Donor

Bhedasaamraajyamu

Shrii Koliyaalamu Svaamina: · 2005/08/20

PDF Proofread

Front matter

-- REreadyamundustan ॥ श्रीः॥ भेद साम्राज्य म् श्रीपरमहंसपरित्राजकाचार्य: परपक्षानरामा बहुविध प्रबन्धप्रणेतृभिः श्री कालियालम् स्वामिनः जगति विरयातः श्रीरङ्गगमानुजमहादेशिक विरचितम् तत्रायमादिमः वेदान्त भाग: तिरुपति श्री वाणीमुद्रणालये मु दिन : (विपु.) वृधमानानुराधायां प्रकाशितः 191. मूल्यम् ।

No text on this page.

|| श्रीः।।
भेद मा म्राज्य म्
श्रपरमहमपत्रिकाची
पर पी निराक बनवप्रवणता
श्री कालियालम् म्वामिनः
जानिधियां:
श्रीरङ्गगमानुजमहादशिकः
विचित
तत्रायमाद
वदान्त भाग:
तिरूपांत श्री मुद्रणालय
(वि) वृधर्म नानुराधायां
प्रका
19..
मूल्यम् ]
DONATED TO
TTD CENTRAL LIBRARY

No text on this page.

" श्रीः ॥
प्रज्ञावैगग्यवाधिजयति बहुवरग्रन्थकृत सुप्रसिद्धो
योऽयं श्रीरङ्गरामानुजयतिनृपतिस्तस्य षष्टयब्दपूर्ती
नचातुर्मास्यमङ्ख्याविलसदधिकृति दसाम्राज्यमंझे ।
तदग्रन्थे मुद्रिनस्तत्पदकमलनरेष वेदान्तभागः ।।

शो ध नि का . पुट. २ urrrrr 9, मायात्म स्मेति मत्त्वा GGGGG २२ २४ पति. शुद्ध. पुट. - पाई. शुद्ध. २० गीता १७ नन्द १ वज्ञा जीत्रपरभद ७ ष्टः,लब्ध्वा विद्यामेतां. ६६ 'अह ब्रह्मास्मी योगविधिञ्च कृत्स्नं, ब्रह्म- २५ प्राप्यत्वस्य २४ २६ प्रकरणे आनन्त्यं केकार्थ बहथ १९ च्छिन्नास्सु १२ क्षत्वात रप्यभ्यु स्मना २४ एव, अन ११ नन्तरम १९ ब्रह्म व्यतिरिकसर्व- १५ परयो २० राणामपि- ७६ २४ व्याप्तम् त्मत्वभ्र २१ विरोधा आत्मभू- ८१ ८ दुःखभय २४ विष्ट १२ ध्यायतिंशानं १७ स्मिन् दुर्धर्षस्त कार्यकर ८३ दत्यलम् । ८ पर्यायषु प्रत्येक मधु ८४ २० सम्बन्ध २१ १०३ १० इन्युन्यत इत्यर्थःप्रतीयता २२ त्याद्य १०५ ५ म्यहमिति शरीरत्वपर्यव १८ द्भाष्य महामलिन्टन्त्र १०५ १६ गत्वेत्यत्रान्वेति । परमा ७ कारण ब्रह्मत्वा त्मानं प्राप्येत्यर्थः। प्रथमा यत' इत्या तत्वे १०५ २१ यत्र गत्वेत्यादिनि वामृता १०५ २५ सूरिनेत्र १५ तया ११४ २२ जीवपरक्य - २९ ३० ३३ ३१ विशेषण ४० सायि स्वा ४१ ४ आद्यू ४८ ६३

॥ श्रीः ॥
श्रीमते वेदान्तरामानुजमहादेशिकाय नमः
श्रीमते रङ्गरामानुजमहादशिकाय नमः
श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमते भगवद्रामानुजाय नमः
भेद सा म्राज्य म्
श्रीकान्तप्रमुखान् वेदचूडादेशिकमध्यमान ।
वेदान्तलक्ष्मणाभिख्ययतीन्द्रान्तान् गुरून् भजे ।
दृष्टस्वमहिमानम्रपाश्र्वस्थपतिसेविताम् ।
पद्मावतीं श्रियं वन्दे स्वातन्त्र्यविभवोज्ज्वलाम् ।।
यद्वित्तिविभवाद्विष्णुर्विज्वरो विश्वविग्रहः ।
विभाति विपवित्ते तं विनतोऽस्मि यतीश्वरम् ॥
प्रतिवादिघटागर्वनिर्वाषणपटीयसीम् ।
वन्दे विद्यामयीं काञ्चिदेवतां देवताधिकाम् ।।
अतसीगुच्छसच्छायं श्रीमद् वेङ्कटभूषणम् ।
यत्स्वान्तवासि तं वन्दे रङ्गरामानुजं मुनिम् ।।
मन्दोऽपि यत्कटाक्षेण बुधो भवति तत्क्षणात् ।
गुरुश्च, नौमि तं वेदचडालक्ष्मणयोगिनम् ।।
वेदान्तगीतामूवाणां परपक्षविरुद्धता ।
सर्वेषां सुखबोधाय सङ्ग्रहेण प्रदर्यते ।।

२ भेद साम्राज्य म् वस्तुतस्सजातीयविजातीयस्वगतभेदरहिते अतएव निर्विशेरे चिद्रूपे परस्मिन्ब्रह्मणि सर्वोपि प्रपञ्चः शुक्ताविव रजतमध्यस्तः, अत एव शुक्तिरूपाधिष्ठानयाथार्थ्यज्ञानेन रजतमिव · तत्वमसी' त्या- दिवाक्यजन्येन साक्षात्काररूपेण निर्विशेषब्रह्माहमस्मीत्येवमात्मकज्ञानेन बाध्यत इति मिथ्याभूत एव । रजताध्यासहेतुभूतशुक्तिगतसादृश्यादि. दोषस्थानापन्नश्चात्र प्रपश्चाध्यासहेतुभूतो दोषः भावरूपाज्ञानादिशन्दि- तानाद्यविधेव । इत्थंच निर्विशेषब्रह्मण एवानाधविद्यासंबन्धः, तन्नि: बन्धनः अहं नाना इति आत्मनि विविधप्रपञ्चवैशिष्टयाध्यासः, तन्मूलकस्सुखदुःखानुभवश्च बन्धः । सोऽपि वस्तुतोऽविद्यमानतया मिथ्याभूतः । निरुक्तज्ञानविशेषेण, विद्यमानशरीरानुवृत्तावपि, इंश- बन्धनिवृत्तिरेव मुक्तिः । सापि ब्रह्मण एव । तदयं तन्मते तत्वहितपुरु. पार्थविवेकः - निर्विशेषं ब्रह्माविद्यावशात्स्वयमेव बंभ्रमीति, अविद्या. निवर्तकं ज्ञानं 'तत्वमस्या ' दिवाक्यजन्यमविधेयम् , तेन मिथ्याभूता- विद्यातत्कार्यनिवृत्तौ भ्रान्तिराहित्येन शुद्धचैतन्यस्थितिर्मुक्तिरिति । तच्च ब्रह्म समस्तज्ञानागोचरः, समस्तशब्दावाच्यं च । अत एव यत्किश्चित्प्रमाणाधीनसिद्धि न भवति । अपितु स्वप्रकाशतया स्वयमेव सिद्धम् । एवं नित्यशुद्धबुद्धमुक्तस्वप्रकाशनिर्विशेषब्रह्मात्मैक्यमेव सोप- बृहणास्सर्वे वेदान्ताः प्राधान्येन प्रतिपादयन्ति । तत्समानार्थमेव गीता- शास्त्रं ब्रह्मसूत्रजालं च इतीयं मृषावादिनां मतप्रक्रिया ॥ एवमङ्गीकारे सर्वा अप्युपनिषदः, कृत्स्नं गीतशास्त्रं, समग्रं ब्रह्म- सूत्रजातं च विरुध्यन्त इति कृत्स्नविरोधप्रकाशावश्यकतायामपि स्था- लीपुलाकनीतिमनुरुन्धानाः त्रिष्वपि कश्चिदेव स्फुटतरविरोधानत्र प्रकाशयामः । विवेचनचतुराः विमत्सरा विद्वांस एव विशेषतः प्रमा- णमेतत्सारासारयोरिति प्रतीमः ॥

.. - वेदान्तभागः ईशावास्याधिकारः तथाहि - सर्वोपनिषदपेक्षया प्रथमपरिगणितायां ईशावास्यो. पनिषदि प्रथमोऽयं मन्त्रः ईशावास्यमिदं सर्व यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धन मिति । अत्र पूर्वाधं तावत्परमतविरुद्ध मुपलभ्यते । इदं सर्व जगत् सर्वनियन्त्रा व्याप्यं स्वस्मिन् स्वेन वासनीयं वा इति तदर्थस्स्वरसतः प्रतीयते । उपबृंहणञ्च 'मया ततमिदं सर्व 'मित्यादि । अत्र सर्वनियन्नृवाचकेनेटपदेन जगच्छ- ब्दनिर्दिष्टस्य सर्वस्य परमात्मनियाम्यत्वं, तत एव तस्य सत्यत्वं, परमा त्मनस्तान्नियन्तृत्वं, त एव तदोपयिकज्ञानशक्त्यादिकल्याणगुण- गणवत्वं, ईट्पदवाच्यत्वं, ईशेशितव्ययोः स्वाभाविकभेदश्च अविदि ततदीयविलक्षणवेदान्तार्थजातस्य शिष्यस्य श्रवणकाले घियमधि रोहति । न तेष्वर्येषु कस्यापि केनापि हेतुना बाधलेशमपि प्रत्येति कदापि प्रत्येता । मातापितृसहस्रेभ्योपि वत्सलतरम् , अत एवात्मो- जिजीवयिषया प्रवृत्तं शास्त्रं कथमीदृशं बहुविधानर्थहेतुं भेदजातं पूर्व मेव विविधभेदभ्रमसागरे पारप्लवमानं प्रत्युपदिशेत् । उपादिशद्वा समु- जीवयेत् । अतः प्रथमोपनिषत्प्रथममन्त्रप्रथमभाग एव परेषामत्यन्तप्रति- कूलः । पररीत्या 'सर्वमिदं न वस्तुसगृह्णीयाः, परमात्मा एक एव परमा- थतोऽस्ति, सर्वमिदं तद्धान्तिसिद्धमित्येव गृह्णीयाः । इत्येवंरूपेण- ह्युपदेशेन भवितव्यम् । यस्तावदर्थः प्रेक्षावता स्वानर्थहेतुः पूर्वगृहीतः, तन्निरसनपूर्वकं वस्तुतत्वोपदेशोहि वत्सलतरकृत्यम् । न तु पूर्वसिद्धभ्र- माधिकभ्रमोत्पादनम् । ततश्च सर्वमपि प्रपञ्च स्वतन्त्रतया गृहीतवतशिष्यस्य, जगतः ईश्वरपारतम्योपदेशेन स्वातन्त्र्यग्रहणं प्रति- षेधत्याचार्य इत्येवाभ्युपगन्तव्यम् । यत्तु ईशा = इदं सर्व अहमेवेति स्वात्मभावनया, सर्वमिदं जगत् – कर्तृत्वभोक्तृत्वादिरूपं विकारजातं, वास्यं - आच्छादनीयं, निरसनीयमिति व्याख्यानं, तत् अति- क्लिष्टं, ईशा, भुञ्जीथाः इति पदद्वयप्रतिपमजीवपरभेदविरुद्धं, विविधे- शितव्यसापेक्षेशनप्रतीतिविरुद्धं, नियुक्तिकं. निष्पमाणं, अनन्यथासिद्ध. -- भेद साम्राज्य म् - बहुप्रमाणपदवीदवीयश्चेत्युपेक्ष्यम् । किंबहुना, ' स्वेनात्मना ईशा' इतीदं सर्वात्मना स्वार्जितमेवेति विशेषविद्भिर्विज्ञेयम् । अत्रेदं बोध्यम्-अस्यामुपनिषद्यष्टादशैव मन्त्राः। तत्र द्वितीयो मन्त्रो नवमाद्याश्च कर्मदेवतोपासनादिपरा इति, प्रथमः तृतीयाद्यष्टमा- न्ताश्च मन्त्रा निवेशेषतत्त्वपरा इति च परेषां मतम् । तत्र प्रथमस्य न निर्विशेपरत्वमित्यवोचाम । उपरि षद्सु मन्त्रेषपि न जगदपलापः कापि प्रतीयते; प्रत्युत सर्ववस्तुव्यापित्वादिकमेवोच्यते; विशिष्य चाष्टमान्ते घुष्यते- 'कविर्मनीषी परिभूस्स्वयंभूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्व- तीभ्यस्समाभ्यः' इति परमात्मनोऽनवद्यस्य सर्वज्ञत्वसत्यजगत्स्रष्ट त्वादिः कल्याणगुणः । एवञ्च सर्वत्र क्लेशेनैव तदितत्त्वपरत्वमारो- प्यमिति स्थिते किमिति द्वितीयादीन् मन्त्रांस्त उपेक्षन्त इति न विद्मः। तत्रापि हि, 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः कश्चित् । एवं त्वयि न । इतोऽन्यथास्ति । न कर्म । लिप्यते नरे तत्'इत्येवं कुमृतिः प्रसूति लभते । यद्यत्र स्वरसयोजनाविधाताद्विद्वषः, कथंतरां सर्वचा- च्यार्थभङ्गेन प्रथमादिमन्त्रेषसंभावितार्थारोपः? एवं प्रथएद्वितीयमन्त्रयोः भुञ्जीथाः, मागृधः, त्वयि इत्येवं मध्यमपुरुषयुष्मच्छब्दाभ्यामेकाधिका- रिविषयत्वे विस्पष्टे किमिति विभिन्नाधिकारिकल्पना? तर्हि कृत्स्नेयमुप- निषदनाघाताद्वैता प्रसज्यत इति चेत्-तत एव त्यज्यतामद्वैतवाद इति ॥ एवं केनोपनिषदि 'केनेषितं पतति प्रेषितं मनःकेन प्राणः प्रथमः प्रति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुश्श्रोत्रं कउ देवो युनक्ति'। 'श्रोत्रस्य श्रीलं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षरतिमुच्य धारा: प्रत्यास्माल्लोकादमृता भवन्ति ॥ इति प्रथमद्वितीयो मन्त्री । तत्र प्रथमः सर्व- बाह्यविरक्तस्य शिष्यस्य ब्रह्मजिज्ञासापर इति परैरेव व्याख्यातः । नस्य चायमर्थः प्रतीयते - मनोवाक्चक्षुश्श्रोत्रमुख्यपाणाः केन देवेन प्ररितास्सन्तस्स्वस्वकार्याणि कुर्वत इति । तस्यचोत्तरं श्रोत्रम्य श्रोत्र' मित्यादि । अस्यचायमर्थः पूर्वोक्तानां तत्तत्कीर्यजननशक्तिहेतुभूनः वेदान्तभागः केनाधिकारः. २. . परमात्मा कश्चन वर्तते, यं शास्त्रतो यथावदज्ञात्वा तदुपासननिष्ठाः लो- कान्तरं प्राप्य मुक्ता भवन्तीति । यथावस्थितमुक्तिहेतुभूतोपासनविषयः परमात्माऽकर्मवश्यः पूर्वोक्तानां प्रेरक इत्युक्तं भवति । मुमुक्षूपास्यो मोक्ष- प्रदश्श्रीमान्नारायण एवं इन्द्रियादितनत्पदार्थान्तर्यामी संस्तत्तत्पेरको हषीकेश इति फलितार्थः । इन्द्रियाणि मनो बुद्धिस्सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्र क्षेत्रज्ञमेव च ' इत्याधुपबृंहणानुगुण्यात् । इदंचो- त्तरमत्यन्तप्रतिकूल परमते । चक्षुरादीन्द्रियाणां प्राणस्य च को देवः प्रवर्तक इति अतत्त्वविदस्तत्त्वबुभुत्सया प्रश्ने प्रवर्त्यमानमर्थस्वरूपं प्र- वृत्तिं प्रवर्तयितारश्चाभ्युपगम्य तस्य मुक्तिहेतुभूतोपासनविषयपुरुषवि. शेषरूपत्वोपदेशासगतेः ! 'केन के पश्येत् , केन कं विजानीयात्' इत्या- दिवत् , कानि नामेन्द्रियादीनि का वा प्रवृत्तिः, को नाम प्रवर्तकः,आ- स्मैव तत्त्वं निर्विशेषब्रह्मभ्रान्तिविलसितं हि पिदाखिलूपदे- व्यं तन्मते यवत्र व्याख्यान 'श्रोत्रादो ह्यात्मभावं कृत्वा तदुपाधिस्सन् तदात्मना जायते । अतिमुच्य - श्रोत्रात्मभावं परिन्यज्य, धीराः - तत्त्यागहेतु भूतविशिष्टवीमन्तः ' इति, तस्येदं तात्पर्यमवगम्यते - इन्द्रियात्मभ्रमस्सं. सारहेतुः, त्यक्तेशभ्रमा एव मुच्यन्त इति । तत्र न नो विद्वेषः, प्रमेय शरीरस्याबाधितत्वात् । परन्तु मन्त्रस्यदृशतात्पर्यकल्पनं क्लिष्टं प्रकर- णविरुद्धञ्च । प्रष्टा हि इन्द्रियात्मभेदं, चेतनस्यैव देवस्य प्रवर्तयितृत्वश्च विजानानस्तद्विशेषमेवाकांक्षति ; न तु पवर्त्यमेव प्रवर्तकं भ्राम्यन् पृ- च्छति । अतः प्रवर्तकविशेषज्ञापन एव तात्पर्य वर्णनीयम् ; नत्विन्द्रि- यात्मभेदज्ञापने । तथाचेदिदं कृतप्रश्नस्योत्तरं न भवेत् ; प्रवर्तकदेवना- विशेषमश्ने प्रवर्त्यप्रवर्तकभेदोपदेशस्यासङ्गतः। एवमर्थवर्णनेऽपि तत्त्वो. पदेशप्रकरणे ब्रह्मव्यतिरिक्तदेहेन्द्रियादिप्रपञ्चमिथ्यात्व उपदेष्टव्ये आ. त्मन इवेन्द्रियादेरपि सत्यत्वपर्यवसायी इन्द्रियात्मभेदोपदेशस्सर्वथा परे- पामसंगत एव । अतिमुच्येत्यस्यचाकाण्डे श्रोत्राद्यात्मभावं परित्यज्येत्यर्थ गुरुणा। 2 ६ भेद साम्राज्य म् वर्णनापेक्षया तं श्रोत्रादिपवर्तयितारं ज्ञात्वेत्यर्थवर्णनस्यात्यन्तोचितत्वाव विदित्वेत्यध्याहारक्लेशाभावाच्च निरुक्तार्थ एव युक्तः। अध्याहारापेक्षया लक्षणाया लघीयस्त्वात् । आङप्रत्योरिवातीत्युपसर्गस्य बलाद्धातोर्धा- रणाद्यर्थान्तरपरत्वमप्युपपद्यते । धातुशक्यार्थरक्षणाभिनिवेशे चक्षुषश्चक्षु' रित्यन्तेन 'यश्चक्षुपि तिष्ठन् - दिव्यो दे। एको नारायण' इत्याद्यनुसा- रेण देवताविशेषस्यैव प्रवर्तकत्वप्रतिपादनसिद्धया मुमुक्षूपास्यातिरिक्त- स्याग्न्यादेः देवतान्तरस्य श्रुत्यन्तराऽऽपातप्रतीतप्रवर्तकत्वशङ्का परित्यज्येत्यर्थ एवोचिततमः । अत्र 'अस्माल्लोकात्प्रेत्यामृता भवन्ती' त्यनेन तदभिमता जीवन्मुक्तिनिरस्ता भवति । एतेनेयमप्युपनिषत् उपक्रम एव पग्मतविरुद्धेत्युपपादितं भवति । एवमुपर्यपि देवानामन्येषामसुरविजयादौ स्वतन्त्रकर्तृत्वभ्रम- निरासाय ब्रह्म कदाचिदाविर्भूय अग्निवाबादेस्तत्तत्कार्यदाहादानादा- वपि स्वातन्त्र्यण सर्वथैवाशक्तत्वमज्ञत्वञ्च प्रदर्शयामास । अहङ्काराधि- को देवेन्द्रोऽपि उमायास्स्त्रिया मुखेन तत्वं प्रतिबोधित इति श्रुतिः श्रावयन्ती देवाधिराज सर्वान्तर्यामिणं दर्शयति । अतश्चासुरविजयादौ साक्षात् तत्तद्देवावेशन च मुख्यकर्ता विष्णुरेव प्रागुक्तो हृषीकेशः परं ब्रह्मेति सिद्धम् । तदेवं सर्वजगन्नियमनादिगुणविशिष्टपरब्रह्मसत्यत्वे स्पष्टे. नात्रोपनिषदि निर्विशेषवादस्यावसरः। एवं प्रतिमन्त्रमप्यत्र तन्मतविरो- धो द्रष्टव्यः॥२॥ कठोपनिषदपि - ‘अणोरणीय न् महतो महीयानात्माऽस्य जन्तोर्निहि- जो गुहायाम् । तमक्रतुः पश्यति तिशोको धातुः प्रसादान्महिमानमात्मनः॥' 'यमेवैष वृणुते तेन लम्यस्तस्यैष आत्मा विवृणुते तनू स्वाम् ' । 'गुहां प्रविष्टौ' 'सोऽध्वनः पारमानोति तद्विष्णोः परमं पदम् ' । 'बुद्धरात्मा महान् परः । महतः परमव्यक्तं अव्यक्तात्पुरुषःपरः' । 'एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते'। 'ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि' । ' महतः परं ध्रुवं नि- चाय्य तं मृत्युमुखात्प्रमुच्यते ' । 'महान्तं विभुमात्मानं मत्वा धीरो न शोचति' .

वेदान्तभागः कठाधिकारः. ३. . - . 'य इदं मध्वदं वेद आत्मानं जीवमन्तिकात् । ईशानं भूतभव्यस्य' । ' यतश्चो- देति सूर्यः'। 'यथोदकं शुद्धे शुद्धमासिक्तं ताहगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ' | एक बीजं बहुधा यः करोति तमात्मस्थं'। 'नित्यो नि- त्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति । कामान् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिश्शाश्वती नेतरेषाम् ।। यदिदं किञ्च जगत्सर्व प्राण एजति नि- स्मृतम् ' । 'भयादस्याग्निस्तपति' | 'तयोर्ध्वमायन्नमृतत्वमेति ' । ' सदा जनानां हृदये सन्निविष्टः' 'ब्रह्म प्राप्तो विरजेोऽभूद्विमृत्युः । इत्येवं कात्स्न्र्येन परमता- त्यन्तविरुद्धैवोपलभ्यते। एभिर्वाक्यैः कस्यचिदात्मनः जीवात्मान्तर्या- मित्वस्य तथा जीवशोकनिवृत्तिहेतुभूतदर्शनविषयत्वस्य, स्ववरणकर्मी- भूतजीवप्राप्यत्वस्य,युगपजीवेन सह हृदयगुहावर्तित्वस्य, स्वप्राप्तिसाध- नीभूतशरीरेन्द्रियादिविजयनिबन्धनविज्ञानसंपन्नशुचिपुरुषविशेषपाप्यत्व विष्णुपदवाच्यत्वादेः, जीवाधिकशरीराधिकत्वस्य,गूढत्वेन सकलचेतना न्तर्वतित्वस्य,जीवादधिकत्वस्य,मुक्तिहेतुभूतदर्शनविषयत्वस्य,उपासक- शोकनिवृत्तिहेतुभूतमननकर्मत्वस्य, हृदयगुहायां फलभोकृजीवात्मसमी- पवर्तित्वस्य तथा भूतभव्यसवेशितृत्वस्य,भाव्यवस्थाविरोधिपूर्वावस्था- श्रयत्वरूपस्य प्रमाणप्रतिपन्नस्यसूर्यपदोपलक्षितसर्वप्रपञ्चोपादानत्वस्य, स्वोपासकस्य जीवस्य स्वसाम्यप्रदत्वस्य, महदादिरूपेण प्रधानपरि- णामहेतुत्वस्य, अनेकनित्यचेतनाभिमततत्तत्फलप्रदाननिरतत्वनित्यत्व. चेतनत्वादेः तथा आत्मान्तर्यामितया स्वोपासकस्यैव शाश्वतशान्ति- हेतुत्वस्य, अग्निसूर्यादिसमस्तचेतनवर्गस्य तच्छासनातिवृत्तौ कि भवि- ध्यतीत्येवंरूपभयनिबन्धनकम्पनहेतुत्वस्य, मूर्धन्यनाडीविशेषानिष्का- न्तपुरुषविशेषप्राप्यत्वस्य, पुनरपि सकलजनहृदयनिविष्टरूपेण तदन्त- रात्मत्वस्य, लब्धात्मविद्यायोगविधिकपुरुषविशेषप्राप्ये गुणतस्स्वरूप- तश्च निरतिशयबृहत्त्वविशिष्टत्वस्य च स्वरसतः प्रतिपादनात् जीवपर- योस्स्वाभाविकभेदः, परस्यान्तःप्रविश्य सर्वनियन्तृत्वं, तदुपासनाद- मृतत्वप्राप्तिः, तस्याश्च मूर्धन्यनाडीनिष्क्रमणानन्तरभावित्व तत्साम्या- ८ भेद साम्रा ज्य म् पतिरूपत्वे इत्येवंरूप पराभिमतविरुद्धतत्वहितपुरुषार्थविशेषप्रतीतेः ।। 'अणोरणीयान्महतो महीयान्' इत्यस्य यद्वपाख्यानम् - ' भनेन अ- गुत्वाद्यध्यासाधिष्ठानत्वमुच्यते, अन्यथा परस्परविरोधा' दिति - तन्न, ईदृशा. त्यन्तविरुद्धोभयविधाध्यासाधिष्ठानत्वस्यापि निर्विशेषे ब्रह्मणि विरुद्ध- त्वात ; अध्यासाधिष्ठानत्वस्य शन्दतः कथमप्यलाभाच्च विरोधपरिहा- रायोभयत्र लक्षणाकल्पनस्यायुक्तत्वाच्च । अतोऽणुतरत्वमत्र ‘य आत्मनि तिष्ठ ' नित्यादिप्रमाणप्रतिपन्नाणुरूपजीवानुप्रवेशीपयिकप्रतिघातानई- त्वरूपनिरतिशयमूक्ष्मत्वम् । महत्त्वं विभुत्वमेव । महत्पदश्चात्र विभुभि- नाधिकपरिमाणवत्परम् । एवं स्वरसाङ्गिीकारे न विरोधगन्धोऽपि । अध्यासस्यैव निष्प्रमाणतया लक्ष्यार्थापसिद्धिश्च परमते ॥ यदपि - ' यमेवैष वृणुते' इत्यस्य व्याख्यानं - ' स्वात्मानमेव सा- धकः प्रार्थयते । तेनैवात्मना वरित्रा स्वयमात्मा लभ्य' इति । तदपि न । वस्तुतः पररीत्या प्रायितृप्रार्थनीययोरभेदेऽपि यं, एषः, तेन, इत्येवं कश्चित्यकारविशेषमादाय भेदनिर्देशात् , यत्तदोरेकार्थकत्वौचि- त्याच वरणीयस्यैव तच्छब्देन बोधनीयतया तस्य प्रार्थयित्परत्ववर्ण- नायोगात् । तथाङ्गीकारेपि परेषामर्थानुपपत्तिस्स्थिता; साधकत्वाव- स्थस्य वरणीयप्राप्यत्वासङ्गतेः । सेयं परेषामुभयतस्पाशा रज्जुः । इदञ्च वाक्यं मुक्तिसाधनतया वाक्यान्तरविहित ज्ञानविशेषे प्रीतिरू- पत्वविधायकमित्येतदन्यत्र स्पुटम् । यदपि 'गुहां प्रविष्टावात्माना ' विति सूत्रानुगुण्यलिप्सया 'ऋतं पिबन्ता' वित्यस्य जीवपरविषयतया व्याख्यान, तदपि तन्मतेऽसङ्गतम् । परमात्मनस्तत्पक्षेनीवभावेनैव गुहापवेशाभ्युपगमाज्जीवपरौ प्रविष्टांविति साहित्येन निर्देशायोगात् । न हि ब्रह्मजीवी संसरत इति निर्देश उप पद्यते। सूत्रेऽप्यात्मानाविति तन्मतरीत्याऽनुपपनमिति तदवसरे वक्ष्यते। यदपि 'बुद्धरात्मा महान् ' इत्यादेाख्यानं, 'बुध्यपेक्षया हैरण्य- गर्भतस्वं परं, तदपेक्षया भव्यक्तं, तदपेक्षया परमात्मे' ति-तदपि न, करणे- . - वेदान्तभागः । कठाधिकारः. ३. . ऽस्मिन् परमपदप्राप्त्यौपरिकार्योपदेशः क्रियते । । इन्द्रियेभ्य ' इत्यादेः 'यच्छेत् ' इत्यादेश्च तदोपयिकार्थपरत्वं तत्तत्पदार्थपत्यभिज्ञानादाश्रय- गीयम् । तत्र पूर्वत्र वशीकार्येषु तस्मात्तस्मात्परमुपदिश्यते; परत्र वशी- करणप्रकारः! इत्थञ्च हैरण्यगर्भनत्वस्य का प्रसक्तिरत्रेति । ततश्च आ- स्मा महानिति जीव उच्यते; मूलप्रकृतिवाचिनाऽव्यक्तपदेन तत्परि- गामभूतं शरीरमित्येवाश्रयणीयम् । शरीररूपकविन्यस्तगृहीतेरिति च सूत्रकारः । एवं ' आत्मनि महति ' इत्येतदपि जीवपरमेव व्याख्यात- व्यम् । उभयत्र अर्थादिषु प्राचीनेषु अव्यक्तविषये चाश्रुतस्यात्मशब्द स्यात्रैव श्रवणात्तस्य चेतनपरत्वमेवावश्याङ्गीकार्यम् । परेषां प्रत्यगात्म भूतत्वस्यार्थादीनां सर्वेषायपीटत्वादत्रैव तत्प्रयोगो नियुक्तिकस्स्यात् । तस्य सर्वोपलक्षणत्वे सर्वेभ्यः परे अव्यक्त एव नदृक्तिरुचिता। 'ज्ञान आत्मनि' इत्यत्राप्यात्मपदं जीवपरमेव, अन्यथाऽर्थासङ्गतेः । आत्मनि वर्तमाने ज्ञान इत्यर्थः । किञ्च सर्वेषामपि प्रत्यगात्मभूतत्वं निष्प्रमाणं प्रकृतासङ्गतञ्च । प्रत्यगात्मभ्रान्तिविषयत्वं तु न तत्पदमुख्यार्थ इति । यदपि एष सवित्यादयाख्यानं, ब्रह्मादिस्तंबपर्यन्तक्षेत्रेषु मायाच्छन्नतया जीवः आत्मतया न प्रकाशते । अहं परमात्मेति न नानातीत्यर्थ इति - तदपि न । भूतशब्दस्य ' न हिस्यात्सर्वा भूतानि ' । भ्रामयन् सर्वभूतानी' त्यादाविवाचेतनविशिष्टचेतनपरत्वस्वारस्यात् , आत्मेत्यस्य एष इत्येतद्विशेष्यसमर्पकताया एव स्वरसत्वात , बुध्या तु दृश्यत ' इत्युक्त्या ‘न प्रकाशत ' इति प्रकाशसामान्यस्यैव नि- बेध्यत्वावगमातु ; तत्रात्मतयेत्यध्याहारे तस्यैव दोषत्वाच्च । ततश्च स- वचतनान्तर्यामितया वर्तमानोऽपि परमात्मा अजितेन्द्रियाणां न प्रका- भते । जितेन्द्रियाणां तु परमात्मव्यतिरिक्ताविषयिण्या बुध्या वि- षयीक्रियत इत्येवार्थस्स्वरसः, प्रमाणान्तरानुगुणः, प्रकृतोपयुक्तश्चेति । यच्च व्याख्यानं - 'निचाय्य त' मित्यस्य, ' तादृब्रह्म आत्मानमः- गम्ये 'ति-तस्य, ब्रह्म परमात्मतया ज्ञात्वत्यर्थकत्वे स्वाभिमतासिद्धिः । अध्यया . 3 १० भेद साम्राज्य म् । - , ऐक्यज्ञानं हि मोक्षसाधनतयाऽभिमतम् । अस्माकमविरोधश्च ! स्वाभि- नतयेत्यर्थकत्वे तच्छब्दासामञ्जस्यम् । स हि यच्छन्दनिर्दिष्टमर्थान्तरमेन परामृशेत् । ज्ञानपात्मनि महतीति पूर्वप्रस्तुतजीवात्परत्वमप्यत्रैव मह- तःपरमित्युच्यत इति तद्विरोधश्च । एवं विभुमात्मानं मत्वे 'त्यत्र 'आत्मभावेन साक्षादहमस्मि परमात्मेति' इति विवरणमपि 'पृथगात्मानं प्रेरितारञ्च मत्वे ' त्यादिप्रमाणविरुद्धं, अस्त्र- रसश्च । यदुक्तं य इद' मित्यत्र. जीवात्मानं कालत्रयस्येशितारं यो वे- देति । तन्न, शुद्धचैतन्याभेदज्ञानस्यैव मोक्षसाधनतया कालत्रयेशिवभे दज्ञानस्यातथान्वात् । अन्तिकादित्यस्य सर्वथा वैयर्थ्यञ्च तन्मते । अतः जीवात्मानं, हृदये तत्समीपे अन्तर्यामितया वर्तमान सर्वनिय- तारञ्चेत्येव तदर्थो वाच्यः । ‘गुहां प्रविष्टौ 'द्वा सुपर्णा ' इत्याये- कार्थ्याच्च । अत्रेदमवधेयम् – 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं प. रिषस्वजाते । तयोरन्यःपिप्पलं स्वाति अनइनबन्योऽभिचाकशीति ॥ इति वचनान्तरम् । य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् । ईशानं भूतभव्यस्य' इति अत्र परिदृश्यमानं वचनम् । उभयमिदं युगपदुद्धौ कृत्वा पश्यन्तु भवन्तः अस्य, जीवात्मानं सर्वेशानतया यो वेदेति व्याख्यानं कयं वर्तत इति । यच्चक्तिं यतश्चोदेतीत्यत्र, ' यस्मात्प्राणादुदेती ' ति । तच्च.न , प्रसिद्धप्राणस्य हिरण्यगर्भस्य वा सूर्योत्पत्यपादानत्वादेरप्रसिद्धत्वात् । देवादिसकलभूतजातोपादानत्वेन बहुश्रुतिप्रतिपन्नस्य नारायणस्यैव मूर्योपादानत्वस्यापि वक्तव्यतया यच्छन्दस्य तत्परताया एवावश्या- श्रयणीयत्वात् । यथोदकमित्यत्र यदुक्तं, 'वेदेनोपदिष्टमात्मैकत्वदर्शनम् इति, तत् मूल- स्थतादृक्पदात्यन्तविरुद्धम्। एतदभिप्रायेणेव तत्पदं न सम्यग्व्याख्यातम्। यत्तु ' एक बीज' मित्यत्र व्याख्यानम् भात्मानं विशुद्धविज्ञान- , . - वेदान्तभागः । कठाधिकारः, ३. ११ - रूपमिति । तन्न, शुद्धस्य जगद्धीजत्वायोगेन वीजपदार्थत्वासंभ्रवात बीजपदं हि उपादानकारणवाचि । यो बीजमि' त्युक्ती तयोर्भेदस्य स्वरससिद्धत्वाच्च । 'अस्मान्मायी सृजते विश्वमेतत् ' । ' मयाध्यक्षेण प्रकृ- तिस्सूयते सचराचरम् ' । 'अध्यासिता तेन' 'तेनैवाधिष्ठिता जगत् इत्याद्यनुरोधादीजपदं तमः पदवाच्यप्रकृतिपरमित्यङ्गीकार्यत्वाच्च । विरुद्धत्वाभिप्रायेणेव बीजपदं न व्याख्यातम् । · विशुद्धविज्ञानरूप ' मि- त्येतत्तु न बीजपदव्याख्यानं भवितुमर्हति । वीजपदं हि अङ्कुरादिपरि- शामि बीजतुल्यस्थूलजगत्परिणामिसूक्ष्मवस्तुपरम् । विवर्तोपादानं तु वन्ध्यासुतसोदरम् । यदपि तमात्मस्थमि त्यस्य ‘स्वशरीरहृदयाकाशे चैतन्याकारणाभिः व्यक्त ' मिति विवरणं, तन्न। 'यो विज्ञाने तिष्ठन् ' 'य आत्मनि तिष्ठन्' इत्याद्यनुसारेण जीवान्तर्यामित्वस्यैव स्वरसतः प्रतीतेः, ईदृशकुसृष्टिक- ल्पनाया निष्प्रमाणत्वाच्च । नित्यानां बहूनां चेतनानां नित्य एको यश्चेतनः कामान्विद. धाति, तमात्मस्थमिति स्वारसिकार्थे प्रतीयमाने ययाख्यानं 'नित्यो नित्याना ' मित्यादेः- ' विनाशिनामविनाशी, प्रळये विनश्यासवं यत्र शक्तिशेष विलीयते, सोऽभ्युपगन्तव्यः । आत्मचैतन्यनिमित्तमेव चेतयितृत्वमन्येषाम् , अ- ग्निनिमित्तमिव दाहकत्वमनग्नीनाम् । अतम्सोऽस्ति पर इत्यभ्युपगन्तव्यः । कर्म- फलमपि सेवाफलमिव तत्स्वरूपाद्यभिज्ञेन दीयमानमभ्युपगन्तव्यमिति तदभिज्ञः परोऽस्ती ' ति । तच्छ्रोतॄणामाश्चर्यरसमेवाऽऽवहति, क्लिष्टत्वादनुपपन्न- त्वाच्च । अत्र ' चेतनश्चेतनानामित्यनुरोधेन नित्यानामिति च्छेद एव हि युक्तः । षष्ट्यन्तानां प्रथमान्तानाञ्च विशेषणविशेष्यभावे स्वारसि- के तद्भङ्गेनार्थवर्णनश्चान्याय्यम्। एवं शक्तिशेषं विलयेऽपि जीवानां पृथ- गभावे अकृताभ्यागमकृतविप्रणाशप्रसंगः । सर्वत्र लयस्याधारसापेक्ष- तया प्रलये नित्यस्यावश्यकत्वेपि अविद्याया एव तवमुचितम् , परि- णाम्युपादाने हि कार्यलयो लोके दृष्टः । एवमात्मन्यपि चैतन्यमात्रे मुख्य .

भेद साम्राज्य म् । , . चैतन्याश्रयत्वरूपं चेतनत्वं दुर्वचमिति तस्याप्यन्यचेतनाविशेष एव । एवमेको बहूनामित्यस्य पूर्वोक्तांशद्वयसरूपार्थवर्णनं न दृश्यते। लोके च सेवाफलं बहुभिरेकस्मै दीयमानमपि स्वस्वरूपाभिज्ञमवगमयत्येवेति । यच्च व्याख्यानं ' तयोर्ध्वमायन्नमृतत्वमेती ' त्यस्य, अपकृष्टब्रह्मवि- दां, विद्यान्तरनिष्ठानाञ्च ब्रह्मलोकभाजामनिविद्यानिष्ठस्य वा गतिरि- यमुच्यते, उत्कृष्टब्रह्मविदोऽत्रैवामृतत्वश्रवणात् सर्वव्यापिब्रह्मप्राप्तौ गत्य- नपेक्षणाचेति, तन्न, उत्कृष्टब्रह्मविद एव अस्माच्छरीरात्समुत्थाय 'तस्य तावदेव चिरं यावन्न त्रिमोक्ष्ये' इत्यादिप्रमाणसहस्रेण शरीरविमो. क्षणानन्तरमर्चिरादिमार्गेण ब्रह्मप्राप्तिप्रतिपादनात् , ' अत्र ब्रह्म समश्नुत' इत्यस्य उपासनकालिक ब्रह्मानुभवविषयत्वस्यावश्याश्रयणीयत्वात् . ब्रह्मणस्वरूपेण व्यापित्वेऽपि देशविशेषावच्छिन्नविलक्षणविग्रहविशे- षादिविशिष्टब्रह्ममाप्ति तत्पूर्वकस्वाभाविकगुणाष्टकाविर्भावादेरेव मुख्यमु. क्तिरूपतायाः । शरीरास मुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभि- निष्पद्यते' इत्यादिपमाणप्रतिपन्नत्वेन तदर्थ गतेरवश्यापेक्षितत्वाच्च । पूर्व 'अत्र ब्रह्म समश्नुने ' इत्युक्त्वा · शतञ्चकाचे 'ति देशान्तरप्राप्तिपूर्वका मृतत्वनिगमनात् अत्र लभ्यमानामृतत्वापेक्षया पश्चाद्भाव देशान्तरेऽ- मृतत्वं मुख्यमिति प्रदर्य 'विमुक्तश्च विमुच्यत'इति पूर्वोक्तविवरणप- रत्वावगमाच्च । एतेन गत्यागमस्य गतिश्रवणसामर्थेनैव परिच्छिन्न- ब्रह्मपाप्तिकामविषयकत्वमेव वक्तव्यम् , न प्रकरणादपरिच्छन्नब्रह्ममा- प्तिकामविषयत्वम् , लिङ्गापेक्षया प्रकरणस्य दुर्बलत्वादिति निरस्तम् , विरोधे सत्येव बलाबलविचारप्रवृत्तः, अत्र च परिच्छिन्नदेशविशेषगति- पूर्वकपरिपूर्णब्रह्ममाप्तेरेव मुक्तित्वाभ्युपगमेन गमनापेक्षणाद्विरोधग- न्धाभावादिति । एतदुपनिषदन्ते परमप्राप्यस्य ब्रह्मशब्देन प्रतिपादनमेकमेव नि- विशेषब्रह्मवादिपरमतनिश्शेषनिरसनायालम् । 'बृहति बृहयति तस्मा- दुच्यते परं ब्रह्म ' इत्यादिपमाणेन स्वरूपतो गुणतश्च निरतिशयबृहत्व- वेदान्तभागः। प्रश्नाधिकारः. ४. १३ विशिष्टस्यैव तद्वाच्यत्वादित्यलमातिचर्चया ॥ तत्सिद्धं कठोपनिषदपि कास्न्येन परमतविरुद्धेति ॥ ३ ॥ एवं प्रश्नोपनिषदपि परप्रतिकूलैव परिदृश्यते । तत्रोपक्रमे 'कु तो ह वा इमाः प्रजाः प्रजायन्त ' इति परं ब्रह्मान्वषमाणन प्रश्नः कृत उ- पलभ्यते । तस्य च 'प्रजाकामो 'इत्यादिना प्रजापतिसकाशात्सर्वमुत्पन्न- मिति विस्तरेणोत्तरमुक्तमाचार्येण ! ततश्च जगत्सत्यमित्यध्यवसीयते। न हि मिथ्याभूतस्योपादानपश्नः, प्रजापतिरुपादानमित्युत्तरं वा युज्यते । अध्यासाधिष्ठानमेव खलु प्रष्टव्यम् । शिष्येण जगत्सत्यत्वभ्रमेण तथा प्रश्नपि तत्वविदाऽऽचार्येण नत्प्रतिषेधपूर्वकमधिष्ठानं खलु निविशेष वक्तव्यम् । तदेवोक्तमिति चेन्न, अपतीतेः । लोके शुक्तेः रजतो. पादानत्व व्यवहारस्याऽऽपण्डितपामरं कापि कोणेऽनुपलम्भेन तद्वाक्य - स्य तादृशार्थप्रत्यायकतायाश्शपथैकनिर्णेयत्वात् । प्रमाणान्तरानुगुण्येन तस्य तदर्थकत्वोपपत्तिरिति चेन्न, निर्विशेषं ब्रह्म जगदध्यासाधि ष्ठानं, रज्जुरिव साध्यासाधिष्ठानमित्यर्थकवाक्यशकलस्याप्यद्यापि भवताप्युपनिषत्सु तदुपबृंहणेषु वा संमतिपन्नेषनुपलम्भात् । प्रत्युत मृत्पिण्डघटादेः, वटवीजतवृक्षादेरेव च, तत्रतत्र कार्यकारणविषये दृ- ष्टान्ततयोपन्यासात् । ब्रह्म विवर्तोपादानमिति तु केवलस्वेच्छामूलम् । न शास्त्रमूलम् ; शास्त्रे ब्रह्मणि वा अन्यत्र वा, विवर्तोपादानत्वव्यवहा- रादर्शनात् । अतस्सत्यतयैव स्वेन ज्ञातस्य स्थूलस्थ जगतस्सूक्ष्मावस्थं परिणाम्युपादानमेव वस्तु हिरण्यगर्भस्यापि कारणभूतं शिष्येण पृष्टम्। ब्रह्मैव तादृशं सूक्ष्मचिदचिद्विशिष्टमुपादानमिति तदुत्तरमित्येवास्थयम् । कारणवाक्यान्तरैककण्ठ्याच्च । न ह्यत्रत्यप्रजापतिशब्दश्चतुर्मुखपरो भ- वितुमर्हति, 'यो ब्रह्माणं विदधाति पूर्व मित्यादिना तस्यापि कार्यत्वाव- गमात् । 'कारणं तु ध्येय' इति कारणविज्ञानं हि मोक्षसाधनम् । प्रष्टा च परं ब्रह्मान्वेषते, नत्ववरम् । किश्च अत्रैव दशममन्त्रे 'आत्मानमन्वि- ध्याऽऽदित्यमभिजयन्ते । एतत् प्राणानामायतनमेतदमृतमभयमेतत्परायणमे. 4 भेद साम्रा ज्य म् । . तस्मान्न पुनरावर्तन्त इत्युक्त्याऽप्यस्योपक्रमवाक्यस्य परमात्मपरत्व. मविचाल्यम् । साक्षान्मुक्तिकाम, परं ब्रह्मान्वेषमाणं प्रत्युत्तरदानावसरे आत्मानमन्विष्यादित्यं प्राप्नुवन्ति, प्राणसहचरितसर्वजीवानामाधारभूत ममृतत्वाभयत्वविशिष्टं परमप्राप्यमेतदात्मतत्वं प्राप्य न पुनरावर्तन्त इत्युक्तावुभयोरेकविषयतायास्स्वरससिद्धत्वात् । परं ब्रह्मान्वेषमाणा इत्यन्विष्यमाणतयोपक्रान्तं परं ब्रह्म ह्यत्रात्मानमन्विष्येत्यात्मपदेनोच्यते; एतद्ज्ञानान्मुक्तिश्च । सा तु 'कारणन्तु ध्येय' इत्युक्त्या परमकारण विज्ञा- नादवेति । उत्तरत्र तत्रतत्र प्रजापतिशब्दस्य संवत्सरादिशब्दसामा. नाधिकरण्यं, ' तस्मादिमाः प्रजाः प्रजायन्त ' इति तत्तत्पदार्थावस्थप्रजा- पतिसकाशात्तेते अर्था उत्पद्यन्त इनि वचनञ्च, प्रजापतिशब्दस्य हि- रण्यगर्भपरतां निवारयति, परब्रह्मकार्यभूते तस्मिन् तद्वाचकचिदचि- द्वाचकशब्दसामानाधिकरण्यस्य, तनद्वाचकानां तत्पर्यन्तत्वस्य च हेतु- भूतानां सर्वोपादानत्वसर्वशरीरित्वादीनामसंभवात् । प्रकारान्तरेण हिरण्यगर्भवाचकस्यैतदुपपादनं तु हिरण्यगर्गस्यापि दुश्शकमित्यलम् । एवं चतुर्थश्ने जीवपरात्यन्तभेदस्स्फुटतरमुपलभ्यते । तत्र 'स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते । एवं ह वै तत्सर्व पर आत्मनि सं. प्रतिष्ठते' इति चेतनाचेतनरूपककरणकर्मात्मकस्सर्वोपि प्रपश्चः पर- मात्माश्रित इत्युक्तम् । इममेवार्थमुत्तरप्रश्नशेषो विस्तरेण प्रतिपादयति। तत्र 'पृथिवी च पृथिवीमात्रा चे ' त्यादिकं पूर्व सर्वशब्दसहीतमचंतनां शं विवृणोति ; 'एष हि द्रष्टे' त्यादिकं चेतनांशम् । 'स परेऽक्षरे आत्मनि सम्प्रतिष्ठते' इत्येतच्च , अनयोर्द्वयोरपि परमात्माश्रितत्वं ‘पर आत्मनि सम्प्रतिष्ठत ' इति पूर्वमुक्तं परमात्मनोऽक्षरशब्देन स्वरूपस्वभावविकार- राहित्यप्रतिपादनपुरस्सरं प्रकाशयति । तद्वयतिरिक्तस्य सर्वस्य चेत- नस्याचेतनस्य वा तदधीनविकारवत्वान्न तद्वेदनेन मुक्तिप्रत्याशा; पर- मात्मन एव सर्वकार्यकारणत्वात्तद्वेदनेनैव मुख्यमुक्तिरित्यक्षरपदाभि- प्रायः । अत्र स इति तच्छब्दः 'पृथिवी च ' ' एष हि' इत्याभ्यामुक्त . . - वेदान्तभागः । मुण्डकाधिकारः. ५. . चेतनाचेतनरूपप्रपञ्चपरः । स यो ह वै तदित्यादिकं तु सर्वाधार तया पूर्वोक्तस्य परमात्मनः अच्छायत्वाशरीरत्वादिपरत्वोपयिकोपास्य- गुणविशेषप्रतिपादनपूर्वकं तादृशगुणविशिष्टपरमात्मोपासनस्य सार्वज्य- सर्वकामयुक्तत्वरूपां मुक्तिं फलमाह । श्लोकस्तूक्तार्थक इति सुस्पष्टम् । अतोऽत्र परं ब्रह्म जिज्ञासमानमत एव परममुक्तिकामं शिष्यं प्रति सर्व- चेतनाचेतनाधारत्वादिगुणविशिष्टपरमात्मोपासनं मोक्षसाधनतयोपदि- ध्माचार्येणेत्यस्यार्थस्य दुरपलपतया, जीवपरावत्यन्तभिन्नौ गुणजा- तञ्च पारमार्थिकं, अचेतनप्रपञ्चोपि तथैवेत्यशो निष्कम्पसिद्धिक इति ध्येयम् । अत्रा चेतनस्येव चेतनस्यापि परमात्मनि संपतिष्ठितत्वे उच्यमाने, · जलाधारशोषणे सूर्यप्रतिबिम्बस्य सूर्ये प्रवेशवन ब्रह्मणि जीव- प्रवेश उच्यत' इति व्याख्यानं. स्वसिद्धान्तश्रद्धाविजृम्भितमत्यन्तास्व- रसं सर्वप्रमाणविरुद्धमुपपत्तिविहीनञ्चेति बोध्यम् । न हि प्रतिबिम्ब- स्य बिम्बे प्रवेशो नाम कश्चित् , वस्तुन एवाभावात् ! तत्सत्त्वाभ्युप- गमेपि स्वच्छद्रव्यविम्बोभयसन्निकर्षार्धानसत्ताकस्य तस्य, तयोः अ- न्यतरस्य वाऽपगमे सत्ताभाव एव. नतु बिम्बे प्रवेशः, नियुक्तिकत्वात् , तथाव्यवहाराभावात् , अविशेषादन्यत्रापि प्रवेशाभ्युपगमप्रसङ्गाच, तस्मानिर्गमनाभावाच्च । अत इदं प्रकरणं परेषामत्यन्तप्रतिकूल- मिति ॥ (४) ॥ मुण्डकोपनिषदपि सर्वात्मना पराभिमतप्रमेयात्यन्तप्रतिकूलेति प्रत्यक्षम् । तत्र 'नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनि परिप- श्यन्ति धीराः ॥ ' 'वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम्' 'यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्संभवतीह विश्वम् ।।' ' यस्सर्वज्ञस्सर्वविद्यस्य ज्ञान- मयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते ॥' इत्यादि प्रथममुण्डक. प्रथमखण्डे, 'तदेतत्सत्यम् । यथा सुदीप्तात्पावकाद्विस्फुलिङ्गास्सहनशः प्रमवन्ते सरूपाः। तथाऽक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति' , भेद साम्राज्य म् । - , . 'एतस्माज्जायते प्राणो मनस्सन्द्रियाणि च । खं वायुज्योतिरापः पृथिवी वि- श्वस्य धारिणी॥" अतस्समुद्रा गिरयश्च सर्वे अस्मात्स्यन्दन्ते सिन्धवस्सर्व- रूपाः । अतश्च सर्वा ओषधयो रसश्च येनैष भूतस्तिष्ठते ह्यन्तरात्मा । इति द्वितीयमुण्डकपथमखण्डे, ‘यदा पश्यः पश्यते रुक्मवणं कर्तारमाशं पु- रुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे बिघूय निरञ्जनः परमं साम्यमुपैति । इति तृतीयमुण्डकप्रथमखण्डे, यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वानामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ इति तत्रैव द्वितीयखण्डे च श्रूयते । एभिर्वाक्थैः, नित्यत्वविभुत्वादि: गुणविशिष्टं सर्वजगद्व्यापि सर्वजगदुपादानं स्वाभाविकसर्वज्ञत्वादि- गुणविशिष्टं सर्वजगल्लयाधिकरणं विशिष्य समुद्रागर्याधुपादानं, उ- तसर्वोपादानत्वहेतुभूतसर्वान्तरात्मत्वविशिष्टं परमात्मरूपं तत्वं, उक्त- सर्वजगदुपादानत्वतन्निमित्तत्वादिनिरतिशयगुणापाकृतस्वासाधारणदि व्यमङ्गळविग्रहबिशिष्टपरब्रह्मसाक्षात्काररूप उपायः, पुण्यपापरूपक- म, तत्कृतबहुविधनामरूपपहाणपूर्वकं परमपुरुषेण परमसाम्यापत्ति- लक्षणदिव्यपुरुषप्राप्तिरूपः पुरुषार्थश्च प्रस्पष्टं प्रतीयते । केनापि प्रमा- णेन कयापि युक्त्या वा, नास्यार्थजातस्य बाधलयोऽपि वक्तुं शक्य इति । यत्त्वत्रैव श्रुतं, 'विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ति 'ब्रह्म वेद ब्रह्मैव भवती' ति च, तत् जीवस्य नामरूपप्रहाणेन पर- मात्मना सुदृढसंयोगपरं व्याख्येयम् , 'नामरूपाद्विमुक्त' इति अत्रैव सह- ष्टान्तविशेषं पूर्वोत्तरयोविवरणात् । न हि नदीसमुद्रजलयोस्स्वरूपत ऐक्यं शक्यशङ्कम् , किन्तु नामरूपाहाणमेव तत्र । दृष्टान्तोपन्यासेन प्रतिपिपादयिषितेऽर्थे आदरातिशयो हि व्यज्यते । यतु 'नित्यं विभु ' मित्यत्र विभुपदव्याख्यानं विविधं ब्रह्मादि- स्थावरान्तप्राणिभेदैर्भवतीति विभु ' रिति । तन्न. ब्रह्मादिस्थावरान्तरूपेण निर्विशेष निरवयव नित्यशुद्धब्रह्मणः परिणामायोगात् । तथासति यादवप्रकाशमतप्रवेशप्रसङ्गात् , तथाऽनभ्युपगमेनापसिद्धान्ताच, मृद्धट - , . . वेदान्तभागः । मुण्डकाधिकारः. ५. १७ योरिव स्वरूपपरिणामस्थले कार्यकारणयोस्साजात्यस्यावश्यकतया जगह्मणोस्सत्यत्वमिथ्यात्वान्यतरप्रसङ्गाच्च । जगदध्यासाधिष्ठानं भवंतीत्यर्थस्तु न पूर्वोक्तविवरणवाक्यात्प्रतीयते । नचानिर्वचनीये प्रमाणमस्ति । ततश्चैवं व्याख्यानमसमञ्जसमेवेति । यदपि व्याख्यानं ' यथोर्णनाभि रित्यत्र, 'यथा ऊर्णनाभेस्तच्छ . रीराव्यतिरिक्तास्तन्तवः, यथा च पृथिव्या ब्रीह्यादिस्थावरान्तास्तदव्यतिरिक्ता ओ. षधयः, यथा च जीवतः पुरुषात्तद्विलक्षणानि केशलोमानि जायन्ते, तथा विल- क्षणं सलक्षणञ्च जगदक्षराज्जायत' इति - न तत्रास्माकं किञ्चिदपि वक्त- व्यमस्ति । सर्वथाऽस्मदिष्टत्वात् ! परन्तु व्याख्यानमिदं कथं तदभिमत- साधकमिति न जानीमः । न च शीक्तरजतादिदृष्टान्त इह दर्शितः। नून- मयमन्यथा नेतुमशक्य इत्यभिप्रायेणैव मन्त्रस्य पदार्थविवरणमात्रं कृत- मिति मन्यामहे । अत्राक्षरशब्देन सूक्ष्मचिदचिद्विशिष्टब्रह्मण उपादानात् तत्राक्षरशब्दार्थत्रये विशेष्यांशस्य ब्रह्मणः, विशेषणीभूतस्याचिदंशस्य चिदंशस्य च कारणत्वप्रकारः दृष्टान्तत्रयेण क्रमेण दर्यत इत्यपि सुव- चम् । अन्यदन्यत्र । एवं ' यस्सर्वज्ञ' इति मन्त्रव्याख्यानपि लेशतोऽपि न तदनुकूलं दृश्यते, अपित्वस्मत्सिद्धान्तानुकूलमेव । यदपि — यथा सुदीप्ता' दिति मन्त्रपूर्वाधं यथावव्याख्याय 'तथाऽक्षरा' दित्युत्तरार्धव्याख्यानं तत्तात्पर्यवर्णनञ्च, 'भावाः जीवाः, यथा घटादिपरिच्छिन्ना सुषिरभेदा घटायु गाधिप्रभेदमनु आकाशाद्भवन्ति, एवं नानानामरूपकृतदेहोपाधि प्रभेदमनु जीवा अक्षरात्प्रजायन्ते । तत्रैवाक्षरे देहोपा- धिविलयमनु लीयो, घटादिविलयमन्धिव सुषिरभेदाः । यथाऽऽकाशस्य सुषि- रभेदोत्पत्तिप्रळयनिमित्तत्वं घटायु गाधिकृतमेव, तद्वदक्षरस्यापि नामरूपकृतदेहो- पाधिनिमित्तमेव जीवोत्पत्तिप्रळयनिमित्तत्व' मिति । तदेतदतिविचित्रं व्या- ख्यानवैभवम् । श्रुतस्य दृष्टान्तविशेषस्य स्वप्रतिकूलत्वधियैव दृष्टान्ता- न्तरं स्वमनीषया कथञ्चित्सम्पाद्योपन्यस्तम् । तदप्यत्यन्त दुःस्थत्वान्न क्षणमपि जीवितुमर्हति । आकाशस्य घटरूपोपाध्यवच्छिन्नसुषिरभेदो- । .

