Sringeri Sharada Peetham
Madhu Lipsaa
Front matter
मधुलिप्सा
संस्कृत-एकाशिका
लेखक:-
श्रीवासुदेवप्रसादआचार्यः
लोकभाषा-प्रचार-समितिः
मधुलिप्सा
( संस्कृत-एकाङ्किका)
लेखक:
श्रीवासुदेवप्रसादआचार्यः
(साहित्याचार्यः, Dip in English)
अध्यापक: गोपीनाथपुरसंस्कृतमहाविद्यालयः
पो:- यदुपुरम्
मण्डलम्-कटकम्
★
श्रीवासुदेवप्रसादआचार्य:
ग्रा/पो:- बडपडा
मण्डलम्-- कटकम
সাহিকা
लोकभाषा-प्रचार-समितिः
शरधाबालि, पुरी- 752002
© सर्वस्वत्वं संरक्षितम्
प्रकाशकाल:
फाल्गुनपूर्णिमायाम्-- 1990
मुद्रणम्
श्रीनारायणप्रेस्
बालिसाहि, पुरी- 752001
मूल्यम्- सप्तरूप्यकाणि
समर्पण
प्राज्वालयत् प्रथमतो मम चित्तलग्नम
ज्ञानप्रदीपमपहृत्य तमश्चयं यः ।
तत्त्तातपांवकर पुष्करयो मेयम्
एकाङ्किकाद्यरचना सुसमर्पिताऽस्तु
श्रीवासुदेवप्रसादस्य
शुभाशंसा सजयति जानकी-जानिः । आयुष्मता श्रीमता वासुदेवेंन विरचितेऽयं "मधुलिप्सा भिधाना एकाङ्किका पाठमात्रेण मनसि में अनिर्वचनीय मानन्द-कल्लोलिनी व्यतनुत । अलब्ध-वैदग्ध्य-विलास-मुग्धया धिया समुल्लिखिता कविकुल- ललामस्थ बाणभट्टस्य कादम्बरी कथेव श्रीमतो लेखकस्य प्रथमलेखनी सम्भूतेयमेकाङ्किका सहृदयानां हृदयावर्जनं विधास्यतीति नास्ति विचि- कित्सायाः कश्चिदवसरः । एकाङ्किकायामस्यां भाषायाः सावलीलता, वर्णानां माधुर्य- ब्यक्षकता, भावस्य हृदयावर्जकता, शब्दार्थालङ्काराणां प्रचुरता, सर्वोपरि उच्छलितस्य रसस्यावेगमयता च तत्र तत्र विदुषां दृष्टिपथमागत्य सौम्य- स्यास्य कवयितुरगामिनी समुन्नति सूचयिष्यन्ति । विदग्धानां हृदयहारिणीयं तन्वी “मधुलिप्सा" गुणालङ्कार रस- भावविभूषिता पदे पदे मञ्ज-मञ्जीर-शिक्षानेन जनमनः-सुमधुलिप्सां जनयिष्यतीति मदीयो विचारः। अस्यामेकाङ्किकायां सोरङ्गवाहिनी भूभृदित्यत्र शब्दश्लेषस्य, सुन्दरी रमणीकान्ता इत्यत्र पुनरुक्त वदा भासस्य, “सुमञ्ज ले वञ्ज ल कुख- पुख" इत्यत्रानुप्रासस्य. 'विराजिता चित्रनिभा विराजि' इत्यत्र यमकस्य 'वृद्धा स्त्रीव व्यपगतरसा मालती वीतपुष्पे त्यत्र श्लेषप्रतिभोत्थितायाः उपमायाः, 'विकीर्ण-तारा सित-पुष्प-पुजा' इत्यत्र रूपकस्य, किं मन्नेत्र- मन:-प्रमोद जननी लावण्यमूत्तिः स्वयमित्यत्र संदेहस्य, नेदं तदास्यं परिपूर्ण चन्द्रः' इत्यत्र अपह्न ते:-एवं शब्दार्थालंकाराणां यथास्थानं यथायोग्यञ्च विनिवेशनं सहृदयानां हृदयनिकेतनं नितरामामोदयिष्यति । रसैकतान-निमग्न-मानसोऽयं नूत्न: कविः ध्वन्यात्मकस्य शृङ्गा- रस्य द्वावेव प्रधानभेदी संभोगविप्रलम्भाख्यो एकाङ्किकायामस्यां सम्यग्- वर्णितवान् । यथास्थानमेतद् वर्णनमवलोक्य रसग्रहणचतुराधीर धौरेयाः अमन्दमानन्दं नूनं लप्स्यन्ले । नाहं छात्रबात्सल्येन एतत् लिखामि । परन्तु लेखस्यास्य याथार्थ्य सतां पुरतः उपस्थापयामि। सौम्यस्यास्य श्रीमतो वासुदेवस्य लेखनी बलिष्ठा उत्तरोत्तरं मधुवर्षिणी भवतादित्युक्त्वा विरमामि । पण्डित धीवाञ्छानिधिदाशशर्मा अभयाभवनम्, केन्द्रापड़ा अक्षयतृतीया . लेखकस्याभिमतम् मन्या विद्ववृन्दाः पुण्यभूमौ भारतवर्षे गीर्वाणवाणी एव संस्कृतिसंरक्षिणी, सर्व- भाषा जनमी, राष्ट्र क्यस्य संसाधिनीति सः मुक्तकण्ठेन स्वीकृता। परन्तु विषादस्य विषयः एतस्याः साम्प्रतिकी स्थितिः क्षीणनीरा नदीधारेव संजाता। एतद्विषये भारतीयानां चेतः न दूयते, न व्यक्त, न वा व्याकुली भवति । तथापि एनां पूर्णगी सम्पादयितु येषां निरवच्छिन्नोऽध्यवसायो विद्यते तेषां कृते मेयं श्रद्धा भक्ति-स्वरूपिणी एकाङ्किका मधुलिप्सा नाम्नी। अस्यां निहितेन स्वात्मभावेन सह तेषां महोदयानां आत्मसम- स्वयं कामये। एतत् कर्मणि सुगृहीतनामधेयॉनां अस्मद् गुरुपादानां श्रीवाञ्छा- निधिदाशमहोदयानां सदाशिषः मादृशि अधमे नूनं निपतिताः आसन् । नोचेत् एतद्गुरुकार्य कदापि न समभिष्यतू । अपि च श्रीसुदर्शनाचार्य श्रीकृष्णचन्द्रपाणि, श्रीगोपीनाथधडङ्गी, श्रीकेशवचन्द्रमहापात्रादिमहो- दयानां स्वमुत्साहः अविस्मरणीयः । तेभ्यः सर्वेभ्यः कृतज्ञता ज्ञापयामि । परिशेषे श्रीरमेशचन्द्रदाश श्रीगगनविहारीकर सम्राट विपिन- विहारीदाश-प्रमुखानां छात्राणां सभक्तिसहयोगोऽपि अविस्मरणीयः । ते सर्वे सुखसमृद्धिभाजो भवन्विति में परमकारुणिकस्य भगवतः पदकमलयोः प्रार्थना। । है अस्यां नाटिकायां परिदृष्टं मदीयमज्ञानजं मुद्रण वा प्रमाद सदयाः विद्ववृन्दाः मर्षयेयुरिति मे विनम्रनिवेदनम् । श्रीवासुदेवप्रसादाचार्यः
प्रथमदृश्यम्
। देवसभायामिन्द्रादयो देवा आसीनाः, तुम्बुरोः वीणा क्वणनं,
चित्ररथस्य मृदङ्गवादनं, तिलोत्तमादीनाम् अप्सरसां
लास्य-मधुर-सङ्गीत-मूर्च्छना च ।
आयातोऽयं शिशिरमलिनां भासयन् स्वीयदीप्त्या
सर्वामाशां परिमुकुलयन् कुड्मलानि द्रुमेषु ।
चिन्ताग्रस्तां पथिकवनितां खेदयन् म्लापर्य श्च
भू-जातानां मनसि जनयन् मोदभार वसन्तः ॥ १
तीरे तीरे मलयपवनों वीचि-वाद्ये निनग्नो
वंशीध्वानं सुमधुरमहो! वंशकुञ्ज तनोति ।
चूतचूते मद कल पिका गायका लोलभृङ्गा.
गु अन्तस्ते ललितसुरभेः स्वागत व्याहरन्ति । २
मन्दं मन्दं वहति पवन श्वारूगन्धिश्च शीतः
कुख कुञ्ज विकचकुसुमा न्यांशुचित्तं हरन्ति ।
वृक्षे वृक्षे किसलयततिः सान्द्ररागं धनक्ति
हासं हासं प्रकृतिललन। लास्यलीलां तनोति ॥३
वृद्धास्त्रीव व्यपगतरसा मालती वीतपुष्पा
धीरं धीर रूपति सतत केतकी भृङ्गनादैः ।
कामोन्मत्ता नटति मधुरं माधवी मन्दवातैः
पुष्पव्याज हंसति ललितं मल्लिकाप्रेमिकेव ।। ४
श्रावं श्रावं पिककलरवं दुखिनी काऽपि तन्वी
चञ्चन्मत्त भ्रमर-रूचिरा फुल्लवल्ली विलोक्य ।
कान्त प्रेम-प्रवण हृदया लोतक-स्नात-नेत्रा
स्मारं स्मारं नयति दिवसान रम्यगाथां श्रियस्य ।। ५
६८) पनि विष संजा भवा विद्य स्वयं देवराजः- (आसनात् उत्थाय सहर्षम्) धन्य तुम्बुरो । धन्य चित्ररथ धन्यास्तिलोत्तमादयः अप्सरसः । युष्माकं त्रौर्य त्रिकं मानसं मे निमज्जयति अगाधे प्रमोदसागरे (पुनस्तदेव पठति)। [ततः प्रविशति देवर्षि नारदः।] नारद: नारायणाय शरदब्ज-निभाननाय नारायणाय कमलायत लोचनाय । नारायणाय सकल-स्थिति कारणाय नारायणाय पुरुषाय नमः परस्मै ।। ६ जयतु जयतु देवराज। देवराजः- (नारदं विलोक्य) अये ! कथं देवर्षिः ? प्रोल्लास्याशा मुदयति नवो नोऽद्य सौभाग्य-भास्वान् कि वास्माकं विकसति महा-पुण्य वृक्षः सुरम्यः । चित्ते चित्ते वहति नितरां प्रीति-पीयूष-धारा धन्या धन्या वयमपि पुनः पीठमेतच्च धन्यम् ॥ ७ देवर्षे ! शुभोदकं भवदागमनं पवित्रयति मे नेत्र युगलं। सदयं अस्मिन् रत्नासने उपविशतु । (इति ऑसने उपवेशयति)। नारदः-- देवराज ! अपि कुशलं भवतः ? स्वर्गवासिनामपि ॥ देवराजः-- देवर्षे ! सर्वेषां नः स्वर्गवासिनां कुशलं परन्तु देवर्षे अतर्किता- गमनं मानसं मे तरली करोति । सन्देहशिखरे आरोपयति च। कथ- यतु का वार्ताधुना जीवलोकस्य ? नारदः- (स्मितं कृत्वा) सर्व शुभं जीवल कस्य परन्तु........ । देवराजः-- (स विस्मय) परन्तु ? ? ........... वदतु देवर्षे! शीघ्र मानसं मे व्यथते । उदयन्ति मनसि में च नवीना: प्रश्नाः। नारदा (सावष्टम्भ) ज्ञातो भवद्भिः मय॑वासी दमन महर्षिः ? निधि नोचे श्रीकृ वदतु।
( 3 )
देवराजः- (विचिन्त्य) योऽधुना कलनादिन्याः नर्मदायाः सुरम्ये तीरे
तपः साधयति?
नारदः-- अथ किम् ।
देवराजः-किं तेन ?
नोरदा-मग्नों गाढ तपस्यायां साम्प्रतं स जितेन्द्रियः ।
देवराजः- (साश्चर्य') कथम् ? कथम् ?
नारदः- भवदासन सम्प्राप्त्यै स मुनियत्न तत्परः ॥ ८
देवराजः- (सविस्मयं किं कथयति ? मदीय पदमाकाक्ष्य गाढतपो
निमग्नः सः ? (सभयं परितो विलोक्य) किं करोमि ? देवर्षे ! किं
करोमि ? का गतिः ? कश्च उपायः ?
नारदः- (सचिन्तः)
(सचिन्तः) अस्ति उपायो देवराज । अस्ति । स च अतीव
दुस्साध्यः।
देवराजः- (साग्रह) देवर्षे! यदि कश्चित् उपायो वर्तते तहि वदतु ।
यस्यानुष्ठानेन चिरं स्थास्यति मे पदं भविष्यामि च यथा सुखभाक् ।
नारदः- (स्वगतं)
(स्वगतं) अहो ! भुवनत्रयेष्वपि सर्वे अनित्य सुखाभिलाषिणः ?
अयं स्वयं देवराजोऽपि ? (प्रकाशं) यदि केनापि प्रकारेण महर्षेः
दमनस्य तपोभङ्गः क्रियेत ।
देवराजः- (साश्चर्य) किमुक्तं भवता ? महर्षेस्तपोभङ्गः ? यस्य नाम
स्मरणेन प्रकम्पते त्रिभुवनं, दोदुल्यन्ते महीधराः, स्तब्धी भवन्ति
समीरणाः शुष्यन्ति च वारिधय: तस्य मुने.....
नारदः- वाढम्, तस्य मुनेः तपोभङ्गः, महात्मनां किं हि दुस्साध्यम् ?
देवराज:- कथमेतत् सम्भवेत् ?
नारदः-(स्मितं कृत्वा) देवराजस्य अज्ञातं किमस्ति ?
(4) देवराजः --- (सभ्र भङ्ग) सत्यं मया उद्विग्नत्वात् किश्चिन्नावधारित । अतः समुचित-मार्ग प्रदर्शी में भवतु। नारद:- याद प्रेरयिष्यति रूपमयों मेनकां तत् समीपम् । देवराजः -- किं तया ? नारद:--- नवयौवना सा स्वबिलासङ्गिभिः तन्मानसं मोहयित्वा तपो विहन्तु दून शक्ष्यति । तथाहि- सुन्दरी रमणी कान्ता-पाङ्ग विभ्रम-भङ्गिभिः । दिवौकसोऽपि मुह्यन्ते किं पुनर्मर्त्यवासिनः ? ९ ॥ देवराज:- (सानन्दः) देवर्षे ! शोभन शोभनं उक्तं भवता । (मेनकाभिमुबीभूय कम्पित करेण निद्दिश्य ) । हे मेनके ! नव-विलास कला-प्रवीणे ! मर्त्य प्रयाहि सहसा ममं कार्यसिद्ध्यै ! विघ्न विधाय दमनस्य तपः समाधी मानं पदञ्च मम रक्ष विलोल नेत्र! ।।१०॥ मेनका-(स्वगतः। अहो ! पुनरपि दुःखस्य कालः समागतः। किं करोमि मन्दभागिनी खलु अहम् । (प्रकाश) यदाज्ञापयति देवराज ! देवराजः- (मातली लक्ष्यीकृत्य) मातले ! एकस्मिन् कार्य तव साहाय्यं कामये। मातलि:- (सहसाभिमृत्य) मान्य ! आज्ञा प्रदानेन कृतार्थयतु । देवराजः-... भद्र! शान्तं स्निग्धं विहगमुखरं भृग-झङ्कार-रम्यम् याहि क्षिप्र दमन-मुनिनालंकृतं तत्पदं त्वम् । प्रस्यन्दन्ती कलकलरवैर्नर्मदा पुण्यतीया स्वान्ते स्वान्ते सृजति नितरां धर्मभावं हि यत्र ॥ ११ ॥ ! !
