Tms
Gadyachin'taamand-i
Front matter
No text on this page.
Saraswatirlasa Soric: Hol
THE.
GADI:ICHIXTAMANI
OF
LİDİBILASIMHA
T. S. KUPPUSWAMI SASTRI,
S. SUBRAHMANYA SH.STRI,
adris :
PRISTED BY GA NATESAX & CA, ESPLANADE ROW.
1902.
1 Highls lleorrred ]
lipuright Rryistra's
No text on this page.
Didintos
EUGEN HULTZSCH Esiliiris Ph. D..
1
R
!
soboken of high regard and usioom for his
Indfatigable researches in the field of
Surg. Herature.
THE EDITORS.
No text on this page.
॥ गयचिन्तामणिः श्रीवाभामिहश्च ॥ अयं वादीमिहः कविदिगम्बर जैनी यतिः पुष्पसेनमुनेग्न्नेवासी । क्षत्र मुडामणिमान तामणिश्चात दावेव प्रत्यावेत कृतानुपलभ्यते । यानिनग्माधारणी नपूर्ण पश्यतः पाडता: वादीभमिहः' इति नाम कुगति प्रतीयते । माम्कारिक न नाम - आटयदेवः' इत्यवगम्यते । प्रमाणवचनानि नयादारले नमाने 'श्रीपपमेननिनाय इन प्रनीती दियो मनुहट मदा मम मानद-यात् । यनित: प्रकनिर्माना वादी मिनिझनामनि ॥ ६ ॥ श्रीमदीनामदन मनाय: तः । ववादपटवन चिमणाम्यानपणः ॥ यादवचन वादीमहरिणा नः । माननामगिक पितामणिग्विापर: ॥ अब प्रथमो दान के आमनी गुरूचरण यानमेवाज्ञानमभकः जनक पामो मन्त्रजप इति स्वाशयमाविकगनि कविः । ओड. - इ-मटमायनामश्रवणादाक्षिणायोऽयं कविरिन्यवगम्यते । यतः संदवः' आडयदेवः ओट्यात्तेव.' 'ओडयाल्यार' इत्येवं नामकरण गान्येप्येव कतिपय जातीयेषु दृष्टचरं प्रसिद्ध च । अद्यापि विद्यन्न आन्टिवाटीप्रमुग्वेषु प्रदेशेषु (Tin.vells andlother District देवः' इति नामवन्तोऽवरवर्णजाः पुरुषाः ।
वादीभसिंहः ।
कविरयं कदा बभूवेति न निश्चयः । किनु वचनसंदर्भरातिमनु-
सत्येव यकिचिदिवाम्य का निर्णतुं प्रयन्यते । वादीभामह सरिकृतक्ष.
अनुडामणिगधचिन्तामण्याहरिचन्द्रकविचितस्य जीववरचम्यूकाव्यस्य च
बचनरचनायामाशयाविष्करणे च तत्रतत्र स्थन्लेषु मुनरां समुलसति
साधर्म्यम् । तमाघस्नाकिचि प्रदर्शन --
१. 'यथ ममपस्थितायां विपदि विपादस्य परिग्रहः सोऽयं
पण्डातपकिनम्य दाबहन भुजि पान: । पृ० १९. गद्यचिन्तामणिः.
कि कल्पने करङ्गाक्षि शोचन दुग्यशान्तये ।
आनपशनाशाय पाकम्य प्रशवत् ॥' जाधरचम्पः.
२. मिमित्रानया पत्रानोबायाय नमोऽस्म्यहम ।
ययमन वय १का विपि न त विद्यया । अत्र चुडामणिः.
• नया ममित्राधानवाप्ययनमाम्यहम् ।
विगाहाना र मयं नया हाना इवादयः । नीववरचम्पुः.
१. नाम मानम्य तम्य नामाद ही पुन:।
भएकागो महागगा मन यो भन्मय क्षणात ।।
न हि वायन शक्यं दकमालपतपस्यया ।
विस्कुहिन कि शस्य दम्बुमाईमपन्धनम ||
अशा तपः मोऽय राजा गयमिवान्यजत् ।
श्रेयासि बहविनानी यतमानाभवत् ।।
तपसा छादितम्तिराचारी हि पानकी ।
गुल्मेनान्तहिती गृहविकिरानिव नाफलः ॥
भवतिय यथेष्ट स पापण्डितपसा पुनः ।
चित्र जैनी तपस्या हि वैराचारविराचिनी। क्षत्रचूडामणिः.
तदनु दिनेदिने प्रवर्धमानं भस्मकरोगमल्पन तपसा विस्कुलिङ्गनेवाढ़ें-
या:
वादीभसिंहः । ३ न्धनं ग्वगोनेनेव मंनमम नग्वर सकयेव महारण्यं शमयितुमशक्नुवानः पूर्व राज्यमिव नप:मामाध्यमपि परिन्यजन्पापण्डितपमा ममान्छादितः स्वैरा- हारानाफन्ट इव गमान्नहिती विष्किगाममादानो यथेष्टमवर्तिष्ट जीवधरचम्पः. मग येवं माम्ये तगवानयोः पर्वतर: कविरिति न वक्त मक- ग्म् । यतोऽम्य हरिचन्द्रकवि ममयः मनगं न ज्ञायते । हरिचन्द्रत्रयं नावाभिम । वाणभावांनो मारहरिनन्दः प्रथमः । विश्रप्रकाश- कोशकतम सभ्य एमपश्चरकर्माताकाकार: माहमाङ्कनृपतेः प्रधा- नवेद्यो द्वितीयः । धर्मशमी पदयक व्याजमान हरिचन्द्रमहाकवि- तृतीयः । पामयमध्येकलमोऽन्योति मरेड । किंतु हरिचन्द्रो वादी- भामिहश्रेयभावपि स्वयकवियोगा प्राचीनकविकक्षामारोहत इतिमा- त्रमय वन प्रभवति ग्मना । अनेन गिविनायटाः कास्टिामाणमादीनां कृतय इति तेभ्योऽम्यान काटिकवमहाने 1. 'मेकान्ने मनिकन्याभिः कामायामिडातनक्षकम । विश्वामाय विहङ्गानामारवालाबपायिनाम || ५१ ॥ आतपराययमभिमनीवाराम निपादिभिः । मुगलितगमन्थमट नाङ्गण भूमिप ॥ १२ ॥ म. १. रघुवंशः. 'वासराबमानमंक्षिमनीवाराङ्गणनिपाटिमृगगणनिर्वनितरोमन्थम् , आल- वाटाम्भःपानटपटविटगपेटकाविश्वासकते मेकान्तविसृष्टवृक्षमुलमुनिक- न्यकावितकारुण्यम् , दण्डकारण्याश्रममधिवमन्तीम् ।' पृ० १२०. गचिन्तामणिः. २. 'तात चन्द्रापीड, विदितवेदितल्यस्याधीतसर्वशावास्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एवाभानुमेद्यमतिगहनं तमो ४ वादीभसिंहः । .. यौवनप्रभवम् । दारुणो लक्ष्मीमदोऽन्यन्ततीब्रो दर्पदाहज्वरोष्मा । अम- प्रगम्यो विषमो विषयविषास्वादमोह इत्यतो विस्तरेणाभिधीयसे ।' का. दम्बरी. 'वास, बन्दनिपटनपुरोधममपि स्वभावतीक्ष्णया धिषणया धि- स्कुर्वति मर्वपीनपानिये भवति पश्यामि नावकाशमुपदेशानाम् । तदपि कलशभवसहमेणापि कवयितमशक्यः प्रलयतरणिपरिपदाप्यशोध्यो यौवन जन्मा मोहमहोदधिः। अशेषभपजप्रयोगफल्यनिष्पादनदक्षो लक्ष्मी- कटाक्षविपतिमी दधिरः । मन्दीकृतमणिमन्त्रीपधिप्रभावः प्रभावनाट- फनटनमत्र गार: सयाप मारः इति किंचिदिह शिभ्यसे ।' पृ०४१-४२। गचिन्तामणिः. ३. गर्भधार नमभिनवयोवन यमप्रतिमरूप वममानुपशक्तिन्य चेति महनीयमनपराग । मर्याविनयानायकमप्येपामायतनम् । किमुत स. मघाय: ।' कादम्बरी. • अविनयविगायन योवनम . अनगम जङ्गानि परमातलं सौ- दर्यम् , सविताशे पन्नाम्यानमैश्वर्यम् , पत्यपूजाविन्टनलधिमज- ननी महामालता च प्रत्येकमपि भवनि जनानामनाय । चतुर्दा पन- रेतेषामेकत्र मनिपात: मनमानर्थानामियर्थेऽस्मिन्का मशीतिः। पृ०४२। गधचिन्तामणिः बाणभा मकीयहर्षचरितस्य प्रारम्भे केयांचि प्रात्यातनान्नां पू. बा कीनां नामप्रहणं करोति । तत्र गद्यबन्धस्य निबन्धारी द्वायेव सु. अधुहरिचन्दनामानी कवी स्मरति न पुनरन्यं तस्य कृति वा । कालि- दासकवेः कालः (६३४) चतुत्रिंशदधिकपछलतमाविस्तादाप्रा- गिति सर्वजनसंमतम् । बाणभाः कविः स्थानेश्वराधीशस्य हर्षवर्धनमहा. राजस्प सदसि लम्धप्रतिष्ठ आसीत् । स च राजा हर्षवर्धनः (६१०- .
वादीभसिंहः। ६५०) दशाधिकषट्छततमाविस्ताब्दादारभ्य पञ्चाशदुत्तरपट्छततमा- दावधि पाटयामास पृथिवीमिति निर्विवादम् । अतो वादीभसिंहमूरिः (६५०) पञ्चाशदुत्तरपट्छततमाब्दा परमेवासीदिति निश्चेतुं पार्यते । परं च, अस्ति भोजचरित्रस्यावसाने भोजराजः कालधर्म गत इति कुतोऽपि मृपोद्यामाकर्ण्य नाम्यता कालिदासेनोक्त इति प्रथां गतः प्रायः संस्कृतभाषाविदां सर्वेषामपि मुग्वस्थश्वायमधस्तनः श्लोकः- 'अद्य धारा निराधारा निरालम्बा सरस्वती । पण्डिताः खण्डिताः सर्वे भोजराजे दिवं गते ॥' इति । वादीभसिंहश्च गद्यचिन्तामणी राजद्रुहः काष्टाङ्गारस्य दुनयेन दुर्मना- यमानानामुपस्तं मन्यंवरमहारा जमनुशोचतां जनानां प्रलापव्याजेन स्वमन:- संदानितानि तदावनिष्पनानि तान्येव पद्यस्यानि पदानि प्रस्तुतानु- गुण किंचितिपरिणमय 'अद्य निराधारा धरा, निरान्टम्बा सरस्वती' इत्येवं पटितवामिति मंभाव्यते । यद्येव तर्हि चाराधीशम्य भोजराजस्या- चाचीन एवा कविरिति परिणमति बादम् । विद्रप्रियः श्रीभोजराजश्व (९९५-०५३) मतनव युत्तरनवशतनमाविस्तादादारन्य त्रिपञ्चाश- दुत्तरसह तमादावधि मध्यमकरदिनि मुज्ञातम्। मर्वयोपरितनः श्लोको भोजराजन्य समय प्रयोदपादीनि निविकपमवमीयते । परं तु कथमस्थ भोजराजभ्य मानकाट: काटिदाम इति शङ्का ममुपद्यते । अयं च भो. जप्रबन्धनिर्दियः काटिदामः रघुवंशादिकृकालिदास इत्यतिमात्रमसंग. तम् । कि तु नसमाननाम्ना तासमानप्रभावेन वा तदन्येन भवितव्यम् । आमाद्भोजराजस्य पितृव्यो मुझो नाम नरपतिः । यस्यैवामोघवर्ष इति बलभनरेन्द्र इति वाक्पतिदेवराज इति च प्रयन्ते नामान्तराणि । तस्य भ्राता भोजराजस्य जनको विक्रमाकांपरनामा सिन्धुराजः । यमेवाहुन- वसाहसाङ्क इत्येके कुमारनारायण इत्यन्ये । आसीदाभ्यामुभाभ्यामपि our वादीभसिंहः । समानितोऽनयोरुभयोरपि प्रेमपात्रं सदस्यः परिमलापरनामा कालिदासः । येनास्ति विरचितं नवसाहसाङ्कचरितं नाम सिन्धुराजचरितप्रख्यापक महाकाव्यम् । यत्र सर्वमिदं प्रथमैकादशयोः सर्गयोनिरूपितं च भवति । तेनैव परिमलापरनाम्नामुना कालिदासेन भोजसदस्येन भवितव्यमित्यूह्यते। अयं वादीभसिंहः कविर्वाणभट्टस्यैव सरणिमान्तमनुसरति। अस्य काव्यपथे पदानां लालित्यं श्राव्यः शब्दसंनिवेश: निरर्गला वाग्वैखरी सुगमः कथासारावगमश्चित्तविस्मापकाः कल्पनाश्चेतःप्रसादजनको धर्मोप- देशो धर्माविरुद्धा नीतयो दुष्कर्मणो विपमफलावाप्तिरिति विलसन्ति विशिष्टगुणाः । किं च समासभूयस्त्वं समैपदास्तनां च निरवधिक- दैर्ध्य तादृशविशेषणानां बाहुल्यं ततः कर्तृपदानां क्रियापदानां च व्यत्र- हितत्वमतोऽर्थबोधस्यायाससाध्यत्वं चेति गद्यप्रबन्धकृतामसाधारणाः केचन दोषा अपि क्वचिवचिद्विशेषतः प्रारम्भ एव दर्शनपथमवतरन्ति । यथा नाटकपद्यबन्धचम्पूप्रबन्धानां निर्माणे बद्धादराः पूर्वे कवयो न तथा त एव केवलगद्यबन्धनिर्माणे । अतो गद्यबन्धातां निबन्धारः सप्ताष्टा एव कवयो नामतः श्रूयन्ते । श्रवणगोचरीभूतास्तेषां च तावन्त एव गद्यप्रबन्धा नामतोऽद्य परिज्ञायन्ते । तेषां चात्र निर्दिश्यन्ते नामानि सुखावगमाय सर्वेषामपि जनानाम्-(१) सुबन्धुकविकृता वासवदत्ता (२, ३) बाणभट्टप्रणीते कादम्बरीहर्षचरित (४) आचार्यदण्डिविनिर्मितं दशकु- मारचरितम् (५) श्रीवादीभसिंहसूरिविरचितो गद्यचिन्तामणिः (६) धन- पालकविकृता तिलकमञ्जरी (७) अगस्त्यकविकृतं कृष्णचरितम् (८) वा- मनभट्टबाणविरचितं वीरनारायणचरितम् (९) अविज्ञातकर्तृका शुक- सप्ततिश्चेति । अत्र निर्दिष्टेष्वपि कतिचिदेव प्रबन्धा अद्यावधि प्राकाश्यं भीताः । न पुनः सर्वेऽपि। अतोऽद्य गद्यचिन्तामणिरयं न केनापीतः पूर्व प्रकाशित इत्यस्य प्रकाशने समजायत साभिलाषं हृदयम् । अत्र परोप- बादीभसिंहः । कारपराणां पण्डितवराणां साहाय्येन समासादितं पुस्तकषटुं सम्यक्परि- शील्य यथामत्यविकलमकारि शोधनम् । येषामाश्रयेणैतन्मुद्रणमकारि तेषां विद्यैकपक्षपातिनां तदीयानामपि पुस्तकानां नामरूपाणि व्यावर्ण्यन्ते । (१) तत्रैकं पुस्तकं मैसूनगरस्थराजकीयपुस्तकालयाधिकारिभिः बि. ए. इत्युपपदधारिभिरन्तर्वाणिवरेण्यैः श्रीमहादेवशास्त्रिभिः प्रहितमान्ध्रलिप्या समुलसितं नातिप्राचीनं नातिविशुद्धं च (२) द्वितीयं तालपत्रपुस्तकं 'कोल्हापुर' नगरवाहतमठाचार्यः श्रीलक्ष्मीसेनभट्टारकभट्टाचार्यैः प्रेषितं कर्णाटलिप्योत्कीर्ण प्रायः शुद्धम् (३) तृतीयं तालपत्रलिखितं पुस्तक- मस्मत्सुहृज्जयरावनयिनारद्वारा मैसूरराज्यान्तर्वर्तिश्रवणवेलगुलग्रामस्थितसं- स्कृतपाठशालाध्यापकवर्यश्रीब्रह्मसूरिशास्त्रिणां सकाशात्समासादितं स्थल- विशेषेषु सटिप्पणीकं ग्रन्थलिपिसमुल्लामितम् (४-५) क्वचित्कचित्संदि ग्धस्थलेषु पाठभेदपरिज्ञानाय कृतोपयोगमत्रत्यपुस्तकालयस्थं ग्रन्थाक्षर- लिखित तालपत्रभुस्तकद्वयम् (६) अपरंतु षष्ठं ग्रन्थाक्षरलिखित ताल- पत्रपुस्तकमस्मतिपत्र जयरावनयिनाराणां साहाय्येन वन्दिवाशिवेङ्गुणग्राम. वास्तव्यशेल्वरशुशास्त्रिणां सकाशादधिगतं नातिप्राचीनम् । षट्स्वपि पुस्तकेषु य उत्तमः पाठः प्रत्यभात्स एव गृहीतः । पुस्तकेष्वविद्यमानः स्वबुद्ध्या न कल्पितः पाठभेदः । तथापि गच्छतः स्खलनमिति न्यायेन चेत्त्वचिदपि स्खलनं तत्क्षन्तव्यमारित्यभ्यर्थ्यते । यतः, 'सर्वः सर्व न जानाति सर्वज्ञो नास्ति कश्चन । नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे कचित् ॥' इति भगवान्व्यासः
No text on this page.
॥ श्रीः ॥
गद्यचिन्तामणिः।
प्रथमो लम्बः ।
श्रियः पतिः पुष्यतु वः समीहितं त्रिलोकरक्षानिरतो जिनेश्वरः ।
यदीयपादाम्बुजभक्तिशीकरः सुरासुराधीशपदाय जायते ॥ १ ॥
प्रणम्रगीर्वाणकिरीटभानुभिः प्रफुल्लपादाम्बुरुहान्गणेश्वरान् ।
प्रणौमि येषां स्तुतिरेव भारती कवित्वशक्तयै भुवि कल्पते नृणाम् ॥२॥
आतिस्थिरं स्वस्य पदं मनोगृहे स धर्भचिन्तामणिरातनोतु मे ।
यदाश्रिताः शाश्वतसंपदं बुधाः श्रयन्ति भव्या गतसंसृतिश्रमा: ॥३॥
अशेषभाषामयदेहधारिणी जिनस्य वक्राम्बुरुहाद्विनिर्गता ।
सरस्वती मे कु. तादनश्वरीं जिनश्रियं स्यात्पदलाञ्छनाञ्चिता ॥ ४ ॥
सरस्वतीस्वैरविहारभूमयः समन्तभद्रप्रमुखा मुनीश्वराः ।
जयन्तु वाग्वज्रनिपातपाटितप्रतीपराद्धान्तमहीध्रकोटयः ॥ ५ ॥
श्रीपुष्पसेनमुनिनाथ इति प्रतीतो
दिव्यो मनुर्मम सदा हृदि संनिदध्यात् ।
यच्छक्तितः प्रकृतिमढमतिर्जनोऽपि
वादीभसिंहमुनिपुंगवतामुपैति ॥ ६ ॥
स्नेहप्रयोगमनपेक्ष्य दशां च पानं
धुन्वंस्तमांसि सुजनापररत्नदीपः ।
मार्गप्रकाशनकृते यदि नाभविष्य-
त्सन्मार्गगामिजनता खलु नाभविष्यत् ॥ ७॥
२
गद्यचिन्तामणौ
त्यक्तानुवर्तनतिरस्करणौ प्रजानां
श्रेयः परं च कुरुतोऽमृतकालकूटौ ।
तद्वत्सदन्यमनुजावपि हि प्रकृत्या
तस्मादपेक्ष्य किमुपेक्ष्य किमन्यमेति ॥ ८ ॥
निःसारभूतमपि बन्धनतन्तुजातं
मम जनो वहति हि प्रसवानुषङ्गात् ।
जीवधरप्रभवपुण्यपुराणयोगा -
द्वाक्यं ममाप्युभयलोकहितप्रदायि ॥ ९ ॥
गीर्वाणाधिपचोदितेन धनदनास्थायिकामादरा-
त्सृष्टां द्वादशयोजनायततलां नानामणिद्योतिताम्
अध्यास्त त्रिदशेन्द्रमस्तकमिलत्पादाविन्दद्वयः
प्राग्देवो विपुलाचलस्य शिखरे श्रीवर्धमानो जिनः ॥१०॥
तत्रासीनमम त्रिलोकजनतासंसारजीटी-
दावं दुर्मतघर्मतापहरसद्धर्मामृतस्राविणम् ।
राजा श्रेणिक इत्यशषभुवनप्रख्यातनामा नम-
न्दूरानम्रकिरीटताडिततलस्तुष्टाव हृष्टाशयः ॥११॥
तत्रस्थं चतुराश्रमस्थपुरुषानुष्ठयधर्मस्थिति-
व्याख्याल्यापृतिदृश्यमानदशनालोक गणाधीश्वरम् ।
वन्दित्वा मकुटावतंसकुसुमामोदेन लिम्पन्मही-
मप्राक्षीत्किमपि क्षमापतिरथ स्पष्टीभवत्कौतुकः ॥ १२ ॥
नानाभोगपयोधिमग्नमतयो वैराग्यदूरोज्झिता
देवा न प्रभवन्ति दुःसहतमां वोढुं मुनीनां धुरम् ।
इत्याहुः परमागमस्य परमां काष्ठामधिष्ठास्नव-
स्तद्देवो मुनिवेषमेष कलयन्दृश्येत कस्मादिति ॥ १३ ॥
प्रथमा लम्बः । ३ ३ इत्थं पृच्छति पार्थिवे गणधरस्तदृत्तमाख्यातवा- राजन्नैष सुरः पुरा नरपतिर्विश्वंभराविश्रुतः । वैराग्येण तृणाय राज्यमतुलं मत्वा विमुच्याशु त- प्राविक्षत्पदवीं तपोधनगतां गीर्वाणतुल्याकृतिः ॥१४॥ इत्येवं गणनायकेन कथितं पुण्यास्रवं शृण्वता तज्जीवंधरवृत्तमत्र जगति प्रख्यापितं सारीभिः । विद्यास्फूर्तिविधायि धर्मजननीवाणीगुणाभ्यर्थिनां वक्ष्ये गद्यमयेन वाङ्मयसुधावर्षेण वाक्सिद्धये ॥ १५ ॥ अस्ति खलु निखिल जलधिपरिक्षेपविलसदनेकद्वीपकमलकाणे- कारूपस्य जम्बूद्वीपस्य दक्षिणभागभाजि भारते खण्डे पुण्डरीकासनायाः क्रीडागृहमिव लक्ष्यमाणः , प्रक्षीणमोहजनितजिनचरणपक्षपातरक्षु - णमतिमन्दरमथितविद्यासागरसमासादिततत्त्वावबोधसुधारसैरहरहरुपचित- सुकृतमुकुलित रलोकभयैरभ्यागतसंविभक्तविभवविजृम्भमाणवितरणगुण- गरिमनिमीलदमरमहीरुहमाहात्म्यैर्ममतामर्थेष्वनाकलयद्भिरात्मचरितापहसि- तकलिविलसितैरावसद्भिः सद्भिरारोपितगरिमा , दिशिदिशि दृश्यमा- नकनकमयविमानतिलकितवियन्मध्यानपरयमधनाध्युषित वेदिकोपशो- भिताशोकपादपच्छायालङ्घनचकितभव्यलोकवक्रितप्रदक्षिणभ्रमणैः पर- हितनिरतमुनिवरपरिपदभिहितधर्मानुकथनकर्मठशुककुलवाचालोद्यानशा- खिशाखापरिष्कृतपरिसरैरुपसरसंसृतेरुपरतिमुपजनयद्भिर्जिनालयैरुपशेभि- तः, सततविनिहितसलिलसेक जनितशैल्यविनिर्गतपुलकतुलितमुकुल- दन्तुरितेन वहदनिलकम्पितैविटपबाहुभिरतिदुर्धरं फलभरं दातुमा- ह्वयतेव प्रत्यग्रकन्दलीदलनदुर्ललितकोकिलकलालापच्छलेन मनसि- जविजयभोगावलीमित्र पठता सहकारतरुपण्डेन कृतमण्डनैर्मधुकरनि- .
गद्यचिन्तामणौ .. करकजलाकलङ्किताः कामविजयनीराजनदीपिका इव कुसुममञ्जरी: पि- अरितदशदिशो दर्शयता चम्पकचक्रेण चारुतामुहद्भिः प्रसवोत्कण्ठ- मानकामिनीगण्डूपमधुधारसेकनिष्पन्नपुष्परिञ्छोलविवलितवपुषा हसतेव युवतिजनलालनवियुरानितरधरणीरुहान्वकुलतरुवाटेन वर्धितशोभैस्त - रुणीचरणप्रहारानन्तरमन्त: :प्ररूढकोपकृपीटयोनिमिव कृकवाकुचूडापा- टलं पल्लापीडमुद्गिरता प्रत्यङ्गं कङ्कलिजालेन जातनयनातिथ्यैरन्यलता- श्लेषावकाशहरणाभिनिवेशादिव गाढाश्लिष्टनिःशेषकरवकतरुभिर्माधवीभि- राधीयमानमदनबलैरुन्मीलितकुसुमावचयकौतुकमिलितमहिलानिर्विशेषल- ताभिरामैरारामैर्विनोदितलोकलोचनः, प्रतिफलिततटरुहतरुनिवहनिभेन जलनिधिजिगीषया स्वयमपि कल्पतरूनिव कतिचन जठरे धारयद्भि- रुदण्डकमलविष्टरोपविष्टकादम्बकदम्बकैरुत्फुल्लकल्हारनिःस्यन्दिमकरन्दमे- दुरितपाथोभिः पवनोद्भूतकलोलपटलकबलितवियदवकाशैः पाथोराशि- परिबुझ्षया सागरमहिषीं मन्दाकिनी बन्दीकर्तुमन्तरिक्षमुतातद्भिरिव प्रेक्ष्य- माणैः समन्तादुन्मिषदुत्पलजाल जटिलैर्जनपदलक्ष्मीदिदृक्षण सहस्राक्षता- मिव बिभ्रद्भिः शुभ्रसाललभारतजठरैर्जलाशयैर्शितानेकसागरमहिमा, क- चित्पाककपिशकणिशभरविनमितशिरोभिरात्मरोहावकाशदायिनी मेदिनी- मभिवादयमानैरिव शालिस्तम्बैः शुम्भितशालेयेन क्वचिद्विहरमाणकमलाच- रणतुलाकोटिक्कणितैरिव स्थलकमलकाननकेलीकलितदोहलीनां कलहंसी- नामारसितैरापाद्यमानश्रवणपारणेन क्वचिदनवरतविधीयमानशुश्रूषाहृष्य- दु:सर्वाङ्गनिर्गच्छदतुच्छरोमाञ्चसहचरितरुचिभिः कतिपयदिवसप्ररूढै रू. ढहरितिमकबलितहरिदन्तरालप्रशस्यैः सस्यकन्दलैः कण्ठकथितकेदार. सारगुणेन कचिन्निकटरूढपुण्ड्रेक्षुदण्डविघटितपर्वपुटनिपतितमुक्ताफलप. टलशर्करिलसारणीतीरसंचारखेदितकृषीवलचरणतलेन क्वचिदतिगम्भी- रक्षेत्ररभसनिपतदभ्यर्णसारणीसलिलसमुड्डीनशफरजिघृक्षाजनितपरस्परक प्रथमो लम्बः । द लहविधूतबकोटपक्षपुटदर्शितस्थलपुण्डरीकविभ्रमेण कचिद्दिवाप्यन्धका- रितपरिसराभिर्मरकतपरिघपरिभावुकरम्भापरिरम्भरमणीयाभिः प्राडच्चि- क्रोडविघटितकोहलपतितकेसरसंकटाभिः पूगवाटिकाभिः प्रकटीक्रिय- माणाकाण्डप्रावृडारम्भेण सर्वकालमुर्वराप्रायतया प्रथमानबहुविधसस्यसा- रेण ग्रामोपशल्येन निःशल्यकुटुम्बिवर्गः, सलिलदेवतानाभिमण्डलस- नाभिसनिवेशैः स्फटिकविशदसलिलपूरितोदरैवनघटितसुधालेपधवल- भित्तिपरिवेष्टितमुखतया हसद्भिरिख निरुपयोगसलिलभरभरितमपानि- धिमम्भःकुम्भोत्क्षेपपतितपयोबिन्दुरूदशाद्वलतृणश्यामलितानूपैः कूपै- रुपेतपर्यन्ताभिरनतितुङ्गमञ्चिकाप्रतिष्ठितसलिलघटपरिपाटीविलोकनमषि- तपथिक जनपरिश्रमाभिर्जलाधिवासघृष्यमाणपाटलीशर्करापरिमलबहालिम- विद्रावितनिदायवैभवाभिरप्रविष्टतरणिकिरणशिशिरखलूरीपरिसरनिद्राणा - ध्वन्यादन्यादैन्यशमनचतुरप्रभावाभिः प्रपाभिः प्रतिहतधर्मविजृम्भि- तः, प्रत्यारोलासिततृणकरीरकबलनमुदितैरवनितलविलुठितवालपहल- वैरप्रचलितबलतदुक्षदर्शनभयधावदध्वगैर्गतिरभसरणितमणिकिंङ्किणीरव - मुखरितभुवनविवरैः स्मरणपथविहरमाणतर्णकवमितदुग्धधाराधौतधरात- लैः कठिनखुरपुटखननसमुत्पतदविरलपरागपटलच्छलेन गौशब्दसाम्य- समाविर्भूतस्नेहतया भूतधात्र्येव दीयमानानुयात्रैः स्वभावकुण्डलितशिख- रभीषणविषाणव्याजेन दुष्टसत्त्वसमुत्सारणाय कार्मुकमिव कलयद्भिः प्र- शस्तकमसाधनैगोधनैः पवित्रीकृतसीमा, हेमाङ्गदनामा जनपदः । यश्च दौत्यनिवासपरिजिहीर्षयव निरवकाशयत्यात्मानमभितो घटितैर्धान्यक्रैः । यं च दिशिदिशि दृश्यमानजिनालयलाञ्छनप- ञ्चाननविलोकनचकिता इव नोपसर्पन्त्युपद्रवकरिणः । येन च विप्रकीर्ण- विविधमणिगणमरीचिमालिना जलनिधिविरहविषादः परिहियते पङ्क- जासनायाः । यस्मै च स्पृहयन्ति निःस्पृहा अपि निर्वाणसुधानिःस्य- ६ गद्यचिन्तामणो न्दचन्द्रमसो मुनयः । यस्माच्च सततजाज्वल्यमानजिनपूजाचरुपचनपाव- कादुपजातभीतिरिव दूरं पलायत कलिः । यत्र च संकल्पसमयाव- र्जितैर्दानजलप्रवाहैः प्रक्षालित इव प्रलयं प्राप किल्विषपङ्कः । तत्र चास्ति समस्तभुवनविख्यातसंपदाभोगा, भोगवतीव भु- जङ्गचरितोद्वगेन भित्त्वा भुवमुत्थिता, नमुचिमथननगरीव निरालम्बनतया नभःस्थलान्निपतिता, माधुर्यकुलभूमिः फलमञ्जरीव भारतवर्षभूरुहस्य, भुवनवलभीमण्डनमुक्तासरमरीचिनिचयकवचिता कर्णचामरिकेव हेमा- ङ्गदमतङ्गजस्य, मरकतमणिकुट्टिममयूखपत्रला पद्मसरसीव कमलाकलहंसी- विहारस्य, पातालवासिीभरप्यनालोकितमूलेन गगनचरैरप्यलक्षितशि- खरेण पराजितपरनरपतिकरदीकृतकनकोपलपटलघाटतेन विघटितकु- लगिरितटाभिर्दिगन्तदन्तावलदशनकुलिशकोटिभिरष्यभेद्यसंस्थानेन स्त- म्भितजगदुपरमसमयसमीरसंरम्भेण त्रिभुवनलक्ष्मीकनकपादकटकका- न्तितस्करेण प्राकारण परिवृता, कलशभवकबलितजलनिधिजनितानु- शयेन कुशेशयभुवा सावधानमनवधि सलिलमापादितेनेक फणभृदावास- विश्रान्तगाम्भीर्येण स्नानावतरदवनीपतिमदवारणकपोलतलविगलितदा नजलवेणिकाव्याजेन जलनिधिसमुत्कण्ठया यमुनयेव विगाह्यमानेन नि- जाभोगविस्मयनिपतितैरुपरिचरयुवतिनयनैरिव नीलकुवलयापीडैरकाण्डे- sपि निशां दर्शयता प्रतिफलितभवननिवहभरितजठरतया कुपितसुरप- तिकरकल्पितकुलिशपतनभयमग्नमहामहीधरमुदधिमवधीरयता परिखाच- क्रेण परिष्कृता, विकसदभिनवसुमनःपरागविसरधूसरितवासरालोकैः पतितपचेलिमफलरसपिच्छिलतलस्खलितपुष्पलावीजनैरनिभृतपरभृतकू - जितमुखरितसहकारैः प्रसवपरिमलतरलमधुकरनिकरान्धकारितैः पा- कसुरभितपनसफलहेलाच्छोटनकुपितमर्कटीकोपशमनचतुरशाखामृगली - लाजनितकुतूहलैः पारावतपरस्परसंपरायपतितपुष्पस्तबकतारकिततरु - प्रथमो लम्बः । मूलरुद्वेलवहमानमकरन्दकूलंकषकुल्यालोकनमुदितसेककर्मान्तिकैलावण्य- तरङ्गितदिगङ्गनामुखैः शिलीमुखपदभग्नवृन्तलम्बमानचम्पकपाटलघुनागके- सरप्रसवैः कंदर्पकनकातपत्रकमनीयकर्णिकारहारिभिर्वनदेवताधरबन्धु - बन्धुजीवबन्धुरैः कुरवकपादपपरिष्वङ्गसफलमाधवीलतायौवनैरुपवनरुद्भा- समाना, मरकतदृषटुपरचिततटाभिः पद्मरागशिलाघटितसोपानपङ्क्ति- भिर्जलदेवताकुचकलशकौशलमलिम्लुचकमलमुकुलाभिरुन्मिषदसितोत्प - लवनान्धकारेण दिवसेऽपि रजनीविभ्रमविघटितरथाङ्गमिथुनाभिरभिषेक- दोहलावतरदबलाचरणनूपुररणितश्रवणोदीवकलहंसाभिरुड्डीयमानजलचर- विहगविधूतपक्षपुटपतितपयःकणकोरकिततटतरुशिखराभिर्मणालसंदोह - संदेहिकादम्बखण्ड्यमानफेनकलिकादन्तुरतरङ्गाभिः प्रतिफलननिभेन गग- नतलपरिभ्रमणरभसजनितपिपासाशमनकौतुककृतावतरणेनेव तरणिना रमणीयतां बिभ्राणाभिर्विभ्रमदार्विकाभिर्दीवीकृतसौभाग्या, कचित्पुरोनि- हितविष्टरपुञ्जितं' स्फुरितकरनखमयूखसंपर्कपुनरुदीरितं निजवदनजनि- ततुहिनकरशङ्कासमुपनततारकानिकरमिव दृश्यमानं प्रसूनराशिमारणित- मणिपारिहार्यवाचालबाहुलतिकाविभ्रमाभिराममाबध्नतीभिर्व्याजीकृत्य पु. ष्पक्रयं वक्रोक्तिमभिदधता धूर्तलोकेन विस्मृतहस्ताङ्गुलिन्यस्तसुमनोबन्ध- नाभिरपि कुसुमसौरभादधिकपरिमलैरात्मनिःश्वासैराकुलीक्रियमाणमधुक- रमालाभिर्मालाकारपुरंध्रीभिर्नीरन्ध्रितेन कृचिद्विशङ्कटपेटकप्रसारितैः प्र- सरदविरलसौरभसंपादितघ्राणपारणैर्युगपदुपलक्ष्यमाणैनिखिल फलैः फ- लितलोकलोचननिर्माणेन क्वचित्सौरभलुब्धभुजंगसंगृह्यमाणैर्मलयजैविड- म्बितमलयगिरिपरिसरारण्येन कुचित्प्रसार्यमाणस्फारकर्पूरपरागपाण्डरतया लहरीपवनसमुत्क्षिप्तशुक्तिपुटमुक्तमुक्ताफलपुलकितामुदधिवेलां विहसता कु- चिद्वदान्यजनताजटिला नगरीयमिति वितरणकलापरिचयाय धरणीतल- मवतीर्णैः कालमेधैरिव कृष्णकम्बलैस्तिमिरितेन कृचित्केतृहृदयचिवर्ष- ८ गद्यचिन्तामणी . नाय प्रसार्यमाणैः शारदपयोधरावधीरणधुरीणैः पराजितपारिजातदुकूलै- रनुकूलस्पर्शसुखसंपादनक्षमैः क्षोमेरुन्मिपत्क्षीरोदशङ्केन कृचित्पुनर्मथनच- कितजलधिढौकितैरिव गाढोद्गच्छदतुन्छमहःस्तबकितैः कौस्तुभप्रतिमलै- रनुपलक्षितत्रासकलङ्कादिदोषैरहिमकरकुटुम्बडिम्भैरिव क्षितितलचङ्क- मणकुतूहलादम्बरतः कृतावतारैर्माणिक्यैर्मध्यंदिनेऽप्यनुज्झितदिवसमुख - लावण्येन कृचित्प्रतिफलिततरणिकिरणधवलमरीचिनिर्गमप्रतिहतजनन- यनपरिस्पन्दैः परस्परसंघट्टजनितक्रेङ्काराराववाचालैः कांस्यमण्डलैः स- मसमयसमुदितानेकदिनकरकरनिकरबिगाजितस्य प्रलयसमयस्यानुकुर्वता विपणिपथेन कुललितकुबेरनगग्गौग्वा, सान्द्रीकृतवर्णसुधाच्छु णधवलि- ततोरणवितर्दिकैग्नुद्वाग्देशनिहितकदलीपूगकथितमहोत्सवप्रबन्धैरुत्तप्तहा- टकघटितकवाटयुगलभूपितोपिढङ्गलावण्यचन्द्रिकाचर्वणवितृष्णचकोग- वहेलितचन्द्रमरीचिसमुद्गमैः संगीतशालाग्रहतमृदङ्गमन्द्रघोषजनितज - लधरनिनदशङ्काताण्डवितकेलिशिखावलैवलदनलकीलर्सदेहिलीलाकुरङ्ग- शाबकपरिह्रियमाणग्नकुट्टिममहःपल्लवैः पवनचलितशिखरफेतुपटताडित- तपनग्थकूबरैरुपरितलखचितवलभिदुपलनीलिमशैवलितसुरसरिदम्बुपुर्नि: यूहनिहितानेकरत्नभुवा मयूखकन्दलेन महेन्द्रशरासनशोभामम्भोदसमयम- न्तरेणापि पयोधरेभ्यः प्रतिपादयद्भिर्मणिमयभित्तितया प्रसरद्भिरुभयतः किरणलतावितानैर्विबुधगजमन्दिरविजिगीपया विहायसमुत्पतितुमाबद्धप- क्षैरिव लक्ष्यमाणैः शृङ्गनिखातकेतुदण्डच्छलेन पुग्युवतिवदनसौकुमार्य- चौरं चन्द्रमसं ग्रहीतुमुत्तम्भितबाहुस्तम्भैरिव शुम्भद्भिर्दुग्धरणीधारण- खेदितमीदनीपतिबाहुमाराधयितुमागतैः कुलगिरिभिरिव गुरुभिः प्रासादैः प्रसाधिता , आकर्णकुण्डलितकुसुमशरकोदण्डनिपतितविशिखभिन्नह - दयगलितरुधिरपटलपाटलकुङ्कुमपङ्किलपयोधरभराभिः कान्तिसलिलशी- करपरिपाटीमनोहरं हारमुद्वहन्तीभिर्विलासहसितविसर्पिणा दशनकिरणवि- प्रथमा लम्बः । ९ . सरेण त्र्यम्बकललाटाम्बकनिर्यटनलदग्धं रतिपतिममृतेनेव सिञ्चतीभिर्ग- मत्मदुपलताटङ्कतरलरादमपलाशपेशलमुखकमलाभिरयुग्मशरसमरनासीर - भटान्विवेकजलाधिमथनमन्दरान्मन्थरमधुरपारस्पन्दानिन्दविरकलिकानुका- रिणः कटाक्षान्विक्षिपन्तीभिर्मदनमहाराजधवलातपत्रबन्धुचन्दनतिलक - भासमानभालरेखाभिराननविनिहितनवनलिनसंदेहनिपतदलिकुलनीलकु- न्तलाभिरनादरनहनशिथिलकबरीभरनिरवकाशेितपश्चाद्भागाभिरिवामन- यनाभिर्विराजिता , राजपुरी नाम राजधानी । यस्यां च परितोभासमानभगवदर्हदालयलङ्घनभयादपहाय वि- हायसागतिमधःसंचरमाण इव भवनमणिकुट्टिमेषु प्रतिमानिभेन विभा- व्यते भानुमाली । यस्यां च नीरन्ध्रकालागुरुधूपतिमिरितायां वासरे- ऽप्यभिसारमनोरथाः फलन्ति पक्ष्मलदृशाम् । यत्र च नितम्बिनीव - दनचन्द्रमण्डलेषु न निवसति कदाचिदभ्यर्णकर्णपाशजनितनहनशङ्क इव कलङ्करूपः कुरङ्गः । यस्याश्च साल: परिखासलिलसिक्तमूलतया कुसु. मितमिव वहदि मिलदुडुनिकरमनोहरं शिखरम् । यस्याश्च प्रतापवि- नतपरनरपतिकरदीकृतकरिकरटनिर्यदाविरलमदजलजम्बालिताः प्रविश- दनेकराजन्यजनितमिथःसंघट्टविघटितहारनिपतितमुक्ताफलशकलवालुका- पूरैराश्यानतामनीयन्तादृष्टशिखरगोपुरद्वारभुवः । या च शिखरकलि - तमुक्ताफलमरीचिवीचिन्छलादपहसनीय धर्मधनजननिवासजनितगर्वदु- विनीतदशवदनचरितकलङ्काम् लङ्काम् । यस्यां च भक्तिपरवशभव्य- जनवदनविगलदविरलस्तवनकलकलमांसलैः प्रतिक्षणप्रहतपटहपटुरव- परिरम्भमेदुरैः पूर्यमाणासंख्यातशङ्खयोषपरिष्वङ्गकरालैर्धारालकाहलकलर- सितमांसलीभवदारम्भर्जुम्भमाणजनकोलाहलपलवितैरुल्लसद्वीणावेणुराणि - तरमणायैरारटितढक्काझल्लरीझंकारकृताहंकारैरभङ्गुरकरणबन्धबन्धुरलास्य - लासिविलासिनीमणिभूषणशिञ्जितमञ्जुलैः किसलयितभरतमार्गमनोहारिसं- ..
- . १ प्रयाणसमय चलदलचमूभारविनमितेन महीनिवेशेन फणाचक्र फगाभृ- गद्यचिन्तामणी गीतसंगतैः संभृतमहोदधिमथनघोषमत्सरैर्जिनमहोत्सवतुमुलरवैः परिभूत इव नावकर्ण्यते कदापि कल्याणेतरपिशुनशब्दः । यत्र च स्त्रीणामधर- पल्लवेष्वधरता कुचतटेषु कठिनता कुन्तलेषु कुटिलता मध्येषु दरिद्रता कटाक्षेषु कातरता रतेषु विनयातिक्रमो मानग्रहेषु निग्रहः प्रणयकलहेषु प्रार्थनाप्रणामः पञ्चबाणलीलासु वञ्चनावतारः परमभूत् । तस्यां चैवंविधायां विधेयीकृतप्रकृतिः , प्रतापविनमदवनीपति- मकुटभणिवलभीविटङ्कसंचारितचरणनखकान्तिचन्द्रातपः, करतलक- लितकरालकरवालमयूखतिमिराभिसरदाहवविजयलक्ष्मीलक्षितसौभाग्य : समरसागरमथनसंभृतेन सुधारसेनेव प्रतापदहनदन्दह्यमानप्रतिभटविपि- नजनितभसितराशिनेव निजभुजविटपिविनिर्गतकुसुमस्तबकेनेव परिप- न्थिपार्थिवपङ्कजाकरसंकोचकौतुकसंचितेन चन्द्रमरीचिनिचयेनेव खड्ग- कालिन्दीसजातेन फेनपटलेनेव पाण्डुरेण यशसा प्रकाशितदिगन्तः, म- न्दीकृतमन्दरमहीभृति निजांसपीठे बहुनरपतिबाहुशिखरसमारोहणावरोहण- परिखेदिनी मेदिनी चिराय विश्रामयन् , अश्रान्तपरिचीयमानेन वनीपर कचातकपरिषद्विपादविघटनघनारम्भेण कर्णकीर्तिकैरविणीनिमीलनबाला- तपेन कविकुलकलहंसकलस्वनश्रवणशरदवतारेण वितरणगुणेन मन्द- यन्मन्दारगरिमाणम् , रणजलधितरणपोतपात्रेण कृपाणविषधरविहारच- न्दनविटपिवनेन क्षत्रवर्मदिनकृदुदयपर्वतेन पराक्रमेण क्रीतार्णवाम्बरः, तां चक्रवर्तिनो जर्जरयन्दिशिदिशि निहितजयस्तम्भः , कुमार इव श- क्तिकलितभूभृद्विप्रहः, शतमख इव सुमनसामेकान्तसेव्यः, सुमेरुरित्र राजहंसलालितपादः, दुर्योधन इव कर्णानुकूलचारतः, चन्द्र इत्र कुत्र- लयानन्दिकरप्रचारः, चण्डदीधितिरिव कमलाकरसुखायमानपादः, पा- .
प्रथमो लम्बः । ११ रः सत्यंधरो रिजात इव परिपूर्णार्थिजनमनोरथः , राजा राज्याश्रमगुरुः कुरुकुलधुरंध- नामाभूत् । यस्य प्रसरदविरलकीर्तिचन्द्रातपशीतलामसवलभीमधिशयाना मे- दिनी शेषफणाविष्टरनिवासानुबन्धिनी विषोष्मवेदनामत्यजत् । यस्मिन्प- रिपालयति पयोधिरशनावच्छेदिनी मेदिनी कुसुमपरिमलचौर्येण चाकि- त्यमुद्वहन्त इव मातरिश्वानो न कापि लभन्ते स्थितिम् । यस्य च निहि- तहारोपधानमधरितकनकगिरिशिलातलविशालं वक्षःस्थलमधिशयाना स्व- भावसंकटकमलकोटरकुटीरदुरासिकादुःखमत्याक्षीलक्ष्मीः । यस्य च प्रल- यसमयविलसदनेकदिनकरकिरणदुःसहे प्रसर्पति प्रतापानले जलनिधिज- लमध्यघटितां प्राक्तनी स्थिति बह्वमन्यत मधुसूदनः । यस्य च दुःसह- प्रतापेऽपि सुखोपसेव्यता सौकुमार्येऽप्यायवृत्तिरतिसाहसेऽप्यखिलजन- विश्वास्यता विश्वंभरावहनेऽप्यखिन्नता सततवितरणेऽप्यक्षीणकोशता पर परिभवाभिलाषेऽपि परमकारुणिकता पञ्चशरपारतन्त्र्येऽपि पाकशालिता परमदृश्यत । यस्य चारम्भमभिमतावाप्तिः प्रज्ञां विद्याधिगमः पराक्रमं प- रिपन्थिपरिक्षयः परहितनिरति जनानुरागः प्रतापं दुराक्रमता त्यागं भो- गावली काव्यरसाभिज्ञतां कविसंग्रहः कल्यसंधतां कल्याणसंपत्तिा- यनेतृतां निजकृत्यानुलचिलोकता तत्त्वज्ञानितां धर्मशास्त्रशुश्रूषा दुरभि- मानहीनतां मुनिजनपदप्रहृता माननीयतां दानजलार्दीकृतकरः परमधा, मकतां परमेश्वरसपर्या नीतिनिपुणतां निष्कण्टकता निरक्षर निरन्तरं निवेदयति । तस्य चाभवदद्भुताचाररूपा रूपसंपदिव विग्रहिणी गृहिणी- धर्मस्थितिरिव साक्षाक्रियमाणा, समरविजयलक्ष्मीरिव पुष्पधनुषः, सं- कोचितसपननारीवदनकमला कौमुदीव विधुतुदकबलनभयादपहाय रज- नीकरमवनिमवतीर्णा, रामणीयकचन्द्रोदयपिशुनेन संध्यारागेणेव मनसि- १२ गद्यचिन्तामणी जमदकरिकुम्भमण्डनसंभृतेन गैरिकपङ्काङ्गरागेणेव नवनलिननिपतितेन तरुणतरणिकिरणकलापेनेव स्वभावपाटलेन प्रभापटलेन विनाप्यलक्तक रसानुलेपनमुपपादिततलाकल्पशोभमनवरतविनमदवनीपतियोषिदलकापी- डनिपतितैः सुमनोभिरिव मनोहराङ्गुलिपर्यायशुक्तिपुटवमितेर्मुक्ताफलै- रिव प्रकृतिचतुरचङमकलाशिक्षणकुतूहलनिषेवमाणैः कलहंसशाबकैरि- व सततमुद्गच्छता स्तनमण्डलेन मा पीडय वदनतुहिनमहसमिति कृतप्र. णामस्तारकागणैरिव तारुण्योष्मकठिनीभवत्कान्तिसलिलबिन्दुसंदोहसंदे हदायिभिर्नखमाणिभिरवतंसितमनुपजातपङ्कपरिचयमज्ञातमधुपपरिषदुपस र्पणमालिन्यमहर्निशविभागविधुरविकाममननुभूतपूर्वमम्भोरुहयमलमिव च रणयुगलं दधाना. मदनतूणीवैगुण्य जल्पाकेन कान्तिजलधिजलवेणि- कानुकारिणा जङ्घाटयेन प्रतिपादिताधोमुग्वकमलनालशोभा , सुनासी- रदन्तावलशुण्डागरिमलुण्टाकेन कुमुमशरनिवासनितम्बप्रामादमण्डनम- णितारणरामणीयकधुरीणेन मदनमातङ्गनहनालानस्तम्भसविभ्रमेण स्व- भावपीवरणामकाण्डद्येन कामपि कमनीयतां कथयन्ती, कंदर्पसाम्रा- ज्यसिंहासनेन कठिनविशालेन प्रतिक्षणमुन्सता श्रोणिमण्डलेन शि- थिलीकृतनीवीनहनाभ्यासखढितकरा , मणिकिङ्किणीणितन्छलेन भङ्ग- भयान्नितम्बविष्टरमिवाभिष्टुवता चिरपरिचयपल्लवितप्रेमतया पतनशीलस्य मध्यस्य मन्देतरमरीचिवीचिसमुद्गमव्याजेन हस्तदानमिव प्रयन्छता प्रत- प्तकाञ्चनकल्पितेन काञ्चीवलयन परिवेष्टितनितम्बचन्द्रबिम्बा, विडम्बि- तरशनालंकारमरकतमणिमयूखलेखया त्रिभुवनविजयसनादनङ्गसुभटक- रकलितकृपाणलतालावण्यापहासिन्या रामराजिकया विराजन्ती, रामणी- यकसरिदावर्तमण्डलेन मदनमतङ्गजनिगलकटकेन कान्तनयनशफरविहर- णतडागेन सौन्दर्यमहानिधिगर्तसनाभिना नाभिचक्रेण चरितार्थीकृतलो- कलोचना, नितान्तपावरनितम्बनिष्पादनजनितपरिखेदपरिणततन्द्रालुभा- प्रथमो लम्बः । वेन कमलसद्मना कृशतरमुपपादितनेव दुईहपयोधरयुगलवहनकातरतया नाभिह्रदनिमग्नेनेवानुपलक्षितरूपेणातितनीयस्तया घटितपटबन्धेनेव त्रि- वलीव्याजेन मध्यदेशेन दर्शितसौभाग्या, सौकुमार्यसरश्चक्रवाकमिथुनेन मीनकेतनकरिकुम्भसहचरेण शृङ्गारनटरङ्गपीठेन विलाससरसीसमुत्पन्नस- रसिजमुकुलकोमलेन कुचद्वयेन किंचिदवनतपूर्वकाया , कदर्थितकमल- मृणालसौकुमार्येण माणिक्यपारिहार्यमरीचिपटलकवचितेन स्तबरकनिचु- लितकुसुमशरविलासोपधानसौभाग्येन प्रवालकोमलाङ्गुलिना सुरभिशरीर- पर्यायपटीरविटपिसङ्गिभुजगेन भुजद्वयेन भूषिता, दूषितकम्बुसंपदाडम्बरे- ण वदननलिननालकाण्डेन कण्टेन खण्डिततरुणपुगकंधराहंकारा , प्र- तिभटतुहिनकिरणविजयकौतुकेन कार्मुकमिव भ्रूलतानिभेन बिभ्रता स- हजशशधरशङ्कागतं कौस्तुभमिव स्निग्धपाटलमनोहरमधरं दधता सुधा- करकलत्रमिति कौमुदीमिव बन्दीकृत्य मन्दहसितच्छलेन दर्शयता युव- तिवदनसाम्राज्यचिह्नमिव धवलातपत्रमलकलतानिपतितमिव कुसुममाभि- रूप्यदर्शनदोहलधृतमित्र दर्पणं चन्दनतिलकमुद्रहता ललाटार्धचन्द्रबि- म्रविगलदमृतधारासंदेहदायिन्या नासिकया सीमन्नितेन सुरामुरपरिषद- पहृतसारः समुद्गतकालकूटगरलदूषितः क्षीरजलनिधिरिति जल जसद्मना सादरमुपपादितमनपहार्य कटाक्षशृङ्गाररत्नरमणीयमाभिरूप्यलक्ष्मीजन्मम- हितमसितभ्रलतातमालवनलेवापरिष्कृतपक्ष्मवेलं विलोचनमयं दुग्धसा- गरयुगलमुपदर्शयता मुखेन मदनमपि मदयन्ती, मन्मथविलासदोलाय- मानेन प्रकृतितरलनयनहरिणनहनपाशसवर्णेन कर्णपाशेन बद्धशोभा, निशामुखेन कुसुमतारकास्फुरणानामभिनवजलधरेण विलासविद्युदुन्मेषा- णामुन्मिषदन्धकारमेचकरुचा मुखशशिसंभोगकौतुकसंनिहितशर्वरीशङ्का- वहेन केशहस्तेनापहसितबर्हिबर्हाडम्बरा , प्रतिनिधिरिव लक्ष्म्याः , प्र- तापपूर्तिरिव सौभाग्यस्य , समाप्तिभूमिरिव सौन्दर्यपरमाणूनाम् , मनो- " १४ गद्यचिन्तामणो . . रथसिद्धिरिव पातिव्रत्यस्य , प्रकपरेखेव स्त्रीत्वस्य , मूर्तिरिख दाक्षिण्यस्य, कीतिरिव चारित्रस्य, विजयपताकेव पञ्चशरस्य , विजया नाम महिषी । तस्यां सौन्दर्यपुनरुक्ताभरणानामबलानां वर्गे सत्यपि निसर्गत एव नरपतेररमतान्तःकरणम् । अथ स राजा रजनीकराकरणकन्द- लविपक्षैः क्षीरजलधिजठरलुठितफेनपटलविशदैर्यशःपलवैरापादितदि- शाविलासिनीकर्णपूरः पृरितमनीपिजनमनोरथः प्रतिबल जलधिमथनम- न्दरेण वसुंधरामयूरीनिवासविटपेन वीरलक्ष्मीकरेणुकालानेन भुजस्तम्भ- दम्भोलिना खण्डितभूभृन्मण्डलः कर्तव्यमपरमपश्यन्नवश्येन्द्रियः कुसुम- चापचापलानि सफलयितुं सर्वाकाराभिरामया रामया सहाभिलषन्स्व- भावनिशितधिषणावधीरितपुरुहूतपुरोधसि यथावदवगतराजनीतिवर्मनि फलितचतुरुपायविजृम्भितयशसि पराक्रममृगपतिनिवासजङ्गमजगतीभृति गभरिमगुणगर्हितोदन्वति स्थैर्यपरिहसितकलशिग्वरिणि कुलिशकठि नमनसि संकटेऽप्यखेदिनि निखिलारिचक्राक्रमणनिप्टें काष्टाङ्गारनामनि निरस्ततन्द्रे मन्त्रिणि निवेशयितुं राज्यभारमारभत । तथा प्रारभमाणे च राजनि राजनीतिकुशलाः कुटिलेतरबुद्धयः बु लक्रमागतिभाजः कुत्सितकर्मपराचीनचेतोवृत्तयः शमिनि वयसि वर्तमा- नाः कतिचन सचिवाः समेत्य कृतप्रणामाः सप्रणयं व्यजिज्ञपन्- " देव , देवेनाविदितं किंचिदस्तीति न प्रस्तुमहे कथयितुम् । तदपि देवपादयोरनितरसाधारणी भक्तिरस्मान्मुखरयति । तदुचितमनुचितं वा प्रणयपरवशैरस्माभिरभिधीयमानमाकर्णयितुमर्हति स्वामी । देव , स्वहृद- यमपि राज्ञा न विस्रम्भणीयम् । किमुतापरे । इयं हि स्वभावसरलनि- जहृदयजनिता सर्वविश्वासिता विश्वानर्थकन्दः । क्षमापतयः शैलुषा इव मन्त्रिषु नाटयन्ति विनम्भं न तु बध्नन्ति मनसा । यतश्चिरपरिचयसमु- पचितेन विस्रम्भेण मन्त्रिषु निवेशितराज्यभारा राजानस्तैरेव व्यापादिता प्रथमो लम्बः । इति लोकप्रवाढा मुग्खरयन्ति नः श्रोत्रपथम् । अपि च सर्वथायमनर्था- नुबन्धी परिहृतनिग्विलतरव्यापारः पश्मललोचनायामत्यासङ्गः । यतः मुरासुरसमरकण्डुलदोर्दण्डमण्डली हेलोलासितकैलासकण्ठोक्तपराक्रमः प्रतापभयविनमदनेकविद्याधरमकुटमणिपादपीठविलुठितचरणोऽपि रावणः प्रणयभरेण जनकदुहितार जनितपाग्वश्यः समरशिरसि दशरथतनयनि- धनाय निजकरविमुक्तेन रणलक्ष्मीमुम्बकमलविकासदिवसकरसहचरेण चक्रेण यशःशेषतामनीयत । अपि च तपश्चरन्नतिदुश्चरमरविन्द सद्मा शङ्कितबलमथनप्रेषितवरयोपिद्विरचितविलामविलोकनविगलिततिरनुभ- बन्नान्मभुवश्चापलमभजदपहास्यताम् । तथा तथागतोऽपि कदाचित्का- मशरपतनपरवशकरभपरिपदहमहमिकया परिग्रहपर्याकुलां कामपि बाले- यीमालोकयन्करुणारसतरलितमतिराविर्भवदनेकशतभगशबलितकरभावे - षः क्षणमस्थादिति नास्तिकचूडामणेर्महीयान्ननु कलङ्कस्तस्य । तदित्थम- यशःपङ्कपयोधरागमे धर्मकमलाकरनिमीलननिशामुग्वे द्वितीयपुरुषार्थपरु- पराजयक्ष्मणि जडजनजनितसंबाधे विवेकिलोकनिन्दिते कंदर्पवमनि न निर्भरं निदधति कृतधियः पदम् । तदविरोधेन धर्मार्थयोरनुभवन्कामसु- ग्वमजहदवनीपतिधर्म पन्नगपरिबृपरिभावुकेन बाहुना पालय पयोनिधि- रशनालंकारिणी धरणीम् " इति प्रणयस्वरूपसाक्षात्करणमणिदर्पणा- भानि बहुविधनिदर्शनमवाहितार्थानि प्रेक्षावदेका तहृद्यानि तदात्वक- टुकान्यप्युदर्कमधुराणि मन्त्रिवचनानि बनितोपभोगकुतूहलजालजटिलिते जननाथचेतसि निरवकाशतयेव न पदमलभन्त । अथ भाविपरिभवचकितस्त्रान्तेषु सामन्तेषु कर्तव्याभावेन मूकी- भवत्यु , शोककृशानुपरामर्शममरितमनसि सीदति चिरंतने राजपरिजने, पर्यश्रुनयनेषु प्रवृत्तवनगमनश्रद्धेषु पौरवृद्धेषु , पार्थिवस्तावन्मात्रतया ध- स्त्रिीराज्योपभोगादृष्टानां तथाभावितया तस्य वस्तुनो दर्निवारतया मकर- .
गद्यचिन्तामणौ ध्वजस्य दुरतिक्रमतया च नियतेनिरन्तरनिपतदनङ्गशरशकलीकरणभया- दिव पलायितविवेकः प्रकृतिनिष्टुरे काष्ठाङ्गारे निजभुजादवतार्य राज्यभारं राजीवदृशा सह रन्तुमारभत । कदाचित्प्रहतमृदुमृदङ्ग रङ्गमधिवसन्विलासिनीनामतिचतुरकरण- बन्धबन्धुरमनङ्गत शिक्षाविचक्षणविटविदपकपरिषदुपास्य लास्यमवालो- किष्ट । कदाचिदनुगतवीणावणुरणितरमणीयं रमणीनां गीतमाकर्णयन्क- पारणामकार्षीत् । कदाचिद्विकचकुसुमपरिमलतरलमधुकरकलखमुख- रिते लतामण्डपे विरचितनवकिसलयशयने कृशोदरीमरीरमत् । कदाचि- दुनकरीव करिणीसग्वः सह दादृशा विहरन्विहारदीर्घिकां बलवदास्फा- लनभयादिव समुत्तरत्तरङ्गलचितमणिसोपानपथां परस्परलीलाप्रहारदोह- लावचितनलिनशयनसमुड्डीनकलहंसधवलपक्षपटलमुहुर्तवटितवियद्विता - नामतानीत् । कदाचिच्चन्द्रशालातलप्रसारितशयनमध्यं तनुमध्यया स- हाधिवसन्वसन्तयामिनीषु निरन्तरमाविर्भवद्भिरमृतकरकिरणकन्दलै: कं- दर्पदन्तावलकर्णतालावचूलचामरैर्नयनचकोरयोरातिथेयीमनल्पामकल्पिष्ट। तदेवं मनोरथपथातिवर्तिष्वमर्त्यलोकसुलभेषु विषमेषुविलाससा- फल्यसंपादितविषयसुखेषु निमज्जति निकामविजृम्भितरजसि राजनि , कदाचित्कस्यांचन निशीथिन्यामनेन सह सौधशिखरभाजि पर्य” पञ्चश- रकेलीपरिचयपौनःपुन्यजन्मना परिश्रमेण परवशा महिपी सुष्वाप । ततश्चटुलचकोरचञ्चपुटकबलनादिव विरलमहसि चन्द्रमसि नि- खिलनिशाजागरणजातया सुत्रुप्सयेव प्रविशति चरमगिरिगुहागह्वरमवत- रदनूरुसारथिसपर्यापर्याकुलेन सप्तर्षिलोकेन विकचकुसुमकुतूहलादवचि- त इव विचेयतामुपेयुषि ज्योतिषां गणे गतप्राये रजन्यास्तुर्यप्रहरे राज्ञी स्वप्नत्रयमद्राक्षीत् । अत्याक्षीच्च तत्क्षण एव सा संजातशोकप्रसादविद्रा- वितां निद्राम् । अश्रौषीच्च प्रबुध्यमानभवनकलहंसरवमांसलं वचो मङ्ग- प्रथमो लम्बः । १७ लपाठकानाम् । समुदस्थाच्च सत्वरसमुपसृतयामिकयुवतिजनप्रसारित- हस्तावलम्बना प्रलम्बमानकेशहस्तविन्यम्तवामहस्ता शनैःशनैः शयन- तलात् । उदमीमिलच विकचोत्पलविभ्रममुपी चक्षुपी सकलदोपपरि- हारिणि भगवदर्हत्परमेश्वरस्य श्रीमुग्वाम्भोजे । प्राणसीच्च प्रचुरभक्तया बद्धाञ्जलिः प्रशिथिलतकबर्गचुम्बितमहीतला निखिलभवक्लेशहरं भगव- न्तम् । व्यचीचरच विगलितनिद्राकृतालम्या किमस्य फलं स्वप्नस्येति । व्यधान मनो भर्तुमुवादस्य फलश्रुतौ । अथ रजनीविरह जनितमसहमान इत्र परितापमपरजलनिधिजल- मवगाहमाने यामिनीप्रणयिनि, तरणिस्थतुरगग्वरग्वुरपुटपरिपतनभयेन क्का- पि गत इवानुपलक्ष्यमाणे तारागणे , गगनपयोनिधिजठररूटविद्रुमलता- वितानविडम्बिनि प्रथमगिरिपग्मिरवनदावविभ्रममुपि प्रन्यग्रजनितप्रत्यूप- गर्भरुधिरपटलपाटलिमद्रुहि पल्लवयति बलमथनदिशामुग्वमरुणकिरणकला- पे तपनदर्शनरसादिव विकमिततामरसदृशि विकचितदलनिचयकवचित- ककुभि कमलाकरे , प्रबुध्यमानपङ्कजिनीनिःश्वाससब्रह्मचारिणि प्रसृ. मातुहिनसलिलकणनिकरपरिचयसमुपचितजडिमनि घटमानरथाङ्गमिथु- नविहिताशिपि विरहिनयनजलवर्षिणि विसृमरकुसुमपरिमलवासितहरि- ति वातुमारब्धवति मरुति वैभातिक , निजसुहृदभिभावुकदिनकृदुदयद- र्शनपरिजिहीर्पयेव घटितदलकवाटमुद्रे निद्रामभिलपति कैरवाकरे, वारा- करचिरनिवासजनितजडिमविघटनविधृतारुणकम्बल इव विभाव्यमाने दि- वसभुजंगफणारत्ने गगनमुरभिदाभरणकौस्तुभे गभस्तिमालिनि महःस्तोमैः स्तबकयति पूर्वमचलम् , अनुष्टितदिवसमुखविधया विजया विहितभा- तिककृत्यं कृतजिनचरणसपर्यं पर्यङ्किकानिषण्णं सविनयमभ्येत्य राजान- मर्धासनमध्यासिष्ट । पुनरभाषिष्ट च मुखाकृतिसूचिताकृता जिज्ञासाप- रखशपार्थिवकृतानुयोगा पङ्कजाक्षी- " आर्यपुत्र , स्वप्ने विकसितकु- .
