *अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि, ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्याः पापी लक्ष्मी(२)स्तामस्या अपजहि स्वाहा' ? द्वितीय-तृतीय-चतुथींषु-वायो-चन्द्र-सूर्येति पुरस्तायोजनं विशेष:(३) । चर्मी समस्य यथा- ॐअग्नि-चन्द्र-वायु-सूर्याः प्रायश्चित्तयो यूयं देवानां प्रायश्चित्तयःस्थ । बाह्मणवानाथकाम उपधावामि याऽस्याः पापीलक्ष्मीस्तामस्या अपजहत वाहा"॥ इति । अत्र द्वितीयपञ्चके-पापीलक्ष्मीस्थाने पतिनीति विशेषः । तीये अपुच्या। चतुर्थे अपसव्येति विशेषाद्रष्टव्यः । एतञ्च स्पष्ठीकृतब्छन्दोग- रिशिष्टे कात्यायनेन । and- - (१) जहुवात् । अयमपि सूचितविशेषमात्रेण प्रथमल्यैव । “अग्ने प्रायश्चित्ते, स्यादिमन्त्रस्याभ्यासोपदेवाः। तेनाऽत्रापि पापीलक्ष्मीरिति पदमेव स्यात। अत्रापि समीति वीप्सा बोध्या। (२) अना"तनूरि-ति कााचस्कोऽपपाठः । मन्त्रवाह्मणादिष्वदशनात् । अतस्त- रित्येतदन्यव। (३) मन्त्राम्नाये (मं. बा. ११४१)तु इत्थं पठ्यते- "भग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽख्या: पीलक्ष्मास्तामल्या अपजहि ॥१॥ वायो प्रायश्चित्ते त्वं देवानाम्प्रायश्चिसिरति नाय. स्वा नाथकाम अपधावामि याऽस्याः पतिघ्नी तन्स्तामस्या अपजहि ॥२॥ चन्द्र यश्चित्ते त्वं देवानां प्रायश्चित्तिरसि प्राह्मणस्त्वा नाथकाम उपधावामि याऽस्या अपुत्र्या नस्तामस्या अपजहि ॥३॥ सूर्य प्रायश्चित्ते त्वन्देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा थिकाम उपधावामि याऽस्या अपशव्या तनस्तामल्या अपजहि ॥१॥ अग्नि वायु-चन्द्र मोः प्रायवित्योयूयन्देवानाम्प्रायश्चित्तयः स्थ ब्राह्मणोवोनाथकाम उपयावामि MS- पापापीलक्ष्मीर्यापतिज्नी पाजपुत्र्या याऽअपशव्या (तमूस-) तामस्या अपजहत
६ कण्डिका]
गोभिलगृह्यसूत्र-
"मन्त्राम्नायेऽग्न इत्येतत्पञ्चके लाघवार्थिभिः ।
पठ्यते यत्प्रयोगे स्यान्मन्त्राणामत्र विंशतिः ।।
अग्नेः स्थाने वायुचन्द्रसू- बहुवदूह्य च ।
समस्य पञ्चमीं सूत्रे "चतुश्चतुरि"-ति श्रुतेः ।।
प्रथमे पञ्चके पापीलक्ष्मीरिति पदम्भवेत् ।
अपि पञ्चसु मन्त्रेषु इति यज्ञविदेाविदुः ।।
द्वितीये तु पतीनी स्यादपुज्येति तृतीयके ।
चतुर्थं चाऽपशव्येति-इत्थमाहुतिविंशकम् ॥” इति ।
मन्त्राम्नाय इति पठ्यमानमन्त्रकाण्डे अग्ने प्रायश्चित्त इत्यारभ्य पञ्च.
मन्त्राः प्रायश्चित्ताहुतिलिङ्गाः । लाघवकामैरध्यतृभिः पठ्यन्ते । तत्पन्चकञ्च-
तुर्थीहोमप्रयोगकाले उहेन मन्त्राणां विंशतिर्भवेदित्यर्थः । द्वितीय इत्यनन्तरं
पञ्चक इत्यनुषज्यते । एवमग्रेऽपि । अत्र यथा श्रुते सूत्रेऽनुपपत्त्यभावाद्यथाम्ना-
तमन्त्रपञ्च कस्यान्वयानुरोधाच्च पञ्चैवाहुतय इति स्वपद्धतौ वीरेश्वरादयः ।
कश्चित्तु-यथाम्नातैमन्त्रैः प्रत्येकम्मन्त्रं होमचतुष्टयमिति विशतिराहुतय
इत्याह । अन्यस्तु-मन्त्रचतुष्टये वीप्सा पञ्चमेन यथापठितेनेकैवाहुतिरिति
सप्तदशाहतयः । अपरस्तु-प्रथममन्त्र एव वीप्सा मन्त्रान्तरैर्यथापठितैरेकैकाहु-
तिरित्यष्टावाहुतय इति । एतानि च सूत्रव्याख्यानानि परिशिष्टविरुद्धानीत्युपे-
क्षितानीति दिक् ॥४॥
।
उपधाव-
।
स्वाहा ॥६॥इति । एषामाः । हे 'अग्ने प्रायश्चित्ते! दोषाणां निष्कत! 'स्वं
'देवानामिन्द्रादीनां 'प्रायश्चितिः निष्कृतिः। दोषाणामपहन्ता 'असि' भवसि। यतो.
sत: 'बाह्मण बहाण्यो वैदिको वा मुत्वाऽहम् 'त्वा' त्वां 'नाथकाम:' आशीष्कामः ।
ऐश्वर्यकामोवा, प्रार्थयमानोवा 'उपधावामि' उपसपामि । आराधयामीत्यर्थः ।
नप्रयोजनमाह 'या' 'अस्याः वध्वा पापी' अशुभसम्बन्धिनी 'लक्ष्मी: शोभा। 'ताम्।
'अस्यैः एतत्कल्याणार्थम् षष्टयेव वा । 'अपजहि अपहर । तस्यामपसारितायामस्थाः
शुभव शोभा स्थास्यते । उत्तराणि चत्वारि मन्त्रवाक्यान्यनेनैव व्याख्यातानि । विशेष.
मात्रमुच्यते-'पतिमी पतिधातकलक्षणोपेता ॥ लक्षणे जायापत्योष्टक" (पा-३।२।११)
इति हन्तेष्टक्प्रत्ययोडीप् । 'तन देहावयवः । समुदायवचनोऽप्यवयवे वर्तते । पामैकदेशे
दग्धे प्रामोदग्ध इति वा । 'अपजहिः अस्याः पतिघ्नीत्वं दोषमपनीय जीवपतित्वं कुर्वि
त्यर्थः। अत्र “सविशेषणे हि विधिनिषेधौ सति विशेष्येऽन्वयबाधे विशेषणमुपसंक्रामतः"
इति न्यायोऽनुसतंव्यः । पुने मृते पुत्री मृत इति वत् ॥ २॥ 'अपुन्या पुत्रस्य निमित्त
या न भवति सा "पुत्राच्छवा (पा. ११४०) इति यत्प्रत्ययः ॥ पुत्रवातिनीलक्षणोपे.
तेत्यर्थः ॥३॥ 'अपशव्या-पशूनां गोमहिष्यादीनां निमित्तं वा न भवति सा । "गोब्धचः
(पा.६॥२३) इत्यादिना यत्प्रत्यये "ओर्गुणः" (पा.६।४।१३६) इति गुणः । पशु-
घातिनीलक्षणोपेतेत्यर्थः ॥४॥
विवाहविधिः। [ ३ प्रपाठके- आहुतेराहुतेश्च(१) सम्पातमुदपात्रेऽवनयेत् ॥ ५ ॥ सम्पातं-सुवलग्नमाज्यम् । अवनयेत्-पातयेत् ॥ ५ ॥ तेनैनाई सकेशनखामभ्यज्य हासयित्वाऽऽदलावयन्ति ॥ १६ ॥ तन-उदकपात्रस्थसम्पाताज्येन । आज्यमिश्रितोदकेनेतिमुरारिमिश्राः । एनां-वधूम् । सकेशनखाम् । शिरस आरभ्य पादपर्यन्तम् । अभ्यज्य-म्रक्षयि- स्वा । अभ्युदयेति मुरारिमिश्राः । ह्रासयित्वा-उद्वर्तनादिना तदञ्जनमपनीय । मुरारिमिश्रास्तु हासनमुद्वर्तनादिकम् । "उद्वर्तनं नखच्छेदारोमच्छेदनमेव च । स्रंसनं मेखलायाश्च हासनादि बिदुर्बुधाः ॥" इति वचनात् । आप्लावयन्ति-स्नापयन्ति । मन्त्रानुपदेशादमन्त्रक्रमेव । बहुवचनादनियत: कर्ता । तत आचारात्पतिः कृसरस्थालीपाकं सम्पाद्य पत्नी- स्पृच्छति-किमत्र पश्यसि? सा च वदति-पत्युः श्रीअमुकशर्मणेदीर्घायुष्वमिति सम्प्रदायादिदानीमेव तस्मिन्नेवाग्नौ धृतिहोमं पृथक्करणासामर्थे शिष्टाः कुर्वन्ति। तस्य च स्वतन्त्रत्वादादावन्ते च व्याहृतिहोमः कर्तव्यः । तदुक्तम् "आज्याह. तिषु पुरस्ताचोपरिष्टाञ्च व्याहृतिभिहोमः” । (१।९।२७) इति । तत आचाराज- न्मप्रन्थिकङ्कणयोर्विमोचनम् । ततश्च वामदेव्यगानान्तं तन्त्रं समापयेदिति ॥६॥ इति चतुर्थीकर्मणः परिसमाप्तिः ॥ * ॥ ( अथ गर्भाधानम् ) ऊर्ध्वन्त्रिरात्रात्सम्भव इत्येके ॥७॥ प्रकृतत्रिरात्रादूर्ध्व-परतः सङ्गतो(२)भवत्यनेनेति सम्भवः सम्भोगः। कर्तव्य इत्येके । आचार्यो मन्यन्ते । एष च-"त्रिंशद्वर्षोंवत्कन्यां हृद्यां द्वादशवाषि. कीम्" इत्येवम्मन्वादिनाभिहितपुंयोगवयस्का वृषस्यन्ती(३) चेद्भवेद्वधस्तदा- "यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन् । स्वदारनिरतश्चैव स्त्रियोरक्ष्या यतः स्मृताः(४)॥" (१) तेः खुव सम्पातमिति कचित्पाठः ॥ (३) अन्न 'प्रादिभ्योधातुजस्य वाच्योवाचोत्तरपदलोपः" (पा. २।२।२४ वा.) इति बहुव्रीहिणागतपदलोपः । (३) "वृषस्यन्ती तु कामुकी-त्यमरा ॥ (४) तेन जातमुत्रस्यागमनेऽपि न दोषोयदि स्त्री तावता (पुत्रैकजननेन ) परितुष्टा नान्यं कामयेत । "पुत्रप्रयोजना दारो" इति स्मरणात् ॥ (.) अस्यायमाशयः। भार्याया इच्छानतिक्रमेण प्रवृचिरस्यास्तीति यथाकामी । मवेत वाशब्दो नियमान्तरपरिग्रहार्थो न पूर्वनियमनिवृत्त्यः। तच्चाने.वक्ष्यते। स्त्रीणां ३ कण्डिका गोभिलगृह्यसूत्रे-- इति याज्ञवल्क्यवचनाद्रागतः प्रानोऽपि सकामस्य स्त्रीधर्मरक्षणार्थन्त्रिरा- त्रादूर्व पर्ववर्य स्वस्थस्य विधीयते । ततः प्रागब्रह्मचर्यस्य पुरस्तादभिहित- स्वात्। तथाच अनुः "सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियोरया विशेषतः । द्वयोहि कुलयोः शोकमावहेयुररक्षिताः॥” इति ।। ऋतुकालेऽभिगमन कार्य पुंसा प्रयत्नतः । सदैव वा पर्ववर्य स्त्रीणामभिमतं हि यत्।।" इति चैवमादि पराशरादिवचनश्चात्र प्रमाणम् । शुभकर्मनिर्णये तु नैत- त्सुत्रं मुरारिमिश्रकृतम् ॥ ७ ॥ स्वमते गर्भाधानकालमाह- यदर्जुमनीभवत्युपरतशोणिता तदा सम्भवकालः ॥ ८॥ स्त्रीणां गर्भधारणयोग्यावस्थोलिक्षित. काल ऋतुः । स च रजोदर्शनदिव. - । वरमिन्द्रदत्तमनुस्मरन् "भवतीनां कामविहन्ता पातकी स्यादि-ति । यथा-"ताअब्रुवन् वरं वृणीमहा ऋत्विया प्रर्जा विन्दामहै काममाविजनितोः सम्भवामेति । तस्मात्वियाः स्त्रियः प्रजां विन्दन्ते काममाविजनितोः सम्भवन्ति वारेवृत ह्यासाम्" इति । अत्रान्ते "ववृतं तासाम्" इत्यपि पाटोदृश्यते । एवं हि पुराणे स्मयेते-विश्वरूपवधादाह- त्याभिभूत इन्द्रस्ताञ्चतुर्दा व्यभजभूमौ जले वृशे स्त्रीषु च । तत्र भूमावूषररूपेण क्वचि. त्वचित्सा तिष्ठति । जले विकाररूपेण । वृक्षे च रोगविशेष (गड़ार) रूपेण स्त्रोषु रजोरूपेण, यद्योगे सा दिनचतुष्टयमस्पृश्या भवति । तदानीन्तासोमेतदेव वरं वृतमभवदिति। अपिच स्वदारेवेव निरतानितरी रतस्तन्मनस्कोम्वेदित्यनुपज्यते । एवकारेण स्त्र्यन्तरगमनं नि- वर्तयति। प्रायश्चित्तस्मरणात् । उभयत्रापि दृष्टप्रयोजनमाह-"स्त्रियोरक्ष्यायतः स्मृता" इति यस्मात् स्त्रियोरक्ष्याः स्मृता उक्काः । "कर्तव्याश्च सुरक्षिता" इति । तत्र सुरक्षितत्वं यथा- कामित्वेन स्त्रयन्तराऽगमनेन च भवतीति तबाह-तस्मिन् युग्मासु संविशेदिति ॥ ७९ ॥ किमयं विधि-नियमः-परिसंख्यावेति विकल्पे-मिताक्षराकारादोनां सिद्धान्तमवलम्ब्य शुभकर्मनिर्णये मुरारिमिश्राःप्राहु: :-नायं विधिः। अज्ञातज्ञापकत्वाभावात्। "विरुणद्धि विधि प्रासिविलम्वेनाविभाविनी-ति बोधनात्। नापि परिसंख्या-दोषत्रयापत्तेः। किञ्च तत्रान्य- योगव्यवच्छेदोवाक्यार्थः । इत्यनृतौ मैथुननिषेधलाभे "सकामामनृतावपी-ति विष्णु पुराणविरोवः स्यात् । "ऋतौ नोणेतीति बौधायनीयमन्तूपगमनदोयाभिधानमकामो पगमविषयम् । अतएव "अनृतौ तु सदा कार्य शौचम्मत्रपुरीषवदिश-ति शातातपीयवच. नमपि सङ्गच्छते । तेन नियमोऽयं, ततश्र "ऋताववश्यमभिगच्छेत् । अन्यथाप्रत्यवायो- भवति । तथा च व्यास:-"ऋतुस्नातान्तुयोभायों सन्निधौ नोपगच्छति । घोरायां भ्रूण- हत्यायाम्पततेनात्र संशयः ।" इति । नारायणोपाध्याया अप्येवम् । अत्र शाarतयीय- वचने "ऋतौ तु गर्भशङ्कित्वात्स्नानं मैथुनिनः स्मृतमिति पूर्वार्द्ध विशेष उपन्यस्तः स न विस्मर्त्तव्यः ॥ अत्रोक्तव्यासवचने-पतते-इत्यस्य स्थाने पच्यते-युज्यते-इत्येवं पाठभेद उपलभ्यतेऽथे न विशेषः ।। २३ गो० गृ० सू गर्भाधानविधिः [२ प्रपाठके- लादारभ्य षोड़शाहोरात्रः। लोऽस्या अस्तीत्यतुमती । सा यदा भवति । तत्रापि उपरतशोणिता । शारिणतनावरहिता। तथाविधा च प्रायश्चतुर्भिरहोरात्रैर्भ- वति । तदा सम्भवस्य सङ्गमस्य ( मैथुनस्य ) कालोभवति । तदेतत्वामान्यतो. ऽभिहितम् । विशेषतस्तु तत्रापि पर्वादिवजित एव । लोऽपि सन्निहितस्य श. तस्य (स्वस्थस्य )न सर्वस्येति बोध्यम् । तथाच याज्ञवल्क्य:- "शोड़शर्तनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् । ब्रह्मचार्येव, पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् ॥ ७९ ॥ (अ०१) एवङ्ग(१)च्छन्स्त्रियं क्षामां मघां मूलञ्च वर्जयेत् । सुस्थ इन्द्रौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥ ८० ॥ इति । तस्मिन्नृतौ । युग्मासु समासु षष्ठाष्टमादिषु । रात्रिषु । रात्रिग्रहणा- दिवसप्रतिषेधः । संविशे-गच्छेत् । पुत्रा(२)र्थम् । युग्मास्विति बहुवचनं समुच्चयार्थम् । अतश्चैकस्मित्रपि ऋतौ अप्रतिषिद्धासु सर्वासु युग्मासु रात्रिषु गच्छेत् । एवं गच्छन्नपि ब्रह्मचार्येव "भवति"-इति शेषः । अतोयत्र ब्रह्मच- ये श्राद्धादौ चोदितन्तत्राने समयालाभे गच्छतोऽपि न ब्रह्मचर्यस्खलनदोषोऽ- स्ति । किन्तु-पर्वाणि-आद्याश्चतस्रश्चरात्रीवर्जयेत् । पर्वाणि पञ्च यथा च स्मयते-- "चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र ! रविसङ्क्रान्तिरेव च ॥" इति । रविसंक्रान्तिर्मेषादिपु राशिषु सूर्यस्य गमनसमयः । मनुरप्याह- "अमावास्यामष्टमीञ्च पौर्णमासीञ्चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यतौ स्नातकोद्विजः ॥" इति । अतोऽमावास्यादीनि रजोदर्शनादारभ्य चतस्रोरात्रीश्च वर्जयेदिति (१) एवमिति । एवममुना प्रकारेण । स्वियं गच्छन् । क्षामां कृतामल्पसत्त्वां गच्छेत् । सा(क्षामता)च तस्मिन्काले रजस्वला व्रतेनैव भवति । अथचेन्न भवति कर्तव्या क्षामता पुत्रोत्पत्त्यर्थमल्पास्निग्धभोजनादिना । "पुमान्पुंसोऽधिके शुक्र की भवत्यधिक स्त्रियागइति वचनात् । यदा युग्मायामपि रात्रौ, शोगिताधिक्यं तदा स्त्र्येव भवति पुंप्र. कृतिः। एवम् अयुग्मायामपि पुंशुक्राधिक्ये पुमानेव भवति स्त्रीप्रकृतिः । कालस्य तत्र निमित्तत्वात् । शुक्रशोणितयोश्चोपादानकारणत्वेन प्राबल्यात् । तस्मात्क्षामा कर्तव्या। मघामूलनक्षत्रे वर्जयेत् । इन्दौ-चन्द्रे। सुस्थे एकादशादिशुभस्थानगते । चकारात्पुन- क्षत्रशुभयोगलनादिसम्पत्ती । सकृदेकल्या रात्री न द्विस्त्रिा। ततो लक्षण्यं लक्षणैर्युः कम्पुत्रं जनयेत् । पुमान्-अप्रतिहतपुंस्त्व इत्यर्थः । (२) एतेन जातपुत्रस्य तु नाय विधिः । किन्त्विच्छैव नियामिकेत्याहुः । ।
६ कण्डिका गोभिलगृह्यसूत्रे- मिताक्षराकारः । पर्वाणीति बहुवचननिर्देशादाद्यर्थावगमादन्येषामपिग्रहणं, यथा- चा स्फुटीभविष्यति ।। दक्षिणेन पाणिनोपस्थमभिमशेत् । “विष्णुयोनि कल्पयत्वे"- तयची । "गर्भन्धेहि सिनीवाली"-ति च ॥ ६ ॥ (मं० ब्रा० ११४।६-७) यदा प्रथमं (१)सम्भवेत्तदा दक्षिणेन पाणिना। उपस्थं-योनिम्। "उप- स्थः शेफसि कोड़े तथा मदनमन्दिर" इति मेदिनी। अभिमृशेत्-स्पृशेत् । वि. ष्णुयॉनि" "गर्भन्देही"-त्येताभ्यामृग्भ्याम् । यद्यपि "दक्षिणेन पाणिना(२) कृत्यमनादेशे” इति परिभाषात एवं प्राप्त क्षिणेनेति विशेषणमयुक्तमिव प्रति- भाति । तथापि शौचादौ सव्यस्यैव विनियोजनादत्रापि गृह्याङ्ग तथा भ्रमोमा- भूदिति तदुपादानम् । मन्त्रौयथा- "विष्णुयोनि कल्पयतु त्वष्टा रूपाणि पिशतु । आसिञ्चतु प्रजापतिर्धाता गर्भन्दधातु ते ॥६॥ गर्भन्धेहि सिनीवालि गर्भन्धेहि सरस्वति । गर्भन्ते अश्विनौ देवावाधत्तां पुष्कररजौ ॥७॥ अनयोरों-हेवधु ! 'विष्णुः' नारायण: 'ते' तव 'योनि' 'कल्पयतु सुप्र. सवसम(३)र्थङ्करोतु । 'त्वष्टा' भूस्थानदेवता (निघं० ५।५।११ ) 'रूपाणि' 'पि- शतु' प्रकाश(४)यतु । किञ्च 'प्रजापतिः' विधाता तामेव योनिम् 'आसिञ्चतु' (१) "उढ़ायाः प्रथमात्तेवेइति वचनात् । गर्भसंस्कारश्चार्य गर्भाधानाख्यः पात्र. द्वारेण स्यात्ततश्च सकृत्संस्कृते स्त्रीद्रव्ये योयोगर्भ उत्पत्स्यते स स संस्कृत एव भविष्यति तस्मात्सदेव स्यान प्रतिगर्भम् । एवं पुंसवनसीमन्तोन्नयने अपि द्रष्टव्ये । इति भट्टनारा. यणादयः । अयोऽप्यमो संस्काराः प्रतिगर्भमावर्तन्तेऽन्यथा परेषाङ्गीणामसंस्कार: स्यादिति कर्कोपाध्यायाः । गर्भाधान प्रतिगर्भमावत्तंते न पुसवनसोमन्तोन्नयने । इति विज्ञानेश्वरः । सीमन्तोन्नयन प्रतिगर्भन्नावत्तते । गर्भाधानपुंसवने आवत्तेते एवेति पाणिगाग्यनारायणप्रभृतयः । किंपुनरत्रयुक्तम् ? शूलपाण्यादिमतमेष । "ऋतावृतावित ति स्मरणात् । “ऊढ़ायाः प्रथमात्तेवेइति तु मातृश्राद्धपरम् । "असकृद्यानि कर्माणि क्रियेरन्कर्मकारिणा । प्रतिप्रयोग नैवं स्युर्मातरः श्राद्धमेव वेति कर्मप्रदीपस्मरणात् । तथाचान प्रथममिति व्याख्यानं मुरारि.मश्रीयमन्दिनं द्रष्टव्यम् । तस्य च प्रथमानति. क्रमएव तात्पर्यम् । संवदति चामुमर्थमतनं सूत्रम् “अथ सीमन्तकरणं प्रथमगर्भगइति ( २ ) तथाच कर्मप्रदीप. "कर्मोपदिश्यते यत्र कत्तुरङ्ग नचोच्यते। दक्षिणस्तत्र वि. ज्ञेयः कम्मणां पारगः करणइति ॥ (३) "कृपूसामथ्ये ( भ्वा आ०) णिजन्तात्प्रार्थनायां लोट् । (४) "पिशअवयवे (तु०प ) मुचादित्वान्नुम् । अयन्दीपनायामपीति दीक्षितच. रणाः (सि० को०) प्राहुः॥ . ।
गर्भाधानविधिः [२प्रपा । me यावन्मात्रेण वीजेन गभिवति तावन्मात्रमेव प्रक्षेपयस्वित्यर्थः । किञ्च 'धाता' सर्वस्य प्रसविताऽऽदित्योमध्यस्थानदेवता (निपं० ५।५।६ ) 'ते' तव 'गर्भ' पुत्रार्थ न्दधातु' स्थापयतु(१) ॥६॥ पूर्वामावा(२)स्या सिनीवालिः (कृष्ठेन्दुः ) सा प्रार्थ्यतेऽस्या अतिशुभलक्ष. रण(३)प्रेप्सया ।हे 'सिनीवालि' अस्यां वध्वां गर्भन्धेहि बन्ध्यात्वमस्या अप. नयेत्यर्थः । तथा हे 'सरस्वति' त्वमप्यस्यां गर्भन्धेहि त्वदनुध्यानादस्या गर्भोवि. द्वत्प्रकाण्ड भवितेत्यर्थः । हेवधु ! 'ते' तव 'गर्भम्' 'देवो' दीप्त्यादिगुणवन्तौ 'अश्विनौ' सूर्याचन्द्रमसौ। द्यावा(४)पृथिव्यावहाराने वा (निघ० ५।६।१) 'आधत्ताम्' त्वदात्मनास्थित्वा समाधत्तामिति बृहदारण्यकभाष्यव्याख्याया. मानन्दगिरिः । कथम्भुतौ ? 'पुष्करस्रजौ' 'पद्ममालिनौ । इति गुणविष्णुः । स्वकीयरश्मिमालिनावित्यानन्दगिरिः ॥ ९ ॥ समाप्यच्चौं सम्भवतः ॥ १०॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि-प्र-स्य पञ्चमी कण्डिका ।। २॥॥५॥ समाप्येति । ऋग्द्वयानन्तरमेवा(५)भिगच्छेदित्यर्थः । यदि देवादिनाऽत्र मु. ख्यकालातिपत्तिः स्यात्तत्राह-गृह्यासंग्रहकारः- "ऋतुपुंसवने दैवात्स्वकाले न कृते यदि । सीमन्तकरणात्पूर्व कृत्वा सीमन्तमाचरेत् ॥" इति । ऋतु-गर्भाधानम् (६) । कात्यायन:- "देवतानां विपर्यासे जुहोतिषु कथम्भवेत् । सर्वप्रायश्चित्तं हुवा क्रमेण जुहुयात्पुनः ॥ (१) लोड़ाशंसायाम् ॥ (२) "या पूर्वाऽमावास्या सा सिनीवाली योत्तरा सा कुहूः" इति श्रुतिः ॥ (३) इन्दुदर्शनी सा शुभलक्षणलक्षितेति तदधिष्ठातृदेवता प्रार्थ्यते॥ (४) अन्न द्यौयोतिषाऽश्नुतेव्याप्नोति । पृथिवीरसेनानलक्षणेनेत्यचिनौ । अशे विनिः । एवमहोतिषा, रात्रिरवस्यायेन । सूर्योज्योतिषा चन्द्रमा रसेन । हलादादि. नावा। इत्यश्चनौ पदव्याख्यायां देवराजयज्वानः प्राहुः ॥ (५) ऋचौ समाप्य सम्भवत एव न पुनरन्तरा किचित्कुर्यात् । इति कालार्थ वच- नव्यक्तिः कर्तव्या। तेन पूर्वत्र सुनितोऽभिमर्शोऽपि चोः परतोन स्याकिन्तु तत्पाठ- समकालमेवेति सिद्यति ॥ (६) अस्य पुरस्ताच्चोपरिष्टाञ्च महाव्याहृतिभिाँतव्यम् । 'अग्नेस्तु मारुतोनाम गर्भाधाने विधीयते इति गृहासङ्ग्रहोर्नामकरणेनैवाग्नेराज्याहुतिरुपतिष्ठते । तत्र च नियमतोव्याहृतिहोमः पुरस्तावोपरिष्टाचोचः (१-९-३७ ) एव ।।
६ कण्डिका गोभिलगृह्यसूत्रे- १०१ संस्कारा अतिपद्यरन्स्वकालाच्चेत्कथञ्चन । हुत्वैतदेव कर्तव्या ये तूपनय (१)नादयः ।।" इति ।। सर्वप्रायश्चित्तं-व्याहृति होमः । शाट्यायनहाम इति वीरेश्वरः । क्रमेणेति । यताविपर्यासस्तत एवेत्यर्थः । तदुक्तं तेनैव- "यतस्तदन्यथाभूतं तत एव समापयेत्” । इति । एतदेव सर्वप्रायश्चित्तमेव । एतदादौ वृद्धिश्राद्धे प्रमाणमुक्त- पूर्वमिति ॥ १०॥ ( इति गर्भाधानम् ) इति श्रीमगोभिलीयगृह्यसुत्रव्याख्यायां "मृदुला ख्यायां मुकुन्दशर्मस्लङ्कलितायां द्विप्रास्य पञ्चमी कण्डिका ॥ २ ॥ ६ ॥ * ॥ (अथ षष्ठी कण्डिका) (अथ पुंसवनम् ) तृतीयस्य गर्भमासस्यादिसदेशे पुसवनस्य कालः ॥१॥ गर्भीयस्मिन्मासि जायते सोऽयङ्गर्भमासस्तस्य यस्तृतीयोमासः । सम्बन्ध- लक्षणा षष्ठी तृतीयोयोगर्भमासः । गर्भादारभ्य यस्तृतीय इति वा व्याख्येयम् । तस्य । आदिसदेशे-अदि-समीपप्रदेशे प्रथमे तृतीयभाग इत्यर्थः । एतस्मिन्काले यत् पुण्यमहस्तत्पुंसवनस्य कालः । तथाच पारस्करोऽपि "मासि द्वितीये तृतीये बा ऽऽपूर्यमाणपक्षे(२) पुण्याहे । यदहः पुसा नक्षत्रेण चन्द्रमा युज्यते” इति । अत्र द्वितीय इति वाजसनेयिमात्रपरमिति मुरारिमिश्राः । आपूर्यमाणपक्ष- शुक्लपक्षे । पुण्याह इति पुण्ये शोभने विष्टयादिरहिते दिने इत्यर्थः । पुंसा नक्ष. त्रेण-पुन्नामधेयेन हस्तपुष्यादिना । पुंसवनस्य पुमान्सूयते येन कर्मणा तदिदं पुंसवनं गर्भसंस्कारकम्मणेनामधेयम् । अनेन हि कर्मणाऽव्यक्तलिङ्गं गर्भ पुमांसङ्करोति "पुंसवनात्पुंसी करोति"ति श्रवणात् । अत्र कालातिपाते प्राय- श्चित्तमुक्तमधस्तादनुपदम् ।। १ ।। प्रातः सशिरस्काऽऽप्लुतोदगग्रेषु दर्भेपु पश्चादग्रेषु दर्भेषु प्राच्युपविशति ॥ २ ॥ (१) एतेन चूड़ाकरणपर्यन्तमेव सर्वप्रायश्चित्तहोमः प्रायश्चित्तम् । उपनयनातिपाते तु व्रात्यस्तोमः शास्त्रान्तरे पठ्यते । स एव प्रायश्चित्तं दोषगुरुत्वादित्यभिप्रायः॥ (२) अत्र यस्मिन्छुक्लपक्षे तिथिक्षयो(अवम) न भवेत्सोऽपि आवश्यकतया वोध्यते।
पुंसवनविधिः [ २ प्रपाठक MES प्रातरुदयसन्निधौ(१) उत्तरापु कुशेपूपविष्य । सशिरस्काऽऽप्लुता । शिरः स्नाता वधूः! पत्या संस्कृतस्याग्नेः पश्चादुत्तरायेषु कुशेष प्राङ्मुखी उप. विशेपत्युदक्षिणतः । “दक्षिणतः पाणिग्राहस्योपविशती"-त्यन्यत्र दर्शनात् । एवम् उपविष्टायान्तस्यां व्याहृतिहामान्तकम्म कुर्यात्पतिः ॥ २ ॥ पश्चात्पतिरवस्थाय दक्षिणेन पाणिना दक्षिणमसमन्व- बमुश्यानन्ततिनाभिदेशमाभिमशेन "पुमा सौ मित्रावरुणा" वित्येतयची ॥३॥ (मं० ब्रा० ११४८) पश्चात्-पृष्ठदेशे अवस्थाय-प्राङ्मुख अर्ध्वजानु.स्थित्वा दक्षिणम् अंसम भुजशिरः (अंशः) "स्कन्धोमुजशिरोसोऽस्त्री"-त्यमरः। तूष्णीम(२)। अन्वव- मृश्य । पृष्ठतोऽन्ववलम्ब्य स्पृष्ट्वा । अनन्तहितम् । अव्यवहितम् ( वस्त्राद्यना- च्छादितम् ) अभिमृशेत्-स्पृशेत् । “पुमांसावि"त्येतय , सा यथा- "पुमा सौ मित्रावरुणौ पुमांसावश्विनावुभौ । पुमानग्निश्च वायुश्च पुमान्गर्भस्तवादरे" ॥ ८॥ इति । अस्या अर्थः । अत्र साकाङ्क्षत्राद्वाक्यस्य यथा तथेत्यस्तु इति चाध्याहा. य॑म् । तथाच-यथा 'पुमांसौ' 'मित्रावरुणो' आदित्यप्रचेतसौ। यथा च "अश्विनौ” देवभिषजौ 'पुमांसौ' । यथा च 'अग्निः वायुश्च' पुमान् । तथा 'तव' उदरे' कुक्षावयं 'गर्भः पुमान्' अस्तु ।। इति ॥ ३॥ अथ यथार्थम् ॥ ४॥ अथ-अनन्तरम् । यथार्थमिति कर्मणः परिसमाप्तिरुच्यते । वामदेव्य- गामनान्ततन्त्रसमापनमत्र कर्तब्यम् ॥४॥ अथाऽपरम् ॥ ५॥ अर्थतस्मात्पुंसवनकर्मणेाऽनन्तरम् अपरमन्यद्वितीयं पुंसवनं शुङ्गाकम- संज्ञकम् । “कर्त्तव्यम्(३)" इति वाक्यशेषः । पाठादेवाऽऽनन्तर्यलाभादथशब्दः पूर्वप्रकृतार्थो वा वर्णनीयः । पूर्ववदिदमपि पुसवनम्पूर्वप्रकृत एव काले करणी- (१) अन्यया "प्रागावर्तनादह (१-१-३) इति प्राप्तत्वात्पुनरुतत्वापत्तेः । तथाच स्मरन्ति 'प्रातः कालोमुहूर्तास्त्रीन्" इति । तत्राद्यमुहूत्तस्य निषिद्धत्वात्तदुपरितनः कालोऽत्र विवक्षितः॥ (२) अन तूष्णीमंसस्याभिमर्शनम् । मन्त्रेण नाभिदेशस्येति भट्टनारायण-मुरारि. मि-प्रभृतयः । (३) तदेतत्प्रथमे कृते फलानुपलब्धौ द्वितीये गमें कर्तव्यमिति में प्रतिभाति पद्धतिकृतस्तु-यथालिखितमाहुः ॥ ।
६ कण्डिका गोभिलगृह्यसूत्र--- : यमित्यर्थः । तच्चैकदिने दिनद्वये वेति विशेषोऽत्र न गम्यतेऽतःप्रथमदिने चेद्व. यक्रियते तहि नान्दीश्राद्धमपि तन्त्रेणेव कर्तव्यम् । तथाच कर्मप्रदीप:- गणशः क्रियमाणेषु मातृभ्यः पूजन सकृत् । सकृदेव भवेच्छाद्धमादौ न पृथादिषु ॥” इति ॥५॥ तस्थेतिकर्तव्यतामाह- प्रागुदीच्यान्दिशि न्यग्रोधशुङ्गामुभयतः फलामस्रामामकृमिपरि- सृप्तान्त्रिः सप्तर्यवैषिर्वा परिक्रीयोत्थापयेत् ॥ ६ ॥ प्रागुदीच्यामैशान्याम् । दिशि अवस्थितायाः । न्यग्रोधस्य-वटस्य । "न्य. प्रोधोबहुपाद्वटः" इत्यमरः । शुङ्गाम्-"लताप्रपल्लवोगूढः शुङ्गेति परिगीयते" इति कात्यायनोक्तलक्षणां (मुकुलितपल्लवरूपाम) कथम्भूताम् ? उभयतः फलाम-उभयतः पार्श्वद्वये फले यस्यास्ताम् । असामाम्-अम्लानाम् । इति मुरारिः(१)। अकृमिपरिसृप्ताम् । कृमिभिरव्याप्ताम् । एवम्भूतां परिक्रीय-क्री. त्वा उत्थापयेत् । गृह्णीयात् । कियतामूल्येनेत्यत्राह-त्रिः सप्तैरिति(२)। त्रिरावृत्तः सप्तभिः । एकविशल्या यवैर्माषेवेत्यर्थः । क्रयश्च वृक्षस्वामिनो न वृक्षात् । यवा- न्माषान्वा मूले निःक्षिप्य (३)परिक्रयणमित्येके प्राहुः ॥६॥ अथ क्रयणमन्त्रा:- "यद्यसि सौमी सोमाय त्वा राज्ञे परिक्रीणामि"॥१॥ "यद्यसि वारुणी वरुणाय त्वा राज्ञे परिक्रोणामि" ॥२॥ "यद्यसि वसुभ्योवसुभ्यस्त्वा परिक्रीणामि"॥३॥ "यद्यसि रुद्रेभ्योरुद्रेभ्यस्त्वा परिक्रीणामि" ॥४॥ "यद्यस्यादित्येभ्य आदित्येभ्यस्त्वा परिक्रोणामि" ॥ ५॥ "यद्यसि मरुयोमरुभ्यस्त्वा परिक्रोणामि" ॥६॥ "यद्यसि विश्वेभ्योदेवेभ्यो विश्वेभ्यस्त्वादेवेभ्यः परिक्रोणामि ॥७॥ अत्र "यद्यसि” इत्यादिक्रयलिङ्गैः सप्तभिमन्त्रैर्यवाषैर्वापरिक्रयणं, प्रतिमन्त्रं त्री-'स्त्रीन् यवान्माषान्वा वृक्षमूले प्रक्षिप्येति पद्धतिकृतोवीरेश्वरादयः । (१) मेदिन्यां तु "नीलिकायामथश्रामो मासे मण्डपकालयोः इति तालव्यादिः श्रामशब्दउक्तः । तेनाश्रामामितिपाठेऽविद्यमानकालिमामितितदर्थः । (२) अत्र क्रियाभ्यावृत्तिगणने "द्वित्रिचतुभ्यं सुच्” ( पा० ५।४।१८) इति सुच् । निःसप्तैरिति बहुव्रीहिः । (पा० २।३।२५ ) ततोडच् (पा० ५।४।७३ ) समा. सान्तः । डित्त्वाहिलोपः॥ (३) एवञ्च यस्यात्मीयोऽपि न्यग्रोधोमवेत्तेनापि सोमक्रयणवत्क्रयणमवश्यं कार्यम् ॥
॥ पुंसवनविधिः। [१ प्रपाठके- मन्त्रार्थस्तु- हेशुङ्गे ! त्वं यदि' 'सौमी' सोमप्रिया सोमदेवत्या वा 'असि' भवसि । तदा 'सोमाय राज्ञे सोमराजप्रीत्यर्थमेव त्वा' त्वां परिक्रीणामि'। एवमग्रेऽपि । अत्र सर्वत्र तायें ( पा० १।४।५४वा० ) चतुर्थी । उपकार्योंपकारकभावसम्ब- न्धश्च तादर्थ्यम् । "कृत्तद्धितसमासेभ्यः सम्बन्धाऽभिधानं भावप्रत्ययेने"ति सिद्धान्तात् ।।१-७॥७॥ (अथोत्थापनमन्त्रः) "ओषधः सुमनसोभूत्वाऽस्यां वीर्य समाधत्त इयङ्कर्म करिष्यती" त्युत्थाप्य तृणैः परिधायाऽऽहत्य वैहायसीं निदध्यात् ॥ ८॥ "ओषधयः" इत्यनेन मन्त्रेणेति कारान्तेनोत्थाथ-उत्तोल्य । तृणैः कुशैः। तथैव समाचारात् । पद्धतिरप्येवमेव । परिधाय-परिधाप्य । अन्तर्भावितण्य- र्थोऽयम् । वेष्टयित्वा । आहृत्य-आनीय । वैहायसीम्-आकाशस्थां कृत्वा गृहो- परि अधोवा निदध्यात् । धारयेत् । मन्त्रार्थस्तु-हे 'ओषधयः' । ओषधिदेव. ताः!। “ओषधि फल(१)पाकान्ता स्या"-दित्यमरादिकारान्तोऽपि । ङीषि ओ- षधीत्यपि । रात्रिः रात्रीति वत् । यूयं 'सुमनसः' प्रसन्ना 'भूत्वा' 'अस्यां' वध्वां (२) वीर्यम्' सोमर्थ्यम् । 'समाधत्त' (३)सम्यग्वीर्याधानं कुरुत । कुतः ? यतः 'इयं' वधूः 'कर्म' गर्भप्रसवनाख्यं(४) त्वत्सेवाञ्च 'करिष्यति' । 'इति' हेतोरि- तिसत्यव्रतः॥८॥ तां खल्वाहृतां गुङ्गाम- दृषदं प्रक्षाल्य ब्रह्मचारी व्रतवती वा ब्रह्मबन्धुः कुमारी वाऽपत्याहरन्ती पिनष्टि ॥६॥ व्याहृतिहोमान्ते । हषच्छिला (पेष(५)णी ) तां प्रक्षाल्य-शोधयित्वा । ब्रह्मचारी-प्रथमाश्रमी। व्रतवती-पतित्रता। गर्भिण्येवेत्येके । ब्रह्मबन्धुः । अन(६)धीतविद्यः । तथाचच्छन्दोगपरिशिष्टम् - "पतिव्रता व्रतवती ब्रह्मवन्ध. (१) फलानां पाके एवान्तोयासान्ताः । (२) क्रीतायां वटशुङ्गायाम् । (३) अर्पयत । (४) पुंसवनाख्याम् । (५) पिनष्टयस्यामित्यधिकरणे ल्युट् । डीए । तत्करणभूतं लोढ़कञ्च ॥ (६) कुत्सार्थेऽत्र बन्धुन्प्रत्ययः । तथाच विश्वः "ब्रह्मबन्धुरधिक्षेपे निशे च द्विजः न्मनाम्” इति । अधिक्षेपे-कुत्सायाम् । उदन्तपाठे तु ब्रह्मकुलोद्भवा आचारविधुरा सुवासिनी ब्राह्मण्येव । ऊउन्न (पा० ४११६६६) स्त्रीप्रत्ययः॥ ? - ६ कण्डिका गोभिलगृल्यसूत्रे- १८५ स्तथाऽश्रुतः ॥” इति । अप्रत्याहरन्ती-प्रत्याहरणं पिष्टस्य पश्चादानयनम(१)। तदकुर्वती । पिनष्टि-चूर्णीकरोति । "पिष्लुसञ्चूर्णने" (रु० ५०) लट् । मध्ये श्नम् । शुङ्गामित्यनुषजनीयम् ।।९।। वधूश्व- प्रात:सशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु । पश्चादग्नेरुदगग्रेषु दर्भेषु प्राक्शिराः संविशति । १० । प्राशिराः-पूर्वशिरस्का । संविशति-स्वपिति । “स्थानिद्राशयनं स्वापः स्वप्नः संवेश इत्यपि" इत्यमरः । शेषमुक्तार्थम् ।। १० ॥ पश्चात्पतिरवस्थाय दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठि कया चाङ्गु- न्याभिसंगृह्य दक्षिणे नासिकास्त्रोतस्यवनयेत् । “पुमानग्निः पुमानिन्द्र" इत्येतयर्चा ॥ ११॥ (मं. ब्रा. ११४९) अमिसंगृह्य-गृहीत्वा । पिष्टां शुङ्गाम् । नासिकास्रोतसि-नासापुटरन्ध्र । वध्वाएव । अवनयेत् । क्षिपेत् । (२)"पुमानग्निरि"ति मन्त्रण । शेषमुक्ता- थेम् । मन्त्रो यथा- "पुमानग्निः पुमानिन्द्रः पुमान्देवोबृहस्पतिः । पुमा सं पुत्रं विन्दस्व तम्पुमाननुजायताम ॥" ॥९॥ इति । मन्त्रार्थः सुबोध एव । पुमांसमित्यनेन सुपुरुषलक्षणोपेतम् । तमि. त्यनेन च बहुपुत्रसम्पत्तिञ्चोक्तवान्मन्त्रहगिति ॥ ११ ॥ अथ यथार्थम् ॥ १२ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि-प्र-स्य षष्ठी कण्डिका ॥२॥६॥2॥ निगदव्याख्यातमेतत् ।। १२ ।। इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां "मृदुला"-ख्यायां मुकुन्दशर्म सङ्कलितायां द्वि प्र-स्य षष्ठी कण्डिका ॥ २ ॥ ६ ॥ * ॥ । 4A (१) केचित्तु-उच्छ्रितशिलापुनकेणाहत्याहत्य पेषणं कर्त्तव्यम् । अथवा-सकृत्प योगेणैव यथा पेषणं निर्वहति तथा कर्तव्यमित्य प्रत्याहरणस्याथेमाचक्षते । (२) वस्त्रबद्धां पिष्टां शुङ्गां गृहीत्वा निष्पीड्य दक्षिणनासापुटे तसं क्षिपेदिति भव. देवमः। २४ गो० गृ० सु सीमन्तोनयनम। [ २ प्रपाठके- क ॥ अथ सप्तमी कण्डिका- ( अथ सीमन्तोन्नयनम्) अथ सीमन्तकरणम्प्रथमगर्ने । अथ-पुंसवनसंस्कारानन्तरम् । सीमन्नकरणम् । “सीमन्तः केशवेशे स्यात्" इत्यभिधानात्सीमन्तस्य केशरचनाविशेषस्य(१) वक्ष्यमाणविधिना करणम् "वतिष्यते” इति सुत्रशेषः। तस्य कालमाह-प्रथमगर्भ इति । इदं हि क्षेत्रसंस्कार(२)द्वाराऽपत्यसंस्कारकन्तेन सकृदेव कार्यम् । तथा च हारीत:- "सकृत्त कृतसंस्काराः सीमन्तेन द्विजस्त्रियः । यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतोभवेत् ।।" इति । गृह्यासंग्रहेऽपि- "यथा सीमन्तिनी नारी पूर्वगर्भेण संकृता । एवमाज्यस्य संस्कारः संस्कारविधिचोदितः ॥" इति । एव माश्वलायनगृह्यपरिशिष्टेऽपि-"सीमन्तोन्नयनं प्रथमे गर्भ "सी. न्तोन्नयनसंस्कारोगभपात्रसत्कार" इति श्रुतिः" । इति । अत्र गर्भश्च पात्रञ्चेति द्वन्द्वसमासेन तयोरुभयोरपि संस्कार इत्यर्थः । गर्भ उदरस्थमपत्यम् । पात्रं स्त्री । श्रौतञ्चास्य गर्भपात्रसंस्कारत्वमुपन्यस्यन्नृषिरनयोः (ग० पुं० योः ) पात्रसंस्कारत्वन्नास्तीत्युपदिशति । दैवाच्च सामन्तकरणादागेव गर्भनाशे पुन- गर्भोत्पत्तौ तत्करणीयम् । अन्यथा खल्वस्य संस्कारस्याभावेनासंस्कृतम्पात्रम- पत्यं च स्यात् । “सन्नियोगशिष्टानामन्यतरापायेउभयोरप्यपाय" इति न्या. यात् । नचैतदुचितं, शास्त्रान्तरबलाच्च । तथाच स्मरणम् - "पूर्वञ्च स्रावितोयश्च गर्भोयश्चाप्यसंस्कृतः । द्वितीये गर्भसंस्कारस्तेन शुद्धिविधीयते ॥" इति । तदिदं सीमन्तकरणविषयं वचनम् । न खल्वत्र प्रतिगर्भमावृत्तिनि- षिध्यते-संस्कारस्य, किन्तहि ! प्रथमगर्भविहितस्य संस्कारस्यदैवादकरणे गर्भान्तरे, करणमुपदिश्यते । सीमन्तकरणञ्च प्रथमगर्ने विहितं, न गर्भाधान- (१) सोमानमन्तयति बध्नातीति सोमन्तः । “अति अदिबन्धने" (भ्वा० ५०) कर्मण्यप् (पा० ३।२।१) "शकन्ध्वादित्वाता (पा०६।१।९४ वा०) पररूपम् । “सी. मसीमे स्त्रियामुभे' इत्यमरः । (२) क्षेत्रसंस्कारश्चाद्यगर्भ एवाभूदिति न प्रतिगर्भमावृत्तिरारम्भणीयान्यायात् । एचचात्र प्रथमगर्भश्रुतियायमूला ॥ "सच्च संकृता नारी सर्वगभेषु संस्कृतेति देवल वचनमपि न्यायमूलमेव । एतेनान प्रथमगर्भोपादानादूगर्भाधानपुंसवनयोः प्रतिगर्भमा- वृात्तरिति परास्तम् ॥
७ कण्डिका] गोभिलगृह्यसूत्रे-- AINOD । पुंसवने । तथाच स्मृत्यन्तरम्- "या नायकृतसीमन्ता प्रसूयते कदाचन । अङ्केदिधायतं बालं पुनः संस्कारमहति ॥" इति । असंकृतगर्भप्रसवे-द्वितीयगमें संस्कारस्तु प्रकृत-(प्रथम.) बालवि. नाशविषयो बोद्धव्य इति चन्द्रकान्तः । मुरारिमिश्रास्तु-नेतन्मन्यन्ते-इति कर्मशेषे वक्ष्यते । तत्र कालमाह-(२।८।१२)॥ १।। चतुर्थे मासि षष्ठेऽष्टमेवा ॥२॥ ऋजुरक्षरार्थः । अत्र वाशब्द. एक एवेति न तुल्यवद्विकल्पार्थः । एवञ्चा- क्तकल्पेषु यत्रोद्गयनादि-विहितसमयलाभस्तत्रेदकार्यम् । तथाचाङ्गिराः-“यत्रो. दगयनादिः स्यात्कालस्तत्रे"ति । बैजवापगृह्येऽपि-"मासि चतुर्थे पञ्चमे वा षष्ठाष्टमयोर्वाऽऽपूर्यमाणपक्षे यदहः पुंसा नक्षत्रेण चन्द्रमा युज्यते सप्तमे मासि वा प्रथमगर्भे सीमन्तोन्नयनम्" इति । कापि तदलाभे न तदपेक्षापि-आवश्य- कत्वात् । शङ्खलिखितौ- "गभस्यन्दने सीमन्तोन्नयनं यावद्वा न प्रसव" इति ॥२॥ पातः सशिरस्काऽऽप्लुतोदगग्रेषु दर्भेषु । पश्चादग्नेरुदगग्रेषु प्राच्युपविशति ॥३॥ निगदव्याख्यमेतत् ॥ ३॥ पश्चात्पतिरवस्थाय युङ्मन्तमौदुम्बरशलाटुग्रथन(१)माबध्नाति "अयमूर्जावतोवृक्ष" इति ॥ ४॥ (मं० ब्रा० १५१) युङ्मन्तमिति । युब्जि युग्मानि फलानि यस्मिन्सोऽयं युस्मान तमिति मतुबन्तम् इति भट्टनारायणोपाध्यायादयः । एवंशलाटुप्रथ्नं नीलस्तवकम(२)। "शलाटुनीलमित्याहुग्रंथ्नस्तवक उच्यते” इति कर्मप्रदीपात् । वस्तुतस्तु । युग्म प्रप्स, इत्युभयत्रपाठः। तमिति प्रसिद्धार्थम् । "युग्मन्तु युगलं युगम्" इत्या- ग्नेयाभिधानाधुग्मं (३)युग्मफलापेतं शलाटुग्रप्समपक्कफलस्तवकम् । "आमे (१) "प्रप्स" इति पाठः साधोयान् । “गृह्यान्तरे तथा दर्शनात् । तथा च (पा० गृ० सू० ) "युग्मेन शलाटुग्रप्सेनौदुम्बरेणे-त्यादि ॥ युग्मेन-धादिकलवता । शलाटु- अप्सेन-अपक्कफलस्तबकेनेति प्रामाणिकनिबन्धव्याख्यानाच्च । (२) "स्याद्गुच्छकस्तु स्त्रवकः” इत्यमरे कलिकादिभिराकीर्णः पल्लव ग्रन्धिः सवक इति विवेककास। (महेश्वरः ) प्राह ॥ (३) मत्वन्तत्वे तु “यरोऽनुनासिकेऽनुनासिकोवा" "प्रत्यये भाषायां नित्यम्। (पा० ८।४।४५ वा०) इत्यनुनासिके युङ्मन्तमिति स्यात् । गोधुक्ष्मानितिवत् ॥
। लीमन्तोन्नयनम् । २ प्रपाठक फले शलाहुः स्यादि"-त्याग्नेयाभिधानाद् "प्रप्सस्तवकउच्यते” इति कर्मप्रदी पपाठाच्च । नीलाभिधानम्(१)फलस्य तद्रूपत्वाद्धरितमिति तदर्थः । औदुम्बर- म्-उदुम्बरवृक्षोद्भवम् । तस्येदम्” (पा० ४।३।१२०) इत्यणप्रत्यय आदि- वृद्धिः । यथोक्तं स्तवकम् “अयमूर्जावत" इति मन्त्रेण वध्वाः कण्ठे सुडोलके. नामुच्य बध्नाति । बधनीयात् । मन्त्रीयथा- "अयमूर्जावतोवृक्ष ऊर्जीव फलिनी भव । पर्ण वनस्पते नुत्त्वा नुत्त्वाऽस्यां सूयतायिः" ॥ १ ॥ इति । अस्यार्थः । 'अयम्' उदुम्बरो यज्ञाङ्गो 'वृक्ष' "ऊर्जावान्" इति शेषः । अस्य 'ऊर्जावतः (२) वृक्षस्य 'ऊर्जीव' (३)फलशाखेव (हेवधु !) त्वं 'फलिनी' बहुफलवती(४)प्रशस्त फलवती वा भव । किञ्च हे 'वनस्पते' उदुम्बर ! (५)त्वया- ऽस्यां 'रयिः' पुत्ररूपं धनम् (निघं०२।१०१८) 'सूयताम' प्रसूयताम् । त्वयाऽनुगृ- होतेयं भाग्यवतः पुत्राल्लँभतामित्यर्थः। किमिव ? 'नुत्त्वा' 'नुत्त्वा' प्रे-२ 'पर्ण' पत्राणीव । (६)जातावेकवचनम् । यथा त्वया पत्राणि प्रेयं २ प्रसूयन्ते तथेयं बहुपुत्रा त्वया क्रियतामित्यर्थः ॥१॥ इति ।। अथ सीमन्तमूर्ध्वनयति(७)भूरिति दर्भपिञ्जलीभिरेव प्रथमम् । भुव इति(८) द्वितीयम् स्वरिति तृतीयम् ॥ ५॥ अथेति स्थाननियमार्थम् । तत्रस्थ एव पतिः । सीमन्तमुक्तरूपमूर्ध्वमुपरि नयति-नयेत् । इत्यर्थः। तत्र मन्त्रमाह-भूरितीति । अनेन मन्त्रेण प्रथमम् । केनोन्नयति ? दर्भपिजलीभिरेव । "अनन्तर्गभिणं सापकौशं द्विदलमेव च । प्रादेशमानं विज्ञेयं पवित्रं यत्र कुत्रचित् ।। (१) आममपकम् "आमोरुक् तद्भिदोः पुंसि स्यादपक्वेऽन्यलिङ्गवदिति मेदिनी ॥ (२) उशब्दोऽन्ना: (निघ० ३१७ ) "उर्जाद उत यज्ञियासः" ( ऋ० सं०८१॥ १३१४) इति श्रुतौ ऊर्जादाश्च यज्ञियाश्चे-ति निरुतम् । (२१) अन्नानमिति कर्म- कान्तम् । यदद्यतेस्म तदनन्तदिहोदुम्बरफलम् । पक्कं सुप्रवृमितितनिर्वचनदर्शनादि. ति गुणविष्णुसम्मतोऽर्थः । ततोमुम्नि मतुपि शारादीनाञ्च" (6पा०६१३१ १२० ) इति पूर्वपदस्य दीर्घः॥ (३) उर्जीति भूम्नि मत्वर्थे ई (पा०।२।१२२ वा० ) प्रत्ययेन साधुः ।। (४) भूम्नि प्रशंसायां वा मत्त्वर्थ इनिः । (पा० ५।२।१२२६) ॥ (५) “वानस्पत्यः फलं: पुष्पात्रपुष्पाद्वनस्पतिरि-त्यमरः। अनेन तदधिष्ठात्री देवतैव संबोध्य प्रायते ॥ (६) “पन्नं पलाशं छदनं दलं पर्ण छदः पुमानित्यमरः ॥ (७) अनावमुन्नयतीति चन्द्रकान्तसम्मतः पाठः । मुरारिमिश्रादिभिस्तु उन्नयती- स्येव पठित्तम् ॥ (८) अनापि भुधारीत चेति चन्द्रकान्तः पपाठ ।।