(5) मातलि: --- (सचिन्तः) किमर्थ गमिष्यामि ? देवराजः-- तदाश्रमस्य अनतिदूरे मेनका परित्यज्य आगच्छ । (कर्णे एवमेव) मेनका-- (वाष्पगद्गद्कण्ठा देवराज ! पुनः कदा आगमिष्यतीयं मन्द- भागा स्वर्लोकम् ? देवराजः अयि! भविष्यसि यदा कार्ये परिपूर्ण मनोरथा। तदा गमिष्यसि स्वर्ग पुनर्मातलिना समम् ।। १२ ।। देवराजः- (कन्दर्पाभिमुखीभूय) रतिपते ! कन्दर्पः-- (समुपगम्य) देवराज ! कि मत्तः कामयते ? देवराजः . यथाकालं तत्र त्वमपि याहि । मम कार्यसिद्धये मेनकायाश्च सहायको भव। कन्दर्पः तत्र कि करणीयं मया? यथाम्बुबाहो दिवमावृणोति सर्वच विश्व सघनान्धकारः। यथा-मल-ज्ञानमसद्विचार स्तथावृणुत्वं हृदयं महः।। १३ कन्दर्पः ... कृतार्थोऽहं यतः देवराजः माम् आज्ञा पयति । (प्रकाशं) भवतां आदेश: शिरोधार्यः (प्रस्थितः)! देवराजः .... मातले ! त्वरितं गच्छ । सम्पादय च स्वकार्यम् । मातलि:-- यथादिशति देवराज ! (मेनकाभिमुखी भूयः) आगच्छ मातः आगच्छ । (उभी प्रस्थिती)। देवराजः- (नारदं विलोक्य) देवर्षे ! किं पूर्णमनोरथः भवेयम् ? एतत् कथं भवते रोचते ? नारदः- (स्मितं कृत्वा) नूनं भविष्यति देवराज ! भविष्यति नूनं, यतः प्रयास साध्या सिद्धिः । मह्यमपि एतत् भृशं रोचते । प्रयातु चिन्ता REKHA देवराज :- ( 6 ) विहाय सानन्दं कालं यापयतु। जगत् पितरि भगवति नारायणे ममेयं प्रार्थना विभातु लोके तव कीत्ति-कौमुदी विराजतां ते जय केतनं दिवि। विपक्षवृन्दो विलयं प्रयातु ते सदा त्वमेवं कुरुशासन दिवः ॥ १४ ॥ देवराज:- अहं चिराय ऋणी संजातः भवतः समीपे । मैवं वदतु देवराज! मैवं वदतु । हृदये ग्लानि मा कृथाः। स्वकार्ये च अग्रणी भवताम् । अहमधुना गच्छामि वैकुण्ठधाम । (प्रस्थितः । तदनु सर्वे प्रस्थिताः) इति प्रथमदृश्यम् नारदः mom Homema ( 7 ) द्वितीयदृश्यम् [ रम्योपवनं दमनमुनिः ध्यानमग्नः सम्मुखे पूजोपकरणानि च ] दमन- ! ! कृष्णाय नमः, ॐ कृष्णाय नमः, ॐ कृष्णाय नमः। हे नन्दात्मज ! हे जगत्त्रय पते! हे कंस नाशिन् । हरे ! हे भक्तप्रिय ! हे सुरासुरगुरो ! हे कृष्ण ! हे केशव ! हे पीताम्बर ! हे जनार्दन ! विभो ! गोविन्द ! हे माधव ! त्वत्-पादाब्ज-युगं गतोऽस्मि शरणं हे श्रीपते! पाहिमाम् ।। (नेपथ्ये) भो ! बायस्व त्रायस्व माम् । दमनः- (नयनें उन्मील्य स्वगतम) कस्यायमार्त्तनादः ? चित्तं मे आन्दो- लयति, विक्षोभयति च । येन मम ध्यानमपि भग्नं (परितो विलोक्य) भवतु इमं पर्वत शिखरमारुह्य जानामि कस्यायमार्त्तनाद इति । (पर्वतमारोहति)। (पुनरपि नेपथ्ये) को विद्यते त्रायस्व मां त्रायस्व । दमनः- (चिन्तां नाटयन्) अहो ! अयं कस्याश्चित् अवलायाः आर्त चित्कारः। मन्ये अस्थाने दुष्टपीड़िता काऽपि अवला (प्रकाश) न भेतव्यं न भेतव्यम् । अयमहं आगच्छामि । (ततः प्रविशति अवलां स्कन्धे गृहीत्वा भीमो राक्षसः)। दमनः (दूरादवलोक्य) रे दुष्ट ! दैत्य ! कुमते ! शठ ! हीन ! पापिन् ! किं धर्महीन-खल-कर्मसु तेऽभिलाषः यन्नाम-संस्मरण-कम्पित-सर्वविश्वम् जानासि किं न दमनस्य पदं त्वमेतत् ॥२॥ रे रे कोणप-कुल कलङ्क ! दुर्वलायामवलायां पापमाचरसि ? - !
( 8 ) रे क्षुद्रमते ! त्वं किं न जानासि अयं दमन मुनैराश्रम इति ? न जानासि किं वा तत् तपः प्रभाव ? रे रे पापिष्ठ ! दूरमपसर । ‘नोचेत् अचिरेणैव भस्मसाद् भविष्यसि ममाभिशाप वह्निना। (अवलां परित्यज्य राक्षसस्य पलायनस)। दमनः- (समुपागम्य विलोक्य च स्वगतम्) अहो ! क्व इदं श्वापद-सङ्कुलं धनं काननं क्व च कुसुम सुकुमारा नवीनेयं तरुणी ? तर्हि केयम् ? किं मन्नेत्र मनः प्रमोद जननी लावण्य-मूत्तिः स्वयम् । किं वा मूत्तिमती रूचिः किमथवा पीयूष-धारा-परा। किं स्वर्गात् स्खलिता विलोलनयना देवी मनो-मोहिनी किं वा रूपमयी पयोधितं नया कि शैलराजात्मजा ॥३ अहो ! पितामहस्यापि काले काले भ्रान्तिरेषा यत् सः पङ्कनिकरात् विकाशयति सुकोमलं कमलमू। कि कोकिलस्य कण्ठे अपयति मधुमयं कुहुरूतम् । शुक्तिकागर्भेषु मापूरयति महार्घ मुक्ताजालम् । इमा नवनीत-कोमलाम् अवलां धनवनाकोणे श्वापदपरिपूर्ण अस्मिन् घोरे कान्तारे... (उपविश्य) किमियं गतजीविता? (शरीरे हस्तं सञ्चाल्य) अहो ! प्राणान् धारयति । मन्ये भोतिवशादियं मूच्छिता। भवतु सज्ञा- लाभाय यतिष्ये। (कमण्डलो: जलमानीय मुखे सिञ्चति पल्लवव्य. जनेंन बीजयति च)। ( नेपथ्ये) को ध्येयः स्वात्मगो देवः किं कार्य परमङ्गलम् । कः काम्या जगतः शान्तिः किं लक्ष्यं परमं पदम् । ४ अवला- (सज्ञां लब्ध्वा) भो.! को विद्यते त्रायस्व मां बायस्व दुष्टराक्षस कवलात् ।
( 9 ) दमनः- (सावष्टम्भ) मा भेतव्यम् । सम्प्रति दूरं गतः स दुष्टः । नास्त्य- धुना भयस्यावकाशः (शरीरे हस्तं सञ्चाल्य)वत्से ! चक्षुषी उन्मील्य पश्य । (मूच्छिता अवला चक्षुषी उन्मील्य तपोधनं दृष्ट्वा)। अवला- (गद्गद् कण्ठा) को भवान् ? ममाच खलु नव-जीवनं प्रदाय पितृकार्य कृतवान् । दमन:- वत्से ! तन्न । विधातुरिच्छया त्वं लब्धजीविता। इतः स्वल्पद्रे वर्त्तते मे तपोवनं, दमनोऽस्मि नामतः। सहसा तव करुणार्तध्वनि निशम्य आगतोऽहम् । वत्से ! भयं विहाय उत्तिष्ठ । स्वपरिचय- प्रदानेन च संशयं ममापनय । अवला-(उत्थाय स्वगतम्) किमधुना करिष्यामि ? किं वा कथयिष्यामि ? विशेषतः देवराजस्य आज्ञा परिपालनीया । भवतु छलं तावत् आश्रये (प्रकाश) कथयामि पश्चात् सर्वम् । भयाति-भोतया खलु विस्मृतम्। हे ! यतिराज । क्षणकालम् अपेक्षताम् । संस्मृत्य सर्व कथयामि। दमनः- भवतु। अवला - अहं स्वर्गाप्सरा मेनकाभिधाना । दमन:- (सविस्मयं) त्वं स्वर्गाप्सरा मेनका ? इदं श्वापद-सफुलं धनं काननं एकाकिनी कथमागताऽसि ? मेनका--- (चिन्तां नाटयन्ती) तहि शृण्वन्तु भवन्तः । अहमेकदा देवसभायां तिलोत्तमादिभिः अप्सरोभिः सार्द्ध लास्य-लीलां कृतवती। दमन:- तत: किम् ? मेनका- तदाह तत्रस्थी रूपवन्तावश्विनीकुमारौ दृष्ट्वा........ (लज्जां नाटितवती)। दमनः- किं लज्जया ? परस्तावत् कथय ।
( 10 )
मैनका- मम मति-विभ्रमोऽभवत् । नर्त्तने च स्खलनं जातम् ।
दमन:- ततः किम् ?
मेनका- ततो मदीयां चित्तवृत्ति विज्ञाय समुद्दीप्त-क्रोधानल: सुरेन्द्रः
प्रददौ वज्रपुरुषमभिशापम् ।
दमनः- (साश्चर्यम्) वज्रपरुषोऽभिशापः ? कीदृशः सः ?
मेनका.-- दुविनीते ! यतो नृत्येऽभवत्ते मति विभ्रमः ।
विक्त्यक्त्वा कियत् कालं भवत्वं भववासिनी।'५
दमनः- विषादं नाटयन्) अहो ! कठोरोऽभिशाप: ? सहसा देवराजस्य
एतन्न समीचीनम् । ततस्ततः ?
मेनका- ततस्तदाज्ञया...
( वाष्पगद्गद्कण्ठा )।
दमन:--- वत्से ! मा अधीरा भव । स्थिरमनसा कथय ।
मेनका -- ततस्तदाज्ञया कोऽपि एक स्तदनुचरः मामानीय अस्मिन् पर्वते
वित्त्यज्य दिवंगतः । ततो नियति निन्दन्ती एकाकिनी भ्रमन्ती अस्य
दुरात्मनः कवले निपतिता।
(हस्तेन परामृशन्) वत्से ! विधातुरिच्छां विना न किञ्चितू
संघटते त्रिभुवने । अतो विषादेनालम् ।
मेनका-(सकरुणं) अहो ! किं करोमि ? क्व वा गच्छामि ? अद्य दशदिशः
मे शून्याः । दुःखिनी खलु अहम् ।
दमनः-- वत्से ! नोद्विग्ना भव । संसारे सर्वे सुखदुःखभाजो भवन्ति । यः
अद्य दुखाम्बुधौ निमज्जति स: श्वः सुख-कानने विहरति । यश्च
अद्य सुख कानन-विहारी सः पुनः सीदति दुःखकान्तारें। सुखदुःख
द्वयन्तु सर्वेषां कृते । अतो विषण्ण-हृदया मा भव। यतः तत्
सुखदुःख द्वयम्-
-
( 11 ) नर्तयद् दमनः ? जगति सकल जन्तून वर्तते तत् प्रभवति कवलात् कः मोक्तुमात्मानमस्य । फलयुगलभिवात्मा-नोकहस्यैक वृन्ते मधुर मधुर-माद्यं चापरं पूर्णतिक्तम् ॥ ६ मेनका - (गद्गद्कण्ठा) हे यतीन्द्र ! नास्ति' ममाधुना काचिदन्यागतिः । कामये भवत् पाद-पङ्कजं संसेव्य कियत्कालमतिवाहयितु भवदीये तपोवने । अनुगृह्णातु दुःखिनी मां भवतः सुरम्यतपोवन निवासाय अनुमतिप्रदानेन । (मुखमवलोक्य) वत्से ! उञ्छवृत्त्या जीवननिर्वाहः सुदुष्करः (शिरसि हस्त संचाल्य) कोमलतमं तवाङ्गं कथं सहिष्यते तत् कटं ? मेनका- तहि अनाथायाः गतिः का ? (इति वाष्पाणि मुञ्चति )। स्वकीयवस्त्रेण तस्याः अश्रूणि मांर्जयन्) वत्से ! शोकचित्ता मा भव । आगच्छ मया सह मत्तपोवनपदम् । तत्रावस्थाय धृतब्रह्मचारि व्रता त्वं निसर्ग-रमणीयां प्रकृति शोभां दर्श दर्श विहगानां कल- काकलीच श्रावं श्रावं, भगवत् महिमानच गार्य गाय यापयिष्यसि तानि अभिशाप दिनानि स्वल्पकालेन । मेनका - (वाष्पकण्ठा) मन्दागिन्याः मम इयती भाग्यसंपत संभवेत् ? दमन:-अयि ! भवं हि भङ्गुरं मत्वा वत्से ! मागाः शुचं कदा । देवं संपूजयारण्ये विस्मृत्याशु मनोव्यथाम् ।। ७ मेनका- (सहर्ष स्वगतम्) अधुना लब्धः मया उपायः। दैहि धैर्य हे देवराज ! देहि धैर्य यथा ते मनोरथं साधयितु शक्ता भवेत् मादृशी अधमा (प्रकाशं) पितः ! किमधिकं कथयामि ? यथा ते रोचते यथा च मदुविधावा अनाथाया गतिभवेत् ।
(12) - दमनः- (निःश्वस्य) भवतु । तर्हि आगच्छ वत्से ! आगच्छ । अयं आसन्नः सन्ध्याकालः यथाहि पश्य- अस्ताचलं याति मरीचिमाली नीडं स्वकीयञ्च विहङ्ग संघः । प्रह्लादयन् सर्व-जगन्मयूखैः पूर्वाद्रि-शृङ्गात् समुदेति चन्द्रः ।। अपिच- कोकद्वन्द्वं रटति करुणं भावयद् भाविदुःखम् धीरं धीरं कुसुम-सुरभिः सान्ध्यवातश्च वाति । हित्वाक्षित्रं गत-परिमलां म्लान राजीव-राजिम हर्षोत्फुल्ला श्वपलमधुपाः कैरवेषु भ्रमन्ति ॥ ९ अपिच- चन्द्रज्योत्स्ना पतति पवना-धूत-पर्णान्तरालात् फुल्लतपुष्पा उपवनलता श्चित्तमामोदयन्ति । कूजन्त्येते समदविहगा नीडमावर्त्तमानाः प्रत्यायान्ति भ्रमणविरता आश्रमान्तं कुरङ्गाः ।।१० मेनका-(विलोक्य) मान्य' ! आश्रमोपवनस्य सायं शोभा चित्त विनोदिनी तथाहि चन्द्रमसः कर स्पर्शेन वृक्ष-लता-पर्णानि रौप्यमयानीव दृश्यन्ते। उर्मिलं सरसीजलं क्षरत-चन्द्रकर निकरमिव आभाति । तनु पुलकयन् शीतलः समीरः मन्द मन्दं वहति । कुसुमानि वृक्ष वृक्षे विकसंन्ति । भ्रमराः रम्य झङ्कार मातन्वन्ति । नीडस्थाः विहङ्ग शावकाः चुङ्क तैः कुञ्ज मुखरयन्ति च । दमन:-- वत्से ! सत्वरमागच्छ । अपांति मे तपोबेला। (इति हस्ते धृत्वा नयति)। इति द्वितीयदृश्यम् । m ( 13 ) तृतीयदृश्यम् [ ततः प्रविशतः कन्दर्पः रतिश्च कन्दर्पः-- (स्मितं कृत्वा) अयि ! रते ! वक्तुं शक्नोषि किं समासादिता कास्थलीति ? रतिः- परितो विलोक्य सहर्ष) स्वामिन् ! वञ्जल-लताकुख-सुमञ्ज लं विहग-काकली-विलसितं. व्रतती-बात-परिवृतं, विविध-प्रसून-फल- रालिभिः रमणीयं पूततमं तपोवनमिति तर्कये । अपिच- व्याप्तं नभः सुन्दर ! यज्ञधूमैगायन्ति कीराः शिव-राम-नाम । कुर्वन्ति लोलां कुसुमैश्च भृङ्गा नूनं तपोभूरिति मे विचारः । १ कन्दर्पः- (सस्मितं) रते ! युक्त मुक्तं त्वया इदं तपोवनमिति । तथाहि अशोक किंशुकादिभिः तरुभिः परिगतेयं लघुपर्णशाला ! चतुर्दिक्षु- पुष्प फल-भरनताः लताः। गोमय लेपन-पूतं विरल-विकीर्ण-निवा- रकणं बहिरङ्गणम् । समीपे स्वच्छ नीरं नानीयं सरः । मध्ये धूमोद्- गारिणी यज्ञवेदी। विश्वस्त-विचरणशीला: तिर्यक् जातयः । ॐकार ध्वनि मुखरा आज्य-सुगन्धिनीयञ्च स्थली। रति:- स्वामिन् । अस्य दर्शनेन स्वतः हृदये धर्मभावना स्फुरति । पाप वासना च विलीयते । कन्दर्पः- धूम-व्याजेन पापराशि: अस्मात् दूरी भवति, तस्मात् शान्तिदं हृद्यञ्च स्थानमिदम्।मह्यमपि एतद् भृशं रोचते । रतिः-स्वामिन् ! विहग-श्रेणी रम्या अदूरवत्तिनी तटिनीयं का नामधेया ? कन्दर्पः- इयं तटिनी नर्मदा नाम्नी। या विरचित-फेनस्मिता तरङ्गकरैः कल-कल-निनदैश्च आवयोः स्वागतम् ज्ञापयतीव प्रतीयते । .
