Digamber Jain Atishay Kshetra, Jain Vidhya Sansthan Library, Shri Mahaveer Ji, (karauli )
Rashridayatantra Sateek
Front matter
PUBLISHED BY
MOTI LAL BANARSI DAS,
Proprietors,
The Punjab Sanskrit Book Depot
SAIDMITHA STREET
LAHORE.
All Rights Reserved.
1927
PRINTED BY
DURGA DASS « PRABILAKAR
Manager,
The Bombay Sanskrit Press,
SAIDMITHA STREET,
LAHORE
भूमिका. रसहृदयाख्यस्यास्य तन्त्रस्य कर्तागोविन्दभिनुः को नाम ? कस्मिन् काले, करिमश्च जनपदे समजनीत्येतद्विपय तद्विरचितग्रन्थादिभ्यो यदितिवृत्तमुपलब्धं तदिह संक्षेपेण निवेदयामि । अयं गोविन्दभिक्षु- बौद्धभिनुरासीदिति 'डॉ. प्रफुलवन्द्रराय' इत्यतैः 'भारतीयरसायनशा- नतिहास' नामके स्वविरचित ग्रन्थे प्रतिपादित; तन्न समीचीनं, यतो- ऽस्य तन्त्रस्य प्रथम एवाववोधे गोविन्दभिक्षुणा वेदान्तैकगम्यं ब्रह्म प्रतिपादितं, तथा 'यशाहानात्तपसो वेदाध्ययनाइमात्सदाचारात् । अत्यन्तं श्रेयः किल' इत्यार्यया यज्ञदानवेदाध्ययनादीनामत्यन्तश्रेय:- प्राप्त्युपायत्वं च दर्शितं, तञ्च तस्य बौद्धधर्मानुयायित्वे न संभवति यतोवौद्धास्तावत्क्षणिकविज्ञानादिवादिनो अखण्डैकरसं ब्रह्म न मन्यन्ते, यज्ञवेदाध्ययनादीनि च निष्फलानीति प्रतिपादयन्ति । तथा ग्रन्यारम्भ एव कृतं हरिहरयोर्मङ्गलं च बौद्ध कर्तरि न संभवति । अतो नायं बौद्धभिनु , किन्तु वैदिक धर्मानुयाय्येवेति निश्चीयते । ल च भगवत श्राद्यशङ्कराचार्यस्य गुरुत्वंग प्रसिद्धो गोविन्दभगवत्पादाचार्य एवेत्य- नुमीयते, सर्वदर्शनसंग्रह (रसेश्वरदर्शने) वेदभाष्यकर्ता शाङ्करमतानु- यायिना श्रीमाधवाचार्यण 'गोविन्दभगवत्पादाचारपि तदुक्तमाचार्य:' इत्यादिना बहुमानपुरःसरं तन्नामोल्लेखात् । मुग्धावबोधिनीटीकाकार- श्चतुर्भुजमिश्रोऽपि 'आचार्यश्रीमद्गोविन्दपादाः' इति बहुमानेन तमुल्लि- खति, तथा रसेन्द्रचिन्तामणिकारः श्रीरामचन्द्रगुहश्च 'भगवद्गोविन्द- पादा' (र. चि. अ.३) इत्यनेनैव नाना तमुल्लिखति, तथा च रसे- श्वरदर्शने रसेश्वरसिद्धान्तादुद्धते श्लोकेऽपि 'गोविन्दभगवत्प चार्यों गोविन्दनायकः' इत्येवं पठ्यते । अन्यच्च, रसहृदयकर्तुगोविन्दभिक्षोः श्रीमदाद्यशङ्कराचार्यगुरुत्वे रसहृदयस्थाया 'वालः पोडशवर्षो विषय. रसास्वादलम्पटः परतः । यातविवेको वृद्धो मर्त्यः कथमायान्मुक्तिम्' इत्यार्याया. चर्पटपञ्ज- श्रीशङ्कराचार्योक्तेन 'बालस्तावत्क्रीडासक्तस्त- रुणस्तारत्तरूणीरक्तः । वृद्धस्तावञ्चिन्तामनः परमे ब्रह्मणि कोऽपिन I See History of Hindu Chemistry Vol. II. • 'एकशिन जगन्ति च इत्यादिना । ३ पतनापि नायं बौद्धभिनुरित्यवावसीयते । ४ अत्र गोविन्दनामको द्वौ रससिद्धी लिखिती। तत्रैकारसहृदय कती अन्यश्च रससारका भवेत् । एतन माधवकालतो प्राचीनतरस्य रसंश्वरसिद्धान्तस्यापि प्राचीनो गोविन्दाभिनुरित्यनुमीयते ।
२ तीयते। लग्नः' इति पद्येन सह अर्थत उपलभ्यमानं सादृश्यमपि वलवद्गमक- मेव । यतो गुरुशिष्ययोर्विचारसमत्वं प्राय एवोपलभ्यते । अयं च योग्यप्यासीदिति 'भूयुगमध्यगतं यच्छिखिविद्युत्सूर्यवजगद्भासि । केषांचित्पुण्यदृशामुन्मालयति चिन्मय ज्योतिः' इत्यार्यया ज्ञायते । रससारकर्ता गोविन्दचार्यस्तु रसहृदयकर्तुर्गोविन्दभिक्षोभिन्नोऽवाची- नश्चेति रससारस्य त्रयोविंशतितमे पटले तेनोक्तादात्मवृत्तान्तात्प्र- सोऽयं गोविन्दभिक्षुः रसरत्नसमुच्चयकर्तुर्वाग्भटात्प्राचीनतर एव, यतो रसरत्नसमुच्चये वाग्भटेन रसहृदयात् 'भूञ्छित्वा हरति रुज' इत्यारभ्य 'हरगौरीसृष्टिसंयोगात्' इत्यन्तं यावत्सप्तविंशतिराया. समु. मृताः । रसरत्नसमुच्चयकर्ता वाग्भडस्तु खिस्तत्रयोदशशताब्द्यां बभूवे- ति प्रतीयते, तत्कनुकेन चर्पटीसिंहणायुल्लेखेने। अयं च गोविन्दभिक्षुः गोविन्दभगवत्पादा इति प्रसिद्ध आद्यशङ्कराचार्य गुरुरेवेत्युपरि प्रति. पादितमेव । श्रीशङ्कराचार्य समयस्तुशककालस्य दशोत्तरसतशतात् द्वाचत्वारिंशत्युत्तरसप्तशतपर्यन्तमितीतिहासविदा सुप्रसिद्धमेव । अती रसहृदयस्य कालः शककालस्य दशोत्तरसप्तशत (७००) वर्षात् प्राक् कतिपयानि वर्षाणीत्यवगम्यते । अन्यच्च, रसहृदयस्यान्ते गोविन्दभि- तुणाऽऽत्मवृत्तान्त निवेदितं, यथा,-शीतांशुवंशसंभव हैहयकुल- जन्मजनितगुणमहिमा। स जयति श्रीमदनश्च किरातनाथो रसाचा- यः ॥ तस्य स्वयमवतीर्णा रसविद्या सकलमङ्गलाधारा। परमश्रेयोहेतुः श्रेयसी परमेष्ठिनः पूर्वम् || तस्मास्किरातनृपतेर्बहुमानमवाप्य रसकर्म- रतः । रसहृदयाख्यं तन्त्रं विरचितवान् भिक्षुगोविन्दः' इति । एतेन रसहृदयतन्त्रका गोविन्दभिक्षुः चन्द्रवंशीयहैहयकुलोत्पन्नकिरातदे- १ तथाहि रससारे,-"मोढशात्यां समुत्पन्न आचार्यसहदेवकः । तदुत्पन्नस्तु यः सूनुः सुरादित्यः कृतिर्भुवि ॥ तत्संभवः सुतः ख्यातो गोविन्दः शिववन्दकः । शिष्यः श्रीधीरदेवस्य रसकर्मसु कोविदः ॥ अनुभूयेदमखिलं शास्त्रं तेन विनिर्मितम् । कृपया धानुवादिनां दीरत्व स्य विनाशनम् । अन्तर्वेदीसमुत्पन्नो शान्या सारखतो द्विजः । श्रभय. पालपुत्रोऽसौ धीरदेवो हि वादिराट-" इत्यादि । २ नित्यनाथसिद्धोऽपि वकृतस्य रसरत्नाकरस्य वादिखण्डे 'बाणा- सुरो, मुनिश्रेष्ठो गोविन्दः, कपिलो, बली' इति श्लोके गोविन्दाचार्य मुनिश्रेण्ड इति समुल्लिखति । रसेन्द्रचूडामणिकृत्सोमदेवोऽपि इममेव श्लोकं पठति । सोमदेवस्तु नित्यनाथात् प्राचीनतर.।
३ राधिपश्रीमदननृपतलव्यवहुमान श्रासीदिति प्रतीयते । श्रीमदनदवार ऽपि स्वयं रसकर्मणि सिद्धः, गोविन्दभिक्षुश्च रसकर्मरत श्रासीदिति च ज्ञायते । कोऽयं हैहयकुलोत्पन्नः श्रीमदनराजः ? हैहयकुलोत्पन्नानी राज्ञां वंशावली 'कुनिंग्हाम' इत्येतैः Archaelogical Survey Reports, Vol. XVIl p. 18. इत्यत्र दत्ता। अस्यां कामदेवी नाम राजा खिस्तादष्टमे शतके राज्यारूढ आसीदिति लिखितम् । स एव रसहृदयोक्तः श्रीमदनो भवेत्, नाम्नां पर्यायसंभवात्, वंशावल्यां द्वितीयकामदेवादर्शनाच्च । अतोऽपि खिस्तादष्टमे शतक एव रसहृद- यकर्ता गोविन्दभिक्षुरासीदिति निश्चीयते'। अयं गोविन्दभिक्षुः किरातदेशाधिपतेः श्रीमदनदेवाल्लब्धबहुमान पासीदिति प्रतिपादितमेव । किरातदेशस्तु 'तप्तकुण्डं समारभ्य राम- क्षेत्रान्तकं शिवे !। किरातदेशो विशेयो विन्ध्यशैलेऽवतिष्ठते' इति शिवशक्तिसंगमतन्त्रोक्तश्लोकात विन्ध्याचलसमीपवती देशविशेष इति ज्ञायते । अतो गोविन्दभिक्षुरपि विन्ध्यसमीपवर्तिकिरातदेश- निवासीति प्रतीयते। अधुनैतत्तन्त्रविषये किंचिलिख्यते । गोविन्दाचार्यात्प्रागपि पतञ्जलिव्याडिनागार्जुनप्रभृतयो बहवो रससिद्धा रसतन्त्रकारश्च प्रादुर्घभूवुरिति ज्ञायते । तै रसविद्या सम्यग्परिणामिता लोकोपका- रार्थ प्रकटीकता चासीत् । उक्तं च गोविन्दाचार्यैः,--"रसवादो ऽनन्तगुणो द्रवगोलककल्कभेदेन । कलितः प्रधानसिद्धेदृष्टास्ते जयन्ति नराः" इति । रसहृदयात्प्राचीनान्यपि कानिचित्तन्त्राणि कचित्वचिदुपलभ्यन्ते । तेषां तन्त्राणां दुर्योधत्वं अज्ञातपरिभाषा- युक्तत्वं च दृष्ट्वाऽस्य तन्त्रस्य गौरवं यथार्थ ज्ञायते । अन्वर्था खल्विय. मस्य तन्त्रस्य 'रसहृदयं' इति संज्ञा, तन्त्रस्यास्य रसविद्याया हृदय भूतत्वात्-रहस्यभूतत्वात् । रसराजस्याष्टादश संस्काराः किमर्य कर्तव्याः, प्रत्येकस्य संस्कारस्य च को हेतुः, इत्यादिकं सविस्तर- मंत्रैव निरूपितं नेतरत्र । अष्टादशसंस्कारसिद्ध एवं रसोदेहलोहवेधी भवतीति रसशास्त्रेषु प्रसिद्धमेव । अधुनाऽष्टादशसंस्कारसिद्धः पारदः प्रायेण वैद्यैर्न साध्यते । एतेष्वष्टादशसंस्काराः "समा द्रव्ये रसायने शेपा द्रव्यकरण एवोपयुक्ता इति कैश्चिद्ग्रन्थकर्तृभिः प्रतिपादित; परं सप्तदशसंस्कारसिद्धो भस्मीभूतः पारद एव रसायनार्थे कृतक्षेत्री- करणाख्यसंस्कारैः नृभिर्भनणीय इति रसार्णवरसहृदयरससारादि- १ एतदपि गोविन्दभिक्षाः श्रीशङ्कराचार्यसमकालीनत्वे प्रमाणमेवी तन्त्राणामभिप्रायः । अधुना पारदस्य मर्दनादिदीपनान्ता अष्टौ- संस्कारा अपि कैश्विदेव क्रियन्ते, प्रायेण तु हिंगुलत ऊर्ध्वपातनाद्- गृहीतः कजलीकृतो वा रस औषधार्थ दीयते । गन्धकजारणायनि- मविषयं तु केचिदेव जानन्ति कुर्वन्ति च । अतो रसप्रयोगेभ्यो न यथोक्तफलावाप्तिः । 'गन्धकजारणरहितः संशुद्धोऽपि रसो योगेषु न योज्यः, गदहन्तृत्वशक्त्यनुदयात्' इति आयुर्वेदप्रकाशकर्ता माधवः स्पष्टमेवाह । अतो रसविद्याया रहस्यभूतमिदं सहृदयाख्यं तन्त्र प्रथममेव प्रकटीकुर्मः । दैवानुकूलतोऽस्यैवैकस्य रसग्रन्थस्य सांप्रतं टीकोपलभ्यते; टीकायोगाद्ग्रन्थस्य सुगमत्वं जायत इति प्रसिद्धमेव । रसहृदयटीकाकारः श्रीचतुर्भुजमिश्रः खण्डेलवालब्राह्मणजातीय', कुरलसंक्षककुलोत्पन्नः, हरिहरमिश्रस्य पौत्रः, महेशमिश्रस्य च पुत्र आसीदिति तेन ग्रन्थारम्भ एवोक्तादात्मवृत्तान्तात्प्रतीयते । खण्डेलवा लब्राह्मणानां वसतिः जयपुर सीकर-बीकानेरप्रभृतिषु स्थलेष विशेषत उपलभ्यते, अतश्चतुर्भुजमिश्रोऽपि तेषामन्यतमस्थलनिव सी भवेदि- त्यनुमीयते । अयमर्वाचीन इति तदुल्लिखितानेकग्रन्थानां कालतो ज्ञायते । अनेकेषु रसतन्त्रेषु टीकान्वितमिदमेकमेव तन्त्रमुपलभ्यते अतोऽस्याप्टीकायाः परमोपयोगिता महत्वं च । यद्यपीयं टीकाऽनेक. स्थलेषु सम्यगाववोधनेऽक्षमा दुर्बोया च, तथाऽपीयं 'रस- तन्त्रीया टीका' इत्येव महनीया । रसतन्त्रेषु गतिमिच्छूनामियं टीका मार्गदर्शिनी स्यात् । अज्ञातविषयेण्वियं यथातथं पन्थानमपि दर्शयेत् अतः सर्वैरियमादर्तव्या संग्राह्या च । ग्रन्थस्यास्य पुस्तकत्रयमुपलब्धम् । एकं पुस्तकं पुण्यपत्तने डा. गर्दै इति प्रसिद्धिमाप्तस्य वैद्यवर्यस्य सकाशात् , अपरं पुण्यपत्तन एव देवधर इत्येतस्य सकाशात्, तृतीयं तु धारवाडग्रामात् प्राप्तम् । एतत्पुस्तकत्रयमवलम्ब्य सन्देहस्थले च तन्त्रान्तराण्यवलोक्य यथा- मति ग्रन्थसंशोधने कृतो यत्न', तथापि तन्त्रस्यास्य दुरूहत्वात् - भ्रमः प्रमादादिवशाच्च जातानि स्खलितानि सुधीभिः संशोधनीयान । इद रसहृदयतन्त्रं लुप्तप्रायाया रसविद्याया उद्धाराय प्राचीनरसतन्त्रदि. हन्तणां वैद्यानामाल्हादाय च भवेदित्याशास्य विरम्यते । सोलापुरपत्तनम् । रसशास्त्रसेवकः काले इत्युपनामको गुरुनाथपुत्रस्यम्बकः।
५ द्वितीयसंस्करणस्य विज्ञापनम् । अयि ! रसागमज्ञानलोलुपाः! विदितमेव हि तत्र भवतां भवतां यत्त्रिविधासु चिकित्सासु शास्त्रकाष्ठौषधिरसात्मिकासु देवीचिकि- सायाः अस्या रसचिकित्साया एव प्राधान्यम् । यतो हि- अल्पमात्रोपयोगित्वादरुचेरप्रसङ्गतः । क्षिप्रमारोग्यदायित्वा- दौपधेभ्योऽधिको रसः॥ न दोषाणां न रोगाणां नपुंसाञ्च परीक्षणम् । न देशस्य न कालस्य कार्य रसचिकित्सिते ॥ सर्वशास्त्रार्थतत्त्वज्ञो न जानाति रसं यदा। सर्व तस्योपहासाय धर्महीनो यथा बुधः॥ रसचिकित्सायामपि- रसमहारसोपरसधातूपधातुरत्नादीनां विविधैः प्रयोगैश्चिकित्सा क्रियते । तेष्वपि च रसस्यैव प्राधान्यम् । रसश्चायं शिवस्वरूप इति । अस्य दर्शनस्पर्शनध्यानसाधनभक्षणे- जीवन्मुक्तिर्भवतीति विदुषां मतम् । उक्तं च रसहृदयकारेण श्रीमद्- गोविन्दभगवत्पादेन स्वयं प्रथमेऽवचोये- आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम् । श्रेयः परं किमन्य- च्छरीरमजरामरं विहायकम् । तस्माजीवन्मुक्ति समीहमानेन योगिना प्रथमम् । दिव्या तनुर्विधेया हरगौरीसृष्टिसंयोगात् ॥ तथा चान्यत्र रसनिरुक्तिः- जरारुमृत्युनाशाय रस्यते वा रसो मतः | रोगपकाब्धिम- नानां पारदानाच पारदः । अत एवं भूतस्य मर्त्यमृत्युगदच्छिदःसूतस्य सम्यगवबोधे यतनीयम् । स च सूतः नागवङ्गादिदोषकलङ्कितः अतएव कञ्चकी चास्माभिरुपलभ्यते । अतस्त त्तदोषनिरासार्थं नव- नवगुणाधानाय च संस्काराः निर्दियाः सिद्धैः । ते च संस्काराः अष्टादशसंख्याकाः प्रायशो संख्याताः प्राचीनेषु रसग्रन्थेषु । अधुना तु सामान्यतोऽवश्यं करणीयाः अौ संस्कारा प्रापि केनचिदेव क्रियन्ते का कथा श्रष्टादशसंख्याकानां संस्काराणाम् । परं अष्टादश- संस्कारसंस्कृत एव रसः रसायनोक्तफलप्रद इति प्रतिज्ञातं पूर्वा- चार्यः । श्रतएवोक्त-तम्यपि साधनविधौ सुधिया प्रतिकर्मनिर्मलाः प्रथमम् । अष्टादशसंस्कारा विज्ञातव्याः प्रयत्नेन । तथा चान्यत्र- अजारयन्तः पविहेमगन्धं वाञ्छन्ति सूतात्फलमप्युदारम् । क्षेत्रादनुप्तादि व शस्यजातं कृषीवलास्ते भिषजश्च मन्दाः ॥ अभ्रक- जारणमादौ गर्भतिजारणं च हेनोऽन्ते । यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥ इत्यादि ।
श्रीमद्गोविन्दभगवत्पादविरचितं रसशास्त्रहृदयभूतं रसहृदय- तन्त्रं रसस्याष्टादशसंस्कार परिज्ञानाय यथोपयुक्तं न तथान्यः कोऽपि रसग्रन्थः । श्रीमद्गोविन्दभगवत्पादश्च भगवतः श्री आद्यशङ्करा- चार्यस्य गुरुरिति वभूमिकायां 'काले' इत्युपाद्वैः "त्र्यम्बक" इत्यतैः सम्यक्तया प्रतिपादितमेव । ततश्च ग्रन्थस्य सौष्ठवं सुव्यक्तम् । तथा च रसरत्नसमुच्चय-आयुर्वेदप्रकाश-रसेन्द्रचूडामणिप्रभृति ग्रन्थ- कभिरपि व २ ग्रन्थेष्वस्य श्लोकानि मतं वा सूपन्यस्तवद्भिः समादृतमिदम् । अस्य च मुग्धावबोधिनी व्याख्यापि मुद्रापितास्ति । यद्यपि न सा हृदयङ्गमा तथापि पाठकानां मार्गनिदर्शिनी भविष्यतीति । ग्रन्थरत्न- स्यास्योपयोगितां पश्यतैवायुर्वेदविद्यापीठेन आयुर्वेदाचार्यपरीक्षादि- सूनां पाठयत्वेनाङ्गीकृतम् । द्वितीयावृत्तिप्रकाशनकाले च आयुर्वेदिक कालेज हिन्दूविश्वविद्यालयस्य प्रिन्सिपलमहोदयस्य सम्पादकस्य श्रीमतो वैद्यवर्यस्य यादवशर्मणः सकाशात् पुस्तकद्वयमन्यदधिगत- म् । तावनुसृत्य तन्त्रान्तराणि चावलोक्यमया पाठान्तराणि टिप्पण्या- मुद्धृतानि ॥ इति ॥ द्वितीयावृत्तिप्रकाशनाय च वैद्यवर्यस्य सकाशात्समधिगता लवपुरीय-पञ्जावसंस्कृतपुस्तकालयाध्यक्षवर्यैरहं संशोधने नियुक्तः मया च यथामति संशोधने पाठान्तरन्यासे यत्र तत्र गूढार्थप्रका- शने च व्यधायि चेष्टितम् । तथापि यद्यतेनाल्पोऽपि भिषजां लाभः सम्पत्स्यते तदात्मनः परिश्रम फलेग्रहिं कलयिष्यामि। अन्ते च- स्यादेवानवधानतः खलु यथा स्खेनाध्वना गच्छता तद्वन्मे स्खलनं तदत्र कृतिभिः क्षन्तव्यमित्यञ्जलिः ।। - लवपुरे ६-१०-२७. आयुर्वेदाचार्य जयदेव विद्यालङ्कारस्य रसहृदयान्तर्गतविषयानुक्रमणिका । N पृष्टाङ्काः विषयाः प्रथमोऽधयोधः पृष्ठाङ्काः मनुष्यदेहेऽप्राप्तात्मज्ञानस्यान्य- देहे तदसंभवः १६ 1. चरणम् ३ मुक्तेः प्रशंसा A MM X 59 " २३ ५ जीवन्मुक्तिप्राप्त्यर्थं पारदगन्धक- रससिद्धप्रशंसा योगेन दिव्यशरीरापादनम् १७ शरीरस्यानित्यत्वदर्शनम् ७ रसाष्टादशसंस्कारस्यावश्य- ज्ञातव्यता स्थिरदेहप्रयोजनम् मूलाद्यौषधानां देहस्थैर्येऽसम द्वितीयोऽवबोधः र्थत्वम् ८ अष्टादशरससंस्कारनामानि १८ काष्ठौषध्यादीनां क्रमेण सूते खेदनविधिः लयप्रदर्शनम् हैमर्दनविधिः स्थिरदेहफलम् १० मूर्छनविधिः ब्रह्मणो शानगम्यत्वम् उत्थापनविधिः २१ अस्थिरदेहस्य ब्रह्मोपासनेऽस- पातनविधिः ૨ मर्थत्वम् ११ रोधमविधिः योगसिद्धौ स्थिरदेहस्यावश्य- नियमनविधिः २४ कता ११ दीपनविधिः सर्वकर्मभ्यो योगस्योत्कृष्टत्वम् , कृताष्टसंस्काररसखरूपम् २६ योगसिद्धस्य लक्षणम् १२ पीतादिक्रियासु पारदस्य मुखकर- श्रात्मसंवित्तविरलत्वम् णार्थ स्वर्णदिदानम् चिन्मयस्वरूपम् जीवन्मुक्तिः कथं भवति ? तृतीयोऽवयोधा। जीवन्मुक्तस्य सुखदुःखाभावः १४ | अभ्रमासस्यावश्यकर्तव्यता २७ जीवन्मुक्ताः कीदृशा भवान्त ? अभ्रकचारणासाधनानि जरामरणवर्जितशरीरप्रशंसा १५ निर्मुखत्वेनाभ्रकचारणोपायः ३० अात्मापेक्षया सूतस्य सुक्षेयत्वम् विधानान्तरम् अस्थिरदहस्य समाधावयोग्यत्वम् , अभ्रादिजारणायारनाल- २५.
- । " - ४६ ४७ - विषयाः विषयाः पृष्ठादाः विधानम् ३२ पक्षच्छेदं विना रसवन्धस्या- पूर्वोक्ताग्नालप्रयोजनम् शक्यता ४३ अनजागणापूर्व हेमतारपिटीचार- पनच्छिन्नरसलक्षणम् गम् ३४ वज्रा_विनापिनाकादीनां सत्त्व- पिष्टीमनार्थ पात्रापधानि " मोचनेऽसमर्थत्वम् धान्यादीनां चारणायां वज्राघ्रप्रशंसा परिमाणम् ३५ कीदृशमभ्रं देयं हयं च चारणायां कथंविधमभ्रं योज्यं ३६ अभ्रसवपातनविधानम् अस्मिन् विषयेऽल्पमतीनांमतम् " ' अभ्रसत्वपातनस्यान्यप्रकार: ममुगचारणान्तर्भूनं वासनामुख स्वस्थानस्थानां धातूनां भूयिष्ठ- घारगम् सत्त्ववत्त्वम् यास्मिन्नन्यमतम ३७ पतिताभ्रसत्त्वलक्षणम् पारद कथ गन्धाभ्रकप्रवेशो लोहनिभस्याभ्रसत्वस्यात्तम- भवलपदेशः त्वम् गन्धकप्रशंसा माक्षिकसत्वयोगादभ्रसत्त्वस्य गुणाधिकत्वम् गन्धाभ्रकाभ्या रसपक्षापकर्तन- : श्रभ्रसत्त्वस्य कान्तादियोगेन ३६ रसबन्धकारित्वम् पूर्वसम्कतरसम्याकारः अभ्रसत्त्वस्य लोहतालकयोगेन कार्यान्तरयोग्यता च रसे चारणं गर्भतिश्च प्राष्टिम्य इन्दमेलनस्य ४० वनयोगनाभ्रसत्वस्य रस चार- गम् ये रमपनच्छदादिकं न कुर्वन्ति अभ्रसत्यविधानम् कंवलाभ्रमत्वचारणाविधानम् गगनचारणं विना रनबन्धा- शुल्याभ्रविधानम् रस शुल्वाभ्रचारणम् ४१ रक्षितघनम्नत्वचारगम् चतुर्थोऽवयोधः। धगमंदनाभ्रफभना यत्राभ्रक স্মাষ্টম্যানিশ ग्समिद्धयभावः ४२ अभ्रकग्रानरहस्यम् अध्यत्वस्य वारणायां नुगम. पञ्चमोऽवोधः। गावाट भ्रमत्यम्य श्रेष्टत्यम. गर्भनिवान्याः प्रशंसा ५२ विधानम् ४५ বিনিমু नयां निन्दा भाव. जगणंच । ४३ " " " ६६ -- " विपयाः पृष्टाङ्काः विषयाः पृष्ठाकाः गर्भद्रुतिप्रयोजनम् ५२ शतनिर्वाहितादौ समादि- विधानम् ६३ जारणायां प्रथमं किं कर्तव्यं? ५३ अल्पनियूँढक्रमः हेमवीजप्रशंसा माक्षिकसत्त्वजारणद्रसे गर्भगृतौ सत्यां विधानम् मर्दनस्वेदनयोःपूर्वोपकरणत्वम् गुणत्कर्षः गर्भद्रतेलक्षणम् गुरूक्तमार्गेण सूतकर्म कर्तव्यम् वाह्यद्रुतिप्रशंसा माक्षिकसत्त्वप्रशंसा नागजारणम् वर्णजारणयन्त्रविधानम् ५५ निर्नागकरणविधानम् रूप्यजारणम् ५७ निर्नागकरणानन्तरकर्तव्यम् हेमादिजारणार्थ योगान्तरकथ तारयोगेन निर्वङ्गविधानम् ६७ नम रसे रसकस्य गर्भद्रुत्या जारणं ५८ निर्वङ्गकरणस्य विधानान्तरम् गन्धकयोगेन हेनो रसगमैं गर्भद्रुतेरन्यो विधिः द्रुतिकरणम् , पिष्टीविधिना जारणम् ६८ रसकयोगेन हेम्नो रसगर्भे द्रुति बीजवरविधानं तस्य रसगर्ने करणम् जारणं च तालकसत्त्वशिलायोगेन हेनो नागयोगेन बीजकरणम् ६६ रसगर्भ द्रतिकरणम् ५६ / वङ्गयोगेन बीजकरणम् नागवीजविधानम् " सुवर्णाभिधानबीजप्रशंसनम् ७० वङ्गवाजविधानम् ६० पूर्वोक्तवीजस्य पिष्टीकरणम् पूर्वोक्तनागवङ्गवीजयोश्चारणा- तस्यैव विधानान्तरम् ७१ झुपयोगित्वम् नागवङ्गशुल्वतीच्णानां जारण पूर्वोक्तपिण्डस्य रसगर्भे द्रुतिकर- विधानम् रणम् महावीजविधानम् ६१ : द्रुतस्य वीजस्य रसगर्भ जारणम्७२ रसोदरे वीजद्रावणविधानम् षष्ठोऽवबोधः। सुवर्णजारणार्थ विडः ६५ ; गर्भद्रुतिकरणविधानम् ७३ विडयोगाद्वीजस्य रसगर्भ रसजारणे कालसंख्या रसमलापनयनम् द्रवीकरणम् जीर्णग्रासलक्षणम् वैक्रान्तगर्भगतिविधानम् ६३ अजीर्णमासस्य पुनर्जारणविधा- विडादीन गर्भद्रतिकारकत्वम् नम् " -~- ७४ " ७५ ४ पृष्ठाकाः ८० ७८ " ६० " - । विषयाः विपयाः पृष्ठाका फस्मिन्यन्त्र फति ग्रासाजाया:? ७५ / रसरञ्जकत्वेन तानप्रशंसा ग्रामप्रमाणम्यानिर्दिष्टसंग्यत्वम् ७६ । गन्धकादीनां रागे विशेष: प्रधानयोस्तानखपरयोः कृत्यम् , चतु.पाटवंशादियास रसाकारः অমঙ্গলালেলাম ७७ कृष्णाधकयोगेन रसरञ्जनम् स्वर्णमारणम् ८६ फपयन्त्रविधानम् स्वर्णभस्मना रसरञ्जनम् कच्छपयन्त्र जारणविधानम् ७ बीजस्य सर्वप्रावान्यम् जारणायां विधिव्यम् नवमोऽधबोधः। मतमोऽवबोधः। चीजप्रशंसनम् विदेजारणायाः सुगमन्वदर्शनम्-० अशुद्धवीजदोपाः ६१ विज्ञविधानम् अष्टमहारसनिरूपणम् विदातरम् ८१ उपरसलारलोहनिरूपणम् গাষ: पूतिलोहनिरूपणम् शारकरगवियानम् पर लवणनारनिरूपणम् जाग्जलपाकविधानम् शायकहावकोषधयः जारगा) तारविधानम् ८३ ' शोधकहावकाणां शोधनद्रावण. रन वियोजनम् विधानम् ६३ अष्टमोचवोधः। रसानां क्रमेण शोधन- अभ्रकीरगन्यायाः निरूपणम् प्रभ्रमयांगासवर्णविशेषः स्वर्णस्प्ययोः शाधनम् নননা ४ लोहशोधनम् प्रभ्रमवादियोगन गर्म बलादि. सामान्येन सर्वलोहानां लामध्यत्रया नीरगम्य कामणादियटगुण- शोवनमारणम् गागिन्यम दशमोऽवोधः। मागम्य गुलयोगन गुग्णाधि- चक्रान्तादीनां सत्यप्रशंसनम् " ६ चैकान्नभ्य प्राधान्यम् गागादिगु यतादिनिम्पणम् वैशान्तस्य नानावणय हेतुः मायनांगाय. वक्रान्तमत्वयातनम दीनां मागविधानम कान्लग्नत्वांगः पुगिन्या, यत्रादीनां नयनविधानम ८५। ह५ " मातारानग्मायकन्यम् .. ६७ .
" विषया: पृष्ठाङ्काः विपयाः पृष्ठाकाः शक्तिमत्त्वेन माक्षिकसत्त्व- सूतमारणणस्यान्यप्रकार: प्रशंसनम् ६७/ सूतखोटविधानम् ११४ माक्षिकसत्त्वविधानम् ६८ लोहपर्पटिकारञ्जनम् ११५ तुत्थादीनां सत्वपातनम् महाबीजानां बीजानां च माक्षिकसत्वविधानान्तरम् ६ विशेषविधानम् ११६ सत्त्वपातने पिण्डीविधानम् पञ्चदशोऽववोधः। अभ्रादीनां सत्वपातनविधानम् , वाह्यद्रुतिप्रशंसा एकादशोऽवबोधः। अभ्रद्रुतिविधानम् ११७ स्वर्णमाक्षिकसत्त्वप्रशंसा १०० अधसत्त्वद्रुतिविधानम् ताप्यसत्त्वाधिकारः १०१ सामान्येनाभ्रगतिविधानम् ११८ अभ्रसत्वयोगः " स्वर्णद्रुतिविधानम् शुल्वादियोगेन वीजकरणम् "तीष्णतिविधानम् ११६ नागादीनां बीजकरणम् १०२ माक्षिकद्रतिविधानम् रसे रक्तगणदीनां निर्वाहणम् अभ्रद्रुतेरधिकारः जारणयोग्यबीजकरणम् पूर्वोक्तवीजेन रसस्य द्रुतीनां रसेन सह मेलनविधानम् इत्थंबद्धस्य रसस्य माहात्म्यम् १२० रञ्जनवन्धने विधिना जारितग्रासस्य रसस्य श्वेतक्रियायां वीजकरणम् २६ गुणवत्वम् वीजेष्वभ्रसत्त्वस्य प्राधान्यम् १०४ अधिकद्रुते॥रणाद्रसे गुणाधि- वीजनिर्वाहणविधानम् कत्वम् द्वादशोऽधबोधः ग्रासवृद्धया गुणवत्वम् द्वन्द्वयोगप्रकार: पोडशोऽवबोधः। सत्त्वमेलनविधानम् सारणायाः प्रशंसा १२१ अधसत्वेन सह माक्षिकयोग- सारणाय वसातैलविधानम् , निषेधः १०७ सारणलार्थ रक्तवर्ग- त्रयोदशोऽवबोधः। निरूपणम् १२२ चतुःषष्टिमहाबीजानि १०८ कल्कः ११० सिद्धतैलकृत्यम् चतुर्दशोऽधबोधः। सारणयन्त्रविधानम् १११ / सूतबीजसारणानन्तरं सूतमारणविधानम् कनकसारणम् " वीजविधानम् सूतबन्धनहेतवः " वीजजारणफलम् " " विषयाः पृष्ठाङ्काः विपयाः पृष्ठाङ्काः अन्यसारणयन्त्रविधानम् १२४ / कांस्यवेधविधानम् १३६ १२५ घोपाकृटशुल्ववेधविधानम् क्रामणविधानम् १४३ १२६ कामितरसगुणाः १४५ सारितरसस्य ग्रासविधानेन जारणम् १२७ | हेमाकृष्ट्यर्थ पिष्टीविधानम् सारितसूतगुणाः तारे हेमाकृष्टिविधानम् सुखन सारणविधानम् १२८ | हेमाकृष्टिविधानम् सारण्या पारदस्यगुणवत्वम् नागे तारे हेमाकृष्टिविधानम् १४६ सारणक्रमः ताप्ययोगेन हेमाकृष्टिविधा- सारणक्रमगुणा १२६ नम् सप्तदशोऽवबोधः। पत्रालेपविधिः रञ्जनविधानं च ४७ कामणप्रशंसा तस्यैव विधानान्तरम् १४६ देहलोहयो' सादृश्यम् ताराकृटिविधानम् १५० क्रामणयोग वेधविधाने गुरूपदेशस्या- क्रामणे माक्षिकसत्त्वनागयोर्विशेष- वश्यकता १५२ गुणवत्वम् १३२ अष्टादशोऽवबोधः। एकोनविंशतितमोऽवबोधः। वेधयोजनम् १३४ रसभक्षणात्पूर्व कायशोधनम् १५३ हेमकृष्टिविधानम् कायसंशोधनाकरणे दोषः १५४ शतांशेन वेधविधानम् रसायनाधिकारित्वम् सहस्राद्यशेन वेधविधानम् १६६ कायसंशोधनार्थ देवदारुतैलादि- तारादौ वेधविधाने विशेषः प्रयोगः पादादिजीर्णबीजस्य रसस्य पूर्वोक्तौषधभक्षणस्य मासक्रमेण गुणाः १५६ पत्ररञ्जनार्थमुपयोगः १३५ पत्ररञ्जनविधानम् कायसंशोधनार्थ कतिपय- हेमवर्णविधानम् योगाः तारवर्णविधानम् रसायने भोज्याभोज्यानि १३७ नागादीनां तारे विशेषकार्य- आरोटकरसोपयोगः कारित्वम् पातनविधानम् हेम्नो वर्णोत्कर्षविधानम् रसायने सृतस्य आरोटादि- तारवेधविधानम् १३८ १५५ १५७ विधान विषयाः पृष्ठाङ्काः विषयाः पृष्ठाकाः क्षेत्रीकरणार्थ रसोपयोग पूर्वोक्तविधिमपालयतो विधानम् रसाजीगत्पत्तिः १६६ अभ्रकप्रयोगः रसाजीर्णलक्षणम् १६७ वा अभ्रकयोगाः १५६ | रसाजीर्णप्रतीकारः भक्ष्यमभक्ष्यं चाभ्रम् १६० नागादियुक्तरसभक्षणजनितदोष- घनसत्वलोहसाधन प्रयोगश्च प्रतीकारः १६८ घनसत्त्वादिजीर्णस्य रसस्य रससेवितुरत्यम्लादिभक्षणेन गुणाधिकत्वम् दोषाः जरामृत्युनाशनः क्षेत्रीकरणो कथंविधं रस सेवेत? योगः रससेवनगुणाः अभ्रकादिजीर्णरसस्य रसायने अमरसुन्दरीगुटिकाविधान प्रशस्तत्वम् गुणाश्च १७० विषादिबद्धरसस्य कुत्लि- मृतसंजीवनीगुटिकाविधानं तत्वम् गुणाश्च १७१ जीर्णरसस्य मात्रा वज्रिणीगुटिकाविधान वेधविशेषेण मात्राविशेषः १६४ गुणाश्व १७३ सूतभक्षणे जपहोमादेराव खेचरीगुटिकाविधानं गुणाश्च श्यकता रसवादस्यानन्तत्वम् १७३ रसायने पथ्यानि ग्रन्थकारयितुर्वशवर्णनम् अपथ्यानि १६५ ग्रन्थकारयितुर्गणवर्णनम् " "
No text on this page.
श्रीचतुर्भुजमिश्रविरचितमुग्धावबोधिनीव्याख्यासमुल्लसितम् । रसहृदयं तन्त्रम्। प्रथमोऽवबोधः । जयति स दैन्यगदाकुलमखिलमिदं पश्यतो जगद्यस्य । हृदयस्थैव गलित्वा जाता रसरूपिणी करुणा ॥ १ ॥ श्रीमन्महागणाधिपतये नमः । भवभयरक्षणदक्षं नत्वा मुग्धावबोधिनी तनुते । रसहृदयसुप्रयुक्तां टीकामृजुभावगामाप्तः ॥१॥ गुणवारिधिकुरलकुले हरिहरमिश्रः प्रतीतमहिमाण्यः । तत्पुत्रो भुवि महितो महेश इति नामविख्यातः ॥२॥ तदन्वये भारतिभावसंयुत- स्तदात्मजः प्रस्तुतवाग्मिरीश्वरः । चतुर्भुजो भावितभावमानसः वलोकजातस्य कुलानुभावतः ॥ ३ ॥ ज्येष्ठोऽभूवि पारिजातकतरुः खण्डेलवालान्वये तत्पुत्रः किल नाथबल्लवसुदः प्राणैर्यशार्थान्वितः। तत्पुत्रेण च सावरेण पतिना बन्धस्य धर्मार्थना गीर्वाणाशु रुगोच्चजेन (१) सततं तेनात्र यत्नः कृतः ॥४॥ इह शास्त्रारम्भे आचार्यश्रीमदोविन्दपादाः शिष्टसमयपरिपालनार्थ शाखस्य देशयतो गुरुपादस्य भगवतो वस्तुनिर्देशरूपं मङ्गलमाचरन्ति जयतीत्यादि । मङ्गललक्षणं यथा,-"आशीर्नमस्क्रिया वस्तुनिर्देशो मङ्गलं"-इति । वस्तुनिर्देशः पञ्चधा; यथा-"अस्ति भाति प्रियं 'रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं शक्तिरूपं ततो द्वयं-" इति । स हरो जयति सर्वोत्कर्षेण वर्तते । अखिलं जगत् पश्यत इति वस्तुनिर्देशाजगद्रष्टा । तथा च श्रुतिः,-"अपाणिपादो जवनो १ 'कलानुभावतः' इति पाठान्तरम् । २ हरस्येत्यर्थः ।
२ रसहृदयं तन्त्रम् । ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वत्ति वेद्यं नच तस्य वेत्ता तमाहुरग्र्यं पुरुषं पुराणम्"---इति । यस्य हृदयस्थैव रसरूपिणी करुणा घृणा जाता प्रादुर्भूता। किंभूत्वा गलित्वा द्रवित्वा, गलि- तस्य स्थानाच्च्युतिरिति युक्तम् । एषा हृदयस्थैव । एवाव्ययमन्यस्थान- निषेधवाचि । रसरूपिणीति रसः पारदस्तत्स्वरूपं यस्याः सा । तथा च वाक्यं-"रसो जलं रसो हर्षो रसः शृङ्गारपूर्वकः । स्वाद्वा- दिषु च निर्यासे पारदेऽपि रसो विषे” इत्यनेकार्थ: । सामान्यतस्तद्रूपं द्रवत्वं, विशेषतो रसरूपं सर्वोपकारित्वम् । तथा च वाक्य रस- रत्नाकरे- "आजन्मपापकृतनिर्दहनैकवह्निर्दारिद्रयदुःखगजवारणसिंह- रूपः"-इति । किंभूतस्य हरस्य ? दैन्यगदाकुलं जगत् संसार पश्यतः, दैन्यं च गदाश्च तैराकुलं व्याप्त; दैन्यं दीनभावो दारिद्रयं, गदा व्याधय इति । अखिलमिति सर्वव्यापिपदम् । यथा मञ्जयों “यस्य रोगस्य यो योगस्तेनैव सह दापयेत् । रसेन्द्रो हरते रोगान्नर- कुञ्जरवाजिनाम्"--इति । अन्यन्मतं च,-"रसमस विना यत्र कथ्यते संहिताक्रमः । अनुक्तमपि विज्ञेयं तत्र तत्राझशान्तये'- इति ॥१॥ पीताम्बरोऽथ वलिजिन्नागक्षयवहलरागगरुड चरः। जयति स हरिरिव हरजो विदलितभवदैन्यदुःखभरः ॥ २ ॥ पीतेत्यादि । अनेन पद्येन कविहरजस्य हरेश्च समत्वं सूचयति । स पुराणकविवर्णितो हरजो जयति सर्वोत्कर्षेण वर्तते, हरादीश्वरा- जातो हरजः । स उत्प्रेक्ष्यते-हरिरिव विष्णुरिव । किंभूतो हरिः ? पीताम्बरः, पीते अम्बरे वस्त्रे यस्य सः, दुकूलयुग्मत्वात् । पुनः किंभूतो? वलिजित्; बलि चलिनामानं दैत्यविशेषजयतीति तथोक्तः। पुनः किंभूतः ? नागक्षयेत्यादि, नागानां शेषादीनां क्षयाय नाशाय वहलरागो वहुप्रीतो योऽसौ गरुड' खगेश्वरः तत्र चरति गच्छति तथोक्तः। पुनः किंविशिष्टः? विदलितेत्यादि; विशेषणेन दलितो दूरीकृतो भवस्य संसारस्य दुःखभरो येन सः; दैन्यं दारिद्रय, दुःखं व्याधिरूपं, तयोर्भरो वाहुल्यमिति । अधुना हरजं विशेषयति--कि १ हरजविशेषणानि त्वन्यथा विवृतानि टीकाकारण । अस्म- न्मत्या तु प्रस्तुतग्रन्थविषयमेव गोविन्दपूज्यपादा अत्र प्रतिपादयन्ति । तद्यथा--पीताम्बरो पीत अम्वरं अभ्रकं येन स तथोक्तः, अभ्रकजीर्ण इत्यर्थः । पुनः किंविशिष्टः' वालिजित् वलिं बलिवलारूपं गन्धकं जयतीति ३ ? रसहृदयं तन्त्रम् । विशिष्टः? पीताम्बरः । पीताम्बरः पूर्वार्थः । कथं युक्तः तमर्थ स्पष्ट- यति-अनेन सूतराजेनापि चत्वारि वासांसि धृतानि विप्रादिवर्ण- भदात् । रसरत्नाकरे यथा,- "खेतारुणहरिद्रामकृष्णा विप्रादिपा- रदाः"--इति । ब्राह्मणक्षत्रियवैश्यशुद्राः खेतरक्तपीतकृष्णवस्त्रधारिणो सातव्याः; न त्वेषां स्वरूपमिति । रसमञ्जयाँ यथा,--"अन्तः सुनीलो बहिरुज्ज्वलो यो मध्याह्नसूर्यप्रतिमप्रकाशः"--इति । अन्तःस्वरूपं, बहिर्वासांसीति किंवदन्ती । अथेति समुच्चये प्रसादः । अथेति मङ्ग- लानन्तरारम्भप्रश्नकालखाधिकारप्रतिज्ञासमुच्चयेष्विति । पुनः किंचि- शिष्टः? वलिजिता वलीन जयतीति, "वलिश्चर्म जराकृतं" इत्यनेकार्थः पुनः किंविशिष्टः ? ना गक्षयेत्यादि; ना पुखरूपः; पुनः किंविशिष्टः? गम्यतेऽनेनेति गः, पक्षयोर्गः गक्षये पक्षनाशे सति बहलरागो बहु- रागवान् यः स रसः, तेन गरुड इव चार्यते इति । किं ? पारदः पक्षनाशे सति आकाशगमनं ददातीति तात्पर्यार्थः । रसरत्नाकरे यथा,-"हतो हन्ति जरामृत्युं मूच्छितो व्याधिघातकः । दत्ते च खे गति बद्धः कोऽन्यः सूतात् क्रियाकरः'--इति । पुनः किविशिष्ठः? विदलितेत्यादिः पूर्वार्थः । करुणापरत्वेन दैन्यदुःखहारित्वं सूचयति॥२ मूर्च्छित्वा हरति रुज, बन्धनमनुभूय मुक्निदो भवति । अमरीकरोति सुमृतः कोऽन्यः करुणापरस्तस्मात् ।। ३ ।। यः पूर्वविशिष्टो हरजस्तस्मादन्यः करुणापरो दयावान् कः ! न कोऽपि, यतो रुजं शरीरव्यथां हरति । किंभूत्वा! मूञ्छित्वा भूञ्छितो भूत्वा । मूञ्छितलक्षणं रसरत्नाकरे,-"कजलाभो यदा सूतो विहाय धनचापलम् । दृश्यतेऽसौ तदा शेयो मूञ्छितः सूतरा बुधः" इति। वलिजित् गन्धकजीर्ण इत्यर्थः। नागेन क्षयो यस्य सः नागक्षयः, सीसेन मारित इत्यर्थः, तेन बहलरागवान् बहुरक्तो यो गरुडो नाम सुवर्ण, तञ्चारतति तथोक्तः । नागमारितरक्तहमजीर्ण इत्यर्थः। शेष यथार्थमेव । अभ्रकगन्धकहेमजीर्णः पारदो भवदैन्यं रोगपीडां च हरतीति भावः। उक्तं च,-"अजारयन्तः पविहेमगन्धं वाञ्छन्ति सूतात्फलमप्युदारम्॥ क्षेत्रादनुप्तादिव शस्यजातं कृषीवलास्ते भिषजश्च मन्दाः" इति तस्मा- तथाजीर्णः पारद एवोदारफलदायी भवेदित्यर्थः । संपादकः । १ हि मृतः इति पाठान्तरम् ।२- करुणाकरः सूतात् इति रसरत्न समुच्चये।
४ रसहदयं तन्नम्। पुनर्बन्धनमनुभूय धृत्वा मुक्तिदो भवति मुक्तिं ददातीति । मुक्तिश्चतु- र्धा वर्णिता, सालोक्यसारूप्यसामीप्यसायुज्यभेदात् । बन्धनं च मु- ख्यतया द्विविधं, अवान्तरव्यापारेण च चतुर्विधम् । अधुना द्विविध- वन्धनोद्देश:-निवाजवद्धो वाजवद्धश्च । निर्वाजबद्धो यथा रसमञ्जयां- "रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगनश्च। तुल्यांशगन्धैः पुटितः क्रमेण निर्वीजनामाऽखिलरोगहता" इति । पुनजिवद्धो यथा-"चीजीकृतैरभ्रकसत्वहेमताराकान्तैः सह साबितो यः । युत- स्ततः षड्गुणगन्धचूर्णैः स वीजवद्धोऽप्यधिकप्रभावः" इति। अवान्तरचतुर्विधवन्धोद्देशो यथा-"पोटः खोटो जलौका च भस्मत्वं च चतुर्विधम् । बन्धश्चतुर्विवः सूते विज्ञेयो भिषगुत्तमैः"-इति । तल्ल- क्षण(रस)संकेतकलिकायां,-"पोटः पर्पटिकावन्धः पिष्टीस्तम्भ- स्तु खोटकः । ध्माता द्रुतो भवेत्खोटस्त्वाहतश्चूर्णतां व्रजेत् ॥ पुन- धर्मातो द्रुतः खोट इति खोटस्य लक्षणम् । जलौका पाटबन्धश्च भस्म भस्मनिर्भ भवेत्" इति । पुनः सुमृत. सन् अमरीकरोतीति । सुमृत इति 'सुः' इति पूजायां, यथा विदग्धमुखमण्डनवहिापिकायां- "पूजाया किं पदं प्रोक्तमस्तनं को बिभर्युरः । क आयुधतया ख्यातः प्रलम्बासुरविद्विवः । सुनासीरः" इति पूज्य. । मृत इति विशेषार्थः। मृतो यथा,-"आर्द्रत्वं च घनत्वं च चापल्यं गुरुतैजसम् । यस्यैतानि न विद्यन्ते तं विद्यान्मृतसूतकम्" इति। पूज्य इति रसेन्द्रमङ्गले,यथा- "श्रवद्धसूतं तु हतं प्रमादात् करोति कष्टं प्रवलं रसेन्द्रः' इति । मूर्च्छनादिबन्धनपरंपरया यो मृतः स पूज्यो नान्यथा । यथा च रसमञ्जयाँ,-"अजीर्ण चाप्यवीजं च सूतकं यस्तु धातयेत् । ब्रह्महा स दुराचारी मम द्रोही महेश्वरि"-इति युक्तोऽयमर्थः । करुणापरत्वं सता स्वभाव इति । यथा,-"छेदेऽपि चन्दनतरु सुरभयति मुख कुठारस्य-" इति ॥३॥ सुरगुरुगोद्विजहिंसापापकलापोद्भवं किलासाध्यम् । तदपि च शमयति यसात्कोन्यस्तस्मात्पवित्रतरः ॥४॥ सुरेत्यादि । तस्मात् सूतराजात्, अन्यो द्वितीयः, पवित्रतर अति- शयेन पवित्रः कः किल श्रूयते । न कोऽपि। यस्माद्धतोः, अपीति १ कुष्ठं इति समीचीनः पाठः । “वित्रं तदपि च शमयति यस्तस्मा- त्कः पवित्रतरः सूतात्" र०र० समुच्चये।
५. रसहृदयं तन्त्रम् । निश्चयेन, असाध्य रुजं शमयति; सर्वरूपान्वितमसाध्य, दिव्यौषधि- भिरपि कर्मविपाकेनाऽपि साध्यते तञ्च किंविशिष्टमसाध्य ? सुरेत्यादि सुराश्च गुरवश्च गावश्च द्विजाश्च तेषां या हिंसा हननं अवमानने वा तदुत्पन्नो यः पापकलापो दुष्कृतपटल एतस्मादुद्भवतीति ॥ ४ ॥ तस्य स्वयं हि स्फुरति प्रादुर्भावः स शाङ्करः कोऽपि । कथमन्यथा हि शमयति विलसन्मात्राच्च पापरुजम् ।। ५ ॥ तस्येत्यादि। कविनाऽनेनानुमानेन लोकप्रतीतः क्रियते। यः पूर्वोक्तः सूतराजः तस्य कोऽप्यनिर्वचनीयः सर्वदेशीयत्वेन, शाङ्करः प्रादुर्भावः शमयतीति दुःखमुपशमयतीतिश प्रसादः, शं करोतीति शङ्करः,तस्याय शाङ्करः, दुःखोपशमायाय प्रादुर्भवतीति तात्पर्यार्थः । दुःखमाधिव्या- ध्यात्मकेन द्विविध, पुनराविभातिकाधिदैविकाध्यात्मिकभदाच त्रिवि- धम् । स पुनरस्य सूतराजस्य स्वयं स्फुरति प्रकाशत इति । अन्यथा अन्यप्रकारेण शाङ्करप्रादुर्भाव विना पापरुज कुष्ठं सुरगुरुगोद्विजहिंसा- पापकलापोद्भवं कथं शमयति । कुतः ? विलसन्मात्रात् दृष्टिगोचर- त्वात् । रसेन्द्रमङ्गले यथा,-"शताश्वमेधेन कृतेन पुण्यं गाकोटिदानेन गजेन्द्रकोटिभिः । सुवर्णभूदानसमानधर्म नरो लभेत् सूतकदर्शनेन" -इति ॥ ५॥ रसबन्धश्च स धन्यः प्रारम्भे यस्य सततमित्र करुणा । सिद्धे रसे करिष्ये महीमहं निर्जरामरणम् ॥ ६ ॥ भूञ्छितबद्धमृतस्यावस्थया विविध सूतराजस्य वन्वनं प्रशंसति कविः-रसत्यादि । भो जनाः ! रसवन्धः पारदबन्धनं धन्यः, यस्य प्रारम्भे सततं निरन्तरं करुणा जायत इति शेषः । किंरूपा? अहं गोविन्दनामा, रसे सिद्धे सति सम्यग्बन्धनत्वं प्राने सति, महीं मेदिनी, निर्जरामरणं यथा तथा करिये। अतिसामीप्याद्वर्तमान एव लट् । निर्जरामरणमिति क्रियाविशेषणम् । जरा पालित्यं, मरणं प्राणत्यागः, आभ्यां रहितं, यथा मद्या जरामरणं न युक्तम् । अत्र महीपदेन मही- मधिकृत्य निवसन्ति ये मनुजादयस्त एव, लक्षणावृत्तित्वात् । पुना रसायनवशाजरानिषेधो भवेदिति युक्तम् । हितोपदेशे यथा,-"यज- १-रसबन्ध एव धन्यः प्रारम्भे यस्य सततमिति करुणा सेत्स्यति रसे करिप्ये महीमहं निर्जरामरणाम्। २० र० स० ।
६ - ? रसहृदयं तन्त्रम् । राव्यधिविध्वंसि भेप तद्रसायनम् । श्राद्ये वयसि मध्ये वा शुद्धकायः समाचरेत्" ---इति । मरणनिषेधः कथमोपधेन ? अन्योपधिशक्ति- हासतोन युक्तः रलेश्वरशक्त्याधिक्यायुक्तः। रसरत्नाकरे यथा,-"मृत्यो जराविषधरस्य च वैनतेय तुभ्यं नमामि सुरवन्दितसूतराज !"- इति ॥ ६॥ ये चात्यक्तशरीरा हरगौरीसृष्टिजां तनुं प्राप्ताः । वन्यास्ते रससिद्धा मन्त्रगणाः किंकरा येपाम् ॥ ७॥ जरामरणनिषेधत्वेन किमाधिक्यं तदाह-य इत्यादि । ये एवं- विधरससिद्धास्ते वन्द्या अभिवादनयोग्याः स्तुत्याश्चा'वदि' अभिवादन स्तुत्योः । किंविशिष्याः ? अत्यक्तशरीराः.न त्यक्तं शरीरं यैस्ते जीवन्मुक्ता इत्यर्थः । शरीरं द्विविध-स्थूलसूक्ष्मभेदात्ः पृथिव्यतेजोवाय्याकाशा- त्मकं स्थूल, कोशत्रयात्मकं सूक्ष्मम् । यथा सूत्रं,-विज्ञानमयं मनोमयं प्राणमयमेतत्कोशत्रय मिलित सन्मशरीरमुत्पद्यते । अन्ये जीव एव सूक्ष्मशरीरम् । अत्यक्तशरीररससिद्धाश्च उच्यन्ते, "मन्यानभैरवो योगी सिद्धवुद्धश्च कन्थडी। कोरण्टकः सुरानन्दः सिद्धपादश्च चर्पटी ॥ कणेरी पूज्यपादश्च नित्यनाथो निरञ्जन.। कपाली विन्दुनाथश्व काक- चण्डीखरो गजः ॥ अल्लमः प्रभुदेवश्च घोडाचोली च ठिरिउनी । भालु- किर्नागदेवश्च खण्डी कापालिकस्तथा ॥ इत्यादयो महासिद्धा रसभोग- प्रसादतः । खण्डयित्वा कालदण्डं त्रिलोक्यां विचरन्ति ते"-इति । पुनः किंविशिष्टाः ? तनुं प्राप्ताः; शरीरं ग्रहीतारः । किंविशिष्टां तनुं ? हरगौरीसृष्टिजां, हरो महादेवः; गौरी पार्वती, तयोः सृष्टिः सर्जन मैथुनसंयोगः, तजाता पुत्रा एवेत्यर्थः । पुनर्येषां मन्ध्रगणाः किङ्कराः मन्त्रसमूहा श्राज्ञाकरा इत्यर्थः ॥ ७॥ १ 'जान्तरं प्राप्ताः' इति रसेश्वरदर्शनपाठ.।२'मन्त्रगणः किंकरो येषां इति रसेश्वरदर्शने पाठः । ३ पर्पटी। ४ 'खण्डः' इति पाठान्तरम् । ५ अस्यार्थप्टीकाकारेणान्यथा विवृतः। हरगौरीसृष्टिजामिति हर- सृष्टिः पारदः, गौरीसृष्टिः अभ्रक, तयोः संयोगजां तनुं प्राता इत्यर्थः । रसेश्वरदर्शने माधवाचारस्यार्थ एवमेव गृहीतः । यथा,-"पाट्को- शिकस्य शरीरस्यानित्यत्वेऽपि रसाभ्रकपदाभिलप्यहरगौरीसृष्टिजातस्य नित्यत्वोपपत्तेः । तथाच रसहृदये,-"ये चात्यक्तशरीरा इत्यादि। संपादकः।
रसहृदयं तन्त्रम् । . सुकृतफलं तावदिदं सुकुले यजन्म धीः स्वतत्रापि । साऽपि च सकलमहीतलतुलनफलो भूतलं च सुविधेयम् ॥ ८॥ तावदिति साकल्ये, यावत्तावदित्येतौ साकल्यावविमानावधारणे- विति प्रसादतः । इदं सुकृतफलं सुविहितकर्मफलं, इदं कियत्? सुकुले शुभान्वये जन्म, स्वतन्त्रा धीः स्वाधीनवुद्धिरित्यर्थः । अपीति निश्चयेन । सा बुद्धिः सकलमहीतलतुलनफला सकलस्य निरवशेषस्य महीतलस्य तुलनं फलं यस्याः सा तथोक्ता । तुलनमिति तुलया स्वतन्त्रबुद्धिरूपया सकलमहीतलस्य तुलनं भवत्येवेति युक्तं, किमा- कारा ? कियन्माना ? कैः श्रिता? कैधृता च भूरिति ज्योतिषसिद्धा- न्तविधानादष्टान्ता भूर्बुद्धयोपलच्यते। पुनः सुकुलजन्मस्वतन्त्रबुद्धि- भ्यां भूतल सुविधेयं पूज्यं ज्ञातव्यम् । एकदेश ग्रहणात्सर्व ग्राह्य, महा- न्तस्तोका भूतलं बहु, ईदृशा महान्तो यत्र तिष्ठन्ति तत्स्थानं पूज्यं वेत्तमशक्यत्वात् सर्वमिति ॥ ८ ॥ भूतलविधेयतायाः फलमर्थास्ते च विविधभोगफलाः । भोगाः सन्ति शरीरे, तदनित्यमहो वृथा सकलम् ॥ ६ ॥ सुकुलजन्मसंबन्धो व्याख्यायते-भूतलत्यादि। भूतलविधेयतायाः भूतले पृथिवीमण्डले या विधेयता सर्वकर्मप्रवीणता तस्याः, अर्थाः कार्याणि, कथं भूताः ? विविधभोगफलाः विविधाश्च ते भोगाश्च विविधभोगाः नानाभागाः फलं येषां ते तथोक्ताः। ते फलं फलरूपाः। भोगाः शरीरे सन्ति भवन्ति । कुतः ? यतो वेदान्तसूत्र-प्रारब्धकर्म- फलभोगायतनं शरीरमिति । अत एव भोगानामाश्रयः शरीरम् । अहो इति कष्टे आश्चर्य वा । एतच्छरीरंतु सर्वोत्कृष्टमिति तात्पर्याथः, "सा मुक्तिः पिण्डपातने' -इति वचनात् ॥ ६ ॥ इति धनशरीरभोगान् मत्वाऽनित्यान् सदैव यतनीयम् । मुंक्तिस्तस्य ज्ञानात्, तच्चाम्यामात्, स च स्थिरे देहे ॥ १० ॥ १ "धीश्च तत्रापि र० र० स० । २'तुलनकला' इति पाठे तुलने कलासामर्थ्यवतीत्यर्थः। संपादकः। ३०मतो' इति पाठान्तरम् । ४ 'मुक्तौ सा च ज्ञानात्' इति तु रसेश्वरदर्शनपाठः, स एवं सम्यग्वर्तते। मुक्तौ यतनीय,साच मुक्ति ज्ञानात्'इत्यन्वयः। टीकाकारस्य पाठो न विशुद्धः।
? रसहृदयं तन्त्रम् । सर्वसाधनं शरीरं मत्वाऽभिमतं दिशति--भो जनाः ! सदा सर्व स्मिन् काले अहर्निश यतनीयम् । किं कृत्वा धनशरीरभोगान् अनित्यान् नश्वरान् मत्वा यतनीयमिति । किं ? यथा शरीरं नित्य- स्थायि भवति, शरीरे नित्ये सर्व नित्यमित्यर्थः । तस्य शरीरस्य नित्यस्य शानात् सर्वोत्कृऐनानेनैव शरीरं नित्यं भवेदित्यवबोधात्, तस्यैवा- भ्यासाच मुक्तिर्भवति । क सति ? स्थिरे देहे सति । मनसो धर्मः शरीराश्रितैः षड्विकारैश्च देहास्थिरत्वं, एतनिषेधत्वं देहस्थिरत्वं मोक्षः । तदेवाह राम प्रति गुरोर्वचन,--"न मोक्षो नभसः पृष्ठे म पाताले न भूतले । सर्वाशासंक्षयश्चेत.शमो मोक्ष इतीक्षते" इति ॥१०॥ तत्स्थर्येण समर्थ रसायनं किमपि सूतलोहादि । स्वयमस्थिरस्वभावं दाह्यं क्लेद्यं च शोष्यं च ॥ ११ ॥ तस्य देहस्य स्थैर्येण स्थिरभावेन कृत्वा रसायनं जराव्याधिनाशनं प्रति समर्थ कारकतरम् । अपीति निश्चयेन । किं ? सूतलोहादिः सूतः पारदः, लोहाः वर्णादयो नवकाः कृत्रिमाकृत्रिमभेदयुक्ताः, राजरीति- खपरिघोषाः कृत्रिमाः, स्वर्णतारताम्रनागवङ्गलोहा अकृत्रिमाः, आदि- शब्दान्महारसा उपरसाश्च ज्ञातव्याः । के ते इमे ? रसावतारे यथा- हिगूलताम्यविमलाचलसस्यकान्तवैक्रान्तपक्षिपतयश्च महारसाः स्युः ॥ सौवीरगन्धकशिलालविरङ्गधातुकासीसकांच्युपरसाः कथि- ता रसज्ञैः" इति । अथवा स्थैर्यण समर्थ तत् देहं प्रति रसायन: किं ? सूतलोहादि । सूते यदभिव्याप्तं प्रासमानेन लोहादि तत्तथोक्तं, सूते इति अभिव्यापके । अधिकरणे सप्तमी । तद्देहं स्वयमस्थिर अस्थिरीभावस्वभावं, पुनदहा दग्धुं शक्यं, पुनः क्लेचं मार्दीभावेन शीर्णयितुं शक्यं, पुनः शोप्यं शोषयितुं शक्यं, अग्निजलानिलैः दाह्य क्लेद्य शोष्यं च शरीरमित्यर्थः । सूतलोहादिना देहमनित्यं यित्यं भवेत्, श्रयमेव यत्न इति तात्पर्यार्थः ॥ ११ ॥ - २ 'तत्स्थैर्ये न समर्थ रसायनं किमपि मूललोहादि' - इति साधुः पाठः । तत्स्थैर्ये तस्य शरीरस्य स्थैर्ये मूतलोहादि इतरत् रसायनं न समर्थ; कस्माद्धेतोः ? स्वयं अस्थिरस्वभावत्वात् सर्वमपि दामं क्लेयं शोप्यं च स्यात् वयं अस्थिरस्वभावं रसायनं कथं देहं थिरीकुर्या- दिल्याशयः। तर्हि किं रसायन तत्स्थैर्य समर्थ इत्याशङ्कायां वदत्यग्रे,- 'एकोऽसौ रसराजः शरीरमजरामरं कुरुते'-इति । संपादकः । - रसहदयं तन्त्रम् । ६ . काष्ठौषध्यो नागे नागं बङ्गेऽथ वङ्गमपि शुल्वे । शुल्वं तारे तारं कनके कनकं च लीयते सूते ॥ १२ ॥ पूर्वश्लोके सूतलोहादिकमुक्तं, तत्राधिव्यापकाधिकरणस्य क्रम दर्शयति-काष्ठौषध्य इत्यादि । काष्ठोषध्यः कुमारिकादयः नागे लीयन्ते, तन्नागं वङ्गे लीयते, तद्वङ्गमपि शुल्बे ताने लीयते, तच्छुल्वं तारे लीयते तत्तारं रूप्यं कनके सुवर्ण लीयते, तत्कनकं सूते पारदे लीयते इति । कथं लीयते ? विधानत एकैकेन युक्तं समुदायेनापि च । धातूनामरिवर्गत्वान्महारसोपरसानामपि योगः, अपिशब्दाश्च ॥१२॥ परमात्मनीव नियतं भवति लयो यत्र सर्वसचानाम् । एकोऽसौ रसराजः शरीरमजरामरं कुरुते ॥१३॥ समुदायत्वेनोपवर्णयति-परमात्मनीत्यादि । असौ एको धात्वाद्य- न्तर्भूतो रसराजः शरीरमजरामरं जरामरणवर्जितं कुरुते । रसैमहा- रसोपरसैरन्तर्भूतो राजते शोभते वा प्रकाशते इति रसराजः, अथवा रसेषु महारसोपरसेषु अनादरीभूतेषु सत्सु राजत इति विशेषार्थः । तथा च सूत्रं, “षष्ठीसप्तम्यौ चानादरे" इति; अथवा रसानां महार- सोपरसधातूनां राजा तेषु मुख्यत्वेनोपदिष्टः, मुख्यत्वेनास्य ग्रहणमि- त्युपलक्षणम् । अनेनैव सर्वसंग्रहणं ज्ञातव्यम् । इवेति सादृश्ये । आत्मनि ब्रह्मणि, नियतं निश्चितं, सर्वसत्वानां सकलजीवानां, लयो भवति, लयोऽन्तर्भाव ; वा तस्मिन्सर्वे सत्वा लीना एव तिष्ठन्तीत्या- त्मनः तटस्थस्वरूपतैतल्लक्षणद्वयमुक्तम् । तथा रसराजेऽपि दर्शयति- काण्ठौषधीधातुमहारसोपरसादीनां लयो शेयः तटस्थलक्षणेन; लयस्य क्रम उपदिष्टः। खरूपलक्षणेनौषधीधातुमहारसोपरसादयः पृथक्त्वेन स्थिता अपि गुणैरन्तर्भूता एव ज्ञातव्याः । यतः सर्वेषां गुणान्तर्भूतः सूतस्ततोऽनन्तगुण आचार्यैरुपवर्णितः । लयविशेषादुभयोः सास्यमिति रहस्यम् ॥१३॥ अमृतत्वं हि भजन्ते हरमूता योगिनो यथा लीनाः। तद्वत्कवलितगगने रसराजे हेमलोहायाः॥ १४ ॥ सर्व समीकर्तुमाह-अमृतत्वमित्यादि । ते खात्मना सह योग- १ सततं र० र० स०। - २ सन्तः १० रसहृदयं तन्त्रम्। कर्तृका योगिनो यथा हरमूर्ती महादेवशरीरे लीनाः अमृतत्वं भजन्ते मुक्तत्वं प्राप्नुवन्ति । "मुक्तिः कैवल्यनिर्वाणश्रेयो- निःश्रेयसामृतम्" इत्यमरः।तद्वत्तेनैवप्रकारेण रसराजे पारदे,कवलित- गगने ग्रासीकृताभ्रके सति हेमलोहाद्या लीनाः सन्त अमृतत्वं पीयूषभावं भजन्ते अमरीकरणयोग्या भवन्ति । हेम च लोहश्च हेम- लोहौ, आद्यौ येषां वा हेमसंज्ञको लोह आयो येषां ते तथोक्ताः । अभ्रके कवलिते सति चारणा स्यान्नान्यथेति ॥ १४ ॥ स्थिरदेहोऽभ्यासवशात्प्राप्य ज्ञानं गुणाष्टकोपेतम् । प्रामोति ब्रह्मपदं पुनर्भवावासदुःखे न ॥ १५ ॥ अधुना स्थिरदेहस्य फलं व्यनक्ति-स्थिरेत्यादि । पूर्वोक्तस्यैव रसरा- जस्याभ्यासात्सेवनाद्धेतोः स्थिरदेहः पुमान् ब्रह्मपदं प्राप्नोति । ब्रह्मपदं परमानन्दस्वरूपम् । किंकृत्वा ? ज्ञान प्राप्य । कीदृशं ज्ञानं ? गुणाटको पेतं अणिमाद्यसिद्धयुपेतम् । कथं ब्रह्मपदं प्राप्नोति ? यथा पुनरप्रथम भवावासदुःखे संसारनिवासनतापत्रयात्मककटे न पततीत्यर्थः । ज्ञान प्राप्य ब्रह्मपदं प्राप्नोति । कथं ? ऋते ज्ञानान मुक्तिरिति । अन्यच किं मोक्षतरोजि ? सम्यक्षानं क्रियासहित" इति प्रश्नोत्तररत्नमाला- याम् ॥१५॥ एकांशेन जैगन्ति च विष्टभ्यावास्थितं परं ज्योतिः । पादेखिभिस्तदमृतं सुलभं न विरक्निमात्रेण ।।१६।। ज्ञानगम्यं ब्रह्मोपवर्णयति-एकांशेनेत्यादि । किविशिष्टं ब्रह्म ? परं ज्योतिः प्रकाशखरूपं तत्परं ज्योतिर्जगन्ति संसाराणि वर्गमृत्युपाता- लादीनि विष्टभ्य व्याप्य स्थित, केन ? एकांशेन, अनेकब्रह्माण्डनायक- त्वात्, एकैकस्मिन् ब्रह्माण्डे बहूनि संसाराणि वर्तन्ते अत एकांशेने- त्युक्तं पुनस्तत्परं ज्योतीरूपममृतं त्रिभिः पादैः अभ्यास-स्थिरदेह- ज्ञानसंज्ञकैः सुलभं सुखेन लभ्यमित्यर्थः । प्रथममभ्यासोऽमृतसुलभत्वे हेतुरेकः, स्थिरदेहश्च द्वितीयो हेतुः, शान तृतीयहेतुमाते यथावाक्यं; न विरक्तिमात्रम् ॥ १६ ॥ १ 'स्थिरदेहे' इति र० र० स० पाठः । २'न पुनर्भववासदुःखानि' इत्यपि पाठः । ३ 'जगधुगपदवष्टभ्य' इति र०र० स० पाठः । ४ 'सुल- भेन' इति पाठान्तरम् । ५ 'यथावाक्यं प्रश्नोत्तरे । "f सौख्य सर्व- संगविरतियों" इति पाठान्तरम् ।
- रसहृदयं तन्त्रम् । न हि देहेन कथंचियाधिजरामरणदुःखविधुरेण । क्षणभङ्गुरेण सूक्ष्मं तद्ब्रह्मोपासितुं शक्यम् ।। १७ ।। पूर्वापराभ्यामभ्यासज्ञानाभ्यां स्थिरदेहो हेतुर्गरीयानिति सूचय- नाह-नेत्यादि । उभयोः साधकत्वात् तादृशदेहव्यतिरिक्तदेहेन कथं- चिदपि किंचिन्न सिध्यतीत्यर्थः । किंविशिष्टेन ? व्याधिजरामरणदुःख- विधुरेण; व्याधिरामयः, 'जरा पालित्य, मरणं प्राणत्यागः, दुःखं मोह- शोकादिकं, एतैर्विधुरं ताडितं, 'व्यध' ताडने इत्यस्य धातो रूपं, विधुरं उरप्रत्ययान्तम् । पुनः किं विशिष्टेन ? क्षणभङ्गुरेण क्षणविना- शिना देहेन तद्ब्रह्म चिद्धनानन्दस्वरूपमुपासितुं सेवितुं कथं केन प्रका- रेण शक्यं , कुतः ? यतः सूक्ष्म, इन्द्रियाग्राह्यत्वात् ॥ १७ ॥ नामापि देहसिद्धेः को गृह्णीयाद्विना शरीरेण । यद्योगगम्यममलं मनसोऽपि न गोचरं तत्वम् ।। १८ ।। सर्वोपायेन शरीरं स्थिरं कार्यमित्याह-नामेत्यादि । देहसिद्धेःशरीर- विभूतेः नामाप्यभिधानमपि को गृह्णीयान्न कोऽपीत्यर्थः। केन बिना ? शरीरेण शरीरमन्तरेण सिद्धिरस्तु पर तन्नाम, केनापि न गृह्यते; शरीर (लिद्धि ) सिद्धौ नामग्रहणमिति तात्पर्यार्थः । अनवरं शरीरं भवतु चेत्तदमलं निरञ्जन तत्त्वं ब्रह्मावश्यं प्राप्यते । तत्तत्त्वं मनसोऽपि न गोचरं चित्तेनापि न गम्यमित्यर्थः । तहि केन गम्यं ? उभयोमेलन- मेकीकरणं योगः, तेनैव प्रकृतिपुरुषयोरेकीकरणेनेत्यर्थः ॥ १८ ॥ यज्ञादानात्तपसो वेदाध्यायनामात्सदाचारात् । अत्यन्तं श्रेयः किल, योगवशादात्मसंवित्तिः ॥१६॥ अधुना योगस्य सर्वकर्मभ्य उत्कृष्टत्वं दर्शयति-यज्ञादित्यादि । अत्यन्तं श्रेय इति अधिकतरकल्याणं सर्वोपद्रवनिवारणात्मकं, भवे. दित्यध्याहारः । कुतः ? यज्ञादश्वमेधादे न केवलं यज्ञात्, पुनर्दानात् धनस्यार्पणात्पात्रेषुः पुनस्तपसः कृच्छातिकृच्छ्रचान्द्रायणपञ्चाग्नितप- नादेः पुनर्वेदाध्ययनात् वेदानां ऋग्यजुःसामाथर्वणां यनं पाठक्रमस्ततः, पुनर्दमात् वेदान्तानुसारेण दमस्तावत् बाह्यन्द्रिया- १ 'योगसिद्धेः' इति र. र. स. पाठः । २ 'यद्योगिगम्य' इति र. र. स. पाठः।३ 'यज्ञाज्ज्ञानात्' इति र. र. स. पाठः । ४ 'अत्यन्तभूयसी किल' इति र. र. स. पाठः। . अध्य- १२ रसहृदयं तन्त्रम् । णांतद्वयतिरिक्तविषयेभ्यो मनसा निवर्तन, तद्वयतिरिक्तं श्रवणादिव्य- तिरिक्तं ततः पुनः सदाचारात् ब्राह्ममुहूर्तमारभ्य प्रातःसंगवमध्याह्ना- परालसायाह्नादिपु शयनपर्यन्तं वेदवोधितो विधिः सदाचारस्तता; इति समुदायःश्रेयस्करो नात्मसंवित्तिकर;पुनरात्मसवित्तिः ब्रह्मवेदनं योगवशादेव स्यात्ः योगः पूर्वमुक्तः ॥ १६ ॥ गलितानल्पविकल्पः सर्वार्थविवर्जितश्चिदानन्दः । स्फुरितोऽप्यस्फुरिततनोः करोति किं जन्तुवर्गस्य ॥२०॥ यस्य जीवस्य योगवशात्संवित्तिर्जाता स कोश इत्याह-गलितेत्या- दि । गलितानल्पविकल्प इति गलितो दूरीभूतो अनल्पो बहुतरो विकल्पो मिथ्याक्षानं यस्य ईदृक् स्यात् । पुनः कीदृक् ? सर्वार्थविव जिंतः, सर्व च ते अर्थाश्च तैर्विवर्जितः सम्यपाहतो भवति, कार्याणां सरणकरणयोरभाव इत्यर्थः । पुनः कथंभूतः ? चिदानन्दः चिदा प्रका- शेन आनन्दः सुखसंपत्तिर्यस्य स तथोक्तः । प्रकाशहेतुना आनन्दता भवेत्, जडहेतुना तद्विपर्ययः । ईदृक् सः, स्फुरितोऽपि प्रकाशमानो- ऽपि, अस्फुरिततनाजन्तुवर्गस्य अप्रकाशशरीरस्य जीवसमूहस्य किं करोति पृच्छां करोति । 'किमिति पृच्छाजुगुप्सयोः' इति प्रसादः । "पृच्छति च हसति च रोदिति प्रमत्तवन्मानवोऽपि तल्लीन." इति ॥२०॥ भ्रयुगमध्यगतं यच्छिीखविधुनिर्मलं जगद्भासि । केपांचित्पुण्यकृतामुन्मीलति चिन्मयं ज्योतिः ॥ २१ ॥ आत्मसंवित्तविरलत्वं सूचयन्नाह-ध्युगेत्यादि । यत् भूयुगमध्य- गतं भ्रद्वयान्तर्गते सत् प्रकाशते, तत्र दृष्टि निधाय योगिनः पश्यन्ति ग्यचर्या मुद्रया; हठप्रदीपिकायां पद्यं,-"कपालकुहरे जिद्धा प्रविष्टा विपर्गतगा। भ्रुवोरन्तर्गता दृटिमद्रा भवति खेचरी'-इति । पुनः शिस्विवियुत्सु वद्रिसौदामिनीपु निर्मलं सत् यत्प्रकाशतेः पुनर्यत् १ स्वयं सिद्धो भूत्वा इतरानपि तथा कर्तुं यतत इति भावः। २ शिग्विविद्युत्सूर्ययजगदाति' इति र. र. स. पाटः । 'शिखिविधु- सर्यवन्नगद्भालि' इति रसश्वदर्शने पाठः । ३ 'पुण्यदृशां'इति रसंश्वर दर्शने पाठ: । ४ 'चिन्मयं परं ज्योतिः' इति र. र.स.पाठः ।
१ रसहृदयं तन्त्रम् । जगद्भासि जगत् ससारं प्रकाशते; तत् चिन्मयं प्रकाशप्रचुर ज्योतिः केषांचित्पुण्यकृतां सुविहितकर्मकर्तृणां उन्मीलति प्रादुर्भवति, न तु सर्वेषां; यतो निर्मल प्रकाश ध्यात्वा विपुलपुण्यन निर्मलत्वाय जायते, अतः प्रकाशो युक्तः ॥ २१ ॥ परमानन्दैकमयं परमं ज्योतिः स्वभावमविकल्पम् । विगलितसेवनशं ज्ञेयं शान्तं स्वयंवेद्यम् ॥ २२ ॥ पूर्ववर्णितं चिन्मयं विशेषयन्नाह-परमानन्दैकमयमित्यादि । तद्ब्रह्म ईदृशं शेय-परमानन्दैकमयमिति, परम उत्कृष्टोऽसावानन्दः परमानन्दः, स एव एको अद्वितीयस्तत्प्राचुर्य यस्मिंस्तथोक्त; पुनः किविशिष्टं ? परमं ज्योतिःस्वभावं, परमं यज्ज्योतिः तत् खभावः स्वरूपं यस्य तत् अशरीरत्वात्स्वप्रकाशित्वाञ्च; पुनः अविकल्पं मिथ्याज्ञानशून्य; पुन- विगलितसर्वक्लेश विगलिता विशेषेण दूरीकृताः सर्वक्लेशाः दुःखानि यस्मात् तत्, सुखरूपत्वात् पुनः शान्तं शममयं; पुनः खयंवेद्य अन्येन वेदितुमशक्यं आत्मनैव वेद्यं, तस्मानापरोऽस्तीति भावात् ॥ २२ ॥ तसिन्नाधाय मनः स्फुरदखिलं चिन्मयं जगत्पश्यन् । उत्सनकर्मवन्धो ब्रह्मत्वमिहैव चामोति ॥ २३ ॥ ज्ञेयोपदेशमाह-तस्मिन्नित्यादि । तस्मिन्नाधायेति पूर्वनिरूपिते तस्मिन्नवात्मनि मन आधाय संस्थाप्य पुमान् उत्सनकर्मबन्धो भवेत् त्यक्तकर्मपाशः स्यात् । स इहैव जन्मनि ब्रह्मत्वं प्राप्नोतीति विशेषः, "ब्रह्मविद् ब्रह्मैव भवति"--इति श्रुतेः । स पुमान् मन आदधाति । किं कुर्वन् सन् ? अखिलं जगत् सर्वसंसारं चिन्मयं प्रकाशखरूपं चिद्विकारं पश्यन् अवलोकमानो मनश्चक्षुषा किंविशिष्ट जगत् ? स्फुरत् अध्यारोपापदेशेन देदीप्यमानम् । तथा च भगवद्वचन, “कर्म- ण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्' इति । हे पार्थ स पुमान्मनुष्येषु बुद्धिमान् । अनेन सामान्यत्वमुक्तम् । विशेषश्च यथा-रजौ सर्पभ्रमो, यथा शुक्तौरजत- शानं, यथा गन्धर्वनगरं, यथा मरुस्थले वारि तथैव संसारो नासीत्, नास्ति, न भविष्यतीति अद्वैतवादान्मिथ्यैव ॥ २३ ॥ १ परमानन्दैकरसं इति र. र. स. पाठः । २ सकलक्लेशं इति र. र. स. पाठः। ३ 'स्वसंवेद्य इत्यपि पाठः । .
