Scl

Guruvamsha Mahakavyam

Krishnamacharya

PDF Proofread

Front matter

No text on this page.

श्रीमते रामानुजायनमः
गुरुवंश महा काव्यम्
श्रीशठकोपनाथ यामुनयतिराज भट्टर्नजि
य्यनंबिळ्ळे वेदान्तदेशिकलोकाचार्य वरवरमुनि
श्रीमत्रिदंडि श्रीमन्नारायण रामानुज जियरुस्वा
मिदिव्यचरित्रात्मकम् टिप्पणीसहितम् .
राचयिता
उभयवेदान्त विद्वान् शिरशिनहळ्
कृष्णमाचार्य शतावधानी
कोरुट्ला, जि. करीमनगरम्
आन्ध्रप्रदेशः
१९७० हूणाब्दः

No text on this page.

:
श्रीगुरुवंश महाकाव्य मुद्रापकाणाम्
श्रीयुत मुत्तेपेट कास्कंटि नारायणराय महाशयानाम्
कवि शुभा शिष:
आन्ध्रप्रदेशक करीनगराभिधेऽस्मिन्
सन्मंडले वेलुमवीरजन प्रसिद्धः
श्रीकासुगंटि कुलसंभव पुण्यमूर्ति:
नारायणाख्य जनपालक मौळिरास्ते
श्रीमद्रत्नम लक्ष्मराय तनयश्रीचन्द्र मत्या:पति
शिष्यश्रीयति सार्वभौम कलिजिद्रामानुजस्वामिन
पुत्रायस्य च राजकीय निपुणाः पंचापिसत्पुत्रिका
स्तिस्रस्सोय मिलाधिपो विजयते नारायणाख्यप्रभु:
मुत्तेपेट पुराधिवास रसिको मुख्यश्च भूस्वामिनाम्
भक्ताभीष्टद कोंडगटुहनुमत्कैकर्य दीक्षापरः
श्री नारायण रामसोदरयति श्रीपाद सेवारत
श्रीनारायणराय' भूपतिलक श्रीसंयुतो राजते
श्रीनारायण रामसोंदरयति श्रीमच्चरित्रान्वितं
येनेदं गुरुवंश काव्य मधुना मुद्रापितं भक्तित:
सोऽयं श्रीयुत कासुकंटि कुलज स्सत्पुत्रपोत्रै स्सदा
श्रीनारायणराय सज्जमणि या च्चिरं भूतले.
-: समस्त सन्मंगळानि भवंतु

No text on this page.

No text on this page.

श्रीमत् त्रिदण्डि श्रीमन्नारायण जिय्यर् स्वामिनः

No text on this page.

Tumom श्रीमद्यतिसार्वभौम कलिजिद्रामानुजार्यस्वामिनः (द्रव्यदातुराचार्याः)

No text on this page.

श्रीकृष्णमाचार्यः शतावधानी, तस्य धर्मपत्नी विजयम्मा (ग्रन्थकर्ता)

No text on this page.

श्रीयुत कास्कंटि नारायणरायः (द्रव्यसहायकः)

No text on this page.

श्रीहयग्रीवायनमः
श्रीमते रामानुजायनमः
गुरुवंश महाकाव्यम्
वागर्थ सिद्धयेदेवं । वागीशं वागगोचरम्
गन्धर्वकन्धरं वन्दे कुन्द मन्दार सन्निभम्
(१) हारीतान्वय संभूतं । रामानुजविधुं भजे
यत्पाद स्पर्शमात्रेण । पाषाणोऽप्यमतं स्रवेत्
२
mm
(२) गुरुमालां वहाम्यद्य । शिरसा सुमनोञ्चिताम्
यदामोदेन विद्वद्भिः । महानन्दोऽनुभते
पूर्वोक्त गुरुवंशेभ्यः। किंचिदुधृत्य लिख्यते
यथा पानाय गंगातः । किंचिदानीयते पयः
४
(१) अन्वयः = वंशएव. अन्वय क्षीरजलधि:. "अन्वयः क्षीरजलधिरिति
प्राचीनकोश:. पादस्पर्शः- चरणस्पर्श: किरणस्पर्शश्च
(२) गुरुमालाम् = आचार्यपंक्तिम् अधिकमालिकाम् सुमनोििञ्चताम्
सुमनोभिः = विद्वद्भिः. पुष्पैश्च अञ्चिताम् युक्ताम् आमोदेन -
संबन्धेन. परिमळेन. महानन्दः= मोक्षः. अमितानन्द .

-
2
कविभिःकलिदासाचै । रात्माशक्ति निवेदिता
नतथाहं वदाम्यद्य । कृतौमे नस्वतन्त्रता
भाषावनी सुमैश्शब्दै । र्घटकोन्तःस्थितो हरिः
सरसानां तदामोद । स्त्वहं केवल लेखकः
(१) रसवच्छब्दयोगेन : रचना ल्यापि मत्कृता
गृह्यते विबुधैर्भूपै ह्रीबेरेणेवमन्तिका
७
(२) काळिदास स्तथानास्मि । रघुवंशादि काव्यकृत
किन्त्वा द्यावलो काळि दासोऽहंगुरुवंशकृत
(३) गुरुवंशं प्रवक्ष्यामि । हरिमूलं सपर्वकम्
यत्रमुक्तावळिश्चाभू । दनन्तमणिमण्डिता
on
(१) रसवच्छयोगेन = सरसशद्वसंयोगेन, ह्र बेरेण = सुगन्धिमूलवि शेषेण.
आन्ध्रभाषायाम् (कुरुवेरु ) तस्य प्रक्षळने परिमलोगच्छतीति
मृत्तिकया सहैव धारयन्ति. दक्षिणदेशे सुप्रसिद्धः
.
%D
कटा क्षपंक्तेः दासः= शेषभूतः, कालदास इत्यपि शद्वतो गम्यते ।
(३) गुरुवंशम् = आचार्याणाकुलम् , अधिक्वेणुदण्डम् हरिमूलम् = आचार्य
वंशे “लक्ष्मीनाथसमारंभा मित्त्युक्तरीत्याश्रियः पतिकूटस्थम्. वेणु-
दण्डपक्षे केनचित्कृषीवलेनानप्तत्वात् भगवदूप्तम्. सपर्वकम् आचार्य

गुरुवं शस्त्वयं काव्ये । ज्ञानजन्म निमित्तकः
पितृभ्यां वर्मणो जन्म । ज्ञानजन्म गुरोर्भवेत् १०
ज्ञान जन्मनिशिष्यस्य । दिद्यामाता गुरुःपिता
शरीर जन्मत श्रेष्ठ । ज्ञानजन्मस्थिरं यतः
पितृभ्यां भुवि जातोऽपि । पुन नेिन जायते
ततोजनो द्विजः प्रोत्को। नाद्विजो मोक्षभाग्भवेत् १२
उभाभ्या मेवपक्षाभ्यां । यथाकाशं व्रजेत्खगः
तथैव ज्ञानकर्मम्यां । द्विजोविष्णुपदंव्रजेत्
गुकारोऽज्ञानजं ध्वान्तं । रुकार स्तन्निरोधकः
अज्ञानध्वान्त मार्तण्डो। गुरुरित्यभिधीयते
नवित्तमात्र हारी स्या। किन्तु चित्तहरोगुरुः
स्वयमज्ञान संमूढः । कथंज्ञान प्रदो भवेत्
पक्षे ज्ञानवैशिद्यतारतम्येन वाक्यपरंपरायां श्रीशद्ध श्रीमच्छब्दाभ्यां
श्रीमत इति सविभाक्तिकत्वेन नामादौ प्रयोगात् तरतम भावयुक्तमिति
सांप्रदाययिकार्थः. वेणुपक्षे भाग भेदयुक्तम् । मुक्तावलिश्च = नित्य.
मुक्तानांपंक्तिश्च । शटगोपादि वरवरमुनिपर्यन्तं नित्यमुक्तनां शेने-
शादीनामंशाव तारत्वकथनात् । वेणुपक्षे मौक्तिकाळिः । वेणी
भौक्ति कानिजायन्तइति प्रसिद्धिः । अनन्तमणिमण्डिता = अनन्तः-
।

4 संसार सागरान्तस्थो । ज्ञानिनं सद्गुरुं भजत् भिन्न नावाश्रय स्तब्धः । कथं पारम वाप्नुयात् १६ तस्मात्सद्गुरु वंशोयं । ज्ञेयोध्ययश्च सर्वदा ततोहं संप्रवक्ष्यामि । गुरुणां वंशमुत्तमम् १७ आजन्व ज्ञानशु द्धाना । माफलोदय कर्मणाम् आकैवल्यविरक्तानां । भक्तनां हरिपादयोः १८ परार्धेक प्रवृत्तीनां । पारमार्थंक वेदिनाम् कृपामात्र प्रसन्नानां । प्रपन्नानां श्रियःपतिम् १९ गुरुवंशस्यसर्वस्य । कूटस्थश्श्रीपतिःपुरा व्यूहेलक्ष्म विष्णुरूपो । मन्त्रादिकमुपादिशत् २० श्रियःपति वतारै । जगत्पारयितुं क्षमः गुरुरेवसमुद्धर्ता । तस्माद्गुरुरभूद्धरिः । २१ शेषएवमणिः = रामानुजस्य शेषांशत्वात् । आचार्यमालायां तस्य- मध्य मणित्वेन निर्देशः । तत्पूर्वाचार्याणां शिरस्सबंधेन तदर्वाचीनाना श्रीपादसंबन्धेनोत्तारकत्वात् । अन्यत्र अपरिमित मणि प्रकाशिता.

(१) लक्ष्मी स्तथा ददौ विष्वक् । त्सेनाय कृपयामनुम् विष्वक्त्सेनश्शठाराते । स्तस्मा द्वंशपरंपरा २२ प्रपंचे भारतं क्षेत्रं । शन्ति ज्ञानफलप्रदम् तत्रापि दक्षिणो भागो । ज्ञानिरत्न खनिर्भवेत् २३ "कृतादिषु प्रजाराजन् । कलाविच्छन्ति संभवम् कलौखलुभविष्यन्ति । नारायणपरायणाः २४ क्वचित्क्वचिन्महाभागाः । द्रावि डेषुच भूरिशः ताम्रपर्णी नदीयत्र । कृतमालापयस्विनी" २५ (१) लक्ष्यादीनां तप्तचंक्रांकणादिपूर्वकं मंत्ररत्न चरम श्लोकानामुपदेश इति संप्रदायः श्रीवचनभूफण व्यख्या कठिनदीपिकायौमुदाहृतानि पांचरात्रागम वासुदेव संहिता स्थानि प्रमाणानि "श्रीविष्णुलोके भगवान् हरिनारायण स्स्वयम् प्रोक्तवान् मन्त्ररत्नादीन् श्रियैता- पादि पूर्वकम् । साचप्रोक्तवती प्रीत्यातापपुण्ड्रादिपूर्वकं शेनेशाय प्रियाविष्णोर्मूलमन्त्रद्वयादिकम् । शेनेशस्स्व यमागत्य प्रीत्या श्रीनग. रीशुभां। शठकोपाय मुनयेतिन्त्रिणीम्लवासिने । तापादिपूर्वकंश्लोकं मन्त्ररत्न द्वयादिकम् । विष्णुपल्या विशालाक्ष्या नियोगादुपदिष्ट- वान् । शेनेशकरुणालब्धपंच संकार संस्कृतः। तथा मधुरकव्यादे: पञ्चसंस्कारदो गुरुः । तस्मैद्रविडवेदान्त चतुर्णामुपदेशकृत् । पुनश्च नाथ मुनये पंच संस्कारपूर्वकं भट्टनाथप्रभृतिभिनिमितैदिव्ययोगिभिः दिव्यविशति संख्याकैस्तधांगोपांग सज्ञकैः । दुरितध्वंसिभिदिव्यैः प्रबंधै स्सहदेशिकः तेषांद्राविडवेदानां चतुर्णामुपदेशकृत् ।

6
इत्यादिना भागवते । व्यासेन परिकीर्तितम्
प्रायस्तत्व सर्वेषां । ज्ञानिनांहि समुद्भवः
आसी दक्षिणदेशेषु । पांड्यदेशोऽतिविस्तृतः।
ताम्रपर्णीतटेतत्र । राजते कुरुकापुरी
२७
श्रीपुरीति प्रसिद्धासी। दादिन थश्रियाश्रिता
ताम्रपर्णी नदी तोय । वातैस्संताप नोदिनी
२८
हरिभक्त समाकीर्ण । शृंगाटक महापथा
नारिकेळादि सदृक्ष । पुष्पोद्यान समावृता
२९
सौधर्नानाविधैर्युक्ता। सिक्ता चन्दन वारिभिः
शुकाश्र तत्रगायन्ति । द्राविडा म्नाय मद्धतम्
३०
श्रीवैष्णवा स्तन सन्ति । वैकुण्ठव दकुंठिताः
अस्मत्कुल धनंयत्र । संजातं तकिमुच्यते ३१
तत्पुर श्चाधिकारीश्री। कारीविष्णु पदोद्भवः
कामाद कारिरस्यासी । स्पनी श्रीना थनायिका ३२
पतिधर्म चरीसाध्वी । नारीणा मुत्तमावधूः
कुरंग नगरीदेव वराद्गर्भमधारयत्
३३

7 शुशुभे तेन गर्भेण । सादेवी नाथनायिका कुक्षि निक्षिप्त मार्तडा । प्राची दिगिव सुन्दरी ३४ सिंचत्वारिं शतिशुभे । वर्षेकल्यादितःपरम् वृषभे बहुधान्येच । विशखायाँ शुभेदिने ३५ सुषुवे दिव्य संकाशं । पुत्रं सा नायनायिका राम कोसल कन्येव । मित्त मैन्द्री दिशायथा ३६ गर्भस्थितस्य तस्यासी । द्धरेदिव्य कटाक्षतः भक्तिरुपं महदज्ञानं । स्वस्वरूप प्रकाशकम् ३७ (१) शठवायु शठवायु निरोधेन । शठकोप इति स्मृतः परस्यच परेषाम प्यंकुश त्वा स्परांकुशः ३८ नकरोतिपयः पानं । योगस्थो नैव चेष्टते ज्ञानामृतेन तृप्तस्तु । नैवकिचि दपेक्षते ३९ (१) परस्य=निरंकुशस्वतंत्रस्य भगवतः चेतनविषधेरक्ष कत्वनियाम- क्वादंकुशः । परेषाम् = स्वव्यतिरिक्तात्मनाम् स्वगाधाबोधजनन द्वारास्वरूपनियमानदं कुशः ।

8
तथास्थितं शिशुं दृष्ट्वा । पितरौदे वसन्निधौ
निनिद्रं तित्रिणी मूले । निवेश्या जग्मतुर्ग्रहम् ४०
बाल स्तत्तिंत्रिणीमूल । कोटरेयोग पीठगः
ववृधेषोढशाब्दानि । शुक्ल पक्षेयथा शशी
अकरो पंचसंस्कारन् । विष्वक्सेन समागतः
परभक्तिं परज्ञानंपरमां भक्ति मास्थितः
४२
लवणांबुवदग्राह्यं । वेदंमेघो यथापिबन्
सर्वोपयुक्त मातेने । योगेन शठजित्तथा
४३
दिव्यदेश स्थिता नय॑ । देवान् ध्याने समागतान
मंगलाशासनं चक्रे । भक्त्या हृदयएवसः
४४
तत्पूर्व जात योगीन्द्र । स्सामवेदी पुरश्शि खः
मधुरःकविर प्यासी । द्रवेः पूर्वोऽरुणो यथा
४५
तीर्थयात्रां प्रकुर्वन्स । क्वचित्साकेत मागतः
अपश्य दद्भुतंरात्रौ । दक्षिणेभास्करोदयम्
४६
रात्रौ द्युति समालोक्य दक्षिणस्यां दिशि स्थिताम्
मागत्य श्रीपुरी तत्र । तिन्त्रिणी मूलमापसः

9 (१) नारायणाभयं दिव्यं गोसहस्र तमोऽपहम् सिषेवे वेदरूपंतं वकुळा भरणं रविम् ४८ । मधुरः कविराट् तत्र । स्तुव न्द्राविड गाधया प्रसन्न मकरो भक्त्या । योगिनं शठवैरिणम् ४९ कृपा मात्र प्रसन्नोऽय । कुरुकापुरिकारिजः योगानुभव संभूत । वेदानुपदिदेशतम् ५० स शाठारे रधीत्येता। संार्थां द्राविडसहिताम् रेजे निशि रविन्यस्त । द्युति, प्राप्य यथाऽनलः ५१ योगस्थितं शठाराति: सेनमास्स भक्तिमान तद्विग्रहं प्रतिष्टाप्य । व्यधा द्गाधोत्सवां स्तदा ५२ पाण्ड्यराजाश्रितो विद्वान कंबो नाम महा कविः स्वशिष्यं प्रेषयामास । शठकोपेभ्यसूयया ५३ (१) नारायणा श्रयम् =शठकोपपंक्षे. नारायणस्य =विष्णोः आश्रयम्. आधारम्. हृदयस्थितश्रियः पतिमित्यर्थः। रविपक्षे-"ध्येयस्सदा सवितृमंटलमध्यवर्तीनारायणः” इत्युक्तरीत्या नारायणाश्रयम् । दिव्यगोसहस्रात् = विलक्षणगाधासहस्रात्. किरणसहस्रात्. तमो- नुदम् = अज्ञाननिरासकम् अन्ध कारनिरासकम्. वेदरूपम् द्राविड- वेदस्वरूपम् वेदात्मकम्.

10
श्रीशंख फलकं तत्र । सद्ग्रन्था न्वहति स्वयम्
अन्यं जहाति तद्वार्ता । बुबुधे मधुरः कविः
५४
श्ठकोप सहस्रस्थां । ददावल्पाक्षरां तदा
दशमे शतके "कण्ण" निति गाधां विलख्यताम् ५५
तत्पत्र विनिवेशेन । कंबग्रंधा नपोह्यतत्
फलकं तत्स भामध्ये । वधारा नर्घमाल्यवत् ५६
तवा शठारिगाधानां । ज्ञात्वाविभव मद्भतम्
शठारि स्तोत्रयामास । कंबो द्रविडगा धया
५७
शठजिद्योग संसिद्ध । स्त्वा रूपेण संस्थितः
त्यक्त्वा विभवरूपं तत् । प्रापदिव्यं परंपदम् ५८
संपूर्णा भ्यस्तगा धानां । सधो मुक्तिरजायत
तस्मा ज्जन परित्यापात् । नष्टा गधा शठद्विषः ५९
ततो बहुतरेकाले । नष्टां द्राविड संहिताम्
प्रोतुमिव माना थो । नाथोमुनिरवातरत्
६०

11
(१) चंपकारण्य मध्ये श्री । वीरनारायणे पुरे
गोपाल मभजद्दिव्य । गोपाल त्वेप्सयेव सं.
(२) योगनिष्टो हरे दस्यि । योगनिष्टो महावित्
सनायो ज्ञान भक्ति भ्यां । स नाथो मुनिराडभूत् ६२
गृहस्था श्रम निष्टस्य । तस्य पुत्रोऽप्यजायत
सत्वी श्वरमुनि स्सत्य । खनि दि धराशनिः ६३
श्रीमन्ना थमनिस्सर्व । दिव्यदे शेषु संचरन्
निवृत्तो न्यवस त्स्वस्य । पुरे गोपाल सन्निधौ ६४
कदाचिद्वैष्णवा एत्य । राज गोपाल सन्निधौ
शठकोप सहस्रस्थ । मगायन् दशकमुदा
अतृप्तामृत संबंद्ध । मतृप्तामृतपूरितम्
श्रृत्वा नाथमु निर्ह ष्ट । स्तत्प्रबंधोत्सुको भवत् ६६
।
तत श्रश्रीनगरों प्राप्य । नष्टांतां सुविचारयन्
शठकोप स्तुति लेभे । पूर्वांमधुर भाषिताम् ६७
(१) दिव्यगोपाल त्वेप्सया= दिव्यानाम् = विलक्षणानाम्. गवाम् =
शठारि गाघानाम. पालत्वेप्सया=पालकभावंप्राप्तुमिच्छया. अप्राकृ
तगोपालत्वेप्राप्तीच्छयेव. गोपालम् = अस्विरुपिणम्. गोपालस्वा-
मिनम् । (२) सनाथः=युक्तः

12
श्री शठारि समाश्रित्य । तित्रिणी मूलसंश्रितम्
जजाप तांस्तुतिभत्क्या । योगसंस्कृतमानसः
६८
आविरासी तदा दीप्त्या । शाठकोप दिवाकरः
अज्ञानतिमिरं सर्व । मपहर्तु मिवेच्छया
अनुगृह्य कृपा दृष्ट्या । श्रीमन्नाथमुनिधनम्
संस्कृत्य पंचसंस्कारै । रूचेद्राविड संहिताम्
द्राविडाम्नाय सर्वस्वं । दत्वा नायाय योगिने
निर्भर शठजि त्पुत्र । निक्षिप्तस्वो यथा पिता ७१
शजित्सूक्ति सर्वस्वं । प्राप्य नायमुनि स्तदा
हृष्टोऽभव पुनलब्ध्वा । नष्टं द्रव्यं यथा जनः
७२
सद्योमुक्तिं परित्यज्य । शन्ते मुक्तिं प्रशासयन्
अन्त र्धाय पुनश्चार्य । रूप माप परांकुशः ७३
एवंचं दशभि ोगि । मुख्यः प्रोक्तैक्चोमृतः
चतुस्सहस्रमादाय । नथोमौनी पुरंययौ
७४
यथा व्यास श्शुते र्भागा । नकरो मिश्रितान्पुरा
तथा नाथ मुनि धा. । व्यभज संपृथक्पृ थक् ७५

13
स्वशिष्यं पुण्डरी काक्ष । मध्याप्य निगमादिकम्
दर्शन स्यापकं चके। संप्रदाय प्रवृत्तये ७६
१), कुरिकानाथ नाम्नेच। योगनिष्ठा मबोधयत्
सुतमाहेश्वर मुनि । मत्समस्ते सुतो भवेत्
७७
अनेक स्त्री युतंचोळ । भूपंदृष्ट्वाप्रियायुतम्
श्रीकृष्ण मागतं मत्वा । मुमोहमुनिपुंगवः
एकदा स्वगृहद्वार । मागतौ द्वौ धनुर्धरौ
कान्तया ताविति शृत्वा । मत्वातौ रामलक्ष्मणौ ७९
विचिन्वन्स्तावनालोक्य । योगेन तनुमत्यजत्
पश्चाच्छनीपुंडरीकाक्षो । दर्शन स्यापकोऽभवत् ८०
श्रीरंगेन्यवसद्रंग । नाथं स्तोतुं मुदान्वितः
राममिश्रश्च तंप्राप्य । शिष्यःपुत्रहवामवत्
८१
गुरोर्गेहेचकार्याणि । सर्वाणि बहुवत्सरम्
कृत्वा सर्व रहस्यार्थ । कुशलोऽभव दात्मवान् ८२
(१) कृरिकानाथ = कुरुहावलप्पन इति द्राविडनाम.

