Donar
Rxgveida Bhaashhyamu Volume 15
Front matter
No text on this page.
No text on this page.
No text on this page.
No text on this page.
दयानन्दमहाविद्यालयसंस्कृतग्रन्थमाला सं०१५
उद्गीथाचार्यप्रणीतम्
ऋग्वेद-भाष्यम्
(१०, ५, ४-१०, ३४, ३.)
लवपुरम्
(१९९२ वि०)
THE RIG-VEDA
WITH
The Commentary of
UDGITHA-ACHARYA
(x, 5, 4-x, 34, 3.)
D.A.-V. College Resaerch Department,
LARORE.
1935.
दयानन्दमहाविद्यालय-संस्कृतग्रन्थमाला साच दयानन्दब्राह्ममहाविद्यालयीयाचार्यपदमतिष्ठितपूर्वेण दयानन्दमहाविद्या लयीयानुसन्धानालये विश्वेश्वरानन्दानुसन्धानालये चाध्यक्ष- पदाधिकारिणा ऐम० ए०, ऐम० ओ० एल, इत्युपाधिधारिणा विश्वबन्धुशास्त्रिणा बहुभिर्विद्वद्भिः सङ्गत्य सम्पादिता तस्यां चायं पञ्चदशो ग्रन्थः लवपुरम् (१९९२ वि०) THE D. A.-V. COLLEGE SANSKRIT SERIES. Edited in conjunction with other scholars BY VISHVA-BANDHUSHASTRI, M.A,M.O.L. Director, D. A.-V. College Research Deptt. and Vishveshvarananda Research Institute; formerly, Principal, Dayananda Brahma Mahavidyalaya. Volume Fifteen. LAHORE 1985.
ओ३म् ऋग्वेद भाष्यम्। निर्गतवनवासि-उद्गीथाचार्यप्रणीतम् , दशमं मण्डलम् । पश्चमं सूक्तम् । ऋतस्य हि वर्तनयः सुजातमिषो वाजाय प्रदिवः सचन्ते । अधीवासं रोद॑सी वावसाने घृतैरन्नैर्वावृधाते मधूनाम् ॥ ४ ॥ [मधूनां ] मृष्टानां घृतान्नानामवयवभूतैः स्वांशलक्षणैः । तस्माद्वयमपि श्रेयोऽर्थमनिमाराधयामः ॥ सप्त स्वसृररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कम् । अन्तर्येमे अन्तरिक्षे पुराजा इच्छन्वत्रिमविदत्पूषणस्यं ।। ५ ॥ सप्त स्वसृ-सप्त जिह्वा ज्वालाख्याः । काली करालीयेवमाद्याः स्वसू भगिनीभूताः । तदग्नेर्जातत्वात् स्वयंसारिणीर्वा । अरुषीः आरोचनाः। वावशानः वावश्यमान अत्यर्थ शब्द्यमानः स्तोतृभिडूयमान इत्यर्थः । विद्वान् सर्वजेदाग्निः । मध्वः मधुस्वादस्य मृष्टस्य हविषः पूर्णा इति शेषः । उजभार ऊर्ध्व हरति। दृशे दर्शनाय सर्वस्य। उद्धत्य च यत्तत्र हविषिकं उदकं रसीभूतं हविरित्यर्थः। तत् अन्तः मध्ये। येमे नियच्छति स्थापयति । कस्यान्तर्येमे | अन्तरिक्षे आकाशे स्थितस्य पूष्णः । कुत एतदवगम्यते । ऋगन्ते तस्य श्रवणात् । आहुत्याधारत्वाच्च। पुराजा पूर्वमादिसर्गे प्रजापतेर्जातः । किमर्थमादित्यस्यान्तयेमे इच्छन्कर्त कामयमानः। किं वत्रिं रूपं । कीदृशंसामर्थ्याहीप्तं । कस्य पूषणस्य पूष्णः। तञ्च दीप्तं रूपमविदत् विन्दति । तेन च हवीरसेन दीप्तरूपः पूषावश्य भवतीत्यर्थः । अथ-'मूर्धा भुवो भवति नक्तमग्निस्ततस्सूर्यो जायते प्रात- रुद्यन्' इति मन्त्रान्तरे दशर्नादादित्यात्मना यदाग्निः स्तूयते तदैव- सर्वविदमिः? + एतदनम्यते-कोषपाठः । क्र० १०८८६॥
२ ] * ऋग्वेदभाष्यम् * [मं०१० । सू०५॥ । मर्थयोजना कार्या सप्त रश्मीन् स्वयं सत्त्रीन् ? आरोचनान् कामयमानः स्तूयमानो स्तोतृभिः विद्वानग्निर्मध्व उदकस्य भौमस्य पूर्णानुदकवेलाया- मूर्ध्व हरति । आदित्यात्मना स्थितः दर्शनाय प्रकाशनाय सर्वस्य । हृत्वा च उदकन्द्यावापृथिव्योर्मध्ये स नियच्छति । अन्तरिक्षे विद्यदात्मना स्थित्वा । इच्छन्नपं लभते वर्षासु पूष्णस्सकाशात् स्वभूतं वा ॥ सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् । आयोह स्कम्भ उपमस्य नीळे पथां विसर्ग धरुणेषु तस्थौ ॥६॥ सप्त मर्या-सप्त मर्यादा व्यवस्थिता अलंघनीयाः-'स्तेयं गुरु- तल्पारोहणं ब्रह्महत्यां भ्रणहत्यां सुरापानं दुष्कृतस्य कर्मणः पुनः पुनस्सेवां पातकेऽनृतोद्यम् इति । कवयो मेधाविनः । कवयो हिरण्यगर्भ- प्रभृतयः मेधाविनः । ततक्षुः तक्षतिः करोतिकर्मा कृतवन्तः । तासा- म्मर्यादानाम्मध्ये एकां इत् इच्छब्दोऽप्यर्थे एकामपि मर्यादामभिगच्छन्। अंहुरः अंहस्वान् पापवान् भवति । यस्त्वग्न्यनुग्रहाणां ह स्कंभभूतो भवति स्कंभवदाश्रयभूतो भवतीत्यर्थः । परत्रापि उपमस्य सर्वस्य जगतः उपनिमातुरग्नेः। नीळे स्थाने अग्निलोकाख्ये। पथांवृष्टिलक्षणाना- मपामुदकानां । विसर्गे विसर्जने अन्तरिक्ष । धरुणेषूदकेषु मेघोदराग- तेषु विद्यदात्मना वा । तस्थौ तिष्ठति ॥ असच्च सच्च परमे व्योमन्दक्षस्य जन्मन्नदितेरुपस्थे । अग्निह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः ॥ ७ ॥ असच स०-असञ्चाव्याकृतं वस्तु। सच्च व्याकृतं । परमे व्योमन् व्योमाने कारणात्मनाकाशे स्थित । तत्सर्वमग्निरेव तन्मूलत्वाद्यागस्य यागमूलत्वाञ्च सर्वस्य । दक्षस्य च प्रजापतः। जन्मन् जन्मनि उत्पत्ती निमित्तमग्निरेव उक्तेनैव न्यायेन । अदितेः पृथिव्याः। उपस्थे उपस्थाने उपरि। अग्निरेव स्थितः। आधिपत्यनमात्र एतवत्यर्थः ? वृषभश्च धेनुश्चा न्यञ्च सर्वन्द्रव्यमस्माकमग्निरेव भवति तदातृत्वात्तत् कार्ये कर्तद्वा ॥ - *निरुक्त ६२७॥ + पाठोऽत्र त्रुटितः प्रतीयते भ्रष्टश्च ।
म० १० । सू०६॥] * ऋग्वेदभाष्यम् * [ ३ ३ .. षष्ठं सूक्तम् । अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ । ज्येष्ठेभिर्यो भानुभिषणां पर्येति परिवीतो विभावा ॥१॥ अयं स य०-अयं] सोऽग्निरस्माभिराहूतः यागार्थस्याग्नेरभिष्टौ यागे कृते सति। शर्मन् शरणे रभिज्येष्ठेभिवृद्धाभिवा । परिवीतः परि- वृतः परिवेष्टितः। पर्येति सर्वतो गच्छति । यत्र यत्र गन्तव्यं तत्र तत्रा- प्रतिहतगतिर्गच्छतीत्यर्थः । विभावा विविधदीप्तः । यो भानुभिर्विभावा विभात्यग्निर्देवेभिर्कतावाजनः । आ यो विवाय सख्या सखिभ्योऽपरिवतो अत्यो न सप्तिः ॥२॥ यो भानुभिः-यश्चाग्निर्विभावा विविधदीप्तिः। ऋतावा च सत्य- वानुक्कवान् यज्ञवान् वा । अजस्रश्चानुपक्षिीणः अहिंसितोवा। केनचि- दनभिभूत इत्यर्थः । भानुभिर्देवेभिः दीप्तिभिर्दानादिगुणयुक्ताभिः स्तु. त्याभिः प्रतिगन्त्रिभिर्वा विभाति विविधन्दीप्यते । य: यश्च । आविवाय आभिमुख्येन गच्छति । सख्या सख्यानि सखिभिः कर्तव्यानि हविर्वह- नादीनि कर्माणि कर्त्तमिति शेषः। कस्यार्थाय सखिभूतानां यजमाना- नामर्थाय । कथं गच्छति अपरिहृतः अपरिहिंसितः अपरिश्रान्त इत्यर्थः। किमिव । अत्यो न अश्व इव । कीदृशोऽश्वः । सप्तिः सदा सर्पण- समर्थः । यथा सत[तगमनसमर्थोऽश्वः अपरिश्रान्तो गच्छति एवं सोऽ- [य]मग्निरस्माभिराहूतो यागार्थमिति पूर्ववद्वाक्यपरिसमाप्तिः कार्या । ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ । आ यस्मिन्मना हवींष्यग्नावरिष्टरथः स्कनाति शूपैः ॥३॥ ईशे यो वि०-गन्धश्वाग्निरीशेषु? ईष्टे । विश्वस्याः सर्वस्याः।देववीतेः देवाशनस्य हविषः। ईशे ईष्टे च । यः विश्वायुःसर्वत्राप्रतिहतगमनः सर्व- जीविनो वा । उषसो व्युष्टी विवासने | आदित्यात्मना स्थितस्सन्नाग्नि- रुदयेनोषसं विवासयतीत्यतः एवमुच्यते । यस्मिंश्चाहिंसिता यशरथः असुरराक्षसादिशत्रुबलैः। • अवीमिज्येष्टभि ! + स्मामिहितो-कोषपाठः । ..
.. ४ ] * ऋग्वदेभाष्यम् * [मं० १० । सू०६॥ शुषेभिवृधो जुषाणो अर्दैवाँ अच्छा रघुपत्वा जिगाति । मन्द्रो होता स जुवा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् ॥४॥ शूषभिर्व-सोऽग्निरुक्तलक्षणः शुषेभिर्वलैर्हविलक्षणैः बलनिमि- तैर्हविर्भिरित्यर्थः । वृधः वर्धितस्सन् । जुषाणः सेव्यमानश्च । अर्कैः मन्त्रैः यज्वभिस्तुतिभिश्शस्त्रैश्चेत्यर्थः । देवानन्नेन अच्छ आप्तुं । रघुपत्वा लघुपतनः शीघ्रगमनः। जिगाति गच्छति। गत्वा चाहूयानन्तरं । मन्द्रः स्तुत्यः । होता होमकारी। यजिष्ठः यष्टतमः । सम्मिश्लः सम्मिश्रः संप्र- युक्तः सर्वैर्गुणैर्देवैर्वा । जुह्वाख्येन पात्रेण हविराजिघर्ति आक्षारयति । देवान् प्रति हविः देवेभ्यो ददातीत्यर्थः । तमुस्रामिन्द्रं न रेज॑मानमग्नि गीर्भिनमोभिरा कृणुध्वम् । आ यं विप्रासो मतिभिर्गुणन्ति जातवेदसं जुह्व सहानाम् ॥५॥ तमुस्रामि०-जातवेदसं जुह्वमाह्वातारं दातारं वा मनुष्यादि बलानाम्। अथवा सहानां शत्रणामभिभवितृणां सहायानां वा देवानां यागार्थमाता- तारं । विप्रासः मेधाविनः स्तोतारः। मतिभिः स्तुतिभिः। आ गृणन्ति आदरेण स्तुवन्ति । तमग्निमुनां भोगानामुत्स्राविणं दातारं । रेजमानं ज्वालात्मना कंपमानं वा ए| इन्द्रमिवा । गीर्भिः स्तुतिभिः । नमोभिरनश्च। आ कृणुध्वं अस्मदभिमुखं यूयमपि कुरुत हे ऋत्विजः । सं यस्मिन्विश्वा वमुनि जग्मुर्वा नाश्वाः सप्तीवन्त एवैः । अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ।।६।। सं यस्मिन् वि०-यस्मिंस्त्वय्यग्नौ सं संगतानि स्वत्वनावास्थता- नीत्यर्थः। विश्वा सर्वाणि । वसूनि धनानि । वाजेन अन्नन बलेन वा सह अश्वाश्च यस्मिंस्त्वय्यग्नौ स्वत्वेनावस्थिताः। कीदृशा अश्वाः । सप्तीवन्त- सर्पणवन्तः सततगमनसमर्था इत्यर्थः । एवैः कामैस्सर्वैस्साहिताः। स त्वं हे इन्द्र परमेश्वराग्ने । अस्मे अस्माकमर्थाय । ऊतीः कीदृशः वात- तमाः दुर्लभत्वं गततमाः । अतिदुष्प्रापा इत्यर्थः । अर्वाचीनाः अर्वाग- श्वनाः अस्मदभिमुखाः। आ कृणुष्व आदरेण कुरु | सर्वान् कामानस्म- भ्यन्देहीत्यर्थः। * मन्त्रः -कोषपाठः ।+नेन्द्रमिव ?
-- मं० १० । सू० ७॥] * ऋग्वेदभाष्यम् * [ ५ अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ । तं ते देवासो अनु केतमायन्नावर्धन्त प्रथमास ऊमाः ॥७॥ अधा ह्यग्ने०-अथति हेतु निर्देशे। हीति प्रतिनिर्देशे अथ यस्मात् हे अग्ने । महत्वेन स्वेनानिषद्य उपविश्य वेद्यन्ते । जशानो जायमान ज्वलन्। सद्यः तस्यामेव वेलायां। हव्यः हवनाहः आहूतिप्रक्षेपार्हः। बभूथ भवसि। हि तस्मात् । तन्ते तव । स्वभूतं केतं प्रज्ञानं ज्वालां। अनु आयन्न होमार्थः मनुगच्छन्ति दीने त्वयि हवींषि जुह्वतीत्यर्थः । देवासः हविषो दातारः ऋत्विग्यजमानाः। अध अनन्तरं । वर्धन्त वर्धन्ते च पुत्रादिवृद्धया युज्यन्ते चेत्यर्थः । प्रथमासः क्रियाभिर्जनविद्यादिगुणैश्च भवन्तीति शेषः। ऊमाः त्वया रक्षितास्सन्तः। . सप्तमं सूक्तम् । - स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुधेहि यजथाय देव । सचेमहि तव दस्म प्रकेतैरुरुष्या णे उरुभिर्देव शंसः ॥१॥ स्वस्ति नो दि०-स्वस्ति अविनाशं अस्मभ्यन्दिवस्सकाशात् । पृथिव्याश्च । धुपृथिव्यन्तरिक्षनिवासिभ्यस्सकाशादित्यर्थः । कीदृशं स्वस्ति उच्यते । विश्वायुः सर्वान्नसहितं । हे अग्ने देव धेहि । किमर्थ यजथाय देवयागार्थ । सर्वोपद्रवरहितास्सर्वान्नयुक्ताश्च सन्तस्तथा- स्मान् कुर्विति वाक्यार्थः। किञ्च संचमहि सेवेमहि आराधयेम त्वांसदे- त्येतदाशास्महे वयं । केन। उरुभिः बहुभिः । शंसैः स्तुतिभिः। एतज्ज्ञात्वा हे दस्म तव स्वभूतैः प्रज्ञानरुरुष्य रक्ष पालनोपायपरिज्ञानैरुरुष्य रक्ष नोऽस्मान् । इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वरभि गृणन्ति राधः । यदा ते मर्तोज्नु मोगमानसो दानो मतिभिः सुजात ॥२॥ इमा अग्ने०-हे अग्ने इमा मतयः स्तुतयः । तुभ्यन्त्वदर्थ जाताः [ अस्म ] दादिस्तोतमुखादुत्पन्नाः । उच्चरिता इत्यर्थः । गोभिरश्वैश्च सहितं राधः धनं हिरण्यादिकमभिगृणन्ति । अभिष्टु- * ऋग्वेदभाप्यम् * [मं० १० । सू०७ वन्ति । अहो शोभनमस्मदनुरूपमिति प्रशंसन्ति । कदा उच्यते। यदा यस्मिन् काले । ते तव। स्वकं भोग भोगाईन्धनं मर्तोऽस्मदादिको मनुष्योऽन्वानट् त्वत्तो दानानन्तरं प्राप्नोति लभते तदेत्यर्थः । एतद् ज्ञात्वा हे वसो प्रशस्यवसुमन्वासवसुभूत वा स्वेन तेजसा सर्व- स्याच्छादयितर्वा । सुजात सुजन्मन् शोभनकर्मार्थमुत्पन्न वा । दधानः अस्मभ्यन्ददद्धनं मतिभिः स्तुतिभिस्त्वया दत्तन्धनं स्थापयेति शेषः । 'अस्मतस्तुत्यनुरूपमस्मभ्यन्धनं देहीत्यभिप्रायः । अग्निं मन्ये पितरमग्निमापिमग्नि भ्रातरं सदमित्सखायम् । अग्नेरने के बृहतः सपर्य दिवि संपर्य दिवि शुक्रं यजतं सूर्यस्य ॥३॥ अग्नि मन्ये०-अग्निम्मन्य जानेऽहं । पितरं तत् कार्यकर्तृत्वादिनि उत्तरत्राप्ययमेव न्यायः। अग्निमेवापिञ्च ज्ञाति । अत्रोक्तव्यतिरिक्ताम्मा- त्रादिकाम्मन्ये । अग्निमेव भ्रातरञ्च मन्ये । सदामत् सदैव । मर्वकालमेवा विसंवादिनं सखायश्चमन्ये । अग्नेरग्नेः स्वभूतमनीकम्मुखमाहवनीया- ख्यं । बृहतो महतः अनन्तगुणस्य | सपर्यं परिचराम्यभिप्रेतार्थसिद्धय स्तुतिभिर्हविर्भिश्चाराधयामि । किमिव दिवि शुक्रं यज्ञ ममेतदिविस्थं शुक्र शोचिष्मद्दीप्तिमद्यजातं यष्टव्यं मण्डलं मूर्यस्य संबन्धि यथाभि- प्रेतार्थसिद्धये कश्चिदाराधयेत्येवम् । सिधा अग्ने धियो अस्मे सनुत्रीय त्रायसे दम आ नित्यहोता । ऋतावा स रोहिदश्वः पुरुक्षुर्युभिरस्मा अहभिर्वाममस्तु ॥४|| सिध्रा अग्ने०-हे अग्ने सिध्राः सिद्धा निष्पन्ना धियः प्रज्ञा कार्यास्तु । अस्मे अस्माकं संबन्धिन्यः । सनुत्रीः संभक्तयस्तव त्वदर्थम- स्माभिः स्तुतयः कृता इति ज्ञापितमित्यभिप्रायः। यम्मान्त्रायसे पाल- यसि कर्मवैगुण्यात् । यस्य मम कर्म सगुणं करोषीत्यर्थः । दम आ यज्ञ गृहे मर्यादयावास्थतः। नित्यहोता सततं होमकारी देवानामाह्वाता वासन्। सोऽहन्तव प्रसादात्त्वत् सायुज्यं गतस्सन् । ऋतावा यशवान् सत्यवानुदकवान् वा स्यामिति शेषः।रोहिदश्वोरोहित्संज्ञकाश्वावांश्च स्यां । पुरुक्षुबन्नश्च बहुस्तुतिशब्दश्च वा स्यां । किञ्च । धभिः दीप्तैः। * यजतं-ऋग्वेदे दृश्यते ।
-
मं०१० । सू० ७॥] * ऋग्वेदभाष्यम् *
[ ७
अहभिः अहोभिः सामर्थ्यात् कतिपयैरपि । अस्मै मह्यं । वामं वननीयं
फलन्दृष्टमदृष्टं वाऽस्तु ।
युभिर्हितं मित्रमिव प्रयोगं प्रनमृत्विजमध्वरस्य जारम् ।
वाहुभ्यामग्निमायवोऽजनन्त विक्षु होतारं न्यसादयन्त ।।५।।
धुभिर्हितं०-यत्तदोरद्धयाहारः क्रियते पूर्वोत्तरयोर्मन्त्रयोः। यन्त्वा-
मग्निं हितम्मित्रमिव प्रयोग हितकारिणं स्निग्धमिव सर्वकार्येषु
प्रयोक्तव्यं प्रत्नं पुराणं ऋत्विजं । अग्नि देवानां होतासीदिति कानात् ।
अथवा ऋतावृतौ देवानां यष्टारं । अध्वरस्य यज्ञस्य । जार जरयितारं
परिसमापयितारं । वाहुभ्यामायवा मनुष्या ऋत्विग्यजमानाऽहोभिश्च
दिवसेष्वित्यर्थः । विक्षु विशो मनुष्यास्तदाकारेषु देवेष्वित्यर्थः ।
होतारं आह्वातारं । नि आसादयन्तो नियमेन सादितवन्तश्च देवानां
यागार्थमाह्वातारनिरूपितवन्तश्चेत्यर्थः ।
स्वयं यजस्व दिवि देव देवान्किं ते पाकः कृणवदप्रचेताः ।
यथायज ऋतुभिर्देव देवानेवा यजस्व तन्वं सुजात ॥६॥
स्वयं यज०-स त्वं हे देवाग्ने आत्मनेव यजस्व । दिवि दीप्तिमति
वदिस्थाने स्थितान्देवान्मानुषहोत्रा? देवयागमाकार्षीः । यतस्ते तद
संबन्धि देवयागकर्म किं कृणवत् करोति । पाकः पक्तव्यप्रज्ञः । अप्रचेताः
अप्रज्ञानो मानुषो होता त्वयानधिष्ठितो न किञ्चिदपि जानातीत्यर्थः ।
किञ्च यथा येन प्रकारेणायजः यजसी त्वन्देव ऋतुभिः ऋतुदेवताभिः
सह यागाकालैर्वा । देवान् एव एवं यजस्व । तन्वं स्वमात्मानमित्यर्थः ।
सुजात शोभन जन्मन् शोभन देवयागकर्मार्थमुत्पन्न वा ।
भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः ।
रास्वा च नः सुमहो हव्यदाति त्रास्वोत नस्तन्वो अप्रयुच्छन् ।७।
भवा नो अ०-हे अंग्न नः अस्माकं । अविता भव दृष्टभयभ्यो
रक्षिता भूयास्त्वं । उत अपि च । गोपाः अंदृष्टभयेभ्यो गोपिभूयाः भव।
वयस्कृत् वयसात्र जीवितं वक्ष्यते।जीवितस्य चं समग्रस्य कर्ता भूयाः।
* ऐतरेय ब्राह्मणम् ३ ॥ १४॥
८ ] * ऋग्वेदभाष्यम् * [म०१०। सू०८॥ उत नो वयोधाः वयसोऽन्नस्य च दाता भूयाः।रास्व च देहि च देवेभ्यो नः अस्माकं स्वभूतां। हव्यदाति हविषो दत्तिं । हे सुमहा सुष्ठु महन् सु पूजया । त्रास्व पालय । उतापि नः अस्माकं स्वभूतास्तन्वः शरीराणि । अप्रयुच्छन् अप्रमाद्यन् ॥ अष्टम सूक्तम् । उत्तरं सूक्तं प्रकेतुनेति नवन्त्वाष्ट्रस्त्रिशिरा ददर्श । अस्याद्या- .भिष्षड्भि ऋग्भिरग्निन्तुष्टाव । आत्मनस्त्राणार्थमन्त्येन तृचनेन्द्रमभि- तुष्टाव । स्वष्टान्ते ? किल अभवत्स हि देवानां पुरोधाः प्रियकाम्यया असुराणां स्वसुः पुत्रस्त्रिशिरा विश्वरूपधृक् तस्मै ददर्श। प्रहिन्त्विन्द्रो देवेषु विबुधैस्सुरैः सोऽस्थ वज्रण तान्याशु शिरांसि त्रीणि चिच्छिदे । तस्य यत् सोमपानन्तु मुखं सोऽभूत् कपिञ्जलः कलविंकस्सुरापानमन्ना- दन्तित्तिरोऽभवत् । तं वागभ्यवदत्तीवा ब्रह्मासि शतक्रतो प्रपन्नं हतवान् यस्त्वं विश्वरूपं पराङ्मुखं तमभ्यषिश्चत् सूक्तेन ऋषिराप इति स्वयं सिन्धुद्वीपोऽपनुत्यर्थन्तस्याश्लीलस्य पाप्मनाम् । प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति दिवश्चिदन्तां उपमां उदानळपामुपस्थे महिषो ववर्ध ॥१॥ प्र केतुना०-केतुना प्रज्ञानेन । वृहता महता सर्ववस्तुविषयेण युक्त इति शेषः । प्रयाति प्रगच्छत्यग्निः क्व आ रोदसी आङत्र प्रत्यर्थे द्यावापाथव्यौ गवा वृषभः वृषभ इवारोरवाति।देवयागकाले। पृथिव्या- मत्यर्थं शब्दं करोति देवाह्वानकाले। दिवि अन्तान् अवसानान् । उपमान् सनिकृष्टांश्च प्रदेशान् । ज्वालात्मनादित्यात्मना वा स्थितः । उदानट ऊर्ध्व व्याप्नोति ॥ मुमोद गर्भो वृषभः ककुद्मानस्रमा वत्सः शिमीवां अरावीत् । स देवतात्युद्यतानि कृण्वन्त्स्वेषु क्षयेषु प्रथमो जिगाति ॥२॥ मुमोद ग०-या निर्मुमोद मोदते सततमाप्तकामत्वात् वृषभ इव च । ककुद्मानग्निविद्यदादित्यात्मना स्थितः । आहवनीयाद्याधारमेघ- मण्डलैरुनतत्व ? सामान्या वर्षिता। ककुमांश्च ज्वालाभिः तद्वदुन्नता- पूजवा-कोषपाठः ।
: म० १० । सू० ८॥] * ऋग्वेदभाष्यम् * भिः। अत्रेमा प्रशस्तश्चावत्सश्च नक्तोषसोः। सायंप्रातराहुत्युपजीवनात्। उक्तश्चायमर्थो मन्त्रान्तरे नक्तोपासासमनसा विरूपे धापयेते शिशुमेक समीची' इति।* शिर्मावान् हविर्वहनदेवाह्वानादिकर्मवांश्च । अरावीत् देवाह्वानादिशब्दं सप्रयोजनं करोति । सोऽग्निः देवताति । यज्ञे उद्यतानि उद्यमान् कर्मार्थमुत्साहान्।कृण्वन् कुर्वन् । स्वेष्वात्मीयेषु । क्षयेषु निवा- सेषु । आहवनीयाद्याधारेषु स्थितः । प्रथमः सर्वस्मादन्यस्माद्यागसाध-- नात् पूर्व । जिगाति गच्छति । कर्म प्रति यागकर्मणि व्याप्रियत इत्यर्थः ।। आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्णः । अस्य पत्मन्नरुषीरश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥३॥ आ यो मूर्धा-योऽग्निः। मूर्धानं मूर्धवत् पूधानभूतमग्निनिर्मन्थन- प्रदेश। पित्रोः अग्नेर्मातापितृभूतयोररण्योरवयवं। आरब्ध आङीषदर्थे। रभिहिँसार्थः। ईषद्धिनस्ति । निर्मन्थनकाले दाहेन दग्धुं समर्थोऽपि सन्न दहतीत्यर्थः। यञ्चाग्निमध्वरे यज्ञ। निदधिरे नियमेन धारयन्ति यष्टारः। यश्चाग्निः सूरः सूर्योऽप्येकस्य सतः। अग्निविद्युदादित्यात्मनाग्नेरेवाभि- धावस्थानात्।अर्णः अर्त्ता च गन्ता चाहविरादाय देवान् प्रति सर्वत्र वा। तस्यास्याग्नेः स्वभूतास्तन्वःमूर्तयः। अग्निविद्युदादित्यलक्षणा ज्वाला- लक्षणा वा।आहवनीयादिलक्षणा वा। कीदृश्यः। अरुषीरारोचनाः।अश्व- बुध्नाः अशनबन्धनाः। हविराहारास्थिा इत्यर्थः।जुषन्त सेवन्ते भक्षयन्ति सर्वयजमानहवींषीत्यर्थः। क्वावस्थितास्सेवन्ते । उच्यते ऋतस्य यज्ञस्य संबन्धिनि योनौ स्थाने वेद्याख्ये। किंगुणविशिष्टापत्मन् पत्मनि पतन्ति गच्छन्ति उपविशन्त्यत्र देवता इति पत्म । तत्र देवतासने वेदिस्थान इत्यर्थः। अथवा तन्व इति द्वितीयान्तमेतत् ।यथोक्ता मूर्तीस्सेवन्ते सर्वे यजमाना स्तुतिभिर्हविर्भिश्च ।। उषउषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा । ऋताय सप्त दधिषे पदानि जनयन्मित्रं तन्वे३ स्वायै ॥४॥ उषउषो०-उष इति षष्ठ्यर्थसंबोधनविभक्तिरेषा | उप- श्शब्देन चात्र सामर्थ्यात् सायंप्रातस्सन्ध्ये उच्यते । हे वसो सेन * यजुः० १२ १२ ॥? 8 उच्यन्ते-कोषपाठः।
१०] * ऋग्वंदभाष्यम् * [म०१० । सू०८॥ ज्योतिषा सर्वस्याच्छादयितः। वसुमन् वा सर्वस्य वसुभूत वा प्रशस्य वा अग्ने । उपः स सायंसंन्ध्याया उपसः प्रातस्सन्ध्यायाश्चाग्रं पूर्व । हि यस्मात्। एष गच्छसि विप्रियमाणः । त्वं यमयोरेकस्मादादित्यात् । तन्वे स्वायै । पञ्चम्यर्थ चतुर्थी । तन्व स्वाया स्वस्माच्छरीरात् ॥ भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि । भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥५।। भुवश्चक्षुः०-भुवः भवसिाचक्षुः कस्यामहः महतः।ऋतस्य यज्ञस्य। गोपा गोपयिताचाभुवः भवसि चात्वमेव वरुणः आदित्यः । कदा । यत् यदा । ऋताय उदकार्थ भोमरसलक्षणस्योदकस्यादानार्थ पृथिवीं प्रति वेषि गच्छसि । तदा भुवः भवसि च । त्वमेवापां वृष्टिलक्षणानामपां । नपात् मेघः । कथं । अद्भ्यो हि मेघो जायते। मेघात्त्वं विद्यद्रुपो जायसे। हे जातवेदः भुवः भवसि च दूतस्त्वमेकस्य यस्य यजमानस्य हवि- र्जुजोषः सेवस भक्षयास तस्य ॥ भुवो यज्ञस्य रसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम् ॥६॥ भुवो यज्ञ०-भुवः भवसि त्वं । यज्ञस्य रजसश्च। आदित्य जन्म । मूर्धा भुवो भवति नक्तमग्निस्ततस्सूर्यो जायते प्रातरुद्यन् ।* स्तोमेन हि दिवि देवासोअग्निमजीजनञ्छक्तिभी रोदसिप्राम् । तमू अकृण्वन्त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः॥ इत्यादिषु। भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वे[षि] 18 नेता प्रापयिता। इतो लोकान् । अग्निर्वा इतो वृष्टिं समीरयतीति श्रुतेः।। क्व नेता । उच्यते । यत्र यस्मिन्नन्तरिक्षे लोके । नियुद्भिश्शिवाभिः । नियुत्संज्ञकाभिरश्वजातिभिस्सख्यादिभिस्संबद्धं वायु।सचसे हविषो- दकेन च सेवसे । तत्रान्तरिक्षे नेतासि । दिवि द्यलोके च।मूर्धानं शिरोवत् प्रधानभूतीदधिषे हविनयनद्वारेण धारयसि। कंखसां स्वरिति । ऋ० १० । ८८ ॥ ६॥ ० १० । ८८ | १०॥ क्र. १०। ८ ॥ ५॥ जानिरुक्त ७॥ २४ ॥ तै० सं० २।४।९।१०॥ काठकसं० ११।१०॥ मै० सं० २।४।८॥ एमिस्सह संवाद्यताम् ।
म. १० । सू० ८॥] * ऋग्वेदभाष्यम् * . [ ११ द्यौरुच्यते । दिवस्सनितारं संभक्तारमादित्यं । जिह्वास्थानीयाश्च ज्वालां। हे अग्ने करोषि । हव्यवाहं हविषां वोदीं। अस्य त्रितः क्रतुना बत्रे अन्तरिच्छन्धीतिं पितुरेवैः परस्य । सचस्यमानः पित्रोरुपस्थे जामि ब्रुवाण आयुधानि वेति ॥७॥ * अतिहासः। त्रितमृपिमनुचरमिन्द्रः किलोवाच । आयुधानि वत्सि त्वं । त्रिशिरसो वधे मे साहाय्यं कुर्विति । स एवमुक्तस्त्रितो यज्ञे भागं वत्रे स्ववीर्यवृद्धयर्थ । तस्मै पाणिप्रक्षालनार्थमुदकं यज्ञभाग- मिन्द्रो दत्तवान् । तेन यज्ञभागेन वृद्धवीर्यस्त्रित इन्द्रेण त्रिशिरसा सह युद्धातं ? हत्वा तस्य स्वभूता गाव आजहार । स पुनरुज्जीवितो बहुतरं बलं प्राप्येन्द्रमयोधयत् । तं वज्रेण निर्मिनवानिन्द्रस्सपरा- ङ्मुखीकृतः । तस्य त्रीणि शिरांसि चिच्छेद वज्रणेन्द्रः महान्तं शत्रु- जयनिमित्तं सिंहनादं कुर्वन्निति । एतद् भावि वस्तु स्वप्नान्ते ऽनेन तृचेन ददर्श। यस्रलोक्यस्याधिपतिः तस्यास्येन्द्रस्य । ऋतुना त्रिशिरसो मम वधे साहाय्यकरणकर्मणा निमित्तेन । एवैः कामैर्यज्ञभागेच्छाभिश्च चोद्यमानस्त्रित ऋषिरिन्द्रस्य सखा । वने वृतवान् प्रार्थितवान् किल स्वप्नान्ते । अन्तमध्ये । कस्य सामर्थ्याद्यज्ञस्य । इच्छन्धीतिं दत्ति भागं । कुत इच्छन् । पितुः सर्वस्य जगतः पातुः । परस्य प्रकृष्टस्ये- न्द्रस्य सकाशात् । लब्धन च तेन यज्ञभागेन णेन ?। सचस्यमानः सेव्यमानस्सर्वयजमानैः । पित्राः सर्वस्य मातापितृभूतयोर्यावापृ- थिव्योः। उपस्थे समीपे सामर्थ्याद्यज्ञे । जामि योग्यमिन्द्रस्यानु- रूपं सामर्थ्यात् ॥ किञ्चान्यत्- स पित्र्याण्यायुधानि विद्वानिन्द्रषित आप्त्यो अभ्ययुध्यत् । त्रिशीर्षाणं सप्तरश्मिं जघन्वान्त्वाष्ट्रस्य चिनिः ससृजे त्रितो गाः ८ मया स्वप्ने दृष्टस्स एव पूर्वोक्तस्त्रितः । पित्र्याणि षितात्र किला- ग्निरुच्यते । सर्वस्य स तानि पित्र्याण्यानयान्यायुधानि । विद्वान् * इतोऽने कोषप्रदत्तमन्त्रप्रतांकाने नांद्धतान्यस्माभिः । + अयं मन्त्रः कोषे प्रतीकेन नोदाहृतः । ट १२] * ऋग्वदेभाष्यम् * [मं० १० । सू० ९॥ शत्रुवधाय प्रयोक्तं सर्वं हर्तश्च जानन् । इन्द्रषित इन्द्रेण त्रिशिरसा सह युद्धार्थ प्रेषितस्सन् । आप्त्यः अप्तः पुत्रः । अभि अयुध्यत् आभिमुख्येन युद्धं संप्रहृतवान् किल । त्रिशीर्षाणं त्रिशिरसं मां। सप्त- रश्मीन् शत्रुनिय[मन]र्थि सप्त प्रग्रहहस्तं । अथवा सप्त राश्मरा- दित्यः। तत्सदृशं क रश्मिन्निमश्रित? सप्तच्छन्दस्कं वाभियुद्धय च । जघन्वान् हतवान् किल । सामर्थ्यात् समूञ्छितं कृतवानित्यर्थः । कृत्वा च त्वाष्ट्रस्य चित् । चिदप्यर्थे । त्वष्टुः पुत्रस्य मम चान्यस्य वासुरस्य स्वभूता गाः निस्ससृजे नि[ सृष्टवान् किल निष्कालि- तवानित्यर्थः ॥ भूरीदिन्द्र उदिनक्षन्तमोजोवाभिनत्सत्पतिर्मन्यमानम् । त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणस्त्रीणि शीर्षा परावा ॥९॥ समूर्च्छय संज्ञां प्रतिलभ्य उत्थाय युद्धार्थ । भूरि इत् बद्विव पूर्वतुल्यमतिरिक्तरवेत्यर्थः [ रिक्तं वत्य० ?] । ओजः बलं । इनक्षन्तं व्याप्नुवन्तं कुर्वन्तमित्यर्थः । मन्यमानं शूरं बलवन्तं वात्मानश्चिन्त यन्तं । अथवा मन्यतिर्दीप्तिकर्मा क्रोधकर्मा वा । दीप्यमानं क्रुध्यन्तं वा । अथवा मन्यत इत्यर्थन्तिकर्मसु पाठात् । इन्द्रं स्तुवन्तं मां त्वाष्ट्रं । सत्पतिः सतां पाता शोभनो वा त्रैलोक्यस्य स्वामी । अवाभिनत् वज्रेण विदारितवान् किल । विदार्य च । त्वाष्ट्रस्य चित् । चिच्छब्दः किलार्थे । त्वष्टुः पुत्रस्य मम किल विश्वरूपस्य । गोनां गवां स्वामिन इति शेषः । आचक्राणः आकारादिशब्दं कुर्वि- त्यर्थः । त्रीणि शीर्षाणि शिरांसि । परा व पराङ्मुखस्य वृक्ण- वान् किल । ईदृशं भावि वस्तुस्वप्नान्ते दृष्टवाननेन तृचेन विश्वरूपः ॥ एतस्मिंश्च वस्तुनि पं? भूते सति इन्द्रस्य ब्रह्महत्यापनोदनमुत्तरं सूक्तमापो हि ष्ठेत्यब्देवत्यं खैलिक्या सह दशधं त्वाष्ट्रनिशिरा आंबरीषस्सिन्धुद्वीपो वा ददर्श ॥ । 'नवमं सूक्तम् । आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥१॥ * निघण्टु १ ॥ ४ ॥ मुत्तमं-कोषपाठः मैं० १० । सू० ९॥] * ऋग्वेदभाष्यम् * [१३ या यूयं स्नानपानसम्यग्[क]करणादिनाप्रकारेण सर्वस्य जगतः। मयोभुवस्थ सुखस्य भावाययो भवथ। तानः अस्मान् । ऊर्जे अन्नाय । दधातन धत्त। अन्नप्राप्नियोग्यानस्मान् कुरुत। अन्नमस्मभ्यन्दत्तेत्यर्थः। महे महते च । रणाय रमणीयाय । चक्षसे दर्शनाय । शानाय ज्ञान- प्राप्तियोग्याञ्चास्मान् कुरुतत्यर्थः । मनत्वं ज्ञानस्य सर्वविषयत्वात् स्वर्गापवर्गरमणीयफलप्राप्तिश्च रमणीयत्वं झानस्य । यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ।।२।। यः । वः युग्माकं स्वभूतः । शिवतमः अतिशयेन "शिवः सुख[ तमः ] । रसः गुणो मृष्टः खादुर्बलारोग्यकरश्च | तस्य रसस्यैकदेशं तं वारसं। भाजयत सेवयत।नः [अस्मान् । इह] अस्मिन् लोके । किमिव । उशतीः इव मातरः। यथा उशतीः कामयमाना स्तन्यं रसं मातरः परेण हार्दैन युक्ताः ॥ तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ ३ ॥ तस्मै पापाय शत्रवे वा तस्य पापस्य शत्रार्थाय यस्य पापस्य शत्रोर्वार्थाय विनाशाय । जिन्वथ प्रणयथ । तस्य यथा हे आपः [पुत्रपौत्रादिवृद्धिजनेन प्रयोजयथेत्यर्थः । नः अस्मान् ।। शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः ॥ ४ ॥ शं सुखं । नः अस्माकं । भवन्तु पापापनोदनद्वारेण । देवीरापः । अभिष्टये अभ्येषणाय च । भवन्तु प्रार्थितमर्थ यच्छन्तु चेत्यर्थः । अथवा अभिष्टये यागाय च यज्ञांगभावाय भवन्त्वित्यर्थः । पीतये पानाय च भवन्तु । स्नानपानादिक्रियामिनिवृत्तये चाव्यवच्छेदेन भव- न्त्वित्यर्थः। किञ्च शंशमनमुत्पन्नानां रोगाणामुपशमञ्च । योःयावनश्च पृथगभावमुत्पत्स्यमानानां भयानामपनयञ्च कुर्वन्त्य [न्तु] इति शेषः । नः अस्माकं । अभि उपरि । स्रवन्तु पावनार्थ सिच्यमानाः। ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । अपो यांचामि भेषजम् ॥५॥ ईशाना ईश्वराः । पार्याणां वारिप्रभवानां व्रीहियवादीनां ।
१४ ] ऋग्वेदभाष्यम् * [मं०१०। सू० १०॥ वरणीयानां । क्षयन्तीः ईश्वरानिवासयित्रीर्वा विशिष्ट गतिं गमयि- 'त्रीवेति । चर्षणीनां मनुष्याणां । अपदु [ अप्सु ?] याचामि भेषजं । भेषजमिति सुखनामव्याधेः। पापस्य वापनोदकं वस्तु । तदहं प्रार्थये ॥ सनुषीस्तदपसो दिवा नक्तश्च सनुषीः। वरेण्यक्रतूरहमा देवीरवसे हुवे ।। अब्देवत्या वै [ खै ]लिक्येषा । सनुषी श्रवणशीलः निम्नानु- . सारिण्यिः तदपसः । तदेव स्रवणशीलत्वं निम्नानुसारित्वमपः कर्म या सान्ततः। दिवा नक्तञ्च अहनि रात्रौ च सस्रषीः । वरेण्यक्रतुः स्नान- पानपावनादिवरणीयकर्माणः अहन्देवीरपः। आहुवे आह्वयामि । अवसे आत्मनो रक्षणार्थ तर्पणार्थ वा। दशमं सूक्तम् । उत्तरं यमयम्योः संवादसूक्तम्।ओचिदिति चतुर्दशर्चम् संवादेषु तु सर्वेषु स ऋषिर्यस्य वाक्यं । तत उच्यते तेन वाक्येन यस्स स्यादेवता तत्र । अत्रेतिहासमाचक्षते | यमी किल यमं समुद्रस्य मध्ये कश्चिदवान्तरद्वीपं रम्यं रमणाय नीत्वा कामितवती । स च यमस्तां भगिनीत्वात् प्रत्याख्यातवानिति । ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् । पितुर्नपातमा दुधीत वेधा अघि क्षमि प्रतरं दीध्यानः ॥ १॥ यमीवचनमेतत् । ओ इत्ययन्निपात आकुपसर्गस्याथै | ववृत्या- मित्यनेन च क्रियापदेन संबध्यते । चिन्निपातः पूजार्थे । चित् पूजित- मिष्टं श्रेष्ठं वेत्यर्थः । सखायं गर्भवासादारभ्य सखीभूतं यमं । सख्या सख्याय स्त्रीपुरुषसंपर्कजनितमित्रत्वायेत्यर्थः । ओ ववृत्यां आवत- यामि । आभिमुख्येन स्थित्वा लजां परित्यज्य संभोग करोमीत्यर्थः । तिरः अन्तर्हितं अन्यजनाप्रकाशं विजनं । पुरु चित् बहु विस्तीर्णश्चे- * निघण्टु ३६॥ इतोऽमे ये सन्ति चत्वारो मन्त्राः,न ते अत्र व्याख्याताः । प्रथमे मण्डले १।२३।२०-२३॥ व्याख्यातत्वात् । यद्यपि उद्गीथाचार्येण अनेन कोषानु- सारेण एवं नात्र स्पष्टीकृतं तथापि सूक्तस्यास्य दशात्मकत्वखीकरणात् इदमेव ज्ञायते । $ समग्रो ऽयं मन्त्रः कोषे लिखितः । न तु प्रतीकमात्रेण ।
। म०१०। सू०१०॥] * ऋग्वेदभाष्यम् * [१५ त्यर्थः । अर्णवं समुद्रैकदेशं अवान्तरद्वीपं । जगन्वान् गतवती सती ।। [धर्मस्य ] त्वरिता गतिरित्यनेन न्यायेन | कामस्यापि त्वरितगति- त्वात् । अपि च भविष्यतः पुत्रस्य पितुस्तवार्थाय । नंपातं अपत्यं गर्भलक्षणं । कीदृशं । प्रतरं सर्वगुणोपेतमित्यर्थः । आ दधीत दध ? विधाता गर्भाधाने हि तस्याधिकार इत्येवमुच्यते । उक्तश्च मन्त्रान्तरे गर्भाधानादित्वं- विष्णुर्योनि कल्पयतु त्वष्टा रूपाणि विंशतु । आ सिञ्चतु प्रजापतिर्धाता गर्भन्दधातु ते ॥ इति क्व आ दधातु । उच्यते । अधि क्षमि अधि पृथिव्यां मातुरुपरि उदर इत्यर्थः । किं कुर्वन्नादधातु | गर्भ दंपती इत्यावयोरनुरूपतामावयोरनु- रूपस्यापत्यजननार्थ रत्यर्थ संबन्धं करोत्वित्यर्थः । न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति । महस्पुत्रासो असुरस्य वीरा दिवो धार उर्विया परि ख्यन् ॥२॥ यम्यैवमुक्ते सात्मानं परोक्षी। इत्यर्थः। ते तव यम्याः। न सखा न गर्भवासलक्षणेन सखीभूतो यमः। सख्यं सखित्वं यत्वयोक्तं स्त्रीपुरुष- संपर्कलक्षणम् । एतन्न वष्टि न कामयते नेच्छति । कस्मात् कारणात् । यत् यस्मात् । सलक्ष्मा समानलक्षणा एकयोनिजत्वलक्षणा । विषुरूपा भगिनी सख्यं वष्टि एतत्सलक्षणा यद्विषुरूपा च । भवाति भवति यमी भवति । समानयोनिजत्वाद्यस्मान्मे भगिनी भवसि त्वं तस्मात्त्वान्न कामयेऽहमित्यर्थः॥ ओचित् सखायं सख्या ववृत्यां पितुर्नपातमादधीत वेधा अधि क्षमि प्रतरन्दीध्यान इत्यनयोर्वचनयोर्युक्तं पूतिवचन-न ते सख्यादयः लोकपालाः । कीदृशा वीराः। 'वीरो वीरयत्यमित्रान् वेतेर्वा स्यादति- कर्मणो वीरयतेर्वा' इति निर्वचनाद्विविधमीरयितारश्शत्रणाम् । उरु- विस्तीर्ण विजनञ्चावान्तरद्वीपं गूढसंभोगस्थानं त्वयाभिपूतो परिख्यन् सर्वतः अव्यवधानेन पश्यन्ति । तस्मादत्र न कश्चिदुष्करं क्रियमाणं पश्यतीत्येतन्मामंस्थास्त्वं । उक्तश्च मनुना- *ऋ० १०॥१८४।२॥ + 'यम आत्मानं परोक्षीकृत्य यमी प्रत्युवाच' इति सायणः। निरक्त ॥ ७॥ ।