भेद साम्राज्य म् । - - . त्पत्यपादानत्वतल्लयाधिकरणत्वयोस्सर्वथाऽसंभवात् , लोके आका- शात्सुषिरमुत्पद्यते, तत्र लीयते' इति कुत्रापि व्यवहारादर्शनात् , युक्ति- विधुरत्वात् ,उपलम्भविरोधाच्च । घटाकाशसंयोगे,निरवच्छिन्न आकाशे घटायुपाध्यन्तर्गतांशः परिच्छिन्नतया गृह्यते । स एव सुषिरभेद इत्युच्यते । घटादिनाशे तत्संयोगाभावेन तथा न गृह्यते । तत्र वस्तुतो घटादिगत एव परिच्छेदस्तदवच्छिन्नांशभेद आरोप्यते, न तु तच्छि- द्रमाकाशाज्जायते तत्र लीयते वा इतीयमेव वस्तुस्थितिः । सर्वानुभव- सिद्धमिममंशमपलप्य अनुपपन्नमनुपलब्धिपराहतश्चाकाशस्य सुषिरभेदो त्पत्तिप्रळयनिमित्तत्वं सिद्धवत्कृत्य दृष्टान्तविशेषोपन्यासः उपन्यसितु- रतिसाहसिकत्वगतिमात्रस्वसिद्धान्तश्रद्धाच स्फोरयतीति विद्वांसो विदाकुर्वन्तु । अत्र स्वसिद्धान्तानुरोधेन आकाशस्य घटायुपाधिकृतं सुषिरभेदरूपत्वमिव देहाद्युपाधिकृतमेव ब्रह्मणो जीवरूपत्वमिति वक्तव्ये भक्षराद्भावाः प्रजायन्ते' तत्र चैवापियन्ति ' इति श्रुतिविरोधपरि जिहीर्षयैवापसिद्धतरार्थसिद्धवत्कार इति रहस्यम् । यञ्च 'एतस्मान्जायते प्राण' इत्यादेव्याख्यानं 'यस्मादेव पुरुषान्नाम- रूपयीजोपाधिलक्षिताज्जायते अविद्याविषयविकारभूतो नामधेयोऽनृतात्मकः प्रा- णः, न हि तेनाविद्याविषयेणानृतेन प्राणेन सप्राणत्वं परस्य स्यात् , अपुत्रस्य स्वप्नदृष्टेनेव पुत्रेण पुत्रित्वं, अतोऽस्य निरुपचरितमप्राणादिमत्त्व ' मिति । एव मुपर्यपि यत् । तस्मादग्नि' रित्यादेः 'अतस्समुद्रा' इत्वन्तस्याक्षरोपादा- नत्वपरस्य व्याख्यानं प्रपञ्चमिथ्यात्वप्रतिपादनपरत्वेन-तदुभयमपि सर्वात्मनाऽसंबद्धम् । प्रथममन्त्रोक्तचेतनाचेतनात्मककृत्स्नभावसृष्टि- प्रपञ्चनरूपत्वादस्य कृत्स्नखण्डस्य । ' एतस्माज्जायते प्राण ' इत्यादिना प्राणादिकारणत्व उच्यमाने प्रकरणस्य. प्राणादिमिथ्यात्वपरत्ववर्णन- स्यात्यन्तविरुद्धत्वाच । प्राणाद्यसत्यत्वेनाक्षरस्य प्राणादिमत्तराहित्ये प्रतिपिपादयिषिते, प्राणादयो ब्रह्मण्यध्यस्ताः, अविद्याविषयाः, मि. थ्याभूताः इत्यादिरूपेण तत्प्रतिपादनस्यैवोचिततया, परस्मात्प्राणा- . - .

वेदान्तभागः । मुण्डकाधिकारः. ५. १९ . . 'अप्राणः दयो जायन्ते इत्युक्तेस्सप्राणत्वादिभ्रमापादकत्वेनात्यन्तासंगतेः । त- अमना ' इत्ततेतू प्राणायत्तस्थितिं मनआयत्तज्ञान- ञ्च निषेधति । 'पश्यत्यचक्षुस्स शृणोत्यकर्ण' इत्यायैकार्थ्यान् । प्राणमन- सोरपि तत्कार्यत्वात्तत्संकल्पायत्तस्वरूपस्थितिप्रवृत्तिकत्वाच्च न तदा. यत्तस्थित्यादिकत्वं तत्कारणस्य सम्भवतीत्युपपादयन्नेव मन्त्रोऽयं प्रथमोक्तविश्वसृष्टिं प्रपञ्चयतीत्यभ्युपगन्तव्यम् । 'तस्मादग्निस्समिधः, तस्मादृचस्साम' 'तस्माच्च देवाः' ' तस्मात्सप्त प्राणा: अतस्समुद्रा गिरयः । 'अतश्च सर्वा ओषधयः' इति पुनःपुनरत्यादरेण प्रतिमन्त्रं पञ्चम्य- न्तेन प्रस्तुतमक्षरमुपादाय तस्य तत्तत्पदार्थोपादानत्वे प्रतिपादिते 'सर्व- बैतत्परस्मादेव पुरुषात्सर्वज्ञात्प्रसूत, अतो वाचारम्भणं विकारो नामधेयमनृतं, पुरुष इत्येव सत्य' मिति प्रकरणतात्पर्यवर्णनं कथमिति चित्रीयते चेतः। 'वाचारम्भण' मित्यादिकन्तु तत्तत्प्रकरणानुगुणं तदभिमतासाधकं व्याख्यास्यते । किञ्च ' कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवती' त्युपक्रमगतप्रश्नस्योत्तररूपण प्रवृत्तमिदं प्रकरणमिति भवद्भिरप्युभ्युप- गम्यते । इत्यञ्च कार्यवर्गस्य मिथ्यात्वे कारणविज्ञानेन कथं प्रप. ऽचविज्ञानं सिद्धयेत् । वस्तुनोभावे ज्ञानविषयत्वस्य दुरुपपादत्वात् । न हि लोके शुक्त्यादिविज्ञाने उत्पन्ने रजतादिविज्ञानमुत्पन्नमुप- लभ्यते, उपपद्यते वा । कार्यकारणयोरेकद्रव्यत्वे हि तदुपपत्तिः । कस्य वा सत्यमिथ्यार्थयोरैक्यं सुसम्पादं स्यादिति । अत्रेदमवधेयम् -- अत्र प्रथमनः कस्यैकस्य विज्ञानेन सर्व विज्ञातं स्यादिति प्रश्नः। तदुत्तर- रूपेण प्रवृत्ते सन्दर्भे, 'अक्षरपुरुष एव सर्वस्यान्तरात्मतया तिष्ठति । अ- त एवाक्षरात्पुरुषात्सर्वं जायते । अतस्सर्वमिदं पुरुष एव । अतोऽक्षर- पुरुषज्ञानेन तस्माज्जातं सर्व ज्ञातं भवति ' इत्युक्तमुपलभ्यते । यथा सोम्य एकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्या' दित्यादिकश्च श्रु- त्यन्तरम् । लोके मृत्सकाशाजातो घटः मृदात्मक इत्युपलब्धिव्यवहा- रौ। एकमृत्पिण्डारन्धानां घटशरावादीनां तत्पिण्डज्ञानेन तदैक्यात्तव्य- .

२० भेद साम्रा ज्य म् । स्वेन ज्ञातता । तथा व्यवहारश्च घटशरावादिकमुद्दिश्य 'इदं सर्व पूर्वाह्ने केवलमृत्तिकात्वेन ज्ञातमेव मये ' ति । एवं कार्यकारणयोरैक्ये उभयस- त्यत्वे चैव कारणज्ञानोत्पत्त्या कार्यज्ञानोत्पत्तिः; अनीदृशशुक्तिरजता- दिस्थले तदनुत्पत्तिः । एवंसति 'सर्वमक्षरादुत्पद्यते, अतोऽक्षरव्यतिरिक्त सर्व मिथ्या। इत्थञ्चाक्षरज्ञानेन सर्व विज्ञातं भवती ' त्येतत्प्रकरणविवरणं सर्व- थाऽनुपपन्नमिति । एतेनैव एतदुपनिषदि परोक्तं विरुद्धमन्यदपि निरस्तं वेदितव्यम् !! ५ ॥ माण्डूक्योपनिषद्यपि न परपरिकल्पितप्रमेयशरीरानुकूलमंशं प- श्यामः; प्रत्युत तत्प्रतिकूल मेव । तत्र हि 'ओमित्येतदक्षरमिदं सर्व; तस्यो- पव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्यो- कार एव॥' इति प्रथमत:श्रूयते । इदं सर्वं जगत् ओङ्काररूपम् , ओङ्का- रवाच्यमित्यर्थः । इदमेव विवृणोति ‘भूत ' मित्यादिवाक्यशेष इति ' तस्योपव्याख्यान' मिति श्रुतिरेव प्रतिपादयति । विशिष्टवेषेण वा, स्व- रूपतो वा, अभूद्भवति भविष्यतीत्येवंरूपेण तत्तत्कालपरिच्छिन्नश्चेतना- चेतनात्मकं जगत्, उक्तरीत्या कालत्रयपरिच्छेदरहितमच्युतस्वरूप- स्वभावकं सदैकरूपं परमात्मस्वरूपश्च ओङ्कार एवेति तदर्थः । प्रण- वान्तर्गताकारण सर्वरक्षकस्य भगवतः, उकारण देव्याः, मकारेण तदु- जीवोपलक्षिनसर्वप्रपञ्चस्य च वाच्यत्वादिति इत्थश्चास्माद्वाक्याचेतनाचेतनात्मकप्रपञ्चसद्भावः, तदवव्छेदककाल- त्रयसद्भावः, ब्रह्मणस्त्रिकालातीतत्वरूपधर्मसद्भावः, ओङ्काररूपवाच- कसद्भावश्च प्रतीयते । एतेचास्सित्या एवेति चोत्सर्गसिद्धम् , बाधकलेशादर्शनात् । एवमत्र आत्मनश्चतुष्पात्त्वं प्रक्रम्य वैश्वानर तै- जसप्राज्ञरूपपादत्रयं, तेषां पादानां जागरितस्वमसुषुप्तस्थानतां, तत एव तत्तत्स्थानानुभाव्यानुभवितरूपप्रपञ्चवैशिष्टयञ्च प्रतिपाद्य पश्चात् प्रण- वेऽप्यकारोकारमकाररूपाणि मात्राशब्दितान्यक्षराणि विभज्य तेषां क्रमेण मागुक्तपादधयात्मत्वकण्ठोत्यापि प्रपञ्चसत्त्वमेव स्पष्टं बुध्यते । . भयशेषभूतस्य . .

वेदान्तभागः । माण्डूक्याधिकारः. ६. एवं पादत्रयेण चेतनाचेतनात्मकप्रपञ्चवैशिष्टयोक्त्यनन्तरमेव च,, सर्वेश्वर एष सर्वज्ञ एषोन्तर्याम्येष योनिस्सर्वस्य प्रभवाप्ययौ हि भूताना' मिति सकलप्रपञ्चनिर्वाहव्यापृतस्यैव प्रागुक्ततां स्पष्टयति । न बत्र निर्वि- शेषपरतया व्याख्यानसंभव इति स्फुटम् । यत्तु सर्वह्येतद्ब्रह्म अयमात्मा ब्रह्म सोयमात्मा चतुष्पादि 'त्युपरितनवा- क्यम् , तन्न परानुकूलम् । — सन्मूलास्सोम्येमाः- एतदात्म्यमिदं सर्वम् ' 'सर्व खल्विदं ब्रह्म तज्जला ' नित्यादिश्रुत्यन्तरानुसारात , सर्व समाप्नोषि ततोऽ. से सर्वः । सर्वगत्वादनन्तस्य सएचाहमवस्थितः ' 'अन्यश्च राजन्स परस्तथा- न्यः पञ्चविंशकः । तत्स्थत्वादनुपश्यन्ति ह्यक एवेति साधवः' ॥ विष्णोस्सका- शादुद्भूतं जगत्तत्रैव च स्थितम् । स्थितिमयमकर्ताऽसौ जगतोऽस्य जगच्च सः। इत्याद्युपबृंहणशतानुसाराच सर्वमिदं ब्रह्मकार्यत्वाब्रह्मान्तर्यामिकत्वाच्च ब्रह्मात्मकम् ; अयं जीव त्मा च विशिष्टवेषेण व्रह्मकार्यत्वात्स्वरूपतो ब्रह्मान्तर्यामिकत्वाच्च ब्रह्मात्मकः, सोऽयं परमात्मा वक्ष्यमाणपादचतुष्ट- यविशिष्ट इत्येव व्याख्येयत्वात् ।अत्र हि सर्वस्य यादृशं. तादृशं आत्म- नोपि ब्रह्मसामानाधिकरण्यमिति दयते । अनेन च भूत'मित्यादिना पूर्वो- तं चेतनाचेतनात्मकं जगत् त्रिकालातीतब्रह्मवत्तेन सहोपादानमात्रात्स्व- तन्त्रमिति न भ्रमितव्यं, सर्वात्मना परतन्त्रत्वादित्युक्तं भवति । अ- न्यथा । एतद्ब्रह्मे' ति सामानाधिकरण्येन जगदाधरत्याशायां पुनरपि 'चतुष्पादि' ति निर्विशेषे पादचतुष्टयवैशिष्ट्याभिधानासङ्गतेः । यदपि 'नान्तःप्रज्ञ न बहिःप्रज्ञम् ' इत्यादिना तुरीयपादनिरूप- णम् -तत्रापि न तन्मतानुकूल्यमेव प्रतीयते; प्रातिकूल्यमपि; 'न प्रज्ञानघ. न' मिति आत्मनश्चिदृपत्वाभावस्य ' नाप्रज्ञ' मिति ज्ञातृत्वाभाव- विरहस्यचोक्तः। एवं तस्यैवात्मनः ‘स आत्मा स विज्ञेय' इत्यात्मत्व- विज्ञेयत्वाभ्यामुपसंहाराच्च । आमोतीति ह्यात्मा, ततश्च व्याप्यसर्व- पदार्थसाचिव्यमात्मन उक्तं स्यात् । विज्ञेयत्वञ्च विशेषेण ज्ञेयत्वम् ; तच 'अयभीदृशाकारवा' नित्याकारकज्ञानविषयत्वमेव । ततश्चानेकविशेष . . .. 6 २४ भेद साम्रा ज्य म्। . णस्य . पक्रमः । अत एवास्य प्रकरणस्यानन्दवल्लीति विशिष्य नाम । 'स एको ब्रह्मण आनन्द ' इत्यादिना मीमांस्यमानानन्दस्वरूपकथनम् । अनन्तरं स य एवंवित् ' ' अस्माल्लोकात्प्रेय' 'आनन्दमयमुपसंक्रामती' ति पुनरपि निरुक्तानन्दादिगुणविशिष्टब्रह्मोपासकस्य तादृशब्रह्मरूपफल- निर्देशः । एतत्सर्वार्थसङ्ग्राहकं 'ब्रह्मविदाप्नोति पर ' मित्येतद्वाक्यमुप- क्रमोपक्रमभूतं पूर्वमेव प्रदर्शितम् । एवमत्यन्तस्वरसे बाघलेशरहिते प्रकरणार्थे सर्वेषां स्वानुभवसाक्षिकं जाग्रत्यपि यदवतारणमस्य प्रकर- 'अज्ञाननिवृत्त्यर्थं विधूतसर्वोपाधिविशेषात्मदर्शनार्थमिदमारभ्यते ब्रह्मावि- दाप्नोति परमित्यादीति, तत् प्रकरणेऽस्मिन्कस्य वाक्यस्य पदस्य वा कीदृशमर्थनभिप्रेत्येति न जानीमः । ब्रह्मविदाप्नोति पर ' मित्युप- क्रमवाक्य एवौपचारिकार्थकत्वं यदुक्तम् , तदसङ्गतम् उपक्रमएवौप- चारिकायोगस्यायुक्तत्वात् , मुख्यार्थग्रहणं बाधकाभावाच्च । 'सो- ऽश्नुत' इत्यादिना सकलगुणविशिष्टब्रह्मानुभवरूपत्वविवरणविरोधा- च्च । परमार्थब्रह्मस्वरूपं नास्तीत्यभावदर्शनलक्षणया अविद्यया अनात्मभूतान्नमयादीनामात्मत्वपतिपत्तौ, अन्नमयादिभ्यो नान्योऽहमस्मी त्यभिमान एव ब्रह्मणोऽनाप्तिः परमार्थतः सर्वात्मभूतं ब्रह्मास्तीति दर्श- नरूपया विद्यया निर्विशेषब्रह्माहमस्मीति ज्ञानमेव ब्रह्मण आप्तिरिति हि तत्र तैर्निष्कृष्टम् । एवंसत्येतद्विवरणविरोधो दुष्परिहर इति । यत् तद्वाक्यविवरणं सर्वशून्यत्वपर्यवसायि व्याख्यानिर्माण चतुराणाम् , ' सह - युगपत् । एकयोपलब्ध्या ब्रह्मस्वरूपाव्यतिरिक्तया; याम- वोचाम, सत्यं ज्ञानमनन्तमिति, एतत्तदुच्यते ब्रह्मणा सहेति । ब्रह्मभूतो विद्वान् ब्रह्मस्वरूपेणैव सर्वान्कामान्निरवशिष्टान्भोगान्भुते' इत्यादि । तन्नूनमेतद्वा- क्यं सर्वथा स्वाभिमतार्थपरतया व्याख्यातुमशक्यमिति व्यनक्ति । इदं श्रुतिवाक्यमियं व्याख्या च कथं तदभिमतां निर्विशेषब्रह्मभावात्मिका मुक्ति प्रतिपादयति; प्रतिकूलोपलम्भात् । 'ब्रह्मभूतः ब्रह्मस्वरूपेणैवे । त्युक्तिमात्रेण न हि सा सिद्धयेत् , निरवशिष्टान्भोगानित्यस्याप्युक्तेः । .

वेदान्तभागः । तैत्तिरीयाधिकारः, ७. .. सः, सर्वान , कामान् , विपश्चिता, ब्रह्मणा सह, अश्नुते, इतीमानि सप्त पदानि श्रूयन्ते । किमेतेषां पृथक्पृथकिञ्चिदर्थपरत्वमस्ति न वा; अस्ति चेत् , मुक्तसवज्ञत्वादिगुणविशिष्टब्रह्मणा सह मुक्तस्य सर्वभोगानुभव- रूपताया एव प्रतीत्या न तदभिमतमुक्तिसिद्धिः । व्याख्यातृभिश्च सर्वेषामपि पदानां सार्थक्यमेवाश्रितम् । न चेत् , स्फुटं वैयर्थ्यपिति । यत्वस्य वाक्यस्य स्वाभिपतमुक्तिपरत्वप्रत्याशया व्याख्यानमा- नन्दगिरीये-'ये मुखविशेषाः हिरण्यगर्भाधुपाधिषु भोग्यत्वेनाभिमताः तेषां सर्वेषां बह्मानन्दाव्यतिरेकाद्ब्रह्मभूतो विद्वान् सर्वानेवानन्दानश्नुत इत्युपचारेण बहुवचन- मित्यर्थ' इति । तदतिसाहसम् , सर्वान्कामानश्नुत' इत्यस्मात् अपरिच्छिन्नमेक- मानन्दमश्नुत इत्यर्थप्रतीतेस्सर्वथैवालभ्यमानत्वात् । घटमैठकुमूलाधव- च्छिन्नगगनबहुत्वाभिपायेण · सर्वाणि गगनानी ' ति व्यवहारस्य कुत्रा- ध्यदर्शनात् । सर्वशब्दबहुवचनोभयावगतस्वाभाविककामबहुत्वत्या. गायोगात् । शास्त्रेकगम्यनित्यशुद्ध ब्रह्मणः लोकसिद्धतत्तक्रियाविशेष- धनाढयत्वादिजन्य-शास्त्रमूलहेयत्वानवहत्वादिप्रतिपत्तिविषय-सुख- समुदायाव्यतिरिक्तत्वस्याप्रामाणिकत्वादनुपपन्नत्वाञ्चेतननानात्वग्राह्यन- न्यथासिद्धप्रमाणविरुद्धत्वाच्च । एवं व्याख्यानेऽपि ऽपि लशुने न शान्तो व्याधि' रिति न्यायेन स्वममीहितासिद्धिश्च ; मुक्तः अखण्डमानन्दमनुभवतीत्युक्तेपि मुक्तेर्बहुविधभेदसाचिव्यप्रसङ्गात् । ब्रह्मरूपाखण्डकेवलानन्दतया स्थितिर्हि तन्मते मुक्तिः । महता पयासेन कर्तृकर्मक्रियाणां मध्ये कर्मरूपस्यानन्दस्यैक्यसम्पादनेऽपि कर्तृक्रिययोः कयाऽपि युक्त्याऽनपोदितत्वेन तद्रूपभेदस्य मुक्तावनपायात् । — ब्रह्मणा सहे 'त्युक्तौ ब्रह्मणेत्यस्य ब्रह्मभूत इति, सहेत्यस्य युगपदिनि नार्थवर्णनं श्रोतृकर्णारुन्तुदमेव ! परजीवभेदे श्रुतिलोकसिद्धे, 'सहयुक्तेऽप्रधाने ' इति शास्त्रे च जागरूके विद्वान्ब्रह्मणा सह काम्यमानांस्तद्गतान् सर्वान् गुणाननुभवतीति यथाश्रुतार्थे सर्वभोग्यजातविशिष्टं ब्रह्मानुभवतीति फलितार्थे च स्वरसे न युक्तं श्रुतिकदर्थनम् । किञ्च ‘ब्रह्मणे ' त्यस्य • भक्षिते- 7 २६ भेद साम्राज्य म् । . . । ब्रह्मभूत इत्यर्थाभ्युपगमेऽपि न स्वेष्टमुक्तिसिद्धिः, “विपश्चिते ' ति ब्रह्म विशेषणसत्त्वेन सर्वज्ञत्वरूपविपश्चित्वस्यापि तदानीमपरिहार्यत्वात् । निर्विशेषब्रह्मभावेऽत्र विवक्षिते तद्वैयर्य ह्यवर्जनीयमित्यलम् । 'यदिदं किञ्च तत्सत्यमित्याचक्षत 'इत्यत्र ययाख्यानं यस्मात् यत्कि- ज्वेदं सर्व सच्छब्दवाच्यं ब्रह्माभवत् , तद्व्यतिरेकेणाभावान्नामरूपविकारस्य । तस्मात्तद्ब्रह्म सत्यमित्याचक्षत ' इति । अनेन 'यदिदं किञ्च' त्यस्य सत्यनि- रुक्तानिरुक्तादिभिरभेदेनान्वयोऽङ्गीकृत इति प्रतीयते ; 'यत्किञ्चेद' मिति पूर्ववाक्यार्थानुवादकोटावुक्तवाक्यर्थस्याप्युपादानात् । इदश्चायुक्तम् । 'सच्च त्यच्चाभव' दित्यादः 'सत्यमभव' दित्यन्तस्य निराकाङ्क्षतया तेन सह पार्थक्येन तदनन्तरमुपात्तस्यान्वयवर्णनासम्भवात् । अपिच 'तत्सत्य' मित्यत्र तच्छब्दस्य यत्तदोनित्यसंबन्धेन यच्छन्दसापेक्षतया पूर्व यच्छ ब्दस्य च श्रवणात्तयोः परस्परान्वय एवावश्याङ्गीकार्यः। न हि लोके 'घटादिम॒ण्मयोदृश्यते । योऽयम् , तं देवदत्तमाचक्षत' इत्यादौ ‘योऽय' मित्यादेवीक्यान्तरान्वयः प्रतीयते । अत एवं क्लिष्टगत्याश्रयणं, सयच्छन्दाद्युपात्तं यदिदं चेतनाचेतनात्मकं जगत् तत्सर्व कालत्रये- ऽप्यबाधितत्वेन सत्यमिति तत्त्वविद याचक्षत इति स्वरसप्रतीतार्थप्रदे- षमूलमेवेति । यच्च ‘आनन्दमयमात्मानमुपसंक्रामती ' त्यस्य प्राप्तृप्राप्यैक्ये कर्म- कर्तृभावविरोधमाशङ्कय महता प्रयासेन ‘या हि ब्रह्मविद्यया स्वात्मप्राप्तिरुप- दिश्यते साऽविद्याकृतस्यान्नादिविशेषात्मन आत्मत्वेनाध्यारोपितस्यानात्मनोऽपो- हार्था 'इति अन्नमयाचनात्मस्वात्म वभ्रमनिवृत्तिरूपोपसङ्क्रान्तिपरतया व्याख्यानम् - तदप्यनुपपन्नम् - एवंविदात्मानमुपसङ्क्रामती ' त्युक्त अस्यार्थस्य केनाप्युपायेन सम्पादयितुमशक्यत्वात , स्वाभाविकजीव. परभेदग्राहिप्रमाणशतविरोधात् , ' अस्माल्लोकात्प्रत्ये' त्यंशस्य वैयर्थ्य- प्रसङ्गात् , तत्परिकल्पितप्रमेय शरीरस्य प्रमाणपदवीदवीयस्त्वाच्च । किं बहुनोक्तेन, महता सन्दर्भेण गुणभूतानन्दस्य मीमांसनात् ‘स एको ब्रह्म- . .

. । वेदान्तभागः । बृहदारण्यकाधिकारः. २७ ण आनन्दः 'आनन्दं ब्रह्मणो विद्वानि ' त्यनन्यथासिद्धव्यतिरेकनिर्दे- शात् ' आनन्दमयमात्मानमुपसङ्कामति' आनन्दमयमात्मानमुपसङ्कम्य' इति प्राचुर्यार्थकमयदश्रवणाच्चात्र प्रकरणे आनन्दोपलक्षितस्य ब्रह्मसं- बन्धिनस्सकलकल्याणगुणजातस्य प्राधान्यतस्तात्पर्यविषयत्वावगमेन स्वप्नेऽपि तत्यागस्मरणायोगात् सकलकल्याणगुणविशिष्टं ब्रह्मोपासीन- शरीरान्निष्क्रम्य तादृशमेप ब्रह्म प्राप्नोतीत्यर्थ एव प्रतिपिपादयिषित इत्यविचाल्यमिदम् । विस्तरोऽस्मत्कृतपरपक्षनिराकृतौ दृष्टव्यः । षष्ठः प्रश्नस्तु नारायणोपनिपन सर्वपरविद्योपास्यं सर्वान्तर्यामिणं नारायण- मद्भुतगुणाकरं प्रतिपादयतीति तत्र परमतविरोधस्सुस्पष्टः ॥ ७ ॥ एवं बृहदारण्यकोपनिषदपि परप्रतिकूलत्यत्र न विशयलेशोऽपि विचारयतां संभवति । तथाहि-तत्र तृतीयाध्याये चतुर्थब्राह्मणे 'तद्वेदं तहव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत असौनामायमिदंरूप इति तदि- दमप्येतहि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति । स एष इह प्रविष्ट आनखाग्रेभ्यः, यथा क्षुरः क्षुरधानेऽवहितस्थाविश्वंभरो वा विश्वम्भरकुलाये तं न पश्यत्यकृत्स्नो हि स ' इत्यादिकं श्रूयते । अस्य वाक्यस्य कारणवाक्यत्व ञ्च 'सदेव सोम्येदमन आसीत् असद्वा इदमग्र आसीत् ' इदमेक एवाग्र आसीत् 'ब्रह्मवा इदमग्र आसी' दित्यादिकारणवाक्यान्तरसा- रूप्यात्सुस्पष्टम् । कारणञ्च - स कारणं करणाधिपाधिप ' इत्यादि प्रमा- णाजीवातिरिक्तश्चेतनविशेष इत्यास्थेयम् । अव्यक्तपर्यायोऽव्याकृत. शब्दोऽत्र, 'तमसो भूतादिः' 'अजामेकां लोहितशुक्लकृष्णां बही : प्रजा जन- यन्ती सरूपाः ' 'अस्मान्मायी सृजते विश्वमेतत् ' ' मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचर ' मित्यादिप्रमाणात्परिदृश्यमानस्थूलावस्थप्रपञ्चस्य कारण- भूतां तत्सूक्ष्मावस्थां तमःप्रधानाक्षराव्यक्तादिपदवाच्यां त्रिगुणात्मि- कां प्रकृतिमाचष्ट इत्यपि तत एव सारूप्यादास्थेयम् । तादृशाव्यक्तस्य चेतनविशेष प्रति शरीरत्वं ' यस्याव्यक्तं शरीरं यस्य मृत्युश्शरीर' मित्यादि- श्रुतिसिद्धम् । तत्परिणामभूतस्थूलावस्थप्रपञ्चस्यापि 'यस्य पृथिवी- . आत्मा वा भेद साम्राज्य म्। ह مواع शरीर' मित्यादिना तत्वं सिद्धम् । शरीरवाचकानाञ्च शरीरिपर्यन्तत्वं ' चत्वारः पञ्चदशरात्राद्देवत्वं गच्छन्ती ' त्यादिशास्त्रात् , 'देवदत्तोऽहं जा- नामी ' त्याद्यबाधितलोकव्यवहाराच्च सिद्धम् । एवं सर्वशरीरितया, सर्वकारणतया च प्रमाणप्रतिपन्नश्चेतनविशेषो नारायण इत्यपि ‘एको नारायण आसीन्न ब्रह्मा नेशानः नारायणाद्ब्रह्मा जायते' इत्यादिश्रुतिसि. दम् । इत्थश्च 'तद्धेद ' मिति वाक्यस्य परिदृश्यमानस्थूलावस्थजगे. च्छरीरकं नारायणास्यं ब्रह्म, तर्हि तदा सृष्टेः प्राक्काले अतिसूक्ष्माव स्थप्रकृतिशरीरकमासीत् । तादृशं ब्रह्म पश्चान्महदहङ्कारादिक्रमेण स्थू- लप्रपञ्चविशिष्टमात्मानमकरोदित्यर्थ एवाऽवश्याङ्गीकार्यः । अस्याव्या- कृतशब्दस्य तच्छरीरकपरमात्मपरत्वे श्रुत्यन्तरपर्यन्तानुधावनमसहमा- ना श्रुतिरेवेयं तत्र युक्ति प्रदर्शयति - · स एष इह प्रविष्ट आ नखाग्रेभ्य' इत्यादिना । तस्य चायं भावः-अव्यक्तपरिणामभूते स्थूलप्रपञ्च - आ स्मैवेदमग्र आसी' दिति अत्रैव प्रस्तुतस्यात्मनोत्राव्याकृतशब्दितस्यान्त- र्यामितया कात्स्न्येन प्रविष्टत्वात्कारणदशायामपि तत्प्रवेशस्य सिद्धत- याऽव्याकृतस्य तच्छरीरत्वेनात्मपर्यन्तत्वं स्थितमेवेति । तत्र प्रवेशे दृष्टा- न्तद्वयमाह ---- यथा क्षुर' इत्यादिना । ' अन्तः प्रविष्टइशास्ता जनानां सर्वा- रमे ' ति श्रुत्यन्तरश्च । एवं सर्वान्तर्यामिणं तिलतलवदारुवाद्विवच्च सर्वव्याप्तं परमात्मानं यो न जानाति सोऽसत्कल्प इति तं न पश्य- त्यकृत्स्नो हि स' इत्यस्यार्थः । अत्र 'स' इत्युक्त्या य इत्यध्याहार्यम् । 'प्राणन्नेव प्राणो नाम भवति वदन वागि' त्यादिकं भगवतो नामरूपव- स्वात्मकं कार्यप्रपञ्चरूपत्वमुक्तमेव प्रतिपादयति । एवमेव सर्वेषामपि कारणवाक्यानामर्थोऽभ्युपगन्तव्यः, सर्वशाखाप्रत्ययन्यायात् । एवं स्थितेऽपि महता ग्रन्थसन्दर्भेण यदुक्तमत्र श्रीशङ्कराचार्यैः, तत्सारां- शमात्रमर्थत उद्धृत्य किञ्चिदुच्यते । 'अत्र त पदमप्रत्यक्षबीजावस्थ जगत्प- रम् । इदम्पदं व्याकृतनामरूपात्मकसाध्यसाधनलक्षणजगत्परम् । तदिदं- पदयो। परोक्षप्रत्यक्षायस्थजगवाचकयोस्सामानाधिकरपात्परोक्षप्रत्यक्षावस्थस्य ज- वेदान्तभागः । बृहदारण्यकाधिकारः. ८. २० गत ऐक्यमवगम्यते । अत्र निहें तुककार्यसिद्धयनुपपत्या सामर्थ्यादाक्षिप्तो नियन्ता जनयिता कर्तेति तद्गतकरणब्यापारण, जगतस्स्थूलतया व्यक्तीभावः। नामरूपात्मक जगदिदमेवमज्ञाताह्मण उत्पन्नमिति ब्रह्ममात्रमेव, यथा जलोत्थं फेनादि जल. मात्रम् । अत एव ब्रह्मज्ञानबाध्यञ्च । स्वतोनित्य शुद्धबुद्धमुक्तस्वभावः परः अव्या- कृते आत्म्यभूते नामरूपे व्याकुर्वन्ब्रह्मादिस्तम्बपर्यन्तेषु देहेषु कर्मफलाश्रयेष्वशनाया- दिमत्सु प्रविष्टः । प्रागुत्पत्तेरनुपलब्ध आत्मा पश्चात् कार्ये सृष्टे बुद्धेरन्तर उपलभ्य- मानो जलादौ सूर्यादिप्रतिबिम्बवत् कार्य सृष्ट्वा प्रविष्ट इव लक्ष्यते । एतादृशप्रवेश एवात्र ' स एष इह प्रविष्ट ' इति, स्थलान्तरे ' तदेवानुप्राविशत् ' अनेन जीवे- नात्मनानुप्रविश्ये ' त्यादावुच्यते' इत्याद्यर्थोऽत्र वर्णितः। अत्र ब्रूमः 'त. वेद ' मित्यत्र तत्पदपरामृष्टं वस्तु किं विवक्षितम् , कि केवलाज्ञानं, उत शुद्धब्रह्म, अथाज्ञानविशिष्टं ब्रह्म? आये द्वितीये च अपसिद्धान्तो बाध- श्च । न हि तावन्मात्रस्य जगत्कारणत्वमिष्यते । शुद्धस्य परिदृश्यमान- स्थूलपपञ्चाभेदो बाधितश्च । अज्ञातब्रह्मोत्पन्नत्वाक्तिविरोधश्च । तृतीये सामर्थ्याक क्षेपकथनमसङ्गतम् । विशिष्टे विशेष्यांशस्य कर्तृरूपत्वो- पपत्तेः । शुद्धस्य न तत् संभवतीति चेत् - तर्हि विशिष्ट कार्य प्रत्यन्य: स्यैव कस्यचित्कर्तृत्वमेष्टव्यमिति शुद्धचैतन्यस्याजागळस्तनायमान- त्वप्रसङ्गः। शुद्धचैतन्यसन्निधानमात्रमज्ञानस्य कार्यरूपेण परिणाम- हेतुरिति न वैफल्यादिप्रसङ्ग इति चेन्न - तथासत्यज्ञातब्रह्मोत्पन्नत्व व्यवहारायोगात् । अज्ञानमात्रोत्पन्नं हि तदा कार्यम् । अत्र (४ - १ ) स योजनाभिस्तन्तुनोच्चरे' दिति वाक्यव्याख्यानावसरे — यस्मादात्मन स्स्थावरजङ्गमं जगदिदमग्निविरफुलिङ्गवचरति, यस्मिन्नेव च प्रलीयते जलबुद्बुद बत् , यदात्मकञ्च वर्तते स्थितिक.ल, तस्यात्मनो ब्रह्मण' इति तैरेवोक्तत्वा- कार्यस्यापि ब्रह्मात्मकत्वाभ्युपगमप्रतीतेस्तद्विरोधश्च । नह्यज्ञानमात्रस्य जगद्रूपेण परिणामे तस्य जगदात्मकत्वोक्तिसम्भव इति । सन्निधान- मात्रस्य नित्यत्वेन नित्यसर्गप्रसङ्गश्च । कर्तुरभावात्तदप्रसङ्ग इति चेन्न- कदाचिदविद्यमानस्य कर्तुविना कारणमुत्पत्त्ययोगात् ! कारणं विद्यत 8 ३० भेद साम्राज्य म्। एवेति चेत्-तरिक नित्यं, अनित्यं वा; आये नित्यसर्गप्रसङ्गो दुर्वारः। अन्त्येऽपि तदुत्पादकं वक्तव्यम् । शुद्धचैतन्यस्यैव तदुत्पादकत्वे पूर्व- मपि तदुत्पत्तरवर्जनीयतया नित्यसर्गप्रसङ्ग एव । शुद्धस्योत्पादकत्वमपि न संभवति । तस्य तत्संभवे जगदुत्पादकत्वमेव तस्याभ्युपगन्तुं युक्त- मिति कन्तराद्यभ्युपगमो व्यर्थः । अन्यदेव कर्चुत्पादकमिति चेत्तत्रा- प्युक्तविकल्पेनानवस्था । एवं कर्तृनित्यत्वानित्यत्वयोरपि दोषा बो- ध्यः । किञ्च शुद्धचैतन्यातिरिक्तः कर्ता किं सत्यः, उत मिथ्या- भूतः । आये अद्वैतहानिः । अन्त्ये तस्याध्यासाधिष्ठानं वक्तव्यम्। चैत- न्यमेवाधिष्ठानमिति चेन्न । कर्तुः कर्तृत्वविशिष्टनैतन्यात्मकतया स्वस्य स्वाध्यासाधिष्ठानत्वायोगात । कर्तृत्वमात्राध्यासे तुल्यन्यायतया सर्व जगदध्याससंभवेन कञन्तरवैयर्थ्यप्रसङ्गात् । सर्वजगदध्यासेनैवोपपत्ती न हि सर्वजगत्कर्ता कश्चिदपेक्षणीय इति । यदुक्तम् ' अज्ञाताह्मण उत्पन्नं ब्रह्ममात्र तद्ज्ञानबाध्यञ्चे ' ति-तद- युक्तम् । न हि भवन्मते यादवप्रकाशमत इव जलात्फेनमिव ब्रह्मण इद मुत्पन्नम् । विवर्तोपादानं ब्रह्मेति हि त्वन्मतम् । तथासति फनस्य फेन- त्वावस्थापहाणपूर्वकं सलिलत्वेन स्थितिवज्जगतोऽपि स्थूलरूपत्वम- हाणेन कारणात्मना स्थितेरभ्युपगन्तव्यतया जगह्मणोरक्येन जगत- स्सत्यत्वप्रसङ्गश्च । अज्ञानाख्यदोषवशेन ब्रह्मणि जगदध्यस्तमिति वदन्नेव कथमज्ञाताह्मणो जगदुत्पद्यत इति वदतीति न विद्मः। स्व- रूपपरिणाम सूक्ष्मचिदचिद्विशिष्टपरिणामवादिनावेवेत्थं व्यवहर्तुमर्हतः, 'ब्रह्मणो जगदुत्पद्यत' इति । अत एव न तद्ज्ञानबाध्यत्वमपि वक्तुं युक्तम् । यदपि स एष इह प्रविष्ट ' इत्यत्र प्रविष्टपदार्थवर्णनम् - तदप्य- सङ्गतम् । अत्यन्तास्वरसत्वात्। 'य : पर्थिव्यां तिष्ठन् ' ‘य आत्मनि ति- ष्ठन् य आत्मानमन्तरो यमयति' 'अन्तःप्रविषश्शास्ता जनानां ' 'ईश्वरस्सर्व- भूतानां हृदेशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानी' त्यादिप्रमाणसहस्रेण चे- तनमचेतनश्चान्तःप्रविश्य परमात्मा नियच्छीत्यर्थसिद्धया प्रतिबिम्ब- - . वेदान्तभागः । बृहदारण्यकाधिकारः. ९. वृत्तान्तस्य कुत्राप्यदर्शनाच्च । कर्मवश्यानां सर्वेषां चेतनानां तनकर्मानु- गुणदेहविशेषभाजां देहेकदेशहृदयाख्यप्रदेशविशेषावच्छिन्नस्सन् परमा. त्मा तत्तत्कर्मानुगुणं सङ्कल्पमात्रेण तान् प्रवर्तयतीतीश्वरस्सर्वभूताना. मित्यस्यार्थः । न हि परमात्मा अवरात्मनि तं नियच्छंस्तिष्ठतीत्युक्ते परमात्मा बुद्धयाद्युपाधौ प्रतिविम्बित इति तद्वाक्याथ कोऽपि प्रतीया- दिति । अत्र देहानां कर्मफलाश्रयत्वाशनायादिमत्त्वयोः कथनमप्यनु- पपन्नम् , तयोश्चेतनधर्मत्वात् ! नूनमियमुक्तिश्चेतनान्तरप्रद्वेष कृतैवेति । यवत्रैव ब्राह्मणे उपक्रम स हाऽयमीक्षांचके यन्मदन्यन्नास्ति कर मान्नु बिभेमीति, तत एवाऽस्य भयं वीयाय ....द्वितीया भयं भवती' ति वाक्यविव- रणं, 'मद्वयतिरिक्तवस्त्वन्तराभावात्कुतो तोर्मम भयं जातम् । द्वितीयवस्तुसत्त्वे हि भयसंभव इति तत्त्वज्ञानमवाप । तत एवाऽस्य भयं नष्टम् । द्वितीयाद्धि भयं भ- वति, तदभावे कथं तद्भवेदि' ति -- तदप्यनुपपन्नम् । तस्य हिरण्यगर्भ स्याद्वैतसाक्षात्काराद्भयनिवृत्त्यभ्युपगमे अनुपदमेव तस्यैव · नैव रेम' इत्यादिना अरतिरिरंसापतिपादनविरोधात् । न हि तत्त्वदर्शिनस्तत्स म्भवः । प्रारब्धवशात्तदनुवृत्त्यङ्गीकारे भयमपि तथैवानुवर्ततेति भय निवृत्तिकथनमनुपपन्नमेव स्यात् । तथाचायमर्थो वाच्यः - प्रथमतो हिरण्यगर्भस्स्वस्यासहायत्वं दृष्ट्वा भीतो बभूव । अनन्तरं मदन्यस्य क- स्यचिद्विरोधिनस्सत्वे खलु तस्माद्भतव्यं, न पुनरसहायत्वमात्रणेति पर्यालोचयामास । ततोऽस्य भयं नष्टम् । लोकेऽपि विरोधिदर्शनादेवा सहायस्य भयं भवति, नासहायत्वमात्रेणेति । इत्थश्चात्राद्वैतसाक्षात्कार- कथाया न प्रसक्तिः । तस्मात् द्वितीयाद्वै भयं भवती' ति वाक्यमात्रम- वलम्ब्य भयनिवृत्तिकथनस्थलेषु सर्वत्र स्वव्यतिरिक्तवस्त्वन्तराभावो विवक्षित इति वादोऽत्यन्तबल्बज एवेति ध्येयम् ॥ ८ ॥ अस्यामेवोपनिषदि चतुर्थाध्याये पश्चमब्राह्मणे, परमात्मनस्सर्व चेतनाचेतनान्तर्यामितया तद्वैलक्षण्यं स्वाभाविकं विस्तरेण प्रतिपाद्यते । तत्र हि चतुर्दश पर्यायाः सन्ति । तत्र त्रयोदशभिस्सर्वाचेतनापलक्षण- ३२ भेद साम्राज्य म् । तया पृथिव्यादिकतिपयाचेतनान्तर्यामित्वं तद्वैलक्षण्यञ्च प्रतिपाद्यते । चतुर्दशेन जीवान्तर्यामित्वं तद्वैलक्षण्यञ्च । तत्रायं प्रथमः पर्यायः । इयं पृथिवी सर्वेषां भूतानां मधु, अस्यै पृथिव्यै सर्वाणि भूतानि मधु, यश्चायमस्यां पृथिव्यां तेजोमयोऽमतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पु. रुषः, अयमेव स योयमात्मेदममृतमिदं ब्रह्मेदं सर्व' मिति । एवमेव सर्वेपि प- र्याया दृश्यन्ते । अत्र पृथिवीपदस्थाने जलादिवाचकतत्तत्पदानि, तथा • अध्यात्म ' मित्यस्मादनन्तरश्रयमाणशारीरपदस्थाने तेजोमयादिपदसा. मानाधिकरण्येन तत्रतत्र मधुत्वेन रूपिततत्तत्पदार्थसम्बन्ध्यर्थान्तर- विशिष्टयत्किश्चिदर्थवाचकतत्तत्पदप्रयोगः इतीदमेव वैषम्यम् । अस्य- चाय निष्कृष्टोऽर्थः । पृथिवी सर्वभूतमधु, सर्वमपि भूतं पृथिवीमधु । पृथिव्या भूतानाश्चोपजीव्योपजीवकभावेन परस्परमधुत्वम् । अस्यां पृथिव्यामन्तर्यामितयाऽवस्थितस्स्वयंप्रकाशज्ञानपयो मरणादिधर्मशून्यो यः पुरुषः, यश्चायमध्यात्म शरीरान्तर्यामी तेजोमयत्वादिविशि- एः पुरुषः, अयमेव सः, यस्तावत् 'आत्मा वा अरे द्रष्टव्य' इत्यात्मतया निर्दिष्टः । पृथिवीशरीरान्तर्यामी द्रष्टव्यतयात्मपदनिर्दिष्टश्चैक एवेति यावत् । 'एतदमृत' मित्यादिना निर्दिष्टं ' सवं खल्विदं ब्रह्मे ' ति निर्दि- एञ्चेदमेव ब्रह्मेति । उत्तरपर्यायेष्वप्येवमेवार्थस्तत्तदानुगुण्येनोह्यः । एवमनेन प्रथमपर्यायेण पुरुषविशेषस्य पृथिवीशरीररूपाचेतनद्वयान्त- मित्वमुक्तं भवति । एवमुपरितनपर्यायेष्वपि प्रतिपर्यायं जलरंतसो रनिवाचो युतद्विशेषप्राणयोरित्येवं योद्वयोरचेतनयोरन्तर्यामित्वं तस्य प्रतिपाद्यत इति ध्येयम् । इदमेव ब्राह्मणं ' यः पृथिव्यां तिष्ठ' नि. त्यायन्तामिब्राह्मणं विवृणोनि। अत्र पुरुषस्य पृथिव्यादौ स्थितिमात्र- मुक्तम् । तत्र तु स्थितस्य पुरुषस्य पृथिव्याद्यन्तरत्व-तदवेद्यत्व-तच्छ- रीरकत्व-तनियन्तृत्वान्युक्तानीति । इत्थञ्च तदनुरोधेनात्र पुरुषस्य पृथिव्यादौ वर्तमानत्वं तदन्तर्यामित्वेनैवेति बोध्यम् । एवं पृथिव्यादि- मानुषपर्यन्तपर्यायैः परमात्मनोऽचेतनवलक्षण्यं प्रतिपाद्य चतुर्दशेन वेदान्तभागः । बृहदारण्यकाधिकारः.. ३३ ३ चेतनान्तर्यामितया तद्वैलक्षण्यं प्रतिपादयति अयमात्मा सर्वेषां भूताना मित्यादिना । पूर्ववदेवार्थः । अत्र पर्याये मधुत्वेन रूपितजीवात्म सामान्यातिरिक्तस्य जीवत्वेन सदृशस्य परमात्मनियाम्यस्य तत्सम्ब. न्धिनः कस्यचिद्वस्तुन एवाभावेनाध्यात्ममित्याद्यनुक्तिः । अचेतनत्व- व्याप्यपृथिवीत्वादिपुरस्कारेण तत्रतत्राचंतनविशेषोपादानात् शरी- रायचेतनविशेषान्तरस्य पुरुषनियाम्यत्वोक्तिस्संभवति । अत्र तु जी वात्मत्वरूपसामान्यधर्मपुरस्कारेणैव जीवात्मनः अयमात्मेत्युपादानान्न तदतिरिक्ततत्सम्बन्धिजीवात्मविशेषसम्भव इति कथं तदुपादाय तस्य नियाम्यत्वमुच्येत । अत्र मधुवन रूपितवस्तुन अध्यात्मानन्तरमुपादेय- वस्तुनश्च परस्परसादृश्यप्रयोजकत्वेनाचेतनत्वमेव श्रुतिविवक्षितमिति गम्यते, तस्यैव सर्वत्रानुगतत्वात् । अत्रापि यदि अध्यात्ममित्युक्ता- ऽनन्तरं किश्चिदुपादेयं स्यात् , तदा तेन जीवात्मत्वरूपेणैव मधुत्वरूपि- तपदार्थसदृशेन भवितव्यम् ; नाऽऽकारान्तरेण; लपनिषत्सु अचेत- नत्वावरचेतनत्वेश्वरत्वरूपेणैव तत्त्वविभजनात् । एतेन स्ययंप्रकाशत्वेन सदृशस्य धर्मभूतज्ञानस्य सिद्धान्तेऽभ्युपगमात्तेन रूपेण सादृश्यमादाय 'यश्चाध्यात्म ज्ञानीय' इति कुतो नोक्तमिति शङ्का परास्ता-धर्मभूतज्ञा- नस्याचेतनतया चेतनत्वेन सादृश्यासं भवात् ! इत्थञ्चास्मिन चतुर्द- से पर्यायेऽयमर्थसिध्यति - पृथिव्यादिमानुषपर्यन्तेष्विव कस्मिंश्चि- दात्मनि तेजोमयत्वादिगुणविशिष्टो निरुपाधिकपुरुषपदवाच्यः 'सत्र- खल्विदं ब्रह्म ' 'एतदमृतमेतदभयमेतद्ब्रह्मे' त्यादिवाक्यान्तरप्रतिपाद्यः क. श्चिदात्माऽन्तर्यामितया वर्तते । अयमेव 'आत्मा वा अरे द्रष्टव्य' इति मैत्रेयीब्राह्मणे मोक्षसाधनीभूतश्रवणमनननिदिध्यासनविषयतया नि. र्दिष्ट आत्मेति । इत्थश्चात्राऽऽधारतया निर्दिष्ट आत्मा जीव इति, आधे यतया निर्दिष्टः परमात्मा परं ब्रह्म नारायण इति, स न पृथिव्यादिसर्वा चेतनजाताद्बद्धमुक्तनित्यरूपत्रिविधचेतनजाताचात्यन्तविलक्षण इति तुर्दशपर्यायनिष्कृष्टार्थः । इममेवात्मानं सुस्पष्टं प्रतिपादयति पञ्चदसे - " 9 ३४ भेद साम्राज्य म् । - 'स वा अयमात्मे ' त्युत्तरं वाक्यम् । तत्र 'अयमात्मे ' ति चतुर्दशपर्या- यपर्यन्तसन्दर्भेण चेतनाचेतनात्यन्तविलक्षणतया प्रतिपादितमात्मानं स वा अयमात्म' त्यनूध तस्य सर्वभूताधिपतित्व - सर्वभूतराजत्व सर्वप्राणलोकदेवभूतात्माधारत्वानि विधीयन्त इति । अन्तर्यामि- ब्राह्मणेपि ' स ते अन्तर्याम्यमृत' इति प्रतिपर्यायमुक्तम् । तत्र च से इति पदं नाचेतनमात्रवाचि, अपितु तद्विशिष्टाभिमुखचेतनवाचि, 'तत्त्वमसी' त्यत्र त्वंपदवत् । ततश्च ते इति व्यतिरेकनिर्देशेन चेतनान्तर्यामित्वं नि- प्रकम्पं सिध्यदेव । तस्मात् 'भोक्ता भोग्यं प्रेरितारञ्च' 'ज्ञाज्ञी द्वावजाधीशनीशी 'द्वा सुपर्णा' 'ऋतं पिबन्तौ' 'समाने वृक्षे पुरुषो निमग्नः अन्यमांश 'स ब्रह्मवित्सलोक्रवित् स देववित् स वेदवित् स भूतवित् स आत्मवित् स सर्व. वित्' इत्यादाविवास्मिन्नपि ब्राह्मणे स्वाभाविकश्चिदचिदीश्वरभेद- स्साम्राज्यपकुतोभयमनुभवतीति सिद्धम् ।। 'स ब्रह्मवित्स आत्मविदि 'त्यत्र परैरेव 'ब्रह्मवित् = परमात्मवित् , त्मवित् = कर्तृत्वभोक्तृत्वविशिष्टं तेनैवान्तर्यामिणा नियम्यमानमात्मानं वेत्ती' ति व्याख्यातम् । अतोऽत्र जीवपरभेदस्स्फुटपतीतिक इति तेषामप्याशय इत्युन्नीयते । न हि-ब्रह्मवाविद्यया जीवभावं गतं, बुद्धयाधुपाधिषु प्रति- विम्बितं चैतन्यमेव जीव इत्यादिवादानुकूलमिदं व्याख्यानं योजयितुं शक्यम् – परस्परभिन्नयोयुगपद्वर्तमानयोरेव नियन्तृनियम्यभावसंभ- वात् । लोके तथैव दर्शनाच्च । विम्बप्रतिबिम्बयोनियन्तृनियम्यभाव- व्यवहारस्य कुत्राप्यदर्शनात् । सङ्कल्पात्मकज्ञानघटितनियन्तृत्वस्य शुद्धचैतन्यात्मके ब्रह्मणि सर्वात्मनाऽसम्भवात् । उपहितं तु नान्तर्यामि भवितुमर्हति, अन्तर्यामिविज्ञानाद्वन्धनिवृत्तिश्रवणानुपपत्तेः । नह्यशुद्ध- ज्ञानान्मुक्तिसम्भव इति ॥ अत्र श्रीशङ्कराचार्यैः प्रकरण-स्वारस्य-प्रमाणान्तर- युक्तिविरुदं केवलस्वकपोलकल्पितश्च बहुभाषितम् । तत्र किश्चिदेवोदृत्य प्रतिवि- धीयते । यदुक्तम् - 'पूर्वत्र मैत्रेयीब्राह्मणे अमृतत्वसाधनतयाऽऽत्मनो .

