Sarnath Varanasi
Wakyapadeya Brahmkandam
Front matter
- श्रीमहादेव्यै नमः गोरक्षग्रन्थमालाया अष्टविंशं पुष्पम् योगिराजमहावैयाकरण श्रीमद्भतृहरिविरचितो वाक्यपदीयब्रह्मकाण्डः परीक्षोपयोगिन्या टीकयासंवलितः टीकाकार- योगिशङ्करनाथःफलेग्रहिः अवेद्यनाथेन यतीन्द्रवर्मनाऽऽ त्मना मुदा वाक्यपदीयपुस्तकम् । स्वकीयरिक्थेन विकाशितं मुदे विचक्षणानां पदवर्त्मवर्तिनाम् ॥ कल्प सं०-१६७२६४६०५३ वि० सं०-२००६ प्रथमावृत्तिः १०००] [मूल्यमेक मुद्रा १) सर्वाधिकार संरक्षिका योगप्रचारिणी गोरक्षटिल्ला काशी संरक्षक यो० प्र० उपप्रधान श्री अवेद्यनाथ वेदान्तवागीश तर्कचूडामणि गोरक्षपुर - श्रीमहादेव्यै नमः गोरक्षग्रन्थमालाया अष्टविंशं पुष्पम् योगिराजमहावैयाकरण श्रीमद्भतृहरिविरचितो वाक्यपदीयब्रह्मकाण्डः परीक्षोपयोगिन्या टीकयासंवलितः टीकाकार- योगिशङ्करनाथःफलेग्रहिः अवेद्यनाथेन यतीन्द्रवर्मनाऽऽ त्मना मुदा वाक्यपदीयपुस्तकम् । स्वकीयरिक्थेन विकाशितं मुदे विचक्षणानां पदवर्त्मवर्तिनाम् ॥ कल्प सं०-१६७२६४६०५३ वि० सं०-२००६ प्रथमावृत्तिः १०००] [मूल्यमेक मुद्रा १) सर्वाधिकार संरक्षिका योगप्रचारिणी गोरक्षटिल्ला काशी संरक्षक यो० प्र० उपप्रधान श्री अवेद्यनाथ वेदान्तवागीश तर्कचूडामणि गोरक्षपुर अल्पीयसाऽनेहसा योगप्रचारिणी द्वारा प्रकाशितानां ग्रन्थानांनामानि आदिमत्स्येन्द्रगोरक्षजलन्धरपदानुगा योगप्रचारिणी भूया त्समा भव्याय भारते ॥१॥ मृगस्थली स्थली पुण्या भालं नेपालमण्डले। यत्र गोरक्षनाथेन मेघमालासनीकृता ॥२॥ १-गोरक्षस्तुतिमञ्जरी १७-महार्थमञ्जरी २-गोरक्षयोगमञ्जरी १८-सांख्यबसन्तः ३-गोरक्षसहस्त्रनाम १६-शान्तिचरितम ४-गोरक्षसहस्त्रनाम गकारादि २०-हीरानाथचरितम ५-श्रीगोरक्षस्तोत्र भूतिः २१-भर्तृहरिनिवेदनाटकम् ६-गोर्खावंशावली २२-नीलकण्ठयात्रा ७-योगबीजम् २३-सिद्धचर्पटनाथपद्धतिः ८-योगसाहस्री २४-चर्पटशतकम् ६-श्रीनाथग्रन्थसूचिः २५-दिव्योपदेशः १०-श्रीनाथकथासारः २६-संस्कृतपारसीकपदप्रकाशः ११-श्रीनाथ तीर्थावली २७-भक्तविजयकाव्यम् १२-नवनाथकथा २८-वाक्यपदीयब्रह्मकाण्ड: १३-नवनाथकथा (गुजराती) २८-अमरकथा १४-भैरवनाथावतारकथा ३०-अमरालोकः १५-आदेशार्थप्रकाशः ३१-युक्तेन्दुवृत्तविन्दुः १६-मत्स्येन्द्रपद्यशतकम् ३२-नियमावली नमः श्रीनाथाय तेजसे समाहतिः अस्मिन वाक्यपदीये शब्दब्रह्मवादः प्रदर्शितः। शब्दं विनाकि- मपि नास्ति । वेदापि शब्दरूपस्तम्भः । अर्थोऽपिशव्दाधारः । शब्दं विना पदार्थ न प्रत्येतिपुमान् । संज्ञा हि संज्ञिनं परिचायति नतु संज्ञी संज्ञाम । अानुपूर्वीक्रमेण बीजरूपेण संस्कारतया बुद्धौ ये शब्दा स्तिष्ठन्ति त एव स्फोटरूपेण कथ्यन्ते एतेभ्य एवार्थः परापश्य- न्तीक्रमेण स्फुटति सच नादाभिब्यङ्ग्यः स्फोटः। ते शब्दानित्याः सन्ति । वेदोऽपि तेनैव क्रमेण परमेश्वरबुद्धौ तिष्ठति । वेदसृष्टिः शब्द रूपा । जगत्सृष्टिरर्थरूपा । द्वयोरपिसम्बन्धस्तादात्म्यः । अयं प्रपञ्चो वाक्यपदीये स्वयं द्रष्टव्यः । योगिशङ्करनाथफलेग्रहिणापि, एतट्टीकायां संक्षेपेणैव दर्शितः । इदानीं भर्तृहरिमधिकृत्यकिंचिद्वचिम, वङ्गविश्व- कोषकारो लिखति - अयं भर्तृहरिर्महावैयाकरणः कविरप्यासीत् । तत्र भवानुज्जयिनीराजस्य विक्रमादित्यस्य ज्यायान्भ्राता त्यागीभूत्वा भग- वतो गोरक्षनाथादमरीभावं योगबलमासाद्य भर्तृहरिः सार्वभौम- वृत्तिरकुण्ठितवेदवृत्तिय॑राजत । एतत्प्रणीताः शतकादिकाव्यग्रन्था- स्तथावाक्यपदीय-हरिकारिकासूत्ररूपा व्याकरणग्रन्था एवं महाभाष्य- दीपिका महाभाष्यत्रिपदी व्याख्या च सम्प्राप्यन्ते । महामहोपाध्याय दुर्गादत्तः साहित्यदर्पणभूमिकायांकथयति-अयं राजर्षिभर्तृहरि भर्तृहरिनिर्वेदनाम्नो नाटकस्यनायको विभाव्यते भार्याचास्यभानु- मतीविशुद्धचरितैवासीत् । एनेन भर्तृहरिणा नेके ग्रन्थाव्यरचिषत, ये वाक्यपदीयशतकादिनाम्ना व्यवलियन्ते । अयं महावैयाकरणो विक्रमादित्यस्य ज्यानान सहोदरोगन्धर्वसेनाख्यस्य राज्ञस्तनूज- त्वेन पप्रथे । गोरक्षनाथभगवतः संन्यासाश्रमोऽग्राहि काश्याम् ।
( २ ) तत्र भवान् युधिष्ठरमीमांसको लिखति-संस्कृतव्याकरणशास्त्रे तिहासेसप्रमाणम्-महाभाष्यं विलुप्तं जातमाचार्यभर्तृहरिणा सम्पू- र्ण समुद्धृतम् । भर्तृ हरेः समयः वि० सं० ४५० एतस्मादपि बहु- पूर्वः। महाभाष्यस्य ज्ञातासूपलब्धासु टीकासु सर्वाभ्यः प्राचीना प्रामा- णिकी भर्तृहरेष्टीका। वैयाकरणनिकाये पतञ्जलेः पश्चाद् भर्तृहरि- रेवासदृश एतादृशोऽजनि, य सर्वेवैयाकरणा उपवीणयन्ति प्रमाणा- ध्वनि राजशीर्षण्यमद्धा । "नचागमाहतेधर्मस्तण व्यवतिष्ठते” एतेन परमवैदिको धर्मात्माभर्तृहरिः प्रतीयते। भारतीयजनश्रुत्यनु सारेण भर्तृहरि महाराजाधिराजविक्रमादित्यस्य सोदर्योभ्राता। एतं पक्षं निराकरिष्णु प्रमाणान्तरं नास्ति । वाक्यपदीयग्रन्थः काशिकाग्रन्था- दुर्गसिंहात्कुमारिलात्स्कन्दस्यनिरुक्तभाध्यादपि प्राचीनः । धर्म- पालस्य मृत्युतः वि सं०६२७ तमेब्देऽजायत वाक्यपदीय रचना धर्म- पाला दप्यनर्वाचीनास्ते । विक्रमाब्दस्यप्रागेवषट्शत्या ६०० वाक्य- पदीयरचना । इन्दूद्धरणात्स्पष्टं यद् भर्तृहरिः-वि० सं० चतुःशत्या ४०० अर्वाचीनो नास्ति। वाक्यपदीयकारभत हरिकृता जैमिनीय मीमांसावृत्तिः शवरादपि प्राचीनास्ति । भर्तृहरिकृतमहाभाष्य दीपिकाया विलोकनेन ज्ञायते, भर्तृहरिमीमांसायाः पारदृश्वा बभूव । भर्तृहरिः शबरस्वामिनः प्राग्भावी। भर्तृहरिसिद्धान्तेन धर्मोध्योऽध्व रादिना वृषस्याभिव्यक्तिर्भवति । आचष्टे शबरस्वामी यागादिक- #वधर्मः। इतरेऽध्वरोत्पन्नमपूर्वमेवधर्म संगिरन्ते। एतेनार्यलून प्रतिभाति विस्पष्टं विज्ञायते-भट्टजयन्तोक्ता वर्षीयासो मीमांसकाः शबरादपि प्राग्वतिनो परीवृत्यन्ते। भर्तृहरिस्तुतेभ्योऽपि प्रागभूत् । भारतीयजनश्रुत्यनुसारेण भर्तृहरिविक्रमादित्यस्य ज्यायान् भ्राता। "नह्यमुलाजनश्रुतिः अतस्तथ्यांशोऽवश्यः । काश्यां नेदीयसी चुनारगढ़ किलाभिधाने-स्थाने भर्तृहरेरेका गुहाऽभिचाकशीति । इदं दुर्ग विक्रमादित्येन निरमायि तत्र निरूढिरेषा । एवमेव विक्रमा- ( ३ ) दित्यस्य राजधान्या मुज्जयिन्यामपि भत हरेर्गुहास्ति, एषातीव प्रसिद्धिमागता रारजीति। अनेनाद्वापरतया प्रतीयते भतृहरिविक्रमा- दित्ययोः पारस्परिकः कोपि सम्बन्धोनिविवादः संजाघटीति । भर्तहरिविरचितग्रन्थाः संस्कृतवाङमये भर्तृहरिविरचिता निम्नग्रन्थाः प्रसिद्धाः सन्ति- १ महाभाष्यदीपिका २ वाक्यपदीयकाण्डाः १, २, ३ । ३ वाक्यपदी- काण्डयोः स्वोपाटीका, ४ भागवृत्तिः, ५ इन्चनुछ नीतिश्र ङ्गार- वैराग्यविज्ञानाभिधम् , ६ जननासार, ७३कलाकृति८ शब्द धातुसमीक्षा । प्राचीनग्रन्थेषु भर्तृहरिनाम्ना यहाहरिनाम्ना यान्युद्ध- शालिकम्यते तानि साकल्येनाघभर्तृहरिक काणि । वाभिलट- रगनिर्माते भरी हरेः ऋमशः माअष्टा- ध्याय्या उपर्यासीत् । इदंतु सिद्धमेवतेन सम्पूर्णस्य महाभाप्यस्य व्याख्याव्यलेखि। भतृहरिविनिर्मिनाया महाभाष्यदीपिकाया यो हस्तलेखः सम्प्रतिसत्यापयन्नुपलभ्यते, स जर्मनराजधान्यां बर्लिन- पुस्तकालयं समाशिश्रियन् । एतस्य लवकरचनात्वस्य विषयीभूतः डा० कीरमानवियते. शायले बस्न प्रतिकृतयो मद्रासपुस्तकालये विद्यमाना बोभुवति । हस्तलेवस्य परिमाणः पंच- सहस्त्रोत्तरसप्तशतीश्लोकानां विवर्चत ७५८० । भर्तृहरेः मकैबार- स्यैव विशङ्कटा प्रदीपनाम्नी टीका संख्यावतामध्यक्षतामुपैति । एषा पि भर्तृहरिसरणिमनुसृत्यैवजाता ! उक्तं च तत्रत्र-तथापि हरिब- द्धन सारेण ग्रन्थसेतुना। क्रममाणः शनैः पारंतस्ययातास्मि पङ्गवत् । मानवीर की काण्डपरिसमाप्तौ हेलाराजो लिखति- त्रैलोक्यगामिनी येन त्रिकाण्डी त्रिपदीकृता। तस्मैसमस्त-विद्याश्रीकान्ताय हरये नमः॥
शब्दकौस्तुभेभट्टोजिदीक्षितोभणति सर्वमुखीनान् व्याकरणा- चार्यान् स्तोतुकामः नमस्कुर्वेजगद्वन्धं पाणिन्यादिमुनित्रयम् । श्रीमतहरिमुख्यांश्च सिद्धान्तस्थापकान् बुधान् ॥ कविप्रवर-नरहरिनाथस्यद्राधीयस्या गवेषणया नेपाले कडङ्गरीय लिप्यांसमुपलब्धे प्राचीनजीर्णताडपत्रे भर्तृहरिःशतकारम्भे नवनाथान नमस्कृत्याम्नायबन्ध मारभत। महामहोपाध्याय डाक्टर गोपीनाथ कविराजप्रकाशिते गोरक्षसिद्धान्तसंग्रहे-भर्तृहरिणा विचारनाथेन गोरक्षनाथशिष्येण व्याकरणशास्त्रस्योपरि लक्षसंख्यामासेदुष्यः कारिका अकारिषतेति वलक्षमुज्जृम्भते । अहो ! परमेश्वरस्य महा- मायाया इयं महती व्यक्तिगतकृता कृपाऽनुमीयते, यद् दुरूहस्यलक्ष- संख्यकाः कारिकाः । व्याकरणद्रोणाचलस्य महावीरोऽयंहरिः तदातु-अधिकं नोक्त्वेदमुक्त्वा विरम्यते- शाब्द हरेर्यस्पपरानुकम्पयायानोपयामासबुधोबुधःसमान । सेयं हि लक्षाश्रितकारिकावली गोरक्षदेवे नतमस्तका वयम् ॥ विदुषां विधेयेन- गोरक्षपुर वास्तव्येन वेदान्तवागीशतर्कचूडामणिपदभाजावेद्यनाथेन - काश्चन विदुषां सम्मतयः श्रीकालिकायै नमः सोऽयं व्याकरणार्णवार्णवमणिर्वेदान्तदुर्धर्षणो, योगाध्वाध्वरधूम्रधूसरवपुर्धर्मानुगोधीरधीः योगी शङ्करनाथ एष विदुषां नाथोपि दासायते, व्याख्या वाक्यपदीयगां समकरोन्मूलार्थविश्लेषगाम् ॥१॥ छात्राणां विदुषां तथा परनृणां सामान्यशास्त्रे धिय, माक्रष्टुं वरिवर्ति राजपथवद् · राज्ञो हरेहर्षिणी ऐतिह्यादिगुणैः क्वचिवचिदपि ग्रन्थेऽबनानार्थवि, मानार्थान् समदर्शयद् बहुमता न्येषा मया वीक्षिता ॥२॥ एवं सम्मनुते-व्याकरणाचार्यः साहित्या चार्य न्यायशास्त्री, नेपालराज्यान्तर्गतवसन्तपुरवास्तव्यः पं० श्रीसुरेन्द्र झा शास्त्री। तथा-सकलशास्त्राटवीसञ्चरणपञ्चाननी वादीन्द्रवृन्दगजघटा संघट्टसंजातविजिगीपेहः-पं० श्रीवेदानन्द झा व्याकरणाचार्यः वेदा- न्ताचार्यः, न्यायाचार्यः, साहित्याचार्यः, वरेली महाविद्यालय प्रधाना- ध्यापकः, नेपालवसंतपुर वास्तव्यः। योगिशङ्करनाथेन कृता या परमार्थदा । टीका वाक्यपदीयस्य सैषा मे रोचते मुदा ॥ आर्यधर्मोपयोगित्वादनार्याणांनिरासिका । प्रत्ययार्थविहीनापि सद्याप्रत्ययवोधिका ॥ इति संमनुते-सांवत्सरः पं० सोमदत्त शर्मा गु. सारणवास्तव्यः । तथा. सा, शारदा प्रसाद रेग्मी सम्मति सभापति श्रीमहन्त दिग्विजयनाथ अ. भा. व० अ० योगिमहासभा प्र० मं० हिन्दुमहासभा गोरक्षपुर उत्तर प्रदेश संस्कृतवाङ्मय का विकाश-अनादिकाल अव्यवच्छिन्न धारा नियमबद्ध प्रतीपपरिस्थितियों के असकृत् वार समूलोन्मूलन जन्य आधिभौतिक दुःखों से उत्पीडित होता हुआ भी अद्यावधि ऋषियों की नेमि से पृथक् नहीं । संस्कृत में वर्णविन्यास अर्थ विच्युत नहीं, अर्थ भी विन्यासदशानुभविता अपने लक्ष्य का अशरीरी नहीं, इसी गाम्भीर्य ने वाच्यवाचक भाव का प्रसव किया, इतर भाषाओं में ऐसा नहीं, अंग्रेजी का वर्ण विन्यास सांकेतिकपदारूढ है,कलकत्ता लिखने में जहाँ सी को रजिस्टर्ड स्थान मिला, भारतीय हिन्दी कलकत्ता को ककार से ही उदवसित करेगी, देवदत्त के स्थान में डेवट्ट, धर्म के स्थान में ढरमा, इंग्लिश में होता है, अनुस्वार अनुनासिक का काम M से लिया जाता है, संस्कृत में ऐसा नहीं । संस्कृतवाङ्मय में शुद्ध उच्चारण तथानुकूल अर्थ स्वर्ग प्रद है, मैं अधिक नहीं कह कर इतना पर्याप्त मानने को उत्सुक हूँ, यह वाक्यपदीय ग्रंथ शब्दब्रह्मावाद का सच्चा आदर्श है, भगवान शब्द समस्तसंसार का नेता है। यह टीका कर्ता योगिसभा के सदस्य हैं, इनका परिश्रम सराहनीय है।
नमः परमात्मने
ईश्वरमहिमनिदर्शनस्तवः
स्थानप्रयत्नादिविभेदसङ्गिनी
मुक्तिप्रदामुक्ति विधायिनी यदि ।
वेदैश्चतुर्भिश्चयुता त्र को विभु
विद्या न विद्यान्मतिमानवव्रजेत् ॥१॥
विचित्रतारावलिमण्डितं नमो
रवीन्दुयुग्मेन समं समन्ततः ।
समस्तसंसारविचारगोचरं
भवेत्तदानोऽनुभवे क ईश्वरम् ॥२॥
प्रवाति यो नित्यमनन्तभेदनो
यतोऽम्बरात्प्राप्तजनिप्रकर्षणः।
स स्पर्शवान् रूपविहीनलक्षणो
भवे त्तदा नो नु भवेत्क ईश्वरम् ॥ ३॥
स पाचकत्वादिगुणैर्गरिष्ठः
शीतापनोदीतमसोविभेदी।
स्वर्गस्य पन्था हुतभुङ्नहिस्याद्
विद्यान्महान्तं जगतीह कोना ॥४॥
( ८ )
इदं स्वदेहस्य गुणानुरूपता
प्रदर्श्यतत्तज्झरमार्गमाश्रितम् ।
चलञ्जलं प्राणविधारकं धरां
दधन्न कः स्यादवचूलयेद्विभुम् ॥ ५ ॥
सुवर्णनीलादिमणिप्रसूयिं
जनाश्रया गन्धवती सुखाश्रया।
विभिन्नबीजप्रसवोन्मुखाक्षिति-
भवे तदा नोऽनुभवेत्क ईश्वरम् ॥ ६ ॥
शैला विशालाश्च लता नताश्च
वारिप्रवाहा
घनगर्जनानि ।
गुहाविशिष्टा यदि सन्तु नोको
विद्यान्महेशं भगवन्तमाद्यम् ॥७॥
गङ्गा विहङ्गाकुलकूल-भागा
यमस्वसानाम--सरस्वती च ।
गोदावरी सिन्धुसमाश्रिता च
न स्थुस्तदा का पटतु प्रकाशम् ॥८॥
विभुं प्रभु रात्रिदिने गमागमे
क्वचिद् युगानां परिभोगवन्धनम् ।
कचित्कृतार्थाः करणीयकारिता
नरा नराणां न भवेद् विवेद का ॥४॥
न रोगरंहः ( ६ ) न वृद्धता स्याच तथापि वृद्धता न यौवनं क्वापि चलेच्चलत्यदः । प्रविशेत्तनौविश त्यथो भवेन्नात्र विवेदको विभुम्॥१०॥ मृति मंदीया न भवेद् भवेन्मृति प्रियेत पुत्रो न मरिष्यति स्त्रसा। न मे स्त्रियाः स्यान्मरणं भवे त्पुन रियंव्यवस्था न विवेत्तुको विभुम् ॥११॥ देशाद्धि कस्माच पिता समागतः कस्माच देशाजननी समागता । गुरुबन्धुयातरो न स्यादयं बन्ध इहेश्वरः कुतः ॥१२॥ वनेषु काष्ठानि विभिन्नभागतः समेत्य तिष्ठन्ति विदन्तिनात्मनः । तथैव ते चात्र विदन्ति नात्मनो न स्यादयं बन्ध इहेश्वरः कुतः ॥१३॥ क तर्हि मातापि समागता गता कतर्हि पुत्रोऽपि समागतो गतः । प्रयाणकाले विपथाः समेजना न कोपि कस्यापि सहोदरः प्रसः॥१४॥ पुत्रस्वसारौ ( १० ) अहोऽस्तिधन्यः परमेश्वरो विभु- रचिन्त्यमायो धवलेन्दुशेखरः। समस्तसंसारनियामकः प्रभुः स्वभूः स्वयंभातिपुरः परात्परः ॥१५॥ समस्तजगतामीश ! ज्ञानगम्यो गुरु निराम् । नमोऽस्तु शिरसा तुभ्यं दुःखदात्रे सुखावे ॥१६॥ गोरक्षनाथस्य पुरे मयाश्रमा दवेद्यनाथेन तन्मन्दिरे रम्यतरेऽत्र दिग्जय- नाथस्य शिष्येणविनिर्मितस्तवः ॥१७॥ इतिश्रीविमलयोगिकुलकमलदिवाकरगुणाकरहिन्दुधर्मोद्धारणपरायणा- विकलसकलकलाकलापपण्डितमण्डितानुष्टाननिष्ठानवद्या-विद्यावि- द्योतित-दिगन्तराल-श्रीमत्परमहंसपरिब्राजकाचार्यभगवद् गोरक्षनाथप्रसादलब्धास्पद श्री१००८श्रीदिग्विजयनाथ शिष्येणावेद्यनाथेन निर्मितः स्तवः सम्पूर्णः । woman विरज्यवैभवात् ।
नमः श्रीनाथाय ।
वाक्यपदीयम्
महाराजयोगिराजमहावैयाकरणभर्तृहरिविरचितम्
शङ्करं शङ्करं नत्वा नामं नामं गुरोः पदम् ।
शारदां पारदां नत्वा गोरक्षं रक्षक तथा ॥१॥