१४ रसहृदयं तन्त्रम् । अस्तं हि यान्ति विपयाः प्राणान्तःकरणसंयोगात् । स्फुरणं नेन्द्रियतमसा नातः स्फुरतश्च दुःखसुखे ॥२४॥ उत्सनकर्मवन्धस्य विषया अस्तं यान्ति । प्राणान्तःकरणसंयोगात् न इन्द्रियाणां स्फुरणं भवेत् । तथा च न्यायशास्त्रे-आत्मा मनसा संयु- ज्यते, मन इन्द्रियेण, इन्द्रियमथैनेति; इन्द्रियाणां वस्तुप्राप्यप्रकाश- कारित्वनियमादिति । अतो हेतोश्च दुःखसुखे न स्फुरतः । आत्मनः प्रकाशात् प्राणान्तःकरणानां प्रकाशः, प्राणान्तःकरणानि तमेव प्रकाशं प्राप्येन्द्रियाणि प्रकाशयन्ति । अत उभयोः परप्रकाश.। तद्वद्गहनतम अग्राह्यमन्धकारं चिद्भिन्न प्रकाशन प्रकाशितं स्यादिति । अभावपदा- र्थत्वादिन्द्रियतमसोर्जडवात्साम्यम् ॥ २४ ॥ रागद्वेपचिमुक्ताः सत्याचारा नरा मृषारहिताः। सर्वत्र निर्विशेषा भवन्ति चिमसंस्पर्शात् ॥२५ ॥ अधुना अन्तःकरणानां प्रवृत्ति दर्शयति-रागेत्यादि-चिद्रह्मसं- स्पर्शादिति चिह्मणि प्रकाशखरूपे आत्मनि यः स्पर्श. तनिष्ठा, ततो हेतोः पुरुषा रागद्वेषविमुक्ताः स्नेहशत्रुत्वविरहिताः स्युः । पुनः सत्यः प्राचारः प्रवृत्तिधर्मों येषां ते, पुनर्मषारहिताः अत्याचारायसत्य- वर्जिता इत्यर्थः पुनः सर्वत्र निर्विशेषाः सर्वस्मिन्मानापमानयोः समाः; तथा च भगवद्वचनं,-"समः शत्रौ च मित्रे च तथा मानापमानयोः" इत्यादि ॥२५॥ तिष्ठन्त्यणिमादियुता विलसदेहा मुंदा सदानन्दाः । ये ब्रह्मभावममृतं संप्राप्ताश्चैव कृतकृत्याः ।। २६ ।। श्रात्मनि स्पर्शत्वमुक्तिप्राप्ति दर्शयन्नाह-तिष्ठन्तीत्यादि। ये ब्रह्म- भावममृतं मुक्तिसारूप्यत्वं प्राप्तास्ते कृतकृत्याः कृतसर्वकार्याः पूर्णता प्राप्ता इत्यर्थः, पुनस्ते अणिमादियुता अणिमादिभिर्युता इह जगति तिष्ठन्तीति । अणिमादयो यथा,-"अणिमा महिमा चाथ लघिमा गरिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चारभूतयः-इति । १. नेन्द्रियमनसा' इत्यपि पाठः । २ ब्रह्मत्वप्राप्तौ विषयनाशः, तन्नाशाच न तैः समं इन्द्रियसंवन्यः, तदभावाच्च न सुखदुःखे इति भावः । ३ रसरत्नसमुच्चयेन दृश्यते । ४ सदोदितानन्दाः इति र. र. स. पाठः । ५ ब्रह्मस्वभावममृतं इति रसरत्नसमुच्चये। - रसहृदयं तन्त्रम् । पुनर्विलसद्देहा तेजःप्रायशरीराः; पुनः सदानन्दाः, केन? मुदा हर्षेण, सदा सर्वसिन्काले आनन्दो येषां ते तथोक्ताः, परमानन्दे मग्न- त्वात्॥२६॥ आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम् । श्रेयः परं किमन्यत् शरीरमजरामरं विहायकम् ।। २७ ॥ शरीरमूलं सर्व ज्ञातव्यमित्याह -आयतनमित्यादि । एक अजरा- मरं जरामरणवर्जितं शरीरं विहाय त्यक्त्वा अन्यत् परमुत्कृष्ट श्रेयः कल्याणस्वरूपं कि ? न किमपीत्यर्थः । किविशिष्टं शरीरं ? आयतनं विद्यानां व्याकरणादिचतुर्दशसंख्याकाङ्गानं निवासस्थानं, पुनः किं. विशिष्टं ? मूलं धर्मार्थकाममोक्षाणां चतुर्णी पदार्थानां मूलं हेतुः, धर्मादयश्चत्वारः प्रतीता एव ॥ २७ ॥ प्रमाणतोऽपि प्रत्यक्षायो न जानाति सूतकम् । अनादिविग्रहं देवं कथं ज्ञास्यति चिन्मयम् ॥२८॥ आत्मनोऽपेक्षया सूते सुगमत्वं सूचयन्नाह-प्रमाणत इत्यादि । यः पुरुषः सूतकं रसेन्द्रं न जानाति; कुतः ? प्रमाणतः, प्रमाकरणं प्रमाणं, प्रमितिसाधनं वा, ततः, किंभूतात्प्रमाणतः ?' प्रत्यक्षाच्चक्षुरिन्द्रिय- ग्राह्यरूपात्, स पुमान् चिन्मयमतिसूक्ष्ममात्मानं कथं शास्यति? न कथमपीत्यर्थः, इन्द्रियागोचरत्वात् । किंविशिष्टं ? अनादिविग्रह आ- दिश्च विग्रहं च आदिविग्रहे, ते न विद्यते यत्र स तं, उत्पत्तिशरीरयो- रभावात् स्थूलशानाभाव इति तात्पर्यार्थः ॥२८॥ यजरया जर्जरितं कासश्वासादिदुःखवशर्माप्तम् । १ 'प्रत्यक्षेण प्रमाणेन' इति र. र. स. पाठः । २ 'अदृष्ट- विग्रहं देवं' इति र. र. स. पाठः । ३ अस्या आर्यायाष्टीका- कारकृता टीका न वर्तते । अस्माकं स्पष्टीकरणं त्वेवं-यत् जरया वार्धक्येन जर्जरितं शिथिलीभूतं, कासखासादिरोगाणां यत् दुःखं, तस्य वशे प्राप्तमिति तत्तथोक्तं, पुनः किंविशिष्टं ? बुद्धिः इन्द्रियाणि च तेषां प्रसरः कार्यक्षमता, प्रतिहतः बुद्धीन्द्रियप्रसरः यस्य तत्त- थोक्तं, प्रतिहतबुद्धीन्द्रियव्यापारमित्यर्थः, पतादृशं शरीरं समाधौ न योग्यं भवति ॥२६॥ ४ 'विवशं च इति र. र. स. पाठः । . .
रसहृदयं तन्त्रम् । योग्यं तन्न समाधौ प्रतिहतबुद्धीन्द्रियप्रसरम् ॥२६॥ बालः पोडशवर्षो विषयरसास्वादलम्पटः परतः । जातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिम् ।। ३० ।। शरीरस्य वयोविभागेनास्थिरत्वं दर्शयन्नाह-वाल इत्यादि । पोडश- वर्ष इति षोडश वाणि यस्य चयसि स पोडशाच्दो वाल इत्यर्थः । ग्रन्थान्तरे वालत्वेऽपि वयोमेदा वर्तन्ते । यथा पद्यं,-"श्रापञ्चमाञ्च कौमारः पौगण्डो नवहायनः । श्रापोडशाच्च कैशोरो यौवनं च ततः परम्" इति । बालो वस्तुज्ञाने अशक्तः । पुनः पोडशवर्षेभ्यः परः विपयरसास्वादलम्पटो भवति, विपयाः शब्दस्पर्शरूपरसगन्धाः, रसाः शृङ्गारहास्यकरुणारौद्रवीरभयानकवीभत्सादभुतशान्ताः । केचित् शा- न्तं रसं न वन्ति, निर्विकारत्वात् । एतेपा आस्वादः स्वादः तत्र लम्पटो व्यासक्तः, अथवा विपयानन्तरं स्नेहस्तत्रेति । अतः परतो जातविवेको भवति उत्पन्नविचारो भवति । तदा वृद्धोऽक्षमः परं मनुष्यः मुक्ति कैवल्यं कथमाप्नुयात् ? न कथमपीत्यर्थः, वयस्युपलव- भावात् ॥ २६ ॥ ३०॥ असिन्नेव शरीरे येषां परमात्मनोन संवेदः । देहत्यागावं तेषां तद्ब्रह्म दूरतरम् ॥ ३१ ॥ पूर्वपद्याभिप्राय विचार्य मुक्तिप्राप्तीप्रशङ्कितः प्राह-अस्मिनित्यादि। अस्मिन् शरीरे वर्तमाने क्षेत्ररूपे, येषां पुंसामात्मसंवेदो न जातः ब्रह्मज्ञान न जातं, तेषां पुंसामेव देहत्यागादूचं शरीरोत्सर्गतः पश्चात्, तब्रह्म दूरतरं दूरादूरतरमित्यर्थः ॥ ३१ ॥ ब्रह्मादयो यजन्ते यसिन् दिव्यां तनुं समाश्रित्य । जीवन्मुक्ताश्चान्ये कल्पान्तस्थायिनो मुनयः ॥ ३२॥ अधुना पूर्वमतं द्रढयति-ब्रह्मादय इत्यादि । यस्मिन् ब्रह्मादयो विष्णुरुद्रेन्द्रादयो ब्रह्मविदो यजन्ते संगतिं कुर्वन्ति समानुवन्तीत्यर्थः 'यज' देवपूजासंगतिकरणदानेषु, अत्र संगतिकरणमर्थो दर्शितः। किंकृत्वा प्रामुवन्ति दिव्यां तनुं परमां समाश्रित्य संप्राप्य । तेभ्यो १ 'यातविवेको वृद्धों' इत्यपि सम्यक्पाठा, वार्धक्ये विवेकहानेः प्रसिद्धत्वात् । रसेश्वरदर्शने माधवाचार प्ययमेव पाठः स्वीकृतः । २ 'यतन्ते तस्मिन्' इति पर.स. पाठः ।
। रसहृदयं तन्त्रम् । १७ ब्रह्मादिभ्योऽप्यन्ये अपर मुनयो नारदादयो जीवन्मुक्ता यजन्ते संगति कुर्वन्ति । तेऽपि किंविशिष्टाः ? कल्पान्तस्थायिनः प्रलयान्तेऽपि तिष्ठन्तीति भावः । ब्रह्मादयस्तिष्ठन्त एव ॥ ३२ ॥ तस्माजीवन्मुक्ति समीहमानेन योगिना प्रथमम् । दिव्या तनुर्विधेया हरगौरीसृष्टिसंयोगात् ॥ ३३ ॥ इति बहुधा विचार्यष्टवस्तुस्तुतिमाह-तस्मादित्यादि। यतो ब्रह्मा- दयो जीवन्मुक्ताश्चान्ये दिव्यां तनुं विधाय मुक्ति प्राप्तास्तस्माद्धेतोर्यों- गिना योगयुक्तेन प्रथम दिव्या तनुर्विधेया दृढशरीरं कार्यमित्यर्थः । किविशिऐन योगिना ? जीवन्मुक्तिं समीहमानेन योगिना दिव्या तनु- विधेया । कुतः ? हरगौरीसृष्टिसंयोगात् । उमेश्वरसृष्टी रसेन्द्रस्तस्य सेवनादित्यर्थः। दृढशरीरेण वाञ्छितं साध्यते न त्वन्यथा ॥ ३३ ॥ तस्थापि साधनविधौ सुधिया प्रतिकर्मनिर्मलाः प्रथमम् । अष्टादशसंस्कारा विज्ञातव्याः प्रयत्नेन ॥ ३४ ॥ इति परमहंसपरिव्राजकाचार्यश्रीमदोविन्दभगवत्पादविरचिते रसहृदयतन्त्रे रसप्रशंसात्मकः प्रथमोऽवबोधः । दिव्यतनोर्हेतुत्वाद्रसेन्द्रस्य साधनविधौसाधनोपदेशे सुधिया पूज्य- मतिना पुंसा प्रथमं अष्टादशसंस्काराः प्रयत्नेन ज्ञातव्याः । संस्क्रियन्त इति संस्काराः । पुंस्यपि गर्भाधानादयः षोडश संस्कारा वर्तन्ते; अत एव संस्कारैरुभयोः साम्यं दोषाभावत्वं गुणवत्त्वं च स्यात् । अतो ब्राह्मणक्षत्रियवैश्यशुदाः स्युः। किंविशिष्याः संस्काराः? प्रतिकर्मनिर्मलाः कर्म कर्म प्रति निर्दोषाः ॥ ३४ ॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविरचि- तायां मुग्धावबोधिन्यां रसहृदयटीकायां रसप्रशंसात्मकः प्रथमोऽव- बोधः ॥ १॥ १ अत्रापि टीकाकृता 'हरगौरीसृप्रिसंयोगात्' इति पदमन्यथा विवृतं, कुतः ? हरसृष्टिः पारदः, गौरीसृष्टिः अभ्रक, तयोः संयोगात् पारदाभ्रकयोः संयोगादेव दिव्यतनुप्रापणं प्रसिद्धम् । रसेश्वरदर्शने माधवाचार्यैरप्यवमेवास्याओं दर्शितः । ३ १८ रसहृदयं तन्त्रम् । अथद्वितीयोऽवबोधः। अथाष्टादश संस्काराः: खेदनमर्दनमूर्होत्थापनपातननिरोधनियमाच । दीपनगगनग्रासप्रमाणमथ चारणविधानं च ॥ १॥ गर्भद्रतिबाह्यद्रतिजारणरसरागसारणं चैव । क्रामणवेधौ भक्षणमष्टादशधेति रसकर्म ॥२॥ यस्योपजीव्यते कीर्तिः संगमेव सुधाभुजाम् । स श्रीमान्कारयामास वृत्तिं मुग्धावबोधिनीम् ॥ आर्याद्वयन रसाष्टादशसंस्कारोद्देशः कृतः ॥ १ ॥२॥ अथ स्वेदनम् । आसुरिपटुकटुकत्रयचित्राकमूलकैः कलाशैश्च । सूतस्य काञ्जिकेन त्रिदिनं मृदुवह्निना खेदः ॥३॥ अधुनों संस्काराणां साधने लक्षणमाह । तत्र प्रथमोद्दिष्टस्य स्वेदनसंस्कारस्य साधनं स्पष्टयन्नाह-आसुरीत्यादि । सूतस्य पारदस्य, त्रिदिनं दिनत्रयपरिमाणं यथा स्यात्तथा, मृद्धवह्निना खल्पाग्निना, खेदः खेदनं, कार्यम् । केन ? कालिकेन सौवीरेण । कैः सह ? आसुरिपटु- कटुकत्रयचित्राकमूलकैः सह । श्रासुरी राजिका, पटु सैन्धवं लव- णविशेषः, केचित्पटुशब्देन क्षारमपि व्याचक्षते; कटुकत्रयं शुण्ठीमरि- चपिप्पल्यः, चित्रकं प्रतीतं, आर्द्रकं कन्दविशषो नागरहेतुः, मूलकं कन्दविशेषः प्रसिद्धः किविशिरेतैः कलाशैः षोडशांशैः षोडशांशः प्रत्येक संयुज्यते, सर्वसमतमिद व्याख्यानम् । अत्र विशेषः काञ्जिके' "सर्वधान्याम्लसंधानं तुषवयं तु कारयेत् । उरगा त्रिफला क्रान्ता ? १ चारणे विधानं च इति पाठान्तरम् । २ 'मष्टादशमिति रसे कर्म' इति ख.। ३ कलांशश्च इति ख. । ४ अधुना पूर्वोक्त संस्काराणां, साधन क्रमेणाह इति ख.ग। ५ सूतस्य खन्युद्भवस्य इति ख. ग.। ६ केन प्रकाररूपेण ? इति ख. ग.। ७ व्याख्यानयन्ति इति ख. ग.। ८प्रती. तः इति ग.। तानि तैः इति चाधिकः पाठः ख. ग.। पोडशांशं ख.। १० मिति इति ग.। ११ काचिकमिति इति ग.।
A रसहदयं तन्त्रम् । १६ लंघुपर्णी शतावरी ॥ तेन युक्तं रसखिन्नं त्रिदिनं मृदुवह्निना । दोला- यन्त्रेण तीव्रण मर्दयित्वा पुनः पुनः-"इति रसेन्द्रमङ्गलात् । "क्षारा- म्लेरौषधैर्वापि दोलायन्त्रे स्थितस्य हि । पाचन खेदनाख्यं स्यान्मलशै- थिल्यकारक"-इति परिभाषा । "द्रवद्रव्येण भाण्डस्य पूरितार्धोदरस्य च मुखस्योभयतोद्वारद्धयं कृत्वा प्रयत्नतः ॥ तस्योपरि क्षिपेद्दण्डं तन्मध्ये रसपोट्टलीम् । बब्वा तु खेदयेदेतद्दोलायन्त्रमिति स्मृतम्"-इति दोलायन्त्रलक्षणम् ॥ ३॥ अथ मर्दनम् । गुडदग्धोर्णालवणमन्दिरधूमेष्टंकासुरीसहितैः । रसषोडशांशमानैः सकौञ्जिकर्मदनं त्रिदिनम् ॥ ४ द्वितीयोद्दिष्टस्य मर्दनस्य साधनं स्पष्टयन्नाह-गुडेत्यादि । एतैरी- षधैर्दिनत्रयपरिमाणं रसस्य मर्दनं कार्यम् । एतैः कैः ? गुडदग्धोर्णा- लवणः; गुड इविकारः प्रसिद्धः, दग्धोर्णा दग्धा चासौ ऊर्णा चेति समाल.. ऊर्णा प्रतीता मेशरोमनिवयमित्यर्थः; लवणं सैन्धवमेक 'गुडदग्धोर्णारजनी' इति वा पाठः; तत्र हरिद्रा ग्राहा, न सैन्धवम् । रसषोडशांशमानैः रसात्षोडशांशप्रमाणैः । 'अंश' इत्यस्य · प्रत्येक संबन्धः । विशेषश्चात्र,-"वस्त्रैश्चतुर्गुणैर्बद्धः सूतः स्थाप्यः शुभेऽहनि । लोहाश्मिजखल्वे तु तप्तेष्वेव तु मर्दयेत् ॥ उद्दिष्टैरोषधैः सार्ध सर्वाम्लः काञ्जिकरपि । पेषणं मर्दनाख्यं स्यात्तद्वहिर्मलनाशन"-इति परिभाषा । अत्र यन्त्रं तु खल्वाख्यं ज्ञेयम् । तल्लक्षण तु,-"खल्वयोग्या शिला नीला श्यामा स्निग्धा दृढा गुरुः ॥ षोडशाङ्गुलिकोत्सेधा नांगलिकविस्तरा"-इति। खल्वयोग्यशिलालक्षण प्रसंगादुक्तम् । "उत्सेधेन नवांगुलः खलु कलातुल्यांगुलायामवान् विस्तारेण दशा- १ लघुपर्णा इति ख.ग.। २ दोलायन्त्र इति ख.ग.।३ पचन इति ग.। ४ धूमेष्टिका इति ख. ग.। ५ सकाञ्जिस्त्रिदिनम् इति ग. । ६ खेदितस्य द्वि० इति ख. ग.। ७ ग. पुस्तके न दृश्यते पत्र लवणः प्रतीतः इत्यधिकः पाठः । ८ मेषमेप्यास्तु राम इति ग पुस्तकस्थः पाठः । ६ मेवं इति ख.ग. । १० षोडशांशैः रसात् षोड- शांशः प्रत्येक सम्बन्धः इति ग. । 'अंश' इत्यस्य इति पाठः ख पुस्तके नास्ति । प्रत्येकं सम्बन्ध इत्यत्र इति शेपः इति खः । ११ षोडशा- गुल उत्सेधो नवांगुलिकविस्तरात् इति ख. ग.।
२० रसहृदयं नन्वम् । गुलोऽथ मुनिभिनिम्नस्तथैवांगुलैः ॥ पाल्यां द्वयगुलविस्तरश्च मस- णोऽतीवार्धचन्द्रोपमो धैर्षों द्वादशकांगुलश्च तदयं खल्वो मतो मर्दने"-इति ॥४॥ अथ मूर्छना मलशिखिविषाभिधाना रसस्य नैसर्गिकास्त्रयो दोषाः। मूर्छा मलेन कुरुते, शिखिना दाहं, विपेण मृत्यु च ॥ ५ ॥ रसस्य पारदस्य दोषास्त्रयों वर्तन्ते । किविशिष्याः ? मलशिखि. विषाभिधाना. मलश्च शिखी च विषं च तान्येवाभिधानं नाम येषां ते तथोक्ताः । पुनः किंविशिष्टाः ? नैसर्गिका निसर्ग उत्पत्तिस्तत्संवन्धि- नः सहजा इत्यर्थः । विशेषश्चात्र "मलाद्याः पञ्चदोषाः स्युर्भूजाः सप्तकञ्चकाः ॥ कुष्टानष्टौ रसान्तःस्था रसे तेऽनन्तदोषदाः"--इति रसमङ्केतकलिकायाम् । यद्यपि रसेन्द्रमगले पञ्च मलादयो नैसर्गि- का दोषा. कथितास्तथाऽप्यत्र त्रय एवः अन्ये हे गुरुत्वचपलत्वे नैसर्गिकदोषरूपे कुतो न रतः ? त्रिभिः स्वेदनमर्दनमूर्च्छनात्मकः सं. स्कारैरनिवृत्तेः । नैसर्गिकग्रहणाद्वैकारिकाणामपि ग्रहणं स्यात् । अत्र नैसर्गिका उक्ता वैकारिकाः कुतो नोक्लाः ? वैकारिकाणां भावाभावात्। रसो दोषत्रयावृतः प्राश्यमानः किं करोति ? मलेन मलदोषेण भूच्छी इन्द्रियमोहं कुरुते शिखिनों वह्निना दाह, विषेण मृत्यु मरणः चेति समुच्चये । एषामपहरण कार्यमिति भावः । "खरूपस्य विनाशन पि. टित्वापादनं हि यत्ाविद्वद्भिर्जितसूतोऽसौ नष्टपिष्टः स उच्यते ॥ मर्दनो- द्दिष्टभैषज्यैनष्टपिष्टत्वकारकम् । तन्मूर्छनमिति प्रोक्तं दोषत्रयविना- शनम् '-इति । यन्त्रमत्र खल्वमेव पूर्वोक्त यत् ॥ ५॥ १ मुनिभिरगुलैनाम सप्तागुलैः । अथमुनिभिरित्यत्र मुनि- मितैः इति ख. ग । २ पाल्या इति ख. ग.। ३ घर्षों नाम घर्षकोमर्द- कः । ४ मर्दितरसस्य मूर्च्छनाख्यं तृतीयं संस्कारमाह-मलेत्यादि- इति ख. ग. पुस्तकयोदृश्यतेऽविकः पाठः । ५ स्त्रयो इत्यनन्तरं त्रिसंख्याका इत्यविकः पाठः ख. ग. । ६ स्यु माद्याः इति ख. ग. ७ कुष्ठाश्चाप्टौ इति ख. ग. गुरुत्वचपलत्वयोनैसर्गिकदोषत्वेऽपि खेदनमर्दनमूर्च्छनाख्यैस्त्रिाभिरनिवृत्तेः प्रयोजनाभावादलिन् प्रकरणे तयोरग्रहणमिति भावः । ६ नैसर्गिकदोषनिवृत्तौ वैकारिकदोषाणामपि निवृत्तिरिति । १० रसे दोपास्त्रयः इति ग.। ११. शिखिना इत्यारभ्य मरणमिति पर्यन्तं ग. पुस्तके नास्ति । १२ मतोऽपहरणं इति ख. ग. १३ नष्पपिटिः इति ग१४ नष्ट पिटिक इति ख.ग.। १५ तत् इति ख.ग.
रसहृदयं तन्त्रम् । २१ , गृहकन्या हरति मलं, त्रिफलाऽग्निं, चित्रकश्च विषम् । तसादभिर्मिश्रारान् संमूर्च्छयेत्सप्त ॥ ६ ॥ त्रिदोषापहरणं मूर्छनं चाह गृहकन्येत्यादि । गृहकन्या गृहकुमा- रिका, मलं प्रथमं दोषं हरति । पुनस्त्रिफला त्रयाणां फलानां समा. हारः त्रिफला, अग्निं द्वितीयं दोषं हरति; समाहारो यथा,-"एका हरीतकी योज्या द्वौ च योज्यौ बिभीतको। चत्वार्यामलकान्येवं त्रिफ- लेय प्रकीर्तिता'-इति । पुनश्चित्रकोऽग्निः, विष तृतीयं दोषं हरति दूरीकरोतीत्यर्थः । तस्माद्धेतोरोभिस्त्रिभिगृहकन्यात्रिफलाचित्रकैमिथि- तैरेकीकृतै रसं सप्त वारान्मूर्च्छयेत् विधिवन्मूर्च्छन कुर्यात् । विशेष- श्वात्र, “मूर्च्छन रसराजस्य कर्तव्यं वादिभिः सदा । विलिकलया पूर्व बृहत्योपविषैस्तथा ॥ कर्कोटीक्षीरकन्दाभ्यां चित्रेण गृहकन्यया । एकनाप्यथ संमो याममेकं तु पारदः ॥ किंनरं यन्त्रमादाय ह्योषध्या लेपयेत्तलम् । नवसारयुतं सूतं यन्त्रमध्यगतं न्यसेत् ॥ दद्याद्रसोपरि श्रावं सन्धिलेपं दृढं मृदा। लवणेन च संपूर्य द्वारं संरुध्य यत्नतः ॥ चुलिकोपरि संस्थाप्य दीप्ताग्निं ज्वालयेत्सुधीः । यामैकेन तदुत्तार्य कर्तव्यः शीतलो रसः ॥ यन्त्रादुद्धृत्य यलेन सूतमुत्थाप्य मूञ्छितम् । अमूच्छितस्तदा देयः कलांश मूच्छिते रसः । सिन्धूत्थटकणाभ्यां च मर्दयेन्मधुसंयुतम् । दोलायन्त्रे ततः खेद्यः क्षाराम्ललवणैः सह ॥ उत्थाप्य मूर्छयेत्पश्चात् वारंवार रसेश्वरम् । पुनरुत्थापितं कुर्या देकविंशतिवारकम्-" इति रससारे ॥ ६ ॥ अधोत्थापनम् । अमुना विरेचनेन हि सुविशुद्धो नागवङ्गपरिमुक्तः । सूतः पातनयत्रे समुत्थितः काजिककाथात् ॥७॥ सूतो नागवङ्गपरिमुक्तो भवति नागवङ्गाभ्यां दोषाभ्यां विरहितः पारदो भवतीत्यर्थः । किंविशिष्टः सन्? समुत्थितः सन् । पातनयन्त्रे १ एतेन वाथ इति ख. ग.। २ श्रावमिति शरावमित्यर्थः नावं इति गः । श्रमूच्छितं तदा देयं कलांशं मूञ्छितं रसे इति ख. ग. । ४ उत्थाय इति ग.1 ५ 'कुर्यादेवं विंशतिवारकं' इति पाठान्तरम् । ६रससागरे इति ख.ग.। ७ काञ्जिके काथात् इति ख.ग. 1८भूच्छित रसस्योत्थापनं संस्कारमाह-अमुनेत्यादि । इति ख. ग. पुस्तकयोई- श्यतेऽधिकः पाठः ॥ -- ર । रसहृदयं तन्त्रम् । स्थालीद्वयसंपुटे सम्यग्विधानेनोत्थितः सन्।कस्मात् कालिकं सौवी- रंपूर्ववर्णितं तत्त्वाथसंयोगादित्यर्थः । हि निश्चितम् । अमुना विरेचने- न उक्तशोधनेन सूतः सुविशुद्धो भवेत् विशेषशुद्धो भवेदित्युत्थापनम्। अनेन विधिना हिगुलस्थस्य सूतस्यापि उत्थापनं भवति । "म्वदना- दिकैयोगेन स्वरूपापादनं पुनः। तदुत्थापनमित्युक्तं मूर्छाव्यापत्तिनाश- नं"-इति. उत ऊर्ध्व स्थापन उत्थापनम् । अत्र यन्त्रं तु, "अष्टागु लपरीणाहमानाहेन दशाङ्गुलम् । चतुरगुलकोत्संध तोयाधारोऽ- गुलादधः ॥ अधोभाण्डे मुख तस्य भाण्डस्योपरिवर्तिनः । षोडशा- गुलविस्तीर्णपृष्ठस्याऽऽस्ये प्रवेशयेत् ॥ पार्श्वयोमहिषीक्षीरचूर्णमण्डू- रफाणितैः। विलिप्य शोषयेत्सन्धि जलाधारे जलं क्षिपेत् । चुल्ल्या- मारोपयेदेतत् पातनायन्त्रमीरितम्" इति ॥ ७ ॥ अथ पातनम्। कृत्वा तु शुल्बपिष्टिं निपात्यते नागवङ्गशङ्कातः।. तसिन्दोषान्मुक्त्वा निपतति शुद्धस्तथा सूतः ।।८॥ पञ्चमोदिष्टं पातनसंस्कार स्पष्टयनाह-कृत्वेत्यादि । तु पुनः उत्थितं सूतं शुल्बपिष्टिं कृत्वा शल्वेन तानेण संह तयोर्मेलनं यथा स्यात्तथा पेषणं विधाय तस्मिन पातनयन्त्रे निपात्यते कर्मविदेति शेषः । कुतः नागवङ्गशङ्कातः नागवदोषग्लानितः।तथा उक्तविधानेन निपतति सति पातनकर्मणि कृते सति शुद्धः सूतो भवेत् । वारमित्यनुक्ते ग्रन्था- न्तरे त्रिसप्तकविंशतिवारं पातनकर्मणि कृते सति सम्यक् नागवङ्गशङ्का नश्यतीति भावः । विशेपश्चात्र पातनायन्त्रे, "द्वौ भागौ शुद्धसूतस्य शुल्वभागैकसंयुतौ । विशीशं लवणं. दत्वा पिष्टीकर्याञ्च सुन्दरम् ॥ १ विधानोत्थितः ख. ग. । २ विशेषः शुद्धो ग. ३ खेदातपादियोगेन ख.। खेदनामादियोगेन ग.। ४ यतः ग. । . ५ उत् ऊर्ध्व. ग.। ६ तोयाचारामुलादधः ग्व ग.। तोयाधारं गला- दधः इति समीचीनः पाठः । ७लिप्तवा विशोषयेत् ख. ग.। ८ वुध्या ख. ग.। ६ पिष्टी ग. । १० अथ माछितरसस्य इत्यविकः पाठः ग्व. ग.। ११ न तु ग.। १२ शुल्वां पिष्टी ग.। १३सह तस्य पेषणं विधाय इति ख. ग.। १४ स्यात्तथा पेपणं विवाय इति ग. पुस्तके न दृश्यते १५ विशेषतश्च पातनायन्त्रम् ख. ग.। १६ संयुतैः ग. ११७ त्रिंशांश ख.। त्रिंशांशो ग. । १८ पिष्टी कुर्याञ्च ख. ग.। १६ सुन्दराम् ख. । .
रसहृदयं तन्त्रम् । २३ श्रष्टाङ्गुलविस्तीर्ण दैयण दशाङ्गुलं त्वधोभाण्डम् । कण्ठादधः समन्ता- चतुरङ्गुलीकृतजलाधारम् ॥ अन्तःप्रविष्टतलभाण्डवदनं जलमग्ननि जमुखप्रान्तम् । उपरिष्याञ्चिपिटर्घटी देयोदरषोडशाङ्गुलविशाला ॥ तस्मिन्नधो भाण्डे निपातितः सकलदोषनिर्मुक्तः । सुतरां भवति रसेन्द्रो जीर्णग्रासोऽपि पात्योऽसौ॥ "अध ऊर्ध्न तथा तिर्यक् पातस्त्रि- विध उच्यते । यत्र तिष्ठति सूतेन्द्रो वह्निस्तत्रऽन्यथा जलम् ॥ उक्तौ- षधैमर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् ॥ निर्यापनं पातन- संज्ञमुक्तं वङ्गाहिसंपर्कजकञ्चकनम्” इति । ऊर्ध्वपाते रसस्योग- मनं, तत्राधःपात्रे वह्निः जलमूर्ध्वपात्रे; अधःपाते तु रसस्याधस्तादमनं भवति, यन्त्रं तदेव परंतु अग्निजलयोय॑त्यासः, जलमत्राधःपात्रे, अग्निरूपात्रे; तिर्यपाते तु रसस्तिर्यक् पतति, तत्रैकपात्रपृष्ठे जलं अन्यपात्राघो वह्निः ॥ ८॥ अथातो रोधनम् । मर्दनमूर्च्छनपातैः कदर्थितो भवति मन्दवीर्यत्वात् । सृष्ट्यम्बुजैनिरोधालब्धाप्यायो न पण्ढः स्यात् ॥६॥ षष्टादिष्ट निरोधनसंस्कारं मर्दनेत्यादि। एतैर्मर्दनमूर्छनपातैः संस्कारविशेषैः कृत्वा मन्दवीर्यत्वात् कदर्थितो भवति । कुत्सितविधानेन कदर्थितो भवतीत्यर्थः । पुनः सूतः सृष्टयम्बुजैः सह मर्दनानन्तरं निरोधात् भूषाद्वयसंपुटे कूपिकायां वा निरोधात् रुन्धनात्, लब्धाप्यायः प्राप्तबलः सन् न षण्ढः स्यात् न शुकरहितो भव । सृष्टिः मूत्रशुक्रशोणितरूपा; अम्बुज लवणं? গথ स्पतयन्नाह १अष्टाङ्गुलं ख.ग.। दैध्ये ग.।३जलाधारा इति ख.ग.४वदन ख.ग. ५ प्रान्तः ख. ग.। ६ पटी ख. ग. । ७ निर्यातनं ख. ग. | ८ ऊर्ध्वपाते इत्यारभ्य रसस्या इति पर्यन्तं ग पुस्तके नास्ति । नत्र- "उत्थापन कर्मणा ऊर्ध्वपातनं अनेन अधस्ताद" इत्यस्ति ६ ग. पुस्तके नास्ति । १० तिर्यक् पाते इत्यारभ्य वह्निः पर्यन्तं ग. पुस्तके नास्ति, अथ च तत्र-"पृष्ठे तत्र जलं उपरितनपात्रोपरि" इत्येवं पठितम् । ११ मन्दबीजत्वात् ग. । १२ अथ पातितस्य रसस्य इत्यधि कः पाठः ख. ग. । १३ मूषाद्वये संयुटे ग. । १४ रोधनात् ख. रुधनात् ग. । १५ अम्बुजा ख. ग.
२४ रसहदयं तन्त्रम् । सैन्धवं, कमलमिति मन्दाः । सृयिथा,-"गोजाविनरनारीणां मूत्रं शुक्रं च शोणितम्। सृष्टिरेषा समाख्याता पगढदोपविनाशिनी"- इति शक्त्यवतारात् । यन्त्रं यथा,-"रक्तसैन्धवखाटेन मूपाइन्हें प्रकल्प- येत् । तत्संपुटे रसं क्षिप्त्वा नवसारं सनिम्बुकम् ॥ संपुटस्य प्रयत्नेन लेपयेत्सन्धिमुत्तमम् । वज्रमृत्नां समादाय चेष्टयेत्तत्प्रयत्नतः ॥ छायाशुष्कं च तत्कृत्वा भूगर्ने स्थापयेत्ततः । अष्टागुलप्रमाणेन मुपोर्ध्व तत्र पूरणम् ॥ त्रिसप्तदिनपर्यन्तं करीयाग्निं च कारयेत् । दिने दिने प्रकर्तव्या भूपा सैन्धवनूतना ॥ स्वेदयेत्तत्प्रयत्नेन भूगर्भ स्थापयेत्ततः । अथवा कृपिकामध्ये सूतं सैन्धवसंयुतम् । भूगर्भ च ततः स्थाप्यं एकविंशहिनावधि । अयं निरोधको नाना महामुखकरो रसे' इति ॥ ६ ॥ अथ नियमनम् । इति लब्धवीर्यः सम्यक् चपलोऽसौ संनियम्यते तदनु । फणिलशुनाम्वुजमार्कवॉटीचिश्चिकावेदात् ॥१०॥ सप्तमोद्दिष्टसंस्कारं स्पश्यन्नाह-इतीत्यादि। इति पूर्वोक्तविधानेन यन्त्रणादिना, तदनु रोधनानन्तरं; असौ चपलश्चञ्चलो रसो नियम्यते कर्मविदा संनियमन क्रियते । कस्मात् ' फणिलशुनाम्लुजमार्कय. कर्कोटीचिञ्चिकास्वेदात्, फणी ताम्बूलं, लशुन रसोनः, अम्युज लवणं, मार्कवः भृगराजः, ककॉटीति प्रतीता वन्ध्या, चिञ्चिका १ लवणमित्यारभ्य मन्दाः इति पर्यन्त पुस्तफयोर्न दृश्यते । २ "स्त्रीपुंसोः शुक्रयुगलमप्रसूतारजस्तथा । एतत्राष्टित्रयं प्रोक्तं गुह्यमेतद्वरानने"-इति रसावतारे । ३ शक्त्यव- तारादिति ग. । ४ "यथा' इति ग पुस्तके नास्ति ५ तत्संपुटं ख. ग. | ६ छायाशुलं ग. । ७ भूगर्भ ग. ८ मुखकरः परः ख. ग.। ६ नियम्यते ग.। १० इति तदनु लब्ध- वीर्यश्चपलोऽसौ संनियम्यते सम्यक् । इति समीचीनेः पाठः केचित् इति लब्धवीर्यः सम्यक्' इत्यत्र एवं लब्धेवीर्य इतीच्छन्ति । तथा च टीकायामपि 'इति' इत्यत्र 'एवं', "सम्यक् लब्धवीर्यः' इत्यत्र “वीर्य लब्धः" इति पाउमिच्छन्ति । ११ 'कर्कोटी' इति ख. ग. पुस्तकयोर्न दृश्यते । १२ 'अथ निरोधितरसस्य' इत्यधिकः पाठः ख. ग. । तथा च 'सप्तमोद्दिष्टं' इत्यनन्तरं 'नियामक' इत्यधिकः पठ्यते । १३ यन्त्रादिना ख. ग.। १४ नियमनं ख ग.।
रसहृदयं तन्त्रम् । ? नाम अम्लिका, एताभिः सह यः स्वेदः यन्त्रे अग्नितापः तस्मात् । किंवि- शिष्टः ? सम्यक् लब्धवीर्यः प्राप्तबलो वीर्यवान् रेसः चपलत्वनिवृत्तये नियम्यत इत्यर्थः । विशेषश्चात्र,-"काचकूपी मृदालिप्य रसो मध्ये विमुच्यते । कलांशं टवणं दत्त्वा मध्ये किञ्चित्प्रदीयते ॥ द्वारमुद्रा प्रकर्तव्या वज्रमृत्तिकया दृढा । भूगर्भ कृपिकां स्थाप्य सितया गर्भपूरणम् । करीषाग्निः प्रकर्तव्य एकविंशहिनावधि । अयं नियामको वह्निपत्यन्तकारकः ॥ रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये । क्रियते यो रसखेदः प्रोक्तं नियमनं हि तत्" इति । यन्त्रलक्षणं तु,-"चतुःप्रस्थजलाधारं चतुरगुल- काननम् । घटयन्त्रमिदं प्रोक्तं तदाप्यायनकं स्मृतम्"-इति ॥१०॥ अथ दीपनम् । भूखगटङ्कणमरिचैलवणासुरिशिग्रकाञ्जिकैस्त्रिदिनम् । खदेन दीपितोऽसौ ग्रासार्थी जायते सूतः ॥११॥ अष्टमोद्दिष्टस्य दीपनसंस्कारस्य विधि" स्पष्टयनाह-भूखगेत्यादि। असौ पूर्वसंस्कृतरस एतैरौषधैत्रिदिन निरन्तरं यथा स्यात्तथा खेदेन दीपितः उत्पीडितः सन् ग्रासार्थी कवलाभिलाषी जायते । एतैरौषधैः भूखगटङ्कणमरिचैः; न केवलमेतैः पुनर्लवणासुरिशिकाजिकैः । भूः तुर्वरी, खगः कासीसं, टकणं सौभाग्य, मरिचमूषणं, एतैः । पुनः लवणं सैन्धवं, आसुरी राजिका, शिनः सौभाञ्जनं वृक्षविशेषः, काक्षि- के पूर्वोक्त अम्लीभूतं, एतैश्चति । विशेषश्चात्र, "खेदन रसराजन्य क्षाराम्लविषमद्यकैः । बीजपूर समादाय वृन्तमुत्सृज्य कारयेत् ।। तस्य मध्ये क्षिपेत्सूतं कलांशलारसंयुतम् ॥ द्वार निरुध्य यत्नेन वस्त्रमध्ये निवन्धयेत् ॥ दोलाखदः प्रकर्तव्य एकविंशहिनाववि । दिने दिने प्रकर्तव्यं नूतनं वीजपूरकम् ॥ लेलिहानो हि धातूंश्च पीड्यमानो १ आम्लिका ग.। २ सहायः ग. । ३ नरः न. ग. । ४ नियम्ये ग.। ५ सिक्तया ख. ग. । ६ मत्यन्त ख. ग. । ७ घटे खेदः ख. ग.। ८ जलाधारंग. । अथ नियामित रसस्य इत्यधि. कः ख पुस्तके । 'अष्टमोद्दिष्टस्य' इति ग पुस्तके नास्ति । 'अष्टमोद्दिष्टं' ख.। १० 'दीपनसंस्कार' ख. । दीपनं ग. । ११ 'विधि इति ख. ग. पुस्तके नोपलभ्यते । १२ माह ख. । १३ ख. ग. पुस्तके नोपलभ्यते । १४ नुदुपार्जितः ख. ग.। १५ फटकी ख. ग. ।
२८ - रसहृदयं तन्त्रम् । विधाः कृपणा इदं शास्त्रं रत्नाकररूपं वहुरनं प्राप्य दलादिद्रव्येण कृतकृत्याः । शास्त्रसमुद्रयोर्गुणरत्नः लास्य; वराटिकादलादिद्रव्ययोः साम्यं तुच्छतया; यत उभावपि निकृष्टावंव । यत एतच्छास्त्रं बहु- प्रदं, मुद्रिकावेधस्पर्शवेधधूमवेधशब्देववधाम्यवेधाधाम्य धातुवेधप्रद- त्वात् ॥ १॥ अन्ये पुनर्महान्तो लक्ष्मीकरिराजकौस्तुभादीनि । अवधीर्य लब्धवन्तः परामृतं चामरा जाताः ॥२॥ पुनरत्र ग्रन्थे गुणाधिक्यशतं च वर्णयन्नाह-अन्ये इत्यादि । "पुनरित्यप्रथमविशेषणयोः" इति प्रसादः । अत्र पुनर्विशेषणे । अन्य पूर्वेभ्यो महान्तो वर्तन्ते । किं कुर्वन्तः ? परामृतं लब्धवन्तः सन्त अमरा जाताः मरणरहिता जीवन्मुक्ता जाता इत्यर्थः । परं च तदमृतं चेति समासः; मोक्षमित्यर्थः । किं कृत्वा ? लक्ष्मीकरिराजकौस्तु- भादीनि अवधीर्य अवहेलनं विधाय: लक्ष्मीहरिप्रिया, करिराज एरा- वत इन्द्रवारण', कौस्तुभो हरेमणि', इत्यादीनि चतुर्दशरनानि । सतामयमेव स्वभावः, दरिद्राणां कृपणानां पूर्ववत् । अत एवैतच्छास्त्रं कृपणमहतां निकषरूपम् ॥ २॥ चारौषधिपटवम्लैः शुद्धोधो रागवन्धने खेदात् । न पुनः पक्षच्छेदो द्रव्यत्वं वा विना गगनम् ।।३॥ सर्वोत्कृष्टत्वेन गगनग्राससाधनमाह-क्षारेत्यादि । शुद्धोधो रसराजस्य 'जायते' इति शेषः । कैः कृत्वा ? क्षारौषधिपट्वम्लैः, क्षा- रौषधयो अहिमारादयः, पटु सैन्धवं, अम्ल अम्लवेतसादि, एतैः तुदुत्पत्तिभवेदित्यर्थः । क्षारौषधयो यथा. अहिमारमपामार्ग तन्दुली- यकसंयुतम् । स्नुह्यर्ककरवीरं च लागलीक्षीरकन्दको ॥ कर्कोटी कञ्चकी तुम्बां पलाश चाग्निमन्थकम् । करीरं चित्रकं शि वरुण वेतसं वटम् ॥ पटोल्यर्जुनकूष्माण्डकदलीवज्रकन्दकम् । अखत्थं सूरणं जाली दहेत्कन्दाननेकशः । अन्तधूमेन सर्वांश्च देवदाली दहे. तथा । औषधिक्षारनामासौ गणस्तुपरिकीर्तिताः" इति । अम्ल १ 'कृपणमहतोः' इति पा०।२ सर्वोत्कृष्टत्वे ग.।
रसहृदयं तन्त्रम् । २६ .. यथा,-"अम्लवेतसजम्बीर लकुचं बीजपूरकम् । चाङ्गेरी चणकाम्ल च नारङ्गं तित्तिडी तथा ॥ अम्बष्ठा करमर्दश्च कपित्थः करणा- दिकः(१)पञ्चाम्लसंयुतो वा स्यादम्लवर्गः प्रकीर्तितः । चण- काम्लं च सर्वेषामेकमेव प्रशस्यते । अम्लवेतसमेकं वा सर्वेषामुत्त- मोत्तमम्" इति। एतैः क्षारौषधिपट्वम्लैः सुद्धोधो भवेत् रागबन्धने च भवेतां; रागो रञ्जनं, बन्धनं पूर्वमुपवर्णितम् । कुतो हेतोः ? एतैः पूर्वोक्तैः करणरूपैः स्वेदात् । पुनरिति विशेषणे। पक्षच्छेदः रसपक्षा- पकर्तनं, यथा स्थिरो भवति; द्रव्यत्वं गुणवत्त्वं वा, गगनमभ्रक विना न भवतीत्यर्थः ॥३॥ अभ्रकजीर्णो बलवान् भवति रसस्तस्य चारणे प्रोक्ताः । सन्धानवासनौषधिनिमुखसमुखा महायोगाः ॥ ४ ॥ द्रव्यत्वमभ्रकेणाह-अभ्रकजीर्ण इत्यादि । बलरहिते अतिक्षुद्वोधे पण्ढता भवेत्। यथा,-"शीतत्वामदनाभावाल्लोहाशुद्धस्य जारणात् विडप्रभूतदानाद्वा भुङ्क्ते जीर्णादजीर्णगः (१) ॥ अत्यग्नितो निराहारात् क्रामणारहितस्य च । इत्येता विक्रिया या अष्टभिः षएढतां ब्रजेत्''- इति । अतो रसोऽयसंस्कारानन्तरं अभ्रकजीर्णः कर्तव्यः, यतोऽभ्रक- जीर्णो बलवान् भवति । अभ्रकं जीर्ण ग्रासन्याये (माने) न जारित यस्मिन् स तथोक्तः । तस्याभ्रजारणायोग्यस्य रसस्य चारणे केवल- कवलने पते प्रोक्ताः । एते के ? सन्धानवासनौषधिनिर्मुखसमुखा एव महायोगाः, महगव्यत्वकारकाः । सन्धानं सर्वधान्यानां अौष- ध्यादीनां च सन्धान; यथा,-"सर्वधान्यानि निक्षिप्य आरनालं तु कारयेत् । सपत्रमूलसंयुक्ता षिर्धास्तत्र नि.क्षिपेत् ॥ क्षितिकासी- ससामुद्रसिन्धुभ्यूषणराजिकैः। संयुक्तं कारयेत्तत्तु सोमे सप्ताहसंस्थि- तम् ॥ तच्चारनाालसंयुक्तं ताम्रभाण्डे तु संधयेत्'-इत्यभ्रकचारणार्थ संधानम् । वासनौषध्यो यथा,-"विज्ञेयमौषधीवर्ग यथा शास्त्रैरुदा. हृतम् । जलजं स्थलजं चैव सम्यक् ज्ञात्वा तु कारयेत् ॥ जलजा उत्पली पद्मा स्थलजा च प्रसारिणी । जालिनी अभ्रचन्द्राच चित्रपर्णी १ रसरत्नसमुच्चये अम्लवर्गों यथा-अम्लवेतसजम्बीरनिवुक बीजपूरकम् । चांगेरी चणकाम्लं च अम्लिक कोलदाडिमम् अम्बष्ठा तिन्तिडीकं च नारंग रसपत्रिका | करमर्द तथा चान्य- दम्लवर्गः प्रकीर्तितः ॥२ चारणालक्षणं च-रसस्य जठरे ग्रासलेपणं चारणा मता । ३ 'स्थलजाश्च प्रसारिणी' इति पाठान्तरम् ।
३० रसहृदयं तन्त्रम् । त्रिपर्णिका। रसचन्द्रौकसश्चैव तथा च जलमूलकः । समगा वारि- भूता च अपामार्गो जलोद्भवा ॥ अजमारी उपाम्वुश्च कुम्भिका अलपिप्पली । जलपूर्वाम्धुसीता च कुमारी नागिनी तथा। सितजंघा स्वरश्चैव तथा सर्पा सुगन्धिका । वृद्धा च बृहती तद्वन्मूर्तिर्मार्जार- पादिका । तथा जलचकोरी च मीनाक्षी अहिलोचना । जयाविच (१) वराही च अपका (त्रा) ईखरी तथा । कुकुरी हलिनी चैव बृहती वज्रकन्दकम् । मुशली वनमाला च विदारी मोहिनी तथा। माण्डूकी लवणा चैव उग्रा च उत्तमा तथा । शिखिपादी कपोती च नन्दिनी वृश्चिकालिका ॥ हंसपादी शिखा चैव सारिवा वायसी तथा। दन्ती गोजितिका चैव गरुडी हेमपुष्पिका ॥ समगा जलजा चैव मांसी पापाणभेदिका। अलम्जुषा मेघनादाशुकनादा कपोतिको || क्षीरिका तुलसी धान्या मेषिका च वनार्जका। वाराही चणकायासी तथा च अपराजिता ॥ चतुःषष्टिगणो ह्येष औषधीनां प्रकीर्तितः । षष्ठाएक- प्रयोगेन अवस्था नैव कारयेत्'-इति । अयमौषधीगणः सन्धानेऽपि योज्यः । संन्यानं च वासनौषधयश्च ताभिः कृत्वा ये निर्मुखसमुखा योगाः अकृतमुख-कृतमुखा इत्यर्थः ॥ ४॥ निश्चन्द्रिक हि गगनं क्षाराम्लर्भावितं तथा रुचिरैः ।। सृष्टित्रयनीरकणातुम्बरसमर्दितं चरति ।। ५ ॥ निर्मुखत्वेनाभ्रकचारणोपायमाह--निश्चन्द्रिकमित्यादि । हि निश्चितं, यद्गनमभ्रकं निश्चन्द्रिकं चन्द्ररहितं भवति वनसंज्ञकमित्यर्थः, तद्गगनं रुचिरैनिर्मिनोरमैर्विविधैः क्षाराम्लै वितं लावितं कार्य, क्षारा यवक्षारस्वर्जिक्षारटकणक्षारादयः, अम्लवेतसजम्बीराद्याः पूर्वोक्ता. । ननु क्षारा रुचिरा. कथं भवन्ति ? उच्यते, यथा-- "सर्जिकाचूर्णभागैकं विशद्भाग जलस्य च । तावत्क्वाथ्यं क्षिपद्भाण्डे यावत्फेनं सितं भवेत् ॥ क्षीणे क्षीणे जलं दत्त्वा खेतफेन च गृह्यते । तदा तु डेकीयन्त्रेण द्रावयेदग्नियोगतः । त्रिसप्तवार कर्तव्यं द्रावणं १ 'सरश्चन्द्रौकसश्चैत्र' तथा 'शरञ्चन्द्रौकसश्चैव' इति पाठान्तर- यमुपलभ्यते । २ 'खरश्चैव' इति पाठान्तरम् । ३ अभ्रके इति ख.ग । ४ अत्र गगनसत्त्वं निश्चन्द्रिक ग्राह्यम् । सत्वपातानन्तरं चतुर्थेऽववोधे 'तच्चूर्णीकृत्य ततः क्षाराम्लर्भावितं धनं बहुशः । सृष्टित्रयनीरकणा- तुम्धुरुरसमर्दितं चरति ' इति पाठोपलम्मात् ॥ इति जयदेवः । ५ कार्थ' इति पाठान्तरम् । ६ अस्य लक्षणं रसरत्नसम्मुच्चये द्रष्टव्यम् । अम्ला . रसहृदयं तन्त्रम् । मूत्रसंयुतम् । स्वर्जिकाक्षारनामायं दावणे परमो मतः' इति विशेष- विधिः । एवमत्युत्तमाः क्षाराः स्युः संपक्काः हिमाः । पुनः सृष्टित्रय- नीरकणातुम्वरुरसमर्दितं, गोजाविनरनारीणां मूत्र शुक्रं च शोणित सृष्टित्रय, नीरकणा जलपिप्पली पटुरिति लोके, तुम्बरु प्रतीतं, जलकणा च तुम्बरुश्च अनयो रसः; सृष्टित्रयं च जलकणातुम्बहरसश्च ताभ्यां मर्दनं कार्यम् । रसः पारदः, निर्मुखोपि एवंविधं गगनं चरति ग्रासीकरोति । निश्चन्द्रिककरणं ग्रन्थान्तरेऽस्ति, "दुग्धत्रयं कुमार्यम्बु गङ्गापुत्रं त्रिमूत्रकम् । वटशङ्गमजारक्तमेमिर, सुमर्दितम् ॥ शतधा पुटितं चापि जायते पद्मरागवत् । निश्चन्द्रिकं मृत त्वदं वृद्धदेहे रसायनम् ॥ कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपघातिनाम्" इति ॥५॥ यवचिञ्चिकाम्बुपुटितं तन्मूलशतावरीगदाकुलितम् । घनरवशिग्रुपुनर्नवरसभावितमभ्रकं चरति ॥ ६॥ विवानान्तरमाह-यवेत्यादि । पुनरभ्रकं यवञ्चिञ्चिकाम्बुपुटित कार्यः यवचिञ्चिका प्रतीता, यवचिश्चिकेति लोके, तस्या अम्वु द्रवः, तेन पुटितं आतपयोगेन भावितम् । पुनस्तन्मूलशतावरीगदाकुलितं कार्य तस्या यवचिश्चिकाया मूलं तन्मूलं, शतावरी शतपाद्, गदः कुष्ठं, एतैराकुलं व्याप्त परिमृतम् । यदा सरसौषधाभावस्तदायं विधिःः यथा-"शुष्कद्रव्यमुपादाय खरसानामसंभवे । वारिण्यएगुणे साध्यं ग्राह्यं पादावशेषितम्-इति । पुनर्घनरवशिपुनर्नवरसभावित कार्यः घनरवस्तण्डुलीयकः, शिग्रु सौभाञ्जनं 'सुहिजना' इति लोके, पुनर्नवा वर्षाभूः प्रतीता, एतेषां रसेन भावितं परिमृतं श्रातपयोगेन शोष्यमित्यर्थः । एवंविधमभ्रं रसश्चरति निमखेन ।भावनाशब्देन शत- वार ज्ञातव्यं, ग्रन्थान्तरसाम्यात् । अत्र विशेषः.-"सोमवल्लीरसे पिष्ठा दापयेच्च पुटत्रयम् । सोमवल्लीरसेनैव सप्तवारांश्च भावयेत् ॥ दापयन्न्मये भाण्डे रसेन सह संयुतम् । मूलं तु शरपङ्खाया गव्य- क्षीरेण घर्षयेत् । कल्केन मेलयेत् सूतं गगनं तदधोर्ध्वगम् ॥ स्थापये- द्रवितापे तु निर्मुखो असते क्षणात् । जायते पिटिका शीघ्रं नात्र कार्या विचारणा' इति । अन्यच्च,--"तिलपणीरसं नीत्वा गगनं तेन भावयेत् मर्दनाजायते पिष्टा नात्र कार्या विधारणा' इति । , नागं वहुशस्तु ૨૨ रसहदर्थ तन्त्रम् । अन्यच्च,-"मुण्डीनिर्यालके निषेचयेत् । तेनाभ्रक तु संयोज्य भूयो भूयः पुटे दहेत् ॥ चित्रकाईक- मूलानामेकैकेन तु सप्तधा । प्लावितव्यं प्रयत्नेन गन्धकाभ्रकचूर्ण- कम् ॥ नागमुण्डीरसाक्षिप्त रसलुङ्गाम्लभावितम् ॥ षोडशाशेन दातव्यं दोलायन्त्रे चरेद्रसः" इति निर्मुखचारणम् ॥ ६ ॥ सर्जीक्षितिखगटङ्कणलवणान्वितमर्कभाजने त्रिदिनम् । पर्युषितमारनालं गगनादिकारणे शस्तम् ।। ७ ॥ समुखचारणमाह-सोत्यादि । आरनालं स्वेदनसंस्कारे यदुक्तं काञ्जिकं तत् । अर्कभाजने ताम्रपात्रे । त्रिदिनं यावत्तावत्पर्युषित संधानीकरणं कुर्यात् । कीदग्विधमारनालं? सीक्षितिखगटकण- लवणान्वितं, सर्जी प्रतीता साजीति लोक, क्षितिः स्फटिका, खगः कासीसं, टङ्कणं सौभाग्यं 'सोहागा' इति लोके; लवणं सैन्धव, तद- भावे लवणाटकेपु यत्र यल्लभ्यं तदेव, योज्य; लवणोद्देशः,-"सैन्धवं रुचकं कृष्णं बिडं सामुद्रमौद्भिदम् । रोमकं पांशुजं चेति लवणाटक- मुच्यते' इति, एतैरन्वितं मिलितं कुर्यात् । तदारनालं गगनादिकभा- वने अभ्रकादिप्लावने शस्तं प्रधान, अभ्रकादिका अग्रे अभ्रकादिका अग्रे वक्ष्यमाणाः । “निर्मुखा समुखा चेति द्विविधा चारणा मता। निर्मखा चारणा प्रोक्ता वीजाधानेन भागतः ॥ शुद्धं स्वर्ण च रूप्यं च बीजमित्यभिधीयते । चतुःषष्टयंशतो वीजप्रक्षेपो मुखमुच्यते ॥ एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् । कठिनान्यपि लोहानि क्षमो भवति भक्षणे ॥ इयं हि समुखा प्रोक्ता चारणा वरवातिकैः" इति । अभ्रकाद्युपधातूनां निर्मुखचारणं, हेमादिधातूनां समुखचारणं, इति विवेको शेयः । रसायने शरीरकायें नागवलौ न चारणीयौ, किंतु स्वर्णादिकं वीजं चारणीयमिति भावः ॥ ७ ॥ तसिन्नागं शुद्ध प्रद्राव्य निषेचयेच्छतं वारान् । वङ्गं वा तारविधौ, रसायने नैव तद्योज्यम् ॥ ८॥ आदिशब्देन नागवङ्गयोरधिकारविशेषमाह-तस्मिन्नित्यादि । तस्मिन्पूर्वोक्तसंघाने, शुद्धं निर्मलीकृतं, नागं सीसकं, प्रद्राव्य जलरूपं विधाय 'वह्नियोगात्' इति शेषः, निषेचयेत् निषेकः कर्तव्यः; वा तत्रैव १ भावने इति ख. ग. । २ 'कठिनानां हि लोहानां क्षमो भवति भक्षणे' इति पा० । ३ 'आदिशब्दात् इति ख. ग.।
H रसहृदयं तन्त्रम् । ३३ संधाने वङ्ग रङ्गं प्रद्राव्य निषेचयेत् । कतिवारान् ? शतं वारान् प्रति- शतमित्यर्थः । तद्वत तारविधौरूप्यविधाने योज्यं, रसेन सह मिलितं कार्यमित्यर्थः । अस्यामार्यायां स्वर्णाधिकारेऽनुक्तमपि नागं ग्रन्थान्तरा- समायोज्यमिति विशेषार्थः । तन्नागं वङ्गं च रसायने शरीरासिद्धिनि- मित्तं न योज्यमिति; यतो नागवङ्गप्रभवाचौपाधिको दोषौ मलबन्ध- गुल्मदौ कथितौ । एतन्नागं वङ्गं च ग्रासार्थे योज्यमिति युक्तं , यत एतेनान्तर्गतेनान्यदपि ग्राह्य द्रव्यं ग्रप्ततीति भावः। वङ्गे विशेषः- "खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते । खुरकं गुणतः श्रेष्ठं मिश्रकं न रसे हितम्"-इति, रजतकर्मणि योग्यं ग्राह्यम् ॥ ८ ॥ गगनरसोपरसामृतलोहरसायसादिचूर्णानि । सर्वमनेन हि भाव्यं यत्किचिच्चारणावस्तु ।।६।। गगनादिक्रम स्पष्टयन्नाह-गगनेत्यादि । अनेन पूर्वोक्तसंधानेन सर्व सकलं भाव्यं भावितं कुर्यात् । सर्वमिति किं ? गगनरसोपरसा- मृतलोहरसायसादिचूर्णानि । गगनमभ्रकं वज्रसंक्षिकं रसा महारसा हिङ्गलवर्णमाक्षिकरूप्यमाक्षिकशिलाजतुचपलचुम्बक पैकान्तखर्परगै- रिकस्फटिककासीससंज्ञकाः; अमृतं विष वा अमृतलोहाः न मृता अमृताः, अमृताश्च ते लोहाश्च धातव इति; रसाः पूर्वोक्ताः; आयसा लोहाः; तेषां संयोगजानि यानि चूर्णानि कल्कानि, शुल्वाभ्रादीनि । आदिशब्दादुपरसानामपि ग्रहणम् । न केवलमेतान्येव संघानेन भाव्यानि, किन्त्वन्यदपि यत्किचिच्चारणावस्तु चारणयोग्य द्रव्यं रत्ना- दिकं तदप्यतेन संधानेन भाज्यं चारणार्थम् ॥ ६ ॥ १ 'वई' इति पाठान्तरम् । २ 'गगनरसोपरसातलोहसुसंयोगजानि चूर्णानि इति पाठः साधुः । गगनं. रसाः, उपरसास्तथा अमृतान मारिताः भस्मीकृता लोहा.. एतेषां सुसंयोगेन सम्यग्योगेन जातानि चूर्णान्यनेन संधानेन भाव्यानीति तात्पर्यम् । असन्मत तु गगनरसोप- रलामृतलोहासारायसादिचूर्णानीति भवितव्यम् । तथा चात्र अमृत- लोह इति वचनेन सारलाहाख्यौ शशिशिखिनौ (रजतहेनी) गृहीतो। असारायस इति वचनेन च नवमाववोयोक्तानि ताम्रादीनि पूतिसंश- कानि लोहानि गृहीतानि इति जयदेवः । एवं च च्छन्दोभङ्गदोपोऽपि नापतति । गगनरसोपरसारसामृत इति ख. । गगनरसोपरसरसा मृते लोहरसायसादि चूर्णादि इति ग. । .
रसहदयं तन्त्रम् । आदौ खल्वे मृदितां पिष्टी हेम्नश्च तां रसश्चरति । तारस्य तारकर्मणि दत्त्वा सूते ततो गगनम् ॥१०॥ वर्णरूप्ययोरधिकारविशेषमाह-श्रादावित्यादि । ततोऽनन्तरं हेम्नः स्वर्णस्य पिष्टी खल्वे मृदितां वक्ष्यमाणेन' इति शेषः। तां पिटी रसश्चरति । किं कृत्वा पिष्टी दद्यात् ? श्रादौ प्रथमतः सूतेश्वरे गगन- मभ्रकं दत्त्वा । हेनोऽधिकारो दर्शितः । हेमकर्मणि हेमैव, तारकर्मणि तारमेव दद्यात् । हेन्नि विशेषः,-"स्वर्ण पञ्चविधं प्रोक्तं प्राकृतं सहजाग्निजम् । एतत्स्वर्णत्रयं चैव योज्यं षोडशवर्णकम् ॥ “खनिजं रसवादोत्थं सुपत्रीकृतशोधितम् । तञ्चतुर्दशवर्णाढयं मनुजानां रुजापहम्" इति । तारेऽपि विशेषः,--कैलासे सहज रूप्यं कृत्रिमं तथा । व्युत्क्रमेण गुणैः श्रेष्ठं नोगात्तीर्ण रसे हितम्' इति । तारमपि पूर्णवर्णं चार्यम् ॥ १० ॥* त्रुटिशो दत्त्वा मृदितं सारे खल्वेऽभ्रमलोहादि । चरति रसेन्द्रः क्षितिखगवतसवीजपूराम्लैंः ।। ११ ।। पिष्टीमर्दने पात्रौषधान्याह-त्रुटिश इत्यादि । अभ्रमलोहादीति अभ्रमभ्रकं प्रतीत, हम कनकं तदेव लोहः, अभ्रकं च हेमलोहश्च तावादी यस्य तत् । एवंविधं द्रव्यं क्षितिखगवेतसजवीजपूराम्लैः क्षितिश्च खगश्च वेतसं च बीजपूरश्च क्षितिखगबीजपूराः, वीजपूरी मातुलुङ्गः, तेषां त्रयाणामम्लाः, तैर्मुदितं घर्षितं सत् रसेन्द्रश्चरति । किंकृत्वा मृदितं ? त्रुटिशोऽल्पमात्र (दत्त्वा ) । कस्मिन् ? सारे खल्वे । सारस्य तीक्ष्णजातस्यायं सारः, तस्मिन्नेवविये। सारे विशेषः,- १ ख ग. पुस्तक नास्ति । २ सूतो ग. । ३ नागात्तीर्णमिति कैलासपर्वतोत्थमित्यर्थः । ४ आयुर्वेदप्रकाशे तु-त्रुटिशो दत्त्वा मृदितं सोणे खल्वे ऽभ्रसत्त्वहेमादि । चरति रसेन्द्रः क्षितिखगवेतस- जम्बीरवीजपूराम्लैः ॥ इति पाठान्तरम् । ग. पुस्तक वेतस इत्य- नन्तरं जम्बीर इत्यधिकं पठ्यते। अन्यन्मूलोक्तश्लोकवदेव । अस्या आर्याया विपरीतोऽर्थष्टीकाकरेण दर्शित इति प्रति- भाति । प्रथमतः सूतेखरेऽभ्रकं दत्वाऽनन्तरं हेमतारयोः पिटी दात- व्येति टीकाकृत आशयः । परं गोविन्दभिक्षोराशय एवं प्रतिभाति- श्रादौ यथाकार्य हेमतारयोर्वीजभूतयोः पिष्टी सूतेश्वरे दत्त्वा, तन्मुखेन दुश्चार्यमभ्रकमनन्तरं सूते दातव्यम् । हेमतारे च सुचार्य, गगनमपि दुश्चार्य तन्मुखेन रसश्चरतीति भावः । संपादकः ।
- रसहृदयं तन्त्रम् । ३५ "मुण्डं तीक्ष्णं तथा कान्त भेदास्तस्य त्रयोदश । मृदु कुण्ठं कडारंच त्रिवियं मुण्डमुच्यते। खरसारं च हन्नालं तारावर्त बिडं तथा। काललोहं गजाख्यं च षड्विधं तीक्ष्णमुच्यते ॥ कान्तं लोहं चतुधोक्तं रोमकं भ्रामकं तथा । चुम्बकं द्रावकं चेति गुणास्तस्योत्तरोत्तराः इति । खल्वो यथा,-"खल्वोऽश्माद्यो निरुद्वारो द्विरंगुलकटाहकः । अष्टांगुला वटी कार्या दीर्घा वा वर्तुला तथा ॥ द्वादशांगुलदीर्घेण मर्दकश्चतुरङ्गुलः । मुखं वृत्तं तु कर्तव्यं दर्पणोदरसंनिभम्" इति । अश्माद्य इति अश्मलोहाकाणां ज्ञातव्यः ॥ ११ ॥ समुखं निमुखमथवा तुल्यं द्विगुणं चतुर्गुणं वापि । अष्टगुणं षोडशगुणमथवा द्वात्रिंशता गुणितम् ।। १२ ।। इति पत्राभ्रकमुक्तं तेन विधानेन चारयेत्सूतम् । ग्रासः पिष्टी गर्भस्त्रिजक्षणा चारणा भवति ॥ १३ ॥ धात्वादीनां चारणायां परिमाणमाह -समुखमित्यादि । इति पूर्वोक्त पत्राभ्रकमुक्तं पत्राभ्रकचारणमित्यर्थः । समुखं मुखसहितं चारणं भन्तु वाऽथ निर्मुखं मुखवर्जितं चारणं भवतु उभयत्रापि तुल्यं समानं सूतं चारयेत्; धात्वादीनिति शेषः । अत्र विकल्पः-द्विगुणं सूताद् द्विगुणितं चारयेत्, वा चतुर्गुणितं सूताच्चतुर्गणित, वा अएगणं सूतादशगुणितं, वा षोडशगुणं सूताच्छोडशगुणितं, वा द्वात्रिंशता गुणितं सूताद द्वात्रिंशदुगुणितं चारयेत् । तेन विधानेन पूर्वोक्तेन विधानेन त्रुटिशो दत्त्वेत्यादिना । चारणा विलक्षणा भवति त्रीणि लक्षणानि चिह्नानि यस्यां सा तथोक्ता । कथं ? ग्रासः अभ्रकस्य प्रासन निर्मुखत्वेन समुखत्वेन वा; अपरा पिष्टी रसेनाभ्रादेर्मेलनं, १ तस्य नाम लोहस्य । लोहस्य त्रयोदश भेदाः-त्रिवि मुण्ड, पविधं तीक्ष्ण, चतुर्विधं कान्तमिति । २'दी? वा वर्तुलस्तथा' इति पाठान्तरम् । ३ इति पत्राभ्रकमित्यादिपति केचित् समुखं इत्यतः प्रागिच्छन्ति परं सर्वत्र यथावस्थमेव पठ्यते । 8 अभ्रके रसस्य ग्रासन' इति पाठान्तरम् । 'समुखनिर्मुखजारणायाश्च लक्षणं यथोक्तं रसरत्नसमुच्चये- समुखा निर्मुखा चेति जारण द्विविधा पुनः । निर्मुखा जारणा प्रोक्ता वीजादानेन भागतः । चतुषष्टयंशतो वीजप्रक्षेपो मुखमुच्यते । एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् । कलिनान्यपि लोहानि क्षमो भवति भक्षितुम् । इयं हि समुवा प्रोक्का जारणा मृगचारिणा ॥ - .
