Svclrc

Samsara Chakram

11/22/2002

PDF Proofread

Front matter

श्राः। भृमिका . । ):--:( आसीत्पूर्व कदाचित्संस्कृतभाषेव सर्वेषामेव जनानां व्यावहारिकी भाषा भारतादिषु देशेषु केषुचित् । आसीच स कोपि समयो यत्र ब्राह्मणा निष्कारणमेव सषडङ्गवेदाध्ययनमकुर्वन् । क्षनि वैश्यानामपि. साङ्गवेदाध्ययन प्रथमकर्तव्यं कर्माभूत् । अत्रैवर्णिका अप्यम्बष्ठनटगायकाद्या आयुर्वेदादीन् पठन्तस्संस्कृतभाषाकुशला अभूवन् । गतस्स समयः । इदानींतु संस्कृतभा- पाभिज्ञाः पुरुषा विरळाः । तद्भाषापरिज्ञानमनावश्यकम्मन्यन्ते ब्राह्मणा अपि - येपि किञ्चित्पठन्ति तेषामपि न पूर्ण भाषाविज्ञानं भवति । संस्कृतभाषात रत्नाकर इव नानाविधापूर्वकळाग्रन्थरत्नपूर्णा रसिकानां न केवलमानन्द व ददाति, किन्तु जीव: धारभूनापीति विद्वांसो मन्यन्ते । कालेऽस्मिन्ना- यःयिकाग्रन्थाः प्रतिदिनं बहुसंख्यास्सर्वास्वपि भाषास्ववतरन्तो दृश्यन्ते । [कालिक मनोविनोदार्थमप्येषां पठनं क्रमेण पठितृनां साहितीरुचिमप्युत्पा- यतीति विचारकुशला मन्यन्ते। अल्पज्ञा अप्याख्यायिकापठनप्रवृत्ता बहवस्साहितारसिका भाषाकुशला भवन्त त्यनुभवसिद्धोयमर्थः । तदम जनानां हृदयेषु संस्कृतसाहित्यपटनरुच्यगिवर्धनाय संस्कृतभाषामयी- नामाख्यायिकानां बहुसंख्यानामवतरणमत्यावश्यकमिति संस्कृताभिमानि- नामभिप्रायो युक्तरूप एवेति मन्यामहे वयं । परन्तु संस्कृतभाषामयीना मद्ययावहिरवतीर्णानामाख्यायिकानां परिगणनायकस्यापि हस्तस्य- सर्वेषामङ्गुळीनामवश्यकता नास्तीतीयं वस्तुस्थितिः। तदेव संस्कृतभाषा मयीनामाख्यायिकानामावश्यकताम्मन्यमानेनेयं संसारचक्रनाम्नायाख्यायिका मया लिखिता विदुषामिवाल्पज्ञानामणि प्रिया भविष्यतीति में विश्वासः । इयं च हिन्दीभाषामय्या माख्यायिक या अनुवादरूपापि प्राथमिकप्रवृत्ति- (२) 'फलभूतापि संख्यापूरणमात्रविरताप्यताप्रशमन्थलेखनच्छाया उत्तेजिका भविष्यति संस्कृतभाषाभिजानां ग्रन्थकृतामिति न सर्वथा निष्फला भविष्यति मे प्रवृतिरिति विश्वासो मे । प्रथममियमाख्यायिका मञ्जुभाषिण्यां साप्ताहिक्यां पत्रिकायां प्रका- शिता, अथपुस्तकरूपतामापादि चाभूद्रहुतियाकालात्पूर्वमेव । अल्पसंख्या एवचादीस्तदानीं मुदिता अभूवन् । परन्त्विदानीमेव चिरकालात्परमस्या द्वितीयप्रकाशनस्याचश्यकता समुत्पन्नेति द्वितीयवारमियमिदानीम्मुछ्ते इति । प्रतिवादिभयङ्करं अनन्ताचार्थ: काची।

संसारचक्रम् ॥ द्वितीयभागे प्रथमं चक्रम् । - ( आश्चर्यदर्शनम् ) अहं गोविन्दलालश्च तावता वेगेनाक्रमाव येनाल्पेनैव कालेन मध्येमार्ग जयपालेन समागमोऽभवत् । ततश्च वयं त्रयोऽपि तेनैवारण्य. पथेन द्रुततरं गन्तुं प्रावर्तिष् हि । तदात्वे मदीये मनसि कियत्यो भावना आविरभवन्, तासां लेखनं किञ्चित्कष्टसाध्यमिव । अविच्छिन्नतया वयं दक्षिणाभिमुखं चरणान् निक्षिपन्त एव गच्छन्तोऽभवाम । कियदूरगमना- नन्तरं वामतो वयं प्रत्यावर्तिष्महि । तस्मात्पुरातनात् खण्डगृहायदा क्रोशमेकमुपयाता वयं तदा पुरत एव किंचिजीर्णशीर्णं गृहमदृश्यत । यत्किल वनस्य तस्य सुतरामेव मध्येऽ भूत् । जयपालस्तदेव गृहमंगुळया निर्दिश्य मामवदत्-"अस्यैव गृहस्या. भ्यन्तरं प्रविश्य निश्शब्दं तूष्णीं तिष्ठत । अस्मदीयं कण्ठस्वरं तु जानन्ति खलु भवन्तः ? यावदई गोविन्दलालो वाऽऽगत्य "सदारम्' इति शब्द न वदावस्तावद्गृहादस्मान्न बहिरागन्तव्यं भवद्भिः" इति । इदमुक्त्वा च जयपालस्ततोऽगाद्गोविन्दलालश्च । अहमपि शिथिलपदं तदेव जीर्णशीर्ण गृहं प्राविशम् । हा धिक् ! कीदृशस्तत्र दुर्गन्ध आसीत् ? यादृशो नरके स्यात् । दशपञ्चदशानां मनुष्यशवानां क्लिन्नानामेकत्र समावेशे यादृशो दुर्गन्धस्स्यात् , नूनं तादृश एव तत्राप्यासीत् । दुर्गन्धेनानेन विमना इवाभवम् । क्षणे क्षणे वमन- इतः . । मह्यमेव निर्मितानि, तर्हि दुर्गन्धमेनं मां विना को वा सहताम् । किं क्रिय ताम् संकोच्य नासिकारन्धं तत्रैवोपविष्टोऽभवम् । गृहमिदमष्टादशभिर्हस्तैरायतं चतुर्भिश्च विततमासीत् । षोड- शभिः पटलाधारदारुभिः छदिरस्य ध्रियमाणमासीत् । पूर्वस्यां पश्चिमस्यां च अत्यल्पपरिमाणौ नाममात्रस्य गवाक्षावासाताम् । यतस्तत्र कवाटारिक किमपि नासीत् । केवलमाकारेण गवाक्ष इत्युच्यते । प्रधानद्वारस्यापीयमेव दशाऽऽसीत्, कवाटिका तु नासीदेव, किमवशिष्यते, द्वारम् तदपि शपथाय केवलं मनौ प्रशासति महीं निर्मितं तत्रासीत् । परन्तु ऐषमो वर्षौ तस्यापि स्थितावल्पीयानेव विश्वास आसीत्। तलादारभ्य शिरःपर्यन्तं भित्तिषु स्त्रीणामावासोऽभूत् । मशकमक्षिका झिल्लिकादीनां तु तत्राकम्प्यं राज्यमवाभूत् । अहमपि नासारन्ध्र वस्त्रमापूर्य तत्रत्यां शोभा पश्यन् कुर्वश्च तदपूर्वं दृश्यं हृदयभित्तौ चित्रितमवर्तिषि । यदेदं गृहं निर्मितमासी मन्ये तदेव निहितः किलिंजकः कश्चित्कोणे समदृश्यत । विनेनं किमपि नासीत्तत्रोपयोगि वस्तु । अधश्च धूलीनां राशिरासीत् । वन्यजन्तूनां नानावर्णमलं विना कपोतानां कुक्कुटानां च पक्षासंघशोऽवर्तन्त । अन्यदपि बहु कुत्सितं दुर्गन्धि च वस्तुजातं तत्रासीत्. यस्यात्र लेखनं व्यर्थमिव पश्यामि । इयमेव तस्य गृहस्य तदातन्यवस्था । ननु कथयत पाठकाः १. स शिरोभ्रामको दुर्गन्धः कुतस्समायातीति । एषां पदार्थानाम् ये मया वर्णिताः, संमिळितानां पर्युषितानां क्लिन्नानां चैतादृशो गन्धस्स्यात् ? नहि नहि, कदापि न स्यात् । तर्हि कथमयम्; कुतोऽयं दुर्गन्धस्समायाति । कियन्तं- चित्कालं जयपालस्याज्ञा कोष्ठ के न्यधीयत मया । महत्योत्कण्ठया मया गृहस्यास्य सर्वेऽपि भागा भ्रष्टसूचिनेव समवालोक्यन्त, तथाऽपि कुतोऽय गन्धस्समायातीति नाज्ञायत । असहनोऽहमभवम्, पुनश्चोदतिष्ठम् गृहस्याधोभागमवधानेनालोक- यितुमारभे, कटस्य कटतापि मया न रक्षिता,तेन संमार्जन्याः कार्यमकरवम् । महतो महतो धूळिराशेबहिः प्रक्षेपादनु समदृश्यत कुट्टिमः । सर्वोऽपि मम श्रमो व्यर्थ एवाभूत् । अहो कष्टम् पूतिगन्धोऽयं कुतः समायाति ! पुनरप्यहं गृहद्वारं प्रति प्रस्थितोऽभवम् । एतावत्येव समये तेन महता वाततरङ्गेण निश्चयमेवाकथ्यत गन्धोऽयं पश्चिमतस्समायातीति । झटित्यहं बहिर्निरगच्छम् । बहिर्निर्गत्य चेतस्ततस्सावधानं द्रष्टुमारभे । एतावत्येव दृष्टिर्मम कुत्रचिन्मृत्तिकाराशावपतत्, यः किल कस्यचिदाम्रवृक्षस्याधरतादभूत्, यस्य चोपरि पिपीलिकाः मक्षिका मशकाश्च संचरन्त आसन् । आश्चर्येण चाहमाक्रान्तोऽभवम् । नूनमस्य मृत्तिकाराशेरन्तश्शवः कश्चिन्निखातोऽस्ति, अवश्यमेव मृत्स्नामपाकृत्य शवोऽयमुद्धर्तव्य, निश्चितमेव च यत्किंचिद्रहस्य- मत्र प्रकटं भवेत् । सर्वमिदं विचिन्त्य मृत्खननाय यत्किचिदायुधमन्वेष्टमारभे । दैवाच नातिदूरे पतितः कश्चित् कुदालो दृष्टः । ततः किमवशिष्यते ? महताऽऽनन्देन पूर्णोऽहं कुतूरिदाभवम् । झटित्येव कुद्दालेनानेन मृदं खानितुमारभे । यथा यथाऽहम खनं तथा तथा दुर्गन्धोऽधिकाधिकीभवन् सर्वतः प्रसृतोऽभूत् । एवमेव खनति मयि शबः कश्चिददृश्यत । दर्शना- देवाहं संकुचितगात्रोऽभवम् । दुर्गन्धेन नासा स्फटितुं प्रावर्तत । तथापि किंचिदवहितो भूत्वा तस्यैव शवस्य पार्श्वतः पुनरखनम् । अदृश्यत चान्यः कश्चिच्छवः । इत्थमेव यावदहमखनं तावच्छवादनन्तरं शव इत्येवं शवपरम्परा समदृश्यत । कुत्रचित्केवलमस्थीनि परमासन् , कस्यचिच्छरीरं स्थूलीभूतं विरूपमवर्तत । एकस्य शिर एव नास्ति चेदन्यस्थ हस्त एव नास्ति । एकस्य शिरोऽस्ति चेदन्यस्य कबन्ध एव नास्ति । किमधिकेन, यावन्तश्शवा उपलब्धाः सर्व एव प्रायो हीनाङ्गा आसन् । अस्मिन् शवसमुदाये कस्याश्चिस्त्रिया अपि शव आसीत्, स यद्यपि पूर्णाङ्ग एवाभूत्, अथापि स्थूलतामुपयातस्तथा विरूपोऽभवत्, येन पनम् । [१-भाग झटिस्यहं तां प्रत्यभिज्ञातुमेव नाशकम् । चिरात्तु शवोऽयं तस्या देव- नारायणमुखोपाध्यायस्यालिकाया इति ज्ञातम्, या किल यदाऽहं मूर्छितं देव- नारायणमुखोपाध्यायमुत्सङ्गे वहन् कुत्रचिद्वनकुटीरेऽभवं तदा मां निर्बद्ध- मागात् । अद्य तु पापिभिस्सह पापस्य फलमनुभवति । हेतुना केनेयं मृतेति तु मया नाज्ञायत, महांश्च विस्मयोऽभूत् । शवस्त्वयं न बहुदिनपर्युषितः, अधिकादधिकं स्यान्चेत्पञ्चषा एव दिवसास्स्युरस्या मृतायाः। कुत इयं मृता! पश्यतोहराणां येऽनुचराः किं तेषामन्ततो दशे यमेव भवति, नैवं नैवम्, नाहं शक्नोमि ज्ञातुम् । अस्म्यद्याप्यहं बालः : एतावत्येव काले भयानकेन 'सदारं' शब्देनाहमुभ्रान्त इवाभ- वम् । यद्यपि समये तस्मिन्नवासीत्कीदृशमपि भयं कस्मादपि मम मनसि, अथापि शब्देनानेन स्वीयः पराक्रमो मयि विशेषतः प्रादर्शि । तदैव जयपालस्य वार्ताऽपि स्मतिपथमारूढाऽभूत् । झटित्येव कस्यचिन्महतो अश्वत्थवृक्षस्याधश्छन्नोऽभवम् । पुनरपि दूरात्सदारं शब्दोऽश्रूयत । छन्न एवाहं त्रिंशद्धस्तदूरे द्वौ पुरुषावपश्यम् । दूरस्थतया तयोस्सल्लापो नाश- क्यत श्रोतुम् । जयपालो गोविन्दलालश्च येन मार्गेण पूर्व गतौ तेनैवैता वप्यगाताम् । अहमपि ततस्तत्र क्षणमपि नातिष्ठम् । यथाशक्ति द्रुतं द्रुतं तं गतं यत्र शवमण्डली दृष्टा मृत्तिकयाऽऽपूर्य समीकृत्य कुद्दालमेकतो निक्षिप्य तदेव गृहमागाम् । पाठकाः पश्यत ! कीदृशोऽहमुन्मत्तः । बुद्धिपूर्वकं नरकपर्य- टनं मयाऽकारि । कदा गोविन्दलालस्समागच्छेत् ? इत्यनया चिन्तयाह- माक्रान्तोऽभवम् । कदाचिदुदतिष्ठम् कदाचिदुपाविशम् कदाचिदभ्रमम्, परन्तु मनः केनापि शान्तं नाभवत् । यदा चैवमेचाहं तत्र गृहे पर्यटन्नासम् तदा कुत्रचित्कियानपि कुट्टि- मभागश्चलन्निवाज्ञायत । प्रथमतस्तु ममैव भ्रमस्स्यादिति विचिन्त्य महता वेगेन तत्र पादेन प्रारम् । तेन च विशेषतस्स भोगोऽचलत् , अज्ञायत चाधाऽयं भागश्शून्यो रन्ध्रवानिति । ?

तस्मिन्नेव क्षणे तं प्रदेशमहं सम्यक्छुद्धमकरवम् । अपश्यं च सुधा- चूर्णेष्टकाखण्डाभ्यां एकीकृत्य संघट्टिताभ्यां निर्मितं तलम् । अवालोकयं च यादृशं रूपं कुट्टिमस्य तादृशरूपमेवैकहस्तचतुरश्रं कुट्टिमेन सहैकराश्येन स्थापितं फलकखण्डम् । बहुप्रयस्यापि नाशकं तं फलकखण्डं समुद्धर्तुम् । हठाच स्मृतिपथमारुहत्स कुद्दालः । पलाय्य च तमानयम् । कुद्दालेन च तेन मे बहु साहाग्यमाचरितम् । तेन कुद्दालेन तस्मिन् फलकखण्डे कुट्टमात्पृथक्कृतेऽदृश्यत हस्ताधिकगाधः कश्चन गतः । अचिन्तयञ्चाहम् - "नूनमत्र रहस्यं किंचिदस्ति, अन्यथा कुतोऽय. मियत्या चातुर्या निर्मीयेत, अतोऽवश्यमेव मया सम्यग्द्रष्टव्योऽयम्' इति । विचिन्त्य चेत्थं हस्तद्वयावलम्बन तस्मिन्नवातरम् । आगळं सर्वोऽपि शारीरो भागस्तस्मिन् गच्छति स्म । पोट्टलिकेव काचित्पादनास्पृश्यत । महता परिश्रमेण दक्षिणपादेन तामुद्धृत्य हस्तेऽकरवम् । अपश्यं च जीर्णवस्त्रा- च्छादितां ग्रन्थिमेकाम्। 'पोट्टलिकेयं नूनं रहस्यपूर्णा अवश्यमेवेद्घ टनीया' इत्यालोच्याहं तामुद्घाटयितुमारभे । परन्तु नापारयं तामुदायितुम् । यत्र वस्त्रे सा पोटलिका बद्धाऽऽसीत् तदपि विशीर्णमभूत्, अथापि ग्रन्थिोन्मोचिताऽ भूत् । वस्त्रं छिन्नमभूत्, अथापि ममेच्छा नासीत्पूणी, यतो वस्त्रान्तरा- चर्ममयी काचन पोटलिका निरगात्, या किल दृदा सम्यग्बद्धा चासीत् । तस्या उद्घाटनाय तावत्प्रायतम्, यावदहं शक्नोमि प्रयतितुम्, अथापि हा धिक् ! नापारयमुद्घाटयितुम् । अस्तु यद्वा तद्वा, तामहं नात्यजं पोटलिकाम् । तस्माद्गर्ताहहिर्निर्गत्य गृहाबहिः कस्यचिदश्वस्थवृक्षस्याधः मृत्तिकायामन्तर्गर्ते न्यधाम् यदा कदाचिदपि वाऽस्य रहस्यं प्रकटीभवेदेव' इति चिन्तयन् । यथाशक्ति चाहं तं गर्तमपूरयं मृत्तिकाभिर्यथापुरम् , न्यधां च जीर्ण. शीर्णखण्डपटादिकमपि यथापुरम् । सर्वमिदं कृत्वा यावदेवाहं निश्चिन्तो भवामि तावत् 'सादरं शब्दः कर्णेऽपतत् । प्रथमं त्वहं नाशकं निश्चेतुं १ झटित्यहं तां प्रत्यभिज्ञातुमेव नाशकम् । चिरात्तु शवोऽयं तस्या देव- नारायणमुखोपाध्यायस्यालिकाया इति ज्ञातम् , या किल यदाऽहं मूर्छितं देव- नारायणमुखोपाध्यायमुत्सङ्गे वहन् कुत्रचिद्वनकुटीरेऽभवं तदा मां निर्बद्ध- मागात् । अद्य तु पापिभिस्सह पापस्य फलमनुभवति । हेतुना केनेयं मृतेति तु मया नाज्ञायत, महांश्च विस्मयोऽभूत् । शवस्त्वयं न बहुदिनपर्युषितः, अधिकादधिकं स्यान्चेत्पञ्चषा एव दिवसास्स्युरस्या मृतायाः। कुत इयं मृता! पश्यतोहराणां येऽनुचराः किं तेषामन्ततो दशे यमेव भवति, नैवं नैवम्, नाहं शक्नोमि ज्ञातुम् । अस्म्यद्याप्यहं बालः । एतावत्येव काले भयानकेन 'सदारं' शब्देनाहमुभ्रान्त इवाभ- वम् । यद्यपि समये तस्मिन्नवासीत्कीदृशमपि भयं कस्मादपि मम मनसि, अथापि शब्देनानेन स्वीयः पराक्रमो मयि विशेषतः प्रादर्शि । तदैव जयपालस्य वार्ताऽपि स्मृतिपथमारूढाऽभूत् । झटित्येव कस्यचिन्महतो ऽश्वत्थवृक्षम्याधश्छन्नोऽभवम् । पुनरपि दूरात्सदारं शब्दोऽश्रूयत । छन्न एवाहं त्रिंशद्धस्तदूरे द्वौ पुरुषावपश्यम् । दूरस्थतया तयोस्सल्लापो नाश- क्यत श्रोतुम् । जयपालो गोविन्दलालश्च येन मार्गेण पूर्व गतौ तेनैवैता वप्यगाताम् । अहमपि ततस्तत्र क्षणमपि नातिष्ठम् । यथाशक्ति द्रुतं द्रुतं तं गतं यत्र शवमण्डली दृष्टा मृत्तिकयाऽऽपूर्थ समीकृत्य कुद्दालमेकतो निक्षिप्य तदेव गृहमागाम् । पाठकाः पश्यत ! कीहशोऽहमुन्मत्तः । बुद्धिपूर्वकं नरकपर्य- टनं मयाऽकारि । कदा गोविन्दलालस्समागच्छेत् ? इत्यनया चिन्तयाह- "माकान्तोऽभवम् । कदाचिदुदतिष्ठम् कदाचिदुपाविशम् कदाचिदभ्रमम्, परन्तु मनः केनापि शान्तं नाभवत् । यदा चैवमेवाहं तत्र गृहे पर्यटन्नासम् तदा कुत्रचित्कियानपि कुट्टि- मभागश्चलन्निवाज्ञायत । प्रथमतस्तु ममैव भ्रमस्स्यादिति विचिन्त्य महता वेगेन तत्र पादेन प्राहरम् । तेन च विशेषतस्स भोगोऽचलत्, अज्ञायत चाधोऽयं भागश्शून्यो रन्ध्रवानिति ।

- क्षण त प्रदशमह सम्यक्छुद्धमकरवम् । अपश्य च सुधा- चूर्णेष्टकाखण्डाभ्यां एकीकृत्य संघट्टिताभ्यां निर्मितं तलम् । अवालोकयं च यादृशं रूपं कुट्टिमस्य तादृशरूपमेवैकहस्तचतुरश्रं कुट्टिमेन सहैकराश्येन स्थापितं फलकखण्डम् । बहुप्रयस्यापि नाशकं तं फलकखण्डं समुद्धर्तुम् । हठाच स्मृतिपथमारुहत्स कुदालः । पलाय्य च तमानयम् । कुद्दालेन च तेन मे बहु साहाग्यमाचरितम् । तेन कुद्दालेन तस्मिन् फलकखण्डे कुट्टिमात्पृथक्कृतेऽदृश्यत हस्ताधिकगाधः कश्चन गतः । अचिन्तयश्चाहम् - ''नूनमत्र रहस्यं किंचिदस्ति, अन्यथा कुतोऽय- मियत्या चातुर्या निर्मीयेत, अतोऽवश्यमेव मया सम्यग्द्रष्टव्योऽयम्" इति । विचिन्त्य चेत्थं हस्तद्वयावलम्बन तस्मिन्नवातरम् । आगळं सर्वोऽपि शारीरो भागस्तस्मिन् गच्छति स्म । पोट्टलिकेव काचित्पादेनास्पृश्चत । महता परिश्रमेण दक्षिणपादेन तामुद्धृत्य हस्तेऽकरवम् । अपश्यं च जीर्णवस्त्रा- च्छादितां प्रन्थिमेकाम्। 'पोट्टलिकेयं नूनं रहस्यपूर्णा अवश्यमेवेद्घ टनीया' इत्यालोच्याह तामुद्घाटयितुमारभे । परन्तु नापारयं तामुदायितुम् । यत्र वस्त्रे सा पोटलिका बद्धाऽऽसीत् तदपि विशीर्णमभूत्, अथापि ग्रन्थिनॊन्मोचिताऽ भूत् । वस्त्रं छिन्नमभूत्, अथापि ममेच्छा नासीत्पूणी, यतो वस्त्रान्तरा- चर्ममयी काचन पोटलिका निरगात्, या किल दृढ़ा सम्यग्बद्धा चासीत् । तस्या उद्घाटनाय तावत्प्रायतम्, यावदहं शक्नोमि प्रयतितुम्, अथापि हा धिक् ! नापारयमुद्घाटयितुम् । अस्तु यद्वा तद्वा, तामहं नात्यजं पोटलिकाम् । तस्माद्गर्ताद्वहिर्निर्गत्य गृहाबहिः कस्यचिदश्वत्थवृक्षस्याधः मृत्तिकायामन्तर्गर्ते न्यधाम् 'यदा कदाचिदपि वाऽस्य रहस्यं प्रकटीभवेदेव' इति चिन्तयन् । यथाशक्ति चाहं तं गतमपूरयं मृत्तिकाभिर्यथापुरम् , न्यधां च जीर्ण. शीर्णखण्डपटादिकमपि यथापुरम् । सर्वमिदं कृत्वा यावदेवाहं निश्चिन्तो भवामि तावत् ‘सादरं शब्दः कर्णेऽपतत् । प्रथमं त्वहं नाशकं निश्चेतुं २ लालस्थाय स्वर इति । कस्याय स्वर हात, पश्चात्तु प्रत्यय अहमपि बहिरागत्य 'सदारं' इत्यवदम् । झटित्येव गोविन्दलालो मन्निकट- मुपस्थितोऽभूत् । अहं च सोत्कण्ठमपृच्छम्-''गोविन्दलाल ! को वृत्तान्तः? किमिति मामन्धकार एवाद्यापि स्थापितवानसि ? इति । गोविन्दलाल:-'किमित्यवं वृत्तान्तार्थ सम्भ्रमः,समये समुपस्थिते सर्वोऽपि विदित एव भविष्यति । अद्य भवन्तो भवन्ति निश्चिन्ताः, इत: केनापि प्रकारेण नास्ति भवतां भयम्, महान् समयोऽतीतः, आगच्छन्तु, कुर्वन्तु भोजनम् ।" अहम्-“देवी राज्ञी कुत्रास्ते !" गोविन्दलाल:-'इदन्तु सैव कथयितुं शक्नोति, देव्या राज्ञया लीला यदि हृदयङ्गमा भवेत्तदा का नाम कथाऽन्यस्य । सर्वस्यास्य प्रश्न एवायं भवतां व्यर्थः । आगच्छन्तु, मदीयं कुटीरम् । उभावप्यावां ततोऽगच्छाव । गोविन्दलालस्यैव कुटीरे मया कृत्स्नं दिनमयाप्यत । अद्य मदीयं शरीरमन्यदिवसापेक्षया किंचिच्छान्तमिव लक्ष्यते । पाठकाः ! मन्ये युष्माभिर्न विस्मृतस्स्यादयं कुटीरः, स एवायं कुटीरः, यत्रैकदा गोविन्द. लालेनाहं बालकरूपं धारितोऽभवम् । अस्मिन् दिने न जानामि गोविन्दलालेन कुत इदं स्वादु सुमनोहरं भोज्यमानीतम्, यदहं भोजितोऽस्मि । अपृच्छमप्यहं बहुधा कुत इद- मानीतमिति, तेन तु किमपि नोक्तम् । भोजयित्वा यद्गतस्तदद्यापि न निवर्तते । अहं च कुटीरस्य देहळयामुपविष्टो नानाविधाश्चिन्ताः कुर्व. नेवावर्तिषि । एतावत्येव समये गोविन्दलालः स्मयन् दृष्टिपथमवातरत् । आगतमात्र एवावदच्च--- 'ब्रजेन्द्र प्रभो ! उत्तिष्ठतु, आगच्छतु, दर्शयाम्यतिविचित्रां कञ्चिल्लीलाम् । परन्तु प्रथमतो भवद्भिरिदं प्रतिज्ञेयम् किञ्चिद्भवन्तो द्रक्ष्यन्ति तेन नाहं भेष्यामीति ।

ܝܙ अहम्-नहि नहि, कदापि न भेष्यामि, गोविन्दलाल ! का सेहशी लीला ! गोविन्दलालः-यां कदाचिदपि स्वप्नेऽपि नैतावतापि भवन्तोऽ पश्यन् ; या च विचारपथमपि नावतरेत्, तामेव लीला भवन्तो द्रक्ष्यन्ति । परन्तु न सत्यभूतं तत्, किन्तु काल्पनिकम् । अहम् - आत्मानं स्थिरतयाऽवस्थापयितुं यथाशक्ति प्रयतिष्ये, आग- च्छ, दर्शय, का सा लीला ? गोविन्दलालोऽपि कुटीरद्वारकवाटिकायां ताळयन्त्रमाधड्याग्रतो ऽक्रमत्, अहमपि तमनुगच्छन्नेवाचिन्तयं कीदृशमिदं कार्यम् ? इति संसारचक्रे द्वितीयभागे - प्रथमं चक्रम् । अथ द्वितीयं चक्रम् । CATEGK- ( देवी दानवी वा ।) उत्तरमुखेन महता मार्गेण वयं वेगेन गच्छामः । रात्रिश्चान्धतमसा- वृता । सर्वतश्च निश्शब्दता वरीवर्ति । मार्गस्योभयतः पार्श्वयोर्घनं वनम् । गच्छतां चास्माकं केनापि कस्यापि सल्लापो न भवति । मौनव्रतमिव धारयन्तो वयं गच्छामोऽग्रताऽग्रतः । इत्थमेव किश्चिन्नयनाधिकभावेन घण्टाद्वयं यावद्गमनानन्तरं कस्यचिन्महतोऽश्वत्थवृक्षस्याधस्तादुपविष्टैरस्माभि- य॑श्रम्यत । किंचिद्विश्रमानन्तरं गोविन्दलालोऽब्रवीत्-"कियन्तंचित्काल- मत्रैव तिष्ठन्तु भवन्तः । ताबदहं निश्चिनोमि किमितः कर्तव्यमिति । इदन्तु हृदये तिष्ठतु, नाद्यापि भवन्तो निरापदोऽभवन्निति" इति । एतावदुक्त्वा च गोविन्दलालो वामपार्श्वस्थां कुल्यामेकोलंधनेनो. लंध्य पश्चिमदिशायामन्धकारे न्यलीयत, अहन्तु पश्यन्नेवावर्तिपि ।

८ संसारचक्रम् । [२-भा कण्ठः, अहो ? कियतः कालादनन्तरं स एव पुनर्मुनिजनमानसोन्मादी गगनतलचुम्बी सङ्गीतरवो न जानामि कुत आगत्य मदीये वर्णकुहरे मधु- सिञ्चनं कर्तुमारभत ? अहो कीदृशो मधुरोऽयं स्वरः १ देवि राशि! निश्चितमयं तवैव मनोमादकं तवैवेदं गानम् महामहिमशालिनि कुत्र त्वमस्यद्य ! श्रवणमात्रेणैव त्वदीयमधुरगानस्य सुदूरमभवन्मम सर्व- मपि दुःखम् । आगच्छ, देहि मे दर्शनम्, शरच्चन्द्रशकलमिव ते वदन. बिम्धं दर्शयित्वा कुरु कृतार्थं माम् । तवायं शब्दः कथयति रामसीतोऽर्धक्रोशदूर इति । किमर्धक्रोशोऽपि दूरमिति कथयितुं युज्यते ? कुत्राद्य त्वमात्मानं छादितवत्यासि ? किं स्वर्गे उत ततोऽप्युत्तमे कुत्रचिल्लोके ? गगनेऽथ पाताळे ! देवि कुत्रासिं ! गोवि- न्दलाल ! आगच्छ आगच्छ, झटिति मां नय देव्या राजया निकटम् । गच्छ, नेतः परं त्वदीयं वचनमहमङ्गीकुर्याम् , भवतु यद्वा तद्वा, प्रापय मां देव्या राज्ञया निकटम् । तत्र गमनेनैव में सर्वमपि कष्ट नष्ट भवेत् । तस्य गीतस्याकर्पिणी शक्तिौ निजपाश्र्धायाक्रष्टुमारभत । अह- मपि तत्पार्श्वत एव एकमेकं पदं निक्षिपन्नग्रतो गन्तुं प्रावर्तिषि । ततश्च गीतमपि सम्यक्वणपथमवतरितुमारभत अहमप्यनन्यमनाश्रीतु मारभे । इदं च तद्गीतम्- तम्य विचिन्त्य बचा हृदि सततं रचयामीह छन्दः । तेन च मनसि प्रमाम्भोधिधतेऽपि चानन्दः । संगमनाशांकुरति मनसि मे तया च मोदोऽमन्दः । त्वं मयि रुष्टः किमिति न जान तादृक्करुणाकन्दः । अहो ! कीदृशमिदं सुन्दरं गानम् ! कीदृशोऽस्य गीरो भावः ! अहह ! कुतो न भवेत् ? देवि राज्ञि ! वस्तुतस्त्वमसि नाकवासिनी ? एकपदनिक्षेपोऽपि.दुश्शकोऽभूत् । कण्टकैः पदे लमैबहु प्रायत्यत मां प्रति- रोद्धम्, अहन्तु तै रुद्धोऽपि न निरुद्धगतिरभवम् । हा हन्त ! इदन्तु तदेव खण्डगृहम्, यंत्र देव्या राज्ञया दशमाङ्क- चिह्नितात्कारागृहान्निष्कास्य वनलतावेषेणाहं प्रेषितोऽभवम् । अस्मिन्महत्यन्ध- कारेऽपि शक्नोम्यहं कथयितुम् इदं तदेव पश्यतोहराणां मातुर्मङ्गळानाम्न्या जरठाया गृहमिति । अयमेव हि स पञ्चपाण्डवनामा वृक्षः । आश्चर्यमाश्च- र्यम्, कुल्याऽपि खल्वियं सैव । हा विक्, कीदृश मिदं रहस्यम्, किमपि हृदयं नावतरति । एतदनन्तरं च बहवः प्रश्ना मनसि ममं सञ्चरितुमारभन्तं । खंण्ड- गृहस्यास्यान्तर्गच्छामि न वा ! देव्या राज्ञया गोविन्दलालस्य वाऽऽज्ञा तु नास्त्येव, एवं सति तदाज्ञामुल्लंध्यान्तः कथं गन्तव्यम् ? किं कर्तव्यम् । किमपि निश्चेतुं नाशकम् । इत्थमेव च शोचन् विचारयंश्च प्रधानद्वारस्य निकटमहं प्रापमचिन्तितमेव, कवाटिका त्वन्तर्दत्तागळाऽभूत् । पुनरचिन्तयं चाहम्-'इत्थं नामान्धतमसावृतेऽत्रैकाकिनी मम भ्रमण न युक्तम्,यत्रं गोविन्दलालेनोपवेशितोऽस्मि तत्रैव गच्छामि' इति । परं पादौ न प्रसरतस्तदभिमुखम् । कथं वा प्रसरताम् ? मनसि खलु विश्वासोऽभून्नूं- नमत्रैव गृहे देवी राज्ञयस्तीति । एतावत्येव समयेऽतर्कितमेवं द्वौ पुरुषा गृहान्निर्गत्य सल्लपन्तौ वनमध्यमविशताम् । अहमप्येतावालोक्यैकत्र पार्श्व छन्नोऽभूवम् । यदा च तावुभौ सुदूरं निर्गतौ तदाऽहं गृहाभ्यन्तरं गत्वा देव्या राज्ञया दर्शनमेव कर्तव्यं निरचिनवम् । भगवन्तमनुस्मरन् सधैर्यावष्टम्भं पादावनतो निक्षेप्तुमारभे । अन्धकारस्तु तथाऽऽसीत्, यथा निजोऽपि हस्तो न दृश्येत, अस्तु, येन केनापि प्रकारेण हस्ताभ्यां भित्तिं स्पृशन् स्पृशन् सौधोपर्यगच्छम् । तत्र तु सल्लपतोः फुसफुसात्कारं विना किमपि नाश्रूयत । अधस्तु ऐकान्त्येन निश्शब्दतैवासीत् । ३ ३ पुनरप्येकेन मनोहरेण गीतशब्देन तद्गृहं प्रतिध्वनितमभूत् । तदा मम निश्चयोऽभूत्-यत्र गृहे कोणम्थे मङ्गळानाम्न्या जरठया सह सल्लापो ममासीत्तत एव गृहादयं गीतशब्दभ्समायातीति । तत्र महत्यङ्गणे कोणे. यत्र तद्ग्रहमासीत्कोष्ठके कश्चिद्दीपः प्रज्वल- नासीत्, यस्य खलु प्रकाशः पञ्चपान् हस्तान् प्रसरंस्तत्रैव विलीयमान आसीत् । ततोऽप्यनत. पदं निधातुं नासीत्साहसम् । अतश्च कुत्रचित्पार्थे स्थिताऽहं गीतं अंतुमारभे । शृणुत- अर्चयामि हृदि सन्निहितं त्वाम्, अर्पयामि हृदयं च मदीयम् । दुर्भगोऽन्यदिह किन्नु ददामि प्रीतिदानमिदमेब गृहाण ।। यदा गानं समाप्तमयत् तदा गद्देन म्वरेण प्रस्वलता शब्देन कथयतः कस्यचिदिमान् शब्दानशृणवम्-अहो ! धन्याऽसि !! किं कथ्यतां प्राणप्रिये श्रवणमात्र एवास्य शब्दस्य कर्णो मे स्तम्भितावभूताम् । देव्या राज्ञया गानमधिकृत्य कुत एतादृशमुत्तरम् ? 'यद्वा तद्वा भवतु । अहन्तु रहस्यमिदमवश्यमेव प्रकटयिप्यामि' इति निश्चित्य मन्दं मन्दं द्वारस्य समीपमुपागाम् । ततः कवाटरन्ध्रेग यदहमपश्यं तेन तु हृदयमेव विदीर्ण- मभूत्, सर्वाङ्गीणश्च रोमाञ्च इवाजायत । ज्ञानं च व्यलुप्यतेय । मनस्त- दानीमिदमेवाभिलपतिस्म-यभूमिर्विदीर्णा स्यादहं च न्तः प्रविष्ट भवे- यम्' इति । हन्त ! संसारः किमेवं घृणापात्रम् । किमयं स्वप्नः ? उत कस्यचिन्नायाविनो माया ? हा धिक् ! हा धिक, कीदृशं कुत्सितं दृश्यमाभ्यां नेत्राभ्याम्पश्यम् । चक्षुामनेरिव स्फुलिंगा निरसरन् , शिरसि च पतित- मिवाशनिना । कृत्सं शरीरं कम्पितुमारभत । शिरः प्रहृत्य यत्रासं तत्रैवोपा- विशम् । गाहं किमपि कथायितुं शक्नोमि, न विचारयितुम्, न वा लेखिनी- मतोऽप्यग्रतः प्रसारयितुम् ! शृणुत पाठकाः !. अस्य दुर्भगस्य कथां शृणुत ? गृहे तस्मिन् कः क उपविष्टः ? किं शुश्रूषन्ति ? साधु शृणुत ? ? ! ?