७ कण्डिका गोभिलगृह्यसूत्रे- एतदेन हि पिजल्या लक्षणं समुदाहृतम् । आज्यस्योत्पवनाथै यत्तदप्येतावदेव तु ।। एतत्प्रमाणमेवैके कौशीमेवामञ्जरीम् । शुष्का वा शीर्णकुसुमां पिञ्जलीम्परिचक्षते ॥" इति कर्मप्रदीपोक्तलक्षणाभिः । कतमाभिरिति चेत्तिमृभिरित्यवधेहि । कपिजलाधिकरणन्यायात् । तदिदं प्रथममुन्नयनं, भुव इति द्वितीयं दर्भपिज- लोभिरेव । स्वरिति तृतीयं दर्भपिखलीमिरेव। तदेवं तिसृभिस्तिसृभिरेकैकमुन्न यनमिति-उन्नयनत्रित्वादर्भपिजाल्योऽपि नवैव सम्पद्यन्ते । तासाञ्च तिसृभिरे- कमुन्नयन, तावतीभिरपरं, तावतीभिरेवापरमिति व्याख्येयम् । अत एव भूरि- ति दर्भपिजलोभिरिति सूत्रयिस्वा प्रथममिति सूत्रितम् । यदि पुनस्तिन एवदर्भपिब्जल्यः स्युस्तादित एव दर्भपिजलीभिरिति सूत्रयित्वा भूरिति प्रथमम् भुवरिति द्वितीयम् । इत्येवं विनियोगममूषामसूत्रयिष्यत् नचैवम् । तस्मादनुमिमीमहे भूरिति प्रथम एवान्नयने तिस्रोदर्भपिजल्याव्यप्रियन्ते एवमु- त्तरयोः। एवकारोऽत्र पक्षे करणान्तरव्यावृत्त्यर्थ इति चन्द्रकान्तभाष्यम् । मुरा. रिमिश्रास्तु-दर्भपिजलोभिरेवेत्येवकारकरणाद्यावन्त्युन्नयनानि तावतीभिरेव तिमृभिरित्यर्थः । प्रथम द्वितीयं तृतीयमिति वचनं व्याहृतिपिचल्योः पृथग्वि- नियोगप्रदर्शनार्थम् । अन्यथा मिलिताभिराहत्योन्नयनं प्रसज्येत । तथा चैकैक. याऽपि पिजल्या एकैकमुन्नयनमिति ॥५॥ अथ बीरतरेण"येनादितरि"-त्येतयर्चा ॥३॥ ( मंत्रा०१।५।२) अथेति पूर्वप्रकृतार्थम् । बीरतरेणेति । बीरास्तरन्त्यनेनेति बीरतरः शरस्ते- नेत्यर्थः । तथाच कर्मप्रदीपः- "श्वाविच्छलाका शलली तथा बीरतरः शरः इति । सीमन्तमुन्नयेदित्यनुषज्यते । तत्र मन्त्रमाह-"येनादितेरि"-ति । अनेन मन्त्रेणेत्यर्थः । मन्त्रीयथा- "येनादितेः सीमानं नयति प्रजापतिम्महते सौभाग्याय । तेनाहमस्यै सीमानं नयामि प्रजामस्यै जरदष्टिकृणामि" ॥२॥ इति । अस्यार्थः । 'प्रजापतिः' कश्यपः । 'येन' बीरतरेण शरेण 'अदितेः' देवमातुः 'सीमानम्' सीमन्तम(१)। 'नयति' विनीतवान(२) (विवृतं कृत- वान् ) किमर्थम् ? 'महते' बृहते 'सौभाग्याय' सुभगात्वाय । 'तेन' (३)शरेण (१) नामकदेशग्रहणे नामग्रहणं भीमोभीमसेन इतिवत् ।। (२) नयतिरिह सोपसृष्टार्थे विनयने वत्तेते धातूनामनेकार्थत्वात् ॥ (३) तेनेति "तादर्थ्यात्ताद्रूप्याच्च ताच्छब्दयम्" इति हि न्यायः । तथाचंह "तदे- - सीमन्तोन्नयनम् । [३ प्रपाठके 'अहम्' 'अस्यै' अस्या:(१)त्रियाः। 'सीमन्तं 'नयामि' विनयामि । (विवृतंक- रामि ) तेनच 'अस्थै' अस्याः 'प्रजां' पुत्रपौत्रादिकाम् 'जरदष्टिं' दीर्घकालजी. विनीम् । 'कृणामि' करोमि(२) ॥२॥ ६ ॥ अथ पूर्णचात्रेण "राकामहमि"-त्येतय ॥ ७ ॥ ( मंब्रा०११५॥३) अथानन्तरम् । पूर्णचात्रेण सूत्रपूर्णेन तर्कुणा । "चात्र तर्कु प्रकीर्तितम्" इति मुरारिधृतवचनाम् । सीमन्तमूर्खन्नयतीति पूर्ववत् । मन्त्रोयथा- "शकामह' सुहवां सुष्टुती हुवे शृणोतु नःसुभगा बोधतु त्मना । सीव्यत्वपः सूच्याऽच्छिद्यमानया ददातु बीर शतदायमुक्थ्यम्"।।३।। इति । अस्यार्थः । 'अहं' भर्ताऽस्याः। 'सुहवा' स्वाह्वानाम् । अाह्वानप्र. योजनकारिणीम् 'राकाम्' पूर्णचन्द्रां पौर्णमासीम्(३) तदधिष्ठातृदेवताम् । 'सुष्टुती' शोभनया स्तुत्या(४) 'हुवे' आह्वयामि(५)। साच 'सुभगा' शोभन धना(६) । सुपुण्या वा । 'नः' अस्माकम् “आह्वानमि"तिशेषः। 'शृणोतु' श्रुत्वा च 'स्मना' आत्मना(७) (स्वयमेव ) बोधतु' अस्मदभिप्रायमवधारयतु । "बुधिोधने" (भ्वा०उ०) लोटप्रार्थनायाम् ।। बुधवाच 'अपः' कर्म (निध० २।१११) पुत्रोत्पादनलक्षणम् । 'सूच्या' सूचीस्थानया । 'अच्छिद्यमानया' अनवच्छिन्नया (निरवच्छिन्नया) अभज्यमानयेति गुणविष्णुः। अनुग्रहबुध्या 'सीव्यतु' सन्तनोतु(८) । यथा वस्त्रादिकं छिन्नमपि सूच्या स्यूतं चिरन्ति- ष्ठति एवमिदं(कर्म)करोतु। कृत्वा च 'बीरं' विक्रान्तम् ‘शतदाय' बहुधनं(९) वेदम्भवतः कार्षापणं यद्वत्तोमथुरायां गृहीतम्" इतिवत्तच्छब्दोबोध्यः । एष हि महा भाष्यकृल्सम्मतः पन्थाः॥ (१) षष्ठ्यर्थे चतुर्थी (पा०२।३।६शवा०) ॥ (२) "कृविहिंसाकरणयोश्च" (भ्वा०प०) लटि "धिन्विकृण्व्योर च" (पा०३/- १।२० ) इत्युप्रत्यये साधुः ॥ (३)"या पूर्वा पौर्णमासी साऽनुमति ोत्तरा सा राके-तिश्रुतिः । “पूर्ण राका निशाकरे" इत्यमरश्च ॥ ( ४ ) "सुपा सुलुगि:-( पा०७।१।३९) त्यादिना पूर्वसवर्णदीर्घः ॥ (५) "संप्रसारणं "बहुलं छन्दसि” (पा०पाश१३-३४ ) इतिसम्प्रसारणम् ॥ (६) भगइति धननाम (निघ०२।९।१०)। "भगं श्री यानिवीयेच्छाज्ञानवैराग्य. कीतिषु । माहात्म्यैश्वर्ययत्नेषु धमें मोक्षे च, ना रखौ” हात मेदिनी ॥ ( 0 ) "मन्त्रेष्वाङ्यादेरात्मनः" (पा०६।४।१४१) इत्याकारलोपः ॥ (८) "षिवुतन्तुसन्ताने” (दि०प०) लोड़ाशंसायाम् ॥ (क) ददातेः कम्मणि भावे वा घम् ( पा०३।३।१९) "आतोयुगि” (पा०॥३॥ १३) तिवुकू॥ ।
७ कण्डिका ] DD RAANEEDED गोभिलगृह्यसूत्रे- बहुप्रदं वा । 'उक्थ्य' प्रशस्यं (निपं०३।८।६) पुत्रं 'ददातु' । इत्याशास्यते ! आशंसायां लोट् ॥३॥ इति ॥ ७ ॥ विश्वेतया शलल्या "यास्ते राके सुमतयः" इति ॥८॥ (मं०मा०१५।४) त्रिश्वेतयेति । त्रिषु स्थानेषु श्वेतया । अवच्छेदकत्वल(१)क्षणविषयता सप्तम्यर्थः । शलल्या-शल्लकीकण्टकेन "श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्" इत्यमरः । सीमन्तमूर्खन्नयतीति पूर्वेणसम्बन्धः पूर्ववत् । अत्र "येण्या शलल्ये"-तिगृह्यान्तरे पाठः । तत्रैत शब्दएवश्वेतवाचकः । “वर्णाद- नुदात्तात्तोपधात्तोनः" ( पा०४।१।३९ ) ॥ इति तस्थ न मन्त्रोयथा- "यास्ते राके सुमतयः सुपेशसोयाभिर्ददासि दाशुषे वसूनि । ताभिन्नों अद्य सुमना उपागहि सहस्रपोष सुभो रराणा ॥"१४इति अस्यार्थः । हे 'राके देवि ! (पौर्णमासाधिदेवते) 'सुपेशसः' शोभनरूपाः । पेशइतिरूपनामसु पठ्यते । (निघं०३।७।१९) 'ते' तव 'याः' 'सुमतयः' शोभन: बुद्धयः । प्रतिविशिष्टाः सर्वबुद्धिभ्य इति यावत्(२) । 'याभिः' सुमतिभिस्त्वं 'दाशुषे' हविर्दत्तवते (३)यजमानाय । 'वसूनि' धनानि(४) 'ददासि'। 'हेसुभगे!' शोभनधने(५) 'अद्य' इदानीं 'ताभिः सुमतिभिरुपलक्षिता(६) त्वम् । 'सुमनाः' उदारचेता भूत्वा 'न:' अस्मान् 'उपागहि' (७)उपागच्छ । किङ्कुर्वती? 'सहस्र- योषम्' बहुजनपोषर्क सुतम् । 'रराणा' (९)ददतीति ॥ ८ ॥ कृसरः स्थालीपाक उत्तरघृतस्तमवेक्षयेत् ॥ ६ ॥ कृसरः "तिलतण्डुलसम्पक्कः कृसरः सोऽभिधीयते" इतिकर्मप्रदीषोक्तल. क्षणः । स्थाल्यां यः पच्यते सोऽयं स्थालीपाकः । तदनेन स्थालीपाकाऽऽवृता कृसरस्य पाकोऽवगम्यते । मनुष्यार्थत्वाच द्विस्तण्डुलानां प्रक्षालनं, तथाच । (१) “गृहीत्वा चास्य केशेषु" इत्यादौयथा ॥ (२)सुशब्दद्वयस्वारस्यबललभ्योऽयमर्थः । (३) "दाश्चान्साबान्मीवांच(पा०६०१२) इति निपातितः । अस्य वस्व. न्ततया!"वसोः सम्प्रसारणम्" (पा०६४।१३१) इति वस्योत्वम् ॥ (४) “वसु तोये धने मणौगाइति शब्दार्णवः । (६) "भगं श्रीकाममाहात्म्यवीर्ययत्नार्थकोत्तिषु" इत्यमरः ॥ (६) उपलक्षणेऽत्र तृतीया । (पा०२।३।२१) । (७) अन्न "बहुलंछन्दसि" (पा.२।४।७३) इति शपोलुकि हेरपित्त्वेन ङित्वान्म- लोपः (पा०६।४।३७)॥ (८) रातिानार्थः ( अ०प०) पदव्यत्ययेन ( पा२३।११८५ ) लटः शानच् ॥ (९) "कर्मण्यण" ( पा०३।२।१) दत्यणप्रत्ययः ॥
१६२ শীঘলহুল ! । ३ प्रपाठक maan गृह्यास हे- "कृत्वा ब्रह्मासनान्तं द्विः प्रक्षाल्य कृसरं पचेत् । भक्षार्थत्वान्न निर्वाप उदगुद्वासनन्तथा ।। चूडाकर्मणि सीमन्ते यश्च पाकः सदा गृहे । विवाहे चंब लाजानां नाक्तो निर्वापणाविधिः ॥" इति । उत्तरघृतः। उत्तरे उपरि घृतं यस्य सोऽयमुत्तरवृत(दत्त)धृत इत्यर्थः । तमिमं स्थालीपाकमवेक्षयेत् । पत्नीदर्शयेत पतिः । स खल्वयं कृसरः स्थालीपा. काऽऽवृता यत्र कुत्रचियेन केनारि पक्तव्यः । सिद्धस्य तस्यापेक्षणमात्रस्यैव सूत्रणात् । तस्मादवेक्षणार्थमेवाभ्यासादनमिति सिद्धम् । अत्र होमानादेशान्न "मन्त्रस्य देवतायाश्च प्रजापतिरितिस्थितिरि"-ति वचनात्प्रजापतिदेवताकत्व- ञ्चरोहोमादेशे सत्येवात्य प्रवृत्तरित्यवेक्षणलक्षणे एव प्रयोजने इति द्रष्टव्यम् । अत एव चूड़ाकरणेऽन्नं वृथापक इति वक्ष्यति ( २।९।५ ) ॥९॥ एवं स्थालीपाकं पश्यन्ती वधूम्- किम्पश्यसोत्युक्त्वा "प्रजामि"-ति वाचयेत् ।। १० ।। "किंपश्यसि ?" इति मन्त्रभागं पतिरुक्का-"प्रजाम्पशून्त्सौभाग्यम्मा दीर्घायुष्ट्वं पत्युः" इति वधू वाचयेद्भाषयेत् । अत्र मह्यमिति षष्ठ्यर्थेचतुर्थी । (पा०२।३।६२ ) दीर्घायुष्टु-बहुकालसुखजीवित्वम् ॥ १० ॥ तसा स्वयम्भुञ्जीत ॥ ११ ॥ सा-वधूः । तम्प्रवेक्षितं सिद्धं कृसरम् ॥ ११ ॥ "बीरमू-जीवसू-जीवपत्नी"-ति ब्राह्मण्योमङ्ग- ल्याभिर्वाग्मिरुपासीरन् ॥१२॥ बीरान्-विक्रान्तान् सूते-इति बीरसूः। “बीरविक्रान्तौ" (चु० आ०) बीरयतेऽमित्रानिति बीरः तं सूते इतिबीरसूः । “धूमाणिगर्भविमोचने" (अ० आ०) ततः किप ! एवमग्रेऽपि(१)। "त्वंभवे"ति वाक्यशेषः । इति एवं प्रका. राभिमङ्गल्याभिमङ्गलेसाध्वीभिः “तत्र साधुः" ( पा०४।४।९८) इति यत् । वाग्भिाह्मण्योवधूमुपासीरन्गायेरन् । अनुनयेयुरित्यर्थः। यत्तु-साङ्ख्यायनपरि. शिष्टभाष्ये तत्तत्कालेऽकृतान्यपि क्षेत्रसंस्कारकर्माणि काले जाते, सूतकेऽपगते मातुर तन्निधाय व्याहृतिभिर्तुत्वा क्रमेण कर्तव्यानीत्युक्तं तत्तु प्रमाणाभावा. दुपेक्ष्यमिति मुरारिमिश्राः ॥ १२ ॥ । (१) जीवान-जीवतः सूते इतिजीवसूः । यान्सूते ते जीवेरब्रित्याशंसा वाक्यार्थः । एवं-जीवस्य-जीवतः पत्नी जीवपत्नी अविधवेति ॥
७ कण्डिका गोभिलगृह्यसूत्रे- RIIRAMAmu अथ सौष्यन्तीहोमः ॥ १३ ॥ अथेत्ययमपूर्वप्रकरणोपन्यालार्थः । आसन्नप्रसवां ज्ञात्वा सुखप्रसवार्थ होमः सोष्यन्ती होमः । “कार्य" इति शेषः ॥ १२ ॥ कस्मिन्काले कथञ्चेत्यपेक्षायामाह- प्रतिष्ठित वस्तौ परिस्तीर्याग्निमाज्याहुनी जुहोति "या तिरथी"- त्येतयर्चा "विपश्चित्पुच्छमभरदि"-ति च ॥ १४ ॥ ( मं० ब्रा० ११५।६-७) वस्तौ-योनिद्वारे(१) प्रतिष्ठिते-गर्भस्थित एव "बाले" बहिर्गन्तुमुपक्रान्त । अग्निं परिस्तीर्य परिस्तरणमुक्तन्तत्कृत्वा द्वे आज्याहुती जुहोति। पतिः।"या तिर. श्वी"त्यादि ऋग्भ्यां प्रत्येक स्वाहान्ताभ्याम् ।। अत्र-परिस्तीति विशेषोपदेशा- ब्रह्मोपवेशनादिबाधः । एवञ्च क्षिप्रहोम एवायं, विशेषवचनात्परिस्तरणाज्य. संस्कारावत्राधिकाविति द्रष्टव्यम् ।। ऋचौ यथा- "या तिरश्ची निष्पद्यते अहं विधारणी इति । तान्त्वा घृतस्य धारया यजे सश्राधिनीमहं ( सराधिन्यै देव्यै देष्ट्रय ) स्वाहा ॥ ६॥ विपश्चित्पुच्छमभरत्तद्धाता पुनराहरत् । परेहि तं विपश्चित्पुमानयं जनि- ध्यतेऽसौ नाम स्वाहा ।। ७ ॥ इति । अर्थोयथा-हे संराधिनि ! ( तदभिख्ये देवते!) या ते धारणा शुभे कर्मणि प्रस्तूयमाने 'अहं' 'विधारणी' शुभफलविघातकारिणी 'इति' एवं विधा सती 'तिरश्ची' (२)वान्छितफल-विघ्नकारिणी 'निष्पद्यते' 'अहं' 'तां' तादृग्धारणावती 'त्या' स्वामेव देवतां 'घृतस्य धारया' 'यजे' (३)पूजयामि । कथम्भूतां त्वाम् ? 'संराधिनी' सम्यक्साधिनीम्प्राणिनामिष्टस्य(४)। तस्यै 'सं. राकिन्यै' 'देव्यै' दानादिगुणविशिष्टायै । अतएव 'देष्ट्रयै' शुभफलानां(५)दा. ज्यै । 'स्वाहा' सुहुतमस्तु ॥ ६॥ 'विपश्चित्' कश्चिद्देवविशेषः । स 'पुच्छं' शिश्नं शिशूनाम् 'अमरत्' अ. हरत(६)। हृतवान् 'तत्' विपश्चिदाहृतं पुच्छं 'धाता' प्रजापतिः 'पुन:' 'आ- (१) "वस्ति भेदधोद्वयोः" इत्यमरः ॥ (२)तिरोऽञ्चतीत्यर्थे किन् । उगित्त्वान्डीप् । (पा० ४।२६) "अच" (पा० ६।४।१३८) इत्यकारलोपः । (३) “यजदेवपूजादौ” ( भ्वा० उ०) लट् ॥ (४) "राधसंसिद्धौ” (स्वा०प०) ताच्छील्ये णिनिः। (पा. ३२१७८)॥ (५) "दिश अतिसर्जने" (तु०प०) तृन् । ऋदन्तत्वान् डीप । (पा० ४३१५) अतिसर्जनं दानम् ॥ (६)हस्य भः (पा० ३३११८४ वा०)॥ २५ गो० गृ० सू सोमन्तोन्नयनविधिः । [३ प्रपाठके- हरन्' आनीतवान् । तदनुध्यानेन तत्पुनर्यथावस्थितमवातिष्ठत । इतिपरोक्षमु. क्त्वा प्रत्यक्षमुच्यते-हे 'विपश्चित् !' 'स्व' 'परेहि' (१)परागच्छ दूरमपसर । येन 'अयं' मबुद्धिस्थो(२) मयाभिध्यातोऽत्र गर्भिण्याम् 'पुमान्' शिश्नस. म्पन्नो 'जनिष्यते' उत्पत्स्यते । 'असौनान' देवदत्ताभिधानः। तस्मै तुभ्यं 'स्वाहा' सुहुतमस्तु ॥७॥ इति ॥ "पुमानयञ्जनिष्यतेऽसौ नामे"ति नामधेयं गृह्णाति ॥ १५ ॥ उक्तमन्त्रे "पुमानयमि"ति मन्त्रांशे असौ नामेत्यस्मिन्सर्वनाम्नि देवदत्त- शर्मनाम स्वाहेत्येवं नामधेयं नाम गृह्णीयात् । स्वार्थेऽत्र धेयप्रत्ययः । (पा० ५।४।२५ वा०)॥ १५ ॥ यत्तद्गुह्यमेव भवति ॥ १६ ॥ यत्तदानीं नाम गृह्णाति तद्गुह्यम् अप्रकाश्यम्भवति । एवकारकरणाद्याव. ज्जीवं स्वयमपि न गृह्णीयाज्ज्येष्ठस्येति स्मय॑ते- "आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामान गृहीयाज्ज्येष्ठापत्यकलत्रयोः ॥" इति । अपरब्चैतत्कारणं, यद्रिपुणा तज्ज्ञातमभिचार (३)उपयोजितम्मह- तेऽनायावकल्पेतेति । अत्रशङ्ख:-"काकादन्याः सेचकधातक्याः कोशात. क्याः बृहत्याः कालक्लीतकस्य मूलानि पेषयित्वोपलेपयेद्देशं यस्मिन्प्रजायेत रक्ष- सामपहत्त्यै" इति । काकादनी-काकजया । गुजेत्येके । सेचधातकी-का- कमाची । कोशातकी घोषकः । “सोनखेसर" इतिप्रसिद्धः । कालक्लीतकः कु- ष्णगुजा । मार्कण्डेयपुराणे- "अग्न्यम्बुशून्ये च तथा नियूपे सूतिकागृहे । प्रदीपशस्त्रमुशलभूतिसर्षपवजिते । अनुप्रविश्य जातन्तमपहृत्यात्मसम्भवम् । क्षणप्रसविनी बालं तत्रैवोत्सृजति द्विज! ।। सा जातहारिणी नाम सुघोरा पिशिताशनी । तस्मात्संरक्षणकार्य यत्नतः सूतिकागृहे ।।" । N । (१) परापूर्वक "इगतावि-ति धातुरन लोड़न्तः । गुणविष्णुस्तु-त्वं परःश्रेष्ठ इत्यस्मिन्कम्मण्येहि सन्निहितोभब । सोर्लोपः ( पा० ७॥१॥३९)। किन्त्वन-अवेहीति वत् ( पा० ६१८९) वृद्ध्यभावोनोपपद्यते । आर्षत्वानुसरणं तु क्लेशः ॥ (२) "इदमस्तु सन्निकृष्टेः" इति नियमात् । सानिध्यं बुद्ध्यवस्थानात् ॥ (३) “जन्मनक्षत्रयोन्या वै मारणानि यथातथम् । कृतानि न चिरेणैव सिद्धिदानि महेश्वरीति शारदाटीकायां राघवभट्टः ॥ .
Rom - ७ कण्डिका] गोभिलगृह्यसूत्रे- १६५ इति । यूपोऽत्र यूपाकारः काष्ठविशेषः । बैजवाप:- “षष्ठेऽह्नि रात्रिजागरणं जन्मगानं च कारयेत्” इति ॥१६॥ (अथजातकर्म) यदास्मै कुमारआतमाचक्षीरनथ ब्रूयात् "काश्त नाभिकृन्त- नेन स्तनप्रतिधानेन चे"ति ॥ १७॥ अस्मै-पित्रे । वक्तव्यमाह-काङ्क्षतेति । नाभिकृन्तनेन-नाभिच्छेदनेन । "कृतीच्छेदने" (तु० प०) ल्युटि बाहुलकान्नुम् (पा०३।३।१) स्तनप्रतिधानेन- स्तनपानेन । “धेट्पाने" (भ्वा०प०) भावेल्युट् । (पा० ३।३।११५) का- क्षत-प्रतिपालयत । समयं प्रतीक्षत । प्रकृत्यादित्वात्तृतीया ।। (पा० २॥३॥ १८ वा० )। तदुभयञ्जातकानन्तरं मातरः ! करिष्यथेत्यर्थः । नाभि- - मिलग्ना नाड़ी नालमित्यनर्थान्तरम् ॥ हारीत: "ब्राह्मणमाहूय नाड़ीच्छेदना. प्राक जातकर्म-पुण्याहवाचनकुर्वन्ति" " इति । ब्राह्मणं-तत्काभिज्ञं विप्रम् । विष्णुपुराणे- "जाते पुत्रे पितुः स्नानं सचैलस्य विधीयते । जातकर्म ततः कुर्याच्छाद्धमभ्युदये (१)च यत् ॥" इति । मनु:- "प्राङ्नाभिवर्द्धनात्पुंसोजातकर्म विधीयते । मन्त्रवत्प्राशनञ्चास्य सुवर्णमधुसर्पिषाम्" ।। इति । “वर्द्धनं च्छेदने" इत्यमरः । “वर्द्धच्छेदने" (चु०प० ) इति धा- त्वनुसारात् । पुंस इत्युक्तेः कन्याया एतन्न भवतीति गम्यते । अतएवास्य प्रा- शनमित्यप्युक्तम् । सुवर्णेति । सुवर्णेन हेम्ना मधुसर्पिषोर्मन्त्रपूर्वकम्प्राशनं मु- खे निःक्षेपणम् । अस्य बालकस्येत्यर्थः। तदुक्तं गृह्यान्तरे-"अनामिकया सुव- र्णान्तरितया मधुघृते प्राशयति-घृतं वे"ति । विकल्पे व्यवस्था गृह्यानुसारेण द्रष्टव्या । ब्रह्मपुराणे-"जातश्राद्धे न दद्यात्तु पक्वान्नं ब्राह्मणेषु हि" इति । एवं विधे श्राद्धेऽवनेजनपिण्डदानादि नास्तीति भर्तृयज्ञ-स्वामिनाविति रत्नाकरः ।। ब्रीहियवौ पेषयेत्तयैवाऽऽवृता यथाशुङ्गाम् ।। १८ ॥ व्रीहियवाविति द्वन्द्वनिर्देशादुभावपि मिलितौ पेषयेनत्वेकैकशः। तयैवा. ऽऽवृता-परिपाट्या यथाशुङ्गाम्पूर्वोक्ताम् । अन्यतरालाभेऽपि तत्प्रतिनिधिरुपा- (१) अन "नाष्टकासु मवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते । न शोष्यन्ती जातकम्म प्रोषितागतकर्मसु" इति कम्मंप्रदीपवचनं भवदेवममुरारिमिश्रादिभिरुपेक्षितम् । बीर. पद्धत्यादिष्वपि "कास्नानं वृद्धिश्राद्धच कुर्यादित्युपक्रमएवोक्तम् ।
जातकर्मविधिः। [२प्रपाठके । देयः । तथाच कर्मप्रदीप:- "यथोक्तवस्त्वसम्पत्तौ प्रायन्तदनुकारि यत् । यवानामिव गोधूमा ब्रीहीणामिव शालयः ॥” इति । तदेवं पिष्टौ ब्रीहियवौ- दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्या अभिस- गृह्य कुमारस्य जितायानिमाष्टी-"यमाञ"ति ॥१३॥ ( मं० ब्रा० ११५८) निमाष्टि-निश्च्योतयति(१)। अत्र करणमन्त्रमाह-"इयमाज्ञा" इति- एवमादिनेति । मन्त्रोयथा-"इयमाज्ञेयमन्नमिदमायुरिदममृतम्" इति । म. न्त्रार्थस्सुगमः । अत्र- "प्राक् चूड़ाकरणाद्वालः प्रागन्नप्राशनाच्छिशुः। कुमारस्तावद्विज्ञेयोयावन्मौजीनिबन्धनम् ॥" इति विशेषाभिधानेऽपि कुमारस्येति वचनं मौञ्चीबन्धनय्याँवदधिकारा- र्थम् । तेनैतानि जातकादिमौजीबन्धनान्तानि कर्माणि कुमारस्यैव न कु. मार्याः । मनुरपि- "अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः । संस्कारार्थ शरीरस्य यथाकालं यथाक्रमम् ।। वैवाहिकोविधिः स्त्रीणां संस्कारोवैदिकः स्मृतः । पतिसेवागुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥" इत्येताभ्यां वचनाभ्यां जातकर्मादिसंस्कारमुपनयनाभावञ्च बोधय(२)तीति व्याख्यातारः॥ १९॥ तथैव मेधाजननसर्पिष्माशयेत् ॥२०॥ तथैवेति दक्षिणस्य पाणेरित्यादिनोक्तप्रकारेणैवेत्यर्थः । मेधा श्रुतधारण- (१) तसं वस्त्रान्तरितमित्येतदर्थवशात् । बीरपद्धतौ तु-अनुमाष्र्टीत्युक्तन्तत्रानुमा. जनं तदसल्य, घर्षणं प्रक्षेपणं वा चूर्णस्येत्यत्र शिष्टाचारः प्रमाणम् ॥ (२) वस्तुतस्तु-"प्राधान्यात्कुमारग्रहणं क्रियते । अनुपादेयलिङ्गाविवक्षार्या तु कु. मार्यप्यवगम्यमाना न निराक्रियते । ननु चैवमुपनयनवतादिकमपि क्रियताम् इति चे. च्छृणु-अध्ययनार्थानि हि तानि व्रतानि । स्त्रियाः खल्वध्ययनं नास्ति । "न स्त्रीशूद्रौ वेद- मधीयाताम्" इति हि ब्राह्मणम् । याज्ञवल्क्योऽपि "वैवाहिकोविधिः स्त्रीणामोपनायनि. कस्मृतः" इत्याह । औपनायनिकः उपनयनप्रतिनिधिभूतः ( तत्कार्यकारी)। एतेन तत्पूर्वः सर्वोऽश्रममन्त्रक संस्कारः स्त्रीणामप्रतिहत एव मनुवचनार्थ" इति व्याख्यान चन्द्रकान्तभाष्यस्थं युक्तमुत्पश्यामः ॥ अत्र ब्राह्मणवाक्ये-"स्त्रीशुद्धौ नाधीयेताम्" इत्यपि पाठामुद्रिवपुरूषके दृश्यते । - । १ कण्डिका गोभिलगृह्यसूत्रे- विषया शक्तिः । “धीद्धरणावती मेधा" इत्यमरः । तज्जनयतीति मेधाजननं सर्पिविशेषणम् । प्राशयेत् निःक्षिपेत् ॥ २० ॥ जातरूपेण वाऽऽदाय कुमारस्य मुखे जुहोति "मेधान्ते मित्रावरु- (मं० ब्रा० ११५९) णावि"-त्येतयर्चा "सदसस्पतिम तमि"-ति च ॥२१॥ (छं० आ० २।२।३१७) जातरूपं-सुवर्णम् । तथाच तत्पर्याये "चामीकरं जातरूपं महारजतका- ञ्चने” इत्यमरः । वाशब्दः समुच्चये। क्रियाद्वयोपादानं मन्त्रयोः पृथग्विनियोग- प्रदर्शनार्थम् । जुहोति-जुहुयात् । नि:निपे(१)दित्यर्थः । जुहोति पदोपादानमिह कुमारमुखस्याग्नित्वेन ध्यानलाभार्थम् । अत एव गृह्यासंग्रहे "प्रगल्भोजातकर्म- णी"-त्यग्निविशेषकथनमर्थवत् । अत एवाग्निविशेषोपदेशादत्र व्याहृतिहोमो. ऽपि कार्य इति कस्य चिन्मतमपास्तम् । प्रमाणान्तराभावादस्य चान्यथासिद्धेः । शिष्टाचाराऽप्येवमेव । अत्र गणेश्वरमिश्रादयस्तु-छन्दोगानामन्यस्यान्नप्रा. शनस्याविधानात्कुमारमुखे यवरसदानमेतदेवान्नप्राशनम् । अन्यथा संस्कार- न्यूनता स्यात् । अतएव न पृथक्करणमिति(२)। ननु सूत्रकारेण पृथगसूत्र- णादत्रान्नप्राशनं संस्कार एव नास्तीति चेन्न सूत्रकारानुक्तत्वमात्रस्याप्रयोजकत्वा- त् । अन्यथा-कन्यादानकर्णवेधाग्निहोत्राणामकरणप्रसङ्गात् । "यन्नाम्नातं स्वशाखायां पारक्यमविरोधि च । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकमवत् ॥" (१) जुहोति पदोपादानात्स्वाहान्ततामन्त्रयोरवगम्यते । मन्त्रयोभेदेनोपदेशा दे- नैव होमः । अतएव बीरपद्धतौ विनियागोऽपि पृथगेव दर्शितः। किन्त्वत्र प्रथममन्त्रान्ते स्वाहाकारोनास्तीति चित्रं प्रतिभाति ।। (२) एषामयमाशयः । शास्त्रप्रामाण्यबलादेकेनापि कम्मैणा संस्कारद्वयनिष्पत्ता- वपि न किमप्यनुचितम् । ननु “षष्ठेऽन्नप्राशनं मासि" इति नियतकालत्वमन्नप्राशनस्य स्मर्थते नामकरणेन व्यवहितत्वञ्चति चेच्छृणु-अस्मच्छास्वं खल्विदानीमेवान्नप्राशनमुप- दिश्यते इत्यन्येषामेव नियतकालत्वनामकरणेन व्यवहित्वञ्च, नास्माकम् । नाप्यस्य नि. यतकालत्वमप्यस्ति-यथा च यम:-"ततोऽन्नप्राशनं षष्ठे मासि कार्य यथाविधि । अष्ट. मेवाऽथ कर्तव्यं यहेष्ठम्मङ्गलकुले" इति कालद्वयमुपदिश्य कालान्तरमप्युपदिशति । मनु- रपि “षष्ठेऽन्नप्राशनं मासि यद्वेष्टम्मङ्गलं कुले" इति तथैवोपदिशति । तदेतदपरे न क्षमन्ते। जातकम्मरूपत्वादेतस्य नानप्राशनत्वम् । न खल्वेकेन कर्मणा संस्कारद्वयनिष्पत्तिर्युका। नियतकालत्वादन्नप्राशनस्य नामकरणेन व्यवहितत्वाचेति प्राङ्नाभिवर्द्धनात्करणमस्य न युक्ततरम् । स्वशाखायामनभिधातेऽपि च पारशाखिकोपादनमविरोधेऽनुमतं कात्याय- नेन । तस्मात्प्रधानहामदेवतामात्रमेवाध्वर्युम्योग्रहीतव्यम् । पूर्वापरेतिकत्र्तव्यताकलापरन्तु स्वशाखोक्त एव स्यादिति न किञ्चिदेतत् ॥
जातकर्मबिधिः। [ ३ प्रपाठक यथा- NAB इति वचनासिद्धेस्तुल्यत्वादिति तात्पर्यगत्या वदन्ति । तत्र भाष्यकृतः यद्येतद्न्नप्राशनं, जातकर्म कतरत्तीति संस्कारन्यूनता तदवस्थैवेति । नचैकेन कर्मणा संस्कारद्वयसम्भवः । कचिदपि तथाऽदर्शनात् । किञ्च “ततोऽन्नप्राशनं कार्य मासि षष्टे यथाविधि" इत्यादिब्रह्मपुराणादिवचनादस्य कालभेदात् । नचैतेषां वचनानां छन्दोगेतरपरत्वम् बहुषु सङ्कोचापत्तः । वस्तुतस्तु-"प्रगल्भो- जातकर्मणि" "प्राशने तु शुचिस्तथेत्यग्निभेदकथनादस्मिन्नपि कल्पेऽन्नप्राशनं पृथगस्तीति निरपवादमिति । अतएव पद्धतौ पृथग्लिखनमिति दिक् ॥ मन्त्रो. "मेधान्ते मित्रावरुणौ मेधामग्निर्दधातु ते । मेधान्ते अश्विनौ देवावाधत्ताम्पुष्करस्रजौ” ॥९॥ "सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिम्मेधामयासिषं स्वाहा" ॥७॥ इति । अर्थोंयथा-'मेधां' धारणा(१)वती धियं 'पुष्करस्रजो' पद्ममा. लिनौ ॥९॥ इति । 'सदसस्पति' सभाया मुख्यम् 'अद्भुतम्' अभूतमाश्चर्यम् । ‘इन्द्रस्य' देव- राजस्य 'प्रियम्' वल्लभम(२)। अथच 'काम्यम्' कमनीयम् । ( अभीष्टसम्पा. दकं ) 'मधी' धारणावतीन्धियम् । 'सनि' दातारम् गुरुं सुराचार्यमहं शरण- स्वेन 'अयासिषम्' प्राप्तवानस्मि । सोऽस्मै कुमाराय मेधान्ददात्वित्याशंसयेति वाक्यार्थः॥ ७ ॥ इतिच ।। "कुन्तत नाभिमिति ब्रूयात् “स्तनश्च प्रतिधत्ते"ति ॥ २२ ॥ निगदव्याख्यातम् ।। २२ ।। अत ऊर्ध्वमसमालम्भनमादशरात्रात् ॥ २३ ॥ इतिश्रीमद्गोमिलीये गृह्यसूत्रे द्वि०प्र०स्य सप्तमी कण्डिका ॥२॥७॥ॐ।। अतोऽस्मानाभिवर्द्धनादूर्ध्वम्परतः। असमालम्भनम्-अस्पर्शनम् । अदर्शन- मिति मुरारिमिश्राः ॥ आ दशरात्रातू-दशाहोरात्रपर्यन्तम् ॥ तेन "सूतिका स्पृष्ट्वा सचेलः स्नायात्" इति । "माता शुद्धयेदशाहेन" इतिचैवमादिस्मृती मातुरस्पृश्यत्वय्यदभिहितन्तदस्मान्नामिवर्द्धनादूर्ध्वमिति बोध्यम् ॥ २३ ॥ॐ।। इति श्रीमद्गोमिलीयगृह्यसूत्रव्याख्यायां "मृदुला"-ख्यायां मुकुन्दशम्मसङ्कलितार्या- द्वितीयप्रपाठकस्य सप्तमी कण्डिका ॥२॥ ७॥ * ॥ (१)धीद्धारणावती मेधा' इत्यमरः । (२) "दयितं बल्लभं प्रियम्" इत्यमरः ।
। कण्डिका ]
गोभिलगृहासत्रे-
MER
MP
अथाष्टमी कण्डिका
(अथ निष्क्रमणम् )
जननाद्यस्तृतीयोज्यौत्स्नस्तस्य तृतीयायां प्रातःसशिरस्क
कुमारमाळाव्यास्तमिते बीते लोहितिम्न्यञ्जलिकृतः पितोपतिष्ठते॥१॥
जननाजन्मन आरभ्य तृतीयायोज्योत्स्न: ज्योत्स्नायुक्तः पक्षः शुक्लपक्षस्त-
स्य तृतीयायां तिथौ सशिरस्कं शिरसा सह । अत्र सशिरस्कमित्यभिधानाद.
न्यदा बालानामशिरस्कं स्नानन्दर्शयति । तथाच ब्रह्मपुराणम् -
"शिशोरभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् ।
रजस्वलादिस्पर्श तु स्नातव्यन्तु कुमारकैः ।।"
इति । एवञ्चेदं स्नानमदृष्टार्थम् । न तु शौचार्थमिति ध्येयम् ॥ कुमार-
बालम् ।। तथाच ब्रह्मपुराणाम्-
"प्राक्चूड़ाकरणाद्वालः प्रागन्नप्राशनाच्छिशुः ।
कुमारस्तावद्विज्ञेयोयावन्मौजीनिबन्धनम् ।।"
इति । आप्लान्य-स्नापयित्वा । रात्री कर्मणोविधानाद्रात्रावेव स्नानम्मा.
भूदित्येवमर्थ प्रातरित्युक्तम् । अस्तमिते अस्तङ्गते सवितरि सूर्ये । वीते-विगते।
लोहितिम्नि-लौहित्ये सन्ध्योपरम इत्यर्थः । अञ्जलिकृतः। कृताञ्जलिः। “आहि-
ताग्न्यादिषु" ( पा० २।२१३७ ) पाठात् कृतशब्दस्य परनिपातः । उपतिष्ठते-
आराधयति । अर्थाच्चन्द्रमसम् । 'अभिमुखश्चन्द्रमसम्"इति लिङ्गात् । अत्र
"उपान्मन्त्रकरणे" (पा० १।३।२५) इत्यात्मनेपदम् । अत्र "उपाद्देवतापूजासङ्ग-
तिकरणमित्रकरणपथिध्विति वाच्यम्" इति वार्त्तिकादाराधने । अत्र दिशोऽनुप-
देशात् प्राङ्मुख उपस्थानकुर्यात् । “यत्र दिनियमोनास्तीति कात्यायनवचना-
दिति भाष्यकृतः । प्रत्यङ्मुख इति पद्धतिकृतः । युक्तम्चेदं शुक्लपक्षतृतीयायां
चन्द्रमसः पश्चिमदिगवस्थितत्वेन वत्साम्मुख्येनैवोपस्थानस्य न्याय्यत्वात् ।।१।।
अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणत
उदञ्चं पित्रे प्रयच्छत्युदशिरसम् ॥ २॥
अथ-अनन्तरमेव । शुचिना-निर्णितेन । आच्छाद्य-श्रा ईषत्-मुखव-
ज्जम् छादयित्वा दक्षिणतः पितुःक्षिणस्यान्दिशि भूत्वा । अत्र च "आद्या.
दिभ्यस्तसेरुपसंख्यानम्" (पा० ५। ४।४४ वा०) इति सप्तम्यन्तात्तसिः ।
एवमग्रेऽपि। उदञ्चम्-उत्तानम् । उदक्शिरसब्च कुमारं पित्रे प्रयच्छति-
ददाति ॥२॥
।
-
स्वयञ्च-
अनुपृष्ठम्परिक्रम्योत्तरतोऽचत्तिष्ठते ॥३॥
२०० निक्रमणविधिः। [ २ प्रपाठक LOON अनुपृष्ट-पत्युः पृष्ठदेशेन ! परिक्रम्य-गत्वा । उत्तरतः पत्युत्तरस्यान्दिशि अवतिष्ठते ऊर्वा तिष्ठति । अत्र "समवप्रविभ्यःस्थः" (पा० ११३।२२) इत्या. त्मनेपदम् ॥३॥ अथ जपति-"यत्ते सुसीम" इति । “यथायन प्रमीयते पुत्रोजनिव्याअधी"-ति ॥ ४ ॥ ( मं० ब्रा२ ११५।१०-१२) अथे-त्यानन्तर्यार्थम् । परिक्रम्योत्तरतः स्थितायान्तस्याम्। अनन्तरं पिता जपति-न तु परिक्रममाणायामेव । जप्यमाह-यत्त इति-एवमादि। यथायं अधीत्येतदन्तम् । तदिदन्त्यूचस्या(१)धन्तज्ञापनार्थमिति पदद्वयमुक्तमिति बोध्यम् । ऋचो यथा- "यत्ते सुसीमे हृदय हितमन्तःप्रजापतौ । वेदाहम्मन्ये तद्ब्रह्म माहं पौत्रमघं नि गाम् ॥ १० ॥ यत्पृथिव्यामन्नमृतं दिवि चन्द्रमसि श्रितम् । वेदामृतस्याहन्नाम माहं पौत्रमघरिषम् ॥ ११ ॥ इन्द्राग्नी शर्मयच्छत प्रजायै मे प्रजापतिः । यथायं न प्रमीयेत पुत्रोजनिव्या अधि" ॥ १२ ॥ इति । आसामर्थ:-हे चन्द्र ! "यत्" 'ते' तव 'अन्तः' मध्ये 'सुसीमें' सुषीमे सुशीमे वा(२) । अतिशीतले 'प्रजापतौ' प्रजानामानन्दजनकत्वेन पत्याविव (स्वामिनीव) 'हृदयं मनः 'हितम्' निहितम् अर्पितम् । 'अहं' 'वेद' जानामि । किं ? 'मन्ये तद् ब्रह्म' तदेतद्ब्रह्मैवभवतीति ध्रुवमुत्प्रेक्षे(३)। तेन 'पौत्रम्' पुत्र- सम्बन्धि । 'अधम्' (४)दुःखम् 'अहं' 'मा निगाम्' मानितरां प्राप्नुयाम् । अय. मर्थः । यस्मादहं ब्रह्मवित्तस्मान्ममानिष्टसम्बन्धोन सङ्गच्छते इति ।। १०॥ 'यत्' 'पृथिव्याः' शकासात् 'अन्' (५) निर्गतम् । अमृतम्(६) । 'दिवि' धुलोके 'चन्द्रमसि' चन्द्रे 'श्रितम्' आश्रितम् । तद् 'अहम्' 'अमृतस्य' 'नाम' प्राकाश्य(७) सम्भाव्यं वा रहस्यम् 'वेद' जानामि । ब्रह्मरित्त्वात् । अतः 'पौत्र' (१)ऋत्रयस्य। (२) "सुषी(शी)मः शिशिरोजड़ा" इत्यमरः । (३) "मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवश. ब्दोऽपि तादृशः" इति महदुक्के । तादृशः क्रियापदसङ्गतः । उत्प्रेक्षाभिधायी । (४) "अहोदुःखव्यसनेष्वघम्" इत्यमरः । (५) "अम्गत्यादिषु" ( भ्वा०प०) तस्मारिकनि मस्यनत्वे रूपम् । (६) छान्दसोदीर्घः । गुणविष्णुसु-अनामृतममृतमित्याह- (७) "नाम प्राकाश्यसम्भाव्यत्रोधोपगमकुत्सने इत्यमरः । । Meta MANA ८ कण्डिका गोभिलगृह्यसूत्रे- २०१ पुत्रसम्बन्धि 'अघ' दुःखन्प्राप्य(१) मा रिषम्' हिंसितो माभवेयमित्यर्थः।।११।। हे 'इन्द्राग्नी' ! युवां में मम प्रजायै सन्तानाय । 'शर्म' कल्याणम । 'यच्छतम्' दत्तम् । किंभूतौ ? 'प्रजापती' लोकपालौ। तथाच शर्म यच्छतं 'यथायं पुत्रो' 'मम' 'जनित्र्याः मातुः । 'अधि' उत्सङ्ग स्थितो 'न प्रमीयेत' न (२)हिंस्येत कदाचिदापुरुषायुपम् ।। १२ ।। इति । अत्र भविष्यपुराणम्- "द्वादशेऽहनि कर्त्तव्यं शिशोनिष्क्रमणं गृहात्। चतुर्थ मासि कर्त्तव्यन्तथाऽन्येषाम्मतं विभो! ।।" इति । द्वादशेऽहनीति शाखाभेदाद्विकल्पः । तथा- "चतुर्थे मासि कर्त्तव्यं शिशोश्चन्द्रस्य दर्शनम् । तृतीये मासि कर्त्तव्यं शिशोत्सूर्यस्य दर्शनम् ।।" इति । सूर्यचन्द्रदर्शनयोगुह्यानुसारेण व्यवस्था । अतुल्यार्थत्वात्समुञ्चय इति कल्पतरुः । पारस्करः "चतुर्थे मासि निष्क्रमणिका-सूर्यमुदीक्षयति तञ्च- क्षुरितीति । अत्र च संस्कारोनिष्क्रमणमेव । तत्परिगणने तस्यैव पाठात् । अनयोईर्शनयोराभ्युदयिकश्राद्धन्न कुर्वन्ति-"सूयन्दोः कम्मणी ये तु तयाः श्रा- द्वन्न विद्यते" इति कात्यायनवचनादितिकल्पतरुः ॥ ४॥ एवज पित्वाऽथ कुमारम्- उदश्चभ्मात्रे प्रदाय यथार्थम् ॥ ५॥ ऋजुरक्षरार्थः । यथार्थमिति कर्मणः परिसमाप्तिरुच्यते । इत्यसकदवो. चाम । तेन वामदेव्यगानमिदानीकर्त्तव्यम् । तथा च कर्मप्रदीपः- "अहोमकेष्वपि भवेद्यथोक्तञ्चन्द्रदर्शने । वामदेव्यं गणेष्वन्ते बल्यन्ते वैश्वदेविके॥” इति ॥५॥ अथयेऽत अर्ध्व ज्योत्स्नाः पूर्वोदित (३)एव तेषु पितोपतिष्ठतेऽ- पामञ्जलिं पूरयित्वाऽभिमुखश्चन्द्रमसम् ॥ ६॥ (१) केचित्तु-"मा ऋषम्" नावगच्छेयम् । "ऋषी।गतौ (तु०५०) माडि. लुइथेलडाड़भाव आपः । अत्रानुस्वारोवणेव्यत्ययकृतो भावमापन्नः । इत्याहुः । (३) “मीहिसायाम्" (दि० आ०) आशंसायां लिङ् । (३) अत्र "प्रथमोदिष्ट इति पाठश्चन्द्रकान्तेन पृतः । प्रथम यः काल उद्दिष्टः क- थितस्तस्मिन्नेव काले तृतीयायामिति तदर्थमाह । प्रथमोदित इतिपाठेऽपि प्रथममुदितः कथितोयः कालस्तस्मिन्निति स एवार्थ इति च । एषोऽर्थः पद्धतिकृतोबी रेषवरस्याप्य. भिमतः । परंस ततस्तथावस्थितमेव कुमार मातरि समय तद्दिने तत्क्षण एव चन्द्रा. भिमुखः पिता गव्यदुग्धयवफलपुष्पचन्दनसहितमपामञ्जलिं पूरयित्वा चन्द्रोद्देशेन सक. न्मन्त्रेण द्विस्तूष्णीमुत्सृजेदित्याह । एतदन्त एव च पात्रालेन पुष्पेण चापूयं पूर्ववद्वा. २६ गो० ० स० D - - निमरणविधिः । २ प्रपाठके- मान - अथ--(१)तृतीयाकमग अचं वे ज्योत्स्नाः शुक्लपक्षास्तेषु प्रथमोदित एव चन्द्रमलि द्वितीयायां प्रतिपदि वा । पिता अपामजलिञ्चन्द्रोद्देशेन पूरयि. स्वाऽभिमुस्खः सन चन्द्रमसमुपतिष्ठते आराधयति ।। ६॥ "यदइश्चन्द्रमस"ति सकृयजुषा द्विस्तूष्णीमुत्सृज्य यथार्थम् ॥ ७॥ ( म० ब्रा० १।५।१३) "यदश्चन्द्रमसि कृष्णा" इति मन्त्रेण सकञ्चन्द्रमसं प्रति उत्सृज्य । द्वि. रजलिद्वयम् । तूष्णीमुस्मृजेत् । यथार्थमिति कर्मणः परिसमाप्तिरुच्यते। एतच्च कमान्य त्रस्थोऽपि पिताऽब्दपर्यन्तं (२) कुर्यात् । मन्त्रोयथा- "यदश्चन्द्रमसि कृष्णं पृथिव्या हृदयश्रितम् । तदहाविद्वापस्तत्पश्यन्माहम्पौत्रमघरुदम् ॥ १३ ॥ इति । अस्यार्थः । 'यत्' 'अदः एतत् 'चन्द्रमसि' चन्द्रे 'कृष्णम्' ला- न्छनं तत् 'पृथिव्याः 'हृदयं प्रतिबिम्बं 'श्रितम् आश्रितमधिष्ठितम् । 'तत्' इदम् 'अहं' 'विद्वान् ब्रह्मवित्वात्तत्स्वरूपं जानन् 'तद् एवच 'पश्यन्' दृष्ट- वा(३)न"मी"ति शेषः। यतोऽत: 'पोत्रम्' पुत्रसम्बन्धि 'अघं' दुःखम्प्राप्य मदेव्यगानमिति च । तेन चैककम्मंतामनयोराचष्ट । किन्तु यथार्थमिति पूर्वापरयोरुभयो- रपि पृथक् ३ परिदृश्यमानं कर्मान्तरत्वमवगमयति । तथाच प्रथमतृतीयज्योत्स्ने एकङ्क म। तत्रमातुः कुमारल्य चाङ्गत्वमग्रेतनेषु ज्योत्स्नेषु पित्रवचन्द्राघदानम्पुत्रायुष्यका- मनया कर्तव्यमिति तत्कर्मान्तर्रामति सौत्रोऽर्थःप्रतिभाति । अस्यचैवमग्रेऽपि मासि २ वर्षय्यांवत्कर्तव्यमित्यन्यर्थः सम्भवति । मुरारिमिौस्तु यथानुपदोक्तं व्याख्याऽकारि ॥ (१) चन्द्रकान्तस्तु-अथेत्यपूर्वकर्मोपन्यासार्थः । अन्ये तु वर्णन्ति । अथशब्दोऽ. धिकारानुवृत्त्यर्थः । कथनाम पूर्ववदिदमपि चन्द्रदर्शन एवेति । अतोऽस्मारतीयाच्छुक्ल. पक्षाध्वं ये ज्योत्स्नाः शुक्लपक्षास्तेषु इत्येवं व्याचल्यो (१) चन्द्रकान्तस्त्वन्न हेतुमाह-तावतैव कृतत्वात् । वर्षान्तरेष्वपि त एव ज्यौ. स्ना एव मासास्त एवर्त्तवः पुनरावर्तन्ते । "अत ऊर्ध्व ज्योत्स्नेषु” इत्यकृत्वा "ये अत ऊध्वं ज्योत्स्नास्तेषु" इति करणाच्चैवमवगच्छामः । सर्वनाम्ना खल्वभिमतेषु ज्यो. स्नेष्वेतदुपदिश्यते। असमास-गुरु-क्रमभेदपूर्ववचनार्थापत्तयः खल्वर्थविशेषप्रतिपाद- नार्थ भवन्ति । शिष्टाश्चैवमाचन्ति इति ॥ (३) तथाच मनुः । “नामधेयं दशम्यान्तु द्वादश्यां वाऽस्य कारयेत् । पुण्ये तिथौ मुहूत्ते वा नक्षत्रे वा गुणान्विते" ॥ इति । दशम्यामित्र शौचापकर्षे बोद्धव्यम् । अती- तायामिति शेषोवा । तथाच विष्णुः "अशौचव्यपगमे नामधेयकरणम्" इति । पुण्ये ति. थावरिकासु मुहूत्ते गुणान्विते अभिजिदादौ । पारस्करः “दशम्यामुत्थाप्य ब्राह्मणान्मो. जयित्वा पिता नाम कराति" इति । उत्थाप्य-"सूतिकामिति शेषः । भविष्यपुराणे- "नामधेयन्दशम्यां तु केचिदिच्छन्ति पार्थिव!। द्वादश्यामपरे रात्र्यां मासे पूर्णे तथाऽपरे॥ अष्टादशेऽति च तथा वदन्त्यन्ये मनीषिणः । पुण्ये तिथौ मुहूत्ते वा नक्षत्रे वा गुणान्वि. ते ॥” इति । अत्ररात्रिपदमहः परमन्यत्पूर्ववत् । श्रुति: "एकादशे द्वादशेयानि पिता । । - ८ कण्डिका] गोभिलगृह्यसूत्र- 'मा रुदम्' मा रुद्याम् । ब्रह्मवित्त्वादेव(१) ॥ १३॥ इति ॥ ७ ॥ अथ नामकरणम) जननादशरात्रे व्युष्टे शतरात्रे सव्वत्सरे वा नामधेयकरणम् ॥ ८॥ जननात्-जन्मदिवसादारभ्य दशरात्रे व्युष्टे-अतिक्रान्ते । एवं शत. रात्रे सव्वत्सरे वा व्युष्टे । नामैव नामधेयम् । "भागरूपनामभ्योधेयः" (पा० ५।४।३६ वा० ) इतिधेयप्रत्ययः स्वार्थे । तस्य करणम् । इति कर्मणोनाम- धेयम् । “कर्त्तव्यम्” इति सूत्रशेषः । अत्र विष्ट्यादिदोषादन्यहेतोर्वा पूर्वत्रा- सम्पत्तावुत्तरग्रहणम् इति व्यवस्थितोविकल्पोबाशब्दार्थः । न स्वैच्छिकः । तुल्यवद्विकल्पेऽनेकोवाशब्दः सूत्रकारशैलीशिद्धः स चेह नास्तीति । तथाप्चै च्छिकविकल्पाङ्गीकारेऽष्टौ दोषास्तत्र सम्भवन्तीति व्यक्तं शुभकर्मनिर्णये ।।८।। अथ यस्तत्करिष्यन्भवति पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङपविशति ॥६॥ अथेति-जातगृहनियमार्थम्(२) । तथाच निष्क्रमणात्पूर्वमेतत्कर्म जन्म- शालायामेव कर्तब्यम् । अन्यथा तु बहिश्शालायामपीत्यथशब्दालभ्यते इति. भाष्यकृतः । तथाचोक्तं बह वृचशाखायाम्-- "तन्मध्ये जुहुयाद्यस्मिजातः स्यात्" इति । यः कश्चित्पिता अन्योवा तत्-नामकरणं करिष्यन् कर्तुमुद्यतो भवति । प्राङ-प्राङ्मुखः । निगदव्याख्यातमन्यत् । स खल्वयमग्निः शाला- (३)ग्नेरपि लौकिक एव बोद्धव्योन पुनः स्वयमाहितः । गर्भसंस्कारहोमाणा- मेवतथानुज्ञानात् । नामधेयादौ लौकिकाग्नेरुपदेशाच्च । तथाच कर्मप्रदीप:- "न स्वेऽग्नावन्यहोमः स्यान्मुत्कैकां समिदाहुतिम् । स्वगर्भसंस्क्रियार्थीश्च यावन्नासौ प्रजायते ।। अग्निस्तु नामधेयादौ होमे सर्वत्र लौकिकः । न हि पित्रा समानीतः पुत्रस्य भवति कचित् ॥” इति ॥ ९॥ अथ माता शुचिना वसनेन कुमारमाच्छाद्य दक्षिणत उदश्चकत्रै प्रयच्छत्युदक्शिरसम् ॥१०॥ नाम कुर्यात् ।” इति । याज्ञवल्क्यबृहस्पती-"अहन्येकादशेनाम" इति ॥ अन्न "व्युष्टे" इतिकथनानाक्तित इति । ततः परं यथाशास्त्रं पुण्यतिथ्यादौ । अन्न मासेऽष्टादशे वाहनी स्येवम्पुराणवचनं मतान्तरमितिव्यक्तम् । द्वादश्यांवेति मनूक्तिः पञ्चदश-मासयोयथा- वर्ण क्षत्रियादिषु द्रष्टव्या। अनास्येति सामान्ये नपुंसकवच स्त्रियमप्याह । "आर्जेलि. वचनमतन्त्रम्" इत्यपि परिमाषन्तेल्म पाणिनीयाः॥ (१) अयमर्थः । यस्मिन्गृहे कुमारोजातस्तस्मिन्नेव गृहे एतत्कर्तव्यमिति ॥ (२) अन्यथा प्रागेव चन्द्रदर्शनात्कुमारस्य बहिर्गमन स्यात् ॥ (३) अग्निहोत्रिणोऽपि ॥ amasum नामकरणविधिः। [ २ प्रपाठके- निगदव्याख्यातम् ।। १० ।। प्रदाय च माता- अनुपृष्टम्परिक्रम्योत्तरत उपविशत्युदगग्रेषु दर्भेषु ॥११॥ एतदप्युक्तार्थम् ॥ ११ ॥ अथ जुहोति प्रजापतये थितये नक्षत्राय देवनाया इति ॥ १२ ॥ अथेत्यानन्तर्यार्थकम् । उपविष्टायान्तस्याङ्कुमारं तस्यै प्रदाय जुहोति । (2)इतरथा गृहीतकुमारस्य हवनासम्भवात् । इत्येवमेके । गृहीतकुमार एव जुहोतीत्यपरे । पद्धतावप्येवमेव । कस्मै जुहोति? प्रजापतये । स चायं [ प्रजा- पतिहोमः ] "मनसा प्रजापतिन्ध्यायेत्तूशी होमेषु सर्वत्रे"त्याश्वलायनवचना. तथा कर्तव्यः । अत्राविशेषोक्तदेवतापदेन (२)तिथिनक्षत्रोभयदेवतालाभः । अत एव च विसमासकरणम् । तदुभयञ्च कुमारजन्मकालिकमेव। तथाच बहबचगृह्य-"त्रीणि चेतानि सदैवतानि जुहुयाद्यस्मिजातः स्यादिति । तिथि- देवतास्तु- "ब्रह्मा त्वष्टा च विष्णुश्च यमः सोमः कुमारकः । मुनिवसुः पिशाचश्च धर्मोरुद्रोरविस्तथा ॥ मदनश्चय यक्षश्च विश्वेदेवास्तथैव(३) च । अमायां पितरः प्रोक्ता यज्ञार्थास्तिथिदेवताः॥" इति वचनोपात्ता इह ग्राह्याः । न तु पुराणान्तरोक्ताः । परिशिष्टसंवादात् । तथाचात्र होमप्रकारे कात्यायन:- "नामधेये सुनिवसुपिशाचा बहुवत्सदा । यक्षाश्च पितरोदेवा यष्टव्यास्तिथिदेवताः ॥” इति । पुराणान्तरे मुन्यादिदेवतानभिधानात् । बहुवदिति-बहुवचनान्तशब्देनेत्य. र्थः । एवमग्रेऽपि नक्षत्रदेवताहोममधिकृत्य तथा- "आग्नेयायेऽथ(४) सापद्ये विशाखाद्य तथैव च । अषाढाये धनिष्ठाद्ये अश्विन्याये तथैव च ।। (१) अनादेशादाज्यन्द्रव्यम् । "आज्यन्द्रव्यमनादेशे जुहोतिषु विधीयते" इति कात्यायनवचनात् ॥ (२) तिथयः प्रतिपदाद्याः। तासान्देवता पूर्णिमान्तानां ब्रह्मादयोविश्वेदेवान्ताः । तत्र तिथिहोमे “ॐ प्रतिपदे स्वाहा" इत्येवमादिका प्रयोगः । तिथिदेवताहोमे प्रकार: कर्मप्रदीपोकोऽग्रेव्यक्तः। (३) पूर्णिमायाम् ॥ (४) द्विवचनान्तात् सन्धिरत्रार्षः । प्रगृह्यसंज्ञायां (पा०२१।१५) प्रकृतिभाव (पा .१२५) स्मरणात् । NE 1 ८ कण्डिका ] गोभिलगृह्मसूत्रे- । द्वन्द्वान्येतानि बहुववृक्षाणाब्जुहुयात्सदा । देवतास्वपि हूयन्ते बहुवत्सर्पपित्रपः ।।" इति आग्नेयाये-कृत्तिकारोहिण्यौ। एवमग्रेऽपि । साप-मश्लेषा । शेषमव- शिष्टम् । द्वन्द्वद्वयं-पूर्वोत्तरफल्गुन्यो । पूर्वोत्तरभाद्रौ च द्विवद्विवचनान्तम् । अवशिष्टानि-मृगशिरः प्रभृतीनि नक्षत्राणि । एकवदेकवचनान्तशब्दे(१)ने. त्यर्थः । देवाः विश्वेदेवाः । ज्यौतिषे- "अश्वोयमोऽनलोब्रह्मा शशी शर्वोऽदितिगुरुः । सर्पः पिता भगश्चैव अर्यमा च दिवाकरः ।। त्वष्टा वातः कृशान्विन्द्रोमित्रश्चैव पुरन्दरः । नितिः सलिलञ्चैव विश्वेदेवा हरिस्तथा ।। वसवोवरुणश्चैव तथैव स्यादजैकपात् । अग्निर्बु(ब)न्यस्तथा पूषा क्रमानक्षत्रदेवताः ॥" इति । अत्र अहिर्बुध्न इत्यपपाठः। 'उत्तानाहिर्बु(ब)न्यः शृणोत्वज एकपा- पृथिवी समुद्र" इति श्रुतौ पाठाविवादेन तथा निर्णयात् । सोऽयं होमस्य प्रका- रविशेष इतिशब्देन सूच्यत-इति द्रष्टव्यम् ।। १२ ।। तस्य मुख्यान्प्राणान्त्संस्पृशन् (२)"कोऽसि कतमोऽसी" त्येतम्मन्त्रं जपति ॥ १३ ॥ (मं० ब्रा० १।५।१४-१५) तस्य-कुमारस्य । मुख्यान-मुखप्रभवान् । “शरीरावयवायत्" (पा० ५। १।६) इति भवार्थे यत्प्रत्ययः । प्राणान्-प्राणनिर्गमोपायभूतान्सप्तच्छिद्रविशे. षान् । मुखमक्षिणी नासिके कर्णावित्येतद्रूपानिति यावत् । “कोऽसी"त्येवमा. दिमन्त्रं जपति । मन्त्री यथा- "कोऽसि कतमोऽस्येषोऽस्यमृतोऽसि, आहस्पत्यं मासं प्रविशासौ" ॥१४॥ स त्वाऽह्न परिददात्वहस्त्वा राज्य परिददातु रात्रिस्त्वाऽहोरात्राभ्याम्परि- ददात्वहोरात्रौ त्वाऽर्द्धमासेभ्यः परिदत्तामर्द्धमासस्त्वाम्मासेभ्यः परिददातु मा- सास्त्वत्तुभ्यः परिददत्वृतवस्त्वा सव्वत्सराय परिददतु सवत्सरस्त्वाऽऽयुषे जरायै परिददात्वसौ” ॥ १५ ॥ (१) अत्रापि लिनिर्णयस्तन्त्रान्तरे । "हस्ताश्वातिश्रवणा अक्लीवे मृगशिरो न पुंसि स्यात् । पुंसि पुनर्वसुपुष्यो मूलन्स्वस्त्री स्त्रियः शेषाः" ॥ इति ॥ (२) अन सम्मृशन" इत्यपि पाठः क्वचिश्ते । अर्थतस्तौल्यमेव । "मृशआमर्शने" (उ०प०) पठितः । आमर्शन स्पर्श इति वृत्तिकृतः प्राहुः॥