14
कायनमनसावाचा । योगुरुं सेवतेनरः
सर्वार्थ सिद्धि माप्नोति । स शिष्यो नेतरः स्मृतः ८३
एकदाजलमाहर्नु । गच्छन्त्यो गुरुकन्ययोः
मध्ये कर्दमकुल्यायां । सुप्त्वा पृष्टमदाद्गतेः
८४
तद्भक्ति परितो वीक्ष्य । पुण्डरीकाक्ष सद्गुरूः
श्रीराम मिश्रमकरो। संप्रदाय प्रवर्तकम्
८५
पुण्डरीक दळनेत्र सद्गुरू
राममिश्रमवद द्दयापर
अस्मदार्य निजशासनं त्वया
कार्य मद्य नमया कृतंतुतत्
८६
श्रीमदीश्वरमुने स्तनूभवो
यामुनार्य गुणधि भव विष्यति
तस्य सर्व मनुगृह्यतां त्वया
नाथसंचित रहस्य साधनम्
८७
इति मधुरवचोभीराम मिश्रं तथोक्तवा
स्वगुरु चरणयुग्यं संस्मरन् प्राप मुक्तिम्
तदनुगुरु विमुक्तो राममिश्रोनु तप्तो
न्यवस दखिल शिष्य स्संश्रितो रङ्गधाम्नि
८८

15
इति श्रीमत्सदाचार्य कृपालब्ध सारस्वतस्य
कृष्णमाचार्य शतावधानिनःकृतिषु
गुरुवंशमहाकाव्ये
प्रथमस्सर्गः

श्रीमते रामानुजायनमः द्वितीय स्सर्ग: सवीर नारायण नामकेपुरे गरायसो नाथमुने स्तनूभवः तनूभवाप्तिं मनसानुचिन्तय सुवास पत्नी सहितो हितो हरेः (१) ततोऽस्य जायश्वर मौनि सद्विदः क्षितौ सदाचार्य पथानुसारिणः सदौहृदाऽऽसी किल रङ्गनयकी प्रपन्नलोकस्य च भाग्ययोग्यतः २ सती सती गर्भवती लसद्दती श्रुतीरितार्था चरणेषु जाग्रती रराज सा लक्षित दिव्यतेजसा सराजगर्भा सुरराज दिग्यथा ३ (१) रङ्गना यिकेति वक्तव्येऽपि तथैवनामत्वात् “नमश्रीरङ्ग नायक्यै यद्भविभ्रमभेदतः" इति पराशरभदायें श्रधीर दगगज स्तपणन- त्वात् रङ्गनायकीत्युक्तम्

17
शुभेमहूर्ते सुषुवे सुलक्षणम्
कुमारमेकं सुकुमार माना
प्रभाविनं भात्रिन मार्य सेविनम्
घनागमे शुक्तिश्वेिद्ध मौक्तिकम्
४
सबालकोऽशोभत मंजुलालकः
कलाधरो मेघलवा वतोयथा
पिता सुतं वीक्ष्य समुज्वल कृतिम्
जहर्षपूर्णस्सरितां पतिर्यथा
निशम्य नाथार्य सुतस्य संतति
स राममिश्रो गुरुशासनं स्मरन्
समागत शुद्धदिने च बालक
चकारतं यामुन नाम शोभितम्
७
विधायबालं कृतपंच संस्कृति
प्रदाय दिव्याशिषमस्य वृद्धये
सुधामयात्मा सच राम नामको
मुदाययौ रङ्गपुरं गुरूत्तमः
६
पितुर्गृहे नाथमनेस्सुपौत्रको
दिनेदिने संववृधे सितेदळे

18
शशीवलावण्य कळाविशेषकै
रशेष लोकस्यतमौ निरामकः
स चेश्वरोमौनिवर स्सुपुत्रक
सुमेधसं प्रागुपनीय नित्यशः
अपाठयद्वेद मधाभिभाषते
पुनर्वदन्तं पितरं तदासुतः
ममाद्य पाठोऽभिनवश्च कथ्यतां
पितः! किमेतद्भवता दिनदिने
पुरोक्तवेदः पुनरेवकथ्यते
भवेत्कुतश्चवित चर्वणेरुचिः
पिता तदीयां प्रतिभा विलोकयन्
प्रहृष्टचित्तः पशिषस्वजे सुतम्
षडङ्गवेदा नुपदिश्य चाकरो
त्सभाष्य भट्टस्य समीप वतिनम्
कुशाग्रबुद्धि र्गुरु सन्निधौ तदा
वशंगत स्तत्परिचार कर्मणः
दधार शास्त्रणि तदन्तिके यथा
हरिश्च सांदीपनि गेह मास्थितः

19
तदाऽभव द्राजपुरोहितो हितो
महीपते नित्य महीन तेजसः
सचाक्कियाळवा निति नामवान्बुधः
सुपण्डितं मन्यतमस्तमोमयः
१३
स चोळभूपाल वरेण सत्कृतः
कृती जिता खंडित पण्डितोत्तमः
पराजितेभ्यः प्रतिवत्सरंकर
जहार विद्भयो जयशब्द पूर्वकम्
१४
तवैकदा राजपुरोधसो भटा
स्समेत्य भट्ट समपीडयन्मुहुः
विलोक्य तद्या मुनबाल केसरी
नदन्लिखित्वेद मदाच्च पत्रकम्
"नवयं कवयस्तु केवलं
नवयं केवल तंत्रपारगा:
अपितु प्रतिवादि वारण
प्रकटाटोप विपाटन क्षमा."
समागतः क्रोधमहाभेटैमेंट
निशम्य तद्यामुन बालभाषितम्

20
बभाण राज्ञे भरितः कृधाबुधः
पुरोहितो रोहित लोचनस्तदा
सबालकः पालक! राजशासनं
तृणीकरोत्यद्य नितान्त गवितः
वितंडवादी खलुदंडयता मयं
समागतोलः प्रथमः पराभवः
इतीरयन्तं परुषं पुरोधसं
जगादतच्छ्लोक मवेक्ष्य भूपतिः
स चार्मकस्साधु परीक्ष्यतां पुन
बिलेक्ववाकश्च भुजंगमोऽस्तिवा
तथा समाधाय पुरोहितं विभु
स्सयामनार्यानयनाय मन्त्रिणम्
समादिश त्सोऽपि गतोऽधयामुनं
तदाह राज्ञो निजशासनंवचः
सयामुनार्य स्त्विदमुक्तवान्नया
दमौत्यवाह मधीश शासनम्
सगौरवं स्वीकृत वान्नचान्यथा
तथाऽपि वक्तव्य मिहास्ति मेऽधुना

21
विभोस्समीपं विबुधोमहाकविः
पदातिरेवं नहिगन्तुमर्हति
स्वदेशमात्रे खलु पूज्यते नृप
स्समचते सर्वतलेषु पंडितः
२२
(१)
नसत्कृतो यत्र बुधा महीभृता
संतस्यलोपो नविपश्चितक्षितिः
स वानरैः पादतिरस्कृतोमणिः
स्वकीयशोमांहि जहाति नक्वचित्
२३.
महत्सु विद्वत्सु वसत्सु सर्वतः
किमेंकए वास्ति भवत्पुरोहितः
सुरत्नगर्भाः खलु भारती क्षिति
विधिच्य तदन हरोहि पार्थिवः
२४
(१)
स्वयंहि राजा बुधपक्षसंश्रितः
करोति कस्मात्स सतामनादरम्
(१) वानरः कपिभिः नरैर्वा = मनुष्य तियोजना-
(१) राजा भूपतिः, चन्द्रः. बुधपक्षसंश्रितः- विद्वत्पक्षपाती, सोमसु
तपक्षस्थः सतांवरः = सत्पुरुषाणां श्रेष्ठ: नक्षत्रणां श्रेष्ठ:-

22
न संकुचे स्वीयरुचा क्वचिद्विधु
स्सतांवरा स्सर्वसमा भवन्तिहि
(१)
२५
महीभूतोदृप्तबुधेन्द्र योगत
स्सुपक्षपातो विदितो भवेद्भशम्
सदाप्रमोवा त्सरसा नुवतिनो
नपक्षपातो भविता कदाचना
२६
२७
इति बुवाणं मदुवालयामनं
प्रणम्य मन्त्री प्रययौ नृपान्तिकम्
महीपति स्सर्व मवेत्य विस्मित
स्सगौरवं नेतु मथाविशन्पुनः
सराजचिह्न प्रहितां महीभजा
सुवर्ण चित्रां शिविका मधिष्ठता
गजैस्तुरंगै स्सभट स्सयावतो
रराज राजेव विदां स यामुनः
२८
(२) महीभृतः = राज्ञः. पर्वतस्य. बुधेन्द्रयोगतः= पंडितवर संबन्धात्
देवेन्द्रसंबंधात् पक्षपातः=एकस्मिन्न भिमानः. पक्षयोर्गस्तयोः.
पात:-पतनम्. रवेंमिन्द्रेणपर्वतानां गरुती खंडितावितिप्रसिद्धिः
सरसानु वर्तिनः रसिकजनानुसारिणः- समुद्रानुसारिणः, मैनाकस्य
पक्षपातो नास्ति.

23
कळंकहीनं कमनीयवर्चसं
तमोनुदं स्वप्रभयाचबालकम्
द्विजाधिपं यामुनमाप सोत्सुक
स्सतांगणो योम्नि यथाकळाधरम्
२९
प्रविश्य सौधंजननायदम्पती
विलोक्यतं द्वादश हायनार्भकम्
प्रभाविनं यामुन मेव माहतुः
परस्यरं बद्धसमृद्धकौतुको
३०
अयंहिवालो बलिनं पुरोहितं
नजेष्यतीति ब्रुवति क्षमापती
तमाह राजी शिशुरेव केसरी
धुनोति गन्धद्विपदुष्टतामिति
तयोविवादे शपथः कृतोऽभव
त्पुरोधसायामुन धीमतोजये
तयाप्रियस्याखिलदास्य मादृतं
स चाधराज्यार्पण मादधे विभः
कळंकहीनम् = दोषरहितम्। बालचन्द्रत्वात् शशला छन रहितम्.
तमोनुदम् =अज्ञाननिवर्तकम्. ध्वान्त निवर्तकम् द्विजाधिपम्
ब्राह्मणश्रेष्ठम्. द्विजराजनामानम् • सताम् = सत्पुरुषाणाम् नक्षत्रा-
णाम् गणः-समुदायः कला धर:=विद्वान्-चन्द्र.
-

24
पुरोधसा पूर्वजिता विदांवरा
स्समुत्सुका यामुनतीर्थ संगताः
निदाधशुष्का गिरि निर्झरायथा
धनागमे पूर्णजला महाजवाः
तत् पुरस्तात्फलके निर्देशित
भयावहं तत्प्रतिवादिनां भृशम्
महोजसा यायुनरिणाऽमुना
स्वयंकृतं पद्यमिद प्रकाशते
३
"आशलादद्रिकन्यावरणकिसलयन्यासधन्योपकंठात्
आरक्षो नीतगीतामुख कमलसमुल्लाम हेतोश्चशेतोः
आचप्राच्य प्रतीच्याक्षिति धरयुगळादचन्द्रावतंसा
न्मीमांसा शास्त्रयुग्मे श्रमबिमलमनामृग्यतां माहशोंन्यः ३५
(१)
इतिप्रगच्छ मनुजेन्द्रशोभितां
विचित्ररूपां विबुधैरलंकृताम्
विवेशतद्राज सभां स यामुनो
गुरुस्सुधर्मामिवशक पालिताम्
३६
(१) विबुधैः = देवैः पडितः.

25
सबाल विद्वा न धपेन सत्कृतो
महासिंहासन माश्रितो बुधैः
व्ययोचताद्रा वुदये महोदयः
प्रभाविशेषैरवबालभास्करः
३७
पुरोहितो मत्त गजेन्द्र विभ्रमः
प्रविश्य विद्यामद मुद्वमन्निव
ददर्शहेमासनवति यामुन
यथासुमेरुस्थ मृगेन्द्रशाबकम्
अवोचदेवं बुधबालकेन मे
नरोचते शास्त्र विवाद कौतुकम्
यदुच्यते तद्विपरीत कार्यहं
पराजितस्योपरि ताडनं पणः
हसन्नवोच द्विबुधं सयामुन
स्तथैव पृच्छामि सुभाषितत्रयम्
यदिच्छासत्वं परतोऽपिपश्यसि
प्रवृद्ध शास्त्रेषु मृगेन्द्र विक्रमम्
४०
तथाभवत्वि त्यखिले सभाजने
वदत्यधीशस्य मुखं विकासयन्

26 अलौकिक लौकिक शास्त्रसम्मतं नुतजनैर्वाक्यमुवाच यामुनः ४१ (१) त्वयैवमाता सुतवत्ययं प्रभु स्त्वदा श्रयो धर्ममतिः प्रियाविभोः तथासती भर्तृवचोविनोदिनी प्रयच्छ विद्वन्विपरीत मुत्तरम् ४२ (१) निशम्य तद्यामुन सूरिभाषितं तदाशयाज्ञान वशानिरुत्तरः मगेन्द्रपार्वे च नरेंद्र सन्निधा वनुद्धतो नाग इवाभवद्बुधः ४३ . (१) प्रत्युत्तरार्थे त्वयैव = एकेन त्वया. असुतवतीति पदच्छेद:. एकपुत्रापि वंध्यैव. कदळी वन्ध्या पुत्रिकावंध्या. मृतवन्ध्या वन्ध्या इति शास्त्रात् चतुर्विधवंध्य त्वम् । अयंप्रभुः त्वदाश्रयः सर्वान्विदुषोदूरीकृत्य त्वदे- काश यत्वात् अधर्ममति. तथाविभोःप्रिया- राज्ञी- असतीतिपद- च्छेदः= सतीनभवति कुतः भर्तृवचसा अविनोदिनी व्यतिरेक वादे- प्रवृत्तत्वत्. (१) मृगेन्द्रपर्वे = सिंहसमीपे. नागइव = गजइव. नरेन्द्र सन्निधौ- विषवैद्यसमीपे. राजसमीपे. ना गवसर्पइव ।

27
शुचिस्मितो यामुव विद्वदग्रणी
रूवाच वाचं मधुरं पुरोहितम्
किमर्थमल्पेऽपि निरुत्तरोऽभवः
कथं प्रतर्केष्विह मां विजेष्यसि
नचैकपुत्रा भवतीह पुत्रिणी
नचैकपक्षो विभुरीश धर्मवित्
नचापि साध्वीपतिवाग्विवर्तिनी
तदत्रपद्ये स्फुरति प्रदृश्यताम्
४५
पराजितानां शिरसि प्रताडनं
त्वयायदुक्तं नमयः विधीयते
द्विजोऽसि वृद्धोविभुमाश्रितःपरं
तथाऽपि विद्वद्वि रुदानि संत्यज
४६
इति प्रशान्त्या प्रवदन्त सर्भक
नृपान्तिके यामुनसूरि मद्भुतम्
सभासदा स्संप्रशशंसुरादरा
ज्जहर्षतु स्संसदि राजदंपती
४७

28
(१)
पुरोहितोयामुन सूरिवैभवं
हृदाभिनंद्याशु बभूवनिर्मलः
सकिल्बिषं के नपुनाति भूतले
सकृत्कृतंयामुन तीर्थ सेवनम्
४८
प्रमोद युक्संसदि चोळभूपतिः
प्रशंस्य तद्यामुन सूरयेप्रभुः
ददौस्वराज्यार्धनिदिताशयः
किमप्रदेयं विदुषे महो भुजा
४९
तदर्धराज्यं त्वधिगम्यबुद्धिमान्
सयामुनार्यस्सुर भारतीश्रियोः
क्रमागतं भूर्ययशो व्यशोधय
त्परस्परै काश्य शून्यताकृतम्
५०
विमुश्रिया यामुनसूरिराड्तदा
गृहेषु मातापितरौ चनन्दयन्
विवाहितो वाहितराज्यभारक
स्सुत द्वयं प्राप सरूप मात्मनः
५१
(१) यामुनतीर्थसेवनम् = यामुनाचार्यसेवनम् यमुनानदीजलपानम् . सकि-
ल्बिषम् =कपटयुक्तम्. पापयुक्तम्.

29
श्रियाधिया स्वानुगयाच भार्यया
विधेय सत्पुत्रतयाऽर्य सेवया
निनायकालं सुखसंपदाता
विधाय विद्वान्सभृवं दिवं यथा
५२
सरोजनेत्र श्रित रामदेशिको
निशम्य तद्यामुन सूरिवैभवम्
स्मरल्गुरोश्शासन माशु रंगत
स्समाययौ दर्शनलालसोऽलसः
सयामुनं राजगृहे स्थितं भटै
निरुद्धमार्ग स्त्वधिगन्तु मक्षमः
विचिन्त्य तस्याप्ति कृते तदीप्सिता
न्यलर्क पत्राणि ददौ महानसे
५४
दिनेऽपि तच्छाखभुजा महीभुजा
मुदामुना यामुनसूरिणकदा
ऋतुत्रया नन्तर मात्त संगति
स्सराममिश्रोऽनुमतागमोऽभवत्
५५
अलर्कपत्राणि = आंध्रभाषायाम् (पुलिचितकूर)

30
प्रविष्टमन्तः पुर मात्म विद्वरं
प्रणम्य रामार्य मदभ्रविष्टरे
निवेश्य भक्त्या विनयेन यामुन
स्समाबभाषे सकलागमार्थ वित्
महौजसस्तेऽद्य समागमादिदं
गृहं पवित्रं सफलाश्च सक्रियाः
भवस्थितानां भवदीय दर्शनं
भवत्यशेधाघ निकाय कर्शनम्
५७
यदीप्सितं तद्वद वैष्णवाग्रणी
स्समुत्सुकः कर्तुमहं कृपानिधे
गृहागताया तिथये समर्पणा
नविद्यतेऽन्यद्गृह मेधिनः फलम्
नमेस्तिवांछा धनराज्यसंचये
किमर्थमे तत्परमार्थ वेदिन:
पितामहात्ते परित स्समाजिता
न्मपितार्था प्रतिदातुमागतः
५९
यदिप्रदातुं तवमय्यनुग्रहो
गृहीतु मर्थान्समयः प्रदीयताम्

31
रहस्य निक्षेप समर्पणात्पुन
स्तदर्हपात्रोहि भवामि निर्भरः
इति प्रभाष्यानुमतो महागुरु-
रहस्यगीतार्थ मथा ब्रवीत्ततः
यथानुरक्त श्रवणे दिनदिने
तथा विरक्तोऽभवदन्यसाधने
सराममिश्रः प्रियशिष्य मादरा
दलर्क पत्रार्पण निष्क्रयेणतम्
विधाय च क्रीतमिवात्म सात्कृतं
उपादिशत्तं चरमार्थ मद्भुतम्
६२
ततोविरक्ति परमार्थ साधको
विहाय राज्यं प्रियबन्धुजालकम्
स राममिश्रण सहबयामुनो
विवेश तद्रङ्ग पुरंच सादरम्
६३
तदावद द्रामगुरुश्चयामुनं
महामते! ऽस्मदगुरुवंश जीवनम्
पितामहेनैव तव प्रकाशित
प्रकाश्यते तेप्य धुना मयेतिच
६४

32
१
(१)
कवेरजा मध्यतले समुज्वलं
विमानमोंकारमयं तदन्तरे
बिलेशयेशा श्रयमक्षयं गुरुं
प्रदर्शयामास स नायशेवधिम्
पादादि चूडान्त मथानुभूयतं
हरेमनोहारि शयानविग्रहम्
समग्रभक्त्या विवशी कृतान्तर
स्तथैव रङ्गेन्यवस त्सय
त्सवामुनः
रमेशकैकर्य विरोधशङ्कया
धनानि राज्यं मकलांश्च बान्धवान्
परित्यज प्राप स यामुनो मुनि
वरेण्य मेवात्र तुरीय मममम्
६७
सरङ्गराड्यामुन सूरिमारा
दयंहिरक्षागत इत्यथावदत्
तदर्थक द्राविडदेशभाषया
तमाळवन्दारिति चाब्रुवन्जनाः
६८
(१) शेवधिम् = द्रव्यनिधिम् बिलेशयेशः = शेषः. आश्रयः= शय नत्वे-
नाधारः. यस्यतथोक्तम्. निधिरपिसाश्रयोभवति.