? ! । - यस्या दर्शनमात्रेण सर्वमिदं दुःखजातं पलायितं भवति, यस्या एकशब्द- श्रवणेनैव सर्वमिदं बाह्य वस्तुजातं विस्मरामि, या च संसारसागरे मज्जतोऽ स्य एकावलम्बनम्, सैव-सैव मम पालयित्री वीरजादेवी हस्ते मद्यस्य दर्पणमयी कुप्या दधाना केन सह सल्लपति ? अपि जानीथ यूयम् ? हन्त नेतोऽप्यहं वक्तुं शक्नोमि ! मम-मम तेनैव पित्रा सह ! चण्डालादधमेन, दुष्टेन, मम-मम पित्रा हरिहरबनर्जिना सह ! मदोन्मत्तो मम पिताऽवादीत् – 'इतोऽप्येकं चषकम्, अद्य में सुदि- नम्, अद्य में महानुत्सवः, स्रावय सावय, अहहह ! महानानन्दः किम् प्रिये !" यस्य किलाग्रे रूपस्य नदी प्रवत्स किं स्थिरम्तिष्ठेत् ! स मद्ययो वीरजादेव्या आकर्षणाय हस्तौ प्रसारयितुमारभत, वीरजा तु कौशलेन झटिति तस्य मुखे मद्यस्यैकं चषकमदात् । मद्यपोऽब्रवीत् -''अहह ,एका कुप्याऽन्याऽपि समुद्घाट्यताम्,अस्तु, पुनरप्येकदा गायस्व तावत् ।" वीरजा तु तत्क्षणादेव गातुमारभत- उरसा हृदयं स गळेन गळं नयनेन दृशं परिमृश्य गतः । अवबोध्य वियोगशुचिं हृदये परिपोप्य व रागमहो क गतः ।। 'अरे ! तव दासस्तु तव चरणयोरध एव पतितो वर्तते' इत्युक्त्वा स मद्यपस्तस्याश्चरणयोरधोऽलुठत् । मया पितृनाम्नस्तस्य दुष्टात्मनो घृणितं कार्यजातं कियदूरं लिख्य- ताम् । प्रायो मद्यपा यद्यस्कुर्वन्ति, यच्च शक्यं कर्तुं तत्सर्वं सोकरोत् । परन्त्विदमेवात्राश्चर्य स्थानम् -यद्देवी राज्ञी तदीयस्य कस्यापि प्रत्युत्तरमेव नादाल । किन्तु किंचित्किञ्चिस्मयन्ती तं चषकादनन्तरं चपकमिति क्रमेण मद्यं पाययन्ती, गानाज्ञायां कृतायां विगैव विळम्बं गायन्ती चासीत् ।

यादृशेनावधानन चातुर्येण च सा तेन मद्यपेन सहालापं कुर्वन्त्या- सीत्तस्य सर्वस्य पालोचने महताऽऽश्चर्येणाविष्टं भवति चेतः । नास्पृशत्, न वावालम्वत, केबलं बुद्धिवलेन ते स्थिरं कुर्वन्त्यासीत् । तर्हि किमिदं सर्व काल्पनिकम् ? किं कस्याप्यावश्यकस्य कार्यस्य साधनायैव देव्या राश्या भूमिकेयमाश्चर्यंतरा धृता । अथ किम्, नूनमित्थमेव । न चेद्देवी राज्ञी किमेतादृशं घृणावहं कार्य केनचिन्मद्यपेन सह कुर्यात् । स मद्यपोऽपि यादृशस्तादृशो न, यम- हमष्टादशवर्षान्पितेति समबोधयम् । एवं कदापि नैव भवेत् ,नूनमस्ति किमपि रहस्यमत्र । सत्यं सत्यम्, अद्य स्मरामि गोविन्दलालस्य वचनम् । स हि कस्यचि- दाश्चर्यमयस्य कृत्यस्य प्रदर्शनाय मामेतावस्मानयत् । अकथयदपि सा लीला. सर्वाऽपि, काल्पनिक्येवेति । इदमेव तदद्भुतं कृत्यं नूनम् । इयतः कालादनन्तरं देवी राजयत्रवीत्.--"किं कृत्स्नामपि रात्रि सद्यमेव. पिवंस्थास्यसि ? अथ किमपि कार्यमपि करिष्यसि ?" मद्यप:--''इतोऽप्युत्तमं कायमेव किमस्ति ? यदि त्वमेवमेव चषक-- मापूर्यापूर्य दद्याः किमि ति कृत्स्ना रात्रिमिति कृत्रं जीवितकालमेव याप- यामिः । किं. शशिकाले ! अयमाननदो यावज्जीवं तिष्ठेत्खलु : पश्य,त्वदर्थेऽहं, वत्ससक्लिश्यन्नासम्, तव तु कियत्यपि दया नाभीत् । अद्य महता महता परिश्रमेण तवेन्दुनिभं वदनं समदृश्यत । किमितस्त्वां त्यक्तुं शक्नोमि । शशिमुखि ! शशिबाले ! एकम्-सघाडात्कारं स मद्यपो. घरायामपतत् । कुत एवम् ? देवी राज्ञी कुतोऽनेन शशिबालेति सम्बोद्धयते ! शशि- वाला ! शशिबाला ! इदं नाम मया पूर्वं यत्र कुत्रचिच्छुतम्, सम्यगहं स्म- समि, आम्, आम् स्मरामि सम्यक्-दशमाङ्कचिहिते कारागृहे भित्तौ लिखित. मासीत् ! देबि राज्ञि किं त्वमेव शशिबालाऽपि भवसि हन्त ! कीदृशी काट- नतमा प्रहेलिका ?

क्रमशश्च मद्यपस्य कण्ठोऽधिकाधिक रुद्धोऽभूत् । तेनैव रूद्धेन कण्ठेन शिथिलशिथिलेन स्वरेण सोऽवादीत्-"शशिबाले ! एकं चषकमि . तोऽपि, कण्ठः शुष्को भवति ।" "हि हि हि हि हि हि हि हि !" हसन्तीं शशिवालाऽब्रवीत्- नहि, नहि, एवं न दास्यामि, यदा त्वं तस्य प्रत्युत्तरं दास्यसि तदा दास्यामि ।" मद्यप:--''तूप्णी भव तूष्णीम्, अयं किल महत आनन्दस्य समयः प्रचरति, सर्वस्स वृत्तान्तस्तिष्ठतु,आनन्दं न विघातय, यद्भवति तदेव भवतु, उद्घाट्यतां कुप्यापिधानम्, विसाव्यताम् च मद्यम् ।" शशिबाला-"तहिं गच्छामि" । एतावदुक्त्वा शशिबालोदति- छत् । . मधपः-किं कुपिताऽसि ? प्राणप्रिये ? उपविशः उपविश, स्पृशामि. ते चरणौ, घर्पयामि नासिकाम्, किमिति मृतं मारयसि, उत्तिष्ठ, एक चपकं. देहि मे प्रिये " यदा शशिबालाऽऽत्मन उपवेशनाय मद्यपं हस्तौ प्रसारयन्तमपश्यत्तदा स्वयमेवोपाविशत् । एकं चपकं च मद्यपाय दत्वाऽवादीत्-"गच्छ, तिष्ठतु, तव कथनं प्रतिज्ञा च, सर्व मयाऽवलोकितम् । गच्छ, गच्छ, ज्ञातं मया खं महान् बञ्चक इति । किं मया कदापि मद्यं पूर्व स्पृष्टम्, केवलं तवैय प्रीत्यै तस्यार्थस्य श्रवणाय च मयेदं कृतम् न चेन्मम का नामावश्यकताऽसी, मद्यस्पर्शनस्य, कथयिष्यसि न वा ? न कथयासि चेत्.पश्य,अहं रोदिमि'' एतावत्कथयन्त्या एव तस्या नयनयोरदृश्यताश्रु । अहो ! साऽपि शोभा दर्शनीया नामासीत् । मद्यपोऽब्रवीत्-"कुतो न कथयिष्यामि., शशिवाले ! किगिति त्वं रोदिषि ! श्वस्सर्वं कथयामि, अद्य तु यचलति तदेव चलतु ।" शशिबालाऽब्रवीत्-"नहि नहि, तन्न भविष्यति, यद्यद्यैव सर्व वृत्ता- स्तं स्पष्टतया न कथयेस्तदा गच्छाम्यहं रायमानेतुम् । स आगत्य तवेद संसारचक्रम् । [२ भाग . । चरित्रं सर्वं निजाभ्यां नयनाभ्यां पश्यतु । त्वं किल बलात्कारेण मदीयं गृहं प्रविश्य मदीयं गौरवमपहर्तुमिच्छसि, कथय, सत्यं कथय, ब्रजेन्द्रभूषण- स्तव को भवति ? मद्यपस्तूच्चैर्गातुमारभत- "मालतीभूयछादय, हेममराजम् मालतीभूयछादय" देवी राज्ञी-"किमिदम् ! किमिति गातुमारब्धम् ? मद्यपः- “यदि त्वं राजन् मालतीभूयछादयेः-पीत्या विषं प्रियेयम, हेममराजन् मालतीभूयछादय, हेममराजन्" गायन्नेव स उन्मत्तवन्नतितुमारभत । देवी राज्ञी-"किमिदम्, उन्मत्तभावं किं प्रकट यसि ? यद्वा तद्वा' कुरु स्वम्, नाहं तव वाग्जाले पतिष्यामि, यदि चिकथयिषसि झटिति कश्रय, न चेद-यमुपायं प्रयोक्ष्ये । मद्यपः-"किमहं न शक्नोम्यन्यमुपायमवलम्बितुम् ? किमित्यधिकीक- रोषि वाचं शशिबाले, देवी राजी--"न कथयिष्यसि ?' मद्यपा- 'ब्रजेन्द्रः को वा ? कथम ज्ञास्यामि ? स तु त्वां केवलं वञ्चयन्नासीत् ? सर्वमिदं वाग्जातमद्य तिष्ठतु, उद्धाटयतां कुप्या । पश्यत्येव मयि देव्या राज्ञया वदनमारक्तमभवत्, परन्तु पुनरप्या- स्मानं संस्तभ्य सा चषकमेकं मद्येनापूर्यावादीत् । "हरिहरप्रभो ! न कथय, यथा तवेच्छा, अहं खीभूत्वा तव कि या करिष्यामि । अस्तु तल्लेख कनामशून्यं पत्रं कथमभूत्, यत्त्वन्निकटे समा- गतमभूत् ।" एतावतरशब्दस्य श्रवणमात्र एवं स मद्यपस्सम्भ्रान्त हवाभवत् । पर- Truary अहम् - "सर्व - इत्युक्त्वा तमपि चषकं पपौ । एतावत्येव समयेऽज्ञायत, यथा कश्चि- सोपानमार्गणागच्छति, अहं तु भीत इतस्ततः पश्यन्नेवासम् । गोविन्द- लालः पुरतो ममागतोऽभूत् । गोविन्दलालो हस्ते मां प्रगृझ एकतोऽनयत् अवादीच-“साधु साधु, भवता तु सम्बनाल्यं प्रकाशितम् । सर्वत्रापि विचिन्वतो मम यदा भवन्तो नापलब्धास्तदाऽत्या देव्यै राज्ञा वृत्तान्तमिमं कथयितुं गच्छन्ना- सम् । अस्तु, गहस्यान्तः कः ? दृष्टं किल?" दृष्टम् , यन्मया दृष्टं तेन शिरो घूर्णतीव" गोबिन्दलाल:- "इदमेव दर्शयितुं भवतोऽहमत्रानिनयिपुरभवम् । अस्तु, किमनेन गृहीतम् । अहम् - "देव्या राज्ञया, न ज्ञायते, कस्य वृत्तान्तस्यावगतये बहु प्रायत्यत, स तु किमपि नावदत् । परन्तु कस्यचिल्लेखक नामशन्यस्य पत्र- स्य नामश्रवणमात्रेण स किश्चिन्मृदुरभूत् । तत्पत्रं किं काल्पनिकम् उत सत्यम्" गोविन्दलाल: "सत्यमपि काल्पनिकमपि, किं केनाप्युपायेन स मार्गे नायाति?" अहम् -'"नहि, कथमपि नायाति ।" गोविन्दलालः किश्चिदालोच्यावदत् - ''स कि सुखमेव मार्गे समा- गच्छेत् ! अस्तु, इदं भवन्तः कुर्वन्तु कार्यम् । अहमन्तर्गच्छामि । यत्रा- सन् भवन्तस्तत्रैव गच्छन्तु । मया द्वारं पिहितम्, अतश्च नास्ति शङ्कापि कस्याप्यागमनस्य" गोविन्दलालोऽन्तरगच्छत्, द्वारदेश प्राप्य चातिष्ठत् । गोविन्दलालेऽ न्तः प्रविष्ट एव स मद्यपोऽवादीसोचैम्स्वरम् कः ? गोविन्दलाल ! आग- च्छ, आगच्छोपविश" एतावदुक्त्वा देव्या राज्ञयाः पुरतः स्थितां मद्यस्य कुप्यों गुहीत्वा चषके मद्यं विसाव्य गोविन्दलालमवादीत्-''गहाण, पिव मित्र ! अद्य हि महत आनन्दस्य समयः। बहोः कालादनन्तरं प्रियायाश्श- शिवालायास्समागमोऽभूत्" गोविन्दलालस्तु चपकं गृहीत्वा सविनयमवदत्-"अद्य मे भाग्यस्य नास्त्यवधिः, यत् स्वयं हरिहरप्रभुर्निजेन हस्तेन मद्यं विस्राव्य मह्यं ददाति, सम्बोधयति च श्रीमुखन, परन्तु कि मया श्रीमतां समक्षमेव मद्यपानेन धाऱ्या प्रकाशयितुं युक्तम्" इत्युक्त्वा गोविन्दलालश्चषकं गृहीत्वा किंचित्प्र- च्छन्ने स्थाने गत्वा, न ज्ञायते, तत्र मद्ये यत्किचिद्वस्तु सम्मेळयित्वा प्रत्या. गत्य निजे स्थाने समुपाविशत् ! कियतः कालादनन्तरं तदेव चषकं हरिह- राय दत्वा तैमपाययत् । देव्या राज्ञया साभिप्राया काचिद् दृष्टिगोविन्दलाले निपातिता,यस्या रहस्यमहं न जानामि । पश्यत्येव मयि हरिहरप्रभोर्मम पितुरवस्था परिव. र्तमानाऽऽसीत् । नेत्रे च स्थिरे अभूताम् । क्षणाच्च सोऽपि मूछितो न्यपत- क्षितौ । "किमेतत् ? गोविन्दलालेन किं विषं पायितः ? न चेदियद्रुतं कुतो ऽयं मूर्छितोऽभूत् । किं देव्या राज्ञया अनुमत्या कार्यमिदं जातम् ?" ततोऽपि तत्राहं स्थातुं नाशकम् । कवाटमुद्घाट्यान्तः प्राविशम् । मामन्तः प्रविशन्तमालोक्य देव्या राज्ञया साश्चर्यमुक्तम्-'त्वं कुतः? कि गगनात्प्रतितोऽसि ?' अहन्तु तस्य प्रत्युत्तरमदत्वैव झटिति निजपितुः पाच गत्वोपावि- शम् । तस्य वक्षसि हस्ते निहितेऽज्ञायत नायं मृत इति, यतो धुक् धुक् शब्शेऽश्रूयत । देव्या राज्ञया तु सोचैरेसमुक्तम्-'मा भैः, पिता तव नार्य मृतः, गोविन्दलाल ! मायाया महिमानं पश्यसि खलु ! अन्ततोऽपि पितैव खलु !" इति गोविन्दलालेनापि सहासमेवास्य किञ्चित्प्रत्युत्तरं दत्तम् । अहं तु लज्जयाऽवनतशिरा अभधम् ।

२-] देवी दानेवी वा। १७ देवी राज्ञी गोविन्दलालमवदत्-"प्रयोजनपर्यवसायि तु किमपि कार्य बाभूत् ,अस्तु,साधु,विचिनु तावदेवाम् कुश्चिकैको लभ्यते न वा पश्य" इति । गोविन्दलालेन तु सुचिरमन्विष्य हरिहरस्य करि देशात्काचिद् बृ- हती कुश्चिका निष्कासिता । देवी राज्ञी सानन्दमुधैरुदघोषयत् --'जयतु भगवान् परमात्मा ! एतावदिनानन्तरमाशा परिपूर्णा ऽभवत् । गोविन्दलाल ! अस्यामेव कुञ्चिकायां संच रहस्यं छन्नमस्तीति रायान्मया श्रुतम् । गोविन्दलाल:--किं तत् ?" देवी राज्ञी-"अस्तु, शृणु । अद्य प्रातरेव रायो हरिहरश्च किश्चि- दालोचयन्तावभवताम्, मया छन्नया सर्व श्रुतम्, परन्त्ववगन्तुं नाशकम् । अस्याः कुञ्चिकाया विषये बहवो गुप्ता वृत्तान्तास्सन्ति, येवामिदानी कथ- नस्य नास्ति काऽध्यावश्यकता । हरिहरप्रभुं सयहस्ते कुञ्चिकां वितरन्त. महमपश्यम् । यदा रायो गतस्तदाऽहं हरिहरप्रभोनिकटेऽगच्छम् । स तु मां दृष्टैव महताऽऽनन्देनोत्प्लुत इवाभवत् । किं कथ्यताम् . कुञ्चिकाया एव निमित्ते मयाध गणिकात्वमप्यवलम्बनीयमासीत् । " एवं कथयन्त्या एव देव्या राज्ञया नेत्राभ्यामश्रु प्रावर्तत धारया । मुखं च मलिनमभूत् । कियतः कालादनन्तरं देवी राज्ञी पुनरवदत् - 'न युक्तमितो विळं- बाचरणम्, जयपालमाडूय हरिहरं तदधीनं कुरु, यथा च स एतदीयानां प्रश्नानां सभ्यमुत्तरं दद्यात्तथोपदिश च तस्मै ।" गोविन्दलाल:-"तर्हि किं भवन्तोऽद्यैवेतः प्रस्थास्यन्ति ।" देवी राजी-"अत्रापि कस्सन्देहः, अस्तु रायोऽद्यापि किं तत्रैव चर्तते ? कथय ।" गोविन्दलाल:-"अथ किम्, तत्रैवं वर्तते । देवी राज्ञी-"तर्हि सोऽपि किञ्चिद् द्रष्टव्यः, अद्य कस्समयः ?" गोविन्दलाला - 'किञ्चिन्न्यूनाधिकभावेन दशघण्टावादनस्य" देव्या ससम्भ्रममुक्तम्-'"तर्हि झटिति गन्तव्यम्, त्वं जयपालहस्ते कार्य समर्प्य श्मशानघटे नौकया सह सन्नद्धस्तिष्ठ ।"

ससारचक्रम्। भाग गोविन्दलालोऽगच्छत्, तदा देवी मामवदत् - "आयाहि, अन्य- दद्भुतमेकं प्रदर्शयामि ।" देव्या राज्ञयाः कार्यशैलीमप्रतिमां बुद्धिमतिमानुषं चेष्टितं चावलो- क्याहमन्याहश इवाभवम् । अहमवाक्यो भूत्वा तस्या मुखं निरीक्षमाण आसम् । देवी राज्ञी सम्यगहसत्, मधुरेण स्वरेण मामवदञ्च -"आगच्छ, उत्तिष्ठ, किमित्युपविष्टोऽसि ।" हस्ते प्रगृह्य स मामुत्थापयाम अहन्तु प्रेमगद्गदेन कण्ठेनावदम्-'कुत्र गच्छेयम् ? त्वया सह कियञ्चिरमहं भ्रमामि । मादृशस्य क्षुद्रतमस्य प्राणिनः कृते किमितीयत् कष्टमाद्रियसे ? मम नेत्रयोरावरणमपसारय ? प्रदर्शय मार्ग मे । मज्जन्तं संसारे समुद्धर ! स्पष्टं कथय च-"काऽसि त्वम् ? देवी दानवी वा ?" इति संसारचक्रे द्वितीयभागे द्वितीयं चक्रम् । अथ तृतीयं चक्रम् । ( भैरवीचक्रम् ।) श्वशुरगृहमित्युक्त्वा ममान्यादृशेन पित्राऽहं यत्पुरातनं खण्डगृहं भीतः, यतो वेयत्यापन्मम शिरस्यारुहत्, तस्यैवाहमद्य खण्डगृहस्य पृष्ठभाग- स्थेन गुप्तमार्गेण देवीं राज्ञीमनुसृत्य गच्छामि । महता परिश्रमेणान्धतमसा- वृतं मार्गमतिक्रम्य यदा समीपमवापं तदा गङ्गाधरं दीपहस्तं तिष्ठन्तमप- यम् । ततश्च वयं त्रयोऽपि सोपानमार्गेणोपरि गन्तुं प्रावर्तिष्महि । शिरो- गृहं प्राप्तेषु चास्मासु देवी राज्ञयषट्कर्ण गङ्गाधरेण किञ्चित्सल्लप्य परावृत्य मामब्रवीत् --- "त्वं गङ्गाधरेण सहात्रैव तिष्ठ, अहं तत्रत्यामवस्थामवलोक्य झटित्येवागच्छ.मि" एतावदुक्त्वा च गङ्गाधरहस्ताद्दीपं गृहीत्वा देवी राज्ञी मातिष्ठत ।

च] भैरवीचक्रम् । . . तत्रान्धतमसावृते स्थाने निश्शब्दे गङ्गाधरमहं वहून्प्रश्नानपृच्छम् । ङ्गाधरस्तु कस्याप्युत्तरमदत्या "किमहं कथयामि, देवी राज्ञयेवाद्यैव सर्व थयिष्यति" इत्येतावदेवाकथयत् । एतावत्येव समये समागता देवी राज्ञी "गङ्गाधर ! त्वं गच्छ,महताऽ धानेन चतुरन्तयानेन सह तत्र सन्नद्धस्तिष्ठ, गृहाण तवेमं दीपम्' इत्य- दत् । गङ्गाधरस्तु गृहीतदीपो न जानामि कुत्र गत इति । देवी राज्ञयत्रतः, अहं च तस्याः पृष्ठतो गन्तुं प्रावर्तिध्वहि, बहू- स्पगृहानङ्गणानि चातिक्रम्य किञ्चिदनावृतं स्थानमापिव । तत्र प्राप्तयो- वयोः कश्चिन्महान् हासशब्दोऽश्रूयत । अहं देवीं राज्ञीमपृच्छम्- "कुत्र नियसि, कथय किं नामेदम् ?" इति । देवी राज्ञयब्रवीत् - ''कार्यमिदमतिमहत्, नास्ति सर्वस्य तस्य धनस्यावश्यकता, केवलमेकं दर्शयितुं त्वामहमत्रानयम्' इति । एतावत्येव परप्येको महान् हासशब्दोऽश्रूयतः । सान्तावेवावां तत्स्थानमगच्छाव; जोऽयं हासशब्दस्समायाति । देवी राज्ञयब्रवीत्-'ननु गच्छावः, पश्यावश्च गवाक्षरन्ध्रेण क ऽस्ति गृहाभ्यन्तर इति' इति । ततोऽहं गवाक्षमार्गेणान्तरपश्यम् । यदपश्यम् तेन मनुष्याणां रेत्रेषु विशेषतश्च मायाविनीनां स्त्रीणां चरित्रेषु घृणा नाम समपद्यत ती । तत्राहं किमपश्यमितिचेत् ? शुद्धचरित्रस्य देवनारायणमुखोपा- यस्य परमप्रेमपात्रं श्रीमतों जयकालीदेवी मद्यपानमत्तां रायस्योत्सङ्गे विष्टाम्, तत इतो भूमौ निहितं मद्यकुप्याः, चपकानि, मद्यपजनोचित यं भोज्यं इत्यादिकं रायस्य परितस्तस्योत्साहवर्धनानि तद्वचनोचितानि नानि सोल्लासं कथयतश्च शङ्करादीन् । देवी. राज्ञी कुत्सितमिदं दृश्यं निरीक्ष्य मन्दं मन्दं मामवदत्-"दृष्टं ल, यथाऽस्यास्स्वभावेन परिणतम् ? महापुरुषस्य. पली नाम भूत्वा [[ऽद्य पश्यतोहरस्योत्सङ्गे सुखं निविष्टा ?

एतावत्येव न जाने गद्गदेन स्वरेण जयकाळया किञ्चिदुक्तम्, यदधिकृत्यान्तः कश्चिदुच्चाट्टहासोऽभूत्, येनावायोश्श्रोत्रभित्ती फलिते इव । रायः प्रेमगद्गदमवदत्-' प्रिये ! रात्रिमिमां सहस्व,मया सः उपायोs बलम्बितः, येन कोऽपि नावशिध्येत । तस्य तु पुनश्छिन्नं शिरश्वः प्रात- स्तुभ्यं नूनं दर्शयामि । त्वन्निमित्तनैव कियट्यो दिवसेभ्योऽहं बहिर्गन्तुं नाशकम्, नो चेदितः पूर्वमेव स संयमिनी प्रापितस्स्यात् । अस्तु रात्रिरेव. हि विळम्बः, श्वस्तु पश्यः किं भवती" ति ? जयकाळी तु रायदर्शितेन प्रेम्णा विहलाऽवदत्-"अरे त्वं तु नित्य- मैक्मेवः कथयन्नसि । न त्वया किञ्चिदभून्न. भविष्यति ! पश्य ! मया तु, निजः पतिरपि. विषमपिः पायितोऽभूत् । न जानामि स दुष्टः कथं पुनरुज्जी- विरोऽभूदिति । कथं स चिताया. प्रत्यावृत्तोऽभूत् ? नूनं सर्वमिदं तस्यैक वैवयेयस्थ, कृत्यम ! त्वं तु महान् मूर्खः, गर्दभादपि नीचोऽसि ? अति. क्षुद्रे कुत्रचिबालकेऽपि. तव. न. फलति किमपि । तस्मिन् दिने. रात्रौ निर्मल परिगृह्या गळमर्दनेनः मारयितुमुद्यतायामेव मयि न जाने केनः नाळीकयन्त्रं प्रयुक्तम्, अस्मांश्च हस्तवाददण्डघातेन प्रहृत्य मूर्छितान् कृत्वा सः उन्मो-- चितोऽभूत् । त्वमिमां शशिबालां साधारणी न जानीहि, इयं विपलिप्तो बाणः। सर्वमिदं कृत्यं तस्या एव । त्वं त्विदमपि न जानासीवः। प्रथमतस्तु सैक धूर्ती मारणीया । अरे त्वया तु किमपि न भवति । गच्छ, नेतोऽहं किमफि कथयामि" इति । रायस्तदीयं वदनं परिचुम्ब्यः सप्रेमाविष्करणमवदत्-"प्रिये यकि- चिद्वक्तुमिच्छसि तदद्यैव कथय,श्वोऽर्थे किमपि नावशेषय.! व्रजेन्द्रस्यःमारणं किं दुस्साधं कार्यम् ! तं तु मृतमेवाचगच्छ । केवलं हरिहरस्य कथनेन. स. इच्छापूर्वकमेव मया त्यक्तः, यतस्तेन साधनीयं किञ्चिदावश्यकं कायमस्तिा घरन्तु नास्ति किमपि भयस्य स्थानम् । स खलु कारागृहमद्य प्रापितोऽ स्ति । तस्य कोऽप्युपायो न फलेत् । निश्चितं. जानीहि कार्य समाप्तमेवः । शशिबालाविषये यत्चयोक्तम्, तत्र किमहं कुर्याम् । । तव भगिन्यैव सर्वोऽ ।

m ययमनर्थ आपादितः। तस्याः कपिमुष्टिभावेनैव हि. सर्वमिदभत्याहित पातम्" इतिः ।। रायस्य मुखानिजभगिनीनामश्रवणमात्रेण जयकाळया दुःखमिवा- हायत । खिन्नमना विवर्णवदना च साऽवदत्-"यतः कुतोऽपि वा मम गिनीमानीय देहि । युष्माभिरेवं सा यत्र कुत्रचिच्छन्नं स्थापिता । प्रति- देनमेव कथायसि. श्व आगमिष्यति व आगमिष्यतीति । परन्तु नाधाप्या. ति सा । मनसि मम. सन्देह इवोपजायते । सत्यं कथया, सा जीवति लु" इति । राय:-"उन्मत्तवत्किमेवं प्रलपसिः । यदहं कथयामि,शृणुः । एकदा मा काचन पत्रिकाग्रन्थिनिष्कासिता, यस्या एवास्माकं जीवनं मरण धीनम् । दैवाच्च तव भगिन्यपि तत्रागताऽचिन्तितम् । तानि च पत्रा- पवलोकितुमैच्छत्सा । महदेवाकरोन्निर्बन्धम् । किंः क्रियताम् ? त्वयिः द्भगिन्यां च स्नेहेन यन्त्रितोऽदर्शयमनिच्छन्नपि तस्यै तानि पत्राणि । शयित्वा च यावदहं तानि पत्राण्येकीकृत्य, कुत्रचिदेकान्तेः स्थापयामि, वदेव फकीरचन्द्रसोच्छ्वासं पलाय्यागतोऽवदत् -"आगच्छत. ! आगा-- त.! महाननर्थो जातः । देवनारायणमुखोपाध्यायो जयकाळी मध्ये पणि परित्यक्तुं सत्नह्यति. ।' परित्यक्तां च तां. योऽभिलपेत्स एवापहरेत्" ते । एतावच्छ्रुत्वापि किमहं स्थातुं शक्नुयाम ? मध्येविपणि किं तापमान तिं सहेयः ! तत्क्षणमेव ततो निगच्छन्नहं शैघ्रयेण तां पत्रग्रन्थि त्वद्भगि:- हस्ते दत्वाऽविळम्बेन त्वां रक्षितुं विपणिमागतोऽभवम् । ततः परं च इभवत्तत् त्वं जानास्येव ।" रायस्येदं वचनं श्रुतवतो मम सा ग्रन्थिस्स्मृतिपथमारुहत्, यामहं ण्डगृहस्य भूगर्भान्निकास्य कस्यचिदृक्षस्याधो. भूमध्ये निहितवानस्मि । न्तु नाहं तदानीं निश्चेतुमशकम् 'रायः कां पोट्टलिकामधिकृत्य कथयतीति । थापीदं त्वज्ञायत-जयकाळया भगिन्येभिरेव विशस्ताः खण्डगृहस्यः तस्य रिपे. यस्य चर्चापूर्व कुत्रचिदागता भूमौ निक्षिप्ततिः । कदाचिज्जयकाळीदं . *- रहस्यं न जानाति । मनसि तु अस्फुरजयकाळ्यै कथयामि-'तव भगिनी नाद्याम्मिन् जगत्यस्ति, किन्तु तत्र वर्तते, यतः कोऽपि न पुनरावर्तते' इति परन्तु देव्या राज्ञयाः प्रतिषेधेन मया किमपि नोक्तम् । एतावति काले काचिदन्या कुप्यापि मधस्य शून्याऽभूत् । भैरवी.-. वक्रस्यास्य भैरवीस्थानीयाया जयकाळ्याः प्रसादं रायप्रभृतयस्सर्वेऽपि महता म्णा पपुः । ततः किम् ? हसनम्, रोदनम्, उत्थानम् , पतनम्, इत्यादिकं. द्यपानां यदुचितं तत्सर्वं प्रावर्तत, यदवलोकनेन शिरो मम धूर्णितमिया-- बवत् । किन्तु धन्या सा देवी ! राज्ञी ! या किलानिमिषाभ्यां लोचनाभ्यां र्वमिदमवलोकयन्त्यासीत् । तत्र मद्यपानां विचित्रैव दशाऽऽसीत् । सर्वेऽपि मद्यस्य मादकतया तचेतना इवादृश्यन्त । एवं स्थिते कश्चिद्युब', यः किल रूपेणैव शुद्ध वाश्यत, तेनैव गवाक्षण-~येनावामन्तः पश्यावः, अस्मान् पुनः पुनः श्यन्नवालोक्यत । दृष्ट्वेदं देव्या राज्ञया अप्यैकाप्रयं किञ्चिद्भग्नमभूत् । ऽपि किञ्चिदितस्ततो द्रष्टुमारभत । अन्तः पुनरन्यो हासशब्दोऽभवत् । रायो जयकाळ्याः कण्ठे हस्तं धाय नर्तितुमारभत । अन्ये ऽपि तथैवोत्पतितुं निपतितुं चारभन्त । एतावत्येव सहखटात्कारेण कयाटिकोद्घाटिताऽभूत् । स च युवा यः बमुक्तः, पुरत, आवयोरदृश्यत । भय विस्मयाभ्यां तदानीं विचित्रैव में. शाऽभवत् । तेन यूना न जानामि, मन्दं मन्दं देव्या राज्ञयाः कर्णे किमप्यु- म्, यदहं किञ्चिदपि ज्ञातुं नाशकम् । किन्तु देव्या राज्ञया मुखनिस्सृता- तान्यक्षराणि परं श्रुतानि-"आं विजय ! अयमेव समयः" इतिः । इद- स्वा च न जानामि देव्या राज्ञया किं तस्य हस्ते दत्तम् । स च तद्गृही- झटित्यन्तः प्रविष्टः पुनस्वस्थाने समुपाविशत् । स युवा कियन्तंचित्कालं तूष्णीमवस्थाय; ततो. मद्यभरितां काञ्चन. या हस्ते गृहीत्वा रायस्य पुरतो गत्वाऽतिष्ठत् । अथ. दीपसमीपं गतः •" ते जगदिदं विस्मृत्याचेतना भूमावपतन् । स एव केवलमेककस्सचेतनोऽवतेतः येन सर्वेऽपि मद्यं पारिताः । अनन्तरं च स युवा नौ निरीक्ष्यावदत् - 'सर्वमस्ति समुचितम्- आगच्छत विनाऽऽक्षेपम् ' इति । श्रुत्वैवेदं देवी राज्ञी पुरतोऽक्रमत् । अहमपि तामन्वगच्छम् । प्रावि- शाव चतगृहम् । स युवाऽबिळम्बयन् शयस्य शरीरेऽन्वेष्टुमारभत । देवी राज्ञयपि जयकाळ्या अङ्गानि परीक्षितुमारभत । स युवाऽवादीत्-"तत्तु पत्रं न लभ्यते ! किमभूत् ? आसायं तु तद्रायस्य निकट एवाभूत् । अन्यत्र यत्र कुत्र वां निक्षिप्यागतः किम् ? भवती पश्यतु अप्यस्ति जयकाळ्या निकटे है सा हि प्रातरारभ्य पत्रिकाथ रायमनुसरन्त्यासीत्" इति । तथैवाभूदपि । यूनः कथनं सत्यमेवाभूत् । वलन्वेषणानन्तरं देवी राज्ञी जयकाळ्याः कटेः कांचित्पत्रिका निष्कास्याब्रवीत्-"पश्य, अपीय- मेव स्यात्' । यूनापि सहर्षमुक्तम् -"आम् -आम्-इयमेव । " देवी राज्ञी मामब्रवीत्-'दीपस्य समीपं गत्वा पठेमाम् , पश्यामः किमत्रं लिखित मिति" इति । तस्मिन् गृहे पश्चिमभागे प्रज्वलतः कस्यचिद्दीपस्यालोके तदपठं पत्रम् । तत्रैवं लिखितमासीत्- ॥ श्रीः ।। प्रिया रामचन्द्रप्रभुवराः ! किमद्यावधि भवन्तस्तत्कार्यं कर्तुं नाशकन् है कश्चिदतिक्षुद्रो वालो भवादृशां बुद्धिमतामपि दृष्टिषु धूळिं प्रक्षेप्तुं शक्नोतीत्ययमंशः कदापि मया मनस्यपि नालोचितोऽभूत् । अस्तु, इदानीं तदीयप्राणापहारस्य 1 .