नामकरणविधिः । २ प्रपाठक- इति । अस्यार्थ:-सौ-इत्यामन्त्रणे । हे देवदत्त(१) ! त्वं 'कोऽसि ?' इति स्वरूप प्रश्नः । 'कतमोऽसि ?' इति जातिप्रश्न. (किजातीयोऽसीति) 'एयोऽसी"-ति प्रत्यक्ष निर्देशः । 'अमृतोऽसि' अमरणधर्माऽसि । ( अविना- श्यसि ) यतोऽतस्त्वाम् ‘ाहस्पत्यम्' अहस्पतेः-सूर्यस्य सम्बन्धिनं ( सौरं ) 'मास' सङक्रान्तिचिह्नितम् । 'प्रविश' तत्रात्मानमनुप्रवेशय । प्रथमं मासजीवी भव । ततः क्रमेणामृतत्वमेष्यसीति भावः ॥ १४ ॥ 'असो' हे देवदत्त ! इतिपुनरामन्त्रणमादरार्थम् । 'स' अहस्पतिः सूर्यः । 'स्वा' त्वाम् 'अह' दिवसाय 'परिददातु' अर्पयतु । संवर्द्धनाय । यावच्छता. युप्त्त्वम् । अत्र मासस्य विशेषणभूतोऽपि अहस्पतिः प्राधान्यात्स इत्यनेन परा. मृश्यते । इति गुणविष्णुभाष्यम् ।। १५ ।। इति । व्यवसानोऽयम्मन्त्रः ।। १३ ।। तत्र च मन्त्रे- "आहस्पत्यम्मासं प्रविशासावि"-त्यन्ते च मन्त्रत्य घोषवदा- धन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं कृतन्नाम दध्यात् ॥१४॥ इति-एतस्मिन् मन्त्रान्तस्थे चासाविति स्थानद्वयस्थसर्वनाम्नि प्रकृतत्वा- कुमारस्य नाम दध्यात् गृह्णीयात् । इत्यर्थः । कीदृशं नामेत्यपेक्षायामाह-पो. षवदादीति । वर्गाणाम्प्रथमद्वितीयाः शषसाश्चाघोषप्रयत्नवन्तस्तद्भिन्नाश्च घोष. वन्तः(२) । तेषाम्मध्ये एकतमोवर्ण आदौ यस्य तद् घोषवदादि । अन्तरन्तः स्थम् । अन्तःस्था यरलवा:(३) । तेषाम्मध्ये चैकतमोऽपि वर्णोऽन्तर्मध्ये यस्य तत्तथा । दीर्घाभिनिष्ठानान्तम् । दीपोंद्विमात्रोवर्णः । अभिनिष्ठानोविसर्जनीयम. क्षरम् । "अभिनिष्ठानोऽप्यक्षरमात्रेऽपि स्याद्विसर्जनीयेऽपी"ति मेदिनी । तौ (तदन्यतरौ) अन्तौ यस्य तत्तथा। क्वचित्तु-दीर्घाभिनिष्ठानमिति पाठः । दीर्घेणाभिनिष्ठन्यते समाप्यते यन्नाम तदिति तत्रैव व्याख्या चेति। कृतं- (१) एतच्च यथाशास्त्रं कुलक्रमागतनामोपलक्षणम् ॥ (२) तथाच बाझप्रयत्नानेकादशोपक्रम्य-शिक्षार्थमवलम्व्य भट्टोजिदीक्षिताः प्राहु:- "खयांयमाः खय क पौ विसर्ग: शरएवच । एते श्वासानुप्रानाअघोषाश्च विवृण्वते । कण्ठमन्ये तु घोषाः त्युः संवृवा नादागिनः । इत्यादि । तथा च पाणिनीयशिक्षा:पि- "घोषा वा सष्टताः सर्व" इति । (३) स्पर्शीष्मणोरन्तर्मध्ये स्थिता इत्यन्तःस्था इत्युच्यन्ते, एष चाबन्तेऽपि पश्यते । तथा चपा०शिक्षायाम् “अन्तस्ताभिश्च संयुतम् इति । तइमे यरलवाः । तथाच वचना. न्तरमपि-"अदो घोषवदक्षान्वरलवान्मध्ये पुनः स्थापयेदन्ते दीविसजनीयसहितं नाम प्रयत्नात्कृतम् ॥ इति॥ ।
८ कण्डिका] गोभिलगृह्यसूत्रे- कृदन्तम् । अथच कृतं-पूर्वेषान्तेन पितामहादीनानामस्वेवैकमिति(१) दाक्षि. रणात्याः॥१४॥ एतदतद्धितम् ॥ १५॥ एतदिति- नाम्नःपरामर्शः । अतद्धितम् न विद्यते तद्धितस्तन्नामा प्रत्यय. विशेषोयत्र तत् तद्धितान्तभिन्नम् । ननु कृतनाम दध्यादित्यनेनैवैतस्सिद्धमिति वेत्सत्यम् । सर्वथा तद्धितस(२)म्बन्धनिरासार्थमेतदिति पृथगभिहितम् । तथाच महाभाष्यं “नाम कृतङ्कुन्नि तद्धितमि-"ति । तथाच पुंसोनाम-बलि- ध्वंसी(३)-विश्वम्भरः । इत्येवम् ॥ १५॥ अयुग्दान्तस्त्रीणाम् ॥ १६ ॥ स्त्रीणां पुनरयुक्-अयुग्माक्षरम्। दान्तं-दाकारान्तन्नाम दध्यादित्यनुवर्तते। अयमेव विशेषः । सर्वमन्यत्पूर्ववत् । तथाच महाभाष्यं “व्यक्षरं चतुरक्षरं वा नामे"-ति। तदेतत्स्त्रीपुंसयोर्यथायोगमभिसम्बन्धनीयमयुग्मयुग्मोपलक्षणार्थम्। तथाच स्त्रीनाम “यशोदा" इत्येवमादि । अत्रान्येऽपि विशेषा: "स्त्रीणां सुखा. धमक्रूरमि'-त्यादि मन्वादिषु द्रष्टव्याः ॥ १६ ।। मात्रे चैव प्रथमन्नामधेयमभिधाय यथार्थम् ॥ १७ ॥ । । । (१) तथाच महाभाष्यम् “घोषवदाधन्तरन्तःस्थं त्रिपुरुषानूकमनरि प्रतिष्ठितं तद्धि. प्रतिष्ठिततमम्भवति । त्यक्षरं चतुरक्षरं वा नाम कृतङ्कुर्यान्न तद्धितम्” इति । त्रिपुरु. पानकमिति । त्रिपुरुषानुगतं कायति डच्चारयति यत्तदित्यर्थः । "कैगै शब्दे" (भ्वा०५०) कप्रत्यये कृताकारलोपमेतत ॥ "अनुकःकामुकोऽमिकः" इत्यभिधानात्रिपुरुषाननुकामयते. ऽभिधातुमभिलपनीत्यर्थे निपातितः पाणिनिना "अनुकाभिकाभीकः कमिते (१।२।०४) ति। दीर्घमध्यता चार्षवचनत्॥ (२) अत्र चन्द्रकान्तभाष्ये-दीर्घाभिनिष्टानान्तत्वसत्रणादेव तद्धितान्तत्वे सिद्धे पुनरुपादाननियमार्थम् । एतदेवनामातद्धितान्तं नपुनरन्यदिति । तेन “यत्तद्गुह्यमेव भव. ति" इति । "अभिवादनीय नामधेयङ्कल्पयित्वा" इति चैवमादिनाम्नां तद्धितान्तत्वमपि स्यादिति ॥ (३) केचित्त्वनाचक्षते-दीर्धाभिनिष्ठानान्तमित्यत्रान्तशब्दो "दशान्तः पट" इति वदवयवार्थः । तथाच दीर्घान्तं नाम “गोविन्दशर्मा" इत्यादिरूपम् । विसांच "गोविन्दः" इत्यादिरूपम् । यद्वा "हरिशर्मा-"इरिदेव" इत्येवम् । अतएव कर्म. प्रदीपे "गिरिशम्मैवमुक्तवान्" इति । तथाच मनुः "माङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य वलान्वितम् । वेश्यस्य धनसंयुक्तं शुदस्य तु जुगुप्सितम् ।। शर्मवब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । वेश्यस्य पुष्टिसंयुक्तिं शूद्रस्य तु जुगुप्सितम् ।।" इति । अत्र माङ्गल्या मित्यनेनामङ्गलसम्बन्धव्युदासोऽभिमतः । एवं पुष्टिधनस्य॥ शङ्क: "शर्माक्षन्तं ब्राह्मण. स्यीक्तं वान्तं क्षत्रियस्य च। धनान्तञ्जैव वैश्यस्य दासान्तश्चान्त्यजन्मनः ॥ इत्येवमादि।
नामकरणविधिः। [२ प्रपाठके- । तच नामधेयं प्रथम-पूर्व मात्रे कुमारस्य । आख्याय-कथयित्वा यथार्थम्। तत्कर्मसमाननङ्कुर्यादित्यर्थः । चशब्दात्पुरुषनाम्नः स्त्रीनाम्नश्च प्रथमम्मात्रे कथनम् । एवकारामात्र प्रथमनिवेदनार्थः ।। १७ ।। गौईक्षिणा ॥१८॥ नामधेयकर्मणः ।। १८॥ ( अथ जन्मदिनादिकृत्यम् ) कुमारस्य मासि मासि सव्वत्सरे सावत्सरिकेषु वा पर्वस्वग्नीन्द्रौ द्यावापृथिवी विश्वान्देवाश्च यजेत ॥ ११ ॥ जननादित्युपक्रमात् कुमारस्य जन्मतिथौ वक्ष्यमाण देवता यजेत् । तत्र समयविशेषमाह-मासि मासीति । प्रतिमासमित्यर्थः । तेन सवत्सरपर्यन्तं यागः । ऊवं सवत्सराज्जननमास एवैकस्मिन्वर्षान्ते जन्मतिथौ सम्वत्सरे "वा पूर्णे" इति वाक्यशेषः । अत्रापि जन्ममासे जन्मतिथौ यजेतेति द्रष्टव्यम् । वा-अथवा सावत्सरिकेषु पर्वसु । यजेत । सव्वत्सरस्येमानि सावत्सरिकानि तेषु "कालाद्व" (पा०४।३।११) इति ठअष्टस्येक आदिवृद्धिः । पर्वसु-त्रयाणा- मृतूनां शरच्छिशिरग्रीष्माणा(१)मवसानतिथिषु कार्तिकी फालगुनी आषाढ़ीषु । अथवा द्वावत्र कालविकल्पो । सवत्सरपर्यन्तं मासि मासि कुमारस्य जन्म- तिथौ यजेत । सावत्सरिकेपु वा पर्वसूक्तरूपेषु यजेत। कतमाः पुनस्ता देवता. उच्यन्ते-अग्नीन्द्रौ । द्यावापृथिवी द्यावापृथिव्यौ(२) एते द्वन्द्वदेवते। विश्वा- न्देवांश्चेति । विश्वेभ्योदेवेभ्य इत्येवम् ।। १९ ॥ दैवतमिष्ट्वा तिथिनक्षत्रश्च यजेत ॥ २० ॥ जन्मतिथेर्दैवतम् इष्ट्वा जम्मतिथिं, जन्मनक्षत्रस्य दैवतमिष्ट्वा जन्मनक्षक्ष- त्रश्च यजेत |॥२०॥ (अथ योषितागतकर्म) विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्याम्पाणिभ्याम्मू नम्परिगृह्य जपेत् यदा बा पिता म इति विद्यात्, उपेतस्य वा "अङ्गादङ्गात्सवसी"ति ।। २१ ॥ (मं० ब्रा० श५।१६-१८) विप्रोष्य प्रवासादागत्य गृहम् । पिता पुत्रस्येति सम्बन्धिपदोपादानात् । (१) एतञ्च "त्युतुः सव्वत्सर" इति मतेन, बोध्यम् । यत्र च मार्गादिमासचतुष्टयः स्यैक ऋतुरेवमग्रेऽपि बोध्यम् ॥ (२) चाचपृथिवीचेत्यर्थे द्वन्द्वे "दिवोडावे-(पा०६।३।२९) ति चावादेशः।
८ कण्डिका ] गोभिलगृह्यसूत्र--- मूर्द्धानमुत्तानाभ्यां पाणिभ्याम्परिगृह्य "अङ्गादङ्गादि-"ति ऋचं जपेत् । यदा वा कुमारः । “अन्यम्मे पिता" इति विद्याज्जानीया(ज्ज्ञातुंशक्नुया-)त्ता जपेत् । शक्त्यर्थेऽत्र लिङ् । (पा० ३।३।७२) वा-अथवा उपेतस्य उपनीतस्य (कृतो. पनयनस्य) कुमारस्य मूर्द्धानमुक्तदिशा परिगृह्य जपेत् । त इमे अत्र त्रयः काल. विकल्पाः ॥ ऋचा यथा- "अङ्गादङ्गात्संस्रवसि हृदयादधिजायसे । प्राणन्ते प्राणेन सन्दधामि जीव में यावदायुषम्" । १६ ।। "अङ्गादङ्गारसम्भवसि हृदयादधिजायसे । वेदोवै पुत्रनामासि स जीव शरदः शतम्" ॥ १७ ।। "अश्मा भव परशुर्भव हिरण्यमस्तृतम्भव । आत्मासि पुत्र मा मृथा स जीव शरदःशतम्" ।। १८ ॥ इति । आसामर्थाः । हेपुत्र ! यस्त्वं मम 'अङ्गादङ्गात् सर्वेभ्योङ्गेभ्यः । "नित्यवीप्सयोः" ( पा० ८।१।४) इति द्वित्वं 'संस्रवसि' संझुतोऽसि । वर्स- मानसमीपे भूते लट् । (पा० ३।३।१३१ ) एवमग्रेऽपि । तथा 'हृदयात्' सर्व- गात्रेभ्यः प्रधानभूतात 'अधिजायसे' उत्पन्नोऽसि । तस्येत्थम्भूतस्य 'ते' तव 'प्राण' प्राणवायु 'प्राणेन' एव 'सन्दधामि' सततमविच्छिन्नं करोमि । तत्सन्धानात् 'मे' मम सुतस्त्वं 'यावदायुषम् पुरुषायुषम् । शरदादित्वाच् (पा० ५।४।१०७) समासान्तः । (शतवर्ष ) व्याप्य (शतवर्षपर्यन्तं ) 'जीव' ॥१६॥ अत्र वेदशब्दोवेदाध्येतरि वर्तते । यथा कठशब्दः कठाध्येतरीति गुणवि- ष्णुः । मन्त्रार्थः पूर्ववत् ॥ 'शतं शरदः शतवर्षाणि । "संवत्सरोवत्सरोऽब्दो- हायनोऽस्त्री शरत्समाः" इत्यमरः । शतमित्येकत्वं "विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोरि"-त्यमरात्। अत्र सर्वा इति संख्यापरं प्रकरणात् । सखीवेति पाठे सुखेनजीवेत्यर्थः । समिति सुखेऽर्थेऽव्ययम् ।। १७ ।। हेपुत्र ! 'स्वम्' 'अश्मा' पाषाणइवढ़ोनियाधिश्च भव' । 'परशुः' कुठार इव च्छेदकः परेषाम्भव । न तु च्छेद्यः । तथा 'हिरण्यं' सुवर्णमिव हितारमणश्च 'भव' । यत् 'अस्तृतम्' अन्यैस्ताम्रादिभिरल्प(१)द्रव्यैराच्छादितं न भवतितत् " स्तृआच्छादने" (क्रया० उ०) क्तः । ततोनसमासः 'आत्माऽसि' अह- मिव त्वमतो'मा मृथाः' या म्रियस्व । किन्तु स इत्थम्भूतस्त्वम् ‘शतं शरदः' शतवर्षाणि 'जीव' प्राणिहि । सजीवेतिपाठे सुखेन प्राणिहीत्या(२)शास्यते ॥ १८॥ इति ॥ २१ ॥ (१) अल्पत्वमिह ततो, हीनता । अत एवापदव्यैरिति गुणविष्णुभाष्यम् । अपशब्दोऽनहानाः। (२)सर्वोऽपि ह्यात्मभूतचिरजीविनमाशास्त्रे किं पुनरात्मानम् । २७ गो० गृ०सू० । ।
२१० प्रोषितागतकमविधिः। [ ३ प्रपाठके- "पशूनान्त्वा हिङ्कारेणाभिजिघ्रामि"-इत्यभिजिवध यथार्थम् ॥२२॥ (मं ब्रा० २।५।१९) पशूनां स्वेति । अत्राऽन्तेऽसाविति मन्त्रब्राह्मणे पठ्यते । अनेनाभिजिघ्रथ आभिमुख्येनानाय । मूर्छानमिति प्रकृतेनाभिसम्बन्धनीयम् । यथार्थमिति च कर्मणः परिसमाप्तिलच्यते । तेन वामदेव्यगानमिदानीकर्तव्यम् । अत्रापि मन्त्रे-अन्तेऽमाविति सर्वनाम्नि सम्बोधनविभक्तया पुत्रनाम प्रयोज्यम् ॥ तदि. दम्प्रोषितागतकम्मत्युच्यते । मन्त्रार्थस्तु-हेपुत्र! अहं पिता त्वा' त्वां 'पशू. ना' गवां 'हिङ्कारेण हिकृतेन गोजात्युचितशब्देन । (तत्पूर्वकम्) प्रकृत्यादित्वात् ( पा० २।३।१८ वा० ) तृतीया 'अभिजिनामि' 'चुम्बामि । यथा गावोवनादा. गताः स्वपुत्रकानभिजिघ्रान्ति-तथाऽहमपि स्वामिति ॥ १९ ॥ २३ ॥ एवमेवापरेषाम् ॥ २३॥ अपरेषाम्-कनिष्ठानामध्येवमेव मूर्द्धालम्भनन्तदभिघ्राणश्च कर्त्तव्यम् ।।२३।। यथाज्येष्ठं यथापलम्भं वा ॥ २४॥ यथाज्येष्ठम्-ज्येष्ठमनतिक्रम्य । योयोवयसा ज्येष्ठस्तस्य तस्य प्रथमं कर्तः व्यम् । तदेतत्सर्वेषां युगपदुपस्थितौ। अन्यथा तु यथोपलम्भम् । उपलब्धि. क्रमेण योयः पूर्व सन्निधानमागच्छति तस्य तस्य वेति व्यवस्थितोविकल्पोवा. शब्दार्थः ।। २४ ॥ स्त्रियास्तूष्णीं मृध्न्धभिजिघ्रणंमृदयभिजिघ्रणम् ॥ २५ ॥ इतिश्रीमद्गोभिलीये गृह्यसूत्र द्वितीयप्रपाठकेऽष्टमी कण्डिका ॥२॥ ८ ॥ ऋजुरक्ष(१)रार्थः । अन्ते द्विवचनं प्रकरणसमाप्तयर्थम् ॥ २५ ॥ इतिश्रीमद्गोभिलोयगृह्यसूत्रव्याख्याया "म्मृदुला" ऽऽख्यायाम्मुकुन्दशर्मसालि. तायां द्वितीयप्रपाठकस्याष्टमी कण्डिका ॥२॥८॥॥ । । - - (१) ननु तूष्णीमभिजिघ्रणमित्युक्त्वा मूर्द्धालम्भः समन्त्रक इति कुतो न ज्ञायतेति चे। पुत्रेति मन्त्रलिङ्गविरोधात् । तत एवाभिजिव्रणमात्रं समन्त्रक प्रासमिति तृष्णा- मित्युक्तम् । एतेन न केवलं प्रोषितागतकम्मैव स्त्रिया।अपि तु जातकमादिकमपि। तेन संस्कारपरिपाटी स्त्रीणामपि कार्या । परममन्त्रिकेतितदर्थः । त था च मनुः-संस्कारान. भिधाय "ममन्त्रिका तु कार्णेयं स्त्रीणामावृदशेषतः" इति। इयमावृजातकमादिः । याज्ञव. ल्क्योऽपि-"अमन्त्रिकाः क्रियास्तासां विवाहस्तु समन्त्रक इति । अत्रचन्द्र- कान्तः । तस्मान्मन्त्रलिङ्गविरोधादेव मूलम्भोऽमन्त्रक सिद्धः । अतोऽभिजि- माणमात्रस्य तूष्णीवसृत्रितमिातवदन्नमन्त्रक तूष्णीमित्यनयोरर्थभेदं प्रष्टव्य आसीत् ॥ - ९ कण्डिका गोभिलगृहासत्रे- (अथ नवमी । कण्डिका-) अथातस्तृतीये वर्षे चूड़ाकरणम् ॥१॥ अथेति(१) पूर्वप्रकृतार्थम् । अथ-पूर्वप्रकृताजन्मनस्तृतीये वर्षे प्रवर्तनाने उदगयनादीनां(२) समुच्चयोपलब्धौ चूड़ायाः शिखायाः करणं स्थापनं(३) "संस्कारविधिना कर्तव्यमिति सूत्रशेषः । “शिखाचूड़ा केशपाशी" इत्यमरः । कपुष्णिका कपुच्छलाख्याः केशाश्चूड़ा इति कथ्यन्त इतिभाष्यकृतः। अतः शब्दाहेत्वर्थः । यस्मात् "सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखाव्युपवीतश्च यत्करोति न तत्कृतम् ॥" (१) अश्रमामकरणान्तेऽनप्राशनं संस्कारविधिना पद्धतिषु वीरेश्वरादिभिलिखि. तम् । समयोऽपि-षष्ठे मासि अष्टमे वा यथाकुलाचारमित्येवनिर्दिष्टः । यथाच नामकर, णान्ते ब्रह्मपुराणम्-"ततोऽनप्राशनं का मासि षष्ठे यथाविधि । अष्टमे वापि कर्तव्यं यद्वेष्टं मङ्गलंकुले ॥" इति । तदत्राचायणालिखनन्तस्य काम्यत्वं व्यनक्ति । काम्यकम्र्मा. णि चानेन पृथक्सूनितानि यथोपयोगन्तथाच वक्ष्यति “अथात:काम्यमि" (४।१।१)- ति । किन्त्वेतन्मुरारिमिश्रादिभिः प्रत्युक्तम् । तथाचोक्तब्राह्मवचनान्ते “षष्ठे मासेऽन- प्राशनम्" इति पारस्करीयम् । “षष्टेमासेऽन्नप्राशनं जातेषु दन्तेषु वे"-ति गौडाक्षीयञ्च वचनमुपन्यस्य शङ्कितम् । ननु गोभिलाचायेंणाकथनादस्मिन्कल्पेऽन्नप्राशनं कर्तव्यमेव नेति चेन्न-उक्तयुक्त रेव । (२१७२१ सू०)। नचेतिकर्तव्यताबोधकामावादेवाकरण. मिति वाच्यम् । बोरेश्वरादिभिस्तस्याः प्रतिपादनात् । नच तल्लिखितानप्राशने fri वा एकच्छन्दस्यमि-त्यादिमन्त्रैहोंमे प्रमाणाभावः। मन्त्रलिङ्गस्यैव प्रमाणत्वात् । नच तन्मन्त्राणां सूत्रकारेणान्यत्र विनियुक्तत्वानिराकासत्वेन मन्त्रलिङ्गमात्रमकिञ्चि. स्करमिति वाच्यम् । एकमन्त्रस्यापि बहुत्र विनियोगदर्शनात् । सकलशिष्टाचाराच्चेति. दिक् । कश्चितु-अस्मिन्कालेऽन्नप्राशनं न संस्कारकं नामकरणेन सह पूर्वापरक्रमानियमाद्वर्षे नामकरणे तत्पूर्वमेवतत्करणात् । अत एव हिरण्यगर्भमहादाने सामवेदेऽनप्राशनं नास्ती- त्युक्त निबन्धभिः । अपितु "भारद्वाजीमांसेन वाक्प्रसरणकामस्ये-प्रत्याधुक्तफलेन का. म्यमिति । तन्न । एवं निष्क्रमणमपि संस्कारकन्नभवेत् । हिरण्यगर्भ तु षोड़शक्रियान्त. गतनेत्युक्तम् । अन्यथा यजुदिनां नामकरणस्य न संस्कारता स्यादिति । भाष्यकृतस्तु-सूत्रानुकमन्नप्राशनं परशाखोतक्रमेण कर्तव्यम् । “नाम्नात स्वशा. खायामि-गति कात्यायनवचनात् । “तथाप्यध्वयुभिहीयादि-ति श्रुतेश्च। सति स म्भवे पारस्करोतव तन्नापीतिकर्तव्यता स्वशाकोतव । तथाचावलायनः "प्रतिविधा देव- तामात्रमन्यतोगृह्णीयादितिकर्तव्यता तु स्वशाखोरे-ति । सा च पद्धतौव्यक्ता ॥ (२) तथाचाचलायनः । “उदगयने आपूर्यमाणपक्षे पुण्येनक्षत्रे चौलकम्मोपनयन- विवाहाः। सार्वकालिकमेकेविवाहम्"। इति ।। उदगयने-उत्तरायणे-आपूर्यमाणपक्षे- शुकपक्षे। (यत्र चन्द्रमा कालमर्यादया पूर्णोभवति ) आत्र मर्यादाथैः । (३) मुरारिमिक्षास्तु-चूडानां वक्ष्यमाणरीत्या करणं संस्करणमिति कर्मनामधेय. मित्याहुः॥
२१२ चूड़ाकरणविधिः । [२ प्रपाठके- hema "गा होमर्जातकर्मचौलमौजीनिबन्धनैः । बैजिक गाभिकञ्चनाद्विजानामपमृज्यते ॥" इति मनुराह । भाष्यकृतस्तु-अत्रातः शब्दः स्मृत्यन्तरोक्तकाललाभायेत्या. हु:(१)। तथाच मनु:- "चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमाब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥” इति । एतेन- "ततः सवत्सरे पूर्णे चूडाकर्म विधीयते । द्वितीये वा तृतीये वा कर्त्तव्यं स्मृतिदर्शनात् ॥" इति यमवचने-द्वितीये वेत्यत्र पूर्ण इत्यनुषङ्गस्तेन तृतीयाब्दलाभः । नचैवं तृतीये वेति व्यर्थम् । तस्य तृतीयाब्दचरमावयवादिप्रशस्तपरत्वात् । अन्यथा पक्षत्रयानुपपत्तिः । तथा च लौगाक्षि:-"तृतीये भूयिष्ठे गते चूड़ा कार्या" इति ।। याज्ञवल्क्यः "चूडाकार्या यथाकुलम्"इत्याह । एवञ्चोक्तकालानां विकल्प: शा. खाभेदाऽपेक्षया व्यवस्थित इति कल्पतरुः ॥ अस्योपनीत्या सहाचरणे तु- "आधेऽब्दे कुर्वते केचित्पञ्चमेऽन्दे तृतीयके । उपनीत्या सहैवेति विकल्पाः कुलधर्मतः" । इति प्रयोगपारिजातोक्तं वचनमेव मानम् ॥ १॥ पुरस्ताच्छालाया उपलितेऽग्निरुपसमाहितोभवति ॥ २॥ निगदव्याख्यातमेतत् ।। २॥ तत्रतान्युपक्लप्सानि भवन्ति ॥३॥ तत्र-तस्मिन्नुपलिप्ते भूमिमागे । एतान्यनुपदवच्यमाणानि । उपसमीपे. ऽग्ने:क्लृप्तानि प्रासादितानि भवन्ति । कर्तुरनियमः ॥३॥ कानि पुनस्तानि ? कस्यां वा दिश्यग्नेरासादयितव्यानीत्युच्यते- एकविशतिइन्भपिञ्जन्य उष्णोदककस औदुम्बरःक्षुरः आदर्शो- वा क्षुरपाणि पित इति दक्षिणतः ॥ ४ ॥ दर्भपिञ्चस्यः । पवित्रलक्षणलक्षिताः पूर्वमुक्ताः ( १७६ ) ताः सप्त सप्त कृत्वा स्थानत्रय प्रासादयितव्याः । उष्णमुदकं यस्मिन्स: कंसः कांस्यापात्रम्। उदुम्बरस्तानम् । “उदुम्बरस्तु देहल्यां वृक्षभेदेचपण्डके । (१) अत्राविषीजन्तु वक्ष्यमाणकल्पतरूकारख्याख्यानमेव ।कातीयकल्पेहि 'यथा- मलं सर्वणाम्" इत्युक्तम् ॥ तेनसामगानान्ततीय एवं वर्षे चूड़ाकरणं गोभिलीयानामि. सिस्थितम् ॥
९ कण्डिका ] गोभिलगृह्मसूत्रे- कुष्ठभेदेऽपि च पुमांस्तान्ने तु स्यान्नपुंसकम्" इति मेदिनी। तस्यायमौ. दुम्बरः । “प्रोइत्य प्रच्छिन्दन्" इत्यप्रिम[१६] सूत्रे छेदनस्याशङ्कयमानत्वात् । नहि काष्ठेन तत्सम्भवति । तदभावे-आदर्शो वा । आसमन्तादृश्यते मुखमत्रे- त्यधिकरणे घन्, आदर्शो दर्पण: "आदर्शोदर्पणः प्रोक्त" इत्यमरमाला "दर्पणे मुकुरादौं” इत्यमरश्वः । क्षुरेति । क्षुरं पाणौ करे यस्य स तथाविधोनापितः । इति-एतानि । दक्षिणतः । अर्थादग्नेः ॥४॥ आनडुहगोमयः । कृसरः स्थालीपाको वृथापक इत्युत्तरतः ॥ ५ ॥ श्रानडुहः । अच्छिन्नमुष्कवृष (१)सम्बन्धी गोमयः। कृसरश्वासम्यक्पक्की तिलतण्डुलौ ।। "कृसरस्तु(२)तिलौदनः” इत्यमरः ।। स्थालीपाकश्चरुः । स ख. स्वयं वृथापकः । अवघातादिसर्वसंस्काररहितः। कर्मण्यव्याप्रियमाणश्चेति वृथात्वम्पाकस्य । इति एतद्द्वयम् । उत्तरतोऽग्नेरासादयितव्यम् ॥ ५॥ बीहियवैस्तिलमारिति पृथपात्राणि पूरयित्वा पुरस्ता- दुप(नि)दध्युः॥ ६॥ बीहियवैरिति द्वन्द्वनिर्देशेनाभिधानान्मिलिताभ्यां नीहियवाभ्यामेवं तिल- माषाभ्याम्पात्रद्वयं पूरणीयम् । पृथक् पात्राणीति बहुवचननिर्देशाचतुर्भिः पृथ- ग्भूतैः पात्रचतुष्टयमित्येवं षट्पात्राणामासादनं सिध्यति । एवमेव बीरपद्ध. तिस्वरसोऽपि । पुरस्तात्पूर्वस्यान्दिश्यग्नेः । उप(नि)दध्युः-स्थापयेयुः ।। ६ ।। कसरोनापिताय सर्वबीजानि चेति ॥७॥ "दातव्यानी"ति शेषः । इतिनाऽऽ(३)धर्थकेनान्यदपि पारितोषिकन्देयमि- त्युपदिशति । एतानि च प्रसङ्गादत्राऽभिहितानि प्रदानन्तु प्रतिपत्तिरूपतयाऽ. स्य कर्मान्त एव, वेतनदानस्य तदैवोचितत्वादिति भाष्यकारादयः ।।७।। अथ माता शुचिना वस्त्रेण कुमारमाच्छाद्य पश्चादग्नेरुदनेषु दर्भेषु पाच्युपविशति ॥८॥ अर्थत्यानन्तर्यार्थम् । आज्यसंस्कारानन्तरमित्यर्थः। माता-मातृस्थानीया. । । (१) अनड्वान् शब्दोऽभिधाने "उक्षाभद्रोबलोवई" इत्येवं पर्याये वृषभनाम्नि पठि. । अनः शकटं वहतीति तदर्थः । “अनः क्लीवे जले शोके मातृस्यन्दनयोरपीति रम- सः । तथाभूतश्चाच्छिन्नमुक एव भवतीति। (३) बीरपद्धतौ तु-ततः सव्यनाम्न्यग्नौ तिलतण्डलमुद्गसाधितं स्थालीपार्क पचे. दित्युक्तम् ॥ (३) "ज्वलितिकसन्तेभ्योणा" (३।१२१५०) । इति पाणिनीये तथादर्शनात् ॥ अमरकोशेsपि "इति हेतुप्रकरणप्रकाशादिसमातिषु इति ॥
चूड़ाकरणविधिः। [३ प्रपाठके- ऽन्यापि(१) । प्राची-प्राङ्मुखी ॥ ८ ॥ अथ यस्तत्करिष्यन्भवति पश्चात्याङवतिष्ठते ॥६॥ अथेति-किञ्चित्पूर्वप्रकृतं स्मारयति । किन्तत् ? व्याहृतिभिहामं, तथाच पूर्वसूत्रम् "व्याहृतिभिहोमोययापाणिग्रहणे तथा चूड़ाकरणे०" इत्यादि । (१११।२७।२८) तेनात्र पुरस्ताञ्चोपरिष्टाश्च चतस्र आहुतयो भवन्ति ।। यः कश्चित्पित्रादिस्तत्कर्म करिष्यन्भवति स महाव्याहृतिभिर्व्यस्तसमस्ताभिश्चतस्र आहुती त्वाऽथानन्तरं गृहीतकुमाराया मातुः पश्चात्प्राङ्-प्राङ्मुखः । अव. तिष्ठते-ऊर्ध्वजानुस्तिष्ठेत् ॥ ९॥ अथ जपत्या-"यमगात्सविता क्षुरेणे"ति सवितारं मनसा ध्यायनापितम्प्रेक्षमाणः ॥ १०॥ (मं० ब्रा० श६१) अथ-तथाविधावस्थानानन्तरमेव । सवितारं-सूर्यम् । मनसा-श्रद्धादि- गुणयुक्तेन । अन्यथा ध्यानस्य मानसिकत्वप्रसिद्धर्मनसेत्यनर्थकं स्यात् । तथा च न्यायः "सिद्धस्योपन्यासोविशेषावगतिकरः" इति । ध्यायन्-चिन्त. यन् । नापितं क्षुरपाणि प्रेक्षमाणोऽवलोकयन् "आयमगादि"-त्येतन्मन्त्रं ज. पति-जपेत् । मन्त्रार्थस्तु-हे कुमार ! 'अयं नापितः । साक्षात् !'सविता' सर्व भूतानाम्प्रसविता देवः सूर्यः । 'क्षुरेण' उपलक्षितः । उपलक्षणेऽत्र ( पा० २॥३॥ ८१) तृतीया । 'आगात्' आगतः । त्वच्चूड़ाकरणाय । आडोव्यवहितप्रयोगः (पा० १४८२) छान्दसः ॥ १॥ इति ॥१०॥ "उष्णेन वाय उदकेनधी-"ति वायुं मनसा ध्यायन्नु- ष्णोदकसं प्रेक्षमाणः॥ ११ ॥ (म० ब्रा० श६२) जपतीत्यनुवर्तते । वायुं श्रद्धापूतेन मनसा चिन्तयन्नुष्णोदककंसम् । उ. ष्णोदकयुक्तं कांस्यपात्रं प्रेक्षमाणेऽवलेोकयन् "उष्णेन वायो०" इति-इमम्म अपेदित्यर्थः । मन्त्रार्थस्तु-हे 'वायो' ! 'उष्णेनोदकेन' गृहीतेन कुमारस्य शिरः । प्लावयितुम् 'एधि' आगच्छ “अङितश्च" (पा० ६४।१०३) इति हेधिः ।। २॥ इति ।। ११ ।। दक्षिणेन पाणिनाऽप आदाय दक्षिणाङ्कपुष्णिकामुन्दति "माप उन्दन्तु जीवसे" इति ॥ १२॥ ( मं० प्रा० श६३) (१) उत्तरसूत्रे या कश्चिदित्युकेस्त्रापि तथाऽभ्युपगमल्याजानिकाचारपरिगृहीत. स्वात् ॥
. ९ कण्डिका] गोभिलगृह्यसूत्रे- अपः प्रकृतादुष्णोदककांस्यपात्रात् । आदाय गृहीत्वा कपुष्णिकाम् । मूडो- भयतः केशान् । “कपुष्णिकाऽभितः केशा(१)मूनि, पश्चात्कपुच्छलम्" इति- च्छन्दोगपपरिशिष्टात् । उन्दति-उन्दयति-क्लेदयति "उन्दी क्लेदने" (रु०प०) अन्तर्भावितण्यर्थः । कचित्तथैव पाठः। अत्र करणमन्त्रमाह-आप इति । अस्यार्थः । वायुनाऽऽनीताः 'आप:' एनं कुमारम् 'जीवसे' गीवितुम् (जीवना- यास्य ) "तुमथें सेऽसेनि"-(पा० ३।४।९ ) त्यादिनाऽसे प्रत्यया। "अव्य. यकृताभावे" इति महाभाष्यानुशासनात् ॥ १२ ॥ "विष्णोईराष्ट्रोऽसी"त्यौदुम्बरं क्षुरं प्रेक्षतेऽआदर्श वा ॥ १३ ॥ (मं० ब्रा० शा४) औदुम्बर-तानमयम् । “औदुम्बरम्भवेत्तानं फलादौ यज्ञशाखिनः" इत्य- जयः। प्रेक्षते-अवलोकयति॥अवलोकयेदितिविधिरत्र (पा०३।४।७) लेड़र्थः । एवमग्रेऽपि । मन्त्रार्थस्तु-हेक्षुर ! त्वं 'विष्णः' 'दंष्ट्रः' दंष्ट्रा बृहहन्तः 'असि' भ- वसि ॥ पुंस्त्वमार्षम् ॥ १३॥ "ओषधे त्रायस्वैनमि"-ति सप्त दर्भपिञ्जलीईक्षिणायां कपुष्णि- कायामभिशिरोग्रां निदधति ॥ १४ ॥ (मं० ब्रा० १६५) प्रासादितानामेकविंशतिदर्भपिञ्जलीनां ( सप्तशः पृथकर स्थापितानाम् ।) मध्यात् सप्त दर्भपिअलीगृहीत्वा कुमारस्य दक्षिणायाम(२) कपुष्णिकायाम् जू- टिकायाम् “ओषधे त्रायस्वैनम्" इति मन्त्रेण निदधाति-स्थापयेत् । क- थम् ? अभिशिरोमाः । शिरसोऽभीत्यभिशिरः । अव्ययीभावः (पा०।२१४) समासः। अग्राणि यासान्तान्तथाविधाः "कृत्वेति" शेषः । मन्त्रार्थस्तु-हे 'ओष. धे !' कुशतरुण! (ओषध्यधिष्ठातृदेवते!) 'एनं' कुमारं 'त्रायस्व' रक्ष । "पालने" (भ्वा० ० ) प्रार्थनायां लोट् इति ॥ ५॥ १४ ॥ ता वामेन पाणिना निगृह्य दक्षिणेन पाणिनौदुम्बरं क्षुरं गृहीत्वाऽऽदर्श वाऽभिनिदधाति "स्वधिते मैनहि सीरि"तिः॥१५॥ (मं० ब्रा० श६६) ता दर्भपिब्जलीदक्षिणकपुष्णिकाञ्च निगृह्य-सर्वतोभावेन गृहीत्वा अभि. निदधाति-संलग्नां धारयति । "स्वधिते मैनं हि सीरि-"ति मन्त्रण । (१) के शिरः पुष्णाति । शीतातपादितोरक्षणेनेति शेषः ॥ (३) अन दक्षिणशब्दोमागं विशिनष्टीति न सर्वनामताऽस्य । एवमयो (१९२०) उत्तरशब्दोऽपि न दिग्वचन इति वक्ष्यते । तथाचामरः “वाम शरीरं सव्यं स्यादपसव्य : न्तु दक्षिणम् इति॥
२२६ चूड़ाकरणविधिः [२प्रपाडके- । मन्त्रार्थस्तु-स्वधिते !' है(१)ताम्रक्षुर ! त्वम् 'एन' कुमार 'मा हिंसी:' न हिसि. ध्यसि । भविष्यति माडि लुइ (पा० २।३।१७५ ) "न मायोगे" (पा०६।४। ७४) इत्यड़भावः ।।१५।। निधाय च- "येन पृषा वृहस्पते"रिति त्रिः पाञ्चम्पोहत्यप(वि)छिन्दन्त्स कृधनुषा द्विस्तूष्णाम् ॥ १६ ॥ (मं० ब्रा० श६७) त्रिः-वारत्रयम् । प्रोहति-प्रेरयति क्षुरम् । अप्रच्छिन्दन-केशच्छेदमकु. वन् । कचिदविच्छिन्दन् इतिपाठः । अर्थतस्तौल्यमेव । तत्र प्रकारमाह-सकृदि. ति । यजुषा-"येने"त्युक्तेनैव । द्वि-द्विवारं, तूष्णीम-अमन्त्रकमेव । यजुर्यथा- "येन पूषा वृहस्पतेर्वायोरिन्द्रस्य चावपन् । तेन तेवपामि ब्रह्मणा जीवात जीवनाय दीर्घायुष्टवाय बलाय वर्चसे"||७|| इति । अस्यार्थः । हे कुमार ! 'येन' स्वधितिना 'पूषा' देवः 'वृहस्पतेर्वायो- रिन्द्रस्य च कषुष्णिकाम् 'अवपत्' भद्रकृतवान(२) । 'तेन' स्वधितिना 'ते' तव कपुष्णिकाम । 'वपामि' भद्रङ्करोमि । किमर्थम् ? 'जीवातवे' एतदेव- विवृणाति 'जीवनाय' अस्यैवार्थः 'दीर्घायुष्वाय बलायेति । 'वर्चसे' तेजोवृद्धय- थम् (३) । इति ॥ १६ ॥ अथायसन प्रच्छिद्यानुडुहे गोमये निदधाति ॥ १७ ॥ अथेति-पूर्वप्रकृतार्थम् । यः पूर्वम्प्रकृतश्छुरपाणि पितस्तदीयेनायसेन लौहमयेन क्षुरेण प्रच्छिद्य-प्रकर्षेण पिजलीभिः सहैव दक्षिणां कपुष्णिको (जूटिका) छित्वा । आनडुहे-गोमये । पूर्वमग्नेरुत्तरतः समासादिते । निद. धाति-स्थापयेत् । मन्त्रानुपदेशादमन्त्रकमेव ।। १७ ॥ एतयैवोऽऽवृता कपुच्छलम् ॥ १८ ॥ अतिदिशति-एतयैवेति । अनन्तरोक्तयैवाऽऽवृता-परिपाट्या (प्रक्रियया) कपुच्छलम् । “संस्कुर्यादि"ति शेषः। कपुच्छढन्तु शिरः पश्चाद्भागस्थाः केशा उक्त-(२।९।१२) वचनात् ।। । (१) यद्यपि स्वधितिशब्दो वज्रपर्याये (नि० २।२०१६) पठ्यते। लोके तु "द्वयोः कुठारः स्वधितिरिति कुठारपर्यायेऽभिधाने (अमरे) न तु चरे। तथापि ताम्र. शुरस्यैव स्वधिति सज्ञा शब्दार्णवे “औदुम्बराक्षुरः प्रातः स्वधितिरि" ॥ (२) केशानच्छिन्दन "शौरन्तु भद्राकरणम्मुण्डनं वपनं त्रिषुण हत्यमरः ।। (३) तादथ्य चतुर्थी ( पा० १॥३॥१३ वा०)।
१ - ঙ্কিা ? गोभिलगृह्यसूत्रे-- के-शिरशि (पञ्चाद्भागे) पुच्छवल्लम्बितो यः केशपाशः स कपुच्छल इत्याख्यायते ॥ १८॥ पुनरतिदिशति- एतयैवोत्तरां कपुष्णिकाम् ।। १६ ॥ उत्तरशब्दोवामवचनः । वामामपि कपुष्णिकामेतयैव प्रक्रियया संस्कुर्या- दित्यर्थः ।। १९ ॥ अत्रापि विशेषमाह- उन्दनप्रभृत्येवाऽभिनिवर्तयेत् ॥२०॥ प्राक्तनं सूत्रद्वयमनेन विशिष्यते । उन्दनप्रभृति-क्लेदनप्रभृत्येवावृतम् । अभि सर्वतोभावेन निर्वतयेत् । आवर्तयेत् । न पुनः सर्वाप्यावृदावर्त्तनीया । तस्मा-"दक्षिणेन पाणिनाऽप आदाय" इत्येवमादिकामावृतमावर्त्तयेन तत: पूर्वामपोत्यर्थः । तु शब्दाविशेषणार्थः । कथनाम? कपुच्छले संस्क्रियमाणे कुमारमुदङमुखं धारयेद्यथा प्राञ्चं प्रोहणादिकं कर्तुं शक्यतेति ॥ २० ॥ उभाभ्यां पाणिभ्यां मूर्धानं परिगृह्य जपेत्"च्यायुषअमदग्नेरि-"ति२१ (मं० ब्रा० १०६८) मूर्द्धानं-मस्तकं, कुमारस्य । “मूर्द्धा ना मस्तकोऽस्त्रियामि"-त्यमरः ॥ ऋज्वन्यत् । मन्त्रस्तु- "च्यायुषजमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य व्यायुषम् । यद्देवानान्त्र्यायुषन्तत्ते अस्तु व्यायुषम् ॥ ८॥ इति । अस्यार्थः-'जमदग्ने महर्षेचीकपुत्रस्य कश्यपस्य 'अगस्त्यस्य' 'देवानाम्' इन्द्रादीनाञ्च यत्त्यायुष्यम्' त्रीण्यायूंषि समाहृतानीति समाहारद्वन्द्वे "अचतुरे" (पा०५।४७७ ) त्यादिनाऽच्समासान्तः । बालयुवस्थविरत्वानि । यद्वा "शतं वै पुरुषस्यायुरि-"ति श्रुतेः शतत्रयवर्षात्मकमायुः । 'तत्' घ्यायुषम् । हेभद्रक ! (कृतचूड़ !) 'ते' तव 'अस्तु' भवतु । इत्याशास्यते ॥ ८॥ इति ।। २१ ।। एतयैवाऽऽवृता स्त्रियास्तूष्णीम् ॥ २२ ॥ । आवृता-प्रक्रिययास्त्रियाः कन्यकाया अपिसर्वे- ऽधस्तनोक्ताः संस्कारा भवन्ति । न पुनरानन्तर्याच्चूड़ाकरणाभिप्रायमेव । एव- कारेण व्याप्त्यवगमात् । "अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषत" वचनाञ्च । किन्त्वेतावान्विशेषोयदस्यास्तूष्णी(ममन्त्रक)मिति ॥२२॥ अत्र प्रतिप्रसवमाह- मन्त्रेण तु होमः ॥ २३ ॥ तुशब्दः समुञ्चये भिन्नकमश्च । तेन वृद्धिश्राद्धमपि समन्त्रकमेव भव. २८ गो० गृ० सु - एतया-प्रकृतया इति मनु- শূভাখি। ।२ प्रपाड़के- - m तीत्यर्थः ।। २३॥ उदगग्नेरुत्मध्य कुशलीकारयन्ति यथागोत्र-कुल-कल्पम् ॥ २४ ॥ अग्नः । उदक-उत्तरत: । उत्नृत्य-गत्वा । कुशलीकारयन्ति-नापितेन मुण्डयन्ति । "कुमारमिति शेषः ! कत्तुरनियमः । कुशलभद्रशब्दयोः पर्या येपाठात् कुशलीकरणं भद्राकरणमित्यनर्थान्तरम् । तथाचामरः "क्षौरन्तु भद्रा- करणं मुण्डनं वपनन्त्रिघु” इति । कथमित्यपेक्षायामाह-यथेति । गोत्रे यथा- "वासिष्ठाः पञ्चचूडाः स्युस्त्रिचूड़ा:कुण्डपायिनः' इत्यादि । कुले यथा-"भद्रा(१). दित्यानां सूर्याद्यायतनसन्निधौ” इति । कल्ले यथा-"सशिखं कौथुमादीनां वपनं समुदाहृतम्" इत्यादि । एवञ्च कौथुमवारायणादीनां समावर्तनात्प्राङ्मुण्डनं सशिखमेवेति । तथाच समावर्तनान्ते-"केशश्मश्रुलामनखान्यापर्यतिशिखा बजम्" (३।४।२४ ) इति सूत्रम् ॥ परिशिष्टमपि- "सशिखं वपनं कार्यमास्नानाद्ब्रह्मचारिणाम् । आशरीरविमोक्षाय ब्रह्मचर्यन्न चेद्भवेत् ।।" इति भाष्यकृतः। आशरीरेति । नैष्ठिकब्रह्मचारिणां स्नानात्प्रागपि शिखाधर्तव्येत्यर्थः ।। २४॥ आनडुहे गोमये केशान्कृत्वाऽरण्यहत्वा(२)निखनन्ति ॥२॥ पूर्वमासादिते प्रानडुई गोमये समस्तान्केशान्कृत्वा-निधाय । अरण्यं हृत्वा-नीत्वा तत्रेव निखनन्ति । बहुवचनादनियतः कर्ता ! २५ ।। स्तम्वे के निदधति ॥२६॥ हत्यैतिद्यार्थोनिपातः । एके किलाचार्याः। ब्रीहियवादिस्तस्बे (३) तान् केशान्निखनन्ति ।। २६ ।। यथार्थम् ॥२७॥ तन्त्रसमापनकर्त्तव्यमित्यर्थः । अपरे मन्यन्ते-यथार्थमिति-यस्य येनार्थः प्रयोजनं स तं कुर्यात् । इति । कथन्नाम ? व्यायुषमित्यादिना मूर्द्ध- परिग्रहे कृते उत्तरतोऽग्नेः कुशलीकारयन्ति । असावपि कमशेष समापयेदिति चन्द्रकान्तः ।। २६॥ गौदक्षिणा ॥ २८॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे द्वि०प्रस्य नवमी कण्डिका ॥२।।९।।। (१) भद्रादित्या-मगादयः । भगाः शाकद्वीपिनः । एवमन्येऽपि ॥ (२) अरण्यं ( ण्ये) गत्वा इति पाठान्तरम् ॥ (३) "अप्रकाण्डे स्तम्बगुल्माविश्त्यमरः । प्रकाण्डस्तरोर्मूलस्कन्धयोरन्तरम् । तथाचामरः “अस्त्री प्रकाण्डं स्कन्धः स्यान्मुलाच्छाखावधिस्तरोः" इति । "स्तम्बागु. च्छस्तृणादिनः इति च ॥ । - ९ कण्डिका गोभिलगृह्यसूत्रे-- चूड़ाकरणकर्मणः ॥२८॥ अत्र सूत्रकाराऽनुक्तोऽपि कर्णवेधः (पूर्वमकृत(१)श्चत्) आवश्यक एवेति गाईस्थ्यधर्म कुण्डलधारणस्य मन्वायत्तस्यान्यथाऽनुपपत्त्या कल्प्यते । तथाच मनु:- "वैणवीधारयेद्यष्टिं सेोदकञ्च कमण्डलुम । यज्ञोपवीतं वेदश्च शुभे रौक्से च कुण्डले ॥" इति । वेदम्-कुशमुष्टिम् । तदेतदीक्षाकाले। श्रतिश्च-"दीक्षायां कुण्डली मवती-"ति । परन्तु-न संस्कारान्तर्गतः। तन्मध्येऽस्य(२)पाठाभावात् । क्रमस्तत्र पारस्करोक्त एव । “यन्नाम्नातं स्वशाखायाम्पारक्यमधिरोधि चे"ति कातीयपरिभाषणात् ॥ अत्र यथोचितकालाकृता नामकरणादिसंस्कारा व्याहृतिहामानन्तरंक्रमा- विरोधेनोपनयनात् पूर्वमनुष्ठेयाः । इति द्रष्टव्यम् । तथाच महाव्याहृतिहोमानां सर्वप्रायश्चित्तत्वमुक्त्वा-कात्यायनः- "संस्कारा अतिपद्यरन्स्वकालाचेत्कथञ्चन । हुत्वैतदेव कर्त्तव्या ये तूपनयनाद्धः ॥” इति । अनोपनयनादध इत्युक्तयोपनयनकालातिक्रमे नेदम्प्रायश्चित्तमपि तु ब्रात्य- स्तोमादीत्यनुपदं व्यक्तीभविष्यति ।। २८॥ इतिश्रीमद्गोमिलीयगृह्यसन्नव्याख्याया"म्मृदुला व्यायां मुकुन्दशर्मसङ्कलितायो द्वितीय पाठकल्य नवमी कण्डिका ॥२॥९॥* ॥ - (१) मुण्डनाख्योऽपि कर्मविशेषश्चूडाकर्मण एवानुरूपः (शिखाधारणाय ) कुमाराणाङ्कुमारीणां साधुनातनः कुलीनराजानिकाचारसिद्धतया क्रियते । तत्र कर्णवे- धोऽपि यथाविहितकालमनुरुध्यति । सचेदकृतइत्यर्थः ।। (२) तन्त्र (संस्कारेषु) गौतमेनचत्वारिशदभिहितास्तत्रमुख्या ( एका) दश । "गर्भाधान-पुरवन-सीमन्तोन्नयन-जातकर्म-नामकरण-निष्क्रमणा-नप्राशन-चौलो-- पन्यनं (चत्वारिववत्रतानि स्नान) सहधर्मचारिणीसंयोगः" । इति । सहधर्मचारिणी- संयोगोविवाहः । सुमन्तुना च "ब्राह्मणक्षत्रियविशां वृत्ति:-"गर्भाधान-पुंसवन-सीम- न्तोन्नयन-जातकर्म-नामकरण-निष्क्रमणा-न्नप्राशन-चौलो-पनयन-वतचर्या-ध्ययन-स- मावत्तेन-विवाह-सोष्यन्ती-यज्ञदानानी-ति षोडशोकाः। वृत्तिः-संस्क्रिया। सेाष्य. न्ती-सुखप्रसवार्थङ्कर्म । कैश्चित्त्वन्यथैव स्मर्यते । यथा- "गर्भाभानमतश्च पुंसवनक सीमन्तजाताभिधे नामाख्यं सह निष्क्रमेण च तथान्नप्रा. शनकम्मे च । चूकाख्यं व्रतबन्धकोऽप्यथ चतुर्वेदवतानां पुरः केशान्तः सविसर्गका परिणया स्यात्वाइशी कम्मणाम् ॥” इति । अङ्किरसा च पञ्चविशतिरुकाः । तदा गौतमोकेषु. चत्वावेिदवतानि स्नानचेत्यंशः पूर्व रेवाशक्यतया परिहृतः। शेषा दश पूर्वेरेव परिसं. । - - aa MINDA । ( अथापन(१)यनम्-) अथ दशमीकण्डिका- अत ऊर्ध्वमुपनयन लिङ्गा मन्त्रा ब्राह्मणे श्र श्रूयन्ते तेषां विनियोगविवक्षुरिद माह- गर्भाष्टमेषु ब्राह्मणमुपनयेत् ॥ १ ॥ ख्याता। यथा- "गमाधान-पुंसवन-लीमन्तोन्नयनन्तथा । जातकर्म-नामकम्म-निष्क्रमोऽन्नाशनं परम् ॥ चौलकोपनयन-विवाहोदशमः स्मृतः । संस्काराच दर्शवते प्राक्तागृह्येषु कम्मिणाम् ॥ इति । अत्रापि चत्वारोमुख्या इति मुरारिमिश्रादिमतमुपक्रम एव दर्शितन्तत्र द्रष्टव्यम्। (१) अथोपनयनपूर्व प्रतिषिद्धाप्रतिषिद्धानि प्रसङ्गादुपन्यस्यन्ते-तत्रमनुः(कुमार. मधिकृत्य)- "नाभिव्याहारयेद्ब्रह्म स्वधानिनयनाहते । शुद्धण हि समस्तावद्यावद्वेदे न जायते ॥" इति । स्वधानिनयनात् श्राद्धमन्त्रात् ऋते-विना । वेद-वेदोदितकमणि । निमिचे. सप्तमी। यद्योग्योयावनभवतीत्यर्थः । गौतमः-"प्रागुपनयनात्कामचार-मक्ष-काम वादाः। नास्याचमनकल्पोविद्यते इति । कामेति त्रिषु सम्बध्यते । यथेष्टगमन-मक्षण-भाषणः स्यादित्यर्थः । अनेन-वृथायानाश्लीलभाषण-पर्युषितान भक्षणादीनि न निषिद्धानि । इति प्रतिपादितम् । यानि पुनरत्यन्तपतनीयानि सुरायानादीनि तानि निषिद्धान्येव । प्रायश्चित्तोपदेशात् । कल्पग्रहणादाचमनमानमस्तीति गम्यते । गौतमः । "मचं नित्यं ब्राह्मणोवजयेत्” इति । अत्र ब्राह्मणशब्दोजातिवचनः । जातिस्तु-जन्मनैवेतिस्थितम् । तथाच भगवता महाभाष्यकारणस्मृतमू- "तपः श्रुतञ्च योनिश्चेत्येतद्ब्राह्मणकारकम् । तपःश्रुताम्यायोहीनोजातिब्राह्मणएवसः ॥ वामनोऽपि "जननेन याप्राप्यते सा जातिरिति । तथा पतञ्जलिरपि-स्मरति-"सति मूले तद्विपाकोजात्यायु गा" । इति । मूले-पूर्वजन्मानुष्ठितकमशेषे प्रारब्धापरनाम के-इत्यर्थः । वसिष्ठः "न झस्य विद्यते कर्म किञ्चिद्वाऽऽमौजीवन्धनात् । अन्यत्रोदक- कर्म-स्वधा-पितृसम्बन्धेभ्यः इति । उदककर्म-पितृतर्पणम् । स्वधा श्राद्धम् । पितृ- सम्बन्ध भूमिच्छन्त्रादिदानम् । दक्ष- "जातमात्रःशिशुस्तावद्यावदष्टौ समा वयः । सहि गर्भसमोज्ञेयोव्यक्तिमानप्रदर्शकः ॥" इति । समा वर्षाणि । व्यतिमात्रेण नतु कम्माधिकारित्वेन । ब्रह्मपुराणे "माता- पिनोरथोच्छिष्टं बालोभुञ्जन्मवेत्सुधीरि-ति । एतेनान्यदीयोच्छिष्टभोजने दोष एव । "उपनीतस्य दोषोऽस्ति क्रियमाणैविगाहतैः। अप्रायव्यवहारोऽसौ बालः षोडशवार्षिक: " इति । एतेन धनप्रयोगेऽस्वातन्त्र्यमस्य दर्शितम् । न तु प्रायश्चित्ताभावः । । - - ।