33
अधैकदा रामगुरोरनुज्ञया
ययौ प्रहृष्टो हठयोग लब्धये
सनाय शिष्यं कुरुकाधि नायक
विलोक्य योगस्थमतो बहिस्थितः
सयोगराडित्यम भाषतातितः
किमागतो नाथ मुनीन्द्र वंशजः
यदस्मदग्रे रमयास्थितोहरि
विवृत्य वक्त्रं परतोव्यलोकयत्
७०
निशम्य तद्वाक्य मयं समागतः
प्रणौति दासोहठयोग तत्परः
इतिब्रुवाणं कुरुकाधिपोऽवद
नदेयमन्ते पुनरेहि मामिति
तदन्तकाला वधिमप्यवेत्य त
निवेश्य पत्रे सहियामुनोमुनिः
सशिष्य कोऽनन्त पुरेस्थित स्तदा
सचावधि विस्मरणाद्गतोऽभवत्
७२
कुसकाधिनाथः= कुरुहवालप्पनितिद्रविडनाम.

34
कलौजनानं हठयोग साधनं
कठोर मित्येव तथाऽभवन्नमे
प्रपत्तियोगः परमार्थ साधने
प्रमादशून्यो भवतीत्यचिन्तयत्
७३
सचोळराज स्सपुरोहितस्तत
स्सतीच राज्ञस्सकलाश्च बान्धवाः
अशिश्रियन्यामन सूरिमागता
स्सताहियोगो नवृधा भवेत्क्वचित्
७४
(१) शिष्या यामुनयोगिनः प्रियमहापूर्णोरहस्यार्यवित्
गोष्टीपूर्ण सुमालिका धरगुरुश्रीशैलपूर्णोमहान
कांचीपूर्णगुरुश्चतुर्थकुलजो मानेरु नंब्यंत्यजः
सन्त्यन्येऽपि सहस्रशोऽग्रगणिताः पंचैवपूर्वोदिताः ७५
श्रीयामनार्य मुनिवर्य पदा श्रुतेषु
ज्यायान्गुणेषु च महापरिपूर्ण असीत्
श्रीरङ् धामनि सशिष्श्व गणोयतोशो
नाथार्य वंशतिलको नयतिस्मकालम्
(१) पेरियनंबी. तिरुक्केट्टियूरुनंबी. तिरुमालयांडान् तिरुमलनंबी- तिरु-
कच्चिनंबी मार्नेर्नबी. क्रमशः पंचयामुनार्य मुख्य शिष्याः.
.

35
सिद्धि त्रयं निखिलतत्व विवेकरूपं
गीतार्थसंग्रह मनेकरहस्य सूक्ष्मम्
प्रामाण्य मागम चयस्य च यामुनार्यो
रत्नंस्तुतेनिगमसार तमंवितेने
७७
(१)
सप्ताक्षरावरण शोभित वेदशङ्ग
प्रद्योतित प्रणवदिव्य विमाननिष्ठम्
वाचामवेद्य गुणरूप विशेषशोभं
श्रीरङ्गमंगळमणि शरणं भजामः
७८
इति श्रीमत्सदाचार्य कृपालब्ध सारस्वतस्य
कृष्णमाचार्य शतावधानिनःकृतिषु
गुरुवंशमहाकाव्ये
द्वितीयस्सर्गः
: श्री:
(१) नारायणाष्टाक्षरीमन्त्रे प्रणवं विहाय सप्ताक्षराण्येव सप्तप्राकाराः
तैश्शोभितम्. वेदाः चतुर्वेदाः तएव शृगाणि - तैः-प्रद्योतितम्-प्रकटि-
तम् प्रणवएवदिव्यविमानम् तत्र निष्टम् अकारप्रतिपाद्यम्,

श्रीमते रामानुजायनमः
गुरुवंश महाकाव्ये
तृतीय सर्ग:
(१)
श्रीमन्महा भूतपुरी चकास्ति
महोज्वला प्राग्जलधेः प्रतीच्याम्
काञ्ची लसद्दक्षिणरत्न गर्भा
गर्भस्थलीबत् बुधरत्नसूतिः
१
(
२
)
अभूतपूर्वा सुकृत प्रशस्ति
स्तद्भुतपूर्वास जुषांजनानाम्
तत्राविरासी द्वसुधा धरोऽहि
स्सुधाकरो वैष्णव दुग्धराशेः
२
(१) कांच्या = कांचीपुर्येव मेखला तया । लसन्त्याः प्रकाशमानायाः.
दक्षिण रत्नगर्भायाः दक्षिणभूमेः स्त्रियः गर्भस्थलीवत्. गर्भप्रदेशइव ।
बुधरत्नसूतिः. महैः = उत्सवैः उज्वला प्रकाशमाना.
(२) वसुधाधरः भूमारवाहक:-अहिः= अदिशेषः. सुधाकरः= चन्द्रः.

37
अनन्त कासार जलावगाहं
तथादिम केशवदेव सेवाम्
श्रीभूतपुर्यां नियतं निवासं
अनन्तपुण्यस्य फलं वदन्ति
३.
(३)
प्रभूतकेदार सरोवृतासा
वृताबुधैर्भूतपुरी भवाय
वृथाहितज्जन्म महीतलेस्या
त्तस्यांनिवासस्तु नचेत्कदाचित
४
मध्येपुरं गोपुरमंटपानां
प्रभाविशेष परितो गृहेश्च
श्रीवैष्णवानां विदुषां समूह
विभाति वैकुंठ पुरीवमुक्तः
५
तत्राभवत्केशव नामयज्वा
मूर्तीभवद्वह्निरिव ऋतूनाम्
आसूरिवंशांबुधि पूर्णचन्द्र
स्सान्द्रोगुण वैदिक वैष्णवेन्द्रः
(३) भवाय = जन्मने. वृता= अभिमतत्वेन स्वीकृता. बुधैः = देवैः-विद्वां
सैश्च.

38
(१)
तस्यद्वितीयाऽभवदद्वितीया
छायेव नित्यानुगता सैतीसा
धाम्नाचया कान्तिमती स्वनाम्ना
श्रीशैलपूर्णार्य सहोदरीच
७
नयेन लक्ष्मीविनयेनविद्या
जयेनसत्कीति रिवानुषक्ता
भयेन भक्त्या प्रणयन साध्वी
प्रियेणसा कान्तिमती विरेजे
८
सचैकदा करविणी समीपे
चकारपत्न्यासहित स्सुतेष्टिम्
तत्पार्थसार ध्यनुकंपयासा
सीमन्त योग्याऽभवदस्य कान्ता
९
शुभमुहूर्ते सुषुवे कुमार
मारंयथा श्रीस्सुकुमार मार्या
मेषेतथा द्रक्षदिनकृपानं
भद्रजनानां सुषुमासमुद्रम्
१०
(१) धाम्ना=स्वकीय कान्त्या, नाम्नाच = अभिधे येनच कान्तिमती -
प्रशस्त कान्ति युक्ता.

39 श्रीशैलपूर्णस्समुपेत्य तादृ ङ्महोदयं स्वस्यच भागिनेयम् सुलक्षणं वीक्ष्य चकार लोका द्विलक्षणं लक्ष्मण नामधेयम् ११ (१) स्वभाव सौन्दर्य विशेषितैर्गुण रतीव राम त्रितयानुवृत्या रामानुजं प्राहु रथो विदोऽन्ये क्षेमाय लोकस्य तथा वतीर्णम् १२ अकिंच नानन्य गतिप्रजानां भाग्यतिरेका द्ववृधे कुमारः श्रीकेशवार्योप्युपनीयपुत्र मपाठयत्सांगशिरस्कवेदान् १३ शास्त्राण्य धीत्यापि सलक्ष्मणार्यः कांचीगतो यादव सन्निधाने शुश्रूषमाणो निगमान्त शास्त्रं पठन् तदर्थे नजगाम तृप्तिम् (१) रामत्रितयानुवृत्या श्रीराम परशराम बलरामाणाम नुवृत्या. श्रीरामवल्लोकरंजनेन- परशुरामवत् प्रतिपक्ष वि क्षेपेण. बलरामवत् भगवदनुवृत्या रामानुज प्राहुः 40 श्रीलक्ष्मणार्यस्य महामहिम्नो मातृष्वसुस्स्वस्य सुतोऽतिधीमान गोविन्दराजो गुरु सन्निधाने तत्रैव पाठापठतिस्म काञ्च्याम् तत्रैकदा यादवमाधिनतलं रामानुजेमर्दयति प्रहृष्टः सयादवोऽर्थ वदतिस्मशिष्यान् शृण्वन्स्थितो लक्ष्मण देशिकेन्द्रः (१) कप्यासमित्यादिक वाक्यपाठे छान्दोग्यगे मर्कटकासनंवा (१) कप्यासमिति, "कप्यासं पुंडरीकमेव मक्षिणी तस्योदिति नाम, छान्दोग्ये सूर्यमण्डलवति नारायणस्य दिव्य मंगळविग्रहपरमिदं वाक्यम् अत्र कप्यासंयथा = वानरा सनमिव पुण्डरीकंयथा कमल- भिव. एवमक्षिणी तत्सदृशे- भगवन्नेत्रे । वानरासनमिव रक्ते पुंडरीकमिव विशाले. इत्यर्थः. यद्वा वानरासनतुल्यं पुंडरीकम् . रक्तां- भोजमित्यर्थः तत्तुल्ये नेत्रे इति यादव प्रतिपादि तोर्थः. वानरासनस्य पुटरीकोपमानत्वेन न विहीनोपमानता दोष इति शंकराचार्यस्यापि सम्मतः. तदपेक्षया सुंदरार्थस्सि ध्यतीति रामानुजार्याणामाशयः. तदिश्यम्. कम् = जलम् पिबतीतिकपिः सूर्यः तेनास्यते= विकस्यत- इति कप्याम् । के = जले प्यास्ते वर्ततइति कप्यासम् गंभीरांभस्स मुद्भूत सुम्ष्टनाळ रविकर विकसित पुंडरीक दळामलेक्षणो नारा- यण इति समुदितोर्थः

41
रक्तंहरेर्नेत्र मभन्मुरारे
रित्युक्तमाकर्ण्य मुमोच बाष्पम्
ततः किमर्थं रुदसीति पृष्ठ
स्सलक्ष्मणो यादवभावीत्तम्
सद्यस्फु रत्सू र्यकरै रिवाज
नेत्रहरेरि त्यनुरूपमर्थम्
१८
तत्रैवराज्ञो दुहितुः पिशाचो
धिक्कृत्य तद्यात मन्त्र शक्लिम
श्री लक्ष्मणार्य शिरसा प्रणम्य
श्रीपाद तीर्थेन जगाम मोक्षम्
रामानुजस्य प्रतिभा प्रभावं
विलोक्य मात्सर्य युतस्ततोऽभूत्
सयादवो नवजाहातिदुष्ट
स्सन्यासि तायां सहजस्स्वभावः
श्रीयादव शिष्यगण रुपेतः
श्रीलक्ष्मणार्यानुगतः प्रतस्थे
किमप्यवेद्यं हृदये निधाय
सवारणासी भववारणासिम्
२१

42
मध्येपथं विन्ध्य नगस्य दुर्गे
वनेवियुक्तः किललक्ष्मणार्यः
निश्यन्धकारे नियते रपश्यत्
किरातमेकं तरुणी समेतम्
२२
तेनैवरात्रावति भत्कृतोऽयं
रामानुजोमं चतले शयानः
सुस्वाप चान्त हूं दिदेवरक्ष्यो
जीवोयथा सुप्तिदशानुषक्तः
२३
तदानिशीधे जलमाहरेति
पतिवदन्ती वनितीनिषादः
चुकोप तद्वाक्य मसौनिशम्य
रामानुज स्सत्वर माबभाषे
२४
हे सौम्य! किंकुप्यसि तां त्वयास्मिन्
सुसत्कृतोऽहं प्रतिकर्तुकामः
यदिच्छसित्वं जलमाहरामि
प्रयच्छ पात्रं वदकृत्रकूपम्
२५
इत्युक्तवंतं तमुवाचवन्यो
धन्यस्तथाचे (कुरु तत्प्रभाते

43
कथंजलस्याहरणं निशीथे
स्त्रियस्स्वनिष्ठा समया लभिज्ञाः
२६
बने चरेणैन वने प्रगुप्तो
व्युष्ट समुत्थाय किमप्याश्यन्
काञ्ची पुरं लत्रविलो क्यहृष्ट
स्तौदंपती श्रीवरदौ सपने
२७
गोविन्दराजो गुरुकूट बोधात्
शैवंमतं स्वीकृतवा नुपेत्य
श्रीकाळहस्ती श्वर शेष पीठे
शेवामामाचर्थ वरो बभूव
२८
श्रीदेवराजेन सदैवकांची
पूर्णान्तरङ्गे परिभाषतेस्म
जिज्ञासुरां करिशैलनाथा
द्रामानुजः पूर्णगुरुं ययाचे
२९
कितत्वमात्मे श्वरयो रभेदो
मोक्षःकदा तस्यच साधनंकिम्
किमन्तकाले स्मृतिरप्यवश्या
कमाश्रयाम्यद्य गुरुं वदेति
३०

44
पूर्णार्य पृष्टः करि भूधरेशो
जगाद संदिग्ध तरान्षडान्
क्ष्म श्रीलक्षणाचार्य निवेदनाय
राजीवनेत्रो रमया समेत:
३१
भेदोहिसत्य स्त्वह मेव तत्वं
देहावसाने खलु मोक्षसिद्धिः
स्मृतिविनान्ते भवतिप्रपत्या
पूर्ण महान्तं गुरुमाश्रयेति
my
रामानुजार्यो वरदानुकंपा
स्मरन्गृहस्थो व्यवस सभार्यः
कैङ्कर्यसक्तो बरदस्य कांची
पूर्णार्य संलब्ध महार्थबोधः
श्रीरङ्गपुर्यां खलुयामुनार्य
स्समादिश त्पूर्ण गुरुं महान्तम्
रामानुजार्या नयनायशीघ्र
स्वस्तोत्ररत्नस्यचनिष्क्रियण
३४

45
(१)
श्रीमान्महापूर्णगुरु स्समेत्य
स्तुत्यातयाऽ तोषयदादिदेवम
रत्नं स्तुते स्सान्त मपिप्रदाय
संप्रायसोनन्त विशेषरत्नम्
३५
यत्पुष्ट गोसार
रसानुभत्या
तृप्तस्थ गोपुष्ट तमत्व सिध्ये
रामनुज स्सार विदाशु कर्तु
मियेष तद्यामुन तीर्थ सेवाम्
श्रीयामुनाचार्य पदाब्ज सेवा
व्यामोहत पूर्णगुरुत्तमेन
श्रीलक्ष्मणार्यस्त दियायरङ्गं
मुक्तोय या प्राप्य ममानवेन
३७
(१) सान्तम् =संपूर्णम्, अन्तसहितंच. स्तुतिरत्नम् = स्तोत्ररत्नम् . अनन्त
विशेषरत्नम् = अनन्तस्य : शेषस्य विशेष = अवतारविशेषः रामा-
नुजाचार्यः सएवरत्नम् = श्रेष्टवस्तु. अन्तरहित श्रेष्टरत्नंच.
(१) यने यामुनतीर्थेन यामुनाचार्येण. यमुनाजलेन. पुष्टनांम् = पोषिता-
नाम्. गवाम्- धेनूनाम् . स्तोत्ररत्नरुप वाक्यानाम् रसानुभ्त्या
स्वारस्यनुभवेन. क्षीरादि रसानुभवेन तृप्तः = सतृप्तः. स्वस्यगवाम्.
वाक्यानाम्. धेनूनाम् पुष्टतमत्वसिद्धयेः रामनुजः = बलरामानुजः
कृष्णः लक्ष्मणार्यः. यमुनातीर्थस्य. यामुनाचार्यस्य-यमुनानदी जलस्य:-

46
सपंचसंस्कार विधान मादौ
मार्गेतटाकस्य तटेऽप्यवाप
यदागुरोराश्रयणेऽभिलाषा
तदाश्रयेदियपि सूचनाय
३८
महामहिम्नो रुभयोश्चयोगे
सर्वेऽपिमुक्ताः परितो भवेयुः
इतीव भीत्या किल रङ्गनाथ
श्रीयामु नार्याय ददौ विमुक्तिम्
मुक्तिगते यामुनदेशि केन्द्र
रामानुजार्यस्स्वय मापरंगम्
तदात्वपश्यच्चरमेशरीरे
हस्तेनिबद्धं त्रयमंगुळीनाम्
४०
श्रीभाष्यनिर्माण शठारिनाम
शस परशिाख्योद्धरणानि कर्तुम
रामानुजे कुर्वति संप्रतिज्ञा
मासीत्तदा मोचन मंगुळोनाम्
४१
नारायणा ष्टाक्षर मन्त्रराज
प्राप्त्यै स गोष्टी पुरपूर्णनाम्नः

47
गुरोस्सकाशं बहुवारमाप
प्रारब्धमार्या नपरित्यजन्ति
४२
यदायदा गच्छति लक्ष्मणार्ये
मन्त्राप्तये सोऽपि गुरुस्तदानीम्
महार्थदं रत्नमिवाऽतिगोप्यं
प्रकाशयामास न मन्त्र राजम्
४३
मोक्षे धरित्री जनुषां समेषां
समाधिकारं कृपयव दित्सुः
मन्त्रस्यलाभाय गुरोस्समीपे
सत्याग्रहं संविदधे सधीरः
४४
(१)
मासोप वासंच विधाय पश्चा
नान्यस्य वच्मीति कृत प्रतिज्ञः
रामानुजो मन्त्र मवाप तस्मा
निधेरिवादम्र मणि महार्थम्
४५
निशम्य मन्त्रस्य महा प्रभावं
पश्यन्ज नानां परिदीन वृत्तिम्
(१) महार्थम् = मन्त्रपक्षे अनेकर हस्यार्थयुक्रम् मणिपक्षे महद्व व्यम्

48
दयासमुद्रो नरहस्यमर्थ
शशाकगोप्तुं भवतारणार्थम्
४६
गुरोरनुज्ञा मतिलंध्य मंत्र
मवोचदार्यस्तच गोपुरस्थः
मुक्तिप्रदं सर्वजनस्य तत्र
परोद्दिधीक फलाहिसन्तः
४७
गुरोर्वचेऽतिक्रमणे चदोषं
पश्यन्किमेवं कृतवानसीति
पुष्टःप्रणम्याशु गुरुं महात्मा
रामानुज स्सादर भाबभाषे
४८
आचार्शवाक्य प्रतिकूल दोषा
देकस्य मेस्यान्निरयोऽपि लोके
व्यक्तीकृते नाद्यमहा महिम्ना
मन्त्रेणसर्वेऽपि भवन्तु मुक्ताः
४९
इति ब्रुवाणं धुरि लक्ष्मणार्य
प्रशंस्यतां तस्य परार्थवृतिम्
कृपा प्रसन्नार्य जना न पीठे
प्रमोद बाष्प गुरुरभ्यर्षिचत्
५०

J
49
रामानुजो वैष्णव ददर्शनस्य
संस्थापत्सुः प्रतिकूल वृत्तिम्
जायां परित्यज्य च सत्रिदण्डः
पतिर्यती नामभव द्विरक्तः
काषायवर्णाबर भालमान
स्सानसां भोज विकासहेतुः
तमोविहार प्रशमायरेजे
रामानुजार्यों दिनराडिवोद्यन्
५२
(१)
श्रीदेवराजेन रमान्वितेन
तदा समाहूय विदांपुरस्तात्
रामानुजार्योरमणीय मूर्तिः
बहू कृतोसौ यतिराज नाम्ना
५३
१)
रामानजार्यस्य च भागिनेय
स्तंशिशिये दाशरथिः पुरस्तात्
(१) रामनुजपक्षे-काषायवस्त्रेण शोभमानः रविपक्षेरक्तवर्णा काशेन
प्रकाश मानः सन्मानसां भोजविकामहेतुः = सताम् = सत्पुरुषणाम् .
मानसानिमनांस्येव मानसांमोजानि नेषाम् विकासकारणम्. सन्ति
विलक्षणानि मानसां भोजानि. मानससरस्थित कमलानि तेषांविका-
सहेतु:-रविः-
(१) दाशरथेः मोदलियाण्डानितिद्राविडनाम.