नास्ति विशेषत आवश्यकता । परन्तु तस्य कार्यस्य समाप्तौ यदुचित प्रति- भाति तथा क्रियताम् । अद्य तु तस्य कारागृहे स्थापनमेवास्माकं प्रधानं कर्म । सा कुञ्चिकाऽद्यापि ममैव हस्तेऽस्ति । यानि पत्राण्यधिकृत्य भवद्भिलिखितं तानि नेदानीमहं प्रेषयितुं शक्नोमि, यतस्तानि कल्कत्ता- स्थे गृहे तिष्ठन्ति, येषां सर्व वृत्तान्तजातं मम विश्वासपात्रस्य पत्रवाहकस्य मुखाज्ञायेल । शशिबालायाः पृथक्करणम्, अथ कियन्तिचिदिनानि मन्निकटे स्थापन चा मदभिप्रायस्य न विरुद्धम्, अस्य कारणं तु भवन्तो जानन्त्येव । कि- मधिकं लिख्यताम् इति- भवतां सदैव- स एव । पुनश्च देवनारायणश्छन्नो वर्तते । निर्मलकुमार एवं कृत्वस्य वस्तुजातस्य स्वामी वर्तते । शीघ्रमुत्तरं प्रेषयन्तु ।' पत्रिकायां लेखकस्य नाम नासीत्, न या दिनं लिखितमासीत् । मया तु हरिहरप्रभुणैव लिखितमिदं पत्रमित्यमन्यत । देवी राज्ञी मामब्रवीत्-"पत्रिकाया अस्या अर्थः कोऽपि अवगतो या ?" । अहमवदम्-"नहि नहि, सवोऽपि नावगतः, केन लिखितं कस्मा इति न ज्ञायते । अयं रामचन्द्रप्रभुः कः !" देवी-"भवदीयो राय एव रामचन्द्रप्रभुः । लेखकस्तु तव प्रियः पिता, खदुपरि कीदृशमनर्थ कर्तुमिच्छन्ति, पश्यसि खलु ! तव पिता श्वशुरश्च त्वां मारयितुं नेच्छतः । । त्वदीयस्य पितुर्मदावश्यकता विशेषतोऽ स्ति, ज्ञातं किल ?" इति । अहन्तु लजयाऽवनतकन्धरोऽभवम् । देवी राज्ञी तादृशमेव किञ्चि- त्पत्रं निजवस्त्राञ्चलान्निष्कास्य जयकाळ्याः कटौ न्यधात् । कोऽस्याभिप्रायः देवी राज्ञी जानाति ।

।
8
देवी राजी युवानमब्रवीत् - विजय ! रात्रिरधिकं गता, न वयमत्र
चिरं स्थातुं शक्नुमः । त्वमप्यत्रैव कुत्रचित्कोणे एतानेवासंरम्पतितस्तिष्ठ ।
यदैते समुत्तिष्ठेयुस्तदा त्वमप्युत्तिष्ठ । यद्यदेते कुर्युस्तदेवं स्वयंगि कुस' इति ।
विजयं बोधनीय बोधयित्वा तत्पत्रं गृही वा चं. देवी रोजी ततः
प्रातिष्ठत । अहमपि तामन्वसरम् । किं यहूरगमनानन्तरंमात्रां कस्यचिद्वनस्थं
समीपं प्रापिर्व।
कुतोऽपि गंगाधरस्समागत्य देवीं राज्ञों प्राणमत् । देवी तेंमः
च्छल - "गङ्गाधर ! यत्कार्यमुद्दिश्य वयमागतास्स्मः; ईश्वरस्य कृपया तपः
र्थपूर्यत । तव चतुरन्तयानं कुत्रास्ते ?),
गलाधरः-"आन्दोळिका तस्य वृक्षस्याधः स्थापिताऽऽस्ते
देवी-"तर्हि तत्र गच्छामः ।
त्रयोऽपि वयं वेगेन गन्तुं पांवर्तिष्महि । मध्यमार्ग चाहं देवी राज्ञी-
मपृच्छम्-'अंध वयं कुत्र गच्छामः" इति ।
देवी-"नाहमस्मि शनोमीदमद्यैव कथयितुम् । समये समुपस्थिते
सर्व स्वयमेव स्पष्टीभविष्यति ।"
गङ्गाधारोऽप्रतः, देवी राज्ञी मंध्यतः, अहं चं तामनु पृष्ठतः गच्छामः'
कियदुरगमनानन्तरं गङ्गाधरो निरुद्धगतिरभूत् । अवदच्च-"आयोळिका
त्वत्रैव वर्तते
। वाहकाः किम(वायतव्याः" देवी राज्ञी : तदुत्तरतयाs
कथयत्-"अर्थ किम् , अद्यैवानंय, अद्यापि बहूनि कार्याण्यवशिष्यन्ते ।।
गंगाधरोऽन्धकारे निलीनोऽभवत् । पश्यतोरेवा योश्चतुर्भिरुखमा
नयाऽऽन्दोळिकयां सह पुनरागच्छत् ।
देवी राजेंयंत्रवीत् - 'यत्किश्चिन्मयोक्तम्. तत्सर्व क्मयते किल ।'
गङ्गाधरः-"अथ किम्: सर्व स्मरामि । ''
देवी-"तर्हि किमावां गच्छाव ।"
गङ्गाधरः-"कामं गच्छताम् ।

संसारचक्रम् । [२-भाग देवी राज्यहं चान्दोळिकामामुपाविशाव ।, वाहकाश्चान्दोलिका स्कन्धे निधाय महता वेगेन निश्शब्दपदमेकतो गन्तुं प्रावर्तन्त । गच्छन्नेव चाहमचिन्तयम्-'कोऽयमपूर्वो भयङ्करो व्यापारः ! किञ्चदं भीषणं भैरवीचक्रम्" इति । हनि संसारचक्रे द्वितीयभागे तृतीयं चक्रम् । अथ चतुर्थं चक्रम् । ( नौकारोहणम् । ) रात्रेरयं समयः । अन्धतमसेन कृत्स्ने भूमण्डले निजोऽधिकारस्था- पितो वर्तते । जगत्पावयित्र्यां जाह्नव्यामुत्ताळास्तरङ्गा उत्पतन्ति । एकादशे समये यत्र सर्वेऽपि प्राणिनो निजं निजं कष्टं विस्मृत्य निद्रादेव्या सल्लपन्ति सप्रेमभरम्', अहं देवी राज्ञी च कुत्रचिन्नौकायामारूढौ गच्छावः । नौकाया- मस्यामेक एव नाविकोऽस्ति । अन्धकारेण तु नाहमशकं ज्ञातुं नौका कुत्र यातीति । नौकाया . अन्तः फलकस्योपरि कश्चित्स्वच्छस्सुन्दरश्च विस्तर आस्तृतोऽस्ति, यत्र देवी राज्ञी निविष्टाऽभूत्, अहं च समीप एव कियद्दूरे शिरःपार्श्वे सन्निविष्टोऽभवम् । अहं मद्विषयकान् बहून् वृत्तान्तानपुच्छम्, देवी राज्ञी तु कस्यापि प्रश्नस्य सम्यगुत्तरं नादात्, परन्तु बहून्गुप्तानर्था- प्रकाशयामास, यानहं तेषु तेषु समयेषु प्रकाशयिष्यामि । देवीं राज्ञीमहमपृच्छम्-"किमयैव रात्रावावा प्रतिनिवृत्तौ भवि- ष्यावः ?" इति । देवी-"इदमद्यैवाहं कथयितुं न शक्नोमि" अहस-नौकारोहणसमये यामीत्यवादविकतो देवी-"सर्व कथयामि । धैर्यमवलम्बस्व । यदा त्वमष्टादश वर्षान् निजमातापित्रोस्सकाश आसीस्तदा किं कस्मिन्नपि विषये कदापि कोऽपि 'सन्देहों नासीत् ।" अहम्- "नहि, कदापि नहि, कुतो का ममें सन्देहो भवतु ? कस्याप्यर्थस्य नासीन्न्यूनता, सुखेनायासीत्समयः । मातापितरौ तु मां दृष्टिंविषय एवास्थापयताम् । प्रामवर्तिभिः पार्श्वगृहवर्तिभिरपि बालेस्सह कीडनमपि प्रतिषिद्धमासीत् । पाठशालायां तु कदाप्यहं प्रवेशित एव नामू. वम् । गृह एवागत्याध्यापकाः पाठयन्ति स्म । परन्त्विदमेवाश्चर्यमासीत् -- यत्सोऽध्यापकोऽप्येकान्ते मया न सङ्गच्छतेस्मेति । "देवी-"तस्याध्यापकस्य गृहं कुत्रान्ते ? जानासि वा ?" अहम्-"न कमप्यहमपृच्छम्, न कोऽप्यज्ञापयद्वा ।' देवी- तव गृहे किं कदापि ज्ञातयस्सम्बन्धिनः कोऽपि समागच्छन्तो जाभवन् ।" अहम्-"कुतो नागच्छन्तोऽभवन् , किन्तु मम तैसह कोऽपि विशे- षसल्लापो न भवतिस्म, यतो मम तातस्तेषां निकट विशेषतोऽवस्थानेऽवका. शमेव न ददातिस्म । * देवी-“अस्तु, तव तातेनं किं तव पितामहादीनां नामानि वा, कुलनाम वा कदापि तुभ्यं नोक्तम्" अहम् -"नहि नहि" दैत्री:-.-"हरिहरप्रभोर्नाम्ना किं पत्रिकास्समागच्छेयुः ?' अहम् --"अथ किम्" देवी- 'किं त्वन्नाम्नापि यदा कदा वाऽपि पत्रिका समागच्छेत् ! अहम् - (स्मरणमभिनीय ) "अथ किम्, यदा कदा. वापि मम नाम्नाऽपि समायणप्रातिभाव्यानि ( Registered ) पत्राण्यागच्छेयुः । देवीं राज्ञयथायोपाविशत्। आक्षिप्तेवावदन्च-. "कथामिदं त्वमज्ञासी, कथय तावत् ।" .

संसारचक्रम् ।। अहमप्युत्थित, उपाविशम्, किश्चिदालाच्चैवमवढं च--- -'किश्चिः रन्यूनाधिकभावेन, पञ्चवर्मा अतीतासन्युः एकस्मिन् दिने तातो मम निजो- पवेशनगृहस्य पाश्चस्थेऽल्पीयसि गृहे समुपविष्टो न जानामि. केनापिः सह सवै निम्यं सल्लपन्नवर्तत । देवाबाहमप्युपवेशनगृहमगच्छम्, यत्र स्थितेनः तयोम्सलापस्मभ्यक्लोतुं शक्यते । तयोत्सल्लापमध्ये निजं नाम श्रुत्वाऽहमप्य- वधानेन कणावेकानौ कृत्वा सल्लापं तुमारभेः । तातो मौवं कथयन्नासीत्। 'स्वं कु नाम में भयं दर्शयसि ? मनसि मम यथा प्रतिभाति तथा कुर्यान् ? इदं सप्रापणयातिभाध्यं पत्रं ब्रजेन्द्रस्य हस्तं. कश्चिदपि न प्राप्स्यतिः । यथाऽअधि. हस्ताक्षराणि कृत्वाहं पत्राणि गृहन्नासं तथैवाद्यापि गृहीप्यामि। व्यर्थमेवाधिकशब्दकथनेन किं वा फलम् ? यदि त्वमिदमङ्गीकरिष्यसि काम: दास्यामि पञ्चषाणि रूप्याण्याधिकमपि. तुभ्यम् । परन्तुः पत्रमिदं व्रजेन्द्रस्य हस्ते कदापि न दास्यामि " इति । ततश्च, सकटात्कार काटिकोद्घाटि- ताऽभूत् । अहमपि ततो व्यगळम् । पत्रिकाविषयमहमेतावदेव जानामि " इति । देवी-'येन सह तव पितुरयं सल्लापोऽभवत्, किं त्वं जानासिः तम् ? अहम् - "नहि नहि" देवी-“अस्तु, तव पिता पत्रिकादिकं कुत्र; स्थापयति । अपि जानाति तत्स्थानम् ? अहम् - 'नाहि, किमपि न ।" देवी राज्ञी पुनरप्यास्तरणे. सन्निविष्टाऽभवत् । अहं गवाक्षमुद्धाट्यः याक्त्यश्यामि, तावत् ‘बाग् बाजार': स्थानं पृष्ठतो गतमज्ञासिषम् । तेन च निरचिनवं, नौकयं कलकत्तानगरं प्रति गच्छन्तीतिः । देवी राजी नाविकमवदत् - गोविन्दलाल ! किञ्चिच्छैघ्रयेण नय मौकाम् । कस्समयोऽद्य स्यात् ?" इति ।

काराण मन्ये पाठकैरपि; ज्ञातम्, नाविकोऽयमस्माकं. परमसुहृद्गोविन्दलाल, एवेति । गोविन्दलालोऽब्रवीत्.--"त्रिघण्टावादनम्यायं समयः" इति । देवी राज्ञी ससम्भ्रममवदत्-"तर्हि नो. नौकया यानं नोचितम्, आः, किभिन्नती रात्रिरतीता ? नौकामत्रैव कुत्रचि(धान, ममापिः रूपं झटिति परिवर्तय" इति । आज्ञां प्राप्यैव गोविन्दलालो नौकां तीरं नीत्वा कुत्रचिदवनात् । पोटलिकामुन्मोच्य मधूञ्चिष्टवर्तिकामज्वालयत् । तस्यैवालोके, स. देवी राज्ञी बालकभूमिकामधारयत् ।। धान्यो. गोविन्दलालः, श्लाघनीयं तदीयशिल्पचातुर्यम् ! पश्यत्येवर मयि स. षोडशवर्षदेशीयां युवतिं. युवानमकरोत् ।। इतोऽहमपि देवीं राजी बालकनाम्नैव, व्यवहरिष्यामि ।। बालकोऽब्रवीत्-"इत एव वयं वैतनिकशकटमार्गेण: यास्यामः ।। नौका त्वं. समुचिते स्थाने स्थापय । ततः कुत्र, गन्तव्यम्, तत्तु त्वं, जानास्येव खला?" इति ! गोविन्दलालोऽवदत्-: अथ किम्, कुतो वा न जानामि !” इति । बालकोऽब्रवीत् ''यथेच्छं, त्वं यत्रः कुत्र वा तिष्ठ, किन्तु धः प्रातरष्टघण्टावादनसमये. मया सॉस्व ! नेदं विस्मर्तव्यम् " इतिः । ' गोविन्दलालासह नौकया प्रायात् । दैवाच रथ्यां प्राप्यैवावामेकं, वैतनिक शकटमपश्याव;। कृत्यदिनगः तागतेन परिश्रान्तौ हरणौ. चावी तिष्ठन्तावेव निद्रानिमीलितनयनावभूत धृतपल्यानावेव । शाकटिकोऽपि पेटिकोपर्युपविष्ट एव: शक़टोपरितनभोगे शिरो, निधाय निद्रातिस्म । नश्शब्दापनेन, नेत्रेपरिमृजरत्यक्तनिद्रः उन्मी- लितनयनश्चाभवत् । प्रथमतस्तु. स. नैवैच्छनृत्या. शकटं नेतुम्, निर्बद्ध स्त्वस्माभिर्द्विगुणं त्रिगुणं, च भृतिमपृच्छतु । आवा. तु द्विगुणत्वत्रिगुणत्वान दिकमनालो वयन्तौ यथोक्तमंग्यकरवाव भृतिम्, यतो नौ त्वराऽऽसकायस्याई स तावच्छाकटिकोऽमन्यत द्विगुणं त्रिगुणं मृतिकथनेनैते मा निर्वध्नायु रिति, किन्तु तन्मनोरथेन न फलितम् । प्रदुक्तां द्विगुणां त्रिगुणां च भृति- मङ्गीकृत्यावां शकटस्यान्तरूपाविशाव । .. यदि त्वमर्धघण्टायामेव जिग- मिषितं स्थान प्रापयेः, तदा पारितोषिकमपि तुभ्यं दास्यावः” इत्यवदाव च । शाकटिकस्त्वनेन वाक्येन तुष्टोऽभून्न वा. नाहं शक्नोमि वक्तुम् । किन्तु तोत्रेणैकदा प्रत्याश्वौ खलीने शिथिले अकरोत् । अश्वावपि वातेन सादृश्य- मिव कांक्षमाणौ धावितुमारभेताम् ।...... इति संसारचक्रे द्वितीयभागे चतुर्थं चक्रम् । - अथ पञ्चमं चकम् ॥ ( पैतृकं गृहम् । ) - पाठकाः ! कथयन्तु नाम कुत्राहमस्भ्योति ? अद्य वर्षद्वयानन्तरं वीरजादेव्या सह कस्याहं गृहस्य गुप्तद्वारं निकषा तिष्ठामि, ब्रुवन्तु नाम ? यदि न शक्नुवन्ति भवन्तो वक्तुम्, कामं शृणुतास्य दुर्भगस्यैव वचनम् । संसारेऽस्मिन् वक्तुमपि कोऽपि मदीयो नाम नास्ति । तर्हि यूयमेवैकदा 'हा धिक् हा धिक्' इति कथयत ! कुत्राहमस्मि कथयामि वा ? सत्यं ब्रूत, कथयाम्येव वा ? तर्हि शृणुत-यस्मिन् दंग इव तिष्ठन्नहमशनिमपि पतन्ती. नागणयम् , यत्र गृहे वर्तमानो महाराजानां गृहमपि नापश्यं संगौरवम्, यस्मिन् गृहे शयानोऽह. मिन्द्रमिवात्मानं सुखिनमज्ञासिषम्, यच्च गृहमात्मीयं मन्यमान आसम्, तस्मिन्नेव पितुगृहेऽहमद्य सभयं गच्छामि । "अस्मदीयगृहस्य पृष्ठभागेऽल्पीयसी काचन वीधिका वर्तते, किञ्चिद्गुप्तं द्वारमपि निर्मितमास्ते, यच्च सर्वदैव दृढ़तमेन ताळयन्त्रेण घट्टि- तकवाटिकं भवति, तत्र तिष्ठामि । एतावत्येव घटिकायन्त्रेण चतुर्घण्टावा-- यत्रः दानं कृतम् । देवी राज्ञी सोत्कण्ठमपृच्छत् - "इदमेव हि तद्वारम् । " इति । अहं चाकथयम्-'अथ किम् " इति । "गृहाणेमां कुञ्चिकाम्, झटित्येवोद्घाटय कवांटिकाम्" इत्युक्त्वा' देवी राज्ञी कुञ्चिकामेकां मम हस्ते प्रादात् । यद्यप्यन्धकार आसीत्,अर्थापि ताळयन्त्रोद्घाटने नास्माकं विशेषतः परिश्रमोऽभूत् । आवामन्तः प्रविश्य पुनः कवाटिकां यथापूर्व घट्टितताळयन्त्रामकरवाव ।। यतस्सा कवाटिका तथाविधाऽऽसीद्यथान्तर्वहिरपि वा स्थितेनैकयैव कुच्चिकया ताळयन्त्रघनः । कर्तुं शक्येतोद्घाटनं व:ततश्च देची राज्ञी दर्पणमयं वैद्युतदीपं कश्चित्कञ्च- ककोष्ठकाबाहिर्निरकासयत्, यः कस्यचित्कीलकस्य घट्टनेनोद्दीपितोऽभवत् । अस्यैव दीपस्यालोके आवामुपरि गन्तुं प्रावर्तिप्वहि । गृहमिदं शून्यमासीत् । न कोऽपि तत्र समदृश्यंत । देव्या राज्ञया मुखाद्गृहवासिनस्सर्वेऽपि गृहद्वारं पिधायान्यत्र यत्र कुत्रचिद्गता वर्तन्त इत्यपि ज्ञातम् । गृहस्यास्य कोऽपि भागो ममापरिचितो नासीत्, यतोऽत्रैव गृहेऽहं- मविच्छेदेनाष्टादश वर्षानवसम् । देव्या राज्ञया आज्ञानुसारेण प्रथमतोऽहं मम पितुश्शयनागारस्य द्वारदेशमगच्छम् । द्वारं पिहितं घट्टितताळयन्त्रं चासीत्, अत एव तत्रास्माभिः कियन्तं कालं स्थेयमभूत् । एतावत्येव देवी राज्ञयब्रवीत् -"किन्नामालोचयसीदानीम् ! येन केनापि वोपायेन ताळ- यन्त्रं भिन्दि, अन्यथा व्यर्थमेव स्यात्कृतं सर्वम्, त्वं त्वेतद्गृहवास्यसि, यतः कुतश्चिद्गण्डोपलमन्यद्वा लोहदण्डादिकं यत्किञ्चिदानय, गृहाणेमं दर्पण दीपमपि, कुर्वविळम्बेन कार्यम्, चतुर्घण्टाताडनमपि जातम्" इति । देवी तत्रैवान्धकारेऽवस्थिताऽभूत्, अहं तु दर्पणदीपं गृहीत्वाऽधोऽ- वातरम् । अहं पूर्वमेव जानामि-गृहस्यास्य पृष्ठभागे किञ्चिदल्पीयो गृह- मस्ति, यत्र नानाविधाः इष्टकाः गण्डोपलाः, काष्ठखण्डाः, इत्यादिकमस्तीति। तदेव गृहं गल्या उपयुक्तस्य लोहदण्डस्यान्वेषणमारभे । दैवाच्च पुरातनः कश्चित्कुद्दालो हस्तगतोऽभूत् । तमेव गृहीत्वा द्रुतमेवाहमुपर्यगच्छम्, , - स्मदीयं कार्य सम्पन्न भवेत्" इति । तेनैव कुद्दालेन ताळयन्त्रं भित्वाऽन्तः प्राविशावावाम् । अन्तः प्रविटमेव मां देवी राज्ञयब्रवीत् - "पिता ते कुत्र कम्यां वा भाषायामावश्यकानि पत्राणि रूयादिकं वा स्थापयति, अपि जानासि त्वम् ।" इति । अहमवदम्- "वर्षद्वयेऽस्मिन् कुत्र निक्षिपति नहि जानामि, पर्व त्वस्यासेवायोमय्या मषायां स्थापयन्नासीत् इति । हस्वा, दीर्घा, पृथुळा, सूक्ष्मा, एकमुखी, द्विमुखी, इत्येवंविधान कुञ्चिकानों गुच्छमेकं निष्कास्य तस्या एवायोमच्या मञ्जूपाया निकटं गत्वा देव्येवमकथयत्-"पश्याम आसु या काचिदुद्घाटयति ताळयन्त्रं न वेति" इति । एवमुक्त्वा च सा कुञ्चिकास्ताळयन्त्रमुखे क्रमेण निक्षिप्य प्राम- यितुमारभत । दशद्वादशंकुच्चि कानिक्षेपानन्तरमेकया कुश्चिकया ताळयन्त्र मुद्घाटितमभवत् । उद्घाटिते च कवाटेऽन्तर्बनि रूप्याणि दीनारान् . खण्डपाणि चापश्याव । देव्यवदच्छ--"दुष्टानां प्रवृत्तिस्सर्वथापि प्रतिहन्तव्या, यद्यपि नास्त्यस्माकमेभी रूप्यैः किमपि फलं साधनीयम् । किन्तु तव पितुरेभिबढे- वोपकारस्समाव्यते । अतश्चं रूप्याणीमान्यत्रैव कुत्रचिदज्ञाते स्थ ने गुप्त स्थापये, या कोऽपि न ज नीयात् । कथय, कस्तेऽभिप्रायः !" इति । अहम् - "यतेऽभिप्रायः । तस्यामयोमय्यां ( Aimeerah ; मुच्छ्रितमञ्जूषायामधोमागे द्वे आकर्षिण्या ( Drawers) व साताम् । एका मया अन्या च करजया बलेनोकृष्टोऽभवत् । मदाकृष्टायामाकर्षिण्यां बहूनि पत्राण्यवायां च वस्त्रबद्धा काचित्पत्रिकाप्रन्थिरभवत् । देवी रायब्रवीत्----"एषामवलोकनस्य नाय . भवंसरस्थानं वा, सर्वमिदं निजे प्रावरणे बधान । आगच्छ, पश्याव:---- किमस्त्यस्यां मजेषायामिति' इति । - ! ? मञ्जूषाया उद्घाटनेऽधिकः परिश्रमोनाभूत् । द्वित्रकुञ्चिकाभ्राम- णानन्तरमेवोद्घाटिताभून्मञ्जूषा । अस्यां च नानाविधान्यायुधान्यासन् । तेषु सर्वेषु मध्ये द्वे परमगृह्येतामायुधे । देव्यवदत्-“मन्ये इतः परं कोऽप्यावश्यक उपयुक्तः पदार्थो न लभ्येत, रात्रिरपि गतप्राया । उच्छ्रितमञ्जूषाया यानि लब्धानि वस्तूनि तेभ्य एवास्मदीयं कार्य निष्पन्नं भवेद्बहुश:" इति । अहम्-"रूप्याणीमानि कुत्रगुप्तं स्थाप्यन्ताम् ? " देवी-"तदेव खल्वहमप्यालोचयामि । सर्वणीमानि रूप्याणीदानी गर्ने स्थापयितुं नास्ति समयः । किम् ! तादृशं किमपि स्थानं त्वं न जानासि, यत्रैतानि गुप्ततया स्थापयितुं शक्यन्ते " चिरमालेच्याहमवदम्- "अस्ति, मम पठन.गारेकिश्चित्तादृशं स्थानम्, यत्र स्थापित कोऽप्य विष्यापि न प्राप्नुयात् । "तहिं तत्रवै स्थापय" इति वीरजाऽब्रवीत् । यद्यद्वस्तु यत्र यत्र यथा यथा पूर्व निक्षिप्तमासीत्तत्तद्वस्तु तत्र तत्र तथैवनिक्षिप्य कवाटं पिधाय ताळयन्त्रं घट्टयित्वा चावां पठनागारस्य समीपं प्रापिव । तत्र च कवा- टिकायां ताळयन्त्रमदृष्ट्वा महानानन्दोऽभूत् । गृहेऽस्मिन् पर्यङ्कः कश्चिद्भित्तिलमः स्थापितोऽभूत् , तेनाच्छादितं च किश्चित्स्थानमवर्तत, यत्र किश्चिन्महद्वस्तु सुखेन स्थापयितुं शक्येत, यत्र च पर्यङ्कापसारणमन्तरा कस्यापि दृष्टिर्न पतेत् । तत्रैव स्थाने रूप्याणि नोटपत्राणि चास्थाप्यन्त । कार्यमस्मदीय समाप्तमभूत् । प्रात:कालिकश्श्वेतिमा चादृश्यत नभसि । देवी राज्ञी सम्भ्रान्ताऽवदत् -''अन्धकार एवावाभ्यां बहिर्निग- तव्यम्, येन मार्गेणागतौ, आगच्छ, तेनैव निर्गच्छावः' इति । उभावावां वेगेन तस्यैव गुप्तद्वारस्य निकटमभजाय । यथा पूर्व- मुद्घाटितं घट्टितं च ताळयन्त्रं तथैव पुनरुद्घाट्य बहिर्निर्गत्य पुनर्घट्ट- यित्वा च रथ्यायामागतावेवांवामस्मदभिमुखमेव पलाय्यागच्छन्तं कश्चि. दद्राक्ष्व । अहन्तु किश्चिद्भीतोऽभवम्, देवी तु "नास्ति भयस्य किमपि स्थानम्, कश्चिदस्मदीय एव पुरुष इवायं दृश्यते, आगच्छतु समीपं तावत्' इत्यवदत् । यथा देव्योक्तं तथैवाभूच्च । गोविन्दलालो धावन्नच्छ्वसंश्चामत्या- ब्रवीत्-"विपत् ! विपत् !! विपत् ! ! ! नास्तीह सल्लपितुमवकाशः, अत्रैव अमिकायां शकटस्तिष्ठति, आगच्छतम्, शकट एव सर्वं कथयामि, आगच्छतम्, द्रुतमागच्छतम्" इति । इति संसारचक्रे द्वितीयभागे पश्चमं चक्रम् । अथ षष्ठं चक्रम् । ( सैवापत् । ) शैशिरमिदमुषः । हिमेन सर्वा अपि दिशस्समाच्छन्नास्सन्ति, पर- न्तु पूर्वस्यां दिशि नभसि किञ्चित्किञ्चित्स्फुरति रक्तिमांकुरः । सत्यमहं शक्नोमि प्रतिज्ञातुमन्धकारोऽद्यापि न जगत्परित्यजतीति । शीतेन शरीरं भवति कम्पितम् । चिन्तया तु चित्तं विशेषतश्वांचल्य मनायि । एतादृश एव समये वयं शकटमेकमन्धकारावृतमारुहाम । पुरोभागस्थायामुपवेशिन्यां देवी राज्ञी पश्चास्थितायां चाहं गोविन्दलालश्वोपविष्टा अभवाम् । विनैवा- स्माकं कथनं शाकटिक एकतश्शकटं नयतिस्म । वेगतश्च गन्तुं प्रावर्तत शकटः । मध्ये मध्ये च गोविन्दलालश्शकटगवाक्षाच्छिरो बहिनिष्कास्य किं कोऽप्यस्माननुसरति' इति पश्यन्नवर्तत । देवी राशी तु मूकेवोपविष्टा महतिचिन्तासागरे निमग्नाऽभवत् । इत्थं सुदूरगमनानन्तरं देवी राश्य- ब्रवीत्-"गोविन्दलाल ! सुदूरमागतास्मो वयम्, यदि च दिनमेतत्सुखेन व्यतीतमभविष्यत्, सा च पत्रग्रन्थिरुपलब्धाऽभविष्यजानीहि सर्व निर्द- [६ च सैवापत् । । तम् । इयट्यो दिवसेभ्योऽनन्तरं चातुरी मम प्रकटाऽभवत् । त्रयाणा- मप्यस्माकं शिरांसि एकस्यैव करवाळस्य लक्ष्यम् । भाग्येन तु जयकाळ्या भगिन्युपलब्धा, न चेत्तस्या ग्रन्थे रहस्यं कथं ज्ञातं भवेत्" इति । मयापि नाशक्यत तूष्णीमवस्थातुम्, अवदमेव, “गोविन्दलाल ! केयं ग्रन्थिः, का च सा जयकाल्या भगिनी" इति । गोविन्दलालस्तु किञ्चित्कुपित इवावदत्-"किमितीदं सर्वं ज्ञातुं प्रयस्यन्ति भवन्तः । अद्यापि भवन्तो बाल्य एव वर्तन्ते बाला इव तूष्णी- मेव तिष्ठन्तु" इति । एतावत्येव देवीं राज्यब्रवीत्-"किमकथयः किम- कथयः ? अन्थिविषये किमकथयः ! कथय तावत् ! " अहमपि सस्मित- मवदम्-“बालानां तूष्णीमवस्थानमेवोचितम्" । देव्यब्रवीत्-"नैवम् नैवम् किमित्येवं कथयसि ! मन्येऽहं त्वमस्मिन् विषये किमपि जानासीति" अहमवदम् ' अथ किम्, किञ्चिजानामि, न केवलं जानामि, प्रभवामि किश्चित्साहाय्यमप्याचरितुम् " गोविन्दलालश्चकित इवाब्रवीत्-'कथं नु नामेदम् ? कथन्नु नामेदम् । देवी राज्ञी गम्भीरमवदत् ( गोविन्दलालं दृष्ट्वा ) गोवि- न्दलाल ! क्षणं तूष्णीं तिष्ठ ( मामवलोक्य ) साधु तर्हि, किं तस्मिन् खण्डगृह एव कोऽप्यर्थस्त्वया ज्ञातोऽभूत् ? " अहम्- • 'अथ किम्, तत्रैव किमप्यभूत् " देवी-कथ मिव ?" अहम् - "नाहमध वक्तुं शक्नोमि, तत्रैव गच्छ, सर्व ? इति । पश्य नयना- भ्यामेव" गोविन्दलाल:-"तत्तु स्थानं बहुदूरे वर्तते । ( देवीं दृष्ट्वा ) तर्हि भवत्याः कोऽभिप्रायः ? किमद्यैव तत्र गन्तव्यम् ?" देवी राज्ञी किञ्चिदालोच्यावदत् अवश्यमद्यैव गन्तव्यम् । त्वं शकटादवरुह्य पश्य-'अस्मांस्तु कोऽपि नानुसरति ? ' कुन्तस्तु १ दानीतानि, तानि सर्वाण्येतन्मध्य एव देव्या राज्याऽवलोकितान्यभव-- नितीदमद्यैव सूचयामि । पश्चिमयायिनि मार्गे शकटंसवेगं गन्तुं प्रावर्तत । अलङ्कुर्वति च नभोमध्यं सहस्रभानौ तदेव खण्डगृहं प्रापत्, यस्यैव निकटे कस्यचिद्वृक्ष- स्याधो भूगर्ते काचिच्चर्ममयी पोटलिका मया निहिताऽऽसीत् । प्राप्तमात्र एव तत्स्थानं शकटे अहं शकटादवातरम् । पोटलिकामानीयादां च देव्यै- राज्ञयै । देवी त्वानन्दगद्गदकण्ठा प्राह- "भगवानियद्भयो दिवसेभ्योऽन- न्तरं मामुन्मील्य नयनेऽपश्यत् । हे जगदीश्वर ! पाहि माम् । यथा च नौका तीरं प्राप्यापिजले निमजेत् न तथा कुर्याः । ब्रजेन्द्रप्रभो ! पोट- लिकामिमां ददता भवता यादृश उपकारोऽक्रियत मम न तस्य प्रत्युपकारं कर्तुं शक्नोम्यहम् । अबलाहम्, नेतः किञ्चिद्वक्तुमपि जानामि, केवलं परस्सहस्रान्प्रणामान्करोमि " इति । अहं त्ववदम्-''हा धिक् ! हा धिक् ! ! किमिदम् ? मादृशस्य नीचस्य चरणयोः किमिति भवती पतति ? अहमस्मि भवत्या दासानुदासः। अत्यन्तं क्षुद्रः, कीटादप्यधमोऽस्मि । एतादृशं मां किमिति प्रणमति भवती । का मे शक्तिः ? यया भवत्या उपकुर्याम् ? भवत्याः कृपया केवलं मे शुभं भवेत् । भवती-एतादृशस्य दीनस्य निस्वस्य पुरतः कुतश्शिरो नमयति ? दैवादियं पोटलिका मम हस्त गताऽभूत् , मया च भवत्यै समर्पिता; एतावा तैव को वा महानुपकारः कृतस्स्यात् । इतोऽपि मा मां लज्जितं करोतु भवती" इति । इत्थं कथयत्येव मयि कण्ठो मे गद्गदतामभजत, नेत्रे च प्लाविते अभूतामश्रुभिः, मनश्च मे पुलकितमिवाभवत्, अतश्च किमपि ततो वक्तुं नाशकम् । ?