गणनामधिपं भूयो भूपं भर्तृहरिं हरिम् ।
व्याख्या वाक्यपदीयस्य ब्रह्मकाण्डे विधीयते ॥२॥
सन्त्यस्य टीका विबुधैः कृतास्तथा,
प्यनादृता स्यान्न मदीयपद्धतिः।
तालीफले सत्यपि किंफलेप्सुभि-
स्वायते हैमवती फलेल्हा ॥३॥
गम्भीरः क हरेर्भावो योगिराजस्य भूपतेः ।
द्रव्येशस्य पथा गन्तुं समीहे स्वधियस्तथा ॥४॥
२ ब्रह्म वाक्यपदीयब्रह्मकाण्डः श्रीमानुज्जयिनीश्वरो विजयते गन्धर्वसेनात्मभू- पो भतृहरिः स विक्रममहीपालाग्रजन्मा महान् । कृत्वा वाक्यपदीयवृत्तिशतकत्रय्यादि विद्यानिधिः सिद्धि योगपथेन योऽगमदहो ! गोरक्षतो दीदितः ॥५॥ मूर्धाकाशयुतः शराद्यवचनः कायः शरान्तस्तत- स्त्वान्त्यश्वा मिलितस्तवर्गकरवान् वर्णोविनिर्णीयताम् । नाम्ना संघटनं विधाय विदुषा यन्नाम लब्धं त्वया, तन्नाम्नाहि कृता मया नृपहरेग्रन्थस्य टीका शुभा ॥६॥ अनादिनिधनं शब्दतत्त्वंयदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥१॥ शब्दात्मा ब्रह्मवेत्याह-न आदि निधने यस्य तत् । प्राग भावप्रध्वंसाभावादिरहितं नित्यमुत्पत्तिविनाशरहितमितियावत् । ब्रह्म बृहणकर्तृ शब्दतत्त्वं भूरितिव्याहरन् भूमिमहजदितिवचनात् । यदक्षरम् , क्षरण रहितं विवर्त्तते- अतात्त्विकोऽन्यथाभावोवियतः। अर्थभावेन-घटपदघटितवाच्यसम्बन्धेन । प्रक्रिया प्रक्रमः। जगतः संसारस्य । यतः कारणब्रह्मणः, यतो वा इमानि भूतानि जायन्त इत्यादि ॥१॥ एकमेव यदाम्नातं भिन्नं शक्तिव्यपाश्रयात् । अपृथक्त्वेपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥ २॥ एकमेवकथनेन; सजातीयविजातीयस्वगतभेदानां निरासःस्फुटो भवति । यदाम्नातं कथितं भिदांप्राप्त भिन्नम् कथं भिन्नमित्यत आह-
-
गोरक्षग्रन्थमालाया अष्टविंशं पुष्पम्
शक्तिव्यपाश्रयात्-विभिन्नशक्त्याश्रयात् । तदुक्तंभगवता गारक्ष-
नाथेन सिद्धसिद्धान्तपद्धतौ-तस्येच्छामात्रधर्माधनिणी निजाशक्तिः
प्रसिद्धा। तस्योन्मुग्वत्वमात्रेण पराशक्तिरुत्थिता । तस्य स्पन्दन-
मात्रेण अपराशक्तिरुत्थिता । ततोऽइन्तार्थमात्रेण सूक्ष्मशक्ति-
रुत्पन्ना। ततो वेदनशीला कुण्डलिनीशक्तिरुद्गता। शक्तिभ्यः-
अपृक्थत्वेऽपि-अभिन्नत्वेऽपि शब्दात्मा परमेश्वरः। पृथक्त्वेनेव
पृथगिव वर्ततेऽवभासते । नतु बास्तविकभिन्नता, शक्तिशक्तिमतोर
भेदात् । अनुमानमपि-अयंघटशब्दो घटाभिधेयस्य वाचकस्तन्नि-
ष्ठाभिवेयजननसामर्थ्यात् यन्नैवं तन्नैवं यथा पटः । शक्तिश्च समुदाये
समुदायो हि-अर्थवान्निति । यौगपबैककालावच्छेदेन संस्काराणाम-
नियमात् । ताः शक्तयोभिन्ना अपि नहि शब्दात्मनो व्यापकाद्-
भिन्नाः, शब्दात्मापि ताभ्यो नोभिदांगतः । भेददर्शिनामेव मिदा
नतु वास्तविकभेद इति भावः॥२॥
अव्याहताः कला यस्य कालशक्तिमुपाश्रिताः।
जन्मादयो विकाराः षड् भावभेदस्य योनयः ॥३॥
यस्य शब्दब्रह्मणः । अव्याहता न व्याहताः स्वरूपेण, अविनष्टा
इत्यर्थ :, ध्वंसाप्रतियोगित्वमितियावत् । कलाः शक्तयः । कालशक्तिं
समयशक्तिमुपाश्रिताः प्राप्ताः । भावभेदस्य, अपरिस्पन्दनसाधन-
साध्योभावः पदार्थभेदस्येत्यर्थः । योनयः कारणानि । जन्मादयः
षड् विकाराः सन्तीत्यर्थः । जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते
नश्यतीमे पड्विकाराः । जन्माद्या याः शक्तयस्तासां कालमपेक्ष्यै व
संभवात् । कार्यत्वावच्छिन्नंप्रति कालस्य कारणत्वात् । जन्यानां
जनकः कालोजगतामाश्रयो मतः। सा कालशक्तिरुत्पादे प्रतिवन्धे च
नियामिका । अतएव शब्दात्मा एक एव तथापि तद् गत शक्तयो
नाना प्राञ्जसाः ॥३॥
वाक्यपदीयब्रह्मकाण्डः
एकस्य
सर्वबोजस्य
यस्य चेयमनेकधा।
भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥४॥
सा कालशक्तिः शब्दात्मभिन्नाहोस्वित्तत्स्वरूपा, इति बुभुत्सु-
जनान् बोधयितुमाह तत्रभवान् भर्तृहरियोगिराजो विक्रमादित्य-
स्य ज्यायान् सहोदरः-एकस्यसर्वबीजस्य सर्वेषां बीजं कारणं तस्य ।
यस्य शब्दात्मनः अनेकधा नानारूपा । भोक्तृभोक्तव्यरूपेण-भोक्ताच
भोग्यं च तयो रूपं तेन । अहं ममेत्यभिमानशीलशालीभोक्ता प्रमेय
वर्गसाक्षात्कर्ता । भोक्तव्यरूपेणान्नपानादिविषयरूपेण । भोगरूपेण,
भोजनपानस्वापादिक्रियारूपेण ।
महामायासम्बन्धाभिधानेनेयं स्थिति व्यवहारः ।।४।।
प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः ।
एकोऽप्यनेकवर्मेव समाम्नातः पृथक् पृथक् ॥५॥
नन्वास्ता मुक्तलक्षणं शब्दात्म ब्रह्म तत्प्राप्तिस्तु निष्कामोत्तमकर्म-
भिरेवस्तात्तदा किं व्याकरणेतिशङ्कापरिहरन् व्याकरणस्य तत्प्राप्तथ पाय
विषयतां प्रदर्शयति योगिराजः-प्राप्त्युपायेति । तस्य परमेश्वरस्य-
प्राप्त्युपायः साधन प्राप्तिसाधनमित्यर्थः । अनुकारः, अनुकरणं प्रतिमा
च प्रतिकृतिरितियावत् । अनुकार्यानुकरणयोर्मेदाभेदव्यपेक्षापक्षानुग-
मात् । वेदः, ब्रह्मणोऽनुकारतुल्य इत्यर्थः । सच वेदः एकोऽपि
महर्षि भिर्योगियाज्ञवल्क्यादिभिः । अनेकवा विभिन्नशाखात्मकः ।
पृथक् पृथक् समाम्नातः कथितः । एतेनाप्तयोगीश्वरवचसामपि वेद-
त्वं ध्वनितम् । अन्यथाऽनन्ता वेदा अनन्ता मनवः, इत्यादि न
संगच्छेत ।।५।।
भेदानां बहुमार्गत्वं कर्मण्येकत्र चाङ्गता।
शब्दानां यतशक्तित्वं तस्य शाखासु दृश्यते ॥६॥
५ गोरक्षग्रन्थमालायाअष्टाविंशं पुष्पम् ननु योगीश्वरमहर्षिकल्पितशाखानामन्योन्यभिन्नत्वेनाविरोधाभा- वात्तथा च शाखा भेदेनानुष्ठेयकर्माऽपि भिन्नं स्यादिति शङ्का कलङ्कातङ्कपङ्ककणिकाकीर्णवर्त्मपरिहाराय-आह तत्रभवान गन्धर्व- सेनतनूजन्मा हरिः-भेदानामिति । तस्य वेदस्य भेदाः-ऋगयजुः सामाथर्ववेदाख्यास्तेषां भेदानां बहुमार्गत्वं बहुशाखत्वं दृश्यते वर्तत इत्यर्थः । यथा-एकशतमध्वर्युशाखाः, सहस्रवमा सामवेदः, एक विंश- तिधा बाह्न च्यं, पञ्चदशधेत्येके नवधावथणो वेदः, तस्य वेदस्य भेदानां शाखानां स्कन्धानाम-एकत्र एकस्मिन् कर्मणि-अङ्गता शेषता तस्यां शाखायामकथितानामपितदन्यशास्योपदिष्टानां सर्वशाखाप्रतिपाद्यमेक कर्म, परस्परमुपकार्योपकारकभावसम्बन्धः । अन्यथा कर्म- विप्लवः स्यात् । तर्हि कथंभेद इत्याह--शब्दानामिति-तस्य वेदस्य शाखासु शब्दानां यतशक्तित्वं यत्ता नियता शक्तिः बोधजनकता तेषां- भावस्तत्त्वम् । शब्दक्रमापेक्षयाऽर्थक्रमोबलीयानिति न्यायेन सृष्टि वेदोपि सूचितः। शब्दवेदे-गोधूमयवश्यामाकप्रियङ्ग प्रभृतीनां शब्दा- नां विद्यमानतायांसत्यामपितवाच्यालाभात्सृष्टिवेदस्यैव बलीय- स्तमपिसूचितं भवति ॥ ६॥ स्मृतयो बहुरूपाश्च दृष्टादृष्टप्रयोजनाः । तमेवाश्रित्यलिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥७॥ ननु वेदानां प्रमाणत्वे स्मृतिनामप्रामाण्यं स्यादित्याशङ्कामपा- कर्तुमाहराजर्पिः-स्मृतय इतिवेदविद्भिः, वेदज्ञैः । तमेव वेद माश्रित्य वेदमूलार्थमादायेत्यर्थः। लिंगेभ्यो हेतुभ्यः। प्रकारताज्ञान- परिवहणास्पदेभ्यः श्रुत्यनुगुणलब्धार्थेभ्यः इतियावत् । दृष्टंचादृष्टं च प्रयोजने यासा तादृष्टादृश्प्रयोजनाः। दृष्टफलं रसरत्नाकरचरका- or - वाक्यपदीयब्रह्मकाण्डः दिग्रन्थबोधनद्वारा । अदृष्टं शिष्टाचारानुगतज्ञानज्ञाप्यम् । बहुरूपाः अनेकविधाः । स्मृतयः-मन्वादिशास्त्राणि । उपलक्षणमेतत्-महा- र्थमञ्जरीकुलार्णवप्रभृतीनि तन्त्राण्यपि ग्रहीतव्यानि, तन्त्राणामपि वेदमूलकत्वादिति, वेदनिष्टपारमेश्वरज्ञानस्याऽऽनन्त्यात्स्मृतीनामा- नत्यं स्वाभाविकमेवेत्यपिध्वनितं भवति ॥ ७॥ तस्यार्थवादरूपाणि निश्चित्य स्वविकल्पजाः । एकत्विनां द्वैतिनां च प्रवादा बहुधामताः ॥ ८॥ ननु वेदस्यैकरूपत्वात्स्मृतिग्रन्थानामनेकरूपत्वान्न नमेव मतभेदा- शङ्कास्यात्तदुत्तरेप्राह विमलक्षत्रियकुलकमलदिवाकरः श्रीहरिः-- तस्यार्थेति तस्य वेदस्य, अर्थवादरूपाणि प्रशंसार्थवादनिन्दार्थवादा- मकवाक्यानि । “अक्षय हवै चातुर्मास्ययाजिनः सुकृतं भवति "नरकेऽनियतास्थिति सोऽरोदीत् मादकै "मांससंलिष्टनिन्दकैभेदकै- स्तथा। अर्च्यते देवता येन, स याति नरकं नरः ॥ इत्यादीनि निश्चित्य निर्णीय, स्वविकल्पजाः स्वीयविकल्पसमुत्थिताः। एक- त्विनामद्वैतवादिनां-यथाह भगवान् गोरक्षनाथो महार्थमञ्जर्याम्- "त्रिपुटीमयं खलु समस्तं तत्रज्ञेये च ज्ञातरि च समम् । हडग्रन्थिज्ञा- नकला कलयति त्रैलोक्य मेकलम् ।।” द्वैतिनां द्वैतवादिनां 'द्वाग्नुपर्णा य आत्मनितिष्ठन्। अजो टेको जुषमाणोऽनुशेते, जहात्येनां भुक्त भोगामजोऽन्यः । इत्याशाउभयेषां प्रवादाः सिद्धान्ताः बहुधा बहुरूपा मताः स्वीकृताः । यतिभिरिति कर्तुः पदमूहनीयम् ॥ ८॥ सत्या विशुद्धि स्तत्रोक्ता, विद्येवैकपदागमा । युक्ता प्रणवरूपेण सर्ववादाविरोधिनी ॥ ६ ॥ नन्वेवं प्रवर्तमानेष्वपवादेषु किं सत्यं तत्राह-शतकादिप्रन्थकर्ता हरि:-तत्रोक्तप्रवादेषु परमाणुवादप्रकृतिवादप्रभृतिमतानुबन्धेषु ।
गोरक्षग्रन्थमालाया अष्टविंशं पुष्पम् विशुद्धिः, रागद्वेषादिराहित्यम् । सर्ववादाविरोधिनी-सर्वसिद्धान्त- सम्मता । प्रणवरूपेण प्रकर्षण नौति स्तौतीतिप्रणवः। ओंकाररूपेण युक्ता वाक् । विद्यासर्वार्थप्रकाशिनी सत्या यथार्था तदुक्तं भगवता गोरक्षपद्धती-अनयासदृशी विद्या अनयासदृशो जपः। अनया सदृशं ज्ञानं न भूतन्न भविष्यति ॥ भूर्भुवः स्वरिमेलोकाः सोम- सूर्याग्निदेवताः । यस्य मानानुनिष्टनि तत्परं ज्योनिरोमिनि ।। इत्यादि । विस्तरभिया नेह प्रापच्चि तत एवावलिम संख्यावद्भिः। एकपदागमेत्यस्य, एकपदरूपाश्रुतिरित्यर्थः । यद्वा पदं “सुप्तिङन्तं पदम्' इत्यस्यप्रतिरूपकम् । अपदं न प्रयुञ्जीतेति महाभाष्यकारः। एक- शब्दो मुख्यार्थे । अद्वैतपो-एकत्व बोधिकाप्रणवजपाविद्येति ॥६॥ विधातुस्तस्य लोकानामङ्गोपाङ्गनिवन्धनाः । विद्याभेदाः प्रतायन्ते ज्ञानसंस्कारहेतवः ॥१०॥ किंबहुना सर्वेऽपि विद्याभेदाः शब्दात्मनाब्रह्मणः सकाशाद्- एवेत्याह योगिराज :-लोकानां विधातुः स्त्रष्टुः तस्यप्रणवरूपस्य वेदस्य, अङ्गोपाङ्गनिवन्धनाः-अङ्गानिविधिवाक्यानि । उपाङ्गानि- मन्त्रार्थवादोपनिषद्ब्राह्मणादयः । निबन्धनमूलं येषान्ते । यद्वा-अङ्गानि व्याकरणशिक्षानिरुक्तकल्पज्योतिषच्छन्दःशास्त्राणि। उपाङ्गानितन्त्र पुराण न्यायमीसांसाधर्मशास्त्राणि निवन्धन प्रयोजकं येपुते । ज्ञान- संस्कारहेतवः-ज्ञानं सम्यग् ज्ञानं विज्ञानमिति यावत् संस्कारः पुरुषनिष्ठधर्मविशेषः, तयोर्हेलयः कारणानि यद्वा करणानि । विद्याभेदा व्याकरणादयः प्रतायन्ते विस्तृता भवन्ति ॥१०॥ आसन्नं ब्रह्मणस्तस्य तपसा मुत्तमं तपः । प्रथमं छन्दसामङ्गप्राहुाकरणं बुधाः ॥११॥ बुधा पारश्वानः । तस्य वेदरूपस्य ब्रह्मण आसन्न समीपस्थं साधुत्वप्रकारकबोधद्वारा तपसां ब्रह्मचर्याधःशयनचान्द्रायण-सन्तोष- ८ पाक्यपदीयब्रह्मकाण्ड: स्वाध्यायसत्यभाषणपरोपकारेश्वरचिन्तनयोगाऽभ्यासादीनाम् मध्ये उत्तम दृष्टादृष्टफलजनकतया तपः छन्दसां वेदानां प्रथम प्रधानमंग व्याकरणंप्राहुः कथयन्ति ऋतम्भराभरणभूषिता ऋषयः, शब्द साधुत्वा साधुत्वप्रकारकज्ञानं विना न किमप्य-स्तीत्यर्थः। तस्माच्छब्दज्ञानं योगिनामपि परमावश्यकम् ॥११॥ प्राप्तरूपविभागाया यो वाचः परमो रसः यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयमाञ्जसः ॥१२॥ प्राप्तरूपविभागाया वाचः, यः परमोरसः, यत् तत्तत्पुण्यतमं ज्योतिः तस्यायमाञ्जसोमार्गः । अन्तःसन्निविष्टात् पश्यन्तीरूपातशब्दतत्त्वात्- प्राप्तो वर्णपदवाक्यलक्षणो रूपविभागो ययाऽथवा वाच्यत्वेन प्राप्तः रूपविभागः, अर्थ विशेषो गवादिः । अपरञ्च प्राप्तरूपविभागः, गवा- दिरर्थः कार्यकारणभावेन यया, शब्दोहि गवादिरूपेण परिणमते ते च गवादयस्तत्रैव लीनाः सन्तो वाघूपेण व्यवतिष्ठन्ते । वाचः सक्रमायाः वाचकत्वादभ्युदयहेतुत्वाद् यः परमउत्कृष्टोरसासारः व्यवस्थितसाधु- भावः शब्दसमूहः । यत्तत् समाधिजबोधपरीक्षितं श्रुतिसिद्धं पुण्यतमं प्रकाशाप्रकाशयोः प्रकाशकंज्योतिःशब्दाख्यं त्रयः प्रकाशाः योऽयं जात- वेदाः, यश्च पुरुषेष्वान्तरः प्रकाशो यश्च-प्रकाशाप्रकाशयो प्रकाशयिता तत्रैतत्सवमुपनिबद्धंयावत्स्थास्नु चरिष्णुचेत्यादि । तस्य साधुशब्दसमू- हस्यज्ञानेऽयं सामान्यविशेषलक्षणवान् व्याकरणरूपाञ्जसः सरलः पन्थाः यद्वोपाय: परन्तुलौकिकानामेषशब्दात्मा स्फुटोऽपि न प्रतिभाति तथाच महार्थमञ्जयां भगवान् गोरक्षनाथः प्रोवाच-माणिक्य प्रवेक इव निचोलितो निजमयूखलेखया । प्रतिभातिलौकिकानामत्यन्त- स्फुटोऽप्यस्फुट आत्मा ॥ प्रतिपदोक्तशब्दपारायणरूपस्तु-अतीव- कठिनोमार्गः तथाच महर्षिः श्रीपतञ्जलिरचलनाथः-महाभाष्ये- बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्त्रं प्रतिपदोक्तानां शब्दानां शब्दपारा- ८ नहि गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम यणं प्रोवाच नचान्तं जगाम, इति । तथा लघ्वर्थमध्येयं व्याकरण- मिति ॥१२॥ अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वावबोधःशब्दानां नास्ति व्याकरणाहते ॥१३॥ सम्प्रति भाष्योक्तं व्याकरणस्य पञ्चमं प्रयोजनमाह- राजर्षिः अर्थस्य घटादेः प्रवृत्ती व्यवहारेसलिलाहरणादिरूपार्थक्रिया- कारित्वे, अयंघट इत्यादिशब्दप्रयोगे वा । तथाच-भाष्यम्-चतुष्टयी- शब्दानां प्रवृत्तिः जातिशब्दा गुणशब्दाः क्रियाशब्दा यहच्छाशब्दाः, इति । शब्दा एव निबन्धबोधकाः सर्वोहिव्यवहारः शब्दायत्तः, शब्दमनुच्चार्यकश्चित्प्रत्येति, योगिनामपिज्ञानं शब्दमूलकमेव, उद्बो- धावस्थायामपि ज्ञानं शब्दाकारतां प्रयाति । अनुमानचेष्टादिकमपि शब्दाकारतां न जहाति। तत्त्वावबोधः, अवैकल्यं साधुत्वम् । देव- दत्तस्य गुरुकुलमितिवत्सापेक्षेऽपिगमकत्वात्समासः । निवन्धनमिति- निर्देशो वेदाः प्रमाणतुल्योबुधेलिमः । शब्दस्य द्वेरूपे शब्दत्वं साधु- त्वंच प्रथमस्य श्रोत्रेन्द्रियग्राह्यत्वेऽपिद्वितीयं साधुत्वं व्याकरणादेव गृह्यते, न श्रोत्रादन्यथाऽनधीतव्याकरणा अपि पांसुलपादहालिका प्रतिपोरन् । एतेन "तत्त्वावबोधःशब्दानां नास्तिश्रोत्रेन्द्रियाहते" इति कुमारिलभट्टोक्तमपास्तभिति सूर्यनारायणशुक्लाः । व्याकर णादेव शब्दतत्त्वावबोधो भवति न श्रोत्रादिति भावः ॥१३॥ तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानामधिविधं प्रकाशते ॥१॥ तद् व्याकरणम् , अपवर्गस्य मोक्षस्य द्वारमुपायः। वाङ्- मलानां प्रत्यवायहेतूनां वाचोमलानां दुरुच्चारणरूपाणां चिकित्सि- तम् , आयुर्वेद इव देहस्थानां दोषाणाम् , सर्वविद्यानां पवित्रं पृथि- .
