Sringeri Sharada Peetham

Sri Muhurtha Marthanda

Sri Krishna Sastri · 2005/03/10

PDF Proofread

Front matter

Prankies
.
श्रीः ।
मुहूर्तमार्तडः।
र्तिडवल्लभाख्यव्याख्यासहितः ।
अयं
गुर्जरोपाहश्रीकृष्णशास्त्रीपाध्ये
इत्येतैः संस्कृतः।
सच
मुम्बय्यां
तुकाराम जावजी
इत्येतैः स्वीये 'निर्णयसागराख्य' मुद्रणालये
मुद्रयित्वा प्रकाशितः ।
शाकः १८२६, सन १९०४.
मूल्यं १० आणकाः।

पृष्टं. ... २४ ... ... २५ ... ... ... ... २६ २६ ... ... .. ७ ... ८ ... १० ... २८ ... NEss विवाहमाल अनुक्रमणिका. विषयः पृष्ठं । विषयः त्याज्यप्रकरणम् विद्यारंभमुहूर्तः मंगलाचरणं २ | केशांतः मौंजीविमोक्षः शुभकर्मणि त्याज्यं २ / छुरिकाबंधः ... उपग्रहांतर्वर्तिदोषांतरं विवाहप्रकरणम् नक्षत्रप्रकरणम् घटितगुणविचारः नक्षत्रदेवताः... वर्णमाह नक्षत्राणां स्थिरचरादिसंज्ञाः वश्यं सूर्यादीनां स्थिरादिसंज्ञाः ६ तारा दिनरात्रिमुहूर्ताः ६ योनिः संस्कारप्रकरणम् राशिस्वामिनः प्रथमर्तुफलम् ... ग्रहमैत्री साधारणलग्नबलम् गणमैत्री गर्भाधानमुहूर्तः राशिकूट पुंसवनसीमंतमुहूर्तः ११ / ग्राह्यषट्राष्टकं द्विदर्श च जातकर्ममुहूर्तः १२ नाडीविचारः... पालकारोहणं भूम्युपवेशनं, दुष्टकूटादी दानादि दुग्धपानं निष्क्रमणं च १३ गुणविचार: कर्णवेधः वर्णगुणविचार: 'अन्नप्राशनं १६ वश्यगुणविचारः गुरुशुक्रास्तादिविचारः १६ / तारागुणविचारः चौलमुहूर्तः योनिगुणविचारः अंबार्तवे निषेधः १८ ग्रहगुणविचारः वर्णविशेषेण वारः नक्षत्राणि लग्न- गणगुणविचारः बलं च कूटगुणविचारः क्षौरनिर्णयः नाडीगुणविचारः सीमंतोज़ पत्युमुंडननिषेधः २० स्त्रीणां विवाहकालः क्षौरदिनविचारः अक्षरारंभः.. विवाहनक्षत्राणि संवेधानि व्रतबंधसंस्कारविचार: कमविशेषेषा वेधनिर्णयः कन्यापुच्चयोरुबले बेधभंग्रः .. व्रतबंधे वामवेधः २२ लत्तामाह..... मासतिथ्यादिविचारः.. अन्ये दोषाः व्रतबंधे नक्षत्राणि २३ । संक्रमे त्याज्यघटिकाः, वेदेशलग्नबलं २३ संधिदोषः लग्नभंगाः २३ ग्रहणलक्षणसूतकं ... ... D.. ... .. १८ ... ... ... • mr my ३० ... ३१ ३१ १८ ... ... ... HNDER ३३ ३४ ३४ ... । ... w w u au ... ... ... ... ३५ ३५ २ ... ... ... ४७ ... ... ... ... ... ... ... ... ... ... ... ... ... in m m m m m m m m m m m ... ... ... ... .. ... ५३ ५३ ... ... ... ... विषयः उत्पाते वय॑काल: दोषांतरं भद्राकालमाह... गंडांतलक्षणं नक्षत्रगंडांतः तिथिगंडांतः लग्नगंडांतः एकार्गलः वारदोषः कुलिकादयः दुर्मुहूर्ताः महापाताः विषघट्यः तासांस्पष्टीकरणमपवादश्च विवाहलग्ने इष्टानिष्टग्रहाः दोषाणामपवादः भृगुषष्ठापवादः सग्रहचंद्रदोषापवादः द्वादशषष्ठचंद्रापवादः सामान्यदोषापवादः अपवादभंगः... भावशुद्धिः भावसंधिविचारः अंतर्भावसाधनं संधिसाधनं कर्तरीदोषलक्षणं सापवाद पंचकदोषः सापवादः ... लग्ननवांशशुद्धिः अंशशुद्धिः शुभाशुभनवांशविचारः उदयास्ताशुद्धिः होराविचारः जामित्रदोषः सापवादः दृष्टिलक्षणं गृहादिषड्वर्गसाधनं सूर्यस्पष्टीकरणं पृष्ठं. ] विषयः ष्ठ. ३६ इष्टकालसाधने विशेषः... घटीयंत्रस्थापनकाल: ३६ गोधूललग्नं ... ३६ उद्वाहवेदिकालक्षणं ४९ ३६ | दलनकंडनादिमुहूर्तः ४९ ३६ वधूप्रवेशः ... ४९ नववध्वाः प्रथमवर्षे निषिद्धमासादि ५० ३६ पुनर्भूविवाहः ३७ | ब्रह्मपट्टनक्षत्रशुद्धिः ३७ रुद्रपदृशुद्धिः ३७ | नानाविधशास्त्रार्थाः ३७ । प्रथमाब्दे वानि ३८ । स्त्रीरहितानां विधिः ३८ विषकन्यालक्षणं ३९ । योगांतरं ३९ । मूलाद्योत्पन्नफलं ३९ मंडनमुंडनविचारः संकटे अपवादः यमलयोर्विशेषः प्रतिकूलनिर्णयः भ्रातुर्विशेषः प्रतिकूलाभावः ४१ वृद्धिसूतके संकटे विचारः ४१ सिंहस्थगुरुविचारः ४१ सिंहस्थगुर्वपवादः ४२ / नामराशिजन्मराश्योनिर्णयः ४२ नाम्रो नक्षत्रज्ञानं अग्न्याधानप्रकरणम् ४३ अग्न्याधाननक्षत्राणि... ४४ गृहप्रकरणम् गृहेग्रामविचारः ६१ गृहेदिनियमः ६१ ४५ दिशांवर्गादि काकिणिकाः દૂર ४६ | भूमिरसपरीक्षा ६२ ४६ | भूप्लवत्वं ४० ४० ४० ... ... ... ... ... ... ... ... ... ४४ ... ४४ ... ... ... ... ...

३ पृष्ठ. ... ... ८३ ... पृष्ठ. विषयः ६३ । द्वितीयोपवादः ६४ यात्राकर्तुर्नियमाः ६४ शकुनाः अपशकुनाः ... ... ... ... ... ... अन्ये शकुनाः... ... ... ... ... ... ... ... ... ... :: ... Sapna ८९ ... ... ... ... ९० ... ... ... ... ... ... ... ... ९२ ... ... ... विषयः शल्यविचारः स्थलस्य शुभाशुभज्ञानं... दिक्साधनम् उक्तनक्षत्रेषुविशेषः चतुर्धा द्वारनिर्णयः आयविचारः ग्रहमुखविचारः राशिपरत्वेन ग्रहमुखम्... कोणादिवेधः : अपवादश्च नक्षत्रे ज्ञाते राशिनिर्णयः गृहतत्स्वामिनोर्घटितम् गृहनामाक्षरसंख्या गुणविचारणा सूत्रमोटनलक्षणम् स्थलसाधनम् ... सूत्रन्यासः शंकुन्यासः द्वारनिर्णयः गृहे स्नानादिगृहविचारः आयावश्यकता अनावश्यकता च गृहप्रवेशमुहूर्तः प्रवेशे लग्नशुद्धिः यात्राप्रकरणम् यात्राकालः शलानाह यात्रायां निंद्यम् तदपवादः अभिलक्षणम्... वारशूलदोहदः दिग्दोदः लमशुद्धिः सहेतुका दिक्पतयः ललाटलक्षणम् यातुर्नाशकरयोगः सूर्यादिजन्मनक्षत्रादि यात्रालग्ने इष्टानिष्टग्रहाः प्रतिबुधप्रतिशुक्रापवादः :: ... ... ७४ ९४ ... ६६ | अपशकुने परिहारः मिश्रप्रकरणम् राजाभिषेकः ६८ | देवस्थापनम् ६८ वस्त्रधारणक्षालनादि ६८ | उंदुरादिभक्षितवस्त्रफलम् ६९ भूषणधारणम्... ६९ ऋयविक्री धनिष्ठापंचके वय॑म् ७१ कृषिकर्ममुहूर्तः लांगलचक्रम् ७२ | मेथि(मेढि)रोपणम् ७३ / पशुकर्म अश्वकर्म ७५ / अभ्यंगनिषिद्धकालः ७६ तिलामलकस्नाननिषेधः ७६ / औषधनिर्माणम् रोगमुक्तिदिनसंख्या व्यवहारद्रव्यम् नष्टवस्तुप्रश्नः ७८ वृक्षारोपणम् ७८ | वापीकूपादिमुहूर्तः दिव्यनिषेधः गुरुशुक्रयोमौढ्यापवादः तीर्थयात्रानिषेधः प्रेतकर्मनिषेधश्च अनध्यायप्रकरणम् ८१ अनध्यायाः ८१ तेषांनिर्णयः नैमित्तिकानध्यायाः ८२ ८२ | प्रदोषलक्षणम् ... ... ... ... ... ७७ ... ... ... ७७ ... ... .. ... ... ... ... ... ... ... ९९ ९९ १०० ... १०० ८० १०१ ... ... ... ... ... १०२ १०२ १०५ ... ...

पृष्ठ.
१११
...
११३
...
...
विषयः
पाटीसरटफलम्
गोचरप्रकरणम्
गोचरग्रहनिर्णयः
ताराबलम्
सर्वेषां ग्रहाणां वेधप्रकारः
संक्रांतिप्रकरणम् ।
राशिपरलेनपुण्यकालः
पृष्ठ. विषयः
१०६ , अधिमासक्षयमासलक्षणं
तत्र कर्तव्याकर्तव्येच
१०८ | क्षयमासेजन्मादौमासज्ञानं
१०८ ग्रंथालंकारः
१०९ | फलश्रुतिवृत्तसंख्याच
ग्रंथाशीः
११० । ग्रंथादरार्थबुधप्रार्थना ...
...
...
११३
११४
११४
...
...
११४

.. श्री। द मुहूर्तमार्तडः। C मार्तडवल्लभाख्याव्याख्यासहितः।। त्याज्यप्रकरणम्। मार्तडोऽवतु वाचं नः पादैर्जाड्यतमोहरः । वृत्तबद्धतनुः सेव्योऽभीष्टदो विश्वलोचनः॥१॥ अर्थद्वयवाची । तत्र प्रथमं सूर्यपक्षे मार्तडः श्रीसूर्यः नोऽस्माकं वाचं अवतु रक्षतु । किंलक्षणो मार्तडः । वृत्तबद्धतनुः वृत्ते मंडले बद्धा तनुर्यस्य स तथा । त- थाच स्मृतौ-सशंखचक्रं रविमंडले स्थितं कुशेशयं कांतमनंतमच्युतम् इत्यादिः । श्रु- तिरपि-य एष एतस्मिन्मंडले पुरुषः सोऽग्निः-इत्यादिः । पुनः किंलक्षणः । पादैः कि- रणैः जाड्यतमोहरः जाड्यं पातकं शीतं वा तमोंधकारस्तद्धरतीति तथा । पुनः किं० । सेव्यः सेवितुं योग्यः सेव्यः अभीष्टफलदातृवात् । पुनः अभीष्टदः सेवितः सन्नभीष्टा- र्थदायीत्यर्थः । पुनः कथंभूतः । विश्वलोचनः विश्वं लोच्यते अनेनेति विश्वलोचनः लोकचक्षुर्घहेश्वरः इत्यादित्यहृदये उक्तत्वात् प्रकाशकत्वात् । अथ ग्रंथपक्षे मार्तड: मुहूर्तमार्तडः नः वाचं अवतु । किंलक्षणः । वृत्तबद्धतनुः वृत्तानि प्रहर्षिणीशा- र्दूलविक्रीडितानि तैर्निबद्धा तनुर्यस्य स तथा । पुनः० । पादैर्जाड्यतमोहरः पादै- बृत्तचरणैर्जाड्यं मूर्खत्वं तदेव तमः तद्धरतीति तथा । पुनः० । सेव्यः निरंतरं पठनीय इत्यर्थः । पुनः। अभीष्टदः यथोक्तमुहूर्तव्युत्पत्तिकरणादभीष्टार्थसिद्धिकारीत्यर्थः। पुनः० । विश्वलोचनः समयप्रकाशत्वात् ॥ १ ॥ कुर्वे मुहूर्तमार्तडटीकां मार्तडवल्लभाम् । इयमाकल्पमेतेन दीव्याद्विप्रास्यवेश्मसु ॥ २ ॥ इह शास्त्रे तावत्संबंधाभिधेयप्रयोजनान्युच्यते । आब्रह्मादिविनिःसृतमिदं वेदांग- मिति संबंधः । उक्तंच नारदमुनिना स्वसंहितायाम्-वेदस्य निर्मलं चक्षुयोतिःशा- स्त्रमनुत्तमम् । अस्य शास्त्रस्य संबंधो वेदांगमिति धातृतः इति । अत्राप्युक्तम्-पूर्व- वाक्यार्थमादाय ग्रंथोऽयं रचितो लघुः इति । त्याज्यनक्षत्राद्य लग्नगोचरं गर्भाधाना- दिसंस्कारविवाहाग्न्याधानवास्तुयात्रामिश्रानध्यायपल्लीग्रहगोचरसंक्रांतिकथनमभिधेयम् । तथाच नारदः-अभिधेयं च जगतः शुभाशुभनिरूपणम् इति । अस्य प्रयोजनं मुहू- तै नाकार्यसाधनं अस्य सम्यग्ज्ञानान्मोक्षावाप्तिरिति वा । किमेभिरुक्तरित्यत्रोच्यते। नृणां संबंधाभिधेयप्रयोजनकथनात् शास्त्रे प्रवृत्तिर्जायते । उक्तंच-सिद्धिः श्रोतृप्रवृत्तीनां संबंधकथनाद्यतः ॥ तस्मात्सर्वेषु शास्त्रेषु संबंधः पूर्वमुच्यते ॥ किमेवात्राभिधेयं स्या- दिति पृष्टस्तु केनचित् ॥ यदि न प्रोच्यते तस्मै फलं शून्यं तु तद्भवेत् ॥ सर्वस्यैव हि २ मुहूर्तमार्तडः। [त्याज्यप्र० -- शास्त्रस्य कर्मणो वापि कस्यचित् ॥ यावत्प्रयोजनं नोक्तं तावत्केन न गृह्यते इति । इह- शास्त्रे कस्याधिकार इति प्रोच्यते । द्विजस्यैव वेदांगत्वात् । यतः षडंगो वेदोहि द्विजैरेवा- ध्ययनीयो ज्ञातव्यश्च । तथाचोक्तं भास्करीयसिद्धांतशिरोमणौ-तस्माद्विजैरध्ययनीयमे- तत् पुण्यं रहस्यं परमं पवित्रम् । यो ज्योतिषं वेत्ति नरः स सम्यक् धर्मार्थमोक्षांल्लभते यशश्च' । इति शिष्टास्तावच्छास्त्रारंभे-सरिंभा हि दोषेण धूमेनामिरिवावृता इति शास्त्रेण सरिंभेष्वंतरायप्राप्तौ सत्यां धर्मेण पापमपनुदति इति श्रुतिसिद्धं प्रयोजनमास्थाय ख- स्तिनइंद्रोवृद्धश्रवाः इति लिंगाच ग्रंथस्य निष्प्रत्यूहपरिसमाप्तये मंगलमाचरंति । तस्मान्माध्यंदिनीयो ब्राह्मणो नारायणो नारायणाच्चावाप्तमतिर्योतिःशास्त्रसंहितास्कंधं चिकीर्षुरशेषप्रत्यूहोपशांतये अभिमतदेवंतानमस्कारलक्षणमंगलपूर्वकं ग्रंथकारणप्र- तिज्ञां प्रहर्षिण्याह- सिंदूरोल्लसितमि द्रवक्रमंबां श्रीविष्णुं वियतिचरान् गुरून्प्रणम्य । बह्वर्थ विबुधमुदे लघु मुहूर्तमार्तडं सुगममहं तनोमि सिद्धयै ॥१॥ सिंदूरोल्लसितमिति ॥ सिंदूरेण उल्लसितं शोभायमानं इभेद्रवक्त्रं गजाननं अंबां- सरस्वतीं श्रीविष्णुं प्रसिद्धं वियतिचरान् ग्रहान् गुरून् निजगुरून् शास्त्रोपदेष्टुन् प्रणम्य नमस्कृत्वा । अहं नारायणो मुहूर्तमार्तडनामग्रंथं तनोमि विस्तारयामि । किमर्थ सिद्ध्यै कार्यसाधनाथ । पुनः किमर्थम् । विबुधमुदे पंडितहर्षाय । हर्षकारणं विशे- षणद्वारेणाह । किंलक्षणं मुहूर्तमार्तडम् । लघु अतिशयेनाल्पम् । अल्पे बह्वार्था- भावशंकां विशेषणद्वारा परिहरति । पुनः किंलक्षणम् । अर्थबहुलं अल्पग्रंथे बह्वर्थे दुर्बोधशंकां परिहरति । पुनःकिलक्षणं । सुगमं प्रकटार्थमिति ॥ १ ॥ अथ नानामुहूर्तान्विवक्षुस्तावच्छुभकर्मणि त्याज्यं त्रिभिः शार्दूलविक्रीडितैराह- यामार्धे कुलिकं दिनर्द्धिमवमं पूर्व दलं पारिघं विष्टिं वैधृतिपातसंक्रमगणं गडांतमेकार्गलम् । कृष्णानंगचतुर्दिनं रविशशिकांत्योः समत्वं खलां होरां रात्रिदिनार्धके क्षयदिनं पित्रोर्जनन्यार्तवम् ॥२॥ यामर्धामिति ॥ यामार्धादिकं शुभे शुभकर्मणि संत्यजेदित्यंतिमश्लोकेनान्वयः । यामार्धकुलिको वक्ष्यमाणलक्षणौ दिनर्द्धिर्नाम यत्र तिथिः सूर्योदयात् षष्टिघटिका भवति सैवान्यस्मिन्दिने दृश्यते सा दिनर्द्धिः । अवमः प्रसिद्धः । पारिघं प्राग्दलं परिघयोगस्य पूर्वार्धम् । विष्टिर्भद्रा वक्ष्यमाणा । वैधृतिर्योगः । पातो व्यतीपातः । संक्रमणं सूर्या- दीनां राशिसंक्रमणं । सर्वेषां ग्रहाणां संक्रमणे त्याज्यघटिका अग्रे वक्ष्यमाणाः। गडांतं त्रिविधं वक्ष्यमाणम् । एकार्गलो वक्ष्यमाणः । कृष्णानंगचतुर्दिनं कृष्णत्रयोदश्यादिप्रति- पदंतं चंद्रस्य क्षीणलात् । कैश्चित् द्वादश्यादिसाधै दिनपंचकं त्यज्यते कृष्णे चांत्यत्रिक कैश्चित् तेषु मध्यमोऽयं पक्षोऽत्रांगीकृतः । रविशशिकांत्योः समत्वं सूर्याचंद्रमसोः क्रांतिसाम्यं गणितगम्यम् । तथापि तस्यावलोकनं कस्मिन् दिने कर्तव्यमित्यग्रे - त्याज्यप्र०] मार्तडवल्लभाख्यव्याख्यासहितः । ३ BP वक्ष्यति । खलां होरां पापग्रहहोराम् । रात्रिदिनार्धके दिनार्धे राज्यधैं च । उक्तं ग्रंथांतरे-मुहूर्तः कालो निवसति महानिशायां च दिनदले यस्मात् ॥ दशपूर्व दश पर- स्तस्माद्वानि च पलानीति ॥ क्षयदिनं पित्रोः माता च पिता च पितरौ तयोः पित्रोः क्षयदिनं श्राद्धदिनमित्यर्थः । जनन्यार्तवं मातुः रजस्वलालम् ॥ २॥ मासाद्यं जनिसंभवं ग्रहणभं चंडायुधं दुःक्षणं ज्येष्ठं पूर्वभवस्य पापयुगितैष्याणि विद्धं च भम् । ऊनाख्याधिकमासको युतिषु विव्याशूवगंडातिषु त्र्यंकार्थीकरसर्तुपूर्वघटिका भानां विषाख्या घटीः॥ ३॥ मासाद्यमिति ॥ मासाद्यं जनिसंभवं जनिरुत्पत्तिस्तत्र संभवो यस्य एवंविधं मा- साद्यं मासप्रभृति जन्ममासजन्मतिथिजन्मनक्षत्रादि । ग्रहणभं ग्रहणनक्षत्रम् । चंडायुधं वक्ष्यमाणं । दुःक्षणो दुर्मुहूर्तो वक्ष्यमाण: तम् । ज्येष्ठं पूर्वभवस्य प्रथमजाता- पत्यस्य ज्येष्टमासम् । पापयुगितैष्याणि । पापाः पापग्रहाः वक्ष्यमाणास्तेषामन्यतमे- न युक् युक्तं इतं गतं एष्यं पुरःस्थितं एतानि ऋक्षाणि नक्षत्राणि । विद्धं भं च विद्धनक्षत्रं वक्ष्यमाणलक्षणम् । ऊनाख्याधिकमासको क्षयमासाधिमासौ वक्ष्यमाणलक्षणौ । यु. तिषु विव्याशूवगंडातिषु त्र्यं ३ का९र्थी५क९रसर्तृ पूर्वघटिकाः । वि विष्कंभः व्या व्याघातः शू शूल: व वज्रः गंडः प्रसिद्धः अति अतिगंडः एषु योगेषु क्रमेण त्र्यंका- किरसर्तुसंख्याकाः पूर्वघटिकाः प्रथमघटिकाः। तद्यथा। विष्कंभे तिस्रः व्याघातेंकाः नव शूले अर्थाः पंच वजे अंकाः नव गंडे रसाः षट् अतिगंडे ऋतवः षडिति । भानां विषाख्या घटीः भानां अश्विन्यादिनक्षत्राणां विषाख्या घटीर्वक्ष्यमाणलक्षणाः ॥ ३ ॥ लत्ता पंचकपापवर्गमशुभं चंद्रं दशारिष्टकं जन्मेशेज्यसितास्तमंगशशिनोः ऋरोद्भवां कर्तरीम् । रिष्टं गोचरसंभवं ग्रहजनिप्रांतोद्भवं मूतकं दुश्चिह्नानि मनोविभंगमपि च व्याधि शुभे संत्यजेत् ॥४॥ लत्तेति ॥ लत्तापंचकपापवर्ग एतत्सर्वं वक्ष्यमाणं । अशुभं चंद्रं वक्ष्यमाणगोचरप्रक- रणे वेा । दशारिष्टकं जातकशास्त्रगम्यम् । जन्मेशेज्यसितास्तं जन्मेशो राशिखामी ईज्यो गुरुः सितः शुक्रः एषां अस्तगमनं रविलुप्तकिरणलं अंगशशिनोः क्रूरोद्भवां कर्त- रीम् अंगं लग्नं शशी चंद्रः तयोः क्रूरोद्भवां क्रूरग्रहजनितां कर्तरी वक्ष्यमाणलक्षणाम् । रिष्टं गोचरसंभवं गोचरे दुष्टग्रहाधिक्यं गोचरं वक्ष्यमाणम् । ग्रहजनिप्रांतोद्भवं सूत- कम् ग्रहो ग्रहणं जनिर्जन्म प्रांतो मरणं एभ्य उद्भूतं सूतकं ग्रहणसूतकं जन्म- सूतकं मृतसूतकमिति तेषु ग्रहणसूतकं वक्ष्यमाणम् । दुश्चिह्नानि कार्यारंभसमये क्षुतदु- र्वचनश्रवणादीनि । मनोभिंग अंत:करणस्य अप्रवर्तनम् । व्याधिं ज्वरः तमपि । 'रोग: पाप्मा ज्वरो व्याधिर्विकारो दुःखमामयः । इति वाग्भटः । ज्वारतस्य मंगलं न कुर्यादित्यर्थः । तथाचोक्तं ज्योतिःप्रकाशे-जन्माधिपविलग्नेशचंद्रभार्गवमंत्रिणाम्

४
-
.
मुहूर्तमार्तडः।
[त्याज्यप्र०
विरश्मिलं जन्ममासो जन्मभं जन्मवासरः । दुनिमित्तं मनोभंग: क्षयमासाधिमा-
सकौ । मृतजातकयोश्चैव सूतकं ग्रहणस्य च ॥ ज्वरोत्पत्तिं रजो मातुः पत्रोः क्षियनिदं
तथा । गंडांतत्रितयं कालः संधिर्भस्य तिथेस्तनोः॥क्रांतिपातो व्यतीपातो वैधृतिः परिघा-
र्धकम्। भानोः संक्रांतिभोगश्च कुलिकश्चार्धयामकः ॥रैर्मुक्तं युतं भोग्यं सराहुशिखिधूमि-
तम् । धिष्ण्यं ग्रहणगं पापैर्विद्धं सौम्यैश्च पादतः ॥ विष्टिः क्रूरयुतं लग्नं लग्नेशो रिपु-
मृत्युगः । जन्मतो दुःस्थितश्चंद्रो लग्नस्थो निधनोपगः॥ जन्मभाजन्मलग्नाच लग्नलग्नां-
शकाष्टमौ । पापयोर्मध्यगं लग्नं क्षीणेंदुः कुनवांशकः ॥ क्रूरवारे पापहोरा दुष्टयोगा
ग्रहोद्भवाः । तिथिवृद्धिः क्षयोभानां नाडिका विषसंज्ञिताः ॥ एते दोषाः समाख्याताः
शुभकर्मणि गर्हिताः । दशारिष्टोद्भवाश्चान्ये गोचरोत्थास्ताथापरे ॥ लत्तैकार्गलचंडाख्य-
कालवेलाश्च पंचकम् । मृत्युयोगोपग्रहाद्या स्वे स्वे देशे तु निंदिताः ॥ इति ॥ ४ ॥
अथोपग्रहांतर्वर्तिदोषांतरं वृत्तार्धेनाह-
नो कुर्याद्रविभादगेंद्रधृतितो युग्मेषु पंचाशयोः
वर्गात्पंचसु शोभनानि तनुयादेषग्रशस्त्रादिकम् ।
मासायनवारयोगतिथिभादीनां च सिद्धाभिधा
ज्ञातव्याः पुनरुक्तिरस्ति कुहचित्सा तत्स्मृतिप्राप्तये ॥ ५॥
इति श्रीमदनंताख्यचातुर्मास्ययाजिपुत्रनारायणविरचिते
मुहूर्तमार्तडे त्याज्यप्रकरणम् ॥ १ ॥
नो कुर्यादिति । रविभात् सूर्याधिष्ठितनक्षत्रात् अगेंद्रधृतिमितानि यानि नक्षत्राणि ते-
भ्यो युग्मेषु । एतदुक्तं भवति। सप्तमाष्टमयोः चतुर्दशपंचदशयोः अष्टादशैकोनविंशयोरिति
तथा पंचाशयोः रविनक्षत्रात् पंचमदशमयोः तथा स्वर्गात्पंचसु एकविशात्पंचसु नक्षत्रेषु
२१।२२।२३।२४।२५ शोभनानि कर्माणि नो कुर्यात् । एषु उग्रशस्त्रघातादिकं तनुयात्
विस्तारयेत् कुर्यादित्यर्थः । उक्तंच विद्युत्पंचमभे क्षितेश्च चलनं स्यात्सप्तमे सूर्यभाच्छूलश्चा-
टमभे शनिश्च दशमे केतुस्तथाष्टादशे ॥ दंड: पंचदशे चतुर्दश इह प्रोक्तो निपातो बुधैरु-
ल्का कालविदां गणैर्निगदिता चैकोनविंशेर्कभात् इति। दैवज्ञवल्लभेपि-क्रमशो मोहनिर्घात-
भूकंपा वज्र एव च ॥ परिवेषश्च विज्ञेया नक्षत्रादेकविंशतेः॥ एतेष्विंदुसमेतेषु कुर्यात्कर्म
न शोभनम् ॥ दहनास्त्रविषैः साध्यं यत्तत्सिद्धिमुपैति च' इति। अन्यानपि दोषानग्रे प्रसंग-
तो वक्ष्यामि । अथास्मिन् ग्रंथे मासादीनां संज्ञा लोकसिद्धा ज्ञेया इति । तथा पुनरुक्तिनिर्दू-
षणं वृत्ताधंनाह । मासायनेति । मासाश्चैत्रादयः ऋतवो वसंतादयः अयने दक्षिणो-
त्तरे वाराः सूर्यादयः योगाः विष्कंभादयः तिथयः प्रतिपदादयः भान्यश्विन्यादीनि
इत्यादीनां करणराशिभावादीनां सिद्धाभिधाः शास्त्रांतरसिद्धाः संज्ञाः ज्ञातव्याः । तथा इ.
हास्मिन् ग्रंथे कुहचित् कुत्रचित् पुनरुक्तिर्वर्तते सा तस्य दूरांतरितस्य स्मृतिप्राप्तये स्मरणा-
येति न दोषः। इति खोक्तमुहूर्तमार्तडटीकायां मार्तडवल्लभायां त्याज्यप्रकरणम् ॥ १ ॥

नक्षत्रप्र०] मातंडवल्लभाख्यव्याख्यासहितः । ५ नक्षत्रप्रकरणम्। अथ साधारणनक्षत्रप्रकरणं विवक्षुरादौ नक्षत्रदेवता वृत्तेनैकेनाहअस्मिन्प्रकरणे सर्वाणि शार्दूलविक्रीडितानि। भेशा दस्रयमाग्निकेंदुगिरिशाः प्रोक्ता अदित्यंगिरः- सर्पाः कव्यभुजो भगोर्यमरविस्त्वष्टा समीरः क्रमात्। इंद्राग्नीत्वथ मित्र इंद्रनितिनीरं च विश्वे विधि- वैकुंठो वसुपाश्यजैकचरणाहिर्बुध्न्यपूषाभिधाः ॥१॥ भेशा इति ॥ अश्विन्याः सकाशात् क्रमेण भेशा बुधैः प्रोक्ता इत्यन्वयः। भानां नक्षः त्राणामीशाः खामिनः दस्रौ अश्विन्याः यमो भरण्याः अग्निः कृत्तिकायाः को ब्राह्मा रोहिण्या- इंदुम॒गस्य गिरिशो महादेवः आर्द्रायाः अदितिः पुनर्वसोः अंगिराः गुरुः पुष्यस्य पन्नगाः सर्पाः आश्लेषायाः कव्यभुजः पितरः मघायाः भगः पूर्वाफल्गुन्याः अर्यमा उत्तराफ- ल्गुन्याः रविर्हस्तस्य त्वष्टा चित्रायाः समीरणो वायुः खात्याः इंद्राग्नी देवताद्वयं विशाखायाः मित्रो अनुराधायाः इंद्रो ज्येष्ठायाः निर्ऋतिः राक्षसो मूलस्य नीरं जलं पूर्वाषाढायाः विश्वे उत्तराषाढायाः विधिर्ब्रह्माभिजितः वैकुंठो विष्णुः श्रवणस्य वसवो धनिष्ठायाः पाशी वरुणः शततारकायाः अजैकचरणः पूर्वाभाद्रपदायाः अहिर्बुध्य उत्तराभाद्रपदायाः पूषा रेवत्याः । देवताप्रयोजनं नक्षत्रज्ञानार्थ शांतिकादौ यजनार्थ च ॥ १ ॥ अथ नक्षत्राणां स्थिरचरादिसंज्ञामाह- ब्राह्मं त्र्युत्तरयुग् ध्रुवं स्थिरमथो पूर्वा मघा याम्यभं क्रूरोग्रं श्रवणत्रयादितियुता स्वाती चराख्या चला। दस्रार्काभिजिदीज्यमं लघु तथा क्षिप्रं च मैत्रांतिमें- दुत्वाष्ट्र मृदु मैत्रमग्निभविशे मिश्रे च साधारणे ॥२॥ ब्राह्ममिति ॥ ब्राह्मं रोहिणी । किंलक्षणं ब्राह्म । व्युत्तरयुक् तिसृणामुत्तराणां समाहार- ख्युत्तरम् तेन युक् युक्तम् ध्रुवं स्थिरमिति द्वयभिधानं मुनींद्रैः स्मृतमित्यन्वयः । अथो पूर्वा मघा याम्यभं पूर्वात्रयं मघा भरणीति पंचकम् क्रूरोग्रं क्रूरं उग्रं चोक्तम् । श्रवणत्रयादितियुता खाती श्रवणधनिष्ठाशततारकाः अदितिः पुनर्वसुः एभिः सहिता खाती चराख्या चला चोक्ता श्रवणत्रयादि पंचकं चराख्यं चलं प्रोक्तमित्यर्थः । दस्रा- ऊभिजिदीज्यभं दस्रो अश्विनी अर्को हस्तः अभिजिद्वक्ष्यमाणलक्षणः ईज्यो गुरुस्तस्य भं पुष्य इति चतुष्टयं लघु तथा क्षिप्रं प्रोक्तं । मैत्रांतिमेंदुत्वाष्ट्रा मैत्रमनुराधा अंतिम रेवती इंदुम॒गः त्वाष्ट्रं चित्रा एतच्चतुष्टयं मृदु तथा मैत्रं प्रोक्तं । अग्निभविशे अग्निभै कृत्तिका विशे विशाखा एते द्वे मिश्रे साधारणे प्रोक्ते ॥२॥ मूलाहीशिवं च दारुणमदस्तीक्ष्णं मुनींद्रेः स्मृतं संज्ञातुल्यमिहाचरंति सुधियः कार्य हि संसिद्धये ।

- ६ मुहूर्तमार्तडः। नक्षत्रप्र० मूर्याद्याः स्थिरचंचलोग्रमिलितःक्षिपो मृदुर्दारुणः क्षीणेद्वयमारराहुशिखिनः पापा बुधस्तैर्युतः ॥३॥ मूलमिति ॥ मूलं प्रसिद्ध अहिराश्लेषा इंद्रो ज्येष्ठा शिवः आर्द्रा एतच्चतुष्टयं दारुणं अदः इदं तीक्ष्णं प्रोक्तं। इह एषु ध्रुवादिसंज्ञेषु नक्षत्रेषु संज्ञा तुल्यं कार्य सुधियः पंडिताः आचरंति । किमर्थं संसिद्धये एतदुक्तं भवति स्थिरनक्षत्रेषु स्थिरं स्तंभप्रतिष्ठादिकं चरे चरमित्या- दि कुर्वतीति स्पष्टम् । अत्र समानार्थसंज्ञाद्वयकरण कवित्वबंधनार्थे । अत्र प्रसंगेन सूर्यादी- नामपि स्थिरादिसंज्ञा सौम्यपापत्वं च वृत्तार्धेनाह । सूर्याद्या इत्यादि। सूर्यः स्थिरः चंद्र- चंचल: भौमः उग्रः बुधः मिलितो मिश्रः गुरुः क्षिप्रः शुक्रो मृदुः शनिर्दारुणः। अथ पा- पसौम्यान् ग्रहानाह । क्षीणेति । क्षीणेंदुःकृष्णाष्टम्यूज़ प्रतिपत्पर्यंतं क्षीणः अर्कः सूर्यः यमः शनिः आरो भौमः राहुः प्रसिद्धः शिखी केतुः एते क्षीणेद्वादयः पापाः क्रूराः तैः पापैर्यु- तोबुधः पापः स्यात् । उक्तंच जातकोत्तमे-क्षीणेद्वार्कार्किभौमाः स्युः पापाः सौम्योपि तद्युतः। राहुकेतू पापतरौ पापः पापयुतस्तथा इति । अर्थादन्ये सौम्याः । एषां प्रयोजन क्रूरसौ म्यकर्मसाधने ॥३॥ अथ प्रसंगेन नक्षत्रसमाननाथान् दिनरात्रिमुहूर्तान्नक्षत्रोक्तकार्यसाधकान्वृत्तेनैकेनाह- अह्नः स्युः शिवसार्पमित्रपितरो वस्वंबुविश्वेभिजि- केंद्रेद्राग्निनिशाचरा अपि जलाधीशोर्यमाख्यो भगः। रात्रेः स्युः स्मरहा त्रयोऽजचरणात्पंचाश्वितोऽथोदिति- जीवो विष्णुरिनास्त्रयस्तिथिलवाः कमैंषु भोक्तं स्मृतम् ॥४॥ अह्न इति ॥ एतेऽहो दिवसस्य तिथि १५ लवाः पंचदशांशाः मुहूर्ताः शिवादयः स्युः। प्रथमः शिवः द्वितीयः सर्पः तृतीयो मित्रः चतुर्थः पितरः पंचमो वसुःषष्ठोंबु सप्तमो विश्वे अष्टमोऽभिजित् नवमो ब्रह्मा दशम इंद्रः एकादश इंद्राग्नी द्वादशो निशाचरःत्रयोदशो जला- धीशोवरुणः चतुर्दश अर्यमाख्यः पंचदशोभगः। अथ रात्रेःप्रथमः स्मरहा शिवः। अजचर- णात्रयः । अजचरणाहिर्बुध्न्यपूषाह्वाःक्रमेण द्वितीयो अजचरणः तृतीयोहिर्बुध्न्यः चतुर्थः पूषा । पंचाश्वित इति । अश्वितःपंच दस्रयमाग्निकेंदवः पंचमो दस्रः षष्टो यमः सप्तमोग्निः अष्टमः कः ब्रह्मा नवमः इंदुः । अथोदितिर्दशमः एकादशो जीवः द्वादशो विष्णुः । इनाः त्रयः रवित्वष्टानिलाः। त्रयोदशो रविः चतुर्दशस्त्वष्टा पंचदशोनिल: वायुः। प्रयोजनमाह। कमैंषु भोक्तं स्मृतम् एषु मुहूर्तेषु भोक्तं नक्षत्रोक्तं कर्म स्मृतम् । मुनी दैरित्यध्याहारः । एतदुक्तं भवति। शिवमुहूर्ते आनिक्षत्रोक्तं सार्पमुहूर्ते आश्लेषोक्तम् । मित्रमुहूर्ते अनु- राधोक्तं कर्म कुर्यादित्यादि । तदुक्तं रत्नमालायाम् । यस्मिन्धिष्ण्ये यच्च कर्मोपदिष्टं तदै- वत्ये तन्मुहूर्तेपि कार्यमिति । लोके हि स्वामिशब्दं सेवके प्रयुजाना दृश्यते । अतो देव- ताशब्दस्तन्नक्षत्रातिथ्यादिषु स्मर्यते । तथाविधवृद्धप्रयोगदर्शनाच्च । नागो द्वादशनाडी- भिर्दिक्पंचदशभिस्तथा । भूतोष्टादशनाडीभिर्दूषयत्युत्तरां तिथिमिति । नागः पंचमी दिग्दशमी भूतश्चतुर्दशीतिवत् ॥ ४ ॥ इति खोक्तमुहूर्तमार्तडटीकायां नक्षत्रप्रकरणम् ॥२॥ ।

संस्कारप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। ७ संस्कारप्रकरणम् । अथ गीधानादि संस्कारप्रकरणं विवक्षुस्तावद्गर्भाधानस्य ऋतुसबंधात् प्रथमर्तुफलं स्रग्धरावृत्तेनाह- आद्यौ पौषशुक्रोर्जमधुशुचिनभस्या कुयुक्पापवारा रिक्तामाष्टिषष्ठयः परगृहकुपदे रात्रिसंध्यापराह्णाः । मिश्रोग्रामूलतीक्ष्णं विवरमनरुणाल्पाधिकासं गराष्टो त्पातः पापस्य लग्नं न सदरुणजरनीलचित्रांबरं च ॥१॥ आद्यर्ताविति ॥ तत्रादौ मासफलमाह । आद्यौ प्रथमतौ पौषशुक्रोर्जमधुशुचिनभ- स्याः संतो न स्युरित्यन्वयः । अर्थाद्विभक्तिपरिणामः। पौषः प्रसिद्धः शुक्रो ज्येष्ठः ऊर्ज: का- र्तिकः मधुश्चैत्रः शुचिराषाढः नभस्यो भाद्रपदः एते षण्मासाः न शुभाइत्यर्थः । अर्थादन्ये शुभाः । तदुक्तं ज्योतिर्निबंधे। प्रथमतौं मधौ नारी विधवा भवति ध्रुवम् । वैशाखे धनपुत्राढ्या ज्येष्ठे रोगान्विता भवेत् । आषाढे च मृतापत्या श्रावणे च धनान्विता । भाद्रपदे दुर्भगा च आश्विने च तपखिनी । ऊर्जेचाल्पायुषी नारी मार्गशीर्षे बहुप्रजा। पुष्ये तु पुंश्चली नारी माघे पुत्रसुखान्विता । फाल्गुने श्रीमती साध्वी क्रमान्मासफलं स्मृतमिति । योगफलमाह। कुयुगिति । कुयोगो विष्कंभादिकः। योगेषु नव योगाः दुष्टाः संति विष्कंभातिगंडव्याघातवज्रव्यतीपातपरिघवैधृतयः । एते योगा न शुभा इत्यर्थः । अर्थादन्ये शुभाः । तदुक्तं । आद्यत्तौ दुर्भगा नारी विष्कंभे चेद्रजखला । वंध्या चैवाति- गंडे च शूले शूलवती भवेत् । गंडे च पुंश्चली नारी व्याघाते चात्मघातिनी। वने च खैरिणी प्रोक्ता पाते च पतिघातिनी। परिघे मृतवंध्या च वैधृतौ पतिमारिणी । शेषाः शुभावहा योगा यथानामफलप्रदाः इति । वारफलमाह । पापवारा इति । क्षीणेद्वर्कयमा- राः पापाः तेषां वारा न शुभाः । अर्थादन्ये शुभाः । उक्तंच कारिकायाम् । आदित्ये वि- धवा नारी सोमे चैव मृतप्रजा । अंगारे खसहंत्री च बुधे कन्याप्रसूर्भवेत् । पुत्रिणी गुरुवारे च कन्यापुत्रवतो भृगौ । शनौ तु पुंश्चली नारी प्रथम? विदुर्बुधाः इति । तथा च नारदः । रोगी पतिव्रता दुःखी पुत्रिणी भोगभागिनी। पतिप्रिया क्लेशभागी सूर्यवा- रादिषु क्रमादिति । कारिकावचने सोमवारफलं मृतप्रजेति नारदवचने पतिव्रतेतिच एवं द्वयोर्विरोधे मृतप्रजेति कृष्णपक्षे सोमवारविषयम् । पतिव्रतेति शुक्लपक्षीयसोमविषयमिति व्यवस्थापनीयम् । अतो मार्तंडवचनं पापवारा इत्येतदतिप्रशस्तम् । तिथिफलमाह । रिक्तामााष्टषष्ठय इति । रिक्ता चतुर्थीनवमीचतुर्दश्यः । अमा अमावास्या । अर्को द्वा- दशी । द्वादश्याः स्वामी अर्कः अथवा अर्कसंख्यापि द्वादशवाचका संख्ययापि द्वादशी भवति । तिथिदेवतापि रत्नमालायाम् । तिथिपाश्चतुर्मुखविधातृविष्णव इत्यादयः । अष्ट अष्टमी षष्ठी प्रसिद्धा एताः सप्त तिथयः न शुभाः अर्थादन्याः शुभाः । उक्तं च। आद्यती सुभगा नारी प्रतिपत्सु रजखला । द्वितीयायां भाग्यवती तृतीयायां सुतान्विता। चतुर्थी विधवा नारी पंचम्यां धनदायिनी। षष्ट्यां च क्लेशभाग् नारी सप्तम्यां धनवर्धिनी । अष्टम्यां राक्षसी नारी नवम्यां पापवर्धिनी । दशम्यां प्रीतिकृन्नारी एकादश्यां सुतान्वि- मुहूर्तमार्तडः । संस्कारप्र० ता । द्वादश्यां दुर्भगा नारी त्रयोदश्यां हिरण्यदा । चतुर्दश्यां पुंश्चली स्यात्पौर्णमास्यां सुपुत्रिणी । यदि भद्रा न जायेत दर्शे स्यान्चौरिका ध्रुवमिति । स्थानफलमाह । परगृह- कुपद इति । परगृहं भर्तृगृहादन्यत् कुपदं कुत्सितस्थानं एते उभे निंद्ये अर्थादन्यच्छुभ- म् । उक्तं च । देवस्थाने पितृस्थाने निंद्यस्थानेऽन्यवेश्मनि । पुष्पवत्याः फलं न स्या- न्मार्गे चांडालवेश्मनीति । देवस्थानं देवालयं पितृस्थानं कुत्सितस्थानं अन्यवेश्म भर्तृगृहादन्यगृहं । अन्यत्सुगमम् । नन्वत्र श्लोके बहूक्तं । अत्र कथं परगृहकुपद इत्ये- वोक्तं । सत्यं । यत्स्थानद्वयमुक्तं तस्मिन्नेव सर्वश्लोकोक्तमधितिष्ठति । तद्यथा । देवस्थानान्यवेश्मचांडालवेश्मेति पदत्रयं परगृहइत्येतस्मिन्पदेऽधितिष्ठति अन्यच्छो- कोक्तं न कुपदे वर्तते। ननु मार्गः कथं कुपदेस्ति स तु कुत्सितो न भवति अस्ति मार्गेपि दुष्टत्वं सर्वजनसंचाराद्धर्मशास्त्रप्रसिद्धं । तर्हि पूर्वश्लोकोक्तं बहुभाषणं व्यर्थ स्यात् । मैवं तदुक्तं बहुभाषणं त्वनधिकाधिकदोषविवक्षयोक्तमिति न दोषः । वेलाफलमाह । रात्रि- संध्यापराला इति रात्रिः प्रसिद्धा संध्ये द्वे अपराहस्त्रेधाविभक्तस्याहस्तृतीयो भाग: एते चत्वारः काला न शुभाः । अर्थादन्यौ पूर्वाह्नमध्याह्नौ शुभौ । उक्तंच । पुत्रिणी सुभगा पुण्या पूर्वाह्ने या रजस्वला । मध्याहे तु शुभप्राप्तिः खैरिणी चापराह्नके । संध्ययो- रुभयोर्वेश्या निशायां विधवा तथेति । नक्षत्रफलमाह मिश्रोग्रामूलतीक्ष्णमिति । मिश्रे कृ- त्तिकाविशाखे । उग्राणि पूर्वात्रयभरणीमघाः । अमूलतीक्ष्णानि मूलरहिततीक्ष्णानि आश्लेषा ज्येष्ठार्दा इत्येतन्नक्षत्रदशकं न शुभम् । अर्थादन्यानि शुभानि । तदुक्त नारदीय- संहितायाम् । श्रीयुता सुभगा पुत्रवती सौख्यान्विता स्थिरा। कुलाधिका मानवती चा- श्विन्यां प्रथमार्तवा ॥ १ ॥ दुःशीला खैरिणी स्वस्य गर्भपातनतत्परा। परप्रेष्या काक- वंध्या भरण्यां प्रथमार्तवा ॥ २ ॥ अनर्था पुंश्चली बंध्या गर्भपातनतत्परा । प्रेष्या मृत- प्रजा वापि वह्निभे प्र० ॥ ३॥ सुशीला सुप्रजा मान्या पतिभक्ता दृढव्रता । गृहार्च- नरता नित्यं धातृभे प्र० ॥ ४ ॥ गुणान्विता धर्मरता नारी सर्वसहा सती । पतिप्रिया सुतान्या च चंद्रभे प्र० ॥ ५॥ कुलटा दुर्भगा कष्टा मृतपुत्रा खला जडा । दुष्टा व्रत- परिभ्रष्टा रौद्रभे प्र०॥ ६ ॥ पतिभक्ता पुत्रवती वरसंतानमोदिनी । कुलाचारानुरक्ता- ट्यादितिभे प्र० ॥ ७॥ पतिप्रिया पुत्रवती नानाभोगवती शुभा । खकर्मनिरता दक्षा तिष्यभे प्र० ॥ ८ ॥ परभर्तृरता प्रेष्या कोपिनी निघृणालसा। मृषावागीशदुःपुत्रा भौ- जंगे प्र०॥९॥ निर्दृष्या रोगसंयुक्ता सर्वदा गेयलोलुपा । पितृवेश्मरता मान्या पितृभे प्र० ॥१०॥ परकार्यरता दीना दुःपुत्रक्लेशभागिनी । मलिना कर्कशा क्रुद्धा भाग्य: प्र० ॥ ११ ॥ प्रजावती धर्मरता निर्वैरा मित्रपूजिता । सती मातृगृहासक्ता अर्यमः रजखला ॥ १२ ॥ निर्दृष्या भूरिविभवा पुत्राच्या भोगभोगिनी । प्रधाना दानकुशला हस्तः प्रथमार्तवा ॥ १३ ॥ चित्रकर्मा भोगिनी च कुशला क्रयविक्रये। विकीर्णका- मा श्लक्ष्णाढ्या त्वाष्ट्रभेप्र० ॥ १४ ॥ बहुवित्तवती भीरुः कुशला शिल्पकर्मणि । पुत्र- पौत्रवती साध्वी वायुभे प्रथमार्तवा ॥ १५ ॥ नीचकर्मरता दुष्टा पानासक्ता परप्रि- या। विपुत्रा मलिना क्रुद्धा द्विदैवे प्र० ॥१६॥ स्वामिपक्षार्चिता स्वस्य गुणैः सम्यग्वि- भूषिता। सुपुत्रा सुभगा कांता मित्रभे प्रथमार्तवा ॥ १७॥ दुश्चरित्ररता क्लेशिन्यनर्था पुंश्चली व्यसुः । दुःसंतानवती ज्येष्ठानक्षत्रे प्रथ० ॥ १८॥ संतानार्थगुणैर्नाल्पैर्युतान्य- 'सस्कारप्र०] मातडवल्लभाख्यव्याख्यासहितः । ९ क्लेशमोचिनी । खकर्मनिरता नित्यं मूलः प्र० ॥ १९॥ प्रच्छन्नपापा दुष्पुत्रा प्राणिहिं- सनतत्परा । अजस्रं व्यसनासक्ता तोयमे प्र० ॥ २०॥ कार्याकार्येषु कुशला सदा धर्मानुवर्तिनी । गुणाश्रया भाग्यवती विश्वभे प्र० ॥२१॥ पुत्रपौत्रान्विता भोगधन- धान्यवती सती । कालानुमोदिनी मान्या विष्णुभे प्र० ॥ २२ ॥ धनधान्यवती भोग- पुत्रपौत्रसमन्विता । खकर्मनिरता साध्वी वसुभे प्र०॥ २३॥ बहुपुत्रा धनवती स्वकर्म- निरता सती । कुलानुमोदिनी मान्या वारुणे प्र० ॥ २४ ॥ बंधकी बंधुविद्वेष्या नित्यं दुष्टरता खला । शिल्पकार्येषु कुशलाऽजांघ्रिमे प्र० ॥ २५ ॥ आढ्या पुत्रवती मान्या सुप्रसन्ना पतिप्रिया । बंधुपूज्या धर्मवत्याहिर्बुध्ये प्र० ॥ २६॥ दृढव्रता धर्मवती पुत्र- सौख्यार्थसंयुता । विख्याता गुणसंपन्ना पौष्णभे प्रथमार्तवा ॥ २७ ॥ अथ संधिफल- माह-विवरमिति ॥ तिथिभादीनां विवरं संधिः न शुभम् । उक्तं च । दुर्भगा सर्वसंधि- ध्विति । रक्तफलमाह-अनरुणाल्पाधिकासमिति ॥ अरुणादन्यत् अनरुणं अनरुणं च अल्पं च अधिकं च अनरुणाल्पाधिकं तच्च तत् अस्त्रं च अनरुणाल्पाधिकासं न सत् स्यात् । अनरुणं नाम यत्सुरंग आरक्तं न भवति असं रक्तं अन्यत् सुगमं अर्थादन्य- च्छुभम् । उक्तं च । प्रथमौ फलं स्त्रीणामुच्यते रजसोऽधुना। सुभगा पुत्रसंयुक्ता शुक्लवर्णे तथाऽर्तवे ॥ शशशोणितसंकाशे यद्वाऽलक्तकसन्निभे। पुत्रकन्याप्रसूतिः स्या- नीले तु स्यान्मृतप्रजा ॥ कर्बुरे म्रियते सा च पिंगटे च मृतप्रजा । कृष्णे तु विधवा नारी रजस्येवं विनिर्दिशेत् ॥ शोणिते बिंदुमात्रे तु खैरिणी चाल्पशोणिता। वरा मध्य- सवा स्यात्तु दुर्भगा बहुशोणितेति । ग्रंथांतरेप्युक्तम् । रक्ते रक्ते भवेत्पुत्रः कृष्णे च मृतपुत्रका । पिच्छिलाभे भवेद्वंध्या काकवंध्या च पांडुरे ॥ पीते च खैरिणी प्रोक्ता सु- भगा गुंजवर्णके। सिंदूराभे भवेत्कन्या रजःशोणितलक्षणमिति ॥ करणफलमाह-गरा- टेति ।। गरात् अष्ट गराद्यष्टकरणानि बवपर्यंतानि न संति न शुभानि स्युः अर्था- दन्यानि शुभानि । उक्तं च। बवे पुष्पवती नारी वंध्या वा विधवा भवेत् । बालवे पु- त्रिणी नारी कौलवे प्रमदा भवेत् । तैतिले सन्मतवती गरे नारी विनश्यति। नष्टप्रजा वणिक्संज्ञे विष्टयां वंध्या धनोज्झिता ॥ शकुनौ च चतुष्पादे नारी वैधव्यमामुयात् । नागे न रमते रामा किंस्तुघ्ने विधवा भवेत् । इति । अथोत्पातफलम् । उत्पातस्त्रिविधः सत् न स्यात् । तथाच नारदः । संध्यासूपप्लवे विष्टयामशुभं प्रथमार्तवमिति । अथ लग्नफलमाह-पापस्य लग्नमिति ॥ पापग्रहस्य लग्नं न सत्स्यात् । क्षीणेद्वर्कयमाराः पा- पास्तेषामन्यतमस्य लग्नमित्यर्थः । पापग्रहस्य मेषसिंहवृश्चिकमकरकुंभाः एतानि लग्ना- नि न शुभानीत्यर्थः । अर्थादन्यानि शुभानि । कर्कलग्ने शुक्लपक्षे शुभं कृष्णपक्षे अशुभं खामिवशात् लग्नस्वामिनो वक्ष्यमाणाः । उक्तं च । आत्मन्नी भ्रूणहा मेषे वृषे पुत्रवती भवेत् । द्वंद्वे कन्याप्रसूर्नारी मृतापत्या च कर्किणि ॥ सिंहे वैधव्यमाप्नोति कन्यायां स्त्री- प्रसूर्भवेत् । तुलायां बहुपुत्राट्या दुष्टकर्मरताऽलिनि ॥ चापे पुत्रधनाढ्या स्यान्मकरे दुःखिनी भवेत् । सकृत्प्रजावती कुंभे मीने चाल्पप्रजा भवेत् ॥ नारदोपि । कुलीरवृष- चापांत्यनृयुक्न्यातुलाधनाः । राशयः शुभदा ज्ञेया नारीणां प्रथमार्तव इति । अत्रापि कर्कलग्नस्य द्वैधे चंद्रस्य सौम्यत्वपापत्ववशाद्वयवस्था ज्ञेया । अथ वस्त्रफलमाह-अरु- णजरनीलचित्रांबरमिति न सत् स्यात् । अरुणेमारक्तं जरत् जीणे नीलं प्रसिद्ध चित्रं १० - मुहूर्तमार्तडः। [संस्कारप्र० नानावण रंजितं एवंविधमंबरं न सत् स्यात् न शुभं स्यादित्यर्थः। अर्थात् दृढं शुभ्रं पीतं वस्त्रं शुभम् । उक्तं च । सुभगा श्वेतवस्त्रा च रोगिणी रक्तवाससा । नीलांबरधरा नारी विधवा प्रथमार्तवे ॥ भोगिनी पीतवस्त्रा च दृढवस्त्रा पतिव्रता। दुर्भगा जीर्णवस्त्रा च सुभगा चारुवस्त्रिणी ॥ अत्रानुक्तमपि त्याज्यप्रकरणोक्तमन्यदृष्टं विचारणीयम् । अत्रा- स्मिन्नुक्ते निषिद्धकाले रजोदर्शने सति अक्षततिलघृतैर्देव्या ईज्यया यजनं स्यात् देव्या गायत्रीमंत्रेण संख्यानुपादानादक्षततिलवृतानामष्टोत्तरशतं होमः यथाशक्ति खर्णगोभू- तिलदानं च कार्यम् ॥ १॥ इति श्रीखोक्तमुहूर्तमार्तडटी० प्रथमार्तवप्रकरणम् ॥३॥ अथ साधारणलग्नबलं स्रग्धरावृत्तेनाह- प्रायश्चंद्रं त्यजांत्याष्टमरिपुतनुगं भांशको मूढनाथौ द्वाप्तौ खलांशं मृतिगतखचरं मृत्युतत्पौ तनुस्थौ । सौम्याः केंद्रत्रिकोणेष्वरिभवसहजेष्वन्यखेटाः प्रशस्ताः 20 सर्वत्रैतत्प्रयोज्यं प्रकरणपठितांस्तद्विशेषान्विदित्वा ॥ २ ॥ प्राय इति ॥ इह वक्ष्यमाणे गर्भाधानादिकृत्ये प्रायो बाहुल्येन चंद्रं अंत्याष्टमरिपुत- नुगं त्यज जहीति अंत्यं द्वादशं अष्टमं प्ररिपुः षष्ठं तनुर्लग्नं एतान्प्रतिगतं चंद्रं त्यजे- ति । तथा भांशको त्यज । किंलक्षणौ भांशकौ । मूढनाथौ मूढः नाथो ययोस्तौ तथा अ- स्तंगतस्य लग्ननवांशावित्यर्थः। पुनः किंलक्षणौ । द्वाप्तौ क्रूरग्रहचंद्राणामन्यतमेन युक्तौ। तथा खलांशं त्यज यत्र कुत्रापि लग्ने पापग्रहनवांशं त्यज। तथा मृतिगतखचरं त्यज लग्नादष्टमं ग्रहं त्यजेदित्यर्थः । तथा मृत्युतत्पौ तनुस्थौ त्यज मृत्युर्जन्मराशिजन्मल- माभ्यामष्टमं त्याज्यं तत्पस्तत्पतिस्त्याज्यः एतौ तनुस्थौ त्यजेदित्यर्थः। लग्नगोचरमाह- सौम्या इति ॥ सौम्याः सौम्यग्रहाः केंद्राणि लग्नचतुर्थसप्तमदशमानि त्रिकोणे नवपंचमे एतेषु केंद्रत्रिकोणेषु सौम्या ग्रहाः प्रशस्ताः अरिभवसहजेषु अन्यखेटा: अरिः षष्ठं भवः एकादशं सहजं तृतीयं एषु स्थानेषु अन्ये खेटाःसौम्येभ्योऽन्ये पापग्रहाः प्रशस्ताः स्युः। सर्वत्रैतत्प्रयोज्यं एतच्छोकोक्तं सर्वत्र गर्भाधानादिकृत्ये प्रयोज्यं साधारणत्वात् किंकृत्वा प्रकरणपठितांस्तद्विशेषान् विदित्वा पृथकृत्ये प्रकरणपठितविशेषान् ज्ञात्वा ॥ २॥ इति साधारणलग्नबलप्रकरणम् ॥ ४ ॥ अथ गर्भाधानं स्रग्धरावृत्तेनाह- स्वस्त्रीं पाङ्गिट्चतुष्कासमदिनविवरश्राद्धतत्माग्दिनानि त्यक्त्वा मूलं मघांत्ये वसुकलिजनिभाहानि पर्वाणि चतौं । याहीज्यादुलग्नैर्विषमभलवगैरुद्धलैर्भोः सुतार्थिन् 11 20व्यस्तैरेतैरिहैवायुगहनि मुदितः कन्यकेच्छो सुचंद्रे ॥३॥ स्वस्त्रीमिति ॥ भोः सुतार्थिन् ऋतौ मुदितः सन् खस्त्रीं प्रति याहि गच्छ इत्यन्वयः। सुतं अर्थयतेऽसौ सुतार्थी तस्य संबोधनं भोः सुतार्थिन् ऋतौ रजोदर्शनादारभ्य षोड- शत्ररयाः ऋतुः तस्मिन् मुत् हर्षः संजातोऽस्य समुदितः एवंविधः सन् खस्त्रीं प्रति- संस्कारप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। ११ गच्छेत्यर्थः । यतोऽत्र स्त्री गर्भधारणं करोति अत्र ख्यपि हर्षिता भाव्या । तथाच मनुः । ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृता इति । किं कृत्वा प्राङ्ट्चितु- कासमदिनविवरश्राद्धतत्प्राग्दिनानि त्यक्त्वा प्राचां निशां चतुष्कं प्राङ्गिट्चतुष्कं पूर्वरा- त्रिचतुष्टयं असमदिनं विषमदिनं विवराणि दिनरात्रितिथिभादीनां संधयः श्राद्धं खपि- त्रोः श्राद्धदिनं तत्प्राग्दिनं तस्य श्राद्धस्य पूर्वदिनं एतानि त्यक्त्वेत्यर्थः । एवं मूलं त्य- क्त्वा तथा मघांत्ये त्यक्त्वा मूलमधे प्रसिद्ध अंत्यं रेवती एतानि त्यक्त्वेत्यर्थः । तथा वसुकलिजनिभाहानि त्यक्त्वा वसुरष्टमी कलिश्चतुर्दशी जनिभं जन्मनक्षत्रं अहो दिवा एतानि त्यक्त्वेत्यर्थः । तथा पर्वाणि च त्यक्त्वा पर्वाणि दर्शपौर्णिमाव्यतीपातवैधृतिसं- क्रांतिमहापातादीनि त्यक्त्वा स्त्रियं प्रति गच्छेत्यर्थः । तथाच नारदः। रजोदर्शनतोऽ- स्पृश्या नार्यो दिनचतुष्टयम् । ततः शुद्धाः क्रियाखेताः सर्ववर्णेष्वयं विधिरिति। वसिष्ठः उपप्लवे वैधृतिपातयोश्च विष्टयां दिवापारिघपूर्वभागे । संध्यासु सर्वाखपि मातृपित्रोम- तेऽह्नि पत्नीगमनं विवय॑म् । दिनेषु युग्मेषु च वक्ष्यमाणयोगैः सुतार्थी वसतीमुपे- यात् । दिनेष्वयुग्मेषु च कन्यकार्थी हित्वा च गंडांस्तिथिलग्नभागान् ॥ ज्योतिषार्के । ऋतौ युग्मनिशि स्वस्त्रीं गच्छेत्पुत्राय सद्विधौ । मघामूलांत्यपक्षांतभूतदर्शाष्टमीस्त्यजे- दिति । कैः ईज्याकेदुलग्नैः विषमभलवगैः ईज्यो गुरुः अर्कः प्र० इंदुश्चंद्रः लग्नं प्रसिद्ध एतैर्विषमभलवगैः भं राशिः लवो नवांशः विषमराशिविषमनवांशस्थितैरित्यर्थः । न केवलं विषमभलवगैः अपितु उद्दलैः उत् उत्कृष्टं बलं येषां तानि तथा तैः । अथ कन्याकामिनो विशेषमाह-भोः कन्यकेच्छो इहैव अनंतरोक्तलक्षणे काले अयुगहनि वि- षमे दिने मुदितः सन् स्त्री प्रति याहि । कैः एतैर्व्यस्तैः एतैः ईज्याकेंदुलग्नैः व्यस्तैरिति समभलवगैः समराशिसमांशस्थैः। तथाच बृहज्जातके । ओजः पुरुषांशकेषु बलिभि- लग्नार्कगुर्विदुभिः पुंजन्म प्रवदेत्समांशकगतैयुग्मेषु तैोषित इति । कस्मिन्सति सुचंद्रे शोभने चंद्रे सति गोचरेण चंद्रबले सतीत्यर्थः । सुचंद्रे इति अनन्यगतिकं विना सर्वत्र योज्यं पूर्ववल्लग्नबलम् ॥ ३॥ अथ पुंसवनीमतोन्नयने स्रग्धरयाह- पुंभेऽर्केज्यारवारे विमिथुनविषमांगांशयोः पुंसवं स्या- सीमंताख्यं च सत्सुव्ययसुतगृहयोः पर्वरिक्तोनतिथ्याम् । मासे द्वित्रिप्रसंख्ये प्रथमकमपरं तुर्यषष्ठाष्टमेषु प्रोक्तं पुंगर्भलग्नं ग्रहबलमनयोर्योज्यमाद्यश्च पक्षः॥ ४ ॥१२॥ पुंभेति ॥ पुंभे पुनक्षत्रे । पुनक्षत्राणि चैतानि पुष्यो हस्तः पुनर्वसुः । अभिजित्नो- टपाच्चैव अनुराधाश्वियुक् तथेति । प्रोष्टपात् पूर्वाभाद्रपदा एषामन्यतमे पुंनक्षत्रे अर्क- ज्यारवारे रविगुरुभौमवारे विमिथुनविषमांगांशयोः अंगं च अंशश्च अंगांशौ विगतं मि- थुनं याभ्यां तौ विमिथुनौ तौ च तो अंगांशौ च तथा तयोः मिथुनरहिते विषमलने विषमनवांशे इत्यर्थः । पुंसवं पुंसवनं सीमंताख्यं च सीमंतोन्नयनमिति सत्स्यात् । ना- मैकदेशग्रहणे नामग्रणम् । कयोः सतोः सुव्ययसुतगृहयोः सतोः पापग्रहरहितयोः व्य- १२ मुहूर्तमार्तडः । [संस्कारप्र० यसुतभवनयोः सतोरित्यर्थः । पर्वरिक्तोनतिथ्यां पूर्णिमामारिक्तातिथिरहिततिथ्यां मासे द्वित्रिप्रसंख्ये प्रथमकं पाठोक्त्या प्रथमकं पुंसवनं गर्भाधानात् द्वित्रिप्रसंख्ये मासि द्वि- तीये तृतीये वा मासि सत्स्यात् । अपरं सीमंतोन्नयनं तुर्यषष्ठाष्टमेषु गर्भाच्चतुर्थषष्टाष्टमेषु मासेषु सत्स्यात् । यत् पुंगर्भाय लग्नबलमुक्तं ईज्यादुलग्नैरित्यादिकं तदनयोः पुंसवन- सीमंतोनयनयोर्योज्यम् । आद्यः पक्षः शुक्लपक्षश्च योज्यः न कृष्णः । अत्र गर्भाद्यन्नाश- नांतेषु गुरुशुक्रमौट्यादिकं न चिंत्यमित्यग्रे वक्ष्यति। लग्नबलं पूर्ववत् । जातूकर्ण्यः। द्वितीये वा तृतीये वा मासि पुंसवनं भवेत् । व्यक्ते गर्भे भवेत्कार्य सीमंतेन सहाथवा ॥ नृसिं- हः । रिक्तां च पर्वनवमीं त्यक्त्वा पुंसवने शुभाः । वृत्तशते । सीमंतोन्नयनं बुधैस्तुहि- नगौ पुन्नामधिष्ण्ये स्थिते कुर्यात् पुंसवनं च सूर्यदिवसे भौमस्य जीवस्य वेत्यादि । बृहस्पतिः । कुलीरं मिथुनं कन्यां हित्वा शेषाः शुभावहाः इति । नारदः। चतुर्थे मासि षष्ठे वाऽप्यष्टमे वा तदीश्वरे । बलोपपन्ने दंपत्योश्चंद्रताराबलान्विते ॥अरिक्तापर्वदिवसे कुजजीवार्किवासरे । तीक्ष्णमिश्रोग्रवर्येषु पुंलग्ने पुनवांशके ॥ शुद्धेऽष्टमे जन्मलग्नात्त- योर्लग्ने न नैधने । शुभग्रहयुते दृष्टे पापखेटायुते क्षिते ॥ पंचेष्टके चतुर्भिर्वा इष्टेऽद्वी- ज्यपूर्वकैः । स्त्रीणां तु प्रथमे गर्भ सीमंतोन्नयनं शुभम् । शुभग्रहेषु धीधर्मकेंद्रेष्वरिभव- त्रिषु । पापेषु सत्सु चंद्रेऽत्यनिधनाद्यरिवर्जिते ॥ क्रूरग्रहाणामेकोऽपि लग्नादंत्यात्म- जाटगः । सीमंतिनी वा तद्गर्भ बली हंति न संशयः इति ॥ ४ ॥ अथ जातकर्मविधि स्रग्धरावृत्तेनाह । मूतौ जातं विदध्यादपि जनिमरणाशौचके वा तदंते क्षिप्रैाह्मोत्तराभिश्चरमृदुभिरथो नाम वर्णा विदध्युः। सूतेः सूर्याष्टिविंशाकृतिमितदिवसे जातभैर्वा चरांगं रिक्ताष्टम्यारमंदान् व्ययगतखचरं प्रोज्झ्य रात्रि पराह्नम् ॥५॥ सूताविति॥सूतौ प्रसूतौ जातायां जातं जातकर्म विदध्यात् कुर्यात् । अथ कदाचित् सूत- कमध्ये प्रसूतौ जातायां सत्यां-स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतक इति शास्त्रेण जा- तकर्मणोऽवरोधे प्राप्ते तदपवादमाह जनिमरणाशौचकेऽपि। अयमर्थः । कदाचिज्जातक- मृतसूतकयोः प्रसूतिर्भवति तदा-जातकर्मविषये सूतकांतरदोषो नास्तीति भावः। सूत- कांतरे सत्यपि जाते पुत्रे पिता सचैल स्नानं कुर्यात् इति स्वस्वगृह्योक्तं कर्म कुर्यादि- त्यर्थः । यतः पूर्वाशौचेनैवास्य शुद्धिः पितुरिति कर्तुरुपलक्षणम् । वा तदंते पूर्वाशौचांते वा एतस्यांते वा क्षिप्रादिभिर्नक्षत्रैः कुर्यात् । क्षिप्राणि अश्विनीहस्ताभिजित्पुष्याः ब्राह्म रोहिणी उत्तरास्तिस्रः चराणि श्रवणत्रयपुनर्वसुखात्यः मृदूनि अनुराधारेवतीमृगचित्राः एभिरित्यर्थः । लग्नबलं पूर्ववत् । उक्तं च । तस्मिन् जन्ममुहूर्तेऽपि सूतकांतेऽथ वा शिशोः । जातकर्म च कर्तव्यं पितृपूजनपूर्वकम् । क्षिप्रैश्चरैध्रुवैर्मित्रैादशे प्रथमेऽह्नि वा। केंद्रे गुरौ भृगौ कार्य जातकर्म सनातनमिति । प्रजापतिः । सूतके तु समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुद्धयतीति । संवर्तः । जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते । तच्च शीतोदकेन कार्य तत्र जाबालिः । ..