गद्यचिन्तामणो सुमसौरभसंभ्रमदलिकुलमुखरितहरिदवकाशमहिमकररथमागठवनजङ्घाल- विटपनिविडितवियदाभोगमभिनवधनपरिपदभिभावुकपलाशपटलकवाचि तवपुपमरुणकिरणशाणकिसलयप्रसृनदर्शिताकालसंध्य कमप्यशाकशा खिनमवालोकिपि । स च क्षणेन क्षोणीरुहः कुलधरणावर इव कु- लिशपननेन शतधा शकलीकृततनुरपतदव पृष्टे । समुद्रतिष्टच तस्य तरोमलादकठोरदलपुटलुटितेन लोहितिम्ना लिम्पॅलोचनपथमस्तिदिवस- करबिम्बेन जाम्बूनदर्नाटतन किरीटेन शोभितशिखरभागस्तुङ्गविशालविट पकवलितवियदन्तरालः कोऽपि कङ्केलिः । तत्र च प्रालम्बिष्ट प्रथमान- परिमलतरलमधुकरमालं मालाष्टकम् । तथाविधं तमनुभूय स्वप्नवृत्ता- न्तं प्रवृत्तहर्पविषादा च तत्क्षण एव निद्राममुञ्चम् । आचश्न फलम- मुष्य" इति । तदनु नरपतिरवनीरुहपतनदर्शनादकुशलमात्मनि शङ्कमानोऽ- पि चामीकरकिरीटनिरीक्षणनिवेदितेन तनयलाभेन मुर्दमुद्रुहन्नधिकविक- सितवदनतामरससरसारुहासनविलासिनीचरणनखमणिचन्द्रिकामिव द शनकिरणकन्दली दर्शयन्स चतुरमवोचत्– “देवि , पक्कमद्य नश्चिरवि रचितेन जिनपादपङ्करुहसपर्याप्रबन्धेन । फलन्ति च सकलभुवनमहनी यतपसामवितथवचसामत्रभवतामृषीणामाशिपः । तथाहि-कथयति क- नकमकुटः कल्याणि , ते तनयम् । तस्योदयमावेदयति पतितपादपमू- लरूढः कठोरेतरः स कङ्केलि: । अमुष्य च वधृ : सृचयन्ति ताः पु- ष्पस्रजः " इति । दयितवचनामृतपरितोपितस्वान्ता सीमन्तिनी 'म- हीरुहपातः किमभिधत्ते' इति महीक्षितमप्राक्षीत् । 'तदपि किमपि मे निवेदयत्यमङ्गलमवनिरुहपतनम्' इति कथयति जगतीपतावपतदनिल- रयहता वनलतेव महीतले महिषी । ततः क्षितितलविलुठितवपुषं वि. गलदविरलबाष्पजलपूरतरत्तरलतारकदृशं शिथिलितनहनविसृमरकेशम- - - प्रथमो रम्बः । १९ सृणितभुवमचिरननिःश्वसितमरुदृष्ममर्मरितदशनन्छदकिसलयं विधुतुद- कबलितमिव तुहिनकिरणविम्बमन्तर्गतविपादविषवेगश्याममाननमुद्वहन्ती दवदहनशिग्वापरामर्शपरिम्लानाभिव वनलतां वनकरिसमुत्पाटितां दिन- करमरीचिपरिचयपचेलिमामित्र मृणालिनी मानिनी मन्युभरपरवशः पृ- वीपतिरवतीर्य पर्यङ्कादधरितभुजङ्गपतिभोगसौभाग्येन भुजव्येन समु- क्षिप्य स्वाङ्कमारोपयन्नतित्वरितपरिजनोपनीतैर्मलयजमृणालघनसारतुषार- प्रमुखैः शिशिरोपचारपरिकरप्रकरैः प्रत्युत्पन्नसंज्ञामकार्षीयाहापिच्चि " भीरु, केयमाकस्मिककातरता तरलयति भवतीम् । केन जगति स्वप्नानामवितथफलतान्वभावि । भावि वा वस्तु कथमस्तु प्रतिबद्धम् । पुराकृतसुकृतेतरकर्मपरिपाकपराधीनायां विपदि विषादस्य कोऽवसरः । विषादः किं नु विपदमपनुदति । प्रत्युत विपदामेव भवेभवे प्रबन्धमनु- बध्नाति । तदेवमुभयलोकविरोधी विपाद: किमित्याद्रियते । यश्च समु- पस्थितायां विपदि विषादस्य परिग्रहः सोऽयं चण्डातपचकितस्य दावहु- तभुजि पात: । ततो हि कृतधियस्तत्त्वचिन्तया विपदामेव त्रिपदं वित- न्वन्ति । किंचावयोरनन्ताः ग्बल्बतीता भवाः । न तेषु संगतिस्तथैव भाविन्यपि भवप्रबन्धे । ततस्तदन्तरालगतकतिपयदिवसपर्यवसायिनि संगमेऽस्मिन्कस्तवायमाग्रहः । संसृतौ हि वियोगः संयोगिनां नियोगेन भविता । त्वमपि किमतन्न जानामि । किमवगाहितजिनशासनः कृती जनो विपदि संपदि वा बाह्य इव मोमुह्यते । कः स्यादेवंकृत कृतिना- मविशेषज्ञाद्विशेषः । किंतु विशेषतस्वमशेषदोपहरं भगवन्तमतः परमा- राधयेः । कुर्वीथाश्च पात्रदानादिना पवित्रमात्मानम् । किमन्यदात्मनामस्ति शरणम् । अस्ति चेदायुपः शेषः शेपैव- जिनपादाम्भोजलब्धा भवाब्धौ भव्यानामुपप्लवमुपशमयेत् । तस्माद्विवेकविधुरजनविषयाद्विषादान्निवर्तयितु- मात्मानमर्हसि " इति । ततः प्रियतमवदनतुहिनकिरणमण्डलविनिर्यद- २० गद्यचिन्तामणों । । मलवचनामृतनिर्वापितविषादविपानला विलासिनी शरदि सरसीव शनैः- शनैः प्रसादं प्रत्यपद्यत । प्रावर्तत च यथापुरमवनिपुरंदरमनुवर्तितुम् । अथ कतिपयदिवसापगमे परिणतशरकाण्डपाण्डुना कपोलयोः कान्तिमण्डलेन तुहिनमहसभिव वासवी दिशा शंसति स्म गर्भे गर्भरूपस्य परिणामं हरिणाक्षी । काष्टाङ्गारकाननदिधक्षया बलिष्यतः सुतप्रतापा- नलस्य धूमकन्दल इन कालिमा कुचचूचुकयोरदृश्यत । तनयमनसः प्र- साद इव बहिः प्रसृतश्चक्षुपोरलक्ष्यत धवलिमा । निग्विलजनदोर्गत्यदुःखदु- हि गतवति गर्भमर्भके बिभ्रतीव भीतिमुदरादतिरं दारद्रता प्राद्रवत् । बुद्धेव भाविन स्नुषाभावमभवदवनी पदन्यासपराङ्मुखी । गरिम्णा गर्भेस- 'भुपेयुषि दुर्धरतां क्लेशिताधरपलवाश्चामरपवना इव दौहृदश्रियः प्रतिक्षणं निःश्वासाः प्रासरन् । निखिल भुवनवास्तव्यानां वस्तूनां भोक्तारमात्मज- मावेदयन्तीव विविधरसास्वादलालसा समजनि राज्ञी । परिजनवनिताक- रपल्लवात्पादयुगलमाकृष्य पार्थिवमकुटमणिशिलाशयनेषु शाययितुमचक- मत कमलाक्षी । अपि भूषणानामुद्रुहने क्लाम्यदङ्गयष्टिस्त्रयाणामपि विष्ट पानां भारमंसशिखरे निवेशयितुमुदकण्ठत कम्बुकठी। तदेवमुपचितौहृदलक्षणामेणाक्षीमालोक्य कदाचिदतनुत नरप- तिरन्तश्चिन्ताम् – 'आपन्नसत्त्वेयमावेदयति फलमभ्युदयशंसिनः स्वप्नस्य । किमेवमपरोऽप्यशिवशंसी फलिष्यति । केन वा विनिश्चेतुं पार्यते । भवि- तव्यता फलतु वा कामम् । का तत्र प्रतिक्रिया । न हि पुराकृतानि पुरुषैः पौरुषेण शक्यन्ते निवारयितुम् । किंतु दुष्कृतपरिपाकभाविना दुर्निवारण दुःखेन यद्यपि वयमभिभूयेमहि तदपि कुरुकुलनिरन्वयविना- शपरिहाराय परिरक्षणीया प्रयत्नेन पत्नीयमन्तर्वनी' इति । ततश्च वि. श्रुतविश्वशिल्पकौशलं विश्वकर्माणमित्र प्रत्यक्षं तक्षकमाहृय गर्भदोहल- जनितकेलीवनविहरणमनोरथां मनोरमां विनोदयितुमभिमतदेशगमनकौ- । ।
प्रथमो लम्बः । २१ शलशालिनं कमपि यन्त्रकलापिन कल्पयेति महीक्षिदादिक्षत् । अद्रा- शीच सत्वरशिल्पिकल्पितमकल्पितनिर्विशेषमशेपजननयनहर्षदायिनं शि- विनम् । अदाच तस्मै विस्मयमानमना मानवेश्वरी मनोरथपथातिवर्ति कार्तस्वरादिकम् । व्यहरञ्च मनोहरेषु विहारोपवनेषु वनितामारोप्य म- यूरयन्त्रे नरेन्द्रः । इत्थं गमयति कालं काममुग्यमेवारसेन राजनि राजीवदृशश्च क्र- मादभिवृद्ध गर्ने निर्भरराज्योपभोगनिष्टः काटामारोऽप्याकृतिमिव कृत- नतायाः साक्षात्कारयन्न यशःशरीरमिवाकल्पमवस्थापयन्सज्जनसरणिमिव ग्विलीकुर्वन्सर्वजननिग्राह्यतामिव प्रतिगृह्णन्प्रकृतिमिव तुच्छतायाः प्रदर्श- यन्पृथिवीपतावुचितेतरमुपरचयितुमुपास्त प्राक्रस्त च प्रतिदिनमेवं चि- न्तयितुम् -" विहरदश्वीयग्वुरपुटविघटितवरणीतलोस्थितधारालरजःपट- लघटितरिपुमण्डलोत्पातपांसुवर्पण समरहर्पलमदवदिभकपोलतटविगलित- मद जलदर्शितापरकालिन्दीप्रवाहेण विलसदमिमरीचिजालमेचकितदशदि- शामुखेन युद्धोन्मुग्यसुभटभुजदण्डकुण्डलितकोदण्डविडम्बितपितृपतिव- क्रकुहरेण भुवनविवरव्यापिना बलेन शशरिरे शत्रवः । आ महेन्द्रम- दावलकलभकर्णतालपवनविद्युतपादपकुसुमधूलीधूसरितपरिसरवनादुदय - गिरेरा खेलरुणरमणीचरणन्यासमिलदविरल पावकपल्लवितप्रस्तरादस्त - गिरेरा शैलराजदुहितृकरनग्वटूनपल्लवभरकृतावनीसहशिखरोल्लासात्क- लासादा निशिचरकुलप्रलयधूमकेतोः सेतोरवनतमकुटमणितटलुठितै- माणिक्यमहःपल्लवैरर्चयन्ति नश्वरणौ धरणीभुजः । एवं फलितसक- लमनोरथस्य सर्वोवीपालमौलिविनिवेशितचरणस्य शौर्यशालिनो मादृशस्य परनिदेशकरणमयश:कारणम् । न हि चेतयमाना मानिनः पर- शासनं शिरसा धारयन्तो वहन्ति जीवितम् । सकलभुवनाधिपत्योपभोग- मुखितमपि दुःखयति हि पारतन्त्र्यम् । तत्केनापि व्याजेन व्यापाद्य २२ गद्यचिन्तामणौ राजानं व्यपगतपारतन्त्र्यशोकशङ्कनिःशङ्क एव महीं मदेकशासनां वि- धास्यामि " इति । इत्थमनुवर्तमानमनोरथम् , कदाचित्कनकगिरिशिलातलविशा- लस्य विमलदुकूलवितानविराजिनः प्रलम्बमानकदलिकाकलापस्य काश्चन- शिलास्तम्भशुम्भतो महतो मण्डपस्य मध्यभागनिवेशिनि निष्टप्ताष्टापदनि- मितवपुषि विचित्रास्तरणशोभिनि सिंहासने समामीनम,पृष्ठतः स्थापितेन रा- जलक्ष्मीनिवासपुग्डरीक पाण्डरेण धवलातपत्रेग तिलकितमूर्धानम् ,उभयतः स्थिताभिरनुक्ष गरणितमणिपारिहार्यमुवरबाहुलतिकाभिरिवामनयनाभि : सविलासविधूयमानविमल चामरमरुदान्दोलितकुमुमद्रामसुरभितवक्षःस्थल - म् , मूर्तिमन्तमिव शौर्यगुणम् , विग्रहवन्तमिवावलेपम् , आत्मदेहप्रभा- कवचितकाष्ठं काष्ठाङ्गार परिवार्य प्रकटितप्रश्रयाः समन्तादामिषत . सामन्ताः । अथ तानालोक्य कपटकर्मपटिष्ठः काष्टाङ्गार: स्वहृदयविपरिवर्त- मानार्थसमर्थनचतुरं किमपि वचनमचीकयत् " किमपि विवक्षतामेव नः क्षीणतामयासिपुरनेके दिवसाः। अद्यापि लज्जमानमिव मानसमन्तरा कर्षति रसनाम् । परिवादपविपतनभीतेव गलकुहरान्न निःसरति सरस्वती। पातकपङ्कपतनातङ्कादिव कम्पते काय: । किमेतत्स्वन्तं दुरन्तं वेति स्वा- न्तं न मुञ्चति चिन्ता । तदपि दैवादेश वनभयोत्खातशङ्काशङ्कुनिर- कुशेन मनसा समावेद्यते । स्वप्ने केनापि पार्थिवपरिपन्थिना दैवतेन 'निहत्य राजानमात्मानं रक्ष' इति निरनुक्रोशेन समावेद्यने । कात्र प्रति- क्रिया । किं वात्र प्रयुज्यते । यदिहास्माभिर्विवीयेत तदभिवीयताम्" इति पापिष्ठेन काठाङ्गारवचनेन कुपितकाठीरवकग्ठनिःसृतेन स्वनेन वनकरि- ण इव कांदिशीका निष्कृपनिषादनिर्दयाकृष्टिनिष्ठयूतेन चापटङ्कारेण र- का इव धृतातङ्काः प्रमादप्रवृत्तेन प्राणिववेन तपोधना इव सद्यःसंजात- प्रथमो लम्बः । २३ भयाः सर्वकषशोकपावकपच्यमानतनवः संतापकृशानुधूममिव श्यामलि- मानमाननेन दर्शयन्तः पातालतलप्रवेशाय दातुमवकाशमर्चयन्त इव वि- कचकमलदलनिचयेन मेदिनीमवनमितदृशः प्रसृमरनिःश्वासनिर्भरोष्ण- मर्मरिताधराः करनखरशिखरविलिखितास्थानभूमय: स्वान्तचिन्त्यमान- नरपतिदुश्चरितदूयमाना दुःखभरभव्यमानमनोवृत्तयः कर्तव्यमपरमपश्य- न्तः पश्यन्तश्च परस्परमुखानि मूकीभावेन दर्शितदुरवस्थमवास्थिषत म- त्रिणः ततस्तृष्णीभावविवृतविसंवादेपु स्वेदसलिलनिवेदितवेदनानुबन्धेषु चित्रगतेष्विव निष्कम्पनिखिलाङ्गेषु मन्त्रप्रभावनिरुद्धवीर्येष्विव विषधरेषु विगतप्रतीकारतया हृत्कुर्वाणेषु सचिवेषु धर्मदत्तो नाम धर्मंकतानबुद्धि रमात्यमुख्यः प्रज्ञाप्रदीपदृष्टकाष्टाङ्गारहृदयगतार्थोऽपि पार्थिवपक्षपातादन- पेक्षितप्राणः सधीरमभाणीत् .. "आयुष्मन् , नैकदोपतिमिरविहरणरज- नीमुखं राजद्रोह दौराम्यादुपदिशति दैवतेऽस्मिन्नाकस्मिकः कोऽयमादरः। पश्य विश्वंभरापतयो ह्यतिशयितविश्वदेवताशक्तयः । तथाहि-यस्त्वप- करोति देवताभ्यः स पुनः परत्र विपद्यत वा न वा । मनसापि वैपरी- त्यं राजनि चिकीर्षतां चिन्तासमसमयभाविनी विपदिति नैतदाश्चर्यम् । यदेकपद एव सह सकलसंपदा संपनीपद्यते प्रलयः स्वकुलस्यापि । पर- त्रापि पापीयसस्तस्याधोगतिरपि भवितेति शंसन्ति शास्त्राणि । तद्विवे. कविधुरजनगतागतक्षुण्णमयशःपङ्कपटलपिच्छिलमभितःप्रसरदपायकण्टक- कोटिसंकटमशेषजनविद्वेषविषधरविहारभीषणमपर्यवसायिपरिवादपर्यायदा- वपावकपरीतं पार्थिवविरुद्धमध्वानं सुधिय: के नाम वगाहन्ते । प्रकृति- मूढमतयः प्रेक्षाविहीना हि मुञ्चन्तः सौजन्यं संचिन्वन्तः सर्वदोषानुत्सा- रयन्तः कीर्तिमुररीकुर्वाणा अवर्णवादं विनाशयन्तः कृतं ब्याक्रोशयन्तः कृत- नतां परिहृत्य प्रभुतामनुप्रविश्य बालिश्यमनारोप्य गरिमाणमारोप्य लघिमान- गद्याचन्तामणा मनर्थमप्यभ्युदयममङ्गलमपि कल्याणमकृत्यमपि कृत्यमाकलयन्ति । भवाह- शा पुनरीदृशेषु विषयेषु कः प्रसङ्गः" इति। पृथिवीपतिसङ्गपिशुनं धर्मदत्तव- चनं काष्ठाङ्गारस्य मदपरिणतवारणस्येव निवारणार्थं निष्ठुरनिशितसृणिप- तनं परवादिवर्गस्येव निसर्गनिर्दोषानेकान्तसमर्थनं प्रकृष्टकुल जातस्येव प्रमादसंभवदनिवार्यात्मस्खलितमरुन्तुदमभूत् । तद्वचनमधिक्षिप्य क्षेपीयः क्षितितलादुत्तिष्ठन्काष्टाङ्गारस्य स्याल: सालप्रांशुकायः कन्द इव हेयतायाः काष्टेव काठिन्यस्य काशितकाश्य- पीपतिनिधनो मथन: “ कथयन्तु कामं काका इव वराकाः । न कदाचि- दपि देवेन देवतादेशलाङ्घना भवितव्यम् । भवितव्यताबलं तु पश्चात्प- श्येम । किंच किंकराः खलु नरा देवतानाम् । यदीह देवता: परिभूय- न्ते नरापचारचाकित्येन सोऽयं पाशदर्शनभयपलायितस्य फणिनि पद- न्यासः करिकलभभीतस्य कण्ठीरवकण्टारोहः" इति रोषपरुपमभाषिष्ट । तद्वचनं तु तस्य हृदयं तस्करस्येव कीसुतमतप्रदर्शनं सौगतस्येव शू- न्यवादस्थापनं परिणतकरिण इवाधोरणानुगुण्यमतितरां प्रीणयामास । ततः समाहितसाधनाय काष्टाङ्गार: सचिवेषु प्रतीपगामिषु कति- चिदवधीदपधी: । कतिचन कालायसनिगलचुम्बितचरणांश्चकार चोरव- कारागृहे । जगृहे च राजगृहमपि तत्क्षण एव क्षोणी क्षोभयता बले- न प्रबलेन । अनन्तरमष्टापदनिर्मिते महति पर्यङ्के पाकशासनमिव सुमेरुशि- रसि निषण्णम् , अपरवियदाशङ्काकृतावताराभिस्तारकापतिभिरिव व्या- कोशकुसुमनिचयविरचिताभिः प्रालम्बमालिकाभिः सुरभितवक्षःस्थलम् , अधरितशारदपयोधरकुलेन दुकूलेन मन्दरमिव मथनसमयमिलितेन फेन- पटलेन पाण्डुरितनितम्बम् , परिचुम्बितदशदिशावकाशेन पद्मिनीसहच- रमरीचिवीचिपरिभावुकेन सहजेन तेजःप्रसरेण प्रतप्तचामीकरपरिकल्पि- प्रथमो लम्बः । २५. तेन प्राकारेणेव परिवृतम् , शेखरकुसुमपरिमलतरलमधुकरकलापपुनरु- दीरितकुन्तलकालिमकवचितमूर्धानम् , उभयसविधगतवारयुवतिकरत- लविधुतधवलचमरवालपवननर्तितचेलाञ्चलम् , अन्तिकमणिदर्पणप्रति. बिम्बनिभेनानङ्गसुखानुभवाय नालमेकेनेति देहान्तरमिव धारयन्तम् , अनवरतताम्बूलसेवाद्विगुणितेन स्फुटितबन्धुजीवलोहितिमसुच्छायेन दश- नच्छदालोकेन प्रभूततया मनस्यमान्तं रागसंभारमिव बहिरुद्वमन्तम् , निजमुखलक्ष्मीदिदृक्षोपनतेन क्षीरजलराशिनेव स्निग्धधवलगम्भीरेण क- टाक्षेण विकसितपुण्डरीकदलनिवहधवलितमिव तं प्रदेश दर्शयन्तम् , नृत्तरङ्गमिव शृङ्गारनटस्य निवासप्रासादमिव विलासस्य साम्राज्यमिव सौ- भाग्यस्य संकल्पसिद्धिक्षेत्रमिव कंदर्पस्य सारमिव संसारस्य दृश्यमानं मा- नवेश्वरं विश्वंभरातलविनमितमौलिरभिप्रणम्य प्रतीहारः सप्रश्रयमब्रवीत्- 'देव कुरुकुलकमलमार्तण्ड महीपालबलपयोधिमथनमन्दरायमाणदोर्दण्ड दुःसहशौर्यबाधितपरचक्र विक्रमाक्रान्तसकलदिगन्त, समन्तादागतेन सरभसचलिततुरगखरखुराशिखरदारितधरापरागपांसुलनभोमण्डलेन मण्ड- लाग्रमरीचितिमिरितहरिदन्तरालेन सिन्धुरवरकरटवहदविरलमदजलजम्बा- लितजगतीतलेन गगननीलोत्पलविपिनविडम्बिकुन्तदन्तुरेण वीरलक्ष्मीभ्रू- विरचितभृकुटिकुटिलकार्मुकतरङ्गितेन प्रलयवेलाविशृङ्खलजलधिजलपूरभ- यंकरेण निखिलजगदाक्रमणचतुरण चतुरङ्गबलेन प्रत्यवतिष्ठते काष्ठाङ्गा- रः' इति । अथ तेनाश्रुतपूर्वेण वचनेन · कथं कथं कथय कथय ' इति पृच्छन्प्रतीहारं झटिति घटितकोपप्रन्थिरन्धीभवन् , पर्यकपरिसरनिहि- तमहितकुलप्रलयधूमकेतुकरालं करवालं करे कुर्वन् , अखर्वगर्वसमुत्क्षिप्त- दक्षिणचरणाधिष्ठितवामोरुकाण्डः; चण्डरोषाट्टहासविसरदमलदशनकिरण- धवलितवदनशशिमण्डलः, स्फुटितगुअाफलपुञ्जपिञ्जरेण क्रोधरागरूषितेन 3 २६ गद्यचिन्तामणौ - चक्षुषः प्रभापटलेन परितः प्रसर्पता प्रतिभटपलायनमनोरथरोधिनमन- लप्राकारमिव प्रवर्तयन् , प्रस्विन्नदेहप्रतिबिम्बिताभिर्भवनभित्तिचित्रयुव- तिभिः ‘अतिसाहसं मा कृथाः' इति गृहदेवताभिरिव प्रणयपर्याकुला- भिः परिरभ्यमाणः, क्षुद्रनरेन्द्राक्रमणकोपवर्मितविष इव विषधरस्तत्क्षण- मन्यादृश इवादृश्यत काश्यपीपतिः । आदिशच्च प्रतीहारम् 'आनय त्व- रितमहितचमूसमूहनिवारणान्वारणानप्रतिहतजवविराजिनो वाजिनोऽस- मसमरसाहसलम्पटान्भटान्भग्नरिपुनृपतिमनोरथान्रथानपि' इति । अथ निजभुजदम्भोलिविसम्भादनपेक्षितसहायः सरभसमुत्तिष्ठन्नर्धासनभ्र ष्टामुत्कम्पमानकायां समुच्छिन्नमूलामुर्वीतलपतितामिव लतामुत्क्रान्त - जीवितामिव निःस्पन्दकरणग्रामां धरणीतलशायिनी शातोदरीमालो- क्य बहुविधनिदर्शनसहितवस्तुस्वभावोपन्यासप्रयासैग्प्यनासादितस्वा - स्थ्याम् 'अस्थाने केयं कातरता । क्षत्रिये, मद्विरहकातरापि कुरुकुल- मूलकन्दगर्भरक्षणाय क्षणादितो गन्तुमर्हसि । शपामि जिनपादपङ्के रुहस्पर्शेन' इत्यभिदधान एव विधाय तां मयूरयन्त्र नरेन्द्रः स्वयमेव तद्भमयांचकार । चकारेक्षणामादाय क्षणेन गगनमुड्डीने यन्त्रशिखण्टि- नि खण्डयितुं प्रतिभटान्करकलितकरवालः काश्यपीपतिः कण्ठीरव इव गिरिकन्दरान्मन्दिरान्निरगात् । निर्गते च तस्मिन्विस्मयनीयविक्रमे विघूर्णितकृपाणविराजिनि राजनि मृगराजदर्शन इव करिकलभयूथम- न्धकारमिव च दिनकृदुदये तदनीकमनेकसंख्यमतिदरं पलायत । प- लायमानं बलं बलात्प्रतिनिवर्त्य स्वयमेव प्रार्थयमाने पार्थिवं कार्त- ध्यकाष्ठां गते काष्ठाङ्गारे राजा तु दारितमत्तकारकुम्भकूटः, पाटितरथ- कज्यः , खण्डितसुभटभुजदण्डसंहतिः, संहृततुरगचमूसमूहः, ससंभ्रम समरशिरसि विहरन् , विविधकरिरथतुरगखण्डनरभसकुण्ठितमण्डलामः , किमनेन कृपाविकलजनसमुचितेन सकलप्राणिमारणविहरणरसेनेति प्रथमो लम्बः । २७ " जनितवैराग्यभर:. विषयासङ्गदोषोऽयं त्वयैव विषयीकृतः । सांप्रतं वा विषप्रख्ये मुञ्चात्मन्विषये स्पृहाम् ' । इति भावयन् , परित्यक्तसकलपरिग्रहः, स्वहृदयमणिपीठप्रतिष्ठा- पितजिनचरणसरोजः, काष्टाङ्गाराय काश्यपीमतिसृज्य त्रिदशसौख्यमनु- भवितुममरलोकमारुरोह । आरूढवति भूभृति भुवनमनिमिषाणामुन्मिषद्विषादविषविधुराणां पौराणां पङ्किलयति बाष्पजलप्रवाहे महीम् , मुखरयति दश दिशां मु- खानि निर्दयोरःस्थलताडनजन्मनि रवे निरवधिकवेपथूनां पुरवधूनाम् , अवधूतकलत्रपुत्राद्यनुवर्तनेषु निवृत्तिसुखरसाविष्टेषु विशिष्टेषु, काष्ठाङ्गार- स्य काठिन्यं कथयति मिथः सुजने जने , निरूपयति दुरन्ततां कन्दर्प- पारत-त्र्यस्य पदार्थपारमार्थ्यपरिज्ञानशालिनि विवेकिवर्ग, व्यग्रगतिर्गगन- पथेन गतः स कृत्रिमशिखण्डी निजनगरोपकण्ठभाजि परेतवासे पार्थिव- प्रेयसीमपातयत् । अत्रान्तरे वृत्तान्तमिममतिदारुणमम्बरमणिरनुसंधातुमक्षममाण इव ममज मध्येसागरम् । साक्षात्कृतनरपतिमरणाया वरुणदिशः शोकानल इव जज्वाल संध्यारागः । न लोकयतु लोकः प्रेयसी पृथिवीपतेरितीव कालः काण्डपटिकामिव घटयति स्म दिङ्मुखेषु निरन्तरमन्धकारम् । अथ नरपतिसमरधरणीसमुद्गतपरागपटलपरिष्वङ्गपांसुलमङ्गमिव क्षालयितुमपरसागरसलिलमवतीर्णे किरणमालिनि, महीपत्यनुमरणमण्डन- संभृतरक्तचन्दनाङ्गराग इत्र वसुंधरायाः क्षरितजननयनाश्रुनिर्झरक्षाल- नादिव क्षयमुपेयुषि ज्योतिषि सांध्ये, सार्वभौमविरहविषादवेगविधूयमान- दिशावधूकेशकलाप इव मेचके कवचयति भुवनमभिनवे तमसि , नरे- शविनाशशोकादिव संचरत्सायंतनसमीरनिभेन निःश्वसन्त्यां निशायाम २८ गद्यचिन्तामणौ . । तनुतरबिसलताभङ्गिनी संसारभङ्गीमुपहसतीव विकसति विकचदलनिच- यधवलितदशदिशि कुमुदाकरे, कुमारोदयसमयसमुन्मेषिहर्षपरवशसुरसं- तानिते संतानकुमुमप्रकर इव तारकानिकरे निरन्तरयत्यम्बरम् , आवि- भवदवनिपतनयातपत्र इव पाकशासनदिशि दृश्यमाने यामिनीप्रणयिनि, प्राप्तवैजननमासा महिषी सा प्राणनाथविरहदुःखभारान्तरितप्रसववेदना तस्मिन्नेव पितृनिवासे बालचन्द्रमसमिव पश्चिमाशा विपश्चिल्लोकनयनहा- रिणं हरिताश्वमिव पूर्वकाष्टा काष्टाङ्गारपर्यायतिमिरध्वंसिनं सूनुमसूत । सुतमुधामूतिदर्शनसमासादितजीवितवहनवात्सल्या तज्जन्ममहो- त्सवसंभ्रमाभावपुनरुक्तविषादा पुत्रमङ्के निधाय प्रलपितुमारभत ... 'यस्य जन्मवार्तानिवेदनमुखरा हरिष्यन्ति पूर्णपात्रं धात्रीजना जननाथेभ्यः, यस्मिंश्च कृतावतारे काराध्यक्षकरत्रोटितशृङ्खला विशृङ्खलगतयाश्चिरकालक- तधरणीशयनमलिनितवपुषो बन्दीपुरुषाः पलायमाना इव कलिसैन्याः स- मन्ततो धावेयुः, यस्मिंश्च जातवति जातपिष्टातकमुष्टिवर्षपिञ्जरितहरिन्मु- खमुन्मुखकुब्जवामनहठाकृष्यमाणनरेन्द्राभरणं प्रणयभरप्रवृत्तवारयुवतिव- र्गवल्गनरणितमणिभूषणनिनदभरितहरिदवकाशं निर्मर्यादमदपरवशपण्य- योषिदाश्लेषलजमानराजवल्लभं वर्धमानमानस परितोपपरस्परपरिरब्धपा- र्थिवभुजान्तरसंघट्टविघटितहारपतितमौक्तिकस्थपुटितास्थानमणिकुट्टिमतटं कुललितसौविदल्लनिरोधसंलापनिरङ्कशप्रविष्टाशेषजानपदजनितसंबाधं सा- दरदीयमानकनकमणिमौक्तिकोत्पीडमुद्घाटितकवाटरत्नकोशप्रविशदचकि- तलोकलुप्यमानवस्तुमार्थमार्थगणगवेषणादेशनिर्गतानेकशतप्रतीहारानीत- वनीपकलोकमुल्लोकहर्षविहितमहार्हजिनमहामहमहमहमिकाप्रविष्टविशिष्ट - जनप्रस्तूयमानस्वस्तिवादं सौवस्तिकविधीयमानमङ्गलाचारमाचारचतुरपु- राणपुरंध्रीपरिषदभ्यर्च्यमानगृहदैवतं दैवज्ञगणगृह्यमाणलग्नगुणविशेषमशे- षजनहर्षतुमुलरवसंकुलं राजकुलमवलोक्यत, स त्वमारसदशिवशिवात्र- , प्रथमो रम्बः । २९ ऋकुहरविस्फुरदनलकणजर्जरिततमसि समीरपूरितविवरवाचाटनकरोटि- कर्परकलिलभुवि डामरडाकिनीगणसंपातचीकतपुरुषपरिहृतपरिसरे प- च्यमानशवपिशितविस्रगन्धकटुके कल्याणेतरचिताभस्मसंकटे प्रेतवा- टे जात, कथमपि जातः कथमनुपलक्षितरक्षाप्रकारे प्रणयिजनशून्ये प्रतिभटनगरपरिसरपरेतवासे वसन्वर्धिष्यसे वा। इत्थमपगतकरुणमति- दारुणमाकस्मिकमप्रतिक्रियमननुभूतपूर्वमतिदुःसहं विधिविलसितं विलो- कयन्त्या न मे प्राणाः प्रयान्ति । किमिह करोमि । किं वा व्याहरामि । यदि त्यजामि जीवितं जीवितेश्वरवचनलङ्घनजन्मा महान्दोषः' इत्येवं चान्यथा विलपन्तीं विगतपरिकरां परितापविह्वलामबलाम् ' अलमल- मतिप्रलापेन' इति कथयन्ती कापि देवता सुतसुकृतपरिपाकप्रेरिता प- रिचारिकायाश्चम्पकमालाया वेषमास्थाय संन्यधात् । तिरोऽधाच्च तदर्श- नेन जाताश्वासायास्तस्याः पुनस्तन्मुखाकर्णितभर्तृवियोगविनिश्चयेन चै- तन्यम् । देवताशक्तिस्तु प्राणप्रयाण न्यरौत्सीत् । अरोदीच्चातिदुःसहं ल- ब्धचेतना । प्रालापीच बहुप्रकारम् । एवमवचनगोचरमापदमनुभवन्ती- मात्मजपरिरक्षणपराङ्मुखीमात्मत्यागाभिमुखां च तामालेाक्य चम्पकमा- ला 'किमेवं देवि, खिद्यसे । पश्य तव तनयस्य तरुणतामरससोदरयोश्च- रणयोररुणरेखारूपाणि स्थकलशपताकादीनि साम्राज्यचिह्नानि । इयं च बिभ्रती स्पष्टतरतामष्टमीचन्द्रसौन्दर्यहासिनि ललाटपट्टे मुक्तकण्ठमूर्णा व- र्णयत्यर्णवाम्बराधिपत्यम् । अयमभिनवजलधरनिनदगम्भीररुदितध्वनिः स्वराज्यस्वीकारमङ्गलशयोपश्रियमभिव्यनक्ति । तद्भविष्यति भगीरथादी- नपि महारथानधरयन्धरायाः पतिरयम् । परित्यज्यतां च परित्राणचिन्ता। चिन्तामणिकल्पः कोऽपि वणिजामधिपतिरधुनैवागत्य तव तनयं ग्रहीष्य- ति वर्धयिष्यति च महाराजसुतोऽयमिति' इति चतुरतरवचोभिश्चिरपरि- चयजनितविश्वासां महिषीमाश्वासयामास । तत्क्षण एव क्षणदान्धकारम- ३० गद्यचिन्तामणा भिनवधौतधाराधारालकिरणेन कृपाणेन दारयन्दारकमादाय मृतं सूनृत- वचसां मुनिवराणां वचसि विश्वासादेकाकी समागच्छनतुच्छतेजाः प्रत्यदृश्य- त कोऽपि वैश्यः । पश्यन्ती च तं चम्पकमाला 'पश्य देवि, मदुक्तोऽयमा- गतः । विश्वस्यतामेवमन्यदपि मद्वचनम् । यावदयमेनमादाय कुमारमपस- रति तावदन्तरितया त्वया स्थातव्यम्' इत्यभ्यधात् । तदुक्तमुत्तमाङ्गना सा- पि विश्वसन्ती निःश्वसन्ती च विषादेन विगतरक्षणाभ्युपायतया तथाभावि- तया च तस्य वस्तुनः प्रस्नुतस्तनी स्तन्यं पाययित्वा शाययित्वा च भू- तले भूपलाञ्छनमहितं महार्हमङ्गुलीयकमस्य करे न्यस्य सप्रणामम् ‘रक्ष- न्तु जिनशासनदेवताः' इत्याचक्षाणा क्षोणीपतिपत्नी परिचारिकाप्रयत्नेन तनयपरिसरादपसरन्ती समीपतरवर्तिनः कस्यचन तरोर्मूले तिरोधाय त- स्थौ । तावता समुपेत्य स वणिक्पतिरपगतासुमात्मसुतं प्रेतावासे परित्य- ज्य पार्थिवतनयमन्वेषमाणः क्षोणीतलशायिनम् , नैशान्धकारपटलभेदि- ना देहप्रभाप्रतानेन प्रदर्शयन्तमात्मानम् , राहुग्रहणभयेन धरण्यामुद्यन्त- मिव मार्तण्डम् , मन्द्रतारेण रुदितरवेण मुखरयन्तमाशामुखम् , सहजप्र- तापविस्फुलिङ्गशङ्काकरेण रत्नाङ्गुलीयकमरीचिजालेन किसलयितकरम् ., अविरलगर्भरागपाटलवपुषमङ्गारकमिव भूगर्भान्निर्गतम् , दुर्गत इव दुर्ल- भं धनं धरापतितनयमालोक्य हर्षकण्टकिताभ्यां कराभ्यामत्यादरमादत्त । आदीयमान एव स कुमारः क्षुतमकरोत् । अश्रावि च तत्क्षणमन्तरिक्ष 'जीव' इति जातजीवितय॑शसी शब्दः । तेन च दिव्यवचनेन नितरां प्रीतः स वैश्यः काश्यपीपतितनयस्य तदेव नाम संकल्पयन्न- नल्पविभवमात्मभवनमासाद्य — कथमनुपरतं सुतमुपरत इति कथितवती' इति कृतकरोषेण पत्नीं भर्त्सयमानो वत्समस्याः करे समार्पिपत् । सा च गन्धोत्कटभार्या हृदयानन्दनमानन्द- बाष्पवारिमुचा चक्षुषा क्षालयन्तीव क्षितितलमिलितधूलीधूसरं तदङ्गमन- - सुनन्दा चन्द्रमसमिव प्रथमो लम्बः । ३१ ङ्गमिव रतिरचितचिरसमाराधनमुदितपुरमथनपुनःप्रतिपादितशरीरं कुमा- रमादरादाददे । सा च धात्रीवेषधारिणी देवता दयितमरणेन तनयवि- योगेन च विजृम्भमाणदारुणशोकदहनदह्यमानहृदयामनभिमतजीवितां विजयां निजानुभावादाश्वास्य तामनभिनन्दितसनाभिगृहगमनामविदित- कर्तव्यां विश्वसत्त्ववित्रम्भवितरणशौण्डदण्डकारण्यान्तःपातिनं पत्रलपरि- सरपादपनिर्वासितपथिकपरिश्रमं तापसाश्रममनैषीत् । सा च तत्र संता- पकृशानुकृशतरा कृशोदरी करेणुरिव कलभेन धेनुरिव दम्येन श्रद्धव धर्मेण श्रीरिव प्रश्रयेण प्रज्ञेव विवेकेन तनुजेन विप्रयुक्ता विगतशोभा स- ती विमुक्त भूषणा तापसवेषधारिणी करुणाभिरिव मूर्तिमतीभिर्मुनि- पत्नीभिरुपलाल्यमाना मनसि जिनचरणसरोजमात्मवृद्धिं च ध्यायन्ती स- मुचितव्रतशीलपरित्राणपरायणा पाणितलविलूनाभिर्मरकतहरिताभिर्वा- मुष्टिभिर्मोदयन्ती नन्दनाभिवर्धनमनोरथविनोदनाय मुनिहोमधेनुवत्सान- वात्सीत् । सा च साधितसमीहिता देवता तत्रैव तपोवने तामवस्थाप्य 'सुतावस्थामवगम्यागमिष्यामि' इत्यभिधाय तिरोऽधात् । गन्धोत्कटश्च हर्षोत्कटेन मनसा समसमयग्रहतभेरीमृदङ्गमर्दलकाह- लकांस्यतालशङ्खघोषणमुषितेतरशब्दसमुन्मेषम् , तोषपरवशवंश्यजनज- न्यमानसंमर्दविकीर्यमाणपिष्टातकपांसुधूसरीभवदहस्करालोकम् , उल्लोक- वितीयमाणवित्तमुदितार्थिवर्गविधीयमानाशीर्वादम्, वचनावचनविवेकविधु- रपरिजनप्रवर्त्यमानलीलालापकलकलसंकुलम् , समन्तादावय॑मानतैल- धारापिच्छिलधरातलस्खलितलोकम् , प्रमोदमयमिव प्रदानमयमिव प्रसून- मयमिव सत्कारमयमिव संगीतमयमिव संमर्दमयमिव लास्यमयमिव लाव- ण्यमयमिव लक्ष्मीमयमिव लक्ष्यमाणमात्मजजन्ममहोत्सवमन्वभूत् । अज्ञः स तु काष्ठाङ्गारः स्वराज्यलाभजन्मना हर्षेण विहितोऽयमुत्सव इति म- न्वानस्तस्मै सगौरवं कुरुकुलमहीपालपरम्परापरिपालितमखिलमपि राज- ३२ गद्यचिन्तामणौ कोशमदिशत् । आदिशच्च तदपेक्षया तत्क्षणे तन्नगरजांश्च जातान्गन्धो- स्कटगृह एव तत्सुतेन सह संवर्धयितुम । तदेवं स्वापतयेनैव स्वकीयेन सहितस्याति सप्तमे सप्तसप्तिसमतेजसस्तनयस्य जीवंधर इति प्रथमसंक- ल्पितं नाम चकार चक्रवर्ती वणिजाम् । ततश्च क्रमेण तैश्च समानव- योभिर्वयस्यैरनुजेन सुनन्दानन्दनेन नन्दाढयेन सममाढयपरिबृढस्य ग- न्धोत्कटस्य सद्मनि वर्त्मनि दिविषदामोषधीनाथ इव नक्षत्रैः, पाकशास- नवेश्मनि पारिजात इव कल्पद्रुमैः, उदन्वति कौस्तुभ इव मणिभिरनुवा- सरं वर्धमानलावण्यः पुण्येन प्रजानामवर्धत जीवंधरः । तेन च प्रतिदि- वसमुदयमासादयता जलनिधिरिव चन्द्रेण कमलाकर इव दिवसकरेण नितरामैधिष्ट गन्धोत्कटः । प्रमदोत्कटे गच्छति काले कलहंसपोत इव कमलात्कमलं दर्प- णमिव करात्करं धात्रीणामुपसर्पन् , प्रसर्पता निर्हेतुकहसितचन्द्रालोकेन बन्धुजनहृदयकुमुदाकरमुल्लासयन् , उन्मीलितनिखिलभुवनव्यापिनि नि- जतेजसि किमनेनेति गृहप्रदीपान्निर्वापयितुमिव स्प्रष्टुमिच्छन् , अतुच्छ- रत्नशिलाघटितभवनभित्तिसंनिवेशदृश्यमानमात्मप्रतिबिम्बमद्वितीयताभिनि- वेशेन नाशयितुमिव परिमृशन् , भाविभर्तृभावावबोधिन्या मेदिन्येव विहा- रधूलीव्याजेनालिङ्गितशरीरः, समीरतरलिताणैरलिकतटविलुलितरलिनिच- यमेचकैः कचपल्लवेर्बालभाव एव वल्लभत्वमभिलपन्त्याः श्रियः क्रीडा- भिसरणमनोरथपूरणाय निशामिव दिवसेऽपि निष्पादयन् , कलमधुरग- म्भीरेण कर्णामृतवर्षिणा स्वरेण सरस्वतीप्रवेशमङ्गलशङ्खध्वनिमिव सूत्रय- न् , लोकनेत्रचकोरपीयमानलावण्यामृतनिःस्यन्दश्चन्द्र इव दिनेदिने द- शितरूपातिशयः, शनैःशनैः शैशवमत्यक्रमीत् । आक्रमीच्च पञ्चमं वयः। ततः पुण्येऽहनि महनीयमुहूर्ते राजपुरीमध्यमध्यासितस्य निष्टप्ताष्टापदघ टितेष्टकानिर्मितमूलभित्तेः, उत्तमप्रमाणोज्ज्वलस्य , निखिलावयवशिखर- .
प्रथमो लम्बः । ३३ , निहितमणिमौक्तिकनिकरेण तारागणेनेव सततसंचारजातश्रमच्छेदाय य- थेष्टं निवसता दिवापि दर्शितरजनीशङ्कस्य , पाटितजलधरकोडाप्रविन्य- स्तचूडामणिमयस्तूपिकाखमणिना शङ्कितसदातनमध्यंदिनस्य , मरकतम- णिमयाजिरपृष्ठप्रसारितैौक्तिकवालुकाजालैः प्रतिफलितमिव सतारं ता- रापथं दर्शयतः , स्फाटिकशिलाघटितबलिपीठोपकण्ठप्रतिष्ठितमहार्हमणि- मयमानस्तम्भस्य , संस्तवव्याजेन शब्दमयमिव सर्वजगत्कुर्वता मस्तक- न्यस्तहस्ताञ्जलिनिवहनिभेन भगवन्तमर्चयितुमाकाशेऽपि कमलवनमापा- दयतेव भव्यलोकेन भासितोदेशस्य , हाटकघटितसालपक्षपुटेन वीक्षि- तुमन्तरिक्षपर्यवसानमुड्डयनमिव कर्तुमुद्यतेन रजतघटितकवाटपुटविनि- गन्छन्त्या निसर्गशुचिशुक्लध्यानदेश्यया रश्मिनिकरवेत्रलतया ध्यानप- रयमधनसविधविनिर्गच्छदेनोनिकरमिवान्धकारमतिदूरमुत्सारयता शिखर- खचितपद्मरागप्रभया प्रसर्पन्त्या बहिर्गच्छदतुच्छभव्यभक्तिरागमिव प्रदर्श- यता सततसंभवदहमहमिकाप्रवेशनिबिडधराणिपमकुटकोटिकर्षणमसृणित- मणिभित्त्युदरभासुरेण गोपुरचतुष्टयेनाधिष्ठितस्य , कोमलप्रवालदण्डाग्र- प्रथितानामविरतयथार्हसपर्याप्रमोदसततसंनिहितसर्वदेवतानिःश्वासनिभेन मातरिश्वना सलीलं कम्पितानां पताकानां किंचित्कुञ्चितैरग्रहस्तैरास्ति- कलोकमिव समर्पयितुं धर्मामृतमाह्वयतः , प्रतिप्रदेशव्यवस्थापितसमस्त- देवताप्रतिमाप्रकरण प्रचुरभक्तिचोदितशतमखमुखाखिलमखभुगागमनमि- वादर्शयतः, प्रकृतिशान्तैर्मन्त्रमर्याभूतवाङ्मयसर्वस्वैः संसारकान्तारदावद- हनज्ञानध्यानपरैः परहितनिरतस्त्रान्तरेकान्तमताभिषङ्गभुजङ्गदंशनिरंशक्षी- णजगदनेकान्तसंजीवनसमर्पणपरं परमागममुपदिशद्भिर्मुनिवरैरलंकृतमु- निनिकायविराजितस्य , राजपुरीपर्यायपारिजातभूरुहप्ररोहबीजभूतस्य कुरुकुलक्षत्रियपुत्रार्हाध्ययनाभिषेकाद्यारम्भभूमेर्महतः श्रीजिनालयस्य हरि- ताश्वोदयहरिद्भाजि भासुरमणिमौक्तिकमालाञ्चिते काश्चनसजलकलशमृङ्गार- गद्यचिन्तामणौ प्रमुखबहलपरिच्छदलाञ्छितवेदिकोपशोभिनि प्रलम्बमाननानाविधप्रसून- दामसुरभितककुभि दामशङ्काश्रितस्फाटिकस्तम्भादुत्पतदलिकुलझंकारसू- चितमङ्गलपाठकवचसि भित्तिलिखितचित्रदर्शितसुकृतेतरपरिपाकफलभ- वप्रबन्धप्रचुरभक्तिप्रेरितभव्यसार्थप्रस्तूयमानसंस्तवकलकलमुखारतवियति प्रान्तप्रलम्बमानवन्दनादामनि प्रत्यग्रगोमयोपलेपहरितभुवि विप्रकीर्णमझ- ललाजकुसुमहसितहरिति हरहसितधवलवितानवाससि वसुधासुरप्रवर्तित- पुण्याहकर्मणि कालागुरुधूपधूमपटलनिमीलितातपसंपदि सक्रियमाणसक- लमनीषिणि प्रहतपटहपटुरवभरितदशदिशि संख्यातीतशङ्खकाहलतालो- तालरवबधिरितश्रवसि संगीतारम्भपुनरुक्तस्फुरितसौन्दर्ययुवतिलोकोद्योति- नि महति विद्यामण्डपे महेन्द्रमकुटपादपीठलुठितचरणसरोरुहस्य स्याद्वा- दामृतवर्षिदिव्यागमपयोदनिर्वापितसंसारदावानलस्य भगवतो जिनेश्वरस्य यथाविधि विधीयमाने महाहे महामहे स्वतःप्रकाशितनिरतिशयसारस्वतेन निखिलशास्त्रशाणोपलकषणनिशितशेमुषीमुषितपुरुहृतपुरोहितगर्वेण दुर्वा- खादिपरिषदवलेपपर्वतपाटनपाटवप्रकटितस्याद्वादवघेणार्यनन्द्याचार्येण ग- लिततुषखण्डेष्वखण्डेषु तण्डुलेषु पत्रेषु च भर्मनिर्मितेष्ववतार्य सप्रणयं प्रतिपादितां सिद्धपरमेश्वरदिव्यसंनिधौ ‘सिद्धं नमः' इति पूर्वपदप्रशस्तां सिद्धमातृकारूपिणी वाणी जीवंधरः सप्रणामं प्रत्यग्रहीत् । इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ सरस्वतीलम्भो नाम प्रथमो लम्बः ।
द्वितीयो लम्बः । अथ महार्हे रत्नशिलाघटिततले स्फटिकदृषदुपरचितभित्तिभासुरे वासरालेकपरिभाविमहेन्द्रनीलनिर्मिताङ्गणभुवि दुग्धजलधिफेनधवलविता- नविभ्राजिनि विराजमानसरस्वतीप्रतिमाञ्चितचित्रपटे संचितसकलग्रन्थ- कोशे कोशनिहितनैकशतनिस्त्रिंशनिरन्तरे स्तबरकनिचोलचुम्बितचारु- चापदण्डे कुण्डलितशिखरमनोहरचण्ड' प्टिनि निष्टप्तहाटकघटितदण्डका- न्तकुन्ते प्रान्तपुञ्जितनिशतशरप्रकरे प्रासतोमरभिण्डिपालप्रमुखनिखिला- युधनिरवकाशितखलरिकोद्देशे कुशेशयासनकुटुम्बिनीकोशगृह इव दृश्य- माने महति विद्यामण्डपे पाण्डित्यपयोधिपारदृश्वना विश्रुतप्रभावण विश्व- व्यवहारशिक्षाविचक्षणेन प्रत्यक्षिताचार्यरूपेणार्यनन्द्याचार्येण समस्तम- पि विद्यास्थलं सानुजमित्राय तस्मै सस्नेहमुपादेशि । ततः सप्रश्रयशुश्रू- षाप्रहृष्टमनसः प्रकृतिशीतलशीलादाचार्यात्प्रचुरप्रतापोष्मले तस्मिंश्चन्द्रमस इव चण्डतेजसि कलाकलापः क्रमेण समक्रमीत् । अत्युल्बणजराजर्जरि- तमनवरतजनितकम्पमम्बुजासनमुखचतुष्टयमाविष्टेव पतनभिया विहाय भारती तरुणतामरससोदरं तदाननमास्पदीचकार । तथाहि-अपरिमि- तार्थोपलब्धिमूलभूतपदरत्नराशिरोहणं व्याकरणम् , दुर्गमदुर्मतमहाकर्द- मशोषणप्रवणार्क तर्कशास्त्रम् , याथात्म्याञ्चितप्रपञ्चपञ्चास्तिकायवस्तुवा- स्तवावबोधसिद्धयुपायमपि सिद्धान्तं यथावदध्यैष्ट । अधिष्ठाय पृष्ठपीठमति- कठोरकुम्भतटनिवेशितनिशिताङ्कुशनखरः कुर्वन्नु:धरमिव जङ्गमं मात- अमपगतमदचापलमात्मवशगामिनमनन्यसुलभपराक्रमपरिशङ्कितां प्रकटी- चकार राजसिंहतां राजकुमारः । अतिरभसचटुलखुरपुटविदलितधरणी- गद्यचिन्तामणो रङ्गेण तुरङ्गेण युगपदाक्रमन्दिशां चक्रमक्रमेण निखिलनिजराज्यहरणद- क्षमात्मानमनक्षरमभाषिष्ट । अनवरतयोग्यापरेण कुमारेणारूढः प्रतिभट- मनोरथानपि धरामिव दारयिष्याम्यचिरादिति कथयन्निव स्थश्चक्रचीत्का- रख्याजेन व्यराजिष्ट । आकर्णाकृष्टः कर्णे सपुपदिशन्निव मौर्वीस्वनेन स- मरविजयकलामविरलशरासारवर्षी राजसूनोरलक्ष्यत लक्ष्यभेदचतुरस्य चा- पदण्डः । आरम्भसमय एव गुणनिकायाः केशानप्यतिसूक्ष्मान्पाटयितुं पटुः पार्थिवसुतेन पाणौ कृतः कृपाणः कृशेतरनखमरीचिसंपर्कादासन्न- विनिपातपरिज्ञानविधुरमहसदिव काष्टाङ्गारम् । एवं क्रमादभ्यस्तसाहित्यं साधितशब्दशासनं समालोकितवाक्य- विस्तरं विजृम्भितप्रमाणनैपुणं नितिनीतिशास्त्रहृदयं शिक्षितलक्ष्यभेदं विधेयीकृतविविधायुधब्यापारं पारदश्वानमश्वारोहणविद्याया विश्रुतवारणारो- हणवैयात्यं वीणावेणुप्रमुखवादनप्रथमोपाध्यायं विदितभक्तमार्ग नैसर्गिक- नित्यविज्ञानवैशारद्यविस्मापितशैल्पलोकमुलोकनिखिलनिजचरित्रविराज - मानं राजकुमारं कुसुममिव गन्धः क्रीडावनमिव वसन्तश्चन्द्रमसमिव श- रदागमः कुमुदाकरमिव कौमुदीप्रवेशः करिकलभमिव मदोद्गमो यौवना- वतारः परं दर्शनीयतामनैषीत् । तथाहि --- प्रविविक्षन्त्याः प्रतिभटराज- लक्ष्म्याः सुखासिकादानमिव विधातुं वितस्तार वक्षःस्थलम् । दिशिदिशि चलितस्निग्धधवलदीर्घवपुषः कटाक्षाः कान्तिलक्ष्मीजन्मदुग्धजलधिविभ्रम बिभ्रति स्म । अंसवलभीसमर्पणाय धरणीमादातुमिव जानुलम्बिनौ बभू- वतुर्भुजौ । स्पर्धयेव परस्परं वर्धमानाभ्यां प्रतापकान्तिभ्यामशिशिरशिशि- रकिरणयोरद्वैतमिव राजसूनुरदीदृशत् । एकदा तु तमेकान्ते प्रान्ते निवसन्तमन्तेवासिनमालोक्याचार्यः प्रज्ञाप्रश्रयबलेन हेलया संजातां विद्यापरिणतिं विमृशन्करतलसंस्पर्शन सादरं संभाव्य निरवसानव्यसनप्रसूनदायिसंसृतिलताच्छेदकुठारं निरति- द्वितीयो लम्बः । ३७ शयपरमानन्दपदप्राप्तिसाधनं सम्यक्त्वधनं समर्पयितुमस्मै कालोऽयमित्या- कलय्य गुरुशुद्धिप्रदर्शनेन सविस्रम्भमस्य मनः कर्तुं स्ववृत्तान्तमन्यकथा- व्यावर्णनव्याजेन व्याजहार-."वत्स, वन्दमानविद्याधरमकुटताडितपाद- पीठकण्ठोक्तमहिमा महीपतिरभूदभूतपूर्वः सर्वविद्यासाम्राज्यसंपदुन्मेषवि- भ्राजिनि विद्याधरलोके लोकपालो नाम । स तु कदाचिदागमे पयोमुचा- मम्बराभोगमलिम्लुचं महेन्द्रनीलमणिवातायनतिलकितं सौधवलभीम- ध्यं सुमध्याभिः सहाधिवसन्धनसमयलक्ष्मीकुन्तलविभ्रमं किमपि नवा- भ्रमपश्यत् । पश्यत्येव तस्मिन्विस्मयस्तिमितचक्षुषि तत्क्षण एव ननाश नैशान्धकारसोदरः स पयोधरः । तदवलोकनजनितनिर्वेदः ' सर्वथा सलिल बुद्बुदसहचरा न सन्ति चिरावस्थायिनः संसारविभ्रमाः । तरुतल- पुञ्जिताः पर्णराशय इव प्रबलपवनपरिस्पन्देन सुकृतपरिक्षयेण त- रक्षण एवं नश्यन्ति संगता: संपदः । पाकशासनशरासनमिव विश- रारु नानारागपल्लवोल्लासविलासोपवनं यौवनम् । जीवितं तु किमिदानी- मुद्भाविन्यपि समये स्थायीति जगति न केनापि निश्चेतुं पार्यते । कथ- मपि कालं कंचिदवस्थितिभाजोऽप्यायुषः क्षय एव नियतः । तदेतत्सर्वे स्वयमेव यास्यति । वयमेव निरस्यामः' इति विचार्य विनश्वरश्रीविलास- पराङ्मुखः परनिरपेक्षं निरवधिकमनुपाधिकं च सुखमनुभवितुमिच्छ- पुत्रशिरसि निवेश्य राज्यभार भवसंज्वरपरिहरणविचक्षणां जिनदीक्षा प्राविक्षत् । प्राप्तजिनदीक्षः प्रणष्टतमांसि तपांसि चरन्प्राग्जन्मार्जितदुर्ज- रपापपरिपाकपरिणतेन भक्षितमखिलं तत्क्षण एव भस्मसात्कुर्वता च भ- स्मकेन पर्यभूयत । परिभूतश्च तेनाविच्छिन्नचरितोऽप्यशक्यतया दुर्गत इव दुर्लभं धनं परमं तपः पर्यत्यजत् । अवर्तिष्ट च यथेष्टं स्वैरविहर- णावकाशप्रदानपण्डितेन पाषण्डिवेषेण । स पुनरङ्गार इव भस्मना भस्मकमहारोगेण तिरोहितदीप्तिः सम्यक्त्वपूतमतिस्तत इतो विहरन्ननव- 4 ३८ गद्यचिन्तामणौ रतजृम्भमाणदारुणबुभुक्षाक्षोभितमतिः कदाचिदधरितकुबेरवैभवस्य ग- न्धोत्कटस्य सततविघटितकवाटपुटमुत्तम्भितमणिस्तम्भशुम्भिताभ्यन्तर निरन्तरविप्रकीर्णमणिगणशरिलभूतलमगस्त्यकवलितजलपूरमिव रत्ना- करमाखण्डलकुलिशपुनःपतनभयपरिवृत्तवेषमिव रोहणशिखरिणमभिन- वशष्पशङ्कातरलितगृहहरिणपोतलिह्यमानगरुत्मदुपलघटिततलमयूखपटल- मतिचटुलपरिचारकचरणपुटरटितरत्नसोपानमवलम्बितमुक्तादामपुलकित- वलभीनिवेशमितस्ततोदृश्यमानचामीकरपर्यङ्कपरिहसितमेरुशिलातलमभि - नवसुधालेपधवलितोपरिभागरम्यं हर्म्यभविशत्। तत्र च प्रसार्यमाणसौव- मित्रविडम्बितमित्रमण्डले त्वरमाणपरिजनवनिताकरप्रमृज्यमानमणिचष कशुक्तिसंचये संमूछेदतुच्छपाटलपरिमलसुरभिपानीयभरिततपनीयभृङ्गा- रके लिख्यमानमङ्गलचूर्ण रेखानिवेद्यमानभोजनभुवि समुद्घाटितपञ्जरकवा- टविनिर्गतक्रीडाशुकशारिकाहूयमानपौरोगवे प्रवेश्यमानबुभुक्षितजने प्र दीयमानपत्रिभोजनामत्रकदलीपत्रे प्रत्यग्रपाकजनितसौरभ्यलुभ्यद्वाणे स मन्ततश्चलिततालवृन्तग्राहिणीचरणनूपुररणितभरितदिशि भोजनस्थानम- ण्डपे जैनजनसर्वस्वतया निःशकं प्रविशन्नातिदूरनिविष्टैनिबिडभूषणम- णिप्रभातरङ्गिततनुभिरतनुकायकान्तिभिरात्मनः प्रतिबिम्बैरिव समानवयो- रूपलावण्यैर्वयस्यैरुपास्यमानमुडुगणपरिवृतमिव बालचन्द्रमसमायुष्मन्तम- पश्यत् । भवानपि बाल्येऽप्याकृतिज्ञतया प्रकृतिसुलभकृपाप्रेरितहृदयतया च तस्य तादृशीं बुभुक्षामालक्ष्य ‘भोज्यतामयमभिमतै ज्यैः' इति पुरः स्थितं पौरोगवाध्यक्षमादिक्षत्। भिक्षुरपि कटाक्षपातक्षणसंनिहितसलिल- कर्मान्तिककरावर्जितकनकभृङ्गारगर्भगलितधारालसलिलक्षालितचरणः प्र- सारितवेत्रासने मणिकुट्टिमे समुपविश्य पुरोनिहितपृथुतरामनपातितममल- दुग्धजलधिफेनपटलधवलं संपन्नमन्नराशिमविरलघृतसितासंपातद्विगुणित- माधुर्येण मौद्गकद्रवेण कबलीकृत्य मधुररसभरितोदरेण विडम्बितकनक- द्वितीयो लम्बः पालिकेन पचेलिमेन पनसफलेन पाकपाटलितत्वचा मोचाफलेन शात- कुम्भकुम्भसदृशाकारेण सहकारफलेन च प्राज्याज्यप्रचुरमरीचानुगुणल- वणमधुरनालिकेरपयःपलवितरसेन बृहद्बहतीप्रमुखेनाजनशिखारदेशीयेन व्यञ्जनजातेनाप्याभिव्याञ्जितरसं निमेषमात्रेण निरवशेषमभ्यवाहृत। पु- नरप्यहृष्टमनसे प्रचुरमन्नमह्नाय भोक्तुमभिलपते तस्मै विस्मयस्तिमितम- नसा त्वया समादिष्टा: पौरोगवाः पूर्वनिष्पन्नं तद्भवनवासिनिखिलजन- भोक्तव्यं विविधमन्धःसंभारं समर्पयामासुः । स भिक्षुरक्षीणबुभुक्षुस्तद- शेषमशनमम्भोधिपयःमभारामिव कल्पान्तकालानलः कबलयन्न कदाचि- दतासीत् । एवं पूर्वनिष्पन्नस्तदात्वसंपादितैरपरिमितैश्च पायसदाधिकसा- पिष्काद्यमृतपिण्डैर पैरप्यपूर्णजटरमाशार्णवमिव वर्णिनमालोक्य चित्रीया- विष्टस्त्रमनासादिताहारो निवसन्भिक्षााधेः परिक्षयकालतया वा कुमा- रकारुण्यवैभवेन वा तथाभवितव्यतया वा तस्य वस्तुनः स्वहस्तावलाम्ब- तं कलमकवलमन्यादराददिथाः । तदास्वादनमात्रेण तृष्णापयोधिरिव भ- गवत्या परमनिवृत्त्या क्षण एव तस्मिन्पूर्ण वर्णिनो जठरमभूत् । आसी- वास्य सौहित्यम् । अत्रपञ्चायमतितराम् । नितरां व्यस्मेष्ट प्रकृष्टतपसां मुलभेन भवन्माहात्म्येन । निरणैपीच्च भवल्लक्षणेन भवन्तमन्यादृशम् । अतर्कयच्च पुनरमान्तं स्वान्तमंकटकुटीरे बहिरपि विहारयन्निव रोमाञ्च- निभेन हर्षभरम् –'आसीदयमपहसितमारः कुमारो मारकोऽस्मद्भस्मक- व्याधेः । कात्र कर्तव्या प्रत्युपकृतिः । नहि प्रतिकृतिसव्यपेक्षाः प्रेक्षाव- तामुपकृतयः । तथापि किमप्युपकृत्य प्रतिकृतिमता मया भवितव्यम् ' इति सुचिरं विचिन्त्याप्यन्यां प्रतिकृतिमनालोकयन्नुभयलोकहितहेतुभूत- मभूतपूर्वमहिमानमनवद्याभिर्विद्याभिरेवमलमकुरुत भवन्तम् ” इति । एवं विदितगुरुवृत्तान्ततया मुदितमानसं प्रलयाभिमुखीभवदेनसं चरमदेहधारिणं कुमारं सूरिः श्रीरत्नत्रयविशुद्धिसंपादनाय तत्त्वमबूबुधत् ।
गद्यचिन्तामणौ , -" वत्स, तवाधिगतगृहमेधिधर्मयाथात्म्यप्रतिपादनप्रकारविलसदुपास- काध्ययनपरमागमस्य नोपदेष्टव्यमस्ति । तथाप्युपदेशमूलाया एव सक- लकर्मप्रवृत्तेः सफलत्वात्संगृह्य किंचिदुपदिश्यते । श्रवणग्रहणधारणानुस्म- रणप्रमुखविविधप्रयाससाध्यस्य शास्त्रावगमस्य प्रयोजनं पुंसां हेयोपादेय- परिज्ञानस्वरूपपुरुषार्थसिद्धिस्तन्मूलत्वादपवर्गप्राप्तेः । सा चेन्न स्याव्रीहि- खण्डनायास इव तण्डुलत्यागिनः , कूपखननप्रयास इव नीरनिरपेक्षिणः, कणादोक्तिरिव शास्त्रशुश्रूषापराङ्मुखस्य , द्रविणार्जनक्लेश इव वितरणगु- णानभिज्ञस्य , तपस्याश्रम इव नैरात्म्मवादेनः , शिरोभारधारणश्रान्तिरिव जिनेश्वरचरणप्रणामबहुमतिबहिष्कृतस्य , प्रव्रज्याप्रारम्भ इवेन्द्रियदासस्य विफल: सकलोऽप्ययं प्रयासः स्यात् । इह केचन कोमलप्रज्ञाः प्राज्ञज- नगर्हित क्षयैकशरणशरीरजीविकामात्रमास्थानवशीकरणचतुरचतुर्विधपा- ण्डित्यलाभं च शास्त्रावगतेः प्रयोजनमाकलयन्तः केवलं विक्रीणानाः प्र- कृष्टमूल्यानि मुष्टयन्धसे मुक्ताफलानि नाफला इव विफल प्रयासा: प्रेक्षा- वदुपेक्ष्यतां कक्षीकुर्वन्ति । दुर्लभाः खलु हेयोपादेयपरिज्ञानफला: शा- स्त्रावगतीनिश्चिन्वाना विपश्चितः । ततः प्रत्यासन्नभव्यो भवान्भवान्धका- रविहरणरजनीमुखं रागद्वेषादिरूपं हेयं विलयविरहितनिरवधिकानन्दमूल- कन्दं श्रीरत्नत्रयाभिधानं धनमुपादेयं च यथावदवगम्य गार्हस्थ्यधर्मार्हमनु- ठेयमनुष्ठातुमर्हति" इति । एवं गुरूपदेशपरिगृहीतसमुचितसम्यग्दर्शनज्ञानचारित्रस्य सक- लरहस्योपदेशनिक्षेपक्षेत्रस्य तस्य गजकुमारतामावेद्य राज्ञां चरितमभिधि- सन्नादितः प्रभृति कार्येन तदुदन्तमिदन्तया सस्नेहमुपहरे सूरिरुपन्या- स्थत् । उदस्थाच्च महीपृष्ठाद्रुमुखावगतनिजचरितप्रपश्चः , पञ्चाननपोत इव मदवदरण्यदन्तावलदर्पपरिभूतः, प्रभूतकोपपावककपिलकपोलमण्ड- लव्याजेन प्रत्यार्थविनाशसूचिनमुत्पाततरणिबिम्बमिव दर्शयन् , प्रतिभ. .