? देवी तु किमप्यनुक्त्वा पाटालकाया हाष्ट न्यधात् तदुद्घाटने । प्रवृत्तिमात्रेण किं वा भवतु ? सा किल तथा दृढं बद्धाऽऽ सीत्, येन सा चिरं प्रयस्यापि ग्रन्थिमुन्मोचयितुं नाशकत् । किं तीतो देव्याः कार्य प्रतिरुद्धमेव तिष्ठेत् । नहि नहि, झटित्येव तेनायुधेन यन्मम पितुर्ग्रहादानीतं चर्मावरणं छिन्नमभूत् । छिन्न एव चर्मण्यन्तर्गतं रहस्य प्रकाशतामभजत । देवी राज्ञी त्वानन्देनोचैरुद्घोषितवत्यपि । ततश्चावधानेन पोटलिकागतान्पदार्थानवलोकितुमारभत । एतावत्येव महान् कोलाहलो- ऽश्रूयत, येन वनं तत्कृत्स्नमेव प्रतिध्वनितमभूत् । क्षणाच्च जयपालोऽप्युत्तरतो- ऽदृश्यत, यः पलायनायास्मन् चेष्टया ज्ञापयन्नासीत् । “अन्ततो रहस्यं प्रकटमभूदेव" इति कथयन्त्येव देवी राज्यन्तर्हि- ताऽभवत् । चतुर्दिशं च सम्यगुन्मील्य नयने पश्यतापि मया न कोऽप्यवालो- क्यत । केवलमहमेक एव तत्रातिष्ठम् । किमपि हृदयं नावातरत्, देवी राज्ञी कुत्र गता स्यात् ! इत्याद्यालो- चयत्येव मयि कतिपये बद्धायुधास्समागत्य पुरुषा बलान्मां गृहीत्वैकतो. ऽनयन् । हा हन्त ! सैव पुनरापत् !! इति संसारचक्रे द्वितीयभागे षष्ठं चक्रम् । अथ सप्तमं चक्रम् । . (द्वीपान्तरगमनम् ।) किमयं स्वप्नः, उत भूतावशः नद्या इव कलकलध्वनिः श्रूयते ! अरित्राण्यपि चलन्ति सचपात्कारम् । नौकायाः कम्पनेन कृत्स्नं शरीरं कम्पते । हा धिक् ! हा धिक् !! कुत्राहमस्मि । नेत्रे त्वद्यापि नोन्मीकतः, तर्हि किमयं सत्यमेव स्वप्नः ? अथ मायामोहितोऽस्मि ? बिभ्यता बिभ्यता महता कष्टेन नयने समुन्मीलयत। मया स एव कालान्तकतुल्यो मामेव ६-१ ? - ? " इति । निरीक्षमाणो मम पुरत एवोपविष्टश्वशुरो मेऽवालोक्यत । दृष्टमात्र एव तस्मिन्प्राणा ममोदचलन् । कियतः कालादनन्तरमश्रुपूर्णनयनो बद्धांजलि- रहं मन्दमपृच्छम् - "कथय मयि कृपया कुत्र मां नयसीति ” इति । स तु नराधमो विकटहासं कृत्वाऽवदत् - "द्रक्ष्याम्यहमितः कस्त्वां रक्षतीति ? पुनः पुनर्मय्येव चातुर्य प्रकटयसि ? किं न जानासि शिरस्ते मृत्युरारुढ इति । अहं तु मन्दमवदम् ---"अथ किम्, जानामि,यस्मि- न्दिने श्रीमताऽहं जामातृपदमारोपितः तदैवाज्ञासिषं मृत्युस्समीप एव वर्तत इति । इतोऽप्यहं किमपि न कथयिष्यामि, यदि त्वम्-कुत्र मां नयसि कथयरिदम्, भवेन्महती दया कृता ?" इति । रायः -- "कुत्राहं नयामि, किं त्वं न जानासि ! नयामि त्वामंत कस्य नगरम् ! किमवगतमिदानीम् ? कृतन, वञ्चक, वैधवेय ! द्रक्ष्यामि कस्त्वामुन्मोचयतीति : आगच्छ वत्स ! द्वीपान्तरमेव पर्यट ! किमेतत् ? किमहं द्वीपान्तरं प्रतिगच्छामि ? यद्येवमापदोऽस्या मांचनं दुष्करमेव ! हा धिक् ! हा धिक् ! ! देव्या राज्यास्सर्व कृत्य प्रकाशतामभजस्किम् ! सानि किमापदस्ता ? हन्त ! पूर्णप्रायं कार्यं नष्टम्! हा धिक् ! हा धिक् ! ! किमितोऽहं कुर्याम् ! भगवंस्त्वमेवाद्य पालयिता ! पुनर्यदा नेत्रेऽहमुदमीलयं तदा पुरतो रायं नापश्यम् । पुनश्चतु- दिशमवलोकयता मयाऽज्ञायत, कुत्रचिदल्पीयस्यन्तगृहेऽहं वर्त इति । अन्त गृहे तस्मिन्नेकोऽपि गवाक्षो नाभूत् । द्वारमपि पिहितकवाटमभूत् । ततश्चा- वागच्छम् "नौका वेगेन गच्छती" ति । अहमप्युपविष्टः,कदाचिद्भगवन्तं ध्यायन्, कदाचिच्चागमिप्यन्ती विपदमालोचयन्नवर्तिषि । एतावतैवावाग- च्छम् 'रायः कवाटरन्ध्रेण मां निरीक्षत' इति । रायेण सह कश्चिदन्यो ऽप्यभूत्, यस्य किल मुखं महाभयङ्करमवर्तत । तावुभौ परस्परं सल्लपन्तौ मांप्रति संकेतयन्तौ चावर्तिषाताम् । तयोर्मुखयोः कदाचिद्धासःकदाचिल्को- धश्च प्राचीकशत् । नाशकमहं तौ ततोऽप्यवलोकयितुम्, निमीलितनयनो न्यविशम । ?

कुत्र गच्छामि, कुत्रेयं नौका निरुद्धगतिर्भवेत्, न जानाम्यहम् । कीदृशीयं नौका ? तदपि न जाने । अवहितचित्तेनोच्छ्रितकर्णेन च मया बहिः कोलाहलो महानश्रूयत । चडचडात्कारो मडमडायितंचाश्रूयत । अन्व- मीयत च नौका तिर्यक्परिभ्रमतीति । कियकालानन्तरं नौका प्रतिषिद्ध- गतिरभूत् । ततस्सहोभाभ्यां मनुष्याभ्यां रायो मदीयेऽन्तर्गृहे प्राविशत् । मम हस्तपादं दृढमबद्धयत, अहं तु किमपि नावदम् । रायस्योक्तिमनुसर- न्तौ तौ मां गृहीत्वाऽचलताम् । किं तर्हि सत्यमेवाहं द्वीपान्तर नीतोऽस्मि? इति संसारचक्रे द्वितीयभागे सप्तमं चक्रम् । अथ अष्टमं चक्रम् । (कानने-कल्याणम् ) पाठकाः ! किं शक्नुवन्ति भवन्तः कथयितुम् 'कुत्राहमस्म्यद्ये' ति ? ममेदं क्षीणं शरीरं कुत्रान्धकूपे पतितमस्ति ? संसारचक्रस्य भ्रम- णिकायां पतितोऽहमेषु दिवसेषु कुत्रास्मि ? ननु कथयत पश्यामः । दिवसे- प्वेष्वहं पुनरपि मम श्वशुरस्य कारागृहे वर्ते । महती रक्षणव्यवस्था, न सम्भाव्यते पिपीलिकाया अपि मत्समीपोपसर्पणम् ! हस्तपादं तु दृढं निबद्धमासीदेव खल, नेत्रे अपि पट्टेन बद्धे अभूताम्, यदाहमत्र प्रापितोऽभवम् । महता कष्टेन रात्रिर्व्यतीता । पान- भोजनयोरपि कष्टैव व्यवस्था । यस्सायमस्य गृहस्य द्वारे मम हस्तादि- बन्धनमुदमुच्यत । ततश्चास्मिन् गृहे वासाय निर्बद्धोऽहमभवम् । रात्रौ कश्चिदागत्य मामभोजयत्, येन सह मम कोऽपि सल्लापो नाभूत । यत एवात्रागतोऽस्मि ततः प्रभृत्यैकैका घटिका एकैकं युगमनुकरोति । अस्तु, यथा कथञ्चिद्यापयामि दिवसम् । एतावत्येव समये कस्यचित्कासमानस्य रुदत इव च शब्दोऽश्रूयत । यदाहमत्रागतोऽस्मि तदाप्येतादृश एव संसारचक्रम् । . कश्चिच्छब्दः कर्णेऽपतत् । पुनरिदानीमपि स एव शब्दश्श्रुतः । मया- वहितेनोच्छ्तिकर्णेनापि ततः किमपि नाश्रूयत । न वाज्ञायत कुतोऽयं शब्दस्समायातीति । कतिपयक्षणानन्तरं पुनस्तादृश एव रोदनशब्दः कर्ण- मगाहत । सम्यक्परिशीलयता च पश्चिमतस्समागच्छन्निवायं शब्दोऽज्ञायत, यथा किल कश्चित्कथयतीव- "हे भगवन् ! इतोऽपि कियन्ति दिनानि" इति । मया तु निरचीयत-"स्यादयमप्यहमिव कश्चिदुर्भगः" इति । क्रमाच दिनमपि यातुमारभत, यो रात्रौ भोजनमानीतवान् स एवा- द्यापि भोजनहस्तस्समागतः । मया बद्धाञ्जलिना सविनयं बहवो वृत्तान्ताः पृष्टाः, किन्तु सर्वेऽपि प्रभा व्यर्था एवाभवन् । तस्य भर्त्सनेनाहं यत्किञ्चि- दभक्षयम् । अनन्तरं च स द्वारं पिदधन्निरगात् । क्षणाच्च समीपस्थायाः कस्याश्चित्कवाटिकाया इवोद्घाट्यमानायाश्शब्दोऽश्रूयत । अहं च पश्चिम पार्श्वस्थायां भित्तो कर्णौ निक्षिप्य श्रोतुमारभे । तत्रैव कश्चिद्गद्गदकण्ठः महत्या घृणया सहाकथयत्-"रे दुष्टाः ! मां कियच्चिरं पीडयिष्यथ ? , इति । अन्येन सभर्त्सनमुक्तम् - "यावत्त्वमस्माकं वचनं नाङ्गीकरिष्यसि " इति । पुनस्स दुःखी रुदन्नवदत्-'हन्त, नेतः शक्यते सोढुम्, किंमिति यूयमेकदैव प्राणान् गृहीत्वा कष्टादस्मान्नोन्मोचयथ ? ' इति । ततः परन्तु कोऽपि शब्दो नाश्रूयत । द्वारं च सझणात्कारं पिहितकवाटमभूत् । ततश्च मम निश्चयोऽभूत् -'नूनं पार्श्वस्थे गृहे कोऽपि मन्दभाग्यो वृद्धोऽहमिव बन्दीकृतोऽस्ति" इति । परन्तु, कस्माइन्दीकृतः, कथं चास्ते, तत्कथमहं कथयामि । साधु,भवतु यथा तथा वेदम्,मम तु तस्य बन्दिनो दर्शनेच्छा महती समजायत । परन्तु को वोपायस्स्यात् । यदि देव्या राश्या दर्शनमद्य स्यात्तदा तु नेदमसाध्यं नाम किञ्चित् । बहुधा मम मनस्यस्फुरत्स्वयमेवैन- माह्वयेयमिति, परन्तु भयेन नैवं कर्तुमवसरोऽदीयत । इत्थमेव चिन्तयता मे दुःखेनैकः सप्ताहो व्यत्येतिस्म । कापि नवीना घटना नाभूत् ।

कानने कल्याणम् । एकदा तु मध्याह्ने पार्श्वगृहात्, यत्र सोऽन्यो बन्यासीत्, केनापि मन्देन स्वरेण, यस्तत्य दुर्बलताप्रकाशकोऽभूत्, अहमाहूतोऽभूवम् । मयापि झटिति प्रत्युत्तरमदीयत । ततः पुनरपि तेनापृच्छयत-"कोऽसि त्वमहमिव दुभंगः ? कथंय मनो मम विड्वलतामेति । बहोः कालाकप्यापि साधोः पुरुषस्य बागेव कर्णपथं नावतरति' इति । अहं चावदम्--"मामपि कञ्चिदुर्भगमेय जानीहि. कोऽहमस्मीति त्वमेव न जानामि । को भवान्, किनभयो दिव. सेभ्योऽत्र बसति ? " इति । तेनैवमुत्तरमदीयत -- "कियन्ति दिनानीति कथ्यताम् । बहुभ्यो दिवसेभ्योऽत्रास्मि । किं त्वमवागतोऽसि ? इति। अहमवदम्-"नहि, सप्ताहाद्वसामि " इति । पुनस्सोऽब्रवीत् - 'कथं स्वमेपां दुष्टानां हस्तं गतोऽसि ?" इति । अकथयमहम् -वर्षद्वयादहमेतेपां हस्तं गतोऽस्मि । आंतमहत्कष्टमनुभूतम् । परन्तु कुत एते मां पीडयन्तीति न ज्ञातम्' इति । एतावत्येव सोऽवदत्-''अलम्, एतावतै- वालमद्य । अनभिज्ञोऽसि त्वमेतेषां वञ्चनाजालस्य । अहन्तु जानामि सर्वम्, यावदई किमपि न वदामि तावत्त्वयापि तूष्णीमेव स्थेयम् " इति । इस्थमेव मम तस्य च मध्ये मध्ये सल्लापोऽभवन्नासीत् । भया को भवानिति पृष्टश्च स वृद्धो रुधात्, न तु किमपि कथयेत् । उभावपि पर- स्परमपारचितौ, उभावपि च परस्परमेकत्र सङ्गन्तुतिच्छन्तावास्व, अथापि किं वा भवतु ? भित्तिः खलु मध्ये वर्तते काचित् । समयोऽयं मध्याह्नस्य । एकाग्रोऽहं मित्ति मेवावलोकयामि, यतोद्य पातरारभ्य तेन पाश्चवर्तिना बन्दिना सह नासीत्कोऽपि सल्लापः । अहं तु प्रथमं किमपि प्रष्टमयोग्योऽस्म्येव हि, यतोऽहं तेन तथा करणात्प्रसिद्धिः। अद्य यावद्भोजनमपि नागतम्, अतश्च विशेषतोऽहं विकृतचित्तो भवामि । एतावत्येव समये सझणात्कारं कवाटिकोद्याटिताऽभवत् । भोजनं च समा- गतम् । यः प्रतिदिनं भोजनमानयति स एवाचाप्यानयत् । अतएव कस्था- '४१ संसारचक्रम् । [२-भाग याचदहमन्नग्रहणाय हस्ते प्रसारयामि तावदन्नस्याधस्ताल्लिखित पत्रखण्ड- मेकमपश्यम् । पुरुषस्य तस्य दृष्टिं वञ्चयन्वहं तत्पत्रखण्डं झटित्यादाया- गोपयम् । शीघ्रमेव पञ्चपान् कवळान् भुक्त्वा हस्तपादमुखमक्षाळयम् । सोऽपि पुरुषो यथापूर्व कवाटिकया द्वारं पिदधानो निरगात् । पत्रं द्रष्टवत एव मे महान् सन्देहोऽभूत्-"केयमाश्चर्यमयी घटना ? अन्नस्याधस्ताद्गुप्तं निक्षिप्य केन पत्रिका प्रहिता ! ' इति । अल्पशासमा- यतां सौरकिरणानामालोके पत्रं तदहमपठम् । तत्रैवं लिखितमवर्तत- "महता प्रयत्नेन कष्टेन तव वृत्तान्तोऽधिगतः । स्मर परमात्मनम्, स एवाद्यापि त्वां रक्षिष्यति । न च भेतव्यम्, शीघ्रमेवाहं त्वया सङ्ग. मिप्ये सैव त्वदीया वीरना। आनन्देन महताऽहमुच्छ्नतामापन्नः कुतूरिवाभवम् । देवि राज्ञि ? धन्यासि, धन्यस्ते मदीयत्वाभिमानः । दुर्गमेऽस्मिन् स्थानेऽपि त्वया दया प्रकाश्यते । मदीयम्य दु खसागरस्य त्वमेव नाविकोऽसि । आगच्छ झटिति दर्शनं देहि, त्वय्येव विश्वासः । त्वयैव निमित्तेनाहमस्मि सुखी । त्वन्निमि- तेनैव च मे काननेऽपि कल्याणम् । इति संसारचक्रे द्वितीयभागे अष्टमं चक्रम् । - अथ नवमं चकम् । ( भयकारी मूर्तिः।) त्रयो मासा व्यत्यायन, देवी राज्ञी तु नागमत् । प्रातरारभ्यासायम्। सायमारभ्यापातश्च देव्या राज्ञया आगमनं प्रतीक्षे, परन्तु तस्या वार्तापि न श्रूयते । स च पार्श्वगृहवर्ती सहाथ आहूतोऽपि नोत्तरं ददाति । जानामि स्वहं निश्चितमेव स पार्श्वगृह एव वर्तत इंति, यत्तस्साय प्रातश्च भोजन- अध तु .. इतः विचित्रैव रीतिदृश्यते । प्रातरारभ्य पार्श्वस्थापवरकस्य कवाटिका तदातदोद्घाटिता भवति, यत्र स मम सहायभूतो परो बन्ध- भूत् । जनानां च विशेषतस्समागच्छतां गच्छतां च पदशब्दः, परस्परं सल्लपतां च फुसफुसात्कारस्सर्वमेव गृहमिदं शब्दापयति । नियतस्समयो- ऽतीतः, अथाप्यद्यावधि भोजनं नागतम् । न जानाम्यस्य सर्वस्य किं कार- णमिति कतिपयक्षणानन्तरं सर्वत्र निश्शब्दताऽभवत् । शान्तेरिव. राज्य- मदृश्यत । द्वारं चैकान्ततः पिहितमभवत्, अचिन्तितमेव मदावासभूतस्या- पवरकस्य कवाटिकोद्घाटिताऽभवत् । भोजनहस्तश्च कश्चिददृश्यतायन् । पूर्व प्रतिदिनं य आगच्छन्नवर्तत, नायं सः । अयं तु कश्चिदन्य एव । अन्धकारेण प्रथमतस्तं प्रत्यभिज्ञातुं नाशकम्, समीपमागतं तु. 'गोविन्द- लालोऽयमिति प्रत्यभ्यज्ञासिषम् । आनन्देनामन्देन भरितान्तरङ्गश्च "किं गोविन्दलाल ! इयद्यो दिनेभ्योऽनन्तरमय दुर्भगः स्मृतिमारूढः" इत्युच्चै- रवदमहम् । गोविन्दलालस्त्वविलम्बितमेवावदत्-"तूष्णीं तिष्ठत, मोचरुद्- घोषयत, झटिति भोजनं समापयत, ततःपरमालापः क्रियेत" इति । अहं तु-"भोजनं पश्चाद्भवतु, प्रथमं तु देवी राज्ञी कुत्र कथं वा तिष्ठति, कथ- य" इत्यवदम् । गोविन्दलालोऽब्रवीत्-"साप्यत्रैव वर्तते, न. शक्नोम्यह- मत्र चिरं विळम्बितुम्, झटिति भुज्यतां यावदभिलषितम् ।" इति । अन्ततो गोविन्दलालस्यैव वचनमनुसतव्यमभवत् । भुक्तं मया यत्किञ्चित् । ततो गोविन्दलाल:-"अध. रात्रौ निशीधे रूपान्तरमाश्रिता. देवी राज्ञी भवतां निकटमागमिष्यति, यदि शक्येत, अस्मिन्नेव दिने भव- न्तो मोचिता भवेयुः । रात्रौ योऽन्नहस्तस्समागच्छेतेन सल्लापादिकं. किम- प्यनावश्यकम् । यथा प्रतिदिनमतिष्ठन्नद्यावधि तथैवाद्यापि स्थातव्यम् । मा नाय कृतं पूर्णप्रायं कृत्यं बालचापलेन विनाशयन्तु" इति कथयन्नेव द्वारं पिधायागात् ।

देव्या राज्ञया आगमनवृत्तान्तं श्रुतवतो में सर्वाणि दुःखानि दूरं पलायाम्बभूवुः । इयमेवोत्कण्ठा सपजायत -'कदा पुनरहं देव्या राज्ञया मुख चन्द्रमसं दृष्ट्वा चित्तचकोरमाप्यावयेयम्' इति । एकैका घटिका युग. मन्वकरोत् न तिष्ठतो नापविशतो बा मे निवृतिरभवत् । कथं कथञ्चि- दिनमत्यगात् । सायन्तनश्च समयम्सनुपागात् । अस्ताऽचलशिखरचुम्बिनि च भगवति गभस्तिमालिनि मदीयेऽपव- रकेऽन्धतमसेन निजमप्रतिहतं शासनमस्थाप्यत । क्रमशो रात्रिरत्येतुमुपाक्रा- मत् । नियते काले समागतमन्नं च किश्चिदप्यविकुर्वाणे ऽभ्यवाहरभ् । अर्थ पुनरपि देव्या राज्ञया आगमनं प्रतीक्षमाणोऽतिष्ठम् । लोचने मे द्वाराभि मुखे अभवताम् । अन्तहृद्य एव देव्या रूपसौन्दर्यादिचिन्तनं प्रावर्तत हठात्कवाटिकोद्घाटिताऽभवत् । देवी राज्ञी च बालकभूमिकाधःरिणी पुरतो ममागत्यातिष्ठत् । आगन्दतुन्दिलश्चाहं कृत्याकृत्यविमूढ उत्प्लुत्य देवी. कण्ठे गृहीतुं प्रावृतम् । सा तु द्वित्राणि पदान्यपसृता मामेव पश्यन्त्यतिष्ठत् । अहमपि लज्जितस्तत्रैव पदात्पदमविचलन्नतिष्ठम् । कियचिरं स्थित्वा च देवी राज्ञयब्रवीत्-"कथय, कथमसि ?" इति । ''यथाहमस्मि तथा किं त्वं न पश्यसि ? केवलं तवैव दर्शनाशया- द्ययावदहं जीवाभि, न चेत्तदैवाहं मृतोऽभविष्यम् ।" इति मम वचनं श्रुत्वा देवी राज्ञी मन्दस्मिताञ्चितमुखी बभूव । अवदच्चैवम्-“साधु, उपन्यासस्ते विरमतु, मामेवानुसरन्निश्शब्दमागच्छ " इति । अहमपि तथैव तामनु प्राचलम् । पश्चिमदिविस्थतेऽपवरके यम्ममाप- वरकस्य पाच एवासीत्प्राविशावावाम् । तत्र गतेन च यन्मया दृष्टं तेन हृदयमेकदैव विदीर्णमिवाभवत् । देव्या राज्ञया निजकञ्चुककोष्ठकान्नि कास्य प्रज्वालितस्य मायादीपस्यालो. कऽहं मरणपर्य के शयानं उत्तरशिरसं षष्टिवर्पवयस्कं कञ्चन वृद्धमपश्यम् । सर्वतश्च तम्य तान्येव वस्तूनि पतितान्यासन्यानि प्रायो निधनानां रोगिणां पार्थेप्ववलोक्यन्ते । देवी राज्ञी मां तस्य शिरस्स्थाने स्थापयित्वा तस्य: .

- कर्णेऽवादीदुच्चैस्स्वरेणैवम्-"उन्मीलयत लोचने ! पश्यत पुरतो भवत कस्तिष्ठतीति" इति । इत्थमुक्तोऽपि सोऽचेतन एवातिष्ठत् । अहं त्वपृच्छम् "किम हमे- भिरेव सह तस्मादन्तर्गृहात्सल्लपन्नासम् ? देवि राज्ञि ! क एते ?" इति । देवी त्वब्रवीत्-"क एत इति तु त. एव वक्ष्यन्ति, नितरामशक्ता. एते वर्तन्ते, तिष्ठ, यावदहमेतेषां मुखे कोष्णं. दुग्धं दास्यामि'' इति । देवी. राज्ञी महतावध नेन द्वित्राः कणिका दुग्धस्य पर्यङ्कस्याधस्तादादाय तस्यः मुखेऽदात् । तेन तस्य वृद्धस्य चेतनेव समजायत । नेत्रे. समुन्मील्य मन्द- मवदत्-"कस्कोत्र" इति। देवी राज्ञी किश्चिदुच्चैस्म्वरेण प्राह-'अहमस्मि । कथयत, कथ:-- मस्ति. शरीरस्य. स्थितिः" इति । रोगी- ( किञ्चिद्विकृतवदनः ) "कीदृशी स्थितिरिति. कथयेयम् । ऊर्ध्वमुच्छ्वसिमि ।" देवी-"यं भवन्तो द्रष्टुमच्छन् , सोऽस्ति, तिष्ठति ।" रोगी-कुत्र ? मम समीपमानय" देव्या राज्ञया, आज्ञयाहं तस्य. रोगिणः पार्थे. समुपाविशम् । सकि- नयमवदं च.-"किमद्य किञ्चित्सुस्थमिव शरीरमनुभवन्ति. ?" इति । अनेन मम वचनेन रोगिणस्तस्य मुखमण्डले किञ्चिदिव हासोऽ.. दृश्यत । मन्दम्मन्दमवदच्च सः- "निकटमागच्छ, श्रोत्रयोस्समीपे वदन- मानय ! विशेषतो वक्तुं नास्ति में शक्तिः । कथय वत्स, किन्नामासि?" इति । अहमवदम्-"ब्रजेन्द्रभूषणवन्द्योपाध्यायो नामाहम् । रोगी-"पितुस्ते किं नाम ?" अहम्- 'हरिहरवन्धोपाध्यायाभिधानास्ते ।" रोगी-'देव्या राज्ञया मुखाच्छ्रुतं मया विचित्रं ते. जीवनचरित्र:- मिति । तन्मह्यमपि किश्चित्कथय नाम" ?

ततोऽहमात्मनो वृत्तान्तं कथयितुमारभे । यथा यथाऽहमात्मवृत्तान्ता- नवर्णयं तथा तथा तस्य विविधो मुखवर्णोऽजायत. । सावधानेन चेतसा स मम वृत्तान्तानशृणोत् । कतिपयक्षणांस्तूष्णीमवस्थाय ततोऽतिमन्दैन स्वरेण रोगी प्राह "हा धिक् ! हा धिक् !! महदिदं कष्टम् । नास्तीतो विळम्बः, मम मुखसमीपे कर्ण स्थापय !" इति । क्रमशस्ततोऽपि. मन्दोऽभूत्स्वरः । अन्ततश्चैकान्ततो विरतोऽभवच्छन्दः। , क्षणमप्यविळम्बयन्नहं द्वित्राःकम्बिका दुग्धस्यादां तन्मुखे । तेन स, धुनरपि वक्तुभारमत। अकथयच्चैवम्-"अस्योपधानस्याधस्तादस्ति काचिः कुञ्चिका, तां त्वं गृहाण । गृहस्यास्य पश्चिमभागे कोणे भूमौ काचिदल्पी- यसी मजूपा निहिता वर्तते, तां निष्कास्यानया कुञ्चिाया तस्यास्ताळ- यन्त्रमुद्घाटनीयम् । तस्यां यदस्ति सर्वं तत्तवैवः । सावधान कार्यः कुरु हा राम ! प्राणा गच्छन्ति-क्ष-म-स्व-मां-हा कष्टम्-भगव...." क्रमा- द्वयलीयत शब्दः । पश्यत्येव मयि सोऽसारमिमें संसारं परित्यज्य दीर्घयात्रां प्रातिष्ठतं । घटनामिमो दृष्ट्वा नाहं संभ्रान्त इवाभवम् । किंकर्तव्यविमू- ढश्च कतिपयक्षणानतिष्ठम् । कियतः कालादनन्तरमुपधानस्याधस्ताद्धस्तं प्रसारयता च मया कुञ्चिकाऽलभ्यत । आनन्दभयविषादैस्तदा विचित्रा देशा में समभूत् ।। कुञ्चिकां गृहीत्वा पश्चिमतः कोणमगच्छम् । कुद्दालेन तत्रैव पतिः सलब्धेन भूमिमखनम् । जानुदप्नं खन्यमानायामेव. भूमौ काचिदयोमयी मषाऽलभ्यत । कुञ्चिकयोद्घाटिते ताळयन्त्र तत्र पत्रग्रन्थिरेका स्वर्ण:- सम्पुटमेकं चादृश्यत । तदिदं वस्तुद्वयं गृहीत्वा मञ्जूषां च यथापूर्वं ताळ. यन्त्रघट्टितां कृत्वा तत्रैव भगर्ते निधाय मृत्तिकयाऽपूरयं गतम्, समं. चाकरवम् ।

९-च भयङ्करी मूर्तिः । सर्वमिदं कार्यजातं निर्वत्यै द्वाराभिमुख गतश्चाहं देवीं राज्ञी नाप- श्यम् । न जानामि च सा कदा कथमन्तर्हितेति । किमद्य करोमि १ कुत्र गच्छेयम् ? इत्याद्यालोचयत्येव मयि काचन मयानकमूर्तिरदृश्यत । इति संसारचक्रे द्वितीयभागे नवमं वक्रम् ।। अथ दशमं चकम्। (कुत्राध गच्छेयम् ) पाठकाः । केयं भयाचक मूर्लिः ? कि प्रत्यभिज्ञानन्ति भवन्तः है स्मरत एव तां विदीर्यत इव मे हृदयम् । मास्म नाम भवन्तोऽपि श्रुत्ला बिभयुः । अद्यस्ति धैर्य शृणुत । सैवेयं मङ्गळानाम्नी जरठा, या किल निजे. नाकारेण धूमावती देवीमपि हेपयति । यस्याश्च निकटेऽहं दशमाङ्कचिह्नि- तात्कारागृहान्निर्गतो वनलताप्रतिच्छन्नः क्रियन्तचिरकालमलिष्ठम् । या च मम श्वशुरस्य प्रिया जननी । इयं किल जरठा मां दृष्ट्वैव विकटें हसन्ती निगलनेच्छयेव मुखं. व्यादायाधावत् । अस्या भयानकेन हासेन कृत्स्नं तद्गृहं विचलितमिव । मम तु चेतनैव व्यलुप्यत । भयेन तत्रैव प्रस्तरमयी मूर्तिरिव न चलन्नतिष्ठम् । सा च धूर्ताऽऽगत्य मां विकर्षन्ती निनाय । वार्धकेऽपि तस्याः कुम्भकर्णस्येव बलमवर्तत । मङ्गळाजरठा मामित्थं विकर्पन्ती किश्चिदन्धतमसावृतं जीणं गृह- मनयत् । सभर्सनमवदञ्च "किमरे धूर्त ! त्वं भैरवगाङ्गुलिनस्सुताऽसि ! किं तव नाम वनलतेति ! ममैव निकटे त्वमियच्छलं करोषि ? ममैव सन्नि- धावियं धृष्टता ! त्वादृशानां बहूनामहमालोकयित्रयस्मि । त्वं ममैव दृष्टको. धूळिं प्रक्षेप्तुमागतोऽसि । पश्याम्यद्य कस्त्वां रक्षतीति अद्यैव दर्शयामि ते !