संस्कारप्र० मार्तडवल्लभाख्यव्याख्यासहितः १३ कुर्यानैमित्तिकं स्नानं शीताद्भिः काम्यमेव चेति। एतच रात्रावपि कार्यम्। तत्र वसिष्ठः। पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः। राहोश्च दर्शने स्नानं प्रशस्तं नान्यथा निशि । तच उत्तराभिमुखं कायें। तदुक्तं तेनैव । श्रुत्वा जातं पिता पुत्रं सचैल स्नानमाचरेत् । उत्तराभिमुखो भूला नद्यां वा देवखातक इति । रात्रावुदकादिगमनाशक्तौ विशेषमाह सांख्ययनः । दिवा यदाहृतं तोयं कृत्वा स्वर्णयुतं तु तत् । रात्रिस्नाने तु संप्राप्ते स्नाया- दनलसन्निधाविति । अथ नामकर्माह-अथो नाम वर्णा विदध्युः। सूतेः सूर्याष्टिविंशाकृ- तिमितदिवस इति । अथोऽनंतरं वर्णाः ब्राह्मणादयः क्रमेण सूतेः प्रसूतेः सकाशात् सूर्या १२ ष्टि १६ विंशा २० कृति २२ मितदिवसे द्वादशषोडशविंशद्वाविंशमितदि- वसे नाम विदध्युः कुर्युरित्यर्थः । अयमर्थः । ब्राह्मणो द्वादशदिवसे क्षत्रियः षोडशे वैश्यो विंशतिमिते शूद्रो द्वाविंशतिदिवसे नाम कुर्यादित्यर्थः । तच्चोक्तं बृहस्पतिना । द्वादशे दिवसे वापि जन्मतो दिवसे शुभे । षोडशे विंशतौ चैव द्वाविंशे वर्णतः क्रमा- दिति । अत्रान्येऽपि विकल्पाः संति तत्र व्यासः । नामधेयं दशम्यां तु केचिदिच्छंति सूरयः । द्वादशेन्याहुरन्ये तु मासे पूर्णे तथापरे ॥ अष्टादशेऽहनि तथा वदंत्यन्ये मनी- षिण इति । प्राप्तकालेपि विशेषमाह गर्गः। व्यतीपाते च संक्रांतौ ग्रहणे वैधृतावपि । श्राद्धं विना शुभं नैव प्राप्तकालेऽपि मानवः ॥ अमासंक्रांतिविष्टयादौ प्राप्तकालेपि ना- चरेदिति । यत्र कालनिरोधस्तत्र दोषो नास्ति । यस्यां क्रियायां सर्वोक्तः कालो मा- सदिनैरपि । तस्यां न दोषो मूढत्वं वक्रं वा जीवशुक्रयोरिति । अथ कालातिक्रमे नक्ष- त्राण्याह । जातभैर्वेति । जातभैर्जातकर्मोक्तनक्षत्रैमैत्रैः क्षिप्रेरित्यादिभिर्वा कार्यम् । तदुक्तं नारदेन। देशकालोपघाताद्यैः कालातिक्रमणं यदि । अनस्तगे भृगावीज्ये तत्कार्य चोत्तरायणे ॥ चरस्थिरमृदुक्षिप्रनक्षत्रे शुभवासरे । चंद्रताराबलोपेते दिवसे च शिशोः पितेति । अथात्र त्याज्यविशेषमाह । चरांगमिति। चरांगं चरलग्नं रिक्ताष्टम्या- रमंदान् रिक्ताश्चतुर्थीनवमीचतुर्दश्यः अष्टमी प्रसिद्धा आरो भौमवारः मंदः शनैश्चरः तान् व्ययगतखचरं व्ययभावगतं सौम्यं असौम्यं वा रात्रिः प्रसिद्धा अपराह्नो दिनतृ- तीयोंऽशः एतान् प्रोज्झ्य त्यक्त्वा लग्नबलं पूर्ववत् ॥ तथाच बृहस्पतिः। पूर्वाह्नः श्रेष्ठ इत्युक्तो मध्याह्नो मध्यमः स्मृतः । अपराह्नं च रात्रिं च वर्जयेन्नामकर्मणीति । नृसिंहः । सायाढे दुष्टयोगे च शनिभूमिजवारयोः। रिक्ता पर्वाष्टमी विष्टिः किंस्तुघ्नं च विशेषतः॥ एतैर्दोषैर्युते काले रात्रावपि न कारयेदिति । बृहस्पतिः। शुभवारे च षड्वर्गे शुभानां नामसंपदे । राशयश्च स्थिराः श्रेष्ठा द्विःस्वभावाः शुभैर्युताः ॥ नृसिंहः । लग्नाद्वयया- ष्टमे सर्वे न शुभा नामकर्मणीति । केषां नाम कार्यमिति संग्रहे उक्तम् । देवालयग- जाश्वानां वृक्षाणां वापिकूपयोः । सर्वोपकरणानां च चिह्ननां योषितां नृणाम् ॥ काव्यादीनां कवीनां च पश्वादीनां विशेषतः । राजप्रासादसंज्ञानां नामकर्म विशि- ज्यत इति ॥ ५॥ अथ पालकरोहणं भूम्युपवेशनं दुग्धपानं निष्क्रमणं चेति चतुष्टयं वृत्तेनैकेनाह-- जन्माहाद्द्वादशेऽति ध्रुवमृदुलघुभै; न्यसेत्पालकेऽर्भ सौम्याश्चीज्यध्रुवेंद्रै वि शुभदिवसे पंचमे मासि दध्यात् । २ १४ मुहूर्तमार्तडः। संस्कारप्र० एकत्रिंशे दिने वाऽशननिगदितभैः कंबुना योज्यमर्भे व्यग्वाशास्ये पयोऽथास्यगमवदुदितो निष्कमो मासि तुयें।॥६॥ जन्माहादिति ॥ जन्माहात् प्रसूतेः सकाशात् द्वादशे दिवसे पालके खटायां अर्भ बालकं न्यसेत् निदध्यात् । उक्तकालातिक्रमे ध्रुवमृदुलघुभैर्वा नक्षत्रैर्निदध्यात् ॥ लग्नबलं पूर्ववत् । सूर्यभाचंद्रभं यावत्पंचपंचचतुर्दिशम् । मध्ये च सप्त देयानि बालकस्य हिताय वै ॥ पूर्वभागे तु रोगिवं दक्षिणे मरणं ध्रुवम् । पश्चिमे विकृतिर्बाले उत्तरे व्याधिसंभवः॥ शेषे तु मध्यनक्षत्रे बालकस्य हिताय वै ॥ तथाचोक्तं बृहस्पतिना स्वसं- हितायाम् । खट्वारोहस्तु कर्तव्यो दशमे द्वादशेपि वा । षोडशे दिवसे वापि द्वाविंशे दिवसेपि वा ॥ तथाचोक्तं भविष्योत्तरे । अभीष्टदिवसे पुण्ये चंद्रताराबलान्विते । मृदुध्रुवक्षिप्रभे तु माता वा कुलयोषितः ॥ शेषशायिनमाचिंत्य प्राक्शीर्ष विन्यसे- च्छिशुमिति । भूम्युपवेशनमाह । सौम्येति ॥ सौम्यो मृगः अश्विनी प्रसिद्धा ईज्यः पुष्यः ध्रुवाणि पूर्वोक्तानि त्र्युत्तरारोहिण्य: इंद्रो ज्येष्ठा एभिर्नक्षत्रैः शुभदिवसे रिक्तादि- वर्जिते जन्मतः पंचमे मासि भुवि भूम्यां अभै निदध्यात् । उपवेशयेदित्यर्थः । तथा- चोक्तं ब्रह्मपुराणे। पंचमे च तथा मासि भूमौ तमुपवेशयेत् । तत्र सर्वे ग्रहाः शस्ता भौमोऽप्यत्र विशेषतः ॥ तिथिं विवर्जयेद्रिक्तां शस्तान्याशृणु भानि मे। उत्तरात्रितयं सौम्यं पुष्पः शक्रदैवतम् ॥ प्राजापत्यं च हस्तश्च शस्तमाश्विनमित्रभम् । वराहं पू- जयेद्देवं पृथिवीं च तथा द्विजान् ॥ भूभागमुपलिप्याथ तत्र कृत्वा तु मंडलम् । वाद्य- पुण्याहशब्देन भूमौ तमुपवेशयेदिति । उपवेशनमंत्रस्तत्रैवोक्तः। रक्षेनं वसुधे देवि सदा सर्वगतं शिशुम्।आयुःप्रमाणं सकलं निक्षिपख हरिप्रिये इति। दुग्धपानमाह । एकत्रिंशेदिन इति । एकत्रिंशमिते दिवसे अभै बालके कंबुना शंखेन पयः दुग्धं योज्यं पाययेदित्यर्थः। अत्र नृसिंहः । एकत्रिंशे दिने चैव पयः शंखेन योजयेदिति । अथ मातु: स्वल्पपयस्त्वे पक्षांतरमाहावा अशननिगदितभैरिति । अन्नप्राशननक्षत्रैर्योज्यं । भैरित्युपलक्षणं अन्नप्राश- नोक्तं अन्यदपि विचार्य। किंलक्षणे अर्भे । व्यग्वाशास्ये विगतः अगु: राहुर्यस्याः सा व्यगुः साचासौ आशा च तस्यां आस्यं मुखं यस्य स तथा तस्मिन् राहुवर्जितदिझुख इत्यर्थः । व्यग्वाशास्य इत्युपलक्षणं । तेन रुद्रयोगिन्यादिकमपि वर्ण्यम्। तथाचोक्तं ज्योतिर्निबंधे। योगिनीराहरुद्रादि मुखं चैव विवर्जयेत् । राहुलक्षणम् । गुरुभान्वोर्वसेत्प्राच्यामिंदौ शुक्रे च दक्षिणे । कालराहुः कुजे प्रत्यगुत्तरे बुधमंदयोः ॥ लक्षणांतरम् । इंद्रे वायौ यमे रौद्रे तोयाग्निशशिराक्षसे । यामार्धमुदयाद्राहुर्धमत्येवं दिगष्टक इति । उदयात्सू- र्योदयात् । रुद्रलक्षणम् । हरिसोमवह्निराक्षसयमवरुणानिलहरालयेष्वेवम् । उदयादि भ्रमति सदा घटिका रुद्रो महालयेत्यादि । हरिरिंद्रः॥अथ निष्क्रमणमाह॥ अथास्य गम- वदुदितो निष्क्रमो मासि तुर्ये तुर्ये चतुर्थे मासि अस्या कस्य निष्कमो निष्क्रमणं गम- वत् गमनवदितियावत् । उदितः उक्तः पूर्वैः । अत्रयात्राप्रकरणोक्तं सर्व योज्यमित्यर्थः । निष्क्रमणं बृहस्पतिनोक्तम् । अथ निष्क्रमणं नाम गृहात्प्रथमनिर्गमः । अकृतायां कि- यायां स्यादायुःश्रीनाशनं शिशोरिति । यमः। उपनिष्कमणं कुर्याच्चतुर्थे मासि सावन इति। कारिकायाम् । चतुर्थे मासि पुण्यः शुक्ले निष्क्रमणं भवेत् । स्नातं खलंकृतं स्वाभिः .

संस्कारप्र० मार्तडवल्लभाख्यव्याख्यासहितः। १५ कृतखस्त्ययनं शिशुमिति ॥ आदाय गेहानिर्गम्य गच्छेयुर्देवतालयम् । अभ्यर्च्य दे- वतां सम्यगाशिषो वाचयेदथ ॥ कृत्वा प्रदक्षिणं गेहमानयंति ततः खकम् । मातृष्व- सृगृहं गत्वा मातुलादेहं नयेत् ॥ तदाशीर्वचनाद्यैश्च दीर्घायुरभिनंदितः । जयंतस्य मतेनायं लिखितः शिशुनिष्क्रमः ॥ स्वगृह्यानुसारं योजयेत् ॥ ६ ॥ अथ कर्णवेधं मंदाक्रांतयाह- मैत्रेः क्षिपैः स्थिरभचरभैानिलांमःपक:- श्चैकाफापौष्विनशनिकुजशिवारानपास्य । रिक्तापर्वेश्वरवसुतिथीन् रात्रिसंध्ये समाब्दं पुंस्त्रीकौँ सविधि पटुना दक्षवामादि वेध्यौ ॥७॥ मैत्रैरिति ॥ मैत्रैः अनुराधारेवतीमृगचित्राभिः। क्षिप्रैः दस्रार्काभिजिदीज्यभैः। स्थिरभ- चरभैः स्थिराणि उत्तरात्रयरोहिण्यः चराणि श्रवणत्रयपुनर्वसुखात्यः तैः । कथंभूतैः स्थिरभचरभैः व्यानिलांभःपकः विगतानि अनिलांभःपकाणि येभ्यस्तानि तथा तैः अनिलं स्वाती अंभःपः शततारका करूं रोहिणी तद्रहितैरित्यर्थः । चैकाफापौषु चैत्र- कार्तिकफाल्गुनपौषेष्वित्यर्थः । पुंस्त्रीकौँ पुरुषस्त्रियोः कौँ पटुना कुशलेन सविधि यथास्यात्तथा दक्षवामादि वेध्यौ पुरुषस्य दक्षिणकर्णादि स्त्रियाः वामकर्णादिवेष्यावि- त्यर्थः । कर्णवेधने सूचीमाह बृहस्पतिः । सौवर्णी राजपुत्रस्य राजती विप्रवैश्ययोः । शुद्रस्य खायसी सूची मध्यमाष्टांगुलात्मिका ॥ कर्णवेधविधिस्तु गृह्यपरिशिष्टे उक्तः । अथ कर्णवेधो वर्षे तृतीये पंचमे वा पुष्येंदुहरिचित्रारेवतीषु पूर्वाह्ने प्राङ्मुख उपविश्य द- क्षिणं कर्णमभिमंत्रयते भद्रंकर्णेभिरिति सव्यं वक्ष्यंतीवेदेति कुमाराय मधुरं दत्वाऽथ भिंद्यात् ततो ब्राह्मणभोजनमिति । किं कृत्वा इनशनिकुजाशवारान् अपास्य रविश- निकुजानां ऋक्षाणि लग्नानि अंशा नवांशाः वाराः प्रसिद्धास्तांस्त्यक्त्वेत्यर्थः । पुनः किं कृत्वा रिक्तापर्वेश्वरवसुतिथीन् अपास्य रिक्ताश्चतुर्थांनवमीचतुर्दश्यः पर्वणी पौर्णिमाऽमा- वास्ये संक्रांतिश्च ईश्वरतिथिरेकादशी वसुरष्टमी एतान् अपास्य । पुनः किं कृला। रात्रि- संध्ये अपास्य स्पष्टं । पुनः किं कृत्वा । समाब्दमपास्य समवर्षे त्यक्त्वा विषमे वर्षे कर्तव्यमित्यर्थः । लग्नबलं प्राग्वत् । अत्र नृसिंहः । वेध्यौ कर्णावदंतस्य विषमे- ऽब्देपि वा शिशोः । शुक्लपक्षे शुभे वारे चैत्रपुष्योर्जफाल्गुने ॥ एकादश्यष्टमीपर्व- रिक्ता वाः शुभावहाः । शिष्टाश्च तिथयः सर्वाः कृष्णे चांत्यत्रिकं विना ॥ क- णद्वयादितिक्षिप्रमृदुभैस्त्रयायगैः शुभैः । गुरौ लग्ने च केप्याहुरुत्तरासु श्रुतिं व्यदिति । अगस्त्यः । द्वयोश्च संध्ययोर्लग्ने न कुर्यात्कर्णवेधनम् । रात्रावपि तथा लग्ने नक्षत्रतिथि- संधिषु ॥ कर्णवेधं न कुर्वीत कुर्याचेच्छेदनं भवेदिति । बृहस्पतिः । मंदार्कारांशवाराः स्युर्वाः कर्णस्य वेधने । गुरुशुक्रंदुजेंदूनां पूज्या वारांशकोदया इति । संग्रहे । शात- कुंभमयी सूची वेधनेषु शुभप्रदा । राजती, वायसी वापि यथाविभवतः शुभा ॥ सुभूमौ प्रांगणे रम्ये शुचौ देशेऽबरे रवौ । संस्थिते वैधयेत्कौँ स्त्रीसोर्वामदक्षिणी ।। शुक्लसूत्रसं- संस्कारप्र० १६ मुहूर्तमार्तडः। मायुक्तताम्रसूच्याऽथ वेधयेत् । वेधात्तृतीयनक्षत्रे क्षालयेदुष्णवारिणेति ॥ देवलः । कर्णरंध्रे रवेश्छायान विशेदग्रजन्मनः। तं दृष्ट्वा विलयं यांति पुण्यौघाश्च पुरातना इति ॥७॥ अथानप्राशनं वृत्तेनैकेनाह- मासे षष्ठेऽष्टमे नुर्निगदितमशनं पंचमे सप्तमे वा भीरोरुज्झंति नंदाहरिवसुरजनीरिक्तकाः स्वःमेके । दुर सहकांशाहिचांद्रे ध्रुवमृदुचरभक्षिप्रभेऽजालिमीनो नांगे केंद्रत्रिकोणांत्यमृतिषु विमलाविदुरिष्टोऽखिलोंगे॥८॥ मासे षष्ठे इति॥जन्मतः षष्ठमासे अष्टमे वा मासे नु: नरस्य अशनं अन्नप्राशनं निगदितं प्रोक्तं । भीरोः कन्यायाः पंचमे सप्तमे वा मासे अशनं प्रोक्तं । अत्र नंदाहरिवसुरजनी- रिक्तकाः उज्झंति मुनयः नंदाःप्रतिपत्षष्ठयेकादश्यः हरिादशी वसुरष्टमी रजनी रात्रिः रिक्ताश्चतुर्थांनवमीचतुर्दश्यः ताः स्वः जन्मनक्षत्रं च एके आचार्य अत्र उज्झंति । तथाचोक्तम्। जन्मः श्रीक्षयं विद्यादिति । जन्मः तु पुंविवाहानप्राशनादिषु बहुभिर्गृह्यते तदने वक्ष्यते । पुनः कस्मिन् । सदृक्कांशाह्नि दृक्को टक्काण: अंशो नवांशः अहो दिनं ए- षां सहामारः हक्कांशाहः सतो ग्रहस्य हक्कांशाहः सदृक्कांशाहः तस्मिन्।कथंभूते सहक्कांशाह्नि। अचांद्रेन विद्यते चांद्रदृक्कांशो यस्मिन्तदचांद्रं तस्मिन् चंद्रस्य दृक्कांशाहानि निंद्यानि क्षीणश्चेत्। पूर्णे तु नदोषः। अन्येषां शुभग्रहाणां शुभानीत्यर्थः। पुनः कस्मिन् । ध्रुवमृदुचरभक्षिप्रमे ध्रुवादीनि प्रसिद्धानि पूर्वमेवोक्तानि तत्रेत्यर्थः । पुनः कस्मिन्। अजालिमीनोनांगे अजो मेषः अलिर्वृश्चिकः मीनः प्र० एभिरूनलने मेषवृश्चिकमीनलग्नान्यन्नप्राशने न शुभानी- त्यर्थः।कासु सतीषु केंद्रत्रिकोणांत्यमृतिषु विमलासु सतीषु। केंद्राणि प्रथमचतुर्थसप्तमदश- मानि त्रिकोणे नवपंचमे अंत्यं द्वादशं मृतिरष्टमम् । परवल्लिंगं द्वंद्वतत्पुरुषयोः । एतासु विमलासु पापग्रहरहितासु सतीषु पापग्रहोऽत्र अनिष्टकारीत्यर्थः । इंदुश्चंद्रः अखिल: पूर्णः अंगे लग्ने इष्टः अन्नप्राशने पूर्णचंद्रो लग्ने शुभ इत्यर्थः । अन्यल्लम्मबलं पूर्ववत् । अत्र नारदः । षष्ठे मास्यष्टमे वापि पुंसां स्त्रीणां तु पंचमे । सप्तमे मासि वा कार्य नवा- नप्राशनं शिशोः ॥ रिक्तां दिनक्षयं नंदां द्वादशीमष्टमी समाम् । त्यक्त्वान्यतिथयः श्रेष्ठाः प्राशने शुभवासरा इति । ज्योतिर्विवरणे । जन्मः श्रीक्षयं विद्यात्कर्मः चाति- सौख्यकृत् । आधानः च बालानां प्राशने रोगनाशनम् ॥ वृद्धनारदः। जीवसौम्यसि- तानां तु दृक्काणदिवसांशकाः । बालानप्राशने शस्ता न चंद्रार्कार्कजासृजामिति । अ- गवे । गोश्वौ कुंभस्तुला कन्या सिंहः कर्किमृगौ यमः। एताश्च राशयः शस्ता न मेषझषवृ- श्चिका इति। नारदः। चरस्थिरमृदुक्षिप्रनक्षत्रेषु न नैधन इति । रवौ लग्ने कुष्टीत्याह॥८॥ अथ येषु संस्कारेषु गुरुशक्रास्तादिदोषाभावः येषु दोषः बालबवृद्धत्वप्रमाणं शाखे- शस्य मौज्ये किं न कार्यमिति चतुष्टयं वृत्तेनैकेनाह- गर्भाद्यन्नाशनांतेषु न गुरुसितयोर्बाल्यवायें च मौब्यं जह्यात्कालस्य रोधाद्धरिगुरुमयनं याम्यमूनाधिमासौ ।

संस्कारप्र० मातंडवल्लभाख्यव्याख्यासहितः । एतच्चौलादिपूज्झेदय गुरुसितयो_ल्यवाध्ये नगाहे चाथो शाखेशमौढ्ये व्रतमपि निगमारंभमार्यो न कुर्यात् ॥ ९॥ गर्भादीति॥गर्भाद्यन्नाशनांतेषु गर्भाधानादिषु अन्नप्राशनांतेषु कर्मसु गुरुसितयोाल्य- वार्थे च परं मौढ्यं गुरुशुक्रमूढलं न जह्यात् न त्यजेत् । कस्माद्धेतोः । कालस्य रोधात् यतः शास्त्रे गर्भाधानाद्यन्नप्राशनांतानां कर्मणां कालनिरोधः कृतोऽस्ति तस्माद्धेतोः । तथाच मांडव्यः । नित्ययाने गृहे जीर्णे प्राशनांतेषु सप्तसु । वधूप्रवेशमांगल्ये न मौढ्यं गुरुशुक्रयोरिति । हरिगुरुं सिंहस्थितं बृहस्पतिं याम्यमयनं दक्षिणायनं ऊनाधिमासौ क्षयमासाधिमासौ न त्यजेत् । कालस्य रोधादित्येतत्पदं बुद्धयावगंतव्यम् । तद्यथा । प्रसूतिसमये एव जातकर्मविहितं तत्र कालनिरोधात् किमप्यस्तादिकं न चिंत्यं । अन्न. प्राशनं तु मासे षष्ठेऽष्टमे वेति विकल्पेन मासद्वये विहितं। तत्र यस्मिन्मासे मौढ्यादिकं न स्यात्तत्र कर्तव्यं कालस्य सावकाशवात् । तयोरपि मासयोर्यदि सिंहस्थगुर्वादिनिरोधः स्यात् सोऽप्यत्र न चिंतनीयः। एवं गर्भाद्यन्नाशनांतेषु विचारणीयं । अनन्यगतिकं कु- र्यानित्यं नैमितिकं तथेति स्मरणात् । संस्कारक्रमस्तु कात्यायनगृह्यकारिकायामप्युक्तः । गर्भाधानं पुंसवनं सीमंतोन्नयनं ततः । जातकर्माभिधेयं च निष्क्रमप्राशने क्रमात् ॥ चूडोपनयनं वेदव्रतानां च चतुष्टयम् । गोदानं मेखलामोको विवाहः षोडशक्रिया। इति । अनेन क्रमेण गर्भाद्यन्नाशनांतेषु मौढ्यादिकं बुद्धयावलोकयेदित्यर्थः । तथाच बृहस्पतिः। मासप्रयुक्तकार्येषु मूढलं गुरुशुक्रयोः । न दोषकृत्तदा मासलक्षणो बल- वानिति । यमोपि । गर्भे वाधुषिके भृत्ये श्राद्धकर्मणि मासिके । सपिंडीकरणे निये नाधिमासं विवर्जयेत् ॥ भृगुः । सीमंतजातकादीनि प्राशनांतानि च क्रमात् । कर्तव्यानि न दोषोऽस्ति पंचाननगते गुराविति । कात्यायनस्मृतौ । गर्भाधानादिका अन्नप्राशनांता मलिम्लुचे। आकर्णवेधाः कर्तव्या नान्या इत्याह भास्कर इति । अस्तादिकं चूडादिषु वर्जनीयमित्याहाएतच्चौलादिषूज्झेदिति। एतद्गुरुसितास्तादिकं चूडादिषु कर्मसु उज्झेत्त्य- जेत्। अथ बालववृद्धत्वप्रमाणमाह-अथ गुरुसितयोरिति । गुरुसितयोर्गुरुशुक्रयो ल्यवायें बाललवृद्धवे नगाहे सप्ताहे सप्ताहं बाल्यं सप्ताहं वार्धकमिति बालवं वृद्धवं बहुविधमस्ति तत्र मध्यमः पक्षोऽत्रांगीकृतः । अथ शाखेशस्य अस्ते वय॑माह-अथो शाखेशमौव्य इति। शाखेशो वेदपतिर्वक्ष्यमाणः तस्य मौल्ये अस्ते व्रतं मौजीबंधनं निगमारंभमपि आर्यः श्रेष्ठो न कुर्यात् तस्यास्ते व्रतादिके कृते सति बटोर्मूर्खत्वं स्यात् । ननु वेदारंभे मूर्खत्वं घटते वेदपतित्वात् व्रते मूर्खवं किमुक्तं । उच्यते । व्रतबंधस्तु वेदाध्ययनार्थ क्रियते तस्मात्तत्रापि मूर्खवं घटते । तथाच याज्ञवल्क्यः । उपनीय गुरुः शिष्यं महाव्यात्दृतिपूर्वकम् । वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ प्रतिवेदं ब्रह्म- चर्य द्वादशाब्दानि पंच वा । ग्रहणांतिकमित्येके केशांतश्चैव षोडश इति ॥ यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ तथाच मूहूर्तमार्तडः। संस्कारप्र० कात्यायनगृह्यसूत्रे । वेदं समाप्य नायाब्रह्मचर्य वाष्टाचत्वारिंशकं द्वादशकेप्येके गुरु- णानुज्ञात इत्यादि ॥ ९ ॥ अथ चौलं सनिर्णयं वृत्तेनैकेनाह- चौलं माघादिपंचस्वमधुषु गदितं द्वित्रिपंचोन्मितेऽब्दे स्वाचाराद्वा सगर्भा यदि भवति जनन्यत्र नो कार्यमेतत् । साकं यत्रोपनीत्या क्रियत इह तदाऽयं निरोधो न हि स्या- जह्यादंबातवेदोव्रतमुपयमनं चौविशुद्ध शुभार्थी ॥ १० ॥ X चौलमिति ॥ कार्य वर्णैरित्यग्रिमश्लोकेनान्वयः । चौलं चूडाकरणं माघादि- पंचसु मासेषु अमधुषु चैत्ररहितेषु गदितं उक्तं। तथाचोक्तं नारदेन । माघादि- पंचके चौलं हिला क्षीणविधुं मधुमिति । द्वित्रिपंचोन्मितेऽब्दे द्वितीये तृतीये पंचमे वर्षे खाचाराद्वा खकुलाचारतो वा । उक्तं च कात्यायनगृह्ये । सांवत्सरिकस्य चूडा- करणं तृतीये वा प्रतिहते षोडशवर्षस्य केशांतो यथामंगलं वा सर्वेषामिति । सांवत्स- रिकस्य अतिक्रांताब्दस्येति हरिहरमित्रैर्व्याख्यानं कृतम् । तथा च सद्गुरुशिष्यः । आयेऽन्दे कुर्वते केचित्पंचमेन्ये द्वितीयके । उपनीत्या सहैवेति विकल्पः कुलधर्म इति। सगर्भा यदि भवति जनन्यत्र नो कार्यमेतत् । अत्र उक्तवर्षेषु द्वित्रिपंचाब्दकेषु ज- ननी कुमारस्य माता यदि सगर्भा भवति स्यात् तदा एतच्चौलं नो कार्य पचमाब्दादृश्य गर्भिण्यां सत्यामपि कार्यमित्यर्थसिद्धम् । अत्र नारदः। सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् । पंचाब्दात्प्रागतोज़ तु गर्भिण्यामपि कारयेत् ॥ उपनयनेन सह क्रियमाणे न दोष इत्याह-साकं यत्रोपनीत्या क्रियत इह तदायं निरोधो नहि स्यादिति। यत्र उप- नीत्या साकं उपनयनेन सह क्रियते तदा इहास्मिन् चौले अयमुक्तो निरोधश्चैत्रमासमा- तृगर्भलक्षणो नह्येव स्यात्। तदुक्तं तेनैव । सहोपनीत्या कुर्याच्चत्तदा दोषो न विद्यते इति । अंबार्तवे निषेधमाह-जह्यादंबार्तवेऽदो व्रतमुपयमनं चाविशुद्धेः शुभार्थी इति । अंबार्तवे मातृरजसि अदः अनंतरोक्तं चौलमित्यर्थः । व्रतं मौंजी उपमसनं विवाहः आविशुद्धः शुद्धिपर्यंतं शुभार्थी नरः एतत्रयं जह्यात् न कुर्यादित्यर्थः। तथाच मनुस्मृती। उद्वाहव्रतचूडासु माता यदि रजखला । तदा न मंगलं कार्य शुद्धौ कार्य शुभेच्छुभिः॥ अन्यमुहूर्तालाभे कारिकानिबंधे शांतिकमुक्तम्। अलाभे सुमुहूर्तस्य रजोदोषेतु संस्थिते। श्रियं संपूज्य विधिवत्ततो मंगलमाचरेत् ॥ हैमी माषमितां पद्मां श्रीसूक्तविधिनार्चयेत् । प्रत्यूचं पायसं हुवाऽभिषिच्य शुभमाचरेत् ॥ सूतिकोदक्ययोः शुद्धौ गां दद्याद्धेमपूर्व- कम् । प्राप्ते कर्मणि शुद्धिः स्यादितरस्मिन्न शुध्यतीति । उदक्या रजस्वला ॥ १० ॥ अथ वर्णविशेषेण वारविशेषं तथा नक्षत्राणि लग्नबलं च वृत्तेनैकेनाह- कार्य वर्णैरिनारार्किशनिषु निखिलै त्रये शुक्लसोमे यंत्यद्व्यादित्यशाकेंदुभिरिनहरितखित्रिभैश्चौलकर्म । - संस्कारप्र० मार्तडवल्लभाख्यव्याख्यासहितः । छूनेऽकाराकिंशुक्रा गतकविनिखिला मृत्युगा मृत्युदाः स्यु- य॑ब्जाः संतोंऽत्य इष्टास्त्यज गुहशशिनौ रात्रिसंध्येचरिक्ताः११ कार्यमिति ॥ वर्गाह्मणादिभिः यथाक्रमेण इनारार्किशनिषु चौलकर्म कार्यमित्य- न्वयः । इनः सूर्यः आरो भौमः आर्किः शनिः शनिः प्रसिद्धः तेष्वित्यर्थः । एतदुक्तं भवति । विप्रेण रविवारे क्षत्रियेण भौमवारे वैश्येन शनिवारे शूद्रेणापि शनिवारे चौलं कर्तव्यमित्यर्थः । शूद्रस्य द्वादशसंस्कारा उक्ताः। वेदव्रतोपनयनं महानाम्नीमहाव्रतम् । विना द्वादश शूद्राणां संस्कारा नाममंत्रत इति। निखिलैरिति। निखिलैश्चतुर्भिर्वर्णैरविशे- षेण ज्ञत्रये बुधत्रये शुक्लसोमे शुक्लपक्षगतसोमवारे कार्य। कृष्णपक्षे सोमवारोऽतिनिंदितः क्षीणत्वात् । अत्र नारदः । अपर्वरिक्तातिथिषु शुक्रेज्यझेंदुवासर इति । बृहस्पतिः । सोमवारः सिते पक्षे कृष्णपक्षेऽतिगर्हितः । बुधवारः शुभः प्रोक्तः पापग्रहयुते बुधे ॥ पापग्रहाणां वारादौ विप्राणां शुभदो रविः । क्षत्रियाणां क्षमासूनुर्विदशूद्राणां शनिः शुभ इति । कैः द्वयंत्यद्वयादित्यशाकेंदुभिः अंत्याद्धे इति द्वयंत्यं रेवत्यश्विन्यौ द्वयादित्यं पुनर्व- मुपुष्यौ शार्क ज्येष्टा इंदुर्मुगः तैः। पुनः कैः। इनहरितस्त्रित्रिभैः इनो हस्तः हरिः श्रवणः ताभ्यां त्रित्रिभैः हस्तात्रिभिः श्रवणात्रिभिरित्यर्थः । तथाच नारदः । दस्रादितीज्यचंद्रे- द्रपूषभानि शुभान्यतः । चौलकर्मणि हस्तात्रीणि त्रीणि च विष्णुभादिति । द्यूनेऽर्का- रार्किशुकाः अत्र चौले मृत्युदाः स्युः । द्यूने सप्तमे अर्कारार्किशुक्रा अर्कः सूर्यः आरो भौमः अर्कस्यापत्यमार्किः शनिः शुक्रः प्रसिद्धः एते चत्वारो मृत्युदा इति चतुर्णा स- मानं फलमुक्तं वसिष्टनात्र विशेषफलमुक्तम् । जामित्रे भास्करे क्षौरे मृत्युः स्याद्भूमिजे तथा । शुक्रे सौख्यविनाशः स्यान्मंदभाग्यं शनैश्चर इति । अत्र चतुर्णामपि सामान्येन मृत्युफलमुक्तं तद्दारियान्मरणं वरमिति न्यायेन न दोषः । गतकविनिखिला मृत्युगाः मृत्युदाः स्युः गतः कविः शुक्रः येभ्यस्ते गतकवयः ते च ते निखिलाश्च शुक्ररहिताः सर्वे मृत्युगाः अष्टमगा मृत्युदाः स्युः । अत्र बृहस्पतिः । अष्टमस्थानगाः सर्वे नेष्टाः शुक्रविवर्जिताः । शुक्रस्तु निधने क्षौरे सर्वसंपत्प्रदः शिशोरिति ॥ व्यब्जाः संतोऽत्य इष्टाः विगतः अब्जश्चंद्रो येभ्यस्ते व्यब्जाः एवंविधाः संतः सग्रहाः चंद्ररहिताः सद्ग्रहाः अंये द्वादशे इष्टाः शोभनाः स्युः । तथाच नारदः । चौलान्नप्राशने शस्ताः सौम्या रंध्रव्ययोपगा इति । अन्यच्च । ननधनेभे शीतांशौ षष्ठाष्टांत्यविवर्जिते । इति तस्यैव वचनं अन्यल्लम्मबलं पूर्ववत् । त्यज गुहशशिनौ रात्रिसंध्ये च रिक्ताः। गुहः षष्टी शशी पौर्णिमा स्पष्टमन्यत्। क्रूरवारं निशां रिक्तां षष्ठी संध्यां च जन्मभम् । सद्भिर्विवर्जयेदेतन्नारदस्य वचो यथेति ॥ ११ ॥ अथ प्रसंगात्क्षौरनिर्णय सार्धवृत्तेनाह- भुक्ताभ्यक्तोपवासीश्वरजनयुवतिप्राग्वयस्काश्च योगी यात्रायुद्धोन्मुखा ये कृतदिनविधयोऽस्त्यंबकास्ते न मुंड्याः । - - मुहूर्तमार्तडः। संस्कारप्र० सीमंतो नपत्युनखकचलवनं दूरदेशप्रयाणं वृक्षच्छेदः समुद्राप्तुतिमृतहरणे स्यादृतेऽवश्यकार्यात् ॥ १२ ॥ भुक्तेति ॥ भुक्तः कृतभोजन: अभ्यक्तः कृताभ्यंगः उपवासी प्रसिद्धः ईश्वरजनो राजसेवकः समर्थों वा युवतिः स्त्री सौभाग्यवती प्राग्वयस्काः प्रथमवयस्काः पंचाशद्वर्ष- पर्यंत पूर्ववयः योगी राजयोगी गीतादौ प्रसिद्धः यात्रायुद्धोन्मुखाः यात्रा प्रयाणं युद्धं प्रसिद्धं तौ प्रति ये उन्मुखाः प्रचलिताः यात्रोन्मुखा युद्धोन्मुखाश्चेत्यर्थः। कृतः दिन- विधिः आह्निकं यैस्ते कृतदिनविधयः अस्त्यंबको जीवत्पितृकः ते न मुंड्याः मुंडनाही न भवंति । अवश्यकार्याहते इत्युत्तरार्धोक्तमत्रानुसंधेयं । यत्रावश्यं मुंडनकारणं भवति तत्रावश्यं मुंड्याः । अथ क्षौरनिषेधप्रसंगाद्गुर्विणीपतेनिषिद्धं सापवादमाह-सीमंतोव- मिति।सीमंतोय सीमंतोन्नयनादूर्व पत्युः कृतसीमंतसंस्कारस्य पत्युः भर्तुरवश्यकार्याहते नखकचलवनादिकं न स्यात्। नखकचलवनं नखकेशच्छेदन। अन्यत्सुगमं । अवश्यकार्या- दृते न स्यादित्यनेन आवश्यके न दोष इत्यर्थात्सिद्धं । यथा पितृमरणे क्षौरादि देशविप्लवे देशांतरगमनं इत्यादि विचारणया आवश्यके न दोष इत्यर्थः । कृताग्न्याधानस्य मुंडन- पक्षांगीकारे मुंडनमावश्यकं मासिमास्युपासनिकस्य पक्षे पक्षेऽग्निहोत्रिण इति ॥ १२ ॥ अथोक्तेभ्योऽन्येषां क्षौरार्थे नक्षत्रादिकमाह- क्षौरं चौलोक्तभादौ गदितमथ रविक्षेत्रगंगाध्वराग्न्या- धाने पित्रोविनाशे द्विजनृपकथने सर्वदा क्षौरमिष्टम् । मित्रत्र्यादितींद्रांतिमहरितुरगैः पंचमेऽब्दे व्रतात्मा- - ग्विद्यारंभोक्तकालेऽक्षरविधिरघटे सौम्यसंज्ञेऽयनेऽर्के ॥ १३ ॥ क्षौरमिति ॥ चौलोक्तभादौ क्षौरं गदितं प्रोक्तं । चौलार्थमुक्तश्चौलोक्तः स चासौ भादिश्च तस्मिन्नक्षत्रतिथ्यादिकाले क्षौरं गदितं प्रोक्तं। अथ क्षौरनिमित्तान्याह-रविक्षेत्र- गंगाध्वराग्न्याधाने पित्रोविनाश इत्यादि । रविक्षेत्रं भास्करक्षेत्रं गंगा प्रसिद्धा अध्वरो यागः अग्न्याधानमग्निहोत्रं तस्मिन् पित्रोविनाशो मरणं तस्मिन् द्विजनृपकथने ब्राह्मणा- ज्ञायां राजाज्ञायां च सत्यां सर्वदा क्षौरमिष्टं स्यात्। क्षौरे नक्षत्रादिनियमो नास्तीत्यर्थः । तदुक्तं वृत्तशते। भुक्ताभ्यक्तनिरशनैरित्यादि । रत्नमालायाम्। आज्ञया नरपतेर्द्विज- न्मनामित्यादि । बृहस्पतिः । राजकार्ये नियुक्तानां नराणां भूपसेविनाम् । श्मश्रुलोमन- खच्छेदे नास्ति कालविशोधनम् ॥ ज्योतिर्निबंधे । राजयोगी पुरंध्री च मातापित्रोच जीवतोः । मुंडनं सर्वतीर्थेषु न कुर्याद्गुर्विणीपतिः ॥ स्मृत्यंतरे । सिंधुस्नानं द्रुमच्छेदं वपनं प्रेतवाहनम् । विदेशगमनं चैव न कुर्याद्गुर्विणीपतिः ॥ क्षौरं नैमित्तिकं कुर्यान्नि- षेधे सत्यपि ध्रुवम् । पित्रोः प्रेतविधानं च न दोषस्तत्र विद्यते ॥ गंगायां भास्करक्षेत्रे मातापित्रोद्धृतेऽहनि । आधाने सोमपाने च षट्सु क्षौरं विधीयते ॥ अंतर्वन्यां तु जायायां तीर्थे क्षौरं न कारयेत् । प्रेतवाहादिकं नैव सीमंतोन्नयनादनु ॥ पंचाशद्धाय- नात्पूर्व क्षौरं नैमित्तिकं विना । न कुर्यात्तत ऊर्ध्वं तु खेच्छया वपनं चरेत् इति ।

संस्कार . मार्तडवल्लभाख्यव्याख्यासहितः। २१ अथाक्षरारंभं वृत्ताधैनाह-मित्रत्र्यर्केति । मित्रादिभिर्नक्षत्रैः जन्मतः पंचमे वर्षे व्रतात् व्रतबंधात्प्राक् प्रथमं विद्यारंभोक्तकाले वक्ष्यमाणलक्षणे अक्षरविधिः प्रथमाक्षरारंभविधिः शुभः स्यादित्यध्याहारः। कस्मिन् सति। सौम्यसंज्ञे अयने अर्के सति। कथंभूते सौम्यसंज्ञे अयने। अघटे न विद्यते घटो यस्मिन् तथा तस्मिन् । कुंभरहित उत्तरायण इत्यर्थः । ब्रह्मतुल्ये अयनलक्षणं । कर्किमृगादिषट्के ते चायने दक्षिणसौम्यायने स्त इति। मित्र- मनुराधा त्र्य हस्तत्रयं अदितिः पुनर्वसुः इंद्रो ज्येष्ठा अंतिम रेवती हरिः श्रवण: तुर- गोऽश्विनी शेषं प्रथममेव व्याख्यातं । व्रतात्प्रागित्यनेन व्रतंबधादुपरि निषेधोऽर्थात्सिद्धः । पंचमे वर्षे पठनरुच्या व्रतबंधोऽग्रे वक्ष्यते । तथाचोक्तं बृहस्पतिना। द्वितीयजन्मतः पूर्वमारभेताक्षरान् सुधीरिति । उक्तं च संग्रहे । उदग्याते भाखति पंचमेऽब्दे प्राप्तेऽ- क्षरखीकरणं शिशूनाम् । सरस्वती विघ्नविनायकं च गुडौदनाद्यैरभिपूज्य कुर्यादिति नृ- सिंहः । अक्षरस्वीकृतिः प्रोक्ता प्राप्ते पंचमहायने । उत्तरायणगे सूर्ये कुंभमासं विव- .. जयेदिति ॥ १३॥ - - अथ ब्रह्मक्षत्रविशां मुख्यं गौणं च व्रतबंधकालं वृत्तेनाह- विप्रादेर्गर्भतोऽब्देऽष्टशिवरविमिते जन्मतो वा व्रतं स्या- दत्रानिष्टेऽपि जीवे ऽनिमिषरविमधौ कार्यमब्दस्य दाात् । स्वाब्दादूर्ध्वं क्रमादाद्विगुणितशरदो निंद्यमब्दक्रमेण पंचाष्टांकाब्दतो वा प्रपठनरुचितः शस्तमेषां तदाहुः ॥ १४ ॥ विप्रादेरिति ॥ गर्भतः गर्भाधानाजन्मतो वा अष्टशिवरविमिते अब्दे विप्रादेव्रतं स्यात् । विप्रस्याष्टमे क्षत्रियस्य शिवमिते एकादशे वर्षे स्यात् वैश्यस्य रविमिते द्वादशे वर्ष स्यात् । अत्र स्वस्ववर्षे जीवे गुरौ अनिष्टेऽशुभे सत्यपि व्रतं कार्य क्व । अनिमिषर- विमधौ अनिमिषे रविः अनिमिषरविः अनिमिषरविणा विशिष्टो मधुः अनिमिषरविमधुः तस्मिन् मीनस्थे रवौ सति चैत्रे व्रतं कर्तव्यमित्यर्थः । अब्दस्य दाात् वर्षबलात् । तदुक्तं संग्रहे । शुद्धिर्न विद्यते यस्य वर्षे प्राप्तेऽटमे यदि । चैत्रे मीनगते भानौ तस्यो- पनयनं शुभम् ॥ जन्मभादष्टगे सिंहे नीचे वा शत्रुभे गुरौ । मौंजीबंधः शुभः प्रोक्त- श्चैत्रे मीनगते रवौ ॥ अशुभेऽब्दे ग्रहाः सर्वे शुभगोचरगा अपि । शांत्यभावाच्छुभं नैव यात्यब्दः कालमृत्युवदिति । अथ गौणकालफलमाह-स्वाव्दादूर्ध्वं क्रमादिति। स्वाब्दात् स्ववर्षादृर्व क्रमात् आद्विगुणितशरदः द्विगुणिता चासौ शरच्च द्विगुणितशरत् वर्षे तां मर्यादीकृत्येति तथा तस्याः अब्दक्रमेण निंद्य। तद्यथा। ब्राह्मणस्याष्टमं वर्षे मुख्यं तद्दि- गुणितं षोडशं अष्टमवर्षात् षोडशवर्षपर्यंतं ब्राह्मणस्य एकादशवर्षाद्वाविंशवर्षपर्यंतं क्ष- त्रियस्य द्वादशवर्षाच्चतुर्विंशतिवर्षपर्यंत वैश्यस्य अब्दक्रमेणोत्तरोत्तरं निंद्य अर्थादतऊर्व अनधिकारिणो भवंति । तदुक्तं संग्रहे । नृपा १६ कृति २२ जिना २४ ब्दांतं नाति- कालस्ततः परम् । पातित्यं स्यादग्रजादेात्यस्तोमो विशोधनमिति । तथाच कात्यायन- गृह्ये ।आषोडशाब्दाह्मणस्यानतीतः काल आद्वाविंशात्क्षत्रियस्याचतुविशाद्वैश्यस्यात ऊर्ध्व पतितसावित्रीका भवंति नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्न चैभिर्व्यवहरेयुः । काला-