( 14 ) रतिः- (सविस्मयं) अहो! कलहंस-केलि-मधुरा इयं तटिनी तत् कूल- शोभि, मधुप-मधु-गुञ्जन-मनोहरं वञ्जल कुखञ्च मे मानसं ओनन्दयति प्रह्लादयति विमुग्धी करोति च । तथाहि- सुमजले वजुल-कुञ्ज-पुञ्ज गुञ्जन्ति मञ्ज भ्रमरा भ्रमन्तः । कल्लोलिनी नील-जलान्तराले लीलायते लोल मराल-मालः । कन्दपः-- प्रिये ! सुनील-वनानी व्याप्त-दिगवलये, हिन्ताल-तमाल-वकुल. बहुले, निकुञ्ज-पुञ्ज-सुमनु ले अतिमनोहरे एतत् तीरे वनलक्ष्मीः सजीवेव आभांति । यथाहि पश्य- लसत् पलाशावलि-नील-वस्त्रा फुल्लत्-प्रसून प्रकराच्छ-हासा । लोलद् विहङ्ग-स्वन-कम्रकण्ठा विभाति रम्यान बनान्त-लक्ष्मीः।। ३ रतिः - सत्यम् । निसर्ग रमणीया प्रकृति लक्ष्मीः अत्र चित्तोन्मादिनी। स्वामिन् ! कस्य इदं सुरम्यं तपोवनम् ? कन्दर्पः- इदं महर्षेः दमनस्य तपोवनम् । इदानीं पल्लव कुसुम-कल काकली रमणीयः वसन्तकाल: समुज्जृम्भते तस्मात् समधिक मनोहरास्य प्राकृतिक शोभा- तथाहि- कूजत्-कुज-कुटीर-कोकिल-कुलैर्दिक चक्रमाकम्प्यते चञ्चत्-चञ्चरकश्च-चूतमुकुलं चारूच्चर्र श्चुम्बति । वातो वाति वने वरोरु ! बलयन् बल्लीर्वसन्तागमे सङ्गीतं गगनाङ्गने च विहगा गायन्ति मुग्धा मुदा ॥ ४ रतिः- सत्यं स्वामिन् ! इयं वनानी कि पलयकरैः तालं ददती, भृङ्ग- विहङ्गनादैः रम्यं गायन्ती। मलयानिलेन मधुरं नृन्यन्ती मानसं मोहयति ।
(15) कन्दर्पः- प्रिये ! पश्य तावत् अत्र स्वभाव वैरतां विहाय इमे श्वापदाः कथं परस्परेषु स्निह्यन्ति । रतिः- (विलोक्य) स्वामिन् ! एतदेव किमस्य स्थानस्य माहात्म्यम् ? कन्दर्पः-- अथकिम् । प्रिये ! अन्यच्च पश्य- वनस्पतीनां विटपान्तरेषु विराजिता चित्रनिभावि-राजिः । धूत्वाज्य गन्धिश्च तमाल-ताल-शमीर जालान् वहते समीरः ।। रतिः- (मुखमवलोक्य) स्वामिन् ! इच्छामि अत्रावस्थाय एतस्याः प्रकृति कमनीयां शोभां उपभोक्तु कियत् कालम् भवता सह । कन्दर्पः-- तवाभिप्रायं पूरयितु नैव शक्नोमि रते ! नैव शक्नोमि । यतोऽहं देवराजस्य आज्ञावहः तदादेशः अवश्य पालनीयः । रतिः... (सभ्र भङ्ग) देवराजस्य क: आदेशः ? कन्दपः ... सचिन्त:) अस्ति विशेषः । रति:- (साग्रह) किं न कथयिष्यसि ? कन्दर्पः-(सस्मितं) अपि वर्द्धते उत्कण्ठा ? तर्हि श्रूयताम् । महः दमनस्य तपोभङ्ग इति । रति:--- (भयं नाटयन्ती) किं कथयसि ? दमनमुनेः तपोभङ्गः ? स्वामिन कथम् अकार्ये ते प्रबलाकाङ्क्षा, दुर्वारोग्रहः। अहन्तु अतीव भीता- ऽस्मि । मुखं मे शुष्यति, चित्तं मे भ्रमते हृदयञ्च वेपते, अये स्वामिन् किं न तव स्मृतिविषयिणी शिव तपोभङ्ग घटना ? अतः रक्षस्व मे अनुरोध । नात्मानं नियोजय संशयपूर्णे कर्मणि । कन्दर्पः- (सस्मितं) भीरु ! मा भैषीः। चिन्तय तावत् स एव देवदेवः महादेवः । परन्तु दमनमुनिः मनुष्यमात्रं किं तेन ? पश्य- .
( 16 )
-
अमल-कमलनेत्रे! चन्द्रचूड़ः सरोषाद्
विदलित-बल-दर्प मामनङ्ग चकार ।
न भवति मम नाशो येन भूयोऽपि तस्मान्
मनसिज इति युक्तं नामधाता व्यधत्त ।। ६
रतिः- अहं किन्तु बलवद् भीताऽस्मि ।
कन्दर्पः- (सस्मितं) जानामि अवलाः दुर्बलाः । तस्मात् त्वं भीता भवसि ।
अयि ! रते !भयं मा कार्षीः । आगच्छ मया सह । अहमेतस्य बल्ली-
जाला-वृत्तस्य पादपस्यान्तरितः साधयिष्यामि ममाभिलषितं
कार्यम् । (तौ अन्तहितौ)।
(ततः प्रविशतः पूजासामग्रीभिः सह मेनका दमन मुनिश्च)।
दमनः- मात: मेनके ! त्वं मम परिश्रमं लघू करोषि । प्रत्यहं पुष्पावचयेन ।
तहि आनय पुष्पभाजनं येन निवर्तयामि परमकारुणिकस्य कृष्णस्य
यथोचित्तं पूजाविधिम् ।
मेनका - अद्य प्रातः खलु चितानि एतानि विविधानि नयनाभिरामाणि
कुसुमानि नयतु भवान् । (इति पुष्पभाजनं अर्पयति ।)
(नेवथ्ये )
कोध्येयः स्वात्मगो देवः किं कार्य परमङ्गलम् ।
का काम्या जगतः शान्तिः किं लक्ष्यं परमं पदम् : ७
-
दमन:- (ऑकये) मातः शृणोषि ? अशरीरिणी छन्दोमयीं वाणीं। या
एव तव पथप्रदर्शिका वर्तते।
मेनका- (साश्चर्य) कुतः अयं सुललित-स्वरझङ्कारः ?
दमनः- सः मनस. अगोचरः । विभेषि किम् ?
मेनका- नहि, भवान् मे समीपवर्ती ।
(7)
HalNA
इमनः -- तर्हि गच्छ स्नानादिकं समाप्य स्वसौभाग्यदेवतां पूजय ।
मेनका-- शवान् पूर्व पूजयतु परमहं पूजयामि ।
मातः ! भक्तिपूत-हृदयेन सौभाग्यदेवतामय । अचिरेणैव
भवदुःखं तरिष्यसि। दिव्यमुखं च लप्स्यसे । यत:-
परिष्कृता यस्थ हृद-ब्ज वेदिका
सुभक्ति पुष्पा वलिभि: सुसज्जितां ।
परिप्लुता-प्रेम रसैनिरन्तर
मवाप्यते तेन मनस्स्थ देवता ।। ७
विशेषतः मर्त्य वासिनः जननं केवलं तदुपलब्धये । नोचे जीवन
निष्फलं भवति।
मेनका.... धन्याहं ईदृशं सुदुर्लभं देशं सदा शृणामि ।
दमनः --- अयि ! अधुना अस्मात् स्थानात प्रयाहि । अहमेव पूजाविधि
करोमि (इति नयने निमालयति)।
मेनका --- भवतु (प्रस्थिता)।
(रति कन्दपौ बहिरागत्य ) ।
कन्दर्पः-- रते ! शुभावसरः खलु अधुना मम कार्य सम्पादयितुम् ।
रतिः- स्वामिन् !
कन्दर्पः --- (हस्तनुत्तोल्य) तूष्णीं भजस्व । (धनुषि वाणसंयोग नाटयन् )
जयतु जयतु देवराजः । मम चेष्-या सह परिपूर्णा भवतु ते कामना ।
रतिः -- (भ्र कुटी भङ्ग्या निषेधति)।
कन्दपः ... जयतु जयतु देवराजः । ( इति वाणमोक्ष कृत्वा रत्या सह
प्रस्थितः ।
दमनः ... (सहसा चक्षुषी उन्मील्य स्वगतम्) अहो किमद्य मानसं मे
चपलायते । विक्षुब्धी भवति च । भक्तिर्नादेति हृदये । स्फुरन्ति च
पुनः पुनः कुविचाराः । अनिर्वचनीया दुर्भावनाः जाग्रति : पुलका.
( 18 )
यन्ते मे चाङ्गानि। हे भगवन् ! का ते इच्छा ? मया किञ्चिन्न
ज्ञायते।
मेनका- (समागत्य मुखमवलोक्य च) अहो ! भवतः मुखमण्डलं किमधुना
शरन्मेष पटल-छन्न-चन्द्रखण्डमिव निष्प्रभ विभाति ? का चिन्ता
सहसा आलोड़यति ते चित्तम् ?
दमनः- (सावष्टम्भं स्वगत) किं कथयामि ? (प्रकाश) न हि किञ्चित् ।
मदीया पूजा परिपूर्णा । त्वमपि स्नानकार्य समाप्य सौभाग्य देवतां
पूजय । अहं गच्छामि पर्ण कुटीरम् ।
मेनका- ( कुटी समाकुञ्च्य) कथम् ?
दमनः- वत्से | अनिर्वचनीया दुर्भावना मम चित्तं विकृती करोति । अतः
अहं दुस्सहां शिरोवेदनां अनुभवामि। कामये तल्लाघवाय शून्य.
*स्थाने कियत् कालं विश्रमितुम् (इति उत्थाय प्रस्थितः)।
मेनका- (तमेवमनुगच्छन्ती) मान्य ! किमुक्तं भवता ? बलवती शिरो-
वेदना?
(तत: पुनः
प्रविशति रत्या
कन्दर्प.-(उच्चैविहस्य) अयि ! रते ! दृष्टं त्वया मम क्रिया पाटवम् ?
तथाहि-
मनोमथ्नाति जन्तूनां यदुक्तं पूर्वसूरिभिः ।
मन्मथ इति मन्नाम युक्तं किं न शुचिस्मिते ॥ ८
रतिः --- (सभयं) अहो! एतादृशि साहसिके कार्य तवाभिलाषः ? सत्यं
तदा मे हृदयं कम्पित मासीत् ।
कन्दर्पः-प्रिये ! साहसिकेन कार्येण धन-यशः-सुखानि सुलभानि भवन्ति
अलं वाक् प्रपञ्चेन। आगच्छ शीघ्रमागच्छ एतस्मात् स्थानात्
यास्यावः । मम कार्य नूनं सफलीभूतं । अत्रावस्थानेन महान अनर्थः
सम्भवेतू । (रति कन्दपो पलायिती)।
इति तृतीयदृश्यम्
सह कन्दर्पः)
-
( 19 ) चतुर्थदृश्यम् [पर्णकुटीर द्वारदेशे दण्डायमानः दमनः समीपे मेनका च] दमनः- (आकुलं) मातः मेनके ! शीघ्र रचय शयनीयम् । यतः क्षणमपि प्रतीक्षितु नैव शक्नोमि । बलवती मे शिरोवेदना। (मेनका शय्यां रचयति मुनिः शेते ततः सा त-मस्तकोपरि हस्तं चालयित्वा)। मेनका- (स्वगतम्) सहसा शिरोवेदनायाः कारणं किम् ? भवतु । कथा- प्रसङ्गन प्रकटी भविष्यति (प्रकाशं) पितः किमात्मानं सुस्थतरं मन्यसे? दमनः- (स्वगतम् ) अस्याः पल्लव-कोमलकर-स्पर्शेन पुलकितानि मे अङ्गानि । न्यूनी भवतीव मे वेदना। मनसि मे जायते कोऽपि विकारः। हे भगवन् ! कथमीदशी भवति मे मतिः (विचिन्त्य) मन्ये अस्या: सानिध्यात् ईट्टक् भावः जागत्ति मे हृदये (प्रकाशं) मातः ! अलं करस्पर्शन सत्वरं गच्छ । स्नान समाप्य सौभाग्यदेवतां ? पूजय। मेनका- लघुतरा किं शिरोवेदना ? दमनः-वाढम्, किञ्चिदूना मे वेदना । त्वमपि याहि स्वकार्य-सम्पादनांय तत्परा भव। मेनका -- भवतु, गच्छामि तावत् (प्रस्थिता)। दमनः- (स्वगतं) विश्वसृजः अपूर्वा सृष्टिः नारी। या एव पुरुषस्य हृदये प्रवाहयति प्रेम-मन्दाकिनीम् जीवयति च दग्धीभूतामपि चित्तगतां कामनाम् । यया मोहयति पुरुषस्य मानसं विधाता, सृजतीदं जगत् । तया हीन पुरुषस्य जीवनं वृथा, प्राणाः निष्फलाः जननञ्च व्यर्थम् । नोचेत् गृहस्थाश्रमं कथं प्रशंसन्ते पुराण-महर्षयः । ( शयनात उत्थाय)
( 20 )
अहो ! तात्र मेनका। शून्यमिदं पूर्ण कुटीरं राजते च नीरवता ।
मनो गह्वरे लुक्कायिताः कामनाः एकैकशः उदयन्ति । मनोन
स्थिरता मेति किं करोमि ? न किमपि मम प्रीतये । मन्ये केवलं
जनयिष्यति प्रीति मैनकायाः अत्र उपस्थितिः भवतु शब्दापयामि तावत्-
(गवाक्षमार्गेण विलोक्य )
अहो ! सरोवरस्य नीलजले सुचपला वालेव इयं सखीतुल्यैः हंसीभिः
सार्द्ध जलकेलि परायणा वर्तते ? मुकूलित-कवरीभारं उद्वहन्त्याः
अस्या: आर्द्र वसनं प्रभिध आलक्ष्यते अभिनवं यौवनम् । अधुना
मधुरं अस्याः दर्शनम् । तथाहि-
एषा सरोऽभ्यन्तर सन्तरिष्णुः
प्रतप्त-कार्तस्वर-कान्त कान्तिः ।
कादम्बिनी मध्य स्फुरद विलोला
सौदामिनीव प्रतिभाति तन्वी ।। १
भवतु अनेन मार्गेण पश्यामि अधुना अस्या: असंच्छन्नं यौवनम् ।
(निरीक्ष्य) अहो! इदृशी विभा? एतादृशी कमनीया कान्तिः ? एवं
विधं लोकोत्तरं लावण्यम् ? उत्तरली करोत ममेयं चत्तसागरम् ।
समेधयति मे आशा बल्लरीं । समुद्दीपयति च मे कामनाराजीः । अहं
मन्ये
लावण्य-लीला-प्रतिमा-विशेषा
किं वा चलत-काञ्चन कल्प-बल्ली।
मायामयी मानस-मोहिनी वि
लोकेश-लोकोत्तर-कल्पना वी? || २
( मेनका जलांजलि गृहीत्वा नयने निमील्य च )
मेनका --. हे भगवन् ! अभीष्टदा यिन् ! कदा गमिष्यन्ति मे दुःख दिनानि ?
कदा वा भविष्यति मे मनोवाञ्छा पूर्णा ? कदा मर्त्य जालातू
?
(21)
यास्यामि वा पारम् ? कदावा प्राप्स्यामि पुनरपि दिव्यलोकम् ?