१० पाक्यपदीयब्रह्मकाण्डः व्यामाप इव, विद्यासु इति-अधिविद्यं सर्वासुविद्यासु प्रकाशते प्रद्यो- तते स्वीक्रियत इत्यर्थः । “एकः शब्दः सम्यगज्ञातः सुप्रयुक्तः स्वर्गे लोकेच काम धुग् भवति" इति महर्षिपतऽञ्जलिः। परापश्यन्तीमध्यमा वैखरीमातृका "एतासां शब्द तत्त्वभूतानां वाचां योगधिया ज्ञाना- न्मोक्षः शाब्दिकानामिति भगवान् गोरक्षः, स्पष्टमन्यन् ।।१४।। यथार्थजातयः सर्वाः शब्दाकृतिनिन्धनाः । तथैव लोके विद्यानामेषा विद्या परायणम् ॥१॥ यथा सर्वाः अर्थजातयः अर्थसामान्यानि घटपटादिसमवेताः। घटत्वपटत्वादिजातयः । शब्दाकृतिनिबन्धनाः-घटपटादिशब्दाना माकृतयो घटपटशब्दत्वादयो निबन्धनं ज्ञापकं यासां ताः। अर्थनिष्ठ सामान्यानां शक्यत्वं शब्दगतसामान्यानां शक्तत्वमितितत्त्वम् । अर्थ गतजातीनां ज्ञान वाचकादेव । तथैवैपाविद्या व्याकरणं सर्वविद्यानां कोशकाव्यन्यायमीमांसादीनां परायणं स्वघटकपदशक्तिसामञ्जस्या- थमिति अतः सवैरेवाधीयतां व्याकरणम् ।।१५।। इदमायं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानामजिमा राजपद्धतिः ॥१६॥ सिद्धिसोपानपर्वणां सिद्धिर्मोक्षः, यद्वाष्टसिद्धयः। सोपानमधि- रोहिणी तस्य पर्वाणिग्रन्थयः तेषां मध्ये, आद्यं प्रथम स्थानं पद- स्थानं चरणनिःक्षेपस्थलम। इदं व्याकरणं मोक्षमाणानां मुक्तिका- मयमानानां सेयमजिह्माऽकुटिला सुखेनगम्या राजपद्धतिः, राजमार्गः, अस्तीति शेषः । शब्दात्मायं स्वयं मोक्षरूपेणोपतिष्ठते। पदार्थानाम- भावेऽपि साधकबाधकरूपेण शब्दा एव तदाकृति बध्नन्ति, रामस्य नाटकं रामाभावेऽपि तत्तेजः शब्दैरेव प्रकाश्यते, एवं सति राम- भावाः शब्दैरेवप्रकाशिता भवन्ति । अहो ! एष शब्दमहिमाऽगम्यः अपगतभ्रमः। गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम् ११ सर्वलोकप्रवर्तकः सृष्टः परमेश्वरेण, तस्माच्छब्दज्ञानमत्यावश्यमिति निश्चप्रचम् ॥१६॥ अत्रातीतविपर्यासः केवलामनुपश्यति । छन्दस्यश्छन्दसां योनिमात्माछन्दोमयींतनुम् ॥१७॥ अतीतो नष्टो विपर्यासो भ्रमा यस्य सः । सम्यग् ज्ञानवान । छन्दस्यः, छन्दसेहिनः शुद्ध आत्मा जीवः । छेदसां वेदानां योनि कारणीभूतां छन्दोमयीं वेद रूपां प्रणव रूपां वा तनु परापश्यन्तीमध्यमाशरीरां वाचमनुपश्यति ।। तथा च भागवते “स एष जीवो विवरप्रसूतित्राणेन घोपेरण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपेत्य राजन ! मात्रा स्वरोवर्ण इति स्थविष्टः" । इत्यादिभूयःप्रापञ्चि ॥१५॥ प्रत्यस्तमितरूपाया यद्वाचोरूपमुत्तमम् । यदग्निनेव तमसि ज्योतिः शुद्ध प्रवर्तते ॥१८॥ प्रत्यस्तमितानि, आच्छादितानि, अज्ञातानि रूपाणि यस्याः, यथा घट इति प्रथमैकवचनविभक्त्यन्तत्वमाहोस्विन्मध्यमपुरुषैक- विभक्त्यन्तत्वमिति । राजा तृतीया एकवचनेऽथवा प्रथमैकवचने, दद वर्णद्वित्वं क्रियापदं वा । वाचः-मध्यमाख्यशब्दस्फोटरूपायाः, यदुत्तमं रूपं सग्वण्डेतरत्वादि अखण्डत्यादीत्यर्थः। तमस्यन्धकारे. ऽज्ञाते च ज्योतिः पदादि प्रकाश इति श्रीद्रव्येशझामहाभागा मैथिलाः नादाभिव्यङग्य इत्यपरे उदाजगु । अग्निना इव व्याकर- णेन शुद्धप्रवर्तते ॥१८॥ वैकृतं समतिक्रान्ता मूर्तिव्यापारदर्शनम् । व्यतीत्यालोकतमसी प्रकाशं यमुपासते ॥१९॥ वैकृतं समतिक्रान्ता आलोकतमसी व्यतीत्य वाचः, यं मूर्ति- व्यापारदर्शनं प्रकाशम्-उपासते सेवन्त इत्यर्थः। यत्र कस्यापि ग- ।
१२ वाक्यपदीयब्रह्मकाण्डः तिर्नास्ति तत्र वाच एव ज्ञापिका भवन्ति, कण्ठताल्वादिविहीनाः सत्य आत्मनिष्ठवोधतया स्फोटरूपं प्रकाशमुपसेवन्ते । तथा चोप- निषत्सु-सूर्याभावे पुरुषाः केन बुध्यन्ते ? चन्द्रमसा। तदभावे केन बुध्यन्ते नक्षत्रैः। तदभावे केन बुध्यन्तेऽग्निज्योतिपा । तदभावे केन बुध्यन्ते ? वाग् ज्योतिषा। तद्भावे केन बुध्यन्ते–शब्द ज्योतिषा, तदभावे केन बुध्यन्ते ? मनो ज्योतिषा। अत्रैव खलु मध्यमा वाक् स्फोटरूपा सबीजा, आनुपूर्विकनियतवर्णपदा, अयं भावः -- घटादि- रूपमालोके हीरकमण्यादिप्रकाशश्च-अन्धकारे प्रस्फुरति, मध्यमा वाचस्तु मूर्तिव्यापारौ द्वयातिरिक्तेऽपि । अतः शब्दात्मनो व्या- करणस्य प्राशस्त्यमिति ॥१६॥ यत्र वाचो निमित्तानि चिन्हानीवाक्षरस्मृतेः । शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥२०॥ यत्र व्याकरणशास्त्रे वाचो मध्यमावाचः। हृदिस्था इत्यर्थः । निमित्तानि-वर्णपदवाक्यप्रकृतिप्रत्यायादीनि । अक्षरस्मृतेः-अक्षर- स्मरणस्य चिन्हानीव, सम्बोधनप्रश्नाकाशवृत्तय इव । शब्दपूर्वेण योगेन प्रकृतिप्रत्ययादिव्युत्पादनेन प्रकृतिः शब्दः प्रत्यया विभक्त्या- दयः। यद्वा प्रकृति वा दयः प्रत्ययास्तिबादयः । प्रतिविम्बवत्प्रति- च्छाया-इव । व्याकरणे प्रकृतिप्रत्ययव्युत्पादनमध्यमायाः, वाचः स्मरणार्थमुबोधार्थमिति यावत् । यद्वा यत्र स्फोटाख्ये शब्द ब्रह्मणि, अक्षरस्मरणस्य लिपय इब वाचो वागभिव्यञ्जकस्य प्राकृत- श्वनेः, निमित्तानि वार्गाभव्यक्तिनिमित्तध्वनिनिष्ठा कत्वखत्वगत्वादि जातयः। शब्दपूर्वेणशब्दाभिव्यक्तिपूर्वजातध्वनिना योगेन भेदात्र- हेण तादात्म्येनेति यावत् प्रतिविम्बे-इव भासन्ते तत्रतस्येव पतिः तथा च-महार्थमञ्जयां-भगवान् गोरक्षनाथोऽनुकम्प्याह "हन्त !
गोरक्षग्रन्थमालायाअष्टविंश पुष्पम् १३ मुखं प्रतिबिम्बतु प्रतिबिम्बयतु तथा तदपिदर्पणः । दर्पणः पुनर्य- स्मिन् प्रतिबिम्वति सोपिज्ञातव्यः” ॥५६॥२०॥ अथर्वणामङ्गिरसां साम्नामृग्यजुषस्य च । यस्मिन्नुच्चावचावर्णाः पृथस्थितिपरिग्रहाः ॥२१॥ ऋक्च यजुश्चेति द्वन्द्वे-द्वन्द्वाच्चुदपहान्तेतिटचि ऋग्यजुष स्तस्य, अथर्वणाम, अङ्गीरसां साम्नां वेदानां वर्णा यस्मिन् व्याक- रणं उच्चावचाः स एव क्वचिदुदात्तः कचिदनुदात्तः कचिदात्मना कचितत्मना क्वचिद् भवति कचिद् भवाति, इत्यादिरूपा वर्णाः पृथक् स्फोटभिन्ने स्थितेः परिग्रहः स्वीकारः येपान्ते स्फोटाभिव्यञ्जक- ध्वनिनिष्ठाः । तादृशध्वन्यभिव्यञ्जकवायुसंयोगनिष्ठाः। प्रतिपादिता वर्णा भासन्ने कल्पितविरुद्धधर्माध्यासात्स्फोटविभिन्नभावः। नचा व्यबस्थितप्रयोग प्ररूढपरिपाटीशङ्कनीया, शब्दानामानन्त्याल्सुरैरपि- अशक्य निरसनावसानप्ररोहः ।।२।। यदेकं प्रक्रियाभेदैर्वहुधा प्रविभज्यते। तद् व्याकरणमागम्य परं ब्रह्मादिगम्यते ॥२२॥ यदेकं परमात्मतत्त्वं प्रक्रियाभेदैर्योगसाङ ख्यन्यायवैशेषिक मीमांसावेदान्तादिदर्शनैः, बहुधाविभिन्न प्रकारेणस्वयुक्तिप्रत्युक्तिभिरि- त्यर्थः । प्रविभज्यते निरूप्यते निगात-इत्यर्थः । तत्परं ब्रह्म शब्दात्मत- त्वम् । व्याकरणं शब्दशास्त्रमागम्य सम्प्राप्राप्य मध्यमादिवाग्बोध द्वाराऽधिगम्यते प्राप्यते । ननु केते प्रकियाभेदाः ? इत्यपेक्षायां संतेपतः कथ्यते-महार्थमञ्जरीपरिमलेश्रीगोरक्षण "लोकायतानां देहात्मा शून्यात्माशून्यवादिनाम् । क्षणात्माक्षणनिष्ठानांभिन्नात्मा भेददर्शिनाम्।। मीमांसिनामपूर्वात्मा, ब्रह्मात्मा ब्रह्मवादिनाम् । अद्वौतिनामभेदात्मा बहुना वा मिमुच्यते आक्रीडनंच बालानां स एवं परमो गुरूः स एव चम - वाक्यपदीयब्रह्मकाण्डः हार्थात्मा माहार्थिक मनीषिणाम्" ।। श्रुत्यन्तरेऽपि-“वागेवार्थं पश्यति वागेवार्थं ब्रवीति वागेवार्थं निहितं सन्तनोति । वाच्येवविश्वं बहुरूपं निवध्दं तदेतदेकं प्रविभज्योपभुङक्ते।” इत्यादि। यद्वायदेकं व्याकरणं कचिन्त् क्रियाभदैः प्रयोगसिद्धिप्रकारैः-क्कापि-"अकः सवर्णेदीर्घः', कापि-अकोऽकि वचनं कचित्सखिशब्दात्सखा, अनङादेशं विधाय- साध्यते । कुत्रापिडाप्रत्ययंविधायसाध्यते। कचि-त्व महशेपलोपं कृत्वा कचिट्टिलोप विधायेत्यादि, एतादृशं व्याकरणं साधूक्तप्रकार सम्प्राप्य पर ब्रह्माधिगम्यते । नहिशब्दात्पर भावाः केनचिद् विपयीकृताः शब्दात्माऽर्थाकारमाधत्ते ॥२२॥ नित्याः शब्दार्थसम्बन्धाः समाम्नाताः महर्षिभिः । सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥२३॥ सूत्राणामनुतन्त्राणांभाष्याणां च प्रणेतृभिर्महर्षिभिः शब्दार्थ सम्बन्धा नित्याः समाम्नाताः कथिताः। संज्ञाच परिभाषा च विधि- नियमएव च। अतिदेशोऽधिकारश्च पड्विचं सूत्रलक्षणम् ॥ संज्ञा सूत्रं यथा “वृद्धिरादैच् ” अदेङ गुण: "अचोऽन्त्यादिटिः, इत्यादि । परिभाषासूत्रं यथा अलोन्त्यस्य षष्ठी स्थाने योगा "इत्यादि । विधिसूत्रं-यथा “इको यणचित्र इत्यादि । नियम स्त्र" पतिः समास एव “न लोपः सुप्स्वरसंज्ञा इत्यादि । अतिदेशसूत्र- स्थानिवदादेशोऽनल्विधौ” इत्यादि । अधिकारस्त्रं "पूर्वनासिद्धम्" अङ्गस्थ इत्यादि । यद्वाल्पाक्षर समुदाय घटितत्वेसति बह्वर्थबोधक सूत्रंयथा-"अथातोधर्मजिज्ञासाअथातोब्रह्मजिसा योगश्चित्तवृत्तिनि- रोध आयात्स्वल्पतरो व्ययः “वायुर्वेक्षेपिष्ठा देवता" इत्यादि। तन्त्राणि-कुलार्णवमहार्णवोड्डीशमहाकालकल्पद्रुमादीनि तान्यनुगतानि अनुतन्त्राणि पुराणवातिकादीनि । तेपामनुतन्त्राणाम, भाष्याणां महा- भाष्यभाष्याणां प्रणेतृभिः कर्तृभिः,महर्षि भिर्व्यासपतञ्जलिविश्वामित्र- ।
गोरक्षग्रन्थमालाया अष्टविंशं पुष्पम् गोतमकरणादजाबालिजैमिनिप्रभृतिभिः शब्दार्थसम्बन्धाः, अभिधाय- काभिधेय सम्बन्धा नित्या अविचालिताः समाम्नाताः। यैः सूत्रवा- तिकभाष्यानि प्राणायित तैरेव शब्दार्थसम्बन्धानां नित्यत्वमाम्नात मित्यर्थः । एकः शब्दः सम्यग बातः शास्त्रान्वितः सुप्रयुक्तः स्वर्ग लोके काम धुग भवति" इतिश्रुत्या च। वार्तिककृता-सिद्ध शब्दार्थसम्बन्ध सिद्धन्तुनित्यशब्दत्वात्" भाग्यकृता च-संगहे.--एतत्प्राधान्येन परीक्षितं नित्यः शब्दः नित्येषु शब्दषु कूटस्थैरविचालिभिवर्णवि- तव्यम् सर्वेसर्वपदादेशादाक्षीपुत्रस्य पाणिनेः । एकदेशविकारे तु नित्यत्वं नापपद्यते ॥ एक इन्द्रशब्दः क्रतुशतप्रादुर्भूतो युगपत्सर्व- यागेष्वङ्गं भवतिः इत्यादि भाग्यवचनानि स्पष्टं नित्यत्वमातिष्ठन्ते । शब्दानां नित्यत्वादेवशब्दमुच्चारयतीत्येवप्रत्ययानतूत्पादयतीति बोधः । अनादाविहसंसार---अनादिवृद्रव्यवहारमर्यादायाअविच्छेदेनशब्द- व्यवहारस्य व्यवस्मितवाह । व्यनिलयाना नित्यत्व मादागतम् । तथा च बार्तिकमती::-"नित्यावर्णा नित्यावेदा इति च सम्प्रदायाविच्छेदान् । नित्याथिवीनित्या:पर्वनाइतिवत् गा२३।। अपोद्धारपदार्था ये ये चोर्थाः स्थितलक्षणाः । अन्वाख्येयाश्च ये शब्दा ये चापि प्रतिपादकाः ॥२४॥ कार्यकारणभावेन योग्यभावेन च स्थिताः। धर्म च प्रत्यये चाङ्गं सम्बन्धाः साध्वसाधुषु ॥२५॥ ते लिङ्गश्चस्वशब्दैश्च शास्त्रेऽस्मिन्नुपवर्णिताः स्मृत्यर्थमनुगम्यन्ते केचिदेव यथागमम् ॥२६॥ साध्वसाधुघु-शब्दार्थसम्बन्येषु तादात्म्यावगाहिषु येधर्मे धर्मो- त्पत्तौ प्रत्यये ज्ञान स्वादौ वा अङ्गम-उपकारकाः साधवः शब्दार्थ सम्बन्धास्तेऽस्मिन् व्याकरणे शास्त्रे लिहः प्रकृतिप्रत्ययः प्रकृतयो- १६ वाक्यपदीयब्रह्मकाण्डः भ्वादयः प्रत्ययास्तिबादयस्तैः यद्वा प्रकृतयोगुणाः प्रत्ययाबोधास्तै स्व- शब्दैनिष्पादितशब्दैः । यडलुङन्तादिभिः उपवर्णिता उपावर्णिपत, नासाधवस्तेषामर्थावबोध मात्रोपकारकत्वान्नास्ति पुण्यजनकता । तत्र ये प्रतिपादकाः प्रकृतिप्रत्ययरूपा ये चअन्वाख्येयाः पदवाक्यरूपाश्च शब्दा ये अपोध्दारपदार्थाः प्रकृति प्रत्ययार्था ये च स्थितलक्षणाः पदवाक्यार्थरूपाश्च, अर्थाः कार्यकारणभावेन योग्यभावेन तादा- म्येन स्थिताः साधवः। यस्याभिधायकस्य येनाभिधेयेन कार्यकार- रणभाव स्तस्मिन्नेवार्थे स साधुः। स्मृत्यर्थं पुण्योपचयार्थं यथागमं यथा दर्शनमनुगम्यन्ते। अतएव-अस्वशब्दस्य दरिद्रं साधुत्वेऽपि नाश्वे साधुतेति । पदार्थाद्अपोध्रियन्ते विभज्यन्ते इत्यपोध्दाराः, प्रकृतिप्रत्ययकल्पनयाव्याकरणेन पदानि वाक्यानि चान्वाख्यायन्ते, इत्यन्वाख्येयाः। अयमुत्कलापः-वाक्यार्थेभ्यः पदार्थान पदार्थेश्चभ्य प्रकृतिप्रत्यार्थानपोद्धृत्य वाक्येभ्यः पदानि पदेभ्यश्च प्रकृति प्रत्ययाः प्रकृतेः प्रकृत्यर्थे प्रत्ययस्य प्रत्ययार्थे शक्तिः साधुत्वं च व्याकरणेन बोध्यते तद् द्वारा पदार्थेपदस्य वाक्यार्थे च वाक्यस्य शक्ति साधुत्वं च ।।२४।२५।२६॥ शिष्येभ्य आगमात्सिद्धाः साधवो धर्मसाधनम् । अर्थप्रत्यायनामेदे विपरीतास्त्वसाधवः ॥२७॥ सिद्धानामसिद्धानां शब्दानामर्थप्रत्यायनाऽभेदे पि-अर्थ-प्रत्या- यकत्वस्य समानेपि तथा च- महर्षिः श्रीपतञ्जलिरचलनाथः-समा- नाायामर्थावगतौ शब्दैश्चाप शब्दैश्च शास्त्रेण धर्मनियमः क्रियते शब्देनैवार्थोऽभिधेयो नापशब्देन-एवं क्रियमाणमभ्युदयकारिभवतीति "शिष्टेभ्यो लब्धात् , आगमाद् व्याकरणात् सिद्धाः सिद्धिं गमिताः धर्मसाधनत्वेन बोधिताः साधवः शब्दाधर्मसाधनम् । विपरीता असाधवः-अनिष्टसाधनत्वेन वोधिता ज्ञापिता असाधवोऽधर्म- गोरक्षग्रन्थमालाया अष्टविंशं पुष्पम् साधनम् । साध्वपभ्रशयोरुभयोरर्थबोधकतायास्तुल्यत्वेऽपि संस्कृत शब्दप्रयोगेधर्मोऽपभ्रशासंस्कृतशब्दप्रयोगेनेतिव्यवस्थाशिष्टानांपरम्परा व्यवहारदर्शनेनमन्वादिवत् तथा चाह योगिकुलभूषणो योगिराजो योगी मङ्गलनाथः विचारविन्दुग्रन्थे–यतो नैष सतांमार्गो यन्त्र वेद व्यतिक्रमः । विस्पष्टोऽतः सदा त्याज्यः शिष्टाग्राह्यमताग्रहः ॥७६।। अतएव शिष्टा आगमाग्राह्याः । "इको यणचि” अकः सवर्णेदी, इत्यादिभिः स्वविधेयघटिते साधुत्वं तदितरस्मिन् स्वोत्तरशास्त्रा- बोधितेऽसाधुत्वं च बोध्यते । अन्यथा 'सुपसुपा' इत्यादिसमासविधा- यकशास्त्रेण सुधी-उपास्यः 'दधि-अत्र इत्यादीनामपि साधुत्वं बांध- नात् । एकः शब्दः सम्यग् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवतीतिश्रुत्या सिद्धानाधर्मसाधनत्वस्य "तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः, तस्माद् ब्राह्मणेन न म्लेच्छितवै नाप- भाषितम्लेच्छोहवा एवं यदपशब्दः” इतिश्रुत्या, असाधूनामधर्म साधनत्वस्य बोधनात् , योगिदृष्टागमसिद्धेर्थे मा विवदेलिमम् । एतेन "अहिंसा परमोधर्म इत्यादीनि भगवबुद्धवचनान्यपि समा- दर्तव्यानि ॥२७॥ नित्यत्वे कृतकत्वे वा तेषामादि न विद्यते । प्राणिनामिव सा चैषा व्यवस्था नित्यताच्यते ॥२८॥ तेषां शब्दानां नित्यत्वेऽविनाशित्वे कृतकत्वे कार्यत्वे नित्यत्वेवा आदिन, प्रारम्भोनास्तीत्यर्थः। प्राणिनामिव जीवानामिव सैषा व्यवस्था नित्यता व्यवहारनित्यता, उच्यते कथ्यते । यथा लोकाना मुत्पन्नविनाशयोईष्टत्वेऽपि प्रत्यक्षतया किन्तु नास्ति तेषां विनाश: तत्रापि नाम्नो यद्वा नामिन एव विनाशो नतु तदाश्रयस्य । देवदत्तस्य मरणवेलायामन्ये तथैवजीवन्ति, तथा च-देवदत्ते मृते ग्रामे मियन्ते न न परे । एवं ब्रह्माण्डसंख्याश्च विनश्यन्त्यु द्भवन्ति हि ।। अत एव- २
१८
वाक्यपदीयब्रह्मकाण्ड:
शब्दाना मनादित्वेन प्रवाह नित्यता सोढव्या। अत एव उत्पन्न विद्य.