सवाम महद एतावदुक्या च सा मा वगनापातयत् ऽभवम् , महती च पीडा सर्वाङ्गीणा समभवत् । क्रुद्धोऽहं यावदुत्तिष्ठामि देव तया पृष्ठेऽभिहतो न्यपतं भूमौ । ततःक्रोधेनान्धोऽहमुत्थाय साव नासिकायां मुष्टिना प्राहरन्ताम् । तेन च प्रहारेण सा सम्भ्रान्तेव र दमौ । एतावत्येव समये कुत्रचित्कोणे मन्दं प्रज्वलन् दीपोऽपि निर्वा भजत् । ममापि पलायनस्य समुचितस्लमयो लभ्यत । सातु जरठा पतितैव रोदितुमाक्रन्दितुमत्यारभत । बहिरपि म कोलाहलस्समजायत । अहं च क्षणमपि तत्राबिळम्बमानस्ततः प्राति महदन्धं तमः, नच जानामि मार्गम्, सर्वतश्चेष्टकानां शिलानां च रखा रास्तृता भूमिः, ततश्चैकैकस्य पदस्थ निधानं महाकष्टसाध्यमभवत् । व स्थलेषु पाषाणखण्डैः स्खलत्पदो न्यपतं च । इत्थमेव निपतन्नुत्पतन् धावन्नुच्छुसंश्च गुप्तद्वारसमीपं प्रापम् किञ्चिच्छान्तभिब तदा मे मनः । अवहितेन चेतसा उच्छितेन च करें जरठायाः केनचित्सल्लपन्त्यास्तस्मै निजं वृत्तान्त कथयन्त्या इव च शब्द ऽश्रूयत । ततश्च 'नेयं जरठै काकिनी, समागता इवास्यास्सहचराः, अतः द्रुतभितः पलायनमेव समुचितम्' इति निरचिनवम् । ततश्च 'कुत्र गच्छे यम् ? सर्वतोऽपि हि परिभ्रमन्ति पश्यतोहराः' इत्याबालोचयितु मारभे अन्ततश्च 'यतो भे पादौ प्रसरिप्यतस्ततो गमिष्यामि, सतोड़ा परमपुरुष एव पालथिता' इति निश्चित्य पश्चिमाभिमुखं गन्तुं प्रावर्तिपि वेगेन धावन्नपि मध्ये मध्ये परिवृत्त मुखः किं कोऽपि मामनुसरति ?' इति पश्यन्नेवागाम् । पर्णानामपि बातेन बलतां ममेरमाकार्य भीतोऽभवम् इत्थं पलायनपरोऽहं महदेव परिश्रान्तोऽभवम् । यदा कमपि पर्व निधातुं नाभवं समर्थन्तदानिच्छन्नपि पार्श्ववर्तिनः फस्पचिटस्थाध उपा- विशम् । न जानामि घण्ट द्वयं यावश्पलाय्य कियरमागतोऽहमिति । तत्रो- पविष्ट एव च प्रहता शीतशीतेन वातपातेन नातिदूर एवं जलाशयस्य कस्यचित्सद्भाव अन्वामनवम् । उत्थितश्चाह यत एव समायाातस्म मारुत- स्तदभिमुखमेव प्रावर्तिषि गन्तुम् । अनतिदूरगत एव चापश्यं किञ्चिन्मह- त्सरः । प्रक्षाळितहस्तपादमुखश्च द्वित्रानञ्जलीनपिनं स्वच्छस्वादुशीतस्य चारिणः । किञ्चिदुपशान्तश्रमश्च तेनाभवम् । ततः पुनरप्येकतोऽहं गन्तुमारभे । अतीतानि बहूनि वनानि, यय- स्थत्यः । परमेकोऽपि पुरुषो मया न दृष्टः । क्रमाच्च नष्टा रात्रिरपि । ऐन्द्रीमुखे च रक्तिम्णा पदं न्यधीयत । अद्य यावद्रात्रौ सुखेन तावद्र- मागतोऽहम् । समुपस्थिते च दिने प्रतिपदं शत्रुभिराकान्ते भूमण्डले कुत्र गच्छेयम् ? कथयत कुत्र गच्छेयम् ? ॥ इति संसारचक्रे द्वितीयभागे दशमं चक्रम् ॥ ॥ अथैकादशं चक्रम् ॥ ( आरण्यकस्तूकरः।) दिनत्रय याबद्वनाद्वनं पर्यटन्नवर्तिषि । विस्मृत्यापि नगरं ग्राम वा गन्तुमिच्छामपि नाकरवम् । क्षुधातुरश्च वन्यैः फलमूलेश्वोदरमपूरयम् । तृषार्तश्च प्रस्रवणानां लघु शीतं वार्यपिबम् । अस्ताते च भगवति सवितरि यस्य कस्यापि तरोरधस्ताच्छयनमकल्पयम् । उदिते च सहस्रांशौ तत उ- स्थाय पुनर्गन्तुं प्रावर्तिषि । दक्षिणतो वामतश्च किञ्चिदप्यपरिभ्रमन् ऋजुः पश्चिमाभिमुखमेव पलायमान आसम् । चतुर्थे च दिवसे यथापूर्वमेव सवेगं गच्छन्नहं स्वच्छस्यादुपानीय- भरितं महदेकं सरोऽपश्यम् । कृतलानश्च तत्र जन्मान्तरगत इव सर्वमप्या- त्मनो दुःखजातं व्यस्मरम् । शरीरं च सर्वधा सुस्थमभवत् । चेतश्च सर्व- तोऽप्युपशान्तं सोत्साहमभवत् । इदन्तु विस्मृतमिदानीं कथयामि-मम श- रीर एकमेव मलिनं वस्नमवर्तत । तदेव च स्नातश्शरीर एवोपशोषयामि ।

यतश्श- सरसश्चतुर्पु तीरेषु फलभरानतशिरसो बहून्वृक्षानहमपश्यम् । तेषामेव फलैः क्षुदुपशमनमकरवम् । पाठकाः ! अद्याहमस्मि नितरां प्रसन्नमनाः, रीरं मे शीतम्सुगन्धवहो गन्धवाह आप्याययति स्पर्शन, अनन्यपरतन्त्रश्चा- स्मि, न कापि चिन्ता, न वा किमपि भयं मनसि मे परिवर्तते । एतादृशं सुखं मे पितुरपि गृहे नासौदेव । सरसोऽस्य तीरे मनो में तथा प्रसन्नम् , यथेत उत्थातुमपि नेच्छामि । कस्मा अपि मुखं प्रदर्शयितुं नास्मि लेशतोऽपीच्छामि । परं वनाइनमेवं कियच्चिरं नाम परिभ्रमामि ? ग्राम नगरं वा कुत्रास्ते ? कियदूरे वर्तते ? तदपि न नानामि । इत्थं नाम किमप्यकुर्वाणः कियच्चिरं स्थास्यामि ? यदि चात्रापि शत्रवो मेऽन्वेषमाणा आगमिप्यंस्तदा किं वा 5 भविष्यत् ? इत्यादिचिन्ताकुलश्च ततोऽप्युदतिष्ठम् । पश्चिमाभिमुखमेव प्रातिष्ठे च । कटि प्रसारितकरेण च वृद्धेन दत्तं स्वर्णसम्पुटं यथास्थानमुपालभ्यत । वनमार्ग परित्यज्य मागीन्तरेण गन्तुमारभे । अत्यल्पदूरगतस्य च मे नातिदूर एव नील इव कश्चित्पर्वतोऽदृश्यत , यः किलास्तङ्गच्छतो भगवत स्सहस्ररश्मे रक्तवर्णेमयूखम्सम्पृक्तोऽपूर्वामदभुतां शोभामवहत् । दृष्टमात्र एव तस्मिन्नद्रौ मनसो मे महानानन्दम्समजनि, यतो भे बाल्यादेव पर्वतेषु परिभ्रमणमभ्यस्तमासीत् । अचले चात्र यः कोऽपि तपस्वी महापुरुषो नूनं लभ्यतेति विचार्य पर्वताभिमुखमेव प्राचलम् । गच्छतो मे मध्येपथमेव व्यतीयाय दिवसः, सन्ध्या च समुपस्थिता, पर्वतस्तु दूर एवा दृश्यत । यथा यथाहमग्रतोऽग्रतो गच्छामि, तथा तथा गिरिरप्य्यं पृष्ठतः पृष्ठतोपसर्पतीव । अन्धकारं मार्गस्य दुर्गमतां चागणय- नहं गच्छाम्येव । एतावत्येव समये महान् कश्चिद्वनसूकरो मम पार्श्वमाश्रि- त्यागच्छत् । भगवता महती कृपा कृता, यत्तस्याहं दृष्टिपथं न गतः । दृष्टिविषयतान्तु गतस्य मे नामापि न श्रूयेत । भयेन तु ततोगतो गन्तुम- , . निच्छंस्तत्रैव कस्यचित्तरोरधस्तादतिष्ठम् । क्षणाच्च कश्चिद्भयानकश्शब्दश्श्रो त्रपदवीमगमत् । ततश्च पूर्वदृष्टसदृशमेव कश्चिदन्यं भयङ्करं घुरघुरायमाणं मदभिमुखमेवायान्तं वन्यं वराहमपश्यम् । दर्शनेनैवास्य मे चेतस्सम्भ्रान्तमभवत् । अवशिष्टञ्च धैर्य पलायनपरं बभूव । मम तु निकटे नास्ति किमप्यायुधम् । आस्ति चेदहं कामं प्रति. कुर्यात् । अन्य कमप्यात्मनो रक्षणोपायमपश्यन् झटिति तस्यैव तरोस्सर्वोच्चां शाखामारूढोऽतिष्ठम् । हा धिक्---मे भागधेयम् ! भूमण्डलेऽत्र यावन्तः प्राणिनस्सन्ति किं ते सर्वेऽपि मे शत्रवः, आरूढमात्र एव वृक्षम्मयि, स वराहोऽपि वृक्ष- मूलमागत्य दंष्ट्राभ्यां वृक्षं प्रहर्तुमारभत । कदाचिच्च परितो वृक्षं सवेगं भ्रम- न्महदौत्पातिकमकरोत् । भयेन चाहं कम्पितसर्वावयवोऽभवम् । वृक्षोपरि दृढमवस्थातुमपि नाशकम् । पतनभयाच झटित्यन्तरीयेण शाखया सह श- रीरमबध्नाम् । बन्धनेन किश्चिदुपशान्तपतनभयोऽतिष्ठम् । यथा यथा रात्रिरभिववृधे तथा तथा सूकरस्य गर्जनमपि वर्धमान- मभूत् । कियतः कालादनन्तरञ्च सोऽपि परिश्रान्तो वृक्षमूल एव न्यविशत्। अवसिता च कथंकथञ्चित्काळरात्रिः । औषस्त्यश्श्वेतिमा च नभसि सम- श्यत । पक्षिणां चुहचुहात्कारोऽप्यश्रूयत । प्रातस्त्येन मन्दमन्दबाहिना शी- तेन सुगन्धिना वातेन ममापि श्रमः किश्चिदुपशान्तोऽभूत् । यदा च भगवान् सहस्ररश्मिरात्मनो मण्डकं सम्यगदर्शयद्भक्तानां तदा स सूकरोऽप्युत्थाय पश्चिमाभिमुखमगच्छत् । भयेन गतप्राणतुल्ये शरीरे मे लत--प्राणस्य-सवार इवाजायत । ततः परमात्मानं धन्यवादैस्समभावयम् ममास तुकापासूकरस्य तस्य पुनरागयनभयं कृतपदमेवावर्तत । वनसूकराणा बद्धगोठीणां वनेषु विचरणं -- स्म्यात, यद्यव प्राणरक्षण कथ क्रियताम् । इत्यादि चिन्तयश्च क्षणं पुन रपि मूछितप्रायोऽतिष्ठम् । अन्ततश्च ' यद्भावि न तदन्यथा ' इति बद्धधैर्य क्षणमप्यविळम्बमान उन्मोचितवन्धनोऽवतीर्य वृक्षापात्तमेव नीलमचलमनु सरन्यानिष्ठे। पुनःपुनः परिवृत्तकन्धरश्च " किं नु खलु सूकरो मामनुयाति " इति पश्यन् द्रुतपदमगच्छम् । गच्छत एव मे केनचिद्गण्डोपलेन प्रहतपदस्य दाक्षणोङ्गुष्ठो विदळितोऽभवत् । प्रावर्तत च धारया रक्तं प्रवोढुम् । मूर्छित- श्वाहं तत्रैव न्यपतम् । ततः किमु वा संवृत्तम् , नाहं किमपि जानामि । ॥ इति द्वितीयभागे एकादशं चक्रम् ॥ -- ॥ अथ द्वादशं चक्रम् ॥ ( जगतो जननी ।) 0-[+] --० अतिसुखमयी निद्रेव । मनोहारिणी शान्तेरिव मूर्तिः । आनन्दमय्या जनन्या उत्सङ्गे स्वपिमीव । उत्ताळतरळतरङ्गविक्षेत्रा महता सागरेण शा- न्तभाव इवालम्बितः । महाप्रळयस्यानन्तरं नवीनया सृष्ट्येव मुग्धा मूर्ति- धृता । मथैव वा पापमयं स्थूलशरीरं परित्यज्य सूक्ष्मदेहो धृत इव । कुत्रा- हमस्मि-स्वर्गेऽथ-भूमण्डले ? सचेतनोऽहमचेतनो वा ? स्वप्नोऽयं माया वा ? मन्दमन्दमुन्मीलिते मया लोचने, अपश्यं च सत्यमेव जनन्या उत्सङ्ग विवर्तमानमात्मानम् । यदहं सचेतनोऽभवम्, उदमीलयं च लोचने, तदात्मानं सत्यमेव कम्याश्चन दयामय्यातस्पस्विन्याः, या किल कापायवसनधारिणी यस्याश्च मूर्तिम्तप्तम्वर्णसवर्णा चाभवत् उत्सङ्गेऽपश्यम्। महता प्रेम्णा सा ममैव मुखं निरीक्षमाणाऽवर्तत । दृष्ट मात्रायामेव तस्यां पुळकितमिव मे मनोऽभ- १त् । प्रायते चाहमुत्थानाय, परं तया प्रतिषिद्धस्तथैवावर्तिषि । ? . .

- अहो ! केयं करुणाया इवापरा मूर्तिः । केन वाहमस्या उत्सङ्गे निहितोऽभवम् ? कस्य वा सुकृतस्य परिपाकेनाहमत्रागतोऽस्मि ! सर्वमिदम नुचिन्तितवतो मे गद्गदतामभजत स्वरः । नयने चानन्दजलप्लाविते अभव- ताम् । कथंकथश्चिच्चापृच्छन्ताम् - " मातः का नाम त्वम् ! दीनो हीन- वायमनाथः कथं तनोत्सङ्गमनुप्राप्तः ? मातः किमित्येतावती दया मथि कृता ? ' इति । तपस्विन्या तया, या किल किञ्चिदधिकत्रिंशद्वर्षदेशीया समभाव्यत, प्रत्युत्तरमदीयत-" कथं त्वमत्रागत इत्येतत् ज्ञातुं किमित्येतावदुत्सुकोऽसि ? का नामावश्यकता तज्ज्ञानस्य ? सर्व समये स्वयमेव व्यक्तीभविष्यति । किञ्चित्कालं शान्तस्तुणी तिष्ठ । " इति । अहन्त्ववदम् --मातः! कथमहं शान्तस्तूष्णीं तिष्ठेयम् ? नूनं न जानासि त्वं मे जीवनवृत्तान्तम् । अतएव च शान्तस्तिष्ठति कथयसि । तवोत्सङ्गे शयनेन यादृशं सुखमनुभवामि ता- दृशं जन्मनोऽद्यावधि मे कदापि नासीत् । तव निकटमुपगतवत एव मे म- हती शान्तिस्सम्पन्ना । अथापि मातः कथय, बध्नाम्यञ्जलिम् , पतामि चरणयोः, कथमहमनुप्राप्तस्ते निकटम् । '' इति । ततो वक्तुमहं नाशकम् । झटित्युदतिष्ठम् । यद्यपि तदानीं नासी- न्मे शरीरेऽत्यल्पमपि बलम् , मथापि उत्साहन केवलमुत्थितोऽभवम् । उ- त्थितश्च तस्याश्चरणयोरपतम् , अगृणां च पादौ, सा तु झटित्येव मामु- स्थाप्योरसावालम्बत । अवदच्च वत्स ? तूष्णीं तिष्ठ, किमितीयद्रो- दिषि ? नितरामसि त्वं हीनबल:, भवेच्छिरोवेदना ते सप्तभ्यो दिवसेभ्यो- ऽनन्तरं किलाद्य ते चेतना जाता : दुग्धनैव किल केवलं तव माणा ध्रियन्ते। तूष्णीं भव वत्स, मारुदः।" इति । किमिदं मया श्रुतम् ? किमहमेकं सप्ताहमचेतनोऽतिष्ठम् ! अत्रान्तर एव कुतोऽहं न मृतः । हा धिक्, कीदृशाः कठिना मे प्राणाः ? न जानामि विधात्रा कियन्ममायुम्सङ्कल्पितम् । ?

" सम्यगह - स्थातुमशक्तश्चाह घूणताशरास्तपास्वन्या उत्सा पुनरपतम् । तप स्विनी च सा ताळवृन्तेन वीजयितुमारभत । कियतः कालादनन्तरं च यथा पुरमभून्मेऽवस्था। किञ्चित्स्वस्थशरीरश्चाहं तूष्णीमतिष्ठन् वक्तुमारभे स्मरामि-थनसूकरभयात्पलायमानोऽहं गन्होपलस्खलितचरणो भिन्नपादाङ्गु ष्ठोऽपतम् । मूर्छितश्चाभवम् । कुत्राहमपतं तत्तु न जानामि । तदनन्तरं च किं संवृत्तं तदपि न ज्ञायते । मातः ! कथय कृपया कथन्ते मयि निपतिता दृष्टिः । काममुत्कण्ठितोऽस्मि श्रोतुम् " इति । तपस्विनी त्यब्रवीत् -- यदि ते महानेव निर्बन्धस्तर्हि शृणु कथ- यामि । स्थानमिदं नीलगञ्जनामकम् । समीप एवास्य कश्चिदस्ति नीलो नाम गिारेः । अहन्तु नितरामेव दौमार्यशालिनी तपस्विनी काचित् । अस्तु वृत्तान्तं मे पश्चात्कथयिष्यामि । कुटीरेऽत्र वसन्त्याः प्रायो विंशति वत्सरा अत्यगुः । नास्ति कोऽपि मे सहायभूतः । एकाकिन्येवाहमत्र प्रतिवसामि । नातिदूर एवास्ति कश्चिद्ग्रामः । तत्रत्याश्च काश्चन महिळा यदाकदाचि. दत्रागच्छेयुः अहमपि यदाकदाचि दच्छामि तं ग्रामम् । अद्याष्टौ दिवसा अतीताः-किञ्चन कार्यमुद्दिश्य तमेव ग्रामं गताभवम् । अहं प्रायः प्रधानमार्ग परित्यज्य वनमार्गेणैव गच्छाम्यागच्छामि च । तस्मिन् दिने प्रातर्निजं कुटीरं प्रतिनिवर्तमानाया मे मध्यमार्ग निपतिते कस्मिंश्चिन्मूर्छिते बालकेऽपतदृष्टिः । समीपमुपसर्पितवत्या च मया त्वमेवोपलब्धः । नासिकायां निहितहस्तया च मया निश्वासश्चकन्निवावाग- म्यत । परन्तु चेतना मात्रयापि नाभूत् । पादाङ्गुष्ठात्तु रक्तं धारया प्रवह- तिस्म । झटित्येव मया कुतश्चिदानीताया मूलिकाया लेपेन रक्तनिस्सरणं निरुद्धमभवत् । बहुभिरप्युपायैरनुष्ठितैश्चेतना परं नाजायत । कस्मिन्नप्यनु- पलब्धे मनुष्ये महता परिश्रमेण कथंकथञ्चिदहमेकाकिन्येव त्वामिहानीतवती।

च-१२] जयतो जननी। ५५ पश्यन्त्या एव में कदुष्णं दुग्धं विना किमपि त्यां पाययितुं नाशकम् । द्वितीयस्मिन् दिने महता वेगेन तर ज्वरस्समभूत् । अशनपानादिकमपि परित्यज्य त्वामुपच- रन्त्यामपि मयि ज्वरो दिने दिनेऽधिकतामेवाभजत् । वायुवेगेन त्वं मध्ये मध्ये प्रालापाऽपि । सप्तभ्यो दिनेभ्योऽनन्तरं भगवतः कृपयाद्य सुस्थोऽसि किञ्चित् । सर्वमपि कष्टं गतप्रायमेव । वत्स! तपस्विनी नामाहमस्मि । संसार- मोहस्य परित्यक्तस्य मया महान् कालः । परन्तु न जानामि कुतस्त्वां मनः परवशमिव भवतीति । अद्य मे मनः क्षणमपि भगवदर्चनवन्दनम्तोत्रादिषु न प्रवर्तते । न जानामि कुतः पुनरपि चेतस्संसाराभिमुखी भवतीति । वत्स ! अयमेव हि तव वृत्तान्तः। तवापि मुखारहं किमपि श्रोतुमिच्छामि, परं नाद्य, किन्तु द्वित्रदिनेभ्योऽनन्तरम् । यदा त्वं सबलो भविष्यसि तदा कथयिष्यसि । नास्ति किमपि भयमिदानीम् । नास्ति लेशतोऽपि ज्वरः । त्वदर्थे किमपि पक्तुं याम्यहमिदानीम् । यावदहमागच्छामि तावत् त्वमत्रैव शेप्व । अ. थापि त्वमसि दुर्बलः। अतश्च मा प्रयतस्वोत्थातुम् । ” इति । एतावदुक्त्वा च सा कुटीरात्तस्माद्वहिर्निरगात् । तपस्विन्या अस्मिन् कुटीरे विनात्यावश्यकान्पदार्थान्किमपि नासीत्। व्याघ्रचर्ममयमेकमासनमवर्तत यत्राहं शये ! शिरःपाचे ताम्रमयः कश्चित्क- मण्डलुः, भित्तिलमश्च कश्चिद्दण्डः, आसीत् । पटलाधारदारुलम्बिनि च कुत्रचिद्वेणुदण्डे द्वित्राणि कापायवस्त्राण्यवर्तन्त । एवमेवात्युपयुक्ता अन्येऽपि केचनासन् पदार्थाः । कुटीरन्तु शुद्धं मनोहरं चावर्तत । शयान एवाहमित्थं मनस्यकलयम् - पश्य, परमात्मापि कीहशो दयालुः । कुत्राहमासम् , कुत्र चाद्यागतः । यदा यदा यस्यां कस्याश्चिदा- पदि पताम्यहं तदा तदा स एव भगवानविलम्बेन ततस्ततो रक्षति । देव्या ? मङ्गळानाम्न्या जरठाया गृहे प्रतिच्छन्न आसम् ; ततोऽपि पुनर्न जानामि कस्या देवताया दययान्धकार एव नौकारूढः पलायामास । अचिन्तितमेव नौकाया मजनम् । महाकुल्यायास्तीरे मम शवतुल्यतया तरसः प्रक्षिप्त- स्यावस्थानं च विचित्रमेव । प्राणास्तु तदानीमेव गतप्राया आसन् । भाग्यन तु देवनारायणमुखोपाध्यायम्य दृष्टिमयि न्यपतत् , येन गच्छन्त एव प्रा- णास्थिरा अभवन् । अहो! देवनारायणमुखोपाध्यायस्य गृहे कीदृशं सुखमा- सीत् । क्रमेण सर्वेऽपि वृत्तान्ताः स्मृतिपथमवतरन्ति । कुत्रास्ते देवनारायण- मुखांपाध्यायः ? कुत्र च स निर्मलकुमारः । कुत्र च सा देवी राज्ञी?' इति। देव्यां राश्यां स्मृतमात्रायामेवान्यस्य सर्वस्यापि स्मरणमन्तर्हितमभ- वत् । नेत्रे चाश्रुपूर्णे अभवताम् । देव्या राझ्या मनोहरा मूर्तिर्नेत्रयोः पुरतो- ऽभवत् । एतावत्येव समये तपस्विन्यागत्याब्रवीत् - " वत्स ! उत्तिष्ठ, मम हस्तमवलम्ब्य मन्दम्मन्दं वहिरागच्छ, हस्तपादमुखं प्रक्षाळ्य यावदिच्छं कियत्किचिदभ्यवहर ' इति । अहमपि ' तथे ' ति तस्या हस्तमबलम्ब्य बहिर्गत्वा देहळ्यामुपा- विशम् । अहो अन्यादृशं रामणीयकमस्य स्थानस्य। दृष्टमात्रमेवेदं मोहयति मानसम् । कुटीरस्थ पुरस्तात्स्वच्छसुन्दरं किञ्चिदस्ति चत्वरमल्पीयः , यच्च मालतीकुन्दमल्लिकादयः कुसुमलताश्शोभयन्ति परितः । पुष्पाणां मनोमोह- नेन गन्धेन कृत्स्नमेव कुटीरं सुष्टु वासितं भवति । एतादृशं रमणीय स्थान स्वद्य यावन्न कदाचिदृष्टं मया । शीतेन सुगन्धेन वातपातेनाङ्गस्पृशा प्रफु- ल्लमिवाभवन्मनः। पादहस्तमुखं प्रक्षाळ्याइँण वस्त्रेण कृत्स्नमेव शरीरममार्जयम् । क्षुदपि तदानी विशेषतः प्रज्वलत्यभूत् । पटोलकशाकेन सह चतसो रोटिका भुक्त्वा .

कुष्यमितं कोणं दुग्धं च मीत्वा सोत्साहोऽभवम् । भुक्ते मयि तपस्विनी सा कुटीरस्य बहिरळिन्दे शयनमकल्पयत् । तत्रैवाहं न्यविशम् । एनाव- त्सु दिनेषु व्यतीतेपु वृद्धरोगिणा दत्तानि वस्तून्यवलोकयितुमवसरो लब्धः । इदन्तु कथयितुमहं व्यस्मरम् । इदानीमेव ज्ञापयामि-यदाहमचे- तनो मूर्छितोऽभवं तदा तपस्विन्या स्वर्ण करण्डकं पनग्रन्थिश्च मत्कटेनिष्का स्य कुटीरस्य कुत्रचित्कोष्ठ के निहिते अभूताम् । यत इयं विरक्ता काचि- तपस्विनी, तत एवंदं वस्तुद्वयं मयालभ्यत, यस्य कस्यचिदन्यस्य चेद्धस्त- गतमभविष्यत् दुर्लभमेवा भविष्यत् । कुटीरावाहिरागच्छंश्चाहमिदमपि सहै- वानयम् । - गतायां तपस्विन्यां निविष्ट एवाहं प्रथगत' पत्रग्रन्थिमेवोदमोचयम्। अपश्यं च तत्र किञ्चिदानपत्रम् । आः ! इदन्तु देव्या राश्या हस्तलिखि- तमेव । महतानन्देन कौतूहलेन च सह तदहमपठम्। अननैव सह किञ्चित्पुरातनं पन्नमपि तत्रासीत् । अक्षराणि तु सर्वाण्यविकलान्यासन् , मण्यास्तु वर्णो मृष्टप्रायोऽभवत् तदप्यहमपठम् । तत्रैवं लिखितमासीत्- " नीलाचलम्य यत्र कुत्रचिद्गुहायां महारजस्य नरेन्द्रनारायणम्य * गुप्तधनं ' रत्नगृहं वा वर्तते । अस्यैव वंशभयो योऽपि काऽपि वान्वि- प्येदं रत्नगृहमुपलभेत स एवास्य स्वामीभविष्यति । " तत्र वर्षमासादिकं किमपि नासील्लिखितम् । पूर्वोक्तांश्छन्नान्विना न कोऽप्यन्यश्शब्दस्तत्रासीत् । पठित्वा चाहं दिङ्माहमिवागच्छम् । कि- मपि हृदय नावातरत् । को नाम स वृद्धो रोग्यासीत् ? येनेदं मां दसम्। किं स कोऽपि पत्रलिखितम्य नरेन्द्रनारायणस्य वंशजेप्येव स्यात् । न चे- दिदं पत्रं तस्य हस्तं कथमुपागतम् ? यद्येवं तर्हि स एतावतो दिवसान् किमिति कारागृहेऽतिष्ठत् । मन्ये अस्यैव वृत्तान्तस्य परिज्ञानाय रायस्तं बन्दीचकार, इयश्च कष्टमदात् । महदिदं कष्टं यदगणितस्य धनस्य स्वामी 9 नाम भूत्वा स आत्मानं दुर्भगमकथयत् । आस्तामिदम् , किमिति नाम स मह्यं निजं दानपत्रमदात् ! इदं च देव्या राज्यैव लिखितं नूनम् । तर्क यामि-तस्मिन् कथयति देवी राश्यलिखदिति । तस्य दान पत्रस्य यत्तेन- दत्तम् , यच्च पूर्व मया पठितम् , यच्च देव्या राज्या लिखितम् , अयमेव सारांश:- मत्तस्सप्तमस्य पूर्वपुरुषस्य कालादिदं रत्नगृहं नीलाचलस्य कुत्र- चित् गुहायां छन्नं वर्तते । मम पिता, पितामहः, प्रपितामहः, ततः पूर्वे चेदं रत्नगृहं द्रष्टुं नापारयन् । अहमप्यस्मिन् कार्ये नाभवं सफलमनोरथः। भतएव महाराजस्य नरेन्द्रनारायणस्य दानशासनं तुभ्यमपर्यामि, त्वमेवास्य कार्यस्याई इति मन्येऽहम् । यदि तब भाग्येन रत्नगृहमुपलब्धं स्यात्त्वया, त्वमेवास्य स्वामी भविष्यसि । ततश्च तव पुत्रपौत्र दयः । यदि कश्चिदा- शङ्केत--सत्सु बहुषु कुतस्त्वमेवास्याई इति मया निश्चित इति, वीरजा देवी देवी राज्ञी समाधास्यते । सैव मे प्रधानतमा साक्षिणी । किमधिकेन । वन्द्योपाध्यायः-- श्रीनारायणदेवशर्मा " पुनश्च यदि त्वयापि रागृहमिदं नोपलभ्यते तदा यस्मै कस्मै चिद्यो- ग्याय दानपत्रमिदं देहि । यदाहं सम्यक्सचेतनस्सुस्थचित्त आसं तदा दा- नपत्रमिदं मया व्यलिख्यत । पत्रयोरनयोः पठनेन महान् हर्षस्समजायत । आनन्दसागरे निमम इशाहमभवम् । । mero " सौवर्णसम्पुटस्योद्घाटनाय बहु प्रायते । नाशकं परं तदुद्घाटयि- तुम् । अनिच्छन्नपि तदा सम्पुटं पत्रे च कुत्रचिच्छन्नमस्थापयम् । तपस्विनी सा, यामहमिदानी मातरित्येव सम्बोधयामि, स्नानपूजा- दिकं निर्व| कुत्रचित्ताम्रपात्रे फलमूलादिकं हस्तेन धारयन्ती समागत्य मम पुरस्तादुपाविशत् । - अवदं च तामहम्.-" मातस्त्वमसि धन्या ! धन्यश्च त आत्मी. यस्वाभिमानः । न केवलं ममैव माता खमसि, अपि तु जगत एव माता त्वमसि ? " इति । ॥ इति संसारचक्रे द्वितीयभागे द्वादशं चक्रम् ॥ ॥ अथ त्रयोदशं चक्रम् ॥ ( अन्वेषणम् ) • -- [+]-० पञ्चदश दिवसान्यतीतानि । मम दुर्बलता निश्शेषतो व्यनश्यत् । यथापूर्वमहं सबलो दृढगात्रश्चास्मि । तपस्विन्या अषि कार्य यथापूर्व सभ्य- क्प्रचलति । प्रातष्षड्घण्टावादनकालप्रभृति दशघण्टावादनपर्यन्तश्च कालो मदर्भभोज्यनिर्माणादिना याति तस्याः । ततः पारायणपूजादिकं करोति । अनन्तरं भोजनादिकं करोति । प्रायो मध्याह्नात्परं द्वितीयघण्टावादनपर्य- न्तकाल एव सर्वमिदं कृत्यजातं परिसमाप्नोति । तातीयीकघण्टावादनकाले पुना कन्दमूलादिना तर्पयति । यस्सायङ्कालादारभ्याधरात्रपर्यन्तं मदीयं जीवनचरितं मात्रा साय- धानया श्रुतम् । श्रवणकाले तस्या विचित्रैव दशावर्तत । कदाचित्सा शृ- ण्वन्त्येव मन्त्रमुग्धेवादृश्यत, कदाचिच्छ पर्यश्रुलोचनाभवत् , कदाचिच्चानिमि भाभ्यां लोचनाभ्यां मामेवापश्यत् , कदाचिच्चोष्णदीनिश्वासैरधरोष्ठमशो । षयत् । उदश्रुलोचनया मात्रा मदीयस्सर्वोऽपि वृत्तान्त ऐकैकश्येन श्रुतः । मयापि सर्वोऽप्यात्मनो वृत्तान्तोऽविकलः कथितः, केवलं वृद्धेन रोगिणा सह सल्लापः, स्वर्णसम्पुटादिप्राप्तिश्च न कथिते । सर्वमप्यात्मनो वृतान्तं मया सा श्राविता, तया त्वद्य यावन्निजो वृत्तान्तः कोऽपि नोक्तः । यिष्यामि ' ' कथयिष्यामि ' इत्येवाथमपि दिवस्रो यापितः । तपस्विन्य ८ कथ- संसारचक्रम् । [भाग-२ मातुर्वदनमण्डलमेव हृदयगतां महतीं चिन्ता व्यनक्ति । तदीयाङ्गमार्दवं च नूनमियं कस्यचिन्महाराजस्य पट्टमहिपीति पिशुनयति । तपस्विन्या मातुस्तिस्रः कुट्यस्सन्ति । यत्राहं तिष्ठामि सैवान्याभ्यां महती । इतरयोरेका पूजागृहमित्यन्या महानसमिति च व्यपदिश्यते । पू- जागृहं सदैव पिहितद्वारं वर्तते । एषु पञ्चदशसु दिवसेषु कदापि मया पू- जागृहं विवृतद्वारं न दृष्टम् । विधायैव कवाटं पूजामपि करोति सा । पू- जागृहद्वारपिधानविषये तस्या महती सावधानता । कदाचिदस्मिन् विषये सा मया पृष्टा कथान्तरप्रस्तावेन वार्तामिमामन्तरधापयत् । अपराहस्यायं समयः । प्रायस्तृतीयघण्टावादनमपि जातं स्यात् । मां फलमूलादिकं भोजयित्वा मातायैव पूजागृहं गता । ममापि तस्य स्व- र्णसम्पुटस्योद्घाटनायावसरो लब्धः । समीप एव किञ्चिदयोमयमायुधं प. तितं लब्धम् । तस्य साहाय्येन महता परिश्रमेण च स्वर्णसम्पुटमुदघाट- यम् । वस्तु द्वयमेव ततो मयाऽलभ्यत । तत्रैका सुवर्णमयी हीरकजटिता मनोहारिणी मुद्रिका । अन्या च काचित्सुवर्णमयी कुश्चिका। आभ्यां वस्तुभ्यां को वाभिप्रायः प्रकटीभवेत् , किमपि न ममान्तरमविशत् । 'ति- ष्ठतु सर्वमिदम्, एकदा पर्वतं तावदिमं पर्यटामि, तत्र पत्रे लिखितमस्ति- 'नीलाचल ' इति, अस्य पर्वतस्य च श्रूयते नाग नीलाद्रिरिति । तर्हि कि मस्मिन्नेवाद्रौ कुत्रचिद्गुहायां तद्रनगृहमस्ति ? " सर्वमिदं मनसि विचार्य मातुरज्ञात एव नीलाद्रिं प्रति प्रातिष्ठे । अर्धघण्टाकाले पर्वतस्याधः प्रा- पम् । पर्वतोपर्यारोहणाय वक्रवका काचित्पद्या परमवर्तत । तयवाहमुप- र्यारोढुमारमे। अहो ! केयं मनोहारिणी शोभा स्थानस्य ! भगवान् मयूखमाली क्रमेणास्ताचलमुपसरति । सौवर्णैस्तम्य किरणजालैः कृत्स्नमरण्यं सुवर्णमय मिवाज यत । निर्जनेऽत्र महत्यद्रावहमेकाकी तत इतस्सञ्चरामि । ग्रैष्मः प्रचण्डतमैः प्रभाकरस्योसैः प्रतापितास्सर्वेऽपि वृक्षा लता गुल्माश्च म्लानता मापन्नाः किश्चिदुपशान्ते रविकराणां क्रौर्ये सायन्तनेन शीतेन समारणेन स्पृष्टाः पुनर्जीवन मिव प्राप्ता महतीं शोभामपूपुषन् । अहमप्येतादृशे स्थाने तिष्ठन् पश्यंश्च शोभामेताम्महान्तमानन्दमन्वभवम् । पुरत एव च स्व- च्छस्वादुपानीयवाहि प्रस्रवणं किमप्यासीत् , यस्य शोभा न मया शक्यते वर्णयितुम् । अयमेव नीलाचलः । अत्रैव कुत्रचिन्महारानस्य नरेन्द्रनारायणस्य महती सम्पत्तिरस्ति । परन्तु कुत्रास्ते, न जानामि । यदि सभीचीनमभि- ज्ञानं तत्स्थान ज्ञानाय लिखितमेव स्यात् , तडंद्यावधि किं सा शिष्येतापि ? सप्त सप्त पूरुषा अतीताः, केनापि तत्स्थानं न लब्धम् ; का कथा मम दुर्भ- गस्य तपस्विनः ? कार्येऽस्मिन् हस्तप्रक्षेपो मादृशस्य मूर्खतामन्तरा किं वा प्रकाशयेत् । किं तर्हि कार्येऽस्मिन्मया न प्रवर्तितव्यम् ! कुतो न ! अवश्यमेव प्रवर्तिष्ये । को वा जानाति कस्य कीदृशं भागधेयमिति । प्रसिद्ध हीदम्- " स्त्रीणां चरित्रं पुरुषस्य भाग्य......देवो न जानाति कुतो मनुष्यः इति । आशा हि नाम बलवती सर्वस्य । आशयैवं हि सर्वमिदं जगद्धि- यते । एवं स्थिते निराशः किमिति भवानि । स्यात्कदाचिन्मयैव भगीरथेन भाव्यमिति भगवतस्सङ्कल्पः । यावदस्तमनं सूर्यस्य यथाशक्ति पर्वतस्य सर्यपु स्थानेषु सम्यगन्वे. षयम् । यदा च सर्वत एवान्धतमसावृता अभवन् दिशः, तदा कुटीरं न्यवृतम् । माता मामेव प्रतीक्षमाणा वर्तत । दृष्ट्वैव मां साब्रवीत् - "वत्स अद्य यावत्कुत्र गतोऽभवः ? किं नीलाचलं गतोऽभवः ? " इति । मया तु समुचितमुत्तरं समयोचितमदीयत । सायन्तनाय कर्मणे पूजागृहं सा प्रावि- शत् । अहमपि देहळ्यामुपविष्टो नानाविधामिश्चिन्ताभिस्समाविष्टोऽतिष्ठम् । इति संसारचक्रे द्वितीयभागे त्रयोदशं चक्रम् । ?