१० कण्डिका ] । गोभिलगृह्यसूत्रे- गर्भाष्टमेषु-गर्भत आरभ्य गणनया येऽष्टमा वर्षा(१)स्तेषु । बहुवचनव्य- क्तिभेदाभिप्रायेण । यदोदगय(२)नादीनां समुच्चयस्वदैव । ब्राह्मणमुपनयेत् । उपनयनकर्मणा योजयेत् । उपनयनन्नामाध्ययनार्थमाचार्यसमीपे येन कर्मणा नीयते-(३)तदुच्यते । तथाचाहुः "गृह्योक्तकमा येन समीपं नीयते गुरोः । बालो वेदाय तद्योगाबालस्योपनयं विदुः॥" इति । गर्भाष्टम इत्युपलक्षणम् । तथाच याज्ञवल्क्य:- "गर्भाष्टमेऽष्टमे वाऽब्दे ब्राह्मणस्योपनायनम् ॥" राज्ञामेकादशे सैके विशामेके यथाकलम् ॥ इति । गर्भाष्टम इत्याधानकालापेक्षया । अष्टम इतिजननापेक्षया । पृथगु- पादानात् । अत्रेच्छया विकल्पमाहुः । उपनयनमेवोपनायनम् । स्वार्थे णिच् । सैके इत्येकादश इत्यनुषक्तेनान्वितम् । विशान्द्वादश इत्यर्थः । अत्रोभयत्रापि समस्तगुणभूतोऽपि गर्भशब्दोऽनुवर्तनीयः । गोभिलसम्बादात् । यथाकुलम् । कुलस्थित्या(४) केचिदुपनयनमिच्छन्ति । विशेषकालमाह आपस्तम्ब: “वसम्ते ब्राह्मणमुपनयीत । ग्रीष्मे राजन्यम् । शरदि वैश्यम् ।" इति । वसन्त इत्या- द्यधिकफलार्थम् । मनुरुपनयनमुपक्रम्य- "ब्रह्मवर्चसकामस्य कार्योंविप्रस्य पञ्चमे । राज्ञोबलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे ॥" इति । ब्रह्मवर्चसं वृत्त-स्वाध्याययोः सम्पत्तिः । इहार्थिनः । ऐहिकार्थका. मुकस्य । एवमापस्तम्ब:-"सप्तमे ब्रह्मवच सकाम, नवमे तेजस्कामं, दशमे- ऽन्नाद्यकाम, मेकादश इन्द्रियकाम, द्वादशे पशुकामम्"इति । गौतमः "उपन- यनं ब्राह्मणस्याष्टमे, नवमे पञ्चमे वा काम्यम्" इति । अत्राष्टमे नित्यामित्य र्थतः । अत्र विशेषः शुभकर्मनिर्णये-यथाह पौलस्त्यः । "पञ्चमे षष्ठवर्षे तु सगर्भे सप्तमेऽपि वा। गुरुशुक्रशशाङ्कानां विशुद्ध्याऽऽरम्भयेद्वतम् ।। (१) "वर्णोऽस्त्री भारतादौ च जम्बूदीपाब्दवृष्टिषु । प्रावृट् काले स्त्रियाम्भूम्नी-ति मेदिनी ॥ "वत्सरे वर्षमस्त्रियाम्" इत्यमरश्च ॥ (२) तथाचाचलायन:-"उदगयन आपूर्षमाणपक्षे चौलकर्मोपनयनविवाहाः । सा. कालिकमेके विवाहम्" इति । व्याख्यातमेतदधस्तात् ( २।९।१)। (३ ) येन कर्मणाऽध्ययनार्होभवति । तदुपनयनम् । अत्र देवल:-प्रथमं मातापित- भ्यागर्भाधानादिभिः संकृतोगाष्टमे वर्षे तूपनयनाझैभवति । तत्रोपाध्यायः पिता। गायत्री माता। एवमुपनीवोद्विपितृको द्विजातिरिति । द्विपितृकः-द्विमातापितृकः । एकशेषादुपक्रमेद्वयकीर्तनात् ॥ (४) स्थितिम्मर्यादा । मर्यादा धारणा स्थितिरिण-त्यमरः ।
ভালইলাম । २ प्रपाठक । बदागभीष्टमे वर्ष शुद्धिास्ति वृहस्पतेः । अष्टमे वा, तथाप्येवं व्रतन्तत्र न कारयेत् ।। इत्येवं गोचरशुद्धयादिकमत्रोपयुक्तं बहूपपादितमेवमहामहाव्हर्षनाथशर्म- कृत संस्कारदीपकेऽपीति ततएवावगन्तव्यं, अन्धविस्तरभिया च नेहोपन्य- स्तम् ॥ १॥ गब्भैकादशेषु क्षत्रियम् ॥ २॥ उपनयेदित्यनुवर्तते ऽन्यदुक्तमधस्तात् ।। २ ॥ एवम्- गर्भद्वादशेषु वैश्यम् ॥३॥ स्पष्टम।॥३॥ यथोक्तकालयूपनयनासम्भवे त्वाह- आषोडशा व्राह्मणस्यानतीतः कालोभवत्याद्वाविशात् क्षत्रियस्याचतुर्वि शाश्यस्य ॥४॥ अत्राभिविधावाङ् न मयौदायाम् ॥ "तेन(१) विना मर्यादा तेन सहेत्य- (१) तच्छब्देनात्रावधिरुच्यते । तेन मादार्थकत्वे पञ्चदशवर्षान्तादिरेवगौणका. लोऽवगम्येत । न चेतदिष्टम् । यञ्च यमवचनम् - 'पतिता यस्य सावित्री दशवर्षाणि पञ्च च । ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः॥ प्रायश्चित्तम्भवेदेषां प्रोवाच वदताम्बरः । विवस्वतः सुताश्रीमान्यमोधस्मार्थतत्त्ववित् ।। सशिखं वपनकृत्वा व्रतङ्कुर्यात समाहितः । हविष्यं भक्षयंदनं ब्राह्मणान्पञ्च सत वा ॥ एकविंशतिरात्रन्तु पिवेत्प्रसूतियावकम् । अतोयावकशुद्धस्य तस्योपनयनं स्मृतम् ॥" इति । तत्पतितसावित्रीकत्वाभावेऽपि पञ्चदशवर्षोपरि प्रायश्चित्तविशेषोपदेशार्थम् । न पुनः पञ्च दशवर्षोपरि पतितसावित्रीकत्वमस्यार्थः । तथाविधवचनव्यक्तरभावात् । लधुनः प्रायश्चित्तस्योपदेशाच्च ! पतितसावित्रीकाणां हि ब्रात्यस्तोमः ऋतुःप्रायश्चित्तम्म. न्वादिभिरुतम् । राजन्यवैश्ययोश्चा विशेषात् । अत्रापि तथैवेत्याह-तथाराजन्यवेश्ययो. रिति । तस्मात्पतिता यस्य सावित्रीत्यस्य यस्य सावित्रीग्रहणन्न सम्पन्नमित्यर्थः । अत्र सपादधेनुश्रयदाने, व्रात्यस्तोमे तु सपादनवधेनूनामिति विवेचितमन्यत्र । अत्र विशे. पश्चन्द्रकान्तभाष्ये दृष्टव्यः ॥ स्वतन्त्रास्त्वाचक्षते-ब्राह्मणादीनामष्टमादिवर्षोपरि ( गौ. काले) महाव्याहृतिहोमरूप एव प्रायश्चित्तन्तथाच छन्दोगपरिशिष्ठे कात्यायन:- "गौणेषु तेषु कालेषु कर्मचोदितमाचरेत् । प्रायश्चित्तप्रकरणप्रोक्तानिष्कृतिमाचरेत् ॥ इति । प्रायश्चित्तञ्च व्यस्तैः समस्तैश्च महाव्याहृतिमिहोम एवं प्रायश्चित्तप्रकरणे एवं - १. कण्डिका गोभिलगृह्यस्त्रे भिविधि" रिति परिभाषणादिह षोड़शादिवर्षान्त: कालो गौणः । तथाच 'औपनायनिकः कालः परः षोड़शवार्षिकः । द्वाविशतिः परोऽन्यस्य स्याञ्चतुविंशतिः परः ।।" इति ! "विप्रस्य षोड़शाद्वर्षाद्राज्ञो द्वाविशतेः परम् । वैश्यस्याप्ठत्रिकाददात्सावित्रीपतनं भवेत् ।।" इति। 'षोड़शाब्दोहि विप्रस्य राजन्यस्य द्विविंशतिः । विंशतिः स चतुर्थीच वैश्यस्य परिकीर्तिता ।। इति चैवमादि ॥४॥ अतऊर्च पतितसावित्रीका भवन्ति ॥ ५ ॥ अतएतस्मात्कालादूर्धन्त्रयोऽप्येते पतितसावित्रीका भवन्ति । स्वकाले सावित्र्या-(गायच्या-) मनुच्यमानायां ये पतन्ति-प्रायश्चित्तविशेषभागिनो भवन्नि ते पतितसावित्रीका ब्रात्याश्चमण्यन्ते ॥ ५॥ नैतानुपनयेयुनाध्यापयेयुर्नयाजयेयुन्नैभिर्विवहेयुः॥६॥ एतान्-पतितसावित्रीकान् । त्रयाणां प्रकृतत्वाबहुवचनम्। एनानिति पाठे एन: प्रकृत्यत्यन्तरम् । नापनयेयु:-व्रात्यस्तोमात् क्रतोविना । तथाच स्मृत्य. न्तरम्- "अत अन्त्रयोऽप्येते यथाकालमसंस्कृताः। सावित्रीपतिता व्रात्या व्रात्यस्तोमारते क्रतोः ॥" इति । उपनयेयुरिति बहुवचनं तत्कर्तृसंसर्गिणामपि प्रायश्चित्तप्रज्ञापना- जातीयके उक्तः। यत्तु- "संस्कारा अतिपत्येरन् स्वकालाच्चेस्कथञ्चन । हुत्वैतदेव कुर्वीत येतूपनयनादधः ॥" इति कर्मप्रदीपे उपनयनादध इतिकरणादुपनयनकालातिपाते न महाव्याहृतिहोमः प्रायश्चित्तमिति प्रतीयते तद्गौणकालस्याप्यतिपाते बोद्धव्यम् । तथाच हुत्वैतदेवेत्यौ तत्पदमहाव्याहृतिहोमकर्मपरम् । गौणकालस्याप्यतिपाते ब्रात्यस्तोम एवेति । यमो- क्तप्रायश्चित्तन्तु शाखान्तरविषयम् । एवं "द्वादशषोड़शविंशतीश्चेदतीता अवरुद्धकाला भवन्तीति पैठोनसिवचनमपि । तदित्थं सामञ्जस्येऽत्र ( गो. गृ० सू०) आडोमर्यादा. र्थकत्वाभिधानं केषाञ्चिदनवबोधमूलकमेव । कात्यायनस्य गोभिलोकास्पष्ठविधिप्रदर्श- कत्वप्रतिज्ञानात् । यथाचोक्तम्- "अथातो गोभिलोकानामन्येषाञ्चैव कर्मणाम् । अस्पष्टानां विधि सम्यग्दर्शयिष्ये प्रदीपवदि-गति । । । - उपनयनविधिः [ ३ प्रपाठक । धम । तथाच स्मरणम्- "त्रात्याचाय॑स्य भुक्कानं कृच्छपादेन शुद्धयाति । यचोपनयते नात्यान त्रिभिः कृच्छः स शुद्धयति ॥" इति । एवमुत्तरत्रापि बोद्धव्यम् । न याजयेयुरित्यविशेषात्पाकयज्ञैरपि । नैभिः सह विवहेयु-विवाह( सम्बन्धं )ङ्कुर्युः । विवाहयेयुरिति पाठे एभिः सह विवाहसम्बन्धन कारयेयुरिति व्याख्येयम् । एष्वपि कालेध्वनुपनीता एते त्रयो. प्यकृतप्रायश्चित्ता उपनयनाद्यनहीं भवम्तीति(१) परमार्थः । उपनयनप्रतिषेधादेव सर्वत्र प्रतिषेधे सिद्धे यदिकेन चिल्लोभादज्ञानाद्वोपनीताः स्युस्तथापि नोत्तराणि कर्माणि पतितसावित्रीकाणाङ्कुर्यादिति सर्वेषाम्पाठः क्रियते ॥ ६ ॥ यदहरुपेष्यन्माणवकोभवति प्रग एवैनन्तदहभॊजयनि कुशलीकारयन्त्याप्लावयन्त्यलङ्कुर्वन्त्यहतेन वाससाऽच्छादयन्ति ॥७॥ यद्यस्मिन्नहनि । अत्यन्तसंयोगे(२) द्वितीया (पा० २।३।५) उपध्यन्- उपनयनं कारयिष्यन् । माणवको माणवोऽनधीतवेदः । स्वार्थेकन् । तथा च कात्यायन:- "अनुचोमाणवो ज्ञेय एणः कृष्णमृगः स्मृतः । रुरुग्गारमृगः प्रोक्तस्तमुनिः शण उच्यते ॥" (१) तथाच श्रुतिः "स्वकालेऽनुच्यमानया सावित्र्या ये पतन्ति प्रायश्चित्तिनो भवन्तीति । स्मृतिः "पतितसावित्रीकेषूपपातकम्" इति। याज्ञवल्क्या- "आषोडशादाविशाच्चतुर्विंशाच्च वत्सरात् । ब्रह्मक्षत्रविशाल औपनायनिकः स्मृतः ॥ अत ऊर्ध्वम्पतन्त्येते सर्वधर्मबहिष्कृताः। सावित्रीपतिता व्रात्या नात्यस्तोमाते क्रतोः॥" - । इति । मनु:- B । । "नैरप्तैविधिवदापद्यपि हि कहिचित् । ब्राझान्यौनांश्च सम्बन्धानाचरेब्राह्मगः सह"। इति । विधिवद्यथाशास्त्रमपूतैरकृतप्रायश्चित्तौः। ब्राह्मान्वेदाध्यापनकृतान् । यौनान् । विवाहादीन् । एवञ्च व्रात्यस्तोमनामके यागे कृते उपनयनाधिकारो नतूपनयनस्थान एवात्र प्रात्यस्तोम इति युक्तम् । तस्य प्रायश्चित्तरूपस्य संस्कारकत्वेमानाभानादिति । आपस्तम्बः "अशुदाणामदुष्टकर्मणामुपनयनम्" इति । अदुष्टकर्मणां पतनीयकर्मभिर- दूषितानाम् । (२) कालाध्वनोरत्यन्तसंयोगे हिसा विधीयते । तत्र च गुणक्रियाद्रव्योरभावेन चेति स्त्रशेषो भाष्यादौ। तेषु गुणेन-मासङ्कल्याणी, क्रियया-मासमधीते, द्रव्येण-मासङ्गुड़- भाना अमावेन मासम्भोजनाभाव इत्युदाहृतानि ॥ अत्यन्तसंयोगो निरन्तरसम्बन्धः ।
DRIMAR ABINETRADA गोभिलगृह्यसूत्रे--- ૨૫ इति । अनुचो वेदशून्यः । प्रग एव प्रातरेव ! "सायं साये प्रगे प्रातरि". त्यमरः । एनं-माणवकं, भोजयन्ति-इत्युक्त्याऽत्र शङ्का न काठयेत्युपदिशति । भोजनश्चात्र गोदुग्धाहेरेव । तथा च श्रुति: “पयोव्रतो ब्राह्मणो भवति यवागू- तो राजन्य आमिक्षात्रतोवैश्य." इति । व्रतमाहारः । तथा च गृह्यान्तरम्- "पयोचवाग्वामिक्षाहाराः क्रमशोद्विजातीनाम्" इति। यवागूक्ता (१-७-२०) आमिक्षा तोध्यो क्षीरे दधियोगेन कठिनं द्रव्यम्। तथा च श्रुतिः "तप्ते पय- सि ध्यानयति सा वैश्वदेव्यामिक्षा भवति वाजिभ्योवाजिनम्” इति । अभि- धानञ्च "श्रामिक्षा सा शृतोष्णे या तीरे स्यादधियोगतः” इति ( अमरः) वाजिनमतिरिच्यमानं तत्पय उच्यते ॥ कशलोकारयन्ति मुण्डयन्ति “क्षौरन्तु भद्राकरणम्मुण्डन वपनन्त्रिपु'इत्यमरः । भद्राकरणं कुशलीकरणमित्यना- न्तरम् । अत्र शिखा न धा-- "एते लूनशिखास्तस्थ कोमलैईन्तकुड्मलैः । कुशकाशा विराजन्ते वटवः सामगा इव ॥" इति विष्णुपुरणपोलोचनात् । समावर्त्तने "शिखावर्जमिति विशेषोप- देशाच्च । आप्लावयन्ति-स्नापयन्ति । आप्लावनञ्चेदं घटत्रयाम्बुना । तथा च गृह्यासङ्ग्रहः "स्नानञ्चतुर्भिः कलशैः प्लावनन्तु त्रिभिघटैरिति । अलङ्कु- वेन्तिकेयूरकटककुण्डलादिभिर्यथालामम् । अहतेनेति । अत्र गृह्यासमहः- "सकृद्धोतं नवं श्वेतं सदशं यन्न धारितम् । अहतन्तद्विजानीयाईवे पैत्रे च पावनम्" ।। इति । वाससेत्येकवचनादिदमधरीयमिति द्रष्टव्यम् । उत्तरीयन्तु उपरि- श्राद्यदजिनं सूत्रयिष्यति तदेव स्यात् । सर्वत्र बहुवचननिर्देशात्कर्तुरनियमः। अत्र भाष्यकृतः-"अग्निहोत्रजुहोति यवागूम्पचती"ति वत् अत्राप्यार्थक्र- मेण शाब्दक्रमोल्लङ्घनमिति प्रथमं वपनमनन्तरं स्नानमथभोजनमिति क्रमः । ज्योतिषे भोजनानन्तरं वपननिषेधात् । तथाहि- "न स्नानमात्रगमनोन्मुखभूषितानामभ्यक्तभुक्तरणकालविवासनानाम् । सन्ध्यानिशाकुजदिने च तिथौ च रिक्त क्षौरं हितं न नवमेऽह्नि न चापि षष्टया. म्" इत्याहुस्तन्न-अदृष्टार्थक्रमस्य ज्योतिश्शास्त्रविरोधेनानपवादात् । दृष्टान्ते त्वन्यथाऽनुपपत्त्या,तथा कल्प्यते । प्रकृते निषेधस्यान्यक्षौरविषयत्वेनाप्युपपत्ते. रन्यथा रोहिण्यादौ नववस्त्रधारणनिषेधात्तत्र विवाहविधेरानर्थक्यं स्यान्न स्या च रविवारादौ उपनयनन्तत्र क्षौरनिषेधात् । अत एव "ब्राह्मणान् भोजयेत्तं च पर्युप्तशिरसमलङ्कृत्तमानयन्ती"ति पारस्करेऽपि भोजनानन्तरमेव मुण्डनन्द. शितमिति । धीरपद्धतिस्वरसोऽप्येवमेवेति महामहो० मुरारिमिश्राः प्राहुः ॥७॥ २४ गो० गृ०सू० IND उपनयनविधिः। २ प्रपाठकcamparma वासमाऽऽच्छादयन्तीत्युक्तमतोवासोविशेष सूत्रयति- भौम-शाण-कापासौ-न्येषां वसनानि ॥८॥ शुमा-अतमी "अतसी स्यादुमा क्षुमा" इत्यमरः । तया निवृत्तं क्षौमम् । तेन निवृत्तमित्यर्थे ( पा० ४२१६८) अण्प्रत्यय आदिवृद्धिरेवमग्रेऽपि । शण. म्तमुनिरक्तः । कर्पासः प्रसिद्ध एव । अर्णा-मेषरोम । एतान्येषां ब्राह्मणादीनां वसनान्यधरीयाणि भवन्ति । अत्र वसनानां चतुष्ट्वाद्यथासंख्यान्वयोनेष्यते । एषां विपयव्यवस्थामुपदेक्ष्यति ( २११०११२) अनुपदम् ॥ ८॥ ऐणेयरौरवाजान्यजिनानि ॥ ६ ॥ एतानि ब्राह्मणादीनां यथाक्रममजिनानि-उत्तरीयतया ग्राह्याणीत्यर्थः । तथा च स्मृति:-"उत्तरीयं समाख्यातं वासः कृष्णाजिनं शुभम्" इति । पार. स्करगृह्यमपि "ऐणेयमजिनमुत्तरीयं ब्राह्मणस्य, रौरवं राजन्यस्याजं गव्यं वा वैश्यस्ये"-ति। एणी कृष्णसारमृगी तस्या इदमैणेयम् । "स्त्रीभ्योढगि" (पा०४।१।१२०) ति ढस्येयादेशः (पा०७१।२ ) आदिवृद्धिः ( पा०७२। ११७ ) । अत एव "ऐणेयमेण्याश्चाद्यमेणस्यैणमुभे त्रिधि"त्यमरोऽपि । एतेनैणस्येदमैणेयमिति भाष्य(१)कारीयव्याख्यानमपास्तमिति वेदितव्यम् ॥ न च "एणः कृष्णमृगः स्मृतः” इति तयाख्यापककात्यायनवचनादार्ष एवायं प्रयोग इति वाच्यम् तस्य परम्प(२)रया एण्यालक्षकत्वेनोपपत्तेस्तथाकल्पना- याम्मानाभावात् । रुरुश्च गौरवपुर्मुगः । "झखार" इति प्रसिद्धः । अजश्छागः । अजिनश्चम । मनु:- "कार्ण-रौरव-वास्तानि चाणि ब्रह्मचारिणः । वसीरन्नानुपूर्येण शाणक्षौमाविकानि च ॥" कृष्णाया इदं कार्ण, पृथायाः पार्थ इति वत् । कृष्णः क्लष्णसारः । ( तस्य. स्त्री कृष्णा तस्याः ) वस्त-श्छागः । यमः "सर्वेषां रौरवाजिनम्" इति । तदेत- "दितरासम्भवे" इति शेषपूरणेन व्याख्येयम् । स्मृतिः । "मेखला सप्तहस्ता स्यादजिनञ्च द्विहस्तकम् । बहिर्लोम व्यङ्गुलञ्च अखण्डं वा त्रिखण्डकम् । चतुर्विंशाष्टषोड़शा-जुलैः खण्डानि कारयेत् ॥" (१) मट्टनारायणीयम्। (२) पत्नीद्वारकन्तस्यो-(णस्यै )-वेदमिति जातिभेदाभिधायकं कातीयं वचनम् । जातिभेदाश्चामरेणैवानन्तरमुक्ताः "कृष्णसाररुरुन्यकुरकुसंवररौहिषाः । गोकर्णपृषौणय- रोहिताश्चमरोमृगाः” इति । तत्र एणश्चारुनेत्र इत्येवं जातिभेदख्यापकन्तद्रव्याख्यानञ्चा. मरविवेके महेनरेण कृतम् ॥
१० कण्डिका! गोभिलगृह्यसूत्रे- २२७ इति । विकल्पः शक्त्यपेक्षया कुलकल्पापेक्षया वा ॥९॥ मुञ्ज-काश-तामुन्योरशनाः ॥ १० ॥ तमुनिः शणः । रशना मेखला । "रशना मेखला काञ्ची"त्यमरः । अन्यत्पूर्ववन् । मनु:- "मौली त्रिवृत्समा लक्षणा कायां विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यभ्य शणतान्तवी ।। मुखालाभे तु कर्तव्या कुशाश्मन्तकवल्वजैः । निवृता प्रन्थिनकेन त्रिभिः पञ्चभिरेव वा ॥" इति । त्रिवृत् नवगुणीकृता त्रिवृतेति प्रथमान्तम् "आपञ्चैव हलन्ता- नाम्" इति टाप् । एकेन प्रन्थिनेत्यादीच्छ या विकल्पः । उपलक्षणे तृतीया (पा० २।३।२१) अत्र श्लक्ष्णा-ममृणस्पर्शा। मुर्वा-बल्लीविशेष. "दुग्ध (ध) मरुरि"ति प्रसिद्धा । तेन निम्मिता मौर्वी ज्या। [धनुर्गुणः ] तस्यैव सतो मेख. लायां विनियोगः । मुखालाभे-मुजायभावे । अश्मन्तकः कुशसहशतृणविशे. पः । बल्बजाः "शावय" इति प्रसिद्धाः । ग्रन्थौ प्रवरसाम्येन व्यवस्थितोविकल्प इति मुरारिमिश्राः (१)प्राहुः॥१०॥ पार्ण-बैल्वा-ऽऽश्वत्था दण्डाः ॥ ११ ॥ पार्णः पालाशः "पलाशे किंशुकः पर्णीवातपोत" इत्यमरः । बिल्वाश्वत्थी प्रविद्धौ। पालाशादयः क्रमेण ब्राह्मणादीनान्दण्डाः प्रशस्ता इत्यर्थः। तथा च पारस्करः “पालाशो ब्राह्मणस्य दण्डो बैल्वो राजन्यस्यौदुम्बरो वैश्यस्य सर्वे वा सर्वेषाम्" । इति । एषामभावे सर्वेषां सर्वे यज्ञियाः। औदुम्बर इति कुल- कल्पभेदेन । स्मृतिः- "धारयेद्वैल्वपालाशो दण्डौ केशान्तिको द्विजः। यज्ञाहवृक्षजं वाऽथ सौम्यमव्रणमेव च ॥" इति । मनु:- "केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसम्मितो राज्ञः स्यान्नासासम्मितो विशः ॥" इति । केशस्य ललाटोर्ध्वकेशजन्मस्थानस्यान्तः केशान्तः। एवञ्चोर्ध्वस्थित. स्य पुरुषस्य भूमितस्तत्पर्यन्तपरिमाणतो ब्राह्मणस्य दण्डः कार्यः । भ्रमध्य सन्मितो राज्ञः । नासाग्रसम्मिता वैश्यस्येत्यर्थः । यत्तु-केशान्तिकः कर्णसमीप- (१) अत्र कुल्लूकमः। अत्र च वाशब्दनिशाद्ग्रन्थीनां न विप्रादिभिः क्रमेण सम्बन्धः । किन्तु सर्वत्र यथाकुलाचारै विकल्पः । प्रन्थिभेदश्चायं मुख्यामुख्यापेक्षासम्भ. वाग्रहीतव्यः॥ इति ।
उपनयनविधिः । [२ प्रपाठक- CURRIOR केशमूलपर्यन्त इति कस्यचिद्याख्यानन्तन्न तथासति ब्राह्मणक्षत्रिययास्तस्य तुल्यपरिमाणत्वेन पृथगुपदेशानर्थश्यापत्तरिति बोध्यम् । तथा- "ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शना.! अनुद्वेगकरा नणां सत्वचानाग्निदूषिताः॥" इति । ऋजब इति-अनादन्यत्र । “यूपवक्रा" इति गौतमेन नताप्रत्वस्य विधानात् । अत्रणा अच्छिद्राः । सौम्यदर्शनाः । अतिस्थौल्यादिनाऽभयानकाः । अनु द्वेगकारा स्वरूपेणाभीपणा इति मुरारिः । अदुःखदाः परेषामघातुकाना. मिति वयम् ।। ११॥ इदानीमुक्तानां वसनाना व्यवस्थामुपदिशति-- सौमशाणं वा वसनं ब्राह्मणस्य, काशं क्षत्रियस्याऽऽविकं वैश्यस्य ।। १२ ।। ऋज्वथ सुत्रम् ॥ १२ ॥ एतेनैवेतराणि द्रव्याणि व्याख्यातानि ।। १३ ।। एतेनैवानुसारेण । इतराणि अजिन-वसन-दण्डाख्यानि । व्याख्यातानि त्रयाणां यथाक्रमेणोक्तानि ॥ तथाच-ऐणेयमजिनं, मौजी रशना, पार्णोदण्डश्च ब्राह्मणस्य, रौरवमजिनं, काशी रशना, वैल्वोदण्डश्च क्षत्रियस्य, आजमजिनं, शाणी रशना, आश्वत्थोदण्डश्च वैश्यस्येति सिद्धम् ॥ १३ ॥ अलामे वा सर्वाणि सर्वेषाम् ।। १४ ॥ अलाभे-स्वस्वजात्युक्तवसनादीनामसम्पत्तौ । सर्वाणि क्षौमादीनि वस. नादीनि सर्वेषां भवन्ति यथालाभम् । अत एव वसिष्ठः "सर्वेषान्तान्तवमर- तम्" इति । अस्क्तं विकृतरक्तरहितं, कौशुम्भन्तुप्रशस्तं, तथाच गौतमः "स- वेषां कार्पासमविकृतं, कापायमप्येके” इति ॥ १४ ॥ पुरस्ताच्छालाया उपलिग्निरुपसमाहितोभवति ॥१५॥ निगदव्याख्यातमेतत् ।। १५ ॥ "अग्ने वृतपत" इति हुत्वा पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङाचार्योऽवतिष्ठते ॥ १६ ॥ (मं० ब्रा० श६९-१३ ) "यथा पाणिग्रहणे तथा चड़ाकरणे चोपनयने" (११९।२८) इत्यतिदेशा- दुपनयनकर्मणः पुरस्ताञ्चोपरिष्टाञ्च महाव्याहृतिभिश्चतस्त्र आहुतयो भवन्ति, वदाहुत्तिचतुष्टयं कुत्वा "अग्ने बतपत" इत्येवमादिभिः पञ्चभिमन्त्रः [अ. नादेशादाज्येन ] पञ्चाहुतोश्च हुत्वा आचार्यः पश्चादग्नेरुद्गप्रेषु दर्भेषु प्राङ् २२९ HD MERE १० काण्डका ] गोभिलगृह्मसुत्रे- प्राङ्मुखः अत्रतिष्ठते-ऊर्ध्वस्थितोभवेत् । “हुत्वाऽऽचार्योऽवतिष्ठते"इति क्त्वा श्रवणान् कत्र न्तरानुपदेशाच होमोऽयमाचार्यकर्तृक एव । मन्त्रास्तु माणव. कपठनीया "तचरिष्यामी"ति मन्त्रलिङ्गात् । नचेदानी वेदपाठे तस्यानधि. कारः। उपनयनकर्मणः पूर्वमेव तथास्यान्न तूपनयनकर्मण्यपि । मेखलामन्त्र तत्कर्तृकपाठस्य सर्वसम्मतत्वात् । अन्यपठितमन्त्रेणान्यकर्तृकक्रियायाश्चाश्मा. राडादौ बहुत्र दर्शनान्न किञ्चिदेतत् । कौमुदी-नारायण-शूलपाणि-होरि- लप्रभृतयोऽप्येवम् [१] ।। १६ ।। अन्तरणाग्न्याचार्यों माणवकोऽञ्जलिकृतोऽभिमुख आचार्यमुदगग्रेषु दर्भेषु ॥ १७ ॥ अत्रावतिष्ठत इत्यनुषजनीयम् । अन्तरेणेति मध्यार्थेऽव्ययम् । तथाचा. मर: "अन्तरेण च मध्ये स्युः"इति । तद्योगेऽग्न्याचाया-इति षष्ठयर्थे द्विती- या (पा० २।३।४) (२)एवञ्चाग्न्याचार्ययोर्मध्ये माणवकः अञ्जलि- ऋत.(३) कृताञ्जलिराचार्याभिमुख उत्तरानेषु कुशेषूद्धस्थिताभवेदित्यर्थः । मन्त्रीयथा- अग्नेव्रतपते व्रतञ्चरिष्यामि तत्ते प्रब्रवीमि तच्छकेयम् । तेनद्धर्य समिदमहमनृतात्सत्यमुपैमि स्वाहा ॥९॥ अस्यार्थः-हे 'अग्ने!' 'तपते!' शास्त्रीयनियमपालक !। यदिदं 'व्रतम् उपनयनाख्यम् 'चरिष्यामि' अहमनुष्ठास्यामि 'तत्' व्रतं 'ते' तुभ्यम् 'प्रब्रवीमि' निवेदयामि । येन 'तत्' व्रतमहत्वत्प्रसादात् सुखेन चरितुं 'शकेयम्' शक्नुयाम् “लिङ्गयाशिष्य” (पा० ३।११८५) इत्यङ् । व्रतचरणस्य फलमाह-'तेन' उपनयनव्रतेन करणभूतेनाहम् 'ऋद्ध्या, ऋद्धिम् अध्ययनलक्षणां समृद्धिम् । अमोडा (पा ४७१।३१) "प्राप्नुयामिति शेषः । तथा 'अहम्' 'अनृतात्' अलीकवचनात् । अस्माजगतोवा मिथ्याभूतात् पृथग्भूत्वा 'इदम् एतद् ब्रतं 'सत्य' सत्यवचनस्वरूपम् । यद्वा इदमनिर्देश्यसत्यं ब्रह्म । 'समुपैमि' सम्यक् प्राप्नोमि उपसर्गस्य व्यवहिप्रयोगश्छान्दसः (पा०।४।८२) अयमर्थः-योऽहं प्रागुपन- यनाद्यथेष्टाचारआसंसोऽहमधुना परित्यक्तानृतवादः सत्यभूतमिदं व्रतं चरिष्या- (१) अत्र च "व्रतञ्चरिष्यामीतिमन्त्रस्य साकाङ्कत्वानिराकाङ्क्षीकरणाय प्रतना- मकालपरिमाणयोरादेशः कर्तव्यः । एतद्वतमियत्कालिकमिति । कुतः ? "ब्रह्मचारी बता. देशे ब्रतनाम प्रवाचयेत् । चरिष्ये यावदन्ताय सावित्रेचान्तकीर्तनम्" इतिगृह्यासंग्रहवच. नादिति चन्द्रकान्तमाष्यम् ॥ (२) सा चोपपदविभक्तिरिति "उपपदविभक्तीनां सम्बन्धोऽर्थः षष्ठ्यपवादत्वादि-". ति महाभाष्यवचनात्षष्ठयाऽत्र विवियते । (1) आहिताग्न्यादित्वात् (पा० २३३७ ) कृतस्य पूर्व निपातः ॥
उपनयनविधिः प्रपाठक un मीति । यद्वा उपनयनत्रतजनितया ऋध्या ब्रह्मवर्चसलक्षण्याऽनृतादस्मा- दिदमनिश्यंसत्यं ब्रह्म सनुपमि निष्कामयथान्तकम्नानुष्ठानेनेति । तस्मतेऽग्नये 'स्वाहा सुहुतमस्तु ।।९।। एवम- "वायो तपते ! स्वाहा ! १०॥ "सूर्य व्रतपते !०० स्वाहा ॥ ११ ।। "चन्द्र तपते !०० स्वाहा ।। १२ "व्रतानां तपते .०० स्वाहा ।। १३ !! इति । 'बताना-'कर्मणां (यज्ञानां) (निपं० २।११७) 'तपते! नियमपालक इन्द्र! । शेषोऽर्थः स्पष्टः । १०।११।१२.१३ ॥ अञ्जलिश्चात्र प्रसारितानतु मुकुलितः । उपरिष्ठात्तस्यापाम्पूरणपदेशादिति द्रव्यम् ॥ १७॥ तस्य दक्षिणतोऽवस्थाय मन्त्रवान्ब्राह्मणोऽपामञ्जलिम्पुरयति ॥१८॥ तस्यानन्तरोक्तस्य माणवकस्य । दक्षिणतः । दक्षिणदिशि । “आद्यादि. स्वात् (पा० ५।४।४४ वा०) सार्वविभक्तिकस्तसिः । न तु दक्षिणपावें । मङ्गल्ये दक्षिणाभिमुखेन क्रियापत्तेरिति भाष्यकृतः । अवस्थाय । ऊर्ध्वःस्थित्वा। मन्त्रवान्-अध्ययनयुक्तः । अधीतवेद इति यावत् । अपामिति तृतीयार्थे शेषे षष्टी । ( पा० २।३।५०)। अत्र मन्त्रानुपदेशाद्याहृतिभिरिति चन्द्रकान्तः । पद्धतौ तन्नास्ति ॥ १८ ॥ उपरिष्टाच्चाचार्यस्य ॥ १६॥ उपरिष्टात्-पश्चात् । अब्जलिम्पूरयतीत्यनुषजनार्थश्चकारः ॥ १९ ।। प्रेक्षमाणोजप-"त्यागन्त्रा समगन्मही-"ति ॥ २०॥ ( मं० वा० १६१४-१५) "माणवकमाचार्य" इति शेषः । स्वस्ति चरतादयमिति मन्त्रलिङ्गात । अत्रापीतिशब्दाद्यर्थस्तेन मन्त्रद्वयम् । (१)तथाचमन्त्रः- "आगन्त्रा समगन्महि प्रसुमत्त्य युजोतन । अरिष्टाः सञ्चरेमहि स्वस्ति चरतादयम् ॥ १४ ॥ इति । अस्यार्थः-हे अग्न्यादयः ! यूयमेतमुपनीयमानं 'सुम] शोभनम- नुष्यम् । 'प्रयुजोतन' अस्माभिः सह प्रकर्षेण मिश्रयत(२) । यथाऽनेन 'आग- (१) अत्र "परस्मात्सिहावलोकितन्यायेनानुषमाञ्चेति हेत्वन्तरपूरणं चन्द्र- कान्तमाष्ये। () थुमिश्रणे" ( अ० ५० ) लोटि शपः लुम्बाहुलकात ( पा. २१४१७६ ) "त. नानधनापा) इति वस्थ तनादेशः।
। १. ऋण्डिका ] गोभिलगृह्यसूत्र- न्त्रा' आगमनशीलेन(१) ब्रह्मचारिणा । वयं 'समगन्महि' सङ्गच्छेमहि(२) । तथाऽस्माभिस्सह 'अयं ब्रह्मचारी 'स्वस्ति' कल्याणेन 'चरतात' गच्छतु।॥१४॥ इति । अत्र "अग्निष्ट" इत्यादिमन्त्रो ब्राह्मणे सहपठितोऽपि “देवस्यते” इति व. क्ष्यमाणमन्त्रान्ते द्रष्टव्यः । "शब्दक्रमादर्थक्रमोबलीयानि"-तिन्यायात् । इदानीं शुदकपुर्णाऽऽजल्योर्माणवकाचार्ययोः साङ्गुष्ठहस्तग्रहणस्यासुकरत्वात् । आचा- येणाऽपि तथैवाने सूत्रणात् । संस्कारतत्वे रघुनन्दनेनापि तत्रैवायम्मन्त्रोधृतः । अयमेवार्थोभवदेवभट्ट-गुणविष्ण्वायनुमतः । पद्धतिकृद्भिीरेश्वरादिभिरपि स. माहतः। मन्त्रोयथा- "अग्निष्टे(३) हस्तमप्रहीत्सविता हस्तमग्रहीत् । अर्यमा हस्तमग्रहीन्मित्त्रस्त्वमसि कर्मणाऽग्निराचार्यस्तव" ।। १५ ।। इति । अस्यार्थ:-हेब्रह्मचारिन ! योऽयन्ते हस्ताऽद्य मया गृहीतोऽतः पूर्वम- ग्न्यादयः क्रमेण ते हस्तमग्रहीत्। क्रियाकारकावृत्तिरादरार्था। अतः 'कर्मणा' गु- रुश्रुश्रूषादिना 'त्वं' मम 'मिस्त्रः' मिस्त्र(४)भूतः (प्रियहितकारी) 'असि' भवसि । 'अग्नि' श्चभगवान् 'तव' 'आचार्य'.गुरुः । ( परिचरणीयः) अतः तत्परि- चरणेनाहमेव परिचरितः स्यामिति भावः ॥ १५॥ इति ॥२०॥ "ब्रह्मचर्यमागामि"-ति वाचयति ॥ २१ ॥ (मं० ब्रा० २६१६) जपित्वा चाचार्य: "ब्राह्मचर्यमागामुप मा नयस्व" १६ इति मन्त्रं, वाच- यति । माणवक पाठयति । मन्त्रार्थस्तु-हेगुरो ! । अहं 'ब्रह्मचर्यम्' तद्बतम् 'आगाम्, स्वीकृतवानस्मि यतोऽतो-'मा' माम् । 'उपनयस्व' छान्दसोव्यवहितो- पसर्गप्रयोगः । (पा० १२४/८२) १६ ।। २१ ।। "कोनामासी"ति नामधेयम्पृच्छति तस्याचार्यः ।। २२ ॥ (मं० ब्रा० ११६/१७) "कोनामासी" १७ इति एवं तस्यमाणवकस्य । नामधेयं-नाम । आचार्यः (१) आङ्पूर्वादूगमेस्ताछोलिकस्तृन्प्रत्ययः । (पा० ३।२।१३५ ) कर्तरि ॥ (२) अनापूर्वागमेलिङथै लुङ् ( पा० ३।४६ ) “मन्त्रे घसे” (पा० २।४।८०) त्यादिना च्लेलुकि "म्वोश्व" ( पा० ८।२।६९ ) इति मस्य नत्वम् ॥ (३) अत्राकृतपत्वनिर्देशोऽन्यत्र (पुस्तकान्तरे ) 'यजुष्येकेषाम्। (पा० ८.३। १०१) इति विभाषित इति ॥ (४) अत्र मिल्नमिवेत्यर्थे विहितस्य कनः (पा० ५।३।९६) "लुम्मनुष्ये" (पा० २।३।१८) इति लुप्। आर्ष वा पुंस्त्वम् (पा० ३।११८५ ) व्यत्ययेन । सुहृदि मित्र शब्दस्य नित्यनपुंसकत्वादेवमुक्तम् ॥
उपनयनविधिः ३ प्रराडके- ५ पृच्छति । अत्र क इति नामविषयकः प्रश्नः । नामेति प्रसिद्धार्थकमव्ययम् । तथा च प्रसिद्ध नाम पृच्छति ! कोऽसीति सूत्रार्थः ॥ २२ ।। किंत्रा- अभिवादनीयं नामधेयङ्कल्पयित्वा ॥ २३ ।। अभिवादन-पादोपसङ्ग्रहणम् । सम्भाषणं वेति चन्द्रकान्तः । "समे तु पादग्रहगमभिवाइनमित्युभे" इत्यमरः। तदर्थमभिवादनीयम । नामधेयत्वेन (पा० २११७५ वा० ) वृद्धत्वाच्छ: (पा० ४।२।११४) तस्यानीयर (पा० ४२) कल्पयित्वेति वचनात्तदानीमेवाचार्येण तत्कल्पनमायाति । अभिवा- दनीयमितिकरणात्सर्वत्रवाभिवादने ब्रह्मचारिणाऽऽचार्यकल्पितेनैव नाम्ना व्यवहरणीयमिति बोधयति ।। २३ ॥ अभिवादनीयन्नाम विशिनष्ट्रि-- देवताश्रयं वा नक्षत्राश्रयं वा ॥ २४ ॥ आद्यं यथा-"विष्णुशर्मनामा(१)सी"ति। द्वितीयं यथा-"फाल्गुनश(२). मनामासी:ति || २४॥ गोत्राश्रयमध्येके ॥ २५॥ तद्यथा "कौशिकशर्मनामासी-"ति ॥२५॥ ततो माणव(३)केन "ॐ अमुकनामाऽग्मी-"त्याचार्यकल्पिते नाम्नि कथिते- उत्सृज्यापामञ्जलिमाचार्योदक्षिणेन पाणिना दक्षिणं पाणिं साङ्गुष्ठं गृह्णाति-"देवस्यते सवितुः प्रसवेऽश्विनो - हुभ्याम्पूष्णेहस्ताभ्याहस्तं गृभ्णाम्यसा(४)- वि"-ति ॥ २६॥ ( म० ब्रा० १०६।१८) (१) अत्र.नामधेये "शान्त श्राह्मणस्येति मानवं वचनं मानं, विशेषविचारस्तु. नामद्वेतप्रकरणे द्वैतनिणेये द्रष्टव्यः । (१) नक्षत्रपदेन यन्मास्युपनयनन्तत्समाख्यापकमेवेति केचिदाचक्षते ॥ केचित्तू शतपदचक्रानुसारिजन्मनक्षत्राश्रयन्नामाहुस्तत्तुच्छं तस्यगुह्यत्वस्यागमेऽप्यभिधानात् । तथाचशारदातिलकटोकायां राघवभट्ठोद्धृतम् "जन्मनक्षत्रयोन्या नै मारणानि यथातथम् । कृतानि न चिरेणैव सिद्धिदानि महेश्वरी तिवचनम् ॥ (३) अन्न कोनामासि"? "असौनामास्मीत्येवं ब्राह्मणे सहेव द्वयं पठ्यते । विनियोगोऽपि पृथगेव बोश्वरादिपद्धतिषु पठ्यते । “ॐ विष्णुशर्मनामास्मीत्येवं वाक्यामिलापश्च । सूत्रकृता तूत्तरवाक्यस्यानभिधाने कारणं मृग्यम् ॥ (४) अन्न हस्य भवछान्दसः (पा०८॥२॥३३ वा०)॥ - 1. कामिडक] गोमिलगृह्यसूत्रे- पाणिं "माणवकस्येति शेषः । ग्रहणमन्त्रमाह "देवस्यत" इति । अत्रा- साविति स्थाने माणवकस्य स्वकल्पितन्नाम सम्बोधनान्तं प्रयोज्यम । एवमग्रेऽपि । नारायणधीरेश्वरादयोऽप्येवम् । अत्र माणवकस्यापि जलाखल्युत्सर्ग आचा- यस्येवावगन्तव्योऽविशेषेणेापदेशात् । मन्त्रार्थस्तु-हे 'असौ ! विष्णुशर्मन् ! 'तब हस्तं 'सवितुर्दवस्य 'प्रसवे' अभ्यनुज्ञाने (१)सति । 'अश्विना'र्देवभि. बजेोः । 'बाहुभ्यां' 'पूष्णः' पूपापिष्टाद(२)इत्येवं ख्यातस्य देवविशेषस्य 'हस्ता. भ्याम्' अहम् आचार्यस्तव 'हस्तं' कर प्रतिगृह्णामि' । अत्र सर्वत्र स्वत्वं ३()- षष्ठ्यर्थस्तत्प्रत्ताभ्यामित्यर्थः ॥ १८॥ इति ।। अत्र मन्त्रपाठानन्तरं हस्तग्रहणं बोद्धव्यमिति (४)भाध्यकारः ॥ २६ ॥ अथैनम्प्रदक्षिणामावर्तयति 'सूर्यस्यावृतमन्वावर्तस्वासावि"-ति२७ ( भं० ब्रा० १।६।१९) अथेति-तद्देशनियमार्थम् । अथ तस्मिन्नेव देशे प्रत्यङ्मुखमवस्थितम् । एनं माणवकम् । असाविति सम्बोधनान्तं क्लुमनामग्रहणमिति प्रागुक्तन विस्म- र्तव्यम् । मन्त्रार्थस्तु-हे 'असौ !' विष्णुशर्मन् ! 'सूर्यस्य' 'प्रावृतम्' आवर्त्तनम् 'अनु' लक्षीकृत्य 'आवर्तस्व' तिष्ट । अयमर्थः । यावद्धानोरावर्तनन्त्वमत्रतिष्ठ। यद्वा यावत्सूर्य आवर्त्तते परभ्रमति । तावत्वमपि यतस्ततः सञ्चर। पुनस्तस्मि- अस्तं जिगमिषौ गते वा त्वमप्यस्तं(५) (गृह) प्रत्यावर्त्तस्वेति ।। १९ ॥२७॥ दक्षिणेन पाणिना दक्षिणामसमन्ववमृश्यानन्तर्हितान्नाभिमभि. मृशेत् “प्राणानां ग्रन्थिरसी-"ति ॥ २८॥ मं० ब्रा०शक्षा२०) आचार्योदक्षिणहस्तेन माणवकस्य दक्षिणमंसन्तूष्णीममन्त्रकमन्ववमृश्य- अनुस्पृश्य। अनन्तहिताम् अन्तर्धानरहितां व्यक्तांनाभिमभिमृशेत् स्पृशेदित्यर्थः। तत्रमन्त्रमाह-"प्राणानामि"ति । अत्रामुमित्येतस्मिन्त्सर्वनाम्नि द्वितीयान्तम्मा. (१) "प्रसवोऽभ्यनुज्ञानम्” इतिवृत्तिकृतः प्राहातथाच तदभ्यनुजातोऽहमित्य':। (२) दक्षयज्ञविध्वंसने शिवेन प्रहितोवीरभद्रः-"यूग्णश्चापातयन्तिान्योऽहसद्वि. वृतैर्द्विनैरि-ति भागवतादौ स्मयते। ततश्चानुगृहातः शिवेन पिष्टादः कृत इति च । (३) अनाश्विनाः प्रसाशन्नैरुन्यम् । पूष्णश्च पुष्टिं वाह्नोईस्तयोश्च क्रमेणावेधधे । । andomen (४) वस्तुतस्तु-सूत्रान्ते इति करणेन इति अनेन मन्त्रेण गृहातील्यन्वितोऽर्थस्तेन हस्तग्रहणे मन्त्रपूर्वकत्वाभिहिते भाष्यकृदुक्तार्थ आपाततः प्रतीयमानोऽपि यन्त्राथपर्या- लोचनया गृहीत्वा जपतीत्यर्थ एव सूत्रकारेणानुक्तोऽपि भवदेव-गुणविष्णु-वीरेश्वरा- दिभिरभ्युपगतः। चन्द्रकान्तस्तु-भत्र प्रमाणम्मृग्यमिति वदननेन समाहितावेदितव्यः । (५) अस्तमिति गृहनामसु (निर्घ०३।४।५) व्यते । ३० गो० गृ० सु उपनयनविधिः। [२ प्रपाठक । - रावकस्य नाम गृहीयात् । एवमग्रेऽपि (३२सू०) असावित्यत्र प्रथमान्तमिति विशेषः । मन्त्रीयथा-"प्राणानाप्रन्थिरसि मावित्रसोऽन्तक इदन्ते परिददा. भ्यमुम" इति ॥ २०॥ अस्यार्थः । हेनामे ! अन्य ब्रह्मचारिणस्त्वं 'मा विनसः (१) मा विस्त्रंसिष्यसि | स्व. स्थानान्न चलिष्यसि । यस्त्वं 'प्राणानां देहधारकवायूनां प्रन्थिः' प्रतिबन्धः । 'असि' भवसि । तथा हे 'अन्तक!' यम! 'इदम् अस्य ब्रह्मचारिणः शरीरम 'अमुम' ब्रह्मचारिणञ्च 'ते' तुभ्यं 'परिददामि' समर्पयामि । त्वयि समर्पित एष रोगजरामरणादिकन्नानुप्राप्नुयादिति ।। २० ।। २९ ।। उत्सृप्य नाभिदेश-"महुर" इति ॥ २६ ॥ ( म० ब्रा० श६०२१) उत्सृप्य-नाभेरूलङ्करन्नीत्वा नाभिदेश-तत्समीपदेशम्(२)। जठरमिति तदर्थः । मन्त्रलिङ्गात् । अहुरशब्दस्य जठराग्निवाचकत्वाम्नानात्तमभिमृशेदित्य- नुवर्तते । एवमग्रेऽपि । मन्त्रस्तु- "अहुर इदन्ते परिददाम्यमुम्" ॥ २१ ॥ इति । अस्यार्थः । हे 'अहुर' जठराग्ने ! इदमित्यादिपूर्ववत् । गुणविष्णुस्तु-अहुरिनाम वायुः । तस्यामन्त्रणे हे अहुरे। इत्येवं व्याख्यान(३) ॥ २१ ।। २७ ।। उत्सृप्य हृदयदेशं "कृशन" इति ॥ ३० ॥ (मं० ब्रा० श६२२) कृशनोहृच्छयः पुरुषः । तथाच श्रुतिः । “स चापर आस्मा हृदी-'ति । मन्त्रस्तु-"कृशन इदन्ते परिददाम्यमुम्" इति ॥ २२ ॥ अर्थः पूर्ववत् ॥३०॥ दक्षिणेन पाणिना दाक्षिणमसमन्वालभ्य "प्रजापतये त्वा परिददाम्यसावि"-ति ॥ ३१ ॥ मं० ब्रा० ११६२३) असाविति-सम्बोधनान्तनामग्रहणम् । एवमग्रेऽपि । मन्त्रार्थः स्पष्ट एव ३१ सव्येन सव्यं "देवाय त्वा सावित्रे परिदाम्यसावि-"ति ॥३२॥ (मं० बा० १२६२४) ! । -- (१)"वंसुअध: पतने" (म्बा००) धुतादिः । “माछि लुङ- ( पा० ३।३। १५) सर्वलकारापवादः । “शुझोलुङ" (पा० १।३ । ९३ ) इति परस्मपदे धुतादि. त्वात् (पा. ९५) च्लेरडि नलोपः (पा०६४१२४)। (३) सामीप्यलक्षणया "वटे गावः सुशेरत" इति वत्प्रयोगोऽयम् । तेन नाभ्युपरि. देश उको भवति मध्यमपदलोपिसमासात् । (३) अन्न पक्षेऽयादेशे यलोपः । (पा० ८।३.१९)।
- १. कण्डिका गोभिलगृह्यसूत्र- २३५ सव्यमित्यत्रांसमित्यनुषज्यते। स्पष्टमन्यत् ।। मन्त्रार्थोऽपि स्पष्ट एव ॥३२॥ अथैन सम्प्रेष्यति-"ब्रह्मचार्यस्यसावि-"ति ॥ ३३ ॥ ( मं० बा० २७२५) अथेति पूर्वप्रकृतार्थम् । अथ पूर्वकृतमंसयोर्गृहीतमेवैनं माणवकं सम्प्रेष्यति समादिशत्याचार्यः । कि ? "ब्रह्मचार्यस्यसावि"ति । अस्यार्थः हे असौ ! माणवक ! इतः प्रभृति त्वं 'ब्रह्मचारी' तन्नामानुरूपकर्मा(१) 'असि' भवसि । अवोब्रह्मचर्यनियमं मधुमासवर्जनादिकं त्वया आ ब्रह्मचर्यपरिसमाप्तेः पाल. नीयमिति ॥ ३३॥ अथापरमतिदिशति- समिधमाधेह्य-पोऽशान-कम्मकुरु-मा दिवा स्वाप्सीरिति ॥३४॥ (मं० ब्रा० ११६२६) यत्तु वक्ष्यति अस्तमिते समिधमादधातीति । तां समिधं सायं प्रातराधेहि। अमयेऽर्पय । यञ्च श्रुतावभिहितं "तस्माद्वा-एतदन्नमशिष्यन्पुरस्ताञ्चोपरिष्टा- वाद्भिः परिदधा(२)ति" इति । तदिदमादिशति "अपोऽशाने"ति । अप- उदकम् । अशान-भक्षय । मोजनात्पुरस्तादुपरिष्ठाञ्चेत्यर्थः । मन्त्री तु-शाखा- न्तरादुपादेयौ "अमृतोपस्तरणमसि स्वाहे"ति पुरस्तात् । “अमृताऽपिधान- मसि स्वाहे" त्युपरिष्टात् । अन्यच्च-यत्किञ्चिद्विदितं गुरुशुश्रूषादि कर्मत- तकुरु । इत्यपर आदेशः । दिवा-दिवसे । मा स्वाप्सीः । शयनम्मा कार्करिति। गुरुणा ह्येवमादिष्टो ब्रह्मचारी सर्वत्रैव “बाढमिति "ओमिति वा ब्रूयात् । एनञ्चादेशमनुपालयेदाब्रह्मचर्यम् । तदाहकर्मप्रदीप:- "ब्रह्मचारी समादिष्टोगुरुणा व्रतकर्मणि । बाढमोमिति वा ब्रूयात्तत्तथैवानुपालयेत् ॥” इति ।। ३४ ।। उदगग्नेरुत्सृप्य प्राङाचार्य उपविशत्युदगग्रेषु दर्भेषु ॥३५॥ उदक्-उत्तरस्यान्दिशि । प्राङ्-प्राङ्मुखः । एवमग्रेऽपि ।। ३५॥ प्रत्यङ् माणवकोदक्षिणजान्वक्तोऽभिमुख आचार्यमुदगग्रे- वेव दर्भेषु ॥ ३६॥ माणवकस्तु-दक्षिणजान्वक्त: । दक्षिणं जानु अक्त भूमिगतं यस्य स तथाभूतः । “अव्यक्तिम्रक्षणकान्तिगतिषु" (रु०प०) गत्यर्थत्वात्कत्त . (१) ब्रह्मवेदस्तध्ययनार्थं व्रतमपि लक्षणया ब्रह्मोच्यते । तच्चरत्यनुतिष्ठतीति ब्रह्मचारी । ताच्छील्याणे (पा०३।२।७८) णिनिप्रत्ययः । उपधावृद्धिः (पा०२।११६) सततकरण ताच्छोल्यम् । (२) परिधानमिहोपस्तरणमावरण मन्त्रलिङ्गादेव ।