दमनः- अहो ! उद्दाम काम-विकारस्य सम्पादिनीयम् । तथाहि-
स्तनाभ्यामानम्रा कमलवदना कुन्दरदना
घनैः केशै: कम्रा विपुल जघना चम्पकरूचिः !
नव प्रेमोन्मत्ता ललितवचना लोलनयना
नवीनेयं कस्य व्यथयति न चित्तं सुकठिनम् । ३
अस्मिन् काले एको हंस शावक: मेनकायाः स्त्राञ्चले प्रविशति)
मेनका- (नथने उन्मील्य हस्ताभ्यां कोमलतया तं धृत्वा) अरे ! चपल !
मम ध्यानं त्वया प्रभग्नम् ? (स्मितं कृत्वा) कि
मृणाल-खण्डानि
भक्षयिष्यसि ? (मृणाल-खण्डं तन्मुखे ददात) अरे ! चपल ! कथं
मृणालखण्डं न भक्षयसि ? किं मातुः अझं कामयसे ?
दमनः-- (विलोक्य स्वगत) अहो ! अस्याः कमनीयः कण्ठः, अनवद्या च
मुखत्रीः कि
बहुना?
नेदं तदास्यं परिपूर्ण-चन्द्रः
स्मितं तदीयं न तदंशु-जालम् ।
लावण्यमेतन्न तदस्य कान्ति
स्तस्याः नवाणी क्षरिता सुधा सा ॥४
मेनका- अरे ! चपल ! अहमेव जलाजलिं ददामि । त्वं दूरमपसर ।
(इति बलात् निवार्य पुनः जलालि गृहीत्वा नयने निमीलयति ।)
दमनः- (एक लयेन पश्यन् स्वगत) अहो ! अस्याः मनोह! मुखश्री।,
कुञ्चित कृष्ण कुन्तलं, चपले नयनें, पल्लवरक्तौ अधरोष्ठी,सुकोमली
बाहूं, ललिते भ्र.बी, पृथुलो स्तनौ, सुललितं कण्ठं मनोज्ञा कान्तिः,
लोकोत्तरं लावण्यम्, कं नाह्लादयति ? नाप्याययति ? न मुग्धी
करोति ? कि बहुना-
LISTENR
( 22 )
नूनं पुसो भवति सफलं जन्मतस्येहलोके
पुण्यार्होऽसौ जगति निखिले शर्मभाक् भाग्यवांश्च
स्वीये कोडे चपलनयनां काम सौख्य-प्रदात्री
धृत्वे मां यः प्रणय सहितं यापयिष्यत्यहानि ॥ ५
(कुटीरात् वहिनिर्गत्य स्वगतम्) प्रमदा परिपूर्णा लतिकेव पुरुषस्य
हृदयक्षेत्रमलं करोति । यस्याः दर्शनं वीजायते, स्मरणं अङ्कुरायते
प्रणय-निबन्धनं पर्णायते, प्रेमालाप: कोरकायते, विलासभङ्गिः
पुष्पायते हृदयार्पणं फलायते | ततः पुरुषजीवनस्य परिपूत्तिः
शाश्वती शान्तिः, (वद्धाञ्जलिः सन् आकाशे दृष्टि दत्वा)।
हे भगवन् ! त्वमेव वाञ्छा-कल्प द्रुमः, त्वमेव परम कारुणिकः ।
त्वमेव प्राणिनां आत्तिहारी। त्वमेव अन्तर्यामीति लोकेषु प्रथितः ।
तहि इयं हि-
पृथुस्तनी चन्द्रमुखी सुमध्यमा
जवाधरा, कुञ्चित-नील कुन्तला ।
विलोलनेत्रा ललिता शुचिस्मिता
मदीय वक्षः किमलं करिष्यति ? ६॥
(कुटीरमागत्य सभ्र भङ्ग) विशेषतः श्रूयते संसारेऽस्मिन् नारी
महाघ रत्नम् । स्वयं विधात्रापि स्वतः इयं प्रदत्ता । परन्तु अति-
मूढेन मया दीन-कर-गत-रत्नमिव निराकृतम् (दीर्घ निःश्वस्य)
पराशर-व्यास-वशिष्ठादयः किं न पत्नी गृहीतवन्तः ? ते किं न
मुक्ति लेभिरे ?
(विचिन्त्य) तर्हि इमामेव करोमि स्वार्द्धाङ्गीम् । यतः अस्याः
अनवचं रूपं विलोक्य जागत्ति मे मनसि इयं कामना-
इमामके धृत्वा कमल-वदनां पर्ण-सदने
मनोमुग्धीकृत्य प्रणय-वचन श्वाति मधुरैः।
( 23 ) सदा पायं पायं तदधररसं निर्जित-सुधम् महोल्लासर्नेष्याम्यपरिमितकालं क्षणमिव ॥ ( नेपथ्ये) कोध्येयः स्वात्मगो देवः किं कार्य पर मङ्गलम् । का काम्या जगतः शान्तिः किं लक्ष्यम् परमं पदम् ।। दमनः- (प्रकृतिस्थः) अहो ! अयं स एव श्रुतपूर्वः ध्वनिः मे हृदय-तन्त्री प्रकम्पयन् आस्ते? मेनका ~ ( नानानन्तरं पर्णकुटीरमागत्य ) मान्य ! किमुपशमा भवतः शिरीवेदना? (भावं गोपयन् ) अथ किम् । लघुतरा संजाता मे शिरोवेदना । मेनका तर्हि उत्तिष्ठ मया संगृहीतानि कानिचित् फलानि भक्षय । (इति फलानि उपहरति)। दमनः- (स्वगतम्) नूनं इयं मे प्रण यिनी। नोचेत् एनां प्रति कथं मे मनसि ईदृशी वासना ? विशेषतः अस्याः दर्शनेन हृदयं मे स्फीतं भवति । तत्र नवीना-कल्पना स्तरङ्गा-यन्ते। एनां विना किञ्चिन्न आनन्दाय कल्पते मम । सर्वच विषकल्पं प्रतीयते (प्रकाश) वत्से ! अधुना मे दमनः H- बुभुक्षा नास्ति। मेनका - अद्य प्रोतरेव किञ्चिन्नाश्नाति भवान् । अनुरुध्यते एतानि फलानि भक्षयतु। दमन:- वत्से ! समागतः मध्याह्नः। स्फुलिङ्ग कल्पान् किरणान् किरति दीप्तो भास्वान् । सवेगं प्रवाति तप्तानिलः । आतपे सन्तापिनी वसुमती म्लानीभूतानि च तरुलता-पर्णानि । मुहुमुहुः कर्णगोचरी भवति विहङ्गानां करुण-कूजनम् । तर्हि त्वमपि समाप्ताह्निका कानिचित् फलानि भक्षयित्वा प्रच्छाय शीतले तले विश्रम इति । इति चतुर्थदृश्यम् ।
( 24 )
पञ्चमहश्यम्
(पर्णकुटीरे शय्यामधिस्ठितः दमनः)
दमनः- (स्वगत) अहो! तस्याः रूपसम्भार में मानसम् आलोड़यति
विकृती करोति च सर्व जगत् विषमयं प्रतीयते। किं करोमि ?
निद्राऽपि न आयाति
। यद्
भावि तद् भवतु । अकिञ्चनः किं लब्धं
काञ्चन खण्डं क्षिपति ? तर्हि ऐहिकी जीवनयात्रा निर्वाहयामि
चारुहासिन्या अनया सह। (परितो विलोक्य) गतः मध्याह्नः ।
सूर्यस्य किरणः क्रमादेव' हीयते । मलयानिलः मन्द मन्दं वाति ।
परितः स्निग्धं शान्तञ्च दृश्यते । तहि आह्वयामि तावत् मेनका
(प्रकाश) मेनके ! मेनके ! अत्रागच्छ ।
मेनका -- अयंपहम् आगच्छामि (पाच मुपेत्य) पितः ! कि निमित्त
आहूताऽहम् ?
मेनके ! (मुखं व्यावर्त्तयति)।
मेनका -- (भ्र कुटीमुत्तोल्य) पितः ! कथं किञ्चिन्न सम्भाषते ?
दमन:- संभाष
क्षणमपेक्षस्व।
मेनका - (स्वगत) कथं मुखभङ्गयाः विकृति भवति वाक्यं च न स्फुरति
कण्ठात् (प्रकाश) कथय ।
दमनः मेन के ! यदि मनसि किञ्चिन्न विभावयसि तहि कथयामि ।
मेनका --- कथय पितः ! कथय न किञ्चिद् विभावयामि।
दमन:- (मुखमवलोक्य) अयि !
कूनद विहॉ विकसत्तमालम्
गुजद्-द्विरेफ प्रलसत्-प्रमूनम् ।
दमनः
-
( 25 )
क्रीडत् कुरङ्गश्च वहतु-समीरं
विहर्त्त मिच्छामि वनं त्वयैव ॥ १
मेनका- (मुखं व्यावृान्तविहस्य च) (स्वगतं) मन्ये ! सुरेन्द्र प्रेरितः
कामः पूर्णकामः। भवतु तूर्ण गच्छन्तु में शाप दिनानि (प्रकाशं)
पितः किमद्य असम्बन्धं अभिधीयते ?
दमन:- (उत्थाय ) कस्तावनसम्बधः ? सुसम्बन्ध एष एव स्यात् ।
आगच्छ मया सह । (ग्रहीतु हस्तौ प्रसारयति ।
मेनका (मुर्ख विकृती कृत्य) न...... नहि......
(सस्मितं) किं विभेषि ? लज्जसे वा? आगच्छ मया सह (इति
बलात् करे धृत्वा नयति)।
?
दमनः
AMARPer
मेनका~ (स्वगतं) हे भगवन् ! अपार-करुणा ते मयि (प्रकाशं) कुत्र
गच्छाव ?
दमनः कानुन मध्यत्ति तमालादिभिस्तरुभिः समुल्लसितम्, विकच-सारस
सौरभ-युतं, खग-कल-काकली पूरितं, वनलक्ष्म्याः विलास स्थलमिव
शोभमान सरसस्तीरम् ।
मेनका - (स्वगत) देवराज ! मह्यं मतिं देहि । धृतिं देहि। येनाहं साध.
यिष्यामि भवन्मनोरथम् । (प्रकाशं) कथमावयोस्तत्र गमनं भवेत् ?
दमनः- ज्ञास्यसि पश्चात् । अयि पश्य तावत्-
रसाल-हिन्तार-तमाल-मालान्
उदुम्बर-श्रीफल-नारिकेलान् ।
सुनील-वानीर-शमीर-तालान्
विशाल-साल-त्वचिसार जालान् ॥२
मेनका --- अये ! कियह रं तत् सरसस्तीरम् ?
दमनः~ अयि ! क्लान्तासि किं ? तहि अस्मिन् शिलातले उपविश पश्य
च वासन्तीं वन शोभामू-
भ्रमन्ति गुञ्जन् मधुपा निकुञ्ज
मुञ्चन्ति पुष्पाणि लताः समन्तात् ।
कूजन्ति तारञ्च पिका रसाले
प्राह्लादयत्याशु मनो वसन्तः॥
मेनका- अहो ! अनुत्तमा रमणीयता वसन्तस्य ? यस्य स्पर्शेन समुद्-
भिन्न-पल्लवाङ्क रा पुलकिताङ्गीव आभाति इयं वनभूमिः ।
नीलिम्ना च गगनम उपहसतील प्रतोयते ।
दमन:- (सस्मितं) वस्तुतः निसर्ग रमणीया इयं वासन्ती शोभा
त्वदा
विधेव मे नेत्राह्लाददायिनी।
मेनका- (लज्जाधोमुखी तिष्ठति)।
(कराग्रेण मुखमुन्नमय्य) अयि ! शुचिस्मिते ! किं चिन्तयसि ?
पश्य तमाल-श्यामलां प्रचति-सुषमां ।
मेनका~ (सभ्र भङ्ग निषेधं यूचयन्ती कानिचित् पदानि गत्वा) पितः
किमेतत् ?
दमन: --- (तामनुगच्छन् विहस्य) अयि ! चारुहासिनि ! आर्यपुत्र इति मां
मुम्बोधय । न पितः, यतः त्वमद्य अधिका विभासि । तव रूपम्
मनसि मेऽद्य भावान्तरमाविष्करोति ॥ (सहसा पटान्तं केशान्तञ्च
अवलम्बते)
मनका- (मुखं विकृती कृत्य) अये ! किमेतत् ? किमेतत् ?
त्यजतात्त्यजतान्ममाञ्चलं लुलितां केशतति यतीन्द्र ! मे।
कथमद्य भवान् प्रयात्यधः स्थितप्रज्ञ ! स्मरतात कुचेष्टितम् ॥
AIN
(271
AuruN
mund
(सस्मितं)
अधि ! सुन्दरि ! चारकुन्तले ! नहि केनापि मम प्रयोजनम् ।
तव सङ्गसुखं स्मध्यमे ! मम काम्यं सुविलोल लोचने ! ५
मेनका-अये ! यतीन्द्र ! एतत् कि जे युक्तम् ? त्वमेव आवाल्य ब्रह्मचारी ?
दमन:- सुन्दरि ! तव रूप मोहितः किछिीव निश्नोमि । अधुनाह
कामचारी संजातः।
मेनका -- (सकरुणं) त्वं दमन इति आख्यां वहसि । तहि कथं ते ईदृशी
असंयमता?
दमनः
नामाक्षर सोम अस्यात् मदनः मां विकृती करोति ।
मनका- अये ! त्वं कृष्णस्य परम भक्तः ?
दमन: --- सुन्दर ! स कृष्णोऽपि रक्तः ।
मेनका सः कृष्णः "हृषीकेश इति निगद्यते । तहि कथं ते ईदृशी धर्म
हीना मतिः ?