२२
-
मुहूर्तमार्तडः।
संस्करप्र०
तिक्रमे नियतवत्रिपुरुषं पतितसावित्रीकाणामपत्ये संस्कारो नाध्यापनं तेषां संस्कारेऽप्सु-
व्रात्यस्तोमेनेष्ट्वा काममधीयीरन् व्यवहार्या भवंतीति वचनादिति । अथ स्वाव्दात्प्रा-
गपि अध्ययनौत्सुक्यादुपनयनकालमाह-पंचाष्टांकाब्दतो वेति । पंचमाष्टमनवमवर्षेभ्यः
सकाशादेषां ब्रह्मक्षत्रविशां क्रमेण प्रपठनरुचितः वेदादिपठनरुच्या तद्रतं शस्तमाहुर्मु-
नयः । उक्तं च संग्रहे । ब्रह्मवर्चसमूर्जश्च विद्यायुःश्रीर्यशः सुखम् । विप्रादेरुपनीतस्य
पंचाष्टांकान्दतः फलम् ॥ १४ ॥
अथात्र गुरुबलाबलं वृत्तेनैकेनाह-
राशेः षट्च्याद्यवस्थो गुरुरिह शुभदः पूजया स्यात्तयापि
प्रांत्योंऽबुस्थोऽष्टमो नो यदि निजगृहगस्तुंगगोऽत्रापि शस्तः ।
एवं कन्यक्षतः स्यादतितरगुणिनो लब्धये वाऽतिकालेऽ
निष्टोऽपीह द्विरोऽटमभवनगतःशोभनः स्यात्रिरWः॥१५॥
राशेरिति॥राशेः जन्मराशेः सकाशात् षदव्याद्यखस्यो गुरुः इहास्मिन्बतबंधे पूजया
शुभदः स्यात्। षट् षष्ठं वितृतीय आद्यं जन्मराशिः खं दशमं एषु तिष्ठतीति तथा ।
तयापि पूजयापि प्रांत्यो द्वादशः अंबु चतुर्थः अष्टमः न शुभदः स्यात् । पूजयापि अ-
शुभदः स्यादित्यर्थः । स यदि निजगृहगः स्वगृहगः धनुमनिंग इत्यर्थः । तुंगगो वा यदि
भवति तदा इह दुष्टस्थानेषु वर्तमानः शस्तः स्यात् । अस्य तुंगं कर्कटः । तदुक्तं बृह-
ज्जातके । अजवृषभमृगांनागकुलीरा झषवणिजौ च दिवाकरादि तुंगाः । दश १.
शिखि ३ मनुयुक् २८ तिथी १५ द्रियांशै ५ स्त्रिनवक २७ विशतिभि २० श्च तेऽ-
स्तनीचा इति । अर्थादुक्तस्थानेभ्योऽन्यस्थानगः शुभदः स्यात् । एवं कन्यक्षतः स्यात्
कन्यक्षतः कन्याराशेः सकाशात् एवमुक्तवत् शुभाशुभः स्यात् । अतितरगुणिनो वरस्य
लब्धये अतिकाले वा अनिष्टोऽपि गुरुदशचतुर्थाष्टमः द्विरर्यः षट्याद्यसस्थस्य
शास्त्रे या पूजोक्ता तत्प्रमाणतो द्विरWः। तेन द्विगुणार्चनेन शोभनःस्यात् । एवं सामा-
न्येनोक्त्वा अष्टमस्य विशेषमाह-अष्टमभवनगतः त्रिरर्यः तेन शोभनः स्यात् । अत्र
बृहस्पतिः । झषचापकुलीरस्थो जीवोप्यशुभगोचरः। अतिशोभनतां दद्याद्विवाहोपनया-
दिषु ॥ व्रते जन्मत्रिखारिस्थो जीवोपीष्टोऽर्चनात्सकृत् । शुभोऽतिकाले तुर्याप्टव्ययस्थो
द्विगुणार्चनात्॥उद्वाहतले। कन्याद्विसुतधुनायनवमे श्रेष्ठो गुरुश्चान्यथा पूज्योऽष्टांत्यसुखे.
तिकाल इह तु प्राज्ञैरिय॑ः शुभः । रिःफांबुत्रिधनाभ्रगैर्यदि ग्रहै: श्रेष्टोऽपि विद्धो
यसन्वामाद्विद्ध इहेष्टदो न निधने वेधस्त्रिरर्यः शुभः इति ॥ १५ ॥
अथ गुरोर्वामवेधमाह-
द्वीष्वायागांकसंस्थो व्ययजलनिधनत्र्यभ्रगैश्चेन्न विद्धः
शस्तोऽनिष्टोऽपि वामं शुभ इह खचरैवेधितो नोष्टमस्थः।
शुक्ले माघादिपंचस्विनशुभदिवसे प्राग्दलेऽह्रो व्रतं स-
त्यक्त्वाऽनध्यायरिक्तातिथिमुनिमदनांश्चंद्रभागं प्रदोषम् ॥१६॥

संस्करप्र० मातंडवल्लभाख्यव्याख्यासहितः। २३ - द्वीष्विति॥द्वीष्वायागांकसंस्थो गुरुस्तदा शुभः स्यात् । तदा कदा। यदि व्ययजलनि- धनत्र्यभ्रगैः खचरैर्न विद्धः स्यात् द्विर्द्वितीयं इषुः पंचमं आय एकादशं अगः सप्तमं अंकः नवम एतत्संस्थो गुरुः व्ययं द्वादशं जलं चतुर्थे निधनं अष्टमं त्रि तृतीयं अभ्रं दशमं एतत्संस्थैः खचरैः यदि नो विद्धो भवति तदा शुभः स्यात् २।५।११।७।९।१२। ४।८।३।१०वेधितश्चेदशुभ इत्यर्थः । अनिष्टोऽपि व्ययजलनिधनत्र्यभ्रगोऽपि वामं विद्धः सन् द्वीष्वायागांकसंस्थैः खचरैवेधितः सन्नित्यर्थः । इह अस्मिन्बतबंधे विवाहे वा शुभः नोऽष्टमस्थः अष्टमस्थो वेधितो न शुभदः स्यादित्यर्थः । सोतिकालादौ त्रिगुणार्चनेनैव शुभः स्यात् । तथा च बृहस्पतिः। रजस्वला यदा कन्या गुरुशुद्धिं नचिंतयेत्। अष्टमेऽपि प्रकर्तव्यो विवाहस्त्रिगुणार्चनात् ॥ अथोपनयने मासादिकमाह-शुक्ल इति । शुक्ले शुक्लपक्षे माघादिपंचमासेषु ज्येष्ठांत्येषु इनशुभदिवसे इनः सूर्यः शुभाः वर्धमानेंदुगुरुबुधशुक्राः एषां दिवसः तस्मिन् अह्नः प्राग्दले दिवसस्य पूर्वार्धे व्रतमुपनयनं सत् शुभं स्यात् । किं कृत्वा अनध्यायरिक्तातिथिमुनिमदनान् चंद्रभागं प्रदोषं त्यक्त्वा । अनध्यायाः वक्ष्य- माणाः रिक्तातिथयश्चतुर्थीनवमीचतुर्दश्यः मुनिः सप्तमी मदनस्त्रयोदशी एतान् चंद्र- भागः कौशः पापांशादिकं पुरैव निषेधितं प्रदोषोऽनध्यायप्रकरणोक्तःतं त्यक्त्वा॥१६॥ अथ व्रतबंधे नक्षत्राण्याह- शस्तो द्वीशाग्निशाक्रांतकपितरहितैः सर्वभौजिबंधो वेदेशे ज्ञे बलाढ्ये गुरुसितकुजवित्संज्ञका वेदपाः स्युः। स्वर्णोच्चांशेषु सौम्याः श्रुतिपतिरपि चेत्केंद्रकोणस्थिताः स्यु- वर्णी वेदार्थवेत्ता पशुगृहधनवानत्र मंदेंऽत्यसेवी ॥१७॥ शस्त इति॥ स्पष्टं उक्तंच । मघा च भरणी ज्येष्टा विशाखा चैव कृत्तिका । नक्षत्र- पंचकं प्राज्ञैर्न ग्राह्यं व्रतबंधने ॥ वेदेशे वेदपतौ ज्ञे बुधे बलाढ्ये सति स्थानादिबलसमृद्धे सति । ते के वेदेशा इत्यपेक्षायामाह-गुरुसितकुजवित्संज्ञकाः क्रमात् वेदपाः वेदाधि- पतयः स्युः ।गुरुः ऋग्वेदस्य शुक्रो यजुर्वेदस्य कुजः सामवेदस्य वित् बुधोऽथर्वण- वेदस्य पतिरित्यर्थः। अथ लग्नगोचरबलमाह-स्वर्वोच्चांशेषु सौम्या इति। सौम्याः स्वोच्च- खभांशेषु वर्तमानाः श्रुतिपतिरपि वेदपतिरपि खोचस्वभांशे वर्तमानश्चद्यदि केंद्रकोण- स्थिताः स्युस्तदा वर्णी ब्रह्मचारी वेदार्थवेत्ता स्यात् । न केवलं वेदार्थवेत्तास्यात् अपितु पशुगृहधनवान् स्यात्। अत्र केंद्रकोणे शनौ मंदे सति अंत्यसेवी अंत्यजसेवकः स्यात् तस्मात्केंद्रकोणे शनिन भवितव्यः । उक्तं च संग्रहे । केंद्रस्थितैरिनाद्यैर्नृपसेवी विटाक्रियः श्ववृत्तिश्च । वेदाभ्यासी यज्वा ऋतुकर्ता हीनसेवको भवतीति ॥ १७ ॥ अथ लग्नभंगानाह- चंद्रक्रूरा विलग्ने शशिसिततनुपाः षष्टगेहे सितोऽत्ये सर्वे रंध्रे बटुघ्नाः कच तनुग इनः श्रेष्ठ उच्चेदुरेके । ।

२४ । मुहूर्तमार्तडः। संस्कारप्र० विद्यां मौंज्युक्तकाले स्थिरचरहरिजव्युत्तरब्राह्महीने मौंज्या ऊर्व गणेशं गिरमपि विधिवत्पूजयित्वारभेत ॥ १८ ॥ चंद्र इति॥चंद्रक्रूराः क्रूरग्रहाः विलग्ने तनौ शशिसिततनुपाः षष्ठे गेहे शशी चंद्रः सितः शुक्रः तनुपो लग्नपः षष्ठगेहे सितः शुक्रः अंत्ये द्वादशस्थाने शेषं सुगम सर्वे रंध्रे अष्टमस्थाने एते प्रत्येकं वटुन्नाः बटुमारकाः भवंति किंच क्वचित् अन्यलग्नाभावे तनुगः लग्नगः इनः रविः श्रेष्ठः । उक्तं च मौंजीपटले । शुभदो बलवान् भानुर्लग्नगो दशमस्तथा। सर्वशा- खाधिपो यस्मात्सर्वेषां व्रतबंधने ॥ सर्वशाखाधिपो भानुः केचिदूचुर्महर्षयः । तस्माद्गत्यं- तराभावे लग्नस्थोऽर्कः प्रशस्यते ॥ उच्चेदुरेक इति एके मुनयः उच्चेंदुः उच्चस्थचंद्रः तनुगश्च श्रेष्ठ इति वदति । तद्वाक्यं । चंद्रोदयेऽभिशस्तः स्यात्क्षयरोगी सितेतरे। सिते पक्षे भवेद्यज्वा स्वभे तुंगे विशेषत इति। अस्यार्थः। सितेतरे कृष्णपक्षे चंद्रोदये चंद्रयुक्त- लग्ने सति व्रती अभिशस्तः स्यात् क्षयरोगी च स्यात् । अभिशस्तो नाम मिथ्याभिशस्तः मिथ्याभिशंसी अनेनेदं पातकं कृतमिति यं लोका मिथ्या वदंति सोऽभिशस्तः । क्षय- रोगी स्यादिति कृष्णपक्षे लग्नस्थचंद्रफलमुक्तं । सितपक्षे भवेद्यज्वेति वाक्यं स्पष्टं । अयं श्लोकः पुनःसंस्कारविषय इति भाति । यतः कृष्णपक्षे व्रतबंधे चंद्रस्य फलमुक्तं तस्य दिवा असंभवात् पुनःसंस्कारार्हस्य तु कर्मलोपभयात् रात्रावपि संस्कारो विहितो ना- न्यस्य । प्रथमव्रतबंधस्तु सर्वैग्रंथकारैर्दिवैव पूर्वाह्ने विहितो न रात्रौ । अतः कारणादिदं वचनं पुनःसंस्कारविषयं प्रतिभाति । पुनःसंस्कारनिमित्तानि रासभारोहणादीनि धर्मशा- स्त्रप्रसिद्धानि । तादृशं वाक्यं रत्नमालायाम् । त्रिषट्खगोऽर्कस्त्रिधनास्तकर्मगश्चंद्रस्त्रिषष्ठः शनिराहुभौमाः । सर्वे च लाभे द्वित्रिकोणकेंद्रगाः शुभाशुभाः स्युव्रतबंधकाल इति । अत्र तृतीयषष्ठस्य सूर्यस्य रात्रिगतलग्ने संभवः । नारदेन तु लग्नस्थचंद्रो निंदित एव । तद्वाक्यमेवम् । खोच्चसंस्थोपि शीतांशुव्रतिनो यदि लग्नगः ।तं करोति शिशुं निःखं सततं क्षयरोगिणमिति । अन्यलग्नबलं पूर्ववत् । अथ विद्यारंभं वृत्तार्धेनाह-विद्यां मौंज्युक्तकाल इति ॥ मौंज्या ऊर्ध्वं मौज्युक्तकाले विद्यामारभेत मौंज्युक्तः सचासौ कालश्चतस्मिन् विद्यां वेदं आरभेत । मौंज्या ऊर्ध्वमित्यनेन मौंज्याः प्रागनधिकारः सूचितः । किं कृत्वा ग- णेशं गिरमपि सरखतीमपि विधिवद्विध्युक्तमार्गेण पूजयित्वा । कथंभूते मौंज्युक्तकाले स्थिरचरहरिजव्युत्तरब्राह्महीने । स्थिरचरहरिजं । स्थिरलग्नं चरलग्नं तिसृणामुत्तराणां समाहारस्युत्तरं ब्राह्यं रोहिणी एभिहीने रहिते। मौंज्यर्थमेतानि गृहीतानि विद्यारंभे अग्रा. ह्याणीत्यर्थः । जाज्यं स्थिरे द्वयंगलग्ने सुविद्याप्तिश्चरे भ्रम इति श्रवणात् ॥ १८ ॥ अथ केशांतं मौंजीविमोक्षं च वृत्तार्धेनाह- केशांतं चौलवत्स्यान्नृपमितशरदीत्याहुरार्या व्रतोक्ते काले मौंजीविमोक्षं गुरुबलमनयो वलोक्यं सुधीभिः । शूद्राणां मौज्यभावाचदुदिततिथिभेऽनस्तभौमेज्यशुक्रे व्यारेवारे लवे मास्युपयमविहिते थरिकाबंधमाहुः॥१९॥ ।

विवाहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। केशांतमिति ।। तदुक्तं मनुना । केशांतः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यब- घोविंशे वैश्यस्य व्यधिके तत इति । केशांतं कर्म नृपमितशरदि षोडशे वर्षे चौलव- त्स्यादित्यार्या आहुः। सर्वं चौलोक्तमत्र ग्राह्यमित्यर्थः। व्रतोक्ते काले मौंजीविमोक्षमाहुः स्पष्टं । अनयोः केशांतमौंजीविमोक्षयोः गुरुवलं सुधीभिर्नावलोक्यं । अथ शूद्राणां मौं- ज्यभावाच्छूरिकाबंधं वृत्तार्धेनाह--शूद्राणां मौंज्यभावात्तदुदिततिथिभे मौंज्युक्ततिथिन- क्षत्रे अनस्तभौमेज्यशुऊः उदितैः भौमगुरुशुकैः व्यारे वारे आरोभौमः तद्रहितवारे लवे नवांशे यत्र कुत्रापि लग्ने भौमनवांशवर्जित इत्यर्थः । उपयमविहिते मासि विवाहोक्त- मासे विवाहोपयमौ समाविल्यमरः । छूरिकाबंधं कटिप्रदेशे छूरिकाबंधनमाहुः । तथाच संग्रहे । शूद्राणां राजपुत्राणां मौंज्यभावेऽस्त्रबंधनम् । मौंजीबंधोक्ततिथ्यादौ कार्य भौम- दिनं विना । नारदः । छुरिकाबंधनं वक्ष्ये नृपाणां प्राक्करग्रहात् । विवाहोक्तेषु मासेषु शुक्लपक्षेप्यनस्तगे ॥ जीवे शुक्रे च भूपुत्रे चंद्रताराबलान्विते । मौंजीबंधह्मतिथिषु कुज- वर्जितवासरे ॥ तेषां नवांशके कर्तुरष्टमोदयवर्जिते। शुद्धेऽष्टमे विधौ लग्नषडष्टांत्यवि- वर्जिते । धनत्रिकोणकेंद्रस्थैः शुभैस्यायारिगैः परैः । छुरिकाबंधनं कार्यमर्चयित्वा सुरा- पितॄन् । अर्चयेच्छूरिकां सम्यग्देवतानां च सन्निधौ । ततः सुलग्ने बनीयात्कट्यां लक्ष- णसंयुताम् ॥ तस्यास्तु लक्षणं वक्ष्ये यदुक्तं ब्रह्मणा पुरा । संमितं छूरिकायाम विस्ता- रेणैव ताडयेत् ॥ भाजितं गजसंख्यैश्च अंगुलान्परिकल्पयेत् । शेषं चैव फलं वक्ष्ये ध्वजाये धनवान् भवेत् ॥ धूमाये मरणं सिंहे जयः श्वायेऽतिरोगिता । धनलाभो वृषे- ऽत्यंतं दुःखी भवति गर्दभे ॥ गजायेऽत्यंतसंप्रीतिवाक्षे वित्तविनाशनमिति । सर्वत्र त्याज्यप्रकरणोक्तं विलोक्यम् । अस्मिन्प्रकरणे कर्णवेधवृत्तं विना सर्वाणि स्रग्धरावृत्ता- नि॥१९॥इति खोक्तमुहूर्तमार्तडटीकायां मार्तडवल्लभायां गर्भाधानादिसंस्कारप्रकरणम्॥ अर्थ विवाहप्रकरणम् । अथ विवाहप्रकरणं विवक्षुस्तावद्वटितगुणविचारं द्वादशभिर्वृत्तैराह-अतः परमत्र ग्रंथे सर्वाणि शार्दूलविक्रीडितानि । शुद्धां गोत्रकुलादिभिर्गुणयुतां कांतां वरश्चोरहे- द्वर्णोवश्यभयोनिखेचरगणाः कूटं च नाडी क्रमात् । वर्णाद्या बलिनो यथोत्तरमहींदूर्ध्व गुणैक्यं शुभं वर्णा विप्रमुखा झषादिह वरो वर्णोत्तमः स्याच्छुभः॥१॥ शुद्धामिति ॥ वरः गोत्रकुलादिभिः शुद्धां कांतां कमनीयां कन्यां उद्वहेत् । चका- राद्वरोऽपि एवं विधो भाव्यः । गोत्रशुद्धिग्रंथांतराज्ज्ञातव्या । कुलमपि पंचसप्तनिर्णयमपि एतद्वयं ग्रंथांतरात् ज्ञात्वा अन्यदत्रावलोकयेत् । अथ यथोत्तरं बलिष्ठं घटितक्रममाह- वर्णइति । वर्णः १ वश्यं २ भं ३ योनिः ४ खेचरः ५ गणः ६ कूटं ७ नाडी ८. क्रमाद्यथोत्तरं बलिनः स्युः । अहींदूर्व अष्टादशाधिकं गुणैक्यं यथोत्तरं शुभं स्यात् । तत्रादौ वर्णलक्षणमाह-झषात् मीनात्सकाशात् विप्रमुखाः ब्राह्मणादयो वर्णाः पुनर्गणनयां ३ मुहूर्तमार्तडः। [विवाहप्र० ज्ञेयाः । तद्यथा मीनो ब्राह्मणः मेषः क्षत्रियः वृषो वैश्यः मिथुनः शूद्रः पुनः कर्को ब्राह्मणः सिंहः क्षत्रिय इत्यादि । इहास्मिन् राशिमेलने वर्णोत्तमो वरः शुभः स्यात् नान्यथेत्यात्सिद्धम् ॥ १॥ अथ वृत्तार्धेन वश्यमाह- नुर्भक्ष्या जलजा वशा विहरयो वश्या विकौा हरे- रस्यालिन शुभो नुरब्जहरयो नेष्टाः स्युरन्यज्जनात् । भे गण्येऽकहते मिथस्त्यगशराः शेषं न सच्चाविभा- दश्वेभाव्यहिभोगिनः श्वकमुङ्मेषाखुभुग्द्युंदुराः ॥२॥ नुर्भक्ष्या इति ॥ नुः नृराशेः मनुष्यराशेः जलजा जलचरा भक्ष्याः। तस्यैव विहरयः सर्वे वश्याः विगतः हरिः सिंहो येभ्यस्ते विहरयः सिंहरहिताः सर्वे वश्या इत्यर्थः । हरेः सिंहस्य विकौर्ष्याः वश्याः कौर्यों वृश्चिकः विगतः कौर्यों येभ्यस्ते विकौर्ष्याः । सिंहस्य वृश्चिकरहिताः सर्वे राशयो वश्याः । अथानंतरोक्तस्य हरेः अलिवृश्चिको न शुभः वैरीत्यर्थः। नुः मनुष्यराशेः अब्जहरयः नेष्टाः स्युः अब्जाः जलजाः हरिः सिंहः एते नेष्टाः मेलनं न कर्तव्यमित्यर्थः। अन्यज्जनात् अन्यत् वश्यभक्ष्यादिकं जनाज्ञ- यं। तद्यथा नुः पुरुषस्य गौर्वश्या भवति अत्र परस्परं मित्रत्वं दृश्यते तस्मादनयोर्मेलनं शुभं स्यात् । इदमेव म्लेच्छजातीयवधूवरयोर्न शुभं म्लेच्छानां गौर्भक्ष्यं इत्येवं लोकप्र- चारतो विचारणीयमित्यर्थः । राशिखरूपं बृहज्जातकवशादवगंतव्यम् । बृहज्जातके। मत्स्यौ घटी नृमिथुनं सगदं सवीणं चापी नरो श्वजघनो मकरो मृगास्यः । तौली स- सस्यदहनाप्लवगा व कन्या शेषाः खनामसदृशाः खचराश्च सर्वे ॥ अथ भयोनी द्वाव- पि वृत्तेनैकेनाह-भे गण्ये इति । मिथः परस्परं वधूवरयोर्भ नक्षत्रे वधूनक्षत्राद्वरनक्षत्रं गण्यं वरनक्षत्रात्कन्यानक्षत्रं गण्यं उभे अपि नवभिर्भाजिते कार्ये शेषं स्त्रयगशराः त्रिसप्तपंच भवंति तदा न सत्स्यात् । अथ योनिमाह-अश्विभादिति । अश्विभात्सका- शात् भानां नक्षत्राणां अश्वादयो योनयो भवंति अश्वोऽश्विन्याः इभो भरण्याः अवि- मेषः कृत्तिकायाः अहिः सो रोहिण्याः भोगी सर्पो मृगस्य श्वा श्वानः आर्द्रायाः वृकं उंदुरुं भुनक्तीति वृकभुक् मार्जारः पुनर्वसोः मेषः प्रसिद्धः पुष्यस्य आखुभुक् मा- र्जार आश्लेषायाः द्वधुदुरौ द्वौ उंदुरौ मघापूर्वाफल्गुन्योः ॥ २ ॥ गौः काली पशुभुमहिष्यथ पशुद्विड् द्वौ मृगौ श्वाकपि- द्वौ बधू कपिसिंहवाजिहरिगोनागाः क्रमाद्योनयः। सिंहेभं महिषाश्वमोतुखनकं श्वैणं च कीशावि गो- ॥३१॥ व्याघ्र बभ्रुफणीति भीरुवरयोः प्रेष्येशयोश्च त्यजेत् ॥३॥ गौरिति ॥ गौरुत्तराफल्गुन्याः काली महिषी हस्तस्य पशुभुक् व्याघ्रश्चित्रायाः महिषी खात्याः पशुद्विद व्याघ्रः विशाखायाः द्वौ मृगौ अनुराधाज्येष्ठयोः श्वा मूलस्य कपि- निरः पूर्वाषाढायाः द्वौ बभ्रू उत्तराषाढाऽभिजितोः बभ्रू नकुलौ कपिर्वानरः श्रवणस्य विवाहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः । २७ सिंहो धनिष्ठायाः वाजी अश्वः शततारकायाः हरिः सिंहः पूर्वाभाद्रपदायाः गौः उत्त- राभाद्रपदायाः नागो हस्ती रेवत्याः ॥ इति योनिमभिधाय योनिवैरमाह--सिंहेभमिति । सिंहश्च इभश्च सिंहेभं सिंहगजं महिषाश्वं ओतुखनकं मार्जारोंदुरं श्वैणं इवानमृगं की- शावि वानरमेषं गोव्याघ्र बभ्रुफणि नकुलसर्प इति वैरम् । भीरुवरयोः वधूवरयोः प्रे- प्येशयोः प्रेष्यः सेवकः ईशः स्वामी एतयोश्च त्यजेत् वर्जयेत् ॥ ३ ॥ अथ ग्रहाणां वैरावैरं विवक्षुस्तावदाशिनाथानाह- भेशा मंशुबुचरबूशुमगुशाः शोगुः क्रियात्स्यू रवे- मित्राणीज्यकुजेंदवः शनिसितौ शत्रू विधोनों रिपुः । मित्रे सूर्यबुधौ कुजस्य विदरिः सूर्येदुजीवा हिता ज्ञस्यार्कास्फुजितौ हितौ विधुररिः सूरेः सितज्ञावरी ॥४॥ भेशा इति ॥ क्रियान्मेषात्सकाशात् भानां राशीनामीशाः भेशाः एते क्रमेण स्युः । मं मंगलो मेषस्य शु शुक्रो वृषभस्येत्यादि स्पष्टम् । रवेः सूर्यस्य ईज्यकुजेंदवो मित्राणि ईज्यो गुरुः कुजो भौमः इंदुश्चंद्रः एते मित्राणि सुहृदः स्युः । शनिसितौ शत्रू शनिः प्रसिद्धः सितः शुक्रः एतौ शत्रू वैरिणौ अर्थादन्ये उदासीनाः । विधोर्नो रिपुः विधो- श्चंद्रस्य रिपुर्नास्ति सूर्यबुधौ मित्रे अन्ये सर्वे उदासीनाः । कुजस्य भौमस्य वित् बुधः अरिः सूर्येदुजीवाः हिताः मित्राणि अन्यौ समौ । ज्ञस्य बुधस्य अर्कास्फुजितौ रविशुक्रौ हितौ मित्रे विधुश्चंद्रः अरिः वैरी अन्ये समाः। सूरेः गुरोः सितज्ञौ शुक्रबुधौ अरी वैरिणौ ॥ ४ ॥ मित्राण्यर्ककुजेंदवोऽय भृगुजस्यारी रवींदू हितो मंदज्ञौ च शनेः कुजेंदुरवयो नेष्टाः सितज्ञौ हितौ । पूर्वार्दीतककोत्तरं नरि सुरेऽर्कात्यादितीज्यानिलें- दुश्रुत्यश्विनि मित्रमन्यदसुरे दैत्यैर्नृणां स्यान्मृतिः॥ ५॥ मित्राणीति ॥ अर्ककुजेंदवः रविभौमचंद्राः मित्राणि अन्ये समाः । भृगोः जातः भृगुजः तस्य भृगुजस्य शुक्रस्य रवींदू सूर्यचंद्रौ शत्रू मंदसौ शनिबुधौ हितो मित्रे अन्ये समाः। शनेः कुजेंदुरवयः अरयः सितज्ञौ मित्रे अन्ये समाः। अथ गणमाह- पूर्वास्तिस्रः आर्द्रा प्रसिद्धा अंतको भरणी कः रोहिणी उत्तरास्तिस्रः एतनक्षत्रनवकं नरि भवति नृगणमित्यर्थः । अर्को हस्तः अंत्यं रेवती अदितिः पुनर्वसुः ईज्यः पुष्यः अनि- लः खाती इंदुम॒गः श्रुतिः श्रवणः अश्विनी प्रसिद्धा मित्रं अनुराधा एतन्नक्षत्रनवकं सुरे देवे भवति देवगणमित्यर्थः । अन्यत् कृत्तिका आश्लेषा मघा चित्रा विशाखा ज्येष्ठा मूलं धनिष्ठा शततारका एतन्नक्षत्रनवकं असुरे भवति रक्षोगणमित्यर्थः । दैत्येर्नृणां मृतिर्भवति ॥ ५ ॥ स्याद्देवासुरयोः कलिमुरयोर्मध्यं स्वयोः सौहृदं नैस्व्यं द्विव्ययके षडष्टसु विपद्वैपुत्र्यमर्थाकके ।

२८ मुहूर्तमार्तडः । [ विवाहप्र० शेषेऽर्था विविधा विभकचरणे भिन्न क्षराश्यैककं भिन्नांध्येकभमेतयोगणखगौ नाडीनृदूरं च न ॥६॥ स्यादिति ॥ देवासुरयोर्देवदैत्ययोः कलि: स्यात्। नृसुरयोदेवयोर्मध्यं स्यात्। खयो- मलने सौहृदं स्यात् । अथ कूटमाह-द्विव्ययके द्विादशे नैव्यं निखस्य भावो नैस्व्य निर्धनवं स्यात् । षडष्टसु विपत् मरणं स्यात् । वैपुत्र्यमथांकके अर्थाकके पंचमनवमे वैपुत्र्यं अनपत्यवं स्यात् शेषे उर्वरिते तृतीयैकादशे चतुर्थदशमे उभयसप्तमे एकः विविधार्थाः धनपुत्रपश्वादयः स्युः । कथंभूते शेषे । विभैकचरणे विगतं भैकचरणं नक्षत्रै- कचरणं यस्मात् तथा तस्मिन्नक्षत्रैकचरणे कूटे अनिष्टं फलं श्रूयते । एकराशौ शुभो- द्वाह एकभांशे मृतिप्रद इति । एकऋक्षस्य चत्वारो भेदाः एकराशिर्भिन्नदं एकः भि- नराशिः एकराशिनक्षत्रं भिन्नचरणं एकराशिनक्षत्रचरणं चेति चत्वारो भेदाः तत्र एकराशिनक्षत्रचरणं निंदितं । विभैकचरण इति । अथ शुभकूटे यद्भिन्नक्षराश्यैककं भिन्ननक्षत्रराश्यैकत्वं यच्च भिन्नांध्येकभं एतयोर्गणखगौ नाडीनृदूरं च न । अत्र किमपि नावलोक्यं शुभमित्यर्थः । नृदूरं वक्ष्यमाणं । भिन्नांध्येकभमित्यत्र भेदद्वयमागतं भवति एकक्षभिन्नराशिकं अपरं एकराशिनक्षत्रभिन्नचरणं तस्मात् एकराशिनक्षत्रचरणं त्यक्त्वा त्रिषु भेदेषु गणादिकं न चिंतयेत् । तत्र गणादिदोषे सत्यपि शुभं स्यादित्यर्थः । उक्तं व बृहस्पतिना । एकराशौ पृथग्धिष्ण्ये पृथग्राशौ तथैकभे । गणनाडीनृदूरं च ग्रहवैरं न चिंतयेत् ॥ कालनिर्णये। दंपत्योरेकनक्षत्रे भिन्नपादे शुभावहम् । दंपत्योरेकपादे तु वर्षांते मरणं ध्रुवमिति ॥ ६ ॥ अथ ग्राह्यषटकाष्टकं द्विादशं चाह- षट्काष्टे समभं च षष्ठसहितं चेच्छोभनं स्यात्सम भं द्विादशके द्वितीयसहितं श्रेष्ठं स्त्रियायुग्धरिः। मूलेंद्रार्कभपाश्यजैकचरणादित्यार्यमेशान्चिभै- १५ र्याम्यद्वीज्यभमित्रभाग्यवसुभत्वाष्ट्रांब्बहिर्बुध्न्यभैः ॥ ७ ॥ अन्यैर्नाड्य इहैकनाडिनवके स्यातां द्विभे चेन्मृति- गोदादक्षिणतः कचिन्नृपमुखे पा(कनाडी हिता । मैत्र्याट्विव्ययमर्थनंदमपि सत्षट्काष्टकं वश्यतः ॥२६॥ षड्भिः स्त्री नृगणा वरोऽस्रपगणः सत्कूटमैत्र्योस्तदा ॥८॥ षट्काप्टे इति ॥ समभं कर्ककन्यादि चेद्यदि षष्ठसहितं स्यात्तदा शोभनं स्यात् ग्राह्यं स्यादित्यर्थः । तद्यथा वृषः समभं तस्मात्सकाशात् षष्ठेन तुलाधारेण सहितं यदि भवति तदा ग्राह्यं स्यादित्यर्थः । तत्स्वामिनो मैत्र्यभावात् समभं अष्टमेन समं न ग्राह्यम्। एवमेव ग्राह्याग्राह्यं विलोकयेत् । अथ ग्राह्यं द्विादशं चाह-द्विदशके समभं द्वितीयसहितं यदा भवति तदा श्रेष्ठं शोभनं स्यात् विपरीतमसत् । अत्र सिंहे विशेष- विवाहप्र०] मातंडवल्लभाख्यव्याख्यासहितः । २९ माह--स्त्रियायुग्धरिरिति । विषमोपि सिंहः स्त्रिया कन्यया युक् युक्तः श्रेष्ठः । अथ नाडी- माह-मूलेति । अत्र श्लोके तृतीयांतैस्त्रिभिः पादैः तिस्रो नाड्यः सूचिताः । मूलं प्रसिद्धं इंद्रो ज्येष्ठा अर्कभं हस्तः पाशी शततारका अजैकचरणं पूर्वाभाद्रपदा आदित्यं पुनर्वसुः अर्यमा उत्तराफाल्गुनी ईश आर्दा अश्विभं अश्विनी एभिर्नक्षत्रनवकैरेकनाडी भवति । याम्यं भरणी इंदुर्मगः ईज्यभं पुष्यः मित्रं अनुराधा भाग्यभं पूर्वाफाल्गुनी वसुभं धनिष्ठा त्वाष्ट्रं चित्रा अंबु पूर्वाषाढा अहिर्बुभ्यं उत्तराभाद्रपदा एभिनवनक्षत्रैरेकनाडी भवति । अन्यरुर्वरितैर्नक्षत्रैरेकनाडी एवं तिस्रो नाड्यो भवंति । इह विवाहविषये यदा एकनाडीनवके द्विभे वधूवरयोर्भे नक्षत्रे चेत्स्यातां तदा मृतिमरणं स्यात् । अथ गौ- तम्यादिदक्षिणे देशे क्षत्रियादीनां च अन्यवध्वा अलाभे गतिमाह-गोदादक्षिणतः गोदा गौतमी तस्याः दक्षिणतः दक्षिणे देशे सर्ववर्णे नृपमुखे क्षत्रियादौ सर्वदेशस्थे क्वचित् अन्यकन्यायाः अलाभे सति पाकनाडी हिता शुभा स्यान्न मध्यनाडी । उक्तं च रत्नकोशे । अग्रनाडीव्यधे भर्ता मध्यनाडीव्यधे द्वयम् । पृष्ठनाडीव्यधे कन्या म्रि- यते नात्र संशयः ॥ समासन्ने व्यधे शीघ्र दूरव्यधे चिरेण तु । व्यधांतरभमानेन वर्षे दुष्टं प्रजायत इति ब्राह्मणविषयम् । जठरे निर्धनत्वं च गर्भे मरणमेव च । पृष्ठे दौर्भा- ग्यमाप्नोति तस्मात्तां परिवर्जयेदिति ॥ ज्योतिःप्रकाशे । निधनं मध्यनाड्यां च दंप- त्यो व पार्श्वयोः । अस्य व्यवस्था तत्रैवोक्ता । करग्रहे पृष्ठनाड्यौ न निंद्ये इति यद्वचः। तत्क्षत्रियादिविषयं गौतमीयाम्यतस्तथेति ॥ अथ पूर्वोक्तानां द्विादशादीनां शुभत्व- माह-मैत्र्येति । मैत्र्या ग्रहमैन्या द्विव्ययं द्विादशं अर्थनंदं पंचमनवमं सत् शुभं स्यात् वश्यादिषभिः षट्राष्टकं शुभं स्यात् वश्यभयोनिखेचरगणनाडीभिः षडष्टकं शुभं स्यादित्यर्थः । अथ यदा स्त्री नृगणा वरोऽस्रपगणो रक्षोगणः स्यात्तदा तन्मेलनं स- स्कूटमैत्र्योः सत्योः शुभं स्यात् ॥ ७ ॥ ८ ॥ रक्षःस्त्री नृपुमान् यदा वशमुखैः षड्भिर्युतं शोभनं स्त्रीभान्ना निकटे नृदूरमशुभं खेटोडुमैत्र्योः शुभम् । व्यर्के ताम्रसुवर्णमष्टरिपुके गोयुग्ममर्थाकके रौप्यं कांस्यमथैकनाडियुजि गोस्वर्णादि दत्त्वोद्वहेत् ॥ ९॥२ रक्ष इति ॥ यदा रक्षःस्त्री रक्षोगणा स्त्री नृपुमान् नृगणः पुरुषः स्यात्तदा वशमुखैः षङ्गिः वश्यभयोनिखेचरकूटनाडीत्येतैः षड्र्युितं तन्मेलनं शुभं स्यात् । अथ नृदूरं सापवादमाह-स्त्रीभादिति । स्त्रीभात् स्त्रीनक्षत्रात् ना इति नृनक्षत्रं यदि निकटे समीपे भवति तदा नृदूरं स्यात् । कथंभूतं नृदूरं ।अशुभं अशुभफलदं इदं नृदूरं खेटोडुमैत्र्योः सत्योः शुभं स्यात् । उडुमैत्री नक्षत्रमैत्री योनिमैत्रीति यावत् । अथ संकटे दुष्टकूटादौ दानमाह-द्वयर्केति । द्वयर्के द्विादो. ताम्रसुवर्णादि दत्त्वा उद्वहेत् । अष्टरिपुके षडष्टके : गोयुग्मं गोमिथुनं दत्त्वा उद्वहेत् । अर्थाकके पंचमनवके रौप्यं कांस्यं दत्त्वोद्वहेत् । अथै- कनाड्यां दानमाह-एकनाडियुजि गोस्वर्णादि दत्त्वोद्वहेत् । एकनाडीयोगे गोवर्णान्नव- स्त्राणि बहूनि दत्त्वोद्वहेत् । तथाच राजमातडे । षडष्टके गोमिथुनं प्रदद्यात्कांस्यं स- ३० - मुहूर्तमार्तडः। [विवाहप्र० रौप्यं नवपंचमे च । नाड्यां च धेन्वन्नसुवर्णवस्त्रं द्विादशे ब्राह्मणतर्पणं च ॥ उद्वाह- तत्त्वे । तानं हेम धनव्यये रजतयुकांस्यं शरांके वृषं गां दद्याच षडष्टके द्विजभुजिं वर्णं च नाडीयुताविति ॥ ९ ॥ अथ गुणविचारं त्रिभिर्वृत्तैराह-तत्रादौ वर्णगुणविचारमाह- भूर्वणक्यवरोत्तमेऽथ वशभक्ष्येऽधं द्वयं मित्रयोः खं वैराशनके धरारिवशकेऽथो सद्भयोरग्नयः । मिश्रे तच्छकलं त्वथातिसुहृदोर्वेदास्त्रयो मित्रयो- रेकः स्याविषतोः स्वभावगुणयोद्वौ खं महावैरिणोः ॥१०॥ भूवर्णैक्य इति ॥ वर्णैक्यवरोत्तमे भूरेको गुणो ज्ञेयः । वर्णयोरैक्यं यस्मिन्घटिते तद्वर्णैक्यं वर उत्तमो यस्मिंस्तरोत्तमं च उभयत्रापि एको गुणो ज्ञेयः । अर्थाद्धीनवरे गुणाभावः । उक्तं च ज्योतिर्निबंधे । एको गुणः समे वर्णे तथा वर्णोत्तमे वरे । हीन- वर्णे गुणः शून्यं केप्याहुः सदृशे दलमिति ॥ अथ वश्यगुणविचारमाह--वशभक्ष्ये अर्धे एकस्याधं गुणः। वशभक्ष्यं यथा। मनुष्याणां जलजा वशा भक्ष्याश्च तत्र अर्धगुणो ग्राह्यः । एतत्तु द्विजादौ ज्ञेयं । द्विजादयस्तु कदाचिच्छ्राद्धे पाठीनजातीयमत्स्यभक्षका भ- वंति न सर्वेषां तस्माद्वधूवरजाति विचार्य योजनीयं । हीनजातौ शून्यं । यतः खं वैरा- शनके इत्यस्मिन्नेव श्लोके उक्तत्वात्। एवमेव सिंहस्य सर्वे वश्याः भक्ष्याश्च भवंति तत्र मनुष्याः वैरभक्ष्यं वृश्चिकस्तु वैरी अन्ये वशभक्ष्यं । अथ मित्रयोः परस्परं सुहृदोः द्वयं गुणद्वयं ज्ञेयं । तत्र विचारः स्वजातौ मित्रत्वं प्रकटं मनुष्याणां मेषममाश्वमृगैः सह मि- त्रत्वं । तत्र हीनजातीयानां पशवो वशभक्ष्यं तत्रार्धगुणः अन्यत्र द्वयं । अथ अरिवशके धरा एको गुणः । अरिवशकं यथा मनुष्याणां वृश्चिकः सिंहवृश्चिकयोर्नित्यं वैरं वृश्चिकदष्टः सिंहो मरणमाप्नोति इति लोके प्रसिद्धं तस्मादत्र गुणाभावः। प्रथमं वशभक्षणे अन्यज्ज- नादित्युक्तं तस्मात्सुबुद्धिभिर्विचार्य वक्तव्यं । ममात्र वश्यविचारणे बुद्धिरेवं स्फुरिता अत्र यहुरुक्तं तत् बुधैः शोधनीयम् । ननु वश्यभक्षणे कार्यो न वझ्यो हरेरित्येवोक्तं खया कथमुक्तं सिंहस्य मनुष्या वैरिभक्ष्यमिति । सत्यम् । तच्छोकोक्तलक्षणं सर्व सामान्य- मस्ति अतएवोक्तं ग्रंथकर्ता अन्यजनादिति। सिंहस्तु नरगजादिप्रतापिमारणेऽत्युत्सुकः अन्येषां मारणे उदासीनः असदृशत्वात् । उक्तं च । वैरभक्ष्ये गुणाभावो द्वयोः सख्ये गुणद्वयम् । वशवैरे गुणश्चैको वशभक्ष्ये गुणार्धकमिति ॥ अथ तारागुणविचारमाह- सद्भयोः उभयतः सत्तारयोः सतोः अग्नयस्त्रयो गुणाः। एतदुक्तं भवति । भे गण्ये कहते इत्यनेन प्रकारेण उभयतोपि यदि सत्तारे भवतस्तदा त्रयो गुणा इत्यर्थः । मिथे तच्छ- कलमिति मिश्रे एकतः शुभा तारा एकतः अशुभा एवंविधे मिश्रे सति तच्छकलं तेषां त्रयाणां शकलं साधैको गुण इत्यर्थः । अन्यथा गुणाभाव इत्यात्सिद्धम् । उक्तं च । एकतो लभ्यते तारा शुभा चैवाशुभान्यतः। तदा सा| गुणश्चैकस्ताराशुद्धौ मिथस्त्रयः॥ उभयोर्न शुभा तारा तदा शून्यं समादिशेत् । अथ योनिगुणविचारमाह-अतिसुहृदो- र्वेदाश्चत्वारो गुणाः मित्रयोस्त्रयः द्विषतोवैरिणोरेकः खभावगुणयोद्वौ महावैरिणोः खं ।

विवाहप्र०]] मार्तडवल्लभाख्यव्याख्यासहितः । शून्यं गुणः स्यात् । एवं पंचप्रकारेण योनिगुणाः अस्य विवेकः । अष्टाविंशतिनक्षत्राणाम- श्वादयः सर्वाश्चतुर्दश योनयः तत्र सिंहेभं महिषाश्वमित्यादि यदुक्तं तन्महरिम् । तत्रा- पि महावरे महिषाश्वं वानरमेषकं एतद्वयं उदासीनं स्वभावगुणं परस्परघाताभावात् । अथैकयोनिषु अतिमित्रत्वं ज्ञेयं एकयोनिष्वपि गजयोः श्वानयोः मार्जारयोर्व्याघ्रयोः सिंहयोः एकयोनित्वेपि न मित्रलं परस्परकलहकारणात् । एतद्युग्मपंचकं खभावगुणं एतद्युग्मपंचकं तु महावैरस्थं महिषाश्वं वानरमेषं एतद्यमित्येतद्युग्मसप्तकं खभावगुणं । व्याघ्रस्तु सर्पोदुरुनकुलेषु उदासीनः सिंहोऽप्येवमेव उदासीनः । तथा एतौ व्याघ्रसिंही अन्येषां वैरिणी सर्पमार्जारयोर्वैरं श्वमेषयोमैत्रं गोमहिष्योमैत्रं उंदुरुसर्पयोर्वैरं एवं शत्रु- मित्रत्वादिकं उदासीनत्वं च विचार्य उक्तवद्गुणा ज्ञातव्याः। औदासीन्ये स्वभावगुणवद्गुण- ग्रहणं । उदासीनानां गुणा यद्यपि नोक्तास्तथापि स्वभावगुणे महिषाश्वे मेषवानरे च औदा- सीन्यं दृश्यते तस्मादेतद्वयं उदासीनं गुणग्रहणं कर्तव्यमित्यर्थाज्ज्ञायते । उक्तं च । महावैरे च वैरे च खभावे च यथाक्रमम्। मैत्रे चैवातिमैत्रे च खंदुद्वित्रिचतुर्गुणा इति॥१०॥ अथ खेचरगुणविचारमाह- एकेशोभयमित्रयोः शरमिता अर्ध समारातिके चत्वारः सममित्रके रिपुहिते भूमिथुदासे त्रयः । नादेवो मनुजा वधूरिह रसास्तद्वैपरीत्ये शराः षट्साम्येऽस्रपपूरुषः सुरवधूरत्रैककोऽन्यत्र खम् ॥ ११॥३९: एकेश इति ॥ एकः ईशो यस्मिंस्तदेकेशं उभयत्र मित्रे यस्मिस्तदुभयमित्रं एकेशं च उभयमित्रं च एकेशोभयमित्रे तयोः शरमिताः पंचगुणा ग्राह्याः। उभयत्रापि पंच पंच ग्राह्या इत्यर्थः । अर्ध समारातिके समः उदासीनः । अरातिः शत्रुः एवं यस्मि- न्मेलने तत्समारातिकं तत्र अर्धे एकस्याधं गुणाः स्युः।रिपुहिते अरिसुहृदि भूमिः एकः। युदासे त्रयः द्वौ उदासीनौ यस्मिन् तत्र त्रयो गुणाः अनुक्ते गुणाभावः । उक्तंच । यत्रैकाधिपतिले च मित्रत्वे गुणपंचकम् । चत्वारः सममित्रे च द्वयोः साम्ये त्रयो गुणाः ॥ मित्रवैरे गुणश्चैकः समवैरे गुणार्धकम् । परस्परं खेटवैरे गुण: शून्यं समादि- शेदिति । अथ गणगुणविचारमाह-नादेव इति । यत्र ना नरो देवगणः वधूर्मनुजा मनुष्यगणा भवति इह रसाः षड्गुणा ग्राह्याः । तद्वैपरीत्ये तयोर्वैपरील्यं तद्वैपरीत्यं तस्मिन् शरमिताः पंच गुणा ग्राह्याः । एतदुक्तं भवति । यत्र नरो मनुष्यगणः वधूर्देवगणा अत्र पंच गुणा ग्राह्या इत्यर्थः । षट् साम्ये गणसाम्ये षड् गुणा ग्राह्याः । यत्र अत्र- पपूरुषः दैत्यगणः पुरुषः सुरवधूः देवगणा स्त्री भवति अत्रैकः एकगुणो ग्राह्यः अन्यत्र उक्तादन्यत्र खं शून्यं गुणो ग्राह्यः स्यात् ॥ ११ ॥ अथ कूटगुणविचारमाह- दुष्कूटे यदि योनिमैत्रमबलादूरं तदांभोधयो नोचेत्वं त्वनयोर्यदैकमिह भूर्भाध्यैक्यके खंगुणः । - . मुहूर्तमार्तडः। [विवाह सत्कूटे वरदूरता भरिपुता षड् भिन्नराश्यैकमे पंचान्यत्र सुकूटके च गिरयोऽथो नाडिभेदे गजाः॥१२॥ दुष्कूट इति ॥ दुष्कूटे द्विादशादौ सति यदि योनिमैत्रं अबलादूरं स्त्रीदूरं स्यात् तदांभोधयश्चत्वारो गुणा ग्राह्याः। नो चेद्यदि योनिमैत्रं अबलादूरं न स्यात्तदा खं शून्य गुणः स्यात्। अनयोर्योनिमैत्रस्त्रीदूरयोर्मध्ये यत्र एकं स्यात् इह भूरेको गुणः भांध्यैक्यके एकनक्षत्रैकचरणे खं शून्यं गुणो ग्राह्यः । अथ सत्कूटे सति यदि वरदूरता भरिपुता उभयोर्वैरं योनिवैरं च स्यात्तदा रसाः षड् गुणा ग्राह्याः । भिन्नराश्यकभे पंच भिन्नराशि च एकभं च अत्र पंचगुणा ग्राह्याः । उर्वरिते सुकूटे गिरयः सप्त गुणा ग्राह्याः । अथ नाडीविचारमाह-अथो नाडीति । नाडिभेदे गजा अष्टौ गुणा ग्राह्याः अनुक्ते गुणा- भावः । इति मुहूर्तमार्तडे घटितम् ॥ १२ ॥ अथ स्त्रीणां विवाहकालमाह--- स्त्रीणामष्टमवर्षतस्त्रिषु नृणां तीर्णव्रतानामयु- श्वब्देष्वत्र च राधमाघयुगयोर्मार्गे विवाहः शुभः। ज्येष्ठं पूर्वजयोस्त्यजेद्धिमरुचिं ज्ञेज्योनखेटान्वितं * यन्मासादिजनुर्भवं प्रथमके गर्भे त्यजेन्नानुजे ॥१३॥ स्त्रीणामिति ॥ स्त्रीणामष्टमवर्षतः सकाशात् त्रिषु वर्षेषु विवाहः शुभः स्यात् अष्टम- नवमदशमेषु शुभः स्यादित्यर्थः । तथाच संवर्तः । अष्टवर्षा भवेद्गौरी नववर्षा च रो- हिणी । दशवर्षा भवेत्कन्या द्वादशे वृषली मतेति । गौरीदानानागलोकं वैकुंठं रोहिणीं ददत् । कन्यादानाद्ब्रह्मलोकं रौरवं तु रजस्वलेति । रजस्खलेति वृषलीपर्यायः । तथाच कारिकायामुक्तम् । षडब्दमध्ये नोद्वाह्या कन्या वर्षद्वयं यतः । सोमो भुक्ते ततस्तद्व- ट्रंधर्वश्च तथाऽनल इति । अस्य वाक्यस्य सहायिनी श्रुतिरपि । सोमः प्रथमो विविद इत्युपक्रम्य सोमो ददद्गंधर्वाय गंधर्वोऽदददग्नये इत्यंता। नन्वस्य विरोधो ब्रह्मपुराणे गौ- तमीमाहात्म्ये भानुतीर्थवर्णने विष्टिभानुसंवादे दृश्यते । भानुरुवाच । चतुर्थाद्वत्सरादूर्व यावन्न दशमात्ययः । तावद्विवाहः कन्यायाः पित्रा कार्यः प्रयत्नत इति । सत्यम् । अत्र पुराणवाक्यं शूद्रादिविषयं न श्रौतस्मार्तब्राह्मणादिविषयं इत्यविरोधः। सप्तमवर्षे विषमत्वा- नारदादिभिः स्त्रीविवाहे नांगीकृतं तस्माच्छास्त्रतत्त्ववेदिना आचार्येण सर्ववर्णानामविरुद्ध- मेवोक्तं स्त्रीणामष्टमवर्षतस्त्रिष्विति ।कथितकालादूर्ध्व कदाचिद्वरालाभनिमित्तादौ समवर्षेषु द्वादशचतुर्दशषोडशेषु विवाहो ग्रंथांतरे उक्तः। कालनिर्णयदीपिकाविवरणे खयंवरार्थ काल- द्वयमुक्तं जीवत्पितृकाया ऋतौ वर्षत्रयानंतरं स्वयंवरकाल: अदातृकाया अपि ऋतौ वर्षत्र- यानंतरं खयंवरकाल: अदातृकाया इत्येतत्सर्ववर्णसाधारणं। कन्याप्रदातारः कालनिर्णयदी- पिकायामुक्ताः। पिता पितामहो भ्राता माता बंधुर्यदा नहि । ऋतौ वर्षत्रयादूर्ध्वं कन्या कुर्यात्स्वयंवरमिति । बौधायनोऽप्याह । वर्षाणि त्रीण्यतुमती कांक्षेत पितृशासनम् । ततश्चतुर्थे वर्षे तु विदेत सदृशं पतिमिति । अथ पुंसां विवाहकालमाह-नृणामिति। नृणां तीर्णव्रतानां कृतव्रतविसर्गाणां अयुग्मेषु विषमेषु अब्देषु वर्षेषु विवाहः शुभः स्यात् । ।

विवाहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। ३ ३ नुर्विशेषे उक्तवर्षेषु कर्तव्य इत्याह । अत्र राधमाघयुगयोः अत्र विषमवर्षेषु राधो वैशा- खः माघः प्रसिद्धः अनयोर्युगे युगले राधयुगं वैशाखज्येष्ठौ माघयुगं माघफाल्गुनावि- त्यर्थः। मार्गे मार्गशीर्षे विवाहः शुभः स्यात् । एते पंच मासाः बहुसंमताः एषु ज्येष्ठं ज्येष्ठमासं पूर्वजयोः प्रथमजातयोः द्वयोस्त्यजेत् । अर्थादेकतरे ज्येष्ठे सति न त्यजेत् । दोषांतरमाह । हिमरुचिं चंद्र शेज्योनखेटान्वितं बुधगुरुरहितान्यग्रहयुक्तं पापग्रहशु- काणामन्यतमयुक्तं त्यजेत्। अनिष्टफलश्रवणात् । मासाद्यं जनिसंभवमिति त्याज्यप्रकर- गोक्तं यत्तस्य विशेषनिर्णयमाह-यन्मासादीति स्पष्टार्थ । नारदः। न जन्ममासे नक्षत्रे न जन्मदिवसेपि वा । आद्यगर्भे सुतस्यापि दुहितुर्वा करग्रह इति ॥ १३ ॥ अथ विवाहनक्षत्राणि सवेधान्याह- मूलांत्यार्कमयास्थिरे(निलयुमैत्रं विवाहे शुभं पापत्यक्तमनिंदुभुक्खलयुतं भोग्यं च विद्धं च भम् । विश्वेंद्रोर्यममित्रयोकिभयोः पैञ्यक्षहोमिथोंs- त्यार्यम्णोः पुनरस्रयोर्वरुणभस्वात्योरुभाहस्तयोः॥ १४ ॥ मूलांत्यार्केति ॥ मूलं प्रसिद्धं अंत्यं रेवती अर्को हस्तः मघा प्रसिद्धा स्थिराणि रो- हिण्युत्तरात्रयं इंदुर्मुगः अनिलं खाती एभिः सहितं मैत्रं अनुराधा विवाहे शुभं शुभ- फलदं । अथैतेषूक्तेषु निंद्यमाह-पापत्यक्तं असत् अनिंदुभुक् चंद्राभुक्तं अशुभं । एतदुक्तं भवति। पापग्रहत्यक्तं नक्षत्रं चंद्रभुक्तिरहितं न शुभं स्यात् । खलयुक्तं पापग्रहयुक्तं भोग्यं विद्धं न शुभं स्यात् । अथ वेधमाह-विश्वेंद्वोः उत्तरामृगयोः यममित्रयोः भरण्यनुरा- धयोः। द्विकभयोः कस्य भे कभे द्वे च ते कभे च द्विकभे रोहिण्यभिजितौ तयोः। पैत्र्य- क्षहर्योः मघाश्रवणयोः मिथः परस्परं । अंत्यार्यम्णोः रेवत्युत्तराफल्गुन्योः पुनरस्रयोः पुन- वसुमूलयोः वरुणभखात्योः शतताराखात्योः उभाहस्तयोः उत्तराभाद्रपदाहस्तयोः मिथः परस्परं वेधः स्यात् इत्युत्तर श्लोकेनान्वयः ॥ १४ ॥ अथ कर्मविशेषेण वेधनिर्णयमाह- वेधोऽयं करपीडने निगदितो नान्येषु तेषु स्मृतो वेधः सप्तशलाकके शिवदिशः कार्शानवायैयुते । वेधोंऽत्यादिमयोकित्रिमितयोरंध्योमिथः सद्भहै- विद्धे भे चरणं त्यजेत्खलखगैः सर्वं त्विहांघ्रिं क्वचित्॥१६॥ वेधोऽयमिति ॥ अयं वेधः करपीडने विवाहे पूर्व मुनिभिर्निगदितः नान्येषु अन्येषु शुभकर्मसु अयं वेधो नोक्त इत्यर्थः । तेषु विवाहान्यकर्मसु सप्तशलाकके स्मृतः किं- १ क्षेपकः ॥ भाग्याये पितृयाम्यभेऽग्निहरिभे विश्वेंदुभेऽत्यार्यमे पुष्येंद्रे द्विकभे स्मरारिजलभे चित्राजपादे मिथः । मूलादितिभे द्विदैववसुभे सार्पानुराधे व्यधोऽ- हिर्बुध्न्यार्कभयोश्च पाश्यनिलयोः सप्ताह्वचक्रे स्मृतः ॥१॥ - ३४ मुहूर्तमार्तडः। [विवाहप्र. भूते सप्तशलाकके चक्रे। शिवदिशः ईशान्याः सकाशात् कार्शानवाद्यैर्युते कृशानुः देवता यस्येति कार्शानवं कृत्तिका सा आद्या येषां तानि तैयुते ईशान्यादि प्रदक्षिणं कृत्तिका- दिनक्षत्रयुक्तमित्यर्थः । विवाहादृते सर्वकर्मसु सप्तशलाकाचके वेधोऽवलोकनीय इति । अथ पादवेधमाह-वेधोंऽत्यादिमयोरिति । अंत्यादिमयोः चतुर्थप्रथमयोः द्विकत्रिमितयोः द्वितीयतृतीययोः अंघ्योश्चरणयोः मिथः परस्परं वेधः स्यात् । अथास्य निर्णयमाह- सत्खगैः शुभग्रहै: भे नक्षत्रे विद्धे सति चरणं त्यजेत् । खलखगैः पापग्रहैः विद्धे सति सर्व नक्षत्रं त्यजेदित्यर्थः । इहास्मिन् पापविद्धे क्वचिदन्यमुहूर्तालाभे सति आधिं चरणं विद्धं त्यजेदित्यर्थः । उक्तं च मांडव्येन । धिष्ण्यं सौम्यग्रहैर्विद्धं पादमानं परित्यजेत् । क्रूरैस्तु सकलं त्याज्यमिति वेधविनिश्चय इति । वैद्यनाथः । वेधमाद्यं तयोरंघ्योरन्योन्यं द्वितृतीययोः। रैरपि त्यजेत्पादं केचिदूचुर्महर्षय इति ॥ १५ ॥ अथ वेधभंगमाह- लग्नेशे भवगेऽथवा शशिनि सदृष्टे शुभे वांगगे होरायां च शुभस्य वा व्यधभयं नास्तीति पूर्वे जगुः । भौमात्र्याकृतिषडूजिनाष्टनखभं हत्यग्रतो लत्तया खेटोऽॉर्कमितं शशी मुनिमितं पूर्णो न सन्मालवे ॥१६॥ लग्नेशे इति ॥ लग्नेशे लग्नस्वामिनि भवगे एकादशगे सति वेधस्य दोषो नास्तीत्येको भंगः । अथवा शशिनि सदृष्टे सति द्वितीयो भंगः।वा इत्यथवा शुभे शुभग्रहे चंद्रवर्जिते अंगगे लग्नगे सति तृतीयो भंगः शुभस्य होरायांचेति चतुर्थो भंगः । एषामन्यतमे सति व्यधभयं नास्तीति पूर्वे मुनयो जगुः आहुः । तथाच वसिष्ठः। लग्ने शुभे सौम्ययुतेक्षिते वा लग्नाधिनाथो भवगस्तथा वा । कालाख्यहोरा च तथा शुभस्य भवेद्धि दोषस्य तथा विभंग इति । उद्वाहतत्वेऽपि । साग्दृक्तनुगे शुभे व्यधभयं नोवाऽयगे लग्नपे होरायां च शुभस्य वा शशिनि सदृष्टेपि चार्यैरुडोरिति । अथ लत्तामाह-भौमादिति । भौमा- त्सकाशात् खेटो ग्रहो राहृतः क्रमाच्याकृत्यादि में नक्षत्रं अग्रतो लत्तया हंति भौमः तृतीयं बुधः आकृतिविंशतिमितं गुरुः षष्ठं शुक्रः जिनमितं चतुर्विशं शनिरष्टमैं राहु- नखमितं विशं लत्तया हंति। अर्कः सूर्यः अर्कमितं द्वादशं शशी पूर्णचंद्रमाः मुनिमितं सप्तमं अग्रतो लत्तया हंति। तद्धतं नक्षत्रं मालवे मालवदेशे न सत् न शुभं स्यात् । उक्तं च । लत्ता मालवके देशे पातं कोशलके तथा । एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ १६ ॥ अथ दोषांतराण्याह- षण्मासं ग्रहणोडुचंद्रतनुगं विद्धक्षजन्मक्षके त्याज्ये जन्मभलग्नके तनुगते सूर्यान्मन्डु त्यजेत् । - विवाहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। ३५ त्याज्याः संक्रमणे रवींदुकुजसौम्यानां रदव्यंकह- झाड्योऽब्ध्यष्ट गुरोः शनेः खतिथयःशुक्रस्य षण्णाडिका १७ षण्मासमिति ॥ षण्मासं षण्मासपर्यंतं ग्रहणोडु ग्रहणनक्षत्रं चंद्रतनुगं चंद्रगतं लग्न- गतं च त्याज्यं चंद्रगतमिति यस्मिन्दिने चंद्रमसा युक्तं भवति तचंद्रगतं दिननक्षत्र- मिति यावत् तनुगं यथा अश्विन्यां ग्रहणे जाते सत्र्यंशत्रयोदशभागांतरमेषलग्ने सति अश्विनी लग्नस्था स्यात्। एवं भरण्याद्यपि ग्रहणोड इत्यनेनैवान्यान्यप्युत्पातदुष्टानि त्या- ज्यानि। विद्धः विद्धनक्षत्रं जन्मः जन्मनक्षत्रं एते उभे तनुगे त्याज्ये। भं च लग्नं च भलग्ने जन्मनि भलग्ने जन्मभलग्ने त एव जन्मभलग्नके जन्मराशिजन्मलग्ने तनुगे त्या- ज्ये लग्नांतर्गतनक्षत्रज्ञानाय स्वकल्पितसूत्रम् । नवघ्नं तनुवेदाप्तं सैकं स्यात्तारकं तनौ । अर्कात् सूर्यनक्षत्रात् मनूडु चतुर्दशनक्षत्रं त्यजेत् । अथ सूर्यादीनां राशिसंक्रमणे त्याज्यघटिका आह-त्याज्या इति ॥ रविचंद्रकुजसौम्यगुरुशुक्रमंदानां संक्रमणे क्रमेण रदद्वयंकहगित्यादय उक्तसंख्यनाड्यस्त्याज्याः । तद्यथा। रविसंक्रमणे रदनाड्यो द्वात्रिं- शघटिका वाः । संक्रमणकालात्पूर्वतः षोडश घटिकाः परतः षोडश घटिकाः एवं द्वात्रिंशद्घटिकास्त्याज्या इत्यर्थः । तथाच । चंद्रसंक्रमणे द्वे नाड्यौ भौमसंक्रमणे नव घटिकाः बुधसंक्रमणे द्वे घटिके त्याज्ये गुरोः संक्रमणे अब्ध्यष्टौ चतुरशीतिघटिकाः शनेः संक्रमणे खतिथयः पंचाशदधिकशतघटिकाः शुक्रस्य षट् नाडिकास्त्याज्या इत्यर्थः। अत्र बाहुल्येन सर्वापेक्षया रवेः संक्रमणनाज्यो बहुभिराचार्दूषिता इत्यर्थः ॥ १७ ॥ अथ संधिदोषमाह- षट्षष्टिक्रतुसंधितस्तिथिभयुक्संधौ द्विनाड्यौ ग्रहा- तत्पादैदिवसांस्त्रिवेदषडिभान्धागर्धितान् संत्यजेत् । उत्पातेऽग्रहमुद्गमं च शिखिनो राकाष्टमीपाग्दले विट्नांत्ये कृतरुद्रयोरबहुले कृष्णे निरेकेष्विह ॥ १८ ॥ षडिति ॥ ऋतुसंधितः वसंतादिऋतुप्रवृत्तेः षट्षष्टिः षड्भिरधिका षष्टिः घटीनां षट्षष्टिस्त्याज्येत्यर्थः । ऋतुप्रवृत्तिलक्षणं रत्नमालायाम् । मृगादिराशिद्वयभानुभोगात्ष- डर्तवः स्युः शिशिरो वसंतः । ग्रीष्मश्च वर्षा च शरच तद्वद्वेमंतनामा कथितोऽत्र षष्ट इति । तिथिभयुक्संधौ तिथिनक्षत्रयोगानां संधौ द्विनाड्यौ पृथक् द्वे द्वे घटिके त्याज्ये । अथ पूर्वमुक्तं ग्रहजनिप्रांतोद्भवं सूतकमिति तत्र ग्रहणलक्षणसूतकमाह-ग्रहादिति । ग्रहात् ग्रहणतः सकाशात् उपरि तत्पादैस्तच्चरणैः ग्रहपादैः त्रिवेदषडिभान् ३।४।६।८ दिवसांस्त्यजेत् । एतदुक्तं भवति । पादैकमात्रग्रहणे त्रीन्दिवसांस्त्यजेत् । अर्धग्रहणे चतुरो दिवसांस्त्यजेत् त्रिपादग्रहणे षड्दिवसांस्त्यजेत् सर्वग्रहणे अष्टदिवसांस्त्यजेत् प्राग्ग्रहणात् प्राक् प्रथमतः अर्धितान् त्रिवेदादीन् दिवसांस्त्यजेत् । एतदुक्तं भवति । १ पाठः -दंतद्वयंकदृशोऽर्कतो युगगजास्तर्काः खबाणेदवो नाडीः संक्रमणे त्यजेद्दिविषदां प्रायो रवेर्दूषिताः ॥