द्वितीयो लम्बः । " टविपिनदिधक्षया रोषरूषितस्य चक्षषः प्रभाजालेन प्रतिदिशं प्रसर्पता प्रेषयन्निवाशुशुक्षणिम् , अविरलधर्मोदबिन्दुपुलकिते क्रोधलक्ष्मीकटाक्षकु- टिलभृकुटिभीषणे भालपट्टे प्रथीयसि प्रतिबिम्बितमाचार्यमाहवविजयाय मूर्धनि कुर्वन् , समरदेवताराधनाय कुसुमनिचयमिव कोपाट्टहासमरीचि- चन्द्रिकान्छलेन संचिन्वन् , दशनच्छदेन मुहुर्मुहुः स्फुरता वैरि- यशःक्षीरपानकौतुकमिव प्रकटयन् , प्रकटितात्मवैभवः कुमारः, ततो निकटवर्तिनं कोदण्डदण्डमकाण्डकोपघटितकृतान्तभ्रूभङ्गविडम्बिनमवि- लम्बेन गृह्णन्गृहीतकतिपयकाण्डः काष्ठाङ्गारबधे विधाय संरम्भं स- संभ्रममुदतिटत । तथोत्तिष्टमानं च तमुत्पाततपनमिव दुःसहतेज- समुल्बणविपमिव भुजङ्गराजमशेषभुवनभयंकरं राजकुमारम् ' अलम- लमकाण्डसंरम्भेण ' इति निवारयन्नाचार्यः , प्रज्वलत्प्रकोपदहनजनि- तदाहभय इव शिष्यहृदयमनुपसर्पति निजवचसि , ' वत्स , वत्सरमा- त्रं क्षमस्व । गुरुदक्षिणेयम् ' इति सप्रणयमयाचिष्ट । स च को- पाविष्टमतिरपि गुरुणा गुरुप्रणयेन तादृशमाचार्यवचनमतिलङ्घयितुमक्षमः प्रतिषिद्धप्रसरेण रोघहुतभुजा भुजङ्गम इव नरेन्द्रप्रभावप्रतिबद्धपराक्रमः प्रकाममदह्यत । अथ शिक्षावचनतीक्ष्णाङ्कशनिपातनिवृत्तसंरम्भमेनं समदमिव मातङ्गं प्रियवचनेन प्रकृतिमानीय विनयविरोधियौवनवित्तमत्तजनानर्थप्रदर्शनपटी- यसीं वाचमाचार्यः स चतुरमभिधातुमारे ---"वत्स, बलनिषूदनपुरोधस- मपि स्वभावतीक्ष्णया विषणया धिक्कुर्वति सर्वपीनपाण्डित्ये भवति प. श्यामि नावकाशमुपदेशानाम् । तदपि कलशभवसहस्रेणापि कबलयितु- मशक्यः प्रलयतरणिपरिषदाप्यशोध्यो यौवनजन्मा मोहमहादधिः । अशे- षभेषजप्रयोगवैफल्यनिष्पादनदक्षो लक्ष्मीकटाक्षविक्षेपविसी दर्पज्वरः । पु- रोवळपि वस्तु न विलोकयितुं प्रभवतः प्रभूतैश्वर्यमदकाचकञ्चकितरोचि- , गद्यचिन्तामणा षी चक्षुषी । मन्दीकृतमणिमन्त्रौषधिप्रभावः प्रभावनाटकनटनसूत्रधारः स्मयापस्मारः । पातालविवरपतितविश्वंभरासमुद्धरणधीरो मुरारिरपि वराह- रूपी नालमुद्धर्तुमुदर्कविषमविषयाभिलापबहलजम्बालजालमग्नं मनः । स- कलसागरसलिलपूरेणापि न पार्यते क्षालयितुमुत्तालगगपरागपटलपरिष्व- ङ्गसङ्गि मालिन्यम् । अवस्थाविषमविषमोक्षभीषणा राजलक्ष्मीभुजङ्गी । इति किंचिदिह शिक्ष्यसे । अविनयविहंगलीलाबनं यौवनमनङ्गभुजङ्गनिवासरसा- तलं सौन्दर्य स्वैरविहारशैलूपनृत्तास्थानमैश्वर्यं पूज्यपूजाविलङ्घनलविमज- ननी महासत्त्वता च प्रत्येकमपि प्रभवति जनानामनाय । चतुर्णा पुन रेतेषामेकत्र संनिपातः सद्म सर्वानानामित्यर्थेऽस्मिन्कः संशयः । स्फ- टिकोपलविमलमपि मनो मानवानां यौवनलक्ष्मीपादपल्लवन्यासेनेव समु द्वहति रागम् । शास्त्रशाणोपलकपणमुपितमासृण्यापि मतिरबतरदभिन वयौवनवनिताचरणसमुत्थापितेनेव रजसा धूसरीभवति । हितमहितं च नावगच्छत्यतुच्छधियामपि यौवने निर्व्याजमदमधुपानमत्तेव चित्तवृत्तिः । कतिचिदेव कथमपि कर्णधारीकृत्य विवेकमुपभोगरणरणिकातरङ्गमनङ्गा- वर्तदुस्तरं तरन्ति तारुण्यजलनिधिम् । यौवनशरदागममत्तानां विघटित- विवेकनिगलानां विषयवनविहारिणामिन्द्रियकरिणामङ्कशीभवन्ति गुरूप- देशाः । भवद्विधा एव भव्यास्तादृशगुरूपदेशबीजप्ररोहभूमयः । नवसुधा- लेपधवलिमभासि सौधतले किरणकन्दला इव चन्द्रमसः स्वभावसुलभ विवेकविद्राविततमसि मनसि विलसन्ति गुरूणां गिरः । प्रबलतमतमः कालायसकङ्कटिनि जडधियां हृदि प्रवेश्यमानाः शकलीभवन्ति हितानु शासनवचनपर्यायाः पत्रिणः । उपदेशवचनं नाम मानाममन्दरमथन- परिश्रमसाध्यममृतपानम् , हृदयगुहागर्भनिर्भरमूर्च्छदनच्छतमइछटाविघट- नचण्डमचण्डभानवीयमंशुजालम् , अविवेकविपिनभस्मीकरणपाण्डित्य- पात्रमचित्रभानवीयं चेष्टितम् , परिपाकपयोधिविजम्भणैककारणमशिशि- द्वितीयो लम्बः । ४३ ४ - रकिरणीयमभीशुजातम् , अरत्नशिलाभरणभारधारणायासमाकल्पान्तरम् । विश्वंभराभर्तृणां तु विशेषत इदं दुरासदम् । तेषां हिताहितमुपदिशन्तः सन्तो हि सुदुर्लभाः । खलजनकण्टकखिलीकृताः खलु महीभृतामास्था- नमण्डपोद्देशाः । सुजनास्तत्र कथमत्रस्ताः पदं निधातुं पारयन्ति । पार- यन्तोऽपि स्वकार्यपारवश्यनश्यद्विवेकाः काश्यपीभुजा पार्श्वे कथमप्याश्र- यितुमाश्रयाशातिशायिशक्तिप्रज्वलदस्थानरोपभीषणां तेषां वाचं वाचस्प- तिदेश्या अपि शुका इव स्वयमनुवदन्ति । वदन्ति चेदपि तेजस्विनः प- रितः परहितपरतया विरसीकृत्य निरसनैकतानं वचनं वचनीयधुराधरण- क्षमाः क्षमापतयः क्षितितलप्राप्तिक्षणसमारोपितप्रतापज्वररयबधिरितकर्णा इव तन्नावकर्णयन्ति । कथंचिदाकर्णयन्तोऽपि मधुमदमत्तमत्तकाशिनीव- दनशीवुसंपर्कशिथिलितचित्तवृत्तय इव नूनमदत्तावधानाः खेदयन्तः स्वहितोपदेशकारिणः सूरीस्तदुक्तं नानुतिष्ठन्ति । अनुतिष्ठन्तोऽपि न फलपर्यन्तं कुर्वन्ति कार्यम् । किमन्यदुदीयते स्वाभाविकाहंकारस्फार- श्वयथुजातवेपथुविह्वला हि महीभृतां प्रकृतिः । प्रकृत्या तथाभूतानियं दुराचारप्रिया हरिप्रिया तु सुतरां खलयति । इयं हि पारिजातेन सह जातापि लोभिनां धौरेयी, शिशिरकरसोदरापि परसंतापविधिपरा, कौ- स्तुभमणिसाधारणप्रभवापि पुरुषोत्तमपिणी , पापर्धिरियं पाप , वेश्येयं पारवश्यकृतौ , द्यूतानुसंधिरियमतिसंधाने, मृगतृष्णिकेयं तृष्णायाम् । तथा चेयं शर्वरीव तमोधिष्टिता परप्रकाशासहिष्णुस्वभावा च, कुलटेव प्राप्तप्रद्वेषिणी परान्वेषिणी च, जलबुद्दाकृतिरिव जडप्रभावा क्षणमात्र- दर्शितोन्नतिश्च, किंपाकमूर्तिरिव भोगकाङ्क्षाप्रवर्तनी कटुकपाका च । एवं परगतिविरोधिन्या फलदव्ययवहि भूतया भूतचतुष्टयमयकायमात्रपुष्टिप- रया परायचरित्रचर्वण्या चार्वाकमतसब्रह्मचारिण्या राज्यश्रिया परिगृ- हीताः क्षितिपतिसुताः क्षण एव तस्मिन्नैय्यायिकनिर्दिष्टनिर्वाणपदप्रति- .
४४ गद्यचिन्तामणौ , . ष्ठिता इव प्राक्तनमपि गुणप्रतानं वितानीकृत्य जडात्मतामेवात्मसात्कुर्व- न्ति , कापिलकल्पितपुरुषा इव जडबुद्धेरेवात्मानं घटयन्ति , सदाहंकार- संगतप्रकृतयः प्रकृतिविकारपरं वचनं प्रतिपादयन्ति च । स्वरूपव्याव- र्णने हर्णवनमिस्वामिनाममरस्वामिनाप्यसंख्यवदनेन भवितव्यम् । ते हि सत्यपि राजभावे सद्भिन सेव्यन्ते,जीवत्यपि गोपतित्वे वृषशब्दं न शृण्व- न्ति, नादितेऽपि नरेन्द्रत्वे मन्त्रिकृत्यं न सहन्ते । तथा महाबलान्वपिणोऽप्य- बलान्वेषिणः, प्रतापार्थिनोऽप्यसोढप्रतापिनः, सश्रुतयोऽप्यश्रुतयः, अङ्गम्- हा अप्यनङ्गस्पृहाः, अभिषिक्ता अप्यनाभावा जडसंसक्ता अप्यूष्मलस्त्र- भावाः , सुलोचना अप्यदूरदर्शिनः , सुपादा अपि स्खलितगतयः, सु- गोत्रा अपि गोत्रोन्मूलिनः, सुदण्डा अपि कुटिलदण्डाः, सिंहासनस्थिता अपि पतिताः, हिंसाप्रधानविषयोऽपि मीमांसाबहिष्कृताः, ऐश्वर्यतत्परा अपि न्यायपराङ्मुखाश्च जायन्ते । एवं क्षादीयसः क्षुद्रतरनकपुरुषपरिप- दुपभुक्तोच्छिष्टक्षितिलवलाभानुबन्धिपट्टबन्धान्धीकृतान्विषयान्धकारसंचारि- णः शरणशीलं शरीरं विनश्वरमैश्वर्य दावगर्भारण्यामिव तारुण्यं विचार्य- माणे विशीर्यमाणं वीर्यमैन्द्रधनुरिव सौन्दर्य प्रख्यापिततृणाग्रबिन्दुसख्य सौख्यं च व्यवस्थितमाकलयतस्तानाढ्यताजातमौढ्यादधः स्वयं पतत इव यष्टिभिर्यातयन्तो निकृष्टाः केचन सदस्थाः स्वदास्यममीषां संपाद्य संपदाकर्षणलम्पटतया घटितकापटिकवृत्तयः सन्तः सन्त इव नटन्त- श्वरलक्ष्यभेददक्षतायै मृगयेति संकटपतितकार्यविचारपाटवाय द्यूतक्रीडे- ति प्रतीकस्थैर्याय पिशिताशनमिति मनःप्रसादाय मधुपानमिति रतिनै- पुण्याय पण्ययुवतिपरिष्वङ्ग इत्यभिनवरतिरसास्थानिरस्तये परस्त्रीपरिग्रह इति शौर्यस्फूर्तये चौर्यमिति केलिरसाय तरलवृत्तिरिति महासत्त्वतेति मा. ननीयावधीरणं महानुभावतेति वन्द्यानभिवन्दनं महातेजस्वितेति तेजस्वि- तिरस्करणमित्युपदिश्य स्ववश्यान्कल्पयन्ति । वित्तमदाचान्तविवेकः स ज.
द्वितीयो लम्बः । ४५ न्तुरपि तथोपदिशन्तमधिकपापिनमपथदर्शिनमपथ्यशंसिनमकृत्यकारिणमु- क्तानुवादिनमुत्कोचोपजीविनं परपीडामुदितमानसं पगभ्युदयखिन्नहृदयं पै- शुन्यवात धूर्तयुगशिक्षणविचक्षणं विटलोकमेव विदग्धमतिस्निग्धं च वि- भाव्य स्वगात्रं स्वकलत्रं स्ववित्तं स्ववृत्तं च तदधीनं विदधाति पिदधाति च सुजनसमागमनद्वारम् । एवंविधदुःशिक्षाबलेन स्वचापलेन च राजसू- नवः प्रायेण प्रागेवाविनयं पश्चात्तारुण्यं पुरस्तादेव जाड्यं तदनन्तरमभि पेकं पूर्वमेवाहंकारं तदनु सिंहासनाध्यासनं पुर एव कौटिल्यं ततः कि- रीटं च भजन्ते । भव्योत्तम, भवांस्तु तथा यततां यथा विबुधसेवाप्र- शस्तामस्तमितामनस्यामभिवर्धितसौमनस्यामप्रार्थितागतजागरामचलामतुलां च वृत्तिमञ्जसा कल्पयितुं प्रगल्भेत , सौजन्यसागरप्रभवेण प्रत्युपकारनि- रपेक्षवृत्तिना मर्त्यमात्रसुदुर्लभेन पुरोपार्जितसुकृतफलेन सुजनवचनामृत- लाभेन सुचिरं तुष्टः पुष्टश्च भविता" इति । एवंविधैर्गुरुवदननुहिनसानुमत्संभूतैरम्बरसारदम्भःसंभारैरिव सा- रैरतिगम्भीरैरुदारैर्मधुरैविचित्रैरतिपवित्रैर्वचोभिः कुरुकुलकुशेशयाकरभा- नोः सूनोः स्वान्ते नितान्तनिपुणवणिक्प्रवेकविहितवेकटकर्मणा मणावि- व निसर्गनिर्मले निर्मलतरीभवति ' भवत्ययमस्माकं परगतिसाधनानुकूल: कालः' इति विचार्यायनन्द्याचार्यः स्वहृदयगतं हृदयविदां प्राग्रहराय जी- वकस्वामिने सानुनयं समभ्यधत्त । पुनरयमपुनरावृत्तिप्रयाणपिशुनवचन- पविपतनेन पन्नगपतरिव विपन्नस्य जीवककुमारस्य निष्प्रतिक्रियतया बा- पायमाणवदनजुपः प्रेमान्धस्य गन्धोत्कटप्रमुखबन्धुसमाजस्य च सीदतः प्रव्रज्याप्रेरितमतिः प्रसभं व्रजन्पञ्चानन इव पञ्जरपरिभ्रष्टः प्रहृष्टमनास्त- पोवनमवगाह्यापोह्य बाह्येतरपरिग्रहान्स्वविग्रहेऽपि निरस्ताग्रहः समस्तदुरि- तध्वंसनदक्षां जिनदीक्षां भजन्भगवतः पश्चिमतीर्थनायकस्यापश्चिमसौख्य- संपादनशीलं श्रीपादमूलं मूलबलीकृत्य मूलोत्तरभेदप्रभेदविशिष्टचारित्रभृ- ४६ गद्यचिन्तामणौ तकबलपुष्टः कर्माष्टकरिपुराजसमष्टिं समूलकाषं कपन्कर्मारिनिर्मूलनप्रल- यविधानातिशयमिलितपर्जन्यप्रमुखनिर्जरपरिपत्परिकल्पितपरनिर्वृतिमहोत्स- वपुरःसरं सारगुणोत्कर्षपक्षपातिपरमशुक्लध्यानाभिधानध्यानोत्तमप्रदत्तां ल- यपराचीनपरमानन्दवितरणविदग्धामविदग्धमुक्तां मुक्तिश्रियं शिाश्रये । ततश्च तस्मिन्प्रसववेदनानभिज्ञमातरि निरर्थकाव्यक्तवचःश्रवण- चरितार्थश्रोत्रदूरोज्ज्ञितपितरि निमेपोन्मेषनिरपेक्षनेत्रे लोकद्वयहितोपदेशि- मित्रे बहिश्चरापरजीविते गुरौ तपस्योद्यते गते सति जातमपि शोकजात- वेदसं तत्त्वज्ञानजलैर्निर्वाप्य गुणगणगरीयसा कनीयसानन्योपास्यैवयस्यैश्च समं वसुंधरायां सौन्दर्यवीर्याभ्यां मार इव कुमार इव च जीवककुमारे वारयुवतीनां पौरवृद्धानां च हृदि स्वाङ्गारोहणोपलम्भसंभावनाहृष्टानां क- रिरथतुरगप्रष्ठानां पृष्ठेषु च सदा निवसति तदवसरे प्रस्तुतमुच्यते । अथ कदाचिदचलमचरममारूटवति भानुमति विधाय विधेयम- हर्मुखसमुचितमहमहमिकापतदवनिपतिकिरीटरत्नकिरणनीराजितं राज- विजयवर्णनचतुरचारणमुखरितहरितमनिल चलितकदलिकाकलापममलदु - कूलवितानविलसदुपरिभागमुद्गच्छदतुच्छमरीचिनिचयनिचुलितमणिस्तम्भ- मास्थानमण्डपमधिवसन्तं समीपगतवारवामलोचनाचालित चामरमरुदान्दो- लितकुन्तलकलापमुल्लसदाभरणमणिमहःप्रसरकञ्चकितसकलकाष्ठं काष्ठा- ङ्गारं धरणीपतिमकुटतटप्रहारजर्जरितशिखरेण निजाधिकारलक्ष्मीलता- धिरोहणविटपेन वेत्रदण्डेन चण्डिमानमुद्वहन्प्रदर्शितमुखविकारः प्रती- हारः प्रविश्य सप्रश्रयं प्रणम्येदं व्यजिज्ञपत् - "देव, देवभुजपरिघपरि- पालितपर्यन्तेषु कान्तारेषु तरुगतृणचरणरसाकुलं गोकुलमापत्य कुतोऽपि दिगन्तरालादविरलशरासारशकलितगोवपुषः परुषवचसो नाफला बलादा- हृत्य गता इति प्रतीहारस्थाने स्थिताः, प्रोतोद्धृतोभयपाणितलप्रणयिपल्लव - वशदण्डाः कुञ्चिताग्रचरणस्पृष्टमहीपृष्ठा द्विगुणतरदीर्धीकरणतनुतरशरीरा:
द्वितीयो लम्बः । . . . परनिवेदनभयचकितशबरैः शाखासु बद्धकराः प्रलम्बिता इवा नुकम्प्यमानाः प्रम्लानवदनसूचितान्तःशोकप्रारभारा: , प्रजम्भमाणोत्थितस्थूलसिराजा- लजटिलितवपुपः , प्रकामीववृतास्यक्षरलालाजलापदेशेन पीतमपि पयःपूर- ममन्दस्वान्तसंतापादुद्रुमन्त इव जुगुप्स्यमानाः केचन गोदुहः क्रोश- न्ति" इति । तथा शंसत्येव तस्मिन्नश्रुतपूर्वेण श्रवणकटुकतद्वचनेन धरणीपतिः फणिपतिरिव फणामण्डलप्रहारेण प्रज्वलितकोपाग्निः , सत्व- रोन्नमितपूर्वशरीरः, सुदुरोत्क्षिप्तवैकश्यताडितोरःकवाटः, सोष्मस्थूलनिः- श्वासतरलितवक्षःस्थल: संधुक्षयन्निव हृदयगतरोपाशुशुक्षणिम् , अतिमात्र- गात्रभञ्जनत्रुटितोरःस्थलहारविनिर्गलदविरलमुक्ताफल प्रकरण प्रयच्छन्निव समरदेवतायै प्रसूनाञ्जलिम , ललाटघटितभयावहभृकुटिश्वापमिव स्वयं समराय दवत् , तीक्ष्णनिपातेन निरीक्षणपुजिना पुरोऽवस्थितपुलिन्दसंदेहा- दिव प्रहितेन वित्रस्तपरिजनेन परिहृतपुरोभागः, प्रसर्पतः परितः प्रचुररोप- लोहितलाचनरोचिपो मध्यमध्यासीनः क्षीबीदियोचितनिजप्रतापक्षय- मक्षमः सोढुमग्नौ निमग्न इव लक्ष्यमाणः , श्रमजलबिन्दुदन्तुरशरीरयष्टि- रन्तस्तापशमनाय स्नातोत्थित इव भासमानः, क्षणातिपरिचितैरपि वचरैस्तदानीमन्य इवामन्यत । नातिचिराच नर्तितावरपल्लवनिर्यातारुण- किरणव्याजेन प्रजानुरागमित्र प्रदर्शयन् ‘प्रहीयतां तत्र दण्डः ' इति भा- विपरिभवपिशुनाशनिपतनसंदेहदायिना धीरतरेण वरणादिश्य सौविदलं प्राहिणोत् । प्रतिलब्धप्राणेनेव भौतिकम्पितवपुषा प्रस्खलद्वचसा त्वरित- तरमुपसरता दौवारिकेण निवेदितकाष्ठाङ्गारनिदेशैश्चमूपतिभिश्चोदिता च- मूश्चटुलतरचरणन्यासभारेण निबिडोच्छूितनिशितकुन्ताग्रेण परितःप्रस- र्पदसिमुखेन च नमयन्ती भुवमुन्नमयन्ती दिवं विस्तारयन्ती च दिशं प्रतस्थे । प्रस्थाय च प्रसभं प्रयान्ती च वाहिनी गोधनावस्कन्दितस्करां. स्तिरोधायोपसृत्य ग्रहीतुमिव खरतुरगखुरशिखरोत्थितपरागपटलपटेन, पा- - ४ गद्यचिन्तामणौ कृतावगुण्ठनासीत् । निरयासीच्च पुरः पुलिन्देभ्यः प्रकटयितुमिवास्याः कापटिकवृत्तिं निर्जितपर्जन्यगर्जितगाम्भीर्यः कलकलध्वनिः । तदुपदे- शवशविदितवृत्तान्तस्य शबरसैन्यस्य संनाहः संभविष्यतीत्याशङ्कया शु- भेतरपिशुनशकुनसमुदीरितभाविपरिभवभीत्या च वरूथिनी रथकड्यावल- नवशजनितचीत्काररवेण करिकरटतटनियन्मदधारापिहितस्थलिका प्र- तिकूलवातकम्पितध्वजभुजलताताडितकेतुयप्टिवक्षःस्थलप्रदेशा भृशमिवा- रोदीत् । ततः क्षणादेवाभ्येत्य काष्टाङ्गारचमूः काकपतिः शृगालमिव स्वीकृतामिषमपहृतगोधनं व्यावसाथै रुरोध । तदवलोकनजातक्रुधश्चमर- वालरोमरचितरज्जद्धाथितकेशपाशा: केकिपिञ्छारचितमुण्डमाला व्याघ्र- चर्मनिर्मिता|रुका वराटिकाभरणभूषितवपुपः परिगृहीतपादुकाः समारो- पितकार्मुकाः पुरस्कृताभ्यर्थाितचण्डिकाः कण्ठदन्नपीतमधुमदलालसाः शबरीजनप्रयुक्ताशिषः प्राप्तानुगुणनिमित्तप्रशंसिनः प्रकामव्यात्तास्यभीष- णभाषणस्वनस्त्यानडिण्डिमशृङ्गरवप्रकटितप्रस्थानाः काष्टाङ्गारबलमपरका ष्ठागतदिनकरमिव तिमिरनिकरा: प्रतिगृह्य शिततरभल्लैः फुलैरिव पुलि- न्दाः समरदेवतामाराधयितुमारेभिरे । अथ सुभटनटनाटयिनव्यरणनाट्यरङ्गपटहपटुतररटितसदृक्षपक्ष द्वयतुमुलसमाहूतविलोकनकौतूहलिनि निर्दयाकृष्टिप्रभववेपथुसहनाक्षमध नुराक्रन्दितानुकारिभीषणज्याघोषणश्रवणमात्रत्रस्तमृगयूथसब्रह्मचारिंभटब्रु- वमृग्यमाणप्रयाणाध्वनि ज्याकर्षणबलभावितश्रवणमूलाभ्यागमसंपादितस- देशहरसंदेहहृदयभेदनचतुरशरनिवहविहितगमागमे मुषितजीवितसायक- गवेषणमनीषाच्छलानुपतत्पदातिप्रचयप्रच्छादिताहवभुवि प्राक्तनहननसं- धाभिपतदुपरतकरंधृतकरवालदारितप्रत्यर्थिनि परुषतररोषदष्टोष्ठप्रेतमुखरौ- क्ष्यवीक्षणभयापक्रामत्क्रव्यादिपर्यायप्रवृत्तोभयबलविजयघोषहर्षितप्रहर्तृके करिघटापाटनस्फुटितमुक्ताफलतुलितास्तोकश्रमजलकलितहस्तवति भूरि- द्वितीयो लम्बः । ४९ तिरीफलघृतयथावस्थितवाजिनि शिलीमुखविद्धमुखविनियंदविरलरुधिरधा- रापुनरुक्तसिन्दूरितद्विरदवपुषि निहतनियन्तृकतुरगोपनीतरथहरणलोलुप- प्रतिबलकलकलरवमनोहारिणि काकपेयशोणितापगाप्रवाहप्रशमितरणर- जसि परिभवनिग्सनपरसमरदैवताभिमुखप्रतिशयितदेशीयशरशयनशायि- योधके युद्ध केशाकेशितया प्रसजति तद्दशायाम् ' स्वदेशगतः शशः कु- ञ्जरातिशायी ' इति किंवदन्ती यथार्थी कर्तुमिच्छया वा तुच्छेतरजीव- ककुमारपराक्रमविषयस्य भावितया चा नाफलबलनिष्ठुरहुंकारभीतः का- ष्ठाङ्गारवाहिनीनिवहस्तिमिरपरिभूतः पश्चिमदिगङ्गनासंगतपतङ्ग इव प्र- तापपरामखः प्रतिसंहृतकरव्यापृतिरपसर्तुमारभत । अथ गोधनेन समं यशोधनमपि व्याधेभ्यो विधाय निष्क्रयं नि- जनारीनयनाभिरामं तिरीफलमूरीकृत्य प्रतिनिवृत्य यथेष्टं काष्टाङ्गारचमूई- ढतरकरमुष्टिव्याजेन वनचरभीत्या प्रयाणाभिमुखान्प्राणानिव पाणौ कुर्व- ती प्रविधूतमानभरतया लब्बलङ्घनलाघवेव सत्वरं धावन्ती तपस्येव कु- पथगामिनी सामप्रयुक्तिरिख शटजनगोचरा परिश्रममात्रफला सती स्व- गृहानतिसंभृतमाससाद । प्रससार च राजपुर्या राजबलचापल्याविषयः संलापः । ततः · शबरप्रार्थितं पार्थिवबलमात्रातव्याघ्रगन्धमिव गोकु- लममन्दावर्तमन्थेन दधीव मध्यमानं शिथिलीबभूव ' इत्यभिषङ्गविधुरैरा- भीरैरुदीरितमाकर्ण्य घोषवर्तिनि च महाघोपपरिपूरितहरिति वेपथुभ- रविह्वलकरतलताडितवक्षसि तारदारुणरोदनकर्शितानुधावत्तुकि वात्स- ल्याश्लिष्टवत्समुखाकृष्यमाणनिजकुचनिशामनपुनरुक्तशुच्यूधस्योत्सुकवत्स - गलविगलदर्धग्रस्तस्वनश्रवणासहिष्णुतापिहितश्रवास विवेकविकलबालोप- लालनक्लेशताम्यददम्यदशाप्रेक्षणाक्षमताप्रच्छादितचक्षुषि मातृविरहविधू- र्णमानतर्णकप्रेमप्राग्भारप्रस्नवितनिभमथितदधिबिन्दुदन्तुरपयोधरे पारव- श्यविलोठितस्थालीमुखनिर्यदूधस्योदश्विदाज्यदधिपङ्किलस्थलपरिस्खलत्पदे ५० गद्यचिन्तामणौ हृदयपरिस्फुरत्परितापविस्फूर्जितप्रशमनाभिप्रायप्रयुक्तमुक्तासंदेहदायिबाष्प- बिन्दुसंदोहसंकलितवक्षसि शोकधूमध्वजधूमदेशीयशिथिलितोद्गतशिरोरु- हशिरसि धूलीधूसरितवाससि कारुण्यावहवचसि प्रार्थ्यमानगभस्तिमालिनि प्रणम्यमानगृहदैवते पृच्छ्यमानदैवज्ञजने गोधनाजीविनि गोकुलापायेन पर्याकुलीभवति गोपालयुवतिजने, घोषवृद्धेष्वपि कर्तव्यमुग्धेषु महारा- जसत्यवरस्य स्मरत्सु — पुरा खलु पुरस्क्रियाझैपायनपरिवर्हपुरःसरोपस्थि- तमुखप्रसादार्थिपार्थिवमकुटचूडामणिमरीचिवारिधारोन्मार्जितचरणराजीवर- जसि राजनि राजति राजन्वती वसुधेयमकुतोभया वर्तेत । तस्मिन्नस्मा- कं गर्भभरवहनक्लेशानभिज्ञमातार जन्महेतुतामात्ररहितपितरि प्रतिषिद्ध- सिद्धमातृकोपदेशक्लेशगुरौ लोकद्वयहितनिवर्तननियतबन्धौ विद्रावितनि- द्रोपद्रवनेत्रे शरीरान्तरसंचारिजीवित उदन्वदजातपारिजाते चिन्तान- पेक्षितचिन्तामणौ विदितास्मत्कुल क्रमागतौ भक्तावबोधिनि भृत्यजनप्रिये व्रजप्रजारक्षणदीक्षित शिक्षाप्रयोजनदण्डविधौ दण्डितारातिमण्डले मण्ड- लेश्वरे विनश्वरविषयाभिलाषविपवेगादीवदर्शिनि दीर्घनिद्रामुपेयुपि पु- नरप्यसुभिरवियुक्तैरस्माभिः किमेतावदनुभवनीयम् ' इत्यादिक्षीणेष्वाच- क्षाणेषु , शाकुनिके च प्रवयसि जने वदति ‘वायसोऽयं सुस्वरः शबरा- वस्कन्दितमधुनैवास्मदधीनं भविता गोकुलमिति निराकुलमाचष्टे । मा भैष्ट यूयम् ' इति कष्टां दशामासेदुपः कारुणिकदुरुत्सहालापान्गोपाना- पदो गोपायिता गोपालग्रामणीनन्दगोपो नाम नन्दितकोविदः संताप- मयकायः कोऽयमिह गोधनप्रत्यानयनकर्मण्युपायः । प्रायेण प्राणभृतां भा- गधेयविधेये सत्यप्यशुभोदये सहायतां तत्र प्रतिपद्यत एव प्रयत्नोऽपि । तस्मिन्नपि दुष्कृतबलेन फलेन बहिष्कृते प्राप्तेऽनुद्वेग आत्मवताम् ' इत्य- मोघमतर्कयत् । अताडयच्च कटके 'विजित्य विपिनचरान्गोधनमस्म- भ्यं प्रतिपादयितुं प्रभवते कृतहस्ताय दीयेत मे कल्याणिनी कन्या क- द्वितीयो लम्बः । ११43 ५१ ल्याणमयसप्तपुत्रिकाभिः साकम् ' इति गोसंख्यप्रकाण्डो डिण्डिमम् । ततस्तथाविधमेतमुदन्तमुपश्रुत्य ' शबरविजये कः शक्तः शस्त्रोपजीवि- पु । किमस्ति मस्तकमणिं फणिपतेरपहर्तुं समर्थो जनः । को नाम पञ्चजनः पञ्चाननस्य वदनादामिपमानुमभिलपति । अस्ति चेदमुष्मि- कर्मण्यटकर्मीणः कामं लभेत कन्यामन्यच्च' इत्यब्रुवन्भटब्रुवाः । ' हा कष्टम् । निकृष्टमिदं गार्हस्थ्यं कृत्यम् । तथाहि ---दारियादपि धना- जने तस्मादपि तद्रक्षगे ततोऽपि तत्परिक्षये परिक्लेशः सहस्रगुणः प्राणिनाम् । ततो हि मुधियः संसारभुपेक्षन्ते' इत्यनुप्रेक्षामातेनुरात्मवि- दः । पराजितराजन्यसैन्यं वन्यं जनमन्यः को भवदभिभवितुम् । अ- भियुक्तो नास्तीति वा निर्णेनुं कथं पार्यते । विस्तीर्णेयमर्णवनेभिः । अ- म्तोकशक्तिरस्तु वा यः कश्चन हस्तवतःमग्रेसरः । पाटितानेकभटां करि- वटा हरिरेक एव किं न विघटयति ' इति विचारचतुरमाचचक्षिरे वि- चक्षणाः । जीवकस्वामी तु स्वामित्वेन वा भुवनस्य स्वभावत्वेन स्वकलत्र- मिवामित्राचीनं गोधन मेने । वितेने च संगरम् ' न चेदहमशरणानां शरण्योऽस्मि स्वामिद्रोहियां धारयोऽम्मि' इति । आसीचास्य योगपद्येन श्रवासि तदुदन्तश्रुतिर्मन मि रोगाग्निचमि डिण्डिभनिरोधो ललाटे भृकु- टिश्चक्षुगोस्लाम्रता वपुपि स्वेदविन्दुः सारथौ कटाक्षपातश्चरणयोः प्रयाण- तूर्तिर्धनुषि निपङ्गेऽपि करयुगं चेति । प्रतस्थे च सायंचरिर्जान्यनुगुणगुणक- ण्टोक्तराजकण्ठीरवभावः सदा संगतैरमंकटखेदिभिरवस्थावदिभिरनारोपि- तवैयात्यैराफलोदयकृत्यैरतिदूरप्रेक्षिभिरपथोपेक्षिभिरखिलगुणसनाथैरात्मीय- मनोरथैरिव वयस्यैरमा रथमारुह्य पल्लिमभि प्रतिमलजिगीषया । ततश्च तस्मिन्पवनेनेव पवनसखे सखिजनवृन्देन भूभृन्नन्दने विपिनेचरविपिन- दिधक्षया तीक्ष्णतेजसि प्रस्थाय तरसा प्रयाति, भाविविजयविवरणचतु- गद्यचिन्तामणी , रेण सहचरेण समीरेण समर्पितरंहसीव रथे मनोरथादपि जविनि व्रजति, तथाविधरयधावत्स्यन्दनचक्रस्य वक्राभिवातेन भूभृतां चक्रे शक्रातिशा- यिशक्तिप्राग्भारकुमारनिरीक्षणभीत्येव प्रसभं प्रकम्पमाने , प्रह्वीभावविमु- खघु शाखिषु शत्रुष्विव सद्यः समुद्धृतेषु, समुत्पाटितविटपिविलोकनभ- यचकितचेतसि चलितशिरसि प्रसूनापीडं सनीडभवदितरभृरुहनिकरे वितीर्य किसलयाञ्जलिबन्धेन प्रकामं प्रणमतीव प्रेक्ष्यमाणे, क्षीणप्राय- प्राणानां निषादानां विषादं वितन्वदशुभचिह्नमह्नाय मुहुर्मुहुराविरभूत् । प्रादुरभूच्च भूरितरवलीवितानां पल्लीमभ्येत्य पल्लवितंतजाः पर्याकलितपा- कसत्त्वः सत्वरसारथिचोदितरथधुर्यतुरगप्रष्टः काष्टाङ्गारबलाविक्षेपक्षीबा- णां क्षेपीयः प्रतिसरतां वनौकसां पुरः खमणिरित्र वीरचूडामणिः कुमारः। पुनरकरोच्च तेषामयमधिज्यधन्वा श्रवसि ज्याघोपमुरसि शरासारं मनस्या- वेगं चक्षुषि वेगविक्रमविजितालातचक्रेडयां स्थकडयां च । एवमस्मिन्बी- रदिनकरे व्यापारितकरे युगपदेव व्योमव्यापिभिर्वलक्षीकृतदिङ्मुखैः शिलीमुखैमयूखैरिव खण्डितैरन्धकारपिण्डैरिव गोधनलुण्टाकानां शिरोभि- रधोऽवतीर्णैरास्तीर्णायामरण्यभुवि , बालातपौध इव कूलंकपे प्रवहति शोणितसरित्प्रवाहे, तमःस्तोम इव निहतध्वस्तावशिष्टे पापिष्ठजन निजशौर्यधनेन गोधनमुत्सृज्य गिरिगह्वरमाश्रिते , विश्रुतवीरः कुमारोऽपि 'मारितैः किमतैर्मुधा कार्ये सिद्धे सति । कामं यान्तु काका इव वराकाः ' इति विचार्य निजशौर्यानुकूलं पलायमानविपिनेचरविशसना- द्विगतसंरम्भ आसीत् । पुनरशरणशरण्योऽयमरण्यान्याः प्रतिनिवृत्य प्रतिलब्धजीवितानां गोधनाजीविनामुच्चावचां प्रीतिवाचमुपशृण्वन् , वि- दारितद्विरदनखरायुधनखरादात्तैरवशिष्टासुप्रणायशबरदत्तैर्मुक्ताप्रकरैरिव र- णलक्ष्मीसंभोगसंभवामन्दस्वेदबिन्दुभिरलंकृतवक्षःस्थलः, मरुदान्दोलितक- केलिकोमलप्रवालैर्विपिनदाहिविपिनेचरजीवितहरणतृप्तवनलक्ष्मीवितीर्णे : ..
द्वितीयो लम्बः ५३ , प्रकीर्णकैरिव वीज्यमानः, खरतररथतुरगग्खुरपुटखननसमुद्भवदविरलधव- लधूलीमण्डलेन चण्डांशोरंशुमभिभावुकेन भाविपतिवत्सलधात्रीसमर्पितध- वलातपत्रेणेव समेतः, प्रथमतरोदयमरम्भसाफल्यपल्लवितरागैरनारतमज- हद्वृत्तिभिरंौरिव मित्रैभित्र इवांशुभि पितदोषास्पदराजदीप्तिः, निष्प्रत्यू- हसमीहितमिद्धेग्ध्वानमन्तरामबहुलं लङ्घयन्नप्यविदितपरिश्रमः , क्रमेण पराक्रमकराकृष्टयाभ्युद्गन्छता पुरौकमामतुच्छरभसाङ्घिसंघट्टकैः काश्यपी- पृष्ठं काष्टाङ्गारं च कम्पयन्कटकनिकटमाटीकते स्म । पुनः पराक्रमपुन- रुक्तप्रेक्षणीय पुगभ्यन्तरमाश्रयन्तं वीरश्रियाभिनवपरमादरादालोकयितुमा- गतम् , आगमनपारवश्येन सस्तकेशहस्तविन्यस्तवामहस्तम् , हस्ताङ्गु- लिनग्वमयुग्वपुनरुदीरितचिकुर पल्लवापीडम् , शिथिलितनीवीप्रदेशनिहि- तापरपाणिपल्लवं पल्लवितरागादागतं कामिजनहृदयमिव करेण गृह्णत् , ईपदवगलितकुचांशुकं कुचकुम्भकुम्भिनो रतिरणसंरम्भाय विघटयदिव मुखपटम् , विद्रावितविद्रुमन्छविना दन्तन्छदरागेण हृदयान्तर्गतरागप्रा- ग्भारमिव प्रदर्शयत् , धवलितपुरोभागं सौभाग्यचन्द्रचन्द्रिकोदयमिव मन्दहसितममन्दादरादाचारलाजनिकरमिव विकिरत् , समारोपितचारुत- रभ्रूलताचापं लक्ष्यभेददक्षतीक्ष्णकटाक्षशरमोक्षचतुरमबलारूपमनङ्गबल- मसंख्यं प्रतिप्रदेशं प्रन्यदृश्यत । तदपि दर्शनप्रसादेन परितोषयन्नुलोक- हर्षलोकलोचनमनोभिरनुगम्यमानः परार्थ्यजन्मायं परिकल्पितानल्पमङ्गला- हपरिबर्हविराजितं निजभवनमासाद्य सद्यःसमुपसृतपद्ममुखप्रमुखदत्तपाणिः पाणौ कुर्वन्निव प्रभावश्रियं शिलोच्चयादिव केसरिकिशोरः स्यन्दनादवरु- रोह । प्रणनाम च सविनयं पितरं मातरं च प्रेमसंभारेण । संभावयामास संमुखमागतं गाढालिङ्गितेन प्रौढवचसा मुग्धहसितेन स्निग्धनिरीक्षणेन शिर:कम्पनेन करप्रसारण च यथाप्रधानं प्रथमानहृदयबन्धं बन्धुवर्गम् । पुनर्निसर्गचतुरप्रणामाञ्जलिं पुरःपुजित नियुञ्जानः स्यन्दनयुग्यांश्च विश्र- गद्यचिन्तामणी माय प्रश्रयशालि परिजनं विशन्वेश्मोदरमादरकातर्यादुदश्रुमख्या प्रस्नत्रि- न्या जनन्या निवर्तितनीराजनविधिरारुरोह हृच्छल्यविधानेन विद्विषां प्रे- मबन्धेन बन्धूनां लावण्यातिशयेन पण्यनारीणां गुणगरिम्णा गुणलुब्धा- नां हृदयं सविलासनिवासेनासनस्य मध्यं च । अथ प्रथितयशसा तेजसां निधिना पुत्रेण पवित्रतपसां योग्यादहं कुतो भाग्यात्पुत्रवानस्मीति विस्मयस्नेहमुखरे पितार, वितर्कयति कथमुदर्कः स्यान्निसर्गवीरकुमारवीर्यस्येति विचारनिष्टे काष्टाङ्गारे , प्रतिदिशं प्रतिदेश प्रत्यगारं च कुरुकुलशिखामणेः कुवलयकुटीरसंकटनिवासनिबिडिताभो- गां भोगावलीमुपलालयति बाले जरति यूनि च जने , रामभद्रमिव भ्रात्रा प्रलयसमयभिव मित्रमण्डलेन महीध्रमिव वंशजातेन चन्द्रमसमिव सद्भिः सकलगुणनिकरपरिपूरितैर्वयस्यैः परिवृतं कुमारमभिवन्द्य नन्दगोपः स्व- संतानस्य पुरातनतां राजकुलकुलभृत्यतां च पुरातनपण्मुखमुखविशिष्टा- नामविशिष्टजातिजाताङ्गनासंगमसंकथां च कथयन् ‘भवद्विहितनिर्हेतुकोप- कारस्य प्रत्युपकारमपश्यता मया दिश्यमानां परिणयतु मे कन्याम् । न मन्येतान्यत्' इति सदैन्यमयाचत । स च कुरुवंशनभोंशुमाली नीचकु- लललनासंपर्कमविवेकिवर्गसुलभमाकलयन् — अलमत्यर्थमर्थितया । माम, यथाभिमतम् ' इति स्वमतानुरूपमुदीरयामास । स च तावता तुष्टो गो- पप्रष्ठस्तद्वचनमाकर्ण्य सुखार्णवे निमजस्तर्णककुलचर्विताग्रदूर्वागुच्छशब- लितोपशल्यं निःशल्यः प्रविश्य गृहं गृहिण्या अप्यनया वार्तया प्रवर्त- यञ्श्रवणोत्सवं दुहितृकल्याणमहोत्सवे महान्तमकुरुत संरम्भम् । अथ प्रथमानवीर्यधनकुमारसंबन्धेन गोधनोपलम्भादपि शंभरसंभ्रमोसंख्यानां मुख्यस्य गुणैः प्रवृद्धे द्विगुणितीत्सुक्यजनविहितविवाहोत्सवकर्मणि प- छवितरागवल्लुवरामाकरपल्लवसर्पकपुनरुक्तरागरक्तमृदुपलिप्तभित्तौ रम्भा- स्तम्भशुम्भितद्वार समदविघटितघटघटाप्रबहदूधस्याज्यदधिकर्दीमतभुवि द्वितीयो लम्बः । ५५ हरितगोमयोपलिप्तस्थलनिष्पादितदम्यशष्पाङ्कस्तृषि कोलाहलक्षुभितवत्स- वात्सल्याकुल कुण्डोमाकुण्डलितविषाणकोटिविघटितजनविमर्दै गोसंख्यमु- ख्यावासे स्नातानुलिप्तामलंकृतविस्मितामालोक्य विस्मयस्मरमुखाभिर्बलुबब- लभाभिः अस्या वलभ एनां केन मुकृतेन क्षारमधुरामपनीतनवनीतमार्दवा- डम्बरां तदान्वद्रुतसर्पिःसंकाशकायकान्ति मुकुलितयूथिकामुकुलधर्वालम- सौकमार्यदन्तपङ्क्षि निर्वासितवायसकालिमकचपल्लवामुद्भिद्यमानवृषककु- दरेपहासिकुचयुगलामनुभोक्तु लब्धवान् ' इति व्यक्तमुपलाल्यमानां गोदा- वरीदुहितरं गोविन्दामानीय नन्दगोपः कुमारकरकमले वारि समावर्जयत् । कुमारोऽपि 'अमुं मामेव गात्रमात्रभिन्नं मन्यस्त्र' इति वदन् ‘पद्ममुखाय' इति पयोधारां पर्यग्रहीत् । पद्ममुग्वस्तदनु गोविन्दा प्रदक्षिणभ्रमणपिशुनि- तशुभोदार्चिषः सप्तार्चिपः संनिधौ तदीयपाणिपल्लवस्पर्शपल्लवितरागस्तां पर्यणैषीत् ।। इति श्रीमद्वादीभसिंह मृरिविचित गर्याचन्तामगी गोविन्दालम्भी नाम द्वितीयो लम्बः ।
५६ ६ गद्यचिन्तामणी तृ ती यो लम्ब:। . अथ परिस्फुरत्पङ्केहभङ्गिभासुरमुग्वे पद्ममुग्वे पवनसखसाक्षिक सानन्देन नन्दगोपेन दत्तामिन्दुमुखीं गोविन्दा परिणीय निजावर्जननैपु- णपरिहृतपङ्कजशशाङ्कपरस्परविरोध पुनरावृत्तिशङ्कयेव तया सह सदा सं- गते रममाणे गोविन्दारगणे, वीरश्रीजीवितेश्वरे जीवककुमारऽप्यनुदिनम् 'अनु जीवककुमारं वीर्यवन्तः शौर्यशालिनो मान्या वदान्या: प्रातरूपा अभिरूपाश्च' इति गुणलुब्धैरभिष्ट्रयमानगुणगशौ राजति , राजपुरीवा- स्तव्यः समस्तगुणशेवधिरनवाधिकश्री: श्रीदत्तो नाम वैश्योत्तमो वित्तोप- चये व्यासक्तमतिरेवं व्यचीचरत् - 'अस्मपितृपितामहादिभिर्जितमस्तो- कमस्ति चेदपि वस्तु स्वहस्तार्जितमिवोन्नतचित्तस्य न चित्तप्रसादमावह- ति । आवहतु वा । कथं तदायरहितं धनमव्ययं स्यात् । शश्वदुपभोगे गिरिरपि नश्यतीति जनवादश्रुतेः । वीतवित्ततायाश्च किमपरमरुन्तुदम् । असुभृतां हि दारिद्र्यमसुभिर्युक्तं मरणमशस्त्रसंपाद्यं हृच्छल्यमनात्मप्रशं- सनं हास्यतानिदानमनाचारपरिक्षय उपेक्षाहेतुरापत्तोद्रकजमुन्मादान्ध्यम- क्षपास्फुरणममित्रतानिमित्तम् । किमपरमुदीर्यते । रिक्तस्य न वचो जीव- ति , नाभिजात्यं जागर्ति, न पौरुषं परिस्फुरति , न विद्या विद्योतते. न शीलमुन्मीलति , न शेमुषी समुन्मिषति , न धार्मिकता संभाव्यते, नाभिरूप्यं निरूप्यते , न प्रश्रयः प्रशस्यते , न कारुण्यं गण्यते, पाकः पलायते , विवेको विनश्यति , किमन्यन्न भ्रश्यति । धनोपचये तु लो- कद्वयोचितपुरुषार्थोऽप्यप्रार्थित एव स्वयमायाति । ततो यतितव्यं वित्ताय' इति विचारानन्तरमखिलान्तरायध्वंसनकृते कृतजिनसपर्याविधिर्विहितवि- तृतीयो लम्बः । ५७ - विधपात्रदानो यानपात्रमारुह्य रत्नाकरमगाहिष्ट, न्यवर्तिष्ट च निखिलद्वी- पोपचितनि.सीमव मुराशिः, अशिश्रियच्च पारावारस्यावारपर्यन्तम् । अत्रान्तरे नितान्त जवनपवनपथप्रापितपयोधिपयःमभारस्थलाव- शेपितरनाकरग्ननिकरम्तारकितमिव तागपथमधः प्रकटयन्स्फाटिकदण्डा- काग्नीग्धारावलिधागसंपातः समाविरासीत् । पुनरुपर्युपरि प्रचुरतरीभ- बदामाग्ण स्फाररयेण समारेण समुल्लासितमलिटनिधिकल्लोलकरास्फा- लमवलदलितदिन कृतीव तिमिरनिचये सूचीमुग्ननिर्भेये सति , मन्देतर- परिभ्रमणमन्दरमन्थमयनेनेव चूर्णमाने मृशमर्णवार्णमि , प्रपञ्चतरीभव- प्रभजनभञ्जनजनितजलनिधिकलोलनूतनशोणितकणपुन इव रजित- सनीडे पाटलविद्रुमलतापटले प्लवमाने , चटुलाचलपाटनपाटवस्फुटित- पाधिस्फीतास्थिसंघ इवासंन्यशङ्खनिवहे प्रकति , विशृङ्खलतोयाशयशो- कफूकार इव श्रूयमाणे भाकरलहरीप्रहारग्वे , निर्वणसमीरणपीडितनी- रधिरोपकृपीटयोनाविव वाडवानले परिस्फुरति , स्फीतबलान्धगन्धवह- प्रतिग्रहणप्रवण इव जवनजलनिविजलवणीग्रयाणे प्रेक्ष्यमाणे , प्रतिस- रत्सदिलवेणीवटसमीपसंचारिण चामरवितान इव बहलधवलफेनजाले प्रचन्दति , तुन्छेनापयोगइयावर्तगर्ने पयोदबून्द इव पयःपूर्णे घूर्णमाने यानपात्रे , कर्णवारबदनालानिकण्टोक्तपातविनाशविनिश्चयेन निश्चेतन- गात्रान्यानपात्रप्रजमनान्प्रागेव प्राप्तशोकमागरान्नाविकानालोक्यायमीती जिनशासने स्वयमपगताविरपास्तसकलमङ्गश्च भवन्सांयात्रिकः श्रीदत्तो दत्तहस्तावलम्बन: किं बत , बालिशा इव भवन्तः क्लिश्यन्ते । किं वा, क्लिश्यमानान्न दैवतं क्लिश्नाति । न वा क्लिश्नातु तथाप्यापदागामिनीति मनमिकृत्य शोकाशीभवञ्जनः स्वयमेवात्मानमास्तां भवान्तरे तदात्व एव विपदा घटयति । सर्वेकपविपादादविषह्या विपदपरा का भवेत् । अतो न विापादः कार्यः । किंतु धैर्यमविलम्बितमवलम्ब्यताम् । धृतिमन्तो हि गद्यचिन्तामणी निजोपान्तगतां पीडामेव पीडयन्तः परपीडामपि विभजेरन्' इति कारु- ण्यावर्जितमतिरभिदधे । तिरोदधे च तरणिः । संनिदधे च कोऽपि कूप- खण्डः । ततश्चायमतर्कितागतिं तमधिरुह्य कमपि कमनीयोद्देशं द्वीपम- विशत् । तत्र क्वचिदुपसागरं सिकतिले तले निषण्णः किंचिदिव विष- ण्णोऽयं पातवणिग्वरः 'संसारासारभावोऽयमहो साक्षात्कृतोऽधुना । यस्मादन्यदुपक्रान्तमन्यदापतितं पुनः ।। इति भावयन्पाकविघटितशुक्तिपुटमुक्तमुक्ताप्रकरं धारासंपातपतितक- रकनिकरमिव कलयंश्चलतरङ्गतरङ्गिणीपतितरङ्गपरम्पराविलुटदकठोरक- र्कटकावलोकनसकौतुकं कादम्बकदम्बकमप्यालोकयन्कांचन कालकलां गमयांबभूव । बभूव च तत्र परत्रेत्र गच्छन्नतुच्छतेजा मनुजः कोऽपि वणिजस्तस्य नयनगोचरः। तदवलोकनेन जातसंप्रीतिः प्रसभमनुधाव- न्नुदधिवृत्तान्तमस्मै सविस्मयमुवाच । स च प्रत्युवाचैनमेतदीयदीनतावी- क्षणप्रविम्भितकारुण्य इत्र 'वैश्यवरेण्यस्त्वमशरण्यः कथमरण्यानीमधि- वसेः । दिवसमात्रमस्मद्गृहे गृहाणासिकां न चेदसि परामुखः । परमतः पश्यामः कार्यम् ' इति । अर्यश्रेष्टोऽपि तथेति हृष्टस्तनिर्दिष्टं क्रमेलक- मधिरुह्य सहसा विहायसा ययौ । तावता च पुरः समीरणसंचार्यमाणगग- नधुनीफेनसंचयेनेव कञ्चुकितं विशदशारदवारिदव्यूहेनेव सनाहितं नभ- श्वरतरुणीकुचाभोगच्युतक्षौमोत्तरीयनिचयेनेव निचुलितमाकालिकनुपार. बारिशीकरक्षोदवणेव बलक्षितमन्तरिक्षमलक्षयत् । तत्प्रेक्षणेन वैश्यप्रती- क्ष्योऽयं कौतुकाक्षिप्तचेताः 'न चायं क्षीरवारांनिधि ललहरीशिखरवि. हारिडिण्डीरपिण्डः । न हि तत्र नरैर्गन्तुं पार्यते । न चेदमुदयारम्भसंभ- वदुदंशोः शिशिरांशोरच्छांशुभिर्विच्छुरितहरिन्मुखम् । न हि कौबेरककुभि तृतीयो लम्बः । -- " अयि भोः, श्रूयताम् । कुमुदबन्धोरुदयानुबन्धः । न च विकचविचकिलफुल्लालसद्वनवल्लरीप्रता- नसवितानं गगनम् । न हि तस्यैवमुच्चैस्तलोपलम्भः संभवति । किमि- दम् ' इति चिन्तया किंचिदन्तरमतिक्रामन्पुण्डरीकषण्डमिव पुञ्जीभूतं शीतगभस्तिमालिगभस्तिप्रतानमित्र स्त्यानमपास्तसमस्ततमःस्तोमं प्रशस्त- विविधविद्यापारगपरमपुरुषपरिषत्पक्षीकृतमक्षयानन्ददानदक्षमतिशुक्लशुक्ल . ध्यानमिव बहिः पिण्डीभूतं पाण्डुरितवनराजिं राजतगिरिमैक्षिष्ट, अभ्यम- नायिष्ट च परमश्रुतप्रतिपादितं यथाश्रुतं तमुत्पश्यन्वैश्यपतिः , अप्राक्षीच प्रीतिविस्फारितेक्षणः सहचर खचरम् खेचरगोचरऽस्मिन्विजयार्धगिरौ किमर्थमस्मदागमनम् ' इति । स किंचिदिव स्थित्वा प्रत्यवोचत्- इह विश्रुतायां विद्याधरधरायां विविधवृत्तिदानदक्षदक्षिणश्रेण्यां श्रेणीभूत- पुरग्रामकान्ते गान्धारविषये योपाजनभूपालोकतिरस्कृतदिनकृदुदयालोको नित्यालोक इत्याख्यया विख्यातः कोऽपि विराजते स्कन्धावारः । तस्य प- तिर्गगनेचरकिरीटाधिरूढशासनो गरुडवेगो नाम । तस्य च महिषी स- कलगुणमनोहारिणी धारिणी नाम । तयोः सुता देहकान्तिव्यामोहित- चित्तभूचित्ता गन्धर्वदत्ता । तम्या जन्ममुहूर्त एव मौहूर्तिकाः 'कन्येयं मे- दिन्यामनन्यसाधारणवीणावादननैपुण्यादेनामतिशयानस्य कस्यचित्कुमार- स्य राजपुर्यां भार्या भविष्यति' इति व्याहार्पः । अथ सा कल्याणी क- दाचन पञ्चकल्याणोपवासपारणादिवसे परिवारण सार्धं विजयार्धभूभृतः किरीटायमानं सिद्धकूटजिनचैत्यसदनं सपर्याविधानपुरःसरमधिकभक्तिर- भिप्रणम्य समागत्य चतुर्गतिभ्रमणप्रशमनभेषजं जिनाङ्ग्रिपङ्केरुहस्पर्शनेन पावनं प्रसून सविनयं पित्रे समर्पयामास । राजापि सप्रश्रयं प्रतिगृह्य तां शेषामशेषदोषक्षयायति शिरसा वहन्संप्राप्तयौवनसाम्राज्यामिमां निर्वर्ण्य जातनिर्वेदो निवर्तयश्चक्षुष्यमपि जनं महिष्या सममेकान्ते चिन्तयामास ६० गद्यचिन्तामणी 'आसीदियं तरुणी तारुण्यानेडितलावण्या । भवन्ति चास्याः पश्यन्तः पयोधरोन्नतिं पार्थिवजाताश्चातका इव जातास्थाः । इदं हि संसारिणां सांसारिकप्रसूतिजातेष्वरुन्तुदं दुर्जात यदात्मसंभवानामात्माभि- वर्धितानां च कन्यानामन्येन केनाप्यदृष्टपूर्वेण घटनं तस्मादप्यनुरूपवरा- न्वेषणं ततोऽपि सुखासिकाचिन्तनम्' इति । चिन्तानन्तरममात्यान्तरं नाम्ना धरमाहूय माम् 'अस्माकमस्ति मित्रं धात्रीतलराजिनि राजपुर कोऽप्यूरव्यपतिः । एनमधुनैवानय' इत्यभ्यधत्त । अहमपि कार्यपारत- त्र्यादार्य प्रतार्यवमानीतवानस्मि " इति । अथ यथावदवगतपोतोपद्रवविरहेण विश्रुतवान्धववियचराधीश- सकाशसंगमलाभेन च सांयात्रिकः संमदपरवशो धरेण साकमुपसरन्दरादेव बधिरितश्रवसा तुमुलरवेण सरभसमागच्छेत्यात्मानमिवाह्वयन्तम् , समन्ता- दुद्गच्छदतुच्छरत्नांशुप्रांशुतरगोपुरपक्षोपलक्षितमन्तरिक्षावसाननिरीक्षणको - तुकादुड्डयितुमिवेच्छन्तम् , अलङ्घनीयसालशृङ्खलावलयेन विशृङ्खलगति- निरोधाय निगलितायमानम् , सदातनसलिलभरभारतपरिखाचक्रालवा- लपयःपरिवर्धितमूलतया स्वयमुत्पादितैरिव सकलर्तुकुसुमफलैः समृ. द्धम् , समृद्धिमयसौधशिखरपिनद्भपताकाग्रपाणिपल्वेन शशाङ्कमपि क- लङ्करहितं संपादयितुमिव संमार्जन्तम् , क्वचिद्भिद्यमानपद्मरागमणिम- हःस्तबकितवियदन्तरालराकालिकबालातपरेखामारचयन्तम् क्वचित्को- कमिथुनविरहवितरणनिपुणकिरणापीडगारुडरत्नराशिशङ्कितशर्वरीसमागम- संरम्भम् , क्वचिज्जालकितगभस्तिजालस्थगितदिङमण्डलैराखण्डलनीलो- पलघटिततलैरकाण्डप्रसारितभोजनशालास्थलकदलीपलाशसंशीतिसंपादि- नम् , सर्वतश्च सविभ्रमं विहरन्तीनां विद्युल्लतानामिव विद्याधरीणामल- तकरसाञ्चितचरणन्यासेन रञ्जितं स्वयमपि रागातुरमिव निरूप्यमाणम् , इन्दुभिरिव नन्दितोदयैरुदधिभिरिवोत्तालसत्त्वैर्मन्त्रिभिरिव मन्त्रसिद्धैः पा- . .