दमन:-अयि । तथापि स एव राधिोशः, काम जनकश्च इति आख्यायते।
मेनका- अये ! यतिराज! पश्य तावत् तव स्खलनं विलोकयन् विलज्जि-
तोऽयं दिवाकरः मेघवसनैः मुखं संगोपात ।
दमन:- नहि नहि सोऽपि कामोन्मत्तः कान्तां छायामालिङ्गति ।
मेनका - (निषेधं सूचयन्ती) अन्यच्च पश्य -इयं सरसी विलोल-वीचि-
करैः निवारयतीव । इयं वनानी अपि पल्लव-कर-चालनैः पक्षि-
हुड़ तैश्च निषेधं व्यञ्जयतीव । तहि हे यतीन्द्र ! अहं स्खलित कवरी
विगलद् वसना च संजाता। अतो मां त्यज त्यज माम् ।
दमनः- (परित्यज्य) भवतु, शीघ्र संयोजय।
"
(23) दमनः- HomARAN मेनका... (स्वगतं) अहो ! लब्धावसरा अधुना प्रधानामि, पश्यामि तावद मामनुधावति नवा। यतः निषिद्धे वस्तुनि एव जनानां अभिरुचिः प्रवर्द्धते (इति धावति)। (तामनुधावन्) अयि ! प्रियतमे ! कण्टकाकीर्णोऽयं पन्थाः । अतः प्रधावनात् विरम विरम, यतस्त्वया- कल-नूपुर-राजिभिः सुकम्रौ सुघना लक्तक लेपनै मनोज्ञौ । ललितावति कोमलौ च रक्तौ चरणौ ते न कदापि पीनीयो।। मेनका ... (स्वगत) अहो ! धन-तरु-लता पर्ण-प्रसून फल प्रशोभिता मनो- रमा स्थलीयं । अत्र नैव द्रष्टु शक्नोति मम कलेवरम् । तहि निकटे लताकु अन्तर्लीना पश्यामि अस्य भावातिशयम् । (इति लताकुञ्ज प्रविशति) दमनः-- (परितो विलोक्य) अयि ! सुकुन्तले ! मेनके ! क्व गताऽसि ? क्वगताऽसि ? नवीन-विस्रम्भ-विमुग्ध-चित्तम् जिये ! प्रियेमालाप चारुनेत्रि ! सदा सदाचार युजो यतो में मनो मनोज स्तरली करोति ।।७ ! दमनः मेनका -- (स्वगत) स्मर-शा"-प्रहार खिन्न हृदयोऽयम् अधुना उन्मादग्रस्त नास्ति स्तोकमपि ज्ञानम् । भवतु पश्यामि किं करोति इति : अयि ! मुग्धे ! त्वं मम दुःखान्धकारस्य दीप्तिमयी आलोक- बत्तिका। हृदय कासारे रम्यगन्धा पद्मिनी। प्रेम पारावारस्य सुविमला ज्योस्नाधारा, कामानलस्य सुशीतला वारिधारा, शान्ति- दायिनी निकुञ्ज-भूमिश्च ।
129) Mana का --- (स्वगतं) अहो ! प्रेम-गर्भितं अस्य वचनं श्रुत्वा मम हृद्भावं विवरितु अक्षमा भवामि । तहि भवतु परिपूर्णा महेन्द्रस्य कामना । मामापि गच्छन्तु च तानि दुःख-दिनानि । (लताकुलातू बहिनिर्गत्य प्रकाशं) हे यतीन्द्र ! त्व मदीयमिदं शरीरं रक्षितवान् राक्षस कव- लात् । तहि त्वां किचिव कथयामि । यथा ते रोचते। (सोत्कण्ठ) मेनके ! क्व गताऽसि ? क्व गताऽसि ? (हस्ते गृहीत्वा) अस्मिन् चराचर जगति यानि वस्तूनि अस्मन्नेत्रगोचराणि भवन्ति तानि निष्फलानि उपभोग विना ! अयि लोल नेत्रि! तर्हि आगच्छ फुल्लत्-पुष्प-प्रकर, बल्लो निकुञ्ज-सुरम्य, मधुप पुख- गुञ्जन- मनोहरं, लता मण्डपम्, इति हस्ते धृत्वा जयति) मेनका-- (स्वगतं ) हन्त ! विधि प्रतिकूलानां ईशीदशा सम्पद्यते ? तथाहि- आशैशवाद ब्रह्मपरायणोऽपि प्रविद्धमाय मनङ्गवाणः । संसार-मायाब्धि-निमज्जिताना महो! कथा का विषयान्वितानाम् । ७ (प्रकाशं) वस्तुतः अतीव मनोरमा कुसुम-सुषमायिता इयं स्थली नयनाकर्षिणी भवति । अधि! सुवदने ! पश्य, वसन्त लक्षमी सर्वेषां चेतांसि विमोहयन्ती ललित ललनेव अत्र लीलां रचयति । तस्याः पाद नूपुरोपमम् मधु- करगुञ्जनं चित्तं विमोहयति च । मेनका--- समोरस्पर्शेन ईषल्लोलमाना पुष्पालङ्कारालंकृता इयं मल्लीवल्ली राजनर्तकीव प्रतीयते । तस्याः मुकुलेषु अलब्ध तोषं मधुपं मधुमत्ता इयं माधवी लता दर-मुकुलित-कुड़मलैः स्मितं रच्यन्ती-पल्लव-करैः आह्वथतीव।
( 30 ) दमनः -- दमनः and- अत्रत्य दृश्यं कस्य मनोमुग्धकारि न भवति ? अन्यच्च पश्य सारङ्ग-वाहिनी भूभृद्-वाजि-राजि-विराजिता राजधानीव भातीयं भूः भूरि भोगि-सङ्कुला !! ९ मेनका- सत्यमेतत् अत्र समलंकृत सर्वाङ्गो प्रकृति-वधूः मे मनः नितरां आलादयति। अयिः ! पश्यसि प्रफुल्ल भलिलकायां कथमुपविशन्ति बटुला: मधुकराः। रसाले कथ कुहूंरवं मुहुः कुर्वन्ति मदकलाः कोकिला: । पुष्पेभ्यः पुष्पेभ्यश्च कथं गृह्णन्ति मधूनि सुचपलाः मधुमक्षिका: ? मेनका -- (सहर्ष, पश्यामि । परन्तु अबस्थानि मल्लिका कुसुमानि मे मनः नितरां हरन्ति। दमन:- (गत्वा कानिचित् मल्लिकः कुसुमानि चिन्वन् आनयति ) मेनका- (पुष्पेभ्यः हस्तं प्रसारात).. दमनः-(सस्मितं) तव हस्ते नैव दास्यामि । एतानि तव विलुलित कवर्या मण्डयितु इच्छामि। मेनका- (स्मितं कृत्वा) नहि . दमन:- (मुखमुत्तोल्य) ललिते ! मम प्रणयं न रक्षिष्यसि ? ........... मेनका- (सस्मित) का गतिः ? यत् इच्छसि तत् कुरु । दमनः- (पुष्पाणि अलंकृत्य) अपि ! मल्लिकालंकृता ते विलुलिता कवरी अधुना तारकितं गगनं जल बुबुद् समाकुलां कालिन्दीञ्च तिरस्क- रोति तवरूप सम्भारः मनसि मे जनयति नवीनांमुन्मादनाम् (कराग्रेण मुखमुत्तोल्य)। सूचिकुरो-वत ! ते नव नीरदः सबि ! मुखं परिपूर्ण-सुधाकरः । !
( 31 ) स्तनुरुचिः कनकञ्च घटौ स्तनौ भुज युगं च विसं नलिने पदे ।। १० (अधोमुखी तिष्ठति)। इमनः अ!ि सुमध्यमे ! पश्य पश्य अमन्द गन्धवहोस्थित-तुङ्ग-तरङ्ग- भङ्गि-समाकुलं, विकच कुमुद कहार राजीव-राजि-मनोहरम् , उन्मद-कलहंस-कलध्वनि कलकलम्, जलचर निकर कृतजल संचा- लन, सुरम्य अतिदुर सरोवरम् । मेनका- (विलोक्य) अहो ! मन्द-गन्धवह-दोदुल्यमानाः गुञ्जन् मिलिन्दाः अरविन्ट-वृन्दाः सञ्चारयन्ति मनसि ने नबोनानन्दम् (सस्मितं) तर्हि एक मां प्रदातुं शक्नोषि किम् ? दमन:---- (सस्मितं) किं ते भविष्यति ? मेनका- सलज्जं सस्मितं च' अहं तस्य रमणीयं सौरभम् आघ्राय दिव्यां शोधां च विलोक्य कृतार्था भवेयम् । दमनः – (समीपमुपसृत्य चूर्णकुन्तलमुत्तोल्यो अनि ! प्रियतमे ! इयं तव चित्तगता इच्छा । तहिं ममेच्छाम् आकर्णय- मन्दानिला-पतित- केशलता-तिमञ्जो गण्डस्थलस्य सुभगे ! मम चुम्बनेच्छा। वासोऽपहत्त मचिरात्तव नीविबन्धातू मां मेनके! मनसिज श्वपली करोति ॥ ११ मेनका..... (अशृण्वती) अहो ! पश्य इयं वानरी कथं यूथ-भ्रष्टं स्वार्भकं हृदि निधाय मातृस्नेहार्द्रहृदया चुचुम्बते । दमन: (सस्मित) किं जननी भवितु कामयसे ? या न जाया सा कर्थ लभेत जननीपदम्। Matupment -
(32)
मेनका - (अधोमुखी) ममानुरोधं न पूर यष्यसि किस ?
दमन:- (समुपसृत्य) अभिमानिनि ! तब निःसर्ग रमणीयस्य वदनस्य पुरः
कमलस्य श्रीः का? तहि कथं ते निर्बन्धः ?
मेनका - (सस्मितं) तव प्रणयानुबन्धम्....
दमन: ... अयि तव कण्ठ स्वरस्य सुललित झङ्कारः मानर्स
प्रमोदयति, प्रोन्मादयति च (करयुगलेन मुखमुन्नमय्य)।
तवाधरं रम्य मुदार शीले ! दुनं हि पीयूष-रसेन पूर्णम् ।
तन्मार्ग सम्भूत वचांसि नोचेत्
कर्णषु वर्षन्ति कथं सुधीधान् ।। १२
मेनका --- (लज्जाधोमुखी भूमि नखेन विलिखन्ती स्वगतम्) धन्यः कन्दर्पः ।
धन्या ते चेष्टा, यत्त्वं संयमिनमपि अधः नयसि ।
अहो स्वेदजलाक्तम् आपाटलं ते मुखम् अधुना नीहारबिन्दुयुक्तं
कमलं विडम्बयति । किं लजसे ? भवतु इतः गच्छामि
मेनका - (स्वगतं) अहो प्रेम्णः माहात्म्यम् ? आर्कट कैटभारि यावत्
सर्वे तस्याधीनाः।
दमनः
को
दमनः- कानिचित् पदानि गत्वा एकं चम्पकपुष्पं हस्ते गृहीत्वा)
(सस्मितं)।
वर्णत्रयेण प्रथिताभिधानमाधन्त वर्गाक्षरयुक्तरूपम् ।
लभेत ते कम्रतनूपमानं वक्तु समर्थाऽसि किमस्ति हस्ते ? १३
मेनका- (स्मितं कृत्वा यद्यहं कथयिष्यामि ?
दमानः- (सस्मितं जानामि त्वं बुद्धिमतीति, यदि स्खलनं सभवेत् ?
मेनका -- (सस्मितं) तहि किम् ?
दमन:- अहं यत् वदामि ।
( 33 )
।
मेनका - (सस्मितं) भवतु, तत् चम्पकम् ।
दमनः- (समीपमुपसृत्य) शोभनं शोभनं स्वयोक्तम् । (पुष्पं मैनकायाः
अर्पयति)
मेनका ---- (अधोमुखी तस्य पत्राणि गणयति)।
(मेनकाया: हस्ती गृहीत्वा) अयि ! शुभाङ्ग! पश्य, चपलां
कुरङ्गी कथमवलेढि मदमत्तोऽयं कुरङ्गः । मकरन्द-पान मत्त भ्रमरः
कथमनुसरति ब्रमरी। कोकिला रवमाकर्ण्य कथमनुकूजति ता
कोकिलः । अयि ! प्रिये ! सर्व जगत् प्रेममयम् । तहि किं न ज्ञातु
पारयसि मम मनो व्यथाम् ?
दमनः-
(शिलातले उपविश्य) अयि !
विभूषया मृग शाव-लोचने !
कुचा-चलो ते हृदि संनिधेहि मे ।
सुवाहु-पाशेन दृढं वधान माम्
भ्र वो समाकुच्य च किञ्चिदालप ॥ १४
मेनका- (लज्जाधोमुखी तिष्ठति)।
(स्वासनात् उत्थाय समालिङ्गय स्वाङ्के निवेश्य च) अयि !
प्रियतमे!
-
अमन्द-मोदार्णव-चारु-चन्द्रिका
तडिल्लता त्वं नव-कल्पना-घनें।
प्रफुल्ल-बल्ली मम चित्त-कानने
'विषाद-मर्वच्छ-जला-तरङ्गिणी ॥१५
दमन
-
famama
?
( नेपथ्ये)
रे पाप ! कामांन्ध ! कुमार्ग-गामिद !
रे मूर्ख पापिष्ठ ! विवेकहीन !
असंयमि ! रे विषयाभिलाषिन् !
धिक् त्वामकार्येण न लज्जसे त्वम् । १६
(उत्थाय साश्चर्य' परितो विलोक्य) अहो ! कर्कश कण्ठध्वनि ?
को वा मां भर्सयते ? (ततः प्रविशति राक्षसः)।
राक्षस
(स-प्रगल्भं) रे रे कुमार्गचारिन् ! किमेत तपसः फलं, सत्यस्य
परिणामः ? ब्रह्मचर्यस्य पराकाष्ठा ? मया कवलं दुकृतं आचरित
न कि त्वया?
रे विषयान्वेषिन् ! यतिरिति अभिधीयसे, परन्तु क्वास्ते ते इन्द्रिय
संयमता ? क्व गता वा ते सद्विवेकता ? क्व वा ते सद्धर्म परायणता
भवतु अस्य फलमचिरेणव अनुभविष्यसि । अनुताप-ज्वलनश्च दन्द
हिष्यात (प्रस्थितः)।
मेनका- सभयं) आयपुत्र ! परित्रायस्व मां दुष्ट-रक्षस कवलात् इति
आलिङ्गात)।
दमनः--(स्वगतं) अरे! अयं स एव राक्षसः यमहमभिशप्तु प्रोक्तवान्
(साबष्टम्भ मेनके ! भयं मा कुरु । प्रस्थितः स दुष्टोऽधुना । नास्ति
भयस्य वकाशः। स्थिरचित्ता भव ।
मेनका ... नहि नहि आर्यपुत्र ! मां परित्रायस्व मां परित्रायस्व (इति
बलातू आलिङ्गति)।
दननः- अधीरे ! मयि सति का शक्तिरस्ति तस्य दुरात्मनः । तव छाया-
मपि प्रष्टु?
मेनका-(परित्यज्य) एनं दुरात्मानं प्रेक्ष्य मे हृदयं वेपते । मनसि दुर्भावना
समुदेति । पदभ्यां चलत्-शक्तिश्च विलुप्यते । किं करोमि ?
।
( 351
दमन: --- भीरु ! मा विभीहि । भोतिस्तु हृदयविकृतिः। न जानासि किं
मे तपोबलम् ? एवं विधान् शतशः राक्षसान् युगपत् भस्मीकतु
शक्नोमि का कथा तु एकस्य ? (हस्ते गृहीत्वा) अयि ! समागतः
सन्ध्याकाल: । आगच्छ । अस्मद् पर्ण कुटीरं यास्यावः।
मेनका-(सधैर्य') भवतु गच्छाग्रतः ।
दमनः- (कियह रं गत्व।) अयि ! प्रिये !
पश्य तावत्
पश्चिमाशाम्
मज्जत् - सुरक्त-रवि कुङ्कम चारु भाला
लोलद्-विहङ्गम-कला कमनीय कण्ठा
फुल्लत्-पलाश सुकुमार-सुरम्य वस्त्रा
कान्तेव मानसहरा सखि ! पश्चिमाशा ॥ १७
मेनका--- अस्तमितस्य प्रभाकरस्य प्रभापुञ्ज श्यामल वनानि रजयति ।
नील गगर्ने उड्डीयमानानां विहङ्गमानां कलध्वनयः दिङ्मुखानि
वधिरयन्ति । कुसुमसौरभवाही मृदु-मन्द समीरणः गुल्म-लता-तरूणां
लास्यमुपदिशन् लीलायते । अधुना निखिलं अरण्यं रमणीयतरं
विभाति।
दमनः- मेनके ! आवां बहुदूरमागती। संकीर्णोऽयं मार्गः कण्टकाकीर्णश्च
तहि शनैः पदं विन्यस्य आगम्यताम् ।
( नेपथ्ये )
को ध्येयः स्वात्मगो देवः किं कार्य परमङ्गलम् ।
का काम्या जगतः शान्तिः कि लक्ष्यं परमं पदम् ॥
मेनआ-- (सभयं) अये ! अयं स एव ध्वनि: ?