( महती विपत् ।) इत्थमेव प्रातम्सायं मध्याह्ने वा यदा यदावसरो लभ्यते, तदा तदा नीलाचलं तं गत्वा सर्वाणि शिखराणि सर्वा गुहाश्च सम्यगवलोकय- नासम् । ' कुत्राहं गच्छामि ? किं वा तत्राहं करोमि, इत्येतमर्थ कदापि तपस्विन्यै मात्र नावेदयम् । सा तु यदाहं पर्वतात्प्रतिनिवर्ते तदा त्वं अमुकं देशं गतः किले ' ति स्फुटं वदेत् । अनुक्तमेवेयं कथं नानातीति तु महान्मे विस्मयः । दिवसेप्वेषु मातुस्स्वभावः पूर्वापेक्षयान्यादृशो दृश्यते । यत एवाई नीलाचलं गन्तुमारभे तत एवेमां चिन्ताग्रस्तां सन्देहशीलां च तयामि । यदेयं पूजागृहं प्रविशति तदेव खल्वहं बर्हिगच्छामि, एवं स्थिते कथमियं जानाति ' अमुकं देशमहं गत ' इति । पर्वतात्प्रतिनिवृत्तमागतं मामियं सकौतुकं सविस्मयं च किञ्चिदप- वार्य पश्यति । अहं त्वजानान इव किमपि तिष्ठाम्यविकृतः । अद्य यावदस्या जीवनवृत्तान्तश्रवणस्यावसर एव न लब्धः, यतो न मे कार्यान्तराय विरामः--न चास्यास्समीप उपविशाम्यपि । दिने दिने क्र- मश इयं चिन्तया विना विवणां च परिदृश्यते । इत्थमेव व्यतीत एको मासः पश्यतो मे, न च रत्नगृहस्य कोऽपि वृत्तान्तो ज्ञातः । अन्वेषणे तु तस्य मया यावच्छक्ति प्रयत्नः कृतः । एकदा तु मध्याह्ने भुक्तपीतोऽहमळिन्दे सन्निविष्ट आसम् । मन्ये सुप्तोऽपि । माता च देवपूजायै पूजागृहं प्रविष्टासीत् । अचिन्तितमेव कर्ण- पथं गतेन केनचिन्मनोहरेण गीतेन प्रबुद्धोऽभवम् । उन्मील्य नयनेपश्यंश्च कमपि नालभे । उत्थाय तत इतः परिभ्रमन्नपि न कमपि । पूनागृहमपि यथापूर्वं पिहितकवाटमन्तदत्तार्गळं च । कवाटिकायां किमपि रन्ध्रमपि ना- सीत् , वेनान्तर्गतं द्रष्टुं शक्नुयाम् ।

चे-१४]] महतीधिपत्। गीतेन त्वनेन मे मानसं व्याकुलमभवत् । यदा कथञ्चिदपि मनसस्स्वा स्थ्यं न समभावयम् , तदा गिरौ पर्यटनमेव समुचित निरचिनवम् । तेषु दिवसेषु गिरिपर्यटने महदेव कौतुकं मे समभवत् । यदा यदावसरो लभ्येत तदा गिरिपर्यटनमेवैच्छम् । येन गीतेनांहमभुत्सि-तदिदं गीतम्- ॥ द्विपदी। कतिचिदहानि न सङ्गतमिति माकलयस्म रुपश्छुरितम् । मतिमन्मधुरं कृतपदमनिशं मनसि मम त्वच्चरितम् ॥ नियतं दूरे तिष्ठतु गात्रं निकटे चेतोऽविरतम् । प्रयताः प्राणास्त्वदधीना मे प्रियतम न किमपि दुरितम् ।। स्वर्णसम्पुटं हस्ते गृहीत्वाहं पर्वतं प्रति प्रातिष्ठे । अत्रागतस्य मे मासत्रयं व्यतीतम् , एतन्मध्य एव मयागिरेस्सर्वाणि स्थानान्यवलोकितप्रा- याणि । किमित्यवलोकितप्रायाणीत्येव कथयामि, द्विजिकैकं स्थानं मया- बलोकितम् । केवलं दक्षिणतः पर्वतस्यैकं शिखरमेव नावलोकितम् , त- च्छिखरपर्यन्तं गमनं किंञ्चिदसाध्यमिव । भयानकं च तत्स्थानम् । अनव- लोकितपूर्वस्य तस्य स्थानस्यावलोकने महती समुत्कण्ठा मे समुदभूत् । सत एवं गन्तुमहं निरचिनवमपि । निश्चयमात्रेण किं वा भवतु ? तत्स्थानगमनाय न कोऽपि मार्गों न वा काऽपि पद्याऽवर्तत । मम तु तत्स्थानगमनमत्यन्तमावश्यकम् , तर्हि किमत्र कर्तव्यम् ? अन्ततो महता साहसेन स्मरन्मनसि भगवन्तं वृ. क्षाणां मूलानि शिलाखण्डांश्चावलम्ब्योपोरोढुमारभे । किं कथयामि तस्य मार्गस्य दुर्गमताम् ! यदि किञ्चिदप्यनवधानं दृष्टिविभ्रमो वा स्यात्संयमि- न्यामेवात्मानं पश्येयम् । अस्तु, यथाकथञ्चित्पतन्नुत्तिष्ठन् कण्टकैश्शरीरं विदारयन्नुच्चैर्निश्व- संश्च तदेव शिखरं प्रापम् , यद्बहुभिवृक्षैर्गुल्मैश्च समाच्छन्नं दूरात्पश्यतां दृष्टिपथमेव नोपगच्छति । हा धिक् ! कीरशमिदं भयङ्करं स्थानम् ! केयं सर्वतोऽपि निश्श- - सामने अपना नाम.

संसारचक्रम् । [भाग-२ ६४ सालादयो वृक्षाः केवलं दृश्यन्ते । भगवान् सहस्रकिरणोऽपि क्रमेण संह- रन् करान्सहसमपि पश्चिमत उपसर्पति । क्रमेण घनीभावावृक्षाणामन्ध- काराऽपि निजमधिकारमशून्यं चिकीर्षुस्सन्नाति सर्वतो व्यापनाय । मार्गो- ऽपि न परिज्ञायते ! हा हन्त ! किमहमितः करोमि ! कुत्र गच्छामि ! दुश्शक इतो निर्गमः ! व्यर्थमत्रागतोऽस्म्यहम् । आः कष्टम् ! नूनमद्य गमिप्यन्ति मे प्राणा निरर्थकमेव । स्वयमेव स्वशिरसि धूळीमपातयम् ! इत्यादि चिन्तयामेकतोऽतिष्ठम् । भयेन गतप्राया इवाभवन्मे प्राणाः । हृदयं कम्पितुमारभत । पश्यत एव मे सर्वतोऽन्धकारावृता अभवन् दिशः । हस्तोऽपि मे नादृश्यत । अनात्माधीनोऽहं कुत्रचिन्महति गण्डोपलेऽधोलम्बितपाद उपाविशम्। उत्क्षिप्तनयनच घनघटाच्छन्नमपश्यं नभः । अतर्कयं च क्षणाद्वात्यामाग- मिष्यन्तीम् महतीं च वृष्टिं भविष्यन्तरम्। कथं प्राणानहं रक्षेयमिति चि- न्तयंश्च भीतभीतोऽभवम् । अनतीतेष्वव पञ्चषेप्वपि क्षणेषु महान् जंझानिलस्समूलमुत्पाटयनिव वृक्षान् भिन्दन्निव नभशब्देन समाययौ । सूक्ष्मसूक्ष्माश्च शर्कराखण्डा वात्यया प्रेरिता नयनयोरपतन् । करकवृष्ट्येव ताड्यमानं शरीरं क्षौद्रपटल- लतामिवावलम्बितुमारभत । अनिच्छन्नपि न्यमीलयं नेत्रे । वात्ययोन्मूलि- तः कश्चन वृक्षो दशहस्तदूरे सशब्दं न्यपतत् । तेन महता शब्देनोद्धान्त इवाहमभवम् । विदीर्णे इव च श्रोत्रे । किञ्चिदुपशाम्यत्येव वात्याया वेगे हस्तिशुण्डादण्डानुकारिणीभिधाराभिवृष्टिः पतितुमारभत । घोरमगर्जन् घनाः। पर्यस्फुरस्तत इतो विद्युल्लताः । जीवनाशया च परित्यक्तोऽहमभवम् । ना- तिदूर एवापतदशमिः, इनमेव भागधेयम्--यन्मे शिरसि नापतत् । अथवा दौर्भाग्यमेव मे । अशनिपाते हि सति क्षणादुन्मुक्तो भवेयं सर्वपि दुःखैः। प्रभया च दुर्निरीक्षया शनैर्निर्मीलिते मे लोचने । मूर्छामिवाहमापनस्सची- कारं न्यपतं भूमौ । . - - रहस्यभक्ष ॥ अथ पञ्चदशं चक्रम् ॥ ( रहस्यप्रकाशः ।) १ पुनरपि तेनैवातिमनोहरेण गीतेन येन पूर्वद्युमध्याह्ने व्यपंगतनिद्रोह मभवम् , प्रबुद्धोऽभवम् । विष्फारितलोचनश्चाहं कुचित्सुन्दरतमे परिष्कृते रत्नस्तम्भशतसमलंकृतेऽन्तगृहे मुग्धमनोरमे मृदुळतमे शयने शयानमारमान- मपश्यम् । शिरश्च सुखस्पर्शे कुत्रचित्पट्टीपघाने निविष्टमवर्तत । तत्र चान्त. गृहे समुचितेंधु स्थानेषु भित्तिलग्नानि नानाविधानि मनोहराणि चित्राणि विचित्ररंचमीनिं चांतिपृथुळानि दर्पणानि , एकशीखान् द्विशाखानि शाखान् पञ्चशाखांश्च दर्शनीयान् भित्तिदर्पणदीपान् ( Wall Lamps ) पटलांधारंदारुघु पंट्टवितानादधोलम्बमानाश्चानन्तशाखान् दर्पणमयान् लम्ब मानदीपान ( Hanging Lamps ) शुद्धम्झटि ककुट्टिमे यथोचितं भि. त्तिपार्श्वेषु निहितानि पट्टमयकुंथापरिष्कृतानि चतुष्पदानि षट्पदान्यष्टपदानि च सुखोपवेशिनी सुर्खशांयिन्यादीनि , मध्ये चैकपदं वर्तुल पट्टक्मावृतं नानावर्णैर्दर्पणमयैर्नवसुगन्धिपुष्पालङ्कृतैः पुष्पनि धानश्शोभमानैः परितश्च बह्वींभिस्सhथाभिस्सहस्तोपधानांभिरंतिमूल्याभिस्सुखोपवेशिनीभिः परिवृतं पीठं चौपश्यम् । सर्वमिदमवलोकयंश्वाहम् . किमह जागर्मि ? भय स्वपिमि ? किमस्म्यस्मिन् लोके ? अथ मुन् , ' इत्यादि नानाविधसंशयाकुलमनाः क्षगं विचित्रायामेवं दशायामतिष्ठम् । अचिन्तयं च - कुत्र सद्भयानके पर्वतशिखरेऽशनिपातेन मूर्छनम् !. कुत्र चेदं सुखैकताने मणिमये गृहे शय्यायां शयनम् ? किंमियं माया ! आहोस्विदिन्द्रजालं कस्यापि ? अथ ममैव मनसो मोहः ?" इति । सन्देहापाचिकीर्षया च नयने निमीलयन किमप्यपश्यम् । अथोन्मीलयश्च 'पुनम्तान्येव दृश्यान्यबालोकयम् । सेन 10.

.. च सत्यमिदं सर्वमिति निश्चित्य शयन एवोत्थायोपाविशम् । अवधानेन च परितस्सर्वाण्यवलोकयितुमारभे । उपधानपार्थे च नयने प्रसारयन्यदपश्यम्, तदत्यद्भुतं किमप्यासीत् । तन्मे भानसमपाहरत् । अहो ! किं सैवेयम् --- या संसारसागरस्य मौकेव , या च प्राणारामस्य नन्दनवनस्य पारिजात इव ! किं सैवेयम् , या मम सर्वस्वभूता , पूजनीयतमा देवी ! आम् आम् , सैंवेयं देवी राज्ञी यदा च मनस्ययं भावस्समुदभूत्तदा किलामन्दनानन्देन भरितोऽहं रोमाञ्चितगात्रस्तस्या मनोहराया मूर्तेश्चरणयोर्निपतितुमचलम् । सा तु कृतस्मिता. द्वित्राणि पदान्यपसृत्यातिष्ठत् । . ततस्सविस्मयस्सकौतुकमपृच्छ महम् देवि राज्ञि ! कथमहमत्र ? कस्य पुण्यस्य बलेन स्वर्गतुल्य- मिदं स्थानमहमनुप्राप्तः ! केन वा सुकृतेन पुनस्ते दर्शनमभवत् १ . - नाम्यञ्जलिम् , पतामि ते चरणयोः . प्रकाशय रहस्यम् , मास्म निमज- यस्संशयसागरे प्लवमानं माम् , शपामि शिरसा मे । " इति । देवी राज्ञी त्वत्रवीत् -- किमित्येतावान् सम्भ्रमः ! तूष्णीं लिछन , स्थिरा भवत उपविशत , अद्यैव सर्व रहस्यजातं प्रकाशतामेष्यति । कांश्चित्क्षणांस्तूष्णीं स्थित्वा देवी राज्ञी सस्मितं पुनरवदत्-- एतावतः कालस्यानन्तरं सर्वापि तवापद्वय नश्यत् । दुःखमयानि दिनानि सर्वाणि व्यत्यगुः । इतं एकमेकं निजं वृत्तान्तं मयां कथ्यमानं शृणु । तिष्ठतु तावदिदम् , यंदाशनिपातेन पार्वते शिखर त्वं मूर्छितोभवम्तदा कि किं वस्तुं त्वन्निकट आसीत् ? स्मरसि कच्चित् ? कथय, पश्यामि । " इति । श्रुतक्त एव में स्वर्णसंपुटं स्मृतिपथमागात् । कटौ कर प्रसारवता च संपुटं नालभ्यत । मनो मे शून्यप्रायमभवत् । संभ्रान्तश्चाहं देव्या राज्ञया एव वदनमपश्यम् । देवी राज्ञी तु सहासमवदत् किमित्येवं विचलितो भवसि ? गृहाणेद संपुटं भवदीयम् । इदमेव खलु. तद्भा- वत्कम् ? " इति। , .. " इति । ? --- " आम् , इदमेव इदमेव '' इति कथयन्नहं संपुटमगृहाम् । देवी राज्ञी त्वपृच्छदेवम् - " तपस्विन्या मातुः पूजागृहमपि कदाचित्वया - ष्टम् ” इति । अहं चाब्रुवम् - " कदापि न , न तया कदाचिदपि वा दर्शितम् , न वा मम तदर्शनस्य कोऽप्यवसरो लब्धः । कथं न.मावसरो लभ्येत ? सर्वदा राबन्दिवं तद्गृहं पिहितद्वारमेवावर्तत । देवि राज्ञि! सर्वमिदं रहस्य झटिति प्रकाशय । स्मराम्यहम् - तदा पर्वतशिखरे मूर्छितो निपतित आसम् । कथं तावत्तव निपतिता,मयि दृष्टिः ? " देवी राज्ञी समन्दहासमवदत् साधु , शृणु , कथयामि, तव मातुस्तपस्विन्याः पूजागृहादिमं पर्वतं यावदस्ति काचिरमुरगा। येनाभि- प्रायेण त्वमिदं पर्वतमन्वेष्टुं गच्छन्नासीस्सापि तेनैवाभिप्रायेण सुरङ्गामार्गणा प्रागच्छन्त्यासीत् । " किं तीनेनैव कारणेन पार्वतं सर्व वृत्तान्तं कथयन्त्यासीत् ? पर्वते यत्र यदाहं गच्छामि , सर्वमिदं तत एवं सा जानन्न्यासीत , मां च सर्व वृत्तान्तं कथयित्वा विस्मापयन्यवर्तन ? किमकथयः येनाभिप्रायेणाहं पर्वतं गच्छन्नासं तेनैव सापि गच्छन्त्यासादिति वा? किमस्य तात्पर्यम् ? झटिति कथय का नाम सा ? देवि झटिति कथय । का नाम सा ? न चेदहं भवाम्युन्मत्तः।'' इति । देवी- का सा-कथयानि वा , सत्यं वद , कथयान्येव वा, साधु तर्हि , शृणु , मनो दृढमवस्थापय , मास्म. नाम सम्भ्रमः ! शृणु-- सैव ते जननी , या त्वामवहद्दश मासान् गर्भे , सैव- इयं ते माता। अहम् - है. ! ऐं !! किमकथयः ! सैव मे माता । सैब वा मे प्रसवित्री जननी । कुत्र सा । माता मे कुत्रान्त । देवि राज्ञि ! कि मे माता। ततोऽधिकं किमपि वक्तुं नाशकम् , कण्ठं रुरोध बाप्पोद्मः । न- यने चोदलगी अभवताम कोड शो गलति अर्धोक्त एवाहमबदम् सत्यमेव सा सत्यम् । क . , कियतः कालादनन्तरं देवी राज्ञी पुनरेवं वक्तुमास्भना- सैव ते माता , मन्येद्यावगच्छसि -- यथा सा. तब पर्वतश्रमणकृत्तान्तमजा नादिति । अस्तु , हतः परं शृणु । ह्यो मध्याह्ने यदा त्वं देहळ्यां सुप्तोऽभक- स्तदाहं पूजागृहे त्वामेवाधिकृत्य मात्रा ते. सल्लपन्ल्यवर्तिषि । मल्लापमध्य एव त्वन्निकट स्वर्णसंपुट मेकं वर्तमानं सदा वया. रक्ष्यमाणं चागत्य महान्मे विस्मयोऽजनिः । अज्ञासिषं च तव शिरःपार्थ उपधानस्याध एवं तस्य स्थितिम् , झटित्येव गत्वा तव शिरःपार्श्व उपधानन्याधस्ताद्धस्तं प्रसार्य स्वर्णसंपुटं गृहीतवती । उद्घाट्य दृष्टवत्याश्च मे सर्वेऽफि- सन्देहा व्यनश्यन् । पुनश्चोपधानम्याधस्तादेव तन्नयधाम् । ततश्च तव कर्णयोस्स- मीप एय किंचिद्गीतं. गायन्ती क्षणं विलिम्ब्य ततोपासरम् । यदाहं गायन्त्यासं तदैव माता ते सुरक्षामार्गेण पर्वतमगमत् । छन्न गात्रा चाहं त्वामपि शयनादुत्याय तत्रैव गच्छन्तमपश्यम् । अहमपि सु- रङ्गामार्गेण तव मातुस्समीषमगाम् । कुत्र स्वं गतोऽसीति तु नावाभ्यामज्ञा- यत । एतावत्येव समये वृष्टिरप्यागमत् । अशनिपातश्चाभवत् । त्वामधि कृत्यावां चिन्ताकुले अभाव । किञ्चिदुच्चं पर्वतशिखरमारुह्य चतुर्दिश पश्यन्त्यावावां कस्यापि रोदनशब्दमशृणुव । तेन च विशेषतश्चिन्ता समभवत्। एतावस्येव दक्षिणतो दृष्टिर्निपतिता अशनिपालेनोचतम पर्वतशिखरं विशीर्णमपश्यत् । तत एय. पाश्चषान्पदान्क्रममाणाहं कश्चन शवमपश्यम् । दृष्टवत्या एव मे व्यशीयतेच शिरः । किञ्चिद्ग्रतः प्रसृतवत्याश्च व्यदीर्य- 'तोरः । सर्वा दिशेन्धितमसावृता अदृश्यन्तः । उरस्ताडयन्त्यहं. तत्रैवोपा- विशम् । कियन्तश्चित्कालमहमप्यचैतनैवासम् । यदाहं सचेतनाभवं तदा तव मातरमपि साक्रन्दनं तत्रैवागच्छन्तीमपश्यम् । तदात्त्रे वृष्टिनिश्शेषत उपशान्तावर्तत । निश करस्याप्युदितस्य घाटकै का। समागतायां रहस्म्प्रकाशः । । मातर्युभे सम्मिळिते त्वामान्यावः। अमिना ते शरीरं तापयितुमारभे । कृल्लां रात्रि त्वमभवो विचंतनः । प्रातस्तेऽभकञ्चेतना। ग्रामादुग्धमानीय कोणं कृत्वा त्वं पायितोऽभवः । अघासि त्वं सुस्तः । माकुरु चिन्तां कस्यापि। इदमेक ते. रलगहम्, यस्यैव कृते. त्वयेयान् श्रमोङ्गीकर्तव्योऽभवत् । इदं किल कस्या. अपि गुहा- याः पार्थे गिरि भित्त्या निर्मितमास्ते । निर्मातृभिश्चतुरैयात्र वातः प्रकाशा श्यागच्छेत्तथा निर्मितमिदं गृहम् , अत्र बहून्यपवरकान्यङ्गणानि च बहु मूल्यैर्वस्तुभिरलङ्कृतानि सन्ति । कोट्यधिकरूप्यमितं द्रव्यमत्र निहितमस्ति। समयान्तरे तत्सर्व ते दर्शयिष्यामि । उपर्यारोहणाय बहवो मागास्सन्ति , येद्य यावच्छन्ना आसन् । प्रधानमार्गस्तु स एव असुरङ्गाया अन्तिमभा- गेंऽस्ति । यतो वाग्रे गन्तुं ते माता शक्ताभवत् । तयैव कुञ्चिकया, या तेऽस्मिन् स्वर्णसंपुटेऽभवत् , कवाटिकामुद्घाट्यावामत्र प्रविष्टे. स्वः ।. : यस्य कृते त्वयेयदुःखमनुभूतम् , येनैव निमित्तेन तव चन्भवस्स- वैऽपि. महतीमापदमन्वभवन. , तदेवेदं नष्टं धनं अद्य तव हस्तगतमभवतः । एतावतः कालस्यानन्तरं तवापि वृत्तान्तः प्रकाशतां प्राप्नुतः । नासि त्वमा स तपस्वी भिक्षुको वा ? तक हुङ्कारेण केवलं रायस्तूलमिव वात्ययाद्य विनाझं प्रपद्यत । सर्वेऽपि तस्यानुगामिनस्ते चरणयोलठयुः । इतस्त्वया न कुत्रापि' परिभ्रमणीयं भविष्यति । सौवर्णे सिंहासने त्वमुपवेक्ष्यसि । नाय त्वं सः दीनो हीनो व्रजेन्द्रभूषणः । अपि तु महाराजान्नरेन्द्रनारायणात्सप्तमस्य महाराजस्य श्रीश्रीनारायणभूपबहादुरस्य कुमारोऽसि । इतःप्रभृति श्रीमान् भूजेन्द्रनारायणरायभूपबहादुरो नामासि । अयमेव ते गुप्तो वृत्तान्तः ।" इति । हमारनके नितीशभाग पञ्चदशं चक्रम् ॥

-- का -~.[+]-० अत्यद्भुतस्य तस्य मणिमयस्य गृहस्य सर्वानपि भागान्सम्यगवलोक्य देव्या राजया सह कुटी प्रत्यहं प्रातिष्ठे । देवीराज्ञी यथा यथाद्भुतान् रहस्य वृत्तान्तान प्राचीकशत्तथा तथा विम्मयः कौतूहलं च मेऽभिवर्धमानमभवत् । अचिन्ततमेव कश्चिदागत्य प्रणम्यातिष्ठत्किञ्चिद्विवक्षुरिव । देवीराज्ञी तमवलोवयात्रवीत् --- ! विजय! को वृत्तान्तः । इति । विजयोऽपि सविनयं प्रत्युदैरयत्- “ समीचीन एव सर्यो वृत्तान्तः कुटी मनुष्यैरस्ति पूर्णा । तपस्विनी माता भवत एव प्रतीक्षने।" इति । ततः क्षणमप्यविलम्ब्य झटित्याश्रममेवावामगच्छाव । द्वार एवं मातरमहमपश्यम् । दृष्ट नात्रमेव समां सहेनाकृष्योत्सङ्गे ऽकरोत् । शिरस्युपा घ्रायैवमवदच्च-- . आगच्छ वामागच्छ , त्वम्ले प्राषितन्धनमसि ! दर्शनेन ते शीतं बभूव हृदयम् । नूनं स एव त्वं मे प्रियतमः पुत्रोऽसि , यं वर्षायवयस्क परित्यज्यागताहम् । वत्स त्वया विना कृताया मे रुदन्त्याः परितपन्त्या एवं विंशतिवर्षी अतीताः । आगच्छ तात, तात, आगच्छ । अन्तर्गत्वा पश्य , के के तत्र सन्तीति । " इति । इत्थं वदन्त्या एव तस्या नयनाभ्यां प्रावर्तत धारयात्रु प्रयोदुम् । अहमपि नाशकं किमपि वक्तुम् । उत्सङ्गादवतीयांबतो गच्छन्त्यास्तस्याः पृष्ठतो गन्तुं प्रावर्तिषि । परिवृत्तकन्धरश्च न देवीं राजी न वा विजयं तत्रापश्यम् । न जानामि कथं कदा तावन्तर्हिताविति । द्वारान्तः पादं निदधतैद मया - कश्चिदृष्टः , यस्य दर्शनमात्रेग दिङ्मोहमिवाहं प्रत्यपद्ये । आः । स एवायं वृदः यमहं कारगृहेऽद्राक्षाम् । येन च मे पत्रग्रन्थि स्वर्णसम्पुटश्चादायिषाताम् । एष खलु मया तत्र मृतो दृष्टः । कथमयं जीवनत्रागतः को वा वृत्तान्तः ? किमपि हृदयं नावतरति । इत्यादिचिन्तयनहं तमेवं वृद्धमभिमुखः पश्यन्नतिष्ठम् । - आत्मथा । " १ . च-१६] १ एतावत्येव मातापि मे. कुत्रचिदगात् । वृद्धो मां हस्तसङ्केतेनात्मनो निकटमाइवयत् । अहमपि धैर्यमवष्टभ्य तन्निकटमगाम् । स च प्रेम्णा महता मे हस्ताववलम्ब्यावदत् - " भपि प्रत्यभिजानासि ! माम् , स एवाहं तव स्निग्धो बृद्धः । किमिति मां दृष्ट्वा त्वं तूष्णीं तिष्ठसि ! भविभेः किम् ? " इति । भहन्तु वदनमनुदघाटयस्तमेवालोकयंश्चावर्तिषि। वृद्धः पुनरबचीत् - " सत्यमिदं भयस्यैव स्थानम् । यः कोऽपि कदा. चिन्मृतो दृष्टः स एव चेत्पुनः कुत्रचिज्जीवन्दृश्येत , नूनं तत्र भयं भवेत् , किन्तु-- वत्स नाहं तदा सत्यं मृतोऽभूवम् , केनचित्तीक्ष्णेन विषण।पयुक्तन मृत इवाचेतनः परमभूवम् । यदि तदा तथा नाभविष्यत्तदा ततो बहिगागमनं दुश्शकमभविष्यत् । तत्रैव कारागृहे मतव्यमभविष्यत् । वत्स ! किमद्या- वगतं सर्वम् ! " इति । सर्वमिदं श्रुतवतो मे महान्विस्मयोऽजनि , अकलथं च मनसि- ' चातुरीयं सर्वा देव्या राज्ञया एव । कुत एलावती शक्तिरन्यस्य कस्यापि' इति । इदमेव. विचिन्तयन्नुपाविशं तम्य पार्श्व एव । वृद्धोऽवदत्- " सर्वमिदं कस्य कार्यम् , अपि जानासे ? देव्या राज्ञया दयामय्या एवेदं सर्वं कृत्यजातम् । अस्तु , ततः परं मे नामधेयं तत्तु तस्मात्पत्रादवगतमेव स्यात् ? कोऽहमस्मीति तु मन्ये नानासि नाद्य यावत् । न कापि हानिः , उत्तरत्र स्पष्टीभविष्यति। प्रथमत स्तस्मात्संयमिनीसदृशात्कारागृहाबहिरागमनवृत्तान्तमेव तावच्छृणु । यदा कारा गृहात्तत्स्मान्निर्गमनस्य कोऽप्यन्य उपायो नालभ्यते , तदा देव्या राज्ञया कश्चिदन्य एवोपायो ऽवलम्बितः । तस्या निकटे किंश्चिद्विपमस्ति , "थेन पीतेन मनुजो दिनत्रयं शबवदचेतनस्तिष्ठेत् ; शववदचेतनस्तिष्ठत् ; औषधं च किञ्चिदस्ति येनोपयुक्तेन तत्क्षणात्स पुनस्सुस्थी भंवत् । देव्या राज्ञया दानपत्रस्य शृणु। 14 , १ १ TAIT पाने VET सदात्वे तुभ्यमहं यतर्फथर्य तद्देवीराजयपि में जानाति , किमुतान् तुभ्यं सर्व तत्कयित्वा विचैतनोऽहमभूवम् , स्वै च यथा मदुक्तं सर्व काथै निवर्त्य ततः पलायथाः । ततस्तस्मात्स्थानीयथाहं निष्क्रान्तस्तकथयामि शृणु । यदहं वदिष्यामि तद्देव्या राज्ञया मुखान्मया श्रुतमित्यवहिं । यदाहं विचेतनोऽथवा मृतोऽभवम् , तदा पश्यतोहराणां दृष्टीर्वच यन्ती मां बहिरकरोत् , न्यधाच्च तदानीमेव मृतस्य कस्यचिन्मत्तुल्यदैर्ध्यस्य शवं मत्स्थाने , समावणोच्च वस्त्रेण शवन्तमापादचूडम् । प्राकाशयच्च ततो. मां रोगेण चिरादनुभूयमानेन मृतम् । श्रुत्वा चेमं वृत्तान्त पश्यतोहराल्स- मागत्य शवन्त कुत्रचिदाण्यां निधाय वस्त्रावृलमेव कस्यचिदनेगह यां, झुन्न चिदपातयन् । यत्राहमपवरकेऽभवं तस्मिन्सूच्यन्वेवं सम्यगवलोकितोऽपि नैवालभन्त यत्किञ्चिदपि । निराशाश्च यथागतमगच्छन् । इयमेव मे कथा । अदानीं त्वं त्वदीयामेव कथां शृणु । इत्युक्त्वा गोविन्दलालमाह्वयत् । आहूतमात्र एव च गोविन्दलालो यश्शृंखलाबद्धपादेन निगळित हस्तेन रायेण सहागत्य पुरतोऽतिष्ठत् । राय दृष्टवतो में नाभवत्सीमानन्दस्य विस्मयस्य च जातस्य मनसि । वृद्धो हस्तेन रायं निर्दिश्य. मामवदत् । • अपि प्रत्यभिजानासि ! ब्रजेन्द्रभूषण ! क एते महान्त इति । अहन्तु घृणया महत्या रायं द्रष्टुमपि नाशकम् । दृष्टमात्र एवः तस्मिन् रक्तम्भे शरीरे समुदचलदिव । अवदं चैवमहम् -- " अलमलम् ,. इतोडी भवन्त एतमधिकृत्य किमपि मास्म पृच्छत । नाहमेनं नीचं नराधर्म प्रत्यभि जानामि , अननैव नृशंसेन निमित्तभूतेन मया यद्यद्यादृशं यादृशं कष्टगने भूतं मन्ये भवद्भिश्श्रुतमेव स्यात् । एतादृशास्तु नृशंसा राक्षसानामपि कुलेषु जूलं नोत्पोरन् । कथमयं दुष्टो गृहीतः । कथयत ।" इति। । इति।

च-१६] रहस्यप्रकाशः। - रायाः। आगच्छत . वृद्धस्तूचैर्हसन्मामवदत्- " हहहह! ब्रजेन्द्रभूषण ! त्वया त्वेको च्चारणेन बहवश्शब्दा उक्ताः। एनमेवाधिकृत्यैतावत्कथयस्वं जानामि कियत्कथयिष्यसि तमधिकृत्य , यमष्टादशवर्षानिपतेति समबोधयः। वत्स ! सत्यमुक्तं त्वया राक्षसानामपि कुलेषु नैतादृशा उत्पधेरन्निति । आस्ताम् , अपि दिदृक्षसेऽन्यमपि महात्मानम् ? ” इति । एतावदुक्त्वा वृद्धो विजयमाजुहाव । अवदच्च रायम्- किमिति तिष्ठन्ति भवन्तः , उपविशन्तु महता किल परिश्रमेण चिरालब्धं भवतां दर्शनम् ' इति । श्रुत्वा चैतद्रायोऽवनतशिरास्तत्रैवोपविशत् । एतावत्येव मम पूज्यः पिता , यस्य किल हस्तपादं निगळित- मवर्तत , येन चाहमष्टादशवर्षान्पुत्रबल्लालितः पालितश्च , विजयेन सह समदृश्यत । वृद्धस्तु तन्दृष्ट्वैवाब्रवीत् - आगच्छत हरिहरप्रभवः , किमितीयद्विभ्यति भवन्तः भवादृशो हि महात्मानः कुतो ऽपि न बिभ्यति" इति । गोविन्दलालं चाब्रवीत् - किमिति विलम्ब्यते ! येथरागन्तव्यं सर्वांस्तानानय । अद्यैव सर्व रहस्य प्रकाशतामेतु ।" इति । श्रुत्वा चैतद्गोविन्दलालो निष्क्रान्तः । क्षणाच रायस्यानुचरैलॊह शृङ्खलानिगळितहस्तपादैः पुनः प्राविशत् । गङ्गाधर एतेषां रक्षणे न्ययुज्यत । एतावत्येव पूजागृहादायान्त्यौ देवीराज्ञी तपस्विनी माता च समदृश्येताम् । आगात्य च ते अस्माकं पुरतो नातिदूरे कुशासनयोरुनाविशताम् । वृद्धश्चतुर्दिशं सम्यनिरीक्ष्य गम्भीरमवदत्- " समयेऽस्मिन् सर्वेऽपि सन्त्युपस्थिता अत्र , तपस्विन्या अस्या आश्रमे सर्वेषामेव महात्मना मेकदैव सम्मेळनं कृपाळोभंगवतो दीनेषु दयाया एव कार्य नान्यत् । सर्वानहं सप्रार्थनं पृच्छामि यद्यदहं प्रक्ष्यामि सर्वेषामुत्तरं. समीचीनं दास्यन्ति न वेति । ' इति । , " गोविन्दलाल 11 ततः किच्चिरं तत्र निशब्दतावर्तत । कोऽपि किमपि नावदत् । तदा पुनस्स वृद्धोऽब्रवीत ॥ हरिहरप्रभवः ! किंमिति किमपि नोक्तं भवद्भिः ? रायाः भवद्भिरपि किमपि नाज्ञापितम् ? किं कारणम् ? गम्भीर- भावोऽयं कदा धृतो भवद्भिः ? कथयत , मदीयानां प्रश्नानां भवन्त उत्तराणि दास्यन्ति न वा " इति । साञ्जलिबन्धं हरिहरोऽवदत्- " महाराजाः ! किमिति मां लज्जितं कुर्वन्ति , क्षाम्यन्तु , कृपाळवो हि भवन्तः दरिद्रेष्वस्मासु कृपा कुर्वन्तु वृद्धस्सहासमवदत्-" सत्यमहं कृपाळुरस्मि, किन्त्वेतादृशी कृपा न केवलं ममैव , कस्यापि न सम्भाव्यते ? हरिहर ! देवता अपीयन्न स. हिष्यन्ते । अस्तु , तिष्ठत्विदं सर्वमद्य , पश्चाक्ष्यामः। प्रथमं सवरेवा स्माभिर्निजो निजो वृत्तान्तो वर्णनीयः। अहमेव तावदादौ कथयामि " . " इति । इति। ॥ इति संसारचक्रे द्वितीयभागे षोडशं चक्रम् ॥ ॥ अथ सप्तदशं चक्रम् ॥ (घद्धस्य-कथा) ततो वृद्ध इत्थं वक्तुमारेभे- " आसीन्मे वासः कल्कत्तानगरस्य कुत्रचिद्भांगे । अहमस्मि महाराजस्य नरेन्द्रनारायणस्य वंशे तस्मात्सप्तम पूरुषः । महाराजा नरेन्द्रनारायणो नवाबस्य मी फराख्यस्य समयेऽभूत् । आदावयं पञ्चसहस्रसैन्याधिपत्ये नवाबेन नियमितोऽपि क्रमेणाभिवर्धमान- श्चातुर्येण योग्यतया चांमात्यपदवीमलभत । तदात्वे तस्य महत्प्रथितं यशः महद्वगौरवं चावर्तत । नवाबोऽप्येनमात्मनो दक्षिणं हस्तममन्यत । लक्ष्म्या शामिमहती कपाभूत ।