३५ वेदान्तभागः । बृहदारण्यकाधिकारः. ९. दर्शनश्रवणमनननिदिध्यासनानि ‘आत्मा वा अरे द्रष्टव्यश्रोतव्यो मन्तन्यो निदिध्यासितव्य ' इत्यनेनोक्तानि । तत्र मननं तर्केण कार्यम् । स च त- कस्तत्रैव आत्मैवेदं सर्व ' मित्यनेनोक्तः । उक्ततर्कस्यात्मैकसामान्यत्व- मात्मैकोद्भवत्वमात्मैकप्रळयत्वञ्चति हेतुरपि तत्रैवोक्तः । अनेन मधुब्रा- ह्मणेन तादृशहेत्वसिद्धिशङ्का निराक्रियते । तनिराकरणप्रकारश्चेत्थम्- लोके परस्परोपकार्योपकारकभूतं यतते , तत् एककारणकमेकाळय ञ्च दृष्टम् , यथा स्वमादि । एवं पृथिव्यादिलक्षणं जगदपि परस्प- रोपकार्योपकारकभूतत्वात्पूर्वोक्तत्रयवदभ्युपगन्तव्यमिति । यद्वा 'आत्मैवेदं सर्व ' मिति प्रतिज्ञातस्य हेतुमुक्त्वा तन्निगमनपनेन ब्राह्मणेन क्रियते । इयं पृथिवी ब्रह्मादिस्तम्बपर्यन्तप्राणिनां मधु कार्यम् । यथा एको मध्वपूपोऽनेकैर्मधुकरैर्निवर्तितः एवमियं पृथिवी सर्वभूतनिवर्ति- ता। तथा सर्वाणि भूतानि पृथिव्याः मधु कार्यम् । यश्चायं पुरुषो. ऽस्यां पृथिव्यां तेजोमयत्वादिगुणकः, यश्चायमध्यात्म शारीरः श- रीरे भवः तेजोमयत्वादिगुणकपुरुषः, स च लिङ्गाभिमानी, स च स- र्वभूतानामुपकारकत्वेन मधु; सर्वाणि च भूतान्यस्य मधु । पृथिवी-स- र्वभूत-पार्थिवपुरुष-शारीरपुरुषरूपमेतच्चतुष्टयमकं मधु-सर्वभूतकार्यम् ; सर्वाणि च भूतान्यस्य कार्यम् । तस्मादस्य जगतः परस्परोपकार्योपका. रकभूतत्वादस्य एककारणकत्वादिकमाश्रयणीयम् । ततश्च तदेकमेव कारणं परमार्थसब्रह्म । इतरत्तु कार्यजातमनृतमेवेति प्रथमपर्यायार्थः 'अयमेव स योऽयमात्मे ' ति । ' इदं सर्व यदमात्मे ' ति प्रतिज्ञात आत्मा अ- प्र चतुर्थोक्तो भेद एवेत्यर्थः । अयमात्मे ' ति चतुर्दशपर्याये आत्मशब्देन सर्वात्मा प्रत्यस्तमिताध्यात्माधिभूतादिसविशेषस्सर्वभूतदेवतागणविशि- टः कार्यकरणसङ्घात उच्यते । 'यश्चाऽयमस्मिन्नात्मनि तेजोमय ' इत्या- दिना तस्मिन्नात्मन्यमूर्तरसात्मकः पुरुष उच्यते । 'यश्चायमात्मे 'त्यनेन यदर्थोऽयं देहलिङ्गसङ्घातः, स परिशिष्टो विज्ञानमय आत्मा उच्यते । ‘स वा अयमात्मे ' ति तदुत्तरवाक्यस्थात्मपदेन पूर्वपर्यायेष्वनुपदिष्टः, .

भेद साम्रा ज्य म्। . अन्त्यपर्याये ' यश्चायमात्मे ' त्युक्तो विज्ञानमयः यस्मिन्नात्मनि खिल्य- दृष्टान्तवचसा प्रवेशितः, तेन परेणात्मना तादात्म्यं गतो विद्वानुच्यते । अविद्याकृतकार्यकारणसङ्घातात्मकोपाधिविशिष्टे जीवे परमार्थात्मनि ब्रह्मणि ब्रह्मविद्यया प्रवेशिते स एवाध्यमात्मा सर्वभूताधिपतित्वादिवि- शिष्टो विद्वान्ब्रह्मविन्मुक्तो भवति इत्येतद्वाक्यार्थ' इति । तदिदं श्रुतिवाक्यविवरणमतिविचित्रम् । अत्रानेकदोषसद्भावे. ऽपि ग्रन्थविस्तरभिया कतिचिदेव दोषा उद्घाट्यन्ते । तथाहि-सर्वेष्वपि पर्यायेषु मधुचतुष्टयकल्पनमयुक्तम् , मधुद्वयस्यैव श्रवणान् । ' यश्चाय- मस्यां पृथिव्यां ' ' यश्चायमध्यात्म शरीर' इति यच्छब्दाभ्यां निर्दिष्टस्य 'अयमेव स' इत्यत्रेदंशब्देन परामर्शस्यैव स्वरसतः प्रतीत्या तत्त्यागायो गाच । पुरुषश्चेत्येतावन्मात्रोक्तौ कथश्चित्तत्कल्पनसम्भवेऽपि यच्छन्द- श्रवणेन विनाऽध्याहारं तदयोगात् । सः सर्वेषां भूतानां मधु इतयित: पदजातस्य द्विस्सकृद्वाऽध्याहारानुषङ्गाभ्युपगमेऽत्यन्तगौरवाच । किश्च मधुद्वयमात्रेणापि भवदभिमतसिद्ध्या, वाक्यस्य स्वरसतोऽन्यार्थकत्व- प्रतीत्या चाश्रुतमधुद्वयान्तरकल्पनं निर्निबन्धनम् । अपिच पार्थिवात्मा, शारीरात्मेत्यात्मभेदकल्पनं निष्पयाणम् । अन्तर्यामिब्राह्मणादावेकस्यै- वात्मनः पृथिव्यादिसर्ववृत्तित्वश्रवणात् । तस्य च । सर्वभूतान्तरात्माऽ. पहतपाप्मा दिव्यो देव एको नारायण 'इति श्रुत्या पृथिव्यादिसर्ववर्तित्वेऽपि तद्गतदोषलेशसम्बन्धरहितनारायणरूपैकपुरुषविशेषात्मकत्वप्रतीत्या त- तत्स्थानसम्बन्धनिबन्धनपुरुषभेदकल्पनाया अयुक्तत्वाच्च । अतोऽत्र पृथिवी, शरीरमिति विशेषभेदमात्रमेव, पुरुषस्त्वेकरूपो नारायण एवे. त्येव प्रतिपत्तव्यम् । एतेन कार्यकरणसङ्घातो मानुषादिजातिविशिष्टः कश्चिदात्मा, प्रत्यस्तमितकतिपयाविशेषः कतिपयविशेषसहितः कार्य- करणसङ्घातः कश्चिदात्मा, तस्मिन्नात्मनि वर्तमानोऽमूर्तरसः कश्चि- दात्मा, परिशिष्टो विज्ञानमयः कश्चिदात्मा, परः कश्चिदात्मेति बहात्मवर्णनमपि व्युदस्तं वेदितव्यम् । एवं परिकल्पने स्वेच्छातिरेकेण . .

- -- भव- वेदान्तभागः । बृहदारण्यकाधिकारः. ९. प्रमाणलेशस्याप्यनुपलम्भात् । कार्यकरणसङ्घातशब्दस्यात्मशब्देन सामानाधिकरण्यमपि सर्वात्मना दुरुपपादम् : आत्मशब्दस्य चे. तने रूढत्वात् , कार्यकरणसङ्घातपदस्यातत्परत्वात् । ' इदं सर्वं यदय. मात्मे 'ति प्रकृनात्मैव चतुर्धाऽत्रोच्यते इत्यप्यमङ्गतम् । पृथिवीशरीरयो- रचेतनविशेषयोरात्माऽभेदायोगात् । ननु पार्थिवाद्यात्मभेददूषणं सामा. नाधिकरण्यादिदूपणञ्चास्मसिद्धान्तापरिज्ञानमूलमिति चेन्न सिद्धान्तपरमरहस्याभिज्ञैरेवास्माभिषितत्वात् । इदञ्च परस्तात्स्पष्टी- भविष्यति । यदपि -- पृथिव्यादि लक्षणं जगत्परस्परोपकार्योपकारक- भूतत्वादेककारणकमेकसामान्यात्मकमेकाळयञ्च भवितुमर्हति । लोके तादृशस्य तथात्वदर्शनादिति । तत्रेदं वक्तव्यम्-व्याप्तिरियं कुत्र गृहीता? स्वम इति चेत्-तस्य परस्परोपकार्योपकारकभूतत्वं कुतः प्रमाणात्सि- दम् ? उपकार्योपकारकभावो वा कीदृशः ? । कार्यकारणभावात्मक इति चेन्न – परस्परं तदसम्भवात् । ब्रह्मकारणत्वाक्षेपासम्भवाच्च । परस्परातिशयाधायकलरूप इति चेत्तदपि न भिन्नकारणकेष्वपी- दृशोपकार्योपकारकभावस्य सत्वात् । अत इदं दुर्वचमेवेति । इत्थश्च सर्वेषामपि पर्यायाणां, पृथिव्यादेः परस्परोपकारकभूतत्वप्रतिपादनद्वारा एककारणकत्वादितत्परत्ववर्णनमत्यन्तास्वरसमसङ्गतञ्चति ध्येयम् । यदपि - 'अयमात्मेत्यत्रा मपदं प्रत्यस्तमितकतिपयविशेषसर्वभूतादि- विशिष्टात्मपर' मित्यादि । तत्सर्वमसङ्गतम् । अन्तर्यामिब्राह्मणे पृथिव्या- घचेतनविशेषान्तर्यामित्वं परमात्मन उक्त्वा ‘य आत्मनि तिष्ठ' निति सकृदेवैकस्मिन्नात्मनि परमात्मनस्थितिरुक्ता । तद्वदत्रापि पृथिव्यादि- मानुषान्तेष्वचेतनविशेषेषु परमात्मनस्स्थितिमुक्त्वाऽनेन पर्यायेण 'य. श्चायमस्मिन्नात्मनी' ति जीवात्मनि स्थितिरुच्यत इति सहृदयसाक्षिकं प्रतीयते । अतः 'अयमात्मे ' ति स एवोच्यत इत्यभ्युपगन्तव्यम्। 'अ- यमेव स ' इत्यादेरर्थस्तु पूर्वमेवोक्तः । जीवान्तर्यामितया एतत्पर्याय- प्रतिपादितस्तेजोमयत्वादिगुणविशिष्टः पुरुष एव ' स वा अयमात्मे ' ति 10 भेद साम्राज्य म् । - पञ्चदशवाक्यस्थात्मपदेन सर्वभूताधिपतित्वादिविधानायानूद्यत इति तु पूर्वमेवोक्तम् । तेजोमयः पुरुष एव चतुर्दशभिः पर्यायैस्सर्वनेतना- चेतनविलक्षणतया प्राधान्येन प्रतिपादित इति । स वा अयमात्मे ' त्येत- त्तमेव परामृशतीति वाक्यसन्दर्भविद्भिरभ्युपेयम् । एवं स्थितेप्यात्मपद पत्र विद्वत्परमिति यद्विवरणं, तत्केनोपायेनेति न विद्यः । अत्र ब्रह्मवि- दः प्रसङ्गाभावात् । सर्वचेतनाचेतनविलक्षणः पुरुष एव ब्रह्म, स एवा- मृतं, स एव सर्वमिति खलु पूर्व निगमितम् । अत्र विद्वत्परत्ववर्णनापेक्ष- या साक्षान्मुक्तिप्रतिद्वन्द्विसर्वभूताधिपतित्वादिविशेषणनिर्देशानुरोधेना- त्मपदस्याविद्वत्परत्ववर्णनमेव युक्तमुत्पश्यामः । तस्याकाण्डे ब्रह्मवित्प- रत्वे कथं तस्यां दशायां तस्य सर्वाधिपतित्वादिकं श्रयमाणमुपप- द्यत । अत्र स्वयमेव तस्य विद्वत्परत्वमुपवर्ण्य तथासति विशेषणनिर्दे शासङ्गतिं सञ्चिन्त्य 'अस्मिन्नात्मनि सर्वभूताद्यात्मान्तं समर्पित' मिति वाक्ये अन्ततो जाग्रत्यपि अत्र कापि कोणेऽपरिदृश्यमानं 'ब्रह्मविन्मुक्तो भवति ' ति पदत्रयं स्वच्छया सम्पाद्य वाक्यार्थः परिपूरित इति स्फुटं विदुषामिति ! तस्मादियमप्युपनिषत्परपक्षपतिकूलेति सुस्पष्टम् ।। ९ ।। अथ छान्दोग्योपनिषदपि तादृश्येवेति निरूप्यते । तत्र हि (३ . १४) 'सर्व खल्विदं ब्रह्म तजलानिति शान्त उपामीत' 'मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरस- सर्वमिदमभ्यात्तोऽवाक्यनादरः ' 'ए। म आत्माऽन्तहृदयेऽणीयान्त्रीहेर्वा ' 'एष म आत्माऽन्तहृदये ज्यायापृथिव्या ज्यायानन्तरिक्षात् ' ' सर्वकर्मा नादर एष म आत्माऽन्त र्हृदय एतद्ब्रह्म एतमितः प्रेत्याभिसम्भवितास्मि इति । यस्य स्यादवा न विचिकित्साऽस्ती' ति श्रूयते । तस्यायं निष्कृष्टोऽर्थः - उपा- सकः सर्वमिदं जगत् ब्रह्मणो जातत्वाब्रह्माणि लीनत्वात्तदधीनजीव- नत्वाच्च ब्रह्मात्मकमित्यनुसन्धानजनितशान्तिविशिष्टस्सन् , एष ' पर- मात्मा मम हृदये उपासनार्थ व्रीह्याद्यपेक्षयाप्यणुत्वेनावस्थितः । पृ. थिव्याधपेक्षया महत्वमेव तस्य स्वाभाविक आकारः । स एव च मम - अवाक्य. ..

वेदान्तभागः । छान्दोग्याधिकारः, १०. ३९ प्राप्याकारः । सर्वकर्मत्वादिविशिष्टः परमात्मा परं ब्रह्म परमकारुण्येन मदुजिजीवयिषया मद्धृदये सन्निहितः । अस्माल्लोकादिव्यलोकं गत्वा ईदृशमेव परमात्मानं प्राप्स्यामी' त्यनुसन्दधानः मनोमयत्वादिगुणविशि- ष्टं परमात्मानमुपासीतेति । अत्र ब्रह्मणो जातं ब्रह्मणि लीनं ब्रह्मा- धीनस्थितिक जगत् , अत एव ब्रह्मात्मकमित्युक्त्या कारणस्य ब्रह्मण इव कार्यभूतस्य जगतः, नियन्तुस्तस्येव नियाम्यस्यास्य सत्यत्वम् , उपादानोपादेयभावनिबन्धनं शरीरात्मभावनिवन्धनश्च जगह्मणो- स्नादात्म्यम् , उपास्यस्य परब्रह्मणो मनोमयत्वादिपरमार्थभूतानेकगुण- विशिष्टत्वम् , उपास्यादुपासकस्य स्वाभाविको भेदः, तस्य पृथिव्याद्य- पेक्षयापि स्वाभाविकं महत्वं, कर्मलोकादिव्यलोकं गतस्यैव मुख्यमु. क्तिरित्यतेऽर्थास्सुस्पष्टं प्रतीयन्ते । लोके च मृदो घटो जायते, मृदि घटो लीयते, अतो मृदात्मको घट'इति व्यवहारः स्फुटं दृश्यते । शास्त्रेण च 'वि. ष्णोरुद्भूतं जगत्, अन्तर्यामिणि तत्रैव च नियाम्यतया स्थितं; जगल्लया धारश्च सः, अत एव जगदपि विष्णु रित्युच्यते विष्णोस्सकाशादुद्भूत'मि त्यादिना । स्थितिनिबन्धनसामानाधिकरण्यमपि लोकदृष्टमेव यथा घ. टो नील इति। यथा च मृदि घटत्वस्थितिनिवन्धनः मृद्धट इति व्यवहारः, तथैव सूक्ष्मचिदचिद्विशिष्टब्रह्मणि स्थूलचिदचिद्वैशिष्टयस्थितिनिबन्धनो 'जगञ्च स इति'व्यवहारः । चिदादिवैशिष्टयं हि चिदादिमत्त्वम् । तद्वत्वश्च तदेवेति । नच घटत्वं मृत् इति व्यवहाराभावात् तद्वदेव जगत् (चिद- चिच्च ) स इति व्यवहारोपि न युक्त इति शङ्क्यम् ; वैषम्यात् । घट त्वादिशब्दो हि निष्कर्षकशब्दः, न तु जगदादिशब्दः । 'देवोऽहं जानामी' त्यद्यबाधितव्यवहाराच्छरीरात्मभावनिबन्धनमपि तादात्म्यमभ्युपगन्त. व्यमिति पूर्वमेवोक्तम् । उपादानस्येवोपादेयस्यापि सत्यत्वमवाधित- त्वतौल्याल्लोकत एव सिद्धम् । न हि कश्चित् मृदं सत्यतया जानानः घटं मिथ्यात्वेन प्रत्येति । ततश्च सर्वं खल्विदं ब्रह्म तज्जला' नित्यस्य उक्तार्थ एवोपपन्न इति ध्येयम् । .

भेद साम्रा उय म्। . . । यत्त्वत्र परैरुक्तम् । ' अत्र ब्रह्मपदं सोपाधिककारणभूतब्रह्मपरम् । ज- गतो ब्रह्मरूपत्वञ्च तज्जत्वतल्लस्वतदनत्वैः । मनोमयत्वादिगुणा अत्र विवक्षिता इत्येतत्पुनरपि सर्वकर्मत्वादेरुपादानासिद्धयति । 'एषः' 'मे' - 'एतमभिसम्भ. वितास्मी - त्युपासकोपास्ययोः, प्राप्तृप्ताप्ययोश्च भेदस्स्पष्टं निर्दिश्यते । इतः प्रेत्याभिसम्भवितास्मी ' त्युक्त्या परमात्ममाप्तः विद्यमानशरीरत्या गानन्तरभावित्वं प्रतीयते । अन इदं प्रकरणं सगुणब्रह्मोपासनपरमेवे' ति । तदिदं वयमपि सर्वथाऽऽद्रियामहे । सयुक्तिकं भेदस्य स्थापि- तत्वात् । प्रकरणमिदमद्वैतपरतया सर्वात्मना नेतुमशक्यमिति तदीयाभि- पायावगमात्सन्तुष्यामश्च । परन्तु वस्तुतो निर्विशेषमेव ब्रह्म; अतः प्राप्तृपाप्यादिभेदो न वस्तुतोऽस्तीतीममंशं सिद्धवत्कृत्य प्रकरणमिदमा- चीनफलसाधनं सगुणब्रह्मोपासनं विधत्त इत्युक्तिमेव निषेधामः । ता. दृशांशेऽनन्यथासिद्धपमाणलेशाभावेन तस्य केवलस्वमनीषाविभवार्जि तत्वाध्यवसायात् । यानि तु कानिचिद्वाक्यानि तदनुगुणानीव दृश्यन्ते तान्यपि यथावस्थितार्थकानि व्याख्यास्यन्ते । जगदिदं ब्रह्मण्यध्यस्तं, तस्मान्मिथ्याभूतमिति वदन्नेव मृषावादी, जगद्ब्रह्मणो जातं ब्रह्मणि लीनं ब्रह्माधीनस्थितिकं, अतस्त्रिष्वपि कालेषु ब्रह्मात्मकमिति कथं व्याहरतीति तदानदा विस्मिताः स्मः । अत्रेदं पदार्थतत्त्वविवेचनविच- क्षणैरवधेयम्- इमे तावद्भाव्यकाराः जगतो ब्रह्मण उत्पत्त्यादिप्रतिपाद- नप्रकरणेषु 'सलिलास्फेनबुढ्दादिकमिव ब्रह्मणो जगदुद्भवति । तत्र तदिवचा- त्रैतल्लोयते । तत् तदात्मकमिव एतदेतदात्मकम् । इत्यञ्च सलिलव्यतिरेकेण फेन- बुद्वदाद्यभाव इव ब्रह्मव्यतिरेकेण जगदभावस्सिद्धयती' ति प्रतिपादयन्ति । तत्र तदुपात्तदृष्टान्तविषये वस्तुस्थितिस्तावदियम् । महासलिले क- दाचिद्वाय्वभिघातादिकारणवशात्कश्चित्सलिलांशः बुद्दादिरूपेण प- रिणमते । क्रमेण बुद्धुदत्वाद्यवस्थां विहाय पूर्वसलिलांश एव भवति । बुदुदत्वाद्यवस्थायामपि सलिलरूपमेव तत् , न द्रव्यान्तरं किश्चित् । सलिलत्वेनैवोपलम्भान् , अन्यथाऽनुपलम्भाच्च । बुद्दादिकं सलिल- .

वेदान्तभागः । छान्दोग्याधिकारः, ११. ४१ मवेत्यवाधितव्यवहाराच्च । एवञ्च तत्र बुद्धदाधुपादानभूतसलिलांशस्य, नदुपादेयभूतबुद्दादिकस्य, बुद्धदत्वफेनत्वादिरूपावस्थाया वा न मि. ध्यात्वं वायतुं शक्यम् ; प्रतीयमानेषु तेषु नेदमिति बाधादर्शनेन प्रतिप- नोपाधौ कालिकनिषेधपतियोगित्वरूपमिथ्यात्वासम्भवात् । अपितु सलिलवाद्यवस्थापेक्षयापि कादाचित्कत्वेनानित्यत्वमेव बुद्बुदत्वाद्यव- स्थाया इति । तद्वद्दान्तिकेपि ब्रह्मणो जगदुत्पद्यत इति व्यवहारेण जगतः ब्रह्मणक्यं, तद्वत्सत्यत्वं, ब्रह्मत्वं, ब्रह्मत्वापेक्षया कादाचित्क- खेनानित्यवटपटादिरूपप्रपञ्चावस्थावत्त्वं, एतत्प्रहाणपूर्वकं पुनस्तादृश- ब्रह्मत्वमितीदव सिद्धयेत् ; न पुनर्ब्रह्मण्यध्यस्तत्वं, तन्मूलमिथ्यात्वश्च । ततश्च । मललव्यतिरेकेण बुद्धदाद्यभाववत् ब्रह्मव्यतिरेकेण जगदभाव' इति 'ब्रह्मणो जगज यते' त्यादेशशतशस्वयं भाववर्णनेपि न तत्सिद्धेरवका- शलेशः । एवं स्थितेऽपि प्रमेयतत्त्वे — ब्रह्मणो जगज्जायते ' इत्यादिश्रुति- शनगनव्यवहारेभ्यो भीतभीतयस्तादृशव्यवहाराणां स्वाभिमतसिद्धा- न्तविशेषविरोधनिरोधाय नियमेन प्रयतितव्यम् , त एवामी निर्भीका- स्वयमपि तादृशं व्यवहारं कर्तुमारभन्त इतीदं परेषां तादृशश्रुतिवि- रोधाभावप्रदर्शनाय वा, अन्यस्मै कस्मैचिद्वेनि विमृशन्तोपि नान्तं गच्छ- न्तीति ॥ १० ॥ अस्यामेव (४) ' य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेतिहोवाच एनदमृतमेतदभयमेतद्रहा एतं सयद्वाम इत्याचक्षत एत हि सर्वाणिं वामान्य. भिसंयन्ति ' 'एष उ एव वामनिः एष हि सर्वाणि वामानि नयति ' 'एष उ एवं मामनिः एष हि सर्वेषु लोकेषु भाति । अथ यदुचैवास्मिञ्च्छव्यं कुर्वन्ति यदु च न, अर्चिषमेव तेऽभिसम्भवन्त्यषिोऽह ....अमानवः स एनान ब्रह्म गमयत्येष देव. पथो ब्रह्मपथः एतेन प्रतिपद्यमाना इमं मानवमावतं नावन्त' इति श्रूयते । तत्रा- यं निष्कृष्टोऽर्थः-सर्वनियन्तृत्वनिरतिशयभोग्यत्वदुःखासम्भिन्नत्वनिर- तिशयबृहत्त्व सत्यसङ्कल्पत्वरूपसंयद्वामत्व स्वाश्रितशोभनधीप्रापकत्व- रूपवामनीत्व सर्वलोकव्याप्तदीप्तिमद्विग्रहयुक्तत्वरूपभामनीत्वगुणविशि. . 11 भेद साम्राज्य म्। पर. धमक्षिण विद्यमानं परमात्मानमुपासीत । तथोपासकस्तादृशं परमात्मानं श्रीवैकुण्ठापरपर्यायदिव्यलोकविशेषे दिव्यविग्रहविशेषादिविशिष्टतया विद्योतमानमर्चिरादिमार्गेण प्राप्य स्वयमपि तदसाधारणाकाराति- रिक्तसंयद्वामत्वादिगुणविशिष्टस्सम्पद्यते; नच पुनः कदापि संसारस- म्बन्धगन्धवान्भवतीति। सत्यत्वज्ञानत्वादिस्वरूपनिरूपकधविशिष्टस्य तत्तत्पकरणोक्तगुणविशेषविग्रहविशेषस्थानविशेषादिविशिष्टस्य ब्रह्मशब्दितस्य ' परमात्मनस्तैलधारावढविच्छिन्नस्मृतिसन्ततिरूपमुपा- सनमेव परविद्या । सा च द्विविधा स्वशरीरकत्वेनोक्तगुणविशिष्टस्योपा. सनं, स्वस्योक्तगुणविशिष्टब्रह्मशरीरत्वेनोपासनञ्चेति । अत्र पूर्वा दह- रविद्याशाण्डिल्यविद्यादिरूपेण नानाप्रकारा । परा तु परमात्म- प्रकारकस्वविशेष्यकोपासनामिका पञ्चाग्निविद्यत्युच्यते । उभये- पामप्युपासकानामर्चिरादिमार्गेणैव श्रीवैकुण्ठाख्यदिव्यलोकगमनम् । दिव्यदेशप्राप्त्यनन्तरमेव स्वाभाविकगुणाष्टकाविर्भाव-सकलगुणविग्रह- विभूतिविशिष्टब्रह्मानुभव -- तत्परीवाहरूपविविधतकर्यादिरूपा साक्षा- न्मुक्तिः । पञ्चाग्निविद्यानिष्ठनां तु, ईदृशमुक्तिप्राप्तेः प्राक् केवलस्वात्मा- नुभवरूपकैवल्यप्राप्तिः कश्चित्कालमवान्तरफलम्। इदमेव तेषां फल- विषये वैषम्यम् । परमफले तु न किश्चिदपि। सर्वेषामप्येषां पुनस्संसार सम्बन्धगन्धोपि न भवति । एवं स्वाभाविकसकलकल्याणगुणविशिष्टमेव परं ब्रह्म तद्विषयकमेवोपासनं मुख्यमुक्तिसाधनम् ; सा च मुक्तिः पर- ब्रह्मासाधारणधर्मवर्ज तेन परमसाम्यापत्तिरूपा । अयमेव सोपबृंहण सर्ववेदान्तसिद्धान्तः । तास्वन्यतमाऽक्षिविद्याऽत्र प्रस्तूयते ' य एषोक्षिणि पुरुषो दृश्यते' इत्यादिना । तथाचात्रोक्तः पुरुषस्साक्षात्परं ब्रह्मेति, फ- लञ्च साक्षान्मुक्तिरूपमिति चानिच्छताप्यङ्गीकार्यम् । एवं स्थितेपि यदुक्तमत्र परैः – 'अत्र पुरुषपदं सगुणावरब्रह्मपरम् । अनोपात्तास्सयढामत्वादयो गुणा उपासनार्थाः, न परमार्थभूताः । स एनान्ब्रह्म- गमयती' त्यत्र ब्रह्मपदमपि सत्यलोकस्थचतुर्मुखपरमेव । एवं बृहदारण्यकेऽष्टमा- वेदान्तभागः । छान्दोग्याधिकारः. ११. ४३ - - ध्यायपि य एवमेतद्विदुर्चचामी अरण्ये श्रद्धा सत्यमुपासते तेर्चिषमभिसम्भ- वन्ति ' इत्यत्र सत्यपदमपि हिरण्यगर्भपरमेव । एवमेवाभ्युपगन्तव्यमिदं सर्वम्, अ. न्यथा गतिश्रवणानुपपत्तेः । तद्धि प्राप्यं परिच्छिन्नमवगमयति । इतः पूर्वमप्राप्त- परिच्छिनदेशविशेषवर्तिवस्तुप्राप्त्यर्थयैव गत्या भवितव्यम् । नापरिच्छिन्नस्य सर्व- गतस्य ततएव नित्यप्राप्तस्य प्राप्तिरिदानीमपूर्वा काचित् , यदर्था गतिरस्यात् । एवं प्राप्यस्य परिच्छिन्नत्वे निश्चिते, तक्रतुन्यायादृपास्यमध्यवरमेवाभ्युपगन्तव्यम् गुणाश्चापरमार्था इति । ननु कथं तर्हि ‘नावर्तन्त ' इत्यपुनरावृत्तिश्रवणमिति चेन्न अत्र सर्वात्मना पुनरावृत्तेरनिषेधात् । इममिति ह्यावर्तो विशेष्यत । तेन कल्पान्तरे आवृत्तिरस्तीति गम्यते। तेषामिह न पुनरावृत्ति ' रिति श्रुत्यन्तरश्च । पुनरावृत्तेरत्यन्तनिषेधे विवक्षिते, इहपदवैयथ्य प्रसजेदिति । नात्र सद्विद्यादाविव परस्य प्रत्यगात्मतयोपासनं, ब्रह्मभावो वा फलं श्रूयते । अत उक्तएवार्थोऽस्य वाक्य- राभ्युपगन्तव्य ' इति- तदिदं न सङ्गच्छते। नपुंसकलिङ्गब्रह्मपदस्य, सत्यपदस्य च 'सत्यं ज्ञानमनन्तं ब्रह्मे ' त्याद्यनुसारेण परस्मिन्ब्रह्मणि मुख्यत्वात् , मुख्यार्थ- ग्रहणेऽनुपपत्तिलेशाभावाच तयोरस्वरसार्थकत्वकल्पनमुपेक्ष्यम् । एवं गु- णानां पारमार्ये दोषलेशाभावात्तदपारमार्थेऽनन्यथासिद्धप्रमाणलेशा- भावाच्च तदपारमार्थ्यवर्णनमप्यविश्वसनीयम् । निर्विशेषं ब्रह्म न केनापि सिध्यतीत्युत्तरत्र वक्ष्यते । इत्थञ्च तेनैव तत्क्रतुन्यायेनोपास्यसमर्पकं पुरुषपदं सविशेषमुख्यब्रह्मपरमेवाश्रयणीयम् । बृहदारण्यक उपास्य- समर्पकसत्यपदानुरोधाच्च । तत्र सत्यपदवाच्यस्योपासनमुक्त्वा तस्य फलतयार्चिरादिगत्यादिकमुक्तम् । अत्र पुरुषपदवाच्यस्योपासनमुक्त्वा तदुच्यते । सत्यपदश्रुतिश्च निरुपाधिकसत्ताश्रयवाचिनी, पतिव्रतेव परपुरुषं, न परब्रह्मणोन्यमर्थं निरीक्षितुमपीहते । अत्र श्रूयमाणं पुरुष- पदमपि निरुपपदं 'पुरुषान्न परं किञ्चित् ' 'पुरुष एवेदं सर्व ' मित्यादौ पुरुषपदमिव परमात्मानमेव बोधयितुमुत्सहते । इत्थञ्च तयोरैकार्थ्य तत्रापि सविशेषमुख्यब्रह्मपरत्वञ्च न्यायविद्भिररीकार्यमेव । यत्तु ।

भेद साम्रा ज्य म्। तत्रोक्तं 'ब्रह्मलोकान् गमयतीति गन्तव्यस्य बहुवचनान्तलोकशब्देन प्रतिपादनाद्धिरण्यगर्भलोका एव प्राप्या इति प्रतीतेः बृहदारण्यकवाक्य- स्य हिरण्यगर्भोपासन-तत्माप्तिपरत्वमास्थेय ' मिति । तन्न । उपक्रम गतसत्यशब्देन उपासनस्य परब्रह्मविषयत्वे निश्चिते तत्क्रतुन्यायेन पाप्यस्यापि तद्रूपत्वावगमेन, निषादस्थपत्यधिकरणन्यायेन ब्रह्मैव लोको ब्रह्मलोक इति कर्मधारयसमासस्यैवाङ्गीकार्यत्वेन अर्थैकत्व- निश्चये पाशाधिकरणनीत्या बहुत्वाविवक्षाया एव युक्ततमत्वात् । क. थञ्च सत्यलोकवासिनो हिरण्यगर्भस्यापि बहवो लोकाः प्रकृतिमण्डल एव बहुलोकसंभवे अपरिच्छिन्नायां नित्यविभूतावनन्तलोकसद्भाव- स्यासंभावितत्वाभावात् , परमात्मनोप्यपाकृतासाधारणानेकलोकस- द्भावस्यानन्यथासिद्धबहुप्रमाण प्रतिपन्नतया च स्वरसार्थग्रहणेऽनुपप- निगन्धाभावाच्च । यदुक्तं ' तथासति गतिश्रुतिर्नोपपद्यत' इति - तन्न, गतेः ब्रह्मसंयोगमात्रार्थत्वानभ्युपगमात् । विशिष्टदेशपाप्त्यादिः फल- मिति ह्युक्तम् । प्रमाणञ्चात्र पर्यऋविद्याश्रुत्यादिकम् । न च तदवरविद्या- फलपरमिनि वाच्यं - निर्गुणविद्याफलस्य भवदभिमतस्य कस्यचिद्ग- गनारविन्दगन्धसगन्धतयैव तस्य परविद्याफलत्वानपायात् । तस्य तत्त्वञ्चोत्तरत्र व्यक्तीभविष्यति । नित्यस्यापि कालविशेष एव विलक्ष- णप्राप्त्यङ्गीकारवत् सर्वगतस्यापि देशविशेष एव प्रमाणानुसारेण प्रा- 'प्त्यङ्गीकारे बाधकाभावात् । यत्तूक्तम् 'इममिति विशेषणात् इहेत्यु- क्तया च कल्पान्तरे आवृत्तिोत्यत' इति तदपि न, ‘स खल्वेवं वर्तयन्याव- दायुषं ब्रह्मलोकमभिसम्पद्यते; न च पुनरावर्तते', ' मामुपेत्य पुनर्जन्म दुःखालय- मशाश्वतम् । नाप्नुवन्ति महात्मानस्संसिद्धि परमां गताः !! आब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥', 'सायुज्यं प्रतिप्रना ये तीवभक्तास्तपस्विनः। किङ्कर। मम ते नित्यं भवन्ति निरुपद्रवाः।।', • गत्वागत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षर- चिन्तकाः ॥', 'प्राप्यते परमं धाम यतो नावर्तते यतिः', ' यदा स केवली- .

वेदान्तभागः । छान्दोग्याधिकारः. १२. अत्य- ! - मूतष्षडिशमनुपश्यति । तदा स सर्वसिद्धत्वात्पुनर्जन्म न विन्दति' । मिलदीप्तं तत्स्थानं विष्णोर्महात्मनः । यत्र गत्वा पुनर्नेम लोकमायान्ति भारत' इत्यादिश्रुतिस्मृतिशतर्मुक्तिं प्राप्तानां कदापि पुनस्संसाराप्राप्तेस्स्फुटतरं प्रतिपादनात् । — संसिद्धि परमाङ्गताः' मामुपेत्य तु कौन्तेये' त्यत्र भगवन्तं प्राप्तानां, पूर्वोक्तचतुर्मुखादिवत् भगवतः परिमितायुष्ठानित्यत्वाभावेन पाप्यविनाशप्रसङ्गाभावान पुनरावृत्तिशङ्कावकाश इत्यंशस्य प्रक रणस्वारस्यसिद्धत्वेन भगवतः श्रीवैकुण्ठनाम्नस्तल्लोकस्य चाविनाशे सति किमिति निरञ्जना मुक्ताः पुनरावर्तेरन् । 'मित्रभावेन संप्राप्तं न त्यजेयं कथञ्चने ' ति च भगवदभिप्रायपद्धतिः । अपिच मुक्तेरपि ना- शाङ्गीकारे स्वर्गेपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृति' रिति न्यायेन मुक्तः दुःखसम्भिन्नत्वप्रसङ्गेन मुक्तित्वमेव न स्यात् ! ईदृशमुक्तयेऽनेकजन्मसु उपासनानुष्ठानस्यात्यन्तायुक्तता च । किञ्च 'इमम् इहे ' ति विशे- षणात्कल्पान्तरे आवृत्यङ्गीकारे तयोर्व्यक्तिविशेषपरत्वावश्यम्भावेन श्रुतेरनित्यार्थत्वप्रसङ्गो दुष्परिहरः । इत्थश्च — इममिह ' ति शब्दो स्वानु- भवसन्निहितविषयौ सन्तौ आवर्तादिशब्दितसंसारस्य दुःखबहुल- स्वादिनाऽतिदुःखवहत्वं द्योतयत इत्येवाभ्युपगन्तव्यम् । यथा — इमानि भूतानी — त्यादौ इदमादिपदानां भूतादिगतवैचित्र्यादिद्योतकत्वम् । न हि तत्र कल्पान्तरगतभूतकारणब्रह्मान्तरकल्पना प्रकृतब्रह्मणस्संप्रतिदृश्य- मानभूतमात्रकारणताचेष्यते । अतोऽस्य यथोक्त एवार्थस्सर्वप्रमाणानु- गुणो बाधलेशविधुरश्चेति ध्येयम् !! ११ ।। अस्यामेव (६) श्वेतकेतो यन्न सोम्येदं महामन। अनूचानमानी स्तब्धो- सि, उत तमादेशमप्रायः येनाश्रुतं श्रुतं भवति अमतं अविज्ञातं विज्ञातम्', कथन्नु भगवस्स आदेशो भवति', 'यथा सोम्य एकेन मृपिण्डेन सर्व मृण्मयं विज्ञातं स्यात् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । यथा सोम्य एकेन लोहमणिना सर्व लोहमयं विज्ञातं स्यात् ', सदेव सोम्बेदमग्र आसीदे- कमेवाद्वितीयम् ; तबैक आइरसदेवेदमन आसीदेकमेवाद्वितीयम् । तस्मादसत- - मतम् । 12 भेद साम्राज्य म्। सज्जायते । कुतस्तु खलु सोम्येवं स्यादिति होवाच कथमसतस्सज्जायतेति । स स्वेवं सोम्येदमग्र आसीदेकमेवाद्वितीय ' मिति श्रूयते । अस्यायं निर्गळि- तार्थः- हे सोम्य प्रौढमतिरात्मानं यथावत् साङ्गवेदाध्यायिनं मन्यमा- नस्तृणीकृतजगत्त्रयः परिपूर्ण इवासि इतीदं यत् यस्माद्धेतोः, स कः? तमादेशं आदेष्टारं सर्वनियन्तारं सर्वात्मानं . जगदुपादानं किं पृष्टवानसि, येनाऽऽदेष्ट्रा श्रुतेनाश्रुतमपि सर्व श्रुतं भवति, येन मतेना- मतमपि मतं भवति, येन विज्ञातेनाविज्ञानमपि विज्ञातं भव- तीति पुत्रं श्वेतकेतुमारुणिः पितोवाच । हे भगवन् ईदृशादेशः कथं- भवेदित्यन्यज्ञानेनान्यज्ञानासम्भवं मन्वानः पुत्रश्चोदयामास । यथा उपादानभूते मृत्पिण्डे ज्ञाते तदुपादेय घटशरावादिकं ज्ञातं भवति, यथा सुवर्णपिण्डविशेषे उपादानभूने ज्ञाते तदुपादेयभूतं कटकमकुटादि ज्ञातं भवति, तद्वदिति पिता प्रत्युवाच । पुनरपि नैयायिकरीत्या पूर्वमसदेव घटादिकं मृत्पिण्डादुत्पद्यते । ततश्चोपादानोपादेययोर्भेदान मृत्पि- ण्डज्ञानेन सर्वमृण्मयज्ञानं सम्भवतीति मन्वानं पुत्रं प्रति पिताऽऽह-घट- शरावादि नामधेयश्च तेनैव मृव्येण वाक्पूर्वकहानोपादानादिव्यवहार- सिद्धयर्थं प्राप्यते । ततश्च मृण्मयं घटादिकं मृत्तिकारूपतयैव प्रमाण- प्रतिपन्नम् ; न तु तद्भिन्नत्वेन । एवमन्यत्रापि । एवं जगदपि सत उत्पन्नं सद्रूपमेवेति तदज्ञानेन तद्ज्ञानमुपपन्नमिति । इदं विभक्तनामरूपं बहुत्वावस्थं जगत् सृष्टेः प्राक्काले अविभक्तनामरूपतया एकत्वावस्था- पपत्रमेव निमित्तान्तरशून्यं सदेवासीत् । इदं जगदने असदेवासीत् , न तु सदासीत् । एतत्प्रागभावातिरेकेणावस्था वा काचित् , अवस्थाश्रयो वा क- श्चिन्नासीत् । तस्मादसत एव द्रव्यस्य सत्त्वरूपोत्पत्तिसंभव' इति तद्विषये असत्कार्यपादिनो वदन्ति । सोम्य 'असतस्सज्जायत'इत्येतत्कथं सम्भवेत प्रत्यक्षादिविरोधात् । अतः इदं जगत् पूर्वमपि सदेवासीदेकमेवाद्वितीयमि- ति प्रतिज्ञातस्य एकविज्ञानेन सर्वविज्ञानस्य समर्थनाय जगतो ब्रह्मैककार- गत्वप्रतिपादनप्रवृत्तः पिता लोके अपराह्नमसारितघटशरावादेः मृत्पि- . .