उपमयविधिः ।२ प्रपाठक रिक्तः (पा ३।४।७२) भूगनदक्षिणजनुः । आचार्यऽभिमुखः । प्रत्यङ्मुखः । उदगपु दभपूपविशति । उद्ङ्-अग्नेस्नरत एव ।। ३६ ।। अर्थतं त्रिः प्रदक्षिणं मुञ्जमेखला परिहरन् वाचयती-“यं दुरु- त्परिबाधमाने-"नि । "ऋतस्य गोत्रीति च ॥३७॥ (मब्रा० श६।२७.२८) अथ-अनन्तरमेव । उपविष्टमेव । एनं-माणवकं परिहरन्-परिवेष्टयन कटिप्रदेश प्रादक्षिण्येन त्रिवेष्टयन(१)। परिवेष्टनावृत्तावपि मन्त्रवाचनं सकृदेव "एकद्रव्ये कावृत्तौ सकृन्मन्त्रवाचनमि"-त्युपनिषदर्शनात् । मन्त्रौ यथा- "इयन्दुरुक्तात्परिवाधमाना वर्ण पवित्रं पुनतीम आगात् । प्राणापानाभ्यां बलमाहरन्ती स्वसा देवी सुभगा मेखलेयम् ॥३॥ ऋतस्य गोत्री तपसः परस्वी नती रक्षः सहमाना अरातीः। सा मा समन्तमभिपयहि भद्रे ! धारस्ते मेखले मा रिषाम" ॥२८॥ इति । अनयोरर्थः-ब्रह्मचारी ब्रूते-'इयं' प्रत्यक्षा मेखला मौजी(२) 'न:' अस्मान् । 'आगान् आगता । किङ्कुर्वती ? 'दुरुक्तात्' असम्बद्धप्रलापादितः बाल्यकृतात् 'परि' सर्वतो 'बाधमाना निवारयन्ती । 'पवित्रम्' अपि 'वर्ण' ब्राह्मणादिकं 'पुनती द्विजस्वसम्पादनेन पावयन्ती। तथाच स्मृति:-"मातुर्य- दन जायन्ते द्वितीयं मौजिबन्धनात्" इति । पुनश्च प्राणापनाभ्यां' प्राणापा- (१) अत्र 'मेखलां बध्नीते" (पा० २।२।८।१०) इत्यादि परशाखीयगृह्यसूत्र. व्याख्यायां हरिहरमिश्राः । “ततोमेखलाम्मौज्यादिको वक्ष्यमाणलक्षणां बनीते (आ. चार्यः) कटिप्रदेशे त्रिवृतां प्रवरसंख्यापन्थियुतां प्रादक्षिण्येन परिवेष्टयति । इयमित्यादि. मन्त्रेण माणवकपठितेन । ( मन्त्रलिङ्गात् ) एवं गदाधरभाष्येऽपि-तत अचार्योमाणवक- कल्यां मेखला रसनां बनीते । अभ्रंवं बन्धनम् । अचायंत्रिगुणाम्मेखलामादाय माणव. कस्य वटो कटिप्रदेशे प्रादक्षिण्येन त्रिर्वेष्टयति । तृतीये वेष्टने ग्रन्थयस्त्रयः पञ्च तत वा का. यः । तदुकम्-"त्रिवृता मेखला कार्या त्रिवारं स्यात्समावृता । तद्ग्रन्थयस्त्रयः कार्याः पञ्च वा सस वा पुनः॥” इति । अत्र प्रवरसंख्यायां नियमः । व्यारेयस्य ग्रन्थित्रय, पञ्चा- यस्य पञ्च । ससाणे स्य सप्तेति गर्गपद्धतौ। वृद्धाचारीऽप्येवमेव । आचार्यकर्तृक मेखलाबन्धन, कुमारस्य मन्त्रपाठः इति वासुदेव-मुरारिमिश्र-जयराम-हरिहराः । इत्या. दि ॥ तदित्यं कटिशब्दस्य स्कन्धपरत्वं व्यवस्थापयन्तस्तदर्थ सुधा क्लिष्यन्तः प्रति. समाहिता वेदितव्याः। (२) उपलक्षणमेषा यथावर्ण मौव्यादेः । मेखलेति कटिप्रदेशस्थाया रसनाया नाम तथाच हैमा "मेखलादिनितम्बे स्याद्शनाखड्गबन्धयोरिणति । "स्त्री कन्यां मेखला काम्बोगस्यमस्श्च । स्त्री-स्त्रीलिङ्गाभिधायि । तथाच कटिबन्धन मेखलेति सर्वसम्मतम्॥तत्र तत्र ससकीति समाख्यया सप्तहस्ता सा भवति माणवकहस्तेनेति बोध्यम् । तथाच स्मर. स्यपि-मेखला सक्षहस्ता स्यात् इति । । ।
8 १० काण्डका ) २३७ गोभिलगृह्यसूत्रे- यो:(१) । 'बलम्' वीर्यम् ‘ाहरन्ती' आनयन्ती। ( आहृत्य स्थापयन्ती) स्वसा' स्वसृवद्धिता(२)। 'देवी' दीप्तिमती । अत एव 'सुभगा' सौभाग्यप्रदा। सर्वलोककाम्येति गुणविष्णुः ।। २७ ।। 'भद्रे !' शोभने ! 'मेखले !' या त्वं ब्रह्मचारिसम्बन्धिन: 'ऋतस्य' सत्यस्य यज्ञस्य(३) वा 'गोत्री' पालयित्री 'तपसः' ब्रह्मचर्यस्य 'परस्वी' सर्व- स्वभूता(४) 'रक्ष.' रक्षांसि । जातावेकवचनम् । 'नती' विनाशयन्ती । अराती:(५)शत्रून् । 'सहमानाः' (६)अभिभवन्ती । सा एवम्भूतात्वं 'मा' मां 'समन्तम्' समन्तात्(७) (सर्वतः ) 'अभिपयेहि' आभिमुख्येनागच्छ(८)। वेष्टयेत्यर्थः। यथा 'ते' तव 'धर्तारः' कटौ धारयितारोवयम् केनचित् मा रिषाम' (९)मा हिसिष्महि । (हिंसिता मा भवेम ) इति ।। २८ ।। अथ कौपीनपरिधानं तज्ञोपवीतधारणश्च । तत्र प्रथममाचम्य-ब्राह्मणेभ्यः सपूगयज्ञोपवीतभाण्डाष्टतयदानमाजानिकाचारात् अत्र मानमुपनिषत्सु "अष्टौ ब्राह्मणान्प्राहयित्वा विद्या सिद्धिर्भवती" त्यसकृदाम्नायते । तदेतदत्रापि ब्राह्म- णेभ्यः पूर्वम्प्रदाय विद्यासिद्धयै यज्ञोपवीतधारणमिति मम प्रतिभाति । एतच्च यज्ञोपवीतधारण सूत्रानुक्तकालमपि(१०) इदानीमेव । अन्यत्र तथादर्शनात् । तथाच मेखलाबन्धनानन्तरं जातकर्ण:--"पवित्रचास्मै प्रयच्छति । (१) षष्ट्यर्थ चतुर्थी (पा० २।३।६२)। (२) पराथें प्रयुज्यमानाः शब्दाः साश्यङ्गमयन्तीति गुणविष्णुः । (३) तथाच निरुक्तम् "ऋतमिति सत्यं वा यजं वेति (४।१९)। (४)"गौरादित्वान्" (पा० ४१२४१) डोष !! (१) तथाच श्रुति: “या नोदूरे तडितो या अरातयोऽभिसन्ति जम्भया ता अन- नस" (३० सं० २।६।३०) इति । अत्रारातयः शानवीः सेना इति दुर्गाचार्याः । कोशे तु पुल्लिङ्गोऽपि "रिपो वैरिसपत्नारि......अभिवातिपरारातिप्रत्यर्थिपरिपन्थिन" इत्यमरः। (६) "षहमर्षणे" (भ्वा० आ०) लटः शानच् । मर्षणं क्षमा अभिभवाचेति (सि. कौ०) दीक्षितचरणाः प्राहुः । (७) सोऽत्राऽमादेशः । (पा०३।१४८५ ) व्यत्ययेन ॥ (८) परिरनर्थकः । कुतः पर्यगच्छतीत्यत्र यथा। तथाच पाणिनिः स्मर्रात "अधि. परी अनर्थको-(श९३) इति । (९) कम्मॅणि लुङ् मायोगे अड़भावश्च (पा०६४१७४ ) इति । (१०) यज्ञोपवीतधारणन्तूपक्रम एवं सुत्रकारेणोक्तम् "यज्ञोपवीतिनाऽऽचान्तोदकेन च कूत्यम्" (१२२२) इति । कालस्तु नोक्त इस्यन्यत्रोक्तोऽत्रोद्धियते । जासूर्णकवच. नम् । मनुरपि मेखलानन्तरं "कार्पासमुपवीतं स्याद्विपस्योर्ववृतन्त्रिविदि त्याह । याज्ञवल्क्योsपि "दण्डालिनोपवीतानि मेखलाम्चैव धारयेदि-ति ब्रह्मचारिकतव्यतया स्मरति॥
उपनयनविधिः। [२ प्रपाठक sumes "यज्ञोपवीतम्परमं पवित्रमिति" इति । अपि च-"सदा मन्त्रवदाधार्यमुपवीत- द्विजातिभिरि" ति देवलवान्याद्विजत्वसम्पत्त्यनन्तरमेवोपवीतधारमायाति अत्राङ्मर्यादार्थः । मर्यादयेति तदर्थः । मयोदा तूक्ता प्राक् (२।१।१-३) द्विज. बच मेखलाबन्धनादनन्तरमेव । तथाच याज्ञवल्क्य:- "मातुर्यदये जायन्ते द्वितीयं मौखिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजातयः ॥" इति । अत्रोक्तदेवलबचने मनौ च- "मेखलामजिनन्दण्डमुपवीतङ्कमण्डलुम् । अन्तु प्रास्य विनष्टानि गृहीतान्यानि मन्त्रवत् ॥" इत्येवं समन्त्रकत्वन्तद्ग्रहणे स्मर्यते । तदत्रानुपदेशा(१)च्छाखान्तरोक्त- मन्त्रमुपादद्यात् । यथा- "यज्ञोपवीतमसि यज्ञस्य त्वोपवीतेनोपनद्यामीति ! अस्यार्थः । हे उपवीत त्वं 'यज्ञोपवीतम् तन्नाम असि' भवसि । अतः 'वा' त्वाम् 'यज्ञस्य' यज्ञसम्बन्धिना। तृतीयाथै षष्ठी (पा० ३।११८५) 'उपवीतेन' ब्रह्म(२)सूत्रण 'उपनद्यामि' परिदधामि। यज्ञोपवीतलक्षणमुक्तमधस्तात् । (१२२।१-३) अधोक्तम् (२।१०।९) अजिनमपोदानीमेव । “मित्रस्य चक्षुरिति तैत्ति- रीयशाखीयमन्त्रेण परिधापयेत् । तदेतत्सर्वम् “यन्नान्नातं स्वशाखायामि" ति कातीयपरिभाषणाबोध्यम् । तथाचाश्वलायनः "यज्ञोपवीतमजिनचे"ति । एवञ्च द्रव्यकथनसूत्रक्रमेण नैतद्धारणम् । तत्र क्रमेऽपि तात्पर्यकल्पने दण्डे. ऽपि तदापत्तरित्याश्वलायनोक्तक्रम एवग्राह्यः। पद्धतिरप्येवम् । अजिनधारणे मन्त्रस्तैत्तिरीयशाखायामुक्त उपादीयते पद्धतिकृद्भिर्महामहत्तकबीरेश्वरैर्यथा- "ॐ मित्रस्यचक्षुर्द्धरणं बलीयस्तेजो यशस्वि स्थविर समिद्धम् । अनाहनस्यं वसनजरिष्णुपरीदं वाज्यजिनन्दधेऽहम् ॥१॥" अस्यार्थः-'अहमिदमजिन' मृगचर्म परिधे' सर्वतोधारयामि(उत्तरीय तम्) कथम्भूतम् ? 'मित्रस्य'-मित्राख्यदेवस्य 'चक्षुन्नत्ररूपम् । पुनःकथम्भूतम् ? 'त रुणम्' धारणाहम् । पुनः कथम्भूतम्? 'बलीयः'अतिशयेन बलवत् शीतनिवृत्ति. कारणम् । पुनःकथम्भूतम्? 'तेजः' । पापतनूकरणसमर्थम् । “तिजनिशाने"(भ्वा० १०) औणादिकोऽसुन्। पुनः कथम्भूतम ? 'यशस्वि'धारणेन यशोदानयोग्यम् । - (१) शाखापदेनात्र साम्न एव बोध्यम् याजुषाम्मन्त्रान्तराम्नानात् । (२) तथाचाग्नेयकोशः "उपवीतं ब्रह्मसूत्रं प्रोदते दक्षिणे करे” इति । उपवीते- नेति प्रकारित्वन्तृतीयार्थः । प्रकारस्तु सूत्रकृता (२०१२) उक्त एव । यथा चाभिधानेऽपि "प्रोदधृते दक्षिणे करे इति । तथाच भहरिः । “प्रकृत्यादि (पा० २१८) गणा. जाता साया तु तदात्मत्ताम् । अवच्छेदकताबुद्धिप्रकारत्वादि शंसतीगति।
१. कण्डिका ] गोभिलगृह्यसूत्रे- SUMIO पुनः कथं भूतं 'स्थविरम्। जीर्ण बहुदिनधारणयोग्यम् । पुनः कथम्भूतं 'समि- द्धम्' अत्यन्तदीप्तिकारकम् । पुन. क०? 'अनाह नस्यम्'छेदान्यभोगक्षालनरहितमा पुन. क०? 'वसनम् आच्छादनयोग्यं 'जरिष्णु कालान्तरेण वार्धक्यधर्मविशिष्टमा 'वाजि' उद्वेजनम भयदातृपरेषामित्यर्थः । वाजीशब्दः पृषोदरादित्वात्सिद्धः । अत्र'ओविजीभयचलनयोरि"ति धातुः । (मन्त्रप्रश्नाख्यपरिशिष्टमन्त्रविभाग. स्यरामाण्डारभाष्ये समासादितेयं व्याख्या) ॥३७॥ अथोपसीदत्य-"धीहि भोः सावित्री मां भवाननु ब्रवीत्वि" ति ॥ ३८ ॥ अथेति पूर्वोक्तविशिष्टानन्तर्यद्योतनार्थः । अथ यज्ञोपवीतधारणानन्तरं माणवक आचार्यमुपसीदति । कृताञ्जलिपुटआचार्यगत चक्षुरुपसन्नो(१)भव- ति"अधीहि"इत्यनेन । अधीहि अध्यापय(२) अन्तर्भावितण्यर्थः। भोः! इत्या. चार्यस्यसम्बोधनम् । अध्यापनस्यानेकविधत्वाद्विशेषप्रतिपत्तये पुनः स्पष्टमु- च्यते-सावित्री-सवित्तृदेवताकाङ्गायत्रीम् ॥ ३८ ॥ माणवकेनैवमभिहितः आचार्य:- तस्मा अन्वाह-पच्छोऽर्द्धचशऋक्छ इति ॥ ३६ !! तस्मै-माणवकाय अन्वाह-अनुक्रमेण ब्रूयात् । प्रकारमाह-पच्छ इति । अत्र द्वितीयैकवचनान्तात्पादशब्दाद्वीप्सायां (पा० ५।२।५) शस्प्रत्यय "ऋचः शे" (पा०६।३। ५५) इति पादशब्दस्य पद्भावः । प्रथमं पादं, ततो. ऽर्द्धर्चशः । ऋचोऽर्द्धमर्द्धकृत्वा । (प्रथमं पादद्वयं, तत एकम्पादम् ) तत ऋक्छः । समस्तामृचं गायत्रीमित्यर्थः । ( मं० बा० श६।२९ ) अर्द्धचंश इति कृतसमांसाच्छ :(३) । अत्र पारस्करः-"अथास्मै सावित्रीमन्वा. होचरतोऽग्ने: प्रत्यङ्मुखायोपविष्टायोपसन्नाय समीक्षमाणाय समीक्षिताय, दक्षिणतस्तिष्ठत आसीनाये(४)त्येके, पच्छोऽर्द्धर्चशः । कृत्स्नाञ्च तृतीयेनसहानु- वर्तयन्" । इति । सावित्रीन्तत्सवितुरिति त्यृचम । उपसन्नाय कृतपादोपसङ्- ms- (२) अनोपसत्तिामपादोपसङ्ग्रहणम् । उपसन्न इति कर्तृतान्तम् । सीदतेगंत्य. र्थत्वात् "गत्याकमके (पा० ३।४।७२ ) त्यादिना क्तः। (२) वस्तुतस्त्वध्यापनं वेदस्य पुरःस्वयमधीत्य पश्चादन्तेवासिना सह पठनं वदि. कसमयप्रसिद्धमिात पुरोऽध्ययन प्रार्थ्यतेऽधीहिभो इति । (३) ऋचोर्द्धमर्द्धचमिति षष्ठीसमासः (पा० २।२।२ ) अत्रार्द्धसब्दस्य समांशवा. चित्वामावेऽपि आर्ष एवं समासः। ततश्चाप्रत्ययः । ( पा० १।४।७४) समासान्तः । (४) बैंके इति पाठः साधायान् । दक्षिणतो-दक्षिणस्यां दिशि तिष्ठते ऊध्र्वभुताय । आसीनायोपविष्टाय । अत्रैकशब्दः प्रधानार्थः । उत्तरतस्तिष्ठतोदक्षिणकर्णे गायत्र्युपदेशो दृक्षिणाभिमुखतामन्तराऽसम्भवी वेदाभ्यासश्च दत्रिणमुखस्यामङ्गलतयापि निषिद्धइति ।
उपनयनविधिः। [२ प्रपाके-- । प्रहहाय ! सहानुवर्तयन् । तृतीयवारे माणवकेन सह पठन् । एतच्च शक्त्यपे. च्याभिधानम् । यदि माणवकोमन्दमेधत्वाय(१)थावदध्येतुन्न शक्नुयाचदा यथाशक्त्यस्याध्यापयेत् । तथाचाश्वलायनगृह्यम् "सावित्रीमन्वाह पच्छो. ईर्चशः सर्वयथाशक्ति वाचयीते"ति । अतिशब्दः क्रमप्रकार- ज्ञापनार्थः ।। ३९ ॥ महाव्याहृतीश्च विहृता ॐकारान्ताः॥४०॥ [म० बा० १।६।३०] विहताः । विकृष्य हृताः पृथककृताः । विहिता इतिपाठे प्रयुक्ता इत्यर्थः । विहता इति पाठे पृथग्भूता न संहता इति यावत् । केचिद्विकृता इति पटन्ति । तत्रापि पृथग्भाव एवविकार इति तुल्योऽर्थः । ओंकारान्ताः । ओंकारः अन्ते यासान्ताः । तेन विहतानामेवोंकारान्तत्वम् । एवञ्च भूरों भुवरों स्वरों। इति प्रयोगः सिध्यति । इति नारायण-मुरारिमिश्रादयः । भवदेवभट्टस्तु ॐभूरित्ये- वम्प्रायुक्त । तस्य मतेऽन्तशब्द आद्यर्थः । "पर्युक्षणान्तान्व्यतिहरन्" २३५ इत्यत्रय यथा । बीरेश्वरस्तु तदुभयमनुसरन्ॐभूरों, ॐभुवरों, ॐस्वरों, इत्येवं स्वपद्धतौ प्रायुक्त । तत्र मन्त्रादौ प्रणवदानं सम्प्रदायसिद्धमन्ते च सूत्र(२)वि. हितमिति बोध्यम् ॥४०॥ वासंञ्चास्मै दण्डम्प्रयच्छन्वाचयति "सुश्रवः सुश्चवसम्मा कुर्वि"-ति ॥ ४१ ॥ (मं० बा० श६।३१) वृक्षस्येदं वाक्षम्। प्राप्तदण्डानुवादेन प्रदानमात्रविधानात्पार्णा(३)दिरूपमित्यर्थः। अत्र चन्द्रकान्तः । वाक्षश्चेतिचशब्दादजिनमपीदानीमेवप्रयच्छतीतिव्याचक्षा- (१) सकृन्मात्रोपदेशेन । (२) यत्तु-"ब्रह्मणः प्रणवढयांदादावन्ते च सर्वदा । क्षरत्यनोकृतम्पूर्वम्परस्ताच्च विशोर्यते इति मनुववनन्तद्वेदपारायणविषयन्न तु महाव्याहृतेः साधिळ्या वा प्रदान. विषयम् । जपविषये तु गायत्र्या एव योगियाज्ञवल्क्येनाद्यन्तयोः प्रणवयोग उक्तः ॐ कारः पूर्वमुच्चार्योभुर्भुवः स्वस्ततः परम् । गायत्री प्रणवश्वान्ते जप्येद्येवमुदाहृतम्॥ इति। एतेन "एतदक्षरमेताञ्चजपेद्वयाहृतिपूर्विकाम् । सन्ध्ययोवेंदविद्विप्रोवेदपुण्येन युज्यते ॥" इति मनुवचने जपपदं पाठपरम् । वेदपुण्येन युज्यत इतिफलाभिधानात् । वेदपदमत्र. वेदपारायणपरम् । “जपव्यक्तायां वाची" (भ्या० प०) ति स्मरणात् पूर्वत्र तु "जप- मानसे चे--(भ्वा०प० ति विशेषः। एतदक्षरम्प्रणवरूपम् "अकारचाप्युकारच मकारक्ष प्रजापतिः । वेदत्रयाविरदुहद्भूर्भुवःस्वरितीति चेति तदुक्तः । एतां गायत्रीम् । व्याहृतिपूर्विका भूव्मुंवास्वर्शितत्येतत्पूविकाम् । (३) पर्णः पलाशः तस्यायं पाणः । "पलाशः किंशुकः पर्णावातपोतः” इत्यमरः । आदिनाप्यथासूत्रितम् (१।१०।११) । - dowLS १० कण्डिका ] गोभिलगृह्यसूत्रे- गोदण्डधारणाचरमजिनधारणमभिप्रैति तदाचारविरुद्धम् । मनुनाऽपि"मेखला- मजिनन्दण्डम्" इति क्रमएवाभ्यधायि । एवमाश्वलायनेनापि मेखलामुपक्रम्य "यज्ञोपपोतमजिनं चे"त्युक्तमित्युक्तमनुपदम् । तमिमन्दण्डमस्मै ब्राह्मचारिणे । प्रयच्छन्-ददत् "सुश्रवः” इत्यादिमन्त्रं वाचयति ब्रह्मचारिणमेव मन्त्रोयथा- "सुश्रवः सुश्रवसं मा कुरु । यथा त्वमग्ने सुश्रवःसुश्रवा देवे-- ब्वेवमहं सुश्रवः सुभ्रवा ब्राह्मणेषु भूयासम्" ॥ ३१ ॥ इति । अस्यार्थः--दण्डं गृह्णन्ब्रह्मचारी तमग्निश्चप्रार्थयते-हे सुश्रवः ? शोभनं श्रवोयशःप्रशंसा(१)यस्य ससुश्रवात्सत्संबोधने । हे शोभनकीर्ते दण्ड! यथात्वं वेदधारणार्थज्ञानादिना(२) लोके प्रख्यातयशाः । एवं 'मा'माम् अपि 'सुश्रवसं' सुयशसं 'कुरु' । एवन्दण्डं प्रार्थ्याग्निमपि प्रार्थयते-हे अग्ने ! 'सुश्रवः शोभन. की !' 'यथात्वं' 'देवेषु' देवमध्ये 'सुश्रवाः' शे:भनयशाः' [सुयशाः ] असि। 'एवमहम्' अपि 'हेसुश्रवः(३)! शोभनकीर्ते। 'ब्राह्मणेषु' मनुष्येषु(४) सुश्रवाः' सुयशाः 'भूयासम्' भवेम । प्रशंसायामाशिषि लिङ् ।। ३१ ॥ इति ॥ ४१ ।। अथ भैक्षञ्चरति ॥४२॥ अथ शब्दोऽयं विशिष्टमानन्तर्य द्योतयति-यदण्डमजिनच्च प्रतिगृह्या. देशञ्च गुरोरङ्गीकृत्य भास्करमुपस्थायाग्निं प्रदक्षिणीकृत्य अथ-अनन्तरं भै भिक्षासमूहम् । “भिक्षादिभ्योऽण" (पा० ४।२।३८) इति सामूहिकोऽणादि- वृद्धिः । “भैक्षं भिक्षाकदम्बकम्" इत्यमरः । चरति-चरेत-आहरेदित्यर्थः । तथाच मनु:- "प्रतिगृह्येप्सितन्दण्डमुपस्थाय च मास्करम् । प्रदक्षिणं परीत्याग्निश्चरेबॅक्ष यथाविधि ॥" इति । उपस्थाय-अभिमुखमवस्थाय ॥ ४२ ॥ तरमेवाने, द्वे चान्ये मुहृदौ, यावत्योवा सन्निहिताः स्युः ॥४३॥ मातरम्-स्वजननीमेवाप्रे-प्रथम, "प्रार्थयेदि"ति शेषः । सुहृदौ-स्निग्धह- दये । यावत्योवा योषितः । सन्निहिताः । सन्निधौ स्थिताः । स्यु-भवेयुः । नचैनं (१) शृणोतेः कर्मण्यसुन् ( उ०४।८८) श्रूयेमहीति श्रवः । यशः प्रशंसा वा । "श्रवश्वाच्छा पशुमञ्च यूथम् ॥ ( ऋ० सं० ३।१२५) इति । "प्रशंसाश्च यूपञ्चेति (४॥२४) निरुकम् । (२) दण्डस्यार्थज्ञानहेतुता व्रतसम्पादनद्वारा सौकोतिशयं द्योतयितुं श्रुत्याभिहिता। (३) पुनरामन्त्रणेन दण्डादग्नेः सुश्रवस्त्वातिशयाख्याप्यते। ४) अन विशेषाभिधायिनोऽपि सामान्यपरत्वं गुणविष्ण्वादिभिरुतम् । ३२ गो० गृलसू० २४२ उपनयनविधिः । [ ३ प्रपाठक- । O । WORDS विमानयेयुस्तावतीवी प्रार्थयेन् । तथाच मनु:- "मातरं वा स्वसारं वा मातुर्वा भगिनी निजाम् । भिक्षेत मिना प्रथम याचैनं न विमानयेत् ॥ इति । भविष्यपुराणे चक्तिमनुवचनान्ते-"सुवर्ण रजतं रत्नं सा पात्रेऽस्य विनिःनिपेन्” इति पठ्यने । सा-भिक्षादात्री मात्रादिः । निजां-सोदाम । प्रथम-मुपनयनकालिक(१)भिक्षायाम् ॥ सन्निहिता इत्युक्तया तत्रस्था एव भिक्षेत् न पुनः स्थानान्तरं गत्वेति बोद्धव्यम् । तत्प्रकारमाह-मनु:- "भवत्पूर्वञ्चरेडैतमुपनीताद्विजोत्तमः। भवन्मध्यन्तु राजन्योवैश्यस्तु भवदुत्तरम् ॥" इति । एवञ्च "भवति ! मिक्षान्देही"-ति वाक्येन ब्राह्मणेन, "भिक्षा भवति ! देही-"ति क्षत्रियेण । "मिक्षां देहि भवती"-ति वैश्येन भिक्षाचरण. कर्त्तव्यमित्यायाति । हारीत:- "सप्ताक्षराश्चरेशिक्षा क्षाञ्च हिश्च न वर्जयेदि"-ति । ज्ञाश्च हिश्चेत्यनेन भिक्षान्देहीति पदयोःप्रयोगोऽप्यावश्यक एवेति कल्प. तरुः । गौतमः-"आदिमध्यान्तेषु भवच्छब्दः प्रयोज्योवर्णाऽनुपूयेणे"-ति । यमः- "हस्तदत्ता च या भिक्षा सलितं व्यसनानि च । भोक्ता त्वशुचितां याति दाता स्वर्गन्न गच्छति ।।" इति ॥ ४३ ॥ आचार्याय भेक्षं निवेदयति ॥४४॥ आचार्यायोपनेत्रे । भैक्ष-लब्धभिक्षानिचयम् । “भिक्षादिभ्योऽण" (पा०४। २॥३८) इति सामूहिकेऽणि आदिवृद्धिः । "भैक्षं भिक्षाकदम्बकमि"त्यमरः । (१)शौनकः । "अप्रत्याख्यायिनमग्रेभिक्षेत् । अप्रत्यख्यायिनी वा" इति । मनुः "गुरोःकुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्वपूर्व विवजयेत् ॥" इति । पारस्करः "तिस्रोऽप्रत्याख्यायिन्यः । षड्द्वादशाऽपरिमिता वेति । "याच. नीया इतिशेषः । यद्वा प्रथमा द्वितीयाथें । भिक्षतेति क्रियापद पूर्वसूत्रादनुषज्यते । न प्रत्याख्यातुंशीलं यासान्ता अप्रत्याख्यायिन्यः । तास्तिस्त्रः षड् वा द्वादश वा अपरिमिता असंख्या वा स्त्रियोभिक्षतेत्यर्थः । एते भिक्षाविकल्या आहारपर्याप्त्यपेक्षयेति हरिहरादयः। तथाच याज्ञवल्क्य:- "ब्राह्मणेषु चरेद्वेक्षमनिन्द्येष्वात्मवृत्तये । इति । प्रात्मनः शरीरस्य वृत्तय जीवनोपयोगासैव भिक्षेत नाधिकमिति तदर्थः । ब्राह्मणेषु चरेदिति च ब्राह्मणविषय एव । अत एव व्यास:-"ब्राह्मणक्षत्रियविशश्वरेयुभैं. क्षमन्वहम् । सजातायगृहध्वव, सावर्णिकमेव वेति । तदेतत्सर्वन्दिनान्तरसाधारण मिति द्रष्टव्यम् ॥ - -- । - MER १० कण्डिका Hama BAND गोभिलगृह्यसूत्रे- निवेदयति । निवेदये-दर्पयेत् । निवेदनप्रकारश्च "भेक्षम्भाः” इत्याचार्याय निवेद्य तदत्तं प्रतिगृह्णीयात् इति ! आचार्येण तदानञ्च "भुवे"त्यनुज्ञान- रूपम् । अत्राचार्यः प्रथमां भिक्षां गृहीत्वा द्वितीयादिकां "भुवै"त्यभिधाय ब्रह्मचारिण एव दद्यात् । स च तामादाय धारयेत्(१)॥४४॥ स्वयच नदिने- तिष्ठत्यहः शेषं वाग्यतः॥ ४५ ॥ अहश्शेषमासायम्मौनी तिष्ठेदित्यर्थः । वक्ष्यमाणकर्मार्थमेतत् । तेनान्य. दिने-मनु:- "समाहृत्य तु तद्वैतं यावदर्थममायया। निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः॥" इति ।। यावदिति । यावद(२)र्थजातमुपात्तन्तदनपह्नवेन । एवञ्चाचार्या- यादृष्टार्थमिदन्निवेदन(३)मात्रन्न तु दानमेवेति द्रष्टव्यम् ॥ ४५ ॥ अस्तमिते समिधमादधाति “अग्नये समिधमाहार्षम्" इति ॥ ४६॥ (मं० ब्रा० श६३२) अस्तमिते-अस्तगते सवितरि । "अग्नये समिधमि"-ति मन्त्रेण समिध. मुक्तलक्षणम् (श१७) आदधाति-आदध्यादग्नौ प्रक्षिपेत् । मन्त्रोयथा- "अग्नये समिधमाहार्ष बृहते जातवेदसे । यथात्वमग्ने! समिधा समिध्य- स्येवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन धनेनान्नाद्येन समे- धिषीय स्वाहा"।। ३२॥ इति ॥ अस्यार्थः-ब्रह्मचारीब्रूते अहम् 'अग्नये' 'समिधम्' उक्तलक्षणम् । (१) आचार्यश्च कम्मशेष समापयेत् । अत्र सन्द्रकान्तभाष्ये हेतुरुकः । “परतोब. ह्मचारिण एवं कर्मोपदेशादिदानीमाचायेकम्मणोऽवसानावगतेरिति। अतः परजाप्रिम- सूत्रमवतारयस्तौवाह-अवसितमुपनयनकम, प्रासङ्गिकमिदानों ब्रह्मचारिणः कर्तव्य. मनुवर्तामहे-स खल्वयं ब्रह्मचारी-प्रत्यादि । (२) अर्थजात इति पूर्वव्याख्यातृभिरुक्तन्तदू "जातिर्जातञ्च सामान्यमि त्यभिधा- नविरुद्ध प्रतिभाति । अर्थशब्दोऽत्र वस्तुवचनः “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" इत्यमरात् । "यावदवधारणे" (पा० २।११८) इत्यव्ययीभावः समास इति च पूर्णेा- ख्यातं, वस्तुतस्तु प्रयोजनवचनत्वेऽपि न क्षतिः । यावता गुरोः प्रयोजनन्तावसमौ निवे. दनीयमकपटवृत्त्या । अवशिष्टञ्च “भुइक्ष्वे-ति तेनाभ्यनुज्ञातं स्वयम्भक्षयेद्यथालव्धमिति तदर्थः । अत्र नाव्ययीभावः किन्तु तृतीयासमासः । अत्र "यावदनममाययेति पाठ: कुल्लूकेन वृतः। व्याख्यातश्च तद्भक्ष्य बहुभ्य आहृत्य यावदन्नं तृप्तिमात्रोचितं गुरवे निवेद्य-निवेदनकृत्वा अमायया न कदन्नेन सदन्दं प्रच्छायेवमेतद्गुरुग्रहोष्यतीत्यादि. मायाव्यतिरेकेण तदनुज्ञात आचमनं कृत्वा शुचिः सन्भुजीत प्रामुख इति ॥ (३) निवेदनफलन्तु हितमितपथ्यालोचनं, येनास्य ब्रह्मचर्यन्न स्खले दिति ॥ Hamsten - उपनयनावधिः । २ प्रपाठके- । 'आहापमा आइतवान् । किभूताय ? 'बृहते' महते ( निघ० ३।३।४) 'जात- वेदसे' जातप्रज्ञानाय-जातधनाय(१) वा । इति परोक्षमुक्त्वा प्रत्यक्षमाह-हे 'अग्ने ! 'यथा त्वम्' अनया मदाहृतया समिधा 'समिध्यसि (6) दीप्यसे। 'ए. वमहम्' 'आयुषा' जीवितकालेन(३) । 'मेधया' धारणावत्या बुध्या 'वर्चसा' तेजसा(४) 'प्रजया' पुत्रपौत्रादिरूपया सन्तत्या(५) । 'पशुभिः' गवादिभिः 'ब्रह्मवर्चसेन' ब्राह्मणतेजसा(६) 'धनेन' ब्रीहियवादिना ‘समेधिषीय' वृद्धि- माप्नुयाम् इति ।। ३२॥ अत्र मनु:-- "अग्न्याधानं भैक्षचर्यामधः शव्यां गुरोहितम् । आसमावर्तनात्कुर्यात्कृतोपनयनोद्विजः ॥" इति । तथा चात्रास्तमिते अस्तमिते इति वीप्सया विरोधः परिहर्तव्यः । हारीतोऽपि-- "पुरा जग्राह वै मृत्युहिसन्वै ब्रह्मचारिणम् । अग्निस्तम्मोचयामास तस्मात्परिचरेत्सदा ॥ ब्रह्मचारी यदा त्वमानादध्यात्समिधन्नहि । गृह्णीयात्तन्तदा मृत्युरादध्यात्समिधन्ततः ॥" इति । अयमपि चोपरिष्टावक्ष्यति-"मेखलाधारणं भैक्षचर्या दण्डसमिदाधा- नोपस्पर्शन-प्रातरभिवादा इत्येते नित्यवदों" इति । य"वस्तमित" इत्यभि- धानात्प्रातः समिदाधान न कर्त्तव्यमिति केचित्तन्न "सायमादिप्रातरन्तमेकङ्कर्म प्रचक्षते" इति कर्मप्रदीपात् । सायमारब्धस्य प्रातरेवापवर्ग इत्यर्थादुक्तमिति लाघवाथै कण्ठरवेण नोक्तं सूत्रकृता । न तु कर्त्तव्यताविरहादेवेति बोध्यम् । तथाच मनु:-- "दूरादाहृत्य समिधः सन्निध्याद्विहायसि । सायं प्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः ।।" इति । अत्र दुरादपीत्यप्यथोऽनुप्रवेश्यः । अतिश्च "ततः सायं प्रातः समि- धमादध्यादि"-ति । अत्रेयमेवैषां ( सामगानां ) प्रधानाहुतिरित्यस्याः पुरस्ता- (१) वेद इति वेत्तानार्थात् (अ०प०) धन(लाभार्थाद्वा (निघं० ३१३१४) भावेऽसुनि (उ० ४।८८ ) ततश्च जातं वेदोयेनेति बहुव्रीहिः ॥ (२) "जिहन्धीदीतो(रु० मा०) कर्मणि लट् । व्यत्ययेन (पा०३।२८५) परस्मैपदम् ॥ यकि (पा० ३।११६७ ) "अनिदितामि" (पा० ६।४।२४)ति नलोपः ॥ (३) "आयुर्जीवितकालोनेशत्यमरः ।। (४) "तेजः पुरीषयोर्वचः" इत्यमरः । (१)"प्रजा स्यात्सन्ततौ जने" इत्यमरः ॥ (६) ब्रह्मणोवर्च इति षष्ठीसमासे "ब्रह्महस्तियां वर्चस" (पा० ११७८) इति समासान्तः। । ।
१० कण्डिका ] गोभिलगृह्मसूत्रे- २४५ Ram चोपरिष्टाधनार्थ समिद्भवतोति कात्यायनःस्मरति- "समिदादिषु होमेषु मन्त्रदैवतवजिता। पुरस्ताच्चोपरिष्टाञ्च इन्धनार्थ समिद्भवेत् ॥" इति । क्षिप्रहामोऽयमिति न न्यञ्चकरणादाति भाष्यकृतोनारायणभट्टाः प्राहुः ।। इञ्च समिदाधानं सन्ध्ययोः सन्ध्योपासनानन्तरमेव । तथाच का. त्यायन: HABAR SAMBAN romance "ततः परं प्रवक्ष्यामि सन्ध्योपासनिक विधम् । अनर्हः कर्मणां विप्रः सन्ध्याहीनोयतः स्मृतः॥" इति । विप्र इति कर्तृमात्रोपलक्षणम् ।। दक्षः- "सन्ध्याहीनोऽशुचिन्नित्यमनईः सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥ इति । तदनन्तरं सन्ध्ययोरग्निमभिवाद्य गुरुमप्यभिवादयेत् । तथा च गृह्यान्तरम्-"उभयत्राग्नि समिध्य गोत्रनामनी प्रोच्याभिवाद्याचार्यमभिवाद- येदि ति॥ ४६॥ अथेदानी ब्रह्मचारिण भोजनकालः । "कृताग्निकार्यों भुजीत वाग्यतोगुर्वनुज्ञया ।" इति स्मरणात् । स खल्वयं ब्रह्मचारी--उपनयनकर्मण ऊर्ध्वम्- त्रिरात्रमक्षारलवणाशी भवति ॥४७॥ उपनीतश्चाहोरात्रत्रयमक्षारलवणं भुजीतेत्यर्थः । अक्षारलवणं यथाप- रिभाषितमुक्तमधस्तात ( २।३।१५)॥४७॥ तस्यान्ते सावित्रश्चरुः ॥४८॥ तस्य-व्रतस्य । न पुनरुपनयनकर्मणः न वा सन्निधानात् त्रिरात्रस्य । “अ- व्यक्तं प्रधानगामी"ति न्यायात् । अन्यथा-अस्यान्त इति ब्रुयात् । तथा च गृह्यान्तरम्-- "व्रतान्ते सावित्रश्चरुगोंदानादीन्यनुप्रवचनीयानि व्रतान्येन्द्रस्थालीपाका- न्तानि भवन्ती"-ति । सविता देवताऽस्येति सावित्रः । (२)तेन "सवित्रे त्वा जुलं निर्वपामि" इति निर्वापः । “सवित्रे स्वाहेति प्रधानहोमः ॥४८॥ (१) अन बीरपद्धतौ आचार्याय औक्षसमर्पणानन्तरम्-“अथ समिदाधानं यदि तस्मिन्नेव क्षणे क्रियते तदा तत्रैवासावाचारात्कर्त्तव्यम् । अथ सन्ध्यामुपास्यास्तकते सवितरि यदा क्रियते तदा कुशण्डिकामनुसन्धाय व्याहृतिहोमकृत्वा प्रयोग इति । तन्त्र प्रथम समन्त्रां समिधमाधाय अपरां समिधममन्त्रां क्षिपेत्ततोवामदेच्यगानान्तं तन्त्रं समापयेदिति चोकम् ॥ (१) एतत्प्रकारचोकोऽधस्तात् । “अथोखलमुशले" इत्यादि (११७११) तत्रा- उपनयनविधिः ३ प्रपाठके- ) अवसिना प्रासङ्गिकी कथा प्रकृतमिदानीमुच्यते-- यथार्थम् ॥ ४६॥ उपनयनकर्मण: परिसमाप्तिरनेनोच्यते ।।,४९ ।। गौर्दक्षिणा ।। ५०॥ इति श्रीमद्गोभिलीये गृह्यसूत्रे द्वि-प्र-स्य दशमी कण्डिका ॥ २ ॥१०॥ॐ॥ उपनयनकर्मण एव । नापनयनव्रतस्य । उपनयनकर्मणोऽनन्तरमा-"चा. यीय वरोदक्षिणा" इति गृह्यान्तरसूत्रणात्(१) “गोर्वरोब्राह्मणस्ये"-( ति च वक्ष्यति । (२)मुरारिमिश्रास्तु-यथार्थङ्गौदक्षिणेत्येकमेव सूत्रं लिखन्ति. स्म । व्याचक्षत च-इयचोपनयनकर्मदक्षिणा, न तु व्रतान्तदक्षिणा। यथा- र्थशब्दस्यानन्तरोक्तकर्मशेषसमापनार्थत्वात् । "कर्मशेषसमाप्तौ गौराचार्याय. देया ब्रह्मणे पूर्णपात्रादीनी"-ति गृह्यान्तरवचनाच्च । नारायण-शूलवाणि-प्रभृ. तयोऽप्येवम् । इति । अत्रान्ते यथार्थमित्यादेरभ्यासः प्रपाठकसमाप्तिद्योतकम: पठ्यतेऽन्यत्र(३) ॥५०॥ इति श्री मद्गोभिलीयगृह्यसूत्रव्याख्याम्मृदुलाख्यायां मुकुन्दशर्मकृतसङ्कलितायां द्वि-प्र-स्य दामी कण्डिका । प्रपाठकश्चायं समासः ॥२॥१॥ (इत्युनयनम्) नयोवेतिस्थाने ऊह इहाभिहितः । एवमुक्तसूत्रादष्टसुत्री। ततः पुनः “यधुवा (११३) इत्यारभ्य "महाव्याहृतिभिराज्येनाभिजुहुयातू" (१२६०१५ } इत्यन्तम् । पुन" त्वैतन्। (१८१९) इत्यादिसूत्रद्वयं सावित्रचरुहोमसूत्रतया मुरारिमित्रैोजितम् । एतदन्ते च ततस्तन्त्रसमापनम् । घतान्तविहितल्याण्यस्य व्रताशकस्योपनयनदिन एव समावनपने तत्पूर्वरणं, समावर्जनपूर्वकालविहितत्वादिति द्रष्टव्यम् । पद्धतिरप्येवमित्युक्तम् ॥ (१) अत्र चन्द्रकान्तभाष्ये-तस्माच गृह्यान्तराइक्षिणेयमाचार्याय दातव्या। त. स्माद्ब्रह्मचारिणे मैक्षदानानन्तरमेवाचार्यः कर्मशेष समापयेदिति भट्टनारायणाद्यनुमतं समीचीनमवोचाम। समिदाधानस्य प्रधानकान्तिरतयोपनयनकानिङ्गत्वात् । अहः शेषस्थितेस्तादाच्चेत्युक्तम् ॥ (२) तथाचोकम् "गौर्विशिष्टतमा विप्रैवेदेष्वपि निगद्यते । न ततोऽन्यद्वरं यस्मा. सस्माद्वौरमुच्यते” इति। (३)चन्द्रकान्तभाष्यादौ। सत्र द्वितीयस्यार्थान्तरयोजना च क्रियते । अन्ते च- परन्तु सावित्रचरोः कर्मक्रमस्यासूत्रणाद्यथार्थमित्यस्य कर्मापवर्गपरत्वावगतेश्च पूर्नव योजना समीचीनेति प्रतिपद्यामहे । अतिक्रान्तसम्बन्धश्वाचार्यानुमत इति चेति ततउपर- तमस्मामिः।
कण्डिका ] गोभिलगृह्यसूत्रे- ( अथ समावर्चनम् ) तृतीयपथाठकस्य चतुर्थी कण्डिका ब्रह्माचारी वेदमधीत्य ॥ १ १॥ वेदमित्यावश्यकत्वाभिप्रायेण । तथा च मनुः-- "वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्योगृहस्थाश्रममाविशेत् ॥" इति । वेदशब्दोऽयं साङ्गस्य वेदस्याभिधायकोऽङ्गानामेव वेति स्वभाष्ये चन्द्रकान्त आहान्यमतोपन्यासेन ॥१॥ उपन्याहृत्य गुरवे ॥२॥ उप--गुरुसमीपे । नि भृतं विनीतं (१)यथास्यात्तथा । गुरवे-गुवर्थम् । तादयें चतुर्थी(२)। (पा० ४।४४) आहृत्य-आनीय । “दक्षिणामि"-ति शेषः । अस्योत्तरेण ( दारान्कुर्वीतेत्यनेन ) सम्बन्धः ॥ अत्र मनु:- न पूर्वगुरवे किञ्चिदुपकुर्वीत धर्मवित् । स्नास्यस्तु गुरुणाऽऽज्ञप्तः शक्तया गुर्वर्थमाहरेत् ॥" इति । धर्मवित् गुरुदक्षिणादानधर्मज्ञोब्रह्मचारी स्नानात्पूर्वकिन्चिद्गोव- खादिधनं गुरवे नावश्यन्दद्यात् । यदि तु यदृच्छातोलभते तदा गुरवे दद्यादेव । अत एवस्नानात्पूर्वङ्गुरवे दानमाहापस्तम्बः । “यदन्यानि द्रव्याणि यथा(३)लाभ- मपहरति दक्षिणा एव ताः। स एव ब्रह्मचारिणायज्ञो नित्यव्रतमि”-ति । स्ना- स्यन्पुनर्गुरुणाऽऽताज्ञो यथाशक्ति धनिनं याचित्वाऽपि प्रतिग्रहादिनापि गुरवेऽर्थ- मात्यावश्यन्दद्यादित्यर्थः । उपकुर्वाणस्यायं विधिः । नैष्ठिकस्य स्नानासम्भ- वादिति बौध्यम् ॥ २॥ अनुज्ञातोदारान् कुर्वीत ॥ ३॥ गुरुणा गृहवासाय-अनुज्ञातः । तथाच मनु:- "गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि । उद्वहेत द्विजाभार्या सवर्णा लक्षणान्विताम् ।।" - (१) "निभृतविनीतप्रश्रिताः समाः" इत्यमरः । (२) उपकार्योपकारकमावसम्बन्धस्तादयम् । "कृत्तद्धितसमासौः सम्बन्धामि. धान भावप्रत्ययेने-ति महाभाष्यकारवचनात् ॥ (३) अत्र योग्यतालक्षणे यथार्णेऽव्ययीभावः । योग्यताचार्थाबाध एव । तथाच लाभल्य योग्यं यथालामित्यर्थः ।
বগানাখখি [३ प्रपाठके. इति । दारानिति(१)। स्नानात्प्रागेव कन्यां प्रार्थयेदित्यर्थः । तेन नाश्रम- कम(२)विरोधस्सम्भवति । तथाच कात्यायनः-- "यदि दत्ता भवेत्कन्या वाचा सत्येन केन चित् । सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥" इति । अन्यथा-कन्यामप्राप्य । समावर्त्तने कृते तदुत्तरं कन्यालाभविल. म्बेऽनामित्वं स्यात्तच्चानिष्टम् । तथाच मनु:- "अनाश्रमी न तिष्टेत दिनमात्रमपि द्विजः । आश्रमेण विना तिष्ठन्प्रायश्चित्तीयते हि सः ॥” इति । तस्माद्रतस्थ एव कुतश्चित्कन्यां प्राप्य पुण्यदिने स्नात्वा तदुत्तरदिने विवाहं कुर्यादिति वत्तुलार्थः । कात्यायन:- "अनूढ व तु सा कन्या पञ्चत्वं यदि गच्छति । न तदा व्रतलेापः स्यात्तेनैवान्यां समुद्वहेत् ॥" अथ चेन्न लभेतान्यां याचमानोऽपि कन्यकाम् । तमग्निमात्मसात्कृत्वा क्षिप्रं स्यादुत्तराश्रमी ॥" इति । तेनैव-कृतान्तिमसमिदाधाग्निनैव ॥३॥ कीदृशान्दारान्कुर्वीत ? इत्युच्यते- असगोत्रान् ॥४॥ गोत्रं-प्रसिद्धम् । (३)समानं गोत्र येषान्ते सगोत्रास्तद्भिन्नान असगोत्रान् । दारान्कुर्वीतेति गतेन सम्बन्धः । एवमग्रेऽपि ।। ४४ ॥ मातुरसपिण्डान् ॥ ५ ॥ मातुः सपिण्डा ये न भवन्ति तान् । सापिड्य मुक्तपूर्वमनुसन्धेयम् ॥ ५ ॥ नाग्निकातु श्रेष्ठा ॥६॥ नाग्निकेत्यनागतार्तवाच्यते । "नाग्निकाऽनागतातवे त्यमरात् । सा तु श्रेष्ठेति तादृशान्दारानुद्वहेदिति केचियाचक्षते । नैतस्सुन्दरम् । दारानित्युपात्त. (१) उक्तमपि (२०१०) दारकरणमिहानुज्ञातत्वादिरूपगुणविधानार्थम्पुनरु- च्यते । दारार्थ वा । अथवा दारान् कुर्वीत। कतुं प्रयतेतेत्यर्थः । तदनेन दारकरणाय प्रयत्नोविधीयते न तु दारकरणम् । तस्य दानोत्तरभावित्वात् । इत्युक्तमनुवचनादव. सीयते। (२) ब्रह्मचारी-गृही भूत्वा वनी भवेद्वनीभूत्वा प्रव्रजेत् इति श्रुतेः। "आशमा. दाशमं गच्छेदिति स्मृतेश्च ।। (३) समानता वरगोत्रेण । “सममिव्याहृतपदेनोस्थिताकाङ्क्षा प्रधानक्रियाकर्ता साम्यतीति नियमात् । तेन "समातरं पितरं नमस्करोती-त्यत्र नमस्कर्तृनिरूपितमेव माइत्वमिति सिद्धम् ॥ । । ।
NIROID ५ कण्डिका गोभिलगृह्मसूत्र- विभक्तिवचनातिकमान् ! तस्माद्दारकरणेन सहास्य न सम्बन्धोऽपि तु- "एव्या बहवः पुत्रा योकोऽपि गयां व्रजेत् । गौरी वाप्युद्वहेन्दा- नीलं वा वृषमुत्सृजेत् ।" इति वचनादाराकरिष्यता तावद्गौरी प्राप्तावेव यतनीयं, दातुस्तु नग्निका श्रेऐति )सूत्रार्थः । तथाचवसिष्ठः-"तस्मान्नग्निका दातव्ये 'ति ।। ६ ।। अथाप्लवनम् ॥ ७॥ अथेत्या(२)नन्तयोर्थम । व्रतान्तबोधितन्द्रस्थालीपाकादिकानन्तरम् । ब्रह्मचारी आप्लवनम-स्नानम् । 'आपलाव आप्लव: स्नानम्" इत्यमरात् । "कुर्यादि"-ति शेषः ॥७॥ तद्विधिविवक्षयेदमाह--- उत्तरतः पुरस्ताद्वाऽऽचार्यकुलस्य परिवृतम्भवति ॥८॥ - RINARUAGE NERMAN । । (१) अत्र चन्द्रकान्तः । ननिका तन्त्र यावन्न लजयाङ्गानि कन्या पुरूषसन्निधौ । योन्यादीन्युपगृहेत तावद्भवति नग्निका" इत्युक्तलक्षणा वा ग्राह्या । यह वचनान्तरम्--- "सप्तसंवत्सरादूधर्व विवाहः सार्ववर्णिकः । कन्यायाः शल्यते राजन्नन्यथा धर्मगर्हितः ॥ इति । तद्विवाहयितुः कन्यायाः सप्तसंवत्सगदूधर्व विवाहः शल्यते । इत्येतत्परं, न पुनीत्रभिप्रायम् । “अष्टवर्षाभवेद्गौरी"-ति वचनात् । मनुरप्याह- "त्रिगह!वहेदाणं हृद्यां द्वादशवार्षिकोम् । न्याष्टवर्षोऽष्टवर्क वाध सीदति सत्वरः" इति । यत्तुनःस्मरणम्- "सर्वेषामेव दानानामेकजन्मानुगं फलम् । हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥" इति । नैतेन गौरीदानं विधीयते । किन्तर्हि ? यहच्छया कृतं गौरीदानमनेन स्तूय- ते । तस्माददोषः। विधीयतां वा गौरीप्रदान तथापि नानुपपत्तिः । कथम् ? गौरीप्रदाने तावत्सलजन्मानुगं फलम्भवति । ननिका पुनरतोऽपि विशिष्ट फलदात्रीति वचनव्यक्त सम्भवात् । स खल्वयमर्थः सूत्रे तुशब्द प्रयुञ्जताऽऽचायण सूचितः । इयञ्च पूर्गेषामा. चार्याणाम्मतानुसारिणी व्याख्या । अस्मच्छास्तु अव्यञ्जनाऽरजस्काऽपयोधरा सोमायैर- भुक्ता कन्या आचार्गेण प्रशस्यते तथाच गृह्यासङ्ग्रहे-नाग्निकां तु वदेत्कन्यां x x x प्रशस्यते” इति ( २॥६॥५७ सू० ) सुव्यक्तमुक्तवताऽऽचार्य पुत्रेण ( कात्यायनेन ! इदमेव सूत्रं व्याख्यातमित्यवगच्छामः । तस्मानात्र स्मृत्यन्तरविरोधः शङ्कनीयः। गौर्या अपि निरुक्तनग्निकात्वानपायात् । अथापि स्याहारकरणेन सममस्य सम्बन्धः । तथापि नानु पपत्तिः। अनियतत्वाद्विभक्तिवचनातिकमोपपत्तेः। नियता खलु असगात्रा स्वल्य । मातुरसपिण्डा च दारकरणे । नाग्निका पुनरनियता । श्रेष्टत्वात् । अतोऽत्र विभक्तिवच- नातिक्रमः क्रियते सूत्रकृतेति न किञ्चिदनुचितम् । अस्याञ्च वर्णनायामापातविरुद्धानि स्मृत्यन्तरवचनानि बुद्धिमनियाख्येयानि । ग्रन्थगौरवमयादुपरम्यतेऽस्माभिरिति ॥ (२) कन्याप्रार्थनानन्तरे, कन्यायां वाचा दत्तायां सत्यामित्येव केचिद्वर्णयन्ति । ३२ गोल गृ० सू० समावसनविधिः! ३ प्रपाठके- आचार्यकुलस्य-गुरुगृहस्य “कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने च तनों क्लीवम्इति मेदिनी। उत्तरतः । उत्तरस्यां दिशि । सार्ववि. भक्तिकातलिः । ( पा० ५।४।४४ बा० ) पुरस्तात्-पूर्वस्यां वा। परि-सर्वतो- भावेन [ मण्डपादिरूपेण ] वृत-मा(१)वृतमाच्छादितम्भवति । किश्चित्स्था. नम्॥८॥ नत्र प्रागग्रेषु दर्भेषूदङ्ङाचार्य उपविशति ॥ ६ ॥ तत्र-तस्मिन्परिवृते स्थाने । उदा-उत्तराभिमुखः ॥ ९॥ तस्मिन्न व परिवृते स्थाने-आचार्यसन्निधौ- प्राग् ब्रह्मचार्युदगग्रेषु दर्भेषु ॥ १० ॥ उपविशतीत्यनुवर्तते । प्राक्-प्राङ्मुखः ॥ १० ॥ सौषधिविफाष्टिताभिरद्भिर्गन्धवतीभिः शीतोष्णाभिराचार्यो- भिाषिञ्चति ॥ ११॥ ब्रीह्यादिसौषधीभिः(२) सह या आपोविफाण्टिता(३) विपक्काः । उष्णी. कृता इति यावत् । ताभिर्गन्धवतीभिः । सुगन्धिद्रव्यसुवासिताभिः । शीतोष्णा. भिः। शीतोदकमिश्राभिरुष्णामिः । यद्वा शोताञ्चता उष्णाश्चेति शीतोष्णास्ता- भिः । नातिशीताभिन्नाप्यत्युष्णाभिः । अद्गिर्जलैः । "ब्रह्मचारिणम्” इतिशेषः । सोऽयं परमतोपन्यासः ॥ ११ ॥ स्वमतमभिधीयते- स्वयामिव तु ॥१२॥ तु-शब्दात्पक्षोविपरिवर्त्तते । इवशब्द एवार्थः। स्वयमेव ब्रह्मचार्यात्मा- नमभिषिचेन्न पुनराचार्यः। अत एव वक्ष्यति-"आत्मानमभिषिञ्चति" (३।४। १६) इति । तस्मादाचार्योऽभिषिञ्चेदित्येतत्परमतमिति तत्त्वकारादयः । मुरारिमिश्रास्तु-इवशब्दोऽत्रैवार्थ । तु शब्दावार्थे । तथाच स्वयमेववा ब्रह्मचा- र्यात्मानमभिषिचेत् ॥ १२६।। अनहेतुमाह- मन्त्रवणाभवति ॥ १३॥ S SAMA । (१) उपसर्गार्थस्थ धातुनान्तर्भावादुपसर्गा अर्थविशेषद्योतका एवेति राद्धान्तो- व्याकृतिविदाम् । उपत्य धातून्सजन्त्यनेकार्थान्द्योतयन्त इत्युपसर्गा उच्यन्ते । (२) कात्यायन: "ब्रीहयः शालयोमुद्दामोधूमाः सर्वपास्तिलाः । थवाश्चौषधयः समविपदेानान्त धारिता: इति ॥ (३) ईषत्यक्वः काथविशेष फाण्टम् । फणन्तेः के (पा० ३।२।१०२) निपातितः । तत इतचि (पा० १।२।३६) फाण्टिताईषत्कथिता आपः । अनौषधियोगविशेष इति ता विफाण्टिता सका। ।