दमनः- (सधैर्य) अरे ! स एव ध्वनिः सदा मां सत्पथाय उपदिशति,
प्रचोदयति च । परन्तु मयातिकामार्त्तन किं न कृतम् ?. अद्य मम
द्वादशवर्षाधिक तपांसि विनष्टानि । अहो ! मम ईदृशं अधःपतन्न
(36) जातम् । भवतु इमाः सर्वाः विधातुरिच्छाः ॥ स्वयं जगदीश्वरोऽपि न शक्ष्यति लंघमितु नियमं नियतेः । किमुत मानवाः ? (प्रकाश) मेनके ! चिन्तां परिहर । नास्ति स्तोकमपि भयस्य कारणम् । मेनका- अये ! कियह रेऽस्माकं पर्णकुटीरम् । दमनः- इतः किञ्चित् दूरे। मेनका--- (सोद्वेग) अये ! यतीन्द्र | शीघ्र शीघ्र गच्छ । अधुना रविः चरमाचलचूडामतिक्रमते। दूरदिग्बलयादेव मन्दमन्दं सञ्चारिणी यामिनी कामिनी स्वकीयं कृष्णां शुकं शनैः शनैः आतनोति । नीड प्रत्यावर्त्तमानाः विहङ्गमाः कलं कूजन्ति । पल्बलातु समुत्तीर्य कटू शब्दायमानाः आरण्य वराहाः स्व-स्व-वासाय निवत्तन्ते । निशा- चराणां घोर-घर्घर नादाः कर्ण-विवरं रुन्धन्ति । वनमृग्याः आर्त्तचित्कारः सिंहस्य घोरगर्जनञ्च मनसि शङ्कां जनयति। आगतां रजनीं वीक्ष्य चक्रवाक् वधूश्च करुणं रटति । दमन:- मेनके ! अद्य मम नियमाचरणे महान् विलम्बः जातः । किमधुना करोमि ? (परितो विलोक्य) अहो ! धनान्धकारः शनैः शनै धरामा- लिङ्गति । नीला वनराजिः तत्र क्रमशः लोयते। फुल्लत् पुष्पाणां सौरभं समधिकमानोदयति। दूर कासारेषु कलहंसानां कलध्वनयः कर्ण कुहरेजु मधुधारां वमन्ति । सौरभहोनानि कमलानि मलिनी भवन्ति। गन्धवहः मन्द मन्दं वह, गणान् पुलकितान् करोति । गगनविलोक्य) अयि ! प्रिये ! पश्य पश्य कथमुद्भासन्ते नभोमण्डले तारका ततयः। मन्ये- नीलाम्बुर।शो मिहिरे निमग्ने निशाङ्गना-ध्वान्त मनोज्ञ-वस्त्रा। विमुच्य कृष्णां कवरीमभूत् किम् विकीर्ण-तारा सित पुष्प-पुक्षा ॥ १८ - (37) मेनका --- आर्यपुत्र ! अहमतीव क्लान्ता । पदयोर्मे गुरुतरा वेदना | अतः श्रमलाघवाय कथामेका भणतु । दमनः- भवतु । समीचीनमेतत् । अवहिता भव । मेनका- अवहिताऽस्मि । - तहिं शृणु, अस्ति आर्यावर्त्त-किरीटायमानस्य हिमवतः गङ्गोत्री स्रोतसः निःसरन्ती भारत-जनन्याः कण्ठगता हारलतेव, हरिद- ङ्गनायाः धवल चपल चेलाञ्चलेव, गगन समुदितानां द्युतिमतां ज्योतिष्कमण्डलीनां स्फाटिकमणि मुकुट्-श्रीरिव समुद्भासिनी : कपिलमहोदग्धानां सगरतनयानां परम-पद-प्रदर्शिनी। नवोढेव कान्ता वेगवती, मानिनीव दिरचित-वीचि-भ्रू भङ्गा, प्रगल्भेव संदर्शिता- वर्तनाभिगह्वरा, मन्दहासिनीव मोहित-मुनि-मानसा, प्रणयिनीव विरचित-फेन-स्मिता, अनुरागिणीव विहग कुल कला-लापिनी, रत्या सक्तेव मुकुलित शैवालकच-कलापा, रसिकेव कलहंस कल-शिञ्जित- मला, पभिनीव फुल्लत्-सारस सौरभवती, सावित्रीव ईशा- हाददायिनी, जानकीव परिपूतजनकान्वया, उन्मद मदनेव स्खलित गतिः, सतीव स्वच्छहृदया, कुलटेव कुटिला, कोपनेव घोर घर्घर- नादिनी कल्लोलिनी मन्दाकिनी नाम । मेनका- (अपवार्य सभयं) अये ! किमेतत् अस्मत् पुरतः सधूम वह्निशिखा आलोक्यते । श्वापदानां आतंचित्कारश्च द्विगुणी भवति । दमन:- (विलोक्य स्वगत) विसारि-धूम-कवरीम् उन्मोचयन्ती शिखा- जिह्वाभिः वन राजि पुनः पुनः लिहन्ती , तिरश्चातरवैरट्ट हसन्ती। किमियं वनचण्डिका? (प्रकाशं' मेनके ! विभेषि किम् ? एषः दावानलः कदा कदा अस्मिन् वनभागे प्रकाशते । मेनका- (सभयं) पश्य इमे श्वापदाः अधुना वैरीभावं परित्यज्य कथं इत.
( 38:) स्ततः प्रधावन्ति । तेषामार्त्तचित्कारः मनसि शङ्कां करुणाञ्च सृजति । करुण नदन्तः भीताः आतीश्च विहङ्गमा वृक्षात् वृक्षान्तरमनुक्रमन्ति धूमराशयः निखिलं गगनतलं सकलाः च दिशः पिधानयन्ति । खद्यो- तान विडम्बयन्तः अग्नि-स्फुलिङ्गाः सञ्चरतां तारागणानां भ्रान्ति जनयन्ति । दमनः- (साश्चर्य') अहो ! अधुना का गतिः? अनेन दावानलेन अवरुद्धा आवयोः गन्तव्या सरणी ? दमनः मेनका- तहि मार्गान्तरेण. निवर्त्य गच्छस्व । भवतु । त्वमपि तूर्ण मामनुगच्छ मेनका - (गगनं विलोक्य सभयं) अयि ! पश्यसि साटोपमारटन्तः भयं जनयन्तः प्रचण्ड-जलदाः कथं स्फुरन्ति प्राची--गगने। लज्जाकुला कुलाङ्गनेव नभोङ्गने कथं विद्योतते विद्युत् ? दमन:- (सभयं) अहो! प्रचण्डानि मेघ-खण्डानि चण्डानिलेन मण्डयन्ति नभोमण्डलम् । घनान्धकारेषु विलीयते धरा ॥ कम्पित वनाः प्रभ- अनाः सवेगं प्रवान्ति । किं कुर्वः ? मेनके ! मम मति विभ्रमः जायते । केनपथा गमिष्याव: ? मेनका- (सभयं) सुचिन्त्य मार्गेण अग्रेसरो भव । दमनः- धूम स्तोमैः घनध्वान्तैश्च मार्गः अवरुद्ध इव प्रतीयते । प्राणिनाम् आतचित्कारः मेघस्य गुरुगम्भीर-गर्जनञ्च कर्णकुहरं मन्धन मन सि भीति सञ्चारयति । केवलं सुचपला इयं सौदामिनी आवयोः दुःख दुःखिनी क्षणेक्षणे मार्ग प्रदर्शयति । प्रिये ! मम हस्तमालम्ब्य शनैः शनैः पदं विन्यस्य आगच्छ । मेनका- (अधैर्य) अहो ! प्रारब्धाः वृष्टयः। पर्णकुटीरस्य दूरत्वं कियत् ?
(39 ). । - (स्वगतं) हन्त ! विपर्ययौ समुपस्थितौ। किं वा मम दुष्कर्मणः फलमेतत् ? (प्रकाशं) मेनके ! मा अधीरा भव। विपन्नस्य विपदः युगपतु आपतन्ति । अयि ! पश्य तावत् आवाभ्या मासादितः पर्ण- कुटीरस्य द्वारदेशः । तथाहि- सेयं वल्ली विकचकुसुमा मत्त भृङ्गा-भिरामा सोऽशोकोऽयं स्तवकरुचिर: सौरभ-श्री-समृद्धः । सा स्थल्येषा मद कल-खगा श्वारुगायन्ति यस्याम् विद्योतन्ते ललित-लतिका स्तोत्र वाता-वधूताः ॥ १९ इति पञ्चमदृश्यम् । MMAsour ADDA (40) .. षष्ठदृश्यम् (ततः प्रविशति नवजात-कन्यकांधृत्वा मेनका) मेनका -- (सस्मिता) अद्य परिपूर्णमनोरथाह, समाप्तञ्च मम भव-वास- दुःखम् । मम खलु अवसर: आगतः स्वर्गगमनाय (ऊर्ध्वमवलोक्य) हे देवराज ! अधमया मया ते प्रतिज्ञा पूर्णा । तहि दयस्व मम येन प्राप्स्यामि ते पदारविन्द परिक्रम्य विचिन्त्य च) अहो ! देवराजेन आदिष्टं यदा भविष्यति तव औरसमपत्यम् तदा ते दुःखान्त कालः, तदा त्वं मातलि-संवाहितेन रथेन पुनः आगमिष्यसि स्वलोकम् । परन्तु क्व मातलि: ? क्व वा तत् स्यनम् ? किमपि च न लक्ष्यते । (ऊर्ध्वमवलोक्य)अथे ! देवराज ! मर्त्यवासिनी मेनका किं विस्मृत वानसि। (ततः प्रविशति रथेन सह मातलिः ) मातलि:- (सस्मितं) मात:! देवराजेन सन्दिष्टं अनेन स्यन्दनेन स्वर्ग- गमनाय तहि विलम्बेनालम् । एनां नवजात कन्यकां परित्यज्य आगच्छ। मेनका--- (स्वगत) देवराजस्य स्मृतिपथ वत्तिनी खलु अहम् (कन्यामुखं विलोक्य) इमां परम रूपवतीं आत्मजां परित्यज्य स्वलॊकं गन्तु मम मनः न बलते। देवराजस्य आदेशः अवश्यं परिपालनीयः तहि किं करोमि ? मातलि:- (सोवेग) मातः ! किं चिन्तामग्नेव दृश्यसे ? मेनका- (स्वगत) तपोधनेन आदिष्टं ममागमनं यावत् त्वयात्र स्थीयता- मिति । तर्हि अधुना किं करोमि ? आगमनकालः किल तपोधनस्य (प्रकाशं) मातले! न हि किञ्चित् । क्षणं अपेक्ष्यताम् ।
( 41 ) मातलिः --. मात:! सर्वे स्वर्गवासिनः तवागमनपथमपेक्ष्यन्ते तहि कथं विलम्ब्यते । सत्वरं सज्जीभूयताम् । मेनका- (कन्यकामवलोक्य सविषाद) भद्र ! अधुनाह किं करोमि ? यत. पशु-विहङ्ग-कुलेष्वपि दृश्यते प्रणय-रज्जु-निबन्धन-वृत्तिता। कनक-पुत्तलिकामिव शोभनां कथमिमां विजहामि महामते ! १ मातलि:- (स्वगतम-तविहस्य) अहो ! भव-माया-पाशवद्ध चित्तेयमधुना. नोचेत् कथमेवंविधः मतिभ्रमः अस्याः। (प्रकाश) देवराजस्य आदेशः भवतीं एकाकिनी नेतुम् । तस्मात् इमां कन्यकां शिलातले संस्थाप्य आगम्यताम् । मेनका -- भद्र ! कि सत्यं गमिध्यामि ? । मातलि:- मातः देवराजस्याज्ञा अलङ्घनीया । किं भावयसि ? पश्य तावत् निकाम नैफल्य मुपैति भारती महाजनोक्ताव्यतिनीच-मानसे प्रभामयीपार्वण चन्द्र-कौमुदी कुपल्वलं ह्यत्तरली करोति किम् ? २ मेनका भवतु गमिष्यामि लावतू (कन्यकां शिलातले संस्थाप्य साश्रुलोचना) अयि ! जाते ! अहं ते जननी। परन्तु प्रथमत: त्वत्तः प्रणयपाश: मया छिन्नः । किं करोमि ? देवराजस्यायममोघः आदेशः।तमुल्लंघ- यितु नास्ति मे शक्तिः। अद्य गच्छाम्यहं स्वलोकम् त्वमत्र चिर- जीविनी सुखिनी च भव। मातलि:- विलम्ब निष्प्रयोजनं, आयाहि सत्वरम् ।
! मेनका ... अस्तु । भद्र ! स्यन्दनं सज्जय ! अयमहं मच्छामि । (रथे उप- उपविश्य) भन्द्र ! त्वर्यताम् । मातलिः --- (स्वगत) अहो ! दृश्यते स्वाथ एवं जगति सर्वेषां गरीयान् । नोचे औरसी कन्यां का वा माता पारहरेत् ? (प्रकाश) प्राङ्मुखी उपविश गमिष्यावः तावत् (इति रथ चालयति )। मेनका-- (स्वगत) देवराजस्य आदशेन कियत् कालार्थ मया खलु मर्त्य लोकेऽवतोर्णा । स्वल्प कालेनापि कन्या-वियोग रूपेण एकेनापि दुःखेन दीर्यते में हृदयम् । तहि धन्याः संसारिणः ये एव विधानि दुःखानि बहुशः अनुभवन्ति (प्रस्थिता)। (ततः प्रविशति कुश समित् हस्त: चिन्तां नाटयन् दमन मुनिः) दमन: - (स्वगतं) हन्त ! स्मरोपतप्तेन मया न शोभनं कृतम् यतः स्व- हस्तेन एव विपदः आकर्षिताः। भवतु यद्भावि तन्नुनं भविष्यति (दूरादवलोक्य) आः! लतामण्डपं कि रिक्तं दृश्यते ? क्वगता मेनका ? अहो ! तामेव उक्त्वा मया गतं यत् मेनके ! मया कृश समित आनयनाय वनं गम्यते । ममागमनं यावत त्वयात्र स्थीयताम् इति ? भवतु समीपं यास्यामि । अरे ! तथापि सा न दृश्यते क्व' सा गत तो ? (विचिन्त्य) तहि नामग्राहं आह्वयामि, मनके ! मेनके ! क्व गताऽसि ? कि मत्तः निर्लीयसे ? मह्य क्रुद्वासि वा ? अयि ! गुवदने ! अहं तव क्रोधस्य अभाजनम् । (सभ्रू भङ्ग) अहो ! नास्ति किश्चित् प्रत्युत्तरम् । भवतु पुनरपि शब्दापयामि । अयि ! श्याम : मुग्धे ! चपलनयने ! चन्द्रवदने ! शुभे ! कान्ते ! रम्ये ! ललितबदने ! कुन्ददशने ! चलापाङ्ग ! पीनोन्नत-कठिन-वक्षोज सुभगे ! त्वया क्षन्त योमे हृदय दयिते ! दूपणच यः ॥ ३ । !
(3)
।
परितो विलोक्य) अहो ! तथापि नास्ति किमपि प्रत्युत्तरम् । भवतु
अस्मिन् लताकु जे अन्वेष्यामि। (अन्विष्य) अहो ! अत्रापि च
नास्ति । तर्हि कुसुमसुरभितां लता सुघनां स्थली च मच्छामि (गत्वा)
अहो ! अत्रापि च न दृश्यते, हि कि पर्णकुटीरं गता भवेतू ?
नर्मदायाः तोरकाननं वा ? तहि अधुना कि करोमि ? (विचिन्त्य)
आं ज्ञातम्, नूनं सा में प्रिया-
कारुण्याद्री मलिनवदना त्यक्त-लाक्ष-ङ्गरागा
स्वाविभूता-क्षि-सलिल तति स्नात वक्षोज-कुम्भा ।
छायाशीते वटतरुतले न्यस्य हस्ते कपोलं
स्मारं स्मारं मम रतिकथां ध्यानमग्नेति मन्ये ॥ ४
तर्हि तस्य वटतरोः समीपं गच्छामि। तत्र नूनं स्थास्यति (किंचित्
गत्वा) अये ! सुविशाल: अयं वटतरुः पल्लवराजिभिः कल-काकली-
भिश्च समलंकृतः । तद्दिने अस्य मूले
कामोन्मत्ते मयि च सहसा संप्रवृत्ते ग्रहीतु।
लज्जावत्या विलुलित-कचान् भ्र कुटी सा विधाय ।
मामामेति प्रचलितकरा व्यस्तयन्ती निषेधं
पश्चाद् वद्धा गलित कवरी-भार मुत्तोल्य दोभ्यां ॥ ५
(विलोक्य) अत्र च सा न लक्ष्यते । भवतु अहमतीव क्लान्तः श्रान्त
श्व । अस्य मूले क्षणं विधम्यामि (उपविश्य : अहो ! नर्मदायाः शीत
वातेन सुशीतल, कालकाकलीभिश्च कमनीयं, निकुञ्ज-पुलाभिराम,
गुखद् भृङ्गमनोहरं, विविध-प्रसून-राजि-रमणीयं, मनोज्ञं स्थान
मिदम् । किं बहुना?