१६ ] ऋग्वेदभाष्यम् * [मं० १० । सू०१०॥ मन्यन्ते वै पापंकृतो न कश्चित् पश्यतीति नः । तांश्च देवाः प्रपश्यन्ति स्वश्चैवान्तरपूरुषः ॥ इति एवं प्रत्याख्यायती प्रत्युवाच यमी। उशन्ति घा ते अमृतास एतदेकस्य चित्त्य जसं मर्त्यस्य । नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्व१मा विविश्याः ।।३।। घेति निपातोऽप्यर्थेऽत्र । ये अमृतासः देवाः प्रजापत्यादयः तेऽप्युशन्ति । कामयन्ते । यदगम्यत्वेन त्वयाभिप्रेतं । एतत त्यजसं त्यज्यते परस्मै प्रदीयत इति । त्यजसं दुहितभगिन्यादिस्त्रीजातं शास्त्रेणागम्यत्वेनोक्तं । एकस्य चिन्मय॑स्य | एकस्यापि मनुष्यस्य प्रजापत्यादे१हितृत्वभगिनीत्वादित्वेन संबन्धि दुहितृत्व भगिनी- त्वादिना संबन्धेन स्वसंबन्ध्यपि सदित्यर्थः । यतः प्रजापत्यादयोऽपि देवा स्वदुहितृभगिन्यादिस्त्रीजातन्त्यजसं विशेषेण कामयन्ते । अतः ते तव यमस्य । मनः मनसि | अस्मै अस्माकं संबन्धिनि । निधायि निधीयतां । मम चित्तमनुचित्तन्ते अस्तु । अहन्त्वां कामये त्वं मामपि कामयस्वत्यर्थः । जन्युः जन्युरिति लुप्तोपमं । जन्युरिव । यथा जनयिता प्रजापतिः पतिर्भूत्वा स्वदाहेतृस्तन्वमाविष्टवान् सम्भोगेन । एवन्त्व- मपि पतिर्भूत्वा मम तवं शरीरं सम्भोगेना विविश्याः। वि आशये आह- न यत्पुरा चकमा कद्ध नूनमृता बदन्तो अनृतं रपम । गन्धर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामितन्नौ॥४॥ यदगम्या मनं पुरा पूर्व प्रजापतिः कृतवान् । तेजोविशेषण- युक्तत्वात् । वयं न चकृम न कुर्मः । अपरदौर्बल्यात् । कच्छब्दः कदे त्यस्यार्थे । कद्ध नूनं कधप्रियां इति यथाह । निपातो वा । निपातार्थे नूनमिति । पदपूरणो निश्चयार्थो वा । निश्चयेन । ऋता ऋतं सरं वदन्तो ब्रवन्तस्सन्तः । अनृतमसत्यं । रपेम वदेम। उदितवन्तो वर न कदाचिदपीत्यर्थः । अगम्यागमनं न कुर्म इति निश्चितमेतत् ।नानूर ब्रम इत्यभिप्रायः । किञ्च गन्धर्वः गवां रश्मिनामुदकानां वा रश्मिभि मनुस्मृतिः ८ । ८६ ॥ भट्टमोक्षमूलरप्रकाशिते सायणीये ऋग्वेदभाष्ये अर * 'मं०२० । सू० १०॥] * ऋग्वेदभाष्यम् * [१७ राहतानां मण्डले धारयितादित्यः। अप्सु । आप इत्यन्तरिक्षनाम ।* अन्तरिक्षे भाकाशे स्थित इति शेषः । सप्तमी श्रतेः । अप्या अद्भि- संस्कृता अप्पूर्वन्दत्ता इत्यर्थः । योषा च स्त्री सरण्यश्च त्वदुर्दुहिते- त्यर्थः । सा नः । द्विवचनस्य स्थाने व्यत्ययेनेदं बहुवचनं । नौ आव- योः। नाभिहननं तदुभयमावयोवन्धनं शरीरसंहननन हेतुस्तावावयो- र्मातापित्रौ इत्यर्थः । ततः किमुच्यते । परममुत्कृष्टमुभयकुलविशुद्धं । तत् । जामि जन्माभिजने । नौ आवयोः । अभिजनवताश्चागम्यागमन- मनन्यरूपत्वादयुक्तं कर्तुं । तस्मादेतन करोमीत्यभिप्रायः ।। एकं यमेन प्रत्याख्याता सती यमी पुनराहोत्तराभिरनन्तराभिस्तिसृभिः ॥ गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः । नकिरस्य प्रमिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ।।५।। नु निपात एवार्थे । एव । गर्भावस्थायामेवेत्यर्थः । [नौ] आवां। दंपती जायापती । कः कृतवान् । एकोदरे सहवासस्य तत् कृतत्वात् । जनिता सर्वस्य जनयिता । देवस्त्वष्टा प्रजापतिः । सविता सर्वस्य प्रसविता शुभाशुभस्याभ्यनुशातेत्यर्थः । विश्वरूपः सर्वात्मक इत्यर्थः। यत एवमतः नकिः न केचित् । प्र मिनन्ति प्रहिंसन्ति लोपयान्त । अस्य प्रजापतेव्रतानि कर्माणि यद[ने नेह प्रजापतिना कृतं शुभम- शुभं वा तत् प्रमाणमवश्यकर्त्तव्यं । तस्माद् गर्भावस्थायामेवावयोः प्रजापतिकृते दंपतित्वे सति संभोगं कुर्वित्यभिप्रायः । किश्च वेद जानाति । नौ आवयोः । अस्य द्वितीयार्थ षष्ठयेषा । इदं दंपतित्वं मातु- रुदरे सहवासजनितं पृथिवी उत अपि द्यौः त्रयोऽपि लोकाः जानन्ति। नैतद् गृहितं शक्यत इत्यभिप्रायः ॥ को अस्य वेद प्रथमस्यान्हः क ई ददर्श क इह प्र वोचत् । बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नृन् ॥६॥ को वेद । को जानाति अनुमानेन । अस्य एतत् । द्वितायास्थाने व्यत्ययेन षष्ठयेपा । एतदगम्यागमनं । प्रथमस्याह्नः संबन्धि । प्रथमे- ऽहनि यत् क्रियते तदनुमानमाश्रित्य न कश्चिदपि ज्ञातुं शक्नोतीत्यर्थः। * निघण्टु १२॥
१८] * ऋग्वेदभाष्यम् * [मं० १०। सू० १०॥ कई को वा । ददर्श प्रत्यक्षतः पश्यति । न कश्चिदपीत्यर्थः । अथ दृष्टं कथञ्चिदेतेन केनचिदावाभ्यां क्रियमाणमथनन्तत् । कः। इह लोके ।प्र वोचत् प्रब्रवीति प्रख्यापयति । न कश्चिदपीत्यर्थः । अथ मित्रावरुणो जानीतः पश्यतः । यत् बृहन्महत् । मित्रस्य वरुणस्य च । धाम जन्म आभिजनः । अभिजनवतां वा कत्वं परव्यसनं प्रत्ययुक्तमिति प्रशातेनापि प्रत्यक्षतः पश्यति। अथ दृष्ट कथञ्चिन्नापि प्रत्याख्यापयतः . इत्यभिप्रायः । एवमवस्थिते वस्तुनि | कदु ब्रवः । कच्छब्दोऽत्र किं शब्दाथ। उ शब्दश्च वा शब्दार्थे । किं वा ब्रवीषि त्वं । हे आहनः । आहन्तः मर्यादया हिंसितः । वींच्यादिनरकेण नृन् मनुष्यान् स्वकृत- शुभाशुभकर्मापेक्षया मनुष्यादिप्राणिनां नरकपातनेन स्वर्गप्रापणन वा निग्रहानुग्रहयोः कतरित्यर्थः । यत एवमेतो निर्विचारे ॥ यमस्य मा यम्यं १ काम आगन्त्समाने योनौ सहशेय्याय । जायेव पत्ये तन्वं रिरिच्यां वि चिद्व्हेव रथ्येव चक्रा ॥७॥ यमस्य तव। काम इच्छा। मां मयि यम्यां यमी प्रति। आ अगन् आगच्छतु । ममोपरि तव यमस्य संभोगेच्छा जायतामित्यर्थः । किमर्थ उच्यते । समान एकशब्दपर्यायोऽत्र समानशब्दः । समान- बन्धू समानस्सन्नुभौ लोकावनुसञ्चरतीति च यथा समान एकस्मिन् योनौ संभोगस्थान शय्याख्ये । सहशेय्याय सह शयनाय । अनन्तरञ्च पूर्णमनोरथा सती । जाया इव पत्ये । यथा भार्या पत्युरर्थाय परया व्रीयोगाद्वीस्रब्धा सती स्वं शरीरं रतिकाले प्रकाशयति । एवं तन्वं शरीरमात्मीयं रिरिच्यां। [संभागा]दिकाले तवाहं प्रकाशयेयमित्यर्थः। किञ्च । विचित् । वृहेव । चिन्निपातः पदपूरणः। वि वृहेव वृह उद्यमने । धर्मार्थकामान् विविधमुद्यच्छावः। भवसन्नानुष्ठानेनोपक्षिपाव इत्यर्थः । किमिव । रथ्या इव चक्रा । यथा रथस्यावयवभूते चक्रे रथमुत् क्षिवतः? || *०माणमथानन्तरं एवमतो।
मं०१० । सू०१०॥] * ऋग्वेदभाष्यम् * [ १९ एवं यम आहोत्तराभिस्तिसृभिरनन्तराभिः॥ न तिष्ठन्ति न निमिषन्त्येते देवानां स्पश इह ये चरन्ति । अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥ ८॥ एतत् त्वया न मन्तव्यं न कश्चित् पश्यतीति । नक्षणमात्रमपि चरव्यापारविरहितास्तिष्ठन्ति । न च नि मिषन्ति । प्रमादरहिताः प्रयतो न। यो यत् करोति शुभमशुभं वा तत् सततन्निरीक्षन्ते चेत्यर्थः। एते देवानां स्वभूताः स्पशःचराः। अहश्च रात्रिश्चोभेच] सन्ध्येत्येव- मादयो मनुना निर्दिष्टाः । इह लोके ये चरन्ति । इतश्चेतश्च कृताकृत- प्रत्यवेक्षणार्थमापरिभ्रमन्ते । एतज्ञ ज्ञात्वा मया सह प्रच्छन्नपाप- करणचिन्तां परित्यज्य । मन् मत्तः । अन्येन त्वदनुरूपेण | आहनः असभ्यभाषणेन ममाहन्ति दुःखयित्रि । याहि मैथुनं गच्छ । तूयं क्षिप्रं । गत्वा च तेन सह वि वृह उद्यच्छ असन्नानुष्ठानोत्क्षिप धर्म- थकामान् । किमिव । रथ्या इव चक्रा । यथा रथस्यावयवभूते चक्रे रथमुद्यच्छतः एवं । किञ्च ।। रात्रीभिरमा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन्मिमीयात् । दिवा पृथिव्या मिथुना सवन्धू यमीर्यमस्य विभृयादजामि ॥९॥ स्पशःसामान्येनोक्ताः। विशेषत उच्यन्ते ।रात्रीभिस्सह अहोभिश्च सह दिवा च सह पृथिव्या नेद्वियुक्तौ ? उभौ सन्ध्याकालौ समानबन्धू । समान एको बन्धुर्शातिरादित्यो जनकत्वादायोः* ताभ्याञ्च सह । अस्मै लोकाय शुभाशुभकारिणे । दशस्य [त् दाश्येत् दाशति ददाति । कः सामर्थ्याल्लोकपालजनाः। किं ददाति सामर्थ्यात् कृताकृत प्रत्यवेक्ष- णार्थ दृष्टिं सूर्यस्य च संबन्धि चक्षुः। मुहुरुन्मिमीयात् । प्रतिक्षणमुन्मि नोतिचीत्करोति न परिच्छिन्नत्तीत्यर्थः। एतज्ज्ञात्वा यमी बिभृयात् । यमी धारयतु पतित्वे परिगृह्णात्वित्यर्थः । कं । यमस्य मम । अजामि अभ्रातरमित्यर्थः । एतदुक्तं भवति अहं तावदयोग्य एव पतित्वेन परिग्रहीतुं । तव भ्रातृत्वात् । योऽपि मया भ्रातृत्वेनाभ्युपगतः सोऽप्य- योग्य इत्यभिप्रायः । किं च ॥ दनयोः ?
२० ] * ऋग्वेदभाष्यम् * [मं० १०। सू०१०॥ आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवनजामि । उप बहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ।। १० ॥ घेति पदपूरणो निपातः । आ गच्छान् । आगमिष्यन्ति । ता तानि । उत्तरा उत्तराणि । युगानि कालाः । कलियुगान्ते । नेदानीं वर्त्तन्त इत्यभिप्रायः। यत्र येषु कालेषु । जामयः भगिन्यः । कृणवन् करिष्यन्ति । अजामि जामि भतृत्वेन नास्ति यस्य तद् जामि भगिन्या अयोरख मैथुनलक्षणं कर्म । एतज्ज्ञात्वा उप बहि बिभर्तेर्भकारस्य छान्दसोऽयं वकारः। शय्यास्तस्य समीपे धार[य] बाहुमात्मीयं वृषभाय रस्ता योनौ रेतो वर्षति तस्यार्थाय । तं परिप्वक्तमित्यर्थः । तश्चान्य- मिच्छस्व कामयख । हे सुभगे पति मन्मत्तः । अहमयोग्यस्तव भ्रातृ- स्वादित्यर्थः ॥ यम्याह- - किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निर्ऋतिर्निगच्छात् । काममूता बढे३ तद्रपामि तन्वा मे तन्वं१ सं पिपृग्धि ॥ ११ ॥ सा लुप्तसप्तमीविभक्तिका । यच्छब्दश्रतेस्तच्छब्दोऽ- ध्याहार्यः । किं स भ्राता । असत् भवति न भवतीत्यभिप्रायः । यत् यस्यां भगिन्यां सत्यां भ्रातरं निर्ऋतिदु:खन्निगच्छात् नियमेन गच्छति प्राप्नोति । भ्रातृभगिन्योश्च परस्परः प्रीतियन केनचिदुपायनावश्यं कार्येत्यभिप्रायः । काममूता काममोहिता सती । अथवा मूङ् बन्धने। कामेन बद्धा गृहीता वशीकृता सती । बहु नाना प्रलपामि । एतज् ज्ञात्वा तन्वा स्वशरीरेण । मे मम । तनुं शरीरं । सं पिपग्धि संपर्चय संभोगेन संश्लषय संभुव मामित्यर्थः ।। यम आह- न वा उ ते तन्वा तन्वं१सं पपृच्या पापामाहुर्यः स्वसारं निगच्छात् । अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥१२॥ न वै । वै निपात एवार्थे । उ निपातः पदपूरणः । न वै [नैव] ते तव । तन्वा शरीरेण । तन्वं शरीरं आत्मीयं । सं पपृच्यां सम्प- चयामि । संभोगेन संश्लेषयामि । नैवाहं त्वां संभोक्तुमिच्छामीत्यर्थः। ।
। - मं१० । सू० १०॥] * ऋग्वेदभाष्यम् * [२१ कस्मात् कारणात् । यतः पापं पापकारिणं तं पुरुषमाहुः वदन्ति शिष्टाः । यः स्वसारं भगिनीनिगच्छात् नियमेनोपगच्छति संभुक्त इत्यर्थः । एतज्ज्ञात्वा मन्मत्तः। अन्येन अन्यतरण त्वद्योग्येन पुरु- षेण सह । प्रमुदः प्रहर्षान् संभोगलक्षणान् । कल्पयस्व समर्थय निव- र्थयेत्यर्थः । ते तव भ्राता हे सुभगे | न वष्टि न कामयते नेच्छति कर्त एतन्मैथुनं । त्वया सह नेच्छामीत्यर्थः ॥ बतो बतासि यम नैव ते मनो हृदयं चाविदाम । अन्या किल त्वां कक्ष्येव युक्तं परि बजाते लिबुजेव वृक्षम् ॥१३॥ यमी यमं कामयमाना तेन प्रत्याख्याता सती सेय॑न्तमाह- वत इति निपातः खेदानुकंपयोः । बतः खिन्नो दुर्वलः। बत अनु- कंप्यश्वासि । भवसि त्वं हे यम! न एव शब्दस्समुच्चये । न च ते तव। मनः मनोगत संकल्पमित्यर्थः । हृदयञ्च बुद्धिगतमद्ध्यवसायश्चेत्यर्थः । अविदाम विजानीमः । केन कारणेन । दुबल इति अथवा ज्ञातन्तव दौर्बल्यकारणं । किमुच्यते । मत्तः अन्या काचित् स्त्री किल त्वां शय्यागतं रतिकाले । परि वजाते परिवंश्वते । किमिव । कक्ष्या इव युक्तं । यथा कक्ष्या रज्जुरात्मना युक्तं संबद्धं गाढमश्वं परिष्व- जते । एवं लिबुजा इव वृक्षं ! यथा च लिवुजा वल्ली वृक्षं गाढं परिष्व- जते तद्वच्च । अन्यस्यां कस्यामपि स्त्रियामासक्तत्त्वात् दुर्बलोऽसि । अत एव च मां परिष्वक्तन्नेच्छसीत्यभिप्रायः ॥ अन्यमू षु त्वं यम्यन्य उ त्वां परि वजाते लिबुजेव वृक्षम् । तस्य वा त्वं मन इच्छा स वा तबाधा कृणुष्व संविदं सुभद्राम् ॥१४॥ सेर्ण्यमेवमुक्ते यमः प्रत्याचक्षाणः प्रत्युवाच । अन्यम् उ सु । उ शब्द एव शब्दार्थे । सुशब्दोऽभिपूजितार्थे । अन्यमेवाभिपूजितं कश्चित्त्वद्योग्यं पुरुषश्च हयमिव परिप्वंक्ष्यसे । लिवुजेव वृक्षं वृत. तरिव वृक्षं न मां भ्रातृत्वकारणेनायोग्यत्वाद् । अन्य उ अन्यश्च त्वद्योग्य एव त्वां परिप्वजाते परिष्वंक्ष्यते। नाहं परिष्वंजे भ्रातृत्वात् । तस्य वा । वा शब्दस्समुच्चयार्थे । तस्य च त्वद्योगस्य मनश्चित्त- मात्मीयमिच्छ वशेकििमति शेषः । तस्य च त्वं वशवर्तिनी भवेत्यर्थः।' सखा तव स च पुरुषस्तव वशवर्ती भवत्वित्यनुवर्त्तते । अध अथ - २२] * ऋग्वदेभाष्यम् * [म०१० । सू० ११॥ परस्परवशं कृणुष्व कुरुते । न सह संविदं परस्परसंभोगसुख- सेवित्तिं । सुभद्रां सु कल्याणीं। इहलोकपरलोकाविरोधिनीमित्यर्थः ॥ । एकादशं सूक्तम् ॥ वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः। विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियाँ ऋतून् ॥१॥ वृषा'वर्पिका आहुत्याधारत्वेन प्रणाधिकया वृष्टेदाता अग्निः । वृष्णे यज्ञद्वारेण स्तुर्तानां हविषां वृष्टश्च वर्पितुर्यजमानस्यार्थाय । दुदुहे दाग्धि पूरयति प्रक्षारयति । कथं । दोहसा दोहनेन महाता] प्रक्षारणेन । कुतः। दिवः सकाशात् । पयांसि उदकानि वृष्टिलक्षणानि । कीदृशोऽग्निईदुहे । यह्वः महान् । अदाभ्यः अहिंस्यश्च । कीदृशस्य यजमानस्य र्थाय दुदुहे । अदितेः अक्षीणयागक्रियस्य । किञ्च । विश्वं सर्व । सोऽग्निवंद जानाति । किमिव । वरुणो यथा आदित्य इव। केन वेद । धिया प्रझया आत्मानुरूपया। ईदृशोऽग्निस्स । यशियः यशाहः । यजतु पूजयतु । यज्ञियान् यज्ञानृितून देवतात्मकान् ॥ रपद्गन्धर्वीरप्या च योषणा नदस्य नाद परि पातु मे मनः । इष्टस्य मध्ये अदितिनि धातु नो भ्राता नो ज्येष्ठः प्रथमो विवोचति।। रपत् । रप ल[प] व्यक्तायां वाचि ।रपितवता अग्निगुणान् व्यक्त- मुक्तवती मनस्समागयोगात् ? । गन्धर्वीः वाक् स्तुतिलक्षणा । अप्या च अद्भिः संस्कृता च योषणा । स्त्री आहुतिलक्षणा । अग्निं सम्यक्त- पितवतीति शेषः । नदस्य । नद इति स्तोतनाम | रतातुर्मम संबन्धिनी। एतज्ज्ञात्वा इदानीमपि नादे शब्दे स्तुतिलक्षण सम्यकर्त्तव्यत्वेन निमित्तभूते । परिपातु चलत्वादितश्चेतश्च गच्छन् स्वस्थापनेन सर्वतो रक्षत्वग्निमें मम स्वभूत मनः। येनाहं समाहितमतिर्भूत्वा सम्यक् स्तुति करोमीत्यभिप्रायः । किश्चान्यत् । इष्टस्य यशस्य मध्ये । अदि. तिरदीनोऽग्निः । नि धातु। धनदानेन श्रद्धाजननेन च नित्यं स्थापयतु। नः अस्मान् । किञ्च भ्रातापि। नः अस्माकं सम्बन्धी । ज्येष्ठः प्रथमः सर्वप्रयोजनेषु प्रधानः । वि वोचति । यन्मयोक्तं तदेव विशेषेण * निघण्टुः ३ | १६॥
.. मं०१० । सू० ११॥] * ऋग्वेदाप्यम् * [२३ वक्ति । एतदुक्तं भवति । अहमेव न केवलं सर्व एवास्मत् कुलीनो देवयागप्रिय इति ॥ सो चित्र भद्रा क्षुमती यशस्वत्युपा उवास मनवे स्ववती । यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥३॥ सो चिक् [त् ] या पूर्वेष्वपि कालेषु अग्निर्यागार्थमुदितमति? | सैव नु क्षिप्रं । भद्रा कल्याणी । क्षुमती क्षुशब्दे स्तुतिशब्दवती स्तुति- मतीत्यर्थः । अथवा प्रातरुत्थितपक्षिमनुष्यादिशब्दवती । यएस्वती कीर्तिमती धनवती वा । उपा उवास उषितवतीत्यर्थः। किमर्थ । मनवे सर्वस्य मन्त्रशातुरग्नेर्यागामित्यर्थः। स्वर्वती आदित्यवती। आदित्य- स्य प्रभासमीपस्थावेत्यर्थः। कदा उदितवती । उच्यत । यत् यदा। ई एनं । उशन्तं स्तुति हविश्व कामयमान उशतां यष्टुं कामयमानानां यज्वनां संबन्धिनमग्नि । होतारं आह्वातारं त्वेन? होमकारिणं वा । अनुक्रतुं। विदथाय यज्ञाय यागार्थ । जीजनन् जनितवन्तः प्रज्वालितवन्तः ऋ- त्विग्यजमानः तदोदितवतीति संबन्धः ॥ अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः दयेनो अध्वर । यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥४॥ अध अथ अनन्तरं । त्यं याग्नौ हूयते यज्वभिर्देवतार्थ तं । द्रय- सं दात्यच्छम् अति बहुलं सोमं । विश्वं महान्तं । विचक्षणं विविध- न्द्रष्टारं सर्वस्याविः पक्षी। आभरत आहृतवान् । इषितःप्रेषितोऽग्निना । श्यनः । अध्वरे यशे । किञ्च । यदि यदा । विशः मनुष्याः । वृणते प्रार्थयन्ते। दस्मं दर्शनीयं शत्रणामुपक्षपयितारं वा । कीदृश[:] मनुष्याः आर्याः अभिगमनीयाः । मां ब्रवन्तो यजमाना इत्यर्थः । अग्निं होतारं होत्रा (?) पदार्थकारिणं आहातारं वा देवानां । अध अथ । धीः कर्म इतिकर्तव्यता । अजायत जायत प्रवर्तत इत्यर्थः॥ सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुपः स्वध्वरः । विप्रस्य वा यच्छशमान उक्थ्यं१ वाजं ससवां उपयासि भूरिभिः॥ सदा सततम् । असि भवसि। रण्व रमणीयः। किमिव । यवसा व पुष्यते । यथा यवसानि हरितद्रणयवादिघासाः । पुष्यतः स्वपुष्टि
२४ ]
* ऋग्वेदभाष्यम् * [मं०१० । सू०॥१॥
कुर्वतः हस्त्यश्वगोमहिप्यादिचतुष्पदस्य रमणीयाः प्रीतिकारास्सदा
भवन्ति । किञ्च । होत्राभिः। हात्रेति यज्ञनाम । * यज्ञैः हे अग्ने ! मनुषो
मनुष्यस्य सर्वस्य यज्वनस्वभूतैः । स्वध्वरः सुयज्ञः मनुष्यसम्बन्धिनां
यक्षानां खिष्टकृता गुणकारी भूयिष्ठभाग भवेत्यर्थः । किञ्च। वि. स्य वा
धाविनः । भूरि]भिर्बहुभिर्देवैः च सह ॥
उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।
'विवक्ति वह्नि स्वषस्यते मखस्तविष्यते असुरो वेपते मती ॥६॥
उत् ईरय उद्गमयत्वमात्मज्योतिरिति शेषः । पितरा पिता
मात्रेत्येकशेषविज्ञानात् सर्वप्राणिनाम्मातापितृभूते द्यावापृथिव्यौ
प्रतीति शेषः । अथवा आदित्यादिज्योतिषूद्गमनस्य च प्रकाशनस्य
च संबन्धदर्शनात्। उद्गमनेन प्रकाशनं लक्ष्यते प्रकाशयाभे आवद्या
वा पृथिव्यौ सुष्टु ज्वालित्यर्थः ? । किमिव । जार आ भगं । आकारो-
ऽत्रोपमार्थः। रात्रेनक्षत्रादिज्योतिप्तिनाञ्चजरयितृत्वाजार। आदित्यः
सवितृशब्द[]वा द्यस्थानः स यथा भगमादित्यन्यस्थानमेवोत्तरावस्थं
भजनीयं वा खज्योतिः भौम वा पारदारिक एव भगोऽपि स्त्री भगः
यथाजारः पारदारिकनो देवा हर्यतो यागं कामयमानान् हृत्तः हृदयेन
इष्यति।
इपिरयं गत्यर्थश्शुद्धोऽप्यध्युपसर्गपूर्योऽत्र द्रष्टव्यः अधीष्यति
अधिगच्छति देयास्यभवत्यर्थः ? विवक्तिव[वि?]वक्ष[ति शस्त्र लक्षणा
स्तुतीः वह्निवोढा स्तुतीनान्देवान् प्रति प्रापयिता होता। स्वपस्यते शोभ-
नश्च स्वकर्म कर्तुमिच्छति । मखः। मिख शब्दाद्यज्ञनाम्नस्तत्करोतीति
णिच् ण्यन्तादविकृते मख इति यशकार्यध्वर्युरुच्यते । तविष्यते । तव-
तिवृद्धयर्थः । स चात्रान्तीतसनर्थश्च द्रष्टव्यः कृता ? वयिषति
च स्तोत्रलक्षणा स्तुतीर्वधयितुश्चच्छतीत्यर्थः । असुरः प्राणवान्
प्रज्ञावान् वा उद्गाता। वेपते टुवेपृ कंपने उत्पन्ने च[त्यन्ये?]त्ने ऋत्विकर्म
वैगुण्ये प्रायश्चित्तकारित्वात् कर्मवैगुण्योत्पत्तेर्बिभ्यत् कंपते च ।
मती मत्या बुद्धया । कः सामर्थ्यात् ब्रह्मा। यतो यजमामः सर्वविजश्च
*निघण्टु ३ । १७ ॥१३॥१७॥
मं०१०। सू०११॥] * ऋग्वेदभाष्यम् *
। २५
स्वं स्वं कर्म कर्तुमिच्छन्ति]न्त । तच्च त्वदुद्यामनमन्तरेण न शक्यते
कर्तुं । अत उद्यामयेत्यर्थः॥
यस्ते अग्ने सुमतिं मर्तों अक्षत्सहसः सूनो अति स प्रशृण्वे ।
इषं दधानो वहमानो अश्वैरा स घुमा अमवान्भूषति यून् ॥७॥
यस्ते तव स्वभूतां । हे अग्ने । सुमतिं शोभनां स्तोतॄणां यष्ट्ट
णाश्चानुग्राहिकां बुद्धिं । मर्तो मनुष्य स्तोत्राख्यो यष्ट्राख्यश्च । अक्षत्
अश्नोति । स्तुतिभिहविर्भिश्च त्वामनुग्रहशील परिचरतीत्यर्थः ।।
हे सहसस्सूनो बलस्य पुत्र । स मनुष्यः । अति च[प्र] शृण्वे श्रयते ।
सर्वाल्लोकानतीत्य प्रकर्षेण श्रयते । इषमन्नं । दधानः [मृ]ष्टान्यर्थिभ्यो
ददन् । वहमान ऊह्यमानश्च । अश्वै[:]तोत्तरकालं? देवो भूत्वा । द्यमान्
द्युस्थानवान्दीप्तिमान् वा । अमवान् आत्मवांश्च स्वाधिकार प्रति यत्न
वान् वेत्यर्थः । भूषति भवति । कियन्तं कालं । उच्यते । द्यन् द्यरित्य-
हर्नाम* । [आचन्द्रार्क] मित्यर्थः ॥
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र।
रत्ना च यद्विभजासि स्वधावो भाग नो अत्र वसुमन्तं वीतात् ।।८।।
यत् यदा । त्वग्ने । एषा अस्मत् कृता । समिति स्तुतिसंगति-
राहुतिसंगतिश्च । भवाति । देवी दीप्ता गुणैः । उच्यते । देवेषु ।
कीदृशषु । यजता यजतेषु याव्येषु । देवा यष्टव्या अस्माभि
स्तूयन्ते इज्यन्ते चेत्यर्थः । हे यजत्र यष्टव्य । रत्ना रत्नानि च धनानि ।
यत् यदा । विभजासि स्तोतृभ्यो यष्टुभ्यश्च विभजासि । हे स्वधावः
हविरन्नवन् । भागं अंशं । नः अस्मान् प्रति । अत्र काले तदेत्यर्थः ।
वसुमन्तं धनवन्तं नानाधनावयवं सर्वकार्यनिर्वर्तनक्षममित्यर्थः ।
वीतात् । तुह्योस्तातङ्काशिष्यन्यतरस्यामिति । हे स्थानेऽत्र ताङ् ।
अन्तर्णीतण्यर्थश्चात्र द्रष्टव्यः । वाहय गमयास्मभ्यं देहीत्यर्थः ॥
श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।
आ नो वह रोदसी देवपुत्रे माकिदेवानामप भूरिह स्याः॥९॥
* निघण्टुः ११९॥
पा० ७॥१॥ ३५॥
२६ ] * ऋग्वेदभाष्यम् * [मं० १० । सू१२॥ हे अग्ने । श्रधि शृणु। नः अस्माकं वचनमिति शेषः । व स्थितः। उच्यते । सदने स्थाने वेद्याख्ये। कीदृशे । सधस्थे सह- स्थाने सर्वदेवसाधारणस्थाने । तमद्वचनं उच्यते । युक्ष्व आह्वान्दे- वान् प्रति गमनाय युंक्ष्व । रथमात्मीयं । कीदृशं । अमृतस्य देवपानस्य मधुनः । द्रवित्तुं द्रवितारं युक्ष्व रथं । तेन गत्वा च । नः अस्माकं यज्ञं प्रति । आ वह प्रापय | रोदसी द्यावापृथिव्यौ । देवपुत्रे देवस्य प्रजापते- ईहितरौ । माकिः मा च कश्चित् । देवानां मध्य एकोऽपि देवः । अप भूः अप भविता स्यात् । अस्मद्यज्ञानपगन्ता स्यात् । निरवशेषा- न्देवानाह्वयस्वेत्यर्थः । त्वमपि च । इहास्मिन् यज्ञे अस्मदीये । सदा सन्निहित स्याः भवत् ॥ ॥ द्वादशं सूक्तम् ॥ द्यावा ह क्षामा प्रथम ऋतेनाभिश्रावे भवतः सत्यवाचा । देवो यन्मान्यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ् स्वमसुं यन् ॥१॥ ह शब्दोऽत्र पादपूरणः । द्यावाक्षामा द्यावाक्षाम द्यावापृथिव्यौ । प्रथमे पिण्डाधाराण्डकपालाभिमानित्वसृष्टौ पूर्वक्षाते इत्यर्थः । प्रधाने वा। ऋतेन तनिवासिना देवजनेन सहेत्यर्थः । अभिश्रावे मुख्ये- न श्रयत इत्यभिधावस्तत्र । भवतः। लोडर्थेऽत्र लट् । सामीप्यलक्ष- णा चे । सप्तम्यषा गः? गायां? गावश्चरन्तीति । यथाद्वान समनास्मद् धर्माप्रियतामित्यर्थः । कीदृश्यौ द्यावापृथिव्यौ । सत्यवाचा सत्य- वाचौ अवितथवचने सत्यवादिन्यावित्यर्थः। कदा अभिश्रावे भवतः । उच्यते । देवोऽग्निः । यत् यदा । मर्तान् मनुष्यान् । यजथाय देवया- गाय । कृण्वन् कुर्वन् प्रेरयन् । सीदत् निषीदति वेद्यां। होता देवा- नामाह्वाता । प्रत्यङ् देवान् प्रत्यञ्चिताबानार्थ । स्वमात्मीयं । असुं प्राणज्वालालक्षणं सर्वार्थदर्शनलक्षणं । यन् प्राप्तवांश्च । तदा प्राप्त अस्मद्यागकाल देवान्द्यावापृथिवी प्रमुखानग्निराह्वयतीत्यर्थः ॥ देवान्परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान् । धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान्।।२।। यस्त्वं देवः । देवान् । परिभूः देवानां परिग्रहीता वाह्वानहवि- किं तवचनं-सायणपाठः।
. मं० १० । सू० १२॥] * ऋग्वेदभाष्यम् * नयनद्वारेण स त्वं । ऋतेन यज्ञेन सह । वह प्रापय । नः अस्माकं । हव्यं हविः। प्रथमः यागसाधनानां पूर्वः प्रधानो वा । चिकित्वानू ज्ञातवांश्च । धूमकेतुः धूमस्य कर्त्ता च धूमपताको वा धूमशानोपायश्च । समिधा समिन्धनेन सन्दीपनेन । भानजीकः । ऋजुकदीप्तिः । ऊर्ध्व- ज्वलन इत्यर्थः । मन्द्रः स्तुत्यश्च । होता आह्वाता च देवानां । नित्यो ध्रुवः । वाचा । ययिान अतिशयेन यष्टा च ॥ स्वाग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी । विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥ ६ ॥ यदि यद्यपि । गोः पृथिव्याः। अतः अस्यास्सकाशात्। जातासः जाता उत्पन्नाः । अस्यां पृथिव्यां भवाः पृथिवीलोकनिवासिनो यज- माना इत्यर्थः । धारयन्ते हविषा स्थितिं कुर्वन्तो विभूतिः । उर्वी द्यावापृथिव्यौ सकलजगतस्थितिं कुर्वन्तीत्यर्थः । तथापि स्वावृक् स्वावर्जन हविरांधारत्वात् संस्कर्तृत्वात् नेतृत्वाच्च स्वदत्तिरेवेत्यर्थः । देवस्य तवाग्नेः । अमृतं देवान्नांनं] हविरित्यर्थः । हविषा त्वमेव जगत् पुष्ण नान्यः कश्चिदित्यर्थः । सर्वे देवा वृष्टिद्वारेण प्रदानद्वारेण पुष्ण- न्तीति चेत् नयतः । विश्वदेवा अनु गुः । अंग भावार्थमनुगच्छन्ति । तत् तदा । के संबन्धि त्वत् प्रदानकर्तृकमित्यर्थः । यजुः यशं । दुहे दोग्धि प्रक्षरन्ति । यत् यदावा । एनी एतवर्णा शुद्धस्वरूप[1] वा आहुति स्तुतिश्च त्वयि हुता कृता च सती । दिव्यं दि ? । घृक्षरणदीप्त्योः । क्षरति दीप्तं वा आदित्यमण्डले परवामित्यर्थः ? । वाः वारि वृष्टय- दकं अतस्त्वमेव संस्काराहुत्याधारादिद्वारेण जगतस्थिति करोषी- त्यर्थः॥ अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । अहा ययावोऽसुनीतिमयन्मध्वा नो अत्र पितरा शिशीताम् ॥४॥ हे अग्ने । वर्धाय प्रज्वल प्रोत्सर्पयेत्यर्थः। अपः कर्म अग्निना कर्मणि प्रोत्सर्पितेऽग्निप्रसादेन चाभ्यनुलासे च। अर्चामि । ऋच स्तुतौ । स्तेम ! वां युवां । हे घृतस्नू । वृष्ट्यदकस्य प्रसवित्र्यौ । हावाभूमी द्यावापृथिव्यौ । एतज्ज्ञात्वा मे मम स्तुतिरिति शेषः । शृणुतं हे २८ ] * ऋग्वेदभाष्यम् * [मं० १० । सू०१३॥ रोदसी द्यावापृथिव्यौ । कस्मादेवं ब्रवीमि । यत् यस्मात् । अहा अहरित्य[स्य सामर्थ्यादहोरात्रसाध्यं कर्मोच्यते । सप्तम्येकवचनस्य चा[अजादेशः । अहनि अहोरात्रसाध्ये कर्मणि । अग्निना प्रोत्स- र्पिते सति । द्यावः सामर्थ्यात् पृथिव्यश्च । असुनीतिं । असुरीति प्रज्ञा ।* तया परिसमाप्तिन्नीयत इत्यसुनीतिरत्र स्तुतिरुच्यते । तां श्रोतुं । अयन् गच्छन्ति । अत एवं ब्रवीमि । श्रत्वा च स्तुतिमग्निसाध्ये कर्मणि तदनुज्ञानेन । मध्वा वृष्टयुदकेन । नः अस्मान् । अत्र लोके वा वर्त- मानानिति शेषः। पितरा सर्वस्य मातापितृभूते द्यावापृथिव्यौ । शिशीतां शो तनू[करणे] इत्यस्यैतद्रूपं । शिशीते शृंगे। इति यथा। तनूकरणेन चात्र संस्कारो लक्ष्यते । स्नानपानाचमननस्यनिष्पादनादिसंस्कारेण संस्कुरुतामित्यर्थः ॥ किं खिन्नो राजा जगृहे कदस्याति व्रतं चकमा को वि वेद ।। मित्रश्चिद्धि ष्मा जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति ॥५ किं स्थित् । स्विच्छब्दो वितर्कार्थे । किंवा । नः अस्माकं स्व- भूतानि हवींषि स्तुतीश्च | राजा सर्वस्य स्वामी । दीप्तो वाग्निः । जगृहे परिगृह्णीयात् । परिचरणवैगुण्यात् । कत् किं वा । अस्याग्नेर्वतं कर्मपरिचणाख्यं । अति चकम। अति सु इत्यभिपूजितार्थ थे] 1: अभि- पूजितं । ... ... ... ॥ त्रयोदशं सूक्तम् ॥ यमे इव यतमाने यदैतं प्रवां भरन्मानुषा देवयन्तः । आ सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः ॥२॥ इव सुसदृशे । यतमाने गमनएवंधारणादिस्वाधिकारकमन्न- प्रयत्नं कृतवती । परस्परेण संगच्छमाने वा । यत् यदा। ऐतं गत- वतीस्थो युवां हविर्धीनस्थानं प्रति तदा । वां युयां । हविर्भानशकटे निघण्टुः ३ । ९॥ यजुः० ९॥३८॥ महाभाष्योऽपि ६।११४५॥अत्र द्रष्टव्यः । निरुक्तश्च४।१८॥ निरुक्त १ । ३ ॥ ५-मावि मोजाना मारते परन्त ग्रन्थपातोऽत्र जातः । नास्ति सन्देहोऽस्मिन् ।
। मं०१० । सू० १३॥] * ऋग्वेदभाष्यम् * [२९ द्वे अपि । प्र भरन् प्रभवन्तः । हविर्धानं प्रत्याहृतवन्त इत्यर्थः । मनुष्या ऋत्विजश्च यजमानाः । देवयन्तः देवान् यष्टुमिच्छन्तस्सन्तः। एतज् ज्ञात्वा आसीदतं निषीदतं स्वस्वस्थाने तिष्ठतमित्यर्थः । उकारः पदपूरणः । स्वमात्मीयं । लोकं स्थान हविर्धानगृहाख्यं । विदाने असाधारणत्वेन जानती । असाद्य च स्वासस्थे सुस्थाने स्वासने भवतं । इन्दवे नः । अस्माकमिन्दोराय ॥ पश्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन । अक्षरेण प्रति मिम एतामृतस्य नाभावधि सम्पुनामि ॥ ३॥ पश्च संख्याकानि | पदानि पदितृणि स्थितिहेतुत्वेन देवान् प्रति गन्तृणि। के हवींषि । धानासोमपशुपुरोळशा[ज्या] ख्यानि। रुपः यष्टणां स्वर्गमारोपयितुर्यज्ञस्यांगत्वेन संबन्धीनि । अनु अरोहं युवयो स्वासनभवनानन्तरमारोहामि । भवत्करणेन करोमीत्यर्थः । चतुष्पदीमिति च्छन्दसामुपलक्षण । चतुर्भिः पादैर्युक्तानि त्रिष्टुपच्छ- न्दांसि चेत्यर्थः । अनु एमि अनुगच्छामि | व्रतेन प्रयोगकर्मणा यथा- कालं प्रयुनज्मीत्यर्थः । अक्षरेण च प्रणवाख्येन । प्रति मिमे प्रतिगर- क्रियां निमिमे निर्वर्तयामि | एकां[एतां] प्रत्युपस्थितां । किञ्च । ऋतस्य नाभावधि सं पुनामि । अधिशब्दश्रुतिसामर्थ्यान्नाभाविति । षष्ठयर्थे सप्तम्येषा । ऋतस्य यज्ञस्य प्रधानांगत्वेन हेतुना नाभिभूताया वेद्याः । अधि उपरि । सं पुनामि संशोधयामि । दशापवित्रेण सोमञ्च संस्करोमीत्यर्थः ॥ किञ्च । देवेभ्यः कमवृणीत मृत्यु प्रजायै कममृतं नावृणीत । बृहस्पतिं यज्ञमकृण्वत ऋषि प्रियां यमस्तन्वं१प्रारिरेचीत् ।। ४ ॥ देवेभ्यः देवानां । कं स्वपुरुषं । मृत्यु मारयितारं विनाशकं । अवृणीत वृणीते प्रार्थयते प्रयुक्ते यमः । हविर्धादेवव्यतिरिक्तं [क्ता] या हविर्धारण क्रियायां प्रवृत्तायाः सते देवानां स्थितेः अवश्यंभावि- त्वान्न कश्चिदपि स्वपुरुषं देवानां विम्शक निरूपयति यम इत्यर्थः । प्रजायै प्रजायाश्च मनुष्य कायाः देवव्यतिरिक्ताः । कं वा अमृतं । गोरिल ३०] * ऋग्वदेभाष्यम् * [म०१० । सू० १४॥ स्वपुरुषममृतममारकमविनाशकम् । अवृणीत् न वृणीते न प्रार्थयते । पूर्वोक्तेनैव प्रकारेण सर्वस्य स्थितेरवश्यंभावित्वात् । कं वा स्व बृहत्य[त्पति] ऋषिसदृशंसर्वगुणोपेतमित्यर्थः । यक्षमकृण्वत कुर्वन्ति ऋत्विग्यजमानाः । किञ्च । प्रियां तन्वमिष्टं शरीरं यमः प्र अरिरेचीत् । अनेकार्थत्वात् धातूनां रिचिरत्र परिहारार्थे द्रष्टव्यः । प्ररेचयति परि- हरति । कर्मवैगुण्यजनितदोषाभावादस्माकजीवितं नापहरतीत्यर्थः ॥ किश्चान्यत्- सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतम् । उभे इदस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥ ५ ॥ सप्त च्छन्दांसि क्षरन्ति । स्तुतिमिति शेषः । शिशवे शिशोः शंसनीयस्य सोमस्य हविर्धानस्य शकटयोः सुखासनीभूतस्य । मरुत्वते मरुत्वतः मरुद्भि तृत्विभिस्सप्तभि स्तोतृभिश्च युक्तस्येत्यर्थः । पित्रे पितुः ऋत्विजां सर्वस्य वा जनकत्वात् पितृभूतस्येत्यर्थः । पुत्रासः अपि सोमस्य पुत्रासःअपि सोमस्य पुत्रभूता व ऋत्विजोऽपि । अवीवतन् गमग़न्ति। ऋतं सत्यं स्तुतिरूपं सद्गुणग्राहिणी स्तुतिं कुर्वन्ती- त्यर्थः । उत्तरोऽर्धचः परोक्षतत्वात् भिन्नं वाक्यं । किं बहुनोक्तेन । उभे इत् । इच्छब्द एवार्थे । उभे एव हविर्धाने नान्यत् । अस्य उभयस्य देवजातस्य मर्त्यजातस्य । राजतः ईशाते । तदधीनत्वाद्धविर्धार- णस्य हविरधीनत्वाञ्चोभयस्य स्थितरुभे एव हविर्धाने । यतेते कर्मा- नुष्ठाने प्रयत्नञ्च कुरुतः। तदधीनत्वाद्धविर्धारणस्य हविः प्रधानत्वाच्च कर्मानुष्ठानस्य उभयस्य देवजातस्य मर्त्यजातस्य च । पुष्यतः हवि- र्धारणद्वारेण पुष्टिञ्च कुरुत इत्यर्थः ।। ॥ चतुर्दशं सूक्तम् ॥ उत्तरं सूक्तं परेयिवांसमिति षोडशर्च यमदेवतं । यमो वैव. स्वतो ददर्श ॥ परेयिवांसं पत्रतो महीरनु बहुभ्यः पन्थानमनुपस्पशानम् । वैवस्वतं सङ्गमनं जनानां य राजानं हविषा दुवस्य ॥ १॥ *मरुद्धि ऋत्विग्भिस्सप्तमि?