३६ मुहूर्तमार्तडः। [विवाहप्र० पादग्रहणे त्रयाणामधे । तद्यथा पादग्रहणे ग्रहणात्पूर्व सा(कदिवसं ९० नवतिघटिका- स्त्याज्याः । अर्धग्रहणे चतुर्णामधं द्वौ दिवसौ। पादत्रयग्रहणे षण्णामधं त्रीन् । सर्वग्रहणे अष्टानामधं चतुरो दिवसान् ग्रहणात्पूर्वं त्यजेत् । उपरागो ग्रहो राहुग्रस्ते त्विंदी च पूष्णि चेत्यमरः । शाीयविवाहपटले । सर्वग्रासे दिनान्यष्टौ शुभकार्येषु वर्जयेत् । त्रि- भागोने दिवसानग्रासे चतुर्दिनम् ॥ चतुर्थाशे त्रिरात्रं तु ग्रहणे चंद्रसूर्ययोरिति । अत्राप्यंतरालेऽनुपातो ज्ञेयः । तथाचार्टिषेणः । ग्रहणात्रिदिनं पूर्व परतो दिनसप्तकमिति सर्वग्रहणविषयम् । ज्योतिःप्रकाशेपि । खग्रासे सर्वपादोनं खंडांघ्यल्पे तु वासराः । गजाश्वेष्वन्धिरामाब्जा नेष्टाः स्युः प्राग्दले ग्रह इति । अथोत्पाते वय॑कालमाह-उ- त्पातेऽद्रयहमिति ॥ उत्पाते भूकंपनिर्घातमहोल्कानिपातादिके अद्यहं अद्रिमितानां अहां समाहारः अद्यहं सप्ताहमित्यर्थः । उत्पाते जातेसति सप्ताहं शुभकर्मणि त्यजेदित्यर्थः । दोषांतरमाह-उद्गमं च शिखिनः शिखिनः केतोः उद्गमं उदयं त्यजेत् । यावत्केतूदय- स्तावन्मंगलं न कुर्यादित्यर्थः । तथाचार्टिपेणः । परं सप्ताहमुत्पाते त्यजेत्केतूदये शुभ- मिति । भद्राकालमाह-राकाष्टमीप्राग्दले विट् स्यात् । राका पूर्णिमा अष्टमी प्रसिद्धा अ- नयोस्तिथ्योः प्राग्दले पूर्वार्धे विट विष्टिः स्यात् । कृतरुद्रयोः प्रांत्ये कृतं चतुर्थी रुद्र एकादशी अनयोः प्रांत्ये विट् स्यात् । एतद्भद्राचतुष्टयं अबहुले शुक्लपक्षे स्यात् । कृष्णे निरेकेष्विह उक्तेषु तिथिषु निरेकेषु एकरहितेषु कृष्णे कृष्णपक्षे विट् स्यात् । भद्राप- वादः शाीयविवाहपटले दूषितः अतः कारणादत्र नोक्तः ॥ १८ ॥ अथ गंडांतलक्षणमाह- सापेंद्रांतिमभांततोऽब्धिघटिकं पूर्णांततोऽब्ध्यर्धकं कीटांत्यालिविरामतः कुघटिकं गंडांतमूर्ध्वाधरम् । सावैशून्यहगाख्ययोगविरतौ भं तत्र चंडायुधं 11461 दुर्योगे दिनभाच्च साभिजिदयुग्भेऽर्कस्तदैकार्गलः॥१९॥ सापेंद्रांतिमभेति ॥ सार्प आश्लेषा इंद्रो ज्येष्ठा अंतिमभं रेवती एषामंतः तस्मात्का- लाप्राक्परं पूर्वापरतः अब्धिघटिकं गंडांतं स्यात् अब्धयश्चतस्रो घटिका यस्मिन्नित्य- ब्धिघटिकं चतुर्घटिकमित्यर्थः । एतदुक्तं भवति । उक्तनक्षत्रांतात्पूर्वतो घटिकाद्वयं परतो घटिकाद्वयं एवं घटिकाचतुष्टयं नक्षत्रगंडांतम् । अथ तिथिगंडांतमाह-पूर्णाततोऽव्य- र्धकं पूर्णाः पंचमीदशमीपूर्णिमाऽमास्तासां अंततः अब्ध्यर्धकं द्विघटिकं गंडांतं पूर्वा- परतः स्यात् । अथ लग्नगंडांतमाह-कीटांत्यालिविरामतः कुघटिक कीट: कर्काटक: अंत्यो मीनः अलिर्वृश्चिकः एषां विरामोऽवसानं तस्मात्कुघटिकं प्रागर्धघटिका परतो- ऽर्धघटिका एवमेकघटिकं लग्नगंडांतं स्यात् । अथ चंडायुधमाह-सा इति । सा साध्य- योगः वै वैधृतिः शू शूल: व्य व्यतीपातः ह हर्षणः ग गंड: एतदाख्ययोगानां विर- तिरवसानं तत्र यद्भ नक्षत्रं तस्माच्चंडायुधं स्यात् चंडं प्रचंडं महत् एवंविधमायुधं स्यात् । तस्मात्तनक्षत्रं वय॑मित्यर्थः । अथैकार्गलमाह--दुर्योगे दिनभादिति । विष्कंभा- तिगंडशूलगंडव्याघातवज्रव्यतीपातपरिघवैधृतयो नव दुर्योगाः एषामन्यतमे सति दिन- 4 विवाहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः । भाद्दिननक्षत्रात् साभिजिदयुग्भे अभिजिता सह अयुग्भे विषमनक्षत्रे यदाऽर्कः सूर्यो भवति तदा एकार्गल: स्यात् एकाऽर्गला शुभावरोधिनी यस्मिन्नित्येकार्गलः शुभफ- लावरोधक इत्यर्थः ॥ १९ ॥ अथ वारदोषमाह- मूर्यायामदलं दिवैव निगमायश्वीषु नागत्रिपद- संख्याकं कुलिकं दिवेंद्ररविदिङ्नागर्तुवेदद्विकम् । व्येकं तनिशि षोडशांशमपरे तिथ्यंशमुझंति तैः कालं कंटकमैनिघंटममरेज्यज्ञास्फुजियः क्रमात् ॥ २० ॥ सूर्याद्यामदलमिति ॥ सूर्यात्सकाशाद्वारेषु क्रमेण निगमादिकं यामदलं यामार्धमुझंति त्यजति मुनय इति शेषः। निगमाश्चत्वारः तन्मितं रवौ सप्तमितं चंद्रे अश्विनौ द्वौ तन्मितं भौमे इषुमितं बुधे नागा अष्टौ तन्मितं गुरौ त्रिमितं शुक्रे षण्मितं शनौ एतद्यामदलं दिवैव उज्झंति न रात्रौ । अथ कुलिकादीनाह-इनादौ सूर्यादौ वारे दिवा इंद्रादिकं षोडशांशं दिनमानस्य षोडशांशो ग्राह्यः तेन गण्यास्ते षोडशांशा ग्राह्या इत्यर्थः। तं कुलिकमुझंति अपरे तिथ्यंशं पंचदशांशं कुलिकमुज्झंति तनिशि तद्रात्रौ च व्येकं एकरहितं इंद्रादिकं षोडशांशं पंचदशांशमुझंति । तद्यथा रवौ दिवा इंद्रमितं चतुर्दशं तद्रात्रौ त्रयोदशं सोमे दिवा द्वादशं तद्रात्रौ एकादशमित्यादि । अथ तैरेव इंद्रादिभिर्मुहूतैः अमरेज्यज्ञास्फुजिझ्यः सकाशात् क्रमात् कालं कंटकमैनिघंटे इनस्यापत्यं पुमानैनिः यमः तस्य घंटो यमघंट इत्यर्थः । तमुझंति । एतदुक्तं भवति। अमरेज्यो गुरुः तस्मात्सकाशात् तैरेवेंद्रादिभिर्मु- हूतैः कालमुझंति ज्ञादुधात् तैरेवेंद्रादिभिः कंटकं आस्फुजिच्छुक्रः तस्मात्सकाशात् तैरे- वेंद्रादिभिर्मुहूतैः ऐनिघंटं यमघंटमुझंति ॥ २० ॥ अथ दुर्मुहूर्तानाह- शुक्रंद्वीज्ययमेषु गोंकरविभूतुल्या मुहूर्ता दिवा दुष्टाः स्युः कुजनिश्यगो य इतरे संत्यर्धयामादिषु । प्रेक्ष्यः संप्रति वृद्धितुर्यचरणे ब्रह्मद्वितीयेऽपमः मूर्याद्या अनुविश्वपाशियमलेंद्वयर्कभैर्मृत्युदाः ॥२१॥ शुक्रेति॥ शुक्रः प्रसिद्धः इंदुश्चंद्रः इज्यो गुरुः यमः शनिः एषु क्रमेण गोंकरविभूतुल्या मुहूर्ता दिवा दुष्टाः स्युः दुर्मुहूर्ता इत्यर्थः । कुजनिश्यगः कुजनिशि अगः सप्तमो मुहूर्तो दुर्मुहूर्तः । ग्रंथांतरे । अर्यम्णोऽर्के तुहिनकिरणे राक्षसब्राह्मसंज्ञावित्यादिबहवो दुर्मुहूर्ता उक्ताः अत्र खल्पा उक्तास्तेषां परिहारमाह-य इतरे दुर्मुहूर्ता ग्रंथांतरे पठितास्ते सर्वे अर्धयामादिषु संति अतोऽत्र मया नोक्ताः यत अर्धयामादीनां त्यागे तेपि त्यक्ताः स्युः किं ग्रंथविस्तरेणेति भावः । एतत्तु सुज्ञा ज्ञास्यंति यथा रवौ चतुर्दशो मुहूर्तो दुर्मुहूर्तः स्कुलिकोपि चतुर्दशो मुहूर्तः तयोरेकत्र सद्भाव इत्यन्येपि विचारगम्याः । नन्वेवं चे- गैत्तर्हि पूर्वैर्व्यर्थ पठितं। मैवं । तैस्त्वनधिकाधिकदोषविवक्षयोक्तमिति न दोषः। अथ पात- कृ मुहूर्तमार्तडः। [विवाहप्र० संभवकालमाह-प्रेक्ष्य इति । संप्रति सांप्रतं वृद्धितुर्यचरणे वृद्धियोगस्य चतुर्थचरणे तथा ब्रह्मद्वितीये ब्रह्मयोगस्य द्वितीयचरणे अपमः क्रांतिपातो विलोक्यः ब्रह्मसिद्धांतायुक्तप्र- कारेण विलोक्य इत्यर्थः । अथ मृत्यु सर्वत्र वर्जयेदित्युक्तत्वात् मृत्युयोगमाह-सूर्या- द्या इति । सूर्याद्याः अर्कायः क्रमेण अन्वादिभिर्नक्षत्रैः सह मृत्युदाः स्युः अनु अनु- राधा विश्वे उत्तराषाढा पाशी शततारका यमलौ अश्विनी इंदुर्मुगः अहिराश्लेषा अर्क- भं हस्तः । एतदुक्तं भवति । अर्कः अनुराधया सह युक्तो मृत्युदः सोम उत्तराषाढया भौमः शततारकया बुधः अश्विन्या गुरुमंगेण शुक्रः आश्लेषया शनिहस्तेन सहितो मृत्युदः स्यादित्यर्थः ॥ २१ ॥ अथ विषघटिका आह- पंचाश ५० जिन २४ खानय ३० श्च खकृता ४० आखंडला १४मूर्च्छना २१स्त्रिंश३० दिश२०रदाः३२ खराम३०नख२०धृत्ये १८ काश्विनौ २१ विंशतिः २० । शक्रं १४ द्रौ १४ दश १० वासवा १४ रसशराः ५६ सिद्धा२४नखा२०शा१०दिशो १०धृत्य १८ष्टी १६ जिन ११२:२४खाग्नयो३०श्वित इमाभ्योऽग्रेऽब्धिनाड्यो विषम्॥२२॥ पंचाशदिति ॥ अश्वितः सकाशात् नक्षत्रेषु इमाभ्यः पंचाशजिनेत्यादिभ्यो घटि- काभ्योऽग्रे परतोऽब्धिनाड्यश्चतुर्नाड्यो विषं स्यात् । एतदुक्तं भवति । अश्विन्यां पंचा- शद्धटिकाभ्योऽनंतरं चतुर्नाड्यो विषं एवमन्यत् अत्रांकन्यास एव व्याख्यानम् ॥२२॥ अथैषां ध्रुवकानां स्पष्टीकरणमाह- नक्षत्रस्य गतैष्ययोगगुणितः स्वस्वध्रुवः षष्टि ६० हृत् स्पष्टः स्यादत ऊर्ध्वमब्धिघटिकाः स्पष्टाः स्युरेवं कृताः । चंद्रः सौम्यभगोऽथ वा शुभसुहृदृष्टोऽथ वा स्वांशगः कोणास्ताभ्रसुखेषु वा विषभयं हंतीह सांगेऽगपः ॥२३॥ नक्षत्रस्येति ॥ नक्षत्रस्य गतैष्ययोगेन गुणितः स्वस्खध्रुवः पंचाशजिनादिः षष्टिहत् स्पष्टः स्यात् अत ऊर्ध्वं स्पष्टध्रुवानंतरं अब्धिघटिकाश्चतुर्नाड्यो विषं स्यात् एवमुक्तप्र- कारेण कृताः सत्यः स्पष्टाः स्युः । एतदुक्तं भवति ध्रुववच्चतुर्नाड्योपि नक्षत्रगतष्य- योगगुणिताः कार्याः षष्टिहृताः कार्याः ताः स्पष्टाः स्युः स्पष्टानंतरं चतुर्नाड्यो विषा- ख्या ज्ञेयाः ॥ अथ विषघटीनामपवादमाह-चंद्र इति । चंद्रः सौम्यभगः शुभग्रहराशिगः सन् विषभयं हंति अथवा शुभसुहृदृष्टः शुभश्चासौ सुहृच्च तेन दृष्टः सन् विषभयं हंति अथवा स्वांशगः वनवांशे वर्तमानः सन् विषभयं हंति वा इत्यथवा कोणास्ताभ्रसुख- गोपि चंद्रो विषभयं हंति कोणे पंचमनवमे अस्तभं सप्तमं अभ्रं दशमं सुखं च मायुः एतत्स्थानगोपि चंद्रः विषभयं हंतीत्यर्थः । अत्रास्मिन् कोणादिस्थाने सांगे सलग्ने कंभ मानः अंगपो लग्नपो विषभयं हंतीत्यर्थः । एवं पंच भंगाः संति। ननु सप्तमः दिन ... विवाहप्र० ] मार्तडवल्लभाख्यव्याख्यासहितः - विवाहे निंदितः कथमत्र चंद्रो गृहीतः। सत्यम् । इद वाक्यं सर्वकर्मसाधारणं तस्मानिंदितं स्थानं वर्जयित्वाऽन्यत्र ग्राह्यः । तथाच बृहस्पतिः । चंद्रो विषघटीदोषं हंति केंद्रत्रि- कोणगः । लग्नं विना शुभैदृष्टः केंद्रे वा लग्नपे तथा । फलप्रदीपे । विषनाड्युत्थितं दोषं हंति सौम्यक्षगः शशी। मित्रदृष्टोऽथ वा स्वीयवर्गस्थो लग्नपोपि च ॥ २३ ॥ अथ विवाहलग्ने इष्टानिष्टग्रहानाह- लग्ने चंद्रखला रिपो शशिसितौ सर्वेऽधुने खे बुधोऽ- जोऽत्येऽगुः सुखगोऽष्टमाः कुजशुभाः शुक्रस्तृतीयः शुचे। लाभे सर्वखगाः शुभा अखिलगास्यष्टारिगाः स्युः खलाश्चंद्रख्यंबुधने श्रियेऽशभकेट् स्यान्मृत्यवेऽष्टारिंगः २४.. लग्ने चंद्र इति ॥ चंद्रश्च खलाश्च ते चंद्रखलाः लग्ने वर्तमानाः शुचे शोकाय भवंति तथा रिपौ षष्टे शशिसितौ चंद्रशुक्रौ तथा सर्वे धुने सर्वे क्रूरसौम्याः धुने सप्तमे तथा खे दशमे बुधः तथा अव्जश्चंद्रोंऽत्ये अगुः राहुः सुखगश्चतुर्थगः न विद्यते गावः किरणा यस्ये- त्यगु: राहुः । राहुस्तमोऽगुरसुरश्चेति बृहज्जातके राहुनामानि तथा अष्टमाः कुजशुभाः कुजश्च शुभाश्च ते तथा शुक्रस्तृतीय इति स्पष्टार्थे । एते प्रत्येकं उक्तस्थानगाः शुचे शोकाय भवंति । अथेष्टानाह-लाभे एकादशे सर्वखगाः तथा शुभाः सौम्यग्रहाः अखि- लगाः निंद्यं विना सर्वस्थानगाः तथा खलाः क्रूराख्यष्टारिगाः तृतीयाष्टषष्टगाः तत्र अष्टमे भौमो निंदितः तं विना पापा अष्टमा ग्राह्याः चंद्रव्यंवुधने तृतीयचतुर्थद्वितीये चंद्रः एते प्रत्येकं श्रिये लक्ष्म्यै भवंति श्रीकारका इत्यर्थः । एवं शुभाशुभग्रहानुक्त्वा तत्र विशेपमाह--अंशभकेट अष्टारिगः सन् मृत्यवे स्यात् । अंशो नवांशः भं लग्नं हको दृकाण: एपामीट् स्वामी नवांशस्वामी लग्नस्वामी दृक्काणस्वामी एते प्रत्येकं अष्ट- पष्टगाः मृत्यवे मृत्युहेतवो भवंतीत्यर्थः ॥ २४ ॥ अथ कतिचिद्दोषाणामपवादमाह । तत्र प्रथमं भृगुषष्ठापवादमाह- कन्यातौक्षिकशत्रुगेहगभृगुः षष्ठोऽपि नो भंगक- द्रोमो मृत्युगतोपि शत्रुशशिनोर्गेहस्थितो वार्कगः । शुक्र्तेऽत्यारिविधुः सुवर्गदृगितः स्वोजोयुजीज्ये तनौ शुक्रे वा शुभदोऽथ कंटकनिजांशेज्येक्षितः सग्रहः ॥२५॥५२॥ कन्यातौक्षिकेति ॥ कन्या प्रसिद्धा शुक्रस्य नीचं तौक्षिको धनुर्धरः शत्रुगेहं पूर्वोक्तं भृगुभुवः शत्रू रवींदू इति तत्र रवेह सिंह: इंदोर्गृहं कर्कः एषां कन्यादीनां अन्यत- मगेहगतो भृगुः षष्टोपि नो भंगकृत्स्यात् । लग्नभंगकरो न भवतीत्यर्थः । तथाच क- श्यपः । नीचगे तत्तुरीये वा शत्रुक्षेत्रगतेऽपि वा । भृगुषष्टोद्भवो दोषो नास्तीत्यत्र न संशयः ॥ अथ कुजाष्टमदोपापवादमाह-भौमो मृत्युगतोपि अष्टमगतोपि शत्रुशशिनो- ब्रहस्थितो यदि भवति वा इत्यथवा अर्कगः अस्तंगतोपि यदि भवति तदा नो भंग- कृत्स्यात् अस्य शत्रुर्बुधः कुजस्य विदरिरिति प्रागुक्तः तस्य गृहं कन्या मिथुनं च शशि- मुहूर्तमार्तडः। [विवाहप्र० गृहं कर्कटः तस्य नीचं एषामन्यतमस्थः अस्तं गतो वा अष्टमगतोपि भौमो लग्नभंग- करो न भवतीत्यर्थः । अस्तगे नीचगे भौमे शत्रुक्षेत्रगते पि वा। कुजाष्टमोद्भवो दोषो न किंचिदवशिष्यत इति । अथ द्वादशषष्टचंद्रापवादमाह--शुक्लेति । शुक्लपक्षे अंत्या- रिविधुः द्वादशषष्ठचंद्रः सुवर्गदृगितः वर्गाश्च दृशश्च वर्गदृशः शोभनानां वर्गदृशः सुव- र्गदृशः : ताः इतः प्राप्तः सुवर्गदृगितः शुभवर्गशुभदृष्टियुक्त इत्यर्थः । एवंविधो विधुः शुभदः स्यात् । कस्मिन् सति । इज्ये गुरौ शुक्रे वा तनौ लग्ने सति । कथंभूते गुरौ खो- जोयुजि सुतरां ओजः खोजः उत्कृष्टबलं तेन युनक्तीति स्वोजोयुक् तस्मिन् खोजो- युजि । अतिबलिष्ठे सतीत्यर्थः । शुक्रस्याप्येतद्विशेषणम् । एतदुक्तं भवति ।बलिष्ठे गुरौ शुक्र वा लग्नस्थे सति शुक्लपक्षे चंद्रमाः सुवर्गदृष्टिसहितः यदि भवति तदा द्वादशष- ष्टगोपि शुभद इति भंगकरो न स्यात् । अन्यथा न । मुहूर्तदर्पणे । कवौ गुरौ वा बलिनि स्थिते तनौ शुभेन दृष्टः शुभवर्गगः शशी । विवर्धमानः शुभकृच्च नाशुभं क- रोति तिष्ठन्नपि रिःफषष्टयोरिति । अथ सग्रहचंद्रदोषापवादमाह-सग्रहः ग्रहेण ग्रहाभ्यां ग्रहैर्वा सह वर्तमानः सग्रहः बुधगुरुवान्यग्रहयुक्त इत्यर्थः । यतः पूर्वमुक्तं हिम- रुचिं ज्योनखेटान्वितमिति एवंविधः सग्रहः विधुः केंद्रनिजवर्गेज्येक्षितः सन् शुभदः स्यात् । केंद्र प्रसिद्धं निजवर्गो निजांशः तत्र वर्तमान इज्यः केंद्रनिजवर्गेज्यः तेन ई- क्षितः अवलोकितः सग्रहः चंद्रमाः शुभदः भंगकरो न स्यात् । उक्तंच । गुरुः स्वकी- यवर्गस्थो बलवान्कंटकाश्रितः । पश्यन् सग्रहशीतांशुं तद्दोषं विलयं नयेदिति ॥ २५ ॥ अथ सामान्यदोषापवादमाह- दोषाणां शतमिदुजः शतयुगं शुक्रो गुरुर्घातयेल्लक्ष कंटककोणगोंऽगमिनचंद्रौजस्वि पातादिकान् । भंगा ये विबला न तेऽत्र सफलाः संध्यंशतुल्योऽफलः ११६६४ स्याद्भावांशसमो ग्रहोऽखिलफलः संध्यूर्ध्वगः स्यात्परः २६ दोषाणामिति ॥ कंटककोणग: केंद्रकोणग: इंदुजः बुधः दोषाणां शतं घातयेत् तत्स्थः १।४।५।७।९।१० शुक्रः दोषाणां शतयुगं द्विशतं घातयेत् तत्स्थः १।४।५।७। ९।१० बृहस्पतिः दोषाणां लक्षं घातयेत् अपवादांतरमाह--अंगं लग्नं इनचंद्रौजस्वि- पातादिकान् घातयेत् । इनचंद्रयोः सूर्यचंद्रयोः ओजो बलमस्यास्तीति इनचंद्रौजस्वि एवंविधं लग्नं पातादिकान् घातयेत् । उक्तंच वसिष्ठेन । एकार्गलोपग्रहपातलत्ताजा- मित्रकर्तर्युदयादिदोषाः । नश्यति चंद्रार्कबलोपपन्ने लग्ने यथार्काभ्युदयेऽधकार इति । अथ दोषापवादभंगमाह--भंगा इति । ये भंगाः दोषभंगाः विबलाः गतबला निर्बलास्तेत्र दोषभंगविषये सफला न भवंति दोषभंगसमर्था न भवंतीत्यर्थः तस्माद्दोषभंगकृतां बलं विचार्य दोषभंगमादिशेदिति भावः। उक्तंच । सामान्येनोदिता दोषा भंगास्तेषां तु तद्विदैः । यदि ते बलहीनाः स्युः प्रध्वंसाभावतां ययुः ॥ अथ भावशुद्धिमाह-संध्यं- शतुल्योऽफल इति संध्यशतुल्यः संधिभागसमानो ग्रहः अफलः स्यात् । सदसत्फलदो न भवति भावांशतुल्यो ग्रहः अखिलफलदः स्यात् । संपूर्णफलदो भवति अर्था- विवाहप्र०] ४१ मार्तडवल्लभाख्यव्याख्यासहितः। न्मध्ये अनुपातात्फलं वेद्यं । विशेषफलमाह-संध्यूर्ध्वगः स्यात्परइति संध्यूर्ध्वगः संध्यं- शाधिकः परः स्यात् । परभावफलदः स्यादित्यर्थः ॥ २६ ॥ अथ संध्यंशतुल्य इत्यायुक्तं तत्र के ते संधयः के ते भावा इत्यपेक्षायां तत्साधनं किंचित्स्थूलमेकेन वृत्तेनाह- भागाः स्युनंतनाडिका रसहतास्तद्धीनयुक्पाक्परे मूर्यः खं सरसं सुखं कथितवल्लग्नं सषड्भं मदः। व्यस्ताभ्रत्रिलवोऽथ दृक्च्युत उभौ योज्यौ कुदृघ्नौ पृथ- ग्लग्ने चांबुनि ते सपतनुमुखाः संधियिोगोऽर्धकः॥२७॥ भागाः स्युरिति ॥ नतनाडिका रसहता भागाः स्युः नतसाधनं जातकपद्धतायुक्तम् । रात्रेः शेषमितं युतं दिनदलेनाह्नो गतं शेषकं विश्लेष्यं खलु पूर्वपश्चिमनतमिति । एत- दुक्तं भवति । सूर्येऽष्टलग्नाभ्यां इष्टकालं साधयित्वा नतं च साधयित्वा तदिष्टकालभवं नतं षड्गुणं नतभागाः स्युरित्यर्थः । प्राक् पश्चिमनतेन क्रमेण तन्न्यूनयुक् सूर्यः तैर्भा- गैयूँनयुक् पूर्वनते सति न्यूनः पश्चिमनते सति युक् युक्तः तात्कालिकः सूर्यः खं स्यात् । दशमभावः स्यादित्यर्थः । तत् खं दशमभावः सरसं षड्राशियुक्तं सत् सुखं चतुर्थभावः स्यात्। कथितवल्लनं प्रोक्तवल्लनं ज्ञेयं तत्सषड्भं षड्राशियुक्तं सत् मदः सप्तमभावः स्यात् । एवं भावचतुष्टयं साधयित्वा अंतर्भावसाधनमाह-व्यस्ताभ्रत्रिलव इति । विगतः अस्तः अस्तभावो यस्मात्तब्यस्तं तच तत् अभ्रं च व्यस्ताबें सप्तमभावरहितदशमभाव इत्यर्थः। तस्य त्रिलवो राश्यादिको ग्राह्यः अथ दृक्च्युतः द्विपतितः कार्यः एतौ उभौ केवल- त्रिलवदृक्च्युतत्रिलवौ पृथक्पृथक् कुदृघ्नौ संतौ पृथक् पृथक् लग्ने अंबुनि च योज्यौ । अयमर्थः कुम्नः त्रिलवो लग्ने योजितः सन् द्वितीयभावो भवति दृघ्नो लग्ने योजितः संस्तृतीयभावो भवति अथ दृक्च्युतः त्रिलवः कुन्नः अंबुनि पूर्वसाधिते चतुर्थभावे योजितः सन्पंचमभावो भवति तत्रैव दृघ्नोंऽबुनि योजितः षष्ठभावो भवति ते षडनं- तरंसाधिता भावाः सषट् षड्राशिसहिताः कार्याः ते तु सप्तमाज्ज्ञेयाः लग्नं सषड्भं मद इति यावत् ते तु लग्नमुखा लग्नादयो भावाः स्युः। अथ संधिसाधनमाह-संधिर्दियो- गोर्धक इति द्वयो वयोर्योगः अर्धितः संधिः स्यादिति स्पष्टम् ॥ २७ ॥ अथ पाठांतरस्य व्याख्या । व्यस्तेति सप्तमभावरहितस्य दशमभावस्य अरिलवः पदभागो राश्यादिकः स पृथक् भूच्युतः एकस्मात्पतितः इमौ उभौ भूयःवारं वारं अंग- पातालयोः प्रथमचतुर्थभावयोः क्षेप्यौ तनुतः लग्नात् ससंधयः संधिसहिताः षड्भावाः स्युः इमे भावाः षड्भावान्विताः संतः परे ससंधयो भावाः स्युः । एवं भावसंधिसाधनं कृला संध्यंशतुल्यो फल इति प्रागुक्तं ग्रहफलं विचार्य अंतरे अनुपातः । भावसंध्यं- तरेणाप्तं संधिखेटांतरात्फलमिति जातकपद्धतेः एतत्स्थूलभावानयनं सूक्ष्मं तु जातक- २ पद्धताववगंतव्यम् ॥ १ ॥ १ पाठांतरम् ॥ व्यस्ताधारिलबोऽथ भूच्युत इमौं भूयोऽगपातलयोः क्षेप्यो षट्तनुतः ससंधय इमे षड्भानियताः स्युः परे ॥१॥ 5.853 23.3.25 भुहूर्तमार्तडः। [विवाहप्र० अथ कर्तरीदोषलक्षणं सापवादमाह- इंदोर्वा हरिजाव्ययस्वगतयोः स्यात्क्रूरयोः कर्तरी खे वयंत्य ऋजुर्महत्यथ गुरौ रिःफे शुभे वा तनौ । खेऽब्जे सौम्यखगेपि वा गुरुभृगुज्ञैः केंद्रकोणेषु वा चेत्स्तः कर्तरिकारको दिविचरौ नीचस्थितौ सा नहि॥२८॥ इंदोर्वेति ॥ इंदोश्चंद्रांत्सकाशात् वा इत्यथवा हरिजालनात्सकाशात् व्ययस्वगतयोः व्यय द्वादशं खं द्वितीयं तदुभयत्र गतयोः क्रूरयोः पापग्रहयोः सतोः कर्तरी स्यात् । अथ महाकर्तरीलक्षणमाह-खे इति । स्खे द्वितीये स्थितः क्रूरो यदि वक्री स्यात् । अये द्वादशे स्थितः क्रूरः ऋजु: मार्गगामी स्यात् । तदा महती कर्तरी स्यात् । उक्तं च । लग्नाभिमुखयोः पापग्रहयो–जुवक्रयोः । सा कर्तरीति विज्ञेया दंपत्योर्गलकर्तरीति । एवं कर्तरीलक्षणमुक्त्वा तद्भगमाह-गुरौ रिःफे प्रांत्ये द्वादशे सति सा कर्तरी न स्यादे- वेत्येको भंगः वा इत्यथवा शुभे ग्रहे बुधगुरुशुक्राणामन्यतमे तनौ लग्ने सति सा नेति द्वितीयो भंगः खे द्वितीयेऽब्जे चंद्रे सति सा नेति तृतीयो भंगः वा इत्यथवा सौम्यखगे द्वितीचे सति सा नेति चतुर्थो भंगः वा इत्यथवा केंद्र १।४।७।१० त्रिकोणेषु ५।९ गुरुभृगुज्ञैः गुरुशुक्रबुधैः सद्भिः कालाच्चेति सप्तम्यर्थे तृतीया । सा कर्तरी न स्यादेवेति पंचमो भंगः वा इत्यथवा कर्तरीकारको क्रूरौ दिविचरौ नीचस्थितौ यदा स्यातां तदा सा न स्यादिति षष्टो भंग: हिरवधारणे ॥ २८ ॥ अथ पंचकदोष सापवादमाह- लग्नं सेततिथि ग्रहैर्हदिभग्वेदतुभूशेषकै रोगाग्नीनहरात्ययास्त्यज रुजं राज्यर्कमौंजीषु च । अग्निं भौमगृहशुषु धुशनिसेवेंदुष्विनं हारमी- !! ज्यारेतिष्वपरं विवाहसितवित्संध्यासु हीने तनौ ॥ २९ ॥ लग्नमिति ॥ लग्नं इष्टलग्नं सेततिथि इता चासौ तिथिश्च इततिथिः गततिथिः तया सह वर्तमान सेततिथि ग्रहैर्हृत् नवभक्तं कार्य इभदृग्वेदतुभूशेषकैः इभा अष्टौ दृशौ द्वे वेदाश्चत्वारः ऋतवः षट् भूरेकः एतन्मितैः शेषकैः कृत्वा क्रमेण रोगानीनहरात्ययाः स्युः रोगः प्रसिद्धः अग्निः प्र. इनो राजा। राजाधिपः पतिः खामी नाथः परिवृढः प्रभुः । ईश्वरो विभुरीशानो भतेंद्र इन ईशितेति धनंजयः । हरश्चौरः अत्ययो मृत्युः एते पंच- काः स्युरित्यर्थः । एतदुक्तं भवति।लग्नं शुक्लप्रतिपदादिगततिथियुक्तं कृत्वा नवभिहला अष्टशेषे रोगः द्विशेषे अग्निः चतुःशेषे राजा षट्शेषे चौरः एकशेषे मृत्युः । अथैते कुत्र वा इत्याह--राज्यर्कमौंजीषु रुजं त्यज रात्रौ अर्के आदित्यवारे मौंज्यां रुजं त्यज । भौमगृहयुषु अग्निं त्यज भौमः भौमवारः गृहं प्रसिद्धं युः दिवा एषु अग्निं अग्निपंच- कम् । दुशनिसेवेंदुषु इनं त्यज द्युः दिवा शनिः शनिवारः सेवा स्वामिसेवनं इंदु: सोमवारः एषु इनं राजानं राजपंचकं त्यज । इज्यारेतिषु हारं त्यज चौरं त्यज इज्यो - . . Party विवाहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः । ४३ + गुरुवारः आरो भौमवारः इतिर्गतिर्यात्रेति यावत् आसु चौरं त्यजेत्यर्थः । विवाहसि- तवित्संध्यासु अपरं उर्वरितं मृत्युमित्यर्थः विवाहः प्रसिद्धः सितः शुक्रवारः वित् बुध- वारः संध्या संध्याकाल: आसु मृत्युं त्यति। अस्यापवादमाह--कस्मिन्सति तनौ लग्ने हीने हीनबले सति बलिष्ठे लग्ने सति एषां किमपि न बाध इत्यर्थः । तथाच ज्योतिः- प्रकाशे । रोगं चौरं त्यजेद्रात्रौ दिवा राजाग्निपंचकम् । उभयोः संध्ययोर्मृत्युमन्यकाले न निंदितमिति ॥ तत्रापि यत्र लग्नं चेद्बलाढ्यं तच्च निष्फलमिति । बलं जातकाज्ज्ञयम् । लघुजातके । अधिपयुतो दृष्टो वा बुधगुरुनिरीक्षितश्च यो राशिः । स भवति बलवान्न यदा युक्तो दृष्टोपि वा शेषैरित्यादि ॥ २९ ॥ अथ भनवांशयोः शुद्धिं सापवादमाह- जन्म दयतो मृतीतदधिपौ तद्गाश्च ये तल्लवा स्तनंचांगगमंतकृत्खलु न चेत्तत्वामिमित्रैकता । शस्तोंऽशो धटभीरुयुग्मधनुपां विज्ञास्तभांशौ तथा चंद्रापुण्ययुतौ मृति वितलुतो दैन्यं च हीनौजसः॥३०॥ जन्मक्षेति ॥ जन्म दयतः जन्मराशिजन्मलग्नाम्यां सकाशात् मृती ये अष्टम- भवने यौ तदधिपौ तयोर्मृत्युभवनयोः स्वामिनी ये च तद्गाः मृत्युभवनगताः स्युः तेषां अंशो नवांशः अंगगो लग्नगतः च परं तेषां भं राशि: अंगगं लग्नगतं सत्तदा खलु निश्चयेन अंतकृत् मरणकृत् स्यात् । तदा कदा चेद्यदि तत्स्वामिमिकता न स्यात् । तयोर्जन्ममृत्युभवनयोः स्वामिनौ तत्स्वामिनौ तयोः अथवाऽयमर्थः । तयो- जन्मअष्टमभयोः स्वामिनौ तत्वामिनौ तयोर्यदि मिकता न स्यात् । मित्रं च एकश्च मित्रैको मित्रैकयो वो मित्रैकता सा चेन स्यात् । अनेन सर्वस्योक्तस्य सार्थकता भवति यदि तयोर्मित्रता स्यात् । अथवा एकता स्यात्तदा नायं दोष इत्यर्थसिद्धम् । वसिष्ठः । यस्याष्टलग्ने तदधीश्वरे वा राशौ तदीशेऽथ विलग्नगे वा । स मृत्युमाग्यो- ति तदा मनोजस्त्रिनेत्रभालांबकवह्निनेवेति । अन्यच्च जन्मङ्क्षजन्मलग्नाभ्यां रंधे- शावष्टमौ च यौ । विलग्नसंस्थितानेतांस्तद्राश्यंशानपि त्यजेदिति । चूडामणौ । लग्नं व्यलिवृष त्याज्यमष्टमं सर्वकर्मसु । तत्राप्येकेशतास्त्येव ततस्तन्नैव दोषकृत् । न दोषोऽष्टमलग्नस्य यदि जन्मेशरंध्रपौ । सुहृदौ चेत्तदा कार्य मंगलं मुनयो विदुरिति । चतुर्थद्वादशभवनयोर्दोषो नात्रोक्तः यतश्चतुर्थ द्वादशं लग्नं शस्तं यदि गुणाऽन्वितमिति पूर्वाचार्यमतं हृदि धृत्वा सगुणमेवांगीकृतं तत्पुरस्ताद्वक्ष्यति नच तनुं पंचेष्टखेटोनितां तनुं लग्नं इष्टाश्च ते खेटाश्च इष्टखेटाः पंच च ते इष्टखेटाश्च पंचेष्टखेटाः इष्टग्रहैः पंच- भिः शुभदैः इष्टैरूनितं हीनं लग्नं चेद्वेदवर्गोनितमिति सगुणस्यैवांगीकारात् । किंव्यर्थ- विस्तरेणेति भावः । अंशशुद्धिमाह--शस्तोंऽश इति । धटभीरुयुग्मधनुषां अंशः शस्त: स्यात् । घटस्तुला भीरु: कन्या युग्मं मिथुनं धनुः प्रसिद्धं एषामंशो नवांशः शस्तः प्र- शस्तः स्यात् । तत्रापि विशेषमाह--विज्ञास्तभांशाविति । विगतः ज्ञो बुधो येभ्यस्ते विज्ञाः ते च ते अस्ताश्च तेषां भांशौ राशिनवांशो मृतिं वितनुतः अर्थादस्तमितस्यापि बुधस्य । मुहूर्तमार्तडः। [विवाहप्र० भांशी दोषकरौन भवतः तथा चंद्रापुण्ययुतौ चंद्रेण पापग्रहेण वा युक्तौ मृति वितनुत: कुरुतः वधूवरयोरिति शेषः । हीनौजसो निर्बलस्य भांशौ दैन्यं दीनतां वितनुतः ३० अथ विशेषांतरमाह- नो वर्गोत्तमतो विनांतिमलवं दद्याचरः चरं चंद्रे तौलिमृगास्यगे न च तनुं पंचेष्टखेटोनिताम् । मेषादिष्वजनक्रतौलिककुलीराद्या नवांशाः क्रमा- दिष्टात्पूर्वनवांशका दशहतास्याप्ता लवाद्या तनुः॥३१॥ नोवर्गोत्तमेति ॥ वर्गोत्तमतः वर्गोत्तमेन विना अंतिमलव वरमं नवांशं नो दद्यात् । यल्लनं स एव नवांशो वर्गोत्तमः तथा चरः चरलग्ने चरं नवांशं नो दद्यात् । कस्मिन् सति चंद्रे तौलिमृगास्यगे तुलामकरगे सति एतच्चरत्रययोगं नो दद्यादित्यर्थः । अत्र चरचतुष्टयमध्ये चंद्रे तौलिमृगास्यगे इत्येवोक्तं तन्मेषकर्कटयोर्विवाहनक्षत्राभावात् । तथा तनुं लग्नं पंचेष्टखेटोनितां नो दद्यात् यत्र लग्ने पंच इष्टग्रहाः न भवंति तल्लग्नं न देयमित्यर्थः । अथेष्टनवांशाल्लग्नसाधनमाह-तत्र तावन्मेषादिषु आद्यांशानाह-मेषादि- ध्विति । मेषादिषु अजनक्रतौलिककुलीराद्या नवांशाः क्रमेणोक्ताः । तद्यथा मेषे अ- जाद्याः मेषाद्याः वृषे नक्राद्याः मकराद्याः मिथुने तौलिकाद्याः तुलाद्याः कर्कटेः कुली- राद्याः कर्कटाद्याः एवं पुनः सिंहे मेषाद्याः कन्यायां मकराद्याः तुलायां तुलाद्याः वृश्चिके कांद्याः पुनर्धनुषि मेषाद्याः मकरे मकराद्याः कुंभे तुलाद्याः मीने कर्काद्याः नवांशा उक्ता इत्यर्थः । इष्टादंशात्पूर्वनवांशकाः गतांशाः दशहताः दशगुणिताः त्र्याप्ताः त्रि- भिर्हताः लवाद्या भागाद्या तनुः लग्नं स्यात् । अत्रोदाहरणम् । इष्टलग्नं मेषः तत्र मेषा- दिका अंशाः प्रवर्तते इष्टांशः कन्यांशः आद्यात् षष्टांशः पूर्वनवांशकाः पंच ५ एते दशहताः ५० च्याप्ताः लवादिफलं लब्धं१६।४० इष्टलग्नसहितं राश्यादि०॥१६॥४०॥३१॥ अथोदयास्तशुद्धिमाह- लग्नांशौ स्वपदृग्युतौ नृसुखदौ वान्योन्यपान्येक्षितौ ताभ्यां सप्तमको तथैव युवते!चेत्तयोमत्युदौ। द्विघ्नेऽर्कोनविलग्नके रविसितज़ेद्वार्किजीवामृजो होरेशा धुपतेः खलेऽह्नि खलजा नेष्टा शुभे मध्यमा॥३२॥ लग्नांशाविति ॥ लग्नांशी लग्ननवांशौ खपदृग्युतौ वखपतिना दृष्टौ युतौ वा संतौ नृसुखदौ वरस्य सुखदौ स्यातां । वा इत्यथवा अन्योन्यपतिना आढ्यौ ईक्षितौ वा संतौ नृसुखदौ स्यातां इत्युदयशुद्धिमुक्त्वाऽस्तशुद्धिमाह-ताभ्यां सप्तमको तथैवेति ताभ्यां लग्नांशाभ्यां सकाशात् सप्तमको सप्तमलमतदंशौ तथैवेति पूर्ववत्खपदृग्युतौ युवतेः कन्यायाः सुखदौ स्यातां । वा इत्यथवा तौ सप्तमलग्नसप्तमांशको अन्योन्यपान्येक्षितौ युवतेः सुखदौ स्यातां नो चेत् एवं चेन्नस्यात्तदा तयोः मृत्युदौ स्यातां क्रमेण । अथेष्टकाले होरासाधनमाह-द्विघ्ने इति । अर्कोनविलग्नके द्विघ्ने कृते सति युपतेः सकाशात् होरेशा विवाहप्र.] मार्तडवल्लभाख्यव्याख्यासहितः। ४५ भवंति तेषां गणनाक्रममाह-ते के होरेशाः । रविसितज्ञेद्वार्किजीवासृजः रविः प्रसिद्धः सितः शुक्रः ज्ञो बुधः इंदुश्चंद्रः आर्किः शनिः जीवो गुरुः असृङ् मंगल: खलेह्नि पाप- वारे खलजा होरा नेष्टा शुभे मध्यमा स्यात् । अर्थाच्छुभहोरा शुभवारे शुभतरा पाप- वारे मध्यमा स्यात् । अत्रोदाहरणम् । गुरुवारे इष्टार्कः १।२५।८ इष्टलग्नं ४।१०।० इदं अर्कोनं २।१४।५२ इदं द्विघ्नं ४।२९।४४ ऊर्खाकसमाना गताहोराश्चतस्रः वर्तमा- ना पंचमी होरा सा गणनाक्रमेण युपतेर्गुरोः सकाशाद्गणनीया जीवासृजादिगणनया बुधहोरा वर्तमाना ॥ ३२ ॥ अथ लग्नेद्वोः परजामित्रगग्रहज्ञानार्थं उपायमाह तावत्तस्य फलमाह- लग्नेद्वोः स्मरगे शुभाशुभखगेस्तश्चाधिमृत्यू ततो- ब्जांगोनात्कृतमौर्विकात् खखयमैर्लब्धं यदाब्धीषवः। सन्विष्टोच्चनिजांशभेऽस्तमखिलं पश्येदरित्र्यायगे सूर्ये वा खजलाद्यकोणगशुभो वाजं प्रपश्येन्न तत् ॥३३॥ लग्नेद्वोरिति ॥ लग्नेद्वोः स्मरगे सप्तमगे शुभाशुभखगे सति तदा आधिमृत्यू स्तः शुभे सति आधिर्मनस्तापोऽस्ति अशुभे सति मृत्युरस्ति तदा कदा यदा ततः स्मर- गाग्रहात अब्जांगोनात् चंद्रलग्नोनात् चंद्रात् सप्तमस्थचंद्रोनः लग्नात्सप्तमस्थो लग्नोन इत्यर्थः । तस्मात् कृतमौर्विकात् कृतकलिकात खखयमैर्द्विशत्या लब्धं अब्धीषवः चतु:- पंचाशत्स्यात् तदैव आधिमृत्यू स्तः अन्यथा नेत्यर्थः । तत्रोदाहरणम् । पूर्वकल्पित- मिदं लग्नं ४।१०।० तत्सप्तमगोयं कश्चिद्रहः १०।११।७ अयं लग्नोनः ६।१।७ अयं कृतमौर्विकः १०८६७ अस्मात् खखयमैः २०० लब्धं ५४ । अथास्य भंगमाह--स- निति । सन् सद्रहः स्विष्टोच्चनिजांशभे वर्तमानः अस्तं सप्तमभवनं अखिलं पूर्ण यदि पश्येत्तदा तज्जामित्रं न स्यात् । शोभनश्चासौं इष्टश्च स्विष्टः शुभमित्रं स्विष्टश्च उच्चं च निजश्च स्विष्टोचनिजाः अंशश्च भं च अंशभं स्विष्टोचनिजानां अंशभं स्विष्टोच्चनिजांशभं तस्मिन् स्विष्टोच्चनिजांशभे । स्विष्टस्य शुभमित्रस्य अंशे नवांशे भे राशौ वा वर्तमानः अथवा उच्चस्यांशे भे वा वर्तमानः अथवा निजस्य स्वस्य अंशे भे वा वर्तमानः अस्त- मखिलं पश्येत्तदा तन्नेति षड्भंगाः वा इत्यथवा अर्के रवौ अरित्र्यायगे सति षष्ठतृती- यैकादशगे सति तन्नेति त्रयो भंगाः वा इत्यथवा खजलाद्यकोणगः शुभः अब्जं चंद्र- मसं पूर्ण यथा स्यात्तथा ईक्षेत तदा तन्न खं दशमं जलं चतुर्थे आद्यं लग्नं कोणे नव- पंचमे एषामन्यतमं गतोन्यतमः शुभग्रहश्चंद्रमसं निखिलदृष्टया यदि पश्येत्तदा जामित्रं न स्यादित्यर्थः । एते पंच भंगाः सर्वे मिलिताश्चतुर्दश भंगाः संपद्यते ॥ ३३ ॥ अथ दृष्टिलक्षणमाह- व्यभ्रं कोणमवायुरेनिगुरुभूपुत्राः क्रमाऽत्पूर्णया दृष्टयान्ये चरणोत्तरं च सकलाः पश्यंति पूर्ण धुनम् ॥ भं होरा त्रिलवो नवांशक इनांशस्त्रिंशदंशः क्रमा- द्वर्गः सन् शुभजः परैस्तु सुहृदो नाब्ब्यूनवर्गा तनुः॥३४॥ १२ ४६ मुहूर्तमार्तडः। [ विवाहप्र० त्र्यभ्रमिति ॥ त्र्यभ्रं तृतीयदशमं कोणं नवपंचमं अबायुश्चतुर्थाष्टमं एतयुग्मत्रयं क्र. मेण ऐनिगुरुभूपुत्राः शनिगुरुभौमाः पूर्णया दृष्टया पश्यंति शनिः त्र्य_ ३।१० गुरुः कोणं ९१५ भूपुत्रः अबायुः ८।४ एते पूर्णया दृष्टया पश्यंति तथा चैताग्मत्रयं अन्ये ग्रहाश्चरणोत्तरं यथास्यात्तथा पश्यति । तद्यथा त्र्यभ्रं ३।१० एकपाददृष्टया पश्यंति कोणं ९।५ द्विपाददृष्टया अबायुः ४८ त्रिपाददृष्टया पश्यंति सकला ग्रहाः यूनं सप्तमं पूर्ण पश्यंति । अथ षड्वर्गसाधनं विवक्षुस्तावन्नामान्याह-भहोरेति । भं गृहं होरा राश्यधैं त्रिलवो दृक्काणः नवांशकः प्रसिद्धः इनांशो द्वादशांशः त्रिंशदंशः प्रसिद्धः क्रमा- देते वर्गाः प्रोक्ताः । शुभजः शुभग्रहजो वर्गः सन् शुभः प्रोक्तः परैराचार्यैः सुहृदो मित्रस्य वर्ग: सन् प्रोक्तः अब्ब्यूनवर्गा तनुः चतुर्वर्गोनं लग्नं न सती प्रोक्तेत्यर्थः ३४ अथैषां साधनमाह- प्रोक्तं प्राग्गृहमोजभेऽर्कशशिनोहोरे समेऽब्जार्कयो- इकेट् प्राकसुतधर्मपो नवलवः प्रोक्तः स्वतोऽर्काशकः । शुक्रज्ञेज्ययमासृजां शरसुनीभार्थेषवो युग्मभे 110' त्रिंशांशा विषमे त एव गदिताव्यस्ताश्च षड्वर्गकाः ॥३५॥ प्रोक्तमिति ॥ यस्य ग्रहस्य यत् गृहं तत् प्राक् प्रोक्तं भेशा मंशुबुचमित्यादि । अथ होरासाधनमाह-ओजभे विषमराशौ अर्कशशिनोहरे क्रमेण भवतः प्रथमपंचदशभा- गेषु अर्कस्य होरा अपरपंचदशभागेषु शशिनश्चंद्रस्य होरा स्यात् । अथ समराशौ अब्जार्कयोहोरे क्रमेण भवतः । प्रथमपंचदशभागेषु चंद्रस्य होरा अपरपंचदशभागेषु अकस्य होरा स्यात् । अथ दृक्काणसाधनमाह-दृक्केडिति दृक्को दृकाण: त्रिविधो दशद- शभागात्मकः तस्य ईद ईशः प्राक्सुतधर्मपो ज्ञेयः प्राग्लग्नं सुतः पंचमं धर्मो नवमं तान्यातीति प्राक्सुतधर्मपः । एतदुक्तं भवति । प्रथमदृक्काणखामी लग्नपतिः द्वितीय- काणस्वामी पंचमपतिः तृतीयहकाणखामी नवमपतिः स्यादिति । नवलवः प्रोक्तः प्रागेव शस्तोंऽश इत्यादि । अथ द्वादशांशसाधनं स्वतोऊशकः स्वस्मात् इति स्वतः लग्नत इत्यर्थः अर्कोशको द्वादशांशो ज्ञेयः । तद्यथा राशिभागास्त्रिंशत् ३० एते द्वादश- भिर्भाजिताः लब्धं सार्धभागद्वयं २१३० इदं द्वादशांशमानं तदेवंगणनीयं सार्वभागद्वयं लग्नस्य द्वादशांशः तावदेव तत्पुरस्थस्येति लग्नस्योत्पन्नभागावसानपर्यंतं गणयेत् । य. स्मिन् राशौ विश्रामः तत्स्वामी द्वादशांशनाथः स्यात् । अथ त्रिंशांशसाधनं--शुक्रेति । शुक्रः प्रसिद्धः ज्ञो बुधः इज्यो - गुरु: यमः शनिः असृक् मंगलः एषां पंचानां क्रमेण शरमुनीभार्थेषवः स्युः शराः पंच मुनयः सप्त इभाः अष्टौ अर्थाः पंच इषवः पंच भागाः शुक्रादीनां स्युः एतद्युग्मभे समराशौ ज्ञेयं । एतदपि लग्नोत्पन्नभागावसानपर्यंत गणयेत् यत्र विश्रांतिः स त्रिंशांशनाथः विषमे राशौ त एव गदिता ग्रहाः भागाश्च व्यस्ता विलोमा ज्ञेयाः इति षड्वर्गो निरूपितः ॥ ३५ ॥ अथेष्टकालसाधनं विवक्षुस्तावत्सूर्यसाधनमाह- संक्रांत्यंतरहोहतादिनगणादाप्तं भपूर्वो रवि- मेषाद्यातभयुग्युतोऽयनलवै रात्रौ सषड्भः स च । - विवाहप्र० ] मार्तडवल्लभाख्यव्याख्यासहितः । तद्भोग्यांशनिजोदयाहतिखरामाप्तं तथा लग्नतो भुक्तां- शाकलितेन युग्विवरगैः काल स्फुटोः भोदयैः ॥ ३६॥37 संक्रांत्यंतरिति ॥ अंतः अंतरालं तत्र अहानि दिनानि संक्रांत्योः अंतरहानि संक्रां- त्यंतरहानि तैर्हतो भागितः एवंविधो दिनगणः संक्रांतेः सकाशात् इष्टदिनसमूहः । तस्माद्यदाप्तं लब्धं स भपूर्वो राशिभागकलादिको रविः स्यात् । किंभूतो रविः मेषात्स- काशात् यातभयुक् गतराशियुक् सूर्यभुक्तराशियुगित्यर्थः । स तात्कालिको रविः स्यात् इत्यर्थः । अत्रोदाहरणम् । तुलावृश्चिकसंक्रांत्योरंतर्दिनानि २९।५४।० तथा तुलासं- क्रांतेः इष्टदिनगण: ५।६।० अस्मादिनगणात् संक्रांत्यंतरहोभिलब्धं राश्यादि ०।५।७।१ इदं सूर्यभुक्तराशियुक्तं ६।५।७।१ अयं तात्कालिकः सूर्यः अयनलवैर्युतः कार्यः अय- नांशाः ग्रंथांतरे प्रसिद्धाः । कृताब्यव्यूनिते शाके षष्ट्याप्ता अयनांशका इति । सः अयनलवयुतो रविः रात्रौ रात्रीष्टकालसाधनविषये सषड्भः कार्यः षड्राशियुक्तः कार्यः तद्भोऽग्यांश निजोदयाहतिखरामाप्तं काल: । स्यात् तस्य सायनांशस्य रवेः भोग्यांशाः तद्भोग्यांशाश्च निजोदयाश्च तेषामाहतिर्गुणनं तस्याः सकाशात् खरामाप्तं त्रिंशता भक्तं लब्धं सूर्यस्य भोग्यकाल: स्यात् । निजोदयाः स्वदेशीयराश्युदयाः ते ब्रह्मतुल्यादि- भ्योऽवगंतव्याः। कथंभूतः कालः । तथैवांगतो भुक्तांशाकलितेन युक् तथैव सूर्यस्य भो- ग्यकालसाधनरीत्या अंगतः लग्नात् भुक्तांशाकलितेन भुक्तांशैर्भुक्तभागैः आकलितेन कालेन युक् युक्तः । एतदुक्तं भवति । इष्टलग्नमयनलवयुतं कृत्वा तद्भुक्तांशैर्निजोदया गुणनीयाः त्रिंशता भाज्याः लब्धं लग्नभुक्तकालः तेन कालेन स रविभुक्तः कालो युक्तः कार्य इत्यर्थः । पुनः कथंभूतः । विवरगैः भोदयैर्युक् विवरं सूर्यलग्नांतरालं तत्र गतै दयैः राश्युदयैः युक् युक्तः स पलमयः कालः स्फुटः स्पष्टः इष्टकाल: स्यात् । षष्टिभक्तो घटिकात्मकः स्यादित्यवगंतव्यम् ॥ ३६ ॥ अथेष्टकालसाधने विशेषमाह- लग्नाकौं यदि चैकमेंऽशविवरात्स्वीयोदयन्नाद्विय- त्र्यप्तिः काल इनात्तनुर्यदि तनुः सूर्योदयात्प्रागसौ । कुंडेंऽभःपरिपूरिते सुघटिकाम?दयास्ते न्यसे- त्स्तुत्वाऽग्नित्रयवायुगा न शुभदा पूर्णाग्निपंचस्वथ ॥३७॥६६ लग्नार्काविति ॥ लग्नाकौं लग्नसूयौं यदि एकभे स्तस्तदा अंशविवरात् लग्नार्कयो - गांतरात् स्वीयोदयघ्नात् निजराश्युदयगुणितात् या वियत्र्याप्तिस्त्रिंशता लब्धिः स काल: इष्टकाल: स्यात् । तत्रापि विशेषमाह-इनात्तनुरिति । इनात्सूर्यात्तनुर्लग्नं यदि तनुः लघु स्यात्तदाऽसौ इष्टकाल: सूर्योदयात्प्राक् पूर्वं स्यात् सोऽपि षष्टया भक्तो घटिकात्मकः स्यादित्यवगंतव्यम् । अथ ज्ञातं कालं यंत्रविना साधितुं न शक्यते अतो यंत्राणां मध्ये मुख्यस्य घटीयंत्रस्य स्थापनकालंमाह-कुंडे. इति । अभःपरिपूरिते. उदकपूणे कुंडे पाने घटिकामजनक्षमे । कुंडग्रहणे उत्तानपात्रव्युदासाथै तस्मात् कुंडरूपपात्रे उदकपूरिते सुघटिकां षष्टिपलशुद्धां न्यसेत् निक्षिपेत् । कस्मिन्सति अर्धोदयास्ते जाते