२ ३६ रसहृदयं तन्त्रम् । पुनर्गर्भो रसस्य गर्ने रसरूपं गगनं तिष्ठतीति । श्लोकद्वयान्वय- संवन्धायुग्मम् ॥ १२ ॥ १३ ॥ दोलनविधिना यैरपि नानाविधभङ्गसंस्कृतं गगनम् । मारणविधिनोद्दिष्टं पिष्टं वाऽनल्पमानस्तैः ॥ १४ ॥ इति गगनादिग्रासप्रमाणं कथित; अथ चारणविधानमाह- दोलनविधिनेत्यादि । गगनमभ्रक यैरोपधैः पिटं पेषितं भवति तैरेवौषधैर्नाल्पमानैर्वहुमाननानाविधभङ्गसंस्कृत, कुर्यादिति शेषः । नानाविधा अनेकप्रकारा ये भगास्तरङ्गा आगमाधिजातास्तैः संस्कृत- मुपस्कृतम् । किंविशिष्टं गगनं मारणविधिना पञ्चत्वविधानेन उद्दिष्टमद्देशितम् । एवंविधमपि गगनं दोलनविधिना चारणायां योज्यमिति भावः ॥ १४ ॥ अन्येऽपि तुच्छमतयो गन्धकनिम्पिटिशुल्वपिष्टिरजः । दोलनविधिनोद्भतं रसजीण नदिति मन्यन्ते ॥१५॥ अधुनाऽल्पमतीनां मैतमाह-अन्य इत्यादि । अन्ये महद्भयोऽपरे तुच्छमतयः तुच्छा स्तोका मतिधुद्धिर्यपांते तथोक्ताः, अल्पबुद्धय इति यावत् । रसं जीर्ण जारणसंस्कारोपपनरसंमन्यन्ते इति।किं ? गन्ध- कनिष्पिटिशुल्वपिटिरजः गन्धकेन या निष्पिष्टिः पिष्टीभूता, शुल्वेन या पिष्टिः पिष्टीभूता ताम्रपिष्टीत्यर्थः; गन्धकनिम्पिटिश्च शुल्वपिटिश्च तयोर्यद्रजः पांशुः । गन्धकपिष्टी यथा,-"गन्यपाषाणचूर्णं च चणकस्य रसेन तु । भावयेत्सप्तवारं तु स्त्रीरक्तेन च सप्तधा ॥ शुद्धसूतं पलैकं तु खपरे दापयेत्ततः । भावितं गन्धकं दद्यान्नरपिण्डेन संयुतम् । दोला- यन्त्रेऽपि तापेन पिष्टिका भवति क्षणात्" इति । एवं शुल्वपिटयपि जायते । किंभूतं गन्धकनिम्पिटिशुल्वपिष्टिरजः ? दोलनविधिनोतं दोलिकायन्त्रविधानेनोत्पन्नम् । इति यदुक्तं तदसमञ्जसमितिभावः१५॥ तैलादिकतप्तरसे हाटकतारादि गोलकमुखेन । चरति घनं रसराजो हेमादिभिरेति पिण्डत्वम् ॥१६॥ समुखचारणान्तर्भूतं वासनामुखचारणं दर्शयन्नाह-तैलेत्यादि । १ ०भङ्गसंगसंस्कारम् ख. ग. । २ निम्पिटशुल्पपिएरजः ख.ग.। ३ दोलाविधि ख. ग.। ४ 'संजीर्ण' इति पाठान्तरम्। ५ 'नरमूत्रेण' इति पाठान्तरम् ।
रसहदयं तन्त्रम् । ३७ रसराजः पारदो, हाटकतारादि स्वर्णरूप्यादिधातुद्रव्यं कृत्रिमाकृत्रिमा- स्मकनवसंख्याकं पूर्वमुक्त, चरति भक्षति। केन ? गोलकमुखेन । गोल- कश्च मुखविशेषः, तेन विडस्य गोलकेनेत्यर्थः । क सति ? तैलादिक- तप्तरसे सति । तैलं आदिः येषां ते तैलादिकास्तैलवसामूत्रशुक्रपुष्पाः, एतैस्तप्तो यो रस उष्णत्वं नीतो योऽसौ पारदस्तस्मिन् सति, एवं घनमभ्रक चरति रसेन्द्रः । पुनहेमादिभिनवकैासीकृतैः पिण्डत्वमेति निविडत्वं प्राप्नोति । तैलानि यथा,-"कगुणीतुम्बिनीघोषाकरञ्जश्री- फलोद्भवम् । कटुवातारिसिद्धार्थसोमराजीविभीतजम् ॥ अतसीजं महाकालीनिम्बज तिलजं तथा। अपामार्गो देवदाली दन्तीतुम्बरु- विग्रहात् । अकोलोन्मत्तल्लातफलेभ्यस्तैलसंभवः' इति । वसायथा- "अजोष्ट्रखरमेषाणां महिषस्य वसा तथा" इति । मूत्रपुष्पशुक्राणि यथा,-"मूत्राणि हस्तिकरभमहिषीखरवाजिनाम् । स्त्रियः पुंसस्तथा मूत्रं पुष्पं वीर्य च योजयेत्" इति ॥ १६ ॥ अन्ये स्वच्छं कृत्वा शुकैपिच्छमुखेन चारयन्ति धनम् । सिद्धोपदेशविधिना अशितग्रासे न शुष्केण ॥ १७॥ तस्मिन्नभिप्रायेऽन्यमतमाह-अन्य इत्यादि । एके उक्तविधानेन चारणां कुर्वन्ति । अन्ये अपरे, रसं पारद, स्वच्छ कृत्वा खेदनाद्यष्ट- संस्कारोपसंस्कृतं विधाय वा हिगुलोत्थं, घनमभ्रकं चारयन्ति अभ्रकस्य चारणां कुर्वन्ति । केन ? शुक्रपिच्छमुखेन; शुकपिच्छं- सन्धानविशेषः, मुखं विशेषो येषां सन्धानानां तेन। व सति चार- यन्ति? अशितनासे सति भुक्तकवले सति, पुनश्चार्यमित्यर्थः । केन ? सिद्धोपदेशविधिना,सिद्धा रससिद्धा नित्यनाथवरिनाथादयः पूर्वोक्ताः, तेषांय उपदेशविधिस्तेन । न शुष्केण संधानेनाद्रीभावात् नीरसता प्रातेन पुनश्चारणा न स्यात् । शुकपिच्छंयथा,-"भस्मतारान् सुशुष्कांस्तु क्षारांश्च लवरणानि च । आलोड्य ह्यम्लवगैण शुल्बभाण्डे निघापयेत् ॥ यावच्च शुकपिच्छाभमभ्रकं तेन भावयेत् । असते तत्क्षणात्सूतो गोल- कस्तु विधीयते-" इति ॥ १७ ॥ अथवा माक्षिकगगनं सममार्ग पटुयुतं पक्वम् । प्रक्षिप्य लोहपात्रे खेदान्तश्वरति कृष्णाभ्रम् ।। १८ ।। १ सुकपित्थपुग्न ग. । २ असितग्रासन इति पाठान्तरम् ।
रसहदयं तन्त्रम् ।
अन्यमताभिप्राये प्रकारान्तरमाह -अथवेत्यादि । पूर्वोक्तं विधान
कुर्यात्, अथवा पक्षान्तरे, इदं वच्यमाणं कुर्यात् । माक्षिकगगनमिति
माक्षिकेण युक्तं गगनं अभ्रक, समभागं द्वयं तुल्यभागं, पुटितं भावितं
यत् पटु सैन्धवं लवणं, शास्त्रान्तरसाम्यादम्लवर्गेण पुटितं, तेन युतं
मिलितं सत् पक्कं वह्निपुटितं, कुर्यात्' इति शेपः । किं कृत्वा ? लोह.
पाने मुण्डादिभाजने प्रक्षिप्य मध्ये स्थाप्य । एवंविधं कृष्णानं स्वेदा-
न्तर्वह्नितापमध्ये रसः पारदश्चरति असति, माक्षिकसंयोगात् क्षिप्र-
मिति भावः ॥१८॥
तं वक्ष्याम्युपदेशं गन्धाभ्रकसंप्रवेशनं येन |
पक्षच्छिन्नश्च रसो योग्यः स्याद्रसरसायनयोः ॥ १६ ॥
उपदेशविधानमाह-तमित्यादि । येनोपदेशेन गन्धाभ्रकप्रवेशनं
गन्धपाषाणसंयोगाद्यदभ्रप्रवेशनं भवति अभ्रस्य पारदान्तःप्रवेशो
भवति तनुपदेशमहं कविर्वच्यामि कथयिष्ये । अतिसामीप्याद्वर्त-
मान एव लट् । तु पुनः । पक्षच्छिन्नश्च रसः रसरसायनयोर्योग्यः रसे
ज्वरादिरोगनाशके ज्वरांकुशादौ, रसायने च जराव्याधिनाशने प्रयोगे
योग्यः समर्थः । यथा मञ्जर्या,-"मारितो देहशुद्धयर्थं मूञ्छितो
व्याधिनाशनः । रसभम क्वचिद्रोगे देहाथै मूञ्छितं क्वचित् ॥ बद्धं
द्वाभ्यां प्रयुञ्जीत शास्त्रदृऐन कर्मणा"-इति । गन्धाभकप्रवेशेन
पक्षच्छिन्नोऽचलो भवेदिति भावः ॥ १६ ॥
रसराजरागदायी वीजानां पाकजारणसमर्थः ।
सूतकपक्षच्छेदी रसवन्धे गन्धकोऽभिहितः ॥२०॥
गन्धकं विशेषयन्नाह-रसराजेत्यादि । रसवन्धने पारदवन्धने
गन्धकोऽभिहितः लेलिनकः सर्वोत्कृष्टः कुतः । यत सूतकपक्षच्छेदी
गन्धकः सूतस्य पारदस्य पक्षी छिनत्ति । पुनः कुतः ? रसराजराग-
दायी; रसराजः पारदः, तस्य रागं रञ्जनं ददातीति । पुनः कुत.?
वीजानां पाकजारणसमर्थः; पाकश्च जारणं च पाकजारणे, तयोहेमा-
दीनां पाकजरणयोः समर्थो योग्यः । उक्तैस्त्रिभितुभिर्गन्धकः
सर्वोत्कृष्ट इत्यर्थः ॥ २०॥
दत्त्वा खल्वे बुटिशो गन्धकमादौ रसं च त्रुटिशोऽपि ।
तावच्च मर्दनीयं यावत्सा पिष्टिका भवति ॥ २१ ॥
रसहृदयं तन्त्रम् । ३६ तदनु च द्रतबलिवसया समभागनियोजितं तथा गगनम् । त्रुटिशो रसं च दत्त्वा कुर्वीत यथेप्सितां पिष्टिम् ।। २२ ।। साऽपि च दीप्तैरुपलैर्निपात्यतेऽधोऽथ दीपिकोयत्रे। तदनु च निर्मुक्कमलो निकृन्तपक्षोऽभ्रगन्धाभ्याम् ॥ २३ ॥ गन्धकाधकाभ्यां रसपक्षापकर्तनं यथा स्यात्तथाऽऽह-दत्त्वेत्यादि। श्रादौ प्रथम, खल्वे लोहाश्मिमये, गन्धकं त्रुटिशो अल्पमात्रं दत्त्वा रसं पारदं च त्रुटिशो दत्त्वा अल्पमात्रं वारं वारं गन्धरसौ दत्त्वा, ताव- न्मदनीयं यावत्सापिष्टिका एकशरीरताभवति कजलिकति व्यक्तार्थः । तदनु तत्पश्चात् रसगंधकपिष्टीकरणानन्तरं, तत्र रसगन्धकपिष्टयां गगनमधकं समभागनियोजितं गन्धकरसाभ्यां तुल्यांश मिलितं कार्यमित्यर्थः । कया कृत्वा ? द्रुतबलिवसया कृत्वा । द्रुता द्रवीभूता या वलिवसाभेकमत्स्यकर्कटशिशमाराणां वसा तैलरूपा शरीरजाता, तया । समभागाभ्रकनियोजनानन्तरं बलिवसया मर्दनं कार्यमिति तात्पर्यार्थः । बलिवसा यथा,-"भेकमत्स्यभवा या तु कर्कटस्य वसाऽ. थवा । भाव्यमेभिः क्रमानन्धं शिशुमारवसाऽपि वा ॥ एताखेका बलिवसा सम्यक् सूतस्य वन्धिनी । रञ्जनं चैव कुरुते मणिमूषा- विविक्रमात् । एषा वलिवसा नाम क्षणाद्वध्नाति सूतकम्" इति । रसगन्धाभ्रपिष्टिं पीतेत्यर्थः । सा पूर्वोक्ता रसगन्धाभ्रपिष्टिः, अथेन्यनन्तरं, दीपिकायन्त्रेऽधःपातने, रसो निर्मुक्तमलस्त्यक्तदोषो भवति । तस्मिन्निर्मुक्तमले सति निकृन्तपतः छिनपक्षोभवति । काभ्यां ? अभ्रगन्धाभ्यां; अभ्रं च गन्यश्च अभ्रगन्धौ ताभ्यां; गन्धकान्त:- संयोगात्सुखं रसाभ्रपिष्टिर्भवेत्, यतो गन्धको द्वन्द्वमेलनसमर्थः, किं पुनलिवर्सयेति तृतीयश्लोकार्थः । कुलकमिति ॥ २१-२३ ॥ भसाकारश्च रसो हेना सह युज्यते स च द्वन्द्वे । १ एतैकासौ ग. । २ च पुन रस० ख. ग.। ३ कुर्वीतेति द्वितीयश्लोकार्थः ग.। ४ सा पूर्वोक्तरसगन्धाभ्रपिष्टी ग.। ५ निमुक्त ग.। ६ वसयेति भवतीति ख. ग. । दीपिकायन्त्रश्च-कन्छपयन्त्रान्तर्गतभृण्मयपीठस्थदीपिका- संस्थः । यस्मिनिपतति सूतः प्रोक्त नद्दीपिकायन्त्रम् ॥
४० रसहृदय तम्त्रम् । अथवा गन्धकपिष्टिं पक्त्वा द्रुतगन्धकस्य मध्ये तु ॥ २४ ॥ पूर्वसंस्कृतरसस्याकार कार्यान्तरसंपत्ति चाह-भस्मेत्यादि । च पुनः । ततोऽधःपतनाद्रसो भस्माकारो भस्मसदृशो भवेत् । स च भस्माकारो रसः हेम्ना स्वर्णेन सार्धं द्वन्द्व उभयमेलने युज्यते; 'कर्म- विदा' इति शेषः । अथवा समुच्चये, अव्ययोरेकार्थसंबन्धात्पक्षान्तरे च । अथवा हेना सह पूर्वरसविधानेन गन्धपिष्टिं कुर्यात्; अथवा द्रुतगन्धकस्य द्रुवीभूतगन्धकस्य मध्ये पक्त्वा वह्नियोगेन सुपक्कं कृत्वा रसपिष्टिवत् रसहेमगन्धपिष्टिं कुर्यादित्यर्थः ॥ २४ ॥ सा चापि हेमपिष्टिर्विपच्यते गन्धके भूयः । इत्थं हेना सूतो मिलति द्वन्द्वे तथा क्षणाम्रियते ॥ २५ ॥ पूर्वोद्दिष्टस्य द्वन्द्वमेलनस्य विधानमाह-सेत्यादि । च पुनः । सा पूर्वोक्ता, हेमपिष्टिः रसहेमगन्धकृतरेतसोः (१) संबन्धः सदातनः । हेना मिलिता या पिष्टिमेलनविशेषात्सी हेमपिठी, भूयः पुनः, गन्धके विपच्यते युक्त्या पाकः कार्य. पूर्ववतन्धके । इत्य उक्त विधानेन हेना सह सूत. पारदो मिलति ग्रन्थिमेति । के सति? इन्वे सति उभयसंयोगे सति । तथोक्तविधानेन द्वन्द मिलति सति तत्कालादल्पकालती नियते पञ्चत्वमुपयाति । अल्पक्रियान्तरकरणान्तृतो भवतीति भावः । इति पक्षच्छेदविधिः ॥ २५ ॥ इतरे पक्षच्छेदं द्वन्द्वे रसमारणं न वाञ्छन्ति । वीजानामपि पाकं हृष्यन्ति च तदनु तप्यन्ति ।। २६ ।। एतावता रसपक्षकतनेन नालं भवितव्यमित्याह-इतरे इत्यादि । ये पुरुषा इति उक्तविधानेन पक्षच्छेदं रसपापकर्तनं वाञ्छन्ति, १ गन्धकपिष्टी पक्का ग.। २ कार्यान्तरंग. । इत्यनेकार्थः ख. अव्ययोरेकार्थः ग.। ४ पक्षान्तरं ग. । ५ रसपूर्व विधानेन ख. ग.। ६ पूर्वोदेशितस्य ग. । ७ "रसगन्धहेमकृत' इति ग. पुस्तके नास्ति । रसहेमगन्धकृता सारेतसोः इति पाठा न्तरम् । समिलितया। ६ विशेषाद्धेम० ख. ग.। १० पूर्ववद् द्रुतगन्यके ख ग.। ११ ख. ग. पुस्तके नास्ति । १२ तत्क्षणा- दल्प० ख. ग.। १३ ग. पुस्तके नास्ति । १४ रसपक्षायफर्तने ग.। १५ विधानेनेति ग.। १६ रसपक्षाकर्तनं ग. । ३ अव्यये रसहृदयं तन्त्रम् । ४१ पुनः द्वन्द्वे रसमारणं द्वन्द्वेन पूर्वोक्तेन रसहेमगन्धकेन कृत्वा यद्रसमा- रणं तन्न वाञ्छन्ति, पुन:जानामपि रक्ताभहेमरसकादीनामपि पार्क वह्नियोगेन सुपक्ककरण ने वाञ्छन्ति, ते पुरुषा. पूर्व पक्षच्छेदं ज्ञात्वा हृष्यन्ति हर्षयुक्ता भवन्ति, पक्षच्छेदं विनाऽन्यकार्यसिद्धिं शात्वेत्यर्थः तदनु च कार्यासिद्धौ तप्यन्ति परितापयुक्ता भवन्ति ॥ २६ ॥ इत्थमनकर्दोषैबहुश्रमर्गगनचारणं मत्वा । निर्दिश्यते प्रकारः कर्मणि शास्त्रेऽपि संवादी ॥ २७ ॥ गगनचारणं निर्दिश्यान्यसंस्कारं स्तुवन्नाह-इत्थमित्यादि । मया ग्रन्थका अस्मिन् शास्त्रे कर्मण्यपि संवादी प्रकारः अग्रिमप्रकरणे सत्वनिष्कासनरूपः निर्दिश्यते निर्देशः क्रियते । संवेद्यते संस्क्रियते संस्कारविद्भिरिति संवादी। किं कृत्वा ? इत्थमुक्तप्रकारेण, अनेकैर्दोषैः अनेककः,बहुश्रमैह्वायासैर्गगनचारण मत्वा अभ्रकचारणं ज्ञात्वा । गगनचारणानन्तरमन्योत्कृष्टप्रकारो निर्दिश्यत इति भावः ॥ २७ ॥ अग्राह्यो निलपः सूक्ष्मगतियापकोऽक्षयो जीवः । यावद्विशति न योनौ तावद्धन्धं कुतो भजते ।। २८ ।। इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयाख्ये तन्त्रे निर्मुखवासनामुखान्तर्भूतसमुखपत्राभ्रक- चारणात्मकस्तृतीयोऽववोधः । प्रकारान्तरं दर्शयन्नाह-अग्राह्य इत्यादि । एवंविधो हरजो याव- धोनी अभ्रके न विशति न मिलति तावद्धन्य बन्धनं कुतो भजते १ ग. पुस्तके नास्ति। २ कृत्वा ख.।३ तदन्वित्यारभ्य भवन्तीति पर्यन्तं ग. पुस्तके नास्ति । ४ मयेत्यारभ्य सत्वनिष्कासनरूप इति पर्यन्तं ग. पुस्तके नास्ति। ५ रसवन्धपक्षे योनिशब्देन गन्धानकयो- रुभयोरपि ग्रहणं कार्यम् । उक्तं हि-देव्यारजो भवेद गन्धो धातुः शुक्र तथाभ्रकम् ॥ गन्धाभ्रके च उभेऽपि रसबन्धनेऽभिमते ॥ यथोक्तं सूतकपक्षच्छेदी रसबन्धे गन्धकोऽभिहितः । तथा-मुक्त्वैमभ्रसत्व नान्यः पक्षापकर्तनसमर्थः । तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम् । इति । जयदेवः । ६ तावद्ध ख. ॥ - ६ ४२ रसहव्यं तन्त्रमा प्राप्नोति न कुतोऽपि, योनावप्रविशति सनि न चन्धनमाप्नोतीत्यर्थः । किंविशिष्टो हरजः ? अग्राहशः: हरः कथमपि न गृहातऽनवयवत्वात्, हरजस्तद्गुण ण्व.कारणानुरूप कार्यमिनिन्यायांत्। एन. किंविशिष्ट.? निलेपः: वैकारिफैदापगुणेन लिप्यत इति, दोपगुणनिवृत्तः । पुनः सूक्ष्मगतिः सूक्ष्मा गतिगमनं प्रवर्तनं वा यस्य सः, धमन- पावलोकनत्वात् । पुनर्व्यापकः, देहलोहाव्यापकत्वात् । एनरचयः न क्षयो यस्येत्यक्षयः, सर्वदा भावरूपत्वात् । पुनजॉयः यजीव प्रका- शत्वाभावः । स्वत्वं विहाय मलिनोपाधिकत्वाग्निम्पाघायुपाधिसंपत्ति रिति तात्पर्यार्थः । तदाश्रया, तहिपया, अनायवियति वेदान्तवन नात् ॥२८॥ इनि श्रीमन्कुरलवंशपयोधिसुधाकरभिश्रमोशान्मजयनुर्भुजविधि- तायां मुग्धावचोधिन्यां महदयटीकायां निर्मुगालनामुगान्त. भूनसमुखपत्राभ्रकचारणात्मकस्तृतीयोऽवयाधः ॥ ३ ॥ अथ चतुर्थोऽववोधः । यथाभ्रकसत्वचारगा। कृष्णो रक्तः पीता मातोऽपि स्थूलतारकारहितः। वजी स पीतकर्मणि पातितसत्वो घनो योज्यः ॥२॥ अधुनाऽभ्रसत्वचारणं, तत्र पीतकर्मणि गगनवर्णभेदानाह-कृष्ण इत्यादि । कृष्णो घनो. रक्तो घना, पीतो धनश्यति त्रिविधः; पातित. सत्वः पातितं सत्वं यस्येति समासः। एवंविधो चनी पीतकर्मणि सुवर्णकार्य योज्यः । वज्रिणो लक्षणं ध्मातोऽपि हठानी संयोजितोऽपि यः स्थूलतारकारहितो भवति, स्थूलाच तास्तारकाश्च ताभी रहितः; दलसमुच्चयरूपाः स्थूलतारका' | अनुप्तोऽपि खेतवों धनः श्वेतकर्मणि योज्या, योज्यः, ग्रन्थान्तरनाम्यादयमभिप्रायः ग्रन्थान्तरे,-"रक्तं पीतं कृष्णं शस्तं हेमक्रियासु गगनं हि । तार- १ "योनौ प्रविशति वन्धनमामोतीत्यर्थः" इति ख. ग.। २ कथ. मनिमपि ग.। ३न्यायः । ४ वैकारिकदोपैगुणै ग. । . ५धूमाव: लोकनत्वात् ख. ग.। ६ व्यापित्वात् ख. । ७ पुनरजीवः जीवे प्रकाशकत्वाभावः ख. ग.। ८ अनादिविद्येति ख. ग.।
१६ रसहृदयं तन्त्रम् । स्तृणसारविकारैः स्वेदितमभ्रं, स्वेदविधिरुक्तः, पुनर्घनस्य पिण्डं बवा; कैः सह ? माहिषदविदुग्धमूत्रशकदाज्यैः कृत्वा महिण्या इदं माहिषं, एवंभूतं यद्दषि, दुग्धं, मूत्र, शद्विष्ठा, आज्यं घृतं चैतैः पिण्डं बद्ध्वा । अथेति समुच्चये । पञ्चगव्यैः गवां दुग्धदधिमूत्रशकदाज्यैः, संयुक्तः कार्यः, पिण्ड व व्वेत्यर्थः पतपिण्डं लोहनिभ मुण्डप्रभसत्वं पातयति, पूर्वसंबन्धात् 'घनस्य' इत्यध्याहारः ॥ १० ॥ सूर्यातपपीतरसाः स्वल्पं मुश्चन्ति धातवः सत्वम् । स्वस्थानस्थाः सन्तो मुञ्चन्ति त एव भूयिष्ठम् ।। ११ ॥ सूर्यातपपीतरसा इति सूर्यातपे सवितृध पीताः शोषिता रसा द्रवा यैः, एवंविधा धातवोधमाता सन्तः स्वल्पं ईषन्मानं सत्वं मुश्च.. न्ति त्यजन्ति । पुनस्त एव सूर्यातपपीतरसा धातवः स्वस्थानस्थाः खकीयं यत्स्थानं द्रवेण स्थानपिण्डं रूपं (2) तस्मिन् तिष्ठन्तीति, एवं विधाः सन्तो बहलं भूयिष्ठं सत्वं मुञ्चन्ति द्रवन्तीत्यर्थः । सूर्यातप- पीतरसा इति केषां सूर्यावर्तकदलीवन्ध्यार्कोटक्यादीनां द्रावकौषधी- नाम् ॥ ११ ॥ बहुगम्भीरं ध्मातो वर्षति मेघः सुवर्णधाराभिः । देवमुखेतुल्यममलं पतितं सत्वं तथा विन्द्यात् ॥ १२ ॥ पतितसत्वलक्षणमाह-बहुगम्भीरमित्यादि । मेघो धनो बहुगम्भीर यथा स्यात्तथा मातः सन्, सुवर्णधाराभिः शोभनवर्णधाराभिः, वा सुवर्णवत् कनकवत् वर्णों यासां ताभिः, निर्मलत्वात् प्रकाशकत्वाञ्च, वर्षति धारापातं विदधाति । कथंभूतं ? देवमुखतुल्यं वह्निना तुल्यं समें; अमलं. निर्मलं, हरितपीतरतादिधूमरहितत्वात्ः पतितं सत्वं तथा विन्द्यात् घनस्येत्यर्थः । तथा ग्रन्थान्तरे,-"भस्त्रानलेन तीव्रण महाज्वाले हुताशने । अतिदीप्ते भवेद्बुद्धा अङ्गराः क्षयमागताः ॥ १ टीकाकारेणात्र विपरीतोऽर्थी गृहीत. इति भाति सूर्यातपेन पीताः रसाः येषां ते धातवः स्वल्पं सत्वं मुञ्चन्ति,त एव, त एव धातवः स्वस्थानस्थाः भूगर्भस्थाः न तु सूर्यातप आविष्कृताः सन्तो भूयिष्ठं सत्वं मुश्चन्तीत्याशयः प्रतिभाति । अत एवोक्तं स्सरन- समुश्चये - "राजहस्तादधस्ताद्यत्समानीतं धन “खनेः । भवेत्तदुक्त- फलदं, निःसत्वं निष्फलं परम्" इति । २ देवसुख ग.१३ विद्यात् ख. ४ बुद्धा नाम ज्वलिता जागृता इत्यर्थः ।
रसहृदयं तन्त्रम् । ४५ ससत्वबलवत्वाभ्यामुत्कृष्टत्वाद्वजा, पुनः प्रशसति-सितेत्यादि। लोके संसारे ये केचित् घना उदाहृताः कथितास्ते अल्पवलाः अल्पं वलं येषु ते तथोक्ताः । निःसत्वाः सत्ववर्जिताः, ध्मातेषु तेषु सत्वाभाव इत्यर्थः। ते के घनाः ? सितरक्तासितपीताः; खतरक्तकृष्णपीतवर्णाः, नान्ये वर्णाः सन्तीति भावः । सर्वेषां चतुर्वर्णानां मध्ये वजी वज्रसंक्ष- का श्रेष्ठः प्रधानः ॥७॥ सुतेऽपि रसायनिनां योज्यं परिकीर्तितं परं सत्वम् । त्रिविध गगनमभक्ष्यं काचं किं च पत्ररजः ।। ८॥ देयमभ्रमाह-सूतऽपीत्यादि । रसायनिनां रसायनं जराव्याधि- विध्वंसि भेपजं विद्यते येषां येषु वा ते रसायनिनः तेषां, परं प्रधान,, सत्वमभ्रसत्वं, परिकीर्तितं संकथितं; यथा ग्रन्थान्तरे-"सत्वसेवी वयास्तम्भं कृतशुद्धिर्लभेत्सुधीः" इति। अधसत्वं सूतेऽपि पारदेऽपि परममुत्कृष्ट पक्षच्छेदनसमर्थ बलदं च । पुनत्रिविधं गगनं अभक्ष्य अभोज्यं, रसायनिनां सूतेऽपि किं तत्त्रिविध ? एकं काचं वह्नौ धम- नात्काचाकारतां नीतं, द्वितीयं किमु यद्धमनात्किदृस्वरूपं प्राप्त, तृतीय पत्ररजः पत्राणां समाहितं यद्रजः; तदेवं त्रिविधमभक्ष्य, सदोषत्वात्॥८॥ मुश्चति सत्वं मातस्तृणसारविकारकैर्घनः खिन्नः। परिहत्य काचकिट्ट ग्राह्यं सारं प्रयत्नेन ।।६।। सत्वपातनविधानं दर्शयन्नाह-मुञ्चतीत्यादि । धनस्तणसारवि- कारकै. खिन्नः तृप्णमेव सारो येषां ते तृणसाराः, तेषां ये विकारका विशेषास्तरोपधैः सूर्यावर्तकादिभिः कृत्वा खिन्नो वह्नौ धमातो धनः सत्वं मुश्चति सत्वपातं विदधाति । पुनः काचं किट्टं च परिहत्य सत्वं पतितकाचकिट्टयुक्तं यदा भवति तदा प्रयत्नेन ग्राह्यमित्यथः ॥ ६ ॥ खेद्यो बद्ध्वा पिण्डं माहिपदधिदुग्धमूत्रशकदाज्यैः । अय पञ्चगव्ययुक्तः सत्वं पातयति लोहनिभम् ॥१०॥ अधुना विशेषप्रकारान्तरमाह- खेद्य इत्यादि । खेद्यो धनः पूर्वोक्तै- १ रसायनानामिति पाठान्तरं ख. ग. पुस्तके उपलभ्यते । २"विकारकैः" इत्यनन्तर "सूर्यावर्तकादिभिः" इत्यधिकः पाठः ख.ग. पस्तके दृश्यते।
- रसहृदयं तन्त्रम्। रसबन्धनेऽधिकारित्वं दर्शयन्नाह-पक्षच्छेदमित्यादि । यो वादी अधसत्वग्रसनेन विना पक्षच्छेदमकृत्वा पक्षापकर्तनमविधाय, रस- बन्वं कर्तुं पारदबन्धन विधातुं, ईहते चेष्टते, स वादी न, किन्तु जड एव अपण्डित इति भावः । के कृत्वा रसवन्धनं कर्तुमीहते? बीजैः; रक्ताचहेमरसकैरित्यादिभिः । एवाव्ययमन्यद्व्यव्यवच्छेदी। पक्षच्छे- दनं कृत्वा बन्धन कार्यमयं विधिः, अन्यथा त्वविधिः । अविधेदृष्टा- न्तमाह-यथा अजितेन्द्रियो लम्पटः पुमान् मोक्षं वाञ्छति । अजिते.. न्द्रियजडयोः साम्यमिति ॥४॥ नाधः पतति न चोर्ध्व तिष्ठति यत्रे भवेदनुगारी। अभ्रकजीर्णः सूतः पक्षच्छिन्नः स विज्ञेयः॥५॥ पक्षच्छिन्नपारदस्य लक्षणमाह-लेत्यादि । एवंविधः पारदः सूतोयः स पक्षच्छिन्नः; पक्षौ छिन्नौछेदितौयस्येति समासः । स कः? यो नाधः पतति अधःपातने कृते ऊर्ध्वतो अधोभागेन पततिःपुनरधोभागत ऊर्ध्व- पातने कृते ऊध न याति; अनुदारी अचश्चलो भवेत् , यन्त्रे स्वस्थ एव तिष्ठतीत्यर्थः । पुनः किंविशिष्टः ? अभ्रजीर्णः, अभ्रकं जीर्णं निःशेषता- मातं यस्मिन् रस इति समासः । ग्रासमात्रेण पक्षच्छेदो न जायते, यावन्न चारितमभकं जरतीति ध्वन्यर्थः । स पक्षच्छिन्नः सूत इति ॥ श्वेतादिचतुर्वर्णाः कथितास्ते स्थूलतारकारहिताः। वज्री सत्वं मुश्चत्यपरे ध्माताश्च काचतां यान्ति ॥ ६ ॥ वैज्रा विहाय पिनाकनागभेकाः सत्वमोचनेऽसमर्था इति दर्श- यन्नाह-खतेत्यादि। ये ध्माताः स्थूलताराकारहिताः पत्रचयेन वर्जिता रक्तपीतकृष्णाः कथिताः पूर्व वर्णितास्ते खेतादिचतुर्वर्णा भवन्ति । त्रयाणां रक्तपीतकृष्णवर्णाभ्राणां चेत् क्षेतवर्ण प्रादौ युज्यते तदा चतुर्वर्णा भवन्तीत्यर्थः। तेषां चतुर्वर्णानां मध्ये यो वज्री वज्रसंज्ञको धनः स सत्वं मुश्चति ध्मातः सन् सत्वं त्यजति नान्ये । अपरे पिनाकनाग- भेकायाः माताः सन्तः काचतां यान्ति काचाकारत्वमाशुवन्ति,नच सत्वनिर्गम इति ॥६॥ सितरनासितपीता ये केचिदुदाहृता धना लोके । अल्पबला निःसत्वा वज्री श्रेष्ठस्तु सर्वेषाम् ।। ७॥ १ पक्षश्छिन्न ख. । २पूर्वोक्तं इत्याधिकः पाटः ख. ग.।
रसहृदयं तन्त्रम् । क्रियासु शुक्लं रसायने सर्वमेव तु श्रेष्ठम्" इति । अधेऽपि वृत्तिक- द्विशेपमाह,-"कदाचिगिरिजा देवी हरं दृष्ट्वा मनोहरम् । अमोचयत्तदा वीर्य तजातं खेतमभ्रकम् ॥ खेतं रक्त तथा पीतं कृष्णं तद्भूमिसंग- मात् । पिनाकं द१रं नागं वज्राभं च चतुर्विधम् ॥ मातं वह्नौ दल- चयं पिनाकं विसृजत्यलम् । फूत्कारं भुजगः कुर्याद्द१र भेकशब्दवत्। चतुर्थ खेचरं वजं नैवानौ विकृतिं भजेत् । तस्माद्वजाभ्रकं श्रेप्ठं व्याधिवार्धक्यमृत्युजित्" इति ॥ १ ॥ निश्चन्द्रिकं हि गगनं वासितमपि वासनाभिरिह शतधा । तदपि न चरति रसेन्द्रः सत्वं कथमत्र यत्नतः प्रभवेत् ॥२॥ चारणायाम-पत्रे वैषम्य, सत्वे च सुगमत्वं सूचयन्नाह- निश्चन्द्रिकमित्यादि । इहास्मिन् चारणासंस्कारे, निश्चन्द्रिक गगनं तारकारहितमभ्रं, वासनाभिः पूर्वोक्ताभिर्वासनौषधिभिः, शतधा शतप्रकार, वासितं मथितमपि, रसेन्द्रः पारदः,तदपि बहुश्रमः संस्कृतमप्यनं, न चरति न मासीकरोति । अत्र चारणे, सत्वं यत्नतः प्रयत्नात् कथं प्रभवेत् कथं (अपि) समर्थीभवेत्, सत्वं यत्नतः समर्थीभवेदित्यर्थः ॥ २॥ मुक्त्वैकमनसत्वं नान्यः पापकर्तनसमर्थः। तन निरुद्धप्रसरो नियम्यते बध्यते च सुखम् ।। ३ ।। सुगमत्वाइगुणाधिकत्वाञ्च सत्वं प्रशंसति-मुक्त्वेत्यादि। अभ्र. सत्वमेकं मुक्त्वा त्यक्त्वा, अन्योऽपरो रसपक्षापकर्तनसमर्थो न पारदपक्षच्छत्ता न; तेन सत्वेन सुखं यथा स्यात्तथा रसः पारदो नियम्यते पारदस्य नियमनं भवेदित्यर्थः, वध्यते च वन्धन प्राप्यते; रसो बद्धो भवतीत्यर्थः । किंभूतः सन् नियमन वन्धनं च प्राप्नोति ? निरुद्वप्रसरः सन् निरुद्ध पारुन्धितः प्रसर' प्रसरणं प्रकृऐन गमन यस्य तादृशः सन् ॥३॥ पक्षच्छेदमकृत्वा रसवन्धं कर्तुमीहते यस्तु । बीजैरेव हि स जडो वाञ्छत्यजितेन्द्रियों मोक्षम् ॥ ४ ॥ १०मभ्रकसत्व ग. । २ नान्यो रसपक्षकर्तनसमर्थ ख. ग. । ३. ०दगुणाधिक्यत्वाच्च ग. । ४ अजितेन्द्रियो इत्यनन्तरं यथा- इत्य- धिकः पाठःख.ग. पुस्तके उपलभ्यते। सचच्छन्दोभङ्गदोपमावहतीति नादरणीयः ।
रसहदयं तन्त्रम् । पुनरन्या न चेन्मूर्ध्नि द्विस्त्रिाराणि बुद्धिमान् । यदा दीप्तो भवेद्वह्निः शुद्धज्वालो महाबलः ॥ पतितं तु तदा विन्द्यात् तत्सत्वं नात्र संशयः । पतितं तु पृथक्कार्य किट्टाङ्गारविवर्जितम् ॥ निर्गुणं लक्षयित्वा तु पुन- र्धाम्यो यथावता । द्विखिरेवमशंषं तु धमातः सत्वं विमुञ्चति". इति ॥ १२॥ यदि लोहनिभं पतितं जातं गगनस्य तद्रसश्चरति । मिलति च सर्वद्वन्द्वे ह्यौषधिभिश्चरति विनापि मुखैः ॥१३॥ लोहनिभं सत्वं सर्वोत्तममिति दर्शयन्नाह-यदीत्यादि । यदि चेदगनस्य जात अभ्रकोद्भवं सत्वं मुण्डनिभं पतितं तदा तत्सत्वं रसः पारदश्चरति असति । कैर्विना? मुखैर्विनापि रसस्य । लोहनिभं अभ्र- सत्वं सूचितम् । अतिप्रीतित्वात्सर्वोत्तमत्वम् । सर्वद्वन्द्वे समस्तयुगल- मिलापे मिलति च एतत्सत्वरसयोश्चेन्मेलनं क्रियते तर्हि एकशरी- रतां याति, नान्यथा रसकादिभिः कृत्वा चरति, तदौषधीभिः कृत्वा चरति तदोषधीभिः ता एव पूर्वोक्ता वासनौषधयः तामिः । किंभूतः समुखत्वेनेति ॥ १३ ॥ माक्षिकसहितं गगनं मातं सत्वं मुखप्रदं भवति । तदनु च नागैर्वङ्गैः सहितं चे मुखप्रदं सत्वम् ।। १४ ।। माक्षिकसत्वान्तरसंयोगात् सत्वस्य गुणाधिक्यं दर्शयन्नाह- माक्षिकेत्यादि । गगने भवं गगनं अण्प्रत्ययान्तं, 'णितो वा' (सा. अ. ६, पा. १, सू. २४) इति सूत्रेण न वृद्धिः, गगनं अभ्रसत्वम् । माक्षिके भवं माक्षिकं माक्षिकसत्वं, तेन सहित पूर्वसत्वं चत् ध्मात तदुभयसत्वं मुखप्रदं भवति, 'रसस्य' इति शेषः । मुखं प्रकृऐन ददातीति समासः । तदनु च तत्पश्चाच नागैर्वङ्गैः सहित पूर्व यद्गनं अभ्रसत्वं मुखप्रदमित्यर्थः । वा 'सुख- प्रदं' इति पाठः; अस्मिन् योगे वहुक्लेशं विहाय सुखेन चारणं भवतीति विकल्पार्थः ॥ १४॥ माक्षिकसत्वे योगाद्धनसत्वं चरति मूतको निखिलम् । नियतं गर्भद्रावी स रज्यते बध्यते चैवम् ॥ १५ ॥ १ निर्गुणं नाम किट्टकाचादिरहितं विशुद्धमित्यर्थः । २ लोहामं ख.ग. । ३निपतितं ग.। ४ सर्व ग.१५ ख. पुस्तके नास्ति। ६ रञ्ज्यते इति पाठान्तरम् ।
रसहदयं तन्त्रम् । माक्षिकसत्वं मुख्यत्वेनाह-माक्षिकेत्यादि। सूतकः पारदो, घनसत्वं अभ्रसत्वं, निखिलं समस्तं चरति । कस्मात् ? माक्षिकसत्वे योगात्, माक्षिकं स्वर्णमाक्षिकं तत्सत्वे यो यागस्तस्मात् । नियतं निश्चितम् । माक्षिकसत्वयोगाद्धनसत्वं चरति, रसो गर्भद्रावी भवति, गर्भे द्राव यति सत्वं द्रवरूपं विधत्ते यः स तथोक्तः। सूतस्योदरे माक्षिकाभ्रसत्वं द्रुतिरूपं तिष्ठतीत्यर्थः । एवममुना विधानेन सह सूतकः पारदो रज्यते रागवान् भवति, बध्यते बद्धश्च भवतीत्यर्थः ॥ १५ ॥ सत्वं धनस्य कान्तं तालकयुक्तं सुरुन्धितं ध्मातम् । चारैत्रिमिरिह सत्वं भवति रसेन्द्रवन्धकारि परम् ।।१६।। माक्षिकयोगानन्तरमपरोऽभिधीयते सत्वमित्यादि । धनस्याभ्रस्य सत्वे, तथा कान्त लोहविशेष, तालकयुक्तं तालकेन हरितालेन युक्तं सुरुन्धितं मातं सत् त्रयमपि सत्वरूपं भवति, यदैकवारधमनेन सत्वं न मिलति तदा पुनर्वित्रिवेलाभिमनं कार्यम् । समभागताल- कयोजनं घनसत्वमाक्षिकसत्वयोगद्रावणाद्धमितादत्यर्थ तत्लत्वं रसे पारदे बन्धकारि भवति परममुत्कृष्टं बन्धनप्रदं भवति । तत्सत्वस्य चारणतो रसो बन्धनमवाप्नोतीति भावः । कान्तलक्षणं,-"पात्रे यस्मि- न् प्रविशति जले तैलबिन्दुर्न सत् हिगुर्गन्धं विस्जति निजं तिक्त- तां निम्बकल्कः ॥ पाके दुग्धं भवति शिखराकारतां नैव भूमौ कान्त लोहं विदुरिति च तल्लक्षणोक्तं न चान्यत्-" इति ॥ १६ ॥ लोहं चाभ्रकसत्वं तालकममभागसारितं चरति । अभिषवयोगाच्चाङ्गुलिमृदितं गर्भे च तद् द्रवति ॥ १७ ॥ कान्ताभ्रसत्वालयोगकरणमाह-लोहमित्यादि । चेति समुच्चये। लोहं पूर्वोक्तलक्षणं मुण्डादिकं अभ्रसत्वं च, तालकसमभागसारितं तालकस्य समभागेन पूर्वविद्यानन मुखादिना यत्सारित एकशरीरतां नीतं, 'सृ' गतावित्यस्य धातो रूपं सारित, प्रमिलितमित्यर्यः; एवंविध कान्ताभ्रसत्वाल रसश्चरति । च पुनः अङ्गुलिमृदितं अगुलिना मर्दित तत् कान्ताभ्रसत्वालं गर्भ रसोदरे द्रवति तत्वरूपत्वेन मिलति ! कस्मात् १ अभिषवयोगात्; अभिषवः समदन, तद्योगात् । लोहस्य प्रयोदशभेदानां मध्यात् केनापि भेदेन सहयोगः कार्य इति लोहशब्देन ध्वनितम् ॥ १७ ॥ १ सुरोधित ख. । २ रसे बन्धकारि इति पाठान्तरम् ।
रसहृदयं तन्त्रम् । ४६ वङ्गमथो धनसत्वं तालकषड्भागसारितं चरति । अभिषवयोगाचरति व्रजति रसो नात्र सन्देहः ॥१८॥ लोहयोगमुक्त्वा वङ्गयोगमाह-वङ्गमित्यादि । अथ लोहकथनान- न्तरं वङ्ग खुरसंज्ञकं अभ्रकं च एतदद्वयं, तालकषड्भागसारितं तालकस्य षडंशेन एकशरीरतां नीतं तत्स्वरूपं रसश्चरति । कस्मात् ? अभिषवयोगात्, अभिषवः संमर्दनं तद्योगात्, 'पु' अभिषवे, इत्यस्य धातो रूपं अभिषवः । पुनः रसश्चरति मिलति । चारितं यत् तद्रवति, तद्रुतं रसे व्रजति पृथक्त्वात्संमिलति नात्रसन्देहः निःसं- दिग्धमिव । वङ्गस्य लघुद्रावित्वात् षडंशयोगस्तालकस्य युक्तः; लोह- जातेः काठिन्यात् समभागत्वमुदितम् ॥ १८ ॥ बहलं सुवर्णवर्ण निचुलपुटैः पतति पञ्चभिः सत्वम् । चटकीकृतमृतगगनं निरञ्जन किट्टरहितं च ॥१६॥ अभ्रसत्वविधानमाह-बहलमित्यादि । वटकीकृतं च तन्मृतं च गगनं तथोक्तं; न वटको वटकः क्रियत इति वटकीकृतं, अत्र अभूत- तद्भावे च्विः प्रत्ययः । पञ्चभिनिचुलपुटैः पञ्चसंख्यामिर्वेतसवृक्षद्रव- भावनाभिः भावितं यन्मृतगगनं मृताभं वटकीकृतं, तत्सत्वं पतति, तद्भावकोषधयोगं विधाय वह्निना विधमनादिति शेषः । कियन्मानं सत्वं पतति? बहलं, बहु अन्यविधेराधिकम् । कीदृशं ? स्वर्णवर्ण पीतश्वेतं प्रकाशाख्यं, पुनर्निरञ्जनं निर्मलं, किट्टरहितं च । अस्मिन् सत्वे काचकिट्टाभावः । सर्वोत्कृष्टविधिरयं, पूर्वमुदितात् बहलसत्व- पातादित्यर्थः ॥ १६ ॥ तच्चूर्णीकृत्य ततः क्षाराम्लै वितं धनं बहुशः। सृष्टित्रयनीरकणातुम्बुरुरसमर्दितं चरति ॥ २० ॥ केवलसत्वचारणविधानमाह-तदित्यादि । ततस्तदभ्रसत्वपात- नविधेरनन्तरं, तदेवाधसत्व चूर्णीकृत्य कल्कं विधाय, क्षाराम्लैर्भा- वितं कुर्यात्; क्षाराः स्वर्जिकादयः, अम्ला जम्बीरादयः, तैर्बहुशो बहुवारं धर्मपुटितं कुर्यादित्यर्थः । पुनः सृष्टित्रयनीरकणानुम्बुरुरस- १ निरञ्जन ख.। ७ रसहदयं तन्नम् । मर्दितं सृष्टिः पूर्वोक्ता तत्त्रयं मूत्रशुक्रशोणितमिति, नीरकणा जल- पिप्पली, तुम्वुरु प्रतीतं, एतेषां रसेन मर्दितं कुर्यात् । अझसत्वमेवं कृतं सत् चरति असति, 'रसः' इत्यध्याहारः ॥ २० ॥ घनसत्वशुल्बमाक्षिकसमभागनियोजितं ती मिलितम् । तच्छुल्यानं कथितं चरति रसो जीर्यति क्षिप्रम् ।।२१।। अथ शल्वाभ्रमाह-धनेत्यादि । धनसत्वशुल्बमाक्षिकसमभाग- नियोजितं धनसत्वमभ्रसत्वं, शुल्वं तानं, मानिक स्वर्णमाक्षिकं, समभागेन तुल्यभागेन नियोजितं प्रयुक्तं, तन्मिलितं सत् शुल्वानं कथितम् । अत्र शुल्वं कीशं प्रयोज्यं तदाह,--"द्वावको म्लेच्छने- पालौ रसे नेपाल उत्तमः। धनधातसहः स्निग्धो रक्तपत्रोऽमलो मृदुः। म्लेच्छस्तु क्षालितः कृष्णो रूक्षस्निग्धो घनासहः । मिश्रितो नाग- लोहाभ्यां न श्रेष्ठो रसकर्मणि"-इति; अतो नेपालकं ग्राह्यमित्यर्थः । तच्छुल्यानं रसः क्षिप्रं चरति, पुनः क्षिप्रं शीघ्रं तच्छुल्वं जीयति जारणमाप्नोति । अत्र माक्षिकयोगः शुल्वाभ्रसत्वमेलनार्थ रसप्रीत्येति भावः ॥ २१ ॥ इति ताप्यशुल्बसहितं धनसत्वं लोहखल्वके मृदितम् । चरति रसेन्द्रः काञ्जिकवेतसजम्बीरबीजपूराम्लैः ॥ २२॥ शुल्वाभ्रचारणविधानमाह-इतीत्यादि । इति पूर्वोक्तं; ताप्यशुल्ब- सहितं, ताप्यं वर्णमाक्षिक, शुल्वं तानं नेपालसंज्ञकं, ताभ्यां सहितं मिश्रितं, धनसत्वं तप्तलोहखल्वके मुदितं कार्य मर्दनीय; कैः कृत्वा ? काधिकवेतसजम्बीरवीजपूराम्लैः काक्षिकमुक्तविधान सौवीरं, वेतसं चुकं, जम्बीरं प्रसिद्धं, वीजपूरो मातुलुङ्गः, एतेषामग्लैः द्रवरूपैः । तत. शुल्वाभ्रे रसेन्द्रः पारदश्चरति ग्रसति । लोहखल्वस्य कथनात् तप्तखल्वक मर्दन कुर्यादिति तात्पर्यार्थः ॥२२॥ इति तीक्ष्णशुल्बनागं माक्षिकयुक्तं च तत्कृतं खोटम् । तद्भस च पुटविधिना निव्यूढं सत्वरञ्जकं भवति ॥२३॥ प्रकारान्तरमाह-इतीत्यादि । इति पूर्वोक्तलक्षणं, तीक्ष्णशुल्बनागं तीक्ष्णं तानं नागं च एतत्त्रयं, माक्षिकयुक्तं वर्णमाक्षिकयुतं, समं १ समभागं ख. ग.।२ ख. ग.पुस्तके नास्ति । ३ सोष्ण ख. ग.। ४ वीजपूररसैः ख. ग. 1 ५ 'समं च कृतखोटम्' ख.ग.। ६ तत् ख.ग. ।
रसहृदयं तन्त्रम् । तुल्यभागं कुर्यात् । तत्कृतं खोटं तैः सर्वैः पिष्टीस्तम्भन खोटभस्म कार्यम् । पुटविधिना वह्निपुटविधानेन तत्कृतं खोटं भस्म कार्यः पुनः तद्भस्म, सत्वे नियूंढं निहितं सत्, सत्वरञ्जकं भवति, खसत्वे अभ्रसत्वे रागदायि भवति, रञ्जितं तत्सत्वं रसरञ्जकं भवेदिति भावः ॥ २३॥ चार्य यत्नेन रसे धनसत्वं तद्विधं धनं तस्य । संयोज्य सर्वची निर्वाह्य द्वन्द्वसङ्करतः ॥२४॥ रञ्जितघनसत्वस्य चारणमाह-चार्यमित्यादि । तद्विधं पूर्वरञ्जितं, घनसत्वमभ्रसत्वं, च घनं केवलघनोद्भवं सत्वं अरञ्जित, रसे पारदे चार्य प्रासग्रसनमानेनैतदभ्रसत्वं रसे संयोज्यम् । वा सत्वे सर्ववीज सर्व रागदायि द्रव्यं संयोज्य निर्वाह्य निर्वाहितं कुर्यात् । कुतः ? द्वन्द्वसंकरतः द्वन्द्वानां संकरा मेलापः 'सङ्करोऽवकर' इत्यमरः । निर्वाह्य इति 'वह' प्रापणे इत्यस्य रूपं पूर्ववत् । निरव्ययं निश्चयार्थ "निनिश्चयनिषेधयोः"-इत्यमरः ॥ २४ ॥ अभ्रकचारणमादौ गर्भद्रतिचारणं च हेनोऽन्ते । यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥ २५ ॥ अथ रसचारणे शेयमाह-अभ्रकेत्यादि । यो वादी रसकर्ता, आदौ प्रथम, अभ्रचारणं न जानाति यथा रसोऽभ्रक चरति असति, पुनः तत्पश्चात् गर्भद्रुतिचारणं यद्सगर्भ-गृतं द्रवरूपं तिष्ठत्यभ्रादिकं तस्य चारणं प्रसनं, पुनरन्ते हेनः स्वर्णस्य चारणं प्रसनं न जानाति; स वृथैव मिथ्यैव अर्थक्षयं धननाशं कुरुते, कार्यसिद्धेरभावात् । सर्वज्ञ एव रसक्रियायां प्रवर्ततेति भावः ॥ २५ ॥ गगनग्रासरहस्यं वक्ष्याम्येकं धनार्कसंयोगात् । केवलमभ्रकसत्वं ग्रसते यत्नान सर्वाङ्गम् ।। २६ ॥ इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रस हृदयतन्त्रे सत्वाभ्रकचारणात्मकश्चतुर्थोऽवबोधः । ग्रासरहस्यमाह-गगनेत्यादि । अहं श्रीमगोविन्दभगवत्पूज्यपादा- चार्यः, एकमद्वितीय, गगनग्रासरहस्य अभ्रककवलने प्रासकौतुकं, १ निर्वाह्य ख. ग.। २ रसचारणायां ख. ग.।
रसहृदयं तन्त्रम् । वक्ष्यामि कथयामि । कस्मात् ? धनार्कसयोगात्; धनं अभ्रकसत्वं, अर्कस्तानं, एतयोः संयोगः, तस्मात् उभयसत्वकृतखोटं चार्यम् । अथशब्दः पक्षान्तरसूचकः । अभ्रसत्वस्य यस्य धातो रूपं, तेन सह यस्य धातोर्वा संयोगो भवति द्वन्द्वभावात्सङ्करतः तत्संयुक्तमभिधानं भवति, यथा-शुल्बाभ्रं, नागानं, वङ्गा,, माक्षिकाभ्रे, हेमाभ्रमिति एवं सर्वत्र संयोगानमनिष्पत्तिः । “ग्रस्तस्य द्रावणं गर्भ गर्भद्रुतिरुदा हृता । बहिरेव द्रवीकृत्य धनसत्वादिकं खलु । जारणाय रसेन्द्रस्य सा वाह्यद्रुतिरुच्यते-" इति ॥२६॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजाविर- चितायां मुग्धावबोधिन्यां रसहृदयटीकायां सत्वाभ्रक- चारणात्मकश्चतुर्थोऽवबाधः ॥ ४॥ . अथ पञ्चमोऽवबोधः। अथ गर्भद्रुतिबाह्यद्रुतिजारणम् । यदि धनसत्वं गर्भे न पतति नो वा द्रवन्ति बीजानि । न च बाह्यद्रतियोगस्तत्कथमिह बध्यते सूतः ॥१॥ वाचोमरीचिभिस्तप्त तोषय जनकैरवम् । कुमुदानि च कासारोद्वतीनि चिरभासया ॥१॥ अथ गर्भद्रुतिवाह्यद्रुतिप्रशंसनमाह-यदीत्यादि । यदि चेद्धनसत्व- मभ्रसत्वं गर्भे पारदस्यान्तन पतति द्रवत्वं नाप्नोति, वा वीजानि शुल्वाभ्रादीनि पारदस्योदरे नो द्रवन्ति न रसरूपा भवन्ति, च पुन: बाह्यद्रुतिर्न युज्यते, चेदेवं न स्यात्तर्हि इह अस्यां क्रियायां प्राप्तायां सत्यां सूतो रसः कथं वध्यते ? अन्यथा न कोऽप्युपायः ॥१॥ गर्भद्रुत्या रहितो ग्रासचीर्णोऽपि नैकतां याति । एकीभावेन विना न जीर्यते तेन,सा कार्या ॥२॥ गर्भद्रुतेराधिक्यं दर्शयन्नाह-गर्भेत्यादि । चीर्णोपि ग्रासः चारणतां प्राप्तोऽपि कवलः, यदि गर्भद्रुत्या रहितो भवेत्ररसस्योदरेरसरूपकरण- १ ख पुस्तके नास्ति । २ 'श्चार्यों' इति पाठान्तरम् ।
रसहृदयं तन्त्रम् । वर्जिती भवेत्तदा एकतां न याति, रसरूपो न भवति । पुनरेकीभावेन विना ग्रासो न जीर्यते जारणत्वं नाप्नोति । तेन हेतुना गर्भद्रुतिपूर्विका जारणा कार्या, रसवन्ये चारण हेतुरिति भावः ॥२॥ चीजानां संस्कारः कर्तव्यः कोऽपि तादृशः प्रथमम् । येन द्रवन्ति गर्ने रसराजस्याम्लवर्गेण ॥ ३ ॥ जारणायां प्रथम कर्तव्यमाह-बीजानामित्यादि । बीजानां शुल्वा- भ्रादीनां, कोऽप्यनिर्वचनीयः संस्कारो गर्भ द्रुतिकारकः प्रथम कर्तव्यः; संस्क्रियत इति संस्कारः । किविशिष्टः ? तादृशः; तैः बीजैः सदृशः, यथा बीजानि शक्तिमन्ति सन्ति तथा संस्कारोपि शक्तिमान् कर्तव्य इत्यर्थः । संस्कारः केन कर्तव्यः ? अम्लवर्गण जम्बीरादिना । येन संस्कारेण रसराजस्य गर्ने रसोदरे वीजानि धातूपधातुजातानिशुल्बा- यादीनि द्रवन्तीत्यर्थः ॥३॥ सममाक्षिककृतवापं सममाक्षिकसत्वसंयुतं हेम | गर्भे द्रवति च जरैति च जरितं बध्नाति नान्यथा सूर्तम् ॥४॥ हेमवीजप्रशंसनमाह-समेत्यादि । सममाक्षिककृतवापं समभागं तुल्यांश हेना यन्माक्षिकं तस्य कृत्वा वापो वारंवारमाक्षेपोऽग्नियोगाद्य- सिन् तथोक्तं; पुनस्तद्धेम सममाक्षिकसत्वसंयुतं हेना समं तुल्यं यन्माक्षिकसत्वं तेन संयुतं खोटं कुर्यात् । तत्खोटरूपं हेम गर्ने पारदा- न्तर्द्रवति । पुनस्तद्रावितं हेम जरति जीर्णतामानोति । तद्धेम जरित सत् सूतं रसेश्वरं वध्राति । अन्यथा अन्यप्रकारेण सूतो बन्धनं नामोति। माक्षिकस्य वापो हेनो वर्णोत्कर्पप्रद इति भावः ॥ ४ ॥ माक्षिकसत्वं हेम्ना पादादिकजारितं द्रुतं सूते । तारारिष्टं कुरुते वरकनकं पत्रलेपेन ॥ ५॥ माक्षिकसत्वचारणादसे गुणोत्कर्षमाह-माक्षिकसत्वमित्यादि । माक्षिकसत्वं वह्नयोषधयोगद्रुतं यद्धेममाक्षिकसारं, हेम्ना कनकेन सह, सूते पारदे, पूर्व यद्भुतं पुनः पादादिकजारितं पादादिकविभागेन सत्वेन निःशेषतामाप्त सत् अयं सूतः तारारिएं तारं रूप्यादि, अरिष्टं शुभं, श्वायुर्वेदप्रकाशे तु "बीजानां संस्कारः कर्त्तव्यस्ताज्यसत्त्वसंयोगात्" इति पाठः समुपलभ्यते । २ वापः ग.।३ चरति ख. ग. । ४ सूतः ग.। ५ पादादिजा० ग्व. ग.!