किन्तु कालो नैकरूपो भवति । अधरोचरभावस्सर्वत्र भवत्येव । तत्कियत एव कालादनन्तरमस्मिन्नपि शनैश्चरस्य दृष्टियफ्तत् । कमला- कान्तगङ्गोपाध्यायो नाम कश्चित्साधुः पुरुषोऽस्य मित्रमवर्तत । एकं कमला कान्तं विनान्ये सर्वेऽपि नवाबस्य भृत्या नरेन्द्रनारायणमधिकृत्य नवाबस्य कर्णेजपन् । महान्प्रभावः कर्णेजपवचनानामिति न मया वक्तव्यम् । तन्न. वाबस्य मीरजाफरस्यापि मनस्तेषां वचनजालेपतत् । क्रमेणान्यादृशीं वृत्ति मवालम्बत नरेन्द्रनारायणे । सर्वमिदमनुचिन्त्य मीरजाफरस्य विपरीताचरणाद्विभ्यन्महाराजो नरेन्द्रनारायणः कमलाकान्तेन सम्मन्त्रय निजमपारं धनं नीलाचलस्य कुत्र चिगुहायां गुप्तमन्तरधापयत् । तत उभावपि तौ निजं निजमधिकारं परित्यज्य कलकत्तानगरमागतो सत्याविलम्बिनौ वाणिज्यमारभेताम् । प्रतिदिनं तयोर्वा- णिज्यमत्युन्नती बभूव । अत्यल्स एव च काले तौ महाधनिनौ समपद्यताम् । तदानीमेव नरेन्द्रनारायणेन महाराजपदव्यपि प्राप्ता। महता सुखेन शिष्टमायुः क्षपयितुमारभत । कतिपयेष्वेव वत्सरेषु परं लोकमगाच्च । अन्तिमे काले चात्मनः पुत्रं श्रीकृष्णनारायणमेव दानपत्रमुखेन कृत्स्नस्य धनस्य स्वामिनमकरोत् । पक्षाघातेन च तस्य प्राणवियोगो जातः । कृष्णनारायणस्तु कलकत्तास्थितस्य धनस्यैव केवलं स्वामित्वमभजन । नीलाचलस्थितं तेन नालभ्यत । बहु प्रयस्यतापि तेन नीलाचलस्थितस्य रत्नगृहस्य किमप्यभिज्ञानं लोपलब्धम्- यतो दानशासने केवलमियदेव लिखितमासीत् , यथा- " नीलांचलस्य कुत्रचिद्गुहायां महाराजस्य नरेन्द्रनारायणस्य गुप्तधनं रत्नगृहं वा स्थापित- मस्ति । एतद्वंश्यो यो वा कोऽपि धनमिदमन्विष्योपलभेत स एवास्य स्वामी भविष्यति " इति । कमलाकान्तस्य कथां शृणुत-तेऽपि मित्रस्य वियोगमसहमानाः कतिपयेष्वेवाहस्सु परं लोकमगुः । व्रजेन्द्रभूषणः श्वशुरगृहभ्रमेण यत्र गतो बन्दीकृतोऽभूत् , तदेव कमलाकान्तस्य गृहम् । गृहमिदं कमलाकान्तस्य एकरूपा वंशजा एवानुभवन्तिस्म परम्परया । अस्माकमत्यन्तहिता देवी वीरजा. सुन्दर्यपराभिधाना त यैव वंशं भूषयति । अस्याः पिता भैरवचन्द्रगोली नामा । पितास्या एनां बाल्ये वनलतानाम्नाह्वयतिस्म । तिन एता भगिन्यस्सहोदर्यः । इयमेव सर्वकनिष्ठा । ज्येष्ठा तह- लता रायस्य कपटचक्रे पतिता कुत्र गतेति न ज्ञायते । जनास्तु तामति सारेण मृतां कथयन्ति । मध्यमा भगिन्यस्यारशशिवालानाम्नी नितरामेव सुन्दर्यवर्तत । अस्यास्तस्याश्च सर्वेऽवयवाः प्राय दर्श कानां प्रत्यभिज्ञाने महत्कष्टमापादयन् । तस्या अपि कौमारहरणाय बहु प्रयतितमेतेन । अनभ्युपगच्छन्ती चैतदभिप्रायन्तां तस्मिन्नेव कारागृहे , यत्र व्रजेन्द्रोऽपि कियन्तं कालमवात्सीत् , न्यरुणसुचिरम् । अन्ततस्सा रायस्य निर्बन्धमसहमाना रायेण सह मिथुनीभूय स्था तुमा:भत । तस्या अपि मृताया अद्य मासत्रयम् । यत्कालिकं वृत्तान्तमिदानीमहं वर्णयामि , तस्मिन्काले वीरजा सुन्दरी किञ्चिन्न्यूनाधिकद्वादशवर्षवयस्कासीत् , बाल्ये वर्तम ना रायेग सम्यग्रक्ष्यमाणा चेयं बाह्यान्वृत्तान्तान्किमप्यधिगन्तुं नाशकत् । तथापीयं बाल्यादेव कुशाग्रबुद्धिरवर्तत । गोविन्दलालस्योपदेशेनेयं पुरुषवेषं धारयन्ती बहिर्विचरितुमारभत । निजं कार्यमप्यवेक्षितुं प्रार्तत । अयमेव धूर्ताग्रेसरो गयाऽस्याः प्रधानः कार्यकरः । अस्य च विश्व नाथराय इति नाम । भैरवचन्द्रोऽन्तिमावस्थायां निजां सर्वा सम्पदं कन्यात्रयं चैतदधीनं कृत्वानियत । मृतमात्र एव तस्मिन् कृतनोऽयं स्वामि नस्सर्वमुपकारं विस्मृत्य पोगण्डावस्थायां वर्तमानाया अस्या देव्या राज्ञयाश्शत्रुरभवत् । सहसं पश्यतोहरान् सम्भेळय तेषां स्वामी च स्वयमभवत् । इत्थमस्मिन्नस्याश्शत्रुतां प्रतिपन्ने भैरवचन्द्रस्य भृत्येषु कृतज्ञाश्चत्वरो गोविन्दलालो गङ्गाधरो जयपालो विजयश्च नामभिरुपरि रायम्य पक्षपात मभिनयन्तोऽन्तर्गुप्तमस्या देव्याराज्ञयास्साहाय्यकमाचरितुमारभन्त । एत- षामेव चातुर्येण साहाय्येन च देवीराज्ञी ब्रजेन्द्रभूषणश्चाद्य यावज्जीवतः ।

तदानीमेवैते देवीं राज्ञी वस्तुतो राज्ञी कतुं शक्ता अपि तस्य शासनपत्रादिकस्य रायनिकटे स्थितस्य ग्रह्णायेयन्तं कालं व्यलम्बन्त । तिष्ठत्विदम् । अग्र- तश्श्रृणुत। देवग्रामवासिनो देवनारायणमुखोपाध्यायस्य स्याली ताराकाली नाम्नी काचिकुलटा केनाप्युपायेन रायनिकटे स्थितं सर्वं पत्र जातं निजहस्त गतमकरोत् । तच्चाचिन्तितमेव व्रजेन्द्रस्य हस्तगतमभवत् । व्रजेन्द्रस्य हस्ताद्देवीराज्ञी तदेतत्पत्रजातमुपलभ्य रायप्रभृतीन्वन्धकरोत् । कालादनन्तरं देव्याराज्ञया अयं वृत्तान्तः प्रकटतामयासीत् । सत्यमद्य देवीराज्ञी महाराज्ञी संवृत्ता। अथेदानी व्रजेन्द्रमधिकरोमि । श्रीकृष्णनारायणादनन्तरं यावन्तो महाराजा अभवंस्तैस्सर्वैरपि रत्नगृहमन्वेषमाणैस्सफलता नान्वभूयत। अन्ततो मम तातपादेन वैकुण्ठवासिना महाराजेन नरनारायणभूपबहदुरेण नीलाचलः परमन्विष्यतोपलब्धः । रत्नगृहस्य कुञ्चिका-हरी कजटितमेकमङ्गुळीयकं च लब्धम् । रत्नगृहन्तु तेनापि नोपलब्धम् । यदाहं चत्वारिंशद्वर्षदेशीयोऽभवम् । तदा तातपादस्य मे संसारेऽस्मिन्ननित्ये वैराग्यम जायत । एकदा च तातो मे मामेकान्ते नीत्वा दानपत्रमिदं स्वर्णसम्पुटं च महमदात् । मां च सिंहासने संस्थाप्य पत्नया सह वनं प्रातिष्ठत । दुरात्मायं हरिहरबनर्जी तदात्वे ममामात्यः । अयमपि रत्नगृहसम्ब. वि सर्वमिदं वृत्तान्तजातं जानातिस्म । अस्यैव कूपदेशेन निजमेककं वत्सलं पुत्रं व्रजेन्द्रभूवणं वर्षत्रयमात्रवयस्कम् , सर्व च राज्यमेतत्लात्कृत्वा रत्नगृहान्वेषणाय निजपत्न्या सह गृहात्प्रस्थितोऽभूवम् । गङ्गायां नौकामार्गेण गच्छतामस्माकमेकं सप्ताहं निरुपद्रवं व्यतीतम् । अचिन्तितमेव कस्मिंचन दिवसे सायं धनघनघटाच्छन्नमभवन्नभः । वृष्टिश्च धारया निपतितुमारभत । नौकान्तीरेण संसज्य तत्रैव नौकायां वयं न्यव साम । नौकायामुपविष्टेष्वेवास्मासु जृम्भिकामुत्सृजत्सु तम्यामेव रात्रौ कियत्येव दूरे नाविकैः कश्चित्प्रकाशो दृष्टः , यो महता वेगेनास्मदभिमुखमेवायनासीत् ।

संसारचक्रम्। [भाग-२ . नाविकाश्वोच्चैरेवमुदघोषयन् - " महाराज ! सावधानो भवतु , न जानीमः कोऽयमुपद्रवम्समायातीति" इति । यद्यपि तदानीं नासीन्न्यूनता भृत्यानाम् , अथापि , न जानामि , केन वा कारणेन प्रकाशन्तं दृष्टवत एव मे हृदयं कंपितुमारभत । प्रथमतो रात्रिः , तदुपरि देशान्तरम् , ततोऽपि स्त्री सहास्ते , एता दृश्यामवस्थायां मम हृदयमकम्पतेति किमत्राश्चर्यम् ? स च प्रकाशः पश्यत एव मे समीपमुपावर्तत । प्रकाशे च तस्मिन् बहुभिश्शस्त्रधारिभिः पूर्णा काचिन्नौकादृश्यत । समीपमागतायामेव तस्यां पञ्चषाश्शब्दा नाळीकयन्त्रस्याभवन् , अस्मदीय- नौकास्थाश्च पञ्चषा धीवरा आहता गङ्गायां न्यपतन् । ततोऽस्मदीयैरपि भृत्यैनीळीकयन्त्रैर्गुळिका अमुच्यन्त । तत उभयपक्षस्थैरपि मुच्यमाना गुळिका आकाशं क्षणं निरवकाशमिवाकुर्वन् । छिन्धि , छिन्धि , भिन्धि भिन्धि, गृहाण गृहाण , बधान बधान, इत्यादयश्च शब्दास्सर्वतोऽश्रूयन्त । एवमस्मिन्प्रवर्तमाने तुमुले संघर्ष पत्नी मे सन्त्रस्ता मूर्छिता मदीय एचोत्संगे न्यपतत् । किं करोमि ? अनिच्छन्नप्यहन्तामादाय अन्तश्छन्नोऽतिष्ठम् । उपरि च महाद्धं प्रावर्तत। अन्ततस्सर्वेऽप्यस्मदीया भृत्या अम्रियन्त । पश्यतोहराश्च ते कमपि सम्मुखमायान्तमपश्यन्तो मामेवान्वषितुमारभन्त । परमात्मन्येव विमुखे संवृत्ते कथमहमात्मानं सन्छादयामि ? अन्विष्यं श्वायमेव रायः प्रथमतो सम्मुखमागतः । तदानीमपि पत्नी मे मूर्छितैवावर्ततः। रायं दृष्टवत एव मे महान्क्रोधस्समजायत , सर्वावयवेभ्यश्चाग्निकणा इव प्रावर्तन्त । रायं मुखें नासिकायां बलसर्वस्वेन मुष्टिना प्राहरम् । अभिड्त मात्र एव स भूमी न्यपतत् , पुनर्झटित्युत्थितश्च मां दण्डेन शिरसि नेता मम्तिो शयां मातम - नौकाया . -- -- ITIT बन्दीकृतमपश्यम् । आत्मनो दशामालोक्य बह्वहमरुदम् । प्राणप्रियां वि. चिन्तयंश्च नितरामेव दुःखितोऽभवम् । एतावत्येव मम पुरतस्समागत्याय राय इत्थमवदत् - " नीलाचलस्याभिज्ञानं न चेत्त्वं मह्यं कथयिष्यसि श्वानमिव त्वां मारयिष्यामि " इति । श्रुत्वा चाहमिदं मूक इवातिष्ठम् । रत्नगृहस्याभिज्ञानावगमायायं मां बहेव निरबध्नात् , अथापि न मयास्मै किमप्युक्तम् । दैवाच्चास्य दृष्टिमत्कटिस्थयोर्दानपत्रस्वर्णसम्पुट यो पतत् । कदाचिच्चास्य दृष्टीर्वञ्चयता मया दानपत्रं स्वर्णसम्पुटं च तस्यैव कारागृह- स्यैकतः कोणे न्यधीयत भूमौ गुप्तम् । दुष्टस्यास्य कारागृहे मया विंशतिवर्षा यापिताः । इयदिवसानन्तरं मया युष्मन्मुखानि दृष्टानि । अयमेव मे वृत्तान्तः । इतः परं तपस्विनी देवीयं यदिच्छति तत्कथयतु । ” इति । ॥ इति संसारचक्रे द्वितीयभागे सप्तदशं चक्रम् ॥ ॥ अथाष्टदशं चक्रम् ॥ (तपस्विन्याः कथा) - अथ तपस्विनी मातात्मनः कथामित्थमवर्णयत् - " पश्यतोहरैनौकायामागत्य यादृशोऽनर्थः कृतस्स तु महाराजस्य मुखाद्भवद्भिश्श्रुतः । ततो यद्यदनुभूतं कष्टं मया तत्सर्वं वर्णयामि ,शृणुत । यदाहं सचेतनाभवम् , तदात्मनः पुरतस्तिष्ठन्तं रायं महाराजं च भूमौ पतितं मूर्छितं रक्तप्लावितशरीरमपश्यम् । आर्यपुत्रस्य तादृशीं दशां दृष्टवत्या एव मे हृदयं व्यदीर्यतेव । ततस्साक्रन्दमहं रोदितुमारभे । रुदन्तीमेव मां बलाद्धस्तेन गृहीतुकामो रायो यावदुपसर्पति , तावदात्मनः पातिव्रत्यं रक्षन्ती स्पर्शादपि तस्य पापीयसो बीभत्समाना किञ्चिदप्यविचार्य क्षणमप्यविळम्बमाना पूरे गङ्गाया आत्मानमपातयम् ।

मां गृहीतुकामा द्वित्रा मामनु गमायामपंतन् । बास्य देवाभ्यस्तप्लव नाहं महत्यन्वकारे तत्र तेभ्य आत्मानं रक्षन्ती प्लवमाना च दैवात्तेप, दृष्टिषु नापतम् । शनैश्च गत्वाहं नौकायाः पृष्ठतो यत्किञ्चिदवलम्ब्यावर्तिषि । ते च गृहीतदीपास्तत इतोऽन्विष्य मामलभमाना जले निममा मृतां च निश्चित्य गताशक्का नौकामुन्मुक्त बन्धनामकार्षः । गच्छन्ती च नावमन्वमपि लम्बित गात्रा प्रावर्तिषि गन्तुम् । कृत्सां रात्रिमेवमेव नौका गच्छन्त्यवर्तत , अहमपि तामनु । प्रा- भतिकश्वेतिमाञ्चितायां च पाकशासनदिशायां नौका सा कुत्रचित्तीरे संलमाभवत् । तदात्वे चाहं नितरामेव परिश्रान्ता किंकर्तव्यताविमढा चाभवम् । कथंकथंचिदवष्टव्धधैर्या च भगवन्तमनुस्मरन्ती तेषां च पश्यतो हराणां दृष्टीर्वञ्चयन्ती मन्दम्मन्दं तारमारुझ वृक्षवृन्देष्वन्तर्हिताभवम् । सर्वतोऽपि भगवतो गभस्तिमालिनो बालारुणैः किरणैः प्रकाशतामुपगतेऽपि वने असूर्यपश्यं तत्स्थानमन्धकारावृतमेवाभूत् घनतया वृक्षाणाम् । चिरमव- स्थाने कदाचित्ते मां पश्येयुरिति भयेन ततोऽप्युदचलम् । निश्शेषतो जला दस्य वसनस्य भारेण चिरं वारिण्यवस्थित्या जडीभूतैश्चाङ्गैरेकैक पदमपि कष्टेनागच्छम् । भयेन तु द्रुतगतिरहं पुनः पुनः परिवृत्तकन्धरा तानेव पश्यन्ती तृणेऽपि विचलति तानेवागतानुद्भावयन्ती सुदूरमपाक्रनम् । दीर्घ च पन्थान- मतिक्रम्यासहनाच्च श्रमस्य कुत्रचित्तरुमूले समुपाविशम् । श्रमेण शिथिल गात्रा च चिरमुपवेशनासमर्था न्यविशम् । निविष्टमात्रायामेव निद्रयाभिभूता भवम् । कियन्तं कालमस्वपमिति नेदानी निश्चितं वक्तुं प्रभवामि ! विगत निद्रा च चक्षुरुन्मीलयन्ती पार्चे समुपविष्टाममिना जडीभूतं मे गात्रमुष्ण- यन्ती च काश्चिस्त्रियमपश्यम् । भयेन च " कुत्राहमस्मि " इत्युच्चैराक्रन्द. ती माम् . सा " माभैषीमाभैषीः , त्वदं यां कटामिमां दशां निरीक्ष्य भाग २] सेस चक्रम् । ८१ . . - करुणया स्वागहमुपचरानि , अम्ति मे समीप एवं कुटीरम् । निनीषामि च त्वामहं तत्र , अपि शक्नोषि गन्तुम् ” इति' मधुरमब्रवीत् । अहन्तु- " गच्छावो मातर्गच्छावः, कुत्र तावत्तावकं गृहम् अहमस्मि महत्यां विपदि पतिता , रक्ष मातर्माम् , पश्चात्तु वृत्तान्तं मे कथयिष्यामि , काममहमस्मि समर्था त्वामनुगन्तुम् ' इति प्रत्यब्रुवम् । श्रुत्वा च मामकीनं वचस्सा समुत्थि- ता सह मया प्रापन्निज गृहम् । इदं कस्यचित् कृषीवलस्य समृद्धस्य समीचीनं गृहम् । द्वावेव परं वसतोऽत्र गृहे - एकः कृषीवलः , अन्या च तस्य पत्नी । अनयोर्दै कन्ये परं स्तः । उभे अपि कन्ये एते गृहीतपाणी । यस्मिन् दिने तत्राह- मगच्छम् , तस्मिन् दिने तयोरेकापि तत्र नाभवत् । उभे अपि श्वशुरगृहान् गते अभूताम् । तौ दम्पती मां महतोपचारेण निजे गृहे समवासयताम् । सुखेन तत्र कतिपयान दिवसानयापयम् । अतिक्रामत्सु दिनेप्वेवमेकदा कृपीवलस्य तस्य ज्येष्ठा कन्या हेमवतीनाम्नी श्वशुरगृहात्प्रतिनिवृत्तागमत् । सा च सुन्दरसीवयवा दर्श- नीयतमा सुशीला । विवाहोऽपि तस्याश्शाभने सम्पन्ने कुलेऽभवत् । अचिरा तस्या मम च मैत्री समजायत । हेमवती मयि र्निव्याजममायं नितरां स्निह्यति, अहमपि तस्यां स्निह्यामि कामम् । कृषीवलेन चार्यपुत्रस्यान्वेषेण बहु प्रायति , परं तस्य कोऽपि वृत्तान्तो नावागम्यत । अस्तु यहि तर्हि तत्रैव कृषीवलगृहे कालं याप- यन्त्यवर्तिषि। मध्याह्वात्परं यदाहं हेमवती चैकत्रोपविशावस्तदा हेमवती पतिगृह वृत्तान्तं कथयेत् । अहमपि प्रेम्णा शृणुयाम् । एकदा तस्याः एव मुखादित्थमश्रौषम्- मच्छ्वशुरप्रांगस्य नीलगञ्जस्य निकट एव नीलो नाम कश्चिदस्ति पर्वतः , तत्रैच पर्वते कस्यापि राज्ञो गुप्तं धनं यत्र नि जनाः शयति" इति। कथयन्त्या - श्रुत्वाचेदं वचनं तस्या महान्मे समजन्यानन्दः । तस्य नीलाद्रेर्दिदृक्षा च महती समुद्भून्मनसि । हृदयगतमिममभिप्राय बहिरप्रकाशयन्ती हेम- वत्या इश्वशुरगृहप्रस्थानसमयं प्रतीक्षमाणातिष्ठम् । हेमवती विनाहं मां विना हेमवती च क्षणमपि स्थातुं न शक्नुवः । एतावत्येव हेमवत्याश्वशुरगृहात्तस्याश्वशुरो नितरां रुग्ण इति पत्रिका समागता । हेमवती च श्वशुरगृहं गन्तुं समनह्यत् । मां परित्यज्य गन्तुमशक्नुवाना च मामपि सहगमनायान्वन्ध । अहमपि सम्यञ्चमवसरं समुपस्थितमवगच्छन्ती तया सह गन्तुं सन्नद्धाभवम् । न च कोऽपि मां प्रत्यषेधत् । शोभने समये हेमवत्या सह प्रस्थिताहन्तस्याश्श्वशुरगृहं प्राप्य सुखेन कालं यापयन्त्यवतिषि । नीलाचलदिदृक्षा तु दिनेदिनेऽभिवर्धमान- वाभवत् । हेमवत्या मन्त्रयित्वा सहकेन भृतकजीविनावामुभावपि नीलाचल- मगच्छाव । , १ नीलगंजनामान्नीलाचल: क्रोशत्रयरेऽवर्तत । घण्टाद्वयपरिमित एव काले नीलाचलं प्रापिव । स तु सहागतो मृतकजीवी साधु सर्वानपि पावतान्प्रदेशानेकैकमदर्शयत् । दर्शयन्नेव स यदा दक्षिणभागस्थमत्युन्नतं शिखरं प्रापत्तदैवं प्राह " देशोऽयं महाभयङ्करः , अस्यैव शिखरस्य समीपे कुत्रचिदस्ति काचिद्गहा, यस्यां कस्यापि राज्ञो महद्धनमस्ति नि- हितम् , अद्य यावद्बहवस्तदन्वेषणायागताः , परमेकोऽपि सफलमनोरथो नाऽभवत् । " इति। श्रुत्वा चेदं मम महानाश्चर्यम्समजानि । कियदरं गत्वा च स पुनर- वदत्- “आगच्छत्तम्- अन्यदेकमद्भुतं प्रदर्शयामि , पश्यत कोऽयं भया- नको गर्तः ? '' इति । श्रुत्वा चेदं सत्यमेव कंचिच्छुप्कैस्तृणपर्णादिभिरापूर्ण गर्तमण्श्यम् । भूमिस्तु तत्र समैवाभूत् । दृष्ट्वा च तं गतं । नूनमिदं कर या अपि सुरङ्गाया मुखम् ' इत्यत कयम् । निजभभिमायं मनमेवान्तर ध,पयम् । सर्वं च स्थानमवलोक्य सूर्यास्तभयात्यूर्वमेव गृहान् वयं प्रति निवृता अभूम ।

- - तस्यां रात्री क्षणमपि निद्रा नागता । नीलपर्वतस्य दक्षिणशिखरस्य सुरङ्गायाश्च स्मरणं पुनःपुनरभूत् ! क्रमेणात्यकामत्सप्ताहं परं प्रयोजनपर्य वसायिनी कापि घटना न समभवत् । हेमवत्याश्श्वशुरे नीरोगे सुम्थे च सम्पन्ने पुनस्तस्याः पितृगृहगमनचर्चा समुदभवत् । किमहमत्रैव तिष्ठेयम् , अथानया सहास्याः पितृगृहं गच्छेयम् , इति मनसि विचारस्समभवत् । सुबहुविचारानन्तरं च नीलगञ्ज एवावस्थानं युक्तं निरचिनवम् । तत्र कार्ये विघ्नाभावाय कश्चिदुपायोऽपि मे मनसि समस्फुरत । एकदा तमेव भृतकजीविनमेककम् , येन सह पूर्वमगच्छम् , सहादाय तमेव नीलाद्रिमगच्छम् । तृणपर्णपूर्ण तं गतम् , यमहं कस्याश्चित्सुरङ्गाया मुखमतर्कयम्पूर्वम् , पुनस्सम्यगवधानेन चिरमवलोक्य तत्रैव कस्यचित्कुटी- रस्य निर्माणं फर्तुमैच्छम् । निजमभिप्राय तस्मै भृतकजीविने समावेद्य कुटीरनिर्माणाय तमाज्ञापयम् । ततः परस्मिन्नेव दिवसे कुटीरंनिर्माणमारभ्यत । सुरङ्गाया मुख अन्यत्र च द्वे , इत्याहत्य तिस्रः कुट्यो निरभीयन्त सांगणाः । कार्येऽस्मिन् हेमवत्याः पित्रा वह्वाचरितं साहाय्यम् । सुरङ्गापि कियदूरं तेन निष्कासिततृणपर्णा शुद्धा च कारिताभवत् । सुरङ्गायाश्शोधनसमये कोऽप्यन्यो विघ्नस्तु नाजायत , परं द्वित्रदिनपर्यन्तं सर्पाणामुपद्रवो विशेषतो वर्तत । तत्र देशे वर्तमानानां कोलनामकजातिभवानां साहाय्येन सोऽप्यु. पद्रवो नष्टोऽभवत् । ते खलु सर्पभक्षका न केवलं सर्पेभ्यो न बिभ्यति , परं तुष्यन्त्यपि तान् दृष्ट्वा । एते सुरङ्गां सुदूरं शुद्धामकार्षुः । यदा तेभ्यश्श्रुतं नेतःपरमत्र सर्पा अन्ये वा दुष्टा जन्तवस्सन्तीति , तदा शोधन कार्य समापितं मया । हेमवती हेमवत्याश्श्वशुरो वा नात्र कार्ये मात्रयापि बाधामदात् प्रत्युत सर्वदा सर्वधा सर्वस्मिन्नपि कार्ये मम तौ साहाय्यकमेवाचरताम् । ताभ्यामेव रक्ष्यमाणाहं सुखेन तत्रावसम् ! सुरङ्गामुखस्था कुटी मया पूजा गृहमक्रियत। बहिस्सन्देहावहस्य कस्यापि वस्तुनोऽभावान्न कोऽपि समदिक्षत् । एका .

। ततस्वयमेवाहं सुरङ्गाशोधने प्रावृतम् । द्विपु मासषु कृत्स्नापि सुरङ्गा मया शोधिताभवत् । सुरङ्गायां तत्र तत्र स्थितं वृक्षगुल्मादिकमपि मयैव छिन्नमभवत् । सुरक्षा तु सर्वत्रान्धतमसावृताभूत् । प्रकाशस्तु नाम मात्रेणापि तत्र नासीत् । बहवो दण्डदीपा मया निर्मिताः , तेषामेव प्रकाशे गतागतं मया क्रियमाणमवर्तत । सुरङ्गाया भन्तिमं भागं प्राप्तया मया अयोन या कवाटिकया पिहित मयोमयं द्वारं दृष्टम् । कुञ्चिकाया अभावाताळयन्त्रमुद्घाटयितुमशक्नुवन्ती दुर्बलतया कवाटभेदनेऽप्यसमर्थी इयन्तं परिश्रममात्मनो व्यर्थम्मन्वाना कुटीरं प्रति निवृत्तामन्चम् । किं करोमि , कथमुद्घाटयामि ताल यन्त्रम् , इत्येवं चिन्तयन्ती विर कालमयापयम् । परमदयाळुभगवान् यदा कदापि वा मनोरथं मे पूरयेदेव नूनभित्याशा परं हृदये परिवर्तमानाभवत् । मन्थे सामासोऽतीतस्स्यात् - एकदा इयमेव देवी राज्ञी बाल करूपप्रतिच्छन्ना मम पार्श्वगात् । अनया निजे कृत्स्नेऽपि वृत्तान्ते वर्णिते महानेव ममानन्दस्समजनि । सापि कुञ्चिका, यस्याः कृते मयार्धनायुः कष्टेन यापितम् , अस्या एव मयालभ्यत । कुञ्चिकाया लाभेन कियाना- नन्दो मे समभूदिति नानेन वदनेनःहं वर्णयितुं शक्नोमि । कुचिका तां गृहीत्वा यष्टिदीपहस्ताई सुरङ्गां प्राविशम् । बहोः कालात्पूर्व सङ्घटिततया ताळयन्त्रमुद्घाटयितुं तदात्वे नाशकम् । चिरं प्रयत्यन्त्या च मया बहु दिनानन्तरं ताळयन्त्रमुद्घाटितमभूत् । उद्घाटितेऽपि ताळयन्त्रे विवृतकवाटेऽपि द्वारे मनोरथो मे न सफलोऽभवत् । यतस्तदन्तर्घट्टितताळ यन्त्रं पिहितकबाटमन्यद् द्वारमासी । तदेव च द्वारं श्रीमतां रत्नगृहस्य द्वारम् । — कुतोऽस्य ताळ पन्त्रस्य कुञ्चि कामुपलभेय ' इति महती चिन्ता समवर्तत । इयति परिश्रमेंगीकृतेपि मनी रथेन न फालतम् । हृदये कुरिताऽऽशा हृदय एवं व्यलीयत । निराशा नाम भूत्वा पुनः कुटीरं प्रतिनिवृत्ताभवम्। देवी राश्यप्यगात् । अतिचक्रमुर्दिवसा: क्रमेण । इदमन वक्तव्यं विस्मृतं मया- सुरङ्गा सा पर्वतस्यान्तरन्तरेव सु. दूर निर्मितासीत् - तेन पर्वतगमनागमनयोर्महदेवानुकूल्यमजायत ।

त्या च दत्रानयम् । सप्तदिवसानन्तरं सचेतनोऽयमभवत् । यदास्यैव मुग्वादस्य वृत्तान्तो मया श्रुतस्तदा सन्देह इव समजायत । मनस्यचिन्तयं च- " मयापि वत्सो मे राक्षसानां हस्ते निहितः , कृषया भगतो यदि सोऽद्या. वधि जीवति नूनमेतत्तुल्य एव स्यात् । '' इति । शशाङ्कनिभमस्य वदनं पश्यन्त्या मे दिनेदिनेऽस्मिन्दीतिरभ्यवर्धत है। यदायं व्रजेन्द्रो नीलाद्रौ पर्यटन्दृष्टस्तदा मे सन्देहोऽधिकोऽभवत् । व्रजेन्द्रो नीलाचले किं करोतीति ज्ञातु कामाहं सुरङ्गया पर्वतं गत्वाऽस्य सर्व कार्य जातं निरीक्षमाणावर्तिपि । अयं तु प्रतिदिनं नीलाचलं गत्वा यत्किञ्चि- दन्विष्येत् । एकस्य तु वृत्तान्तस्य मया विस्मृतं प्रथमतः कथनम् , तमि- दानी कथयामि- यद। प्रथमदिने मूर्छितमेनमाश्रममनयम् , तदास्य निकट स्वर्णसंम्पुटो मया दृष्टः , वस्त्रबद्धानि च कानिचित्यत्राणि । स्वर्ण सम्पुटस्य पत्राणां च प्रयोजनं किमपि नाज्ञायत मया , यत इदं सर्व पूर्व महाराजस्य निकटे कदापि मया न दृष्टम् । इत्थम्मातापुत्रयोरावयोरत्र कालं यापयन्त्योः पुनर्देगा राज्ञया दर्शन मदीयत । अनयागतया व्रजेन्द्रस्य सर्वानपि वृत्तान्तान् श्राविताहम् । यदा चाहं ब्रजेन्द्रमेव निजं प्रियं पुत्रनवागच्छं तदात्वे जातस्यानन्दस्य तु नास्त्यवधिः । पूजागृहमन्तदत्तागळकवाट कृत्वा पर्वतं सुरङ्गयाहमगमम् । अल्पान्तर एव देवी राजयपि मया समगमत् । एताव येव जझानिलेन सह महती वृष्टिरारभत वर्षितुम् । अशनिपातश्चाभवत् । ब्रजेन्द्रं पर्वतशिखर गत पनुचिन्त्यावां नितरां चिन्ताकुले अभवाव । तत इतस्तमन्येषितुं च प्रा- वर्तिध्वहि । कदाचिदाश्रमे प्रतिनिवृत्तस्स्यादिति सम्भावनया तत्रावेक्षितुं देवीं राजी तत्रैवावस्थाप्याहमाश्रमं प्रत्यागच्छम् ।