मुहूर्तमार्तडः।
[विवाहप्र०
सति सूर्यस्य अर्धोदये अर्धास्ते च जाते सति । किंकृत्वा स्तुखा प्रार्थयित्वा । प्रार्थना
ग्रंथांतरे उक्ता । यंत्राणां मुख्यरूपासि ब्रह्मणा निर्मिते घटि। दंपत्योः शुभकालाप्ति-
हेतवे भव शोभने इति । प्रतिष्ठितायां घटिकायां तद्गमनफलमाह-सा प्रतिष्ठिता घटी
अग्नित्रयवायुगा न शुभदा स्यात् अग्नित्रयं आग्नेय्यादिप्रदक्षिणक्रमेण दिशात्रयं वायु-
र्वायव्यदिशा इति दिक्चतुष्टयं प्रति गता न शुभदा अर्थादन्यदिग्गता तत्रैव स्थिता
वा शुभदा स्यात् । तथाचोक्तं ग्रंथांतरे । संस्तुतैवं घटीतोये यां दिशं प्रति गच्छति ।
पूर्वाशादिफलं कुर्यात्स्थिता मध्ये धनप्रदा ॥ सौभाग्यं निर्धनं नार्या अपमृत्युरुजान्वि-
ता। भर्तृप्रिया च वेश्या च मान्या वित्तसुंतान्वितेति । एवं गमनफलमुक्त्वा पूर्णता-
फलमाह--पूर्णाग्निपंचखथेति । अग्निपंचसु आग्नेय्यादिपंचसु दिक्षु पूर्णा घटी न शुभदा
अर्थादन्यदिक्षु पूर्णा शुभा स्यात् । उक्तं च उत्तरेशानपूर्वासु घटी पूर्णा शुभप्रदा ।
दिक्षु शेषासु कन्याया मग्ना वैधव्यदायिनी ॥ ३७॥
अथ गोधूललग्नमाह-
गोधूलं पदजादिके शुभकरं पंचांगशुद्धौ रवे-
रास्तात्परपूर्वतोऽर्धघटिकं तदुमष्टारिंगम् ।
सोग्रांगं कुजमष्टमं गुरुयमाहः पातमर्कक्रम
जह्याद्विप्रमुखेऽतिसंकट इदं सद्यौवनाव्ये कचित् ॥ ३८ ॥
गोधूलमिति ॥ गोधूलं लग्नं सायंकाललग्नं पदजादिके हीनजातौ शुभकरं प्रोक्तं न
पूर्ववर्णानां । क्व पंचांगशुद्धौ विवाहोक्तपंचांगे अत्र पंचांगशुद्धिर्मुख्या तत्र कालप्रमाणं
विशेषणद्वारेणाह । कथंभूतं गोधूलं रवेः अर्धास्तात्सकाशात् प्राक्परतोऽर्धघटिकं अर्धा
घटिका यस्मिन्नित्यर्धघटिकं प्राक् पंचदशपलानि परतः पंचदश पलानि एवमर्धघटि-
कमित्यर्थः। अत्र त्याज्यमाह-इहास्मिन् गोधूललग्ने षष्ठाष्टगमिंदु चंद्रं जह्यात् त्यजेत् ।
पुनः किंकि जह्यादित्याह । सोग्रांगं उग्रग्रहसहितं लग्नं कुजं भौमं अष्टमं गुरुयमाहः
गुरुशनिदिनं पातं महापातं सिद्धांतगम्यं अर्कक्रमं सूर्यसंक्रांतिं जह्यात् । अन्ये दोषा
न त्याज्या इत्यर्थः । अत्र गुरुयमाहस्त्यक्तं तद्दोषोपलंभात् गुरुदिने सूर्यास्तात्प्राक् या-
मार्धं परतो यमघंटः शनिदिने अस्तमयात्प्राक्परतश्च कुलिको मार्तडोदयतः स्मृता
दिनपतेर्यामार्धनाथा ग्रहा मार्तडात्मजभोग उत्तरलवस्तज्ज्ञैः शुभे कर्मणि । त्याज्यो-
ऽसौ कुलिकोथ सूर्यदिवसो दानैश्च शक्रार्कदिग्वखंगाब्धियमैः स्मृतः कुरहितै रात्रौ तु
तिथ्यंशकैरिति । त्याज्योऽसौ कुलिक इत्यनेन शनौ अस्तात्प्राकुलिको भवति । इनादौ
कुलिकं दिवेत्यादि व्येकं तनिशीति न्यायेन अस्तात्परतोऽपि कुलिको भवति इति
हेतोगुरुशनिवारौ निंदितौ अथ विप्रादीनामपि क्वचित्कार्यविशेषेण गोरजःप्रवृत्तिमाह-
विप्रमुखेति । संकट इदं सद्यौवनाढ्ये क्वचिदिति यौवनाव्ये अतिसंकटे प्राप्ते सति
क्वचिल्लनशुद्ध्यभावे इदं गोधूलं विप्रमुखे विप्रप्रभृतिवर्णत्रये सत् शुभं स्यात् । अन्यथा
नेत्यर्थसिद्धं । तदुक्तं ज्योतिर्निबंधे । घटीलग्नं यदा नास्ति तदा गोधूलिकं स्मृतम् ।
शूद्रादीनां बुधाः प्राहुन द्विजानां कदाचन । लग्नशुद्धिर्यदा न स्याद्यौवने समुपस्थिते
तदा वै सर्ववर्णानां लग्नं गोधूलिकं शुभमिति ॥ ३८ ॥

विवाहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। - अथोद्वाहवेदिकालक्षणमाह- वेदी प्राक्पवणा चतुर्वरकरा हस्तोच्छ्रिताय्यस्य दो- जोदेर्द्वित्रियुगांगुलैरपचिता सोक्ता बहिर्वामतः । यस्यांगं यददोंऽगिनो गदितभे कुर्यादिहेंदोर्बलं नालोक्यं तु विवाहतस्यरिनवाह्नि प्राङ्ग कुर्यादिदम् ॥३९॥ वेदीति ॥ प्राक्प्रवणा पूर्वनिम्ना चतुर्वरकरा चतुर्भिर्वरकरैः प्रमिता वरो वैवाह्यः । हस्तोच्छ्रिता हस्तप्रमाणेनोन्नता । इयमय्यस्य ब्राह्मणस्य प्रोक्ता।सा वेदी दोर्जादेः क्षत्रि- यादेः क्रमेण द्वित्रियुगांगुलैः अपचिता हीना । क्षत्रियस्य व्यं गुलन्यूना । वैश्यस्य व्यंगु- लोना।दस्य चतुरंगुलोना च । सा व कार्येत्याह । बहिर्वामत इति । गृहाबहिर्वामभागे। अंगुलप्रमाणं मार्कडेयपुराणे उक्तम् । परमाणुः परं सूक्ष्म त्रसरेणुमहीरजः । वाला चैव लिक्षा च यूका चाथ यवोदरम् ॥ क्रमादष्टगुणानाहुर्यवानामष्टतोऽगुलम् । षडं- गुलं पदं तच्च वितस्तिर्द्विपदं स्मृता । द्विवितस्ती तथा हस्तो मार्कंडेयमुनीरितः । आगमांतरेपि । कर्तुर्दक्षिणहस्तस्य मध्यमांगुलिपर्वणः । मध्यमा दैर्घ्यमानेन मात्रांगुल- मितीरितमिति । अन्यत्रोक्तम् । यत्किंचित्पौरुषायामं विभज्य दशधा पुनः । एकं द्वा- दशभागं तु कृत्वा तेष्वेकमंगुलम् ॥ देहलब्धांगुलं नाम जानीयात्तस्य तत्पुनः। महा- मानांगुलिरिति मात्रांगुलिरिहोदिता ॥ प्रासादादीनि तेनैव कुर्यान्मानांतरेण वा । वैदि- कादीनि शिबिकारथादीनां विधिः पुनरित्यादि । अत्र वरकरग्रहणं तस्य होमकर्तृवात् । ननु कन्याया अपि लाजाहुतौ कर्तृत्वमस्ति तत्करप्रमाणं किं नोक्तम् । सत्यम् । अल्पा- वकाशस्थले कन्याकरप्रमाणमप्यंगीक्रियते । तथाचोक्तं देवयजनदीपिकायाम् । स्व- ल्पावकाशनिलये हीनमानं समाश्रयेदिति । अथ नानाविधकर्मणां अंगं कम्मिनक्षत्रे कर्तव्यमित्याह- यस्यांगमिति । यस्य कर्मणः यत् अंगं अद इदं अंगं अंगिनो मुख्यस्य गदितभे उक्तनक्षत्रे कुर्यात् । इहास्मिन्नंगभूते कर्मणि इंदोर्बलं नालोक्यं न विचारणीयं । तत्र विशेषमाह विवाहतः । विवाहदिनात्प्राक् व्यरिनवाहि तृतीयषष्टनवमेहि इदं अंगं विवाहांगं न कुर्यात् । विवाहांगानि यथा । दलनं कंडनं चैव व्यंजनं मोदकादि च । यवारं मंडपो वेदिः कुंकुमं वर्णकं तथेति ॥ ३९ ॥ अथ क्रमप्राप्तं वधूप्रवेशमाह- लग्नादष्टि१६दिनांततः सममुनी७वं५कापूर्वं त्वयु- ग्घस्ने मास्यपि हायने शरमिताद्वर्षात्परं स्वेच्छया । वैफामार्गसिते जगुः श्रुतियुगोद्वाहर्कचित्राश्विनी- ज्य:श्चानवमंदिरे निशि वधूसंवेशमंगे स्थिरे ॥ ४० ॥ लग्नादिति ॥ लग्नाद्विवाहतः सकाशात् अष्टिदिनांततः षोडशदिनमध्ये सममुनीप्वंके- षु धुषु घनेषु समाः समसंख्याकाः मुनिः सप्तमः इषुः पंचमः अंको नवमः एषु धुषु दिवसेषु अत ऊर्च षोडशदिनादृर्व अयुग्घस्रे विषमदिने मास्यपि विषमे हायने वर्षे ५ . मुहूर्तमार्तडः। [विवाहप्र० वधूसंप्रवेशं जगुरूचुः । एतदुक्तं भवति ।षोडशदिनमध्ये समादिषु दिनेषु कर्तव्यः ।घो- डशदिनातिक्रमे मासपर्यंतं विषमदिने वधूप्रवेशः कार्यः।प्रथममासातिक्रमे वर्षपर्यंतं वि- षमे मासि कर्तव्यः। तदा विषमदिननियमो नास्ति। एवं प्रथमे वर्षेऽतिकांते पंचमवर्षपर्य- तं विषमे वर्षे कर्तव्यः । तदा विषममासनियमो नास्ति । अथ विलंबितं वधूप्रवेशं क- स्मिन्मासपक्षे कर्तव्यं इत्याह-वैफामार्गसिते वै वैशाखः फा फाल्गुनः मार्गों मार्गशी- पः एषां सितः शुक्लपक्षः तस्मिन् । कैः श्रुतियुगोद्वाहक्षचित्राश्विनीज्यक्षैः श्रुतियुगं श्रवणध- निष्ठे उद्वाहाणि विवाहनक्षत्राणि पूर्वोक्तानि चित्राश्विनी प्रसिद्ध इज्यः पुष्यः तैः।अन- वमंदिरे जीर्णगृहे । नवीनमंदिरे कन्यां नवोढां न प्रवेशयेदिति निषेधादनवमंदिर इत्यु- क्तम् । उक्तं च । वधूप्रवेशनं कार्य पंचमे सप्तमे दिने । नवमे च शुभे वारे सुलग्ने शशिनो बल इति । नारदः । आरभ्योद्वाहदिवसात्षष्ठे वाप्यष्टमे दिने । वधूप्रवेशः संपत्त्यै दशमेऽथ समे दिन इति। संग्रहे । विवाहमारभ्य वधूप्रवेशो युग्मे तथा षोडशवा- सरांतात् । तदृर्ध्वमब्देऽयुजि पंचमांतादतःपरस्तानियमो न चास्ति ॥ वृद्धनारदः । समे वर्षे समे मासि यदि नारी गृहं विशेत् । आयुष्यं हरते भर्तुः सा नारी मरणं व्रजेत् ॥ भास्करव्यवहारे। रात्रौ विवाहभे शस्तः सन्मुहूर्ते स्थिरोदये । वधूप्रवेशो नैवात्र प्रतिशुक्राद्भयं विदुः ॥ ऋवैवाहिकैः शुद्धैर्दपत्योश्च शुभप्रदम् । वधूप्रवेशनं कार्य पंचमे ह्यकृतं यदि ॥ मार्गफाल्गुनवैशाखे शुक्लपक्षे शुभे दिने । मूलपुष्यमृदुवा- तिस्थिराश्विश्रुतिवासवैः ॥ पितृभे च करे नारी प्रविष्टा पुत्रिणी भवेदिति ॥ ४० ॥ इदानीं प्रथमाषाढादौ भ दिगृहे वासनिषेधमाह- उद्वाहात्पथमे शुचौ यदि वसेद्भर्तुगृहे कन्यका हन्यात्तजननीं क्षये निजतनुं ज्येष्ठे पतिज्येष्ठकम् । पौषे च श्वशुरं पतिं च मलिने चैत्रे स्वपित्रालये २ तिष्ठंती पितरं निहति न भयं तेषामभावे भवेत् ॥ ४१ ।। उद्वाहादिति ॥ उद्वाहाद्विवाहादुपरि प्रथमे शुचौ आषाढे कन्या यदि भर्तृगृहे वसेत्त- दा तन्जननीं तस्य भर्तुर्जननी हन्यादित्यादि सुगमम् ॥ ४१ ॥ अथ पुनर्भूविवाहमाह- शूद्रांत्येषु पुनर्भुवापरिणयः प्रोक्तो विवाहोक्तभै- लोक्यं तिथिमासवेधभृगुजेज्यास्तादि तत्रार्कभात् । त्रित्र्यक्षेषु मृतिर्धनं मृतिमृती पुत्रा मृतिर्दुभंग श्रीरौन्नत्यमथो धृती१८श११कृत४तत्त्व२५ः- ऽत्ययः साभिजित् ॥ ४२ ॥G: शूद्रांत्येष्विति ॥ शुदाः प्रसिद्धाः अंत्याः रजकादयः तेषु पुनर्भुवापरिणयः प्रोक्तः । कैः । विवाहोक्तभैः स्पष्टं। तत्र पुनर्भुवापरिणये तिथिसासवेधगुरुशुक्रास्तादि न आलोक्यं पष्टम् । तथाचोक्तं ज्योतिर्निबंधे । न शुक्रास्तादिकं चिंत्यं शुद्धिवेधादिकं तथा । पुनर्भु- - विवाहप्र] मार्तडवल्लभाख्यव्याख्यासहितः। वासंवरणे न मासतिथिशोधनमिति । अथ ब्रह्मपट्टनक्षत्रशुद्धिमाह-अर्कभात् सूर्यनक्षत्रा- त् वित्र्यक्षेषु त्रिषु त्रिषु नक्षत्रेषु क्रमेण मृतिर्मरणं प्रथमे त्रिके द्वितीये त्रिके धनं तृतीये मृतिः चतुर्थे मृतिः पंचमे पुत्राः षष्ठे त्रिके मृतिः सप्तमे दुर्भगं अष्टमे लक्ष्मीः नवमे त्रिके औनत्यं प्रोक्तम् । अथ रुद्रपशुद्धिमाह-अर्कभादित्यनुवर्तते । धृतीशकृततत्त्व- ः धृतिरष्टादशं ईश एकादशं कृतश्चतुर्थ तत्त्वं पंचविंशं एतन्मिते नक्षत्रे अर्कभादेत- न्मिते इत्यर्थः । अत्र चतुष्टये साभिजिद्गणिते अत्ययो मृत्युः स्यात् । अर्थादन्येषु शुभं प्रोक्तमिति ॥ ४२ ॥ RRORAN अथ नानाविधशास्त्रर्थानाह- भुक्तायैव सुतामुपोषितनरो दद्याच सावित्रिका- मारब्धोत्सवके यदा जनिमृती स्यातां स्वगोत्रे कचित् । सांगं तं विदधीत वाजमपरेऽस्मादारभेत्पूर्वतो यज्ञोद्वाहनचौलमौंजिकमहःसु स्वर्गदित्रित्रिषु ॥४३॥ भुक्तायेत्यादिना ॥ भुक्ताय कृतभोजनायैव सुतां दद्यात्। परं उपोषितनरः भक्तायै- व बटवे सावित्रिकां गायत्री दद्यात् । तदुक्तं ज्योतिर्निबंधे। भुक्त्वा समुद्हेत्कन्यां सावि- त्रीग्रहणं तथा। उपोषितः सुतां दद्यादागताय वराय चेति। आरब्धोत्सवके यदा जनि- मृती स्यातां स्वगोत्रे क्वचित् सांगं तं विदधीत वाजमपरे इति । वाजं अनं अपरेऽसगो- त्रिणो विदधीरन् ।वाजमन्नं गरुद्वाजो वाजं पीयूषमुच्यते। इत्यनेकार्थध्वनिमंजर्यां शेषं मुगमम् । उक्तं च । विवाहोत्सवयज्ञादावारब्धे सूतकं यदि। सांगं तत्कर्म कुर्वांत अन्न- दानादिकं परैरिति । अस्मादारभेत्पूर्वतो यज्ञोद्वाहनचौलमौंजिकमहःसु । स्वर्गदित्रि- त्रिषु अस्मानिश्चितदिनात्पूर्वतः प्रथमतः यज्ञोद्वाहनचौलमौंजिकेत्येतत्कर्मचतुष्टयं क्रमा- त्वर्ग २१ दिक् १० त्रि ३ त्रिषु ३ अहःसु आरभेत् । यज्ञं एकविंशतिदिनेषु उद्वाहनं विवाहः दिक्षु दशदिनेषु चौलं त्रिषु दिनेषु मौंजिकं त्रिषु दिनेष्विति । उक्तंच । एक- विंशत्यहर्यज्ञे विवाहे दश वासराः। त्र्यहं चूडोपनयने नांदीश्राद्धं विधीयते ॥ आरंभल- क्षणम् । आरंभो वरणं यज्ञे संकल्पो व्रतसत्रयोः । नांदीश्राद्धं विवाहादौ श्राद्धे पाक- परिक्रिया इति ॥४३॥ नो श्राद्धं क्षयदर्शनैत्यकमधीतिं शीतलाप्स्वाप्लुति सीमासिध्वतिपातमेककुलजाः सव्यातिपातं कचित् । उत्थापावधि मंडपस्य सशरागाहोर्विषष्ठे समेऽ- न्युद्वास्योन गृहोद्वहौ सहजयोस्तुल्याक्रियाऽब्दांततः॥४४॥ नोश्राद्धमिति।क्षयदर्शनैत्यकं श्राद्धं अधीतिं पठनं शीतलाप्सु शीतलोदकेषु आप्लुति स्नानं सीमासिंध्वतिपात। सीमाप्रसिद्धा सिंधुर्महानदी सिंधुर्नदीसमुद्रयोरित्यभिधानात् तयो- रतिपातः उल्लंघनं सव्यातिपातं अपसव्यमित्येतत् एककुलजाः सगोत्रिणः क्वचिन्नो कुर्युः। किमवधि । मंडपस्य उत्थापावधिायावन्मंडपोत्थापनं स्यात्तावन्न कुर्यादित्यर्थः। उक्तंच । ।

। - ५२ मुहूर्तमार्तडः। [विवाहन दर्शश्राद्धं क्षयश्राद्धं शीताद्भिः स्नानमेवचाप्राचीनावीतिकरणं नदीसीमातिपातनम् ।अन्यच्च। नित्यश्राद्धमधीतिं च स्नानं च शिशिरैर्जलैः । सपिंडा नैव कुरिन्मंडपोत्थापनावधि ॥ अथ स मंडपोत्थापः कदा कार्य इत्याह-सशरागाहोरिति । शराः पंच अगाः सप्त त- न्मिताहोर्दिनयोः पंचमे सप्तमे विषष्ठे समे षष्ठरहिते समेऽह्नि समदिने उत्थाप्यः । उक्तंच । मंडपोत्थापन कार्य समे तु दिवसे बुधैः । षष्टं च विषमं नेष्टं मुक्त्वा पंचम- सप्तमौ । इति। अब्दांतर्वर्षमध्ये गृहोद्वाही न कर्तव्यौ। सहजयोः एकमातृजयोः पुरुषयोः पुरुषस्त्रियोश्च समानक्रिया समानं कर्म न भवति न कुर्यादित्यर्थः । भिन्नमातृजयोन दोष इत्यात्सिद्धं । अर्थाद्भिन्नमातृजयोस्तथा सहोद्वाहादिकरणमागतं तद्भिन्नकर्तृत्वे भिन्नगृहे सति वेदितव्यं । कर्तृलमत्र श्राद्धाधिकारिणः पितुरेव। नतु विवाहहोम कर्तुर्वरस्य । त- थाचोक्तम् । एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः। न समानक्रियां कुर्यान्मातृभेदे विधी- यत इति । पुरुषौ पुरुषस्त्रियौ पृथक् द्वित्वविवक्षया बहुलासंभवान्न बहुलं । यद्वा पुरुषश्च स्त्रीच तथा तयोर्द्वयोः पुरुषयोः स्त्रियोर्वा पुरुषस्त्रियोर्वा कन्यापुरुषयोर्विवाहविशेषश्चोक्तः। सोदर्ययोः कन्यकयोः सुतयोरेकवत्सरे । विवाहो न स्मृतस्तज्ज्ञैः कन्यकासुतयोः स्मृत इति । अत्र संवत्सरमानं मनुजमानेन चैत्रादिफाल्गुनांतं वेद्यं । समानक्रियेति द्वयोश्चौले द्वयोव्रतबंधौ द्वयोर्विवाहो वा। सहजयोरित्यनेवैव एकमातृत्वं संभवति । उक्तं च । नैकस्मिन्वत्सरे कायौं गृहोद्वाही कदाचन ॥ ४४ ॥ वातराण्याह- उद्वाहव्रतचूडकेऽब्ददलतत्खंड तिलैस्तर्पण श्राद्धं पिंडयुतं महालयगयापित्र्यं विना नाचरेत् । पूर्व सप्तपदीविधेरधिगते दोषे वरे वा मृते देयाऽन्यत्र विवाहितापि च बलाद्या विद्धयोनिन चेत् ॥ ४५ ॥ उद्वाहेति ॥ उद्वाव्रतचूडके क्रमेण अब्ददलतत्खंडं उद्वाहे विवाहे कृते सति अब्द वर्षपर्यंतं व्रते व्रतबंधे कृते सति दलं अर्धाब्दं षण्मासपर्यंतमित्यर्थः । चूडके चौलक- मणि कृते सति तत्खंडं तस्य दलस्यापि खंडं त्रिमासपर्यंतमित्यर्थः । तिलैस्तर्पणं पिंड- युतं श्राद्धं च नाचरेत् । किं विना महालयगयापित्र्यं विना । महालयः भाद्रपदापरपक्षः गया प्रसिद्धा पित्र्यं मातापितृक्षयदिनं तत्र यच्छ्राद्धं क्रियते तन्महालयगयापित्र्यं त- द्विना । उक्तं च । विवाहबतचूडासु वर्षमधे तर्दधकम् । अतिलं तर्पणं कुर्याच्छ्राद्धं कुर्या- दपिंडकम् ।। महालये गयाश्राद्धे मातापित्रोः क्षयेऽहनि । कृतोद्वाहोऽपि कुर्वीत पिंडदा- नं यथाविधीति । पूर्वमिति । सप्तपदीविधेः पूर्व प्रथमतः दोषे अंधमूकत्वादिके अधि- गते ज्ञाते सति वा इत्यथवा वरे मृते सति कन्या अन्यत्र देया ॥ अपि च या कन्या बलाद्विवाहिता साप्यन्यत्र देया चेद्यदि विद्धयोनिन स्यात् । विद्धा योनिर्यस्याः सा तथा न चेत् पुरुषाभुक्तेत्यर्थः । उक्तं च याज्ञवल्क्येन । महादोषे सुविज्ञाते पूर्व सप्तपदी- विधेः । मरणादौ समुत्पन्ने देयाऽन्यस्मै न दोषभाक् ॥ बलादुद्वाहिता कन्या दातव्या- ऽन्यवराय चेति । अन्यच । बलादुद्वाहिता कन्या मंत्रैर्यदि न संस्कृता। अन्यस्मै वि. ।

विवाहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। धिवद्देया यथा कन्या तथैव सेति ॥ महादोषाः कारिकानिबंधे उक्ताः । अंधो मूकः क्रियाहीनश्चापस्मारी नपुंसकः । दूरस्थः पतितः कुष्टी दीर्घरोगी वरो न सन् ॥ अन्ये- ऽपि दोषा उक्ताः। मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां न देया जातु कन्यकेति । पुरुषनपुंसकलक्षणम् । यस्याप्सु प्लवते बीजं ह्रादि मूत्रं च फेनि- लम् । पुमान् स्यालक्षणैरेतैर्विपरीतैस्तु षंढकः ॥ अपरीक्ष्य दाने दोषः । अपरीक्ष्य वरं कन्यां निर्गुणाय प्रयच्छति । कुलं तस्यैव तच्छोकसंतप्तो विनिबंततीति ॥ ४५ ॥ अथ स्त्रीरहितानां विधिमाह- अस्त्रीकैः कुशहेमरौप्यरचिता ताम्री च विप्रादिभि- र्भार्या वा निखिलैः सुवर्णरचिता धर्माय धार्या बुधैः। मंदारार्कदिनेऽबुपाग्निफणिभं भद्रातिथिश्चेदिहो- द्भूता सा विषकन्यकापि तनुगौ सौम्यौ रिपुक्षेत्रगौ ॥४६॥ अस्त्रीकैरिति ॥ अस्त्रीकैः स्त्रीरहितैर्विप्रादिभिः विप्रक्षत्रियविट्शनैः क्रमेण कुशहेम- रौप्यरचिता ताम्री च भार्या धर्माय धार्या । अयमर्थः। विप्रेण कुशरचिता भार्या धर्मा- य धार्या । क्षत्रियेण हेमरचिता। वैश्येन रौप्यरचित्ता। शूद्रेण ताम्री ताम्ररचिता भार्या धार्या । कथंभूतैर्विप्रादिभिः । वुधैः स्वस्वधर्मनिरतैः वा। इत्यथवा निखिलैः सर्वैर्विप्रादिभिः सुवर्णरचिता भार्या धार्या। यतस्तया विना गृहस्थधर्मसाधनं न स्यात् । तथाचोक्तम् । अप- लीकैस्तु धर्मार्थ कौशी हैमी च राजती । ताम्री विप्रादिभिर्भार्या धार्या हैमी तथाऽखिलै- रिति ॥ अथ विषकन्यालक्षणमाह-मंदेति । मंदारार्कदिने शन्यभौमानामन्यतमस्य वारे अंबुपाग्निफणिभं शततारकाकृत्तिकाश्लेषाणामन्यतमं नक्षत्रं भद्रा तिथिर्द्वितीया सप्तमी द्वादशी आसामन्यतमा चेत्स्यात्तदा विषयोगः स्यात् । इहोद्भूता अत्र योगे या कन्या जाता सा विषकन्यका । अथ योगांतरमाह-रिपुक्षेत्रगौ सौम्यौ तनुगौ लग्नगतो चेत्स्याताम् ॥ ४६॥ अथ योगांतरमाह- एकः क्रूर इहोद्भवाप्यथ तनौ सौरी रविः पुत्रगो धर्मस्थो धरणीसुतोऽयमपरो योगोऽपि तज्जा विषा । मूलायत्रिपदोद्भवा श्वशुरमात्यत्रये तत्स्त्रियं ज्येष्ठांत्ये पतिपूर्वजं द्विपचतुर्थे देवरं हंति च ॥४७॥ एकःक्रूर इति॥एकः क्रूरः रिपुक्षेत्रगः तनुगश्चेत्स्यात् इमौ द्वौ योगौ।इहोद्भवापि विषकन्यका स्यात् । तनौ लग्ने सौरिः शनिः स्यात् । रविः सूर्यः पुत्रग: पंचमगः स्यात् । धरणीसुतो भौमो धर्मस्थो नवमस्थो यदा स्यात्तदा अयं अपरो योगः स्यात् । तज्जापि कन्या विषं स्यात् । विषमिति यथा विषस्वीकारान्मृत्युभवति इति फलं सूचितम् । तस्मात्परित्याज्ये- ति भावः । अथ मूलजादीनां फलमाह-मूलेति । मूलस्य आद्यत्रिपदोद्भवा प्रथमचरण- त्रये जाता कन्या श्वशुरं हंति मारयति । अयंत्यत्रये अहिराश्लेषा तस्य अंत्यत्रये अंत्य- चरणत्रये जाता तत्स्त्रियं तस्य श्वशुरस्य स्त्रियं श्वश्रू हंतीत्यर्थः। ज्यष्टांत्ये ज्येष्ठायाः चतु- मुहूर्तमार्तडः। [विवाहप्रक र्थचरणे जाता पतिपूर्वजं ज्येष्ठं हति। द्विपचतुर्थे द्वौ पौ पती यस्य तद्विपं विशाखा तस्य चतुर्थचरणे जाता देवरं हंति अर्थादन्यचरणजा शुभा ॥४७॥ एवं ना युवतेरभाव इह नो दोषो नुरेतत्फलं मौंज्यूज़ न वदंति केचिदपि पैत्र्याचे फलं मूलवत् नोद्वाही सहजातयोस्त्रय॒तुषु नोद्वाहातं नो पुसु- द्वाहात्ल्युद्वहनं न मंगलविधेर्मुडं त्रिशुभ्येषु न॥४८॥ एवमिति । एवं उक्तनक्षत्रचरणजातो ना नरः युवतेः स्त्रियः श्वशुरादीन् हंति । त- थाच गर्गः । मूलजा श्वशुरं हंति सार्पजा च तदंगनाम् । ज्येष्ठजा तु पतिज्येष्ठं देवरं तु द्विदैवत इति। तथाच कश्यपपटले ।मूलांत्यपादजौ श्रेष्ठौ तथाश्लेषाद्यपादजौ। द्वीशांत्य- पादजौ दुष्टौ तथा ज्येष्ठांत्यपादजाविति।अस्यापवादः।अभाव इह नोदोष इति। अभावे- तेषां श्वशुरादीनां अभावे सति इह मूलादिजोद्वहने नो दोषः । केचिदाचार्याः नुः न- रस्य मौंज्यूज़ मौजीबंधनानंतरं तत्फलं न वदंति॥उक्तं च नारदेन। मूलव्यालभवो दो- पो विवाहे य उदाहृतः । स मौंजीबंधनादूर्ध्वं पुंसां नैवेति केचनेति ॥ पैञ्याद्यपि मघाया आद्यचरणेपि मूलवत्फलं स्यादिति केचिद्वदंति । तथाचोक्तं नारदेन । पैञ्यागंडोद्भवाक- न्या श्वशुरनी च केचनेति । अथ ऋतुत्रयमध्ये किं किं न कर्तव्यमित्याह-नोद्वाहाविति। सहजातयोः एकोदरसमुत्पन्नयोः पुत्रयोः कन्ययोः कन्यापुत्रयोर्वा उद्वाही विवाहो त्र्य- तुषु त्रयश्च ते ऋतवश्च त्र्तवः तेषु न कायौं। षण्मासाभ्यंतरे न कार्यावित्यर्थः । उक्तं च नारदेन । विवाहश्चैकजन्यानां षण्मासाभ्यंतरे यदि । असंशयं त्रिभिर्वस्तत्रैका वि- धवा भवेत् । इति । नोद्वाहाद्रतमिति । उद्वाहात्र्य॒तुषु व्रतं मौंजी न कार्या। तथा चोक्तं नारदेन । पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये । न तयोव्रतमुद्वाहान्मंगले नान्य- मंगलमिति । नो पुमुद्वाहात्वयुद्वहनमिति पुमुद्वाहात्पुरुषविवाहात् त्र्य॒तुषु स्युद्वहनं कन्या- विवाहः नो कार्यः । तथाच कात्यायनः। पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये। इति न मंगलविधेर्मुडमिति । मंगलविधेः विवाहात् त्र्यूतुषु मुंडनं चौलं व्रतं वा न कार्य । अत्र कात्यायनः ।कुले ऋतुत्रचादर्वाङ्मंडनान्न तु मुंडनमिति। त्रिशुभ्येषु नेति । एषु व्यूतुषु त्रिशुभी न कार्या त्रयाणां शुभानां समाहारस्त्रिशुभी मंगलत्रयमिति यावत् । न कुर्यान्म- गलत्रयमिति वचनात् ॥ ४८ ॥ नो ज्येष्ठाल्लघु कालरुद्धत ऋते कात्यायनो मुंडनं चौलं पाह न मेखलेत्युभयतः कार्या विवाहादियम्। भेदेऽब्दस्य च संकटे वितनुयात्पूर्वोदितं मंगलं 1वेदाहांतरिते दिनव्यवहिते नद्या नगेनापि वा ॥ ४९ ॥ नो ज्येष्टाल्लविति ॥ ज्येष्ठात् मंगलात् विवाहादेस्यूतुषु लघु मंगलं नो कुर्यात् यहिः शालायामुक्तं तज्ज्येष्ठमंगलं अन्यल्लघुमंगलं।ज्येष्ठलघुलक्षणं सारसमुच्चये । चूडाकेशांत- सीमंतविवाहोपनयान्बुधाः । गुरुमंगलमित्याहुस्तदन्यल्लघु मंगलमिति ॥ तन्न कार्यमि- -

विवाहप्र.]
मार्तडवल्लभाख्यव्याख्यासहितः।
त्यर्थः । कस्मादृते कालरुद्धत ऋते कालेन रुद्धं गर्भाधानपुंसवनादि तस्मादृते तेन विने-
त्यर्थः
। तथाच कात्यायनः । मातृयज्ञक्रियापूर्व ज्येष्ठं कृत्वा तु मंगलम्। ऋतुत्रयं पुनयी-
वन कुर्यालघु संगलम् ॥ लघु वा गुरु वा कार्य कार्य नैमित्तिकं यदीति । लघुगुरुमं-
गलयोन्निकर्तृत्वे न दोषः। कात्यायनो मुनिः इति प्राह । इतोति किं । व्रतं मुंडनं न चौ-
लमेव मुंडनं । मौंजीविवाहादुभयतः कार्येति । तथाच तद्वाक्यं । मुंडनं चौलमित्युक्तं
व्रतोद्वाही तु मंगलम् । चौलं मुंडनमेवोक्तं वर्जयेद्वरणात्परम् ॥ मौंजी चोभयतः कार्या
यतो मौंजी न मुंडनमिति । अथ संकटे प्रवृत्तिमाह-भेदेऽब्दस्येति।संकटे देशकालभयादौ
अब्दस्य संवत्सरस्य भेदे पूर्वोदितमंगलं वितनुयात् विस्तारयेत्। कुर्यादित्यर्थः । तथाचो-
तं संहितासारावल्यां। फाल्गुने चैत्रमासेतु पुत्रोद्वाहोपनायने। भेदादब्दस्य कुर्वीत न ऋतु-
त्रयलंघनमिति । अथवा वेदाहांतरिते चतुर्दिनांतरिते काले मंगलं वितनुयात् । तथाच
स्मृतिसारावल्यां । पुत्रीपरिणयादृवं यावद्दिनचतुष्टयम् । पुत्र्यंतरस्य कुर्वीत नोद्वाहमिति
सूरय इति । अथवा दिनव्यवहिते एकदिनांतरिते काले मंगलं कुर्वीत । तथाचोक्तम् ।
एकोदरप्रसूतानामेकस्मिन्वासरे नरः । विवाहं नैव कुर्वीत मंडनोपरि मुंडनमिति ।
अथवा एकाहेपि नद्या नगेन पर्वतेन अंतरिते देशे मंगलं वितनुयात् । ज्योतिर्विवरणे ।
एकोदरयोर्वरयोरेकदिनोद्वाहतो भवेनाशः । नद्यंतर एकदिने केप्याहुः संकटे च शुभ-
मिति । शार्ङ्गधरोपि । नद्यतरेपि शुभदं पृथक्शैलस्य रोधत इति ॥ ४९ ॥
एकाहेऽपि जनाश्रयांतर इहेदं तारतम्याद्बुधै-
र्योज्यं नो यमयोनिषिद्धमनयोरेकत्र कार्य जगुः ।
नैकस्मै दुहितद्वयं सहजयोनॆकोद्भवे कन्यके
दद्यादुद्वहनं मिथो न तनुयात्कुर्यादसंपद्यदः ॥ ५० ॥
एकाहेपीति ॥ अथवा एकाहेपि जनाश्रयांतरे मंडपांतरे मंगलं वितनुयात्। मंडपोऽ-
स्त्रीजनाश्रय इत्यमरः । उक्तं च ज्योतिर्विवरणे।न प्रतिपिद्धं लग्नं संप्राप्ते संकटे महति।
एकोदरसंभवयोरेकाहे भिन्नमंडपे काल इति । अथैषां पक्षाणां निर्णयमाह-इहेदमिति ।
इहास्मिन् विवाहादिविषये इदं भेदेऽब्दस्येत्यायुक्तं बुधैस्तारतम्याद्योज्यं संकटानुरूपं
योज्यमित्यर्थः । अथ यमलयोर्विशेषमाह-नो यमयोरिति। यमयोर्यमलयोः इदं नो
निषिद्धं । अनयोर्यमलयोः मंगलं एकत्र एकवत्सरे एकवारे एकमंडपे कार्यमिति मुनयो
जगुः । उक्तं च । एकस्मिन् वत्सरे चैव वासरे मंडपे तथा । कर्तव्यं मंगलं स्वस्रोी-
चोर्यमलजातयोरिति । स्त्रयादीनां स्त्रीणां पुरुषाणां वा यमलजातानामप्येवं तुल्यन्याय-
वात् । यमलयोर्मध्ये एकस्यां स्त्रियामेकस्मिन् पुरुषे सति स्त्रीविवाह समाप्य पुरुषविवाहं
कुर्यात् । स्त्रीपुरुषयोः सह विवाहकरणस्याघटमानखात् । अथ प्रत्युद्वाहनिषेधमाह-नक-
स्मै इति । एकस्मै वराय दुहितद्वयं एकोद्भवकन्यकाद्वयं न दद्यात्। सहजयोः एकोदरसं-
भवयोात्रोः एकोद्भवे कन्यके न दद्यात्। तथा मिथः परस्परं उद्वहनं न तनुयात्। अत्रा-
पि संकटे प्रवृत्तिमाह-कुर्यादिति । अदः नैकस्मै इत्याद्युक्तमकर्तव्यं असंपदि अन्यवधू-
वरालाभे सति कुर्यात् । तथाच नारदः । प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितद्वयम् ।
न चैकजन्ययोः पुंसोरेकजन्ये तु कन्यके इत्यादि ॥ ५० ॥

मुहूर्तमार्तडः। [विवाहप्र 0 । अथ प्रतिकूलनिर्णयमाह- नोद्वाहं सति निश्चयेपि जगदुः पित्रोः सपित्रोः स्त्रियाः मनोर्धातुरनूढितस्वसुरसूत्क्रांतौ पितृव्यस्य च । अन्ये स्वान्वयजात्ययेपिजनकांबास्त्रीसुतान्यात्यये- ऽब्दार्थार्धार्धदलांतरे विदधते हेरंबशांत्या कचित् ॥५१॥ नोद्वाहमिति ॥ निश्चयेपि सति वुधाः उद्वाहं न जगदुः। कस्यां सत्यां। पित्रोः असूत्क्रांती सत्यां। माता च पिताच पितरौ तयोः असूनां प्राणानां उत्क्रांतिः उत्क्रमणं तस्या सत्या- मित्यर्थः । कथंभूतयोः पित्रोः। पितरौ च पितरौच पितरः मातुः पितरौ पितुः पितरावि- त्यर्थः । तैः सहवर्तमानौ सपितरौ तयोः सपित्रोः। पुनः कस्यां सत्यां स्त्रियाः असूत्क्रांती सत्यां । इदं द्वितीयविवाहादौ ज्ञेयम्। एवं सूनोः पुत्रस्य भ्रातुः सहजस्य अनूढितस्वसुःअप- रिणीतभगिन्याः पितृव्यस्य पितृभ्रातुः असूत्क्रांतौ सत्याम्। एतदुक्तं भवति । पित्रादीनामु- क्तानां मध्ये अन्यतमे मृते सति विवाहं न कुर्यादित्यर्थः । तथा वृद्धशौनकः । वरवध्वोः पिता माता पितृव्यश्च सहोदरः । एतेषां प्रतिकूलं चेन्महाविघ्नप्रदं भवेत् ॥ अन्यच्च । पिता पितामहश्चैव माता चैव पितामही। पितृव्यस्त्री सुतो भ्राता भगिनी चाविवाहिता।। एभिरेव विपनैश्च प्रतिकूलं बुधैः स्मृतम् । अन्यैरपि विपन्नैश्च केचिदूचुर्न तद्भवेदिति।। अथान्येषां मतमाह-अन्य इति । अन्ये बुधाः खान्वयजात्ययेऽपि खकुलजातमर्त्यना- शेपि उद्वह्न न विदधुः । तथाच भृगुः । वाग्दानानंतरं यत्र कुलयोः कस्यचिन्मृतिः । तदोद्वाहो नैव कार्यः स्वपक्षक्षयदोषतः इति। अथ संकटे प्रवृत्तिमाह-जनकांबास्त्रीति । जनकश्च अंबा च स्त्री च सुतश्च अन्यश्च अन्यः कुलजः प्रतिकूलाधिकारी एषामत्ययो नाशः मरणमिति यावत् तस्मिन्सति अब्दार्धार्धार्धदलांतरे हेरंबशांत्या गणेशशांत्या क्व- चित्संकटे विदधते बुधा इत्यध्याहारः । एतदुक्तं भवति । वरस्य वध्वा वा पितृनाशे अ- व्दांतरे वर्षांतरे मातृनाशे अद्युतरे षण्मासांतरे स्त्रीनाशे अर्धातरे त्रिमासांतरे। एत- द्वितीयादिविवाहे ज्ञेयं तथा पुत्रनाशे अधांतरे सार्धमासांतरे अन्यनाशे पितृमातृस्त्री- त्यादिभ्योऽन्यस्य कुलजस्य नाशे दलांतरे सार्धमासस्यार्धातरे त्रयोविंशतिदिनांतरे विदधते इत्यर्थः ॥ ५१ ॥ अत्रमध्ये भ्रातुर्विशेषमाह- भ्रातुश्चात्मजवद्भयेऽति समये पित्रोद्मतेः संशये नान्येषां प्रतिकूलमामयिविरक्ताराद्गतानामपि । आतुर्यान्मृतक्रियानभिभवे नांदीमुखं नाचरे- ११ नोकुर्याज्ज्वरितस्य मंगलमतिव्याध्युद्भवे निश्चयम् ॥५२॥ भ्रातुश्चात्मजवदिति ॥ भ्रातुर्नाशे पुत्रवत् पुत्रनाशोक्तवज्ज्ञेयं । सार्धमासांतरे कर्तव्य- मित्यर्थः । तथाच स्मृतिसारावल्यामु । पितुरब्दमिहाशौचं तदधै मातुरेव च । मासत्र- यं तु भार्यायास्तधैं भ्रातृपुत्रयोः ॥ अन्येषां च सपिंडानामाशौंचं माससंमितम् । तदा विवाहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। तु शांतिकं कृत्वा ततो लग्नं विधीयत इति । स्मृत्यंतरेप्युक्तम् । संकटे समनुप्राप्ते या- ज्ञवल्क्येन योगिना। शांतिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् ॥ अकृत्वा शांतिक यस्तु निषेधे सति दारुणे । प्रकरोति शुभं गर्वाद्विघ्नस्तस्य पदे पद इति । ज्योतिःप्र- काशे । प्रतिकूलेपि कर्तव्यो विवाहो मासमंतरात् । शांतिं विधाय गां दखा वाग्दानादि चरेत्पुनरित्येतत्प्रौढायां कन्यायां पित्रोर्मरणेऽपि ज्ञेयं । प्रतिकूलेऽपि प्रतिकूलाभावमाह- भय इत्यादि। भये दुर्भिक्षराजभये अतिसमये अतिकाले पित्रोर्मातापित्रोः मृतेः संशये सति अन्येषां मातापितृभ्यामन्येषां मृतानां प्रतिकूलं नास्ति । तथाचोक्तं ज्योतिःसा- गरे । दुर्भिक्षे राष्टभंगे च पित्रोर्वा प्राणसंशये । प्रौढायामपि कन्यायां नान्यकूलं प्रती- क्षत इति । विशेषांतरमाह-आमयिविरक्ताराद्गतानामपि प्रतिकूलं नास्ति । आमयी रोगी दीर्घरोगीति यावत् । विरक्तो गृहादिषूदासीनः । आराद्गतो दूरगतः देशांतरगत इति यावत् । आरादूरसमीपयोरित्यमरः । एषामपि मृतानां प्रतिकूलं नास्ति। तथाचोक्तं स्मृत्यंतरे । दीर्घरोगाभिभूतस्य दृरदेशे स्थितस्य च । उदासवर्तिनश्चैव प्रतिकूलं न वि- द्यत इति । अथान्यानपि शास्त्रार्थानाह ।आतुर्यादिति। तुर्यः चतुर्थः पुरुषः मूलपुरुषाच. तुर्थ इत्यर्थः । तं मर्यादीकृत्य मृतस्य नु: नरस्य क्रियाया अनभिभवे अभावे सति क्व. चित्कारणांतरात् क्रियायामकृतायां नांदीमुखं नाचरेत् । एतत्स्वगोत्रविषयम् । तथाच मेधातिथिः । प्रेतकर्माण्यनिवर्त्य चरेनाभ्युदयक्रियाम् । आचतुर्थं ततः पुंसि पंचमे तु शुभं भवेदिति।नोकुर्यादिति। ज्वरितस्य मंगलं नो कुर्यात्। तथाच गर्गः । ज्वरस्योत्पादनं यस्य शुभं तस्य न कारयेत् । दोषनिर्गमनात्पश्चात्स्वस्थो धर्म समाचरेदिति । अतीति । अतिव्याध्युद्भवे कस्यचित्कुलजस्य शरीरे अतिदारुणज्वरोत्पत्तौ निश्चयं नो कुर्यात् प्रतिकूलभीत्या । रोगः पाप्मा ज्वरो व्याधिर्विकारो दुःखमामय इत्यादि वाग्भट्टे ज्वरप- यिनामानि । तथाच गर्गः। केचिदूचुर्गृहस्थस्य कस्यचिद्दारुणो ज्वरः । तावन्मंगल- कार्य च न कार्य निश्चितं बुधैरिति ॥ ५२ ॥ अथ महत्संकटे सति वृद्धिसूतके कर्माहतामाह- चेत्स्यात्सूतकमुक्तपूर्वसमयेऽनारब्धकार्ये बुधः कूष्मांडीघृतहोमतोपि जननाशौचे कचित्कारयेत् । सिंहेज्ये न शुभं हितं हरिलवोर्ध्व गौतमीदक्षिणे जाह्नव्युत्तरतः कचिद्धितमजेऽर्केतोस्रभीत्यादिषु ॥ ५३॥ चेत्स्यादिति ॥ उक्तपूर्वसमये यज्ञोद्वाहनचौलमौंजिकमित्यत्रोक्त पूर्वकाले अनार. ब्धकार्ये सति कर्मणि अनारब्धे सति संकटे च प्राप्ते सति कूष्मांडीघृतहोमतः कूष्मांडीभिर्यद्देवादेवहेडनमित्यादितिसृभिर्ऋग्भिघृतहोमः कूष्मांडीघृतहोमः तेन जनना- शौचे दशाहतः जन्मदशाहमध्ये कर्म आचरेत् । कूष्मांडीधृतहोमं शास्त्रोक्तं सदक्षिणं कृत्वा कर्म कर्तव्यमित्यर्थः । तदुक्तं स्मृत्यंतरे । संकटे समनुप्राप्ते सूतके समुपा- गते । कूष्मांडीभिभृतं हुला गां दत्वा च पाखिनीम् ॥ चूडोषनयनोद्वाही प्रतिष्ठादि- कमाचरेदिति । स्मृत्यंतरे । अनारब्धविशुद्ध्यर्थः कूष्मा.र्जुहुयावृतम् । गां दद्यात्पच । ५८ मुहूर्तमार्तडः। [विवाहान गव्याशी ततः शुद्ध्यति सूतकीति। अथ सिंहे गुरौ सति मंगलनिषेधमाह-सिंहेज्ये इति । सिंहे सिंहराशौ ईज्यः सिंहेज्यः तस्मिन्सति शुभं नित्यव्यतिरिक्तंन हितं स्यात् । इदं तु पूर्वमेव प्रपंचितं । तथाच कालनिर्णये । शांतिकं पौष्टिकं यात्राप्रतिष्टोद्वाहपूर्व- कम् । न कुर्यात्सर्वमांगल्यं सिंहस्थे च बृहस्पतौ ॥ तथाच मांडव्यः । इष्टापूर्ते च चौ- लादि संस्कारान् वास्तुकर्म च । अन्यानि शुभकर्माणि न कुर्यात्सिंहगे गुराविति ॥ अथ संकटे प्रवृत्तिमाह-हरिलबोर्ध्वमिति।क्वचित्संकटे देशकालभयादौ सिंहेज्येपि हरिलवादूर्व सिंहांशादूर्ध्व गौतम्याः दक्षिणतः जाह्नव्या उत्तरतः शुभं कर्म हितं स्यात् । तथाच ज्योतिर्निबंधे। सिंहे गुरौ सिंहनवांशकोर्ध्व गोदावरीदक्षिणकूलजातैः । उद्वाहकालात्यय- दोषभीतैः कार्यों विवाहश्च्यवनो ब्रवीतीति ॥ तथाच गर्गः । भागीरथ्युत्तरे तीरे गो- दावर्याश्च दक्षिणे । व्रतोद्वाहादिकं कर्म सिंहसंस्थे न दुष्यतीति ॥ अर्थागोदावर्याः उत्तरे भागीरथ्याः दक्षिणे । एवं द्वयोाँदाजाह्नव्योर्मध्ये संकटेऽपि शुभं न आचरेदिति सिद्धम् । तथाच वसिष्ठः । गोदावर्युत्तरे तीरे भागीरथ्याश्च दक्षिणे। विवाहादि न कुर्वीत सिं- हसंस्थे च वाक्पताविति । अत्राप्यतिसंकटे प्रवृत्तिमाह-अजेति । अस्रभीत्यादिषु रजो- भयादिषु सत्सु अंतः गोदाजाहव्योर्मध्ये हरिलवादूचं सिंहेज्ये सति अजे मेषे इने सूर्ये सति शुभमाचरेत् । अजे इने इत्येतद्विवाहविषयं अस्रभीत्यादिष्वित्यनेन पदेन लक्ष्यते । तथाच शौनकः । मेषस्थे दिवसकरे सिंहस्थे वज्रपाणिसचिवे च । यस्याः परिणयनमसौ साध्वी सुखसंपदोपेतेति । व्रतबंधस्तु मीनगे सूर्ये सति चैत्रे कर्तव्य इति ग्रंथकृता प्रागेवोक्तं अनिमिषरविमधौ कार्यमिति । तथाच मौंजीपटले । जन्मभा- दष्टगे सिंहे नीचे वा शत्रुगे गुरौ । मौंजीबंधः शुभः प्रोक्तश्चैत्रे मीनगते रवौ ॥ अ- थवा इने इज्ये एतत्पदं सर्वशुभसाधारणविषयम् । तथाच शौनकः । सिंहस्थे देवगुरौ मेषस्थो यदि भवेत्सहस्रांशुः । मंगलकार्य कुर्यादिति नारदपराशरौ वदत इति । अस्र- भीत्यादिष्वित्यत्रादिशब्देन वृद्धि पितृमरणशंकायां कतराभावाद्यतिसंकटे इति ज्ञेयम् ॥ ५३॥ अथ नामराशिजन्मराश्योर्निर्णयमाह- देशग्रामगृहज्वरव्यवहृतिबूतेषु दाने मनौ सेवाकाकिणिवर्गसंगरपुनर्भूमेलके नामभम् । जन्मर्स परतो वधूपुरुषयोजन्मक्षमेकस्य चे- ज्ज्ञातं शुद्धिमितो विलोक्य च तयो मर्मयोर्मेलकः॥५४॥ देश इति ॥ देशः प्रसिद्धः ग्रामः प्र० गृहं प्र. ज्वरः प्र० इत्यादिषु नामराशिः प्र- धानं स्यात् । एतदुक्तं भवति । देशग्रामगृहेषु प्रवेशाद्यर्थ ज्वरे चंद्राद्यवलोकनार्थ हृतिर्व्यवहारः द्यूतं प्रसिद्धं दानं तुलापुरुषादि एषु चंद्रबलाद्यर्थ मनौ मंत्रे मेलनार्थ चंद्रबलाद्यर्थं च सेवा राजादिसेवा तत्र मेलाद्यर्थ काकिण्यां काकिण्यवलोकनार्थ वर्गशुद्ध्यर्थ संगरे संग्रामे चंद्रबलाद्यर्थं पुनर्भूमेलके पुनर्भूमेलनाय नामराशिरवलोकनीयेत्यर्थः । परतः एभ्योऽन्यत्र विवाहयात्रादौ जन्मः जन्मराशिः प्रधानं स्यात् । तथाच ज्योतिर्निबंधे। व्यव- विवाहप्र० ] मार्तडवल्लभाख्यव्याख्यासहितः। - देशे ग्रामे गृहे युद्धे सेवायां व्यवहारके। नामराशेः प्रधानलं जन्मराशिं न चिंतयेदिति । काकिण्यां वर्गशुद्धौ च दाने द्यूते ज्वरोदये। मंत्रे पुनर्भूवरणे नामराशेः प्रधानतेति । वि- वाहे सर्वमांगल्ये यात्रादौ ग्रहगोचरे । जन्मराशेः प्रधानलं नामराशिं न चिंतयेदिति । अथ वधूवरयोर्मध्ये एकस्य जन्मक्षं ज्ञातं एकस्य न ज्ञातं तदा शुद्धिमेलादिकं कथमवलोक- नीयमित्याह- वधूपुरुषयोरिति । वधूपुरुषयोर्मध्ये चेद्यदि एकस्य जन्मक्षं ज्ञातं एकस्य न ज्ञातं तदा इतः ज्ञातात् जन्मादेकस्य शुद्धिं गुर्वादिशुद्धिं विलोक्य तयोर्वधूवरयो - मक्षयोर्मेलको वर्णवश्यादिकः पूर्वोक्तो विलोक्यः । अर्थाद्वयो राश्यज्ञाने नामादेव सर्वं विलोक्यम् । तथाच शार्ङ्गधरः । विवाहघटनं चैव लग्नजं ग्रहजं बलम् । नामभाचिंत- येत्सर्व जन्म न ज्ञायते यदा ॥ ५४ ॥ अथ मेलकार्थ नानो नक्षत्रज्ञानमाह भं नामादिमवर्णतोऽवकहडायुज्यादिवर्णाद्ववौ तुल्यावत्र शसौ खपौ यदभिधावहयोऽस्य नामांतिमम् । आर्यानुद्वहने जनुर्भममलं पट्टस्य बंधे जगु- गेंहग्रामनृपाभिषेककृषिमौज्यन्नाशने भूषणे ॥५५॥६० . ॥ इति मुहूर्तमार्तडे विवाहप्रकरणं समाप्तम् ॥ भं नामेति ॥ नामादिवर्णो नामाद्यक्षरं तस्मात् अक्कडं शतपदं चक्रं यस्माच्चक्रात् चूचेचोलापदेष्वाद्ये इत्यादयः श्लोका निबद्धाः तस्माच्चक्रात् भं नक्षत्रं ज्ञेयम् । तद्यथा चूडामणीति नान्नः आद्याक्षरात् चकारात् चूचेचोला इत्यादिना अश्विनीनक्षत्रं तत्र प्रथ मचरण इतिवज्ज्ञेयमित्यर्थः । तथाच दीपिकायाम् । जन्म न ज्ञायते येषां तेषां नाम गवे- ध्यते। चक्रेऽवकहडे भांशौ तन्नाडी कैश्चिदग्निभादिति ॥ तन्नाडीत्यस्यार्थः यदा नानो नक्षत्रं गवेष्यते तदा अग्निभात् कृत्तिकानक्षत्रात् नाडी विलोक्येति कैश्चिदुक्तं कैश्चिदिति तन्मत- मग्राह्य। तस्मादश्विन्यादि त्रिकं व्यस्तमिति न्यायेन नाड्यवलोकनं बहुसंमतमिति भावः । अथ नामादौ संयोगाक्षरे सति किंकर्तव्यमित्यपेक्षयामाह-युज्यादिवर्णादिति । युजि युक्तेऽक्षरे संयुक्ताक्षरे प्रद्युम्नेयादिके नामादौ युक्ताक्षरे सति आदिवर्णात् प्रथमव- र्णात् भं ज्ञेयं । यथा प्रद्युम्ने नाम्नि प्रथमवर्णः प्रः तत्राप्याद्यः पकारस्तस्मानं ज्ञेयमित्यर्थः। प्रियवचेत्यादी पिकार एव द्रुपदत्यादौ दुकार एव ग्राह्य इत्यादिस्वरशास्त्रे । संयोगाक्षर- जे नाम्नि ज्ञेयं तत्रादिमाक्षरमिति । अथावकहडाचक्रे नामाद्यक्षराभावे सति किंकर्तव्य- मित्यपेक्षायामाह-बवौ तुल्यावत्र शसौ खषाविति अत्रावकहडाचक्रे बवौ इति इमौ वर्णी तुल्यौ । तथाच । शसौ शिव इति नाम्नि सति अवकहडाचक्रे शकारस्याभावात् शकारस्थाने सकारांगीकाराद्रं ज्ञेयमिति भावः। एवमेव खषौ परस्परसवर्णों ज्ञात्वा भं ज्ञेयं । तथाच खरशास्त्रे। खषौ शषौ बवौ चैव ज्ञेयाविति परस्परमिति।अन्यच्च । न प्रोक्ता अणा वर्णा नामादौ संति ते नहि। चेद्भवंति तथा ज्ञेया गजडास्ते यथाक्रममिति। चक्र शतपदं वक्ष्ये ऋक्षांशाक्षरसंभवमिति । स्वरशास्त्रोक्तमवकहडाचक्र प्रसिद्धम् । अथ यस्य बहूनि नामानि संति तस्य कस्मानाम्नो भं ज्ञेयमित्याकांक्षायामाह-यदभिधा बढ्योऽस्य नामांतिममिति । ।