50
योलक्ष्मणार्या शित दासमध्ये
तत्पादुका स्थान मवाप भूम्ना
५४
ततोमहापूर्ण कृपातिरेकात्
श्रीयामनार्याशयपूरणाय
श्रीरङ्गराज शियमुद्धरिष्यन्
श्रीरङ्गपुर्यान्यवसद्यतीशः
५५
गोविन्दराच्छेव मतानिवृत्त
श्रीशैलपूर्णस्य गुरोर्महिम्ना
रामानुजाचार्य पदारविन्द
च्छायेव तस्यानुगतो बभूव
५६
(२)
कुराधिनाथोऽपि महाविरक्तो
रक्तोऽभवत्सं यमिनायकेस्मिन्
येनानुयातो यतिराड् स वाण्या
प्रदत्त बोधायन वृत्तिरासीत्
५७
(२) बोधायन वृत्यानयनाय कास्मीरे शारदापीठं गतवतो भगव' द्रामानु
जाचार्यस्य कूरेशः अनुगः आसीत् तत्र सरस्वतीबालि कारूपेणागत्य
"कप्यास"मित्यादि श त्यर्थ शृत्वा भाष्यकारइत्यभिधांदत्वा स्वयमेव
बोधायन वृत्तिमदात् मेधावीरेशः एकवारं दृष्ट्वा पुस्तक गमनेऽपि
वृत्ति ग्रंधमवददिति प्रसिद्धि :

51
बोधायनोक्तेनपथा श्रुतीनां
समन्वयंसाधु विधाय भाष्यम्
सूत्राक्षराण्येव विवृत्य यके
श्रीभाष्य नाम्ना श्रितभाग धेयात्
५८.
(१)
रामनुजाचार्य कृपाविशेषा
द्गुणान्वितं श्रीपति मात्मनाथम्
लब्ध्वात्तोष श्रुतिरंगपुष्टा
पुन पति प्राप्य वियोगिनीव
५९.
(२)
गीतमहा भाष्यमपिव्यतानी
च्छीभाष्यकार इश्रुतिरक्षणाय
रामानुजव्याहृत सूक्ति भावं
रामनुजात्संवि वृणोतिकोऽन्यः
६०.
(३)
३
रामानुजौ यामुन तीर्थसेवा
परौपरौ योगिजनेश्वरौ तौ
(१) अंगः-शीक्षादि षडगै:-अंगेन= शरीरेण पुष्टा=पोषिता.
(२) रामानुजः=भाष्यकार:. श्रीकृष्णश्च
(३) रामानुजौ श्रीकृष्ण लक्ष्मणायौँ. यामुनतीर्थ सेवापरौ श्रीकृष्णः
यमुनानदी संबन्धि जलपान तत्परः लक्ष्मणार्य:- यामुनाचार्य सेवन
तत्पर:. परौ उत्कृष्टौ.

52
गीतामहाशास्त्र तदीयभाष्य
प्रवर्त कौलोकहिता वभूताम्
६१
कृत्वास वेदार्थ सुसं ग्रहंतं
वेदान्तदी पेन विलोक्यसारम्
संगृह्य नित्याचरणं निरूप्य
गद्यत्रयेणा प्यकरो त्प्रपत्तिम्
६२
रामानुजार्येण महार्थपूर्णाः
नव प्रबंधा निधयो, नवेव
प्रदशिता दर्शनतत्पराणां
श्रीवष्णावानां सुखजीवनार्थम्
शून्यी कृतंब्रह्मपुराहि बौद्ध
श्चिन्मात्रितं शंकरदे शिकेन
स्वरूपरूपामल सद्गुणाढ्यं
श्रियापतिं तद्व्यत नोद्यतोशः
कूरेशगो विन्द मुखाप्त शिष्य
श्रीरङगनाथं भुविसेव मानः
(१) महार्थपूर्णाः= विशेषाभिधे यार्थपूर्णाः, महाद्रव्यपूर्णाः

53
यतीश्वरो वैष्णव संपदंता
मासेतु शीताचल माततान
श्रीशैल पूर्यसुतोयतीन्द्र
श्रीपादसक्त: कुरुकेशनामा
शारीरक भाष्य मधीत्य तस्थौ
रामानुजाज्ञा परिवर्धनाय
श्रीराजः श्रितकल्पभूजः
रामनुजार्याय रमानियुक्तः
पितेव पुत्राय निजाधिपत्यं
ददौविभूतिद्वय नायकत्वम्
६७.
रामनुजार्येऽखिल लोकरक्षा
दीक्षापरेदिव्य विमान मध्ये
श्रिया भुवारङ्गपति स्त्वनल्पे
शेतेसुखंशेषफणीन्द्र तल्पे
श्रीरङ्गराज स्यजयध्वजोयं
रामन जार्यस्सहशिष्य बृन्दैः
यियासुरासी द्विजयायशीध्र
मासेतुशी ताचल मध्यभागे

54
आसन् चतुस्सप्तति विद्वदग्याः
सिंहासनस्था यतिराजशिष्याः
कूरेशगोविन्दमुखा स्त्वनेके
पाषण्ड वेतण्ड घटामुगेन्द्रा
७०
श्रीयादवः कूरकुलाधिपेन
पराजितो राजित तत्व दृष्टिः
यतीन्द्र संबन्ध मवाप पश्चा
सच्छिष्य बन्धो गुरु मुक्तिहेतुः
७१
संस्कृत्य तं श्रीयतिराज चन्द्रो
गोविन्द दासभिदयाजुहाव
तदाज्ञायासोऽपि चकार हृष्टो
ग्रंथंयते धर्म समुच्चयाख्यम्
७२
श्रीयज्ञमूख्यि बुधस्सशिष्य
श्शास्त्रार्थवादे सकला न्विजित्य
रामनुजार्य विजिगीषुराया
दद्वैत सिद्धान्त निबद्धदीक्षः
७३

55
(१)
शास्त्रेषुधि निनिशात खङ्ग
३श्रुत्यन्त चाप स्स्फुरदुक्ति बाणः
तस्था वनला सुरराजिगीषू
रामनुजो वादरणां गणाग्रे
७४
तयो
रभूद्भारत
संयतीव
कालस्तथाष्टा दशावासराणाम्
वादे कृतासंगादि संप्रतिज्ञा
पराजितस्या न्यमतप्रवेशः
७५
सामान्य शात्रेषु समानयुक्ति
प्रयुक्तिधारासु सभासदास्ते
नाशक्नुव हितु मेकपक्षे
जयश्रिय स्सुस्थिर भाव बन्धम्
७६
वेदान्त वाक्या थविचारवाद
स्तदा प्रवृत्त श्श्रुति सूत्रजालैः
(१) अनन्तासुरराड्जिगीपुः = अनन्तायां - भुवि. सुराः = ब्राह्मणाः.
तेषाम्. राजः=श्रेष्ठस्य = प्रथानस्य. यज्ञमूर्ते.. जिगीषुः= जेतु-
मिच्छु:. अन्यत्र. अनन्ताः= अनेके । असुरराजः= राक्षस श्रेष्ठाः
तेषांजिगीषुः । रामानुजः%3D
यतिराज:- लक्ष्मणश्च.

56
यतीश्वरो दशति सर्व भेदो
जगर्ज कंठीरवकंठनादः
७७
प्रख्यात कीति स्सचयज्ञमति
मिथ्येति यद्यद्वदति स्मसर्वम्
सत्यं तदित्या श्रितशास्त्रारः
समर्थयामास यतिप्रवीरः
७८
ब्रह्मैव सत्य खलु तत्वमेकं
मृषान्य दित्याह तदेकदण्डी
तत्वत्रयं साधु निरुप्यवेद
स्सत्यं वितेने सकलंत्रिदण्डी
७९
परंपुमांसंगुणहीनमादौ
श्रुत्वासुदूरंश्रुतयो द्रजन्ति
गुणाधिकंतं चयतीश वादे
निशम्य सर्वा स्सरसा भजन्ति
८०
(१)
यदा परब्रह्मस यज्ञमूर्ति
विशेषदारिद्रय यतंवितेने
(१) विशेषदारि द्यायुतम् विशेषाणम्. गुणादीनाम्. दारिद्रयेन =
शून्येन. युतम् =युक्तम्- निविशेषचिन्मात्र मित्यर्थः. अधिक दारि-
द्रयुत मिति प्रतीयते.

57
तदाऽसहिष्णुः प्रबलैःप्रमाणे
श्रिया सनाथं व्यतनो द्यतीशः
८१
एवं स्थिते सप्त दशेऽह्निरात्रौ
प्रज्ञावत स्तस्य चजयमूर्तेः यज्ञ
कुयुक्तिवादे यतिशेखरस्य
नैवास्फुरत्खण्डन शौण्ड युक्तिः
८२
गत्वायतींशो वरदं प्रणम्य
सुप्तस्तदा स्वप्न गतो रमेशः
श्रीयामुनाचार्य कृत प्रबन्धे
प्रादर्शय त्खण्इन युक्तिवादम्
८३
प्रातस्समुत्थाय कृताह्निकस्सन्
सभांप्रतस्थे यति सार्वभौमः
ज्ञात्वास विद्वान्मुखवर्च सातं
प्रणम्यबद्धांजलि राबभाषे
८४
यतीन्द्र! किवचिम भवत्प्रभाव
भावंगतस्ते खलुदेवराजः
जितोऽस्मि वासोऽस्म्बिन कंपयमं
मायांबुराशेजनमुद्धरेति
८५

58
कृपानिधि श्रीयति शेखरस्तम्
संस्कृत्य चक्रे श्रितवर्ग संस्थम्
नयविदो मकमपि त्यजन्ति
तेपण्डितं किश्रितमु त्सृजन्ति
तस्मिन्पवित्रे धुतयज्ञसूत्रे
गतकदण्डे विलसत्रिदण्डे
तस्याभवढे दिकवेष्णवेष्टया
तिर्यक्कृतंपुण्ट्र मथोवपुण्ड्रम्
८७
नाम्ना यतीशःखलुयज्ञमूर्ति
श्रोदेवराजं मुनिमाततान
सज्ञानसारं गुरुराण्णिदेशात्
प्रमेयसारंच चकार भूयः
८८
ततो यतीशो विदुषां सहस्त्रे
रेकान्तिनां द्वादशभिस्तथान्यैः
बुधै श्चतु स्सप्तति पीठमुख्य
रियायविद्वद्विजयाय हृष्टः
८९
सचोळदेशे विदुषो विजित्य
श्रीकुंभकोमेश. मुखान्प्रपाम्य

59
पाण्ड्ये शाठाराति मुपास्य पश्चा
स्कुरङ्नाम्नी नगरी मवाप
तत्रत्य नंब्याख्य रमासहायं
प्रणम्य भक्तया यतिराज चन्द्रः
तस्थौ तदा सोऽपि हरिर्ब भाषे
शुचिस्मितो विस्मय मावहन्तम्
मयागृहीता बहवोऽवताराः
नतेषु मे कोऽपि पदानुवर्ती
सर्वे भवन्तं परितश्रियन्ते
कोवश्यमन्त्रो भवदन्तिकेस्ति
९२
तमन्त्र मद्योपदिशेतिपृष्टो
यतिप्रवीरो हरिमाह हृष्टः
देवोपि नैनं लभते विशिष्ट
शिशष्योनचे त्तस्य गुरो रभीष्टः
९३
इति प्रशान्तं हरयेवदन्तं
पतियतीना मनुवर्त्य दान्तं
लब्ध्वा चिरत्नं सचमन्त्ररत्नं
मेमेस्बल सस्वस्थ मनु महान्तम्,
९४

60
स्वतंत्रतायाः फलमित्यवेत्य,
स्वशिष्यतां श्रीनिलयस्य तस्य
रामनुजो वैष्णवपूर्णनाम्ना
प्रसिद्धमेनं हरिमाततान
९५
हरेःप्रभा वादपि तस्यनाम्नो
महाप्रमावो विदितोहि कृष्णों
दूर स्थितेष्यापदि याज्ञ सेन्याः
नामैव वस्त्राणि ददौसभायाम्
९६
विजित्य सर्वान्विदुषोद्विषोऽथ
क्रमात्स्वसिद्धान्त निबद्धदीक्षः.
विशारद श्शारद नीरजाक्ष
स्स शार दापीठ मवाप भूयः
तमागतंतत्र विचित्रवेषा
योषास्वरूपा स्वयमाहभाषा
कव्यासमित्यादिक वाक्यभावं
सुसंगतं ब्रूहियती श्वरेति
गंभीर नीरोद्भव मृष्ट नाळ
स्थितार्करश्मि स्फुटिता ब्जनेत्रः

61
तदर्थ इत्याकलना प्रहृष्टा
श्रीमध्यकारा भिधयाजुहाव
९९
श्री भाष्यकाररश्रितदासवगैः
क्षेत्रप्रपेदे पुरुषोतमाख्यम्
जगत्पति तत्र ननामयुक्तं
सुभद्रया भद्रदया दयाम्
१००
तदाग मोक्तेन पथोत्सवादीन्
जगत्पतेः कारयितुंप्रवृत्तः
अनिच्छया तस्य चतत्रसुप्तः
कूर्माचलेप्रातरभूत्प्रबुद्धः
१०१
स्मरन्जगन्नाथ हरेरनिष्टां
श्रितानुवृत्याऽऽगमपद्धतिताम्
श्रीकूर्मसिंहाचल दिव्यदेशी
समुद्धरन्वेंकट शैलमाप
१०२
श्रीवेंकटेशं शिवरूपमन्ये
विष्णुं विदोन्येव्य वदन्त केचित्
मायाविनंतं हरि मुद्धरिष्य
चामानुजस्तानिदमाब भाषे

62
किमर्थमन्योन्य विवादनोत्का
श्शवानिचिह्नानि च वैष्णवानि
पुरोनिधायास्य गृहान्विशाम
स्सयानि गुह्णाति तदीयदेवः
१०४
तदेवकृत्वा प्रययुनिशायां
समागताः प्रातरमी प्रबुद्धाः
श्रीवेंकटेशं धृत शंखचक्रं
विलोक्यशैवा विमुखा बभूवुः
१०५
तंशंखचक्रांकित बाहुमेवं
कृत्वाऽभवत्तस्यगुरु मुरारेः
वक्षस्थले स्वर्णरमा समर्थ
श्रीमद्यतीन्द्र श्वशुरोबभूव
१०६
तद्रक्षणार्थ सयती निवेश्य
प्रबोधयन्तद्वि भवं जनानाम्
अद्यापितत्पावतले चकास्ति
विज्ञान मुद्राविलस कराब्जः
१०७
शेषाचल स्यांतिक दिव्यदेशे
गोविन्दराजाभि धदेवमूर्तिम्

63
संस्थाप्य तद्गोपुर मंटपादी
न्सकारयामास यतिप्रवीरः
श्रीशैलपूर्णार्य मुखानिशम्य
रामायणाष्टादश गढभावान्
ननन्दवाल्मीकि मुनेर्वचांसि
नासंप्रदायज्ञ सुबोधकानि
१०९
(१)
श्रीरङ्ग कांचीपुर कटाद्रि
मुखाननेकानिकल दिव्यदेशान्
संस्कृत्य संस्कृत्य महोत्सवान्ता
विधायरेमे यतिसार्वभौमः
११०
असूयया शैवमताभिमाना
च्चोळाधिपो वैष्णवं बाधकोऽभूत्
सद्वादशाद्वान्यति शेखरोगा
पछीयाववाद्रिश्रियमुद्धरिष्यन्
नारायणं तत्रपुन निथाय
तथैवडिल्ली विजयं विधाय
(१) महोत्सबैः= नित्योत्सवा_रने कैरुत्सवः, अन्तान्-शोभमानान्.

64
संपत्कुमारं प्रणिधाय तस्मि
नामानुजोरंङ्गमवाप पश्चात्
११२
श्रीरङ्गराजस्य महाप्रसादा
स्कूरेश पत्न्यां जनिती सुतौसः
रव्या पराशयास शुभाभि धानौ
श्रीयामुनाभिमतेश्चकार
श्रीरङ्गनाथ प्रियपुत्रकौतौ
गोविन्दराजार्य पदानुषंगौ
अकारयच्छी यतिराजचन्द्र
स्सत्संप्रदायानु गति विधातुम्
११४
गोविंदराजानुज पुत्रकस्य
परांकुशाख्या प्रणिधायपूर्वम्
श्रीयामुनार्यस्य मनोस्थितं
प्रपूरयामास महान्यतीन्द्रः
११५
किंवयते भाष्यकृतो महत्वं
यदंजलिस्स्याच्छि तरक्षणाय
भवाहिसंदष्ट जनावनेय
द्रामानुजार्येत्य मृताक्षराणि
११६

65
वर्षाश्शतं विशतिरेवमासी
द्रामानुजार्यो यतिराज राजः
धृतत्रिदण्डश्चिदचिद्विशिष्टं
विशिष्ट मद्वैत मिति प्रदश्य
११७
भिन्नर्दण्ड मिळित मभवत्सूत्रबद्धं त्रिदण्डं
तद्भिनश्चिदचिदधिपस्संगतं त्वेकरूपम्
तत्वंसत्यं श्रुति निगदिताद्वैतमेतद्विशिष्टं
नाद्वैतं केवल मितिवदन्सत्रि दण्डो यतीन्द्रः
११८
श्रीरङ्गराडतनत स्वयमेवतस्य
सत्संप्रदाययुत वैष्णवदर्शनस्य
रामानुजार्य मुनिदर्शनमित्यभिख्यां
रामानुजार्य कृत वृद्धि सुबोधनाय
११९
श्रीरामानुज दर्शने परतमो नारायण श्रीपति
निर्दोषोऽखिल सद्गुणश्चिदचितो रात्माच सत्यंजगत्
बद्धाः कर्मवशाद्धरेश्च कृपया भक्त्याप्रपत्याचितः
तत्सायुज्य मवाप्य सेवनपरानन्दन्ति नित्यपदे १२०

66
विशिष्टाद्वैत सिद्धान्त । स्थापकाय महात्मने
श्री भूत पुरवासाय । यतिराजायमंगळम्
इति श्रीमत्सदाचार्य कृपालब्ध सारस्वतस्य
कृष्णमाचार्य शतावधानिनःकृतिषु
गुरुवंशमहाकाव्ये
तृतीयस्सर्ग स्समाप्तः
--

श्रीमते रामानुजायनमः
गुरुवंश महाकाव्ये
चतुर्थ स्सर्ग:
श्रीरधामनि पराशर भट्टनाथः
कुरेशदेशिकसुतः कुलरत्नदीप:
संधितःकरुणया किल राजा
रेजे सबाल हरिदश्वइव प्रकाशात्
om
श्रीभाष्यकारमुखपंकज बालसूर्यो
गोविन्दराज पदाविलोल भृड्गः
कूरेशहस्त परिलालित सिंहपोतः
प्रज्ञानिधिस्समभव खलुभट्टनार्थ
is
श्रीरङ्गराज पुरतश्शठ कोषमाधां
बाल्पेयमौसदसि करपते स्तनूजी
श्राव्येण कंठनिनदेन रघूवहाने
रामायणं कुशालवाविनायतरस्म
३.