वेदान्तभागः । छान्दोग्याधिकारः. १२. . ण्टकोपादानत्वज्ञापनाय 'पूर्वाहे घटशरावादिकमिदं सर्वं मृत्पिण्ड एवासी दिति व्यवहारप्रवृत्त इव, पुत्रं प्रति प्रतिपादयमास । अस्मिन्प्रकरणे हि मृत्पिण्डघटाद्यनेकदृष्टान्तोपन्यासपूर्वकं ब्रह्म ज्ञानेन जगद्विज्ञानोपपादनाब्रह्मजगतोरुभयोरपि सत्यत्वमेकद्रव्यत्वं, सूक्ष्मावस्था स्थूलावस्था चेत्यवस्थाभेदमात्रम् , अवस्थामात्रभेदेपि अवस्थाश्रयस्यैकत्वात्स्थूलावस्थाविशिष्टत्वेन जगतोऽज्ञानेपि मुश्मा- वस्थाश्रयज्ञानेनैवास्यापि ज्ञातत्वमितीमे अंशास्सुस्पष्टं प्रतीयन्ते । अत्र ब्रह्मविज्ञानेन जगद्विज्ञानकथनं, ब्रह्माणि जगतोऽध्यस्तत्वेन मिथ्या- त्वमिति पक्षे सर्वात्मना न घटते इतीममंशं सर्वोपि सुखं जानीयान् : न हि शुक्तिज्ञानेन लोके रजतज्ञानं कस्यचिदुत्पद्यमानमुपलभ्यते । अपि तु तेन तन्नित्तिरेव । यदि शुक्तिरजतयोरैक्यं तदा ‘इयं शुक्ति' रिति ज्ञाने रजतमपि विषय इति तदज्ञानाक्तिरुपपद्यत । नैवं तत्र स्थितिः। सत्य मिथ्याक्यायोगात् । अत्र चैकविज्ञानं तत्वयाथात्म्यज्ञानमिष्टम् । अत इदमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञानमेकमेव परमतारण्यच्छेदे परमः कुठारः । एवमपि यदत्र बहु विक्रान्तं परैः, तत्र सारांशमनूद्य प्रति विधीयते । 'मृत्पिण्डे कारणे ज्ञाते कार्यमन्यत्कथं विज्ञातं स्यादिति न शङ्कयम् ; कारणेनानन्यत्वात्कार्यस्य । यदि कारणादन्यत्कार्य स्यात् , तदेयं शङ्का स्यात् । कथं तर्हि । इदं कारणम् , अस्यायं विकार' इति लोकव्यवहार इति चेत्-तत्र ' वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य' मिति अतिरेव समाधानमाह । अस्यायमर्थः - वाचेति षष्ठयर्थे तृतीया। आरम्भणं-आलम्बनम् । घटशरावादि- रूपो विकारः वाग्विषयमात्रं न वस्तुतो विकारो नाम कश्चिदस्ति । किन्तु नाम- व केवलम् । मृत्तिकेत्येव मृत्तिकैव सत्यं वस्त्वस्तीति । एवं ' सदेव सोम्येद ' मि त्यत्र एकमित्यनेन सजातीयस्वगतभेदराहित्यमुच्यते । 'अद्वितीय 'मित्यनेन विजा. तीयभेदराहित्यम् । इत्थञ्च सजातीयविजातीयस्वगतभेदरहितं सन्मानं कारणम् । तस्मादन्यस्य जगतः परमार्थतोऽभावेन कारणज्ञानेन कार्यज्ञानमुपपन्नम् । यथा मृत्पिण्डज्ञानेन घटशरावादिज्ञानमित्येवैतत्प्रकरणाचँ वर्णनीयः । ब्रह्मव्यतिरिक्त- ।

'४८ भेद साम्राज्य म् । . सर्वमिथ्यात्वग्राहकबहुप्रमाणानुरोधा' दित्यादि तदुक्तम् । तत्रोच्यते- थासिद्धस्य प्रपञ्चमिथ्यात्वग्राहकस्य प्रमाणस्याद्यापि लेशतोप्यनुपल. म्भेनोक्तवाक्यस्योक्तार्थपरत्वं न संभवति । · नेह नानास्ती' त्यादि- निषेधवाक्यानां सर्वप्रमाणानुगुणा युक्तियुक्ता च गतिरुत्तरत्र वक्ष्यते । किञ्च सद्विद्याप्रकरणमुपक्रमोपसंहारादिषड्डिधतात्पर्यलिङ्गोपेतं सर्वा. स्मना निर्विशेषब्रह्मपरमिति तत्रतत्र युष्माभिरुद्धष्यते । अस्य निर्वि शेषपरत्वं सिद्धवत्कृत्यैतदनुरोधेन सविशेषपरतया स्वरसतः प्रती- यमानानि वाक्यान्तराणि निर्वेशेषपरतया नीयन्ते च । अतोत्रार्थवर्ण- नाय प्रमाणान्तरगवेषणमयुक्तम् । अस्य तु प्रकरणस्य प्रतिपाद्यरहस्य किचित्तकाशयामः। अत्रोपक्रमे 'उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवती ' त्यादिना सविशेषमेव ब्रह्म प्रतिपाद्यते : अङपूर्वकादिशेनिष्पन्न आदेशशब्दो हि शासितृत्वविशिष्टपरः । शासनश्च जगनियमनरूपो व्यापारविशेष इति शासितुश्शासनीय जगद्वैशिष्टयमावेदयति । एकवि. ज्ञानेन सर्वविज्ञानप्रतिज्ञानञ्च तत्तदवस्थाविशेषविशिष्टं कारणमेव कार्य मित्यारम्भणाधिकरणोक्तरीत्या कार्यकारणयोरनन्यत्वं ज्ञापयत् ब्रह्मण उपादानत्वपरमित्यभ्युपगन्तव्यम् । अत्र ब्रह्मणो विवर्तोपादानत्वन्तु न शक्यशङ्कम् । • यथा सोम्य एकेन मृत्पिण्डेने ' त्यादिदृष्टान्तेषु परि णाम्युपादानस्यैव प्रतिपादनात् । अतस्सप्रपञ्चमिदमुपादानभूतं निमि. त्तकारणञ्च ब्रह्मेत्येवात्रावगम्यते । ' सदेव सोम्येदमग्र आसी 'दित्यत्रापि इदंशब्देन जगदुपादानानस्य — सदेवे ' त्यनेन सृष्टेः प्रागपि सताऽभेदा. सत्यत्वमवधार्यते । अग्र इति तस्यां दशायां कालस्य सत्वं प्रतीयते ' आसी' दिति, धात्वर्थसत्ताश्रयत्वञ्च ब्रह्मणः । तदनन्तरश्च तदै. क्षते 'ति वाक्येन तत्पदवाच्यस्य ब्रह्मणस्मृष्ट्यनुकूलज्ञानसङ्कल्पकृत्या- श्रयत्वं प्रतिपाद्यते । एवमुपक्रमस्तावदनेकविशेषविशिष्टब्रह्मपर एव प्रती. यते । मध्ये च — सन्मूलास्सोम्येमाः प्रजास्सदाय ननास्सत्प्रतिष्ठा ' इति प्रजा. शब्दोदिताचिद्विशिष्टजीववर्गस्य सच्छब्दोदितब्रह्मणश्च मूलमूलिभावा- - वेदान्तभागः । छान्दोग्याधिकारः. १२. धाराधेयभावलयस्थानतत्कतभावानां प्रतिपादनात्परस्परमत्यन्तभेद एव प्रतीयते । उपसंहारे च 'ऐतदात्म्यमिदं सर्व' मिति जगह्मणोश- रीरात्मभावेन भेद एव प्रतिपादितः । ' तत्त्वमसि श्वेतकेनो' इति सम्बो- ध्यसम्बोधकभावेन श्वेतकेतूद्दालकयोर्भेदप्रतिपादनाजीवनानात्वमपि गम्यत । अत्रैव तदिति तच्छब्देन पूर्वोक्तसकलाकारविशिष्टं सद्रूपं ब्रह्मानूद्य तस्य अभिमुखचेतनविशेषाभेदविधानादुद्देश्यतावच्छेदकविधे- यतावच्छेदकयोर्भेदावश्यम्भावेन तत्पदार्थत्वम्पदाविशेषणयोः पर- स्परभेदस्सिद्ध इति । एवञ्नात्र प्रकरणे स्वनियन्तृत्वसम्बन्धेन ब्रह्म णो जगद्विशिष्टत्वं, जगब्रह्मणोरुभयोरपि सत्यत्वं, प्रपञ्चं पति ब्रह्मणः परिणाम्युपादानत्वं, ब्रह्मणो ज्ञानशवत्याद्यनेकविशेषवत्त्वं, जीवपरभेदः जीवनानात्वं, प्रपञ्चब्रह्मणोश्शरीरात्मभाव इत्येते विशेषाः केनापि प्रकारेणापलपितुमशक्याः प्रतीयन्त इत्यत्र विद्वांस एव विशेषतः प्रमा- णम् । एवं स्थिते कथमिदं प्रकरणं निर्विशेषपरमङ्गीक्रियतामिति । यत्त्वत्र केनचित्प्रकरणस्यास्य निर्विशेषपरत्वप्रत्याशापरवश हृदयेनोक्तम् , ' अत्र तमादेशमित्यत्रादेशशब्दः कर्मणि अन्तस्सन्नुपदेशगम्य- वाची; न शासितृवाची । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानमपि विवाभिवायम् | मृदादिदृष्टान्ता अप्युपादानस्वरूपे तदात्मना उपादेयं ज्ञातं भवतीत्येवमभिप्रायाः, न तु परिणामाभिप्रायाः । “सदेव सोम्येदमन आसी' दित्यत्र सत्पदं सत्तामात्रब्रह्म- परं; न सत्ताश्रयपरम् । 'एकमेवाद्वितीय' मित्येतत् तद्विशेषणम् । इत्थश्च 'अथात आदेशो नेति नेती ' त्यादिश्रुतिसिद्ध यदेकमेवाद्वितीयं सकलद्वैतशून्यं सत्तामात्र- मात्मरूपं, तद्वयतिरेकेण सृष्टेः प्रागिदं नामरूपात्मकं किमपि नासीदित्येतदर्थः । अत्र ' नेतिनेती ' ति श्रुतिसिद्धार्थकथनपूर्वकं प्रळयनिरूपणं प्रळयकालस्य तदा- धेयस्य सूक्ष्मप्रपञ्चस्य च वस्तुतस्सत्तां निराकर्तुम् । ततश्चोपक्रमोऽयं निर्विशेष- पर एवे 'ति । तदाशामात्रम् । आदेशशब्दस्योपदेशकर्मपरत्वाङ्गीकारे- प्युपदेष्टुराचार्यस्योपदेशक्रियायास्तजन्यज्ञानस्य, तदाश्रयाशिष्यस्य, ब्रह्मणस्तादृशज्ञानविषयत्वस्य च प्रतीत्योपक्रमस्य बहुविधभेदगर्भव- 13 भेद साम्राज्य म् । - स्यैव सिद्धेः । कुमृतिकल्पनं परमवशिष्टम् । एषां मिथ्यात्वान्न दोष इति चेत् , तर्हि शासितृत्वपक्षण किमपराद्धम् । अकर्तरीत्युक्त्या रू. पासिद्धिरिति चेत् , संज्ञायामित्युक्त्या तवापि तुल्या सा । तदुपायो- ऽस्माभिरुक्त इति चेत् , एतदुपायोप्यस्मदाचार्यविस्तरेणोक्त एव । सर्व- विज्ञानप्रतिज्ञानस्य 'वाचारम्भण' मित्यादिवाक्यशेषवशाद्विवाभिप्राय स्ववर्णनं सर्वात्मना न संभवतीति सम्यगुपापीपदाम । ' उपादानस्वरूप ज्ञाते तदात्मनोपादेयं ज्ञातं भवती ' तीयमुक्तिरुपादेयमिथ्यात्वे करं भवेत् । असत उपादेयस्य कथमुपादानात्मना ज्ञातत्वसंभवः? । उपा- दानात्मना ज्ञातत्वञ्चोपादानविशेष्यकज्ञानविशेष्यत्वम् । तच्च वस्तुतो- ऽविद्यमानस्य कथं संभवति । न हि शुक्तिरजतस्थल शुक्तिमात्रज्ञान- दशायां तद्ज्ञानविशेष्यत्वं रजतस्य दृष्टम् । यत्तु 'सदेवे ' त्यादेरर्थव- र्णनं, तदप्ययुक्तम् । सत्ताश्रयशक्तस्य सत्पदस्य सत्तामात्रपरत्वे लक्षणा। अस्तेः कर्तरि हि शता, न भावे, अनुशासनाभावात् । न हि • घटस्य सदि ' ति प्रयोगः । अद्वितीयपदस्यापि कार्यस्वाभाव्यागुद्धि- स्थनिमित्तान्तरनिषेधमुखेन सत एव निमित्तत्वप्रतिपादनपरत्वमेष्ट- व्यम् । द्वितीयसामान्यनिषेधे च 'अग्रे आसी' दिति पदद्वयप्रतिपन्न कालविशेष-क्रिया-तदाश्रयत्वानामनुपपत्तिः। इदं प्राङ्नासीदिति व- दता च त्वया श्रयमाणेदम्पदस्य कुत्रान्वय इष्यते । न तावनासीदि- त्यध्याहारण वाक्यात्पृथक्कारो युक्तः । नाप्येवकारो नबर्थः । नापि प्रकृतवाक्येऽन्वयः, असत्यप्रपञ्चे सदभेदायोगात् । नचाग्र आसीदिति पदघटितप्रकृतवाक्ये बाधार्थसामानाधिकरण्यसंभवः । तदत्र निर्विशे- पप्रतीतेस्सर्वात्मनाऽसम्भवेन ' नेति नेती'त्यादिश्रुत्याघ्राणस्याप्यसिद्धया तादृशश्रुतिसिद्धार्थकथनं सिद्धवत्कृत्य यत् प्रयोजनवर्णनं तन्निरस्तं वेदितव्यम् । इत्थञ्च उपक्रमोऽयं सविशेषपर एवेति सिद्धम् । आदे- शशब्दविषये कर्मप्रत्ययपक्षे ब्रह्मण उपदेशजन्यज्ञानविषयत्वाभ्युपगमेन तन्मते घटादिवज्जडत्वापत्तिरधिकं फलम् ।

वेदान्तभागः । छान्दोग्याधिकारः. १२. . यदप्युक्तं, 'मध्येपि अनेन जीवनात्मनेति जीवब्रह्माभेदः प्रतीयत' इति । तदपि न ; तत्र जीवपदस्य जीवशरीरकपरत्वात्। 'तदनुमविश्य' सच्च त्यच्चाभवदि ' त्यादिवचनान्तरैकार्थ्यात् । 'य आत्मनि तिष्ठन्यस्या- त्मा शरीर' मित्यादिना जीवब्रह्मणोरत्यन्तभेदप्रतीत्या तयोरैक्यायोगात् । शरीरवाचकस्य शरीरिपर्यन्तताया लोकवेदसिद्धत्वाच्च । ततश्न सिं- हेन भूत्वा बहवो मयात्ताः' इत्यादिवदयं निर्देश इत्येव प्रतिपत्तव्यम् । जीवपदस्य विशिष्टपरत्वास्वीकारे आत्मपदस्य स्वपरत्वे प्रमाणाभा- वात्करणे तृतीयौचित्याच्चानेन जीवेनात्मनेति निर्देशविशेषः स्वातिरि- क्तजीवात्मसद्भावमेव स्थापयेत् । अन्यथा वैयर्थ्यात् । अतो मध्यभागोपि सविशेषपर एवेति ! एवमुपसंहारेपि निर्विशे- षत्वमेवोपलभ्यते ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इती' ति यदुक्तम् तदपि त्याज्यम् । इदं सर्वमेतदा- त्मकमिति इदन्त्व-चेतनाचेतनात्मकप्रपञ्चरूपत्व ब्रह्मत्वादि विविधवि- शेषपतीतेः । एष आत्मा यस्येति बहुव्रीहिः। ततो भावप्रत्ययः । स च प्रकृत्यर्थ- प्रकारबोधकः । स च प्रकृते आत्मैव । ततश्च ऐतदाम्यमिदं सर्व' मित्यस्य इदं सर्वमेष आत्मेत्यर्थः फलति । इदं सर्वं यदयमात्मे ' तिवत् इदं सर्वमेष आत्मेत्येव लाघवाद्वक्तव्ये बहुव्रीहिभावप्रत्ययादरणमन्यत्र समानाधिकरणनिर्देशे आत्मात्मीयभावनिबन्धनत्वशङ्कानिरासार्थम् । तच्च सामानाधिकरण्यं मृद्धट इति वन्न परिणामाभिप्रायं, किन्तु रजतं शुक्तिरितिवदारोपितबाधाभिप्रायमिति ज्ञापना. य : तत्सत्य ' मिति वाक्यम् । आत्मैव सत्य इति तदर्थः । अनात्मा अनृत इति फलितम् । ततश्च जगद्ब्रह्मणोस्सामानाधिकरण्यं जगद्राधार्थमिति प्रकरणा- भिप्राय ' इति यदुपसंहारस्य निर्विशेषपरत्वसम्पादनं - तदपि हेयम् । इदं सर्वमेष आत्मा इत्यस्य 'ऐतदात्म्यमिदं सर्व' मित्यस्मात्सर्वात्मना लाभासम्भवात् । न हि लोके एषा रज्जुस्सर्पः, एषा शुक्तीरजतमित्या. द्यर्थबोधनाभिप्रायेण 'एतद्रज्जुकत्वं सर्पः, एतच्छुक्तिकत्वं रजत ' मित्यादि. प्रयोग उपलभ्यते उपपद्यते वा । ' भनेकमन्यपदार्थे' इति हि स्मृतिः । " ५२ भेद साम्रा ज्य म्। एष आत्मा अस्येति हि भवतापि विगृहीतम् ; नत्वेष आत्मा अय- मिति । विग्रहदशायां प्रतीतो जगब्रह्मभेदस्समासदशायां क गतः । भावप्रत्ययश्च न तदपहरणशक्तः । अपित्वन्यपदार्थतया विवक्षिते जगति आत्मसंबन्धसम्पादनसमर्थः । ' कृत्तद्धितसमासेभ्यस्सम्बन्धा- भिधानं भावप्रत्ययेने 'ति हि शब्दशास्त्रविदः । इत्थञ्च सामानाधि करण्यं दुर्वचमेव । ऐतदात्म्यमस्य सर्वस्येति हि तदा भाव्यम् । न हि पीताम्बरत्वं हरिरित्यादि दृष्टम् । ऐतदात्म्यमस्य सर्वस्येति निर्देष्टुमपि न भवन्मते शक्यम् ; अन्यपदार्थस्याविद्यमानत्वात् । विद्यमानत्वेपि भेदे सामानाधिकरण्यायोगात् , अभेदे प्रथमार्थे बहुव्रीह्ययोगात् । अ- त्रात्मशब्दस्य स्थाण्वात्मकश्चोर इतिवन वन्मते स्वरूपपरत्वपमप्यसंभ- वि, तदापि भावार्थकपत्ययायोगात ; वक्ष्यमाणदोषाच्च । ' सामानाधि- करण्यं तच्चान्यतरबाधगर्भ ' मित्येतदसङ्गतं वचः । चोरस्स्थाणुरित्यत्र चोरपदं चोरत्वपकारकभ्रमविशेष्ये लाक्षणिकम् । सामानाधिकरण्यञ्च निर्बाधम् । भ्रमविशेष्यत्वस्थाणुत्वयोरेकनाक्षतेः । इदं सर्वमात्मेत्यादावी- दृशरीत्याश्रयणन्तु न शक्यशङ्कम् ; लक्षणापत्तः, चोरस्येव प्रपश्च- स्य निषेधकानन्यथासिद्धप्रमाणलेशानुपलम्भाच्च । इदञ्च द्वाविंश अ- धिकारे स्पष्टीभविष्यति । एतेन 'तत्सत्य' मिति वाक्यप्रयोजनवर्णन- मपि तदभिमतमसंभवि । तस्मादुपक्रमानुरोधाच्चोपसहारोपि सविशेष- पर एव । एवञ्चोपक्रममध्यभागोपसंहाराणां कस्यचिन्निर्विशेषपरत्व वर्णनमाशामात्रवेति स्थितम् ।। कारणेनानन्यत्वात्कार्यस्य कारणज्ञानेन ज्ञातते' ति यदुक्तं - तत् मि. ध्यार्थस्य सत्यार्थानन्यत्वासम्भवादिना पूर्वमेव निरस्लम् । यदपि 'वाचा- रम्भण 'मित्यादेरर्थवर्णनं, तदप्यसङ्गतम् । घटपटादिविकारजाते वा- गालम्बनत्वमात्रोक्त्या तस्य मिथ्यात्वसम्पादनस्याशक्यत्वात् । प्रत्युत वाच्यसत्त्व एव शब्दस्य वाचकत्वसम्भवेन वाग्विषयत्वेन विकारजा- तस्य सत्यत्वस्यैव सिद्धिमसङ्गात् । रज्जुसर्पस्थले, अत्र स4 इति . ।

.. वेदान्तभागः । छान्दोग्याधिकारः. १२. नाममात्रं न वस्तुतस्सर्पोऽस्तीत्येतत्तूपपन्नतरम् । वल्मीकादौ सत्यार्थ- कस्यैव सर्पशब्दस्य रज्ज्वादौ प्रयोग एव वाङ्मात्रमित्युच्यत इति । तदत्र घटपटादिनामधेयस्य कचिदन्यत्र सत्यार्थकस्य तदभाव- स्थले प्रयोगो यदि स्यात् , तदा घटपटादिवाङ्मात्रं, नार्थोऽस्तीति वक्तुं शक्येत । प्रकृते तु न तथा; कचिदपि घटपटादिनाम्नां सत्यार्थक- कत्वानभ्युपगमादिति । एतावता भवन्मते घटपटादिनामधेयानां कु. त्रापि सत्यार्थकत्वाभावेन नाममात्रपरिशेषणमसङ्गतामत्युक्तं भवति । अपिचोपादानोपादेययोरैक्योपलम्भेनोपादानसत्यत्वे उपादेयमिथ्या- त्वं श्रुतिरपि न प्रतिपादयितुं शक्नोति । उपलभ्यते हि लोकवेदयोरु- पादानोपादेयाभेदोऽबाधितः, 'मृदयं घटः' ' सदेवेद'मिति । किश्चैवं ना- मधेयमित्यस्य, नाममात्रमित्यर्थकत्वे वाचारम्भण' मित्यस्मादनतिरि- तार्थकतया पुनरुक्तिरपि दुर्वाग । अपिच मृनिकासत्यत्वमात्रविव- क्षायां ' इति ' शब्दवैयर्थ्यम् । ' मृत्तिकैव सत्य ' मित्येतावत एव पर्या- सत्वात् । किञ्च तत्त्वज्ञानात्पूर्व लोकव्यवहारेणावाधितेन शुक्तिरजता- दिव्यतिरिक्त सर्व कार्यकारणजातं सत्यतया मन्यमानं शिष्यं प्रत्युप- देशावसरे, घटशरावादीनां मिथ्यात्वं मृत्तिकामात्रस्य सत्यत्वञ्च शि- यस्यापि सम्प्रतिपन्नमिति कृत्वा वाचारम्भणमित्याद्युपन्यासोऽसङ्गत एव स्यात् । अपिच ‘वाचारम्भण' मित्यादिकं लोकसिद्धमेवानुवदति, नापूर्व किञ्चिद्ज्ञापयतीति दृष्टान्तभूतमृत्तद्विकारविषयत्वात्सिद्धम् । अपिच श्रुत्युक्तं मृत्तिकासत्यत्वम् एवकारफलितं विकारमिथ्यात्वञ्च कीदृशम् ? किं प्रातिभासिकसत्त्वं मृत्तिकायाः, उत व्यावहारिकसत्त्वं, अथ पारमार्थिकसत्वम् ? एवं विकारमिथ्यात्वमपि किं ब्रह्मज्ञानबाध्य- त्वरूपम् , उत तदतिरिक्ततत्तदधिष्ठानज्ञानबाध्यत्वरूपम्? तत्र शुक्तिका- ज्ञानेन रजतबाधवद्यत्किञ्चिदधिष्ठानज्ञानेन मृत्तिकाप्रतीतिकाल एव कुत्रापि तदाधादर्शनात्प्रातिभासिकत्वं न वक्तुं शक्यम् । व्यावहारिक- सच्चन्तु विकारस्याप्यक्षतमिति 'मृत्तिकैवे ' त्येवकारासाङ्गत्यम् । तृती. . . - 14 भेद साम्रा ज्य म् । . यन्तु अद्वैतहानिभिया न युष्माभिरप्यङ्गीक्रियते । विकारजातस्य मि. थ्यात्वमपि तत्तदधिष्ठानज्ञानबाध्यत्वरूपं न वक्तुं युक्तम् । तत्पतीतौ सत्यांबाधादर्शनादेव । तत्तद्विकारजातं प्रति ब्रह्मव्यतिरिक्तस्य कार- णस्याधिष्ठानन्वाभ्युपगमे तुल्यन्यायात्कारणविषयेपि तथैवाभ्युपगन्त. व्यतया 'प्रपञ्चस्य माया परिणाम्युपादानं, ब्रह्म विवर्तापादान ' मिति सिद्धा. न्तभङ्गप्रसङ्गः। मिथ्याभूतस्य मिथ्याभूतमुपादानमिति अविद्याकल्प नाऽयोगश्च, मृत्तिकावत् तस्यास्सत्यत्वावश्यकत्वात् । ब्रह्मज्ञानेन जग- निवृत्त्यनुपपत्तिश्च । ब्रह्मज्ञानवाध्यत्वरूपन्तु कारणभूतमृत्तिकाया अ- प्यविशिष्टत्वाद्विकारमात्रमिथ्यात्वकथनानुपपत्तेर्न वक्तुं युक्तम् । अतस्स- त्मिना तत्तत्कारणं सत्यं, तत्तत्कार्यन्तु मिथ्येत्यर्थपरत्वं ' वाचारम्भण' मित्यादेर्न सम्भवतीति तस्य पूर्वोक्त एवार्थ आश्रयणीय इति सिद्धम् । अपिचात्रैव (१२ ख.) • न्याम्रोधफलमद आहरोति । इदं भगव इति । भिन्धीति : भिन्नं भगव इति । किमत्र पश्यसीति । अव्य इवेमा धाना भगव इति । आसामङ्गै कां भिन्धीति । न किश्चन भगव इति । तं होवाच यं वै. सोम्यैतमाणिमान न निभालयसे एतस्य वै किल सोम्यैषोऽणिम्न एवं महान् न्य- ग्रोधस्तिष्ठति, श्रद्धास्व सोम्येति । स य एषोऽणिमैतदात्म्यमिदं सर्व' मित्या- दि श्रूयते । अणिम्नस्सच्छब्दितस्य रूपस्पर्शादिविहीनस्य विविध- स्थावरजङ्गमपरिपूर्णानेकब्रह्माण्डकारणत्वं कथं सम्भवेदिति शङ्कमा- नाय प्राह -- 'न्यग्रोधफल ' मित्यादि । इदमुक्तिप्रत्युक्तिरूपम् । भगव इति पदघटितं सर्व शिष्यस्य प्रतिवचनम् । धाना बीजम् । अणिमानं धानान्तर्गतसूक्ष्मांशम् । शिष्टं स्पष्टम् । अनेन हि सन्दर्भेण सूक्ष्मस्यैव सतः परिणामभूतमिदं स्थूलं जगदिति, धानान्तर्गतसूक्ष्मांशवत् कारणभूतचिदचिदन्तर्गतं सुसूक्ष्म सद्ब्रह्मेति, वटधानावटवृक्षयोरिव सज्जगतोरुभयोरप्येकद्रव्यत्वं, तत एव कारणवत्कार्यसत्यत्वञ्च वेधो- मुखैरपि दुनिरोधं सिद्धयन्त्येव । एवमप्यनुपलभ्यमानस्य कथमुपलभ्यमानजगदन्तरात्मत्वमिति वेदान्तभागः । छान्दोग्याधिकारः. १२. शङ्काकळङ्कितचित्तं प्रत्याह - ' लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति ' इति । अत्र उदके विलीनं लवणं न चक्षुषा गृह्यते, नापि त्व चा, तथापि न लवणस्य तदानीमसत्त्वम् , आचमने रसविशेषोपलम्भे- न तदाश्रयद्रव्यापलापायोगात् । एवमेव जगदन्तर्यामितया वर्तमान- मपि ब्रह्म न प्रत्यक्षादिप्रमाणेनोपलभ्यते, तदयोग्यत्वात् । शास्त्रच- क्षुषा तूपलभ्यत एवेति दर्शितम् । अत्र च ब्रह्मणस्स्थूलजगन्मिश्रितत्वेन स्थितिरुक्तेति ब्रह्मण इव जगतोपि तन्मिश्रिततया स्थितस्य सत्यत्वं सुदृढमवसीयते । नपत्रो. दकस्थानापन्नस्य जगतो लवणस्थानापन्ने ब्रह्मण्यध्यस्तत्वमाघ्रातुमपि शक्यम् । अध्यस्ताधिष्ठानयोः परस्परमिश्रणव्यवहाराभावेन लवणो- दकदृष्टान्तोपरोधप्रसङ्गात् । 'अय:पिण्डे यथा वह्निभिन्नस्तिष्ठत्यभिन्नवत् । तथा विश्वमिदं देवोह्यावृत्य परितिष्ठती ' त्यादि प्रमाणान्तरपत्र हृदि कर्तव्यं परैः । अनन्तरच सर्वव्यापिब्रह्मावगत्युपायं सदृष्टान्तमाका यथा सोम्य पुरुष ' मित्यादि । अत्र पिहितनेत्रस्य देशविशेषाद्देशान्तरं केनचिढलानीतस्य पुरुषस्य दिङ्मोहादिक्षित तस्याऽऽप्तोपदेशादिना सञ्जातसमीचीनज्ञानस्य स्वदेशमाप्तियथा, तथा यथावस्थितब्रह्मज्ञानाभावेन शोचतः कर्मपरवशस्य पुरुषस्य आचार्योपदेशेन सञ्जातब्रह्मज्ञानस्य देहवियोगानन्तरं वस्थितब्रह्मप्राप्तिर्भवतीति स्फुटमुक्तम् । अत्र दृष्टान्तविशेषबलादितः पूर्वमप्राप्तस्यैव ब्रह्मणो ज्ञानविशेषेण देशविशेषावच्छेदेन प्राप्तिरिति सि- या परपातिकूल्यमस्य प्रकरणस्य दुर्वारम् । नात्र कण्ठस्थितकनकन- येन नित्यप्राप्तस्य प्राप्तिरप्राप्तत्वभ्रमनिवृत्तिरूपा श्रुतेति । अत्र 'तस्य तावदेव चिर' मित्याद्युक्त्या जीवन्मुक्तिर्गळहस्तितेत्येतत्पूर्वमेवोक्तम् । अत्र परैरपि न किञ्चिदन्यथा व्याख्यातम् । यत्वत्र ‘सद्यत्तत्त्वमसी- त्यविद्यामोहपटामिनहनान्मोक्षितो गान्धारपुरुषवञ्च स्वं सदात्मानमुपसम्पद्य सुखी निर्वृतस्स्या' दिति विकृतम् , तत् प्रकरणविरोधप्रमाणान्तरविरोधादेरेता- क्षते पाह -- यथा- भेद साम्राज्य म् । . वता दर्शितत्वाद्दत्तोत्तरं वेदितव्यम् । तस्मात्सद्विद्याप्रकरणमिदं सर्वात्म- ना परमतप्रतिकुलमेवेति सिद्धम् ॥ १२ ॥ एवं सुबालोपनिषदपि परेषां प्रतिकूलैव । तथाहि-तत्र (१.ख) तदाहुः किं तदासीत् त मै सहोवाच नसन्नासन्नसदसदिति तस्मात्तमस्संजायते, तममो भूतादिभूतोदराकाशमाकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भयः पृथिवी । तदण्ड समभव ' दित्यादिना परमात्मनस्सकाशात्तमःपदवाच्यप्रधानादिक्रमेण सर्वजगदुत्पत्तिः प्रतिपाद्यते । द्वितीयखण्डे च ' ललाटाक्रोधजो रुद्रोजायत' इत्येवं प्रथमखण्डानुक्तकतिपयसर्गप्रपञ्चनपूर्वकं पृथिव्यप्सु प्रली. यते....अक्षरं तमसि लीयते, तमः परेदेव एकीभवती' ति लयक्रम उच्यते। 'परस्तात् न सन्नानन्नसदस' दिति ततः श्रूयते । उपक्रमे 'न सदि' त्या- दिनोक्तं वस्तु तमसः परस्तात् परमव्योम्नि दिव्यविग्रहादिविशिष्ट व- तत इत्येतदर्थः । ततश्च खण्डाभ्यां कस्माञ्चित्कार्यजगद्विलक्षणात् क्र- मेण सकलसमष्टिव्यष्टितत्त्वोत्पत्तिः, स्वस्वकारण क्रमेणोत्पत्तिप्रातिलो- म्येन समष्टितत्त्वानां लयः, एवं सृष्टिलयविषयसर्वप्रपश्चात्मकप्रकृति- मण्डलार्श्वभूतेऽप्राकृतदेशविशेषे स्वासाधारणाकारविशिष्टत्वेन तस्यैव कारणवस्तुनोऽवस्थानञ्चोक्तानि भवन्ति । अत्र 'न सदि ' त्यादिना कार्यावस्थचेतनविलक्षणं कार्यावस्था- चेतनविलक्षणमुभयात्मकजगद्विलक्षणं कारणवस्तु निर्दिश्यते । अस्ती- ति सत् । तेन नअर्थस्य नशब्दस्य नगनकादिवत् सुप्सुपेति समा सः। एवं नासदित्यादावपि । नशब्दश्चान्यपरस्सन्विलक्षणानिधा- यी। सच्छब्दश्च स्वरूपविकाररहितमत एव सदा अस्तीति केवलं व्यवहाराई चेतनवर्गमाह; असच्छब्दो नानाविधस्वरूपविकारवदचे- तनम् । अस्य वाक्यस्य सदादिनिषेधमानपरत्वे 'तस्मा 'दित्यनन्तर- वाक्ये कारणवस्तुपरामर्शो न सङ्गच्छेत । किश्चिदपि नास्ति चेत् , तस्मा' दिति किं परामृश्येत । सदसदनिर्वचनीयाज्ञानपरत्वमस्यास्त्विति चेन्न- अत्र नस दादिशन्दैनिर्दिष्टं वस्तु तैरेव शब्दरुपादाय तस्य मुक्त- .

वेदान्तभागः । सौबालाधिकारः.१३. . . पाप्यत्वज्ञानाग्निदाह्यमृत्युपरत्वादेरेकादशपञ्चदशखण्डादौ वक्ष्यमाण- त्वात् । नह्यज्ञान मुक्तपाप्यं ज्ञाननिवान्मृत्योरपि परञ्च भवितु. महति; तस्यैव ज्ञाननिवर्त्यमृत्युरूपत्वादिति । आत्मा वा इदमेक ए- वाग्र आसीत् ', ' ब्रह्म वा', 'एको ह वै नारायण आसी' दित्यादिकारणवा- क्यान्तरेकार्थ्याचास्यापि सर्वज्ञत्वादिजगत्सृष्ट्यौपयिकसमस्तकल्याण- गुणाकरदेवताविशेषपरत्वमास्थयम्। अत्रापि समस्तचिदचिद्वस्तुष्वन्तर्या- मितयाऽवस्थितमत एव सर्वोपादानमुपक्रान्तं वस्तु प्रस्तुत्य (५. ख .) 'एष सर्वज्ञ एष सर्वेश्वर एप सर्वाधिपतिरेपोऽन्तर्याम्येष योनिस्सर्वस्ये 'ति व. क्ष्यते । अयश्च पुरुषसूक्तपतिपाद्यश्श्रीमान्नारयण इति च 'सहस्रशीषी पुरुष ' इत्यादिना प्रथमखण्ड एव व्यक्तम् । त्रिभिः खण्डान्तरैर्जग- कारणत्वशङ्कितदोषव्युदासाय ब्रह्मणो दोषगन्धराहित्यं, जीवस्य नि- र्दोषभोग्यभूतब्रह्मप्रामौ तदुपायभूतोपासनानुष्ठाने न तृष्णाजननाय सं- सरतो जागरायवस्थायोगनिबन्धनविविधदुःखाश्रयत्वं, परमात्मोपा- सनप्रकाराश्च क्रमेण प्रतिपाद्यन्ते । अथ षष्ठे ' इमाः प्रजाः प्रजायन्ते दि- व्यो देव एको नारायणः .... माता पिता भ्राता निवासशरणं सुहृद्गतिर्नारायणः, सर्व नारायणः । पुरुष एवेदं सर्व तद्विष्णो:परमं पदं सदा पश्यन्ति सूरयः इत्येवमनेको विशेषः सप्तमे हृदयगुहान्तर्वर्तिनः 'यस्य पृथिवी शरीरम् ' इत्यारभ्य म एष सर्वभूतान्तरात्माऽपहतपा- मा दिव्यो देव एको नारायण ' इति सर्वान्तर्यामित्वनारायणत्वादि । अ- मे सर्वेश्वरत्वविद्वदृश्यत्वादि, नवमे सर्वास्तमयस्थानत्व प्रवचनाद्य- लभ्यत्व शान्तिदान्त्यादिपूर्वदृश्यत्वादि, दशमे सर्वलोकानां तत्रोत- प्रोतत्वम् , एकादशे मुमुक्षोरुत्क्रान्तस्य परदेवप्राप्तये प्रकृत्यपरपर्याय मृत्युपर्यन्तसर्वभेदनं, द्वादशे शरीरधाणार्थाशननियमः, त्रयोदशे बा- ल्यमौनपाण्डित्यादि, चतुर्दशे पृथिव्यादेस्स्वस्वकारणलयः, पञ्चदशे उत्क्रान्तेन जीवन ज्ञानाग्निना प्रकृतिसंसर्गदाहेन नसन्नासनसदसत्पर- देवविष्णुपुरुषनारायणपदोक्तदेवताविशेषमाप्तिः, षोडशे एतदर्थग्रहणे- .... . - 15 भेद साम्रा ज्य म् । . . ऽधिकारिनियम इत्येतदर्थसंग्रहः । नात्र निर्विशेषं ब्रह्म प्रपश्चाध्यासा- धिष्टानं, तत्त्वमस्यादिवाक्यजन्यस्तत्साक्षात्कार उपायः, नित्यं ब्रह्मण एव सतस्स्वस्याब्रह्मत्वभ्रमनिवृत्तिमुक्तिरिति प्रतिपादितमुपलभ्यते । किञ्च तस्मात्तमस्संजायते, तमसो भूतादि' रित्येवमादिस्तत्रतत्र निर्देशःपरमते सर्वथा न सङ्गच्छते । तमःप्रभृतेस्सर्वस्याप्यनिर्वचनीय तया प्रतीतिसमय एव सत्ताया वाच्यत्वात् । तत्र ब्रह्मैव भ्रा- म्यतीति पक्षेपि ब्रह्मकर्तृकभ्रमस्य कादाचित्कत्वे सर्वदा सर्वज्ञत्वविरो- धः । सार्वदिकत्वे तमआदेरपि तथात्वापत्तिरिति जायत इति न घ. टेत । किञ्च ' तस्मात्तमस्संजायत ' इत्यस्य तमोऽध्यासाधिष्ठानं ब्रह्मेत्य- र्थो न शब्दशक्तया लभ्यते । न च पञ्चम्याः जनिधातोर्वा तादृशार्थ- गमकत्वम् । अध्यासाधिष्ठानत्वबोधकतया लोके कुत्रापि तदप्रयोगात् । मृदो घटो जायत इति हि प्रयोगः; न तु शुक्तेः रजतं जायत इति । अपिच सर्वस्यापि भ्रान्तिसिद्धत्वे उत्पत्तौ क्रमविशेषनिर्बन्धः कुतः किमर्थश्च ? अविद्यारूपदोषवशादक्रमेणापि यथातथा वा भ्रम- संभवात् । निर्विशेषब्रह्मात्मैकत्वज्ञानादेव मुक्तिसिद्धया क्रमविशेषस्या- स्याकिञ्चित्करत्वात् । सर्वस्यापि ब्रह्मण्यध्यस्तत्वप्रतिपादनमात्रेण ब्रह्मनिर्विशेषज्ञानसिद्धेः । एवं लयक्रमोप्यनुपयुक्त एव । एकाभाव- कल्पनानन्तरमेवान्याभावकल्पनेति निर्बन्धस्य निर्निबन्धनत्वात् । अ- स्माकं तु सर्वस्यापि सत्यतया तत्तत्पदार्थविशिष्टरूपेण तत्तत्पदार्थनि- रूपितकारणत्वस्य ब्रह्मण्यनुसन्धाने कारणभूतब्रह्मोपासनं सुकरं भव- तीति सप्रयोजनत्वं न तु युष्मन्मते, कारणत्वस्योपहितनिष्ठतया कार- विज्ञानस्य मोक्षसाधनताया दुर्वचत्वात् । ब्रह्मनिर्विशेषत्वग्रहः खल्व. पेक्षितः । सचाक्रमेण भ्रमेपि सिध्द्यतीति पूर्वमेवोक्तम् । नच वाच्यं मोक्षार्थ तदुपयोगाभावपि अधिकारिविशेषे तत्तत्फलसाधनतत्तदचेतन वस्तुस्वरूपोपासनासिद्धय इतरव्यावृत्त्वज्ञानमपेक्षितमिति क्रमविशेषप्रति पादनसाफल्यमिति । वस्तुसत्यत्वधिया तत्तद्वस्तूपासने परिणाम्युपादा- वेदान्तभागः । श्वेताश्वतराधिकारः. १४. नोपादेय क्रमस्यैवापेक्षिततया सर्वनिषोधोपयोगिविवर्तवादस्य तत्रायुक्त- त्वात् । तमोऽवच्छिन्नब्रह्मण्येव महद्भूम इति क्रमस्याप्यसिद्धेश्च । न हि जलावच्छिन्नब्रह्मण्येव पृथिवीभ्रम इति नियमोऽस्ति । ब्रह्मोपदेशात्या- गवगतविशेषमात्रानुवादे कथश्चिद्ब्रह्मदिर्विशेषत्वपतिपादनतात्पर्यसंभवे. पि तत्त्वोपदेशप्रवृत्तश्रुत्यैवाज्ञातानेकसृष्टिपलयवर्णने तत्तात्पर्यायोगश्च । अधिकारिविशेषफलविशेषयोमिथ्यात्वेन च तदर्थोपासनतदुपयोगिसर्ग लयक्रमकल्पनायोगश्च । नोकवाक्यतया सर्वनिषेधस्थल एवं नाना- भ्रमसंपादनं संभवति । अलमधिकेन । तस्मात्सुवालोपनिपदपि पर- प्रतिकूलेति आसुवालं सुज्ञानमिति सिद्धम् ॥ १३ ॥ श्वेताश्वतरोपनिषत्तु चिदचिदीश्वररूपतत्वत्रयस्य बहुभिः प्रका- रैस्स्वाभाविकपरस्परवलक्षण्यप्रतिपादकं कञ्चन ग्रन्थं चिकीर्षतो भेदवा- दनिष्णातस्य निर्मास्यमानग्रन्थसुकरत्वाय तत्रतत्र विप्रकीर्णचिदचिदी. श्वरप्रभेदप्रतिपादकप्रमाणजातसङ्कलनक्लेशं परिहरन्ती इतरनिरपेक्षं भे. दवादेपूर्णमुपकरोतीति स्फुटं विश्वेषां विदुपाम् । अत एवात्रा द्वैतवादस्य दुष्करतया, मन्ये, परे बहुमुखं प्रयत्य भाष्यविविधदीपिका- विवरणाभिधानानि व्याख्यानान्यकार्पः । तदत्र तत्रतत्र तदुक्तमर्थ निरसितुं किश्चिदुपन्यस्यते ! अस्यामुपनिषदि पुरुषोत्तमादिसंज्ञागमकैः सर्वोत्कृष्टत्वावहैः चेतनाऽचेतनात्मकसमस्तप्रपञ्चकारणत्वतदौपयिकसर्व ज्ञत्वसर्वशक्तित्वाद्यसंख्येयकल्याणगुणगणादिरूपैरसाधारणराकारैःस्व- तरसमस्तचेतनाऽचेतनविलक्षणं नारायणाख्यं श्रीमत्परं ब्रह्मेति निधायते। विश्वाधिको रुद्रो महर्पिः', तस्मात्सर्वगतस्शिवः', ज्ञात्वा शिवं सर्वभूतेषु गूढं ', 'न मनचासच्छिव एव केवलः' इत्यादि- भिरुमापतेः रुद्रस्यैव सर्वकारणत्वसर्वान्तर्यामित्वमुमुक्षूपास्यत्वादेः प्रति पादनात्कथं श्रियःपतेर्नारायणस्येतरवलक्षण्यमुत्कर्षः प्रतिपाद्यत- इति प्रतिज्ञायत इति चेन्न 'एको ह वै नारायण आसीन ब्रह्मा ने- शान ' इत्यादिकारणवाक्यान्तरेण चतुर्मुखरुद्रादिदेवतान्तरनिषेधपूर्व- . . नन्वत्र भेद साम्राज्य म् । . कं नारायणस्यैव सर्वकारणत्वस्य सुस्पष्टं प्रतिपादिततया, तदविरो- धायाऽवत्यशिवरुद्रपदयोः केवलयौगिकत्वमङ्गीकृत्य भगवत्परत्वस्यै- वावश्याश्रयणीयत्वात् । विष्णुनामसहस्रे च भगवन्नामान्तरैस्सहेदं पद- द्वयमपि नामतया पठ्यते 'सर्वश्शर्वश्शिवस्स्थाणुः', 'रुद्रो बहुशिरा बभुः' इति। एतेन 'स्वयंभूइशभ्भुरादित्यः', 'हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ' इत्य- त्रैव पाठात् शम्भुराकाशमध्ये ध्येयः', 'हिरण्यगर्भस्समवर्तताले' इत्यादि वचनान्तरमपि नियूंढम् । चतुर्मुखस्यापि हि 'न ब्रह्मे' ति निषेध- श्रूयते । 'अतश्च संक्षेपमिदं श्रुणुध्वं नारायणस्सर्वमिदं पुराणः । स सर्गकाले च करोति सर्व संहारकाले च तदत्ति भूयः॥', 'विष्णोम्सकाशादुद्भुतं जगत्तत्रैव च स्थितम् । स्थितिसंयमकर्तास जगतोऽस्य जगच्च सः', 'सत्यं सत्यं पुनस्सत्यमुद्धृ. त्य भुजमुच्यते । वेदाच्छात्रं परं नास्ति न देव केशवात्परं', 'आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान् । एकस्तिष्ठति विश्वात्मा स तु नारायणः प्रभु ॥', नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमं । ऋते तमेकं पुरुषं वासुदेवं सनातनम्॥', 'सर्वे. षामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते॥', 'देवतिर्यङ- मनुष्येषु पुन्नामा मगवान्हरिः । स्त्रीनाम्नी लक्ष्मीमैत्रेय नानयोर्विद्यते पर' मित्या- द्युपबृंहणवचनान्यत्रानुसन्धेयानि।सरस्वत्युमापत्योर्लक्ष्मीपतिकार्यत्वस्य 'यो नारायणो देवस्तस्माद्ब्रह्मा ततो भवः', 'तद्विसृष्टस्स पुरुषो लोके ब्रह्मति कीर्त्यते 'क इति ब्रह्मणो नाम ईशोहं सर्वदेहिनाम् । आवां तवाङ्गे सम्भूतौ तस्मा- केशवनामवान् । अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे। त्वञ्चैव क्रोधजस्तात- पूर्वसर्गे सनातने' इत्यादिभिः प्रतिपादनान्न तयोस्सर्वकारणत्वशङ्काव- काशः । यथा चतुर्मुखरुद्रयोः कारणत्वनिषेधः नारायणकार्यत्वोक्ति- इचोपलभ्येते, नैवं नारायणस्य कारणत्वनिषेधः चतुर्मुखरुद्रकार्यत्वो- क्तिश्चोपनिषत्सु, श्रीभारतश्रीविष्णुपुराणादिषु सर्वसम्मतिपन्नेधूप- बृंहणेषु वा । अत्रापि रुद्रपदवाच्यस्य 'गिरिशन्त' इति रुद्रस्रष्टत्वं प्रति- पाद्यते । गिरिशं तनोतीति गिरिशन्त इति हि तद्वशुत्पत्तिः । अतोपि रोदिहरुद्रजनको रुद्रः संसाररुग्द्रावकतया 'आ ब्रह्मस्तम्बपर्यन्ता जगदन्त- - ..

वेदान्तभागः । श्वेताश्वतराधिकारः. १४. . . र्व्यवस्थिताः। प्राणिनः कर्मजनितसंसारवशवर्तिनः ! यतस्ततो न ते ध्याने ध्यानिना. मुपकारकाः, 'कर्मणां परिपाकत्वादाविरिश्चादमङ्गलम् । इति मत्वा विरक्तस्य वासुदेवः परा गतिः।'. संसारार्णवमग्नानां विषयाक्रान्तचेतसाम् | विष्णुपोतं विना नान्य- त्किञ्चिदस्ति परायण' मित्यादिपू द्रुष्यमाणो नारायण एवेति सिद्धम् । अ- पिचात्र 'रुद्रो हिरण्यगर्भ जनयामास', 'यो ब्रह्माणं विदवाति पूर्व ' मिति रुद्र- पदवाच्यस्य हिरण्यगर्भजनकत्वोक्तया स नारायण एवेत्यभ्युपेत्यम् ; परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः', ' महार्णवे शयानोऽऽमु मां त्वं पूर्व मज़ीजन.', 'पद्म दिव्येऽर्कसङ्काशे नाभ्यामुत्पाद्य म्ममपि ' इत्याधुपबृंहणेषु नारायणस्यैव चतुर्मुखजनकत्वप्रतिपादनात् । महान्प्रभुबै पुरुषः सत्त्वस्यैष प्रवर्तक ' इत्यत्रोच्यमानं सत्त्वगुणोन्मेषहेतुत्वमेकमेव रुद्रादिपदवोध्यत्वं नारायणस्य सुदृढमवगमयति; तस्यैव 'जायमानं हि पुरुषं यं पश्येन्मधु- सूदनः । सात्त्विकस्स तु विज्ञयास वै मोक्षार्थचिन्तकः' इति मोक्षोपयिकज्ञा- नविशेषहेतुभूतसत्त्वगुणोन्मेपहेतुभूत कटाक्षशालित्वरूपसत्वप्रवर्तकतायाः प्रतिपादनात् । ब्रह्मरुद्रयोः ‘पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः । रजमा तममा चास्य मानसं समभिप्लुत ' मित्यनन्तरमेव रजस्तमोगुणोन्मेष- हेतुत्वस्यैवोक्तेश्च । किश्चात्र • महस्रशीर्षः पुरुषः सहस्राक्षस्सहस्रपा' दि त्यादिना पुरुषसूक्तमत्यभिज्ञापनात् ' हीश्च ते लक्ष्मीश्च पल्यौ ' इति ल- क्ष्मीपतित्वेन तत्र प्रतिपादितो नारायण एव एतदुपनिषत्प्रधानप्रति- पाद्य इत्यास्थेयम् । रूढया नारायणवाची अनन्तशब्दोप्यनन्तश्चा- मेति. अत्र श्रुतः । शिवशब्दश्चात्र मङ्गळबाची सन् — माळानाञ्च मङ्गळं' 'न वासुदेवात्परमम्ति मङ्गलम्' इत्यादिषु परममङ्गळास्पदत्वेनाश्रितानां परममङ्गळहेतुत्वेन च प्रसिद्ध नारायणमाचष्टे । नन्विदं सर्व तदा रमणीयं स्यात् , यदि नारायणशब्दो रुद्रपरो न स्यात् । स एव नाराणामयनं, यस्येति वा व्युत्पत्त्या केवलयौगिकस्सन् रुद्रमेवाऽऽचष्टाम् ; रुद्र- शिवशब्दयोरेव योगव्युत्पत्या नारायणपरत्वमित्यत्र गमकाभावा- . - नारा अयनं 16 ६२ भेद साम्रा ज्य म् । दिति चेन्न णत्वस्य महतो बाधकस्य जागरूकत्वात् । पूर्व- पदान्संज्ञायामग: ' इति हि स्मृतिः । न हि रुद्रस्य नारायण इति संज्ञा कचिदुपलभ्यते । तस्मात् णत्वघटितं नारायणपदं विष्णुनारायणः- कृष्ण' इत्यादिकोशबलाद्वासुदेवस्यैव संज्ञेति नान्यशङ्कावकाशः । 'पा. वत्या नारायणीपदवाच्यत्वस्य कोशादिनैव सिध्या नारायणस्य पत्नी नारायणीति तद्वयुत्पत्त्या नारायणत्वं रुद्रस्य सम्भवतीति तस्यैव जगत्कारणत्वादिकं वक्तुं युक्त' मित्येतत्तु--' नारायणीपतित्वेन रुद्रो नार।- यणो यदि । महिषीवल्लभस्वेन राजापि महिषो भवे' दिति पूर्वैरेवोपहसितम् । अयमस्याभिप्रायः – रुद्रस्य नारायणपदवाच्यत्वे प्रमाणलेशानुपलभ्भे, पार्वत्या नारायणीपदवाच्यत्वमवलम्ब्य तत्साधनं नैव संभवति । नारा- यणीशब्दे पार्वतीशब्दादाविव व्युत्पत्यन्तरस्यैव सम्भवादिति । तस्मा व वैपरीत्यशङ्कावकाश इत्यलमतिचर्चया ।। अत्र प्रथमेऽध्याये 'पृथगात्मानं प्रेरितारश्च मत्वा जुष्टस्ततस्तेनामृतत्व. मती 'ति श्रूयते । पूर्व परमात्मनः भ्रामयितृत्वस्य, जीवस्य भ्राम्यमाणत्व- स्य चोक्तया तादृशपरमात्मानं तादृशस्वात्मानश्च पार्थक्येन ज्ञात्वा तद्- ज्ञानमीतेन परमात्मना प्रीतिविषयीकृतस्सन मुक्ति प्राप्नोतीति तदर्थः । ततश्च प्रेयप्रेरकभावलक्षणजीवपरभेदस्य परमार्थत्वमुक्तं भवति । अ- परमार्थविषयकज्ञानस्यामृतत्वहेतुत्वासम्भवात् । अनन्तरमन्त्रः ‘संयु- क्तमेतत्क्षरमक्षरञ्च व्यक्ताव्यक्तं भरते विश्वमीशः । अनीशश्चात्मा बध्द्यते भोक्तभा- वादज्ञात्वा देवं मुच्यते सर्वपाशै 'रिति । व्यक्तं क्षरमित्यचेतनपपञ्च उच्यते; अव्यक्तमक्षरमिति चेतनरूपः तदत्र मिथस्संयुक्तमिदं द्वयमीशो बिभर्ती त्युक्तया चिद चिदीश्वरतत्त्वत्रगं परस्परविलक्षणं प्रतिपादितं भवति । एवं 'ईश इदं बिभर्ति, अनीश आत्मा कर्मफलभोक्तभावाद्वद्यते । तादृशं देवं ज्ञा- त्वा च मुच्यत' इत्युक्तया ईश्वरत्वानीश्वरत्वाभ्यां बद्धत्वनित्यमुक्तत्वा- भ्यां सर्वपाशाश्रयत्वतन्मोचकत्वाभ्याश्च स्वाभाविकजीवपरभेदोपि । अथ 'ज्ञाज्ञौ द्वावजावीशनीशावजाह्येका भोक्तभोगार्थयुक्ता । अनन्तश्चात्मा विश्व- वेदान्तभागः । श्वेताश्वतराधिकारः. १४. ६३ रूपोह्यकर्ता त्रय यदा विन्दते ब्रह्ममेतत् । क्षरं प्रधानममृताक्षरं हरः क्षरात्माना. वीशते देव एकः' इत्यादि । अत्रापि चिदचिदीश्वराणामज्ञत्व-भोग्यत्व- सर्वज्ञत्वादिभिः परस्परभेदः स्फुट एव । विश्वरूपमिति जगछरीरकत्व मुच्यते । अनन्त इति 'नान्त गुणानां गच्छन्ति तेनानन्तोऽयमुच्यत इयुपबृंहणानुसारादसंख्येयकल्याणगुणवत्वञ्च । एतत्त्रयं भोक्तभो. ग्येश्वररूपं यदोक्तरीत्या परस्परविलक्षणतया जानाति, तदा ब्रह्मानु- भववान् भवतीति त्रयमित्यादरर्थः : एकः परमात्मा, क्षरणशीलं प्रकृ. तिरूपं वस्तु, अमृतमक्षरं भोगार्थ भोग्य वस्तुहर्तृ चेतनरूपं वस्तु च सर्वात्मना नियच्छतीति क्षरमित्यादर्थः । अत्र पूर्व चिदचितौ व्युत्पाद्य क्षरात्मानाविति तयोरनुवादात् क्षरं प्रधानमितिवत् अमृ. ताक्षरं हर इति चेतनव्युत्पादनात् हरशब्दो जीवपरः । न केन- मामृताक्षरपदेन व्युत्पादनं शक्यम् । उद्देश्यविधेयभावस्य विभिन्नपदका- यत्वात् । अन्यथा एकपसरताभङ्गात् । हरशब्दो यौगिकः । रूढयादरणे तु रुद्रमुखेन सर्वजीवापलक्षकः । यत्वत्र पृथगित्यादेः परेषां व्याख्यानं- 'केन हेतुन। नानायोनिषु परिवर्तते । तत्राह - पृथगित्यादि । जीवात्मानमीश्वरञ्च भेदेन ज्ञात्वा संसारे परि- वर्तत इत्यर्थः । मुक्तिहेतुमाह - जुष्ट इत्यादिना । ईश्वरेण सेवितश्चित्सदान- न्दाद्वितीयब्रह्मात्मना अहं ब्रह्मास्मीति समाधानं कृत्वेत्यर्थः । तेनेश्वरसेवनादमृतत्व- मति' इति - तदसत् । मत्वेत्यन्तस्य — जुध्रस्ततस्तेनामृतत्वमेती ' त्यनेना- न्वयस्यैव स्वरससिद्धतया निगकाङ्क्षण ' अस्मिन् हमो भ्राम्यते ब्रह्मचक्र' इति पूर्वेणान्वयस्यात्यन्तानुचितत्वात् । संसारी भवतीत्यध्याहारे च त- स्यैव दोषत्वात् । मत्त्वेत्युक्तमननस्यैव जुष्टस्तन इति तच्छब्देन परामर्शा- च । त्वन्मते तद्वैयर्थ्य, तत्परामर्शनीयपूर्वोक्तार्थाभावात् । प्रमाणान्तरवि- रोधाच्च । 'समाने वृक्षे पुरुषो निमग्नः अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति बीतशोक ' इति स्वस्मादन्यत्वे- नेश्वरज्ञानस्यैव मोक्षहेतुत्वोक्तः । अत्रापि ‘भोक्ता भोग्यं प्रेरितारम्ब . - .