माने विनष्टे संजनिष्यमाणे गकारे गत्वप्रयुक्तप्रकारताप्रातिपथिकता
मावहन्ती सध्रीचीनैवा येहि वैशेषिकादय आत्मनां नित्यत्वमातिष्ठन्ते
तेषां कूटस्थनित्यतया च लौकायतिका आत्मनां देहेन्द्रियरूपतां स्वी
कुर्बाणा अनित्यत्वंसंगिरन्ते तेषामनादौ संसारप्रवाहेऽप्रवृत्तप्राणि-
व्यवहारस्य कालस्याविद्यमानात् प्रवाहनित्यतया शब्दनित्यत्ववादे
कूटस्थनित्यतया तेषामादिः, इयं प्रथमता न । तदुक्तं भाष्ये-“तदपि
नित्यं यमिंस्तत्त्वं न विहन्यते” यस्मिन् विहतेऽपि-आश्रयप्रवाहा
विच्छेदात्तवृत्तिधर्मो न विहन्यते केनापीत्यर्थः ॥२८॥
नानार्थकामिमां कश्चिद् व्यवस्था कर्तुमर्हति ।
तस्मानिबध्यते शिष्टैः साधुत्वविषया स्मृतिः॥२६॥
कश्चिन्मन्दबुद्धिः पुमानपि, अनर्थिकां निष्प्रयोजनामर्थशून्या
मिमां पुरोवर्तिनी साधुत्वविषयिकां दुर्जेयां दुर्बोधां दुरध्येयां च व्यव-
स्थां कत्तुं नार्हति । प्रयोजनमनुद्दिश्य न मन्दोऽपिप्रवर्तते,, इति न्याया
न्मुग्धधियोऽपि निष्प्रयोजने कर्मणि प्रवृत्त्यदर्शनेन पाणिन्यादेः प्रवृत्तेः
सुतरामसंभवादिति पाणिन्यादेः साहं साधुत्वविपयकव्यवस्थायां
प्रवृत्तिदर्शनात् तस्याः सप्रयोजनत्वमर्थादापनीपते । शिष्टः
पाणिन्यादिभिः साधुत्वविषया स्मृतिः, व्याकरणशास्त्रं निबध्यतेऽनेक-
सूत्रसमुदायेन नियंम्यते । तथा च-हरे-ए । हरे-आगच्छ । हरे-अव ।
इत्यादि प्रयोगाणां साधुता ना वैयाकरणेनकत्तुं शक्या । अत एव-अयं
साधुरयमसाधुरिति नियमो धर्माधर्मनिबन्धकतया, अर्थवत्त्वेन कर्तव्य
त्वात् , नायोगिनो नरः शकलोनिबद्ध पारयन्ति ॥२६॥
चागमाइतेधर्मस्तण व्यवतिष्ठते।
ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् ॥३०॥
गोरक्षग्रन्थमालाया अष्टविंशं पुष्पम् १६ धर्मो यागतपःसत्यदानाहिंसादिसमुदायः । आगमाद् ऋते, आगमानपेक्षेण युतर्केण क्त्याऽनुमानादिना न व्यवितिष्ठते, “समव- प्रविभ्यः स्थः" इत्यात्मने पदम् । न व्यवस्थां प्राप्नोतीत्यर्थः । शास्त्रादेवधर्माधर्मयो निर्णयः कार्यः सुधीभि रिति । शङ खनरकपाल- मृगाजिनव्याघ्रचर्ममहिचपर्मरासभचर्मगजचर्मादीनां तत्त्वेन समान- तया परंतु शास्त्रेण, अन्यतमस्येव निर्णयः प्रदीयते न सर्वेषाम् । अत एवऋषीणा मपि वेदादिद्रष्टणामपि यज्ज्ञानं तदपि-आगमपूर्वक शास्त्रपूर्वक मित्यर्थः-अस्तिभवतिपचतिपठतिगच्छतिव्रजतिसेधति- करोनिवहतिस्वपितिप्रभृतीनां क्रियाणां रामदेवसूर्यचंद्र-योगयोगि- वेदधर्मकर्मवर्मतीर्थाचार्यादिशब्दानां विपर्यासोऽन्यार्थेशक्ति र्वा ऋषिभिरपि कत्तुं न शक्यत इतिभावः। ऋषिज्ञानमयनुगतकल्प- महाकल्पसाक्षिकमित्यर्थः ॥३०॥ धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः । नताँल्लोकप्रसिद्धत्वा कश्चित् तर्केण बाधते ॥३१॥ ये धर्मस्य, अव्यवच्छिन्ना विच्छेदरहिता धाराप्रवाहगत्या समागता लोकमर्यादा व्यवस्थिता व्यवस्था प्राप्ताः, नियता इत्यर्थ । पन्थानोमार्गा स्ताल्लोक प्रसिद्धत्वाद् हेतोः। कश्चित्तान् पथः स्वयु- क्त्या तर्केण न बाधते। पश्वादि हिंसा लोकविरुद्धागा “यज- मानस्य पशून पाहिए न हिंस्यात्सर्वा भूतानि” इत्यादि वेदवचनैनि- न्दिता सा केनापितर्केण व्यवस्थापयितुं न शक्य ते ॥३१॥ अवस्थादेशकालानां भेदा भिन्नासु शक्तिषु । भावानामनुमानेन प्रसिद्धिरति दुर्लभा ॥३२॥ यादृशं यूनि शकलि सत्त्वं न तादृशं स्थवीयसि पुसि । यादशोऽनुभवः स्थवीयसः प्रवर्धते न यूनस्तादृशः । इत्यवस्थाभेदुः ।
२० स्थितिः, पाक्यपदीयब्रह्मकाण्ड: मरुस्थलेचर्मसन्नद्धज विदुषाऽपिपेयमन्यथा न निर्वाहः । यद् वस्तु मध्यभारते सुखकरं न तद् हिमवति, उष्णप्रदेशे यद् हितकरनत च्छीते। ये नियमा उष्णे हितकरा न ते शीते । इत्यादि देशभेदः । वर्षौं विद्यमानमपि वास्तूकवीजं न प्ररोहति । सहस्रयत्नेनापि श्रावणे वसंतोदयो न पौंपे ग्रीष्मोदयो न । यद् वस्तु चैत्रे हानिकरं न तद् भाद्रे । इत्यादिकालभेदः । भावानां पदार्थानां पनसकटम्भरापुनर्नवा- पद्माटपद्माकाकमाचीशकुलाक्षककूष्माण्डपटोलसूरणप्रभृतीनां भिन्नासु सतीषु शक्तिषु वाच्यगुणानुवर्तिनीषु । अनुमानेनाऽनुनित्या युक्त्या वा प्रसिद्धिः तद्वोधिका अतिदुर्लभातीव दुष्प्रापा । यद्वा अवस्था स्तिस्रो जाग्रत्स्वप्न सुषुप्तयः । देशाभारता- दयः । कालाः, भूतभविष्यवर्तमानाख्याः। तेषांभेदाद् भावानां पाका- दिशब्दानां भिन्नासु शक्तिषुदेशलकारसहचरिततत्तक्रियासु प्रसिद्धिः प्रयोगसिद्धिरर्थनिष्ठा वाऽनुमानेन न तर्काश्रितयुक्त्याऽतीय दुर्लभा । रथन्तरादयः प्रयोगाः। छान्दसक्रिया सन्निधानं च याभूता- थेंक्रिया सा वर्तमाने या भविष्ये साभूते । यत्र तृतीया तत्रप्रममाथेः । यत्र चतुर्थी तत्रषष्टयर्थः इत्यादिषु नानुमानस्य गतिः किन्तु-आगमः एव शरणीकरणीयः । यद्वाधर्मशास्त्रापने-मनुमा-मनोर्मा मनुमा मनुप्रमाग्राह्या। मानवं शास्त्रम्-अवस्था देशकालभेदात्प्रवर्तते । लासातिब्बतहिमप्रदेशे-स्नानधौतप्रक्षालनादिनियमा. मनुप्रोक्ता न चलन्ति । इतरत्र प्रचलन्ति । अतएव भावानां तत्तदेशीयाऽनुष्ठान विशेषाणांशक्तयोऽपिभिन्नाः । न्यायपक्षे-परापरादयः परत्वापरब- कालधर्माः, देवदत्तघटपदादीना देशकृतकालकृतभेदाः. तद्गत शक्तिभेदाश्चग्राह्याः । मीमांसापते-देशः स्वर्गादिः । कालिक सम्बंधेन यागादिः, राजसूयचातुर्मास्यदर्शपौर्णमासाश्वमेधपुत्रेष्टि प्रभृतिसमुदायः । भावनामपूर्वाणांभिन्नासुशक्तिषु विद्यमानासु- "कर्मभेदात्सृष्टिवैचित्र्यम् अनुमानेन ज्ञातुमशक्यम् ॥ यद्वा-देश- ग्याधावस्था तत्र गोरक्षग्रन्थमालायाअष्टाविंशं पुष्पम् २१ कालानां देशानां कालानांमिति देशकालानांभारतामेरिकाहरिवर्पकाके- सियाजापानादि देशानां समयानां घटीपलघण्टाद्यवस्थानां भेदाद्, तत्रभावाना मन्नादिभावानां भिन्नासुशक्तिषुप्रसिद्धिरनुमानेन ज्ञातु मशक्या । यद्वा राजनीति पने-अवस्था राजनीतिधारा देशकालानां भेदाद्भवन्ति । कचित्प्राणदण्डापराधेऽपि जाते 'न प्राणदण्डः । कचि- न्मुद्रादण्डः । कचिदृष्टि दण्डः, कचित् च्छस्त्रादिकत्यक्तवतोऽपि व्यापादनं क्वचित्सर्वथामुक्तिः । तेषां शक्तयः प्रभावा जनता पृथक् पृथग्भवन्ति । आयुर्वेदपक्षे-देशकालानां देशो नदीतटवनपर्वतादिः। कालः सायं प्रातरादिः । तेषामवस्थाओषधिग्रहणमात्रा, यद्वा-श्रारो- यद्वाभूमिजलभेदादोषधीप्रभृतीमनगुणाः । भिन्नासुशक्तिषु विद्यमानासु प्रसिद्धिः प्रभावः बोद्धमशक्योऽनुमानेन गायनपते-देशकालभेदाद्-वैचित्र्यंजायत एव, भेदास्ताललयमूर्छ- नाग्रामारोहावरोह स्वरादयो ग्राह्याः। तत्र भावानां परिमार्जितमनो. गम्यत्वान्नास्ति साधारणस्य शक्तिः । तत्रापिभिभिन्नासु शक्तिषु सतीषु प्रसिद्धिः काऽप्यनिर्वचनीया सिद्धिः अनुमानेन बोद्धुमशक्त्यत्वात् । योगपक्षे-देशोधार्मिकः कालप्रातरादिः-यद्वा "यानिशा सर्वभूतानां तस्यां जागति संयमी' त्यादि । यद्वाकालःवर्षादिक्रमः-तदुक्तं भगवतागोरक्षनाथेन-सिद्धसिद्धान्तपद्धतौ-प्रथमेत्वरोगतासिद्धिः सर्व- लोक प्रियोभवेत्। काक्षन्ते दर्शनं तस्य स्वात्मारूढस्यनित्यशः । द्वितीये वत्सरे काव्यं कुरुते तत्त्वभाषया। तृतीये दिव्य देहस्तु व्यालै ार्ने बाध्यते। चतुर्थेनुत्त पानिद्रा शीतापपविवर्जितः । जायते दिव्ययोगीशो दूरश्रावीन संशयः ॥ इत्यादि बहुप्रादर्शि। अवस्थापदेन भूमिकाद्याः सप्तग्राह्याःतत्रभावानामणिमादि- सिद्धिनां भिन्नासुशक्तिषु विद्यमानासु प्रसिद्भिः प्रत्यक्षावस्थाऽनुमानेन बोध्दं मशक्यत्वात्-दुर्लभा सहजावस्था सद्गुरोः करुणां विना अहो धन्यस्तत्रभवान्भत हरिर्धन्योऽसौभगवान् गोरक्षनाथ आदि- वाक्यपदीयब्रह्मकाण्डः नाथः । यदीयविनेयस्यभतृहरेर्वाक्यपदीयस्यग्रंथस्याथों बोध्दं न शक्यन्तेसंख्यावद्भिरपि । कारिकास्था अन्येपक्षाःस्वयमूहनीयाः कोविदः ॥ ३२॥ नितिशक्तव्यस्य तांतामर्थक्रियाम्प्रति । विशिष्टद्रव्यसम्बन्धे सा शक्तिः प्रतिबध्यते ॥३३॥ नितिशक्तेः निर्माता निश्चिता दृष्टा शक्तिःदाहकता यस्य तस्याग्नेः द्रव्यस्य तांतामक्रियां प्रति दहनादिक्रियांप्रति विशिष्ट द्रव्यसंबंधे बलाहकपटल हिमानीचंद्रकांतादिप्रतिबंधकद्रव्यसन्निधाने सा दाहकताऽग्नः शक्तिः प्रतिबध्यते अतः शक्तिप्रतिबन्धेनानुमानस्य व्यभिचारान्न सामर्थ्यमितिभावः। सा शक्तिरनुमातुमशक्या, मुष्टिकायां पिहितायां किमस्तीति प्रश्नतुल्यावार्ता ॥ ३३ ॥ यत्नेनानुमितोप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥३४॥ यतः; यथा केनचिद् विदुषा "शब्दोद्रव्यम्-अव्यवहितसंबंध- ग्राहात्वाद् घटवत्" इत्यनुमित्या शब्देद्रव्यत्वे साधिते परेण शब्दो न द्रव्यं वहिरिन्द्रियव्यवस्थाहेतुत्वाद्, रूपादिवत् , इत्यनुमित्याशब्दे द्रव्यत्वाभावः. साध्यते। अपरमपि घटो मिथ्या दण्डानाशित्वात् मृत्पिण्डवत् ॥ द्वितीयो घटः सत्यो मृदवयवनिष्ठत्वात् तन्त्ववयवपटवत् , मृद एव घटोत्पत्तिनम्रक्षणात् । अतः केवले तर्के विलम्भो मावि- धेलिमः । यतः कुशलै रतु मातृभिः कपिलादिभिर्यत्नेनानुमितोऽपि जगतः कारणं प्रधानं हीत्येवंरूपोऽर्थः, अन्यै रभियुक्ततरैः कणादादिभिरन्यथा परमाणुः जगतः कारणमित्येवं रूपेण, व्यवस्थाप्यते, एवं तदन्यैरन्यथा-यथा पर्वतोऽ ग्निमान् प्रमेयत्वात् विरुध्दे पर्वतोऽग्निमान् धूमात् । । उपपाद्यते जायते। गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम् सर्वमनित्यं प्रमेयत्वात् । विरुध्दे सर्व नित्यं प्रवाहदर्शना यद्वा सर्वस्यापि पक्षत्वाद् दृष्टान्तो नास्ति । शब्दोऽनित्यः कार्यत्वाद् घटवत् । विरुद्ध शब्दोनित्यः सर्वप्रत्यायकत्वात् । आकाश कमलं सुरभि कमलत्वात् सरोजारविन्दवत् । विरुध्दे-आकाशकमलं न सुरभि-आश्रयासिद्धः । एवं नास्तितर्काणां प्रतिष्ठा । अतएव-केनापि आकस्मिकवादः केनापि-असत्कार्यवादः केनापिसत्कार्यवादः केनापि सदसत्कार्यवादः केनापि अनिर्वचनीयवादः केनापि चतुष्कोटि विनि- मुंक्तवादः केनापि स्वभाववादः केनापिहेतुवादः । अपरेणाभूतिवादः परेणस्वतः-उत्पादवादः । इतरेणानुपाख्योत्पादवादः। तदन्येन यह- च्छावादः । तदपरेणापरवादः। इत्यादिस्तर्कोनिरवधिर्नास्ति तर्केण निर्णीतोः ॥३४॥ परेषामसमाख्येयमभ्यासादेव मणिरूप्यादिविज्ञानंतद्विदां नानुमानिकम् ॥३॥ परेषां पुरस्तादसमाख्येयं मणिरूप्यादि विज्ञानं तद्विदा मभ्यासा- देव जायते । नानुमानिकम् । परेभ्योवक्तुमशक्यं मणिलप्यादितार- तम्यज्ञानं मणिरूप्यादिविदां नृणामपरमणिपरिचेतृवचनपूर्वका जायते । व्याप्तिज्ञानाजन्यत्वात्तन्नानुमानिकम् । अभ्यासरहितः पटुभिरिन्द्रियैरपि तदधिगन्तुमशक्यतया न प्रत्यक्षम् । इन्द्रिय मात्राजन्यत्वात् लौकिकप्रत्यक्षानुमानातिरिक्तंकिञ्चिल्लौकिक समाधिजन्यं भावनापरपर्य्यायमभ्यासाख्यं प्रमाणान्तरमधिगमेलि- मम् । एतेन प्रत्यक्षानुमाने एव प्रमाणे ते व्यभिचारयितुं यद्वातर्कस्या व्यवस्थितत्वेन धर्माधर्मप्रमापकत्वाद् योगात् । स्फुटो भवति । अन्यान् जनान् प्रति मणि रूप्यादि विज्ञानमसमाख्येय मवाच्यंयतो हि परीक्षकाणामभ्यासादेवजायते वारं वारम् । पचेलिमरागिरणो यथारागः साधारणेन बोद्ध मशक्यतया विदा एव बुध्यते । एवं योगिजनानुभव- वाक्यपदीयब्रह्मकाण्डः जबोधो नानुमानिकः। अतएवऋषयोऽपि योगजधर्मेणैवातीन्दियाणां द्रष्टारोभवन्ति ॥३५॥ प्रत्यक्षमनुमानं च व्यतिक्रम्य व्यवस्थिताः। पितरक्षः पिशाचानां कर्मजा एव सिद्धयः ॥३६॥ अयं भावः सत्यपि कुड्यादिव्यवधानेऽन्तहस्थितवस्तूनि रक्षः पिशाचादयः पश्यन्ति । अत्र न प्रत्यक्षं ना प्यनुमानम् । उभे व्यतिक्रम्य कर्मजा अष्टविशेषजातेषांयद्वायोगजाःसिद्धयः । अनडुहामपि सना- मपुरुषपरिचितिः। सारमेयादिसंख्याज्ञानं मुखंपिधाय सप्तावरणवाससा वस्तु परिचयदानं पुरुषेणक्रियमाणं परिदर्शनात्। एवमृषीणामपि ज्ञानं तपः साध्यादृष्टजन्यं प्रत्यक्षानुमानजन्यं न ॥३६।। आविर्भूतप्रकाशानो मनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥३७॥ ननु योगजं ज्ञानं न प्रत्यक्षमिन्द्रियाजन्यत्वात् । व्याप्तिज्ञानाजन्य- त्वान्नानुमानिकम् । सादृश्यज्ञानाजन्यत्वान्नौपमानिकम् । शब्दज्ञाना- जन्यत्वान्नागमिकम् । उपपाद्योपपादकाभावान्नार्थापत्तिजं चेष्टाभावा- नचैष्टिकम् । इतिहासाभावान्नैतिहासिकम् । तर्हि किंतदित्याह-न- उपप्लुतानिर जस्तमोभि-समाक्रान्तानि चेतांसियेषां तेषा मनुपप्लुतचेत- साम् । शुद्धाशयानां तपसाक्षीणकल्मषाणाम् । अत एव-आविर्भूत- प्रकाशानां निरावरणचैतन्यानाम् । यमिनां यद्--अतीतानागतज्ञा- नम् । भूतं भविष्यद् ज्ञानं जायते तज्ज्ञानं तेषां प्रत्यक्षान्न विशिष्यते विशिष्टन भवति नभिद्यते विलक्षणं न भवतीतियावत् । सूक्ष्मासूक्ष्म- व्यवहिताव्यवहितादीनामपिग्रहणंध्येयम् । प्रत्यक्षरूपमेवभवति । अलौकिक सन्निकर्षयोगजधर्मेण जन्यत्वात् । यथा लोकः स्वयं मुखं निमालयन्नपि स्वच्छदपणे प्रतिबिम्वरूपेण विलोकयति तद्वद् योगिनो २५ गोरक्षग्रन्थमालायाअष्टविंश पुष्पम् स्मदादिभिरग्राह्यमपि वस्तु जातमव्यभिचरितं निरीक्षतेक्षीण- कल्मषाः ॥३७॥ अतीन्द्रियानसंवेद्यान् पश्यन्त्यारेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥३८॥ आर्ष ज्ञानं मिथ्या, इंद्रियसंबद्धविषयकत्वेसति प्रत्यक्षत्वात् स्तम्भ पुरुषवद-इत्याद्यनुमानेन बाधो माभूदित्याशङ क्याहयोगिराजः, इन्द्रियाणि-अतिकाता इत्यतीन्द्रिया स्तान्-अतीन्द्रियान इंद्रियै रविषयान् अतएवासंवेद्यान् अनुमानादिभि रप्याग्राह्यान् भावान् पदार्थान ये मुनय आर्षेण व्यावहारिकादन्येन अलौकिक प्रज्ञोपलव्धेन चक्षुषा चक्षुः सदृशेन योगजधर्मेण पश्यन्ति तेषां वचनं लौकिकानुमानेन न बाध्यते । लौकिक प्रत्यक्ष विषयन्द्रियसम्बंधस्य हेतुत्वेऽपि योगजप्रत्य- क्षेतस्याकारणत्वेनातस्तत्र न बाधः॥३८॥ यो यस्य स्वमिव ज्ञानदर्शनंनाभिशङ्कते । स्थितं प्रत्यक्षपक्षे तं कथमन्योविवर्तयेत् ॥३६॥ यः कलशाध्यक्षीकृतवान्ना । यस्यान्यजनस्य देवदत्तादेः ज्ञानं दर्शनं सत्यं घटपटादिविषयकम् । स्वमिव स्वकीय ज्ञानतुल्यं नाभि- शङ्कते न रेकते न शङ्कां कुरुत इतियावत् । सत्यमेव देवदत्तस्यापि ज्ञानं मनु ते इतिभावः । यथा मदीयं गोरक्षपुरे श्रीरामस्थापितगोरक्ष- मंन्दिरे भगवद् गोरक्षनाथदर्शनं सत्यं तथैवान्यस्यापिभवेदितिनिश्चि- नुते। तं प्रत्यक्षपक्षेस्थितं पुमांसम् । स्वयं प्रत्यक्षी कृतवन्तं पुरुषम । अन्यः केवलतार्किकः स्वयं साक्षात्कारविहीनः । कथं विवत येत्या- माण्याभावमापादयेत् । अपितु नेति, अयं भावो गोरक्ष-ताम्बूल- गोरक्षमुण्डीगोरक्षकर्कटीशर्करासिताद्राक्षासंयावस्तोत्रादिवस्तूना मनु- भविता जनः, इतरजनेनशर्करामधुरेति नवाकथिते न शङ्कते। यस्तु २६ वाक्यपदीयब्रह्मकाण्डः ना तदनभिजो मधुरा नवा सितेति शङ्कते । तस्य शङ्कया न माधुर्यस्य वाधः । सर्वानुभूतस्य बाधो न केनापि कत्तुं शक्यः। एवमेवाती- तानागतविषयकयोगीश्वरावप्रत्यक्षस्य न तण बाधः समाधि- माधाय स्वयमेवानुभूयतामिति, एतेन धारणां विना शुष्कवेदातिनां निरासोपिज्ञेयः॥ ३६॥ इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये । आचाण्डालमनुष्याणां समं प्रयोजनम् ॥४०॥ चण्डालम्-अभिव्याप्य । इत्याचण्डालम्-आन्त्यजं मनुष्याणां नतु पशूनां तेषां पाश्र्वेऽध्ययनसाधनाभावः । अयं धर्म इदं पाप- मित्येतस्मिन् पदवये बोधनद्वये समं तुल्यरूपं शास्त्रप्रयोजनं शासनाच्छात्रमित्याहुः शास्त्रपदेन मानवोपकारकत्वेन वेदादिग्रंन्था गृह्यन्ते प्रयोजनमावश्यकम् । अतोऽनुमित्याधर्माधर्मयो निर्णयाभावा- त्तन्निर्णयाय शास्त्रं मनुष्यमात्रमधिकृत्यावश्यकम्। "ब्राह्मणेनषडंगो वेदोऽध्येयो ज्ञेयश्च" इत्युक्तेः। अष्टवर्षं ब्राह्मणमुपनयीत तमध्या- पयीत इत्युक्तंश्च । अत्र ब्राह्मणपदं जातिपरं यद्वाधर्मपरं प्रज्ञांकुर्वीत- ब्राह्मणः, ब्राह्मणस्य विजानतः । इत्यादिवत् । तेनब्राह्मण- जातीयानां पुसामिव स्त्रीणामपि तज्जातीयानां तध्ययनमध्यापनं च भवति । अतएव "अथय इच्छेद् दुहिता मे पंडिता जायेत सर्वमा- युरियादिति तिलौदनं पाचयित्व। सर्पिष्मंत मश्नीयातामीश्वरौ जनयितवै” इतिवृहदारण्यकश्रुतौ तथा गार्गीमैत्रेयीभ्यांश्रुत्यध्ययनस्य तदर्थावगमस्य च तव, महाराजाधिराजजनकेन तथान्यपण्डितैः सह वादकथायाश्चश्रवणाद् वेदविषयिण्याः । “तथा गार्गीच मैत्रेयीतत्र तीर्थेमहत्तरे । वेदतीर्थाभिधेस्नानं कृत्वा पर्वणि केशव !” स्कान्दे- सूतसंहिता याम्. “कन्या सती देवमर्कमाजुहाव यशस्विनी, इति
२७
.