68
तद्गान निर्भर सुधाप्लुत सर्वगात्रो
निद्रामवाप्य फणिराजतले शयानः
श्रीरङ्गराट प्रतिपदं नयनेविवृत्य
प्रेम्णा प्रपश्यति पराशर भट्टनाथम्
४
(१
श्रीरङ्ग नायक सुतीकृत भट्टनाय
स्तद्भुक्त शिष्टमधुरानविधितोसौ
बालो बभूव विबुधैरभिनन्धमान
श्रीमत्परि ग्रहणमेव महत्व हेतुः
५
सत्वेकदा पितृसमीपमुपेत्य बाल
श्रृण्वन्शठारि मुनिसूक्ति मथाऽऽबभाषे
एकस्थितिःकथंमणुत्व महत्वयोस्स्या
स्तेजोऽधकार चययोरिव तद्वदेति
६
तद्युक्तिवाद मभिनन्ध पिताप्रहृष्टः
पुत्रंजगाद ननुवत्स! तदस्तिवेदे
मेधाविनोप्यनुपनीत जनस्यलोके
नैव श्रुतिःश्रुतिपथं सममेतिसेति
७
(१) श्रीमता- लक्ष्मीपतेः, धनिकस्य, परिग्रहणम् = अंगीका र:स्वीयत्वेना
भिमानः,धनिकोयंस्त्रीयत्वे नाभिमनुते लोकेतस्य गौरवंभवतिः-

69
सर्वज्ञभट्ट भिरुदःकिल कोपिविद्वान्
श्रीरङ्गमाप जय काहळिकानिनादैः
खेलन्तदाशिशुगणैःपथि भट्टनाथ
स्तं स्वांजलिस्थसिकता कियती त्यपुच्छत् ८
तस्मिस्तदाप्रतिसमा लपनेप्यशक्ते
मन्दस्मित स्समवद प्रियरंगपुत्रः
जानासिनां जलिमिता सिकतेतियत्त्वं
सर्वज्ञनामधरणेनकथं अपेति
तबालनिर्भय सयुक्तिवचो निशम्य
लज्जाम्वित श्च विमुखःप्रययौ सविद्वान्
श्रीमद्यतीन्द्रमुख देशिकपुंगवास्ते
हृष्टा श्शुमा शिषमदुः प्रथिता अमुष्मै
कराधिपस्स्वतनयं विधिनोपनीय
प्रारब्धसाङ्ग निगमंव्यतनो त्तदानीम्
श्रृत्वेकवार मवद त्सचभट्टनाथ
स्स्वाभ्यस्त पूर्वमिववेद मदनमेधाः
गोविन्दराज चरणांबुजसन्निधाने
शास्त्राण्यधीत्य सकलान्यपिभट्टना थ

70
वेदान्तयुग्म विशदीकरणेसमर्थः
प्रज्ञानिधिविमतवादि भयंकरोऽभूतू
१२
तस्यानुरूपदयितां परितोविचिन्वन्
श्रीरङ्गराजमवद त्किलकूरनाथः
स्वामिन्! त्वदीय तनयःपरिणेतुमाँ
जात किमत्र करणीयमिति प्रपन्नः
कूरेशवाचमव धार्यसरङ्गराजो
वाचामरद मधुसार मूचेदम्चे
त्वं निर्भरोभव मदीयसुतस्यकार्ये
सर्वमयैव समये क्रियतेमुदेति
श्रीगभावमधिगम्य सकूरनाथ
स्तूष्णीस्थितस्तदनु पूर्णगुरोःकुलीनः
श्रीमान्बृहच्चरण नामकसूरिवर्यः
कन्यामदावनुगुणां सुजनकमान्याम्
१५
श्रीरङ्गराज कृपयाकिल भट्टनाथो
गार्हस्थ्य मेत्य यतिराजवचो नियुक्तः
सत्संप्रदाय मभिवर्धयतेस्म तत्र
श्रीरङ्गधाममि सुधामनि मोदमानः

71
(२)
।
तत्रैकदा परमवैदिक मुतिरेक
इश्रीवैष्णव स्सकल दिव्यतलानि पश्यन्
श्रीरङ्गराजचरणौ शिरसाप्रणम्य
श्रीभट्टनायशरणे न्यवसत्तदानीम्
१७
संपूज्यतं समवदत्सच भट्टनाथः
स्वामिन्? त्वादीक्षिततेलेषुविदां विरिष्टाः
केवा वसन्ति वदत च्छवणा भिलाषा
मांप्रेरयत्यविरता भवतोऽधिगन्तुम्
इत्युक्तवन्त मवदत्सच भट्टनार्थ
वेदान्तिनामविदितो बहुभिःकिमन्यैः
श्रीरङ्गपट्ट णनिवासपर स्सविद्वा
न्वाणी श्रियोरनुगुणाश्रय एकएव
जित्वा सषण्मतगता विदुषस्त्वजय्यो
जेगीयमान विभवो विबुधरनेकैः
स्वाद्वैत दर्शनसमर्थन बद्धदीक्ष
स्सर्वज्ञव परिजन रभिचाकशीति
२०
(१) शरणेगुहे.

72
श्रीभट्टनाथ पुरतोद्भुतमेवमुकत्वा
श्रीरङ्गपट्टणमुपेत्य सवैष्णवेन्द्रः
श्रीवत्स चिह्नसुतवैभव मप्रमेयं
वेदान्तिनेऽपिकथयन्यदुशलमाप
२१
विद्वद्वरेण्य विजयायविनिश्चितार्थं
स्संप्राप्यरङ्गानिलयस्य तथाभ्यनुज्ञाम्
आन्धोळिकामधिगतः परिवारयुक्त
स्संप्रस्थि तस्सचपराशर भट्टनाथ:
२२
श्वेतातपत्र सितचामर शोभमानो
मानातिगं विभवमाकलयन्मुरारेः
रत्नांगुळीयमकुटांगद भूषितांग
श्रीरङ्गराजइव रसुतः प्रतस्थे
२३
श्रीरंगपट्टण समीप बने रहस्य
वेदान्तिन स्सकल मप्यधिगम्यसर्वम्
संस्थाप्यतत्रचतुरः किल भट्टनाथ
स्सत्राशिवद्गृहमगा द्विदुषः प्रसिद्धम्
२४
श्चितो र्ध्वपुंडनिचय शित यज्ञसूत्रः
कौशेयवस्त्रयुगळी कमनीयवेषः

73
श्रीवामनो बलिमि वत्रिपदा मनन्तां
वेदान्तिनं परमयाचत वादबिक्षाम्
तंशारदाभ्र परिवीत कळा धराभं
दृष्ट्वाप्रहृष्टहृदयो निगमान्ति नामा
स्वस्थान सन्निहित षण्मत पीठमध्ये
वेदान्त पीठमधिरूढमिदं बभाषे
२६
त्वंभट्टनाथइव मेप्रतिभासिपूर्व
विप्राच्छ्तश्श्रुतवता महतां वरिष्टः
नान्योऽस्तिमेपुरत एव निवासयोग्यः
किशास्त्रवादानपुणो भवती हलोके
२७
इत्थंवदन्निगम शास्त्र पुराणसूत्र
रद्वैतमेवसुदृढं प्रतिपाद यन्स:
वादोपवाद परिधित युक्तिधारा
सारैरपूरयदमुं निगमान्त सिंधुम्
२८
मन्थानशैल परिमन्थित सिंधुवत्त
द्वेदान्तिवाद कलुषीकृत भट्टनाथः
पुंखानुपुंख शरकल्प वनिया त
त्सिद्धान्तदुर्ग परिभेदन माततान
२९

74 (१) कुर्वन्श्रुति भगवती सरसा ममिथ्याँ सूत्रांचितां गुणगणार्णव वल्लभांताम् श्रीभट्टनाथ गुरुराडकरोद्विशिष्टा द्वैतंमतं सकलसम्मत मार्यगीतम् ३० (२) तत्वार्थनिर्णय वशादवशस्सविद्वा विज्ञान नुन्न विलसद्विशयान्धकारः वेदान्त्यदभ्रविनया त्सहसोत्थितस्स न्भट्टार्य पादयुगळे न्यपतत्प्रपन्नः ३१ मायान्धकार कुहराद्विनिवतितॊहं दासोहमस्मि नहिसोह मिति ब्रुवाणः बद्धांजलि: प्रणयगद्गदया चवाचा तस्थौ निवृत्त विषयान्तर संगदोषः ३२ आर्ततमात परिरक्षण बद्धदीक्षो वेदान्तिनं करुणया चरणारुणाब्जे (१) सरसाम् = भेदाभेद सगुण निर्गुणत्वबोधक वाक्या नांसामरस्ये नान्वयात् बाधारहितम्, श्रृगाररसयुक्ताम् अमिग्याम् =सत्याभूताम्, सूत्रीचि ताम् = ब्रह्मसूत्ररनु बद्धाम् मंगळसूत्रालंकुताम्. गुणगणार्णववल्ल- भाम् = कल्याणगुणाकर परमपुरुषप्रतिपादिकाम् . (२) विशयः=संशयः, सएवान्धकार:.

75
व्यामुग्धबन्धु समतामुपनीय पश्चा
देवंजगाद सपराशर भट्टनाथः
श्रीरङ्गनायक कृपा त्वयि संप्रवृत्ता
तस्मात्वमद्य परिर्वार्तत वृत्तिरत्र
प्राचीनदोष परिदूषित शेमुषीका
नैवार्थतत्व मवगन्तुमिहोत्सहन्ते
४
इथं प्रभाष्य धुरि सादर मर्थयन्तं
तंपंचसंस्करण संस्कृत मात्मवन्तम्
वेदान्तिनं तदनु माधवदास नाम्ना
ख्यातं ततोऽतनुतकूर कुलावतंस:
सम्मानितो मणिमया भरणैरनेकै
स्तत्रायरंगविभु सेवन जातहर्षः
श्रीयादवाद्रिनिलयं प्रणिपत्यभूयः
श्रीरङ्गमाप विभवैस्सच भट्टनाथः
वेदन्त्यपि प्रियगुरोविरहासहिष्णु
स्सन्यस्य कूरपतिपुत्र समीपमागात्
अस्मद्यति स्स्वमिति गाढमथालिलिंग
श्रीभट्टनाथ गुरुराप्रिय शिष्यमेनम्
३७

76 अस्मद्यतिर्गुरुपदांबुज चंचरीक स्सत्संप्रदायम भजनिगमान्त युग्मम् पश्चात्तदीय वचना च्छठ जित्सहस्र व्याख्यां नवा नव सहस्रमितां वितेने (१) पूर्वयतीन्द्र वचनात्कुरुकाधिपोऽप व्यख्यां चकार शठवैरि सहस्रकस्य षड्भिश्चतैर्दशमितै विवृताधुनासा प्यस्पद्यतेः करुणया नवतामवाप (२) भट्टार्यदेशिकगुरु र्गुणरत्नकोश श्रीशब्दपूर्वमथनाम सहस्र भाष्यम् श्रीरङ्गराजनुति मद्भुत विष्णुपूजां श्लोकाष्टकं मनुरहस्य परंचकार श्रीभट्टनाथ विभवं किमुवर्णयाम श्रीमद्यतीन्द्र चरणौ शरणं प्रदर्य (१) नंजिय्यर कृता ओन्ब दायिरण्णडि नामिका, नवताम् = नव सहस्रा संख्यात्वम् नूतनत्वम्. कुरुकाधिपः=कुसकेशः= श्रीशैलपूर्णतनयः रामनुजार्येणपुत्रत्वेन स्वीकृतः आरा यरप्पडि नमिकांशठकोप सहस्र- व्याख्यां कृतवान् (१) मनुरहस्यम् = अष्टाक्षरीमन्त्ररहस्यम्.

77
अस्मद्यति निगमसार निधि निधाय
स्वल्पेवयस्यपि जगाम परं पदंयः
४१
अस्मद्यति स्तदनु दर्शन दर्शकोऽभूत्
श्रीरङगधामनि निजार्य कृपावलंबः
शिष्यस्सएव तनुना मनसाचवाचा
यस्सेवते निजगुरो रमला मनुज्ञाम्
४२
अस्मद्यते रधिगत स्त्वथ शिष्यभावं
नंबूरिपूर्ववरदो निचुळा पुरस्थः
तस्येकदा
वकुळ भूषण सूक्तिभाष्यं
विस्फष्टलेखनकृते गुरुणा प्रदत्तम्
४३
गुर्वाज्ञया सवरबस्स्वपुरंयियासुः
पूर्णांकवेरतनया मतरभुजाभ्याम्
तत्पुस्तकं विधिवशान्यपतज्जलौघे
कृत्यानि साहसव तांविपदां पदानि
४४
(१)
तीकिथंचिदपितां गुरुकोशनाशा
निष्किंचनो जनइव प्रविलप्य पश्चात्
कोशस्य-ग्रंधस्य.
(१) गुरुकोशनाशात् = गुरोः = आचर्यस्य.महतश्च
द्रव्यभांडागारस्य. नाशात् =विनाशत्.

78
पूर्वश्रुतं गुरुमुखात्सविशेषभावं
वाल्मीकिवकर इवामलकं ददर्श
४५
सर्वविलिख्य शठजिनिज सूक्ति भाष्यं
नंबूरिवंशतिलको वरदो व्यदात्तत्
स्वाचार्य हस्तकमले गुरुरप्यवेक्ष्य
स्वोक्ताद्विशेषमधुरं सविस्मितोऽभूत् ४६
(२)
ज्ञात्वाप्रवृत्त मखिलं वरदस्यमोदा
दस्मद्यतिः करुणया स्वसुतार्थ युक्तम्
नंबिळ्ळ नामकरणं कृतवान्महन्त
रिश्ष्यं स्वतोऽप्यधिक सद्गुण मर्थयन्ते ४७
वेदान्तयुग्म निखिलार्थ रहस्यबोधं
दत्वागुरुः परम कारुणिकस्तमेव
रामानुजार्यमत वर्धक मार्यमुख्यं
नाम्ना प्रसिद्धमकरोत्कलिवरिदासम्
४८
(२) स्वसुतार्थयुक्तम् = अस्मत्यु त्रकइत्यर्थ बोधकम् द्रविडभा षायांनंबिक्छे
इत्याकारकं नामकरणं कृतवान् ।

79
(१)
अस्मद्यतीन्द्र गुरुसागरतोऽमृतंत
स्वीकृत्यविष्णुपदगो भवतापशान्त्य
वेदार्थसार मभितस्सववर्षरंगे
कारुण्यपूर्ण हृदयः कलि वैरिमेघः
४९
५०
नंबिळ्ळदेशिक सुधामय सूक्तिजाले
राकृष्यमाण हृदया बहवः प्रपन्नाः
श्रीरंग धामनि पुनर्यतिराजगोष्टी
माटीकतेस्म विपुलाच तदीयगोष्टी
तत्रैकदा विभवमस्य वृथाऽसहिष्णु
स्तोडप्परायविबुधः कुरुकेशवंश्यः
सन्ताड्य पुंडनिचयं परिमृज्य याज्यं
सूत्रसमच्छिनदहो ? कुलजाभिमानः
५१
इत्थं प्रभूत परिभूततरोऽपि शान्तः
प्रारब्धकर्मफल मित्यभिमान शून्यः
तस्य प्रसादनकृते समचिन्तयत्सः
सन्तो द्विषन्त मपिजातु नहि द्विषन्ति
५२
(१) अमृतं भक्तामृतत्वेन प्रसिद्ध शाठकोपगाधासारम् जलञ्य विष्णुपदगः
नारायणपदा श्रितः अकाशगः

80
तोडप्परार्य दयिता वरदार्य शिष्या
श्रुत्वा स्वभर्तृकृतदेशिक भंगदोषम्
प्रत्यागतं पतिमुवाच कृतापचार
त्वांनोत्सहे समवलोकितु मेवगेहे
५३
यद्यप्यहंतु सहधर्म चरीतवा स्म
धर्मार्थकामविषये नहि चात्मनाशे
देहंभवेद्भवदधीन मथान्तरात्मा
स्वचार्यपादक मलापित दिव्यभृङ्गः
५४
४
दत्तंमदङ्ग मनघं भवते पितृभ्यां
तच्छिन्दिभिन्दि किमपीह कुरुष्वशक्तः
नैवात्मनि प्रभुरसह्य महापचार
श्रीनाथ एव स्वलु सर्वजनात्मनाथः
५५
देहव्ययाद्भुविविनस्यति देहमन्ध
स्वात्मानबन्ध विलये नहिकोऽपि शक्तः
तस्माच्छरीरमपहाय च बन्धुरुद्धं
ध्यात्वात्माना हरिमगात्खलु चिन्तयन्ती ५६
भत्रक्रिया भवति तत्पति देवतानां
स्वर्गेचिरं सुखमिति पथितं हि शास्त्रे

81
आचार्यदेवकृपया हरिसंशितानां
मुक्तिर्भवेन्नखलु संसरणानुषक्तिः
५७
अत्यन्तदुःख परयाप्रिययै वमुक्त
स्तोडप्पराख्य विबुधोऽनुशयात्सलज्ज:
कान्तामुबाच दयिते ? किमहंतु-
मात्सर्यंत श्रुतमिदं मुषितं तदानीम्
५८
रात्रौततस्स वरदानुनयाय गन्तुं
भार्याप्रदर्शितपथ स्त्वररं विवृत्य
द्वारे तदैकवसनं वरदंविलोक्य
प्रोवाच नक्तमिह किस्थितवानसीति
मू प्रणम्य वरदस्त्विदमाह विद्वन् !
सत्यंशपे भवदनुग्रह कामुकोऽहम्
देवोऽपिमा नपहते महदाति हेतुं
पुंड्रोपवीत धरणे ममदे ह्यनुज्ञाम्
६०
इत्थंवदन्त मनघं परिसांत्व्य भक्त्या
संपूज्य तच्चरणोः प्रणतस्स भार्यः
त्वंसर्वलोकगुरु रित्यभणत्सविद्वान्
क्षान्तिहिसर्व जयिनी महतां विशुद्धा

82
नंबिळ्ळयार्य गुरुपाद समाश्रितेषु
मुख्याभवन्ति बहवः परमार्थ विज्ञाः
तत्रापिदेशिक पदांबुज युग्म तुल्यौ
कृष्णावयः प्रियतमः खलु कृष्णपादः
कृष्णद्वयन शठकोप सहस्रभाष्यं
सद्वादश द्वय सहस्र मितंत्वकारि
स्वाचार्यरुच्यनु गृहीत महार्थ बोधो
यस्माद्भवे दखिल वैष्णव धर्मभाजाम् ६३
(१)
श्रीकृष्ण पादगुरुराड् वरदार्यसूक्ति
शृण्वन्यथा श्रुतमसौ व्यलिखनिशायाम्
त्रिंशदास्त तदिदंहि सहस्रकाणां
भाष्यंगुरोरभिमतं शठजिच्छतीनाम्
(२)
पश्चाच्छ सुन्दर वराभिध संयमींद्र
गुर्वाज्ञाया कृतमभूच्छठवैरिसूक्तेः
भाष्यहि षड्द्वय मितंनिखिलानिपंच
प्रख्यात देशिक कृतानि हितानि नृणाम् ६५
(१) ईडुमुप्पत्तायिरनामकं वड स्कुति रु वीधिपिळ्ळे कृता मित्यर्थः.
(२) सुन्दरवराभिधः=अळ हियमनवाळ जिय्यर नबिळ्ळे शिष्यः-

83
श्रीकृष्ण पादलिखितं शठकोपगाधा
भाष्यं प्रवर्तयतुमेव सदेशिकेन्द्रः
ईयुणिमाधवकरे न्यदधात्सपश्चा
च्छीपद्मनाभ विदुषे प्रददौसुताय
श्रीपद्मनाभगुरुराट्स्वपदाश्रिताय
रामानुजाभिध बुधाय सचापितस्मै
श्रीशैलनाथविदुषे ततएवचास्म
सौम्योपयन्तृमुनिराड् तदवाप भाष्यम् ६७
कलिकालदोष कलुषी कृतात्मनां
कलिवैरिदास करुणैव केवलम्
नळिनाक्षपाद नळिनाप्तयेभवे
दलमन्यहेतु कलनंहि निष्फलम
इति श्रीमत्सदाचार्य कृपालब्ध सारस्वतस्य
कृष्णमाचार्य शतावधानिनःकृतिषु
गुरुवंशमहाकाव्ये
चतुर्थस्सर्ग स्समाप्तः

श्रीमते रामानुजायनमः
गुरुवंश महाकाव्ये
पञ्चम स्सर्ग:
श्रीकृष्णपादस्य सुतौस्थितीद्वा
वाचार्य कारुण्य फलायमानौ
श्रीरामसौमित्रि समानमैत्री
मवापतुस्तौ सुगणैस्समानौ
(१)
ज्यायानस्तयोर्लोकगुरुः कनीयान्
श्रीरम्यजामतृ बुधाभिधोऽभूत
द्वाद्वितीयावपि सद्वितीयौ
'कृतौवटुत्वादिक संस्कृतौती
२
वेदान्तविज्ञान सुनिश्चताथों
शास्त्रेषु सर्वेष्वपितौ समर्थी
(१) द्वौ=लोकार्यरम्यजामात्बुधौ. अद्वितीयावपि = सदृश रहितावपि-
सद्वितीयो भार्यासहितौ गृहस्थावित्यर्थ.

85
समाश्रित स्वार्थ पदांबुजातो
जातौहि तत्कृष्ण पदार्यजातौ
३.
(२)
लोकार्य वर्योऽपिहरे रनुज्ञा
विशेषतोऽशेष रहस्य सारम्
तद्भूषणं श्रीवचन प्रपूर्व
चकार तद्भूषण माश्रितानाम्
जगद्गुरुदर्शन वर्धकोऽभू
च्छीकृष्ण पादादनुरङ्गपुर्याम्
श्रीशैलनाथार्यमुखा स्त्वनेके
दासास्तदीया विदिता बभूवः
(१)
तद्वैभवं सोड मपारयन्त
श्रीवैष्णवाः केचन वाचमूचुः
श्रीरङ्गनाथस्य पुरःपुरस्था
स्स्वामित्रयं धर्मभिदित्यतद्ज्ञाः
६
(२) लोकाचर्यः श्रीवचन भूषणाख्यं रहस्यग्रंथं प्रकटीकृतवान् ।
(१) पुरः=अग्रे.
पुरस्थाः
श्रीरङगनगरेस्थिता: अतत्ज्ञाः तदाशय मजा-
नन्तः.