६४ भेद सा म्रा ज्य म् । मत्वे '. ति तत्वत्रयभेदज्ञानस्यैव मोक्षसाधनत्वं श्रूयते । अत्र भोक्तृत्वाद्याकारपुरस्कारेण तत्त्वत्रयोपादानात् मत्वेति मननं भेद- विषयपिति सुव्यक्तम् । त्रिविधमित्युक्तेश्च । नह्यत्र पूर्वत्र परत्र वा संसारकथनाभावादीदृशकुमृतिकल्पनावकाशः । प्रत्युत ब्रह्ममिति मुक्तेरेव फलतया कथनाच्च । सर्वञ्जगत् भोक्तृभोग्यप्रेरितृरूपं परस्पर विलक्षणं ज्ञात्वा ब्रह्म भवतीति तदर्थः । किञ्चात्र आमूलाग्रं पुनःपुन- बहुभिः प्रकारैश्चिदचिदीश्वरतत्त्वत्रयभेदस्यैवाऽऽदरेणाभ्यसनाद्भेदस्य पारमार्थिकत्व एव श्रुत्यभिमतिरिति तादृशभेदज्ञानस्य संसारहेतुत्व. वर्णनं साहसमेव। ' तेन जुष्ट' इत्युक्ते 'चित्सदानन्दाद्वितीयब्रह्मा मनाऽहं ब्रह्मा- स्मीति समाधानं कृत्वा' इत्यर्थः केनोपायन सम्पादित इति न विद्मः । किञ्च तेनेति तत्पदमीश्वरपरं ब्रह्मपरं वा; आये चित्सदानन्देत्यादि- विवरणानुपपत्तिः । द्वितीये तेनेश्वरेणेति विवरणानुपपतिः । · ईश्वर- सेवनादमृतत्वमेती ' त्यप्यसाधु । निर्गुणब्रह्मज्ञानाद्धि मुक्तिस्तन्मते । से- वित इति जुष्टपदविवरणमप्यसङ्गतम् । नहीश्वरोऽधिकारिणं सेवते; तथा सेवयाऽधिकारिणो मुक्तिो। 'न च वाच्यं तेने ' ति तत्पदं निर्वि- शेषब्रह्मपरम् । तृतीया चाभेदे । तदमिन्नश्च सेवाविषयीभूतस्सेवक एव । मेवा च अहं ब्रह्मास्मीत्येवं समाधिरूपा । ततश्च चित्सदानम्देत्याद्युक्तार्थलाभ' इति ; अस्याशब्दार्थत्वात् ; निर्विशेषब्रह्मणो प्रामाणिकत्वात् ; सगुणेश्वर- स्यैवात्र प्रकृतत्वात् ; अहं ब्रह्मास्मीत्यनुसन्धानस्य भेदप्रतिपादकबहु- प्रमाणानुरोधेन भेदगर्भत्वस्यैवावश्यकत्वात् , ' ईश्वरभेवनान्मुक्ति' रिति स्वोक्तिविरोधाच्च । 'तेनाधिकारिणा सेवित ईश्वर इति पृथग्वाक्यम् । अमृ. तत्वमेतीत्यत्र सेवक इति कर्मध्याहार' इत्यप्यसङ्गतम् । वाक्यभेदायोगान् । तेनेश्वरेणेति विवरणविरोधान , ईश्वरसेवनस्य तन्मते मुक्तिहेतुत्वा- सम्भवाच्च । ततो जीवेश्वरभेदात् जुषधातोस्सेवनवत्प्रीतावपि स्मरणा- त्परमात्मप्रीतिविषयस्सन्मुक्तिमेतीत्येवार्थ इनि पूर्वार्धेन जीवस्य संसारे । .

वेदान्तभागः। श्वेताश्वतराधिकारः. १४. . . भ्रमणमुत्तरार्थेन जविपरभदेशानेन तन्नित्तिश्च प्रतिपाद्यत इत्ययमेव स्वरसः पन्थाः । यत्वत्र भेददर्शनस्य संसारहेतुत्वे 'य एवं वेदाहं ब्रह्मास्मीति से इदं सर्व भवतीति । तस्य ह न देवाश्च नाभूत्या ईशते, आत्माह्येषां स भवति, अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति, न स वेद । यथा पशुरेवं स देवाना मिति बृहदारण्यकवाक्यं प्रमाणतयोपन्यस्तं. तन्न, पारमार्थिकभेदप्रतिपादक- प्रमाणसहस्रानुगुण्यात् ऐक्यस्वरूपविवेचकशास्त्रानुरोधाचोक्तवाक्यस्या प्रामाणिकभेदविशेषैक्यविशेषज्ञानयोरेव संसारमोक्षहेतुत्वप्रतिपादनपर- ताया आश्रयणीयत्वात् । तत्र भेदप्रतिपादकममाणजातं नेदानी विशिष्य प्रदर्शनीयं, सर्ववेदान्तानामपि प्रायशस्तादृशवाक्यप्रचुरत्वात्। यत्रयत्र जीवब्रह्मणोर्मुक्तावैक्यं श्रुतं, तत्र सर्वत्र स्वरूपैक्यं न तदर्थः, अपितु वास्तवभेदाविरोध्यैक्यविशेष एवेत्येतदपि श्रुत्यैव सिद्धम् । 'तस्मिन्नेव यजमानास्सैन्धवधन इव लीयन्ति, एषा वै ब्रह्मेकता नाम, अत्र हि सर्वे कामास्समाहिताः' इति हि — ब्रह्म वेद ब्रह्मैव भवती' त्यादिवाक्यप्रति- पादितमुक्तिकालिकैक्यविषया श्रुतिः । उपासनाङ्गभूतं यज्ञादिकं कुर्वा- पा उदके प्रक्षिप्तलवणखण्ड इव परमात्मनि लीयन्ते । इदमेव — ब्रह्मैव मवती' त्यादिषूक्तमैक्यमिति तदर्थः । अत्रोदकलवणदृष्टान्तस्वारस्या- जीवपरयोर्मुक्तिकालेऽपि स्वाभाविकभेदोस्तीति प्रतिपादितं भवति । एतच्छतिवाक्यतात्पर्य परपक्षनिराकृतौ (पु०. ६१ - ६२ ) द्रष्टव्यम् । तथाच तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मी ' त्यादेरयमर्थः । एत- स्मिन्नपि काले, तदिदं ब्रह्माहमस्मि, सर्वात्मकब्रह्मात्मकोहमस्मीत्येवं योयो वेद, स सर्वोपीदं सर्व भवति, एतत्सर्वात्मकब्रह्मपर्यन्ताविभाव- वान् भवतीति । अयमेवचार्थ आश्रयणीयः । प्रकरणेस्मिन 'ब्रह्म वा इदमग्र आसीत् । तदात्मानमेवावैदहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत । तद्योयो देवानां प्रत्यबुध्धत स एव तदभवत । तथर्षीणां, तथा मनुष्याणां, तद्वैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेती' ति । अत्रोपास्यान्तरशून्यमत- 17 भेद साम्रा ज्य म् । . १ एव परमोपास्यं ब्रह्म सर्वमभवदिति प्रतिपाद्य 'तद्योय' इत्यादिना एव मुपास्यान्तरशून्यं ब्रह्म जानतस्सवैकात्म्यसाक्षात्काररूपं फलमुच्यते । अवैदहं ब्रह्माम्मीत्यत्र ब्रह्मपदं परमात्ममात्रपरम् । 'वेदाहं ब्रह्मास्मी' त्यत्र ब्रह्मपदं तु ब्रह्मात्मकपरम् । शरीरवाचकशब्दस्य शरीरिपर्यन्तत्व- वच्छरीरिवाचकशब्दस्य तद्वाच्यं प्रति शरीरभूतवस्तुपरत्वस्यापि मु. ख्यत्वं तत्रतत्र सयुक्तिकं स्थापितं पूर्वाचार्यैः । अस्तु वा अरूप्याय सर्वत्र ब्रह्मपदं परमात्मपरमेव । अहंशब्द एवत्वन्तर्यामिपर्यन्ते मुख्य- तम इति स्थितं भाष्यादिषु । अत्र ' अहं ब्रह्मामी ' त्युक्तोपासनस्य जी- वपरैक्यविषयत्वं ' इदं सर्व भवती ' त्युक्तफलस्य सर्वतादात्म्यरूपत्वच हि परेणाश्रयणीयम् । तच्चानुपपन्नम् । 'योयः प्रत्यबुध्द्यत, स तदभव दिति सर्वभावस्य ज्ञानफलत्वावगमात् ,सर्वतादात्म्यस्य पूर्वमेव विद्यमा- नस्य फलत्वायोगात् । तत्साक्षात्कारस्य फलत्वमपि न संभवति, त- वज्ञानकाले ब्रह्मव्यतिरिक्तस्य तत्वतोऽभावात्तत्तादात्म्यसाक्षात्कारस्य दुर्वचत्वात् । एवं वामदेवविषयेप्यनुसन्धेयम् । किञ्चात्र यथा ब्रह्म स- वमभवत् तथा देवादिरिति दृष्टान्तदान्तिकभावकथनात् ब्रह्मजीव योर्भेदस्सिद्धः । 'योयो देवानां, तथर्षीणां, तथामनुष्याणा'मिति प्रत्ये- कमुक्तिकथनादेकजीववादोपि निरस्तः । एवं ब्रह्मणः अहं ब्रह्मास्मी- ति ज्ञानवत्त्वे सगुणत्वापनिः । तदभावे सर्वभावस्यापि तथैवाभावा- दृष्टान्तासिद्धिः । ब्रह्म सर्वमभवदित्यस्य सर्व निवृत्तमित्यर्थे तु जी. वानामपि निवृत्ततया केनोपासनं कर्तव्यमुपयुच्यते । अतोऽत्र भवन्मते वाक्यार्थो दुर्निरूपः । 'आत्मानमेवावै 'दित्येतद्ब्रह्मणो वेद्यान्तरनिषेधपरं, न तु स्वस्य वेद्यत्वविधिपरम् ; अवाप्तसमस्तकामस्य ब्रह्मणो यत्किञ्चि- त्फलार्थमुपासनस्यैवासम्भवात् । ब्रह्मणस्सर्वभावस्य स्वाभाविकसर्वा- नामित्वानुभवरूपस्य यत्किञ्चिदुपासनफलत्वायोगाच्च । ततश्च ब्रह्म किं वस्तूपास्य सर्वमभवदिति प्रश्ने 'ब्रह्मण उपाय॑ न किञ्चिद्वस्त्वन्तरमस्ति । तत्सर्वभावश्च नोपासनफलम् ; अपितु स्वाभाविक एवे' त्यभिप्रायेण 'तदा- - वेदान्तभागः । श्वेताश्वतराधिकारः, १४. . मानमेवावेत् , तस्मात्तत्सर्वमभव' दित्युत्तरमुच्यते । भवद्भिरपि ब्रह्मोपा स्पकिश्चिद्वस्तुनिषेध एव वाक्यतात्पर्यमेष्टव्यम् । एवं ब्रह्मान्तर्यामिक स्वात्मविदामृषीणां मनुष्याणाञ्च सामान्यतः सर्वात्मकत्वं फलमुक्ता व्यक्तिविशेषे तदाह - 'तद्वैत 'दित्यादिना। तदतद्ब्रह्म उपासीनो वा- मदेवो ‘मदात्मैव मन्वादीनामात्मे ' ति प्रतिपेदे, मन्वादिना सर्वेण स्वस्यै- कात्म्य साक्षात्कृतवानिति तदर्थः । अत्र · अहं मनुः सूर्यः । इति पद- त्रयं तत्तच्छरीरकपरमात्मपरं वेदितव्यम् । ब्रह्मात्मकम्वात्मविदां निरु क्तसाक्षात्कारादिकमुक्ता अनीदृशामनर्थमाह । अध योऽन्या' मित्यादिना । यः पुमान् धारकत्वनियन्तृत्वादिना धर्मेणाऽऽत्मतया स्वस्मादत्यन्तवि- लक्षणां परमात्मरूपां देवतां ' असौ अन्यः धारकत्वनियन्तृत्वादिनाऽऽत्म. भूतादन्यः । अहञ्च धार्यत्वनियाम्यत्वादिना तच्छरीरभूतादन्य' इत्येवमुपास्ते, सोऽज्ञो देवकिकरो भवतीति तदर्थः । 'असावन्यः अहमन्यः' इत्येवंरूपेण यो देवतामुपास्ते इत्येतावन्मात्रेणापि देवतोपासनस्यान्यत्वप्रकारक- त्वसिध्या 'अन्या' मिति देवताया अन्यत्यविशेषणं वस्तुतो विद्यमा- नान्यत्वानुवादरूपमेवेत्यास्थेयम् । तस्य विधेयविशेषणत्वे वैयर्थ स्फुटमेव । — अन्यां देवता' मिति वननशैल्याप्यनुवादरूपत्वमेवास्य प्र- तीयते । अथ यो देवतामन्यामिति हि तदा भाव्यम् । ततश्च भृत्यादिः केवलस्वामिभूतं राजादिकं कस्मैचित्फलाय 'सोऽयं कोपि, अहमपि स्व. तन्त्रः कश्चने'त्यनुसन्दधानो यथोपास्ते, तथोपासने न मुक्तिस्सिध्येत् , तादृशोपासनस्यायथार्थविषयकत्वादिति निर्गळितार्थः । इत्थश्चानेन प्रकरणेन स्वस्य ब्रह्मापृथक्सिद्धप्रकारत्वरूपब्रह्मैक्यविशेषविषयकज्ञान- स्य तत्साक्षात्काररूपमुक्तिः फलम् । स्वस्य ब्रह्मणश्चापृथक्सिद्धप्रका- रप्रकारि शरीरात्मभावानादरेण, केवलानीन्द्रादिदेवतान्तरोपासनवत्क्रि. यमाणस्य केवलभेदगर्भस्य अत एव भेदविशेषविषयकस्य परमात्म- ज्ञानस्य संसारहेतुत्वञ्चोच्यते । न तु जीवपरैक्योपासनादीति सिद्धम् यचात्र 'पश्यत्यात्मानमन्यं तु याव परमात्मनः । तावत्संभ्राम्यते ज. ।

६८ भेद साम्राज्य म् । . तुर्मोहितो निजकर्मणा । संक्षीणाशेषकर्मा तु परं ब्रह्म प्रपश्यति' इति भेदा- भेदज्ञानयोस्संसारमोक्षहेतुत्वे श्रीविष्णुधर्मवचनमुपन्यस्तं, तदपि न स्वाभिमतसाधकं, 'निर्दोषं हि समं ब्रह्मे' त्यादि प्रमाणेन परिशुद्धजीव- स्वरूपस्य अपहतपामत्वादिभिः परमात्मनात्यन्तसाम्यस्य प्रतिपादि- तत्वेन परमात्मविसदृशत्वेनात्मज्ञानस्य बन्धहेतुत्वम् उक्तैःपरमात्मा- त्यन्तसदृशत्वेनात्मज्ञानस्य मोक्षहेतुत्वञ्च ह्यत्रोच्यत इति । जीवपराभे- दस्य 'परमात्मात्मनोर्योगः परमार्थ इतीध्यते । मिथ्यैतत् , अन्यद्रव्यं हि नैति तव्यतां यत' इत्यादिशास्त्रनिषिद्धत्वात् । यत्त्वत्र, तव्यतां नैतीति यत् , तन्मिथ्येति योजनं, तन्न, 'यत ' इति पञ्चम्यनन्वयात् । यदि ति हि तदा भाव्यम् । इष्यत इत्यनेन पूर्वार्दोक्तस्य परमतत्वसूचनेन तस्यैव निषेध्यत्वेनाभ्युपगन्तव्यत्वाच्च । एतच्छब्दस्य वक्ष्यमाणपर. वापेक्षया, उक्तपरत्वस्यैव स्वरसत्वाच्च । अत्रापि वचने 'संक्षीणाशेष- कर्मात्वि' ति परब्रह्मसाम्यप्रजोजकमेव मुक्तबन्धत्वमाह। निर्दोष समं- ब्रह्मेतियुक्तम् । अत इदं वचनमस्मदनुकूलमेवेति सिद्धम् । गत्तु कस्यचित् ' पृथगामान ' मित्यादयाख्यानं 'पृथक्-संसार- चक्रादन्यरूपमात्मानं सर्वप्रियतमं प्रत्यग्भूतं, प्रेरितारञ्च - प्रवर्तयितारमीश्वरमेव मत्वा ततस्साक्षात्कारात्तेनेश्वरेण जुष्टः स्वात्माभेदेन परमां प्रीति नीतो. ऽमृतत्वं गच्छती' ति, तदप्येतेन निरस्तम् । जीवेश्वराभेदस्य बहु शास्त्रनिषिद्धत्वात् । 'पृथगात्मानं प्रेरितारश्च मत्वे ' त्युक्तौ पृथक्पदस्य मत्वेत्युक्तमननक्रियाप्रकारभूतमृथक्तोपस्थापकत्वस्यैव स्वारसिकत्वात् । स्वरसत आत्मरयित्रोः परस्परभेदस्यैव पृथक्पदेन प्रतीत्या तस्य संसा- चक्रादिप्रतियोगिकत्ववर्णनायोगात् । चकारस्य एवकारार्थकत्वायो- गात् । निर्विशेषब्रह्मव्यतिरिक्तजीवतुल्ययोगक्षमप्रेरकेश्वरमननेन मुक्तय. सम्भवाच्च । यदप्यन्यस्य व्याख्यानं 'पृथक् - संघाताद्भिन्नं, प्रत्येकतश्च भिन्नमात्मानं, एवमेव तस्मादेव भिन्नमीश्वरश्च मत्वे ' ति, तत्तस्यैव प्रतिकूलम् जीवेश्वरभेदस्य सुप्रतिष्ठितत्वात् । आत्मानीश्वरञ्च संघाताद्भिन्नं, -- . .

वेदान्तभागः । श्वेताश्वतराधिकारः.११. मत्वत्युक्तौ जीवेश्वरभेदस्य चकारदत्तहस्तावलम्बनतया साम्राज्यात् । पृथक्पदव्याख्यानास्वारस्यमवस्थितम् । यत्त्वपरस्य कस्यचिद्वयाख्यानं 'महाकाशस्थानीयपरमात्मनस्सका- शात् घटाकाशस्थानीयमात्मानं स्वत एव भिन्न मत्वा, प्रतिबिम्बस्थानीयादात्मन- स्सकाशाद्विम्बस्थानीयं परमात्मानश्च परमार्थतो भिन्न मत्वा संसारचक्रे परिभ्रमती' ति-तदप्यस्य प्रमेयशरीरस्य निष्प्रमाणत्वात् पूर्वानान्वये दोषाणामु. क्तत्वाच्च निरस्तं वेदितव्यम् । तस्मात् पृथगात्मानमित्यादेर्यथोक्त एवार्थ इति विपश्चिता विदाकुर्वन्तु ॥ यदपि - संयुक्तमित्यादविवरणम् ' ईश्वरः क्षरमक्षरञ्च संयुक्तं बिभर्ति, अनीश्वर आत्मा बद्यत इत्ययं भेद औपाधिकः । निरुपाधिकमीश्वरं ज्ञात्वा मु- च्यत इति - तन्न, निरूपाधिकभेदस्यैव स्वरसतः प्रतीतेः । क्षरस्स- र्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुपस्त्वन्यः.... बिभर्त्यव्यय ईश्वर' इत्युपबृंहणानुरोधेन भेदस्य स्वाभाविकत्वस्यैवाश्रयणीयत्वाच्च । न हि तत्र भेदौपाधिकत्वं प्रतिपत्तुं शक्यम् ' उत्तमः पुरुषत्वन्य ' इत्यन्यत्व- मुक्त्वा · यो लोकत्रय' मित्यादिना तदुपपादनात् । भर्तव्यात निया- म्यानियन्तृ व्याप्यावयापकमत्यन्तभिन्नमेष्टव्यमिनि हि 'य' इत्यादे- स्तात्पर्यम् । अत्र 'आकाशमेक ही 'त्यादिवचनोपादानमप्यसङ्गतम् । उभय- सामञ्जस्यादेव — मिति सूत्रकारैरेव तस्य तदभिमतार्थकत्वस्य निराकृत- त्वात् । वक्ष्यते चैतत्तृतीये सूत्रभाग इत्यलम् । यदपि ' ज्ञाज्ञा' वित्यादेाख्यानं 'जीवेश्वरयोरजत्वमविकृतस्य ब्रह्मण एव तद्रूपेणावस्थानात् । भोक्तभोग्यलक्षणः प्रपञ्चो यदि सिध्द्येत्तदा उक्ते. श्वरत्वानीश्वरत्वसर्वज्ञत्वाशत्वादिव्यवहारस्सियेत् । नह्यद्वैतवादे सोऽस्ति । कूट- स्थापरिणाम्यद्वितीयब्रह्मणो वस्तुतः प्रपञ्चरूपत्वायोगात् । भोक्त्रादिप्रपञ्चहेतोरन्यस्य कस्यचिदभावातू । भावेऽद्वैतहानिप्रसङ्गादित्यनाइ अजामिति । अजा-माया, मैत्र प्रपश्चादिरूपेण परिणमते । तस्या अवस्तुत्वेन नाद्वैतभङ्ग इति भावः । यतो मायैव मोक्त्रादिरूपा, ततस्तदारब्धस्य प्रपञ्चस्य मिथ्यात्वेनात्मा अनन्तः देशकालवस्तु- - 18 दाना कम। - परिच्छेदरहित एव भवति । चकारोऽवधारणार्थः । विश्वमस्यैव रूपमिति विपक पः। वाचारम्भणन्यायेन रूपिन्यतिरेकेण रूपाभावादपि भात्मन मनन्त्यं सिद्धमिति भावः । वयं – भोक्तभोग्येश्वरात्मकं यदा ब्रह्म विन्दते= मायत्मकत्वेनाधिष्ठानभूत- ब्रह्मव्यतिरेकेण नास्तीति जानाति, तदा मुच्यत इति त्रयमित्यादेरर्थः । पूर्व सं- युक्तमेतदित्यादिना जीवेश्वरविभागप्रदर्शनपूर्वकं तद्ज्ञानस्य मुक्तिहेतुल्वमुक्तम् । इदानी क्षरं प्रधानमित्यादिना प्रधानेश्वरवैलक्षण्यप्रदर्शनपूर्वकं तद्विज्ञानस्य मुक्ति- हेतुत्वमुच्यते । अविद्यादेर्हरणात्परमेश्वरो हरः । अमृतश्च तदक्षरञ्चामृताक्षरम् । अमृतं ब्रह्मैवेश्वर इत्यर्थः । सः क्षरात्मानौ प्रधानपुरुषावीष्टे, देव एकश्चित्सदान- न्दाद्वितीयः परमात्मा । तस्य परमात्मनोऽभिध्यानात् जीवानां परमात्मसंयोजनात् , अहं ब्रह्मास्मीति तत्वभावात् , भूयश्वासकृत् , अन्ते - प्रारब्धकर्मान्ते, स्वात्म- ज्ञानोदयवेळायां वा सुखदुःखमोहात्मकाशेषप्रपञ्चरूपमायानिवृत्तिरिति 'तस्याभि- ध्यानादित्याद्यर्थ ' इति तदपि न; जीवेश्वरयोर्मायायाश्चाविशेषेणाजत्वे श्रूयमाणे ' ब्रह्म- ण एव जीवेश्वररूपेणावस्थानात्तयोरजर्व, मायायास्तु तथा ने 'ति वैषम्यवर्णन स्य नियुक्तिकत्वात् । तस्याः ब्रह्मात्मकत्वं प्रमाणविरुद्धमिति चेत्तु- ल्यम् । 'प्रकृतिं पुरुषञ्चैव विध्यनादी उभावपि ' इत्येवं प्रकृतेरिवावरपुरुष- स्यापि स्वातन्येणैवानादित्वप्रतिपादनात् । ब्रह्मातिरिक्तस्येश्वरस्य श- शविषाणायमानत्वाच्च । 'परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् । माहुस्त्वामृषयस्सर्वे देवर्षिनारदस्तथा। अ- सितो देवलो व्यासस्वयश्चैव ब्रवीषि मे ' इति भगवद्गीतावचनेन सकल- कल्याणगुणविशिष्टस्य सर्वजगन्नियमनैश्वर्ययुक्तस्य परमान्मन एव पर- ब्रह्मताया नारदाधनकमहभिमतत्वप्रदर्शनात् । सकलेतरविसजा- तीयभगवदसाधारणश्रोनिरतिशयानन्दजनकबहुविधकल्याणगुणयोगं तदैश्वर्यश्च श्रुत्वाह्यर्जुन एवमुवाच । न तु 'मय्येव सर्वमिदमध्यस्तम् ! भतो मतिरिक्तं किमपि नास्ती' ति भगवन्मुखानिर्विशेषशुद्धचैतन्यं श्रु. त्वा । ' एतां विभूति योगञ्च मम यो वेत्ति तत्त्वत' इत्यादि हि पूर्वप्रकृतम् । - वेदान्तभागः । श्वेताश्वतराधिकारः. १५. एवंजातीयकानि बहून्युपबृंहणवचनानि वेदितव्यानि । अतो जी- क्वदीश्वरस्य ब्रह्मापेक्षया भेदवर्णनमतिसाहसमेव । अत्र अजापदमवि- याज्ञानादिशब्दितानिर्वचनीयमायापरमित्येतदप्यसङ्गतं, तादृशवस्तुन एवाप्रामाणिकत्वात् । 'दावजौ, एका ह्यजा' इति नित्यवस्तुत्रयस्य, स. र्वज्ञत्वासर्वज्ञत्वभोगरूपप्रयोजनसम्पादकत्वरूपैस्तत्तदसाधारणैधः पर स्परवैलक्षण्यप्रतिपादनैदम्पर्ये स्वरसतः प्रतीयमाने तदपह्नवेन इत्वा- ज्ञत्वादि विलक्षणव्यवहारसिद्धिमूलभूतभोक्तृभोग्यादिलक्षणमिथ्याभूत- प्रपञ्चसिदिहेतुभूततादृशमायाऽस्तित्वप्रतिपादनपरतया अजा केल्यादे- रवतरणमनुपपन्न प्रमाणविधुरं प्रकरणविरुद्धश्च। न हि भवताऽयाप्यत्र प्रमाणशकलमुपलब्धम् । सर्वत्रैवमेवात्यन्तक्लिष्टगत्येव त्वदभिमतस्य सं पादनीयत्वात्। तथैव सम्पादितत्वाच्च । एवं अजा केत्यादेरनन्तश्चात्म- त्युक्तात्मानन्त्योपपादकत्ववर्णनमप्यस्वरसमसङ्गतञ्च । अत्रोपात्ताजाया मिथ्यात्वस्यात्र केनापि पदेनाबोधनात् । निष्प्रमाणप्रकृतिमिथ्यात्वा- ङ्गीकारेऽपि, अजाहीति हिशब्दस्य हेतुपरत्वाश्रयणेऽपि नाजागतमिथ्या- त्वस्य हेतुत्वं सिद्धयेत् ; तस्य पदेनानुपस्थितेः । हिशब्दस्य हेतुपरत्वनिबन्धे यस्माजीवभोगसम्पादिनी प्रकृतिर्विद्यते तस्मा- द्ब्रह्मतुल्यस्य शुद्धस्य जीवस्वरूपस्याज्ञत्वादिकं सम्भवतीत्ययमेवार्थोऽ- बाधितत्वात् 'अनीशया शोचती 'त्यादिपमाणानुगुण्याच्चाश्रयणीयः; न तु प्रकृतेमिथ्यात्वात्प्रमञ्चसम्भवः; तत एव नाद्वैतहानिरित्यादिः । त्रिविधपरि- च्छेदराहित्यान्तर्गत वस्तुपरिच्छेदराहित्य वस्त्वन्तरराहित्यरूपमित्ये- तदपि स्वकल्पितमेव, अनन्तरश्रुतविश्वरूपपदविरोधात् । स्पष्टञ्चेदं पर- पक्षनिराकृतौ (पु. १५९ १६२) । विश्वमस्य रूपमिति विश्वरूपपदं वि- गृह्णतैव विश्वरूपपदस्य विश्वराहित्यपरत्ववर्णनमप्यद्भुतम् ; रूपरूपि- णोर्भेदस्यैव तेन प्रतिपादनात् । पीताम्बरो हरि रित्यत्र पीताम्ब. रपदस्य दिगम्बरत्वपरत्ववर्णनमिवेदमिति । वाचारम्भणमित्यादेः कार्य- मिथ्यात्वपरत्वन्तु पूर्वमेवोन्मूलितम् । त्रयं यदे त्यादेब्रह्मव्यतिरेकेण त्रयं ७२ भेद साम्राज्य म्। . नास्तीति यदा जानातीत्यर्थवर्णनमपि हेयम् । न हि त्रयं ब्रह्म वि- न्दत इत्युक्तौ ब्रह्मव्यतिरेकेण नास्तीति सिद्धयेत् । तदा मुच्यत' इत्य- ध्याहारप्रसङ्गश्च । अस्माकं त्वनुक्तमपि भवतीत्येतद्विद्यत एव; 'अस्ति- भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोप्यस्ती ' ति न्यायात् । यत्ववतरणं क्षरं प्रधानमित्यादेः, जीवेश्वरविभागज्ञानस्य मुक्तिहेतुत्वं पूर्वमुक्तम् । प्रधानेश्वरवि. भागज्ञानस्य तद्धेतुत्वमिदानीमुच्यत' इति । तदेतद्भेदवादानुकूलं वा, अभेदवादानुकूलं वेति मध्यस्थाः परामृशन्तु । देव एक इत्यस्य चि. सदानन्दाद्वितीय ' इति विवरणमपि विरुद्धम् । ईशत इति तस्य सर्व- नियन्तृत्वोक्त्या नियाम्यसर्वप्रपञ्चवैशिष्टयस्यैव प्रतीतेः । देवपदेन क्रीडादिरूपबह्नर्थपतीतेश्च ! तत्त्वभावादित्यस्य अहं ब्रह्मास्मीति तत्वभावा- दिति विवरणमपि जीवपरैक्यायोगादेव निरस्तम् । अतस्तत्वस्य भाव आविर्भाव इत्येव व्याख्येयम् । विश्वमायेत्यत्र मायापदमपि विविधा- श्चर्यप्रपञ्चसृष्टिहेतुभूतां.ब्रह्मवत्सत्यां प्रकृतिमाचष्ट इत्येतदप्यन्यत्र स्था. पितम् । अन्ते इत्यस्य — स्वात्मज्ञानोदयवेळायामिति विवरणमप्यसङ्गनम् ; ज्ञानोदयमात्रेण विश्वनिवृत्तेरदर्शनात् । जीवन्मुक्तः प्रमाणशून्यत्वादि- ना निरस्तत्वाच्च । अतः प्रारब्धकर्मावसाने उपासको बन्धान्मुच्यत इत्येव तदर्थः, तस्य तावदेव चिरमितिवत् इति । यत्त्वत्र · उद्गीतमेतत्परमं तु ब्रह्म तमिस्त्रयं सुप्रतिष्ठाक्षरञ्चे' त्यस्य व्याख्यानम् 'भोक्तभोग्यप्रेरितृरूपं त्रयं ब्रह्माणि प्रतिष्ठित रज्ज्वामिव सर्प ' इति तदप्यनुपपन्नम् ; ब्रह्मातिरिक्तस्य प्रेरकस्य गगनारविन्दसोदरत्वस्योक्तत्वात् । प्रतिष्ठितशब्दस्याध्यस्तवाचकत्वा- सम्भवात् । अध्यासादेर्निष्पमाणकत्वस्यासकृदुक्तत्वाच्च । तस्मात्प्रकृति पुरुषकालरूपं त्रयं ब्रह्मण्याश्रितमित्येव तदर्थों वाच्यः । 'यः कारणानि निखिलामि तानि कालात्मयुक्तान्यधितिष्ठत्येक ' इति पूर्व कालाधिष्ठातृत्वस्यो- ततयात्र तृतीयत्वेन स एव ग्राह्यः । कालस्यापि परमात्मायत्तस्व रूपस्थितिप्रवृत्तिकत्वं हि तत्रोक्तम् । अत्रापि तदेवोच्यत इति युक्तं प्र- . ~ वेदान्तभागः । श्वेताश्वतराधिकारः. १५. तिपत्तुम् । किञ्चात्र बहुभिदृष्टान्तैरत्यादरेण जीवात्मनि परमात्मा वर्तत इत्युपपादनात् स्फुटतरो जीवपरभेदः । 'आत्मानमरणिं कृत्वा प्र- गवञ्चोत्तराराणम् । ध्याननिर्मथनाभ्यासाद्देवं पश्येभिगूढवत् ॥' तिलेषु तेल दधनीव सर्पिरापस्स्रोतस्स्वरणीषु चाग्निः । एवमात्माऽत्मनि गृह्यतेऽसौ सत्येनेनं तपसा योऽनुपश्यति' इति । अत्र आत्माऽऽत्मनीति तिलतैलादिवढ्दो- हुच्यते । नच प्रणवेन देह इत्युपक्रमानुसारात्सप्तम्यन्तमात्मपदं देह- परमिति शङ्कयम् । तस्याप्युपक्रमे आत्मसंस्थ मित्यात्मवर्तित्वोक्तेः । एक देहपदमादाय आत्मसंस्थं, आत्मानमरणिं, आत्मनि गृह्यते इत्यात्मपदत्रयस्य देहलक्षकत्वाश्रयणापेक्षया देहपदस्य शरीरपरत्वाग्रहाणेनैव परमात्म- भरीरभूतजीवपरत्वाश्रयणस्यैव न्याय्यत्वात् । यस्यात्मा शरीरमिति हि श्रुतिः । किश्चात्र सर्वव्यापिनमात्मानमित्युच्यमानमात्मनस्सर्वव्यापित्व- मेकमेव सर्व परपक्षं निराकर्तुमलम् । व्याप्तेव्योप्यसर्वप्रपश्चसापेक्षत्वत् । तस्यात्र सर्वपदेन कण्ठत उक्तेश्च । नात्र तस्य मिथ्यात्वमाघ्रातमपि । ईदृशस्य मविशेषस्येश्वरस्यैव तद्ब्रह्मेति ब्रह्मत्वोक्त्या ब्रह्मेश्वरभेदोपि निरस्त इत्यलम् । तस्मात्प्रथमोऽयमध्यायस्सर्वथा परपक्षपतिकूलोऽ- स्मत्पक्षानुकूलश्चेति सिद्धम् ।। १४ ॥ अथास्यामेवाध्यायान्तरेषु प्रतिपादिताश्चिदचिदीश्वराणां स्वा. भाविकभेदाः केचनोवृत्य प्रदर्यन्ते । ,तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोक ' इति जीवपरभेदस्स्फुटं प्रतीयते ।अनन्तरमेव 'यदात्मतत्वेन तु ब्रह्मतत्त्व' मिति ब्रह्मतत्वात्मतत्त्वे भिन्ने उपात्ते । 'सर्वान् लोकानीशत ईशनीभिः य एतद्विदुरमृतास्ते भवन्ती ' ति जगनियमन- समर्थाभिर्ज्ञानबल क्रियाशक्तिभिस्सर्वान्लोकानीष्टे सर्वेश्वरः। एतद्द्वाना- जीवा मुच्यन्त इत्युच्यते । ' द्यावाभूमी जनयन्देव एकः । यो देवानां प्रभ. बश्चोद्भवश्च विश्वाधिक ' इति चेतनाचेतनात्मकपपञ्चजनकत्वं तस्मादधिक- त्वञ्चोच्यते । यस्मात्परं नापरमस्ति किञ्चिदिति सर्वस्मात्परत्वं सविशे- पस्य परमात्मन एवोच्यते, न निर्विशेषस्य ! तस्यैव ' वृक्ष इव स्तब्धी . 19 भेद साम्रा ज्य म् । दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्व ' मिति सर्वजगद्वयापकत्वोक्तेः। ते- नेति परात्परस्यैव परामर्शात् । न हि निर्विशेषं जगद्व्यापीति वक्तुं श- क्यम् ; जगद्रूपविशेषाभावात् । ' ततो यदुत्तरतरं तदरूपमनामय ' मित्य- नन्तरोक्तमपि न सविशेषात्परस्य कस्यचिनिर्विशेषस्य सत्ता प्रतिपाद- यितुमलम् ; ' य एतद्विदुरमृतास्ते भवन्ती ' त्युनरतरस्यैव वेदनविषय- त्वोक्तेः । न हि शुद्धं ज्ञानविषयस्तन्मते । तथासनि घटादिवज्जडत्व- प्रसङ्गात् । सर्वोत्कृष्टत्वेन पूर्वनिरूपितस्य परमात्मन एव, 'सर्वानन- शिराग्रीवस्सर्वभूतगुहाशयः । सर्वव्यापी स भगवान् ' ' सदा जनानां हृदये स- निविष्टः ' 'सर्वस्य प्रभुमीशानम् ' 'वशी सर्वस्य लोकस्य स्थावरस्य चरस्य चे' त्यादिभिरुपरितनैर्वाक्थैर्बहुप्रकारविशेषवत्त्वप्रतिपादनाच्च । नच वाच्य- मेभिरर्वाचीनं ब्रह्मैव प्रतिपाद्यत इति ~ सर्वोत्कृष्टवस्तुप्रतिपादनानन्तरं ततो निकृष्टस्य वस्तुनः पुनः पुनः प्रतिपादनासङ्गतेः । अतोऽत्र प्रक- रणे एकमेव सर्वोत्कृष्टं वस्तु सत्यवहुविशेषवत् प्रतिपाद्यत इति । एवं 'अजामेकां लोहित शुक्लकृष्णां बह्लीः प्रजास्सृजमानां सरूपाः । अजोहोको जुष- माणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' इति प्रकृतिः बद्धो मुक्तश्च पर- स्परभिन्नतया प्रतिपाद्यन्ते । अनाजायास्स्वसरूपानेकपदार्थस्रष्टत्वो- क्तया तस्या नाऽविद्यारूपत्वं शङ्कितुमप्यहम् । न हि शुक्तिरजतादिकं स्वसमानानेकपदार्थस्राष्ट्रत्युपपद्यते, कुत्रापि केनापि व्यव'हियते वा । नच वाच्यमविद्याया दोषरूपत्वाभ्युपगमात . दोषस्यचानेकपदार्थसर्ग- हेतुत्वसंभवादृष्टान्तवैघट्यमिति-दोषत्वेपि मिथ्यात्वाभ्युपगमेन तदवि- शेषात् ! दोषस्य तद्धतत्वेपि स्वसरूपकार्यजनकत्वाभावेन ‘सरूपाः प्रजा: ' इत्यस्यासङ्गतत्वाच्च । न हि तिमिरादिदोषसारूप्यं द्विचन्द्रा- दीनाम् ; व्यावहारिकप्रतिभासिकसत्ताभेदाच्च । अतस्सर्वात्मता अ- जापदन्नाविद्यापरम् ; अपितु परिदृष्यमानसत्यात्मकमपञ्चकारणभूतस. त्यात्मकसूक्ष्मवस्तुविशेषपरमेव; मृद्धटादिस्थलानुरोधात् । नन्वत्रैवोपरि- ' अस्मान्मायी सृजते', 'मायया सन्निरुद्धः', 'मायान्तु प्रकृति विद्यात्' इति .. - .

वेदान्तभागः । श्वेताश्वतराधिकारः, १५. . मायाशब्दप्रयोगात्तस्य च मिथ्याशब्दपर्यायत्वादविद्यैव जगत्कारणं प्रतीयत इति चेन्न - पायाशब्दस्य विचित्रार्थसर्गकरत्वं निमित्तीकृत्य सत्यापि प्रयोगात् । तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्ष ता देहमकैकश्येन सूदितम्' 'ताश्च मौभपतेर्माया दिव्यास्त्रे रुक्मणीसुतः । क्षणेन नाशयामास नैशं तभ इबोष्णगु' रित्यादौ सत्येष्वेव ह्यस्त्रादिपु मायाशब्दः प्रयुज्यते; मिथ्यार्थस्य शस्त्रनाश्यत्यासम्भवात । ज्ञानबाध्यं हि तन्मतम् । किश्चात्र मायामायिनावनूद्य तयोः प्रकृतित्वमहेश्वरत्वे एव विधीयेते; 'मायान्तु प्रकृति विद्या' दिति हि वचनशैली, 'अस्मान्मायी सृजते विश्वमेतत् , तस्मिंश्चान्यो मायया सान्निरुद्ध' इत्युक्तौ मायामायिनौ काविति जिज्ञासानु- रोधाच्च । ततश्च मायाशब्दस्य मिथ्यापर्यायत्वं दुरापास्तमिति ।। तदनन्तमेव 'टा मुपर्णा सयुज! सवाया समान वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाहत्यनननन्यो अभिचाकशीति ॥ समाने वृक्षे पुरुषो नि. मग्नो अनीशया शोचति मुह्यमानः । जुधं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः । इत्यचिज्जीवेश्वराणां स्वाभाविको भेदस्स्फुटतरमुक्तः ।। एवं ' द्वे अक्षरे ब्रह्मएरे त्वनन्ते विद्याऽविध निहिते यत्र गूढे । क्षरन्त्वविद्या ह्यमृतन्तु विद्या विद्याऽविद्ये ईशते यस्तु सोऽन्यः' इति पञ्चमोपक्रमे नित्या. नित्यफलसाधनज्ञानकर्मवान् जीवोऽन्यः, ज्ञानकर्मप्रवर्तकस्तदाराध्यश्चे- श्वरोऽन्य इति जीवेश्वरभेदः प्रस्पष्टमुक्तः । एतद्विवरणरूप एव सम्पू गोऽध्यायः । तथा हि - यो योनिमित्यारभ्य विनियोजयेद्य इत्यन्तन सर्वकारणभूतः परमात्मा प्रतिपादितः । तद्वदेत्यादिना केषाश्चिज्जी वानां यथावस्थितब्रह्मज्ञानं तत्फलभूतमुक्तिश्चोक्ते । अथ गुणान्वोय इत्यादिना जीवस्वरूपं सम्यग्विशोधितम् । तत्र विश्वरूप इति कर्मानु- गुणनानादेहवत्वं, त्रिवर्मेति देवयान- पिढ्याण - संयमिनीरूपमार्ग- यसम्बन्धात्वोक्तया पितृयाणप्राप्तिहेतुभूतपुण्यकर्मवत्वं तत्पयोज्या- नित्यस्वर्गादिभोगवत्वञ्चोक्तम् । अन्ते अनाद्यनन्तमित्यादिनेदृशदेहस- म्बन्धादिरूपबन्धनिवृत्तिः, विश्वस्रष्टत्वाद्यनेककल्याणगुणगणविशि- , भेद साम्राज्य म् । . टपरमारमज्ञानेनैवेत्युच्यते इति । एवं षष्ठेपि ' मीश्वराणां परमं महेश्वरम्' न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । न तस्य क- श्चित्पतिरस्ति लोके नचेशिता नैव च तस्य लिङ्गम् ! स कारणं करणाधिपाधिपो न चास्य कश्चिज्जानिता नचाधिपः' इति सर्वोत्कृष्टस्वाभाविकज्ञानबलक्रि- याशक्तथादिविशिष्टस्सर्वकारणभूतः परमात्मा, स एव जीवानामधिपः, तस्य जनकस्स्वामी वा, केनापि प्रकारण तस्मादधिको वा न कोप्य- स्तीति स्फुटतरमुच्यते । एवं स्थिते, ' गुणविशिष्टात्माऽवरात्मा; गुणवर्ग. श्चाऽऽविद्यकः, अत एवाऽस्वाभाविकः; अयमेवात्मा ईश्वरादिग्दवाच्यः; अस्माद- धिकं सर्वविशेषरहितं प्रत्यगभिन्नं शुद्धचैतन्यस्वरूपमेव परं ब्रह्म; तच्च न के- नापि पदेन बोध्यते, न ज्ञानविषयश्च तत्' इतीदृशं परमतमोपनिषदमनौ- पनिषदं वेति विद्वांस एव विचारयन्तु ।। यदात्मतत्त्वेन तु ब्रह्मतत्त्व ' मित्यत्र यत्परेषां विवरण ‘परमात्मा. ऽऽमानमात्मनैव जानीया ' दिति-न तत्परानुकूलम् , अस्मत्पतिकूलं वा, जीवपयोरभेदाप्रतीतेः। 'अहं ब्रह्मास्मी' ति वेदनप्रकारविवरणन्तु.हेयम् , ' आत्मतत्वेन ब्रह्मतत्त्व ' मिति प्रतीयमानभेदविरोधात् । ब्रह्मतत्त्वदर्शन- साधनत्वं हि जीवतत्त्वस्य प्रतीयते; न दर्शनस्य जीवब्रह्माभेदविषय- कत्वम् । आत्मतत्वत्वेनेति हि तदा भाव्यम् ; विवृतश्च स्वेनैवाव- शात् । 'आत्मनैव जानीया' दिति ‘आत्मतत्त्वेने ' ति जीवात्मनस्तत्व- रूपत्वोक्तया तस्याऽतत्त्वरूपत्वं निरस्तं भवति । अध्यम्तस्य मिथ्याभू- तस्य तत्त्वपदेनोपादानायोगात्। 'भोग्यभोक्तनियन्तृलक्षणं त्रयं रज्वामिव सर्पो ब्रह्मण्यध्यस्त' मिति हि तस्मिंस्त्रयं सुप्रतिष्ठा इत्यत्रोक्तं भवतेति ! यदपि 'यस्मात्परं नापर ' मित्यादेाख्यानं 'यस्मात्पुरुषात्परमुत्कृष्टमपरम- न्यन्नास्ति, तेनाद्वितीयेन परमात्मना इदं सर्व पूर्ण - नैरन्तर्येण ज्याप्तं पुरुषेण- पूर्णेने' ति - इदं मिथोव्याहतं स्वमतविरुद्धश्च । ' यस्मा ' दित्यादिना निर्विशेषमेवोच्यत इति भवता वक्तव्यम् ; सविशेषस्य निर्विशेषाद- . . .