प्रविशन्त्येव मया बहुभिज नैः पूर्ण आश्रमोऽवलोकितः । क इमे तपस्विन्या अकिञ्चनाया ममाश्रम मागताः ? किं वा चिकीर्षन्तीति विचिन्त यन्त्यामेव मयि हेगवत्याश्श्वशुरण तेषां सर्वोऽपि वृत्तान्तो वर्णितः । श्रुत्वा च तेषां वृत्तान्तमायपुत्रस्य चरणयोम्सहैवाश्रुबिन्दुभिरिशरो मया निहितम् । अनुभूताश्च सर्वे क्लेशा एकदैव व्यस्मयन्त । तत्रापि ब्रजेन्द्रमपश्यन्त्यहं पर्वतशिखरं प्रति न्यवृतम् । विचिन्वन्ती च यत्र व्रजन्द्रो मूर्छितः पतितोऽभवतत्रागच्छम् । देवीं राज्ञी च तत्रैवै कत्रात्यन्तव्याकुलां जान्बोशिशरो निधाय रुदन्तीमपश्यम् । प्रथमतोऽहमपि व्रजेन्द्रस्यावस्थामवलोक्य व्याकुलाभवम् । अथापि क्षणादात्मानमवस्थाप्य धैर्य चावष्टभ्य देव्या राज्ञयास्साहाय्येन व्रजेन्द्र रत्न गृहमनयम् । बहुषूपायेष्वनुतिष्ठितेषु परेद्यवि प्रातरयं चेतनामध्यगच्छम् । सचे- तने चास्मिन्महाराजाय ज्ञापयितुं पुनराश्रमं प्रत्यागच्छम् । स्वर्णसम्पुटे या कुञ्चिकावर्तत , तयैव रत्नगृहद्वारकवाटिकायास्ताळयन्त्रमुद्धादितम् । ॥ इति संसारचक्रे द्वितीयभागे अष्टादशं चक्रम् ॥ - ॥ अथ एकोनविंशं चक्रम् ॥ ( देव्याराज्ञया वृत्तान्तः) वृद्धस्तावदेवमवदत् " या किलान्नपूर्णाया अपरोवतार इव, यामहं महालक्ष्म्या एकमशं कथयन्नातिशयवक्ता भवामि , यया किल विलक्षणन बुद्धिबलेन बहूनां प्राणा रक्षिताः , यस्यै रत्नपूर्णा वसुमती कृत्स्ना प्रतिपाद यन्तोऽपि वयं न कृतप्रत्युपकारा भवामः यस्याश्च मया लब्धास्सर्वेऽप्यु- यस्या एवं प्रभावेन भुपितो मे वत्सो गुप्तं च रत्नगृहं वियुक्ता च प्राणप्पिया मया प्राप्ताः , यस्यां लोकदुर्लभास्सर्वेऽपि गुणा ऐकाधिकरण्यं 1 दन्ताः भजमाना निवसन्ति , सेयं दयामयी देवी राशी कथयत्वात्मनो वृत्तान्तान् , वर्णयतु व्रजेन्द्रभूषणरक्षणोदन्तम् , सर्वेऽपि मे सभासदस्समुत्कण्ठिताः प्रती क्षन्ते तदीयं वचनसुधारसं पातु दत्तावधानाः । " इति । श्रुतवत्याश्चेदं देव्या राज्ञया लज्जया मुख मण्डलमारक्त मभवत्। अव- नतकन्धरा च भूमिमालोकयन्ती क्षणादेवमारेभे वक्तुम् - " मदीयतातपादादीनां वृत्तान्तास्तु महाराजेन वर्णिताः पूर्वमेव , अथाहं विजानामि यत्किञ्चिदवशिष्टम् , तदेव ताबद्वर्णयामि । बाल्य एव मे मातापितरौ यशश्शेषतामभजताम् । सर्वज्येष्ठभगिन्या विषये किमप्यह न जानामि । अहं मध्यमा भगिनी चेत्यावां गृहे बन्दिनीबदवर्तिध्वहि । इम मेव रायं तातवज्जानन्ती बृहन्मातुलशब्देन सम्बोधयन्ती चासमहम् । आ- वयोः पालनपोषणभार एतस्यैवोपरि निहित आसीत् । अयं साक्षात्पापस्य परा मूर्तिरिति पश्यतोहराणां समूहस्य कम्यचिदयं नेतेति च विदितं मम तदानामेव । बन्धुवर्गेषु कोऽप्यस्मन्निकटमागन्तुमवसरमेव न लभेत । राय एव सर्वधावयोनियन्त. भूत् । यदा मम मध्यमा भगिनी शशिवाला पूर्णयौवनाजायत , तदा मा- तुलस्यास्य मनश्चञ्चलतामभजत् । अचिन्तितमेवैकस्मिन् दिने शशिबालान्त हिताभवत् । अहं तु बबरुदम् , मातुलस्य चरणयोरपतम् , अथापि किमप्यनेनोत्तरं न दत्तम् । तदात्वे चाहं चतुर्दशवयस्काभूवम् , अतएव भगि याः किमपि साहाय्यमाचरितुं नाशकम् । , , एकदा रायो मामेवमवदत् - शशिबालायाः कृते किमित्येवं व्या- कुका भवसि ! तस्याः समीचीने कुले पाणिग्रहो जातः न चिरात्तम पे तां द्रक्ष्यसि । त्वमपि तावदिदानी विवाहयोग्यां दामसि प्राप्ता । इतःपरं विना पाणिग्रहमवस्थापनं ते न युज्यते । अस्ति कश्चिद्वरोऽपि त्वदर्थमन्विष्टः। इतश्चतुर्थेऽइनि भविता ते पाणिग्रहः । विवाहस्तु यद्यपि भविष्यन्ति नूनम्, परं त्वया छन्नयावस्थेयम् । बरस्य कन्यायाश्च सम्मेळनं न भविष्यति, यथा त्व - - . पाणिग्रहो में बभूवात मनस्यव त्वया ज्ञयम् , विचाहादयस यथा च्छाविरुद्धं किमपि न करिष्यसि-तथाहं त्वां कुत्रचिदपवर के निधास्यामि। विवाहकायें निवृत्त वरे च प्रतियाते गृहं त्वामपवरका(हिमोक्ष्यामि इति । रायस्य वचनानां नाशकं भावमहं ज्ञातुम् परं यथा सोऽवदत्तथैव सर्व कार्य निर्वृतम् । बहिस्तु विवाहदिने महान् समारोहोऽभवत् , गृहाभ्यन्तरे तु न कोऽपि विशेषः , यदाहं मातापितरावनुचिन्त्य रुदन्त्यभवम्, तदा मध्यमां मे भगिनीं शनैशनैरागत्य मत्पार्श्व समुपविशन्तीमपश्यम् । तत उभावप्यावां चिरात्सम्मिळिते सुचिरमरुदिव । भगिन्या एव मुखात्तां रायेण सह मिघुकी भवन्ती धर्मभ्रष्टामवगत्य महद्दःखिताभवम् । आत्मनोऽप्येतादृशीं दशां सम्भावयन्ती च महगीताभवम् । विवाहदिनात्पूर्वस्मिन्नेव दिनेऽहं कुत्रचिदपवरके बन्दीकृताभवम् । विवाहदिनात्प स्मिन् दिने वरे स्वगृहं यातेऽहमुन्मुक्ता च । भगिन्यास्तु ततः परं दर्शनं नाभवत् । क्रमाजग्मुस्सप्ताष्टदिनानि , कापि नवीना घटना न समजनि। गोविन्दलालोऽयं पितुर्मे प्रीतिपात्रं भृत्यः, अयमेव तस्मिन् काले मम परमस्सहायोऽभवत् , अस्यैवानुमतेऽहं पुरुपवेषमधारयम् , रायेणात्र कोऽपि विरोधो न कृतः , प्रत्युत प्रसन्नोऽभवत् । बाल्य एवास्माकं भगिनीनां गानबादनादिष्वभ्यासो रायेण कारितोभून् । ज्येष्ठभगिन्यास्तु विषयेऽहं किमपि न जानामि । परं सापि समर्थाभवत्तत्रेति श्रुतं मया । मया तु मध्यम भगिन्यैव सहाभ्यासः कृतः। विवाहदिनात्सप्तमु दिवसेष्वतीतेप्वचिन्तितमेव समागत्य शशिबाला • वदत् अद्य मन्ये वरः पुनरपि समागमिष्यत्यत्र, पुरतस्तस्य त्वया न गन्तव्यम्, रायत्येयमाज्ञा । मयैव वधूवेषेण तस्य पुरतो गन्तव्यं भविष्यति । येन केना प्युपायेन विषं पाययित्वा स मारयितव्यश्च । कारणं त्वत्राहं न जानामि । इति । एतावदुक्त्वा शशिबाला निरगात् । , , मम तु मनसि महती पीडा समजायत । भचिन्तयं चैवमहं मनसि- को नाम तपस्वी दुरदृष्टशाली ममः भर्ता , यो न चिरात्संयमिनी या- स्यति ! " इति । ततब्वाइं गोविन्दकालेन सम्मन्त्रय पत्युः प्राणरक्षणं केनाप्युपायेन कर्तव्यं निरचिनवम् । गोविन्दलालस्य निकटे किमपि विष- मन्ति, यस्य गुणाः पूर्वमेव वर्णिताः । ततो गोविन्दलालस्तथा प्रायतत, यथा तदेव स्वनिकटवर्ति विषं स पायितस्स्यात् । बालवेषधारिण्या मया स दिवसः कथंकथंचिद्यापितः। भर्षराने कोणवर्तिन्यपवरके भगिन्यास्सलपन्याश्शब्दश्श्रुतः । सावधानया कवाट- रन्ध्रेण यन्मया दृष्टम् , तदिवानी न वर्णयितुं शक्नोमि । निनामेव भगिनी शशिबाला मम पति विषमिश्रं भक्ष्यम् , यत्र गोविन्दलालेन तवेव विष संयोजितममूत , भोजयन्तीमपश्यम् । यदा विषय प्रभावेन ते ( धजेन्द्रः) सम्यक् अचेतनतामभजस्तदा गोविन्दलालस्योक्तघा दशमांकचिहिते कारा- गृहे निहिता अभवन् । गोविन्दलालसहायया मया बालकवेषधारिण्या महता परिश्रमेण पतिर्मे कारागृहामिष्कास्य माळानान्या जरठाय गृहं प्रापितोऽभवत् । ततोऽपि पुननिष्कास्य तमन्धकार एव कुल्यायास्तीरमनयम् । तत्र सह नौकया गोविन्दलालसन्नद उपलब्धः । यवायं नौकामारुथ पला. यनपरोऽभवत्तदा रायस्य केनचिच्चरेण दृष्टोऽभवत् , यतोऽस्य कारागृहा- निर्गमनं ज्ञात्ला रायेण बहवचरा एतदन्वेषणाय नियुक्ता भभवन् । चराणां दुष्प्रयोर्मत्रायमासरसा नौका जले न्यमजत् । भगवतस्तु कृपयास्य प्राण- वियोगो न जातः, देवनारायणमुखोपाध्यायस्य दर्शनं चाभवत्। देव- नारायणमुखोपाध्यायेन स्वगृहं नीतोऽयं पुत्रनिर्विशेष पाल्पमानवावर्तत । अस्मद्गृहे स्वस्य कारागृहानिकमणवृतान्तस्सर्वतः प्रसृतोऽभवत् । मयि रायस्य सन्देहोऽपि जातः । सन्दिहानेन तेनाहं वहुधा परीक्षिताभवम् । देवनारायणमुखोपाध्यायस्य भत्यश्श करो नाम रायम्य मित्रमासीत् । अतएव तेषां ( यूजेन्द्रस्य ) देवनारायणमुखोपाध्यायगृहे ऽवस्थानं रायेग । .. 13 देच्या राज्ञया वृत्तान्ता। हातमभूत् । ज्ञातमात्र एव वृत्तान्ते रायो देवग्राम सह सहचरैः प्रापत् । महमपि बालकवेषप्रतिच्छमा गोविन्दलाकेन सह तत्रागमम् । दुष्टो राय- स्तन कस्मिंश्चिमृतकगृहीते गृहे कल्यं प्रसार्य वाणिज्यमारभत । एतेषा ( बजेन्द्रस्य ) बन्दीकरणाय प्रतिदिनं नवा नवा उपायाः क्रियमाणा 4- भूवन् । देवनारायणमुखोपाध्यायगृहवृत्तान्तान्प्रतिदिनं शक्करो रायाय कथ- यतिस्म । एकदा मध्याहे • यद्येतैस्सम्मेळनं दैवाद्भवेद्वर्णयिष्यामि रायस्या- न्तरमभिप्रायं-अवहिताच कारयिष्यामि' इति विचिन्त्य देवनारायणमुखो- पाध्यायगृहसमीपमगमम् , परं त्वेतैस्सम्मेळनं नाभवत् । रध्यापार्श्ववर्तिन्य- पवरके शेरत एत इति केनाप्यवगत्य , रथ्यायामेव गवाक्षादधो मन्दमेकं गीतं गायन्ती क्षणमतिष्ठम्, अप्येतेन वा शब्देन प्रबुद्धा एते मा प्रत्यभिजा- नन्तो बहिरागच्छेयुरिति । परं सोऽपि मनोरथो मे सफलो नाभवत् । विफल- मनोरथैव च ततः प्रतिनिवृत्ताभवम् । देवप्रामादुत्तरतः कोशचतुष्टयदूरे कुत्रचिद्धने वने मयैका कुटी निरमायि । आवश्यकेषु समयेषु सैव मे निवासस्थानमभवत् । तस्मिन्नेव दिने सायं , यस्मिन्नहं देवनारायणपुखोपाध्यायगृहान्तिकमगमम् , दुष्टरेते गृहीता महत्कष्टं प्रापिताश्चेत्यशृणवम् । म केवलमियदेव, रायस्य कश्चिमृत्य एतैर्हत इत्यपि । ततो गृहीतमन्त्रं जयपालं कारागृह एतेषां समीपं प्रेषयम् । स च तत्र गत्वैतान् कृष्णकम्बळेनैकेनावृतदेहान् कृत्वा भूगृहेऽवस्थाप्य प्रतिनिवृत्तोऽभवत् । यत्र गृह एतेऽभवंस्तत्र गतया मया कवाटरंध्रेणैषां रोदनं श्रुतम् , सान्त्वनाय च गीतमेकमगायि , येनैषां धैर्यावष्टंभः कियानपि समजनि । ततस्तत्रैव कारागृहे देवनारायणमुखोपाध्यायस्य शवोऽपि निहित इत्यवगत्य महान्तमानन्दमविन्दम् । एका क्रिया द्वयर्थकरी बभूव ' इति त्यायनैकदैवाद्योभयोः प्राणान् रक्षिण्य इति निरचिनवं मनसि । अकरवं च , बहुळीभवति च ममैतैस्सहवासे धैर्य मे विगळितुमारभत । देवना- रायणमुखोपाध्यायसंजीवनानन्तरमेतैस्सह कुटी प्रतिनिवर्तमाना बालक रूपं परित्यज्य वास्तवरूपमधारयम् । . निर्मलकुमारो विमातुः कुत्सितेन चरित्रेण दु:खितो निजं गृहं परि स्यज्य मातामहगृहान् गच्छन् मध्येमार्गमेव शङ्करमुखाद्विदितवृत्तान्तेन रायेण गृहीतोऽभवत् । ततः प्रभूति सोऽयं कुत्रचित्खण्डगृहे बन्दीकृतो महत्कष्ट मनुभवन्नवर्तत , तस्यापि तस्मात्कष्टादुन्मोचनमावश्यकंमन्यमाना पति में बालकरूपधारिणं कृत्वा स्वयं योगिनीवेषमधारयम् । निर्मलं कारागृहादुन्मोच्य तस्मै सर्वानपि देवनारायणमुखोपाध्यायसंबद्धान् वृत्तान्तानवर्णयम् । तस्मि नेव दिने जयकालीं बध्वा देवनारायणसादकरवम् । देवनारायणो जयकाळी परित्यक्ष्यतीत्ययमर्थोऽपि मया निर्मलकुमाराय कथित भाप्तीत् । अतएव परित्यक्तमात्रायामेव जयकाळ्यां निर्मलो निजपितृसमीपं प्रापत् । अस्मिन् पर्याये मम स्त्रीजनसाधारणेनाविचारेणैते पुनरपि पश्यतो- हराणां हस्ते पतिता अभवन् । देवनारायणमुखोपाध्यायस्य पनीपरित्यागं द्रष्टुमतान् प्रेषयन्त्या मया सहैवैतैर्गोविन्दलालस्य प्रेषणमुचितं कर्तव्यमासीत् । तथा न कुर्वन्त्या एकाकिन एवैतान्प्रेषयन्त्या मया महदनुचितमाचरितम् । गोविन्दलालेन हस्तसंकेतेनैतान् देवनारायणमुखोपाध्यायसमीपगमनात्प्रति- षेधता वनमार्गेण कुटीनिवर्तनं प्रतिबोधिता अप्येते तथा नाचरन्त। जन समूहमेव प्राविशन् । भन्ततश्च ममानेनाविचारेणैते पुनरपि रायस्य हस्त- गता अभवन् । कारागार एवैते ज्वरेण पीडिता अभूवन् । गोविन्दलालप्रदत्तेनौष- धेन तु पुनरेते सुस्थतामभजन् । तदात्वे रायः पुनमयि शङ्कितोऽभवत् । तेनैते तत्वकथनाय बहुनिबद्धा अभवन् । दैवाच्चैतरस्माकं नामानि न कथि. तानि । यदि कथितान्यभविष्यन् तदा पशुमारं वयं मारिता अभविष्याम ।

एतन्मध्य एव । देवनारायणमुखोपाध्यायो निर्मलकुमारं सर्वाधि कारिणं विधाय स्वपदे स्थापयित्वा गृहान्धरिश्य य धनमगात् ' इत्ययं श्रोत्र- दहनो वृत्तान्तो मया श्रुतः । निर्मल कुमार एकाकी तदात्वे निजगृहकृत्य निर्वहन्नवर्तत ! यस्तु पुनरपि तं छलेन हस्तगतमकरोत् । यदा दुष्टा कुलटा च जयकाळा निर्मलत्य वक्षस्यारूढा तत्य गळं मर्दयन्त्यासीत् , सदाहं पति में कारागृहानिष्कास्य तस्मै भयानक दृश्यगिदगदर्श यम् । ततश्चातुर्यान्निर्मलस्य प्राणानरक्षम् । तां च धूता बन्ध करवम् । निर्मलं च स्वगृहान् प्रेषयम् । ततोऽहमेनान् ( व्रजेन्द्रं ) स्वगृहाननयम् । तत्रापि काचिन यावदा दुर्घटना समभवत् । जयकाळी ताराकाळी नानी तस्या एठ पितृवंशजा च रायस्योपपनीभावमाश्रित्यातिष्ठताम् । एकदा ताराकाळी कांचित्पाटलिका- यत्र मेऽत्यावश्यकानि पत्राण्यासन् , द्रष्टुं निर्बन्धं महान्तमकरोत् । चिर रायो युक्तया पोटालिका तामदर्शयमेव कालमयापयत् । अन्ततस्तु रहस्य पूर्णा सा पोटलिका ताराकाळ्या दृष्टाभवत् । ततो रायस्साराफाळोबुखेन रहस्यभेदं सम्भावयमात्मनो महतीं विपदं भाविनीमालोच्य विभ्यत् तार" काळीममारयत् । मद्गृहस्य नातिदूर एवास्ति किश्चित्खण्डगृहम् । तदेव रायस्य यथेच्छविहारस्थानम् । तत्रैव च ताराकाळया हिंसाप्यभवत् । संत्रण भूमौ कुत्रचित्तस्याशवो निहितोऽवर्तत । दैवाच तैसा पोटलिका तत्रैम खण्डगृहे लब्धा , यस्यां मे प्राणास्सर्वस्वं चागसम् । मपितृपितामहादमि-- लिखिता बढ्यः पत्रिकाबासन् । एकदा मम गुप्तचरेवन्यतमो मामेवगन वीस्-- "हरिहरवन्धोपा- ध्यायस्य निकटे रत्नगृहस्य काचिदस्ति कुंचिका , तां च स महताऽवधानेग रक्षति" इति । इदं च श्रुत्या तस्याः कुंचिकाया येनकेगाप्युपायेन तस्माद् ग्रहणमत्यावश्यकं मनसि निरचिनवम् । हरिहरेण नाहं दृष्टा कदाचिदपि मम भगिनीं शशिबाला तु स सम्यग्जानाति , यस्य समयमाहं वृत्तान्तं वर्णयामि । ततः पूर्वमेव शशिबाला लोकान्सरं गताभूत् । हरिहरस्स्विमं वृत्तातं न जानातिस्म । शशिवालाप्रमेण मय्येव सोऽनिचारमारभस । यदाहं सस्य निकटे कांचिद्रनगृहकुश्चिका वर्तमानामगवम् , तस्मिन्दिने मया किंचिदतिकुत्सितं कार्य कर्तव्यं सगभूत् । शशिबालाषेषेण समिकटं गत्वा मधं पाययित्वा विचेतनात्तस्मारकुंचिकामगृहाम । , ततः परं जयकाळीनिकटस्थस्य पत्रस्य विनिमय करवम् । यवा रायप्रभृतिभिस्सह जयकाळी मद्यमदमत्ता यत्र विसनासीत् , सदाह मार्य- पुत्रेण सह तत्रागच्छम् । जयकाळयाः कटेह रिहरलिखितं पत्रं गृहीत्या तस्या भयोत्पादनाय किंचिदन्यत्पत्रं तरस्थानेऽस्थापयम् । ततो नौकामाखडा कस्कत्तानगरमगच्छम् । तत्र हरिहरस्य गृहान् गत्वा ततोऽप्यावश्यकानि पत्राण्यगृहाम् । तत भार्यपुत्रा तेन खण्डगृहे लब्धानि पितृपितामह ादीनां हस्तलिखितानि पत्राण्यसभे। आर्यपुत्रस्तु पुनारायश्य हस्तगतोऽभूत् परमहं कमप्युन्मोचनोपायं कर्तुं नाशकम् । एकदा रायस्य किञ्चिवचनं श्रुत्वःहं हर्षविहायपूर्णाऽभवम् । सच्चे भैरवपुरस्थ भयानके कारागृहे, यत्र कश्चिदृद्धो बहुभ्यो वर्षेभ्यो बन्दीकृतस्तिष्ठति , वृजेन्द्रोऽपि तत्रैव तावत् स्थाप्यताम् , यावदस्मन्मनोरथः पूर्णो न भवति ॥ इति । रायणवमयम्प्रम.दः कुतः कृत इति तु नाई जानामि , आर्यपुत्रं भैरवपुरकारागृहं प्रेषितं ज्ञस्याहं गोविन्दलालादि- भिस्सह भैरवपुरमेवागच्छम् । तत्र गत्वा च श्रद्धेन सह वृजेन्द्रस्य समापो भवतीति , परं तो परस्परसंबन्धं न जानीत इति चाचागच्छम् । ततोऽह- मैतैस्सम्मेळनाय बहूनुपायानरचयम् , परं रायस्य भृत्यैरहनिशं सावधान रक्षद्धिर्मम मनोरथो विफलो जातः । अन्ततो गोविन्दलालस्य गन्त्रणेन यः मदनमेषां भोजनादिकं नयति तमुत्कोचेनारमाधोनग करवम् । सद्वोरणा- मस्थाले मादधा निधाय कांचित्पत्रों प्रेषयम् । तम च नातिचिोण सशंस्य इति लिखितं मया । किन्तु कोऽप्युपायस्सफलो मे नाभवत् । वचनम् - .

एतावत्येव कश्चिञ्चरो मधं नीलाचलस्य. समीपे काचितपस्विनी निवसतीत्यकथयत् । तपस्वीनी वृत्तान्तं श्रुतवस्या मे । नूनं सैव मे श्वश्रूः' इति प्रत्यभात् । ततोऽविळम्बेन नीलाचलमगच्छम् । अवर्णयं तस्यै सर्वा- नपि वृत्तान्तान् याथातथ्येन । हरिहरालब्धया कुश्चिकया सुरनाया द्वार- मुद्घाटितम् , यथा च कियद्भयः क्षणेभ्यः पूर्व तपस्विनी समवर्णयत् । ततःपरमहं भैरवपुरमेव पुनः प्रतिनिवृत्ताभवम् । परंस्थतीतेपि मासत्रये एतेषामुन्मोचनोपायः कोऽपि फलं नादर्शयत् । ततः परं गोविन्द- लालस्य साहाय्येन पितुः पुत्रस्य च सम्मेळनं वृद्धस्य मरणमित्यादि यन्मया कृतं तत्सर्व महाराजस्य मुखाद्भवद्भिः श्रुतमेव । महाराजस्य मरणसमये माळा जरठा रायस्य मातरं तत्रैव मन्दमागच्छन्तीमवलोक्याहं ततोऽपासरम् । एते च ( व्रजेन्द्रः ) ततो निर्गत्य पलायिता इत्महमशृणवम् । मनन्तरं च तत्र यद्वृत्तं तन्महाराजेन वर्णितम् । बहुष्वपि दिवसेष्वतीतेष्वेतत्सम्बंद्धिवृत्तान्तानवगमादधिकमहं व्या- कुलान्तराभवम् । एकदा चाचिन्तितमेव कश्चिन्मे चरस्समागत्याब्रवीत्- वृजेन्द्रप्रभुभंगवतः कृपया मातुरात्मनोऽन्तिके प्रापत् " इति । श्रुत्वा चेदं महानन्दो मे समजनि । तस्मिन्नेव क्षणे नीलाचलं प्रति प्रातिष्ठे। तत्र गरवा चाहं सर्व वृत्तान्तजातं तपस्विन्यै मात्रेऽकथयम् । सा च निजं प्रमु- षितं पुत्ररत्नं लब्ध्वाऽऽनन्दसागरे जलचरभावमिवाशिश्रियत् । ततो रत्नगृह द्वारोद्धाटनादिकं यथा निर्वर्तितं तथा श्रुतमेव श्रीमद्भिः । अयमेव मे वृत्तान्तः । अतोऽधिकं नाहं किमपि जानामि " इति । ॥ इति संसारचक्रे द्वितीयभागे एकोनविंशं चक्रम् ।।

भाग-२] संसारचक्रम् । १०२ ॥ अथ विशं चक्रम् ॥ ( परिपूर्तिः) - सर्वेषामेषां वृत्तान्तानां श्रवणेन कस्य का दशाऽजायतेति नाहं वक्तुं प्रभवामि । अनुभवकुशलास्स्वयमेव विचारयन्तु । कियन्तंचन कालं तत्र निश्शब्दतावर्तत । ततो महाराजश्रीनारा- यणवंद्योपाध्याय: परितोऽवलोक्य मन्दम्मन्दं गम्भीरमिस्थमवदत्- 'हे राया ! हे हरिहरप्रभवः । कं वा दण्डमहं युष्मभ्यं विदध्याम् , येन मे कोपश्शान्तो भवेत् , न जानामि विचारयन्नपि । नाइं या प्राणान- पहर्तुमिच्छामि , तथा सति हि युष्माकं शीघ्रमेव दुःखान्मोचनं भवेत् । इदं तु न विस्मरत, यद्भगवान् कदापि युष्मदीयानपराधान्न क्षमिण्यत इति । अस्तु, कृतस्य पापस्य फलमत्रैव भोक्तव्यं युष्माभिः । हरिहर ! विचारय तावत्त्वं मनसि कीदृशः पाप्यहमस्मीति । अल्पेन पश्चात्तापेन त्वत्कृतस्य पापस्य प्रायश्चित्तं भवेदिति न मनुष्व । यद्यहमद्य त्वां नगररक्षणसैनिक सादकरिष्यं नूनं ते मरणदण्डोऽभविष्यत् । परमहमिदं नेच्छागि , निज दुष्कर्मफलभोगाय त्वामहं परित्यजामि । वारीशालमण्डले वज्रपुरनामा कश्चिदस्ति प्रामः । तमेव ग्रामं तुभ्यमहं ददामि । तत्रैव गत्वा त्वं निजया पत्नया सह वस । अवशिष्टमायुः परमेश्वरस्य स्मरणेन यापय " इति । असम्पूर्ण एव महाराजस्य वचने हरिहरो झटित्युत्थाय महाराजस्य चरणयोरपतत् , अरुदञ्च चिरं सकरुणम् । सगद्गदमित्थमवदच "धन्योऽसि महाराज धन्योऽसि ! श्लाघनीया ते दयनीयेषु दया! कृपयैव तेऽद्य जीवामि नराधमोऽहं , अन्यथा प्राणानां कथापि न भूयेत । कि- मधिकं विज्ञापयामि । मुखाच्छब्दो न निस्सरति । नेच्छामि मुखमहमितः भणमपि प्रदर्शयितुम् । अद्यैव श्रीमतामाज्ञां पालयमहं निर्यामि । श्रीमन् . - नानान्तरं श्रीमतां निहित समत् । अष्ट दशवा नहीं च भवता पिता मत्पन्नधेष घ माताभूवाव । तावन्तं काळं पालनपोषणादिकं पुत्रनिर्विशेषमेव वाभ्यां भरतः कृतम् । किमि रमेकं षा मनसि कृत्वा ममापराधाम क्षमिष्यति भवान् । यदा भवानष्टादशवर्षवयस्कोऽभवत , तदाह रहस्यप्रकटीभावभिया भवन्तं तत्र विवाहत्याजेनानयम् , कष्टं चेयस्मादाम् । मथाहं भवन्तं पुनः पुनः क्षमा प्रार्थयामि , पुगतनं मेहं स्मरन्मो क्षाम्यतु । याम्यहमध पमया सह , देव्या राज्ञया राज्यं पालय । भुक्ष्व चानुतमान् भोगान् , अयमेवाशीर्वादो मे इति । एतावदुवत्ता निरगादरिहरः । - निर्गते हरिहरे महाराजस्सविष्फुलिंगाभ्यां नयनाभ्यां रायं निरीक्ष्या- वददित्थम् ---- " राय ! तव स्वपराधा हरिहरीयेभ्योऽप्यधिकाः , अपगधा- नुगुणो दण्डस्ते को वा विधातुमुचितः ! जानाति वा ! आगळं भूगो निखाय श्वभिर्भक्ष्यमाणे त्वयि तत्र लवणप्रक्षेपहरमुचितो दण्डस्स्यादिति मन्येऽहम् । परमहमेवं नेच्छामि कतुंम् । हरिहरस्य याहशो दण्डो विहित - स्तादृशमेव तदापि विधातुमिच्छामि । गच्छ त्वमपि , रायपुरं नाम प्राम---- भुरुक्ष्व , निजानपराधाननुचिन्त्य पश्चात्तापं भज । क्षणमप्यत्र न विळम्ब- " इति । रायस्तु किमप्यवदन्नव कज्जावनतशिरास्सह निजैरनुपरै १ निययौ । इत्थं निर्गतेषु सर्वेषु निश्शब्दतायां जातायां महाराजो महताऽऽनन्देन गद्दीभूतस्सप्रेमभरं व्रजेन्द्रभूषणं भूयेन्द्रनारायणनामधेयमालिंग्य शिरस्युपा- प्राय चेत्थं तमब्रवीत्- " वत्स ! रत्नगृहस्यास्य कृते मम पितृषिता- महाद्यास्सप्त पुरुषा महान्तं प्रयनमकुर्वन् , कस्यापि तेषु दृष्टिगतमिदं ना- भूत् । भगवतः कृपया मात्रा तेऽन्धिप्योपलब्धम् । भत इदं सर्व त्वय्येव निक्षिपाभि । चिरायुर्भूत्वा चिरमिदं सर्वमनुभुक्ष्व ' - इति ।

तता नाराया कृपयाय पुत्रमुखनिरीक्षणसुखभहमनुभवामि , धन्यासि त्वम् , यत्र त्वमजा- यभास्तच कुक धन्यम् , यञ्च (वं प्रविष्टा तद्यापि धन्यं कुलम् , भगवां स्ते सौभाग्यमतिचि रक्षतु , आगच्छ , भूपेन्द्रस्य पार्थे समुपविश, येना- बां नेत्रयोः फलं लभेवहि । इति । ततो गोविन्दलालादीनित्थमवदत् - गोविन्दलाल ! विजय ! जयपाल ! गङ्गाधर ! यूयं मे हितैषिणो मित्राणि । याहशो युष्माभिरुपकारो ममाचरितस्सप्तमु जन्मसु प्रतिकुर्वन्नपि न भविष्याम्यनणः । किं वाधिक वदामि । यथापूर्व ययं निजे निजे पदे पुनः स्थाप्यन्ते सहन्नित्या । सर्वपि यूयं दम्पत्योरनयोराशिषः प्रयुञ्जाना भगवन्तं प्रार्थयत माळम् ” इति उपसंहृतवचने च महागजे सवप्येकदेव " विजयतां महाराजः इत्युच्चैरुदघोषयन् । तती महाराजः पुनरपि तपस्विनी ( महाराशी) एवमवदत्- प्रिये ! विशतिवर्षेभ्यः परस्तावत्सस्य वध्वाश्च मुखदर्शनमपारकरुणानिधे. भगवतः कृपाया एव फलम् । अनुभूतं दुःखं विस्मर । एतावेव राज्ये स्थापयित्वा गच्छावावां वनमेव । चिरं स्वस्संसारचक्रेण कृत्ताः । किमि तीतो विळाव्यताम् " इति । एतावदुक्त्वा महाराजो महाराज्ञमा सह बजेन्द्र देवीं राज्ञी च रनसिंहासन उपवेश्याशिषः प्रयुज्य वनं प्रातिष्ठत । बजेन्द्रो देवी राज्ञी च सुखेन राज्यमपालयताम् । न्यायपरायणतया औदार्येण च तयोः प्रजास्सुखमन्वभूवन् । निर्मलस्य व्रजेन्द्रस्य च मैत्री दिने दिनेऽभ्यवर्धत । परस्परं तौ मैत्री सम्यक् निरवहताम् । रायस्य गमनानन्तरं जयकाळी वेश्याभावमवलम्ब्य कलकत्तानगरे ऽवसत् । रूपसौन्दर्यादिशालिन्यास्तम्या कियामपि कालम्सुखेनात्यगात् ।

ततोऽतिचारेण महता सर्वाङ्गेषु व्रणैरुत्पन्नैः पीडिता , तत्रापि कृमिभिजात
र्जुगुप्सिता , पुलाकमेकमप्यलभमानाऽन्ततो महत्कष्टमनुभूय प्राणानजहात् ।
तां च मृतां चण्डाला निमतलाघदृस्थे श्मशानेऽदइन् । “ अत्युत्कटैः पुण्य
पापैरिहैव फलमश्नुते । इतीदं सत्यमभवत् ।
भगवन् ? दयानिधे ? त्वदीये. संसारचके पतितो ब्रजेन्द्रभूषणः
परिभ्रमन्नन्ततो भूपेन्द्रनारायणो बभूव । महिमैष मायायास्ते । इत्थमेव
सर्वेषामापदग्रस्तानां समीचीनं पर्यवसानं कुरु ।
इति संसारचक्रे द्वितीयभागे विशं चक्रम् ।
?
इति संसारचक्रे द्वितीयो भागः ।
SEESSESEREERESAR
। संसारचक्र समाप्तम् ॥
TREEEEEE

Samsara Chakram

Title
Samsara Chakram
File name
Samsara Chakram
Text
OCR done
Published
11/22/2002
Language
Sanskrit
Pages
102
Library
Svclrc
DLI number
382874
Barcode
2040100002440.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
UDL TTD TIRUPATHI
VMLT id
dpZDovBW8Pf
Download PDF

Samsara Chakram