86
रंगाजयालोक गुरोश्चसून
श्रीरम्य जामातृ गुरुस्समेत्य
वेदान्तसारं विशदं प्रकुर्व
नाचार्यपूर्वहृदयं व्यतानीत्
७
रामानुजार्यः कृपयारहस्यं
मंत्रंतदर्थ प्रकटीचकार
पश्चादयं लोकगुरुस्तदर्थ
प्रचारतोलोक गुरुर्बभूव
सत्संप्रदायानुगतं रहस्यं
सदस्यमासीत्कृपयाऽस्यलोके
लौकार्यवर्यः कृतवान्प्रबन्धा
नष्टादश द्राविड भाषयाग्यान्
९
अस्मद्गुरूणा मिहवंशवृक्षो
प्यालक्षमणार्याद भवत्प्रकाण्डः
पश्चत्तुशाखाद्वयमाविरासी
द्वेदान्तयुग्म प्रसवाभिवृध्ये

87
(१)
पौरोगव श्रीयतिशेखरस्य
हरस्समासी त्प्रणतातिपूर्वः
आत्रेयवंश्यस्सघटांबुवाह
कुलाग्रणीस्तस्य सुतोऽपि विद्वान्
रामानुजस्तस्यच पद्मनाभ
स्सुतोऽभवत्तस्य च रामसूनुः
रामानुजार्यस्य पदाश्रितोऽभू
च्छीवेंकटेशो निगमान्तवर्यः
१२
श्रीभाष्यकारा दधिगम्य भाष्यं
शारीरकं श्रीकुरु काधिनाथः
श्रीविष्णुचित्ताय ददौ सतस्मा
द्वात्स्यान्वय श्रीवरदो ग्रहोत्तम्
१३
तस्माच्च शारीरक भाष्यमेत
च्छीपद्मनाभार्यसुतो महीयान्
रामानुजार्यः परमाप तस्मा
द्वेदान्तवर्योऽलभतार्यवर्यः
(१) प्रणतातिहराचार्यः

90
लीला विभूते विलयं विशंक्य
स्वयं तदा बाधकम्मतनोति
२३
सेबोत्सुकानां विधिर्व विपाका
न्महोत्सबा भ्युन्न त रङ्ग धाम्नि
क्षेत्रेऽपतन्दुर्यवना स्तदानी
समृद्धसस्ये शलभाइवोग्राः
२४
स्वयं समालोच्य रिरक्षुरासी
प्रमाणजातं निगमान्तवर्यः
प्रमेयरक्षा विधिमातनोच्छी
लोकार्यवर्यों यवनप्रकोपे
२५
वेदान्त लोकार्य गुरुप्रभाव
प्रपश्यतां तद्गतभावबन्धम्
नदृश्यते क्यापित थाविभेदः
पाश्चात्यवर्गेष्व धुनायथास्ति
२६
(१)
।
उदीच्यवाचीकलयरिदानी
सर्वस्यपुंड्रस्य विनाशकाले
(१) बालवादः-पुच्छवादः. वबयोरभेदात्. बालवादः = अर्भकवादव
निरर्थक इत्यर्थः
.

91
पादीस्तिनास्तित्वविवादएव
गजेऽपिनष्टे खलुवालवादः
२७
आच्छाद्यतद्रग विमानमार्ग
बहिनिधायेतर मतिमेकाम्
श्रियाभुवा रंगपति गृहीत्वा
ययौतदालो कगुरुर्वनान्तम्
२८
निनायसवं निगमान्तवयं
श्श्री भाष्य को शादिक मन्यतोऽपि
श्री वैष्णवानां विलयस्तुरङ्गे
तदुत्सवो नित्यपदे तदासीत्
२९
लोकार्यवर्योऽपि सरगनाथो
ज्योतीष्मती नामपुरी प्रपेदे
श्रीरङ्गभाग सहसाऽसहिष्णु
विवेशपश्चात्परमंपदंतत्
.
श्रीरङ्गराट् लोकगुरोवियोगा
रसुदुःखितो भक्तजनः प्रणीतः
दृष्ट्वातदा केरळदिव्यदेशा
रक्रमादयं यादवशैलमाप
३

92
श्रीयदवाद्रौ समतीत्यकालं
ततोऽगमद्वेकट शैलराजम्
श्रीरङ्गराजश्चिरमास तत्र
सुसत्कृतो वेंकटनायकेन
३२
नृसिंहदेवो यवनान्तरङ्गः
कंसस्यचा क्रूर इवावतस्ये
रङ्गेनियुक्तो यवनाद्ररक्ष
श्रीवैष्णवान्तत्रहताव शिष्टान्
श्रीगोवणोनाम विभुस्तदानीं
पुरेच नारायणनाम्न्यवात्सीत्
सरङ्गराजानुमतेजिगाय
नृसिंहयुक्तो यवनेशसैन्यम्
आर्यास्तदा रङ्गमणिचदासी
प्रोचुनिहन्तुं यवनेश्वरंतम्
सदाक्तिद्रङ्ग महोत्सवेषु
तस्या स्मृते गारवनिष्क्रयोण
३५
प्रचोदितायः किलदेवदासी
छलाद्वशीकृत्य चगोपुरात्तम्

93
निपात्य पश्चत्पतिता तदानीं
मुक्तिगता रङ्गकृते मृतासा
श्रीरङ्गराजः पुरमापरङ्ग
वनात्पुरंदाशरथि यथास्वम्
वेदान्त वर्यों निगमान्तयुग्मं
स्वसूनवेऽदा द्वरदायनाम्ने
वित्रासमश्श्रीवरदार्यवों
वेदान्तयुग्मं विशदीचकार
श्रीरङ्गपुर्या श्रितवैष्णवेषु
श्रीरङ्गलक्ष्मी स्थिरतांमवाप
पांडयेष्वभू च्छीमधुरासमीपे
कुन्तीपुरी धी प्रशयात संज्ञः
श्रीवेष्णवस्तत्र च गोमठाख्ये
वंशेसलोकार्य पदाब्जभृङ्गः
श्रीरङ्गनायक्यभिधा तदीया
भार्यातयोग्यविशेषयोगात्
शोषांशभूतोऽभव दामजातो त्म
यथाहि विद्यानययो विवेकः
४०

94
बालस्स बालेन्दु रिवाकळङ्को
व्यरोचतस्वप्रभया प्रहृष्टः
पिताकरो त्सौम्यवराभिधंतं
तमोभिदं मुग्धविलोकनेन
४१
(१)
पित्राकुमारो विधिनोपनीत
षडङ्ग वेदाध्ययन प्रवीणः
कलाभिरेवं सकलाभिरासी
त्पूर्णोयथा पाविक शर्वरीशः
गृहस्थधर्मेण ततःस्थितस्य
सौम्योपयन्तुस्सरस स्सुतोऽभूत्
रामानुजाख्यो रमणीयमूर्ति
>पात्समुत्पन्न इवप्रदीपः
४३
लोकार्यशिष्यप्रवर स्तादानी
श्रीशैलनाथः कुरुकानगर्याम्
अवर्तत श्रीशठकोमसूरि
श्रीसूक्तिसविरहस्यवेत्ता
४४
(१) कलाभि = विद्याभि:. षोढशात्मक कलाभि.

95
तस्यांतिके सौम्यवरोमहात्मा
श्रीकृष्णपादोक्त शठारिसक्तीः
भाष्यणसाकं समधीत्यसर्व
रहस्यविद्दर्शन वर्धकोऽभूत्
४५
त स्मिंस्तदा श्रीनगरे यतीन्द्र
संस्थाप्य तद्दिव्यनुर्तिव्यतानीत्
सौम्योपयन्ता यतिराजविश
त्याख्यां यतीन्द्र प्रवणाभिधेयः
४६
सदिव्यदेशान्परितो विलोक्य
श्रीभूतपुर्या यतिराजचन्द्रम्
प्रणम्य तस्यनुमतेस्तदानीं
विद्याविपंची प्रविवेश कांचीम्
तत्रत्यकृष्णार्यगुरो स्समीपे
घटांबु वाहान्वय संभवस्य
शारीरक भाष्यमधीत्य विद्वा
न्वेदान्तयुग्मं विशदीचकार
४८
श्रीशैलनाथार्य वरस्यपश्चा
त्तद्वैभवं वीक्ष्य वदन्तिसन्तः

96
श्रीमद्यतीन्दप्रवणं यतीन्द्र
भूयोऽपिभूमौ कृपयावतीर्णम्
४
९
अशिशयन्सौम्य वरं मुनीन्द्र
सर्वेरहस्यार्थविदोपिसन्तः
श्रीमच्छठाराति सहस्रगाधा
भक्तामतस्यंदिन मंबुवाहम
५०
श्रीयादवादि समवाप्यतत्र
श्रीदेवराजार्यगुरोस्समीपे
आचार्यहनामक सद्रहस्यं
जग्राह लोकार्य सहोदरोक्तम्
५१
समुद्धरिष्यन्किल भक्तिशास्त्रं
रामानुजोऽभूद्रमणीयमूर्तिः
प्रपत्तिशास्त्रोद्धरणायभूय
स्सोम्योपयन्ताऽभवदादिशेषः
५२
(१)
प्रतप्त कार्तस्वर दिव्यगात्रः
प्रफुल्ल रक्तांबुज पत्रनेत्रः
(१) रङगः,= रङगनायकः. नामैकदेशेनामग्रहणम्. स्त्य भामायाः स्त्ये-
तिवत्. भीमसेनस्य भीमइतिवत् .

97
सौम्योपयन्ता मुनिराबभासे
रङ्गोयथा संयमि रूपधारी
श्रीकृष्णपादार्य कृतंचभाष्यं
विवृण्वति श्रीमतरङ्गधामिन
श्रीरम्य जामातृ वरेतदानों
श्रीरङ्गनाथशवणोत्सुकोऽभूत्
५४
सौम्योपयन्त्राऽभि नयेन भावे
प्रकाश्यमानेऽभिनवेशठारेः
शेषाहितल्पेन सहवमोद
प्रवाहभजैविचचाल रङ्गः
५५
शठारिगाधाऽश्रुतपूर्वभावो
यथायथा श्रोत्रगतस्तदानीम्
श्रीरङ्गराजो निगमान्त सिद्धां
सर्वज्ञतां संकुचतां समेने
५६
निरूपिते संयमिना परत्वे
विस्मृत्य चाऱ्यांतनु मादिरूपम्
पदेपदेस्वं परवासुदेव
ममंस्त नित्यैः परिगीयमानम्
५७

98
क्वचिच्च सौशील्यगुणेऽमिनीते
सौम्योपयन्त्रा परतां विहाय
श्रीरङ्गनायोऽयं तनौकरेण
प्रादर्शयत्स्वोदर दाम बन्धम्
विश्लेषमोहाद्वि वशा मवस्था
श्रुत्वा शठाराति गतां जहर्ष
स्मरन्पुरास्मिन्भुवि जायमाने
स्ववीक्षणस्याभुत वैभवंतत
५९
अप्राप्य वाचो मनसा सहैव
यतोनिवृत्ता स्तमपि ब्रुवन्त्यः
शठारिगाधा स्स्वर्वशं प्रचक्रु
स्तव्याख्यया सौम्यवरस्य देवम्
तथाप्रभृत्येव सरङ्गराजो
वेदानुगम्योऽपिशठारिसूक्तीः
तदीयभावेन हृतोऽनु धावे
द्वशीकृतो मुग्ध दृशेव कान्ताः
इत्थंयतीन्द्र प्रवणस्यपद्या
च्छीकृष्णपादार्य कृतंचभाष्यम्

99
निशम्यमायाभक रुपधारी
श्रीरङ्ग राडाविर भूज्जने भ्यः
६३
श्रीशैलपूर्व स्तुतिपद्यमे
श्रीरम्यजामात कृतेविधाय
स्वशिष्यभावं प्रकटय्यपश्चा
दन्तहित स्सर्वजन स्सद्दष्टः
तदद्भुतसौम्य वरोविलोक्य
सत्संप्रदाये गुरुशिष्य भावम्
प्रबोधयत्स्वाचरणेनदेवः
कृपाविशेषादिति विस्मितौऽभूत्
६४
सौभ्योपन्ता सहि तस्सशिष्य
श्शठारि गाधामृतनित्यतृप्तः
श्रीरङ्गराज परित्यंतत्र
महायतिाति मवाप तस्मात्
शिष्येषुमुख्या परितोविधाय
दिशागजानष्ट महायतीन्द्रः
६५
१) श्रीशैलेशदयापात्रं। धीभक्त्यादि गणार्णवम् यतीन्द्रप्रवणंवन्दे रम्य
जामातरं मुनिम्.

100
आसेतु शीताचल मार्यजुष्टं
वेदान्त युग्मं विशदीचकार
६६
लोकार्यतत्सून रहस्यसूक्ती
ख्यिायच द्राविडभाषयैव
श्रीकृष्ण पादीय शठारि गाधा
भाष्यप्रमाणार्थ मथालिखत्तः
६७
शठारिगधा दशकैकपद्य
मंदादिनाम्नाशतकं तथाः
प्रबन्धमेका मुपदेशरत्न
मालांवितेनेश्रितकंठमालाम्
६८
सौम्योपयन्तुः कृपयातदीया
स्समस्त शास्त्रार्थ महारथास्तेः
दिशागजा दर्शन पीठसंस्थाः
परंपराचार्य पदे निविष्ठाः
६९
रामानुजार्योगुरुशब्दवाच्य
स्तदंध्रियुग्मंशरणं जनानाम्
सर्वेऽस्मदीया गुरवोऽपितस्य
संबन्धमात्रा ज्जनमुद्धरन्ति
७०

101
श्रीवानाचलयोगिराडथमहा श्री भट्टनायोमुनिः
जीवासार्य यति धंटांबुकुलजी रामानुजश्चात्मजः
वाधूलान्वयजो वरप्रदमहा नारायणख्यो गुरुः
पीठस्थाः प्रतिवादिमीकरगुरुश्रीदेवराजस्त्वमी
७२
तुलामूलावतोय
तोषिताखिलसूरये
यतीन्द्रप्रवणायास्तु
नित्य श्री नित्यमंगळम्
शाके षड्गजनाग चन्द्र सहिते श्रीक्रोधि संवत्सरे
मासेफाल्गुण संज्ञकेऽह्निचगुरोश्शु क्लेऽष्टमी सत्तिथौ
श्रीमान्कृष्ण शतावधानिरचितं जीयायिरंभूतले
नव्यं श्री गुरुवंश नामकमहा काव्यंयतीशा दरात
७३
इति श्रीमत्सदाचार्य कृपालब्ध सारस्वतस्य
कृष्णमाचार्य शतावधानिनःकृतिषु
गुरुवंशमहाकाव्ये
पंचमस्सर्ग स्समाप्त:

श्रीमते रामानुजायनमः
गुरुवंश महाकाव्ये
षष्ट स्सर्गः
श्री श्री श्री परमहंस परिव्राजक त्रिदण्डि श्रीमन्नारायण
रामानुज जिय्यामि चरित्रात्मक:
श्रीमत्रिदंण्डिनारा
यणरामानुज संयमीन्द्र वृत्तम्
वृत्तं पुरतः प्रीत्या
काव्यरचया म्यद्य सुसहुवृत्तम्
पूर्वश्रीगुरुवंशकाव्य मलिखं श्रीसौम्पजामातृस
च्चारित्रान्तमशेषलोक विदितं तत्पंच सर्गात्मकम्
श्रीनारायण रामसोदरयतेदिव्य प्रभावात्मकं
षष्टंसर्गमथोल्लिखामि महता प्रेम्णाचसंप्रेरितः
२
(१) सुबहुवृत्तम् = सुंदर बहुळछन्दोवृत्त सहितम् .

103
श्रीनारायण रामसोदरमुनेरंशावतारात्मतां
ज्ञात्वातद्विभवान्तदीयचरितंप्रत्यक्षतस्सर्वतो
दृष्ट्रवाकिंचिदिदंवदामि गुरुवंशाख्येच काव्यधुना
सर्ववक्तुमशक्यमेव महतां वृत्तन्तुलोकात गम्
३
पूर्वाचार्यपरंपरा सुचरितं पूर्वार्यसूक्तिक्रमात
काव्यऽस्मिन्विषयीकृतं नहिमयादृष्टं विशिष्टंत्विदम्
प्रत्यक्षीकृतमक्षराक्षरमतस्तथ्यं चपथ्यहिनः
नैवात्राति शयोक्ति रस्ति चरितेस्या न्यूनसूक्तिःपरम् ४
श्रीसौम्यजामतृ मुनीन्द्र शिष्याः
पश्चास्वधीतामल सूत्रभाष्याः
मतप्रचारसुजनै रदूष्याः
मुदाव्यतन्वन्परितोगतेाः
५
वानादिरामानुज सूरिमुख्या
यतिप्रवीरास्त्वितरे गृहस्थाः
विद्वद्वरावादि भयंकराद्या
यतीशसिद्धान्त निबद्धदीक्षा:
w
विशिष्टाद्वैत सिद्धान्त बद्ध कौतूहलाःपरम्
रुरुधुर्मतव्याप्ति । प्रतिवादि भयंकराः
७

104
वरवर मुनिशिष्यास्वीय वंशक्रमेण
स्वगुरुपदनिविष्ठाःकुर्वतेस्म प्रचारम्
निगमशिखरयुग्म ज्ञाननिष्टा वरिष्टाः
कतिपयदिवसेषुस्वार्थ मुत्सृज्य पूर्वम्
८
तदन्येऽपिमठाधीशा। विशिष्टा द्वैतपारगा:
विद्वांसस्तत्र तत्रस्था। वितेनु मतपद्धतिम्
(१) काले गतेकले र्दोषा । दभवन भारतावनी
परमार्थदशाहीनाः परमार्थेहया जनाः
१०
(१)
आचार्यवंश्याः क्रमशोऽनभिज्ञा
स्वाचार मात्मीय मतप्रचारम्
परित्यजन्तः परित श्चरन्त
स्स्वीकुर्वतेस्मार्थ धिया परार्थम्
११
कमठाइवते मठाधिपा
स्स्वमठा कुञ्चितवृत्तयोऽभवन्
(१) परमार्थेहया = उत्कृष्टार्थ प्रयत्ने नेति विरोधपरिहारः.
(१) अर्थेहया = स्वप्रयोजनबुध्याद्रव्य बुध्यावा.

105
कलिदोषमषीमलीमसे
सुजनेनास्तिकता स्थिताऽभवत्
१२
प्रभुता समतानुसंगता
जनतायां गुरुशिष्यवृत्तिता
क्वगतान सदार्यसम्मता
मतसबन्धविशेषनिश्चिता
योगिनश्शास्त्र विज्ञान । योगिनश्च दिवंगताः
तद्वंश्याराजकीयाग्यो । योगिनो भोगिनोऽभवन्
लक्ष्मीपति स्स्वमतलोपमवेक्ष्यशेषं
स्वात्माविशेष मिदमाहतमादिशेषम्
बद्धान्समुद्धर पुन विजायमानो
मानोचितश्चिदचिदीश्वरतत्ववित्त्वम्
१५
पुरैकदा बाह्यकुदृष्टिवादः
शून्यीकृते मामक भूतियुग्मे
रामानुजार्याभिधयाऽवतीर्णो
मांचक्रियावाप्तविभूति युग्मम्
पुनरपिकलिदोषाषिते वेदमार्गे
वरवरमुनिरूप संप्रदाय प्रवृत्तः

106 सुविशद मतनोस्त्रय्यन्त युग्म प्रचारात् श्रुतिविदितविशिष्टा द्वैतसिद्धन्त वृद्धिम् १७ भूयोधुना त्वमवतीर्य कलिविजित्य श्रीरामनाम विभवान्मदनुग्रहेण आसेतु सीतनगमायं जनैरुपेतो व्याप्ति कुरुष्व निगमान्त युगस्यलोके १८ इतिरमापतिनागदितोऽहिराट सकलया कळया जनितुंक्षितौ व्यतनुता त्मनिनिश्चय मादरा दृरबिलोलफणावळि मंडल तदनु दनुजवैरि श्रीधरो भूधरेस्मिन् निहित सकलभारो भूरमा संगतोसौ निगममयविचारो निर्विचारोबभूव प्रियसुत धृतराज्यः पूज्यमानःपितेव (१) २० श्रीवेंकटेशभितशीर्षदेशे श्रीभारतांबा हृदयाविशेष (१) निगममयेन-वेदमयेन. विना = पक्षणा. गरुडेन चरतीतिनि गम- मयविचारः, भूधरे = शेषे.