रसहदयं तन्त्रम् । वरकनकं कुरुते पूर्णवर्णमित्यर्थः । केन विधानेन ? पत्रलेपनेन पत्रं कण्टकभेदि, तत्र योऽसौ लेपः, वह्रियोगादिति शेयः, तेन। हेममाक्षिक- सत्वजारितस्य रूप्यपत्रलेपेन कनकं स्यादिति व्यक्तार्थः ॥ ५॥ समरसतां यदि यातो वस्त्रादलितोऽधिकश्च तुलनायाम् । ग्रासो द्रुतः स गर्भे द्रुत्वाऽसौ जीर्यते क्षिप्रम् ॥ ६ ॥ गर्भद्रुतेर्लक्षणमाह-समेत्यादि । यदि प्रासः समरसतां यातो भवेद्रसतुल्यरूपां प्राप्तो भवेत्, पुनर्वस्त्राद्गलितो भवेत्, चतुर्गुणखेत- वस्त्रानिःसृतो भवेत्, पुनस्तुलनायां तुलाकर्मणि यदाधिकोऽपि स्यात्तदा गर्भ पारदास्यान्तर्दुतो ग्रासो ज्ञातव्यः, गर्भद्रुतो रसो वेदितव्य इति व्यक्तार्थः । पुनरसौ रसो द्रुत्वा द्रवरूपं प्राप्य शीघ्रं जीर्यति धातूनपि, विधानेनेति शेषः ॥ ६ ॥ न बिडै पि क्षारैन हैद्रवति हेम तारं वा । माक्षिकसत्वेन विना त्रिदिनं निहितेन रक्तेन ॥७॥ माक्षिकसत्वोत्कर्पमाह-नेत्यादि । माक्षिकसत्वेन विना स्वर्ण- माक्षिकसारमन्तरेण, हेम कनकं, वा तारं रूप्यं, न द्रवति । कैः कृत्वा ? विडैः कृत्वा; शङ्खचूर्णार्कक्षारादिकृतपिण्डैः कृत्वा, ग्रन्थान्तरे च,-"लवणक्षारोपरसैरेभिरम्लैर्बिडो मतः । समे गर्भ तु संस्थाप्यो ह्यनेनैव द्रवीभवेत्" इति । न केवलं विडैः किन्तु क्षारैरपि न क्षारैः स्वर्जिकायवक्षारटकणाद्यैः । न केवलं क्षारैः किन्तु स्नेहरॅपि न स्नेहानि यथा,-"कगुकं विनादोषों करञ्जश्रीफलोद्भवम् । कटु- वातारिसिद्धार्थसोमराजीविभीतम् । अतसीजं महाकालानिम्वज १ "खणे सममाक्षिकेन वापो देयः पुनः समानमाक्षिकसत्वेन संयोगात् खोटो भवति । तेन सूते (तो)जारयेत् । पादादि जारिते सति रूप्यपत्रलेपेन वरकनक भवति" इति ख. ग पुस्तके ऽधिक: पाठः समुपलभ्यते । २ द्रुत्याख.ग.। ३ गपुस्तके "सः तुल्यरूपतां प्राप्तः तुलायां अधिकः तदा गर्ने पारदस्यान्तः द्रवरूपं शेयं पुनः शीर्घ जीर्यति" इति पाठः । स्नेहैनंग.।५कगुणीतुम्बिनीघोराग-। कगुणी तुम्बिनीदोषा ग.। कङ्गुणीतुम्बिनीघोषा ख. । ६ वार्ताक इति रसरत्नसमुच्चये। विभीतज' ग.८ महाकालं ग.।
-- रसहृदयं तन्त्रम् । तिलज तथा । अपामार्गदेवदालीदन्तीतुम्बराविग्रहा (१) अकोलोन्मत्त- भल्लातफलेभ्यस्तैलसंभवः" इति । तैलैरपि न द्रवति । पुनाक्षिक- सत्वेन गर्ने द्रुतिर्जायते। किविशेषेण माक्षिकसत्वेन ? रक्तेन रक्तवर्गेण त्रिदिन दिनत्रयं निहितेन रक्तवर्गान्तःस्थापितेन । रक्तवाँ यथा, "दाडिमं किंशुकं चैव वन्धूकं च कुसुम्भकम्। समाञ्जिष्ठो हरिद्रायो लाक्षारससमन्वितः ॥ रक्तचन्दनसंयुक्तो रक्तवर्गः प्रकीर्तितः" इति॥७ लवणं देवीखरसम्लतमहिपत्रं विचूर्णितं शिलया । एतत्पुटनत्रितयात्सुमृतं संस्थापयेदयःपात्रे ॥ ८ ॥ विहिताsर्धाङ्गुलनिम्ना स्फुटविकटकटोरिका मुखाधारा । तस्योपर्यादेया कटोरिका चाऽङ्गुलोत्सेधा ।। ६ ।। विहितच्छिद्रत्रितया शस्ता चतुरङ्गुलो छिद्रेषु । लोहेशलाका योज्यास्तत्रापि च हेमपत्राणि ॥१०॥ संस्थाप्य विधूप्यन्ते यत्राधस्तात् प्रदीपयेदग्निम् । धूमोपलेपमात्राद्भवन्ति कृष्णानि हेमपत्राणि ।। ११ ।। तान्यग्नितापितानि च पश्चाद्यत्रे मृतानि धूमैन । पाचितहेमविधानाजति रसेन्द्रो द्रवति गर्ने च ॥१२॥ १ अपामार्गो ग. । २ तुम्बुरुविग्रहात् ग. । ३ फलानां ग.। ४ रक्तवर्गा प्रकीर्तिताः ग.। ५ खलु शलाका ख.ग.। ६ धूपेन ख ग. ७ जरयति रसेन्द्रो द्रवति च गर्भे च ग. द्रवति इत्यत्र द्रवन्ति इति केचित् । धूपयन्त्रमन्यत्र यथा-विधायाशाङ्गुलं पात्रं लौहमष्टाङ्गुलो- च्छयम् । कण्ठाधो व्यङ्गुले देशे जलाधारं हि तत्र च ॥ तिर्यक् लोहशलाकाश्च तन्वीस्तियग्विनिक्षिपेत् । तनूनि स्वर्णपत्राणि तासा- मुपरि विन्यसेत् । पत्राधो निक्षिपद धूमं वक्ष्यमाणमिदैव हि । तत्पत्र न्युजपात्रेण च्छादयेदपरेण हि । मृदा विलिप्य सन्धि च वह्नि प्रज्वा- लयेदधः । तेन पत्राणि कृष्णानि हतान्युक्तविधानतः । रसश्चरति वेगेन द्रुतं गर्भ द्रवन्ति च ॥
2 ५६ रसहृदयं तन्त्रम् । स्वर्णजारणयन्त्रविधानमाह-लवणमित्यादि । प्रथम लवणं सैन्धव देवीस्वरसप्लुतं कुर्यात् ब्राह्मीस्वकीयरसेन संमिश्रं कुर्यात् । पुनर्लाही- रसमुतं लवणं चै अहिपत्रं ताम्बूलिदलं तञ्च द्वयं शिलया विततना- वेण चूर्णित पेषितं कुर्यात् । पुनरेतदयःपात्र लोहभाजने संस्थापयेत् । एतत् स्थापितं द्रव्यं पुटत्रितयात्रिपुटकरणादग्निसंयोगेन सुमृतं स्यात्। तस्य देवीस्वरसप्लुतस्य सुमृतसैन्धवस्य मुखाधारा स्मुटविकटक- टोरिको पात्री कार्या, मुखमेव आधारो यस्या. सा एवंविधा, स्फुटा प्रकटा, विकटा विपरीती अधोमुखेत्यर्थः, सा कटोरिका विहिता कार्या अय'पात्रस्य । तस्याः कटोरिकाया उपरि ऊर्यभागे एषा कटो- रिका श्रादेया स्थाप्या । किविशिष्टा ? अङ्गुलोत्सेधा अर्दुल उत्सेधः परिमाणं यस्याः सा तथोक्ता । पुनः किंविशिष्टा ? अर्थाङ्गुलनिता अर्धाङ्गुलपरिमाणनिन्ना मध्यगा । पुनः किंविशिष्टा ? विहितच्छिद्रात्रि- तया विहितानि कृतानि छिद्रात्रतयानि यस्यां सा एवंविधा, शस्ता च सन्तुलविहितछिद्रवितया (१) । चतुरङ्गुलोर्धा तदुपरिभाग कटारिका चतुरङ्गुलिप्रमाणोन्नतेति भावः । पुनश्छेिद्रेषु त्रिषु शलाका योड्या लोहशलाको क्षेप्या; पुनस्तत्रापि छिद्रेषु हेमपत्राणि कण्टकवेधीनि कनकपत्राणि योज्यानीति एवंविधे पूर्व निर्मिते यन्त्रे हेमपत्राणि स्थाप्य विधूप्यन्ते । ततोऽग्निं प्रदीपयेत् यन्त्राधस्ता धन्त्राधोभागे वह्नि प्रज्वालयेत्, तदा तानि हेमपत्राणि कृष्णानि श्यामवर्णानि भवन्ति । कस्मात् ? धूमोपलेपमात्रात् धूमश्वासावुप- लेपश्च धूमोपलेपस्तन्मात्रात्तत्प्रमाणात् । येनौषधेन धूपो निरुतस्ते- १ ग. पुस्तके नास्ति । २०खकीयेन रसेन ग. | ३च पुनः अहि० ग.। ४ अहिपत्र मित्यनेनात्र ससिकपत्रं ग्राह्यं तच्च शिलया मनः शिलाया विचूर्णितं पुटादिना मारित एव धूपनार्थ प्रयोज्यम् उक्तं हि- रसरत्नसमुच्चये-गन्धालकशिलानां हि कजल्या वा मृताहिना । धूपनं स्वर्णपत्राणां प्रथमं परिकीर्तितम् ॥ तथा चान्यत्र-शिलया निहतं नाग ताप्यंवा सिन्धुना हतम् । ताभ्यां तु मारित वीजं सूतके द्रवति क्षणात् । ५अत्र 'शिलया' शब्देन 'मन.शिलया' इत्यर्थो भवेत् । ६ कटोरिकाश्रयः पात्रे कार्या ग । ७ विपरीतमुखेत्यर्थ ग. । ८ द्वयङगुलो ख. 1, ६ घ्यङ्ल ख. । १० कटोरिकापरि० खः । ११ चतु- रगुलाया ख.ग. १२ भागं ख.ग. १३ शलाका ख. ग. । १४ कण्टक- वेशितानि ग. १५ पात्र ख. ग.। १६ धूमो ख.।
रसहदयं तन्त्रम् । नौपधेनोपलेपः कार्यः पत्रग्विति । पुनः किंभूतानि हेमपत्राणि रसेन्द्रो जरति ? अग्नितापितानि सन्ति वहियोगात्तनानि कृतानि । स्वर्णजा. रएमिदं गदितम् । इति पञ्चमिःलोक कुलकम् ॥ १२ ॥ तनव तारपत्रं विधिना संखद्ययत्रयोगेन । जायेत कृष्णवर्ण तत्तारं द्रवति गर्म च ॥ १३ ॥ अथ रुप्यजारणमाह-तेनेत्यादि । तेनैव विधिना पूर्वविधानेन, नारपत्रं यदलं, कृप्रावण श्यामतप्रभ, जायेत । केन ? संवेद्ययन्त्र- योगेनः संखदः प्रवलानिस्तन्येदं सम्बन्धि यद्यन्त्रं तस्य यो योगरतेन। तनारपत्रं पुनः गर्ने रसोदरद्रवति जलवमानोति । पुनस्तलिन् यन्त्रे बति, चशयात् रसेन्द्रस्त पत्र जरति तारकपणीति ॥ १३ ॥ अथवा बलिना बङ्गं नागामिधानेन यन्त्रयागर्ने । हमाह तारं वा द्रवति च गर्म न सन्देहः ॥१४॥ अथ योगान्तरमाह-अर्थवत्यादि । अयवेति समुच्चये, एकार्थ- निष्ठत्वात् । वलिना गन्धेन सह वह्न यन्त्रयोगन कृष्ण जायत । न केवलं व पुननांगभियानेन सह नागविधानमन्त्र न्यादिति व्यक्तिः। नागाभिधान नेति नागनाना, "प्रख्याह अभियान व नामवेयं च नाम च-"इत्यमरः । एवंविधं वनं वा नागं वा हेमा हेमपत्र वा तारं तारपत्रं वा एतत्सर्व चलिना कृष्णं जायेत, नृतं च सर्व गर्भ रसान्तर द्रवति, नात्र संदेहः असंदिग्धमिदमुकम् । चशब्दाचरति निःशेयत्व- माप्नोति ॥४॥ १ 'नागविधानन' इति पाठान्तरम् । २ यन्त्रयोगे च ख. ग.। ३हम वा ख. ग.। ४ क्लृतं ग.। ५ नागविधानेन ग. । नानविधानति ग. ७ श्राख्याताये च अभियान च नामयेचं च नामत्यमरःग. हम ख. ग. । हरसान्तद्रवति ग.। १००मित्य- मुक्तम् ग.। ११ ख. ग. पुस्तकेऽत्र "मातीक शुद्धवर्णदरदसहितन यन्त्रे पूर्वोजानयो. पाने सहितं स्थापितं, तेन पुनरनेन पॉपवन तान्यपत्रं वा नारं मध्यपत्रं कनकजारण (तारण. ग.) यन्त्र पक्कं कुर्यात् । एतत्य (क)ञ्चनमें रसोदरे पतति प्रामोति इवति मिति (इति) शेषः, शन्दग्रहणाजरति इति अधिक. पा. दृश्यते - I ? । रसहृदय तन्त्रम्। रसकं बलिना युक्तं पूर्वोक्तविधानयोगेन । पक्कं चूर्ण यावद्भवति भृशं द्रवति गर्भे च ॥१५॥ प्रयोगान्तरमाह-रसकमित्यादि । रसकं खर्परिके, वलिना गन्धेन सह, युक्तं सत् मिलित सत्, 'समभागेन' इति शेषः; केन कृत्वा ? पूर्वोक्तविधानयोगेन; पूर्वोक्तं यद्विवाने यन्त्रादिकं तस्य योऽसौ योग- स्तेन कृत्वा, तावद्धृशमत्यर्थं पकं कार्य यावदशरीरतां याति; तच्चूर्ण गर्भ रसोदरे द्रवति गर्भद्रुतिर्भवति, चशब्दार्जरति च ॥ ५॥ व्यूढोऽथ गन्धकारमा शतगुण मंख्यं तथोचमे होम्ने । सूते च भवति पिष्टिद्रवति हि गर्ने न विस्मयः कार्यः ॥१६॥ विध्यन्तरमाह-व्यूढ इत्यादि । अथेत्यनन्तरम् । गन्धकाश्मा गन्धपाषाणः, शतगुणसंख्यं यथा स्यात्तथा उत्तमे हेम्नि पूर्णवणे व्यूढो निर्वाह्यः तद्गन्धव्यूढ हेम सूते पारदे पिष्टिर्भवति, हि निश्चितं, गर्भ रसान्तवति, गर्भद्रुतिर्भवतीत्यत्र विस्सयो न कार्यः"॥ १६ ॥ अथवा शतनियूढं रसकवरं शुद्धहेम्नि वरवीजम् १ चूर्ण ग.। २ खापरिकं ग.। ३ निमित्तं ग. । ४ कृत्वा पकं कुर्यात् ख. ग.। ५ गर्ने द्रुतिर्भवति ग. । ६ च शब्दाद्वध्नाति एतदनन्तरं च श्लोक एकोऽधिकः पठनीयः। यद्यपि ख. ग. पुस्तकयोरपि तत् पाठः न समुपलभ्यते परं टीकादर्शनात् मूल- श्लोकः कल्पनीयः । टीका चैवमस्तिः- शुद्धमाक्षिकचूर्ण नियूढं (ख पुस्तके नास्ति) यच्छतगुणं हेन्नि सुवर्णशतगुणं हेनः शतशतगणितसमनियूंढ हेमतुल्यांशं च समभाग सूर्ततुल्यं गर्भे रसोदरे द्रवति जरति अभ्रविधानेन (सुवर्ण इत्या. रभ्य विधानेन इति पर्यन्तं ख. पुस्तके नास्ति ) समभागेन जारितो रसो मौनीति भावः । यथा च अष्टगुणं यदभ्रकवीजं पगुणांस्तत्र (गुणं तत्र ख.) विलीनः हेमसमे मसमं रसवन्धतरमनवदेकेन नि- षिद्धम् (०तरमन विस्मयः कार्यः ख.)? ॥ १६ ॥ ७ व्यूढोऽष्टमगन्धाश्मा ग.। ८ पिटं द्र० ग. । ६ निर्वाहः ग. । '१० रसान्तर्भवति ग. । ११ एतदनन्तरं "अवश्यं च सूचि" इत्यधिकः ग. पुस्तके । १२ कर ग. । . चख.ग.।
रसहृदयं तन्त्रम् । ५६ बीजं जरति रसेन्द्रे द्रवति च गर्ने न सन्देहः ॥१७॥ विध्यन्तरमाह-अथवेत्यादि । अथवेति समुच्चये, रसकवरं श्रेष्ठं खपरिक, शुद्धहेनि पूर्णवणे, शतनियूंढं कुर्यात् शतगुणनिर्वाहः कार्यः, एकगुणवणे शतगुणनिर्वाह इति युक्त, एवं कृते सति वरबीज श्रेष्ठबीजं भवति, तद्वीजं गर्भ रसोदरे द्रवति गर्भे द्रुतिर्भवति, रसेन्द्र पारदे, शीघ्र अविलम्बितं, जरति च निःशेषतामामोति 'विधानेन' इति शेषः, अत्र द्रवणे जरणे च न सन्देहः ॥ १७ ॥ अथवा तालकसत्वं शिलया वा तच्च हेनि नियूंढम् । शतगुणमथ मूषायां जरति रसेन्द्रो द्रवति गर्भे च ॥१८॥ पूर्वार्थे विध्यन्तरमाह-अथवेत्यादि । तालकसत्वं हरितालसारं, शतगुण शतगुणित, हेनि कनके, नियूंढ अन्धमूषायां वा प्रकाश मूषायां 'वह्नियोगेन' इति शेषः, तालकसत्वस्य हेन्नि निर्वाहः कार्य इति व्यक्तिः; तच्च तत्सत्वं केवलं वा शिलया मनःशिलया सार्ध नियूंढं कार्य तद्धेम गर्ने रसोदरे द्रवति, अथ रसेन्द्रो रसराजः द्रुतं जरति विधानेनेति ॥ १८ ॥ रसदरदाभ्रकताप्यविमलामृतशुल्बलोहपर्पटिका । स्नुह्यर्कदुग्धपिष्टं ककुष्ठशिलायुतं नागम् ।। १६ ।। अथ विध्यन्तरमाह-रसेत्यादि । रसदरदाभ्रकताप्यमिति रसः पारदः, दरदो हिंगुर्लः, अभ्रक प्रतीतं, ताप्यं वर्णमाक्षिकं, विमला रूप्यमाक्षिक, मृतं यच्छुल्बं तानं लोहो मुण्डादिश्चै. एतेषां रसादीनां रसपर्पटीवत् पर्पटिका कार्या। तया युतं नागं, पुनः कंकृष्ठशिलायुतं कंकुष्ठं हरितपीतवर्णो विपहरपाषाणजातिः, शिला मनोहा, ताभ्यां युतं मिश्रितं यन्नागं सीसकः; स्नुह्यर्कदुग्धपिटं कार्य, स्नुही सेहुण्डः, १२ १ एतदनन्तरं शीघ्रमित्यधिकः पाठः ग. पुस्तके समुपलभ्यते । २ तद्वत् वीजं ग. । ३ ग. पुस्तके नास्ति । ४ एतदनन्तरं हेनः इत्यधिकं पठ्यते ग. पुस्तके । ५ शतगुणितहेन्नि ग. । ६ अत्र मूषायां प्र० ग. । ७ वह्नियोगश्च ग. 1 ८ ताप्यं ख. ग. । ६ हिगुलं ग. । १० “एतदनन्तरं एकवद्भावात् द्वन्द्वम्" इत्यधिकः पाठः ख. ग. । ११ मुण्डादि ख. ग.। १२ दरदादीनां ग.।
: ६० रसहृदयं तन्त्रम् । अः प्रसिद्धो विटपी, तयोर्दुग्धेन पिष्टं पांशुभूतं मृतं यन्नाग, कुकुटपुटवियानेनेति शेषः, एतदपि बीजं सिद्धं, गर्भे द्रवति च, पूर्व- संवन्धात् ॥ १६ ॥ अभ्रकतालकशङ्करससहित तत्पुनः पुनः पुटितम् । चिश्चाक्षारविमिश्रं वङ्गं निर्जीवतां याति ॥२०॥ श्रथ वनवीजविधानमाह-अभ्रकेत्यादि । विश्चाक्षारविमिश्रं यह अम्लिकाक्षारयुक्तं वई, अभ्रकतालकशङ्करससहितं अभ्रक प्रतीतं, तालक हरितालं, शङ्ख कम्युग्रीवं, रसः पारदः, एतैश्चर्तुभिः सहितं यथा स्यात्तथा पुनः वारं वारं निरुत्थं यावत् तावत्पुटितं कुर्यात् । एतदोषधस्यांशभागेन सह पुटनाद्वङ्गं निर्जीवतां याति पञ्चत्वमाप्नोति, एतदपि वीजं सिद्धं गर्भद्रावणे जारणार्थे च, पूर्व- संबन्धात् ॥ २० ॥ विधिनाऽनेन च पुटितं म्रियते नागं निरुत्थतां च गतम् । वङ्गं च सर्वकर्मसु नियुज्यते तदपि गतजीवम् ॥ २१ ।। नागवङ्गयोरेतदोषध कारणमित्याह-विधिनेत्यादि । अनेन विधि- ना उक्तविधानेन, नागं सीसकं, पाटेतं सत् नियते मृतं भवतीति; वाऽमुना विधानेनैव निरुत्थतां गतं अशरीरतां प्रात वङ्गं सर्वकर्मसु चारणजारणभक्षणादिकार्यपु नियुज्यते, रसज्ञैरिति शेषः । नागवङ्ग- मारणमकविवमेवोक्तमतो तद्भक्षणादिपु परस्परं गुणाधिकयोग्यं न तु जाारणादिषु ॥ २१ ॥ मृतनाग मृतवङ्गं मृतवरशुल्वं मृत तथा तीक्ष्णम् । एकैक हेमवरे शतनिध्यूढं द्रवति गर्ने च ।। २२ ।। नागवनशुल्वतीपणानां जारणविधानमाह-मृतनागमित्यादि । मृतनागमिति मृतं निर्जीवतां गतं यन्नागे सीसकं, तथाऽनेन विधानेन १ शङ्ख ख. ग. । २ यत्न. ख.। यः पुनः ग. ३. ग पुस्तके नास्ति । ४ क्षारैप्रिमिय ख. ग. । ५ या क्षार० ग. । ६ रहं ग. । ७ तालं ग. । ८ ग. पुस्तके नास्ति । ग. पुस्तके नास्ति। १० तारणाथै न. । ,११ सम्बन्धात् ख. ग. । २२.औषधकारण स्व. ग. । १३ मृतो ग. । १४ विधिनानेनैव ग. । १५ चारणे जारणे भ० ग.। १६ मेवोपक्रमतो ग. । १७ योज्यं ख. ग...।
रसहदयं तन्त्रम् । ६१ - मृतं वङ्ग, तथा मृतं निरुत्थतां गतं वरशुल्वं तानं, तथा च मृतं तीदणं, अरिवर्गेणेति शेषः; एषां मध्ये एक नाग वावङ्गवाशुल्ब वा तीक्ष्णं, वा पृथक्त्वेन हेमवरे पूर्णवणे वणे शतनियूढं हेम्नः शतगुणनिर्वाहित कुर्यात् तत्सिद्धं गर्भ रसोदरेद्रवति, चशब्दाजरति च ॥ २२ ॥ समगर्ने द्रतिकरणं हेनो वक्ष्याम्यहं परं योगम् । भ्रामकसस्यकचूर्ण शतनिव्यूढं महाबीजम् ।। २३ ॥ महाबीजप्रभावं दर्शयन्नाह-समगर्भ इत्यादि। इहास्मिन्शास्त्रे विधि- ना शास्त्रोक्तरीत्या यानि बीजान्युक्तानि तानि कर्तव्यानि सामान्येनेति भावः; परं गर्भद्रुत्यर्थ अयं वार्तिकेन्द्रो योगःवातीसु कुशला वार्तिका, शास्त्रोपदेशरहिता इत्यर्थः, अत्र भावाद्यर्थे 'इक्' प्रत्ययः, तेषु वार्तिकेधू इन्द्रः प्रवरो योगः; तथानेनैव प्रकारेण एकमतश्चायं शास्त्रोपदेशिकानां शास्त्रोपदेशरहितानां च, अभिमत इत्यर्थः (१) ॥ २३ ॥ अथवा गन्धकधूम तालकधूमं शिलाह्वरसकस्य । दत्त्वाऽधोभांगमुखी दीर्घतमा खपरस्यार्प ।। २४ ॥ ऊर्ध्व लगा पिष्टी लमा पिष्टी सुदृढा च यथा तथा च कर्तव्या । दत्या खर्परपृष्ठे दैत्येन्द्र दाहयेत्तदनु ॥ २५ ॥ स्तोकं स्तोकं दत्वा कर्षानौ धमापयेन्मृदा लिप्ताम् । गर्ने द्रवति हि बीज म्रियते च तथाधिके दोहे ।। २६ ।। रसोदरे बीजद्रावणविधानमाह-अथवेत्यादि । अथवेति समुचये ऊर्व दीर्घतममूषायन्त्रस्य तलभागे, पिष्टी रसेन्द्रबीजयोनिर्मिता पिटिका, च पुनः सुदृढर्दा यथा स्यात्तथा लग्ना कर्तव्या। किं कृत्वा ? खपरस्यार्धे मृन्मयपात्रस्य खण्डीधैं खण्डैकदेश इत्यर्थः, दीर्घतमी, अधोभागमुखीं अधोभागे मुखं यस्याः सा तथोक्ता तां दत्त्वा । पुनः किं कृत्वा ? गन्धकधूमं दत्त्वा, वा स्तोकं अल्पमल्पं तालकधूमं दत्वा, वा शिलाद्वैरैसकस्य शिलाह्वा मन.शिला, रसकः खर्परः, एकवद्भाव. १एतदनन्तरं तारे शतगुणं वङ्गनियूढं तारबीजम्' इत्यधिकः पाठःख.ग.। २ वाती कुशला ख.ग.। ३वार्तिकेन्द्रेषु ग.।४०धोमुखमूर्षी ख.ग. ऊर्धे ख ग.। ६ दाहः ख. ग । ७ अथेति ग.। ८ दीर्घतमा मूषायन्त्र ग. । ६ एतदनन्तरं 'असित्वा' इत्यधिकं पठ्यते ख. ग. । १. खंडस्या खः । ११ दीर्घतमामित्यर्थः ग. । एतदनन्तरं च 'दीर्घा अधोमुखमूषां' इति ग. पुस्तके पठ्यते । ख. पुस्तके तु 'अयोमुचमुखीं' इति । १२ गन्धकं मन्द ख ग.। १३ शिलाहार० ग. ।
रसहदयं तन्त्रम् । समासः, तस्य धूमं दत्त्वा । पुनस्तत्खपरं अधोमुखमुखां च मृदा लिप्तां मृद्वेष्टितां करीषाग्नौ ध्मापयेत्, करीषवह्नावित्यर्थः । एवं अधोमुखां खर्परं च दत्त्वा दैत्येन्द्र बलिनामानं प्रस्तावाद्गन्धकं तदनुतत्करणपश्चा- हाहयेत् । एवं कृते सति रसेन्द्रमिलितं यद्वीजं तद्गर्भ रसेन्द्रान्तद्भवति । पुनर्बीजसहिता रसेन्द्रो अधिक दाहे सति म्रियते इत्यर्थः । श्लोकत्रयः संवन्धाद्विशेषकम् ॥ २४-२६ ॥ गन्धर्कतालकशैलाः सौवीरकरसकगैरिकं दरदम् । क्षाराम्ललवणानि विडोमाक्षिकवैक्रान्तविमलसमभागः ॥२७॥ अथ सुवर्णजारणार्थ विडमाह-गन्धकेत्यादि । गन्धकतालक- शैला इति गन्धकं प्रतीतं, तालकं हरितालं, शैलः शिलाजतुः, द्वन्द्वः समासः, तेन तथोक्ताः समभागाः कार्याः । पुन. सौवीरक शुक्लाञ्जनं, रसकं खर्परिकं, गैरिकं धातुगैरिक, दरदं हिगुलं, अत्रैकवद्भाव- समासः, तत्तथोक्तं समभागं कार्यम् । पुनः क्षाराम्ललवणानि क्षारा यवक्षारादयः, अम्ल जम्बीरादि, लवणानि सैन्धवादीनि, एतान्यपि समभागानि । कैः सह ? माक्षिकवेकान्तविमलसमभागैःसह, माक्षिक वर्णमाक्षिक, चक्रान्तं वज्रभूमिजं रजः, विमलं रुक्ममाक्षिकं, एतानि समभागानि, तैर्बिड उच्यत, सर्वैः समभागैः सुमदितैर्बिडः कार्य इत्यर्थः ॥ २७ ॥ कृत्वा सुवर्णपिष्टिंमृदितां च सुवेष्टितामनेनैव । त्रिपुटैस्तप्त खल्वे मृदिता गर्ने तथा द्रवति ॥ २८ ॥ विडयोगाद्यथा वीजं गर्भ द्रवति तथाह--कृत्वेत्यादि । पूर्वोक्ता या पिष्टी, तामनेनैवोक्तविडयोगेन, तप्ते खल्वे तप्तसंवन्यालोहमये, त्रिपुटैः- करीपान्यात्मकै दिता घर्षिता सति अनेनैव च वेष्टिता कार्या । किं कृत्वा ? सुवर्णपिष्टी कनकपिष्टी वा अन्यस्यापि धातोः सुवर्णपिष्टी शोभनवर्णी पिष्टी कृत्वा । खरच मृदिता सती, तथा तेनैव प्रकारेण १ तस्याः ग. । २ अधोमुखमूषामुख वा ख. ग.।३ मूषां ख. ग.। ४ प्रस्तावनाद ग. 1५ तत्करणं ग.। ६ रसेन्द्र मिलितं ग. ! ७"०त्कुलकम्" ख. ग.1 ८ "गन्यता०" ख. । ६ क्षाराम्लपटूनि इति केचित्, । तथा टीकायामपि । १० अम्लो जम्बीरादिः ग.। ११ स च ख. ग. । १२ तत्रिपुटै ख. ग. १३ अनेनैवोक्त ख.ग.। १४ तत्रिपुटैः ख. ग. । १५ ख. पुस्तके नास्ति । १० रसहक्ष्य तन्त्रम् । न त्वन्यप्रकारेण, गर्भ रसोदरे, द्रवति सलिलरूपा तिष्ठति ॥ २८ ॥ रक्वे शतनिव्यूढं नेत्रहितं भस्म क्रान्तकं चाथ । विमलं शतनिव्यूढं ग्रसति समं द्रवति गर्ने च ॥ २६ ।। अथ वैक्रान्तगर्भद्रुतिमाह -रक्त इत्यादि । वैक्रान्तभम वैक्रान्तं वज्रभूमिजं रजः, तदुद्भवं भस्म, रक्ते रक्तगणे, शतनियूदं शतवारं निर्वाहितं कुर्यात् । किविशिष्टं ? नेत्रहितं; नेत्रहितशब्देन मणित्वं दर्शितं, मणयो नेत्रहिता इति । विमलं रूप्यमाक्षिक खेतवर्ण यन्माक्षिक, रक्तगण शतानयूदं कुर्यात् । तदुभयं वैक्रान्तं विमलं चरक्तशतनिघूढं सत् रसो प्रासविधानं विहाय समं असति कवलयति;पुनस्तद्ग्रसितं गर्भ रसान्तद्रवति, जरति च इति चशब्दार्थः ॥ २६ ॥ ये केचिद्विडयोगा क्षाराम्ललवणानि दीप्तवर्गाश्च । सर्वे शतनियूंढा गर्भद्रतिकारकाः कथिताः ॥३०॥ रक्तगणाधिक्यं दर्शयन्नाह-य इत्यादि । य कचिद्विडयोगा अत्र ग्रन्थान्तरेष्वपि चे कथिताः; तथा क्षाराम्ललवणानि कथितानि क्षारा यवक्षारादयः, अथ च वृक्षौषधिसमुद्भवाः, अम्ला जम्बीरादयः अम्ल- वृक्षशाकसमुद्भवाचे यान्येतानि कथितानि, च पुनये दीतिकरा योगा अभिहिताः, ते सर्वे बिडक्षाराम्ललवणदीतवर्गाः शतनियूंढाः गर्भद्रुतिकारकाः गर्भ रसोदरे द्रुतं द्रवरूपं धातुमणिरत्नादीनीति शेषः ॥ ३० ॥ शतनिव्यूढे चू समं पादौनं पश्चसप्ततिव्यूढे । पञ्चशति तदर्ध पादः स्यात्पञ्चविंशतिके ॥३१॥ शतनिर्वाहितादौ समादिविधानमाह-शतेत्यादि । शतनियूंढ इति शतवार निर्वाहिते 'रक्तगणे' इति शेषः, समं तुल्यं प्रसति 'रस' इति शेषः । पुनः पञ्चसप्ततिव्यूढे सति पादोनं चतुर्थाशवर्जितं समग्रं असतीति । पुनः पञ्चाशनियूंढे सति तदध समस्यामिति । पुनः पञ्चविंशतिके सति पादश्चतुर्थाशम् । न्यूनाधिके नियूंढे सति न्यूना- धिकांशो क्षेय इति विशेषार्थः ॥ ३१ ॥ १ इति वा ख.ग.१२ अत्र च.ग.। ३ग. पुस्तकं नास्ति। समुद्भवानि च ख.ग.। ५ समगर्भद्रुतिकारकाः ख.ग.। ६पादोनपञ्चसप्तनियूंढे ख.ग.। पञ्चाशनु ख. ग.। पञ्चाशति च इति केचित् । ८ समादिविभाग- माह ख.ग.। चैकवारं ग.। १० ग.पुस्तके नास्ति। ११सप्तनिव्यूढे ख.ग.। - रसहदयं तन्त्रम् । अष्टांशं तु तदर्धे पोडशांशं तदर्धनियुढे । तस्यार्धे द्वात्रिंशचतुःषष्टयंशं तदर्धनियूढे ॥ ३२ ॥ अल्पनियूंढक्रममाह - अष्टांशमित्यादि । तु पुनस्तदर्धे सार्धद्वा- दशके नियुंढे सति अप्नांश, तदर्धे पड्वारनियूंढे सति पोडशांशमिति, पुनस्तस्यार्धे त्रिवारनियूंढे सति द्वात्रिंशदश तनियूंढे सति चतुःषष्टयंश रसो ग्रसतीत्यर्थः ॥ ३२ ॥ इति गदितां गर्भद्रतिमभिपवयोगेन चाम्लवगैण । खेदनविधिना ज्ञात्वा मृदितां तो तु खल्वतले ॥३३॥ गर्भवती सत्यां कर्तव्यमाह-इतीत्यादि । इत्युक्तविधानेन, गदिता कथितां गर्भद्रुति ज्ञात्वा, तप्ते खल्वतले लोहमये करीषाग्निनाउप्णता नीते मृदिता कुर्यात् । केन ? अभिपवयोगेन अभिपवः संमर्दनं तस्य योगेन, न केवलमनेन अम्लवर्गेण च जम्बीरादिना, न केवलमनेनापि खेदन विधिना च खेदनविधिः खेदनसंस्कारोक्तत्वान्नानाभिहितः जारणहेतोरिति शेषः ॥ ३३ ॥ ज्ञात्वा वीजवलावलमर्दनयोग कृतं च रसराजे । खेदविधानं च पुटं यत्र वा विहितरसकर्म ॥ ३४ ॥ मर्दनस्वेदनयोः पूर्वोपकरणं दर्शयन्नाह-ज्ञात्वेत्यादि । वीजवला- वलमर्दनयोगं कृतं ज्ञात्वा वीजानां धातूपधातुयोगजनितानां वलावले न्यूनाधिके योऽसौ मर्दनयोगस्तमेव कृतं ज्ञात्वा विदित्वा रसराजे खेदविधानं कुर्यात्, वा पुटं वह्नियोगं कुर्यात्, वा यन्त्रं विहितरसकर्म कुर्यात् विहितं कृतं रसस्य कर्म संस्काररूपं यत्र तथोक्तं, गर्भयन्त्रा- दिकमित्यर्थः ॥ ३४॥ सूतवरं लक्षयते बीजं नोपेक्षतां यथा याति । तद्वत्कार्य विधिना सुकर्म गुरुपादनिर्दिष्टम् ॥ ३५ ॥ सूतकर्मणो दुर्योधत्वाद् गुरुपादं स्तुवन्नाह-सूतेत्यादि । यथा १ अम्ल० ग. । २ स्तदर्धं ग. । ३ "श्रष्टांशमित्यारभ्य सति" इति पर्यन्तं ग पुस्तके नास्ति । ४ तदर्धे नियूंढे ग. । ५स नियूंढो दि समग्रासो रोरैकामित्यर्थः (१) ग.। ६ तप्ते खल्वे, तप्तसम्बन्धात् लोह० ग. । तप्ते खल्वतले सम्बन्धात् ख । ७ नीते तप्ते ख. ग.१८ तेन ग. । ६ ग. पुस्तके नास्ति । १० तत्तथोक्तं ख. । ११ सूतकर्मणि नाधिगम्य (म. ग.) त्वा. ख. 4 रसहृदयं तन्त्रम् । ६५ " येन प्रकारेण सूतवरं पारदः लक्षयते ज्ञायते कर्मकृतेति शेषः, पुनर्यथा बीजं उपेक्षतां न याति सम्यक् मिलति', तद्वत्तेनैव प्रकारेण गुरुपाद- निर्दिष्टं कर्म आचार्यवर्यदर्शितं पूज्यं संस्काररूपं, विधिना प्राचार्यो- तविधानेन कुर्यात् । गुरुपादलक्षणम्, “सर्वशास्त्रविशेषज्ञः कुशलो रसकर्मणि । एवंलक्षणसंयुक्तो एवंलक्षणसंयुक्तो रसविद्यागुरुभवेत् - इति गर्भद्रुतिजारणप्रकरणम् ॥ ३५ ॥ बाह्यद्रतिरीतीवमला स्फुरति हि केषांचिदेव सिद्धानाम् । तेभ्यः सम्यक् ज्ञात्वा कलनाः कार्यास्तथा द्रतयः ।। ३६ ।। बाह्यद्रुतिं प्रशंसन्नाह-बाह्यद्रुतिरित्यादि । द्रुतिधिोक्ता-गर्भद्रुति- बर्बाह्यदुतिश्चेति । गर्भद्रुतिः पूर्वमुक्ता, बाह्यद्रुतिरधुनाऽभिधीयते । किं- विशिष्टा ? अतिविमला निर्मलतरा । एषा च पुनः केचिदेव सिद्धा- नां 'स्फुरति, सिद्धा रसविद्यापारगा नित्यनाथादयः तेषां, ते जानन्ती- ति । दुष्प्राप्यत्वात् वाह्यद्रुतिरिह विरलौ । तेभ्यः सम्यक् ज्ञात्वा, तथा तेनैव सिद्धोदशविधानेन, द्रुतयो वाह्यद्रुतयः कार्याः ॥ ३६ ॥ वरनांगं रसराजं बीजवरं सारितं तथा त्रितयम् । गन्धकशिलालसहितं निर्मागं दीपवर्तितो भवति ॥३७॥ बद्ध्वा सुदृढे वस्त्रे पोटलिकायां शिखीकृतो दीपः तैले मनं कृत्वा निर्मागं जायते क्षिप्रम् ॥३८॥ अथ नागजारणमाह-वरनागमित्यादि। वरनागश्रेष्ठजाति सीस जारणयोग्य, रसराजं उक्तसंस्कारैः संस्कृतं पारद, बीजवरं हेमवीजं, एतत्त्रय सारित मिलितं कार्य पुनर्गन्धकशिलालसहितं गन्धक १ पारदश्चैवं ख. ग. । २ मिलति रसे ख. ग.। ३गर्भद्रुतिजारणा ख. ग.। ४ प्रशंसयन्नाह ग. । ५ विधीयते ग. । ६ केषां स्फुरति के जानन्तीति तदेषां सिद्धानां स्फुरति, देवाः खवैद्यादयः सिद्धा० ख.ग.। ग. पुस्तके नास्ति । विरला पाठः इहालिन् ज्ञात्वा ग.। ६ देवसिद्धो- पदेशविधानेन ग. । १० वरनागलक्षणं यथा-तीक्ष्णं नीलाअनोपेतं ध्मातं हि बहुशो दृढम् । मृदु कृष्ण द्रुतगावं वरनाग तदुच्यते॥११ बीज- वरे ख.। १२ शिखाकृतो ख. ग.। १३ चारणयोग्यं ग.। १४ सूतं ग. । १५ पत्रत्रयं ग.। M रसहदयं तन्त्रम् । प्रतीतं, शिला मन.शिला, आलं हरितालं, द्वन्द्वस्तानि. तैः साहित च कार्य, एतत्सर्वषट्कं दीपवर्तितः प्रज्वलितदीपवर्तियोगात् निर्नागं नागवर्जितं भवति नाग जरतीत्यर्थः । यथा निर्णागं स्यात्तथा विधान माह-वध्धेत्यादि । तत्पूर्वोक्तं पटकं सुदृढे वस्त्रे नूतने वस्त्रे, अत्रौपश्लेषिकेऽधिकरणे सप्रमी, पोटलिकायां वध्या, पुनस्तैले तिलोद्भवे तत्पटकं मनं निमजितं कृत्वा तदधः शीखीतो दीपोऽव- धार्यः, न शिखी शिखायुक्तः कृतः शिखीकृतः शिखावानित्यर्थः । अनेन विधिना क्षिप्रं शीघ्र निर्नागं स्यादिति युग्मम् ॥३७॥३८॥ कृत्वाऽत्र दीर्घमूषां सुदृढां ध्मातं तु भस्मगर्तायाम् । विवा शिलालचूर्ण पश्चास्त ततः शिलाचूर्णम् ॥ ३६ ।। संस्थाप्य भसनातो ध्मातं स्यात्स्वाङ्गशीतलं यावत् । आकृष्य तत्र सूतं ज्ञात्वा नागं सुभक्षितं सकलम् ।। ४०॥ निर्नागकरणे विधानमाह-कृत्वेत्यादि । तु पुन. । दीर्घा गोस्त- नाकारां, सुदृढां निर्बणवज्रोपमा सूपां कृत्वा, तां सूषां प्रति शिलाल- चूर्ण क्षिप्त्वा शिला मनोहा, आलं हरितालं, एतयोश्चर्ण, पश्चात्सूतं पूर्वोक्तं पारदं निप्त्वा ततोऽनन्तरं शिलाचूर्ण क्षिप्त्वा, तामेव रस संयुतां मूपां भस्मगर्तायां भस्मना युक्ता या गर्ता तस्या मातं कुर्यात्, पुनस्तावद्भमना अाच्छाध यावत्स्वाइशीतलं स्वयमेव शीतलं स्यात् । तत्र तस्या सूपायां सकलं समस्तं नागं सुभक्षितं जीर्णतां गतं ज्ञात्वा सूतं प्राकृष्य उद्धार्य, निर्मागकरणविधानमेतत् ॥ ३६॥ ४० ॥ ज्ञात्वा नागं त्रुटितं पुनरपि दद्यायथा भवेत्रिगुणम् । पश्चाच्छुद्धं कृत्वा बीजवर योजयेत्तदनु ॥ ४१ ॥ निर्नागानन्तर यत्कर्तव्यं तदाह-शात्वत्यादि । नागं सीसकं टितं वद्ध्या पुनरपि नागं दह्यात्, 'पूर्वोक्तविधानेन पारदे' इति शेषः । यथा नागं त्रिगुणितं भवेतथैव कुर्यात् । पश्चात्सूतं शुद्धं १ दीपवर्तिप्रज्वलितयोगात् एतत्षट्कं निर्णागं ग. । २ निर्लागं ३ मग्नं कृत्वा पुटितं, ख.। ससं (तप्तं) कृत्वा पुटितं, ग.। ४ शिखाकृतो ख. ग.। ५ निर्णागं ग.। ६ पश्चात्सूतस्तथा ग.। ७विधानान्तरमाह ख. ग.। निप्त्वा च ग.। ६ दद्यात् ख.ग। १० तथा ग.। ११ त्रिगुणितं त्रुटितं भवेत् न.ग. । । ख.ग.।
६७ रसहृदयं तन्त्रम् । कृत्वा पारदं निर्नागं विधाय, तदनु नागजारणानन्तरं बीजवरं पूर्वोक्तं योजयेत् ॥ ४१॥ अथवा तारं वङ्ग सूतं संसायं वङ्गपरिहीनम् । तालकयोगेन तथा निर्वङ्गं यत्रयोगेन ॥ ४२ ॥ अथ तारयोगमाह--अथवेत्यादि । अथवेति विधानान्तरम् । तारं वङ्गं सूतमिति तारं रूप्यं, वङ्गं खुरकं, सूतं संस्कृतपारद, एत- त्रितयं संसार्य मेलनं विधाय, वङ्गपरिहीनं कुर्यात्, तथा तेनैव विधानेन तालस्य योऽसौ योगस्तेन, यन्त्रयोगेन च दीर्घमूषायोगेन च निर्वनं वङ्गविवर्जितं कुर्यात् ॥ ४२ ॥ अथवा वस्त्रनिबद्धं गिरिजतुसहितं सुवेष्टितं मापैः । पक्कं तैले पटक निर्वङ्गं जायते नूनम् ।। ४३ ।। विध्यन्तरमाह-अथवेत्यादि । अथवा तारं वङ्गं चटकाकारं तैले तिलोद्भवे पक्कं कुर्यात्, नूनं निश्चितं, तबटकं तया पक्कं कुर्याद्यथा निर्वङ्गं जायते 'वह्नियोगेन' इति शेषः ॥ ४३ ॥ पिष्टीस्तम्भं कृत्वा बीजवरेणैव सारितं तदनु । अथवा बद्धरसेन तु सहितं बीजं सुरञ्जितं कृत्वा ।। ४४ ।। विधानान्तरमाह-पिष्टीत्यादि । बीजवरेणैव पूर्वकनकबीजेनैव, सारितं मिलितं सत्, पिष्टीस्तम्भं खोटस्तम्भं कृत्वा तदनु तत्पश्चात्, अथवेति प्रकारान्तरं दर्शयति, तु पुनः, बद्धरसेन खोटबद्धरसेन सहितं, सुरञ्जितं शोभनविधानेन वर्णवृद्धीकृतं, बीजं स्वर्णबीजं संयुतं कुर्यात् योग एव कार्य इति द्विविधानमुक्तम् ॥ ४४ ॥ गन्धकनिहितं सूतं निहितानिहितं च शृङ्खलायां तत् । योजितनियूंढरसे गर्भद्रुतिकारकं नूनम् ।। ४५ ।। अन्यच्चाह-गन्धकेत्यादि । गन्धकनिहितं गन्धके निहितं स्था- पितं सूतं ऊधिो गन्धकं दत्त्वा सूतं मध्यस्थं कुर्यादित्यर्थः । च पुनरेवंविधं सूतं, शृङ्खलायां शृङ्खलीकरणयोगे, निहितानिहितं यन्नि १ वङ्ग परिहितं ग.१२ पूर्व वीजवरेणैव कनकबीजेनैव ख. ग. । ३ तद्विधान ख.१४ ख. ग. पुस्तके नास्ति । ५ निहितं च ग.।
E ? ? रसहृदयं तन्त्रम् । हितं तदनिहितमजारितं कार्य, निहितानिहितसंयोगात् शृङ्खलेयं, नून निश्चितं, योजितनियूंढरसे पूर्व योजितं पश्चान्निहितं नियूढं यत्र तत्तस्मिन्नेवंविधरसे, गर्भद्रुतिः पारदस्योदरे बीजानि द्रवन्तीति ॥४५॥ सूतकभस्मवरेण तु वीजं कृत्वा रसेन्द्रके गर्ने । मृदिता पिष्टीविधिना ह्यभिषवयोगाद् द्रवति गर्ने च ।। ४६ ॥ पिष्टीविधिना जारणमाह-सूतकेत्यादि । तु पुनः, रसेन्द्रके गर्भे रसेन्द्रकृतो योऽसौ गर्भस्तस्मिन्, बीजं कृत्वा विधिना पिष्टी. विधेया, सा पिष्टी मृदिता कार्या; कस्मात् । अभिषवयोगात् संमर्दन- योगात्, केन सह ? सूतकभस्मवरेण सह सूतकस्य यशसवरं तेन, सा पिष्टी गर्भ द्रवति, चशब्दाजरति च ॥ ४६ ॥ पत्राभ्रक च सत्वं काँक्षी वा कान्तमाक्षिकं पुटितम् । निर्गुण्डीगृहकन्याचाङ्गेरीपलाशशाकैश्च ॥४७॥ तावत्पुटितं कृत्वा यावत्सिन्दूरसप्रभं भवति । तत्पादशेषलवणं हण्डिकपाकेन पाचितं सुदृढम् ।। ४८ ॥ एकैकं शतव्यूढं बीजवरं जारयेद्रसेन्द्रस्य । . गर्भे द्रवति चौ क्षिप्रं ह्यभिपवयोगेन मृदितमङ्गुल्या ।। ४६ ॥ वीजवराविधानमाह-पत्राभ्रकमित्यादि । पत्राभ्रकमिति अभ्रकस्य पत्राणि, वाऽभ्रकस्य सत्वं, पुनः कांक्षी सौराष्ट्री,कान्तमाक्षिकं कान्त- श्चुम्बक , माक्षिकं वर्णमाक्षिकं एतेषां द्वन्द्व एकत्वं, पुनरेतत् निर्गु- ण्डीगृहकन्याचाङ्गेरीपलाशशाकैः पुंटितं निर्गुण्डी सेफालिका, गृह- कन्या कुमारी, चारी अम्लशाकः, पलाशो ब्रह्मवृक्षः, शाको वृक्ष- विशेषः, एतेषा द्वन्द्वसमास , एतेषांरसंगृहीत्वा पूर्वोषधपुटितं कुर्यात् १तदनिहितं यजारितंग।२यन्त्रनंग.।३गर्भे ते गाध्वीजानां द्रवतीति ग.। ५ ख. पुस्तके नास्ति । ६पिटिशर्वधिना ग. । ७ द्रवन्ति ग.। ८ रसेन्द्रकृते गर्भ ख. ग. । ६ ग. पुस्तके नास्ति । १० कांची ख. ग.। ११ हण्डिकया पाकेन ख. ग.। १२ काञ्ची कासीसं ख.ग.। १३ कान्तं चुम्बकं ग.। १४ ग. पुस्तके नास्ति । १५ एकवत्वं ग. । १६ पुटितं तुषात्,ख. ग. । १७ ग. पुस्तके नास्ति । १८ पूर्वोक्तौषध० ख. ग. । पूर्वोषधं इति केचित् । *. "नियूंढं" इति केचिदिच्छन्ति तथा टीकायामपि । । च इति केच्चिन्न पठन्ति 12 , रसहृदयं तन्त्रम् । ६६ 'धर्म' इति शेषः । तदौषधं पुटितं कृत्वा पुनस्तत्पुटितमौषधं तत्पाद शेषं च चतुर्थांश, लवणं सैन्धवं दत्त्वा, हण्डिकापांकेन हण्डिकार्या मृद्भाजने यो पाकस्तेन पाचितं वह्नौ पुटितं तावत्कुर्याद्यावसिन्दूर- संप्रभ सिन्दूरतुल्यवर्णं भवति । कथं पाचितं कुर्यात् सुदृढं यथा स्या- तथा। एकैकं शतव्यूढामिति । पूर्वोक्तानां सिन्दूरीकृतानामुपरसानाम- धरात् एकैकं एकं एक पृथक्त्वेन शतव्यूढं शंतवारं वाहितं बीजवर जायते, 'कनके' इति शेषः; तद्वीजं रसेन्द्रस्य गर्भे द्रवति, चशब्दात् क्षिप्रंशीघ्रं जरति च। कथं ? अगुल्या अनामिकयायो अभिषवयोगः संमर्दनयोगस्तेनेति विशेषकम् ॥ ४७-४६ ॥ आवृत्तेऽप्यावं हेमवरे क्षेप्यमुज्ज्वले नागम् । त्रिगुणशिलाप्रतिवापं ह्यहिबीज तत्समुद्दिष्टम् ।। ५० ॥ नागेन बीजकरणमाह-उज्ज्वलहेमवरे वर्णश्रेष्ठे, आवत्यै सम्य- ग्द्रुते,नीगं शुद्धसीसकं, आवयं प्रद्राव्यं, किं कृत्वा ? समं स्वर्णसम- भागक्षपंक्षिप्त्वा, पुननांगोपरि त्रिगुणशिलाप्रतिवापं त्रिगुणों या शिला तस्या निवर्वापं कुर्यात् । शिला मनःशिला । तत्सिद्ध अहिबीजं नागयो. गेन बीजं समुद्दिष्ट, 'रसविद्भिः' इति शषः ॥ ५० ॥ वङ्गं तु तेन विधिना हेमवरे क्षेप्य तालवापेन । तारे वा नियूढं बीजवरं त्रुटितसंयोगात्। ॥ ५१ ।। १ तावदादौ तदौषधं ख. ग. । २ हण्डिकायां पाकेन ग.।३त्तथा- हवाग्निनेत्यर्थः ग.। ४ वाहितं शतवारं ख. । वाहितशतवारं ग. । "शतवारं" इति शेषः इति केचित् । ५ कुलकम् ख. ग.। ६ आवर्ते ख. ग. । ७०प्यावर्त्य ख.1 ८ मुज्ज्वलं ग. । ६ श्रावते ख.। १०निर्मलं नाग ख. ग.। ११ श्रावत्यै प्रद्राव्यं ग. । आवर्ते प्रदातव्यम् ख. । १२ नागात्रिगुणा ग.। १३ मनःशिला निक्षेप्येति ख.ग. । १४ अयं वीजंग.। १५ क्षिप्त ग.। * अन्यत्राप्युक्तं सिद्धान्तरूपेणः-कुनटीहतकरिणा वा रविणा वा ताप्यगन्धकहतेन । दरदनिहतासिना वा नियूढं हेम तद्वीजम् । अत्र कुनटी मनः शिला । करिनागः सीसकमित्यर्थः । + उक्तं च-सत्त्वं तालोद्भवं वङ्गं समं कृत्वा तु धामयेत् । तच्चूर्ण वाहयेत्तारे गुणान् यावत्तु पोडश " प्रतिबीजमिदं श्रेष्ठं सूतकस्य तु वन्धनम् । इत्यादि।
७० ? रसहृदयं तन्त्रम् । अथ वङ्गयोगेन वीजमाह-वामित्यादि । तेन पूर्वोक्तन, विधिना विधानेन, तु पुनः, हेमवरे पूर्ववर्णिते, वहं क्षेप्य, तालवापेन हरिताल- निक्षेपेण नियूढं कुर्यात्, वा तारे यावत्यै वङ्गं निक्षिप्य नियूद्धं निर्वाहितं सद्वीजवरं भवेत् । कस्मात् ' त्रुटितसंयोगात् त्रुटितं भवति तथा बीजवरमिति वङ्गवीजं, तत् पूर्ववत् द्रवति जरति च ।। ५१ ॥ यो निःसृतो भुजङ्गारसकेशरीवज्रपञ्जरः स पुनः । फणिहमगुणात्कुटिलो रसाङ्कुशो नाम विख्यातः ॥ ५२ ।। सुवर्णाभिधानवीजप्रशंसनमाह-य इत्यादि। (जगात् सीसकात् नि.सृतः भुजङ्गशिलावापेन क्षयं नीत्वा यः पृथग्भूतः; स रसकेसरी- वज्रपञ्जरः कथितः रस एव केसरी सिंहः, तदर्थ वज्रपञ्जरः वज्रेण व्यधितः पञ्जरोऽतिदृढत्वात्, सिहरक्षणसमर्थ इत्यर्थः । पुनर्विशेषे- णोच्यते-अयं वज्रपञ्जरो किंतु अयं रसांकुशः रसो गजरूपः तस्यांकश. वशीकरणसमर्थः । नाम संभावनायाम् । विख्यातः प्रक- थितः । कस्मात् ? कुटिलात् किमपि वस्तुहरणात्, कुटिलो वक्रो भवति दुष्टस्वभाव एत्र, अनेन हेना नागहरणं कृतम् । कयंभूतात् कुटिलात् ? फणी भुजङ्गः, हेम वर्ण, तयोर्गुणा विद्यन्ते यस्मिन् एवं विधात्, कुटिलादेशो युक्तः अङ्कुशोऽपि वक्रो भवतीति । अंत्र भ्रान्तिमानलङ्कारः हेमबीजे वज्रपञ्जर-गजांकुशदर्शनाद्भान्तिर्जातेति॥५२॥ एवं पक्कं विधिना वीजवरं सूतराट् तथाम्लेन । कर्तव्यः संस्खेद्यो यावपिष्टी भवेच्छलक्ष्णा ।। ५३ ॥ वीजस्यास्य पिष्टीकरणमाह - एवमित्यादि । एवं अमुना प्रकारेण, विधिनार्थादुपदेशेन, पकं यद्वीजवरं, तथा पूर्वसंस्कृतः सूतराट् पारदः, अम्लेन जम्बीरादिना संखेयः खेदाख्यो विधि. कर्तव्यः । अत्र १ पूर्ववर्णे ख. । पूर्णवणे ग. । २ तालकवापन ख. ग. । ३ श्रावत ख.।४ तृटितसंयोगात् त्रुटितं ग.। ५ अथ बीजप्रशंसन० ख.ग.। ६ सुवर्णेऽभिधाने भुजङ्गात् ग । ७ व्यथितः ख.। ८"०पारो नाम यं रसाकुशं वा, रसो०" ख. ग । प्रथितः ख.ग.। १० कुटिलदंशो ग.। ११ पुनः सत्यं ज्ञायमन्यःभ्रान्ति० ग.। १२ वीजस्यापि ख. ग. । १३ विधिना कर्तव्यार्थोपदेशेन ख. ग.। १४ खेद्यः खेदत्याय विधिः ग.।
- रसहृदयं तन्त्रम् । ७१ किमावधिस्तत्कर्तव्यो ? यावत् श्लक्ष्णा स्पष्टा पिठी एकशरीरता भवेत्, रसबीजयोरिति शेपः ॥ ५३ ॥ तैलेन तेन विधिना स्विन्ना पिष्टी भवेदखिलम् । अथवा श्लक्ष्णं शिलया निघृष्टबीजं भवेत्पिण्डी ॥ ५४॥ विध्यन्तरमाह-तैलेनेत्यादिना । तेन पूर्वोक्तेन, विधिना वधवि- धानेन, तिलतैलेन खिन्ना खेदिता सती पिष्टिर्भवति, वह्नाविति शेपः। अथवेति विधानान्तरं दर्शयति । शिलया दृषन्मय्या, निवृष्टवीजं निघृष्ट घर्षितं यद्वीजं नागाण्यं तत्, सूतेनेति शेषः, अखिलं समस्त यथा स्यात्तथा पिटिर्भवतीति ॥ ५४॥ पाको चटकविधिनो कर्तव्यस्तलयोगेन । क्रामणपिण्ड क्षिप्त्वा मषिश्च स्यात्सुदृढपिएंडत्वम् ।। ५५ ॥ यथा वटकः पाच्यस्तथाह-पाक इत्यादि । वटकविधिना माषवटकविधिना, तैलयोगेन पाकः कर्तव्यः वह्नौ पाचन विधेयमि- त्यर्थः । किं कृत्वा ? कामणपिण्डे क्षिप्त्वा विडपिण्डमध्ये स्थाप्य, च पुनर्मापैरन्नविशेषैईढपिण्डत्वं स्यात् माषचूर्णवष्टितं क्रामणपिण्डं दृढ़ भवेदिति व्यक्तिः॥ ५५ ॥ मृद्वग्निना सुपक्वं दग्ध यावन्न तद्भवेत्पिण्डम् । प्राकृष्य चाथ सूतं पिण्डे शेष तथा पुनः पाच्यम् ॥ ५६ ।। तद्विधानमाह-मृद्वित्यादि । भाषचूर्णितजातं क्रामणपिण्डं तावत् सुपक्कं कर्तव्यं यावद्दग्धं न भवेत् । केन सुपकं ? मृद्वग्निना कोमलव- हिना पुटः: तत्पिण्डतः शेष शिष्टं तं निर्मलपारदं आकृष्य गृहीत्वा पिण्डमन्यस्मिन् पिण्डे तथा पूर्वप्रकारेण पाच्यमिति ॥ ५६ ॥ अथवाप्यौपधापण्डे दोलातप्ते परे विधिना । पुनरपि पिण्डे क्षेप्यं गर्भे यावद दुनिर्भवति ।। ५७ ।। "सिष्टी" ग. । २ अथ केचिद् ग. । ३ पिष्टिर्भवति वेति ग. । ४ "पाको ऽथ" इति केचित् ।५ वटकविधाने ग.। ६० स्तेन योगेन" खः । ७ "माः" इति केचित् । - स्यात्सुदृढ़ पि० ख.। ६ तैलयोगेन वटकविधानेन माषवटकविधौ पाक. कर्तव्यः ग. । १० स्वच्छ ग. । ११ तन्मापच० ख. ग.। १२ केवलवाहिना ग. । १३ पुनः खः । १४ स्वच्छं मतं ग. ! १५ सुवारे स्व. ग. १६ गर्भरण वयो द्रुः ग.।
७२ रसहृदयं तन्त्रम् । अपरं चाह-अथवेत्यादि । अथवेति प्रकारान्तरे । पुनरपि पिष्टी- दोलात औषधपिण्डे दोलयोत्तप्ते उष्णतां नीते क्रामणोपधानां पिण्डे क्षेप्य मध्ये स्थाप्य; कस्योपरि ? खपरे मृन्मयपांत्रोपरि। केन विधिना? पूर्वोक्तेन तैलेन वा अम्लनेति । कियत्कालं ? यावद्र्भे रसोदरे पिष्टी द्रवति तावद्विडान्तरे पिण्डान्तरे क्षेप्येति तात्पर्यार्थः ॥ ५७ ॥ एव द्रतं हि गर्भे वीजवरं जरति रसराजे । गर्भद्रत्या रहितं बिडयोगैर्जरति गर्ने च ।। ५८ ॥ इति परमहंसपरिव्राजकाचार्यश्रीमदोविन्दभगवत्पादविरचिते रसहृदयाख्ये तन्त्रे गर्भद्रुत्यात्मकः पञ्चमोऽववोधः । अपरं चाह-एवमित्यादि । एवं अमुना प्रकारेण, गर्भे रसोदरे, जरति निःशेषत्वं प्राप्नोति, च पुनर्गर्भद्रुत्या रहितं रसांदरे द्रवेण वर्जितं वीजवरं पिडैर्जरति द्रुतवीजमारणसमर्थो विड इत्यर्थः । “द्रुतग्रासप- रीणामो विडयन्वादियोगतः । जारणेत्युच्यते तस्याः प्रकारा. सन्ति कोटिशः" प्रकारा 'यन्त्राणां' इति शेषः । जारणभेदास्तु-"प्रासस्य चारणं गर्भद्रावणं जारणं तथा । इति त्रिरूपा निर्दिया जारणा वरवा- तिकैः"-इति ॥५॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविरचितायां मुग्धावबोधिन्या रसहृदयटीकायां गर्भद्रुत्यात्मकः पञ्चमोऽववोधः ॥५॥ अथ षष्ठोऽवबोधः। अथ वीजादिप्रमाणजारणयुक्तिः प्रारभ्यते । परितापको धूर्तखलव्यसनिनां च यः । सत्यधर्मपरीतानां चन्द्रचन्दनसाधुवत् ॥ ग्रासमिति चारयित्वा गर्भद्रति ततो भूले। लवणक्षाराम्लसुधासुरभीमूत्रेण कृतलेपे ॥१॥ १>लातले ख. ग. । २ मृन्मयपात्रपिण्डोपरि ख. ग. । ३निश्चितं एवं ग.। ४ समर्था बिडा ग.। ५ मन्त्रणा ग. । ६ वीजादिजारणा० ग.। ७तरा ।
रसहदयं तन्त्रम् । ७३ गर्भतिजारणमाह-ग्रासमित्यादि । पूर्वोक्तप्रकारेण ग्रासं कवलं यथासंख्य चारयित्वा, पुनगर्भवतिं कृत्वा, ततस्तदनन्तरं तद्गर्भद्रुतं सूतं, भूर्जे भूर्जवृक्षत्वक्पुट के स्थापयदित्यर्थः। किंविशिष्टे भूजें ? लवणक्षाराम्लसुधासुरभीमूत्रेण कृतलेपे, लवणानि सैन्धवादीनि, क्षाराः खर्जिकादयः, अम्लो जम्बीरादिः, सुधा शक्तिचूर्ण, सुरभी धेनुस्तन्मूत्र, एतेन योगेन कृत्वा कृतो लेपो यस्मिन् । उदरेद्भुतियुक्तः सूतः स्थाप्य इत्यर्थः* ॥१॥ दृढवस्त्रबाह्यवद्धे दोलाखेदेन जारयेद्यासम् । सौवीरेणार्धपूर्णे कुम्भे सक्षारमूत्रकैरथवा ।। २॥ अथ जारणविधानमाह-दृढेत्यादि । दृढवस्त्रवाहबद्ध इति दृढं नूननं धनं च यद्वस्त्रं तेन बाह्ये सर्वतो बद्ध संयते, पूर्वोक्तेन दोला- स्वेदेन दोलायन्त्रविधिना यः खेदस्तं कृत्वा, ग्रासं रसान्ततं कवलं जारयेत् । कुन ? कुम्भे कलशे, किंविशिष्टे ? सौवीरेणार्धपूर्णे सौवीरेण खेदनसंस्कारोदितकाक्षिकेन कृत्वा अर्धपूर्णे । अथवेति विध्यन्तरे। सक्षारसूत्रकैः सह क्षारैः स्वर्जिकादिभिः वर्तन्ते यानि मूत्राणि गोजाविनारीणामिति शेषः, एतैः अर्धमृते कुम्भे जारये- दित्यर्थः ॥ २॥ अमुना क्रमेण दिवसैस्त्रिभिस्त्रिमिरियेद्ग्रासम् । जीर्णस्य लक्षणमथो ज्ञेयं यन्त्रात्समुद्धत्य ॥३॥ अथ रसजारणे कालसंख्यामाह-अमुनेत्यादि । अमुना क्रमेणेति उत्तप्रकारेणं, त्रिमिस्त्रिमिदिवसः त्रिभिः संख्याकैर्दिवसैः ग्रासे जाते अन्यग्रासः क्रियते गर्भगृतीसः क्रियते, गर्भगृतप्रासः त्रिदिवसर्जर- तीति भावः । अथेति त्रिदिनखेदानन्तरं जीर्णस्य रसस्य लक्षणं शेयं १ जायित्वा ख. ग.। २ स्थापयेदिति शेषः ख. ग.। ३ सुधा- शब्दोऽत्र स्नुहीवाचकः तन्त्रान्तरसंवादात् इति जयदेवः । ४ वेद- स्तन ख. ग.। ५ संस्कारोचितका० ख. ग.। ६ गोजाविनरनारी० ७ अर्ष भृते ख. ग.। ८ कुम्भे वा ख. ग. । ६ उक्तक्रमेण स्व. ग । १० जायते ख. ग. । ११ गर्भद्रुतिग्रासः खः । १२ गर्भद्रुति- ग्रासः ख. ग.। १३ दिनखे० ख. ग.। उक्तञ्च तन्त्रान्त्रे पटवम्ल तक्षारगोमूत्रस्नुहीतीरपलेपिते । यहिश्च बढे वस्त्रेण भूर्जे ग्रासनिवेशितम् ॥ क्षारारनालमूत्रेषु खेदयेत्ति- दिनं भिषक् । इति ॥ १० ख.ग.। - ७ रसहृदयं तन्त्रम् । असोजी न वेति ज्ञातव्यः । किं कृत्वा ? यन्त्राद्दोलिकाभिधाना- दुधृत्य यन्त्राहिहीत्वेति ॥३॥ उद्धतमानं पात्रे प्रक्षाल्य काञ्जिनातः । समलं च काञ्जिकमतो हरणार्थ वस्त्रयोगेन ॥४॥ रसमलापनयनमाह-उधृतेत्यादि । उधृतमात्रमिति यन्त्राद- हिहीतमात्र तत्पात्रे भाजने मृन्मये काचिकेन प्रक्षाल्य । पुनरतो रसात्समलं मलसंयुतं कालिकं हरणीयं वहिः कार्यम् । केन कृत्वा ? वखायोगेन वस्त्रे क्षिप्तं सत् तदेव तिष्ठति न काञ्जिकम् ॥ ४॥ तदनु सुखोष्णे पात्रे संम?ऽसौ यथा न हीयेत । तावद्यावच्छष्यति तल्लनं काञ्जिकं सकलम् ।। ५ ।। तस्यैव विधान चाह तदन्वित्यादि । तदनु वस्त्रयोगानन्तरं सुखो- कणे पात्रे असौ रसः समद्यः। कथं ? यथा न हीयेत नाशं नाप्नु यात् ; अत्यौष्ण्यात्, वा कांस्यताम्रनागवङगकनकतारपात्रात्, वा दृढ- करघातात् रसोहीन एव स्यात्। अतोऽसौ पारदस्तावत् समर्यो यावल्लग्नं काञ्जिक रससंसर्गसौवीरं शुष्यति निःशेषतां यातीत्यर्थः ॥५॥ इत्थं च शोषितजलः करमर्दनतः सुनिर्मलीभूतः। पीड्यः पात्रस्योपरि वस्त्रेण चतुर्गुणेनैव ॥ ६ ॥ तस्यैव विधानं चाह-इत्थमित्यादि । इत्थं अमुना प्रकारेण, कर- मर्दनतः, हस्ततलमर्दनंतः, सुनिर्मलीभूतो मलरहितः, शोषितजलो रसश्चतुर्गुणेन वस्त्रेण कृत्वा पात्रस्योपरि पीड्यः ॥६॥ १'च हीयते नैव' इति ख. ग.। २ अयं ग.। ३ समर्थः ग.। ४ "न हीयते नाशं नाप्नोति" इति ख. ग. ।५ अत्युष्णपात्रात् ग. । ६ हीयते एव ख. ग.। ७ असौ ग.। रससंसर्गि ख. ग. । हस्तत. लघर्षणतः ख. ग.. टीकाकारेणात्र "हरणीय" इति कृत्वा श्रन्यथा व्याख्यातोऽय- श्लोकः । अस्मन्मते तु-जीर्णग्रासलक्षणशानाय क्रियाक्रमोऽयम् । तथा च-अतः रसात् समलं मलसंयुक्तं कालिकं हरणार्थ काञ्जिकेन विशुद्धेनापरेण कालिकेन उद्धृतमात्र दोलायन्नादहिहीतमात्रं पारदं पात्रे वस्त्रयोगेन प्रक्षाल्य । तदन्धिल्यायग्रेऽभिसम्बन्धः च शब्दाश समलायो. क्षारमूत्राहयोर्ग्रहणं कर्तव्यम् । इति जयदेवः ॥
७५ रसहृदयं तन्त्रम् । यदि परिगलितः सकलो वस्त्राद ग्रासेन चैकतां यातः। न भवति यदि दण्डधरो जीर्णग्रासस्तदा ज्ञेयः ॥७॥ जीर्णग्रासलक्षणमाह-यदीत्यादि । तदा पारदो जीर्णग्रासो शेयः जीर्णो निःशेषत्वमापन्नो ग्रासो यस्मिन् स तथोक्तः । यदि सकलः सर्वः, वखात्परिगलितः चतुर्गुणवस्त्रात् च्युतोभवति 'पात्रे इति शेषः । पुन- यदि प्रासेन सह एकता यातः सन् मिलितः सन्, रसो दण्डधरो न भवति स्थिररूपो न स्यात्, तदा जीर्णग्रासोज्ञातव्य इत्यर्थः ॥ ७॥ ग्रासादजीर्णपिष्टी सूतादुद्धत्य पातयेद्यत्रे। स्वस्थो भवति रसेन्द्रो ग्रासः पक्का पुनर्जरति ।। ८॥ अथ रसाजीर्णलक्षणमाह-ग्रासादित्यादि । पासात् कवलसंयो- गात् अजीर्णपिष्टी अजीर्णा अपरिपक्का या पिष्टी पूर्वोक्तलक्षणा तां, सूतात् रसात्, यन्त्रे पातनकर्मोचिते पातयेत् । एवं प्रासात्पृथकृत्य पतितः स्वस्थी निर्मलो भवति । पुनासः पको वह्नि तैले दत्त्वा पक्का कृतस्तं रसेन्द्रो जरतीति ॥ ८॥ दोलायां चत्वारो ग्रासा जार्या यथाक्रमेणैव । शेषाः कच्छपयत्रे यावद् द्विगुणादिकं जरति ॥ ६ ॥ १ भस्त्राद ग. । २ पुनर्यदा ग. । ३ रसो यदि द० ग. । ४ पिष्टीसूतकादु० ख. ग. ५ अजीर्णपिष्टी रसेन्द्रः अजीर्णा अपरिमिता पिष्टी पूर्वोक्तलक्षणा यस्मिन्निति एवं विधं रसं यन्त्रे ख. ग.। ६ख. ग. पुस्तके नास्ति ॥ ७ ग्रासात्पृथक् कृत्य पुनः ख. ग. ॥ ८ तलोदरीकृतस्तं ख.ग.। ६ 'यथा' इति नास्ति ख. ग. । * उक्तं हि-क्रमेणानेन दोलायां जार्य प्रासचतुष्टयम् । ततः कच्छपयन्त्रेण ज्वलने जारयेद्रसम् । रसरत्नसमुच्चयेऽपि-पीतास- वाम्लं खात्सत्वं कान्तं वा तीदणमेव वा। चतुःषष्टितमांशेन प्रमितं क्षिप्तमल्पशः ॥ तप्तखल्वेऽम्लयोगेन श्लक्षणवत्तं विमर्दयत् । भूर्जे क्षाराम्ललवणस्नुह्यकक्षीरलेपिते ॥ वद्धं वस्त्रावते खिन्नमम्ले समरसे रसम् । धौतमुप्णारनालेन शुप्कमङ्गुलिमर्दितम् ॥ पचेकच्छ- पयन्त्रस्थमटमांशविडान्वितम् । स्वप्रमाणरसस्तिष्टेजीणे ग्राले त्वजीर्यनि ॥ पातयेदासवाम्लेन मर्दयतस्वेदयेच तम् । जारणे जारणे वाह्न ग्रासं च परिवर्धयेत् ॥ द्विगुणं योजयेदेवं सत्वमभ्रकसंक्षकम् ॥
७६ रसहृदयं तन्त्रम् । ग्रासजारणायां यन्नादिकरणमाह-दोलायामित्यादि यथाक्रमेणैव चतुःषष्ट्यादिनैव चत्वारो ग्रासा दोलायां जार्याः; शेपा ग्रासाश्चत्वारः असंख्या वा कच्छपयन्त्रे जलयन्त्रे च जार्याः । शेषाश्चत्वारः कुतः ? यतो ऽन्येशापु अटैच ग्रासाः । जारणे किमवधिः? यावद द्वि- गुणादिकं जरति पारदाद्विगुणितं, आदिशब्देन द्विगुणान्यून न कार्य, अधिकमधिकं च भवतु शस्त्यवतारेऽष्टी, बृहच्छास्त्रे क्वचिदष्टौ ग्रासा उक्ताः कचिद्विशतिनासा इति ॥ ६॥ नादौ कतु शक्योऽत्र ग्रासग्रमाणनियमस्तु । ग्रमते नहि सर्वाङ्गं गगनमतो लक्षणैज्ञेयम् ॥१०॥ ग्रासेऽनिर्दिसंख्यत्वं दर्शयन्नाह नेत्यादि । अत्रास्मिन् शास्त्रे, आदौ प्रथम,ग्रासप्रमाणनियमः कर्तुं न शक्यः । यतः कारणात् गगन- मधे सर्वाङ्ग न असते 'रस' इति शेषः । तत्सर्वाङ्गग्रस्तं गगनमभ्रं लक्षणैरेव ज्ञातव्यमित्यर्थः ॥ १० ॥ *यदि हि चतुःपष्टयान् ग्रसति रसस्तदा धरेदण्डम् । चत्वारिंशद्भागप्रवेशतः पायसाकारः ॥ ११ ॥ चतुःषष्ट्यंशादिनासे रसाकारमाह -यदीत्यादि । यदि चेद्रसे: चतुःषष्टयंशान् प्रमाणतो ग्रास ग्रतति, हि निश्चितं, तदा दण्डधारयेत् वस्त्रान्न क्षरतीत्यर्थः । पुनश्चत्वारिंशद्भागप्रवेशतो ' रसोदरे' इति शेषः, तदा पायसाकारः कथित दुग्धाकारो भवेत् निविडत्वात् ॥११॥ १ यन्त्रादिकमाह ख. ग.। २ “यथा" इति नास्ति ख. ग. । ३ च निमित्त जार्याः ख. ग.। ४ अजारणे ग.। ५ ग्रासेऽटसं० ख.ग.। ६ अतः ग. । ७ तत्सर्वाङ्गमभ्रमग्रस्त लक्षणैरेवं ज्ञात० ग. तत्सर्वाङ्गमग्रस्तं गगन० ख. । ८ षष्ट्यंशाः ख. ग. । ६ चतुःषप्रयं- शतो ग्रासे ग.। १० चेद्रसे ख. ग.। ११ चतुःषष्ट्यंशाः ख. ग.। भगवद्गोविन्दपादमते तु चतुःषष्टिचत्वारिंशत्त्रिंशद्विशतिपोड- शांशाः पञ्चपासा. । अत्र पृथक् २ जीर्णानां लक्षणान्यप्युक्तानि । अन्यत्र तु-"चतु'षष्टयंशकः पूर्वी द्वात्रिशांशो द्वितीयकः । तृतीयः पोडशःशस्तु चतुर्थोऽष्टांश एव च ॥ चतुःषष्टयंशकग्रासाइण्डधारी भवेद्रसः । जलौकाबद् द्वितीये तु ग्रासयोगे सुरेश्वरि । ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् ॥ ग्रासेन तु चतुर्थेन दविमएडसमो भवेत् ॥ इति । * . रसहृदयं तंन्त्रम् । भवति जलौकाकारस्त्रिंशद्भागादविप्लुषश्च विंशत्या । छेदीव षोडशांशादत ऊर्ध्व दुर्जरो ग्रासः ॥ १२ ॥ तदेवाह-भवतीत्यादि । त्रिंशद्भागात् त्रिंशद्भागस्य जारणतो जलौकाकारो भवेत् 'रस' इत्यध्याहारः । पुनः विंशत्या विंशद्भाग- जारणेन अविमुषो भवेदासनान्न चलति । पुनः षोडशांशात् षोडशांश- भागजारणतः छेदी भवेत् चरिकादिभिः छेदे कृते पृथक्त्वमाप्नोति । श्रतः षोडशभागादूध ग्रासो दुर्जरो भवेत् ॥ १२ ॥ पञ्चभिरेभिग्रासधैंनसत्वं जारयित्वाऽऽदौ । गर्भद्रावे निपुणो जारयति बीजं कलांशेन ।। १३ ।। तञ्चाह-पञ्चभिरित्यादि । एवं उक्तप्रकारेण पुनर्गभद्राचे निपुणः रसोदरे अभधावादीनां द्रुतिकरणे प्रवीणः पुमान् , कलांशेन प्रासं योजयेत् । किं कृत्वा ? पञ्चभिः पूर्वोक्तैः ग्रासश्चारु यथा स्यात्तथा धन- सत्वमादौ जारयित्वा, पंश्चभिर्मासैघनसत्वजारणानन्तरं षोडशभागेन बीजं जारयेदित्यर्थः ॥ १३॥ धूम्रश्चिटिचिटिशब्दो मण्डूकगतिस्तथा सकम्पश्च । निष्कम्पो भवति रसो विज्ञातव्योऽभ्रजीर्णस्तु ।। १४ ।। अभ्रकजीर्णरसलक्षणमाह-धूम्र इत्यादि । श्रभ्रजीर्णरस एवंविधो भवति, अभ्रं जीर्ण यस्मिन् स तथोक्तः। वह्नियोगात्प्रथमं धूम्रो धूम्राभो भवति, पुनश्चिटिचिटिशब्दोभवति, ततो मण्डूकगतिर्भवति, पुनस्तथा तेन प्रकारेण घृते सति सकम्पो भवति, पुनर्वह्नौ निष्कम्पः स्वस्थो भवति, अभ्रसत्वद्रुतस्य लक्षणमिति ॥ १४ ॥ १ "दुःखेन जारयित्वादो गर्भद्रावणनिपुणो जारयेद् ग्रास कला- शेन" इत्यधिकः पाठः ग. पुस्तके समुपलभ्यते । २ पञ्चभिरेव ग्रा० ख. ग. । “पञ्चभिरेवं ग्रा०" इति आयुर्वेदप्रकाशस्थः पाठः । ३गर्भ- द्रावी ख. ग. 1 ४ "जरयति' इति श्रा०प्र० । ५ पुनर्गर्भद्रावणनि० ख. ग.। ६ अभ्रसत्त्वादीनां ख. ग. । ७ द्रवकारणे ख. ग.। ८ जार. येत् ख. ग. । ६ पञ्चभिरेवग्रासै० ख. ग. । १० ग. पुस्तके नास्ति । ११ "वह्रियोगात्" इति ग. पुस्तकं नास्ति । १२ गर्भसत्व० ख. ग. ।
७८ रसहदयं तन्त्रम् । कपिलोऽथ निरुदारी विप्लृषभावं च मुञ्चते सूतः । निष्कम्पो गतिरहितो विज्ञातव्योऽभ्रजीर्णस्तु ॥ १५ ॥ तदेवाह-कपिल इत्यादि । पुनरेवंविधोरसोऽभ्रजीर्णो विज्ञातव्यः। कीदृशः ? कपिल. वर्णतः, निरुद्वारी स्थिरभावः, पुनः स रसो विलुष- भावं चञ्चलत्वं मुञ्चते । पुनर्निष्कम्पः स्वस्था, पुनर्गतिरहितः पक्ष- च्छिन्नः, इति लक्षणान्यभ्रजीर्णस्य भवन्ति ॥ १५ ॥ "जलपूर्णपात्रमध्ये दत्त्वा घटपरं सुविस्तीर्णम् । तदुपरि बिडमध्यगतः सूतः स्थाप्यस्ततः कुड्ये ॥ १६ ॥ लघुलोहकटोरिकया कृतपटमृत्सन्धिलेपयाच्छाद्य । पूर्ण तद्धटखपरमगारैः करीपतुपमित्रैः ।। १७ अथ कच्छपयन्त्रमाह-जलेत्यादि । जलपूर्णपात्रमध्ये इति जल- पूर्ण यत्पात्रं तस्य मध्ये, सुविस्तीर्ण सुन्दरायतं, घटखपरं कुम्भखण्डं दत्त्वा, तदुपरि खपरोपरि, विडमध्यगतः सूतः स्थाप्यः । कुत्र ? कुड्ये" १ विमुषीभावं ख. । विमुषिभावं ग.। २ कपिलवर्णः । ३ विप्लवभावं ख. ग. । ४ प्यथ खपरं ख. ग. । ५ कुड्याम् ख. ग.। ६ पूर्व ख. ग. । ७ मझारे ख. ग। ८ ततः ग.। किंविशिष्टः ख. ग. । १० कुड्यां मृदा विनिर्मिता या विशालमुखा ख. ग. । अग्रे ग्व. पुस्तके कृत्यां इति पठ्यते । ग. पुस्तके च कृतः कच्छपाख्ययंत्रमिति पठ्यते । अन्यत्राप्युक्तं-कुण्डाम्भसि लोहमये सविडं सग्रासमीशजं पात्रे । अतिचिपिटलोहपाच्या पिघाय संलिप्य वह्निना योग्यः । तथा तन्त्रान्तरेऽपि-सच्छिद्रं सलिलापूर्णभाण्डवक्त्रे शरावकम् । दत्त्वा छिद्रे पक्कमूषा देया नीरावियोगिनि । तस्यां बिडावृतः सूतो देयो लोहावृते मुखे । दत्त्वा वालुकामुपरि मुद्रां कृत्वा शनैः शनैः । मातो ध्मातो ग्रसत्येव काञ्चनं सूक्ष्मतां गतम् ॥ मूलोक्तं लक्षणमेव किंचित्परिवर्त्य रसरत्नसमुच्चयकारेण पठितं, तत्र हि "स्थाप्यस्ततः कुड्ये" इत्यत्र "स्थाप्यः सूतः कृतः कोप्ट्याम्" इति, "कृत्पटमृत्" इत्यत्र च "कृतपण्मृत" इति, “पूर्ण तद्घटखर्परमगारैः". इत्यत्र च "पूर्वोक्तघटखपरमध्येऽङ्गारै.” इति, तथा च करीपतुषमिथै." इत्यत्र "खदिरकोलभवै." इत्यस्ति । .