यस्य अभिधा नामानि बढ्यो भवंति तस्यांन्तिमं पश्चादव नाम प्रान्धमातथाच स्वरशास्त्र। वहूनि यस्य नामानि नरस्य स्युः कथंचन । तस्य पञ्चाङ्गवं नान प्राद्यं खरविशारदै- मुहर्तमान्तंडः। [ अग्न्याधानं. रिति । अथ जन्मनक्षत्रं येषु येषु शस्तं तान्याह-आयां दान वहने पुरुष विवाहे जनु में जन्मनक्षत्रं अमलं निर्दूषणं जगुः। तथा पदृस्य बन गेहं गृहकरणप्रवेशनं तथा ग्रामो ग्रामप्रवेशनं नृपाभिषेको राजाभिषेकः कृषि यानिडामोजी प्रसिद्धा. अन्ना शनं नवान्नप्राशनं भूपणं भूषणधारण एषां समाहारन्त मन जन्मभं शुभदं जगुः । तथाच ज्योतिःप्रकाशे । जन्मभं कृषिनृपा मिषेचने भुषण नगरगहकर्मणि पत्यभुवि मौजिवंधने विवाह उदितं शुभं बुधैरिति । राजमात । वसंतसमये दया- ददे गीष्टमेऽटमे । मेखलां जन्ममासेपि जन्मभे च नियावानि ॥ धनचौलानप्राशने चोपनायने । शुभदं जन्मनक्षत्रमशुभ वन्यकीणीति ।। इति खकृतमुहूर्तमार्तडटीकायां मार्तंडवल्लभायां विवाहप्रकरण मनामम् ।। आधि- नारदः । पट्टबं- . ముఖులు अथान्याधानम् । अथाम्न्याधानं वृत्तेनैकेनाह- अग्न्याधानमवादि दारसमये दायाद्यकाले परै- शानिध्रुवशाक्रपुष्यमृगपोष्णैय॑जलग्नाशयोः । जीवेद्वर्ककुजैः सुतपर्द्धिश६।११।१०नव केंद्रस्थ१।४।७।१० रनस्तंगतैःखोचेष्टसंगतैः परैरुपचयर्वित्ताद्यशुद्धा बुधैः ॥ १॥ अग्न्याधानमिति ।। अनेराधानं बहुभिर्बुधैरिकाले अवादि कथितं । चतुर्थीकर्मा- - नंतरं दारकालः । परैराचार्य याद्यकाले धन विभागकाले अवादि । तथाच वृत्तशते । अग्याधानं दारकाले विधेयं कैश्चित्प्रोक्तं तच्च दायाद्यकाले इति तथाच कात्यायन- झयो । आवसथ्याधानंदारकाले दायाद्यकाले एकेषामिति । एतद्भाष्यकारैरैवं व्यवस्थापितं । भ्रातृमतो दारकाले भ्रातृमतो दायाद्यकाले प्रोक्तमिति स्मृतिषु कृतदारस्याग्निना विना हुदोषो दृझ्यते। तथाहि कृतदारो नैव तिष्टेक्षणमचम्मिन्ना चिन्ना । तिष्ठन्स चेद्विजो ब्रा- वस्तथा च पतितो भवेत् ॥ पितृपाकोपजीवी स्याज्ञातृपा कोरीवक: ।ज्ञानाध्ययननिष्टो वा न दुध्येताग्निना विना ॥ यो नाग्निमुपसेवेत दारान्कामाइतावपि पारदारी सविज्ञेयः खस्त्रीस्वीकरणादपि यथा स्नानं यथा संध्या वेदस्याध्ययनं यथा । तथैवोपासनं दृष्टंन स्थि- तिस्तद्वियोगत इत्यादि । तस्मात्सूत्रकारैः कात्यायनादिभिः दारकालाएव बाहुल्येनोक्तम् । अन्याधाननक्षत्राण्याह-कैः। द्वीशाग्निध्रुवशाक्रपुष्यमृगपाण: दीयां विशाखा अग्निः कृत्ति- का ध्रुवाणि व्युत्तरारोहिण्यः शाकं ज्येष्टा पुष्यमृगौ प्रसिद्धी पाणं रेवती तैः। कयोः । व्य. बजलग्नाशयोः । विगताः अब्जाःयाभ्यां तो व्यजौ तौ च तालमाशीच तयोः अजः जलचरराशयः। मकरस्य पश्चिमाध कुंभो मीनः कर्कटचैते जलचरा राशयः । चंद्रोपि जलज: एतै रहितयोलग्ननवांशयोरित्यर्थः । तथाच वृत्तशते । ककिनक्रघटमीनविलने वांशके तनुगतेऽथ तदीये। लग्नगे कुमुदिनीदयिते वा नारामेति जनितोपि हुताश इति । कैः जीवेंदूर्ककुजैः सुतर्द्धनवकेंद्रस्थैः जीवो गुरुः इंदुश्चंद्रः अर्कः मूर्य: कु जो भौमःतैः सुतः गृहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। पंचमं ऋद्धय उपचयभवनानि नव नवमं केंद्राणि प्रथमचतुर्थसप्तमदशमानि ५।३।६। ११।१०।९।१।४।१० एतत्स्थानगतैः । कथंभूतैः। अनसंगतैः सूर्यकिरणैरलुप्तः । पुनः कथंभूतैः । खोच्चेष्टर्भगतैः खश्च उच्चानि च इष्टाश्च एषां ऋक्षाणि राशयस्तद्गतैः । स्वराश्यु- चराशिमित्रराशिगतरित्यर्थः । परैरुक्तेभ्योऽन्यैर्ग्रहै: उपचयैः त्रिषडेकादशदशमगैः । कस्यां सत्यां । वित्ताद्यशुद्धौ सत्यां । वित्तं द्वितीयं आद्यं लग्नं तयोःशुद्धिःक्रूरराहित्यं तस्यां सत्यां। शेषं पूर्ववत् । प्रायश्चंद्र मित्युक्तमवलोक्यम् । तथाच वृत्तशते। केंद्रपिचयत्रि- कोणभगताः सूर्यारजीवेंदवः शेषाश्चोपचयस्थिता यदि तदात्याधानमुक्तं शुभम् । चंद्रे नैधनगे म्रियेत युवतिभौमे पुमानष्टमे शेषैर्मृत्युगतै रुजा च सहितोऽग्याधान- कर्ता भवेत्॥ नो कुर्याद्भुतभुपरिग्रहमिहक्ष्मापुत्रजीवेंदुभिनींचस्थैर्विजितै रिपोर्भवनगै- रस्तंगतैर्वा द्विजैरिति । तथाच संहितासारे । अग्न्याधानं न कुर्वांत कर्किनत्रये विधौ। लग्नगे धनगे पापे तथा रंध्रग्रहान्विते इति ॥१॥ इति मुहूर्तमार्तडटीकायां मार्तडवल्लभायामग्न्याधानप्रकरणम् ॥ अथ गृहप्रकरणं विवक्षुस्तावबामविचारमाह- अथ गृहप्रकरणम् । नामाद्विसुतांकदिग्भवगतो ग्रामः शुभोऽन्योऽन्यथा तत्कोणेऽत्यभुवां शुभं निवसतां दोषाः परेषामलम्। कन्याकर्किधनुस्तुलाक्रियघटाः कौर्यडजो याम्यतो मध्येऽन्ये नव संत्यथेंद्रककुभो वर्गाः स्युरोजस्विनः ॥१॥ नामादिति ।। नामानामराशेः सकाशात् द्वि २ सुतां ५ क ९ दिग् १० भव११ गतो ग्रामः शुभः स्यात् अन्य उक्तविपरीतो ग्रामः अन्यथा स्यादशुभः स्यादित्यर्थः । तदुक्तं ज्योतिःसागरे। एकमे सप्तमे ग्रामे वैर हानिस्त्रिषष्टगे। तुर्याष्टद्वादशे रोग:शेषस्थाने सुखं भवेदिति। एवं ग्रामं शुभाशुभमभिधायेदानी ग्रामदिनियममाह-तत्कोण इति । तकोणे तस्य ग्रामस्य कोणे अंत्यभुवां रजकचर्मकारादीनां निवसतां वसतिं कुर्वतां शुभं स्यात् । रजकश्चर्मकश्चैव नटो बुरुड एव च ।कैवर्तमेदभिल्लाश्च सप्तैते अंतजाः स्मृताः ॥ इल्यादीनां ग्रामकोणे शुभं स्यादित्यर्थः । तत्कोणे निवसतां परेषां वर्णानां अलं अत्यर्थ दोषाः स्युः अशुभानि स्युरित्यर्थः । तथाच ज्योतिर्निबंधे। भवनपुरग्रामाणां ये कोगा- स्तेषु निवसतां दोषः। वपचादयोऽत्यजाद्यास्तष्वेव विवृद्धिमायोति । एवं जातीनां शुभा- शुभदिग्विभागमुक्त्वा राशिपरत्वेन दिक्षु वसतिमाह-कन्येति । यमाशादितः दक्षिणस्याः सकाशात् क्रमेणाष्टासु दिक्षु कन्याकर्किधनुस्तुलादयो राशयो न वसंति। अन्ये उर्वरिता मध्ये न वसंति। एतदुक्तं भवति । अभीष्टं ग्रामं नवभागं परिकल्प्य मध्यभागाद्दक्षिण- भागे कन्या न वसति । कन्याराशिना दक्षिणभागे गृहं न कार्यमित्यर्थः । तथैव नैठते कर्कट: पश्चिमे धनुः वायव्ये तुला उत्तरे अजो मेषः ईशान्यां घट: कुंभः पूर्वे कौपी वृश्चिकः आग्नेयेंऽडजो मीनः न वसति ।अन्ये वृषमिथुनसिंहमकरा मध्यभागेन वसंति। एवं राशिपरत्वेन दिनियममुक्त्वेदानों वर्गपरत्वेन दिनियममाह-अथेति । इंद्रककुभः .. ६ । मुहूर्तमार्तडः। [गृहप्र० सकाशान् अष्टासु दिक्षु अप्रमुखाः अष्टौ वर्गाः अकचटतपयशा इत्येते प्रसिद्धाः ओज- खिनो बलवंतः स्युरित्युत्तरश्लोकेनान्वयः ॥ १ ॥ अष्टावप्रमुखाः स्वपंचमपरा द्विघ्नः स्ववर्गोऽन्ययुक तष्टः काकिणिका गजैमिथ इमा यस्याधिकाः सोऽर्थदः । श्वेतारक्तकपीतकृष्णवसुधाः स्वादुः कटुस्तिक्तकाः काषायाघृतशोणितान्नमदिरागंधाः शुभा विप्रतः ॥२॥ अष्टाविति ॥ एतदुक्तं भवति । अआइईउऊ इत्यादिकः षोडशाक्षरो वर्ग: पूर्वस्यां बली कादिकः पंचाक्षर आग्नेय्यां चादिको दक्षिणस्यां टादिको नैर्ऋत्यां तादिकः पश्चि- मायां पादिको वायव्यां यादिक उत्तरस्यां शादिक ईशान्यांबली । आयमर्थः । खनामा- दिमाक्षराद्वर्ग ज्ञात्वा खस्थाने गृहं कार्यमिति भावः । यतः स्वस्वस्थाने प्राणिनो बलवंत इति लोके प्रसिद्धम् । किंलक्षणा वर्गाः । स्वपंचमपराः खेभ्यः पंचमाः पराः वैरिणो येषां ते तथा । यथा अवर्गस्य पंचमस्तवर्ग: सोऽस्य वैरी कवर्गस्य पंचमः पवर्गः सोऽ- वैरी । एवं सर्वेषां वर्गाणां वैरिणो ज्ञातव्याः । वैरित्वं हि स्वामिवशेन । तदुक्तं भूपाल- वल्लभे । वर्गशास्तार्क्ष्यमार्जारसिंहश्वसर्पमूषकाः । इभैणौ पूर्वतस्तेषां स्ववर्गात्पंचमो रिपुरिति । तस्मात्स्ववैरिवर्गस्य दिशि गृहं न कार्यमिति भावः । अर्थादन्यत्र मध्यम तत्रापि स्वदिग्वर्गासन्नं शुभं वैरिदिगासन्नमशुभमिति बुद्ध्या ज्ञेयं । एवं स्ववर्गग्राम वर्ग- योर्मित्रारिखमवलोक्य वासः कर्तव्य इति सिद्धं । तत्र राशिघटितवर्गघटितयोर्मध्ये राशिघटितं वलवत् । तदुक्तं ज्योतिःसागरे । केप्याहुरथ वर्गाणां स्वस्थाने शुभदं गृह- मिति । अथ वर्गघटिते काकिणिका आह --द्विन्न इति । स्ववर्गो ग्रामवर्ग: वसतिं कर्तुर्वर्गश्च दिन्नः द्विगुणितः कार्यः । मिथः अन्ययुक् अन्यवर्गयुक्कार्यः । गजैरष्टभिस्तष्टः शेषितः सन् काकिणिकाः स्युः इमा काकिणिकाः यस्याधिकाः सोऽर्थदो धनदाता स्यात् । एवं ग्रामदि- नियममुक्त्वा इदानीं निर्माणे पत्तनग्रामक्षेत्रादीनां समंततः क्षेत्रमादौ परीक्षेत गंधवर्ण- रसटवरित्युक्तत्वात् तावद्वर्णपरत्वेन भूमेर्वर्णरसगंधान् वृत्ताधंनाह-श्वेतेति । श्वेतारक्त- कपीतकृष्णवसुधाः विप्रतः ब्राह्मणात्सकाशात् वर्णानां शुभाः शोभनाः स्युः । श्वेतवसुधा पृथ्वी ब्राह्मणस्य आरक्तवसुधा क्षत्रियस्य पीतवसुधा वैशस्य कृष्णवसुधा शूद्रस्य शोभनेति । अर्थात् मिश्रजातीनां मिश्रा शोभना । तथाच वसिष्ठः। श्वेता शस्ता द्विजेंद्राणां रक्ता भूमिमहीभुजाम् । विशां पीता च शूद्राणां कृष्णाऽन्येषां च मिश्रितेति। एवं वर्णमु- क्त्वा इदानीं रसमाह-वादुरिति । स्वादुमधुरा वसुधा ब्राह्मणस्य शोभना कटुमरीचरसा क्षत्रियस्य तिक्तका निबरसा वैश्यस्य काषाया हरीतकीरसा शूद्रस्य शोभनेति अर्थान्मि- श्राणां मिश्रा शोभना । तथाच नारदः । मधुरं कटुकं तिक्तं कषायश्च रसाः क्रमात् । एवं रसानुक्त्वा गंधानाह-घृतेति ।धृतगंधा ब्राह्मणस्य शोणितगंधा रक्तगंधा क्षत्रियस्य अन्नगंधा वैश्यस्य मदिरागंधा मद्यगंधा शूद्रस्य मिश्राणां मिश्रगंधा शुभेत्यर्थः। तथाचोक्तं कारिकायाम् । घृतामृगनमदिरागंधा च क्रमशो भवेदिति । नानाग्रंथेषु रसगंधानां नानात्वं तद्विकल्पतो ग्राह्यम्।तथाच नारदः। मधुपेरानपिशितगंधवर्णानुपूर्वकम् । मधुरं गृहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। - कटुकं तिक्तं कषायश्च रसाः क्रमात् ॥ पेरगंधा कषायगंधा अन्यत्सुगमम् । तथाच कारिकायाम् । घृतामृगन्नमद्यानां गंधा च क्रमशो भवेत् । मधुरा स्यात्कषायाम्लकटुका चानुपूर्वश इति ॥ २ ॥ एवं पृथ्वीवर्णादिकमभिधायेदानी वर्णपरत्वेन भूप्लवलमाह- सौम्यादिप्लवभूतले विरचयेद्विप्रादिकोऽयोऽखिले नान्येषां नियमोऽत्र यत्र निखिलाः कुर्युगृहं हृत्स्थिरम् । समप्रश्नकृतो मुखात्प्रथमतो वर्गादिवर्णोद्गम- चेत्तदिग्गतमादिशेत्तु हपयैः शल्यं सुधीर्मध्यतः ॥३॥ सौम्यादिष्विति ॥ सौम्यादिषु उत्तरादिषु दिक्षु प्लवो निम्नवं यस्य तच तद्भूतलं च तस्मिन्विप्रादिको ब्राह्मणादिकः गृहं विरचयेत् । एवं वर्णपरत्वेन भूलवत्वमुक्त्वा ब्राह्मणस्य विशेषमाह-अग्र्योऽखिल इति । अग्र्यो ब्राह्मणः अखिले सर्वप्लवे गृहं विरचयेत् । त- थाच भृगुः । उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव । विप्रः सर्वत्र वसेदनुवर्णमथेष्ट- मन्येषामिति । अथ पक्षांतरमाह-योति । निखिलाः सर्ववर्णास्तत्र गृहं कुर्युः । तत्र कुत्र । यत्र भुवि हृत् अंतःकरणं स्थिर स्यात् । अयमर्थः । यस्यां भूमौ अंतःकरणप्राशस्त्यं स्यात् तत्रैव गृहं कर्तव्यमित्यर्थः । तथाच वास्तुशास्त्रे । मनसश्चक्षुषो यत्र संतोषो जायते भुवि । तस्यां कार्य गृहं सर्वैरिति गर्गादिसंमतमिति । अथ शल्यज्ञानं वृत्ताधे- नाह-सद्मप्रश्नेति । सद्मप्रश्नकृतःअत्र गृहं कर्तव्यमित्यादिगृहप्रश्नकर्तुर्मुखाच्चेद्यदि प्रथमतः वर्गादिवर्णोद्गमः स्यात् वर्गाणां प्रथमाक्षरोदयः स्यात् । अकचटतपयशानामन्यत- माक्षरोद्गमः स्यात्तदा शल्यं तद्दिग्गतं तस्य वर्णस्य दिग्गतं सुधीः आदिशेत् शल्य- मत्रास्तीति कथयेदित्यर्थः । एतदुक्तं भवति । गृहसंमितां भूमि दक्षिणोत्तररेखाभिः समतया नवधा कृत्वा वर्गाद्यक्षरैः अकचटतपयशैरष्टभिः क्रमेणाष्टासु पूर्वादिदिक्षु शल्यमादिशेत् । अकारे प्रश्नाद्यक्षरे सति पूर्वस्यां दिशि शल्यमादिशेत् । ककारे आग्नेय्यां । चकारे दक्षिणास्यां इत्याद्यष्टसु दिक्षु अष्टभिरक्षरैरादिशेदित्यर्थः । तु पुनः हपयस्त्रिभिरक्षरैर्मध्यतो मध्यकोष्ठे शल्यमादिशेत् पयानां त्रयाणामक्षराणामन्यतमे प्रश्नाद्यक्षरे सति मध्ये शल्यमादिशेदित्यर्थः । तथाचोक्तं ज्योतिनिबंधे। स्मृलेष्टदेवतां प्रष्टुर्वचनस्याद्यमक्षरम् । गृहीत्वा तु ततः शल्याशल्यं सम्यग्विचार्यते ॥ अकचटतपय- शहपथा वर्णाः पूर्वादिमध्यांताः । शल्यकरा इह नान्ये शल्यगृहे निवसतां नाश इति । एतदेव स्पष्टं तत्रैवोक्तम् । पृच्छायां यदि अः प्राच्यां नरशल्यं तदा भवेत् । सार्धहस्त- प्रमाणेन तच्च मानुषमृत्युकृत् ॥ आग्नेय्यां दिशि कः प्रश्ने खरशल्यं करद्वये । राजदंडो भवेत्तत्र भयं नैव निवर्तते ॥ याम्यायां दिशि चः प्रश्ने कुर्यादाकटिसंस्थितम् । नरशल्यं गृहेशस्य मरणं चिररोगतः ॥ नैडल्यां दिशि टः प्रश्ने सार्धहस्तादधःस्थले। शुनोऽस्थि जायते तत्र बालानां जनयेन्मृतिम् ॥ तः प्रश्ने पश्चिमायां तु शिशोः शल्यं प्रजायते । सार्धहस्ते गृहस्वामी न तिष्ठति सदा गृहे ॥ वायव्यां दिशि पः प्रश्ने तुषांगाराश्चतु:- करे । कुर्वति मित्रनाशं च दुःस्वप्नदर्शनं तदा ॥ उदीच्यां दिशि यः प्रश्ने विप्रशल्यं ।

। मुहूर्तमार्तडः। [गृहप्र. कटेरधः । तच्छीघ्रं निर्धनत्वाय कुबेरसदृशस्य हि ॥ ईशान्यां दिशि शः प्रश्ने गोशल्यं सार्धहस्ततः । तद्गोधनस्य नाशाय जायते गृहमेधिनः ॥ हपया मध्यमे कोष्ठे वक्षोगात्रे भवेदधः । नृकपालमथो भस्म लोह तत्कुलनाशकृदिति ॥३॥ एवं शल्यमभिधायेदानी स्थलस्य शुभाशुभज्ञानस्योपायमाह- श्वभ्रं हस्तमितं खनेदिह जलं पूर्ण निशास्ये न्यसे- त्पातर्दृष्टजलं स्थलं सदजलं मध्यं त्वसत्स्फाटितम् । ज्ञात्वैवं निखनेगृहाधिकभुवं नत्वा जलांतं स्तरो "यावद्वा पुरुषस्ततः कपिशिरस्तुल्याश्मभिः पूरयेत् ॥ ४ ॥ श्वभ्रमिति ॥ वज्र गर्त हस्तमिदं खनेत् । इहास्मिन् श्वभ्रे निशास्ये रात्रिमुखे अर्धे सूर्यास्ते जलं पूर्ण न्यसेत्। तच्चेद्यदि प्रातः सजलं स्यात् तदा तत्स्थलं सच्छुभं स्यात् वृद्धि- करं स्यात् । यदि अजलं गतजलं स्यात्तदा मध्यमं यदा स्फाटितं स्फुटितं स्यात्तदा असत् नानाविधहानिकर स्यादित्यर्थः । तथाच नारदः । तथा निशादौ तत्कृत्वा पानीयेन प्रपू. रयेत् । प्रातर्दृष्टजले वृद्धिः समं पंके व्रणे क्षय इति । एवं शुभाशुभस्थललक्षणमभि- धायेदानी भूमिशोधनमाह-ज्ञात्वेति । एवमुक्तप्रकारैः स्थानं ज्ञावा गृहाधिकभुवं ज- लांतं यथाभवति तथा खनेत् गृहादधिका गृहाधिका सा चासौ भूश्च तथा तां कल्पित- गृहात् किंचिदधिकां भूमि जलपर्यंतं खनेदित्यर्थः । अधिकखननं शुद्धभूभागे भित्ति- रचनार्थ वा इत्यथवा स्तरो यावत्तावत् खनेत् पृथ्वीगर्भे मृद्भेदानां स्तराः संति तत्रा- न्यस्तरपर्यतं खनेदित्यर्थः । अथवा यावत्पुरुषस्तन्मितं वा पुरुषमात्रं खनेत् । इदं शक्त्य- पेक्षया ज्ञातव्यम् । पुरुषप्रमाणं पंचारत्नयः । तथाच शुल्वं पंचारनिर्दशवितस्तिविंशति- शतांगुल: पुरुष इति पंचारत्न्यादयः पुरुषपर्यायाः । किंकृता । नला नमस्कृत्य खनेदि. त्यर्थः । ततस्तदनंतरं तत्खातं कपिशिरस्तुल्याश्मभिः वानरशिरःप्रमाणैः ग्रावाणैः पूर- येत् पूर्ण कुर्यात् । तथाच मांडव्यः। जलांतं प्रस्तरांतं वा पुरुषांतमथापि वा। क्षेत्रं संशोध्य चोद्धृत्य शल्यं सदनमारभेदिति । तथाच मत्स्यपुराणे । कपिशीर्षप्रमाणैश्च ग्रावाणैः पूर- येदृढम् । खातं तत्र समं कृत्वा ततः प्राची प्रसाधयेदिति । खन्यमाने क्षेत्रे यदाप्यते तस्य फलं कारिकायामुक्तम् । खन्यमाने यदा क्षेत्रे पाषाणः प्राप्यते यदा । धनायुश्चिर- तास्य स्यादिष्टकासु धनागमः ॥ कपालांगारकेशादौ व्याधिना पीडितो भवेदिति॥ ४ ॥ एवं स्थलशुद्धिमभिधायाधुना दिक्साधनमाह- प्राक् साध्योज्जयिनीस्थलाद्यमदिशि त्वाष्ट्रानिलाभ्यंतरा- त्सौम्ये साम्युदयादुदग्ध्रुवमुखादिङ्मूढके स्यान्मृतिः । गेहं माधवपौषफाल्गुननभोमार्गेषु मृदानिलैः पाश्यर्केज्यवसुध्रुवैः स्थिरतनौ कुर्यात्सुकेंद्राष्टमे ॥ ५॥ प्रागिति॥ उज्जयिनीस्थलात्.यमदिशि दक्षिणस्यां दिशि वाष्ट्रानिलाभ्यंतरात्प्राक् सा- या नरैरित्यध्याहारः। खाष्ट्रं चित्रा अनिलं स्वाती अनयोरंतरं मध्यं तस्मात्प्राची साध्ये- गृहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। त्यर्थः । एतदुक्तं भवति । संभवे सति रात्रौ प्राङ्मुख उपविश्य युगमात्रोदितां चित्रां नलिकया विलोकयन् नलिकाग्रालंबं भूमिपर्यंत मुक्त्वा भूमौ चिहं कृत्वा तथैवाचलस्ते- नैव नेत्रेण खातिमवलोकयन् तथैव नलिकानात्सकाशात् लंबं भूमिपर्यंत मुक्त्वा लंबपाते चिह्नं कृत्वा नेत्रालंबं मुक्त्वा तथैव चिह्नं कुर्यात्। एवं चिह्नद्वयं चित्राखातीचिह्नयो रज्जु तन्मितां धृत्वा रज्जुप्रांतावेकीकृत्य मध्ये चिह्नं कुर्यात् । पुनस्तत्र तथैव प्रसार्य मध्यचिह्ने शंकुं निखाय तस्मात्पश्चिमचिह्नपर्यंतं रज्जु प्रसारयेत् तत्प्राचीसूत्रं । एवमुज्जयिन्या दक्षि- णतः प्राचीसाधनमुक्त्वाथानंतरमुत्तरतः प्राचीसाधनमाह-सौम्य इति । अतः उज्ज- यिन्याः सौम्ये उत्तरभागे अग्न्युदयात्कृत्तिकोदयात्प्राची साध्या । एतदुक्तं भवति । पूर्ववन्न- लिकया युगमानोदितां कृत्तिकामालोक्य नलिकामूलाग्राभ्यां लंबी मुक्त्वा भूमौ चिहृद्वयं कृला तयोरुपरि प्राचीसूत्रम् । अथोत्तरसाधनमाह-उदगिति । ध्रुवमुखात् उदक् उत्त- रादिक् साध्या। इदं सर्वेषां साधारणम् । अथ दिङ्मूढत्वे दोषमाह-दिङ्मूढके स्यान्मृ- तिरिति स्पष्टम् । तथाचोक्तं देवयजनदीपिकायाम् । चित्राखांत्यन्तरे श्रोणाद्दक्षिणापथवा- सिनाम् । प्राची तु कृत्तिका ज्ञेया उत्तरापथवासिनामिति। श्रोणात् उज्जयिन्याः। तथाच शुल्वं । कृत्तिका श्रवणं पुष्यं चित्राखात्योर्यदन्तरम् । एतत्प्राच्या दिशो रूपं युगमात्रो- दिते पुर इति । युगप्रमाणं षडशीत्यंगुलानि । तथाच शुल्बसूत्रं। अंगुलैरथ संमितायाः प्रमाणं तत्राष्टाशीतिशतमीषाचतुःशतमक्षः पक्षः षडशीतियुगं चत्वारोऽष्टकाः शम्ये- ति । तथाच स्फुटकरणे । ध्रुवलंबकरेखाया रेखान्तः सौम्ययाम्यहरितौ स्तः । तन्मत्स्य- पुच्छमुखतः पश्चिमपूर्वाभिधे विद्यादिति । वृद्धनारदः। प्रासादे सदने लिंगे द्वारे कुंडे विशेषतः । दिङ्मूढे कुलनाशः स्यात्तस्मात्संसाधयेद्दिशमिति। अथ केषु मासेषु गृहं क- र्तव्यमित्याह-गेहमिति । माधवादिषु मासेषु मृद्वादिभिर्नक्षत्रैः गेहं गृहं कुर्यात् । मा- धवो वैशाखः पौषफाल्गुनौ प्रसिद्धौ नभाः श्रावण: मार्गों मार्गशीर्षः तेष्वित्यर्थः । मृदुनि चित्रानुराधारेवतीमृगाः अनिलं खाती पाशी वरुणः तद्रं शततारका अर्को हस्तः इज्यः पुष्यः वसुर्धनिष्ठा ध्रुवाणि रोहिणी उत्तरात्रयं च तैः। स्थिरतनौ स्थिरलग्ने । किंलक्षणे। मुकेंद्राष्टमे शोभनानि पापग्रहरहितानि केंद्राष्टमानि यस्य तत्तथा तस्मिन् अचरभे इति वा पाठः । शेषं पूर्ववत् ॥ ५ ॥ अथोक्तध्वपि नक्षत्रेषु विशेषमाह- नो पृष्टाग्रविधौ न रिक्तकतिथौ नारिवारांशयो- रुक्तक्षेष्वपि कुंभमीनगविधौ स्तंभोच्छ्रितिं नाचरेत् । तुर्यात्पंचदशात्रिदृक्परिमिताद्वेदाब्धिपंचक्रमा- निंद्यान्यर्कयुतादि गेहकरणे भानि प्रवेशेऽपि च ॥६॥ नोपृष्ठाग्र इति॥ पृष्टाग्रविधौ सति नो विरचयेत् । एतदुक्तं भवति । कृत्तिकादीनि सप्त नक्षत्राणि पूर्वस्यांमघादि सप्त दक्षिणस्यामित्यादि सप्तशलाकाचक्रस्थितनक्षत्राणां मध्ये मृ- द्वानिलादीष्टचंद्रनक्षत्रं यस्मिन् दिग्भागे भवति तद्दिङ्मुखे गृहे संमुखश्चंद्रो ज्ञेयः। तत्पृष्ठस्थे पृष्ठतो ज्ञेयः। एवमग्रगे पृष्ठगें वा चंद्रे सति गहन कर्तव्यमित्यर्थः। तथाच भृगुः । चक्रे सप्तर- -

मुहूर्तमार्तडः।
[गृहप्र०
लाकाख्ये कृत्तिकादीनि विन्यसेत्। ऋक्षं चंद्रस्य वास्तोश्च पुरः पृष्ठे च नो शुभमिति।तथाच
ब्रह्मशंभुः । धनलाभः प्रवासः स्यादायुश्चौरभयं क्रमात् । दक्षाग्रवामपृष्ठस्थे गृहकर्तुर्निशा-
कर इति । न रिक्तकतिथौ स्पष्टं नारिवारांशयोः अर्कभौमयोर्वारनवांशयोः न कुर्यात् ।
उक्तःष्वपि कुंभमीनगविधौ सति स्तंभोच्छ्रितिं नाचरेत् अर्थादन्यत्सर्वमाचरेत् । त-
थाच मांडव्यः । पंचकेषु च धिष्ण्येषु न कुर्यात्स्तंभमुच्छ्रयम् । क्षेत्रसूत्रशिलान्यास-
प्राकारादि समाचरेदिति । अथ वृषवास्तुमाह-तुर्यादिति। अर्कयुतादि सूर्यनक्षत्रादि
नुर्यात् चतुर्थात् पंचदशात् त्रिदृक्परिमितात् त्रयोविंशात्सकाशात् क्रमेण वेदाब्धिपंच-
भानि नक्षत्राणि गृहस्य करणे रचनायां प्रवेशेपि निंद्यानि स्युः । तथाच व्यवहारसारे।
त्रिवेदाब्धित्रिवेदाब्धिद्वित्रिभेवर्कतः शशी। कुर्यालक्ष्मी समुद्वासं स्थैर्य लक्ष्मी दरिद्रताम् ।
धनं व्याधि क्रमान्मृत्युं प्रवेशारंभयोवृष इति ॥ ६ ॥
अथ चतुर्धा द्वारनिर्णयमाह-
शेते भाद्रपदात्रिषु त्रिषु सुरः प्रागादिशीर्षोऽत्र हि
प्रोक्तं सद्ममुखं तु गोल्यजघटेष्वर्के यमोदङ्मुखम् ।
द्रोगैणकुलीरलेयगरवी पूर्वापरास्यं गृहं
नान्यस्थे भुजकोटिघात इभहच्छेषं स्युरायाः क्रमात् ॥ ७ ॥
शेत इति । भाद्रपदात् त्रिषु त्रिषु मासेषु सुरो वास्तुपुरुषः प्रागादिशीर्षः शेत इति।
एतदुक्तं भवति ।भाद्रपदादिमासत्रये पूर्वशीर्षः मार्गशीर्षादिमासत्रये दक्षिणशीर्षः फाल्गु-
नादिमासत्रये पश्चिमशीर्षः ज्येष्ठादिमासत्रये उत्तरशी! वास्तुपुरुषः शेत इति । अत्र
यस्यां शीर्ष तस्यां दिशायां सद्ममुखं गृहमुखं प्रोक्तम् । अथ संक्रांतिपरत्वेन मुखनिर्णय-
माह-गोल्यजेति । गोल्यजधटेष्व सति यमोदङ्मुखं गृहं कार्य । गौः वृषः अलिवृश्चिकः
अजो मेषः घटस्तुला एषु राशिषु अर्के सूर्ये सति यमोदङ्मुखं दक्षिणामुखं उत्तरामुखं
वा गृहं कार्यमित्यर्थः । हृद्रोगैणकुलीरलेयगरवौ सति पूर्वापरास्यं । हृद्रोगः कुंभः एणो
मकरः कुलीरः कर्कट: लेयः सिंहः एतान् गच्छति स तथा स चासौ रविश्च तस्मि-
न्सति पूर्वापरास्यं पूर्वमुखं पश्चिममुखं वा गृहं कार्य । अन्यस्थे अन्यराशिस्थे रवौ सति
गृहं न कार्यम् । अथायपरत्वेन गृहमुखनिर्णयं विवक्षुस्तावदायसाधनमाह-भुजेति ।
भुजकोटिघातइभहृच्छेषं आयाः स्युः । भुजो गृहदैर्घ्यविस्तारयोरन्यतमस्य नाम तदन्या
कोटिः। तथा च लीलावत्याम् । इष्टो बाहुर्यस्यां तत्स्पर्धिन्यां दिशीतरो बाहुः। ज्यसे
चतु-
रखे वा सा कोटिः कीर्तिता तज्ज्ञैरिति । तयोर्घातो गुणनं इभहृच्छेषं पूर्वादि यथा
स्यात्तथा ध्वजादय आयाः क्रमात्स्युः ॥ ७ ॥
पूर्वादिध्वजधूमसिंहशुनकोक्षाणः खरेभोष्ट्रका
धार्याः स्वस्खपदे ध्वजोऽखिलमुखः प्राग्याम्यवको गजः ।
पागास्यो वृषभो विवारुणमुखः सिंहः प्रशस्ता इमे
धूमोऽग्नेः शुनकोऽत्यजस्य खगपस्योष्ट्रोट्टपत्न्याः खरः ॥८॥

गृहा०] मार्तडवल्लभाख्यव्याख्यासहितः । पूर्वादीति॥पूर्वादिषु ध्वजादयो बलिष्ठा इति भावः।एते ध्वजादयः स्वस्व पदे स्वस्वस्थाने ध्वजः पूर्वे धूम आग्नेय्यामित्यादि धार्याः । अयमर्थः । मुख्यगृहापेक्षया दिक्षु वक्ष्यमाणगृ- हेषु धार्या इत्यर्थः । अथवा स्वसदृशवस्तुषु धार्याः।अथवा स्वसदृशसत्त्वगृहेषु धार्याः।अथवा क्रूरकर्मसाधनवस्तुषु पराक्रमिणो धार्याः।अथवा स्वसदृढशवस्तुसखोपजीविनां गृहेषु धार्याः अथवा स्वानुरूपवस्तुसाध्यहितवस्तुगृहेषु यथायोग्यं धार्या इत्यर्थः । एतत्स्पटमुक्तं वास्तुप्रदीपे । खेटकपटकोटेषु वृषः सिंहो गजः शुभः । वापीकूपतडागादौ गजो देयो बि- चक्षणैः ॥ आसने योजयेत्सिहं शयने चैव कुंजरम् । वृषं भोजनपात्रे च दद्याच्छाला- दिषु ध्वजम् ॥ महानसेऽग्निशालायां गृहे चाप्युपजीविनाम् । धूमं दद्यात्तथा श्वानं यवनांत्यजयोहे ॥ खरो वेश्यागृहे योज्यो ध्वांक्षः पक्षिपतेगृहे । वृषं सिंहं गजं दद्यात् प्रासादे पुरमंदिरे ॥ तथाच शिल्पशास्त्रे । वस्त्रजे धर्मशालायां कुंभे स्तंभे ध्वजे ध्वजः। गोगजौ भूगृहे चैव साध साधारणगृहे शुभौ ॥ यंत्रे शस्त्रे रणे सिंहो भांडागारे शुभो गजः । धान्यांबुस्थानगोश्वेभः शालायां वृषभः शुभः ॥ नाट्यभागोद्वाहवेद्या गजसिंहवृषाः शुभाः इत्यादि । एवमायसाधनमुक्त्वेदानीं तेषांमुखान्याह-ध्वजोऽखिलमुखः सर्वदिग्द्वारः प्रा- ग्याम्यवक्रो गजः सुगमम् । प्रागास्यो वृषभः आस्यं मुखं प्राङ्मुखो वृषभः स्पष्टं । विवारुण- मुखः सिंहः वरुणस्यायं वारुणो दिग्विभाग: पश्चिमदिक् विगतः वारुणो येभ्यस्तत्र मुखं यस्य स तथा। पश्चिमदिशं विना सर्व दिग्द्वार इत्यर्थः । यो यो यद्दिमुख आयस्तत्सं- भूतगृहस्य तत्तद्दिशि मुखं कर्तव्यमित्यर्थः । एवं आयपरत्वेन गृहमुखमुक्त्वा प्रसंगेन आयानां शुभत्वमाह-प्रशस्ता इमे इति । इमे चत्वार आयाः प्रशस्ताः सर्वेषां शुभाः अर्थादन्ये चत्वारः समा आया अप्रशस्ताः । तथाच गर्गः। कीर्तिः शोको जयो वैरं धनं निर्धनता सुखम् । रोगश्चेति गृहारंभे ध्वजादीनां फलं क्रमादिति । अथ दुष्टेपि समये विशेषमाह-धूमोग्नेरिति । अग्नेहे धूमो धूमायः प्रशस्तः । अंत्यजस्य शुनकः प्रशस्तः । खगपस्य पक्षिपालकस्य उष्ट्रः प्रशस्तः । अपत्न्या वेश्यायागृहे खरः खरायः प्रशस्तः ॥ ८ ॥ एवमायपरत्वेन गृहमुखमुक्त्वाऽधुना राशिपरत्वेनाह- पाहुः प्रामुखमंत्यश्चिककुलीराणां प्रचेतोमुख जूकोपांत्यगवां यमास्यमवलायुग्मैणकानां हितम् । सौम्यास्यं गृहमाद्यसिंहधनुषामनेष्टकाष्ठाननं कृत्वाप्तान्यककुबूगवाक्षवदनं तत्कार्यमास्यं न सत् ॥ ९॥ प्राहुरिति ॥ अंत्यवृश्चिककुलीराणां प्राङ्मुखं गृहं हितं प्राहुः। अंत्यो मीन: वृश्चिक: प्रसिद्धः कुलीरः कर्कः एषामित्यर्थः । जूकोपांत्यगवां प्रचेतोमुखं पश्चिमाभिमुखं जूकस्तुला उपांत्यः कुंभः गौषः एषामित्यर्थः । अवलायुग्मैणकानां यमास्यं दक्षिणामुखं अबला कन्या युग्मं मिथुनं एणो मकरः एषामित्यर्थः । आद्यसिंहधनुषां सौम्यास्यं आद्यो मेषः सिंधनुषी प्रसिद्धे एषां सौम्यास्यं उत्तरामुखं गृहं हितं प्राहुराचार्याः । एवं च- तुर्धा गृहमुखमभिधायेदानीं तनिर्णयमाह-अत्रेष्टकाष्टाननं इति गृहमुखपक्षेषु शोभाव- ६८ मुहूर्तमार्तडः। [गृहप्र० काशानुरूपं इष्टकाष्टाननं इष्टदिङ्मुखं कृत्वा तद्गृहं आप्तान्यककुब्गवाक्षवदनं कार्य आ- ताश्च ता अन्यककुभश्च तासु गवाक्षा एव वदनानि यस्य तत्तथा उर्वरितपक्षत्रयप्राप्त- दिक्षु गवाक्षाः कार्या इत्यर्थः । तथाच वास्तुशास्त्रे । द्वारं चतुर्विधं प्रोक्तं वास्तुसंक्रांति भावजम् । कृत्वा चान्यतमं मुख्यं गवाक्षाद्यैः पराणि चेति ॥ आस्यमिति आस्यं गृहस्य मुखं कोणस्तंभादिभिर्विद्धं न सत्स्यात् ॥ ९॥ एवं गृहमुखनिर्णयमुक्त्वाऽधुना कोणादिविद्धमुखस्य दोषं तदपवादं चाह- कोणाध्वभ्रमकूपकर्दमतरुदास्तंभदेवेक्षित सौच्यं द्विगुणाधिकांतरभवे वेधे न दोषः किल । अष्टने गृहभूफले भविहृते शेषं गृहः भवे- दृक्षे सर्पहृते व्ययो गृहमसत्खल्पायभूरिव्ययम् ॥१०॥ कोणाध्वेति ॥ कोणो भित्तिकोणः । अध्या मार्गः भ्रमो भ्रमयंत्रं घरकुलालचकादि कूपः प्रसिद्धः कर्दमः स्नानादिजनितो निरंतरस्थायी तरुव॒क्षः द्वाः द्वारांतरं स्तंभः प्रसिद्धः देवः स्थावरः एभिर्विद्धं मुखं न सत्स्यादित्यर्थः । अथास्यापवादमाह-सौ- च्येति । सौच्यद्विगुणाधिकांतरभवे वेधे न दोषः सद्मनो गृहस्य औच्च्यं तस्यापेक्षया द्विगुणाधिकांतरभवे द्विगुणाकांतरे जाते वेधे कोणादिवेधे न दोषः । अर्थान्यूने दोषः । किलेल्यागमे निश्चये वा। तथाचागमांतरे उक्तं । मार्गतरुकोणकूपभ्रमविद्धशुभदं द्वारं । स- मोच्छ्रायाद्विगुणां त्यक्त्वा भूमिं न दोषायेति। कात्यायनगृह्यकारिकायामप्युक्तं। विद्धं कूपत- रुस्तंभं पथपंकैः सदैवतैः । तद्धारमशुभं प्रोक्तमत्युच्चं नीचमेवचेति । अथ ग्रहनक्षत्रानयनं व्ययानयनं चाह । अष्टन्न इति । गृहभूफले गृहक्षेत्रफले अष्टप्ने अष्टगुणिते भविहृते सप्तविं- शतिहते सति शेषं गृहक्षं गृहनक्षत्रं भवेत् । ऋक्षे सर्पहृते अष्टहृते सति शेषं व्ययो भवेत् । एवमायव्ययावभिधायाधुना तत्फलं विशेषणद्वाराऽऽह-गृहमसदिति । स्वल्पाय- भूरिव्ययं गृहमसत् अशुभं स्यात् । स्वल्पायश्च भूरिव्ययश्च तौ यस्मिंस्तत्तथा अर्थाद्वा- याल्पव्ययं शुभम् ॥ १० ॥ नक्षत्रे ज्ञाते राशिनिर्णयमाह- मेषेऽश्चित्रितयं हरौ त्रिपितृभं मूलत्रयं धन्विनि द्वेद्वे भे परतो गृहेशघटितं प्राग्वत्तु नाड्यन्यथा । एकादिद्विगुणोत्तरा गृहमुखादिक्ष्वंककाः स्युः क्रमा- १९६॥च्छालाशांकयुतिः कुयुग्ध्रुवमुखान्योकांसि संति स्फुटम्११ अश्वित्रितयं मेषे ज्ञेयं ॥ त्रिपितृभं मघात्रयं हरौ सिंहे ज्ञेयं मूलत्रयं धनुषि ज्ञेयं अन्येषु राशिषु द्वे द्वे मे ज्ञेये। तथाच गर्गः। अश्विन्यादित्रयं मेषे सिंहे प्रोक्तं मघा- त्रयं । मूलादित्रितयं चापे शेषभेषु द्वयं द्वयमिति । अथगृहतत्स्वामिनोर्घटितमाह-गृहे- शेति । गृहं प्रसिद्धं ईशः स्वामी तयोर्घटितं प्राग्वत् विवाहवद्योज्यं । तत्र विशेषमाह-ना- ड्यन्यथेति । नाडी एकनाडी अन्यथा योज्या विवाहवन्न योज्येत्यर्थः । अत्रैकनाज्येव गृहप्र० ] ६९ मार्तडवल्लभाख्यव्याख्यासहितः । प्रशस्तेति भावः । तथाच वृद्धगर्गः । प्रभुः पण्यांगनामित्रं देशं ग्रामं पुरं गृह । एक- नाडीस्थितं भाव्यं विरुद्धं वेधवर्जितमिति । तथाच ज्योतिःसागरे । सेव्यसेवकयोश्चैव गृहतत्स्वामिनोरपि । परस्परं मित्रयोश्च एकनाडी प्रशस्यत इति । अथांशसाधनार्थ गृहाणि तन्नामाक्षरसंख्यां चाह-एकादीति । गृहमुखात्सकाशात् क्रमात् प्रदक्षिणक्र- मात् दिक्षु चतसृषु दिक्षु एकादिद्विगुणोत्तरा अंकाः स्युः । एतदुक्तं भवति । द्वारदिशि एकः तस्माद्वितीयदिशि द्वौ तृतीयदिशि चत्वारः चतुर्थदिशि अष्टौ एवं भवंतीत्यर्थः । शालाशांकयुतिः शालादिगंकयोर्योगः कार्यः कुयक् एकयुक्ता सती ध्रुवमुखानि ध्रुवा- दिकानि शास्त्रोदितानि. गृहाणि स्फुटं संभवंतीति । तानि यथा। ध्रुवं धन्यं जयं नंदं खरं कांतं मनोरमम् । सुमुखं दुर्मुखं क्रूरं सुपक्षं धनदं क्षयम् ॥ आक्रंदं विपुलं चैव विजयं चेति षोडशमिति ॥ ११ ॥ नामाक्षरसंख्यामाह- आषष्ठादशमं त्रयोदशमिमे व्यर्णाः परे त्र्यक्षराः षष्ठांत्यं चतुरक्षरं खलु गृहं स्युः षोडशैवं गृहाः । गेहक्ष्माफलयुग्व्ययो गृहभवैनामाक्षरैः संयुत- स्तष्टो वह्निभिरंशका न शुभदं पस्त्यं द्वितीयांशकम् ॥१२॥ आषष्ठादिति ॥ षष्ठं मर्यादीकृत्येत्याषष्ठं तस्मात् प्रथमद्वितीयतृतीयचतुर्थपंचमषष्ठा- नि दशमं त्रयोदशं इमे अष्ट गृहाः द्वयर्णाः यक्षराः षष्टांत्यं सप्तमं गृहं चतुरक्षरं च- वारि अक्षराणि यस्मिंस्तत्तथा अन्ये गृहाः त्र्यक्षराः एवं षोडशगृहाः स्युः। गृहाः पुंसि च भून्येव निकाय्यनिलयालया इत्यमरः । अथांशकसाधनमाह-गेहक्ष्मेति । गेहक्ष्माफल- भुग्व्ययः गृहक्षेत्रफलयुक्तः पूर्वानीतो व्ययः गृहभवैर्नामाक्षरैः संयुतः वह्निभिस्त्रिभिस्तष्टः शेषितः सन् अंशकाः स्युः । इंद्रो यमो राजेति तन्नामानि ग्रंथांतरे उक्तानि । तत्र द्विती- यांशंकं पस्त्यं गृहं न शुभदं । अर्थात्प्रथमतृतीयांशकं शुभदमित्यर्थः । निशांतपस्त्यसदनं भवनागारमंदिरमित्यमरः ॥ १२ ॥ अथ गुणविचारणावधिमाह- यावद्भरिगुणं हृदि स्फुरति तत्तावद्विचार्य करै- श्वेत्तैनों तनुयादिहांगुलमुखं क्षिप्त्वा विहायाथ वा। श्रीगोपीपतिभेगमालुगिमुखैरायासविच्छित्तये स्वेष्टायक्षफलं निबद्धमिह तज्ज्ञात्वा स्थलं साधयेत् ॥१३॥ यावदिति ॥ यावत्पर्यंत करैः हस्तैः कृत्वा भूरिगुणं बहुगुणं गृहं हृदि अंतःकरणे स्फुरति तत्तावद्विचार्य । चेद्यदि तैः केवलैः करैः हस्तैः कृत्वा बहुगुणं न स्फुरति तदा अंगुलमुखं अंगुलादिकं करेषु क्षिप्त्वाऽथवा विहाय तनुयात्कुर्यात् । अथोपायांतरसूच- नामाह-श्रीगोपीपतीति । गोपीपतिर्गोपीराजः मेंगः मेंगनाथदैवज्ञः मालुगिमालुगि- दैवज्ञः एतन्मुखैः ज्योतिर्विद्भिः आयासविच्छित्तये यत्वेष्टायः फलं निबद्धं तदिहा- मुहूर्तमार्तडः। [गृहप्र० स्मिन् गृहकरणविषये ज्ञाला स्थल स्वाभीष्टस्थलं साधयेत् । तथाच गोपीराजः । विष्णु व्येकायगोभू १९ हतिभयुजि फलं गोपिराजो भ २७ शेषात् सायं वेष्टाष्टिदृग्न्या २१६ युतमहि ८ निहता दृक् २ प्रकृत्याख्य २१ विश्वे १३ । बाणाः. ५ सिद्धा २४ ष्टि १६ नागो ८ ड्व २७ विधृति १९ गिरिश ११ व्या ३ कृती २२ द्र १४ तु ६ तला २५ त्यष्टयं १७ क ९ मा १ नखे २० ना १२ र्णव ४ विकृति २३ दिना १५ द्युत्कृति२६ भृत्य १८ थाशाः १० इति। अस्यार्थः । गोपीराजः विष्णुं विष्णुनामानं शिष्यंप्रत्याहेत्यन्व- यः । किमाह हे विष्णो व्येकायगोभू १९ हतिभयुजिभ२७शेषात् अहि ८ निहतादृक् प्रकृ- त्यादयः फलं स्यात् । विगतः एको यस्मात्स व्येकः सचा सौ आयश्च व्येकायः व्येकायश्च गोभूश्चअनयोर्हतिर्गुणनं व्येकायगोभूहतिश्च भं च व्येकायगोभूहतिभे तयोर्युक् योगः तस्यां भशेषात् सप्तविंशतिहृच्छेषात् एकादिषु सप्तविंशतिपर्यंतेषु अहिनिहता अष्टहता दृक् प्रत्यादयः फलं क्षेत्रफलं स्यादित्यर्थः । कथंभूतं फलं । सायं आयेन सहवर्तमानं सायं इटायसहितमित्यर्थः। एतत्वेष्टायनक्षत्र फलं भवति । न्यासः वा इत्यथवा तत्सायं फलं इष्टाष्टिदृग् २१६ न्यायुतं सत् फलं स्यात् । इष्टश्च अष्टिक्च इष्टाष्टिदृक् तयोनी हतिः तया युतमित्यर्थः । इदमपि खेष्टायनक्षत्र फलं भवतीति । अत्रांकन्यास एव व्याख्यानं । तथाच मेंगनाथदैवज्ञस्य सूत्रं । इष्टभात्यष्टिघाते य आयस्तेनोनितेष्टकः। त्रिहृलब्धहतागाश्वि २७ युते चेष्टायभं भवेदिति । अस्यार्थः । इष्टभात्यष्टिघाते इष्टभं च अत्यष्टिश्च तयोर्घातो गुणनं तस्मिन् पृथक् स्थापितो य आयस्तेन ऊनितेष्टकः यदि ऊनो न भवति तदा अष्टौ प्रक्षिप्य स्फोटनीयः । ऊनितेष्टायः त्रिहृलब्धहतागाश्वियुते लब्धेन आहताश्च ते अगाश्विनश्च तैः पृथक् स्थापिते इष्टभात्यष्टिघाते युते सति इ- टायभं क्षेत्रफलं भवेत् । आयश्च भं च आयभे इष्टे आयभे यस्मिंस्तत्तथा। अत्र यदि त्रि- भिनिःशेषो भागो न गच्छति तदा तत्र तावत् अष्टौ क्षेप्याः यावत्रिभिभागो गच्छति। तथाच मालुगिदैवज्ञस्य सूत्रम् व्येकेष्टक्षहता द्विवाणशशिनो १५२ त्यष्टयायुता १७ स्तेपि च व्येकेष्टायहतैकनागसहिताः षण्मूर्च्छनाभि २१६ हताः। शेषं क्षेत्रफलं भवेद- भिमतखेष्टायनक्षत्रजंस्यायं तदभीष्टविस्तृतिहृतं दैोद्धृति विस्तृतिरिति। स्पष्टार्थोयं श्लोकः । इत्यादिविचारणया इष्टं क्षेत्रफलम् अवकाशानुरूपं हृदि धृत्वा स्थलं साधये- दित्यर्थः ॥१३॥ अथ स्थलसाधनाय सूत्रमोटनलक्षणमाह- द्विन्नायाममितं द्विपाशमजरत्सूत्रं विधायांकये- व्यायामांघ्रिमिते च विस्तृतिदलेऽतात्कर्षकोणाभिधौ । पाशौ क्षेत्रविरामशंकुनिहितौ कृत्वाधमाकर्षये- ११९ कोणे शंकुरितीतरो विनिमयाद्रज्ज्वंतयोश्चापरौ ॥ १४॥ द्विघ्नायाममिति । अजरत्सूत्रं नूतनसूत्रं द्विघ्नायाममितं द्विपाशं च विधाय अंतान् एकस्मात्सूत्रांतात् अंकयेदित्यन्वयः। द्विघ्नश्चासौ आयामश्च द्विघ्नायामः आयामो दैर्घ्यं तेन मितं द्विगुणितदैये समानमित्यर्थः । द्विपाशं कृत्वा द्वौ पाशौ यस्मिंस्तद्विपाशं एवंविधं सूत्रं गृहप्र.] मार्तडवल्लभाख्यव्याख्यासहितः । . विधाय कृत्वा अंतात्सकाशातू अंकयेत् चिह्नयेत् । एतदुक्तं भवति । पूर्वकल्पितक्षेत्रस्य दैर्घ्यमितं सूत्रं द्विगुणं विधाय तदंतयोः पाशं कृत्वा अंकयेत् । कुत्रकुत्रांकयेदित्याह । व्यायामांघ्रिमिते च परं विस्तृतिदले अंकयेत् । त्रयश्च ते आयामांघ्रयश्च ते तथा तै- र्मितं तस्मिन् । एतदुक्तं भवति । क्षेत्रदैर्ध्य चतुर्भिर्भक्त्वा लब्धं अंध्रिप्रमाणं एकस्मा- दतात् अंनित्रयं हिला चिह्नयेत् । विस्तृतिदले क्षेत्रस्य विस्तारार्धमिते अंकयेत् । तौ अंको कर्षकोणाभिधौ स्तः। अंघ्रित्रये कृतः कर्षाख्यः विस्तृतिदले कृतोऽकः कोणाख्यः । एवं सूत्रमोटनमुक्त्वा स्थलसाधनमाह-पाशाविति। पाशौ क्षेत्रविरामशंकुनिहितौ कृला आद्यं अंक आकर्षयेदित्यन्वयः । क्षेत्रस्य विरामौ अंतौ तयोः शंकुनिहितौ निक्षिप्तौ कृत्वा आद्यमकं कर्षाख्यं आकर्षयेत् । एतदुक्तं भवति । क्षेत्रस्य मध्यभागे साधितदिक् सूत्रोपरि इष्टदैर्ध्यमितसूत्रं प्रसार्य तदंतयोः शकुनिखातयोः शक्कोः मोटितसूत्रांतपाशौ निधाय कर्षाख्यं चिह्न धृत्वा एकस्यां दिशि आकर्षयेत् यथोभयशंकुगता रज्जु: समाना आकृष्टा स्यात् तथा आकर्षयेदिर्थः । कोणे शंकुरिति कोणे कोणचिह्न यत्र कोणचिह्नमा- गतं तत्र भुवि शंकुं निखायेत्यध्याहारः । इत्यमुना प्रकारेण इतरः शंकुर्निखेयः। एतदुक्तं भवति । तदेव कर्षचिह्न अन्यस्यां दिशि आकृष्य कोणे शंकुर्निखेयः। एवं कोणद्वयसाध- नमभिधाय अन्यकोणद्वयसाधनमाह विनिमयादिति । रज्ज्वंतयोविनिमयात् विपरी- तधारणात् अपरौ कोणशंकू निखेयौ । एतदुक्तं भवति । रज्ज्वंतौ विपरीतौ धृत्वा पूर्व- वत्कर्षाकर्षणं कृत्वा कोणयोः शंकू निखेयौ ॥ १४ ॥ एवं क्षेत्रसाधनमुक्त्वा सूत्रन्यासमाह---- आग्नेयादिदृढं प्रदक्षिणगतं सूत्रं समासादये- न्मध्ये वामकपार्श्वसुप्तपुरुषं ध्यात्वा तमुत्तानकम् । अष्टाच२८शमतेंदु१७संमितलवान्पुच्छाद्विहायानगो भागो नाभिरितः खनेल्लवमितं वामेऽश्मभिः पूरयेत् ॥१५॥ आग्नेयादीति ॥आग्नेयादिदृढं प्रदक्षिणगतं सूत्रं आसादयेत् । मध्ये क्षेत्रमध्ये वाम- कपार्श्वसुप्तं पुरुषं प्रागुक्तशिरस्कं ध्यात्वा तं ध्यातं पुरुषं उत्तानकं ध्यायेत् । कथंभूतं पार्श्वस्थं । लघुमध्ये गुरोः परं स्याद्यथोपरि तथैव पूरयेत् । पश्चिमं च गुरुभिः पुनः पुनः सर्वमेव लघुरित्ययं विधिरिति । कथंभूतम् । अष्टाश्व्यंशं अष्टाश्विनोंशा भागा यस्मिन् स तथा तं। अयमथः। क्षेत्रप्रमाणं कृकलासरूपं वास्तुपुरुषं प्रकल्प्य ततोऽष्टाविंशतिधा कुर्यात्। एवमष्टाश्व्यंशं प्रकल्प्य पुच्छात्सकाशात् अगेंदुसंमितलवान् सप्तदशभागान् विहाय त्यक्त्वा अग्रगस्तदनगो भागो नाभिः। इतो नाभेः सकाशाद्वामे वामभागे लवसंमितं खनेत् । अनं- तरं अश्मभिः पूरयेत् । तथाच ब्रह्मशंभुः-सूत्रभित्तिशिलान्यासं स्तंभस्यारोपणं तथा। पूर्वदक्षिणयोर्मध्ये कुर्यादित्याह काश्यप इति । नारदः । नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमं । पूर्वादिदिक्शिरा वामपार्श्वशायी प्रदक्षिणमिति । तथाच शिल्पशास्त्रे । वास्तोः शिरसि पुच्छे च याम्यकुक्षौ च पृष्ठतः। आयुष्कामः खनेनैव वामकुक्षौ खनिः शुभा ।वास्तुक्षेत्रप्रमाणं च कल्पयित्वास्य वामके । कुक्षौ खातं विधायादौ ग्रावाणैः पूर- मुहूर्तमार्तडः । [गृहप्र० येत्ततः इति । तथाच लल्लः । त्यजेद्दशशिरोभागे ह्यने सप्तदशांशकान् । मध्ये नाभि विजानीयात्तत्र शंकुं प्रतिष्ठयेत् । अस्थिरस्य शिरो यत्र वास्तोस्तद्गणयेत्करैः । दैर्य वा विस्तृतिं चैव कृत्वाष्टाश्विमितांशकानिति ॥ १५ ॥ अथ शंकुन्यासमाह- - नाकालेऽत्र निधेय उक्ततरुजोयात्सिद्धविंशाष्टयहः कृत्संख्यांगुलकस्त्रिभागचतुरस्राष्टास्रकानस्रकः। कंवक्षस्थलमूरुपादयुगलं संस्पृश्य विमादिको 190" रेखां सूत्रवदग्निजेन रचयेत्तद्वच्च भित्तेः शिलाः ॥१६॥ नाकाल इति ॥अत्र कुक्षिस्थले ना नरःशंकु: काले मुहूर्तसमये निधेयः। स कियत्प्रमाण इत्यपक्षायां नृमानमाह। अग्र्यात् विप्रात्सकाशाद्वर्णपरत्वेन सिद्धा २४ विंशा २०ष्टय१६- हःकृत् १२संख्यांगुलकः निधेयः प्रतिष्ठापनीयः। एतदुक्तं भवति । विप्रेण सिद्धसंख्यांगु- लकः चतुर्विंशांगुलो निधेयः । क्षत्रियेण विंशांगुलः । वैश्येनाष्टयंगुल: शोडशांगुल: शूद्रेणाहःकृत्संख्यांगुलो द्वादशांगुलो निधेय इत्यर्थः । किंलक्षणो ना। उक्ततरुजः शा- स्त्रोक्तवृक्षोद्भवः । पुनः किंलक्षणः । त्रिभागचतुरस्राष्टास्रकानस्रकः । त्रिभागेषु चतुरस्रा- टास्रकानस्रकानि यस्मिन् स तथा ॥ एतदुक्तं भवति । यथाप्रमाणं शंकुं त्रिधा विभाज्य आद्यांशं चतुरस्रं द्वितीयांशमष्टास्रं तृतीयांशं अनस्रं वर्तुलं कुर्यादिति भावः । तथाचो- क्तं ग्रंथांतरे । स्याच्चतुर्विंशविंशाष्टिद्वादशांगुलकैः क्रमात् । विप्रादीनां शंकुमानं स्वर्ण- वस्त्राद्यलंकृतं । खदिरार्जुनशालोत्थं युगपत्रतरूद्भवं । रक्तचंदनपालाशरक्तशालकिलालज। निंबकारंजकुटजं वैणवं बिल्ववृक्षजं । शंकु त्रिधा विभाज्यायं चतुरस्रं ततः परं । अष्टा- स्त्रं च तृतीयांशमनस्रमृजुमव्रणं । एवं लक्षणसंयुक्तं परिकल्प्य शुभे दिन इति । रेखाकरणमाह-कमिति । अग्निजेन सुवर्णेन ब्राह्मणादिकः कादि संस्पृश्य सूत्रबद्रेखां रचयेत् । सूत्रवदिति आग्नेय्यादिगृहप्रदक्षिणं कुर्यादित्यर्थः । एतदुक्तं भवति। ब्राह्मण: कं शिरः स्पृष्ट्वा तर्जन्या वा कृत्वा आग्नेय्यादिप्रदक्षिणं सूत्रानुगतां रेखां कुर्यात् । त. थैव क्षत्रियो वक्षस्थलं स्पृष्ट्वा रेखां कुर्यात् । वैश्यः ऊरुयुगलं स्पृष्ट्वा रेखां कुर्यात् । शूद्रः पादयुगलं स्पृष्ट्वा रेखां कुर्यात् । तथाच लल्लः । कृत्वा सूत्रनिपातं मध्यांगुल्याथवा प्रदेशिन्या। अंगुष्ठेन वामपाणिना कनकाक्षतरजतमुक्ताभिः । रेखां कुर्यादित्यादि । तथाच भृगुः । विप्रः शीर्ष नृपो वक्षो वैश्यश्चोरूपरः पदे। स्पृष्ट्वा रेखां गृहारंभे कुर्या- दग्नेः प्रदक्षिणमिति । अमेरित्याग्नेय्याः ॥ तथाच कारिकायाम् । अंगुष्ठकेन देशिन्या रेखां कुर्वीत सूत्रतः । स्वर्णेन मणिना रूप्यमुक्तादधिफलाक्षतैः । कुसुमैर्वा न शस्त्रेण न लोहेन न भस्मना । काष्ठादिभिर्नापसव्यां न वक्रां दोषदर्शनात् । शस्त्रेण शस्त्रमृत्युः . स्यादित्यादिस्पष्टमीरितमिति । तथाच बृहद्वास्तुपद्धतौ। शस्त्रेण शस्त्रमृत्युबैधो लोहेन भस्सनाऽग्निभयं । तस्करभयं तृणेन च लिखिता काष्ठेन राजभयं । वक्रा च पादलि- खिता. शत्रुभयक्लेशदा विरूपा च । चौगारास्थिकृता दंतेन च कर्तुरशुभाय । वैरमपस- व्यलिखिता प्रदक्षिणा संपदो विनिर्देश्या इति । अथ शिलान्यासमाह-भित्तेः शिला अथ ।