वेदान्तभागः । श्वेताश्वतराधिकारः, १५. परस्य सर्वस्मात्परत्वायोगान् , तद्ज्ञानस्य मोक्षहेतुत्वानुपगमेन ‘क- स्मात्पुनस्तमेव विदित्वाऽतिमृत्युमेतीत्युच्यत ' इति यस्मादित्यादेरवतरण दानासङ्गतेश्च । इत्थश्च तस्य सर्वव्यापकत्वकथनमनुपपन्न, निर्विशेष- त्वदशायां व्याप्याभावेन व्याप्यसम्भवात् । शुद्धचैतन्यरूपस्य तस्य पुरुषपदवाच्यत्वमप्यसंभवि । पुरुषपदं हि ‘स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वा- पाप्मन औषत्तस्मात्पुरुष ' इति सर्वकारणत्वसर्वपापदाहकत्वरूपधर्मद्वय- विशिष्टपरतया बृहदारण्यके निरुच्यते । — पुरुसंज्ञे शरीरेऽस्मिन् शयनास्पु. रुषो हरिः । शकारस्य षकारोऽय व्यत्ययेन प्रयुज्यते । स्त्रीप्रायमितरत्सवं जग- स्थावरजङ्गमम् । ऋने तमेकं पुरुषं वासुदेव. सनातनम् । ब्रह्माद्यास्सकला देवा यक्षान्धर्वकिन्नराः । ते सर्वे पुरुषांशवादुच्यन्ते पुरुषा इति 'इत्यादि स्मयते । अत्र 'पुरु शेत' इति व्युत्पत्तिरभिप्रेता । भगवानिति शब्दोऽयं तथा पुरुष- इत्यपि । निरुपाधी च वर्तेत वासुदेवे सनातने 'इति वचनान्तरम् । अत्र वा- सुदेवे पुरुषशब्दो वर्तत इत्युक्तया वासुदेवशब्दवन्पुरुषशब्दस्यापि सर्व- ध्यापकत्वसर्वाधारत्वविशिष्टपरत्वमुक्तं भवति । 'मत्रासौ समस्तच वसत्यत्रेति वै यतः । ततस्स वासुदेवेति विद्वद्भिः परिपठ्यने 'इति हि तन्निर्व- चनम् । तस्मात्पुरुषशब्दस्सर्वोत्कृष्टत्वसर्वपापदाहकत्वाद्यनेकाकारवि- शिष्टपर एवेति तत्पदप्रतिपाद्यत्वं भवदभिमतशुद्धचैतन्यस्यासंभावित- मेव । तस्य ज्ञानविषयत्वानुपगमेन तदज्ञानान्मुक्तिकथनासङ्गतिश्चेति । यदपि 'ततो यदुत्तरतर' मित्यादविवरणं इदं शब्दवाच्याजगत उत्तरं कारणं. ततोप्युत्तरं कार्यकारणविनिर्मुक्तं ब्रह्म तदरूपं रूपादिरहित ' मित्यादि - तदप्यसङ्गतं, पूर्व तदपेक्षयोत्कृष्टं वस्तु किञ्चिदपि नास्तीति यस्मात्परं नापरमस्ति किञ्चि' दिति स्वयमेव कण्ठतो निषिध्य, अनुपदमेव 'ततो यदुत्तरतर' मिति तस्मादुत्कृष्ट- स्य कस्यचित्सत्ता प्रतिपादयतीत्यस्य व्याहतत्वात् । रूपामया- दिराहित्यस्य विशेषस्य निर्विशेषेऽसंभवाच्च । अस्य वाक्यस्य निर्वि- शेषपरत्वे दूषणान्तराण्यप्युक्तानि । ततश्च यदुत्तरतरं तत्त्वं ' यस्मात्परं ततः - - - 20 भेद साम्राज्य म् । . नापर' मित्यत्र प्रतिपादितं, तत् यतोऽरूपमनामयश्च ततः तद्ज्ञान- वन्त एव मुच्यन्त इत्ययमेवार्थः प्रकरणानुगुणः प्रमाणान्तरानुगुणो दोषलेशविधुरश्चेति ध्येयम् । यदपि · द्वा सुपणी । इत्यादेा ख्यानं 'परमार्थवस्त्ववधारणार्थ जीवेश्वरावत्र प्रतिपाद्यते' इति । तदपीश्वरापेक्ष- या निर्विशेषवस्तुनिरासादेव निरस्तम् । वचनशैल्या जीवेश्वरप्रतिपादन- स्य स्वातन्येण प्रतीयमानस्य स्थूलारुन्धतीशाखाचन्द्रादिन्यायेन निर्वि- शेषनिश्चयशेषत्ववर्णनस्यातिसाहसिकत्वाच्च । एतदनन्तरं, इतःपूर्व वा नानाविधविशेषविशिष्टस्यैव प्रतीत्या लेशतोऽपि निर्विशेषप्रतीतेरनु: दयाच्च । पूर्वमन्त्रे अन्यशब्दोक्तस्यैवोनरमन्त्रस्थान्यशब्दप्रतिपाद्यत्व. स्य स्वारस्यादिसिद्धत्वेन तस्येश्वरत्वे तद्ज्ञानाच्छोकनिवृत्युक्तेरसांग- त्यञ्च । नहीश्वरज्ञानाच्छोकनिवृत्तिरुपपद्यते, तस्याध्यस्तत्वात्सविशेष- त्वाच्च । यदि ईश्वरज्ञानाच्छोको निवर्तते, तदा जीवज्ञानादपि स निवर्ते- तैव, वस्तुतो ब्रह्माभेदस्योभयोरप्यविशिष्टत्वात् नियन्तृत्वादिवैषम्य- स्याकिञ्चित्करत्वादिति ॥ यत्तु 'अनाद्यनन्त ' मिति मन्त्रे - विश्वस्यक परिवेष्टितार ' मित्यस्य व्याख्यानं 'स्वात्मना व्याप्याऽवस्थित ' मिति, तद्वयाख्येयविरुद्धं, मूले वि- श्वस्य व्याप्यत्वं परमात्मनो व्यापकत्वञ्च हि स्फुटं प्रतीयते, न तु स्व- स्यैव व्याप्यत्वव्यापकत्वे । विश्वपरिवेष्टितपदयोरत्यन्तभिन्नार्थकत्वाद व्याप्यत्वव्यापकत्वयोरेकनिष्ठत्वासम्भवाच्च । नातिपटुरपि नटवटु- स्स्वस्कन्धमारुह्य नृत्यतीति न्यायादिति । एवं 'भावग्राह्यमनाडाख्यं भावा- भावकर शिवम् । कलामर्गकरं देवं ये विदुस्ते जहुस्तनु मित्यनन्तर मन्त्रस्य यद्विवरणं ' भावाभावकरं शिवं शुद्धमविद्यातत्कार्यविनिर्मुक्तं प्राणादिनामान्ताधर्वर्णोक्तषोडशकलासर्गकरं, देवं · अहमस्मी ' ति ये विदुस्ते शरीरं परित्यजेयु ' रिति तदपि व्याहतिदुष्टम् । अविद्यातत्कार्यविनिर्मुक्तस्य कलासर्गकरवायोगात् । अत्र शुद्धस्य प्रतिपिपादयिषितत्वे, भावग्राह्यत्वभावाभावकरत्वकलासर्गकरत्वोक्ति- 7 . . .

वेदान्तभागः । श्वेताश्वतराधिकारः.१५. , . ... विरोधः। अशुद्धस्य तथात्वे तद्ज्ञानेन मुक्तिपर्यवसायिशरीरत्यागकथन- विरोध इति । अत्र 'जहुस्तनु' मित्युक्तया जीवन्मुक्तिनिरस्तेति वेदित. ब्यम् । यत्ववतरणं 'तमीश्वराणा' मित्यदेः 'विद्वदनुभव दर्शयन्नक्तमर्थ- दृढीकारोती' ति, तत्तन्मतेऽसङ्गतं, निर्विशेषानुभवस्यैव विद्वदनुभवरूप तया महेश्वरत्वादिविशिष्टानुभवस्याविद्वदनुभवरूपताया एव युक्तत्वात् । 'तत्त्वमस्या' दिवाक्यजन्यो निर्विशेषात्मैक्यसाक्षात्कारो विदुषो जाय- मानो मुक्तिहेतुः । अर्वाचीनसगुणब्रह्मज्ञानमर्वाचीनफलसाधनमिति हि तदभिमतो विवेकः । • विद्रदनुभव' मित्यत्र विद्वत्पदञ्च मुक्तिहेतु- भूतज्ञानप्रतिपादनप्रकरणानुगुण्यान्मुख्याविद्वत्परमेव तदभिमतमिति । 'न तस्य कार्य ' मित्यादिकमप्यस्माभिरिव परैरपि विविधविशेष- विशिष्टब्रह्मपरतयैव व्याख्यातम् । तथासति — न तत्समश्चाभ्यधिकश्च - दृश्यत ' इत्येतद्विरुध्यत इति तु न मनागपि चिन्तितं तैः । मध्ये स्वसि- द्धान्तं स्मृत्वा, स्वेनैव स्वं व्याप्यस्थितं,अविद्यातत्कार्यविनिर्मुक्त'मित्ये- वमपि हठाव्याख्यायते । किंबहुना; ईदृशक्लेशस्तावत्परेस्सर्वेष्वपि श्रुति- वाक्येषु स्मृतिवाक्येषु च सर्वात्मनाऽनुभाव्य एव । विनाऽस्मत्सिद्धा- न्तप्रवेशमस्य क्लेशस्य क्षयकरं दिव्योषधं किमपि नास्त्यवेत्येतदपि नोपपादनीयं पक्षेपतनरहितानामिति । यत्तत्रैव साक्षी चेता केवलो निर्गु- णश्चे'त्युक्तं तदपि न तन्मतानुकुलमिति द्वाविंशेऽधिकारे वक्ष्यते। अत्रै व किञ्चिदुपरि 'प्रधानक्षेत्रज्ञपतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतु ' रिति परमात्मनोऽचिज्जीवापेक्षया नत्पतित्वेन भेदः, जीवसंसारमोक्षहेतुत्वञ्च. प्रस्पष्टमुच्यते । — संसारमोक्षस्थितिबन्धहेतु ' रित्युक्तम् , न तु स्थितिब- न्धभागिति । ब्रह्मैव वध्यते, मुच्यतेचेति हि भवदुक्तिः। संसारतन्मोक्ष- भागन्यः, ताभ्यामस्पृष्टस्तद्धेतुभूतश्चान्य इत्येतदपि · तत्र यः परमा- त्मा तु स नित्यो निर्गुणस्मृतः । स तु नारायणो ज्ञेयस्सर्वात्मा पुरुषो हि सः॥ न लिप्यते कर्मफलैः पद्मपत्रमिवाम्भसा । कर्मात्मायरो योऽसौ मोक्षबाधैस्स युज्यत इत्याधुपबृंहणशतसिद्धमित्यलम् । तस्मादियमुपनिषदपि मृषावाददाव- । . .

भेद साम्रा ज्य म् । . . दहनशमनी प्रादृषकादम्बिनीति सिद्धम् ॥ १५ ॥ एवमथर्वशिखोपनिषदपि, परमकारणभूतः परमात्मा स्वाभा- विकसार्वयादिसकलकल्याणगुणावीशष्टो ध्यातॄणां सर्वशोकनिवारण समर्थस्सर्वविधमङ्गळपदो नारायण एव ध्येयः. तापत्रयाक्रान्ता मोक्ष- काङ्गिणो जीवा ध्यातारः, तादृशाधिकारिभिर्वन्धनिवृत्तये भगवद्धया- नमेवावश्यकर्तव्यम् , देहादुत्क्रान्तस्य अप्राकृते देशविशेषे तादृशभग- वत्माप्तिरेव मुक्तिः, जीवपरावत्यन्तभिन्नावितीममर्थ प्रतिपादयन्ती एत. द्विद्धान सर्वानपि पक्षानिराकरोत्येव । तथाहि - उपक्रमे तावत भगवन् किमादौ प्रयुक्तं ध्यान, ध्यातव्यं, किन्तध्यानं को वा ध्याता कश्च ध्ये- य 'इत्यनेन ध्यानकरणभूतो मन्त्रः कः, ध्यानं कीदृशं, कीदृशो ध्या- नाधिकारी को वा देवताविशेषो ध्येयः इति शिष्यः प्रश्न :कृतः । त. स्य च ओमित्येतदक्षमित्यादौ प्रयुक्तं ध्यान मित्यादिना विस्तरेणोत्तरमुक्त माचार्येण । तत्राकारोकारमकारनादरूपार्धमात्रात्मकानां प्रणवावयवा- नां चतुर्णा क्रमेण ब्रह्मविष्णुरुद्रपुरुषदेवताकत्वमुक्तम् । चतुर्थार्धमात्रा- याः पुरुषदेवत्येत्यनेन देवतात्वेनोक्तः पुरुषो नारायण एव । 'भगवा- निति शब्दोऽय' मित्यादिपूर्वोदाहृतपुरुषपदप्रतिपाद्यविशेषनिर्णायक प्रमाणानुरोधात् । स एवात्र चतुर्थश्शान्तात्मेत्युच्यते । शान्त आत्मा शा. न्तात्मा शान्तत्वमशनायाचूमिपंटकरहितत्वम् । आत्मत्वम् आप्नोती. ति व्युत्पत्या सर्वजगदन्तर्यामित्वम् । ननात्र शान्तत्वं सर्वविशेषराहि त्यमिति मन्तव्यं । तथासति आत्मेत्यात्मत्वोक्तिविरोधात । व्याप्तिः विना व्याप्यं न सम्भवतीति । पुरुषशब्दनिरोधाच्च । सर्वकारणत्वं स- पापदाहकत्वञ्च पुरुषपदप्रवृत्तिनिमित्तमिति बृहदारण्यकश्रुतिरित्युप- पादितं पुरस्तादेव। पुरुषश्च शान्तात्माचैक एवेत्यपि प्रतिपत्तव्यम् । स- वोत्कृष्टस्य तुरीयस्य प्रस्तावानन्तरं ततो निकृष्टप्रस्तावासाङ्गत्यात् , अ- व्यहितत्वाच । चतुर्थइति कण्ठोक्तंश्च । ओङ्कारादिनामनिर्वचनावसरे 'एष हि प्राणान्सकृदुचारितमात्र ऊर्ध्वमुनामयतीत्योङ्कार ' इति श्रवणात्मण- - सर्वे पाप्मानः', वेदान्तभागः । अथर्वशिखाधिकारः. १६. बस्योर्ध्वगतिप्रापकत्वावगमेन प्रकृतिमण्डलादूर्ध्वदेशं प्राप्तस्यैव मुक्ति- रिति गम्यते । 'प्राणान् सर्वान् परमात्मनि प्रणामयतीत्येतस्मात्प्रणव ' इति निर्वचनाजीवपरभेदः प्रतीयते । 'एष हि प्राणान् ', 'प्राणान् सर्वा' नित्युभयत्रापि 'ऊर्ध्वमुनामयति, परमात्मनि प्रणामयती' ति समभिव्या- इतपदार्थान्वयस्वारस्यात्प्राणसहचरितजीवपरत्वमेव युक्तम् । 'प्रणाम- यती' त्यस्य शेषतकप्रवणान करोतीत्यर्थकत्वस्यैव युक्ततरत्वात्। जी- रस्य परशेषत्वप्रतिपादकः प्रणव इति हि प्रमाणानुसारी सम्प्रदायः । देवांश्च समुद्धर्ता सर्वेभ्यो दुःखमयेभ्यासतारयतीति तारणानार ' इति निरु. त्या पूर्व ऊर्ध्वमुन्नामयतीत्युक्तोवलोकप्राप्तिस्साक्षान्मुक्तिरित्यवगम्यते । सर्वेभ्योपि दुःखेभ्यस्संतारणवचनात् । सर्वपापेभ्य' इत्यादिवत् । “सर्वाणि ब्रह्मयतीति ब्रह्म' ति निर्वचनेन पूर्वोक्ता मुक्ति स्स्वाभाविकज्ञानविकासरूपेत्यवगम्यते । ब्रह्मयति -- बृहत्वविशिष्टानि करोति । बृहत्वञ्च न स्वरूपतः, अणुत्वात् । अपितु ज्ञानानन्दादि- गुणैरेव । ' एषोऽणुरात्मा', 'आराममात्रो ह्यवरोपि दृष्टः, वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयस्स चानन्त्या - कल्पत ' इत्यादि. प्रमाणानुराधात् ! अत्र ब्रह्मयतीत्युक्त्या सर्वेषां ब्रह्मभाव एवोक्तः प्रती- यत्त इति स एव मुक्तिस्स्यादिति चेन्न । पूर्वमेव ब्रह्मभूतानां बृहायत- वायोगेनाब्रह्मभूतानि बृहयतीत्येव वक्तव्यतया ब्रह्मयतीत्यस्य परब्रह्म- करोतीत्यर्थकत्वासंभवात् । इत्थञ्चात्रापि जीवब्रह्मभेदसिद्धिनिष्प्रत्यूहा; ध्यानसाध्यबृहत्वाश्रयस्वाभाविकबृहत्वाश्रययोरेक्यायोगान् ! एवं 'स्व- यं ब्रह्म भवतीत्येष सिद्धिकर' इत्यत्रापि ब्रह्म भवतीत्यस्याविभूतगुणाष्टक- नया ब्रह्मसमानो भवतीत्येवार्थः । प्रणवेन ब्रह्मध्यायीति शेषः । ब्रह्मा. भित्रो भवतीति तु नार्थः; पूर्वमेव ब्रह्मभूतस्येदानीमपूर्वतया ब्रह्मभाव विधानायोगात् । ‘परमात्मात्मनोर्योग ' इत्यादिनैक्यनिषेधात् । ' ताटगेव मवति', 'परमं साम्पमुफ्ती' त्यादिना मुक्तावपि भेदोक्तश्च । 'ब्रह्म भवती' त्यस्य निवृत्ताविद्या भवति, निवृत्ताब्रह्मत्वभ्रमो भवतीत्याद्यर्थोपि . 21 भेद साम्राज्य म्। लाक्षणिक एव । प्रमाणन्तरविरुद्धत्वमधिकम् । 'एतस्माद्धयानादौ प्रयु- ज्यत' इति प्रथमप्रश्नस्योत्तरम् । ध्यानकरणभूतो मन्त्रः प्रणव इति तात्पर्यम् ! ध्यानं विष्णुरित्यस्य भगवद्धयानं सर्वैर्मुमुक्षुभिर्नरन्तर्येण क- तव्यमित्यर्थः । विशन्ति निष्ठां कुर्वन्त्यस्मिन्मुमुक्षव इति ध्यानं विष्णु- रुच्यते । अनन्तरं ध्याता रुद्र इति संसारमहाभयाक्रान्तस्तन्नित्तय भ- गवतोऽत्युत्कटकृपापादकरोदनदन्तपतिप्रदर्शनादिको रुद्रवदत्यन्तशो- काविष्टो भगवद्धयानाधिकार्युच्यते । ब्रह्मरुद्रयोातृत्वमप्युपर्युच्यते प्याता ब्रह्मा ध्याता रुद्र इति । इत्यश्चेदं तृतीयप्रश्नोत्तरम् । अथ 'प्राणं मनसि सह करणैर्नादान्ते परमात्मनि संप्रतिष्ठाप्ये 'त्यनेन जीवपरभेदस्स्फुटमुच्यते । अत्र करणैरिति जीवोपकरणानां सर्वेषामप्यविशेषणोक्तत्वात्तदुपकरणि- भूतः प्राणसहचरितो जीव एव प्राणं मनसीत्यत्र पाणशब्देनोच्यते । 'ध्यायीत ज्ञानं प्रध्यायितव्य ' मिति चतुर्थस्योत्तरमुच्यते । सर्वेश्वरेश्वरो भगवान्नारायण एव मुमुक्षुभिध्येयः, तापत्रयात्यन्तानिवृत्त्यापयिक- सर्वाकारविशिष्टत्वात् । अतस्तमेव ध्यायीतेति तदर्थः । नारायणस्यैव- प्रकर्षेण ध्येयत्वे हेतुरुच्यते ' सर्वमिदं ब्रह्म विष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्त ' इति । अत्र संपसूयन्त इतीदं कर्ममूलप्रसवाश्रयब्रह्मादि - तदनाश्रय- विष्णुघटितसमुदाये छत्रिन्यायाल्लाक्षणिकम् । ततस्त्वमपि दुर्धर्षात्तस्मा- द्भावात्सनातनात् । रक्षार्थ सर्वभूतानां विष्णुत्वमुपजग्मिवानित्यादिप्रमाणेन भगवतो नारायणस्यैव विष्णुरूपेण स्वेच्छयाऽवतार इति प्रतिपादना- तस्य कर्ममूलोत्पत्ययोगात् । एवञ्च विष्णोरत्रापादानं विष्णुत्वेन भग- वतः परमकारणत्वाभावज्ञापनायेति मन्तव्यम् । यद्वा संप्रसूयन्त इत्यु- क्ता संप्रमृतिः कर्मकृतस्वेच्छाकृतोत्पत्तिसामान्यरूपैव । ततः 'न कारणं कारणानां ब्रह्मा कारणभूतोपि ध्याता रुद्र ' इत्यनेन कतिपयकारण- भूतयोरपि चतुर्मुखरुद्रयोस्सर्वकारणत्वरूपं परमकारणत्वं कण्ठतो नि- विध्यते । अत्र प्रणवमात्रादेवतात्वेनोक्तेषु ब्रह्मविष्णुरुद्रपुरुषरूपेषु चतु- j द्वयोरेव चतुर्मुखरुद्रयोः परमकारणत्वनिषेधादवशिष्टयोरप्यैक्यं, तत वेदान्तभागः । मन्त्रिकाधिकारः, १७. ८३ एव तयाः परमकारणत्वं इतरयोः क्षेत्रज्ञान्तर्भावात्तदुभयाभावश्च ग- म्यते । ईशानं ध्यायीतेत्युक्तमेव विवृणोति — कारणन्तु ध्येयस्सर्वेश्वर्य- सम्पन्नस्सर्वेश्वरश्शम्भुराकाशमध्ये ध्येय' इति । चेतनाचेतनात्मकसर्वप्रपञ्च कारणभूतस्सर्वेश्वरस्सर्वनियन्ता, सर्वविधैनैश्वर्येण शेपिन्वेन सम्पन्नः, परममङ्गळरूपमोक्षपदो भगवानेव दहरविद्योक्तरीत्या हृदयाकाशमध्ये ध्येय इत्यर्थः । अत्र शम्भुशब्दः शं भवत्यस्मादिति व्युत्पत्या मोक्षप्रदं भगवन्तमाचष्टे। स्वयंभूश्शम्भुरादित्य इति भगवन्नामसु शम्भुशब्दःपठ्यते । इति नारायणश्शम्भुर्भगवान् जगतां पतिः । संदिश्य विबुधान् सर्वानजायत यदोः कुल ' इति च वचनान्तरम् । नामापतिः कृष्णरूपेणावततारेति कोप्यनुमन्यते । 'नारायण' इत्युक्तिविरोधः; प्रकरणविरोधश्च । एवं 'शिव एको ध्येयशङ्करस्सर्वमन्या परित्यज्ये' त्येतदपि भगवत्परमेव । पुरुष- शब्दितस्य तुरीयार्धमात्रादेवतस्यैवात्रानुवृत्तेः । 'नादान्ते परमात्मनी' त्युक्त्या परमात्मशब्दितः पुरुष एव । स एव 'ध्यायीत ईशान मित्यु. च्यते । स एव तु कारणन्तु ध्येय इत्यत्र प्रतिपाद्यत इति । ततश्च शङ्करः मोक्षरूपसुखप्रदः, शिवः - परममङ्गळास्पदभृतो नारायण एव ध्येय इत्यर्थः । अत्र, किं ध्यानकरणं, को वा ध्यातेति ध्यानकरणादिविशे- पप्रश्ने, ध्यानकरण - ध्यानक्रिया- ध्यानाधिकारि - ध्येयदेवता सामान्यज्ञानवता शिष्येण कृते, परस्परभिन्नतादृशार्थचतुष्टयमभ्युपगम्य तत्तद्विशेषकथनरूपमुत्तरमाचार्यस्यासङ्गतमेव स्यात्परमते । अज्ञन तथा प्रश्नपि किं वा ध्यानकरणादिक, सर्व मिथ्या प्रत्यगभिन्न निर्विशेषं ब्रह्मैकमेव सत्यम्' इति खलूपदेष्टव्यं तत्त्वविदेत्यलम् अत इयमप्युपनिषत्सर्वतो. मुखं चिदचिदीश्वरतत्त्वत्रयभेदं प्रतिपादयतीति सिद्धम् ।। १६ ।। मन्त्रिकोपनिषदपि चिदचिदीश्वरभेदवादे दृढव्रतवोपलभ्यते । तत्र हि प्रथमत एव अध्पादं शुचिं हंस मित्यादिना अचेतनजीवविलक्ष. णत्वेन परमात्मा प्रतिपादितः । क्रमण नित्याविर्भूतगुणाष्टकविशिष्टत्व- निरवद्यत्व सदसद्विवेचनरूपसर्वज्ञत्व जगत्सृष्टिस्थितिसंहारकर्तृत्वनिर- . .

भेद साम्रा ज्य म्। .. - तिशयसूक्ष्मत्व निर्विकारत्व तत्तत्कर्मब्रह्मज्ञानफलानुभवदेशप्राप्तिहेतुभू- तत्रिविधमार्गप्रदत्वासुरस्वभावविषयकस्वयाथात्म्यज्ञानाऽऽवारकत्वस- वव्याप्तत्वानां परमात्मासाधारणधर्माणां प्रतिपादनात् । अनन्तरमेव ' भूतसम्मोहन ' इत्यादिना तादृशं परमात्मानं तमोगुणनाशे सति केवल सत्वस्थास्साक्षात्कुर्वन्तीत्युक्तम् । अत्र निर्गुणं गुणगहरे त्यस्य त्रिगुण- परिणामतत्तच्छरीरसम्बन्धिगुहान्तर्वतित्वेऽपि गुणसङ्गकृतदोषशून्यमि- त्यर्थः; स तेऽन्तर्याम्यमृत इत्याद्यनुरोधात् । ननु 'प्रथममन्त्रेण राजसता- मसानामविद्योपहितस्य ब्रह्मणो नानारूपत्वेन दर्शनमुच्यते । द्वितीयेन तु सत्व- स्थानां तस्य निर्विशेषत्वेन दर्शनमुच्यते इत्येव स्वरसतः प्रतीयतः उत्तरत्र, सत्त्व. स्थाः निर्गुणमिति कर्तृकर्मविशेषणो के ' रिति चेन्न - तथासति शुचित्वो क्तिविरोधात् । शुद्धमशुद्धमिति ब्रह्मद्वैविध्यस्य निष्प्रमाणत्वाच्च । अन- न्तरं 'विकारजननीमज्ञां ' ध्यायतऽध्यासिता तेन', 'गौरनाद्यन्तवती' त्येते- स्तमःप्रधानादिपदवाच्या जगवृक्षबीजस्थानापन्ना त्रिगुणात्मिका प्र. कृतिरुक्ता । अनन्तरं पिबन्त्येनामविषमामविज्ञाता: कुमारका' इति प्रकृति परवशा बहवो जीवात्मान उक्ताः । विज्ञानं विशिष्टज्ञान देहात्मविवेक- रूपं न विद्यते येषां तेऽविज्ञाताः । अत एव कुमारकाः बालप्रायाः दे- हात्मभ्रमवन्तस्तदनुगुणं कर्म कुर्वन्तः प्राकृतभोगजातं तत्फलमनुभव- न्तीत्यर्थः । अनन्तरं 'एकस्तु पिबते देवस्स्वच्छन्दोऽत्र वशानुगाम् ! ध्यान- क्रियाभ्यां भगवान भुक्तेऽसौ प्रसभ विभु' रिति परमात्मनो जीववत्प्रकृति सम्बधववेप्यत्यन्तवैलक्षण्यमुक्तम् । एकस्त्विति तुशब्देन परमात्मनो वैलक्षण्यमुच्यते । क्रीडनप्रवृत्तस्वतन्त्रो भगवान् सर्वात्मना स्वपरत- त्रां प्रकृति ' तदैक्षत बहुस्यां प्रजायेय, तत्तेजोऽसृजते' त्युक्तसङ्कल्पविशेष- सर्गादिरूपव्यापारविशिष्टस्सन्ननुभवति । तत्परिणामकृतलीलारसं भुक्त इत्यर्थः । एतदेवानन्तरमप्युच्यते – ‘पश्यन्त्यस्यां महात्मानस्सुपर्ण पिप्प- लाशनम् । उदासीनं ध्रुवं हृसं स्नातकाध्वर्यवो जगु' रिति । सुपर्ण पिप्पला- शनमिति जीव उच्यते । उदासीनं ध्रुवं हंसमिति परः। अत्र जीवसम्ब- - - .. .

वेदान्तभागः । मन्त्रिकाधिकारः.१७. ८५ .... न्धिनां ज्ञानानन्दादिकमनीयगुणानां 'सुपर्ण' मिति पक्षत्वेन रूपणम् । 'द्वा सुपर्णा तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्ननन्य ' इति द्विवचनान्यश. न्दद्वयघटितं वचनान्तरमत्र स्मर्तव्यम् । एवं प्रथमखण्डेन तवत्रयभेद स्सर्वतोमुख उक्तः। द्वितीयेन चेतनाचेतनप्रपञ्नस्य परमात्मापृथक्सिद्धपकारत्वेन त- दात्मकत्वं तदिच्छाधीनस्वरूपस्थितिप्रवृत्तिकत्वात्मकतत्पारतन्यरूपं, परमात्मनोऽन्तः प्रविश्य नियन्तृत्वरूपं तच्छरीरित्वञ्चोच्यते । तेन प्रथमखण्डे प्रयाणामत्यन्तभेदप्रतिपादनाधीना परमात्मन इव प्रकृति- पुरुषयोरपि स्वतन्त्रत्वस्वनिष्ठत्वादिशङ्का निरस्यते । तथा स्वच्छन्दः, वशानुगामिति पूर्वोक्ते स्वातन्त्र्यपारतन्त्र्ये राजभृत्यवैलक्षण्येन सार्वका- लिकसर्वपकारस्वातन्त्रयपारतन्त्रयरूपे शरीरिशरीरभावात्मके इति च वित्रियते । तत्रादौ स ब्रह्मचारित्तिश्चेत्यादिना ब्रह्मचारियादिस्स पर- मात्मैवेत्युच्यते । अत्र ब्रह्मचारिवृत्यादिपदानां स इत्यस्य च सामानाधि करण्यं शरीरात्मभावनिवन्धनं, न स्वरूपैक्यनिबन्धनं, न वा वाधार्थम्, असम्भवात् ; पूर्वोत्तरविरोधाच्च । 'पठ्यते बहुविस्तर इनि - बहुविस्तरे शास्त्रे अन्यदपि यत्पठ्यते – प्रतिपाद्यते तदपि स इत्यर्थः । यद्वा ब्रह्मचारिवृत्त्यादयो यैः पश्यन्ते ते सर्वेपि स एवेत्यर्थः । अथवा शा- स्त्रे ब्रह्मचारिवृत्यादयो ये पठयन्ते सर्वेपि स एवेत्यर्थः । अनन्तरं धूः यते - ' तं षड्शिकमित्येके सप्तविंशमथापरे । पुरुषं निर्गुणं सांस्यमथर्वशिरसो विदु ' रिति । अस्यार्थः, सत्त्वरजस्तमोगुणातीतं तं परमात्मानं षडिश इति, एके-कालतत्त्वस्य सर्वपदार्थविशेषणतकस्वरूपतया पार्थक्यमनि- च्छन्तो विदुः । तत्पार्थक्यमिच्छन्तोऽपरे तं परमात्मानं सप्तविंशं वि- दुः । सांख्यं -- बुध्द्याऽवधारणीयमिति । पटुिंशकमितीत्यत्र निपातेनो- तत्वेपि च्छान्दसत्वात् द्वितीया । एवमनेन प्रकृतिप्राकृतानि चतुर्विंश- तिरचेतनतत्त्वानि कालतत्त्वमेकं सामान्यतो जीवतत्त्वमेकं, .परमात्मा. चेति तत्त्वभेदाः दर्शिताः। अथ ' चतुर्विशतिसंख्याकमव्यक्तं व्यक्तमुच्यते' -- 22 ८६ भेद साम्रा ज्य म् । इति पूर्वोक्तस्य व्यक्ताव्यक्तरूपप्रकृतिप्राकृततत्त्वजातस्य परमात्मशरीर- त्वमुच्यते । अत्र प्रथममन्त्रस्थस्य स इत्यस्यानुषङ्गः । चतुर्विंशतिसं- ख्याकं स इति सामानाधिकरण्यं पूर्ववत् । परमात्मशरीरत्वमेवात्र प्रति- पाय, न तु तत्त्वसंख्याविशेषः, तस्य षडिशकमित्यादिनैव प्राप्तत्वात् । उपरि, 'अद्वैत द्वैतमित्याहस्त्रिधा तं पञ्चसप्तधा' इत्युच्यते। द्वयोर्भावो द्विता, द्वितैव द्वैतं, न द्वैतमद्वैत; चिदचिच्छरीरकपरमात्मन एकत्वात् , चिदचि- तोश्च प्रकारत्वेनाप्राधान्यात्तत्त्वैक्यमेव काश्चिच्छुतयो व्यवहरन्ति । अ- न्यास्तु 'ईशा वास्य' मित्यादयः स्वतन्त्रपरतन्त्रभेदविवक्षया तत्त्व- द्वित्वम् । इतरास्तु भोक्ता भोग्यमित्यादयः भोक्तभोग्यप्रेरयितभेदं पुरस्कृत्य तत्त्वत्रित्वम् । व्यक्ताव्यक्तकालजीवेश्वररूपेण तत्वपाञ्चविध्यमन्याः । त्रिविधचेतनाचेतनेश्वरभेदेन वा अद्रव्यकालप्रकृतिनित्यविभूतिधर्मभूत- ज्ञानविश्वरभेदेन वा सप्तविधत्वमपराः। अनन्तरं 'ब्रह्माद्यं स्थावरान्तन पश्यन्ति ज्ञानचक्षुषः । तमेकमेव पश्य- न्ति परिशुद्धं विभुं द्विजा' इति । अस्यार्थः, तत्त्वज्ञाः ब्रह्मादिस्थावरान्तं सर्व जगत्पश्यन्ति - जानन्त्येव । तत्त्वज्ञानदशायामपि प्रपञ्चं जानन्त्येव । अतस्तत्सत्यमेवेति भावः । कथं तर्हि ऐक्यदर्शनं तत्रतत्रोच्यत इत्य- वाह - तमेकमेवेति । सोपबृंहणसर्ववेदवेदान्तविदो द्विजाः परमात्मानं सर्वव्यापकं ब्रह्मादिशरीरकं तथापि तत्तद्गततत्तद्दोषरहितं तमेकमेव प- श्यन्तीति । परमात्मनोऽन्तर्यामितया जगद्व्यापित्वनिबन्धनं प्रपञ्चपर- मात्मनोरक्यमिति भावः । तत्वविदो जगत्पश्यन्ति, अथापि ब्रह्मकमेव पश्यन्तीत्युक्तौ, विरोधपरिहाराय प्रमाणान्तरैककण्ठयसिद्धये च ब्रह्मा- पृथक्सिद्धप्रकारतया पश्यन्ति, स्वनिष्ठतया न पश्यन्तीत्यर्थ एव वा. च्य इति । ननु अद्वैतमेव तत्वं, बहवो बहुधा चक्षुषस्तु सर्वं जगत् परमात्मानमेकमेव पश्यन्ति, तद्वयतिरिक्तं जगत्स्व- रूपेण न पश्यन्तीत्येव अद्वैतमित्यादेरर्थ इति चेन, भेदप्रतिपादकपू. वर्वोत्तरविरोधात् । “ त्रिधा, पञ्चधा सप्तधा' इति विस्तरवैयात् । पश्यन्ती- भेदं वर्णयन्ति । ज्ञान- वेदान्तभागः । मन्त्रिकाधिकारः. १७. . . त्यस्यैकस्यानन्वयाच्च । तथा योजनायामपि जगदाधासिदेश्व ! विद्यमा नयोयोर्जगद्ब्रह्मणोरक्यस्यैव तेन प्रतीतेः ! प्रतीयमानमैक्यं यत्र बाधितं तत्र लक्षणादिकमप्याश्रयणीयम् । अत्र तु वाधगन्धोपि नास्तीति शतशः प्रतिपादितम् । हेतूपन्यासपूर्वकं च श्रुत्यैव तत्पतिपाद्यते । तम्जला ' निति हि श्रुतिरिति । अत्राप्युक्ततादात्म्यहेतुरेवोच्यते यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावर- जङ्गमम् । तस्मिन्नेव लयं याति स्रवन्त्यस्सागर यथा । यस्मिन्मावा: प्रलीयन्ते लीनाश्वा व्यक्ततां ययुः । पश्यन्ति व्यक्ततां भूयो जायन्ते बुद्दा इव' इति । ब्रह्मे. त्येतल्लुप्तसप्तम्यन्तम् । यस्मिन्ब्रह्मणि प्रोतं. अन्तर्यामिणा येन व्याप्तमि- ति यावत् । यद्वा ब्रह्मपदं परिशुद्धजीवस्वरूपपरम् । अव्यक्ततां ययुः- अविभक्ततमोवस्था भवन्ति । पुनर्जलादुदुदा इव परमात्मनि पूर्वलीनाः पदार्थाः तस्माज्जायन्ते,तत एव व्यक्तत्वश्च यान्ति । तदिदं पश्यन्ति तत्त्व- विदश्शास्त्रत इत्यर्थः। अत्र — सागरे स्रवन्त्य इव लीयन्ते, जलादुद्दा इव जायन्त' इत्युक्त्या जगह्मणोरुभयोरप्येकद्रव्यत्वं सत्यत्वश्च सुदृढम- वसीयते । अत्र लयविषये उत्पत्तिविषये च दृष्टान्तविशेषोपन्यासाच्छूते. रादरातिशयोप्यत्र व्यज्यते । ईदृशव्यवहारेषु जगन्मिथ्यात्वं सर्वात्मना न सिद्धयेदित्यंशः पूर्व छान्दोग्याधिकारे सम्यगुपपादितः। अत्रापि स्वरूपशोधनेन पुनर्जाप्यते। नदीजलस्य समुद्रे लयो नाम - प्रवाहत्वरूपस्वावस्थाविशेषप्रहाणेन समुद्रपदवाच्यमहासलिलावयवैस्सह विभागानहसंयोगविशेषः। त. दानी प्रवाहत्वरूपावस्थाभावादेव प्रविष्टजलांशे न नदीत्वव्यवहारः। ई- दृशलयस्य पूर्वमभावादेव न नद्यां समुद्रत्वव्यवहारोपि । उभयावस्था. नुगतं सलिलत्वम् । एवं 'सलिलागुदुदो जायत' इत्युक्तं सलिलादुदुद स्य जननं नाम – अनेकसलिलांशान्तर्गतस्य कस्यचित्सलिलांशस्य तटाकत्वाद्यात्मकमहासलिलत्वावस्थापहाणेन सलिलत्वावस्थायां स. त्यामेव बुद्रुदत्वावस्थाप्राप्तिः । तत्र यस्सलिलांशो बुद्रुदत्वरूपेण परि- भेद साम्राज्य म् । णता, " सोऽशस्तं प्रत्युपादानमुच्यते । स तु कार्यरूपेण परिणामद- शायां स्वेन रूपेण न विद्यत एव । एवं बुद्धदस्य स्वकारणे जले लयो नाम, त्यक्तबुद्रुदत्वावस्थस्य प्राप्ततटाकत्वादिरूपमहासलिलत्वावस्थस्य सलिलांशम्य पूर्वस्थितताह- शावयवान्तरैस्सह संयोगविशेषः । सलिलाबुद्द उत्पद्यत इत्यत्रापि स लिलपदं बुदुदत्त्वेन परिणस्यमानसलिलांशसजातीयसलिलांशान्तरप- रम् । कस्यचित्सलिलांशस्य बुद्रुदत्वेन परिणाम एव तत्सजातीयां- शान्तराद्विभाग इति व्यपदिश्यते, तदा तदेवापादानमित्युच्यते । एवञ्च सति, कारणात्कार्यमुत्पद्यते, कारण एव लीयत इति पञ्चम्यन्तसप्तम्य- न्तपदाभ्यां कार्योपादानभूनकारणद्रव्यांशात्यन्तसजातीयांशान्तरमेवो च्यते । एकस्यैव च लयापेक्षयाधिकरणत्वं, उत्पत्तिरूपविभागापेक्षया पादानत्वञ्चेति बोध्यम् । एवमेव पृथिव्यप्सु प्रलीयत इत्यत्र, पृथिवी पृ. थिवीत्वावस्थां हित्वा अम्बुवस्था सती प्रागवस्थितेषु समुद्रादिजलेषु संसृष्टा भवतीत्यर्थः । अयः पृथिवी जायत इत्यत्रापि, अप्त्वावस्थानेकांशा. न्तर्गतः कश्चनांशः त्यक्ताप्त्वावस्थस्सन् प्राप्तपृथिवीत्वावस्थो भवती- त्यर्थो ज्ञेयः। इत्थञ्च ब्रह्मणो जगज्जायते, ब्रह्मणि लीयते, इत्यत्रापि ब्रह्मशब्दस्य प्रकृतिविशिष्टपरमात्मपरत्वात् , विशेषणीभूतप्रकृनौ मह- दादितत्तत्कार्योपयुक्तकारणांशातिरिक्तांशापेक्षया विशिष्टस्य ब्रह्मणो लयाधिकरणत्वोत्पत्यपादानत्वव्यवहारस्तवनत्र श्रूयमाणो निधि इत्यनुसन्धेयम् ॥ अस्तु वा अंशान्तरसंयोगतद्विभागायुपेक्ष्य केवलं पूर्वावस्थो- तरावस्थे एव सर्गलयौ, यथा हिरण्यात्कुण्डलमित्यादौ । सर्वथा ब्रह्म- णो जगज्जायते ब्रह्मणि लीयते इति व्यवहारतो जगन्मिथ्यात्वलाभा- योगेन परेषामीदृशस्थले तत्सिद्धिपतिज्ञानं वस्तुस्थित्युपपत्तिविरुद्धमेवे. ति ध्येयम् । वाचारम्भणमित्यादिश्रुत्या विकारजातानृतत्वप्रतिपादनमपि परेषां वृथायास एवमृदादिवत् घटादेरपि प्रतिपन्नोपाधौ कदापि बा- वेदान्तभागः । अनिरहस्याधिकारः.१८. धादर्शनेन 'आदित्यो यूपः' 'वहिरनुष्ण' इत्यादिवाक्यवत्तस्य वाक्यस्य मृत्तिकैव सत्या, घटादिमिथ्येति प्रत्यक्षविरुद्धार्थपतिपादकत्वायोगात् । तस्यार्थस्य तद्वाक्यात्स्वरसतोऽप्रतीत्यादेः पूर्वमेवोक्तत्वाच्च । ततश्चेय- मप्युपनिषत्परपक्षपराङ्मुख्येवेति सिद्धम् ॥ १७ ॥ अग्निरहस्योपनिषदपि मूक्ष्मचिदचिद्विशिष्टस्य नारायणस्यैव प- रमकारणत्वं, स्वाभाविकानेकगुणविशिष्टस्य वैश्वानरपुरुषादिपदवाच्य स्य तस्योपासनान्मुक्तिश्च प्रतिपादयति । तथाहि, उपक्रमे - नैव वा इदमने सदासीनैवाऽसदासीत् असदिव वा इदमग्रे सदिव वाऽऽसीत्' इति श्रू- यते । अत्र सदासीदिति सच्छदः अभिव्यक्तनामरूपकस्थूलवस्तुपरः। • असदासी' दित्यत्र सच्छब्दः सत्ताश्रयमात्रपरः । तथाच इदं जगत् सर्गादौ नैव सदासीत् ; नामरूपाभिव्यक्यभावात् । स्वरूपतस्सत्वान्नैव शून्यमासीत् । शशशृङ्गादिवदत्यन्तासत्त्वं, सर्गममय इवात्यन्तसत्त्वश्न कारणवस्तुनस्तदा नासीदित्यर्थः । तदेव तात्पर्य विधिरूपणाभिव्यन- तयुत्तरं वाक्यम् । इदमग्रे नामरूपव्यक्तधभावादसत्तुल्यमासीत् , स्व. रूपतस्सत्त्वात्सत्तुल्यमासीदित्यर्थः । अयं भावः – शशशृङ्गादिविलक्ष- णस्य केनचित्पमाणेन सिध्यतः पदाथजातस्य केवलसत्वं स्थूलत्वरू- पविशिष्टसत्त्वश्चेति द्विविधं सत्त्वमस्ति । शशशृङ्गादित्वीदृशद्विविधसत्वशू- न्यम् । तत्र कारणदशायां विद्यमानस्य विशिष्टसत्त्वाभावात् सर्वथाऽ सत्वाभावाच्च स्थूलतुच्छोभयवैलक्षण्यम् ; सवाश्रयत्वेन प्रपञ्चसाह- श्यम् । विशिष्टसत्वशून्यत्वेन तुच्छसादृश्यञ्चेति । इदञ्च वस्तु ब्रह्मा- त्मादिशब्दघटितकारणवाक्यान्तरैककण्ठ्यात् ब्रह्मरूपम् । एवञ्च निर- वयवनिर्विकारनिष्कृष्टब्रह्मणस्मक्ष्मस्थूलसत्तासाहित्यराहित्ययोर्दुस्सम्पा- दतया जगद्रूपपरिणामसमर्थप्रमाणपतिपन्नप्रकृत्यादिशब्दिताचिद्वस्तुवि- शिष्टत्वेनैव तस्मिन् ते उपपादनीये इत्युपपत्त्या प्रमाणकण्ठोक्तया च मूम- त्रिगुणद्रव्यविशिष्टं ब्रह्मैवात्र कारणत्वेनोच्यत इत्यास्थयम् । न च वा. च्यं तदेव द्रव्यं कारणमुच्यताम् ; किं तद्विशिष्टग्रहणेनेति; अम्य 'ईक्षते- 23 भेद साम्रा ज्य म्। नर्नाऽशब्द,' मित्यादिना विस्तरेण सूत्रकारैरेव निरस्तत्वात् । इदञ्च कारणं ब्रह्म, नारायण इत्येतदपि 'एको ह वे नारायण आसी' दित्यादि कारणवावयान्तरैककाठ्यात्सिद्धम् । तस्मादत्रापि स्थलान्तर इव कारण- त्वोपथिकसर्वज्ञत्वादिविशिष्टरमूक्ष्मप्रकृतिपुरुषशरीरकः परमात्मा नारा यण एव कारणं, स एव स्थूलपकृतिपुरुपविशिष्ट जगद्रूपं कार्यमि- ति, तत एव कार्यकारणयोरेकद्रव्यत्वसत्यत्वादिकमिति च निराबा सिध्यत्येव । इदश्च वाक्यं अविद्योपहितनिर्विशेषब्रह्मकारणवादे न सङ्गच्छते? कालविशेषे जगतस्सदसद्विलक्षणत्वसदसत्तुल्यत्वयोः प्रतिपादनात् । ननु प्रथमवाक्येन सदसदनिर्वचनीयमज्ञानमुच्यते, ब्रह्मकारणत्ववादि वाक्यान्तरानुगुण्यात् तदुपहितब्रह्मकारणत्व मुक्तं स्यादिति चेन्न - इदं. जगत् , कालविशेषे नैव सदासीत् , नैव असदासीदित्युक्ते, इदंपद वाच्ये जगति कालविशेषे सत्त्वासत्वनिषेधयोरेव प्रतीत्या, सदसदनि- र्वचनीयामतीतेः। न च इदमग्रे सदसद्विलक्षणमासीदिति श्रूयते । न वा 'न सदित्ये 'वं समस्ततया श्रूयते । अतोऽत्राज्ञानोपस्थापनमश क्यम् । किञ्चोत्तरवाक्यमपि तत्परं प्रतिरुणदि ! जगतः कालविशेरे सदसत्तौल्यप्रतिपादनस्य तत्पक्ष सर्वथाऽसंभवात् । किंबहुना, एकमेर वस्तु स्थूलसूक्ष्मावस्थाद्वयविशिष्टं सत्यमिति यावता नाभ्युपेयते, न ता- बतेदं वाक्यं सामञ्जस्यमनुभवितुमलमिति । अस्यामेव (४ - ब्रा) वै- श्वानरविद्या समाम्नायते । तत्र प्रकरणे स एषोग्निर्वैश्वानरो यत्पुरुषः इति तद्विद्यावेद्यस्याग्निवैश्वानरशब्दितस्य पुरुपत्वमुच्यते । यापुरुष इ- त्युक्तथा सहस्रशीर्षः पुरुषः इत्यादिवेदान्तवाक्येषु प्रसिद्धो यः पुरुषः, स एष वैश्वानरोग्निः इत्यन्वयः प्रतीयते । इत्थञ्च वेद्यस्य पुरुषसू. तोक्तसकलाकारवैशिष्टयं सिध्यति । पूर्वोक्तबृहदारण्यकवाक्येन पुरुष- पदस्य सर्वकारणत्व -- सर्वपापदाहकत्वरूपाकारद्वयपरत्वञ्च सिद्धम् । विद्याफलञ्च सर्वपापविनिर्मोकरूपमिति · अप पुनर्मृत्यु जयती' त्य- .

वेदान्तभागः । कौषीतक्यधिकारः, १९. - वोक्त्या सिद्धम् । छान्दोग्योक्तवैश्वनराविद्याया अस्याश्च रूपायेक्यादे- कत्वेनापि मोक्ष एव फलमिति सिद्धम् । मुक्तेद्वैविध्यस्य निष्पमाणक- स्वात् मुक्तिरियं सगुणब्रह्मोपासनजन्या मुख्यैवेत्यपि प्रतिपत्तव्यम् । तस्मादियमप्युपनिपत्पूर्वोपनिषत्समावेनि स्थितम् ।। १८ ।। कौषीतक्युपनिषदप्यैदम्पर्येणाऽचिरादिगतितत्याप्यदेशविशेष द्विशिष्टब्रह्मानुभवप्रकारप्रतिपादिनी परमतविरुदैव । तथाहि - तत्र 'ये व केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गन्छन्ती' तीष्टापूर्तादिकारि- णां विदुषाश्चास्माल्लोकात्मस्थितानां मध्येमार्ग नन्द्रप्राप्तिरुक्ता । यथा- कर्म यथाविद्यमित्युत्तरत्र श्रवणादुक्ताधिकारिद्वयविषयेयं चन्द्रमाप्तिः । • एतद्वै स्वर्गस्थ लोकस्य द्वार यश्चन्द्रमा ' इति च चन्द्रस्य भगवल्लोकदो. चारिकमायत्त्वमुच्यते । अत्र स्वर्गपदमप्राकृतदेशपरम् . न देवलोक- परम् । विदुषा प्राप्यदेशविशेषादरेवात्र प्राधान्यन प्रतिपिपादयिषित- वात् । तच्छेपन येवानिष्टादिकारिप्रस्तावस्य कचित्कृतत्वात् । अत्र तं प्रतियादित्यादिना विदुपश्चन्द्रमसश्च मिथस्संवादविशेषः श्रूयते । कोसीति चन्द्रमसा पृष्टो विद्वानुनरमाह विचक्षणादिति षभिः । हे कालप्रवर्त काः! निषेकादिकर्मक विचक्षणपित्रुत्पन्नश्रद्धासोमवृष्टयन्नरेतोरूपावस्था- पञ्चकयुक्त शोणितसंभृतभूतसूक्ष्मशरीरकोस्मि, ।, इतः परं निषेककर्तरि मुसि रेतोरूपेणावस्थानाय मां मा प्रेषयतति द्वयोरर्थः । अथ द्वाभ्यां भूर्वानुभूनं स्वस्यानेकयोनिसम्बन्धगर्भवासादिकमनुवदन्नाह पुनरपि 'तन्मा ऋतवो मर्यव आभरध्व ' मिति । हे कालप्रवर्तकाः! तस्माद्धेतोसं. माराय मां मा समर्पयतेत्यर्थः। असमर्पणे हेतुमाह - तेन सत्यन तपसतु. रस्म्यातवोस्मि त्वमस्मी' ति । भगवच्छरणवरणरूपेण तपसा प्रसन्नेन तेन सत्येन परमात्मना हेतुनाऽहं मासादिकालरूपोऽस्मि; तद्वर्तिपदार्थ- रूपोऽस्मि; चतुर्मुखोऽस्मि; त्वमप्यस्मीति तदर्थः। अत्राध्याहृतमहंपदं ऋत्वादिपदचतुष्टयच तद्वाच्यशरीरकपरमात्मपरम् । कालादीनां मम चैकात्मकत्वान्मा समर्पयतेति पूर्वेणान्वयः। अस्य चैकात्मकत्वस्य नि- ।

९२ भेद साम्राज्य म् । त्यस्य स्वरूपसतस्संसारासमर्पणहेतुत्वायोगेन परमात्मप्रसादसाध्यत्वा- योगेन चात्र तद्ज्ञानं विवक्षितम् । एवमुक्तवन्तं भगवल्लोकगमनायानु जानाति चन्द्रमा इत्याह 'तमतिसृजत ' इति । स एतं देवयानमित्यादिना चन्द्रमसाऽनुमतस्य विदुषोऽचिरादिगत्यादिकं विस्तरेणाऽऽह । प्रकरणमिदं परमते न सङ्गच्छते, 'तद्वैतत्पश्यन्नृषिर्वामदेवः प्रति- पेदे अहं मनुरभवं सूर्यश्चेती ति बृहदारण्यकवाक्यतुल्यतया 'तेन सत्येन.... स्वमस्मी ' त्यस्यापि ब्रह्मविद्याफलभूतसर्वभावापत्तिपरतया तत्प्राप्त्य- नन्तरं विदुषः प्राप्यान्तरायोगेन ' तमतिसृजते' 'स एतं देवयानं पन्थान' मित्यादिभिरुपरितनवाक्यैस्तस्यार्चिरादिमार्गप्राप्त्यादिपतिपादनायोगा- त् । तद्धि वाक्यं - 'तदेतद्ब्रह्म पश्यन्नि' ति ब्रह्मविद्या परामृश्यते । अहं मनुरभवं सूर्यश्चेत्यादिना सर्वभावापत्तिं ब्रह्मविद्याफलं परामृशति । प- श्यन्सर्वात्मभावं फलं प्रतिपेद इत्यस्मात्मयोगाद्ब्रह्मविद्याऽसहायसाध- नसाध्यं मोक्षं दर्शयति । भुञ्जानस्तृप्यतीति यवत'- इति परैविकृतम् । एवं यथाविद्यं तमागतमिति विदुषः पूर्वमुक्ता चन्द्रप्राप्तिरपि न सङ्गच्छते । उक्तसाक्षात्कारस्योत्क्रान्तः पूर्वमेव स्थितत्वात् ! नहींदानीमेव तादृश. साक्षात्कारस्संजात इति तेन सत्येनेत्यादिनोच्यते; अपितु पूर्वस्थितमेव स्वकीयं ज्ञानं संसारासमर्पणहेतुतयाऽनूद्यत इति । नन्वत्रार्चिरादिगत्यादिकमर्वाचीनसगुणब्रह्मविद एवोच्यते, अ- न्यथा गत्यनुपपत्तेः । सा हि देशविशेषप्राप्त्यर्था प्राप्यं फलं सर्वभाव- व्यतिरिक्तं परिच्छिन्नमवगमयति । अत एव तेन सत्येनेति वाक्यस्य न तद्वैतदित्यादिवाक्यसमानार्थकत्वमिति चेन्नः निर्गुणं सगुणमिति, पर- मपरमिति च द्वैविध्यं सर्वात्मना प्रमाणविधुरमित्यस्य द्वाविंशेऽधिकारे सम्यगुपपादयिष्यमाणत्वात् । निर्गुणविद्यापरत्वेन पराभिमतेषु प्रकर- णेष्वेव च गुणानामचिरादिगतेर्वा श्रवणेन तदभिपतविद्याविभागस्य दुस्स्थत्वात् । तथाहि - पराभिमतनिर्गुणब्रह्मपकरणेषु - कठवल्ल्यां शतश्चै .