७६. रसहृदयं तन्त्रम् । मृदा विनिर्मिते विशालमुखे, लघुलोहकटोरिकया अतिलध्वी या लोहस्य मुण्डादेः कटोरिका पात्रविशेषः, तया बिडावृतं सूतं आच्छाद्य आसमन्तात्सरुध्य । किंविशिष्टया ? कृतपटमृत्साधिलेपया कृतः पटमृद्भ्यां सन्बेलेपो रोयो यस्याः सा तया । पुनस्तत्कुड्यान्तर्गतघट- खपर अङ्गारैः पूर्ण, किंविशिष्टैः ? करीषतुषमित्रैः करीषो गोमयस्य चूर्ण, तुषाः शाल्यादेर्धान्यस्य तैर्मिश्रितैरिति ॥ १६ ॥ १७ ॥ खदनतो मर्दनतः कच्छपयन्त्रस्थितो रसो जरति । अग्निबलेनैव ततो गर्भद्रेतिः सर्वलोहानाम् ॥ १८ ॥ कच्छपयन्त्रे यद्विहितं तदाह-खेदनत इत्यादि । कच्छपयन्त्रस्थी रसो जरति 'ग्रासं' इति शेषः । कुतः ? खेदनतः वह्नौ परितापतः । न केवलं खेदनतो मर्दनतश्च 'बिडादिना' इत्यध्याहारः । ततो अग्नि- वलेनैव सर्वलोहानां स्वर्णादीनां अस्मिन्नन्तराले गर्भद्रुतिर्भवति, अत्राग्निबलमेव मुख्यम् ॥ १८ ॥ एवं दत्त्वा जीर्यति न क्षयति रसो यथा तथा कार्यः । क्षयमेति क्षारंबिडैः स तूपरसैासमन्दिरति ।। १६ ।। इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयतन्त्रे वीजादिजारणात्मकः षष्ठोऽववोधः । अथ जारणायां विधिद्वयमाह-एवमित्यादि । एवममुना प्रकारेण कच्छपयन्त्रे निधाय जीर्यति 'ग्रास रस' इति शेषः । यथा रसो. क्षयति क्षयं नाप्नोति तथा कार्यो 'विधिः' इति शेपः । कार्यस्याश्रयर- क्षणायेति भावः । पुनः क्षारविडैः क्षयमेति नाशमानोति 'पास' इत्य ध्याहारः । पुनः स रस उपरसैर्गन्धादिभिः प्रासं उत्प्राबल्येन गिरति गिलतीत्यर्थः । "क्षारैरम्लैश्च गन्धाधैमूत्रैः पटुभिरेव च । रसग्रासस्य १ "तत. बिडावृतः सूतः प्रा०" ग. । २ संरुद्धः ग.। ३ पूर्व ग.। ४"शाल्यादेवन्यतमैः मि०" ख. ग.। ५ "गर्भे द्रवन्ति सर्वसत्वानि" इति र० र० स० पाठः ।६ वह्ने ख. ग.।७अत्राग्निवल एव मुख्याग.। ८ क्षमति ख. ग । सारविडेः ख. । १. रसोपरसान् क्षयति ख. ग.।
50 रसहृदयं तन्नम्। जीर्णार्थ विडः स परिकीर्तितः" इति परिभाषा । विडशब्देन पिण्डः ॥१६॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजश्रीचतुर्भुजविर- चितायां मुग्धावबोधिन्यां रसंहृदयटीकायां वीजादिजारणा- त्मकः पष्ठोऽववोधः ॥६॥ अथ सप्तमोऽवबोधः। अथ विडविधानमारभ्यते । ग्रासं न मुञ्चति न वाञ्छति तं च भूयः कांश्चिद्गणान् भजति भुक्तविभुक्तिमात्रात् । यजीर्यते प्रचुरकेवलवहियोगा- तस्मादिडैः सुनिषिः सह जारणा स्यात् ॥१॥ विडैारणायाः सुगमत्वमाह-ग्रासमित्यादि । ग्रास न मुञ्चति, च पुनस्तमेवान्यग्रासं न वाञ्छति, भूयः पुनः भुक्तविभुक्तिमात्रात् कांश्चिद्गुणान् नित्यं भजति दधाति, ग्रासग्रसनमात्रात् गुणं करोती- त्यर्थः । यतो हेतोडैिवक्ष्यमाणलक्षणैः कृत्वा जीर्यते ग्रासमित्यर्थः । कुतः? प्रचुरकेवलवह्नियोगात् प्रचुर उदग्रो यः केवलवहियोगः शुद्धा- नियोगस्तस्मात् । किविशिष्टै.? सुनिबिडैः धनैः । यतो विडाः श्रेष्ठा- स्तस्माद्विडैरेव जारणा स्यात् सुगमत्वादिति भावः ॥ १॥ सौवर्चलकटुकत्रयकांतीकासीसगन्धकैश्च विडैः । शिग्रो रसशतभाव्यैस्ताम्रदलान्यपि च जारयति ॥ २॥ विडविधानमाह-सौवर्चलेत्यादि । तानदलान्यपि जारयति 'बुद्धि- मान्' इति शेषः,स्वर्णवीजादीनां का कथेति भाव' । कैः कृत्वा विडै कृत्वा । किंविशिऐडैिः ? सौवर्चलकटुकत्रयकांतीकासीसगन्धकैः; सौवचैल रुचक, कत्रयं शुण्ठीमरिचपिप्पल्यात्मकं, कांक्षी सौराष्ट्री कासीसं पुष्पकासीसं, गन्धक लेलितकं, एतान्योषधानि येषु बिडेषु सन्ति ते तथोक्ता., तैः । पुनः किंविशिष्टः ? शिग्रो रसशतभाव्यैः १ १ विडं हि परिकीर्तितम् ग. । २ व्रजति नित्यमनुक्तमात्रात् ख. ग.।३ ग्रासामति स्पष्टम् ग. । ४ ग. पुस्तके नास्ति।
रसहृदयं तन्त्रम् शियोः सोमाञ्जनस्य रसेन शतवारं भाव्याः ये बिडास्ता बिडनिश्चितं जारणा स्यादिति भावः ॥२॥ 'सर्वाङ्गदग्धमूलकभस्म प्रतिगालितं सुरभिमूत्रेण। शतभाव्यं बलिवसया तत्क्षणतो जायते हेम ॥३॥ बिडान्तरमाह-सर्वत्यादि । सर्वाङ्गदग्धमूलकभस्म प्रतिगालित- मिति सर्वाङ्गेन मूलत्वपत्रपुष्पफलेन सह दग्धं भस्मतां प्राप्त यन्मूल- ककन्दं तद्भस्म सुरभिमूत्रेण गोजलेन गालितं कार्य क्षारो ग्राह्य इत्यर्थः । पुनर्बलिवसया बलिमुख्या या जलौकामण्डूकादीनां वसा, यथा च,-"भेकमत्स्यवसा या तु कुकुटस्य वसाऽथवा । भाव्यमेभिः क्रमानन्धं शिशुमारवसापि वा ॥ एका बलिवसा सम्यक् सूतस्य बन्धि- नी परम् । रञ्जनं चैव कुरुते मणिमूषाविधिकमात्" इति । बलिवसया शतं शतवारं क्षारभूतं भस्म भाव्यं; पुनः तच्छतभाव्यमौषधं तत्क्षणतः तत्कालतो हेम स्वर्ण जायते रसो ग्रासभूतं हेम जरतीति, बिडयोगा- दिति भावः ॥ ३॥ कदलीपलाशतिलनिचुलकनकसुरदालिवास्तुकैरएडाः । वर्षाभूवृषमोक्षकसहिताः क्षारो यथालाभम् ।। ४ अथ क्षारवृक्षगुल्मौषधिविशेषानाह-कदलीत्यादि । यथालाभं लाभमनतिक्रम्य, एपांक्षारः कर्तव्यः । ते के ? कदलीपलाशतिलनि- चुलकनकसुरदालिवास्तुकैरएडाः; कदली रम्भा, पलाशो ब्रह्मवृक्षः, तिला प्रतीताः, निचुलो वेतसवृक्षः, कनको धतूरः, सुरदाली देव- दाली, वास्तुकं क्षारशाकं, एरण्डो वातारिः, एते क्षारसंभवाः । किंवि- शिष्या एते ? वर्षाभूवृषमोक्षकसहिताः, वर्षाभूः पुनर्नवा, वृषोवासकः, मोक्षको 'मोखावृक्ष इति प्रतीतः, एतैः संयुता इत्युद्देशः ॥ ४ ॥ १ दाह्यमूलकप्रति० ग.१२ यथालाभः ग. । । अत्र बलिवसया गन्धक नेत्यर्थः तन्त्रान्तरसंवादात् । इति जय देवः । तथा च सिद्धलक्ष्मीखरे-मूल्काईकवीनां क्षार गोमूत्रगालि- तम् । वस्त्रपूतो द्रवो ग्राह्यो गन्धकं तेन भावयेत् । शतवारं खरे धर्मे बिडोऽयं हेमजारणे ॥ तथा रसरत्नसमुच्चयेऽपि-सूलकक्षारगोमूत्रप्रसादेन च गन्ध- कम् । शतशो भावयेत्सर्वमित्यादि।
। रसहदयं तन्नम् । आनीय क्षारवृक्षान् कुसुमफलशिफात्वकावीलरुपेतान् । कृत्वाऽतः खण्डशस्तान् विपुलतरशिलापिष्टगात्रातिशुष्कान् । दग्ध्वा काण्डैस्तिलानां करिसुरभिहयाम्भोभिरास्राच्य वस्त्र- भैस त्यक्त्वा जलं तन्मृदुशिखिनि पचेद्वंशपाकेन भूयः ॥५॥ क्षारकरणविधानमाह-पानी येत्यादि। प्रथम क्षारवृक्षान् पूर्वोक्त नानीय वनान्तराद गृहीत्वा किंविशिष्टान् ? कुसुमफलशिफात्वक्पला शैरुपेतान्, कुसुमानि प्रसूनानि प्रतीतानि, शिफा भूलं, त्वक्त्वचा, प्रवाला नूतनपल्लवाः, एतैः पञ्चाङ्गायैिरुपेतान् संयुतान् । खण्डशः बहुशकलान् कृत्वा । न केवल खण्डशः विपुलतरशिलापिटगात्राति- शुष्कान् कृत्वा, विपुलतरा अतिविस्तीर्ण या शिला तस्यां पिष्टानि गात्राणि येपां तेऽतिशुप्कानिरसाः, तानवविधान् कृत्वा। पुनस्तानेव च तिलाना काण्डै लैः सह दग्ध्वा । पुन.करिसुरभिहयाम्भोभिः हस्ति- गोश्वानां मूत्रैरानाव्य प्राप्लुत्य, तद्भस्म त्यक्त्वा, वस्त्रैर्जलं ग्राह्यमिति शेषः । तजलं मृदुशिखिनि कोमलाग्नौ पचेत् । केन? वंशपाकेन, वंशा- नां समवह्निवत्वात् ॥ ५॥ तच्छुष्यमाणं हि सवाष्पवुदबुदान् यदा विधत्ते क्षणभङ्गुरान् बहून् । तदा क्षिपेश्यूपणहिङ्गुगन्धकं क्षारत्रयं पड् लवणानि भूखगौ ॥६॥ क्षारजलपाकलक्षणमाह-तदित्यादि । तजलं क्षारपानीयं शुष्य माण सत् निश्चितं यदा सवाष्पवुदबुदान विधत्ते सह वाष्पेण जलात्य- यधूमेन वर्तन्ते ये बुबुदास्तान , तदा क्षारो निष्पन्नो शेयः । पुनस्तदा ज्यूषण शुण्ठीमरिचपिप्पल्यः, हिगु रामठे, गन्धक लेलीतवं, पुनः क्षारत्रयं सर्जिंकायवाग्रजटकणातयं, लवणानि षट् सैन्धवादीनि, भूः तुवरी, खगं कासीस, एतानि क्षिपेत् एतत्क्षारणाण सह मिश्र कार्य- मित्यर्थ : ॥६॥ द्रव्याणि संमिश्रय निवृत्त्य भूतले व्यवस्थित शस्त्रकटोरिकापुटे । संस्थापयेत्सप्तदिनानि धान्यगतं प्रयोज्यं रसजारणादिकम् ॥७॥ तथा च द्रव्याणि त्र्यूषणादीनि समिश्य एकीकृत्य, निवृत्य च समद्य, शस्त्रकटोरिकापुटे लोहमयपात्रसंयुटे व्यवस्थित सप्तदिनानि १ "पलाशैo" ख. ग.। २ दग्धं ग.। ३ पचेद्धंसपाकेन ग. । ४ धान्यगं तत. प्रयोज्यं ग.।
रसहृदयं तन्त्रम् । धान्यगतं कस्यचिद्धान्यस्य मध्यगतं स्थापयेत्, कुत्र? भूतले पृथिव्या आस्थाने, ततोऽनन्तरं तत्सिद्धं रसजारणादिकं प्रति प्रयोज्यं; एतद्विड रूपं रसजारणादिषु प्रशस्तमित्यर्थः ॥ ७॥ जम्बीरबीजपूरकचाङ्गेरीवेतसाम्लसंयोगात् । क्षारा भवन्ति नितरां गर्भतिजारणे शस्ताः ॥ ८॥ जारणायां क्षारविधानमाह-जम्बीरेत्यादि । क्षारा उक्तवृक्षोद्भवाः नितरामतिशयेन, गर्भद्रुतिजारणे रसान्तसिजारणे, शस्ता उत्कृष्टा भवन्ति । कुतः ? जम्बीरवीजपूरकचाङ्गेरीवेतासाम्लसंयोगात् जम्बीरः प्रतीतः, बीजपूरको मातुलुङ्गः, चाङ्गेरी अम्लपत्रिका, वेतसाम्ल चुक्रकं, एषां यो रसस्तस्य संयोगात्, एतैर्भाविताः क्षारा विडवत्कार्य- करा इति भावः ॥८॥ विडमधरोत्तरमदौ दत्त्या सूतस्य चाष्टमांशेन । कुर्याजारणमेवं क्रमक्रमाद्वर्धयेदग्निम् ।। ६ ।। इति परमहंसपरिव्राजकाचार्यश्रीमद्भगोविन्दभगवत्पादविरचिते रसहृदयाख्ये तन्त्रे बिडात्मकः सप्तमोऽववोधः । रसे विडयोजनमाह-बिडमित्यादि । श्रादौ प्रथम, सूतस्य रस- स्याप्टमांशेन पूर्वनिर्मितं बिडं अधरोत्तरं अध उपरिभागं च दत्त्वा; एवं अमुना प्रकारेण जारणं कुर्यात् पुनः कस्यते अनेनेति क्रमो बिड- रूपः तत्क्रमः परंपरा तस्मात्, अग्निं विवर्षयेत् 'कर्मकृत्' इत्यध्याहारः, वारं वारं बिडसंप्रयोगादग्निवर्धते ॥ ६ ॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुज- विरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां विडात्मकः सप्तमोऽवबोधः ॥७॥ * अन्यत्रापि कच्छपयन्त्रेण सुवर्णजारणे बिडस्याटमांशत्व- मुक्तं यथा-शश्वद्धृताम्बुपात्रस्थशरावच्छिद्रसस्थिता । पक्कमूषा जले तस्यां रसोऽयांशविडावृतः ॥ संरुद्धो लोहपाच्याथ मुद्रितो दृढमुद्या। वालुका तदुपर्यष्टांगुलमानां विनिक्षिपेत् ॥ हठात्तदुपरि धमातो रसस्तद्गर्भसंस्थितः । मायूरमायुना लिप्तं काञ्चनं ग्रसति ध्रुवम् ॥ अत्र मायूरमायुनेति शिखिपित्तेन ।
रसहृदयं तन्त्रम् । अथाष्टमोऽवबोधः। अथ रसरागोऽभिधास्यते । जीर्णाभ्रको रसेन्द्रो दर्शयति धनानुरूपिणी छायाम् । कृष्णां रतां पीतां सितां तथा संकर्मिश्राम्। ॥ १ ॥ द्योतते दिवि चन्द्रोऽसौ जीर्णेऽभ्रे कान्तिमत्तया। तथेह तामुपाश्रित्य शालते मनुजेषु च ॥ १ ॥ "सुसिद्धविड वात्वादिजारणेन रसस्य हि । पीतादिरागजननं रञ्जनं परिकीर्तितम्"--इति परिभाषा। अभ्रस्य छायाविशेषमाह- जीर्णायक इत्यादि । रसेन्द्रो यदा जीर्णाभ्रो भवति तदा धनानुरूपिणी जीर्णाभ्रसमवर्णा छायां दर्शयति । कृष्णे जीर्णे कृष्णां, रक्तेऽभ्रे जीर्णे रक्तां, पीते पीतां, तथा सिते शुभ्रे सितां, एवं चतुर्विधां छायां दर्श- यति । पुनयोस्त्रयाणां वा चतुर्णा संकरे मेलापे सति द्वित्रिचतुर्णा- मनुरूपिणी छायां दर्शयतीत्यर्थः ॥ १ ॥ कृष्णाभ्रकेण बलवदसितरागैयुज्यते रसेन्द्रस्तु । श्वेत रक्तैः पीतैर्व खलु वर्णतो ज्ञेयः ।। २ ।। अभ्रयोगाद्वर्णविशेषमाह-कृष्णेत्यादि । कृपणाभ्रकेण जीर्णेन रसो बलवान् भवेत् तु पुन असितरागैः कृष्णरागैर्युज्यते । तथा श्वेतेन खेतै रागैयुज्यते, रक्तेन रक्तै', पीतेन पीतैः, कपिलाग्नदिव्य- स्यापि सर्वस्यादर्शनरूपक्षयकरस्य बलद्रव्याणां तादृशो वर्णो रस- वर्णतो वर्णकोविदेहयः ॥ २ ॥ अथ निजकर्मे वर्ण न जहाति यदा स रज्यते रागैः । क्रमशो हि वक्ष्यमाणैनिर्णिको रञ्जनं कुरुते ॥३॥ १जारणा ख. ग.। २ अभ्रकजीर्णस्य ख. ग.। ३ तैर्विवह्नि वर्ण ख., तैर्दिवह्निवर्ण० ग. । ४ रजते ख., रज्यते ग. । ५ वक्ष्यमाणे नि० ख. ग. । | वज्राभ्रकमपि-खेत रक्तं च पीतं च कृष्णमेवं चतुर्विधम् । खेतं श्वेतक्रियासूक्तं रक्ताभं रक्तकर्मणि ॥ पीताभमभ्रकं यत्त श्रेष्ठं तत्पीतकर्मणि ॥ इति रसरत्नसमुच्चये । मूलोक्तश्लोके संकरित्यत्र संकरे इति सुपाठ इति केचित् । .
॥ रसहृदयं तन्त्रम् । अध रञ्जितरसप्रशंसामाह-अथेत्यादि । अथानन्तरं रसः रसेन्द्रो यदा वक्ष्यमाणैः श्वेतादिभिः रागैः रज्यते, तदा निजक, वर्ण स्वकोय- मेव स्वाभाविक रूपं न जहाति न त्यजति, पुनस्तैरेव रागैः निर्णिक्तो रक्तः सन्, रञ्जनं कुरुते रागदायी भवतीति । तथा नो रक्तो न रञ्जन कुरुते, अविद्यमानत्वान्निषेधः ॥३॥ बलमास्तेऽभ्रकसत्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे । बन्धश्च सारलोहे सारणमथ नागवङ्गाभ्याम् ॥ ४ ॥ अभ्रसत्वादीनां योगे रसे व्यवस्थामाह-बलमित्यादि । अभ्रक- सत्वेऽधिकरणे बलमास्ते अभ्रसत्वसंयोगेन रसो बलमाप्नोतीत्यर्थः । पुनस्तीक्ष्णे लोहभेदे जारणरागा जारणेन तीक्ष्णस्था रागाः प्रतिष्ठिता भवन्तीत्यर्थः । सारणमथ नागवङ्गाभ्यामिति नागवङ्गाभ्यां दुःसरणं सारणद्रव्यं सरत इति ॥४॥ कामति तीक्ष्णेन रसस्तीक्ष्णेन च जीयते क्षणाद् ग्रासः । हेम्नो योनिस्तीक्ष्णं रागान् गृह्णाति तीक्ष्णेन ॥ ५ ॥ सर्वकारणं तीक्ष्णमाह-क्रामतीत्यादि। तीक्ष्णेन लोहभेदेन रसः कामति कामणं विदधाति, पुनस्तीदणेन कृत्वा रसो ग्रासः क्षणादल्प- कालतो जीर्यते जारणमाप्नोति, पुनर्हेनः सुवर्णस्य योनिरुत्पत्तिस्थान तीक्ष्णमस्ति, पुनः रागान् रञ्जनभावान् तीदणेन कृत्वा रसो गृह्णाति स्वस्मिन् रागान् दधातीत्यर्थः ॥ ५ ॥ तदपि च दरदेन हतं हत्वा माक्षिकेण रविसहितम् । वासितमपि वासनया घनवञ्चाय च जायं च ॥६॥ तीक्ष्णस्य हिंगुलयोगेन गुणाविषयमाह-तदपीत्यादि । अपि निश्चयेन, तत् तीक्ष्ण, दरदेन हिंगुलेन, हृतं मारित, वा माक्षिकेन वर्णमाक्षिकेन रविसहित ताम्रसंयुतं तीक्ष्ण हतं मारितं, पुनर्वासनया १ "बन्धस्तु" इति आयुर्वेदप्रकाशस्थः पाठः । २ "क्रामणमथ" इति प्रा०प्र०। ३ नागवङ्गमतः ख. ग , "नागवङ्गगतम्" इति श्रा० ४ ख. ग. पुस्तक नास्ति । ५ "क्षणाद" इति आयुर्वेदप्रकाशस्थे पाठे नोपलभ्यते । ६सर्वकरणं ख. ग. । ७ "हत्वा वा मा०" इति ख. ग. पुस्तके नोपलभ्यते। ८ तीक्ष्णहिंगुल ख. ग. । प्रा०प्र० .
५६ रसहृदयं तन्त्रम् । वासनौपधेन वासितं परिभावित, घनवदभ्रवत् चार्य जार्य च, सत्वा- भ्रवत् नान्यथा ॥६॥ कान्तं वा तीक्ष्णं वा काञ्ची चा वज्रसस्यकादीनाम् । एकतमं सर्व वा रसरञ्जने संकरोऽभीष्टः ॥७॥ तीच्णवदेतानाह-कान्तमित्यादि। रसरसने रसेन्द्रे रागकर्मणि, कान्तं चुम्वकपाषाणोत्थं लोहं श्रेष्ठ, वेति समुच्चये, तीक्ष्णं लोहभेदो वा, काञ्ची वर्णमाक्षिकं वा, वज्रसस्यकादीनां वज्रसस्यकावादियैषां ते, तेपा हीरकचपलादीनां, एकतमं तन्मध्यादेकतम, सर्व वा; अत्रा- भीष्टशब्दस्य प्रत्येक संवन्धः; हीरकादीनि रत्नानि, सस्यकाद्या उपचा- तवः । वा रसरञ्जने अयमेव संकरः सर्वेषां कान्तादीनां मेलाप. स, वत्राभीष्टः ॥७॥ कुटिले बलमभ्यधिक रागस्तीक्ष्ण तु पन्नगे स्नेहः । रागस्त्रहबलानि तु कमले शंसन्ति धातुविदः ॥८॥ खे खे विकारे (अधिकार) वक्ष्यमाणमाह-चलमित्यादि । धातुविदो रसवैद्या इति शंसन्ति । इति किं ? कुटिले वलं अभ्यधिकं सर्वाधिक पुनस्तीदणेऽभ्यधिको रागः रञ्जन' तु पुनः पन्नगे नागेऽभ्यधिक स्नेह. स्निग्धत्वं, तु पुन' रागस्नेहवलानि त्रीण्येवोक्तानि कमले ताने, कुटिलतीक्ष्णपन्नगानां जारणाद्रसे यथा बलरागन्नेहा भवन्ति तथैक- ताम्रजारणात्त्रयो भवन्तीत्यर्थः ॥ ८॥ सर्वैरभिर्लोहेमौक्षिकनिहतैस्तथा द्रुतैर्गर्भे । विडयोगेन तु जीर्णो रसराजो धन्धमुपयाति ॥ ६ ॥ रसवन्धनोपायमाह-सरित्यादि । विडयोगेन पूर्वोक्तेन जीर्णो जारणमापन्नो रसराजो वन्धमुपयाति वन्धनमादत्ते । कैः सह जीर्ण ? एभिः पूर्वोक्तैः सर्वै.हैर्धानुभिः । किंविशिष्टै माक्षिकनिहतैः स्वर्ण- माक्षिकमारितैः । पुन. किंविशिष्टैः ? गर्भे रसोदरे द्रुतैर्विद्रुतैरिति ॥६॥ १ 'वज्रसस्यकं वापि' इति पाठान्तरम् । २ वलमप्यवि० ख. ग., "वलमत्यधि०" इति आ० प्र० । ३ "०स्तीक्ष्णेऽति" ख. ग. । "०स्तीच्णे च" इति श्रा० प्र० । ४ "नित्यं प्रशंसन्ति" इति आयुर्वेदप्रकाशस्थः पाठः । ५“माक्षिकमुदित" इति आ० प्र० । ६ "जीएँ.", तथा "जीर्णे" इति पाठान्तरम् । ७ "०वन्धोपाय०" ग.।
रसहृदयं तन्त्रम् । तालकदरदशिलाभिः स्नेहक्षाराम्ललवणसहिताभिः। समकद्विगुणत्रिगुणान् पुटा वहेद्वङ्गशस्त्रादीन् ।। १० ।। वक्ष्यमाणधातून मारणविधानमाह तालकेत्यादि । वङ्गशस्त्रादीन वङ्गं त्रपुष, शखं तीक्ष्णं, ते श्रादिर्येषां तेतान् । काभिः सह पुटो वहे? तालकदरदशिलाभिः, तालकं हरितालं, दरदं हिङगुलं, शिला मनः शिला, तामिः । किंविशिष्टाभिः ? स्नेहक्षाराम्ललवणसहिताभिः; स्नेहः तैलं कगुणितुम्बिन्यादीनां, क्षारः स्वर्जिकादिः, अम्ल जम्बीरादि, लवणानि सैन्धवादीनि, एतैः सहितामिः । एक धातुतो द्वादशांशादा- रभ्य यावत्समकद्विगुणत्रिगुणभागाः समाप्यन्ते तावत्पुटो वहेदिति व्यक्तिः ॥ १०॥ रक्तस्नेहनिषेकैः शेष कुर्याद्रसस्य कृष्टिरियम् । चारणजारणमात्रात्कुरुते रसमिन्द्रगोपनिभम् ॥११॥ पुटितधातुकृत्यमाह-रक्लेत्यादि । उक्तधातुगर्भितं रसं रक्तस्नेह- निषेकैः रक्तो रक्तवर्गः, स्नेहः कगुण्यादीनां, अनयोनिषेकाः सिञ्च- नानि, तैः शेष धातुवर्जितं कुर्यात् ; इयं रसस्य कृष्टिः रसस्य गुणा- कर्षण; पुनरियं कृष्टिः रसेन्द्रं इन्द्रगोपनिभं कुरुते अतिरक्तवर्ण कुरुते। कुतः ? चारणजारणमात्रात् पुनः पुटितधातूनां चारणं च जारणं जीर्णकरणं च तन्मात्रात् वा चारणस्य द्रव्यस्य जारणं तन्मात्रात्; उभयोः पक्षयोरेक एवार्थः, परमुक्तिविशेषः ॥ ११ ॥ अथवा केवलममलं कमलं दरदेन वापितं कुरुते । त्रिगुणं हि चीर्णजीर्ण लाक्षारससन्निभं सूतम्। ॥ १२ ॥ मुख्यत्वेन तानप्रशंसनमाह-अथवेत्यादि । अथवेति विधाना- न्तरे, केवलं शुद्ध वाऽन्यसंयोगेन चर्जितं, अमलं जातपूर्वशोधन, त्रिगुणं चीर्णजीर्ण कुर्यादित्यर्थः, पूर्व चीर्ण चारणमाप्तं पश्चाजीर्ण १०त्रिगुणा ख. ग.। २ पिटिरि० ख. ग. । ३ जीर्णे० ख. । * मजिष्ठा किंशुकञ्चैव खदिरं रक्तचन्दनम्। करवीरं देवदारु सरलो रजनीद्वयम् ॥ अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु । तैलं विपाचयेत्तन कुर्याद्वीजादिरञ्जनम् ॥ | अन्यत्राप्युक्तं-केवलं निर्मलं तानं वापितं दरदेन तु । कुरते त्रिगुणं जीर्ण लाक्षारमनिभं रसम् । इति ।
कम रसहृदयं तन्त्रम् । जारणमापन्नं, एवंभूतं तानं सूतं लाक्षारससन्निभं अलक्तकप्रभ कुरुते ॥ १२॥ रक्तगणगलितपशुजलभावितताप्यगन्धकशिलानाम् । एकेन वापितमृत कमलं रञ्जयति रसराजम् ॥ १३ ॥ विध्यन्तरमाह-रक्तेत्यादि । रक्तगणेन दाडिमकिंशुकवन्धूका- दिना पूर्वोक्तेन गलितं यत् पशुजलं गोमूत्रं, तेन भाविता यास्ताप्य- गन्धकमनःशिलास्तासां मध्यादेकेन ताप्येन स्वर्णमाक्षिकेन, वा गन्धकेन, वा शिलया, वापितमृतं सत् कमलं तानं, रसं रञ्जयति रागं ददातीत्यर्थः ॥ १३ ॥ वाह्यो गन्धकरागो विलुलितरांगे मनःशिलाताले । माक्षीकसत्वरसको द्वावेव हि रञ्जने शस्तौ ॥ १४ ॥ रागाधिकारिगन्धकादीनाह । तत्र गन्धकः कीदृशं रागं ददाति तत्स्वरूपमाह-वाह्य इत्यादि । गन्धकरागो वाह्यो बहिर्भवः; पुनर्मनः शिलाताले मन.शिला मनोहा, तालं हरिताल, तावुभे विलुलितरागे चञ्चलरागे, पुनर्मानिकसत्वरसको वर्णमाक्षिकसत्वखपारको द्वावेव रञ्जने रसरागे शस्तो गन्धकमन.शिलातालेभ्यः प्रधानौ, अत्यधिका- वित्यर्थः ॥ १४ ॥ क्रमवृत्तौ रविरसको संशुद्धौ मूकमूपिकाध्माती। त्रिगुणं चीर्णो जीर्णो हेमाभो जायते सूतः ॥ १५ ॥ प्रधानयोस्ताम्रखर्परयोः कृत्यमाह - क्रमवृत्तावित्यादि । क्रमवृत्ती रविरसको सशुद्धौ विशेषविधानेन शोषितो, वा उत्तमजातीयौ, मूक- भूषिकाध्मातौ अन्धमूषायां ध्मातौ वह्नियोगीकृतौ कार्यो, एतत्रिगुणं यया स्यात्तथाचीणे जीर्णश्च सूतः हेमनिभो जायते, एतेन चारणमापन पश्चात्तेनैव जारणामापन्नो रसः स्वर्णप्रभो भवेदित्यर्थः ॥ १५ ॥ अथ कृष्णाभ्रकचूर्ण पुटितं रक्तं भवेत्तथा सकलम् । त्रिगुणं चीर्णो जीणों हेमद्रतिसन्निभः सूतः ॥ १६ ॥ अभ्रकयोगमाह-अथेत्यादि । अथ रसकयोगानन्तरं कृष्णवर्णा- भ्रकचूर्ण श्यामवर्णाभ्रकरज, तथा रविरसकविधानेन खर्परकेण १ मतकमलं ख. ग.। २ रागेन ग । ३ हेमवर्णाभो स. ग. ।
रसहृदयं तन्त्रम् । ८६ सहितं पुटितं सत्, सकलं समस्तं रक्तं भवेत्, तद्रक्तभूतमभ्रं त्रिगुणं यथा स्यात्तथा चीर्णः चारणमापन्नः, ततो जीणे जारणमापन्नश्च सन्सूतो, हेमद्रुतिसन्निभः खर्णद्रवसदृशो भवेदित्यर्थः ॥ १६ ॥ त्रिगुणेन माक्षिकेण तु कनकं च मृतं रसकतालयुतम् । पटुसहितं तत्पकं हण्डिकया यावदिन्द्रगोपनिभम् ॥ १७॥ अथ स्वर्णमारणमाह-त्रिगुणेनेत्यादि । तु पुनः, त्रिगुणेन माक्षि- केण स्वर्णत्रिगुणितेन ताप्येन यत्कनकं मृतं तत्कनकं; इन्द्रगोपको वर्षाकालीनो रक्तवर्णो जीवविशेषः; तद्वन्निभा दीप्तिर्यस्य तदिन्द्रगोप- निर्भ, भवतीति शेषः । किंविशिष्टं कनकं ? मृतं रसकतालयुतं; रसकं खर्पर, तालं हरितालं, ताभ्यां युतं मिश्रितं सत् यन्मृतं पञ्चत्व- माप्तमित्यर्थः । पुनःपटुसहितं लवणमिश्रितं, पुनः हरिडकया भाजनेन पकं वह्निपुटितम् , तदपि पूर्ववत् ॥ १७ ॥ तच्चूर्ण सूतवरे त्रिगुणं चीण हि जीर्ण तु । द्रुतहेभनिभः सूतो रजति लोहानि सर्वाणि ॥१८॥ मृतकनकचूर्ण सूतवरे पारदे, त्रिगुणं चीर्ण जीर्ण चारितं जारित च सत् सूतो द्रुतहेमनिभा भवेत् गलित वर्णप्रभ इत्यर्थः । एवं रजितो रसः सर्वलोहानि धातूनि कृत्रिमाकृत्रिमानि नवविधानि रति स्वर्ण- रूपाणि करोतीत्यर्थः ॥ १८ ॥ पत्रादष्टगुणं सत्वं सत्वादष्टगुणा द्रुतिः । द्रतरेष्टगुणं बीजं तस्माद्वीजं तु जारयेत् ।। १६ ।। इति परमहंसपरिव्राजकाचार्य श्रीमद्गोविन्द- भगवत्पादविरचित रसहृदयतन्त्रे रस- रञ्जनात्मकोटमोऽवबोधः सर्वेषां धातुरसानामुत्तरोत्तरविशेषत्वमाह-पत्रादित्यादि । पत्रा- दष्टगुणं सत्यं अभ्रपत्रे जीणे सति रसे यो गुणस्तस्मादष्टगुणो गुणस्त- त्सत्वे इत्यर्थः; पुनः सत्वात् द्रुतिस्तद्वरूपा अष्टगुणा, पुन तेबीजं १ रसताल ख. ग. । रसकसुताल० इति केचित् । २ "एतद्भस- जीर्ण सूतस्य लक्षणमाह" इत्यधिक ख. ग.। ३ विशेपमाह ख.।
रसहृदयं तन्त्रम्। धातूपरससंयोगजनितं पूर्वोपवर्णितं तदएगुण; ततः सर्वोत्कृष्टत्वाद्वीज जारयन्नत्वन्यत् ॥ १६ ॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिथमहेशात्मजचतुर्भुजविरचि- तायां मुग्धाववोधिन्या रसहृदयटीकायां रसरञ्जनात्मको- ऽप्टमोऽववोधः ॥८॥ अथ नवमोऽववोधः। अथ वीजविधानमभिधास्यते । इति रक्कोऽपि रसेन्द्रा बीजेन विना न कर्मकृद्भवति । द्विविधं तत्पीतसित नियुज्यते सिद्धमेवैतत् ॥१॥ हिमांशुरिव दीप्त्यासौ चण्डांशुरिव तेजसा। निशाहोरिव कर्ता च दुर्जनः सहनालयः (१) ॥ "निर्वापणविशेषेण तद्वद्वर्ण भवेद्यदा। मृदुलं चित्रसंस्कार तद्वीजमिति कथ्यते"-इति परिभाषा । वीजप्रशंसनमाह-इतीत्यादि । इत्युक्तविधानेन रक्तोऽपि रसेन्द्रो बीजेन विना कर्मकृन्न भवति, बीजेनैव कर्मकारी स्यादित्यर्थः । तद्वीजं द्विविधं द्विप्रकारं, पीतसित एकं पीतं, अपरं सितं खेत, वर्णरूप्य- क्रियायोग्यमित्यर्थः । तद्वीजं सिद्ध सर्वलक्षणोपेतं, रसे पारदे नियोज्य नासिद्धमिति ॥ १॥ तस्य विशुद्धिबहुधा गगनरसोपरसलोहचूर्णैश्च । द्विविधं बीजं तैरपि नाशुद्धैः शुध्यते वै तत् ॥२॥ रसोपरसधातूनां बहुविधत्वाच्छोधनमाह - तस्येत्यादि । तस्य बीजस्य, विशुद्धिः शोधन, बहुधा बहुप्रकारैः कृत्वा, रसोपरसधातूनां बहुविधत्वात् । कैः कृत्वा ? गगनरसोपरसलोहचूर्णैः गगनमभ्रं, रसा वैक्रान्तादयोऽष्टौ वक्ष्यमाणाः, उपरसा गन्धकादयः, लोहा धातवः, तेषां चूर्णानि, तैः । च पुनः तैर्गगनरसोपरसलोहचूणैरशुद्धैः शुद्धि- वर्जितैस्तद्बीजं न शुध्यते शुद्धिहीन स्यात्, कारणानुरूपं कार्यमिति- न्यायात् ॥२॥ १ तत्पीतं सितं ख. ग.। २ तत्तद्वर्ण ग.।३चित्रसंकाशं ख. ग.। ?
रसहृदयं तन्त्रम् । ६१ यः पुनरेतैः कुरुते कर्माशुद्धर्भवेद्रसस्तस्य । अव्यापकः पतङ्गी, न रसे रसायने योग्यः ॥३॥ अशुद्धवीजप्रभावमाह य इत्यादि । पुनर्विशेषेण यः संस्कारकदे- तैगंगनाद्यैरशुद्धैः कृत्वा रसस्य कर्म कुरुते तस्य पुरुषस्य रसः पारदो अव्यापको असरणशीलो भवेत्, *पतङ्गी ऊर्ध्वगामी च भवेत्, यन्त्र- स्याधोभागे न तिष्ठतीत्यर्थः ॥३॥ वैक्रान्तकान्तसस्यकमाक्षिकविमलाद्रिदरदरसकाश्च । अष्टौ रसास्तथैषां सत्वानि रसायनानि स्युः ॥४॥ रससंशकानाह-वैक्रान्तेत्यादि । एते वक्ष्यमाणा अष्टौ रसाः रससंज्ञकाः स्युः । एते के एते के ? वैक्रान्तकान्तसस्यक- माक्षिकविमलाद्रिदरदरसकाश्चेति; वैक्रान्तं वज्रभूमिजं रजः कान्त चुम्बकोत्थं, सस्यक' चपलं, माक्षिक ताप्य, विमला रौप्यमाक्षिक, अद्रि शिलाजतु, दरदं हिंगुलं, रसकः खर्परिकः, पते रससंज्ञका शेयाः । तथा एषां सत्वानि साराणि, रसायनानि जराव्या- धिनाशनानि स्युरिति ॥ ४॥ गन्धकगैरिकशिलालक्षितिखेचरमञ्जनं च कनुष्ठम् । उपरससंज्ञकमिदं स्याच्छिखिशशिनौ सारलोहाख्यौं ॥५॥ उपरससंशकानाह-गन्धकेत्यादि । इदं वक्ष्यमाणं उपरससंशक स्यात् । किमिदं ? गन्धकगैरिकशिलालक्षितिखेचरमिति, गन्धक १ पतगी ख.। २ सस्यकं तुत्थमिति जयदेवः । ३ शिलालक- क्षिति० ख. ग.। पतङ्गीलक्षणं यथा-रञ्जिताद्धि चिराल्लोहादु ध्मानाद्वा चिर कालतः । विनिर्यासः स निर्दिष्टः पतङ्गीरागसंशकः ॥ + अन्यस्तु कान्तदरदयोः स्थाने अभ्रचपलयोः परिगणनं कृतं यथाह रसरत्नसमुच्चयकार:-अभ्रवैक्रान्तमाक्षीकविमलाद्रिजसस्य- कम् । चपलो रसकश्चेति ज्ञात्वातौ संग्रहेद्रसान् ॥ इति । + अन्यत्रापि-गन्धाश्मगैरिके कांक्षी कासीसालशिलाञ्जनम् । कंकुप्ठं चेत्युपरसाश्चाष्टौ पारदकर्मणि । इति । मूलश्लोके च "संश- कमिदं" इत्यत्र "संज्ञमिदं" इति सुपाठः ।
रसहृदयं तन्त्रम्। प्रतीतं, गैरिकं धातुगैरिकं, शिला मनोहा, आलं, हरितालं क्षितिः स्फटिका, खेचरं कासीसं, एतत्सर्वमिति, च पुनः अञ्जनं नीलाञ्जन, पुनः कंकुष्ठं विरङ्गं, इत्यष्टौ उपरससंक्षका इत्यर्थः । शिखिशशिनी वर्णतारको,, सारलोहाख्यौ सारलोहसंज्ञकावित्यर्थः ॥ ५॥ ताम्रारतीक्ष्णकान्ताभ्रसत्वलोहानि वङ्गनागौ च । कथितास्तु पूतिसंज्ञास्तेषां संशोधनं कार्यम् ॥ ६ ॥ पूतिलोहसंज्ञानाह-ताम्रेत्यादि । ताम्रारतीक्ष्णकान्ताभ्रसत्व- लोहानीति; तानं नेपालकं आरं राजरीतिः, तीक्ष्णं सारं, कान्तं चुम्बकोद्भवं, अभ्रसत्वं गगनसारं, लोहं मुण्डं, एतानीति, पुनर्वङ्ग- नागौ एते पूतिसंज्ञका' कथिताः । तेषां पूतिलोहसंज्ञकानां, शोधनं सम्यालापनयनं कार्यमिति ॥ ६ ॥ सौवर्चलसैन्धवकैचूलिकसामुद्ररोमकबिडानि । पद लवणान्येतानि तु स्वीटईणयवक्षाराः ॥७॥ लवणक्षारसंक्षे आह-सौवर्चलेत्यादि । एतानि वक्ष्यमाणानि लवणसंज्ञान्याहुः, 'आचार्याः' इति शेषः । कानि ? सौवर्चलसैन्धव- कचूलिकसामुद्ररोमकविडानीति, सौवर्चलं रुचकं, सैन्धवं मणिक- भन्थाह्वयं, चूलिकं काचलवणं, सामुद्रं क्षाराब्धिजं, रोमकं प्रतीतं, बिडं लवणविशेषः, एतानीति । पुनः खर्जी सर्जिका, टङ्कणं सौभाग्य, यवक्षारः प्रतीतः, एते क्षाराः क्षारसंशकाः, 'रसकर्मणि' इत्य- ध्याहारः ॥७॥ सूर्यावर्तः कदली वन्ध्या कोशातकी च सुरदाली । शिग्रश्च वज्रकन्दो नीरकणा काकमाची च ।। ८ ।। सद्रावकं शोधकगणमाह-सूर्यावर्त इत्यादि । सूर्य प्रति प्राव- तको भ्रमणं यस्येत्येवंविधः,कदली रम्भा, वन्ध्या फलरहिता कोटी, कोशातकी जालिनी, सुरदाली देवदाली, शिग्रु' सौभाञ्जनं, वज्रकन्दो १ 'कथितौ कुभूतसंज्ञौ तेषां' इति, तथा 'कथितौ तु पूतिसंज्ञी' इति च पाठान्तरद्वयमुपलभ्यते। २ लोहभूतसं आह ख.ग.1३ सैन्धवकं ४ स्वीयवटङ्कणक्षारः ख. ग.। ५ शोधकस्य द्रावक- गणमाह-ख. ग । ख. ग.।
रसहृदयं तन्त्रम् । '६३ वनसूरणकन्दः, नीरकणा जलपिप्पली, काकमाची वायसी, इति गणः शोधनद्रावणयोग्य इति ॥ ८॥ आसामेकरसेन तु लवणक्षाराम्लभाविता बहुशः। शुध्यन्ति रसोपरसा ध्माताः सत्वानि मुश्वन्ति ।। ६॥ शोधकद्रावकाणां शोधनद्रावणविधानमाह-श्रासामित्यादि । आसां पूर्वोषधीनां मध्यात्, एकरसेन एकस्या रसेन, रसापरसा वैक्रान्तादयोऽष्टौ रसाः, गन्धकादयोऽष्टावुपरसाः, वहुशोऽनेकवारं, भाविताः धर्मपुटिताः कार्याः; पुनर्लवणक्षाराम्लभाविताश्च लवणानि सौवर्चलादीनि षट्, क्षाराः खर्जिकादयः, अम्ला जम्बीरादयः; तैर्बहुवार भावितास्तीवधर्मपुटिता रसोपरसाः शुध्यन्ति दोषवर्जिता भवन्तिः पुनस्ते ध्माताः सन्तः सत्वानि स्वीयलाराणि मुञ्चन्ति त्यजन्तीति ।। ६॥ खिन्नं सक्षाराम्लैर्मातं वैक्रान्तकं हठाद् द्रवति । तद् द्रुतमात्रं शुध्यति, कान्तं शशरक्तभावनया ॥१०॥ रसानां क्रमेण शोधनमाह- खिन्नमित्यादि । सक्षाराम्लैकान्तकं स्विन्न दोलाभिधानेन खेदितं कुर्यात्, तत् स्विन्नं वैक्रान्तं हठात् प्रावल्यात् ध्मातं सत् द्रवति सारं मुञ्चति, द्रुतमात्रं सत्वनिर्गममात्र- मेव शुध्यति, पूर्वसंबन्धात् द्रवति च ॥ १० ॥ सस्यकमपि रक्तगणैः सुभावितं स्नेहरागसंसितम् । शुध्यति वारैः सप्तभिरंतः परं युज्यते कायें॥ ११ ॥ तचाह-सस्यकमित्यादि सस्यकमपि चपलमपि, रक्तगणैर्दाडिम- किंशकवन्धूकादिभिः सुभावितं कुर्यात् । किंविशिष्टं ? स्नेहरागसं- सिक्तं; स्नेहः कंगणितुम्विन्यादीनां, रागो रक्तवर्णद्रवः, ताभ्यां वह्नौ तप्तं सस्य संसिक्तं सेचितमिति घृतैः संसिक्तं कोमलं भावनायोग्य १०संयुक्तम् ख. ग. । २ रभितः ख. ग.। उक्तञ्चतन्त्रान्तरे:-शशक्षतजसंलिप्तं त्रिवारं परितापितम्।मुण्डा- दिसकलं लोहं सर्वदोपान् विमुंचति ॥ रसरत्नसमुच्चयेऽपि-सस्यकं शुद्धिमाप्नोति रक्तवर्गेण भावितम् । स्नेहवर्गेण संसिक्तं सप्तवारमदूषितम् ॥ सस्यकं तुत्थं न तुचपलम् । रसरत्नसमुच्चयं रसाटके पृथक् २ पाठात् ॥ इति जयदेवः ।
रविणा तात्रेण सह घोषोऽपि कांस्यमपि शुध्यति । कतिवारं सेचनः? रसहृदयं तन्त्रम् । स्यात् । कतिभिवारैः सुभावितं कुर्यात् ? सप्तभिः सप्तसंख्याकैः । अतः परं कार्ये बीजादिके युज्यते ॥ ११ ॥ क्षारैः सेहरादौ पश्चादम्लेन भावितं विमलम् । शुध्यति तथा च रसकं दरदं माक्षिकमप्येवम् ॥ १२ ॥ तच्चाह-क्षारैरित्यादि । विमलं रौप्यमाक्षिक, आदौ प्रथम, क्षारैः स्वर्जिकादिभिः, स्नेहस्तैलैः कङ्गुण्यादीनां,भावितं कुर्यात्, पश्चादम्लेन जम्बीरादिना भावितं कुर्यात्, एवंविधं कृतं सत् शुध्यति । तथा तेनैव विधिना रसकं खर्परकं शुध्यति, दरदं हिंगुलं चैव, माक्षिक- मप्येवं शुध्यति ॥ १२ ॥ तनुरपि पत्रं लिप्तं लवणक्षाराम्लरविस्नुहितीरैः । ध्मातं निर्गुण्डीरसंससिक्नं बहुशो भवेद्धि रक्तं च ॥ १३ ॥ वर्णरूप्ययोः शोधनमाह-तनुरित्यादि । लवणेत्यादि, लवणानि सौवर्चलादीनि, क्षाराः खजिंकादयः, अम्लाः जम्बीरादयः, रविरकः, म्ही सुधा, तयोः क्षीराणि, एतैः तनुरपि सूक्ष्ममपि; पत्रं दलं, 'सार- लोहाख्ययोः' इति शेषः, लिप्तं ध्मातं सत्, वहुशोऽनेकवारं, निर्गुण्डी- रसे संसिक्तं सेफालीद्रवे सिञ्चितं कुर्यात् । तर्हि वर्ण रूप्यं च रक्त आरक्तच्छवियुतं भवदित्यर्थ; चशब्दाच्छुध्यति च ॥ १३॥ शुध्यति नागो वड़ो घोषो रविणा च वारमपि मुनिभिः । निर्गुण्डीरससकैस्तन्मूलरज प्रवापैश्च ॥ १४ ॥ लोहशोधनमाह-शुध्यतीत्यादि । नागः सीसकः, निर्गुण्डीरससे- कैः शेफालीरससेचनैः, शुध्यति निर्दोषो भवति, वङ्गश्च शुध्यति । एवं मुनिभिः सप्तसंख्याकैः; तन्मूलरजः निर्गुण्डीशिफाचूर्ण तत्प्रवाफः गलितेषु नागवङ्गरविघोषेषु रजोनिक्षेपणैश्च चत्वारः शुध्यन्तीति॥१४॥ रनगणगलितपशुजलभावितपुटितं हि रज्यते तीक्ष्णम् । १ पश्चादुष्णेन ग.।२ माक्षीक ख. ग. । ३ "मुक्क्षीरैः" इति पाठ केचिदिच्छन्ति । ४ रससिक्तं ख. ग.! ५द्रवत्वं च ॥१३॥ ६ "मपि" इति ख. ग. पुस्तके नास्ति । "वारतो" इति काचत् । ७ रससिक्तै० ख. ग.1८च ख. ग.।। रंज्यते ग.।
६५ रसहृदयं तन्त्रम् । शुध्यति कदलीशिखिरसभावितपुटितं त्रिभिवोरैः ॥ १५ ॥ तच्चाह-रक्तगणेत्यादि । तीक्ष्णं साराख्य, रक्तगणगलितपशुजल- भाचितं पुटितं सत् रक्तगणेन सह गलितं मिलितं यत् पशुजलं गोमूत्र, तेन भावितं ततो वह्निपुटितं सत्, रज्यते रागमाप्नोति । पुनस्तीक्षण कदलीशिखिरसभावितपुटितं वा रम्भाचित्रकरसभावितं धर्मपुटितं ततो वह्निपुटितं च सत् त्रिभिारैः शुध्यतीत्यर्थः ॥ १५ ॥ सर्वः शुध्यति लोहो रज्यति सुरगोपसनिमो वापात् । माक्षिकदरदेन भृशं शुल्वं वा गन्धकेन मृतम् ।। १६ ॥ इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयाख्ये तन्त्रे नवमोऽववोधः । सामान्येन सर्वलोहानां शोधनमारणमाह-सर्व इत्यादि । सर्वो लोहो धातुवर्गः, शुध्यति मृतश्च भवति, पुनः रज्यति च । केन ? भृशं अत्यर्थं यथा स्यात्तथा माक्षिकदरदेन ताप्यहिगुलेन कृत्वा यो वापः गलितेषु लोहेपु माक्षिकदरदप्रक्षेपण तस्मात्, सुरगोपसन्निभो इन्द्र- गोपसदृशः, सर्वो लोहो भवेत् । वा शुल्वं तानं माक्षिकदरदवापेन सुरगोपसन्निभं स्यात्, वा गन्धेन गन्धकवापन मृतमप्येवं स्यादि- त्यर्थः ॥१६॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजश्रीचतुर्भुज- विरचितायां मुग्धाववोधिन्यां रसहृदयटीकायां बीज- विधानात्मको नवमोऽवबोधः ॥ ६ ॥ अथ दशमोऽवबोधः। अथ सत्वनिर्गममभिधास्यते । वैक्रान्तकान्तसस्यकमाक्षिकविमलादयो विना सत्वम् । शुद्धा अपि नो द्वन्द्वे मिलन्ति न च तान् रसो ग्रसति ॥१॥ दत्तवान्सततं सौख्यं शुद्धेभ्यश्च खलं तथा । दुःखमृत्यष्यमात्मानः कोपस्य समकारकम् (१) ॥१॥ चक्रान्तादीनां रससंज्ञिकानां सत्वप्रशंसनमाह-वैक्रान्तमित्यादि । वैक्रान्तकान्तसस्यकमाक्षिकविमलादयः शुद्धा अपि द्वन्द्वे न मिलन्ति । चक्रान्तं वज्रभूमिज रजः, कान्त चुम्बकं, सस्यकश्चपलः, माक्षिक ? रसहदयं तन्त्रम् । ताप्य, विमला रौप्यमाक्षिक, इत्यादयो गन्धकादयश्वोपरससंज्ञका न मिलन्ति एकशरीरतां नाप्नुवन्ति । क ? द्वन्द्वे उभयमेलापे । पुनस्तान शुद्धानपि रसः सूतो न ग्रसति ॥१॥ नागनासिकाभिधानं चन्द्रोदकममृतमाप्तकाठिन्यम् । रसवैकान्तकमेवं चनाति रसं खसत्वेन ॥२॥ वैकान्तप्राधान्यमाह-नागेत्यादि । एवं लक्षणं वैक्रान्तकं ज्ञातव्यम्। किविशिष्टं ? नागनासिकाभिधानं नागानां फणिनां नासिका एव अभिधानं संज्ञा यस्य तत् । पुनः किंविशिष्टं ? चन्द्रोदकं चन्द्रमसः सम्बन्धि यदुदकं वलं, तस्मादेवामृतं, प्राप्तकाठिन्यं येन, पूर्वमेतश्च मृदूत्पन्नमित्यर्थः । एवंविधं रसवैक्रान्त रससंज्ञकं वैक्रान्तं, रसं सूतं, बध्नाति । केन? स्वसत्वेन स्वीयसारेणेति ॥२॥ नानाविधसंस्थानं निर्जरशिखरिशिखरसंभूतम् । धारोदम्भसि श्रेष्ठं तदश्म शैलोदकं प्राप्य ॥३॥ वैक्रान्तप्रकारमाह-नानेत्यादि । पूर्वमुपवर्णितं वैक्रान्तं नानाविध- संस्थानमस्ति नानाविधमनेकप्रकारं संस्थानं लक्षणं यस्य तत्, "संस्थानं व्यञ्जन लिङ्गं लक्षणं चिह्नमाकृतिः" इति माधवनिदान सितासितरक्तपीतवर्णत्वान्नानाविधसंस्थानमित्यर्थः । पुनर्निर्जरशिखरि- शिखरसंभूतं निर्जराणां देवानां यः शिखरी पर्वतस्तस्य शिखरं गृहं तत्र संभूतमुत्पन्नम् । नानाविधसंस्थानं कुतः ? धारोदम्भसि धारा- भिरुदन्त उन्मत्तमम्भो यत्र समये तस्मिन् वर्षाकाले, शैलोदकं शिलासंवन्धि यदुदकं जलं तत् प्राप्य, श्रेष्ठं तदश्म वैक्रान्ताभिधानं नानावणं भवति, यतः शिलोदकस्य नानाविधत्वम् ॥३॥ भवादयेन हठतो मातव्यं पञ्चमाहिषसुबद्धम् । दवा दशांशखर्जिकपटुटङ्कणगुञ्जिकाक्षारान् ॥४॥ तद्गच्छति कठिनत्वं मुश्चति सत्वं स्फुलिङ्गकाकारम् । मुक्तानिकरप्रायं ग्राह्य तत्काचमधिवयं ॥ ५॥ वैकान्तसत्वपातनमाह-भस्त्रेत्यादि । तद्वैकान्त पञ्चमाहिषसुवद्धं दधिदुग्धाज्यमूत्रशद्भिः पञ्चसंख्याकैमर्माहिषैः सह सुवद्धं पिण्डाकृति १ नागनासाभि० इति केचित् । २ "शिखरि" इत्यत्र "गिरि" इति कोचिदिच्छन्ति । एवं टीकायामपि । ३ दशांशसर्जिक इति सुपाठः । .
६७ रसहृदयं तन्त्रम् । कृतं सत्, भत्राद्वयेन खल्लयुग्मेन हठतो बलात्ध्मातव्यम् । किं कृत्वा? दशांशसर्जिकपटुटङ्कणगुञ्जिकाक्षारान् दत्त्वा; दशांशविभागेन सर्जि- कालवणसौभाग्यरक्तिकायवक्षारान् पिष्टवक्रान्ते क्षेप्येत्यर्थः । ध्मात सत् किं स्यात्तदाह-तदित्यादि । स्फुलिङ्गकाकारं वह्निकणनिभं, सत्वं सारं, मुञ्चति । पुनस्तत्सत्वं कठिनत्वं गच्छति कठिनं स्यादि- त्यर्थः । तत्सत्वं आकारतः मुक्तानिकरप्राय मौक्तिकराशिसदृशं स्यात्, एवंविधं सत्वं काचं अधिवय॑ दूरीकृत्य, तत् निर्मलं ग्राह्यमित्यर्थः । युग्मम् ॥४॥५॥ रसवैक्रान्तकमेवं मिलति द्वन्द्वान्वितं समं हेम्ना । नियूढं घनसत्वं तेन रसो बन्धमुपयाति ॥६॥ वैक्रान्तसत्वयोगमाह-रसेत्यादि । तद्रसवक्रान्तकं सत्वं हेना समं स्वर्णेन समभाग, द्वन्द्वान्वितं सत् द्वन्द्वमेलापकौषधसहितं सत्, एवममुना विधानेन, मिलति 'रसे' इति शेषः । पुनस्तेन सत्वेन सह धनसत्वमभ्रसारं नियूंढ निर्वाहितं सत्, तेनोभयसत्वसंयोगेन रसः सूतो वन्धमुपयाति बन्धनमाप्नोति ॥६॥ वज्राभ्रकान्तसस्यकमाक्षिकप्रभृतिसकलधातूनाम् । पातयति सत्वमेषां पिण्डी ध्माता दृढाङ्गारैः ।।७।। सत्वपातनविधानमाह-वजेत्यादि । दृढाङ्गारैरिति दृढकथनात् खदिरादीनां, पूर्वोक्तत्वाद्भस्त्राद्वयेन च माता सती, वज्राभ्रकान्तसस्य- कमाक्षिकप्रभृतिसकलधातूनां वज्रसंज्ञकं यदभ्रं तद्वज्रानं, कान्तं चुम्बकं, सस्यकं चपला, माक्षिकं स्वर्णमाक्षिकं, इति प्रभृतयः सकलधातवः सर्वोपरसास्तेषां पिण्डी सत्वं पातयति ॥७॥ हित्वा माक्षिकपत्वं नान्येषां शक्तिरस्ति लोहनी । न पतति तावत्सत्वं भवान्ते ने यावदाहियेत ॥८॥ शक्तिमत्वेन माक्षिकसत्वप्रशंसनमाह-हित्वेत्यादि । माक्षिक- सत्वं ताप्यसारं, हित्वा त्यक्त्वा, अन्येषां रसोपरसानां, शक्तिः सामर्थ्य नास्ति । किंभूता शक्तिः ? लोहनीति लोहान् हन्तीति १ "०मादीक०" इति पठनीयम् इति केचित् । २ "नैव" इति पठनीयम् । १३ रसहृदयं तन्त्रम् । विग्रहः । पुनस्तावत्सत्वं न पतति यावद्भमा अन्ते सत्वसमीपे, न आहियेत न प्राप्येत, तस्मादल्पेनाग्निना सत्वाप्रवृत्तिरित्यर्थः ॥ ८ ॥ रतं मृदु नागसमं सत्वं यसाद्धि माक्षिकात्पतितम् । गन्धाश्मनोऽपि तद्वत्कार्य यत्नेन मृदुभावम् ।। ६ ।। माक्षिकसत्वमुदास्यान्यसत्वप्रवृत्तिमाह-रक्तमित्यादि । रक्तं लोहितं, नागसमं सीसकतुल्यं, मृदु कोमलं, एवंविधं सत्वं यस्मा- धेतोर्माक्षिकात्पति ताप्यात् निर्गच्छति, तद्वत्तस्माद्धेतोः वा तस्मा- द्विधानतः, गन्धाश्मनो गन्धकस्य, यत्नेन मृदुभावं कार्य यथा गन्धकोऽपि मृदुर्भवतीत्यर्थः ॥ ६ ॥ लवणाम्लेन सुपुटितं माक्षिकमम्लेन मर्दितं विधिना । मुञ्चति सोष्णे ग्राह्यमायसपात्रे तु पिष्टिका भवति ॥ १० ॥ माक्षिकसत्वविधानमाह-लवणेत्यादि । माक्षिकं ताप्यं, लव- णाम्लेन लवणं मुख्यत्वात् ग्रन्थान्तरसाम्याञ्च सैन्धवं, अम्लो जम्बीरादिः, तेन मर्दितं पुनरम्लेन जम्बीरादिना, विधिना उक्तरीत्या, पुटितं वहीं प्रतापितं सत्, मुञ्चति पूर्वश्लोकसंबन्धात् 'सत्वं' इति शेपः। इत्थं पतितं सत्वं ग्राह्यम् । लवणाम्लेन गन्धकमपि मृदु स्यात् । तु पुन. सोपणे आयसपात्रे वही तापिते लोहपात्रे, पिटिका भवति रक्तवर्णरजोरूपेत्यर्थः ॥ १० ॥ तुत्थाद्धि ताप्यजममं समसृष्टं पतति चै सत्वम् । अभ्रक्रान्तकान्तप्रभृतीनां तत्र लोहनिभम् ॥ ११ ॥ नुत्थादीनां सत्वपातनमाह-तुन्थादित्यादि । तुत्थात् तुत्थं शिग्विनीवं तस्मात् ताप्यजसममिति माक्षिकसत्ववत्, माक्षिकसत्व- विधानेनास्य सत्यपात इत्यर्थः । समसृष्टं समं ताप्येन तुल्यं वर्ण- मार्दवाभ्यां सृष्टं कथितमित्यर्थः । एवंवित्र तुत्थकसत्वं पतति । अभ्रकेत्यादि अभ्रकं प्रतीतं, बैंकान्तं रसवैकान्तं, कान्तं चुम्बकं, इति प्रभृतीनामित्यादीनां सत्वं तत्र सत्वपातनयोगे, लोहनिभं मुण्डवर्ण- मित्यर्थ. ॥ १२॥ बीयजीदग्धभावितमेरण्डस्नेहभावितं शतं मातम् । १ "नीनुग्दुधभावितमरण्डनेल." इति पठनीयम् । .
१६ ? रसहृदयं तन्त्रम् । एवं त्रिभिरिह वारैः शुल्बसमं भवति रञ्जक हैमम् ।। १२ ॥ पुनर्माक्षिकविधानान्तरमाह-स्त्रीत्यादि । ताप्यं स्त्रीवज्रीदुग्धमा- वितं स्त्री नारी, वैज्री सेहुण्डः, तयोर्दुग्धं, तेन भावितं धर्मपुटित कुर्यात् । पुनरेरण्डस्नेहेन शतं शतवारं भावितं च कुर्यात् । ततो वारै- खिभिरेव ध्मातं सत हैमं हेम स्वर्णमाक्षिकं तस्येदं हैमं सत्वं, शल्बसमं ताम्रनिभं भवति, पुनः रञ्जकं रसे रागदायी स्यात्कनकेऽपि च ॥ १२ ॥ कदलीरसशतभावितमध्वैरण्डतैलपरिपक्वम् । ताप्यं मुञ्चति सत्वं रसकं चैवं त्रिसंतापैः ॥ १३ ॥ विध्यन्तरमाह-कदलीत्यादि । ताप्यं माक्षिकं, कदलीरसशत- भावितमध्धैरण्डतैलपरिपक्वमिति प्रथमं रम्भाद्रवेण शतवारं भावितं, पश्चात् मध्वैरण्डतैलाभ्यां सह परिपक्वं सम्यक् पाचितं सत् सत्वं मुञ्चति । कैः कृत्वा त्रिसन्तापैः त्रिवारं धमनैः। एवं रसक खर्परमपि सत्वं मुञ्चतीति ॥ १३ ॥ ऊर्णाटङ्कणगुडपुरलाक्षासर्जरसैः सर्वधातुभिः पिष्टैं। छागीक्षीरेण कृता पिण्डी शस्ता हि सत्वविधौ ॥१४ ।। सत्वपातने पिण्डीमाह-ऊणेत्यादि । ऊर्णा इति ऊर्णा मेषरोम, टङ्कणं सौभाग्य, गुडः प्रतीतः, पुरो गुग्गुलुः, लाक्षा जतु, सर्जरसो रालः, पतैः; किंविशिौ ? सर्वधातुभिः रसोपरसैर्वा स्वादिभिः सह, पिष्टैः पेषितैः, पुनः क्षागीक्षीरेण अजापयसा कृता या पिण्डी सा सत्वविधौ सत्वपातनकर्मणि शस्ता प्रधाना। धातुरसोपरसानां सत्वं पातयत्येवेति ॥ १४ ॥ चूर्णितसत्वसमानं त्रिंशत्पलमादरेण मंगृह्य । टङ्कणपलसप्तयुतं गुञ्जापलात्रतययोजितं चैव ॥१५॥ तिचूर्णककिट्टपलैमत्स्यैरालोड्य द्विरंशयुक्तश्च । गोधूमबद्धपिण्डी गोपञ्चकभाविता बहुशः ॥ १६ ॥ कोष्टकधमनीवधिना तीवं भवानलेन तत्पतति । १ स्त्रीस्नुग्दुग्य इति पठनीयम् ॥ २ "मनु" इति पठनीयम् । ३ ऊर्णागुडपुरलाक्षासर्जरसैश्च वानुभिः पिष्टैः । इति पठनीयम् ॥ सम्पादक.। ४ कोष्ठयां च धमन० इति पठनीयम् । सं०।
१०० रसहृदयं तन्त्रम्। संद्रवति चाभ्रसत्वं तथैव सर्वाणि सत्वानि ॥ १७॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमङ्गोविन्दभगवत्पादविरचिते रसहृदये तन्त्रे शुद्धरससत्वपातनात्मको दशमोऽधयोधः । विध्यन्तरमाह-चूर्णितेत्यादि । चूर्णितमत्वसमानं चूर्णित पिष्टं यत् सत्वं सारं तत्समानं विशुद्धत्वात् सत्वसमानं, 'धातुरसोपरस- चूर्ण' इति शेपः । एवंविधं विशुद्ध चूर्ण आदरण प्रीत्या श्रादौ संगृह्य, टकणपलसप्तयुतं कुर्यात् सौभाग्यस्य पलैः सप्तसंख्याकैः सहित कुर्यादित्यर्थः । विशुद्ध चूर्णे त्रिंशत्पले सप्तपलं सौभाग्य योज्यं, एवं टकणविधानेन, च पुनः गुआपलत्रितयेन रक्तिकापलत्रितयपरिमाणेन योजितं कुर्यादिति । तिल वूर्णकट्टिाले तिल प्रेतीतं तेषां चूर्णक, किट मुण्डादीनां मलं, तयोः पलैः पलमानैर्गोधूमवद्धपिण्डी बहुशो बहुवार गोपञ्चकभाविता गवां क्षीराज्यदधिमूत्रविटकेन भाविता किं कृत्वा ? मत्स्यैरालोड्य, मत्स्यः नुद्रजलचरैरालोऽय संमिथ्येत्यर्थः । कोष्टके कोटिकायन्त्रे, धमनविधिना उत्क्षिप्योत्क्षिप्य धमनेन, भस्रान- लेन तत् सत्वं पतति पूर्वसंवन्धात् 'ताप्यादीनां' इति शेष 1 च पुनरः भ्रसत्वं अभ्रकात्सारं संद्रवति । तथैवोक्तविधानेन सर्वाणि समस्तानि सत्वानि साराणि पतन्ति 'अनुक्तानां' इति शेषः ॥ १५-~-१७ ।। इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविर- चितायां मुग्धावबोधिन्या रसहृदयटीकायां शुद्धरससत्व पातनात्मको दशमोऽववोध ॥ १० ॥ अथैकादशोऽवबोधः। अथ वीजनिर्वाहणमारभ्यते । म्वीकृत्य सर्वसरितो गङ्गा जलधौ यथा तंग हैमम् । प्रविशति रमे गृहीत्वा समिालेति सर्वलोहगुणान् ॥ १॥ सुवृत्तः सद्रतारम्भः सुशः सज्ज्ञानदर्शकः । अभूञ्च धनधर्मशो हारी कुजनसंपदाम् ॥ १॥ श्रादौ हैमप्रशंसामाह-वकृित्येत्यादिा हैमं स्वर्णमाक्षिकसत्वं समि- १ तिलः प्रतीतः इति सुपाटः । २ ख. ग. पुस्तके नास्ति । ३समिलति ग.। "संमिलितसर्व०" इति पठनीयम् । सं०। ४ हेम० ख.ग.