तृतीयो लम्बः । ६१ . रिजातैरिव परिपूर्णितार्थिजालैः सुव्यक्तमुक्ताफलैरिव वृत्तोज्ज्वलशरीरैः कोदण्डदण्डैरिव गुणावननै राजमरालैरिव सुगतिसुन्दरैर्मधुकरैरिव सुम- नोऽन्तरङ्गैासरैरिवातमोऽभिभूतैर्जनैरलंकृतम् , आत्मदुरासदमालोक्य नि- त्यालोकं नितरां व्यस्मेष्ट, व्यतनिष्ट च 'विशिष्टसुकृतोदयादागताप्यापन्मम संपदे जाता' इति सानन्दश्चिन्ताम् । तदनु प्रविशतां निष्पततां च निरवधिकतया तत्र तत्र स्थितैरिव सर्वद्वीपराष्ट्रभर्जनैः सृष्टिस्थानमिवाधिष्ठितमुपसृत्य राजद्वारं दौवारिकम- हत्तरेण धरबोधितेन विज्ञापिताहृतः सकौतुकं राजगृहमवगाहमानस्तत इतोऽप्यदृष्टपूर्वतया दृष्टिं व्यापारयन्नपरिमितानि व्यतीत्य कक्ष्यान्तराणि नातिदवीयसि प्रदेशे शातकुम्भस्तम्भशुम्मिनश्चन्द्रातपच्छेदच्छविचन्द्रोप- लचुम्बिताम्बरस्य निष्टप्ताष्टापदघटितकुट्टिमनियत्तरुणतरतरणिकिरणायमा नमरीचिमञ्जरीपिञ्जरितहरितः खेचरेन्द्रानुचरणधिषणोपसरत्सूर्येन्दुसंदेह- मावहतो महतो मण्डपस्य मध्ये स्थितम् , अस्तोकस्नेहभयाक्रान्तस्वान्तै- रुन्नयनपतिभिः पङ्किस्थितखचरेन्द्रैरञ्जलिकंजमुकुलपुजेनेवाभ्यय॑मानम् , अष्टापदमुप्रतिष्ठकभृङ्गारकमुकुरचमरजतालवृन्तवृन्दप्राहिणीभिर्विग्रहिणी- भिरिव तटिलुताभिर्ललनाभिरभितोऽपि दिग्वधूभिरिव परिवृतम् , महति हरिविष्टरे समुपविष्टमपि विष्टरश्रवसश्चापकाण्डमकाण्डे दर्शयन्या मण्डनपु- नरुक्तया कायकान्त्या मण्डपसर्वस्वतेजसा दिगन्तेषु स्वान्तेन स्वदुहित- विवाहकर्मणि मन्दस्मितेन साधितसमीहितागतेषु सामन्तेषु कठाक्षपातेन प्रसादावर्जनदीनारसहस्रदानेषु श्रवणप्रदानेन नानाजनपदोपसर्पदपसर्प- वचःश्रवणेषु प्रतिबिम्बनिभेन खेचरेन्द्रबृन्दारककिरीटेषु नेत्रेण मित्रगात्रे निवसन्तं तं नभश्चराधिपमधिकभक्तिः समुद्वीक्ष्य संमदभरदुर्भरं वपुः स- मुद्दोढुमपारयन्निव धरायां पतन्सप्रश्रयं प्राणसीत् । खेचरेन्द्रोऽपि रुचिरा दशनज्योत्स्नां निःसरन्त्याः सरस्वत्याः पुरःसरदीपिकामिव दर्शयन्नधरित- ।
१२ गद्यचिन्तामणौ . . . जलधररवगाम्भीर्येण कुशलपरिप्रश्नादिचतुरोपचारगर्भेण मधुरतरेण स्वरे- ण 'सांयात्रिकं संभाव्य समुचितकशिपुभिः समग्रमेनं संपाद्य पुनरानय' इति धरमब्रवीत् । अथ धरस्य सद्मनि वर इवायमूरख्यचूडामणिरुपलाल्यमानः क्षपा- मपि तत्रैव क्षपयित्वा प्रभात एव प्रसरन्त्यां गन्धर्वदत्तायाः क्षितितलप्र- याणवार्तायाम् , तन्मुखकान्तिजिते कांदिशीक इव मन्दतेजसि गते च- न्द्रमसि, उडुगणेऽप्युडुपतिपराजयादिव तिरोदधति, पूर्वोदधिवेलां वि- कसितकमलमुखे चन्द्रमुखीमुखावलोकनरागादिव सरागे रवौ समासीदति, सीदति दुहितृविरहकातर्येण धारिणीहृदये , हृदयज्ञे च राज्ञि राजीवलो- चने , सुलोचनानां जननस्थानमुत्सृज्य सरितामिवान्यत्र सरणं किमु सां- प्रतिकम् । अतो न सांप्रतमेवं तव वैलव्यम्' इत्युदीर्य हरति धारिणी मनःखेदम् , खेचरेन्द्रान्तिकममन्दादरादुपसरन्नुत्तमाङ्गचुम्बिताम्बुराशिरश- नः सविनयं तस्थौ । तावता च जातास्थाः 'कन्यकायाः प्रस्थानलग्नः प्रत्यासन्नः' इति मुहुर्मुहुरूचौहूर्तिकाः । अथ सत्वरपरिजनचरणसंघटनरणिते श्रवांसि बधिरयति , प्रति- दिशं समागच्छदतुच्छप्रयाणपरिच्छदे चशूषि चरितार्थीकुर्वति , सर्वथाभ- वत्तरुणीविप्रयोगे विधुरयति प्रेमान्वबन्धुजनमनांसि, मांसलपटवासगन्धे घ्रा- णरन्ध्र नीरन्ध्रयति, समधिकधवलोष्णीषवारवाणधारिणा गृहीतकनककौक्षे- यकवेत्रयष्टिना निष्ठुरहुंकारभयपलायितसत्त्वसार्थविभक्तपुरोभागेन प्रवयसा प्रतीहारलोकेनाधिष्ठिताग्रस्कन्धस्य बन्धुरभूषणमणिमहःप्रचयविद्युदुद्द्योत- घोतितवियतः स्फुटितमन्दारदामकामुकमधुकरनिकुरुम्बविलुलितालकस्य परस्परपरिहासकथाप्रसङ्गस्फुरितहसितकुसुमिताधररुचकस्य महतः स्त्रैणस्य मध्ये महीमृदाज्ञया समायान्ती, परिचयातिप्रसङ्गसंक्रान्तैर्विजयार्धशिखरि- धातुरेणुभिरिव रञ्जितमलतकरसतानं तनुतररेखामयशुभलाञ्छनाश्चितम- , तृतीयो लम्बः । ६३ तिसुकुमारमुदरं दधद्भयां पादपल्लवाभ्यां पल्लवयन्ती भुवम् , विषमबाण- तूणीरनिर्माणमातृकानुकाराभ्यामुद्यन्नपुरविमलमुक्ताफलकरैः स्निग्धबन्धुम- नोभिरिव गमनप्रतिबन्धाय गृह्यमाणाभ्यां क्रमवृत्तस्निग्धानतिप्रांशुभ्यां ज- वाभ्यां भासमाना , न्यकृतराजरम्भाकाण्डाभ्यामूरुस्तम्भाभ्यां धनजघ- ननगराभोगभारमुद्वहन्ती, विलसदमलफेनपटलवलक्षण महता क्षौमेण प्र- याणानुसरणकृते समागतराजतगिरिकिरणजातेनेव कृतपरिष्कारा , तारु- प्यसिन्धुपुलिनयोर्जघनयोः सारसविरावाञ्चितां काञ्चीमुदञ्चता करेण तनु- तया पतनाभिमुखं मध्यमिव गृह्णतीं धारयन्ती, रोमावलीतमालवनराजी- संवर्धमानामृतसलिलकूपविभ्रम नाभिमण्डलं बिभ्रती , कमनीयकायकल्प- वल्लरीस्थूलस्तबकसंपदौ शौक्तेयहारधरौ पयोधरौ दधती, विलाससमीरस- मुत्थापितलावण्यतरङ्गिणीतरङ्गरेखारमणीययोर्भुजलतयोर्विमलाङ्गुलीनखम - यूखमालां पितृपुरस्क्रियार्हपुष्पाञ्जलिविधानायेव दधाना , कम्बुकान्तिक- ण्ठभूषणमाणिक्याखण्डालोकं बालातपमिव कुचचक्रवाकमिथुनाविश्लेषाय प्रकाशयन्ती, कालाजनपुजनीलालकबन्धबन्धुरापरभागमपरान्तनिबिड- निविष्टतमःपटलमिवोडुपतिबिम्बं बिम्बारुणोष्टसंपुटशुक्तिगर्भनिर्भासुरद- शनमौक्तिकापीड ललाटेन्दुनिर्यदमृतधारायमाणनासावंशं विमलांशुजाल- लडितकपोलमण्डलमाणिक्यकुण्डलमण्डितश्रवणयुगलमलिचुम्बितविकच- कुवलयदीर्घलोचनं विभ्रमलास्यलासिकाविलासधूलतमाननं बिभ्राणा ग- न्धर्वदत्ता सत्वरं सादरं च तन्मुखवलितमुखैः सभाजनैर्ददृशे । ततश्च तामुत्तमाङ्गस्पृष्टविसृष्टमहीपृष्ठां तिष्ठन्ती खेचरेन्द्रः सादरमाश्लिष्य 'पुत्रि, श्रीदत्तेनास्माकं कुलक्रमागता मैत्री । गात्रान्तरस्थं मामेव तावदमुं मन्ये-- थाः । कन्ये , जनकस्तवायं जननी चास्य गृहिणी । गृहाणामुना प्रया- णे मतिम् । अलं कातर्येण । गगनेचराणां राजपुरी किं न भवनद्वारस- मा' इति सानुनयं समभ्यधत्त । सापि 'यथाज्ञापयति' इति सबाष्पव- .
गद्यचिन्तामणी दना पितरौ बन्धुजनं च प्रणम्य परिष्वज्यापृच्छय तुच्छेतरशुकशारिका- चामरतालवृन्तकन्दुकाम्बरताम्बूलपरिवादिनीप्रमुखपरिबर्ह पाणिभिस्तरुणी - भिर्बहिणीभिरिव पयोदपङ्किरभिसंवृता निभृतेतरगगनेचरपृतनाभिरक्षिता क्षणादन्तरिक्षण विमानमारुह्य धरदर्शितपोतदर्शनोत्तालहर्षचित्तेन श्री- दत्तेन समं गत्वा राजपुरीं शिश्रिये । ततः श्रीदत्तोऽपि गन्धर्वदत्तायाः समागमननिमित्तावबोधेन दुर्ल- लितस्वान्तं विधाय बन्धुसमष्टिं काष्टाङ्गारमप्युपहारपुरःसरमनुज्ञापयन्ननुगु- णलग्ने प्रक्रम्य यथाक्रमं कर्तुं भर्मरत्नरजतजातनिर्माणं निन्दितनिलिम्प- प्रामणीसभाशोभं भासुरानन्तरत्नस्तम्भजृम्भमाणप्रभाप्रतानवितानीकृतया- मिनीप्रसङ्गं प्रान्तलम्बितबहुगुणहरितकम्बलयवनिकावरणं भ्रमराचान्तो- द्वान्तमधुरसविसरवर्षिकुसुमदामोत्करमनोहरं रणितमणिकिङ्किणीमालिका- लिङ्गितविकटविद्रुमयष्टिप्रतिष्टितपवनतरलधवलध्वजपटपङ्किपरिहसितसुर- सरित्तरङ्गजालं जालविवरविसर्पिमन्दसमीरसीमन्तायमानकालागुरुधूपपरिम- लाञ्चितवियदन्तरालमचिन्त्याभोगरूपसंस्थानं नभस्तलमिव समस्तलोका- वगाहनावकाशदानदक्षम् , सागरमिव नैकरत्नसंपन्नम् , अनिमिषसदन- मिवानिमेषलोचनताविधानविदग्धम् , चन्द्रशेखरमिव शेखरीकृतशीतांशु- मण्डलम् , विष्णुमिव विष्णुपदव्यापिनम् , शतानन्दमिव सदालोकसंपा- दिनम् , जिनेश्वरमिव जगत्त्रयश्लाघनीयम् , महनीयनिर्माणातिशयविशे- षविस्मापितनिर्मातृहृदयं , कमपि वीणावादनमण्डपं निर्मापयामास । तत- श्चायमाज्ञया राज्ञः समाहूय चण्डालम् 'चतुरुदधिमेखलायां मेदिन्यामन- न्यसाधारणेन वीणावादननैपुणेन पल्लवितपरिवादिनीपाण्डित्यगी गन्ध- र्वदत्ता मम दुहितरमधरयिष्यति यत्रैवर्णिकेषु तस्येयं दारा इति नगरे पटुतरं पटहमाताड्यताम्' इति तत्कर्मणि दक्षमादिक्षत् । अनन्तरमन्त्यजेन तदाज्ञावतंसितशिरसा तथैव ताडिते पटहे तृतीयो लम्बः । ६५ तत्क्षणेन क्षणदापगमविस्मरमिहिरमरीचिसहचरसहजतेजःपरिवृतहरितः समसमयचलदल घुबलभरविनमदवनिभरणखिन्नसंपन्नपन्नगपतिमौलयः स- मदमदावलकपोलतलगलदविरलमदजलजम्बालितभुवः प्रभूतजवभरदुर्नि- वारवानायुजवल्गनचटुलखुरशिखरसुदूरोत्थापितरेणुनिकरनिवारितवासरम- णिमरीचयः काचमेचककरवालकरालमयूखपटलघटिताकालरजनीरीत- यः शतमखशातशतकोटिशकलनशङ्कापलायमानसानुमत्सब्रह्मचारिशता- ङ्गशतशारितवीथयः स्फीतपरिकर्मपरिवर्धितकान्तयः काशीपतिकाश्मीरक- र्णाटकालिङ्गकाम्भोजचोलकरलमालवमगधपाण्ड्यपारसीकपुरोगाः पुरंदर- सदृशभूतयो भूभुजः समेत्य समन्तादासीननानाजनपदजनताजनितसंमद सर्वतोलम्बमानमुक्तासरसहस्रमण्डित स्वयंवरमणिमण्डपिकामध्यमध्यरुक्षन्। तत्र च स्थानस्थाननिवेशितानि विडम्वितहाटकगिरिकटकानि निकटघटित- नैकरत्नमरीचिजालपुनरभिहितोत्तरच्छदानि द्विगुणितस्तवरकोपधानाधिष्ठि- तपृष्ठभागानि निरतिशयवितरणकौशलशिक्षाकृते कृतमहीतलावतरणेनेव प- श्चादवस्थितेन पारिजातपादपेन पल्लवितकान्तीनि दिगन्ततटप्रतिहतिपरि- क्षुभ्यदात्मीययशःक्षीरोदपूरोदरोत्पतितफेनपटलपाण्डरेण समुत्तम्भितमा- णिक्यमयदण्डधारितेन रोहणगिरिशिखरावतरदमृतकरमित्रेण धवलातपत्रे- ण तिलकितोपरिभागानि पराक्रमपराजयप्रणतैरिव पञ्चाननैरञ्चितपादानि सिंहासनान्यधिवसन्तः, समन्तादाधूयमानैरनिलचलदसितेतरकमलदलनि- चयसुच्छायैश्चामरकलापैः कवलितोज्झितहरिन्मुखाः , परस्परसंघटनजन्म- ना भूषणमणिशिजितेन तदङ्गसङ्गकौतुकानुबन्धेन गन्धर्वदत्तामाह्वयाद्भिरि- वात्रयवैराविष्कृतशोभाः , संभावनासमभ्यधिकैर्गीयमाननिजभुज विजयभो- गावलीवाचालितवदनैर्वन्दिभिरभिनन्दितश्रियः, श्रीदत्ततनयागमनं प्रती- क्षमाणाः क्षोणीपतयः क्षणमासांचक्रिरे । तावता च तमःस्तोममेचककचभारखचितमणीवकनिचयनिर्भर- गद्यचिन्तामणौ परिमलनिपतितेन निखिलयुवतिसाम्राज्यचिह्नन नीलातपत्रेणेव षट्पदपटले- न परिवृताम्बरा , त्र्यम्बकनयनदहनदग्धमदनपुनर्जीवनदक्षान्कटाक्षानक्ष- यरागजलधिजठरपरिप्लवमानपार्थिवहृदयमत्स्यजिघृक्षया दिशिदिशि नीलकु- वलयदलदामनिर्मितां वागुरामिव प्रसारयन्ती , प्रियसखीसलापसमयनिर्ग- ताभिरमलदशनकिरणकन्दलीभिश्चन्द्रातपमिव दिवि विषमशरसाहायकाय संपादयन्ती , वदनकमलविकासमङ्गभयविदारितेन तरुणतरणिकिरणनि- करेणेव कुण्ठितकुसुम्भकुसुमसौकुमार्यस्य दशनच्छदमणेररुणेनांशुजालेन रागजलेनेव सिञ्चन्ती समन्तादासीनमवनिपाललोकम् , आगामिदयितहृदय- गृहप्रवेशमङ्गलविकीर्णसुमनःसौभाग्यहरेण हारेण पुलकितस्तनकलशयुग- ला,नवदलितकदलगर्भकोमलं वासो वसाना, वासुकिसमाविष्टमन्दरमथि- तमहोदधिसमुद्गतां संसक्तडिण्डीरपाण्डुरितनितम्बां निन्दन्ती श्रियम् , का- भिश्चन करकलितकनककालाचीभिः काभिश्चन कमलनिलीनकलहंसपरि- भावुकपटपल्लवपरिष्कृतपाणिपुटाभिः काभिश्चन काञ्चनमयमपि पञ्जर का- चकल्पितमिव निजकान्तिकल्लोलैरापादयन्तमुद्वहन्तीभिः क्रीडाशुकं का- भिश्चन भर्तृदारिकावदनसौन्दर्यचौर्यागतं चन्द्रमसमिव स्फाटिकमणिदर्प- णं करेण गृह्णतीभिः काभिश्चन कलितवकुलदामपुलकितसंनिवेशाः सं- मुखसमीरस्पर्शमन्द्ररणिततन्त्रीवलया वसुधापालेषु वल्लभोऽस्याः कः स्या- दिति मिथो मन्त्रयन्तीरिव विविधा विपञ्चीरुदञ्चयन्तीभिः परिचारपुरंध्री- मिनारन्ध्रतपरिसरं परितोलम्बमानमुक्तासरविभूषितं मुपितदिवसकरमरी- चिसमुद्गमैर्मणिगणालोकैराकुलितलोकलोचनमाकीर्णविविधपुष्पं पुष्पकवि- जयचतुरं चतुरन्तयानमधिरूढा , प्रौढमतिभिगूढानपि भावानाविष्कुर्वती- भिरन्तिकवर्तिनीभिरात्मनिर्विशेषाभिः प्रियवचनशतैः प्रसाद्यमाना , प्रत्य- दृश्यत गन्धर्वदत्ता । प्रादुरभूवंश्च तन्निरीक्षणेन महीक्षितां मन्मथमहिम- निवेदनचतुरा विकाराः । तथाहि-कश्चिन्नभश्चराधिपतनये, तव कुच- .
तृतीयो लम्बः । ६७ तटपरिणाहपर्याप्तं वा न वेति निरीक्ष्यतामिदमिति विवक्षुरिव वक्षःस्थला- दुपवीतमुपादाय सविलासमंसदेशे न्यवेशयत् । कश्चित्कमलकोमलेन करे- ण कनकधरणीधरकटकविशङ्कटवक्षःकवाटलम्बिनी विकचरक्तोत्पलदल- निचयविरचितां प्रालम्बमालां परामृशन्कुण्डलितकोदण्डेन कुसुमशरास- नेन मनसि निखातां विशिखमालामुन्मूलयन्निवामन्यत । कश्चित्प्रियसुह- दभिहितनर्मभणितिसंभावनास्मितविनिर्गतैविमलदशनकिरणकन्दलैरिन्दी - वरदृशस्तस्याः करपीडनकुतूहलाङ्करानिव हृदयालबालरूढान्निर्गमय्य द- र्शयन्निवादृश्यत । कश्चिदवनमय्य मणिमयकिरणमञ्जरीमालिन मौलिमा- लोकयन्नधरितगगनाभोगमात्मभुजान्तरं पूर्वप्रविष्टामिमा बिम्बोष्ठीमनुभत्रि- तुं स्वयमप्यन्तः प्रविविक्षुरिवालक्ष्यत । एवं विजृम्भमाणेषु विश्वंभरापतीनां पञ्चशरपराक्रमपयोधिविजृम्भ- णविवरणचतुरेषु विकारेषु सा च गरुडवेगसुता सुधाकरलोकप्रतिभटं कु- सुमशरयशोराशिमिव राजमानं स्वयंवरपरिषदन्तरवस्थापितं स्फटिकगृहमा- विश्य दृश्यमाननिखिलावयवा निजसखीजननिवेद्यमाननिखिलपार्थिवसार्थ- स्वरूपा परिसरगतायाः परिचारिकायाः पाणिपल्लवादादाय वीणामुपवी- णयितुमुपास्त । 'विनमदमरश्रेणीमौलिस्फुरन्मणिमालिका- किरणलहरीपातस्त्यायन्नखद्युतिकन्दलम् । प्रणतदुरितवान्तध्वंसप्रभातदिवाकरो दिशतु भवतां श्रेयः शीघ्रं जिनाङ्घिसरोरुहम ॥' इत्येवमभिव्यक्तसप्तस्वरमुन्मिपितग्रामविशेषमुच्छ्रसितमूर्च्छनानुबन्धम- तिबन्धुरमाहितकर्णपारणमाकर्ण्य तस्यास्तदुपवीणनमतिप्रहर्षेण परिषत्परि- सरतरवोऽपि कोरकव्याजेन रोमाञ्चमिवामुञ्चन् । तिर्यञ्चोऽपि तिरस्कृता- परव्यापृतयस्तदाकर्णनदत्तकर्णाः समुत्कीर्णा इव निःस्पन्दनिखिलावयबा- गद्यचिन्तामणी मण्डनः स्तत्क्षणमैक्षिषत । महीक्षितस्तु मृगेक्षणाया निःशेषजनकर्णवशीकरणका- मणमाकर्ण्य बलकीवादनं वामलोचनेयमनेन विजेतुमिह जगति न केना- पि शक्यत इति निश्चित्य निःश्वासैः सह पाणिपीडनाशां मुञ्चन्तः पञ्च- शरवञ्चिताः कंचित्कालमानतवदननिवेदितनिजहृदयगतविपादा जोषमा- सिषत । कतिचित्कन्दलितपरिवादिनीपाण्डित्यमात्मानं मन्यमानाः प्रार- भ्य वादयितुं परिवादिनीं परिवादमेव फलमलभन्त । एवमुपक्रमसमस- मय एव समासादितपराजयलज्जाकजलितहृदयेषु पार्थिवपृथ्वीसुरवैश्येषु विश्रुतविश्वविद्यावैशारद्यविस्मापितजीवको जीवकस्वामी स्वयंवरकृते कृत- पितुरनुज्ञापुरःसरमनुसरद्भिरात्मनिर्विशेषैरशेषैः स्वमित्रमित्र इब मयूखैः शतमख इव मखाशनैः शातकुम्भगिरिरिख कुलगिरिभिरधरितवि- न्ध्यगिरिगरिमाणं गन्धकरिणमधिरुह्य धराधरशिखरनिषण्णं केसरिणमव- धीरयन्नधःकृतमदनरूपाभिमानग्रहो निजगृहान्निरगात् । अनन्तरं तदीय लावण्यप्रस्रवणे प्रवहति प्रक्षालयितुमीक्षणयुगलमतिदोहलादहमहमिकया समधिरुह्य सौधमणिवलभीमनुगवाक्षमाहितबदनचन्द्रमसामिन्दीवरदृशाम् 'इन्दुशेखरेण पुरा पुरत्रयेन्धनसमिद्धहुतवहविरोचमाने विलोचने सरभसम- दाहि मन्मथ इति वितथमालपति लोकः । यदयमशेषयोपिदीक्षणचकोरपार- पौर्णमासीचन्द्रकरायमाणकान्तिकन्दल: कामो निकाममानन्दयत्यस्मान् । किमकृत सा सुकृतं पुरा पुरंधी यास्य प्रत्यग्रवटितधनतरघुसृणपङ्कपटल- पाटले वक्षःकवाटे निबिडगैरिकपङ्काङ्किते गिरितटे मयूरीव विहरिष्यति । आस्तामिदमस्तोकमस्य लावण्यम् । प्रावीण्यमपि वीणावादने निर्द्वितीयमे- तदीयम् । आभ्यामखिल भुवनाभिनन्दिताभ्यां विनिर्जिता विजयार्धपतेः सुता नियतमेनं वरिष्यति' इत्येतानि चान्यानि वचास्यवतंसयन्कर्णयो- स्तूर्णमुपासरत्परिसरं स्वयंवरसदसः । सदस्याश्च वयस्यैः सह संनिहित- मेनमपनीतनिमेषोन्मेषेण चक्षुषा निरीक्षमाणाः क्षणमेणाक्षीपाणिग्रहणम- तृतीयो लम्बः । होत्सवप्रीतिभाजनं जनोऽयमिति मेनिरे । बहुमेने च सा मानिनी म- दनमहनीयरूपमेनमालोकयन्ती । अचिन्तयच्च 'यद्यसौ लभ्येत पतिः प- राजय एव जयान्मे परं श्रेयः' इति श्रीदत्ततनया । अथ कुमारः समव- तीर्य मातङ्गादनङ्ग इव लब्धाङ्गः कुरङ्गलोचनायाः पुरस्तादवस्थापितमनु- रूपमासनमलंचकार । ततश्चकोरनेत्रायाः परिचारिकाभिः प्रदर्शिताः प्र- त्येकं शास्त्रनेत्रनिरीक्षगादोपान द्वोपयन्धोपवतीरद पयत् । अभाषत च परिचारिकाः ‘परिवादिनी काचन परिहृतनिखिलदोषा भूषयति भवदूं- शम् । आशु तामानयत' इति ! तावता च तत्सदृशस्तद्विद्यायां न विद्यत इति जनितपरितोषया वीणावत्या वितीर्णी वीणामुपादाय वादायितुमुपच- क्रमे चक्रवर्ती कलानाम् 'जिनस्य लोकत्रयवन्दितस्य प्रक्षालयेत्पादसरोजयुग्मम् । नवप्रभादिव्यसरित्प्रवाहैः संसारपझं मयि गाढलग्नम् ॥' इति । तेन च श्रवणसुभगगीतिगर्भमुद्भूतरागमनुगतग्रामं वादयता बल्लकी विजिग्ये विद्याधरराजतनया । अनन्तरमाविर्भवदभङ्गुरामर्पतरङ्गितहृदयेषु विजृम्भमाणव्यलीक- कल्पितकालिमकर्दमितमु खेषु ललाटरङ्गतटविहरदसितभृकुटीनटेषु निबि- डनिर्गच्छदतुच्छवेगोष्मलदीर्घनिःश्वाससमीरमरिताधरपल्लवेषु पश्यत्सु स्व- यंवरास्थानवास्तव्येषु वसुधापालेषु सा गरुडवेगनन्दना सानन्देन सखी- जनेन समुपनीता कुमारोपकण्ठं वर्धितोत्कण्ठा कण्ठे जीवककुमारस्य कु- सुमशरविकारकम्पमानेन प्रहर्षपुलकजर्जरितत्वचा पाणिपल्लवेन बबन्ध बन्धरां स्वयंवरस्रजम् । अथ तामनवद्यतपोबलादावजितसुकृतानामन्तिकं श्रियमिव श्रय गद्यचिन्तामणी न्तीं स्वयं जीवकस्वामिनः स्वामिगृहां ज्येष्ठः काष्ठाङ्गार: सामर्षे निर्वर्ण्य वरवर्णिनीम् 'नितरां निकृष्टः श्रेष्टिसुतोऽयं पुरा तिरस्कृतास्मद्बलं नाफल- सैन्यमनन्यसहायो विजित्यास्माकममन्दं मन्दाक्षमाक्षिपत् । एवमत्युल्बणबल- स्यास्य बालस्य खेचरा अपि सहचरा यदि भवेयुभवेदेवास्मदीयराज्यम- प्येतदीयहस्तस्थम् । अतः पार्थिवसुतैः सार्धं स्पर्धा वर्धयित्वा वर्धयाम्यस्य दोर्बलदर्पम्' इति विचारमारचयत् । अतितरां च समधुक्षयन्महीक्षिदा- मजान्– 'वैश्यसुतोऽयं पश्यतामेवंपराक्रमशालिनां परार्ध्यवस्तूपलम्भ- योग्यानामयोग्यः कथं भोग्यामिमां राज्यश्रियमिव समाश्रयेत् । समुत्सायें- नमूरव्यसूनुमूरीक्रियासुरिमां नारीम्' इति । ततश्चैवं कपटधर्मपटिष्ठेन काष्ठाङ्गारेण संधुक्षितानां गन्धर्वदत्ताभिनिवेशविशृङ्खलविजृम्भितमन्युपर- वशमनसां महीपतीनां स्वयंवरमालानिभादुपलब्धसौभाग्यपताकेन कुमारे- ण सह निपात्यमाननिशितहेतिसंघट्टितोटसुभटकवचविसर्पद्विस्फुलिङ्गसू- त्रिताग्नेयास्त्र प्रयोगचमत्कारम् , चण्डासिधाराखण्डितवेतण्डकुम्भकूटपतद- विरलमुक्ताफलपटललाजाञ्जलितर्पितसमरदैवतम् , साहसप्रतिष्ठप्रतिभट- करकरवालखण्डितदेवीभवद्योधपरिष्वङ्गपर्युत्सुकहृदयपुजीभवदमरपुरंध्रीनी- रन्ध्रिताम्बरम् , निकृत्तचारभटकण्ठकुहरप्रणालीनिःस्यन्दमानरुधिरासारक- दमितकाश्यपीतलम् , मज्जदङ्सिमुद्धरणायस्यदश्वीयम् , आकर्णकुण्डली- क्रियमाणसुभटकोदण्डटङ्कारसांपरायलक्ष्मीपादतुलाकोटिक्कणितमुखरितह - रिदवकाशम् , आकाशकबलनसनादविरलधरापरागधूसरदिवसकरकिर- णालोकम् , उत्पतदवपतदनेकशतशरपुञ्जपञ्जरितरोदोविवरम् , उद्धरप- दातिरवस्मयमाणमथनसमयसमुत्तालजलधिकलोलकोलाहलम् , अनुवेल- निपतदतिपीवरकबन्धगुरूभवदुर्वीभारजरितकमठपरिबृढपृष्टाष्ठीलम् ,अ- ष्टापदरथकोटीपातनिष्पिष्टदन्तावलदशनशिलास्तम्भम् , उत्तम्भितकुन्तय- डिप्रोतविपक्षशिरःशीर्णकचसटाचामरमरुदपनीयमानवीरविक्रमपरिश्रमम् , तृतीयो लम्बः । . विश्वजगदातङ्कजनकम् , अतिमहाद्धमवर्तत । ततश्च तस्मिन्नाविष्कृता- लीढशोभिनि मण्डलीकृत्य कोदण्डमकाण्डधनाधन इव घनरवमौर्वानिनद- गम्भीरगर्जतर्जितप्रतिभटस्फुटकपिलकोपरागविद्युदुद्दयोतितवपुषि वर्षति पृषत्कधारां सत्यंधरतनूजन्मनि धरापतिधराधराणां प्रत्यग्रखण्डितेभ्यः क- ण्ठकुहरेभ्यो मुखरितनिखिलहरिदवकाशा, काशकुसुममञ्जरीचारुभिश्चाभरै- रारचितफेनपटलविभ्रमा , शरदभ्रकुलमित्रैरातपत्रैरासूत्रितपुण्डरीकषण्ड- डम्बरा , विडम्बितशिखण्डिबर्हभरैः कचनिचयैः कल्पितशैवालविलासा, विलसदुडुनिकरनिर्मलैलिमेक्तिकप्रकरैः प्रकटितपुलिनशोभा, हरिदि- भकरदण्डानुकारिभिर्भुजैर्भुजंगमैरिव तरद्भिस्तरलीकृता, कृत्तपातितान्पा- दपानिव कबन्धानकर्षन्ती , दिगन्तकूलंकपा क्षतजवाहिनी प्रावर्तिष्ट । न्यवर्तिष्ट च भयाविष्टमनाः काष्टाङ्गारप्रमुखः प्रधनान्निधनैकफलात्प्रत्य- थिपार्थिवलोकः । तदनु यथायथं गतेषु पलायमानबलेषु पराजयलजानिमीलितमुख- सच्छायेषु पार्थिवेषु परिहृतामर्षेरुन्मिपितगुणानुरागैः पौरवृद्धैरभिनन्दितगु. णगणगरिमा जीवकस्वामी जीवितवल्भया जयलक्ष्म्येव मूर्तिमत्या श्रीद- त्ततनयया सह समसमयप्रहतमृदङ्गमद्दलपटहभेरीजन्मना नवजलधरध्वाना वधीरणधीरेयेण रवेण नगरिशिखण्डिमण्डलमकाण्डे ताण्डवयन्नात्ममुखकम- लविलोकनविनिर्गतयुवतिनयनकुवलयितगवाक्षेण नवसुधालेपधवलितव लभीनिवेशेन स्पर्शनचलितशिखरपताकापटताडितपयोधरमण्डलेन विमा लसलिलधारासंदेहिमुग्धचातकचञ्चुचुम्ब्यमाननिहनिहितमुक्तासरेण द्वा- रदेशनिवेशितपूर्णकुम्भेन समुत्तम्भितमणितोरणमरीचिसूत्रितेन्द्रचापचम- त्कारेण विप्रकीर्णविविधकुसुमपुलकितधरणीतलविराजिना राजमार्गेण किं चिदन्तरमतिक्रम्य दिशिदिशि दृश्यमानतुङ्गशिखरसहस्रसंकोचितवियदा भोगमहिमकररथमार्गनिरोधनोन्मुखं विन्ध्याचलमिव विलोक्यमानं कचि गद्यचिन्तामणी दभ्रितमिव सिन्धुरैः क्वचित्तरङ्गितमिव तुरङ्गमैः कचित्पल्लवितमिव पद्मरा- गप्रभाप्रसरैः कचिच्छादलितमिव महेन्द्रनीलमयूखलतावितानैः क्वचित्सि- कतिलमिव मुक्ताफलराशिभिरुपरि शोभमानमधरितकुबेरभवनवैभवं ब- हुविधैश्वर्योत्कटं गन्धोत्कटसदनं समाससाद । अथ गणरात्रापगमे गणकगणगणिते गुणवति वधूमनोरथकल्प- शाखिनि वरहृदयानन्दपयोधिविजृम्भणचन्द्रोदये चारणचकोरजीवितवर्ध- नजीमूते कुसुमकेतुकलहंसकेलीकमलकानने कलगीतिकलकण्ठनिनदा- वतारवसन्ते संतोषसरसिजविकासदिवसारम्भे संनिहितवति परिणयनदि वसे प्रशस्ते च मुहूर्ते मौहृतिकानुमते जीवकस्वामी तदात्त्रपरिकल्पितं प्रयतमहीसुरहूयमानहुतवहं संनिहितसमिदाज्यलाजं स्थानस्थानस्थितब- न्धुलोकमुल्लोकदीयमानताम्बूलकुसुमाङ्गरागमुद्भटताड्यमानमङ्गलपटहं वा- द्यमानवादित्रवलुकीवल्गुरववाचालितं पूर्यमाणासंख्यशङ्खवेणुशब्दायमान- दशदिशापरिसरं परिणयनमणिमण्डपमधिरुह्य पुरंदरदिशाभिमुखस्तिप्रन्स्ना- तानुलिप्तः प्रत्यग्रविहिताभिषेकाम् , आपादमस्तकमारचितेन चन्द्रमरीचि- गौरेण चन्दनाङ्गरागेण निजदुहितृशङ्कया दुग्धजलधिनेव परिष्वक्ताम् , आभरणमणिमयूखमालाच्छलेन रमणपरिरम्भणाय न. पर्याप्तं भुजद्वयमि- ति बहूनिव बाहूनारचयन्तीम् , अवतंसकुसुमपरिमलचपलैरतिमधुरं क- णद्भिरलिकुलैः 'इह जगति जीवकाद्वरीयान्वरो न कश्चित्' इति कथ्य- मानामिव कर्णजापैः, कंदर्पशरासनपतितां विशिखकुसुममालामिवैकाव- ली स्तनकलशयोरन्तरे कलयन्तीम् , दुर्वहत्रपाभरेणेव किंचिदवनतमु- खीम् , रणता रत्ननूपुरयुगलेन 'निखिलयुवतिदुर्लभं वल्लभमियमिव स- मासादयितुं चरत दुश्वरं तपः' इत्युपदिशतेवोपशोभिताम् , उपात्तमङ्ग- लवेषाभिरुन्मिषितभूषणप्रभाकुलितलोकलोचनाभिरवनिमवतीर्णाभिरभङ्गु - राभिरपराभिरिव विद्युद्भिविद्याधरवनिताभिरुपनीताम् , गृहीतार्यवेषेण श्री- "
तृतीयो लम्बः ।
७३
दत्तेन प्रतिपादितां गन्धर्वदत्तां विधिवदुपायंस्त ।
इति श्रीमद्वादीभासिंहसूरिविरचिते गद्यचिन्तामणौ
गन्धर्वदत्तालम्भो नाम तृतीयो लम्बः ।
-
गद्यचिन्तामणी चतुर्थो लम्बः । अथ तामुपयम्य च विकचकुसुममञ्जरीजालचूडालस्य चूततरो- रधश्छायायामालिखितेन रतिवलयपदचिह्नशोभिभुजशिखरनिवेशितकाच्- केण करकलितकतिपयकाण्डेन कुसुमकोदण्डेनाधिष्ठितबहिरिम् , दह्य- मानकालागुरुधूपपटलकर्बुरेण कलिन्ददुहितृपरिष्वङ्गमेचकितसुरसरित्प्रवा- हसहोदरेण दुकूलवितानेन विलसितोपरिभागम् , अनङ्गयशोराशिसंनिका- शेन कैलासगिरितटविशालेन विमलोत्तरच्छदपरिष्कृतेन पर्यङ्केण पाण्डु- रिततलम् , अनुतलिममवस्थापितमणिपादुकायुगलम् , अन्तर्गतताम्बूल- दलवीटिकाश्यामायमानचामीकरकरण्डम् , कर्पूररेणुपरिसंबन्धच्छुरणपरि- मलितदशैरनिशप्रज्वलितैरङ्गजप्रतापैरिव मूर्तिमद्भिर्मङ्गलप्रदीपैर्महितोपक ण्ठम् , हाटकपतगृहसनाथशयनीयपार्श्वम् , प्रदृश्यमानविविधचित्रवितीर्ण नयनकौतुकम् , कौतुकागारं कमलदृशा सहागाहत । अथ कतिचिदहा नि हरिणाक्षी वैलक्ष्याकृष्यमाणा रमणमनोरथान्न पूरयामास । ततश्च श नैःशनैः कुसुमचापचापलसंधुक्षणविचक्षणोऽयमाक्षिप्य तदीयममन्दं म न्दाक्षमनया सममत्युल्बणरागान्धया गन्धर्वदत्तया क्रमादतिनिबिडपरिरम्भ परिपीडितस्तनतटम् , आवेगचुम्बितविधुताधरपल्लवम् , आदरविधीयम नकेशग्रहम् , आग्रहपुनरभिहिताघ्राणजर्जरितकपोलाङ्गरागम् , अङ्गविवर नविलुलितोत्तरच्छदकथितकामशास्त्रानुष्ठानवैशधम्, अविरलधर्मबिन्दुज किततिलकम. अपत्रपानिर्वापितनिकटदीप्रदीपम् , अतिरभसकच . - चतुर्थो लम्बः। . " . हविशीर्णमाल्यकुसुमपुलकितशयनम् , अतितारसीत्कारविडम्बितमदनमो- वीरसितम् , आकस्मिकप्रणयकलहविहितपादप्रहाररणितमणिनूपुरम् , भ- श्रान्तवर्धमानकुतूहलम् , अतिवेलं सुरतमन्वभवत् । इत्थमनुभवति संसारसौख्यसारान्सारङ्गदृशा तया सह तस्मिन्रति- विलासान्विषमशरस्य साचिव्यमिवारचयितुमाजगाम जगतीरुहशिखरशे- खरैः खरेतरकिसलयराशिभिरुपशोभितवनान्तो वसन्तः । प्रविशति भु- वनगृहमनङ्गनृपसामन्ते वसन्ते पुण्याहमिवोच्चारयांबभूवुरुद्भूतकलरवमुख- रितकण्ठाः कलकण्ठाः । क्रमेण च विकचकुसुमनिचयपरिमलितदशदि- शि, मनोरथाधिकमकरन्दलाभमत्तमधुकरमचुशिञ्जितमुखरितवनभुवि, न- वसहकारकन्दलदलनकेलीदुर्ललितकलकोकिलगलगुहागर्भसंचितपञ्चम - प्रपञ्चितपञ्चशरवेदनावेगविवशविरहिणि, विहरमाणदक्षिणसमीरणतरलि- ततरुणपल्लवचूडालचूतविटपिनि , स्फुटितपाटलीकुसुमपाटलिमपल्लविता- काण्डसंध्यासंपदि , समुन्मिषितकोरकपुलकितकुरवकमनोहारिणि, मन्म- थमहोत्सवसमारोपितमणिप्रदीपसहचरितचम्पकशाखिनि, चञ्चरीकचक्र- चरणाक्रमणपतदविरलसुमनोभरसमुन्नतवकुलतरुशिरसि, प्रभञ्जनप्रकम्पि- तकरअशिखरविकीर्यमाणसुमनःसूचितकुसुमशरसहचरागमहर्षविहितवन- लक्ष्मीलाजवर्षे, प्रकृष्यमाणे मधुसमये, अभिनववनापगावगाहनकेलीदोहल- तरलितमनसः पौराः सह पुरंध्रीभिर्नीरन्ध्रितककुभस्तुङ्गान्मातङ्गान्मनोहारि- णीः करिणीः शातकुम्भाङ्गाञ्शताङ्गाशितखुरदारितमहीरङ्गास्तुरङ्गाश्चामी- करपत्रभङ्गचतुरोपान्तानि चतुरन्तयानानि च समधिरुह्य सादरं नगरान्निर- गमन् । तस्मिंश्च समये समस्तजननयनजीवातुर्जीवकस्वामी सह सुहृद्भिर्न- गरजननवीननदीपूरविहारविलोकनाय विनिर्गत्य पुरोपकण्ठाक्रीडेषु क्रीडा- परवशानि पादपमूलरचितकिसलयशयनाभोगानि भोगभूतदम्पतीकल्पानि कलितकामदोहलानि युगलानि सलिलावगाहनसमुद्यताः कर्णशिखरसमा- . , गंधचिन्तामणौ रोपितकुन्तलपुनरभिहितावतंसकुवलया वकुलदामनियमितकेशपक्षास्तरक्ष- णदृढघटितमेखलाबन्धबन्धुरनितम्बबिम्बाः सुदूरसमुत्सारितपारिहार्यरिक्त- मणिबन्धाः प्रेमान्धदयितभुजशिखरनिवेशितबाहुलता युवतीश्च सविलासं सहायान्संदर्शयन्दर्शनीयकायकान्तिश्चिरं विजहार । तथा विहरतस्तस्याग्रतः कचिदग्रजन्मनामतिमहान्कोलाहलः प्रा- वर्तत । तदाकर्ण्य तदभ्यर्णमभिपतति समित्रे पवित्रचारित्रेऽस्मिन्क्वचिदा- दरनिष्पादिताहाराघाणकुपितधरणीसुरकरतलकलितदण्डोपलघटनविघटि- ततनुरतनुवेदनावेगोत्क्रामदसुराससार सारमेयः सरणिमक्ष्णोः । तन्निरी- क्षणक्षणोपजृम्भमाणकरुणः कारुणिकानामग्रेसरः कुमारः सारमेयोऽयमप- गतासुप्रायतया प्रत्युज्जीवयितुमशक्य इति निर्णीय तत्कर्णमूले सादरं स- त्वरं सानुक्रोशं च मूलमन्त्रमुपादिक्षत् । उपदिष्टं च दिष्टया तदवस्थो- ऽपि तरलितवालधिरुत्कर्णः समाकर्णयन्नेव सारमेयः शरीरमत्याक्षीत् , प्राविक्षञ्च दैवीं तनुम् । ततो मुहूर्तमात्र एव पूर्णगात्रस्तत्रैव तथाविधदि- व्यतनुलाभमूलकारणकुमारावलोकनकुतूहलादागत्य तथा जपत एवास्य परस्तादस्थात् । अस्तोककायगभस्तिप्रसरैरालिम्पन्तमम्बकयुगमेनं दृष्ट्वा कुमारोऽयं विस्मयाविष्टः पृष्टवान्—'आचश्व भद्र, न चेदेष दोषः क- स्त्वं कुतस्त्यः कस्मादस्मत्समीपमागतोऽसि' इति । स च प्रत्यभाषत भ- षणचर:--"कुमार, विद्धि माममुमेव सारमेयम् । सारगुणधाम्नस्तव म- हिम्ना नाम्ना सुदर्शनः सन्प्राविक्षं यक्षकुलाधिपत्यम् । भवत्पादसेवाकृते च कृतमिदमागमनम् । किमिह मया कर्तव्यं किं वा वक्तव्यम् । का वा भवदनुभावं कथयितुमलं भारती । तथाहि-निष्कारणमिदं मत्परित्राण- मिति सति कार्पण्यकारणे रिक्तं वचः । दृष्टो मन्त्रस्य महिमेति जिनशा- सनलघूकरणम् । ईदृशसामर्थ्यशालिता नाश्रावि कचिदित्यपि न वार्तम् | प्रतिनियतसामर्थ्या हि पदार्थाः । अचरमोऽयमुपकार इति भवदवधान - चतुर्थो लम्बः । ७७ परिच्छेदः । कृतार्थीकृतस्त्वयाहमिति त्रिभुवनकार्यविधायिनस्ते विशे- षसमर्थनम् । साक्षादसि प्रत्यक्षसर्वज्ञ इति चरमदेहधारिणस्ते सिद्धानुवा- दः । समाश्रितकल्पद्रुमोऽसीति निशितप्रज्ञावधृतपात्रप्रकर्षस्य ते निकर्षः। भवति पर्यवस्यति परोपक्रियेति स्वभावव्यावर्णनम् । साक्षादकारि का- रुण्यस्वरूपमिति कार्यपुनरुक्तम् । उदात्तशैलीयमिति ज्ञातज्ञापनश्रमः । तथापि हि किमप्यावेद्यते । आगतवति कृच्छ्रे क्वचिदनुस्मर्तव्योऽयं जनः" इत्यभिधाय कृतप्रणामः सप्रणयं परिष्वज्य परोक्षतामभाक्षीत् । अथान्तरितवति तस्मिन्नुपान्तवर्तिनः कस्यचिदुद्यानतरोरधस्ताद- वस्थाय कुमारः प्रस्तुतदेववृत्तान्तममन्दादरादनुजवयस्यैः सममावर्तयन्मुहूर्त- मत्यवाहयत् । अत्रान्तरे राजपुरवासिवैश्यपतिसुतयोः, सुरमञ्जरीगुणमाल- योः परस्परं स्पर्धा भृशमवर्धिष्ट । अतानिष्टां च ते संविदं विदांवरमुखा- दाकर्णिते चूर्णे पराजयः स्यादावयोर्यस्यास्तया नादेयजलस्नातया न भ- वितव्यमिति । प्राहिणुतां च निजचूर्णोत्कर्षनिकर्षनिर्णयाय लब्धवर्णाना- मभ्यर्णमात्मपरिचारिके । ते च निखिलकर्मनिर्माणपटिष्ठे चेट्यौ दिशिदि- शि परिभ्रम्य परिसरं कुमारस्य सादरमुपासरतामभ्यधत्तां च दत्ताञ्जलि पाणितलप्रणयितपनीयकरण्डकगते स्नानीयचूर्णे प्रदर्श्य 'कथय मिथो वि- शेषमनयोः' इति । तद्वचनसमाकर्णनेन निर्वर्ण्य चूर्णे तूर्णमसौ गुणज्ञः ‘सगुणमिदं गुणमालाचेटिकायाश्चर्णम् ' इत्यवर्णयत् । श्रुत्वा तद्वचनं सुरमञ्जरीपरिचारिका परिकुपितहृदया सती 'भवदादिष्टमतिवैशिष्टयं वि- शेषदृष्टेः प्राकस्यचित्कथमवगन्तव्यम् । परोऽपि जनः पृष्ट एवमन्यथा व्याचष्टे स्म । किमध्यैष्ट भवानप्यमीभिरेवम् । ननु जीवक एव जीव- लोके विवादपदनिर्णायीत्याकर्ण्य खलु भवति तिष्ठावहे' इत्यभाषिष्ट । सात्यंधरिरपि 'सत्यापयामि तर्हि मदुक्तम् ' इति तदुभयमुभयकरण गृ- छन् ‘गृह्णन्तु चञ्चरीकाश्चूर्णमञ्चितमअसा' इत्युदीरयन्नुपरि चिक्षेप । क्षे- गद्यचिन्तामणों , . पीयः क्षितितलपतनमसहमानैरिव मधुलिहां बृन्दैरमन्दादराद्गुणब्धैरिख गुणाधिके गुणमालाचूर्णे तूर्णमङ्गीकृते भृशमङ्गनास्त्रासक्तजन इव क्षणा- दधस्तादपतदपरम् । अवर्णयच्चायमभियुक्तः 'चूर्णयुक्ताबुक्तेतरकालकर- णादासीदसुरभित्वं सुरमञ्जरीचूर्णस्य' इति । तदेतदुपलभ्य चेटीमुखात्सु- रमञ्जरी, सुरतरुमञ्जरी सुरकुञ्जरभञ्जनादिव जातवैवा विवादविरहित- साक्षिभिः साक्षान्निर्णीतेऽपि निजचूर्णगुणक्षये 'गुणमालापक्षपातादुपक्षि- ताहम् । अपेक्षा यदा जायेत मयि गन्धोत्कटनन्दनस्य तावदहं कटाक्षे- णापि नेक्षे पुरुषान् । वर्षशतं वा विधास्यामि तपस्यां तज्जनदास्यसंपा- दिनीम्' इति कृतसंगरा सङ्गगौरवात् 'वयस्ये, क्षमस्व दास्याः परिस्ख- लनम् ' इति पादयोः प्रणमन्ती गुणमालामपि मालामिव मौलिच्युताम- नादृत्यास्नातैव निजसदनमासदत् । अचीकरच्च पितुराज्ञया पुरुषसंस्पर्शि- मरुतापि निजमन्दिरान्तिकमस्पृष्टम् । अथ तादृशं तस्याः सख्या वैमुख्यमुपलभ्य तन्निदानं चूर्णविगानमनुशोचन्ती यानमारुह्य नगरबाह्या- प्रतिनिवृत्य निकटगतचेटीजनचाटुमपि श्रवणकटुकं गणयन्ती गुणमा- ला शनैः स्कन्धावार प्रतिगन्तुमारब्धा । तावता समन्ततोधावन्मनुजाना- ममन्दार्तस्वरैर्मूर्छन् ‘गच्छ गच्छ, गजेन्द्रः' इति रुन्द्रस्वनः श्रोत्रेष्वतिमा- त्रमासीत् । आसीदति स्म च सीदतः स्त्रैणस्य तस्य समीपं संहृतसर्वलो- कः, काल इव कलितमूर्तिः , अधोमूर्धगशाबशतकलितगात्रतया स्वयमू- प्रगैरव्यपेत इव पादैः, उड्डीयमानविहङ्गसंगताङ्गतया जवजिघृक्षया पक्षीकृतपक्ष इव लक्ष्यमाणः, क्षितिधर इव लब्धाङ्घिः, अधःकृताधोरण- निवारणः कोऽपि मदवारणः । ततस्तत्संनिधिना निधिलाभेन नीचपरि- ज्ञान इव परिजने परिक्षीणे, सरभसमुत्सृज्य चतुरन्तयानं दिगन्तं वहत्सु वाहकेषु, सा दरिद्रमध्या दारिद्यादिव सहचरविगमादेकाकिनी तस्थौ । तथा तिष्ठन्तीमिमां दृष्ट्वा गुणमालां प्रियंवदेति तस्याः प्रियसखी 'प्राण- चतुर्थो लम्बः। - समामिमां मत्प्राणत्राणाय विहाय कथमपत्रपा प्रयामि । प्रयान्तु ममासवः प्रागेतन्मृतिप्रेक्षणात् ' इति पृष्ठीकृत्य तां बिम्बोष्ठी बद्धाञ्जलि: कुञ्जरस्य पुरस्तादस्थात् । अवसरेऽस्मिन्नाकस्मिकागतिस्तत्रैव परत्रोपार्जेतसुकृतवै- भवाद्विभव इव स धीर: कुमारः संन्यधात् । व्यधाच तद्दशानिशामनमा- त्रेण विजृम्भितक्षात्रधर्मः स्वमर्मस्पृगुपद्रवविद्रावणप्रवण इव प्रगुणं गुण- मालारक्षणाय तत्क्षणे प्रयासम् । पुनः प्रतिमल्लविलोकनादुल्लोकरोषोद्भुरस्य सिन्धुरस्य दान्तये दन्तयोर्मध्ये निजमणिकुण्डलशैलेन गण्डशैलेनेव प्रच- ण्डं प्राहार्षीत् । अनन्तरमन्तरिततजिघृक्षावेगो वेतण्डश्चण्डरोषप्रसारित- शुण्डः शूरप्रकाण्डस्य तस्याभिमुखमभ्यवर्तत, प्रावर्तत च प्रहर्तुम् । ता- दात्विकोपायप्रयोगचतुरः कुमारोऽप्यनेकपमनेकप्रकारमायास्य परिणमति तस्मिन्करिणि चरणमध्येन प्रविश्य पृष्ठतो निरगच्छदतुच्छधीः । सा च मोचितापि कुमारेण मोचासमोरुमरिमातङ्गकृतातङ्का समजनि । जनित- मदनवेदनाविवशाङ्गी तन्वङ्गी तत्क्षणसमानीतमनुयायिभिरधिरुह्य चतुरन्त- यानमन्तःप्रविष्टं कुमारमवलोकयितुमिवाधोमुखी, मुहुर्मुहुरापतद्भिनिः- श्वासैरत्युष्णतया मर्मरिताधरपल्लवैराकुलितकुचोत्तरीया, निरुत्तरतया द- त्तनमगिरः प्रियसखीः खेदयन्ती विवेश विविधसंनिवेशकान्तं निशान्तम्। अथैनां तुहिनपरामर्शपरिम्लानपङ्कजिनीसच्छायां सत्वरमुपेत्य माता दुहितरं दुःखदीनाक्षरमप्राक्षीत्-" मातः, किमिति भवती कठो- रतरतरणिकिरणतापितमृणालिनीव ग्लानिमनुभवति । निवेदयन्ति च नितान्ततीव्रनिःश्वासमरुतः स्वान्तसंतापम् । करिकदर्थनादतो भवत्याः किमस्यन्योऽपि मन्युहेतुः” इति । एवमुक्तापि प्रतिवचसा नाश्वासयामा- स मातरं मदिराक्षी । अथाधिक्षीणायामभिषङ्गादङ्गजायाः किमनङ्गाक्रम- णेन किंस्विद्वहाणां ग्रहणेनाहोस्विदपरेण केनापि वा विकारोऽयमाविग्रसी- दिति वितर्कविह्वलमनासि गतायां मातार , सहपांसुक्रीडापरिचयपेशल , गद्यचिन्तामणी प्रियसखीराप निद्रामिषेण विद्राव्य समुत्सारितसकलपरिवारा प्रविश्य श- यनगृहं शयनीयनिपतिताङ्गी निरङ्कुशनिपतदनङ्गशरनिषङ्गीभूता प्रभूत- कुमारसौकुमार्यसंपदनुस्मरणसरणिसंचरदन्तःकरणा तदुपलम्भोपायान्वेष- णलम्पटमतिः क्रीडाशुकं शोकप्रहाणये पाणौ कुर्वती सर्वमस्मै समीहि- तमावेद्य विद्यते किमत्रोपाय इति सप्रणयं सकृपणं सानुनयं सव्रीडं चा- न्वयुङ्ग । स च कीर: 'किमम्ब, कातर्येण । कार्यमिदमवनौ चेत्पार्यत एव मया साधयितुम्' इति सधीरं समभ्यधत्त । सा च मदनकृतोन्मा- दा प्रमदा प्रमाणस्य परां कोटि क्रीडाशुकवचसा सद्यः समासाद्य तमेव सात्यंधरिसकाशे ससंदेशं प्राहिणोत् । स च विहङ्गमो विहायसा स- हसा पतन्परितः परिभ्रम्य परिश्रमच्छेदाय गन्धर्वदत्तागृहोद्यानगतस्य क- स्यचित्कबलिताकाशावकाशस्य शाखिनः शाखाग्रे सविपादं निषीदति स्म । स चापहसितमदहस्तिमदाडम्बरः कुमारः पुनर्मारकरनिपतदासा- रकुसुमपत्रिपतनपरवशगात्रः, कर्तव्यान्तरं विस्मृत्य विविधप्रयोगचतुरस- हचरचारुगीर्वपि गजनिमीलनं कुर्वन् , , गुरुतरगुणमालाभिलाषभारव- हनखिन्न इव स्विन्नवपुः, अत्युष्णमायतं च निःश्वस्य निजावसथमभ्ये- त्य निवारितनिखिलानुयायिवर्गः स्वौकसामपि दुरासदं निजसदनोद्यान- मासदत् । तत्र कचित्प्रच्छायशीतले महीतले निषण्णो विषण्णहृदयः स्वहृदयनिविष्टां तां बिम्बोष्टी तत्कामिनीरूपमभिरूपोऽयमखिलकलासु कचिदतिविशङ्कटे पटे प्रकटिततदवस्थमालिखत् । अथ तामालेख्यगता- मन्यादृशाभिख्यामतिदीननयनामधिकपरिम्लानवदनामागलितवसनामत्यु - ल्बणव्यसनामव्याजकरुणावहां गुणमालामालोक्य कुरुवंशशिखामणिरहो महिमा मकरध्यजस्य साक्षादिव तां संनिहिताममन्यत । यतस्तां पञ्चशर- वञ्चितोऽयमवाञ्छदालिङ्गितुम् , आरभत तस्यै किमप्यावेदयितुम् विषीदति स्म तस्यां जोषमवस्थितायाम् ।
चतुथो लम्बः । , एवमवस्थान्तरं गच्छत्यतुच्छतदासङ्गात्सत्यंधराङ्गजे तुङ्गतरतरुशि- खरनिलीनः स केलीशुकः साकूतं ससंभ्रमं च संभ्रमन्तमेनं प्रसारित- शिराः सुचिरमुत्पश्यन् 'अयमेवास्माभिरन्विष्टो विशिष्टः । स्पष्टमयमप्या- विष्ट इव मदनग्रहेण । गुणमालया भणितमिदं चिह्नमप्यह्रायास्मिन्नविसं- वादमश्नुते । ततस्तमुपसमि' इत्यारचितविचारः कुमारनिकटमाटीकते स्म । कुमारोऽपि सविस्मयं साशकं च सपत्रमेनं पत्रिणमुद्वीक्ष्य 'न के- वलोऽयम् । न हि निराशत विहङ्गममात्रस्य त्रासान्निवर्त्य मर्त्यसनीडगतिर्जा- घटीति । बाढमनेन च क्रीडाशुकेन भवितव्यम् । किचायं शुकः किं- शुकातिशायिचञ्चुपुटे धत्ते किमपि पत्रमपि । दिष्टया सापि किमस्मद्यते यास्मानित्थमुन्मत्तयति । अचिन्त्यानुभावं हि भवितव्यम् । पुष्पबाणोऽपि वा निष्फलप्रयासः किमस्मास्वेव सायकं संधत्ते । संगमयितुमावां समुत्सु- कस्य तस्य तस्यामपि विद्धायां हि मनीषितसिद्धिः' इतीत्थमन्यथाप्यम- न्यत । तथा मन्यमानं मारमहनीयं कुमारमादरादभिप्रणम्य सप्रश्रयं सम- र्पितसंदेशः समुत्क्षिप्य दक्षिणं पादं पद्यमिदं पपाठ क्रीडाशुकः- विषयेषु समस्तेषु कामं सफलयन्सदा । गुणमालां जगन्मान्यां जीवयञ्जीवताच्चिरम् ॥' तदुपश्रुत्य विश्रुतविश्ववैदुष्योऽयममुष्य पाण्डित्यमतिचतुरं संभाव्य स- संभ्रमं संदेशं वाचयामास । आसीच्चास्य तत्कन्यालिखितमनन्यजसंजा- तसंज्वरस्य संजीवनौषधम् । अबुध्यत चात्मानमवन्ध्यप्रयासं गन्धोत्कटसू- नुः । प्राणैषीच्च स मनीषी मनीषितार्थसमर्थनपरचतुरवचनगर्भप्रतिपत्र- लाभेन प्रगुणप्रहर्षे गुणमालासनीडे क्रीडाशुकम् । सा च तदागमनं प्रतीक्षमाणा प्रतिक्षणविजृम्भमाणोत्कण्ठा 'कि- मयं शुकस्तं जनं पश्येत्समीहितमपि नाम साधयेत् । कदा वा समाग- च्छेत्' इत्युत्पन्नमतिरुद्वीवा चातकीव जीमतागमनास्था गगनं समुद्रीक्ष्य - गद्यचिन्तामणी सविषादं निषसाद । तथा निषीदन्ती निरन्तरनिपतदायलकमलबाहु- त्यादकल्यामकल्याणाकृतिमादरादालोक्य शुकस्तां विच्छायां मानमवच्छे- तुमलं प्रगल्भस्तल्पशरणां गुणमालां समभ्यगमत् । तथा सा च तमन्त- रिक्ष एव वीक्षमाणा प्रसभं प्रतिगृह्य बाढं परिरभ्य हर्षाश्रुभिरध्वश्रममि- वापहर्तुमभिषिञ्चन्ती मुञ्चन्ती रोमाञ्चं मुहुः शिरस्याघ्राय मुहूर्तमुद्दामसंभ्रमा वामोरामाक्षिस्पन्देन परिचितनिमित्तलाभेन प्रागेव सूचितशुभागमा शु- कमुखप्रसादोक्तां पुनरुक्तां समीहितसंप्राप्तिं सात्यंधरिसंदेशतः संदेहविक- लमाकलयत् । ततस्तां मजुभाषिणी किंचिद्गलद्वैमनस्यां वयस्यामुखेन वसन्तब- न्धुविकारचिह्न जीवंधरगतास्थया समुपस्थिततदवस्थां समुपलभ्य पितरौ भृशं प्रीणन्तौ 'गुणमालैव सत्यमियं गुणमाला, यदियमपहस्तितास्थान- गतास्था सर्वथा योग्ये भाग्यादृते दुर्लभे वल्लभबुद्धिं बध्नाति' इति स्फा- रमुपलाल्य दुहितरं तत्कल्याणपरायणावभूताम् । प्राहिणुतां च गन्धोत्क- टसविधे विविधवैदुष्यावामुष्यायणौ वर्षीयांसौ पुरुषौ । तावपि सादरमरम- भ्येत्य तमिभ्यपतिमियत्तादूरमितरासंभवं तेन संभावितौ च 'तत्रभवतोः किमत्रागमने प्रयोजनम् । नियोजयतां समीहिते मां कर्मणि' इति सानु- नयमनुयुक्तौ च मुहुर्वक्तुमीप्सितमुपाकंसाताम्-- " अयि महाभाग, धा- त्रीतले 'तव पुत्राय नः पुत्री समर्पयाम' इति न प्रसर्पति व्यवहारः । तथापि भवतस्तनयस्य भुवनप्रतीक्ष्यत्वादपेक्ष्यतेऽस्माभिरयमर्थः । श्रुत्वेद- मत्रभवानत्र प्रमाणम्" । इति सकृपणं सप्रणयं च ताभ्यां प्रणीतं व- णिक्प्रवेकः प्रतीच्छन् ‘अस्तु को दोषः' इत्यभ्युपागच्छत् । अथ गन्धोत्कटे तयोरत्युत्कटप्रार्थनया तमर्थमभ्युपगतवति , प्र- तिक्षणसमापतद्वान्धवशतसहस्रसमाकुले प्रणयिजनप्रेषितप्रभूतप्रामृतभरि- तखलरीपरिसरे प्रकृष्टशिल्पिलोककल्प्यमानपरिकर्मविकल्पकमनीयनिवेशे चतुर्थो लम्बः। . नैकशतवितानोपधानपताकाद्युपयोगपाव्यमानपट्टांशुकपटले पनरागमणि- तोरणोत्तम्भशुम्भितबहिरिवितर्दिके वित्तवितरणानन्दिवन्दिबृन्दारकबृन्द- पाठ्यमानप्रशस्तिकाव्यकलकलमुखरे मुहुर्मुहुराहूयमानपरिणयनोपकरणसं- निधापनकर्मकर्मान्तिके गृहचिन्तकचिन्त्यमानसदनप्रतिविधेये विधेयचा- मीकरकारविधीयमानमण्डनहाटकघट्टनटङ्कारवाचालिताभ्यणे निवर्त्यमान- मङ्गलवसनताम्बूलाङ्गरागे वधूवरभवने बभूवतुः । ततः समागतवति सकल- मौहर्तिकमहिते विवाहदिवसे दीप्यमानशिखाजालजटिलितस्य शिखिनः पु- रस्तादास्थावदाकल्पकालिप्तधनतरघनसारसुरभिपटीरपङ्कपरिमलितदेहाम्, देहजजगज्जयाभिषेककलशकौशलमलिम्लुचकुचयुगलविलम्बमानहारतार - किततनुम् , तदात्वफुल्लबन्धूककान्तिबान्धवरक्तांशुकपाटलितनितम्बाम् , उद्यदम्बरमणिकिरणकलापलोहितसकाशाम् , पाकशासनदिशमिव द. श्यमानाम्, दर्शनीयभूषणमयूखलताकुलितलोकदृशम् , तटितमिव चिरावस्थायिनीम् , अवस्थापितकुसुमदामसारेण रोहदुडुपटलजर्जरि- ततिमिरविराजिविभावरीविलासचौरेण चिकुरभारेण कामपि शोभा- माविर्भावयन्तीम् , कुबेरमित्रदत्तां विनयमालासुतां गुणमालां गुणवतिः लग्ने लग्नकः सकलजन्तुजीवनस्य जीवंधरः सादरमुपयेमे । इति श्रीमद्वादीभसिंहसूरिविरचिते मद्यचिन्तामणौ गुणमालालम्भो नाम चतुर्थों लम्बः । . . - .