गोरक्षग्रन्थमालाया अष्टविंशं पुष्पम्
महाभारते श्रादिपर्वणि सप्तपष्टितमेऽध्याये, स्त्रीणां प्रव्रजितानां तु
करशुल्कविवर्जयेद्" इत्याग्नेये । विद्वज्जनवन्दिता सीता प्राह-
विपुल हृदयकवेदो खिपति शाख्ने जडो न मौख्य स्वे।
निन्दति कन्चुकीकारं प्रायः शुप्कस्तनी नारी इत्यादिकोज
प्रबन्धादौ “शतपथीकी” काशकृत्स्ना “उपाध्याया" कवली
"उपाध्यायानी. उपाध्यायी
यातु
स्वयमेवाध्यापिका तत्रवा-
डीप वाच्यः उपाध्यायी; उपाध्याया, अध्ययन विनास्त्रीणामध्यापन
मयुक्तम् । उपेत्ययस्या अधीयते इल्लुमा माया । अनिवड-
जातिर्लिंगानांच न सर्वभाक। सकृदाख्यातनिर्लाह्यागोत्रं च चरणैः
सह ।। इत्यत्र-अपत्यप्रत्ययान्तः शाखाध्येतृवाची । चशब्दो जातिका-
यं लभत इत्यर्थः । औपगवी, कटी, बहुची । इत्यादि दर्शनात् ।
पुनश्च-पत्योंयज्ञसंयोगे ।४|११३३॥ इत्यत्र पतिशबदत्यनकारा देशः
स्यायने न सम्बन्ध बसिष्ठस्य पत्नी नत्व कयज्ञस्य फलभोक्त्री-
त्यर्थः । दम्पत्याः सहाधिकारात । जीवतोरितिशेपः । एकस्मि लेवयज्ञे
स्वामित्वेनाधिकारः । भार्याविरहे-कग्रभीप्मादीनामिव केवलानांपुसा
मध्यधिकारः । पतिविरहे केवलस्त्रिगा अपीति । पति शब्दोऽयमैश्वर्य
वाचीसर्वेणगृहस्थेन प्रत्यहं पञ्च महायज्ञा निर्वाः । प्रागुक्तरीत्या
नानृतंवदेत्' इति निषेधस्य सर्वसाधारणत्वाच्च, द्विविधाः स्त्रियो
ब्रह्मवादिन्यः सद्योवध्वश्च । तत्र ब्रह्मवद वदितुं शीलं यासां ता
ब्रह्मवादिन्यः । तत्र ब्रह्मवादिनीना मुपनयनमग्नी-धनं वेदाध्ययनं स्व-
गृहेभिक्षाचर्येति सद्योवधूनामुपस्थिते विवाहे कथंचि दुपनयन मात्रं
कृत्वोद्वाहः कार्यः । आचण्डालपदेन मनुष्य मात्रस्यशास्त्राधिकारः
साधितो भवति ॥४०॥
चैतन्यमिव यश
मविच्छेदेन वर्तते ।
आगमस्तमुपासीनो हेतुवादै नै बाध्यते ॥४१॥
२८ . वाक्यपदीयब्रह्मकाण्डः यश्चायमागमोऽविच्छेदेन विच्छेद रहिततेनप्रवाहकूटेन चैतन्य- मिव चेतन अात्मेव वर्तते । तमागम वेदादिशास्त्रमुपासीनःपुमान् हेतुवादै स्तकैर्नबाध्यते । अयमर्थः । अविच्छेदेन स्वतः, स्वप्रकाश- तया वर्तमानं चैतन्यमिव यश्चायं योगश्रुतिलक्षण आगमः, अविच्छे- देन विच्छेदोऽप्रामाण्य मविच्छेदः प्रामाण्यं तेन स्वतः प्रमाणतया वर्तते । तं स्वतः प्रमाणमागम मुपासीनः। आगमाज्ञयाप्रवर्तमानो मानवो हेतुवादैस्तार्किकवादै नै बाध्यते, तदुक्त मनेनैवभर्तृहरिणाराज- पिणा स्वशतके-न्याय्यात्पथः प्रविचलन्ति पदं नीरा इति न्यायेन नविचाल्यते। यथा विज्ञानेजाते कश्चिदपि ना जानामि नवेति न संदिग्धे नजानामि इति वा न विपर्यासं भजते। अतोविज्ञानं स्व प्रकाशं स्वीक्रियते सिध्दैः। एव मागमेऽपि कश्चिदपि-आगमः प्रमाणं न वेति न संदिहानो जायते, न प्रमाणमिति न विपर्यस्यति । अत आगमः स्वतः प्रमाणं भजते, नागमप्रामाण्यायतर्कादिकमपे- क्ष्यते । तस्मात्तर्काबाध्य आगमः। किन्त्वेतावतापि परमात्मप्रकाशसापेक्ष आगमः । तमेवभान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति, इत्यादि बहूक्तम् । अन्यथाऽन्योन्याश्रयादिदोषा निर्बाधाअगाधाः प्रवर्तेरन् ॥४१॥ हस्तस्पर्शादिवान्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः ॥४२॥ विषमे दुर्गमे रथि पर्वतमार्गे चक्षुष्मन्तं नेतारमन्तरेण हस्तस्प- त्किंचिन्मादेशं हस्तस्पर्शनावगम्य तत्प्रत्ययादपरमपिमागैंकदेशं धावता क्षिप्रगत्या गच्छता अन्धेन इव विषमे प्रत्यक्षानुमानाभ्यां दुर्बोधे पथि दृष्टादृष्टफले कर्मणि, आगम नेतारं विना, एकदेशं केव- लेनानुमानेनावबुध्यैकदेशान्तरमपि पूर्वप्रत्ययात्त्वरया धावता, आग- ममनपेक्ष्य प्रवर्तमानेन, अनुमान प्रधानं यस्य तेन, अनुमानप्रधानेन
२६
गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम्
विनिपातः पतनम्-इतरत्र कण्वं न दुर्लभः, अवश्यंभावीत्यर्थः ।
एकत्र चक्षःशून्येन परत्रागम शून्येनेति निष्कर्षः । एकत्र शैलारण्यादि
मार्ग, अन्यत्र दुर्योधधर्मादिमार्गे, एकत्रपरीप्सया व्रजताऽन्यत्रानु
तिष्ठतेतिसर्वत्रोभयपक्षेऽनुसन्धेयम् । शुष्कज्ञानमार्गेणवेदान्तादिनापातो
न तथा योगमार्गेणेतिध्वनिः॥४२॥
तस्मादकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् ।
आश्रित्यारभ्यते शिष्टैः शब्दानामनुशासनम् ॥४३॥
तस्मात् , पूर्वोक्तहेतोः । अकृतकम् , अनादिपरम्पराद्वारासमागतं
शास्त्रं शास्यतेऽनेनेति व्युत्पत्या । तर्कस्याव्यवस्थितत्वेन, आर्षवोध-
स्यागममूलकत्वेन, धर्माधर्मयोरागमबोध्यत्वात्कृतकारिताशून्यत्वात्
अकृतकं न कृतकमिति यावत् । पुरुषहितोपदेशाय प्रवृत्तमपौरुषेयं
शास्त्रम् । निबध्यतेऽनेननेति निबन्धनं मूलम् । निबन्धनेन मूलेन
सहितां सनिबन्धनाम् । शिष्टोपदिष्टपराम्पराप्रभावानुभाविताम् ।
स्मृतिं च, आश्रित्य प्रमाणीकृत्य द्वारीकृल्येतियावत् । शिष्टैः पाणिन्या-
दिभिराप्तैः । शब्दानुशासनं शब्दानुशिष्टिरारभ्यते। अयंकूट:-
शब्दानुशिष्टिमारभमाणाः पाणिन्यादयोऽनादिकालप्रवृत्तं व्याकरणा-
गममुपजीव्यैत्र कारणीकृत्यैव जनकीकृत्यैवेतियावत् । आरभन्ते
शब्दानुशासनम् । अतएव-शाकल्यस्य शाकटायनस्य गालवस्य
गार्ग्यस्य स्फोटायनस्येत्यादिनिर्देशेन पूर्वागमस्मर्तृन स्मरन्ति । तेऽपि
स्वपूर्वान् स्मर्तृन् स्मरन्ति । ततोऽन्ये स्वपूर्वान स्मर्तृन् स्मरन्ति ।
ततोऽपरे स्वपूर्वान् स्मर्तृन स्मरन्ति, तदितरे स्वपूर्वान् स्मर्तृन
स्मरन्ति । तस्मादनादिदीर्घकालात्प्रवृत्तोयं व्याकरणागमः । मुखं
व्याकरणं स्मृतं सर्वशास्त्राणामिति पाणिनिशिक्षा । तस्मात्सर्वेस्मारः
न कर्तारः कर्तृत्वं साधुत्वासाधुत्वविषयप्रविभागविस्तार एव नतु
नूतनाकृतिः ॥४३॥
३ ३० वाक्यपदीयब्रह्मकाण्डः द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः । एको निमित्तं शब्दमाल हलपरोऽर्थे प्रयुज्यते ॥४४॥ काटनेषु वाचकशब्देषु शब्दविदो वैयाकरणाद्वौशब्दौ वाचको विदुर्जानन्ति, एकः श्रोत्रग्राह्यवैखरीवापः। शब्दानां स्फोट- रूपाणां निमित्तं प्रकाशकारणम् । तेन बैखरीरूपेण हि स्फोटः प्रकाश्यते शब्देन । अपरः स्फोटरूपः शब्दः अर्थे प्रयुज्यते प्रयुक्तो भवति । अर्थज्ञापनक्षमोऽभिचाकशीति। वैखरीवागात्मकशब्दो न साक्षादर्थ बोधयति, किन्तु मध्यमावापः स्फोटः साक्षादर्थं बोधयतीति वैया- करणसिद्धान्तो रारजीति। शब्द एवार्थरूपेण विपरिणमते । अर्थ एव शब्दरूपेण विपरिणमते, इति भावः। यद्वा-उपादानशब्देषु कारण शब्देषु शब्दविदो द्वौ शब्दौ विदुः। एको निमित्तं निमित्तीभूतः शब्दो यथा डित्थादिः, डित्थादिशब्दे अर्थों नास्ति, संज्ञिपरिचायकत्व- मात्र मेव यद्वाकस्यापि निर्धनस्य पुसो लक्षपतिरिति संज्ञाप्रक- ल्पिता न सा तस्य लक्षपतित्वस्य ज्ञापिका तत्र तु निमित्तमात्रं भवसव्यसाचिन्निति न्यायेन बोध्या। अपरः-शब्दोऽर्थे प्रयुज्यते- यथाऽयं सिद्धोऽणिमादीनां वेत्ता. अर्थ सिद्धशब्दोऽर्थे प्रयुक्तो वर्तते । अणिमादिज्ञातारं प्रत्येव प्रशोभते । यद्वा-उपादानशब्दा नभोयान वायुमान प्रभृतयः। तेषु प्लेनादिशब्दाः कल्पिताः अवयवार्थशन्या डित्थादिवत् । जवनो ग्रहीताशब्दोऽर्थे प्रयुज्यते। यद्वा-उपादीयते ऽपनुद्यते रोगोऽनेनेति-उपादानं चिकित्साशास्त्रं दापः प्रत्ययो ल्युट् । उपादानेषु चिकित्साशास्त्रेषु-शब्दविदो नाडीकर्ण- श्वासोदरशब्दविदो वैद्या द्वौशब्दौ विदुर्जानन्ति, कौशब्दौ साध्या- साध्यौ, अयं रोगिणः शब्दोऽसाध्योऽयं साध्यः । एप उल्लाघतां नेतुं शक्यते एष न। थर्मामेटरादयः शब्दा निमित्तीभूताः। ज्वरज्ञापक- वातमापकविकृतिबोधकयंत्रादयः शब्दा अर्थे प्रयुज्यन्ते । यद्वा चतुर्णा गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम् ३१ .. तत्त्वाना मुपादानमाकाशं तस्य शब्देषु उपादानशब्दषु आकाश- शव्देषु शव्दविद आकाशनिष्ठानेककल्पवर्तिशब्दविदः । यन्त्रैरध्या- त्मविद्यया योगविद्यया वा। द्वौ शब्दौ विदुः। एकः शब्दो निमि कारणीभूतउत्तरोत्तरशब्दानाम् । यद्वा विस्फोटकादिशब्दो यस्यार्थो न ज्ञायते सः। अपरः लौकिको यैदिको वाऽर्थे प्रयुज्यते यन्त्रादिनागृही- त्वा सर्वसौकर्याय सर्वत्र प्रयुज्यते लौकिकैः शरीरे। पाददुःखपीडेव- शब्द संचारोऽपि सर्वत्राकासे व्यानो भवति ॥४४|| आत्मभेदस्तयोः केचिदस्तीत्याहुः पुराणगाः । बुद्धिभेदादभिन्नस्य भेदमेके प्रचक्षते ॥४॥ केचित्पुराणगाः पूर्वे स्मारः तयोर्वैश्वरीवास्फोटयोः। श्रात्म- भेदः स्वभावभेदः, अस्तीत्याहुः कार्यकारणभेदपक्षे संगच्छत इदम् । एके कार्यकारणयोर भेदवादिनः, अभिन्नस्यै वैकस्य शब्दस्य बुद्धि- भेदाभेदं प्रचक्षते नानात्वं कथयन्ति । वैखरीवाक् श्रोत्रग्राह्या । स्फोटोमनोग्राह्यः । वास्तविकस्त्वभेद एव न स्वतोभेद इतिभावः।।४५।। अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् । त इच्छब्दोऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥४६॥ अरणिकाष्ठ मध्यवर्ति ज्योतिर्यथा प्रकाशान्तरकारणं भवति । तद्वबुद्धिस्थोऽन्तः करणस्थः शब्दोऽपि स्फोटरूपः संस्कारावस्था- पन्नः शब्दोपि श्रुतीनां श्रवणानां वैखरीमातृकादिवाचां पृथक्-पृथक कारणम् ॥४६॥ वितर्कितः पुरा बुद्धया क्वचिदर्थे निवेशितः । कारणेभ्यो विवृत्तेन ध्वनिना सोऽनुगृह्यते ॥४७॥ पुरा, उच्चारणात्प्राक् , बुद्धयाऽन्तःकरणवृत्त्या, योऽयं शब्दः सो
३२
वाक्यपदीयब्रह्मकाण्डः
ऽर्थः, योऽर्थः स शब्दः । इत्याद्यात्मकधिया वितर्कितोविशिष्टेन
निश्चितः । घटत्ववद्विशेष्यका घट एव न पटः । कचिदर्थे अर्थ
बोधनेच्छयाप्रयुक्तः। कारणेभ्यः-कण्ठतालुशिरोनासिकाजिह्वामूला-
दिभ्यो विवृतेन विस्फारतां गतेन जातेनेत्यर्थः, ध्वनिना कत्वखत्वोदा-
स्तत्वादिधर्माश्रयेण स स्फोटः, अर्थबोधने उपक्रियत इत्यर्थः । यादृश
धर्मवान् ध्वनिस्ताहशधर्मवान शब्दः, पूर्वगृहीतसंकेतानुकूलाएवबोधः।
योगश्चित्तवृत्तिनिरोधः, योगदर्शने, येन द्वारेणगन्तव्यं ब्रह्मेद्वारमनामयं
मुखेनाच्छाद्य तद्वारं प्रसुप्तापरमेश्वरीत्यादि गोरक्षपद्धतौ, अथातो धर्म
जिज्ञासाः इत्यादि मीमांसाशास्त्रे अथातो ब्रह्मजिज्ञासा, इत्यादि वेदान्त
दर्शने, ओमित्येकाक्षरं ब्रह्मेत्यादि गीताशास्त्रे, आदिनाथं नमस्कृत्ये-
त्यादि सिद्धसिद्धान्तपद्धतौ, वृद्धिरादैचू अदेडगुणः, न पदान्ताट्टोर-
नाम” इत्यादिव्याकरणे, कम्बुग्रीवादिमान् घट इत्यादिलोके अमरा-
निर्जरा देवाः, इत्यादिकोशे, चिकित्सानास्ति निष्फला, इत्यादिचरके,
योऽयं शब्दः सोऽर्थः । योऽर्थः स शब्दः । कचित्तुभेदं परिकल्प्य-
अस्यार्थस्यायमेव वाचकः, अस्य वाचकस्यायमेव वाच्यः कदाचि-
संकेतोऽपि-कर्मणि द्वितीया, ऊष्मा प्रगृह्य संज्ञेत्यादि बहुत्र । यद्वा
कोपि पटुमनुजः पुरा पूर्वकाले बुद्धया बुद्धिद्वारा स्वधियेत्यर्थः ।
वितर्कितः परीक्षितः, जातपरीक्षः पुनः कचिदर्थे, अर्थकार्येऽर्थव्यापारे,
इत्यर्थः । निवेशितः, विश्वासार्हत्वान्नियुक्तः । ततः पश्चात्कारणेभ्यो
दुःसाध्यकार्यसम्पादनेभ्यो हेतुभ्यो विवृतेन प्रसिद्धिंगतेन ध्वनिनासः
परीक्षितः पुमान् सर्वैर्लोकैरनुगृह्यतेऽनुगृहीता भवति । सत्यात्मा
विश्वासी सर्वै राद्रियते, इतिभावः। इत्थ मेताहशा विचारनाथस्य
भूगंसोभावाः ॥४॥
नादस्य क्रमजन्मत्वान पूर्वो नापरश्च सः।
अक्रमः क्रमरूपेण भेदवानिव जायते ॥४८॥
गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम् नन्वेवं स्फोटो विभिन्नः स्यादित्याशङ्कयोपाधिकं भेदमुपपादयन बुद्धिस्थस्य शब्दस्य स्वरूपं विद्योतयति विचारनाथ:--स बुद्धिस्थः, नादाभिव्यङ्गयः स्फोटाख्यशब्दः, न पूर्वो नापरश्चंतिहेतोः पूर्वापरी- भावरहितः, पौर्वापर्यव्यवहार शून्य इति यावत्। अतः-अक्रमः क्रमशून्यः । तथापि नादस्य वैखरीवाणीप्रणालिकया जन्म यस्य तत्त्वात्। क्रमरूपेणतत्तदर्थविशिष्टशब्दनिचयेन भेदवानिव जायते ॥४८॥ प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् । तत्प्रवृत्तिमिवान्वेति स धर्मः स्फोटनादयोः ॥४६॥ नादत्वाविशेषादुभयवस्फोटोपिनादः, वैखरीवागपिनादः । बुद्धिस्थः शब्दः स्फोट उच्यते। वैखरीस्वरूपं प्राप्तः स्फोटः श्रोत्र ग्राह्यो भवति । अहं गच्छामि सक्रमः स्फोटः वैखरीरूपः। संस्कार- रूपोऽक्रमः स्फोटोऽपि चेतनेच्छाऽनधीनविरही । स्फोटनादयोः सधर्मः सादृश्यं नादवर्तिनं कत्वखत्वह्रस्वत्वदीर्घत्वादिकम् , अतथा- भूतोऽप्यनुगच्छतीत्यर्थः। स्फोटावस्थायां कत्वगत्वा-दीनां भानं न भासते, उबुद्धावस्थायामेव तदाकारता । यथा सलिलस्थं निशाकर- बिम्ब जलवृद्धौ एधते, नीरहासे हसति, वारिचलने चलति वारो भेदे भिद्यते, इत्येवं धर्मानुयायि भवति नतु परमार्थतश्चन्द्रस्य तथात्वम् । एवमेकरूपमपिशब्दतत्त्वं वर्णत्वपदत्ववाक्यत्वादि धर्मान् भजत इव वैखरीरूपेण प्रतीयते नतु साक्षात् ।।४६॥ आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते । अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥५०॥ यथा ज्ञाने जाते सति ज्ञेयरूपं घटादिरूपम्। आत्मरूपं ज्ञातो घटः, घटज्ञानवानहम् । तथा शब्दपतेऽपि शब्दे श्रुते सति, अर्थरूपं ३ वाक्यपदीयब्रह्मकाण्डः वाच्यरूपम् । स्वरूपं च प्रकाशते चकारो धकारोत्तरवर्त्यकारः, अका- रोत्तरवर्ती टकारः, टकारोत्तरवर्त्यकारः । एवं रूपेण प्रकाशते। ज्ञानं ज्ञेयपरतन्त्रमिति । शब्दोऽर्थ परतन्त्रः। आश्रयतयाऽऽकाशादीना मपि बोधः। घटत्ववद्विशेष्यकघटत्वप्रकारक एवबोधः। घटत्वनिष्ठ- प्रकारतानिरूपितघटत्ववन्निष्ठा विशेष्यता । शब्दानां शन्देऽर्थे च खण्डशः शक्तिः । कचिदर्थो विशेष्यः शब्दोविशेषणम् । क्वचिच्छब्दो विशेष्योऽर्थो विशेषणम् । अतएव राज्ञो यत् , अग्नेर्डक्, ज्ञातो घटः, घटज्ञानवानहमित्यादि संगच्छते । अन्यथा गामुच्चारयस्पष्ट मेव वाधः॥५०॥ अण्डभाव-मिवापन्नो यः क्रतुः शब्दसंज्ञकः । वृत्तिस्तस्य क्रियारूपा भागशो भजते क्रमम् ॥५१॥ यः शब्दसंज्ञकः ऋतुर्ज्ञानात्मा, अण्डभावमापन्न इव भवति, प्रागवस्थाया मवयवविहीनोपि ततः पश्चाद् विपरिणमतेऽङ्गाङ्गिभावमापद्यते । एवं-ऋतुः शब्दात्मा परमेश्वरः कण्ठताल्वादियोगेन वैखरीरूपतां भजते । तस्य क्रियारूपा, आविर्भाव- तिरोभावरूपा । वृत्तिापारः, भागशः, भागेषु अवयवेषु क्रम भजते । एवं शब्दोपि निरवयवोऽपि श्रोतृश्रोत्रग्राह्यो भवति ॥५१।। यथैकबुद्धिविषया मूर्तिराक्रियते पटे। मूर्त्यन्तरस्य-त्रितयमेवं शब्देऽपि दृश्यते ॥५२॥ यथा मूर्त्यन्तरस्य पुरुषान्तरस्य, मूर्तिः, प्राकृतिः । पटे वाससि । यद्वा भित्तिकादिषु । एकबुद्धिविषया एकबोधावधेया। आक्रियते-- आकारं गम्यते मूर्तिः । पुरुषः पटः, आकृतिः, पार्थक्येन गृहीतमपि, त्रितयं चित्रत्वेन एककालावच्छेदेनैकमेव परिगृह्यते । एवं शब्देऽपि परापश्यन्ती वैखरीरूपेण यद्वा पश्यन्ती मध्यमावैखरीरूपेण-त्रितयं यथाऽण्डजानामण्ड: m गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम् दृश्यते । यद्वा एको बुद्विग्रहः शब्दः, द्वितीयो वैखरीरूपः शब्दः, तृतीयो वर्णक्रम:--अ-ट-अ-इत्यात्मको दृश्यते ॥