रसहृदयं तन्त्रम् । १०१ लिति, किंकृत्वा ? सर्वलोहगुणान् सर्वलोहेषु समस्तधानुषु समिलि- ता मिश्रिताः ये गुणास्तान् गृहीत्वा, तथा रसे प्रविशति यथा गङ्गा सर्वा नद्यः सरितो स्वीकृत्य अङ्गीकृत्य जलधौ समुद्रे प्रविशति ॥१॥ जीर्यति मिलति च शुल्ने तत्सत्वं किट्टतां याति । हेमक्रियासु करिणा वपुणा तारक्रियासु निव्यूढम् ।। २ ।। ताप्यसत्वाधिकारमाह-जीर्यतीत्यादि । तत् हैम ताप्यसत्वं शुल्बे ताने मिलति सति सत्वं जीर्यति जारणत्वमाप्नोति, रसे' इति शेषः । तस्मिन् सत्वे शुल्वे मिलति सति किट्टतां याति लोहमलसदृशं स्यात् प्रथमं तत्सत्वं करिणा नागेन सह हेमक्रियासु स्वर्णकार्येषु नियूंढे रसे निवाहितं कुर्यादित्यर्थः । पुनस्त्रपुणा वङ्गेन सह तारक्रियासु रूप्यकार्येषु निव्यूढं कुर्यात् नागवङ्गो सर्वत्र पीतसितकार्येषु प्रशस्ता- वित्यर्थ. ॥२॥ घनसत्वं खलु रविणा रसायने द्वन्द्वकं योज्यम् । रक्तगणपातभावितगिरिजतुमाक्षिकगैरिकदरदैः ।।३।। अभ्रसत्वयोगमाह-घनसत्वमित्यादि । खलु निश्चये वाक्यालङ्कारे वा, घनसत्वमभ्रसारं, रविणा तात्रेण सह, रसायने जराव्याधिनाशने, द्वन्द्वकं घनसत्वतानं, योज्य पुनः रक्तगणपातभावितगिरिजतुमाक्षि- कगैरिकदरदैः रक्तगणस्य यः पातः पातनं निक्षेपो वा, तेन भावितानि धर्मपुटितानि, गिरिजनुमाक्षिकगैरिकदरदानि गिरिजनु, शिलाजतु, माक्षिकं प्रतीतं, दरदं हिङ्गलं, पतैबीजशेष कुर्यादित्यागामिश्लोका. ज्ज्ञेयम् ॥ ३॥ मृदुलताम्रकान्तघनसत्वं मृतनागतीक्ष्णकनकं च । कुर्वीत वीजशेषं दरदशिलातालमाक्षिकैर्वापात् ।। ४ ।। विध्यन्तरमाह-मृदुलेत्यादि । मृदुलं नेपालसनिकं तानं कान्त लोहजाति, धनसत्वमभसारं, पुनमृतं नाग सीसकं, तीक्ष्णं लोहजाति, कनकं हेम, एतत्त्रयं बीजं, शल्बादित्रयं च बीजसंज्ञकं; दरदशिलाता. १ मिलिति ग.। २ तत्सत्त्वात् ग.। ३ रक्तगणापात ख. ग. । ४ मातीकगैरिकदरदैश्च इति पठनीयम्। सं०। ५ "ताम्र" इति ख. ग. पुस्तके नास्ति । ६ मृतनागं ती० ख. ग.। ७ "ताल" इति ख. ग. पुस्तके नास्ति।
E १०२ रसहृदयं तन्त्रम् । लमाक्षिकैर्वापात् दरदं हिड्डुलं, शिला मनोहा, तालं हरितालं, एतैः कृत्वा यो वापः वहित परिक्षेपः तस्मात्, बीजशेपं कुर्वीत उभयोवाजे अभ्रसत्वहेमनी शेपे कुर्यादित्यर्थः; वा एवं कृते यच्छेयं तिष्ठति तद्वी जमिति ॥४॥ मृतनागं वङ्ग वा शुल्यं घनसत्वतारकनकं वा । ध्मातं तदेव सर्व गिरिणाऽधिकशोधनैर्वापात् ।। ५ ।। विध्यन्तरमाह-मृतनागमित्यादि। मृतं यन्नागं सीसक तन्नृत- नागं, च मृतं यद्वङ्गं, रक्तगणावापमृतं च यच्छुल्वं, वा घनसत्वतार- कनकं घनसत्वमभ्रसारं, तारं रूप्यं, कनकं हेम एतन्नागादिगणसर्व, वा प्रत्येकं पृथक् गिरिणा शिलाजतुना सह ध्मातं कुर्यात् अधिक शोधनैः दरदशिलातालैर्वापात् वीजशेपं कुर्यादिति पूर्वसंवन्यात् ॥५॥ रक्तगणं पीतं वा माक्षिकराजावर्तमथो विमलम् । एकतमं वा गैरिककुनटीक्षितिगन्धकखगैर्वा ॥६॥ निव्यूढेरेव रसो रागादि गृहाति वन्धमुपयाति । मृतलोहोपरमार्निव्यूढं भवति शृङ्खलावाजम् ॥ ७॥ रक्तगणं दाडिमकिशुकादिकं, वा पीतगणं यथा, "किशकः कर्णि- कारश्च हरिद्राद्वितयं तथा। पीतवर्गोऽयमुद्दिष्टो रसराजस्य कर्मणि". इति।वामाक्षिकं ताप्यं,वाराजावत राजावर्तो 'लाजवरद' इतिभापायां, अथ विमलं तारमाक्षिक, इत्येकतमं सर्वमेव वा, गैरिककुनटीक्षिति- गन्धकखगैः गैरिकं प्रतीतं, कुनटी मनोहा, क्षितिः स्फटकी, गन्धक' प्रतीतः, खगः कासीसं, एतैरिति । एते. पूर्वोक्तैरेव रसे नियूंढे रसो रागादि रञ्जनादि गृह्णाति, आदिशब्दात् सारणं च विज्ञयं, पुनर्वन्धमु- पयाति बन्धनमाप्नोति, पुनः मृतलोहोपरसाद्यैः मृताश्च ते लोहाश्च धातवश्च त एव उपरसा गन्धकाद्या आद्यशब्दात् रसा अपि, तैर्नेि १ घनसत्वं ता० म्व. ग.। २ पञ्चमश्लोकानन्तरं ख. ग. पुस्तक- योदृश्यतेऽधिकः श्लोकः। तद्यथा-नागं निगुणं होनि निर्वाहश्च (पुनः) पुना रसकम् । अथवा विमलं ताप्यं तुत्थकं (नुत्यक ख.) गैरिकमथ प्रतीवापात् ॥ ६॥ टीका-विध्यन्तरमाह । ३ पीतगणं ख. ग. । ४ “माक्षीकं राजावर्तमथ" इति पठनीयम् । सं० । ५ गन्धखगै ग.। ६ रसे ख.ग.।
रसहृदयं तन्त्रम् । १०३ यूंढैः कृत्वा शृङ्खलाबीजं उत्तरोत्तर रञ्जकं भवतीत्यर्थः ॥ ६॥७॥ आयसशलाकिकाभ्यामद्वन्द्वख्यैश्च संकराख्यैश्च । नियुढे रसलोहैारणकर्मोचितं भवति ॥ ८॥ रसलोहैरिति रसा वैक्रान्तादयः, लोहा धातवः प्रतीतास्तैः नियूढं; किंविशिष्टैः १ अद्वन्द्वाख्यैः एकतमैः, संकरैर्वा सर्वैः,संकरो- ऽवकरे' इत्यमरः, एवं निष्पन्नं बीजं जारणयोग्यं स्यादित्यर्थः ॥ ८ ॥ बीजमिदं रक्तगणे निषेचितं तेन कृतवापम् । चारितजारितमात्रं सूतं रञ्जयति बध्नाति ।। 8 ।। विशेषविध्यन्तरमाह-वीजमित्यादि । इदं निष्पन्नबीजं रक्तगणे निषेचितं कुर्यात् । पुनस्तेन रक्तगणन कृतवापं कृतो वापो यस्मिन् तत् । पुनस्तद्वीज चारितजारितमात्रं पूर्व चारितं पश्चात् जारितं सत् सूतं रञ्जयति रागं प्रापयति, वनाति चेति ॥ ६ ॥ रक्कनेहविशोधितमृतलोहरसादिभिस्तु सर्वेषाम् । चीजानां कुरु वापं रक्तस्नेहे निषेकं च ॥ १० ॥ ताह-रक्तेत्यादि । रक्तस्नेह इति रक्तो रक्तगणो दाडिमकि- शुकादिकः, स्नेहाः कंगुण्यादीनां, एतैर्विशोषिताः पश्चान्मृता धातवो रसादयश्च रसोपरसास्तैः सर्वेषां बीजानां पूर्वोक्तानां वापं कुरु 'रसे' इति शेषः; वा रक्ते रक्तवः स्नेहे स्नेहवर्ग निषेकं च; विधान. द्वयमिदम् ॥ १०॥ वङ्गाभ्रमभ्रतारं, सितशैलमलाहतौ च सितवङ्गौ । रैक्न सितताप्यहतं, ऑति नियूंढवङ्गाभ्रम् ।। ११ ।। पीतक्रियायां बीजान्युक्तानि, अथ खेतक्रियायां बीजान्याह- वनेत्यादि । वडाभ्रमिति वॉ रङ्गं, अभ्रं गगनं, एते 'वीजहेतवें' इति शेषः । पुनरभ्रतारं अभ्रं गगनं, तारं रूप्यं इति च; सितं खेतं यच्छलमलं शिलाजतु तेन पाहतौ सम्यक् मृतौ, सितवङ्गो ताररङ्गी कार्यो। पुनः रक्तं हेम, सितं तार, ताप्यं माक्षिकं, ताभ्यां हतं मारितं कुर्यात् । पुनस्तारं रूप्यं, नियूढं वङ्गं चानं च यत्र तदेवंविध कुर्यात् । एतत्सर्व रसे तारक्रियासु योज्यमित्यर्थः ॥ ११ ॥ १०काभ्यां द्वन्द्वा० ख. ग.। २मलाद्धतौ ग.। ३ सितं ख. ग. । ४ "रञ्जयति नियूंढ़ वनानम्" इति ख.। . - १०४ रसहृदयं तन्त्रम् । निर्वाहणविधिरेपः प्रकाशितोऽशेपदोषशमनाय । वीजानमप्येवं धनसत्वं युज्यते प्रथमम् ।। १२ ।। बीजेऽभ्रसंत्वं प्रधानमाह-निर्वाहणेत्यादि । एषः किमर्थः ? अशेषदोषशमनाय धात्वादीनां समस्तदोपनाशनायेत्यर्थः । एवममुना प्रकारेण यथा धातुनिर्वाहणविधिस्तथा वीजानां रसे निर्वाहणं कुर्यात्, सर्ववीजनिर्वाहणे अभ्रकसत्वं प्रथमं निर्वाह्यमिति झयम् ॥ १२ ॥ छागास्थिभस्मनिर्मितमूपां कृत्वैव मल्लकाकाराम् । दलयोगे घनरन्ध्रां टकणविषगुजाकृतलेपाम् ।।१३।। इति परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पादविरचिते रसहृदयतन्त्रे वीजनिर्वाहणात्मक एकादशोऽववोधः । निर्वाहणविधानमाह-छागेत्यादि । एवंविधां सूषां कृत्वा धातु- निर्वाहणं 'कुर्यात्' इति शेषः। किंभूतां ? छागास्थिभस्मनिर्मितमूषा- मिति, छागो वस्तस्तस्यास्थीनि, तद्भमना निर्मिता कृता या भूषा ताम् । पुनः किंभूतां ? मल्लकाकारां गोस्तनसदृशीम् । पुनः किंवि- शिष्टां? घनरन्ध्री निविडच्छिद्राम् । पुनः टकणविषगुलाकृतलेपां टङ्कणं सौभाग्य, विषं सक्तकं, गुञ्जा रक्तिका, ताभिः कृतो लेपो यस्यां सा ताम् । एवंभूता भूपा दलयोगे पत्रमेलने कार्येत्यर्थः ॥ १३ ॥ इति कुरलवंशपयोविसुधाकरमिश्रमहेशात्मजचतुर्भुजविरचितायो मुग्धावबोधिन्यां रसहृदयटीकायां बीजनिर्वाहणात्मक एकादशोऽववोधः। अथ द्वादशोऽवबोधः अथ द्वन्द्वमेलनमभिधास्यते । यावन्नागाङ्गतया न मिलन्ति लोहानि सर्वसत्त्वेषु । तावत्सर्वाङ्गं न च चरति रसो द्वन्द्वयोगेन ॥ १ ॥ १०भ्रसत्त्वप्र० ख. ग.। २०गुञ्जक० ख. ग.। ३"छागास्थि- भस्मना निर्मितां मूषां अन्नमूषां या मल्लकाकारां गोस्तनसदृशीं कृत्वा" इति पाठान्तरम् ख. ग.। ४ एवं मूषां वा योगपत्रलेपमेलने कार्यमित्यर्थः । एवं विधां मूषां कृत्वा धातुनिर्वाहणं कर्यादिति शेषः । ख. ग.१५ यावनागङ्गतया ग।६ ख. ग. पुस्तके नास्ति ।
- रसहृदयं तन्त्रम् । १०५ वाचां विलासेन सुधानुकारी ......"नु जगत्करोति । किंचित्स्वयं यत्पुरुषत्वमेव सुधाद्विजिह्वाश्रितमित्यदोष:(१) । अथ द्वन्द्वयोगप्रकारमाह-यावदित्यादि । यावदित्यवधौ । लोहानि हेमादीनि, नागाङ्गतया भुजङ्गशरीरतया, न मिलन्ति सुग- मत्वेन एकशरीरतां नानुवन्ति । केषु ? सर्वसत्त्वेषु अभ्रादीनां सारेषुः सत्त्वस्य काठिन्याद्विनोपायं नैकतां यान्ति लोहानि । अतस्तावद्रसः सर्वाङ्गं न चरति । केन कृत्वा सत्वेषु लोहानि मिलन्ति ? द्वन्द्वयोगेन दरदादिना वा गुडपुररकणादिनेति ॥१॥ माक्षीकरसकसयकदरदान्यतमेन वापितं लोहम् । संत्यजति निबिडभावं सत्वे संमिलति सुध्मातम् ।।२।। सत्त्वमेलनविधानमाह-माक्षिकेत्यादि । लोहं वर्णादि । माक्षिक ताप्यं, रसकं खर्परिकं, सस्यकं चपला, दरदं हिंगुलं, एतेन चतुष्केण; वा एभ्यो अन्यतमेनोक्तरसोपरसेन, वापितं सुध्मातं शोभनयुक्त्या ध्मातं च सत् निबिडभावं संत्यजति सत्वे संमिलति च ॥२॥ गुडपुरटङ्कणलाक्षासर्जरसैर्धातकीसमायुक्तः । स्त्रीस्तन्येन तु पिष्टै रसायने द्वन्द्वितं योज्यम् ।। ३ ।। विध्यन्तरमाह-गुडेत्यादि । इदं द्वन्द्वितं द्वन्द्वीकृतं लोहं सत्वेन मिलितं, रसायने जराव्याधिनाशने, योज्यम् । कैर्द्वन्द्वमेलापकैः कृत्वा द्वन्द्वितमित्याह--गुडेत्यादि । गुडः प्रतीतः, पुरो गुग्गुलुः, टङ्कणं सौभाग्य, लाक्षा जतु, सर्जरसो राला, एतैः; धातकीसमायुक्तैः धातकी प्रतीता, तत्समायुक्तैः; पुनः स्त्रीस्तन्येन नारीदुग्धेन, पिष्टै. मर्दितः, एतैर्द्वन्द्वमेलापकैः कृत्वा ॥ ३ ॥ ऊर्णाटङ्कणगिरिजतुकर्णाक्षिमलेन्द्रगोपर्ककटकैः । नारीपयसा पिष्टैः सर्वे द्वन्द्वेषु हि मिलन्ति ॥४॥ सर्वे द्वन्द्वेषु सत्वं प्रति द्वन्द्वेषु मिलन्ति एकीभवन्ति, 'लोहानि इति शेषः । एतैः कैः ? ऊर्णादिभिः । ऊर्णा प्रतीता, टङ्कणं सौभाग्य, गिरिजनु शिलाजतु, कर्णातिमलं मनुष्यस्य, इन्द्रगोपको जीवविशेषः, १ विडभावं ग. । २'इति युग्मम्" इत्यधिकः पाठः ग. पुस्तके ३ सर्वद्वन्द्वे ख. ग.। 3 १०६ रसहदयं तन्त्रम्। कर्कटकश्च कुलीर. 'स्थान्कुलीर. कर्कटकः' इत्यमर. एतैः । किंविशिष्ट ? नारीपयसा स्त्रीदुग्धन. पिर्यः कल्किनेः' प्रयोऽपि इन्हमेलापकयोगा इति ॥ ४ ॥ रसर्वक्रान्तकमवं मिलति द्वन्द्वान्वितं मम हेना । निव्यूढं तन्मत्वं तेन रसा बन्धमुपयानि* ॥ ५ ॥ विध्यन्तरमाह-रसत्यादि । एवमुक्तविधानन.रसर्वक्रान्तकं द्वन्द्वान्विनं म्बकीयद्वन्द्वमहिनं मिलति पृथग्भावं त्यजति । केन ममं? हेन्ना सह नसक्रान्तमत्त्वं. हन्ना सह निर्णोई यात लेन रसवक्रान्तमत्त्वहेम- यांगन रसो बन्यमुपयाति बद्धो भवतीति ।। ५ ।। शम्तं मवंद्वन्द्व गिरिजतुललीतकेन्द्रगोपायः। महिपीकर्णमलायः स्यादोज टकणालविः ॥६॥ अध विशेषविध्यन्नरमाह-शस्तमिन्यादि । पवित्र बीजं शस्तं; छ ? मर्वद्वन्डे । पुनरेतः कन्या बीजं शलं न्यान् । के 'गिरिजतुले. लीनन्द्रगोपाद्यः, गिरिजतु शिलाजनु, ललीतको गन्धका इन्द्रगोपः सुरेन्द्रगोपी जीवविशयः, एते श्राद्या येषां ते. । न केवलमैने. महिषी- कर्णमलाद्यैश्च, महिप्या. कर्णमिल श्राद्यो ग्रयां ते, श्राद्यशब्दान्ना. नाक्षिमलं च । पुनष्टहणालविष, टणं सौभाग्य, आलं हरितालं, विष कन्टज, पतैः पिईन्टमलार. त्यादिति पुन. सम्बन्धः ॥ ६ ॥ मधुमहितरप्यनेम्तारानं मिलनि ताप्यकनकं च । एरण्डनैलटङ्कणककुष्ठशिलेन्द्रगोपेस्तु ॥ ७ ॥ विध्यन्तरमाह-मवित्यादि । एतः पूर्वोक्तयोंगैः, मधुमहित, नौटयुने., ताराभं रूप्यगगनं, मिलति । च पुनस्ताव्यकनक मानिक- स्वर्ण इदं इन्द्रं च मिलति । न केवल पूर्वोक्तयोगेमिलति पुनरेतैरे- रराडतैलटकणकङ्कुष्टशिलेन्द्रगोपेश्व; एरण्डतैलं वातारोहः, टण सौभाग्य, ककुठं विरङ्ग, शिला मनोहा, इन्द्रगोपको जीव- विशेषः, एतैश्च मधुसहितै. कृत्वा इन्द्रं मिलतीत्यवश्यम् ॥ ७ ॥ मूतेन शुद्धकनकं निप्पिष्य ममायोजितं कृत्वा । पादेन तु पूर्वोक्तिद्वन्द्वान्यतमेकं कल्प्यम् ॥ ८॥ १ मव ख. ग.। २कर्णमलाय. ग.। ३ समायोजित ख. ग. । ४ पूर्वोक्तं ख. ग.। ५ द्वन्द्वान्यतमं इति पठनीयम् । सं० । दशमावोधोक्तेन पष्टश्लोकेन सह साम्यं द्रष्टव्यम् ।
.- रसहृदयं तन्त्रम् । १०७ तद्विधानमाह-सूतेनेत्यादि । प्रथम सूतेन रसेन सह शुद्धकनकं निपिण्य संमर्य, पुनः समानयोजितं कृत्वा समं च तदभ्रं च तेन यो- जितं कृत्वा, पश्चात्पादेन चतुर्थीशविभागेन, पूर्वोक्तद्वन्द्वान्यतमकं कल्प्यं पूर्वोक्तद्वन्द्वं एरण्डतैलादिकं गिरिजत्वादिकंच, तेभ्यो अन्यतम- के द्वन्द्वं योज्यमिति ॥८॥ रसोपरसस्य हेनो द्विगुणं 3' शद्धमाक्षिकं दत्वा । खरसेन काकमाच्या रम्भाकन्देन मृद्गीयात् ।। ६ ॥ कृतमित्येतत्पिण्डं हेमानं मिलति वज्रमूषायाम् । रविशशितीक्ष्णैरेवं मिलन्ति गगनादिसवानि ॥१०॥ विध्यन्तरमाह-रसेत्यादि । रसोपरसस्य वैक्रान्तगन्धकादेमध्ये, शुद्धमाक्षिकं निर्दोष ताप्य, हेनो द्विगुणं कनकाद् द्विगुणितं दत्त्वा, द्वि- गुणमाक्षिकयुतं हेम दत्त्वेत्यर्थः । एतद्रसोपरसादिकं काकमाच्या वायस्याः खरसेन मृद्गीयात् मर्दनं कुर्यात् । रम्भाकन्देन च कदलीकन्दे- नापीत्यर्थः । एतत्पूर्वोषधं पिण्डं गोलाकार कुर्यात् । इतिविधानेन हेमानं मिलति हेमताप्यं चेति । क ? वज्रमूषायाम् । तथाह "मृदस्त्रि. भागाः शणलहिभागौभागश्च निर्दयतुषोपलादेः । किट्टार्धमागं परि- खण्ड्य वज्रमूषां विध्यात्खलु सत्वपाते"-इति । एवममुना विविना, रविशशितीदणैः सह रविस्तान, शशी रूप्यं, तीक्ष्णं लोहजातिः, एतैः सार्ध, गगनादिसत्वानि अभ्रादीनां साराणि, मिलन्तीति युग्मम् ॥६-१०॥ संकरचीजानामपि विधानमित्यादिगगनसत्वयोगेन । माक्षीकयोगांदन्यं योज्यमवश्यं तु सर्वत्र ॥ ११ ॥ अभ्रसत्वस्याधिकारमाह-संकरेत्यादि। संकरबीजानामपि विधान कर्तव्यार्थोपदेश इति यावत् । इत्यादि पूर्वोक्त, तु पुनः, गगनसत्वयोगेन अभ्रकसत्वेन सार्व, माक्षीकयोगादन्यं योज्यं अभ्रसत्वेन सह माक्षीकं न स्यादिति व्यक्तिः ॥ ११ ॥ कान्तमुखं सर्वेषां सत्वानां मेलकं प्रथमम् । १ च ख. ग.।२पिण्डीकृतमित्येतत् ख. ग.। ३माक्षिकान्यतमं यो ० ख. ग.१४ अभ्रकसत्त्वाधिकार० ख. ग. [५ तत्प्रथमम् ख.ग.।
१०० रसहृदयं तन्त्रम् । पूर्वोक्तकल्कसहितं माक्षीकमृतनागतालशिलम् ॥ १२ ॥ इति परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पादविरचिते रसहृदयतन्त्र द्वन्द्वाधिकारात्मको द्वादशोऽवयोधः। कान्तेत्यादि । माक्षिकेण मृतं यन्नाग, तालं हरितालं, शिलामनो. ह्वा च, तत्तथा, पूर्वोक्तकल्कसहितं पूर्वोक्तं यत्कल्क रसोपरसादीनां तेन सहितं युक्तं; कान्तमुखं यथा,-"अभावेऽभ्रकसत्त्वस्य कान्तसत्त्वं प्रदापयत् । कान्तसत्वस्य चाऽभाव तीक्ष्णलोहं तु दापयेत्"- इति ॥१२॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविर- चितायां मुग्धावबोधिन्या रसहृदयटीकायांद्वन्द्वाधिकारा- त्मको द्वादशोऽववोयः ॥ १२ ॥ अथ त्रयोदशोऽवबोधः। अथ संकरवीजाधिकारः। माक्षीककान्ततीक्ष्णं तीक्ष्णं माक्षीकमभ्रकं बीजम् । माक्षीककान्तशुल्वं तीक्ष्णाभ्रक महाबीजम् ॥ १ ॥ मधुनि माधव एव मधुवतः प्रकुरुते मुदितो मधुरं रवम् । वररवोऽपि सतां च समागमं शबलता किमुपैति न चारुताम् ॥ संकरवीजानां मध्ये महाबीजसंज्ञान्याह-माक्षिकेत्यादि। एतस्त्रिक महावीज, किमेतत् ? माक्षीककान्ततीक्ष्ण, माक्षीककान्तशुल्वं, तीक्ष्णा भकं च, मातीकं ताप्यं, कान्तं चुम्बकं,शुल्वं तानं, तीक्ष्णं लोहजातिः, अभ्रक गगनं, एतन्त्रितयं बीजं महाबीजं, एतस्वित्रिमुखं प्रत्येकं महा- संशम् । विशेषोऽत्र,-"बीजपाकं प्रवच्यामि जारणार्थ रसस्य तु । सूत्रक्रमोऽयं बीजेन समजीर्णेन शुध्यति-"इति । अवान्तरत्वेन च प्रत्येक द्रव्य वीजसंज्ञाभिमतम् ॥१॥ मातीककान्तशुल्ब शुल्बाभ्रकमाक्षिकं चापि । कान्ताधकमाक्षीकं ताप्यकशुल्बाभ्रकं महाबीजम् ॥२॥ तञ्चाह-माक्षीकेत्यादि । माक्षीककान्तशुल्वं मातीकं ताप्यं, कान्तं चुम्बकं, शुल्वं तानं, एतदपि महावीज शेयम् । पुनः शुल्वाभ्रः १ माक्षिक० इति पठनीयम्। सं०।२०धिकारोऽभिधास्यतेख.ग.। ३ तीचणभ्रकं च महा० इति पठनीयम् । स०। ४ संज्ञानाह ख. ग. ।
रसहदयं तन्त्रम् । १०६ कमाक्षीकं, पुनः कान्ताभ्रकमाक्षीकं कान्तं कान्तपाषाणं, अभ्रकं गगनं, माक्षीकं ताप्यं तथा ताप्यकशुल्वाभ्रकं एतदपि च महाबीज शेयमिति ॥२॥ माक्षीकतीक्ष्णशुल्वं तीक्ष्णशुल्बाभ्रक महाबीजम् । माक्षीककान्तकनकं कनकारुणमाक्षिकं महाबीजम् ॥ ३॥ तञ्चाह-माक्षीकेत्यादि । माक्षीकतीक्ष्णशुल्वं माक्षिकं ताप्यं, तीक्ष्णं सारलोहजातिः, शुल्वं ताम्रम् । पुनस्तीच्णशुल्बाभ्रक तीक्ष्णं सारं, शुल्वं तानं, अभ्रक गगनम् । पुनर्माक्षीककान्तकनकं माक्षी ताप्यं, कान्तं कान्तपाषाणं, कनकं वर्णम् । पुनः कनकारुणमाक्षिकं कनकं स्वर्ण, अरुणं तानं, माक्षिकं स्वर्णमाक्षिकं चेति चतुष्टयं महा- बीजं प्रवरवीजमित्यर्थः । चतुर्णी प्रत्येकं महाबीजसंज्ञति ॥ ३॥ मातीकतीक्ष्णतारं तारारुणमाक्षिकं चैवम् । कान्ते तु शुल्यताप्यं शुल्बाभ्रताप्यकाञ्चनं चापि ॥ ४ ॥ तच्चाह-माक्षीकतीक्ष्णतारमिति ।-माक्षीकं ताप्यं, तीचर्ण सारं, तारं रूप्यम् । पुनस्तारारुणमाक्षिकं एवमुक्तविधानेन इदमपि, तार रूप्यं, अरुणं तानं, माक्षीकं ताप्यम् । पुनः कान्ते चुम्बकेऽभिव्यापके अधिकरणे शुल्वं तानं, ताप्यं वर्णमाक्षिकं यत् प्रयुक्तम् । अपीति निश्चयेन । शुल्बाभ्रताप्यकाश्चनं वा शुल्ब तानं, अभ्रं गगनं, ताप्यं वर्णमाक्षिकं, काञ्चनं हेम, एतच्चतुष्टयमपि महाबीजं ज्ञेयम् । महाबीज संबन्धः प्रत्येकमिति व्यक्तिः ॥४॥ कान्तेन्दुसस्थताप्यं कान्ताभ्रकतीक्ष्णमाक्षिकं चैव । हेमाभ्रशुल्चताप्यं हेमाभ्रकशुल्बमाक्षिकं वापि ॥ ५ ॥ तञ्चाह-कान्तेन्दुसस्यताप्यमिति । कान्तं कान्तपाषाणं, इन्दु- स्तार, सस्यं चपला, ताप्यं वर्णमाक्षिक, चेति । पुनः कान्ताभ्रक- तीक्ष्णमाक्षिकं, तथा हेमाभ्रशुल्वताप्यं, पुनहेमाभ्रकशुल्बमाक्षिकं वा हेम कनकं, अधकं गगनं, शुल्वं तानं,माक्षीकं ताप्यं, एतच्चतुष्टयमपि महाबीजं शेयम् । प्रत्येक द्रव्ये बीजसंज्ञा चेति ध्वन्यर्थः ॥ ५ ॥ १ तीच्ण शु० ख. ग. | "तीक्षणशुल्वाभ्रकं च म०" इति पठनीयम् । सं० । २ चैव ख.ग. । ३"शुल्वगगनता०" इति पठनीयम्। सं०।४ वापि ग.।
रसहदयं तन्त्रम् । कान्ताभ्रशुल्बताप्यं संकरबीजं चतुःषष्टिः ॥ ६ ॥ तच्चाह-कान्तेत्यादि । कान्ताभ्रशुल्वताप्यं कान्तं चुम्बक, अभ्रकं गगनं, शुल्वं तानं, ताप्यं माक्षिकं, इत्यपि महाबीजम् । एतषों महाबीजानां चेत्संकरबीज प्रत्येक द्रव्यस्य वीजसंज्ञा, सा तर्हि चतु:- षष्टिप्रमाणा स्यादित्यर्थः ॥ ६॥ सर्वेषां बीजीनामादौ कृत्वा यथोक्तसंयोगम् । शतवाप्यं यद्वैटौ द्रावित हि बीज विशुद्धमिदम् ॥ ७॥ वीजविधानमाह-सर्वेषामित्यादि । आदौ प्रथम, सर्वेषां बीजानां यथोक्तसंयोग चतुःषष्टीनां उक्तसंज्ञानां द्रव्याणां संयोगं एकत्रीकरणं कृत्वा, यदेकत्रीकृत वह्नौ द्रावितं भवति, तत्सर्व शतवाप्यं बीजं सिद्धं प्रयत्नेन स्यादिति शब्दार्थः ॥ ७ ॥ न पतति यदि घनसचं गर्भ नो वा द्रवन्ति बीजानि । न च बाह्यद्रतियोगस्तत्कथमिह बध्यते सूतः ॥ ८ ॥ इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयाख्ये तन्त्र संकरवीजविधानात्मक- स्त्रयोदशोऽवबोधः। सूतवन्धने हेतूनाह-नेत्यादि । यदि गर्भे रसोदरे घनसत्वं अध- कसारं न पतति न प्राप्नोति, वा गर्ने बीजानि अस्मिन्नध्याये अभिहि- तानि माक्षिककान्तशुल्बादीमि यावन्नो द्रवन्ति, च पुनर्वाह्यद्रुतिस्तस्या योगो रसे द्रुतिमेलनं न स्यात्, तत्तस्माद्धेतोः सूत इहास्यां क्रियायाम- सत्यां कथं बध्यते घनत्वं धत्ते । गर्भद्रुतिबाह्यद्रुतिभ्यां सूतो बध्यते नियतमित्यभिप्रायः ॥८॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचितुर्भुज विरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां संकरबीज विधानात्मकत्रयोदशोऽवबोधः ॥ १३॥ GHORS १ अस्य श्लोकस्य द्वितीया पङ्किरेवं पठ्यते ख. ग. पुस्तके "द्वात्रि- शत्पोडशांशमष्टांशकादि परिजायम् ।” २ वीजविधानमादौ ख. ग. । ३ यद्रावितं वह्नौ हि बीजं ख. ग.। "यद्वह्नौ द्रावितवीज" इति सुपाठः । सं०।
१ रसहृदयं तन्त्रम् । अथ चतुर्दशोऽवबोधः। अथ संकरवीजजारणमभिधास्यते समादधि च यजीर्ण वीजं तेनैव चावर्तता कार्या । कर्तव्यं तत्करणं यसात्खलु जायते हेम ॥१॥ शरदि शारदमेघो वर्षति वासु वार्षिको वार्दः । मधुसमये परपुष्टः प्रवरजवः शोभते सततम् ।। वीजजारणात्किं भवति तदाह-समादीत्यादि । समं सूततुल्यं, अधिशब्दादपरिमितं समादधिक, यजीर्ण जारणमाप्त, वीजं निष्पन्न- वीजं, तेनैव जीर्णेन वीजेन सह, आवर्तता कार्या आवर्त इति श्रावर्तः । किं तत् ? यस्माद्विधानाद्धम कनकं जायते, खलु निश्चयेन, तत्करण तस्य विधानस्य करणम् । समादिजीर्णस्य सूतस्य रूप्यादिषु प्रयोगा- कनकं भवेदिति व्यक्तिः ॥ प्रद्राव्य शस्त्रपात्र गन्धंपादेन सूतनं दद्यात् । म्वरसेन चौषधीनां वटिकां निविष्य कुर्वीत ॥ २ ॥ सूतमारणविधानमाह-प्रदाव्येत्यादि । शस्त्रपात्रे तीक्ष्णमयपात्रे औपश्लेषिकेऽधिकरणे सप्तमी। गन्धपादेन गन्धकस्य तुशिविभागेन, सूतकं दद्यात्; तत्पात्रोपरिभागे दत्तं प्रद्राव्य 'वह्निना' इति शेषः । पुनः ओषधीनां स्वरसेन औपच्यो ग्रन्थान्तरे यथा,-'मृदीयात्खल' तावत् पिष्टमानसदृशं भवेद्यावत् । तदनु च नियामकानां शतावरी- कन्दुफीसुधादीनाम्'--इति । शतावर्यादीनां स्वकीयरसेन निष्पिप्य प्रमद्य, वटिकां बदराकारां कुर्वीतेति ॥ २॥ संस्थाप्य लोहफलके छायाशुष्कां तु तां वटिकाम् । लघुलोहकटोरिकया स्थगयित्वा लेपयेत्सुदृढम् ।। ३ ।। तच्चाह--संस्थाप्येत्यादि । तां पूर्वोक्तां वटिकां छायाशुपको लोहफलके शस्त्रपात्रे संस्थाप्य, पुनः लघुलोहकटोरिकया पूर्वोक्त. लोहफलकात् लध्वी या लोहकटोरिका तया, स्थगयित्वा आच्छाद्य, १ ख. ग. पुस्तके त्वन्यथा पठ्यते-समादिजारणमा वीज तेनैव चावर्तता (तेनैवावर्तनाग.) कार्या। सम्यग्विधानात्कनक भवेतृप्यादिपु प्रयोक्तव्यमिदम् ॥ इति ॥ २ गन्धकपादेन ख. ग.।
११२ रसहृदयं तन्त्रम् । दृढं गाढं यथा स्यात्तथा लेपयेत् , वच्यमाणेनेति शेषः ॥ ३ ॥ लवणार्द्रमृदा लिप्तां सुदृढं कुर्वीत धूम्ररोधाय । दत्त्वा सुदृढाङ्गारान्भवाद्वयवाहिनैव निधूमे ॥४॥ तञ्चाह-लवणेत्यादि । तां पूर्वोदितां लघुलोहकटोरिकां सुदृढ़ यथास्यात्तथा लवणार्द्रमृदा लवणेन सैन्धवादिना युता या आदी जलसिक्ता मृत् तयालितां कुर्वांत । किमर्थं ? धूम्ररोधाय यथा यन्त्रा. द्वहिबूंमोद्गमो न स्यात् । पुनः सुदृढाकारान्खदिरादीनां दत्त्वाभखाद्वय- वह्निना खलुद्वयाग्निना धम्यादिति अनिमश्लोकसंबन्धात् । क सति? निर्धूमे सति रसे धूमनि.सरणवर्जिते सति ॥ ४ ॥ तावद्यावद्ध्माता रक्ताभा खोटिका भवति । अपनीय ततोऽङ्गारान्स्वभावशीतां कटोरिकां मत्वा ॥५॥ तच्चाह-तावदित्यादि । सन्विलिता पूर्वोक्ता लोहशराविका ताव- देवधौ ध्माता कार्या यावत्कालप्रमाणं रक्तामा रक्तद्युतियुक्ता खोटिका भवति खोटस्येव आकृतिर्यस्याः सा खोटिका । ततोऽनन्तरं कटोरिकां स्वभावशीतला खतो हिमां मत्वा ज्ञात्वा, पुनरङ्गारानपनीय अपसार्य, 'कटोरिकामुत्खन्य रसो ग्राह्य' इति शेष, आगामिश्लोकसंवन्धात् ॥५॥ उत्खैन्योत्खन्य ततः कटोरिकाया रसो ग्राह्यः । एष मृतसूतराजो गोलकवद्भवति से च सुखाध्मातः॥६॥ तच्चाह-उत्खन्येत्यादि । ततोऽनन्तरं, लघुलोहकटोरिकां पूर्व- वर्णितां उत्खन्योत्खन्य प्रवलत्वेनोत्पाट्य, रसः सूतो ग्राह्यः । उत्खन्यो- त्खन्येति कठिनतरत्वाद्वा अत्यादरेण वीप्सा । कुतः ? कटोरिका- सकाशात्, एष इत्थमुत्पन्नो मृतसूतराजो शेयः । स च सुखाध्मातः सन् गोलकवद्भवति 'वज्रमूषायां' इति शेषः ॥ ६ ॥ शिखिगलतामेकरसोऽतिध्मातः काचटङ्कणतः। त्रिगुणं वङ्गं दद्यात्क्रमेण नागमल्पाल्पदानेन ।। ७॥ काचः प्रतीतः, टङ्कणं सौभाग्य, ततः रसो अति मर्यादामतिक्रम्य १ लवणार्द्रकमृदा ख. । लवणार्द्रकमृदो ग.।२ धूमरो० ख. ग. । ३ उत्खान्योत्खान्य ख. ग. । ४ कटोरिकयां ग. । ५ तत्सु० ख. ग.।६०गलिता० ख. ग. । ७ दद्यात्ततोऽल्पदानेन नागंच ख. ग.।
रसहृदयं तन्त्रम् । ११३ ध्मातः सन् , एकरसो भवति समरस इत्यर्थः । केषां ? शिखिगलतां, शिखिनि गलन्तीति विग्रहः, शिखिगलतां धातूनां; एवं गलिते रसे त्रिगुणं वङ्ग रङ्गं दद्यात्, ततो वङ्गदानानन्तरं क्रमेण अल्पाल्पदानेन नागं सीसकं च दद्यादिति ॥ ७ ॥ पश्चाद्धेम्ना योज्यं रसबीजं सूतबन्धकरम् । तालकसूतेनापि च कृत्वा वटिकां नियामकौषधिभिः॥८॥ एवं निगृह्य धूमं सुधिया रसमारणं कार्यम् । तश्चाह-पश्चादित्यादि। पश्चात् त्रिगुणसीसकदानानन्तरं हेना,कनकेन सह,रसबीजं महाबीजंयोज्यं; हेना सार्धमहाबीजं, कीडग्भवति? रस- बन्धकरं पारदबन्धप्रद च पुनः तालकं हरिताल, सूतो रसः, तेनापि नियामकोषधिभिश्च शतावादिभिः पूर्वेक्ताभिर्गुटिकां कृत्वा,निगृह्य धूम रुन्धितधूमं यथा स्यात्तथासुधिया मतिमता रसशेन, एवममुना विधि- ना रसमारण कार्य पारदबन्धः कार्य इत्यर्थः ॥८॥ अथवा शिलया सूतो माक्षिकयोगेन वा सिद्धः। जायेत शुक्लवर्णो धूमरोधेन ताभ्यां वा ।।६।। अन्यच्चाह-अथवेत्यादि।अथवा विध्यन्तरे, शिलया मनोह्वयाकृत्वा, वा माक्षियोगेन ताप्यसंयोगं कृत्वा, साधितस्तालकयोगवत्, सूतो रसः शक्लवर्णो जायेत । केन ? धूमरोधेन सैन्धवामृदालेपन, . वा ताभ्यां शिलामाक्षिकाभ्यामुभाभ्यां तालकयोगवत् साधितः सन् सूतः शुक्लवर्णी भवेदिति ॥६॥ मृतशुल्बताप्यचूर्ण कान्तयुतं तेन रञ्जयेत्खोटम् । नियूढं घनसत्त्वहेमयुतं तद्रसायने योज्यम् ।। १० ।। १नियामोषधिभिः ख. ग.। २ अस्या पार्यायाः द्वितीया पतिः-सैन्धवाक (सैन्धवा) मृदालेपेन तलक (तालक) योगाच शुक्लतरः ।। ६ ॥ ख. ग. पुस्तके । ३ कार्या ख. ग.। ४ धूमरोधेन ख. ग.। ५शुक्लर्वणास्ताभ्यां रसं वै साधितः सूतः ख. ग.। शुक्लवर्णो ताभ्यां वै साधितः सूतःइति पठनीयम् । जयदेवः । ६ धूमनिरोधेन इति पठनीयम् । सं०।७ घनसत्वं हे० ख.ग. ।
7 रसहृदयं तन्त्रम् । अन्यच्चाह-मृतेत्यादि । मृतशुल्वताप्यचूर्ण मृतं च यत् शुल्वं ताम्र ताप्य वर्णमाक्षिक च तचूर्ण, किंविशिष्ट ? कान्तयुत चुम्बक- मिश्रितं, तेन मृतशुत्वताप्यचूर्णेन कान्तयुतेन, पूर्व निष्पन्नं खोटं रक्ष- येत् । किविशिष्ट घनसत्त्वहेमयुतं अभ्रसत्ववर्णमिश्रितम्। एवंविध तत्वोटं रसायने जराव्याधिनाशने योज्यम् ॥ १० ॥ बलिना त्रिगुणेन रसात्पर्पटिकयुतेन मर्दितं सूतम् । नियमकदिव्यौषधिभिश्छायाशुष्का कृता वटिका ॥११॥ अन्यच्चाह-बलिनेत्यादि । त्रिगुणेन वलिना गन्धकेन सह, रसं सूतं, सुदृढं यथा स्यात्तथा मर्दितं 'कुर्यात्' इत्यध्याहारः । किंविशिष्टेन वलिना ? पर्पटिकयुतेन पर्पटिको लोहपर्पटिकः प्रतीतस्तेन युतेन मिलितेन, नियमसंस्कारोक्ताः नियमकाः दिव्योषधयः शतावरीप्रमु- खास्ताभिः, ततो वटिका छायाशुष्का कार्या छायाऽधर्मरूपा, शुष्का नीरसा, तथा कार्या इति ॥ ११ ॥ मृषाधृतपर्पटिकामध्ये संछौद्य निगूढसुदृढेन । ध्मातं गच्छति खोटं हेमयुतं सूतबन्धकरम् ॥ १२ ॥ अन्यच्चाह · भूषेत्यादि । मूषाधृतपर्पटिका मूषायां धृता या पर्प- टिका पूर्वोक्तलोहपटिका, सा निगूढसुदृढेन निगूढश्चासौ सुदृढश्च तेन मूलकादिक्षारविडेन कृत्वा मध्ये स्वान्तः आच्छाद्य मातं क्रियते, पुनस्तस्मातं सत् खोटं गच्छति खोटत्वमाप्नोति । तत्खोटं हेमयुतं स्वणमिलितं, सूतवन्धकर स्यात् रसबन्धनप्रदमित्यर्थः ॥ १२ ॥ बलियुक्ता पर्पटिका मृदिता स्नुह्यर्कभाविता गुटिका । मध्ये गर्ता कार्या सूतताऽऽच्छादिता तदनु ॥ १३ ॥ विध्यन्तरमाह-वलीत्यादि पूर्वोक्ता या पर्पटिका, लोहपर्पटिका, वलियुक्ता गन्धकमिश्रिता, मुहर्कभाविता च स्नुही वज्री, अर्को मन्दारस्ताभ्यां भाविता लुता, एतयोः पयसेति भावः, मुदिता च घर्षिता च, एवं कृतविधाना पर्पटिका सति गुटिका वटिका कार्या, मध्ये गुटिकान्तः गर्ता कार्या, सा गर्ता ततः सूतमृता सूतपूरिता सती तदनु गर्तकरणानन्तरं आच्छादिता कार्या पर्पटिकयेति भावः ॥ १३ ॥ १ शुष्काः कृता वटिकाः ग.।२ मूषां धृ० ग. । ३ संस्थाप्य ग. । ४ सूतमृता ग.।
रसहृदयं तन्त्रम् । ११५ बाह्ये दवा निगडं सुलिप्तमूषोदरे दृढं न्यस्तम् । सूतः पुटितो म्रियते ध्मातः खोटं भवत्येव ॥१४॥ तच्चाह-बाह्य इत्यादि । बाह्य सूतोदरगुटिकोपरि निगडं दत्वा; सुलिसमूषोदरे सुलिता सारणकर्माभिहितौषधीरिति शेषः, एवंविधा या मूषा तस्या यदुदरं तस्मिन्दृढं यथा स्यात्तथा निगडं न्यस्तं स्थापित कुर्यादिति शेषः। सूषोदरगुटिकान्तस्थः सूतः पुटितो वह्नियोगात् म्रियते पञ्चत्वमाप्नोति । पुनः ध्मातः सन् खोटो भवति । एवाव्ययमन्यनिषेध- वाचि ॥ १४॥ एवं तालशिलाभ्यां माक्षिकरसकैश्च दरदशशिसहितैः । म्रियते पुटसंयोगाद् ध्मातं खोटं कृतं विमलम् ॥१५॥ अन्यच्चाह-एवमित्यादि। एवं लोहपटिकाविधानेन, तालशिला- भ्यां नातं सत् युतं यत् खोटं तद्विमलं मलवर्जितं स्यात् । च पुनः माक्षिकरसकैस्ताप्यखपरिकः दरदशिखिसहितैश्च हिङ्गलशिखिमि- लितेश्च करणरूपैविमल, च पुनः पुटयोगाद्वह्निसंपर्कात् मातं म्रियते । आदौ मललक्षणमुक्तम् ॥ १५ ॥ किट्टकपुरैसंयोगाद् ध्मातैः किट्टस्तु किट्टतः सत्त्वम् । निपतति सत्वं रससाकं जनयति तद्भस तस्यापि ॥ १६ ॥ तच्चाह-किट्टकेत्यादि । किट्टपुरसंयोगात् किट्ट लोहमलं, पुरो गुग्गुलुः, तयोः संयोगात् मातैः माक्षिकरसदरदरूपैः पूर्वोक्तैः किट्टो भवेत्, पुनः किट्टतो रससाकं सूतमिश्रितं, सत्वं सारं,निपतति, तत्स- स्वं भस्म जनयति उत्पादयति । तस्यापि भस्मनः सत्वं च निपत- तीत्यर्थः ॥ १६ ॥ वङ्गरसगन्धतालं खटिकाया योगतः सुपर्पटिकॉम् । रञ्जयति सत्यतालं धूमेन विनाऽपि मृतेन ॥ १७ ॥ विध्यन्तरमाह-वङ्गरसगन्यतालमिति । वङ्गं पु, रसः सूतः, गन्धको वलिः, तालं हरितालं, एतच्चतुष्टयं खटिकाया योगतः खटिका चित्रकरजस्तस्या योगतः, सुपर्पटिका, पूर्वोक्तां लोहपर्पटिका, १ मूषोदरं ख.ग. । २ खोटो ख. ग.। ३०पुरु०ग. । ४ सद्रसपाकं ग.। सत्वं रसपार्क ख. । ५ सुपपेटिका ख. ग.। . .
११६ रसहदयं तन्त्रम् । रञ्जयति, सूतेन विनापि, किमुत रसमिलितेन तालसत्त्वेनति व्यक्तिः ॥ १७॥ एवं बीजं कृत्वा रञ्जनविधिना सुरञ्जनं कार्यम् । त्रिगुणं रसस्य हेम संयोज्यं तस्य वरबीजम् ।। १८ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदये तन्त्रे संकरवीजयोजनात्मकश्चतुर्दशोऽववोधः । महावीजानां वीजानां च विशेपविधानमाह-एवमित्यादि । एव- मुक्तविधानेन वीजं विधाय, रञ्जनविविना रञ्जनविधानेन, सुरञ्जन कार्यम् । तत्कार्ये रसस्य सूतस्य त्रिगुणं हेम संयोज्य, पुनस्तस्य हेम्नः त्रिगुण वरवीजं योज्यं, इति विशेषविविः ॥१८॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिथमहेशात्मजचतुर्भुजविर- चितायां मुग्धावबोधिन्यां रसहृदयटीकायां संकरवीजयोज- नात्मकश्चतुर्दशोऽववारः अथ पञ्चदशोऽवबोधः। वक्ष्ये त्वभ्रकसञ्चाद्विमलदुतिमखिलगुणगणाधाराम् । सा हि निवनाति रसं समिलिता मिलति च सुखेन ॥१॥ अथ सत्त्वप्रकरणमभिधास्यते। भारती भरतखण्डमण्डिता पचरमानन्दमञ्जरी कस्तया न रसमलं कुतो जया वक्रपामविशस्थया सदा (१)॥ बाह्यद्रुतिप्रशंसामाह-वच्य इत्यादि । अहं कविः, अभ्रकसत्त्वा- द्गनसारतो, विमलद्रुति पक्षे विमला चासो द्रुतिश्चेति विग्रहः । किं- विशिष्ट ? अखिलगुणगणावारां, अखिलाश्च ते गुणगणाश्च गुणपट- लाश्च तेषां या आधारा ता, बहवो गुणास्तिष्ठन्त्यस्यामिति व्यक्तिः । सा रसभूता द्रुतिः, रसं सून, निवनाति निश्चयेन बनातीत्यर्थः । किंभूता सती? मिलिता सती तुल्यमिश्रिता सती; पुनः द्रुतिः सुखेन मिलति पत्रादेईमिलापत्वात् ॥ १ ॥ १ संयोज्य ग.। २ सममिलिता इति पठनीयम् । सं०।३ प्रकर णाद् द्रुतिमभि० ख. ग. । ४०प्रशंसा तद्विवानं चाह ख. ग.। .
? रसहृदयं तन्त्रम् । १११ वज्रवल्लयाः खरसेन गगनं सौवर्चलान्वितं पिष्टम् । परिपक्कं निचुलपुटैनिर्लेपं भवति रसरूपम् ॥२॥ द्रुतिविधानमाह--वज्रवल्ल्या इत्यादि । वज्रवल्ल्याः स्वरसेन खकीयेन रसेन, गगनमभ्रसत्त्वं, सौवर्चलान्वितं रुचकसहितं, पिष्टं 'कुर्यात्' इति शेषः । कि विशिष्टं गगनं ? निचुलपुटै_तसद्रवभाव- नाभिः पकं वह्निपुरितं, तत्पकं सत् निलेप संपर्कवर्जितं रसरूपं भवति, पारदस्य रूपमित्यर्थः ॥२॥ अजजलशतपरिमावितकपितिन्दुकचूर्णवापमात्रेण । द्रतजातमभ्रेकसचं मूषायां रसनिभं भवति ॥३॥ विध्यन्तरमाह--अजेत्यादि । द्रुतजातमभ्रकसत्त्वं अभ्रकसत्त्वं गगनसारं, मूपायां वज्रसंशायां द्रुतं सत् रससंनिभं भवति पारदभूत- मित्यर्थः । केन ? अजजलशतपरिभावितकपितिन्दुकचूर्णबापमात्रेण; अजः छागस्तस्य जलेन सूत्रेण शतं शतावरं परिभावितं धर्मपुरितं यत्कपितिन्दुकचूर्णं तस्य वापमात्रेण गतेऽभ्रलवे वापेनेति ॥३॥ निजरसशतसांवित कञ्चकिकन्दोत्थचूर्णकृतपरिवापम् । द्रुतमास्तेऽभ्रकसत्त्वं तद्वत्सर्वाणि लोहानि ॥ ४ ॥ अभ्रकसत्वं वह्नियोगेन द्रुतं श्रास्ते द्रवरूपमेवावतिष्ठते । किं- विशिष्टं सत्वं ? निजरसशतपरिभावितेत्यादि, निजरसेन स्वकीयद्वेण परिभावितं यत्कञ्चकिकन्दोत्थचूर्णं तस्य श्रावापेन; यथा शतभावित- कञ्चकिकन्दोत्थचूर्णेन सत्त्वं द्रुतमास्ते तद्वत्सर्वाणि लोहानि द्रुतानि तिष्ठन्ति ॥४॥ गगनं चिकुरतैलघृष्टं गोमयलिप्तं च कुलिशमूषायाम् । सुध्मातमत्र सच सवति जलाकारमचिरेण ॥ ५ ॥ १ "शतप्लावित०" इति पठनीयम् । सं० । २ "द्रुतमास्तेऽभ्र- सत्व" इति पठनीयम् : सं०।३"शतपरिभावित" इति पठनीयम् । सं० । ४"कृतवापम्" इति पठनीयम् । सं०। ५ आयुर्वेदप्रकाशे तु- निजरसशतपरिभावितकञ्चुकिकन्दोत्थचूर्णपरिवापात् । द्रुतमास्ते- ऽभ्रकसत्वं तथैव सर्वाणि लोहानि ॥ इति पाठः समुपलभ्यते । .
रसहृदयं तन्त्रम्। अन्यच्चाह-गगनेत्यादि । गगनं अभ्रसारं, चिकुरतैलपृष्टं चिकुर- तैलं कैशतैलं प्रतीतं ग्रन्थेपु, तेन पृष्टं मर्दित, गोमयलितं गोमयेन लिप्तं यथा स्यात्तथा, कुलिशमूषायां वज्राभिधानायां, सुध्मासं सत्, अचिरेणाल्पकालेन, जलाकारं भवतीत्यन्धयः ॥ ५॥ गगनद्रतिरिह सच्चे ज्ञेयो हि रसस्य संप्रदायोऽयम् । प्रथमं निपात्य सत्वं देयो वापो द्रते तस्मिन् ॥ ६ ॥ सामान्येनाभ्रद्रुतिविधानमाह--गगनेत्यादि । इहास्मिन् शास्त्रे, सत्ये गगनसारे जाते, साङ्गतया गगनद्रुतिः,भवतीत्यध्याहार्यम् । अयं प्रत्यक्षान्तर्गतः,हि निश्चितं,रसस्य सूतस्य, संप्रदायो शेयः। पुनः प्रथमा- दौ, सत्त्वं अभ्रसारं निपात्य, तस्मिन्द्रुते सत्चे वह्निना द्रवरूपे सति वापो कार्यः 'कथितौषधीनां' इति शेषः ॥६॥ सुरगोपकदेहरजः सुरदालिफलैः समांशकैयः। चापो द्रते सुवर्णे द्रुतमास्ते तद्रसप्रख्यम् ॥ ७ ॥ अथ सुवर्णदुतिविधानमाह-सुरगोपकदेहरज इति।-इन्द्रगोप- शरीरचूर्ण, सुरदालीफलैः देवदालीफलैः, समांशकैः सुरगोपचूर्ण तुल्यभागैः कृत्वा, वापो देयः द्रुते सत्युपरिक्षेप इति, सुवर्णे वापे कृते सुवर्ण द्रुतमास्ते, किंविशिष्टं ? रसप्रख्यं जलतुल्यमित्यर्थः ॥७॥ अथ निजरसपरिभावितसुरदालीचूर्णवापमात्रेण । द्रतमेवास्ते कनकं लभते भूयो न कठिनत्वम्। ॥८॥ अन्यच्चाह--अथेत्यादि । अथेन्द्रगोपदेवदालीयोगकथनानन्तरं, कनकं हेम, निजरसपरिभावितं यत् सुरदालीचूर्णं तस्य वापमात्रेण गलिते हेन्नि क्षेपमात्रेण द्रुतमेवास्ते गलितमेवावतिष्ठतीत्यर्थः, पुनः कनकं काठिन्य स्थिरत्वं न लभते इति चिरकालप्रयोजनम् ॥८॥ * रसरत्नसमुच्चयेऽपि-चूर्ण सुरेन्द्रगोपानां देवदालीफलद्रवैः । प्रतिवापेन कनकं सुचिरं तिष्ठति द्रुतम् ॥ + आयुर्वेदप्रकाशं तुः-निजरसबहुपरिभावितसुरदालीचूर्ण- मात्रवापेन । द्रवति पुनः संस्थान भजते गगनं न कालेऽपि ॥ इति पाठः समुपलभ्यते। ?
रसहृदयं तन्त्रम् । सुरदालीममगलितं त्रिःसप्तकृत्वाथ गोजलं शुष्कम् । वापेन सलिल सदृशं कुरुते मूषागतं तीक्ष्णम् ॥६॥ अथ तीक्ष्णविधानमाह-सुरदालीत्यादि । सुरदालीभस्मगलितं सुरदाली देवदाली, तस्याः भस्म दाहसंभूतं, तेन गलितं; त्रिःसप्तकृत्वा एकविंशतिवारं, गोजलं सुरभिमूत्रं भावित कुर्यादित्यध्याहारः । अथ मूषागतं वज्रसंज्ञायां स्थितं तीक्ष्णं सारं वापेन निक्षेपणेन जलसदृशं जलतुल्यं कुरुते, कर्मविदिति शेषः ॥ ६ ॥ कूर्मास्थिशिलाजतुकमेषीमृगगोस्थिवापिता काञ्ची । जलसदृशी भवति सदा वापो देयो द्रुतायां तु ॥ १० ॥ अथ माक्षिकद्रुतिविधानमाह-कूमत्यादि । कूर्मास्थि कच्छपास्थि, शिलाजतुकं प्रतीतं, मेषी मेषपत्नी, मृगो हरिणः, गौः प्रतीता प्रतीतो वा, तेषां यान्यस्थीनि तैनिापिता या काञ्ची वर्णमाक्षिक, सा जल- सदृशी भवति; कियत्कालपरिमाणं ? सदा नित्यं, पुनः द्रुतायां गलि- तायां वापो देयः, वापो निक्षेपणम् ॥१०॥ अभ्रकद्रुतिरविशेषा निर्लेपा योजिता समासात्त । अरोटं रसराजं बध्नाति हि द्वन्द्वयोगेन ।। ११ ।। सामान्याभ्रद्रुतेरधिकारमाह- अभ्रद्रुतिरित्यादि। गगनद्रवः अवि- शेषा सामान्यापि विधानेन कृता निर्लेपा अस्पर्शा, समासूततुल्यभाग- योजिता सती, आरोटं रसराज पूर्वसंस्कारैः संस्कृत सूतं बध्राति; केन ? द्वन्द्वयोगेन; उभयमेलापकौषधेन । हिशब्दो युक्तार्थ इति ॥११॥ कृष्णागरुनाभिसित रसोनसितरामहैरिमा द्रतयः । सोष्णे मिलन्ति सेन मृदिताः स्त्रीकुसुमपलाशबीजरसैः॥१२॥ पूर्वोक्तानां मेलनमाह-कृष्णेत्यादि।इमा द्रुतयःसोष्णे तुषकरीषा- दिना तापिते खल्वे, मृदिताः सत्यो मिलन्ति रसेन सह तथा कार्यम्। कैः : कृत्वा ? कृष्णागरुनाभिसितैः कृष्णागरुकस्तूरिकाधनसारैः कृत्वा, न केवलमेतैः रसोनसितरामठैश्च लशुनशर्कराहिगुभिः, पुनः स्त्री- १ अभ्रद्रुति० इति पठनीयम् । सं०।२ "कृष्णागुरुणा मिलित" इति पाठान्तरम् । ३ "माः स्त्री०" इति आयुर्वेदप्रकाशस्थः पाठः । ४ वीजकरसैः इति पठनीयम् । सं० ।
१२० रसहृदयं तन्त्रम् । कुसुमपलाशबीजरसैः स्त्रीकुसुमं च पलाशस्य बीजानि च रसश्चेति द्वन्द्वः, एतैत्रिभिर्योगैः पृथग्भूतैर्मिलन्ति सर्वैश्चेति ॥ १२॥ इति बद्धो रसराजो गुञ्जामानोपयोजितो नित्यम् । एकेनैव पलेन तु कल्पायुतजीवितं कुरुते ॥ १३ ॥ इत्थं बद्धरसराजस्य माहात्म्यमाह-इतीत्यादि । इति पूर्वोक्तेन द्रुतिविधानेन बद्धो रसराजः सूतः. एकेन पलेन षोडशिकया, कल्पा- युतं जीवितं कुरुते, कल्पानामयुतं सहस्रपरिमाणं जीवितमिति । कस्मात् ? नित्यं यथा स्यात्तथा गुआमात्रोपयोगतः, दिनं दिन प्रति रक्तिकापरिमाणस्य रसस्य योऽसौ उपयोगस्तेन ॥ १३ ॥ अथ पूर्वोक्वग्रासक्रमाजरते रसो विधिवत् । एताः पूर्वद्रुतयो भवन्ति रसराजफलदाश्च ॥ १४ ॥ विधिना ग्रासजारितो रसो गुणवानित्याह-अथेत्यादि । अथ द्रुतियोगानन्तरं, रसः सूतः, पूर्वोक्तग्रासक्रमात्, योजितकवलक्रमात, विधिवत् शास्त्रोक्तविधानेन बिडादिना अरते, च पुनरेताः पूर्वोक्तद्रुत- यो रसराजफलदा भवन्ति सूते प्रयुक्ताः फलदाः स्युरित्यर्थः ॥ १४ ॥ समजीर्णः शतवेधी द्विगुणेन रसः सहस्रवेधी च । क्रमशो हि कोटिवेधी द्विगुणद्विगुणद्रतश्चरणात् ।। १५ ॥ अधिकद्रुते॥रणादधिकगुणो रसो भवतीत्याह-समजीर्ण इति । समा तुल्यभागा द्रुतिर्जीर्णा यस्मिन्निति । द्रुते द्विगुणा या द्रुतिः तस्या श्वरणात् क्रमशः कोटिवेधी कोट्यशेन वेधकः स्यात् । द्रुतिभागो वृद्धौ ह्यधिकः स्यादिति व्यक्तिः ॥ १५ ॥ षोडश वा द्वात्रिंशद्वा ग्रासा जीर्णाश्चतुःषष्टिः । विध्यति तदा रसेन्द्रो लोहं धूमावलोकनतः ॥ १६ ॥ इति परमहंसपरिव्राजकाचार्यश्रीमद्भगोविन्दभगवत्पादविरचितायां मुग्धावबोधिन्या रसहृदयतन्चे बाह्यद्रुत्यात्मकः पञ्चदशोऽवबोधः। १ "ग्रासक्रमतो जरते रसस्तथा विधि०" इति पठनीयम् । सं०। २"वा" इति न पठनीयम् । सं० ।
१२१ रसहृदयं तन्त्रम् । ग्रासवृद्धया गुणानाह--षोडशेत्यादि । यदा षोडशनासा वा द्वात्रिंशद्मासा वा चतुःषष्टिग्रासा जीर्णा जारणमापन्ना भवन्ति, तदा रसेन्द्रः सूतः, लोहं धातुसंज्ञकं, विध्यति वेधं करोति, कुतः? धूमा- वलोकनतः, धूमस्य यदवलोकनं दर्शनं ततः ।। १६॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजश्रीचतुर्भुज- विरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां पञ्चदशोऽवबोधः ।। १५॥ अथ षोडशोऽवबोधः। अथ सारणम् । इति रक्तोऽपि रसेन्द्रो जारितबीजोऽपि सारणारहितः। व्यापी न भवति देहे लोहेष्वप्यथवापि हि षण्ढतां याति ॥१॥ अथ सारणमभिधास्यते । मनो मनीषायतमायतात्मना समाचरेत्कर्म परोपकारी। अचीव शोभां लभते परात्परां परापवादादपि सन्निवृत्तः ।। "सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं च यत् । वेधाविक्यकर लोहे सारणं तत्प्रकीर्तितम्" इति परिभाषा | सारणमुत्कृष्टं मत्वा स्तुवन्नाह-इतीत्यादि । इति पूर्वोक्तेन विधानेन, रक्तोऽपि रागवा. नपि, रसेन्द्रः सूतः, जारितबीजोऽपि जारितानि बीजानि यस्मिन्निति, सारणारहितः सारणा वक्ष्यमाणसंस्कारस्तेन वर्जितः, व्यापी न भवति देहे लोहे च व्यापको न स्यात्, हि निश्चितं, अथवापि सार- णरहितो रसेन्द्रः षण्ढतां याति निवार्यत्वमाप्नोति ॥ १॥ मण्डूकमत्स्यकच्छपमेषजलौकाहिसूकरादीनाम् । संयोज्यैकस्य वसां ततः पचेत्सारणातैलम् ॥२॥ सारणाय वसातैलमाह-मण्डूकेत्यादि । मण्डूको भेकः, मत्स्यो जलचरविशेषः, कच्छपः कमठ. प्रतीतः, जलौका प्रतीता, अहिः १ सारणाभिधास्यते ख. ग. । २ "लोहेष्वपि षण्ढ०" इति पठनीयम् । सं० । ३ यततायता० ग.। ४ अर्थीव ख. ग.।
? ૨૨૨ रसहृदयं तन्त्रम् । सर्पः, सूकरो वराहः, आदिशब्दागोमहिषगजोष्ट्रखरनरकर्कटशिशु- मारा अपि ग्राह्याः । अथ तेषां मध्ये एकैकस्य पृथक्त्वेन वसां संयोज्य सारणं तैलं सारणमेव तैलं तत्पचेदिति, 'वह्निना' इति शेषः ॥२॥ ज्योतिष्मतीविभीतककरञ्जकटुतुम्बीतेलमेकस्मात् । द्विगुणितरनकषायं क्षीरेण चतुर्गुणेन पचेत् ॥ ३॥ सारणतैलविशेषमाह-ज्योतिष्मतीत्यादि । ज्योतिष्मतीविभी- तककरञ्जकटुतुम्वीतैलं ज्योतिष्मती कंगुणी, विभीतकः कलिद्रुमः, करञ्जः प्रतीतः, कहतुम्वी कटुका या तुम्वी, एतासां तैलं एकं, अतो द्विगुणितो यो रक्तकषायः रक्तगणस्य काथः, तं नियोज्य पूर्वसंवन्ध्रात्। केन सह ? चतुर्गुणवसया, तथा तैलतः चतुर्गुणितेन दुग्धेन सह पचेत् पाकं कुर्यादिति ॥ ३ ॥ दाडिमपलाशबन्धुककुसुमरजनीभिररुणसहिताभिश्च । मञ्जिष्ठालाक्षारसचन्दनसहितोऽपि रक्तवर्गोऽयम् ॥ ४ ॥ सारणतैल विधानाय रक्तवर्गमाह-दाडिमेत्यादि । दाडिम प्रतीतं, पलाशो ब्रह्मवृक्षः, वन्धूकपुष्पं मध्याह्नविकाशिकुसुमं, रजनी हरिद्रा, एताभिः, अरुणसहिताभिः अरुणं आरक्तं यद्रव्यं कार्पासकुसुमा- दिकं तत्सहिताभिः । किविशिष्टोऽयं रक्तवर्गः ? मञ्जिष्ठालादारस- चन्दनसहितः मञ्जिष्ठा प्रतीता, लाक्षारसः अलक्तकः, चन्दनं रक्तचन्दनम् ॥ ४॥ विद्रमभूनागमलं विएमक्षिकाध्वाक्षशलभानां च । कर्णमलं महिपीणां क्रमेण कल्कं कलांशन* ॥५॥ १ "करा' इति.ग. पुस्तके नास्ति । २ “कटुतुम्बि" इति पठनीयम् । सं०। ३ ०बन्धुकु० ग.। ४ सहिताभिः ख. ग.। ५ ०रसरक्तचन्द० ख. ग. । ६ भूमिलताविट् नागमलं मक्षिका० ख. ग.। ७ ग. पुस्तके नास्ति । अन्यत्र सारणातैलं यथा-द्विगुणं रक्तपुष्पाणां रक्तपीत- गणस्य च । क्वार्थ चतुर्गुणं, क्षीरं तैलमेकं सुरेश्वरि ॥ ज्योतिष्मती कराक्षकटुतुम्बीसमुद्भवम् । पाटलाकाकतुण्ड्यम्वुमहाराष्ट्रीरसैः पृथक् ॥ भेकशूकरमेषाहिमत्स्यकूर्मजलौकसाम् । वलया चैकया युक्तं षोडशांशैः सुपेषितैः ॥ भूलतामलमाक्षीक द्वन्द्वमेलापकौषधैः । पाचितं गालितं चैव सारणातैलमुच्यते ॥
. रसहृदयं तन्त्रम् । १२३ सारणतैले कल्कमाह-विद्रुमेत्यादि । विद्रुमं लतामणिः, भूना गमलं गण्डूपदपुरीष, मक्षिकाध्चांक्षशलभानां मक्षिका जीवविशेषः, ध्यांक्षाः काकाः, शलभा पतङ्गाः' इति हैमः, तेषां विट् शकृत् पुन- महिषीणां कर्णमलं; क्रमेण कलांशेन षोडशांशेन, कल्कं प्रतिवापं दत्त्वा पूर्वतैलमुत्तारयेत् ॥ ५॥ पटगालितं गृहीत्वा सूतं संपूर्णदीर्घमूषायाम् । तदनु खलु तप्ततैले यद्भाव्यं समं क्षिपदीजम् ॥ ६ ॥ सिद्धतैलकृत्यमाह-पटेत्यादि । तत्सिद्धतैलं पटगालितं वस्त्रपूर्त गृहीत्वा, तदनु तत्पश्चात् । संपूर्णदीर्घमूषायां गोस्तनाकारायां, तप्त- तैले कोप्णसारणतैले सूतं क्षिपेत् । किं कृत्वा ? बीजं सम समभागं रसतुल्यं यद्भाव्यं महाबीजं तत् भावितं कृत्वेत्यर्थः ॥६॥ मूषावक्त्रं स्थगयेल्लताद्वयप्रोत विततनैना तेलापटेन ततो बीजं प्रक्षिप्य समकालम् ॥ ७ ॥ पिशितानुगुणं बीजैः सारणविधिना नियोजितः सूतः । अक्षीयमाणो मिलति चे बीजैबद्धो भवत्येव ॥८॥ सारणयन्त्रस्य विधानमाह-भूषेत्यादि । समकालमेककालं यथा स्यात्तथा, बीजं मूषान्तनिक्षिप्य, ततोऽनन्तरं मूषावक्त्रं स्थगयेत् आच्छादयेत् । केन ? तैलाईपटेन सारणतलावस्त्रेण । किविशि- ऐन ? लताद्वयेन वस्त्रचीरद्वयेन प्रोतं च तद्विततं विस्तीर्ण च तत् नद्धं बद्धं तेन । अक्षीयमाणो मिलति नक्षीयत इत्यर्थः । सूते मिलति सति बद्धो ज्ञेयः, बीजैः सह मिलितो बद्धो भवतीत्यर्थः । पीतादिवर्ण- कथनेनापि कर्तुं सूचितम् (१) ॥ ७ ॥८॥ तद्वद्गभीर{षे सारणतैलाभेव रसराजम् । सूताद्विगुणं कनकं दत्त्वा प्रतिसारयेत्तदनु ।। ३ ।। सूतबीजसारणानन्तरं कनकसारणमाह-तद्वदित्यादि । तद्वत् १ रक्ततैलसमं यद्भा० ख. । रक्त-तैलतप्तं यद्भा० ग. २ स्थगयल्लूताद्वयं ख. ग.। ३०नद्धम् ग. । ४ अक्षीणो ख. ग. । ५ सदाख. ग.। च इति न पठनीयम् । सं० । ६ भवत्यत्र ख. ग.। ७०भीरमूपा ख. ग. 1८ सूते बी. ग ।
१२४ रसहृदयं तन्त्रम्। पूर्वविधानेन, गभीरमूषे दीर्घमूषायां, सारणतैलार्द्र सारणतलापुतं, एवं निश्चयेन, रसराजं कुर्यादिति शेषः । तदनु तत्पश्चात्सूताद् द्विगुणं यत्कनकं हेम, तदत्र दत्त्वा प्रतिसारयेत् सारणं कुर्यात्पूर्ववत् ॥ ६ ॥ चीजेन त्रिगुणेन तु सूतकमनुसारयेत्प्रकाशस्थम् । ईपन्नागं देयं त्रिविधायां सारणायां तु ॥१०॥ विध्यन्तरमाह-वीजेत्यादि । प्रकाशस्थं प्रकाशमूषागतं सूतं त्रिगुणेन वीजेन अनुसारयेत् प्रतिसारयेत् । किं कृत्वा ? ईषदल्पं नागं दत्त्वा, त्रिविधाया सारणायामेवं विधेयमिति ॥ १० ॥ कृत्वा मृपां दीर्घा वन्धितत्रिभागप्रणालिकां तां च । तस्याग्रे प्रकटऎपा सच्छिद्रा सुदृढमृत्तिकालिप्ता ॥ ११ ॥ तस्मिन्प्रक्षिप्य रसं सारणतैलान्वितं तप्ते । पंद्राव्य तुल्यकनकं तितेऽसिन्मिलति रसराजः ॥१२॥ सारणयन्त्रमाह-कृत्वेत्यादि । प्रथमं दीर्घा मूषां कृत्वा, च पुनः तां वन्धितत्रिभागप्रणालिकां वन्धिता त्रिभागे प्रणालिका यस्याः सा तां च कृत्वाः तस्याने यन्त्रस्याने प्रणालिकायां मूषान्तरित्यर्थः । सुदृढ वृत्तिकालिप्ता, सच्छिद्रा रन्ध्रसहिता, प्रकटमूषा प्रकाशमूषा, कार्येति यन्त्रम् । तस्मिन्यन्त्रे, सारणतैलान्वितं रसं प्रक्षिप्य, ततोऽन- न्तरं तुल्यं कनकं प्रद्राव्य गालयित्वा, तस्मिन्नेव तप्ते यन्त्रे क्षिप्ते सति रसो मिलति एकतां याति ॥ १२ ॥ १२॥ कृत्वा नलिकां दीर्घा पडङ्गुलां धूर्त कुसुममंकाशाम् । मृपाप्यधो विलग्ना कर्तव्या वै मृदा लेप्या ।। १३ ।। अपरा सूक्ष्मा नलिका कार्या सप्ताङ्गुला सुदृढा । मध्ये प्रविशति च यथा तद्वत्कार्या , दृढमुखा ॥ १४ ॥ १ दत्त्वा ख.। २ प्रणालनलिकां च ग. | ३ प्रकटमूपां ख. ग.। ४ सच्छिद्रां ख. ग.1५०लिताम् ख. ग. ।६०न्वितेऽन्तस्तु । ख.ग.। ७ तप्ते प्रद्राव्य ख. ग. I लेप्य ख. ग. । ६ शस्ताकुला ग.।१० ख.ग. पुस्तके नास्ति । १. दृढ़ा मूषा ख. । दृढ़ा मूत्रा ग.। "सुहढमुग्वा इति पठनीयम् म । सं०। , रसहृदयं तन्त्रम् । १२५ ? तसिन्सूतः क्षिप्तः सारणतैलान्वितो मदनरुद्धमुखः। तदनु बृहत्तमया हेम प्रद्राव्य हेमकोष्ठिकया ॥१५॥ तस्मिन्मध्ये विश्वा नलिकाग्रमधोमुखीं कुर्यात् अन्तरूव भाराकान्तां सरति रसो नात्र संदेहः ।।१६।। अन्यद्यन्त्रमाह-कृत्वेत्यादि । पूर्ववद्दीर्घा धूर्तकुसुमसंकाशां धत्त- रपुष्पसंकाशा, पूर्वयन्त्रनलिकायाः स्थाने एवंविधां षडङ्गला नलिका कर्यादिति व्यक्तिः । भूषापि अधो विलग्ना नलिकायास्तलभागे मूषा विलग्ना संलग्ना कार्या । सा च मृदा मृत्स्नया लेन्या । पुनरपि अपरा सूक्ष्मा नालिका सप्ताङ्गुला सप्ताङ्गुलपरिमाणा, सुदृढा मनोहरकठिना कार्या, यथा मध्ये षडङ्गुलनालिकान्तः प्रविशति तद्वत्तथा कार्या । किंभूता ? दृढमुखा दृढं मुखं यस्या सा एवंरूपा, तस्मिन् संसिद्धे यन्त्र सारणतैलान्वितः सूतः क्षितः सन् मदनरुद्धमुखः कार्यः, मदनेन सिक्थकेन रुद्धं मुद्रितं मुखं यस्य सः । तदनु तत्पश्चात्, हेमकोष्ठि- कया हेनो या कोष्ठी एव कोष्ठिका तया, हेम स्वर्ण प्रद्राव्य द्रावयित्वा 'तत्र क्षिपेत्' इत्यध्याहार्यम् । तस्मिन्यन्त्रे, मध्येऽन्तः, नलिकाओं नलिकायाः सप्ताङ्गुलाया अग्रभाग क्षिप्त्वा अधोमुखी कुर्यात्, पुन- रू भाराकान्तां कुर्यात् । इति कृते सति रसो सरति हन्ना मिलति, न संदेहः नियतमित्यर्थ ॥१३--१६ ॥ कृत्वाऽष्टाङ्गुलमूषां धूर्तकुसुमोपमा दृढां श्लक्ष्णाम् । अपरा मध्यगताऽपि चे सच्छिद्रा च सप्ताङ्गुला कार्या ॥१७॥ निरुद्धतां च कृत्वा सूतं प्रक्षिप्य तैलसंयुक्तम् । निर्धूम कर्षाग्नौ स्थाप्य मूषां सुसन्धितां कृत्वा ।। १८ ।। अन्यद्यन्त्रविधानमाह-कृत्वेत्यादि । अष्टाङ्गुलभूषां अष्टाङ्गुलपरि- माणदीर्घा, धूर्तकुसुमोपमा कनकपुष्पसदृशां, दृढां कठिनां, श्लल- १ मुखा ग. । २ “तदनु खलु" इति पठनीयम् । सं० । ३ क्षिता ग । ४ अन्तरूर्षभराक्रान्तां ख. ग. । “अन्तरू' इत्यत्र केवल ऊर्ध्व" इति पठनीयम् । सं० । ५-६ ग. पुस्तके न दृश्यते । ७निरुद्धा तां इति पठनीयम् । सं०१८ स्थाप्या मूषा सुसावितां कृत्वा ख. ग.। "स्थाग्य' इत्यत्र" स्थाप्य च ' इति पठनीयम् । सं० ।
यामन्तः ? - १२६ रसहृदयं तन्त्रम्। दणां मसृणां; एवंविधां मूषां कृत्वा, अपरा द्वितीया,सतागुला सप्ताङ्ग- लपरिमाणदीर्घा, सच्छिद्रा रन्ध्रयुक्ता, सा मध्यगता अन्तःप्रविष्टा कार्या, अपीत्यवश्य, इति सूपाद्वययन्त्र सिद्धम् । तच्चाह-पूर्वोक्ता- प्रविष्टायां सप्ताङ्गुलायां सूतं तैलसंयुक्तं सारणतैलसहितं प्रक्षिप्य, निरुद्धतां च कृत्वा, निर्धूम यथा स्यात्तथा कर्षाग्नौ तां मूषां स्थाप्य, पुनः किं कृत्वा ? सुसवितां सन्धिमुद्रितां कृत्वा, पूर्ववत्सारयेदित्यर्थः ॥ १७ ॥ १८ ॥ वितस्तिमात्रनलिकेऽपि कार्य सुदृढे तदग्रतो मूषे । उत्तानका कार्या निश्छिद्रा छिद्रमुद्रिता च तनौ ॥ १९ ॥ दच्या सूतं पूर्व सारणतैलान्वितं निधाप्य भुवि । उत्तानायां मूषायां तस्यां बीजं समावृत्य ।। २० ।। स्वच्छं ज्ञात्वा च ततस्तद्वोज छिद्रसंस्थितं कुर्यात् । बीजं सूतस्योपरि निपतति बनात्यसंदेहम् ।। २१ ।। सा च प्रकाशमूषा न्युजा कार्याऽ(मुसुनिविष्टा । नलिका कार्या विधिना ऊर्ब सूतस्त्वधो वीजम् ॥ २२ ॥ मूपां निरुध्य विधिना ध्माता कोष्ठे द्रुतं बीजम् । ज्ञात्वा परिवर्त्य ततो निर्वध्नाति सूतराजं च ॥ २३ ॥ अन्ययन्त्रविधानमाह-मूपे कार्ये; किंविशिष्टे? तदग्रतः वितस्ति- मात्रनलिके वितस्तिपरिमाणे नलिके ययोस्ते एवंविधे सुदृढे उभे कार्ये इत्यभिप्रायः। तयोर्मध्ये एका मूपाउत्ताना कार्या, अपरा निम्नेति- भावः । उत्ताना किंविशिष्टा ? निश्छिद्रा निर्बणा, छिद्रमुद्रिता छिद्रं मु- द्रितं यस्यां, तनौ भूपाशरीरे इति । तच्चाह-पूर्व प्रथम, सूतं यन्त्रे पूर्वोक्ते, सारणतैलान्वितं दत्त्वा, भुवि निवाप्य स्थाप्य, तस्यां उक्तायां - 4 १ नलिकां वितस्तिमात्रे का० ख. ग.। २ च साधुतनौ ख. ग.। ३ मही ख. ग.। ४ "तस्यां मूपायां वीजमावृत्त्य"इति पठनीयम् । सं०। ५ ततस्तक्षेपाच्छिद्रमच्छिद्रितं कुर्यात् । ख.ग.। ६ सन्देहः । ख. ग.। ७ कार्याधमङ्गुलनिविष्टा ख. ग.1 निरन्ध्य ग. ।। ततो वनाति च मनराजो ऽयम् । ख.ग.
रसहृदयं तन्त्रम् । ૧૨૭ उत्तानायां सूषायां, बीजं महाबीजं, समावृत्त्य द्रवीकृत्य दत्वेत्यर्थः । ततोऽनन्तरं, बीजं स्वच्छममलं द्रवरूपं ज्ञात्वा, छिद्रसंस्थितं कुर्यात् छिद्रान्तः क्षिपेदित्यभिप्रायः, छिद्रान्तक्षेपणात् बीजं, रसस्योपरि पतति सति सूतं असंदेहं यथा स्यात्तथा बध्नाति, बीजे छिद्रान्तः क्षेपणानन्तरं छिद्रमच्छिद्रं स्यादित्यर्थः । सेत्यादि।-पुनः सावितस्ति- मात्रनलिका प्रकाशमूषा, अर्धागुलसुनिविष्टा मूषान्त प्रविष्टा न्युजा अधोमुखी कार्या, तस्याः प्रकाशमूषायाः नलिका प्रणालिका, विधिना शास्त्रवार्तिकसंप्रदायेन कार्या, यथोर्चे सूतो भवेदधो वीज- मित्यर्थः । सूषामित्यादि । मूषां निरुध्य रन्ध्र दूरीकृत्य, विधिना कोष्ठे कोष्ठीयन्त्रे, सा सूषा माता कार्या; द्रतं द्रवरूपं कृतं बीजं ज्ञात्वा, परिवर्त्य च मूषायां बीजस्य परिवर्तनं कृत्वा, ततो बीजं सूतराज. बनातीति ॥ १६-२३॥ अथवा डमरुकयन्त्रे सारणविधिना नियोजितः सूतः । सरति रसेन्द्रो विधिना ज्ञात्वा तत्कर्मकौशल्यम् ।। २४ ।। तत्सारितं रसेन्द्रं ग्रासविधानेन जारयेत्तदनु । पुनरपि सारितसूतो विध्यति कोट्यं रातः शुन्यम् ।। २२ ।। अथान्यद्यन्त्रमाह अथवेत्यादि । विधिना सारणविधानेन, डमरु- कयन्त्रे उक्तलक्षणपातनकरणोचिते यन्त्रे सूतो नियोजितः सन् सरति बीजेन मिलति । किं कृत्वा रसेन्द्रो नियोजितः ? ज्ञात्वा तत्कर्मकौशल्यं रसेन्द्रकर्मप्रावीण्यं ज्ञात्वेति ॥ २४ ॥ २५ ॥ क्रामणवसादियोगाद्विधिना सूतः सरत्येव । चपलत्वातिलघुत्वाद्वीजं यतोऽथ विलुषः कार्यः ॥ २६ ।। पूर्वोक्तं दृढीकर्तुमाह-क्रामणेत्यादि । सूतो विधिनोक्तविधानेन, क्रामणोचिता या वसाः मण्डूकादीनां ता एव आदयो येषां योगात्सर- ति सारणा स्यात्, पुनर्बीजयुतोऽपि सूतः चपलत्वातिलधुत्वात् चप- लत्वं चञ्चलत्वं च अतिलघुत्वं च तस्माद्धेतोः, अविप्लुषः स्थिरः कार्यः ॥ २६ ॥ -- १ डमरुग. ग.। २ कारयेत्तदनु ख. ग. । ३ मारित० ख. ग.। ४ साधितः ख. ग.। प्र.