गद्यचिन्तामणी पञ्चमो लम्बः । अथ परिणयनानन्तरमन्तरायरहितविजृम्भणेन विषमशरेण समा- रोपितो रागशिखर शिखरदशनया तया समं संसारसहकारपचेलिमफला- यमानान्मन्दीकृतमहेन्द्रोपभोगमहिमाभोगान्भोगाननुभवितुमारभत कुमारः। तथाहि-नवपल्लवदलनिचयनिर्मितशयनेषु परिमलतरलमधुकरपटलपटाव- गुण्ठितपरिसरेषु गृहोद्यानलतागृहेषु लक्ष्यीभूतः कुसुमशरशराणां कमलढ- शा तया सह सुचिरमरमत । वारणपतिरिव वनसरसि करिणीसखः कंदर्प- विजयपताकया तया तन्नितम्बबिम्बाहतिजर्जरिततरङ्गमालासु तदात्वसंभ्र- मदम्भःसंक्षोभितकमलसमुड्डीनरोलम्बकदम्बकबलिताम्बराडम्बरासु क्रीडा- वापीषु चिरं चिक्रीड । अध्यास्य तनुमध्यया सह समन्तादास्तीर्णतूलश- यनान्भवनमणिवलाभिनिवेशान्निशासु निशापतेर्निर्यदमृतनिःस्यन्दान्करकं- दलान्प्रतीच्छनिच्छाधिकं विनोदयामास विलोचनचकोरमिथुनम् । इत्थं गमयति कालं कलानिधौ कामतन्त्रपरतन्त्रे जीवकस्वामिनि भामिनीसखे सखेदः स गुणमालोपद्रवकरः करी तत्कुण्डलाहतिजातवै- लक्ष्यः प्रक्षीणतनुरतनुपरितापपरीतमना मनागपि मन्देतरयत्नेन यन्त्रा सानुनयं साधिक्षेपमर्दामाणमतीव स्वाद्विष्टमपि नाददे कबलम् । निःश्वा- सदीर्घमुष्णं च पुष्करलिखितमहीतलः केवलं पाकलाशङ्किभिरङ्गीकृतवि- विधभैषज्यभिषक्तमैस्तथा चिकित्स्यमानो न तादृशीं दशां क्षणमप्यत्या- क्षीत् ।
पञ्चमो लम्बः । (५ . अथ कुण्ठीभूतसकलभैषज्यप्रयोगजनितलज्जेषु वैद्येषु , बहुदिव- सपरिहृतकबलग्रहक्षीणवपुषि विलचितनिजवचनविषण्णनिषादिनि नितरां सादिनि दन्तिनि , तस्य तथाविधविकारकारणमाधोरणा जीवककृतां कु- ण्डलाहतिमेव समाकलय्य पापिष्ठाय काष्टाङ्गाराय सावेगमावेदयामासुः । स च शबरचारभटशूरगृहीतगोधनपुनरानयनप्रकटितपराक्रमपाटवाहितेन निजवारवामलोचनावर्गान्तरङ्गीभवदनङ्गमालाङ्गीकरणप्रख्ढेन गन्धर्वदत्ता- परिणयनसमयसंजातपरिभवपरिणतेन निजाधोरणनिवेदितवारणाहतिश्रव- णसमीरसंधुक्षितेन स्फुटितजपाकुमुमपाटलनयनप्रभापटलच्छलादतिप्रभू- ततया हृदयादपि बहिर्निगच्छता तुच्छेतरेण कोपहुतवहेन प्रलयसमयवि- सृमरप्रगुणकिरणकलापकवलितदिक्परिसरः पतिरिव तेजसामशेषजनन- यनदुनिरीक्षस्त्र्यक्ष इव त्रिभुवनपरिक्षयचिकीर्षुराविष्कृतभैरवाकृतिरमर्षल- क्ष्मीप्रवेशमङ्गलमणितोरणसविभ्रमभ्रुकुटिबन्धेनान्धकारितललाटफलकः प- रिसरवर्तिनः पुरुषानादिक्षत् 'आनीयतामनेन क्षणेन दुरात्मा जीवकः' इत्यारूढकोपकाष्ठः काष्टाङ्गारः । तेऽपि तनया इव यमस्य , साहसस्य , प्रकर्षा इव पराक्रमस्य , विग्रहा इव सामर्थ्यस्य , करकलि- तकरवालकरणतर्पणप्रासतोमरभिण्डिपालप्रभृतिविविधायुधा योधाः कुमा- रभवनमरुन्धन् । अथ निरुपमपराक्रमपाटवमदोत्कटो गन्धोत्कटतनयः स्वगृहानि- र्गत्य निरवधिकरोषप्रसरः केसरीव हरिणयुथं तरणिरिव तमःस्तोमं दाव- दहन इव वनतरुषण्डं प्रलयपवन इव पर्वतनिवहं करिकलभ इव कदली- काननं तत्क्षणेन क्षपयितुमात्मजिघृक्षागतमशेषं बलमारभत । आरम्भस- मसमयमागत्यास्य जनयिता 'जात , नैवं कर्तव्यम् । स्थातव्यं हि निदे- शे देशाधिपतेः । तस्योपसरेम परिसरम् । प्रज्ञापरिबर्हविरहिता हि परा- क्रमा न क्रमन्ते क्षेमाय । तदीभिः सह गच्छेम राजभवनम् । अनुभ- प्ररोहा इव - 8 ८६ गद्यचिन्तामणौ - वेम भाविनमर्थम् ' इत्यभिदधान एव निवार्य तं यौधनिधनोद्यतमात्मजमा- त्मजन्मदिवसादारभ्यार्जितमशेपं वित्तमुपायनीकृत्य तेन सह नीतिवमकब- न्धुर्गन्धोत्कटः काष्टाङ्गारस्यागारमयासीत् । प्रविश्य मणिमण्डपस्य मध्ये महति विष्टरे समुपविष्टभेनं ज्वलन्तमिव कोपदहनेन दारुणकोपचयपला यितपरिजनमकाण्डविरचितनिद्राभङ्गविजृम्भितामर्षभीषणवपुषमिव केसरि- णं भीतभीत: कथकथमप्युपसृत्य तनयेन सह गन्धोत्कटस्तन्निकटे हाट- कराशिममरेशनिशितशतकोटिशकलितमुमेरुशिवरसहचरं संनिधाप्य 'स- ह्यतामयमपराधः शिशोः । दीयन्ताममुष्य प्राणाः' इति प्रणयकृपणमभा णीत् । काष्टाङ्गारस्तु कारुण्यास्पृष्टहृदयः - किमष्टापदेन ' इति प्रत्यादिष्ट कुमारप्राणप्रणयनभणितिर्धरणीतलविनमितशिरसं कृपणवचनमुग्वरितवद- नमतनुतरतनयस्नेहान्धं गन्धोत्कटम् ‘गम्यताम् इति सावज्ञं विसृज्य स- मक्षमवस्थितानारक्षकाध्यक्षान् अस्य पराक्रममदक्षीबस्य क्षपीयः क्षपय- तासन् ' इति सरोपमभापत । तेऽपि तथेति तदाज्ञामञ्जलिबन्धेन प्रती- च्छन्त: प्रगृह्य कुमारमतित्वरितपदप्रचारप्रचलितभुवः प्रस्थातुं वध्यस्थानं प्रति प्रारेभिरे । अथ प्रतिहतवचसि प्रभूतविपादविषमूर्जालमनसि विस्मृतकर्त- व्यवमनि सद्यः सद्म समासाद्य निजसुतविनिपातविजृम्भमाणदारु- णशुचमविरलनिर्यदश्रुजलविलुलितदृशमश्रान्तविरचिताक्रन्दां सुनन्दाम् 'अलं संतापेन । संस्मर पुरा चर्यार्थमागतेन तपोधनेन सविस्तरमुदीरि- ता कुमाराभिवृद्धिशंसिनी कथाम् । अवितथवचसो हि मुनयः' इति सा- न्त्वयति समवगतसुतोदन्तप्रबन्धे गन्धोत्कटे, कटकवासिनि जने जीन- तानुशयेन 'राजते राजता काष्ठाङ्गारस्य । कष्टमिदमकाण्डे विधिचण्डा- लस्य विलसितम् । अद्य निराश्रया श्री:, निराधारा निरालम्बा सरस्वती, निष्फलं लोकलोचनविधानम् , निःसारः संसारः . नीरसा र. धरा, पञ्चमो लम्बः । . सिकता, निरास्पदा वीरता' इति मिथः प्रवर्तयति प्रणयोद्गारिणी वाणी- म् , सखेदायां च खेचरचक्रवर्तिदुहितरि दयितविमोक्षणाय क्षणादावि- भावयन्न्यामन्ति के स्वविद्यां विद्याधरकुलक्रमागताम् . क्रमशः स कुमारोऽपि मारयितुं पारयन्नप्यात्मपरिभवविधानलम्पटान्भटान् किमभिनिष्फलं निह- नैः । नासीदति गुरुजनादिष्टः काष्टाङ्गारवधसमयः' इति माहसाय सना- मानमात्मानं निवार्य सुदर्शननाम्नो देवस्थ सस्मार। स च कृतज्ञः कृतज्ञच- रो देवस्तदा ध्यानानन्तरमन्तरिक्षपथमभिनवतमालकाननकालिममलिम्लु- चैः काठमेवानिचयैः कवचयन् , नभस्तलस्यानमेदिनीपरागपूरदूरान्तरि- नदिवाकरण समुन्मलितोक्षिप्तवृक्षपण्डसमीलिताकाशदिगवकाशेन चण्डा- भिवातपूर्णमानगिरिशिखरविशीर्णगण्डशैलनतस्ततस्तुटलीलया नीतगृ- हपटलीपटलेनाभिपातताउनविह्वन्दितावनीतलविल्टदग्विल जीवधनेन झ- झासमीरेण समुन्सारितसकलारक्षकबल: , सहेलमादाय कुमारमन्तरिक्ष- ण क्षणादिव गत्वा गावाणसदनसदृक्षमक्षयमुग्वसंगतं शृङ्गपरामृष्टचन्द्र च- न्द्रोदयं नाम निजशैलमशिश्रियत् । अकासि तत्र होत्फुल्लमुग्वः शत- मखसदनातिशायिसोधाभ्यन्तरस्थापितभद्रासनमध्यमध्यासीनस्य जीवक- स्वामिनः स्वभमुखपरिज्ञातकुमारमहोपकारितात्याटरैरिः सार्धं पयोवा- धिपयोभिरभिषेकम् । व्याहापीच ---" कुमार, मां विश्वदुषणपात्रे भाष- णगात्र स्थितमवं पवित्रीकृतवतस्ते पवित्रकुमारः' इति भवितव्यं नाम्ना" इति । एवं कृतज्ञानां धुरि कृतज्ञदीक्षेण यक्षेण कृतां पुरस्क्रियामनुभृय भूयसीं भूयस्तेन सममेकासनमध्यास्याप्सरसामतिपेलवं नाव्यमालोकयति कुमार कुमारमारणाय प्रेरितः स चौरिकाध्यक्षोऽपि प्रतारणदक्षतया 'क्ष- पितजीवं जीवककुमारमकार्षम् ' इति वचसा हर्षकाष्ठागतं काष्टाङ्गारं वि- चाय तदीयं प्रसादमनासादितपूर्व लेभे । ततः सुनन्दासुतोऽपि सुदर्शनयक्षावरोधजनेन वर इव परया गद्यचिन्तामणो . . मुदा संभाव्यमानः संपदं यक्षपते जीमेव निर्व्याज गणयन्नपि गणरात्रा- पगमे 'किमत्र मधावस्थितिरास्थीयत । गुरूपदिष्टराज्यप्रवेशार्हवासरा- पूर्वमपूर्वचैत्यालयवन्दनेन कन्दलयामः सुकृतप्रबन्धम्' इति मनो बबन्ध । प्रियबन्धुरप्यम्य बन्धुरमभिमंधि तदनुबन्धिफलोपनतेरनवधिगतामवधिच- भुषा वीक्षमाणः क्षोणीभ्रमणन कुमारोपलभ्यस्य फलस्य भूयस्तया कथ. मप्यन्धमंस्त । अदाच तम्मै मा म्म कुरुथाः कुम्कलपते . तव प्रेष्यस्य प्रार्थनाकदर्थननावज्ञाम' इति यात्रापूर्वकं सर्वविपापहरणे गानविद्यावैशा- रद्यकरण काममपित्वकल्पनेऽप्यनल्पशक्तिकममन्दादरान्मन्त्रत्रयम् । अ- भ्यधाञ्च · कुमार कमकुलकमदन्दी . कमदैश्वर्यासमममन्माहमलम्पटमुभ- टभुजादण्डवण्डनप्रचण्डनिविघटितकोटीरकोटिविततियुतगणनविरहि - तनरपदचितमभायां स्वयंवरानन्तरं विवाहममये मरणपरिणतिमेष्यन्ति यदरयोऽपि , तबोटयोऽपि ममासीदति मासि द्वादशे , मदुक्तमिदं द्रक्ष्यसि पुनक्ष्यिमि च' इति । एवमभृतायमानममृताशिना वचनमदसीयाप्सर- मां सरसानि वचासि च श्रवणयोरवतसीकुर्वति पर्वतादवरुह्य मह्यां ग- न्तुमारभमाणे कुमारे , सुदर्शनयक्षोऽप्यक्षमा भवन्विरहव्यथां सोढं गाढं परिरभ्य पथान्तरोदन्तं चेदतया व्याहृत्य विसृज्य कुमारमादरकातर्यात्पु- नरप्यनुस्तकतिपयपदः प्रतिनिवृत्य प्रस्त्वलितपढः स्वपढाभिमुखस्तन्वन्प- देपदे पृष्ठावलोकनं साहाय्यमनुष्ठातुमनुचरमिव कुमारस्य कुवलयितकुव- लय लोचनयुगलं प्रेरयन्प्रचुरानुशयः शनैःशनैर्निजशैलमशिश्रियत् । एवं चिरादधिरुह्यान्तरिक्षमन्तर्हिते यक्षेन्द्रे, मृगेन्द्र इव वीतभीतिः स्ववी- र्यगुप्तः स कुरुकुलकुमुदेन्दुरप्यमन्दादरादरण्यशोभाप्रहितेक्षणो विहरन्वि- गतातपत्रमेनमातपात्त्रातुमिव निराकृतातपान्मार्गपादपानिरन्तरनिपतन्निर्झ- रनिभेन निःसहायकुमारनिरीक्षणदाक्षिण्यविगलदविरलाश्रुप्रवाहसंभृतानि- . - .
पञ्चमो लम्बः । (९ व महीभृतश्च प्रेक्षमाणः प्रत्यक्षितयक्षोदितचिह्नमह्नाय महान्तं कान्तारप- थमलवयत् । ततश्चाग्रतः क्वचिदुप्रतगेष्मदुष्प्रापे विस्फुटिङ्गायमानपां सन्कर क रिनिष्टयूतकरकिरावशिष्टपयसि निःशपपर्णक्षयनिर्विशेषाशेषविटपिनि निवनिग्विलदलनिर्मितमर्मरतभरितहारति मम्सम्यसब्रह्मचारिमति करे- णुतापहरणकृते निजकायच्छायाप्रदायिन्तिनि वारणाणितपारणापरा- यणपिपासातुरकेसरिण्युदन्यादन्यप्रपञ्चञ्चितहरिणगालह्यमानस्फटिकट - पदि मरकतमयूखरेग्वापरहरिताङ्करद्रुहि मृगतृष्णिकाविलोकना-मस्तकस- लिलतृपि गुल्मसंदेहसमापादन चतुरबार्ह वहान्तः प्रविशदातपक्लान्तबालफ- णिनि भक्ष्यदुर्भिक्षतानुपलक्षितवनमहिपकुक्षिणि तापताम्यवीकरभीक- रशूत्कारकांदिशीकश्वाविधि मृगगनिमीसताकृतमृगयापक्षाबुभुक्षितवनौ- कसि वनदहनदह्यमानवंशपरिपाटीपाटनप्रभवझटझटारवचकिताध्वगमन- सि दीनताशान्तवानरकुललीलाकर्मणि धर्मसमयारम्भसमधिकदुःसहोष्म- धर्माभिधानरसातलव्येप्टे मरुपृष्टे निश्वरीचश्छटावलीटवणुस्फोटस्फुटपुर:- पटहन शुष्काण्यपि शिरांसि महीरुहां ज्वालाभिः किसलयितानि कुर्वाणेन , दन्दह्यमाननीडोडीननिरालम्बाम्बरभ्रमणखेदपतितपत्रिपत्रपालीचटचटायि- तरटितवाचाटेन विपिनसत्त्वसंतानविविधवसागन्धानुवन्धविगमायेव सपदि निर्दग्धस्निग्धकालागुरुतरुगहनैरात्मानं धूपयता , कुसुमचपकपुटेषु कृतम- धुरसास्वादनमदरशादिव प्रतिदिशं पतता, साटोप कबलयता स्वाहित- वलाहकगृह्यतागर्हयेव बहिणव्यूहान् , वैरिवारिसंभवरुषेव शोषितसरसी- गर्भस्थितानि वारिजजालानि लेलिहता, गृहीतगरुडस्वभावनेव निर्विश- कचळमाणदुर्वहभागभीमभोगिना , निजजीवितापहारिजीमूतमूलच्छेदेच्छ- येव स्फुलिङ्गब्याजेन वियति समुद्गच्छता, दुष्कालेनेव तुच्छेतरधूमप्रच्छा- दितद्यावापृथिवीविभागेन , पात्रदानेनेव भूतिविधायिना , बौद्धेनेव लब्ध- . . .
९० गद्यचिन्तामणौ . सर्वस्वभक्षिणा , तत्त्वज्ञानेनेव तमोपहन , अतृप्तिमत्त्वादतिगृधुजनदेशीये न, प्राप्तदपणाद्वेश्याजनवेषान्तरेण , दुष्प्रवेशत्वादाट्यगृहातिशायिना सुजनलोकेनेव पांसुलस्थले स्पर्शरहितेन . गुणराशिनेव वंशोत्कर्षप्रकृ- ध्यमाणेन , तस्करेणेव रक्षाभूयिषे निवृत्तसंरम्भेण दावपावकन परितः प- रीततया परितापपराधीनान्कृपाधीनमनाः स दीनोद्धरणोचितः कुमारः शतहदाशतवलयितानिव बलाहकाननेकपानैक्षिष्ट । दृष्टमात्रेष्वेव तेषु स्वगात्रस्पृगुपद्रवादिव दृयमानः सुतरां सुदर्श- नसुहृदयं तदुपद्रवपरिहृतये हृदयनिहितजिनपतिपदपङ्केजः सुप्तमीनहद इव निभृतनिष्पन्दाक्षिपश्मा क्षणमस्थात् । तावता वपुः परुषतरा लोकनिमीलिताम्बकानामम्बरमालिम्पतामकालबालातपरुचां शम्पासहस्रा- णामजस्रोन्मेषणमण्डिताः गुण्डालौरसशुण्डादण्डप्रकाण्डतुल्यस्थौल्यनी- रधारानिरन्तरितान्तरिक्षाः प्रतिक्षणसुलभफणिपतिरणरणकवितरणचतुर- गम्भीरगर्जितजरितश्रवसः पर्जन्याः । तदनु च निजोदरनिलीनसानुम- ति सलिलाहरणधिषणागतनीरदायमानद्विरदपरिपदि बाडवकृपीटयोनितु- लितबिलविवरपीयमानपयसि शौक्तिकनिकरानुकारिकरकोत्करहारिणि वि- डम्बितविद्रुमलतावितानद्रुमकिसलयोपशोभिनि सागरसब्रह्मचारिणि प्रव- हति पयःप्रवाहे दावचित्रभानोः परित्रातानालोक्य गजानगजेन्द्रगामी ग- तानुशयः शनैरतिक्रम्य मरुभुवं गत्वा गन्यूतिमात्रं तत्रैव महावंशतया महासत्त्वतया महीभृत्तया महोन्नतितया चात्मानमनुकुर्वन्तं कमपि पर्वत तदखवगर्वनिर्वासनाय निवेशयितुमिव निजामियुगमस्य शिरसि सिंहपोत इव शिलाविभङ्गेन साहंकारः समधिरुह्य महीभृतस्तस्य मणिमकुटायमानं जिनपतिसदनम् , पिपासातुर इव धाराबन्धमादरान्धः समासाद्य , सद्यः संपुलमल्लिकावकुलमालतीप्रमुखफुल्लगुच्छैः पूजार्हमर्हन्तमतिभक्तिरभिपू- ज्य , पुनरपि तरुणतरणिरिव गीर्वाणगिरि प्रकृष्टमनोरथः प्रदक्षिणं भ्रम- .
पञ्चमो लम्बः । न् , तत्रस्यया जिनशासनरक्षियक्षिदेवतया सादरसंपादितकशिपुः, ततो विनिर्गत्य विश्वतः शश्वदुपपादिततरुणीचरणयावकरससंपर्करक्ततलतया स्वयमपि पल्लवितरागमिव पल्लवव्यपदेशं देशमशिश्रियत् । तदनु च त- न्मध्यनिवेशितं निर्दोपतया दोषाधिपतिरिति सदा सुवृत्ततया व्यवस्था- विकलवृत्त इति कलाक्षयरहिततया परिक्षीणकल इति च परिभवन्तं च. न्द्रम् , चन्द्राभं नाम कमपि स्कन्धावारम् , नैकवारसंभवदसंभविनिमि- त्तोपलम्भेन ससंभ्रम गाहते स्म । तस्मिन्नपि स्थानस्थानेषु वाचंयमाना- मिव वर्जितव्याहृतीनां साद्यस्कहविषामिव बाष्पनिष्पादनव्यसनजुषां भूरि- फलभरितभूरुहामिव विनम्रशिरसां पुरोकसां नालनिष्कृपितनलिनानीव प्रम्लानवदनानि प्रेक्षमाणः प्रान्तवर्तिनं कमपि दान्तहृदयं पुरुषममृतव- पायमाणदशनकिरणैः सकरुणमिव सिञ्चन्वनकुञ्जरोत्पाटितविटपिपेटक- स्येव विश्वस्यापि जनस्य विच्छायतानिदानम् - किमवगन्छसि' इत्यपृच्छ- त् । स च कुमारमादरादभिपत्यैवमब्रवीत्-"भद्र , भद्रासिकार्थिपार्थि- वपरायकिरीटपादपीठप्रतिष्ठितपादपल्लव: पलुपदेशापदंशकुबेरकोशगृह- पतिः पतितजनदुरालोको लोकपालो नाम राजा भवत्यस्या राजधान्याः । तस्य च सकलगुणगरीयसी कनीयसी प्रज्ञाशालिजनकलाभेन जडाशय- प्रभवेति पतिदेवतात्रतभाविबहुमानप्राप्त्या बहुपुरुषाभिलाषिणीति लोकपा- लसहजसंगमेन लोकविनाशकरगरलसोदरेति च गर्हमाणा पद्म पद्मा नाम । कन्यामिमामिदानी कन्यागृहानिर्गत्य गृहोद्याने स्वकरावर्जितजलसेकेन सस्नेहमभिवर्धिता पुष्पवती जाता माधवीलतेति महोत्सवमारचयन्ती त- द्वदनगोचरशशाङ्कशङ्कयेव भुजङ्गमः कोऽप्यस्पाक्षीत् । नरेन्द्राश्चासन्नरेन्द्रा इव प्रबलप्रार्थिनो व्यर्थप्रयासाः । तन्निमित्तोऽयं मानां शोकः । शाकु- निकस्तु कश्चिनिश्चेतनेयं यदि जातापि कन्यका तावदेनामनन्यसाधारण- विषहरणनैपुणः कोऽपि प्राणैः समं सांप्रतमेव संगमयतीति संगिरते १२ गद्यचिन्तामणौ . तत्र नरपतिरपि तद्वचनविश्वासाद्विश्वदिश्यपि शक्तिमदन्वेषणाय शुद्धान्तादप- (मन्तिकचरं प्राहेषीदघोषयच्च 'विपहरणसमर्थाय मम राज्याध वितार- यामि' इति । महाभाग, महीपतिना विषविद्याविदग्धान्वेपणाय प्रेषिते- वहमप्यन्यतमः कश्चिदगि । कार्येऽस्मिन्कच्चिदार्य , भवतोऽप्यधिकारोऽ- स्त" इति। तद्चनानन्तरं जीवकस्वामी च ‘जीवमात्रस्याप्युपद्रवो द्राव- यतव्यः। किमुत प्रबलोऽयमबलाजनस्य' इत्यन्तचिन्तयन् 'अयि भोः, पामो वयम् । अस्तु वा न वा प्रस्तुतकर्मणि प्रावीण्यम्' इति प्रणिगदन्नेव राजगृहमुपसृत्य प्रवर्तमानतुमुलनिवर्तितवर्षधरनिवारणयन्त्रणमनामन्त्रित एव प्रविश्य कन्यान्तःपुरं तत्र सर्वतोऽपि सर्वसहापृष्ठे वेष्टमानगात्रयाष्टिं कष्टां दशामापन्नमाक्रन्दमयमिव शोकमयमिव विलापमयमिव व्यामोहमयमि- वाश्रुमयमिवामयमयमिव निरूप्यमाणं जनं तन्मध्यगतां धवलकोमलकदल्य- न्तर्दलसच्छायप्रच्छदाच्छादितशयनीयमधिशयानां मृणालिनीमिव च्छिन्नमृ- लां विच्छायां कन्यकामपश्यत् । व्यचिन्तयञ्च तदङ्गकान्तिकन्दलितकन्दर्पद- पः 'न चेयमप्सरसः, न हि तस्याश्चक्षुः पक्षीकृतपक्ष्मक्षोभम् । न वासो तडिल्लता, न हि तस्या अप्येवमतिपेलबाङ्गोपाङ्गसंगतिः । न वैवासों रतिः, न हि तस्यास्तनूजन्मना भुक्तोच्छिष्टाया एवमक्लिष्टाङ्गयष्टिता घट- ते । नूनमियं भुजङ्गेनाप्यनङ्गाविष्टेन किं स्पृष्टा' इति । एवं चान्यथा चि- न्तयन्तमन्तिकचरमुखादुपलब्धमहिम्नि महीपतावपि सपादपतनमवरजाकृ- च्छ्रमुच्छेत्तुमुपच्छन्दयति तदिच्छां विनापि तत्कर्मणि कम्रोऽयमानम्रोद्धारी कुमारस्तथेति तद्वक्रमालोक्य निमेषमात्रेण तां निर्विषीचकार । स्वीचकार च पुनरेनां कन्दर्पसर्पः । वपुष्मान्मारो हि कुमारः । कथमेनं साक्षादु- दीक्ष्य चक्षुष्मती कन्या न भवेदनन्यजाकान्ता । ततश्च सा सकृदवलो- कनकृतव्यसनभ्यस्तया भूयः कुमारमपारयन्ती द्रष्टुं विषवेगमिषेण पश्चा- दपि निमेषणमेवात्मनः शरणममंस्त । अतर्कयच्च प्रथमतरमनुभूयमानस्म- - .
पञ्चमो लम्बः । ९३ रविकारा 'कथयन्ति निकांमं कामो नाम कश्चिदस्तीति । किमयं सः' इति । तदवस्थालोकनेन लोकपालभूभुजि पुनरपि गरलसद्भावशङ्काभया- लिङ्गिते भृशमिङ्गितज्ञः कुमारोऽपि कामतन्द्रालुमन्त्रयन्निवानङ्गातुरमात्मा- नमपि तदङ्गस्पर्शन चरितार्थीकुर्वन्समानयोगक्षेमतां लेभे । मुमुचे सा च माचोरुस्तदीयचतुरकरतलम्पर्शनमनुमहिम्ना प्रद्युम्नगरलवेगात् । उदस्था- व तल्पादाकुलिताकल्पा । बुबुधे च सविधगतान्विविधौषधहस्तान्सम- स्तानपि पुरुषान् । तिरोदधे च तिर्यग्वलितमुवी पर्यङ्कादवरुह्य ह्रीयन्त्र- णेनाकृष्टा मंनिकृष्टचेटीपेटकस्य मध्ये । तावता तत्परित्राणविहस्तो जनः ममस्तोऽप्युन्मस्तकहर्षमुर्तिः कर्तव्यान्धो गन्धर्वदत्तादयितं दत्ताञ्जलिरभिप्र- णम्य 'प्रयाणाभिमुग्यान्प्राणान्प्रतिपादयन्प्राणनाथोऽप्ययोवास्याः' इति स्वयमेवाचीकथत् । लोकपालोऽपि · लेाकोत्तम , लोकोत्तरोऽयमुपकारः। किमिह तवाहं व्याहरामि । मम राज्यं मम भोज्यं मम गात्रं मम मित्रं मम प्राणा मम त्राणं च त्वदधीनं' इत्यभिदधानः , प्राप्तमनःप्रसादमेनं प्रासादे कचित्प्रचुरोपचारमवस्थापयन् , अपास्तसमस्तजनं मन्त्रागार मन्त्रि- भिरधिरुह्य मन्त्रयामास - 'अयि मान्याः , कन्यायाः प्रकृतोऽयमुपद्रवः मुकृतोदयादुपाशमत् । अतः परं परोऽयमपारो ह्यस्याः प्रशस्तवरान्वेष- णप्रभवः । ततः कथमनारोपितदोपं कथंकथमपि कमपि जामातरमुपल- भ्य तमपि दुस्तरं बाद निस्तरामः । कुमारोऽयमनवद्याकृतिरविद्यमानप्र- त्युपकारमुपाकरोत् । अनुरूपश्च रूपयौवनमुगुणैः । किंच, तां मञ्जुभा- षिणी स्वहस्तेनाप्यस्पृशत् । या चास्माकमयमविदितगात्रविशेषो वैदेशिक इति जाता संशीतिः सापि सांप्रतं निरस्ता, यतस्तदीयो वृत्तान्तस्तदनु- भावकण्ठोक्त्यायमवगतः । एवंगते सति यदत्र प्राप्त प्राप्तरूपा निरूप- यन्तु भवन्तः इति । तन्निशम्य नीतिविदः सचित्राश्च 'देव किमत्र वि- चारेण । सर्वथा स एव योग्यः कुमारः' इत्युदीरयामासः ।
गद्यचिन्तामणी -- अथैवमात्माभिमतममात्यानुमतं च वधूवरसंगमं संपादयितुमुलो- कसंविधाविधायिनि पल्लवदेशभूभुजि, परश्वः खलु भविता पाणिपीडनमहो- त्सव इति जनवादे विजृम्भमाणे, विजृम्भितमन्मथव्यथः कुमारोऽप्येका- मपि त्रियामां सहस्रयामां सर्वथा निश्चिन्वन्पश्चिम यामे यामिनीस्वामिन्य- पि स्वामिरहःसंभोगसमुद्रीक्षणत्रपयेव तिरोदधति , रतिव्यतिकरविशीर्ण- वधूवरचिकुरविच्छरितसुमनसीव विच्छायतामुपगन्छ्न्युडुनिकरे , निर्दय- विमर्दाश्यानमिथुनाङ्गमगतकुङ्कुमपङ्कपराग इव प्रसरति प्रसवरजसि , पु- रूपवतीः स्पृष्ट्वा लताः पुनः स्पर्शभीत्येव शनैश्चरति समवगाढसरसि म- मति, मद्योविकचन्मणीचकनिचयमनोहारिणि महीमहनिकरे निरन्तरनि- स्यन्दिमकरन्दधारां दम्पतिघटनार्थमम्बुधारामिवावर्जयति . फुटितकुसुम- पण्डोद्भासिनि दीपमण्डितदीपदण्ड इव दृश्यमाने सनीडगतचम्पकविटपि- नि, अतिस्फारतया बहिःस्फर ज़ायापतिराग इवोन्मिपन्युषोरागे. भृङ्गावलि- प्रकणिते मङ्गलपाठकवचसीव गृह्यमाणे, गृहोद्यानमण्डनमाधवीलताम- ण्डपे कुसुमकोदण्डेन प्रदत्तां तां मत्तकाशिनी गम्धर्वदत्तापतिर्गन्धर्ववि- वाहप्रक्रमेण रागाग्निसाक्षिकं परिणीय पुनर्गुणवति लग्ने लोकपालेन वि- तीणां विधिवदुपायच्छत । --- , इति श्रीमद्वादीभसिंहमूरिविचिते गद्यचिन्तामणी पद्मालम्भो नाम पश्चमो लम्बः ॥ - षष्ठो लम्बः । ९५ पष्टो लम्बः । अथ तां नववधूमवधूतत्रपां पवित्रकुमारः शनैःशनैः परिकल्पय- न्, 'पङ्कजन्वेन द्विजपतिदूषण मधुपसंपर्केण च निकृष्टं निर्दिष्टदोपरा- हित्यादवधीरयत: पद्म तव मुग्वपद्मस्य पद्मसदृशतां पद्मानने , कविवर्मनि स्थिताः कथं कथयन्ति' इति मिथः कथयन् . नट इवावस्थानगुणवच- सि विट इव संभोगचातयें वक्ष्यमन्त्र इव वशीकरणविधी शिष्य इवेच्छा- नुगुणवर्तने चक्रवाक इव विरहासहिष्णुत्वे भवन् , तत्तद्गुणषु स्वयमपि तथा भवन्ती कामिनी कामतन्त्रज्ञा यथाकाममन्वभवत् । अनैपीच्च तस्मि- नेत्र राजसमन्यम्टानपाटलोत्पलदामपरिमलोद्गारिकवरीबन्धया विरचित- शिरीपकलिकावतंसया दिवसकरसंतापसंत्रासादतिशिशिरदेशनिवेशितनेव शशाङ्कातपेन बनसारसुरभिणा हिमजललुलितेनानतिविरलेन चन्दनविलेप- नेन पाण्डुरितशरीरया , सलिलस्यन्दिविसलताहारव्यतिकरितमुक्तासरत- रङ्गितस्तनतटया परिहृतकुङ्कुममाणिक्यभूषणथा त्रिगुणतिरस्करिणीस्थ- गितवातायनदरान्तरितद्युमणिकिरणदर्शनया पल्लवितसायंतनसलिलकेलि कौतुकया निर्मोकपरिलघुपरिधानया धारागृहनिर्यद्वारिधारारवश्रवणनि- वृतया चन्दनशिशिरशिलापट्टसंविष्टया प्रालेयशीकरासारवाहिन्या यामि- न्येव हेमन्तस्य , मौक्तिकराजिततनुलतया वेण्येव ताम्रपर्णाः, शीतल- चन्दनच्छायाभृता मेखलयेव मलयशैलस्य , फेनपिण्डपाण्डुराम्बरया वा- च्येव पयःपयोधेः , पद्मया तया समं स्फुटितपाटलकुसुमापीडपटुपरिमल- . . .
गद्यचिन्तामो - विसरवासितरोदोविवराणि प्रसरदूष्मलतरणिकिरणपरामर्शमरितपक्ष्माणि पटुतरातपकृतकोटरपुटपाकमन्दप्राणविल्किराणि स्फीतफलस्तबकभूरिभा. रनम्रशाखाम्रवणानि चूडारत्नसंशयितवनवैश्वानरबिलेशयभुजङ्गानि पत्रला- नूपद्रुमपण्डपिण्डितरोमन्थमन्थरवदनगोधनानि दावदहनदाहविद्राणसारङ्ग- सङ्घलङ्तिमरुन्मार्गाणि पानीपशालापन्नपथिकजनवाञ्छ्यमानसायाह्नानि शुष्कसरसीविलोकननिराशशोकान्धसिन्धुरारब्धकरास्फोटानि रिक्तीकृतम- हामहीधरनिर्झरस्रोतःसिरासंतानानि संज्वलितपतङ्गगावपावकप्रभापटल- लीढजाङ्गलद्रुमाणि , घोरतपांसीव मुक्ताहारशरीराणि , राजहृदयानीव ते- जोधिकद्वेपोत्पादीनि , अपत्यानीव सदाकासितपयांसि , पतितकर्माणीवा- धस्तलावरोहणकारीणि , नाकस्त्रीमनांसीव मरुदौत्सुक्यविधायीनि, अति- रूक्षाणि प्रेष्मकाणि कानिचिदहानि जीवंधरः । अथैवं मनोरथदुरासदं सततं तया सारङ्गदृशा समं शमनुभवन्नपि विषयेष्वसक्ततामात्मनो विवरीतुभिव विजयासूनुः, विषयान्तरमन्तर्हित- एवं गन्तुमनाः समजनि । तावतास्य तिरोधाय जिगमिषोरनुकूलतां चि- कीर्षुरिवावसितदिवसव्यापारशेषः पूषा निकषास्तशैलमलम्बत । आपत- यालु निशानिशाचरीनिशातशूलशिग्वासमुत्खातं वासरस्य हृदयभिव स्थ- पुटितप्रस्थप्रस्थानविह्वलवाहनिवहविहतस्यन्नविनस्तमस्तगिरिगैरिकपङ्क- चयखचितं रथाङ्गमिव च पातङ्गमङ्गमदृश्यत । ततस्तेजोनिधिरपि विनि- वारितदोषोऽपि वारुणीसङ्गात्किमपरं रविरधः पपात । पमिनीरजःस्पृष्टम- म्बरमपहाय मज्जत्यब्जिनीभुजङ्गे जलधिजलवेलान्ते संततलाक्षिकयवनि- कालक्ष्मी बभार संध्या। ततश्च सवेगपतङ्गपयोधिपातपाटितशुक्तिपुटमुक्तो- त्थितमुक्तोत्करा इव निर्दयमधुकरमर्दननिपतदनल्पकल्पतरुकुसुमप्रकरा इन च तारकाश्चकाशिरे । तदनु चागाधरसातलकासारगर्भपीतवासरतापसु- खसमुत्तरत्समीतवाहनवाहवैरिकायकायॆकञ्चकितानीव, अहरवसानवि- षष्ठो लम्बः। . . हारमण्डनप्रवृत्तवलरिपुपुरपुरंध्रीजातयातयामतावधूतावतंसनीलकुवलयप्र - भानुविद्धानीव समददिक्करिकुलकर्णतालताडनानेडनभयचकितविद्राणष- ट्चरणचक्रचञ्चचिश्चर्चामेचकितानीव सर्वतः शर्वरीकेशपाशदेशीयानि तमांसि मांसलिमानमभजन्त । क्रमेण चाभ्यागताभिमतरमणनीलकञ्चुकक- दाशाकदर्थिताभिरनुपदं प्रसारितपाणिभिरितस्ततो गृह्यमाणे स्वाभ्याशेषु स्त्ररिणीभिः, अतिबहलपङ्कपटलशङ्किभिरावर्जितपार्श्वेरनिभृतं विटुठितु- मूरीक्रियमाणे विपिनकुहरेषु वराहनिवर्हः, अकाण्डजलदमण्डलभ्रमसं- भ्रमसंभृतपुनःपलायनचिन्तैरुक्षेपचटुलपक्षसंपुटैः सभयमभिवीक्ष्यमाणे स- रःसु हसैः, संरम्भसमुद्धृतसटान्छटैरुत्पुन्छायमानैः कठोरकालायसपञ्ज- रधिया विघटयितुं व्यापारितनखकोटिभिः साटोपमुद्दिश्यमाने गिरितटीषु कण्ठीरवैः , तिमिरापोडे जरठतां प्रतिपन्ने , प्राने च निशीथे, निर्दयसं- भोगव्यतिकरश्रमेण गाढाश्लिष्टनिद्रां तां विम्बोष्ठीमतिसंधाय गन्धर्वदत्ता- पतिरन्तर्वशिकरप्यविदित एवान्तःपुरात्पुराच्च निर्गत्य ययौ अथ पद्मबन्धी पद्मिनीमिव पद्मां परित्यज्य पद्मादयिते प्रयाते, प्रशिथिलितनितान्तस्वापा सा कान्ता कान्तकरपरिरम्भणसंभूष्णुशंभरा- नुपलम्भेन विजृम्भमाणवेपथुभरादरविवर्तितगात्रा निमीलितनेत्रैव प्रसा- रितपाणिः परितः पर्यङ्के पतिं व्यचेष्ट । अदृष्ट्वा च तलिमसविधे धव- वधूतावशिष्टनिद्रा द्रुतमुत्थाय शयनगृहमभितः प्रदीपाट्टेषु प्रलम्बमानम- णकनकसुमनोदामनिकामस्थूलशातकुम्भस्तम्भच्छायास्वप्यतुच्छरणरणक- वेहला प्रहृतरपूर्वगात्रा धात्रीतलचुम्बितलम्बमानशिथिलकेशकलापा क- लापिनीव नृत्तोद्यता , विद्युदिव मेघावलीवलयिता, वलयरवमुखरितकर- पल्लवैः पल्लवयन्तीव परामृशन्ती भुवं भूयः पर्यभ्रमत् । एवं नैकवारं परदर्शनशङ्कया दरस्तम्भिताक्रन्दप्रसङ्गा स्वाङ्गच्छायामपि तदङ्गच्छायां संदिहाना भूत्वापि निशान्ते कान्तं यदा नैक्षिष्ट तदा 'हा हतास्मि' 9 ९८ गद्यचिन्तामणो . इति परिदेवनमुखरितोपकण्ठा कलकण्ठी मुक्तकण्ठं रुरोद । तावता प्र- बुध्य दग्धहृदया निभृतेतरपदप्रसृतयो विसृमरकचभारतिमिरकवचित- वियतः 'किं किम्' इति यामिनीनिभा यामिकयुवतयः समायासिषुः । अद्राक्षुश्च तां भग्नोपन्नपादपां लतामिव पांसुलोद्गमपत्रभङ्गां धात्रीतलशा- यिनी शमयितुमिव शोकानलं नयनजलप्रवाहे प्लवमानामुद्दामदारिद्याद- प्युद्वेजनीयां वाच्यसंपर्कादपि शोच्यां निघृणत्वादपि निन्दनीयां परदा- रपरिग्रहादपि निग्राह्यां नास्तिक्यादप्यनास्थेयामवस्थामारूढां पद्माम् । ततश्च तास्वपि तस्याः परिदेवनानदानं परिज्ञाय परित्रासपराधीनासु , परिजनमुखादेतदुपश्रुत्योदश्रुमुखी समागत्य तज्जननी जनितोद्वेगा निजो- त्सङ्गे वत्सामारोप्य तदात्वोचितैः शीफरशिशिरोपचारप्रकारैयाहारैश्च वि. धाय लब्धसंज्ञां सात्यंधरिदयितां सदयमेवमन्वयुत-'अयि पुत्रि, ते जा- मात्रा स्वयात्राभिव्यजि किंचित्पुरस्तादुपन्यस्तमस्ति वा न वा' इति । सा च मजुभाषिणी किंचिद्ध्यात्वा स्मृत्वा च तदुक्तमित्थं प्रत्यब्रवीत् "अम्ब , कदाचिदपहायाम्बरमम्बरमणावम्बुराशिगाहनलम्पटे सति , त- मवलोक्य जातमन्दहसित इव चकासति चन्द्रमसि , चन्द्रशालां मया साकमधिवसन्भर्तृप्रवासपीडितां सनीडगृहाक्रीडक्रीडागिरिनीडगतां को- कप्रियां प्रदर्शयन् ‘प्रिये , पश्य भर्तृवियोगेऽपि पुनस्तत्संयोगसंभूष्णुतया विरहसहिष्णुमिमाम्' इति साकूतं समभ्यधात्" इति। दुहितृवचःश्रवणान- न्तरं समुद्भवदुद्दामधृतिः पद्माजननी 'जहीहि वत्से , विचिकित्साम् । अनेन ह्यन्यापदेशेनोपादेशि त्वया विप्रयोगः पुनः संप्रयोगश्च ते प्राणना- थस्य' इति प्रणिगदन्ती सुतामाश्वासयामास । अथ पद्मावल्लभोऽपि पल्लवजनपदपतिचोदितजङ्घालजनवातेना- प्यविदित एव लङ्घयन्नलङ्घनीयमरण्याध्वानमभिवन्दिताखिलपुण्यजिनभवन- तया पावनतामुल्लाघतां च नीतः पल्लववर्षसीम्नि नाम्ना चित्रकूटं विचि- . .
षष्ठो लम्बः । त्रचारित्राश्रयं तापसाश्रममध्वश्रमपरिच्छेदाय शिश्रिये । अपश्यच्च ताप- सानामश्चितवृत्तोऽयं पञ्चाग्निमध्यस्थानादितपःप्रपञ्चम् । अतर्कयच्चायं कृ- पालु: 'अहो देहिनां मोहनीयकर्मेदं दुर्मोचप्रसरं यद्वश्या अमी मुधा क्लिश्यन्ते' इति । व्याहरच्चायं परहितपरतन्त्रो मन्त्रायमाणं वचः “अयि तपोधनाः . 'न हिंस्यात्सर्वभूतानि' इति विश्रुतां श्रुति विद्वांसोऽपि किं हिंसानिदाने तपस्येकताना भवन्ति" इति । अदीदृशञ्च दुर्दशो जडाजटाजालभ्रष्टजलावगाहनलग्नजलचरविसराणां विविधधोविवरविस- पत्सर्पादिजन्तूनामप्यमन्दविभावसौ दन्दह्यमानानां नयनवतामसह्यं व्यस- नम् । अबुधञ्च तत्त्वमयं लब्धवर्णो वर्णिनां मध्ये कतिचिदत्यासन्नभ- व्यान्दिव्यैः श्राव्यहोरनवद्यानेकान्तोद्योतिभिर्वचोभिः । उदस्विदपवर्गश्रिय- स्तेऽपि श्रीजिनधर्ममगृह्णन् । अथ तावता सद्धर्माभिमुखतापसहृदयोद्वा- न्ततमसेव श्यामीभवति दिङ्मुग्वे , श्यामामुग्वविधेयकृत्यं मुनिजनैः सम- मनुष्ठाय काष्ठाङ्गाररिपुः क्षपामपि तत्रैव क्षपयामास । तदनु च सन्मार्ग- संदर्शनसावधानेन सवित्रा संगृहीतसम्यक्तबलबहिष्कृततापसमनस्तमो- राशिपुनःसंपर्कभीत्येव निःशेषतमःम्तोमेऽपि निरन्ते, परिसरतरुसुप्तोत्थिते कुमारसौखसुप्तिक इव सविरावे सति क्यासि, रुगणेऽप्युट जाङ्गणभुवमुत्सृज्य तृणचर्वणचापल्यादाश्रमोपशल्यमाश्रयति , शुचीतरविभागोपेक्षिणि सुग- तमतावलम्बिनीवाम्बुजिनीरजःस्पर्शनलम्पटे वाति प्राभातिके मरुति, दि- नपतिमुखावलोकनोद्दामदिवमश्रीराग इव प्रसरति तरुणातपे, तापसदार- कसमितौ च समित्कुशपलाशहरणाय यथायथं बिहरन्त्याम् , विहितप्रगेतन- विधिस्ततो विनिर्गन्य सात्यंधरिरन्धकारितपरिसराणि क्वणदलिकदम्बकब- लितशिखरकुसुमतुङ्गतरुसहस्राणि विशृङ्खलखेलत्कुरङ्गखुरपुटमुद्रितसिक- तिलस्थलाभिरम्याणि स्वच्छसलिलसरःसमुद्भिनकुमुदकुवलयमनोज्ञानि वि- मलवनापगापुलिनपुञ्जितकलहंसरसितरजितश्रवणानि दृप्यच्छाकरशृङ्गको- - १०० गद्यचिन्तामणौ टिविघटनविषमिततुङ्गकच्छानि विचित्रसुमन:परिमलमांसलसमीरसंचारसु- रभीकृतानि कानिचित्काननानि नयनयोरुपायनीचकार । तानि च क्र- मादतिक्रम्य गच्छन्त्रिक्रमशालिविविधपुरुषपरिषदः पारुष्यविरामाभिराम- रामालंकृतस्यायनोपनतरत्नरजतजातरूपजातजातसमृद्धडिण्डीरपिण्डपाण्डु- पुण्डरीकोद्भासिनः सलिलान्दोलितचारुचमरवालमरुतः परदुरासदसत्त्वा- धिकविविधभूभृदध्यासितसविधस्याजस्राभिवार्धितवाहिनीसहस्रसंपादितसं- पदः पयोधरभरमनोहरमहिषीमहितधाम्नः सदातनगोधनचकासिनः सक- लजन्तुसंरक्षणदक्षस्य विडम्बितक्षोणीपतेर्दक्षिणदेशस्य मणिमकुटायमान- विकटशिखरचुलुकिताम्बरं जाम्बूनदोपपादितस्थूलस्थूणसहस्रसंबाधमण्डि- तमण्डपमकाण्डभवदाखण्डलधनुःकाण्डशङ्कानिष्पादनशौण्डनैकपुष्पोपहा- रमहरहरभिवर्धमानसपर्यमविलयं कमपि श्रीजिनालयमद्राक्षीत् । तन्निरी- क्षणक्षण एव क्षीणनिःशेषश्रमः श्रावकश्रेष्टोऽयं काप्टागतप्रमोदः साधुधौ- तपादः पादपवलरीतलजसंफुल्लफुलोत्करमरविन्दसंदेहानुधावन्मधुकरेण क- रेणापचित्यापचितिविधिज्ञोऽयं विहिता जलिरधिकभक्तिभक्तिभरनिगलवि- गलित इव कथंचिद्गलाद्गलति सकलवाङ्मयातितिकीर्तेर्भगवतः संस्तवे, संस्तवनौत्सुक्याङ्कुरानुकारिरोमाञ्चं मुञ्चति शरीरे , शारदारविन्द इव मक- रन्दबिन्दुभिरानन्दाश्रुजालैः प्लाविते लोचनयुगले , अचलितमूर्तिरतुलतूर्तिः कर्तव्यमपश्यन्नवश्येन्द्रियस्त्रिकरणशुद्धिस्त्रिः परीत्य क्षणमास्थितः श्रीपी- ठापस्थितिरारचय्य कुसुमाञ्जलिमत्रजिनं जिनमस्तोकमस्तावीत्... 'तरन्ति संसारमहाम्बुराशिं यत्पादनावं प्रतिपद्य भव्याः । अखण्डमानन्दमखण्डितश्री: श्रीवर्धमानः कुरुताजिनो नः ॥ विवेकिनो यस्य पदं भजन्ते विमुच्य बाह्यान्विषयानसारान् । अवाप्तुमात्मीयगुणं गुणाब्धिजिनेश्वरो नः श्रियमातनोतु ॥ यदीयपादामृतसेवनेन हरन्ति संसारगरं मुनीन्द्राः ।
षष्ठो लम्बः । १०१ , . , , स एष संतोषतजिनो नः संसारतापं शकलीकरोतु ॥' इति । तावदवञ्चितया तदीयभयभक्तिकुञ्चिकयैव श्रीकवाटे स्वयं झ- टिति विघटिते, तदवलोक्य निकटवर्ती मर्त्यः कश्चिदाहितात्याहितभरः प्रीतिविस्फारितनेत्रद्वयेन शतपत्रान्जलिमित्र पवित्रकुमारस्य पातयत्नस्य पा- दयोः पपात । तमवलोक्य लोकज्ञः कुमारोऽपि नात्यादरं दर्शितदशन- ज्योत्स्नया कृत्स्नमस्याङ्गमालिम्पन् 'कोऽसि । कुतस्त्यः । कस्मादस्मत्पद- योस्तव पतनम्' इत्यपृच्छत् । स च तद्वचोलाभेन लब्धमहाप्रसाद इत्र बद्धाञ्जलिरित्थं निजगाद.--. " स्वामिन् , इतः क्रोशमात्रान्तरितप्रदेश- निवेशितो वेशवाटिकेति विटैः , विद्यामठिकेति विद्यार्जनोत्सुकैः , विप- णिवीथीति वणिग्भिः, आतिथेयनिवास इत्यतिथिभिः , भोगभूरिति भो- गापेक्षिभिः , आस्थायिकेत्यास्तिकैः, गिरिदुर्ग इति क्षेमाथिभिः सेव्यः क्षे- मपुरी नाम जननिवेशः । तत्र च प्रजापतिरधःपातिताखिलपृथिवीपतिः सुरपतिदेशीयो नरपतिदेवो नाम । तस्य च राजश्रेष्ठस्य श्रेष्टिपदप्राप्तः स्पर्शनशीलत्वेऽप्यकल्पितप्रदायित्वेन कल्पशाखिनं प्रज्ञाशालित्वेऽपि क्षमा- स्पदत्वेन बृहस्पतिमाढ्यत्वेऽप्यनुत्तरकाष्टाश्रितधनिकतया धनदमप्यधःकुर्व- न्सर्वगुणभद्रः सुभद्रो नाम । तस्माच ते जोधाम्नश्चन्द्रादिव चन्द्रिका पद्माकरा- दिव पद्मिनी पयःपयोधेरिव पङ्कजासना काचिदङ्गजा समजनि। सा चेन्दु- मुखी बन्धुजनप्रमोदेनाभिवृद्धा सांप्रतं प्रावृडियोद्भिन्नपयोधरा सरांसि पि- त्रोर्मनसी कलुपयत्याकर्पयति च युवशिखण्डिनः । दैवज्ञास्तु तजन्म- दिवस एव 'एतज्जिनभवनद्वाराररपुटस्य स्वयं विघटनं निकटगते यस्मि- अाघटीति प्रकटितानुभावस्य तस्येयं पाणिगृहीती' इत्यभाणिषुः । अहमपि तस्य विश्रुतमहिम्नो वैश्यपतेश्चक्षुष्यः कोऽपि भुजिष्यः । ततः प्रभृति तन्नि- युक्तोऽत्र निवसन्नहं निर्वासितहृच्छल्यं प्रतीक्ष्य जगत्प्रतीक्ष्यं भवन्तं हृद- यप्रभवदानन्दप्राग्भारेण प्रणतवान्" इति प्रणिगदन्नेव वणिजां कर्ण- १०२ गद्यचिन्तामणौ धारस्य कर्णोत्सवमदःकथया कर्तुं ययौ । सुभद्रोऽपि भद्रतरनिमित्तोपलम् पौन:पुन्येनानुस्मृतकन्यावृत्ता- न्तः कचिदेकान्ते कान्तया समम् ‘कि करोति स किंकरेषु भद्रो यः कन्यावरपरीक्षणकृते सहस्रकूटजिनालये कृतक्षणोऽभूत् । वामेत- रभुजस्फुरणं विवृणोति शुभावाप्तिम् । अपि नाम कदाचिदवश्यं वरं पश्येत्' इति पारवश्यकर्कशं वितर्कयन्नतर्कितागतिना गुणभद्रेण प- वित्रकुमारस्य त्रिजगत्स्वामिजिनभवनाभ्यागमनमाकार्णव इवेन्दोर- मन्दसंभ्रमः श्रवणयोस्तद्वचःश्रवणं चरणयोः प्रयाणत्वरां नयनयोरा- नन्दाश्रुधारां च कुर्वाणः पाणिद्वयार्पितद्रविणराशिना गुणभद्रं दारिका- वरवार्तया दारान्सस्नेहनिरीक्षणेन सनाभींश्च संभावयन्नहंपूर्विकासमेतामि- तेतरान्तिकचरः कुमारान्तिकमभ्यगमत् , अपश्यच्च भक्तिपरतन्त्रं श्रीजि- नेन्द्रसपर्यापर्युत्सुकं विजयावत्सं जैनजनवत्सलः स धर्मवात्सल्यावर्जितप्री- तिर्वैश्यपतिः । अचिन्तयच्चायम् ‘अतिप्रगल्भमधुरदृष्टिविक्षेपलीलादर्शि- ताकाण्डपुण्डरीकवनविकासविभ्रमं वैदग्ध्यलास्यविद्याललितभूलतं दन्त- कान्तिचन्द्रिकाच्छुरितविद्रुमपाटलरदनच्छदमुन्मृष्टचामीकरमुकुरतुलितक - पोलमृजुतुङ्गकोमलदीर्घनासिकं विगाढलक्ष्मीभुजलतावेष्टनमार्गानुकारिक- ण्ठरेखमंससक्तकर्णपाशं शौर्यशिबिरोत्तम्भितस्तम्भसब्रह्मचारिमनोहरांसबा- हुलतं कमलाकर्णावतंसकङ्केलिकिसलयसुकुमाररुचिरकरशाखं व्यक्तश्रील- क्ष्मविकटवक्षःकवाटममृतसरिदावर्तसनाभिनाभिमण्डलं नखदिनमणिनिष्य- न्दिकिरणविकासिचरणतामरसद्वन्दू कन्दमिवानन्दस्य प्ररोहमित्रोत्साहस्य प- लवमिवोल्लसमय कुसुममिव मङ्गलस्य फलमिव मनोरथस्य न्यञ्चत्काञ्चनन- गलोकमतिलोकं वपुरमुष्य तावदामुष्यायणत्वमेव न केवलं केवलार्कोद- यस्थानतामप्यनक्षरमाचष्टे' हीत । ततश्च नातिचिराद्विरचितपरमेश्वरापचितिमवलोक्य तं कुमारमु- षष्ठो लम्बः । १०३ . चितोपचारैराराध्य पुनराराद्वर्तिनः कस्यचिदकठोरकङ्केलितरोरतुच्छच्छा- यायां शौक्तिकजालवालुकमनोज्ञे हृदयज्ञान्तिकचरसत्वरसमीकृतस्थले कुमारमन्वासीनः कुबेरदेश्यो वैश्यपतिर्वात्सल्यौत्सुक्यकौशलशंसिकुशल- परिप्रश्नादिना मुदितहृदये विदितवृत्तान्ते च भवति विजयानन्दने नखंपचपांसूत्करदुःसहाध्वन्याध्वश्रमाश्रितविश्वजनपदपथिकनिबिडितपाद - पमूले कथितसलिलसरःपराचीनतृष्यत्पतत्रिणि मृगतृष्णिकाकुलितमृग- कुले ललाटंतपे भवत्यम्बरमणौ कुरुकुलशिखामणये गुरुतरनिजमुख- प्रसादकण्ठोक्तां निजोत्कण्ठां पुनरुक्तामिव विवने- "कुमार , मयि ते प्रेमकारणमपरमास्ताम् । आस्तिकचूडामणे , तावदनिषेध्यमेवेदं स्वयूथ्यत्वम् । अतस्त्वया मे प्रार्थनावेमुख्येन न सख्यं विहन्तव्यम् । अनुमन्तव्यमेवास्मदावसथे दिवसांचितविधि विधातुम्" इति । सोऽप्य- सुप्रणयिनामप्यर्थितामसमर्थो भवन्विहन्तुमत्याहितवृत्तः सात्यंधरिः 'अ- स्वेवम्' इत्यन्वमस्त । ततश्च सर्वगुणभद्रः पवित्रकुमारोऽयं गुणभद्रप्रसा- रितं पाणिं पाणौ कुर्वन्सर्वसहायाः सहेलमुत्थाय कायरोचिःप्रतिहतसह- सरोचिः सहस्रकूटजिनालयं सहस्रशः परीत्य प्रणिपत्य च पुनरप्यतृप्त एव तन्निकटात्सुभद्रनिरोधाद्वटद्धाटककूटकोटिपिनद्वध्वजपटपाणिपल्लवेन क्षेमश्रीवल्लभभिवामन्त्रयमाणं सान्द्रचन्द्रातपातिशायिचन्द्रशालानिलृप्तनिर- तिशयरत्नविसरविसर्पिकिरणप्रकरणेव प्रतिगृह्णन्तं प्रसभोपसर्पदतिघोरपौ- रुषपदप्रचुरस्तनितानुकारिरणितश्रवणारब्धताण्डवगृहशिखण्डिबृन्देन स्व- यमप्यमन्दादरादानन्दनृत्तमिवारचयन्तमत्यादरधात्रीमुखाकर्णितसुभद्रसुता - भर्तृसांनिध्यानेडितहर्षक्रीडाकीरविरावमिषेणाशिषमिव प्रयुञ्जानम् , पुञ्ज- मिव संपदः, पूर्तिमिव शोभायाः , मूर्तिीमव कोलाहलस्य , अतिभद्रसु- भद्रसदनोद्देशं निरवकाशितजननिवेशं वेशपुरंध्रीनेत्रव्रजविरचितविविध- तोरणस्रजः समतीत्य समासदत् । . .