५२।। यथा प्रयोक्तुः प्राग्बुद्धिः शब्देष्वेव प्रवर्तते । व्यवसायोग्रहीतृणामेवं तेष्वेव जायते ॥५३॥ यथा प्रयोक्तुरुच्चारयितुः पुसः प्राक् पूर्वं शव्देष्वेव बुद्धिः प्रवर्तते, प्रवृत्ता भवति । एवं ग्रहीतृणां श्रोतृणां व्यवसायः, बुद्धि; तेष्वेव शब्देप्वेव जायते। यात्रोतार्थविजिना चिया शब्दविशेषविषयक-प्रयत्न विदधानः शब्दान स्पृशन्निव मनः प्रणिधानमुपैति । तथा श्रोतापि अर्थबुभुत्सया शब्दान आकर्णयितुं यतमानो भवति ।।५।। अर्थोपसर्जनीभूता नभिधेयेषु केषु चित् । चरितार्थान् परार्थत्वान्न लोकः प्रतिपद्यते ॥५४॥ "गामानय” इत्यादौ यथाभिधेयस्य क्रियान्वय स्तथा शब्दस्यापि स्तादत-आह-परार्थत्वात अभिवषमल्पित्यर्थत्वान । केषुचित् , अभिधेयेषु वाच्येषु चरितार्थान , शब्दान् अर्थं प्रतिपाद्य कृतकृत्यान अर्थोपसर्जनीभूतान अर्थ विशेषणीभूतान , लोकः क्रियाङ्गत्वेन न प्रतिपद्यते तान्–शब्दान् , एकत्र विशेषणतयान्वितस्य पस्त्र- विशेषणतयान्वयायोगः । यथा शुक्लवाससंभोजयइत्यादौ भुजि- क्रियायाम्-अर्थस्यैवान्वयः । अर्थाद् यः शुक्लवासाः पुमान् स एव भोजनमुद्दिश्योपतिष्ठेत, इतरथाऽक्षराणामपि भोजना- पत्तिः प्रवतेत, शब्दानां क्रियान्वयोनास्ति, मुच्चारयेत्यादौ तु भवत्येव । शब्दप्रकरणे विशेपणीभूतः शब्दः । अर्थ प्रकरणे विशेषणीभूतोऽर्थ इति भावः। यद्वाऽनेकार्थहरिशब्दः सूर्यार्थे चरितार्थो गुणभावं भजन् हयार्थे प्रकरणवशाल्लोकोऽन्यार्थं न जानाति यत्र ३ । वाक्यपदीयब्रह्मकाण्डः सा-एवतस्य परार्थता, इतरार्थे-उपसर्जनीभूतो गौणीभूतः । केषु चिदनेकार्थेषु ।।५४॥ ग्राह्यत्वं ग्राहकत्वं च, द्वे शक्ती तेजसो यथा। तथैव सर्वशब्दाना मेते पृथगिवस्थिते ॥५॥ यथा तेजसः प्रदीपादेः, ग्राह्यत्वं ज्ञानविषयत्वम् । स्वात्मदर्शनमिति यावत् । ग्राहकत्वं घटादिविषयकज्ञानोत्पादकत्वम् । इत्थं भगवान् भास्करोऽपि स्वं विम्बं प्रदर्शयन् यावद्विश्वम्भरानिष्टचराचरवस्तुमात्रं प्रदर्शयति । द्वे शक्ती विद्यते । तथैव सर्वसन पृथगिवस्थिते ग्राहकत्वरूपे द्वे शक्ती त्रासाते। शब्दो वर्णस्वरूपं स्वं स्पं प्रदर्शयन् वाच्यार्थमपिदर्शयति । यद्यपि-घटे ग्राह्यत्व मेव न ग्राहकत्वम् । इन्द्रियादौ ग्राहकत्वमेव न ग्राह्यत्वम् । तथापि प्रदीपादौ समावेशस्यापि दर्शनात् । नतु वस्तुतो हिरुग्भूतेस्तः ।।५।। विषयत्वमनापन्नः शब्दैर्नार्थः प्रकाश्यते । न सत्तयैवतेऽर्थाना मगृहीताः प्रकाशकाः ॥५६॥ सत्ता मात्रेण शब्दा अर्थानामुपस्थापका न भवन्ति । प्रत्युत श्रोत्र विषयतामापन्नै रेव शब्दैरर्थः प्रकाश्यते । इति सरला सरणिः ।।५।। शक्तवाक्यपदीयस्य ब्रह्मकाण्डे ममाधुना । व्याख्या पूर्तिमगादेषा शङ्करस्य फलेग्रहः ॥१॥ अतोऽनितिरूपत्वात्किमाहेतिप्रयुज्यते नेन्द्रियाणां प्रकाश्येऽर्थेस्वरूपं गृह्यते तथा ॥५७।। शब्दो यथा बोधविषयतां समेति, तथेन्द्रियाणि कुतो न, इत्यत्र स्वभाव एव बीजमित्याकांक्षायामाह राजर्षिः श्रीहरिविक्रमार्कस्य गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम् ३७ ज्यायान् बन्धुः-अतः श्रोत्रगृहीतस्यैव शब्दस्य बोधविषयात् , तद- भावेऽनिर्जातरूपत्वात् , भवान किमाहेत्यन्येन प्रयुज्यते प्रयोगः क्रियते। इन्द्रियाणां स्वरूपं केनापि न गृह्यते, स्व सत्तयैवतानि-अर्थबोध बीजानि भवन्ति । प्रकाश्येऽर्थे वोध्यविषये ॥५७|| भेदेनावगृहीतौ द्वौ शब्दधर्मावपोद्धृतौ । भेदकार्येषु हेतुत्वमविरोधेन गच्छतः॥५८॥ द्वौ शब्दधौं ग्राह्यग्राहकत्वशक्ती । एकस्यैवाग्न्यादेः। इतरेषां प्रकाशकत्वेनग्राहकत्वम् । स्वात्मप्रकाशनेन ग्राह्यत्वमपि। अपोद्धृतौ पृथग् भावेनोद्धारीकृतौ । अभेदेऽपिभेदारोपादितिभावः । ग्राह्यत्व- रूपेण वह्नौ संज्ञित्वम । ग्राहकत्वरूपेण वह्नौ संज्ञात्वम्।अतएव-अग्ने ढक्, इत्यत्रोभौ संगच्छेते । भेदाकार्येषुसंज्ञासंज्ञिप्रयुक्तऋतिषु । राहोः शिरः-शीलनाथस्य एक एव शिष्य स एव-ज्येष्ठः सएव कनिष्ठः इत्यादिषु-अविरोधेन हेतुत्वं कारणत्वम् ।।८।। वृद्धयादयो यथा शब्दाः स्वरूपोपनिबन्धनाः । आदेच्प्रत्यायितैःशब्दासम्बन्धयान्तिसंशिभिः ॥१९॥ यथा वृद्धयादयः शब्दाः स्वरूपोपनिबन्धनाः स्वस्वरूपबोधकाः सन्तः, तथाश्रयतादि सम्बन्धेनान्यार्थप्रतिपादकत्वेन वा, आदेच् प्रत्या- यितैः, बोध्यैः शब्दैः संज्ञिभिः संज्ञाज्ञाप्यैः सम्बन्धं तादात्म्यं यान्ति । वृद्धिपदाभिन्ना आदेचः । वृद्धिरादैच इत्यत्र श्रादैचां वृद्धिः संज्ञा । श्रा-ऐ--ौ-संज्ञिनः, व्याकरणे संज्ञिनो ग्रहणं न संज्ञायाः, लोके या संज्ञा तां विना, राजपिण्डाद्यत्प्रत्ययो न भवति । संज्ञात एव यतः संभवः । एव मग्नेर्डक् , इत्यत्रापि । अभेदेऽपि भेदशक्ति प्रत्यय इति ॥५६॥ , ३८ वाक्यपदीयब्रह्मकाण्डः अग्निशब्दस्तथैवाय-मग्निशब्दनिबन्धनः अग्निश्रुत्यैति सम्बन्धमग्निशब्दाभिधेयया ॥६॥ सूत्रघटकोग्निशब्दः, लक्ष्येणघट्यमानेन सहाऽविरोध इति भावः। अग्निज्ञारजाप्यया बोध्यशक्त्या सह तादाम्यं संगच्छति। लक्ष्यस्थेन सह सम्बन्धम् ॥६०॥ यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् । अन्यप्रत्यायने शक्ति न तस्य प्रतिबध्यते ॥६॥ यो यो गामुच्चारयेतिशब्द उच्चार्यते निश्चितं यथा स्यात्तथा स शब्दःकार्य भाग, न भवति, कार्यान्वयी न भवति, संज्ञा हि संज्ञिनं प्रत्याय्य स्वयं निवर्तत इति न्यायात् । वाच्येन सह वाचकस्य सम्बन्धः सर्वदा न तिष्ठति। अर्थ प्रत्यायनकाल एव तदावश्यकत्वात् । तस्य शब्दस्यान्यप्रत्यायनै शक्ति ने प्रतिबध्यते हरिणामृज्यते जगत्" इत्यत्र लोकनाथ परकत्वेऽपि कण्ठीरवादीनामवाध एव ।।६।। उच्चरन् परतन्त्रत्वाद्गुणः कार्यनयुज्यते । तस्मात्तदथैः कार्याणां सम्बन्धः परिकल्प्यते ॥६२॥ गामुञ्चारय-इत्यत्र विशेषणीभूतः शब्दः । गामानयेत्यत्र न युज्यते, एकत्रविशेषणतयान्वितस्यापरत्रविशेषणतयाऽन्वयायोग इति न्यायात् । तथाग्नेगित्यत्र बोध्यम् तदर्थे रग्न्यादिशब्दाथैः । आनयन- ढगादिकार्याणाम् ॥६२॥ सामान्यमाश्रितं यद्यदुपमानोपमेययोः। तस्य तस्योपमानेषु धर्मोऽन्यो व्यतिरिच्यते ॥६३॥ भर्तृहरिवद् विद्वान् विक्रमादित्यः । इत्यत्रोपमानोपमेययोः ।
३ गोरक्षग्रन्थमालायाअष्टविंश पुष्पम् ३६ सामान्यमाश्रितं वैदुष्यं तद्गतसौष्ठवं च तस्य तस्योपमेयगत वैदुष्या दुपमेयगत वैदुष्य सौष्ठा का माहौद्वय मधिकं भवति ॥६३।। गुणः प्रकर्षहेतुर्यः स्वातन्त्र्येणोपदिश्यते । तस्याश्रिताद्गुणादेव प्रकृष्टत्वं प्रतीयते ॥६४॥ यः प्रकर्षहेतुः स गुण एव । शुक्लतरः पट:-इत्यत्रपटरूपस्य द्रव्यस्य न प्राधान्यम् । अस्यशुक्लतरं रूपमित्यत्र स्वातन्त्र्येणरूपमा- दिश्यते । तस्य द्रव्यस्य प्रकृष्टत्वमाश्रिताद्गुणादेव लोकपते--विद्या- शीलशौर्यौदार्यादिगुणएवप्रकर्षहेतुः । निर्गुणः किं करिष्यतीतिन्या- यात् । गुणादेवशरीरादेः प्रकर्षः। व्याकरणपने--उपोदकम् । गङ्गो- दकम् । इत्यादिषु प्रयोगेषु प्रकर्षहेतुर्गुण एव । गुणं विना प्रयोगा सिद्धिः-स्यात् । न्यायेचतुर्विशंतिगुणाः। कचिन्त्रयो गुणाः। यद्वा- गुणो रज्जुः-अश्यादीनां वन्धने तस्या एव प्रकर्षः। योगशास्त्रे- गुणपदेन-नेतिधौति प्रभृतयः क्रियाग्रामाः ॥६४|| तस्याभिधेयभावेन यः शब्दः समवस्थितः । तस्याप्युच्चारणे रूप मन्यत्तस्माद् विविच्यते ॥६॥ तस्य-अग्निशब्दस्प वाच्यरूपेण लक्ष्यरूपेण वा लक्ष्यरूपो ऽर्थः समवस्थितः, उपस्थितो जातः। तस्यापि-वाचकवाच्यस्यापि- उच्चारणे तस्मात्पूर्वस्माद् वाच्याद्--अन्यद् द्वितीयं रूपं विविच्यते विविक्तं भवति । क्वचित्स्वरूपमात्र सम्बन्धी, कचिद्व्यक्त्यर्थमात्र सम्बन्धीशब्दः ।गामानयगामुच्चारयेत्यादिवत् ॥६५॥ प्राक् संज्ञिनाभिसम्बन्धात्संज्ञारूपपदाथिका । षष्ट्याश्चप्रथमायाश्च निमित्तत्वाय कल्पते ॥६६॥ । - वाक्यपदीयब्रह्मकाण्डः प्राक् पूर्व संज्ञिना--आ-ऐ--औ-इत्यादिनाऽभिसम्बन्धा. संज्ञा वृद्धिः, विभक्तिं विनव प्रयोगमात्रेण गतार्थास्यादिति । तथापि षष्ठी प्रयोगः प्रथमा-प्रयोग:-"अपदं न प्रयुञ्जीत” इतिसाधनाय, अन्यथाऽर्थवत्त्वाभावात्प्रातिपदिक संज्ञानस्यात् । प्रकृतेसङ्केतग्रहा- भावेन शक्तिज्ञानाभाव इतिभावः॥६६॥ तत्रार्थवचात्प्रथमा संज्ञाशब्दाद् विधीयते । अस्येति व्यक्तिरेकश्च तदर्थादेव जायते ॥६॥ वृद्धिरादैच्-इत्यत्र-अर्थवत्वात्प्रथमा निर्दिष्टाऽस्ति । आदेचः संज्ञिनोवृद्धिःसंज्ञा। कस्यवृद्धि संज्ञा तदर्थादेव जायते विशेष्यविशे- पणभावे व्यक्तिरेकैव। यथा मृतो देवदत्तः, मरणंकस्यदेव- दत्तस्यैव ॥६॥ स्वरूपमितिकैश्चित्तु व्यक्तिःसंज्ञोपदिश्यते । व्यक्तौ कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते ॥६॥ "स्वरूपंशब्दस्याऽशब्दसंज्ञा" इति सूत्रे-या व्यक्तिः सासंज्ञे- त्युच्यते । संज्ञाशब्दरूपात्र । संज्ञिनि जातिस्तिष्ठति । व्यक्ति विनाजातेर भावात् । कार्यकारिताव्यक्ता वेव । अतोव्यक्तौसंसृष्टाजातिः॥६॥ संज्ञिनी व्यक्तिमिच्छन्ति सूत्रग्राह्या मथा परे। जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥६९॥ अथ-अपरे सूत्रबोध्या व्यक्तिं संज्ञिनी काङ क्षन्ति । वाच्य- रूपाम् । के चन जातिं कामयन्ते । जातिः खलु-अनेकेषुस्थिता सतीव्यक्तिंगमयति । अतः-जाति प्रत्यायिता बोधिता व्यक्ति प्रदेशेषु- गोरक्षग्रन्थमालायाअष्टाविंशं पुष्पम् ४१ प्रयोगेषु घटादिषु-उपतिष्ठते व्यक्तिनाशेऽपि न जातिय॑भिचरतीति- भावः । व्यक्तरानन्त्याजातादेवशक्तिः । अतो व्यक्तिं संज्ञिनी- मिच्छन्ति ॥६६॥ कार्यत्वे नित्यतायां वा केचिदेकत्ववादिनः । कार्यत्वेऽनित्यतायां वा केचिन्नानात्ववादिनः ॥७॥ स एवायं गकार इति प्रत्यभिज्ञा नित्यपक्षे। तदेवौषधमित्यादौ सजातीयेऽपिदर्शनात् इत्याद्यनित्यपक्षेऽनुसन्धातव्यम् ॥७०॥ पदभेदेपि वर्णाना मेकत्वं न निवर्तते । वाक्येषुपदमेकञ्च भिन्नेष्व प्युपलभ्यते ॥७१॥ वर्णानां पदभेदेऽपि नानात्वेऽपि, एकत्वं न निवर्तते । समुदाय गत्यातिष्ठति । वाक्येष भिन्नेषु-अपि-एक-पदमुपलभ्यते-च घटोऽस्तीति गोरक्षारक्षकः वनं सेना-परमलोकनाथ इत्यादीन्युदा- हर्त्तव्यानि ॥७॥ तवर्णव्यतिरेकेण पदमन्यन्न विद्यते । वाक्यंवर्णपदाभ्यां च व्यतिरिक्तंन किंचन ॥७२॥ तस्माद् वर्णव्यतिरेकेण वर्णान विहाय । अन्यत्पदनविद्यतेनास्ति । वर्णै रेव पदं जायते । एष राजर्षिर्भत हरिवाय॑पदीयं व्याकरोति "इदं वाक्यं वर्णपदाभ्यांभिन्नं नास्ति वर्णपपदै रेव वाक्यं बोभाति वाक्यंचएकतिङ उन्तार्थ निष्टमुख्यविशेष्यताकबोधजनकमिति ॥७२॥ पदे न वर्णा विद्यन्ते वर्णेष्व वयवा नच । वाक्यात्पदाना मत्यन्तंप्रविवेको न कश्चन ॥७३॥ पदे प्रतीयमाना अपि वर्णा न सन्ति । वर्णेषु-ऋकारौकारादिषु प्रतीयमाना अपि-अवयवा अवयव तुल्या रेफादयो न विद्यन्ते ।
वाक्यपदीयब्रह्मकाण्डः
एतेन-स्वाश्रयत्वेनाभिमतयावन्निष्ठात्यन्ताभावप्रतियोगित्वरूपं मिथ्या-
त्वमपिसूचितंभवति । तथा वाक्यात्पदाना मपि प्रविवेकःपृथग भावः
कश्चन नास्ति । अर्थावलम्विन्यां बुद्धावभेदान । छन्द-पदे
उत्तमराजकीयपदे वर्णा बाहलाइयन सन्तितन्त्र योग्यतैव प्रशस्यते ।
चतुरोविहाय वर्णान्तरं नास्ति ॥७३॥
मिन्नं दर्शनमाश्रित्य व्यवहारोऽनुगम्यते ।
तत्र यन्मुख्य मेकेषां तवान्येषां विपर्ययः ॥७४॥
वर्णाः सत्याः पदानि वाक्यानि चा सत्यानि पक्षएकः। गौरि-
त्यत्र "गकारौकार विसर्जनीयाः” इतिव्यवहारः । वाक्यानि सत्यानि
वर्णाः पदानिचासत्यानि-इत्यपरं दर्शनमाश्रित्य यस्य यन्मुख्य-
मस्तितत्र मुख्येऽन्येषांविपर्ययः व्यत्यासः । यद्वा दर्शनं ज्ञानं भिन्न-
माश्रित्य व्यवहारोऽनुगम्पते भाष्यादी हलोऽनन्तराः संयोगः” इति
सूत्रे स्पष्टम् । यद्वा दर्शनं दर्शनशास्त्रमतं भिन्नमाश्रित्यानु-सन्धे-
यम् ॥७४॥
स्फोटस्या भिन्नकालस्य ध्वनिकालानुपातिनः ।
ग्रहणोपाधिभेदेन वृत्तिमेदंप्रचक्षते ॥७॥
उपाधिना एव स्फोटात्मा भिद्यते नतु वास्तविको भेदः । अय-
मेव विचारनाथस्याभिप्रायः। अतएव-अभिन्नकालस्य नित्यस्य
कालकृतपरिच्छेदशून्यस्य नित्योहिपदार्थः न कालेन परिच्छिद्यते ।
ध्वनिकालमनुप ततीतिध्वनिकालानुपाती तस्यध्वनिकालानुपातिनः ।
स्फोटस्य ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते वैयाकरणाः । द्रुता-
मध्यमा विलम्बिता वृत्तयः। तदुक्तंत-परस्तत्कालस्य "सूत्र भाष्ये
अचलनाथेन महर्षिपतञ्जलिना-यथा भेर्या हन्ताभेरीमाहत्य कश्चिद्-
विशतिपदानिगच्छति । कश्चित् त्रिंशत् कश्चिञ्चत्वारिंशत्स्फोटस्तावा
नेवध्वनिकृता वृद्धिः” इति । ध्वनियंजककालः ॥७॥
गोरक्षग्रन्थमालाया अष्टविंशं पुष्पम् ४३
स्वभावभेदान्नित्यत्वे हस्वदीर्घप्लुतादिषु।
प्राकृतस्यध्वनःकालः शब्दस्येत्युपचर्यते ॥७६॥
ध्वनः स्वभावभेदात-अल्पमध्योचैरुचारणरूपात् । ह्रस्वदीर्व-
प्लुतादिप विद्यमानेषु सत्स्वपि शब्दस्य कालः यद्वर्णोच्चारणपरि-
माणपरिमितः। नित्यत्वे सत्यपि घटी पलघण्टादिरूपेण यद्वा-एक
मात्रिक द्विमात्रिकादिरूपेण उपचर्यते-आरोप्यते, वस्तुतोनिरवयः
कालः॥७६॥
वर्णस्यग्रहणे हेतुः प्राकृतोध्वनिरिष्यते ।
वृत्तिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते ॥७७॥
यथा गत्या वर्णज्ञानं सध्वनिः । प्राकृतो नाम । पश्चाद् येन-
ध्वनिनाद्र ता मध्यमा विलम्बितेतिध्वनित्रयंवृत्तित्रयं भवति स ध्वनि-
वैकृतनामकः । सर्वासुवृत्तिषु वर्णाना मुपचयापचयौ चकास्तः । यथा
गन्तॄणांगतिभेदेऽपि न मार्गभेदः ॥७॥
शब्दस्योर्ध्वमभिव्यक्ते वृत्तिमेदेतु वैकृताः ।
ध्वनयः समुपोहन्ते, स्फोटात्मातैर्न भिद्यते ॥७॥
अभिव्यक्त रूल शब्दस्य स्फोटस्य जायमाना वैकृताध्वनयः
वृत्तिभेदे द्रुतादिवृत्तिभिदायाम् । समुपोहन्ते। संघाताः संहताः संमि-
लिता भवन्ति । यद्वा मध्यमादीनांकारणानि भवन्ति । परन्तु स्फो-
टात्मा वृत्ति प्रतिबिम्बित वस्तु, तैव॑कृतैर्ध्वनिभिर्न में प्राप्नोति तस्य
नित्यत्वायात् ॥७॥
इन्द्रियस्यैव संस्कारः शब्दस्यैवोभयस्य वा।
क्रियतेध्वनिभिर्वादास्त्रयोभिव्यक्तिवादिनाम् ॥७९॥