Cate CAMJUNE ४ कण्डिका ] गोभिलगृह्मसूत्रे- मन्त्रवर्णोऽभिषेकमन्त्रलिङ्गम् । तत्स्वरसादित्यर्थः । तद्यथा-"तेनाहम्माम- भिषिञ्चामि" इति । "तेनमामभिषिञ्चतम्" इति च । एवञ्च द्वितीयपक्षे हेतू. पदर्शनात् सुत्रकारसम्मति रपि तत्रैव । अतएव बोरेश्वरोपाध्यायाः स्वपद्धती तथैव लिखितवन्तः। वस्तुतस्तु-आचार्योब्रह्मचारिणमभिषिञ्चति । ब्रह्मचारी वा स्वयमेवात्मानमभिषिञ्चति । इति । तथाच पठन्ति- "ब्रह्मचारी अनुज्ञातो गुरुणा गुरुरेव वा । साषधिविमिश्राभिः शीतोष्णाभिः सुगन्धिभिः । इत्येवमादि ।॥ १३॥ अभिषेकप्रकार इदानीमभिधीयते- "येऽश्चन्तरग्नयः प्रविष्टाः" इत्यपाञ्जलिमवसिञ्चति ॥१४॥ ( मं० ब्रा० श०१) अपां प्रकृतानामेव । अञ्जलिम् । अखल्यवच्छिन्ना आपः । अवसिञ्चति- अवाचीनं (अध:) सिञ्चति । त्यजति ब्रह्मचारी। "भूमावि"-त्यर्थः । एवञ्च "अतितान्त्सृजामी-"ति मन्त्रलिङ्गमनुगृह्यते । एवमुत्तरत्रापि । मन्त्रो यथा- "येऽश्चन्तरमयः प्रविष्टा गाद्य उपगायोमनोकामनाहाः । खलाविरुजस्तुनुदुषिरिन्द्रियहा अतितान्त्सृजामि" ॥१॥ इति । अस्यार्थः-हे 'अग्नयः' ! वक्ष्यमाणा अष्टौ 'अप्सु ललेषु 'अन्तः' मध्ये 'प्रविष्टाः' जलं दृषयितुं 'तान्' एतान् जलदूषकान् । 'अति सृजामि' त्यजामि(१) । केपुनस्ते? गोगादयः । तत्र 'गोह्यः (२) संवार्यः। शरीरान्तर्वि- द्यमानः । 'उपगोह्यः' अङ्गसन्तापकः । 'मनौकः' मन एवओका(३)निवासस्थान यस्य सः । 'मनोहाः'(४) मनः (मनस उत्साह ) हन्तीति मनोहाः । “खलः' सञ्चेता(५) । 'तुनुदुषिः' तुदन्तं ( व्यथयन्तं ) नुदन्तं (प्रेरयन्तं) च दुष्यति (१) अतिसर्गोदानम् । “सजविलगेंग (सु०प०) इत्यस्मानावे घनि कुस्ते विस- गोविसर्जनन्दानमित्यनान्तरम् । तथाचाभरः "त्यागोविहापितन्दानमुत्सर्जनविसर्जन" इति । सोऽयमतिपूर्वस्त्यगेऽत्र प्रयुक्तः ।। (२) "गुहू सवरणे" (भ्वा० उ० ) कर्मणि "ऋहलोण्यत्" (पा० ३३०२४) इति. ण्यत्प्रत्ययः । उपधागुणः । एवमुपगोद्योऽपि । (३) "ओकः सद्माश्रयश्चौकाः" इत्यमरे ओकशब्दोऽकारान्तोऽपि "ओक उचः के (पा० ७.३१६४) इति निपातितः । मनःशब्दोऽत्र "ये सान्तास्तेऽदन्ता" इति न्याये. (४) मनोहन्तीत्यर्थ बाहुलकाद्विद । विड्वनोरि"-( पा०६।४।४१) त्यात्वम् । एवमग्रेऽपि (इन्द्रियहाइत्यत्र) बोध्यम् ॥ (4)खल सञ्चषे ( भ्वा०प०)पचाद्यच् (पा० ३११११३४) ।
समावर्तनविधिः ३ प्रपाठक- । विकृतिङ्गनयतीति तुन्दुषि:(१) । 'इन्द्रियहाः' इन्द्रियाणि हन्तीति इन्द्रियहाः ॥१॥ इति । १४ ॥ "यदपां घोरं यदपां कृरं यदपामशान्तामिति च ॥१४॥ (मंत्रा०१२) अस्य "अति तत्स जामी”-ति शेषः । 'अप' सम्बन्धि 'यद्' 'घोर भया- नकम् । 'यन्' च 'अया' सम्वन्धि । 'क्रूरम' निष्ठरम् । 'यन्' च 'अपां' सम्ब. न्धि 'अशान्तम्' रुजाकरम् 'तन्' अतिसृजामि ! ज्यजामीत्यथः ॥ २॥ इति । अनेनाप्यपामचलिमवसिञ्चति । तस्मादत्रापि भूमावेवाबलिपरित्याग इति कमन्द्रियापदयारनुषगाथश्वकारः ॥ १५ ॥ “योरोचनस्तमिह गृह्णामि" इत्यात्मानमभिषिञ्चति ॥१६॥ ( मं० ब्रा० ११७३) "योरोचन" इति मन्त्रेण ब्रह्मचारी आत्मानमभिषिञ्चति । अभिषिञ्चेत् । अभीति सर्वतोभावे । अयमभिषेक: "अङ्गानां शिरः प्रधानमिति शिरसि कर्तव्यः । “अव्यक्त प्रधानगा(२)मोति न्यायादप्या(३)प्लावनमित्यधिका- राञ्च । अस्य "तेनाहम्मामभिषिञ्चामि” इतिशेषः ॥ अस्यार्थः । गाह्यादिषु त्यक्तेषु । 'यो' ऽन्यो 'राचनः' तदाख्योऽग्निर्दीप्तिकरः(४)। 'तम' अहम 'इह' स्थितम् । गृहामि । तथाच 'तेन' जलान्ततिना रोचनेन 'अह 'माम' आत्मानम 'अभिषिचामि' इति ॥ ३॥ किमर्थमित्युत्तरेणान्वितम् ॥ १६ ॥ "यशसे तेजस" इति च ।। १७ ॥ (मं० ब्रा० १७४) "यशसे" इत्यादिना मन्त्रेण च पूर्ववदात्मानमभिषिञ्चति । ब्रह्मचारी। प्रकृतानामपामअलिना ॥ मन्त्रोयथा- "यशसे तेजसे ब्रह्मवर्चसाय बलायेन्द्रियाय वीर्यायान्नाधाय रायस्पोषाय त्विष्टया अपचित्यै ॥४॥ (E) इक्कृष्यादिभ्या" (पा० ३।१०८ वा०) इतीप्रत्यये गुणाभावः । दलोपः पृषोदरादित्वाव ( पा०६।३।१०९)॥ (२)सन्देहे हि प्रधानानुसरणं कर्तव्यमिति हि न्यायाशयः । (३) यद्यपि “स्नानचतुभिः कलबौस्त्रिभिराप्लवनं स्मृतम्" इति कात्यायनेन परिभाषितन्तथापि स्नानमात्र जहदजहल्लक्षणया भाष्यकृद्धिरत्राप्लवनं व्याख्यातम् । तथाच मन्त्रेण योऽयमभिषेकस्तदेवाप्लवनापरपर्याय स्नानं प्रधानकम्मे तिप्रतिपाद. विष्यते ॥ (४) "इचदीक्षावभिप्रीतीचा ( भ्वा० आ०) नन्दादित्वाल्ल्युः (पा० ३।११३४) बोरना। (पा. ११) - Homena - । ४ काण्डका गोभिलगृह्यसूत्र- इति । अस्यार्थः । अत्र सर्वत्र तादर्थे चतुर्थी ( पा० ११४१४४ वा०) 'ब्रह्मवर्चसाय'(१) याजनाध्यापनोत्कर्षजतेजसे । 'रायस्याषाय'(२) धन- समृद्धयै 'विष्य (३) दीप्तये । 'अपचित्ये (४) पुजायै । अन्यत्सुगमम् ४॥१७ "येन स्त्रियमकृणुतमि"-ति च ॥ १८ ॥ [ मं० ब्रा० १७५] "येन स्त्रियमि"-तिमन्त्रेण चात्मानमभिषिञ्चति । मन्त्रो यथा-- "येन स्त्रियमकृणुतं येनापामृशतं सुराम । येनाक्षावभ्यषिञ्चतं ये चेमाम्पृथिवीम्महीम् । यद्वान्तदश्विना यशस्तेन मामभ्यषिञ्चतम्" ।।२।। इति । अस्यार्थ:-अनेन देववैद्यावश्विनौ कर्मणामधिष्टातारौ संस्तूयप्रा- येते हे 'अश्विना!' अश्विनौ !(५) येन' कम्मणा युवां 'स्त्रियं' विपुण्याख्याम 'अकृणुतम्' (६)हिसितवन्तौ । 'येन' च 'सुराम्' मदिराम्(७) 'अपामृशतं' खण्डितवन्तौ ( नेयंपातव्येति ) 'येन' वा 'आक्षान्' (८)पाशकानपि अपामृ. शतमित्येव । 'ये' येन 'च' 'इमा' 'महीं' महती(९) 'पृथिवीम्' भूमिम् 'अभ्य- पिचतम्' अभिषिक्तवन्तौ ( शस्यप्ररोहणादिद्वारा सम्वद्धितवन्तौ ) एवं भूतं 'यद्' 'वा' युवयोः 'यशः' शोभनङ्कर्म 'तेन' यशसापुरस्कृतौ युवा 'माम् अपि 'अभ्यषिन्चतम्' अभिषिक्तं ( सबर्द्धितं ) कुरुतम् । यथायुवाभ्यामभिषिक्तः कृतकृत्योभवानीति ॥ ५॥ १८॥ एवं मन्त्रेण त्रि:- तूष्णीञ्चतुर्थम् ॥ १६ ॥ तूष्णीम-अमन्त्रंचतुर्थम्मार्जनम् कुर्यादित्यर्थः ॥ १९ ॥ (१) ब्रह्मणोवचौब्रह्मवर्चसन्तस्मै । "ब्रह्महस्तिभ्यां वचसा" (पा० ५।४७८) इति समासान्तः। (२) इतिधननाम "अर्थरै विसवाअपीत्यमरात् । षष्ठयाः प्रतिपुत्रपयस्योषेषु" (पा० ८१३१६३) इतिसत्वम् । (३)विषिर्दीप्त्यर्थः । "इक् कृष्यादिभ्यः” (पा० ३।३।१०८ वा० ) इतीप्रत्य. योभावे । कित्वाद्गुणाभावः । गुणविष्णुमते त्विष्ट्या इति पाठः। तत्र त्विषेः क्तिन (पा ३३३९४) भावे स्त्रियां बोव्यः॥ (४) "पुजानमस्याऽपचितिरि-त्यमरः । (५) "सुपां सुलुक" ( पा० ७११११२९) इत्यादिनाऔकात । (३)"कृविहिलाकरणयोश्व" (भ्वा० ५०) लङ । “धिन्विकृण्व्योरच" (पा० ३।२१८) इत्युप्रत्ययः । (.) "सुराहलिपिहालापरिखुद्वरुणात्मजे" तिमद्यपर्यायेऽमरः । (८) "अक्षास्तुदेवनाः पाशकाचते" इत्यमरः ॥ (९) "पूषोदरादित्वात ( पा०६३।१०९) अच्छदलोपः ॥ me समावर्तनविधिः। [प्रपाठक- उयोत्यायाऽऽदित्यमुपतिष्टेना-"यन्भ्राजमष्टिभिरि"-त्येतत्य- भूतिना मन्त्रेण । २० ॥ ( मंत्रा० श६-९। उप-आचार्यसमीपान् । मन्त्रेण-उद्यन्नित्यादि-मा ना हिसीरित्यन्तेन ४ मन्त्रकदम्बेन । वक्ष्यमाण (२२) मूत्रस्वरसात् ! उपतिष्ठेत-तदभिमुखः सन्नारा. धयेत् । अत्र देवपुजावामुपानिष्टते- ( पा० १।२२५ बा० ) रात्मनेपदं बोध्यम मन्त्रा ( नन्त्रकदम्बा ) यथा- "उद्यभ्राजभृष्टिभिरिन्द्रोमरुद्धिरस्थात्प्रातांवभिरस्थान् । दशसनिरसि नशसनिम्माकुळत्वाविशाम्यामाविश ।।६।। उद्यभ्राजभृष्टिमिरिन्द्रोमरुद्भिरस्थात्सान्तपनेभिरल्थात् ! शतशनिरसि शतशनिम्मा कुर्वात्वाविशान्या माविश ।।७।। उच्चभ्राजभृष्टिभिरिन्द्रोमरुद्भिरस्थात्सायय्याँवभिरस्थात् । सहस्रसनिरसि सहस्रसनिम्माकुर्वात्वाविशाम्यामाविश ॥ ८ ॥ चक्षुष्वमस्यव मे पाप्मानं जहि । सोमत्त्वाराजाऽवतु नमस्ते अस्तु मा मा- हिएसीः ॥२॥ इति । अस्यार्थः । अत्रनिस्रऋचोयजूंषि चतुर्थी अनुष्टुप् । 'इन्द्रः पर. मैश्वर्ययोगादादित्यः । 'उद्यन्' उदीयमानः । "मरुद्भिः' एकोनपञ्चाशत्संख्य. र्वायुभिवा(१)। सह 'अस्थात' स्थितवान् । कि भूतैः १ 'भ्राजभृष्टिमिः' (२)भृष्टिप्तिः । भ्राजाभृष्टियेषान्तर्भर्जनसाधनदीप्तिमद्भिः । न केवलं मरु- द्भिरेव किन्तु 'प्रातयोवभिः' प्रातर्यावानोदेवविशेषास्तैत्सह(३)। 'अस्थात् तिष्ठति(४)। एवम्परोक्षयाऽभिष्ट्रय-प्रत्यक्षीकृत्येवाचष्टे-हे इन्द्र ! त्वं 'दश- (१) "मरुतोपवनाम इत्यमरः। अत्र सद शब्दयोगं विनापि तृतीया "वृद्धो. यूने--(पा० १६९) तिनिहंशात् ॥ (0) आजादीप्त्यर्थात (भ्वा० आ०) भावे अलि (पा०३।३।१०४) भ्राजाश- म्दोधात्वर्थमभिदधदिह तत्साध्यम्भजनमभिधाय पुनस्वत्करणमाह शब्दस्वाभाव्याधिग- (३) केचित्तु-प्रातः सवने यावमिर्गमनशीलैऋष्यादिभिः । "यात्रायणे (अ० १०) वनिए । ( पा० ३४ ) सतकगणैः "सेवित" इति शेषः । तेच-"मध्वादिषु द्वादश- सुभगवान् कालरूपयुक् । लोकतन्त्राय चरति पृथद्वादशभिगंणः ॥ धातातस्थली- हेति-वासुकीरथकूनमुने। पुलस्त्यस्तुम्बुरुरितिमधुमासनयन्त्यमी" ॥ इत्यादिना श्रीम- बागवते (सं० १२ अ०१६) उक्ताः ॥ (४)बमानेकडोटर (पा ३४६) ॥
R - ४ कण्डिका गोभिलगृह्यसूत्रे- २५५ सनिः' दशानां गवादिधनानां सनि(१)र्दाता 'असि' भवसि । अत: 'मा' माम अपि 'दशसनि' दशानां दातारं 'कुरु' । अहं त्वा' त्वाम् 'आविशामि' अ- धिवेनोपगच्छामि । अतस्त्वमपि 'मा' माम् । 'आविश' अभिमतफलदानेना- भिसुखोभव ॥ ६॥ 'सान्तपनेभिः' (२)देवविशेषैः ॥ ७ ॥ एवं "सायं यावानो देवविशेषा" इति गुणविष्णुः ।। ८ ॥ हेसूर्य ! त्वं 'मे' मम 'पाप्मानम्' (३) पापमनिष्टम् । 'अपजहि' (४)श्र. पनय । यस्त्वं त्रिलोक्याः 'चक्षुः' दर्शक:(५) 'असि' भवसि । तं 'स्वा' स्वाम 'मोमः' देवानामन्तर्भूत इति कृत्वा 'अवतु' आप्याययतु । योह्यस्माकं ब्राह्मणा- नामोषधीनाञ्च 'राजा' भवति । तथा च अति. “सोमोऽस्माकं ब्राह्मणारा- जे"ति । अभिधानमप्याग्नेयमस्मिन् विषये "श्रोषधीशोनिशापतिरि"-ति । एवम्भूताय 'ते' तुभ्यं 'नम:' नमस्कारः 'अस्तु' भवतु । त्वं 'मा' मा 'माहि- सीः' मा जहि । किन्तुसर्वतोरक्षेत्यर्थः । चक्षुष्ट्वमित्यत्र 'युष्मत्तदि" (पा० ८।३।१०३) त्यादिना षत्वम् । तत्र युष्मदिति-युष्मदादेशास्त्वं त्वा ते तवोच्य. न्ते ॥९॥ तदेतदविहारपक्षेबोध्यम् ।। १८ ॥ अथ विहारपक्षमाह-- यथालिङ्ग वा विहरन् ॥ २१ ॥ वा-अथवा । तस्मिन्नेव दिने यथालिङ्गम् (६)यथालिङ्गेन मन्त्रण | प्रात- लिङ्गन्न मन्त्रेण प्राप्तः। सान्तपनलिङ्गन मध्याह्न । सायंलिङ्गेन सायाह । उपतिष्ठतेत्यर्थः । विहरनिति । एतत्कालत्रये मन्त्रान्विभजन । (७)विहारो-वि. कर्षणं-पृथक्करणमित्यनर्थान्तरम् ।। २१ ।। "चक्षुरसी"त्यनुबध्नीयात् ॥ २२ ॥ (मं० प्रा० १७१९) (१)"षणुदाने" (त० उ० ) "छन्दसिवनसनरक्षिमव्याम्" (पा० ३।३।२१) इतीन्प्रत्ययः॥ (२) "बहुलं छन्दसि" (पा० ११३१०) इति भिसऐसभावे एत्वम् ( पा० ॥३॥ १०३ ) केषाञ्चिन्मते सान्तपनानाममाध्यन्दिनसवनं देवाः । इति व्याख्येयम् ॥ (३) "अस्त्रीपडू पुमान्पाप्मा पापं किल्विकल्मषम् ॥ इत्यमरः ॥ (४) उपसर्गस्य पृथककृतिश्छान्दसी ।( पा० १२४)। (4) अथ चास्य सर्वस्यालोकस्य चक्षुर्दर्शनेन्द्रियम् । (चिच्छक्तिः)। (६) "तृतीयाससम्योर्बहुलम्" ( पा०३।४।८४ ) इत्यव्ययीभावात्पर तृतीयाविभalsमावः । इत्येवं व्याख्यातम् ।। (७) अस्योत्तरसन्नेणाभिसम्बन्धः । सत्रन्तमेतत् । मुरारिमिश्नमते एकमेवीतत्सूत्र- द्वयम् ॥ Maurya समावर्तनविधिः । [3 प्रपाठके- त्रिवपि (१)"चक्षुरसी"ति मन्त्रमनु(२)वध्नीयादित्यर्थः ।। २२ ।। मेखलामवमुञ्चने "उदुत्तमं मरुणपाशामि"-ति ॥२३॥ (मं० ब्रा० १७११० अवमुञ्चन-अवाचीनं मुञ्चति । "उदुत्तमम्" इति मन्त्रण ! मुञ्चत इति वच्छेदनप्रतिपेद्यार्थम् ! अव इत्यधस्तान्मोचनार्थम । अस्मिन्नेवायसरेऽजि- नपरित्यागोऽपि । स्नानोत्तरं तद्धारणानौचित्यात ! "स्नानादूचे गृही भवेदिति वचनात् । पद्धतिरप्येवम् ।। मन्त्रोयथा- "उदुत्तमम्वरूणपाशमस्मदवाधर्म विमध्यम श्रथाय । अथादित्यव्रते वयन्तवानागसोअदितयेस्याम ॥ १० ॥ इति । अस्यार्थः । हे 'वरुण देव ! 'उत्तमम्' उत्तमाङ्गे (शिरसि ) स्था- पितं त्वदीयं पाशम् । 'अस्मत् अस्मत्तः सकाशान् । 'उन्-श्रथाय(३)। उत्कृ. ध्योन्मुच्य विनाशय ! एवम् 'अधमम्' अधनाङ्गे (पादप्रदेशे) स्थापितन्त्व. दीयं पाशम् 'अव (2)अवाचीनं कृत्वा ( ऽस्मत्तोऽपकृत्य ) विनाशय । 'मध्य. म मध्यमप्रदेशे स्थितं पाशं 'विविधाय! विमोक्षय (विच्छेदय ) 'अथा' अथ (पाशत्रयविमोचनानन्तरम् ! है 'आदित्य' आदितिपुत्र वरुण! 'अना. गसः' अनपराधाः। (निष्पापाः ) वयं 'तब' 'ते' कर्मणि(६) । ( निघं० ११७) वर्तमानाः सन्त: 'अदितये' अदीनतायें। (७) स्याम' भवेम । (अखण्डित(८) (१)विहारपक्षतावत्त्रयाणाम्मन्त्राणामेकैकस्त्र मन्त्रस्य स्खल्वेवमेकैकस्मिन उप- स्थाने विनियोगः सम्पन्नः । चतुर्थस्य तु मन्त्रस्य पन्ध्यानयेऽपि अत्र विनियोगोऽनेन सूत्रेण क्रियते ॥ (२ अनु-प्रातरादिमन्त्राणां पश्चात् । बधनीयाद्-प्रथयेदित्यर्थः । तथा च यथालिङ्गं मन्त्रमुच्चार्य चक्षुरसीति च पश्चादुत्का सर्वत्रोपतिष्टेत ।। (३) "श्रथमोक्षणे" (चु.उ.)णिचिमित्त्वाद्धस्वः । लोटि मध्यमपुरुङ्गकवचने रूपम् । श्रथायेतिदोषश्चान्दमः । (पा०६३।१३७ ) यद्वाश्रन्थविमोचनप्रतिहर्षयोः" (क्या: ५०) लोटि मव्यस्यौकरने "छन्दसि शायजपी (पा० ३।४।८४-ति नः शाय. जादेशे तस्य जित्वान्न लोपे श्रथाये तिरूपम् ॥ (१) उपसर्गस्य पृथग्भावश्चान्दसः । ( पा०४८२) उपसर्गबलायोग्यक्रिया- ध्याहारे प्रसक्ते प्रकान्त एवाध्याहृतः ! एवमग्रेऽपि ॥ (५)"निपातस्य चे--(पा०६।३।१३६)-ति दीर्णः ॥ (६) तथा च निरुकम् “व्रतमिति कर्मनाम वृणोतीतिसतः। ( २११३) इति ॥ (७) तथा च निरुतम् "अदितिरदीना देवमाता चेति (४२) अत्र च "ब्धेकयोरिण ( पा० १२४६२२ ) ति वद्रावधानोनिदेशो दीनतेति ! (८) "दो अवखण्डने (दि०५०) तिन्मावे "यतिस्यतिमास्थामितिकिति (पा० Mar) इतीत्वेदितिस्ततो नसमासः। भावप्रधानश्च निर्देश इतीत्यं व्याख्यातमूम ४ काण्डिक गोमिलगृह्यसूत्रे-- स्वाय योग्या भवेम् ) ॥ १०॥ इति ।। २३ ॥ ब्राह्मणान्भोजयित्वा स्वयश्चभुक्त्वा केशश्मश्रुलोमनखानि वापयति शिखावजम् ॥ २४ ॥ ब्राह्मणान् भोजयित्वेति । अभ्युदयिकश्राद्धकृत्वेत्यर्थ इति भट्टनारा- यणः । यत्तु कर्मसमाप्रिनिमित्तकमेवेदं ब्राह्मणभोजनमितिस्नानात्प्रागे(१)वैत- छाद्धम् । इदानी ब्राह्मणभोजनमात्रमिति च मतं तन्न इदानीङ्कर्मसमाप्त्यभा- बादुपरिष्टादपि कर्मान्तरोपदेशात् । वस्तुतो ब्राह्मणभोजना(२)न्तरमेवेदम । स्वयम्चेति । “दधितिलान्वे"तिशेषः । तथाच पारस्करः “दधितिलान्वाप्रा. श्ये"-ति ! पद्धतिरप्येवम् । कश्चित्त परकीयग्रहणे आकाङ्क्षाविरहात् ग्राह्य- णभोजनसाहचर्याच्च यथेष्टमेवभोक्तव्यमित्याह । अत्र शिखावर्जमित्यभिधानात्प्राक्सशिस्वं वपनं कर्तव्यमितिदर्शितम् । ( २।९।२५ ) उपनिषच "भ्रूप्रकोष्ठशिखावजे सर्वगात्राणि वापयेत्" इति।।२४॥ स्नात्वालङ्कृत्याहते वाससी परिधाय जमाबन्धीत "श्रीरास मायरमस्वेति ॥ २५ ॥ (मं० ब्रा०२७११) अलकृत्य-कुण्डलादिभिरात्मानम् । अहते-"ईपद्धौवन्नवमि" त्याद्युक्तल- जणे । बाससी वस्त्रयुगम् । ( अन्तरीय-मुत्तरीयन ) परिधाय । जम्-पुष्प. मालाम् आ-उपरि-शिरसि । बनोत । तत्रमन्त्रमाह "श्रीरसी"ति(३)। अ. स्वार्थः । हे माले ! त्वं श्री: लक्ष्मोः । 'असि' भवसि ! सात्वं 'मयि' विषये। 'रमस्व' अवस्थानं कुरु । इति । यज्ञापवीतद्वितयपरिधानमपीदानीमेवाचारादि. तिमुरारिमिश्राः प्राहुः ।। २५ ॥ "नेच्यौ स्थोनयत मामि"-त्युपानही ॥ २६ ॥ (मं० ब्रा० ११७/१२) (१) अभिषेकात्मकं स्नानं प्रधानकर्मतिप्रतिपन्नम् । अग्रिमसूत्रे(२५)स्नात्वा इति तुवपनोत्थाप्रायत्यापनोदनाम्लिानमुच्यते । नत्वेतप्रधानम। न हि भुक्काप्र- धानमक्रियते । न वा प्रधानं स्नानममन्त्रक तदङ्गस्त्वभिषे कोमन्त्रवानितिसाम्प्रतं तस्मात्प्रधानकर्मणः पश्चादाभ्युदयिकं श्राद्धमितिवर्णनं भाष्यकृतोऽनुपपत्रमेव । लुपुरस्तादेवकर्माको यथाप्राकमुचितम् । “यच्छ्राद्धं कर्मणामादौ अन्वाहार्यान्तदु- ध्यत" इति वृद्धिश्रमधिकृत्यकर्मप्रदीपवचनात् । अतएकस्मिन्दिनेऽनेककम्नुष्ठिता- वेकदैवतदनुष्ठान व्यवस्थापितमधस्तात् । (२) सम्भोज्यभिप्रान्भुञ्जीते-ति प्रतिविशिष्टभोजनस्मा मेवानमूलम् । (३) अनापि "सर्नेषु गात्रेषु शिस्प्रधानमू" इति न्यायोऽनुसृतः । ३३ गो० गृ०सू K २५७ প্রমান লাখি। 1 ३ प्रपाठक CHAMATRO "नेच्यौस्थ" इतिमन्त्रेण । उपानही आननीतेत्यनुषज्यते। अत्राङधोऽर्थे योग्यतावशालपादयोः । "नानार्थायव्ययाः परे” इत्याग्नेयमभिधानम् । मन्त्रार्थस्तु- हे उपानहौ ! यतो युवा नेत्र्यो नयन-गमन) शक्तिप्रदे स्थः' भवथः । अतो 'माम्' इष्टं देशान्तरम 'नयतम्' प्रापयतम् । प्रार्थनायां लोट् ।। २६ ।। "गन्धर्वोऽसी"-ति वैणवदण्डं गृह्णाति ॥ २७ ॥ (मं० ब्रा० ११७१३) वैणवम् । वेणुर्व शास्तन्मयम् । दण्डादिधारणे स्मृत्यन्तरोक्तम्मानान्तर- माहुर्मुरारिमिश्रा:- "वैणवीधारयेष्टिमन्तर्वासस्तथोत्तरम् । यज्ञोपवीतद्वितयं सेोदकश्च कमण्डलुम् ॥ छत्रञ्चोष्णीषममलं पादयोश्चाप्युपानहो । रोक्मे च कुण्डले चैवं कृत्तकेशनखाद्विजः ॥” इति ॥ २७ ॥ आचार्यसपरिषत्कमभ्येत्याचार्यपरिषदमीक्षते- "यक्षमिव चक्षुषः प्रियोवोभूयासमिति ॥ २८ ॥ (मं० ब्रा०२७१४) सपरिषत्कम् । परिषदा सभया सहितम् । “समज्यापरिषद्गोष्ठीसभासमिति संसदः" इत्यमरः । सा च शिष्यादेः । अभ्येत्य-आभिमुख्येन गत्वा पुनराचार्य वचनमाचार्यसहितायाः परिषद ईक्षणार्थम् । मन्त्रार्थस्तु-हे सपरिषत्काचा. योः ! गुरुत्वादन्न बहुवचनम(१) । 'चक्षुष' इति जात्येकवचनम् । 'यक्ष इव' यो यथा दर्शनीयतया प्रियो भवति तथाई 'व:' युध्माकं "प्रियः' 'भूयासम्' भवेयमिति ॥ १४ ॥२८॥ उपोपविश्य मुख्यान्माणान्संमृशन् “ओष्टापिधाना नकुली-"ति॥२६॥ (मं० ब्रा० ११७ । १५) उप-आचार्यसमीपे । मुख्यान-मुखेभवान् । प्राणान्-वायून् । तेषाम- मूर्तत्वात् तदायतनानि संमृशन्-स्पृशन् । "ओष्ठापिधाना" इत्येतदादिकं मन्त्रं "जपेदि-ति शेषः सर्वत्र । मन्त्री यथा- "ओष्ठापिधाना नकुली दन्तपरिमितः पविः। जिह्वे मा विह्वलो वाचं चारु माघेह वादय ।। १५॥” इति । अस्यार्थः-स्नातकेन जिह्वा स्वा प्रार्थ्यते-हे 'जिह्वे 'इह' प्रस्तुते कर्माणि । (१) तथाच स्मयते-"एकत्वं न प्रयुञ्जीतगुरावात्मनि चेचरे” इति। एकत्व- मेकवचनम् । .
४ कण्डिका गोभिलगृह्यसूत्रे- ૨૫8 'अद्य त्वं 'मा विहन विश्थसञ्चलन मा विधेहि । उ: (१)पादपूरणे । किन्तु 'मा' माम । 'चारु' शोभनं यथा स्यात्तथा वाच (२) 'वादयः । यतस्त्वम् 'प्रो- ष्ठापिधाना' अओष्ठावपिधान(३)नावरण यस्याः सा ! तथा 'नकुली' कुक्कुटीव । नकुलपत्नीव वा चञ्चलस्वभावा(४) ! अत्र सादृश्यमूलकस्तत्वारोपः। एवम- ग्रेऽपि । तथा 'दन्तपरिमितः पविः' (५)दन्तावरणभूता वजवत्त्वं भवसि ।।१५।। अत्रैनमाचार्योऽहयेत् ।। ३०॥ अत्र-एतल्लिन्नवसरे । एनं-स्नातकम् । अचार्य "उत्तरतोगाम्" ( ४११० १ सू० ) इत्यादिना वक्ष्यमाणेन विधिना अर्हयेत्-पूजयेत् । तथाच मनुः- "तं प्रतीतं स्वधर्मण ब्रह्मदायहरं पितुः । स्रग्विणन्तल्प आसीनमहयप्रथम गवा ॥" इति । तं स्नातकम् । स्वधर्मेण स्वधर्मानुष्ठानेन प्रतीतं-ब्रह्मचर्यमारभ्य. (६)ख्यातम् । पितुः-पितुतः । दीयत इति दायः। ब्रह्म एव दायो ब्रह्मदायस्तस्य हरम् । पितृतो(७)गृहीतवेदमित्यर्थः । स्रग्विणं-मालयाऽलङ्कृतं तल्पे-उत्कृष्ट- शव्यायाम(८)। आसीनमुपविष्टम् कृत्वा प्रथम विवाहात्प्राक् । गवा-गोसाध. नमधुपर्केण । पिता अन्यो वा वरयिता अईयेन-पूजयेत् । इत्यर्थः । अत्र केचित् "कर्मणःकरणसंज्ञासम्प्रदानस्य च कम्मसंज्ञा" (पा०१२३३१३वा०) इति विभक्तिव्यत्ययदर्शकेन गान्तस्मैद(९)यादित्यप्यर्थमाहुः ॥ ३० ॥ गोयुक्त रथमुपसङ्क्रम्य पक्षसी कूबरं बाहुँ(१०)वाभिमशेत् । “वनस्पते बीड्वङ्गोहिभूया"इति ॥३१॥ (सं० ब्रा० १७१६) (१) तथा च निरुक्तम् । “अथापि पदपुरणः । इदमु तदु" (२-२-५) इति । (२) त्रुविणा समानार्थत्वाविकर्माकता (पा० ११४६१)। (३) "तथाचामः अपिधानतिगधानपिधानाच्छादनानि चेति । (४) "नकुली कुक्कुटीमांस्याः पशुपाण्डवयोः पुमान्" इति मेदिनी। अत्र पशुश्च. तुष्पाजन्तुविशेषएव । (६) "हादिनी वज्रमस्त्रीस्यात्कुलिशम्भिदुरं पविः" इत्यमरः । (६)"प्रतीते निपुणख्यातवितविज्ञातविश्रुताः" इत्यमरः । () उपलक्षणमेतदाचार्यादेः । "पितवोपनयेत्पुत्रम्" इत्यादिना पितुरेवोपनयने मुख्यः अधिकारः। “उपनीयगुरुशिष्यं शिक्षयेच्छौचमादितः। आचार्यमग्निकार्यञ्च स. न्ध्योपासनमेव चेति च मनुस्मरति । पितुरेभावेऽन्योऽपि तत्स्थानीयः सगोत्रः। (८) "तल्पन्तु शयनीये स्थादिति विश्वः। (९) गोदानमन्त्रगाहस्थ्यधर्मप्रतिपालनार्थम् ता विनाग्निकार्याचसम्भवतीति । (१०) अन कूबरबाहू वेति चन्द्रकान्तभाष्यकशितः पाठः । कूबरो युगन्धरः।
३६० समावर्तनविधिः १३ प्रपाठक CAMERI गोभिर्युक्तं रथम् । उपसक्रम्य-सम्यगुपेत्थ । पक्षसी(१)-चक्रे । कूवर- रथिस्थानम् । वाहुं-चक्रालम्बिकीलकं वा । अभिमृशेत्-स्पृशेत् । “वनस्पते" इति मन्त्रेण पादत्रयेण । मन्त्रोयथा- "वनस्पते वीड्वगोहि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः सन्नद्धो असि वीड़यस्वास्थाते जयतु जेत्वानि ॥” १६ ।। इति । अस्यार्थः । हे 'वनस्पते' ! वनस्पति-(वृक्ष-) (१)विकाररथ ! त्वं 'बीड्वङ्गः' संस्तब्धाङ्गोढ़ावयवः । वीड़यतिः संस्तम्भनका नरुक्तो- धातुः । ततो "भृमृशी"त्यादिना ( उ० १७१) उप्रत्ययो बाहुलकात् । संस्त- ब्धोहदाभवत्यनेनेति । संस्तभ्यन्ते शत्रवोऽनेनेति वा वीडु-बलिष्ठम् (निघ० २।९।१५) वीडूनि-दृढानि महाभारसहानि अङ्गानि चक्रकूबर(२)प्रभृतीनि य. स्यसः । तथा 'अस्मत्सखा' वयंसखायोयस्य तादृशश्च भूयाः' भव । किञ्च 'प्रतरणः' प्रकर्षण तर(३)न्ति दुर्गाणि येन सः । 'सुवीरः' शोभनाः बीराः शूरभटाः पुत्रादयोवा यस्मा(४)त्सः । एवम्भूतोभव । त्वं 'गोभिः' वृषभैः 'सन्नद्धः' संयुक्तः (५) असि' भवसि । अतस्त्व(६)मस्मानपि 'वीड- यस्व' दृढीकुरु(७) । किञ्च 'ते' तव "आस्थाता' आरोदा (त्वय्यवस्थि- तोरथी) 'जेत्वानि' जेतव्यानि द्विषवृन्दानि(८) 'जयतु' अभिभव- तु(९)॥ १६ ॥ इति ॥ ३१ ।। - (यन्त्र रथस्याचा वध्यन्ते तत्काष्ठम् । युगकाष्ठवन्धनस्थानम् वा ) युगं वोढुर्बन्धनकाष्ठ. न्धारयतीति युगन्धरः । तस्य बाहू इव बाहू । कूबरबाहू-कूबरपानें । तौ वा । कुबरोर. थिस्थानं, तस्य बाहू कूबरबाहू-स्थस्येषे इतिकेचिदित्येवं तयाख्यानच तचैव भाष्ये । (१) अमरकोशे वृक्षपर्याये "वानस्पत्यः फलः पुष्पारपुष्पादनस्पतिरि-प्रत्युक्तम् । तत्र तद्विकारेऽपि तच्छब्दप्रयागः फलवत् ॥ (१) "पक्षसी च स्मृतौ पक्षौ” इति अमरटीकायां व्याख्यामुधायां शुभाङ्कः । (२) "कबरस्तु युगन्धरः" इत्यमरः । (३) प्रवर्द्धयितेतिसायणः । करणे ल्यूट् । (पा० ३।३।११७) योरनः (पा० १११)। (४) एतद्विशेषणेनास्य शुभावहत्वमाशास्यते । अन्न-सुसारथिरिति गुणविष्णुः । (६) सायणस्तु-गोभिगोविकारेश्चर्मभिः । सन्नद्धः सम्यग्बद्धः। तचाच निरुक्तम् । "अथापि चर्म च श्लेष्मा च गोशब्देनाच्यते । पृथगाभिः सम्बद्ध इति" इति । (२५) (६) यतस्त्वं वीडङ्गः। (७) हडावयवान्कुरु। (6) शत्रुसैन्यानि । "जिजये ( भ्वा०प० ) "कृत्यार्थतवैकेन्केन्यस्वनः" ( पा० १४) इति तव्या त्वन्प्रत्ययः । "जिद्धि अभिभवे" ( भ्वा०प०) आभभवोन्यूनीकरनं न्यूनीभवनञ्च । आथे. कोको द्वितीयेऽकर्मकः ।
४ कण्डिका गोभिलगृह्यसूत्रे- SPANISAR ततोरथभारुह्य- "आस्थाता ले जयतुत्वानी"-त्यातिष्ठति ॥ ३२॥ "आस्थाता ते" इतिमन्त्रचतुर्थपादेनर थमातिष्ठति-आरोहति(१) ॥३२॥ प्राङ्बोदवा अभिप्रयाय प्रदक्षिणमावत्योपयाति ॥ ३३॥ ततः प्राङ्-मुख-उदङ्मुखोवा । अभिप्रयाय-सर्वतोमावेन प्रकर्षण गत्वा प्रदक्षिणं दक्षिणेन प्रगतं यथास्यात्तथा आवृत्य-आवर्तनकृत्वा । उपयाति- उपयायादाचार्यसमीपमागच्छेत् ॥ ३३ ।। उपयातायामिति कोहलीयाः ॥ ३४ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रस्यतृ० प्र० के चतुर्थी कण्डिका ।।३।।का। कोहलीयाः । शाखाविशेषाध्यायिनस्तु-रथादवल्याचार्यसमीपमुपयातायो. पागताय स्रातकाय अय॑महण-माचार्येण पित्रा वा कर्तव्यन्न तु पूर्वमिति मन्यन्ते ।। ३४॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायाम्भूदुलाख्यायां भुकुन्दशर्मसङ्का- लितायां तृतीयस्य प्रयाकल्य चतुर्थी कण्डिका ॥३॥४॥॥ ( इति समावर्तनम् ) अथाहणाविधिप्रदर्शनाय चतुर्थप्रपा पाठकस्य दशमी कण्डिका उत्तरतोगां बध्वोपोत्तिष्ठेरन्-"अहणात्पुत्रवाससे"-ति ॥१॥ (मं० ब्रा० १८११) अथ क्रमप्राप्तानामहणामन्त्राणां विनियोगं वक्तुमुपक्रमते-उत्तरत इति । उत्तरतः । उत्तरस्यादिशि । सार्वविभक्तिकस्तसिः (पा० ५।४।४४ वा०) अर्थात् अहणप्रदेशस्य । “यत्रैनमर्हयिष्यन्तः स्युः(४।१०।२) इत्युत्तरसूत्रात् । गां स्त्रीगवीम् । धेनुरित्यादिमन्त्रलिङ्गात् । उपतिष्ठेरन् । आराधयेयुः । उपात्ति- ष्ठतेवपूजायामात्मनेपदविधानात् । (पा० १।३।२५ वा० ) अत्रदेवेत्युपलक्षणं पूज्यमात्रस्येति गामेव । के ? येऽहयिष्यन्तः स्युः । तथा च सर्वै रेव गृहस्थितै- रहणीयाहणार्थमप्रमत्तैर्भवितव्यमिति तात्पर्यार्थः । मुरारिमिश्रास्तु- अहणीयपरित्राणार्थमुपतिष्ठेरन्नित्युत्का वाजसनेयश्रुतिन्दर्शयाम्बभूवुः- "यत्रचाहन्नागच्छति सर्वे गृह्या इतरे तत्रतथेह परित्रातोभवती"-ति । गृह्या यजमानदायादाः । उपस्थानञ्चेदमूर्ध्वस्थितेनैव कार्यम् । आचारात् । न्याय्याच । नाहणीये ऊर्ध्वस्थिते स्वयमुपविश्यत इति युज्यते । इति ॥ उप- (१) रथे सम्पपिति ! आडन मर्यादायाम् ।
२६२ अहणाविधिः [३ प्रपाठक MARANA स्थानमन्त्रमाह "अहणे"ति । यथा "अहणा पुत्रवाससा धेनुरभवद्य में। सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥ १॥ इति । अस्यार्थः 'य' (१)या 'इयं' अर्हणा (२)पूजा साधनभूता। 'पुत्र- वाससा' (३)पुत्रवासानुगामिनी । 'मे' मम । 'धेनुः' सर्वार्थसाधिनी(४) 'अ- भवत्' भवति । 'सा' 'पयस्वती' प्रशस्तपयाः(५)। 'न: "अस्माकम् । “मनो रथान्" इति शेषः(६) । उत्तरामुत्तरां 'समाम् (७) उत्तरोत्तरवर्ष व्याप्य 'दुहाम्' दुग्धाम(८)॥१॥ इति ॥ १॥ एवमर्हणीयेषूपतिष्ठमानेषु स खल्वयमहणीयः- "इदमहमिमां पद्यां विराजमन्नाधायाधितिष्ठामी"ति प्रतितिष्ठ. मानोजपेत् ॥२॥ (मं० ब्रा० २१८२) प्रतितिष्ठमानः । ऊर्वस्तिष्ठन् “इदमहमिति मन्त्रंजपेत् । अर्थाजपानन्त- रमासन(९)उपविशेत् । अर्हणीय इत्यर्थात् । समस्तमन्त्राम्नानं स्वनामाध्या- हारप्रतिषेधार्थम् । “अकर्मकाच्च" (पा० १।३।२६) इत्यात्मनेपदम् । मन्त्रा- र्थस्तु-अहणीयोवदति-'अहम्' 'इदम्' आसनम् । 'इमां' च 'पद्याम्' पादा- A । (१) "झ्यापोः संज्ञाच्छन्दसो हुलम्" (पा०६।३६३) इति हस्वः । (२) अद्यते पूज्यतेऽनयेत्यर्थो "अर्हपूजाताम्" (चु० उ० ) इत्यस्मात् “ण्यातन्त्र थोयुच्" (पा० ३।३।१०७) इति करणे युच् । योरनादेशः (पा. ११) स्त्रियां टाए (पा०४४) सुलोपः। पूजासम्पादिनी। (३) पुत्रवासम्प्रति सोदतिगच्छतीति षट्लधातोर्गत्यर्थात् (भ्वा०१०) "अन्येष्वपि दृश्यते" (पा०३।२।१०१) इति डप्रत्ये टिलोपः । (पा०६।४।१४३) नवप्रसूतत्वात् । (४) दधातेर्धारणपोषणार्थस्य (जु०3०) "धेन्वादयश्चे-ति मुकुटेन निपातितः (4)प्रशसायामत्र मतुप् । (५०५२।९४) मस्यवः। (पा० ८१९) तथा शोक्तम् "भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्तिविवक्षायां भवन्ति मनुवादयः" इति। (६) "सम्बन्धिशब्दः सम्बन्धिनमाक्षिपती"तिन्यायात् । (७) अत्यन्तसंयोगे द्वितीया । (पा० २।३९) "संवत्सरोवत्सरोऽब्दोहायनोऽस्त्री- शरत्समा" इत्यमरः । यद्यपि समाशब्दो नित्यबहुवचनान्ततया कोशे पठ्यते तथापि "समा समां विजायते(पा० ५।३।२२) इति पाणिनिनेकवचनान्तोऽपि स्मृतः । श्रुतश्चा. प्रापि। (4)"लोपस्त आत्मने पदेषु" (पा० २४१) इति तोपः । (९) इदमासनमधितिष्ठामीतिमन्त्रलिङ्गात् । उपवेशनञ्चदम्प्राङ्मुखत्वन्तत एव । साम्मुख्याय। विवाहाङ्गेऽहंणे तथोक्तत्वाच्च । (२।१२१७) अत्र “पूज्यपूजकयोमध्ये प्राची-ति तन्त्रान्तरसम्वादात्प्रत्यक्ष्मुखता दातुन दोषायेल्यवगन्तव्यम् ।
कण्विका ] गोभिलगृह्यसूत्रे- होम् । (१)कथम्भूताम् ? 'विराजम्' विराजमानाम् । किवन्तमेतत् । 'अन्न- ञ्चतदाद्यमदनीयञ्चेतिकर्मधारयः । यद्वा-अन्नाधाय-(२) अन्नादौभवाय सुखाय । 'अधितिष्ठामि' आक्रामामि ॥ २॥ इति ॥ २॥ कुत्र प्रतितिष्ठमानोजपेदित्यपेक्षायामाह- यत्रैनमहयिष्यन्तः स्युः ॥ ३ ॥ यत्र-यस्मिन्प्रदेशे । एनम अहणीयम् । अर्हयिष्यन्तः। अहयितुमिच्छन्तः। अहणकर्तारः । उपस्थिताः । स्युर्भवेयुः । तत्रेत्यर्थः ॥३॥ यदावाऽहयेयुः॥४॥ यदा यस्मिन्काले । अर्हयेयु-रहणङ्कर्तुमारभेरन्नित्यर्थः । अत्र वाकारः समुच्चय इति मुरारि(३)मिश्राः ॥ ४॥ अथेदानीमहणाविधिविवक्षयेदमाह- विष्टरपाद्यााचमनीयमधुपर्कानेकैकशस्विर्वेदयेरन् ॥ ५ ॥ विष्टर:-पूर्वोक्तः । (४)"वृक्षासनयोविष्टरः" (पा० ८।३।९३) इत्यासना- थे निपातितः। पाद्यं-(५) पादार्थमुदकम् । एवमय॑म् । “पादाभ्यान्चे"- (पा०५।४।२५)-ति तायें यत प्रत्ययः । तदेतदधितण्डुलपुष्पयुक्तमुदकम् । (१) पादवद्धीमिति गुणविष्णुः । पादार्घाभ्यां च (पा० ५।४।२६) इति तादर्शो यत्प्रत्ययः । (२) अन "भवेच्छन्दसि" (पा० ४।४।११०) इति यत्प्रत्ययः । (३) तथा चाल्य गतेनाभिसम्बन्धः। तदा वा प्रतितिष्ठमानोजपेदिति । न तु अर्हणकर्तृषु कार्यान्तरव्यग्रेषु प्रत्युपस्थानमेवेति । चन्द्रकान्तस्तु-वा शब्दस्तुशब्दार्थे। यदा पुनरेनमहयेयुस्तदा विष्टरादीनि वेदयेरनित्यनागतेनाभिसम्बन्ध इत्यर्थम्मतान्त. रेण वर्णयाश्चकार। (४) अत्र दर्भसंख्यानियमोनाहतः । छन्दोगपरिशिष्टेकात्यायनेन "दर्भसंख्यान- विहिताविष्टरास्तरणेष्वपीति तदुक्तेः । गृहासङ्ग्रहे तु "पञ्चाशद्भिः कुशैर्ब्रह्मा तदर्तन तु विष्टर" इत्युक्तपूर्णन्द्रष्टव्यम् । एवमङ्गिरसापि। तदनयोविकल्पः। अतएव भट्टनारायणः स्वभाष्ये-"सम्भवे पञ्चाशदरसम्भवे पुनरपरिमितैरपि कुशौविष्टरोभवती"त्युक्तवान् । अन कुजरित्युपलक्षणम् । कुशपत्रौरपि । अत एव पद्धतिकृतोऽपि तथैव लिखन्ति । अय न्तार्णः पाणपोति स्मृत्यन्तरावगतमित्यवोचाम । (६) तदेतद्विवृतमुखलैजसबृहत्पात्रस्थ, यतोलिनाsपआदातुं शक्यते । तथाच वीरपद्धतिः। ततो भाजनस्था श्रप उपनीय पाधाः ३ इति निरन्ौकते ॐ पाद्या प्रति. गृह्यतामिति यजमानेनोक्ते ॐ यतो देवोxxx रागच्छतु, इतिभाजने अपप्रेक्षता "ततस्ताभ्योऽञ्जलिङ्गृहीत्वेति ।। अत्र पायाः इति अप्सम्बन्धात्स्त्रीबहुवचपूनम् । "अपःप्रेशते-(९)इतिसूत्रदर्शनात् । एवमेव भवदेवमहादयोगप। अतएव गृह्मान्तरवत् पायमित्यसमस्तमिहसूनितम् । ।
२६४ अहणाविधिः । [३ प्रपाठके- तथा च गृहासङ्ग्रहे कात्यायन: ।। "ध्यक्षतं सुमनस आपएतच्चतुष्टयम् । अयमेतत्प्रदातव्यं गृह्येऽार्हाः स्मृतास्तुये।" इति । अत्र "तेभ्य" इति शेषः । एतच न पात्रानवस्थित, न चैकेन पाणि ना गृह्णीयान् । "कांस्येनैवाहणीयस्य (१)निनयेद_मजलौ।" इति कात्यायनवचनात् । आचमनायम्-आचमनार्थमुदकम्(२) । "वृद्धा. च्छः” (पा० ४।२।११४ ) इति छस्तस्येयादेशः । (पा० ७११२) मधुपर्कश्च- "साक्षतं सुमनोयुक्तमुदकन्दधिसंयुतम् । अर्घान् । “दधिमधुम्याञ्चमधुपर्को विधीयते" इति छन्दोगपरिशिष्टोक्तेः । तत्र चकारोवस्त्वन्तरसमुच्चायकः । तथा च दधिमधुयुक्तमुदकम् । दधिमधुघृतंवा । दधिमधुदुग्धंवा (३)मधुपर्कः । स्मृतिः- "सर्पिषा मधुना दध्ना चााहनिहयेत्सदा । दधिक्षौद्रपयोभिर्वामधुदध्युदकेन वा ॥" इति । ऐच्छिकोऽत्र विकल्पोव्यवस्थापकाभावात् । गृह्यासंग्रहे- "कांस्ये त्रितयमादाय कांस्येन परिबंहितम् । परिग्रहेषु देयं स्यान्मधुष्पर्क इति ध्रुवम् ॥" इति । परिबंहितं-संवृतमाच्छादितमितियावत् । ऋष्यशृङ्गः- "कांस्यापिधानं कांस्यस्थं मधुपर्क समर्पयेत् । इति । पिधानपात्रमत्राधारपात्रापेक्षया बृहत्कार्षम्-"वर्षीयसा पात्रे णपिहि- (१) कास्यपदमत्र प्रशस्तपात्रमात्रपरम। "सा तस्टौ प्रददौ कांस्यं सपिधानं हिर- ण्मयम्" इति विराटपर्न (भा०) दर्शनेन तथा निर्णयाता सा-सुदेष्णा। तस्मै-सैन्यौ। अतएव पद्धतिरपि जलादियुक्तं पात्रं गृहीत्वेति । इतिमुरारिः। विवाहेतु शङ्खस्थ दूर्वाक्षत जलफलवन्दनयुतापानं गृहीत्वेति वीरेश्वरादयोलिखन्ति । तत्राणीयस्य विष्णुरूप. स्वाभिधानमत्रमूलत् । विष्णोश्चाध्यशङ्खेनैव भवतीति निर्विवादम् । (१२) अत्र कालिकापुराणम्- "दद्यादाचमनीयन्तु सुगन्धिसलिलैः शुभैः । कर्पूरवासितैवापि कृष्णागुरुविधूपितैः ॥ यथातथासुगन्धौर्वा प्रसन्नैः फेनवजितैः । तत्तैजसेन पात्रेण शङ्खनापि प्रदापयेदि-ति। "केवलन्तोयमात्रेण तद्वा दद्यान्न मिश्रितम् । वासितन्तु सुगन्धाथैः कर्तव्यं यदिलभ्यते ॥" इति च । प्रदापयेत्-प्रदद्यात् । शङ्खनेति विष्णुपूजाविषयम् । इति द्रष्टव्यम् ॥ (३) अन्न तुरीयभेदं मधुपर्कस्य कृतान्ने मधु चेति व्याचक्षते । न तत्र कांस्यापेक्षा। एवम्मधुपयस्यपीति ।
१६ कण्डिका गोभिलहान-. । । नमि"-त्याश्वलायनगृह्यान । दध्यादिकञ्च तुल्यपरिमाणं प्रायम् । “समंन्याद- अतत्वात" (जै० सू० १०३।१३) इति न्यायात् । केचित्त- "आज्यमकपलं ग्राह्यन्दध्नत्रिपलमेव च । मधुनः पलमेकन्तु मधुपर्कः स उच्यते ॥" इति मैत्रावरुणीयशाखापरिशिष्टोक्तं परिमाणमत्रापि प्रायमित्याहुः । ताने. तान विष्टरादीन्मधुपकान्नान् पञ्चद्रव्यविशेषान । एकैकशः । प्रत्येकं, त्रिः । त्रिरुच्चार्य । वैदयेरन-ज्ञापयेयुरहयितुरात्मीयाः (१) । ततश्चाई यिता द्रव्यमु- रक्ला(२) "प्रतिगृह्यतामि"ति सर्वत्र सकृद्वाश्यशेषं कुर्यादित्यर्थः ।।५।। "याओषधीरि"-त्युदश्च विष्टरमास्तीाध्युपविशेत् ॥ ६ ॥ (मं० ब्रा० २।८।३-४) "याओषधीरि-"ति-अनया ऋचा उदञ्चम्-उत्तगप्रमहयित्रा प्रदत्त विष्ट- रमास्तीर्य । आस्तरणच्चासनेऽधः । "ता मह्यमस्मिन्नासने" इतिमन्त्रनिङ्गात् । अधि-तदुपरि । उपविशेत । अर्थादहणीयः । अत्रोपवेशनम्य पूर्वतएव मिद्ध- स्वाधः करणरूपविष्टरस्यास्तरणेऽयम्मन्त्रोविनियुक्त इतिव्याख्यातारः ।।६।। दौ चेत्पृथगृग्भ्याम् ॥ ७॥ आस्तीर्याध्युपविशदित्यनुवत्तते । चेचदि। द्वौ विष्टरावह यित्रा प्रदत्तो स्यातां तदा पृथक्-नाना ऋग्भ्याम् । “याओषधीरि"-त्येताभ्याम(३)। अत्रचेदिति- वचनान्नातीव द्वयारावश्यकत्वांमति प्रतीयते । तथाच ऋचौ- "या ओषधीस्सामराज्ञीर्बह्वीःशतविचक्षणाः । ता मह्यमस्मिन्नासने अच्छिद्राः शम्म यच्छत ।। ३ ।। या ओषधीः सामराज्ञीविष्टिताः पृथिवीमनु । ता मह्यमस्मिन्पादयारच्छिद्राः शर्म यच्छत ॥ ४॥" इति । अनयोरर्थः । हे 'आषधीः' ओषध्य (४) ! 'याः' यूयं 'सोमराज्ञीः' (१) नत्वहयिता । बहुव-ननिशात् । अत्र मुराििमश्राः । "सूत्रे बहुवचननिर्द. शाद्विष्टरादिनिवेदनकर्तृनियमालामात्तनियामकं “पारक्यमविरोधि यदि -ति । न्यायेन "अन्यस्विस्तिःप्राह विष्टरादीनी-ति पारस्करगृह्य मेव । अतएव कौमुद्यादौ ज्ञापयेयुरिति बहुवचनेनानियतकर्तृकत्वं वेदनस्य दर्शयित्वा प्रतिगृह्यतामितिमद्वाक्यशेषकुर्यात । इत्ये. कवचनेनान नियतकर्तृत्वन्दर्शितम् । इति । एवञ्च विष्टरादिनिवेदनमन्यव सूकमेवेति तात्प यंगत्या पद्धतिकृतीवीरेश्वरादयः । तदुक्तं निरन्गैरक्त इति ॥ (२) विष्टरादिष्वन्यतमम् ॥ (३) अनमन्त्रवणे. द्वितीयपादयोभेदः सर्वथा। तृतीययोस्तु आसने । पादयोरिति क्रमेण भेदः पठ्यते। समानमत् । अत्र पृथक् इति करणानिवेदनय्युगपदवगम्यत इति चन्द्रकान्तः। (४) अन्न "वाच्छन्दसीति (पा०६।१।१०६) वा पूर्वसवर्णदीर्घः । एवमग्रेऽपि बोध्यम् । ३. गो० गृ० सू० । HAL - ।
२६६ अहणाविधिः । [४ प्रपाठक ! सोमराझ्यः(१) । सेोमश्चन्द्रो राजा यासान्ताः । 'बह्वीः' बहुप्रकाराः । 'शतवि- चक्षणया:' शतं विचक्षणानि मुखानि यासान्ताः शतविचक्षणाः शतमु- ख्यः । 'ताः' यूयम् ‘मह्यम्' 'अस्मिन्नासने' "उपविष्टाये"-ति शेषः । 'शर्मा' सुखम(२) । यच्छत' दत्त(३)। किम्भूता ? 'अच्छिद्रा.' निरन्तगः ॥ ३॥ हे 'ओषधीः' ओषध्यः ! 'याः' यूयं 'सोमराज्ञीः सेोमराझ्यः । उक्तवदर्थः । 'पृथिवीमनु' (४)पृथिव्यां 'विष्ठिताः' विशेषेण(५)स्थिताः । 'ता' यूयम् 'मह्यम्' 'अस्मिन्' द्वितीयविष्टरे। 'पादयोः' "अधस्तान्निहिते” इतिशेषः । 'अच्छिद्राः' नितन्तराः सत्यः 'शम्भ' सुखम् ‘यच्छत' दत्त ॥ ४ ॥ इति ।। ७ ।। तत्किं द्वितीयमपि विष्टरमासन एव देयमित्यपेक्षायामाह- पादयोरन्यम् ॥ ८॥ अत्रा-"धस्तादि-"तिशेषः । अन्यम्-अपरम् । द्वितीयं विष्टरम् ॥ ८ ॥ "यतोदेवीरि"-त्यपः प्रेक्षते ॥६॥ (मं० ब्रा०२३८५) प्रकृतस्वादहणीयः । अपः । पादप्रक्षालनार्थम्भाजनस्थमुदकम् । मन्त्रस्तु- "यतोदेवीः प्रतिपश्याम्यापस्ततामा राद्धिरागच्छतु ॥ ५ ॥ इति । अस्यार्थः । हे 'आप:!' वृष्टयुपगताः । अहम् 'यतः' यस्मात्सूर्या- त्पतिप्रसूता युष्मान् 'देवीः'(६) तद्रूपाः । 'प्रतिपश्यामि' । आलोचयामि । 'ततः' तस्मात्सूर्यात् ॥'मा'.मां 'प्रति' 'राद्धिः' (७)संसिद्धिः। 'आगच्छतु । भवतु ॥२॥ इति ॥५॥ (१) अन "अनउपधालोपिन" (पा. ४२१८) इति वा जीपू । "अल्लोपोऽनः" (पा० ४।६।१३४) इत्युपधानोलोपः॥ (२) "शम्म-शात-सुखानि चे"-त्यमरः ॥ (३) “दाण दाने" ( भ्वा०प० ) लोट् । मध्यम०बहुवचने शपि "पाघ्राध्मे०" (पा० ७॥३।७८)-त्यादिना यच्छादेशः ।। (४) अन्न "अनुलक्षणे" (.पा० ११४५८४ ) इत्यनोः कर्मप्रवचनीयस्प योगे (पा० २१३१८) द्वितीया ॥ (५) अन "उपसर्गास्सुनोती"-(पा० ८३१३५)-त्यादिना षत्वम् ॥ (६) "पुयोगोदाम्पत्य एवेतिन नियमस्तेन गोपस्य कन्याऽपि गोपीति वृत्तिकृता प्राहुः । तेनात्र जन्यजनकभावलक्षणे पुंयोगे डीए । “अनौदत्ताऽऽहुतिः सम्यगादित्यमुप. तिष्ठते । आदित्याजायते वृष्टिरिणतिस्मरणादादित्यप्रसूता आपोदेव्योऽभिहिताः ॥ (७)"राधसाधसंसिद्धौ” (स्वा०प०) भावे तिन् । मन्त्रब्राह्मणभाष्येतु-धिः तिशीलोयजमानः । मारात्-विघ्नात् । आगच्छतु । विघ्नानुस्सृज्यौतु । इतिव्याख्या. नधातिरमणीयम् । गुणविष्णुस्तु माऋद्धिरिति पठित्वा ऋद्धिःसमृद्धिर्मामागच्छत्विस्था- भास्तेऽार्य हत्याइ॥