मं०१० । सू० १४॥]] * ऋग्वेदभाष्यम् * [३१ परेयिवांसं उपसर्गव्यत्ययोऽत्र सामर्थ्यात् कार्यः। लिट् चात्र वर्तमाने । पर्यागच्छन्तं । लोकं पालत्वात् कृताकृतप्रत्यवेक्षणार्थमेत- न्मन्त्रपदं द्वितीयाबहुवचनान्तं । यास्कमहर्षिणात्र* वाक्यार्थसामन्दे [-मान्याद्दे]वतिर्यगतजातविशेषणार्थमध्याहृतं ।प्रवतः प्रगताधमादि- समर्थपुरुषार्थसंबन्धात प्रकृष्टगा मनुष्यजातावित्यर्थः । उद्वतः उद्गताश्च देवजातः सर्वतो गतत्वा च बहुभ्यः मिता अनुममितीत्यर्थः । षष्ठयर्थे चतुर्युषा । बहनामपरिमितानामेतेषामेव प्राणिनां । पन्थां पन्थान मार्ग शुभाशुभकर्मप्रवृत्तिलक्षणं वा । अनुपस्पशानं स्यस्थाने । स्पशिबन्धनार्थः । विवध्नन्तं । शुभाशुभकर्मप्रवृत्तिलक्षणमार्गपक्षे नि- रूपयन्तमित्यर्थः । जीविलक्षणमार्गनिरुध्यन्तमित्यर्थः । वैवस्वतं विवस्वतः पुत्रं । संगमनं स्वर्ग प्रति सम्यग्गमायतारं । जनानां । यम राजानं सर्वस्येश्वरं । हविषा दुवस्य परिचर । हे मदीयान्तरात्मन यजमान वा ॥ यमो नो गातुं प्रथमो विवेद नैषा गव्यतिरपभर्तवा उ । यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या३अनु स्वाः ॥२॥ यमः । नः अस्माकं प्रजानां । गातुं शुभाशुभकर्मनिमित्तां सुगति दुर्गतिश्च । प्रथमः अन्यस्मात् सर्वस्मात् ज्ञातुः पूर्व । विवेद जानाति । एषा गव्यूतिः।एषा य[] शुभाशुभकर्मजनितसुगतिर्दुर्गतिश्च। नाऽपभर्तवै । अतिशयज्ञानयोगाद्य[मस्य न केनचिदपहर्तुमपनेतु स्व- विज्ञानेनाभिभवितुं शक्यत इत्यर्थः । किञ्च । यत्र यस्मिन् स्वर्गे । नः अस्माकं । पूर्वे पितरः पितामहादयः । परा ईयुः आप्तकामत्वात् स्वपुत्रदाराननवेक्षमाणाः पराङ्मुखागताः। एना अनेन यज्ञेन हेतुना । जज्ञानाः संस्कारद्वारेण पुनर्जायमानास्संस्क्रिरिमसुखाः ? आहुतीस्तु. तीश्च । स्वाः स्वभूताः । अनु आहुति संस्कारानन्तरं संस्कृतास्सन्त इत्यर्थः । तदप्यस्मत् पितृगतिस्थान यम एव तत्वतो जानाति नान्य इति पूर्वात्तं ? सर्वः॥ मातली कव्यैर्यमो अङ्गिरोभिवृहम्पतिक्वभिर्वावृधानः । यांश्च देवा वावृधुर्ये च देवान्त्स्वाहान्ये स्वधयान्ये मदन्ति ॥३॥. ? * निरक्त १० । २०॥ स्वस्थाने?
३२] * ऋग्वेदभाष्यम् * [मं० १० । सू०२४॥ मातली सारथिरिन्द्रस्य कव्यैः कन्यनामभिः पिदभिस्सह । ववृधानः सर्वप्रधानया वृध्या वर्द्धमानः आस्ते । यमप्रसादादिति वाक्यशेषः । यमश्वांगिरोभिस्सह सदा वर्द्धमान आस्ते। बृहस्पति क्वभिः । ऋकनो देवविशेषाः । ऋक्वभिर्मध्यस्थानैर्देवगणैस्सह सदा वqधानो वर्द्धमान आस्ते । यमप्रसादात् । किञ्च यांश्च पितृन् देवा ववृधुः वर्द्धयन्ति स्खेनो- पकारेण । ये च पितरो देवान् खेनोपकारेण वर्द्धयन्ति । यच्छब्द- संबन्धात्तच्छब्दोऽद्ध्याहार्यः । तेषां पितृणां मध्ये एके पितरः स्वाहा- मदन्ति । स्वाहाकार प्रदानेन हविषा तृप्यन्ति । यमेन सह स्वधयान्ये मदन्ति । स्वधाकारप्रदानेन हविषके तृप्यन्ति यमेन सह ॥ इमं यम प्रस्तरमा हि सीदागिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व॥४॥ इमं । हे यम । प्रस्तरं अस्मदीयवेदिस्तरणगर्भासनं प्रति । आहि सीद । हीति पदपूरणः। उपवेष्टुमागच्छ। किं कुर्वन् । उच्यते । अंगि- रोभिः । अंगिरोनामभिः पितृभिस्सह[स]न पथिविनोदनार्थ विचित्रा कुर्वन्नित्यर्थः । अगच्छं तं च सन्त त्वां स्तुतिमन्त्राः कविशस्ता मेधा- विभि क्विभिः आ वहन्तु । श्रोतव्यत्वेन निमित्तभूताः प्रापयन्तु । आगत्य च इहास्मद् यज्ञे | मादयस्व तर्पयात्मानं तृप्य वा ॥ अङ्गिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व । विवस्वन्तं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषध ॥ ५ ॥ अंगिरोभिस्सहा गच्छ। यज्ञियेभिः यज्ञाः । यक्षसंपादिभिर्वा । विरूपा एवं वैरूपाः। बहुरूपैरित्यर्थः।आगत्य च इहास्मद्यसा मादयस्व] तर्पयात्मानं तृप्य वा। ते तव। तमित्यध्याहार्य। यदिति सामर्थ्यात्।तेन चाहूतेन सहास्मिन् यज्ञे।बर्हिषि वेदिस्तरणे आ निषद्य मर्यादयोपविश्य। हविपा मादयस्वेत्यर्थः॥ अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । तेषां वयं सुमतौ यज्ञियागमपि भद्रे सौमनसे स्याम ॥ ६ । ये पितरो वा । नः अस्माकं । पितरः। कीदृशाः। नवग्वाः मासे *दर्भासन ?
मं० १० । सू०१५॥] * ऋग्वेदभाष्यम् * [३३ मासे पितृयज्ञे नवा गतिः । न पतिते वा मनसो गतिरभिलाषः। भृग- वश्व। सोम्यासः सोमसंपादिनः। तेषां सर्वेषामेव । वयं । सुमतौ शोभ- नायामनुग्राह्यबुद्धौ । यज्ञियानां यज्ञार्हाणां यज्ञसंपादिनां वा । भपि । भद्रे भन्दनीये भाजनवति वा । सौमनसे सौमनस्ये प्रीतावित्यर्थः । स्याम भवेमेत्याशास्महे । यमप्रसादादिति योज्यं । तद्देवतत्वाविघाताय मन्त्रस्य पश्चदशं सूक्तम् । अग्निष्वात्ताः पितर एह गच्छत सदासदः सदत सुप्रणीतयः । अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन ॥११॥ ..."तैरस्माभिः संस्कृतानि शुचीनि । बर्हिषि आसादितानीति शेषः । अथ अनन्तरं च । रयिं धनं । सर्ववीरं सर्वैर्वीरैः पुत्रैः पौत्रैश्चो- पेतं । दधातन दत्तास्मभ्यं ॥ त्वमग्न ईळितो जातवेदोऽवाडव्यानि सुरभीणि कृत्वी । प्रादाः पितृभ्यः स्वधया ते अक्षनद्धि त्वं देव प्रयता हवींषि ॥१२॥ हे अग्न जातवेदः उत्पन्नसविषयवस्तुज्ञान | त्वमस्माभिरीलित स्तुतः । अवाट् ऊढवानसि पितृन प्रति प्रापितवानसि हव्यानि हवींषि । सुरभीणि सुगन्धीनि । कृत्वी कृत्वा । प्र अदाः प्रत्तवांश्चासि । पितृभ्यः ते च पितरस्त्वया प्रक्तानि । स्वधया अन्नेन हेतुना अन्नमे- तदस्माकमित्यभिप्रायण । अक्षन् अत्तवन्तो भक्षितवन्तः । अथेदानी कृतोपकारः सन् । अद्धि भक्षय त्वं हे देव । प्रयता प्रयतानि शुचीनि हवींषि ॥ .. * अग्रे "प्रेहि प्रेहि" इति मन्त्रप्रतीकं विद्यते । परं नास्ति मन्त्रव्याख्यानम् । बहुग्रन्थपातो जातः। + भट्टमोक्षमूलरेण सायणीये भाष्येऽत्र नचि इत्येष पाठः स्वीकृतः । असमीचीनमेतत् । कुतः । प्रयतानि इत्यस्य सदस्य नायमर्थः । मुम्बई-संस्करणे शुचीनि इति उद्गीथभाष्यवत् शुद्धः पाठो वर्तते । मोक्षमूलरस्य C२ कोशेऽपि शुचीनी इत्येवमेवास्ति पाठः । उत्तरमन्त्रस्य चतुर्थे पादे प्रयता इति पदं पुनरप्यस्ति । परं तत्रापि नचि इति तत्सदृशो वाऽर्थो न दृश्यते ।
३४] * ऋग्वेदभाष्यम् * [मं० १० । सू० १६॥ 'ये चेह पितरो ये च नेह यांश्च विद्म याँ उ च न प्रविन । त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व ॥३॥ ये च पितरः च | इहास्मत् समीपे वर्तन्ते। ये चेह न सन्ति । यांश्च पितृन् विद्म सन्निकृष्टत्वाजानीमो वयं। यान् उ च न यानपि च न । प्रविद्म विप्रकृष्टत्वान्न विजानीमो वयं । यति ते यत् संख्या- युताश्च ते पितरःतान् सर्वान् यथोक्तान् । त्वं वेत्थ त्वमेव जानासि। हे जतिवेदः उत्पन्नसर्वविषयवस्तुज्ञान । यत एवमतः तेषां यत्संख्या- युक्तानां पितृणां । स्वधाभिरन्नैहतव्यत्वेन हेतुभूतैः । इमं यज्ञं । सुकृतं साधुकृतमपि गुणवद्भिरनुष्ठितं । जुषख प्रीत्या परिगृहाण ॥ ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । तेभिः खराळसुनीतिमेतां यथावशं तन्वं कल्पयस्ख ॥ १॥ ये पितरः । अग्निना दग्धाः अग्निना भस्मीकृताः । श्मशान- कर्म प्राप्ताः इत्यर्थः । ये चाऽनग्निदग्धाः श्मशानकर्म न प्राप्ताः । मध्ये दिवः । स्वधयाऽन्नेन स्वकर्मफललक्षणेन । मादयन्ते तृप्यन्ति । तेभिः तैः पितृभिः सह संभूय । स्वराट् स्वकर्मफलोपभोगेन दीप्य- मानः । असुनीतिं असूनां प्राणानां विषयेषु नेतारं स्वभोगापनयाय प्रवर्तयितारमस्मत् पित्रन्तरात्मानं । एतां तन्वं एतद्देवताशरीरं । यथावशं यथाकामं । यथाभिलषितमित्यर्थ । कल्पयस्व समर्थयस्व । गाभयस्वेत्यर्थः । अग्निरेव पूर्वोक्तो वेदितव्यः । पूर्वमन्त्रेन्तस्यमप्रक- तत्वात् । षोडशं सूक्तम् । उत्तरं सूक्तम्मैनमग्न इति चतुर्दशचमग्निदेवतं । श्मशानकर्मणि विनियुक्तं । यामायनो दमनो ददर्श ॥ मैनमग्ने वि दहो मामि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् । यदा भृतं कृणवो जातकेयोऽथेमेनं प्र हिणुतात्पितृभ्यः ॥१॥ पुत्रो ब्रवीति ऋत्विग्वा । एनमस्मत् पितरं । अस्मद्याज्यं वा । प्रेतसंस्कारार्थ त्वर्याहितं ? हे अग्ने। मा वि दहः विविधदग्धमनन्त- रम्मा कार्षीः। माभिशोचः। मा सन्ति तपा? अभिसन्तप्तमन्ददग्धं मं०१०। सू०१६॥] * ऋग्वेदभाष्यम् * [ ३५ च मा कार्षीरित्यर्थः । त्वचं अपि दग्धमभि । मा शरीरं च मा विक्षिप । किन्तर्हि करवाणि । उच्यते। यदा यस्मिन्काले । शृतं पक्कं सुदग्धं । कृणवः करिष्यसि । हे जातवेदः । अथ ई तदैव । एनं प्र हिणुतात् प्रगमय । पितृभ्यः पितॄणां सकाशं पितृलोकमित्यर्थः ॥ भृतं यदा करसि जातवेदोऽथेमेनं परि दत्तापितृभ्यः । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीभवाति ॥ २ ॥ शृतं पक्कं । यदा करसि करिष्यासि । हे जातवेदः । अथेमेनं परि देहि समर्पय पितृभ्यः पितृलोकं प्रापयेत्यर्थः । कस्मादेवमुच्यसे। यतः यदा । गच्छाति प्राप्नोति । असुनीतिं असूनां प्राणानां देहान्तर- नेतारं पितृपतिं यमं । एतां च पितृतां । अथानन्तरं । देवानां वशनीः वशानां कामानामात्मान्नम ? प्रति नेता। भवाति भविष्यति । देव- भोगानां भोक्ता संपत्स्यत इत्यर्थः ॥ सूर्य चक्षुर्गच्छतु वातमात्मा यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः॥३॥ सूर्य स्वकारणं । चक्षुस्तव संबन्धि । गच्छतु प्राप्नोतु । वातं गच्छत्वात्मा । तव शरीरान्तर्गतो वायुः अन्यानि च वागादीनीन्द्रिया- ण्यग्न्यादिदेवेषु स्वकारणेषु लीयन्तां । प्रदर्शनार्थत्वात् सूर्यचक्षु- तात्मग्रहणस्य । द्यां । च चशब्दोऽत्र विकल्पार्थे । दिवं वा गच्छ प्राप्नुहि । देवशरीरे स्वकर्मानुरूपं फलमुपभोक्तं । पृथिवीं च । पृथिवीं वा गच्छ । धर्मणा स्वकर्मणा। अपो वा गच्छ । आप इत्यन्त- रिक्षनाम ।* अन्तरिक्ष वा प्राप्नुहि । तत्रान्तरिक्षे। ते तव । कर्म- फलं हितं स्वस्थापितं । ओषधीषु प्रति तिष्ठ । शरीरैः । बहुवचन- सामर्थ्यात् शरीरावयवैरित्यर्थः। अथवा ओषधी लोमानि वनस्पति केशा इति वचनात् । ओषधिवनस्पतिषु शरीरजलोमकेशात्मना प्रतितिष्ठेत्यर्थः। अन्यदपिश्रुत्यन्तरे यदृष्टमप्सुलीहतंचरेतश्चत्यादि तत्सर्वमत्र द्रष्टव्यं ॥ अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते आर्चिः । निघण्टुः १।२॥ । प्रमाणमन्वेषणयिम् ।
३ .. ३६ ] * ऋग्वेदभाष्यम् * [मं० १० । सू०१६॥ यास्ते शिवांस्तन्यो जातवेदस्ताभिर्वहेनं सुकृतामु लोकम् ॥ ४॥ यस्य यजमानस्य यः । अजः अनुत्पत्तिधर्मकः नित्यः अन्तर- पुरुषलक्षणः । भागः शरीरेन्द्रियादिभागव्यतिरिक्तः । तं भागं । तपसा सन्तापनांगारगतेन । तपस्व सन्तापय संस्कुर्वित्यर्थः । तमेव भाग । ते तव । शोचिः दीप्तिः । तपतु संस्करोतु । तमेव भागं । ते तवार्चिरपित्वालालक्षणं संस्करोतु । संस्कृत्य च याः। ते तव । शिवास्सुखाः प्रह्लादिन्यः । तन्वः मूर्तयः । हे जातवेदः । ताभिस्त- नुभिः वह प्रापय । एनं यजमान । सुकृतां शोभनकर्मकारिणां पितृणां । लोकं स्थानं । उ इति । सुकृतं लोकं । अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्वरति स्वधाभिः । आयुर्वसान उप वेतु शेषः सं गच्छनां तन्वा जातवेदः॥ ५ ॥ पुनः हे अग्ने । अवसृज देहप्र प्ररय?] पितृभ्यः युष्माभिस्सह स्थानाधिकारभोगादिभिस्समानोऽयमिति समर्पयेत्यर्थः? । उप वेतु । कमवसृजानि । यस्ते तुभ्यं आहुतः । हु दानास्कारर्थ ? । मर्यादया दत्तः। सञ्चरतिगच्छति पितृन् प्रति । केन हेतुना । उच्यते । स्वधा- भिरन्नैः कर्मफललक्षणैर्भोक्तव्यत्वन हेतुभूतेतः ? सुकृतफलोपभोगा. र्थमित्यर्थः । तमघ सृज। किं च । आयुः । हं ? । वसानः आच्छादयन् सर्वगतेनाजीवेनाधिष्ठितस्सन्नित्यर्थः। उप वेतु कर्मशेषसमापनायोप- गच्छतु । यज्ञमस्थिलक्षणश्शरीरशेषः । उपगम्य च तव प्रसादात् । संगच्छतां संयुज्यतां । तन्वा यज्ञशरीरेण हे जातवेदः॥ यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । अमिष्टद्विश्वादगदङ्कणोतु सोमश्च यो ब्राह्मणाँ आविवेश ॥६॥ यदंगं । ते तव यजमानस्य संबन्धि । कृष्णशकुनः काका- ख्यः । आलुतोद ईषन्मर्यादया आभिमुख्येन वा तुन्नवान् व्यथितवान् । पिपीलः पिपीलिका वा सो वा। उत वा अपि वा । श्वापदश्च सृगा- लकः । तदंगमग्निः विश्वात् विश्वस्यात्तास॥* .. * अत्रापि भाष्यपाठक्रमः त्रुटितः । परन्तु कोशेऽस्य घोतनात्मकं चिन्हमपि नास्ति । लेखकप्रमादोऽयमित्येतस्माज्ज्ञायते ।
मं०३० । सू० १३॥] * ऋग्वेदभाष्यम् * [ ३७ क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः । इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥ ९॥ अग्निं प्रहिणामि | हि गतौ। प्रगमयामि । दूरं विप्रकृष्टदेश- नीत्वा । दक्षिणस्यान्दिशि चतुष्पथादौ निरस्यामीत्यर्थः । निरस्तश्च सन्निधौ यमराज्ञः षष्ठी श्रतस्सकाशमिति शेषः । प्राणानां प्राण. पते खान्तरपुरुषस्य शरीराद्वियोगकरणसामान्यात्तर्मत्वाधमराजस्य सकाशं स गच्छतु । समानशीलव्यसनेषु सख्यं । यतः । रिप्रवाहः रिप्रं पापं तत्सदृशस्य मृतशरीरस्य वोढा भस्मतां प्रापयितेत्यर्थः । इहैवास्मद्गृहे एवायंक्रव्यादादितरोऽन्यो हव्यवाहनो जातवेदाश्शा- न्तिकर्मार्थमुपात्तः । देवेभ्यः देवान् प्रति । हव्यमस्मत् प्रत्तं । वहतु प्रापयतु । प्रजानन् देशकालकर्माणि स्वबोधिकारमस्मद्- भक्ततां वा विजानन् । यो अग्निः क्रव्यात्प्रविवेश वो गृहमिमं पश्यभितरं जातवेदसम् । तं हरामि पितृयज्ञाय देवं स धर्ममिन्वात्परमे सधस्थे ॥ १० ॥ योऽग्निः । क्रव्यात् मांसादः । प्रविवेश प्रविष्टवान् । वः युष्माकं। गृहिणां गृहं । तं क्रव्यादन्दवं बहिनिकालयामीत्यर्थः । किमर्थ। पितृ- यज्ञाय श्मशानकर्मार्थमित्यर्थः । किं केनाभिप्रायेण। पश्यन् हरसीति चत् । इममितरं जातवेदसं हव्यवाहं स पश्यन् पालोचयन् । केनाभि- प्रायेण पश्यन् धर्म यज्ञ शान्तिलक्षणमिन्वात् । इन्वति व्याप्तौ । व्या. प्नुयात् निर्वम॑येत् । परम प्रकृष्ट । सधस्थे सहस्थाने अस्मद् गृह इत्यनेनाभिप्रायेण तं हरामीति संघन्धः कार्यः । यो अग्निः क्रव्यवाहनः पितॄन्यक्षतावृधः । प्रेदु हव्यानि वोचति देवेभ्यश्च पितृभ्य आ ॥ ११॥ योऽग्निः। क्रव्यवाहनः क्रव्यस्य पित्र्यस्य हविषो वोढा। पितृन् प्रति प्रापयिता पितॄन् । यक्षत् यजति । ऋतावृधः ऋतस्य यक्षस्य सत्यस्य वा वर्धयितन् स । हव्यानि हवींषि इमानि युष्मदर्थ मयानी- जानीति प्रकथयतु देवेभ्यश्च पितृभ्यश्च । आकारः समुच्चयार्थे । इदू व पादपूरणौ ॥ ..
३८ ] * ऋग्वेदभाष्यम् * [म०१०। सू०१७॥ उशन्तस्त्वया नि धीमयुशन्तः समिधीमहि । उशन्नुशत आ वह पितॄन्हविषे अत्तवे ॥ १२ ॥ उशन्तमग्निः नि धीमहि नि हितवन्तो वयं कर्मार्थ स्थापित- वन्तः कामयमानाः । समिधीमहि सन्दीपितवन्तश्च वयं कर्मार्थ यत एवमतः। उशंतं पितागमनं कामयमानः आगन्तु कामानावह अन्तिकं प्रापय । किमर्थ । हविषे अस्मत् प्रत्तस्य हविषः । अत्तवे अदनाय ।। यं त्वमग्ने समदहस्तमु निर्वापया पुनः । कियाम्ब्वत्र रोहतु पाकदूर्वा व्यल्कशा ॥ १३ ॥ अस्थीन्यभ्युक्ष्य ग्रहण कालेऽग्निरुच्यते । यमस्मत् पितरं । हे अग्ने । समदहः सम्यग दग्धवानसि। तमु तमेवास्मपितर निर्वापय उपशमय प्रह्लादय । पुनः पश्चात् अस्थिग्रहणार्थमभ्युक्षणकाले किं च तव प्रसादात् प्रह्लादकद्रव्यं । कियांबु अत्र रोहतु । कियदप्यं ब्वत्रास्तीति किमपि युतमिश्रितमंबुनति कियांबु शैवालः। अत्रास्मिन् मत् पितृसंस्कारस्थाने । रोहतु उत्पद्यतां । पाका परिपक्का वृद्धा दूर्वा चोत्पद्यतां । वि अल्कशा विविधस्तबका ॥ शीतिके शीतिकावति हादिके हादिकावति । मण्डूक्या३सु सङ्गम इमं स्व:ग्निं हर्षय ॥ १४ ॥ अग्निप्रसादात्त्वमपि हे शीतिके! बहून्यानि सन्तत पृष्ठे शीति- कावति शीतवति ह्लादिके। प्रह्लाद हलादिकावति प्रह्लादनवति । मण्डूक्यासु अतिवृष्टिप्रियासु । सं गमः सुष्टु संगच्छस्व । संगम्य च इममग्निमत्रत्यं सुहर्षय सुष्ठु लादय स्वसंयोगेन । सप्तदर्श सूक्तम् । उत्तरं सूक्तं त्वष्टा दुहित्र इति चतुर्दशर्छ ! यामायनो देवश्रवा ददर्श । अस्याये ऋचौ सरण्यू देवते । ततः पराश्चतस्रः पौष्ण्यः।तत उत्तरंतृचं सारस्वतं । अध्देवताश्चतस्रो ऽवशिष्टा विश्वकर्मेति* पुराणे प्रसिद्धः॥ अबृहद्देवताया सर्वानुक्रमण्याश्च चतुर्दशमन्त्रस्यापि आपो देवता । P- मं० १० । सू० १७॥] * ऋग्वेदभाष्यम् * [ ३९ त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति । यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥१॥ दुहित्रे षष्ठयर्थे चतुर्थी । स्वस्या दुहितुः सरण्यू नाम्नः । वहतुं वहनं विवाहं करोतीत्यतेन हेतुना सपरिवारार्थमिदं । विश्वं सर्व । भुवनं भूतजातं सं एति । भूत लट् समागमत् सा च परि उामाना परीत्येष उदित्यस्य स्थाने भूत लट् । उदूढा सती । यमस्य यम्याश्च माता जननी सरण्यूः । महः महतः। विवस्वतो जाया भार्या । तस्माद्वि- वस्वतो यमं च यमी च जनयित्वा त्यक्त्वा च । ननाश सवर्णामन्यां प्रतिनिधायाश्च रूपं कृत्वा उत्तरान् कुरून् प्रति नष्टा । अपागूहन्नमृतां मर्येभ्यः कृत्वी सवर्णामददुर्विवस्वते । उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ।। २॥ अमृतां अमृतधर्माणां तां दुहितरं सरयूं । मर्येभ्यः। मनुष्येभ्यः। अपागृहन् अप गृहितवन्तः संवृतां कृतवन्तः । अपनीतवन्तो देवाः आश्वं रूपं कृतवतीमुत्तरेषु कुरुषु नाशितवन्त इत्यर्थः । कृत्वी कृत्वा चान्यां तत् सर्वणामददुः दत्तवन्तो विवस्वते । सा च तेन संभक्ता सती। उत अपि । अश्विनौ अभरत् गर्भभूतौ स्वोदरे धारितवती जनित- वतीत्यर्थः । यत्तदाश्वं रूपमस्याः । आसीत् अभूत् । तेन रूपेण अज- हात्। उकारः समुच्चये । इत्युक्तवती चाववस्वत एव सकाश द्वौ मिथुनो दुहितपुत्रौ यमी यमौ सरण्यूः ॥ पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुभुवनस्य गोपाः स त्वेतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥३॥ । अनपशुः । भुवनस्य भूतजातस्य । गोपा गोप्ता रक्षिता । प्रच्यावच ? स एव पूषा त्वां एतेभ्यः पितृलोकस्थेभ्यः। परिददत् परिददातु । पितृभ्यः अथवा म इत्युपरिष्यन्नि क्ष्यमाणो- ऽग्निरुच्यते। प्रच्यावितः पूष्णा सोऽग्निस्त्वामेतेभ्यः परिददातु पितृभ्यो देवेभ्यश्च | सुविदत्रितयेभ्यः सुधनेभ्यः । आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् ।
४०] * ऋग्वेदभाष्यम् * [मं० १० । सू०२१॥ यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु ॥४॥ आयुर्वायुः । वकारलोपेन पर्यायान्तरं वा । कीदृशो वायुः । उच्यते । विश्वायुः सर्वगतः। परिपासति परिपातु सर्वतो रक्षतु । पूषानुज्ञया। त्वा त्वां । प्रमितं यजमानं पूषा स्वयमेव त्वा पातु रक्षतु। प्रपथे प्रकृष्ट पथि खर्गमार्गे । पुरस्तात् स्थित इति शेषः । यत्र आसते तिष्ठन्ति । सुकृतः पुण्यकर्माणः । यत्र वा ते सुकृतो युयुः गताः । तत्र स्थाने त्वां देवस्सविता पूषानुज्ञया दधातु स्थापयतु ॥ पूर्षमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत् । स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् ॥ ५ ॥ पूपा इमाः प्राच्याद्याः । आशाः दिशः । अनु वेद अनु पूर्वेण जानाति । सर्वाः क्षम्यपथापता अक्षम्यपथोपेताश्च । एवं सति स पूषा अस्मान् प्रमिते यजमानो ब्रवीति पुत्रमुखेन ऋत्विङ्मुखेन वा । अभयतमेन अतिशयेन भयवर्जितेन । पथा नेषत् नयतु । कथं । स्व- स्तिदाः अविनाशस्य दाता सन् । आघृणिः अगतदीप्तिः। सर्ववीरः सबै परिवारकबीरैरुपेतः । अप्रयुच्छन् अप्रमाद्यन् ।पुर एतु अस्माकं पुरस्ताद् गच्छतु । प्रजानन् अस्मद् भक्ततां विजानन् ॥ प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥६॥ अन्तरिक्ष गगनसाधनभूतानां पथां मध्ये यः प्रकृष्टः पन्थाः तत्र प्रपथे। अजनिष्ट जातः।सुकृतिनां सुगतिप्रापणार्थमवस्थित इत्यर्थः। पूषादेवः । दिवश्च पथा मध्ये यः प्रकृष्टः पन्थाः तस्मिन् प्रपथे पूषा प्रकृष्ट पथि सुकृतिनां सुगतिप्रापणार्थ अजनिष्ट। एवं प्रपथे पृथिव्या- श्चाजनिष्ट पूपा यत ईदृशोऽसावतः द्यावा पृथिव्यौ । प्रियतमे सर्व स्येषतमे | सधस्थे सर्वस्य सहावस्थानभूते । अभि प्रति । आचरति च । परा चरति च । सुरिनामम्मदादीनां सुकृतफलोपभोगाधिष्ठान प्रदर्शनार्थ आगच्छति च पृथिवीप्रति । परागच्छति दिवं प्रति । अनेनेदं कर्म कृतं । अस्य कर्मण इदं फलं इति प्रजानन् । य ईदृशः सोऽस्मान् पति पतन पाशा नया । सकतफलोपभोगायेत्याशीयोंज्या ॥
मं०१०। सू० १७॥] * ऋग्वेदभाष्यम् * [४१ सरखती देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने। सरस्वती सुकृतो अह्वयन्त सरस्वती दाशुषे वार्य दात् ॥ ७ ॥ सरस्वती मध्यमस्थानां । देवयन्तः देवान् यष्टुं स्तोतुश्चेच्छन्तः । हवन्ते आह्वयन्ति । कर्मागभावाय । सरस्वतीमध्वरे यज्ञ। तायमाने निर्व- त्यमाने ह्वयन्ति कर्मागभावार्थ सरस्वती । सुकृतः पुण्यफलप्रदानाय । अह्वयन्त आह्वयन्ति । यत एवमतः सरस्वती । दाशुषे हवींषि दत्तवते। यजमानाय मह्यं । वार्य वरणीयं कर्मफलं । दात् ददातु ॥ सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती । आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्से ॥ ८ ॥ हे सरस्वति देवि । या त्वं सरथं । क्रियाविशेषणमेतत् । पितृ- भिस्सह समानेन रथेन । ययाथ गच्छसि | स्वधाभिरग्नैर्ह विलक्षणैः । मदन्ती तृप्यन्ती । सा त्वमासद्य निषद्योपविश्य । अस्मिन् बर्हिषि वेदि- स्तरण। मादयस्व तर्पयात्मानं तृप्य वा । हविर्भिः तृप्ता च सती प्रत्यु- पकारार्थ। अनमीवा अरोगाः अरोग्यजननीः। इषः अननि । आधेहि मर्यादया यावदर्थं देहि । अस्मे अस्मभ्यं ॥ सरस्वती यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ॥ ९ ॥ सरस्वतीं। यांत्वां। पितरः। हवंते आह्वयन्ति । दक्षिणा हविरादि- दानानि । यझं वांगभावाय?। अभिनक्षमाणाः अभिगच्छन्ताव्याप्नुवन्तो वा । सा त्वं सहस्रार्घ बहुपूजनीयं । बहुत्वान्मृष्टत्वाश्च बहुभिः प्रशंस- नीयं उपयोज्यं वेत्यर्थः । इळः भन्नस्य ।भागं अहं अंशं । रायः धनस्य पोषं पुष्टिश्च बहुधनं चेत्यर्थः । इह अस्मिन् लोके कर्मणि वा वर्त- माने अस्मासु । धेहि धारय वा ॥ आपो असान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वं हि रिप्रं प्रवहन्ति देवी रुदिदाभ्यः शुचिरा पूत एमि॥१०॥ सत्रेषु दशमेऽहम्यनया शुभ्यर्थ प्रोक्षणं क्रियते । आपस्सर्वस्य मातरः मातृषदनुपाहिकाः । अस्मान् शुन्धयन्तु प्रोक्षणेन शोधयन्तु।
४२] * ऋग्वेदभाष्यम् * [मं०१०। सू०१७॥ केनेव उच्यते । घृतेन । लुप्तोपममेतत् पदं । घृतेनेव घृतं सर्वस्य पावनशुद्ध्यर्थं प्राशनोपदेशात् । तच्चांभोऽजायत इति । एवमुच्यते । यथा घृतेन सर्व पुनन्ति आपो घृतवच घृतेन सर्वस्य पावयित्र्यः । एवं नः अस्मान् पापापनादादेव शोधयतु । कस्मादेवं प्रमः । हि यस्मात् । विश्वं सर्व । रिप्रं पापं । प्रवहन्ति अपनयन्ति । देवीदेव्य आपः। अत एवं अमः । अनन्तरं च आभ्यः आपादानभूताद्य । उत् स्वर्ग प्रत्यूर्व गच्छामि । शुचिः सन् । आपूतः मर्यादया पूतः॥ द्रप्सश्चस्कन्द प्रथमाँ अनु पूनिमं च योनिमनु यश्च पूर्वः । समानं योनिमनु सश्चरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥११॥ अनयोत्तरया च सोमविषुषो जुहोति । अभिषयमान[ण]स्य सोम- स्य । द्रप्सो रसः। चस्कंद स्कनवाननुगतवान्यतोऽधिषवणचर्मणः । प्रथमाननु धन् प्रधानान् यागदिवसांश्च प्रति । इमञ्चापरं सोमाभिष- षयावलक्षणं । योनि सोमस्य स्थानं कारणं था । अनु प्रति स्कनवान् । तं सर्वप्रकारमाये । समानं साधारण। योनि स्थानलक्षणं स्थानमुक्त- लक्षणं वा । सञ्चरन्तं प्रतिगतमित्यर्थः । द्रप्सं सोमरसं विमुड् लक्षणं । वचनव्यत्ययः कार्यः । जुहुमः । कथं । अनु अनुपूर्वमित्यर्थः । कियन्तो जुहुमः । सप्तसंख्याकाः । विदिहोमस्य कर्तारः यजमाना- दयः अध्वर्युपुरोगाः । अथवाऽन्यथा योजनं क्रियते । हुत्वा चानू- पसर्गश्रुतिसंयोगात्तथा प्रवृत्तिदर्शनाचाहवनीयप्रदेशादातीर्थदेशमनु- लग्नाःसोम इति वाक्यशेषः। कियन्ता वयमनुलग्नाःसर्पामः। सप्तके वयं होत्राः वित॒द् होमस्य कर्तारः यजमानादयः अध्वर्युपुरोगाः ॥ यस्ते द्रप्सः स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् । अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषद्कृतम् ॥१२॥ यस्ते तवाभिषूयमाणस्य सोमस्य । द्रप्सो रसः । स्कंदति अभिर्षवण अधिषवण]चर्मपः अन्यत्र गच्छति । यश्च ते । अंशुः रसा- दितरः । सोम स्कन्दति । अध्वर्युपाठात् ग्रावच्युत इत्यध्याहार्य । अपादानभूताभ्यः । । कोशे तु सर्वत्र विऍड् इति । । । * मे०१० । सू०१७॥] * ऋग्वेदभाष्यम् * [४३ बाहुच्युत इत्यस्य वाध्वर्योर्वेत्यनेन संबन्धः कार्यः । ग्रावच्युतः अभि षवप्रवृत्तात् प्रच्युतः । कुतोऽन्यत्र स्कन्दति । धिषणाया उपस्थात् उपगम्य यत्र तिष्ठति सोमः । धिषणेति अकारवकारलोपेन लिङ्ग- वचनव्यत्ययेन चाधिषवणफलके उच्यते । धिषणयोरित्यध्वर्युपाठा- दधिषवणयोरुपस्थात् उपगम्य यत्र तिष्ठति सोमः । स तयोरुपस्थात् उपगम्य यत्र तिष्ठति सोमः । स तयोरुपस्थात् अधिषषणयोरवयवभू- तात् · सोमावस्थानप्रदेशादन्यतो गच्छतीत्यर्थः । अध्वर्यो हुच्युतः असावध्वर्युस्सन् बाहुसम्बद्धाभ्यां वा[पाणिभ्यां प्रच्युतः अन्यतो गच्छति । परि वा यः पवित्रात् । यस्सोमः पूयमानो दशापवित्राद्वा सर्वतः स्कन्दति । तं सोमं ते तव । सोमस्यावयवभूतं जुहोम्यग्नौ प्रक्षिपामि । कथं मनसा संकल्पमात्रेण । आज्यहोमे सोमविफुट्होमं मनसा सन्धारयेत्यर्थः । वषद्कृतं स्वाहाकारप्रदानेन प्रयोज्य होमे सोमहोमसम्पादनाय मनसाभिसन्धानमात्रेण कृतं वषट्कारश्चेत्यर्थः ॥ यस्ते द्रप्सः स्कनो यस्ते अंशुरवश्व यः परः खुचा । अयं देवो बृहस्पतिः सं तं सिश्चतु राधसे ।। १३ ॥ यस्ते तवाभिषयमाणस्य । द्रप्सो रसः । स्कन्नो गतोऽन्यत्रा- धिषवणचर्मणः । यश्च ते तवांशू रसादितर: लतावयवः । अवध यः अवमश्च यः स्वल्पश्च यः इत्यर्थः । परश्च यःप्रभूतश्च यः इत्यर्थः । तमुभयप्रकारमप्ययं देवो बृहस्पतिः । स्रुचा होममात्रेण संसिंचतु सम्यक्षारयतु अग्नौ प्रक्षिपतु । किमर्थ । राधसे धनाय । अस्माकं दृष्टादृष्टफलाप्तय इत्यर्थः॥ पयस्वतीरोषधयः पयस्वन्मामकं वचः । अपां पयस्वदित्पयस्तन मा सह शुन्धत ॥ १४ ॥ प्रत्यक्षकृतेयमृक् । शुंधतेति मध्यमपुरुषबहुवचनेनापामभिधानात्। अतस्सम्बोध्य कुरुतेत्येतत् पदमध्याहियते । हे आपः पयस्वती- रोषधयः पय उदकं वृष्टिलक्षणं युष्माकमवयवभूतं तेन तद्वतीः वृष्टियुक्ता ओषधीः कुरुत इति शेषः । किञ्च। पयस्वत् वृष्ट्याधुदक: वत् प्राप्तप्रार्थितवृष्ट्याद्यदकमित्यर्थः । मामकं मदीयं । वचः वृष्टि- .