१२८ रसहदयं तन्त्रम् । सरति सुखेन च सूतो दहति मुखं नैव हस्तपादादि । क्रमति रसः फणियोगान्माक्षिकयुतहेमगैरिकया ॥२७॥ पूर्वोक्तगुणानाह सरतीत्यादि । पूर्वविविना सूतः सरति, सारितः सूतो मुखं न दहति हस्तपादादि च अविभागं नैव दहति । पुनः फणियोगात् नागसंयोगतः, माक्षिकयुतहेमगैरिकया सह ताप्यमिलि- तवर्णगैरिकया साध कामति मिलति ॥ २७ ॥ माक्षीकसत्चयोगात्फणियोगानागवद् द्रवति शीघ्रम् । द्रवति च कनके सूतः संसायते विधिना ।। २८॥ सुखेनै सारणविधानमाह-माक्षिकेत्यादि । कनकं हेम, माक्षिक- सत्वयोगात्फणिसंयोगानागसंयोगाच्च शीघ्रं द्रवति, कनके द्रवति सति विधिना सारणतैलादिना संसार्यते सारणा क्रियत इति ॥ २८ ॥ तस्माद् द्रव्यविधायी सूतो बीजेन सारितोऽलघुना । समसारितः सुबद्धो मूषायां स्यात्समावर्तः ।। २६ ।। सारणया पारदगुणानाह-तस्मादित्यादि। तस्माद्धेतोः, सूतो द्रव्य- विधायी 'स्यात्' इति शेषः, द्रव्यकर्तेत्यर्थः । अलघुना बीजेन अनल्प- परिमाणेन महावीजेन सारितः सन् समसारतः सन् बद्धो 'भवेत्' इत्यध्याहारः। सूषायां समावर्तः द्रवणं स्यात् 'वह्निधमनात्' इनि शेषः ॥ २६ ॥ सारितवर्तितसूतः समानवीजेन मिलति यः सौर्यः। द्विगुणेन प्रतिसाः से चानुसार्यश्च त्रिगुणेन ॥ ३० ॥ सारणक्रममाह-सारितेत्यादि । सारितवर्तितसूतः सारितश्चासौ वर्तितश्चेति विग्रहः । यः समानबीजेन तुल्यमहावीजेन मिलति स सार्यः, यो द्विगुणेन मिलति सः प्रतिसार्यः, यश्च त्रिगुणेन सोऽनुसार्य इति सारणाक्रमो दर्शितः ॥३०॥ १ मुखेन ग.। २ सुनियोगा० ख. ग.।३ भवति ख. ग. । ४ सूतः ७०तः द्रवति च सं० ख. ग.।५ मुखेन ख. ग.। ६०तो लघुना ग.। समबद्धो ख. । तसमबद्धो ग. । ८ स्यात्समार्चनतः ख. ग. ६ सारितावर्तित० ख. । सारितावर्तितः ग.। १०क्षीणः ख. ग.। ११ प्रतिसार्य ख. ग.। १२ समानु० ख. । सप्तानु० ग.।
रसहदयं तन्त्रम् । १२६ शतवेधी सार्यः प्रतिसारितः स्यात्सहस्रवेधी च । अनुसारितोऽयुतेन च विधिनाऽपि बलाबलं ज्ञात्वा ॥३१॥ सारणक्रमस्य गुणानाह--शतेत्यादि । यः सार्यः समसारितः स शतवेधी स्यादित्यभिप्रायः । पुनः प्रतिसारितः द्विगुणवीजेन सारितो यः सूतः स सहस्रवेधी स्यात् । च पुनः अनुसारितः त्रिगुणबीजेन सारितः स अयुतेन अयुतवेधी स्यादिति व्यक्तिः । विधिना इत्युक्तविधानेन । बलावलं ज्ञात्वा न्यूनाधिक्यं मत्वा विधिना युक्त इति शेषः ॥ ३१॥ अनुसारितेन तु समः स्वच्छः सूतः सारितस्तदनु । स भवति लक्षवेधी प्रतिसारितोऽयुतवेधी च ॥३२॥ सारितप्रतिसारितॊदनुसारितस्य विशेषमाह-अन्वित्यादि । तु पुनः, स्वच्छः प्रधानसंस्कारैः संस्कृतः सूतः, अनुसारितेन समः त्रिगुणबीजेन सारितोऽनुसारितस्तेन तुल्यो यदि स्यात्स च लक्षवेधी स्यात् । एवं प्रतिसारितः सूतः समेन सारितो अयुतवेधी स्यात् । एवं खच्छातिवच्छवृद्धौ वेधस्यापि वृद्धिः स्यादिति रहस्यम् ॥ ३२ ॥ कोटिं विध्यति सूतोऽप्यनुसारितः सरति बोजेन । प्रतिसारितेने तु सारितो दशकोटिं विध्यते सूतः ॥ ३३ ॥ तथोत्तरसत्वेन गुणाधिक्यमाह-कोटिमित्यादि । सूते सरति बीजेन ग्रासन्यायं विहाय समेन बीजेनानुसारितो यः स कोटिसंख्या धातूनामिति शेषः, सूतो विध्यति । यथोक्तसारिते सूते दशगुणवृद्धिः सर्वत्रैवेति वेदितव्यम् ॥ ३३॥ प्रतिसारितस्तथा त्वनुसारितः खर्ववेधी च । एवं सारणयोगात्कुरुते वेधं यथेप्सितं विधिना ॥ ३४ ॥ विशेषमाह-प्रतीत्यादि । प्रतिसारितः सूतो द्विगुणबीजेन वारै- केन सारितो रसः, अब्जसंख्यां विध्यति । तु पुनरनुसारितः त्रि- १ सूतः ख.ग.। २ अनुसारिते तु ख. । अनुसारितेनु ग.। ३ ०सारितः प्रयुत० ख. ग.। ४०सारितात्लारितस्य ग.। ५०तेना- नुसारितो ख. ग.।
१३० रसहृदयं तन्त्रम्। गुणेन बीजेन वारैकैन सारितः सूतः खर्ववेधी स्यात्, खर्वसंख्याके द्रव्यसंबन्धं करोतीत्यभिप्रायः । एवमुक्तप्रकारेण विधिना शास्त्रज्ञ- वार्तिकसंप्रदायेन, सारणयोगात् यथेप्सितं वेधं कुरुते यथावाञ्छित- मित्यर्थः ॥ ३४॥ अनुसारितेन सारितो विध्यति शुल्वं निखर्वसंख्याकम् । प्रतिसारितस्तु विध्यति पद्म खनुसारितः शङ्खम् ॥ ३५ ॥ पुनर्विशेषमाह-अन्वित्यादि । अनुसारितेन त्रिगुणप्रथमग्रास- न्यायेन बीजेन सारितः सूतो निखर्वसंख्याकं शुल्वं विध्यति, तु पुनः प्रतिसारितः षड्गुणप्रथमग्रासन्यायेन सारितः सूतो पद्मसंख्याकं विध्यति । पुनः अनुसारितो नवगुणग्रासन्यायेन वीजेन सारितः सूतः शङ्खसंख्यां विध्यतीति ॥ ३५ ॥ विद्धयेद् द्विगुणं द्रव्यं नागं दत्वाऽनुबाहयेच्छन। तावद्यावत्कनकं दिव्यं प्रोन्मीलयेत्सकलम् ।। ३६ ।। इति परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पादविरचिते रसहृदयतन्त्रे सारणात्मकः पोडशोऽववोधः ॥१६॥ पुनर्विशेषमाह - विद्धयेदित्यादि । कनकं हेम दत्वा, शनकैनी- चैस्तावदनुवाहयेत् यावद्दिव्यं प्रवरं कनकं, भवेदिति शेषः । पुनर्या- वत्सकलं समस्तं नागं प्रोन्मीलयेन्निश्शेष कुर्यादित्यभिप्रायः । पुन- स्तत्कनकं द्विगुणं स्वतो द्रव्यं विध्येत्, वा सूतकेन सारितं सत् द्रव्यं शतसहस्रादिसंख्यातो द्विगुणसंख्याकं द्रव्यं शुल्बादिक विद्धयेदिति रहस्यम् ॥ ३६॥ इति श्रीमत्कुरलवंशपयोविसुबाकरमिश्रमहेशात्मजचतुर्भुजविर- चिताया मुग्धावबोविन्या रसहृदयटीकायांसारणा- त्मक. षोडशोऽवबोधः ॥ १६ ॥ अथ सप्तदशोऽवबोधः। अथ क्रामणम् । इति कृतसारणविधिरपि बलवानपि सूतराट् क्रियायोगात् । संवेष्टय तिष्ठति लोहं नो विशति क्रामणाहितः ॥१॥ १ सङ्ख्यम् ग. । २ विध्यति द्वि० ग.।३ संवेष्ट्यति ततो लोहं ख. ग.। “संवेटयति च लोहं" इति पठनीयम् । सं०।
. रसहृदयं तन्त्रम् । अथ कामणमभिधास्यते। सुसंस्कृता सुखान्तःस्था विशदाश्च हितार्थकाः । तथा परोचिताः पूता भवन्त्यमरजा गिरः ॥१॥ अथ क्रामणप्रशंसामाह--इतीत्यादि। इति उक्तविधानेन, कृतः सारणस्य विधियस्मिन् सूतराजे एवंविधः सूतराट् , बलवान् भवेदिति शेषः । कुतः ? क्रियायोगात्कृत्यकरणात् । यादृक् कृत्यं क्रियते ताडक् बलवान् स्यादित्यभिप्रायः । एवंविधोऽपि कामणारहितः क्रामण- वर्जितो लोहं न विशति लोहान्तःप्रवेशं न करोति, ततो हेतोलाई धातुं संवेष्टय परिवेष्टनं कृत्वा, तिष्ठति वाह्यरागदायी स्यादिति ॥१॥ अन्नं वा द्रव्यं वा यथानुपानेन धातुषु क्रमते । एवं क्रामणयोगाद्रसराजो विशति लोहेषु ॥ २ ॥ देहलोहयोः सादृश्यमाह-अन्नमित्यादि । यथेति सादृश्ये । अन्नं गोधूमादिकं वा द्रव्यं औषधं, अनुपानेन सह जलादिना सार्धं धातुषु मांसादिषु सप्तसु, क्रमते व्याप्नोति, तथा अमुना वक्ष्यमाणविधानेन, क्रामणयोगात् क्रामणाय योगः कुनटीमाक्षिकविषादिस्ततः, सूतराजो लोहरूप्यादिषु विशति बाह्याभ्यन्तरं विध्यतीत्यर्थः ॥ २ ॥ कान्तविषरसकदरदै रक्ततैलेन्द्रगोपकाद्यैश्च । क्रामणमेतच्छेष्ठ लेपे क्षेपे सदा योज्यम् ।। ३ ।। कुनटीमाक्षिकविष नररुधिरं वायसस्य विष्ठा च । महिषीणां कर्णमलं स्त्रीक्षीरं क्रामणे बलकृत् ।। ४ ।। टङ्कणकुनटीरामठभूमिलतासंयुतं महारुधिरम् । क्रामणमेतत्कथित लेपे क्षेपे सदा योज्यम् ॥ ५ ॥ क्रामणयोगमाह - कान्तविषेत्यादि । कान्तं चुम्बकं, विषं कन्दर्ज विषं, कन्दविषाणि कालकूटादीनि त्रयोदश, दरदं हिंगुलं, तैः; च पुनः रक्ततैलेन्द्रगोपाद्यैः रक्तो रक्तकवर्गः, तैलं कंगुण्यादेः, इन्द्रगोपो जीवविशेषः, इत्याद्याः क्रामणोचितास्तञ्च । एतत् श्रेष्ठं सर्वोत्तम १ अन्यं ख. ग. २०प्ठं कामति लेपे सदा ख. ग.।३०माक्षीकर इति पठनीयम् । सं०। ४ ०तं कामति लेपे सदा ख. ग.।
१३२ रसहृदयं तन्त्रम् । क्रामणं, अनेन सूतः कामति विशति लोहेविति व्याप्तिः, तत्क्रामणं कथितम् । तल्लेपे क्षेपे च योज्यमित्यर्थः ॥ ३-५ ॥ शिलया निहतो नागो वङ्ग वा तालकेने शुद्धेन । क्रमशः पीते शक्ले कामणमेतत्समुद्दिष्टम् ।। ६ ।। अन्यच्चाह--शिलयेत्यादि । नागः सीसक', शिलया मनोह्वया, निहतो मारितः पुनः वह शुद्धेन दोषवर्जितेन तालेन निहतं; क्रमशः क्रमेण, पीते हेमकर्मणि, शुक्ले रूप्यकर्मणि, एतत्क्रामणं समुहिएं सम्यक् प्रकाशित; पीतकर्मणि नागः, शक्लकर्मणि वङ्गं च नियोजितव्य- मित्यर्थः ॥ ६॥ तीक्ष्णं दरदेन हतं शुल्वं वा ताप्यमारितं विधिना । क्रामणमेतत्कथितं कान्तमुखं माक्षिकैर्वापि ॥ ७॥ अन्यच्चाह --तीच्णमित्यादि । दरदेन हिंगुलेन, हतं मारितं, तीक्ष्णं . सारं, विधिना अरिवर्गविधानेन, ताप्येन स्वर्णमाक्षिकेन मारितं, शुल्वं तानं, एतदपि कामणं कथितं, वा कान्तमुखं कान्तं लोहजाति उक्तं ग्रन्थादौ तत् मुखं प्रधानं यस्य तत् माक्षिका 'मारितं नियोज्यं' इति शेषः ॥ ७ ॥ माक्षिकसचं नाग विहाय न कामणं किमप्यस्ति । दलसिद्धे रससिद्धे विधावसौ भवति खलु सफलः ॥ ८॥ इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पाद- विरचिते रसहृदयतन्त्र क्रामणात्मकः सप्तदशोऽवबोध. ॥ १७ ॥ विशेषविधानमाह-माक्षिकसत्त्वमित्यादि । माक्षिकसत्त्वं ताप्य. सारं, नागः सीसक', तं विहाय नान्यत्किमप्यस्ति क्रामणं न क्रामण- मिति भाव. । खल्विति जिज्ञासायाम् । दलसिद्धे विधौ संस्कारैः पूर्णतां नीते सति असौ विधिः सफलः ॥ ८॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजश्रीचतुर्भुज- विरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां क्रामणा- त्मकः सप्तदशोऽववोधः ॥ १७ ॥ GERON १ तालकहतेन शु० ग.।
रसहृदयं तन्त्रम् । १३३ अथ अष्टादशोऽवबोधः । अथ वेधविधानम् । अनया खलु सारणया क्रामणेन च विशति योजितो विधिवत् । असति वेधविधौ न रसः स्वगुणान्प्रकाशयति ॥ १॥ अथ वेधविधानमभिधास्यते । "व्यवायिभेषजोपेते द्रव्ये क्षिप्तो रसः खलु । वेव इत्युच्यते तज्ज्ञैः स चे नैकविधः स्मृत ॥” इति परिभाषा। क्रामणसंस्काराधिकारमाह-अनयेत्यादि । अनया उक्तया सार- गया सह कामणसंस्कारे कृते सति, रसो विशति कामति, पुनर्वेध विधौ कृते सति रसः स्वगुणान् प्रकाशयतीति वेदितव्यम् ॥ १ ॥ रसदरदताप्यगन्धकमनःशिलाराजवर्तकं विमलम् । पुटमृतशुल्चं तारे नियूंढ हेमकृष्टिरियम् * ॥ २ ॥ वेधविधानमाह-रसेत्यादि । रसः सूतः, दरंद हिगुलं, ताप्यं माक्षिक, गन्धकः प्रतीतः, मनःशिला मनोहा, राजवर्तकं राजा- वर्त, विमलं रौप्यमाक्षिकं, एकवद्भावद्वन्द्वः । पुटमृतशुल्वं रसादीनां पुटेन मृतमित्यर्थः । एवंविवं शुल्ब तारे निर्वाहितं, इयं हेमकृष्टिः स्वर्ण- करणमित्यर्थः ॥२॥ अष्टानवतिर्भागास्तारस्त्वेकोऽपि कनकभागः स्यात् । सूतस्यैको भागः शतांशविधिरेष विख्यातः+ ।। ३ ।। १ कामणं च दिग्वसति यो० ख. ग. | "क्रामणेन विशति यो" इति पठनीयम् । सं०१२ असो ते ग. । इविधानमाह ख.ग. । ४ अस्मा- च्छलोकात्पूर्वमेकोऽन्यः श्लोकः ख. ग. पुस्तके उपलभ्यते । निमित्त मादाय सतां पुरास्य श्रीभारतीभावरसेन मुष्टः । सिञ्चन् जगन्ती वसुधारि... . ॥५चानेकविधःग. राजावर्तकं ख.ग.७ तारख ग.। रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् । समुत्थितं च वहुशः सा कृष्टी हेमतारयोः ।। कृष्टी क्षिपेत्सुवर्णान्तर्न वर्णो हीयते तया । स्वर्णकृष्टया कृतं वीजं रसस्य परिरञ्जनम् ॥ तथा चान्यत्र-अष्टानवतिभागं तु रूप्यमेकं च हाटकम् । सूतैकेन च वेधः स्याच्छतांशविचिरीरितः ॥ ।
१३४ रसहृदयं तन्त्रम् । वेधविधानमाह-अष्टानवतिरित्यादि । एप रसददेत्यादिशतांश- वेधविधिः कथं ? अत्र शतांश अष्टानवतिर्भागास्तारस्य रूप्यस्य, पुन- रिह कनकभागः स्यात् एक एवेति, पुनः सूतस्य दरदादिमिलितरस- स्यैको भागः एकांशः, इति सर्वे शतांशाः, शतांशेन वेध इति ॥ ३ ॥ एकोनपञ्चाशद्भागास्तारस्येह तथैव शुल्बस्य । कनकस्यैको भागो वेधश्चैकन सूतस्य* ॥ ४ ॥ अन्यच्चाह-एकोनपञ्चाशदित्यादि । एकोनपञ्चाशद्भागाः तारस्य रूप्यस्य कार्याः, तथैव शुल्वस्य ताम्रस्य एकोनपञ्चाशद्भागाश्च कार्याः, पुनः कनकस्य हेम्नश्च एको भागः कार्यः, सूतस्य च एकेन भागेन वेध इति, एषोऽपि शतांशविधिः ॥ ४॥ एवं सहस्रवेधी नियुज्यते कोटिवेधी च । जारणवीजवशेन तु भूतस्य बलाबलं ज्ञात्वा ॥ ५ ॥ पूर्वोक्तविधेर्विशेपमाह-एवमित्यादि । एवं शतांशवेधन्यायेन दश- वृद्धिविभागेन सहस्रवेधी स्यात् । एवं च जारणावीजवशन जारणायां यद्वीजं कियद्गुणजारितमिति भावः. तद्वशेन कोटिवेधी च स्यात् । किं कृत्वा ? तेनैव जारणबीजवशेन यत्तस्य बलावलं न्यूनाधिक्यं तत् ज्ञात्वेत्यभिप्रायः ॥५॥ दत्यादौ प्रतिवाप लाक्षामत्स्यादिपित्तभावनया । तारे वा शुल्ने वा तारारिष्टे तथा कृप्टो ॥ ६ ॥ विशेषेण वेचविधानमाह-दत्त्वेत्यादि।श्रादौ प्रथम, लाक्षामत्स्या- दिपित्तभावनया लाक्षा प्रतीता, मत्स्यादिपित्तानि मत्स्यमहिषमयूराज- सूकरसंभवानि पित्तानि, तेषां भावनया कृत्वा, प्रतिवापं गलिते निक्षे- पं, तत्तारे दत्त्वा अथवा शुल्वे प्रतिवापं कुर्यात् अथवा कृष्टौ हेमकरणे वापं दत्वा नियुञ्ज्यादिति शेषः ॥ ६ ॥ १ "एकोनाः पञ्चाश०" इति पठनीयम् । सं०।२ चञ्चलं ख.ग.। 3 "ऽथवा" इति पठनीयम् । सं० । ४ आयुर्वेदप्रकाशे तु चत्वारः प्रति- वापा सुलाक्षया मत्स्यपित्तभावितया । तारे वा शुल्वे वा तारारिष्टे ऽथवा कृष्टौ । इति पाठान्तरमुपलभ्यते । * तन्त्रान्तरे ऽप्युक्तं-चन्द्रस्यैकोनपञ्चाशत्तथा शुद्धस्य भास्वतः । बहिरेकः शम्भुरेक. शतांशविधिरीरितः । अत्र चन्द्रस्य रून्यस्य, भास्व- तः ताम्रस्य, वह्निः सुवर्ण, शम्भू रसः, इत्यवगन्तव्यम् ।
- रसहृदयं तन्त्रम् । तदनु क्रामणमृदिते तत्कल्केनापि पिण्डितरसेन । अतिविद्रते च तसिन्वेधोऽसौ कुन्तवेधेन ॥७॥ विशेषाच्चाह-तदन्धित्यादि । तदनु लाक्षामत्स्यादिपित्तभावनया अनन्तरं,तस्मिन् लाक्षादिकल्के, क्रामणदिते कान्तरसकदरदरक्त- तैलेन्द्रगोपाद्यैर्मुदिते सति, पुनस्तत्कल्केन तचूर्णेनापि पिण्डितरसेन वेधः कर्तव्य इति शेषः । कस्मिन् ? तारे वा शुल्वे वा, विद्रुते जलरूपे कार्य इत्यर्थः ॥ ७॥ तत्तै लाद्रपटेन स्थगयेत्पललेन भस्मना वापि । विधिवद्वेध्यं द्रव्यं रसराजक्रामणार्थ हि ॥ ८ ॥ विशेषमाह-तदित्यादि । वेध्यं वेधोचितं द्रव्यं, रसराजक्रामणार्थ यथारसो विशति तदर्थ,तं तैलाईपटेन वस्त्रेण, स्थगयेत् आच्छादयेत्, वा पललेन केनचिन्मांसेन, वा भस्मना आच्छादयेदित्यर्थः ॥ ८ ॥ इति सारितस्य कथितं रसस्य वेधादि कामणं कर्म । पादादिजीर्णबीजो युज्यत पत्रलेपेन ॥६॥ विशेषमाह-इतीत्यादि । सारितस्य उक्तविधानेन सारणाकृतस्य, वेवादिकामणं कर्म वेधविधानोदितकामणं कर्म कथितम् । पादादिजी- बीजः पादादिना पादार्धन समतो न्यूनेन च जीर्ण वीजं यस्मिन् सः पत्रलेपेन युज्यते, अतः पत्ररञ्जनं स्यादित्यभिप्रायः ॥ ६ ॥ अम्लाधर्तिततारारिष्टादिपत्रमतिशुद्धम् । आलिप्य रसेन ततः क्रामणलिप्ते पुटेषु विश्रान्तम् ॥१०॥ १ अतिद्रुते ख. ग. । २ वेध्योऽसौ ख. ग. । ३ आयुर्वेदप्रकाशे तु-तदनु क्रामणमृदितः सिक्थकपरिवेष्टितो देयः । अति विद्रुतेच तस्मिन् वेध्योऽसौ कुन्तवेधेन ॥४ शुल्वे तारारिष्टे विद्रुते जलरूपे असौ कुन्तवेधः कार्यः ख. ग.। ५ रसवेधादि ख. ग.१६ बीजं संयु- ज्यते ख. । बीजं स युज्यते ग.। बीजो नियुज्यते इति पठनीयम् । सं०। ७ जीर्णवीजं ख. ग.। अम्लादिभिरुर्तित० इति पठनीयम् । सं० । ६ अत्यम्लितमुर्तिततारारिष्ट्रादिपत्रमतिशुद्धम् । प्रालिप्य रसेन ततः कामणलिप्तं पुटेषु विश्रान्तम् ॥ इति आयुर्वेदप्रकाशस्थः पाठः ।।
१३६ रसहृदयं तन्त्रम् । अतिशुद्ध निर्मलं अम्लााद्वर्तितं तारारिष्टशब्दात्सितं स्वर्ण ग्राहां, ततः रसेनालिप्य, ततः क्रामणालिप्ते कामणपिण्डेन लेपे कृते सति, पुटेषु उत्पलाग्नौ विश्रान्तं स्थापितं कुर्यात् । पत्ररअनविविरयम् ॥१०॥ अर्धन मिश्रयित्वा हेना ज्येष्ठेन तद्दलं पुटितम् क्षितिखगपटरनमृदा वर्णे पुटोऽयं ततो देयः ॥११॥ अथ वर्णविधानमाह-अर्धनेत्यादि । अर्धेन अर्थविभागेन, रञ्जि. तदलादित इति ज्ञेयम् । ज्येष्ठेन हेम्ना प्रवरकनकेन, तद्दलं रञ्जितपत्रं, मिश्रयित्वा पुटितं कुर्यात् यथा मिलति । पुनः क्षितिखगपटुरक्तमृदा कृत्वा क्षितिः स्फटिकः, खगः पीतकालीसं, पटु सैन्यवं लवणं, रक्त- मृत् गैरिकं. एकवद्भावद्वन्द्वः, तेन क्षित्यादिनोपरि लित दलं प्रति अयं पुटो देयः, वनोपलैरिति शेषः ॥ ११ ॥ भूपतिवर्तकचूर्ण शिरीषपुष्परसभावितं बहुशः। सद्यः करोति रक्तं सितकनकमसितभागेन ॥ १२ ।। वर्णविधानमाह-भूपतीत्यादि । भूपतिवर्तकचूर्ण राजावर्तरज', बहुशो बहुवारं, शिरीषपुष्परसभावितं 'कुर्यात्' इत्यध्याहार्यम् । भाषितं धर्मपुटितमिति, 'विधानवित्' इति शेषः ॥ १२॥ रसदरदविमलताप्यं पटुशिलामाक्षीकनृपाश्चैत्र । प्रवालककुष्ठटङ्कणगैरिकप्रतिवापितं सितं कनकम् ॥ १३ ॥ अन्यच्चाह-रसेत्यादि । रसः सूतः, दरदं हिङ्गलः, विमलं ताप्य- भेदः, पटु सैन्धव, शिला मनोह्वा, माक्षिकं प्रतीतं वणिग्द्रव्यं, नृपो राजावर्तः, प्रवाल विद्रुमं, ककुष्ठं विरङ्ग, टङ्कणं सौभाग्य, गैरिकं प्रतीतं; एतैः प्रतिवापितं सितद्रव्यं कनकं भवेत्' इत्यध्याहार्यम् ॥१३॥ तापीभवनृपाँवर्तबीजपूररसार्दितम् । करोति पुटपाकेन हेम सिन्दूरसन्निभम् ।। १४ ॥ १ पत्रवेधनमाह-अति० ख. ग.१२ श्रेष्ठन इति आ० प्र०। ३ वर्णपुटोऽयं प्रा०प्र०.1 ४ रजतपत्रं ग. । ५०मशीति० ग.। मशिति ख.। ६ सैन्धवशि० ख. ग. । लवणशि० इति पठनीयम् । सं० । ७ नृपावर्त ख.।
रसहदयं तन्त्रम् । १३७ अन्यच्चाह-तापीभवेत्यादि । तापीभवं माक्षिकसत्त्वं, नृपावत राजावर्तकं, एतद्वयं बीजपूररसार्दितं मातुलुङ्गरसमर्दितं कुर्यात्, एतदुभयोर्योगात् कनकं पुटपाकेन वह्निविधानेन कनकं पूर्वोक्तं यत्क- नकं वा हीनवर्णकनकं सिन्दूरसन्निभं करोति । सिन्दूरवन्निभा यस्येति समासः ॥ १४॥ चङ्गा, सितमाक्षीकं शैलं वा वाहयत्सिते । तत्तारं च दशांशन तारोत्कर्ष करोति हि ॥१५॥ अथ तारवर्णविधानमाह-वक्रेत्यादि । वङ्गाभ्रमिति वङ्गं त्रपु, अभ्रं खेतानं, पुनः सितमाक्षीकं विमलं शैलं खेतशिलाजतु, वा सिते तारे वाहयेत् । पुनर्दशांशेन एतदौषधनिचयं तारतो दशमविभागेन कृत्वा, हि निश्चितं, तारोत्कर्ष करोति हीनवर्णत उत्तमं करोतीत्यभि. प्रायः ॥ १५॥ नागः करोति मृदुतां नियूंढस्तां च रक्ततां च रविः । तां पीततां च तीक्ष्णं काचस्तकालिकाविनाशं च ।। १६ ।। तारे विशेषमाह-नाग इत्यादि । नागः सीसकस्तारे नियूंढो मृदुतां कोमलत्वं करोति । पुनः रविस्तानं नियूढं सत् तां मृदुतां,च पुनः रक्ततां लोहितानभां. करोति । च पुनस्तीर्ण तारनियूढं तां रकता, पीततां च करोति । पुनः काचः प्रतीतो लोके, स कालिक- विनाशं करोतीति तारे नियूंढ इति संबन्धः ॥ १६ ॥ कनकारुणसममाक्षिककरञ्जतैलाप्लुतो मातः । पाते पाते दश दश विन्दति यावद्धि कोटिमपि ॥१७॥ हेनो विशेषमाह-कनकारुणेत्यादि । कनकं हेम, अरुणं तानं, समं तुल्यभागं, माक्षिकं ताप्यं, अयं गणः करअतैलमुतो ध्मातः कार्यः। पुनः पाते पाते वारंवार निक्षेपे सति दश दश गुणोत्कर्ष १ ०हयेत्सितम् स्व. ग. । २ हीनवर्णतारं उत्तम प्रतिवापेन करोति ख.ग.। ३ काचः कालिक० इति पठनीयम् । सं०। ४ वर्णोत्कर्ष ख. ग.। ५ वर्णोत्कर्प वि० ख. ग. । तन्त्रान्तरे-वनानं वाहयेत्तारे गुणानि द्वादशव तु । एतद्वीजे समे जीर्णे शतवेधी भवेदसः ॥ १८ रसहृदयं तन्त्रम् । विन्दति 'ध्मात' इत्यध्याहारः। हि निश्चितम् । कियत्कालं? याव- कोटिसंख्यां विन्दति ॥ १७ ॥ स चायमतिविलीनः कङ्गुणीतलसेचिंतो बहुशः। माक्षीकरविनिवापं विध्यति कनकं शतांशन ॥१८॥ विशेषमाह-स इत्यादि । सः करञ्जतैलप्लुतो योगो, बहुशो वारं- वारं, कंगुणीतैलेन सेचितो यथा स्यात्तथायं अति विलीनः सन् माक्षिकरविनिवापं पुन. कार्य; एवंविधं च कनकं शतांशेन शतविमा- गेन विध्यति सितकनकमिात ॥ १८ ॥ शुल्वहतं रसगन्धाहतखगपीतं दशांशेन । विध्यति कनकं कुरुते तन्निध्यूढं मर्दितं सुदृढम् ॥ १६ ॥ विशेषमाह-शुल्बेत्यादि । शुल्बहतं शुल्बेन सह हतं; रसगन्धं सूतगन्धं तेन पाहतं पञ्चत्त्वमापन्नं यत्खगपीतं पीतकासीसं एतदोष- घसमुच्चयं सुदृढं यथा स्यात्तथा मर्दितं कुर्यात्, पुनस्तत् नियूदं दशांशेन विध्यति सितकनकं कुरुते वर्णमिति विशेषः ।। १६ ।। रसकसमं सुध्मातं कनकं भुक्वा ततोऽचन्द्रलेपेन । मांक्षिकसत्चं हेना करोति जीर्णो रसः शतांशेन ॥ अन्यच्चाह-रसकेत्यादि । ततोऽनन्तरं, अर्कचन्द्रलेपन कनक रसकसम मातं कुर्यात्, पुनरेतदौषधं भुक्त्वा कनकं स्यात्, पुनर्मा- क्षिकसत्वं हेना सह जीर्ण रस शतांशन विध्यतीत्यर्थः ॥ २० ॥ अष्टगुणं मृतशुल्चं कलधौतेने मूकमूषया लिप्तम् । तत्पोडशांशजाणं विध्यति तारं शौर्धेन ॥ २१ ॥ अन्यच्चाह-अटगुणत्यादि । अष्टगुणं मृतशुल्वं अरिवर्गेण सह हतं यत् शुल्वं तानं, ततः कलधौतेन षोडशाशेन जीर्ण, शतान पञ्चाशद्विभागेन तार विध्यति कनकं करोतीत्यर्थः ॥ २१ ॥ आवृत्य कनककरिणौ शिलया प्रतिवापितौ ततो भुक्त्वा । १चायं हेमविलीनं ख. ग.। २ सचितंख. ग.।३ रसगन्धं हत० ग.। ४ तयाँ ग. । ५ हृतं यत् रस० ख. ग.। ६ च पुनरेतदौपध० ख. ग. । ७ पुनस्तं ग.। ८ वर्ण करोतीति शेषः ख.ग.। ६ जीर्ण रसंग.। १० लेपेन सह ख. ग.। ११ दौषधं कुर्यात् भु० ख. । १२ जीर्णः रसः श० ख. ग. । १३ कलौते मू० ख. ग.। १४ जीणों ख. ग.। १५ शतांशेन ख. ग.। १६ समशिलया ख. ग.।
रसहृदयं तन्त्रम् । दोलायन्त्रे गन्धकजीर्णस्तारे दशांशवेधी स्यात् ।। २२ ।। अन्यच्चाह-आवृत्येत्यादि । कनककरिणी समहेमनागौ, आवृत्य गालयित्वा. शिलया मनोह्वया, प्रतिवापितौ ततोऽनन्तरं दोलायन्त्रे कनककरिणौ भुक्ता गन्धकजीणों यो रसः स तारे दशांशवेधी स्यात् दशांशेन विध्यतीत्यर्थः ॥ २२ ॥ रिपुनिहतलोहषटकं जीर्णो धान्यस्थितश्चतुर्मासम् । सहितः पुरसुराभ्यां विध्यति घोषं शतांशन ॥ २३ ॥ अन्यच्चाह-रिपुनिहतेत्यादि । रिपुनिहतलोहषट्कं रिपुभिररिव- गैनिहतं मारितं यत् लोहषट्कं स्वर्णतारताम्रनागवङ्गलोहाभिधान,तत् चतुर्मासं यथा स्यात्तथा धान्यस्थितोऽन्नकोष्ठीतो रसो जीर्णः कार्यः । किंविशिष्टो धान्यस्थितः ? पुरसुराभ्यां गुग्गुलुमादिराभ्यां, सहितो मिलितः. शतांशेन घोषं कांस्यं विध्यति कनकं करोतीत्यर्थः ॥ २३ ॥ वक्ष्ये संप्रति सम्यग्यद्धीजं समरसे जीर्णम् । पिष्टिस्तम्भादिविधिं प्रकाश्यमानं बुधाः शृणुत ॥ २४ ।। विशेषमाह-वच्य इत्यादि । भो बुधाः मया प्रकाश्यमानं सत् शृणुत सावधाना' इत्यध्याहार्यम् । तत्किं ? संप्रति यद्वी समरसे तुल्यसूते सम्यक् जीर्ण जारणमापन्नं, तदहं गोविन्दनामा वक्ष्ये कथ- यामि । पुनः पिष्टिस्तम्भादिविधि पिटिस्तम्भ श्रादिर्यस्य विधेस्तं विधि पाटखोटजलौकाख्यं च वक्ष्ये ।। २४ ॥ राजावर्तकविमलपीताभगन्धताप्यरसेकैश्च । काक्षीकासीसशिलादरदैश्च समन्वितं नागम् ॥ २५ ॥ अथ नागमाह-राजावर्तकेत्यादि । राजावर्तकं प्रसिद्धं, विमलं श्खेतमाक्षिकं, पीतादं पीतवर्ण यदभ्रं, गन्धो गन्धकः, ताप्यं वर्ण- माक्षिक, रसकं खर्परिक, पतैः; पुनरेतैः-कांक्षी काहीति लोके, कासीसं पीतकासीसं, शिला मनोहा, दरदं हिंगुलं, तैश्च समन्वितं मिलितं नागं कुर्यादित्यर्थः ॥ २५ ॥ १ पुरः सुराभ्यां ग.। २ प्रकाशमानं ग.। ३ विमलं ख. ग. । ४ पीताभ्रक इति पठनीयम् । सं०। ५ रसकश्च ख. ग.। ६ लम- वितो ग.। 4 7 1 १४० रसहृदयं तन्त्रम् । अहिमारसैः पुटितं मारय नागं निरुत्थकं यावत् । तदनु च तस्य हि मध्ये शुल्वं गन्धं च लवणकङ्गुष्ठम् ॥२६॥ तच्चाह-अहीत्यादि । पूर्वोषधसंयुतं नाग अहिमाररसैः करवीर- द्रावैः, पुटितं कुर्यात् । नागं सीसकं, तावन्मारय यावनिरुत्थक यथा पुनरुत्थितं न स्यात् । तदनु तत्पश्चात् , तस्य नागस्य मध्ये शुल्वं तानं, गन्धं प्रतीतं, लवणं सैन्धवं, कंकुष्ठं विरङ्गं, एतत्सर्व 'मिश्रितं कुर्यात्' इत्यध्याहार्यम् ॥ २६ ॥ तत्सर्व शतवारान् भावय पक्कार्कपत्रसलिलैश्च । घोषाकृष्टे ** शुल्बे चूर्ण निर्वाहयेच्छतशः ॥ २७ ॥ तञ्चाह-तदित्यादि । तत्पूर्वोक्तभागयुतं कल्कं, पक्कार्कपत्रस- लिलैः पक्कानि यानि अर्कस्य पत्राणि तेषां यानि सलिलानि तैः कृत्वा, भो रसज्ञ ! शतवारान् भावय धर्मपुटनं कुरु, तद्भावितं चूर्ण घोपा- कृष्टे कांस्यात्समुधृते शुल्वे ताने, शतशः शतवार निर्वाहयेद्गलितो. परि निक्षिपेदिति ॥ २७ ॥ शुल्वेन तेन हि समं रसकेपीताम्रसत्त्वविमलं च । गैरिकमाक्षिकसचं टङ्कणनागं च तीक्ष्णयुतम् ॥२८॥ तेन शुल्वेन शतशो निर्वाहिततानेण सह, समं तुल्यभाग; रसक- पीताभ्रसत्त्वविमलं; च पुनः गैरिकमाक्षिकसत्त्वं गैरिकं प्रतीतं, माक्षिकसत्त्वं ताप्यसारं, एतच्च समं; टकणं सौभाग्यं, नागं सं.सकं, तीक्ष्णं सारं, सर्व समसंयुतं 'युज्यत' इति शेपः ॥२८॥ एतद्वन्द्वं कृत्वा माक्षिकवापेन रजायेच्छुल्वम् । वारांश्च विंशतिरपि गलितं सेचयेत्तदनु ।। २६ ।। एतैरोपधैरुक्कैः, शुल्वेन द्वन्द्वं कृत्वा तात्रेण सह मेलनं विधाय, शुल्वं विशतिरान् माक्षिकवापेन रञ्जयेत् । शुत्वमपि गलितं जल- १रसकं इति पठनीयम् । सं० । २"गलितं तत्" इति पठनीयम् । सं०१३ चतुर्विंशतिवारान ग.। ४ वापितं ख. ग.। ". नाडितं वर्नालेन सौषधं घोपकं यदा। स्यान्मुक्तरंग तत्तानं घोटाकृष्टमिहोच्यते । इति रसतरहिण्याम् । रसरत्न समुच्चयेऽपि- स्वल्पतालयुतं कांस्यं वकनालेन ताडितम् । मुक्तरंग हि तत्तानं घोपा-कृष्टमुदाहृतम् ।।
रसहृदयं तन्त्रम् । १४१ रूप, वक्ष्यमाणौषधेषु सेचयेत्तदनु ॥ २६ ॥ निर्गुण्डीकाकमाचीकन्यारसमेलनं कृत्वा । वारान् सप्त च विधिना तदपि च निर्वापयेऽग्नि ॥३०॥ सेचनौषधान्याह-निर्गुण्डीत्यादि । निर्गुण्डी शेफालिका, काक- माची वायसी, कन्या गृहकन्या कुमारीति प्रसिद्धा, आसां रसेन मेलनं कृत्वा, सप्तवारान् विधिना, तदपि च हेम्नि शुल्वे निर्वाहयेत् । इति युग्मम् ॥ ३० ॥ यावच्चतुर्विशतिगुणं बीजवरं रञ्जयेत्तच्च । पक्कं माक्षिकमेव हि तेन च विधिना तदपि चतुर्विशतिगुणम् ।। तञ्चाह-यावदित्यादि । यावदित्यवधौ, तत् शुल्ब, तावद्धन्नि निर्वाहयेत् यावच्चतुर्विशतिगुणं समाप्नोति, तद्वीजवरं स्यात्।च पुनस्त- द्वीजवरसंज्ञकं रञ्जयेत् रञ्जकं भवेदित्यर्थः । च पुनस्तेन विधिना शुल्वविधानेन हि चतुर्विर्शगुणं माक्षिकमेव हि पक्कं तदपि बीजवरं स्याद्रअयेञ्च ॥ ३१॥ तद्री लघुमात्रं रसराजे संस्कृते पूर्वम् । मूषायां खलु दत्त्वा दशगुणं च गन्धकं दाह्यम् ।। ३२ ।। तबीजं लघुमात्र रसराजे संस्कृते पूर्वमिति रसराजे संस्कृते षोडशसंस्काराविशुद्धे, पूर्व प्रथम, लघुमात्र अल्पपरिमाणं बीजं भूर्षायां दत्त्वा, पुनर्दशगुणं गन्धकं दोह्यं रसेन्द्रे इत्यर्थः ॥ ३२ ॥ अथवा वालुकयात्रे सुदृढे चतुर्दशाङ्गुलभूषायाम् । मध्ये मृत मुक्ता लघुतरपुटयोगतो पिहिता ॥ ३३ ॥ तच्चाह-अथवेत्यादि । अथवेत्यारम्भे, सुदृढे कठिने, वालुका- यन्त्रे सिकताख्ययन्त्रे, चतुर्दशांगुलमूषायां मध्ये, सूतं मुक्ता मूषा १ गृहकन्यारस ख. ग.। २ ०हयेत् बीजवरार्थमिति शेषः ग. । रञ्जयत्तञ्च खः । ४ त्यत्वा ख. ग. । ५ "तदपि" इति न पठनीयम् । सं० । तदपि च चतु० ग.। ६ चतुर्विंशतिगुणं ख. ग. । ७हि हेन्नि त्यत्वा तदपिख. ग. । ८ ख.ग. पुस्तकयोस्तु-भूषामादावदि द्वादशगुणं (गणा ग.) गन्धकं च (च इति नास्ति ग.) दाहा। ६ सूषां प्रति ख. ग.। १० पुन दशगुणं ख.। पुनदिशगुणा ग. । ११ दाह्या ग. १२ सूनकयुक्ता लघु० ख.ग.। १३ सूतकं युक्ता ख.ग. ।
१४२ रसहृदयं तन्त्रम्। लघुतरपुटयोगतः अतिशयेन लघुर्लघतरः लघुतरश्चासौ पुटश्च तस्य योगतः, पिहिता कार्या आच्छादितति ॥ ३३ ॥ तेन समं वीजवरे पिष्टिः पादांशतः कार्या । अङ्गुलिनवपरिमाणे मूषामध्ये च पिष्टिकां दत्वा ॥ ३४ ॥ अथ पिष्टीविधानमाह-तेनेत्यादि । तेन गन्धकजारितेन सूतेन, समं सार्ध, वीजवर कनकवीजे, पादांशतः पिष्टिः कार्या; च पुनरंग- लिनवपरिमाणे मूषामध्ये अगुलीनव परिमाणं यस्य तसिन एवंविधे मूषामध्ये, पिष्टिं दत्त्वा पिहिता कार्येति शेपः ॥ ३४ ॥ निर्गुण्डीकाकमाचीगोजिह्वादुग्धिकारना- गृहकन्यामधुमैन्धवपिण्डैरपि समन्ततश्छाया ॥३॥ पिष्टिवेष्टनाय पिण्डमाह--निर्गुण्डीत्यादि । निर्गुण्डी शेफालिका, काकमाची वायसी, गोजिह्वा प्रतीता, दुग्धिका या रक्ता रकवर्णा, गृहकन्या कुमारिका, मधु क्षौद्रं, सैन्धवं लवणं, एषां पिण्डैः कृत्वा; समन्ततोऽभितः, छाद्या कार्या आच्छायेति भावः ॥ ३५ ॥ तावत्कार्यः पुटयोगो यावद् दृढतां सामयाति। षड्गुणगन्धकतालककाङ्कीकासीसलवणकक्षारम् ॥३६॥ जारणाय कल्कमाह-तविदित्यादि । तावत् पुटयोगो वह्निपुटनं कार्य यावत् दृढतां काठिन्यं समायोति इदं वच्यमाणं, तत् किं ? षड्गुणगन्धकतालककांक्षीकासीसलवणकक्षारं गन्धकः प्रतीतः, तालकं हरितालं, कांक्षी वणिन्द्रव्यं, कासीसं पीतकासीसं, लवणं सैन्धवं लवणपश्चकं वा, क्षारं खर्जिकादि, 'ददेत्' इत्यध्याहारः । सर्वत्र षड्गुणसंबन्धः ॥३६॥ ताप्यं तत्सर्वसमं देयं बाह्य तदौषधिपिण्डम् । षड्गुणषड्गुणसहितं पिष्टी यन्त्रेऽथ कच्छपे दचा ॥३७॥ १परिमाणा तेन मूळख. परिमाण ते भूग.रसा पादांशतः बीज० ख. सार्ध पादाधितो बीजग.। ३ सति ख.ग.। ४पिण्डान्तः ग..। ५ निर्गुण्डि इति पठनीयम् । सं०। ६ श्छाध इति पठनीयम् । सं० । ७ शेपः ग.। ८ 'ताभ्यां पुटयोगेन' इति. पा.। ६ ताभ्यामित्यादि इति पा. । १० ताभ्यां मूषापिएडाभ्यां ख. ग.। ११ व्याति तावद इदं ख.ग.। १२ तदौषधी० इति पठनीयम् । सं० तदोपविः पिण्डे ग. , रसहृदयं तन्त्रम् । १४३ तच्चाह-तान्यमित्यादि । ताप्यं स्वर्णमाक्षिक, तत्सर्वसमं तैः सर्वैः पूर्वोक्तैः षड्गुणैः समतुल्यं देयं, पुनर्बाह्य पिष्ट्युपरितः तदौषधि- पिण्डं देयम् । किविशिष्ट ताप्यं ? षड्गुणषड्गुणसहितं षड्गुणं षड्गुणं यत्पूर्वोक्तमौषधं तेन सहितं षड्गुणमपि ताप्यं ग्राह्यम् । एवंविधां पिष्टी अथ सिकताख्ययन्त्रानन्तरं कच्छपे कूर्माकारे यन्त्रे दत्त्वा खेद्यमित्या- गामिश्लोके संबन्धात् ॥ ३७ ॥ खधं पुटयोगेन तु त्रिदिनं घटिकात्रयं यावत् । उद्धृत्य ततो यत्नात् पिष्ट्वा मूषां सुचूर्णितां कृत्वा ॥३८॥ तम्चाह-वेद्यमित्यादि। कच्छपयन्त्रस्थितः खोटो भवेदित्यर्थः॥३८॥ समबीजेन तु सार्यो नागं त्रिगुणं ततः समुत्तार्य। प्रतिसारणा च कार्या जारितसूतेन बीजयुक्तेन ॥३९ ।। विशेषमाह-समेत्यादि । पूर्वपिष्टीस्तम्भितः सूतः समबीजेन तुल्यभागकनकर्धाजेन, त्रिगुणं नाग दत्त्वा सार्यः । ततः समुत्तार्य प्रतिसारणा जारणा, जारणां प्रति या सारणा द्विगुणबीजसारणारूपा सा कायति शिष्टाचारः ॥ ३६॥ अनुसाारणा च पश्चत्रिगुणं बीजं भवेद्यत्र प्रागुनं तस्योपरि मृतनागं शतगुणं वाह्यम् । तेन च घोषाकृष्टे शुल्चे वधोऽथ सप्तशतैः ॥ ४० ॥ विशेषाचाह-अनुसारणेत्यादि । पश्चात्प्रतिसारणानन्तरं, अनुसारणा च कार्या । अनुसारणलक्षणमाह-यत्र त्रिगुणं बीजं भवेत्, जारितमिति शेषः; अनुसारणेयम् । पुनस्तस्योपरि,तस्य बीजस्योपरि प्रागुक्तं मृतनाग शतगुणं वाह्यमिति। तेन सिद्धेन सूतेन घोषाकृष्टे कांस्योद्धृते शुल्वे ताने सप्तशतैः रसवेधः 'कार्यः' इति शेषः ॥४०॥ क्रामणमेतत्त्रागपि माक्षिकदरदगन्धकशिलाभिः । राजावर्तकविमलप्रवालककुष्ठतुत्थविषैः ॥ ४१ ।। क्रामणमाह-क्रामणमित्यादि प्रोगपीति पूर्वाध्यायेऽपि 'प्रोनं' इति शेषः । पुनरेतद्वक्ष्यमाणं कामणगुणं कुर्यादित्यध्याहारः । स कथं १ त्रयं यावत् ख. ग. । २ तद्धृत्य ग.। ३ सूतो यः सम ख. ग.। ४ एतत् कामणमिति नागाख्यं प्रागपि प्रथमेऽपि दवेति शेषः ग.। 7 १४४ रसाहदयं तन्त्रम् । तदाह-मानिकेत्यादि। मानिकताप्यं, दरदं हिड्गुलं,गन्धका प्रतीत, शिला मनोहा, ताभिः । पुन. राजावर्तकेत्यादि।राजावर्तक 'लाजवरद' इति भापायां, विमलं सितमाक्षिक,प्रवालं विद्रुम, ककुठं विरह, तुत्थकं शिखिग्रीवं, वियं सस्तुकादिकन्दज , एतैश्च ॥ ११ ॥ कान्तगरिकटणभृमिलतारुधिरशक्रगोपरसः । महिषीणां कर्णमलेमतलोहं वायसस्य विष्ठा च ॥ ४२ ॥ कान्तेत्यादि । कान्त चुम्बकं, गैरिकं प्रतीने, टणं सौभाग्यं, भूमिलता भूनागः, रुधिरं शक्रगोपः, रसो विपं, पुनरुक्ताद्विपमत्र द्विगुणं तैः । च पुनर्महिपीणां कर्णमलैहयारिपत्नीनां श्रवणयोर्मलानि तैः सह, मृतलोहं भृतं च तल्लोहं चेति, वायसस्य काकस्य विष्ठा शकृत् ॥ ४२ ॥ पारावतस्य विष्ठा स्त्रीपर्यः सर्वमेकतः कृत्वा । क्रामणकल्कं चैतच्छतवारान् रक्तपीतगणैः ॥ ४३ ।। पारावतस्य विष्ठा कपोतशत्, स्त्रीपयो नारीक्षीरं, एतत्सर्व माक्षिकादिस्त्रीक्षीरान्तमेकतः कृत्वा मिश्रितं विधाय, च पुनरेतत्कामण- कल्कं रक्तपीतगणैः किंशुकादिहरिद्रायैः शतवारान भावयेदित्यागामि- श्लोकसंवन्यात् कुलकम् ॥ ४३ ॥ भाव्यं कङ्गुणितैले क्रौञ्चीपित्तभावनाः सप्त । कल्केनानेन पचेत्सारितपिष्टिं च हण्डिकायां हि ॥ ४४ ॥ सारणकल्कविधानमाह-भाव्यमित्यादि । पूर्वोक्तसारणकल्कं कगुणीतैले ज्योतिष्मतीस्नेह भान्यं, ततो क्रौञ्चीपित्तभावनाः सप्त देयाः दातव्याः । पुनः सारितपिष्टिं सारिता या रसेन्द्रवीजपिष्टिस्ता- मनेन कल्केन हण्डिकायां पचेत् वह्निना पाकः कर्तव्यः ॥ ४४ ॥ यावद्रता भवेति हि गच्छति नागं समुत्तार्य । तावत्क्षपं च क्षिपेत्सर्वमिन्सारणादौ च ॥ ४५ ॥ सारणकल्कपाचनमाह-यावदित्यादि । पूर्वकल्कसंयुतां पिष्टिं १ महिषीकर्णमले मृत० ख. ग. । २ मृतश्चासौ लोहश्चेति ग. ३ स्त्रीपयश्च इति पठनीयम् । सं०१४ जारण० ख ग.१५ यावद्रसाद द्रवति ख. | "द्रसा द्रवति ग.१६क्षेप दिपे० ख.क्षिपेक्षेपत्स० ग. ।
रसहृदयं तन्त्रम् । १४५ कियत्कालं पचेत् ? यावद्रक्ता भवति, नागं च गच्छति नागनाशः स्थात्, नागे गच्छति सति समुत्तार्य, पुनस्तावत्सर्वमिन्सारणादौ च क्षेपक्रमेण क्षेप क्षिपेत् ॥ ४५ ॥ एवं हि कोटिवेधी रसराजः क्रामितो भूत्वा । पुंस्त्वादेरुच्छायप्रदो भूत्वा भोगान्दत्ते ॥४६ ।। पुंस्त्वाधान अाकाशगमनपर्यन्तान् भोगान्ददातीत्यभिप्रायः॥ ४६ ॥ अभ्रकमाक्षिककनकं नागयुतं मिलितं विधिना। सूते पिष्टिः कार्या दिव्यौषधियोगतः पुटिता ॥४७॥ पिष्टिविध्यन्तरमाह-अभ्रकमित्यादि । अभ्रकं प्रतीतं. माक्षिक ताप्य, कनकं हेम; नागयुक्तं नागेन सीसकेन युतं सहित, विधिना कर्तव्योपदेशेन, एतत्सर्व सूते मिलित सत् पिष्टिः कार्या दिव्यौषधि- योगतः पुटिता पिष्टिः कार्या इति ॥ ४७ ।। षड्गुणगन्धकदाहः शिलया नागं समुत्तार्य । तारे हेमाकृष्टिर्मिलिता स्थापोडशांशन ।। ४८॥ तारे हेमाकृष्टिमाह-पडित्यादि । पूर्वोक्तायां पिष्ट्यां षड्गुणगन्ध- कदाहः कार्यः, पुनः षड्गुणशिलया कृत्वा नाग समुत्तार्य सीसकमप- हाय, सा निष्पन्ना पिष्टी षोडशांशेन तारे रूप्ये मिलिता सती हेमाल. ष्टिः स्यात्कनकोद्धारण भवेत्, ताननागादिषु धातषु हेम स्थितमेव, तत् प्राकृष्टिशब्दो युक्तः ॥ ४ ॥ माक्षिकनिहतं शुल्यं शिलया निहतं च नागतुल्यांशम् । पुटितं जम्बीररसैः सैन्धवसहितं पचेत्स्थाल्याम् ॥ ४६॥ तच्चूर्ण घृतमधुकटङ्कणसहितं च गुप्तमूषायाम् । तारे त्रिगुणं व्यूढं हेमावृष्टिर्भवेदिव्या ॥५०॥ १क्षेपक्रमेण च क्षेख.। क्षेपे क्रमेण च क्षेपेक्षेपेत् ग.।२ कामतो ग.। ३ भूत्वा विपुलान् भो० ख. ग. १४ कथं आद्यं पर्यन्तं खेचर यथा स्यात्तथा आकाशगमनपर्यन्तं ग.। ५ मेलित ग.।६ सूतःख.ग. ७ पिण्टी ग.। मिलति सति ख. ग. । ६ कार्या पुनर्दि० ख. ग. । १० पुन. पुनः ख. ग.। ११ सहित ख. ग.।
१४६ रसहृदयं तन्त्रम् । नागमारणविधानमाह-माक्षिकेत्यादि । माक्षिकेण निहतं मारित यत् शुल्वं, शिलया मनःशिलया नागं च निहतं मारितं, उभयं तुल्यां- शं समभाग कार्य, पुनर्जम्बीररसैः जम्बीरद्रावैः सैन्धवसहितमुभयं पुटित भावितं सत्पचेद्वह्निना पक्कं कुर्यात् । के ? स्थाल्यां मृद्भाजने इत्यर्थः ॥ ४६॥ ५० ॥ शुल्वं बलिना निहतं तीक्ष्णं दरदेन निहतसमभागम् । एकीकृत्वा पुटयेत्पचेन्मातारसेनैव ।। ५१ ।। नागे तारे हेमाकृष्टिमाह-शुल्वमित्यादि । वलिना गन्धकेन, निहतं सत् समभागं तुल्यांश, 'कुर्यात्' इति शेपः । उभयमेकीकृत्य संमिथ्य, मातारसेनैव नारीक्षीरेण पुटयेत् पचेदिति श्लोकार्थः ॥५१॥ तारे व्यूढं त्रिगुणं मार्जाराक्षानभं भवेत्तच्च । लिप्तं रसेन पुटितं हमार्धेन मात्रया तुल्यम् ॥ ५२॥ हेमाकृष्टविधानमाह-तारे इत्यादि पूर्वोक्तं चूर्ण शुल्वजं तीदणजे वा तारे त्रिगुण व्यूढं वाहितं सत्, मार्जाराक्षसंनिभ ओतुनेत्राभं तारं भवेत् । हेमार्धन मात्रया तारार्धभागेन परिमाणेन हेना तुल्यमन्यूना- विकं, रसेन पयसा ॥ ५२ ।। लिप्तं तदनु पुटितं नागं हि रसेन पादयुक्तेन । खपरकस्थ कृत्वा कार्य विधिना दृढं ताप्यम् ॥ ५३ ।। पुनर्नागविधानमाह-लिप्तमित्यादि । त्रिगुणं यथा स्यात्तों, पादयुक्तेन रसेन चतुर्थीशसहितसूतेन सह, नागं सीसक, खर्परकस्थं मृद्भाजनखण्डस्थितं कृत्वा, विधिनारसशोपदेशेन, दृढं ताप्यं वह्नियुतं सत् निहतं कुर्यादिति वाक्यार्थः ।। ५३ ॥ निर्गुण्डीरसभावितपुटितं शिलया वर्तित श्लक्ष्णम् । तावन्मृदितपुटितं निरुत्थभावं ब्रजेद्यावत् ॥ ५४ ॥ तञ्चाह-निर्गुण्डीत्यादि । पकं नागचूर्ण श्लक्ष्ण श्रेष्ठविधानं यथा स्यात्तथा शिलया वर्तितं सत् निर्गुण्डीरसभावितपुटितं पूर्व भावित १ कस्यां ग.। २मातूरसे० ख. । ३ ख. ग. पुस्तके नास्ति । ४०था शिलया पा० स. ग. । ५ दृढताप्यं ख. । दृढताप्यं सत् ग.। ६ शिलया च इति पठनीयम् । सं०1७ वर्तितं दृढं ग.1८०न्मर्दि- त० इति पठनीयम् । सं। ६ तत् ग. ।
रसहृदयं तन्त्रम्। १४७ धर्म गुटितं पश्चात्युटितं वह्निपुटितं कुर्यात् । पुनर्यावन्निरुत्थभावं अश- रीरत्वं ब्रजेत् तावन्वृदितपुटित मर्दितपाचितं कुर्यादित्यर्थः ॥ ५४ ॥ तारे तन्निव्यूढं यावत्पीतं भवेचिरम् । हेमसमेन च मिलितं मात्रातुल्यं भवेत्कनकम् ॥ ५५ ॥ तच्चाह-तारे इत्यादि। तन्निरुत्थनागचूर्ण यावत्पीतं पीतवर्ण तार भवेत् तावद्वारं नियूदं कुर्यात्। पुनहेमसमेन कनकतुल्यांशन मात्रातुल्यं मिलितं सत् रुचिरं मनोरमं कनकं सर्व भवेदित्यर्थः ।। ५५ ॥ ताप्यं चाङ्गुलिसंज्ञं चूर्ण कृत्वा तदन्तरे दत्वा । शुल्बस्य गुप्तमूषा कार्या पुटिताथ च ध्माता ॥ ५६ ।। ताप्यविधानमाह-ताप्यमित्यादि । अङ्गलिसझं ताप्यं स्वर्णमाक्षिक चूर्ण कृत्वा, तदन्तरे तचूर्णमन्तरे मध्ये दत्वा, शुल्वस्य ताम्रस्य गुप्त- मूपा अन्धमूषा कार्या, तत्र नले इत्यभिप्रायः । सा भूषा पुटिता ध्माता कार्येति विधानमुक्तम् ॥ ५६ ॥ हना मिलितं विधिना मात्रातुल्यं भवत्येव । पादादिजीणसूते लियोत्पत्राणि हेमकृष्टीनाम् ।। ५७ ।। तच्चाह-हेनेत्यादि । पवं यन्माक्षिकचूर्णं तद्धन्ना कृत्वा पादादि- जीर्णसूते पादादिना पादाधसमानादिना जीर्णो योऽसौ सूतः तलिन् हेमकीनां पत्राणि कलुषकनकानां पत्राणि लिह्यात् क्रामणयोगेन लेपयेदित्यागामिश्लोकात् ॥ ५७ ॥ कामणयोगेन ततो विलिप्य विधिना निधाय तुल्याधः । पश्चाद्धेम्ना सहितं ध्मातं मूपोदरे समावर्त्य ।। ५८ ॥ तच्चाह-कामणेत्यादि । ततो रसलेपानन्तरं, कामणयोगेन कुनटी- माक्षिकविपमित्यादिनाक्तन. विलिप्य तुल्यायः तुल्यं यथा स्यात्तथा अधोभागे निधाय, मूपोदरे मातं कुर्यात् । पुनः पश्चाद्धेना कनकेन सहित आवर्त्य मातं कुर्यात् ॥ ५८ ।। १ तावत्तारं ख. ग.। २ तदनन्तरं ग. | ३ अगुलिसमं ख. । ४ नतोऽनन्तर तपूर्ण तारे दत्त्वा, रल्योरैश्यात् ले इत्यर्थः ख. ग.। ५लितप० ख. । लिप्त्वा प० ग.। ६ लिप्ता ख.। लिप्त्वा ग. । ७ समावृत्य ग. । ८०मित्यादिना ख. ग. 1६ श्रावृत्त्य ग.। ----- ru- १४८ रसहृदयं तन्त्रम्। यन्त्र हण्ड्यां पकं पञ्चमृदावाप्य पुटपक्वम् । वक्ष्यामि च लेपविधि कामति च सूतो यथा* हि पत्रेषु । रञ्जति येन विधिना समासतः सूतराजस्तु ॥ ५६ ।। तच्चाह-यन्त्रमित्यादि । वा यन्त्रं पञ्चमृदा वल्मीक त्, गैरिक, खटिका, सैन्धवं, इष्टिका चेति पञ्चमृदः, तया कृत्वा, हण्ड्यां स्थाल्यां पक्कं कार्यम् । अथ पुटपक्कं गजपुटादिना पाच्यमित्यर्थः । लेपनविधि वक्ष्यामि यथा पत्रेषु लेपः कार्यः, पुनर्यथा पत्रेषु क्रमति स्वगुणान् प्रकाशयति, पुनर्यन विधिना रञ्जनं राग ददाति, समासतः संक्षपंतः, विधिना विधानत', सूतराज एवंविधो भवेत् तमुपायं वक्ष्या. मीति ॥५६॥ कृत्वाऽऽलककवस्त्रं लिप्तमनुस्नेहमुपरि चूर्णेन । अवचूर्णितं तु कृत्वा गन्धकशिलया विधानेन । ६० ॥ अथ लेपक्रामणं रञ्जनविधानमाह-कृत्वालक्तकवस्त्रमित्यादि । प्रथमं आलतकं वस्त्रं अलक्तेन रञ्जितं यद्वस्त्रं तदालतकं, अनु पश्चात्, स्नेहं कगुण्यादीनां तैलं, लिप्तं कार्य, तत्तैललितवस्त्रोपरि वक्षमाणौषधानां चूर्णेन अचूर्णन कुर्यात्, तैललितवस्त्रं गन्धकशि- लया कृत्वा तदुपरि दातव्यं दर्शयति ॥ ६० ॥ तदुपरि शृतं च दत्वा गन्धकशिलाचूर्ण च सूतवरे । पश्चाद्वतिः कार्या पात्रे धृत्वाऽयसे च समे ॥ ६१ ॥ पुनस्तदुपरि, गन्धकशिलाचूर्णोपरि, शृतं दत्त्वा, पुनर्गन्धकशि- लाचूर्ण सूतवरे सूतराजोपरि दत्त्वा, पश्चात्तत्करणानन्तरं, वर्तिः कार्या, सा वर्तिरायसे लोहमय, समे समभूमौ पात्रे धृत्वा तत्रोपरि , कार्या ॥ ६१॥ १ कामति सू० ख. ग.। २ रञ्जयति गः । ३ तेन ख. ग. । येन च इति पठनीयम् । सं० । ४ सममिति ग. । ५ भाव्यमित्यर्थः ख. ग. । ६ रमित ख. ग. । रञ्जति इति साधु । ७ संक्षपविधानतः सू० ख. ग. ।८ सूतराजस्य ग. ।। मीति षड्रसानां समर्थः ग.। * सम्मेल्य पठनीयं पदमिदं यथाहिपत्रेषु इति । अहिपत्रेषु नाग- पत्रेषु सीसकपत्रेष्वित्यर्थः । इति जयदेवः ॥
. रसहृदयं तन्त्रम् । १४६ दीपं प्रतिबोध्य ततस्तैलं दत्वा ततः स्तोकम् । पाकं यामस्याध स्वाङ्गे शीतं ततः कार्यम् ।। ६२ ।। विध्यन्तरं दर्शयति-दीपमित्यादि । ततो वैतेः पात्रोपरि करणा- नन्तरं, दीपं प्रतिबोध्य प्रज्वाल्य, ततो वारंवार स्तोकमल्पं तैल दत्त्वा, यावद्यामस्य प्रहरस्य अर्ध स्यात्तावत्पाक 'कुर्यात्' इति शेषः । ततो- ऽनन्तरं तत्पतितं तैलं स्वागशीतं कार्य, अङ्गे तैलद्रवरूपे शरीरे यथाख खयमेव शीतं यथा स्यात्तथा कार्यम् ॥ ६२ ।। गृह्णीयादथ सूतकृष्टी लिप्ता ततस्तेन । क्रामणयोगैर्लिया पुटिता सा हग्नि निर्माता ।। ६३ ।। तच्चाह-गृह्णीयादित्यादि । अथ शीतकरणानन्तरम् । सूतकृष्टी च गृहीयात् 'कर्मवित्' इति शेषः । ततोऽनन्तरं सा सूतकृष्टी तेन पत्रेण लिप्ता सती कामणयोगैर्लिप्वी, हेन्नि सुवर्णे निर्माता कार्येति ॥६३॥ अथवा दरदशिलालैर्गन्धकमातीकपक्कमृतनागैः। कङ्गुष्ठप्रवालसहितैः पिष्टैश्च कगुणीतैले ॥ ६४॥ विध्यन्तरमाह-अधवेत्यादि । दरदो हिंगुलः, शिला मनोहा, श्रालं हरितालं, तैः, गन्धकः प्रतीतः, माक्षिक यत्पर्क सिन्दूरीकृतं, मृतनागश्च, तैः । पुनः कंकुष्ठप्रवालसहितैः कंकुष्ठं विरज, प्रवालं विद्रुमं, ताभ्यां सहितैः । पुनरेतैः कंगुणीतैले ज्योतिष्मतीतैले पिष्टै- श्चूर्णाकृतैः, मध्ये सूतो युक्तः कार्य इत्यनिमश्लोकसंवन्धात् ॥६॥ मध्ये सूतो युक्तो मृदितः खन्वे तथायसे विधिना । संखद्य वंशनलिकां दोलायत्र स्वेदितं त्रिदिनम् ॥६५॥ तचाह-मध्ये इत्यादि । पूर्वोक्तैरौपधैः कृत्वा, मध्ये श्रीपधान्तः, सूतो युक्तः कार्यः । पुनर्मदयित्वा वंशनलिकां रिक्तोदरां प्रति संवेद्य १ दग्ध्वा ख. ग.। २ स्वाङ्ग ख.। ३ वर्तिः ग.। ४ प्रज्वाल्य सूतः ततो ख. ग.। ५ सूतः कृष्टी ग.१६ लिप्त्वा ख. ग.। ७ लिप्त्वा ग.। ८ लिप्त्वा च ख. ग. । ६ दि । दरदशिलालैः दरदो ख. दि । दरदशिलालगन्धाः प्रतीताः ग.। १० तीनेहे ख. ग.। ११ सूतकयु० गः। १२ सम्बन्धः ग.। १३ सूनक ख. ग.। १४ स्वेदयेत् ख. ग. । १५ सूतयुः ग.। १४ १५० रसहृदयं तन्त्रम् । दिनत्रयं दोलायन्त्रेण स्वेदितं कुर्यादित्यर्थः ॥ ६५ ॥ एतैलिया कृष्णैः पत्रं पूर्वोक्कविनिन । नागं दत्त्वा प्रकट स्तोकं स्तोकं क्रमेणैव ॥६६॥ तच्चाह लिप्त्वेत्यादि । एतानि खेदितोषधानि संयुक्तानि तैः, कृष्णैः कृष्णवर्णैः, पूर्वोक्तावधानेन सूतकृष्टीविधानेन पत्रं लिप्त्वा, पुनः प्रकटं यथा स्यात्तथा स्तोकं अल्पमल्पं क्रमेण नागं दत्वा, कनकं जायते इत्यग्रिमालोकसंवन्धः ॥६६॥ भवति हि कनकं दिव्यमक्षीणं देवयोग्यं च । एवं जारितसूते सकलाः खलु हण्डिकाः सर्वाः ॥ ६७ ॥ एवं कृते सति अक्षीणं अक्षय, दिव्यं प्रवरं, देवयोग्यं देवा इन्द्रा- दयस्तद्योग्य कनकं भवति । युक्तोऽयमर्थः । एवं जारितसूते जारित- कर्मकृते रसे, खलु निश्चित, सर्वा हण्डिकाः सर्वे धात्वाद्या., सकलाः सप्रसवाः स्युरित्यर्थः ॥ ६७ ॥ निर्वाजं समजाणे पादैकेनैव पोडशांशेन । अर्धन पादयोगं पदिनैकेन तुल्यकनकं च* ॥ ६८ ॥ विशेषमाह-निर्वाजमित्यादि । निर्वीजं यथा स्यात्तथा, समजीर्णे पादेन नुर्याशेन फलं ददाति; तथा अर्धेन जीर्णेन पोडशांशेन फलं ददाति, च पुनस्तदर्धेन जीर्णेन तत्पादयोग, तत्पादेन एकेन तत्पाद- योगं फलं ददातीति सर्वत्र वाच्यम् । तुल्यकनकं च जीर्ण पूर्ण फलं ददातीति ॥ ६८ ॥ : ताराकृष्टिं वक्ष्ये मृतवङ्गं तालकेन तुल्यांशम् । लम्बितपथ निर्भातं तानं तारच्छविं वहति ॥ ६६ ।। १०त्रयं तदा दो० ग. । २ "एतैः" इति ग. पुस्तके नास्ति । ३ विधानतस्तेन ग. । ४ ०तौपधसंयु० ख. ग.। ५ भागं ख. ग. । ६ तत्पादेनैकेन स्त्र. ग. । ७ ग. पुस्तके नास्ति । ८ जीर्णे ग.। ६ तालतुल्यांशम् ग.। *आयुर्वेदप्रकाशे-निवाजे समजीर्णे पादोने पोडशांशतया । अर्धन पादकनकं पादेनकेन तुल्यकनकं च ॥ इति पाठान्तरमुप. लभ्यते।
, रसहृदयं तन्त्रम् अथ ताराकृष्टिमाह-हेमाकृष्ट्यनन्तरं ताराकाष्टं वक्ष्य नहीं कविः कथयामि, मृतवङ्गं मारितं वङ्गं, तालकेन हरितालेनेति । अथ तानं तुल्यांशं लम्वितं विस्तीर्ण यथा स्यात्तथा निर्मात सत्तारच्छविं वहति रूप्याति प्राप्नोतीत्यर्थः ॥ ६ ॥ पश्चान्नाग देयं प्रकाशमूषासु निर्मलं यावत् । तावद् ध्मातं विधिना सुनिर्मलं निस्तरङ्गं तु ।। ७० ॥ तच्चाह-पश्चादित्यादि । पश्चाद्वङ्गताम्रयोगानन्तरं, प्रकाशमूषासु यावत् निर्मलं मलवर्जितं स्यात्तावन्नाग देयं, पुनर्यावन्निर्मलमुज्ज्वलं, निस्तरङ्गं नागोर्मिवर्जितं स्यात् तावद्विधिना ध्मातं कुर्यादित्यर्थः ॥७॥ तालशिलासर्जिकाभिः सैन्धवलवणेन *नयनाहितसहितैः । एकैकं सहितं वा वेधं दत्त्या पुनः शुल्बे ॥ ७१ ।। विशेषमाह-तालेत्यादि । तालं हरितालं, शिला मनोहा, सर्जिका प्रतीता, ताभिः; सैन्धवं च तत् लवणं च तेन, नयनहितसहितैः एतैः कृत्वा एकैकं पृथक्त्वेन वा सहितमेकत्वेन पुनः शुल्वे ताने वेधं प्रति- ध्यादिति ॥ ७१ ॥ छगणं माहिषत नहीधीरेण सर्पिषों क्रमशः। सगुडदुग्धमधुविमित्रैः क्रमशो वेधे निषेकश्च ।। ७२ ।। तारवेधनिषेकान्याह-छगणमित्यादि । छगणं वनोत्पलं, माहिषं तकं महिण्याः इदं माहिषं, स्नुहीक्षीरेण सेहुण्डदुग्धेन सह, पुनः सर्पिषा घृतेन सह, गुडदुग्धमधुभिर्मिधैः मिलितं कृत्वा क्रमशो वेधकर्मणि निषेकः कार्यः ।। ७२॥ काञ्ची ब्राह्मी कुटिलं तालकं समभागयोजितं मातम् । शुल्वं विद्धमनेन तु ताराकृष्टिमवेद्दिव्या ।। ७३ ।। ताराष्टिमाह-काञ्चीत्यादि। काञ्ची वर्णमाक्षिक, ब्राह्मी सोमाबा, १ सर्जिकया ख. ग. । २तया ख ग. । ३ दद्यादिति ग. । ४ नहीतीरे ख. ग. । ५ सर्पिषोः ग.। ६ सगुडं दुग्धविमित्रैः ख. ग. । मधुमिङः इति पठनीयम् । सं० । ७ वध ख. । वेधं ग. 15 गुडदुग्ध- विमित्रैः ख. । गुडदुग्धमिश्रितैः ग. । ६ ख. ग. पुस्तके नास्ति । १० क्रमशो वे वेगा। १९तालकस० ख.ग.। १२ विशुद्धमनेन ख.ग.। १४ मनोबा ख. ग.। नयनहिता त्रिफला। .