१०४ गधचिन्तामणौ तत्र च सुभद्रसुतासौभाग्यगृहोत्तम्भितस्तम्भसदृशोरुस्तम्भशोभो- पलम्भलम्पटताप्राप्तैरिख रम्भास्तम्भनिकरैर्नीरन्ध्रिताः पुरंधीवातविधीयमा- नविविधालंकृतीरहपूर्विकागच्छद्विश्रुतविश्ववैश्यदृश्यमानप्रवेशावसरा नैक- द्वारभुवः क्रान्त्वा, कुमारः क्वचिदन्तर्गृहं करगृहीतजाम्बूनदताम्बूल- करण्डादर्शकलापिकेलिकीरसारिकाप्रमुखाणाम् , संमुखागतं क्षेमश्रीवल्लू- भमत्यादरादन्योन्यमङ्गुलीनिर्देशेन दर्शयन्तीनां प्रियसखीनां मध्ये स्थितां क्षेमश्रियं श्रियमिव साक्षालक्षयन् , तदक्षिशरलक्षीकरणादक्षमया च तया सविभ्रमाकुञ्चितचारुभूलताचापनिर्गतेन हृदयभेदनपेशलशितेन नेत्रप- त्रिणा विद्धो भवन् , हृदयलग्नभल्लशल्य इवायल्लुकभरास्पदीभूतः पदमपि गन्तुमपारयन्नपारतद्वयथानिवृतये निर्वृतिपुत्रिकां तां धात्रीतलदुर्लभसंवि- धानविधात्रा सुभद्रेण भद्रतरलग्ने यथाविधि विश्राणितां पर्यणयत् । इति श्रीमद्वादीभसिंहसरिविरचिते गद्यचिन्तामणों क्षेमश्रीलम्भो नाम षष्ठो लम्बः ।
सप्तमो लम्बः । १०५ सप्तमो लम्बः । . , . अथ तां पृथुनितम्बामयं प्रथमविवाह इव प्रथमानप्रीतिः परिण- मपरिणमदनिवारणमदनमदवारणवर्धितधृतिरनवधृतरतिव्यतिकरविजृम्भि- तव्याक्षेपः क्षेमश्रीकान्तश्विरमेकान्ते कान्ततरकायकान्तिकान्दिशीककला- धराम् , रमणे चरणतले च रक्ताम् , प्रियसखीमण्डले जङ्घाकाण्डे च स्निग्धाम् , ऊरुस्तम्भे परिजने चानुकूलस्पर्शनाम् , सौभाग्ये श्रोणीविम्बे च साभोगाम् , हृदयवृत्तौ रोमराजौ चात्यक्तकौटिल्याम् , मध्ये प्रणयक- लहकोपतनूनपादि च तनुतराम् , सनाभौ नाभिमण्डले च भग्नाम् , चित्ते कुचयुगलेऽप्युन्नताम् , मनसि वाहुलतायां च मृद्वीम् , वचसि ग्रीवायां च मिताम् , वक्त्रे हृदि च सुवृत्तोद्भासिनीम् , सपत्नीनिचये कचभारे च कालिममयी क्षेमश्रियं पश्यन् , स्पृष्टदृष्टतदीयाखिलाङ्गतया हृष्टतमः ‘प्रिये, त्यामेवमनारतभोग्याममर्त्यभोग्याभिरप्सरोभिरुपमेयशोमां कथमुदीरयामि' इत्युपलालयन्नतिगृभुरिवालंबुद्धिमनासेदिवानवतिष्ट । एव- मनिर्वृतिसुखया निर्वृतिसुतया सममतिमात्रनिर्वृतिमधिजग्मुपस्तस्य गन्धर्व- दत्तापतेर्गत्वरतां ज्ञात्वा प्रियसखीव प्रतिषिद्धप्रयाणा प्रावृडाविरासीत् । तस्मिंश्वातिचकितकादम्बे कन्दलितकन्दले स्फुटितकुटजषण्डे ताण्डव- तरलशिखण्डिनि स्फुरदाखण्डलकोदण्डे खण्डितमहीपालदण्डयात्रे त्रासि. तवातकिनि तटिदालोकनचकितवनौकसि प्रस्थितमानसौकसि तिरस्कृतदि- नमणितेजसि स्फूर्जत्सर्जसौरभे भेकरटितवाचाले चलितबकपतिदन्तुरवि- यति वृत्रहगोपचित्रितधरित्रीपृष्ठे निष्ठुरघननिनदविनिद्रकेसरिणि मदमन्थ- रसिन्धुरे नखम्पचनितम्बिनीस्तनमण्डले प्रोषितप्राणखण्डिनि तरुगहर- १०६ गद्यचिन्तामणौ निभृतपरभृते विरतविभावरीरमणजागरणे कुटमलिततारकावलोकनकौतु- के कूलंकषसलिलपूरसरिति. धारान्धकारपूरितहरिति दुर्विभावदिवानिश. विभागे पुङितशरकुसुमशरे शीतालुगोधनत्राणायस्तगोमिनि निर्विशङ्कस- मालिङ्ग्यमानाङ्गारधानीतनूनपादि परिणमति पयोधरसमये, कुङ्कमपङ्कप- किलपयोधरामन्तरमान्तं वमन्तीमिव रागम् , करालकालमेघकालिमकाला- गुरुधूपगर्भगर्भागारगर्भस्थिताम् , चिरप्रभामिवाचिरप्रभाम् , प्रसरन्मनो- हार्याहार्यनैकमणिमहःस्तबकामगस्त्यचुलकितरत्नामिव रत्नाकरस्थलीम् , करिणीमित्र वारिसंपर्कचकिताम् , प्रजानाथचित्तवृत्तिमिव प्रतापार्थिनीम् , सुराङ्गनामिव महीरङ्गस्पर्शनपराचीनपदा क्षेमश्रियम् , क्षेमभूमिमिव पराक्रा- न्तमहीपतिः, कुसुमशरशराक्रान्तोऽयं कुमारः क्षणमपि नात्याक्षीत् । अथ कदाचित्कस्यांचन त्रियामायां तृतीयप्रहरे विरहव्यसनावत- मसविषयीभविष्यन्त्याः क्षेमश्रियः प्रपञ्चहृदयकुञ्ज पुञ्जीभावादिव विरल- भावमासेदुषि तमसि, सुभद्रस्य जामातृप्रयाणप्रबोधनायेव कूजत्सु कुक्कुटेषु, निकटगतां पत्नीमतिसंधाय गन्धर्वदत्तापतिर्भवभृतां प्रवृत्त~- वस्थाविकलतां व्यवस्थापयन्निव तथाविधास्थास्पदमेकपद एव तां परित्यज्य प्रव्रज्यायै प्रकृष्टवैराग्यः पुरुष इव यथेष्टमियाय । तदनु सा च तनूदरी यातयामजातगाढस्वापा पुनः प्रबोधाभिमुखी तलिमतले तत इतोऽपि शनैः संचार्यमाणशरीरा विशीर्यमाणचिकुरभारविगलदविरलकुसुममाला सविला- सगात्रभञ्जना पञ्चशाखाङ्गुलीभिर्मर्दयन्ती मन्दमन्दं मन्थराक्षिपक्ष्मणी, पतिमुखनिरीक्षणतत्परा पतिदेवता सलीलमुत्थाय शय्यातलमधिवसन्त्येव संमुखागतयामिकवामलोचनामुखेऽपि मुखमनर्पयन्ती , प्रसर्पदङ्गुलीनखच- न्द्रचन्द्रिकया मुकुलयन्तीव नयननलिनयुगम् , किंचित्कुञ्चितपञ्चशाख- तलेन कञ्चकितवदना क्षणमीषदुन्मीलयन्ती पतिमन्वियेष । ततः सत्रासा तत्र दयितादर्शनादवशमुन्नयन्ती मुखमुदश्रुमुखीनां सखीनां हिमानीबिन्दुद- सप्तमो लम्बः । १०७ , न्तुरितारविन्दसवर्णवैवानि वदनानि साकृतं सानुतापं सदैन्यं च न्यशा- मयत् । तन्निशामिताः सख्यश्च सख्यं गता इव तोयदैः पूर्वमुल्लसद्दशन- किरणतटिलता पश्चात्पतिप्रयाणवार्तापविं तदनु नयनजलधारामप्यपात- यन् । सा तु क्षेमश्रीः श्रवासि तद्वार्ती मनसि हल्लेखं वपुषि प्रकम्पं च- क्षुषि वाष्पधारामात्मन्यविषाशुचं वदने वैवयं नासिकायां दीर्घश्वासमा- स्ये परिदेवनं च योगपद्येन भजन्ती तदशनिपतनादपासुरिख भूमौ पपात। तथाविधामनस्यामिमां वयस्येवाविदितकृच्छामातनोन्मूर्छ । एवमतिमोहविधुरां वरोपलम्भवरार्थितया निभृतेन्द्रियवृतिं पृथ्वी- शयने प्रतिशयानामिव शयानां फणिनीमिव फणामणिना पद्मिनीमिव पद्म- बन्धुना रतिमिव त्र्यम्बकललाटाम्बकदहनदग्धमदनेन दयितेन विप्रयुक्ताम- तिदयावहां जीवंधरदयितां निशाम्य, निवृतिरधिकनिर्वेदा खेदप्राचुर्यादुद्धर- णविहस्तेन हस्तद्वयेनोरिक्षप्याङ्गजामङ्कमारोप्य, तदङ्गमतिपांसुलं क्षालयन्तीव क्षरदश्रुजलैर्हिमजलकर्पूरपूरविलुलितमलयजस्थासकस्थगितस्फारहारशीफ - रशिशिरोपचारैर्निवारितप्राणप्रयाणां विधाय, 'विधिविलसितमिदमतिनृशं- सम्। हंसगमनेयमेवमप्यस्मदीक्षणाभ्यामहो कथमीक्षिता' इत्याधिक्षीणा त- क्षणे पूर्वक्षणदायां स्वापावसाने स्वप्नमालोकितमनुस्मृत्य सविस्मयं साश्वास सानुनयं च समभ्यधात् " पुत्रि, रात्रावतीतायां दयितां हंसीमपहाय राजहंसः क्वचिद्गत्वा संगतश्च पुनदृष्टः । ततः संगस्यसे त्वमपि जामात्रा। धात्रीतलदुर्लभस्तव वलभः सुते , स्वाभिप्रायं प्रायेण केनापि व्याजेन विवृण्वन्नेव प्रयास्यति । तवालस्यादिदमनवधृतम् । अथवा किमिदमाधु- निकमावश्यके कर्मणि सकलकर्मकर्मठानां पुरुषाणां कचिदटनं पुनर्घट- नं च” इति । एवमभिहितैरतिहितैर्मातृवचोभिः पिहितासुमोक्षाशा सा च पतिदेवता पतिपदं परमेश्वरश्रीपादारविन्दद्वन्द्वं च द्वन्द्वप्रशमनकते हृदि निधाय निषसाद ।
१०८ गद्यचिन्तामणौ . अथ क्षेमश्रीवल्लभेऽपि क्षेपीयः क्षेमपुरी चौरिकाध्यक्षकैरलक्षित एवातिक्रम्य कामपि कान्तां कान्तारभुवमासेदुषि , सागरसदनबाडबक- पीटयोनिशिखापटलालीढ इव पाटलवपुषि पद्मिनीसौखसुप्तिके पथिकज- ननेत्रे कोकमिथुनमित्रे मित्रे सुदर्शनमित्राय दर्शयितुमिवाध्वानमुदधेरुन्म- जति , जलनिधिनिमग्नोन्मग्नस्य रवेश्विरनिरुद्धनिसृष्टोच्छ्रास इव निःसरति सुमनःसंसर्गसुरभी गोसर्गमातरिश्वनि, दिनपतिसंभोगव्यतिकरविमर्दना- श्यानदिनश्रीकुचकुम्भकुङ्कुमाङ्गराग इव प्रतिदिशं प्रसर्पयरुणरोचिषि, विकचत्कुसुमकलिकाकलितशिखरशोभिनः शाखिनः सौखरात्रिक इत्र संश्रयति झंकारमुखरितककुभि षट्पदकदम्बके , कुमुदिनीषण्डे च प्रा- तिवेश्यस्थानस्पृशामम्भोजिनीनां बन्धोः प्रत्यूषाडम्बरममृष्यतीव घटितद- लपुटकबाटे बाढं स्वपिति , तत्रोपसरन्तं जरन्तं कमपि पामरं कुमारः सादरं निर्वर्ण्य परमनिर्वाणपदमुपसर्पतां प्रथमसोपानभूतं गृहमेधिनां ध- ममुपदिश्य प्रदिश्य चास्मै निजाहार्यमाहार्यपर्यायावरणविगमादव्याजरम- णीयस्ततोऽयमव्रजत् । ततश्च क्रमशः शशाङ्क इव सद्भिः संगच्छमानः कायैकधनतपो- धननिकायतया निवारितनिखिलश्वापदोपद्रवानद्रीन्सार्वकालिकजलप्रवा- हा वाहिनीः सर्वसौख्यास्पदानि जिनपदानि सर्वलोकप्रार्थ्यानि तीर्थानि च तत्तद्दर्शितातिशयानि पश्यन्पथश्रमपारवश्यप्रशमनाय कचिदटव्यां नि- जहृदय इव निर्मले स्फटिकतले निषीदन्यक्कृतनिखिलवनकुसुमसौरभेण नीरन्धितघ्राणरन्ध्रेण गन्धेनाकृष्टः किमिदमिति किंचिद्विवर्तितत्रिकः सवि- लासकरशाखावलम्बितसिताम्बरपल्लवां संफुल्लवनवल्लीतुल्यसौन्दर्या चिरा- दिव विभाव्यमानां कामपि वृषस्यन्ती युवतीं वृषस्कन्धोऽयमपश्यत् । अ- पृच्छच्चायमभिप्रायविदामप्रेसर: 'कासि वासु, कस्मादिहासि । कस्यासि परिग्रहः। परिज्ञाय परस्त्रीविमुखानामस्मत्प्रमुखाणां वशिनां मनःप्रवृत्तिं म- सप्तमो लम्बः । .. १०९ नीषितं तवाचव' इति । सा च समीहितविरोधिविजयानन्दनवचसा विवर्धितमन्मथा तन्मनोभेदननिष्णातां दूतीमिव मितहसितद्विगुणितदश- नकिरणावलिं विनिःसारयन्ती विरचिता जलिरेवमुपादत्त वक्तुम्—“अयि भद्र , विद्रावितविद्विषो विद्याधरराजस्य काचिदहं कन्या । गृहाद्विनिर्गस्य विजयागिरी सार्ध सखीभिराक्रीडे क्रीडन्तीमालोक्य मम स्यालः कोऽपि बलादवलम्ब्य स्वविमानमारोप्य गच्छन्मध्येमार्ग निजसुमध्यारोपभीतः पा- तितवानत्र वने । पातकिनी चाहमिह पर्यटन्ती भवन्तमधुना दिष्टया दृष्टवती । किमन्यत् । एबमतिकृपणाहं भवतश्चरणयोः शुश्रूपया चरिता- र्थमात्मानं कर्तुमिच्छामि । बालानामवलानामशरणानां शरणागतानां च त्राणनं शौर्यशालिनां शैली चेञ्चतुर्णामतेषां समवायस्यास्य जनस्य संरक्ष- णं करणीयं न वेत्यत्र भवानेव प्रमाणम्" इति । प्रकृतिधीर: कुमारोऽप्यविकृतेन्द्रियस्तद्वचनानन्तरम् 'अम्ब , किं वतैवमादावेवास्माभिरननुमतमर्थमत्यर्थमर्थयसे । किमेतं रसरुधिराद्यशुचि- वस्तुपर्याप्तमखिलाशुचिकुलसदनमविचारितरम्यमनुक्षणविशरारुं शरीरसंज्ञ मांसलं मांसपिण्डमालोक्यैवं मोमुह्यसे । पश्य पश्यतामेवास्माकं विनश्यतो- ऽस्य केवलमस्थिप जरस्य चर्मयन्त्रस्य सिरागहनस्य रुधिरहदस्य पिशित- राशेमेंदः कुम्भस्य मल जम्बालपल्वलस्य रोगनीडस्य कलेवरस्य हेतुना के- नचिदन्तःस्वरूपं चेदासीद्वाहिरास्तामेतदनुभवास्था | स्प्रष्टुमथवा द्रष्टुमथ- वैतत्काकेभ्यो रक्षितुं वा कः शक्नुयात् । अतस्तं मक्षिकापक्षाच्छमलाच्छा- दनचर्मच्छायाप्रतारिताविवेकिन्यजस्रं स्रसमानोवेलमलसहस्रसंगतसुषिरे संस्पर्शक्षणदूषितसमस्तप्रशस्तवस्तुनि जुगुप्सनीयपूतिगन्धिदुरासदाणुनि- माणे कर्मशिल्पिकल्पनाकौशलार्पितपेशलभ्रमे चर्मयन्त्रमित्रे गात्रेऽस्मिन्मा स्म कार्षीरत्यादरम्' इति व्याहार्षीत् । तावता 'मातुलसुते, मामतुलव्यथापाथोनिधी पातयन्ती क प्रया- 10 ११० गद्यचिन्तामणी । . । तासि । प्रयान्ति ममासवः' इति प्रलपतः कस्यचिदचलगह्वरप्रतिरवग- भीरस्वरः काननं व्यानशे । तमुपश्रुत्येयमश्वस्यन्ती युवतिरनाश्वासात्कुमारे सद्यः काप्यन्तरधात् , आविरासीच्च स परुषप्रलापः पुरुषः । अप्राक्षीच्चा- यमाधिक्षीणः कुमारम् -. "अयि महाभाग, भागधेयविधुरोऽहं विद्यानां पारदृश्वा कोऽपि विद्याधरः । सोऽहं मम मातुलस्याङ्गजामनङ्गतिलकां नाम कन्यकामुदन्योपद्रुतामिह द्रुममूले क्वचिदवस्थाप्य प्रस्थितः पुनरुपस्थित श्वानीय पानीयं महनीयाकृति तां तत्र बिम्बोष्ठी न दृष्टवान् । कुमार, कुमारीय मामिदानीमुपेक्ष्य कटाक्षेणापि नेक्षते । तथा स्निग्धामिमां मु. ग्धामपश्यतो मम पारवश्यान्मांसदृष्टिरिव ज्ञानदृष्टिरपि नष्टव प्रतिभाति । किमत्र करोमि । तत्रभवतः सकाशं किमियमविशत्" इति । कुमारोऽ- प्यत्यारूढरागमूढस्य गगनचरस्य वचनमतिदीन निशम्य 'न शाम्यति हि कर्मोपशमाढते दुर्मोचोऽयं रागरोगः । ततः खलु रागपरवशो लोकः स्वकुलं स्वशीलं स्वविभवं स्ववैभवं स्वशौर्य स्ववीर्य स्वपौरुपं स्ववेदन- मप्येकपद एव व्युदस्य दास्यमप्यभ्युपगच्छति । रागान्धो ह्यखिलेन्द्रिये- णाप्यदर्शनादन्धादपि महानन्धः । केचिदेव हि वशिनः किमिदं किंवि- षयं कीदृक्कियत्किफलमिति विचारचतुरकर्णधारा रागसागरं सदाजागरा- स्तरन्ति' इत्यन्तश्चिन्तयंश्चिन्तागौरवस्फुरितखेदं खेचरमुद्दिश्य 'भो नभो- ग, भोगलोलुपतया किमेवं विद्याशाली खिद्यसे । विकारहेतौ सति म- नश्चेद्विक्रियते विद्यास्फूर्तिः किमर्थिका । कचिदस्थानपातिनो जनस्य या- थात्म्यमवद्योतयितुं हि विद्याक्लेशः । दुराग्रहावकुण्ठितमतेस्वयं कण्ठशो- षणमात्रफल: स्यात् । ततस्त्वया विहन्यतामियं कन्यानुपलम्भविजृम्भिता वैपश्चित्यशालिना शालीनता । किं च किं न जानासि तरुणीनां प्रतारणं मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यन्ननु तासाम् । ताः खल्वमान्तं स्वान्तादिवोद्वा- न्तं काठिन्यस्वभावं कौटिल्यसंभारं रागप्राग्भारं तमःसंदोहं च स्तनद्वये .
सप्तमो लम्बः । १११ नयनगमनवचनभूलतास्वधरकरचरणेषु चिकुरभारे च वहन्त्यः कथं रागान्धजनादितरेभ्यो रोचन्ते । तस्मादशुचिमयीनामघमयीनामपवादमयी- नामनार्जवमयीनाममार्दवमयीनां मायामयीनां मात्सर्यमयीनां महामोहमयी- नां कामिनीनां कपटस्नेहे न विश्वासस्त्वया कार्यः' इत्युदीरयामास । ततश्चैवमत्यद्भुतं सात्यंधरिवचनं निशम्याप्यनुपशाम्यन्मन्युभरिते तत्कन्यान्वेषणप्रवणे गते तस्मिन्गगनेचरे, वनिताजनवञ्चनाप्रपञ्चमञ्जसा साक्षात्करणन मुहुर्मुहुः संचिन्तयन्नेव कुमारस्तस्मादियाय । तदनु च क- चित्प्रत्यन्तवीक्ष्यमाणविषमविषाणभीपणवृषकुलवृषस्याकलहविजृम्भितनि । घोषपूरितघोषघोषेण क्वचि प्रशस्तप्रदेशनिवेशितविशालशालोद्भवदतिप्रभू- ताध्ययनध्वनिना कचिद्विशङ्कटकठिनस्थलघटितेक्षुयन्त्रकुटीरकोटिनिबि- डकोलाहलेन क्वचित्पाककपिशकणिशशालिशालेयक्षितिसुलभशालिसस्य- लवनतुमुलेन सर्वतश्च संचरन्नितम्बिनीपदावलम्बनलम्पटताञ्चितम शि- जानमजीररवेण च महितस्य मध्यदेशस्य मध्ये विनिवेशितां विशालजाल- रन्ध्रविनिर्यदगुरुधूमजालविलसदकालजलदागमाम_कपहानिहनिखा तनैकमणिमहःकल्पितशतमवचारुचापविभ्रमा विविधमहोत्सवताड्यमान- लटहपटहपटुतररटितपर्जन्यगर्जितां शम्पाविडम्बिबिम्बाधरानिकरालोक- प्रावृतां प्रावृडाभां हेमाभपुरी हेमकोशशङ्कया विशन्विवशपौररामानयनसु- मनोभिरविराममर्चितः कुमारः कमप्यनारतकुसुमाभिरामाराममगाहिष्ट, ऐ- शिष्ट च क्वचिदमकृत्प्रहितपृषत्कास्पृष्टमाक्रष्टुमाम्रफलमायस्यन्तमङ्गस्यन्दि- लावण्यवनं कमपि युवानम् । तदालोकनेन तदायासमपसारयितुमधिज्य- धन्वनस्तस्मादयं धन्वी धनुराकृष्य पुनराततज्यमेतदातन्वन्विकृष्य मात्रया पत्रिणं प्राहिणोत् । प्रत्यगृह्णाच्च तत्रैवावस्थाय नात्यादरव्यापारितवामेतर- पाणिना फलेन समं संमुखमागतं संदेशहरमिव चतुरं शरम् । पुनराली- दशोभिनस्तस्यालोक्य सात्यंधेरेरधरिताखिलचापधरं चापदण्डारोपणे त- ११२ गद्यचिन्तामणौ दाकर्षणे शरमोक्षणे शरव्यलक्षणे च लाघवमलवु चित्रीयाविष्टः स युवा पवित्रकुमारमेनमत्यादरमयाचत- 'इतो मित्र , नैजन्यायचातुर्यावसीद- दमित्रो दृढमित्रो नामात्र क्षत्रचूडामणिः । तस्य महिषी सदा संफुल्लव- दननलिना नलिनीमतिशयाना नारी नलिनी नाम । तयोः पुत्राः सुमि- वधनमित्रादयः । तेष्ववेहि मामप्यन्यतमम् । तातपादोऽस्माकं पण्डिता- नत्र कोदण्डविद्यायां चिरस्य विचिनोति । तस्मात्तत्र भद्रेण यातव्यम्' इति । अथ तन्निरोधेन तथेति सुदर्शनमित्रः सुमित्रेण व्रजन्गन्धगजघ- टामदपरिमलमेदुरगन्धवहानि प्रणिहितमौहूर्तिकावधारितनाडिकाच्छेदन- ताडितपटहानि प्रबुद्धसायुधयोधबृन्दप्रारब्धसंग्रामसाहसकथान्यतिधवल- कञ्चुकोष्णीषधारिभिर्वारिदभयनिगूढस्थितैरिव हंसैगृहीतकौक्षेयकवेत्रदण्डै- दण्डनीतिलतासंश्रयद्रुमैरिव प्रतिहारमहत्तरैरधिष्टितानि कानिचित्कक्षान्त- राण्यतिक्रम्य भासुरानन्तरत्नस्तम्भजृम्भमाणप्रभापूरतरङ्गितहरिति राजल- श्मीनिःश्वासपरिमलेन कालागुरुधूपेन कबलितोदरे चलितवारविलासिनी- नूपुररशनावलयरववाचाले क्षीरोदपुलिनमण्डलाकारविपुलविशदशयनश- ताकीर्णे घनतरघुसृणघनसारमृगमदपटवासकुसुमसौरभमनोहारिणि महति मण्डपे पाण्डरमौक्तिकचन्द्रोपकाधोभागनिवेशितस्य प्रांशुपुरुषलङ्घनीयस्य समरोत्खातरिपुदन्तिदन्तारचितपादपीठस्य पट्टांशुकच्छेदच्छुरितोपधानस्या- छाच्छदुकूलप्रच्छदस्य निर्लुप्तनैकरत्नकिरणविसरपरीतपर्यन्तस्य पर्यङ्कस्य मध्ये स्थितं सानुमत्सानुनि सुखसंनिविष्टमिव नखरायुधं पार्श्वदृश्यमानेन पद्मरागमुकुरेण रविणेवोदयनियोगप्रार्थनागतेनोपास्यमानमन्तिकस्थितम- णिस्तम्भसंक्रान्तप्रतिबिम्बमिषादनिमेषैरिवावनितलास्पर्शिपदैरासेव्यमानम् , पराक्रमेणेवोत्पादितम् , साहसेनेव संनिवेशितम् , अवष्टम्भेनेवोत्पादितं , महासत्त्वतयेव निवर्तितं, दर्पमिव गृहीतदेहम् , उत्साहमिव राशीकृतं राजानमद्राक्षीत् । .
सप्तमो लम्बः । ११३ तदनु च दृढमित्रमहाराजोऽपि सुमित्रनिवेदितकुमारचापाचार्यक- श्रवणेन प्रगुणितसंभ्रमः साकूतमेनं समालोक्य 'केवलत्वेऽप्यकेवलपुरु- षतामस्य वपुरवण वर्णयति' इत्यन्तश्चिन्तयंस्तत्प्रकोष्ठप्रतिष्ठितज्याघातरे- खाद्वयसौष्ठवातिशयेन काष्ठागतशंभरश्वापभृतामयं भूभृदिति संभावयन् 'असंभविभवदागमनस्य फलमनुभवन्तु मम पुत्राः । सुमित्राद्यन्तेवासिभिः समं तद्गमयन्नहानि कानिचिदबन्ध्यामिमां तनोतु वसुंधरां भवान्' इति सात्यंधरिमतुच्छमुपन्छन्दयामास । अथैवमन्युल्बणधरणीपतिनिबन्धेन बन्धु- प्रियतया कृतावस्थितेर्गन्धर्वदत्तापतेः कतिषु च दिनेषु हेलया तत्र विलयं ग- तेषु, सुमित्रादिराजपुत्रेष्वप्यत्रकोविदाकुमारादधिगतशस्त्रेतरसमस्तशास्त्रे घु जातेपु, कदाचन धात्रीपतिः पुत्राणां करिस्थतुरगायुधविषयविविधपाटवे- प्वप्रतिभटतां तत्त कर्मण्यलंकर्मीणैरत्यादृतामन्याहितस्तिमितचक्षुःप्रेक्ष्यमा- णः प्रीतिप्राग्भारपारंगतः कुमार, भवदनुग्रहादद्याहमस्मि पुत्रवान् । पुत्री नवापाचार्यस्य भार्येति नियमिता नैमित्तिकैर्गात्रबद्धन क्षात्रधर्मेणेव भव- ता पतिमती भूयात् ' इति भूयो भूयोऽपि प्रार्थयामास । पार्थिवकुमारोऽपि तदीयार्थितया तदर्थस्य तथाभवितव्यतया दिव्ये मुहूर्ते पूर्तिमदानन्दभृ- तमहीभृता स्वविभवस्य स्ववैभवस्य मुतानुरागस्याप्यनुगुणसंविधापुरःसरं विधिवदतिसृष्टां तदङ्गयष्टिमस्पर्शनपुनरुक्तचकासदविरलकनकाभरणो- ज्ज्वलां कनकमालामनवगुणभूषणो द्विजहूयमानपवनसग्वसाक्षिकं परि- , णिनाय । इति श्रीमद्वादीभसिंहमूगिविरचिते गद्यचिन्तामणी कनकमालालम्भो नाम सप्तमो लम्बः ।
११४ गद्यचिन्तामो अष्टमो लम्बः । - अथ तामव्याजरमणीयां गरुडवेगसुतारमणः पाणौकृत्य पाणि गृहीती गृहीतातिमात्रब्रीडार्गलां निरर्गलमवगाहितुमप्रगल्भः स्वैरावगाहन- विधायिविविधोपक्रमविशृङ्खलीकृतमदनमदान्धगन्धसिन्धुरोटितत्रपापरि घामप्रतीपः समवगाह्य तस्याः प्रणयकलहे दास्येन प्रकृतिस्थितावुपास्य- भावेन च सुचिरमरीरमत् । एवमधिकाभिरामां रामामविरामं रमयतस्तस्य साहाय्यं संपादयि. तुमिव गाढायां शरदि , सात्यंधराविव सत्कविभिः सातिशयप्रकाशे सति चन्द्रमसि , संमार्जति दृढसम्यक्त्व इव जडसंपर्कसमागतसन्मार्गकलङ्क- पकं पतङ्गे, कवचहरदारक इव निरस्तनीरदावस्थे सति तारकावमनि. सुजनहृदय इव निर्मलीभवति हृदनिवहे , नवयौवनसवीडयोषिजघना- नीव पुलिनानि शनैःशनैः प्रदर्शयन्तीपु नदीपु, अराजवति राष्ट्र इव मधुपपेटकाक्रान्ते कुसुमितविटपिनि, गलितयोग्यकाले शैलप इव नर्तन त्यजति नर्तनप्रिये, मानिनीजनमञ्जुवाचमुपलव्धुं योग्यां कुर्वत्स्विव निकाम कूजत्सु कोकिलेपु, भास्वत्सूर्यकिरणगुरुपादभक्त्या भव्यमनसीव स्फारवि- कासिनि पद्मसरसि , शरदन्वितकुसुमशरे मरुदुपेतमरुत्सख इव दुरुत्सह- प्रतापिनि, नातिशीतलोष्णैः सुराजचेष्टितैरिवाभीष्टैः कशिपुभिर्निकाम कामदायिकामदेवसदातनस साधनलम्पटयोस्तयोर्दम्पत्योरनुक्षणं साभोग- तां भजति संभोगजाते, जातु स्वप्नावलोकितस्वामिवियोगशोकपावकार्चिश्छ- टारूढगाढमूर्छाक्रान्तां कान्ताम् ‘भीरु, केमस्थाने कातर्येण । को नाम कृशोदरि, त्वां प्रतार्य प्रयातुं प्रक्रमते । मुग्धे, किमेवं मां दग्धहृदयमनि- , , .
अष्टमो लम्बः । , दानमातनोषि । सुराङ्गनामपि सुरापेक्षिणी कुलीनापेक्षिणी चेयमसतीति तवानवद्यकटाक्षविक्षेपपर्यायदुरुपलम्भसंपत्संभारोपलम्भदुर्ललितमस्मन्मनः सुतरामवहेलयति । किमुतापरां तरुणीम् । ततः कथमन्यत्र गतस्य मे सप्रा- णता। प्राणसमे, प्राणेचिना को नाम जगति सजीवः स्यात्' इति समाश्वा- सयन्तं जीवककुमारं सादरमुपसृत्य रचितलीलाञ्जलिरुन्निद्रशतपत्रातिशा- यिवक्ता काचन धात्री समासाद्य सात्याहितमेव प्रवर्तयामास गिरम् - "अयि कुमार, गोसर्ग एवाहमायुधश्रमशालामभिपतन्ती तत्र स्वपन्तं कमपि भवन्तमेव विभाव्य प्रणयकलहव्याजप्रसजदुद्दाममन्युभरपराचीनां भर्तृदारिकामनादृत्य किमत्राशथिष्ट कुमारः' इत्यनुशयाविष्टा तत्क्षण एव तस्मात्प्रतिनिवृत्य वत्सामिमां भर्सयितुं सत्वरमुपसरामि । दृश्यते भवा- नत्र । सादृश्यभ्रमसंविधानचतुरः स कुमारः कः स्यात्" इति । कनकमालादथितोऽप्यनवसितवचस्येव तस्यामाविर्भवदनुजविषया- ध्यानः 'को नाम सुकृतिसुलभसुकृतोदयं समयं विनिश्चिनोति । नभश्च- राधीशसुतोपदेशेन नन्दात्यः किमागतः । सा हि नः समस्तमिममुदन्त हस्तामलकवत्स्वविद्यामुखेन जानीते' इत्येवं मनसा वितर्क वपुषा हृपितत- नूरुहं पद्भ्यां तत्र प्रयाणं च प्रत्यपद्यत । प्रत्यदृश्यत च तत्रैव शस्त्रगु- णनिकाशालायामहंपूर्विकोपचरदनुचरमुखावगतपूर्वजाभ्यागमतया गीर्वा- णतां प्राप्त इव हर्षाड्यो नन्दाड्यः । ततश्च हर्षप्रकर्षपरवशहृषीक सत्वरकृताभ्युत्थानमानन्दाश्रुजलधारावर्जनपुरःसरं विकस्वरनेत्रशतपत्रविर- चिताभ्यर्चनमधिकभक्त्या पादयोः प्रणमन्तं प्रश्रयश्रेष्ठं निजकनिष्ठमखि- लगुणज्येष्ठोऽयं गन्धोत्कटसूनुरत्युत्कटानन्दभरदुर्वहतयेव प्रहृतरपूर्वशरी- र: प्रेमचलितकरतलाभ्यामतिचपलमुत्थाप्य गाढाश्लेषेण विवेकमूढानाम- द्वैतबुद्धिमातन्वन्ननेकानेहसं हृदयनिक्षिप्तमक्षिभ्यां प्रत्यक्षयितुमिव प्रथक्कृतं कनीयांसं सांससंसर्ग निसर्गनिर्मले महीतले निवेशयनिष्कासिताखिलज- ११६ गद्यचिन्तामणी . . नस्तदागमनप्रकारमाकारपिशुनितान्तर्गताह्लादः शनैरनुयुयुजे । नन्दाढ्यो- ऽपि पूर्वजानुयोगसमुपगतपूर्वप्रकृताध्याननवीकृतमन्युभरः सदैन्यं साकृतं सादरं च वक्तुमुपाक्रमत—" पूज्यपाद , जगदुपप्लवकारिभवदुपप्लुतवा- र्तावात्यया निकामस्फूर्तिमदविषह्याभिषङ्गोऽपि कोपकृपीटयोनिकृताङ्गारसं- काशदृशि विस्फुलिङ्गविस्फूर्जदसदृशपरुपवचसि रचिताोरुकपरिधानभी- करवपुषि रोषदष्टोष्ठदर्शनमात्रत्रासितहस्तवति हेलोदस्तहेतिनिवहप्रणयिपा- णौ रणाभिमुखीभवत्पद्ममुखप्रमुखवयस्यवर्गे , केनचिदकितागतिना गगनं नीयमानं स्वामिनं निर्वर्ण्य पुनर्निवर्त्य संयुगसंनाहमनिवर्तनीयविषादविषमय- नीरधौ निमज्जति, जातु दुर्जयदुर्जातजातोऽहं किमिह देहभारं मुधा चिरमूवेति मन्युमौढ्येन मुमूर्षुभवन्भाविभवदीयदिव्यमुग्वाम्भोजदर्शनशंभरतया संभू- तेन भूतभवद्भाविगोचरखेचराधिपसुताहृदयपरिज्ञानानन्तरमपहृतासुभवे- यमिति विचारेण प्रतिषिद्धः प्रजावतीसदनमतिद्रुतमदुद्रुवम् । अपश्यं च तां परिवादिनीसंक्रमितेन भगवदहत्परमेश्वराभिष्टवेन कष्टां दशामापन्नमा- स्मानमुल्लाधयन्तीमुल्लोकवियोगरोगात्तगन्धां गन्धर्वदत्ताम् । साप्याकृतज्ञा मामादरकातर्यादात्मत्यागरागिणमवगच्छन्ती 'किमेवं कृच्छ्रायसे । स खलु सकलजगल्लालनीयाकृतिः सुकृतिनां पूर्वस्तव पूर्वजः केनापि लब्ध- पूर्वोपकारेण यक्षचरेण यक्षेन्द्रेण स्वमन्दिरं नीतः । तदनु नूतनजामा- तृतां प्रतिजनपदं प्रतिपद्यमानः सुखेनावतिष्ठते । ततः किमेवं साहस- मनुतिष्ठसि । पापिष्टेयं स्त्रीसृष्टिरिव त्वमपि किमपरत्र गन्तुं न पारयसि । यदि कौतुकाविष्टोऽसि तव ज्येष्ठपादस्य श्रीपादसंदर्शने शय्यतामिह श- य्यायाम्' इति मामामन्त्र्य मन्त्रनियन्त्रितं किमपि पावनं शयनमधिश- यानमेनं जनं तत्समय एव समीहितार्थगर्भपत्रेण सममत्र प्राहिणोत्" इति । तदनु च गगनेचरतनूजया प्रेषितं संदेशं हृषिततनूरुहकरपल- वेन सायल्लुकमादाय गन्धर्वदत्तादयितः सदयं साकृतं सावधानं च वा- अष्टमो लम्बः । ११७ . चयन्नवचनविषयविरहविपादमूपिकाश्वेडपीडितजीविताया जीवन्मरणप्र- कारविवरणनिपुणाकृतेर्गुणमालया लयाः कुशलेतरवृत्ति तद्वयाजविवृतात्मीयवि- रहाति च तसंदेशेन पुनरुक्तमवयंस्तत्समयस्फुरदमेयनिजशोकानलज्वाला- मप्यवरजमुखनिवर्णनेन तद्वचनसमाकर्णनेन च शमयंस्तूर्णप्रधावितप- रिजनदत्तपाणिरुत्थाय तदुद्देशादनुजेन समं निजगृहमभ्यवर्तत । अथ विदितीवधरनन्दाड्यसौभ्रात्रैवमित्रमहाराजप्रभृतिसंबन्धि- भिः सानुबन्धमभिनन्द्यमानेन कनीयसान्वितस्य कनकमालावरस्य वरा- हतां गतेषु वहत्सु वासरेषु सर्वेष्वपि , कदाचित् ' उर्वीतलमतिचपलचर- णतलाभिघातेन दलयन्तः सद्यःसमुत्ग्वातहेतिजातधौतधारादर्शनमात्रत्रस्य- दाभीराः केचन वीराः कुतोऽपि समागत्य निहत्य च प्रतीपगामिनः क- तिचन गोमिनोऽपि गोधनमवस्कन्ध कापि गताः' इति गदापल्लवगुन्छ- प्रणयिपाणिपल्लवा बल्लवा भृशं धरावल्लभस्य द्वारि स्थिताश्रुक्रुशुः । वी- यशालिनां विश्रुतः स राजेन्द्रोऽप्यश्रुतपूर्वपश्रुन्य गोदुहामतिभृशमाक्रोश- मनीदृशक्रोधाविष्टः तानेवमभिनिविष्टदर्पञ्चरानसांप्रतकृतः सांप्रतमेव स- मानीयास्माकं पुरस्तादवस्थापयत । नो चेदपास्तासूनवश्यं वः पश्येत' इति दर्शिताञ्जलीन्सेनान्यो व्याजहे । ततश्च तथाविधराजाज्ञया समन्ता- दुपसरद्भिः मुरगजगर्वस्तम्भिभिः स्तम्बेरमैवल्गुवल्गनपराजितकुरङ्गैस्तुरङ्गे- गमनरहस्तिरस्कृतमनोरथै रथैबहुकृत्वः कृतवैरिविपत्तिभिः पत्तिभिश्च सौ- रमेयीसंघावस्कन्दितस्करान्हस्तग्राहं ग्रहीतुं वहन्म वाहिनीपतिषु, एवंभू- तमेतदाकर्णयन्नेकधनुर्धरः सात्यंधारररिपरिभवासहिष्णुतया स्वयमपि स्थी निपङ्गी कवची धनुष्मांश्च भवन्नवरजसारथिचोदितशताङ्गः शतशः श्वशुरेण निवार्यमाणोऽपि मङ्गु गवां मोक्षणमकाङ्क्षीत् । तदनु च गमनवेगानुधाव- दतिजवनपवनसनाथरथधुर्यखरखुरखातधरापरागपुरोगतया पुरोवर्तिनं मि- त्रसाथै पार्थिवैरिव प्रतिगृह्णन्गृहीतगोधनानामायोधनेन निधनं कर्तुमति- ११८ गद्यचिन्तामणौ त्वरितमुपसृत्य परीत्य तस्थौ । तावता त्रिभुवनभयंकरेण चापटंकारेण जगदभयंकरस्यास्य कोदण्डकोविदस्य सांनिध्यमवबुध्य तस्य कोपादात्मानं गोपयितुकामास्ते गोकुलदस्यवो वयस्याः सरभसोत्खातनिजहृच्छल्यानीव स्वनामाङ्कितशल्यानि पुरस्कृतपुङ्खानि शिलीमुखजातानि कुमाराभिमुखं प्रायुक्षत । प्रणेमुश्च ते प्रसभमुपसृत्य स्वनामचिह्नितमुखाशिलीमुखान्वि- लोक्य विचारस्य विस्मयस्य प्रमोदस्य कौतुकस्य मोहस्य च योगपद्येन पात्रीभवतः पवित्रकुमारस्य पादयोः पद्ममुखप्रमुखाः सखायः । बभूव चायं बहुसहस्राक्षो बहुधा विभक्तमिवात्मानं मित्रलोकमवलोकयन्पवित्र- कुमारः । सखायश्चासन्सौख्यातिशयेन तदभ्याशप्रवेशलब्धेन सनिमेषा अनिमेषाः । . अथास्मिन्सौरभेयीगवेषिणि सुदर्शनसुहृदि , सुहृदामुपलम्भादेधा- न्वेषिणि मणिलाभादिव स्फीतमुदि , वनमतीत्य मित्रपेटकेन लालाटिकै- रप्यमा हेमाभपुरीमवगाह्य नागरिकनयनसुमनोञ्जलीन्याहंग्राहं निजगृहमी- युषि 'मुषितोस्राश्चोरवदमी कारागृहे किं न निगलनीयाः' इति लालयन्ती- ममन्दप्रेमान्धां सगन्धां कनकमालामिव कनकमालामतिलोकबान्धवसंब. न्धिसमाजं च समालोक्य चरितार्थीभवति वयस्यसार्थे , कदाचिदयं सु- दर्शनमित्रः ‘स्वमित्राणामतिमात्रबहुमत्याः कोऽत्र हेतुः । अस्मदीयक्षत्रता किमवगता । किंस्विदन्यदमीषां बहुमतेरायथापुर्ये निदानम्' इति संश- यानस्तत्परीक्षणाय दत्तक्षणः क्वचिद्रहस्योद्देशे वयस्यान्पप्रच्छ 'यूयमिहाग- छन्तः केन पथा समायाताः । कानि वा वर्मनि कौतुकास्पदानि पदानि दृष्टानि' इति । तथा पृष्टानां वयस्यप्रष्टोऽयं प्रदर्शितप्रश्रयोत्कर्षो व्याहार्षी- देवं हर्षोत्फुल्लमुखः पद्ममुखः "देव , देवस्यान्वेषणाय वयमश्वीयपणायि- नामवलम्ब्य धुरं राजपुर्या विनिर्गस्य त्रिचतुरवासरैः कुसुमामोदवासितहरि- न्मण्डलं दण्डितकुसुमकोदण्डं दण्डकारण्यान्तर्गतं कमपि तापसाश्रममध्व- अष्टमो लम्बः । ११९ - श्रमादाश्रित्य तत्रत्यानशेषानपि विशेषान्पश्यन्तः क्वचिदपश्याम नश्य- दूषामपि भुम्ना देहसौन्दर्यस्य दर्शितदेवमातृगौरवां कामपि जग- न्मातरम् । पुनरनया दयाजनन्या ‘मान्याः, यूयं कत्याः' इत्यत्या- दरमनुयुक्ता वयमत्र प्रत्युत्तरमुदीरयितुमुपक्रम्य ‘देवि, वयममी राज- पुरीवास्तव्यवैश्यपतिसूनोर्दीनजीवजीवातोर्जीवककुमारस्य सुहृदः किल । अस्मदुष्कृतबलेन कृतन्नप्रष्ठः काष्टाङ्गारो नाम राजापशदः कदाचिदमुष्य परराक्रमममृष्यन्केनापि दोपभिषेण कुमारमेनं मारयितुम् ...' इत्येतावदवो- चामहि । तावता तद्देव्याः संजातामापदमिरंमदाविद्धशयोरिवेत्थमितिवक्त- मिदानीमपि न जानीमहे । पुनरतिप्रलापतुमुलोपस्थितसत्रासतापसपत्नीप- रीतोपकण्ठमाक्रन्दविशीर्यमाणकण्ठमालोकनोत्कण्टमानवटुपेटकमत्युत्कट - कोलाहलपलायमानपर्णशालाङ्गणकुरङ्गगणमतिकरुणरोदननिदानप्रश्नैक - तानमुनिवृन्दं च तदमन्दव्यसनमनुभवन्तीयमखिल जगदम्बिका तदानीम- म्बुमुचां पतिः स्तनितेन समममृतमिव परिदेवनेन सह देवस्य वृत्तान्तमपि यथावृत्तं जगदभिवृद्धये प्रकटयामास । वयं तु पुनरिदंतया विदितदेवो- दन्ताः कन्दलितानन्दकन्दाः कथमन्यदुपक्रान्तमन्यदापतितम् । अहो धन्या वयमद्य संजाताः' इत्यन्योन्यस्य मुग्वमीक्षमाणाः क्षोणी चाभवदस्म- दधीना । कीनाशमपि काष्टाङ्गार काष्टमिवाशुशुक्षणिराशु भस्मसात्कार- ध्यामः' इति वदन्तः परस्परं तां धिकृतां धैर्येण , हुंकृतामहंकारेण , भ- सितां भाग्येन , धर्मितां प्रहर्पण, विस्मृतां स्मितेन , वञ्चितां विवेकेन सजुगुप्सां स्त्रीजन्मनि , सापलापां पुण्येषु, सक्रोधां वेधसि , सलजां जी- वितव्ये , सत्रासां पुत्रलाभे, दर्शितदुरवस्थां देवीम् ‘देवि, मा भैपीरेवम् । न मारितः स कुमारः । किंतु मारयितुमभीष्टोऽयं केनापि विशिष्टेनास्म- द्दिष्टया तत्क्षण एवं संरक्षितः क्वापि क्षितौ सुखेनास्ते । तदर्शनास्थया प्रस्थिता वयमप्युपस्थास्यामहे चाद्यश्वस्तमवश्यम् । देवि, त्वं च द्रागेव - . .
१२० गद्यचिन्तामणौ द्रक्ष्यसि त्यक्ष्यसि च हृच्छल्यं यतो भोक्ष्यति भुवं पुत्रस्ते निजामित्रमपि हेलया हत्वा' इत्येवं चान्यथा च भृशमाश्वास्य तद्वयां कथमपि लङ्घयन्तः पुनरलघुस्नेहमापृच्छ्य ततो गच्छन्तः सौरभेयीहरणच्छलेन निजश्रीपाद- च्छायां श्रितवन्तः" इति । एवं व्याहरत्येव तस्मिन्विकस्वरमुखे पद्ममुखे, वीतमुखकान्तिर्वि- जयानन्दनोऽयं 'हन्त हन्त हतकस्यास्य जनस्य जननी किमिदानीं या- वज्जीवति । जीवतां जगति किं नाम न श्राव्यं श्रोतव्यम्' इति साकूतं सानुतापं सकौतुकं च वदन्कण्ठोक्तमातृदर्शनोत्कण्ठः कण्ठीरवकिशोर इव सत्वरमुत्तिष्ठन्महीपृष्टादनुधावदवरजवयस्यैरमा सरभसमुपसृत्य संब- न्धिगृहं कथंचिद्गृहीतश्वशुराद्यनुमतिरनुचरमुखविदिततदीयजिगमिषायाः प्रागेव जिगमिषुप्राणां प्रबलदावज्वलनज्वालालीढजरठेतरमाधवीलतातु- लितां कनकमालाम् ‘भीलुके , मैवं भेतव्यम् । वासु , सहस्व मासमा- त्रम् । मात्रीयव्यसनशमनकृते गमनमिदम् । अन्यथा कथं क्षणकालमपि त्वद्विकल: कलयामि गमयितुम् । गन्तुकामोऽहमपि कान्ते , त्वां मम स्वान्ते निधाय ननु गन्तास्मि । तस्मात्तव भीरुके , विरहस्य कः प्रसङ्गः' इति प्रसङ्गोचितामितप्रियसंभाषणपर्यायपीयूषवर्षेण प्रशमितनितान्तती- वसंतापां तां संपाद्य पुनः संपदर्हमहार्हपरिबर्हेण सार्धमर्धपथाधिकयात्रेण दृढमित्रमहाराजेन सुमित्रादिना च दुःशकनिवारणतया सुदुःखमुज्झितः प्रसभं प्रधावन्प्रसरदग्निहोत्रधूमधूम्रफलभारनम्रनैकभूरुहं वासरावसानसं- क्षिप्तनीवाराङ्गणनिषादिमृगगणनिर्वर्तितरोमन्थमालवालाम्भःपानलम्पटवि - हगपेटकविश्वासविधानकृते सेकान्तविसृष्टवृक्षमूलमुनिकन्यकाविवृतकारु- ण्यं दण्डकारण्याश्रममधिवसन्तीम् , मुषितामिव मोहेन, क्रीतामिव क्रशिम्ना, वशीकृतामिव शुची, दुःखैरिवोत्खाताम्, व्यसनैरिवास्वादिताम् , तापै- रिवापीडिताम् , चिन्तयेवाक्रान्ताम् , क्लेशैरिवावेशिताम्, अभाग्यै- अष्टमो लम्बः । . रिवासंविभक्तां मातरमत्यादरमभ्येत्य प्रणनाम । सा च नन्दनमुखेन्दुसंदर्शनेन सलिलनिधिरिवोद्वेलसंभ्रमा , प्रो. ढप्रेमान्धतया प्राप्तयौवनमप्यौरसमवरजं च सुचिरं परिरभ्य तत्परिरम्भ- णपर्यायपरमभेषजप्रयोगतस्तजननसमयत्यागेन तदभिवर्धनसौख्यवियोगेन तदीयहृदयरहितनिर्हेतुकदरहसिताम्रेडितानन्दकरपांसुक्रीडानवलोकनेन च रूढमतिमात्रं पुत्रशोकहृच्छल्यं साकल्येन मुमोच । तदनु च निजसुत- निर्विशेषप्रतिपत्तिमुदितमित्रैः पुत्राभ्यां च केसरिणीव किशोरकैः परीता सा निषद्य सपरितोषममूनिरीक्ष्य ‘अङ्ग पुत्राः, चिरकाशितयुष्मदर्शन- सुखोपलम्भदुर्ललितहृदयवृत्तिः पचलिमसुकृतबलेन हेलया मे निष्पन्ना । अपि नामैवं जीवन्त्यामेव मयि निष्प्रत्यूहं निष्पद्येत निजराज्यप्रवेशवार्त- यापि कदाचित्कर्णोत्सवः । स खलु महोत्साहेन महापुण्येन महापरिकरे- ण च साध्यः कथं देशेन कोशेन मौलेन पृष्ठबलेन च वा विधुरैर्युष्मा- भिः सुकरः स्यात् । अस्ति चेत्सुकृतमस्तु कदाचिदियमभित्रनिबर्हणपुर:- सरा पित्र्यपदावाप्तिः । तावदरातिप्रतारणप्रसजदात्मापायः सदाप्युपाय- प्रष्ठोद्यतैर्युष्माभिः परिह्रियताम् । परिपन्थिजनगृह्याः खलु निगृह्याः पु- रंध्रयः पुमांसश्च । केचिदशने शयने पाने वसने च व्यसनकर गरं मिश्रयित्वा व्यापादयितुं यतेरन्' इत्येवमत्यादरं व्याजहार । एवं निज- विजयशंसि विजयावचः श्रुत्वा विजयासूनुः ‘अम्ब , नार्थेऽस्मिन्नत्यर्थ व्यसनमनुभूयताम् । भूयांसस्तव पुत्रा: प्रत्येकमप्यमी प्रभवन्ति हत्त्वा राजघ्नमरि स्वराज्यमन्यराज्यं च स्वसात्कर्तुम् । अतः कर्तव्यमतः परं त्वया निराकुलमवस्थानम् । कृतं निराकृतानामस्माकं कृते भुक्तपूर्वया दुर्वहन्यथया' इत्येवं सगर्व सानुतापं च प्रत्युदीर्य विचार्य च रहः स्व- कार्यनिर्वहणप्रकारमवरजपप्रमुखप्रमुखपरिकरेण समं मातरं मातुलस्य स- माजः सपनि प्रहित्य प्रसभं स्वयमपि राजपुरीं प्रति प्रतस्थे । - 11 १२२ गद्यचिन्तामणी . अथ मातृविलोकनस्फुरदुल्लोकहर्षः सन्सात्यंधरिः सरभसमपरौ पितरौ दिदृक्षुरुपसृत्य राजपुरी पुरोपकण्ठभाजि क्वचिदुद्गमोत्कण्ठमानकल- कण्ठीपादप्रहारकुसुमितस्त्रीप्रियपादपाभिरामे महत्यारामे परिकरमवस्थाप्य दिनप्रतिकूलतया कुलसदनमनुच्चलन्नुच्चलदुच्चैःपौरकलकलरवमांसलमहो- त्सववाद्यशब्दापदेशेन जननिवेशेन चिरविरहविजृम्भितदर्शनकौतुकादाहु- यमान इवेयिवानभितः पुरं विचचार । ततश्च तत्रत्यानत्यन्तस्फुरदत्या- हितः समाहितचित्तवृत्तिविलोचनविलोभनीयान्विलोकमानः क्वचिदभ्रंक- घरम्यहाग्रे सविभ्रमभ्रमणक्वणन्मणिभूषणरवविश्राणितलयाविसंवादिप- दप्रचारम् , मुहुःस्रंसिचिकुरभारव्यापारितकरम् , अवस्रस्तप्रतिसमाहित- कर्णपूरीकृतकर्णपूरपलवानिलशोपितकपोलपत्रभङ्गदूषिधर्मसलिलाङ्कुरम् . दरगलितकुचतटांशुकनियमनप्रवणैकपाणिपल्लवम् , उल्लसदपदेशस्मित- चन्द्रिकाभिषिक्तबिम्बाधरम् , पृथुनितम्बबिम्बोत्पतदवपतदतिवलक्षक्षौमो- उज्वलम् , सलीलकरव्यापारशैघ्रयानतिक्रमितप्रकृतकलीधवलदन्तपत्रप्रति- समाधिनम् , प्रतिसमयसुलभोत्थानावस्थाननिर्व्यवस्थमुक्ताहारमनोहरोरःस्थ- लम् , प्रसृताकुञ्चितवेल्लितबाहुलताभिहतिवशबाह्याभ्यन्तरभ्रान्तकन्दुक- निरन्तरोत्पतननिपतनदृष्टनष्टमध्ययष्टिकं च, कदाचिद्गीतमार्गानुधावदुन्न- मनावनमनप्रकारेण कदाचिन्मण्डलभ्रमणेन कदाचिद्गोमूत्रिकाक्रमेण च निषण्णोत्थिताया निमीलितोन्मीलितायाः स्थितप्रस्थितायाः कस्याश्चिदार- न्धकन्दुकक्रीडायाः कन्यकायाः पाणितलतः परिभ्रश्य पुरः पतन्तं क- मपि कन्दुकमैक्षिष्ट । पुनः किमिदमिति कौतुकाविष्टस्तत्क्षण एवोद्रीवः स व्यय तद्गृहस्योपरितलमुत्पश्यन्नपश्यदात्मावलोकनावतीर्णत प्रथममदनवि- तीर्णविकारल्यापारितनयनेन्दीवररश्मिविसरल्याप्तराजमार्गी स्वर्गीकसामपि दुरुपलम्भा तां कन्दुकस्वामिनी कन्यकाम् । आसीञ्चायमप्यनन्यजाक्रा- न्तस्ततस्तदीयनयनवागुरान्तर्गत इव पदमपि गन्तुमप्रगल्भः स्वल्पेतररा- अष्टमो लम्बः । १२३ . गार्तिस्तगृहवितर्दिकामध्यास्य ' का स्यादियं कुमारी । कानि वा स्युरद- सीयान्यमृतक्षारीणि नामाक्षराणि । कतमः स्यादस्याः पिता । कथमेनां करेण स्पृशन्कमलयोनिः कामुको नासीत् । अपि नामेयमस्माभिः कदा- चिलुभ्येत' इत्येवमितरथा च विरच्यमानविचारः कुमारः कुट्मलितकुबेरै- श्वर्येण तद्रहवैश्यवरेण "कुमार , अहमस्मि सागरदत्तो नाम । मम सागा- रधर्मपत्नी कमला । विमलेति विश्रुता तत्पुत्री । जातमात्रायां तस्यां संगि- रते स्म गणितज्ञगणः · यस्मिन्महात्मनि निजसद्म समीयुपि क्षणादक्रय- संचितमणिविक्रयः स्यात्तस्ययं गृहिणी' इति । गृहागते भवति विक्री- तश्च बीतक्रेतकतया पुरा पुनितो मम रनराशिः । ततः सर्वथा योग्यां मम मुतां भाग्याधिक . भवान्परिणयतु परिणामान्तरमुज्झित्य" इत्युप- ग्छन्दनपूर्वकमदृष्टपूर्वसंविधया विधिवद्विसृष्टाममलनेपथ्योञ्चलां विमला- भिधानां तां कन्यकां परिणिन्ये । .. इति श्रीमद्रादीभसिंहमगिविर्गचते गद्यचिन्तामणी विमलालम्भो नामाष्टमी लम्बः ।
गद्यचिन्तामणी नवमो लम्बः । अथाभिनवपरिणयनपरिणतव्यलीकयवनिकान्तर्हितमनोभवरसा- नुभवकुतूहलया प्रियतमबलात्कारनीयमानपरिष्वङ्गपरिचुम्बनाभिमुख्यया प्रतिपादितरागहस्तपलवेन पञ्चशरण शनैःशनैः सुरतसुखानुभवनसर- णिमवतार्यमाणया विलासकलहंसनिवासजङ्गमकमलिन्या कान्तिकिसल- यितकायलतार्पितभुवननयननिर्माणफलया विमलया सह वर्धमानरोमाञ्च- मञ्जरीकल्प्यमानसुरतदेवताराधनसुमनोदामकानि मौग्ध्यविधीयमानलजा- परिहियमाणाङ्गतरङ्गितप्रियतमरागविलसितानि विच्छिन्नविशीर्णशेखरमाल्य- केसरपरागधूसरपर्यङ्काणि परस्परपरिरम्भचुम्बनपौनरुक्त्यनिरक्षरनिवेद्यमा- नोभयाभिलाषविशिष्टानि सुरतचेष्टितान्यनुभूय रतिपरिश्रमपारवश्येन श- यनतलप्रसारिताङ्गी विलुलितविरलविशेषकलेशपेशलललाटरेखामसकृदा- रचितभूषणारुणमन्थरपरिस्पन्दसुन्दरनयनेन्दीवरामनन्तरितताम्बूलरागार - णिमवर्णितानवरतग्रहणदशनच्छदामतुच्छेन प्रणयेन निजगमनमसहमा- नाम् , अलमलमविस्रम्भेण रम्भोरु, पुनरनागमनविषयेण । अनुक्षणमागमि- ज्यामि' इत्याभापमाण एव भवनान्निर्गत्यानुनगरमविरलवकुलकदम्बच- म्पकसहकारप्राये पुष्पोद्याने समासीनानामारभ्य शैशवादारचितपरिच- यापयातपरस्पररहस्यानां वयस्यानामाजगाम समीपम् । ततश्च तमासक्तक्लभाचरणलाक्षारसलोहितालकपल्लवोपरिभाग- मुपभोगायासनिमनतारकदृशं गाढग्रहणलग्नदशनशिखरप्रणिहिताधरमणि- मतिसुरभिपरिमलाङ्गरागव्यतिकरविशेषकमनीयवपुषं विषमेषुराज्यधर्ममिव नवमो लम्बः। विधृतविग्रहं प्रेमविवशविस्मृतनिमेषनिश्चलपक्ष्मपुटाभ्यां स्फुटितकमलमु- कुलपेशलाभ्यां लोचनाभ्यामापादचूडमालोक्य 'अहो महाभाग्यस्य ते सौभाग्यं सर्वभुवनातिशायि , यदेवमनुपुरं पुरंध्रीभिः स्वयं ब्रियसे । संप्रति समृढायाः प्रौढभाग्याया भजन्त्यभिख्यां कानि कान्यक्षराणि' इत्यक्षत- सौहृदवानः पद्ममुखादयः पर्यपृन्छन् । सात्यंधरिरपि संजातसंतोषः किंचिदुन्मिपितहसितचन्द्रिकान्छलेन सिञ्चन्निव स्नेहामृतम् - अधरितक- मला सा विमला नाम्ना' इति न्याहापात् । हर्पविकसदास्यानां वयस्यानां गोष्टीमधितिष्ठ-परिहासान्टापविदग्धबुद्धिबुद्धिषेणो नाम सुहृत् 'अस्य कुतः सौभाग्यम् । दौर्भाग्यादपरैरनूढाः प्रौढवयसः काश्चिदनन्यगतयः कन्यका निकाममेनं कामयन्ताम् । यदि नामायमेकान्तपरिहृतपुरुपदर्शनां दर्श- नीयाङ्गयष्टिमधिवसन्ती कन्यान्तःपुरमनङ्गमातङ्गनहनदक्षकटाक्षहीरारां सुरम जरीमावर्जयेदअसा योग्यः सौभाग्यवतामुपरि गणयितुम् ' इति सो- प्रासं प्रावोचत । तद्वचनानन्तरं सात्यंधरिरपि समद्धतमन्दहास: ‘साधु कथितं दाम्याः पत्या वयस्येन । न चेदल्पीयसानेहसा समावर्जयेम तां वर्जिता एव वयमपि त्वमिव सौभाग्येन' इति ससंगरं व्याहरन्नेव पुन- रपि पुरमाशु प्राविशत् । अविशञ्चास्य हृदयं वितर्कः 'केनोपायेन तां तथा करिष्यामि यथा मनसि मन्मथशरपातेन पारवश्यमासादयन्ती समा- सादयेदस्मान्' इति । ततश्च विभाव्य क्षणादेव यक्षोपदिष्टमनुमहिम्ना निजसौकुमार्य- निवार्यविकचकाशकुसुमस्तबकपरिभावुकेन पलितपाण्डरेण केशकलापेन पटेनेव सितेनावगुण्ठितोत्तमाङ्गम् , जराजलधितरङ्गानुकारिणीभिरायामि- नीभिवलीभिः स्थपुटितललाटफलकम् , अलिकतटस्फुरदलघुवलिभार- नुन्नाभ्यामिव नम्राभ्यां भूलताम्यां तिरोधीयमाननयनम् , उन्मिषितदूषि- काभ्यामुद्भूतनीलपीतपाटलसिराजालजटिलाभ्यामनुपलक्ष्यमाणपक्ष्मरोमरा- १२६ गद्यचिन्तामणौ . जिभ्यां हिमानीहतपुण्डरीकविच्छायाभ्यामीक्षणाभ्यामुपलक्ष्यमाणम् , आ- नाभिलम्बितेन जरावल्लीफुल्लमञ्जरीनिभेन कूर्चकलापेन प्रच्छादितवक्ष- सम् , अक्षीणकासकाष्टाकर्णेजपेन धर्घराघोषेण मुखरितकण्ठमूलम् , अ- तिनम्रपूर्वकायकथ्यमानदौर्बल्यम् , उल्लसदविरलास्थिपटलस्थपुटितसंस्था- नम् , अस्थानपतनजनितजनहासविजृम्भणम् , एककरकलितकमण्डलुम् . इतरकरविधृतस्य वलक्षपटवेष्टितशिखरस्य शिखरनिहितहरितकुशापीडस्य वंशदण्डस्योपरि निवेश्यमानशरीरयष्टिम् , स्पष्टदृष्टकीकसान्तरालनिर्गत- सिरासंतानसब्रह्मचारिणा ब्रह्मसूत्रेण सीमन्तितगात्रम् , अपगतमांसकृ- शाङ्गुलीपरिच्यवमानपवित्रिकाप्रत्यवस्थापनव्याप्रियमाणपाणिम् , प्रयाणो- न्मुखप्राणमिव प्रेक्ष्यमाणम् , प्रेतनिर्विशेषवेषं दधौ । एवमात्मनोऽप्यत्या- हितमापादयितुं समर्थया वार्धकावस्थया वर्धितकुतूहलै लैर्विहस्यमानः पदे- पदे परिस्खलन्नवष्टभ्य मुष्टया वंशयष्टिमतिक्रम्य किंचिदन्तरं वामकरगृ हीतवेत्राभिरितरकरगृहीतखड्गलताभिरापादमुक्तधवलकञ्चुकाभिः प्रतीहा- रस्थाननियुक्ताभिर्युवतीभिः समन्ता तं प्रत्युत्तनैकमणिमहःस्तबकपिञ्जरित- गगनं सुरमञ्जरीभवनं यदृच्छयेवोपसृत्यातुच्छरुपा दौवारिकयोपित्सार्थेन 'किमर्थमिहोपस्थितम् । अवस्थीयतामत्रैव विप्र, त्वया । नैवान्तः प्रवि- श्यताम्' इत्यादिश्यमानोऽपि कुमारः कुमारीतीर्थस्नानेन वार्धकमेतदपसार- यितुमुपसरामि' इत्युदीरयन्नवीर्य निवारणोपक्रममुपसर्तुमुपास्त तद्- हाभ्यन्तरम् । पुरंध्रयश्च प्रतीहारस्थानस्थितास्तदवस्थाविलोकनेन तद्वचनश्रवणन च जातस्फीतहासानुकंपाः किं पातकमस्माभिरनुष्ठातुमारभ्यते । बुभु- क्षितोऽयं क्षितिसुरः स्वैरं किमप्याचष्टे । स्पृष्टोऽप्यस्माभिरयं नष्टासुर्भवेत् । आस्तामयमत्रैव । प्रस्तुतमेतदुदन्तमिदंतया तस्यै भर्तृदारिकायै विज्ञाप- याम' इति विरचितविचाराः सरभसमेव सुरमञ्जसिकाशमविशन् । अ- .