- वाक्यपदीयब्रह्मकाण्ड १ ७ शब्दाभिव्यक्तिवादिनाम , त्रयोवादाःसन्ति तानुत्थापगति श्रीहरिः- तत्रध्वनिभिः श्रोत्रस्यैवसंस्कारः, क्रियते संस्कृतेन शब्दो गृही-तो भवति । संस्कृतं श्रोत्रंशब्दोपलाभे द्वारता मासादयति । चर्पोऽनुग्रह- कुर्वदुपनेत्रं चाक्षुषस्य वर्णमालाविषयस्याभिव्यञ्जकं तथा ध्वनिपक्षे योज्यम् । शब्दस्यैवसंस्कारः। उभयस्य शब्दस्य श्रोत्रस्य त्रयो वादा भवन्ति ॥७६|| इन्द्रियस्यैवसंस्कारः समाधानाञ्जनादिभिः । विषयस्यतु संस्कारस्तद्गन्धप्रतिपत्तये ॥८० इन्द्रियस्यैव नेत्रस्यैव संस्कारः समाधानं चित्तैकास्थ तेन बञ्ज- नादिभिः । आदिशब्देन पुनर्नवादिविधि ग्राह्यः। अतएव चक्षुषैव घटोदृश्यते नश्रुत्या । तद् गन्धप्रतिपत्तये पृथ्वीनिष्टगन्धप्राप्तये विष- यस्य संस्कारः। भगवत्सूर्यसंतप्तभूमौतात् कालिकवर्षाभिः ॥८॥ चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोरपि । विषयेन्द्रिययो रिष्टः संस्कारः सक्रमोध्वनेः ॥८॥ चाक्षुषाध्यक्षे-आलोकेन विषयेन्द्रिययोद्वयोरपि संस्कारइष्टः । तेजसा घटोऽपिप्रकाश्यतेचक्षुरपि । घटस्यासंस्कारेऽन्धकारेऽपि घटो दरीहश्यते। ध्वनिना शब्दोऽपि श्रोत्रमपि प्रकाश्येते, एतद्देशावच्छे- देनोच्चारितः शब्दः परत्र न श्रूयते। अन्यथा शोश्रूयेत, बदध्वनिः पटगमको न ||८१॥ स्फोटरूपाविभागेनध्वनेग्रहणमिष्यते कैश्चिद्ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यप्रकाशकः ॥८२॥ स्फोटेनसहाभेदान्वयेनध्वनेर्ग्रहण क्रियते। कैश्चिदुच्यतेध्वनि- रसंवेद्योऽप्रत्यक्षः स्वेनग्रहीतुन शक्यते। यद्वा ध्वनिः शब्दः श्रोत्रेण- गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम् ४५ ग्रहीतुंशक्यते । सूक्ष्मोध्वनिः योगजधर्मेण । तादृशयन्त्रेणापि । यद्वा- ध्वनिः परमाणुनिमितो गोलाकारः पिण्डः । तस्यग्रहणं स्फोटात्पूर्व- मेव तथासति हन्यादेव । तादृशःपरमाणु गोलकः, असंवेद्यो वैज्ञा- निकै रेव ज्ञातुं शक्यते, विरुद्धानां परमाणूनां पार्थिवतैजसानां वैद्युता- दीनां रविकिरणैः सहसंश्लेषः । यथानुवाकःश्लोको वा सोढत्वमुपगच्छति । आवृत्त्या नतु स ग्रन्थः प्रत्यावृत्त्या निरुप्यते ॥८३॥ यथा--अनुवाको मन्त्र-समुदायः श्लोको वाऽनेक-वाक्यय-समु. दायः यद्वाऽनेकपदसमुदायः सोढत्वम् -एक-ज्ञान-विपयत्व-मुपग- च्छति प्राप्नोति संस्काररूपेणौकाकारतां प्रयाति । अस्यश्लोकस्याय भावः समयाज्ञात इति । पक्षान्तरे तु किन्तु सग्रन्थ आवृत्त्या सोढत्वं न प्रयाति । यतोहि स प्रत्या-वृत्त्या-बारंवारमावृत्या ग्रन्थो निरुप्यते ॥८३।। प्रत्यय रनुपाख्येय ग्रहणानुगुणैस्तथा। ध्वनिप्रकाशिते शब्दे स्वरूपमवधायते ॥४॥ अनुपाख्येयैः, अकथितैः प्रत्ययैः सूत्रानुक्तै रुणादिगणनिष्ठै ग्रहणानुगुणैः शब्दसिध्द्युपकारकैः, ध्वनिः प्रसिद्धिस्तेनध्वनिना प्रका- शिते शब्दे स्वरूप मर्थः अवधार्यते निश्चीयते। लौकिक वैदिक प्रयुक्तप्रयोगगत्या प्रत्ययानुमानम् । शब्दानामानन्त्यात्सर्वे शब्दाः- सप्रत्ययाः सूत्रनिर्देष्टुं न शक्यन्तेः । प्रयुक्तशब्दैरेव-प्रत्ययानुमानमि- तिभावः ॥ अथ द्वितीयोऽर्थः-प्रत्ययान रनुपाख्येयै रज्ञातैर्ग्रहणानु- गुणैः सर्वोप कारकैः, ध्वनिप्रकाशिते ध्वनियन्त्रप्रकाशिते शब्दे स्व- रूपं निश्चीयते तादृशयन्त्रं विना शब्दाग्रहणात् ।। तृतीयार्थे-ध्वनि- ना व्यक्ते स्फुटे शब्दे स्वरूपं स्फोटरूपं निश्चीयते । आवान्तरज्ञानैः, वाक्यपदीयब्रह्मकाण्डः सकृज ज्ञानेन द्विर्ज्ञानेन वा स्फोटात्मा न प्रकाशते किन्तु सकल- ध्वनिभिः ॥८४॥ नादैराहितबीजाया मन्त्येन ध्वनिना सह । आवृत्तपरिपाकायां बुद्धौ शब्दः प्रकाशते ॥८॥ नादैः पूर्वपूर्वध्वनिभिः । आहितबीजायाम्-स्थापितबीजा- याम् । बीजं सम्यक् प्रकाशानुगुणसामथ्र्यम् । आवृत्तपरिपाकायां वुद्धौ, आवृत्तोऽभ्यस्तः परिपाकोऽपचेलिमावस्थाऽभावः। यस्याः सा तस्याम् । बुद्धावन्तः करणे जीवात्मनि बुद्धिरूपेण जीवः स्वयं परिण- मते । नतु बुद्धिर्जीवात्पृथक्तत्वम् । अन्त्येन ध्वनिना वर्णन लह शब्दः स्फोटोऽवधार्यते प्रकाशते । यद्वानादो नाम वर्णातिरिक्तो वर्णव्यञ्जको वायुः । यद्वा वायु गुणः। नादो वर्णोऽपि । शब्दश्च वायु गुणो नाकाश गुणः । अतएव महाभाष्ये-आकाश देशः शब्द इत्यवोचि महर्षिणा ॥८५॥ असतश्चान्तराले याज , छब्दानस्तीतिमन्यते । प्रतिपत्तुरशक्तिः सा, ग्रहणोपाय एव सः॥८६॥ अन्तराले ध्वनिप्रकटकालस्पष्टशब्दग्रहणयो मध्ये असतोऽ सत्यान् यान् शब्दान् वर्णरूपान् वर्णायवक पदरूपान् । पदावयवक वाक्यरूपान्, अस्तीति मन्यतु, ग्राण्डकोट स्वीकरोति। सा प्रतिपत्तुर्बोधुरशक्ति रसामर्थ्यम् । स्फोटस्तु निरवयवोऽखण्डः। किन्तु सः अन्तराले मध्ये स्फोटत्वेन शब्द ग्रहण रूपांभ्रमः,अक्रमस्य सत्यस्य स्फोटस्य ग्रहणोपाय एव न साक्षात् स्फोटः॥ पक्षान्तरे- अन्तराले मध्यकालिकयुगे यानसतोऽसत्यान् साइकलमोटररेल रेडियो प्रभृतीन, शब्दान् अस्तीतिशुद्ध संस्कृतभावेन वैदिकत्वेन वा मन्यते स्वीकरोति, सा प्रतिपत्तः, असंस्कृतशब्दान् संस्कृतेनेतुम गोरक्षग्रन्थमालाया अष्टविंशं पुष्पम् शक्तिः। स एष प्रहांपाय एव । असत्यान् शब्दान् सत्ये पथि नेतुं प्रकार एव सत्यविज्ञानस्यैष आभासः तस्मादेतेभ्योऽसंस्कृत शब्द- भ्योविभक्तिप्रकारो नो पादशि प्रेक्षावद्भिर्भाष्येतु-अपदं न प्रयुञ्जी- तेत्येवम् ॥८६॥ भेदानुकारो ज्ञानस्य वाचश्चोपप्लवोधुवः । क्रमोपसृष्टरूपाया ज्ञानं ज्ञेयव्यपाश्रयात् ॥८७॥ अभिज्ञानस्य ज्ञेयव्यपाश्रयाद् भेदानुकार:-यथा घट- ज्ञान पटकाटिल विज्ञानत्वाविशेषेऽपि तयोभिदा। तथैव क्रमोप- सृष्टरूपायाः स्फोटवाचोऽपि-उपप्लवो ध्रुवउपप्लव उपसर्ग:-कल्प- नेति, ज्ञानेविषयावभासस्यभेदः । स्फोटेवर्णपदावभासरूपोभेदः । स्फोटरूपा वाग-अक्रमापि क्रमेण घटः पट:-इत्यादिध्वनिगत- क्रमरूपा । एकः स्फोटः पदानां वाक्यानां भेदश्च साधुरेव ।।८७।। यथाद्यसंख्याग्रहणमुपायः प्रतिपत्तये । संख्यान्तराणां भेदेऽपि तथा शब्दान्तरश्रुतिः ॥८॥ वाक्यस्फोटप्रतिपत्तये--अवान्तरपदश्रवणमिति भावः। सख्या- न्तराणां प्रतिपत्तये-आधसंख्याग्रहणमुपायः। एकत्वादितः शतत्वा- दीनां भेदास्फुट एव । एकत्वादिग्रहणं शतत्वादिज्ञानाय, तथा प्रकृ- तेऽपि ॥८८॥ प्रत्येकं व्यंजकाभिन्ना वर्णा वाक्यपदेषुये। तेषामत्यन्तभेदेऽपि सङ्कीर्णाइव शक्तयः॥८॥ वाक्येपु' पदेषु च वर्णाव्यंजका अभिव्यंजकाज्ञापका भिन्ना विभिन्ना नानेत्यर्थः । वर्णरूपाध्वनय इत्यर्थः । स्थानभेदाद्ध्वनिभेदः । किन्तु-भेदेऽपि-अत्वगोत्वादिरूपेण सर्वत्र साम्यम् । न व्यक्ति- भेदे जातिभेदः । सङ्कीर्णा इव न सङ्कीर्णाः ।।८।।
वाक्यपदीयब्रह्मकाण्डः यथैव दर्शनैः पूर्वैरासतमसेऽपि वा। अन्यथाकृत्य विषयमन्यथै-वाध्यवस्यति ॥१०॥ दूरदोषाद्वा मन्दनरालोके यथापूर्वदर्शनैः प्राथमिकलोकनैः स्थाणु- त्वाभावप्रकारको बोधोजायते। पश्चात्स्पस्टे सति स एव बोधः स्था- णुत्वप्रकारको जायते न पुरुषत्वप्रकारकः । एवं प्रकृते वर्णपदाकारेण भासमानोऽपि वाक्यस्फोटः-अन्तिमध्वनिप्रकाशनेवलायां स्वस्व- रूपेण प्रकाशितो भवति । अध्यवस्य निश्चिनोति स न भ्रमः ।।६।। व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः । भावावग्रहरूपेण पूर्व बुद्धिः प्रवर्तते ॥११॥ वाक्याभिव्यक्तिहेतुभिध्वनिभिर्व्यज्यमानेप्रकाश्यमाने वाक्ये वाक्यस्फोटे भागावग्रहरूपेण वर्णपदाद्यात्मकावयवस्वरूपेण पूर्व ज्ञानं प्रवर्तते, यश्चादखण्डाकारता माधत्त इत्यर्ध ॥६२।। यथानुपूर्वी नियमो विकारे क्षीरवीजयोः । तथैव प्रतिपतॄणां नियतो बुद्धिपुक्रमः ॥१२॥ आभासानन्तरं निश्चयरूपा बुद्धिर्जायते-इत्यत्र आह-पूर्व वर्णावग्रहा बुद्धिस्ततः पदावग्रहा बुद्धिः, ततो वाक्यावग्रहाबुद्धिः, इत्थं स्फोटक्रमः। दृष्टान्ते---क्षीरवीजयो विकारे-आनुपूर्वीनियमः- प्रथमं पयः किंचित्कठिनंततोऽधिकंकठिनं ततो दधि । बीजेपूर्वं बीजं द्वैधी भवति, ततोऽकुरो विलसति, द्विपत्रितः, ततः पल्लवित स्तरुर्भ- वति । प्रथमावस्थाद्वितीया, द्वितीया च प्रथमा केनापि कत्तुं न शक्या शकला ॥२॥ भागवत्स्वपितेष्वेव रूपभेदो धनेः क्रमात् । निर्भागेष्वप्युपायो वा भागभेदप्रकल्पनम् ॥१३॥ . । - - गोरक्षग्रन्थमालायाअष्टाविंशं पुष्पम् ४६ नदी दीनयो रविशेषो माभूदित्याह राजर्षिः-भागाः खण्डाः सन्ति येषु तेषु भागवत्सु, सखण्डेषु । मीमांसकमते वर्णातिरिक्तं पदं वाक्यं वा नास्ति । मिलितवर्णानामेव पदत्वं वाक्यत्वं ते संगिरमाणाः सन्ति। तेषु ध्वनेः क्रमापभेदः। निर्भागेषु-भागान्निष्क्रान्ता येषु तेषु- अखण्डपदादि स्फोटेषु रूपभेदः प्रकल्पनमुपायः। मीमांसकमतेऽ- नन्तानन्तपदानां वाचकत्वमनन्तानन्तध्वनीनां व्यञ्जकत्वम् । अखंड स्फोटो वाचको वैयाकरणाध्वनीनामध्वनि, अद्धा ॥३॥ अनेकव्याभव्यङ्ग्या जातिः स्फोट इति स्मृता । कैश्चिद् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ॥९४॥ जातिस्फोटवादिनां मतमाह--श्रीहरिः-आकृतिनित्यत्वा च्छब्दनित्यत्वम् । अनेकाभिर्वर्ण व्यक्तिभिर्जाप्या, अनुगत प्रतीत्या पटोपस्थितिं प्रति पटपदज्ञानत्वेनहेतुत्वेन तदवछेदकतया पट- त्वस्य । सिद्धापटपदत्वादिरूपा। अर्थगतजातेः शक्यत्वम् । शब्द गतजातः शक्तत्वम् । अस्या जाते व्यंञ्जकत्वेन ज्ञापकत्वेन शब्दो व्य- क्तय एव स्वीकृताः । ध्वनिः शब्दः । अन्त्यवर्णप्रत्यक्षकाले पूर्व पूर्व वर्णानुभवोत्पन्नसंस्कारसध्रीचीनतयाऽभिव्यक्ता भवति । स्फोटेन शब्दत्वजातिः स्फुटत्यर्थोस्मादिति सः ॥६४॥ अविकारस्य शब्दस्य निमित्तैर्विकृतो ध्वनिः । उपलब्धौनिमित्तत्वमुपयाति प्रकाशवत् ॥९॥ अविकारस्य विकाररहितस्य शब्दस्य निमित्तः स्थानप्रयत्न वायुसंयोगादिभि विकृत उत्पादितो विकारंनीतः प्राप्तविकारइति यावद् ध्वनिः। उपलब्धौ प्रकाशवन्निमित्तत्वमुपयाति। घटादि ज्ञाने प्रकाश एव हेतुः तदभावेनाध्यक्षः ॥६५॥ ४ वाक्यपदीयब्रह्मकाण्डः नचानित्येष्वाभिव्यक्ति नियमेन व्यवस्थिता। आश्रयैरपि नित्य,नां जातीनां व्यक्तिरिष्यते ॥१६॥ अनित्येषु घटादिषु नियमेन अभिव्यक्तिः, प्रकाशः, न व्यव- स्थिता । यतोहि-आश्रयैराधारभूतैर्घटादिभिरेवनित्यानां जातीना व्यक्ति रभिव्यक्तिः प्रकाश इष्यते इष्टो भवति,-घटत्व पटत्व गोत्वादयो जातयो घटपटगोव्यक्तिसमाश्रिताः । नहि घटं विना घटत्वं केनापि दृष्टम् ॥६६॥ देशादिभिश्व सम्बन्धो दृष्टःकायवतामिह । देशभेदविकल्पेऽपि न भेदोध्वनिशब्दयोः ॥१७॥ यद् देशे घटस्त शे दीपेन भाव्यं, देवदत्तनिलयस्थदीपो यज्ञदत्त गृहस्थवस्तुजातं प्रकाशयितुं न समर्थः । प्रकृतेहार्दाकाशस्थितः स्फोटः स श्रोत्रस्थितैर्ध्वनिभिस्ताल्बोष्टादिव्यापारसमुद्भूतैः कथं व्यङ ग्यः स्यादित्याशङ्कायामाह भूपति वृन्दारकः देशादिभिश्चेति-काय- वतां मूर्त्तानां कृते सनियमो दृष्टः। आकाशस्यैकत्वेन न देशभेदः । ध्वनिः श्रोत्रद्वाराहृदि गच्छत्येव, वैखरी व्यापारोध्वनिः ॥६॥ ग्रहण ग्राह्ययोः सिद्धा योग्यता नियता यथा । व्यङ्ग्यव्यञ्जकभावेन तथैव स्फोटनादयोः ॥९८॥ गृह्यतेऽनेनेतिग्रहणम्-इन्द्रियम् । गृह्यन्ते इतिग्राह्याः । विषयाः । यथानियता योग्यता सिद्धा । ब्राणकार्य न चक्षुषा भवति चक्षुषःकार्य न घ्राणेन । रूपे चक्षुर्ग्राह्यता । चक्षषि रूपग्राहकता। द्विवि- धानीन्द्रियाणि-कानिचित्स्वजातीयद्रव्यमान-समवेत-गुणग्राहकाणि, कानिचित्स्वजातीय विजातीय-द्रव्यानुस्यूतगुणपहिलानि । प्रकृवे स्फोटोव्यङग्यो नादा व्यञ्जकः ॥६८|| तथा गोरक्षग्रन्थमालाया अष्टविंशं पुष्पम् सदृशग्रहणानांच गन्धादीनां प्रकाशकम् । निमित्तं नियतं लोके प्रतिद्रव्यमवस्थितम् ॥९९।। समानेन्द्रियग्राह्याणां गन्धादीनां प्रकाशकं ज्ञापकं निमित्तं निमित्त कारणं लोके प्रतिद्रव्यमवस्थितं नियतं दृष्टम् । पार्थिवं घ्राणं गन्धेन गन्धानध्यक्षीकरोति । एवं सर्वत्रोहनीयम् ।।६।। प्रकाशकानां भेदांश्च, प्रकाश्योऽर्थोनुवर्तते । तैलोदकादिभेदे तत्प्रत्यक्षं प्रतिबिम्बके ॥१०॥ यथाजलचन्द्रो बहुधा प्रतीयते, तथा प्रकाश्योऽर्थाभिव्यङ- ग्यः । प्रकाशकानां ज्ञापकानां भेदान्अनुवर्तते । दृष्टान्ते- यथातैलं- जलदर्पणादि भेदेन नानात्वं भजते, अर्थात्-अभिव्यञ्जकेभेदेऽभि- ब्यङ ग्यभेदः। अत्र प्रकृते-अभिव्यञ्जको ध्वनिः, अभिव्यङ ग्यः - स्फोटात्मा ॥१०॥ विरुद्धपरिमाणेषु वज्रादर्शजलादिषु पर्वतादिसरूपाणां भावानां नास्ति संभवः ॥१०॥ सम्प्रति दृष्टान्तासङ्गति वारयति-पर्वतचन्द्रादिविरुद्धं परिमारणं येषां तेष, लघुपरिमाणेषु-आदर्शादिषु पर्वतादिसरूपाणां भावनां संब- न्धो नास्ति । आभासस्तु स्यादेव ॥१०१॥ तस्मादभिन्नकालेषुवर्णवाक्यपदादिषु । वृत्तिकालः स्वकालव, नादभेदाद्विभाव्यते ॥१०२॥ तस्माद् व्यङ्ग्ये व्यञ्जकधर्मानुगमदर्शनात् । कालभेदरहितेषु वर्णवाक्यपदादिषु, वर्णः ककारादि वाक्यं गोरक्षो रक्षतीत्यादि, पदं लोकनाथादि, आदिना वाक्यसमुदायमहावाक्यस्यग्रहणम् । वृत्ति- । वाक्यपदीयब्रह्मकाण्डः कालः, द्रुतादिभेदः । स्वकालः-हस्वदीर्घावधिः कालः। नादभे- दाद्ध्वनिभेदात्प्राकृतवैकृतध्वनिभेदादिति । विभाव्यते प्रतीयमानो भवति ॥१०२॥ यः संयोगविभागाभ्यां करणैरुपजन्यते । स स्फोटः शब्दजाःशब्दावनयोऽन्यैरुदाहृताः ॥१०॥ करणैः कण्ठताल्वादिभिः संयोगवियोगाभ्यां वायुसंयोगविभा- गाभ्यां यः शब्दः पूर्वभादौ-उपजन्यते -उत्पन्नो भवति स स्फोटः। उत्तरोत्तरशब्दानां हेतुः । ये च शब्दजाः पूर्वस्फोटशब्दजाः शब्दाः, ते ध्वनयोऽन्यैः स्फोटकार्यत्वमाचक्षाणैः प्रेक्षावद्भिरमाणिषत । इदं च नादस्फोटयोः कार्यपक्षे स्वरूपम् । वैयाकरणाः प्राकृतध्वनिरिति तमेव नैयायिका वाचकशब्दं व्यवहरन्ति । वैकृतध्वनि ध्वनिमित्याहुः॥१०३।। अल्पे महति वा शब्दे स्फोटकालो न भिद्यते । परस्तु शब्दसन्तानः प्रचयापचयात्मकः ॥१०४॥ शब्दो ह्यमूर्तोऽतः स्फोटकालो न भिद्यते । अल्पे-महति वा शब्दे संजातेऽपि। इतरः कार्यभूतः शब्दसन्तानः प्रचयापचयात्मकः, प्रचयोऽधिकदेशवृत्तिः,-अपचयोऽल्पदेशवर्तनमिति । उच्चैरुच्चा- रिते सति ध्वनिरधिकदेशं व्याप्नोति, अकाराकारः स एव । अधि- काल्पदेशविषया शब्दव्याप्तिर्वैकृतकृता ॥१०४॥ दूरात्प्रमेव दीपस्य ध्वनिमात्रं तु लक्ष्यते । घण्टादीनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥१०॥ स्फोटः, ध्वनिना सह संभवति, दीपः प्रभया सह समुदेति । किन्तु दूराद् दीपदर्शनं न जायते प्रभामात्रस्य दर्शनम् । प्रकृतेऽपि
गोरक्षग्रन्थमालायाअष्टविंश पुष्पम्
प्रमेव ध्वनिमात्रं लक्ष्यते न स्फोटः। दृष्टान्ते-घण्टादीनां शब्देषु स
भेदो व्यक्तो भवति, रणत्कारो दूरधावी ॥१०५।।
द्रव्याभिघातात्प्रचितौ, भिन्नौदीर्घप्लुतावपि ।
कम्पे तूपरते जाता नादा वृत्तेविशेषकाः ॥१०६॥
द्रव्यं स्थानं करणं वायुः-द्वयोरभिधातः शब्दहेतुभूतसंश्लेषः ।
तस्मात् , प्रचितौ समेधमानौ वर्धिताविति दीर्घप्लु ताविति । तु किन्तु
कम्पे स्पन्दे-उपरते शान्ते सति वृत्तेर्विशेषका द्रुतादिवृत्तिव्यवस्थाहेतवः।
दीर्घप्लु तौ हित्वा । नादाः शब्दा वैकृतध्वनयो जायन्ते । घण्टादिवत् ।
यद्वा दीर्घः साहसी पुमान् प्लु तश्चञ्चलः पुरुषः, तौ द्वावापि द्रव्याभि
घातात्संयोगाद् हेतोधितौ द्रव्यदानेन संतोषितौ ततोद्रव्यालाभे कम्पे
कम्पने शान्ते सति वृत्तः स्वस्वव्यवहारस्य विशेषका ज्ञापका नादाः
शब्दाः प्रसिद्धयो जाताः संजातास्तयोः द्वावपि कृतार्थों समजा.