वेदान्तभागः । ऐतरेयाधिकारः.२०. ९३ तथा . का च हृदयस्य नाडयस्तासां मूर्धानमभिनिस्सृतका । तयोर्ध्वमायन्नमृबत्वमेती' त्युत्क्रान्तिगती प्रतिपाद्यते । तथा भूमविद्यायां ' स एकधा भवति त्रिधा भवती ' त्यनेकशरीरपरिग्रहश्श्रूयते । निर्विशेषब्रह्मभावापत्तिस्तु तत्र नाघ्रातापि । तत्र केनचिद्युक्त्याभासेन निर्गुणविद्यात्वमङ्गीकृत्य श्रूय- माणगुणानां प्रकरणान्तरगतसगुणविद्यासम्बन्धवर्णनन्तु साहसमेव । तथा प्रजापतिविद्यायां 'एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योति- रुपसम्पद्य स्वन रूपेणाभिनिष्पद्यत' इति शरीरादुत्क्रान्तिश्श्रूयते अद्विद्यायामपि तस्य तावदेव चिरं यावन्न विमोक्ष्ये अश सम्पत्स्ये ' इति प्रा- रब्धावसाने ब्रह्मसम्पत्तिरित्युक्ता तदर्था यदाऽस्य वाङ्मनसि सम्पद्यते मनः प्राण प्राणस्तेजसि तेजः परस्यां देवताया' मित्युत्क्रान्तिः प्रतिपाद्यते। नथा वाजसनेयके पष्ठे तदभिपतनिर्गुणविद्यायामेव ' अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव । तेन धीरा उपयन्ति ब्रह्मविदरस्वर्ग लोकमित. ऊवं विमुक्ता' इति गतिः कथ्यते । उक्तपकरणेषु यथायथं तत्तद्गुण- योगोपि बोध्य इति । इत्थञ्च सगुणविद्यातिरिक्तपरविद्याऽभावाद निर्गुणं ब्रह्म कि- चित , तद्विद्या काचनेति सिद्धवत्कृत्य प्रकृते गत्यादिश्रवणात्सगुणवि- षयत्वमित्युक्तिनिरालम्बना । गतिश्रुतिस्तु ब्रह्मणस्सर्वव्याप्तत्वेपि वि. ग्रहादिविशिष्टतदनुभवस्वकीयस्वाभाविकगुणाष्टकाविर्भावादिरूपमुक्तेः- शविशेषप्राप्त्यनन्तरतया तदर्था गति प्रतिपादयतीति न कोपि विरोधः । एवमुपर्यप्यत्र ब्रह्मणश्चिदचिद्विशेषशरीरकत्वं, आनन्दत्वादिगुणवि- शिष्टत्वं, तादृशब्रह्मोपासनेन सगुणब्रह्मानुभवादिरूपमुक्तिश्च प्रतिपा- द्यत इति सुस्पष्टम् । सर्वञ्चेदं पूर्वाचार्यविस्तरेण विचार्य स्थापितम् । तत इयमप्युपनिषत्पूर्वोपनिषत्सोदर्येवेति सिद्धम् ॥ १९ ॥ ऐतरेयोपनिषदपि परमात्मनः प्रपश्चोपादानवनिमित्तत्वे, तदु- पयुक्तं स्वाभाविकसर्वज्ञत्वादिगुणगणं, प्रत्यक्परमात्मभेदं, तद्विषयको. पासनस्य दर्शनसमानाकारस्य मोक्षसाधनत्वं, शरीरादुन्क्रान्तस्योर्व + भेद साम्राज्य म् । . . . .. लोकनिशेषं प्राप्तस्य सर्वानिष्टनिवृत्तिपूर्वकसर्वकामावाप्तिरूपां मुक्तिञ्च प्रतिपादयन्ती पराभिमतांस्तत्वहितपुरुषार्थान् नितरां निवारयत्येव । तथाहि - उपक्रमे 'आत्मा वा इदमेक एवाग्र आसीत् , नान्यत्किञ्चन मिषत् स ईक्षत लोकान्नु सृजा इति, स इमल्लिोकानसृजते ' ति श्रूयते । अत्रा- त्मशब्दः 'आप्नोतेरत्तेरततेर्वा आत्मा, परस्सर्वज्ञस्सर्वशक्तिरशनायादिसर्वसंसा- रधर्मवर्जितः ' इति परैरेव व्याख्यातः । 'यदिदं नामरूपकर्मभेदभिन्नं जग- दात्मैवैकोऽग्रे जगतस्सृष्टेः प्रागासी' दिति इदंपदाग्रेपदविवरणपूर्वकम न्वयश्च दर्शितः। तथाचेदं विभक्तनापरूपं जगत् , अविभक्तनामरूप - सर्वव्यापकत्वादिगुणविशिष्टहेयगन्धरहितपरमात्माभिन्नं सृष्टेः प्रागा- सीदित्युक्तं भवति । इत्थश्चात्र जगद्ब्रह्मणोरभेदस्सत्यत्वं कार्यकारण भावः परमात्मनस्स्वाभाविकानेकाकारविशिष्टता च स्वरसतः प्रतीयत इति परेषामपि दुरपलपमिदम् । असति बाधके आत्मपदोपस्थापित- गुणानां स्वाभाविकत्वस्य, जगत उत्सर्गसिद्धसत्यत्वस्य च निवारका- भावात् । सत्यमिथ्यार्थयारक्यायोगेन सत्यब्रह्माभिन्नत्वेनोक्तस्य जग- नस्सत्यताया अपरिहार्यत्वाच । यत्वत्रोक्तरीत्या आत्मपदं व्याख्याय पुनः नित्यशुद्धबुद्धमुक्त- स्वभावोऽजोऽजरोऽमरोऽमृतोऽभयोऽद्वय' इति तद्विवरणं, तत् कण्ठोक्तगुणा- दिनिषेधाय न प्रभवति । किश्चैभिः पदैविभिन्नधर्माः प्रतिपाद्यन्ते, नवा, आयेऽनेकविशेषवैशिष्टयमात्मनो दुष्परिहरम् । द्वियीये वैयर्थ्यम् । न च तैयावृत्तिरूपा धर्माः प्रतिपाद्यन्ते; ते च ब्रह्मैवेति न दोष इति वाच्यम् - व्यावृत्तेरेकत्वे एकेतरविशेषणवैयर्थ्यात् । तत्तत्प्रतियोगिवि- शिष्टत्वेन तद्बहुत्वेपि ब्रह्मणो व्यावृत्तिरूपत्वासम्भवेन व्यावृत्तिमत्त्व- स्यैव वक्तव्यतया सविशेषत्वं पुनरप्यायातम् । भ्रमविरोधिनोऽसाधा- रणधर्मस्यैव व्यावृत्तिस्वरूपत्वाभ्युपगमात् । व्यावृत्तिर्भेद इति चाना- न्तरम् । भेदग्रहणेनैवाभेदभ्रमनिवृत्तिः । यद्ग्रहणेन तदाश्रयस्येतरसा- दात्म्यभ्रमो निवर्तते, तस्यैवाश्रयासाधारणस्य धर्मस्य व्यावृत्त्यात्मक .

वेदान्तभागः । ऐतरेयाधिकारः. २०. त्वमङ्गीकर्तु युक्तम् । प्रकृते च स्वतन्त्रस्य, स्वरूपे भासमाने धमसह स्य ब्रह्मणस्तादृक्ताभावेन व्यावृत्तिरूपत्वाभ्युपगमो न युज्यते ! ततः नित्यशुद्धेत्यादिना निर्विशेषोपस्थापनमशक्यमिति । यवत्रानन्दगिरिणोक्तं- ' यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मतिकीर्त्यते इति स्मृत्युक्तव्युत्पत्त्या रूढयाचात्मपदस्य भाष्योक्तार्थलाभ ' इति तदसङ्गतम् । परस्परविरुद्धयोस्सविशेषत्वनिर्वि- शेषत्वयोयुगपदेकपदप्रतिपाद्यत्वासम्भवात् । योगरूढत्वेनाभिमतपङ्कज- पदस्य पङ्कजनिकर्तृत्वरूपावयवार्थमात्रविवक्षायां कुमुदादीनामपि तार- शत्वात्तत्रापि प्रयोगवारणाय पद्मत्वं रूढ्यर्थतयाऽङ्गीक्रियते । तथाच तत्र पङ्कजनिकर्तृत्वपद्मत्वरूपधर्मद्वयविशिष्टे पङ्कजपदं मुख्यवृत्तमिति एकैकाश्रये तत्पदममुख्यमेवेति वस्तुस्थितिः । प्रकृते - आत्मशब्द- स्य सर्वज्ञत्वादिविशेषविशिष्टमात्रपरत्वेप्यतिप्रसङ्गाभावेन केवलयोगि- कत्वमेव युक्तमिति निर्विशेषत्वम्य रूढयर्थतावच्छेदकत्वकल्पनं निर्निब- न्धनम् । नहीशमपञ्चमृष्टिहेतुभूतसर्वज्ञत्वसर्वशक्तित्वादिविशिष्टमात्मा. न्तरमस्ति । पङ्कजपदवदात्मपदस्यावयवार्थसंवलितरूढ्यर्थविशिष्टवस्तु- परत्वञ्च दुर्घटम् । तयोरेकत्र समावेशायोगात् । न चेश्वरेऽतिप्रसङ्ग- वारणाय निर्विशेषत्वस्य तथात्वमङ्गीकार्य, समानसत्ताकयोंरव भावा- भावयोर्विरोधेन विशेषतदभावयास्समावेशश्च संभवति; विशेषसम्बन्ध- स्यापारमार्थिकत्वात् , तदभावसम्बन्धस्य पारमार्थिकत्वाचेति वाच्यम् , तथासनीश्वरस्यापीदृशाकारद्वयवत्त्वेन तस्य व्यावय॑त्वासंभवात् । न- न्वीश्वर एवेदंपदं योगरूढमिति चेत्र , रूढनिष्प्रयोजनत्वप्रसङ्गात् । 'सर्वज्ञादिशब्दोपलक्षितस्सत्यज्ञानानन्दरूपाखण्डै करस आत्मा उपक्षिप्त ' इति वक्ष्यमाणविरोधाच्च । किञ्च निर्विशेषत्वं रूढयर्थतावच्छेदकमित्यत्र प्रमा णमपि नोपलभ्यते । सिद्धान्ते तु प्रयः प्रकारा बाध्याः, आप्नोती- त्यात्मेति अन्तर्यामित्वेन यत्किञ्चिद्वयाप्तिमात्रविवक्षायां जीवपर- साधारण आत्मशब्दः । तत्रैव नारायणत्वस्य रूढयर्थत्वविवक्षायां भेद साम्रा ज्य म् । भगवत्येवाय योगरूढः । निरुपाधिकसर्वान्तर्यामित्वरूपव्याप्तिविवक्षा- यां तस्मिन्नेव केवलयौगिक इति। अत्रानन्तरे पक्षद्वये जीवात्मादावीप- चारिक एव प्रयोग इति बोध्यम् । 'अततीति व्युत्पन्या त्रिविधपरिच्छेद- राहित्यं लभ्यत ' इति यदुक्तं, तन्न । अत - सातत्यगमने' इति स्मरणा- द्वारवादीनामिव ब्रह्मणस्सदागमनशीलत्वमेव लभ्येत । तच्च विभोर्विरु- द्धम् । — सन्ततो भाव' इति स्मृत्यापि सदैकरूपसत्ताश्रयत्वमेव लभ्यते । ' सत्ताप्रदानेनोपादानत्वसूचनात्सर्वशक्ति त्वं लभ्यत' इत्येतदप्यसङ्गतम् । स- त्तापदेन पारमार्थिकसत्ताविवक्षायां जगतस्सत्यत्वप्रसङ्गात् । प्रातिभा- सिकविवक्षायामपसिद्धान्तात् । व्यावहारिकविवक्षायां सर्वशक्तित्वम्- चनायोगात् । अधिकभ्रमवत्वं हि तदा लभ्येत । न हि लोके नितरां भ्रान्तस्सर्वशक्तिरिति व्यवहियत इति । यत्तु-' नान्यत्किञ्चनमिप' दित्यत्रानन्दगिरीये वाक्यार्थवर्णनं यथा सां- ख्यमते आत्मापेक्षयाऽन्यत्स्वतन्त्रं स्वतस्सत्ताक प्रधानमस्ति, यथा वा काणादमते तथाविधा अणवस्सन्ति तथाऽऽत्मापेक्षया स्वतन्त्र स्वतस्मत्ताककिमपिनास्ति, मा- यात्वात्मशक्तितयाऽऽत्मन्येवान्तर्भूतेति तत्सत्त्वेप्यन्यनिषेध उपपद्यते । इदं जगदने सजातीयविजातीयस्वगतभेदरहितात्मैवासीदिति ‘आत्मा वा' इत्यादेमिषदित्यन्तस्या- र्थः । यद्यप्यात्मशब्देनैव ब्रह्मणोऽखण्डे फरसत्वमुच्यते, तथापि तदेव, एकशब्दः, एवकारः, : नान्यत्किञ्चन मिष ' दिति वाक्यञ्च क्रमेण सजातीयभेद स्वगतभेद विजातीयभेदानिराकुर्वन्ति सन्ति दृढीकुर्वन्ति । नचाने जगत आत्ममात्रत्वोक्तेन किञ्चित्प्रयोजनम् ; 'आत्मा एक एवासीत् , नान्यत्किञ्चन मिष ' दित्येतावतैवा. स्मनोऽखण्डत्वसिध्देरिति शङ्कयं, जगतोऽद्वितीयात्ममात्रत्वेन मृषात्वमिति सूचना- यैव तथोक्तेः । ननु 'इदमात्मैवासी । दिति सामानाधिकरण्येनात्मनो जगद्वैशि- ष्टयमेव प्रतीयते, न तु मृषात्वमिति चेन आत्मा, एकः, एव, इति पदैरुक्ते अखण्डैकरसे तद्विपरीतजगत्प्रतीतेरतस्मिंस्तदुद्धिरूपत्वेन मृषात्वसिद्धेः । जगद्वै- शिष्टयस्य, घटस्सन्नित्यादिरूपेण प्रत्यक्षसिद्धतया प्रयोजनाभावेन च तत्प्रतिपाद- नानुपपतेरपि मृषात्वमेव तदर्थ इत्यास्थेयम् । वमेव तदर्थ इत्यास्थेयम् । ' न मिप' दिति स्वतन्त्रवस्त्वन्तर- . - .

वेदान्तभागः । ऐतरेयाधिकारः. २०. 1 | सन्ततः निषेधेन, तस्य स्वतस्सत्तानिषेधादपि मृपात्वसिद्धिः। नचेदानीमपि जगन्मृषा- स्वात्माखण्डत्वयोवक्तुं शक्यत्वानू अग्रे इति व्यर्थमिति वाच्यम् , इदानीमात्म. भिन्नतया पृथक्सत्त्वेन च प्रतीयमानस्याऽऽममात्रके बोधित विरोधिप्रतीत्या सहसा तस्य बुध्द्यनारोहस्स्यादिति गुडाजे हु कान्यायेन पृथड्नामरूपानभिव्यक्तिदशायामा- ममात्रत्वबोधने पश्चात्तन्न्यायेनेदानीमायाममात्रत्वं ज्ञास्यतीति तत्मार्थक्या ' दिति।। यदपि विद्यारण्येन दीपिकायापेतद्वाक्यार्थवर्णनं - 'व्यवहारवि- शिष्टः केवलश्चेत्यात्मा द्विविधः । व्यवहारोपि जागरणस्वप्नमुषुप्तिरूपंण त्रिविधः। सत्र ‘यच्चाप्नोती ' त्यादिस्मृन्या पूर्वार्धन व्युत्क्रमणावस्थात्रयमात्मन उच्यते । पर- मानन्दरूपं ब्रह्म प्राप्नोति, जागरणस्थपदार्यवामना आदते, बाह्यविपया मुझे इति तदर्थात् । उत्तरार्धन केवल्यम् । भावः - स्वभावविशेषः परिच्छेदरहितः। तथाचाव ण्डेकर यन मानलनात्मशब्दप्रवृत्तिनिमित्तमिति । आत्मशब्दः यौगिको रूढो याऽग्वण्डे करमामयं जगदधिष्टानतदीयवास्तवस्वरूप भूतपदार्थपरः ! प्र-यमानमिदं जगत् सूयः पूर्वगात्मकर्मिीत ; न तु तत्कार्यभूतं नामरूपात्मक जगदासीदिनि या पयार्यः। वैशब्देनाम चरा शब्दप्रययावपि ना. स्वामित्युच्यते । लोके घटशरावाडियाय भावदना रामपि मृदिषयौ शब्दप्रत्ययौ स्तः, न तथालि । इदश्च सामानाधिद रयं बाधा, यजगत्वेनेदानी प्रतिभासते, त. उजगन्न भवति, किन्त्वात्मेति । कालवाचकशब्दः ' अमी' दिति च परप्रसि- न्यैव | अन्यथा सत्ताविशिष्ट आत्मेत्यर्थाशीकार ऽग्यण्डेक.रमत्वं हायेत । अन्यत् - प्रकृतादात्मनो विलक्षणं वस्तु, न मिपत्- नासीदित्यर्थः ; धातनामनकार्थत्वात् । सर्वथा सर्वभेदशून्य आत्मात्र विवक्षित ' इति । तदेतत्सर्वमसङ्गतम् । सत्यभूतप्रकृतिव्यनिरकेण मिथ्याभूतमाया- याः कारणभूतात्मशक्तित्वस्य प्रमाणतोऽलाभात् · नान्य ' दिति निपे- घस्य तद्वयतिरिक्तविषयत्वेन सङ्कोचासंभवात् । मिथ्यात्वेन ब्रह्मान्त- भूतत्वोक्तिरप्ययुक्ता, सत्येऽसत्यान्तीवादर्शनात् । मिथ्यार्थस्य सत्य- शक्तित्वमप्यनुपपन्नमदर्शनादेव । मिथ्यार्थस्य शक्तित्वमेव दुर्घटम् , कार्योपयोग्यपृथक्सिद्धविशेषणत्वस्यैव शक्तिवरूपत्वात् ; तथान्वाङ्गी- 25 भेद सा म्रा ज्य म् । कारेऽर्थक्रियाकारित्वप्रसङ्गेन मिथ्यात्वासिद्धेः । आत्मशब्दोऽखण्डक- रसपर इत्यययुक्तं, तस्य चतुर्थी व्युत्पत्तिप्रदर्शनायोगात् । जगत आ- त्ममात्रत्वोक्तिप्रयोजनवर्णनमपि विरुदम् ; सत्यात्मभावन्योक्ता जगत- स्सत्यब्रह्मभिन्नानात्मकत्वं सिध्येत् , न मिथ्यात्वमिति । न हि घटस्य मृत्तिकामात्रत्वोक्त्या कोपि मिथ्यात्वं जानाति । अपितु मृत्तिकातिरि- तानात्मकत्वम् । अन्यथा घटोऽयं प्राङ्मृतिकवासीदित्युक्ते, तस्य लोहा. द्यात्मकत्वमपि जानीयादविशेषात् । न चेदमासीदिलीदमर्थस्य कार्य- त्वसिद्धया ; वाचारम्भणश्रुत्या मिथ्यात्वसिद्धिरिति वाच्यम् । 'जगत- स्तथाविधाममात्रतया मृषात्वं सूचित' मिति भवत्पतया तदर्थालाभात् । आत्मकार्यतयेति हि तदा प्रयोक्तव्यम् । वाचारम्भणश्रुतेर्मिथ्यात्वपर- त्वासम्भवस्योपपादितत्वाच्च । यच्च सामानाधिकरण्यन जगद्वैशिष्ट्य- सिद्धिमाशङ्कयोक्तम् – अखण्डैकरमे तद्विपरीन जगत्पतीतेभ्रंमत्वमेवेनि तच्चायुक्तम् । भवदुपात्तस्मृत्यैवात्मपदस्यानेकविशेषणविशिष्टपरत्वसि- याऽखण्डेकरसाप्रतीतेः । विशेषणमिथ्यावाद्वस्तुतो निर्विशेष एन तदर्थ इति तु नंदानी वक्तुं शक्यम् । मिथ्यात्वस्यासिद्धतयाऽन्योन्या- श्रयात् । एकशब्द एवकारश्च प्रथमश्रुतात्मपदार्थानुरोधेनेव नेयौ, नीतो च नीतिविद्भिः। जगद्वैशिष्टयस्य प्रत्यक्षसिद्धत्वकथनमप्यसङ्गतं स्वमतविरुद्धश्च । घटस्सन्नित्यदौ घटादिनिष्ठकालसम्बन्धित्वाद्यात्मकसत्ताव्यातिरकेण ब्रह्म प्रतीतेरजननात् । तत्र सत्ताया ब्रह्मरूपत्वे घटोसन् , पटोसनित्यादा- वसत्ताया अपि तद्रूपत्वं दुर्वारम् । ब्रह्मणःप्रत्यक्षविषयत्वे मेयत्वेन घटादिवज्जडत्वप्रसङ्गः शास्त्रस्यानुवादरूपत्वेनाप्रामाण्यप्रसङ्गश्च; प्र- माणान्तरसिद्धत्वेऽनधिगताबाधितार्थकत्वरूपप्रामाण्यस्य दुर्वचत्वात् । नापि ब्रह्मणो जगद्वैशिष्ट्यप्रतिपादनं निष्प्रयोजनम् । स्वातन्त्र्येण प्रतीय- मानस्य जगतो ब्रह्मकार्यत्वनियाम्यत्वादिरूपाप्रतिपन्न - वास्तवाकार- ज्ञापनार्थतया महाप्रयोजनत्वात् । न मिषदिति स्वतन्त्रवस्त्वन्तरनिषेधे वेदान्तभागः । ऐतरेयाधिकार:. २०. च वस्तुनः परतन्त्रत्वं सिद्धयेत् , न मृपात्वम् । स्वतस्सत्तानिधेपि पराधीनसत्ता स्यादेव । न च स्वतस्सत्ताकत्वं सत्यत्वं ; पराधीनसत्ता- कत्वं मृपात्वमिति वाच्यम् --- पारिभाषिकत्वांपत्तेः । परानसत्ता- कमप्यर्थक्रियाकारित्वात्सत्यमेव ह्युपलभ्यते । यच्च अन इत्यस्य सार्थक्यवर्णनं, तदप्ययुक्तम् । इदं सर्वमात्मैव, तद्वयतिरिक्तं मिपत् स्वतस्सत्ताक स्मन्नास्तीत्युको मुखनार्थस्य बु. ध्यारोहसम्भवेनेदानी तनिषधेप्यनुस्पत्यभावाद । सहसंदंनास्नीत्युक्ति- दि नारोहेत् । यस्तावत्कारणदशायां पराधीनरात्ताकं मूमं वस्त्वगी. करोति, स कार्यदशायां स्थूल वस्त्वङ्गीकुर्यादेव । अत्राग्रपदाभावेऽर्थ स्यास्य बुद्धयनारोहमाशङ्कमाना भगवती श्रुनिः कथमन्यत्र निश्शका सती सुतरां बुद्धयनारूढं घटादिविकारमिथ्या दृष्टान्तवनावष्टभ्येकवि- ज्ञानेन सर्वविज्ञान प्रतिज्ञानं समर्थयतति परत पालोचनीयमिति यत्किञ्चिदेतत् । आनन्दगिरीये - 'इदानी जमविशिष्टामरतिभासन्न बाधानुपपत्त्या स्थिति कालं परित्यज्याग्रशब्देन प्राकल उपायते' इति दीपिकोक्तमनूध यद्दपितम् , 'तथासत्यग्रपदवेयर्थम् । आरोप्यप्रतीदिशायमित्र चारसम्थाणुरित्यादौ बाधदर्शनने- हापि जगत्प्रततिदशायामेत्र बावस्य । सृष्टेः प्रागप्रती- तस्य बाधानुपपत्तश्च । कालिक निषेधस्यैव बाधरूपतया प्र.काल एव निषेधे तस्य बाधरूपत्वासंभवाच्च । नहि करते घटे, पूर्व न रक्तो बट इति प्रत्यय बाधं मन्यन्ते । अतएव भाष्ये 'प्रागुत्पत्तरव्याकृतनामरूपभेदात्मभूतं जगदा सीदि 'ति जगतः कारणात्मन। सत्तवाक्ता न तु बाध ' इति, तदस्माक- मभिमतमेव । परन्तु कारणवाक्ये सामानाधिकरण्यस्य वाधार्थत्वं दूषि- तवतो भवतः का गतिरिति पृच्छामः । इदं पूर्वमात्मभूतमासीदित्यु तो एकस्मिन्वस्तुनि प्रपञ्चत्वमात्मत्वञ्च सिध्येत् । इत्यञ्च वाधार्थत्वे निषिध्यमाने प्रपञ्चात्मनोयोरप्येकवस्तुत्वं, सत्यत्वमिथ्यात्वान्यतर- चाश्रयणीयम् । एवं 'जगतः कारणात्मना सत्तेवोक्ते' त्यप्यसमञ्जसंत्वत्पक्षे, न्याय्यत्वात् भे द साम्राज्यम् । -- कालविशेषे मूक्ष्मरूपेण तत्सत्वमेव हि ततः प्रतीयते. कारणव्यतिरेकेण सत्ताऽभावश्च त्वया वक्तव्यः । स च वाधनिषेधे कथं लभ्येत । 'सत्संस्थानमात्रमिदं सर्वमिति युक्तं प्रागुत्पत्तस्मदेवेति । ननु निष्कलं- इत्यादिश्रुतिभ्यः निरवयवस्य सतः कथं विकारसस्थानमुपपद्यते ! नैष दोषः । रज्ज्वाद्यवयवेभ्यसदिसंस्थानवत् , बुद्धिपरिकल्पितेभ्यम्सदवयवेभ्यो विकार संस्थानोपपत्ते' (छा. ६ २) रिति भाष्यवाक्येन प्रदर्शितं सर्वमपि सामानाधिकरण्यमुपपन्नम्, बाधश्च मिध्यति । यथावल्यज्ञातेभ्यो रज्ज्वाद्यवयवेभ्य . स्सर्पदिसंस्थानमनिर्वामिष्टं, तथा श्रुति जनित जग कारणत्वबुध्यनुपपत्त्या कहिप- तेभ्यस्सतो मायोपाधिकस्यावयवेभ्यो विकारसंस्थानमुपपद्यते । तस्मादयं द्वैतपञ्चो ब्रह्मविवर्तस्संभवतीति तदर्थात् ' इति न वाच्यम् . एवमपि सामानाधिकर- ण्यानुपपत्तेः । उक्तभाष्यवाक्येन ब्रह्माणि परिकल्पिनावयवपरिणामरू. पत्वं जगत उक्तमुपलभ्यते । अयश्च वादो मायावाद एव पर्यवस्यति, जगतो मिथ्योपादानकत्वाविशेषात् । ततश्च जगदिदं मायाऽभूदिति निर्दे शसंभवेपि ब्रह्माभूदिति निर्देशो न संभवति । दृष्टान्तोपन्यासश्चानु- भवविरुद्धः । न हि लोके रज्ज्ववयवेभ्यः परिणतं सर्पसंस्थानं कोपि प्रतिपद्यते । अपितु दोषवशादयं रज्जु सर्पतया भ्राम्यतीत्येव । नन्वक्य- वोपादानकत्वेप्य वयव ब्रह्मणोरभेदात , ब्रह्मोपादानकत्वसिध्या सा- मानाधिकरण्योपपत्तिरिति चेन्न ,कल्पिताकल्पितयोरभेदायोगात्। ततश्च कारणवाक्येपि जगद्ब्रह्मणोस्सामानाधिकरत्यं वाधार्थमेवाश्रयणीयं ज- गन्मिथ्यात्ववादिना । तच दृषितं तेनैवेति नन्मते न कापि गतिरिति । दीपिकोक्तार्थानुवादश्च यथावन्न कृतः, ' नन्विदमात्मासीदिति सा- मानाधिकरण्येन जगद्वैशिष्टयमात्मनः प्रतीयते । मेवं, नैशिष्टये सत्यग्रशब्दवैय- र्यप्रसङ्गात् । इदानीं जगद्विशिष्ट आमा प्रतिभासत इत्यनुपपत्त्या स्थितिकालं प- रित्यज्य केवलमात्मानं वक्तुं प्राचीनकाल उपादीयते। तदेवमननाखण्डकरममा. स्मतत्त्वं सूचितं भवति । यदि तत्रापि जगदनुवर्तेत, इदानी व्यर्थोऽयमनशब्द- प्रयासस्स्यात् । सामानाधिकरण्यन्तु बाधायामप्युपपद्यते ' इति तदीयो ग्रन्थः।

सन्ततः वेदान्तभागः । ऐतरेयाधिकारः. २०. १०१ अत्र अनुपपत्त्येत्यस्य जगद्विशिष्टत्वानुपपत्येत्यर्थः । न तु बाधानुपप- त्येति; पूर्वापरानुगुण्यादित्यलम् ।। दीपिकायां - ' यच्चास्य सन्ततो भाव ' इत्यंशस्य केवलात्मपर- त्ववर्णनमपि विरुद्धम् । वाक्यत्रयवदस्याप्यात्मशब्दव्युत्पत्तिप्रदर्शकत्वे- नाखण्डै करसत्वाप्रतिपादकत्वात् । तत्र तिङन्तपदेनार्थविशेषः प्रदर्शि- तः । अत्र तु सुबन्तपदेनेतीयदेव हि वैषम्यम् । अस्य सन्ततो भाव- इत्यात्मनो धर्मिणस्सन्ततत्वविशिष्टभावरूपधर्म उच्यते । भावः स्वभावविशेषः । परिच्छेदरहित ' इति अतति सातत्येन सर्वत्र गच्छती स्यात्मेति चतुर्थ निर्वचन' मिति च भवतोक्तम् । अनेनापि सार्वका- लिकं व्याप्तत्वमेवोक्तं भवति । इत्थञ्चारखण्डैकरसत्वेन सन्ततत्वं कथमात्मशब्दप्रवृत्तिनिमित्तं प्रतिज्ञायते। यौगिको वे' त्याद्यप्ययुक्तम् । यौगिकत्वेऽखण्डकरसत्वासिद्धः । तत्र रूढौ च न प्रमाणम् । ' इदमग्रे आवासीत् , न तु तत्कार्यभूत जगदासी ' दिति वाक्यार्थ- कथनमप्यसम्बद्धम् । इदम्पदार्थस्य कालविशेपे आत्मभिन्नत्वनिषेधस्य ततः प्रतीतेः । बाधार्थ सामानाधिकरण्यं तु व्याहतम् , लक्षणादि दुष्टश्चेति पूर्वमेवोक्तम् ! वैशब्दतात्पर्यवर्णनमपि नेष्टसाधकम् । आत्म- नो बहुविधविशेषवत्वेपि तदानीं भवदुक्तरीत्यैव तदुभयाभावोपपत्तेः । 'जिहाऽभावेन मनोऽभावेन च शब्दप्रत्ययाभाव' इति खलु भवदुक्तिः। एव- मेव, ‘कालवाचकशब्दः परप्रसिध्धे' त्यप्ययुक्तम् । न मिपत्-नासी दित्यर्थवर्णनमपि क्लिष्टम् । तस्मादस्य वाक्यस्य त्वदभिमताबोधकत्वात् अनेकप्रमाणानुसाराच्चैवमर्थो वर्णनीयः । स्थूलरूपमिदं जगत्सृष्टः प्राक् तादृशात्माभिन्नमासीत् , तद्वयतिरिक्तं किमपि तदानीं विभक्तनामरूपं नासीदिति । मिषत् विकसत , विभक्तनामरूपमिति । यद्वा मिष स्पर्धा- या ' मिति स्मृतेर्मिषत् – स्पर्धमानम् । ईदृशपरमात्मसदृशं वस्तु का- लत्रयेपि नास्तीति । स्पर्धाशब्दस्तुल्यार्थ आलङ्करिकरिष्यते । तेनार्हति ब्रह्मणा स्पर्धित कः ' इति च श्रुतिः । अत्रेदम्पदं स्थूलशरीरकात्मपरम् । । 26 १०२ भेद साम्राज्य म । , . निर्विकारस्य स्वरूपेण परिणामासंभवान्। शरीरवाचकस्य शरीरिपर्यन्त- त्वस्य स्थापिनत्वात । वाधार्थसामानाधिकरण्यविवर्तोपादानत्वयोरयो. गाच्च । आत्मशब्दोपि, प्रधानस्यापि कारणत्वश्रवणात् , 'अयमात्मा मुखी, दुःखी ' त्यादाविवार्थसामदेिवोचिनविशेषणविशिष्टपरत्वसंभ- वाच्च मूक्ष्मचिदचिद्विशिष्टपरः । इत्थ युवाऽयमधिक ज्ञानो देवदत्तः पूर्वपल्पज्ञानी वालाऽभूदितिवदयं निर्देशः । पक्षेऽस्मिन्न कोपि दोषः; सर्वप्रमाणानुगुण्यञ्चेति ॥ एवमुपरि- ' स इगल्लिोकानसृजत ' इति लोकानां सृज्यत्वश्रव- णात्सत्यत्वमवसीयते । अवस्तुनस्सृष्टयसंभवात् । सर्गः, उत्पादनम् , उत्पत्त्यनुकूल उत्पादयितृगतो व्यापारः । उत्पत्तिश्चाद्यक्षणसम्बन्धः। ततश्चात्मनो लोकानामाद्यक्षणसम्बन्धकरत्वसिध्द्या,लोकानां कालविशे- पसम्बद्धत्वमवगनमिति सत्यत्वं दुर्निवारम् । कालसंबन्धस्य सत्यत्वव्या- सत्वात् सत्यत्वरूपत्वाहा । अतस्त्रैकालिकनिषेधप्रतियोगित्वरूपमिः थ्यात्वं दुर्वचमेव यावत्र भाष्ये मोपादानस्तक्षादिः प्रासादादीन्सृजती- ति युक्त,निरूपादानस्त्वात्मा कथ लाकान्सृजती'त्याशय, मायैवोपादानमिति समाधायानन्तरं, आत्मैवोपादानं माया तु सहायमात्रम् । परिणामो नाम विव- तदान्यो नास्त्येवंत्यभिप्रायेण मायाविदृष्टान्तोपन्यासपूर्वकं अथवा सर्वज्ञ दयस्सर्वशक्ति महामाय आत्मानमेवात्मान्तरत्वेन जगपण निर्मिमीत इति युक्ततर' मित्युक्तम् । तत्र विचार्यते, किमत्र निर्विशेषमुपादानमिति मतम् , उत सविशेष ईश्वर इति, आये स्रष्तृत्वासंभवः, स्वाभाधिकनित्यचैतन्येन कथं कादाचित्केक्षणमिति परैरेवोक्तन्वात् । सर्वज्ञत्वसर्वशक्तित्वादिकथ- नासाङ्गत्यश्च । द्वितीये, सर्वज्ञत्वादेरपि ब्रह्मव्यतिरिक्तस्य जगत्तुल्ययो- गक्षेमतया, तत्सष्ट सोपादानं निरूपादानं वेति जिज्ञासायां, अनया दिशा निरुपादानत्वस्यैव वक्तव्यतया निरुपादानेन सर्वज्ञत्वादिसृष्टि. वत् जगत्सृष्टेरप्युपपत्या सर्वज्ञत्वादीनां जगत्मृष्टशुपयुक्तत्वेनोपन्यासा साङ्गत्यम् । सर्वज्ञत्वादिसृष्टयर्थ गुणान्तराङ्गीकारे तस्यापि जगत्तुल्यतया- वेदान्तभागः । ऐतरेयाधिकार:.२०. . ऽनवस्था। ननु मायावदवस्तुभूनमनादि सर्वज्ञत्वादिकं जगन्मृष्टशुपयुक्तं गुणजातमपि कारणदशायां विद्य। एवेति चेन्न-नान्यांकञ्चन मिष' दि- ति निषेधात् । मायाया इबपामपि शक्तित्वमङ्गीकृत्यान्यविषये निषेध- परिपालने, श्रीविष्णुपुगणादः शक्ति नोक्तम् चननाऽचेतनप्रपञ्नस्य परमात्मापृथसिद्धपकारस्थ सम । सवमभ्युपगच्छद्भयः कि- मिति कुप्यसि । एवमत्र (१.३) स एतमेव पुरुपं ब्रह्म ततमपश्यदिदमदर्श- मिति । तस्मादिदन्द्रो नामे ति श्रूयते । अत्र यस्माद्धेत रुपासक उपास्यं ब्रह्म * इदमहमदर्शमि' ति साक्षात्कारानन्तरं व्यवहरति तस्मात्तब्रह्म इदन्द्र इत्युच्यते । एवमणि 'इदं ब्रह्म ममामनरस्वरूप- मदर्श ' मिति भापणं स्वेच्छामूलम् ; सः ब्रह्म अपश्यत् , इदमदर्श- मिति स्फुटपतीतजीवपरभेदविरुद्धञ्च । एवं ‘स एवं विद्वानस्माच्छरीर- भेदादूर्ध्व उत्क्रम्य मुष्मानस्वर्ग लोक मान्कामानवाऽमृतस्ममभव' दिति विदुषो वामदेवर । मुक्तिरूपं फलं श्रूयो । अत्र यद्भाष्यं शरीरस्या- विद्यापरिकल्पितम्य भेदात , विनाशात् , उर्वः परमात्मभूतस्सन् , अधो- भावात्संसारादुत्क्रम्य ज्ञानाद्योतितामलम्वत्मिभावमापनस्सन्नमुष्मिन् ,यथोक्तेऽजरे- ऽमरेऽमृते स्वर्ग लोक स्वस्मिन्नात्मनि वे स्वरूपेऽमृतरसमभवदात्मज्ञानेन, पूर्वमाप्त- कामतया जीवन्नेव सर्वान्कामानाप्त्वेत्यर्थ ' इति, यच्च विवरणं 'ऊर्ध्वशब्दस्यो- परितनवाचित्वात् , परमार्थवस्तुन एवं कदाचिदम्यधोभावरूपनिक भावन नि- रुङ्कुशोपरितनभावादू-शब्दाशत्व - मित्यादि, एतदुभयं भेदवादविद्वेपमू- लमेव । शरीरभेदात् , उत्क्रम्य ऊर्थे, अमुष्मिन्स्वर्गे लोके, सर्वान्का- मानाप्त्वा, इत्येतेषु पदेषु निसिपस्वात्ममापनावस्थानं, पूर्व जीवद्द- शायां सर्वकामावाप्तिरित्येवंरूपार्थासंभवादिति ॥ एवं तृतीयाध्याये - 'कोयमात्मेति वयमुपास्महे ' इत्यत्र 'उपासनं नाम- उप सामीप्येन ऐक्येन; तस्यैव निरुपचरितसामीप्यत्वात् । ऐक्येनापरोक्षी- कृत्याऽऽसनं - तं पणावस्थान' मिन्युपासनशब्दविवरणमानन्दगिरिकत- .

१०४ भेद सा म्रा ज्य म् । मपि पध्यस्थाः परामृशन्तु । तस्मादियमप्युषनिषदुपशमिताद्वैनेति सिद्धम् ।। २० ॥ श्रीनृसिंहतापनीयोपनिषदपि, मन्त्रराज इति ख्यातस्य श्रीनृसि- मानुष्टुभस्य वर्णपदशक्तिबीजाङ्गमन्त्रचक्रस्थापनप्रकारादि, नृसिंहगा- यच्यादि, तत्तदधिकारिकामनानुसारेण तत्तदुपासनफलं, निष्कामस्य तेन मन्त्रेण श्रीनृसिंहमुपासीनस्य वैष्णवपरमपदप्राप्तिश्च फलं प्रतिपाद- यन्ती नारायणस्यैव पारम्यं जीवस्य ततस्स्वाभाविकभेदञ्चावगम- यति । तथाहि - प्रजापति प्रक्रम्य ' स तपोऽतप्यत .... स एतं मन्त्रराज नारसिंहमानुष्टुभमपश्यत् । तेन वै सर्वमिदमसृजते ‘त्यादि श्रूयते । मन्त्ररा- जेन साक्षात्कृतेन तत्प्रतिपाद्यनृसिंहमुपास्य तदनुगृहीतशक्तिस्सर्व सृष्ट- वानित्यर्थः । अयमेव मन्त्रः पुनःपुनर्बहुभिः प्रकारैः प्रशंसितः । अ. त्र- ' सावित्री प्रणवं यजुर्लक्ष्मी स्त्रीशूद्राय नेम्छन्ति.... प्रणवं यदि जानी- यास्त्रीशूद्रः, स मृतोऽधो गच्छति ' इति श्रवणात् , स्त्रीशूद्रयोः प्रणवाद्य- धिकारो निषिद्धः । ततः 'ॐ उग्रं प्रथमम्याद्य' मिति सामोद्धारादि क्रियते । 'क्षीरोदार्णवशायिनं नृकेसरि योगिध्येयं परं पदं साम जानीयात् .. सोऽमृतत्वज्ञ गच्छती' ति एवं रूपेण जानतस्तत्पदप्राप्तिः फलमुक्ता । एव मुपक्रमे क्षीरार्णवनिकेतनोपासनस्यैव मोक्षसाधनत्वकण्ठोक्त्या, 'विरू. पाक्षं शङ्करं नीललोहितमुमापतिं पशुपति पिनाकिन ह्यमितद्युति ' मित्युपरि- तनवाक्यस्यापि नारायणपरत्वमेव न्यायविद्भिरास्थेयम् । तत्रैव — ऋतं सत्यं परं ब्रह्म पुरुषं नृकेसरिविग्रह ' मिति पूर्वार्धेन तस्यैव प्रतिपादनाच ' नामापतिसिंहरूपेणवततारेति लोकशास्त्रप्रसिद्धिः । लक्ष्मीनृसिंह इति च प्रसिद्धतरं नाम । सत्यब्रह्मपुरुषपदानि तत्रैव मुख्यवृत्तानी- त्यपि पूर्वमेवोक्तम् । ततश्च, विशिष्टं सर्वोत्कृष्टं रूपं ययोस्ते अक्षिणी अस्येति विरूपाक्षः पुण्डरीकाक्षः। यद्वा तस्य चिन्तयतो नेत्रात्तेजस्सम - भवन्महत् । दक्षिणं वह्निसंकाशं वामं तुहिनसन्निभ ' मिति वाराहवच- नाच्छीतत्वोष्णत्वाभ्यां मिथोविलक्षणनेत्रद्वयः । शं - सुखं करोतीति बेदान्तभागः । नृसिंहतापनीयाधिकारः.२१. शङ्करः । नीललोहितः 'नानावर्णाकृतीनि चे 'त्याधुक्तरीत्याऽनेकनर्णाना- कृतविग्रहः। उमापत्यादिपदत्रयं तद्वाच्यरुद्रशरीरकपरमात्मपरम् । एत- मन्त्रराजघटकतत्तत्पदविवरणरूपे मन्त्रराजपदस्तोत्रे उमापतिनैव स्वस्थ 'दासभूतारस्वतस्मर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमा- म्यह' मिति स्वाभाविकनृसिंहदासत्वोस्योक्तत्वात् । अत्रैकेनैव रुद्रश- रीरकत्वसिद्धौ पदत्रयोपादानं रुद्रविशेषणस्योमापतित्वादेरपि तत्सङ्क- स्यायत्तत्वसूचनाय । 'तस्माद्यो मृत्योः पाप्मभ्यम्ममागच्च विभीयात्म एवं मन्त्रराज नारसिंहमानुष्टुभं प्रतिगृह्णीया'दिति श्रवणाद्वक्ष्यमाणं विष्णुपदप्राप्ति- रूपं फलं मुख्यमुक्तिरूपमेवेत्युपेयम् । तच्च फलं पूर्वतापनीयान्त एवं भूयते - तद्वा एतत्परमं धाम मन्त्रराजाध्यायकस्य, यत्र सूर्यो न तपति यत्र न वायुर्वाति यत्र न दुःखं, सदानन्दं परमानन्दं शाश्वतं शान्तं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं यत्र गत्वा न निवर्तन्ते यो- गिनः, तदेतदृचाभ्युक्तम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः .... नि- ष्णोर्यत्परमं पदमिति ॥ तदेतन्निष्कामस्य भवती' ति ॥ यत्र परमे पदे मूर्या- दयस्स्वकार्य कर्तुं न शन्कुवन्ति, यत्र दुःग्वगन्धोपि न विद्यते तत्परम- घामेत्यन्वयः । प्रथमान्तत्वेऽस्तीत्यध्याहारः । मदानन्दमित्यादि गन्वे- त्यत्रान्वेति । मदेकरूपेण अन्येच्छानधीनतया वा सन्नानन्दो यस्य नन् ; तस्यानन्दस्य पारम्यमाह परमानन्दमिनि । परमात्मनस्मर्वदाऽप्र. च्युतस्वभावत्वमाह शाश्वतमिति । शान्तं- अशनायादिसर्वहेयशून्यं । म. दाशिवं - सदामङ्गलकरं मङ्गलास्पदञ्च । ब्रह्मादीत्यादिना झरेन्द्राद- यो गृह्यन्ते । अत्रपरमंधामेत्युपक्रमात , यत्रेति निर्देशाच्चास्य गन्तव्यदेशप- रत्वं व्यक्तम् । तद्विष्णोरित्यादि- यदिष्णोः परमं पदं, तद्विष्णोः परमं पदं सूरयस्सदा पश्यन्तीत्यन्वयः । दिवीवेति-द्यौः परमाकाशः। डवश- द एवार्थः । चक्षुःपदं चक्षुर्देवानामुत माना ' मिति श्रुनेर्भगवत्परम् ; मूर्यनेत्रपरं वा। भगवत्परत्वे अमाकृतलोक एव म परवासुदेवादि- रूपविशिष्टत्वेन सुपतिष्ठित इत्यर्थः । नेत्रपरत्वे परमपद एव सूरीणां . । 27 भेद साम्रा ज्य म्। - चक्षुर्बद्धादरमिति पश्यान्तीत्युक्तदर्शनं विशेष्यते। तदित्यादि वाक्या- न्तरम् । तदिति षठ्यर्थे द्वितीया। विप्रासः मेधाविनः । तद्विपन्यवः पर- मपदविषयकस्तुतिशीलाः जागृवांसः अस्खलितज्ञानाः । समिन्धते सर- न्तात्प्रकाशन्त इति । अनेन द्रष्टत्वेनोक्तास्सूरय एव मेधावित्वादिनानि- शेष्यन्तेमेधाविस्तुतिशीलास्खलितज्ञानानेकनित्यमरिदृश्य परमपदाख्य स्थाननिशेषविधिपरमिदं वाक्यम्। सर्वेषामप्य प्राप्तत्वादिति । यत्त्वत्र व्याख्यान- ' यत्परमं पदमित्यत्र यच्छब्देन क्षीरोदार्णवः परह. मृश्यते । सूरयः - उपासकाः ! तादात्म्येनोपासनं विवक्षितञ्चेत् सायुज्यं फलम्। ततश्च विष्णुरेव परमं पदम् । विष्णोरिति षष्ठी शिलापुत्रकस्य शरीरमिति बद । न्या। विप्रासः ब्राह्मणाः, विपन्यवः -- मेधाविनः, समाधौ धारणशक्तियुक्ता जागृवांसः-जागरितावस्थायामेव अवस्थात्रयात्प्रच्युत्य समिन्धते,समृद्धिं कुर्वन्ती' त्यादि । तदसङ्गतम्। 'क्षयन्तमस्य रजसःपराके', 'यदेकमव्यक्तमनन्त विश्वं पुराणं तमसः परस्तात् ', ' यो वेद निहितं गुहायां परमे व्योमन्', यो- अस्याध्यक्षः परमे व्योमन् ', 'तदक्षरे परमे व्योमन्', 'आदित्यवर्ण तमस: परस्तादि' त्याद्यनुसारेण त्रिगुणात्मकभाकृतप्रपञ्चादूर्ध्वभूताप्राकृतपर- ब्रह्मवासस्थानविशेषपरत्वात् । रजश्शब्देन तद्गुणा प्रकृतिरुच्यते । गु- णभूतस्य रजसस्स्वातन्त्र्येणावस्थानायोगात् । इमां प्रकृतिमतिक्रम स्थिते स्थाने क्षयन्तं वसन्तमिति क्षयन्तमित्यादेरर्थः । एवं तमसः परस्ता- दित्यत्रापि । ततश्च तादृशमूरिविशिष्टस्थानप्राप्तेसिंहोपासनफलत्वा. वगमात्तत्रोपासनाप्रस्तावस्यासाङ्गत्यादुपासकपरत्वेन मूरिपदादिविव- रणमनुपपन्नम् । ' कालं स पचते तत्र न कालस्तत्र वै प्रभु' रिन्यकालका- ल्यत्वं स्थानविशेषस्य श्रूयत इति कालस्य स्थानविशेषविषयेऽकार्यकर- त्वमुक्तम्। तद्वदत्र स्थानविशेषे सूर्यवाय्वादीनामकार्यकरत्वमुच्यत इदि च सुसङ्गतम् ! यत्रेति यच्छब्दस्य क्षीरार्णवपरत्वे 'सूर्यो न तपती' त्या- दीनामसाङ्गत्यम् । तस्यापि प्रकृतिमण्डलान्तर्गतत्वेन सूर्यायधीनकार्या- णामवर्जनीयत्वात् । इत्थञ्च - 'विष्णोरिति षष्ठी शिलापुत्रकस्येतिबदित्यति वेदान्तभागः । नृसिंहतापनीयाधिकारः, २१. . - निरस्तम् । स्वरसार्थग्रहणे बाधकाभावाच्च । तत्सिद नृसिंहतापनी- योपनिषदपि न परानुकूलति । या पुनरुत्तरतापनीयेत्युपनिषन्मन्यते, साप्यत्र विचार्यते। तत्रा- पि बहुभिः प्रकारैः प्रणवं, नृसिंहानुष्टुबन्तर्गतानि पदानि च प्रशस्य, प्रकृतिशरीरको नृसिंह एव जगदुपादानकारणमिति वटीजदृष्टान्तेनो- पक्षिप्य अनुष्टुभा तदुपासननिष्ठा इषणात्रयविनिर्मुक्तास्संसारान्मुच्यन्त इति प्रतिपाद्यते । तत्रतत्र नानाप्रकारया वचनशैल्या जीवानां परा- मात्मनश्च ज्ञानत्वानन्दत्वादिरूपेण परमसाम्यं, प्रपञ्चस्य स्वनिष्ठत्वरूप- स्वातन्त्र्याभावः, जीवानामनादिकर्ममूलप्रकृतिसंसर्गवशेन संकुचितज्ञा- नत्वादिकञ्चोच्यते । तथाहि --- उपक्रम एव 'सर्व ह्येतद्ब्रह्मायमात्मा ब्रह्म' ति श्रूयते । एतत्सर्वमचेतनरूपं जगत् ब्रह्म, अयं जीवात्मा च ब्रह्मेति तदर्थः । अत्र सामानाधिकरण्यं न स्वरूपैक्यनिबन्धनम् । हिशन्दश्च. त्यन्तरे सामानाधिकरण्यनिर्देशहेतुत्वेनोक्तस्य तज्जत्वतल्लत्वतदन्त्वा- देरत्रापि तद्धतुत्वं सूचयति । अत्र सर्वपदमात्मनः पृथगुक्तया गोबली- वर्दन्यायादचेतनमात्रपरम् । ततश्च चेतनाचेतनात्मकस्सर्वोपि प्रपञ्चः ब्रह्म- शरीरभूतः ब्रह्मकार्यभूतश्चेनि पर्यवसितार्थः । एवंजातीयकं सर्वमा प्यत्र वाक्यजातमेवमेव योजनीयम् । जीवपरयोरचेतनब्रह्मणोश्च सा- मानाधिकरण्यं स्वाभाविकभेदे सत्यव परमात्मनोऽन्तर्यामित्वेन व्याप्ति कृतमिति 'सर्व समाप्नोघि ततोऽसि सर्व ' इत्यादिभिरुपपादितम् । यत्त्वत्र व्याख्यान हिशब्देन तत्राध्यस्तत्वलक्षणो हेतुस्सूचित इति - तन्न, श्रुतावेव तज्जलान् , सन्मूला इति निर्दिष्टे हेतौ जाग्रति, स्वेच्छाकल्पितस्याध्यस्त. त्वस्य हेतुत्वायोगात् । यत्वत्र चतुर्थपादनिरूपणावसरे ... 'नस्थूलप्रझं नसूक्ष्मप्रशं नोभ- यतःप्रशं नप्रज्ञ नाप्रज्ञ नप्रज्ञानवनमदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदे- श्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवं शान्तमद्वैतं चतुर्थ मन्यन्त' इति श्रूयते, तदपि न परानुकूलम् । भिन्न भिन्नार्थकानेकपदप्रयोगादेव ब्रह्मसविशे- १०८ भेद साम्राज्य म. स एवात्मा स षत्वस्य दुर्वारत्वात् । तावतामप्येकार्थत्वे वैयर्थ्याच्च । विज्ञेय ' इति सर्वव्यापित्वविज्ञेयत्वोक्तेश्च । तुरीयं सर्वात्मना निर्विशेष- मिति हि तन्मतम् । तथापि पदार्थः क इति चेदुच्यते । अत्रानिरुद्धपद्युम्नसङ्कर्ष- णवासुदेवरूपाश्चत्वारो व्यूहाः क्रमेण जागरितस्वप्नसुषुप्ततुरीयस्थान- रूपपादचतुष्टयत्वेन प्रतिपाद्यन्ते । नस्थूलप्रज्ञमित्यनेन प्रथमपादरूपवि- वा व्यावय॑ते । स्थूले-बहिभूते रूपादौ, प्रज्ञा येनेति स्थूलपज्ञम् । रू- पादिविषयकज्ञानप्रयोजकमित्यर्थः। नशब्देन समासः । एवमुपर्यपि । तादृशज्ञानपयोजकानिरुद्धभिन्नमित्यर्थः । अनिरुद्धस्य निरुक्तज्ञानप्रयो- जकत्वं प्रमाणसिद्धम् । नसूक्ष्मप्रज्ञ ' मिति द्वितीयपादरूपनैजसव्या- वृत्तिः । स्वाप्नपदार्थविषयकानुभवप्रयोजकप्रद्युम्नभिन्नमिन्यर्थः । नो- भयतःप्रज्ञमिति बाह्यज्ञानतत्समकालिकान्तरज्ञानतदुभया तरज्ञानैतदुभयप्रयोजकत्वं व्यावर्त्यते । नप्रज्ञमिति तृतीयपादरूपमाजव्यावृत्तिः । तृतीयपादपर- वाक्यस्थपाझपदस्य प्रज्ञ एव प्राज्ञ इतिस्वार्थाण्णन्नत्वेन प्रज्ञप्राज्ञशब्दयोगे- कार्थत्वात् । तस्यैव विवरणं ‘नप्रज्ञानधन मिनि । ननु प्रज्ञभिन्नत्वेऽज्ञ- स्वप्रसङ्ग इत्यत्राह- नाप्रज्ञमिति । ज्ञानानाश्रयभिन्नमित्ययः ! नपज्ञ- मिति न ज्ञानाश्रयत्वं निषिध्यते, किन्तु वानप्रधानकगकर्षणभि- बत्वमुच्यत इति भावः । अदृष्टं वाह्यन्द्रियज्ञानागोचरम् । अव्यहार्यमग्राहां वाग्यस्तादिकर्मेन्द्रियागोचरम् , अत एवालक्षणमनुमानागम्यम् , अन एवाचिन्त्यमव्यपदेश्यम् - इदमीगिति चिन्ताव्यपदेशानहम् । तर्हि निर्विशेषत्वं ज्ञानाविषयत्वञ्च स्यादित्यत्राह एकात्मप्रत्ययसारमिति । एकः आत्मेति प्रत्ययविषयीभूतमित्यर्थः । समाभ्यधिकगहित्यसर्वा. न्तर्यामित्वादिविशेषजातं ज्ञानगोचरत्वञ्च विद्यत इति न तदुभयप्रमङ्ग इति भावः । प्रपञ्चोपशमं - प्रपञ्चस्योपशमो लयो यस्मिंस्तम् । सर्वप्रपञ्चलयाधारत्वेन तत्कारणभूतमिति यावन् । शिवं मङ्ग- कम् । शान्तमूर्मिषटकरहितम् । अद्वैतं प्रपञ्चप्रतियोगिकतादा- वेदान्तभागः । नृसिंहतापनीयाधिकारः.२१. अत्र स आत्मा स स्यासहभेदरहितम् । शरीरादात्मन इव प्रपञ्चात्परमात्मनस्स्वाभावि- कभेदसत्वेपि प्रपश्चः परमात्मेत्यबाधितसामानाधिकरण्यस्यापि प्रमाण- मुक्तिबलादुपपन्नत्वेन घटपटादिवदात्यन्तिकभेदरहितमिति यावत् । ए. तादृशं वासुदेवं चतुर्थ पादं मन्यन्त इति । स आत्मेति – इदृशो वासु देवस्सर्वदेशसर्वकालसर्ववस्तुच्याप्तत्वात्सर्वस्याप्यात्मेत्यर्थः । स विज्ञे- यः-- स एव मुमुक्षुभिर्विशेषेण जय इत्यर्थः । विज्ञेय इत्यनेन · तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथे ' ति श्रुत्यर्थः प्रत्यभिज्ञाप्यत इति । यत्त्ववतरणम् - ‘एवं तुरीयपादत्रयम्य मिध्यात्वमभिधाय पारमार्थिक तुरीयस्य चतुर्थं रूपं निविशेषमिति विशेषप्रतिषेधमुखेनैवोपदेष्टुं शक्यत इत्याहे ' ति- तव्याहतम् । निर्विशेषस्य शब्दबाध्यत्वासंभवेन तदनूध तस्मिन्वि- शेषनिषेधस्य कर्तुमशक्यत्वात् । अनुवादे शब्दवाच्यत्वरूपविशेषस्य दु- चरित्वात् । अन्यत्र तनिषेधे ब्रह्मणस्त वासिद्धः। विशेषराहित्यरूप- धर्मप्रसङ्गाच्च । तहह्मरूपमिति तु पूर्वमेव निरस्तम् । यदपि अमिति सामान्यज्ञानस्य निषधः । नाप्रज्ञामिन्यचेतनत्वस्ये ' त्युक्तम् , तदपि न, व्याघातात् । अचेतनं, नाचेतनमिति हि तदा फलति । चैतन्यरूपस्या- मनो घटादिवदचेतनत्वेन तनिषेधानुपपत्तिश्चेति । यदपि -- एकात्मप्रत्ययसारामित्यस्य व्याख्यानं 'जाग्रदादिष्वेकोऽ- यमात्मेत्यव्यभिचारी सर्वप्राणिनां सूक्ष्मस्स्वाभाविकोऽकृत्रिमा प्रत्ययस्सततोदितः, सेन सारं- सरणीयं, तत्साधकत्वेन तदविषयतयाऽनुसरणीयं तत्प्रमाणकमित्यर्थ इति – तदपि न; जाग्रदादिदशासु सर्वपाणिनां सततं तादृशप्रत्ययो- दयस्यानुपलब्धिपराहतत्वात् । न हि जाग्रहशायामपि दाशकितवादी- नां तादृशप्रत्यय उपलभ्यते । सुषुप्त्यवस्थायां स नोदेतुमर्हति, तथा- सति सुषुप्तेरेव विलयप्रसङ्गात् । किञ्च स प्रत्ययो ब्रह्मरूपोऽतिरिक्तो का। आधे, तत्पमाणकत्वोक्तिरसङ्गता । स्वस्य स्वं प्रति प्रमाणवा- योगात् । अन्यपदार्थाभावेन बहुव्रीह्यसंभवाच्च । द्वितीये तस्य नप्र. 28 ११० भेद साम्रा ज्य म् । . -- भाविकत्वाकृत्रिमत्वोक्तिविरोधः । अध्यस्ते तयोरसंभवात् । ज्ञयत्वा- पत्या जडत्वादिप्रसङ्गाच्च । नहि प्रत्यक्षप्रमाणको घट इत्युक्तो प्रात्य- क्षिकमितिविषयत्वं घटस्य नास्तीति प्रतिज्ञातुं शक्यमिति । ईश्वरग्रासस्तुरीयतुरीय' इत्यस्य, ग्रसतीति ग्रासः । ईश्वरश्वासो प्रासश्चेति कर्मधारयः। सर्वसंहारकस्सर्वेश्वर इत्यर्थः । यत्त्वत्र ईश्वर- म्यापि संहारक इनि विवरणं, तत् , परब्रह्मेश्वरयोर्भेदस्याप्रामाणिक त्वात् , निर्विशेषशुद्धचैतन्यस्य संहारकत्वायोगाचोपेक्ष्यम् । एतेन यस्मात्तुरीयतुरीय ईश्वरमपि प्रसति तस्मात्तस्यैवात्मशब्दयोग्यता, तस्मात्स एवा. त्मा, तस्मात्स एव विज्ञेयः, तदनुभवार्थमेव प्रयत्नोऽनुष्ठेय इत्यर्थ ' इति निग. मनमपि निरस्तम् ; निर्विशेषस्य ग्रसितृत्वायोगान् , ईश्वरग्रसितृत्वस्या- त्मशब्दयोग्यत्वाप्रयोजकत्वाच्च । सर्वव्यापित्वं खल्वात्मशब्दार्थः । त- स्य निर्विशेष रूढिस्तु प्रमाणाभावादिना पूर्वमेव निरस्ता । तदनुभवार्थ- मित्याद्यपि तन्मतविरुद्धम् । नास्मन्मत इव ब्रह्मानुभवत्यधिकारी तन्मते, अपितु ब्रह्मैव भवतीति । किं बहुना - पञ्चमवेदे श्रीमहाभारते सर्वज्ञरुद्रकर्तृके श्रीमन्त्ररा- जपदस्तोत्रे सर्वसंप्रतिपन्ने प्रकृतमन्त्रघटकाहंपदार्थविवरणरूपे भूतारस्वतस्सर्वे ह्यात्मानः परमात्मनः । अतोहमपि ते दास इति मत्वा नमाम्यह मिति श्लोक स्वतो जीवबहुत्वं तेषां सर्वेषामपि जीवानां स्वाभाविक- भगवदासत्वञ्च सुव्यक्तमुच्यते । ततश्चैतदुपनिषत्प्रधानप्रतिपाद्यमन्त्र विवरणरूपस्पष्टार्थकस्मृत्यनुसारेणेवास्पष्टार्थकैतदुपनिषदों वर्णनीय इति नास्यां जीवपरैक्य - ब्रह्मनैर्गुण्यादिशङ्कावकाशलेशोपीति ध्येयम् । अन्यथा 'आत्मप्रकाशं शून्यं ' अनन्तं तुच्छमिद ' मिति शून्यतुच्छपदश्रव- णान्माध्यमिकविजयप्रसङ्गः । अत्र 'ते देवाः पुत्रैषणायाश्च वित्तषणायाश्च ससाधनेभ्यो व्युत्थाय नि- ग्गारा निष्परिग्रहा अशिखा अयज्ञोपवीता अन्धा बधिरा मुग्धाः क्लीबा मूका उ. 'मत्ता इव परिवर्तमाना' इत्यादि दृश्यते । अत्र अशिखा अयज्ञोपवीता दास- .