१० कण्डिका] गोभिलगृह्यसूत्रे- NIOAD तथा वधूः ||" ततस्ताभ्योऽस्खलि(१) गृहीत्वाऽहणीयः- "सव्यं पादमयनेनिजे" इतिमव्यंपादं प्रक्षालयेत् । (नं० प्रा०२।८६) "दक्षिणं पादमवननिज" इनि दक्षिण पादम्प्रक्षालयेत् ॥१०॥ (मं० प्रा० २१८७) सव्यम्-वामम् । “वामं शरीरं सव्यं स्यादपसव्यन्तु दक्षिणमि"त्यमर. । प्रक्षालयेदिति क्रियाभ्यामः निहेंशक्रमेणव पादप्रक्षालनार्थः । यथा चान्यत्रा. पि स्मयते- "पादं प्रक्षालयेविनोदक्षिणं प्रथनं सदा । शूद्रस्तु वामं प्रथम, सामवेदी, इति । “सामगः क्षालयेत्तव्यपामन्यश्च दक्षिणम् ॥” इति चैवमादि । पूर्वत्र विप्रइति क्षत्रियवैश्ययोरप्युपलक्षणम् । एवमपपरत्रान्यइति ॥ "ते. नादकेने"-तिशेष । मन्त्रौ यथा- "सव्यं पादमवनेनिजेऽस्मिन्त्राष्ट्रे श्रियन्दधे" ||६ ।। इति । "दक्षिणं पादमवनेनिजेऽस्मिन्त्राष्ट्र श्रियमावेशयामि ।। ७ ।। इतिच । अनयोरर्थः । अहं 'सव्यं' वाम 'पाद' चरणम् । 'अवनेनिजे' शोधयामि(२) । (प्रक्षालयामि) 'अस्मिन्' 'राष्ट्र'(३) देशे (यत्राहंवत) 'श्रियं' लक्ष्मी 'दधे' स्थापयामि ।। ६ ।। इति ॥ 'आवेरायामि' आदधामि । (स्थाप. यामि ॥ ७॥ इति ॥ १० ॥ ततःपुनरुदकाजलिङ्गृहीत्वा- "पूर्वमन्य-मपरमन्य--मि"त्युभौ शेषेण ॥ ११ ॥ (मं० ब्रा०२८८) शेषेण-अवशिष्टोदकेन । उभौ. -पादौ । संहतीकृत्य(४)। पूर्वमन्यमि". तिमन्त्रेण । प्रक्षालयेदित्यनुवत्तते । अहणीयएव । मन्त्रस्तु- "पूर्वमन्य-मपरमन्य-मुभौ पादाववनेनिजे राष्ट्रस्यात्वार्याअभयस्यावरुद्धय"८ इति । अस्यार्थः । अह 'पूर्व प्रथमम् । 'अन्य' सव्यम् 'अपरं' पश्चात (१) अञ्जल्यांच्छन्नमुदकम् । (२) "निजिरशौचपोषणयो" ( जु०० ) लट् । (३) "राष्ट्र स्योदुपवर्तनेगा इतिमेदिनी । "देशविषयौ सूपवतैनमितिचामरः ।। (४) पूर्वमन्यमित्युभो शेषेणेति वक्तव्ये गुरुकरणेनैतत्प्रज्ञाप्यते । मन्त्रे पूर्वशब्दोऽ. ग्रिमवचनः । अपरशब्दश्वपश्चाद्वचनः । तथाचाग्रिमप्रक्षालितमन्यं पश्यं, पश्चात्प्रक्षालित- मन्यन्दक्षिणमित्युभौ पादौ युगपदवनेनिजेोप्रक्षालयामीति मन्त्राथपर्यवसानात् । वीरपद्ध तावप्येवमेव पश्यते॥ ANS- अहणाविधिः। [४ प्रपाठक , 1 'अन्य' दक्षिण एवमेतौ 'उभौ पादौ अवनेनिजे प्रक्षालयामि । 'अस्य' 'ग- ट्रस्य' देशस्य ऋद्धय' (१)युद्धयर्थम । 'अभयस्य' भयाभावस्य 'अवरुद्ध परिग्रहाय ॥ ८॥ इति ॥ १२ ॥ 'अन्नस्य राष्ट्रिरसी" त्यर्य प्रतिगृह्णीयात् ॥ १२ ॥ ( मं० ब्रा०२८९ अय-यथोक्तलक्षण । “अन्नस्य नाष्ट्रिरसी"--ति मन्त्रेण । 'प्रनिगृह्णीया दिति । यजमानहस्तादयमादाय स्ताकं जलं शिरसि निदध्यादित्यर्थः । बीरप. द्धतिरप्येवम् ।। मन्त्रीयथा- "अन्नस्य राष्ट्रिरमि राष्ट्रिस्त भूयासम्" ।।२।। इति । अस्यार्थः । ६ अध्यं ! जलरूप ! त्वम् अन्नस्य ब्रीह्यादेः । 'राष्टि.' दीप्ति (२)। 'असि' -भवसि । अहमपि त' तब ( प्रमादात् ) 'राष्ट्रि:' (३)दी प्तिमान् ‘भूयासम् भवेयम । इत्याशंसायां लिङ् ।। ९ ॥ इति ।। १२ ।। "यशोऽसी"त्याचमनीयमाचामेत् ॥ १३ ॥ (मं० ब्रा० २१८।१०) आचमनीयम-आचमनार्थमुपकल्पितमुदकम् गोकर्णाकृतिदक्षिणहस्ते"ना शब्दमनवस्रा (१-१-२) वमि"-ति यथोक्तन विधिना “यसोऽसी" -नि मन्त्रणाचामेदहणीयः। मन्त्रोयथा- "यशोऽसि यशोमयि धेहि" ॥१०॥ इति । अस्यार्थः । हे आचमनीय ! यतस्त्वं 'यशोऽसि',कोतिरूपं भवनि । अतः ‘मयि' विषये 'यशोधेहि' मां यशस्विनङ्कुर्विति ।। १० ।। तदेतदाचमनं सन्मन्त्रेण । द्विस्तूष्णीमेवेति त्रिः । “एकक्रियायामावृत्ती सकृन्मन्त्रान्वय" इतिवचनात् ।। तत इन्द्रियाण्युपस्पृशेत् । "त्रिराचामेदपः पूर्व-द्विः प्रमृज्यात्ततोमुखम् । खानि चैवस्धृशेदद्भिरि"-त्येवं मनुनाऽचमनविधानात् । खानीन्द्रियाणि । "खमिन्द्रिये खमाकाशे' इत्यभिधानात् ।। १३ ।। "यशसोयशोऽसी"ति मधुपर्कम्पतिगृह्णीयात् ॥ १४ ॥ ( मं० ब्रा० २।८।१२) मधुपर्क-मुक्तलक्षणम् । “यशसायशोऽसी"-ति मन्त्रेण 'प्रतिगृह्णीयात' ! (१) आयादेशे यलोपः। (पा० ८।३।१९) "पूर्वत्रासिद्धम्" (पा० ८।२।१ ) इति तस्यासिद्धत्वानदीर्घः ॥ . (२) "राजदीप्तौ" (म्वा आ० ) त्रिन् बाहुलकास्करणे । (पा० ३।३।१ ) जस्य. पत्त्वम् ( पा० ८।२।३६ ) ष्टुत्वम् । (३) कश्यत्रनिन् । THAN १. कण्डिका ] गोभिलगृह्यसूत्रे- प्रतिगृह्य वामहस्ततले तत्पात्रं स्थापयेत् । अग्रे क्रियापदेशान ' मन्त्रार्थस्तु-हेम पक्क ! यतस्त्व 'यशोऽसि' कीनिरिव मधुलि । अतस्वहोगादहमपि 'यशस कोत्तिमान(१) "भवेयमि"ति शेषः ।। ११ ।। इति ।। १४ ।। -- तम्य वखस्य मध RAIN- मधुपर्कस्य- । "यशसोभक्षोऽसि महसोभक्षोऽसे श्रीभक्षोऽसि श्रियम्माये धेहि इनित्रिः पिबेत् ॥१५॥ ( मंत्रा०२८५४२) त्रिः । त्रिवारम । क्रियाऽभ्यावृत्तिगणनेऽत्रासुन्प्रत्ययः । (पा० ५।४।- :} 'यशसोमतोऽसी"-ति समन्तेन मन्त्रेणाहंगीय पिबेन । मन्त्रो यथा- "यशसाभक्षाऽसि, महसोमनासि, श्रीक्षामि श्रियम्मयि धेहि" ।। १० । इति । अस्यार्थः। हेमधुपक्क ! यतस्त्वं 'यशमः' यशस(२): यशाऽर्थ 'भक्षः (३)भक्षणीयः । 'असि' भवसि । तथा 'महसः महमे तेजोऽर्थम् 'भक्ष.' 'भर णीयः' 'असि' भवसि ! तथा 'श्री.'(४) भक्षोऽसि तेन त्वद्भक्षणात्कीत्तिस्तेज' लक्ष्मीश्च भवति । अतस्त्वं श्रियं' त्रितयत्यापि सम्पदं(५) 'मयि' (६)विश्य 'धेहि' अर्पय । महान्देहीतियावत् ।। १२ ।। इति । अत्र मन्त्रेण त्रिभक्षणपदेशात्पानञ्चेद भक्षणरूपमेव । द्रबद् द्रव्यसयोगा पिबतिशब्दप्रयोगः । मुरारिमिश्रास्तु-"अत्र मधुसंयोगाद्वश्वेन्मधुपक्कस्स्या. त्तदा पात्रेण पातव्योऽथ दश्नः काठिन्यात्पानानुपपत्तिस्तदा हस्तेन भक्षणीय इति । तेन मन्त्र भक्षशब्दस्य सूत्र पिबतिशब्दस्य च श्रुतिरुपपद्यते । इति- द्रष्टव्यम्। इति । पानञ्चेदमनामिकाङ्गुष्ठाभ्याम्भक्षयेदिति वीरपद्धतिदर्शनतम- थैवावगन्तव्यम् । तत्र प्रतिप्राशनं मन्त्रपाठः "चतुर्थन्तूष्णीमि"त्यनिमसूत्रान । यत्तु-हारिलपद्धतौ प्रथमङ्कनिष्ठागुठ्यागेन, मधुपर्कप्राशनमिति लिखित तच्छाखान्तरविषयमित्यनुपदं स्फुटीभविष्यति । समस्तमन्त्राम्नानश्च सूत्र न्त्रिःपानविधानम्मन्त्रं च स्थानत्रये भक्षशब्दसत्त्वात्तदन्तेनैव मधुपर्कप्राशन- "माभूत्किन्तु मन्त्रान्तेनेति ज्ञापनार्थम । येषान्तु “श्रियोभक्षोऽसीति मन्त्रपाठ. तेषां मन्त्रावयवैरेव पानं स्यात्। तथाच छन्दोगगृह्यान्तरम् “मधुपक्कन्त्रिांष्य. बेत् यशसोमहसःश्रिय इति तूष्णीं चतुर्थम् इति । तदत्र मन्त्रप्रतीकोपादानप्र- (१) अर्शआदित्वान्मत्वर्थीयोऽप्रत्ययः । (पा० ५१२११२७)॥ (२) तादर्थ्य चतुथ्यणे षष्ठी ( पा० २।३।६२)। (३) "भक्षअदने" (चु०प० ) कर्मणिधिन् (पा० ३।३।१९) अत्रभक्ष्यइत्यपाठः ! (४) सुः (पा० १३९ ) ॥ (५) “सम्पत्तिः श्रीश्च लक्ष्मी यमरः । सम्पत्तिः सम्पदित्यनान्तरम् ॥ (३) "लसमबाह्मणे दानमित-ति वत्सम्प्रदानेऽधिकरणत्वविवक्षाऽत्र बाध्या । ।
अगावित्रः। [४ पाठक । - । तीकैरेव पानमवगम्यते । "श्रीक्षाऽसी"-ति खल्बस्मच्छाखायाम्मन्त्रपाठः । अतस्तत्रौव होरिलपद्धतेरुक्तिर्योजनीया। तत्र प्रमाणञ्च- "यशसोयशोऽसीति त्रि-स्तृष्णी बहुचतुर्थकम् । कनिष्ठादिभिरङ्गुष्ठयोगेन तिमृभिः क्रमात ॥ मधुपक्कप्रयोगेतु प्राशने विधिरिष्यते ॥" इति परिशिष्टान्तरवचनमिति बोध्यम् ।। १५ ।। तूष्णीञ्चतुर्थम् ॥ १६ ॥ मधुपर्कस्य पिबेत् ॥ १६ ॥ भूयएवाभिपाय शेषं ब्राह्मणाय दद्यात् ।। १७ ।। भूय. । पुनरपि । एवकारकरणातूष्णीमेव । अभिपाय आभिमुख्येन पीत्वा शेषमवशिष्टम् । ब्राह्मणायेति। ब्राह्मणपदं पुत्रादिपरम्। “नोच्छिष्टं कस्यचिद्द याद न्यत्र जायापुत्रशिष्येभ्यः” इति स्मरणात् । “उच्छिष्टमगुरोरभाज्यमि"-ति बसि वचनाच । तदभावे पुनरब्राह्मणायापि दद्यात् । तच्चाद्भिः प्रोक्ष्येतिविशेष । तथा च द्राह्यायणसूत्रम् "तदभावेऽद्भिः संप्रोक्ष्या-(१)ब्राह्मणाये"-(१।२।२१। ति । लास्यायनोऽप्येवमेव । ( ११३।११) सर्वोभावे "प्राग्वाऽसञ्चरे निनये दि"-ति पारस्करीयैव गतिरन्यशाखीयाऽप्यविरोधिनीति। वीरपद्धतिरप्यव मेव । “मधुपक्कशेषमसञ्च(२)रदेशे धारयेदिति ॥ १६ ॥ आचान्तोदकाय गोरितिनापितस्विब्रूयात् ॥ १८ ॥ अत्र नाम्यर्थे चतुर्थी। अहणीये कृताचमने सति । यद्वा तादयं चतु र्थी । यथा स शृणोति तथेति ( तदर्थम् ) अनेनोच्चैस्त्वं वचनस्य व्या कियाग्रहणाद्वा चतुर्थी (पा० १।४।३२ वा० ) मधुपर्कभक्षणेनोच्छिष्टतापहत्या आचमनं विधीयते नचानेन ( भोजनेन ) मुक्का कर्माचरणदोष इत्युक्तमध. स्तात् ( २।३।१७) ।। १८॥ नापितेन त्रिर्गोरित्युक्ते खल्वयमहणीयस्तमेव नापि तमुद्दिश्य- "मुञ्च गां वरुणपाशाद्विषन्तं मेऽभिधेही"ति । तनह्यमुख्यचोभयोरुत्सृज गामत्तु तृणानि पिबतदकामि"-तिब्रूयात् १६ (मं ब्रा २०१३) "मुञ्चगामि"ति मन्त्रं व्यात् । मन्त्रार्थस्तु--अहणीयोनापितं वदति-एतां (१) अत्र शूद्ववजेमिति तद्भाष्यात्क्षत्रियवैश्ययोरन्यतरायेति प्रतोयते । युवत् । 'नभिवयुक्तसन्यसहशाधिकरणे, तथायथंगतिः' इतिपाणिनीयपरिभाषणात् । महामाष्य sपि "महाब्राह्मणमानयेत्युक्त लोष्टमानीयकृतीभवती"-त्युक्तन्तेन तजिन्नस्य तत्सशस्यौव ग्रहणम्भवतीति॥ (२) जनसञ्चारवजित ॥ RS १. कण्डिका ] गोभिलगृह्यसूत्रे- गां' 'वरुणपाशात् विशिष्टबन्धनात् 'मुञ्च' मोक्षय । ततश्च उत्सृज' विसर्जय मेयं विसृष्टा मती 'तृणानि' घासान 'मन्तु' भक्षयतु । 'उदकंच 'पिवतु' एवं नापितमुत्काऽहणीयामाइ~हे अहणीये ! (१) पूजनीये!) एवामोचिता त्वम 'मे' ममार्चनीयस्य । 'अमुष्य' अर्हयितुः 'च' 'उभयोः' 'द्विषन्त' द्वेष्टारं तं नवाऽऽनेतारम 'अभिधेहि' बधान । (२) 'जहि विनाशय च ।। १३ ।। इति । अत्रामध्येतिपदस्थाने प्रकृतत्वादहयितुर्यजमानस्य नान गृह्णीयात । अढ़ः पदस्थाने नामादेशस्याचार्यसम्मतेः कर्मप्रदीपे कात्यायनेनोक्त वात् । तथाच छ. न्दोगगृह्यान्तरमपि-"सञ्चादितामनुमन्त्रयते सुच्च गामित्यमुष्य चेत्यहयितु - मयादि"-तिचन्द्रकान्तः । समस्तमन्त्राम्नानच्छ तजह्य मुष्येतिपदयामध्ये भम देवदत्तस्यचैवमध्याहारशङ्कानिवृत्त्यर्थम् ॥ मन्त्रमध्ये इतिकारकरणं पूर्व- पदानां यथावस्थितानामेव पाठार्थम् । इतिमुरारिमिश्राः । अतएव(३)तमित्ति पदे नाहः। तस्येतिकारात्प्राक्तनेन द्विषन्तमित्यनेन सम्बन्धादिति च चन्द्रकान्तः१९ "माता रुद्राणामि"-त्यनुमन्त्रयेत् ॥ २० ॥ ( मंत्रा० २।८।१४) गामित्यनुवर्तते। अनुमन्त्रणमिहालोचनम् । तथचगृह्यासमहः-- "स्पृशन्ननामिकाग्रेण कचिदालेोकयन्नपि । आमन्त्रणीये सर्वत्र सदैवमनुमन्त्रयेत् ।। इति । मन्त्रोयथा "माता रुद्राणां दुहिता वसूनां स्वसाऽऽदित्यानाममृतस्य नाभिः । प्र णु वाचं चिकितुषे जनाय मागामनागामदिति वधिष्ट"||१४|इति। अस्यार्थः-येयमईणार्थ-( मालम्भननिमित्त-) गोरानीता सा 'रुद्राणा' 'माता' मातृवन्मान्या 'वसूनां देवविशेषाणां 'दुहिता' दुहितृवत्पाल्या 'आदि- त्यानां 'स्वसा' स्वस्वदनुकम्प्या 'अमृतम्य' दुग्धदध्यादेः 'नाभिः' उत्पत्तिस्थान. म् । अतएताम् गाम्' 'अनागाम्' (४) सर्वथाऽनपराधिनीम् । अतएव 'अदितिम्' (१) अनाणसाधनभूते इत्यर्थः । “अहंगापुत्रवा सेति पूर्वापन्यस्त श्रुतो तो. यार्थावगतेः । यद्यपि कृत्यप्रत्ययोभावकम्मंगोरेव विहितस्तथापि "कृत्यल्युटाबलम्" (पा० ३१३३१३३) इति बहुलग्रहणादत्रूनानीयचूर्णमिति वदिहकरणेऽनीयर ॥ (२) अनाभिपूर्वोदधारिबन्धने गुणविष्ण्वादिभियाख्यातः॥ (३) वस्तुतस्तु (सुत्रे) इतिकारो यथास्थितस्वरूपपरामार्थको मध्यमणिन्या येनोभयोरपि सम्बनम्र विकृतस्वरूप परामशति । वीरपद्धत्यादिष्वमेव पाठात् । गृह्या स्तत्ववनन्तु शाखान्तरविश्यम् । मनदेवभट्ट-मट्टनारायणादयातु-अपथ्यमानमन्त्रका- हे "इति पदं न पट्यते । केवलमाचार्यों काथम्प्रतिपिपादयिपुगा प्रक्षिप्ततदित्याहुः।। (४) "ये सान्तास्तेऽदन्ताः" इतिन्यायेम "आगोऽपराध" इत्यभिधाने सान्तोऽद. स्त वव्यत । तेनात्र बहुव्रीहिः ।। " ।
अहानिधिः। [४ प्रपाके RAN mmmona अनवखण्डनीयां देवमातरं वा (१) । हेयजमानपरिचारकाः ! यूयम् ‘मा वषिष्ट' मानत । अहमेव 'नु' भोः (२) चिकितुषे' ज्ञानसम्पन्नाय (३) जनाय' अस्मै (४)यजमानाय 'प्रवाचम्' प्रोक्तवानस्मि(५) अनागां गा मा वधिष्टेति ।। १४ ।। इति ॥ २० ॥ अत्र ( नापितोक्यनन्तरं तत्प्रतिवचनादिस्थाने ) विशेषमाह- अन्यत्र यज्ञात् ।। २१ ॥ यज्ञोज्योतिष्टोमादिः । ततोऽन्यत्रैवकुर्यात् (६) ॥ ३१ ।। यशेहि किकुर्यादित्युच्यते- कुरुतेत्यधियज्ञम् ॥ २२ ॥ अधियज्ञम् । (७) यज्ञे पुनर्नापितेन गौरित्युच्चैस्त्रिरुक्ते खल्वयंमईणीयः । कुरुत । पालम्भध्वमित्यग्निस्वामिप्रभृतयः। तथाचलाट्यायनश्रौतसूत्रम "कुरु- तेति गवि प्रोक्तायां यादि ( १॥२॥१२ ) ति । अस्यालम्भनादि अपणान्तं कर्म कुरुतेति व्याख्यानन्द्राह्मायणीये श्रौतसूत्रभाष्ये धन्वीप्राह । तदेतत्कलिवयं- प्रकरणे पाराशरीये स्मर्यते- "यज्ञाधानगवालम्भं सन्यासं पलपैतृकम् । देवराञ्च सुतोत्पत्तिङ्कलो पञ्च विवर्जयेत् ।।" इति । यज्ञाधानम- अग्निहोत्रम् । अत्र "अश्वालम्भमि"-तिः केचित्पठ- न्ति । पलपैतृकं (८) मांसेन पितृश्राद्धम् । विवाहादिगृह्यकर्मणि मधुपर्के तु (१) "दो अवखण्डने"। दि०प०) इत्यस्मात्कर्मणि किनि । "धतिस्यतिभा- स्थामि-ति किती" (पा० ३।३.१७४) ति धातोरित्वे दिति-शब्दोनमसमसितः । निरुक्तेषु तु भवितिरदीना देवमातेति ( ४ ॥३२ ) पठ्यते । तत्र कर्तरि संज्ञा यांतिज् (पा० ७१४४०) बोध्यः । (२) नुशब्दः "नुच्छायां विकल्पे चेत्यमरेण प्रश्ने प्रयुक्त इहसम्बुध्यर्थं प्रयुक्तो- योग्यतावशात । तथा च निरुक्तम् "नुइत्येषोऽनेकम्मा (१-२-२ ) अनेककम्मा- नेदार्थ इति दुर्गः॥ ( ३ ) "कितज्ञाने" ( भ्वा०प०) तस्मारकसौ चतुथ्येकवचनम् ॥ (४) "जनोलोके, महलोकात्परलोके च पामरे" इति विश्वः ।। (५) अत्र "बहुले छन्दस्यमाङ्योगेऽपीति (पा०६।४।७५) अडागमप्रति. पेधः । व्यत्येयेन (पा० ३३११८९) नस्यणः । (६) गवानुमन्त्रणादि॥ (७) यज्ञे इतीत्यर्थेऽव्ययीभावः समासः (पा० २६११६) अन्येतु यज्ञमधिकृत्ये. त्यधियज्ञम् । यदहणक्रियते तत्रेति पाचक्षते ॥ (८) "पलमुन्मानमांसयोरिणति रुद्राभिधानात्पलेन मासेन केवलेन पैतृक श्राद्ध म्पलपैकमुच्यते ॥ "सहान्नेनोत्तरास्तर्पयन्सीपति मत्स्यादीन्युपक्रम्य श्राद्धकरूपे सगै रेव सूत्रणात ma । - १. कण्डिका गोभिलगृह्यसूत्रे- आचार्येणाऽपि यथोक्तं गोर्मोक्षणमनुमन्त्रणब्चेति द्वयमप्यभिहितमा! २३ ।। षडया भवन्ति ।। २३ ॥ अर्घम्पूजाविधिमहन्तीत्याः। "मूल्ये पृजाविधावर्ष" इत्यमरः। "दण्डा- दिभ्योयत्" (पा० ५।११६६ ) इति यत्प्रत्ययः । ते बल्विमे षड्भवन्ति ।।२३।। ते खल्विमे षड़हणीया नामतोनिर्दिश्यन्ते--- आचार्य ऋस्विक्-स्नातको-शुजा-विवाद्यः प्रियोऽनिथिरिति॥२४॥ तत्राचार्योमनुनोक्तः- "उपनीय तु यः शिष्यं वेदमध्यापयेद्दिजः । सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते ।।" इति । योब्राह्मणः शिध्यमुपनीय कल्परहस्यसहितां वेदशाखां सर्वामध्या. पयति तमाचार्यम्पूर्वे मुनयोवदन्ति । कल्पा-यज्ञविद्या । श्रौतगृह्य-भेदमिन्नो, रहस्यमुपनिषत् । वेदत्वेऽप्युपनिषदां प्राधान्यविवक्षया पृथगनिर्देशोगावली(१). वस्न्यायन बोध्यः । ऋत्विगपि तेनैवाभिहितः- "आग्न्याधेयं पाकजनमग्निष्टोमादिकान्मखान । यः करोति वृतोयस्य स तस्यविगिहोच्यते ॥” इति । आहवनीयायग्न्युत्पादनमग्न्याधेयम् । अष्टकादीन्पाकयज्ञान् । अग्निष्टो- मादीन् यज्ञान् । कृतवरणोयोयस्य करोतिस तस्य ऋत्विगिह शास्त्रेऽभिधीयते । वेदमधीत्य यः स्नाति स स्नातः । स्तात एव स्नातकः । ते च स्नातकादयो व्या ख्याता: पारस्करण-"समाप्य वेदमसमाप्य व्रतंयः स्नाति स विद्यास्नातकः । समाप्य व्रतमसमाप्य वेदं यः स्नाति स व्रतस्नातकः । उभयं समाप्य यः स्नाति स विद्याव्रतस्नातकः" । इति । राजाअभिषेकादिगुणगणयुक्तोजनेश्वरः । विना- ह्यो-विवाहयितव्योवरः । प्रियः । विद्यातप: प्रभृतिभिर्गुणैः प्रीतिविषयः ! अ. तिथिः (१।४।१ सू०) यथोक्तलक्षणः ।। मनु:- "एकरात्रं हि निवसन्नतिथिाह्मणः स्मृतः । अनित्यं हि स्थितोयस्मात्तस्मादतिथिरुच्यते ।।" इति । प्रियश्चायं वृत्तस्वाध्यायगुणयोगाद्भवतीत्याह- "विद्यातपः समृद्धेषु हुतं विप्रमुखाग्निषु । निस्तारयति दुर्गाच्च महत्तश्चैव किल्विषात् ।।" MAP - (१) गामानय-बलीवञ्चानयेत्युक्ते बलीवोऽपि गौरवेति पृथक् तस्याभिधानं प्राधान्यख्यापनाय । एष एव ब्राह्मणवशिष्ठन्यायार्थः ॥ ३५ गो० ० सू अहणाविधिः। [४ प्रपाठके Halwa इति । प्रियइति विशेषणाद्विद्यादिगुणवानेवातितिरयेणाहणीयोनपुनर्यः कश्चिदिति दर्शयति ॥ २४ ॥ किसतानाचार्यादीन्सकृदेवाईयेत् ? नेत्याह- परिसवत्सरानईयेयुः ॥ २२ ॥ परिसवत्सरान-परिगतः सवत्सरोयेषांस्तानिमानाचार्यादीन अहयेयुः । पुनरिति परतस्तनं काकाक्षिगोलकन्यायेनोभयत्रापि सम्बध्यते । तेन वत्सरा. पूर्वमेतानागतान्पुनः पुनरर्हयेयुरित्यर्थः ॥ २५ ॥ युनर्यज्ञविवाहयोश्चपुनर्यज्ञविवाहयोश्च ॥ २६ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रे चतुर्थप्रपाठकस्यदशमी कण्डिका ।।४।।१०॥ (प्रपाठकश्चायं समाप्तः) यज्ञविवाहो-व्यख्यातौ। तयोनिमित्तभूतयोः सव्वत्सरमध्येऽप्यागताना- चार्यादीन्युनरर्हयेयुरित्यर्थः । चकारः परिसवत्सरकालं समुच्चिनोति ॥ अन्ते. ऽभ्यासः प्रपाठकपरिसमाप्तिद्योतनार्थो, मङ्गलार्थइतिमुरारिमिश्राः प्राहुः ।। २६ ।। इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायाम्मृदुलाख्यायाम्मुकुन्दशर्मसङ्क. लितायां चतुर्थप्रपाठकस्य दशमी कण्डिका प्रपाठकश्च समाप्तः॥४॥१०॥ * ॥ MANANJARAT Mos अथ संस्कार कुशण्डिका परिशिष्टम्-) चतुर्थप्रपाठके पञ्चमी कण्डिका- काम्येष्वतऊर्ध्वम् ॥ १॥ अत ऊर्ध्वङ्काम्येषु “विधिमुपदेयाम" इति सूत्रशेषः ।। १ ।। पूर्वेषु चैके ॥ २॥ पूर्वेषु-नित्य-नैमित्तिकेष्वपि वक्ष्यमाणोविधिर्भवति । इति चैके आचार्याः मन्यन्ते ॥ २॥ कोऽसौ विधिस्त्युिच्यते- पश्चादग्ने मौ न्यश्चौ पाणी प्रतिष्ठाप्ये-"दम्भूमेर्भजामह"इति॥३॥ (मं० ब्रा०२।४।१) न्यञ्चावधोमुखौ । तथाचच्छन्दोगपरिशिष्टम्- "दक्षिणं वामतोबाह्यमात्माभिमुखमेव च । करङ्करस्य कुर्वीत करणेन्यञ्चकर्मणः ।।
। LED । कण्डिका ] गोभिलगृह्यसूत्रे--- कृत्वाऽग्न्यभिमुखौ(१)पाणी स्वस्थानस्थौ सु (२) संयतो॥" इति । वामत इति षष्ठीसमर्थात्तसिः । ( पा० ५।४।४४ वा० ) तेन वाम- स्य करस्य बाह्यमुपरिस्थम् । आत्माभिमुख-मग्न्यभिमुखं दक्षिणङ्करङ्कुर्वीतेति सम्बन्धः । एवञ्चापरिकृतदक्षिणहस्तः करद्वयमधोमुखमग्न्यभिमुखञ्च भूमावा. रोप्य भूमिजपकुर्यादिति पर्यवसितोऽर्थः ।। मन्त्रमाह-इदमिति । यथा- "इदम्भूमेर्भजामह इदम्भद्रं सुमङ्गलम् । परा सपलान्बाधस्वान्येषां विन्दते धनम् ॥" इति । अस्यार्थः । हे अग्ने ! यदेतद् ‘भूमेः' सम्बन्धि स्थण्डिलम् । (भव. ताधिष्ठितम् ) 'इदं वयं 'भजामहे' सेवामहे । “भजसेवायाम्" (भ्वा० आ०) लट् । गृह्णीम इति यावत् । किम्भूतम् ? 'भद्र' कल्याणकरम्(३) भजनीयं वा । 'सुमङ्गलम्' प्रशस्ततरम् । इदमिति पुनर्वचनमादरार्थम् । किञ्च ह अग्ने ! 'सपत्नान्' शवनस्माकम् 'परावाधस्व' सुष्ठु (४)पीड़य । किञ्च (५)यो. ऽप्यनेन मन्त्रण विवाहादियज्ञकर्मणि भवदधिष्ठितम्भूमेरवयवं गृह्णाति सोऽपि 'अन्येषाम्' ईश्वराणां (धनिनाम् ) सम्बन्धि । 'धन' विन्दते' प्राप्नोति ।।१।। इति ।। ३॥ वस्वन्तात्री, धनमिति दिवा ॥४॥ रात्रौ क्रियमाणे कर्मणि । वसुशब्दान्तोमन्त्रः पठनीयः । दिवा-दिवसे धन शब्दान्त इत्यर्थः ॥ ४॥ "इम स्तोममिति तृचेन परिसमूहेत् ॥ ५ ॥ (मं० ब्रा० २।४।२-४) 'इमं स्तोमम्" इति-एवमादिना। तृचेन । तिमृणामृचां समाहारस्तृचम "ऋचित्ररुत्तरपदादिलोपश्चच्छन्दसि" (पा० ६११३४ वा० ) इति सम्प्रसार. णादौ कृते रूपम् । “छन्दोवत्सूत्राणि भवन्ती"ति महाभाष्यम् । तेन "इमं" "भराम" "शकेम"-ति ऋक्त्रयेणेत्यर्थः ।। ऋचोयथा- "इमं स्तोममहते जातवेदसे रथमिव सम्माहेमा मनीषया। भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मारिषारिषामा क्यन्तव ॥२॥ (१) 'हस्तौ' इति मुद्रितपुस्तकपाठः। (२) "सुसंहतौ” इति मु० पु० पाठः । (३)"स्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गल शुभमित्यमरः ॥ (४) "बाविलोड़ने" (भ्वा० आ०) विलोडनं प्रतीपातः । प्रार्थनायां लोट् । "व्यवहिताश्व" (पा०२४८२) इत्युपसर्गस्य व्यवहित प्रयोगः ॥ (५) एषोऽर्थस्तात्पर्य गत्या गुणविष्ण्वादिभियाख्यात इहोद्धतः ।
२७६ अहणाचार्वाधः। [४ प्रपाक भरामेध्मं कृणवामा हवींषिते चितयन्तः पर्वणा पर्वणा वयम् ॥ जावातवे प्रतरां साधया धियोऽग्ने सख्ये मारिषामा वयन्तव ॥३॥ शकेम त्वा समिधं साधया धियस्ते देवा हविरदन्त्याहुतम् ।। त्वमादित्याँ २॥ आवहताँ २।। ह्युस्मस्यग्ने सख्येमारिषामा वयन्तव ॥४॥ इति । आसामर्थाः। वयम 'इम' (१)स्तुतिविशेषं 'सम्महेमा' सन्महेम । सम्यक् पूजोपकरणयुक्तं कुर्याम । छान्दसोदीर्घः (पा० ६।३।१०७ ) एवमग्रे. ऽपि । 'हि' यतः । 'न:' अस्माकम् । 'अस्य' अग्नेः सकाशात् । 'भद्रा' कल्या. णी 'प्रमतिः' प्रकृष्ठा बुद्धिः । 'संसदि' सभायां(२) (जनसमाजे) "जायते” इति शेषः । जया वयमपि स्तोतुं प्रभवाम इति भावः । तस्मात हे 'अग्ने ! 'तव' 'सख्ये मित्रत्वे स्थिता 'वयम्' केनचिदपि दुरात्मना 'मारिषाम' माहिसि(३)ऽम. हि (हिंसितामा भावेम ) २ ॥ हे 'अग्ने 'ते' त्वदर्थम् । 'वयम्' इध्मं यज्ञिय. दारुसमिधं 'आभराम' आहराम(४)। तथा 'पर्वणा(५)पर्वणा' प्रतिपर्व (पर्वणि पर्वणि) 'हवींषि हवनीयानि चरुप्रभृतीनि । 'चितयन्तः सञ्चितानि कुर्वन्तः । 'कृणवाम' कृणवाम । सम्पादयाम (निर्वपामेति यावत् ) किमर्थम् ? 'प्रत. राम् (६)प्रकृष्ट-( दीर्घ-) तरकालम् 'जीवातवे' जीवनाय(७)। किञ्च हे 'अग्ने' 'धियः' कर्माणि ( निघ०२।१।२१) अस्माभिः क्रियमाणानि । 'सा. धया' साधय । सफलानि कुरु । 'तव' 'सख्ये' मित्रत्वेस्थिता 'वयं' केनचिद्दु- रात्मना'मा रिषाम' माहिसिष्महि (हिंसितामा भवेम)॥३॥ हे अग्ने ! त्वमस्माकं धियः बुद्धीः कर्माणि (निघं० २१११२१ ) वा। 'साधया' साधय । स्वदाराधनयोग्या (-नि) निष्पादय । पूर्ववदीर्घश्छान्दसः। यथा 'वयं' 'समिधं' समिन्धयितुं(८) 'शकेम' शुक्नुयाम(९)। 'देवाः' इन्द्रा. दयः । 'ते' त्वयि । (१०) आहुतं' प्रहुतं 'हविः' हवनीयं चरुपुरोड़ाशादिकम । (१) सोमसाव्येषु यागेषु छन्दागः क्रियमाणा पृथ्यादिसंज्ञिका स्तुतिस्तोमः। (२) "सभासमितिसंसदः" इत्यमरः ॥ (३) "रिषहिंसायाम् (भ्वा० दि०प०) कम्मणि लुङ् ॥ (४) "हमहोनश्छन्दसि (पा० ३६११४४ वा० ) इति हस्यमः । हरतिरनसोप. सृष्टार्थवर्तते ॥ (६) प्रतिदर्शपौर्णमासादि। (६) अत्रो-"पसगंबलेन योग्यक्रियाध्याहार" इति । "किमेत्तिव्ययवादम्वद्रव्य- प्रकर्षे (पा०६।४।११) इति आमधान्तात् । “तरतमपौध" (पा०११११२२) इति धसंज्ञा॥ (७) "जीवेरातुः" ( उ० ११७९) इति भावे आतुः प्रत्ययः । (८) "अणिमुल्कमुलौ" ( पा० ३।४।१२) इति तुमथै कमुल्प्रत्ययः ॥ (१) "लिख्याषिष्य (पा० ३३८६) इत्यङ् ॥ (१०) व्यत्ययेन (पा० ३११८५) ससम्यर्थे षष्ठी ।। ।
mal • काण्डका गोभिलगृह्यसूत्र- 'अदन्ति' भक्षयन्ति । वन्मुखत्वात्तेषाम्(१)। अतस्त्वं 'तान्' 'आदित्यान' अदितिपुत्रान(२) देवान् । 'श्रावह आवाहय । अन्तर्भावितण्यर्थोऽत्रावहतिः । 'हि यस्मात् ! 'वयं' 'तान्' 'उश्मसि' (३)उश्मि । कामयामः । हे 'अग्ने' 'न' 'सख्ये मित्रत्वे स्थिता वयं केनचिदपि 'मारिषाम' हिसिता मा(४)भ- बम ॥४॥ इति ॥ परिसमूहेत् । विक्षिप्तानगन्यवयवानेकीकुर्यात् । अन्यत्र क्षिप्रहामभ्यः । तथोक्तम्-(छ० ५० ) "न कुर्यातिप्रहामेषु द्विजः परिसमूहनम् ॥” इति । परिममूहनञ्चेदं दक्षिणहस्तेन । “यत्रकतरङ्ग नचोच्यते । दक्षिणस्तत्रविज्ञेय" इतिकातीयपरिभाषणात् । कुशत्रयेण चेतिवीरेश्वरादयः । तत्प्रकारमाह-कर्म- प्रदीप: "प्रदक्षिणन्तथासीनः कुर्यात्परिसमूहनम् ।" इति । एवञ्चोत्तरपूर्वदक्षिणक्रमेणैकैकयर्चा दक्षिणहस्तेन कुशत्रयगृहीत्वा परिसमूहनकर्त्तव्यमिति द्रष्टव्यम् ॥ ५ ॥ वैरूपाक्षः पुरस्ताद्धोयानाम् ॥ ६ ॥ (म० ब्रा०२।४।५) वैरुपाक्षः । विरूपाक्षशब्दोयस्मिन्वर्त्तते स विरूपाक्षः । अादित्वान्मत्व- थीयोऽच्प्रत्ययः (पा० ५।२।१२७ ) । ततस्स्वार्थेऽण (पा० ५।४।३८) प्रत्य- यः । होमानाम्-होमयुक्तमन्त्राणाम् । अयमप्यादिरेवावगन्तव्यः । पुरस्तात- पूर्वम् । “भवतो-"तिशेषः । अत्राप्यन्यत्रक्षिप्रहोमेभ्य इति द्रष्टव्यम् । मन्त्रो- यथा- "भूर्भुवःस्वरों महान्तमात्मानं प्रपद्ये विरूपाक्षाऽसि दन्ताजिस्तस्यते शय्या पर्णगृहान्तरिक्षे विमतहिरण्मयं तदेवाना हृदयान्ययस्मये कुम्भेऽअन्त:सन्नि- हितानि तानि बलभृच्च बलसाच्च रक्षतोऽप्रमनी अनिमिषत्तत्सत्यं यत्रे द्वादश. पुत्रास्ते त्वा सवत्सरे सब्वत्सरे कामप्रेण यज्ञन याजयित्वा पुनर्ब्रह्मचर्यमुप- (१) तथाचश्रुतिः "अग्निमुखा वेदेवा" इति ॥ (२) अपत्यार्थ प्रत्ययः ( पा० ४।१।८५) “यस्येति चेती ( पा०६।४।१४८) कारलोपः॥ (३) "वशकान्तौ” ( अ०प० ) लटोमसि “अहिज्ये" (पा०६।२१३) त्या- दिना सम्प्रसारणे "इदन्तो मसि" (पा० १११४६ ) इतिमसड्गागमः ॥ (४) अनादित्या तां इति “दीर्घादटिसमानपादेश (पा. ८३।९) इतिनस्यत्वे यत्वयलोपौ । "आतोऽटिनित्यम्" (पा० ८.३३) इत्यनुनासिकः। (५) अत्र (४-५) एतदभिधानेनातः प्राकनानामग्न्याधानादिकर्मणां यथोकानां नित्यनैमित्तिकत्वे यथायथं विज्ञायते । किन्त्वेतस्परिशिष्टभूतमिति उपक्रमोक्ता नित्यका. म्यव्यवस्था नानुपपद्यते। - श्रहेणाविधिः। ४ प्रपाठक यन्ति । त्वं दवेषु ब्राह्मणाऽस्यह मनुष्येषु ब्राह्मणावै ब्राह्मणमुपधावत्युपस्या धावामि । जपन्तं मा मा प्रतिजापीजुह्वन्तं मा मा प्रतिहोषीः कुर्वन्तं मा मा प्रतिकास्त्विां प्रपद्ये स्त्रया प्रसूत इदङ्कर्मकरिष्यामि तन्मे राध्यतान्तन्मे समृ. यतान्तन्म उपपद्यतां समुद्रामा विश्वव्यचा ब्रह्माऽनुजानातु तुथोमा विश्व- वेदा ब्रह्मणः पुत्रोऽनुजानातु श्वात्रोमा प्रचेता मैत्रावरुणाऽनुजानातु । तम्मै विरूपाक्षाय दन्तालये समुद्राय विश्वव्यचसे तुथाय विश्ववेदमे श्वात्राय प्रचेतसे सहस्राक्षाय ब्रह्मणः पुत्राय नमः ॥ ५॥” इति ।। अस्यार्थः । 'भूः' पृथिवी 'भुवः' अन्तरिक्षम् 'स्वः' द्यौः ॐ ॐकार आत्मा । एतेयदात्मान. । ततोऽपि 'महान्त' रुद्राग्निरूपम् 'आत्मानम्' 'प्रपद्ये' प्रपन्नोभवामि । हे भगवंस्त्वं 'विरूपाक्षोऽसि' विविध(नाना)रूपनेत्रोभवति ! तथाचति: "सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः । विश्वरूपोमहान- निःप्रणीतः सर्वकर्मसु" इति । किञ्च 'दन्तानिः' दन्ताननक्ति व्यञ्जय(१)ती. ति । 'तस्य' एवन्भूतस्य 'ते' तव 'शय्या' शयनस्थानम् । 'पणे' पर्णतुल्ये उप- लेपनाभ्युक्षणादिभिः संस्कृते स्थण्डिले “भूमौ स्थानमग्नेः" इतिश्रुतेः । 'गृह' गृहञ्च । सालुंकू (पा० ७।११३९ ) 'अन्तरिक्षे' मुवोंके । 'विमित' निम्मितं, हिरण्यगर्भप्रभृतिभिः । कीदृशं ! हिरण्मयम्' हिरण्यम(२)यम् । 'तत्' त. स्मिन् । उर्लुक् ( पा० ७:१।३९ ) गृहे 'देवानाम्' इन्द्रादीनां 'हृदयानि "तिष्ट. न्तीति"(३)शेषः । कस्मिन्निव ? 'अयस्मये' लोहमये(४) 'कुम्भे' "इवे-"ति. शेषः । 'अन्तःमध्ये' 'सन्निहितानि' एकीभूतानि 'तानि' देवताहृदयानि । 'बल. भृच' बलमुपचयात्मकं विभौतिकिप। 'बलसाच्च' बलंविपक्षाणां सादयतिस्फो. टयतीतिक्किम् । एतन्नामको अम्नेः प्रतीहारौ तौ 'अप्रमनी'(५) अप्रमादिनौ । 'अनिमिषत्' अनिमिषन्तौ(६) सन्तौ यदेतौ रक्षतः' त्वाम् (अग्निम्) 'तत्सत्यं' ताभ्यां हि रक्षितेअछनौयजमान: पमुपुरोडासादि जुहोति । 'यत्' 'ते' तव 'द्वाद - (१) "अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु (रु. ५० ) अत औणादिक इन् ( उ. (२) सुवर्णमयम् । "दाण्डिनायने" ( पा०६४।१०४ ) स्यादिना विपातः । तथा. च श्रुतिः "ज्वलितमग्नि प्रविशन्तमन्तरिक्षम्" इति ॥ (३) सेदोक्यस्थिताऽग्निः प्राध्यते कदापुनस्स्वमस्माकमग्ने हविरानविष्यसीति!! (४) "अयस्मयादीनि च्छन्दसि" (पा० शहा२०) इतिनिपातितः ॥ (६)"ये सान्तास्तेअदन्ता" इतिन्यायेन । प्रगतमनः शब्दाइकारान्तान्मत्वथ ई-(पा०६।२।१२२ ) प्रत्यये भत्वादल्लोपः । (पा०६४।१४८) प्रमनी प्रमादी ॥ ततो. नसमासः । "वाच्छन्दसा-" (पा०६।१।१०६ ) ति वा पूर्वसवर्णदीर्घः ।। (६) अमोलिताक्षौ । औडोलुक् ( पा० ॥११३९) ॥ - गोभिलगृह्यसूत्रे- २७8 कण्डिका 00D । ANIMAD शपुत्राः । अग्न्याख्याएव । 'तेसम्वत्सरे' २प्रत्यब्दम । 'कामप्रेण (१)अभि- लाषपूरकेण 'यजेन' ज्योतिष्टोमादिना । यजमानं 'याजयित्वा' यागेन सम्पाद्य 'पुन:' 'ब्रह्मचर्यम्' ब्रह्मभूतं त्वाम्' 'उपयन्ति'। प्रविशन्ति । हे अग्ने ! 'त्वं' 'देवेषु देवलोकेषु 'ब्राह्मणोऽसि' 'अहं' 'मनुष्येषु' मनुष्यलोकेषु 'ब्राह्मणः' 'वे' निश्चयेन । लोक: 'ब्राह्मणम्' एवं 'उपधावत्ति' आश्रयत्वेन ढोकते । ( सेवते ) अत: 'त्वा' त्वाम् 'उपधावासि' परिचरामि(२)। उपधावनकारणमाह "जपन्तं(३)xxxकार्षीः' इति । एदुक्तंभवति-जपहोमकर्मकाले ममप्रातिकू. ल्यम्भागाइति । अतः त्वां प्रपद्ये प्रपन्नोऽस्मि(४)। त्वया' 'प्रसूतः' अभ्यनुज्ञातः । 'इदं प्रस्तुतं 'कर्म' करिष्यामि । यतएवमतः 'तत्' एतत्कर्म 'मे' मम 'राध्यताम्' (५)संसिध्यतु । 'तन्मे 'समृद्धयताम'६) संवर्द्धताम । 'तन्मे' 'उपपद्यताम्' फलप्रदानसमर्थं जायताम् । अत्र "तन्मे" इत्यादराति. शये भूयस्त्वम् । अथ यत्ते द्वादशपुत्रा इत्युक्तन्तानामतः कतिचन प्रयोगतानि- दिशति-'समुद्रेः' समुद्रइव 'विश्वव्यचीः' विश्वव्यचति विविधंगच्छ(७). तीति विश्वव्यचाः । बझै तन्नामा अग्निश्च 'मा' माम् । अत्रकर्मणि प्रवृत्तम् 'अनुजानातु' अनुज्ञापयतु । तथा 'तुर्थ:' तन्नामा 'विश्ववेदाः' सर्वस्यकर्मजातस्यवेदिता । 'ब्रह्मणः' उक्तरूपस्य पुत्रः' 'मा' माम 'अनुजानातु' । तथा 'वात्रः' तन्नामा 'प्रचेताः' प्रकृष्टमनाअग्निः एवं 'मैत्रावरुणः मित्रवरुणदेव(८)त्यश्च 'मानुजानातु' पूर्ववदर्थः । हे अग्ने ! यतस्त्वमेवमनेकभेदः । तस्मै तुभ्यं "विरूxxxत्रायनमः' ।। ६ ।। इति ।। काम्येषु च प्रपदः ॥ ७॥ (मं० ब्र०२।४।५) (१) "प्रापूरणे" ( अ०५०) "आतोऽनुपसर्गेका" (पा. ३१२१३) इति के आ. तोलोपः (पा०६४६४)॥ (२) "व्यवहिताश्व" (पा०१।४।८५) इत्युपोव्यवहितस्य प्रयोगः ॥ (३) अत्र जुह्वन्तमिति छान्दसोनुम् । (पा०६३।१०९) यांगमरूपोनरुक्तस मयेन । "नाभ्यस्ताच्छतुरि-" (पा १७८ ) इति नुमोभावस्य बोधनात । ( ४ ) "प्रपन्नः शरणागत" इत्यभिधानम् ॥ (६) "राधसाधसंसिद्धौ” (दि०५०) लोट् प्रार्थनायाम् । श्यन् । अत्रपदव्य त्यय आर्षः। (पा०३।१०८५) (६) "ऋधुवृद्धौ(दि०प०) लोट् पूर्ववत् ॥ (७) "अचुगतो" (न्वा उ.) ततोऽसुन् ( उ० ४।१८८ ) एवमग्रेऽपि । (८) अत्र "सास्यदेवता" (पा० ४।२।२४) इत्यणादिवृद्धिः ॥ "देवताद्वन्द्वेच" (पा०६।३।२६) इति पूर्वपदस्यानङ्॥
श्रहणाविधिः। [४ प्रपाठक- काम्येपु-होमवत्कम्नसु(१) । प्रपदश्च । "तपश्च तेजश्चेत्यादि-"मामव. नु' इत्यन्त मन्त्राऽपि जाव्य. पुरस्तादेव । मन्त्रीयथा- "तपश्च तेतश्च श्रद्धा च ह्रीश्च सत्यञ्चाक्रोधश्च त्यागश्च धृतिश्च धर्मश्च । सत्त्वञ्च वाक च मनश्चात्मा च ब्रह्म च तानि प्रपद्ये तानि माभवन्तु" ||२|| अभ्यार्थः-'तप:' उपवासादि । 'तेजः प्रकाशात्मकं 'श्रद्धा' कालुप्याप. गमश्चिनस्य धर्मः । 'ही'लज्जा । 'सत्यं यथा-(स्थिता)ऽर्थादित्वम् । 'अक्रो. धः' प्रतिकृलविषयेऽपि मनसः प्रसादः । 'त्यागः' न्यायागतस्य धनस्य विधिना. विसगः । 'वृतिः' समौनस्यम् । 'धर्मः' यज्ञकर्म 'सत्वाम्' आत्मनि प्रकाशा. मोगुणः । 'वाक्' वचनम् । 'मनः' सङ्कल्पविकल्पकवृत्तिमानिन्द्रियविशेषः । 'आत्मा' क्षेत्रन:(२) 'ब्रह्म' परन्तत्वम् । चकारः सर्वे परस्परापेक्षया समुच्च- यार्थाः । 'तानि' तपःप्रभृतीनि 'प्रपद्ये शरणंगच्छामि । अतः 'तानि' इमंयज्ञं कुर्वन्तं 'माम' 'अवन्तु' रक्षन्तु ।। ५॥ इति ।। चन्द्रकान्तस्तु-द्विविधानि तावत्कास्यानि(कर्माणि)भवन्ति होमसंयुक्तानि अहोमकानिच । तत्र वैरूपाक्षा होमसयुंक्तेष्वेव, प्रपदस्तुसर्वत्रैव स्यादिति । चशब्दएवकारार्थ इतितत्वकारः । अस्य प्रपदसमाख्यावीजन्तु वैरूपाक्षस्य प्रथमंपदस्थानमस्येति । "पदंव्यवसितत्राणस्थानलक्ष्मानिवस्तुषु" इत्यभिधा- अथेदानीन्प्रपदवेस्पानयोजपप्रकारोऽभिधीयते 'नपश्चनेजश्चे"तिजपित्वा प्राणाना(३)यम्यार्थमना वैरूपाक्ष- मारभ्योच्छ्वसेत् ॥८॥ "तपश्चतेजश्वे"-त्युक्तमन्त्रं (प्रपदरूपं ) जपित्वा तत्परिसमाप्तो प्राणान आयम्य-नियम्यानुच्छ्रसन्नेव । अर्थमनाः । योऽर्थः साधयितुमिष्टस्तन्मनास्त ध्यायन वैरूपाक्ष-विरूपाक्षोऽसीत्यादिपघटितम् आरभ्य-श्रावृत्त्य । उच्छु. सेत् । श्वासमुत्सृजेत् । तदुक्तं छन्दोगपरिशिष्ट- "वरूपाक्षंजप्तुमनाः प्राणानायम्य शक्तितः । भूराद्यारभ्य उच्छ्सेदेवंसोममतेन तु ।। मतेनाजातशत्रोस्तु जपित्वा भूर्भुवःस्वरोम्" इति । क्षिप्रहामोऽ-नुदितहोमः । एवञ्चात्र निषेधात्तयोविधिरन्यत्रायाति । "विशेषविधेःशेषनिषेधाभ्यनुज्ञाफलकत्वस्य तुल्यवित्तिवेद्यन्यायेन कल्पनात् । (१) अनमत्वर्थीयोऽप्रत्ययः । “अर्श आदित्वात्। ( पा० ५।३।१२७ ) ॥ (२) "क्षेत्रज्ञ आत्मा पुरुषः" इत्यमरः ॥ (३) अन्न प्राणायाममायम्येति चन्द्रकान्तभाष्ये पाठः । प्राणानामायमनं समन्ता. संयमः प्राणायामः । "निरभ्यस्तः पूरककुम्भकरेचकाख्यः प्राणायाम” इतिसन्ध्यासूत्रा. भ्यलक्षणः । तमायम्य कृत्वेतितदर्थः ॥ नात्॥ ७॥ MARA । CHAND ।