। ४४] * ऋग्वेदभाष्यम् * [मं० १०। सू०१८॥ प्रार्थनवचनं स्तुतिवचनं वा कुरुत। अपां वृष्टिलक्षणानां सम्बन्धि- पय उदकं भूमिष्ठं । पयखत् वृष्टयदकसंयुक्तं यथा कालं कुरुते । तेन चोदकेन सह । मा मां । शुंधत शोधयत संस्कुरुत ॥ अष्टादशं सूक्तम् । उत्तरं सूक्तं परम्मृत्यविति चतुर्दशश्च । यामायनः संकुरुतो ददर्श। तत्राद्याश्चतस्रो मृत्युदेवतागपञ्चमी धातृदेवता। शेषाः पितृमंध- कणि पठिताः । तासां देवता प्रयोगवशाज्ञयः । तत्र तत्र. यथा कश्चित् शौनकेनालस्येनाशक्त्या वानिरूपितत्वादहमत्र येन मन्त्रेण यद्रव्यमाभधीयते प्राधान्येन तद्रव्यं तस्य मन्त्रस्य देवता इत्यनेन न्यायेनान्येन वा यथाप्राप्तं देवतामभिव्यञ्जयिष्यामि । परं मृत्यो अनु परेहि पन्थां यस्ते व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो पोत वीरान्॥१॥ देवान् प्रतिगमनमार्गात् पितृयाण पथि जहि । अहं तु देव- याने पथि स्थितः। अतो मा माजिघांसीरित्यभिप्रायः। न च केवलं मां किन्तर्हि । चक्षुष्मते पश्यते । शृण्वते च सर्वमप्रतिहतसर्वेन्द्रि- यविज्ञानायेत्यर्थः । ते तुभ्यं मृत्यवे । ब्रवीमि कथयामि । त्वामभ्यर्थ- यामीत्यर्थः । कि उच्यते । नः अस्माकं । प्रजा दुहितदौहित्रादिकां । मा रीरिषः मा हिंसीः। मा उत मा च | वीरान् पुत्रपौत्रादीन् पुंसो हिंसीः॥ मृत्योः पदं योपयन्तो यदैत द्राधीय आयुः प्रतरं दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः॥२॥ मृत्यो स्वभूतं पदं । पद्यतेऽस्मिन्निति पदं पितृयाणः तं योप- यन्तः विमोहयन्तः परिवर्जयन्त इत्यर्थः । यत् यस्मात् । एत गतवन्तो यूयं देवयानेन पथा यस्मान्मृत्यो स्वभूतं पितृयाणप्रापकं कर्म परि- त्यज्य देवयानप्राप्त कर्मणि प्रवृत्ताः । द्राधीयो दीर्घतरं प्रकृष्टतरं च व्याध्यादिरहितं। आयुः जीवितं । दधानाः धारयन्तः प्राप्नुवन्त इत्यर्थः । आप्यायमानाः प्रवर्धमानाश्च । प्रजया पुत्रलोलि कलया?। आर्षानुक्रमण्यां सर्वानुक्रमण्याश्च संकुसुक इति पाठः।
मं० १० । सू०१८॥] * ऋग्वेदभाष्यम् * [४५ धनेन वा गवा च हिरण्यादिकेन जन्मान्तरसञ्चितदुरितक्षया च्छुद्धा भक्त । वर्तमानजन्मोपरितदुरितक्षयाच्च । पूता भवत यूयं । हे यशियासः यशसंपादिनो यजमानाः ॥ इमे जीवा वि मृतैरावत्रन्नभूद्भद्रा देवहूतिर्नो अद्य । प्राश्ो अगाम नृतये हसाय द्राधीय आयुः प्रतरं दधानाः॥३॥ श्मशानकर्म कृत्वानन्तरमिमे जीवाः विमृतैराववृत्रन्नित्येतां, पठन्तः सव्यं बाहुं प्रत्यावर्तमानाः प्रेन्यनपेक्षमाणा ? । इमे मृतस्य संबन्धिनो जीवा वयं पुत्रपौत्रादयः व्याववृत्रन् । प्रसव्यं व्यावृत्ता- संस्कुर्मः त्यक्षेमेण ? पराङ्मुखीभूता इत्यर्थः । मृतैः पञ्चम्यर्थे तृतीया । इमा मृतेभ्यः पितृभ्यः सूतश्च अभूत् । भूता सवृत्ता । भ्रद्रा कल्याणी क्षेमकारी । देवहूतिः देवस्य यमस्य हतिराह्वानं यत्र सा देवहूतिः । श्मशानक्रिया पितृमेधाख्या । इदानीं । प्राञ्चः प्राश्चि- कार प्रकृष्टयागत्यागान्तरा भूत्वा । अगाम गृहान् प्रति गच्छामो वयं । किमर्थ। नृतये । नृती गात्रविक्षेपे । स्वकर्मणि गात्रविक्षेपार्थ स्वकर्मा- नुष्ठानायेत्यर्थः। हसाय हसनाय च । हसनेन चात्र तत्पूर्वक्रीडालक्ष्यते। पुत्रपौत्रादिभिः सह क्रीडनाय चेत्यर्थः । द्राघीयः दीर्घतरं प्रकृष्टतरं घ व्याध्यादिरहितं । आयुर्जीवितं । दधानाः आत्मनि धारयन्तः प्राप्तवन्त इत्यर्थः ।। इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् । शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्यु दधतां पर्वतेन ॥ ४ ॥ स्तुतिः पादैः मध्यमं परिधिं परिदधाति । शान्तिकर्मणि चतु- थेन पादनात्मानमुत्तरतोऽग्नेः कृत्वा । इमं मध्यमं परिधिं जीवेभ्यः । षष्ठयर्थे चतुर्थी । मृत्योर्मध्य इत्यध्याहार्य । पुत्रपौत्रादिजीवानां मृत्योश्च मध्ये तिरस्करणार्थ दधामि स्थापयामि । किमर्थ । एषाम्मू- तानां पितॄणाम् । अर्थ एतं । अर्तरर्थः।* गतिरिहोच्यते । गतिमेतां मर- णाख्यां । अपरः अन्योऽपि पुत्रादिजीवः क्षिप्रमप्राप्त काले । मा गात् मा प्रापत् । इत्यनेन प्रयोजनेन सर्वथा पुत्रादिजीवाः । कियन्तं कालं । निरुक्तम् १ । १८॥
. N ४६ ] * ऋग्वदभाष्यम् * [मं० १० । सू०१८॥ शतं शरदाः । कीदृशाः । पुरूंचीः वञ्चनाः स्वकारार्तवैश्शीतोष्ण वर्षादिभिः नागतेतः बहुभिः प्राणिभिरनुगता वान्तर्दधतामन्तर्दधातु। चान्तर्हितं च कुर्वन्तु मृत्यु । केन । पर्वतेन पाषाणेन ।। यथाहान्यनुपूर्व भवन्ति यथ ऋतव ऋतुभिर्यन्ति साधु । यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥ ५ ॥ यथा येन प्रकारेण । अहान्यहोरात्राणि | अनुपूर्व अनुक्रमेण । भवन्ति परिवर्तन्ते । यथा च ऋतवः शरदादयः । ऋतुभिस्सह यन्ति गच्छन्ति । साधु शोभनं अविपर्यासेन । एवं यथा पूर्वपूर्वकालीनं । अपरः अर्वाक्कुलीनो ऽस्मत् कुलीनः । न जहाति न परित्यजति पूर्व मरणेन । एवमनेनोक्तेन प्रकारेण हे धातः। आयूंषि जीवितानि । कल्पय समर्थय कुरु । एषामस्मत् कुलीनानाम् ॥ आ रोहतायुर्जरसं वृणाना अनुपूर्व यतमाना यति छ । इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः ॥६॥ त्वष्टदेवतेयं । त्वष्टेत्यनिवासादित्या सूयाप्युच्यन्ते?। अत्र पुनः श्म- शानकर्मसम्बन्धादग्निरुच्यते । अनयाऽऽनडुहे चर्मण्यमालानारोहयति शान्तिकर्मणि । अमात्यशब्देन स्वजन उच्यते । हे मृतस्य स्वजनाः पुत्रपौत्रादयः आनडुहे चर्मण्यारोहत । आयुर्जीवितं । जरसं वृणानाः शान्तिकाङ्गभूतमग्निं प्रार्थयमानाः। एवञ्चारोहत। अनुपूर्व ज्येष्ठक्रमेण वर्णानुक्रमेण वेत्यर्थः । यतमानाः प्रयतमानाः संयतमानाः सम्पत् माना वा परस्परेण संगच्छमाना वेत्यर्थः। यति स्थ यावन्तो भवथ यूयं तावन्तस्सर्व एवेत्यर्थः । इह चर्मणि कर्मणि वा आरूढानां च सकान्त्वष्टाग्निः ? । सुजनिमा शोभनजन्मा । सजोषाः समानप्रीतिः समानवेनो वा । दीर्घमायुर्जीवितं । करति करोतु। जीवसे चिरञ्जीव- नाय । वः युष्माकम् ॥ इमा नारीरविधवाः सुपत्नीराञ्जजनेन सर्पिषा सं विशन्तु । अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥७॥ अनयर्था सर्पिषा अक्षिणी अञ्जाना नारी ईक्षते इमशानकर्मा- * कालीनः।
मं०१०। सू०१८॥] * ऋग्वेदभाष्यम् * [४७ नन्तरं। इमा मृतस्य सम्बन्धिन्यो नारीः नार्यः। अविधवाः जीवद्भर्तृकाः। सुपत्नीः शोभनभार्याः असतीत्वादिदोषरहिताः । आ अञ्जनेन | आङ् ईषदर्थे । ताः ईषदञ्जनेन घृतात्मकनाक्षिणी स्वे स्वे अोति? शेषः। संवि. शन्तु । संवेशनमत्र सामर्थ्यात् गमनं। श्मशानात् गृहान् प्रति गच्छ- न्त्वित्यर्थः । अनश्रवः अश्रवर्जिताः अरुदन्त्य इत्यर्थः । अनमीवाः अरोगाः मानसदुःखवर्जिता इत्यर्थः । सुरत्नाः। रत्नमिति धननाम ।* शोभनपरिधानादिधनाःसुखेषा? इत्यर्थः । आरोहन्तु प्रविशन्त्वित्यर्थः। जनयः जनयन्त्यपत्यमिति जनयो यः । योनि स्वगृहं । अग्रे प्रथमं । पुश्यः पश्येयुः॥ उदीर्घ नार्यभि जीवलोकं गतासुमेतमुप शेष एहि । हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ।।८।। अनय चितितो मृतस्य पत्नीमुत्थापयति देवरः । वयस्यो वा जरद् गृहदासो वा । उत् ईछ । ईर्तिर्गत्यर्थः । उद्गच्छ उत्तिष्ठ चितित इत्यर्थः । हे नारि मृतस्य पत्नि | उत्थाय च त्वं गतासुमुत्क्रान्तप्राण- मेतं पतिमुपशेष उपस्वपिषि । एतस्य मृतस्य पते[त्युः स्समीपे पार्थे निषद्यस्य इत्यर्थः। सा त्वञ्जीवलोकमभि एहि । जीवानां पुत्रपौत्रादीनां लोकं स्थानं गृहं प्रति आगच्छ । कस्मादेवमुच्यसे । यस्मात् हस्तग्रा- भ्यस्य पाणिग्रहीतुः । दिधिषोः गर्भाधातुः सम्बन्धि । इदञ्जनित्वं जन्म। इमां देहेषूत्पत्र्तिगतमित्यर्थः । अभिसम्बभूथ अभिसम्भूतारि?त्वमध्यव- सायमात्रेणैव यस्मात्त्वं पतिलोकं प्राप्तवती तस्मादेवं ब्रवीमीत्यर्थः ॥ धनुर्हस्तादाददानो मृतस्यासे क्षत्राय वर्चसे बलाय । अत्रैव त्वमिह वयं सुवीरा विश्वाः स्पृधो अभिमातीर्जयेम ॥९॥ अनय चत्मरुवस्थायति ? क्षत्रियश्चेद्यजमानः । चितिस्थस्य मृतस्य हस्ताद्धनुराददानः । किमर्थ । अस्मै अस्माकं । क्षत्राय क्षत्रत्वाय प्रजापालनक्षत्रियत्वाय। वर्चसे ऐश्वर्यलक्षणदीप्तये च। बलयपारीराय? च सेनालक्षणाय च । आददान इति लक्षणार्थे शानञ्छन्तप्रयोगात् ? साकांक्षत्वात् ब्रवीमीति शेषः । किं ब्रवीमि । उच्यते। अत्रैव राष्ट्र * निघण्टः २ । १० ॥ ।
४८ ] * ऋग्वेदभाष्यम् * [मं० १० । सू०१८॥ श्मशाने वा । सप्तमीनिर्देशात् स्थित्वेति शेषः । त्वञ्च यजमान इहैव राष्ट्रे श्मशाने वा स्थित्वा । वयं सुवीराः शोभनपुत्राश्च त्वदीयाः एते सर्वे एवं समुद्रितास्सन्तः अनेन धनुषा तेन विश्वास्सर्वाः । स्पृधः समिति अभिमातीर्जयम अभिभवेमत्याशास्महे ॥ उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णप्रदा युर्वतिर्दक्षिणावत एषा त्वा पातु निर्ऋतेरुपस्थात् ॥१०॥ अत उत्तराश्चतस्रः पृथिवीदेवताः । अस्थिकुंभमनया भूमौ निदधति । ह अस्थिकुंभ ! अस्माभिर्भूमौ निधीयमानस्त्वं । उपसर्प उपगच्छ अनुप्रविश । मातरं सर्वस्य मातृभूतां । भूमिमेतां उरुव्यचसं पृथिवीमपि । विषिधमञ्चन गमनं व्यावचः तदुरु विस्तीर्ण यस्य असावुरुव्यचाः । तामुरु व्यचसंविस्तीर्णविविधपूजनाश्चेत्यर्थः । पृथिवीं विस्तीर्णी । सुशेवां सुसुखां । उपसर्पयन्तं च सन्तम् । ऊर्णम्रदा ऊर्णेच मृद्वी सुकुमारा। युवतिः यौवनान्विता । दक्षिणावते। द्वितीयार्थे चतुर्युषा । दक्षिणावन्तन्दत्तदक्षिणन्त्वामस्थिकुंभ रूपवन्ति] न्त्वा यजमानम् । एषा पृथिवी । पातु रक्षतु । कुतः । नितेः मृत्युदेवतायाः । उपस्थात् समीपस्थानात् ॥ उच्छंच व पृथिवि मा निबाधथाः सूपायनास्मै भव सूपवञ्चना । माता पुत्रं यथा सिचाभ्येनं भूम ऊर्गुहि ॥ ११ ॥ पृथिवि मानिबाधथाः मासंपीडयेत्यर्थः । किञ्च । सूपायन] सूपगमन सूपसप्त्यर्थः । अस्मै अस्यास्थिकुंभस्यार्थाय भव त्वं । सूपवञ्चना । वञ्चू प्रलंभने । प्रलंभनं प्रतारणं । तेन चात्र तत् पूर्वकं प्रतिष्ठापनं लक्ष्यते । सूपप्रलंभना सुप्रतिष्ठा व भव इत्यर्थः । किश्च । माता पुत्र बालकं । यथा वस्त्रान्तनाच्छादयति । एवमेनमस्थिकुम्भं । हे भूमे | अभ्यूणुहि आभिमुख्यनाच्छादय ॥ उच्चश्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो घृतश्चुतो भवन्तु विश्वाहासै शरणाः सन्त्वत्र ॥१२॥ पांसुभिः प्रच्छाद्योत्तरामेनां पठति ॥ उत् श्वंचमाना ऊर्ध्व गच्छन्ति । अस्थिकुंभमवष्टभ्यापीडयन्तीत्यर्थः । पृथिवी सु तिष्ठतु मं०१०। सू०१८॥] ऋग्वभाष्यम् * [४९ सु प्रतिष्ठिता भवतु । किञ्च पार्थिवाः पांसवः। सहस्रम्मितः । सहस्रमिति तृतीयार्थे प्रथमा। मित इति च बहुवचनस्य स्थाने एकवचनं । सहस्रण* सम्मिताः बहुसंख्यायुक्ताः अनन्ता इत्यर्थः। उप हिश्रयन्तां । हि निपातः पादपूरणोऽत्र।उपश्रयन्तामस्थिकुंभमाश्रयन्तु संपरिवार्य तिष्ठन्त्वित्यर्थः। किञ्च ते पांसवः । गृहासः अस्थिकुंभस्य गृहभूताः। घृतश्चुतः घृतस्यो- दकस्य सर्पिषो वा क्षारयितारः अस्थिकुंभस्योपरि सवितारः।भवन्तु भवन्त्वित्यर्थः । किंचविश्वाहा सर्वदा । अस्मै अस्यास्थिभूतस्य । शरणाः सन्तु आश्रयभूता भवन्तु । अत्र आमंल्लोके ॥ उत्ते स्तन्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम् । एतां स्थूणां पितरोधारयन्तु ते ऽत्रा यमः सादना ते मिनोतु ॥१३॥ अनयाऽस्थिकुंभं कपालेनापिदधाति । ते तवास्थिकुंभस्यापि- धानत्वनु?संबन्धिनी। पृथिवीं कपाललक्षणां। उत् स्तनामि।स्तभिस्कमि प्रतिबन्धे प्रितिबध्नामि। त्वत् परि षष्टयर्थेऽत्र पञ्चमी। उपरिशब्दस्य च उकारलोपः। त[वास्थिकुंभस्य तवोपरि तव संबन्धिना कपालेन त्वामपि- दधामीत्यर्थः । किञ्च इमं लोहं लोष्ट कपाललक्षणं । निदधत् अस्थिकुंभ- स्योपरि स्थापयते। अहं मो रिषं मा हिंसीर्मम केनचित् । किंच एतां मया निहितां । स्थूणां कपाललक्षणं [1] । पितरः प्रेता इतरे वा । धारयन्तु निश्चलां कुर्वन्तु । ते तवास्थिकुंभस्य संबन्धिनीं। किञ्च अत्र अस्यांभूमौ । यमः पितृपतिः । सदना द्वितीयैकवचनस्यायं छान्दस आकारः। सदनं स्थानं । ते तवास्थिकुंभस्य। मिनोतु परिच्छिनत्तु अनुजानात्वित्यर्थः ॥ प्रतीचीने मामहनीष्वाः पर्णमिवा दधुः । प्रतीची जग्रमा वाचमश्वं रशनया यथा ॥१४॥ प्रतीचीन प्रतिगते संप्राप्ते। अहनि अस्थिसञ्चयन दिवसे। मामस्थिकुंभरूपं यजमानमा दधुः त्वयि भूमावाहितवन्तःपुत्रपौत्रादयोऽधि[क]त[वन्त]। * सहन्द्रेण-कोशपाठः। + लाक्षरितारः-कोशपाठः। + ऋग्वेदस्य सर्वमुद्रितपुस्तकेषु “लोग" इति पाठो वर्तते । अस्मत्पुस्तकाल- यस्थप्राचीनकोशेष्वपि तथैवास्ति पाठः । तैत्तिरीयारण्यकस्य' कलिकत्तामुद्रितपुस्तके ॥ "लोक" इति पाठः सम्पादकसम्मतः। $ मोक्षमूलरसम्पादिते सायणभाष्येऽस्य मन्त्रस्य भाष्यं विलुसमस्ति ।
५०] * ऋग्वेदभाष्यम् * [मं०१०। सू०४९॥ किमिहाभिहितवन्तः।इवाः पर्णमिव । यथा केचिदिषुकाराः इवाः संबन्धि पर्ण वाजाख्यं सुश्लिष्टमिषा वा दधति एवमेतज्ज्ञात्वा । प्रतीची त्वां प्रतिगतां प्रार्थनाद्वारेण त्वत् कर्णपथं प्राप्तांवाचं प्रार्थनारूपाम् । एषात्वा पातु निर्ऋतेरुपस्थात् ।*उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना। इत्यादिकामचिकृतसत्कागं। जग्रभ गृहाण। किमिव । अश्वं रशनपा रज्वा यथा कश्चिद् गृह्णीयात् एवं गृहाण कर्तव्यत्वेन । मनसि कुर्वित्यर्थः । अथवा मृतस्य पुत्रो ब्रवीति । प्रतीचीने प्रतिगते। अद्याहनि।मांमृतस्य पुत्रमा दधुश्मशानकर्मणि कर्तव्ये महतादरेण श्लिष्ट- माहितवन्तः अधिकृतवन्त ऋत्विगादयः स्मृतिकारावा। किमिवा दधुः। इण्वास्संबन्धि पर्ण वाजाख्यं यथा केचिदिषुकाराः पर्ण सुश्लिष्टमिषा वा दधति ऐवमेतज्ज्ञात्वा पृथिवी । प्रतीची प्रार्थनाद्वारेण त्वत्कर्णपथं प्राप्तांवाचं प्रार्थनारूपां । एषात्वा पातु निर्ऋतरुपस्थात् ।*उच्छ्वञ्चस्व पृथिवि मानि बाधथा। इत्यादिकां जग्रभ गृहाण करीयत्वेन । किमिव । अश्वं रशनया यथा कश्चिद् गृह्णात्येवं ॥ [ एकोनविंशं सूक्तम् ] उत्तरं सूक्तं नि वर्तध्वमित्यष्टर्च गोदेवतं अब्देवतं वा । भृगुर्वा- रुणि र्भार्गवश्च्यवनो वा यामायनो वा मथितो ददर्श ॥ नि वर्तवं मानु गातास्मान्त्सिषक्त रेवतीः । अग्नीषोमो पुनर्वसू अस्मे धारयतं रयिम् ॥ १ ॥ हे गावः आपोवा। यूयमन्यतोगच्छन्त्यः निवर्तध्वमस्मान् प्रति।मानुगात स्वते नान्यं पुरुषं। एतन्मयोक्तं श्रुत्वास्मानेव सिषक्त वाहनदोहनस्नानपा- नादिद्वारेण सेवत । हे रेवतीः । ब्रीह्यादिधनेन धनवत्यः ब्रीह्यादिधन- सहितास्सेवध्वमित्यर्थः । हे अग्नीषोमो पुनर्वसू । पुनः पुनर्वस्तारौ स्तोतॄणां यष्ट्टणाश्चाच्छादयितारौ युवामपि। अस्मे अस्मासु। धारयतं स्थापयतं । रयिं धनं । गोलक्षणमब्लक्षणं वा। बीह्यादिधनसहितमिति- सामर्थ्यात् पूर्ववद्योज्यं । एवमत्रा बृहदेवताकाराभिप्रायेणाझीषो- भयोर्गुणभावः प्रधालभावो वा कल्प्यः ।। ऋ०१०।१८।१01ऋ० १०11८1११ म्यतस्य- कोशपाठः २०॥
म०१०। सू० १९॥] * ऋग्वेदभाष्यम् * [५१ पुनरेना नि वर्तय पुनरेना न्या कुरु । इन्द्र एणा नि यच्छत्वग्निरेना उपाजतु ॥२॥ आत्मनैवात्मानं संप्रेषयति । हे मदीयान्तरात्मन् अन्यतो गच्छ- न्तीरेना गाः अपो वा वृष्टिलक्षणाः । पुनः पुनर्षि वर्तय मादाः । निवर्त्य च। पुनः पुनरेनाः ।नि आकुरु नियताः कुरु ।आत्मायत्ताः कुरु । इन्द्रश्च तव सहायभूतः एना नियच्छतु । त्वदायत्ताः करोतु । अग्निश्च एनाः। उपाजतु उपगमयतु । उपक्षिपतु वा । उपयोग्याः करोत्वित्यर्थः॥ पुनरेता नि वर्तन्तामस्मिन्पुष्यन्तु गोपतौ । इहैवाग्ने नि धारयेह तिष्ठतु या रयिः ॥ ३ ॥ पुनः पुनरेता मां प्रति निवर्तन्तां मम भवन्त्वित्यर्थः । भूत्वा चास्मिन् मयि । गोपतौ गवां सास्नादिमतीनामपां वा वृष्टिलक्षणानां स्वामिनि मलादेन स्थित्वा नित्यं । पुष्यन्तु पुष्टा भवन्तु । पुष्टाश्च सतीः । इहैवास्मिन्नेव मयि गोपतौ । हे अग्ने नि धारय नियमेन स्थापय । इहैव मयि गोपतौ । या रयिः यदपि धनं व्रीह्यादिकश्च वि(?) गोसहितं तिष्ठतु ॥ यन्नियानं न्ययनं संज्ञानं यत्परायणम् । आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥ ४ ॥ गवानियाननियमेन यान्त्यत्रेति नियानं स्थानं गोष्ठाख्यं । यच्छब्दयोगात्तच्छब्दो ऽध्याहार्यः । हुव इति च क्रियापदं । सर्वतो ऽनुषक्तव्यं । तदपि हुवे आह्वयामि । आह्वानमभिमुखकरणं । तेन चात्र तत्पूर्विका प्रार्थना लक्ष्यते । गोसहितं प्रार्थय इत्यर्थः । नि अयनं यदपि गवाञ्चरित्रं गतानानियमेन गृहप्राप्तिलक्षणं तदपि प्रार्थये । यदपि गवां संज्ञानं सम्यग् ज्ञायते ऽनेनेति संज्ञानं । शबलादिचिह्ननाम वा। तदपि प्रार्थये । यदपि गवां परायणं परागमनश्चरित्रं वनं प्रतिगमनं तदपि प्रार्थये । यदपि गवामावर्तनं वने चरितुमितश्चेतश्च प्रवर्तनं तदपि प्रार्थये । यदपि गवाञ्चरित्वा गृहान् प्रति निवर्तनं तदपि प्रार्थये । यो ऽपि । गोपाः गोपालकः । तमपि । हुवे प्रार्थये । सर्वगुणोपेता गाः प्रार्थय इत्यर्थः॥ ।
५२] * ऋग्वेदभाष्यम् * [मं० १० । सू०१९॥ य उदानव्ययनं य उदानद्परायणम् । आवर्तनं निवर्तनमपि गोपा नि वर्तताम् ॥ ५॥ यो गोपाः । उत् । आनट् व्याप्नोति । वि अयनं विविध[गम]न। गवां नष्टानामन्वेषणार्थमितश्चेतश्च भ्रमणमित्यर्थः । यश्च गोपालः। उदानट व्यामोति अनुभवति । किं । परायणं परागमनं । गोभिस्सहाभवी*प्रति- चारणाय गमनमित्यर्थः । यश्च गोपाल आवर्तनमनुभवति । गोभिश्चर- न्तीभिश्चेतश्चेतिश्च] भ्रमणमित्यर्थः । यश्चाभवीतो। गोभिस्सह गृहान् प्रतिनिवर्तनमनुभवति । सोऽपि गोपाः गोपालो गोभिस्सह [वन तो गृहान् प्रति निवर्ततां क्षेमेणागच्छत्वित्यर्थः॥ आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि । जीवाभि भुनजामहे ॥६॥ आ निवर्त आ निवर्तेत्यर्वागर्थे । अर्वागस्मरिसम्वनिवर्तस्व । त्वं हे इन्द्र अस्मदभिमुखो भवेत्यर्थः । भूत्वा चान्यतो गच्छन्तीनिवर्त- यास्मदभिमुखं कुरु । कृत्वा च । पुनः पश्चात् । नः अस्मभ्यं । हे इन्द्र गाः। देहि त्वं दत्ताभिश्च गोभिः जीवाभिः चिरजीविभिः सर्वजीव- यन्तीभिर्वा । भुनजामहै देवपितृमनुष्यानस्मांश्च संभोजयेम । सं पुष्णीमेत्याशास्महे ॥ परि वो विश्वतो दध ऊर्जा घृतेन पयसा । ये देवाः के च यज्ञियास्ते रय्या सं सृजन्तु नः ॥७॥ वः युप्माकं गवां संबन्धिना। ऊर्जा अनेन हविर्लक्षणेन । घृतेन च । पयसा च क्षीरेण च । विश्वतः विश्वान् सर्वान्देवपितृमनुष्यान् । परिदधे सन्धारयामि पुष्णामि । नात्मानमेव केवलं एतज्ज्ञात्वा ये के च देवा याक्षयाः यज्ञसंप[दोस्ते।रय्या धनेन गोलक्षणेन । संसृजन्तु संयोजयन्तु । न अस्मान् । अनुग्रहबुध्या स्वमुपनमन्तीषु गोषु व्या- घातं मा कार्युरित्यर्थः॥ आ निवर्तन वर्तय नि निवर्तन वर्तय । भूम्याश्चतस्त्रः प्रदिशस्ताभ्य एना निवर्तय ॥८॥ * सहाटवीं? +यश्वाटवीतो?
मं० । सू०२०॥] * ऋग्वेदभाष्यम् * [ ५३ आकारो वर्तयेत्यनेनाख्यातेन संबन्धयितव्यः । हे मदीय कर्मात्माभिमुखमा वर्तय गाः । स्तुत्या यागेन च प्रसाधोपनामयेत्यर्थः । यूयमपि हे गावः ! प्रसाद्यमानाः निवर्तनं निवर्तध्वं । प्रसाधोपनमते. त्यर्थः। किं च । उपगम्य पश्चात् गोपालंभनकर्मक्षयात् अप गच्छन्तीर्गाः पुनरपि स्तुत्या यागेन च प्रसाद्य निवर्तय । अनिवर्तमानाश्च । यूयमपि हे गावः ! निवर्तन निवर्तध्वं पुनरपि प्रसाद्योपनमतेत्यर्थः - कुतो नि. वर्तयामि निवर्तामहे चेति पृष्ट उच्यते । भूम्याः पृथिव्यास्संबन्धि न्यायाः। चतस्रः प्रदिशः प्रकृष्टा दिशःप्राच्याद्याः ताभ्यो दिगभ्यः एना गाः सर्वदिकाः निवर्तय निवर्तयध्वं यूयमिति सामादध्याहार्य । अब्दे- वतापक्षेऽपि सूतार्थो यथा घटते तथा योजना कर्तव्या ॥ [विशं सूक्तम्] उत्तरं सूक्तं भद्रग्न इति दशाक्षरमेकपादयुक्तं शायं मनो देवतं शान्तिकर्गः देव. प्राजापत्यो वा विमदो ददर्श । अनेन सूक्तेन शान्त्यर्थ यत् कर्म क्रियते जपलक्षणं होमलक्षणं वा तदुच्यते ॥ भद्रं नो अपि वातय मनः ॥ १॥ प्रजापतिर्वा आपि वातयेति । हे शान्तिकर्म प्रजापते वा । भद्रं कल्याणमनर्थशान्तिलक्षणं धर्मार्थकामादिलक्षणं च । नः अस्माकं संबन्धि। मनः। मनसाऽत्र मन आदिसर्वकरणानामधिष्ठात[i]भोक्तपुरुषो लक्ष्यते । तस्य सुखदुःखफलसंबन्धान्मन आदि सर्वकरणानाम- धिष्ठातारं सुखदुःखफलस्य भोकारं पुरुषमित्यर्थः । अपि वातय । अपिरम धात्वर्थानुवादी । गमय प्रापयेत्यर्थः ॥ पनवासी विनिर्गताचार्यस्य उद्गीथस्य कृता ऋग्वेदभाष्ये चतुष्पश्चाशो ऽध्यायः समाप्तः ॥ * * सायणीये ऋग्वेदभाष्ये ऽष्टादशसूक्तान्ते चतुःपञ्चाशाऽध्यायपरिसमाप्ति- प्रदर्शको लेखो विद्यते । तथा च कात्यायनादिमतमभ्युपगच्छता सायणेन-भद्रं नो- इत्येकपदा दशाक्षरा ऋक् विशे सूक्ते अन्तर्गता स्वीकृता । भई नो-इत्यत्र आचार्येणोद्गीथेन तु पृथक्सूक्तत्वं मतम् । अतो ज्ञायते यथा सायणेन शाकल- शाखा न्याख्याता, तथा उद्गीथेन काचिदन्या अनुपलभ्या ऋशाखा व्याख्याता स्यात् ।
५४] * ऋग्वेदभाष्यम् * [मं०१०। सू१२१॥ [एकविंशं सूक्तम्] उत्तरं सूक्तमाग्नेयम् । ऐन्द्रः प्राजापत्यो वा विमदो ददर्श ॥ अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् । यस्य धर्मन्त्स्वरेनीः सपर्यन्ति मातुरूधः ॥१॥ अग्नि महमीळे । ईळस्तुतौ । स्तौमि । कीदृशं । भुजां हविर्भुजां देवानां मध्ये । यविष्ठं युवतमं। अग्निहोत्रादिकर्मार्थमहन्यहनि जायमानत्वादतिश- येन युवानमित्यर्थः । अथवा भुजां भोक्तव्यानामाहुतीनां मिश्रयितृतमं । इतरेषां देवानां तं दुःखत्वादतिशयेनात्तारमित्यर्थः। शासाअनुशासनेन हेतुना । मित्रं यस्मादिदं कर्तव्यमिदन्न कर्तव्यमिति सर्वमनुशास्ति तस्मात् सर्वस्य स्निग्धभूतश्चेत्यर्थः । दुर्धरीतुं दुर्धरं च दुर्निवारं शत्रु भियुद्धकाले । अथवा ग्रामदाहे वनदाहे च । किञ्च यस्याग्ने स्संबन्धि धर्मन् कर्मणि अग्निहोत्रादिके । स्वः सर्वदेवजातं दिवम् आदित्यं वा । एनीः देवान् प्रतिगच्छन्त्य आहुतयः । सपर्यन्ति स्थितिकरणद्वारेण परिचरन्ति सेवन्ते । अथवा स्वः स्वर्यन्तीत्यर्थः । एनयोस्सामानाधि- करण्यं । स्वरिति चायमत्र सर्वपर्यायः निपात स्वः सर्वे देवाः। एनीः आत्मानं प्रतिगरणाय गुन्ती [गन्त्री] राहुती स्तुतीश्च । सपर्यन्ति परि- चरन्ति । सेवन्ते उपजीवन्तीत्यर्थः । किमिव । मातुरूधः । लुप्तेोपम- मेतत् । यथा मातुर्गोरुधः क्षीरोपसंहारस्थानं वत्सा उपजीवन्ति । एवं तमग्निमीळ इति संबन्धः कार्यः ॥ यमासा कृपनीळं भासाकेतुं वर्धयति । भाजते श्रेणिदन् ॥२॥ यमग्निं । आसां उपासनेन स्तुतिभिहविर्भिश्च सेवनेन । कृपनीलं कर्मस्थानं । सर्वकर्माधारमित्यर्थः।भासाकेतुं ज्वालालक्षणं । एत[द्दीति- पताकं । दीप्तेः कर्तारं वा । शरीरेण वीर्येण च । स्तोतारो यथारश्च । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः । सोऽग्नि (जते दीप्यते । सर्वत्र कर्मार्थ । कीदृशः । श्रेणिदन ज्वाला॥ अर्यो विशां गातुरेति प्र यदानदिवो अन्तान् । कविरभ्रं दीद्यानः ॥३॥ अर्य स्वामी सर्वस्यान: ? विशां यजमान[नां] मनुष्याणां च । गातुः विशिष्टगतिरमिः । किञ्च । यत् यदा । दीवान: । ।
मं० १० । सू०२२॥] * ऋग्वेदभाष्यम् * [५५ दीप्यमानः । एति ऊर्ध्व गच्छति । तदा प्रानद् प्रकर्षणेन व्याप्नोति । तेजसा किं नि[दिवः ? घुलोकस्य अन्तान् पर्यन्तान् । कवि- मैंधावी । अभ्रमत्रान्तरिक्षोपलक्षणं । अत्रोपलक्षितमन्तरिक्षञ्च व्याप्नोतीत्यर्थः॥ जुषद्धव्या मानुषस्योर्ध्वस्तस्थावृभ्वा यज्ञे । मिन्वन्त्सब पुर एति ॥४॥ जुषत् सेवमानः । भक्षयनित्यर्थः । हव्या हवींषि । मानु- षस्य यजमानमनुष्यस्य । स्वभूते यझे। ऊर्ध्वः तस्थौ तिष्ठति । ऊर्ध्व- ज्वलतीत्यर्थः ॥* [द्वाविंशं सूकम्] कुह श्रुत इन्द्रः कस्मिन्नद्य जने मित्रो न श्रयते ऋषीणां वा यः क्षये गुहा वा चर्कषे गिरा ॥१॥ चकेषे प्रथमस्य स्थोने यः-मध्यमः । करोतेः क्रियासामान्य- वचनत्वात् । करोतिश्चात्र स्तुतिक्रियायां वर्तते । अत्यर्थ स्तूयत इत्यर्थः। गिरा स्तुतिलक्षणया वाचा । स इन्द्रः । श्रुतो विख्यातः । कुह व स्थाने स्थितः । अद्य श्रयते । कस्मिन् वा यजमानजने इज्यत्वेन स्तुत्यत्वेन स्थितोऽद्य श्रयते । किमिव । मित्रो न मित्र इव । आदित्य इव । स्निग्ध इव वेत्यर्थः॥ इह श्रत इन्द्रो अस्मे अद्य स्तवे वज्यूचीपमः । मित्रो न यो जनेष्वा यशश्चक्रे असाम्या ॥२॥ अत्रापि पूर्वोक्तेन न्यायेनोत्तरोऽद्धः पूर्व व्याख्येयः । य इन्द्रः। मित्रो न आदित्य इव । निग्ध इव वा । यजमानजनेषु वा स्निग्ध- जनेषु । यः कीर्ति वा । आ चक्रे आभिमुख्येन करोति । कीदृशं यशः । असामि आमर्यादया असमाप्त मनन्तमित्यर्थः । स इहास्मद्यज्ञे । श्रुतो विख्यात इन्द्रः । अस्मे अस्माभिः । स्तवे अद्य स्तूयते । वज्री वजा- युधः । ऋचीषमः । ऋच स्तुतौ । ऋचा स्तुत्या समः । यहथाव इन्द्र * अत उद्ध्वं किन्चित् मन्त्रभाष्यं त्रुटितमस्ति । अस्मत्कोशे अस्य विज्ञापकं ईदृशं चिन्हं वर्तते ।
५६ ] * ऋग्वेदभाष्यम् * [मं०१०। सू०,२०॥ ते शतं शतं भूमीरुत स्युः । न त्वा वजिन् सहस्रं सूर्या अनुजातमष्ट रोदसी।*इत्यादिकया अतिस्तुत्यापि समानगुण इत्यर्थः ॥ महो यस्पतिः शवसो असाम्या महो मृम्णस्य तूतुजिः । भर्ता वज्रस्य धृष्णोः पिता पुत्रमिव प्रियम् ॥ ३ ॥ य इन्द्रः । महः महतः । शवसः बलस्य सेनाख्यस्य । पतिः स्वामी । कीरशः । असामि आ मर्यादया असमाप्तः । अनन्तगुण इत्यर्थः । महः महतः । नृम्णस्य शारीरस्य च बलस्य ॥ 'युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः । सन्ता पथा विरुक्मता सृजानः स्वाष्यध्वनः ॥ ४ ॥ हे वज्रिवः वजिन् इन्द्र । यस्त्वं देवः स त्वं । युजानः स्व रथे अयुअन् । अश्वा अश्वौ । कीदृशौ । वातय देवस्य । धुनी जलेन जवेन वा कंपयितारौ अभिभवितारौ । वातादपि बलवत्तरी घेत्यर्थः । शीघ्रतरौ। स्यन्ता गच्छन्तौ । पथा स्वर्गमार्गेण । कहिशेन । विरुत्मता विरोचनवता, विविधदीप्तियुक्तेन । सृजानः अध्वन उत्पादयन् । स्वरथनेमा रथमार्गान् । स्तोषि स्तूयसे सततं श्रेयोऽर्थिभिः ॥ त्वं त्या चिद्वातस्याश्वागा ऋजात्मना वहध्यै । ययोर्देवो न मर्यो यन्ता नकिर्विदाय्यः ॥५॥ यच्छब्दसंबन्धादुत्तरोऽर्द्धः पूर्व व्याख्यायते । ययोरण्वयोः । यन्ता गन्तुं प्रवृत्तयोनियन्ता निवारयिता। न देवः। नापि मो मनुष्यः । नकिः न कश्चित् । विदार्यः वेत्ता बलस्य जवन्त मिति शेषः । त्वं हे इन्द्र । त्या चित् तावपि तादृशावपीत्यर्थः । तस्य बलेन जवेन च युक्ता- विति शेषः । अश्वा आत्मीयावश्वौ । ऋजा ऋजुगामिनौ । आ अगाः आ गच्छसि । त्मना सारथिनिरपेक्ष इत्यर्थः। किमर्थं प्रति गच्छानि । उच्यते । वहभ्यै वाहनाय । अभिप्रेतदेशप्रापणाय नियमनाय वेत्यर्थः ॥ अध ग्मन्तोशना पृच्छते वां कदा न आ गृहम् । आ जग्मथुः पराकादिवश्व ग्मश्च मय॑म् ।। ६ ।। । । * ऋ० ८।७०।५॥
म० १० सू० २२॥ * ऋग्वदभाष्यम् * [५७ यज्ञ निर्वृत्ते अथ अनन्तरं । ग्मन्ता स्वस्थानं प्रति गच्छन्तौ । उशनाः । द्वितीयार्थे प्रथमैषा । उशनसञ्च त्वत्सखं त्वां चेन्द्रं । वा युवां संवृत्तौ सन्तौ । पृच्छते कृतार्थमात्मानं मन्यमानः परितोषात् पृच्छति । सर्वो यजमानः अनेनोच्यमानप्रकारेण* । कदा किमर्थो । केनार्थेनार्थिनौ सन्तौ । नः अस्माकं स्वभूतं । आ गृहं । आङत्र प्रतीत्यस्यार्थे । गृहं प्रति मर्त्यलोकं प्रति । आ जग्मथुः आगतवन्तौ स्थः । पराकात् दूरात् । कुतो दूरात्। दिवाच ग्मःच।द्यतश्च पृथिवीतश्चे- त्यर्थः । युवयोः कृतार्थत्वादिहागमनमस्मदनुग्रहार्थमेव न स्वार्थमिति ब्रवन् पृच्छतीत्यर्थः॥ आ न इन्द्र पृक्षसेऽस्माकं ब्रह्मोद्यतम् । तत्त्वा याचामहेऽवः शुष्णं यद्धन्नमानुषम् ॥ ७ ॥ हे इन्द्र । आ पृक्षसे नः । आङत्र मर्यादायां । मर्यादया आतृप्ते- रित्यर्थः । संपर्चयात्मना भक्षयेत्यर्थः । अस्माकं स्वभूतं । ब्रह्म अन्नं हवि- राख्यं। नःतृतीयार्थे षष्ठी।चतुर्थी द्विती[यायां वैषा। अस्माभिस्तुभ्यं दातुं उद्यतं उत्क्षिप्तं दत्तमित्यर्थः । भक्षितवन्तं च सन्तं त्वां तत् । याचामहे प्रार्थयामहे । अवः अन्नं रक्षणं वा यदुत्कृष्टं इति शेषः । शुष्णं बलश्च याचामहे । यत् हन् हन्ति । अमानुषं मानुषादन्यं राक्षसा- दिकं बलश्चोत्कृष्टं प्रार्थयामह इत्यर्थः । अथवा न इत्येतद् अव इत्येतेन संबध्यते । एवं च योजना कर्तव्या । तत्त्वा याचामहे ।नः अस्माकं अवः पालनं । कीदृशं । उच्यते । शुष्णं शुष्णनामानं। यतहन हतवान्। अमानु- षम्मानुषादितरमसुरमित्यर्थः । शुष्णमसुरं हत्वा येन पालनेन त्रैलोक्यं पालितवानसि । तत् पालनमस्माकं त्वां याचामह इति वाक्यशेषः॥ अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः । त्वं तस्यामित्रहन्वधर्दासस्य दंभय ॥ ८ ॥ अकर्मा अविद्यमानकर्मा निष्क्रिय इत्यर्थः। दस्युः।नः अस्माकम्। अभि अमन्तुः आभिमुख्येन स्वरूपतः अशाता । अथवा अवोपस- र्गस्य वकारलोपोऽत्र द्रष्टव्यः । अवमन्तुः । अवमन्ता परिभविता । * नोच्यमानेन प्रकारण-कोशे पुनर्लेखपाठः ।