रसहृदयं तन्त्रम्। कुटिलं सीस, तालकं प्रतीतं, एतत्समयोजितं समांशमेलितं तत् ध्मा- तं कुर्यात्, पुनरनेन काञ्च्यादिगणेन विद्धं शुल्वं दिव्या मनोरमा ता- राकृटिभवेत् ॥७३॥ एवं ताराकृष्टिलिवा विद्धा रसेन सारितेन । तारं करोति विमलं लेप वा पादजीर्णादि ॥ ७४॥ ताराकृष्टिविधानमाह-एवमित्यादि । एवं उक्तविधानेन, सारितन सारणाकर्मकृतेन, लिप्त्वा विद्धा सती ताराकृष्टिर्भवेत् । पुनरिय तारा कृष्टिः तारं विमल मलवर्जितं करोति, वा पादजीर्णादि पादेन जीर्ण यस्मिन् श्रादिशब्दादयसमग्रहण कार्य, तत् लेपमिति ॥ ७४ ॥ इति मिश्रीकृतविद्धं ऋमितं त्वथ मातृकातुल्यम् । तारदलं भवति च्छेदनताडननिकपैश्च निर्दोषम् ।। ७५ ॥ विशेपमाह-इतीत्यादि । इति पूर्वोक्त विधानेन, मिश्रीकृतं मिलितं, विद्धं क्रमितं मातृकातुल्यं समांशं सत् तारदलं रूप्यपत्रं भवति, तद्रूप्यदलं छेदनताडननिकषैः छेदन खण्डनं, ताडनं धनधातः, निकष शिलोपरि परीक्षणं, तैरिति; तापैश्च निर्दोपं तद्भवति ॥ ७५ ॥ एवं वेधविधान शास्त्रविधिज्ञेन कर्मकुशलेन । ज्ञात्वा गुरूपदेश कर्तव्यं कर्मनिपुणेन ॥ ७६ ।। इति परमहंसपरिव्राजकाचार्यश्रीमगोविन्दभगवत्पाद- विरचिते रसहृदयाख्ये तन्त्रे वेधविधाना- त्मकोऽयादशोऽवयोधः ॥१८॥ एवं अमुना प्रकारेण, शास्त्राविधिशेन शास्त्रस्य विधि जानातीति सः तेन, कर्मनिपुणेन संस्कारप्रवीणेन कशलेन की, गुरूपदेशं गुरु- रुक्तलक्षणो ग्रन्थादौ, तस्य उपदेशं ज्ञात्वा, वेधविधान कर्तव्य- मित्यर्थः ॥ ७६ ॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजश्रीचतुर्भुज. विरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां वेधवि. धानात्मकोऽष्टादशोऽवबोधः ॥ १८ ॥ १ चङ्गं ग.।२र्लिप्ता ग.। ३ सरितेन ग. । ४ भवति ख. ग.। ५ कर्मका ग.।
रसहृदयं तन्त्रम् । १५३ अथैकोनावशतितमोऽवबोधः । अथ भक्षणविधानमभिधास्यते । इति रसराजस्य विधौ वेधविधानं प्रसङ्गतः प्रोक्तम् । अधुना प्रोक्तानपि वक्ष्यामि रसायने योगान् ॥१॥ अथ भक्षणविधानमाह--इतीत्यादि । रसराजस्य विवौ रसेन्द्र- कर्मविधाने, वेधविधानं प्रसङ्गतः प्रस्तावतः प्रोक्न, न तु खप्रक्षासमम्। अधुना प्रोक्तानपि अपिशब्दादनुभूतानपि, रसायने जराव्याधिनाशन- विधौ, योगान् द्रव्यसमुदायात्मकान, वक्ष्यामि कथयामीत्यर्थः ॥१॥ आदौ प्रातः प्रातः सैन्धवयुक्तं घृतं पित्रेत्रिदिनम् * । तदनु काथं त्रिदिनं युञ्जीयात्केतकीतनुजम् ॥ २ ॥ कायशोधनमाह-श्रादावित्यादि । प्रथम प्रातः प्रातः प्रत्यूषे, त्रिदिनं सैन्धवमिलितं धृतमाज्यं पिवेत् । अन्यसंयोगमाह-तदनु घृतसैन्यवानन्तरं, केतकीतनुज क्वार्थ केतक्याः तनुः शरीरं तस्माजा तं केतकीमूलसंभवामित्यर्थः, 'अङ्गेऽप्यनुक्ते विहितं तु मूलं' इति न्या- यात्. त्रिदिनं प्रयुञ्जीयादित्यर्थः ॥२॥ विधिना खेद्यो देहः कर्तव्यो वार्तिकेन्द्रेण । कथितं कटुरोहिण्याः संशोधनमनुप्रयुञ्जीत ॥३॥ विध्यन्तरमाह-विधिनेत्यादि । ततो विधिना वेदविधानेन, देहः शरीरं वार्तिकेन्द्रेण रससंप्रदायविदा वेद्यः विन्नः कर्तव्यः । अन्य- किं ? कटुरोहिण्याः तिक्तायाः कथितं प्रसाधितं सम्यक् शुद्धिकरणं अनुप्रयुञ्जीत खेदानन्तरमित्यभिप्रायः ॥ ३ ॥ तदनु च शुद्धादूल श्लेष्मान्ते रेचिते सकलम् ।। १ प्रक्रान्तानपि ख. ग. । सुपाठश्वायम् । २ तरुजम् ख. ग.। ३ वा शरीरं कर्तव्यं ख. ग.। महनार्थमयं योगः। । स्नेहनखेदन रेचनानन्तरमेव रसायनौषधं गुणकरम् । उक्तञ्च निग्धविन्नविरिक्तं यन्नीरु सिद्धभेषतः। एतत्क्षेत्रं समासेन रस- योजार्पणक्षमम् । २० रसहृदयं तन्त्रम् । - यावकपथ्यं त्रिदिन घृतसहितं तत्प्रयुञ्जीत ॥ ४ ॥ विध्यन्तरमाह-तदित्यादि । नदनु कहकरोहिणीसेवनानन्तरं, शुद्धादृषं यथा स्यात्तथा श्लप्मान्नरचिते सति यथा श्लेप्मणोऽन्तः स्यात्तथा रेचिने सति, निदिनपरिमाणयावकपथ्यं घृतसहितं प्रयुञ्जीतेति ॥ ४॥ पुनरपि च पानयोगं वक्ष्यामि च सकलभुवनहितकृतये । पीत्वा प्रथमे यामे चोष्णोदकसममिदं चूर्णम् ॥ ५ ॥ विध्यन्तरमाह-पुनरपीत्यादि । पुनरपीति यावकपथ्ययोगानन्तरं, च पुनः, पानयोग वच्यामि, किमर्थं ? सकलभुवनहितकृतये समस्त. संसारहितकरणाय, इदं वच्यमाणं, चूर्ण पथ्याचं, उष्णोदकसमं तम. जलेन सह, प्रथमयामे प्रथमप्रहरान्तः, पीया शुद्धशरीरो भवदित्या. गामिश्लोकसंवन्ध्रात् ॥ ५ ॥ पथ्यासैन्धवधात्रीमरिचवचागुडविडगरजनीनाम् । शुण्ठीपिप्पल्योरपि चूर्ण त्रिदिनं प्रयुजीत ॥६॥ शोधनाय चूर्णमाह-पथ्येत्यादि । पथ्या हरीतकी, सैन्धवं प्रतीत, धात्री आमलकं, मरिचमूपणं, वचा उग्रगन्धा, गुडः प्रतीतः, विडङ्गं कृमिघ्नं, रजनी हरिद्रा, शुण्ठीपिप्पल्योरपीति शुण्ठी नागरं, पिप्पली मागधी, श्रासां औषधीनां चूर्ण त्रिदिनं प्रयुञ्जीत । उप्णजलसममिति ज्ञेयम् ॥ ६॥ अघुना शुद्धशरीरः परिहतमसगदोपवली। पीत्वा पयसा सहितं यावकममुना भवेच्छुद्धः ।। ७ । अमुनेत्यादि । अमुना वक्ष्यमाणविरेचनेन यावकादिना शुद्धशरीरः सन् , परिहतसंसर्गदोषवली भवति संसारण ये दोषाः शरीराभ्यन्त- रास्ते संसर्गदोषाः, ते परिहताः जिता येन स. परिहतसंसर्गदोषः तेन वली बलयुक्त, दोषनिवृतो गुणप्रवृत्तिरित्यवश्यम् । किं कृत्वा परिहतदोषः ? अमुना पयसा उष्णोदकेन याव अलक (१), पीत्वा शुद्धो भवेदित्यर्थः ॥ ७ ॥ अकृतक्षत्रीकरणे रसायनं यो नः प्रयुजीत ।
रसहृदयं तन्त्रम् । तस्य कामति न रसः स रसः सर्वाङ्गदोषकद्भवति* ॥८॥ संशोधनस्याकरणे दोषमाह-अकृतेत्यादि। यो नरः पुमान् अकृत- क्षेत्रीकरणे 'देहे' इति शेषः, न कृतं अकृतं क्षेत्रीकरणं यस्मिन् तस्मि- न्सति, रसायनं जराव्याधिविनाशनौषधं, प्रयुञ्जीत तस्य पुंसो रसो न कामति स्वगुणान्न प्रकाशयति, तर्हि किं ? सर्वाङ्गदोषकद्भवति बाहु- चरणादिपु षट्खङ्गेषु विकारकृत् स्यात् ॥ ८॥ इति शुद्धो जातबलः शाल्योदनयावकाख्यमुद्गरसैः । क्षेत्रीकृतनिजेदेहः कुर्वीत रसायनं विधिवत्। ॥६॥ रसायनाविकारत्वमाह-इतीत्यादि । पूर्वोक्तविधानेन शुद्धः सन् यो जातवलो भवति, स क्षेत्रीकृतनिजदेहः अक्षेत्र क्षेत्र क्रियत इति क्षेत्रीकृतो निजदेहः शरीरं येन सः,मतिमान रसायन विधिवत्प्रकुर्वीत । कैः जातबलः ? शाल्योदनं च यावकाख्यं च मुद्दाश्च तैः ॥ ६ ॥ सुरतरुतलघृतमधुधात्रीरसपयासि निर्मथ्य । पीत्वा विशुद्धकोष्ठो भवति पुमानन्तरितशुद्धः ॥ १० ॥ विध्यन्तरमाह-सुरतवित्यादि । अन्तरितशुद्धः अन्तरितं शुद्धं यस्य सः ग्रहणीरोगादिवर्जित इत्यर्थः, एतानि औषधानि निर्मथ्य पीत्वा, विशुद्धकोष्ठो भवति विशुद्धं मलवर्जित कोष्ठं उदरं यस्येत्येवंविधो भवति । तानि कानि ? सुरतरुतैलेत्यादीनि सुरतरुदेववृक्षः, तत्तैले पेषणतैलमित्यर्थः, घृतं आज्यं, मधु क्षौद्रं, धात्रीरसः आमलकीस- लिल, पयो दुग्धं, एतानि सर्वाणि निर्मथ्य एकीकृत्येत्यर्थः ॥१०॥ १ "स रसः" इति ख.पुस्तक नास्ति । २ निर्देहः ख. ग. । ३घृतं ख. ग.। ४ भवति हि पमा० ख. ग.। इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्रसैः । क्षेत्रीकृत- निजदेहः कुर्वीत रसायनं मतिमान् । इति श्रायुर्वेदप्रकाशस्थः पाठः । 1 अक्षेत्रीकरणे सति रसायनं यो नरः प्रयुञ्जीत । तस्य कामति न रसः सर्वाङ्गदोषकद्भवति ।। इति आयुर्वेद प्रकाशस्थः पाठः । अन्यत्रा- प्युक्तं अक्षेत्रीकरणे सूतोऽप्यमृतोऽपि विषं भवेत् । फलसिद्धिः कुत. स्तस्य सुबीजस्योषरे यथा ॥ क्षेत्रीकृतनिजदेहः कुर्वांत रसायनं मति- मान् । विविना पथ्यविधानादमरदेहतुल्यदेहः स्यात् ॥
रसहृदयं तन्त्रम् । मासेन कान्तिमेध द्वाभ्यां प्रशमयति दोषनिकरं च । मासत्रितयेन पुनः खादमरवपुमहातेजाः ॥ ११ ॥ एतदोषधभक्षणगणं मासक्रमेणाह-मासेनेत्यादि । अस्य औष- धस्य मासेन मासप्रमाणेन भक्षणात्कान्तिर्भवति मेधा चेति, द्वाभ्यां द्विमासाभ्यां दोषनिकरं गदसमुदाय प्रशमयति शान्ति नयति पुन- सित्रितयेन त्रिमासप्रमाणेन खात् स्वसामान्यशरीरात् अमरवपुर्दैव. शरीरो, महातेजाः दीप्तिमान् स्यादित्यर्थः ॥ ११ ॥ सुरदारुतैलमाज्यं त्रिफलारसमंयुतं च समभागम् । पीत तत्सप्ताहान्नयनविकारं शम नयति ।। १२ ।। योगान्तरमाह-सुरदावित्यादि । सुरदारतैलं देवदारुतैलं, प्राज्य घृतं, त्रिफलारससंयुतं त्रिफलाया रसेन द्रवेण सयुतं सहित, च पुनः समभागं तुल्यांशं, तत्पीतं सत् सप्ताहात्सप्तदिनप्रमाणत., नयनविकारं नेत्रसंभवं रोगं, शमं नयति शान्तिं प्रापयति ॥ १२ ॥ सुरतरुनेलं सघृतं पीत्वा शाल्योदनं च सतीरम् । जीर्णाहारे भुक्त्वा हरति हि सकुष्ठान् पीनसादींश्च ।। १३ ।। योगान्तरमाह-सुरतरुतैलमित्यादि । देवदारुतैलं सघृतं साज्य, एतदुमय पीत्वा, सक्षीर शाल्योदनं भुक्त्वा षष्टिकोदनमित्यमिप्रायः, पुनर्जीर्णाहारे प्रतिदिनं दिनान्तर्वारद्वये वेदितव्यम् । च पुन. सकुष्ठान कुष्ठैः सह वर्तन्ते एवंविधान् पीनसादीन् रोगान् हरति दूरी- करोति ॥ १३॥ घृतसहितः पित्तकृतास्तैलयुतो वातसंभवान् रोगान् । गुडसहितो मधुना वा कफजान् हन्त्यमरदारूरमः ॥ १४ ॥ योगान्तरमाह-घृतसहित इत्यादि । अमरदारुरसो देवदारुजलं, घृतसहित आज्यमिश्रितः, पित्तकृतान् रोगान् हरति नाशयति । पुनस्तैलयुतस्तैलेन मिश्रितो देवदारुरसः, वातसंभवान् रोगान् हन्ति ! पुनर्गुडसहितः वा मधुना क्षौद्रेण सहितो देवदारुरस., कफ- जान् रोगान् हन्तीति वाक्यार्थ. ॥ १४ ॥ वर्जितकाजिकशाकं पयसा शाल्योदनं च युञ्जीत । द्विचतुःषट्पलमानं मात्राऽधममध्यमज्येष्ठाः ॥१५॥ १ कान्तिमंधा ख. ग.।२ प्रशमति ख. ग.। ३ 'हि" इति ग्व.ग. पुस्तके नास्ति । ४ स कुण्ठांश्च ख. ग. । ५ द्विचतु. द्विः षट् ख. ग. ।
रसहृदयं तन्त्रम् । १५७ रसायने भोज्याभोज्यमाह-वर्जितेत्यादि । वर्जितकालिकशाकं वर्जितं काञ्जिकं सौवीरं शाकं वास्तुकादि च यस्मिन् तत्तथा, पयसा क्षीरेण सह, शाल्योदनं भुञ्जीत । पुनः शाल्योदन कियन्मानं? द्विचतुः- षट्पलमानम् । अत्र मात्राऽधममध्यमज्येष्ठा द्विचतुःषट्पलप्रमाणा, अधममध्यमोत्तमबलेषु प्रयोज्येत्यर्थः ॥ १५ ॥ तदर्नु पातनशुद्धं सूतकमारोटमश्नीयात् । म्वदनमूर्होत्थापनपातनरोधाश्च नियमश्च ।। १६ ॥ अथ रसयोगमाह-तदित्यादि । तदनु पथ्यमात्रोपयोगानन्तरं, पातनशुद्धं पातनेन शुद्धं सूतकं आरोटमेवसामान्यमेवानीयात् भक्षयेत्। च पुनः स्वेदनमूोत्थापनपातनरोधाश्च खेदनं च मूर्छा च उत्थापन च पातनानि च निरोधश्चति द्वन्द्वः, एते यद्यपि सन्ति नियमश्व यद्यप्यस्ति तथाप्यारोटः पातनेन स्यादित्यर्थः ॥ १६ ॥ अभ्रकसहितः पात्यो विधिना यावस्थिरो भवति । अथवा माक्षिकसहितः पात्यः सूतो विधानेन ॥ १७ ॥ प्रसङ्गतः पातनमाह-अभ्रकेत्यादि । सूतः अभ्रकसहितः गगन- मिलितः सन् पात्यः । केन विधानेन? डमरुकयन्त्रादिना । पुनस्ता- वद्यावस्थिरो भवति । अथवा विध्यन्तरे, सूनो माक्षिकसहितः पात्यो विधानेन, अयमपि यावतिस्थरो भवति ॥ १७ ॥ इत्यारोटः सूतःक्षेत्रीकरणे नियुज्यते प्रथमम् । अथवा भस्म च कृत्वा बद्धो वा किल्कयोगेन ।। १८ ।। रसायने सूतस्य प्रारोटादिविधानमाह-इतीत्यादि । आरोट इति पूर्वोक्तेन पातनकर्मणा ऊर्धाधस्तिर्यग्भवेन सावित आरोटः, सः प्रथमं यथा स्यात्तथा रसायने जराव्याधिनाशने नियुज्यते इति । १ भोज्यपथ्यानाह ख. ग.। २ तदनु च पा० ख. ग.। ३०रोट- मेवानीयात् । ख.ग. । ४ नियमाश्च ख. ग.। ५०दिप्रयोगमाह ख.ग.। आरोटलक्षणं यथा-सुशोधितो रसः सम्यगारोट इति कथ्यते । स क्षेत्रीकरणे श्रेष्ठः शनैर्व्याधिविनाशनः ॥ बिद्धो वा कल्कयोगेनेति कल्कवद्ध इत्यर्थः । तल्लक्षणं च- स्वेदाथैः साधितः सूतः कल्कन्वं समुपागतः । कल्कबद्धः स विशेयो * योगोक्तफलदायकः ॥
१५० रसहृदयं तन्त्रम् । अथवा कल्कयोगेन रसादिसंभूतेन रसो भस्म कृत्वा द्विविधं भस्म ऊर्ध्वगं तलभस च; वर्णभेदेन षड्विध, खेतं भस्म, पीतं भस्म, हरितं भस्म, रक्तं भस्म, कृष्णं भस्म, करं भस्म, इति षड्विधं तत्कृत्वा क्षेत्रीकरणे नियुज्यते प्रथमम् ॥ १८ ॥ माक्षिकशिलाजतुलोहचूर्णपथ्याक्षविडङ्गघृतमधुभिः । संयुक्त रसमादौ क्षेत्रीकरणाय युञ्जीत ॥ १६ ॥ रसयोगमाह-माक्षिकेत्यादि । माक्षिकं ताप्य, शिलाजतु प्रसिद्ध, लोहचूर्ण मारितमुण्डस्य रजः, पथ्या हरीतकी, अक्षो विभीतकः, विडॉ कृमिघ्नं, घृतमाज्य, मधु क्षौद्र, एतैः संप्रयुक्तं रसं क्षेत्रीकरणाय प्रयुञ्जीतेति वाक्यार्थः ॥ १६ ॥ इति कल्कीकृतस्तं घनकान्तमधुघृतादिसंयुक्तम् । भुक्त्वाऽमरतां गच्छेत्क्षेत्रीकरणं प्रधानमिदम् ।। २०॥ इत्युक्तविधानेन कल्कीकृतं सूतं भुक्त्वा, अमरतां देवत्वं गच्छेत् । इति किं ? घनकान्तमधुघृतादिसंयुक्तं धनोऽभ्रकः, कान्तं लोहजाति, मधु क्षौद्रं, घृतमाज्यं, श्रादिशब्दात्सिता ग्राह्या, एतैः संयुक्तं सत् कल्कीकृतं; इदं च प्रधानं क्षेत्रीकरणं क्षेत्रीक्रियतेऽनेनेति ॥२०॥ इत्यारोटक्रिया ॥ अथ कृष्णं वा पीतं वा संयोज्यं धनं शिखिप्रभं बहुशः । सुरभीक्षीरनिषिक्तं गतगिरिदोष रसायने योज्यम् ।। २१ ॥ अथ पत्राभ्रक्रिया । कृष्ण श्यामवर्ण धनं अभ्रं, पीतं पीतवर्ण धनं वा, बहुशो नैकवार, शिखिप्रभं अग्निप्रभ सत् सुरभीक्षीरनिषिक्तं संचितं कार्य, पुनर्गतगिरिदोपं यथा स्यात्तथा गता गिरिजा दोषा महीधरसंभवा दोपा यस्मात् तदेवं संशोधयित्वा, तत् धनं रसायन जराव्याधिविनाशकरणे योज्यम् ॥ २१ ॥ निश्चन्द्रिकमपि शुद्ध विडङ्गत्रिफलाज्यमधुममायुक्तम् । प्रतिदिवसं पलमेकं भुक्त्वा क्षीराशनो विधिना ।। २२ ।। अभ्रकयोगमाह-निश्चन्द्रिकमित्यादि । धनं निश्चन्द्रिकमपि शुद्ध १ लोहचूर्ण पश्चादविडङ्ग ख. ग.। २ "या" इति न पठनीयम । सं०।३ सयाज्य ग.।
रसहृदयं तन्त्रम् । चन्द्रिकारहितमपि निदोषं विडङ्गत्रिफलाज्यमधुसमायुक्तं कृमिघ्न- हरीतकीविभीतकामलकघृतक्षौमिलितं, प्रतिदिवसं प्रतिदिनं, एक- पलप्रमाणं सर्व भुक्त्वा विधिना शुद्धशरीरविधानेन क्षीराशनो भवेत् क्षीरेण सह शाल्योदनाशनं समाचरदित्यर्थः ।। २२ ।। त्रिकटुकविडङ्गत्रिफलामाक्षिकशिलाजतुयुतं व्योम् । क्षीरोदनमश्नीयाजीवति जन्तुः शतं वर्षम् ।। २३ ।। तञ्चाह-त्रिकटुकेत्यादि । व्योम अभ्रक, त्रिकटुकविडङ्गत्रिफला- माक्षिकशिलाजतुयुनं पिप्पलीमरिचनागरहरीतकीविभीतकामलक- क्षौद्रशिलाजतुमिलितं, अश्नीयाद्भक्षयेत् । पुनः क्षीरोदनं पथ्यमश्नी- यात्। एवं कृते सति जन्नुः शतं वर्षे जीवति 'जन्तुजन्युशरीरिणः" इत्यमर.। इति पत्राभ्रकप्रक्रिया ॥ २३ ॥ इत्येवमादयोऽन्ये काजि कयुक्ताश्च कीर्तिता बहुशः। पत्राभ्रकप्रयोगा वज्या नियुक्तिकास्ते हि ।। २४ ।। अभ्रकस्योत्तरोत्तरं दर्शयन्नाह-इतीत्यादि । इत्येवमादयः इति पूर्वोक्ता योगा आदयो येषां ते; अन्ये कालिकयुक्ताश्च काञ्जिकनार- नालेन युक्ताः योगीकृताः ग्रन्थान्तरे रसावतारादौ बहुशः कीर्तिताः कथिताः, ते पत्राभ्रकयोगाः नियुक्तिकाः निर्युक्ते भवा इक्प्रत्यया- न्तास्ते वाः सेवनेऽयोग्या इत्यर्थः ॥ २४ ॥ ये पत्राभ्रकयोगा रसायनार्थ कीर्तिता विधिना । अज्ञातद्रव्यगुणस्तरुपदिष्टो जरामृत्युः ॥२५॥ अविधिना पत्राभ्रकयोगो विकारायेत्यत आह-य इत्यादि । ये अज्ञातद्रव्यगुणैः अज्ञाता द्रव्याणां अभ्रादिनां गुणा यैस्तैरेवंविधैः पुमिः, विविना सामान्यविधानेन, पत्राभ्रकयोगाः रसायनार्थ कीर्ति- तास्तैरेव जरा मृत्युश्च उपदिष्टः जरा पालित्य, मृत्युाधिः ॥ २५ ॥ अप्राप्तलोकभावं(?) धनोऽस्य जठराग्निमुपशमं नयति । १ त्रिकटु वि० इति पठनीयम् । सं० । २ "प्रकीर्तिता" इति पठ- नीयम् । सं० । ३ अप्राप्तलोपभावं इति पठनीयम् । सं० । * रसरत्नसमुच्चयेऽपि- यैरुक्तं युक्तिनिर्मक्तः पत्राभ्रकरसायनम् । तैर्देिएं कालकूटाख्यं विषं जीवनहेतवे ॥
१६० रसहृदयं तन्त्रम्। अयि विनापि नश्यति परिभूतो विविधरोगगणैः ॥ २६ ॥ जरामृत्योरुपदेशे हेतुमाह-अप्राप्तेत्यादि । अप्राप्तलोकभावं (१) यथा स्यात्तथा अस्य कर्तुः घनः । जठराग्निं विनापि पुमान् नश्यति नाश प्राप्नोति । किंभूतः सन् ? विवियरोगगणैः नानारोगसमूहै:, परिभूतो विजितः सन् , इति वाक्यार्थः । (कोष्ठे स्थितमपि धनपट- लमध्येऽपि अभ्रेऽभ्रसत्वं स्थितं तदाह अभ्रसत्वं घनसारं घनपटले स्थितमपि निजकार्य स्वकीयकृत्यं तथा न कुरुते, वैह्निरग्निः । काष्ठे दारुणि स्थितः सन् निजकार्य न कुरुते तु पुनः यथा घृतं पयसि दुग्धे स्थितं सत् खकार्य न कुरुते चाग्रहिरिव धनस्थमिव मध्ये स्थित कार्य कुरुतेऽतिनिःसृतं सत् पृथग्भूत सत् निजकार्यं कुरुत इति भाव.* ?) ॥ २६॥ अभ्रस्य रसायनिनां भक्ष्यमिह कीर्तितं परं सत्त्वम् । त्रिविधं गगनमभक्ष्य काचः किट्ट च पत्ररजः ॥२७॥ भन्याभक्ष्यमभ्रमाह-अभ्रस्येत्यादि । अभ्रकसत्वमिह क्षेत्रीकरणे रसायनिनां जराव्याधिविनाशेच्छूनां, परमत्कृष्टं भच्यं अशनयोग्यं कीर्तितम् । पुनत्रिविधं त्रिप्रकारं, गगनमभ्रं, अभच्यं अभोज्यम् । किं तत् ? काचः काचरूपं, कि मलरूपं, पत्ररजः सामान्याभ्रचूर्ण चेति त्रिविधमित्यर्थः ॥ २७ ॥ आदौ घनलोहरजस्त्रिफलारसभावनैश्च निघृष्टम् । कुर्वीताञ्जनसदृशं स्थगितवस्त्रेण सूर्यकरैः ।। २८ ।। अधुना घनसत्वलोहसाधनमाह-श्रादावित्यादि । श्रादौ प्रथम, घनलोहरजः धनमभ्रसत्व, लोहरजः कान्तचूर्ण, त्रिफलारसभावनैः हरीतकीविभीतकामलकद्रवपुटनैर्निधृष्टं सत्, अञ्जनसदृशं सौवीराज- नतुल्यं कुर्वीत, कैः कृत्वा ? सूर्यकरैः; केन ? स्थगितवत्रेण आच्छादि- तपटेन, वखेणाच्छाद्य सूर्यकरसन्निधौ धार्यमित्यर्थः ॥ २८॥ २"काष्ठे" इत्यारभ्य "मध्येऽपि" इति पर्यन्तं न दृश्यते ख. ग. । २ यथा वह्निः ख. ग. । ३शस्तम् ग. । ४ कुर्वांत धन स० ख. ग. । ५ स्थगितं व०ख. ग.। अत्र "अभ्रकसत्वं घनपटले स्थितमपिन कुरुते निजं कार्यम् । काण्ठे वह्निः पयसि घृतं वान यथा निजं कार्यम्" इति श्लोकः कल्पनीयः टीकादर्शनात् । ?
- रसहृदयं तन्त्रम् । इत्थं श्लक्ष्णं कृत्वा विविधकान्तलोहचूर्णसमम् । लोहधनं च तदेवं भृङ्गेण च साधयेद्बहुशः ॥ २६ ॥ इत्थमित्यादि । इत्थममुना प्रकारेण, लक्षणं अञ्जनसन्निभं यथा स्यात्तथा धनसत्वकान्तं कृत्वा पुनलाहघन लोहं मुण्डादि, धनं अभ्र- सत्वं, एतदुभयं विविधकान्तलोहचूर्णसमं विविधा नानाजातयः श्रयस्कान्तभेदाः तेषां चूर्ण तत्सम कृत्वा, भृङ्गेण च वहुशोऽनेकवारं साधयेद्धावयेदित्यर्थः ॥२६॥ त्रिफलाघृतमधुमिश्रितममृतमिदं मासस्थितं धान्ये । शस्त्रकटोरिकसंपुटमध्यगतं पूजितं मत्रैः ।। ३० ।। तच्चाह-त्रिफलेत्यादि । तद्धृङ्गराजेन वहुशो भावितं धनसत्व- कान्त, इदममृतं सुधासमै न मृतममृतं, तत् त्रिफलामधुघृतमिश्रित हरीतकीविभीतकामलकघृतक्षौद्रमिलितं, धान्ये कस्यचिदन्नस्यान्तः, मासस्थितं कुर्यात् मासैकपरिमाणं तत्र विधातव्यमिति व्यक्तिः । किंविशिष्टं ? मन्त्रैश्च संपूजितम् । तथा मन्त्रस्तु- "मन्दारमाला- कुलितालकायै कपालमालावितशेखराय । दिव्याम्बरायै च दिगम्बरा- यै च दिगम्बराय नमः शिवायै च नमः शिवाय" इत्यादिभिः ॥ ३० ॥ मासेन तु तदुर्दृत्य ज्ञात्वा बलं तत्प्रयुञ्जीत । कान्तं विनाऽथ गगनं गगनं विना तथा च कान्तम् ॥ ३१ ।। तच्चाह-मासेनेत्यादि । धान्यान्मासेन मासैकपरिमाणेनोद्धृत्य वहिन त्वा, पुनरपि वलं ज्ञात्वा, प्रयुञ्जीत भोक्त्रे दद्यात्. अथ विशेष दर्शयति-कान्तं विना अभ्रकसत्वमेव कृत्वा प्रयुञ्जीत, च पुनर्गगनं विना कान्तं केवल पूर्व विधानेन साधयित्वा प्रयुञ्जीतेत्यर्थः ॥ ३१ ॥ स्थौल्यं पटलं काचं तिमिरार्बुदकर्णनादशुलानि । हन्त्यर्शासि भगन्दरमेहलोहादि पालित्यम् ।। ३२॥ फलमाह-स्थौल्यमित्यादि । स्थौल्यमिति मेदोरोगः,पटलकाचति मिराणि नेत्ररोगाः, अर्बुदं ग्रन्थिविशेषः, कर्णनादः प्रतीतः, शूलमष्ट- विध, एतानि हन्ति, अशीसि गुदजानि, भगन्दरमेहलीहादि भगन्दरः १विधाय का० ख. ग. । २ भावयेद्व० ख. ग.। ३ "तु" इति न पठनीयम् । सं०।४ ततो धृत्य ग्व. । ततोद्धृत्य ग. १५ कान्तं च ख.ग. २१ .
रसहृदयं तन्त्रम् । गुदवणं, मेहः प्रमेहः वीजविकारः, प्लीहा प्लीहरोगः, एते रोगा आदिर्य- स्य तत् हन्ति, पालित्यं जरां च नाशयतीत्यर्थः ॥ ३२॥ एतत्कुर्वन् मतिमान् गोरसमस्तुप्रधानमश्नीयात् । जाङ्गलमुगाज्यपयः शाल्योदनं ब्रह्मचर्येण ॥ ३३ ॥ पथ्यमाह-एतदित्यादि । एतनिष्पन्नौषधभक्षणं कुर्वन् मतिमान पुरुषः गोरसमस्तुप्रधानं गोरसो गोदुग्धं, मस्तु दधिमस्तु, एवंप्रधान- मन्नमश्नीयात् भुञ्जीत । पुनर्जाङ्गलमुद्गाज्यपयोऽश्नीयात् जाङ्गलस्येदं जागलं, स्वल्पाम्बुशाखीदेशः जाङ्गलः, मुद्गः प्रतीतोऽन्नविशेषः, आज्य घृतं, पयो दुग्धं वा सलिलं, यन्मुद्गाज्यपयः तच्चानीयात् । च पुनः शाल्योदनमश्नीयात् । एतत्सर्वं ब्रह्मचर्येण कर्तव्यमित्यर्थः । इति सत्वाभ्रक्रिया ॥ ३३॥ घनसत्वपादजीर्णः कान्तजीणों यत्तीक्ष्णसमजीणः । क्षेत्रीकरणो परमः प्रयुज्यतेऽपि पुनराखोटः ।। ३४ ॥ अथ जीर्णग्सस्याधिक्यं दर्शयन्नाह-घनेत्यादि । घनसत्वं पाद- प्रमाणं जीर्ण यस्मिन् सः । कान्तजीर्ण इति पादप्रमाणकान्तजीर्ण इत्यर्थः । पुनस्तीक्ष्णं समं जीर्णे यस्मिन्नेवंविधो रसः । क्षेत्रीकरण प्रधानं सर्वत्रेत्यर्थः "बद्धो यः खोटतां यातो मातो ध्मातः क्षयं ब्रजेत् । खोटो बन्धः स विज्ञेयः शीघ्रं सर्वगदापहः" इति ग्रन्थान्तरे॥३४ धनसत्वकान्तमूतं मृतहेम शतावरीरसोपेतम् । घृतमधुलीढं वर्षानिहन्ति मृत्यु जरां चैव ॥ ३५ ॥ घनसत्वमभ्रसारः, कान्तं चुम्बकोत्थं, सूतो रसः, एकवद्भावी द्वन्द्वसमासात्, तथा मृतं हेम पञ्चत्वमाप्तं कनकं च, एतच्चतुप्कं शतावरीरलोपेतं शतमूलीद्रवभावितं, पुनघृतमधुलीढं घृतमधुभ्यां लीढं आस्वादितं सत्, वर्षाद्वर्षपरिमाणात्, मृत्युं व्याधि जरांच हन्ति नाशयतीत्यर्थः ॥ ३५ ॥ एषामेकं योग क्षेत्रीकरणार्थमादितः कृत्वा । संवत्सरमयनं वा निःश्रेयससिद्धये योज्यम् ।।३६ ।। १ एतत्कुरीत ख. ग.। २ो तीक्ष्ण ख.। र्णोऽथ तीक्षण ग. ३ एपामप्येकं ख. ग.।
रसहृदयं तन्त्रम् । १६३ - . विशेषमाह एषामित्यादि । एषां पूर्वोक्तानां योगानां मध्ये, श्रा- दित प्रारम्भतः, एकं योगं कृत्वा, निःश्रेयलो मोक्षः तत्सिद्धये निष्पत्तये, संवत्सरं वर्षपरिमाणं, अयतं पण्मासपर्यन्तं, योज्यं 'भोक्षु' इति शेषः । 'मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् इत्यमरः ॥ ३६ ॥ अश्रकसस्य कमाक्षिकरसकदरदविमलवज्रगिरिजतुभिः । वैक्रान्तकान्ततीक्ष्णैर्हाटकतारारतानैश्च ।। ३७ ।। संयुक्तर्यस्तै द्वित्रिचतुर्भिर्यथालाभम् । जीर्णहतो रसेन्द्रो रसायने शस्यते सद्धि ॥ ३८ वहूनिर्दिशन्विशेषमाह-अभ्रकेत्यादि । अभ्रकः प्रसिद्धः सस्य- कश्चपल: साक्षिक ताप्यं, रसकं खपरं, दरदं हिंगुलं, विमलं सित- माक्षिक, वज्रकं हीरकं, गिरिजतु शिलाजतु, एतैः । पुर्नवक्रान्तेत्यादि वैक्रान्तं वज्रभूमिजं रजः, कान्तं लोहजाति, तीक्ष्णं सारः, एतैश्च । हाटकतारारतानैश्च हाटकं हेम, तारं रूप्यं, आरं राजरीतिः, तानं शुल्वं, एतैश्च, एतैरुद्दिष्टैः अभ्रकादिताम्रान्तैः, समस्तैरेकत्रीकृतैः, व्यस्तैर्वा पृथकृतैर्वा, यथालाभं लाभमनतिक्रम्य भवतीति यथालाभ, द्वित्रिचतुर्भिवा अभ्राद्यैर्जीर्णहतो रसेन्द्रो जीर्णाभ्रादीनां हतियस्मिन् स तथोक्तः, रसायने जराव्याधिविनाशने, रसशास्त्रमर्मज्ञैः, शस्यते अभ्रादयः प्रशस्ता उक्ता इत्यर्थः । युग्मम् । "वज्रादिभिर्हतः सूतो हतसूतसमोऽपरः । शृङ्खलावद्धनामा स्याद्देहलोहविधायकः ॥ अस्य प्रभावाद्वेगेन व्याप्तिर्भवति निश्चितम्" इति ग्रन्थान्तरे ॥ ३७-३८ ।। विपनागवङ्गबद्धो भुक्तो हि रमः करोति कुष्ठादीन् । उपरसबद्धे तु रसे स्फुटन्ति भुक्रे तथाङ्गानि ॥ ३९ ॥ कुत्सितविधानं दर्शयन्नाह-विषेत्यादि । विषनागवङ्गवद्धो रसः विपं सक्तुकादिकं, नागः सीसकः, वङ्गं त्रयु, एतैर्वद्धो वन्धनमाप्तः, स भुक्तः सन् , हि निश्चितं, कुष्ठादीन कुप्ठज्यरक्षयादीन् ! उपरसबद्ध रसे उपरसैर्गन्धादिभिः अष्टभिः बद्धो बन्धनमापन्नो योऽसौ रसः तस्मिन् , भुक्ते सति भोक्तरङ्गानि हस्तपादादीनि स्फुटन्ति ॥ ३६॥ घनसत्वकान्तकाञ्चीभास्करतीक्ष्णैश्च चीर्णजीर्णस्य । १ “कान्त" इति ग. पुस्तके नास्ति । २ जीर्णा हन्ति ग. जीर्णाहतो तथा जीहतो इति पाठान्नरट्यम् । ३ सिद्धिः ख. ग. ।
? रसहृदयं तन्त्रम्। सूतस्य गुञ्जामात्रा माषकमेकं परा मात्रा ॥४०॥ जीर्णरसस्य मात्रामाह-धनेत्यादि । एतैश्चीर्णजोर्ण पूर्व चीर्ण कवलितं पश्चाजीण जारणमापन्नं तस्य सूतस्य गुञ्जा मात्रा भक्षणाय, गुञ्जा यथा,-"षट्सपैयवस्त्वेको गुञ्जका तु यवैत्रिभिः" इति । परा अन्या मात्रा अन्यजर्णिसूतस्य मात्रामाषमेकं;माषको यथा,-"गुञ्जा- भिदर्शभिः प्राक्तो माषको ब्रह्मणा पुरा-" इति । एतैः कैः घनसत्त्व- कान्तकाञ्चीभास्करतीक्ष्णैः अभ्रकसत्वचुम्बकताप्यताम्रसारैरिति॥४०॥ शतवेधिनो हि' गुञ्जा तथा सहस्रकवेधिनो गुञ्जा । अर्धा च लक्षवेधिनः सिद्धार्थः कोटिवेधिनः सूतात् ॥४१॥ अथ वेर्धेविशेषेण परिमाणमाह-शतेत्यादि । शतवेधिनः सूतस्य गुञ्जाप्रमाणा मात्रा शेया, तथा तेन प्रकारण सहनैकवधिनः सूतस्यापि गुञ्जामानमेव, लक्षवेधिनः सूतात् अर्धा रक्तिका, पुनः कोटिवेधिनः सूतात् सिद्धार्थः सर्वपमाना। शतांशेन वेधो विद्यते यस्मिन् स शत- वेधी, तस्य शतवेधिनः । एवं सर्वत्र ज्ञयम् ॥ ४ ॥ हेमनियोजितसूतं कान्तमणि विविधगुटिकाश्च । जपहोमदेवतार्चननिरतः पुमानिति धारयेत् ।। ४२ ॥ जपः अघोरादिजप, होमस्तदशाशेन हवन, देवतार्चन देवतानां गणेशविष्णुरविशिषचण्डीनां अर्चनं, एतेषु निरतो सक्त', एवंविधः पुमान् । इति किं ? हेमनियोजितसूतं धारयेत् हेना सह नियोजितो मिश्रितो य' सूतः तं, कान्तमणिः कान्तश्चासौ मणिश्च, वा कान्तमणिः कान्तसंक्षको मणि, च पुनः विविधगुटिकाः विविधाश्च ता गुटिका- श्चेति ॥४२॥ शालेस्तु पिष्टकोद्भवभोजनमाज्यं च मुद्गमांपरसैः । यवगोधूमानानि च गोदीरं मस्तु च विशेषात् ॥ ४३ ॥ १ ख. ग. पुस्तके नास्ति । २०कवेधतो ग.। ३ वेविनि ग. । ४ वेधविशेषपरिमाणज्ञानम् ग. । ५ ०मणिविबद्ध गु० ग. । ६सन्धारयेत् न. ग.। ७ पिष्टिको० ख.1 ८०धूमान्तानि ख. ग. । आयुर्वेदप्रकाशे तु-घनसत्त्वकान्तकाञ्चीशङ्करतीक्ष्णाभ्रादि- जीर्णस्य । सूतस्य गुञ्जवृद्धया मापकमात्रं परा मात्रा। इति पाठान्तर- मुपलभ्यते। रिसरत्नसमुच्चयेऽपि-भुजीत शालिगोधूमयवषष्टिक- जालम् । मुद्यूषं गवां क्षीरं मस्तु मायात्सुखाम्बुना ॥ * रसहृदयं तन्त्रम् । १६५ अथ पथ्यानाह-शालेरित्यादि । शालेः षटिकादेः, पिएकोद्भव- भोजनं पिष्टकोत्पन्नं च तद्भोजनं चेति । आज्यं घृतम् । कैः सह ? मुद्गमांसरसैः सह मुगाः प्रतीताः, अत्र विशेषात् मांसानि भोज्यानि, गोक्षीरं च भोज्यं, पुनमस्तु गोरससंभवं विशेषात् भोज्यम् ॥ ४३ ॥ पाने जलमक्षारं मधुराणि यानि कानि शस्तानि । पेयं चातुर्जातककर्पूरामोदमुदितमुखम्* ।। ४४ ॥ पाने अक्षारं जलं मिटजलं प्रयोज्यं; पुनः यानि कानि मिष्टानि द्रव्याणि अत्रानुक्लतमानि, प्रशस्तानि श्रेष्ठानि पुनः चतुर्जातककर्पूरा- मोदमुदितमुखं यथा स्यात्तथा द्रव्यं पेयं पातव्यं, चतुर्जातकं त्वक्पत्रै- लानागकेसरं, कर्पूरं धनसारं, एपामामोदेन परिमलेन मुदितं यन्मुख वासितमुखमित्यर्थः । “युवत्या जल्पनं कार्य युवत्या चाङ्गमर्दनम् ॥ तस्याः स्पर्शनमात्रेण देहे क्रमति सूतक."-इति विशेषो ग्रन्थान्त- रात् ॥४४॥ मद्यारनालपानं तैलं दधि वा रसे नेष्टम् । कटुतैलेनाभ्यङ्गं वपुषि न कुर्याद्रसायने मतिमान्। ॥ १५ ॥ अपथ्यान्याह-मद्येत्यादि। मद्यारनालेत्यादि मद्यं सुरा, पारनालं कालिकं, तयोः पानं; नेष्टं न प्रशस्तं; वा तैलं दवि च नेष्टं तैलं तिलो- द्भव, दधि दुग्यविकारः, एतयोरपि पानं न प्रशस्तं; कटुतैलेन सर्ष- पतैलेन वपुषि अभ्यङ्गं मर्दनं न कुर्यात् । मतिमान् रसायने अविकरणे इत्यर्थः ॥ ४५॥ दग्धमपक्कममधुरमुष्णं वीरं न नष्टमांस तु । पर्युषितं फलमूलं भक्ष्यं नैवात्र निर्दिष्टम् ।। ४६ ।। दग्धं द्रव्यं रसायने नेटः अपक्कं च नेष्ट, अमधुरं कटुतिलकपाया- म्ललवणं च नेट, उष्णं वह्नितप्तमिति; तु पुनः नष्टमांसं निन्दितमांसं नेप्प्रं. पुनः पर्युपितं संघानीकृतं एवंविधं फलमूलं फलं मूलं च, अत्र रसायने भच्य न निर्दिष्टं कथितं "कृप्माण्डं कर्कटी चैव कलिङ्गं * रसरलसमुञ्चयेऽप्युक्तं-घनसारचतुर्जातककोलकटुकीफलम् । दलं ताम्बूलवल्लीनां रसस्याक्रमणं परम् । इति । 1 अन्यत्रापि-अभ्यंगं कटुतैलेन फाजीलं सुगं दधि । शोक- बानातपक्रोधचिन्तां च परिवर्जयेत् ॥
१६६ रसहृदयं तन्त्रम् । कारवेल्लकम् । कुसुम्भिका च कोटी कदली काकमाचिका । कका- राष्टकमेतद्धि वर्जयेद्रसभक्षकः-" इति ग्रन्थान्तरे ॥ ४६ ॥ अथ लड्धन न कार्य यामाधो भोजनं नैव । इत्यपनीय निषिद्धं रसराजे धीमता कार्यम् ॥४७॥ अस्मिन् रसायने लंधनं न कार्य, पुनर्यामावः प्रहरमध्ये भोजनं न कार्यमित्यर्थः ॥४७॥ वर्जितचिन्ताकोपः कुर्याच्च सुखाम्बुना स्नानम् । नोच्चाटयेद्हज्वरराक्षसभूतानि मातृदेवींश्च ।। ४८ ॥ तच्चाह-वर्जितेत्यादि । वर्जितचिन्ताकोप इति चिन्ता च कोप- श्चेति चिन्ताकोपौ तौ वर्जितौ येन सः, एवं विधः सन् सुखाम्बुना सुखोष्णाम्बुना, स्नानं कुर्यात् । प्रहराक्षसभूतानि नोच्चाटयेत् ग्रहणाद- ग्रहाः पिशाचादयः, ज्वरो रोगराजः, राक्षसाः कन्यादाः, भूतानि देवयोनयः, एतानि नोच्चाटयेत् स्वस्थानात् न चालयेत् । पुनर्मात- देवीश्च मातरः सप्तमातरः, देव्यो दक्षिण्यादयः, ता अपि नोच्चा- टयेत् ॥४८॥ परमे ब्रह्मणि लीनः प्रशान्तचित्तः समत्वमापन्नः। आश्वासयन् त्रिवर्ग विजित्य रसानन्दपरितृप्तः ।। ४६ ।। चिन्ताकोपनिरोधे हेतुमाह-परमे इत्यादि । रसायनकर्ता परमे ब्रह्मणि चित्स्वरूपे, लीनः तन्मयतां प्राप्तो भवेत्, प्रशान्तचित्तश्च विष- येभ्यो निवृत्तमना भवेत्, समत्वमापन्नः स्वसुते शत्रौ च निर्वैरं यथा स्यात्तथा, त्रिवर्ग धर्मार्थकामरूपं विजित्य रसानन्दपरितृप्तो भवेत् हर्षपरिपूरित इत्यर्थः ॥ ४६ ॥ यस्त्यक्त्वा शास्त्रविधि प्रवर्तते म्वच्छया रसे मूढः । तस्य विरुद्धाचारादजीर्णमुत्पद्यते नितराम् ॥ ५० ॥ विधेर्नियतत्वं दर्शयनाह-य इत्यादि । यः पुमान् शास्त्रविधि त्यक्त्वा, खेच्छया उच्छृखलमनसा, रसे सूते, प्रवर्तते स मूढः ज्ञान- शुन्यः, तस्य पुंसः विरुद्धाचारात् नितरामतिशयेन अजीर्णमुत्पद्यते तहसाामिति ॥ ५० ॥ १ कार्ये ग ।
. रसहृदयं तन्त्रम् । १६७ संभवतीहाजीणे निद्राऽऽलस्यं ज्वरस्तमो दाहः। नाभितलशूलमल्पं जडताऽरुचिरङ्गभङ्गश्च ॥ ५१॥ रसाजीर्णलक्षणमाह-संभवतीत्यादि । इह रसायने अजीर्णं यदा संभवति उत्पद्यते तदा एतानि लक्षणानि स्युः । निद्रा अतिशयेन निद्रा, बालस्य अङ्गशैथिल्यं, ज्वरः प्रसिद्धः, तमो मूर्छा, दाह ऊष्मा, पुनर्नाभितले वस्ती अल्पमल्पं शूलं, जडताऽऽस्यस्य, अरुचिः निर- भेलाषिता, भङ्गोऽङ्गस्य अङ्गमर्दनं, भोक्तुरेतानि लक्षणानि रसाजीणे युरित्यर्थः ॥ ५१ ॥ ज्ञात्वेत्येवमजीर्णमस्य प्रच्छादनाय योगोऽयम् । कार्यों दिवसत्रितयं संत्यज्य रमायनं सुधिया ॥५२॥ अजीर्णेऽप्युपायमाह--ज्ञात्वेत्यादि । इत्येवमुक्तप्रकारेण निद्रादि- लक्षणेनाजीर्ण ज्ञात्वा धीमतापुंसाअस्याजीर्णस्य प्रच्छादनाय विनाशाय रसायनं संत्यज्य दिवसत्रितयं योगः कार्यः ॥ ५२ ॥ किर्कोटीमूलरसं कषायमथ सिन्धुना पिवेत्रिदिनम् । सौचवर्चलसहितं वा गोजलसहितं रसोजीणे ॥ ५३॥ अन्यच्चाय-कर्कोटीत्यादि । कर्कोटीमूलरसं कर्कोटी या वल्ली तस्याः मूलरसं त्रिदिनं पिबेत् वाऽथ कषाय, कथं ? सिन्धुना सैन्ध- वेन सहितं पिवेत्, वा तत्त्वार्थ गोजलसहितं गोमूत्रमिलितं रसाजीणे पिबेत्' सौवर्चलसहितमिति सौवर्चलस्य प्रतिवाप कर्कोटीरसे निक्षि- प्य पिबेत्; त्रिदिनम् सर्वत्रेत्यर्थः ॥ ५३ ।। पिष्ट्वाऽथ मातुलुङ्गी पिबति रसं शुण्ठिसैन्धवं प्रातः । कथितं गोसलिलेन तु रक्षति सम्यक् रसाजीर्णम् ॥ ५४ ॥ १ सम्भवति यदाजीर्ण ख.ग.। २ दाहं ग.। ३० तले शू० ख.ग. । ४ ज्ञात्ववेम० ख. ग. । ५ रसं जीर्ण ग.। ६ ख.ग. पुस्तके न पठ्यते । रसरत्नसमुच्चयेऽप्युक्तं-सेवयापरिहार्याणां रसस्याजरणा भवेत् । शलो नाभितले जाड्यं निद्रालस्यं ज्वरस्तमः । अङ्गभंगोऽरुचिर्दाहः * . . पिवेत्तत्र दिनत्रयम् । सौवर्चलं सगोमूत्रं कर्कोटीमूल- वारिणा ॥ २० र० समुच्चये । आयुर्वेदप्रकाशेऽपि-सिन्धुकर्कोटिगो- सूत्रं कारवेल्लीरसमुतम् । सौवर्चलसमायुक्तं रसाजीणे पिवेन्नरः ॥ # मातुलुङ्गस्य वाम्लेन माणिमन्थं सनागरम्। इति रसरत्नसमुच्चये। * ।
१६८ रसहृदयं तन्त्रम्। अन्यच्चाह-पिष्टवेत्यादि । मातुलुङ्गस्येयं जटा मातुलुङ्गी तां पिष्टवा तस्या रसं शुण्ठी सैन्धवं च यः पुमान् प्रातः पिवति, तु पुनः कथितं तस्याः कषायं गोसलिलेन यः पिबति रसाजीणे, तं पुरुपं रक्षति न विनाशयतीत्यर्थः ॥ ५४॥ कथमपि यच्चाज्ञानात् नागादिकलङ्कितो रसो भुक्तः । तन्नोदनाय च पिवेत् गोजलकटुकारवल्लिशिफाः ॥ ५५ ॥ नागादियुक्तरसमुक्तोपायमाह-कथमपीत्यादि । च पुनः, यत् यस्मात्, नागादिकलङ्कितो रसः नागवङ्गसहितो रसोऽज्ञानात्कथमपि भुक्तः, तन्नोदनाय तस्य नागवङ्गाङ्कितरसस्य नोदनाय गोजलकटुकार- वल्लिशिफाः गोजलं गोमूत्रं, कह तिक्ता, कारवल्लीशिफा कारवल्लील- तायाः शिफा जटा, एतदोष, पिबेत्, तेन नागवंगादिदोपो विनश्यति ॥ ५५॥ शरपुङ्खासुरदालीपटोलबिम्बीश्च काकमाची च । एकतमा चेदुदिता भृतामजीणे हि सेवेत * ॥५६॥ तच्चाह-शरपुवेत्यादि । श्रासां औषधीनां मध्ये एकतमा या उदिता कथिता, शुता कथिता तां, हि निश्चितं, अजीणे सेवेत तेन अजीर्ण नश्यतीति भावः । ताः का औषध्यः ? शरपुङ्खा प्रसिद्धा, सुरदाली देवदाली, पटोलं प्रतीतं नाम, विम्वी गोला, काकमाची प्रसिद्धा, एता इत्यर्थः ॥ ५६ ॥ अत्यम्ललवणकटुकै रससंस्रावो जरो भवति । अतिमधुरैश्च विनश्यति जाठरवह्निः सततमुक्तश्च ।। ५७ ॥ । १ नागादिकिट्टरस० ग. विम्वश्च ग. | ३ चेन्निहिता मृता जी० ख. ग.। ४ लवणात्यम्लकटुकै ख. ग. । कटु इत्यत्र पटु इति जयदेवः तन्त्रान्तरसंवादात् । उक्तं च- नागवंगयुतः सूतः प्रमादाद्भक्षितो यदि । सैन्धवं कारवेल्लस्य कन्दं भूत्रैः पिवेगवाम् ॥ सैन्धवं पटुरिति । अन्यत्राप्युक्तं-शरपुद्ध सुरदाली पटोलवीजं च काकमाची च । एपामेकतमं कथितमजीणे रसायने तु पिवेत् ॥
. रसहृदयं तन्त्रम् । १६६ तच्चाह-अत्यम्लेत्यादि । अत्यम्लं चुकादि, अतिलवणं क्षारादि, अतिकटुक निम्बकटुकीत्यादि, एतैः रससंनावो जये जीर्णकरो भवति, जरतीति जरः । पुनरपि मधुरैः इतुरंसादिभिः सततभुक्तैः जठरवह्निः कोठाग्निः विनश्यति अग्न्याश्रयो विनश्यतीत्यभिप्रायः॥५७॥ यः पुनरेवं सततं करोति मूढः समाहारम् । तस्य विनश्यत्यगिर्न खलु कामति रसो भवेद्वघाधिः ॥५॥ तद्विशेषमाह य इत्यादि । यः पुनर्मूढो मूर्खः, अजीर्णानन्तरं अत्यम्ललवणकटुकाहारं सततं निरन्तरं करोति, तस्याग्निः कोठानि- विनश्यति, रसश्च न कामति स्वगुणान्न प्रकाशयति । तर्हि किं भवे- दित्याह-व्याधिर्भवेदित्यर्थः ॥ ५८ ॥ यस्तु महानिसहत्वाद्रसाच्छतेसहस्रलक्षवेधीशः । अनया क्रियया सिद्ध्यति स यत्नाद्रसक्रियायोगात् ॥५६॥ रसाच्छतसहस्रलक्षवेधी भवेत् स यत्नात् अनया पूर्वोक्तक्रियया सिद्धयति ॥ ५६ ॥ शतसहस्रलक्षवेधी कोटिरथाबुंदनिर्बुदं वापि । पिष्टं भुञ्जीत रेस बलिसहितं सिद्धिदो भवति ।। ६० ॥ श्रथोत्तरविधानेन लक्षणमाह-शतेत्यादि । शतसहस्रलक्षवेधी रसः । बलिसहितं पिष्टं रसं भुञ्जीत, बलिना गन्धकेन सहितम् । शतादारभ्य सहस्रलक्षकोट्यधुंदनिर्बुदानां क्रमेण दशगुणोत्तर संख्या ज्ञातव्या । एवं कृतः सन् रसः सिद्धिदो यथोक्तगुणकद्भवतीत्यर्थः ॥६०॥ कामति ततो हि सूतो जनयति पुत्रांश्च देवगर्भाभान् । स्त्रीषु च निश्चलकामो भवति वलीपलितनिर्मुकः ॥६१ ॥ पूर्वविधानं प्रशंसयत्राह--क्रामतीत्यादि । ततः पूर्वविधानतः १ "खलु" इति ख. पुस्तके नास्ति । “न खलु" इति ग. पुस्तके नास्ति । २ "०द्रसात्सहस्रलक्षकोटिवेधीशः'' इति पाठान्तरम् ख. ग.। ३ ख. ग. पुस्तके नास्ति । ४ पिष्टो ग. । ५ रसोग.। ६ अस्मा- च्छलोकादनन्तरं एकोऽन्यः श्लोकः पश्यते । तत्पाठो यथा-आदी सूतं विधिना क्षेत्रीकरणानन्तरं विधानेन । अल्पवेधकृत्प्रयुज्यते पश्चात् क्रमेण बहुतरवेधी प्रयुज्येत ॥६१ ॥ टी० तद्विशेषमाह । ख. ग.। ७ तथा ख. ग.।८ प्रदर्शयन्नाह ग.।
? १७० रसहृदयं तन्त्रम्। सूतः कामति स्वगुणान् प्रकाशयति, सूते कामति सति देवगर्भाभान् पुत्रान् जनयति देवगर्भवत् आभा कान्तियेगां ते तान्, पुनः स्त्रीषु निश्चलः सदास्थायी कामो रत्यभिलाषो वा मदनो यस्य स तथोक्तः, पुनर्वलीपलितनिर्मुक्तः वलयश्च पलितानि च तैनिर्मुक्तो विवर्जितः, 'वलिश्चर्म जराकृतं' इत्यमरः, पलितं केशवतत्वं, एवंविधो भवति 'पुमान्' इति शेपः ॥ ६१ ॥ बुद्धिर्बलं प्रभावः संह चायुषा वर्धते रसायनिनः । प्राप्तस्य दिव्यचुद्धिं दिव्याच गुणाः प्रवर्धन्ते ।। ६२ ।। पुनः किं स्यादित्याह-वुद्धिरित्यादि । रसायनिनः रसायनं प्राप्तस्य हि पुंसः, बुद्धिवर्धते, बलं च वर्धते, केन सह ? आयुषा जीवितका- तेन सह, पुनर्दिव्यबुद्धि प्राप्तस्य रसायनिनः दिव्याः प्रकरणाद् गुणा मेधादयः प्रवर्धन्ते प्रकाशन्त इत्यर्थः ॥ ६२ ॥ एवं रससंसिद्धो दुःखजरामरणवर्जितो गुणवान् । खेगमनेन च नित्यं संचरते सकलभुवनेषु ॥ ६३ ।। तच्चाह-एवमित्यादि । एवममुना प्रकारेण, रससंसिद्धः पुरुषः रसः पारदः, संसिद्धः सम्यक् सिद्धो यस्य वा रसेन ससिद्धः, जरामर- णवर्जितो भवति वृद्धत्वव्याधिरहित इत्यर्थः । गुणवांश्च भवति, गुणा मेधादयः । पुनः खेगमनेन आकाशगमनेन नित्यं सकलभुवनेषु समस्त- लोकेषु संचरते इत्यर्थः ॥ ६३ ॥ दाता भुवनत्रितये स्रष्टा सोऽपीह पायोनिरिव । भर्ता विष्णुरिव स्यात्संह- रुद्रवद्भवति ॥६४ ॥ दाता भुवनत्रितये वर्गमृत्युपाताले भवति सर्वाधिक इत्यभिप्रायः। सोऽपि पुमान् इह भुवनत्रितये वर्गमृत्युपाताले स्रष्टा सर्जको भवति। क इव ? पायोनिरिव ब्रह्मेव । पुनः भर्ता पालनार्थ त्रिकस्य विष्णुरिव च भवति । पुनः संहर्ता रुद्रवत् भवति । सृष्टिस्थितिविनाशेषु ब्रह्मा- दीनां त्रयीव स्यादित्यर्थः ॥ ६४ ॥ इदानीं गुटिका वच्ये। कान्ताभ्रसवहेमतारं चौकः समांशत: संख्या । सहायुपा ख. ग.१२ खगमनेन ग. । ३रसं च ततसकल० ग. । ४दित्यर्थः । इति जीर्णरसक्रिया ख. ग. । ५ चाकशितः सं० ख.ग. ।
रसहृदयं तन्त्रम् । - . बद्धं सूतसमांशं ध्मातं गोलं कृतं खोटम् ॥ ६५ ॥ बाह्ये रसेन लिप्तं वदनगतं शस्त्रवारकं रोगान् । हन्ति हि शरीरसंस्थान नाम्नाऽमरसुन्दरी गुटिका ॥ ६६ ।। युग्मम् । अमरसुन्दरीगुटिकाविधानं गुणांश्चाह-कान्तेत्यादि । कान्तं चुम्वकं, अभ्रं अभ्रकसत्त्वं प्रतीतं, हेम कनकं, तारं च तत् एकवद्भा- वो द्वन्द्वत्वात्, पुनरर्कः ताम्र, एषां कान्तादीनां संख्या गणना समां- शतः समभागतो ज्ञेया। पुनः सूतसमांशं पारदेन तुल्यभागं ध्मातं कुर्यात् , 'अन्धमूषायां' इति शेषः । किंकृतं सत् ? वाह्ये बद्धगोलोपरि रसेन मारणायामुक्तद्रवेण लितं सत् ध्मातं कुर्यात् । इत्थं कृतं खोटं पिष्टिस्तम्भः गोलाकार भवति । तत् वदनगतं मुखान्तःस्थित, शस्त्र- वारकं स्यात् अस्मिंश्च वदनं गते सति शरीरे खड़ादीनां प्रहारो न लगति । गुटिरियं नाना अभिवानेन अमरसुन्दरीगुटिका ज्ञेया । इयं शरीरस्था मुखे अन्यस्थले वा स्थिता सती शरीरस्थान् रोगान् हन्ति विनाशयति । अनुक्तमपि मानं पञ्चनिष्कप्रमाणं शेयमित्यर्थः । इत्यमर- सुन्दरी गुटिका । "हेनी वा रजतन वापि सहितो मातोव्रजत्येकता- मक्षीणो निबिडो गुडश्च गुटिकाः करोति दी|ज्ज्वलाः। चूर्ण तत्प वत्प्रयाति विहितं घृष्टो न मुश्चन्मलं निर्गन्धो द्रवति क्षणात्स हि मतो वद्धाभिधानो रस:-" इति ग्रन्थान्तरे ॥६५॥ ६६ ॥ यः पूर्वोक्तः सूतो लक्षाधं च वेधते लोहान् । बंद्धे सारणयोगैर्मुखस्थे च जारयेद्रत्नम् ।। ६७ ॥ युक्तः समांशनागैः सुरलोहायस्कान्तताप्यसत्यैश्च । अभ्रकसत्वसमेता गुटिका मृतसंजीवनी नाम ।। ६८॥ हेमयुता गुलुच्छके मुकुटे वा कण्ठमूत्रकणे वा। मृत्युभयशोकरोगविषशस्त्रजरांसततदुःखसंघातम् ॥६६॥ यस्याङ्गे निहितेयं गुटिका मृतजीवनी नाम | १ कृतखोटपिष्टिस्त गोल गोलाकारं वदन० ख.ग।२ वदनगते ख.ग। ३ गटिकाकारोऽतिदीर्घोज्ज्वला ग. । ४ वद्ध रसायनयोगैर्मुखस्थे जारयेद् दृढं नूनम् । इति ग. पुस्तकस्थः पाठः । ५ गच्छलके ख.ग.। ६ भय इति ग. पुस्तके नास्ति। ७ रोगं ग.।
१७२ रसहृदयं तन्त्रम् । सोऽसुरयक्षकिनारपूज्यतमः सिद्धयोगीन्द्रैः ॥ ७० ॥ प्रक्षाल्य तोयमध्ये गुटिका घटिकाद्वयं ततः क्षिप्ता । तेच्चयं वदनगता मृतकस्योत्थापनं कुरुते ॥ ७१ ॥ तोयं तदेव पिचति स्वस्थ पथ्यान्वितस्ततः पुरुषः । लभते दिव्यं स वपुसृत्युजरावर्जितः सुदृढम् ।। ७२ ॥ मृतसंजीवनीगटिकाविधानं गुणांश्चाह-य इत्यादि । यः पूर्वोक्तो सूतो लक्षादूर्ध्व कोट्यर्बुदादि, लोहान् रूप्यादीन् वेधते तस्मिन्बद्धे सूते, मुखस्थे प्रकाशमुखयन्त्र स्थापिते, सारणयोगै. सारणतैलादिमि', रत्नं वज्रादिक, जारयेत् । पुनः समांशनागैस्तुल्यांशसीसकैः सूतो युक्त' कार्यः, सुरलोहायस्कान्तताप्यसत्यैश्च युक्तः कार्य: सुरलोहं कनकं, अयस्कान्तः कान्तलोह, ताप्यसत्त्वं माक्षिक- सारं, एतैः अभ्रकसत्त्वसमेता सती मृतसंजीवनी नाम गुटिका भवति । पुनस्तत्र भूषायामियं हेमयुता कार्या । पुनरियं गुटिका नित्यं यस्य गुलुच्छके निहिता भवति, वा मुकुटे किरीटे वा कण्ठसूत्रकणे कण्ठसूत्रं च कर्णश्च कण्ठसूत्रकर्ण तस्मिन्, वा अङ्गे हस्तपादादी, तस्य मृत्युभयशोकरोगशस्त्रजरासततदुखसंघातं 'नश्यति' इत्यध्या- हारः । एतेषु स्थानेपु यस्येयं निहिता स्थापिता भवति स असुरयक्ष- किन्नरपूज्यतमः असुरा दैत्याः, यक्षा देवयोनयः, किन्नरा. तुरंगवस्त्रा, तेषां पूज्यतमो भवति अतिशयेन पूज्यः पूज्यतमः । सिद्धयोगीन्द्रैः पूज्यतमः सिद्धा देवविशेषा', योगीन्द्राः नागार्जुनादयः । ततोनन्तरं मृतसंजीवनी जलमध्ये क्षिप्त्वा प्रक्षाल्य घटिकाद्वयं वदनगता सती मृतकस्य पुरुषस्योत्थापनं प्रबोधनं कुरुते, यः पुमान् पुरुषः तदेव तोयं गुटिकाक्षालन, स्वच्छं निर्मलं, पिवति, किविशिष्टः ? पथ्यान्वितो हितावहद्रव्यभक्षणयुक्त', स पुरुषो दिव्यं वपुः देवशरीरं लभते, किं विशिष्टं दिव्यं पुनः ? मृत्युजरावर्जितं व्याधिपालित्यरहितं, पुनः सुदृढं वज्रवत् । गुटिकापरिमाणं पाकविधानं च पूर्ववदित्यर्थः ॥६॥ ६८ ॥ ६ ॥ ७२ ॥ ७१ ॥ ७२ ॥ इति मृतसंजीवनीगुटिका। , १०सुरकिन्नरयक्ष पू० ख. ग. । २ सिद्धयोगेन्द्रैः ग. । ३ तञ्चैवं ख. ग । ४ गुलच्छके ख ग.। ५-६ योगे०। ७ इयं गुटिका किन्नाम ततोग.।
रसहृदयं तन्त्रम्। १७३ कानधनसंचकमेलं हेम च तारं यथा कृतद्वन्द्वम् । समजीर्ण बीजवरं वज्रयुतं वज्रिणी गुटिका ॥ ७३ ॥ एषा मुखकुहरगता कुरुते नवनागतुल्यवलम् । तद्वपुरपि दुर्भेद्यं मृत्युजरारोगनिर्मुक्तम् ।। ७४ ।। वज्रिणीगुटिकाविधानं गुणांश्चाह-कान्तेत्यादि । कान्तं च धनं च श्रनयोः सत्वं कान्तधनसत्त्वं, कान्तसत्त्वं चुवकसत्त्वं, धनसत्वं अभ्रकसारं, कमलं चेति कमलं तानं, च पुनहम स्वर्ण, तारं च रूप्यं, पूर्ववत् यथा येन विधानेन कृतद्वन्द्वं कृतं च तत् द्वन्द्वं चेति वीजवरं समजीर्ण कार्य; किंविशिष्टं बीजवरं ? वज्रयुतं हीरकयुतम् । इयं गुटिका नामतो वज्रिणी; पुनरेषा वत्रिणीगुटिका मुखकुहरगता सती मुखान्तःप्राप्ता सती नवनागतुल्यवलं नवसंख्याका नागाः हस्तिन- स्तैस्तुल्यं तत्समं यदलं तत्कुरुते; तद्वपुस्तस्य मुखे गुटिकाधारिणो वपुः शरीरं दुर्भेद्यं दुःखेन भतुं शक्यं, पुनर्मृत्युजराव्याधिभिनिर्मुक्त मित्यर्थः ॥ ७३ ॥ ७४॥ इति वज्रिणी गुटिका । धूमावलोकितरसे पञ्चमहारत्नजारिते सरिते । बीजेन गगनसचे माक्षिककान्तप्रयुक्तन ।। ७५ ।। ख चरसंज्ञा गुटिका पतति मुखे विप्तमात्रेण । देवासुरसिद्धगणैः पूज्यतमो भवति चेन्द्राद्यैः ॥७६ ।। खेचरीगुटिकाविधानं गुणांचाह-धूमेत्यादि । धूमावलोकिते धूमवेधिनि, रसे सूते, पञ्चमहारत्नजारित पञ्चसंख्याकैर्महारत्नैर्वजा- दिभिः तथाच 'वजं च मौक्तिकं चैव माणिक्यं नीलमेव च । मरकत च विशेयं महारत्नानि पञ्चधा' इति । पुनर्माक्षिककान्तप्रयुक्तेन ताश्य- चुम्बकमिलितेन वीजन रसे गगनसत्वे सारिते सति खेचरसंशा गुटिका भवति । तस्मिन् गुटिकारूपे रसे क्षिप्तमात्रेण मुखे पतति सति इन्द्राद्यैः देवासुरसिद्धगणश्च पूज्यतमो भवति । इन्द्रो मघवा आयो येषां तैः । देवा अमराः, असुराः दैत्याः, लिखा देवविशेषाः; नेपां ये गणाः समूहा. तैः कृत्वा. अतिशयेन पूज्यो भवतीत्यर्थः ॥ ७६ ।। इति खेचरसज्ञागटिका। १ सत्य ब. ग.१२ कमलहमतारं च यथा ग.। ३ पतन्पूर्ववत् ग्य. ग.१ मित्रितं च ख. ग.५ प्रविश ग.।
१७४
रसहृदयं तन्त्रम् ।
रसवादोऽनन्तगुणो द्रवगोलककल्कभेदेन ।
कलितः प्रधानसिद्धेदृष्टस्ते जयन्ति नराः॥७७॥
रसवादस्यानन्तत्वं सूचयन्नाह-रसेत्यादि । रसवादः अनन्तगुणः
अनन्ता गुणा यस्य स तथोक्तः । अनन्ता अपरिमिताः । केन कृत्वा
रसवादोऽनन्तः द्रवगोलककल्कानां प्रत्येकमनन्तत्वात् रसवादोऽप्य-
नन्तः । किंभूतः ? प्रधानसिद्धैः नित्यनाथादिभिः कलितः रचितः ।
यैमहद्भिः सिद्धैः रसवादो दृष्टस्ते नरा जयन्ति सर्वोत्कर्षेण वर्तन्ते।।७॥
शीतांशुवंशसंभवहैहयकुलजन्मजनितगुणमहिमा ।
स जयति श्रीमदनश्च किरातनाथो रसाचार्यः ॥७८ ॥
अथ ग्रन्थकारयितुर्वशवर्णनमाह-शीतांशुवंशेत्यादि । श्रीमदनो
मदनाभिधो राजा जयति सर्वोत्कर्षेण वर्तते. किंविशिष्टः ? शीतांशु-
वंशसंभवहैहयकुलजन्मजनितगुणमहिमा शीतांशुवंशे चन्द्रवंशे संभव
उत्पत्तिर्यस्य तत्, एवंविधं यत् हैहयकुलं तत्र कुले जन्मना उद्भवेन
जनितो गुणानां महिमा येन स तथोक्तः । पुनः किंविशिष्टो मदनः
रसाचार्यः रसविद्याजनक इत्यर्थः ॥ ७ ॥
यस्य खयमवतीर्णा रसविद्या सकलमङ्गलाधारा ।
परमश्रेयसहेतुःश्रेयः परमेष्ठिनः पूर्वम् ।। ७६ ।।
अथ चास्य कारयितुर्गणवर्णनमाह-यस्येत्यादि । यस्य कारयितुः
श्रीमदनसंशस्य, रसविद्या स्वयं खरूपत्वेनावतीर्णा प्रादुर्भूता। किं-
?
--
१ दृष्टास्ते ख. ग. । २ यजन्ति ग.। ३ परमश्रेयो हेतुः इति पठः
नीयम् । सं०। ४ श्रेयसि ख. ग.।
५ एतदनन्तरं डा. पी. सी. रायसंपादिते History of Hindu
Chemistry नाम्नि पुस्तके आर्याद्वयमुपलभ्यते; यथा-
येन चतुर्वर्णम्लेच्छादिव्याधादिलब्धसचाभम् ।
दक्षिणरमा गृहीता आदिवराहेणेव महाप्रलये ॥१॥
नष्टशरीरविवर्णा हीनाङ्गाः कुष्ठिनो गुणाद्यस्य ।
अभिनवसोमेश्वरतामापुरपि पुनर्नवैरङ्गैः ॥ २ ॥
रसहृदयं तन्त्रम् । १७५ विशिष्या रसविद्या ? सकलमङ्गलाधारा सकलानि च तानि मंगलानि उत्तमरूपाणि तेषामाधारः आश्रयो यस्यां सा । एषा रसविद्या शरीर अजरामरणं अजरामरं कुरुते, शरीरं च धर्मार्थकाममोक्षाणां मूलं, अतः सकलमंगलाधारति युक्तम् । पुनः रसविद्या श्रेयसे मुक्तौ परम उत्कृष्टो हेतुः कारणम् । अनयैव रसविद्यया परमेष्ठिनो ब्रह्मणः पूर्व प्रथमं श्रेयोऽजरामरणरूपं संजातम् ॥ ७६ ॥ तसात्किरातनृपतेर्बहुमानमवाप्य रसकर्मनिरतः । रसहृदयाख्यं तत्रं विरचितवान् भिक्षुगोविन्दः ॥८॥ इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपाद- विरचिते रसहृदयतन्त्रे एकोनविंशतित- मोऽववोधः समाप्तः। कर्ता स्वनाममहत्वं सूचयन्नाह-तस्मादित्यादि । इदं रसतन्त्रं शास्त्रं विरचितवान् कृतवानिति भावः । किंविशिष्टं इदं तन्त्रं ? रसहृदयाख्य; किं कृत्वा तस्मादित्यादि ॥ ८० ॥ इति श्रीमत्कुरलवंशपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजविरचितायों मुग्धाववोधिन्यां रसहृदयटीकायां रसप्रशंसात्मक एकोनविंशतितमोऽवबोधः ॥ १६ ॥ समाप्तोऽयं ग्रन्थः । १ रसकर्मरतः ग.। २ एतदनन्तरं History of Hindu Chemi- | stry नाम्नि पुस्तके आयाद्वयमधिकमुपलभ्यते, यथा-- नत्रा मङ्गलविष्णोः सुमनोविष्णोः सुतेन ग्रन्थोऽयम् । श्रीगोविन्देन कृतस्तथागतः श्रेयसे भूयात् ॥ १ ॥ अष्टादशसंस्कारं रसेन्द्रदेवस्य दिव्यतनु दृष्ट्वा । लिखितमिदं पुण्यतमं रसहृदयमवाप्यते सकलम् ॥ २ ॥ ३ विरचितायां खण्डेलवालान्त्रय सु० ग. ।
२ , क्षीरं, ४रस पृष्ठाः पं० शुद्धपाठाः | अशुद्धपाठाः पृष्ठाः पं० शुद्धपाठाः शक्ति ७३ ५शुक्ति काथं चतु- १२२ २८ कार्थ, चतु. तन्त्रान्त्र ३० तन्त्रान्तरे गुणं, गुणं समलायोः ७४ ३० समलयोः क्षीरं मूत्राहयो मूत्रयो पठनीयम् म। १२४ " पठनीयम्। न्येशास्त्रे ७६ ४न्यशास्त्रे मलल. १२५ २४ श्ल- ग्रमाण ८प्रमाण र्धाद्गुसु० १२६ १४ र्धाङ्गुलसुण रसं द्रतं १२७ १० द्रुत मूल्का २१ २६ मूलका संवेष्ट्यति १३० ३० संवेष्टयति लेलीत ८२ २१ लेलीतकं विख्यातः १३३ १६ विख्यातः पुटा ८७ २ पुटो रोपधै १४० २३ रौपधै कार्यों ८८ २२ कार्यों सामयाति १४२ १५ समायाति हेभ ८६ १४ हेम प्रतीत: १४४ १ प्रतीतः सस्यक ११ १२ संस्यक हमार्धन १४६ १२ हेमान आलं,हरितालं.२ १ आलं हरि- कोर्नीव १५३ १ कोनविं० तालं, विडड १५४ १३ विडङ्ग समुच्चयं ६३ ३० समुच्चये कृतास्तैल० १५६ २१ कृतांस्तैल० कोचत् १४ २६ केचित् अभ्रादिनां १५६ २२ अभ्रादीनां तिचूर्ण ६६ २४, तिलचूर्ण मनसत्व १६० मनसत्वं नागवडो १०१ ११ नागवङ्गौ सद्धि १६३ सद्भिः मंद्वन्द्वख्यै १०३ २ मद्वन्द्वा तुर्मिवा १६ ०तुर्मिी १६४६ प्रोक्तो शद्ध १०७ ६ शुद्ध सौचवर्चल १६७ १५ सौवर्चल तित्रकं । २०८ १७ त्रिक अन्यञ्चाय १६ अन्यवाह 'त्त्रितयं २० त्रितयं वङ्गं ११२ २५ वङ्गं हितौषधीरि ११५ ४ हितौषधी. भिरि इते ११८ ६ द्रुते द्रत अरोर्ट ११६ १६ प्रारोट . " ख्य प्राक्तो . 4 . . 1 १६ द्रुत . अलभ्यसंस्कृतपुस्तकानां सूचपित्रम् १-एकादशोपनिषदः ईशाद्यष्टतु श्रीमदुदासीनवर्यामरदासाख्यः विदुषा विरचितयोपनिषन्मणिप्रभया छान्दोग्यबृहदारण्यकोनित्यान- न्दाश्रमविरचितया मिताक्षरया कैवल्ये च शंकरानन्द विरचितया दीपिकया समलङ्कता-चतुर्थावृत्ति-अत्युतमपक्को कपड़े की जिलद सहित मु.६० २.बार्हस्पत्य अर्थशास्त्रम्-अर्थशास्त्रस्य अतिप्राचीनोऽयं ग्रन्थः बृहस्पतिप्रणीतः । डा० थामसकृतांगलअनुवाद सहितं मू० २॥) ३.जैमिनीयगृह्यसूत्रम्-श्रीनिवासकृत विषमस्थलव्याख्यया डा० कलन्दकृतांगलानुवादेन च सहितम मूल्यम् ६)रु० ४.आर्यविद्यासुधाकरः-ग्रन्थोऽयं समस्तार्यवर्यविद्याधिवकविनय. नय-विज्ञान-शौर्योदायचातुर्यादिकथाप्रकाशको दाक्षिणात्येन द्विजन्म मूर्धन्येन चिमणाजीतनूजेन पण्डितप्रवरेण यज्ञेश्वरेण विरचितः मूल्यम् 5रु०। ५.कौटिल्यार्थशास्त्रम्-नयचन्द्रिकानामकप्राचीनटीकयाटिप्पण्या च सहितः । इतः २३०० वर्षाणिपूर्वमस्य ग्रन्थस्य निर्माणकान्त सभ्यसंसारे भारतस्य स्थानमनेनैकेनैव प्रन्येन अत्युचतां नीतम् । संस्कृतसाहित्ये इदमेवैक ग्रन्धरत्नमेव भारतीयामाथिकी राजनैति- की सामाजिकी च सभ्यतां विस्तरेण बोधयति । अथ अद्यतनानां स्वप्नेऽव्यगोचरस्तास्ता वैज्ञानिकवचित्रीरत्रोपलभ्यन्ते याभिराश्चर्याका. न्तो भवत्यद्यतनो विधिम्मन्यो वैज्ञानिकससारः यूरोपमहायुद्धसमये ये ये नवा आविष्कारा विज्ञानसंविद्गर्भादुद्भूतास्तेषु भूयोल परसे. नासंमोहकविषगर्भधूमनिर्माणप्रयोगविधिप्रभृतयः प्राचीनैर्भारतीयैः करामलकीकृता श्रासन्निति अत एव अन्धप्रकाण्डाज्ञायते । किञ्च वतर्मानवैज्ञानिकम्मन्यपाश्चात्यवर्गेण लेशतोऽप्यविदिताः अग्निस्तम्मना अद्दश्याञ्जनक्षुधावारण प्रभृतोऽद्भुता विषया अध्यनेकेनोपलभ्यन्ते । सर्वथा ग्रन्थोऽयं विदुषां परिशीलनीयः संग्राह्यश्च । भागद्वयमुद्रितस्य उत्तमसंस्करणस्य मूल्य १०) रु० । साधारण 5) ६. नीलमतपुराणम्-काश्मीरदेशस्थतिवृत्तम् । कल्हणविरचि राजतरङ्गिनीणऽप्यति प्राचीनोऽय ग्रन्थः । कल्हणो हि तत्र तत्र स्वग्रन्थे ग्रन्थामममुद्धरति । इतिहासरहस्यमवजिगमिष्णां कृतहेत्र- यमत्यन्तमुपयोगी म्०५) रु० ।
१ पुस्तकें। वैद्यक Thचक्रदत्त श्रीचक्रपाणि विरचित तथा शिवदाल सेन कृत तत्वचद्रिका नामक सरल संस्कृत व्याख्या सहित पक्की कपड़े की जिल्द गलेज़ कागज मू.५) रु. ८. रसकौमुदी-श्रोमद्भिषग्वरज्ञानचन्द्रशर्मणा विरचिता ।) ६. पारदयोगशास्त्र-श्रीमद्रसायनाचार्य शिवराम योगोन्द्र विरचितम् ॥ १०. नव नावनीतक-यह पुस्तक लगभग १७०० वर्ष का प्रा. चीन वैद्यक ग्रन्थ है । पूवीर्य तुर्किस्तान से श्रीयुत बावर महोदय को त्रुटित अंशों में मिला था वही पं० सदानंद जी शास्त्री ने सब त्रुटित अंशों को पूर्ण करके भाषा टीका कर दी है तथा साथ में ही कई एक नवीन योगों' का ( जो कि बड़े महत्व के है ) भी इसमें समावेश किया है, पक्की कपड़े की जिल्द सहित ३०० पृष्ट की पुस्तक का मूल्य केवल ३) रु. है। ११. भैषज्यरत्नावली-गोंविददास प्रणीत तथा लाहौर के सुप्रसिद्ध अनुभवी कविराज नरेंद्रनाथ जी मित्र द्वारा संशोधित तथा आयुर्वेदाचार्य जयदेव विद्यालकार कृत भाषा टीका सहित । इस संस्करण में खास विशेषता यह है कि औषधियों की मात्रा (Doses) को समयानुकूल बना दिया है । संपूर्ण पुस्तक लगभग २४०० पृष्ट में समाप्त ह । मूल्य केवल 5J३० ! १२-रसेन्द्रसारसंग्रह-श्रीगोपाल कृष्ण भट्टकृत थीयुननरेन्द्रनाथजी मित्र द्वारा संशोधित तथा श्री युत कविराज विद्याधरजी विद्या- लंकार कृत सरल भाषाटीका सहित- इस में सब यन्त्रों के चित्र भी दिये गये हैं पुस्तक बहुत बढिया छपी है और विद्यार्थियों के अति उपयोगी है.मुल्य ४) - पुस्तकप्राप्तिस्थानम् मोतीलाल बनारसीदास अध्यक्ष -पंजाब संस्कृतपुस्तकालय सैदमिट्टा बाजार लाहौर . .
No text on this page.