३ कण्डिका गोभिलगृह्यसूत्रे- जपोऽयं समिधमेकाङ्कुशफलपुष्पसहितां गृहीत्वाकार्यः । जपान्ते च कुशमैशा- न्यां परित्यज्य फलपुष्पं ब्रह्मणे निवेद्य समिधन्तूष्णीमग्नौ क्षिपेत् । तथैवा- चारात् । पद्धतिकृतोऽप्येवम् ।। अङ्गिराः- विरूपाक्षंजपेन्मन्त्रं प्रपदश्चैव यज्ञवित्"। इति । यज्ञवित्पदन्तदाचारलाभाय । इदमपि समिदादिग्रहणे प्रमाणमिति द्रष्टव्यम् ॥ ८॥ अथ यज्ञवास्त्वन्ते पूर्णहोमः ( १८२६) तत्रशौनकः-- "अथ पूर्णाहुतिन्दद्याद्वन्धपुष्पफलान्विताम् । साक्षतामूलकायश्च समपाच्छऋदिङ्मुखः ॥" इति । अथ-यज्ञवास्तन्ते ऊर्ध्वकायः । तिष्ठन् । कात्यायनः । "ततः पूर्णाहुतिकृत्वा सर्वतन्त्रसमन्विताम् । गान्दद्याद्यज्ञवास्त्वन्ते ब्रह्मणे वाससी तथा ।। इति । ततो-यज्ञवास्त्वन्ते । पूर्णाहुतिकृत्वेत्यन्वयः । वस्त्रदक्षिणाच वि. शेषोपदेशस्थलएव । अन्यथा पूर्णपात्रादिकमेव । "ब्रह्मणे दक्षिणादेया या यत्रपरिकीर्तिते ति वचनात् । गोभिलीये- "पूर्णाहुतिश्च "मूर्धनन्दिव” इत्यभिपातयेत्” इति । पद्धती तु-"पूर्ण- हामं यशसे जुहोमी"ति मन्त्रेणायं पूर्णहोमउक्तः । मन्त्रलिङ्गात्तदप्यविरुद्वमे- वेतिदिक् ॥ ततो "वसुभ्यः स्वाहे"-त्यविच्छिन्नामाज्यधारामनौ दद्यात् । तत्रगृह्यासमहकारः "यज्ञवास्तुक्रियाङ्गत्वाद् विधिदृष्टेन कर्मणा । आज्यधारामविच्छिन्नाम्पातयेदनलेोपरि ॥" इति । ततःचुवलन्नसघृतभस्मना व्यायुषकरणम् । तत्रच- "ततोऽनामिकया कुर्याद्विन्दु सघृतभस्मना । हृद्यसयोललाटे च व्यायुषेतिपदैः क्रमात् ॥" इतिवचनं प्रमाणयन्ति शिष्टाः। ततः-वसुभ्यः वाहेति होमानन्तरम् ।। एतत्प्रकारउक्तोऽधस्तासमन्त्रकः (२।९।२१)। इति श्रीः॥ । MAHA - ३६ गो० गृ० सू० अथ-सर्वगृह्य(१)कम्माङ्गाभ्युदायिकसूत्रम्-- (श्राद्धकल्पचतुर्थखण्डस्थम् ) अथाभ्युदयिके श्राद्ध युग्मानाशयेत् । प्रदक्षिणमुपचारः। ऋज- वोदभीः। यवैस्तिलार्थः। सम्पन्नमितितृप्तिपश्नः । दधिवदराक्षत- मिश्रान्पिण्डान् । नान्दीमुखाः पितरः पीयन्तामिति वाचयदिति पितृभ्यः पितामहेभ्यः प्रापितामहेभ्योमातामहेभ्यः प्रमातामहेभ्यो वृद्धभमातामहेभ्यः स्वाहोच्यतामिति । अस्तु स्वाहेत्युक्ते न स्वधाम्म- पुञ्जीत ॥४-१-१०॥ इति ॥ गो० गृ० मूत्रम् SAR HA वृद्धिपूर्ते युग्मानाशयेत्। प्रदक्षिणमुपचारायवैस्तिलार्थः।(४।३।३५-३७) इतिच ॥ अथेत्या(२)रम्भार्थकमपि मुखतोमङ्गलार्थम् । आभ्युदयिके अम्युदयप्रयोजनके "तदस्य-"त्यधिकृत्य "प्रयोजनम्" (पा० ५।१।१०९) इतिविहितस्यठबइकादेशेन (पा० ७३५) पदसिद्धरुपपादनात् । अभ्युदयः समृद्धिरित्यनर्थान्तरम् । "नान्दी समृद्धिरिति कथ्यते” इति शुभकर्मनिर्णय- धृतं भविष्यपुराणम् । तथा च नान्दोपदस्य चतुर्थीसमासबलेन तदर्थपर. तया नान्दीश्राद्धमप्येतदेवात एवात्र पितरोऽपि नान्दीमुखा एव सूत्रेऽन्यत्रचा- भिहिताः । तदिदं श्राद्धमातृकापूजा-वसोर्द्वाराऽऽयुष्यमन्त्रजपान्कृत्वा कार्यम् । तथाच कर्मप्रदीपे कात्यायन:- कर्मादिषु च सर्वषु मातरः सगणाऽधियाः । पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः॥ प्रतिमासु च शुभ्रा-(द्धा)-सु लिखिता वा पटादिषु । अपिवाऽक्षतपुजेषु नैवेद्यैश्च पृथग्विधैः ।। कुड्यलग्नां वसोर्द्धारा सप्तवारान्घृतेन तु । कारयेत्पन्चवारान्वा नातिनीचां नचोच्छ्रिताम् ।। (१) तथा व सूत्रम्-"सर्वाण्येवान्वाहार्यवन्ति( शश) इति । अन्लाहार्य- मेतन्मते नान्दीमुखमिति तत्रैवावोचाम ॥ (२) तथा चामरः "मङ्गलानन्तराम्भप्रश्नकात्स्न्यध्वथो अथ" इति। तत्रसकृदु. चरितन्यायेनैकस्यैकत्रानेकार्थत्वमनुपपन्नमिति मुखत इत्युक्तम् । उच्चारणेनैवाय यात्रायां मृदङ्गादिध्वनिवन्मङ्गलं जनयति । तथाचोक्तं "ॐ कारश्चाथशब्दश्चद्वावेतौ ब्रह्म पुरा । कण्ट मित्वा विनियांतौ तस्मान्माङ्गलिकावुभौ" इति । माङ्गलिकौ-मङ्गलप्रयोजनको। "प्रयोजनम्॥ (पा० २१९) इति ठक् । तस्येकः । अन "सवस्येत्यनुवर्तते । ५ गोभिल-भाकल्पे- आयुष्याणि च शान्त्यर्थ जप्त्वा तत्र समाहितः । षड्भ्यः वितृभ्यस्तदनु श्राद्धदानमुपक्रमेत् ॥” इति ॥ कर्मादिषु-कर्मणामादिषु । सर्वेषु-श्राद्धवत्सु । "मात्तः सम्पूजयित्वा तु पितृभ्यः सुसमाहितः । वृद्धिश्राद्धन्ततः कुर्यात्सदाऽभ्युदयकारकम्(१) ॥" इत्यादिवचनेषु सर्वत्राभ्युदयिकसहभावेनैतद्विधानात्तदेकमूलकत्वकल्पना. लाघवात् । "यत्र यत्र भवेच्छाद्धन्तत्र तत्रैव मातरः', इति कात्यायनोक्तेश्च । तेन यत्राभ्युदयिकश्राद्धन्न विहितं, यथा निष्क्रमणा- नप्राशनयोस्तत्रैतदपि न भवति । सगणाधिपाः । गणेशपूर्विकाः। “पूर्व(२)वि. नायकः पूज्योमातरस्तदनन्तरम्" ।। इति वचनात् । मातरस्तु-यथाह बद्धचपरिशिष्टम् । "गौरी पद्मा शची मेधा सावित्री विजया जया। देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ यष्टिः पुष्टिस्तथा तुष्टिरथात्मकुलदेवता"।। इति । "गणेशेनाधिकान्त्वेता वृद्धौ पूज्याश्चषोडश ।" इति च । अत्र प्रयत्नेनेत्यनेनावश्यकता दशिता। अत एव शातातपः- "अकृत्वा मातृकायागं यः श्राद्धे परिवेषयेत् । तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः॥" उति। अत्र-पूजयन्तीत्यस्य-पुत्रधनसमृध्द्या वर्द्धयन्तीत्यर्थः। अभ्युदय दानेन प्रीणयन्तीति गौड़ाः। प्रतिमासु-रजतादिमयीषु । “प्रतिष्ठिता" इति शेषः । शुभ्रा-(द्धा)-सु शुक्लासु । पटादिषु लिखितावत्यन्वयः। वर्णिकाभिश्चि- त्रिता इत्यर्थः । आदिपदाद्भित्तिकुड्यादिपरिग्रहः । अक्षतपुजेषु-"प्रावाहिता, - (१) अत्र केचित्-सदाभ्युदयकारकमित्यर्थवादेन सफलत्वेनोपस्थितश्राद्धसमीपे "मातृः सम्पूजयित्वे-ति निष्फलनिशाद्विश्वजिन्न्यायेन फलकल्पने गौरवारकाश्रुते. श्व मातृपूजनस्य श्राद्धाङ्गत्वनिर्णयात “फलवत्सन्निधावफलन्तदङ्गामिति न्यायेन श्राद्ध. फलेनैव फलवत्त्वात आभ्युदयिकसङ्कल्पानन्तरंमातृपूजनमुचितमित्याहु-स्तन-"पूजिताः पूजयन्तिता:" इति कात्यायनेन सफलत्व बोधनात्कश्चाङ्गत्वानभिधायकत्वात् । एवञ्च मातृपूजनं प्रधान, नैमित्तिकच । “कर्मादिष्विति वचनात् । अत एवान "ॐ अद्यामुक. कर्मणि गणपतिदुर्गानीहिताः चाडशमातृरह पूजयिष्ये" इति पृथक्सङ्कल्पकरणमा. जानिकाचारसिद्धम् । अत एव च देवादाभ्युदयिकाकरणे-एतन्मात्रकरण विरुद्धस्यते । (२) तथा च बढचपरिशिष्टम्- "आदौ विनायकः पूज्योद्यन्ते च कुलदेवता इति । "सर्वकामसमृध्यर्थमादौ पूज्योविनायक" इति लिङ्गपुराण आभ्युदयिक (नान्दी) श्राद्धविधिः। [ ४थं खण्डम् - "ॐ वाङ्मनः ॥ । इति शेषः । अत्र "भूमावप्सु तथाग्नौ चेत्याधुक्तसामान्याधारव्यावृत्तिविशेषाभिधान- स्वरसादिति मुरारि: । अत्र दुर्वासहितगोमयनिर्मितरक्षिकादौ पूजनमा(१) चारादेवेति निबन्धारः । नैवेद्यैश्चपृथग्विधैः । अत्रपूर्ववाक्यस्थं पूजनीया इति सम्बध्यते । चकारादुपचारान्तरपरिग्रहः । अत्र गणपतिपूजानन्तरं दुर्गापूजनमाचारादेव । सर्वान्तेश्रारपि पूज्या। "श्रियञ्च पूजयेत्पश्चात्ततः कर्म समारभेत्” इति वचनात् । एवञ्च प्रत्येक गन्धाक्षतैः प्राणप्रतिष्ठाम्(२) "ॐ गणपतिरसी"त्येवं प्राणोऽपानाव्यानश्चक्षुः श्रोत्रं शर्म वर्म भूतिः प्रतिष्ठा" इति मन्त्रेण विधाय ॐ कारादिनमोऽन्तेन चतुर्थ्यन्तस्वस्वनाम्ना गन्धादिभिरभ्यर्चनीयाः। केचि. दत्र "बलिहीने तु दुर्भिक्षं गन्धहीने त्वयाज्यता। धूपहीने तथोद्वेगोवस्त्रहीने. धनक्षय" इति भविष्यपुराणाद्वस्त्रदानमपि नियतमाहुः ।। इत्थं पूजां विधाय कुडचलग्नाम-उपलक्षणमेतद्भित्तेरपि । नातिनीचाम् । स्थापितगोमयरक्षिकातः । नचोच्छिताम् । ततएव । सप्तवारान्पञ्चवारान्वा धृतेन-गव्येन वसोर्द्वारा(३)न्तन्नाम्नी घृतधारां कारयेत् कुर्यात् । स्वार्थे णिच् । "रामोराज्यमचीकरदि-"तिवत् । अत्र सवृन्तकदलीफलेन फलान्तरेण वा धाराप्रतीक्षणं संस्करणीयमात्र तत्फलसमर्पणञ्चेति समाचारः । वारत्रयं धाराकरणमिति रूपनारायणादयः । तत्राचारएवशरणम् । यद्यपि धाराणां प्राद- क्षिण्यं शास्त्रार्थः । दैवत्वात् । तथापि प्रवामदानमाचारादिति केचित् । आशा. दित्येन तु धाराणामुत्तरोत्तरत्वे "प्राब्च्युदञ्चिवा कर्माणि सन्तिष्ठेरन्” इतिश्रु. तिरेव मूलत्वेनोपन्यस्ता । "दक्षिणायुत्तरापवर्ग पश्चिमादि प्रागपवर्ग वा धाराः (१) "नातिनीचां नचोच्छ्रिताम्" इति झवधिसापेक्षनिर्देश एव एतत्करणे मूलं प्रतिभाति॥ (२) अस्य विधायेत्यनेनान्वयः । चित्रादौतु प्रतिष्ठाकरणन्दुराचारः मूलाभावेना- न्धपरम्परानुपातित्वात् । सुतरान्त्वेकदेतिमुरारिमिश्राः प्राहुः ॥ (३) अन्न समाख्ययां चेदिराजो वसुरुद्देश्य इति मूलम् । तथाच मोक्षधर्मे ( भार. ते ) वसुम्प्रति चेदिवाक्यम्- “यज्ञेषु जुह्नतां विप्रेसोर्द्धारा महात्मभिः । प्राप्स्यतेऽस्मदनुध्यानान्मा च त्वां ग्लानिराविशेत् ॥" इतिवाचस्पतिमिमाः । वस्तुतस्तु-अग्ने सवदेवमुखत्वात्सएवात्रोद्देश्यः। तस्यापि वसुपदार्थत्वात । तथा च मेदिनी "वसु-नादेवभेदाऽग्नि-भा-योत्क्र-वक-राजसु । क्कीबे वृष्द्यौषधेशपेच-रे-रत्न-मधुरे त्रिषु इति । "वसु रत्नं वसु द्रव्यं वसवोऽष्टौ धरा. दय इति चान्यत्र । मोक्षधर्मवचनं तु “वसुभ्यः स्वाहे"-ति यज्ञान्ते धृतधारापरत्वेन भिन्नविषयत्वात् । अत एव "यनेषु जलतामिगत्यपि सङ्गच्छते ॥
गोभिल श्राद्ध कल्पे-- पातयेदि"-ति दानोद्योतलिखनमपि तदभिप्रायकमेवेति द्रष्टव्यम्। इति महा. महो० हर्षनाथशाणः संस्कारदीपकप्राहुः । सा च धारा “ॐ एतमुत्यमित्यादि वसुप्रकाशकमन्त्रण कार्या । न तु "वसोः पवित्रमि"ति पारक्येण । अक्रिया(१)पत्तेः । मन्त्रस्यतु सकृदेवपाठो. नत्वावृत्त्या । बीजाभावात् । इतिमुरारिमिश्राः । वाचस्पतिमिश्रादयोऽप्येवम् । यद्यप्येकजातीयत्वेऽपि धाराकर्मणाम्भेदात्सर्वत्र मन्त्रान्वयायुक्तः। “मन्त्रा. न्तः कादिः सान्निपात्यः” इति कात्यायनसूत्रात् । तथापि गोशतादौ संख्या- विशेषस्य देवतावच्छेदकत्ववत् इहापि सप्तादेरवच्छेदकत्वात्। सप्तत्वाद्यवच्छिन्न- धारादानमेकमेवकम्मति सकृदेवपाठो मन्त्रस्य । तथा च परिभाषाध्याये का. त्यायन:-"एकद्रव्ये कावृत्तौ सकृन्मन्त्रवचनं कृतार्थत्वात्" इति क्रियादौ, मन्त्रवचनमुक्तं, किया च साभ्यासा एकैवेति न पुनर्वचनम् । “सत्कृते कृतः शास्त्रार्थः" इति न्यायादिति तदर्थ इति दिक ।। इत्थन्धाराकरणानन्तरम् आयुष्याणि(२)-आयुर्वृद्धिकराणि "आयुष्यं ब्रह्मवर्चस्यम्" इत्यादीनि सूक्तानि । शान्त्यर्थम्-अमङ्गलनिवृत्त्यर्थम् । अत एव नैतज्जपस्य श्राद्धाङ्गत्वं, फलश्रुत्या प्रधानत्वावगमात् । तद्नु-तत्पश्चात् । षड्भ्य इति । मात्रादीनामप्युलक्षणम् । तथा च शातातपः- "मात्तणां प्रथमं श्राद्धं पित्तॄणां तदनन्तरम् । ततोमातामहानाञ्च वृद्धौ श्राद्धत्रयं भवेत् ॥" इति । मत्स्यपुराणम्- "उत्सवानन्दसन्ताने यज्ञोद्वाहादिमङ्गले । पूज्या: पितरस्तदनन्तरम् ।। ततोमातामहानाञ्च विश्वेदेवास्तथैव च ।" इति । उत्सवानन्दहेतौ सन्ताने । सत्पुत्रोत्पत्ताविति यावत् । अत्रोद्वाहपद. मृष्यन्तरोक्तकन्यापुत्र विवाहपरम् । एकमूलकत्वकल्पनालाघवात् । एतेन यज्ञवत् स्वीयविवाहोऽप्याभ्युदयिकनिमित्तमित्यपास्तम् । "स्वपितृभ्यः पिता द- द्यादि"-ति वचनात् पितुरभावे स्वविवाहस्यापि निमित्तत्वम् ।न तु पितरि सत्य. पीति श्राद्धकल्पस्मृतिसारादयः । “अपरे च नान्दोमुखेभ्यः श्राद्धन्तु पितृभ्यः कार्यमृद्धये । ततोविवाहः कर्त्तव्यः शुद्धः शुभफलप्रदः” इति ब्रह्मपुराणवचना- स्वविवाहे काम्यमाभ्युदयिकं न तु नित्यमित्याहुः । प्रथमविवाहेऽपि पितुरन्ये- Man मातरः प्रथम (१)तथा च कात्यायनः । "अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्मकारिणाम् । अक्रिया च परोक्काच तृतीयाचायथाविषेश-ति॥ (२) आयुषेहितानीत्यर्थे "गवादित्वात्" (पा० १६१२) यत्प्रत्ययः ।।
२६ आभ्युदयिक (नान्दी) श्राद्धविधिः। [४थं खण्डम्- नाभ्युदयिकन्नकर्त्तव्यम् । पुत्रविवाहस्यैव निमित्तत्वेनान्यस्यानधिकारात् । आदिपदेन ऋष्यन्तरोक्तमङ्गलपरिग्रहः । ततोमातामहानाञ्च पूजेत्यन्वयोऽध्या. हृतेन । विश्वेदेवैः सह पाठिकक्रमोनादेयः । "तेषामारक्षभूतन्तु पूर्व दैवं निवेदयेत् । रक्षांसि हि विलुम्पन्ति श्राद्धमारक्षवर्जितम् ॥" इति मनूक्तः । वायुपुराणम्- "अन्वष्टकायां वृद्धौ च गयायाञ्च क्षयाहनि । मातुः श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ॥” इति ।। अत्र श्राद्धत्रयेऽपि(१)। "तिस्रोऽपिमातरः पूर्वम्पूजनीयाः प्रयत्नतः" इति च ।। विश्वेदेवसम्बन्धः । अविशेषात् । “मातृश्राद्धन्तु युग्मैः स्यात्सदैवं प्राङ्मु. खैः सहे"ति लघुहारीतवचनाच्च । विश्वेदेवविहीनन्तु केचिदिच्छन्ति सत्तमाः” इति मातृश्राद्धे मार्कण्डेयपुराणीयोदेवश्राद्धनिषेधस्तु शाखान्तरविषयः । अत एव केचिदित्युक्तम् । अत्र कात्यायनेन- "वसिष्ठोक्ताविधिः कृत्स्नाद्रष्टव्योऽत्र निरामिषः" इत्युक्तम् । वसिष्टेन पावणे योविधिरुक्तः सोऽत्रामिषव्युदासेन बोभ्य इति- तदर्थः। तथा च मधुदान निषिद्धम्। आमिषत्वात्। अत्र श्रीदत्तादिमिर्जात्रामि. षप्रयोग” इति सिद्धवल्लिखितम् । यत्तु-"पिण्डाँश्च दधिमवक्तान्वदराणि यवां- स्तथा" इति ब्रह्मपुराणीयवचनेन-पिण्डे मधुदानविधानात् पिण्डस्य च श्राद्ध- विहितद्रव्यशेषकर्त्तव्यता विधानेन श्राद्धेऽपि तद्व्यमायाति फल(१)चमस. न्यायादिति मश्वत्र देयमेवेतिश्राद्धप्रदीपादिलिखन-तदयुक्तम्-वैषम्यात् । दृष्टा- न्तेहि राजन्यकर्तृके ज्योतिष्टोमयागे “फलचमसमस्मभक्षं ददाती"ति श्रुत्याऋ. विग्मक्ष्यत्वेन दधिमिश्रितवटप्ररोहचूर्णरूपस्य फलचमसस्य विधानाहत्विग्भ- क्षस्य च परिशेषात्प्रतिपत्तिरूपतया होमीयद्रव्यशेषत्वात् फलचमसस्य होमीय- द्रव्यत्वमायाति । अत्र तु पिण्डस्य श्राद्धशेषान्नकर्त्तव्यतया श्राद्धस्य पिण्ड- द्रव्यसजातीयद्रव्यकत्वं तद्वत्सिध्यतु न तु पिण्डविशेषणीभूतमधुद्रव्यकत्व- मपि । अन्यथाबदरादीनामपि श्राद्धेऽवश्यन्देयतापत्तिरिति । अत एवात्र मधुमन्त्रपाठोऽपि न । किन्तु अन्नोत्सर्गानन्तरं मधु ३ इति त्रिपमात्रमित्युपरिष्टाद्यक्तीभविष्यति । एवं विशेषोऽत्र गोभिलेनामिहितः "भाभ्युदयिके श्राद्धे युग्मानाशयेदि त्यादिना सूत्रदशकेन । (१)त्रयोऽनविश्वेदेवाः। तत्रैकोमात्रादित्रिकसम्बन्धी। द्वितीयः पित्रादिनिक सम्बयातीय मातामहादिविकसम्बन्धीति बोध्यम् ।।
गामिल-श्रावकल्पे- MINS IN तथा- - "अतः परं प्रवक्ष्यामि विशेष इह योभवेत् । प्रातरामन्त्रितान्विप्रान् युग्मानुभयतः स्थितान् । उपवेश्य कुशान्दद्याहजुनैव हि पाणिना।" इति । प्रातरिति । तथाचात्र (वृद्धिश्राद्धे ) श्राद्धदिने प्रातरेवामन्त्रणं, न तु विकृतिन्यायप्राप्त-पाक्षिक-पूर्व दिने । वैकृतविशेषविधेरधिकबलत्वात् । युग्मानिति । तथा च चतुर्विंशतिरत्रश्राद्धिन इति मुख्यः कल्पः । ऋजुनैवेति । पित्र्यतीर्थनिषेधः ॥ तथा- "निपातनहि सव्यस्य जानुनोविद्यते कचित् । सदा परिचरेद्भवत्या पित्तनप्यत्र देवत् ॥” इति । सव्यस्य-वामस्य । देववत्त-दक्षिणजानुपातेन । प्राङ्मुखोपवेशनेन च ।। "नानापसव्यकरणं न पिच्यन्तीर्थमिष्यते । पात्राणां पूरणादीनि दैवेनैव हि कारयेत् ॥” इति । पित्र्यतीर्थम्-वर्जन्यङ्गुष्ठयोर्मध्यरूपम् । देवेन-अङ्गुल्यमरूपदेवतीर्थेन । अत्रैतदनन्तरं "सव्येन सोपवीतेन ऋजुदर्भश्वधोमता। पितॄणां रूपमास्थाय देवाह्यन्नं समश्नुते ॥ तस्मात्सव्येन दातव्यं वृद्धिश्राद्धेषु नित्यशः" | इति शुभ- कर्मनिर्णये मुरारिमिश्राः प्राहुः ॥ केचिदत्रभूस्वाम्यन्नदानेऽपि दैवविधिमिच्छ- न्ति । तन्न । तस्याभ्युदयिकबहिर्भूतत्वेन दैवविधौ प्रमाणभावात् । तस्मारिप- त्र्यविधिनैव तत्कर्त्तव्यम् । आभ्युदयिकबहिर्भावादेव तत्रामिष-(मध्वादि-)प्रयोगोऽपिन निषिद्धः ।। "ज्येष्ठोत्तरकरान्युग्मान्कराप्राप्रपवित्रकान् । कृत्वाऽध्यं संप्रदातव्यं नैकैकस्यात्र दीयते ॥” इति । ज्येष्टोत्तरकरान-पूर्वोपवेशितोज्येष्ठस्तदुत्तरकरान-तत्प्रधानकरान् । ज्येष्ठ- स्योत्तरे उपरि कारा येषान्ताहशानिति वा । युग्मब्राह्मणपक्षे योयदपेक्षया पश्चादु. पवेशितस्तदक्षिणकरोपरि पूर्वोपवेशितदक्षिणकरो यथाभवति तथाऽवस्थिता- निति यावत् । कराग्रामपवित्रकान्-कराग्रेऽयं यस्य तथाभूतं पवित्रं येषान्ता. दृशान् । कराग्रेऽअपवित्रकं पवित्राग्रं येषामिति गौडीयव्याख्यानन्तु न युक्तम् । अग्रपदस्य परनिपातापरो । आर्षत्वानुसरणन्तुसत्याङ्गत्यामयुक्तम् । नैकैक- स्येति । तथा च युग्मब्राह्मणपक्षे मिलितहस्त एवायं देयम् । "मधुमध्विति यस्तत्र निर्जपोऽशितुमिच्छताम् । गायत्र्यनन्तरं, सोऽत्र मधुमन्त्रविवर्जितः ॥” इति ।। तथा- MARA तथा- .
BR- आभ्युदयिक (नान्दी) श्राद्ध विधिः । [४ खण्डम्- मधुमध्विति । निरभ्यस्तो योजपस्तत्र-प्रकृतौ-पार्वणे। अन्नोत्सर्गानन्त- रम् । भोजनपूर्वकाले गायत्रीमधुपाठानन्तरं, स इह विकृतौ आभ्युदयिके मधु. मन्त्राविवर्जितः कार्य इत्यर्थः । एवञ्च नेदानीम्मधुमती(१) पाठः । अन्यदातु तत पाठ एवेति परिशिष्टप्रकाशः । तेनान्नाभिमन्त्रण एव मधुमन्त्रपाठोनान्य त्रेति निर्वाधा एवेति श्रीदत्तापाध्याय-वर्द्धमानोपाध्यायादयः । अत एव पितृभक्तौ "नात्रमधुव्वाता पाठः” इति सामान्यत एवोक्तम् । प्रयोगे च तदुल्लेखनिकृतः रुद्रधरीयश्राद्धविवेकेऽथेवम् ।। किन्तु कात्यायनेन तथानोक्तमिति गोभिलीयैरन्नाभिमन्त्रणे मधुमन्त्रः पाठ्य इति मे प्रतिभातीति महामहोव्हर्षनाथशाण: संस्कारदीपके प्राहुः ।। तथा- "नचाश्नत्सु जपेदन कदाचित्पितृसंहिताम् । अन्यएव जपः कार्यः सोमसामादिकः शुभः ।। यस्तत्र प्रकरोऽनस्य तिलवद्यववत्तथा । उच्छिष्टसन्निधौ सोऽत्र (२)तृप्तेषु विपरीतकः ।।" इति ।। "सम्पन्न मिति तृप्तास्थ ! प्रश्नस्थाने विधीयते । सुसम्पन्नमिति प्रोक्त शेषमन्नं निवेदयेत् ॥” इति ॥ "प्रागष्वथदर्भेषु आघमामन्त्र्य पूर्ववत् । अपः क्षिपेन्मूलदेशेऽवनेनिवेति निस्तिला:(३) । द्वितीयश्चतृतीयच मध्यदेशाग्रदेशयोः । मातामहप्रभृतींस्तु तेषामेव हि वामतः ।। सर्वस्मादन्नमुद्धृत्य व्यञ्जनैरुपसिच्य च । संयोज्ययवकर्कन्धूदधिभिः प्राङ्मुखस्तथा ॥ अवनेजनवत्पिण्डान्दत्त्वा बिल्वप्रमाणकान् । तत्पात्रक्षालनेनाथपुरप्यवनेजयेत् ॥” इति च ॥ पितृसंहितामिति । पितृमहत्त्वप्रकाशकमन्त्रमात्रोपलक्षणम् । तथा च पारस्कर: "पितृमन्त्रवर्जजपः” इति । पितृमन्त्र उदीरतामित्यादिः । तं वर्ज- यित्वाऽन्येषाम्पवित्राणाजपः कार्य इत्यर्थः । सोमसामादिक इति । आदिपदात्पुरुषसूक्तादीनि पवित्राणि विशेषतावाजसनेयिभिः सोमसामस्थाने जप्यानि । यस्तोति । तत्र-प्रकृतौ (पार्वणे)। तृप्तेषु-ब्राह्मणेषु सत्सु । अन्न- स्य । प्रकरः विकिरणम् । उच्छिष्टसन्निधौ तिलवत्-तिलवान् । आर्षन्नपुंसक (१) मधुमन्त्र एवं मधुमती शब्देन ऋपरतयाऽभिहितः । (२) अन "काव्योविपरीतक" इति संस्कारदोपके पाठः । (३) अत्र "पात्रत" इति मुद्रितपुस्तके ( कतीयस्मृतौ) पाठः ।
६ कण्डिका ] गोभिलश्राद्धकल्पे- २८8 त्वम क्रियाविशेषणं वा । (तिलवद्यथास्यात्तथेति ) स अत्र-श्राभ्युदयिके । विपरीतकः । तृप्तः प्राक् । यववत्-यववान्कार्यः । अत्र विपरीतकः । देवतीर्था- दिनेति प्राब्धः। सम्पन्नमिति । अति वर्तते । पावणे तृप्ताः स्थेति यः प्रश्नस्त. स्थानेऽत्र सम्पन्नमिति तृप्तिप्रश्नः कार्यः। प्रोक्त-ब्राह्मणैः कथिते । अत्र मात्रा. दिपिण्डानां दक्षिणे पित्रादिपिण्डा देयाः । तदक्षिणे मातामहादिपिण्डाः । “प्र- दक्षिणमुपचार" इति गोभिलसूत्रात् । इति भ्राम्यतः प्रत्याह-प्रागप्रेऽध्विति । आद्यं पितरम् । तदेतत्पार्वणीयकृत्यमनुसन्धायोक्तं, प्रकृतेतु, "मातरः प्रथम पुज्याः पितरस्तदनन्तरम्" इति मात्स्योक्ते "स्तिस्रोऽपि मातरः पूर्वं पूजनीयाः प्रयत्नत" इति वायवीयात् । “अनिष्ट्रातु पितृन्श्राद्धेन कुर्यात्कर्म वैदिकम् । तत्रापि मातरः पूर्व पूजनीयाः प्रयत्नतः” इति कात्यायनोक्तश्च । मात्रादिपिण्डापेक्षया पित्रा. दिपिण्डनाम्प्रवामतेति बोध्यम । म्लदेशे-दर्भस्येतिशेषः । द्वितीयं पितामहम् । तृतीयं-प्रपितामहम् । मध्यदेशानदेशयोः । दर्भस्य । तेषां-पित्राघवनेजनस्थाना- नां, वामतः(१) उत्तरतः । न च प्रत्यङमुखोपविष्टानां पितणान्तद्ब्राह्मणानां वामत इत्येव वचनार्थः । तेन प्रादक्षिण्यलाभ इति वाच्यम-तेषामित्यनेन पूर्वो. पक्रान्तानामास्तरणकुशानामवनेजनस्थानानां वा प्रत्यवमशौचित्यात् । किञ्च प्रत्यङ्मुखतायां प्रमाणाभावः । “प्राङ्मुखेभ्यउदङ्मुखादद्यादुदङ्मुखेभ्यः प्राङ मुख" इत्येवं श्रुतेः । कर्कन्धू-वंदरम् । उद्ङ्मुख इति वचनं यद्यपि लौकिकी प्रसिद्धिमवगमयति । तथापि(२) साम्मुख्योपपत्तये "पूज्यपूज(३)कयोःप्राची"ति तान्त्रिकीम्प्रसिद्धिमनुसरन्तोमैथिलाः प्रत्यङ्मुखतैव कर्तुरभिप्रयन्ति । सव्वदति चामुमर्थमाजानिकस्तेषामाचारः । “पश्चिमाभिनुखोभूत्वाश्राद्धम्माङ्गलिकञ्चरे- दि-"ति शिष्टपरम्परापठितवचनमपि ॥ आभ्युदयिककालमाह-ब्रह्मपुराणम्- "कर्मण्यथाभ्युदयिके मङ्गल्यवति शोभने । जन्मन्यथोपनयने विवाहे पुत्रकस्य च ॥ पितॄन्नान्दीमुखानाम द्वितर्पयेधिपूर्वकम् ॥" इति । आभ्युदयिके-दृष्टाभ्युदयसाधने ग्रहयागादौ । मङ्गल्यवति-मङ्गल- बहुले-कन्याविवाहे । शोभने-प्रकृष्ट । पारलौकिके देवप्रतिष्ठातुलापुरुषादौ । (१)वामत उत्तरतो मातामहाधवनेजनस्थाने सिद्ध यथावनिक पिण्डान्दा दातो-ति वचनात्तत्रैव पिण्डदाने नियमिते प्रवामत्वस्यैव सिद्धः। एवञ्च मात्रादिपि. ण्डापेक्षया पितृपिण्डानामपि प्रवामतैव "एकत्रनिर्णीत" इति न्यायात। पितृभक्ति-कृत्य- प्रदीपादयोऽप्येवम् ॥ (२) अतएव पूर्वाभिमुखीदेवप्रतिमा पूर्वाभिमुखेनैव पुज्यते ॥ (३) तथाचोकं मन्त्रमहोदधौ-"देवता पूजनेप्राची मध्ये पूजकपूज्ययोः" इति । ३७ गो० गृ०० । MINADIMAN आभ्युदयिक(नान्दी)श्राद्धविधिः । [४ खण्डम्- । । । एवम्मत्स्यपुराणाद्युक्तेऽपि । तदित्थन्छन्दोगपरिशिष्टवचनैर्व्याख्यातप्राये गोभिलीयसूत्रनिचये विशेषतो. ऽवशिष्टपदानानां व्याख्या प्रस्तूयते-तथा चाश्वलायन: "आभ्युदयिके युग्माब्राह्म. णाः । समूला दर्भाः प्राङमुखेभ्य उदङ्मुखादद्यादुदङ्मुखेभ्यः प्राङ्मुखावा । द्वौ दौ पविन्ने । पवित्राणि चत्वारि । शन्नोदेवीत्यनुमन्त्रितास्वप्सु यवानावपति- "यवोऽसि पितृदेवत्यो गोसवादेवनिम्मितः । प्रत्नमद्भिः पृक्तःपुश्या नान्दीमुखान्पित॒ल्लोकान्त्रीणाहि नः स्वाहे" || ति । नन्दोमुखाः पितर: प्रीयन्तामित्यपाङ्ग्रहणं विसर्जनश्चति । अत्र- समूलाइति विशेषविधानादत्र (आभ्युदयिके) पिण्डास्तरणेऽपि समूलाएव । तत्कारिकाऽपि- "तिलोऽसीतिपदस्थाने यवोऽसीतिपदं वदेत् । स्वधयेतिपदस्थाने पुष्टयाशब्दं क्देदिह ।। पितनिति पदात्पूर्व वदेन्नान्दीमुखानि"ति । अत्र "पितृनितिपदस्थाने पठेन्नान्दीमुखानिति” इति प्राचांसम्मतः पाठः । यवैस्तिलार्थइत्यनेन प्रकृत्युक्तस्य तिलादेविकृत्युक्तेन यवादिना बाधः । "शरमयं बहिर्भवति' इतिविकृत्युक्तेन शरेण प्रकृत्युक्तानां बर्हिषां बाधवत् । दधीति-मधुनोऽप्युपलक्षणम् । तथा च ब्रह्मपुराणम्- "शाल्यन्नं दधिमध्वक्तं बदराणि यवाँस्तथा। मिश्रीकृत्य च चत्वारि पिण्डान् श्रीफलसन्निभान् ।। दाद्यान्नान्दीमुखेभ्यस्तु पितृभ्योविधिपूर्वकम् । अय॑म्पुष्पञ्चधूपञ्च प्रशस्तमनुलेपनम् ॥ वासश्चाप्यहतन्तत्र देयञ्चसदशं समम् । द्राक्षामलकमूलानि यवांश्च विनिवेदयेत् ॥ तान्येव (१)दक्षिणाञ्चैव दद्याद्विप्रेषु सर्वदा ॥" इति । दधिमधुनोम्मिलितयोरुपादानाचतुष्ट्वसिद्धिः । नान्दीमुखाः पितर इति । तेनात्रमात्रादीनान्नवानामपि नान्दीमुखत्वविशिष्टानान्देवतात्वम् । “दद्या- नान्दीमुखेभ्यस्त्वि"-त्यादिवचनात् । तेनसर्वत्र त्यागवाक्ये नान्दीमुखपदप्र. योगः कार्यः। आवाहनादौ तु विशेषोपदेशादेव तत्प्रयोगः । यत्तु-"नान्दीमुखान्पितृगणानभ्यर्चत्प्रयतोगृही"-त्यादिवचनात्तेन रूपेण देवतात्वावगमात्सर्वत्रमन्त्रादावपि नान्दीमुखपद प्रक्षेप्यमिति । तन्न । एवमप्यर्चा- प्रयोजकवाक्यएवैतत्प्रयोगलाभात् । अतएव "तिलोऽसी"-तिमन्त्रे "पितृनि- (१) द्राक्षामलकमूलानि । फलमूले एवान दक्षिणा सङ्कल्पवाक्ये तथैव प्रार्चा वीरेश्वरादीनाम्पद्धतिकृतामुल्लेखोऽपि ॥ GAUR गोभिल-श्राद्धकल्पे- व्यम् ।। तिपदात्पूर्व वदेन्नान्दीमुखानिती"-त्याश्वलायनविशेषोपदेशः सङ्गच्छते । अन्यथा तद्वैयर्थ्यमापद्येत ।अत्रयद्यपि-"नान्दीमुखाः पितरः प्रीयन्तामि-"तिगो- मिलसूत्रात् "पितृनितिपदात्पूर्व वदेन्नान्दीमुखानिती"-त्याश्वलायनवचना- देश्च नान्दीमुखपदस्य पितृपदात्पूर्वनिपात आयाति । तथापि वैदिकपदप्रयोग एवायं नियमानतु लौकिकत्यागवाक्येऽपि । “पितॄन् नान्दीमुखानाम तर्पयेद्वि- धिपूर्वकमि"-ति ब्रह्मपुराणसंवादाच्छिष्टाचाराचेति बहवः । अत्र पित्रादित्रिकपूर्वाणामेव नान्दीमुखत्वमेवं सङ्कल्पवाक्ये प्रपितामह- पूर्वकत्वङ्कुतोनेत्यादि सुबहूपन्यस्य खण्डितं शुभकर्मनिणये तत्ततएवावगन्त- गो० सूत्रान्ते न स्वधामिति । एतच्च स्वायत्तवाक्ये न तु वैदिकमन्त्रादावपि। अन्यथा स्वधास्थेतिमन्त्रभागेऽपि स्वाहास्थेतिपदोहःस्यात् । न चेष्टापत्तिः शिष्टाचारविरोधात । एवञ्च ये चात्रे-तिमन्त्रः स्वधान्तएवपठनीयोन तु त- त्राप्यूहः । हेत्वभावात् । न च त्यागार्थकतैव हेतुरितिवाच्यम् । समस्तमन्त्र- स्यैव त्यागार्थत्वात् । वाचस्पतिमिश्रादयोऽप्येवम् ।। इञ्चनान्दीमुखश्राद्धं पिण्डरहितमपि कर्तुमर्हति । सदाह मार्कण्डेयपुराणम्- "पिण्डनिर्वापणं कुर्यान्न वा कुर्याद्विचक्षणः । वृद्धिश्राद्धे कुलाचारदेशकालाद्यवेक्ष्यहि ॥" इति । परन्त्वस्मिन्कल्पे-आवाहनादिनिवृत्तिरपि । तदुक्तम्- "अग्नौकरणमर्घञ्च आवाहनावनेजनम् । पिण्डश्राद्धे प्रकुर्वीत पिण्डहीने विवर्जयेत् ॥" इति । इञ्च श्राद्धकचिदङ्गं तदुक्तं भविष्यपुराणे- "निषेककाले सोमे च सीमन्तोन्नयने तथा । इष्टौ पुंसवने चैव श्राधकाङ्गमिष्यते ॥” इति ॥ enera Nama w "यज्ञे पुंसवने चैव सीमन्तोन्नयने तथा । एतेष्वेव प्रधानेषु श्राद्धकर्माङ्गमिष्यते ॥” इति । पुत्रजन्मादौ तु नैमित्तिकम् । तथा च मार्कण्डेयपुराणम्- "नैमित्तिकमथोवक्ष्ये श्राद्धमभ्युदयात्मकम् । पुत्रजन्मनि तस्कार्य जातकर्मसमन्नरैः ॥” इति ।। अत्र जातकर्मसमकालविधानादच्छिन्ननाड्यान्तकार्यम् । एवं- "कन्यापुत्र विवाहेषु प्रवेशे नववेश्मनः । नामकर्मणि बालानां चूडाकर्मादिके तथा ॥
प्राभ्युदयिक-(नान्दी) श्राद्धविधिः। [ ४र्थ खण्डम्- सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत्प्रयतोगृही ।।" इत्यादिविष्णुपुराणादिवचने भविष्यपुराणक्तातिरिक्ते कन्यापुत्र विवाहा. दावपि तन्नैमित्तिकमेव । निमित्तसप्तमीश्रवणात् । एतेष्वेवप्रधानेष्वित्युक्तयाऽन्यत्र नैमित्तिकमिति प्रतीतेश्च । इत्थब्चाकृतसपिण्डनस्य ज्येष्ठस्यापि कन्यापुत्रविवा- होऽहत्येव । आभ्युदयिकस्य विवाहानङ्गत्वेन तदकरणेऽपि वैगुण्यविरहात् । अनधिकारे नैमित्तिकाकरणे विहिताकरणदोषोऽपि नेति बोध्यम् ।। एवं पितरि देशान्तरस्थे पुत्र विवाहरूपस्याभ्युदयिकनिमित्तस्याज्ञानेन आद्धाकरणेऽपि न विवाहवैगुण्यं, न वा नैमित्तिकाकरणात्प्रत्यवायः । निमित्त. ताज्ञानेनानधिकारात् । अधिकारिण एवाकरणे प्रत्यवायात् । इदम्पुनरत्रावधेयम् । यत्राभ्युदयिकमङ्गं तत्र तदकरणे प्रत्यवायोन तु कर्मवैगुण्यमिति । तथा यत्राङ्गं तत्रामुककाङ्गभूतमाभ्युदयिकश्राद्धमहङ्करिष्ये इति निमि- सप्तमीसहितं सङ्कल्पवाक्यङ्करणीयमिति ॥ प्रकृतमनुसरामः । चूडाकर्मादिकइत्यादिपदादुपनयनादिपरिग्रहः । तेन चूड़ाकरणात्प्रक्तनयोनिष्क्रमणान्नप्राशनयो भ्युदयिकम् । नामकरणे तु विशे- षोपदेशादेवाऽभ्युदयिकानुष्ठानम् । न चादिपदस्य प्रकारार्थत्वान्निष्क्रमणान्नप्रा. शनयोरपि परिग्रह इति वाच्यम् । नामकरणस्य पृथगुपादानवैयापत्तः। पुत्रादिमुखदर्शने । पुत्रस्य प्रथममुखदर्शने । अत्र “पुत्राद्यमुखदर्शने” इत्य- पि पठन्ति । तेन द्वितीयादिमुखदर्शने न भवति ।। इति ।। अत्रसंस्कारदीपके विशेष:- तत्र कात्यायनः । "स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मणि । पिण्डानाद्वाहनात्तेषान्तदभा(स्याऽभा)वेतु तत्क्रमात् ॥" इति । अत्र निष्क्रमणान्नप्राशनातिरिक्तत्वेन सुतसंस्कारपदं सङ्कोचनी. थम् । “कन्यापुत्रविवाहेष्वि"-त्याद्युपदर्शितविष्णुपुराणेन सहैकमूलकत्व- कल्पनालाघवात् । सुतेति पुंस्त्वमविवक्षितं तेन सुतायाअपि परिग्रहः । सुता- पदसुतपदयोः "पुमास्त्रिया” (पा० १०२ ६७) इत्येकशेषाद्वा । ओद्वाहना- दित्यभिविधावाङ् । वचनान्तरेणैकवाक्यतानुरोधात् । तेन विवाहपर्यन्तम- पत्यसंस्कारजनककर्मसु पिता स्वपितृभ्यः पिण्डान्दद्यात् । आभ्युदयिकश्राद्धं कुर्यादित्यर्थः । अङ्गमुखेन प्रधानविधानात् । पुत्रस्य प्रथमविवाह एवाभ्युदयिकं, संस्कारजनककर्मणि प्रकृतवचनेन तद्विधानात् । द्वितीयादेश्च तदजनकत्वात् । संस्कारवति सजातोयसंस्कारान्तरानुत्पत्तः । इत्थन्चैतदेकमूलकत्वानुरोधात् गोभिल-श्राद्धकल्प- "विवाह पुत्रकस्यचे ति ब्रह्मपुराणमपि प्रथमविवाहपरमेव द्रष्टव्यम् । तदभा- वेविति । तदभावे संस्कार्यपितुर(१)भावे । तेषां-पितृणाकृते दाने प्राप्ते-त- क्रमात् । संस्कार्यक्रमादित्यर्थः । तथा च संस्करणीयः संस्करणीया वा यथा करो त तथा संस्काराधिकारिणाऽभ्युदयिकङ्कर्त्तव्यमिति कल्पितोऽर्थः । इत्थञ्च मातामहादयोऽपि संस्कार्यस्यैवेतिलब्धम् (२) यत्तु-तत्क्रमादित्यस्य संस्कार्यपितृक्रमादित्यर्थ इति । तन्न । तु शब्दप्रति- पाद्यपूर्वोक्तव्यवच्छेदानुपपत्तेः । “स्वपितृभ्यः पितादद्यादि"-त्यनेनैव तल्लाभे "तदभावे तु तत्क्रमादिति चतुर्थचरणवैयापत्तश्चेति सकलनिबन्धसि. द्धान्त इति दिक् । तथाच पितरि जीवत्यन्यः संस्कर्ता संस्करणीयपितृक्रमेणैवश्राद्धकुर्यात् । "अष्टौ संस्कारकर्माणि गर्भाधानमिवस्वयम् । पिता कुर्यात्तदन्यो वा तस्याभावे तु तत्क्रमात् ॥" इति वचनात् । वाकारस्वरसेन तस्य पितृवत्कर्तव्यप्रतीतेः। यथा गर्भा- धानं स्वयमेव कुर्यात्तथा स तदन्यो वा संस्काराष्टकं कुर्यादित्यर्थः । शातातपः-"नानिष्वा तु पितॄन् श्राद्धे कर्मवैदिकमारभेत्” इति । अत्र पितृपदं श्राद्धाहपितृपरम् । न तु सम्बन्धिकशब्दत्वेन स्वपितृपरम कर्जन्तरेण संस्कार्यपितामहादिश्राद्धकरणप्रसङ्गात् । नचेष्टापत्तिः। शिष्टाचार. विरोधात् । “तदभावे तु तत्क्रमादितिविधिविरोधाच्च । कर्मपदश्च ऋष्यन्त. रोक्तविशेषविषयकं बोध्यमिति नातिप्रसङ्गः । इति । मातृकापूजाभ्युदयिकापवादमाह कात्यायन:- "असकृद्यानि कर्माणि क्रियन्ते कर्मकारिण। प्रतिप्रयोग नैव स्युर्मातरःश्राद्धमेव च ॥” इति । यानि कर्माणि-श्रावण्याग्रहायण्यादीनि । असकृद्-वारम्वारम् । आहि- ताग्निना क्रियन्ते । तेषु प्रथमप्रयोग एव मातृकापूजाभ्युदयिक भवतः । न तु प्रतिप्रयोगमित्यर्थः। तथा-"आधाने होमयोश्चैव वैश्वदेवे तथैव च । बलिकर्मणि दर्श च पौर्णमासे तथैव च ।। नवयज्ञे च यज्ञज्ञा वदन्त्येवं महर्षयः । एकमेव भवेच्छ्राद्धमेतेषु न पृथक्पृथक् ॥” इति । (१) अभावोऽत्र जीवतः कम्मेकर्तृत्वस्य । मरणच । तत्र जीवतः पितॄणां कृते पितृसोदरेणाऽपि तत्प्रतिनिधिना तत्कर्मकरणे-माणवकपितृपितेत्यादिरूपेणैवाभ्युद- यिक कार्यम् । मरणपक्षेतु माणकपितेत्येवमेवेत्युभयथाप्ययं तत्क्रमशब्दार्थः । किन्तु यो योजीवतितन्तं परित्यज्येतिसर्वसम्मतः पन्थाः । (२)तथाचाहुः-"पितरोयल्यपूज्यन्ते तस्यमातामहादः इति ।
प्राभ्युदयिक-(नान्दी) धाविधिः । [४र्थं खण्डम्- । आधाने-अग्न्याधाने । होमयोः सायं प्रातहोमयोः । नवयज्ञ आग्रयणे. ष्टिः । एतेषु आधानादिषु प्रतिकर्म न कार्य, किन्त्वाधानादेरादौ कृते सर्वेष्वेव कृतं स्यादित्यर्थः। तथा-"नाष्टकासु भवेच्छाद्धं न श्राद्धे श्राद्धमिष्यते । न सोष्यन्तीजातकर्मप्रोषितागतकर्मसु ॥” इति । अष्टकासु-तिसृषु(१)। श्राद्धे-पिण्डपितृयज्ञे । सोष्यन्त्याम्-आसन्न- प्रसवायाः सुखप्रसवनिमित्तमनुष्ठेये सोध्यन्तीहोमे । जातकर्मणि-विप्रकर्षा- दिना त्वज्ञानवशात्कालान्तरे क्रियमाणे । न तु तत्काल एव क्रियमाणेऽपि । तत्र पुत्रजन्मनिमित्तकस्य विहितत्वेन निषेधानर्थक्यात् । प्रोषितागतकर्मणि । "विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्यां पाणिभ्यां मूर्धानं परिगृह्य जपेत्” (गो० गृ० २२८८१ ) इत्यादिना विहिते प्रवासादागतस्य पितुः पुत्रमूर्द्धादिस्पर्शरूपे च न श्राद्धमित्यर्थः। तथा-"विवाहादिः कर्मगणा य उक्तो गर्भाधानं शुश्रुम यस्यचान्ते । विवाहादावेकमेकात्र कुर्याच्छाद्धं नादौ कर्मणः कर्मणः स्यात् ।। इति । अन्ते परसमीपे(२)। विवाहादारभ्य गर्भाधानात्प्राक् यश्चतुर्थी होमान-समशनीयचरहोम-गृहप्रवेश-यानारोहण-चतुष्पथामन्त्रणा-ऽक्षमङ्ग- समाधानहोमादिरूपः कर्मगणउक्तः। तत्र विवाहोपक्रम एव श्राद्धन्न तु तत्त. कर्मोपक्रमेऽपोत्यर्थः । एकेनैव श्राद्धेन सर्वाण्यपि तानि श्राद्धवन्तीत्याशयः ।। तथा-"गणशः क्रियमाणेषु मातृभ्यः पूजनं पृथक् । सकृदेव भवेच्छाद्धमादौ न पृथगादिषु ॥” इति । गणशः । समुदायेन एकस्मिन्दिने । क्रियमाणेषु कर्मसु । यथा यजनीयेs. हनि नवयज्ञ-वास्तुयज्ञ-गोयज्ञा-ऽश्वयज्ञेषु सर्वोदेशेनैकमेव मातृपूजनमेकमेव चवृद्धिश्राद्धं न तु कर्मसमसंख्याकमित्यर्थः । आग्नेयादीनां षण्णामप्युद्देशेन सकृदेव प्रयाजादिवत् तन्त्रणव सिद्धिरिति भावः । अतएवैकस्मिन्दिने क्रिय- माणेषु चूड़ाकरणपनयनादिषु सकृदेवमातृकापूजनमाभ्युदयिकन्चाचरन्तीति ।। इत्याभ्युदयिकश्राद्धविचारः॥ * ॥ (१) "ऊर्ध्वमानहायण्यास्तिनाऽष्टकाः" इतिप्रतिज्ञासूत्रात्। वस्तुतस्तु-"चतसृषु इति व्याख्येयम् । ऐन्द्री-वैश्वदेवी-प्राजापत्या-पित्र्येति तदनन्तरसूत्रे देवताभिधाने- चतुर्थ्या अप्युपादानात् । तत्राथास्तिस्त्रोऽष्टकाः पौषादिमासत्रयस्य कृष्णाष्टम्याम् अपूप मांस-शाकै क्रमेण होतव्याः। चतुर्यपि आचिनकृष्णाष्टम्यां कालशाकेन । “तरीया. शाकाष्टकेति कण्डिकोपसंहारसूत्रणात् । तुरीया-चतुर्थी । (२) तथाच पाणिनीयः परिभाषिते "द्वन्द्वान्ते द्वन्द्वादौ वेतिवचने परसमीपार्थ- एवान्तकान्दः पठित इति न पाणिपिहित पाणिनीयानाम् ॥
GSIP गोभिल-श्राद्धकल्पे- शाण्डिल्यस्य महामुनेरकलुषे गोत्रे प्रशस्ये सताम् । जातः सद्गुणभूषिते करमहावंशे मुकुन्दः सुधीः ।। ध्याकृत्यादिविचक्षणः क्षणमपि प्रेक्षा न यस्याऽभवत् । श्रौत-स्मार्त्त-शिवोक्त(१)कर्मनिचयादन्यत्र लग्ना कचित् ॥ १ ।। विग्न: पुत्रकलत्रमित्रनिवहस्यार्थेऽसमर्थोऽपि सन् । श्री लक्ष्मीश्वरसिंहभूपतिमणेवैदेहभूमीशितुः ॥ आशीताचलसेतु-विस्तृतयशोराशेर्दयासागर- स्यात्यर्थ कृपयाऽऽतसन्मतिरिति प्रज्ञाय विज्ञापित:(२) ।। तस्याऽशेषगुणाकरस्यमहतः पन्याः प्रशस्यात्मनः । ज्येष्ठायाःवगुणैःसमा रवि(१२)मिता धर्माधिकारेस्थितः । सेवासक्तमना न जातुचिदपि प्राप्तोऽमतत्वं, सदा । सद्धम्म नितराम्मतिन्ददमुष्याःसम्मतोऽभूत्ततः ।। शा०केभ्वन्धिवसुक्षमा(१८४१)परिमिते कस्यापि वश्यात्मनः । शश्वत्प्रार्थनया कमश्नरमहाभागैः समाकारितः ।। धर्मोद्धारकृतोमहर्षितुलितस्य श्रीपरमेशप्रभोः । सम्मत्याऽत्र कृतोमुजफ्फरपुरे विद्यालयेऽध्यापक:(३)॥ २॥३॥४॥ ( विशेषकम् ) श्रीमद्गोभिलगृह्यसूत्रनिवहेऽन्तेवासिनां प्रस्तुते । सम्राट्स्थापितसत्परीक्षणविधौ पूर्णोपकारक्षमाम् ।। व्याख्या पूर्वकृतिप्रगल्भलिखितच्छायातिहृद्यां व्यधात् । नाम्नेमां"मृदुला"शराब्धिवसुभू (१८४५) शा० के तपस्यर्जुने ।। वारे भूमिभुवोदिवाकरतितिथौ साम्राज्यभाजि प्रभो। जोर्जे पञ्चमके नकेऽत्र सुखिनः स्वे स्वेऽधिकारे स्थिताः ।। तस्यैवातिगुणे मुजफ्फरपुरे संस्थापित प्रोन्नते । नानाशास्त्रिपरिश्रिते ननु महाविद्यालयेऽध्यायन(४) ॥ ५॥ ६॥ (युग्मम् ) विद्वांसोऽमत्सरा नूत्नां प्रत्नव्याख्याश्रितां पुरा । लोकन्ते चेदिमां स्वृद्धां सफलः स्याच्छमोह्ययम् ॥७॥ इति ।। यत्नेन गच्छतोमार्गे स्खलनं चेन्महीयसाम् । हसन्यसाधवस्तत्र समादधति सज्जनाः ॥१॥ इति च ॥ (१) आगमशावं शिवोक्तम् । (२) विचार्य ज्ञापितोमहाराच्या सेवाऽऽसकमनाअभृदित्यन्वयः । (३) श्रौत-स्मार्त्ता-ऽऽगमकर्मकाण्डस्य । (४) अस्य व्यधादिति गतेनाभिसम्बन्धइति युग्मम् ॥
Kaishnamensation प्राप्तिस्थानम्- N चौखम्बा संस्कृत पुस्तकालय बनारस सिटी। rnvvv w- * श्रीः * सव्याख्यस्यास्य श्रीमदोभिलीय गृह्यसूत्रस्य शुद्धिपत्रम्- अत्र- "मुलादथेऽर्थतोमुले वाचयित्रा विचारिते । मुद्राप्रमादजा हानिरचिरापयास्यति ॥२॥ शुद्धम् पृष्ठम् पङ्किः। अशुद्धम् शुद्धम् पृष्ठम् पतिः चर्यम् ६ ६ उत्तरो आचमनविधिः । नित्यहोमविधिः ४० १ मग्नि २ पूर्व ह्यग्निः नित्यहोमविधिः वैश्वदेवाङ्गविधिः ४६ १ गृह ४८ कार्य १३ २६ स्यवै (पृ.४१.६.९) ४९ २० वहि ९ स्विकृत् स्विष्टकृत १६ बलीद्ध बलीन् ह प्रदु नित्यहोमविधिः।बलिवैश्वदेवविधिः ५८ १ काटिम् दुपदात्र दुदपात्र पितृणां २४ १२ २६ तिदा तिदी ४९ २८ तीर्थ दश्वा ३१ १३ चंपत वर्त तथा स्पृशेत् वोर्ण पौर्ण । नित्यहोमविधिः ३३ काराल कृच्छ्र ३६ वल्लो वलो स्वित्व रास्य पर्यु हाथ मभि लक्षणाम् लक्षगाम(१३)७३ १९ । नित्यहोमविधिः ३६ १ द्भुक्तमनयोः १ शूर्य शूर्प । १ " । ८ शुद्धिपत्रम् । पृष्ठम् पतिः १ " oc ८ ७ २ २ " १९ विधि " ३१ मादवे " २ तिचा ८ १ १ पृष्ठम् पतिः। अशुद्धम् पोधः पोतः ८९ २९ पुरुषः १२३ ३४ प्रका माचि नाच १२४ १४ शौच गौधि ३ यत्पु दृषत्पु १२६ १८ सुन्ने मनसा १८ स्वर्व स्वयं १३९ १३ मृमयं मृन्मयं सव्य सव्वं प्राशा ९५ १० दोऽपि देऽपि अङ्गि अनि विधि २१ यो मानवे विया इक्रिया निभिः दिभिः यधु ९७१० उले न्यया निया १०० २१ महे १३६ १९ नस्त्व ननुव १०३ १४ तिचा हुरि हुति दग्धन्ध दद्वन्ध प्राक्या प्राक्प्रा १३ पन्या पन्थाः १४० प्रापौ १५ यांटि तान् लोट् यां लोट १४३ २१ स्वयनो त्वयनो মাচা द्धव्यम् १११ १५ भ्रत घ्रात नोमुर्गा नोकुर्या २ लिङ्गस्य लिङ्गाविरोधस्य १४७ १७ अथ द्वितीय प्रपाठकः। ११४ १५ जीव २१ नर्शपौर्णमास. दाराहरण. टिपलोपे टिलोपे १४८ २९ विधिः विधिः ११५ १ णा कु १५८ .१ कल्पते कल्पते दर्शपौर्णमास. अथज्ञाति- ,,ति ति(१.८.१७) विधिः ११८ २ स्यानेषु स्थानेषु १५९ १३ भवति भवसि ११९ सावै सरा-दकम् विष्येषु २९ त्वाष्ट स्वाष्टम् १९ व्यूह्म व्यूह्या दर्शपौर्णमास- अयविवाहः । विवाहविधिः चतुर्थीकर्म १७४ याज याऽअपु ३३ मकार माकार कमन्त्र २७५१४ स्माता माता १२२ २० दोया दोषा प्राक्यौ १११ ३१ | शार्णः RU ११४ १५ / तीव " , ३ विष्वषु " विधिः । ३ १७७ २८ शुद्धिपत्रम् । ९ ग्रेषु " . " पृष्ठम् पाडू अगुद्धम् पृष्ठम् पङ्किः। अशुद्धम् मन्त्रार्थ यत्राथ ततश्व ऋ त ३ यज्ञो ३३७ ११ १७९ १२ मन् दिन जातकर्णः मदित १६ जातूकर्णः सावित्री सावित्री २२१ णेति कारान्ते. णेतिकान्ते. वदि वैदि मोत्थाथ नोत्थाप्य १८४ ११ सुश्चव २४० १७ स्रोतस्य स्रोतस्य प्यथा यथा पण पर्ण १८८ गृहन्न गृहन्त्र २४१ व्यप्रियन्त व्याप्रियन्ते १८९१३ शर्मकृतत शर्मस नाम् धाग्नि धानानि नग्निका नाग्निका २४१३३ तस्यन तत्यनः प्रदीषो प्रदीपो १ पादान ताच ताश्च १६ यंपुत्रोमम यममपुत्रो अद्भिर्जले अद्विर्जले ४ १६ येऽश्व...पा. येश्व"पामा २५१ १० या नियस्प मात्रियस्व येsa येऽस्व मयं २१० १८ कुत्ते कृते २३ तनाने तैमाने २११ ३ स्याषाय स्वोषाय मुष्क २१३ २७ चित्ये चित्यै २९।२८ २९.२८ २१४ प्रिया प्रिहा दधति दधाति नससनिम्ता दशसनिम्मा २५४ ची ची २१० २० रल्याव रस्थात् युष्यम् युषम् २१७ २१ मन्तर्भूत अन्नभूत रिधेव खेिद नंदेवा नदेवाः गहितैः । २२० ३५ किल्विक किल्विषक नित्यामि नित्यमि वच्छे विच्छे ५ न्त्रास्या न्त्रास्त्वा २२२३० शोदीन शोऽदीन ३३ मि २२३१६ भवेम् भवेम १ स्तस्थ स्तस्य २२६ १२ मासोति मासीति श्रमधि श्राद्धमधि प्रावृतम् आवृतम् भिप्रा विप्रा यूष्ण पूष्ण मोष्टा २५८३३ ३ ६ १ . गाहतैः। " " " ओष्ठा .
शुद्धिपत्रम् । अशुद्ध एतल्नि पितुतः आचार्य करनं 4 " ५७७ ३३ प्रयाठकल्य तत्रतथेह धुष्यर्क सैन्ध्य नितन्तराः २६४ १७ अछनौ . " " ७ . " नीयस्प पामन्यश्व " पृष्ठम् पतिः । अशुद्धम् शुद्ध पृष्ठम् पति एतस्मि २५९ ९ अर्हणाविधिः संस्कारकुशण्डि पितृतः १२ कापरिशिष्टम् आचार २९ कृणवाम कृणवामा करणं यत्रे यत्ते प्रपाठकस्य २६१ १४ थण ચંડળ तत्रवेष्टयन्तितथेह ६७ अर्हणाविधिः सं०कु०परिशिष्टम् २७८ १ धुपर्क अवनौ २३ सैरन्ध्यै २२ निरन्तराः विपातः निपातः २६ तैहृदये तैर्हदयै शम्म प्रगतमन नीयस्य प्र(गत)मन मत्वथ मत्वर्थ पादमन्यश्व ३० मपर १२ FUTOTT FATTTT यांगम वर्णागम स्यादुप २९ २५ मन्त्रार्थ अर्हणाविधिः सं०कु०परिशिष्टसू २८० ९ गृह्णीयादू तेतश्च तेजश्च वाकव दय वाक्च यशोऽसी मामवन्तु मामवन्तु समौनस्य सौमनस्यम् थीयो चकार चकाराः १० व्यायन ध्यायन् पठ्यते वास्त्वन्ते २८१११ नजा २८३ १३ संज्ञा २१ यष्टिः हृष्टिः १५ नेकार्थ २५ मिच्छन्ति मिच्छन्ति १९ पुनर्य २७४ मात्तणां मातृणां १२ श्रीदत्ता श्रीदत्तो सम्महेमा ऽथेवम् ऽप्येवम् षामा पुरण्य पुनरप्य सयपर स्योदुप मन्त्राथ गृहनीयात दर्थ्य यसोऽसी ाया " २८० ३ ४ " " ८ २७१ २७ दत्स्ना पट्यते वास्तन्ते संज्ञया नेदार्थ पुनर्य न्युनर सम्माहेमो परिषामा २८५१७ " ५ "