५८] * ऋग्वदभाष्यम् * [मं०१०। सू०२२॥ अन्यव्रतः श्रतिस्मृतिविहितकर्मणोऽन्यकर्मा प्रतिषिद्धकर्मा । अमानुषः मानुषादन्यः मनुष्यसंव्यवहाराद् बाह्यः । राक्षसवृत्तिरित्यर्थः । य ईदृशः । तस्य दासस्य उपक्षपयितव्यस्य । त्वं हे अमित्रहन् भक्तजनस्य शत्रूणां हन्तः । वधः हन्ता सन् । दंभय हिन्धि तमिति शेषः । अथवा वध इति वज्रनाम । तस्य वजं भय गमय । तं वज्रेण जहीत्यर्थः॥ त्वं न इन्द्र शूर शूरैरुत त्वोतासो बर्हणा । पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा ॥ ९ ॥ त्वं नः अस्मान् । हे इन्द्र शूर । शूरैः मरुद्भिस्सह सामर्थ्यात् पालयेति शेषः । उत अपि । त्वोतासः त्वया ऊता रक्षितास्सन्तो वयं । बर्हणा परिवृद्धेन ईप्सितार्थप्रदानेन त्वदीयेन तव प्रसादयुक्ता स्यामेति शेषः । कस्मादेवं ब्रमः । यस्मात् पुरुत्रा पुरुभ्यो बहुभ्य स्तोतृभ्यो यादृभ्यश्च दत्तास्सत्यः । ते तव स्वभूताः। पूर्तयः ईप्सिता- र्थप्रदानानि वि नवन्त वि[विधं स्तुवन्ति त्वां ।हेतुकर्तृत्वेन । किमिति। क्षोणयो यथा । क्षोणिशब्दोऽत्र मनुष्यवचनः । ऋत्विग्यजमानादि- मनुष्याः यथा त्वां स्तुवन्त्ये[व] । एतदुक्तं भवति । त्वत्तो लन्ध- धनास्सन्तो वयं त्वया रक्ष्यमाणास्त्वां यज्ञेषु स्तुमः । तस्मादस्मभ्यं धनं देहि रक्षित (?) वाऽस्मानिति । त्वं तान्वृत्रहत्ये चोदयो नृन्कााणे शूर वजिवः । गुहा यदी कवीनां विशां नक्षत्रशवसाम् ॥ १० ॥ हे इन्द्र त्वं तान्। [नृन् ] नरान् मरुदादिदेवान्मरुतो वा केवला[-]। चोदयश्चोदयसि प्रेरयसि । किमर्थ । वृत्रहत्ये व ? वृत्रहननाय । असु. राय शत्रुवधायेत्यर्थः । कीरशे सङ्नामे । असिः कृपाणः । तेन निवृत्तः समामः काणः । तस्मिन् काणे समामे । हे शूर वजियः वज्रिन्। * निघण्टुः २॥२०॥ + पुरुनाइति पदस्य पुकारादनन्तरं को रिक्तपत्र विद्यते । उत्तरपत्रारम्भे- "हरिः श्री गणपतये नमः अविघ्नमस्तु । अथ यज्ञे निवृत्ते"-त्यत २०१० । २२॥६॥ आरभ्य सार्यत्रयाणां मन्त्राणां भाष्य पदपर्यन्तं पुनलिखितम् । अस्माभिस्तु पुनर्लेखस्य साहाय्यमवलम्ब्य विशुद्धा पाठाः मूले विनिवेशिताः। पुनर्लेखे मन्त्रप्रतीकानि वैशिष्टयेन न प्रदर्शितानि । " मं०१० । सू०२२॥] * ऋग्वेदभाष्यम् * [ ५९ कदा दयस उच्यते ।* गुहा गूढानि गुणैः संवृतानि स्तोत्राणि। यदि यदा शृणोषीति शेषः । कवीनां मेधाविनां । विशां सान्तादि: मनुष्याणां । नक्षत्रशवसां गुणग्रहणद्वारेण देवान् प्रतिगन्तृस्तुतिबलानां स्वभूतानि स्तोत्राणि । नक्षत्रं नक्षतेर्गतिकर्मणः। शव इति बलनाम ॥ मक्षू ता त इन्द्र दानामस आक्षाणे शुर वज्रिवः। यद्ध शुष्णस्य दंभयो जातं विश्वं सयावभिः ॥११॥ हे इन्द्र शूर वज्रिवः । आमाणे योद्धन् व्याप्नुवति तैयाप्यमाने. वा त्वयि असाधारणत्वेनावस्थितानि । महूं क्षिप्राणि अविलंबितानि क्षिप्रकरणे युक्तानीत्यर्थः । ता तानि । तानि सामर्थ्यात् कर्माणि । ते तव स्वभूतानि । कीदृशस्य । दानाप्नसः दानकर्मणः। स्तोतृभ्यो यादृभ्यश्च सततमभीप्सितार्थप्रदातुरित्यर्थः । कानि तानि । उच्यते । यत् ह । हेति पदपूरणः । यानि शुष्णस्यासुरस्य । जातमपत्यं । विश्वं सर्वे । दंभय हिंसितवानसि।क्षणेन सयावभिः सहयातृभिः सहमरुद्भिः]यान्येव- मादीनि तव कर्माणि तानि सर्वाण्येव क्षिप्रकरणे युक्तानीत्यर्थः ॥ माकुध्रयगिन्द्र शूर वस्वीरस्मे भूवनमिष्टयः । वयंवयं त आसां सुम्ने स्याम वज्रिवः ॥ १२ ॥ हे इन्द्र शूर । अस्मे अस्माकं स्वभूताः । अभिष्टयः आभिमुख्ये- नेष्टयः इज्याः । अथवा ऽभिष्यः अभीच्छा ईप्सितार्थप्रार्थनाः । वस्वीः महत्यः । अकुध्रय सामर्थ्यात् कुत्सिताः। विफला इत्यर्थः । शीघ्रं धयं स्याम । मा भूवन । किं तर्हि । वयंवयं [द्विर्वच]नमिह त्वरि]प्रदर्श- नार्थ । ते तव प्रसादात् । आसां इज्यानां प्रार्थनानां पा जन्यत्वेन सम्बन्धिनि । सुन्ने सुखे ऽवस्थिताः शीघ्रं वयं स्याम। अभिष्टिजन्येन] दृष्टादृष्टसुखेन संयुताः** शधिं वयं भवेमेत्याशास्मह इत्यर्थः। हे वजिवः॥ अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्पृशः । विद्याम यासां भुजो धेनूनां न वजिवः ॥१३॥ * दयस्युप्युते-कोशपाठः। +निरुक्तं ३॥२०॥ निघण्टुः २।९॥ अभ्यत् इति-कोशपाठः । १ स्थानभ्रष्टमिव वाक्यमिदं भाति । * संयुत्ता कोशपाठः।
६०] * ऋग्वेदभाष्यम् * [मं० १० । सू०२२॥ ता सत्या इत्युभयत्रापि प्रथमाबहुवचनस्य च्छान्दस आकारा- देशः।स्तुतिनिर्देशविशेषत्वात् ।*अस्मे अस्माकं स्वभूतास्ताः। उपस्पृशः उपगम्य स्पृशन्ति गृहन्ति देवता गुणानिति उपस्पृश स्तुतयः । ते तव प्रसादात् । हे इन्द्र सन्तु [भ]वन्तु सत्या। तव सद्गुणग्राहिण्य इत्यर्थः । अहिंसन्तीस्त्वामहिंसन्त्यश्च भवन्तु । [सत्स्तुति ]त्वादनु जयन्त्यश्च भवन्त्वित्यर्थः विद्याम लभिष्यामहे वयं । यासां स्तुतीनां जन्यत्वेन संबन्धिनः । भुजः भोगान् दृष्टादृष्टान् । किमिव । धेनूनां न । गवां संबन्धिनः क्षीरादिभोगान् कश्चित् गोपतिर्यथा लभते । एवं हे वजिवः ॥ अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम् । शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः ॥ १४ ॥ अहस्ता हस्तवार्जिता । अपदी पादवार्जिता । अपुरुषविधा- कर्मात्मलक्षणेत्यर्थः । क्षाः पृथिवी । यत् यदा । वर्धत धनधान्यप्रजा- दिवृद्धया वृद्धा। शचीभिः कर्मभिवृष्टयादिभिः । वेद्यानां वेदितव्यानां मध्यमस्थानदेवतानां त्वत्प्रभृतीनां संबन्धिभिः तदा । शुष्णं शुष्ण- नामानमसुरं । परि प्रदक्षिणित् परिवेष्टय प्रदक्षिणं । विश्वायवे । तादर्थ्य चतुर्थेषा। सर्वत्राप्रतिहतगामिनः चक्रवर्तिनः उर्वशेयस्य राशो ऽर्थाय। नि शिश्नथः । निगृह्य ताडितवानसि । त्वं हे इन्द्र ।। पिबापिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुः सन् । उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः ॥१५॥ पिबापिब यागकालो ऽतिपातः। भयादपि त्वरितस्य द्विवचन- मेत [त् । इ]दिति पदपूरणः। हे इन्द्र त्वद्यागकालातिपातो यावन्न भवति तावच्शीघ्रं पिब सोममित्यर्थः। मा रिषण्यः यागालातिक्रम]जनित दोषेण मा हिंसीः अस्मान् । हे वसवान वसुना धनेन वसुभिर्वा देवै. स्तद्वन् । वसुः सन् प्रशस्तः सन् । प्रशस्तस्य वसन्तः कर्मवैगुण्य- करणेन हिंसितुमयुक्तमित्यर्थः । उत त्रायस्व । अपि च प्रमादजनित- कर्मवैगुण्यदोषात् पालयस्व । गृणत स्तुवतः । मघोनः हविर्धनेन धनवतः। कृधि कुरु । नः अस्मान् ॥ मानधनूलरस-पादिते सायणीये भाष्ये महाभ्रष्टः पाठो विद्यते ॥
? मं०१०। सू० २३॥]] * ऋग्वेदभाष्यम् * [६१ [त्रयोविंशं सूक्तम् ] यजामह इत्यैन्द्रं सप्तर्च विमद एव ददर्श ॥ यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यी विव्रतानाम् । प्र श्मश्रु दोधुवदूर्ध्वथा भूद्वि सेनाभिर्दयमानो वि राधसा ॥१॥ यजामहे वयमिन्द्रं । कीदृशं । वज्रदक्षिणं सततं शत्रुवधाय वज्रो दक्षिणे हस्ते यस्य तं । वज्रणोत्साहिनं वा । [हरीणां] हरि- संज्ञानां । कीदृशानां । विव्रतानां रथ[व]हनमेघहननादिविविधकर्मणां स्वामिनमिति शेषः । रथ्यं रथस्य च नेतारमित्यर्थः। अथवा हरीणां विव्रतानां । रत्थ्यं ईहयितारं। यत्रष्टं तत्र गमयितारमित्यर्थः । य इन्द्र श्मश्रुष्ठ ? प्र दोधुवत् प्रकंपयत्ययत्यन्ताभिरुच्या? सोमं पिबन्प्रचाल- यतीत्यर्थः । य इन्द्र ऊर्ध्वथा भूत् । ऊर्ध्वथेति । थाऽत्र प्रकारवचना- भावात् स्वार्थ उपमार्थे वा । तं प्रत्नथेति यथा ।* तं प्रत्यवक्षणार्थ ऊर्ध्वश्च भवति । अथवा यथा राजा कश्चिद्युद्धकाले योद्धप्रत्यवेक्ष- णार्थमूो भवति। कदा। सेनाभिर्मरुदादिस्वसेनाभिः शत्रन् । विदयमनो विविधं हिंसन्। विर[]धसाव्युपसर्गःश्रुतिसामर्थ्याहयमान इति क्रिया- पदमनुव] । राधसेति द्वितीयार्थे तृतीया। राधः धनं च । स्तोतृभ्यो यदृभ्यश्च वि दयमानो विविधं ददत् । आदरणोो भवति य इन्द्रः तं यजामह इति संबन्धः कार्यः॥ हरी न्वस्य या वने विदे वविन्द्रो मधैर्मघवा वृत्रहा भुवत् । भुर्वाज ऋभुक्षाः पत्यते शवोऽवक्ष्णौमिदासस्य नाम चित्॥२॥ अस्येन्द्रस्य । तौ यौ। हरी अश्वौ । नु क्षिप्रं । विदे विन्देते लभेते । वसु धनमृजीपलक्षणं । क्व लभेते । वने । वन्यते संभाज्यते उपजीव्यते सर्वेणेति वनं यशः । अटवी वा । तत्र यच्छब्दश्रुतेस्त- च्छब्दोऽध्याहार्यः। ताभ्यां तादृशाभ्यां हरिभ्यां वृत्रहननसाधनभूताभ्यां । इन्द्रः मधैर्धनैः। मघवा धनवान् । वृत्रहा वृत्रस्यासुरस्य मेघस्य वा हन्ता । भुवत् भवति । सभा ? किंच। भुवः ऋभुः उरु भातीन्द्रः उरु- * ऋ०५।४४१॥ निरुक्तं ३॥ १६ ॥ प्रश्नथेति-कोशपाठः ।
६२]] * ऋग्वेदभाष्यम् * [मं०१०। सू०२३॥ भवति वा । रूपं रूपं प्रतिरूपो बभूव-इति वचनात् ।* इदं व्याख्यानं ऋतेन वोदकेन भवति । विद्युरूपः ? ऋतन सह भवति वा । वाजश्व इन्द्रः । कथं । वाजेनानेन बलेन वा तद्वान् । वाजशब्दश्चान्तीतमत्वर्थः अथवा-ऋभुमन्तं वाजवन्तम्-इति वचनारभुमान वाजवांश्चेत्यर्थः । ऋभुः र्वाज इति सौधन्वानामुच्यते। ऋभुक्षाः महक्षेन्द्रः । अथवा उरुक्षयणः। उरावन्तरिक्ष क्षयति निवसतीति । किंच । पत्यते शवः ईष्टे चेन्द्रो महतो बलस्य । शत्रो मापि नमत्यननाने नामशिरः तदपि । किमुदात अन्यदंगं । अथवा नामापि निर्णाशयामीति किमुत शत्रु । अथवाऽव क्ष्णामीत्यत्र पुरुषव्यत्ययः कार्यः । य ईदृश इन्द्रः । स अवक्ष्णौति दासस्य नामापीति पूर्ववद्योज्यम् ॥ यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः । आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥३॥ यदा यस्मिन् काले । वज्रं हिरण्यं हिरण्मयं हिरण्यमण्डितं वेत्यर्थः । शत्रुप्राणानां हर्तारं वा । शत्रुवधाय गृहातीति शेषः । इदिति पदपूरणः । अथ तदा । रथं । कीदृशं । हरी अश्वौ । यं रथं । अस्येन्द्रस्य स्वभूतं । वि वहतः यत्रेष्टुं गन्तुं तत्र विशेषेण प्रापयतः । तं रथं सूरिभिः स्तोतृभिः कुत्सादिभिः सह । आ तिष्ठति आरोहति । मघवान् धनवान् । सनश्रतश्चिरप्रख्यातः । निसर्गत एव जगति विदित इत्यर्थः । इन्द्रः वाजस्याननस्य बलस्य । सौधन्वस्य वा । दीर्घश्रवसो महाकीतः। पतिः वा स्वामी वा॥ सोचिन्नु वृष्टिप्रुथ्याश्स्वा सचाँ इन्द्रः श्मश्रणि हरिताभि प्रष्णुते । अव वेति सुक्षयं सुते मधूदिफ़्नोति वातो यथा वनम् ॥४॥ स्रो शम्दस्साशब्दपर्यायः । चिदित्युपमार्थे । नु इति क्षिप्रार्थे। तच्छन्दश्रुतेर्थोग्यार्थयुक्तो यच्छन्दोऽध्याहार्यः । या महा वृष्टिः स यथा क्षिप्रं सर्वे युगपसिञ्चत्येवं । यूथ्या यूथानि वृन्दानि मरुदादिदेव- गणलक्षणानि । स्वा स्वानि । सचा सह । इन्द्रः श्मश्राणि च स्वानि । . *ऋ०६.१७॥१८॥ निरुतेन ११ ॥ १६ ॥ सह तुल्यताम् । ऋ०३१५२॥६॥ माहा-कोशपाठः।
हरिता हरितवर्णेन सोमेनाभि प्रष्णुते । आभिमुख्येन स्थित्वा क्षिप्रं सिञ्चति सोमं पाययति । पिबति वेत्यर्थः । किश्च । अव वेति अभि गच्छति । मुक्षयं शोभनं यशगृहं । गत्वा च । सुते अभिषुते सति सोमे । मधु सोमलक्षणं पीत्वा मत्तस्सन्निति शेषः । उदित् उद्धृनोति उत्कंपयति । किं । सामर्थ्याच्छरीरं । किमिव । वातो यथा वनं वृक्षसंघातम् ॥ यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥५॥ यः इन्द्रः। वाचा वाङमात्रेण । हुंकारमात्रेणेत्यर्थः । विवाचः प्रनएवाचः कृत्वेति शेषः। मृध्रवाचो मृदुवाचश्च शत्रन् कृत्वेति शेषः । पुरु बहूनि । सहस्रा सहस्राणि । अशिवा असुखानि । सर्वस्यासुख- कारिणीत्यर्थः । जघान हन्ति । यश्चन्द्रः पितेव । उत्तरः पादः पूर्व व्याख्यायते । यथा पिता पुत्रस्य तविषीं बलं वर्धयति अन्नपानप्रदानेन । एवं वृष्टिप्रदानद्वारेण सर्वस्य जगतश्शवो बलं । वावृधे वर्द्धयति । तस्यास्येन्द्रस्य स्वभूतं तत्तत् पौंस्यं बलं । येन येन बलेन शत्रन् हन्ति । तत्तत् बलमित्यर्थः । गृणीमसि स्तुमो वयं ॥ स्तोमं त इन्द्र विमदा अजीजननपूयं पुरुतमं सुदानवे । विद्या ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे ।। ६॥ स्तोमं स्तुतिविशेषं । कीदृशं । अपूर्ण्य अपूर्व्यमन्यैरकृतपूर्व मुत्कृष्टमित्यर्थः । पुरुतमं बहुतमं । आतिशयेन बहुप्रकारयुक्तश्चेत्यर्थः । हे इन्द्र ते तुभ्यं । सुदानवे शोभनदानार्थाय। विमदा अजीजनत्। पूर्वो- तरवाक्ययोरेकवाक्यतायै पुरुषव्यत्ययोऽत्र कर्तव्यः । विमद[ना]- मानो वयं जनितवन्तः । कृतवन्तः इत्यर्थः । तस्मात् कृतवन्तं हिमः ? इन्दन्धनं १ प्राथ्यकर्म ? इत्यर्थः । कथं कुर्मः। पशुं न गोपाः। यथा पशुं सामर्थ्याद्गोधेनुं । गोपाः गोपालः । दोहार्यमायाभिमुखं करोत्येवं ॥ माकिन एना सख्या वि यौघुस्तव चेन्द्र विमदस्य च ऋषः। विद्या हि ते प्रमति देव जामिवदसे ते सन्तु सख्या शिवानि ॥७॥ * अन्न किल्बिनायं सिं भाति ।
६४] * ऋग्वेदभाष्यम् * [मं० १० । सू० २४॥ माकिः केचिदीालवः। नः अस्माकं। द्वयोश्चइत्यत्र द्वयोर्बहुवचनं। हे इन्द्र तव मम च । विमदस्य ऋषेः। आवयोः एता एतानि ।। [सख्या] सख्यानि स्तुत्यत्वस्तोतृत्वेज्यत्वयष्तृत्वलक्षणानि । वि यौषुर्विमिश्रयेयु- वियोजयेयुः । तव च मम च भद्रं कुर्वन्तस्सन्तो धनदानव्याघात- कारणद्वारेण माऽपनयन्त्वित्यर्थः । यस्माद्विजानीमो वयं । ते तव । प्रमति.प्रकृष्टां मतिमनुग्राहिका बुद्धिं । किमिव । जामिवत् । जाम्यति- रेकनाम बालिशस्य वा । समानजातीयस्य वा । इति वचनादत्र जामिशब्देन समानजातीय उच्यते । यथा समानादेकस्माजातस्य भ्रातुर्भगिन्यामिव प्रकृष्टां बुद्धिं स्नेहयुक्तां जनयति कश्चिदेवं । कस्मात् । [यस्माद्धे देव । अस्मै अस्माकं च । ते तव । मम च । सन्तु भवन्तु । सख्यानि शिवानि सुखानि । अनपायानीत्यर्थः ॥ [चतुर्विशं सूक्तम्] उत्तराणि च त्रीणि विमद एव ददर्श । अस्याद्यस्तुच ऐन्द्र उत्तर आश्विनः॥ इन्द्र सोमसिमं पिब मधुमन्तं चमू सुतम् । असे रयिं नि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे ॥१॥ हे इन्द्र सोमामिममस्मत्प्रदत्तं । पिब । मधुमन्तं मधुस्वादूपेतं । चमू । सप्तमीद्विर्वचनस्य लुगत्र द्रष्टव्यः । चम्वोश्च मनसाधनयोरधि- षवणफलकयोरित्यर्थः । सुतममिषुतं । पीत्वा च सोमम् । अस्मे अस्मासु । रयिं धनविशेषं । कीदृशं । सहस्रिणं सहस्रसंख्यायुक्तं । प्रभूतमित्यर्थः । नि धारय नियमेन स्थापय । किनिमित्तं । वः युष्माकं सर्वेषामेव देवानां । वि विविधे सोमजन्यमदे निमित्ते । त्वदत्तेन धनेन यस्माद्वयं युष्मदर्थ सोमयागं पुनरपि कुर्मः । तस्मादस्मभ्यमनन्तं धनं देहीत्यर्थः । हे पुरूवसो बहुधन । कस्मादेवमुच्यसे । यस्मान्महान्भवसि त्वं । यन्महान्भवसि त्वम् ॥s * पाणि०१।२५९॥ +ऋग्वेदे-एना-पाठो विद्यते । + निरुक्तं ४॥२०॥ निरुक्तवृत्तिकृदुर्गमतानुसारेण-असमानजातीयस्य- इति युक्तः पाठः॥ पुनः पठितमशुद्धं च ॥
।
मं०१०। सू० २४॥] * ऋग्वेदभाष्यम् *
[६५
त्वां यज्ञेभिरुक्थैरुप हव्यभिरीमहे ।
शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्य विवक्षसे ॥२॥
त्वामिन्द्रं । यशेभिः सोमयागैः । उक्थैः शस्त्रादिस्तुतिभिधे-
त्यर्थः। हव्येभिर्हविर्यझैश्चेत्यर्थः ।* उप ईमहे । तृतीयाश्रुतेरुपोपसर्ग-
श्रुतेश्च उपाराध्य धनं याचामहे इत्यर्थः । याचितश्च सन् त्वं । हे
शचीपते । शचीनां यागकर्मणां वाचां वा स्तुतिलक्षणानां । विफलत्वेन
सम्बन्धिनं । श्रेष्ठमतिशयेन प्रशस्तं गोहिरण्यादिकं दृष्टं । वार्य वरणीयं
स्वर्गापवर्गादिकमदृष्टश्च । नः अस्मभ्यं । धेहि देहि । कदा ददासि ।
उच्यते । युष्माकं सर्वेषामेव देवानां विविधे विशिष्टे वा सोमजन्यमदे
सति । कस्मादेवमुच्यसे । यस्मान्महान्भवसि त्वम् ॥
यस्पतिर्वार्याणामसि रध्रस्य चोदिता ।
इन्द्र स्तोतृणामविता वि वो मदे द्विषो नः पाह्यंहसो विवक्षसे ॥३॥
हे इन्द्र यस्त्वं पति स्वामी। वार्याणां वरणीयानां धनानाम् ।
असि भवसि । रन्ध्रस्य संसिद्धस्य सम्यकारिणो यजमानस्य । कर्मसु
चोदिता चोदयिता । धनदानेन नियोक्ता भवसि । स्तोतॄणां चाविता
सर्वतो रक्षिता भवसि । स त्वं । वि वो मदे युष्माकं सर्वेषामेव देवानां
विविधे विशिष्टे वा सोमजन्यमदे सति । द्विषो द्वेष्टुस्सकाशात् । नः
अस्मान् । पाहि रक्ष। अंहसः पापाच पाहि । कस्मादेवमुच्यसे । यस्मा-
द्विवक्षसे महान् भवसि त्वं ।।
युवं शक्रा मायाविना समीची निरमंथतम् ।
विमदेन यदीळिता नासत्या निरमंथतम् ॥४॥
युवां । हे शका शकौ । समर्थौ शत्रुवधादिकर्मकर्णाय। माया-
विना प्रज्ञावन्तौ च । शत्रुवञ्चनकुशलौ वा। समीची संगते परस्परेण
संयुक्त अरणी । निरमन्थतं निर्मथितवन्तौ । अश्विनावध्वर्यु इति
ब्राह्मणेनोकत्वात् । कदा निर्मथितवन्तौ युवामुच्यते । विमदेन मया ।
* ०ईवीर्यज्ञेश्च०-कोशपाठः ।
+रभ्रस्य ऋग्वेदपाठ।
+ददानि कोशपाठः।
ऐ० ब्रा०१॥१८॥
७०] * ऋग्वदभाष्यम् * [मं० १० । सू८ २५॥ तृप्त्यर्थ । महांश्च [भ]वसि त्वं । महत्वाच्च सर्वमथ्य से विविधैहविर्मि- स्तयंस चेत्यर्थः॥ त्वं नः सोम सुक्रतुर्वयोधेयाय जागृहि । क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्यहंसो विवक्षसे ।।८।। हे सोम यस्त्वं । सुक्रतु स्सुव्रजतस्सुकर्मा वा। क्षेत्रवित्तरः । क्षि निवासगत्योरित्यस्य क्षेत्रं । क्षेत्रस्य स्थित्युत्पत्तिप्रळयकाळेषु जगतो निवासभूतस्य वा कारणात्मनोऽतिशयेन वेत्ताच । स त्वन्नः अस्मभ्यं । वयोधयायान्नधयाय । जागृहि यतस्वेत्यर्थः । किञ्च । मनुषो मुनुष्यात् । कीदृशात् । द्रुहः दोग्धु स्सकाशात् । नः अस्मान् । पाहि रक्ष । अंहसः पापाच्च रक्ष। म किमर्थमेवं प्रार्थ्यसे। युष्माकं सर्वेषामेव देवानां विविधसोमादिहविर्जन्यतृप्त्यर्थमित्यर्थः । महांश्च भवसि ॥ त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा । यत्सी हवन्ते समिथे वि वामदे युध्यमानास्ताकसातौ विवक्षसे।।९।। हे इग्दा सोम । वृत्रस्य शत्रारतिशयेन हन्तः । यस्त्वमिन्द्रस्य । शिवः सुखकरः । सखा । स त्वन्नः अस्माकं । रक्षिता भवति शेषः । कदा । यत् यदा।सीसर्वतः । हवन्ते आह्वयन्ति युद्धार्थमस्मान् शत्रवः । युध्यमाना स्संप्रहरन्तः सन्तः। क्व । समिथे संग्रामे। कीदृशे। तोक- सातौ। तोकमित्यपत्यनाम ।। षणु दाने इत्यस्योत्तरमपत्यमपि दीयते यत्र हितरित्यर्थः तत्र । महतात्यर्थः । [त]दा रक्षिता भव । कस्मिन्नि- मित्त । युष्माकं सर्वेषामेव देवानां विविधहविर्जन्यलक्षणे निमित्ते। रक्षितास्सतो ? यस्माद्यष्माकं यागं करिष्यामः । तस्मात् कारणात् अस्मान् ग्क्षेत्यर्थः । महांश्च भवसि त्वं । महतां युक्तं रक्षणं कर्तुं भक्तानां॥ अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः । अयं कक्षीवतो महा वि वो मद मतिं विप्रस्य वर्धयद्विवक्षसे ॥१० अत्र तच्छब्दश्रुतरेकवाक्यतायै यच्छब्दो ऽध्याहार्यः । यः सोम इन्द्रस्यार्थाय । वर्धत मूजपर्वतादिप्रदेशवृद्धः। प्रियश्चन्द्रस्य । अयं घ सः अयमेव सतः अयमेव स सामो ऽस्माभिरभिषुत इन्द्रस्यार्थाय । * अनर्थक भाति । निघण्टुः २ । २॥
मं०१० । सू०२६॥] * ऋग्वेदभाष्यम् * कीदृशः । तुरः सर्वकार्येषु त्वरणशीळः । क्षिप्रकारीत्यर्थः । मदो मदक- रश्चायं सोमः। कश्नीवत ऋषः। कीदृशस्य । महो महतः । विप्रस्य मेधाविनः । मतिं प्रज्ञां । वर्धयत् वर्धितवान् । कस्मिन सति । युष्माकं सर्वेषामेव देवानां विशिष्ट सोमजन्यमदे सति । य एवमतः अस्माक- मपि मतिं वर्धयत्विति शेषः । उत्तरं प्रत्यक्षकृतत्वात् भिन्नं वाक्यं । सोम विवक्षसे महान् भवसि त्वं ॥ अयं विप्राय दाशुपे वाजां इयति गोमतः । अयं सप्तभ्य आ वरं वि वो मदे प्रांधं श्रोणं च तारिपद्विवक्षसे॥११ अयं सोमः । विधाय मेधाविने । दाशुषे हवींषि दत्तवते यज मानाय । वाजान् गोमतः । अन्नानि गोसहितानि । इयर्ति गमयति ददातीत्यर्थः। किञ्चायमेव सोमः । सप्त ऋत्विग्भ्यः । आ वरमाकुप- सर्गश्रतहरतीति क्रियापदमध्याहार्य । आहरति । वरं यजमानस्यार्थाय वर हरण ? दानस्य च तत् भावे भावात् । किञ्च । युष्माकं सर्वेषामेव देवानां विशिष्टसोमजन्यमदे सति प्रीतस्लन् । अन्धं चक्षुर्विकलमृषि दीर्घतमसमन्यं वा । श्रोणश्च बधिरञ्चत्यर्थः। प्र तारिषद् सवप्रकारया वृध्या प्रकर्षण वर्द्धितवानित्यर्थः । प्रत्यक्षकृतत्वादेव पूर्ववदुत्तरं भिन्नं वाक्यं । हे सोम महान् भवसि सर्वतस्त्वं तदधीजगत्स्थित ? ॥ [पड्विंश सूक्तम्] उत्तरं सूक्तं नवर्चमैन्द्र पौष्णं । वासुको वसुकृइदर्श ॥ प्र ह्यच्छा मनीषाः स्पार्दा यन्ति नियुतः । प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः॥१॥ हि यस्मात् । प्र यन्ति गच्छन्ति । किमर्थ । अच्छ गुणग्रहण- द्वारेण पूषणमाप्तुं । मनीषा वाचस्तुतिलक्षणाः। कीदृश्यः । स्पार्दा सर्वगुणोपेतत्वात् स्पृहणीयाः । नियुतः नियमनाद्वा नियोजनाद्वा ।* अस्माभिर्नियताः नियुक्ता वा । उच्चारिता इत्यर्थः । एतज्ज्ञात्वोपकारं प्रत्युपकारार्थ । दना दसीदं सन ......it * निरुक्तं ५।२८॥ अस्य मन्त्रस्यावशिष्टं भाष्यं कांगे नास्ति । उत्तरमन्त्रस्य प्रतीकमपि लेखकेन न लिपीकृतम् । - [मं० १० । सू०२५॥ ६८] * ऋम्बेदभाष्यम् * त्वमपि । अधाथ त्वद्यागकरणानन्तरं परिकृष्टस्सन् । मुळा नः । सुखाय 'भव । नः अस्माकं । अभि चिद्वधात् आभिमुख्येन स्थित्वा शञ्चादि- वधाच पालयास्मानिति शेषः । किमिव । पितेव सूनवे । यथा पिता पुत्रस्यार्थाय तैस्तैरुपायै स्सुखो भवति पालयति च सर्वस्मात् पुत्रं एवं । किमर्थ सुखयानि पाळयामि च त्वां । उच्यते । युष्माकं सर्वेषामेव देवानां विविधे सोमजन्यमदे पुनः पुनः कर्तव्यत्वेन निमित्तभूते यस्मात्त्वया सुसुख्यमान स्सुपाद्यमानश्च पुनः पुनः सोम- यागं युष्मदर्थ करोमीति । तस्मात् कारणान्मां सुखय सर्वतः पाळय चेत्यर्थः । कस्मादेवमुच्यसे । यस्मान्महान्भवसि त्वं । महान्तश्च भक्तान सुखयन्ति पाळयन्ति [च]॥ समु प्रयन्ति धीतयः सर्गासोऽवता इव । क्रतुं नः सोम जीवसे वि वो मदे धारया चमसाँ इव विवक्षसे ॥४॥ समुप्र । उकारः पदपूरणः । सं प्र यन्ति संभूय प्रकृष्टया गत्या गच्छन्ति त्वां प्रति।धीतयः अस्मदीया स्तुतयः। देवतागुणान्धारयन्ति गृहन्तीति।धीतय स्तुतयः। किमिव सं प्र यन्ति। सर्गासो ऽवत इव ।* विसृज्यन्ते उदकपानार्थमादानार्थ वेति सर्गाः । गोसंघा घटिकासंघा वा । अवतइति कूपनामा यथा सर्गा गोसंघा घटिकासंघावाउदकपा- नार्थमादानार्थ वाऽवतान् कूपान् प्रति संभूय प्रकृष्टया गत्या गच्छन्ति एवं एतज्ज्ञात्वा । क्रतुं यागकर्म प्रतिज्ञां वा कर्तारं वा कर्मणामन्तर. पुरुषः । नः अस्माकं । जीवसे चिरञ्जीवनाय । हे सोम। धारय महता- दरेण स्थापय मयि । किमिव । वि वो मदे चमसानिव । यथा युष्माकं सर्वेषामेव देवानां विविधसोमजन्यमदे कर्तव्यत्वेन निमित्तभूते चमसा- नध्वर्युर्हविर्धाने महता यत्नेन धारयत्येवं । कस्मादेवमुच्यसे । यस्माम महान् भवसि त्वं तव त्ये सोम शक्तिभिर्निकामासो व्यण्विरे । गृत्सस्य धीरास्तवसो विवो मदे व्रजगोमन्तमश्विनं विवक्षसे ॥५ हे सोम। तव गृत्सस्या मेधाविनः। तवसः महतोऽर्थाय ये मम यजमानस्य स्वभूता ऋत्विजः। निकामासो दृष्टादृष्टफळे नियतकामाः। * सर्गासो वसत इव-कोशपाठः । * निघण्टुः ३ ॥२३॥ हरसस्य-कोशपाठः ॥
म० १० । सू० २५॥] * ऋग्वेदभाष्यम् * [६९ धीग मेधाविनः [सम्यकारिण इत्यर्थः । इत्यते शक्तिभि योगकर्मभि- स्सह व्यण्विरे विविधा स्तुतीर्गमयन्ति प्रेरयन्ति कुर्वन्तीत्यर्थः । पतज्ज्ञात्वा ब्रजं। व्रजन्त्यत्रति व्रजंगोष्ठमन्दिग? चात्र सामर्थ्यादुच्यते। तं गोमन्तं गोसहितं । अश्विनमश्वसहितं चास्मभ्यं देहीति शेषः । किमर्थ। युष्माकं सर्वेषामेव देवानां विविधे सोमजन्यमदे पुनः [पुनः] कर्तव्य- त्वेन निमित्तभूते । कस्मादेवमुच्यसे । यस्मान्महान्भवसि त्वं ॥ पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् । समाकृणोषि जीवसे वि वो मदे विश्वा संपश्यन्भुवना विवक्षसे ॥६ हे सोम । पशुं देवयागार्थमुपाकृतं नः अस्माकं स्वभूतं । रक्षसि सर्वतः पाळयसि त्वं । न केवलं पशुं किं तर्हि। पुरुत्रा बहुधा सुर-नर- तिर्यग्योन्यादिभावेन । विष्ठितमवस्थितं । जगच पाळयांस सर्वतः । किञ्च समाकृणोषि समाकरोषि । जगतो वृत्तिश्च विदधासीत्यर्थः । किमर्थ । जीवसे जीवनाय । कथं वृत्ति विदधासि । उच्यते । विश्वा संपश्यन् भुवना । सर्वाणि भूतानि समं पश्यन् यथार्ह विदधासीत्यर्थः। किमर्थमेतत् सर्व यथोतं करोषि । उच्यते । वि वो मरे । युष्माकं सर्वेषामेव देवानां विविधहविर्जन्यतृप्त्यर्थ । उक्तश्च-इतः प्रदानमुत देवा उप जीवन्ति अमुतः प्रदानं मनुष्या इति ।* विवक्षसे महान् भवसि त्वं । उचितश्च महतामेतत् यथोक्तं ॥ त्वं नः सोम विश्वतो गोपा अदाभ्यो भव । सेध राजन्नप निधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ।।७।। हे सोम। यस्त्वमदाभ्यः केनचिदयहिंस्यः। स त्वं । नः अस्माकं । विश्वतः सर्वतः । गोपाः रक्षिता भव । किञ्च। हेगजन् सर्वस्य स्वामिन् अप सेधापगमयास्मत्तः अपजहि वा । निधः स्नेधितॄन् अस्माकम- पक्षपयितॄन् हन्तृन्वा।मा च । नःअस्माकं । दुइशंसः दुश्चरितानां विद्य- मानानामविद्यमानानाञ्च शंसिता प्रख्यापयिता। ईशत ईशिता भूत । तव प्रसादादस्माकमपवक्ता मा भूत् कश्चिदित्यर्थः । किमर्थमेतत्सर्व प्रार्थ्यसे । वि वो मदे । युष्माकं सर्वेषामेव देवानां विविधसोमजन्य- * तै० स०३।२।९।७॥ दाहः-कोशपाटः॥
* ऋग्वेदभाष्यम् * [मं० १० । सू० २५॥ यत् यदा । ईळितौ स्तुतौ । नासत्या नासत्यनामानौ युवां । निरमन्थतं "निर्मथितवन्तो स्थो युवां ॥ विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्योः । नासत्याववन्देवाः पुनरा वहतादिति ॥५॥ विश्वे देवाः सर्वे देवा इन्द्रादयः । अकृपन्त युवामश्विनौ स्तुवन्तः । कदा उच्यते । समीच्योनिष्पतन्त्योः । यस्य च भावेन भाष- लक्षणम् ।* इत्येषा सप्तमी। संगतयोः अग्निं निर्मन्थनकाले परस्परेण संयुत्तायोररण्योः । अग्निचूर्णरूपेण नीचैस्तीधैरनपतन्त्योः । अरण्योः निष्पतनक्रियया स्तुतिक्रिया लक्ष्यते। यदा युवामरणीभ्यामग्निं निर्म- थितवन्तौ तदा विश्वे देवा युवां स्तुतवन्त इत्यर्थः । किञ्च । नासत्यौ युवामवन्नक्तवन्तौ देवाः । किमिति । पुनरा वहतादिति । पुनः पुनरीदृशानि कर्माणि जगत्स्थितिहेतुभूतकर्माणि आभिमुख्यन स्थित्वा वहतमन्तं प्रापयतं निर्वर्तयतं कुरुतमित्यर्थः । मधुमन्म परायणं मधुमत्पुनरायनम् । ता नो देवा देवतया युवं मधुमतस्कृतम् ॥६॥ मधुमत् मध्वित्यत्र रसविशेष उच्यते । तेन चात्र तद्गता प्रीति- लक्ष्यते । युवयोः प्रसादान्मधुमदस्त्विति शेषः। प्रीतियुक्तमस्त्वित्यर्थः । मे मम । परायनं परागमनं । योगक्षेमाद्यर्थ गृहान बहिर्गमनमित्यर्थः । मधुमत् प्रीतियुक्तमेवास्तु । पुनरायनं गृहान् प्रति आगमनम् । अपि किञ्चि ता । तो यो युवां सदा भक्तानां अनुग्रहीतारौ । युवं युवां । हे देवा देवौ। नः अस्मान् । मधुमतः सदा प्रीतियुक्त[ान् ] । कृतं कुरुतं । तेन देवतया देवत्वेनाणिमादिदैवतैश्वर्ययोगादित्यर्थः ॥ [पञ्चविंश सूक्तम्] उत्तरं सौम्यमेकादशर्छ । भद्रं नो अपि वातय मनो दक्षमुत ऋतुम् । अधा ते सख्ये अन्धसोवि वो मदे रणन्गावो न यवसे विवक्षसे ॥१॥ * पाणि०२।३।३७॥ + मोक्षमूलर सम्पादिते सायणभाष्ये-स्थित्वावहतं-इति पाठः ।