107
आन्ध्रप्रदेशे विदुषांनिवासे
श्रीकाकिनाडाख्यपुरी चकास्ति
२१
तत्रत्य वंगोपुरमंगयात्
चूडांबिकायां सुकृतातिरेकात्
बभूवपुत्र.प्रभया विचित्रो
दिनोदया पूर्वदिशीव मित्रः
२२
(१)
चन्द्र त्रिनाग विधुशाकशरत्समांके
सौम्याब्दकेनभ स चोत्तरभाद्रऋक्षे
जातोयनन्त कळयाऽमलया सुतोऽयं
तिवेगळार्य शुभनामयुतोबभूव
२३
चिल्कमर्रिकुलोत्पन्न कृष्णमा चार्यभार्यया
लक्ष्मीनबियापश्चा च्छ्वीकृतःप्रकृतोयथा
अवाप्यदत्त पुत्रत्व । मनमोऽयंकुमारक:
श्रीमन्नारायणाचार्य · नाम्ना विलसतोऽभवत्
२४
२५
अकलुष मतिरेष भाषमाणी
मुदमतनो स्वजनस्य बालभावे
(१) चन्द १ त्रि ३ नाग ८ बिधु १ अंकानां वामतोगतिः १८३१
शलिवाहनशके.

108
शुगवटनिपत ज्जनोद्धिधीषु
श्शुकवट नामकवंशपावनोऽभूत्
२६
(१)
नारायणार्यो मधुरां प्रविष्टो
बाल्ये त्ववाची मपठत्तदानी
माद्वादशाब्दागम मांग्लभाषां
तांद्राविडी वाच मथादरेण
२७
ततस्स मेधानिधिरात्तमूर
ग्रामेतु काव्या न्यपठत्तदानीम्
विशिष्यगीर्वाण विदांवरिष्टो
बभूव हृष्टश्च गुरूपदिष्टः
२८
मंडपेटमहाग्रामे । न्यायप्रकरणादिकम्
पठित्वा शास्त्रमर्यादाः ज्ञातवान्प्रीतमानसः
२९
श्रीमन्ना रायणार्योऽय । मपठत्तकसंग्रहम्
तुनि श्रीरंगविदुषां । सन्निधौ सन्निधौतदा
३०
तदासीत्संगमो ते. कं.। गोपालचार्यसूरिणा.
श्रीमन्नारायणायंस्य । भाव्यभ्युदयसूचक :
(१) अबाची-दक्षिणाम्.

109
गोपालनारायण वर्ययोश्च
स्नेह प्रगढोऽभवदात्मयोगात्
योगेन लोकोद्धरणायपश्चा
नारायणस्येव नरस्यपूर्वम्
नारायणाचार्यवरोऽथहृष्ट
स्स्वाध्यायिभी राजमहेन्द्रपुर्याम्
गोपालवर्येणच तर्कशास्त्रं
पपाठ शास्रज्ञगुरो स्समीपे
नवमाब्देच विवाहो । जातो नारायणार्यस्य पूर्वम्
सत्कुलजा या जाया । सानाम्ना डलरु मेलुमंगासीत् ३४
शिष्टाचार समन्विता सुवदना भर्तुं प्रियासासती
तुष्ट्यापुत्रयुगं क्रमेण तनयामेकां प्रसूताततः
दिष्ट्यामोद विरुद्धया गुणनिधे नारायणा र्यस्यतः
स्याष्टाविंशतिहायनेवयति तंत्यक्त्वा विमुक्तिगता
(१)
तदाद्वितीयोऽभवदद्वितीयो
भवेविरक्तोसुगणेषुरक्तः
-
(१) अद्वितीयः - भारहितः. अद्वितीयः = अनुपमः

110
सक्तो प्रजाना मभिवृद्धिकार्ये
नारायणार्यो नगतुल्य धैर्यः
३६
३
सराजकीयो घममध्यवर्ती
चकार देशीयपट प्रचारम्
सुचारुमूर्ति स्सुगृणानुवर्ती
ज्ज स्वरासंपादक चक्रवर्ती
३७
हरिजनोद्धरणे करुणेरित
स्तदनुरूपगृहादिक नमितौ
प्रयततेस्म फलावधि सादरो
दरविशेष मशेष जनेषुच
३८
३
लोकेमानवसेवा । माधवसेवेति मनसिमन्वानः
नारायणाचार्यवरो। नरहित सेवासक्त मानसोऽभूत् ३९
गोपालसूरि वरमंगमभाग्य योगात्
नारायणार्य विबुधः परमार्थदृ ष्ट:
वेदान्तयुग्मविदिता खिलतत्वबोधो
(१) रामनुजार्यकृपया रमतेस्म तृप्तः
(१) मंदसारामनुजार्याः-श्रीभाष्याचार्याः रामानुजः = बलरामानुजः गोपा-
लाचार्याः भगवद्विषयाचार्या:
४०

111 संत्यज्यसामान्य जनानुकूलं सराजकीयं यतिराजकीयम् सिद्धान्तमासेतु हिमाचलान्तं व्याप्तंविधातुं चकमे तदानीम् ४१ गोपालवर्य सहितेन हितेनतेन नारायणार्य विदुषा विदुषामतेन संस्था पिताऽऽस्तिकजन स्थितये विशिष्टा द्वैत प्रचारकसभा शुभा तदानीम् ४२ आत्तमूरु पुरे श्रीमद्वेणुगोपाल सन्निधिम् दिध्यदेशव्यतानीत्स प्रबन्धाध्ययनोत्सवैः विशिष्टाद्वैत सिद्धन्त प्रचार स्तत्रतत्रच व्यतनोत्पंडितैस्मार्थ । नारायण बुधोत्तमः ४४ (२) हरितनुमपिरामदूषयन्तो ह्यबाच्या. श्रुतिपरुषमनिंदन केचिदार्योत्तमंतम् तदय मसहमानो मद्रपुर्यां तदैव प्रविशवभकरो त्सांम्राज्य पट्टाभिषेकम् ४५ (२) अवाच्या.= वक्तुमशक्याः. नीचा:-दक्षिणात्या; रामनिंद कद्राविड- पक्षीया:.

112
रामायणस्य विभवं रघुरामवृत्तं
तन्नामवै भवमपार मुदारवाचा
नारायणार्यविबुध स्सकलेषु तेषु
नारीजनेषुच नरेषुजुघोष तत्र
श्रीरामवैभव मनेक जनेषु सक्तै
व्यक्तं विलोक्य जनता विनुताग मोक्तम्
तन्निन्दका स्सपदि तत्र विलीयमूकाः
धूका यथासम भवनविदर्श नेन
४७
प्रीत्या चकार सचरज महेन्द्रपुर्या
कोट्यर्चनं भगवत स्तुलसी दलानाम्
ऋत्विक्छतद्वय नितित यागमेवं
नारायणार्य विबुधोनय विद्वरिष्टः
४८
कम्यूनिष्ट महाक्रूर । हिंसाकांडा तिशान्तये
क्रान्तये शान्ति भद्राणां । सौमनस्याभि वृद्धये ४९
विद्वद्वविजयवाडपुरे सविद्वान्
रामानुज ऋतुमियाज दयासमुद्रः
श्रीभाष्य तत्व विदुषांविदुषां यदासीत्
ब्रह्मोत्स्वः कनक पुष्पपदाब्ज पूजः
५०

113
(१) गोपाला चायंवर्योऽपि । सद्गोपालन तत्परः
विदुषांपूजनं चक्रे । सुवर्णकुसुमैस्तदा
अष्टोत्तरशतं तत्र । श्रीभाष्य पठनं कृतम्
तावद्ग्रंथा स्तथादत्ता । स्तत्र रामानुजक्रतौ
रजाकाराभिधर्धारै । र्यवन पवनरिव
श्रीभाग्य नगरीशान्ता । तदुपद्रव शान्तये
श्रीरामक्रतुमेव भाग्यनगरे नारायणार्योमुना
चक्रेलक्रममद्भुतं बुधवनिववृत्तैस्तथा
श्रीरामायणपाठनैविपुलत द्वयख्यानपारंगत
ल्मीकिश्शठकोर रामसहजाचार्यस्तु तत्राभवत्
५३
तत्रासोन्माधवाचार्य
शास्त्रार्थाद्य
महारथः
श्रीमाननंगरायश्च प्रतिवादि भयंकरः
५४
तदासांम्राज्य पट्टाभिषेक स्सर्वमनो हरः
जातोरामस्यसोमस्य रविवंशमहां बुधेः
इत्थंप्रचारकसमा विविधाश्चकुर्वन्
सर्वैश्चपंडितवरैः क्रतुभिश्च दिव्यः ।
(१) सद्गोपालनतत्परः= सताम् = श्री भष्यकाराणम्, गवाम् = श्री सूक्ती-
नांन् पालने = रक्षणे. तत्परः= आसक्तः.
+ नारायणाविबुधो निरिवलादेशान
गत्वा - मंजका भभभारतसाद ५५

114
भकन भारत जनावरबद्धीक्षः
स्वांशाय सात्विकवराय नरायतस्मै
स्वाष्टाक्षरीमनु मुपादिश दात्मनीतम्
५७
व्यासोऽपि यत्रनिवसन्निगमान्विभाज्य
प्राज्योयमर्थविशदी करणायभूयः
स्त्रीशूद्र वर्गहित पंचमवेदभूतं
तद्धारतं शत सहस्रमितं व्यतानीत
व्यासेन तेन निगमामलकल्प शाखा
स्रस्तानि तानिनिगमान्त सुमानियत्र
संयोजितानि निजसूत्रगणैः प्रमाण
स्सेध्यं समंचितदरो बदरो चकास्ति
नारायणार्यो नरसंयुतंतं
नारायणं लोकगुरु पुराणम्
दृष्ट्वाऽति हृष्टो गतिमातु मिच्छन्
दुष्टानिवार्यां च्यवस द्वदर्याम्
६०
कुर्वन्सपर्या हरयेबदाँ
दर्यांचकस्यांचिदचं चलात्मा
जजाप भवत्याकिल मन्त्रराज
प्रपन्नलोकप्रिय कल्पभूजम्
१

115
तपश्चतप्त्वा नियमेनंतत्र
स मन्त्र सिद्धि महिमाभिवृद्धिम्
धियांसमृद्धि जगतिप्रसिद्धि
तथा प्रपेदे परमार्थ बुद्धिम्
६२
आगत्यपश्चा द्वदरीप्रदेशा
दान्ध्रप्रदेशं निजजन्मदेशम्
सचाश्रमं प्राप्तुमना बभूव
तुरीय मध्यात्म विदां वरीयान्
व्योमाद्रिमेत्य सतु तद्गत संयमीन्द्रः
पोठाधिपं रनुमतो मतिमान्वरेण्यः
स्वार्थविहाय परमार्थ दृशेवतत्र
जग्राह शास्त्रविधिना चरमानमंतम्
(१)
त्रिदण्डिनारायण रामसोदरा
भिधां समासाद्य विदांवरिष्ट:
विशेषकान्तियं तिधर्म निष्ट
स्सशेषभावं प्रकटी चकार
६५
(१) शेषभावम् = दासत्वम् शेषावतारत्वम्.

116 काषायशोभिततनुः कमनीयगात्रो दण्डत्रयोज्वलकरो धृतपुण्ड्रचित्रः मन्दस्मितशिशतमनोहर यज्ञसूत्रो रामानुजार्यइव भाति विशालनेत्रः संसार भीततरसाधु जनावनेन दुष्टात्मनांनि रसनेनच धर्मगुप्तेः सर्वेऽपि सात्विकजना स्तमवेक्ष्य साक्षा नारायणोऽय मवतीर्ण इतीरयन्ति (२) गोपाल संगसमुदंचित दिव्यको तिः रामानुषक्तहृदयो रमणीयमूर्ति नारायणा भिधतिनयमार्गवर्ती रामानुजत्वमनिशं विशदीकरोति (२) यतिपक्षे. गोपाल संगेन = गोपालाचार्यस्नेहेन. रामानुषक्त हृदयः- श्रीरामचन्द्रानुषक: हृदयः. रामानुजत्वमृ यतिराजत्वम्, तत्पक्षे गोपालसंगेन-गवाम् = श्रुतीनाम् . पालने-रक्षणे अविरोधेनसमन्वये. संगेनप्रेम्णा. रामानुषक्तहृदयः. गोदादेव्यां मनुशक्तहृदयः. रामानु- जत्वम् = कृष्णत्वम् तत्पक्षे. गोपालसंगेन =अबीरसंगेन. रामानुष- क्तहृदयः, गोपिकानुषक्तहृदयः. रामानुजत्वम् = लक्ष्मणत्वम्। तत्पक्षे गोपालै:= राजभि: संगेन. रामानुषक्तहृदयः. श्रीरामसंगतहृदयः- अन्यत्सुगमय.

117
संप्राप्य पश्चान्नडिगड्डपालं
श्रीवासुदासाश्रम नित्यवासः
कोदण्डरामस्य तदाश्रमस्य
निर्वाह कोऽभूनियमाभिवृध्य
आदिश्यतत्राश्रम वासकार्या
कोदण्डरामानुगतां सपर्याम्
विधातुमैच्छत्स यतिबंदर्यां
महान्त मष्टाक्षर मन्त्रयागम्
७०
श्रीमान्न्यायविदांवरो गुणनिधि र्गोपालबर्योबुधः
तत्रासीद्गुदिमेळ्ळ वंशतिलको रामानुजार्यः कविः
ताभ्यांपूज्य तमस्त्रिदंडियति राण्णा रायणार्यस्स्तदा
भातिस्मात्मविदाबुधेन कविनायुक्तोयथा चन्द्रमाः
७१
बदरिकाश्रम मंडलसत्क्रतो
द्विशतवैदिक वैष्णवऋत्विजः
समभवन्भु वनाशुभ शान्तये
नगणनातदवे क्षणतस्थुषाम्
७२

118 (१) नतत्र लोपोऽजनि भक्त राशेः न तत्रलोपोऽजनि भक्तराशेः न दक्षिणानां नच दक्षिणानां लोपोऽय मेको नगतस्यपुंसः ७३ हिमगिरि तट मार्गे गन्तुमेवातिदुर्गे निरुपम बदरीश स्याश्रमेऽप्यश्रमेण ऋतुरभवदविघ्नस्तत्र नारायणाख्या प्रथित यतिवराणां दिव्य संकल्पयोगात् ७४ सोऽयंयतीश्वरवरो नियतोबद- यात्रार्थमागतवता मकरो ज्जनानाम् वासार्थमर्थ ममितं विनियोज्य पश्चात् सत्संगदिव्यसदनं यदनेक शालम् ७५ अष्टाक्षरीयाग विशेषचिह्न अष्टाक्षरीक्षेत्रमधो विधाय तत्रैवदिव्यं सदनंव्यतानीत् सत्संगपूर्व जगतामपूर्वम् ७६ (१) भक्तस्य = अन्नस्य राशेः = समुदायस्य. अन्नस्य राशेः = समुदायस्य. भक्तानाम् = भक्तिमतांज- नानाम्. राशेः समुदायस्य. दाक्षिणानाम् = कार्यकरण समर्थानाम्. यज्ञदातव्यद्रव्यणांच.

119
तत्रापवरका सर्वे । गृहोपकरणान्विताः
गतानां नैवलोपोऽस्ति । कस्याप्यल्पस्य वस्तुनः७७
सत्संगसद्भवनम ध्यतलेविशाले
श्री श्रीनिवासमनघंशठवैरिमार्यम्
रामानुजं तदनुजांशुभदांचगोदा
संस्थाप्यपूजन विधिविद धेयतीन्द्रः
७८
श्रीवेंकटेश्वरविभो बंदरोगतस्य
पूजार्थ मर्यमतुलंनिदधे यतोशः
सर्वच भक्तजन भक्ति समर्पितेन
द्रव्येणसाधयति तन्महिमा ह्यचिन्त्यः
गोपालवर्योऽपियतीश्वरस्य
संकल्पत स्तत्रवसन्करोति
तदातदा द्राविड संहिताया
श्चतुस्वहस्रा ध्ययनोत्सवादीन्
८०
श्रीमन्ना रायणार्योयतिकुलतिलक स्साधुरान्ध्रप्रदेशे
यादादौ क्षेत्रमुख्य नरहरिवपुष श्रीपतेविप्रवर्य
र्गायत्रीयागमेकं व्यतनुतविमवैर्बाल कानांबहूनां
रिक्तनां श्रीमता मप्युफ्नयनविधिकारयामासतत्र
८१

.120
तदोत्सवो यादगिरावनेके
सेवाथिनस्संमिळिताश्चतेषाम्
अन्नप्रदानंयतिराणि योगात्
कृतं नचासीत्खलु वस्तुलोपः
८२
आनीतान्य धशाखानि । वरंगलपट्टणात्परम्
महद्भिश्शकटनित्यं । तदीयाराधनेप्त्सया
८३
भोक्तव्यं कृपयास । वस्तव्यं यावदुत्सवम्
द्रष्टव्यं श्रद्धयेत्येवं । भाषन्तेस्मक्रतौतदा
८४
त्रिदण्डिनारायण संयमीश्वर
यंदत्रकर्तुं मनस नुचिन्त्यने
सुदुष्करंतत्सुकरं भविष्यति
भवंत्यही सिद्धधियोहिसाधवः
८५
श्रीमन्नारायण मुनिवरोभारतेस्मि पवित्रे
श्रीमद्रामायणपठन संयुक्तरामऋतूनाम्
कर्तुंचाष्टोत्तोरशत मथाऽऽलोचयतत्प्रसिद्ध्यै
स्तूपा दीपानिवरचयितुं रामकोटिस्वरूपान् ८६
ऋतुसंतति सिद्धये निबध्दा
नमुनारायण योगिभिः प्रसिद्धा

121
नववत्सर साधनीवचीक्षा
नववत्सारतमा सदविपक्षा
८७
श्रीरामक्रतु संततौसमभव च्छोरामएवस्वयं
कर्ता, कारयिता त्रिदण्डियतिराड्रामानुजार्यःकवि
वाल्मीकि बुंधराड्वसिष्ट मुनिवद्गोपालसूरिस्तथा
कल्यागं जगतांफलंतु धनदा भक्ताःकिमन्यद्भवेत्
८८
(१) शालासी त्राजि भारतमिदं सर्वहिमा यान्तिका
दासेतोः पुनरासमुद्रनिलया त्प्राच्या प्रतीच्या च्छुभात्
आरंभस्तु पुन.पुन र्वसुमयस्तंभ प्रतिष्टावधिः
दीक्षयनववत्सरा क्रतुर यंलोकातिगोराजते
संचारऋतुरेषबाष्पशाकट श्रीरामदूताभिधो
रात्रावेवतलान्तरं त्वगमयत्प्रात: प्रभृत्यदरात्
आसायंहवनादिकर्मविधिना संपाद्यतेस्मक्रमात
ग्रामेवानगरेगिरौ वनतलेदो प्रयाणेऽपिवा
९०
सूर्योदियात्प्रभृति चादिन मध्यमग्नौ
सायंच राममनुना हवनविधेयम्
(१) ऋतुराजि= ऋतुमुल्ये. पुनःपुनः वसुमयः= वारंवारंद्रव्ययुतः-पुनर्व
सुनक्षत्रयुतः

1122
संक्षेपसर्गगतपद्यशतेनचैवं
रामयणेऽर्थयुत विंशतिसर्गपाठः
गीतादपाठस्सकलेश्चभक्त
स्संकीर्तनं विष्णुसहस्रनाम्नाम्
श्रीमद्यतीन्द्रस्यच पंडितानों
यथावकाशं श्रुतिधर्मबोधः
९२
श्रीरामनाम्नां नियमेनपत्रे
विलेखनस्यान्महि ळाजनानाम्
प्रत्येककार्यक्रमाएषलक्ष्या
स्संपूजनं यत्सकलोपचारः
अर्यक्रतोनित्य विधिःप्रशस्तः
कदापि नैवाभवदस्यलोपः
सुदीर्धकालेनव वर्षमध्ये
श्रीमद्यतीशान निजात्मशक्या
९४
यत्रस्तं भप्रतिष्ठास्या । त्तत्र स्थित्वा विधानतः
कति चदिवसान्येवं । सर्वत स्साधितःक्रतुः
९५
श्रीरामकोटि हूं दये. चकास्ति
स्तमस्य भागेषु चतुषु चैवम्

123
संक्षेपरामायण मूर्व भागे
पट्टाभिषेकोरघुराममूर्तेः
स्तंभस्यचाग्रे कलशाविभान्ति
श्रीशंख चक्रादिक विष्णुचिह्न
यदर्शनादेव जनस्यतानि
धांवन्ति यावन्त्यशु भानिसन्ति
श्रीराममन्त्रस्य महाप्र भावः
केन्द्रीकृतस्तं भमयोऽतिशेते
तत्सेविनां भक्ति मतां जनानां
फलन्ति सर्वाण्यपि वांछितानि
९८
श्रीरामराज्यस्य सुखात्मकस्य
स्थूपाश्च विज्ञानमय प्रदीपाः
श्रीरामनाम ऋतुराजदीक्षा
भद्रात्मिका भारत रामरक्षा
रामक्रतुस्तं भमयानितानि
श्री भारतांबाजयकेतनानि
विज्ञानसंस्कार विनूतनानि
महात्मनांशान्ति निकेतनानि
१००