अस्मिन् स्थाने प्रणय कुपितां गाढमालिङ्गयबाला
मङ्क कृत्वा शिरसि खचितं मल्लिका पुष्प मेकम् ।
( 44 ) :- कामोद्रेकान्मयि हृत अस्या नद्याः परमरुचिरे ताल-तापिछ कच्छे कम्र स्तन्या वसनममलं कर्षितं नीविबन्धात् ॥६ अत्र कुत्राऽपि च सा न दृश्यते (विचिन्त्य) भवतु सरस्तीरेषु अमला. गयाः सविशेषा अभिरुचिः । तत्र छाया-द्रुम-तलेषु विहरति । पुष्पाणि संगृह्यमालां रचयति । मृगपोतकेभ्यः तृणानि वितरति । करतालनादैः विश्वस्तान मयूरान् नर्तयति । हंस शावकेभ्यः मृणाल खण्डानि प्रददाति । यदा परिश्रान्ता भवति तदा तत्तीर कुञ्जकदेशे विश्राम्यति । प्रकृति शोभाञ्च निरीक्ष्य तन्मयी भवति । अपि तत्र गता भवेत् ? तत्स्थानमेव गच्छामि (गत्वा). अहो ! तरु-राजि- राजितं, विहग कुल रसितं, सुगन्धि कुसुम-समन्वितं, शीतलछाया परिपूर्ण, सुरम्यं एतत् सरस्तीरम्। किमधिकम् ? एकदा सायंकाले- अस्मिस्तीरे प्रकृतिरुचिरे केलिकाले सलील पटे वारयन्त्याः प्रियायाः। व्याज-ऋन्दा-तिमधुर-गिरा कान्त ! देहीति वस्त्र धृत्वा पादे मम यशपथं सन्नताङ्गो ययाचे ।। ७ परन्तु अत्रापि च न संलक्ष्यते । किं करोमि ? (आकाशे दृष्टि दत्त्वा) अहो ! अधुना सूर्यदेवः गगन मध्यमारुह्य जल-स्थल-गगनेषु स्व- साम्राज्यं विस्तारयति । कुनृपते.रव तस्य तीक्ष्णकरैः सन्तप्ताः सर्वे म्लानाभाः सञ्जायन्ते । मार-नाराच-विद्धमर्मा-विधुरा कामिनीव इयं वनानो तत्तापेन दग्धी भवति । सुदूरदिगन्तेषु मरीचिका नयनः नील-जल भ्रमि आतनोति। तर्हि अधुना क्व गच्छामि ? ( विचिन्त्य ) भवतु धनछाया-पूर्ण तमाल-निकुजं गच्छामि । सुकोमला कदा कदा मध्याह्नकाल यापनाय तत्रागच्छति । अपि तत्र अवश्यं लिष्ठेत् ? (गत्वा) इदं तत् रम्य-सौगन्ध्य-युतं तमाल-कुञ्ज वनलक्ष्म्याः वास- भवनमिव आभाति । अत्र तहिने मध्याह्नकाले सा कोमलाङ्गी- । । OM
( 45 )
बहुना?
श्रावं श्रावं मधुर मधुरां प्रेमगभी गिरं मे
जाता लज्जा रुण-नतमुखी नील-जीमूत-केशी।
वक्त्राम्भोजे तदनु विधृते चारुवस्त्रं च तस्याः
भ्रष्टं नालक्षितमपि तया सान्द्ररागानितम्बात् ॥ ८
हन्त ! अत्रापि च तस्याः गन्धोऽपि नास्ति कि क्रियते ? भवतु तर्हि
इतः किञ्चित् दूरवत्ति आम्रकुल यास्यामि । तत्र यदि गता भवेत् ?
(तत्र गत्वा) अहा ! चूतमञ्जरीणां रजोभिः पिऊरी कृतं द्विरेफ हु
कृतैः मनोहरं पिकनादरम्यं, मालती माधवी-मल्लिकादिभिः लताभिः
परिपूर्ण चित्ताकर्षि स्थानमिदम् । किं
अस्मिनु कुञ्ज ललित कुसुमै त्यक्त-वार्ता-प्रसङ्ग
रत्यासक्ता हृदय-दयिता मां समाश्लिष्यगाढम् ।
वक्षोदेशे नयन-सलिला पूर्ण वक्त्रं निधाय
त्वं सर्वस्वं मुहुरिति च मे वाष्पकण्ठं वभाषे ॥ ९
(परितो विलोक्य) अहो ! इदं तत् सरः । यत्तीरे सा मे प्रिया एकर
पद्माय माननुरुद्धवतो। कुसुम सुशोभिता इयं स्थली यत्र सा पुष्पाणि
चिनोति स्म । इदं तत् कण्टकाकीर्ण स्थान, यत्र प्रिया भीता मा
मालिङ्गितवती । इदं तत् आम्रवनं यत्र प्रिया मधुमयस्वनेन गायति
स्म । इदं तत् लताकुञ्ज, यत्र ममोरसि न्यस्तोत्तमाङ्गा स्वपिति
स्म । सैव झर-झर-नादिनी निर्झरिणी सैव तमाल-श्यामला
व्याप्त-दिगवलया वनानी । सैव कलहंस कल-लापिनी कल्लोलिनी ।
तदेव फुल्लत् पुष्कर सौरभवत् सरः। स एव नभश्चुम्बिशिखरः,
वल्ली गुल्म भञ्ज लः महीधरः। स एव पुष्प गन्ध-वाही समीरः ।
सर्वाणि खलु विद्यन्ते परन्तु क्व सा मे प्रिया ?
हे शैला ! हे वन-तरु-लतां ! हे भृग ! व्याघ्र-सिंहाः !
हैं दिक्पाला ! विहग निवहा ! हे सरिद्धे सरांसि !
--
!
!
तिक्तायते । क्षणमपि थुगायते । (सकरुणं) हे प्रिये! त्वं मम न नेत्र- (46) युष्माभिः सा विरस-वदना मुक्तकेशी कृशाङ्गी चिन्ता खिन्ना सजलनयना कि न दृष्टा प्रिया मे ॥ १० हा! केऽपि न ददति प्रत्युत्तरम् । कि करोमि ? (अश्रूणि मुञ्चन्) हा प्रिये ! हा प्रिय शिष्ये ! हा मानिनि ! पुनरपि प्रोति-मधुरैः वचनैः किं नालापयिष्यसि ? सुललित-विलास-भङ्गिभिः किं नाला- दयिष्यसि ? त्वयां विरहितस्य मे प्राणाः निष्फलाः जीवनञ्च व्यर्थ प्रतिभाति । सैव प्रकृति सुन्दरी न मे चित्तविनोदिनी । सैव काकली कर्णेषु विष मुगिरति । तानि कुसुमानि सौरभ-हीनानि नेत्रं नाकर्षन्ति । व्याकुल चित्तस्य मे सर्व विषमयं प्रतीयते । तथाहि-- नीलाकाशो मलयपवनः श्यामलीभावनानी ज्योत्स्नाधारा भ्रमरविहगा निम्नगाः पर्वताश्च सर्वेऽशक्ता उपसमयितु शोक-वह्नि हृदिस्थं किंचिन्मात्र नयन-सलिलं तत्प्रशान्त्यै समर्थम् ।। ११ (परितो विलोक्य) अहो! पश्चिमाशां रञ्जयन् बहुक्षणात् पूर्वमेव . सूर्यः अस्ताचलं गतः। पूर्वामाशां प्रोद्भासयति चन्द्रमाः। तस्य' सुधा- धवल करैरियं वनानी स्निग्धा दृश्यते । कल्लोलिन्याः जलानि नेत्र मुल्लासयन्ति । मृदु-सुरभिताः वाताः तनु पुलकयन्ति । विहगानां काकली कलकला: दिक्चक्र मुखरयन्ति। परन्तु सर्व मह्यं विषयिणी तथापि- मनसि मे समुदेति गुणावलि दिशि च दृश्यत एव तवाकृतिः । पतति कर्ण-युगे ललितः स्वरः सुनयने ! क्व गताऽसि विहाय माम् ? १२ ( 47 ) (विचिन्त्य) तहिं भवतु आश्रमोपवनमेव गच्छामि। तत्र यदि सा गता भवेत् ? (गत्वा) अहो ! इदं तत् उपवनं निरच्योतत् स्निग्ध चन्द्रिकया अतिरमणीयं दृश्यते । अत्र तद्दिने चन्द्रोदयकाले- तामाश्लिष्य प्रणयरसिकां पक्व बिम्बा-धराद् द्राक् गाढ़प्रेम्णा-मृतमभिनवं पातु कामे सलज्जा- बाला तस्मिन् ललितमधुरे वस्त्रमाच्छादयन्ती हुँहुँ गर्भ परुषवचनं मानिनी सा वितेनें । १३ हन्त ! अयं स एव किंशुकतरुः । यत्र तामालिङ्गय प्रेम-स्निग्ध- बचनानि भाषितानि । अयं स रसाल-पादपः यत्र तामाङ्क निवेश्य मुखारविन्दात् धर्मजलानि प्रमृष्टानि । अयं स वकुलः यत्र तदमल-कपोलात् चूर्ण-कुन्तलानि उत्तोलितानि (ऊर्ध्वमवलोक्य) अहो ! अत्र हि- समुदितो मुदितोऽमृत दीधिति. रूपवने पवनेन विजृम्भ्यते । सुनतया न तया हि विना मुदे सुमधुरा मधु-रात्रि-रियं मम ॥ १३ (सकरुणं)अयि ! प्राणप्रिये ! त्वया कदापि मम वाक्यं नैव उलंघितम् कस्य हेतोः अद्य ते एवंविधः व्यतिक्रमः ? है ! लोलांक्षि! त्वं मे दूरवत्तिनी तथापि स्मृति-मुकुरे आलक्ष्यते तव सुललितं वदनारविन्दम् । मर्म-वीणायां झंकृता ते सुधास्पद्धिनी वाणी, नयनयोः समक्ष नरीनृत्यन्ते तव मनोहर-विलास-भङ्गयः । तव कृते अनवरतमथुपातैः मम वपुः क्षीयते। धृतिः शीर्यते, तपः कार्यमुपैति । कान्तिः म्लायते, उत्साहश्च क्षीणतां याति । परन्तु प्रवद्धते मे शोकसागरः ॥
( 48 ) सर्व जगत शून्यं प्रतिभाति तमोमयञ्च प्रतीयते । किं करोमि ? क्व वा गच्छामि उपवन-लता-कुञ्ज गहने शिलातले किं सुप्ता भवेत् ? तहि तत्स्थामेव गच्छामि । (कियह रं गत्वा स भ्र भङ्गम्) । अहो ! आश्चर्य ? अस्य कुरुक्कस्य शांखायां लम्बमान तस्याः अमलं वसनम् । अतः अनुमीयते अत्र निकटे कुत्रापि सा वर्तते । भवत् अग्रतः अच्छामि (कियह रं गत्वा निरीक्ष्य) अहो ! एतत् एव भूमिनिपतित छिन्नं तस्याः नौवेयकम् । यत् चन्द्र-कर स्पर्शेन नेत्रमुद्भासयति । नूनं सा अग्ने विद्यते पुरःसरणेन अवश्यं तां द्रक्षामि (कियह रं गत्वा सभ्र भङ्ग)। अहो ! किमेतत् नवजात शिशोः कन्दनध्वनिः श्रूयते । किमत्र विद्यते सा? तहि पश्यामि (गत्वा विलोक्य च) अहो! सद्योजात कन्यकेयं तहि केयं ? केयं ? (निरोक्ष्य) आः! मम कान्तायाः अशेषमङ्गला- वण्यमस्यां संक्रमितमिव आभाति (विचिन्त्य) प्रिये ! प्रिये ! क्व गताऽसि ? हन्त ! कोऽयं मे व्यामोहः ? स्वप्नः ? मतिभ्रमो वा ? (वद्धाञ्जलिर्भूत्वा)। हे कृष्ण ! हे केगव ! हे मुरारे ! हे दीनबन्धो ! करुणैक सिन्धो ! केयं कुमारी क्व गता प्रिया मे, सर्व विचित्र प्रतिभासतेऽद्य ।। १४ ( नेपथ्ये ) श्रूयते कर्कशकण्ठस्य मुहुर्मुहुरट्टहासः............. । दमनः - (पश्चातू दृष्टि दत्वा). आः ! कस्यायमट्टहासः ? हृदयं मे चकम्पते, (परितः विलोक्य) कोऽपि न दृश्यते ?, तर्हि कुतोऽयमट्टहासः ? वद्धाञ्जलिः आकाशे दृष्टि दत्वा) हे भगवन् ! का ते इच्छा ? अर्ह किञ्चित् नावगच्छामि (विचिन्त्य) स्मृतिपथं मे आयान्ति तस्य .
(49) । राक्षसस्य परुषोक्तयः । रे कुम गं चारिन् । नूनमेतस्य फलमनुभवि- ध्यतीति । वस्तुतः तस्य दुष्कर्म णः फलमेतत् । भवतु अस्य निमूढं तत्त्व ज्ञातुमत्र करोमि ध्यानम् (निमीलित नेत्रोऽभूत्)। नेपथ्ये ) । भो यतीन्द्र ! दुःखं माकार्षीः एतत् अवश्यम्भाबि । दमनः- (चक्षुषी उन्मील्य) कस्यायं ध्वनिः ? कुतो वा आयाति ? अहो ! ज्ञातं देवानामिद कूटं केवलं मम तपो भङ्गाय। हन्त ! तदपि परिपूर्णम् । आः ! मम एतावान् मतिभ्रमः ? (क्रोधं नाटयन्) अरे ! रे देवाः ! अन्य समाधि-भोरवः भवतां किं युक्तमेतत् ? न हि त एंव निदोषाः (विचिन्त्य) इयं पापिनी मम तपसः विघ्नकारिणी । सैव मम द्वादश वर्ष-व्यापि-तपांसि विध्वस्तवती (भ्र कुटी विकुञ्च्य) तहि दास्यामि तस्य अभिशापम् (ऊद्ध्वं अवलोक्य) अरे ! रे मायाविनि ! कपटिनि ! तव एतस्मै कर्मणे...........। ( नेपथ्ये) मर्षय, मर्षय यतिराज ! मा छिन्दि अभिशाप-खड्गेन आज्ञानुव- त्तिनी सुकोमलामवल लतिकाम- गृहाण धैर्य यतिराज ! साम्प्रतम् न शापयोग्या ह्यबला सुकोमला। सदास्ति वृद्धः क्षयमेव निश्चितम क्षयश्च वृद्धिश्च परस्परं समे ॥ १५.. (परितो विलोक्य) अरे ! कस्त्वं ? पुनरपि मां वञ्चयितु- मिच्छसि ? न मन्यतां कामक्श: पूर्व दमनः इति । अरे मूढ ! मम विघ्न-भूताय तुभ्यमपि दास्याम्यभिशापम् । दमनः Hasana ( ततः प्रविशति वीणां वादयन् नारदः) R
( 50 )
नारद:-हे यतिराज ! त्वं एतावान् अधीरो भवसि ? यत्र ज्ञान-दीप:
प्रज्ज्वलति तत्र अज्ञानतमसः स्थानं क्व ?
दमनः- (सप्रणाम) देवर्षे ! कि वदामि ? अनिर्वचनीयं तत् । धिक् मां,
धिक् मे कृत्यं, धिक् मे जीवितं, धिक् मे भाग्यम् (इति भूतले लुठति)
नारदः- महर्षे!
एतत्
सर्व विधेविलसितम् । किं क्रियते ? स एव
अघटनं घटयति । असम्भवमपि सम्भवयति । विषयेऽस्मिन् नि:-
धानामश्रुपातः भवति । त्वन्तु ज्ञानवान् ।
दमनः- धिक् मे ज्ञानम्, येनाहमधःपतनात् न निवारितः ?
नारदः - महर्षे ! कथं भवान् मत्सर सागरे मग्नः सन् आत्मानं धिक्
करोति ? “पापन्तु दुःखस्य निदानम्" निरासक्तः संसारे सुखी
भवति ।
दमनः-(उत्थाय) देवर्षे ! कथं में भाग्य गगने समुदितः विषाद धूमकेतुः ?
नारदः- हे यतिराज ! कथं त्वया एतत् नैव ज्ञातम् ?
जगति हि सुखदं यत् तत्पुनदुःखदं नो
नियति नियम एषः प्रोज्झितु को हि शक्तः ।
यदनु भवति मत्यो न्यायतोऽन्यायतो वा
तदिह परगताद् वा केवलं कर्म दोषात् ।। १६
देवर्षे ! तत् कृते सर्व मया नाशितम् । परिशेषे सा मे प्रतारिका
जाता। किमेतत् मे कर्मफलम् ?
नारदः - वाढम् । एतत् ते कर्मफलम् । इह चराचरे जगति न कोऽपि
सुखस्य दुःखस्य वा दाता । सर्वे स्वकर्मफलमनुवर्त्तन्ते ।
तहि कः मुक्तेः सरणी अधिगच्छति ?
नारदः-यो हि ज्ञानाग्निना कर्मदोषं दग्धी करोति ।
दमनः- देवर्षे!