मं०२० । सू० २५॥] * ऋग्वद्भाध्यम् * [६७ ह सोम । भद्रं कल्याणं । शुभसकल्पलक्षणं । नः अस्माक, सम्बन्धिनः । वातय गमनाय प्रापय । शुभसंकल्पमस्माकमानः कुर्वि- त्यर्थः । अपि दक्षं । दक्ष वृद्धौ। अस्माकं दक्ष वृद्धं सर्वव्यापिनमन्तरात्मान- मपि । भद्रं शुभकारित्वलक्षणं कुर्वित्यर्थः । उत ऋतुं अस्माकं बुद्धिमपि भद्रं शुभाध्यवसायलक्षणं प्रापय । शुभाध्यवसायिनं कुर्वित्यर्थः । पत- स्मिन् यथोक्ते सर्वस्मिन् कृते सति । अध अथ । ते तव सोमस्य सम्बन्धिनि । सख्ये सखिकर्मणि स्तुत्यस्तोतृत्वेज्यत्वयष्तृत्वलक्षणे । सन् रमामहे । प्रीति कुर्म इत्यर्थः । किमिव । गावो न यवसे । यथा गावः यवसे घासे रमन्ते प्रीतिं कुर्वन्त्येवं । किमर्थ त्वद्यागलक्षणे सख्ये। अन्धसोऽप वि वो मद सोमाख्यस्यानस्य जन्यत्वेन सम्बन्धिनि युष्माकं सर्वेषामेव देवानां विविधे मदे निमित्ते । कलादेवमुच्यसे । यस्माद्विवक्षसे महान्भवसि । महान्तश्चाभ्यार्थिताश्शूरा भवन्ति ॥ हृदिस्पृशस्त आसते विश्वेषु सोम धामसु । अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ।।२।। हे साम । ते तव । हृदिस्पृशः हृदयस्य बुद्ध स्तुतिभि स्रष्टार- स्सन्तः । आसत तिष्ठन्ति ऋत्विजः । विश्वषु सर्वेषु । धामसु स्वषु स्थानेषु स्तुवन्तस्तिष्ठन्तीत्यर्थः । तेषु स्वस्थानेषु स्थित्वा त्वां स्तुवन् । अध अथ । कामाः अभिलाषाः । इमे मम हृदयादिति शेषः । वि तिष्ठन्ते उत्तिष्ठन्ति । किं विशिष्टाः । वसूयवो च सुकामाः धनमिच्छन्तः । किमर्थ । युष्माकं सर्वेषामेव देवानां सोमजन्यविविधमदे निमित्ते । सोमयागार्थमित्यर्थः। कस्मादेववेत्त्या ? देवयागार्थ धनं प्रार्थ्यते । यस्माद्विवक्षसे महान् त्वं भवसि । महान्तश्च परेंगितज्ञा भवन्ति । अभ्यर्थिताः शूराश्च ॥ उत व्रतानि सोम ते प्राहं मिनामि पाक्या । अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद्वधाद्विवक्षसे ॥३॥ उतापि । व्रतानि यागकर्माणि । हे सोम । ते त्वदर्थमहं । प्र मिनामि प्रहिनस्मि प्रकषण [करो]मि । सदा पाक्या परिपक्कया सर्वार्थ- दर्शिन्या प्रज्ञया । अथवा व्रतविशेषणमेतत् । पाक्यानि परिनिष्ठितानि ७२] * ऋग्वेदभाग्यम् * [मं० १०। सू९२६॥ यस्य त्यन्महित्वं वाताप्यमयं जनः । वित्र आ वंसद्धीतिभिाश्चिकेत सुष्टुतीनाम् ॥२॥ वाताप्यमुदकमण्डले वृष्टयर्थ संहृतं परिपक्कं अयं यजमानजनः। कीदृशः। विप्रो मेधावी । आसन्मर्यादया संभजते उपजीवति । यस्य च पूष्णोऽर्थाय । धीतिभि ांगकर्मभिस्सह । चिकेत जानाति । सुष्टुतीनां करणमिति शेषः । यागकर्माणि स्तुतीश्च सम्यक्करोतीत्यर्थः ॥ स वेद सुष्टुतीनामिन्दुर्न पूषा वृषा । अभि प्सुरः प्रषायति व्रजं न आ प्रषायति ॥३॥ स उक्त गुणः । पूषा । वेद जानाति । सुष्टतीनां शोभनस्तुतीनां स्वरूपमिति शेषः । किञ्च। इन्दुर्न चन्द्र इव । पूषा वृषा वर्षिता। सुरः वृष्टिरूपम् । अभि प्रषायति मर्यादया सिञ्चति । अभिरक्षति । वर्षती- त्यर्थः । कथमुच्यते । व्रज मघं । नः अस्मदर्थम् । आ प्रषायति मर्यादया वृष्टयुदकं सेचयति । विद्युपेण स्थित्वाथवा वजं सामर्थ्यात् गोस- हितं गोष्ठं वा प्रषायति मर्यादया सिञ्चति । ददातीत्यर्थः ॥ मंसीमहि त्वा वयमस्माकं देव पूषन् । मतीनां च साधनं विप्राणां चाधवम् ॥ ४ ॥ मंसीमहि । मन्यतिरर्चतिकर्मा । * अत्र स्तुत्यर्थः । हे देव पूषन् । त्वा वयं मंसीमहि स्तूयामहे इत्याशास्महे । कीदृशं । अस्माकं मतीनां च प्रज्ञानाञ्च शब्दादन्यस्य चेप्सितार्थस्य । साधनं साधयितारं दातार- मित्यर्थः । विप्राणां मेधाविनां त्वन्येषामपि । आ धवं परिचर्यात्यादरण कंपयिता॥ प्रत्यधिर्यज्ञानामश्वहयो स्थानाम् । ऋषिः स यो मनुहितो विप्रस्य यावयत्सखः ॥५॥ प्रत्यर्द्धिः । ऋधु वृद्धौ । प्रत्यर्धयिता धनदानेनाह । भावप्रति- पत्या च संवर्धयिता यज्ञानामथवा यज्ञानां संवर्धयितः । प्रत्य/- निघण्टुः १।४॥ * म०१०। सु० २६॥] * ऋग्वेदभाष्यम् * ऽस्यास्तीति प्रत्यधिः । अश्वयः। हयतिर्गत्यर्थः । रथानां संबन्धिभि- रश्वैर्गमनशीलः । अश्वयुकेन रथेन सदा गन्तेत्यर्थः । ऋषिष्टा च ! सर्वस्य लोकपालत्वात् प्रत्यवेक्षिता चेत्यर्थः । स पूषा । यः। कीदृशः। मनुर्हितः य इमं? मनुष्यहितः। विप्रस्य मेधाविनश्च होतुः । यवयत्- सखः । यवाश्चासौ सखा चेति या पयि... चापनेता उपद्रवाणां सखिभूतश्चेत्यर्थः॥ आधीषमाणायाः पतिः शुचायाश्च शुचस्य ध। वासोवायोऽवीनामा वासांसि मर्मजत् ॥६॥ आर्धाषमाणायाः पतिः । स्वात्मन्याधीयमानाया स्तुतेराहुतेर्वा पति स्वामी । शुचायास्सर्वस्यादीप्तेश्च । शुचस्य च दीप्तस्य च सर्वस्य पतिः पूषा । वासोवायः अवीनामुरणानां सम्बन्धिनां वाससां दशा- पवित्रादीनाञ्च वता? च पूषा प्रकाशोष्णाभ्यामनुगृह्णन् । वासांसि वस्त्राणि च रजकशोध्यानि । मर्मजन् मर्यादया शोधयति पूर्वोक्तेनैव न्यायन ॥ इनो वाजानां पतिरिनः पुष्टीनां सखा । प्रमश्र हर्यतो धोद्वि वृथा यो अदाभ्यः ॥ ७ ॥ यः पूषा अदाभ्यो ऽहिंस्यस्त । इन ईश्वरस्सर्वस्य वाजानांच। पति स्वामी । इनः ईश्वरः । पुष्टीनां सर्वेषां प्राणिनां पोषणानां करणे । सखा सखिभूतश्च सर्वस्योपकारित्वात् । किञ्च । हर्यतः कामयमानस्य भक्तत्वात् सुप्रतीकस्य यजमानस्य । षष्ठीश्रुते स्वभूतं सोमं पिबन्निति शेषः । श्मश्रुर्विवृथा प्र......धोत् अधूनोत् विविधं प्रकर्षेण यत्नेन कंपयति॥ आ ते रथस्य पूषन्त्रजा धुरं ववृत्युः । विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ।। ८॥ आते रथस्य । विश्वस्य हे पूषन् यस्त्वं विश्वस्यार्थिनो याचकस्य सखेप्सितार्थप्रदातृत्वात् सखिभूतः । सनोजाश्चिरजातश्चानपच्युत स्वाधिकारादनपगतश्च तस्य। ते तव स्वभूतस्या रथस्य धुरं। हे पूषन्। अजजातियुका अश्वाः । आ ववृत्युरावर्तयन्ति वहन्तीत्यर्थः ॥ ।
C ७४] * ऋग्वेदभाष्यम् * [मं० १० । सू० २७॥ अस्माकमूर्जा रथं पूषा अविष्टु माहिनः । भुवद्वाजानां वृध इमं नः शृणवद्धवम् ॥ ९ ॥ अस्माकं स्वभृतं । रथं ईहितारं देवान् प्रति परिसमाप्तिं वा गन्तारं यक्षहविर्धानशकटयोः । ऊर्जा स्वबलेनानन रसेन वा हविराख्यन लब्धव्यत्वेन भोक्तव्यत्वेन च निमित्तभूतेन पूण । अविष्टु अवतु रक्षतु । माहिनो महान् । भुवत् भवतु च । वाजानामन्नानां । वृधः वर्ध- यिता तदर्थश्च । इमं । नः अस्माकं । शृणवन् शृणोतु । हवा महाहानं ॥ [सप्तविंश सूक्तम् ] उत्तरं सूक्तमसत्सु मे जरितस्सः चतुर्विंशत्युचमैन्द्रमिन्द्रपुत्रो वासुक्रो ददर्श । वासुकेषु सूक्तेषु बाहुल्येनेन्द्रस्य स्तुतिः । स्तोतुमुद्यतं स्वपुत्रमृषि वसुकं संबोध्य स्वसामर्थ्य कथयतीन्द्रः । विज्ञातदेवता- स्वरूपो येन सुखं स्तोष्यतीति । अथवा कार्यकारणयोरेकत्वोपचारात्-- आत्मा वै पुत्र नामासि। इति वचनाञ्च । *इन्द्ररूपणावस्थितो वसुक आत्मानं स्तौति क्वचित् क्वचिन्मन्त्रे । क्वचिदिन्द्रं भेदेन ॥ असत्सु मे जरितः साभिवेगो यत्सुन्वते यजमानाय शिक्षम् । अनाशीर्दामहमस्मि प्रहन्ता सत्यवृतं वृजिनायतमाभुम् ॥१॥ हे जरित स्तोतः।* असदस्ति विद्यते। [मममेन्द्रस्य।सुशोभन ऊर्जितः।स अभिवेगः।ओविजीभयचलनयोः। अर्थिनं प्रतिमनसोऽभि- चलनमभिगमनं वृत्तिविशेषः। यत् येन वेगेन मनोवृत्या। सुन्वते मदर्थ सोमाभिषवं कुर्वते । यजमानाय यज्वने।शिक्षं ददामि प्रार्थितमर्थ। किञ्चा- नाशीः [दां। आशीः] प्रार्थनोच्यतेऽन्यत्र। इह सामर्थ्यात् प्रार्थित हवि- रुच्यते । प्रार्थित हविर्मह्यमददतमधिकृतं पुरुषं । अथवाशीरिति सो- माधिश्रयणं दध्युच्यते । तस्य दातारमसोमयाजिनमित्यर्थः। अहमस्मि भवामि । प्रहंता प्रकर्षण हिंसिता। सत्यध्वृतं । ध्वरति हिंसार्थः । सत्यस्य च हिंसितारमनृतवादिनश्चेत्यर्थः। वृजिनायंतं कुटिलिं च कर्तु- मिच्छन्तं । परवञ्चनपरश्चेत्यर्थः। आहुर्महान्तमपि हिंसितास्म्यहम् ॥ *इतोऽनन्तरं-इन्द्ररूपेण-इत्यारभ्य-स्तोतः तस्मिन्-इत्यन्तो लेखकप्रमादाद् उत्तरस्थलस्थः पाठोऽत्र लिखितः। शि० ब्रा०१४।९।४।२६।
मं० १० । सू० २७॥] * ऋग्वेदभाष्यम् * [७५ यदीदहं युधये संनयान्यदेवयून्तन्वा३ शूशुजानान् । अमा ते तुम्र वृषभं पचानि तीव्र सुतं पंचदशं नि पिंचम्॥२॥ इच्छब्द पवार्थः। उत्तरार्धस्यादावह शब्देन सह संबन्धयि- तव्यः । यदि यदाहं । युधये युद्धार्थ । सन्नयानि अदेवयून देवान् यष्टु- मनिच्छतः देवशत्रनयज्वनः । तन्वा स्वशरीरेण । शूशुजानान् ।शुचेश्व- कारस्य जकारश्चान्दसः । शोशुचानानात्मभरित्वात् पुण्या दीप्त्या च युक्तान् पुष्टानित्यर्थः । तदाहमेव अव अमा आत्मना हेतुकर्तृत्वेन यजमानं वाधिष्ठाय । ते तव यजमानस्य स्वभूतं । तुम्रपीवानं । वृषभं। धेनुर्वृषभ इति श्रुतेः। धेनुं गां । पचानि मदर्थ पचामीति । प्रापटुरसं। सुतमभिषुतं । पञ्चदशं सोमं पूर्वपक्षापरपक्षसंबन्धिपञ्चदशसंख्यायुक्त- तिथिसंबन्धेन वर्णवृद्धि हासयोगात् पञ्चदशस्सोमः । तं च मदर्थमहं निषिञ्चं दशापवित्रे द्रोणकलशे चमसपात्रे वा। सिञ्चामि प्रक्षिपामीत्यर्थः॥ नाह ले वेद य इति ब्रवीत्यदेवयून्समरणे जघन्वान् । यदाव्याख्यत्समरणमृघावदादिद्ध मे वृषभा प्रब्रवन्ति ॥३॥ मद्वयतिरिक्तं पुरुषमहन्न वेद जानामि । यः पुरुष इति एवं ब्रवीति वक्ति। अदेवयून देवानकामयमानान्देवद्विषोऽसुरादीन् समरणे संग्रामे । जघन्वान् हतवानहामिति । मत्तोऽन्यस्संग्रामे शत्रणां हन्ता नास्तीत्यर्थः । किश्च। यदा यस्मिन् काले। अवाख्यत् । उत्तमस्य स्थाने* प्रथमः । यदावाख्यत् अवाकृत्यं न्यकृत्यम्मृतवत् पश्यामि । समरणं संग्रामं । कीदृशंघावत् । द्वितीयाया लुगत्र द्रष्टव्यः। ऋघावन्तं हिंसावन्तं परस्परमतिकरमित्यर्थः । आत् तदा । इद्ध इति पदपूरणौ । मे मम स्वभूता। वृषभकर्माणि दर्पितवृषभस्येव विक्रान्तानि शत्रुवध. वन्ति निर्भयंचेष्टितानि । प्रनवन्ति प्रकथयन्ति विद्वत्संघाः वर्णयन्ति ॥ यदज्ञातेषु वृजनेष्वासं विश्वे सतो मघवानो म आसन् । जिनामि वेत्क्षेम आ सन्तमा प्र तं क्षिणां पर्वते पादगृह्य ॥४॥ शरीरशास्त्रास्त्रबलतः परिमाणतश्चापरिशातेषु । वृजनेषु * इतोऽनन्तरं-देवद्विषो-इत्यारभ्य स्थाने-इतिपर्यन्तः पाठः लेखकप्रमादात् पुनलिखितः।
७६]] * ऋग्वेदभाष्यम् * [मं० १० । सू०१७॥ संग्रामेषु । आसं उपविशामि युद्धार्थमुपतिष्ठामीत्यर्थः। तदा । विश्वे सर्वे।सतो मां प्रति प्राप्ताः। मघवानः हविर्धनेन तपोधनेन च धनवन्त ऋषयः । मे ममेन्द्रस्य समीपे । आसन्नुपविशन्ति वीर्यवृध्यर्थमास्तु- वन्तस्तिष्ठन्तीत्यर्थः। किञ्च | जिनामि वा जानाम्येव नात्र संशयः। इति पदपूरणः । क्षेमे जगत्पालननिमित्ते । आ सन्तं । आङवाभीत्येतस्य स्थाने । सर्वमभिभवन्तमित्यर्थः । आधुं महान्तं शत्रु यस्तु महतः न्यूनं । तं प्र क्षिणां प्रहिनस्मि प्रक्षिपामि । पर्वते गिरौ। पादगृह्म पादे गृहीत्वा॥ न वा उ मां वृजने वारयन्ते न पर्वतासो यदहं मनस्ये । मम स्वनात्कृधुकर्णो भयात एवेदनु थन्किरणः समेजात् ॥५॥ न मामिन्द्रं । वृजनेसंग्रामे।युद्धार्थमुपस्थितं सन्त । वारयन्ते निवारयतुं शक्नुवन्ति शत्रवः । नापि पर्वतासः हिमवदादयो गिरयः अतिभाक्षमाः? यत् कर्माहं । मनस्ये मनसा कर्तुमिच्छामि तत् कर्म मनसाप्युवाष्ठाञ्चन्त- यितुं न शक्नुवन्तीत्यर्थः । किञ्च।ममेन्द्रस्य। स्वनात् । स्तनिकशब्दात् । संग्रामकाले हुंकारशब्दाद्वा । कृधुकर्णो नामासुरोऽथवा कृधुकर्णो मन्द- श्रवणेन्द्रियः । बधिर स्थावरपिपीलिकपुत्तिकादिरपि । भयाते बिभेति। किञ्च । एव इत् एवमेव । कृधुकर्णवन्मम भयादनुद्यन् प्रतिदिनमित्यर्थः। किरणः । अन्तर्णीतमत्वर्थमेतत् पदं । किरणवान् रश्मिवानादित्यः । समेजात् सम्यक् कंपते चलति । नियमेन प्रयातीत्यर्थः ॥ दर्शवत्र शृतपाँ अनिन्द्रान्बाहुक्षदः शरवे पत्यमानान् । घृषु वा ये निनिदुः सखायमध्यू न्वेषु पवयो ववृत्युः ॥६॥ दर्श अवश्यमहं पुनः दृष्टवानस्मीत्यर्थः । अत्रास्मिञ्जगति । शृतपान् तस्य पक्कस्य सोमादिकस्य हविषः अपहृत्य पातॄन् । अनिन्द्रान् इन्द्रेणेश्वरेण मया वर्जिताननीश्वरान्वा । बाहुक्षदः महा बलत्वादायुधेन विना बाहुभ्यामेव हिंसितॄन्। शरवे शरुशरः। तृतीयार्थे चतुर्थी । मदीयेन शरेण । नु क्षिप्रं । पत्यमानात् पास्यमानात् असुरान् । किञ्च । घृषु वा। समुथयार्थोऽत्र वा शब्दः । महान्तञ्च मां । ये सुरा[न] नि(निदुः]निन्दन्ति । सखायं भक्तानां सखिषत् प्रियहितस्य मं०१५। सू० २७॥] * ऋग्वेदभाष्यम् * [७७ कर्तारं । अधि उनु एषु । अधीत्युपरिभावे । उ इति पदपूरणः । नु इति क्षिप्रार्थः।ववृत्युरित्यतेन संबन्धयितव्यः ।अधि एषानिनिन्दितॄणामुपरि पवयः।पविरिति वज्रनाम ।* बहुवचनसामद्विजादीन्यायुधानीत्यर्थः। नु क्षिप्रं । ववृत्युर्वर्तन्ते पतन्तीत्यर्थः ॥ अभूवौंक्षीयु? आयुरानद्दषन्नु पूर्वो अपरो नु दर्षन् । द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ॥७॥ अभूर्वीक्षिः । मध्यमपुरुषेण प्रथमपुरुषेण च इन्द्रस्योच्यमानत्वा- दनयचेन्द्रं? स्तौति वसुक्रः । अभूः उ औक्षीः । उ इत्ययमेवार्थे । औक्षि- रित्युमात्तत्वानामपदमतत् । हे इन्द्र अभूः भवसि । त्वमेव । औक्षिः उक्षिता सेक्ता वृष्टेः क्षरिता वर्षिता त्वमेव भवसि नान्य इत्यर्थः । किञ्च । वि आयुः आनट् । मध्यमपुरुषेण प्रक्रान्तत्वादेकवाक्यतायै युष्मच्छन्दन समानार्थो भवच्छब्दः । सर्वत्रानडित्यादौ परोक्षनिर्देशे प्रत्यक्षीकरणार्थमध्याहर्तव्यः। विइति वैविध्ये । उ इति चार्थे। आयुरिति जीवितमुच्यते । आनडिति व्याप्तिकर्मा । विविधश्चायुभवानिन्द्रः प्राप्नोति । आ महाभूतसंप्लवाञ्च जीवतीत्यर्थः । दर्षत् नु । दृ विदारणे । सिम्बहुलं । नु इति क्षिप्रार्थे । शत्रु वज्रेण विदारयति च क्षिप्रं भवानिन्द्रः। पूर्वः जगत्स्थितेरिन्द्राधीनत्वात्सर्वस्माजगतः पूर्वजातश्च । भवानिन्द्र इत्यर्थः । अपरः नु दर्षत् । अपर शब्दोऽन्यवचनः । नु इति प्रतिषेधे । अन्योन विदारयिता भवन्तमिन्द्रं भवानेव सर्वशत्रुजातं हिनस्तीत्यर्थः। किञ्च। यो भवानिन्द्र अस्य त्रैलोक्यस्य । पारे परतः परमसूक्ष्मवायुरूपेण समष्टिव्यष्टिसृष्टिकारणात्मना स्थित्वेति शेषः। विवेष व्याप्नोति सर्वतः । तं भवन्तमिन्द्रं न परिभूतः अभिभवितुं न शक्कत इत्यर्थः । द्वे अविके सामर्थ्याद् द्यावापृथिव्यौ । कीदृश्यो । पवस्ते । पंगतावित्यस्य धातो- रोणादिके अस्तप्रत्यये परतः॥ गावो यवं प्रयुता अर्यो अक्षन्ता अपश्यं सहगोपाश्चरंतीः । हवा इदर्यो अभितः समायन्कियदासु स्वपतिश्छंदयाते ||८|| -- * निघण्टुः १ ॥११॥ + निघण्टुः २ । १८॥
७८]
* ऋग्वेदभाष्यम् * [मं० १० । सू०२७॥
यवं वयसी हीदं सर्व प्रतिष्ठितं यच्च प्राणिति यश्च न ।* इति
वचनात् सर्वस्य जगतः स्थितिहेतुभूता या गावः । यवं मदृष्टिजनित-
यवादिधासमित्यर्थः । भक्षयन्तीति परया प्रीत्या दृश्यमानाश्च । ता
गावः । हवा वाहनदोहनार्थ आह्वानार्हाः । इदिति पदपूरणः । अर्यस्या-
धिकार प्रत्यगन्व्यः । अभितः सर्वतः । सर्वाभ्यो दिग्भ्य इत्यर्थः। सं
आयन् । समित्येकीभावे ।। एकीभूय यूथशः आगच्छन्त्यः। हन्यहनि ?
ग्रहात् प्रतितृप्तास्सत्यः आगतास्वासु गोषु । कियदपि क्षीरं यथा सुरूपं ।
स्वपतिः स्वासां स्वासां गवां स्वामी । छन्दयाते दोग्धुं कामयते ।
मदर्थं दोग्धीत्यर्थः । इन्द्राय गाव आशिरं दुहे वज्रिणे मधु ।
यत्सीमुपह्वरे विदत् । इति वचनात् । अथवा गावः स्वाधिकार
प्रतिगन्त्र्यः प्रजा ब्राह्मणाद्याः । यवं मष्टिजनितं यवाद्यन्नं । प्रयुताः
प्रमिश्रिताः परस्परेण सहभूताः। अक्षन् अदन्ति । ताः गवाख्याः। अहमर्यः
सर्वस्य स्वामी । अवश्यं परया प्रीत्या पश्यामि । सहगोपाः प्रजापावन-
प्रजापतिना सहिताः । चरन्तीः मवृष्टिजनितयवाद्यन्नं भक्षयन्ति । मया
परया प्रीत्या दृश्यमानाश्च गोसंज्ञाः प्रजा आह्वातव्याः मत् परिचर्यार्थ-
मभित्वात् प्रजीविनस्य मामेवेश्वरमाराधयन्तीत्यर्थः । कियदपि स्तुति-
जातं हविर्जातश्च । आसु प्रजासु स्थितं । स्वपति आत्मीयपतिः ।
प्रजापतिः । छन्दयाते कामयते। प्रार्थनया वात्र कंपूर्वको लाभो लक्ष्यते।
अतिस्तोकं लभते इत्यर्थः॥
सं यद्वयं यवसादो जनानामहं यवाद उर्वजे अन्तः ।
अत्रा युक्तोऽवसातारमिच्छादथो अयुक्तं युनजद्ववन्वान् ॥९॥
पुरुष एवेदं सर्व । सर्व खल्विदं ब्रह्म । इत्यादि वचनात्
कारणात्मनः सर्वात्मकत्वात् अहमेव सम्यक् ज्ञानयोगात् कारणात्म-
रूपेण स्थित्वा स्थावरजंगमलक्षणं यद्यद्विपाश्चतुष्पादादिकञ्च
सर्वमुत्पादयामि इति कारणात्मरूपेणात्मानमिन्द्र स्तौति । जनानां
सर्वप्राणिनां । यदत्तव्यं यवसं यवाद्यन्नञ्च तस्य सर्वस्य यवसस्य
*शतपथ० १४॥४॥३॥१॥
+ निरुक्तं १।३॥
ऋ०८।६९।६॥
ऋ० १०॥९॥२॥
का छान्दो उप०३ ॥ १४ ॥१॥
मं०१० । सू०२७॥] * ऋग्वेदभाष्यम् * [७९ यवाद्यन्नस्य च वयमेव सम्यगत्तारो द्विपदचतुष्पदादीनां कार्यरूपेण स्थित्वाहमेव कारणरूपेण स्थित्वा सर्वस्य यवादिकान्नस्यात्ता। क स्थितस्सन् अत्ता त्वमुच्यते।उरु अजे अन्तः। उरु विस्तरेण । अज गति- क्षेपणयोः । अन्तरिति समिध्यवचनः । विस्तीर्णस्य जनस्य गमनस्य जगतो मध्ये स्थितस्सन् अत्तास्मीत्यर्थः । अनेकजन्मसंसिद्धस्ततो याति परां गतिं ।* इति वचनान्मोक्षस्य दुष्प्रापत्वात् । अत्रास्मिन्नेव जन्मनि । अवसातारं संसारान्तस्य कर्तारं मोक्षं गमयितारं मामेवं । इच्छात् आराधयितुं इच्छति। कः। योगीन्द्र एव संसारसागरादुद्धर्ता नान्य इति परया भक्त्या योऽयमाराधयति योगेन तमहमस्मिन्नेव जन्मनि संसाराममोचयामीत्यर्थः । अथो अपि च । अयुक्तमयोगिनं । युनजत् । उत्तमस्य स्थाने प्रथमोऽयं । युनज्यात्मना संसारान्मोचयामीत्यर्थः । ववन्वान् संभजन्नई यदि कामयेयमित्यर्थः॥ अत्रेदु मे मंससे सत्यमुक्तं द्विपाच यच्चतुष्पात्संसृजानि । स्त्रीभिी अत्र वृषणं पृतन्यादयुद्धो अस्य विभजानि वेदः ॥१०॥ अत्र इच्छन् एवार्थः । सत्यशब्दापरो द्रष्टव्याः?।उइति पदपूरणः। अत्रास्मिन्मे मम स्तोत्रं । मससे जानीहि त्वं । सत्यमित् उक्तं यथार्थमेव कथितं मया । नार्थवादरूपेणाध्यारोपितः गुणमेतत् स्तोत्रमित्यर्थः । किञ्चि । द्विपाच मनुष्यजातिकं चतुष्पाञ्च गवादिकं । सामर्थ्यादन्यदपि बहुपादेकपादादिकं स्थावरजंगमं यत्तत्तत् सर्वमहमेव । संसृजानि उत्पादयानीति जानीहि त्वं । किञ्च । स्त्रीभिः स्त्रीसदृशैः बलपौरुष- नयवर्जितैः पुरुषैस्सह । यः पुरुषः शूरम्मन्यः । अत्रास्मिञ्जगति। वृषण- मुदकं वृष्टेरायुधवृष्टेर्वा वर्षितारं मां परित्यज्येति शेषः। पृतन्यात् पृतन्य- मिति पृतनां संग्रामं युद्धं कर्तुमिच्छति । तस्यास्य ईदृशस्य पुरुषस्य स्वभूतं । वेदो धनमयुद्धः युद्धवर्जितः । तेन तादृशेन पुरुषेण सह अयोद्धा सन्नहं बलादपहृत्य । वि भजानि स्वसैनिकेभ्य स्तोतृभ्यो यादृभ्यश्च ददामीत्यर्थः॥ * भगवद्गीता ६ ॥ ४५ ॥ मोक्षमूलरसंस्करणे ऽस्य मन्त्रस्य भाष्यं त्रुटितमस्ति । मुम्बईसंस्करणे स्वकल्पनया सम्पादकद्वयेनभाष्यं पूरितम् । अहो दुःसाहस शास्त्रिराजाराम- शिवरामयोः॥
20
* ऋग्वेदभाष्यम् *
[मं०१०। सू० २७॥
यस्यानक्षा दुहिता जात्वास कस्तां विद्वाँ अभिमन्याते अंधाम् ।
कतरो मेनिं प्रति तं मुचाते य ई वहाते य ईवा वरेयात् ॥११॥
यस्य ममेन्द्रस्य कारणात्मरूपेणावस्थितस्य सतः। अनक्षा अक्षि-
वर्जिता दर्शनहीना अचेतनेत्यर्थः । दुहिता प्रकृत्याख्या । जातु आस ।
सर्वमोक्षपक्षे महाप्रलये वा सामर्थ्यान्मय्येव लीना यदि भवति । कः
पुरुषो मत्तोऽन्यः । तां मम दुहितरं प्रकृत्याख्यां मय्येव लीनां । विद्वान्
सर्वज्ञ इत्यर्थः । अभिमन्यात आत्मन्याश्रयप्रदानेनाभि पूजयामि । क्षीरो-
दकतन्मया सहकीभूतां तत्वतो जानामीव नान्य इत्यभिप्रायः। किञ्च।
कतरो वा मत्तोऽन्यः पुरुषः । मेनि वजं । तं शत्रु प्रति । मुचाते मुञ्चति।
स्वयमेवमुत्थाप्येदानी प्रतिवक्ति । यः पुरुषः । ईमेनं शत्रुप्रति । वहाते
प्रतिवहति प्राप्नोति धनार्थ गच्छति । यो वा पुरुषः । ईमेनं शत्रु ।
वरेयात् युद्धाय वरयितुमिच्छति । युद्धं प्रार्थयत इत्यर्थः । स चाहमेव
नान्य इत्यर्थः॥
कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण ।
भद्रा वधूभवति यत्सुपेशाः स्वयं सा मित्रं वनुते जने चित् ।।१२॥
कियती किंपरिमाणा। योषा स्त्रीजातिः । मर्यतः मनुष्यधर्मान्
संभोगादिधर्ममिच्छतः पुरुषस्य । वधूयोः वधुकामस्य स्त्रीकामस्येत्यर्थः।
परिप्रीता परिकृष्टा अनुरक्ता वशवर्तिनीत्यर्थः । पन्यसा स्तोत्रेण ।
वार्येण वरणीयेन शोभनेन सर्वगुणग्राहिणा । स्तुतस्यापि सता इति-
शेषः । सर्वगुणोपेतस्यापि सत इत्यर्थः । मम पुनरीश्वरस्य सर्वात्मकस्य
सर्वस्य नियन्तुरन्तर्यामिरूपेणावस्थितस्य इन्द्रस्य सावेवस्ती ? प्रकृत्या.
दिका परिप्रीता उनुवर्तावशवर्तिनीत्यभिप्रायः। किञ्च। भद्रा [कल्याणी
सर्वगुणोपेता। सुपेशाः सुरूपा च भवति । यत् या । वधूः स्त्री द्रौपदी-
दमयन्त्यादिका सा स्वयमात्मनैव यं मित्रं स्निग्धं पतिमर्जुनं नलादिकं ।
वनुते स्वयंवरधर्मेण प्रार्थयते । जने चित् परजनमध्यस्थितं । सच
प्रियमाणो वरनरः अहमेवेत्यभिप्रायः । रूपं रूप प्रतिरूपो बभूव ।* इति
मन्त्रलिंगात् सर्वात्मकत्वात् ॥
।
*०६॥४७॥१८॥
मं०१० । सू० २७॥] * ऋग्वेदभाष्यम् * [ ८१ पत्तो जगार प्रत्यश्चमत्ति शीर्णा शिरः प्रति दधौ वरूथम् । आसीन ऊर्जामुपसि क्षिणाति न्यङ्डुत्तानामन्वेति भूमिम् ॥१३॥ अनया वासुक्र स्तौतीन्द्रं । अत्र सामर्थ्यादुदकनिर्देशप्रतिनि- देशार्थो द्वितीयान्तो यच्छब्दो ऽध्याहार्यः । यदुदकं भौमरसलक्षणं मण्डळे संभृतं परिपक्वं वा । पत्तः पादै रश्म्याख्यैः। जगार। जिगति निरति कर्मा वा गृह्णाति । पृथिवीपतिःमध्यस्थानमिन्द्रं प्रति निगिरति वादित्यः । तमुदकमिन्द्रः । प्रत्यञ्चमात्मानं प्रत्यश्चितं गतम् । अत्ति भक्षयति उपयुक्त स्वीकरोतीत्यर्थः । स्वीकृत्य च शीर्णा अन्तरीक्षलोकस्य शिरोभूतेन विद्युदात्मना स्थित्वा पृथिवीनिवासिनो लोकस्य । शिरः प्रति दधौ निदधाति प्रतिक्षिपति । वरूथं वरणीयं वृष्टयदकं । न केवलं शिरः प्रति निदधाति । किं तर्हि । आसीनः उपविष्टः । क्व । उपसि उपस्थे स्व- समीपे स्थाने ऽन्तरिक्ष । ऊर्धामपि वृष्टिं । क्षिणाति । क्षि हिंसायां । हिनस्ति क्षिपतीत्यर्थः । किञ्च । न्यङ् नीचैरञ्चितस्सन् वाय्वात्मना तिर्यङ्गतिः सन्नित्यर्थः । उत्तानामनु पति आनुपूर्येण गच्छति । भूमि । अथवा तेनेन्द्रो क्षिप्तञ्च सत्तद् वृष्टयुदकं न्यङ् । लिंगव्यत्ययो ऽत्र कर्तव्यः । न्यङ्नीचैरञ्चितस्सन् उत्तानामन्वेति । यथा निम्नामन्वति अनुगच्छति भूमि । अथवा आदित्यात्मना इन्द्र स्तूयते । तदंशत्वादिति । अस्य पादैरश्वाख्यैः भौमरसलक्षणमुदकं गिरति गृह्णाति वादित्यः। गृहीत्वा च प्रत्यञ्चमात्मानं प्रतिगतम् । अत्ति भक्षयति स्वीकरोति मण्डले स्थापयतीत्यर्थः । अवस्थाप्य च परिपक्कस्सन् वर्षासु प्राप्तासु शीर्णा शिर स्थानीयेन रश्मिजालेन सर्वलोकस्य । शिरः प्रति दधौ दधाति क्षिपतीत्यर्थः । वरूथं वरणीयं वृष्टयुदकं। किञ्चासीन उपविष्टः । क । उपसि उपस्थे स्वसमीपे स्थाने मण्डले दिवि वा । ऊवा स्वदीप्ति रश्मिजाललक्षणां । शिणाति हिनस्ति आलोककरणाय व्यामोतीत्यर्थः । किञ्च । न्यङ् रश्मिजालरूपेण नीचैरश्चिता गन्ता सन् । उत्तानां भूमि- मन्वेति अनुगच्छति तिर्यगूर्वमधश्च सर्वरश्मिजालेनालोककरणाय व्याप्नोतीत्यर्थः॥
८२.] * ऋग्वेदभाष्यम् * [मं० १० । सू० २७॥ बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः। अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरुधः॥१४॥ विद्युदात्मनेन्द्र स्तूयते । बृहन् महाविद्युद्वक्षरूपः इन्द्रः। अच्छायः छायारहितः । तमोवर्जित इत्यर्थः । अपलाशः पर्णरहितश्च । अथवा- पलाशः पराशदनवर्जितः विनाशरहित इत्यर्थः । अर्वा अर्ता सर्वत्र गामी वेत्यर्थः । तस्थौ तिष्ठति । विषितः विमुक्तः निरालंबन इत्यर्थः । महावृष्टिप्रदानद्वारेण सर्वस्य जगतो निर्माता च । अत्ति भक्षयति च हवींषि । अथवाऽदनेन विनाशं लक्ष्यते। दुष्कृतो विनाशयति । विभागः मेघस्य गर्भभूतश्च अनर्थानां गरिता वा । किश्च । अन्यस्या आदित्या- ख्याया देवमातुः । वत्समपत्यमिन्द्रं विद्यन्मयं । रिहती आस्वादयन्ती उपजीवन्ती वर्धन्ती पूजयन्ती स्तुवन्ती वा। मिमाय निर्मिमीते वर्षासु मेघजातिः । कया भुवा केनाविभावेनाभिप्रायेण । भक्तयाभयेन वेत्यर्थः। नि दधे स्वोदरे निदधाति च । धेनुः धेनुर्द्धयतेर्वाधिनोतर्वा ।* सर्वस्य वृष्टयुदकं पाययित्री वृष्टयुदकेन प्रणयित्री वेत्यर्थः। ऊधः उदकाधार- त्वादुदकस्थानीयमिन्द्रं विद्युद्रूपं । अथवादित्यात्मनेन्द्रिस्तूयते तदंगत्वादादित्यस्य । बृहन्महानादि- त्यो वृक्षः । अच्छायः छायारहितः तमोरहित इत्यर्थः । अपलाशः पर्ण- रहितश्च । अथवापलाशः पराशदनात् पराशदनरहितश्चेत्यर्थः। अर्ता सर्वत्र गामी धुलोकगामी वेत्यर्थः । तस्थौ तिष्ठति च । कथं । विषितं विमुक्तः निरालंबन इत्यर्थः । माता निर्माता च सर्वस्य वृष्टिद्वारेण । अत्ति भक्षयति च हवींषि । अथवादनेनात्र विनाशं लक्ष्यते । दुष्कृतो विनाशयतीत्यर्थः । गर्भभूतश्च दिवः त्रैलोक्य ? वान्तर्वर्तित्वात् । अथवा गर्भो गृह्वात्यर्थे । गिरत्यनानिति वा भौमान रसान् रश्मिभिः गृह्णाति गिरति वेत्यर्थः । किञ्चान्यस्याः देवमातुरदितेः । वत्समपत्यमादित्यं । रिहती आस्वादयन्ती उपजीवन्ती स्तुवन्ती वा । मिमाय निम्मिमीते । पूर्वस्यां दिश्यहन्यहनि उत्पादयन्तीत्यर्थः । कया भुवा केनाविभावेन भक्त या भयावत्यर्थः । नि दधे स्वोदरे निदधाति च । धेनुरिव ऊधः । .. *णिरुक्तं ११ । ४२। +निरुक्कं १० । २३॥
- मं०१० । सू० २७॥] * ऋग्वेदभाष्यम् * [ ८३ अथवा धेनुस्थानीया द्यौरुदकस्याधारत्वात् क्षरितृत्वाच्च ऊध स्थानीय- मादित्यं ॥ सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात्समजग्मिरन्ते । नव पश्चातात्स्थिविमन्त आयन्दश प्राक्सानु वि तिरन्त्यश्नः ॥१५॥ प्रजापत्यात्मनेन्द्र स्तूयते । सप्त ऋषयो विश्वामित्रादयः । वीरासः प्रजापतेः पुत्राः । अधरात् प्रजापतेरधः कायात् । उदायन् उत्पन्न इन्द्र इत्यर्थः । अष्टौ ये वसवः । के । उत्तरात्तात् जगत् प्रादेशात् । समजग्मिरन् सुसअशिर इत्यर्थः । नव भृगवः। स्थिविमन्त स्थिविहलजंभाया? चात्र कर्षणमुपलक्ष्यते। कृषिमन्त इत्यर्थः । पश्चातात् पृष्ठतः । आयन् आगा उत्पन्ना इत्यर्थः । दश अंगिरसः। प्राक् अग्रतः उत्पन्नाः सन्त इति शेषः । सानु समुच्छ्रितं प्रदेशं । वि तिरन्ति विवर्धयन्ति । अश्नः अशनवतो द्यलोकस्य ॥ दशानामेकं कपिलं समानं तं हिन्वन्ति तवे पार्याय । गर्भ माता सुधितं वक्षणास्ववेनन्तं तुषयन्ती बिभर्ति ॥ १६ ॥ दशानामङ्गिरसांमध्ये । एकंप्रधानं । कपिलं कपिलनामानमृर्षि। समानं सामर्थ्येन तुल्यं । केन । सामर्थ्यात प्रजापतिना। अत्र हिन्वन्ति- शब्दात् पूर्वो यच्छब्दोऽध्याहार्यः । तच्छन्दश्च गर्भशब्दात् पूर्वोद्रष्टव्यः । यं हिन्वन्ति गमयन्ति प्रेरयन्ति । ते चांगिरसोऽवशिष्टाः। किमर्थ।कतवे यज्ञादिजगत्प्रर्वतनकर्मणे । प्रज्ञानाय वा । सम्यक्ज्ञानलक्षणाय । पार्याय पारं प्रापणीयाय परिसमापयितव्या यज्ञा यज्ञादिकर्मोपदेशनाय सम्यक् शानोपदेशनाय वेत्यर्थः । तं प्रजापतेर्गर्भ । माता प्रकृतिः । सुधितं सुहितं सुस्थापितं प्रजापतिना । वक्षणासु । वक्षणा इति नद्य उच्यन्ते ।* ताभिश्चात्र प्रकृतिस्थाः सूक्ष्मा आपो लक्ष्यन्ते । प्रकृतिस्थः सुसूक्ष्मः सरः स्वप्स्वित्यर्थः । अवेनन्तं गर्भवासमकामयमानं तुषयन्तीति । सम्यक् ज्ञानादुपदेष्टुं योग्योऽयमिति प्रीता सती । बिभर्ति धारयति प्रजापतिनियोगात् ॥ । * निघण्टुः १ । १३॥
. * ऋग्वेदभाष्यम् * [म०१० । सू० २७॥ पीवान मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् । द्वा धनुं बृहतीमखंश्तः पवित्रता चरतः पुनन्ता ॥ १७ ॥ पीवानं स्थूलं मेदोयुक्तं । मेषमपचन्त प्रजापतिरूपस्येन्द्रस्याय पक्तवन्तः। पशुयागं कृतवन्त इत्यर्थः। वीराः प्रजापतेः पुत्राः अंगिरसः । किञ्च । न्युप्ताः निक्षिप्ता सन्तः द्वयोरेकतरस्यानुगता भवन्त्येवं प्रजापते- रनु आसन् अनुगता भूताः अंगिरसः। किञ्च । द्वा अंगिरसामेव मध्ये द्वौ कौचिदंगिरसौ। धनुं धनुशब्दोऽत्र धनुःशब्दपर्यायः । धनशब्द- पर्यायो वा । धनुर्यथा वधसाधनमेवमशानादिवधसाधनं । धनवत् प्रीतिसाधनं वा । कपिलमित्यर्थः । बृहतीं। बृह वृद्धौ। प्रजापत्यादेशात् वर्धयित्री प्रकृति वर्धयित्रीमुच्यते । अप्स्वन्तः प्रकृतिस्थानां परम- सूक्ष्माणामपांमध्ये । पवित्रवन्ताः। मन्त्रः पवित्रमुच्यते ।* ध्यानसाधन- प्रणवमन्त्रवन्तौ । चरतः परिचरितः प्रजापत्यादेशादाराधयतः । प्रणवध्यानेनात्मानं संस्कुर्वन्तौ ॥ विक्रोशनासो विष्वंच आयन्पचाति नेमो नहि पक्षदर्धः । अयं मे देवः सविता तदाह द्वन्न इद्वनवत्सर्पिरन्नः ।। १८ ॥ विक्रोशनासः प्रजापति पितरं विविधमाह्वयन्तः । विष्वश्चः नाना गतयः पूजना वा । आयन् आगताः । प्रजापतेस्सकाशादुत्पन्ना इत्यर्थः । के अंगिरसः सर्वाः प्रजा वा उत्पाद्य । पचाति प्रजापत्यर्थः । यक्षेषु हवींषि पचति । नेमः अंगिरसां सर्वप्रजानां वार्धः । न हि पक्षत् न पचति । अर्धः तदेतत्सर्व केन तव कथितमिति चेत् । उच्यते । अयं देवः सविता सर्वस्य प्रसवितादित्यः । प्रजापतिर्वा । मे मम । तदेत्सर्वं यथोक्तम् । आह कथितवान् । किञ्च । दुन्नः इत् दार्वणः सर्पिरनः सपिरनश्च । अग्निपि वनवत् हविर्वहनद्वारेण प्रजापति धनति संभजते॥ अपश्यं ग्रामं वहमानमारादचक्रया स्वधया वर्तमानम् ।। सिपायर्यः प्रयुगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥१९॥ * निरुक्तं ५। ६॥
मं० १० । सू० २७॥] * ऋग्वेदभाष्यम् *
१५
अपश्यमागमेनार्षेण वा ज्ञानेन सार्थाद्वा दृष्टवान् अहमस्मि
वसुक्रः प्रजापतिरूपमिन्द्रं । किं कुर्वन्तं दृष्टवानसि । उच्यते । ग्राम
भूतसंघातं । वहमानं प्रापयन्तं सृजन्तमित्यर्थः । कुतः । आरात् उपा-
दानकारणात् प्रकृतित इत्यर्थः । किश्चान्यत् कुर्वन्तमपश्यम् । अचक्र-
या स्वधया अन्नन । वर्तमानमात्मस्थितिञ्च कुर्वन्तमपश्यन्तं । उक्तञ्च
मन्त्रान्तरे-आनीदवातं स्वधया तदेकामिति ।* किञ्च । प्रसिषक्ति
प्रकर्षेण सेवते । अर्यः अर्येश्वरः प्रजापतिः । युगायुगानि यागकालान् ।
यजमानजनानां कार्यत्वेन संबन्धिनः । किञ्च । सद्यः समानेऽहनि ।
शिश्ना शिश्नानि । शिश्नंश्नथतेरिति वचनात् ।। श्नथितीणि ताडायतृणि
हिंसितृणि असुरक्षादिशत्रुवृन्दानि । प्र मिनानः प्रकर्षण हिंसन् ।
नवीयान् शरीरेण बलपौरुषनयादिभिश्च नवतरो भवतीति शेषः ॥
एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधिर्मुहुरिन्ममन्धि ।
आपश्चिद्स्य विनशन्त्यर्थं सूरश्च मर्क उपरो बभूवान् ॥ २०॥
कार्यकारणयोरेकत्वोपचारात्-आत्मा वै पुत्रनामासीति वचना-
श्वेन्द्ररूपेणावस्थितस्य । मे मम । प्रमरस्य प्रकर्षण शत्रणां मारयितुः
स्वभूत? न ? गावौ शत्रन्यज्ञाञ्च प्रति गन्तारौ हरी । युक्तौ स्वगृहं प्रति
गमनानि युक्तौ ।सुष्टु अभि पूजितौ। मो प्रत्युपसंहारकार-
णेनास्मद्यशान्मापगमय । किं तर्हि । मुहुः इन्ममन्धि पुनः पुनरपीन्द्र
स्तुहि मान्तरात्मन्नित्यर्थः। यतः आपः चित् आप एव वृष्टिलक्षणाः ।
अस्येन्द्रस्य । विनशन्ति । अनेकार्थत्वाद्धातूनां नशतिरत्र प्राप्त्यर्थः ।
प्राप्नुवन् प्राप्नुवन्ति । अर्थ गति । सूरश्च सूर्यश्च प्रामोतीति । कीदृशः ।
मर्कः । मृजु शुद्धौ [मा] जयिता शोधयिता सर्वस्य । उपरः बभूवान्
उपरसदृशो भवन मेव ? शीघ्रगतिःसन्नित्यर्थः। यस्मात् गच्छन्न
दूरापः
तस्माद्यावनाप्नोति यज्ञात्तावच्छीघ्रं पुनरपि स्तुहीत्यर्थः
अयं यो वज्रः पुरुधा विवृत्तोऽवः सूर्यस्य बृहतः पुरीपाद ।
श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरन्ति ॥ २१ ॥
योऽयमिन्द्रस्य स्वभूतः । वज्रः । पुरुधा बहुधा अनेकप्रकार-
+निरुक्तं ४ । १९॥
सुप्र सेधीः
.