नवमो लम्बः । १२७ भ्यधुश्च ताः सुन्दर्यः सुरमञ्जरीमजलिबन्धकरणे कातर्यकण्ठोक्तभया: 'भर्तृ- दारिके . भर्तेच जरायाः कोऽपि वृब्राह्मणो ब्रह्महत्याभीत्यास्माभिरभसिं- तः सुतरामुत्सुक इव भिक्षायां प्राविक्षदभ्यन्तरकक्ष्याम्' इति । सा च वरवर्णिनी तद्चनाकर्णनेन तदवलोकनपूर्णमति: पूर्णास्ते मनोरथाः प्रा- णनाथ, यतः प्रत्यासन्नः' इति कणितव्याजेन मणिनूपरेणेव प्रोन्यमा- ना पुरःसरमानिनीपरिषदभिधीयमानालोकशब्दा चरणाभ्यामेव जीवितै- कशरणमेनमेनोरहितं तपस्यासमाश्रितं श्रीरिव स्वयं शिश्रिये । पिप्रिये च तं प्रवयसमालोक्य सा प्रमदा । निजगाद च निजपरिचारिका: 'परि- श्रमस्तावदस्य परिह्रियताम् । आह्रियतामाहारादिकम् । कृतिनमेनं कृता- दराः कृतकशिपुं कारयध्वं यूयम् ' इति । ताश्च तद्चनं निशम्य निशा- न्ताभ्यन्तरे जीवधरमानीय तपनीयगटन्तिकागलितपानीयकृतपादप्रक्षाल. नं प्रक्षरदाभ्यं प्राच्यभोजनं भोजयितुमारेभिरे । कुमारोऽपि तां नम्वचन्द्रकिरणपरामर्शेऽपि विकसता चरणकम- लयुगलेनोपेताम् , कार्कश्यरहितकरिवरकराकारेण कदायतकान्तशीतल- कदलीस्तम्भेन भृशमृदयेनोपशोभिताम् , दानरेग्खयेव मदनगन्धद्विपस्य कृपाणधारयेव सौभाग्यवरस्य तनुतरमध्यलताविलीनमधुकरमालायमानया रोमराजिरेखया विराजमानाम् , चकासत्यपि मुग्वचन्द्रमण्डले संगताभ्या- मिव स्थाङ्गनामभ्यां स्तनाभ्यामुद्भासमानाम् , पल्लविताभ्यामिवाङ्गुलीभिः कोरकिताभ्यामिवाङ्गदमौक्तिकैः कुमुमिताभ्यामिव करसंभवैर्वाहुलताभ्यां विराजमानाम् , मदनारोहलीलाडोलायमानया कर्णपाशश्रियालंकृताम् , विकसिततिलकुसुमसमानया रूपसौन्दर्यसागरबुद्बुदायमानया नासया स- मेताम् , विकचविचकिलकुसुमावकीर्णकेशकलापाम् , तारकिताम्बरामित्र विभावरीम् , कल्पलतामिव कामफलप्रदाम् , जानकीमिव रामोपशोभि- ताम् , समुद्रवेलामिव विचित्ररत्नभूषिताम् , नारीजनतिलकभूतां कुमारी - .
१२८ गद्यचिन्तामणी । विलोक्य विस्मयस्मेरचक्षुः 'अहो मदनमहाराजविजयसाधनानां समवाय इव योषिदेषा लक्ष्यते । तथाहि तस्य धनुर्यष्टिरिव भ्रूलते , मधुक- रमालामयी ज्येव नीलालकद्युतिः , अस्त्राणीवापाङ्गविक्षेपाः, वैजयन्तीदु- कूलमिव दशनमयूखजालकम् , प्रियसुहृदिव मलयानिलो निःश्वासमारुतः, परभृतबलमिवातिमञ्जुलमालपितम्' इत्याकलयन्नन्तःस्फुरदाह्लादः, परि- जनानीतं पवित्रमासनमध्यास्य कथमपि वार्धकेनेव कतिचन कबलानि शनैरशित्वा पुनरशनक्लेशमपनेतुमिव महनीयं किमपि शयनीयमारुरुक्षत्। अशयिष्ट च किल तत्रैव यथेष्टम् । कुमारी च सा कुतूहलप्रवर्तिर्वार्ता- विनोदैर्मुहूर्तमात्रं तत्रैवातिवाह्य 'भृशमशनक्लेशितोऽयमग्रजन्मा स्यात् । उ- प्रतरव्यसनवार्धिवर्धनेन्दुः खलु वार्धकं च । अतः स्वैरमनेन सुप्यताम् । न लुप्यतामस्य निद्रा' इति निगदन्ती 'निवारितपुरुषदर्शनयापि मया दृष्टोऽयं विशिष्टवृत्तः । कदाचिदेवमपि नाम तजनदर्शनमपि संभवेत् . यो नाम चूर्णपरीक्षायामुपैक्षिष्ट माम् ' इत्यनुशयाविष्टा सह सखीभिस्ततः प्रयान्ती प्रदेशान्तरं प्रापद्यत । अथ कुमारः स्वैरगानावसरदानलम्पटतयेव लम्बमाने सौरबिम्बे, सुरमञ्जरीकरपीडोत्सुकसौनन्देयरागप्राग्भार इव बहुलतया बहिर्गते स्फुरति संध्यारागे, गगनकेदारविकीर्यमाणतिमिरबीजनिकर इव नीडसनीडाभि- मुखमुड्डायिनि काकपेटके प्रेक्ष्यमाणे , प्रासादवातायनविवरनिर्यदगुरुधूपो- करेण तिमिरान्धकारेणेव नीरन्ध्रीभवति वियदन्तराले , वलभिनिविष्टवा- रयुवतिधम्मिल्लुमलिकास्रजा सृज्यमानायां प्रतिदेशं चन्द्रातपच्छेदशङ्का- याम् , प्रज्वलदन्तर्गतप्रदीपसनाथेषु सायन्तननियमध्यानाग्निसंयुक्तसंयते- ष्विव जातेषु सौधेषु, दुर्दशां स्वान्तेष्विव तमसाक्रान्तेषु दिगन्तेषु , क्र- मेण च मदनमहाराजश्वेतातपत्रे रजनीरजतताटके, स्फटिकोपलघटित- मदनशरमार्जनशिलाशकलकल्पे पुष्पबाणाभिषेकपूर्णकलशायमाने सर्व- .
नवमो लम्बः । १२९ - -- जनानन्दकारिण रागराजप्रियसुहृदि राजति रोहिणीरमणे, दुग्धोदधिशी- करैरिव घनसारपरागैरिव मलयजरसविसरेरिव पीयूपफेनपिण्डैरिव पारद- रससरिद्भिरिव स्फटिकरेणुभिरिव मदनानलभस्मभिरिव रजनीकरकरनि- करैरापूरिते भुवनविवरे , विकचकैरवपरिमलमिलितालिकुलझंकारविरचि- तविरहिजनतापे मधुमदमत्तमत्तकाशिनीकेशकलापकुसुमामोदमोदितदश- दिशि समाध्मापितप्रद्युम्नपावके मन्दमन्दमावाति मातरिश्वनि , समन्ततः संचरति समारोपितकामुके हृदयभिदि कंदर्गे, संभोगलम्पटदम्पतिसमा- जसंभवन्मणिभूषणरणितशब्दमात्रावशेषिते चात्रीतले , पवित्रकुमारः कु- वलयैकमोहनं गानमतानीत् । गानविद्याविश्रुतस्य तामुपश्रुत्य गीतिम् 'किं नु किंनराः किमुत नराः किं स्विदमरा वा जगत्यनुपमेयं गायन्ति' इत्याहितात्याहितभरा परितः प्रहि- तनेत्रा तत्र सर्वत्राप्यपरमपश्यन्ती सेयं वैश्यपतिसुतावश्यं मन्त्रसिद्धमेनं वृ- द्धमेव विभाव्य गायकं सहयायिनीभिरमा तत्प्रान्तं प्राविक्षत् । अप्राक्षीच्च 'प्रक्षीणाङ्गस्य ते गीतिरियं प्रत्यक्षस्मरं स्मरयति जीवंधरम् । कस्मादियम- नवद्या गानविद्या विद्वन्नुपलब्धा, यन्छक्तितः शमिनि वयस्यपि सर्व- लोकश्राव्येयं दिव्यगीतिः । भवत्यपि नामान्यदप्यभीप्सितमुपलब्धमपा- योऽस्ति । न चेदिदं गोप्यमत्र प्राप्यमुत्तरम्' इति । तदनुयोगसंवर्धित- हर्षः स वर्षीयानपि वार्धकमुन्नाटयन्नुपधानात्कथंचित्किचिदुद्धृतोत्तमाङ्गः प्र. श्रीणपक्ष्मकमक्षियुगमप्यतिप्रयासादिवोन्मील्य कफावगुण्ठितकण्ठलावव इव मुहुः खात्कृत्य घघरेण स्वरेण स्वमनीषितोत्पादनापयिकमुपचक्रमे वक्तु- म् -" बाले, हेलया गानमिदं साध्यम् । असाध्यमन्यदपि हस्तस्थं पश्य विश्वस्य मद्वचनमनुष्ठातुं यदि नाम पटिष्टासि" इति । तद्वचनश्चितया सुरमञ्जर्याप्यञ्जलिबन्धेन 'बन्धुप्रिय, को नाम वराको जनः परहितपरैरा- ख्याते वचसि वैमुख्यमुद्वहति' इति सदैन्यं सप्रश्रयं च प्रणीतः पुनरयं . .
गद्यचिन्तामणों . प्राणिनाय 'श्रूयतां तर्हि । इहास्ति समस्तवरदानदक्षस्य साक्षात्कृताङ्गस्य किमप्यनङ्गस्यायतनम् । अद्य वा श्वो वा समुत्थाय तद्गोष्टं यापतिष्टेथास्त- मनन्यजं किमन्यदीर्यते कार्यत एव द्रक्ष्यसि । तत्क्षण एव कामितमखिलं स कामदेवः साधयेत्' इति । सा च स्त्रीजनमुलभचापल्याद्भवितव्यता- प्राबल्याच्च — तथा' इति प्रतिश्रुत्य प्रातरेव गन्तुमुदमनायत । अथ सुरमजरीपरिरम्भणपर्युत्सुकतया परिगतान्ध्यस्य जीवंधरस्य तदैकस्यामपि त्रियामायां सहस्रयामतां प्रतिपद्य कथमपि प्रयातायाम् , उदि- ते वृद्धेन समं सवितरि , पितरं मातरं बन्धुसमाजं च संवादयन्ती समारू- ढशकटेन तेन कपटवृद्धेन समं समारुह्य चतुरन्तयानं सखीभिः साकं सा कन्यका तदनन्यजावासमाससाद । तत्र च सादरविधीयमानसपर्याविधे- विषमेषोः संनिधी सास्तिक्यमस्यामास्थितायामयमन्त्यवयस्कस्तामामन्त्र्य 'वासु , प्रसादितोऽयमुपासनाप्रपञ्चेन पञ्चशरः । त्वदभिवाञ्छितं वरमसहा- या स्वयमस्माद्गृणीष्व' इत्यब्रवीत् । सा च मुग्धा बद्धाञ्जलिर्बहुधा प्रणुत्य प्रद्युम्नम् ‘अयि पुष्पबाण, ते बाणानेव न केवलं प्राणानपि मे प्रत्यर्पयि- ध्यामि यदि प्राणनाथतां प्रतिपद्येत जीवककुमारः' इति सादरं सप्रणामं च प्रार्थयामास । प्रादुरासीच्च प्रागेव पुष्पायुधसविधे स्थापितेन बुद्धिषेणेन 'लब्धवत्यसि वरम्' इत्युक्तं वचः । अदर्शयच्च तावता कुमारोऽप्यवधी- रितमारं निजाकारम् । सा च तमवलोक्य सविस्मयस्नेहमन्दाक्षा मत्तेवो- न्मत्तेव भीतेव विषण्णेव मुदितेव परवशेवानुरक्तव स्तम्भितेव समुत्की- ऎव विलिखितेव विद्रुतेव शून्येन्द्रियेव स्वेदजलप्लावितसर्वाङ्गयष्टिरतिनि- बिडपुलकनिचिता मदनशरपञ्जरमध्यवर्तिनी प्रान्तः प्रविशतः कुमारस्य पादन्यासादिव स्फुरदधरपलुवा किंकर्तव्यतामूढासीत् । ततस्तावता तयोः संगमार्हमङ्गलप्रदीप इव प्रज्वलति प्रत्यूषाडम्बरे , स्त्रीपुंससंयोगप्र- कारप्रकटनायेव घटमाने कोकमिथुने, हुतहुताशनकुण्डायमाने स्फुटित- -- .
नवमो लम्बः । सरोजषण्डमण्डिते सरसि मङ्गलवचनपटनाकुलेष्विव कूजत्सु कोकिलेषु , वंशस्वनानुकारिझंकारमनोहरभृङ्गवृन्दपदपातवृन्तन्युतप्रसवराजिमाचारला- जानिव विलासिनीपु विकिरन्तीपु लतासु, तन्मिथुनमिथःसंगमपिशुनेष्विव शकुनेषु सविरावेषु , स जीवकस्वामी तादृशी दशामनुभवन्तीमन्तर्धातु क्षेपीयः क्षितितलादुक्षिप्तैकचरणामन्तःकरणेन स्थातुं प्रस्थातुं च प्रतीकेन प्रयतमानां तदाननाम्भोजमतिस्पष्टं द्रष्टुमभिवाञ्छदृष्टियुगं प्रकृष्टतरलजया बलादाकर्पन्तीमपिद्विवर्तितमुखीममर्त्यलोकाद्भुवमवलोकयितुमायातां सुरश्रि- यमिव सुरमञ्जरीम् 'मञ्जुभाषिणि , मा कृथाः प्रयाणे मतिम् । प्रमादस्व- लितमस्य क्षम्यतां भुजिष्यस्य' इत्याभाष्य गाढमाविष्य रमयन्नमरदुरास- दसौख्यः पुनः प्रख्यातकुवेरसाम्येन कुबेरदत्तश्रष्टिना श्रेष्ठतमे लग्ने स्ववि- त्तस्य स्वचित्तोन्नतेः बनानो वरमहिम्नश्चानुरूपमर्पिता पवनसखसाक्षिक . पर्यणैष्ट । इति श्रीमदादीभसिंह विर्गचत गद्यचिन्तामगा मुग्म अगलम्भी नाम नवमी लम्पः ।
१३२ गद्यचिन्तामणौ दशमो लम्बः । अथायं सुमतिः सुमतिसुतायां सुरमञ्जर्यां सुमनोमञ्ज- चञ्चरीक इव सक्तो भवन्नभिनवकरपीडनानेडितत्रपाभग्दरमुकुलितमस्या: सुरता लालित्यं ललितवेष्टितैर्विमुकुलीकृत्य क्रमेण तरुणतामरसतर्जनकलाकुश- ललोचनमुग्धमधुरसंचारसूचितपञ्चशरसमरसंरम्भया तया सह मनसिज- महीरुहपचेलिमफलानि भवपयोधिमथनजनित सुधारसायमानानि सौभा- ग्यशशभृदाभिरूप्यशारददिनानि श्रवणचातकपारणपयोदजलधारायमा- णानि मणितमधुरपरभृतरसितसुरभिसमयसाम्राज्यानि सरभसकचग्रहव्य- तिकरविशेषितरतिविमर्दनानि निर्दयकृताधरग्रहजनितवेदनानि विधूतक- रकमलरणितकनकवलयवल्गुरवनिवेदितमदनमहिमव्याख्यानि सुरतसौ- ख्यान्यनुभ्य पुनः स्पृहणीयभूयम् ‘एवं प्राप्तामपि त्वां करणीयभूयस्तया विहाय विलासनि, त्वद्विरहविभावसुशिखाकलापकलनेन कष्टतमानि कतिचन दिनानि कर्तुमभिवाञ्छति जनोऽयम्' इत्याचष्ट । तदनु तां तनूदरी विरहपिशुनवचनतनूनपादाश्लेषप्लुष्टाङ्गयष्टितया विसृष्टप्रायप्राणां तत्प्रयाणं कार्यगरिम्णा च विहन्तुमनुमन्तुमप्यपारयन्तीमसकृदाश्वास्य कथंचिद्विसृज्य गतोऽयं विजयापुत्रः स्वमित्रैरतिमात्रं सौभाग्यशालितया लाध्यमानः स्वभवनमियाय । तत्र च चिरविरहितमालोक्यात्मजमभिन्नक्षणो- द्रवदानन्दाभिषङ्गसंभूततया समशीतोष्णेन बाष्पवर्षेण स्नफ्याती सुनन्दा- ममन्दमिवानन्दीभूतं गन्धोत्कटं च सकलजगद्वन्द्योऽयमभिवन्द्य सनाभिस- माजमपि चतुराश्लेषेण मधुरनिरीक्षणेन शिरःकम्पेन गिरः प्रदानेन दर- दशमो लम्वः । १३३ स्मितेन करप्रचारेण च प्रीणयन् प्रियवल्लभामायल्कायत्तां गन्धर्वदत्तां म्लानमालामिव गुणमालां च संलापसहस्रैरुलाधयन्स्वयमप्युलोकहर्षः पु- नरुद्धर्षमयेषु केषुचिद्वासरेषु निर्वासितेषु निजस्वान्तगतं गन्धोत्कटेन समं मन्त्रयित्वा मातुलस्य महाराजस्य विदेहाख्यया विख्यातं विषयं प्रति प्र- स्थाने मतिमकरोत् । अथ यात्राहपवित्रलग्ने पवित्रकुमारः पद्ममुखप्रमुखैः प्रियसखैरनु- जनाप्यनुप्लुतः प्रबलभटघटाटोपभायितप्रतिपक्षः प्रक्षरदास्रबिन्दुसेकेन मन्दयन्तीमित्र मार्गोष्णं सुनन्दा गन्धोत्कटबन्धुनिवहं च प्रयत्नतः प्रति- निवर्त्य निरगात् । आपञ्च पुनरापदामापदमविरहितसंपदा संपादयन्तं कुक्कुटसंपात्यग्रामपुरभासिनम् , फलभारावनम्रतया समृद्धिमतामपि वि- नयावनम्रत्वमतीव शोभाकरमितीव दर्शयद्भिः शालिभिः शालीनम् , विजु- म्भमाणपूगेकसरामोदामोदितदशदिशाभोगम् , परिपाकपिशङ्गाकाण्डस्फु- टितविकीर्णमुक्तानिकरैस्तारकितमिव तारापथमधः संदर्शयन्तम्, प्रश- स्तमणिमयसमस्तप्रदेशतया सर्वतः समुत्थितेन निजतेजःप्रसरेण कबल- यन्तमिव त्रिलोकीम् , राज्यलक्ष्मीभिरिव डिण्डीरपिण्डपाण्डरपुण्डरीकम- ण्डिताभिः कृशोदरीभिरिव लोलकल्लोलवलिविलसदुदराभिः पञ्चमकाल- प्रपञ्चमिथ्यात्वपद्धतिभिरिवान्तर्धान्तबहुजलाभिर्बहुविदेहभूमिभिर्बहुवयःस- मताभिः सिन्धुभिः संततसंभूष्णुसस्यसंपदम् , महाराजमिव महावाहिनी- संवर्धितैश्वर्यं परिहतपरपार्थिवतया ततोऽपि पराय॑म् , जिनदीक्षाविधि- भिवापेक्षिताखिलसौख्यसंपादनमनिर्वाणानन्दहेतुतया ततोऽप्यभिनन्दनी- यम् , पण्यरमणीलावण्यमिव सर्वजनसाधारणरमणीयभोगप्रदं जरोपरो- धविधुरतया ततोऽपि श्लाघनीयम् , पद्मालयापतिभिरप्यकृष्णपचारिमि- रप्यरुदैः कलाधरैरप्यकलङ्करधिकवीर्यैरपि स्ववशेन्द्रियैश्वरभदेहप्रायनिवा- सिजनराश्रिततया विदेहाख्य इति विश्रुतं जनपदम् । 12 .
१३४ गद्यचिन्तामणौ . तदनु चायं महाभागो विदितभागिनेयागममुदितेन राज्ञा मुहुरा- ज्ञप्तैर्जानपदैः पदेपदे स्वपदानुगुणं प्रमदभरेण प्रतिगृह्य प्रदर्यमानानि मणिमौक्तिकमलयजप्रभृतीनि प्राभृतानि प्रेक्षमाणः प्रतिप्रसादवितरणप्रीणि- तलोकः पुनरुलोकलोककोलाहलमुखरितहरितं हरिताश्वरथनिरोधनकर्मक- मण्यहावलीमिषेणानिभेपवृन्दारकदारणकुशलकुलिशपतनाकुलकुलशि - लोच्चयैरभयस्थानतयेवाश्रिताम् , श्रियभिवाश्रितजनाभीष्टार्थपुष्टिकरीमब- हुवल्लभात्वेन ततोऽपि बहुमताम् , सागरवेलाभिव सर्वरत्नसमृद्ध समु- सारितजालिकात्वेन तदतिशायिनीम् , कान्तारभुवमिव महासत्त्वसमाक्रा- न्ता निष्कण्टकात्वेन तां न्यक्कुर्वतीम् , सर्वलोकतिलकभूतां धरणीति- लक इत्यन्वाभिधानां राजधानी भेजे । यत्र पुरुषाः परेषां पदस्खलिते- पु वंशात्थिता अप्यपर्वभड्रा अवष्टम्भयष्टयः , शोकज्वरजृम्भणारम्भेषु मधुरस्निग्धा अप्यजडात्मानोऽमृतपूराः , मोहमहार्णवमज्जनेषु पारप्रापणप्र- वीणा अप्यपेतपाशयन्त्रणा महाप्लवाः, मतिविभ्रमदिङ्माहेष्वनेक प्रस्थान- विशङ्कटा अप्यकण्टका घण्टापथाः, परिधावनक्लेशेषु फलच्छायाभृतोऽप्य- कुजन्मानो विश्रमदुमाः, तथाभूतवादिनोऽपि प्रधानाः , श्रुत्यनुकूलचरित्रा मीमांसातन्त्राः, सुकृतेतरविवेककुशलाः समवर्तिनः, पवित्रपादसंपर्कास्तम- श्छिदः , गुणलवबध्नीयाः मुमनसः, बहुलोज्ज्वलास्तारकाः , तथा शिव- भक्ता अपि जैनाः , समाश्रितश्रीरामा अपि बुधाश्रयिणः, क्षमाभृतोऽप्यक- ठिनाः, दानोद्यता अप्यनिस्त्रिंशाः, भूनन्दना अप्यवक्रचराः सन्तः स- तां लक्षणमषणमात्मसात्कुर्वन्ति । तावता तन्निशामनदुर्ललितस्वान्ताः, बन्धनादिव बन्धुतायाः श्मशानादिव सदनादाश्रयादिवोपदेशादभिचारादि- व कुलाचारादपमृत्योरिव पत्युः प्रहरणादिव कालहरणादुद्दामादिव निजमा- नादुद्दाममुद्विजमानाः, कल्याणात्मना गुणिना सुवृत्तेन पलायनवेगात्पादयोः पतता परिपालनीया ननु निभृतगतिः' इति निवार्यमाणा इव मेखलाकलापे- . . , . .
दशमो लम्बः । १३५ .. न गुरुतरकुचकुम्भनितम्बभारेण निवारितत्वरितगमनमनोरथोन्मेषाः, भुज- लताविक्षेपवेगगलितानि विजृम्भितामर्पविषमे प्रेषितचक्रजालानीव व- लयानि पार्श्वयोरुभयोः पथि विधुन्वानाः , प्रधाननरभमोत्थितमुक्तासरा आकृष्यमाणा इव मनसाग्रगामिणा निवध्य कण्ठेपु मदनमौ गुणैर्दरविग- लुदलकयन्धविधसमानकुममापीडोत्सङ्गसंधिभिः कणद्भिर्मदनप्रहितैरादेश दूतैरित्र मधुकरैराकुलीक्रियमाणास्तरसोपसृत्य सर्वतः पुरो वीथिं पुरंध्रयः फुलभामिन्यो वय इव वनस्थलीमलंचक्रुः । तासां च तन्निध्यानेन ध्यानप्रवकेण तपोधनमनोवृत्तीनामिव नि- वर्तितान्यव्यापृतीनां मदिरामाद्यत्स्वान्तानामिवाचान्तर जानां मजन्तीना- मिव रागस गरे मदिराक्षीणां कटाक्षशृङ्लया शृङ्गटिन इव मन्दीभूतग- निर्गच्छन्महीपतिमन्दिरं जीवंधरः संभ्रममयं निरवर्तयत् । निदध्यौ च निखिल जनप्रेक्षणीयेषु कल्पान्तरेषु क्रान्तेषु बाह्येश्ववरुह्य करिणः कल चौतनिर्मागमण्डपमण्डनीभूतस्योर्ध्वहस्तपुरुषलङ्घनीयस्य रिपुनृपद्विरदरद- नरचितपादपीठस्य , भ्राजिष्णुरनकनककान्तिकल्माषवपुषः पीनविपु- लतूलतल्पस्यानल्पशोभाजुष्टस्य हरिविष्टरस्य मध्यमलंकुर्वाणम् , बन्धुरा- धरबन्धूकया स्मेरमुखारविन्दभासिन्या म मीरशिश्चितहसस्वरानुबन्धया चलितचामरकलापपर्यायविमलनीरदया शरदेव वारयुवतिपरिषदा परिवेष्टि- नम् , अविरलताम्बूलपुनरुक्तरक्ताधररागेण भागिनेयानुरागमिवान्तरमान्त- मुद्रमन्तम् , अमन्दादरवन्दिवृन्दस्य दिगन्तकृतप्रतिश्रुतिगीतेन श्रावयन्त- मिव निजशासनमाशाधिपान् , राजलक्ष्मीशिखण्डिताण्डवमृदङ्गवाद्येन रि- पुराजहंसनिर्वासनघनस्तनितेन धीरेण स्वरेण परिजनमात्मप्रतिग्रहणाय त्वरयन्तं गोविन्दमहाराजम् । स च समायान्तमालोक्य सात्यंधारमात्यन्ति- कभागिनेयस्नेहेन तदतिमात्रानुभावेन च गात्रे स्वयमेवासनादुत्थिते प्रागेव प्रत्युद्गमनं पुनः प्रत्युत्थानेच्छा पूर्वमेव पुलकोद्गममनन्तरमङ्गहर्षप्राग्भारं पुर- . .
१३६ गद्यचिन्तामणो स्तादेवानन्दाश्रुधारां तदनु तदङ्गसमालिङ्गनसंगतसौख्यभारं च भजन् . स्फारस्मेरमुखारविन्दो गोविन्दो महाराजस्तदीयचातुर्यसौकुमार्यवीर्यवैदुष्यवै- भववैशारद्याद्याननवद्यानालोक्य गुणान् स्वयगपि स्वयंवृतः सुचरितैः स्वीकृतः कृतकृत्यतया परिगृहीतो महत्त्वेन परिष्वक्तः पावनतया करे गृहीतः कीर्त्या कण्ठे स्पृष्टो गद्गदिकया बभूव । तदनु च सत्यधरमहाराजमरणानुस्मरणेनाधरितवारिधिमथनध्वा- नाक्रन्दनाक्रान्तं शुद्धान्तमप्याचान्तव्यथं विहितवत्यां विजयामहादेव्याम् , दिव्योपधादर्शनोत्सुकदेशाधिपप्रतीक्ष्यावसरेषु वासेरषु केपुचिनिर्वासिते. घु, अयं सर्वविजयी विजयानन्दनरिपुविजयाभ्युपायवितर्कणपरतन्त्रो म- त्रशालायां मन्त्रिभिः समं मन्त्रयामास । आचष्टे स्म च 'काष्ठाङ्गारेण प्रहितमिह संदेशं दर्शय' इति सातिशयविवेकं गणकप्रवेकम् । स च 'तथा' इति विहिताजलिवैदेहीसुताहितेन प्रहितं पत्रमुन्मुद्रं विधाय विधिवद्वाचयामास---" पत्रमिदं काष्टाङ्गारस्य विलोकद्विदेहाधिपतिः । पतितं मूर्ध्नि मे पापेन केनापि शोच्याह किमपि वाच्यम् । न तत्तथेति याथात्म्यविदामप्रयायी भवानवैति चेदपि, चेतसि विद्यमानमिदमवद्यानुष- अभयादावेद्यते । केनाप्युन्मस्तकमदावलेपादपहस्तितहस्तिपकेन हस्तिना क्वचिदाक्रीडे क्रीडन्पीडां जगतः प्रवर्तयामास मर्येश्वरः । ततः परिगतक- रिणा कृतमेव मयि परिणतं किंचिनाम । अकिंचनमेवं कजासनावल्लभं कल्पितवतः काश्यपीपतेरकारणकरणे कारणं किं नु स्यात् । को ना- म पादपस्कन्धमध्यासीनः परशुना मूर्खस्तन्मूलमुन्मूलयेत् । को वा तरिष्यन्वारिधि वहित्रेण तत्रैव जाल्माईछद्राणि जनयेत् । को वा पिपासुः पानीयचषकं पापः पांसुपूरैः पूरयेत् । कश्चन धेनोरापीनभारेण क्षीरस्य- क्षतं क्षुरेण पातकः संपादयेत् । गतानुगतिकः खलु लोकः । कस्तम- नुसतुं समर्थो भवेत् । मान्यो भवानेतन्मनस्यकुर्वनगुर्वीमिमामस्माकमा- दशमो लम्बः । १३७ । . कस्मिकीमकीर्तिमधिकता समागत्य संमार्जयेत् । उपार्जितमपि दुष्कृतं सुकृतिसमागमो हि गमयेत् । किमन्यत् । आयुष्मतः किंकरं मां गण- येत्” इति कापटिकप्रष्ठेन काष्टाङ्गारेण प्रहितसंदेशार्थसमाकर्णनेन नि- गीततदतिसंधानसंधः स वसंधरापतिः 'अहो सचिवाः, साचिव्यमस्मद- भीष्टार्थे दिष्टयानुतिष्ठति काष्टाङ्गारः, यतः प्रागेव केनापि व्याजेन राज- धमेनं समूलघातं हन्तुमुन्मनायमानान्नः स्ववधाय कृत्योत्थापनमिव कुर्व- स्वयमेवाह्वयति । तस्मादस्मत्प्रतारणपराकृतेन तेनाहूता वयमकृतकाल- क्षेपाः क्षेपीयः प्रस्थाय प्रस्थापितास्महितृविवाहमिषाः समूलकापं कषि- ध्यामस्तं भुजिष्यम्' इति बभाषे । घोषयांचकार व्यापितकाष्ठाचक्र काष्ठा- कारेण साधू वर्धते धात्रीपतमैत्री। गोत्रस्खलनेनाप्यस्य शात्रववार्ता निवर्तय. न्तु निजासुप्रणयिनः प्राणिनः' इति । निदथ्यौ च निजध्यानानुपदं मद- लोलुपमधुपत्रातविहितनियतोपास्तिकैर्हास्तिकैः स्थलजलसमानगमनजव- नतातुलितमातरिश्वभिरश्वीयैरसकृत्कृतापदानसंभवदस्ताकहस्तबदनुरूपय - शस्तातिभिः पदातिभिर्लविताचलशृङ्गैः शताङ्गैश्च बहुशतसहस्रैर्बहुमता- म्, अमितपताकिनीपतिभिरहंप्रथमिकया पृथगेव सभयं सदैन्यं सनागक- थनं साङ्गुलिनिर्देशं साञ्जलिबन्धं च जवजननचिद्वलक्ष्मीप्रतिपादनर्व- कं प्रदर्यमानाम् , अषणामक्षोहिणीम् । अथ प्रथितप्रयाणानुगुणे पुण्यतमे लग्ने निर्गत्य निर्विघ्नतायै वि. हितजिनपतिवरिवस्यः सवयस्यानुजेन सार्धमर्थिजनमनोरथानर्थविसरवि- तरणेन चरितार्थीकुर्वन्सर्वतः प्रसरत्या विसृमरविविधयोधायुधाभरणकिर- णोलसत्तटिलतासंचयकञ्चकितककुभा करटतटनिर्यदमितमदजलधाराप्ला- वितधरातलद्विरदनीरदनीरन्ध्रितवियदन्तरालया स्थैर्यविजिताखण्डलधनु:- काण्डकोदण्डमण्डलया नाण्डवितशिखण्डिमण्डलमहाध्वानस्त्यानस्तनित- सातङ्कभुजङ्गया तुङ्गतुरङ्गखुरशिखरखननजनितघनतरपरागपटलपयःशी- १३८ गद्यचिन्तामणी करनिकरनिबिडितनिलिम्पवर्त्मना प्रावृषेव प्रेक्ष्यमाणया वाहिन्या वाहिनी- पतिरिव प्रलयकालोटेलः प्रच्छादितपृथ्वीतलः प्रत्यर्थिनिर्मूलनाय हेलया हेमाङ्गदविषयं प्रति ययौ । ततश्च वलक्षतरवारवाणोल्लसत्सौविदल्लवल्ल- भकरपल्वकलितवित्रासकवेत्रलतात्वर्यमाणराजपरिबहधारिणि राजकीय दवीयःप्रदेशप्रापणश्रवणक्षणस-वरसंभाण्डयमानभाण्डागारिकपरिषदि प्र- श्रयप्रणतोत्थितगुणधनापृच्छयमानगुरुजनगौरवविहिताशिपि प्रतिनिवर्त- नप्रत्याशाविधुरभीरुचारभटनिर्दिश्यमाननिधिन्यासकोणक्षोणिनि विलम्बि- तलम्बोदरदासेरकसमाह्वानपीन:पुन्यखिन्नस्विन्नपुरोयायिनि विस्मृतविस्म- यनीयाहार्याहरणधिषणाप्रेष्यमाणभुजिष्याभाष्यमाणव्यक्तेतरविसंवादवच - सि प्रसभप्रयाणप्रवणतानुष्टितपृष्ठावलोकनानुवय॑मानप्रतिनिवर्त्यमानस- नाभिसंसदि प्रगुणवलनभ्रष्टगोणीकदुष्टशाक्करदूरवित्रासितयात्रिकसंबाधे चण्डचण्डालपेटकनिबिडमुष्टिघटितकठोरकुठारपाटितविटपिविशङ्कटीकृत- संकटारण्यसरणिनि खननकरणनिपुणखानित्रकगणक्षणसंपादितोदम्भ:- कूपशुम्भितमरुभुवि तादात्विककृत्यदक्षतक्षकसार्थसामर्थ्यचित्र्यरचितव - हित्रसुतरकाकपेथसरिति पुरःप्रसारितभूरिभीकरकलकलारवकांदिशीकके- सरिणि चरणक्षणोत्थितधरणीविसृमररेणुविसरमसृणितमयूखमालिनि वा- रणपरिबृढोत्पाटितपार्श्वपादपपरिघसप्रतिघाध्वनि कण्ठरज्जुकषणोन्मथितत्व- गालानवनस्पत्युद्वीक्षणवनचरानुमीयमानवारणवर्मणि प्रतिगजगन्धघ्राण- प्रतीपगामिकाननद्विपप्रतिग्रहकृताग्रहभटप्राग्रहरकोलाहलभरितहरिति द्वि- रदतुरगखरकरभमहिपमेषशाकरशताङ्गशकटप्रमुखपृष्ठारोपिताभीष्टकशिपु- समेतसकलहतिनि हेमाङ्गदविषयं विविशुषि सैन्ये , राजन्योऽप्युत्तरेण राजपुरीमुपकार्यो कल्पयेयुरिति शिल्पिसमाजाध्यक्षानादिक्षत् । प्राविक्षच्च तो क्षणकल्पिता स्वसंकल्पसिद्धिशङ्काप्रहृष्टेन काष्टाङ्गारेण प्रसभं प्रत्युद्या- तः पृथिवीपतिः ।
दशमो लम्बः । १३९ . अनन्तरमापाटलपटकुटीघटनायासक्लान्तस्वान्तेषु गृहचिन्तकेषु , विलुटितोत्थितविधूतकायहयपीयमानतोयेषु तोयाशयेषु , बहुप्रयासप्रापिता- लानस्तम्भेषु मदस्तम्बरमेषु, सद्यःपाकसंपादनोद्युक्तमानसेषु महानसमुप- स्थितेषु पुरस्तादेव पौरोगवेषु , सत्वरसंकल्पितमापणमासेदुषि प्रथमतरप- णायनत्वरणभाजि वणिजि. वामहस्तावलम्बितमस्तककुटोष्टासु कूपसार- दन्वेषिणीषु कुट्टिनीषु , प्रसभं बहिः प्रधावत्येधानाहारके दासेरके , स्ना- तानुलिप्ताङ्गासु ध्रियमाणभृपासु वारयोपासु . व्यसनगौरवस्मारितपथक- थाकथनलम्पटे दंपतिनिवहे , अहंपूर्विकोपसरदनेकविधयोधास्कन्दनक- नाक्रोशे क्रोशशतान्तर्गतकुटुम्बिवर्गे . मार्गश्रमापनोदनमनीषानिहितद- यिताङ्कशिरसि यवीयसि , विशङ्कटपीठप्रसारितप्रसवजालहेलानहनमनो- हारिण्यां मालिकयुवतिश्रेण्याम् . श्रेणीभूतपादाताधिष्ठितासु काष्ठासु . काष्टाङ्गारेण सबहुमानमुपायनीकृतमनतिवयस्कममन्दबलमाश्वीयं हास्ति- कमप्यास्थानकृतावस्थितिरयमद्राक्षीत् , प्राहैपीच्चास्य प्रतिप्राभृतम् । अ- ताडयच्च डिण्डिमम् · अतिरुन्द्रचक्रयन्त्रनियन्त्रितं यो नाम युगपदेव पातयितुं शक्नोति शरेण शरव्यतां गतं वराहत्रयं वराहेऽस्मिन्नेव वरोऽ- यमस्मत्कुमार्याः स्यात्' इति । आयासिषुश्च चोलकेरलमालवमागधपा- गड्यपारसीककलिङ्गकाश्मीरकाम्भोजप्रभृतिदेशाधिपा महीभृतः । पुनरव- सरेऽस्मिन्नविप्रकृष्टमृतेः काष्टाङ्गारस्य नापरो रोदितीति स्वयं रुददिव म- न्यमानं दैन्यावहारसितमनिशमम्बरतले बम्भ्रमद्वायसमण्डलं खण्डितशि- रोभागं तदीयशीर्षच्छेद्यतानियतिसूचननिबन्धं कबन्धमनन्तरज्वलिष्यदद- सीयशोकधूमध्वजपुरोगमधूमेनेव दिग्धूमेन धूम्रोपान्तं दिगन्तं नितान्त- निस्त्रिंशफलमन्यादृशमपि मन्युभरापादनं महोत्पातं निशाम्य निकृष्टाचारे काष्ठाकारे किंचिन्यञ्चन्मनसि विषेण वा केनापि मिषेण वा वञ्चयितुं वाञ्छति गोविन्दराजम् , राजपुरीं निकषा निषेदुषां नरपतीनामुपकार्या- .
१४० गद्यचिन्तामणी . सु च प्रतिप्रदेशं स्वदेशाद्देशान्तरं कन्याभिनिवेशेन विशतां विशांपती- नाम् “धनुर्धरतमः कतमस्तां लभेत । लब्धवति च चापविद्यालब्धव- णे कस्मिंश्चिदिमां कन्यकामन्ये कथमहीकाः स्वगृहं प्रविशेयुः । अपि च केचिदतः पूर्वमनुद्धृतशरासनाः संप्रत्युपासनामुपरचयन्ति । परे तु शर- गुणनिकां कर्तुं गुणवन्मुहूर्तं पृच्छन्ति मोहूर्तिकान् । इतरे तु 'वयमारचि- तसमस्तशस्त्रयोग्याः सर्वथा योग्याश्च भाग्याधिकाश्च' इति पण्डितंमन्याः कन्यकां हस्तस्थामाकलयन्ति । तावदतिशयितालातचक्रशैघ्रये यन्त्रचक्र शक्रस्याप्यशक्यमारोहणम् , आस्तां विद्धिः" इति योद्धृषु कथयत्सु . साधीयसि लग्ने स्थापित यन्त्रमामन्त्रितास्ते विश्वेऽपि विश्वंभरापतयः परि- वार्य पश्यन्तस्तदीयचक्रभ्रमणरयमासांचक्रिरे । तेषु केचिदुद्वीक्ष्य यन्त्रमुद्वे- गाधिष्ठिताश्चित्रीयाविष्टाश्च त्वष्टा तु निर्मीयतां निर्विचारम् । मनसाप्यतl- मेनं मूर्खण केन दुर्वर्णेन कन्यकायाः शुल्कत्वेन कल्पितम्। आकल्पमेतदभे- द्यमेव लक्ष्यं द्रक्ष्यामः । तदपि सा च कुमारी स्वकुलगृह एव जरामियात्' इति चिन्तयन्तस्तरुणीलाभबुद्धि विद्धिं च जहुः । केचिदुद्धताः सलीलमुत्था- य भूतलादाततज्यमापाद्य कार्मुकं करपल्लवाकलितभल्लाः सोल्लासमारुह्य यन्त्रचक्रमदसीयभ्रमणशैघ्रयभ्रान्तस्वान्ताः स्वकान्तामवनिमन्याभिलाषवि- तकनविहितेष्ा परिष्वङ्गेण प्रसादयितमिव प्रसभं पृथ्वीतले निपेतुः । कश्चिदभिसंधिपुरःसरमारूटचक्रैः संधाय निःसारिताः शराः शरव्यं तरसोपसृत्य लुब्धपार्थिवमिवार्थिनो निष्फला न्यवर्तिषत । कैश्विदाकर्णा- कृष्टचापयष्टिभिर्निसृष्टाः खगाः खचरेभ्यः कथयितुमिव तदत्यद्भुतमतिक- म्य लक्ष्यमन्तरिक्षमुत्पेतुः । एवमतिक्रान्तेष्वर्धसप्तमवासरेषु, क्रमादिष्वासविद्यालब्धवर्णेषु त्रैव- णिकेष्वेपरेषु सर्वेष्वपराद्धपृषत्केषु , दिव्यशक्तिकः स जीवककुमारः स्मेरा- क्षिविक्षेपः , सहस्राक्ष इव चक्षुर्द्वयोपेतः , षण्मुख इव दर्शितैकमुखः . - दशमो लम्बः । १४१ . चारहित इव चक्रपाणिः , साङ्ग इवानङ्गः, स्वाङ्गविलोकनविभावनीयवै- भवप्रतापः प्रत्यूषाडम्बर इवोदयाचलप्रस्थगतः , समस्तबन्धुभिः सिन्दूर- बन्धुरसिन्धुरस्य कस्यचित्पृष्टमधितिष्टन्निमां गोष्टीमुपातिष्ठत् । तदतिमात्रा- नुमावावलोकनमात्रेणैव धात्रीपतयः पतिरयमेव लक्ष्मणायाः । लक्ष्यभे- ददक्षश्च जगत्ययमेव नियमेन' इति निरणेषुः । काष्टाङ्गारस्तु कुजर इव पचाननम् , प्रतिवादीव स्याद्वादिवावदूकम् , अधमर्ण इवोत्तमर्णम् , त- स्कर इवारक्षकम् , सहसा ससाध्वसमवलोकयन्नेनमतितरामभेषीत् । आर- ब्ध चायमचिरभाविनिरयनिरीक्षणोन्मुख इनाधोमुखः सुतगं हतचित्तश्चि न्तयितुम् ‘मथनः कथमेनमपधीरवधीत् । साधु साधितं स्यात्स्यालाध मेन बाटमेतत् । किमिति विश्वस्तो मयैवं विश्वासघाती । किमिति न गया वा पुरस्तादेव निरस्तासुः कृतः क्षात्रोचितचरित्रोऽयं वणिकपुत्रः' इति । ताव- ता समुपेत्य चतुरपुरःसरसमुत्सारितसमालोकनलम्पटजनसंवाधः स्तम्बेर सानोः सानुजः सानन्दमवप्लुत्य सलीलमा- रूढयन्त्रचक्रस्त्रिविक्रम इवाक्रमविहितज्यारोहणशरसंधानशरक्षेपः क्षोभ- यन्नरिहृदयमाशु केनचिदाशुगेन शरव्यं विव्याध । स च मायकप्रष्ठो निसृष्टार्थ इव साधितसमाहितः सहसा न्यवर्तिट । ततः कृतपुडभेनं पुरु पुंगवं समीक्ष्य समीक्ष्यकारी स विदेहाधिपतिर्देहेन समं सिद्धक्षेत्रकृताध्यास इव प्रसीदन्प्रफुल्लवदनाम्भोजः समालोक्य भूभुजां मुखानि मुखविकासवि- वृतान्तर्गततुष्टिप्रकर्षः काष्ठाङ्गारपर्यायानिर्वाणदींकरस्य शिरसि दम्भो- लिमिव पातयन्नतिगम्भीरया गिरा 'जीवंधरोऽयं सत्यंघरसम्राजस्तनयः' इति तदुदन्तमिदंतया विवत्रे । तदुपश्रुत्य श्रवणचुलुकपेयं पीयूषायमाणं क्वनं सर्वेऽपि सर्वसहापतयः 'सर्वथा क्षात्रमेवेदमौचित्यम् । न परत्र पदं ल- भेत परस्य हि कृत्यमिदं प्रत्यालीढपाटवं प्रेक्षणोक्ष्म्यं लक्ष्यभेदमात्र- पर्याप्तशररंहःसंपादनचातुर्य चेति प्रागेव निश्चितम्' इति निश्चलपक्ष्माणः मेन्द्रान्मृगेन्द्र इव सानुमतः .१४२ गद्यचिन्तामणी सपक्षपातं कुमारमैक्षिषत । पातिततद्वचनाशनिज्वलनज्वालास्पृष्टः स काष्टाङ्गारोऽप्यङ्गारीभूतकाष्ठवन्निःसारतां गतः । कथमन्य प्रस्तुतम-यदुप- स्थितं यदतिसंधित्सितो गोविन्दमहाराजः स्वयमस्मानतिगंधातुमवाप्ताभिसं- धिरासीत् । 'इदं हि जगति लाभमिन्छतो मूलच्छेदः प्रकृत्या स्वयमस्मा- कममित्रोऽयं वणिक्पुत्रो राजपुत्रत्वमप्येतेनारोपितः । पुनरेनं च प्राप्य प्र- तिष्कशङ्काकार्कश्यमपरं नः किं न कुर्यात् ' इति विमृशन्नेत्र विसृत्य तदा- स्थानमादृतप्रस्थानो भवन् 'अस्थाने पतितमिदं राज्यं त्यज्यतां त्वया नियों- ज्यखेटकेन' इति प्रकटाटोपपाटवैः पद्ममुखादिभिर्निसितोऽयं कुसितवृ. त्तिः पुनयुयुत्सुरासीत् । बभूवुश्च काष्टाङ्गारतो निकृष्टा विशिष्टास्तु जीवं- धरराजतो राजानः । ततस्तपस्यामिव बलवदुपास्यां दुरन्ततया तु ततो नितान्तगह- णीयाम् , मीमांसामिव परिहिंसाप्रवणभजनीयामीश्वरापेक्षतया तु ततो वि. लक्षणाम् , चार्वाकचर्यामिवानपेक्षितात्मनिर्वहणीयां गुरुद्वेषम यतया तु ततोऽपि कुत्सनीयामाजिमारचयितुमतीव क्षोदिष्ठे काष्ठाङ्गारे प्रकापमाणे, पराक्रमशालिषु पद्ममुखादिष्वपि युद्धाभिमुखेषु , पिनद्धा!रके सशीर्षके च सति सादिनि निषादिनि च , समारोपितधनुषि धन्विनि, धनुर्धर- चक्रवर्तिना चक्रव्यूहपरेण च पद्मव्यूहे कृते, चक्रशोभिशताङ्गनमभृति तुरंगतरङ्गिणि मातङ्गपोताङ्किते पादातपयसि परस्परस्पोद्यतपारावारद्वय इव पक्षद्वये लक्ष्यमाणे , पटहध्वनेरपि ज्याघातरवे पांसुपटलादपि पत्रि- णि गभस्तिमालिगभस्तेरप्युदस्तास्त्ररश्मिनिकरे रणरागादपि रक्तीचे प्रति- समयं प्रकृष्यमाणे , धानुष्कैर्धानुष्का निषादिभिर्निषादिनः सादिभिः सा- दिनः स्यन्दनारोहै: स्यन्दनारोहा युयुधिरे । तावता धरणी धरणीपतिम रणभीत्या रणनिवारणायेव रेणुपटलापदेशेन परस्परदर्शनं परिजहार । मिथोदर्शनापेक्षिणीवाक्षोहिणी तत्क्षण एव शिलीमुखमुखविघटितविशङ्क- दशभो लम्बः । १४३ . टवक्षःकता:विगलदविरलरुविरधारया घरातलोद्यत्परागपरम्परामाचचाम | ततः साक्षालस्यमागलस्यत्या निष्प्रतिधे सति बलौधे , पृषत्केषु केषु- चिदगावोबदगाववोधलम्पटतयेत्र प्रतिभटोरःस्थलं प्रविशत्सु , परेषु परप्राणमे गोपजातभीतिभराक्रान्तश्चिवान्तर्धातुमवनीमवगाहमानेषु , अ. परेषु स्वनायकनिकटारनविघटनेच्छयेव पाटितप्रतीपगामिपत्रिषु , अन्येषु म्वयमपि जातमन्युभरेष्विवार्थपदविलुप्तपत्रभागेष्वपि परगात्रमधिविशत्सु , पुनरमित्रपर्यायनेत्रश्रवःस्फुरदहंकारहारिटंकारभीकरस्तनितसहितकरालका- मुककरम्भितजीवककुमारजीतनिष्टय नमनिनदनीरन्ध्रशरनिकरनीरधारा . भिहन्यमानमैन्यमानुमत्संभूना मंस्थितधरणीपतिकिरीटकेयूरहारजालबालु- कापण्डा सदण्डसितातपत्रपुण्डरीका वेगविलोठितगजगण्डशैला प्लवमान- चामरविटिण्डीरा परेततुरगलहरीपरम्पराकुलकूलंकपा कर्पणरयाकृष्टाव- शिष्टाक्षोहिणीका क्षतजधुनी क्षणादिव प्रावहत् । तदेवं मारितपादाते दारितहास्तिके नश्यदश्चीये विपरिवर्तितस्थकड्ये सारथिरहितरथिनि र. थारोहक्षुण्णक्षत्तरि स्तम्बेरममरणमविषादनिषादिनि हत्यारोहविरहित- हस्तिनि तुरङ्गमविगमसीदत्सादिनि अश्वारोहविवर्जिताश्व च सति सन्ये, त्रियामामिव दीर्घनिद्रोपद्रुतबहुला तमोगुण प्रभवां च , बौद्धपद्धतिमिव पिशिताशिसेव्यां निरात्मकशरीरां च , गार्हस्थ्यप्रवृत्तिमिव मृतवारणविधुरां रक्तसुलभां च विलोक्य रणभुवम् 'किमिति क्षोदीयांसो हिंस्यन्ते जन्तवः । स एव द्विपन्समूलकाषं कषणीयः' इति धिषणया पर्याणाश्चितस्याअनगि- रिनाम्नः कुञ्जरस्य स्कन्धं बन्धुरयञ्जीवबन्धुधिंधरकुमारः सुरशत्रुसादनो- द्यतः शक्तिधर इव करकलितशक्तिः , त्रिपुरदहनाभिमुखस्त्रिपुरान्तक इव नितान्तभीषणकोपाट्टहासः , दाशरथिरिव तपस्यानधिकारिणं शम्बुकं रा- ज्यानधिकारिणमेनमपि शीर्षच्छेद्यं परिच्छिद्यारातिमाह्वयते स्म । आहान- क्षण एव क्षीणतरादृष्टः स रुष्टः काष्टाङ्गारः क्रोधवेगस्फुरदोष्ठपुटतया नि- .
१४४ गद्यचिन्तामणी कटवर्तिनो निजाहानकृते कृतागमान्कृतान्तदूतानिव स्वान्तसंतोपिभि. सान्वयन्वचाभिः नातचिरभाविनरकावसथभवदवतमसप्रचयमिवात्मानं प्रतिग्रहीतुकामागतं करालं कालमेघाभिधानं करिणमारुह्य रोषाशुशुक्ष- णिविजृम्भमाणशोणेक्षणतीक्ष्णार्चिश्छटाच्छन्नाङ्गतया सप्ताचिपि निम- उज्य निजस्थानिद्रोहभाव विभावयितुं सत्यापयन्नित्र सत्यंधरमहाराजतनया- भिमुग्वामीवाय । अवदसायमकिंचित्करः किंचिन्यञ्चन्मनाः 'कुमार कुरु- वंशशिखा नणे, प्रणराजचूडामणिकिरणशोणनखमणिचरणो रावणोऽपि रणे गरणमीयिवानायुर्वि रामे रामेण । किंपुनरपरः । तदयं मया वध्यो वध्योऽ हमनेनेनि बुद्धिमन्तो न विबुध्यन्ते । किमर्थं मामविवेकमधिकमधि- क्षिपसि' इति प्रतारणपरभेतदणकनरेन्द्रस्याकर्ण्य कस्यचिद्भापणं किमभैषीः इति प्रत्यभापत प्रतिभाप्रकाशिततन्मनीषितः स मनीषी । पुनरपीच्च ग- त्यन्तरमत्यन्तरोषहुतवहावहवचःश्रवणेन किं वणिक्पुत्र . किं वाङ्कात्रे- ण । विजयस्तु विधिवशतः । तव शक्तिसमागमे चक्षुषी चेन्मम त्रासजु पी स्यातां तदा परुपा स्यान्ममेयमाहोपुरुषिका । युक्तं च त्वयापि वक्त मेवम् ' इत्युक्ता सत्वरोपसर्पितकरिणः करिणमवप्लुत्योदस्तकोंक्षेयकं क्षेपी- यः स्वयं हन्तुमापतन्तं तमन्तराले नितान्तनिशितशक्तिशकलितशरीर याष्टिं काष्टाङ्गारम् । उदस्तम्भयच्च संग्रामसंरम्भस्तम्भनं विजयानन्दनो विजयशंसिनं विजयध्वजम् । अभ्यनन्दयच्च सानन्दमभ्येत्य सफललोच- नत्वमात्मन्यात्मजायां वीरपत्नीव्यपदेशं वीरसूव्यपदेशमप्यवरजायामाकल- यन्तम् , चन्दनशिशिरेण हृदयनिर्वाणविवरणचतुरेण विमलस्थूलेन नि- पतता बाष्पपूरेणाभिषिञ्चन्तमिवालिङ्गन्तं गोविन्दराजम् , आजिदर्शित- नैकापदानसंभवदानृण्यानवरजसमेतान्सखीन्सह प्राभृतेन प्रसभमागत्य प्रणमन्तमपि पृथ्वीपतिसमाजम् । ततश्च वैरिनिहननोपलब्धवैरशुद्धिमेनं विलोकयितुमरिशुद्धान्ताव- ..
दशमो लम्बः । १४५ . शेषमापेतुषां भर्त्सनमपि कृत्स्नसंमानं ताडनमपि सनीडप्रवेशनं निवारणमपि दर्शनद्वारकरणं दूरीकरणमप्यूरीकरणं गणयतां गोगणावस्कन्दिविपिनेचर- विजयोपोद्धातमात्मापदानं शंसतां पुरौकसामुलोककोलाहलेन सकुतूहलम- नाः कनत्कलधौतमयकालाञ्चीमुकुरचामरभृङ्गारतालवृन्तप्रभृतिपरिबर्हनिर- न्तरितपर्यन्तः समन्तात्सेवमानसामन्तलोकसमभिधीयमानालोकशब्दः प्र- शस्ततमे मुहूर्ते निवर्तिततदुपकार्याप्रदेशः प्रतिप्रदेशनिविष्टनिष्टतहाट- कहटदष्टमङ्गलविराजितं राजपुर्याः सहजमिवालंकारमलंकृतमिव त्रिदिवं त्रिजगत्सार इति विश्रुतं श्रीजिनालयमभिषेकविधये विधानज्ञोऽयमास्ति- कचूडामणिरधिकास्थयोपतस्थौ । तत्र च सत्वरपरिजनसंनिधाप्यमानैर्ने- कमणिमहः कबलितधवलातपत्रकिरीटहरिविष्टरैरष्टमङ्गलाद्यभिषेकोपकरणैश्च कराम्बतहरिति , हूयमानदहनदक्षिणावर्ताचिश्छटादर्शनतृप्तपुरोधसि , वि- धीयमानविविधकार्यतात्पर्यसंचरमाणपञ्चजनपरस्परसंघट्टनप्रेसत्केयूरजनित- क्रेङ्कारवाचालितककुभि , दीयमानदीनारादिवितृष्णदीनलोकपाणितला - न्तरपर्याप्तच्युतमाणिक्यमौक्तिकस्थपुटितमणिकुट्टिमे प्रसवपरिमलादपि भ्रम- रझंकारस्य , जनताया अपि प्रमदस्य, सुन्दरीजनादपि सौन्दर्यस्य , क- र्तव्यादपि तत्कर्मान्तिकस्य , वनीपकवाञ्छातोऽपि देयकाञ्चनस्य , वादि- त्रक्कणितादपि नृत्यदङ्गनारशनारणितस्य, शास्त्रचोदितादपि सपर्याक्रम- स्य समधिकस्य समुद्भवे , भगवतः श्रीमन्दिरे सुरेन्द्र इव दूरादैरावणाद्वा- रणवरादवरुह्य वर्यया भक्त्या सपर्यानन्तरपर्यातसम्यक्तं बहिः प्रसारय- लिव वाणी गद्गदयन् पाणिं मुकुलयन् नेत्रयुगं स्रावयन् गात्रं पुलकय- न शिरः प्रयन् मनः प्रसादयन् प्राज्येज्यापरिकरैः परिपूज्य भगवन्तं भक्तिजलप्रवाहेण प्रागेवाभिषेकात्प्रक्षालितबहलाघजम्बालोऽभूत् । तावदु- दञ्चञ्चन्द्रचन्द्रिकासंचयेनेव कञ्चकितम् , विहरमाणसौत्रामणवारणदेहप्र- भाप्रतानेनेव सवितानम् , क्रीडाचटुलसुरधुनीमरालमण्डलपक्षैरिव वल- 13 , .
गधचिन्तामणौ । क्षितम् , आकालिकतुषारवारिशीकरविसरैरिव विच्छुरितम् , विसृमरपर्या- तधूपस्तूपधूमनिष्पन्नधूमयोनिपरस्परसंघट्टविघटितजठरान्तर्मुक्तमुक्ताफलका- न्तिवातेनेव वीधं वियद्विदधानः पारिषद्यचक्षुरालादभाभारेण परीतः स कृत- ज्ञप्राग्रहरः कृतज्ञचरः सुदर्शननामा देवः सादरमन्तरिक्षादवारुक्षत् । अभ्यषि- बच्च तदभिषेकाधिकृतैरमा सपरितोषं निजपरिवारामरपरम्परानीतया परा- ाखिलतीर्थाम्बुपूरपूरितया परिसरप्रत्युप्तपद्मरागप्रभाजालजटिलकिसलया- पीडया महनीयरत्नमहौषधिबीजसमवापसमग्रमङ्गलशालिककट्या शातकु- म्भकुम्भपरिपाट्या भगवन्तमिव मन्दरगिरिमस्तकनिविष्टं विष्टरश्रवा हरि- विष्टरविराजिनं जीवंधरमहाराजम् । अभिषेकसलिलौघे च संसिद्धिसिद्ध- नैर्मल्ये निर्मलतमतदङ्गस्पर्शनेन पावनतां प्रतिपद्य पापभूपसंपर्कपांसुला- मपांसुलां कर्तुमिव काश्यपी व्यश्नुवाने, भृशमुन्मूलितरागाणामप्युत्कण्ठा- वहं गायत्किनरकण्ठीनां गणेन सुरकिंकरवाद्यमानैरमानुषातोद्यैरभिनवर- सानुबन्धमभिनन्दन्तीनामप्सरसां सार्थेन चिरममर्त्यलोकायमाने भुवने भु- वनैकशरण्यं लावण्यमूर्ति मूर्धाभिषिक्तमेनं स्वयमेव परार्ध्यरत्नाभरणैः स- परिष्करणं कृत्वा प्रकृतिसिद्धरामणीयकस्यास्य भूषणानां च भूष्यभूषण- भावसाधारणतां समालोक्य सस्नेहविस्मयस्तिमितचक्षुपि चक्षुष्यमेनं पुनः- पुनराश्लिष्य यक्षेन्द्रे स्वमन्दिरमीयुषि , राजेन्द्रोऽपि सदातननरेन्द्रसरभ- सोत्थानसंरम्भच्युतकर्णशिखरगतकर्णपूरोत्कलिकापुनरुक्तपुष्पोपहारमण्ड नादास्थानमण्डपादुत्थाय ततो निर्गत्य प्रसरत्यपि प्रणामलीलालालसानां भूभुजामुन्मेषिणि चूडामणिमरीचिनिचयबालातपे ससभ्रममावर्जितमकु - टप्रच्युतापीडकुसुमडोलायमानमधुकरकुलान्धकारकुटमलायमानकोमलाञ्ज- लिकमलसहस्रकरम्बितमम्बरतलमालोकयन् 'जय जय' इति तारतर- मुगायनो वन्दिबृन्दस्यामन्ददुन्दुभिगम्भीरनिर्घोषानुयातमायतशङ्खध्वानमिदं प्रहतमदलस्निग्धनिदिमांसलं कांस्यतालरवसंकुलमालोकशब्दमाकर्णयन् दशमो लम्बः। १४७ आलोलकर्णपल्लवालम्बिवालचामरकलापामलकार्तस्वरकल्पितालंकारका. न्तम चारुकोमलपुष्करकरां ससंभ्रममाधोरणसमुपनीतां साक्षान्मूर्तिमती- मिव जयलक्ष्मी जयलक्ष्मी नाम करेणुकामारुह्य हंसतूलमृदुचीनपट्टोपधाने परिस्तोमवति विचित्ररत्नचित्रपर्यन्ते सुविहितप्रस्तररमणीये महति कनक- पर्याणके सुखनिषण्णः पश्चिमासनगतेन हेमाङ्गदवलयरत्नदीधितिस्तबक- चित्रवारवाणेन कुलक्रमागतेन स्निग्धेन शीलवता शौचाचारयुक्तेन प्रथ- मानमित्रेणोह्यमानस्य मध्यार्पितमहामणिमयूखपटलपाटलितस्य बालातपर- क्तशारदबलाहकानुकारिणश्चामीकरदण्डस्य प्रलम्बतरस्थूलमुक्ताकलापस्मे- रपर्यन्तस्य महाश्वेतातपत्रस्य निसर्गशिशिरच्छायया निवार्यमाणमार्तण्डक- रावलेपः पार्श्वकरेणुसंश्रिताभिरतिमनोहराकाराभिरिवनिताभिरतिमधुरंगा- यन्तीभिर्विनोद्यमानः सकुतूहलपौरसुन्दरीजालमार्गप्रसृतलोचनसहस्रसंगा- दितामुदञ्चदुत्पलप्रचयमेचकामिव भवनदीर्घिकां राजवीथीं जगाहे । तावता तदवलोकनकुतूहलोद्भवदुद्दामसंरम्भाश्चरणयोः प्रथमं परि- स्पन्दमानं चरणमन्यस्मान्मान्यतरं मन्यमानाः , अप्रभावि पूर्वाङ्गमनुलग्ना- दपराङ्गादधिकगौरवकलितमाकलयन्त्यः, करणेष्वपि पुरःप्रयाणनिपुणम- न्तःकरणमतिकृतार्थ वितर्कयन्त्यः, सरभसगमनविरोधिनः स्तनभारात्त- नुतरमनुकूलमवलग्नं श्रद्दधानाः, स्वाङ्गभ्रष्टान्यवशिष्टेभ्यो लाघवपोषीणि भूषणान्युपकारीणि गणयन्त्यः, समागत्य स्फुरदतिरागमनोहराधरपल्लवा: वल्लर्य इव कुसुमामोदमहिता माधवसंगमकृतासङ्गाः, चललीभङ्गतरङ्गभा- सुरा रसमय्यः सरित इव सरित्पतिम् , कण्टकनिकरदन्तुरितवपुषः सति- लका वनभुव इव महीधरम् , चारुचन्दनपत्रलताङ्किता मलयमेखला इव दक्षिणजगत्प्राणं वीरश्रीप्राणनाथं प्रमदाः समासदन् । तासां च सदा- वलोकनकौतुकविद्वेषे निमेषेऽपि वैरायमाणानाम् , असंजातसर्वाङ्गनेत्र मनुष्यसगै हृदा गर्हमाणानाम् , तादृशभागधेयभाजनमात्मानमपि श्रध- .