- . वेदान्तभागः । नृसिंहतापनीयाधिकारः. २१. १११ इत्येतत्, अनुदग कन्येतिबन्नेतव्यम् । तथाचाधिकपरिमाणशिखाया अ. धिकसंख्याकस्य यज्ञोपवीतस्य च यतीनां निषेधः क्रियते । यद्वा शि- खायज्ञोपवीतपदं तद्विषयकादरपरम् । शास्त्रीयकोपयिकत्वाकाराति- रेकेण शोधनसंस्करणादिना शिखायज्ञोपवीतादावप्यत्यादरो न कर्त- व्य इति भावः । न तु शिखायज्ञोपवीतराहित्यमुच्यते; ' अथ ह यद्ब्रह्म सनातनं ये श्रोत्रिया अकामहता अधीयु .... परमहंसमाश्रमं संप्रविश्य यथोपपत्ति पञ्चमात्रां दधानः । तदत्र श्लोको भवतः त्रिदण्डमुपनीतञ्च वास:कौपानवेष्ट- नम् ! शिक्यं कवचमित्यतद्विभृयाद्यावदायुष' मित्यादिश्रुत्या, 'परमहसा नाम त्रिदण्डजलपवित्रशिक्ययज्ञोपवीतिनाऽन्तर्वासबहिर्वासधारिणो ग्रामैकरात्रवासिनः- सन्ध्योपासनतत्परा नित्यं वृक्षभूले वसन्त आत्मानं मोक्षयन्त' इत्यादिस्मृत्या च परमहंसानामपि यज्ञोपवीतसिद्धया तदयोगात् । तेषां शिखाया अ. पि 'पौर्णमास्यां शिग्वावज मुण्डयेत शिरो यतिः', ' कक्षोपस्थशिखावज मुण्ड- येत शिरो यति ' रित्यादियतिसामान्यविषयकस्मृत्या, 'चतुर्विधानामपि यतीनां न लिङ्गभेदः, अपितु वृत्तिभेद एवेत्यर्थप्रतिपादिकाभ्यां ', ' सर्वे विष्णु- लिङ्गिनः', 'चतुर्विधा भिक्षवस्तु स्मृतास्सामान्यलिङ्गिनः । तेषां पृथक्पृथङ्नाम वृत्तिभेदात्कृतं श्रुता' वित्यादिश्रुतिस्मृतिभ्याञ्च सिद्धेः। नच वाच्यमुपा- त्तवाक्यस्य स्वरसार्थपरत्वमाश्रित्य विकल्प एवेष्यतामिति । अष्टदोष- दुष्टविकल्पानङ्गीकारणोक्तपकारेणेव निर्वाहोपपत्तौ तदयोगात् । यद्वा 'उन्मत्ता इवे' त्यत्रत्यवशब्दस्यान्धशब्दादिनेवाशिखायज्ञोपवीतशब्दा- भ्यामप्यन्वयोऽङ्गीक्रियते । अथवा शिखायज्ञोपवीतरहिताः उन्मत्तवि- शेषा इव परिवर्तेरनित्यर्थात् , अशिखायज्ञोपवीतपदे उन्मत्तविशेषणे । एवमेतावता वाक्यामिदमप्रक्षिप्तं प्रमाणमिति कृत्वा प्रमाणान्तरा- विरोधेन योजितम्। वस्तुतस्तु वाक्यमिदं, अन्यानि च कानिचिदत्रत्या- नि, यद्वा इयमुत्तरतापनीयोपनिषदेव सम्पूर्णा प्रक्षिप्तैवेति मन्यामहे ; श्री- शङ्कराचारव्याख्यातत्वात् । नोकत्र प्रथमाशं व्याख्याय अंशान्तरा- व्याख्याने युक्तिमुत्पश्यामः । विद्यारण्यव्याख्यातत्वन्तु नापक्षिप्तत्वं . .

११२ मे द साम्रा व्य । . गपयेत् । तदभिप्रायपद्धतेस्मूतसंहिताप्रस्ताचे परपक्षनिराकृतौ (७९ पु.) स्पष्टं प्रदर्शितत्वात् । किञ्च अशिखा अयज्ञोपवीता इत्येतत्सच्चे परे: किमित्येतदनुपादायैव प्रयासन परमहंसानां शिखायज्ञोपवीतत्यागस्सम र्थितः । स्पष्टार्थकवचनसद्भावे, ‘परमहंसमेवाधिकृत्य काचिच्छ्रतिस्मृतिर्वा ब्रह्मसूत्रपरित्यागं यदि विदर्धत, तदा पूर्वोक्तश्रुतिस्मृत्यादिकं यथाकथञ्चिद्योजनीय' मिति भवत्पक्षस्थोक्तरसम्भवान । 'तापनीयरहस्यानां सारः कामासिकाहरि' रित्यनुगृह्णद्भिस्सनजशेखरैराप्ततपैराचार्यैः 'कचित्कैश्चिदप्यनधीयमानां.... त्वपक्षं विस्तरेण प्रतिक्षिपद्भिः उद्धृत्यापरिहृतामन्यांदृशी श्रुतिं द्रष्टुमिच्छसी' ति तदुत्तरदानायोगाच । शिखात्यागविषये । परमहंसस्य शिखावर्जनम- प्यनुपपन्नम् । चतुर्णामपि लिङ्गभेदनिषेधस्य दर्शितत्वात् विशेषविधायकासिद्धे' रित्यत्राहि । अत्र विशेषविधायकासिद्धरित्यतत् अशिखा इत्यस्य प्र- क्षिप्तत्वं सुदृढमवगमयति । तस्मात् परैस्स्वाभिमतार्थसाधकतया कुत्रा- प्यनुपादानात् सर्वज्ञैरस्मत्पूर्वाचार्यरुद्धृत्यापरिहतत्वाच्च तुल्ययोगक्षेमः प्रमाणान्तरविरुद्धस्साशः, उत्तरांशस्सर्वोपि वा प्रक्षिप्त एवेति सिद्धम् । ततश्चेयमप्युपनिषत जीवपरभेदजगत्सत्यत्वादिकमेव प्रतिपादयतीति स्थितम् ।। २१॥ एवमियता प्रबन्धन ईशावास्योपक्रमासु श्रीनृसिंहतापनीया- न्तास्वेककण्ठासूपनिषत्सु परब्रह्मभूतःपुरुषोत्तमश्श्रीमान्नारायण एव चि- दचिदात्मकसमस्तजगदुपादानकारणं निमित्तकारणच; जगदपि सर्वा- वस्थासु तदपृथक्सिद्धं तच्छरीरं सत्यं, जीवपरमात्मानो स्वाभाविक- परस्परभेदी, जीवाश्च स्वाभाविकपरस्परभेदा अनन्ता अणवः, भगव- तस्सर्वज्ञत्वादिकल्याणगुणगणाश्च स्वाभाविकाः; स च सर्वदा सर्व- विधदोषगन्धरहितः; भगवन्निग्रहानुग्रहात्मकपुण्यपापरूपानादिकमंत्र- शाज्जीवस्य सुखदुःखानुभवतद्धेतुभूतशरीरसम्बन्धादिरूपस्संसारः, दृशसंसारात्यन्तिकनित्ति हेतुरुपासनध्यानादिशब्दवाच्यस्स्वाभाविक- कल्याणगुणाकरभगवद्विषयकस्साक्षात्कारतुल्यो विधेयम्स्मृतिसन्तान- . वेदान्तभागः । निषेधवाक्याधिकारः.२२. ११३ रूपो ज्ञानविशेषः, प्रारब्धकर्माचसाने शरीरादुत्क्रान्तस्यैव साक्षान्मु- तिः सा च स्वाभाविकज्ञानविकास - गुणाष्टकाविर्भाव-सर्वप्रकारवि. शिष्टपरब्रह्मानुभव-तज्जनितानवधिकातिशयग्रीतिकारितबहुविधकैकर्य- रूपेति इथेऽशास्सुस्पष्टं प्रतिपाद्यन्त इत्युपपादितम् । अथेदानीमस्मिन्न धिकारे कतिपयोपनिषद्गतानि प्रपञ्चनिषेधकानीवापाततो भासमानानि कानिचिद्वाक्यानि न पराभिमतप्रपञ्चवाधादिकं प्रतिपादयितुं शक्नुव न्तीत्ययमंशः प्रतिपाद्यते । तंत्रयमाशङ्का 'यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तंत्र को मोह: कश्शोक एकत्वमनुपश्यतः ॥ इतीशावास्ये श्रूयते । यस्मिन्काले आत्मनि वा, सर्वाणि भूतानि - आत्मैकत्वं विशुद्धं गगनोपमं पश्यत आत्मैव संवृत्तः । तस्मिन्काले आत्मनि वा-कश्शोकः को मोह इति तदर्थः । अत्रात्मैकत्वज्ञानस्य शोकमोहनिवृत्तिहेतुत्वमुच्यते । सर्वभूत- प्रतिभासोऽज्ञानकार्य इति च प्रतीयते । तथा कठोपनिषदि, 'यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥ मन- सैवेदमाप्तव्यं नेह नानास्ति किञ्चन । मृत्योरस मृत्युं गच्छति य इह नानेव पश्यती ' ति श्रूयते । यदेवेह संसारधर्मवदवभासमानमविवेकिनां, तदेव स्वात्मस्थममुत्र नित्यविज्ञानघनस्वभावं सर्वसंसारधर्मवर्जित ब्रह्म । यच्चामुत्राऽस्मिन्नात्मनि स्थितं, तदन्विह – तदेवेह नामरूपका- यकारणोपाधिमनुभाव्यमानं नान्यत् । एवं मति योऽविद्यया मोहित- स्सन् इह ब्रह्मण्यनानाभूते परस्मादन्योहं मत्तोऽन्यत्परं ब्रह्मेति नानव भिन्नमिव पश्यति, स मरणान्मरणं - पुनः पुनर्जन्ममरणभावमामोतीति प्रथममन्त्रार्थः । आचार्यागमसंस्कृतेन मनसैवेदं ब्रह्म एकरसमाप्तव्यम् । आत्मैव नान्यदस्तीति । आप्त चाविद्याया निवृत्तत्वादिह ब्रह्मणि नाना नास्ति । किञ्चन ... अणुमात्रमपि । यस्त्वविद्यातिमिरदृष्टिं न मुञ्चति, इह ब्रह्मणि नानेव पश्यति. स मृत्योर्मृत्युं गच्छत्येव स्वल्पमपि भेदम- ध्यारोपयनिति द्वितीयमन्त्रार्थः । अत्रापि जीवपरक्यं ब्रह्मव्यतिरिक्त . - 20 ११४ भेद साम्राज्य म। मिथ्यात्वश्च प्रतीयते । तथा बृहदारण्यके 'यत्र हि द्वैतमिव भवति, तदितर इतर जिवति, तदितर इतरं पश्यति .... यत्र वा अस्य सर्वमात्मैवाभूत् तन्केन कं जिने' दित्यादि श्रूयते । यत्र --- अविद्याकल्पिते विशेषात्मनि सति, हि-यस्मात् , परमार्थतोऽद्वैते ब्रह्मणि, द्वैतमिव -- भिन्नमिव वस्त्वन्तर- मात्मन उपलक्ष्यते । तस्मात् तत् - तस्मिन्सति इतर इतरं जिघ्रति यत्र वाऽस्य ब्रह्मविदस्सर्वमात्मन्येव प्रविलापितमात्मैव संवृत्तं, तत् तत्र केन करणेन कं घातव्यं को जिनेदिति तदर्थः । अत्रापि ब्रह्मव्य तिरिक्तवस्त्वभावस्स्फुटं प्रतिपाद्यते। तथोत्तरत्र ' मनसैवानुद्रष्टव्यं नह ना- नास्ति किञ्चन । मृत्योस्स मृत्युमाग्नोति य इह नानेव पश्यती' ति। मनसैव द्रष्टव्यम् - केवलं मनो ब्रह्माविषयीकुर्वदपि श्रवणादिसंस्कृतं तदाकारं जायते । तेन द्रष्टव्यं तदुच्यत इति । अत्रापि प्रपश्चनिषेधस्स्फुटः । नथा छान्दोग्ये ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' इति । इदं सर्व ऐतदात्म्यं - एतत् – सत् आत्मा यस्य सर्वस्य, तदे तदात्म । तस्य भाव ऐतदात्म्यम् । एतेन सदाख्येनात्मनात्मवत्सर्वमिदं जगत् । नान्योस्त्यस्यात्मा संसारी । तदेव सदाख्यं कारणं सत्यं पर- मार्थसन् । अतस्सएवात्मा जगतः प्रत्यक्स्वरूपं याथात्म्यम् । आत्मश- दो निरुपपदः प्रत्यगात्मनि निरूढः। अतः हे श्वेतकेतो, तत् सत् त्व- मसीति तदर्थः । अत्रापि जीवपरक्यं प्रस्फुटम् । सुबालोपनिषदि न त म्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते, ब्रह्मैव सन्ब्रह्माप्येती' ति । अत्र विदु- षश्शरीरादुत्क्रान्तिनिषेधाज्जीवन्मुक्तिरुक्ता भवति । ब्रह्मभाव एव मु- तिरिति च प्रतीयते । एवञ्जातीयकानि ब्रह्मव्यतिरिक्तसर्वप्रपञ्चनि. पंध-जीवैक्य - जीवन्मुक्त्यादिप्रतिपादकानि वाक्यान्तराण्यपि बहूनि द्रष्टव्यानि । ततश्च पूर्वोक्तरीत्या प्रमेयनिष्कर्षेऽनन्यथासिद्धानामेतेषां वाक्यानां सर्वात्मनाऽपामाण्यप्रसङ्गेनेतदनुरोधेन तेषामेवान्यपरत्वमाश्रय णीयम् । इत्थश्च तत्तत्प्रकरणस्वारस्याद्यानुगुण्येन केषाश्चिदध्यारोपाप- वादन्यायेन निषेधार्थ प्रपञ्चानुवादकत्वं, केषाञ्चिदर्वाचीनतत्तत्फल- वेदान्तभागः। निषेधवाक्याधिकारः. २२. सिद्धय आरोपितगुणविशिष्टावरब्रह्मोपासनविधिपरत्वञ्च युक्तमाश्रयि- तुम् । निषेधवाक्यानां बलीयस्त्वात्तदान्यपर्य न शङ्कितुमपि शक्यम् । तस्माद्ब्रह्मव्यतिरिक्तसमिथ्यात्वादिकमेवोपनिषदानन्यथासिद्धवाक्या- नुगुणमिति प्रमाणशरणैरुररीकार्यमिति ।। अत्रोच्यते । उक्तवाक्यानां पराभिमतार्थपरत्वं न सम्भवति । ययाख्यानपात्मैकत्वपरतया 'यस्मिन्सर्वाणि ' त्यादेः, तदसङ्गतम् । प्रत्य- क्षेण वाधगन्धविधुरतया प्रतीयमानस्याचेतनप्रपञ्चम्य सामानाधिकर- ण्येन वाधकल्पनाऽयोगान् । गामानाधिकरण्येन बाधासिद्धेश्च । तेन प्रपञ्चरूपत्वमेव ब्रह्मणस्सिद्धयेत् । तद्वाधिमिति चेत् , तवाधितोऽर्थ आश्रीयताम्।। भूतपदं भूतत्वमकारकभ्रमविशेष्ये लाक्षणिकं । यत् ता- दृशभ्रमविशेष्यं, तत् आत्मैवेत्यर्थ इति चेत्-लक्षणैव दोषः ॥ न भूता- नि, अपित्वात्मैवेत्यर्थोप्यध्याहारदुषितः । ततश्च यस्मिन्प्रणिधानस- मये स्वतन्त्रपरतन्त्रवस्तुभेदं शास्त्रेण विविच्य जानतः परमात्मा सर्व- शरीरकः प्रतीनोऽभूत् । तत्र तदा स्वतन्त्रात्मभ्रमादिरूपो मोहः, सर्व- स्य परमात्मविभूतित्वज्ञानेन तस्मिन्निर्ममत्वसिद्धया पुत्रमरणादिनि मित्तश्शोकश्च न भवत इत्यर्थ एव सर्वप्रमाणानुगुण आस्थेयः । अन्त- यामित्वेन सर्वव्याप्तिरेव परमात्मनस्सर्वसामानाधिकरण्यनिवन्धनमि त्येतत् ‘स भूमि विश्वतो वृत्वा .... पुरुष एवेदं सर्व', 'तदेवानुप्राविशत्....सच्च त्यच्चाभवत् ', 'सर्व समाप्नोपि ततोऽसि सर्वः सर्वगत्वादनन्तस्य स एवाहमवस्थितः 'इत्यादिश्रुतिस्मृतिभिरिव 'सर्वभूतस्थमात्मानं,' 'तदन्तर- स्य सर्वस्ये 'त्यादीशावास्यवाक्यैरेव सिद्धम् । किञ्च ईशावास्यमिदं सर्व' मिति उपक्रम एव सादरं परमात्मात्मकत्वनोक्तस्य सर्वस्य वाधा न वक्तुं शक्यः । मिथ्यात्वे विवक्षिते किं परमात्मव्याप्तत्वोक्त्येति । न चा वस्तु व्याप्यं स्यात् । न हि मरीचिकाजलं स्नानायालोड्यते । “एक- त्वमनुपश्यत' इत्यत्रैकत्वमपि विशिष्टैक्यमेव; नैकव्यतिरिक्ताभावरूपम् । आत्मन इवान्येषामपि प्रमाणसिद्धत्वाविशेषात् । वस्तुतस्तु रामसुग्री- . ..

११८ भेद साम्रा ज्य म् । कश्चिदर्थ एव राधाराधेयभावः, अपितु पृथिवीगन्धादेरिव स इत्युच्यते । एवमनया दिशाऽस्य वाक्यस्यैतत्सजातीयवाक्यान्तराणाश्च सर्वप्रमाणाविरुद्धस्तद- नुगुणश्च समर्थनीयः । किश्च नेह नानेत्येतन्नैव परपक्षानुकूलम् । अत्र इहेति ब्रह्मपरं; जगत्परं वा; नानेति च भावप्रधानं सन भेदपरं, उत भिन्नपरं; ब्रह्मप- रत्वे तस्मिन्भेदनिषेधे ब्रह्मैक्यमेव सिद्धयेदिति पूर्वमेवोक्तम् । तद्गुणवि- भूतिनिषेधकथा तथासति दूरनिरस्ता । अथ ब्रह्मणि नानाभूतं किश्चन वस्तु नास्तीति योज्येत; तथापि न स्वरूपतो जगनिषेधसंभवः। ब्रह्म- णि निषिद्धापक्षयविनाशादिन्यायात्कुत्रचिब्रह्मव्यतिरिक्त आधारे नि राधारतया वा तत्सत्त्वोपपत्तेः अथ प्रपञ्चे नानात्वं नानाभूतं वा नास्तीत्यर्थ उच्येत, तदापि इहपदार्थस्य प्रपञ्चस्याधारस्यानिषिद्धत्वा- तत्सत्वं दुर्वारम् । प्रपञ्चस्यैकरूपत्वमेकरूपवस्त्वाधारत्व-यत्किञ्चिद्वस्त्व- नाधारत्वैतदन्यतरच हि तदा सिद्धयेत् । किञ्चात्र इहेत्यस्य प्रपञ्च- परत्वे स प्रपञ्चः नानापदार्थादभिन्नो भिन्नो वा। आद्य-आधाराधेयभा- वानुपपत्तिः। द्वितीये प्रपञ्चाबाध उक्त एव । अपिचेह ब्रह्मणि प्रपञ्चो नास्तीत्युक्तिब्रह्मणि प्रपञ्चप्रत्ययाभावे नोपपद्यत इति तत्प्रत्ययका- रणेऽन्विष्यमाणे शास्त्रमेव तदवशिष्यते । प्रत्यक्षानुमानयोर्जगतो ब्रह्म- निष्ठत्वे प्रवृत्त्ययोगात् । ततश्च शास्त्रेणैव जगतस्तानिष्ठत्वपत्ययाव- साये शास्त्रेणेव तनिषेधोऽनुपपन्न एव । तथासति ब्रह्माणि जगतते, ब्रह्मणि जगन्नास्तीति परस्परविरुद्धोक्तेरुन्मत्तलापिततोल्यापातात् । ननु तत्रतत्र ब्रह्मणो जगदाधारत्वं श्रूयते । 'नेह नानास्ती' ति ब्रह्मण्ये- व जगनिषिध्यते । इत्थश्च परस्परविरोधपरिहाराय वस्तुतो नास्ति, भ्रान्तिपरिकल्पितं तदस्तीत्येव विधिनिषेधयोस्तात्पर्यस्य वर्णनीयतया जगतो मिथ्यात्वं सिद्धयतीति चेत् , न; तथासति अधिकरणोक्तेय. भ्यप्रसङ्गात् । नेदं किञ्चनास्तीत्येतावत एव पर्याप्तत्वात् । अपिच ज- गन्मिथ्यात्वे विवक्षिते सर्व मिथ्येत्येकोक्त्यैव विवक्षितसिद्धौ बहुभिर्वा . . वेदान्तभागः । निषेधवाक्याधिकारः. २२. ११९ क्यैः प्रमाणान्तराप्रतिपन्नबहुप्रकारविशिष्टत्वेन प्रथमं जगतः प्रतिपादनं, पुनश्च ब्रह्मणि तन्नास्तीति निषेध इत्येतावतः प्रयासस्य वैययं दुर्वा- रम् । किञ्च तदैक्षत बहु स्यां प्रजायेय', 'सन्मूलास्सोम्येमास्सर्वा:प्रजास्स- दायतनास्सत्प्रतिष्ठा ऐतदात्म्यमिदं सर्व', 'यस्य पृथिवी शरीरं यस्यामा शरीर', 'भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीय मे भिन्ना प्रकृति. रष्टधा॥ अपरेयमितम्वन्यां प्रकृतिं विद्धि मे परां । जीवभूतां', 'विष्णोस्सकाशा. दुद्भूतं जगत्तत्रैव च स्थितं', 'तानि सर्वाणि तद्वपुः', ' इन्द्रियाणि मनो बुद्धि- स्सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्र क्षेत्रज्ञमेव च ', ' कृष्णस्य हि कृते सर्वमिदं स्थावरजङ्गम' मित्याद्यनेक श्रुतिस्मृतिभिश्चेतनाचतनात्म. कप्रपञ्चस्य प्रत्यक्षादिप्रमाणान्तरामाप्तानां ब्रह्मात्मकत्व तत्कार्यत्व तत्प- तिष्ठितत्व तच्छरीरत्व तच्छेषत्वानां बहुशः प्रतिपादनेन तादृशाकाराणां तदाश्रयमपञ्चस्य वास्तवरूपत्वेनैव शास्त्रतात्पर्यविषयताया न्याय- विद्भिराश्रयणीयतया शास्त्रेणैव तनिषेधस्सर्वात्मना न घटते । विहि- तव्यतिरिक्तविषयो निषेध इति हि नीतिविदः। न हि न हिंस्या ' दि. ति वचनमस्तीति कृत्वा अग्नीषोमीयानित्यते युष्माभिः । लोकेपि विद्वान्ब्राह्मण आनेतव्यः, ब्राह्मणा नानेतव्या इत्यादौ सर्वानुभवसिद्ध मिदम् । अन्यथा विधिवाक्यस्य सर्वात्मनाऽप्रामाण्यप्रसङ्गात् । एवं निर्गु णवाक्यविषयेप्ययमेव न्यायः। 'एष सर्वज्ञ एष सर्वेश्वरः', 'पराऽस्य शक्तिर्वि विधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे 'त्यादिभिस्सर्वज्ञत्वसर्वेश्वरत्वा- दीनां प्रमाणान्तराप्राप्तानां विहितत्वेन तनिषेधायोगेन हेयगुणनिषेध- परत्वस्यावश्याश्रयणीयत्वात् । एवं शरीरविषयेपि व्यवस्थाऽऽस्थेया। 'यदात्मको भगवान् तदामिका व्यक्तिः,ज्ञानानन्दात्मको भगवान तदात्मिका व्य- क्तिः', 'भुजैश्चतुर्मिस्समुपेतमेतद्रूपं विशिष्टं दिवि संस्थितञ्चे' त्यादिवचनैर- प्राकृतशरीरविधानेनाशरीरश्रुतेः प्राकृतशरीरनिषेधविषयत्वस्यैवाङ्गीका- यत्वात् । अपिच प्रतियोगिविधाने विशेषनिषेधे च सति सामान्यनिषे. धस्य विशेषनिषेधे पर्यवसानमेव न्याय्यम् । अन्यथा विधेरप्रामाण्य- . , १२० भेद साम्राज्य म। पनपत्र - आत्म- प्रसङ्गात् । यथा - पनपत्रे भुञ्जथ, पलाशपत्रे भुञ्जीथ, तत्र न भुञ्जीथ, स्थलपनपत्रे वल्लीपलाशपत्रे न भुञ्जीथेति । अत्र स्थल. वल्लीपलाशपत्रनिषेध एव धर्मशास्त्रकारःस्थापितः । एवमत्र प्रपञ्चस्य गुणानां शरीरस्य च विशेषनिषेधदर्शनेन तत्सामान्यनिषेधस्य तत्रैव पर्यवसानमावश्यकम् । तत्र प्रतियोगि विधानस्य सामान्यरूपत्वे निषिद्धविशेषव्यतिरिक्तविषयत्वम् । विशे. परूपत्वे तु यथाश्रुतार्थपरत्वमेवेति विशेषः । एतन्त्रितयविषयेपि प्रति- योगिविधानं दर्शितम् । प्रपञ्चविषये ' न तदस्ति विना यत्स्यान्मया भूतं चराचर ' मिति श्रीगीतावचनं विशेषनिषेधरूपं भवति । मया तयाऽवस्थितेन विना यत्स्यात् न तदस्तीति तदर्थात् । मदन्तर्यामि- कत्वरहितं चराचरं नास्तीति फलितोऽर्थः । अत्र जगतः परमात्मना- ऽविनाभावः - ‘अहमात्मा गुडाकेश सर्वभूताशयस्थित' इत्युपक्रमानुरोधेन तदन्तर्यामिकत्वरूप एव विवक्षणीयः। अत्र मद्वतिरिक्तं यत् तन्ना- स्तीति नोक्तम् , किन्तु मया विनाभूतं यत् तन्नास्तीत्युक्तम् । ततश्चो- तएवार्थ एष्टव्यः । विशेषस्मृत्या सामान्यश्रुतेस्सङ्कोचो न्यायवित्संमत- एव । गुणविषये विशेषनिषधरूयं वचनं 'अपहतपाप्मा विजरो विमृत्यु- विशोको विजिवित्सोऽपिपास' इत्यादिकम् । शरीरविषये तत् 'न तस्य प्राकृता मूर्तिमीसमेदोऽस्थिसंभवे ' त्यादिकम् । इत्थञ्च प्रपञ्चगुणशरीरनि- षेधकानां स्वनिष्ठप्रपञ्च - हेयगुण प्राकृतशरीरनिषेधपरत्वमिति स्थितम् । अत्रेदमनुसन्धेयम् - निषेधस्य विशेषत्वे विधेस्सङ्कोचनं मतम् । विधानस्य विशेषत्वे निषेधस्य तदाश्रितम् ।। नात्र मानान्तरापेक्षा न्यायेनैवेष्टसिद्धितः । न सामान्यमसङ्कोच्यविशेषमवतिष्ठते ॥ नस्यारम्भबलादेव सामर्थ्यमिदमाश्रितम् । येन नाप्राप्त इति च शब्दशास्त्रविदो विदुः॥ - वेदान्तभागः । निषेधवाक्याधिकारः. २२. १२१ तत्रत्यविधिशब्दो हि निषेधस्यापि. बोधकः । यथा दर्शादिकं शुद्धिकाले कर्तव्यमिष्यते ॥ यथा वा वारुणं स्नानपरोगिविषयं मतम् । यथा यागविशेषे च पश्वालम्भनमिष्यते ॥ तथा जगन्निषेधस्य स्वतन्त्रपरता स्थिता। तथा निर्गुणवाक्यस्य हेयांशपरता स्थिता ।। तथैवादेहवचनं हेयदेहनिषेधकम् । लोकेपीहक्षाविषये व्यवस्थाऽऽश्रीयते जनैः ॥ इति । परेषामपि निषेधसङ्कोचस्तत्रतत्राभिमत उपलभ्यते । 'भात्मा वा इदमेक एवान आसीत् , नान्यत्किश्चन मिष ' दित्यत्र दीपिकायां 'अन्यत्- प्रकृतादात्मनो विलक्षणं, किञ्चन - किञ्चिदपि वस्तु, न मिषत - धातनाम- नेकार्थत्वान्नासीदित्यर्थः। मायाख्यशक्ते सत्वेपि नामव्यतिरिक्तनिषेधानुपपत्तिः । तस्याश्शक्तित्वेनावस्तुत्वेन च पृथग्गणनानर्हत्वा' दिति युक्तम् । अत्र नान्य. दिति निषेधः नात्मव्यतिरिक्तसर्व विषयः; अपितु तद्वपतिरिक्तशक्ति- भिन्न स्वतन्त्रवस्तुविषय इत्याश्रितमिति प्रतीयते। तेषामस्माकञ्चेया- नेव भेदः - मिथ्याभूतायाः मायाया अनन्यथासिद्धेन केनचित्पमाणे- नाऽसिद्धत्वेऽपि तद्व्यतिरिक्तविषयत्वं निषेधस्याश्रीयते तैः । अस्माभि- स्तु - प्रपश्चस्यानन्यथासिद्धपरस्सहस्रममाणैः परमात्मशरीरत्वादेस्सि. द्धतया तादृशप्रपञ्चविपरीतस्वनिष्ठप्रपञ्चविषयत्वं निषेधस्याश्रीयत इति । ततश्च नेह नानास्तीत्यादिवाक्यापेक्षयापि स्पष्टार्थकस्य प्रपञ्चादिनिषेध- कस्य वाक्यस्योपलम्भेप्येवमेव बहुममाणाविरोधाय तदर्थः कश्चिद्वर्णः नीय इति । एतत्सर्वमभिप्रेत्यैव विदितसर्ववेदितव्यायविदग्रेसरैः रस्मत्पूर्वाचार्यैरनुगृहीतम् - यद्ब्रह्मणो गुणशरीरविकारजन्मकर्मादिगोचरविधिप्रतिषेधवाचः। अन्योन्यभिन्नविषया न विरोधगन्धमर्हन्ति तन्न विधयः प्रतिषेधबाध्याः॥'इति. रूपस्थानायुधाख्याजनिलयविधृतिव्याप्तीच्छागुणादेः - 31 १२२ भेद साम्राज्य म्। विश्वाधारे निषेधो विधिरपि विषयद्वैतशाम्यद्विरोधौ। इत्थंभूते निषेधः क्वचिदपि न विधि बाधते सावकाशः कल्याणैरस्य योगस्तदितरविरहोऽप्येकवाक्यश्रुतौ च ॥' इति च । अत्रोभयत्र आदिशब्देन प्रपञ्चो गृह्यते । अपिचाबाधितपत्यक्षसिद्धं प्रपञ्चं निषेढुं न शास्त्रमपि शक्रोति, यूपादित्य वाक्यादिवत् । तस्मा- निषेधवाक्यं विध्यविरोधेनैव नेतव्यमिति स्थितम् । एतेन — यत्र हि द्वै- तमिव भवती ' त्यादिकं बृहदारण्यकवाक्यमपि नियूढं वेदितव्यम् । कस्स्वतन्त्रो घ्राता केन स्वतन्त्रेण करणेन कं वा स्वतन्त्र घातव्यं जि- प्रेदित्याद्यर्थाभ्युपगमात् । तत्रत्यद्वैतपदमपि पृथक्सिद्धवस्तुपरम् । त स्याप्रामाणिकत्वमिवशब्दो द्योतयतीति । एवं तद्गतं 'नेह नानास्ती' त्यादिकमपि । यत्तत्रोक्तं ' ब्रह्माविषयीकुर्वदपि श्रवणादिसंस्कृत मनस्तदाकारं जायत' इत्यादि - तदसङ्गतम् । मनसस्संस्कारमात्रेण ब्रह्माकारत्वेन जननायोगाव तादृशप्रमेयस्य कुत्राप्यदर्शनाच । तथाच परिशुद्धेन मन- सैव ब्रह्म साक्षात्कर्तव्यमित्येव ‘मनसैव द्रष्टव्य' मित्यस्यार्थ इति । 'ऐत. दात्म्य 'मित्यादिछान्दोग्यवाक्यमपि न तदभिमतसाधकमिति पूर्वमेवो- क्तम् । अथाप्यत्र किञ्चिदुच्यते । एतत् सत् आत्मा यम्य, तस्य भाव'इति विवरणमसङ्गतम् । ऐतदात्म्यपदस्य भावप्रत्ययान्तत्वे सर्वपदसामा- नाधिकरण्यायोगात् । 'नान्योऽस्त्यस्यात्मा संसारी 'त्युक्तिरपि ' तयोरन्यः पिप्पलं स्वाद्वत्ति', 'कर्मात्मात्ववरो योऽसौ मोक्षबन्धैस्स युज्यत 'इत्याद्यनेकप्रमा- णविरुद्धा। 'निरुपपदमात्मपदं प्रत्यगात्मनि निरूढ' मित्यप्यसङ्गतम् । अ- सङ्कोचान्सर्वजगद्रूपशरीरप्रतिसम्बन्धित्वरूपमात्मत्वं परमात्मन्येव हि मुख्यम् । सर्वव्यापित्वरूपमपि तत् तस्मिन्नेव विभौ, नाणुपरिमाणे जीवे। 'तत्त्वमसी ' ति सामानाधिकरण्यमपि शरीरात्मभावनिबन्धनं, न स्व- रूपैक्यनिबन्धनम् ; 'ज्ञाज्ञी ' ' नित्यो नित्यानां', 'क्षेत्रज्ञपति 'रित्यादि- स्वाभाविकभेद प्रतिपादकबहुप्रमाणविरोधात । एवमचिब्रह्मणोस्सा. मानाधिकरण्यमपि नेयम् । सामानाधिकरण्यस्य बाधार्थत्वं न सम्भव- . - वेदान्तभागः । निषेधवाक्याधिकारः. २२. १२३ . प्राणा ति; लक्षणादिदोषप्रसङ्गात् , सामानाधिकरण्येन बाधासिद्धे प्रपञ्च. स्याकाण्डे बाधाभ्युपगमायोगात्, तत्रतत्र परमात्मान्तर्यामिकत्वतकार्य- त्वयोस्सामानाधिकरण्यहेतुत्वेन निर्देशाच्चेति पूर्वमेवोक्तम् । न हि सामा नाधिकरण्यस्येदृशहेतुनिर्देशस्थले बाधार्थत्वशङ्कापि समुन्मिषति । न हि लोके 'स्थाणोश्चोरस्सञ्जातः, तस्माचोरस्स्थाणु' रिति व्यवहारः कचि. दुपलभ्यते । · विष्णोरसकाशादुद्भूतं जगत्.... जगच्च स ' इति स्मृतिरप्य- त्रानुसन्धेयेति । 'न तस्य प्राणा उत्क्रामन्ती 'त्यादिकमपि न जीवन्मुक्ति- साधकम् । तस्ये ' त्यत्र तच्छब्दस्य शारीरपरत्वं, शारीरस्यैव प्राणो. क्रान्त्यपादानत्वश्चेत्यंशस्य 'शारीरास्पष्टो टेकेषा ' मिति सूत्रकृतैव स- मर्थितत्वात् । तच्छब्दस्य शरीरपरत्वे हि जीवन्मुक्तिसिद्धिः। शरीरा. दुत्क्रान्तस्य विदुषः श्रूयमाणगमनादिकार्यविशेषनिहाय अपि जीवेन सह गच्छन्तीति तत्तात्पर्यादिति ॥ निषेधार्थ प्रपश्चानुवाद इत्यप्यसङ्गतम् । प्राप्तम्य खल्वनुवादः । न हि प्रत्यक्षादिना ब्रह्मात्म- कत्वेन जगत्सिध्यति । अपितु स्वरूपत एव । ततश्च तेन रूपेणापा- सत्वादनुवादरूपत्वं ब्रह्मात्मकप्रपञ्चप्रतिपादकानामसम्भवि । महदादी- नान्तु स्वरूपं ब्रह्मात्मकत्वश्चेत्युभयमप्यनवगतम् । अर्वाचीनफलसाधन सगुणबलोपासनार्थ गुणकथनमित्यप्यसङ्गतम् । निर्गुणब्रह्मणोऽद्या- प्यसिद्धेः। तत्सिद्धावेवं कल्पनम् : एवं कल्पन एव तत्सिद्धिरित्यन्यो- न्याश्रयात् । निर्गुणमित्यादि तु हेयगुणनिषेधपरमितीदानीमेवोक्तम् । सर्वात्मना प्रमाणान्तराप्राप्ताकारविशिष्टजगद्विधानाविरोधेनैव निषेधवा- क्यानामर्थो वर्णनीय इत्यभिप्रायेणैवाभियुक्तैः, ' तस्माद्ब्रह्मणः प्रशंसा- थैरस्थायित्वेन प्रपञ्चस्यासत्त्वमुपचरद्भिरौपनिषदैर्वादैस्तदनुसारिभिश्चेतिहासपुराणै- भीन्तानां वाक्यतात्पर्यमजानानानां न्यायाभियोगशून्यानां प्रलापोऽयमद्वैतवाद इत्युपेक्षणीय' इत्युक्तम्। तस्मादेतदधिकारादौ निष्कृष्टमेव प्रमेयशरीरं, पक्षे पतनमन्तरा परमात्मनो नारायण - वासुदेव-पुरुषोत्तम भगवदादिना- मानि दुहानं सर्वव्यापकत्व सर्वाधारत्व निरतिशयदीप्तियुक्तत्व निखिल-

भेद साम्राज्य म् ।
हेयप्रत्यनीक – कल्याणकतानत्वादिकं स्वाभाविकमाकारजातमन्यच्च
पूर्वोक्तं सम्यक् परामशतां न्यायविदां वाक्यस्वारस्थादिदत्तदृष्टीनां
समेषामपि विदुषामात्मसाक्षिकं मनसि प्रतिभायादित्यतोपि तदेव
वस्तुतत्त्वमित्यलम् ।। २२ ॥
आयो वेदान्तभागोऽयं समाप्तिमगमत्कृतेः ।
श्रीमच्छुकपुराधीशमहिषीकरुणाबलात् ।।
रामानुजार्यव्यासायनिगमान्तार्यदेशिकान् ।
वेदान्तभाष्यकारं श्रीरङ्गरामानुजं मुनिम् ।।
यत्कृपालन्धसत्तोऽहं तमाचार्यञ्च मामकम् ।
नमामि भक्तिनम्रण शिरसा विहिताञ्जलिः ।।
भेदसाम्राज वेदान्तभागःप्रथमः।
श्रीमते वेदान्तरामानुजमहादशिकाय नमः
श्रीमते रङ्गरामानुजमहादेशिकाय नमः
श्रीमते निगमान्तमहागुरवे नमः
भगवते श्रीभाष्यकाराय नमः
श्रीपमावतीसमेतश्रीनिवासपरब्रह्मणे नमः
॥ शुभमस्तु ॥
DONATED TO
TTD CENTRAL LIBRARY

No text on this page.

पतद्ग्रन्थकभिः कृताः ग्रन्थाः ।
0
.
.
C
पक्षनिरकनि:
किनिष्ठापरित्राणम्
मधुविद्यामागदपणः
उध्वह्निकम् , टयोपादगदर्पणः, आचार्यमङ्गन्ट मालिकाच ।
श्रीजयन्तीपारणाकारप्रकाशिका पारणासप्ततिश्व
पूर्णत्वविचार:
समस्यमानसूनायधनिष्कार:
हाताशवभवम्
मंदसानाध्यम्
...
२
....
८
पतःप्राप्तिस्थानम् ---
N. वरदाचार्यः,
Retd. Techer,
तिरुचानूर . ( तिरुपनि वया)

Bhedasaamraajyamu

Author
Shrii Koliyaalamu Svaamina:
Title
Bhedasaamraajyamu
File name
Bhedasaamraajyamu
Text
OCR done
Citation
1912
Published
2005/08/20
Publisher
No
Language
Sanskrit
Pages
128
Library
Donor
Classification
Poetry. Poems. Verse
Keywords
No
DLI number
495778
Barcode
2990100071773.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
Digital Library Of India
VMLT id
dPRuOkTsX6a
Download PDF

Bhedasaamraajyamu