* ऋ० १०॥ १२९॥२॥
८६]
-
* ऋग्वेदभाष्यम् * [मं० १० । सू० २७॥
मग्रतः पृष्ठतः वाञ्चतः मध्यतः अधस्तादुपरिष्टाश्च वृष्टयुदकप्रबन्धका-
सुरमेघादिशत्रुशरीरेषु । विवृत्तः पतितः अन्तरिक्षलोकस्य परस्तादादि-
त्यमण्डले । श्रव इत् । श्रव इत्यननाम |* अन्नहेतुत्वाश्चात्तादित्यम-
ण्डलस्थमुदकमुच्यते । इच्छब्दोऽप्यर्थे । तच्छन्दश्रुतेर्यच्छन्दोऽध्याहार्यः ।
यदप्युदकं मेघोदरगतादुदकादन्यदस्ति तदपि । जरिमाणन् प्रहरभ-
गवो जहीविरस्येति इन्द्रस्य स्तोतारो मध्यमस्थाना देवगणा मरुदादयः
तरन्ति । तरतिरत्रान्तर्णी] नीतमत्वों द्रष्टव्यः । वज्रघातमन्तरेणेन्द्रस्य
प्रतापेनैवान्तरिक्षलोकं प्रति रश्मिभिरवतारयन्तीत्यर्थः । अथवाजरिमाणः
तमसां भौमानाञ्च रसानारितारो रश्मयो वर्षास्ववतारयन्ति। एतदुक्तं
भवति । मेघोदरगतमुदकन्तत् प्रतिबन्धकाञ्छत्रन् वज्रेण हत्वा भूमौ
पातयन्तीन्द्र आदित्यमण्डलस्थमुदकं वज्रमन्तरेणाशयैव केवलया
अन्तरिक्षलोकं प्रति रश्मिभिरवतारयन्तीति ॥
वृक्षे वृक्षे नियता मीमयद्गौस्ततो वयः प्र पतान्पूरुषादः !
अथेदं विश्वं भुवनं भयात इन्द्राय सुन्वषये च शिक्षत् ॥ २२ ॥
वृक्षे वृक्षे । अथापि ताद्धितेन कृत्स्नवनिगमा भवन्ति। वृक्षवि-
कारो धनुरत्र वृक्ष इत्युच्यते। ऐश्वर्ययोगादिन्द्रस्य संग्रामकाले बहुबा-
हुस्थानेकधनुष्ट्ये सति वीप्सा [व चनमुपपद्यते । वृक्षे वृक्षे वृक्षविकारे
धनुषि धनुषीन्द्रस्य स्वभूते । नियता यमु[बन्धने । निबद्धा आरोपि-
ता सती। मामयत् । मीमयतिः शब्दकर्मा । शब्दं करोत्याकृष्यमाणा
सता गौः । अथापि ताद्धितेन कृत्स्नवनिगमा भवन्ति ।। गव्या गो-
विकारस्नायुमयी ज्या गमयित्री वा शराणां । ततश्च ज्यातः ततो वा शब्द-
करणादनन्तरं । वयः पक्षीसदृशाः गन्तारो वा इषवः । प्र पतान्
प्रपतन्ति शत्रुन् प्रति। कीदृशाः। पुरुषादःशत्रुपुरुषाणामत्तारः मारयितार
इत्यर्थः । अथ एता तस्माञ्च कारणादिदं । विश्वं सर्व । भुवनं भूतजातं।
भयाते इन्द्रात् बिभेति । इन्द्राय इन्द्रार्थ । सुन्वत् सोमाभिषवं कुर्वदपि।
ऋषये च शिक्षत् ऋषिष्टा कर्मणामृत्विक् तस्मै व दक्षिणान्ददपि सोम-
यागं कुर्वदपि किमुतान्यदित्यर्थः ॥
निघण्टुः २ ॥ ७॥ कतिपयेष्वेव निघण्टुकोशेषु विद्यते न सर्वेषु ।
निरुक्तं ॥५॥
निरुक्तं २॥६॥
म०१०स०२७॥]] * ऋग्वेदभाष्यम् * [८७ देवानां माने प्रथमा अतिष्ठन्तत्रादेषामुपरा उदायन् । त्रयस्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषम् ॥ २३ ।। देवानां माने जगत्स्थितिहेतुभूतोदकाधारभूतत्वात् सर्वस्मात् सर्वन्तावदेव ते सृष्टा इत्यर्थः । के एते । मेघाः । कुत एतदवगम्यते । परस्मिन् पादे तेषामन्वादेशात्।भाष्ये* च मेघा एव माध्यमका देवगणा इत्युक्ताः । वृष्टानाश्च सतामेषां मेघानां । कृन्तत्रात् इन्द्रवज्रेण विकर्त- नाच्छेदनात् । उपरा उदायन् । उपरामेघाः। तात्स्थ्यादत्र तच्छब्देनाप उच्यन्ते । मेघस्था आप उत्पन्नाः । वृष्टिभावेन भूमौ पतिता इत्यर्थः । पतितासु च तास्वप्सु इन्द्रादेशात् पर्जन्यो वायुरादित्य इत्येते त्रयः वर्षशीतोष्णैस्तपन्ति सन्तापयन्ति पाचयन्तीत्यर्थः। पृथिवीमत्र तात्स्थ्या- ताच्छब्ध। पृथिवीस्था ओषधीरित्यर्थः । [अनूपाः] आनुपूर्येण वप्तारः प्रहरितारः प्रक्षेप्तार इत्यर्थः । पाचितासु चौषधीषु।द्वा द्वौ वाय्यादित्यौ। वृबूकं भूमिस्थमुदकं । वहतः आदित्यमण्डलं प्रति वाहयतः । वायुः शोषयन् आदित्यो रश्मिभिराददानः । कीदृशमुदकं । पुरीषं प्रीणयितृ पूरयितृ वा सर्वस्य बहित्यर्थः ॥ अथवा देवानामिति निर्धारणे षष्ठी। निर्माणमपि सुवृष्टेगुह्यते । प्रथमशब्दोऽपि प्रधानवचनः । तिष्ठतिरपि व्यापारार्थः । राजद्वारे श्मशान च यस्तिष्ठति स बान्धव इति । यथा देवानां मध्ये ये प्रथमा उत्कृष्टा मध्यमा देवगणा इन्द्रस्य स्वभूता मरुदादयः। ते। माने वृष्टि- निर्माणे जनने। अतिष्ठन् व्याप्रियन्त इत्यर्थः । व्याप्रियमाणेषु तेषु कृन्तत्रादेषां। कर्तृकर्मणोः कृतिः । इत्येवमेषा कर्तरिषष्ठी एभिर्माध्यमकैः देवगणैर्यत् कृतं । कृन्तत्र विकर्तनं मेघानां छेदनं तस्मात् हे कार्यस्मादे- कैर्विकर्ता? तस्मात् कारणादित्यर्थः। उपरामेघाः। एतिरत्रान्तर्जातण्यर्थः। किं उत्गमयन्ति जनयन्ति किं सामर्थ्यावृष्टिलक्षणमुदकं। जनितेच तस्मिन्नुदके त्रयस्तपन्तीः त्यादिरर्धर्बोदव्यातार्थः ? ॥ सा ते जीवातुरुत तस्य विद्धि मा स्मैतागप गृहः समर्थे। आविः स्वः कृणुते गृहत्त बुसं स पादुरस्य निर्णिजो न मुच्यते ॥२४ * निरुक्तं २।५॥ +हितोपदेशः १ । ७३ ॥ पाणि०२।३ । ६५॥
८८] * ऋग्वेदभाष्यम् * [मं० १० । सू०२८॥ अनय_दित्यात्मनेन्द्र स्तूयते। सेति तच्छब्दश्रुतेरेकवाक्यतायै यच्छन्द उत्तरस्मिन्नध ऽध्याहार्यः । यच्छब्दसंबन्धाश्च स एव पूर्व व्याख्येयः। यद्रश्मिरूपेण गत्वा । आविः कृणुते प्रकटीकरोति।स्वःसर्वे त्रैलोक्यमादित्यः । गृहते संवृणोति च आदत्ते चेत्यर्थः। बुसमुदकं भौमर- साख्यं। सपादुः पदनमेतस्मै प्रयोजनद्वया [यादित्येन] रश्मिद्वारण गमन- मित्यर्थः । अस्य निर्णिजः सर्वस्य शोधयितुगदित्यस्य स्वभूतानान्ने नादित्येन कदाचिदपि । मुच्यते निर्वादात् श्रमेण वा परित्यज्यते । सा ते तव मामान्तरात्मनः? जीवातुः जीविका जीवनहेतुरित्यर्थः । यत एव- मतः ते तस्य विद्धि तस्याप्यादित्यस्य उपकर्तुर्जानीहि स्तुत्या यागेन च प्रत्युपकारं ।माच अस्मै* अस्यादित्यस्य स्वभूतं । ताइक्तादृशमुपकृतमप. गृहः अपसंवृतमपनीतं मा काथीरित्यर्थः ? । समये मृत्युना सह संग्रामे वर्तमाने । प्राणिनां हि सर्वदैवं मृत्युना सह संग्रामः । जीवस्येष्टत्वा- न्मृत्योश्च तदपकाराय सर्वदा प्रवर्तमानत्वात् ॥ [अष्टाविंशं सूक्तम् ] उत्तरं सूक्तं विश्वो ह्यन्य इति द्वादशर्चमैन्द्रं वसुक्र एव ददर्श । विश्वो हीन्यो अरिराजगाम ममेदह श्वशुरो ना जगाम । जक्षीयाद्धाना उत सोमं पपीयात्वाशितः पुनरस्तं जगायात् ।।१।। विश्वो ह्यन्यः स यज्ञं प्रति शीघ्रमानागच्छति वा यो वसुक इन्द्राय सोपलबं करोथयति ? हे इन्द्र तुभ्यं कथयाम्यहं । विश्व हि अन्यः अरिः आजगाम । सर्व एवान्य ईश्वरः कर्मांगदेवलक्षणः । आजगाम यज्ञमागतः । कस्तहि नागत । उच्यते । मम इत् अह श्वशुर: न आजगाम । ममैव वसुक्रस्य श्वशुरो घायुः नागतः। यद्यागच्छेत् । जीयात् भक्षयेत् । धानाः । उत अपि । सोनं पपीयात् पिबेत् । स्वाशितः सुभाजितः पिबेत् । स्वास्ति सुतृप्तः । पुनः भूयः । अस्तं * सायणभाष्ये मोक्षमूलरप्रकाशिते ऋग्वेदस्य पदपाठे च मिशः पदपाठो विद्यते । उद्गीथस्तुमा । अस्मै । ताहक् । इतीदृशानि त्रीणि पदानि चकार । मा। स्म । एतादृक् । इति सायणसम्मतः पदवच्छेदः । अस्त्यस्मत्पाधै ऋग्वेदपदपाठस्य पुस्तक- मेकम् । एष पदपाठः रावणकृत इति ससमाष्टकस्यान्ते प्रदर्शितम् । तस्मिन् पदपाठे पूर्व उद्रीयसदृशः पदविभाग आसीत् । परन्तु पश्चात् केनचित् शोधकेन शोधयित्वा सायमानुसारी पाठः कृतः॥ .
मं०१०। सु० २८॥] * ऋग्वेदभाष्यम् * [८९ स्वगृहं । जगायात् गच्छेत् । त्वञ्च सर्वेश्वरः तस्मात्तव कथितं मयेती- न्द्रस्य स्तुतिरेव जायते ॥ स रोरुववृषभस्तिग्म,गो वमन्तस्थौ वरिमन्ना पृथिव्याः । विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥ २ ॥ स यजमानः । रोरुवत् अत्यर्थ रुवत् ऋग्यजुस्सामलक्षणं कुर्वनित्यर्थः । किमिव । वृषभ इ[व] तिग्मभंगः । लुप्तोपममेतत् यथा गोवृक्षः। तीक्ष्णभंगः । दर्पित रुवत् अर्दन्तिष्ठन्ति एवं ।अथवावेदार्थीय- शब्दाभावादेतत्पदद्वयं यजमानविशेषणं । वृषभो वर्षिता यज्ञ- द्वारेणेति । तिग्मभंगः । तिग्मं तेजतेरुत्लाहकर्मणः ।। उत्साहभंगः । संस्कृतविग्गणैः वर्मन् । वर्षिणी मृदुतरे महति । कस्मिन् । सामर्थ्याद्यशे सोमयागलक्षणे । वरिमन् वरिवणिपतरं उरुतरे वेदिस्थाने । पृथिव्याः अवयवभूते । आ तस्थौ मर्यादया तिष्ठ[मि] मत्प्रसादात्संवत्सरे सोम- याजीदग्भवतीत्यर्थः । किञ्च । विश्वेषु सर्वेषु । संग्रामेष्वापत्सु । पामि रक्षामि । स एनं यजमानं । कीदृशं । यो यजमानः । मे ममेन्द्रस्य स्वभूतौ । कुक्षी । सुतसोमः कृतसोमाभिषवः । संपृणाति सोमेन पूरयति ॥ अद्रिणा ते मन्दिन इन्द्र तूयान्त्सुन्वन्ति सोमान्पिबसि त्वमेषाम् । पचन्ति ते वृषभाँ अत्सि तेषां प्रक्षेण यन्मघवन्हूयमानः ॥ ३ ॥ अद्रिणाभिषवनाव्णा । ते तवेन्द्रस्य । मंदिनः स्तुत्यस्यार्थाय । हे इन्द्र । तूयान् क्षिप्रानविलंबितान् कर्मवैगुण्यजनितेन प्रायश्चित्ते- नानन्तरितान् । दशापवित्राद्धोमपात्राद्वा क्षिप्रप्रक्षारिण्योर्वेत्यर्थः । सोमान्सुन्वन्ति परमया भक्त्याभिषुण्वन्ति ये यजमानाः तेषामेषा- मस्मदादीनां स्वभूतान् सोमान् पिबसि त्वन्नेतरेषां । ये च यजमानाः ते त्वदर्थ । परया भक्तथा पचन्ति वृषभान् तेषां स्वभूतान् वृषभान् हवि- भूतानरिस भक्षयसि त्वन्नेतरेषां । कदा पिबसि असि । उच्यते । यत् यदा । हे मघवन् पृशेणान्नेन कर्तव्यत्वेन निमित्तभूतेन । हूयमानः भूतले आहूतो भवसि त्वं तदेत्यर्थः ॥ * रुदन्तिष्ठन्ति? +निरुक्तं १०॥६॥ * वावष्ठन्-कोशपाठः।
[ मं० १० । सू० ९०] * ऋग्वेदभाष्यम् * २८॥ इदं सु मे जरितरा चिकिद्धि प्रतीपं शापं नद्यो वहन्ति । लोपाशः सिंहं प्रत्यश्चमत्साः क्रोष्टा वराहं निरतक्त कक्षात्॥४॥ इदं सामर्थ्य । सुशोभनमभिपूजितमतिशयतवदित्यर्थः । मे मम स्वभूतं । हे जरि[तः] त्वं स्तोतः । आ चिकिद्धि मर्यादया जानीहि । कतमदिदं सामर्थ्यमुच्यते । यदि इच्छाम्यहं । प्रतीपं प्रतिकूलमित्यर्थः । शापमुदकं । नद्यो गंगाद्याः । वहन्ति । किञ्च । लोपाशः रंकुः सिंह प्रत्यञ्चमात्मानं प्रति गतमत्साः गच्छति वधाय । क्रोष्टा शृगालश्च । वराहमतिशूरं बलवन्तं च सन्तं । निरन्तन्निरतक्तनिर्गमयति बलानि- कालयति । कक्षात् गहनं देशात् ॥ कथा त एतदहमा चिकेतं गृत्सस्य पाकस्तवसो मनीषाम् । त्वं नो विद्वाँ ऋतुथा वि वोचो यम ते मघवन्क्षेम्या धूः॥५॥ कथा कथं केन प्रकारेण । ते तवेन्द्रस्य स्वभूतमेतत्सामर्थ्य- महमा चिकेतं मर्यादया जानामि । गृत्सस्य मेधाविनः सर्वशस्य । पाक अपि पक्वप्रज्ञः । तवसः तवसस्य वृद्धस्य महत इत्यर्थः । मनीषां स्तुतिश्च कर्तुमिति शेषः । त्वमेव नः अस्मभ्यं विद्वान् सर्वज्ञः । ऋतुथा ऋतावृतौ यथाकालं क्रमेणेत्यर्थः । वि वोचः विविधं स्पष्ट विशेषणं वा पुनरपि ब्रहि यतः । हे मघवन् । यं ते तव स्तुत्यर्ध अवयवं कुर्मः सास्माकं । क्षम्या क्षेमे भवा क्लेशरहिता वोढुं शक्या स्तुतिः धूः। तस्मात्तवस्तुत्यवयवमेव वयं क्लेशेन कर्तुं शक्नुमः मन्दबुद्धित्वात्तस्मात् त्वमेवास्मभ्यं स्वसामर्थ्य स्तुतिप्रकारश्च पुनरपि कथयेत्यर्थः ॥ एवा हि मां तवसं वर्धयन्ति दिवश्चिन्मे बृहत उत्तरा धूः । पुरू सहस्रा नि शिशामि साकमशत्रु हि मा जनिता जजान ॥६॥ एवमनेनोक्तेन प्रकारेण । हि यस्मान्मामिन्द्रं । तवसं महान्तं । स्तुतिभिस्तुवन्तःस्तोतारः वीर्येण वर्धयन्ति । तस्मात् कारणादिवश्चिद् दिवोऽपि । उत्तरा अधिकापरार्ध्या । मे ममेन्द्रस्य । बृहतो महतः स्तुतिः धूग्न साहधूरत पूर्वा महती स्तुतीरुत्साहोवा महानथो वा महानित्यर्थः। किञ्च । पुरु पुरूणिं च बहूनि । सहस्रा शत्रूणां सहस्राणि । नि शिशामि तनूकरोमि हिनस्मीत्यर्थः । साकं सह युगपदित्यर्थः । कस्माद्धि मं०१०। सू०२८॥] * ऋग्वेदभाष्यम् * [९१ यस्मादशत्रु अविद्यमानशत्रु । मा [मा]मिन्द्रं । जनिता सर्वस्य जनयिता प्रजापतिः । जजान जनितवान् ॥ एवा हि मां तवसं जजुरुग्रं कर्मकर्मन्वृषणमिन्द्र देवाः । वधी वृत्रं वज्रेण मन्दसानोऽप ब्रज महिना दाशुषे वम् ॥७॥ [हि] यस्मादेवमनेनोक्तेन प्रकारेण । मान्त्वत्पुत्रं वसुक्रं त्वद्रूपाणामवस्थितं सन्तं । तवसं महान्तं । जहुः जानन्ति । जनयन्ति वा। उग्रं करमसां वा । कर्मन् कर्मणि । अग्निहोत्रादौ वृत्रवधादौ वा। वृषणं वर्षितारं । हे इन्द्र । देवाः । हविषां दातारं । ऋत्विग्यजमानमां मरुदादयो वा देवगणाः । अतः। अवधी हन्मि । वृत्रमसुरं मेधं । दाशुषे हवींषि दत्तवते यजमानाय ॥ देवास आयन्परशूरविभ्रन्वना वृश्चन्तो अभिविभिरायन । नि सुदं१ दधतो वक्षणासु यत्रा कृपीटमनु तद्दहन्ति ॥ ८ ॥ देवास आयन् देवेन्द्रेण चोदितास्सन्तो देवासः मरुतो देवाः । आयन् गच्छन्ति मेघवधाय । परशून् वज्रान् । अभिभ्रन् धारयन्ति च । मदादेशात् गत्वा धृत्वा च वना वनानि । लुप्तोपममेतत् पदं । यथा वृक्षान् परशुभिर्वृश्चन्तः केचित् गच्छन्त्येवं । मेघप्रेशैर्वृश्चन्तः वश्छिः ? रुद्रादि- मध्यमका देवगणाः। मनुष्यैस्सह। अभि आयन् मेघान् प्रति गच्छन्ति । किञ्च ।सुवं सुष्ठु द्रवितृगन्तृवृष्टयुदकन्दधतः निधारयन्तः । नियमेन स्थापयन्तः । वक्षणासु नदीषु । यत्र यस्मिन् मेघजाते । कृपीट- मुदकमनु गच्छन्ति उपलभन्ते । तन्मेघास्तन्दहन्ति भस्मीकुर्वन्ति । वज्रघातैश्चूर्णयन्तीत्यर्थः॥ शशः क्षुरं प्रत्यंचं जगाराद्रिं लोगेन व्यभेदमारात् । बृहन्तं चिहते रंधयानि वयद्वत्सो वृषभं शूशुवानः ॥९॥ शशः क्षुरं । लुप्तमत्वर्थतद्धितमेतत् पदं । क्षुरवन्तं । दृढ- दीर्घतीक्ष्णनखं । सिंहव्याघ्रजदिकं ? बलवत् रशूरमृगमित्यर्थः । प्रत्यंचं वधायात्मानं प्रति जगार गिरति गृह्णाति वा । मारणाय ।
९२]. * ऋग्वेदभाष्यम् * [मं०१० । सू० २८॥ किञ्चादि पर्वतं हिमवदादिकं । लोगेन लोष्टेन मृत्पिण्डेन । व्यभेद विविधं भिननि विदारयामि । आराद्दूरे प्रस्थितमित्यर्थः । किञ्च । बृहन्तञ्चित् महान्तमपि हस्त्यादिकं । ऋहते ह्रस्व[]य काल- पाकाय* । रंधयानि संसाधयानि वशं गमयानि । यदीच्छानि । मत्प्र- सादाच वयत् गच्छति वत्सः । युद्धाय । वृषभं प्रति शूशुवानः ॥ सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं न सिंहः । निरुद्धश्चिन्महिषस्तावान्गोधा तस्मा अयथं कर्षदेतत् ॥१०॥ सुपर्णः पक्षिराट् । इत्था अमुत्र दिवि । नखमात्मीयं । आ सिषाय आबध्नान् आबन्धुवान् । इन्द्रार्थ सोमाहरणकाले दिवि पदं इन्द्रप्रसादा- म्यस्तवानित्यर्थः । अवरुद्धः अवारेण वृतः परिवेष्टितः । सिंहः । परिपदन्न परिपदमिव । यथा परअरस्य परि सर्वतः। पादमाबध्नाति न्यस्यत्येवं । किञ्च । निरुद्धः चित् । चिदित्युपमार्थे । यथा पादेन श्रद्धा केनापि निरुद्धो । महिषः उदकाभावे तावान् भवति । एवमिन्द्रः सोमाभावे तृषावानभूत् । प्राक्सोमहरणात्तषिताय चेन्द्राय तस्मै । तादर्थ्य चतुर्युषा । तृषितस्य तस्येन्द्रस्यार्थाय । गोधा गमयति वर्णा- निति । गौर्वागिन्द्रियन्तत्र निहिता गोधा वाग् । गायत्र्याख्या । अयथं अयत्नेन अनायासेन लीलया । कर्षत् आकृष्टवती । दिवसकाशा- दाकृष्टवतीत्यर्थः । एतत् सोमजातम्मधु वा सोमलक्षणं ॥ तेभ्यो गोधा अयथं कर्षदेतो ब्रह्मणः प्रतिपीयंत्यन्नैः । सिम उक्ष्णाऽवसृष्टाँ अदन्ति स्वयं बलानि तन्वः शृणानाः ॥११॥ तेभ्यः । तेषाञ्च देवानामृषीणाश्चार्थाय । गोधाः वाग् । गायव्यख्या । इन्द्रस्यार्थे दशात् ? अयथं कर्षदिति । व्याख्या ये देवा ऋषयश्च । ब्रह्मणः परिवृढः परिवृद्धस्य । स्वभूतैरनैः सोमाख्यम्तृप्ताः सन्त इति शेषः । प्रतिपीयन्ति हिंसन्तः प्रतिहिंस- न्तीन्द्रेणाभ्यनुशाताः। किञ्च। सिमः।सर्वान् । उक्ष्णः वृषकान् । अवसृष्टान् इन्द्रेण निसृष्टान् दत्तान् हविर्भूतान्यज्ञेषु । अदन्ति भक्षयन्ति च । स्वयमात्मनैव । शत्रूणां बलानि सेनालक्षणानि वा। तन्वः शरीराणि शृणानाः सोमे आहृते सति ॥ द * अल्पाय?
मं०१०। सू० २९॥]] * ऋग्वेदभाष्यम् *
[९३
एते शमीभिः सुशमी अभूवन्ये हिन्विरे तन्व१: सोम उक्थैः ।
नृवद्वदन्नुप नो माहि वाजान्दिवि श्रवो दधिषे नाम वीरः ॥१२॥
एते देवादयः । शमीभिः सोमयागकर्मभिः । सुशमी
सुकर्माणः । अभूवन् भूताः । ये हिन्विरे संगमयन्ति समर्चयन्ति
वा । तन्वः स्वशरीराणि । सोमे सोमयागे । उक्थैः शस्त्रैः। यः
तमीदृशः । स त्वं नृवत् मनुष्यवत् । वदन् इदम्मया युष्मभ्यन्दत्त-
मिति व्यक्तां वाचमुचारयन् । नः अस्मभ्यं । उप माहि उपगम्य
देहीत्यर्थः । वाजान् अनानि बलानि । कस्मादेवमुच्यसे । यस्मादि-
वि द्यलोके । श्रवः दानपतिरिन्द्र इति कीति । दधिषे धारयसि नाम
च धारयसि । वीरः दानशूरः इति ।
[एकोनविंशं सूक्तम्]
वने न वा यो न्यधायि चाकञ्छुचिर्वां स्तोमो भुरणावजीगः ।
यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥१॥
उत्तर सूक्तं वने न वाय इति अष्ट मैन्द्रं। वसुक्र एव तन्ददर्श। वने
न वा यः । चाकन् चाकनिघातपदमेतत् । अग्निवरूथम्मम तस्य
चाकन्निति] यथ[1] ।* यच्छब्दसंबन्धाञ्च तच्छन्द उत्तरे पादे।।
यच्छब्देनात्र सामर्थ्यात्सोमो निर्दिश्यते यस्सोमः । चाकन् इन्द्रेणात्मनः
पानं कामयते । यच्छब्दश्रतेस्तच्छब्दोऽध्याहार्यः। स सोमः। वने न वा।
नशब्दः संप्रत्यर्थे । वने न वा वनविकारे वृक्षावयवे पात्रे । द्रोणकल-
शादने च ध्रवस्थाल्यादौ वा । मृन्मये न्यधायि निहितः । इन्द्रार्थ-
मस्माभि स्थापितः । किञ्च । शुचिः शुद्धः सर्वदोषरहितः । वां युवयोः
पत्नीयजमानयोः । स्वभृत स्तोमः स्तुतिविशेषः । हे भुरणौ यशेन
सर्वस्य जगतः भारौ। स्वगन्तारौ वा । कर्मानुष्ठाने वा । अजीगः
इन्द्रस्य गुणानशेषान् गृह्णाति।यस्य स्तोमस्य । इच्छब्दोऽनर्थकः । इन्द्रः
पुरुदिनेषु बहुम्वहस्सु। होता । ह्वयतीत्यर्चतिकर्मा स्तोता तादृशः । सोम
इति प्रशंसितेत्यर्थः । मां प्रत्ययमागच्छतु । मागादन्यत इत्याह्वाता वा ।
स । इन्द्रस्य गुणानशेषान् गृह्णातीति संबन्धः कार्यः । कहिशः । नर्यः ।
नृभ्यो हितं नृणां मनुष्याणां । नृतमः प्रकृष्टमनुष्यश्च । क्षपावान् अति-
+पादेऽध्याहार्यः?
निघं०३।१४॥
*ऋ०१।१४८॥२॥
* ऋग्वेदभाम्यम् * [मं० १० । सू० २९॥ रात्रे ऋतौ यागानां स्तोतृणाञ्चांगभूतया विशिष्टया राज्या तबांचे- त्यर्थः । एवं शाकल्याविरोधेनायमर्थः कल्पित स्थापितः । इदानीं यास्कपदविधिनार्थ उच्यते । वृक्षे यथा वयः वेः पुत्रः पक्षी । पुत्रः का अनुपजातपक्षकः । न्यधायि मात्रा निहितः स्थापितः १ तारित्वो ? आगच्छन्तीं। निरीक्षते तदागमनं कामयते । एवमिन्त्र । श्रोत्रमागच्छ- सीन्द्रागमनं वाचकन् चायन् पश्यन् कामयमानो। शुचिः शुद्धः सर्व- दोषरहितः । वां युवयोः । स्वभूतं तस्तोः? स्तामः ? हे भुरणौ। अलीगः गुणग्रहद्वोरणन्द्रमागच्छतमेव गृह्णाति । उत्तरार्धः समानार्थः पूर्वेण । आगा- प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । अनु त्रिशोकः शतमावहनन्कुत्सेन रथो यो असत्ससवान् ॥२॥ अस्या वर्तमानायाः । उषसः । अपरस्या मिन्याश्च वा उषसः। नृतौ । नृ नयने । उदयकाल इत्यर्थः । ते तव इन्द्रस्य । स्तुत्या यागेन चाराधने न । प्र स्याम प्रकर्षेण भवेमेत्येत- दाशास्महे वयं । कीदृशस्य । नृणाम्मध्ये नृतमस्य प्रकृष्टमनुष्यस्य । कस्मात् कारणात् । स्तुत्या यागेन च । नवाराधनमाशास्महे । यस्मात्वामिन्द्रमाराध्य । तव प्रसादात् । स रथः । असत् । भवति । ससवान् । तव कुत्सस्य । च । सनिता संशका । सह वहनद्वारेण सं सेविता। उकश्चायमर्थो मन्त्रान्तरे-यासि कुत्सेन सरथमवस्युरिति ।* कस्ते मद इन्द्र रंत्यो भूदुरो गिरो अभ्युश्यो वि धाव । कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अनै॥३॥ हे इन्द्र । ते तव । रन्त्यः रमयिता प्रीतिकरः । कः मदः । कतमः । सोमे जन्यो मदः । भूत् भवति । किन्तावदीषन् मदस्तव प्रीतिजनकः भवति । उत मध्यमः । उत वा उत्तमः । येन मेदन । सत्तमः सन्त्वन्दूरः । यज्ञगृहद्वाराणि च । गिरः स्तुतिः । च । अभि प्रति । उग्रः कर: अप्रसह्यो वा। त्वं विधाव । लडर्थेऽयं लोट् । स्वगृहं गन्तुं श्रोतुं च विविधया वसिता दृशमदयोग्यसोमदानाद्यभि- *३०४।१६।११॥
मं० १० । सू० २९॥] * ऋग्वेदभाष्यम् * । ९५ प्रायेणायं प्रश्नः। किञ्च । कत् वाहः अर्वाक् । कदिति कदानुशब्दपर्यायः। वाह इत्येतेन पुंसकवाचिना शब्देनेन्द्र प्रत्यूह्यत इति सोम उच्यते । अर्वागिति तद्विशेषणं । कदा । सोमः त्वत् प्रसादात्] फलदानाय सृस्वमुखो भविष्यतीति शेषः। किञ्च कदा वा । तव प्रसादात् । उपमा मनीषा उपगमिष्यदितां । सर्वार्थदर्शनीप्रज्ञा स्तुतिर्वा सर्वगुणग्राहिणी। किञ्च । आ त्वा आकुपसर्गश्रुतस्तद्योग्यक्रियापदोऽध्याहार्यः । कदा वा आराध्य त्वां । शकयां । शकिरत्रगत्यर्थः । अन्तर्णीतण्यर्थः। गमयेयं । उपमं वदन्ति किं राधः धनमन्त्रैः ॥ कदु द्युम्नमिन्द्र त्वावतो नृन्कया धिया करसे कन्न आगन् । मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य* यदसन्मनीषाः ॥४॥ कत् उ कदा वा । द्युम्नमन्नं हविलक्षणमस्मदीयं मध्विति शेषः हे इन्द्र त्वावतः त्वत्सदृशान् मनुष्यान् तस्मात् । कया धिया कया अनुग्रहबुद्धया । करसे करिष्यसि । कत् कदा वा । नः अस्मान् प्रति । आगन् आगमिष्यसि त्व] मित्यर्थः । हे उरुगाय बहुगते बहूनां दत्तानां गतिभूतेत्यर्थः । विस्तीर्णगते वा। सर्वगतीनां मध्ये महागते वेत्यर्थः । किमिव । किमर्थश्च । उच्यते। मित्रः न सत्यः। भृत्यैः यथा कश्चिस्निग्धः अविसंवादी भरणाय योगक्षेमवहनाय आपद्यागच्छेत् परया प्रीत्या एवं । कस्मादेवमुच्यसे । कदा मां प्रत्यागमिष्यसि भरणायेति । यत् यस्मात् । अन्ने आहारे शरीरस्थितिनिमित्ते । सर्वस्य* सर्वस्यास्मदादि- कस्य प्राणिनः । असन् भवन्ति । मनीषाः प्रज्ञा अन्नाभिलक्षणाः ॥ प्रेरय सूरो अर्थ न पारं ये अस्य कामं जनिधा इव ग्मन् । गिरश्च ये ते तुविजात पूर्वीनर इंद्र प्रतिशिक्षंत्यन्नैः ॥ ५॥ यच्छब्दसंबन्धाद् द्वितीये पादे आरंभे । ये यजमाना अस्मदादयः । अस्य तवेन्द्रस्य कामं सोमपानेच्छां ग्मन् । गमिरत्र शुद्धोपि[वि पूर्वो द्रष्टव्यः । अन्तर्णीतण्यर्थवद्रष्टव्यः । विगमयन्ति प्रभूतसोमप्रदानेनापनयन्ति । किमिव जनिधा इव । जनीनाजायानां संभोगकाले शय्यासु धारयितारः पतयो यथा * समस्य-ऋग्वेदपाठः।
९६] * ऋग्वेदभाष्यम् * [मं० १० । सू०२९॥ प्रभूतसंभोगप्रदानेन मैथुनेच्छामपनयन्ति एवं । गिरश्च स्तुतीः । पूर्वीः अनादिकालप्रवृत्ताः । पुरोडाशोद्यतेन सह । ये नरो मनुष्याः अस्मदादयो यजमानाः ते तुभ्यमिन्द्राय । प्रतिशिक्षन्ति प्रतिकालन्ददति । तान् सर्वानस्मदादीन्यजमानान् । हे इन्द्र । तु- विजात बहुभूत । रूपं रूपं प्रतिरूपो बभूवेति वचनात् सर्वात्मकत्वं । प्रेरय प्रगमय । संसारस्यान्तं प्रगमयन्तमिव । सूरः अर्थ न यथा सूर्याः अर्थमारं संसारस्यान्तं गन्तारं योगिनमनुगृह्णन् । अपवर्ग गमयत्येव । दृष्टान्तगतोयमर्थः । उत्तर एव उपनिषत्-सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः पुरुषो ह्यन्ययात्मा ।*-इत्येवमाद्यासु । मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन । वराय ते घृतवन्तः सुतासः स्वामन्भवन्तु पीतये मधूनि ॥६॥ मात्र सर्वस्य निर्माच्यौ द्यावापृथिव्यौ । पूर्वी अनादिकालप्रवृत्ते । हे इन्द्र । ते तव । स्वभूतौ । नु क्षिप्रं सुमिते सुनिर्मिते । केन मम स्वभूतौ क्षिप्रं सुमिते । उच्यते। द्यौः मज्मना बलेन । पृथिवी काव्येन कविकर्मणा । मेधाविचेष्टितेन प्रशयेत्यर्थः । यस्मादीदशेन महत्वेन युक्तः । त्वं तस्मात् । पराय श्रेष्ठाय । ते तुभ्यमिन्द्राय । घृत- वन्तः अग्निमुखन्त्वां प्रति क्षरणवन्तो दीप्तिमन्तो वा। संस्कृतत्वादाज्य- संयुक्ता वा । सुतासः अभिषुताः सोमात् । स्वात्मन्। स्वशब्द आत्म- वचनः । आत्मेत्यन्ननाम । देवानां । स्वा स्वमन्नं हविर्भागलक्षणं यस्मिन् स्वस्वा ? यज्ञः। तस्मिन् स्वादुनि यज्ञे । अथवा । स्वादुश- ब्दस्य उकारलोपो द्रष्टव्यः। स्वादुनि मृष्टान्ने । यो अस्मदीये । भवन्तमस्माभिईत्तान्तः । किमर्थ । पीतये पानाय । मधूनि मधुररसा- न्यन्नानि अपि हवींषि । अदना दत्तानि भवन्तः। आ मध्यो अस्मा असिचन्नमत्रमिंद्राय पूर्ण स हि सत्यराधाः । स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥७॥ आ अस्मै इन्द्राय । अस्येन्द्रस्यार्थ । आ असिचन् आभिमुख्येन स्थित्वा परया भक्त्यासितवन्तः । अग्नौ प्रक्षिपन्त ऋत्विजः मुण्डक उप०१1920 + स्वाभन् ? ।
म०१०। सू० ३०॥] * ऋग्वेदभाष्यम् * [ ९७ मध्वः मधुरस्य सोमस्य पूर्णममत्रं प्रहचमसादिकं । अस्मात् सिक्तवन्तः । यस्मात् । स इन्द्रः । सत्यराधाः सत्यधन: यजमानेभ्यो दातव्यत्वेनाविसंवादिधन इत्यर्थः । तेन च पात्रेणानौ सिक्केन तृप्तस्तन् स इन्द्रः । नर्यो नृभ्यो हितः। ववृधे वृद्धवान् । परिमन् वरिम्णा । शरीरस्योरुत्वेन । अमर्यादया प्रमाणेनेत्यर्थः । कस्य । पृथिव्याः। अभिवृद्धत्वात् । क्रत्वा कर्मणा च रसानुप्रदेन वृत्रवधादि- केन । प्रज्ञया वा । पौंस्यैश्च बलैश्चेत्यर्थः ॥ व्यानलिंद्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥८॥ सर्वप्रकरया वृद्धया वृद्धश्च सन्निन्द्रः स्वोजा सुबलः । आनट् व्यामोति । पृतनाः संग्रामान् । अप्रतिहन्यमानः संग्रामेषु शत्रु जयतीत्यर्थः । किञ्च पूर्वीः । पूर्वशब्दोत्र उत्कृष्टवाची । पूर्वा उत्कृष्टा शत्रुसेना । अप्रभवन्त्यः । अस्यैन्द्रस्य । सख्याय सखिभावाय सखित्वलक्षणाय । अयतन्ते सन्धि कर्तुमिछन्तीत्यर्थः । उत्तरोधः प्रत्यक्षकृतत्वाद् भिन्नं वाक्यं । स्मेति पदपूरणः । न शब्दः परस्तात् प्रयुक्तोपि पृतनाशब्दस्य सामर्थ्यादुपमा यः । अस्मद्यशं प्रत्यागन्तुं तं स्वरथमातिष्ठ महतारेण । क पृतनानु । न यथा संग्रामे महतादरेण । रथमातिष्ठस्येवं यं रथं । भद्रया कल्याण्या। सुमत्या शोभनया प्रक्षया परानुग्रहबुद्धया । चोदयासे प्रेरयसि । यज्ञान प्रति ॥ [त्रिंशत्तमं सूक्तम्] उत्तरं सूक्तं प्र देवत्रेति पञ्चदशचमब्देवत्यमैलूषः कवषो ददर्श । प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति । महीं मित्रस्य वरुणस्य धासि पृथुज्रयसे रीरधा सुवृक्तिः॥१॥ प्र उपसर्ग एतिना संबध्यते । देवत्रेति अविशेषं । ब्रह्मण इति तृतीयार्थे चतुर्थी । गातुरिति सोम उच्यते । गुणवृत्या स्तुति- लक्षणेन स्तूयमान इति शेषः । गातुः देवानपो वा प्रतिगमनशीलः सोमः प्रगच्छतु । देवत्रा देवीरपः वसती । वयेकधनलक्षणाः । अच्छामि आप्तुं । कस्येव वेगेनागच्छतु । मनसो मनस इव ।
९८]
* ऋग्वेदभाग्यम् * [मं० १० । सू० ३०॥
प्रयुक्ति प्रयुक्त या प्रयोगेण वेगनेत्यर्थः । अपः प्रतिगते च सोमे त्वमपि
हे मदीयकर्मात्मन् । अध्वर्यवो वा। महीन्धासिं महदकं सोमलक्षणं ।
मित्रस्य वरुणस्य चार्थाय । पृथुजयसे विस्तीर्णजवाय । महागतेरि-
न्द्रस्य चार्थायेत्यर्थः । रीरध संसाधय संस्कुरु । दानयोग्यं कुरु ।
सुवृक्तिं सुष्ठु दोषैर्विवर्जितां स्तुति च ॥
अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीरुशंतः ।
अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः ॥२॥
हीति पदपूरणः । हे अध्वर्यवः हविष्मन्तः अभिषोतव्येन
सोमलक्षणेन हविषा तद्वन्तः । यूयं भूतं भवत । सोममभिपुणेत्यर्थः
तदर्यश्च । अगच्छ । आप्तं गृहीतं । अपः सोमाभिषवांगभूताः ।
एकधनलक्षणाः । इत गच्छत । उशतीः सोमाभिप्वांगभूताप
कामयमानाः । उशन्तः सोमाभिषवं कर्तुं कामयमानाः । या अवः।
आप्तुं गच्छतेति संबन्धः कार्यः । अभिस्सहाभिषुतञ्च सन्तन्तरपनि ।
सोमसंघातं । शोभनकर्मकारित्वाद्वा सुवर्णेनालंकृत्वाद्वा । शोभना
हस्ता येषां ते सुहस्ता अध्वर्यवः । तेषामिदं संबोधनं ॥
अध्वर्यवो ऽप इता समुद्रमपां नपातं हविषा यजध्वम् ।
स वो ददर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोत ।। ३ ।।
हे अध्वर्यवः । अप एकधनलक्षणाः।आहर्तुमिति शेषः । इत गच्छत
यूयं । समुद्रं समुद्रस्थानीयं । अक्षीणोदकजलाशयं । इदानीमुत्तरोधों
व्याख्यायते । पश्चात् द्वितीयः पादो व्याख्येयः । अर्थोयं क्रमः जलाशयं
प्रतिगतेभ्यश्च । वः युज्माकं । यस्यार्थाय सोमः पूरयते । सोपानपात् ।
ददत् ददातु । ऊर्मिमप्समूहम् । अद्य संप्रति । सुपूतं सुशुद्धं । तेन चाप्स
समूहेन सह । तस्मै तदर्थमपो न पूतमित्यर्थः । सोमम्मधुमन्तं । मधु-
स्वादोपेतः सुनोता भिषुणुत । यूयमाभिषुत्य च तेन सोमाख्येन
हविषा । अप्सुहितेनापानपातं। मध्यमं वृष्टिकर्मण्यधिकृतं । देवं यजध्वं ।
यूयं हे अध्वर्यवः ॥
यो अनिध्मो दीदयदप्वं१ तयं विप्रास ईलते अध्वरेषु ।
अपां नपान्मधुमतीरपो दा यामिरिंद्रो वापधे वीर्याय ॥ ४ ॥
। मं०१०। सू० ३०॥]] * ऋग्वदभाष्यम् * ६ २९ उत्तरार्धस्य प्रत्यक्षकृतत्वात् एकवाक्यतायै युष्मच्छब्देन समानार्थो भवच्छब्दः प्रथमेऽऽध्याहार्यः । यो भवान् । अपानपात्। अनिध्मः अनिन्धनः । ददीयत् दीप्यते । अप्सु अन्तः मेघस्थानाम- पाम्मध्ये । ये भवन्तमपानपातं। विप्रासः मेधाविनः ऋत्विग्यजमानाः । ईलते स्तुवन्ति । अध्वरेषु यज्ञेषु । स त्वं । हे अपानपात् । याभिरभिः । वसतीर्वयेकधनारूपाभिः । सोमेन मिश्रिताभिः । इन्द्रो वावृधे वर्धते । वीर्याय वीरकर्मणे । यत्र वधादिकार्य कर्तुमित्यर्थः । याभिः सोमो मोदते हर्षते च कल्याणीमियुवतिभिर्न मर्यः । ता अध्वर्यो अपो अच्छा परेहि यदासिंचा ओषधीभिः पुनीतात् ।।५।। चतुर्थः पादः पूर्व व्याख्येयः । पश्चाद्यथाक्रमं त्रयः पादा व्याख्येचाः । यदा आसिश्चाः । मर्यादया सिञ्चसि । अधिषवण- चर्मसास्य सोमस्याभिषयमाणस्योपरिप्रक्षिपस्य । पः यदा च ? ओषधीभिः । पुनीतात् । ओषधीरत्र सोम उच्यते । बहुवचनश्चावयवा- पेक्षा । यदा। च । सोमेन सह । दशापवित्रे। सुनास्यवः कदा याभिरद्भिः वसतीवधनारूपाभिस्सह । सोमः । मोदते हप्यति हर्षते च । पुनरुक्कपरिजिहीर्षया । अन्तसीत भृशार्थोत्र हुप्यति द्रष्टव्यः। अत्यर्थ हुम्यति च । किमिव कल्याणीभिः युवतिभिर्न मर्यः । यथाकमनी- याभिः यौवनान्विताभि स्त्रीभिस्सह मनुष्यः किञ्चिदत्यर्थ मोदते । एवन्ता आपः । आच्छ । आप्तुं आहर्तुं । परा इहि जलाशयं गच्छ त्वं हे अध्वर्यो॥ एवेधने युवतयो नमंत यदीमुशन्नुशतीरेत्यच्छ । सं जानते मनसा संचिकित्रेऽध्वर्यवो धिषणापश्च देवीः ॥६॥ एवशब्दः नमन्तशब्दात् परो द्रष्टव्यः । इच्छब्दोऽत्र पदपूरणः। यूने अभिषवादिकर्मणामात्मना सह मिश्रयित्रे कत्रेऽध्वर्यवे । युवतयः सोमेन सह आत्मनो मिश्रयियः। यौवनान्विता वा । आपः वसतीवर्ये- कधना लक्षणानामन्त एवं प्रवीभवन्त्येव उपनमन्त्येवेत्यर्थः । कदा । उच्यते । ईमेना आपः । उशन् सोममाभिषवादिकर्मकर्तु कामयमानो- ध्वर्युः उशतीः । सोमेन सह मिश्रीभावमभिषवादिकर्मागभावञ्च कामयमानः । आच्छ । आप्तुं आहर्तुमेति गच्छति । कदा । कस्मात्- १९०] * ऋग्वदभाष्यम् * [मं० १० । सू०३०॥ कारणादपनमन्ते । यस्मात् सञ्जानते सम्यग् जानन्ति । मनसा विशि- ध्या प्रज्ञया। सश्चिकित्रे सम्यक् पश्यन्ति च । विशिष्टेन चक्षुषा । स्वं स्वमधिकारं परस्परोपकारञ्च । अध्वर्यवः धिषणा वाक् । स्तुतिलक्षणा। आपश्च देवी देव्यः॥ यो वो वृताभ्यो अकृणोदु लोकं यो वो मह्या अभिशस्तेरसुचत् । तस्मा इंद्राय मधुमंतमूर्मि देवमादनं प्र हिणोतनापः ॥७॥ य इन्द्रः वः युष्मभ्यमद्भ्यः । वृताभ्यः मेघेनावृताभ्यः वेष्टि- ताभ्यः। तादर्थे चतुर्युषा। युष्माकमपाम्मेघेन वेष्टितानामयेत्यर्थः । आकृणोत् कृणवान् । उ इति पदपूरणः । लोकं स्थानं । मेघादयश्च वः युष्मान्मह्या महत्या । अभिशस्तेः मेघवेष्टनाभिः हिंसातः । अमुञ्चत् माचितवान् । तस्मै इन्द्राय । मधुमन्तं मधुस्वादुयुक्तं । फार्ममप्यातं । देवमादनं मित्रादिदेवानां सह मिश्रीभूयतर्पयितारं । प्रहिणोतन प्रगमयतास्मद्यनंः प्रत्यंगभावाय प्रस्थापयत यूयं हे आपः । प्रास्मै हिनोत मधुमन्तमूर्मि गर्भो यो वः सिंधवो मध्व उत्सः । घृतपृष्ठमीब्यमध्वरेष्वापो रेवतीः शृणुता हवं मे ॥ ८ ॥ प्रास्मे हिनोतश्छन्द संबन्धा द्वितीये पादे ? गर्भसारः यवः । युष्माकं स्वभूतः । हे सिन्धवः स्यन्दनशीलाः। मध्वः मधुनः मृष्टर- सस्य । उत्सः उत्स्यन्दिनः उत्लिपिता। यच्छन्दंसबन्धात् गर्भ ? मधुमन्तं मधुस्वादोपेतं । ऊर्मिमप्संघातं । घृतपृष्ठं घृतेनाज्येन पृष्ठमीज्यं स्तुत्य- मध्वरेषु यज्ञेषु । ईदृशं सारं युष्मत् संबन्धिनमस्मै अस्येन्द्रस्यार्थाय । प्रहिणोत प्रगमयत । प्रस्थापयतास्मद्यशं प्रत्यंगभाषाय । हे आपः । अस्मभ्यं युष्माभिः । दातन्त्र ? दृष्टादृष्टफललक्षणेन । तद्वत्यं शृणुत हव- माह्वानं वचनमेतदित्यर्थः । मे मम स्वभूतं ॥ तं सिंधवो मत्सरमिन्द्र पानमूर्मि प्र हेत य उभे इयर्ति । मदच्युतमौशानं नभोजां परि त्रितंतुं विचरंतुमुत्सम् ॥ ९ ॥ हे सिन्धवः स्यन्दनशीला आपः । य उभे दृष्टादृष्टफले । अस्मभ्यन्दातुमियति गच्छति । कांगभावं प्रतिपद्यते । तम्मत्सरं मन्दयितारमिन्द्रादिदेवानान्तर्पयितारमिन्द्रस्य । पानवाधान्येनेन्द्रेण मं० १०॥ सू०३०॥] * ऋग्वेदभाग्यम् * [१०१ वा तन्य प्य ? स्यं? ऊर्मिमुदकसंघातं । प्र हेत प्रगमयत प्रेषयतास्मद्यशं प्रत्यंगभावाय । मदच्युत मदस्य च्योतयितारमुत्पादयितारमित्यर्थः । औशानं सोमेन सह मिश्रीभवतु ? कामयमानं । नभोजां नभसि आकाशे अन्तरिक्षे वृष्टिरूपेण जातं । परि सर्वतः त्रितन्तुं त्रयाणां सवनानान्तनितारं विस्तारयितारं । विचरन्तं विविधं यक्षपात्रेषु गच्छन्तमुत्समुत्स्यन्दनमुत्सर्पितारन्देवान् प्रत्यूर्वं गन्तारमित्यर्थः ॥ आवकृततीरध नु द्विधारा गोषुयुधो न नियवं चरंतीः । ऋषे जनित्रीभुवनस्य पत्नीरपो वंदस्व सवृधः सयोनीः ।। १० ।। अवततीः आवर्ताः अस्मदभिमुखीभूताः । अध अथानन्तरं क्षिप्रं । द्विधाराः द्विशब्दोत्र अनेकत्वमात्रवचनः । अनेकधाराः इत्यर्थः । किमिव । गोषुयुधो न गोषु वृष्टिलक्षणासु अप्सु निमित्त भूतासु । मेघेन सह युध्यत इति । गोषु यदिन्द्रः । तस्य । यथा वृष्टिलक्षणा आपः अपर्यन्तधाराः । एवनियवनिश्चयेन । मिश्रयणीयं सोमं प्रति । चरन्तीः गच्छन्तीः । अथवा नियवशब्देन यवलूनपादं उच्यते । लुप्तोपमश्चैतत् पदं । चरतिरपि भक्षणार्थः । यथा यवलूल- गाश्चरन्तीः वन्दते कश्चिदेवं । यवलूनपादं स्थानीयं सोमञ्चरन्तीः हेतुभावेन सञ्चूर्णयन्तीः । एकधाना वन्दस्व प्रणम्य स्तुहि वा त्वं । हे ऋषे कर्मणान्द्रष्टः यजमान । कीदृशीरप उच्यते । जनित्रीः जनयित्रीः । कस्य । भुवनस्य सर्वस्य लोकस्य । पालयि- त्रीश्च । सवृधः सह सोमस्य वर्द्धयितुः । सयोनीः सोमेन सह समा- मानस्थानाः॥ हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् । ऋतस्य योगे वि ष्यध्वमूधः श्रृष्टीवरीभूतनास्मभ्यमापः ॥११॥ हिनोत समाप्तिं गमयत वर्धयत वा । नः अस्माकमध्वरं यज्ञं। देवयज्या देवयज्याय देवयागामित्यर्थः । हिनोत गमयत च । परिसमाप्तिं वर्धयत् च वा । ब्रह्म स्तुत्याख्यं । सनये लाभाय धनानाम् । दृष्टादृष्टफलप्राप्त्यर्थमित्यर्थः । तस्य यज्ञस्य । योगे सम्बन्धे वर्तते यदिदमूध स्थानीयमधिषवणचर्म। तदेव प्रतिविध्यध्वं विमुञ्चतात्मानं । सोमरसेन सह मिश्रीभूतेन रसेन । पूरयतैतदित्यर्थः । अपः .