१४८ गद्यचिन्तामणौ तीनाम् , तस्यैव वदने निलीनामिव केशहस्ते निबिडितामिव ललाटे कीर्णामिव कर्णद्वये कीलितामिव लोचनयोर्भ्रान्तमिव भ्रूयुगे लिखिता- मिव कपोलयोः सक्तामिव नासिकायां प्रतिष्ठितामिवोष्ठयोश्चुम्बितामिव चिबुके कन्दलितामिव गले मांसलामियांसयोनिभृतामिव बाह्वोनिक्षिप्ता- मिव वक्षस्याश्रितामिव पार्श्वयोनिबद्धामिव मध्ये निमग्नामिव नाभौ घटि- तामिव कटितटे निवेशितामिवोरुदेशे लवितामिव जङ्घयोः संदानिता- मिव चरणयोर्नम्रामिव चित्तवृत्तिं वहन्तीनां वारस्त्रीणां मारकृतानि सा- कूतानि सविभ्रमाणि समाधुर्याणि समन्दस्मितानि सकलप्रलापानि सा- पाङ्गवीक्षितानि साङ्गुलिनिर्देशानि विलसितानि विलोकयन्विलोभनीयवि- श्वगुणभूमिः स्वामी स्वामिलाभदुर्ललितहृदयं प्रकृतिजनं प्रकृतिरञ्जनस- मर्थः पार्थिवकुञ्जरः कार्तस्वरकटककम्बलपरिधानादिस्पर्शनेन परितोषय- न् विशेषज्ञवीक्षणीयानि प्रेक्षमाणः कक्ष्यान्तराणि तत्र तत्रभवन्तमाले- ख्यशेषमालोक्य पितरं स्मारस्मारं दर्शदर्श धीरतया नातिविकृतहृदयवृ- त्तिरतिधृतमतिदक्षैः सपक्षपातैः सौधाधिकृतैः संशोधितसकलोपान्तं रा- जनिशान्ताभ्यन्तरं प्राविक्षत् । आरुक्षच्चायं राजवीर्येण वीराणां सौन्दर्येण सुन्दरीणां प्राभवेण पृथ्वीशानां वदान्यतया वनीपकानां धर्मशीलनतया धार्मिकाणां वैदुष्येण विदुषां मन्त्रणनैपुणेन मन्त्रिणां च हृदयं भोगावली- प्रबन्धेन कवीनां प्रबन्धमिव दिगन्तं देहप्रभया सभां देहेन च सिंहास- नम् । आदिशच्च दिशिदिशि विसर्पिभिरान्दोलितचामरधवलिममूछितै- रुच्छ्रितधवलातपत्रराजिसब्रह्मचारिभिः सहर्षब्राह्मीहसितसंकाशैर्दशनेन्दु- चन्द्रिकासान्द्रकंदलैः काष्ठाङ्गारचरित्रानुधावनेन सत्रायितं धात्रीतलमिव पवित्रयन् सुत्रामत्रासावर्जिन्या पर्जन्यर्जिततर्जनपरया भारत्या परिसर- निविष्टान्काष्ठाङ्गारावरोधस्य कारागृहनिरुद्धानां च निरोधो निवारणीय इति काराधिकृतान् । अतनिष्ट च राजश्रेष्ठिपदे गन्धोत्कटं यौवराज्यपदे दशमो लम्वः । १४९ नन्दाढ्यं महामात्रादिपदे पद्ममुखादीन्द्विषडर्षपर्यवस्यदकरपदे च जानप- दान् । अतोषयच्च विषयान्तरेषु पुरा व्यूढानाहूतप्रविष्टानभिनिविष्टप्रेमा- भिभूततया पादयोः पततः परिस्फुरदमन्दानन्दप्राग्भारोद्वान्तनितान्तशि- शिराश्रुवर्षेणेव पांसुपरुषा िधावनसावधानान्तःकरणानन्तःस्फुरितविरह- शोककृशानुकृशीकृताङ्गतया कृशाङ्गीति नाम सार्थमिव समर्थयतः स्वसंगम- वासरकृताङ्गरागमाल्याद्यलंकृतान्पातिव्रत्यपताकाः पावनगुणोदारान्दारान् । अघोषयच्च धर्मचक्रभूषितललाटेन हर्षोभुरेण वीध्रवसनाङ्गरागसुमनोम- ण्डितेन शुण्डालौरसारोपितडिण्डिमेन चण्डालाधिकृतेन कृतभगवन्नम- स्कारपूर्वकम् ‘संवर्धतां सद्धर्मः । सार्वभौमः क्षेमी क्षितिमण्डलमपाया- चिराय पायात् । अपेतसकलेतिरुपेतविश्वसस्या च भवतु विश्वंभरा । भवन्तु भव्या दिव्यजिनागमश्रद्धालवः सविचाराः साचाराः सानुभावाः सत्रिभवाः सदयाः सदानाः सगुरुभक्तयः सजिनभक्तयः सायुष्याः सवै- दुष्याः सहर्षाश्च धर्मपत्न्यः सधर्मकृत्याः सपातिव्रत्याः सतनयाः सविनयाश्च भूयासुः । भूयः श्रूयतामेतत् । देवविधित्सितविवाहोत्सवव- राहीभूतसप्तवासरावधिकमधिकं नगरीयमलंक्रियताम् । आहार्यविशेषः सविशेषमङ्गेष्वामुच्यताम् । अतिबहलागुरुधूपैयूँमायमानं केशजालमम्ला- नमालाभिरशून्यमातन्यताम् । नखंपचपायसाशनमनिशमश्यताम् । अरु- च्यं तु भैषज्यमपि नोपभुज्यताम् । भज्यतां परमेश्वरस्य पादपद्मम् । इदानींतनाः सन्तु सनातनाः' इति । तदैवं घोषिते, केषुचिद्राजचरितोद्घोषणपरेषु पौरवृद्धेषु 'क पूज्यं राजपुत्रत्वं प्रेतावासे क वा जनिः । क वा राज्यपुनःप्राप्तिरहो कर्मविचित्रता ॥' इति ससंवेगं प्रतिद्वारमुदीरयत्सु , परेषु तु पौरेषु — सत्वरमलिन्दभू- रालि, मलयजरसेनालिप्यताम् । मृगलोचने , मृगमदमाहर । प्रसाधिके, पुरुषाः । . .
गडचिन्तामणो . साधु प्रसाधय । सज्जीभव बाले , ताम्बूलवीटीविधौ । कुरङ्गलोचने , स्ना- पयितुमङ्गजं कुङ्कुमस्थासककुम्भानानय । चित्रकर, प्रातिवेश्मचित्रादति- विचित्रं चित्रय । कर्पूरिके, कर्पूरोपलजालानि शकलय । मन्दीभूतग- न्धपाटवामिदं पटवासं चूर्णाय भुजिष्ये, किं नु घृष्यते । मालिके, ल- ब्धपरभागं माला सृज्यताम् । रजक, राजाज्ञा खलु त्वयैवाज्ञायि ; सद्यो वासांसि धवलीकुरु । कर्णाभरणानि तूर्णं विधेहि स्वर्णकार, किं नु कालं हरसि । मालाकार, प्रातरेवानय प्रसूनमभिनवम् ; सौगन्धिक - स्रगियमपेतगन्धा; बन्धुरसौरभामपरामर्पय।' इत्येवंप्रकारमलंकाराय त्वरमा- णेषु, राजकुले च कुलक्रमागतैः प्रागेवागमनं पश्चादाह्वानयन्त्रणां पूर्वमे- व सर्वसमीहितकृत्योद्योगं तदनु नियोगं पुरस्तादेव स्वहस्तव्यापारमनन्त- रमन्तःकरणवृत्तिं च भक्तिपरतन्त्रया भजद्भिस्तत्तत्कर्मान्तिकैः सुधासा- दिव सूत्रसादिव चित्रसादिव विचित्रपटसादिव पटवाससादिव कृते , कृ- तादराभिररुणसंग्राहिणीभिश्चूर्णसंयोजिनीभिः कुसुम्भरागकारिणीभिः कु- सुमप्रन्थिनीभिर्मण्डनविधायिनीभिः पिण्डालक्तकसंपादिनीभिस्ताम्बूलदा- यिनीभिर्जाम्बूनदमुकुरधारिणीभिरष्टमङ्गलसंस्कारिणीभिः पिष्टपञ्चाङ्गुलक - लितशिलादिकल्पिनीभिश्च साधुशीलाभिः समन्तादागतसामन्तसीमन्ति- नीभिनन्दिते, नरेन्द्रश्च नाथमानैर्नरपतिकटाक्षस्य साकमुपधाभिरुपसर- द्विश्चूताशोकपल्लवशुम्भितवेदीवितर्दिकास्तम्भोत्तम्भिभिश्च ससंभ्रमं क- ल्प्यमानायां कल्याणाहसंविधायाम् , विजयामहादेव्यां च भर्तरि स्म- रणेन कर्तव्ये चरणेन तनये स्नेहेन स्नुषायां हर्षेण बन्धुजने प्रियवचसा नियोज्ये नियोगेन च तदानीमेकस्यामपि नैकस्यामिव सत्यां सुतोद्वाहसु- खानभिज्ञमात्मानं सुखयन्त्याम् , तदीयकौतुकेनाहूत इव वररागरज्जुन- न्थिबन्धनाकृष्ट इव वधूसखीप्रपञ्चपञ्चशाखामुलीगणनाक्षीण इव स्वकुतू- इलेन स्वयमेव वा सरभसमायासीदुद्वाहवासरः ।
दशमो लम्बः। . अथ कल्पितकराहणार्हपुरश्चरणकर्माणं कनकधरणीधरकटकप- रिभाविनि परिसरघटितविमलमुक्ताफलपटलपाण्डुरमहःप्रसरपुनरभिहितो- त्तरच्छदशोभिनि पराक्रमविद्याशिष्यैरिव पञ्चाननैः पादच्छलेन विधारिते निष्टप्ताष्टापदनिर्मिते महति सिंहासने समुपविष्टम् , पृष्ठभागोपस्थापिते क्षीरोदतरङ्गकोमलटूकूलनिचोलचारुणि चामीकरपत्रचित्रितस्तबरकदर्श- नीयपर्यन्ते द्विगुणनिवेशिते स्पर्शसुखप्रतिपादनपटीयसि हंसतूलोपधाने निधाय पश्चिमदेहमासीनम् , आसन्नस्थिताभिरनुवल्गनरणितमणिपारिहा- र्यमुखरबाहुलताभिरनिलचलितकुवलयदलदामपेशलविलोचनविक्षेपाभिर्वि- भ्रमकृतनिभृतहसितनिर्यदमलदशनमरीचिकुसुमिताधरकिसलयाभिः कुसु- मशरकीर्तिपयोराशिवीचीविमलनीवीविनिहितैककरपल्लवाभिः परेण करप- ङ्कजेन कलहंसमिव परिमललोभपतितमुच्चालयन्तीभिश्चामरं वामनयनाभिः कल्पशाखिनमिव कनकलताभिः परिवृतम् , उत्तप्ततपनीयदण्डविधारि- तेन सुमेरुशिखरविलसदुडुपतिमण्डलविडम्बकेन विमलातपत्रेण तिलकि- तोपरिभागम् , अनुपरिपाटि स्थितैराहितकरकमलकलितकनककिरीटैरस- कृदभिधीयमानजयजीवशब्दैरसतटलुठितमणिकुण्डलमरीचिपर्याकुललोच- नैरभिनवगगनशङ्कासमुदिततारकानिकरानुकारिणा हारेण पुलकितपृथु- लवक्षःस्थलैरवनिपतिभिरारादासेव्यमानम् , आहितरत्नकेयूरकिरणपाटलि- तेनाध्यक्षीभवदभगुरप्रतापेन भुजयुगलेन चमत्कुर्वाणम् , शारदजलधर- धवलाम्बरपरिवेषदर्शनीयं दुग्धजलधिजलपूरमधिशयानमिव शाङ्गिणम् , नभोङ्गणे तारागणैरिव तारापति धरापतिभिः संसदि विराजमानं राजा- नमुपसृत्य प्रश्रितः प्राञ्जलि: 'प्रत्यासन्नो मुहूर्तः' इति मौहूर्तिकाधिकृतः ससंभ्रममब्रवीत् । तद्वचनमुपश्रुत्य द्रुततरमुच्चलतामिलापतीनां रंहसा च. लितवक्षोगतवैकक्ष्यमालाभ्रान्तभृङ्गावलीझंकाररवे मङ्गलशङ्खध्वनाविवोच- लति, तरसा त्रुव्यत्सूत्रहारमुक्तानिकरे रोहदतिस्फारकरपद्मरागकुहिमपातेन. . .
११२ गद्यचिन्तामणौ , वधूवरविधेयहुतवहज्वालोचितलाजविसर्ग इव विभाव्यमाने , जनसमर्द- कृतयादृच्छिकमणिस्तम्भदक्षिणभ्रमणारम्भे दम्पतिविधास्यमानहुताशनप्रा- दक्षिण्यक्रियां पिशुनयति , हर्षविकीर्यमाणराजाभिमुखप्रसूनाञ्जलौ सा- नन्दगोविन्दमहाराजादिविधातव्यवधूवरचकासदाक्षितारोपणमनुकुर्वति परिष्करणमय इव परिबर्हमय इव नृत्तमय इव वादित्रमय इव महिषीमय इव महीपतिमय इवानन्दमय इवाशीमय इव विलसति विवाहमण्डपे, मण्डलाधी- श्वरदत्तहस्तः शिलोच्चयशिखरान्नखरायुध इव हरिविष्टरादवरुह्य विरचितपर- मेश्वरसपर्याञ्चितः स्वहस्तवितीर्णकाञ्चनः संचितसकलहोमद्रव्यसमिद्धपुरो- भागेन पुरोधसा हूयमानसमित्कुशतिलबीजलाजजालचटचटायमानेन हुता- शनेनाहूत इवासाद्य वेदी मुदितपुरोहिताभिहितजयजीवेत्याशिषा समं जी- वंधरमहाराजः, स्वमातुलमहाराजेन महनीयलग्ने ससंतोषं समर्पिताम् , आत्मीयकीर्तिमिवाकल्पभासुराम् , प्रबलतपस्यामिवाबलाप्रार्थनीयवेषाम् , वासरश्रियमिव दोषोपसंहारसुलभाम् , सुरसुन्दरीमिव साभरणजाताम् , मृगयामिव वराहवधसंपन्नाम् , मुनिजनमनोवृत्तिमिव चरणरक्ताम् , ब्रह्म- स्तम्भाकृतिमिव कृशतरविलग्नाम् , शरदमिव विमलाम्बरविराजिनीम् , अध्वरसंपदमिव सुदक्षिणाम् , सुराज्यश्रियमिव चारुवर्णसंस्थानाम् , वन- राज़िमिव तिलकभूषितां बहुपत्रलतां च , नक्षत्रराजिमिव रुचिरहस्तामु- उज्वलश्रवणमूलां च, हव्यवाहज्वालामिव काष्ठाङ्गारवर्धिनी भूतिभाविनी च, 'यदि कुन्तलानामीदृशी कान्तिरलमलं संतमसकान्तिचिन्तामणिभिः । ईदृशं चेदाननमस्य प्रतिरूपकमेव कुमुदिनीपतिः । यदि भुजयोरीदृशं संस्थानमनयोरनुकरोत्येव कल्पशाखिशाखा । यद्ययमाभोगः स्तनयोः पी- नयोः क्रीडागिरिरपरः कीदृशो भर्तुः' इति निभृतं वल्लभपरिचारिकाभि- रनुरागिणीभिरभिष्ट्रयमानाम् , अमन्दमृगमदामप्यकिरातगीतिम् , अलको- दासिनीमपि नवुतिसंभवाम् , मधुपाश्लिष्टगात्रामपि पवित्राम् , अक्रमक्षी- -
दशमो लम्बः।
णामिव कौमुदीम् , अभुजङ्गसङ्गमामिव चन्दनलंताम् , अजडाकरप्रभवा-
मिव पद्मलक्ष्मी लक्ष्मणां पर्यणयत ।
इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ
लक्ष्मणालम्भो नाम दशमो लम्वः ।
१५४ गद्यचिन्तामणौ एकादशो लम्बः । अथ निष्कण्टकाधिराज्योऽयं राजा कुसुमशरशरकाण्डपतनेन करपीडाक्षण एव कण्टकितप्रकोष्ठः प्रकामस्विन्नाङ्गुलिमन्यूनभाग्यां भो- ग्यामिमां राज्यश्रियं च प्राप्य प्रकृत्यनुगुणेन चतुरवचसा मधुरनिरीक्ष- णेन मनोहरचेष्टितेन यथेष्टभोगार्पणेन तयोः कंदर्प दर्पे च प्रसर्पयनि- रर्गलोपभोगस्यार्गलास्तम्भमभिनवतासंभावुकमवशीभावमुभयोरप्युत्सारय - न्स्वैरममूभ्यां यथासौख्यं यथाभाग्यं यथायोग्यं कामसुखमन्वभवत् । एवं कान्तेः काNि कलानामेकायतनमाधिराज्यं माधुर्यस्य गुरुकुलं प्रस- नताया वैदग्ध्यं वदान्यताया अवसानमनुक्रोशस्य दिष्टिवृद्धिं प्रियवादि- ताया यौवनं बिभ्राणाम् , गाढरक्तां पाणिपादाधरे भर्तरि च, अधिक- वक्रां पक्ष्मवति कुन्तलकलापे पापसत्त्वे च, निकामतुङ्गां स्तनजघने मानसे च , अतिगम्भीरां नाभिमण्डले भाषिते च, विपुलां विलोचनयो- र्नाम्नि च, दीर्घा भुजलतयोः प्रणतरक्षणे च , सूक्ष्मां महिम्नि करच- रणरेखासु च, चारुवृत्तां जङ्घयोश्चरित्रे च, अत्यन्तमृद्वी तनुलतायां गमने च, अतिदरिद्रां मध्ये नैर्गुण्ये च, आभिजात्येनाभिरूप्येण पा- वनकृत्येन पातिव्रत्येन च विशिष्टाम् , अष्टधा भिन्नामप्येकीभावं गतां देवीपरिषदं यथोचितं साकूतस्मितैरपाङ्गपातैः सनर्मसौख्यैर्विलासोक्तिवि- स्तरैः सविस्रम्भैरनुरागवर्णनैः सापदेशैरपसर्पणैः ससंभावनैर्माल्यविनि- मयैः सभ्रुकुटीपुटैरलीककोपैः सप्रणामैः प्रकृतिप्रापणैः सापराधसंवरणै- रुपधावनैः सजीवितसंशयैः शपथसाहसैः सापलापैः स्थैर्यस्थापनैः सानु- मोदः प्रतिवचोदानैः सावहित्यैः शष्कनिर्बन्धैः साभिलाषैरनुनाथनैः स- . , . ..
एकादशो लम्बः । १५५ वञ्चनैः काञ्चीशैथिल्यैः सधाष्टर्यैरुपप्रलोभनैः सवैलक्ष्यैः प्रत्यवेक्षितैः स- प्रमादोपन्यासैः स्खलितानुज्ञापनैः सत्रासैर्गोत्रव्यत्ययैः सदास्योपगमैः सं- रम्भमार्जनैः समार्गनिरोधैः प्रतिनिवर्तनैः सकौतूहलैसश्चर्यविलोकनाक्षेपैः सगद्गदिकास्तम्भैमिथ्याकथितैः सलज्जाजाड्यैरधोमुखस्थितैः सानुशयैर- नुपदप्रस्थापनैः ससमाह्वानैः क्रीडनसंकल्पनैः ससद्भावाभिनयैः प्रतार- णप्रावीण्यैः सरहस्यसंज्ञैराशोत्पादनैः सरोमाञ्चैरवतंसकमलकेलिताडना- नुभावैश्च रमयन्यथाकामं कामसौख्यमसक्त एवान्वभवत् । तथाहि- असौ राजा वाह्यममित्रजातमध्रुवमतिविप्रकृष्टं चेत्यात्मनिष्ठमरिषड़गै व्य- जेष्ट । असहाया नीतिः कातर्यावहा शौर्य च श्वापदचेष्टितमित्यभीष्ट- सिद्धिमन्विताभ्याममूभ्यामाकाङ्क्षीत् । सप्रणिधानं प्रहितप्रणिधिनेत्रः श- त्रुमित्रोदासीनानां मण्डलेषु तैरज्ञातमप्यज्ञासीत् । राज्ञां रात्रिंदिवविभागेषु यदनुष्ठेयमिदमित्थमनिर्बन्धमन्वतिष्ठत् । जातमपि सद्यः शमयितुं श- तोऽपि सदा प्रबुद्धतया प्रतीकारयोग्यं प्रकृतिवैराग्यं नाजीजनत् । किं बहुना । राजन्वतीमवनीमतानीत् । एवमनन्यसुलमानन्योन्याबाधितान्धर्मार्थकामान्संचिन्वति तस्मि - प्रजापतौ, प्रजाश्व तदधीनवृत्तयः सादरैः करप्रदानैः सानुशयैः प्रमा- दस्खलितैः सभयैराज्ञानुष्ठानैः सविनयैर्गुरुजनानुवर्तनैः सनिर्बन्धैश्वारुवृत्तैः सविचारैः प्रारम्भैः सफलैरखिलवृत्तैः सपरप्रयोजनैः साधुचेष्टितैः सदा- नपूजैरुत्सवोपक्रमैः समेतास्तं राजानमनार्जनक्लेशमर्थजातमजन्मोपयुक्तं पि- तरमनिमेषोन्मेषं नेत्रमनभिवर्धनायासं सुतमाबद्धमूर्तिमिव विश्वासमवनी- तलसंचारमिव सुरतरुमात्मप्राणानामिव पुञ्जीभावममन्यन्त । तथा गात्र- बद्ध इव क्षात्रधर्मेऽस्मिन्धर्मोत्तरं धनोत्तरं सौख्योत्तरं च धरातलमवंति सम्राजि, वत्ससाम्राज्यसमवलोकनसफलीकृतजीविता विविधविहितपूर्वो- पकारिसर्वजनतृप्तिः पुनरतृप्तिकारिण्यविचारितरम्ये किंपाकफलप्रख्ये वि- .
१५६ गद्यचिन्तामणौ - षयसौख्ये विरक्ता सती विजया महादेवी सस्नेहं सदयं साश्वासं सनि- बन्धं सवैराग्यं सावश्यकं च समादिश्य काश्यपीपतिनापि कथंचिदनुम- तैव सुनन्दया समं सुतयोः स्नुषाणां पुरौकसां च सीदतां प्राबाजीत् । प्रव्रज्यामनयोरुपश्रुत्य तदाश्रमस्थानं राज्याश्रमगुरुरपि गुरुतरविषादवि- हलमतिः सपदि समभ्येत्य समुद्वीक्ष्य दीक्षिते जनयित्र्यौ कर्तव्याभावा- दतिमानं विषीदन्मातृभ्यां विशिष्टं तत्संयमं विश्राणितवत्या श्रमणीश्रे- ष्ठया प्रपञ्चितैर्धर्मवचोभिः किंचिदिवाश्वास्यमानः पुनःपुनः प्रगृह्य पार्द प्रसवित्र्योः 'अत्र नगर्यामासिका कर्तव्या । न च स्मर्तव्यान्यत्र यात्रा' इति ययाचे । ताभ्यां च तदीयप्रश्रयबलेन 'तथा' इति प्रतिश्रुते, वि- श्रुतवीर्यः स विश्वंभरापतिरम्बावियोगादम्बकविहीन इव दीनवृत्तिः प्र- तिनिवर्त्य सप्रणाम निवृत्त्याश्रमान्निजावसथमशिश्रियत् । तदनु कालपाकेन स्वपाकेन शान्तस्वान्तरुजः कान्ताभिरमा निर्विशतस्त्रिदशाहसौख्यं त्रिंशत्संवत्सरसंमिते समये समतिक्रान्ते, क- मादात्मजेष्वप्यात्मनिर्विशेषेषु कलागुणैः कवचहरतां निविशमानेषु, क- दाचिन्नितान्तक्षीबवसन्तबन्धुर्वसन्तसमयावतारः समधुक्षयदस्य जलक्री- डोद्योगम् । अनन्तरमानायिभिः संशोधितां स्फटिकतुलितपयःपूरां स्फु- टितारविन्दबृन्दनिष्यन्दिमधुबिन्दुसंदोहचन्द्रकिताममलस्फटिकशिलाघटि- तसोपाना प्लवमानराजहंसफेनिलतरङ्गां कूजत्कारण्डवमिथुनाधिष्ठितकूल- केतकीकुसुमधूलीधूसरपुलिनामनिभृतमीनाहतोत्पलगर्भप्रतिबद्धषट्पदझं कृतमुखरामुपरितटोद्यानवाटिकागूढां क्रीडासरसी समदशकुन्तकुलकू- जितेरिषाभिहितालोकशब्दः समवगाहमानमानिनीनिकरकरास्फालनरय - तोरंगामिलहरीप्रवाहणेव प्रतिगृह्यमाणः समवगाह्य वनकरीव करिणीभिः करभोरुभिरुपलक्षितः क्षालिताङ्गरागसंपर्कसकुङ्कुमसलिलं सादुकूलाले- पस्पश्च्योषिदक्यवाकृष्यमाणात्मलोचनं सुलोचनालोचनकुचसाखप्य - एकादशो लम्बः । १५७ . साक्षालक्षणसंभावनीयविकचमुकुलनलिनमलकाप्रविगलदम्बुबिन्दुसंदोह - संदेहकरहारमुक्तमुक्तानिकरं करविलुलितसलिलप्लवमानबिसवलयरचितच- न्द्रशकलशङ्कं जडसंनिधिसंजातवाग्यतवृत्तिकताविभाव्यमानसुजनकृत्यर- शनाकलापं दृतिमुखसिच्यमानकुकुमसंपर्कसंभाव्यमानसिन्दुरितकुम्भिकु- म्भसाम्यकुचकुम्भं च भृशमक्रीडत् । क्रीडावसाने च बलवदनिलचलकिसलयसमुल्लासिवेललताला- स्यलालितेऽभिनवपरागपटलस्विन्नपुंनागमञ्जुमञ्जरीजालजल्पाकमधुकरनि - करझंकारमुखरे गाङ्गजल इव पृथुलहरीसनाथे, पचेलिमकलमशालिक्षेत्र इव बहुलवनमाले , अङ्गनाङ्ग इव मृदुलपनसबहुमाने, सनीडतिनि म- बंदुरासदसुमनोमनोहरानोकहानिबिडे क्वचिदाक्रीडे क्रीडाक्लमहरणाय वि- हरमाणः स धरित्रीपतिः क्वापि कोणे कौतुकविधायिकापेयविलोकनाय वि- लोचने व्यापारयामास । तत्र चातिसंधानकोविदः कोऽपि कपिरन्यस्त्री- संगमावलोकनेन मन्युग्रस्तां मर्कटीं ‘अवितर्कः कोनाम निसर्गसुन्दरीम- नादृत्य त्वामन्यां बहुमन्येत' इति प्रियवचःसहस्रैरपि प्रकृतिमानेतुमपा- रयन्पारवश्यनटनेन ‘पश्य मां प्रिये, परासुरहं भवामि' इति परिव- तितेक्षणः क्षणादेव क्षितौ क्षीणासुरिव पपात । वराकी तु सा वानरी वञ्चनाकृतं मरणमञ्जसेति स्त्रीत्वसुलभाच्चापल्याद्विश्वस्यभावेन दीर्घ नि:- श्वस्य 'हा नाथ, हतास्मि पापाहम्' इत्यालप्य सत्वरमेनं हरिं धरात- लादुत्क्षिप्य करतले गृह्णती निगृह्णती चात्मानं 'कुट्टिन्या मया पतिद्रोहः कुतः कारणात्कृतः' इति पुनःपुनः कृतगाढपरिष्वङ्गा पाणितलविकीर्य- माणपयःशीकरशीफरेण शिशिरोपचारेण चिराय जीवितेश्वरं जीवया- मास । प्रियाङ्गपरिष्वङ्गेण प्रत्युजीवित इव प्रीणानः प्रतारणचतुरः स शाखामृगः , शाखिशाखान्तरलम्बमानमम्बरव्यापि पाकसुलभसौरभरचि- तजिल्लाचापलं पनसफलमानीय मुद्गफलाकाराभिः कराङ्गुलीभिर्दलयमा- 14 .
१५८ गद्यचिन्तामणी त्मदयितायै तस्यै ददौ । तदवसरे तत्र नियुक्तो नातिबालः कोऽपि वनपालः पलाययन्मिथुनमिदं फलमेतदपजहार । तदेतदखिलमवलोक्य लोकोत्तरोन्नतचित्तः स जीवंधरमहाराजः सदयमना ‘जीवानामुदय एव न केवलं जीवितमपि बलवदधीनन् । दीनवृत्तिके मृगद्वन्द्वे संभवदिदं द्वन्द्वजातं किमेवं संभाव्यते । भवेऽस्मिन्नेवास्माभिर्भवभृतां वृत्तेरवस्था- विकलता किमनालोकिता। आलोकिताप्येषा विभवदूषिकादूषितदृष्टीनां न खलु नः स्पष्टीभवति । कष्टमतः पूर्वमाचरितम् । सर्वथा काष्ठाङ्गाराक्ते करशाखाभ्रष्टफलः शाखामृगः । अस्मद्यते नूनमाच्छोटिततत्फल: स व- नपालः । फलं तु नियमेन भोगायते । गच्छतु तुच्छफलकाझ्या कृ- च्छायमाणेन मया गमितः कालः । सफलयेयमवशिष्टं वा विशिष्टतपसा । भोगेन हि भुज्यमानेन रज्यमानेनापि त्यज्यते जनः । तस्मादहमेव ता- वदैहिकभोगेषु मुह्यन्मनो जह्याम् । यावदमी माममीमांसया नूनमभिल- पन्तं हसन्त एव जिहासन्ति । नियोगतश्चेद्भोगानां वियोगः स्वयं त्या- गात्किमिति लोकोऽयं बिभेति । किं च ते भजन्तमात्मानं त्यजन्तः स्वातन्त्र्यात्स्वान्तमस्य सुतरां तुदन्ति । स्वयं त्यक्तास्तु तदानीं मनःप्र- सत्तये पुनर्मुक्तये च भोगा भवेयुः' । इति भूयो व्यरजत । तथा विहितविचाराभोग भोगाद्विरज्यन्तं योगे क्रममाणमेनं क्र- मादतर्कितदक्षिणाक्षिस्पन्देन किमुदर्कोऽयमिति वितर्कविजृम्भितरणरण- कविषीददन्तःकरणास्तदन्तःपुरसुन्दर्यः पर्यवारयन् । वैभवमहो वैराग्यस्य यतो भोग्ये संनिहितेऽप्ययोग्य इवासीदस्पृहमस्य मनः । तत्त्वज्ञानविवे- कतो विमलीकृतहृदयाः कृतिनः खलु जगति दुष्करकर्मकारिणो भवन्ति, यस्मादमी मनस्विनो मनोरथेनाप्यभावित्वादभूतत्वादननुभूयमानत्वाच्च वा- ञ्छामात्रपरिग्रहाण्येव वस्तूनि परित्यक्तुमप्यपारयति लोके, तान्युपभो- गभाज्येवाक्षसा मुञ्चन्ति । तथाहि- तत्पूर्वक्षणे ताः सुन्दरीनिरन्तरं - एकादशो लम्बः । १५९ निशामयितुमन्तरायभूतमात्माक्षिपक्ष्मक्षोभमप्यक्षममाणोऽयं राजर्षिर्न मू- ध्यति स्म तदात्वे संनिधिमपि तासाम् । पुनरासीच्च महीपतेर्महानुद्योगो योगीन्द्रमुखादुपश्रोतुं धर्मम् । आदिशच्च परिजनम् ‘जिनपूजां कल्प- यितुमनल्पमुपकरणमनवद्यमानीयताम्' इति । तावता संमुखागतैर्मुख- विकारविभाव्यमानविरक्तिपरिणामैः परिणतैमन्त्रिभिनियन्त्रणाशतेनाप्य - निवार्यमाणप्रयाणः प्रयाणदुन्दुभिमिषेणानिमेषाध्यक्षस्य यक्षस्याप्यात्मनि- र्वेदै निवेदयन्निव निर्विष्णहृदयेन किंकृतविषय आसीत् । 'क्रीडानन्तरं पीडेयं प्रवृत्ता। किंनिमित्तमेतद्विरक्तमस्य चित्तम् । किमस्मद्विषयमुता- न्यविषयं किंस्विदाकस्मिकम् । किमु स्वन्तं किमुत दुरन्तम् । दुरन्त- तामेव हि नः शुभेतराक्षिस्पन्दः कन्दलयति' इति चिन्ताक्रान्तेन शु- द्धान्तेन सममुद्यानान्निरयात् । अयाच्च यातयातनैस्तपोधनैरव्युषितं मु- षितभव्यलोकमोहल्यूह मोघीकृतदिनमणिमयूखैर्मणिभिर्निर्मितं धर्मैककुलभ- वनं जिनभवनम् । अबुध्यत चात्मानमबद्धं कर्मभिः । अस्तावीच्चायम- तितोषादपदोषमात्मानं कर्तुं समर्थैः स्तवैः प्रवर्तितनैकप्रदक्षिणक्रियाप्र- णामपूर्वकपुष्पाञ्जलिः स्फारयन्परिणामशुद्धिं दूरयन्दुष्कर्म गात्रं रोमाञ्च- यन्नेत्रे स्रावयन्वाणी गद्गदयन्पाणी मुकुलयन्भगवन्तं परमेश्वरम्- 'यदङ्गिपद्मप्रणतो प्रवीणा न कुर्वते जातु नतिं परेषु । अपारभूमानमनन्यतुल्यं श्रीवर्धमानं शिरसा नमामि ॥ यदीयपादाम्बुरुहस्तवेन क्षणावधिं वा गमयन्ति कालम् । न ते परस्तोत्रपरा इति त्वां श्रीवर्धमानं स्तुतिभिर्भजामि ॥ आराधयन्ति क्षणमादरेण यदपिकेहमात्तभावाः । परामखास्ते परसत्क्रियायामित्यर्चनीयं जिनमर्चयामि ॥' इति । तावता तत्र तत्रभवन्तौ संनिहितौ हितकार्यकरणायेव कायभृतां कायबद्धौ शुद्धतमतपःशक्तिसिद्धां निजसिद्धान्तस्थितिमिव निर्मला नाति- १६० गद्यचिन्तामणा . , विशाला कामपि स्फटिकशिलां घटितविविधोद्गमस्य विबुधतरोरधस्ताद- धिवसन्तौ वारिदपथसंचारचतुरचरणारविन्दौ चारणपरमेष्टिनी राजायमै- क्षिष्ट । दृष्टमात्रयोरेव तयोरयं भ्रष्टकल्मष इव प्रीतिविस्फारितनेत्रः स्तो- त्रमुखरमुखः पवित्रकुसुमविसरविकिरणत्वराविह्वलकरयुगः प्रहमणिमौलि: प्रदक्षिणं भ्रमन् 'मम भवभ्रमः शाम्यतात्' इति तपःकाम्यया तपो- धनयोः श्रीपादाम्भोरुहं शेखरीचकार । स्वीचकार च घटितकरपुटः स्फुटोच्चारितजयशब्दः 'तत्रभवतोः प्रसादतस्तथा' इत्यवितथवचनः मुं- निवरमुखाम्भोजभवां 'भो महाराज, कच्चित्ते वार्तम्' इति मधुरवार्ताम् । प्रार्थयाञ्चक्रे च वीक्षितधेनुर्बुभुक्षितो वत्स इव मुनिवरवात्सल्येन वर्धि- तहर्षोऽयं राजर्षिः ‘मही भगवन्तौ , भवन्मुखशतपत्रनिशामनमात्रेणैव जातसंसारप्रशमनोऽहमस्मीति प्रगणयामि । ततः पवित्रधर्मयानपात्रसम- पणेन भवाब्धौ विस्तृते दुस्तरतया सदा सीदन्तं मां प्रसीदताम्' इति । प्रश्रयस्पृहणीयतदीयप्रार्थनावसाने च धर्मामृतवर्षेण कर्मपर्याय- माभ्यन्तरमस्य मलमशेषतः क्षालयिष्यन्पूर्वमपाकुर्वन्निव बाह्यमभ्यन्तररद- नज्योत्स्नारूपाभिरद्भिरभिषिञ्चन्नुप्रतपसोस्तयोरग्रणी तिव्यग्रं समग्रगुणसं- पन्ना रत्नदीपिकामिव प्रकटितपदार्थपारमा• तमोपहां चाकठिनप्रभाव- त्वादिमामप्यतिशयानाम् , सुधामिव वसुधातलदुर्लभां सुमनःसंभावनी- यांचाक्षयकलानिधिसभवादतोऽपि संभावनीयाम् , संजीवनौषधिमिव स- कलजीवजीवातुभूतां चरणरुचिसंपादिनीं च पुनर्जननक्लेशहननादतोऽपि पुरस्क्रियाहा॑म् , हारयष्टिमिव सुवृत्तबन्धुरां गुणानुबन्धिनी चाजडाश्रय- त्वादतोऽप्यधिकमीडनीयां च भन्यलोकरञ्जनीयां दिव्यवाचं मुभोच- 'महाराज, श्रूयताम् । यतोऽभ्युदयनिश्रेयससिद्धिः स धर्मः । स च स- म्यग्दर्शनज्ञानचारित्रात्मकः । अधर्मस्तु तद्विपरीतः । आयुष्मन् अवग- यासि त्वमधीती श्रुते तुच्छेतरमशेषममीषां लक्षणम् । इत्थंभूतमात्मो- एकादशो लम्बः। त्यानन्तसौख्यादिगुणनिर्माणं धर्म बलवन्मोहकमोदयेन यथावदवगन्तुम- शक्ता अधर्मे धर्मबुद्धिं धर्मे चाधर्मबुद्धि बदन्तस्तदुभयमप्यबुध्यमानाच प्राणिनः पृथिवीपते , निकामतीव्रनीचकर्मोदयान्निरये तिरोभूततीव्रभाष- पापात्तिरश्चि, प्रवर्तितसुकृतेतरद्वयान्मय , सुकृतमात्रेण सुरेषु च कृता- वतारास्तावद्भमन्ति यावनिर्मूलितनिरवशेषकर्माणो भवेयुः । एवं निगदि- तायां नाकनरकनरतिरश्चां भेदेन चातुर्विध्यं गतायां गतौ, हिंसानृत- स्तेयमैथुनमात्रपरा हिंस्रसत्त्वाहक्रूरपरिणामा अधर्माभिवर्धिनो धर्मद्रुहश्च धर्मादिनिरयं प्रयान्ति । एवंभूतपुरोपार्जितपुण्येतरबलेन बद्धनिरयायुषो निरयं प्रयातास्ते प्राणभृत: प्राण्यन्तरमारणप्रवीणप्राकृतपूतिगन्धोद्रेकादु- द्वेजनीयामुद्दामदावज्वालालीढतालतरुसमाकारां नालिकेरफलोदररज्जुघटि- तभाजनमिव स्थपुटितां यावदायुः केनाप्यविघटनीयां सपटलभेदसप्तपृ- ध्वीषु प्रथमनिरयादारभ्य क्रमादभिवृद्धेनापकर्षतः षडङ्गुलकलितत्रिहस्ता- धिकसप्तकेन प्रकर्षतश्च पञ्चशतेन धनुषां समुच्छ्रितां मूर्ति मुहूर्तमात्रे- णोर्ध्वगतिशीलावलम्बिनः पूर्णयन्तः शिततरनैकशस्त्राकीर्णतले पक्कता- लफलानीव स्वयमेव पतन्ति । पुनरुत्पतन्ति च पतनवेगेन बहुयोज- नानि । बहुधा विशीर्णमप्यर्ण इव तद्गात्रं क्षणमात्रेण घटतेतराम् । क्ष- णघटितप्रांशुप्रतीकान्प्रतीकारविरहादनारतमुत्पततः पततश्च नारकान्पा- तकाः परे पवनपथ एव मननक्षणनिष्पन्ननिस्त्रिंशैरंशतः कदलीदण्डा. निव खण्डयन्ति । तांश्च परे। परस्परं च । कथंचिदवनौ चेत्संचरेयुरमी संजातभीकरदंष्ट्राङ्करैर्विक्रियागतशरारुचक्ररूपैः परैश्चय॑न्ते । तच्चर्वण- भयेन पलायमानास्ते सर्वप्रदेशसुलभाभिरयःसूचिभिः प्रोतायः कुरङ्गा इब सकीलवागुरां गताः परिस्खलनेन पतित्वा तास्वेव दारुणं कोशन्ति । क्रोशरभसविवृतास्यानमून्विवृततरास्यान्विधाय केचित् 'मूढ , त्वया पुरा मुदा खादितं मांसखण्डमेतत्' इति तप्तताम्रपिण्डं बलेन खादयन्ति ।
१९९ गपचिन्तामणौ . परे तु परदारेष्वतिकमांस्तात्रमयतप्तसालभालिकाम् 'तव प्रियाङ्गनेयम् । इति हठादतिगाढमालिङ्गयन्ति । बद्धमन्यवः केचिदन्ये पूर्वमन्यायादर तो वित्तमत्तेन धनमपहृतम् । अधुना त्वयास्माभिरुपहृतमूराीक्रियताम्' इत्यगारीकृतमयःमिण्डममीषां करेष्वर्पयन्ति । अपरे तु 'निरपराधानां नः कारयामास कारागृहनिरोधं क्रूरयानया जिह्वया । जह्यतामधुना वा' इत्यसत्यवादिचराणां नारकाणां हठादेनामुत्पाटयन्ति । दुरापं मानुष्यं म- लीमसीकृतवतः सुरापानपरान्पापिनः पावकक्काथजलीकृतं लोहं पाययन्ति। भूतपूर्वभूतद्रुहः कांश्चिदूर्ध्वाधोमुखकण्टकशालिशाल्मलीद्रुममारोप्य हतप्रा- णिलोमगणनाप्रमाणमधोमुखमूर्ध्वमुखं च केचिदाकर्षयन्ति । एवमुरसि क्षुरिकानिखननम् , शिरसि दहनप्रज्वालनम् , अङ्गुलीषु सूच्यारोपणम् , अङ्गच्छेदनमग्निकुण्डपातनमस्त्रधारावस्थापनमन्यादृशमप्यतिनृशंसकर्मपाक- मेकादित्रयस्त्रिंशदुदधिप्रमितकालमसंख्यदुःखमनुभवताममीषामतिमात्रबुभु- क्षायां गन्धाघ्रायिजन्तुमरणादात्तगन्धगरलाहारः संपद्यते। पिपासायां प्रतिभा- समानमतिमनोहरसलिलं सरः पुनरुष्णरसायते । छायार्थितायां बहुलच्छ- दतया प्रतिभाताः पादपाः पावकमयपत्राणि तद्गात्रेषु पातयन्ति । किं बहुना । परस्परव्यसनकृतस्ते महादुष्कृततया निष्प्रतिक्रियतया कास्महे क सुप्यामहे क नु तिष्ठामः क्व याम इति स्फीतानुशयाः सर्वदेशे सर्व- काले च सर्वप्रकारां कारणां यावदायुरनुभवन्ति । वयमपि पुरा महाराज बहिष्कृतसन्मार्गा बहुकृत्वस्तत्र कृतावताराः किं नान्वभूम । तथा महा- मायाजुषां तपोधनद्विषां धनैकलोलुपानां जघनाजीविनां च जीवानां ज- ननस्थानतया निश्चिते तिरश्चि कर्मद्वयभाविनि मानवभवे च भयेन भा- रवहनेन ताडनसहनेनाभीष्टवियोगेनानिष्टसंयोगेन भक्ष्यान्वेषणेन रक्षका- भावेन वृषस्यया विषसंपर्केण परस्परस्पर्धया गर्धया गर्भव्यथया क्षुधा वृषा शुचा रुषा रुजा च महाभाग भवदिदं द्वन्द्वमिदंतया न पार्यते एकादशो सम्पः। विवरितुम् । विशेषतश्च नराणां परिभवपराराधनवचमपारुष्यमननकाह- ध्यभुजिष्यभावादारिद्यादिभिरुदेकितोऽयमुपद्रवप्रकारः प्रत्यक्षनरकायते। सुकृतोदयेन सुखायमानानां सुराणामपि परनिरपेक्षणभक्षणरक्षणाद्युपाये निरपायेन निसर्गतः सिद्धेऽपि कर्मबन्धतया दुष्परिहारपरिभवजननी प- राधीनवृत्तिमर्त्यप्रवृत्तेरप्यधिकतरमहंतुदा । प्रत्युत मरणभीत्या पूर्वममृता- हरणादिभिरनुभूतमखिलमपि सौख्यं क्षण एव नारकदुःखायते । ततः सर्वथाप्यसारे संसारे मन्देतरभाव एव द्वन्द्वस्य न खलु सर्वथाप्यभावः । तत्रा- तर्कितमरणमपगतशरणमशुचिसदनमनल्पव्यसनमनेकविधापायमपि मान- वकायमपवर्गोपायतया राजेन्द्र , मनोरथेनापि दुर्लभं तोयधिमध्यमग्नमणि- मिव लब्ध्वापि मोहविप्रलब्धाः केचन मुग्धा दग्धुकामा इव भस्मने मणि काम कामसौख्यमात्रफलं कल्पयन्ति । पार्थिवेन्द्र , पदार्थयाथात्म्यदृशस्तु भवादृशः पुनरीदृशपारवक्ष्यपराचीनाः परस्पराविरोधेन साधितत्रिवर्गाः स्वयमपवर्गमपि साधु साधयेयुरिति धर्मदेशनानन्तरं जन्मान्तरप्रबन्धमपि जननाथनिर्बन्धेन विनीतबन्धुर्विवत्रे । “भूभृतां पुरोग , पुरा खलु भवा- न्धातकीषण्डललामायमानभूमितिलकाधिपतेः पवनवेगनाम्नो धात्रीपतेर्य- शोधर इति पुत्रो भूत्वा कदाचन भूरिपरिकरेण नगरबहिरुद्याने सर- स्तीरे विहरमाणस्तत्र रमणीयमालोक्य जालपादशिशुं लीलार्थे वर्धयितु- मेनं परिजनमुखतः पाणौकृत्य निवर्तयामास । वृत्तान्तमेतमुपश्रुत्य श्रुत- शाली भवन्तमामन्त्र्य भवत्पिता ‘पातककृत्यमिदं चतुष्पदां पततां च स्वपदाद्वियोजनम् । यो जनस्तथा चेष्टते स कष्टायते । आत्मज धर्मों हि नामात्मनोऽन्यस्य च हिते प्रवृत्तिरहितनिवृत्तिश्च । तथा सति ज- न्तूनां छेदनरोधनताडनतापनादीनि पापनिमित्तानि त्वया परिहर्तव्यानि भवेयुः । एवमात्मप्रतिकूलानामन्यजनेऽप्यनाचरणं चरणं गणयित्वा का- रुणिकेन त्वया स्वहिंसने स्वाहितवचःकथने स्वद्रव्यापहरणे स्वखीग्रहणे गचिन्तामणो च स्वस्य यथा व्यथा तथा परहिंसादिषु परेषामप्येषा स्यादिति मनीषां प्रवर्त्य तन्निवृत्तिरपि कर्तव्या । अङ्ग, पुनरर्थेष्वतिमात्रलोलुपता लोकद- येऽप्यात्मनः कृत्सव्यसननिदानतया निराकरणीया । लौकिकैरपि सप्त- त्र्यसनानीति पापहेतुतया पापर्धिपरदारचौर्यसुराद्यूतपिशितगणिकास्तु ग- णिताः। किमुत जैनैः । तस्मादिह गृहमेधिनामस्माकं जैनमार्गे क्रमादपव- र्गसाधनतया कथितानि मधुमद्यमांसनिवृत्तिविशिष्टतयाष्टौ मूलगुणा इति प्रपञ्चितानि पञ्चाणुव्रतानि व्रतत्वेन परिगृह्यापोह्य चापरिगृह्यकानामपि भावयितुमक्षममक्षपक्षपातं पातकित्वसंपादिवेशाभिनिवेशं च वत्स , धर्म- वत्सलो भवन्भवपारावारपारप्रापणं परमेश्वरपदपङ्करुहद्वन्द्वममन्दभक्तिर्भज त्वम्' इति भवते हितमुपादिक्षत् । क्षत्रियोत्तम , तातपादेन प्रणयेन प्रणीतं वचः प्रणामाञ्जलिचुम्बितोत्तमाङ्गो भवन्भवानुत्तमपुरुषतया वित्तोपलम्भ रिक्त इव प्रीयमाणः प्रतिगृह्णन्निगृह्णश्चात्मानम् 'अनात्मज्ञेन मया कृतम- ज्ञानोचितम्' इत्यपचितिमप्यतिमहती भगवतः स्वदुश्चित्तप्रायश्चित्ततया विधिना विदधानस्तावत् 'अधुनास्माभिरनुभुज्यमानमपि भुक्तपूर्वमेव पूर्व- भवानामानन्त्यात् । अनन्तमपि पुद्गलाभोग भोगोपभोगत्वेन यदहम- भुजि । भोक्तुं भुक्तोज्झितमुच्छिष्टमिव विशिष्टेन केन विचीयताम्' इति विचारणप्रचीयमानवैराग्यः प्रव्रज्य तपोबलादबलाभिरमूभिः समममरसुख- मनुभूय भूयोऽपि भूमौ भूपतिरभूत् । राजकुञ्जर, पुरा राजहंसशिशोः पञ्जरबन्धेन बन्धुविरहविधिना च लोकबन्धोर्भवतोऽपि बन्धुवियोगेन सह बन्धः किलासीत्" इति । एवमकारणबन्धोश्चारणेन्द्रात्कोकनबन्धोः कोकनदराशिरिव लब्ध. प्रबोधः स लब्धवर्णाप्रणीर्धरणीपतिः , पीयूषे स्थिते विषमग्न इव विषीदन्, साम्राज्याचपोराज्ये रज्यन् , नियोज्य इव नीचैरुपचरन् वाचंयमबृन्दारकं , सदारः सावरजः सवयस्पश्च सादरं सप्रणामं सविनयं सगुणस्तवं सया- .
एकादशो लम्बः । . चनं चापृच्छय राजपुरीमगच्छत् । तत्र चाहूतप्रविष्टान्पुरुहूतगुरुकृत्यानमा- त्यान्पुरौकसः पुरोधमं च पुरातननिजवंशजानामपि शमिनि वयसि यो- गेन तनुत्यजां प्राचुर्य प्रदर्शयन्प्रकृतिस्थान्कृत्वा पुनः कर्तव्यं च तैर्म- न्त्रयित्वा नियन्त्रणापूर्वकं याचितेनापि नन्दाढ्येन विरक्तिदााद्विसृज्य- मानं राज्यं कवचहराय वंश्यज्येष्ठाय श्रेष्टगुणपात्राय पैतृकं नाम संदधते गन्धर्वदत्तानन्दनाय दत्तवान् । उक्तवांश्चास्मै 'वत्स , सदा धर्मवत्सलेन प्र- जानुरागिणा प्रकृतिरञ्जिना स्थानप्रदायिना न्यायार्थगवेषिणा निरर्थकवि- धिद्वेषिणा स्मितपूर्वभाषिणा गुणवृद्धसेविना दुर्जनवर्जिना दूरभाविवित- किंणा हिताहितजातविवेकिना विहितविधायिना शक्यारम्भिणा शक्य- फलकाशिणा कृतप्रत्यवेक्षिणा कृतस्थापनव्यसनिना गतानुशयद्रुहा प्रमा- दकृतानुलोपिना सचिववचःप्रश्राविणा पराकृतवेदिना परीक्षितपरिणा- हिणा परिभवासहिष्णुना शिक्षासहेन देहरक्षावहेन देशरक्षाकृता युक्त दण्डयोजिना रिपुमण्डलहृदयभिदा देशकालविदा लिङ्गावेद्यसंविदा यथा- र्थविदपसर्पण हृषीकपारवश्यमुषा गुरुभक्तिजुषा च त्वया भवितव्यम् ' इति । ततश्च तदिदमवबुध्य शुचा दग्धरज्जुसोदरीभूताः कृशोदरीराहूय प्रियाः , किमेवमभिभूयध्वे शालीनतया । जगति जातेष्वजातमृतयः के नाम । केवलं यावदायुरवस्थितास्तदनु संस्थिताश्च ननु सर्वेऽपि तनुभृतः । सर्वथा नश्वरशरीरेण यद्यनश्वरसुखं सिध्यदिदमेव ननु बुद्धिमाद्भिरद्धा सा- ध्यम् । अहो मुग्धाः, पृथग्भावनिरसनाय बहुसिरापिनद्धकीकसे मार्दव- संपादनाय रुधिरार्दीकृते प्राचुर्यादन्तर्गतमलानामनन्तर्भावात्संततस्यन्दाय संकल्पितनवद्वारि मांसलालसवायसादिवयसामदर्शनाय पिशिताच्छादिच- मणि कर्मशिल्पिकौशलेन बहिरुज्ज्वलतरे शरीरे ऽस्मिन्किमु यूयं सस्पृहाः । तर्हि गर्हणीयमिदं न स्यादस्यान्तरस्वरूपे बहिर्गतेऽपि प्रार्थिता वा यूय- मेतत्प्रेक्षितुं यदि समर्थाः । ततः शरीरस्य विघटनात्प्रागेव घटप्वं यूप- गद्यचिन्तामणौ मपि तपसे' इति ताः संबोध्य गत्यभावात्तास्वपि तपसे समुद्यतासु जा- तानन्देन नन्दाढ्येन समं रथकड्योह्यमानमह्यार्थ्यराशिरनय॑शेवधिमाप्तुम- टन्नश्रीक इव सभाजयन्भगवतः पारमैश्वर्यश्रिया वर्धमानस्य श्रीवर्धमानस्वा मिनः श्रीसभाभिमुखः प्रयातुं प्रचक्रमे । अथ जीवधरमहाराजः श्रवणकटुना प्रयाणध्वनिना प्रयाणे वि- श्रुते, प्रसरदश्रुजलपूरेषु पौरेषु तं प्रणामंप्रणामं तदीयगुणं स्मारस्मारं तस्य यथोचितं वाचंवाचमनेकप्रयाणपथमनुप्रयाय तत्प्रयासतः प्रतिनि- वृत्तेषु , सामात्यं सत्यंधरमहाराजमपि समुचितवार्तया निवर्त्य, निवृत्तिपरैः परःसहस्रतरैनरैः संगतः, पर्यश्रुमुखैः पारिपद्यपार्थिवैर्विहिताञ्जलिभिरभिहि- तालोकशब्दैरनुद्रुतो , द्रुतं विद्रावितविश्वलोकोपद्रवं भद्रपरिणामाञ्चितभ- व्यलोकसेव्यमव्याजरमणीयं सकलसाराथै तीर्थकरनामधेयमहाभागधेयफलं विचित्रविविधगोपुरसालं शतमखशैलूषं सर्वसुलभपीयूषं रत्नरैरजतनिर्माण द्विषड्योजनप्रमाणं द्वादशगणवेष्टितं शुनासीरचोदितधनदप्रतिष्टितं प्रेक्ष- माणमानस्तम्भिमानस्तम्भमभ्यर्थितार्थदाननिपुणनिधिकुम्भं सर्वजनजङ्घाद- नजलोपेतजलाशयं वनशोभाकृष्टदेवाशयं पापास्रवनिवारणं पुण्यैककारणं -सर्वलोकशरणं समवसरणमासाद्य , मणिमयमिव महोमयमिवादित्यमयमिव खेचरमयमिव भचरमयमिव शर्ममयमिव धर्ममयमिव नृत्तमयमिव वाद्य- मयमिव गेयमयमिव गण्यमानं स्थलसप्तकं यथोचितोपचारं कारंकारमुल्लो- कतोषादालोकमालोकमतिक्रम्य , हृदयादपि प्रागेव कृतप्रयाणाभ्यां चर- णाभ्यामेव मन्देतरभक्तिर्गन्धकुटीबन्धुरं श्रीमन्दिरं मन्दरमिव सहस्ररोचिः सहस्रशः परीयन् , वरिवस्यापर्यवसाने गणस्थानगतः स्थित्वा भगवतः श्री- मुखपमाभिमुखं भक्तिमय इव जायमानः, परायत्तो न्धिकगन्धवहे गन्धकुटीमध्ये निर्गन्धताया उपदेष्टारमप्यष्टमहाप्रातिहारलं- कृतपरिसरमपाकृताखिलदोषतया व्यपेतविकृतवेषं कृतकृयतया कृत्यन्तरा- भवन् , आत्तगन्धसौग- एकादशो लम्बः। . नपेक्षं प्रेक्षमाणदृशां प्रीतिकरमपि दिनकरव्यूहातिशायिदिव्यदेहकान्तिम- न्दाकिनीप्रवाहं मन्दरस्योपरि मन्दरमिव मध्यसिंहासनं भासमानं भगवन्तं भासुरया गिरा गीर्वाणानामपि गीतिस्पृहां कुर्वन्मृष्टमसौ तुष्टाव- 'स्वहस्तरेखासदृशं जगन्ति विश्वानि विद्वानपि वीर्यपूर्तिः । अश्रान्तमूर्तिभंगवान्स वीरः पुष्णातु नः सर्वसमीहितानि ॥ यदाननेन्दोविबुधैकसेव्या दिव्यागमव्याजसुधास्रवन्ती । भव्यप्रवेकान्सुखसात्करोति पायादसौ वीरजिनेश्वरो नः || अभानुभेद्यं तिमिरं नराणां संसारसंज्ञं सहसा निगृह्णन् । अस्माकमाविष्कृतमुक्तिवा श्रीवर्धमानः शिवमातनोतु ।' इति । व्यजिज्ञपच्च विनयावनम्रमौलिः कुट्मलितकरपुटः कौरवः काश्य- पगोत्रजो जीवको नाम जिननायक, प्रसीद प्रव्रजामि' इति । लेभे च 'हितमेतत्', इति हितभितमधुरस्निग्धगम्भीरां दिव्यां गिरम् । एवं लब्धमहा- प्रसादः प्रसभं प्रणम्य सविनयं तस्मान्निवृत्य निगलमोचनाय चलान्निग- लितचरण इव हर्षलस्तपोधनपरिषदि तस्थिवान् । इह तत्त्वसर्वस्वं सर्वज्ञोप- ज्ञमज्ञानां श्रोतृणां यथाश्रुतं विस्तरतो व्याकुर्वाणं सार्वइयसाम्राज्यौवरा- ज्यपदे तिष्ठन्तमिव गणनायकमुपतिष्टमानः प्रकृष्टमनाः स्पष्टया वाचा यथेष्टं नुत्वा नत्वा श्रुत्ता च तत्त्वमनुजेन मनुजपतिभिश्च परैः सार्धं परा- ग्रंकेशाभरणवसनमाल्याङ्गरागादिकं रागद्वेषमोहादिकं च बाह्याभ्यन्तर- मपोह्य गन्धं निर्गन्धार्हाणि महार्हफलमूल्यानि मूलोत्तरगुणरत्नानि बहुप्र- यत्नरक्षणीयान्यक्षूणमञ्चितमनोवाक्कायः पञ्चगुरुसाक्षिकं परिगृह्णानः परम- संयमं दधौ । संनिदधे च तदन्तरे सान्द्रचन्द्रिकासब्रह्मजारिचारुनिजश- रीरप्रभाविक्षेपेण वलक्षयनन्तरिक्षं तत्क्षणे यक्षेन्द्रः । विदधे च विविधां स्तुतिम् । तिरोदधे च कृतज्ञप्राग्रहरः कृतज्ञचरः स सारमेयभवरचितम- होपकारविवरणपरैः परःसहस्रगुणस्तवैः परावर्तमानोऽपि नावनावं नामं- गद्यचिन्तामणी . भूयस्तथानुभूयमानमस्तोकरसं , . नामं च नूतनतपोधनम् । ततश्चायमाश्चर्यकरदुश्वरतपश्चरणचिताभिसंधि जीवधरमहामुनिर्यमे नियमे स्वाध्याये ध्याने चावबद्धो यथाविधि यथाकार यथादेशं यथायोग्यमप्रमत्तः प्रवर्तमानः, प्रमत्ततायां कदाचन मत्तेन्द्रियपा रतन्त्र्येण परिशङ्कनीयायां परित्यजन्नाहारम् , अनशनेन शरीरावसादनानु कूल्यमनुष्ठानस्याशने तु स्यादिन्द्रियदर्प इति यथा प्रसर्पति मतिस्तथाका शनं कल्पयन् , शयनासनस्थानेषु नियतस्थानेषु सत्सु तत्र सङ्गस्य प्रसङ्गे जन्तुसंदोहोपद्रवसंदेहे च भवन्ननियतदेशः, प्रायेण वृष्यमिति भाष्य माणं च वस्तु प्रस्तुतानुगुणं वर्जन् , निर्जन- स्थाने कृते सत्यवस्थाने प्रकृतिस्थता स्यादिति विविच्य विविक्तशयनासनं विरचयन् , उदन्यादैन्यकृति नखंपचपांसुमति पथिकप्रयाणपारपन्थिनि स्त्रि- बखिन्नदहिनि मृगतृष्णिकाकरणनिष्णाते निदाघे सत्यमोघमेघोपरोधशीलं शिलोच्चयमुच्चैर्मनाः समारोहन्ननातपत्रमातपयोगमातन्वानः , अपवरकश- रणाश्रयिशरीरिणि दन्तवपुःकम्पकारिणि धारासंपातबधिरितश्रवसि प्रावृडा- रम्भे वीताम्बरोऽपि विगतहृदयश्रमस्तरुमूलमाश्रयन् , अकाण्डपलितशङ्काव- हमूर्धजलीनहिमबिन्दुपिशुनितवार्धके वर्षायमाणहिमानीजनितशैत्योद्रेकद्र- वीभवदस्थिचर्मणि हेमन्तसमये निर्ममतामङ्गयष्टौ स्पष्टयन्निव केवलमाकाश- मेवावकाशीकर्वन् , एवं दुर्वहबाह्यतपोभिरपवाह्य स्वातन्त्र्यमिन्द्रियाणामात्म- स्वातन्त्र्ये निष्पन्ने निष्प्रत्यूहमनन्तरमभ्यन्तरतपांसि तरसा कुर्वन् , चतुर्विधा- राधनपर्यायचतुरङ्गबलश्रेणीकः क्षपकश्रेणिमारुह्य प्रक्षेतुं कर्मरिपून्यथाक्र- मं प्रक्रममाणः, स्वयं पाणौ कृतेन यनकृतावधानत्सरुकेणैकापयातिशयधा- रेण वीर्यगुणप्रष्टपृष्ठेन भावनापर्यायनिशानजनैशित्येन निर्मलज्ञाननिर्मा- णेन परमकारुण्यपयोगर्भेण बहलावरणनिचोलोत्खातेन मैत्रीस्नेहोपलि- तेन रत्नत्रयातिशयरूपेण परमशुक्लध्यानकौक्षेयकेण क्रमेण धर्मवेरिणः स- कर्मनिर्माणस्य दुर्मोचस्य मोहनीयकर्ममहाराजस्य मौलभूतत्वादजनस- " एकादशो लम्बः । ११९ . हाया: साहस्री: सहसा नासीरतां प्राप्ताः सप्तप्रकृतीनिहत्य निरुपमनि- जात्मस्वभावविघातिनि घातिकर्मचतुष्टयेऽपि समूलघातं हते, निहतकर्म- वेरिणमेनं मुनिराजं पूजयितुं पुञ्जीभूतैरक्रमं शक्रचक्रधरधरणेन्द्रप्रमुख- मुरासुरनरखचरैः करपीडाहमहार्हकल्याणविधी विधीयमाने , ध्यानाग्नि- साक्षिकमात्मसामर्थ्यादात्मनैवात्मने वितीणी पूर्णनिखिलगुणां प्रगुणरमणी- यस्वभाववेषभूषां योषान्तरासंभवदनुभवपौनःपुन्येनाप्यखिन्नामन्योन्यमन्यू- नानतिरिक्तरतिशालीनतया समानभर्तृशीलामतीव केवलां कैवल्यवर्धू वि- धिवदुपयम्य सदाप्यनुपरतकाम्ययाप्यनघया तयैवाघातिचतुष्टयेऽपि धातिते प्रतिघरहितसुखहेतुसमृद्धं सिद्धिगृहोदरमासाद्यानवद्यमात्मसंवेद्यमात्मसंभव- मात्मस्वभावमात्माह्लादनमनन्तमनन्तरायमनन्तकालस्थितिकमनन्तविज्ञान - वीर्यदृशात्मकमनन्तकर्मक्षयापेक्षमनन्तपूर्वजननानुपलब्धपूर्वं पुनरनुत्पाद्य- मनुपरममनुपममनुत्कर्षमनपकर्षमनुक्षणसुलभं सुखमनुबोभूयते । इति श्रीमद्वादीभसिंहमूरिविरचिते गद्यचिन्तामणी मुक्तिश्रीलम्भो नामैकादशी लम्बः । श्रीमद्वादीभसिंहेन गद्यचिन्तामणिः कृतः । स्थेयादोडयदेवेन चिरादास्थानभूषणः ॥ स्थेयादोडयदेवेन वादीभहरिणा कृतः । गद्यचिन्तामणिोंके चिन्तामणिरिवापरः ॥ समाप्तोऽयं प्रन्यः ।
No text on this page.
शोधनपत्रम् । पृष्ठम् । पतिः । शुद्धपाठः ३ रिज्छोली १५ भरित ९ सुधाच्छुरण ११ १८ दानजला कृतकरता १८-१९ परमधार्मिकता १५ ३ कण्डूलदोर्दण्डमण्ड लो ४ वमितविष इव ३१ १० सरोजमात्मजवृद्रि ३५ ३ वासरालोक १३ क्षीवक्षोदीयोचित ७१ ३ कपोलकोपराग २४ समर्तिवाहन १०७ ८ निभृतेन्द्रियवृत्ति पृष्ठम् । पङ्किः । शुद्धपाठः १२६ १४ समन्ताद्गुप्त १२९ ५ कुसुमामोदामोदितदश- दिशि १६ मुपलब्धुमुपायोऽस्ति १३२ १८ स्नपयन्ती २ लोचनयोर्धान्तामिव १५८ ४ बलवदधीनम् ४ मयःपिण्डममीषां २१ कोकनदबन्धोः १६ शालीनतया १४८ १७ श्रुत्वा २१ सब्रह्मचारि १७ मेवावकाशीकुर्वन