गृहप्र०] मार्तडवल्लभाख्यव्याख्यासहितः । अपि सूत्रवदाचरेयुः । आग्नेय्यादिप्रदक्षिणं स्थापयेयुरित्यर्थः । तथाच वराहः । दक्षि- णपूर्वकोणे कृत्वा पूजां शिलां न्यसेत्प्रथमां । शेषाः प्रदक्षिणेन स्तंभाश्चैवं प्रतिष्ठाप्या इति ॥ १६॥ अथ भित्तिप्रसंगेन द्वारमाह- । पूर्वादौ त्रिषडर्थपंचमलवे द्वाःसव्यतोऽकोद्धृते दैर्घ्य द्वयंशसमुच्छ्रिताब्धिलवके सर्वासु दिनूदिता । स्तंभोग्नेर्दिशिपूजितः सुसमये स्थाप्यः शिरश्छत्र- भाग्विस्ताराष्टिलवान्वितैः कृतकरैस्तुल्यं गृहोचं विदुः ॥१७॥ पूर्वादाविति ॥ दैर्ये गृहदैा अंकाप्ते नवभिर्भाजिते सति पूर्वादौ दिशि क्रमेण सव्यतो वामभागात्रिषडर्थपंचमलवे द्वाः द्वारमुक्तं मुनिभिरिति शेषः । त्रयश्च षट् च अर्थाश्च पंच च त्रिषडर्थपंचमाः ते च ते लवाश्च तेषां समाहारस्तस्मिन् । एतदुक्तं भवति । गृहदैर्घ्य नवभागं कृत्वा पूर्वाभिमुखे गृहे क्रियमाणे वामभागान् अंश- द्वयं त्यक्त्या तृतीयांशे द्वारं कर्तव्यं दक्षिणाभिमुखे गृहे तथैवांशपंचकं त्यक्त्वा षष्टेंऽशे कार्य पश्चिमाभिमुखे तथैवांशचतुष्कं त्यक्त्वा पंचमांशे कार्य । उदङ्मुखे पंचमांशे एव द्वारं कर्तव्यं । सर्वासु दिक्षु अब्धिलवके चतुर्थभागे द्वारुदिता । किंलक्षणाद्वाः यंशसमुच्छिता द्विभागोचा। तथाच वराहः । दैर्ये नवांशाः पदमत्र सच्याद्वारं शुभं प्राक् त्रिचतुर्थभागे। चतुर्थषष्ठे दिशि दक्षिणस्यां पश्चाच्चतुःपंचमके तथोदगिति । तथाच च्यवनः । मानाधिकोनदिग्भागे द्वारे नीचे सुखक्षय इति । अथ निष्पन्नासु भित्तिषु स्तंभप्रतिष्ठामाह। स्तंभोग्नेर्दिशीति। अग्नेर्दिशि। आग्नेय्यां सुसमये पूर्वोदिते स्तंभःस्थाप्यः। अत्राप्युक्ततरुज इत्यनुवर्तते।किलक्षणः स्तंभः। पूजितः स्रक्चंदनार्चितः । पुनः किंलक्षणः शिरश्छत्रभाक् शिरसि छत्रं भजते इति तथा । छत्रं तु काकादिपक्ष्युपवेशनभयात् स्तंभोन् परि क्रियते । तथाच वराहः । छत्रस्रग्बंधयुतः कृतधूपविलेपनः समुत्थाप्यः। स्तंभस्तथै- व कार्यों द्वारोच्छ्रायः प्रयत्नेनेति । तथाचोत्पलः । स्तंभोपरि यदोलूककाकगृध्रादिपक्षिणः । व्यालादयश्च तिष्ठति तदा कर्तुर्न शोभनं। तस्मात्स्तंभोपरि च्छत्रं शाखां फलवतींतु वा। धारयेदथवा वस्त्रं बुधो रत्नादिनिक्षिपेत् । गुर्जरदेशे क्वचित् । कालसर्पमवलोक्य तच्छून्यदिशि प्रथमं स्तंभप्रतिष्ठां कुर्वेति तदसत् । यतस्तदवलोकनं विवाहवेद्यां कोणेषु शृंगारार्थ स्तंभान् रोपयंति तद्विषयं । तदप्येकदेशीयं न बहुसंमतं । कालसर्पस्तु यथा । ईशानतः सर्पति कालसर्पो विहाय सृष्टिं गणयेद्विदिक्षु । पश्चाद्गतिस्तन्मुखमध्यपुच्छं त्रिकं त्रिकं वै वृषसंक्रमादेः । अहेः फणायां मरणं बरस्य मध्ये कुमार्याः स्वजनस्य पुच्छे। विधेयमेकं किल शून्यदेशे विवाहवेद्यां निखनेच कील मिति । वृषादित्रिषु रा- शिपु रवौ आग्नेय्यां स्तंभारोपणं कार्य । सिंहादिषु ईशान्यां । वृश्चिकादित्रिषु वायव्या। .. बटादित्रिषु नैर्ऋत्यां कर्तव्यमिति । एतद्विवाह एव' गृहे सिंहादवलोकनीयं वृषाद्वेद्या । तथाच । वृषाद्वेद्यां गृहे 'सिंहान्मीनानीणि सुरालये । मुर्ख मध्य तथा पुच्छं हित्वा स्तंभं नियोजयेदिति । अन्यच्च । गृहस्तंभप्रतिष्ठापनं बहुभिग्रंथकारैराग्नेय्यामेवाभिहितं । तथाच ब्रह्मशंभुः । सूत्रभित्तिशिलान्यासं स्तंभस्यारोपणं तथा । पूर्वदक्षिणयोर्मध्ये ७४ मुहूर्तमार्तडः। [गृहप्र० कुर्यादित्याह कश्यपः । तथाच शार्ङ्गधरः । प्रासादेषु च हर्येषु गृहेष्वन्येषु सर्वदा । आग्नेय्यां प्रथमं स्तंभ स्थापयेत्तद्विधानतः । तथाच वराहमिहिराचार्याः । दक्षिणपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत्प्रथमां । शेषाः प्रदक्षिणेन स्तंभाश्चैवं प्रतिष्टाप्या इति । कात्यायनगृह्यकारिकायामप्युक्तं । एकैकमुच्छ्रयेत्स्तंभ मंत्ररेतैः शिलातले। श्रियोवसा- नइत्यतैरिमामित्यादिभिही । आग्नेय्यादिषु कोणेषु मंत्रैरेतैः शिला न्यसेत् इति । गृह्ये हरिहरभाष्ये शालापद्धतिष्वप्येवमेवोक्तं इत्यलमतिप्रसंगेन । उक्ततरुज इत्युक्तत्वात् शास्त्रांतरात्काष्ठान्यवगंतव्यानि । तथाच वास्तुशास्त्रे-श्रीपर्णी रोहिणी शाकसर्जाश्च सर- लाः शुभाः । पतंगलोध्रशालाख्यास्तालार्जुनकशिंशपाः । चंदनाशोकबदरीमधूकाश्च कदंबकाः । प्रशस्ताश्च शमीनिंबबिल्ववर्ज गृहांतिके । गृहे काष्ठं समं श्रेष्ठमलिंदे विषम शुभमिति । नारदः । प्लक्षोदुंबरचूताख्या निवस्तु हि विभीतकाः । दग्धाः कंटकिनो वृक्षा वटाश्वत्थकपित्थकाः । अगस्तिशिग्रुतालाख्यास्तित्तिडीकाश्च निंदिताः । अन्ये च गृहनिर्माण योजनीयाः सदा द्रुमाः । इति । तथाच वराहः । पितृवनमार्गसुरालयव- ल्मीकोद्यानतापसाश्रमजाः । चैत्यसरित्संगमसंभवाश्च घटतोयसिक्ताश्च । कुंजानुजातव- लीनिपीडिता वज्रमारुतोपहताः । स्वपतितहस्तिनिपीडितशुष्काग्निप्लुष्टदुष्टमधुनिल- याः । तरवो वर्जयितव्याः शुभदाः स्युः स्निग्धपत्रकुसुमफलाः । सुरदारुचंदनसमा मधुकरतरवः शुभा द्विजातीनां । क्षत्रस्यारिष्टाश्वत्थखदिरबिल्वा वृद्धिकराः । वैश्यानां जीवखादिरकसिंदूकस्यंदनाश्च शुभफलदाः । तिंदुककेसरसरलार्जुनोत्थसालाश्च शूद्राणां । सर्वेषां वा शस्ताः सर्वे वृक्षाश्च निंदिता नोचेदिति । व्यासोऽपि । अन्यवेदमस्थित दारु नैवान्यस्मिन्प्रयोजयेत् । न तत्र वसते कर्ता वसेत्तत्र न जीवतीति । समरंगणे। इष्ट- कालोष्टपाषाणमृत्तिकाजीर्णमायसं । तृणं पर्ण बुधैः प्रोक्तं दारु नूनं गृहाय वै इति । शार्ङ्गधरेपि । नूतने नूतनं काष्टं जीर्ण जीर्ण प्रशस्यते । जीर्णं च नूतनं श्रेष्ठं नो जीर्ण नूतने शुभमिति । वृक्षच्छेदप्रार्थना ग्रंथांतरे उक्ता । यानीह भूतानि वसंति तानि बलिं गृहीत्वा विधिवत्प्रयुक्तं । अन्यत्र वासं परिकल्पयंतु क्षमंतु तान्यद्य नमोस्तु तेभ्य इति । अथ स्तंभप्रसंगेन गृहोचतामाह । विस्तारेति । विस्तारस्य गृहविस्तारस्य अ- ष्टिलवः षोडशांशस्तेन अन्वितैर्युक्तैः कृतकरैश्चतुर्हस्तैस्तुल्यं समानं गृहोचं विदुर्मुनय इत्यध्याहारः । तथाच रत्नकोशे । विस्तारषोडशांशश्चतुर्हस्तो भवेद्गृहोच्छ्राय इति । तथाच लल्लः । नात्युच्छ्रितं नातिनीचं कुड्योत्सेधं यथारुचीति ॥ १७ ॥ अथ मुख्यगृहात्कस्य गृहं कस्यां दिशि कर्तव्यमित्याह- नानाग्निस्खपिवस्त्रभोजनपशुद्रव्यामरौकास्थिति पूर्वादी जलमीशितुर्दिशि परं वायोरपाङ्मत्रकम् । आल्प्ये शक्तिभुवोर्यथारुचि परे गेहस्य दक्षे घर- ट्रांबूलूखलचुल्लिकापितृपदप्रक्षालनान्यूचिरे ॥१८॥ स्नानेति ॥ स्नानं प्रसिद्धं । अग्निः प्रसिद्धः । स्वपिः शयनं । वस्त्राणि प्रसिद्धानि । भो- जनं प्रसिद्धं । पशवो गवादयः । द्रव्याणि सुवर्णादीनि । अमराः देवाः । एषां ओकांसि गृहप्र० ] मार्तडवल्लभाख्यव्याख्यासहितः । . - गृहाणि तेषां स्थितिः स्थापनं पूर्वादौ दिशि क्रमेण कार्यमित्यध्याहारः । तथाच नारदः। स्नानागारं दिशि प्राच्यामाग्नेय्यामग्निमंदिरं । याम्यायां शयनागारं नैऋत्यां वस्त्रमंदिरं । प्रतीच्यां भोजनागारं वायव्यां पशुमंदिरं । भांडकोशं तूत्तरस्यामीशान्यां देवमंदिरमिति । अथ जलस्थानमाह । ईशितुरीशानस्य दिशि जलं कार्य नान्यत्र । तथाच लल्लः । प्राच्यादिदिक्स्थे सलिले सुतहानिः शिखिभयं रिपुभयं च । स्त्रीकलहं स्त्रीदौष्ट्यं नैष्टयं चिंतात्मजविवृद्धिरिति । अथान्यदप्याह । परमिति । परमनुक्तं पदार्थजातं वायोर्दिशि कार्य । अन्यानि मारुत्यामिति लल्लोक्तत्वात् । अपाक् दक्षिणस्यां दिशि मूत्रकं कार्यम् । स्थलसंकोचे सति एतद्यत्प्रोक्तं तद्गृहमध्ये बाह्यतश्च स्वस्वस्थाने तारतम्येन योज्यं । अथ शक्तिभुवोः संकोचे सति कर्तव्यमाह । आल्प्ये इति । शक्तिभुवोरल्पले सति यथा- रुचि कार्य । गेहस्य दक्षे परे आचार्याः घरट्टादिकमूचिरे । घरट्टः पिष्टयंत्रं । अंबु उदकं । उलूखलादिकं प्रसिद्धं । तथा चोक्तं ग्रंथांतरे । उलूखलं पिष्टयंत्रमग्निस्थानज- लाश्रयं । वेश्मनो दक्षिणे पार्वे पितॄणां पादशौचन मिति ॥ १८ ॥ अथ केषु केषु गृहेषु आयादिकं भाव्यं केषु न भाव्यमित्याह-- द्वात्रिंशाधिकहस्तमब्धिवदनं तार्ण त्वलिंदादिकं नैप्वायादिकमीरितं तृणगृहं सर्वेषु मास्मदितम् । छन्नं वश्यकपाटमर्चिततमं वेश्मोक्तरीत्या विशे- दारंभोदितमास्सु नारदमतान्माघोर्जशुक्रेषु तु ॥ १९ ॥ द्वात्रिंशेति ॥ द्वात्रिंशेभ्यः अधिकाः हस्ताः यस्मिन् गृहे प्रमाणं तद्वात्रिंशाधिकहस्तं अधिवदनं चतुर्मुखं तार्ण तृणगृहं अलिंदादिकं अलिंदं पट्टिशालेतिलोके प्रसिद्धं । आ- दिशब्देन नियूंहादिगृहभूषणं गृह्यते। एषु आयादिकं न ईरितं नोक्तम् । तथाच दैवज्ञवल्लभे । अलिंदनियूहविनिर्गमाद्याश्चतुर्दिशं ये गृहभूषणाय । आयादिकं तेषु न चिंतनीयं यतो न ते वास्तुपरिग्रहे स्युरिति । तथाच चिंतामणौ । यत्र दैव्यं गृहादीनां द्वात्रिंशद्धस्ततोऽधिकं । न तत्र चिंतयेद्धीमान् गणनायव्ययादिकमिति । तथाच राज. मार्तडे । आयव्ययौ मासशुद्धिं चिंतयेन तृणालये । इति । तथाच वसिष्ठः । एकादश- यवादूचं यावद्वात्रिंशहस्तकं । तावदायादिकं चिंत्यं तदूर्व नैव चिंतयेदिति । अथ तृणगृहे विशेषमाह । तृणगृहं सर्वेषु मास्सु उदितं । सर्वमासेषु कर्तव्यमित्यर्थः । अथ निष्पन्ने गृहे प्रवेशमाह । छन्नमिति । आरंभोदितमासेषु शास्त्ररीत्या वेश्म गृहं विशेत् । आरंभाय उदिताः प्रोक्तास्ते च ते मासाश्च तेषु शास्त्ररीत्या सूत्रायुक्तविधिना गृहं प्रविशेत्स्वामीत्यर्थः । कथंभूतं वेदम । छन्नं कुड्यराच्छादितं । पुनः किंलक्षणं । वश्य- कपाटं वयं अधीनं कपाटं यस्य तत्तथा तद्वश्यमिति लापित उद्घाटिते वा तथैव स्थिरं भवति । पुनः किं लक्षणं । अर्चिततमंतोरणमालाद्यलंकृतं । तथाच नारदः। अकपाटमना- च्छन्नमदत्तबलिभोजनं । गृहं न प्रविशेदेव विपदामाकरं हि तदिति । तथाच च्यवनः । खयमुद्घाटिते रोगः पिहिते च कुलक्षयः । मानाधिकोनदिग्भागे द्वारे नीचे सुखक्षयः इति । अथ प्रवेशे मासविशेषमाह । नारदमतात् माघोजशुक्रेषु मासेषु गृहं प्रविशेत् ।

मुहूर्तमार्तडः। [गृहप्र० माघः प्रसिद्धः ऊर्जः कार्तिकः शुक्रो ज्येष्ठः एषु गृहं प्रविशेदित्यर्थः । आरंभोदितमा- स्वित्यनेन तृणगृहस्य सर्वमासेषु विहितत्वात् प्रवेशोपि सर्वमासेषु विहितः । तथाच नारदः । प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः। माघफाल्गुनवैशाखज्येष्ठमासेषु शोभन इति । तथाच ज्योतिःप्रकाशे । गृहारंभोदितैर्मासैर्धिष्ण्यैवीरैर्विशेगृहमिति । तथाच ग्रंथांतरे। विशेत्सौम्यायने हर्म्य तृणागारं तु सर्वदेति । तथाच व्यवहारसार- तले। सौम्यायने श्रावणमार्गपौषे जन्मक्षलग्नोपचयोदयांशे । वाम गतेऽर्के गृहवास्तु- पूजां कृला विशेद्वेश्म भकूटशुद्धमिति ॥ १९ ॥ इदानीमपूर्वादिप्रवेशानाह- प्रारंभोदितभैः प्रवेश उदितो पूर्वः सपूर्वः स्थिरै- मैत्रैश्वाच्युतमूलदस्रसहितैरारंभभैात्मकः । कृत्यं वेश्मभवं दिवैव विहितं रात्रौ प्रवेशः कचि- ११ ११० सूर्यादिभपंचकं मनुमितादष्ट प्रवेशे न सत् ॥ २० ॥ प्रारंभोदितभैरिति ॥ प्रारंभोदितभैः गृहारंभोदितनक्षत्रैरपूर्वः प्रवेश उदितः । मु- नींद्रेरित्यध्याहारः । अत्र प्रारंभोदितभैरित्युपलक्षणं । तेन प्रारंभोदिततिथिभादिकं सर्व ग्राह्यं । अपूर्वोनाम नूतनगृहे प्रथमः प्रवेश उच्यते । स्थिरैमैत्रैश्च नक्षत्रैः सपूर्वः प्रवेश उदितः। सपूर्वो नाम यात्रावसाने यः क्रियते । अथाच्युतमूलदस्रसहितैरारंभभैर्यात्मकः प्रवेश उदितः । द्वयात्मको नाम अग्यादिना नष्टगृहे पुनर्यः क्रियते । तथाच ज्योतिः- प्रकाशे । अपूर्वः प्रवेशो गृहारंभधिष्ण्यैर्विधेयः करो मध्यमोऽत्रेति केचित् । सपूर्वः स्थिरैर्मिश्रभैरेव शुद्धैरतोऽन्योऽश्विमूलाच्युतारंभधिष्ण्यैः । वसिष्ठः । अपूर्वसंज्ञं प्रथम प्रवेशं यात्रावसाने च सपूर्वसंझं । द्वंद्वाद्भयं चाग्निभयादिजातं गृहप्रवेशं त्रिविधं वदंति । अथ गृहकृत्यविषये दिनरात्रिविशेषनिर्णयमाह । कृत्यं वेश्मभवमिति । वेश्मभवं गृह- भवं यत्किंचित्कृत्यं तद्दिवैव विहितं न रात्रौ । क्वचिद्दिवामुहूर्ताभावे सति रात्री प्रवेशो विहितः नान्यत् । तथाच वसिष्ठः । दिवा प्रवेशः शुभदः सपुत्रपौत्रादिवृद्धथै निशि भास्करेंद्रोः । बलेन मत्स्यध्वजवासरस्य रात्रिं विना सूर्यतिथेश्च रात्रिमिति । अथ कलशवास्तुनक्षत्रशुद्धिमाह । सूर्यादीति । सूर्यनक्षत्रादि भपंचकं नक्षत्रपंचकं तथा सूर्यादिमनुमिताच्चतुर्दशमितान्नक्षत्रादष्ट नक्षत्राष्टकं प्रवेशे न सत् न शुभं स्यात् । अन्यानि शुभानीत्यर्थात्सिद्धं । अत्र पूर्वोक्तानां नक्षत्राणां शुभाशुभलं ज्ञातव्यम् ॥२०॥ अथ प्रवेशे लग्मशुद्धिमाह- लग्ने चोपचयस्थिरे रविमुखैः प्रारंभवत्संस्थितैः सूर्ये वामगते स्खदिग्वदनभैर्वेश्मप्रवेशः शुभः । रंधेषु द्विभवेभ्य आसुतगतः सूर्यो यदा स्यात्तदा पूर्वाद्याननमालयं प्रविशतां स्याद्वामगोऽसौ क्रमात् ॥२१॥ इति वास्तुप्रकरणं समाप्तं ॥

यात्राप्र०] मार्तडवल्लभाख्यव्याख्यासहितः । ७७ लग्न इति ॥ उपचयस्थिरे लग्ने जन्मक्षजन्मलग्नाभ्यां उपचयावह स्थिरे लग्ने वेश्म- प्रवेशः शुभः स्यात् । कैः रविमुखैः सूर्याद्यैः प्रारंभवत्संस्थितैः गृहारंभार्थमुक्तं तद्व- त्संस्थितैरित्यर्थः । कस्मिन् सति। सूर्ये वामगते सति । पुनः कैः । स्वदिग्वदनभैः यद्दि- ङ्मुखं गृहं तद्दिङ्मुखैः प्रवेशोदितैनक्षत्ररित्यर्थः । अथ वामसूर्यलक्षणमाह । रंध्र इति। रंध्रे ८ षु ५ द्वि २ भवे ११ भ्यः लग्नादिअष्टमपंचमद्वितीयैकादशेभ्यः सकाशात् आ- सुतगतः आपंचमगतः सूर्यो यदा स्यात्तदा पूर्वाद्याननमालयं पूर्वादिमुखं गृहं प्रविशतां मनुष्याणां असौ सूर्यः क्रमाद्वामगः स्यात् । एतदुक्तं भवति । अष्टमात् पंचसु वर्तमा- नोऽर्कः पूर्वामुखगृहे प्रविशतां वामो भवति। पंचमात्पंचसु गतो दक्षिणामुखे गृहे प्रविशतां वामो भवति । द्वितीयात्पंचसु गतः प्रत्यड्मुखे गृहे प्रविशतां एकादशात्पंचसु गतः उत्तरामुखे गृहे प्रविशतां वामो भवतीत्यर्थः ॥ २१ ॥ इति खोक्तमुहूर्तमार्तडटीकायां मार्तडवल्लभायां वास्तुप्रकरणं समाप्तं ॥ ॥ अथ यात्राप्रकरणम् ॥ अथयात्राप्रकरणंव्याख्यायते । तत्रादौ कस्मिन्काले यात्रा कर्तव्येत्याह- वारे चोपचयावहस्य सुदशाविष्टं प्रयाणं जगुः कर्णात्यादितिभद्विकेषु मृगमैत्रार्केषु नो जन्मभे । सार्दाग्नियमाजपादपितृषु त्वाष्ट्रवये चाशुभं रिक्तापर्वगुहाष्टमीहरिसितास्येषु ज्ञशुक्रोन्मुखम् ॥ १॥ वार इति ॥सुदशासु शोभनदशांतर्दशाविदशोपदशासु उपचयावहस्य ग्रहस्य वारे गोचरा- ष्टकवर्गादौ शुभफलग्रहस्य वारे प्रयाणमिष्टं शुभं जगुराचार्याः । केषु कर्णात्यादितिभद्विके- घु कर्णः श्रवण: अंत्यं रेवती अदितिभं पुनर्वसुः एषां द्विकाः श्रवणधनिष्ठे रेवत्यश्विन्यौ पुनर्वसुपुष्यौ एष्वित्यर्थः । पुनः केषु । मृगमैत्रार्केषु मृगः प्रसिद्धः मैत्रमनुराधा अर्को हस्तः एषु नवनक्षत्रेषु प्रयाणं शुभमित्यर्थः । तत्र विशेषमाह । नो जन्मभ इति । ज- न्मभे जन्मनक्षत्रे श्रवणाद्यन्यतमेपि यानं शुभं नो जगुः । अथ येषु अशुभं तान्याह। साप॑ति । सार्पमाश्लेषा आर्द्रा प्रसिद्धा अग्निः कृत्तिका यमो भरणी अजैकपात् पूर्वाभा- द्रपदा पितरो मघा तेषु त्वाष्ट्रत्रये चित्रात्रये च एषु नवनक्षत्रेषु यानमशुभं जगुः । अन्यानि नव नक्षत्राणि मध्यमानीत्यर्थतः सिद्धं । अथ यासु तिथिषु अशुभं तदाह । रिक्तेति । चतुर्थीनवमीचतुर्दश्यः पर्वणी पूर्णिमाऽमावास्ये गुहः षष्ठी अष्टमी प्रसिद्धा हरिद्वादशी सितास्यं शुक्ल प्रतिपत् । तेषु प्रयाणं यानमशुभं जगुः । अर्थादन्यासु तिथिषु शुभं । अन्यदुष्टमाह । ज्ञेति । ज्ञो बुधः शुक्र: प्रसिद्धः तयोरुन्मुखं संमुखं यानं उक्ते- स्वपि तिथिनक्षत्रादिषु अशुभं जगु: । बुधशुक्रसंमुखं गमनं न कर्तव्यमित्यर्थः ॥ १ ॥ अथ शूलानाह- प्राक्चंद्रासितशक्रभं वसुपरार्धात्पंचभेज्यानपा- क्पश्चात्कासितानुदकुजबुधार्यम्णस्त्यजेच्छूलकान् ।

मुहूर्तमार्तडः।
[यात्राप्र०
त्रिंशाष्टौ नवभूमयोऽग्निगिरिशा विश्वेषवोऽर्काब्धयः
षट्शक्रास्तिथिपर्वता दशदृशोप्येतास्तिथीनीशतः॥२॥
प्रागिति ॥ प्राक् पूर्वस्यां दिशि चंद्रासितशक्रभ त्यजेत् । चंद्रः सोमवारः असितः
शनिवारः शक्रभ ज्येष्टा एतत्रयं पूर्वदिशि त्यजेदित्यर्थः । अपाक् दक्षिणस्यां वसुप-
रार्धात् । धनिष्टोत्तरार्धात् पंचनक्षत्राणि इज्यो बृहस्पतिवारः । एतान् दक्षिणस्यां त्य-
जेत् । पश्चात् पश्चिमायां दिशि कार्कसितान् त्यजेत् । कः रोहिणी अर्को रविः सितः
शुक्रः एतान्पश्चिमायां त्यजेत् । उदक् उत्तरस्यां दिशि कुजबुधार्यम्णस्त्यजेत् । कुजो
मंगलवारः बुधः प्रसिद्धः अर्यमा नामोत्तराफाल्गुनी एतान् शूलकानुत्तरस्यां त्यजेत् ।
शूलपदस्य प्रत्येकं संबंधः । अथ योगिनीमाह । त्रिंशाष्टाविति । एतान् प्रत्येकपदग-
तान् तिथीन् ईशतः ईशान्याः सकाशात् प्रदक्षिणक्रमेण त्यजेत् । एते के । त्रिंशा ३०
टौ ८ ईशान्यां । नव ९ भूमयः १ प्राच्यां । अग्नि ३ गिरिशाः ११ आग्नेय्यां । विश्वे
१३ षवः ५ दक्षिणस्यां । अर्का १२ ब्धयः ४ नैर्ऋत्यां । पद ६ शक्राः
१४ पश्चि-
मायां । तिथि १५ पर्वताः ७ वायव्यां । दश १० दृशः २ उत्तरस्यां । अत्रांकन्यास
एव व्याख्यानं ॥ २ ॥
अथान्यनिंद्यमाह-
ऐंद्याद्यग्निमसप्तसप्तभगणे वाय्वग्निकाष्ठास्थितो
नोल्लंघ्यः परिघस्त्वपाग्वरुणः प्राच्यैरुदङ्ग ब्रजेत् ।
सर्वाशासु रवीज्यमित्रतुरगैर्यायादयावश्यक
१३४०, हित्वा शूलमनिष्टभैयदि निजाशेष्टांगलब्धिर्बजेत् ॥ ३ ॥
ऐंथेति ॥ ऐंद्यादिषु दिक्षु अग्निभात् कृत्तिकायाः सकाशात् सप्तसप्त भगणो भवेत् ।
एतदुक्तं भवति । सप्तशलाकाचक्रं निष्पाद्य पूर्वगतासु सप्तसु रेखासु ईशानतः कृत्ति-
कादीनि सप्त नक्षत्राणि न्यसेत् । तत्पुरस्थानि सप्त दक्षिणगतरेखासु न्यसेत् । एवं
पश्चिमोत्तररेखासु क्रमेण न्यसेत् । ततो वायव्याग्नेयदिग्गतां रेखां कुर्यात् । अस्या
रेखाया: परिघ इति संज्ञा । एवं निष्पादिते चक्रे प्रयोजनमा । वाय्वग्निकाष्ठास्थित
इति । वायुः प्रसिद्धः अग्निः प्र० अनयोः काष्ठे दिशौ वायव्याग्नेय्यौ तत्र स्थितः परिधः
नोल्लंध्यः । अथान्यत्प्रयोजनमाह-अपागिति । अपारदक्षिणस्यां वरुणभैः प्रतीच्यैर्नक्ष-
त्रैर्न ब्रजेत् । प्राच्यैर्नक्षत्रैः उदक् उत्तरस्यां दिशि न व्रजेत् न गच्छेत् । तत्तद्दिस्था-
पितनक्षत्रैस्तत्तद्दिग्गमनं सिद्धमेवं सर्वासु सर्वदिक्षु रवीज्यमित्रतुरगैर्यायात् । रविर्हस्तः
इज्यः पुष्यः मित्रमनुराधा तुरगोऽश्विनी एभिर्नक्षत्रैः सर्वासु दिक्षु गमनं शुभमित्यर्थः ।
अथावश्यके कृत्ये अस्यापवादमाह-अथावश्यके इति । अथावश्यके कृत्ये सति निद्यैः अ-
निष्टभैः यद्दिक्षु यानि निंद्यानि तैः पूर्वोक्तैर्नक्षत्रैस्तस्यां तस्यां दिशि तदा ब्रजेत् । तदा
कदा । यदा निजाशेष्टांगलब्धिर्भवेत् । निजाशायां निजगमनदिशायां इष्टांगलब्धिः इष्ट-
लग्नलाभः स्यात् इष्टलग्नं वक्ष्यमाणलक्षणं तद्यथोक्तं गुणसंपन्नं यदा स्यात्तदा गच्छेदि-
त्यर्थः। नोचनेत्यर्थात्सिद्धं । किं कृत्वा । शूलभं हिला पूर्वोक्तशूलनक्षत्रं त्यक्त्वा । शूल-
नक्षत्रे सति निजाशेष्टांगलब्धावपि न गच्छेदित्यर्थः ॥ ३ ॥

यात्राप्र. ]
मातडवल्लभाख्यव्याख्यासहितः।
७९
-
अथान्यदाह-
मिश्राख्यध्रुवभैदिनादिमलबे तीक्ष्णर्द्वितीयतिमे
सिमैन क्रमशो मृदृग्रचर# रात्रित्रिभागेबियात् ।
श्रुत्यर्केज्यमृगेष्वयं न नियमो वैश्वांत्यपादश्रव-
स्तिथ्यंशस्त्वभिजिद्गमे सफलदो यामी विनापि क्षणः॥४॥
मिश्राख्येति ॥ दिनादिमलवे त्रिधा विभक्तस्य दिनस्याद्यांशे मिश्राख्यैः साधारणैर्नक्ष-
त्रैः ध्रुवभैश्च न इयात् न गच्छेत् । द्वितीयभागे तीक्ष्णैः अंतिमे तृतीयभागे क्षिप्रैनक्षत्रैर्ने-
यात् । अथ रात्रिनिभागेषु क्रमशो मृदूपचरभैर्नयात् । रात्रेः प्रथमभागे मृदुभिः द्वि-
तीयभागे उग्रैः तृतीयभागे चरभैर्नयात् । अथ विशेषमाह-श्रुतीति । श्रुत्यर्केज्यमृगेषु
अयं नियमो न।श्रुतिः श्रवणः अर्को हस्तः इज्यः पुष्यः मृगः प्रसिद्ध एभिर्नक्षत्रैः सर्व-
भागेषु गंतव्यमिति भावः । अथाभिजिल्लक्षणं तत्फलं चाह-वैश्वेति । वैश्वमुत्तराषाढा
तत्यांत्यपादश्चतुर्थचरणः श्रवणस्याद्यस्तिथ्यंशः प्रथमः पंचदशांशः एतत्प्रमाणोऽभिजि-
त्स्यात् । सोऽभिजियामी दक्षिणां दिशं विना सर्वदिक्षु फलदः क्षणो मुहूर्तोऽपि अभि-
जिद्यामी विना फलदः यातॄणामभीष्टफलदो भवतीत्यर्थः ॥ ४ ॥
अथान्यदाह-
एकाद्वयनानुकूलमनिशं भेदे दिजारात्रयो-
भौमे पाक्शनिचंद्रयोगतमपाक्पश्चाजगुयोंहितम् ।
भृग्वाह्नयुदगर्कभाशुभमगैस्तष्टं द्विसप्ताडल-
त्यंगाभ्यां विडलोनयोर्न गमनं श्रीदेवलोक्त्या हितम्॥५॥
एकाद्वयनानुकूलमिति ॥ अर्कश्च इंदुश्च तयोरयनं अद्वयनं एकं च तत् अद्वयल
च तत्तथा तस्यानुकूलं गतं गमनं अनिशं अहर्निशं हितं स्यात् । भेदे सति दिवारा-
त्रयोः क्रमेण शस्तं स्यात् । अयमर्थः । सूर्यो दिनस्वामी चंद्रो रात्रिखामी छौ चेदुत्त्त-
रायणे स्यातां तदाऽहर्निशमुदग्गमनं शस्तं । द्वौ चेद्दक्षिणायने भवतस्तदा अहर्निशं
दक्षिणगमनं शस्तं । रात्री चंद्रायनदिशं प्रति गमनं शस्तं स्यात् । अर्थादन्यथा न
शस्तं स्यात् । अत्र प्राची उत्तरसंबंधिनी ज्ञेया । तस्माद्यदा उदग्गमनं शस्तं तदा
प्रारगमनमपि शस्तं भवति । प्रतीची दक्षिणसंबंधिनी ज्ञेया। तेन यदा दक्षिणदिग्ग-
मनं शस्तं तदा प्रतीचीगमनमपि शस्तं स्यात् । तथाच रत्नकोशे । दिनकरकरप्रतप्ता
मकरादावुत्तरां च पूर्वा च । यायाच्च कर्कटादौ याम्याशास्य प्रतीची च । अथान्य -
दाह-भौमे इति । भौमे प्राक् पूर्वदिशि गतं गमनं हितं स्यात् । शनिचंद्रयोरपाक् दक्षि-
णस्यां ज्ञगुर्वोः बुधगुर्वोः पश्चात् पश्चिमायां भृग्वर्काह्नि शुक्ररविदिने उदगुत्तरस्यां गतं
गमनं हितं स्यात् । अथाडलं विडलं चाह-अर्कभादिति । अर्कभात सूर्यनक्षत्रात् शुभं
दिननक्षत्रं अगैः सप्तभिस्तष्टं शेषितं सत् द्विसप्त द्वौ वा सप्त वा यदा भवंति तदाडलः स्यात् ।
त्र्यंगाभ्यां त्रिषटसंख्याकाभ्यां विडल: स्यात् । अनयोरडलविडलयोगमनं श्रीदेवलो-
क्या देवर्षिवचनेन हितं न स्यात् ॥५॥

. .. ८० [ यात्राप्र० मुहूर्तमार्तडः। .. अथ वारशूलदोहदमाह- आज्यं दुग्धगुडौ तिलान्दधियवान्माषानिनात्माश्य नो शूले यानमनिष्टमिंद्रककुभोऽथाज्यं तिलान्नं तिमीन् । दुग्धं प्राश्य च हस्त्यनोहयनरैर्यानं सुयानं तयो- यानाद्वा भवति ब्रुवेऽथ हरिजं तिथ्यादिलक्षाधिकम् ॥६॥ आज्यामिति ॥ इनात्सूर्यवारात्सकाशात् आज्यादीनि प्राश्य प्राशयित्वा शूले वारशूले यानं प्रयाणमनर्थकृन्नो भवति । अथ दिग्दोहदमाह-आज्यामिति । घृतादिकं प्राश्य ऐंयादिषु पूर्वादिषु हस्त्यादिभिर्यानं सुयानं भवति । हस्ती प्रसिद्धः अनः शकट: यो- ऽश्वः नरः शिबिकावाहकः । एतदुक्तं भवति । घृतं प्राश्य हस्तिना प्रारगमनासिद्धिः । तिलान्नं तिलौदनं प्राश्य रथेन दक्षिणगमनासिद्धिः । मत्स्यान्प्राश्य अश्वेन पश्चिम- गमनासिद्धिः । दुग्धं प्राश्य नरैरुदग्गमनासिद्धिः स्यादित्यर्थः । असति संभवे अभ- क्ष्ये च निर्णयमाह । तयोर्भक्ष्यवाहनयोर्ध्यानाद्वा यानं सुयानं भवति । अथ लग्नशुद्धि सहेतुकामाह-ब्रुवेऽथ हरिजमिति । अथ हरिजं लग्नं ब्रुवे वच्मि । कथंभूतं । तिथ्या- दिलक्षाधिकं तिथ्यादिभ्यो लक्षाधिकं बलिष्टमित्यर्थः ॥६॥ स्वनिर्धिघटास्तभानृजुगृहान्पष्ठं रिपोर्भादन- स्वीगेशरिपुं खलं जनिबलत्यक्तं. तथा सांप्रतं । यात्रालग्नगतं त्यजेदश दिशामीशोऽर्कशुक्रौ कुजो पर राहुर्मदशशांकसौम्यगुरवः केंद्रे दिगीशे व्रजेत् ॥ ७ ॥ स्वः वनिर्धिघटादिकं यात्रालग्नगतं त्यजेत् । स्वः स्वराशिः अनधिः स्वराशेः अनुपचयभवनं घट: कुंभः अस्तभं अस्तगतग्रहस्य राशिः अनृजुगृहं वक्रग्रहस्य राशिः एतान् रिपोर्भात् वैरिराशेः षष्ठं अनुपृष्ठोदयं । तथाच बृहज्जातके। गोजाऽश्विकर्किमि- थुनाः समृगा निशाख्याः पृष्ठोदया विमिथुनाः कथितास्तएवेति । वृषमेषधनकर्कमकराः पृष्ठोदयाः स्वीगेशरिपुं ऋक्षं च अंगं च ऋक्षां तयोरीशः स्वामी तस्य रिपुः तं खलः प्रसिद्धः जनिबलत्यक्तं जन्मनि बलहीनं ग्रहं तथा सांप्रतं प्रस्तुतं बलत्यक्तं इत्युक्तं सर्व यात्रालग्नगतं त्यजेत् । अथ दिपतीनाह-दिशामिति । दिशां पूर्वादीनामीशः स्वा- मिनः अर्कशुक्रादयः पाठक्रमात्स्युः । केंद्रे १।४।७।१० दिगीशे सति व्रजेत् गच्छेत् । यस्मिन्केंद्रे लालाटगवं भवति तत्केंद्रं वर्जयित्वा अन्यकेंद्रे दिगीशे सति व्रजेत् । इदमग्रिमश्लोके वक्ष्यति ॥ ७ ॥ अथ दिक्पतौ ललाटगलं तद्दिग्गमननिषेधं ललाटलक्षणं चाह-- दिक्पेन प्रवसेल्ललाटग इनः प्राच्यां तनौ भालगः स्यात्पश्चान्मदनेऽर्कजोबुगबुधः सौम्यां खगोऽपाकुजः। ऐश्यां द्वित्रिगतो गुरुर्बलनदिश्याय११व्यय१२स्थो भृगु- यौ षट्सुत५गो विधुनिक्रतिदिश्यष्टांकसंस्थं तमः ॥८॥ AN- यात्राप्र० ]] । मार्तडवल्लभाख्यव्याख्यासहितः। दिक्पे ललाटगे सति न प्रवसेत् प्रवासं न कुर्यात् । तनौ लग्ने वर्तमान इनः सूर्यः प्राक् प्राच्यां दिशि भालगः ललाटस्थितः स्यात् । मदने सप्तमे वर्तमानोऽर्कजः शनिः पश्चिमस्यां ललाटस्थितः स्यात् । अंबुगबुधः चतुर्थगतो बुधः सौम्यामुत्तरस्यां ललाट स्थितः स्यात् । खं दशमं तद्गतः कुजो भौमः अपाक् दक्षिणस्यां ललाटस्थितः स्यात् । द्वित्रिगतो गुरुः ऐश्यामीशान्यां ललाटगः आयव्ययस्थो भृगुः कविः ज्वलनदिशि आग्नेय्यां लला० षट्रसुतगो विधुश्चंद्रः वायौ वायव्यां लला० । अष्टांकसंस्थं तमः अष्टमनवम- स्थानस्थो राहुः निर्ऋतिदिशि ललाटसंस्थः स्यादिति ॥ ८ ॥ वक्री केंद्र१।४।७।१० गतस्तदीयदिवसो लग्नेऽस्य वर्गोभवे- धातु शकरः शुभोऽपि तनुगो जन्मक्षलग्नेड्रिपुः । द्वीशाग्न्यंब्वजभाग्यमानि गुरुमं पौष्णांतके सार्पभं जन्माणि रवेरुपप्लवगतः खेटस्तनौ हानिकृत् ॥ ९॥ वक्रीति । वक्रीग्रहः केंद्रगतः सन् यातुर्गमनकर्तु शकरः स्यात् । तदीयदिवसोपि वक्रग्रहस्य दिवसोपि यातुन शकरः स्यात् । लग्नेस्य वर्गोपि नाशकरः स्यात् । जन्मक्ष- लग्नेड्रिपुः शुभोपि तनुगो यातुर्नाशकरः स्यात् । जन्मराशिजन्मलग्ने तयोः ईशौ तयोः रिपुः । अथ सूर्यादीनां जन्मनक्षत्राण्याह-द्वीशेति । रवेः अर्कतः ग्रहाणां द्वीशा- दीनि जन्माणि जन्मनक्षत्राणि स्युः। द्वीशं विशाखा सूर्यस्य । अग्निः कृत्तिका चंद्रस्य । अंबु पूर्वाषाढा भौमस्य । अजः श्रवणो बुधस्य । भाग्यभं पूर्वाफल्गुनी गुरोः। गुरुभं पुष्यः शुक्रस्य । पौष्णं रेवती शनेः । याम्यं भरणी राहोः । सार्पमाश्लेषा केतोः प्रवगत इति । उपप्लवगतो नाम यदीयभं यस्य ग्रहस्य भं जन्मनक्षत्रं हतं त्रिविधो- त्पातहतं स्यात् । असौ ग्रहो लग्ने स्थितो हानिकृत्स्यात् ॥ ९ ॥ वेशिः सौम्ययुतस्तनौ जनुषि ये सद्भिर्युता राशयो जन्माब्जोपचयस्थिता अपि तनोः स्वर्वोच्च मित्रसंगाः। पापा अप्यतिशोभनास्तनुगता जन्मेश्वरौ केंद्रगौ स्वारात्यह्नि तनौ शुभो न फलदो मित्राह्नि पापोऽर्थद:१० वेशिरिति ॥ सूर्याद्वितीयो राशिर्वेशिः स सौम्ययुतः सन् अंगगो लग्नगोऽतिशो- भनः स्यात् । जनुषि जन्मकाले सद्भिग्रहैर्युता ये राशयः तनुगताः अतिशोभनाः स्युः। जन्माजोपचयस्थिताः जन्माब्जो जन्मचंद्रः तस्मादुपचयानि त्रिषडेकादशदशमानि तेषु स्थिता ग्रहास्ते तनुगता अतिशोभनाः। तनोरपि जन्मलग्नादप्युपचयस्थलग्नगता अतिशोभनाः स्युः । वर्षीच्चमित्रह्मगाः जन्मनि ये स्वदंगाः उच्चगाः मित्रक्षगास्ते पापा अपि तनुगता अतिशोभनाः स्युः । जन्मेश्वरौ जन्मराशिजन्मलग्नखामिनो के- द्रगौ अतिशोभनौ स्यातां । स्वारात्यह्नि खवैरिवारे शुभः शुभग्रहः तनौ लग्ने वर्तमानो न फलदो भवति । मित्राह्नि पापः तनौ वर्तमानोऽर्थदः स्यात् । तथा च्यवनः । । उप-

८२
मुहूर्तमार्तडः।
[ यात्राप्र०
-
-
रक्षका वर्धकाश्चैव ये स्युर्जन्मनि नायकाः । तान्पापानपि निःशंको यात्रालग्ने
नियोजयेत्'इत्यादि ॥ १० ॥
अथ यात्रालग्ने इष्टाननिष्टांश्च श्लोकेनैकेनाह
व्यायार्यन्यगताः खलाः ख इनजोब्जोत्याद्यषष्टाष्टगो
भूयः सोपचितोस्तखांबुसुतगः शुक्रोस्त इज्यो मृतौ ।
नष्टज्ञो व्ययगो ग्रहान्वितशशी यातुर्महाविघ्नदा
अन्यस्थानगता जयार्थसुखदास्त्याज्यं पुरोक्तं न चेत् ११
त्र्यायायन्यगता इति ॥ त्र्यायार्यन्यगताः खलाः त्र्या ३ या ११ रिभ्यः ६ अन्या-
नि १२४५ ७ ८ ९ १० १२ तत्र गताः खलाः पापग्रहाः खे दशमे इनजः शनिः।
न्यायायन्यगताः खला इत्यनेनैव सिद्धेपि विशेषदुष्टफलज्ञापनार्थ खइनज इत्युक्तं ।
अंत्या १२ व १ षष्टा ६ ष्ट ८ गोऽब्जश्चंद्रः भूयः पुनः स चंद्रः अपचितः क्षीणचंद्रः कृ-
ष्णपक्षचंद्रः अस्त ७ खां १० बु ४ सुत ५ गः शुक्रः अस्ते ७ इज्यो गुरुम॒तौ ८
नष्टज्ञोऽस्तमितबुधो व्यय १२ गतः ग्रहान्वितशशी येन केनापि ग्रहेण ग्रहाभ्यां ग्रहेवी
युक्तश्चंद्रमाः एते प्रत्येकं यातुर्महाविघ्नदाः स्युः । नानाप्रकारेण मरणभंगादीन् ददती-
त्यर्थः । अन्यस्थानगताः उक्तेभ्योऽन्यस्थानगताः संतस्तदा जयार्थसुखदाः स्युः । तदा
कदा चेद्यदि पुरोक्तं त्याज्यं न स्यात् ॥ ११ ॥
अथ प्रतिबुधशुक्रापवादमाह-
खग्रामैकपुरात्मसद्मसु चतुर्वके चतुःशालके
तूद्वाहेषु वधूप्रवेशनृपभीदुर्भिक्षपीडासु च ।
तीर्थस्वामिनिदेशयो गुवसिष्टाव्यंगिरकाश्यपे
भारद्वाजजवात्स्ययोहितकरं यानं सितज्ञोन्मुखम् ॥ १२ ॥
स्वग्रामेति । स्वग्रामः प्र० । एकपुरं प्रसि । आत्मसद्म आत्मगृहं चतुर्मुखे चतु-
वक्रे चतुःशालकं प्रसिद्धं । उद्वाहाः विवाहाः ब्राह्मादयः तेषु वधूप्रवेशः नववधूप्रवेशः
प्रतिभी राजभयं दुर्भिक्षपीडा प्रसिद्धा तासु । तीर्थस्वामिनिदेशयोः तीर्थ तीर्थगमन
यात्रमनिदेशः वाम्याज्ञा तयोः भृगुवसिष्ठात्र्यंगिरः काश्यपे भृग्वादिगोत्रसमूहे भार-
मिनः वात्स्ययोर्गोत्रयोः एषूक्तेषु सितज्ञोन्मुखं शुक्रबुधसंमुखं यानं गमनं हितं स्यात् ।
यत्रि वधूप्रवेशे प्रतिशुक्रदोषो नोक्तः । तत्तु भर्चा सह गमनविषयं । भर्चा विना गमने
दोषो दृश्यते । नवोढायास्तु वंध्यावमिति । तथाच भीमपराक्रमे । स्वामिना नीयमा-
नायां प्रतिशुक्रो न विद्यत इति । तथाच मतांतरे। नवोढायास्तु वंध्यावं यदुक्तं सं-
मुखे भृगौ । तदत्र विबुधैयं केवलं तु द्विरागम इति। तथाच लहहः । स्वभवनपुर-
प्रवेशे देशानां विग्रहे तथोद्वाहे । नववध्वा गृहगमने प्रतिशुक्रविचारणा नास्तीति ।
तथाच मत्स्यपुराणे । चतुःशालं चतुरमलिंदैः सर्वतोयुतं । नाम्ना तत्सर्वतो भद्रं न
तत्र प्रतिशुक्रतेति । तथाच वसिष्टः । काश्यपेषु वसिष्ठेषु भृग्वत्र्यांगिरसेषु च । भार-
द्वाजेषु वात्स्येषु प्रतिशुक्रो न विद्यत इति ॥ १२ ॥

यात्राप्र० ] मार्तडवल्लभाख्यव्याख्यासहितः । ८३ अथान्यं चापवादमाह- चंद्रे पूषभमेषगे सति सितोऽधः स्यात्तदा संमुखं यानं सत्परपूर्वयोः सितविपर्यासात्सदावश्यके । राजा तर्पितवह्निभूसुरसुहृत्स्नेहानुवृत्तिं त्यज- तृप्तः कार्यमना बजेत्रिदिवसैरेकाब्धिषट्क्रोशकान् ॥१३॥ चंद्रे इति ॥ चंद्रे पूषभमेषगे सति सितः शुक्रः अंधः स्यात् । तदा संमुखं यानं सत् शुभं स्यात् । तथाच गर्ग: । पोष्णादिवह्निभायंघ्रौ यावत्तिष्ठति चंद्रमाः । ताव- दंधो भवेच्छुक्रः प्रवेशे निर्गमे शुभः इति । अथावश्यके प्रवृत्तिमाह-परपूर्वयोरिति । परपूर्वयोः पश्चिमपूर्वयोः सितविपर्यासाच्छुक्रविपर्यासात् आवश्यके कृत्ये सति यानं सत्स्यात् । एतदुक्तं भवति । शुक्रे पूर्वकपालगते सति पश्चिमां गच्छेत् । पश्चिमकपा- टगते सति पूर्वी गच्छेत् । तथाच ज्योतिःप्रकाशे । अत्युत्सुकेषु यावत्प्राकपालस्थो भृगुर्भवेत् । तावत्पाशिदिशं गच्छेत्प्राची प्रत्यकस्थितस्तथेति । अथ प्रयाणविधिमाह- राजेति । राजा त्रिदिवसैरेकाब्धिषट्क्रोशकान् व्रजेत् । एतदुक्तं भवति । प्रथसदिने कोशं गच्छेत् । द्वितीयदिने चतुःक्रोशान् । तृतीये षट्क्रोशान् । अर्थात्परतो यथेच्छं गच्छेत् । कथंभूतः राजा । तर्पितवह्निभूसुरसुहृत् । वह्निरग्निः भूसुराः ब्राह्मणाः सुहृदो बांधवाः ते तर्पिताः वह्निभूसुरसुहृदो येन स तथा । अनायं भावः । समिच्चरुतिलादिना वहिं तपयित्वा दक्षिणानादिभिर्भूसुरांस्तर्पयित्वा वस्त्रालंकरणादिभिः सुहृदः कलत्रादी- स्तर्पयित्वा ब्रजेदिति । किंकुर्वन् स्नेहानुवृत्तिं त्यजन् सन् । स्नेहेन अनुवृत्तिः पुनर्गुहाग- मनं । अयं भावः । यात्रार्थ बहिर्गवा पुत्रादिस्नेहवशात्तदवलोकनार्थं गृहं नागच्छे- दिति । कथंभूतः राजा । तृप्तः बुभुक्षितो न गच्छेदिति भावः । पुन: किंलक्षणः । कार्यमनाः कार्याय उत्कंठितांतःकरणः । तथाच रत्नावल्यां । स्वनिकेतात्सुरभवनात्त्र- धनादाश्रमाद्गुरुगृहाद्वापि । यायात्कृताग्निकार्यः प्राइय हविध्यं द्विजानुमतमिति । तथाच बृहस्पतिः । दैवज्ञ पूजयित्वा तु विदुषः पूज्य शक्तित: । प्रदक्षिणमिमान्कृत्वा तिष्ठ- ध्यायेदुमापतिमिति । तथाच ज्योतिःप्रकाशे। संतोष्य वांगनां विप्रान् जह्यात्प्रति- स्थादिकं । शुचिः शुक्लांबरोष्णीषो नवेष्टं सुमना बजेदिति । तथाच कश्यपः । यात्रा- गमये बृद्धानुपरागे च ग्रहस्य वैषम्ये गोभूहिरण्यवस्त्रैः संपूज्य श्रद्धया च दैवज्ञमिति । बहयात्रायां स्नातो भुक्तोऽनुलिप्तश्च सर्वालंकारभूषितः । शुक्लांबरधरः श्रीमानध्वगः सुखमेधत इति । भूपालवल्लभे । ब्राह्मणानावमन्येत कोपयेन निजांगनां । यात्रां कृत्वा गृह नैतु सिद्धि कामो विशेगृहमिति । लल्लः । यात्रायां प्रस्थितो यश्च ब्राह्मणानवमन्यते। नदंतं जीवितं तस्य नासौ प्रतिनिवर्तत इति । बृहृद्यात्रायां । यस्तु संप्रस्थितो यानां स्वभार्या नाभिनंदति । भार्या वा नाभिनंदेत नास्य प्रतिनिवर्तनमिति । तथाच रत्ना- दयां । कोशं वा यदि वाप्यधैं प्रथमेऽहनि शस्यते । द्वितीये योजनं गत्वा निव- लेन महीपतिः । तृतीये योजनं साधं वसेदाक्रम्य दूरतः । ततः परं यथेष्टं तु यायान्मार्ग महीश्वर इति ॥ १३ ॥ .