124
श्रीमन्नारायणयतिवरै स्तूपनिर्माण सिद्ध्यै
कुत्राप्यर्थागमनविषये वास्थितोनवयत्नः
सर्वसिद्धं सुलभवि धनास्वीयसंकल्प मात्रात्
यत्नस्वेको दिशिदिशिबला (कुर्वतांतनिवृत्य १०१
एकैकस्तंभनिर्माण । प्रतिष्टाक्रतुषुक्रमात
सामान्यत स्सहस्त्राणां । दशनामभवव्ययः
१०२
तत्रतत्र विशेषेषु । विशेषो भवदादित
प्रभावोऽयंयतीन्द्रस्य । ज्ञायते नैबकेनचित्
१०३
विद्वत्सभासु विदुषांचकवित्वगोष्ट्यां
काव्यश्रियंरचयतां महतांकवीनाम्
वेदानधीत्य पठतांखलु वैदिकानां
दत्तानितत्क्रतुवरेषु परश्शतानि
१०४
श्रीमात्रिदण्डि यतिशेखरसार्वभौमो
वेदान्त युग्मविदुषांविदुषां प्रियाणाम्
सम्माननं क्रतुवरेष्वधिकं विधाय
बोभूयतेस्म महते विभवायभूयः १०५
श्रीरामनामनिचयं सकले विलेख्य
तद्वैभवं प्रतिदिनं मृदु बोधयित्वा

125
श्रीरामराजामिह भारत भूमिभागे
जोघुष्यमाणमकरोत्ऋतु भिर्यतीन्द्रः
१०६
श्रीमन्नारायणयतिवरो दीनवर्गे दयाळः
चोरान्बद्धान्कठिन निगळे कर्मजैरामभक्त्या
मुक्तानकर्तुं सपदिल्धुरापट्टणे केन्द्रभूते
कारागारेक्रतुमयमथाऽस्थापयत्स्थूपमेकम्
१०७
बरंपुरे राजमहेन्द्रपुर्यां
तथैवकारागृहयो यतीशः
स्तंभप्रतिष्ठामकरोत्तदानीं
तत्रत्यबद्धान् कृपयो दधीर्षुः
१०८
श्रीमन्नारायण यतिवरैर्दो क्षयाऽऽलोच्यतस्यां
वाराणस्यां नवयुवक विद्यार्थिनांराम भक्तय
प्रज्ञासिध्यैपरम कृपयाविश्व विद्यालयेऽपि
स्तंभो रामक्रनुपरिचितस्सादरं स्थापितोऽभूत् १०९
श्रीमुक्ति नारायण सन्निधाने
यत्रप्रसिद्धाखलु गण्डकीसा
दुर्गेहिमाद्रे र पदूरमार्गे
कृताक्रतुस्तंभ वरप्रतिष्टा
११०

126
सर्वत्रनूनसुधया पिरिनिर्मितोभूत्
स्तंभऋतोस्सुरुचिर रिचरवासयोग्यः
मद्रासु पट्टणतले जितेनसर्व
स्तत्रत्यभक्त धनिकै रचितो विचित्रः १११
श्रीमत्संयमिनायकेनबदरी मारभ्य संस्थापिताः
श्रीरामेश्वरसेतु वानकुधर श्रीरंगकांच्यादिषु
क्षेत्रेषत्तरपुण्यती र्थनगरीग्रामेषुरामक्रतो
स्स्तंभाराम मयाजयन्ति जगतांक्षेमायतद्दर्शनात्
११२
सर्वत्र भारततले सुजनविशाले
स्तंभानदंविधिना रघुरामबिबान
संस्थाप्यवेंकटगिरौ चरमं विधातुं
स्तभंक्रतुंच विदधे समनो यतीन्द्रः
एवंविचिन्तयति संयमिपार्वभौमे
श्रीवेंकटा द्रशिखरालाय कालमेघः
द्रव्यंववर्ष कृपयासकलान्तरात्मा
श्रीवेंकटेश्वरविभु शिशतपक्षपाती
११४
पूर्वकृताश्चनववार्षिकदीक्षयाये
सर्वेऽपिवैभवयुता तव स्तथाऽपि

127
श्रीवेंकटाद्रिकृतराम महाक्रतोते
नैवामजन्दरकळा मपिवैभवेन
११५
अष्टोत्तरं शतमहो ऋतुहोमकुंडाः
तावन्ति भाष्य भगवद्विषयादिकानाम्
पारायणानि, विदुषांतु सहस्रसंख्या
सेवार्थिनांतुनहि तत्क्रतुराजि संख्या
अष्टोत्तरशताख्यात । दिव्यदेशेषु संस्थिताः
विद्वांसःप्रायशस्सर्वे । वेंकटाचलमागताः
११७
साष्टंशतंनिगमशास्त्रविदां वरिष्टाः
श्रीभाष्य तत्व भगवद्विषयर्थनिष्टाः
भातिस्मतस्सपदि वेंकटनाथशैलो
वैकुंठलोकइव मुक्तगणावकीर्णः
११८
अष्टोत्तरेणच शतेन सितातपत्र
रामाभिषेचन विधिहसतिस्मपूर्वम्
एकातपत्ररचितो रघुराममूर्ते
स्साकेत पट्टण तलीयक पट्टबन्धम
११९
सर्वेऽपिवैष्णवगणा लसितोज़पुंड्राः
भांतिस्म वेंकटपतेः पदसेवनेषु

128
अर्चावतार विभवं परिभो क्तुकामा:
प्राप्ताविकुंठनगरादिव नित्यमुक्ताः
१२०
शेषाद्रौ कृतरामभद्रविलसत्पट्टाभिषेकोत्सवे
सौमित्रियति शेखरःखलु सुमित्रानन्द संधायकः
तद्भारोहना तथाच भरतो गोपालवोत्तमः
शतृघ्नोऽभयदार्य सेवनपरोरामानुजार्यः कविः
१२१
विद्वांसोमुनयोवमिष्ठमुखरा श्रीरामदूताःपरं
सर्वेभक्तजना विनून विभवो दिव्यो दरोदृश्यते
स्तंभोराम जयध्वजो हरिरसौ श्रीवेंकटाधीश्वरः
कर्ता कारयिता समस्तजगतां क्षेमःफलं शाश्वितम् १२२
सर्वेषामपिभोजनादिवसतिः इलाध्या 'हत स्मन्क्रता
वेकेकस्यच षोदशाधिकशतं रूप्याणिमार्गवश्यः
दत्ता तत्क्रतुदक्षिणा सुविदुषां तस्मात्प्रभूता तथा
पूर्वतत्र नचाभवन भवितेत्यालोच्यते द्रष्ट्रभिः
१२३
तत्पूर्वतत्रतत्र ऋतुषु भुविशतं सप्त संस्थापिताये
स्तूपास्सर्वेऽपि तत्रस्थित शुभद महत्स्तंभापर्यन्त तःस्युः
तत्तत्स्थाना क्षरांकावृषगिरिगत तत्स्तंभा संदर्शनेन
प्रायस्सर्वेऽपि दृष्टाइव शुभफलाः प्रेक्षकानां भवन्ति १२४

129
इत्थं वृषाचलतलेनव वर्षदीक्षा
मुत्सृज्यपुष्करिणिका सलिलेविगाह्य
श्रीमान् त्रिदंडि यति शेखर सार्वभौमो
रेजेशतक्रतुसमो विबुधैकबन्धः १२५
श्रीमद्वेकट नायकस्य करुणा सिन्धोरमेयात्मानः
कल्याणोत्सववैभवं बहुविधाभोगान्विधायक्रमात्
देवस्थानगताधिकारिभिरसौ संप्राप्यसद्गौरवं
श्रीनारायण संयमीश्वरवरोमान्यश्चधन्योऽभवत्
१२६
अवधेऽवसिते वृषभाचला
दथयथायथमुच्चलितेजने
यतिपति-परिपूर्ण मनो रथो
मतिमगा निगमान्त विधिनीम्
१२७
वेदान्तमाष्य भगवद्वषियप्रचार
मासेतुशीतनगमार्य जनेषुकर्तुम्
मेने त्रदण्डियतिराण्ण चतेनसर्व
संकल्पितंखलवृथा भवतीहलोके
१२८
श्रीभाष्यं विरचय वैदिकविशिष्टाद्वैततत्वंवदन्
वेदान्तंसुरभारतीयमकरोख व्यापयतीन्द्र पुरा

130
पश्चाद्राविडदिव्यवेद शिखरव्याप्तिं विधाममदा
प्राप्त श्रीयतिराज एवहिपुनश्रीरम्य जामातृताम् १२९
कालेऽस्मिन् कलिदोषदूषिततरे विद्वत्कुलेप्रायशो
लुप्तंद्राविड संस्कृतात्मक मिदंवेदान्त युग्मंपुनः
प्रोद्धतुजगतीतले ह्यवतर च्छोवैष्णव श्रीनिधिः
श्रीनारायण रामसोदरमुनिर्लोकस्यभाग्योदयात्
श्रीमाष्पाचार्यपी स्थिरतरमधुनास्थापयित्वासमन्ता
प्राप्तानां पंछितानांगुरुवरमुखतो भाष्यविज्ञानभाजाम्
सम्यकृत्वा परीक्षां तदनुगुण वशाद्योग्यतापत्रमेकं
दत्वादास्यन्तिपीठानियत बहुमतिवार्षिकीजीवितान्तम् १३१
षष्ट्युत्तरत्रिशतरूप्यम योंचत्ति
दास्यन्ति भाष्यविदुषांपरिपोषणाय
तज्जी वितान्तमथतस्यच धर्मपत्न्यै
भागंतुतीयमपि तत्रबहूकृतौस्यात्
१३२
श्रीरङ्गधाम्नि भगव द्विषयस्यपीठं
संस्थाप्यतत्रचपरीक्ष्य विदांवराणाम्
श्रीभाष्यतत्व विदुषामिव वाषिकीतां
दास्यन्ति वृन्तिमनिशं निगमान्त वृद्ध्ये १३३

131
श्रीभाष्यदिव्य भगवद्विषयाभिवृद्ध्यै
पीठद्वयस्यवसु षोढ शलक्षसंख्यम्
संस्थाप्यतेस्थिरतया चतदीयवृद्ध्या
संचाल्यते ह्यधिकृतस्सकलंचपश्चात्
१३४
सभ्या इचलक्ष्यसंख्याका प्रयच्छन्तिमतादरात
एकैकसभ्यतासिद्ध्यै । सद्योरूप्याणिषोढश
सर्वचंतद्वत्सरांत विधाय
सुस्थं स्वस्थं क्रोयते पीठयु ग्मम्
सत्संकल्पोसंयमीन्द्रस्यतस्य
स्वल्पोऽनल्पोनोकदा निष्फलस्स्यात्
रामानुजययमिनां महतीयमाज्ञा
यद्भाष्य रक्षणमथो शठकोपसूक्तेः
व्यख्याविशेष परिपोषण मित्यतींसा
श्रीवेष्णवैश्चसकलैः परिपालनीया
१३७
त्रिदण्डिनारायण संयमीन्द्रः
कृतेषुकार्येषु महत्तरेषु
महानयं श्रीपतितोषहेतु
र्वेदान्त युग्मोद्धरणात्मकंयत्
१३८

132
नाथादि पूर्वगुरु रक्षितवैष्णवश्री
सौधस्य सुस्थिरतयास्थिति हेतुभूतम्
स्तंभयंखलु महनिगमान्तयुग्म
तद्रक्षणं परतमं भुविवैष्णवानाम्
१३९
अस्यिन्नब्देतुसौम्ये नभसिसमभवत्वष्टि पूर्युत्सवोऽपि
श्रीमन्नारायणाख्या विलसितसुपरि व्राजकाचार्यमौळेः
तस्मिन्कालेबदाँ सकलनिगम संपूर्ण विद्वद्वरेण्य
विप्रेरष्टाधि संख्या निचित शतमित कारितो ब्रह्मयज्ञः १४०
श्रीमन्नारायण यतिपतेष्षष्टिपूर्तिः पुनस्स्यात्
विंशत्यूचं शतमिह समावर्धतांसोऽयमार्यः
श्रीमद्रामानुज मुनिरिवस्वार्थमुत्सृज्यलोके
लक्ष्मीभर्तुश्रुतिहितमत स्थापनाचार्यवर्यः
४११
श्री रङ्नाथामलवीक्षणेन
म होज्वलो लोकहितं प्रकुर्व
त्रा रायणाख्यो यतिसार्वभौमो
रा मानुजोऽयं रमतेधरण्याम्
१४२
य स्यप्रभावाब्धि तरंगसूक्ष्मा
ण वोऽपिलोकोत्तर कार्यदक्षाः

133
रा जीवनेत्रोऽयमशेषपुंसां
मा न्यो वदान्यो यतिराजराजः
नु नोदयोराम विशेष भक्त्यां
ज नाननेकान्करुणाचित्तः
जी यात्परार्थाय कृतावतारो
य तीश्वरस्सोऽय मतीव धन्यः
१४४
रु रोध योदुर्मत युक्तिवादान्
स्वाभीष्टवेदान्त विचारदक्षः
मी मांसयासोऽयमधीश्वरस्य
चि न्मात्रभावं शिथिली चकार
१४५
रं गेशकैंकर्यरतस्तदीयो
ज यध्वजोऽयं जगदेकवन्द्य
य तीश्वरो वैष्णव धर्मगोप्ता
तु रीय दिव्याशम भृद्विभाति
१४६
सर्वत्रदेव निलयेषु नवप्रतिष्ठा
जीर्णेश्रुतेषु चसमुद्धरणंविधाय
श्रीनायका य॑विभवं प्रकटीकरोति
श्रीमत्रिदंडियतिराज वरोजगत्याम्
१४७

134
श्रीपांचरात्रागम संहिताना
मलभ्यतांवीक्ष्ययती श्वरोऽयम्
मुद्रापयन्ता:पुनरर्यमूर्तीः
जीर्णाइवस्थापयति प्रमोदात्
१४८
भृतेर्दानतो भाष्यविद्भ्यो महद्भ्य
स्सदा ग्रंथदेवाल योद्धारतश्च
यतीशोऽयमास्ते धरण्यांप्रमातु
प्रमाणप्रमेयाभि रक्षकदीक्षः
१४९
मन्दस्मितोमधुर भाषणभूषण श्री
राजानुबाहुररविन्द विशालनेत्रः
काषायदंड परिमण्डितदिव्यगात्री
रामामुजोऽयमपरो नहितत्रशंका
१५०
नारायण.परतमो नपरस्ततोऽन्यः
शेषास्त्वमी चिदचितः खलुतस्यशेषाः
तत्वत्रयंमिळित मेकमतोविशिष्टा
द्वैतंमतं श्रुतिहितं प्रवदन्तिसन्तः
१५१
श्रुतिविदितविशिष्टाद्वैत सिद्धान्त मेवं
विशिविदिशिजनेषु ख्यापनायावतीर्णः

135
पुनरपिवसुधायां लक्ष्मयस्सनोचेत्
नहिभवति तदन्यस्ये दृशोहिप्रभावः १५२
जयतु भुविविशिष्टाद्वैतमाचन्द्रसूर्य
जयतु यतिवर श्रीभाष्यमन्यै रदूष्यम्
जयतु शठरिपो श्रीसूक्तिजालं विशालं
जयतुतिकुलेशस्त्वेष नारायणार्यः १५३
श्रीमन्नारायणरा । मानुज जिय्यर स्वामिने सदास्यात्
मंगळममंगळानां । शर्मायत्रे निगमान्तयुगळ गोत्रे १५४
चन्द्रांकदिक्छशिमिते चशके शुभायाम्
सौम्याब्दकार्तिकसितेतर पक्षषष्टयाम्
श्रीकृष्ण विद्विरचितो गुरुवंशकाव्ये
षष्टश्चिरविजयतां जगतीहसर्गः
१५५
इति श्रीमत्सदाचार्य कृपालब्ध सारस्वतस्य
कृष्णमाचार्य शतावधानिनःकृतिषु
गुरुवंशमहाकाव्ये
पष्टस्सर्ग स्समाप्तः
-: ॐतत्सत् :

No text on this page.

श 1 9 परश्य درا भुवि 22 11 राजचिह्न क्वचि 25 2 नुत " पत्त्रम्. पंक्तिः अशुद्धम् शुद्धम् अशु 9 नुभूतें नुभूयते । 12 15 श्शुते श्श्रुते 1 14 सुमनोशि 14 14 सचित संचित सुमनोञ्चितम् 20 परीक्ष्य 4 भवि 5 5 कृतादिष कृतादिषु राजचिह्रः 5 7 क्वच 3 व्ययोच व्यरोच 5 19 मुनेय मुनये 26 नुतं 5 19 प्रभभृति प्रभृति यामुन यामुनः 6 3 विस्तुतः विस्तृतः 29 4 भृवं भुवं 7 3 चत्वरिशति 30 6 पवित्र पवित्र चत्वारिंशति 14 वेदिन वेदिनः 7 8 भक्तिरुपं भक्तिरूपं 31 11 विरकित विरक्तिः 2 निनिद्रंति निनिति 33 5 डित्य डित्थ 8 शुक्ल 34 1 जनानं जनानां 5 विष्वकसे विष्वक्त्से 38 16 भद्र भद्रं 6 परभकितं परभकितं 39 2 महोदय निशि 9 8 निश महोदयं 10 7 शटार शठरि 42 2 वियुक्त वियुक्तः 10 10 दव्यं 6 दंदती दंपती 10 12 नटा नष्टा 46 14 परांकुशाख्यो 116 खन खनि पराशराख्यो 8 4 शुल्क 8 co दिव्यं 43 " तेषां 76 5 " 12 स्वलु 5 नुर्याम् पत्रम् पांक्रिः देशुद्धम् शुद्वम् पत्रं पक्तिः अशुद्धम् शुद्धम् 48 7 वचे वचो 70 8 मूर्य मूचे 15 बृवाणम् ब्रुवाणं 71 4 तदानी तदानीम् 49 2 सस्थाप संस्थापने 72 13 वनं वने 17 नेषां धिपोऽप धिपोऽपिः 52 16 रा रा 8 प्यस्यद्यते: अस्मद्यतेः 55 16 राजः राज्ञः 80 11 माहपमाहः 17 असुरराजः असुंरराजाः माहपचारः 56 7 सत्य सत्यं खलु 57 2 यतीश यतींश. 81 तुकुर्याम् 60 6 प्रमावो प्रभावो 87 10 अधिनथः अधिनाथः 7 न्यापदि प्यापदि 88 4 भठ्ठकको भट्ठवरो 15 कष्यास कप्यास 14 सर्वस्य सर्वस्व 61 1 तदथं तदर्थ 90 3 दुवि दुर्वि 63 14 द्रिश्रिय द्रिश्रिय 11 प्रभाव प्रभावं 15 निथाय निधाय 91 16 भक्तजनः भक्तजन भक्तजन 63 5 पराशथ्या 93 6 स्वसूनेवै स्वसूनवे पराशरव्यास 93 17 दामजातो दात्मजातो 13 मनोस्थि मनोरथ 95 11 णम्य प्रणम्य 67 11 भट्ठनार्थ भट्टनाथः १.7 4 श्रीमत श्रीमति 68 12 स्तेजो तेजो 98 11 स्ववंश स्ववश 1 " पत्रम् पंक्तिः अशुद्धम् शुद्धम् पत्रम् पंक्तिः अद्धशुम् शुद्धम् 105 18 मुनरूप मुनिरूप 16 सद्धा सिद्धा 106 सविशद सुविशद 128 6 कवि कवि: 106 10 दर 11 हुत हित 108 16 सूचक सूचक: 129 15 त्रदण्डि त्रिदण्डि 111 11 त्सवै त्सवैः 17 चच्च चय्य 113 10 शठको शठकोप 18 न्द्रपुरा न्द्रःपुरा 114 2 आत्मनीत 130 1 विधामु विधातुं आत्मनीनम् 130 5 श्रीनिधः श्रीनिधिः श्रीभाष्ण श्रीभाष्या 12 गु गरु पडिता 122 18 स्तमस्य स्तंभस्य 13 पत्नय पत्न्यै 123 2 मूर्ते मूर्तेः 131 6 सिद्ध्य सिद्ध्यै 124 3 विधना बिधिना 13 त्यतोसा त्यतस्सा 125 1 रामराज रामराज्य 132 17 वाब्ध वाब्धि 5 धुरा मधुरा 133 16 जीर्णशु जीर्णेषु ८ 6 पडिता . प

No text on this page.

No text on this page.

Guruvamsha Mahakavyam

Author
Krishnamacharya
Other authors
Ccl
Title
Guruvamsha Mahakavyam
File name
Guruvamsha Mahakavyam
Text
OCR done
Citation
1670
Publisher
-
Language
Sanskrit
Pages
153
Library
Scl
DLI number
368834
Barcode
2020010005253.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
PAR Informatics, Hyderabad
VMLT id
dYKsMIDpk0H
Download PDF

Guruvamsha Mahakavyam