येताम् ।।१०६॥
अनवस्थितकम्पेऽपि करणे ध्वनयोऽपरे ।
स्फोटादेवोपजायन्ते ज्वाला ज्वालान्तरादिव ॥१०७॥
अपरे ध्वनया वैकृतनामानः, करणे वाय्वादौ स्फोटादेव प्रथम-
नादादेव, नानुवर्तमानस्पन्देऽपि उपजीवन्ति, कस्मात्क इव ज्वालान्तरा
ज्ज्वालेवोत्पद्यन्ते । द्वितीयनादाः, द्रुतादिवृत्तीः प्रकाशयन्ति । आयुर्वे-
दपक्ष-स्फोटादेव पिटकादेव व्रणादेवेतियावत् । ज्वालाः पीडा
ज्वालान्तरादिव, कम्पाभावेऽपि कदोपजायन्ते-करणे सति करण-
मपथ्यम् । अपथ्ये सति स्फोटादपिज्वाला जायन्ते। पीडया अपरे
ध्वनयो हाहाकारशब्दाः ॥१०७॥
वायो रणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते ।
कैश्चिद् दर्शनभेदोहि प्रवादेष्वनवस्थितिः ॥१०॥
-
वाक्यपदीयब्रह्मकाण्डः
अत्र वायुरेवशब्दः । अणव एव । ज्ञानमेव । कैश्चिद्दिष्यतेऽत
इयत्ता नास्तीति दर्शनभेदः १०८
लब्धक्रियः प्रयत्नेन वक्तुरिच्छानुवर्तिना ।
स्थानेष्वमिहतो वायुः शब्दत्वं प्रतिपद्यते ॥१०९॥
वक्तुः, इच्छानुवर्तिना प्रयत्नेन लब्धक्रियः, प्राणवायुः, स्थानेषु
कण्ठतालुजिह्वामूलादिपु, अभिहतः, शब्दजनकसंयोगाश्रयतां प्राप्तः
शब्दत्वं संगच्छति । तथा च भगवान् गोरक्षनाथो विवेक मार्तण्डे-
पवनं गगने प्राप्ते. ध्वनिरुत्पद्यते महान् । घण्टादीनां प्रवाधानांतदा-
सिद्धिरदूरतः। पाणिनीय शिक्षायामपि तथैव ।।१०८।।
तस्यकारणसामद्विगप्रचयधर्मणः ।
सन्निपाताद्विभज्यन्ते, सारवत्योऽपि मूर्तयः ॥११०
वेगः संस्कारविशेषः । प्रचयः शिथिलसंयोगः । तौ धौं यस्य
तस्य। तस्यानिलस्य सन्निपातात्सम्बन्धात्संयोगादित्यर्थः। सारव-
त्योऽपि बलवत्योऽपि मूर्तयः पस्त्यपर्वतवृक्षादयोऽपि विभज्यन्ते त्रुटिता
भवन्ति । तहि का कथा कण्ठताल्वादिसंयोगस्य । आयुर्वेदपक्षे वेगः
कम्पादिः, प्रचयो दोषाणाम् । कारणसामर्थ्यात्-सन्तिपातात् सन्नि-
पातरोगात् सारवत्योऽपि मूर्तयः शक्तिमन्तोऽपि-दन्तावलक्रमेलक
लुलायाश्वादयोऽपि पतन्ति । सन्निपातस्य लक्षणं निदाने मूकत्वं
स्रोतसां पाको गुरुत्वमुद्रस्य च । चिरात्पाकश्च दोषाणां सन्निपातः
स उच्यते ॥ सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः। शोथः संजायते
तेन कश्चिदेव प्रमुच्यते ।। मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता।
यस्तु तत्रा भवेज्जेता सजेताऽऽ मयसंकुले ॥ सप्तमे दिवसे प्राप्त', दशमे
द्वादशेऽपि वा । पुनर्घोतरो भूत्वा प्रशमं याति हन्ति वा ॥११०॥
गोरक्षप्रन्थमालाया अष्टविंशं पुष्पम्
अणवः सर्वशक्तित्वाद् भेदसंसर्गवृत्तयः ।
छायातपतमः शब्दभावेन परिणामिनः ॥११॥
सर्वशक्तिसत्त्वात्परमाणवो हि च्छायातपतमःशब्दभावेन भेद
संसर्गवृत्तयः सन्तः परिणामिनो भवन्ति ।भेदो विभागः संसर्गः संयो-
गस्तयोवृत्तिर्येषु, शब्दभावेन परिणता भवन्ति । एकविधा एव परमाण
वश्छायारूपेणातपरूपेण तमोरूपेण शब्दरूपेण च परिणताबमुवति
मामवति च जगत् । इदं वर्णनं जैनमतानुबन्धि । न्यायपक्षे-निमित्त
कारणीभूत ईश्वर स्तं विना परमाणवः क्रियाशीला न भवन्ति।।११।।
स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः ।
अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥११२॥
प्रयत्नेन समीरिता उदीर्णाः स्वशक्तौ तत्तत्पदार्थ रूपेण परिणाम
जनकता शक्ती व्यज्यमानायां सत्यां शब्दाख्याः-घटपटादिकारण
स्वरूपाः परमाणवः, अभ्राणीव वर्षासु प्रलिप्तपयोमुच इव प्रचीयन्ते
संघीभवन्ति । यद्वा शब्दतन्मात्रारूपास्ते ॥११२॥
अथेदमान्तरं ज्ञानं सूक्ष्मवागात्मना स्थितम् ।
व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥११३॥
अथ-इदम् , अान्तरमन्तर्भवं ज्ञानमात्मसम्बन्धि ज्ञानं साक्षि-
साक्ष्यमितिभावः । स्वस्य रूपस्य व्यक्तये स्फुटतायै शब्दत्वेन शब्द-
भावेन विवर्त्तते वागात्मना ज्योतिषा पश्यतीति भावः। अतात्त्विको
न्यथा भावो विवर्त्तः । वाच एवात्मत्वमिति शाब्दाः ॥११३।।
स मनोभावमापद्य तेजसा पाकमागतः ।
वायुमाविशति प्राणमथासौ । समुदीर्यते ॥११४॥
५६
वाक्यपदीयब्रह्मकाण्डः
सोऽनुभविता संकल्पात्मकं मन आपद्य प्राप्य तेजसा ब्रह्मणा,
तेजो वै ब्रह्म । यद्वा जाठराग्निना पाकं विलक्षणतेजः संयोगम् ।
आगतः प्राप्तः । प्राणवायुमाविशति । ततः समुदीर्यत उच्चार्यते ॥११४||
अन्तःकरणतत्वस्य वायुराश्रयतां गतः ।
तद्धर्मेणसमाविष्टस्तेजसैवविवर्तते ॥११॥
जीवस्य-आश्रयतां गतो वायुः प्राणवायुर्जीवस्याश्रयः। यत्र
प्राणवायुर्नति-ति तत्र जीवोऽपि न तिष्ठति, मृतेषु व्यभिचारतः । तथा
च भगवान गोरक्षनाथ पाह-गोरक्षसंहितायाम्-आक्षिप्तो भुजदण्डेन
यथोच्छलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति ॥
ज्ञानरूपशब्देन समाविष्टो जाठराग्निसहकारेणैव शब्दरूपमादा-
दधीति, जेगिल्यते च कण्वम् ॥११५।।
विभज्य स्त्रात्मनो ग्रन्थीन् , श्रुतिरूपैः पृथग्विधैः ।
प्राणी वर्णानभिव्यज्यवर्णेष्वेवोपलीयते ॥११६॥
प्राणः प्राणवायुः स्वात्मनः स्वस्य ग्रन्थीन् कादिवर्णान , विभि-
नरूपैः श्रवण विभागं विधाय वर्णाश्चाभिव्यज्य प्रकाश्य तत्रैव निलीनो
भवति.-तथा च महर्षिः श्रीपाणिनिः “आत्मा बुद्धयासमेत्यार्थान्मनो
युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । सो
दीर्णोमूय॑भिइतो वक्रमापद्यमारुतः" । वर्णाञ्जनयते ॥११६॥
अजस्रवृत्ति यः शब्दः सूक्ष्मत्वानोपलभ्यते ।
व्यजनाद्वायुरिव स स्वनिमित्तात्प्रतीयते ॥११७॥
सर्वत्र विद्यमानोऽपि शब्दः सूक्ष्मत्वान्नोपलभ्यते, तथापि व्यज-
नाद् वायुरिव शब्दोऽपि तग्राहकयन्त्रेण गृहीतो भवति ॥११॥
गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम् तस्य प्राणे चया शक्तिर्या च बुद्धौ व्यवस्थिता । विवर्तमाना स्थानेषु सैषामेदं प्रपद्यते ॥११८॥ तस्य शब्दस्य प्राणवायौ या शक्तिरस्ति। या च बुद्धौ व्यव, स्थिता, सैपा धीशक्तिः प्राणसहचरिता, स्थानेषु-कण्ठताल्वादिषु प्रतिभासमाना वर्णभेदं प्रपद्यते ११८।। शब्देष्वेवाश्रिताशक्तिर्विश्वस्यास्य निबन्धिनी । यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतीयते ॥११॥ अस्य विश्वस्य निबन्धिनी व्यवहारसंचालिका शक्तिः शव्देषु एव आश्रिता । नहि शब्दं विना कापि वाच्यवाचकसम्बन्धो दृष्टचरः। अयं-भेदरूपो व्यवहारो यः शब्दो नेत्रं ज्ञापकं यस्य सः यदुक्तं च वागेवार्थ पश्यति वाग्ब्रवीतीत्यादि ॥११६।। षड्जादिभेदः शब्देन व्याख्यातो रूप्यते यतः । तस्मादर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥१२०॥ यतः षड्जादिभेदोऽपि शव्देनैव हि व्याख्यातो निरूप्यते, समग्रं गेयव्यवहारतत्त्वं शब्दाधीनमिति । तदुक्तं तन्त्रशास्त्रं-सप्त- स्वरास्त्रयोगामा मूर्च्छनाश्चैकविंशतिः। तालास्त्वेकोनपञ्चाशत्तिस्रो मात्रा लयास्त्रयः ।। इत्यादि । निश्रिता--आश्रिताः । शब्दमात्रासु सर्वा अर्थविधाः ॥१२०॥ शब्दस्य परिणामोऽयमित्याम्नायविदो विदुः। छन्दोम्य एव प्रथममेतद्विश्वं व्यवर्तत ॥१२१॥ अयं संसारः शब्दस्य परिणामः । छन्दोभ्यः वेदेभ्यः भूरिति व्याहरन् भूमिमसृजत् । यद्वाच्छन्दांसि तत्त्वानि तेभ्यः, एतद्विश्वं व्यव-
,
वाक्यपदीयब्रह्मकाण्डः
तत । एवेति निश्चये । उपादानसमसत्ताककार्यापत्तिः परिणामः।
उपादानविषमसत्ताककार्यापत्तिर्विवतः रज्जुदधिनी ।।१२।।
इतिकर्तव्यता लोके सर्वा
शब्दव्यपाश्रया।
यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यते ॥१२२॥
कर्त्तव्यस्य प्रकार इति कर्त्तव्यता, त्वयेदमित्थं कर्तव्यमिति ।
असदपि वस्तु शब्देनोदीर्यते, सदपि शब्दाभावान्नोच्यते जन्मान्तरीय
संस्कारानुगो बालोऽपि यां प्रतिपद्यते, शब्दव्यवहारं विना न सिध्यति
किमपि ॥१२२॥
आधः करणविन्यासः प्राणस्योर्ध्व समीरणम् ।
स्थानानामभिधातश्च न विना शब्दभावनाम् ॥१२३॥
जन्मान्तरीय संस्कारा नाऽभविष्यश्चेत्प्राणिनः स्वे स्व शब्द-
व्यवहारे प्रवृत्तिं नाशयन् । आद्यः प्रथमः करणविन्यास इन्द्रिय
योगः। स्थानानां कण्ठताल्वादीनामभिघातः, अभ्याहननं शब्द
भावनां विना न स्यात् ।।१२३।।
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाहृते ।
अनुविद्धमिवज्ञानं सर्व शब्देन
भासते ॥१२४॥
स प्रत्ययो ज्ञान संसारे नास्ति, यः शब्दानुगमं विना स्यात् ।
कृत्स्नमपि ज्ञानं शब्दविषयकमिति । शब्दः प्रकाशकः अर्थः
प्रकाश्यः । वस्तुप्रत्यक्षेऽपि शब्दं विना परिचयो न भवति । सर्व
ज्ञानं शब्दसंसृष्टमित्याचक्षाणा नापास्ताः॥१२४||
वागरूपता चेनिष्क्रामे दवबोधस्य शाश्वती।
न प्रकाशः प्रकाशेत साहिप्रत्यवमर्शिनी ॥१२॥
गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम्
५६
प्रत्यवमर्शिनी प्रकाशस्यापि प्रकाशिका । व्यवसायज्ञानस्य
प्रकाशकमनुब्यवसायज्ञानम् । इत्थं तु सर्वेषां प्रकाशकः परमेश्वर एव,
यद्वाचानभ्युदितमिति, तथा पीतरापेक्षयेदमन्वगादि ॥५२॥
सा सर्वविद्याशिल्पानां कलानां चोपबन्धिनी ।
तद्वशादभिनिष्पन्नं सर्ववस्तु विभज्यते ॥१२६॥
सा वाग्रूपता, उपबन्धिनी ज्ञापिका। वायूपतावशात्सर्वं वस्तु
विभज्यते । लोकनाथोऽयमिति ॥१२६।।
सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते
तन्मात्रामप्यतिक्रान्ते, चैतन्यं सर्वजन्तुषु ॥१२७॥
सा-एषा वाक् सर्वत्र व्यवहारज्ञापिका, वाङ मात्रामतिक्रान्ते
सति वाग्व्यवहाराभावे चैतन्यं
वदद् वाग
भवति ॥१२७॥
अर्थक्रियासु वाक् सर्वान् समीहयति देहिनः ।
तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्टकुड्यवत् ॥१२८॥
सर्वजलमूलकूलतूलफलादि व्यापारेषु, सर्वान् देहिनो वाक्
प्रवर्तयति । तदभावेऽयं विसंज्ञोलोष्ठकाष्ठकु ड्यतुल्या भवति । प्राण
प्रस्तावे स्पष्टम्।।१२८॥
प्रविभागे यथा कर्त्ता तया कार्ये प्रवर्तते ।
अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥१२९॥
स्वप्नेपि पुष्णाति-प्रविभागे--जाग्रहशायां यथा कर्त्ता देवद-
त्तादिस्तया वाचा कायें स्वाभिलषिते प्रवर्तते । तथा अविभागे
स्वप्ने सैव वाक् कार्यत्वेनोपस्थिता भवति। स्वप्नेऽपि व्यासो वाग्व्य-
वहारः॥१२६॥
,
गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम्
शब्द एव परमेश्वर एतस्मात् , एप शब्दः साधुः प्रयोक्तव्यः,
एषोऽसाधुरप्रयोक्तव्यः, एप शब्दसंस्कारः। सा-एषा परमात्मनः
सिद्धिः प्राप्तेरुपायः स्वर्गे लोके कामधुग भवतीति श्रवणात् । तथाच
-भगवान् गोरक्षः-- यं यं श्रृणोति कर्णाभ्यां प्रियमप्रियमेव वा ।
तंतमात्मेति विज्ञाय प्रत्याहरति योगविद् इत्यादि ॥१३३।।
न जात्वकर्टकं कश्चिदागमं प्रतिपद्यते ।
बीजं सर्वांगमापाये त्रय्येवादौव्यवस्थिता ॥१३४॥
आगमं मन्वादिशास्त्रं जातु कदाचिदपि कश्चित्प्रेक्षावान , अकर्तृ के
न प्रतिपद्यते, कर्तृकं स्वीकरोत्येव । सर्वागमाभावे महाकल्पादौ बीज-
त्वेन त्रयी वेदत्रयी व्यवस्थिता भवति, यस्य निःश्वसितं वेदाः॥१३४॥
अस्तं यातेषु वादेषु कर्तृष्वन्येष्वसत्स्वपि ।
श्रुतिस्मृत्युदितं धर्मं न लोको व्यतिवर्तते ॥१३॥
बादेषु-ऋषिमुनिमदात्मप्रणीतेषु ग्रन्थेषु, अस्तं यातेषु गतेषु
विनष्टेषु सत्सु । अन्येषु कर्तृषु-असत्सु-अपि, एतादृशेऽपि काले
ऽनुवर्तमान धर्म लोका न जहति ।।१३५।।
ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश्चन विद्यते ।
धर्मो ज्ञानस्य हेतुश्चेत्तस्याम्नायो निबन्धनम् ॥१३६॥
तपोवलेन कस्यापि ज्ञानोदयेऽपि, तत्र शास्त्रं बाधकं नास्ति ।
यतो हि तज्ज्ञानं धर्मविरहितं न स्याद् धर्मनिर्णयः शास्त्राधीन एवेति-
भावः ॥१३॥
वेदशोनाविरोधी च तर्कश्चक्षुरपश्यताम् ।
रूपमात्राद्धि वाक्यार्थः केवलानावतिष्ठते ॥१३७॥
६२
वाक्यपदीयब्रह्मकाण्डः
केवलवाक्यस्वरूपाद् वाक्यार्थस्तकं विना निश्चितो न भवति ।
तर्को वेदशास्त्राविरोधी, अपश्यतामपेक्षितः ॥१३७।।
सतोऽविवक्षा पागर्थ्य व्यक्तिरर्थस्य लैङ्गिकी।
इतिन्यायो बहुविधस्तर्केण प्रविभज्यते ॥१३८॥
ग्रहं संमार्टि-असतोऽपि बहुत्वस्यात्र तर्केण ग्रहः। नवसोमर
सभाजनं ग्रहशब्देनेष्टः। पारायं - यथा नक्षत्रं विलोक्य वाचं विस-
जेत्-अत्र त र्केण नक्षत्रोदयकालोगृह्यतेऽन्यथा दिवापि तत्संभवः, न
वाग विसर्गः। रात्रावदर्शनेऽपि विसर्गः । लैङ्गिकी-अर्थस्य व्यक्ति:-
यथा अक्ताः शर्करा इत्यत्र मीमांसायां तेजो वैधृतं पठितं वर्ततेऽत्र
धृतस्य स्तुतिरूप लिङ्गाद् हेतोः शर्करा घृतसंश्लिष्टा गृह्यतेऽजस्तों
वेदाविरुद्ध आश्रीयते ॥१३८।।
शब्दानामेव साशक्तस्तों यः पुरुषाश्रयः।
शब्दाननुगतो न्यायोऽनागमेष्वनिबन्धनः ॥१३६॥
वाक्यभेदादिज्ञानलक्षणस्तर्कः शब्दानामेव सा शक्तिः । अनाग-
मेषु-शास्त्रनिरपेक्षेषु । शब्दशक्त्याऽसंपृक्तः । न्यायः-अनिबन्धनः
नागमार्थनिर्णयप्रदः ॥१३६।।
रूपादयो यथा दृष्टाःप्रत्यर्थ यतशक्तयः।
शब्दास्तथैव दृश्यन्ते विषापहरणादिषु ॥१४०॥
विवापहारे शब्दसामर्थ्यं स्फुटमेव । आदिना-प्रेषणादि
संग्रहः । मन्त्रपाठादिभिरदृष्टफलजनकञ्च । अन्यत्र यतशक्तयः स्पष्टा
एव सन्ति ॥१४०॥
यथैषां तत्र सामर्थ्य धर्मेऽप्येवं प्रतीयताम् ।
साधूनां साधुभिस्तस्माद् वाच्यमभ्युदयार्थिभिः ॥१४॥
गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम् ६ यथा-एषां शब्दानां तत्र स्वस्वविषये सामर्थ्य शक्तिः । एवं साधूनां धर्मेऽपि प्रतीयताम् । तस्माद् अभ्युदयार्थिः साधुभिः शब्दैः करणभूतैर्वाच्यम् ॥१४१॥ सर्वोऽदृष्टफलानर्थानागमात्प्रतिपद्यते विपरीतं चसर्वत्र शक्यते वक्तुमागमे ॥१४२॥ सर्वो लोकः-अदृष्टफलजनकान् , यागादीन् “यजेत स्वर्गकामः" इत्येवं रूपा दागमात्प्रतिपद्यते बुध्यते । विपरीतमपि तस्मादेव फल मसाधूनाम् ॥१४२॥ साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः । अविच्छेदेन शिष्टानामिदंस्मृतिनिबन्धनम् ॥१४३॥ दृष्टादृष्टफलाभिधेयप्रतिपादकतया, एषा व्याकरण स्मृतिः वाच्या- वाच्यविषया, शिष्टानामिदमविच्छेदेन स्मृतिनिबन्धनम् । पारम्प- येण विच्छेदाभावः ॥१४३॥ वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् । अदेशदीर्थभेदायास्त्रय्यावाचः परं पदम् ॥१४४॥ "परावाङ मूलचक्रस्था पश्यन्ती नाभि संस्थिता । हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा ।। विभिन्नस्थानरूपायाः त्रय्या वाचः परम्पदं” लभ्यते शब्दात्मनिप्ठैः ॥१४४॥ तद्विभागाविभागाभ्यां क्रियमाणमवस्थितम् । स्वभावज्ञश्च भावानां दृश्यन्ते यतशक्तयः ॥१४॥ विभागः प्रकृतिप्रत्ययादिरूपः सच भू तव्य-दादिषु । अविभागः- एतत्संज्ञाफलभूत विभक्तीतरसमभिव्याहारानपेक्षाविरहः, अर्थात्तदनि- पन्नः। भावानां पदार्थानाम् ॥१४५॥ " ma
६४
वास्यपदीयब्रह्मकाण्डः
अनादिमव्यवच्छिन्ना श्रुतिमाहुरकर्तृकाम् ।
शिष्टैर्निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः॥१४६॥
कर्तृ शन्यामनादिमनश्वरां श्रुतिं वेदमाहुः । सृष्टिकाले शिष्ट
निवध्यमानापि स्मृति नै व्यवच्छिते, वेदानुगता ॥१४६॥
अविघाताद्विवृत्तनामभिख्यास्वप्नवच्छ्रुतौ ।
भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः॥१४७॥
श्रुतौ वेदे विवृत्तानां प्रकाशितानां पदार्थाना मविघाताद् विधात
न कृत्वा हेतुभ्या भावतत्त्वं पदार्थतत्त्वं विज्ञाय स्मृतिविहिता । यथा
स्वप्ने दृष्टानां जाग्रदनहसि स्मरणम् ॥१४७॥
कायवाग्बुद्धि विषया ये मलाः समवस्थिताः ।
चिकित्सालक्षणाध्यात्मशास्त्रैस्तेषां विशुद्धयः ॥१४८॥
कायशुद्धिश्चिकित्सया, वाग्विशुद्धिर्लक्षणेन व्याकरणेन, बुद्धि
विशुद्धि योगशास्त्रेण, तथा चाचलनाथविषये पद्यस्मयते-योगेन
चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन योऽपाकरोत्त प्रवरं
यमीशं पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥१४८॥
शब्दः संस्कारहीनो यो गौरिति प्रयुयुक्षिते ।
तमपभ्रंशमिच्छन्ति विशिष्टार्थनिवेशिनम् ॥१४९॥
गौरिति प्रयोक्तुमिष्टे यः संस्कारहीनः शब्दः, गाव्यादिः, तं
सास्नादिमत्यर्थे निविशमानं स्थानं लभमानं शब्दमपभ्रशमुशन्ति ।
साधुत्वविकृतिरपभ्रंशः ॥१४६।।
अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे।
निमित्तभेदा त्सर्वत्र साधुत्वं तु व्यवस्थितम् ॥१५०॥
गोरक्षग्रन्थमालायाअष्टविंशं पुष्पम्
अस्वशब्दाऽश्वे, गोणीशब्दो गवि, साधुताभावेऽपि साधुनां विषया-
न्तरे धनाभावचावपने चावहतः । इत्थं निमित्तभेदात्सर्वत्र साधु-
त्वस्य व्यवस्था॥१५०||
ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः।
तादात्म्यम्मुपगम्येव शब्दार्थस्य प्रकाशकाः ॥१५१॥
साधुशब्दविषयकस्मरणेनतेऽपभ्रशाः प्रत्ययोत्पत्तिहेतवो भवन्ति,
अर्था दर्थाच बोधजनका भवन्ति । तनोऽभेदमिवापन्नाः । तदुक्तं सिद्ध.
शाबरनाथन शावरभाष्ये--तदशक्तिश्चानुरूपत्वा-दिति ।।१५१।।
न शिष्टैरनुगम्यन्ते पर्याया इव साधवः ।
ते यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः॥१५२॥
यतः शिष्टैः पर्यायाः साधव इव तेऽसाधयो व्याकरणशास्त्रेण
नानुगृह्यन्ते तस्मात्साक्षादवाचका असाधवः ।।१५२।।
अम्बाम्बेति यथा बाल शिक्षमाणः प्रभाषते ।
अव्यक्तं तद्विदां तेन व्यक्ते भवति निश्चयः ॥१५३।।
अम्बाम्वति जिनपि यथा बालोऽव्यक्त मपभ्रशं प्रभाषते,
परन्तु तद्विदाम् , अव्यक्तप्रकृति व्यक्तमवगच्छतां तेन अव्यक्तेन
व्यक्ते शुद्ध शन्दे निश्चयो भवति । लक्षितलक्षणयाऽवबोधो
जायते ॥१५३॥
एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते ।
तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥१५४॥
इत्थं साधौ प्रयोक्तव्ये गौरित्यादि प्रयोगविषये योऽपभ्रशो
गावीत्यादिरूपः शब्दः प्रयुज्यते तेन साधुव्यवधानेन साक्षार्थो न
विधीयते, बोधकतापि साध्वनुमिता ॥१५४॥
६६ वाक्यपदीयब्रह्मकाण्डः पारम्पर्यादपभ्रंशा विगुणेष्वभिधातषु । प्रसिद्धिमागता येषु तेषां साधुरवारकः ।।१५५॥ पारम्पर्यात्कालक्रमवशात् , अभिधात्पु वक्तृष-विगुणेषु विका- रवत्सु सत्सु, अध्ययनाध्यापनक्रमविनाशेन यद्वा दन्तादिमन जाय- माना अपभ्रंशाः शब्दाः,येषु प्रसिद्धिं निरूढिमागता स्तेपां मनुजानां कृते साधुशब्दप्रयोगोऽपि-अवाचकः, असाधुर्जनयति तु ज्ञानम् ।।१५५।। दैवीवाग्व्यवकीर्णेयमशक्तैरभिधावृभिः अनित्यदर्शिनां त्वस्मिन् वादे बुद्धिविपर्ययः ॥१५६।। इयं दैवीवाक् , सुरभारती अशक्तैर्मोहादिभिरसमथैः, अशुद्धा ऽव्यवस्थितसांकेतिकपदविन्यासलोलुपैटैरिति भावः । व्यवकीर्णा सङ्कोच-मापादिता। अभिधातृभिः कथकैः । अस्मिनवादेऽनित्य- दर्शिनां बुद्धिभ्रमः ॥१५॥ उभयेषामविच्छेदादन्यशब्दविवक्षया योऽन्यःप्रयुज्यतेशब्दोनसोऽर्थस्याभिधायकः ॥१५७॥ अन्यशब्दविवक्षया योऽन्यः शमः प्रयुज्यते सः-अस्यार्थस्य घटार्थस्याभिधायको वाचको न भवति। तत्र तत्सामर्थ्याभावात् । गोरक्षपुरमिति प्रयोक्तव्ये वाराणसीति प्रयुक्ते कस्यापि शकुलगोरक्ष- पुरार्थप्रतिपत्ति न यत्नशतेनापि संभवति । उभयेपां प्रयुक्ताप्रयुक्तानां शिष्टैरविच्छेदाद्विच्छेदाभावात् , उभयत्र शक्तिस्तथापि परपक्षः- धर्मायनोऽलम् । तदुक्तं-महाभाष्ये श्रीमहर्षिणा-"समानायामर्थाव- गतौ शब्दैश्चापशब्दैश्चशास्त्रेण धर्मनियमः क्रियते ॥१५७।।
परिचयः ६७ गोरक्षराज्यनेपालसिद्धाचलमृगस्थली व्याख्यावाक्यपदीयस्य तत्र सम्पूरिता शिवात् ॥१॥ श्रीशान्तिनाथशिष्येण पयालाग्रामवासिना। योगिशङ्करनाथेन शब्दाब्धिमन्दराद्रिणा ॥२॥ परीक्षादुस्तरं सिन्धुं तत्तु मेषा भविष्यति । टीकावाक्यपदीयस्य ब्रह्मकाण्डस्य धीमताम् ॥ ३॥ कवेर्नरहरेयोगाद्यत्सौस्थ्य लब्धवानहम् । तस्योपकृतये काचित् प्रत्यभिज्ञा न लभ्यते ॥ ४ ॥ अवेद्यनाथेन यतीन्द्रवर्मना मुदा वाक्यपदीयपुस्तकम् । स्वकीयरिक्थेन विकाशितं मुदे विचक्षणान पदवाक्यवर्तिनाम् ॥ ५॥ कुलनाशाभिन्नमतिदेवीनाथस्ययोगिनः सौहार्द मुपकारं च स्मृत्वा को नाभितृप्यति ॥६॥ व्योमेष्वाकाशनाथाब्धिदुर्गादोरगनन्दको सृष्ट्यब्दे शान्तिनाथान्तेवासीव्याचष्टशङ्करः ॥ ७ ॥ रसाभ्राभ्राधिवक्रान्तेनेपालेखर्षिखेन्दुगे पदार्थमथिनीव्याख्यागतावाक्यपदीयगा