१० * ऋग्वेदभाष्यम् * [मं०१०।सू०३०॥ अथवा अनडुद्भ्यां युज्यत इति योगो हविर्धानशकटं। सामीपि. कशेदमधिकरणं गंगायां गावश्चरन्तीति यथा । यत्रस्य सर्वस्य हविर्धानशकटे सामीपिकाधिकरणभूते । यदिदम्धस्थानीयमधिषवण- चर्म तदेतत् प्रतिविमुञ्चतात्मानमित्यादिपूर्ववद्योज्यं । एतच कुर्वत्यः । श्रुष्टीवरीः सुखवत्यः सुखकर्यः । भूतन भवत । यूयमस्मभ्यं आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं विभृथामृतं च । रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयोधात् ॥१२॥ हे आपः रेवती धनवत्यः । क्षयथा ईशिध्वं । वस्वः वसुनः धनस्य । क्रतुश्च कर्म च । भद्रं कल्याणं सोमयागलक्षणं । विभृथ धारयथ पुष्णीय वा । अमृतत्वामरणधर्माणः । इन्द्रादिदेवश्च । रायः धनस्य चास्मदीयस्य । कीदृशंस्य । स्वपत्यस्य शोभनपुत्रस्य । सहितस्य पत्नीः पालयित्र्यः । स्थ भवथ । यूयन्तस्मात् कारणात् । सरस्वती वा । का। स्तुतिलक्षणा ।तत् वयः तदनमुत्कृष्टन्तत् धात् दधातु । गुणते स्तुवते मां। प्रति यदापो अदृश्रमायतीघृतं पयांसि विभ्रतीमधूनि । अध्वर्युभिर्मनसा संविदाना इंद्राय सोमं सुषुतं भरंतीः ॥ १३ ॥ हे आपः । यत् । सुपां सुलुगिति द्वितीयाबहुवचनस्यात्र लुक् । युपान् प्रति अह[अं] अभिमुखन्दृष्टवानस्म्यहमायतीः अस्मद्य प्रत्यागच्छन्तीरंगभावाय । घृतमाज्यं होमसृष्टं । पयांसि उदकानि । स्वावयवभूतानि । मधुसदृशानि मृष्टरसानि । बिभ्रतीः धारयन्तीः । अध्वर्युभिः सह । मनसा अन्तःकरणेन । संविदानाः संभाषमाणाः । इन्द्राय इन्द्रार्थ सोमं सुषुतं सुष्टुतं । भरन्तीः हरन्तीः । हेतुकर्तृत्वे- नास्मद्यशं प्रतिपादयन्तीः ताः युष्मान् स्तौमि प्रणमामि वेति शेषः । एमा अग्मत्रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायः । नि बर्हिषि धत्तन सोम्यासोऽपां नप्ता संविदानास एनाः॥१४॥ बसतीवर्येकधनारूपाः आपः । रेवतीः धनवत्यः। जीवधन्या जीवनस्य जीवानां वा वर्धयित्र्यःप्रीणयित्र्यो वा । आ अग्मन् आगता अस्मद्य प्रति अंगभावाय पतजज्ञात्वा । हे अध्वर्यवः । सादयत
।
मं०१०। सू० ३१॥] * ऋग्वेदभाग्यम् * [१०३
स्थापयत । हे सखायः समानाख्याना वा । तुल्यकर्मविषयविज्ञाना
वेत्यर्थः। क सादयाम । उच्यते । बर्हिषि वेदिस्तरणे। निधत्तन नियमेन
धारयत स्थापयत । हे सोम्यासः सोमसंपादिनः । अपानप्ता देवेन
वृष्टयधिकारणा सह । संविदानासः संमन्त्रयमाणाः । नो। आपः ।
आग्मन्नाप उशतीर्बहिरेदं न्यध्वरे असदन्देवयन्तीः।
अध्वर्यवः सुनुतेन्द्राय सोममभूदु वः सुशका देवयज्या ॥१५॥
अग्मन्नागतवत्यः । आपः वसतीवर्येकधनाख्याः । उशतीः
कामयमानाः । किं । बर्हिरिदं वेदिस्तरणमागत्य यावरे यो
आनि असदन मर्यादया निषण्णा उपविष्टाः । देवयन्तीः देवान् काम-
यमानाः। तर्पयितुमिच्छंत्य इत्यर्थः । एतज्ज्ञात्वा । हे अवयवः सुनुत
अभिषुणुत । इन्द्रायेन्द्रार्थ । सोममिदानीमपां प्रसादात् । अभूत् भूता
संवृत्ता वा । युष्माकं सुशका सुष्टु शकनीया अयत्नसाध्या । देवयज्या
मोपनेन्द्रादिदेवयाग इत्यर्थः।
[एकत्रिंशत्तमं सूक्तम्]
उत्तरं सूक्त आ नो देवानामित्येकादश वैश्वदेवमैलूषः कवषो
ददर्श।
आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसे यजत्रः ।
तेभिर्वयं सुषखायो भवेम तरंतो विश्वा दुरिता स्याम ॥१॥
नः उपवेतु अस्मानुपगच्छतु । संप्राप्तोदकन्देवानां विश्वेषां
संबन्धि । शंसःशंस इति कान्तिकर्मा शसः । कान्तिरिच्छा अभिप्रायः।
अनुग्रहबुद्धिरित्यर्थः । कथमागच्छतु । विश्वेभिस्तुरैः सर्वैः त्वरणैः।
शीघ्रमित्यर्थः । किमर्थमागच्छतु । अवसे अस्माकं रक्षणार्थ । कीदृशः ।
शंसः । यजत्रः यष्टव्यः पूजयितव्यः । किञ्च । तेभिः तैर्देवैः । सखि-
भिर्वयं । सुषखायः शोभनसखायः । भवेमेत्याशास्महे । तत् प्रसादाच ।
तरन्तः अभिगच्छन्तः । विश्वा सर्वा दुरिता पापानि स्यामेत्येतदा-
शास्महे वयं।
परि चिन्म? द्रविणं ममन्याहतस्य पथा नमसा विवासेत् ।
उत् स्वेन क्रतुना सं वदेत श्रेयांस दक्षं मनसा जगृभ्यात् ॥ २॥
१०४] * ऋग्वेदभाष्यम् * [मं० १० । सू० ३१॥ विश्वेषान्देवानां यागार्थ । परिचित् अप्रतिनिषिद्धात्सर्वतः । मतः मनुष्याधिकृतः । द्रविणन्धनममन्यात् । मन्यति कान्तिकर्मा । कामयेत लन्धुमिच्छेत् । लब्ध्वा च धनमृतस्य यशस्य । पथा यथोक्तेन मार्गेण । विधिना । नमसा हविरग्नेन । आविवासेत् परिचरत । परिचरणकाले च । उत् अपि । स्वेन क्रतुना आत्मीयेन विज्ञानेन । मनसेत्यर्थः । संवदंत संवादोत्र सामर्थ्यात् ध्यानमुच्यते । हविर्गृहीत्वा वषट् करिष्यन् विश्वान् देवान् मनसा ध्यायेदित्यर्थः । विश्वदेवा यागातन्तरञ्च । तत् प्रसादाच्छ्रेयांसं । पश्यसि । अंतरन्दक्षं वृद्धं सर्वव्यापिनं । मनसा ध्यानसाधनेन । अन्तःकरणेन । जगृभ्यात् अत्यर्थ गृह्णीयाध्यायेचलितञ्च वत ? चिन्तयात्मन्येव समादध्यादित्यर्थः । अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यंत्यूमाः । अभ्यानश्म सुवितस्य शूषं नवेदसो अमृतानामभूम ॥ ३॥ अधायि निहिता स्थापिता प्रवर्तितास्माभिः । धीति देवया । इदानीं अससृग्रं असमानसृष्टिं । उत्कृष्टजन्मान- मित्यर्थः । किं । विश्वेदेवसंघः । अंशाः हविर्भागाः । तदर्थेन तीर्थ- देशेन दस्मं शत्रूणामुपक्षपायतारं दर्शनीयं वा । उपयन्ती लोडर्थेत्र लट् लोड्वा । उपयन्तु उपगच्छन्तु । स्वीभवन्त ? ऊमाः अवितारः तर्पयितारः । तृप्ते च सति सर्वदेवगणे तत् प्रसादाद्वयं अभ्यानश्म व्याप्नुयाम प्राप्नुयामेत्याशास्महे । सुवितस्य सु इत्यस्य सुगतस्य स्वर्गादिकस्य । सूतस्य वा । प्रजायाः संबन्धि अषं बलं । सुखलक्षणं स्वर्गसुखमपत्यसुखं वेत्यर्थः । किं । नवेदसो अमृतानामभूम न न. वेत्येतस्मिन्नर्थे । नवेदशब्दं चैयाकरणा निपातयन्ति । नभ्रानपान- वेदानासत्येति । न न वेत्तारो वेत्तर एव स्वरूपतो शातार एव । वयं । अमृतानामभूम भवेमेत्येतदाशास्महे । नित्यश्चाकन्यात्स्वपतिर्दमूना यस्मा उ देवः सविता जजान | भगोवा गोभिरर्यमेगनज्यात्सो अस्मै चारुश्छदयदुत स्यात् ।।४।। नित्यः कल्पावस्थायी प्रजापतिः । चकन्यात् कामयतां । किं। सामर्थ्याद् दृष्टादृष्टफलं तस्मै दातुं । स्वपतिः स्वसां प्रजानां स्वामी। ।
मं०१०।०३१॥]
* ऋग्वेदभाष्यम् *
[१०५
दमूनाः दममना वा दान्तमना वा । कस्मै । यस्मै यजमानाय मह्यं ।
देवः सविता । जजान जनितवान् । दृष्टादृष्टफलं च दातुश्छदयन्
कामयतामित्येतदाशास्महे वयम् ॥
इयं सा
भूया उपसामिव था यद्ध क्षुमंतः शवसा समायन् ।
अस्य स्तुतिं जरितुर्भिक्षमाणा आ नः शरमास उप यन्तु वाजाः ॥५॥
यत् । सुपां सुलुगिति द्वितीयैकवचनस्य लुक् । हति पदपूरणः ।
यां स्तुति यागक्रियां वा । प्रति क्षुमन्तः । क्षु शब्देनान्नमुच्यते
शब्दे वा । हविरभेनानवन्तः शब्दवन्तो वा । स्तुतिमन्तः
कीर्तिमन्तो वेत्यर्थः । के । देवाः सर्वे । शवसा सर्वेण बलेन । समा.
यन् समागताः संप्राप्ताः । सेयमस्मदीया स्तुतिः यागक्रिया वा
भूयाः । पुरुषव्यत्ययः कार्यः । भूयाः भवतु । किं । सामर्थ्याद् देवानां
व्याप्या। किमिव । उषसामिव क्षाः यथोषं द्यावापृथिवी । एवं
देवप्रसादात् सगुणा भवतु । सगुणत्वाश्च देवाः परया प्रीत्या अंगभाव-
मुपगच्छन्त्वित्यवत्यर्थः॥
अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः ।
अस्य सनीळा असुरस्य योनौ समान आ भरणे विभ्रमाणाः॥६॥
अस्य इत् । इच्छब्दोऽत्र उपमार्थे पूर्वशब्दाच परो द्रष्टव्यः ।
अस्य यजमानस्य । स्वभूता एषा सुमतिः सुस्तुतिः । पप्रथाना
विस्तार्यमाणा । अस्माभिः क्रियमाणा इत्यर्थः । अभवत् भूता संवृत्ता।
पूर्व्या इत् पूर्वकालीनेव । पूर्वस्मिन्काले यादृशी उत्कृष्टा स्तुतिरासीत्
तारशी इदानीमपि संखातेत्यर्थः । भूमना भूना बहुत्वेन च युकेति
शेषः। सर्वदेवसंबन्धित्वात् बह्वीव सातत्यर्थः । गौः सर्वान्देवान्प्रति
गन्त्री च संवृत्तत्यर्थः।तज्ज्ञात्वा सर्वे देवाः । सनीलास्समानस्थाना।
अस्य मम यजमानस्य असुरस्य प्रज्ञावतः । स्वभूते योनौ स्थान
याख्ये वेद्याख्ये वा । समाने सर्वदेवाः । साधारणे भरणे सर्वस्य
जगतोधारणसमर्थे पोषणसमर्थे च । आ इत्युपसर्गभ्रतरागच्छन्त्वि-
ति शेषः । कथं भूता आगच्छन्तु । उच्यते। विभ्रमाणाः दृष्टाडाल-
मस्मभ्यन्धारयन्तः । गृहीत्वेत्यर्थः ।
* निरुक्त ४॥९॥
१०६ * ऋग्वेदभाष्यम् * [मं०१०। सू० ३१॥ किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टताः। सन्तस्थाने अजरे इतऊती अहानि पूरुिषसो जरन्त ।। ७ ॥ किं स्विद्वनं किं पुनः तदुपादानकाष्ठमृपिण्डस्थानी- यमस्य प्रश्नस्य प्रतिवचनसामर्थ्यात् प्रधानमिति द्रष्टव्यन्तस्यो- पादानकारणत्वात् । कः उ सः वृक्षः आस कश्च पुनस्समूलकारणं वृक्षः पृथिवास्थानः । यस्यावयवः प्रधानमुपादानकारणमस्य प्रतिवचन मानसंभूयस्थिते ? वा । सुप्रतिष्ठिते वा इत्यर्थः । अजरे जगवर्जिते । इत पायः प्राकृतभ्यो देवेभ्यः ऊनीरवनं रक्षणं ययोः ते इतऊनी । सामर्थ्यात् परमात्मा तस्य मूल कारणत्वात् । यतः । उपादानकारणा- न्मूलकारणाच द्यावापृथिवी निष्टतक्षुः । तक्षति कति कर्मा। निष्कृष्य कृतवन्तो देवा विश्वसृजः । कीदृश्यौ द्यावापृथिव्यौ। सन्तस्थान संभूय- स्थित वा इत्यर्थः । अजरे जरावर्जिते। इतऊती इत एभ्यः प्रकृतभ्यो देवेभ्यः ऊतीरवनं रक्षणं ययोस्तेः इतऊती । रक्षितेत्यर्थः । अथवा इतश्चेतश्च गतिवृद्धिर्वा ययोस्ते इतऊती। सर्वतो गते वृद्ध वेत्यर्थः अहानि पूर्वीः अनादिकालप्रवृत्ताः । उषसश्च निष्टतक्षुः देवा । ये एवं सामर्थ्ययुक्ता देवाः तान् सर्वे स्तोतारः जरन्त स्तुवन्तीत्यर्थः ॥ नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी विभर्ति । त्वचं पवित्रं कृणुत स्वधावान्यदी सूर्य न हरितो वहन्ति ॥ ८ ॥ न एतावत् । नैतावदेवजातं सामर्थ्ययुक्तं । किन्तर्हि एना एभ्यो देवेभ्यः । पर उत्कृष्टः अन्यदन्यः हिरण्यगर्भोऽस्ति । उक्षा सेका । प्रजानां सृष्टत्यर्थः । स हिरण्यगर्भः परमसूक्ष्मो वायुरूपो लिंगात्मा अन्तरनुरविश्य द्यावापृथिवी बिभर्ति धारयति । किञ्च । स्वचं पवित्रं मन्त्रं तन्मयीमात्मीयान्त्वचन्तनुमित्यर्थः । दीप्तं वा मन्त्रं । कृणुत करोतु । स्वधावान् । कदा करोति । यत् यदा रम्भः स्वचं सूर्य । हरितः अश्वान् वहन्ति । तदा देवसृष्टेः प्रागित्यर्थः । स्तेगो न क्षामत्येति पृथ्वी मिहं न वातो वि ह वाति भूम । मित्रो यत्र वरुणो अज्यमानोऽनिर्वने न व्यसृष्ट शोकम् ।। ९ ।। स्तगः स्त्यै ध्धै शब्दसंघातयोः । रश्मिसघात ।
[ lov मं०१०। सू० ३२॥] * ऋग्वेदभाग्यम् * आदित्यः । क्षां पृथिवीं पृथ्वी विस्तीणी । नात्यति नागच्छति तेजसा समस्तान व्याप्नोति । पृथिवी स्तूयते । मिहं सर्वस्य सेक्ति । वृष्टिं । वातः मध्यस्थानो देवो वृष्टिकर्मण्यधिकृतः। न ह नैव । विवान्ति वातिरत्रान्तर्णीतण्यों द्रष्टव्यः । विविधं गमयति । भूम भूना बहुत्वेन। सर्वा वृष्टिन पातयत्यसामर्थ्यात् सावंशषामेव पातयतीत्येवं वृष्टिः स्तूयते । अथवा । स्तेगो रश्मिसंघातरूपमविविधं गमयति भूमि प्रात सावशेषामेव वर्षतीति वात: स्तूयते । यत्र प्रजापतौ । मित्रश्च घरुणश्च । कल्याणं कमनीयं माम........॥ [द्वात्रिंशत्तमं सूक्तम्] अक्षेत्रविक्षेत्रविदं ह्यपाद स प्रेति क्षेत्रविदानुशिष्टः । एतद्वै भद्रमनुशासनस्योत स्रति विंदत्यंजसीनाम् ॥ ७ ॥ * अनुशासनस्य मार्गोपदेशस्य । उत अत अपि । ति मार्ग । विन्दति लभते ॥ अबदुः प्राणीदममनिमाहापीवृतो अधयन्मातुरूधः । एमनमाप जरिमा युवान महेळन्वसुः सुमना बभूव ॥ ८ ॥ महाभाग्ययोगात् सर्वत्मभावात् तद्धर्मत्वमापन्न इन्द्र स्तूरते । अद्य इत् अर्थव । [3] इति पदपूरणः । प्र आनीत् प्राणिति जीवति । स्वमायया केनचित् प्राणिरूपेणाद्यैव जातः सन् अद्यैव जीवित्वा स्वेच्छया श्वो मरणन इज्यत इत्यर्थः । अद्य ग्रहणञ्च प्रदर्शनार्थ । गर्भस्रावे तत् क्षणं जीवति । हिरण्यगर्भात्मा आमहा- प्रलयज्जीवति । एवं सर्वत्र यथाकालं योज्यं । किञ्चन । जीवनमेव केवलम्मरणं वा कालाः कुर्वन्ति सर्वभूतात्मकस्य इन्द्रस्य । किन्तर्हि । अममन् । अमरोगे। रोगञ्च कुर्वन्ति । इमा इमानि। अहा अहानि काला इत्यर्थः । किञ्च । अपीवृतः वाय्वादि सन्निरोधार्थ बजेणाच्छादितः शिशुरूर इन्द्रः। अधयत् पिवति । स्वस्याः मातुः देव मनुष्यादि सर्वजातिस्थाया स्वभूतं ऊधः ऊधस्थं स्तनमित्यर्थः । किञ्च । आ ईमनं आप । ईमिति पदपूरणः । एनमिन्द्रं मर्यादयां व्याप्नोति । जरिमा जराभावः जरेत्यर्थः । युवानन्तरुणं सन्तं । किञ्च । अहेलन * अतः पूर्व मन्त्रसतकस्य भाष्यनोपलभ्यते ।
१०८] * ऋग्वेदभाष्यम् * [मं०१० । सू० ३३॥ अध्यन् । प्रवसुः प्रशस्तः । सुमनाः शोभनबुद्धिः प्रसन्नचित्तश्च । बभूव भवति । देवादि भावस्थितः महाभाग्ययोगादिन्द्रो यद्यद्रूपं कामयते तद् भवति तधर्मायेति समस्तार्थः ॥ एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि । दान इद्वो मघवानः सो अस्त्वयं च सोमो हृदि यं विममि ॥३॥ एतानि । भद्रा भद्राणि कल्याणानि शोभनानि । स्तोत्राणि हवींषि च । हे कलश कलाशयन सर्वकलाधारपरिपूर्ण । अथवा.कलशसदृश कलशवदुदकाधारीत्यर्थः । अथवान्ततिमत्वर्थ- मतत् पदं । द्रोणकलशवन्निन्द्र क्रियाम कृतवन्तो वयं । हे कुरु श्रवण। कुरव ऋत्विजः । कुरूणामृत्विजां स्वभूतानां स्तुतीनां श्रोतः । कस्या- र्थाय कृतवन्तो वयं । ददतः मघानि स्तोतृभ्यो यष्टुभ्यश्च धनानि यच्छतः । तवेन्द्रस्यार्थ । एतक्षात्वा प्रत्युपकारार्थ दानं उद्दत्ते वोस्मभ्यं इप्सितार्थानां वः। मघवान् इत्युभयत्र व्यत्ययेन बहुवचनं । वः तत् स्वभूतम् । हे मघवानः मघवन्धनवन् इन्द्र । इति तच्छृतैः यच्छब्दोऽध्याहार्यः । यो ताका प्रियो वा आत्मासः अस्तु भवतु । अयञ्च सोमः । दाता । हृदि तवेन्द्रस्य हृदये । यं सोमं । हेतुकर्तृत्वेनाई बिभर्मि धारयामि॥ वनवासी विनिर्गताचार्योद्गीथस्य कृतो ऋग्वेदभाष्ये पश्च- पञ्चाशोऽध्यायः ॥ कालहा शूलधृक् पातु शंकरः यास्कायनः ॥ [त्रयस्त्रिंशत्तमं सूक्तम् ] उत्तरं सूक्तं प्रमेति पञ्च वैश्वदेवं कवषो ददर्श । प्रमा युयुजे प्रयुजो जनानां वहामि स्म पूषणमंतरेण । विश्वे देवासो अध मामरक्षन्दुः शासुरागादेिति घोष आसीत् ॥४॥ मा मां कवर्ष । प्रयुयुजे देवयागकर्मणि प्रयुक्तवन्तो विश्वेदेवाः । कीरशाः । प्रयुजः जगति स्थित्यर्थः याग- कर्मणि धनदानेन प्रयोक्तारः । तेषां यजमानानान्तैश्च देवयागकर्मणि प्रयुक्तःसन् अहं वहामि ‘स्मोत्तोलङ् चेति, स्म शब्दयोगात् ? भूते ला उढवानस्मि प्रापितवानस्मि । स्तुतीहवींषि च । पूषण- मादित्यं प्रति । क स्थितो वहामि स्म । उच्यते । अन्तरेण मध्येन ।
संप्रसादा आसुः॥ । अन्नाभावा- मं०१० । सू० ३३॥] * ऋग्वंदभाष्यम् * [१०९ कस्य । सामर्थ्यात् अग्नीनान्देवानां द्यावापृथिव्योर्वा । देवयागकर्मणि प्रयुज्य च । विश्व देवासः सर्वे देवाः । अध अथ । मां यजमानं कवषाण्यं । अरक्षन् रक्षितवन्तः । कुतः । दुश्शासुः दुश्शासनात् । शत्रोः असुरराक्षसादिकात् । रक्षितृणाञ्च तेषान्देवानां घोषः जहि जहीत्यादि शन्दः । आगात्सर्वस्य लोकस्य कर्णपथमागतः । सर्वेण श्रयत इति । एतदासीत् अभूवचनं । एवमतीते । काले। मे। इदानी देवेवप्रसस्नेषु। सं मा तपन्त्यमितः सपत्नीरिव पर्शवः । नि बाधते अमतिनग्नता जसुःन वैवीयते मतिः ॥ २॥ मूषो न शिश्ना व्यदन्ति माध्यः स्तोतारं ते शतक्रतो । सकृत्सु नो मघवनिन्द्र मृळयाधा पितेव नो भव ॥३॥ इदानीन्तु देवप्रसादादपेतं मा संतपन्ति दाबाल्यात् कुशशयनाच दुःखयन्तीत्यर्थः । अभितः उभयतः । उभयोरपि पार्श्वयोरित्यर्थः । पर्शवः किमिव सन्तापयन्ति । सपत्नीव। यथा सपन्यः समानभर्तृका स्त्रियः भर्तारं परस्परं वासन्तापयन्त्येवं । किञ्च। नि बाधते संपीडयति अमति रमानं] सर्वार्थेषु संमोहः नग्नता चनि बाधते। नग्नतया चात्र निर्धनत्वं लक्ष्यते । दारियश्च मा संपीडय- तीत्यर्थः । जसु जसि ताडने । शत्रुताडनश्च निबाधते । किश्च। वेना पक्षिण इव यथा पक्षिणो मनः कंपते शाकुनिकव्यथादिभयात् एवं प्रमतिः मन वेपते शत्रुभयात् । शिश्नापरा शिश्नोतः का प्रत्ययः। छान्द- सत्वात् सकारस्य शकारः। द्विवचन प्रकरणे मकृणादीनां क ? इति द्विवचनं । 'बहुलं छन्दसीति अभ्यासस्य इत्वं । कोस्यार्थः वायीतानि सूत्राणि तानि हि अन्न, लिप्तत्वात् शौचाहा॑णि वेष्यन्त्यचर्यामथवा लोके शस्निग्धं प्रजननं प्रसिद्धं तत्सादृश्याच पुच्छं शिश्नमुच्यते। यथा मूषिका वायितानि सूत्राणि अन्नगन्धित्वात् स्वानि वा पुच्छ नि तैलभाण्डकेघृत- भाण्डकेवा प्रक्षिप्योत्तार्य च विविधं भक्षयन्ति। एवंमा मां।असंपाद्यमाना आध्यः आधयः यागभागकामा विविधं अर्दयन्ति दुःखयन्ति। स्तोतारं सन्तं । ते तथ। हे शतक्रतो बहुकर्मन् पतकात्वा सकत्सततं । नः .
। ११० * ऋग्वेदभाष्यम् * [मं० १० । सू० ३३॥ अस्मान् । हे मघवन् धनवन् इन्द्र मलय ईप्सितार्थप्रदानेन सुष्ठु सुखय । अध अथ। पिता इव प्रियहितयोः नः अस्माकं भव ॥ कुरुश्रवणमावृणि राजानं त्रासदस्यवम् । मंहिष्ठं वाघतामृषिः॥४॥ इन्द्रादिदेवाभ्यनुक्षया कुरुश्रवणं । कुरव ऋविजउच्यन्ते कर्मणां कर्तृत्वात् । तेषां स्तुतीनां श्रोतारं सततयाजिनमेतन्नामानं वेत्यर्थः । भावृणि मर्यादया वृणोमि प्रार्थये । देवयागार्थन्धनं गजानंत्रासदस्यवं प्रसदस्मोः पुत्रं मंहिष्ठं अतिशयेन महितन्दातारधनानां । केषामर्थाय । घाघतां । वाघत ऋत्विज उच्यन्ते । यस्येत्यादित्यो निर्मिश्य मानावा- घातः। तेषामर्थाय ऋषिरहं कवषः ॥ यस्य मा हरितो रथे तिस्रो वहन्ति साधुया स्तवै सहस्रदक्षिणे ॥ ५॥ लब्ध्वा राजतो धनमनन्तरं किं करोषीति चेदुच्यते। यस्य- त्यादित्यःनि ईश्यते।हरिसंबन्धात् यस्यादित्यस्य[स्वभूता हरितातिनः हरि संक्षका अश्वाः । तयोर्मध्यमाः रथे नियुक्तास्सन्तः।मा मां कवर्ष यजमान । प्रतिवहन्ति प्रापयन्त्यादित्यं । कथं वहन्ति । साधुया प्रथम स्यकवचनस्य च्छान्दसं याः। क्रियाविशेषणश्चैतत् । साधु शोभनं । स्तवैः स्तोमि । सहस्रदक्षिणे बहुदक्षिणे यक्षे जपेयादौ ? अतः परं यस्येति सूक्तशेष मृते मित्रातिथौ नृपे उपमश्रवसः मेहादृषिःशोकमपनुदत्॥ यस्य प्रस्वादसो गिर इत्यनेन सूक्तं शेषभूतेन चतुर्कचन बर्गेण मृत देहान्तरं गते सति मित्रातिधिनानि नृपे राजनि उपमश्रवो नाम्नः मित्रातिथे राक्षः पुत्रस्य शोकं स्नेहादेवापनुदत् अवनीतवानृषिः कवषः॥ यस्य प्रस्वादसो गिर उपमश्रवसः पितुः। क्षेत्रं न रण्वसूचुषे ॥ ६ ॥ ऊचुष इत्यनयोस्सामानाधिकरण्याचुष इति षष्ठयर्थे चतुर्थी । लि वात्र वर्तमाने । 'छन्दसि लुङ्लङ्लिट' इति । यस्य मित्रातिथिनाना राक्षः उपमश्रवसा तव पितुः। ऊचुषः प्रवतः मं० १० । सू०३३n] * ऋग्वेदभाष्यम् * [१११ भाषमाणस्य । प्रस्वादसः प्रकर्षेणास्वधः मधुगः गिरः वाचः दृष्टान्तेन तुल्यत्वसामात् रण्वं रमणीयाः चित्तप्रीतिकरा इत्यर्थः । किमिव । क्षेत्रभरण्वं । यथा क्षेत्रन्नरण्वं यथा क्षेत्रं ब्रीह्यादि सस्यसंपन्नं रवं रमणीयं चित्तप्रीतिकरमेवं वाक्यार्थस्यापरिसमाप्तत्वात् उत्तराया एकवाक्यता योज्या ॥ अधि पुत्रोपमश्रवो नपान्मित्रातिरिहि । पितुष्टे अस्मि वंदिता ॥७॥ प्रियवचनेन संबोद्ध-योपमश्रवः उपमश्रवसमृषिगह कवषः। हे पुत्र उपमश्रवः हे नपान् इत् प्राणात्रक । मित्रातिथर्मित्रा- तिथिनानो राक्षः। अधि इहि अवगच्छ जवजानीहि । किमुच्यते। 'पितुष्टे अस्मि वन्दिता,पूर्वस्यामृचि यस्येति श्रुतेः तस्येत्यध्याहार्यम्। तस्य पितुः। ते तव उपमश्रवससंवन्धिनः । अस्मि भवामि । वन्दिता स्तोता पुरोहितः ऋत्विवेत्यर्थः । एवं सति । त्वाश्चाहश्च तुल्यशाको एतज्ज्ञा- त्वा मा शोकं काः। अहं तव पितुस्थानीयो जीवामीत्यभिप्रायः। किञ्च॥ यदीशीयामृतानामुत वा मानां । जीवेदिन्मघवा मम ॥ ८ ॥ यदि । ईशीय ईश्वरोऽहं स्यां । अमृतानान्देवानामुत वा मानां मनुष्याणां । देव मनुष्यादिकस्य सर्वस्य मरण हेतोः निर्धारण यद्यहं समर्थः स्यामित्यर्थः । ततः किमुच्यते । जीवेत् इत् प्राणान्धारयदेव न म्रियेत एवंत्यर्थः । मघवा धनवानीश्वरो राजा मित्रातिथि: । मम कवषस्य पुरोहितभूतस्य याज्य इति शेषः । अन्यच कवष कत्थ्यते ॥ न देवानामति व्रतं शतात्मा चन जीवति । तथा युजा वि वावृते ॥ १०॥ देवानां ब्रह्मादीनां । व्रतं कर्म मर्यादाकारलक्षणमित्यर्थः] । अतीत्य शतायुर्वे पुरुषः । देवैर्या दया कृता तां स्वकर्मानुरूपाश्च उलं. ध्यते इत्यर्थः । शतात्मा च न बहुशरीरवीर्यमतिरपीत्यर्थः । वृत्र रावणा- दिकः न जवति । कस्मात् । यस्मात् । तथा तेन प्रकारेण । शतं वर्षाणि पुरुषो जीवतीति स्वकर्मानुरूपञ्चेत्यनेन प्रकारेणत्यर्थः । उत्पत्ति स्थिति । १९२] * ऋग्वेदभाष्यम् * [मं० १० । सू० ३४॥ प्रलय करणेन । युज्यत इति युक् प्रजापतिः तेन युजा प्रजापतिना । विवृत विवर्तितनिर्मितजगदित्यर्थः । एतज्ञात्वा मा शोकं कार्षीः ॥ [चतुर्विंशत्तमं सूक्तम्] प्रावेपा मा बृहतो मादयन्ति प्रवातेजा ईरिणे वतानः । सोमस्यव मांजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् ॥१॥ प्रवेपाः प्रवेपिनः प्रकंपनशीलाः । अक्षा; । मा मां । बृहतः महतः विभीतकस्य संबन्धिनः फलत्वेन फलानीत्यर्थः । मादयन्ति हर्षयन्ति । प्रवातेजाः प्रवरवात काले वर्षासु प्रवर्णे वा प्रदेशे जाताः । इरिणे अप्सर । वर्वृतानाः वर्तमानाः । न च मा मां मादयन्ति । किं तर्हि । सोमस्य इव यथा सोमस्य । मौजवतस्य मूजवत्पर्वते जातस्य । मुक्षकः पानं यजमानादीनत्यर्थमुदयत्येवं । विभीदकः विकारः अर्थः । जागृ विजयपराजययोः हर्षशोकाभ्याागरण्यस्य कर्ता। महन्द्वतीयार्थे चतुर्थी । मामच्छान् अन्तीत भृशार्थमेतद् द्रष्टव्य । अचच्छदं अत्यथै- मादयति । केन । सामर्थ्यात् हर्षेण ॥ न मा मिमेथ न जिहील एषा शिवा सखिभ्य उत मह्यमासीत् । अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम् ॥ २ ॥ मा मां । न मिमेथ नाकृष्टवती सुशीलावत्वात् । नजिहीले नाविलज्जा वितपति सुचरितत्वात् । अथवा न चुक्रोधैषा । एषा मम जाया । किञ्च । शिवा सुखा । आसनप्रदान पादप्रक्षाल- नादि यथाहप्रतिपत्या सुखकरीत्यर्थः । सखिभ्यः सखिभूतेभ्यः कितवेभ्यः । न केवलं मम । सखीभ्य एव सुखाते अपि मह्यमासीत् सुखा एवं गुणविशिष्यं स । अक्षस्य एक परस्य एकः परः प्रधानः यस्य स एक परः तस्य एक परस्य पराजयप्रधानस्येत्यर्थः । अथवा एकपरस्य एक कृताय प्रधानस्य हेतोः कारणात् अक्षनितद्यतेन निमित्तनेत्यर्थः । अनुवता अनुगतकर्माण अनुकूलामित्यर्थः । जोयां भार्यामहमेव । अरोधं उपरोधितवानस्मि वित्तनाशेन दु:खितां कृतवानित्यः॥ द्वेष्टि श्वश्ररप जाया रुणद्धि न नाथितो विन्दते मार्डितारम् । अश्वस्येव बरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ॥३॥ --
ublished by
he D. A.-V. COLLEGE
ESEARCH DEPARTMENT,
LAHORE.
First Impression, 500 Copies.
Price Rs. 3/- per copy.
Printed at the
HINDI PRESS LAHORE;
And•the title by,
SHRI KRISHNA DIKSHITA
BOMBAY MACHINE PRESS,
LAHORE.
Our Publications and Their Pric १. अथर्ववेदीय-पञ्चपटालिका ... ... ... २. ऋग्वेद पर व्याख्यान ३. जैमिनीयोपनिषद्ब्राह्मणम् २) ... २॥) '४. दन्त्योष्ठविधिः ... ... १) ५. मण्डूकी शिक्षा ६. अथर्व-वृहत्सर्वानुक्रमणी ... ... ७. वाल्मीकि-बालकाण्डम् ... ६) -अयोध्याकाण्डम् " ... ७॥) ... ७॥) -आरण्यकाण्डम् १०. वैदिक-कोषः ... ... १२) ११. काठक-गृह्यसूत्रम् ... ... ... ७) १२. वैदिक वाङ्मय का इतिहास (दो भाग) १३. चारायणीयमन्त्रार्षाध्यायः ... ... १४. श्रयङ्क-काव्यम् १५. विशाल-भारत ... ... ३) १६. संस्कृत साहित्य का इतिहास ... ३) ... Apply for your copies to:- The Manager, Book Depot, D. A.-V. College Research Dept, LAHORE. ( India
No text on this page.
No text on this page.
No text on this page.
No text on this page.