दमन:-
( 51 दमन:- (दीर्घ नि:श्वस्य) देवर्षे! भवतः इयं वाणी अव्यभिचारिणी। अद्य भवता ज्ञाननेत्रं मे प्रोन्मीलितं जीवनधारायाः दिग्दर्शनश्च प्रदत्तम् । मनसः विचिकित्सा चापसारिता (इति पादयोः पतति)। नारदः- (उत्थाप्य) हे महर्षे ! तव एतादृशीं दशां विलोक्य स्वयमहमाग- तोऽस्मि । किं क्रियते ? एतन्नूनं तव कर्मफलम् । नोचेत् क्व त्वद्विधो महर्षिः तपोनिष्ठः ? क्व सा च तपोनिघ्नन्ती हीनाप्सरा मेनका ? अहमाशीर्वदामि त्वं निरासक्तः सन् परमां गति लभस्व (प्रस्थिता)। दमन:- गतोऽयं नारदः । तदुक्तिस्तु मनः सागरे मे तरङ्गायते। वस्तुतः "पापन्तु दुःखस्य निदानम्" | यन्मया कृतम् तन्मया लब्धम् (नि:श्वस्य) धिगमून् प्राणान् । यत्र नास्ति देवानां स्वल्पाऽपि दयां । तहि एतादृशैः दग्ध-प्राणैः मम किम् ? (आकाशे दृष्टि दत्त्वा) रे रे देवाः ! अभीष्टप्रदातारोऽपि यूयं मम भाग्यदोषात् प्रतारकाः सजाता: ? तहि धिक् मां अधन्यम् । -(विचिन्त्य) नारदस्य उक्ति पालयितु नास्ति में धृतिः। इदं दग्धजीवनं नैव धारयामि । तर्हि गच्छामि अस्याचलस्य सानुतः आत्मानमधः निपात्य इमान् हत- प्राणान् नाशयामि शान्तिञ्च लप्स्ये (इति पर्वतमारोहति)। -
( 52 )
सप्तमदृश्यम्
रम्या वैकुण्ठपुरी अनन्त शयनाधिष्ठितो नारयणः
तत्पादत्तिनी लक्ष्मीश्च ।]
लक्ष्मीः-प्रभो ! किमुद्विग्नमना लक्ष्यते ?
नारायणः- (निःश्वस्य सत्यमुपलक्षितं त्वया। यतो मे परमभक्तः नहर्षि
दमनः अधुना संकटापन्नः वर्तते ।
लक्ष्मी:- (साश्चर्यः) सः भवतः परमभक्तः ? न किञ्चिदुपकृतम् भवता
तस्य वराकस्य?
नारायणः कमले ! कि क्रियते ? तस्यैतत् कर्मफलम् । अवश्यमनुभोक्त.
व्यम् ।
लक्ष्मी:- (सासूयं) यदि कर्मफलं न खण्ड्यते तहि को लाभः भवतोऽर्च
नया ? का च भवतः सर्वशक्तिमत्ता ?
नारायणः- (सावष्टम्भ। कमले ! अवहिता भव । अनादि कालादेव एतत्
सृष्टं मया यत् कर्मफलं जीवायत्तम् । यः यादृक् कर्ता स ताहा भक्ता
तत्कथं पुनरपि अन्यथा करोमि ?
लक्ष्मी:-- इच्छायां सत्यां भवविधेषु न दुष्करपेतत् ।
नारायणः- कमले! येन या यत्र यति दुःखं सुखं वा अनुभोक्तव्यम् ।
तेन तदा तत्र तति सुखदुःखभाजा भूयते इच्छन्नपि अहं तमन्यथा
कर्तन प्रभवामि ।
लक्ष्मी:-(सासूयं) भवतु अलं पल्लवितेन । मनसि मे आकाङ्क्षा समुदेति ।
कस्य हेतोः स महर्षिः सङ्कटापन्नः ?
नारायणः- (सचिन्तः) यदि कुतूहलं तर्हि श्रूयतां । एकदा वशी सः महेन्द्र
( 53 ) पदाभिलाषी नर्मदातोरे कठोरं तपस्तेपे । ततो नारदात् इदं निशम्य जाताश लेन देवराजेन तत्तपोभङ्गाय प्रहिता मेनकाभिधानाप्सराः । लक्ष्मी:- ततः किम् ? नारायणः -- ततो गच्छता कालेन तच्चित्तं वशीकृत्य तपो विघ्नं कुर्वन्ती। सा अन्तःसत्त्वा संवृत्ता। लक्ष्मीः -- (सश्चय) अहो ! वशिनः अपि तस्य सा व्रत-भङ्ग-कारिणो जाता? रत्नं प्रसूय नारायणः- किमत्र चित्रम् ? ग्रह विशेषेणेव बुधेनापि संस्पर्श जैः दोषैः गुणैश्च लिप्यते। लक्ष्मी:- ततस्ततः ? नारायणः एकदा स महर्षिः अन्तःसत्त्वां तां एकाकिनी वित्यज्य कुश- समित् आहरणाय वनं प्रस्थितवान् । अस्मिन् काले सा एक कन्या- तं च एकस्मिन् शिलांतले संस्थाप्य महेन्द्र प्रेरितेन रथेन स्वर्लोकमागतवती। लक्ष्मी:- (सःश्चर्य) औरसी कन्यां वित्यज्य स्वर्लोकमागतवती ? धिक् तस्याः मातृत्वम् । ततस्ततः- नारायण:-तत आगतेन महर्षिणा नवजाता कुमारी विलोकिता। ध्यानेन च सर्व ज्ञातम् । लक्ष्मी: -- ततः किम् ? नारायणः-ततः प्रज्वलित-कोपानले तस्मिन् महौं अभिशाप दहनेन छल- नामयीं तां दधीकत्तुं प्रवृत्ते......... लक्ष्मी:- (साश्चर्य) अहो ! न किञ्चित् अत्याहितम् ? नारायणः- ततो नारद वचसा "स्व कर्मफलमेतदिति” विभाव्य नितान्त बैराग्यापन्नः अधुना आत्मोत्सर्गाय कृतसंकल्पः वर्तते । ।
(54)
लक्ष्मी:- (सभयं) आत्मोत्सर्गाय कृतसङ्कल्पः ? गच्छतु शीघ्र प्रशमयतु
च दुःखं वराकस्य । अन्यच पश्यतु भवान् स्वभक्तानां दुःखोपशमनं
प्रभोः किं न समुचितं कर्त्तव्यम् ?
नारायणः- सत्यं कमले ! सत्यमेतत् ये आत्मभूतस्य मम शरणं याचन्ते
ते कदापि दुःखभाजो न भवन्ति !
( नेपथ्ये)
हे नन्दसूनो ! शिखिपुच्छर्माले !
कस्तूरिका- चन्दन-चारुभाल !
मनोज्ञ-वंशी युत-पाणि-पद्म!
अकिञ्चनं मां कमलेश ! रक्ष ॥ १
॥
लक्ष्मी:- (आकर्णयन्तो) अहो ! तस्य वराकस्येमार्तनादं श्रूयते। हैं
प्रभो ! ममाप्यनुरोधः योहि याहि तूणं समुद्धर च वराकं अस्याः
विपदः।
नारायणः- (अनन्तशयनात् उत्थाय ससम्भ्रमम्) कमले ! शिखिपुच्छं,
मोहनवंशी, कस्तूरिकाचन्दनविलेपनञ्च आनय मदर्थ । यतोऽह
वालगोपालवेशेन तद्दुःखं दूरीकरोमि ।
लक्ष्मीः भवतु (गत्वा तत् सामग्रिणा सह पुनः प्रविश्य) नयतु एतानि ।
( नेपथ्ये )
हे पाञ्चजन्योल्लसिताग्र पाणे !
हे नन्दकाम्भोरुह चऋधारिन् ।
कौमोदकी-शोभित-चारुहस्त !
निराश्रयं मां विबुधेश ! रक्ष ॥२
कमले ! किमधुना करोमि ? एतानि द्रव्याणि निष्प्रयोजनानि
संजातानि। तर्हि यांहि शीघ्र खड्गं शङ्ख-चक्र गदा-पद्मानि च मे
नारायण:
-
आनय।
( 55 ) । ! लक्ष्मी:- (ससम्भ्रम) भवतु । (गत्वा पूर्वोक्तद्रव्यनिकरेण सह पुनः प्रविश्य) प्रभो ! गृह्णातु एतानि । प्रयातु च तुर्णम् । नारायण:- (नाट्य न एतानि धृत्वा गन्तुमुपक्रमते) (नेपथ्ये ) हे शाङ्ग धारिन् ! वनमाल शोभिन् ! हे कौस्तुभोद्भासित रम्यवक्षः ! हे हार-केयूर-किरीट-जुष्ट ! निरक्षरं मां जगदीश ! रक्ष ।। ३ नारायणः - (विरक्तः) कमले! पश्य-- अयं वाचालः क्षणे क्षणे नामा- न्तरेण मामाह्वयति । किं क्रियतेऽधुना ? त्वायानीतानि द्रव्याणि निष्फलानि संजातानि तहि याहि शीघ्रमानय च मदर्थ शाङ्ग धनुः । वनमालं कौस्तुभमणि हार केयूर-किरीटानि च । यतोऽहं तैः द्रव्य- निकरैः समलंकृतः सन् यास्यामि तस्याभिमुखम् । लक्ष्मी:-(सविषाद) अहो ! अयं वराक: अतीवोदविग्नः । एकस्मिन् निष्ठा तस्य विलुप्ता । विशेषतः दुःखदग्धाः चपलान्तः करणाः भवन्ति । भवतु तानि द्रव्याणि मम हस्ते निक्षिप । द्रव्यान्त राणि पुनरपि आनयामि (गत्वाद्रव्यनिकरेण सह पुनः प्रविश्य) प्रभो ! एतानि तानि द्रव्याणि नयतु भवान् । नारायणः- (तैः द्रव्यनिकरैः समलंकृतः गन्तुमिच्छति)। ( नेपथ्ये ) हे तप्त-चामीकरवस्त्र-धारिन् ! पद्मालयालंकृत-वामभाग ! विहङ्गमाधीश्वर-पत्र-शालिन् ! अरक्षितं मां हृदयेश ! रक्ष ॥ ४ ( 56 ) नारायणः- पश्य कमले ! एतान्यपि प्रयोजनहीनानि संजातानि प्रागेव यदुक्त तत् किं न सत्यम् ? येन यदा यत्र यति सुखं दुःखं वा अनु भोक्तव्यम् । तेन तदा तत्र तति सुखदुःखभाजों भूयते। किमत्र क्रियते ? तर्हि अधुना गरुत्मानमाह्वय । स्वयञ्च सज्जीभव गमनाय । लक्ष्मी:-- प्रभो ! किं करिष्यति स वराकः । सद्विचारधारास्य प्रनष्टा । भवान् जगत्पिता । किमेवं भाषते ? ( नेपथ्ये ) अकिञ्चनं मां हृदयेश ! रक्ष निराश्रयं मां हृदयेश ! रक्ष । निरक्षरं मां हृदयेश ! रक्ष अरक्षितं मां हृदयेश ! रक्ष ॥५ नारायण:- कमले ! पश्य अस्य वराकस्य चेष्टितम् । यत् अवश्यम्भावि ततू उल्लंघयितुकः शक्तः ? लक्ष्मीः-प्रभो ! अस्य हिताहितज्ञानं विलुप्तम् । तस्मात् सः वाचालायते । अधुना सः सर्वतः निराशः सर्वान्तःकरणस्थं भवन्तं. हृदयेशरूपेण आह्वयति । तर्हि परिछदेनालम् । येन केनापि वेषेण तद्धृदयात सह- साविभूय रक्षस्व दुःखदग्धं वराकम् । नारायणः- भवतु कमले ! भवतु अस्याः दुर्दशाया: नूनं मोचयिष्यामि तमेव । अत्राधिष्ठाय केवलं त्वं लक्ष्यस्व । (ततः प्रविशति पर्वतशृङ्गमारुढः वद्धाञ्जलि: दमनमुनिः।) दमन: (सकरुणं) अकिञ्चनं मां हृदयेश ! रक्ष निराश्रयं मां हृदयेश ! रक्ष । निरक्षरं मां हृदयेश ! रक्ष अरक्षितं मां हृदयेश ! रक्ष ॥६ (57 . (नेपथ्ये ) धैर्य धारय वत्स धैर्य धारय । दमनः- (वद्धाञ्जलिः पुनः तदेव पठन् उत्प्ल वितुकृतमतिः)। (ततः प्रविश्यति चिन्तानुरूपा भगवन्नारायणः)। नारायणः-(हस्तमुत्तोल्य) धैर्य धारय वत्स ! धैर्य धारय । अधीरतां धीर ! विहाय तूपण हृतु कन्दरे स्थापय धैर्यमार्य ! ते यान्ति पारं विपदण्णवस्य ये धैर्य-नौका दृढ़माश्रयन्ते ॥६ दमनः- (विलोक्य साश्चर्य') अहो! किं पश्यामि ? यस्य सान्निध्यलाभाय एतावन्तं कालं तपः कृतवान्, यो मम हृदन्धकारस्य दीप्त-विव. स्वान् यस्य करुणा-वारि-लवांश्च प्राप्तुमासीत् मे ईयान् अभिलाषा सुरासुराच्चित-पद-कमलः नीलेन्दीवर-निन्दित-कलेवरः श्रीवत्स- लाञ्छनालंकृत वक्षःस्थलः शङ्ख-चक्र-गदा-पद्म-भूषितकरः, वनमाल कौस्तुभमणिधरः सोऽयं पीताम्बरः ? अहो ! सफलं मे जन्म सफलञ्च मे तपः (इति पादयोः पतति)। नारायणः- (स्मितं कृत्वा) उत्तिष्ठ वत्स ! उत्तिष्ठ, धैर्य च धारय । प्रार्थयस्व च स्वाभीष्टं वरम् । उत्थाय वद्धाञ्जलि.) नाहं याचे सुरपतिपदं मर्त्यलोकाधिपत्यम् ज्ञानं मानं सुविमलयशः कामिनी काञ्चनं वा। विश्वव्यापिन् पदकमलयोःप्रार्थनेयं ममैका गायं गांयं तवगुण गणान् वासरा मे प्रयान्तु ।। ७ नारायण-तुष्टोऽहं तवानेन बचनेन । भद्र ! तवैतत् कर्मफलम् । यतो मया दमनः- ।
( 56 )
"को धेयः स्वात्मगो देवः” इति स्मारिताऽपि नाधिगणिता । तस्माद्
देवानां चेष्टा फलवती जाता । अतः दुःखसागरे निमग्नेनालम् ।
दमनः- प्रभो! दुख मे अभीष्टं दुःखमेव, आध्यात्मिकस्य मार्गः । आत्मो.
नते: सोपानञ्च।
-
नारायणः- (कन्यकां धृत्वा)
हे संयमिन् ! गृहाणे मां चेन्मोक्ष-मधु लिप्यसे ।
आख्याय मधुलिप्सेति कन्यकां परिपालय ।।
दमतः यथादेशः भवतां (कन्यकां गृहीत्वास्वगतम्। अहो! भगवता
प्रदत्तमपूर्व नाम “मधुलिप्सा" (प्रकाशं) हे भगवन् ! कियत् कालमहं
भवदुःखं सहिष्ये ? यतः-
न स्थातुमिच्छामि चिरं भवेऽस्मिन्
स्यां दोषयुक्तो यदि दीर्घजीवो।
स्फुरत्-प्रभा-मण्डल-बाल चन्द्रः
किमङ्कहीनः परिपूर्णरूपः।
नारायण:- वत्स ! मा अधीरो भव । तत् काल: आगमिष्यति । यस्मिन्
काले चन्द्रमण्डलं विदीर्य अवतरिष्यति एको दिव्यमनुजः अस्मिन्
आश्रमपदे । इमां च ग्रहीष्यति स्वार्धाङ्गिनीरूपेण । तावत् काल:
तव अपेक्षणीय: "भोगात् नूनं क्षयिष्यते ते कर्मफलम्" ततस्त्वं
जीवन्मुक्तः सत् मम लोकं प्राप्स्यसि ।
दमन:- (वद्धाञ्जलिः) प्रभो! कृतकृत्योऽभवम् ।
नारायण:- किं ते भूयः उपकरोमि ?
दमना-(वद्धाञ्जलिः)
नाहं हि याचे भुवनाधिपत्यम्
न चापि भूर्ति न सुखं न शान्तिम् ।
-
( 59 नारायण:- तहि किं ते कामना ? दमन:- मायान्धकारेऽतिघने विलीनान जानान् समुत्तारय विश्वभूर्ते ! अपि च- भवतु हि निखिलोर्वी शस्य-सम्भार-गुवों प्रवहतु जनचित्ते शान्ति-पीयूष-धारा । सुललित पद-रम्या ज्ञान-विज्ञान-पूर्णा प्रसरतु वसुमत्यां शुद्ध-गीर्वाण-वाणी ॥ ( यवनिकापातः) पत्र-