मुहूर्तमार्तडः।
[यात्राप्र०
:
अथ यात्रिकस्य नियमानाह-
क्रोधक्षौररतिश्रमामिषगुडद्यूताश्रुदुग्धासव-
क्षाराभ्यंगभयाः सितांबरवमिस्तैलं कदूझेद्गमे ।
क्षीरक्षौररती क्रमात्रिशरसप्ताहं परं तदिने
रोगं त्याविक सितान्यतिलकं प्रस्थानकेऽपीति च।।१४॥
क्रोधेति ॥ क्रोधः प्रसिद्धः क्षौरं प्र० रतिमैथुनं श्रमः क्लेशः आमिषं मांसं गुडः प्र.
द्यूतं द्यूतवरणं अश्रु अचमोचनं दुग्धं प्र० आसवो मद्यं क्षारं क्षारधान्यं माषादि
अभ्यंगस्तैलाभ्यंगः भयं शंका रिपुभयमित्यर्थः । असितांवराणि अशुभ्रवस्त्राणि रक्त-
कृष्णादीनि वमिर्वमनं तैलं प्रसिद्धं कटु मरिचादि इत्येतद्गमे गमने उज्शेत् त्यजेत् ।
अथोक्तेषु किंकि कतिदिनं त्यजेदित्याह-क्षीरेति । क्षीरक्षौररतीः क्रमात् त्रि ३ शर ५
सप्ताहं ७ त्यजेत् । क्षीरं दुग्धं त्र्यहं ३ क्षौरं शराहं पंचाहं ५ रति सप्ताहं ७ त्यजे-
दित्यर्थः । परं उर्वरितं तद्दिने प्रयाणदिने त्यजेत् । रोगं व्याधि यावद्वाधं त्यजेत् ।
ध्यार्तवं बीजदानपर्यंतं त्यजेत् । सितान्यतिलकं श्वेतव्यतिरिक्ततिलकं पीतकोकुमा-
दिकं तद्दिने त्यजेत् । प्रस्थानकेपि इत्येतत्त्यजेत् । प्रस्थानकं नाम मुहूर्तसमये किंचि-
दभीष्टवस्तुचालनं । तदुक्तं रत्नमालायाम् । छत्रायुधायं मनसस्त्वभीष्टं प्रचालयद्वैजयिक
जयार्थीति । एतत्तु कार्यवशाक्रियते प्रस्थाने संपूर्णफलं नास्ति । तथाच रत्नकोशे ।
कार्यवशात्स्वयमगमे भूभर्तुः केचिदाचार्याः । छत्रायुधाद्यभीष्टं वैजयिकं निर्गमे कुयुः ।
इति । तथाच गर्गः । स्वशरीरेण यः कश्चिन्निर्गच्छन् श्रद्धयान्वितः । तस्य यात्राफलं
सर्व संपूर्ण पथि सिद्ध्यतीति। तच्चालनावधिग्रंथांतरात् । गृहागृहांतरं गर्ग आह सीमां-
तरं भृगुः । शरक्षेपाद्भरद्वाजो वसिष्ठो नगराद्वहिरिति । एवं प्रस्थाने कृतेपि स्वयमन्य.
स्मिन्सुदिने गच्छेत् । तथाच ज्योतिःप्रकाशे । प्रस्थानेऽपि कृते नेयान्महादोपान्विते
दिने । गर्भयोगं विना कालवृष्टयादौ चाप्लुते तथेति । रत्नमालायां । वसेन चैकत्र दश
क्षितीशो दिनानि नो सप्त च मांडलीकः । यः प्राकृतः सोऽपि च पंचरात्रं भद्रेण यात्रा
परतः प्रयोज्येति । एवंविधे प्रस्थानेऽपि क्रोधक्षौररत्यादीन् वर्जयेदित्यर्थः । गर्गः ।
क्रोधं क्षौरं तथा वांतिं तैलाभ्यंगाश्रुमोक्षणं । द्यूतं मांसं गुडं तैलं यानं मद्यं परिन्ध-
जेदिति । रत्नकोशे । कालीयकं हिंगुलकः कुंकुम रक्तचंदनं । पीतं रक्तं च वगन
यातुर्नेष्टानि तत्क्षणादिति । बृहयात्रायां । कटुतैलगुडक्षौरपक्वमांसाशनं तथा। भुक्ता
यो याति मोहेन व्याधितः स निवर्तत इति । लहः । प्रमत्तो व्याधितो भीतः शान:
क्रुद्धो बुभुक्षितः । अध्वानं न प्रपद्येत क्लीबवेषस्तथैवच । रत्नावल्यां । स्वकीयां पर कीयां
वा स्त्रिनं पुरुषमेव वा । ताडयित्वा तु यो गच्छेत्तदंतं तस्य जीवितमिति । मनः ।
त्रिरात्रं वर्जयेत्क्षीर पंचाहं क्षुरकर्म च । तदहश्चावशेषाणि सप्ताह मैथुनं त्यजेदिति । यात्रा-
या गमनळक्षण मक्तिं ज्ञेयं । मुहूर्तसमये प्राप्ते सचारांघ्रिणा व्रजेत् । देवज्ञामान्य-
विप्रायपुरोगैः खंजनैर्वृतः । पूर्व दक्षिणमुद्रस्य पादं यात्रां नराधिपः । द्वात्रिंशनं पद
गला बाल मारुह्य संव्रजेत् । ततो निरीक्षयेत्सम्यक शकुनांच शुभाशुभान ।नयन
सदसच्छब्दानिमित्तानि च संबजेदिति ॥ १४ ॥

यात्राप्र] मातडवल्लभाख्यव्याख्यासहितः। इदानीं शकुनानाह- वस्त्रालंकरणानि पूर्णकलशस्तौर्यध्वनिः पुत्रवान् शंखादर्शनृपाश्वदंतिसुरभिस्त्रीपुष्पधान्यादि च । दोलादीपविधूमवह्निसुरभिद्रव्याणि शुभ्रो वृषो वेश्याछत्रवितानचामरकुमार्यो मीनगोरोचने ॥ १५॥ वस्त्रेति ॥ वस्त्राणि श्वेतवस्त्राणि । अन्यान्यपशकुनमध्ये पठितानि। अलंकरणानि सु- वर्णादिनिर्मितानि भूषणानीत्यर्थः । पूर्णकलशः प्रसिद्धः तौर्यध्वनिः वाद्यध्वनिः पुत्र- वान् वर्धमानः पुरुषः शंखः प्र० आदर्शो मुकुरः नृपो राजा अश्वः प्र० दंती हस्ती सुरभिर्गौः स्त्री सौभाग्यवती पुष्पाणि श्वेतानि धान्यानि अकृष्णानि कृष्णानित्वप- शकुनमध्ये पठितानि । आदिशब्देन सुवर्णादिधातवः दोला प्र० । दीपः प्र. विधू- मवह्निः धूमरहितोऽग्निः सुरभिद्रव्याणि सुगंधद्रव्याणि कर्पूरचंदनादीनि शुभ्रो वृषः श्वेत- वृषभ: वेश्या प्र. छत्रं प्र० वितानं वस्त्रनिर्मितं प्र० चामरं प्र. कुमारी प्र. मीनो मत्स्यः जलादुद्धृतः गोरोचनं प्र० ॥ १५ ॥ अथ संकोचेनाह- यद्यत्स्वांतनितांततोषकरणं कोरुद्धृतं गोमयं मृच्चांभोर्थघटान्वितः सहचरो धौतांबरो मौत्रकः । दूर्वादर्भरथाः पलास्रमदिरा वर्णी गुरुर्दैववि- द्विनौ मित्रमृगावरोदनशवं सिद्धार्थदुग्धादि च ॥ १६ ॥ यद्यदिति ॥ यद्यद्वस्तु स्वांतनितांततोषकरणं स्वांतं अंतःकरणं तस्य नितांतं अति- शयेन तोषकरणं संतोषजनकं तत्तत् । किंबहुनोक्तेन । एवं संकोचेनोक्त्वेदानीं येषु संतोषासंतोषाभावः तानि पूर्वाचार्यैः शकुनमध्ये पठितानि तान्याह। कोरुद्धृतं गोमयं । कोः पृथिव्या उद्धृतं गोमयं मृच्च पृथिव्याः उद्धृता मृत्तिका अंभोर्थघटान्वितः सहचरः उदकार्थ कुंभयुक्तो जनः सन् सहचरः सहचरतीति सहचरः जलार्थी रिक्तकुंभस्तु पथिकेन सह व्रजेत् । निवर्तते यथा पूर्णः कृतार्थः पथिकस्तथेत्युक्तत्वात् । धौतांबरो मौत्रकः धूतवस्त्रः रजकः । दूर्वा प्र० दर्भः प्र० दृर्वादी तृणे अपि शुभे । अपशकु- नमध्ये यत्तृणं पठितं तदेतद्यतिरिक्तं रथः प्र० पलं मांसं अस्त्रं रक्तं मदिरा मयं वर्णी ब्रह्मचारी गुरुः प्रसिद्धः दैवविज्योतिषी विप्रौ द्वौ ब्राह्मणौ मित्रं इष्टः मृगः प्र० अरो- दनशवं रोदनरहितं प्रेतं सिद्धार्था गौरसर्षपाः दुग्धादि दुग्धध्याज्यं । ननु यद्यत्वांत- नितांततोषकरणं इत्यनेन दुग्धं बृंहणत्वात्सिद्धं । पुनः: किमुक्तं दुग्धमिति । सत्यं । दुग्धं भक्षणे निषेधितं तत्संदेहनिवृत्त्यर्थं दुग्धपटनमित्यदोषः । एवमेवात्र विचारणीयं । तथाच वसंतः । दध्याज्यदूर्वाक्षतपूर्णकुंभसिद्धानसिद्धार्थकचंदनानि । आदर्शशंखा- मिषमीनमद्यगोरोचनागोमयमुद्धृतं कोरिति । भारद्वाजः । राजा वितौ सुहृद्वेश्या सपु- ना स्त्री कुमारिका । अभिरूपो नरः स्त्री वा गजो बाजी वृषः सितः । रज्ज्वा धृतान्यः + मुहूर्तमार्तडः । [ यात्राप्र० वणगौः सवत्सा च विशेषतः । उद्धृतं गोमयं नीतं मृत्तिका चोद्धृता तथा । रजको धौतवस्त्रश्च वेश्या तौर्यत्रिकध्वनिः । जयमंगलशब्दश्च शांतिपाठः सदीपकः । दीपो वा प्रज्वलद्वह्निः पूर्णकुंभो नृपासनं । मयं मांसं च रुधिरं भक्ष्याणि विविधानि च । इक्षवो मधु तांबूलं वस्त्रालंकरणानि च । रौप्यं तानं मणिं स्वर्ण द्रव्यं दर्पणमक्षताः । वितानं चामरं छत्रं दूर्वा दर्भतृणध्वजाः । दोला चारुरथो वृद्धः पुत्रपौत्रार्थयुक्शुचिः । चंद- नानि सुगंधीनि तथा पुष्पाणि रोचना । घृतं दधि पयः पेया सिद्धमन्नं वचः शुभं । दैवज्ञः स गुरुर्देवश्चित्तोत्साहकराणि च । दृष्ट्वैतानि नरो यायात्सर्वार्थ लभते तु स इति१६ अथाशुभान्याह- कुर्वन्दक्षिणतः सदेतदितरद्वामे प्रकुर्वन्बजे- द्भस्मास्थींधनवितुषाश्मलवणोपानत्तॄणायस्कराः। पिण्याकौषधकृष्णधान्यरुदनं तळं सधूमानलः कार्पासारुणपुष्पचर्म च गुडस्तैलायसी कर्दमः॥ १७ ॥ कुर्वनिति ॥ एतत् अनंतरोक्तं सत् शुभं दक्षिणतः दक्षिणभागे कुर्वन् सन् इतरतू अशुभं वक्ष्यमाणं वामे कुर्वन् सन् ब्रजेत् गच्छेत् । भस्मेति । भस्म प्रसिद्ध अस्थि प्र० इंधनं प्र. विट् विष्टा तुषं धान्यादीनां त्वक् फल्गु अश्मा पाषाणः लवणं सामुद्रकं उ- पानही प्र० तृणं प्र० अयस्करो लोहकारः । पिण्याकं मर्दिततिला: औषधं प्रसिद्धं कृष्णधान्यं माषादि रुदनं रोदनादि तर्क प्रसिद्धं सधूमानल: धूमसहितोग्निः कासः प्र. अरुणपुष्पं जपादि चर्म प्र० गुडः प्र० तैलं प्र. अयो लोहं कर्दमः पंकः।। १७ ।। मत्तोवांतबुभुक्षितांतकखला मुंडी जटी व्याधितः खंजव्यंगदिगंबरा यतिररिः काषायिमुक्तालको । चोराभ्यक्तमलाविलाश्च पतितः पाश्यर्गली गुर्विणी वंध्या कृष्णपाहिभेकसरठा गोधा वराहः शशः॥१८ ।। मत्त इति ॥ मत्तः उन्मत्तः वांतो वमितः बुभुक्षितः प्र. अंतकः प्राणिहिंसक: खलो दुर्जनः मुंडी मुंडितः जटी जटिल: व्याधितो रोगी खंजः पादेन खंज: व्यंग; अंगहीनः दिगंबरो नग्नः यतिः संन्यासी अरिवैरी काषायी गैरिकरंजितवस्त्रः मुक्तालकः मुक्तकेशः चोरः प्र० अभ्यक्तः तैलाभ्यक्तः मलाविलोमलिनः पतितो जातिभ्रष्टः पाशी प्राणिबंधार्थ पाशवान् अर्गली अर्गलावान् गुर्विणी सगी बंध्या निरपल्या कृष्णवृपः कृष्णोनड्वान् अहिः सर्पः भेको मंडूकः सरठः प्र० गोधा प्र०वराहः प्र०शशः प्र०॥१८॥ जाहौतूमहिषः खरोष्ट्रमहिषारूढाश्च रिक्तो घट- शिछक्कापाणिशिरोंऽगकंपपदवीबंधाः कुवागाहवो। पातो यानपलायनं श्वकलहः पंढः क्षुतं गोचल- द्वेश्मेति प्रतिबंधकाः कुशकुनाश्छिक्कादिका मृत्युदाः॥ १९ ॥ :

यात्राप्र० ] मातंडवल्लभाख्यव्याख्यासहितः। जाह इति ॥जाहः मंडली लोके सेहलीति प्रसिद्धा। जाहको गात्रसंकोची मंडली च बुधैः स्मृत इति हलायुधः । ओतुर्मार्जारः महिषः प्र० खरोष्ट्रमहिषारूढाः प्रसिद्धाः रिक्तो घटः प्र० छिक्का क्षुतं प्राणिशिरोंगकंपः प्राणिनां गोऽश्वादीनां प्राणिनां शिरो- ज्झाटनं अंगोज्झाटनं वा पदवीबंधो मार्गबंधः ऊर्णनाभादिभिर्मा! बध्यते कुवाक् कुत्सितवाक्यश्रवणं आहवः संग्रामः बिडालमहिषादीनां पातः पतनं वस्त्रादीनां स्ख- लनं यानमश्वादि तस्य पलायनं श्वकलहः शुनां कलहः षंढः नपुंसकः गोः क्षुतं प्र- सिद्धं ज्वलद्वेश्म ज्वलद्गृहदर्शनं इत्येतेऽपशकुनाः प्रतिबंधकाः कार्यप्रतिबंधकाः स्युः । छिक्कादिका अपशकुना मृत्युदाः स्युः । तथोक्तमागमांतरे । तृणतैलादिकासभस्मच- मतुषोषधं । सामुद्रं गुडपंकाहिमत्तवांतबुभुक्षितमित्यादि ॥ १९ ॥ अथ शकुनांतरमाह- भंगाल्युष्ट्रपठच्छुकाश्च नखिनः स्त्रीसंज्ञका वामतः काली कुक्कुटपुंमथाश्च सुरभिर्दक्षे मनोभीष्टदाः । भारद्वाजशिखंडिचापनकुला हंसोऽज एते दृशं याता इष्टफलास्तु रासभरवो वामेऽपि पृष्ठेऽर्थदः॥ २० ॥ मॅगेति ॥ गो भ्रमरः अलिर्वृश्चिकः उष्ट्रः प्र० पठच्छुकाः शब्दं कुर्वाणा राजशुकाः नखिनः श्वानादयः स्त्रीसंज्ञकाः चटकादयः एते वामतः मनोभीष्टदाः स्युः । काली महिषी कुकुटः प्र० पुंप्रथाः पुरुषसंज्ञकाः काकादयः सुरभिगौः एते दक्षे मनोऽभी- टदाः स्युः । भारद्वाजः प्र० शिखंडी मयूरः चाषः प्र. नकुलो बभ्रुः प्र० हंसः प्र० अजो बस्तः एते भारद्वाजादयः दृशं याताः संतः इष्टफलाः स्युः । अयमर्थः । भार- द्वाजादयो वामे दक्षेवाऽग्रे वा दृष्टमात्रा इष्टफलदाः अभीष्टफलदाः भवंतीस्यर्थः । रास- भरवो गर्दभध्वनिवीमे । पृष्ठेपि अर्थदः अभीष्टार्थदो भवति ॥ २० ॥ अथ येषु येषु कृत्येषु विपरीतशकुनाः शुभाश्च तानाह- नद्युत्तारभयप्रवेशसमरघूतेषु नष्टेक्षणे व्याधौ स्युः शुभदा विलोमशकुना नाड्या इडाया भरे। आये दुःशकुने निवृत्य च शुचिर्भूत्वाष्टधाऽखायमं कृत्यादपरेऽष्टिचारमपरे दत्वा सुवर्ण व्रजेत् ॥ २१॥ इति श्रीमदनंताख्यसुतचातुर्मास्ययाजिनारायणविरचिते मुहूर्तमार्तडे यात्राप्रकरणं समाप्तं ॥ नयुत्तार इति ॥ नद्युत्तारो नद्युत्तरणं भयं नृपादीनाम् प्रवेशो प्रामादिप्रवेशः समरः संग्रामः द्यूतं प्र० नटेक्षणं नष्टवस्तुनः अवलोकनं व्याधौ रोगोपचारे एषु विलोमशकुना विपरीतशकुनाः शुभदाः स्युः । अयमर्थः । गमने येऽपशकुनास्ते नद्युत्तारादिषु शुभदाः स्युरित्यर्थः । तथा इडाया नाड्याः भरे पूर्णतायां विलोमशकुनाः शुभदाः स्युः । तथाच वसंतः। भवेदिडायां परिपूरितायां सर्वोपि वामः शकुनः प्रशस्तः । स्यापिंगलायां परिपू- मुहूर्तमार्तडः। [मिश्रा रितायां सर्वोऽपसव्यः शकुनः प्रशस्तः। संगे रणे कर्मणि च प्रवेशे शुक्ले ग्रहे नष्टविलोकने च । व्याधौ सरिदुर्गवनादिकेषु शस्तः प्रयाणाद्विपरीतभावः । इति। अन्यच्च । नद्युत्तारे भये युद्धप्रवेशे नष्टवीक्षणे । शकुना व्यस्तगाः शस्ता नृपालोके प्रयाणवदिति । अथ प्रथमे. ऽपशकुने जाते सति किं कर्तव्यमाह-आयेति । आये प्रथमे दुःशकुने जाते सति निवृत्य निवर्तनं कृत्वा तत्र शुचौ देशे उपविश्य शुचिः प्रक्षालितपाणिपादः आचांत: कृताचमनः असवः प्राणास्तेषामायामः प्राणायामः । अष्टधा अष्टवारं कृत्वा इयात् गच्छेत् । चेद्यदि पुनः दुःशकुनः स्यात्तदा निवृत्य शुचिराचांतोऽष्टिवारं षोडशवारं असूनियम्येयात् । अपरे तृतीये दुःशकुने जाते सति सुवर्णं दला इयात् । एतदावश्य- कगमनविषयं । प्राणायामानधिकारी तावत्कालं स्थित्वा व्रजेत् । तथाच ज्योतिर्निबंधे । विरुद्धे शकुने पूर्व प्राणायामाष्टकं चरेत् । द्वितीये द्विगुणान्कृत्वा तृतीये न व्रजेत्वचि- दिति । तथाच वसंतराजः । जाते विरुद्ध शकुनेऽध्वनीनो व्यावृत्य कृत्वा करपाद- शौचं । आचम्य च क्षीरतरोरधस्तात्तिष्ठन्प्रपश्येच्छकुनांतराणीति । तथाचाटिं- षेणिः । यदाऽपशकुनं पश्येद्विपरीतमुपस्थितं । सघृतं कांचनं दत्वा निर्विशं- कः सुखं व्रजेदिति ॥ २१ ॥ इति मुहूर्तमार्तडटीकायां यात्राग्रकरणं समाप्तं ।। अथ मिश्रप्रकरणंविवक्षुरादौ राजाभिषेकं वृत्तार्धेनाह- अथ मिश्रप्रकरणम् । जन्मांगतंदशेशसद्धहकुजैः सार्वलिष्टमृदु- क्षिपेंद्रध्रुवभैः स्थिरपिनृतनौ व्याराह्नि भूपस्थितिः। स्वस्वक्षैः समृदुध्रुवसंचरभैः क्षिप्रैः सुरस्थापन पोचुर्माधयुगे च राधयुगले व्याराह्नि पूर्वाह्नके ॥१॥ जन्मेति ॥ जन्मांगर्वादशेशादिभिर्वलिष्ठैः । तथा मृद्वादिभिः स्थिरधिनृतनी व्याराशि भूपस्थितिः शस्ता स्यादित्यध्याहारः । अंगं च ऋक्षं च अंगः जन्मनि अंगः जन्मां- गः जन्मलग्नजन्मराशी तेच दशा च जन्मांगक्षदशाः । दशा वर्तमाना तम्या देशा: ते च सद्हाश्च कुजश्च सूर्यश्च ते च तैः सार्केः अर्को रविस्तेन सह बलिष्ठः स्थानादि- बलसमृद्धैः सद्भिः तथा मृदुक्षिरेंद्रध्रुवभैः स्पष्टं स्थिरचिनृतनौ ऋद्धिं गता नृतनुः मनु- द्धिनृतनुः स्थिरा चासौ ऋद्धिनृतनुश्च सा तथा तस्यां। जन्मराशिजन्मलग्नाभ्यां स्थि- रोपचयनुलग्ने व्यारादि भौमरहितदिने भूपस्थितिः राजप्रतिष्टा शुभा स्यादित्यर्थः । लग्न- बलं प्राग्वत् । प्रायश्चंद्रं त्यजेत्याद्यवलोकनीयं । अथ देवस्थापनमुत्तरार्धेनाह. ---स्वस्ख- क्षैरिति । खस्वक्षैः यस्य देवस्य प्रतिष्ठा क्रियते तस्य नक्षत्रैः समृदुध्रुवःचरभक्षिप्रैः । शेषं स्पष्टं । माघयुगे माघफाल्गुनयोः तथा राधयुगे राधो वैशाखस्तस्माद्युगं युगलं तस्मिन्।वैशाखज्येष्ठयोरित्यर्थः।तथा व्याराह्नि विगतः आरो यस्मात् एवंविधमहस्तस्मिन् । भौमरहितदिन इत्यर्थः।पूर्वाह्नके अत्र दिनस्य द्वौ भागौ पूर्वभागः पूर्वाह्नः तस्मिन् आचार्या: सुरस्थापनं प्रोचुः । शेषं स्पष्टं सर्वामरस्थापनमिति शेषः । लग्नबलं प्राग्वत् ॥ ५ ॥ .

श्रप्र० मार्तडवल्लभाख्यव्याख्यासहितः । - . अथ वस्त्रपरिधानं तस्य क्षालनं उंदुरादिभक्षितफलं चाह- धार्य वस्खदितीनपंचगुरुभाश्व्यत्यधुवै त्रये ज्ञोने क्षाल्यमिहाखुभक्षितमसन्मध्यत्रिभागेऽबरम् । स्त्रीरक्तांबरभूषणेऽत्र बिभृयाद्व्यादित्यपुष्यध्रुवे श्वेतेब्जोरुणरुक्मयोः कुजरवी कृष्णे शनिः शस्यते ॥२॥ धार्यमिति ॥ वसुर्धनिष्टा अदितिः पुनर्वसुः इनपंचकं हस्तपंचकं गुरुभं पुष्यः अश्विः दिवनी अंत्यं रेवती । ध्रुवाणि पूर्वोक्तानि एतैर्नक्षत्रैः शत्रये बुधगुरुशुक्रवारे अंबरं नं धार्य नान्यत्र । यत उक्तं । रवौ जीर्ण विधौ स्तोकं जलाई दुःखदं कुजे। बुधे नं गुरौ ज्ञानं शुक्रे सौख्यं शनौ मलमिति । लग्नबलं प्राग्वत् । अथ क्षालनमाह- हास्मिन् वस्त्रधारणोक्तनक्षत्रादौ क्षाल्यं प्रक्षालनीयं । कथंभूते । ज्ञोने बुधवाररहिते। तंच । वस्त्रहेमाद्यलंकारधारणोक्तैश्च भादिभिः । तत्संहतिश्च निर्माणं विदध्यात्क्षा- नादिकमिति । यद्यपि यस्यांगं यददोंगिनो गदितभे कुर्यादिति पूर्वमेव अंगभूतं क- क्तिं । तथापि क्षालने बुधवर्जनार्थ ज्ञोने इह क्षाल्यमित्युक्तं । बुधनिषेधश्रवणात् । क्तंच । शनौ सोमसुते श्राद्धे षष्टयामावास्ययोस्तथा । वस्त्राणां क्षालनं चैव दहल्या- [प्तमं कुलमिति । अथोंदुरादिभक्षितफलमाह । आखुभक्षितमिति । आखुः उंदुरः न अंबरं मध्यत्रिभागे भक्षितं असत् । दुष्टफलं स्यात् । एतदुक्तं भवति । वस्त्रं त्रि- पुणं कृत्वा यदि भक्षितभागो मध्यत्रिभागे पतति तदा तद्दुष्टमित्यर्थः । आखुरित्युप- क्षणं तेनाग्निदग्धं गवादिभक्षितं मष्यादिलिप्तं ज्ञेयं । तथाचोक्तं वृत्तशते । दग्धं वा फुटितं च गोमयमषीपंकैर्विलिप्तं तदा दष्टं मूषकपूर्वकैरशुभदं मध्यत्रिभागेऽशुकमिति। भथ स्त्रिया रक्तवस्त्रधारणं भूषणधारणं अनुक्तग्रहाणां कुत्र कुत्र प्राशस्त्यं तदुत्तरार्धे- नाह-स्त्रीति । स्त्री अत्रोक्ते वस्त्रधारणभादौ अंबरं भूषणं सुवर्णादिभूषणं बिभृयात् धा- येत् । कथंभूते व्यादित्यपुष्यध्रुवे विगतानि आदित्यपुष्यध्रुवाणि यस्मात्तत्तथा तस्मिन् । यतोऽत्र स्त्रिया रक्तवस्त्रभूषणधारणे दोषो दृश्यते । तथाचोक्तं-पुष्यादित्यध्रुवैर्धिष्ण्यैः स्वर्णरक्तांबरादिकं । नवं न भूषणं धार्य नार्या दयितुरायुषे । इति । लग्नबलं प्राग्वत् । अथ चंद्रादीनां प्राशस्त्यमाह । श्वेते वस्तुनि रौप्यमुक्ताफलादिके अब्जश्चंद्रो हितः सोमवारे श्वेतं वस्तु धार्यमित्यर्थः। कुजरवी अरुणरुक्मयोः शस्येते शनिः कृष्णे वस्तुनि नीलवस्त्रादिके शस्यते । शनौ तद्धार्यमिति भावः। ज्ञत्रये तु सर्व धार्यमिति पुरैवोक्तम्॥२॥ अथ नराणां भूषणधारणं वृत्तचरणेनाह- वस्त्रोक्तैर्व्यनिलद्वयाश्विभिरगेंगे नुर्विभूषा हिता विप्राज्ञोत्सवलब्धिदितमनुक्तेऽपीष्टकद्धारणम् । मैत्रार्कानिलमूलदस्रहरिभेदीज्याजपादोत्तरे पण्यानां क्रयविक्रयौ घटपरयेंगे खशुद्धौ तनु ॥३॥ वस्त्रोक्तैरिति ॥ वस्त्रोक्तैर्भादिभिर्वखदितीत्यत्रोक्ते। अगे अंगे स्थिरलग्ने नुः नरस्य - ।

.. - मुहूर्तमार्तडः। [मिश्रप्र० अलंकृतिरलंकरणं हितं स्यात् । किंलक्षणैर्वस्त्रोक्तैः । व्यनिलद्वयाश्विभिः । अनिलद्वयं स्वातीयुगं स्वातीविशाखेति अश्विनी प्रसिद्धा विगते अनिलद्वयाश्विन्यौ येभ्यस्तानि तथा तैः स्वातीविशाखाऽश्विनीरहितैरित्यर्थः । लग्नबलं प्राग्वत् । अथ द्वितीयचरणेन विशेषमाह-विप्राज्ञेति । विप्राज्ञा ब्राह्मणाज्ञा उत्सवो विवाहादिकः लब्धिाभः आसु सत्सु अनुक्तेपि भादौ धारणं वस्त्रादिधारणमिष्टकृत्स्यात् । तथाचोक्तं व्यासेन । लब्धं राजप्रसादेन विप्रादेशात्करग्रहे । प्रीत्या दत्तोत्सवे वस्त्र धार्य नियेपि भादिक इति । अथोत्तरार्धन पण्यानां क्रयविक्रयावाह-मैत्रेति । मैत्रमनुराधा शेषं सुगमं । घटपर- यंगे घट: कुंभः तस्मात्परमन्यत् । तच्च तत् ऋद्धथंगं च ऋद्ध्यंगं उपचयलग्नं तस्मिन् कुंभव्यतिरिक्तोपचयलग्ने पण्यानां पूगीफलखर्जूरादीनां क्रयविक्रयौ तनु विस्तारय कुर्वि- त्यर्थः । कस्यां सत्यां स्त्रशुद्धौ सत्यां । खं धनभावः तस्य शुद्धिः पापराहित्यं तस्यां सत्यां । शेषं प्राग्वत् । तथाचोक्तं । दशमैकादशे लग्ने वित्तकेंद्रत्रिकोणगैः । शुभैः पण्यम्य कर्मोक्तं वर्जयित्वा घटोदयमिति ॥ ३ ॥ अथ वृत्तार्धेन धनिष्ठापंचके वय॑माह- प्रेतज्वालनशय्यकावितनने स्तंभोच्छ्रयं याम्यदि- ग्यानं काष्ठतृणोच्चयं परिहरेत्कुंभद्वयस्थे विधौ । सेवेष्टा ध्रुववारुणांत्यवसुभैः खाये रवौ वा कुजे संन्यासस्थिरभे खलैर्गतवलैः षष्टांत्यगे भार्गवे ॥४॥ प्रेतेति ॥ कुंभद्वयस्थे विधौ सति कुंभमीनगे चंद्रे सति परिहरेत् सर्वथा नाचरेत् । स्पष्टं अथोत्तरार्धे चरणेन सेवामाह-सेवेति । ध्रुवादिभिर्नक्षत्रैः सेवा इष्टा स्यात् । सु- गमं । कस्मिन् सति खाये रवौ सति । वा इत्यथवा कुजे सति खं दशमं आय एका- दशं अनयोरन्यतमे रविभौमयोरन्यतमे सतीत्यर्थः । यस्मिल्लने सेवा क्रियते तस्माद- माद्दशमे एकादशे वा रवौ भौमे वा सति सेवा इष्टा हितकरा स्यादित्यर्थः । शेषं प्रा- ग्वत् । अथ चतुर्थचरणेन संन्यासमाह । संन्यास इति। स्थिरभे स्थिरनक्षत्रे स्थिर- लग्ने च संन्यास इष्टः स्यात् । कैः खलैर्गतवलैः पापग्रहैहीनबलैरित्यर्थः । सप्तम्बर्थे तृतीया । कस्मिन् सति भार्गवे शुक्रे षष्टांत्यगे । १२ सति शेषं लग्नबलं प्राग्वत । उक्तंच । त्रिषडेकादशे सौरिय॑ये षष्टे च भार्गवः । सबले धर्मपे जीवे केंद्रे दीक्षावि- रक्तिकृदिति ॥ ४ ॥ अथ वृत्तद्वयेन कृषिकर्माह- उद्वाहसंचरद्विपेंद्रलघुभत्वाष्ट्रः शुभा स्यात्कृषि- ार्किज्ञारखगाह्नि युग्मझषगोकन्याविलग्ने तिथौ । व्यंकोजे सदिशि प्रणम्य खगभूमुख्यान् सिताच्छादनः 22 स्वर्णोद्धृष्टहलं सप्नुष्कसुटषैः सौमी पटुस्त्रिनयेत् ॥ ५ ॥ उद्वाहेति ॥ उद्वाहाणि पूर्वोक्तानि मूलांत्यात्यादीनि एकादशसंख्याकानि । च- .

मिश्रप्र०] मातडवल्लभाख्यव्याख्यासहितः । राणि प्रसिद्धानि । द्विपं विशाखा इंद्रो ज्येष्ठा लघुभानि प्र० त्वाष्ट्रं चित्रा तैः व्यार्कि- ज्ञारखगाह्नि आर्किः शनिः ज्ञो बुधः आरो भौमः विगता आर्किज्ञारा येभ्यस्ते तथा ते च ते खगाश्च तेषां अहः दिनं तस्मिन् शनिबुधभौमरहितवारे इत्यर्थः । युग्मझषगो- कन्याविलग्ने युग्मं मिथुनं झषो मीनः गौव॒षः कन्या प्र० एषामन्यतमविलग्ने तिथौ व्यंकोजे विगतः अंको नवमी यस्मात् असौ व्यंकः स चासौ ओजश्च । ओजो विषम- स्तस्मिन् । नवमीव्यतिरिक्त विषमतिथावित्यर्थः । किंलक्षणे व्यंकोजे तिथौ। सदिशि दिग्दशमी तया सहवर्तमाने १।३।५।७।११।१३।१० कृषिः शुभा स्यात् । तथाचोक्तं । चंद्रे शुभे शुभतिथौ शुभवारयोगे वारे गुरौ शशिजशुक्रगभस्तिवारे। लग्ने वृषे मिथु- नके झषकन्यकायां शस्तं कृषिप्रकरणं प्रवपेनिधाने इति । अन्यच्च । दशम्येकादशी चैव तृतीया च त्रयोदशी । सप्तमी पंचमी चैव प्रतिपच्च सुखावहा । हत्यष्टमी बली- वर्दानवमी सस्यघातिनी । चतुर्थी कीटजननी पति हंति चतुर्दशी। रवौ बृहस्पतौ चंद्रे शुक्रे कुर्याद्विशेषतः । बुधार्किभूमिपुत्राश्च न भवंति फलप्रदा इति । अथ विधि- माह-सिताच्छादनः श्वेतवस्त्रधरः पटुः कुशल: कर्ता खगभूमुख्यानू देवान्प्रणम्य कृष्यारंभः पूर्वोक्तः सीतायज्ञः क्रियते तत्र पूजितान् खगभूमुख्यान् ग्रहभूम्यग्न्यादीन् प्रदक्षिणापूर्वकं प्रणम्य मनोवाकायकर्मभिर्नमस्कृत्य स्वर्णोद्धृष्टहलं सुवर्णघर्षिताग्रं हलं समुष्कमुषैः मुष्का वृषणास्तैः सह वर्तमानाः समुष्काः शोभनाः वृषाः सुवृषाः गुणा- वयवपूर्णाः नीरोगाः समुष्काश्च ते सुवृषाश्च तथा तैः कृत्वा सौमी उत्तरां दिशं प्रति त्रिवारं नयेत् । हलेन पद्धतीः कुर्यादिति भावः । उत्तरदिशं प्रति त्रिवारनयनेन पंच- रेखा उत्पद्यते । तद्यथा । प्रथमगमनेनैका आवर्तने द्वितीया पुनरुत्तरां प्रति द्वितीय- गमने न तृतीया पुनरावर्तने चतुर्थी पुनरुत्तरां प्रति तृतीयगमनेन पंचमी रेखा उ- त्पद्यते । अधिका न कार्या इति भावः। सौमी पटुस्त्रिनयेदित्यत्र पटुपदग्रहणं अखं- डऋजुरेखाकरणार्थ । तथाचोक्तं । शस्तासु चंद्रतारासु शुचिः शुक्लेन वाससा । स्नात्वा गंधैश्च पुष्पैश्च पूजयित्वा विशेषतः । पृथिवीं ग्रहसंयुक्तां पूजयित्वा प्रजापतिं । अग्निं प्रदक्षिणीकृत्य दातव्या चैव दक्षिणा । शुक्लौ वृषौ नियोक्तव्यौ नवीनैश्च युतेन वा । विबलं छिनलांगूलं कपिलं वृषभं त्यजेत् । हलप्रवाहणं कार्य नीरुग्भिवृषकर्षकैः । हला- दिभिर्टद्वैः क्षेमं कुदृढेरशुभं भवेत् । वृषभा यदि युध्येयुस्तस्य विघ्नं सदा भवेत् । हेम- धृष्टहलाओण छिन्नरेखां न कारयेत् । उत्तराभिमुखो भूत्वा क्षीरेणार्य प्रदापयेत् । तस्य सर्वप्रकारेण निर्विघ्नं कारयेत्तदा । एका जयकरी रेखा तृतीया चार्थवृद्धिदा । पंचमी च भवेद्रेखा बहुसस्यफलप्रदा। अत ऊर्ध्वं न 'कर्तव्या महादोषस्ततो भवेत् । स्मर्तव्या वसवः शुक्रः पृथुनामा सुचंद्रमाः । पराशरो हली चैव सर्वविघ्नोपशांतये । इति । अत्र दुर्निमित्तानि तत्रैवोक्तानि । हले प्रवाह्यमाणे तु कूर्म उत्पद्यते यदि । गृहिणो मृतये तस्य ततोग्नेश्च भयं भवेत् । ईषाभंगो यदा ऋष्टुः संशयो जीवितस्य च । सुतनाशो युगे भन्ने समाने म्रियते शिशुः । योक्रच्छेदे तु व्यासंगः सस्यहानिश्च जायते। हले प्रवाह्यमाणे तु गौरेकः प्रपतेद्यदि । प्रपतेद्युक्तमात्रस्तु बंधनं च प्रयच्छति । ज्वराति- साररोगेण कृषिभंगं विनिर्दिशेत् । प्रबहेाक्तमात्रस्तु ततो गौः खनते यदि । हलेन युक्तमात्रस्तु तदा सस्यं चतुर्गुणमिति ॥५॥ - ९२ मुहूर्तमार्तडः। [मिश्रप्र. । अथ कृषिविषये लांगलचक्रमाह- त्रित्रित्रीष्वनलार्थरामहुतभुग्भेष्वर्कभुक्तादस- त्सद्भूयः कृषिभैर्विवारुणहरींद्रवीजवापः शुभः । मूर्यादितृतीयतोतिधृतितश्चाष्ट्राष्टभिः सत्फलः मोक्तोन्यैः फणिसप्तमाद्रविमितैस्तच्छेदनं वापभैः ॥६॥ वित्रीति ॥ अर्कभुक्तात्सूर्यभुक्तनक्षत्रात्सकाशात् त्रिज्यादिषु स्थानाष्टकस्थितेषु नक्ष- त्रेषु। असत्सदित्येतत्फलद्वयं भूयः वारंवारं स्यात् । एतदुक्तं भवति । सूर्याक्रांतनक्षत्रस्य आदिमान्नक्षत्रात्सकाशात् । त्रिषु असत् दुष्टफलं स्यात् । तदनंतरं त्रिषु सत् शुभं स्यात् । ततस्त्रिषु असत् । ततः इषुषु पंचसु सत् । ततोऽनलेषु त्रिषु असत् । ततः अर्थेषु पंचसु सत् । ततो रामेषु त्रिषु असत् । ततो हुतभुक्षु त्रिषु सत्स्यादित्यर्थः । अथ बीजोप्तिमाह-कृषिभैरिति । कृषिभैः कृषिनक्षत्रैः उद्वाहक्षचरद्विपेत्यादिभिर्बा- जवापः शुभः प्रोक्तः किंलक्षणैः कृषिभैः विवारुणहरींद्रैः वारुणं शततारका हरिः श्र- वणः इंद्रो ज्येष्ठा विगताः वारुणहरीद्रा येभ्यस्तानि तथा तैः शततारकाश्रवणज्येष्टार- हितैरित्यर्थः । कृषिभैरित्युपलक्षणं । तस्मात्कृष्युक्तं सर्व तिथिवारादिकं ज्ञेयं । तथाचो- तं । मूषकानां भयं भौमे मंदे शलभकीटयोः । नवमे च तिथौ रिक्ते हीने सोमे विशे- षतः। वृषलग्नेऽथवा मीने कन्यायां मिथुनेऽथवा । वापयेत्सर्वसस्यानि यदीच्छेत्सस्य- संपदः इत्यादि । लग्नबलं प्राग्वत् । अथ बीजवापविषये द्विभेदं फणिचक्रमाह-सूर्य- आदिति । सूर्ययुक्तनक्षत्रादितृतीयं तस्मादतिधृतिरेकोनविंशं तस्मात् अष्टाष्टभिः तृती- यादष्टभिः एकोनविंशादष्टभिर्नक्षत्रैः बीजवापः सत्फलः । अथ द्वितीयभेदमाह-अन्यै- रिति । अन्यैराचार्यैः फणिसप्तमात् राहुसप्तमात्सकाशात् रविमितैदशभिर्नक्षत्रैः बी- जवापः शुभः प्रोक्तः। एतदुक्तं भवति। राहुर्यस्मिन्नक्षेत्रे भवति तस्माद्यत्सप्तमं नक्षत्र तत्फणिसप्तममुच्यते तस्मात्सकाशाद्वादशभिरित्यर्थः । राहोस्तु फणीति नाम ग्रंथांतरे प्रसिद्धं । वराहमिहिराचार्येण राहुस्वरूपविकल्पाः ग्रंथांतरोक्ता उद्घाटिताः खकृतसंहि- तायां । अमृतास्वादविशेषाच्छिन्नमपि शिरः किलासुरस्येदं । प्राणैरपरित्यक्तं ग्रहतां यातं वदंत्येके । इंद्वर्कमंडलाकृतिरसितत्वात्किल न दृश्यते गगने । अन्यत्र पर्वकाला- द्वरप्रदानात्कमलयोनेः । मुखपुच्छविभक्तांगं भुजंगमाकारमुपदिशंत्यन्ये इति । भुजंग- माकारकथनात्फणीत्यभिधानं प्रसिद्धं । रत्नमालायामपि । फणिभाबीजोप्तिकाले स्फुट- मिति । तथाचागमांतरे। राहुभादष्टमं यावद्वीजोप्तिं परिवर्जयेदिति । अथ धान्यच्छे दनमाह-तच्छेदनं वापभैरिति । तेषां धान्यानां छेदनं तच्छेदनं वापभैः बीजवापन. क्षत्रैः प्रोक्तं । ननु यस्यांगं यददोंगिनो गदितभे कुर्यादिति पुरैवोक्तं तत्कथं पुनरुक्तं तच्छेदनं वापभैरिति । सत्यं । कृषिनक्षत्राणां बीजवापनक्षत्राणां च किंचिद्भेदोऽस्ति । द्वयोः कृष्यंगलात् । कैः कार्यमिति संदेहनिवारणार्थं तच्छेदनं वापभैरित्युक्तं ॥ ६ ॥ अथ निष्पन्ने धान्ये क्रमप्राप्तं मेथिरोपणं वृत्तचरणेनाह- मेथिं क्षीरतरोरुफानुरहितैरुद्वाहभै रोपये- दन्नप्राशनवद्वसंतशरदोः प्रोक्तं नवान्नं बुधैः । in मिश्रप्र.] मार्तडवल्लभाख्यव्याख्यासहितः । - मैत्रार्कात्यवसूत्तरेज्यवरुणैः सेंद्रेः शुभं नर्तनं लग्नेजे गुरुवीक्षिते हिबुकगैः सौम्यैश्च संगीतकम् ॥ ७॥ १३ मेथिमिति ॥ क्षीरतरोर्वटवृक्षादेर्मेथिं उद्वाहभैर्विवाहनक्षत्रैर्मूलांल्यार्केत्यादिभिरारोप- येत् निखनेत् । मेथिर्नाम खले धान्यमर्दनार्थ वृषपंक्तियोजनार्थ काष्टमारोप्यते । मे- थ्यंते संगम्यते वृषभा अस्मिन्निति मेथिः । मेथू संगमे । पुंसि मेथिः खले दारु न्यस्तं यत्पशुबंधनोइत्यमरः । किंलक्षणैरुद्वाहभैः । उफानुरहितैः उफा उत्तराफाल्गुनी अनुः अनुराधा ताभ्यां रहितैः । उक्तंच । रेवती रोहिणी मूलं खाती हस्तो मृगस्तथा । आषाढोत्तरयुक्ता च तथा भाद्रपदा मघा । बंधने सर्वबीजानां तथा शाला प्रवेशने । दुःखदा वनदा चैवानुराधोत्तरफाल्गुनी । वैटश्च सप्तपर्णश्च गंभारी शाल्मली तथा । औदुंबरी तथा धात्री या चान्या क्षीरवाहिनी। स्त्रीनाम्नी कर्षकैनित्यं मेथिः कार्या फलप्रदेति । अथ नवधान्यप्रसंगेन नवान्नकर्म द्वितीयचरणेनाह-अन्नप्राशनभैरिति । वसंतशरदोः ऋखोः अन्नप्राशनभैनवान्नं नवान्नकर्म बुधैः प्रोक्तं । अन्नप्राशनभैरित्युप- लक्षणं । तस्मादन्नप्राशनोक्तं तिथिवारादिकमत्र ग्राह्यं । साग्निकस्य नवान्नकर्मणा विना व्रीह्यादीनां नवनवमितानां धान्यानां भक्षणे दोषप्रसंगादावश्यकं कमैतत् । नवधान्या, नीमानि। जीयो यवगोधूमा नीवाराः कंगुवैणकाः । शालयो मुद्गमाषाश्च नवधान्यानि च क्रमात् । एषां मध्ये शरत्संभवानि धान्यानि व्रीह्याग्रयणेन विना न भक्षणीयानि । वसंतसंभवानि यवाग्रयणेन विना न भक्षणीयानीति नियमादिकर्म । शरद्वसंतयोः क्रि- यत इति तत् अन्नप्राशनोदितैस्तिथिभादिभिः मासे षष्ठेष्टमेवेत्यत्रोक्तैर्नवान्नं कर्तव्यमि- त्यर्थः । अथोत्तरार्धेन नृत्यसंगीतयोरारंभमाह-मैत्राऊत्येति । मैत्रमनुराधा अर्को हस्तः अंत्यं रेवती वसवो धनिष्ठा उत्तरास्तिस्रः इज्यः पुष्यः वरुणः शततारका इंद्रो ज्येष्टा तैर्नर्तनमारभेत् संगीतकं च आरभेत् । कस्मिन्सति । लग्ने वर्तमाने से गुरुवी- क्षिते सति कैः हिबुकगैः सौम्यैः चतुर्थस्थानस्थितैः सौम्यग्रहैः। शेषं प्राग्वत् ॥ ७ ॥ अथ नानापशूनां कर्म वृत्तेनैकेनाह- द्वीशाद्वदितीज्यवासवशिवाश्व्यंत्याग्निपाशींद्रभैः पूर्वाभिः शुभदा विसिंहभतनौ नानापशूनां क्रिया । वारेष्वर्कचतुर्ष कोत्तरहरित्वाष्ट्रेष्वमारिक्तयो- रष्टभ्यां न हितोदिता स्वभगमे न स्याद्भदोषः किल ॥८॥ द्वीशेति ॥ द्वीशं विशाखा अर्को हस्तः इंदुर्मगः अदितिः पुनर्वसुः इज्यः पुष्यः वा- सवं धानेष्ठा शिवः आर्दा अश्विनी प्र० अंत्यं रेवती अग्निः कृत्तिका पाशी शततारका इंद्रो ज्येष्टा तैः पूर्वाभिस्तिसृभिः विसिंहभतनौ विगतः सिंहो येभ्यस्तानि विसिंहानि तानि च तानि भानि विसिंहभानि सिंहरहितराशयः तेषां तनुर्लग्नं तस्मिन् नानापशूनां क्रिया शुभदा उदिता । पशूनां क्रयविक्रयादिकर्म शुभदं प्रोक्तमित्यर्थः । अथोत्तरार्धन. वय॑माह । अर्कचतुर्पु वारेषु रविचंद्रभौमबुधवारेषु कोत्तरहरिलाष्टेषु कः रोहिणी उत्त- रास्तिस्नः आसां समाहारः कोत्तरं हरिः श्रवणः खाष्टं चित्रा तेषु अमारिक्तयोः अमा : - मुहूर्तमार्तडः। [मिश्रप्र. अमावास्या रिक्ताश्चतुर्थीनवमीचतुर्दशीनामन्यतमा तयोः अष्टमी प्रसि. तस्यां नानाप- शूनां क्रिया हिता न उदिता । अपवादमाह । स्वभगभे सति भदोषो नक्षत्रदोषः क्वचित्पशुकर्मणि न स्यात् । लग्नबलं प्रा० उक्तं च । द्वयादित्यद्विवसुद्वयांत्याद्रद्वीशैः क्रयादिगोः । दर्शभूताष्टमीचित्राध्रुवकर्णैर्गमाद्यसत् । सोमार्कवैधृतौ पाते लग्ने पंचानने बुधे । भद्रासंक्रांतिरिक्तासु पशुकर्म विवर्जयेत् । शुभग्रहोदये शुद्धनैधने स्वर्खयोनिषु । रक्षावृद्धिक्रिया शस्ता पशूनां मुनिभिः स्मृतेति । तथाचागमांतरे। सोमे भौमे बुधे गावो न चाल्यास्तुरगाः शनाविति । अन्यच्च । पूर्वात्रयामृतमयूखहुताशनेषु शक्राग्निवाजिवसु- वारुणशांकरेषु । एतेषु गोमहिषदंतितुरंगमादिनानाप्रकारपशुजातिगतिःप्रशस्तेति ॥८॥ अथाश्वकर्म वृत्तेनैकेनाह- व्यादित्यद्विवमुस्थिराश्विभमृदुस्खात्यर्क भै त्रया- काराहीज्यभृगदये द्विकमदेविंदौ क्रियाश्वी हिता । तत्राप्यर्कमतः क्रमात्तिथिमितैः पश्चात्रिभिः साभिजि- च्छस्ता या नृसमा तदुक्तभमुखैः कार्या परैभिर्बुधैः ॥९॥ द्ववादित्यमिति ॥ द्वयादित्यं पुनर्वसुपुष्यौ द्विवसु धनिष्ठाशततारके स्थिराणि प्र० अश्विनी प्र० मृदूनि प्र० स्वाती प्र० अर्को हस्तः तैः । ज्ञत्रयार्काराह्नि ज्ञत्रयं बुधगुरु- शुक्राः अर्कः सूर्यः आरो भौमः एषामहः दिनं तस्मिन् । इज्यभृगूदये उदये लग्ने इज्य- भृगौ इति इज्यभृगूदयं तस्मिन् गुरुशुक्रयुते लग्ने इत्यर्थः । द्विकमदेषु इंदौ द्वि द्वितीयं के चतुर्थे । मदः सप्तमं एषु चंद्रे सतीत्यर्थः । आइवी क्रिया क्रयविक्रयादिका हिता शुभकी स्यात् । अथाश्वचक्रमाह-तत्रापीति । तत्रापि द्वयादित्यादिषु नक्षत्रेषु त्वपि अर्कभतः सूर्यनक्षत्रात्सकाशात् क्रमात्तिथिमितैनक्षत्रैः पश्चादुत्क्रमतस्त्रिभिनक्षत्रैः साभिजिद्यथा तथा आश्वीक्रिया शस्ता शोभना स्यात् । एवं सामान्यतोऽश्वकर्मोक्त्वे- दानी विशेषमाह-येति । या आश्वी क्रिया नृसमा मनुष्यसदृशा सा क्रिया तदुक्तभमुखैः कार्या। तस्मै मनुष्याय उक्तानि भमुखानि नक्षत्रादीनि तैः कार्येत्यर्थः । परा या नृग- मा न भवति सा एभिः सामान्यद्वर्यादित्यादिभिर्बुधैः कार्येत्यर्थः । लग्नबलं प्र० । तथाच नारदः । विविष्णुचरभे क्षिप्रे मृदुभे स्थिरभेषु च । वाजिकर्माखिलं सूर्यवारे काय विशेषतः इत्यादि । तथाचोक्तं । घृतानचणकक्षीरतृणमुद्गादिभक्षणे। अनप्राशन- ववृक्षं स्नानं सौम्यग्रहोदये। चौलोक्तं क्षुरकर्मादौ भेषजे भेषजोदितं । गर्भाधानोत्तामश्वा- ना मैथुने तु विलोकयेत् । गृहारंभोदिते काले हयशाला विधीयते। शिक्षाविद्योतकाले च भूषणं भूषणोदिते । चर्मकर्मादिकं कार्य जययोगे शुभोदये । एवं खरोष्ट्रादिकाय पूर्वाले वाहनादिकमिति ॥ ९ ॥ अथाभ्यंगनिषिद्धकालमाह- भद्रासंक्रमपातवैधृतिसितेज्यारिषष्ठयादिषु श्राद्धाहे प्रतिपवये परिहरेद्धेतुं विनाभ्यंजनम् । - विवाहप्र] मार्तडवल्लभाख्यव्याख्यासहितः। मांगल्यं विजयोत्सवोब्दवदनं दीपावलीहेतवोऽ- भ्यंगस्य कथितादितैलमनसन्नियेऽह्नि नित्येऽखिलम्।।१०॥ भद्रेति ॥ भद्रा प्र० संक्रमः संक्रांतिः पातो व्यतीपातः वैधृतिः प्र. सितः शुक्रवारः इज्यो गुरुवारः अर्को रविवारः आरो भौमवारः षष्ठयादयः सर्वास्तिथयः तासु ६ ७ ८ ९ १० ११ १२ १३ १४ १५३० श्राद्धाहः श्राद्धदिनं प्रतिपद्यं प्रतिपद्वितीये तस्मिन् हेतुं कारणं विना अभ्यंजनं अभ्यंगं परिहरेत् । कारणे सति अवश्यं चरेदित्यर्थसिद्धं । तथाचोक्तं । सप्तम्यां न स्पृशेत्तैलं नवम्यां प्रतिपत्तिथौ । चतुर्दश्यामथाष्टम्यां षष्टयां चैव विशेषत इति ग्रंथांतरे । चतुर्दश्यष्टमी चैव पौर्णमास्यर्कसंक्रमः। तैलस्नानं न कु- वीत सुतबंधुधनक्षयादिति । तथाच वृद्धमनुः । दशैं स्नानं न कुर्वीत मातापित्रोस्तु जीवतोः । नवम्यां च न चेत्तत्र निमित्तांतरसंभवः । प्रतिपद्यनपत्यः स्याद्वितीयायास- पनिकः : । दशम्यामधनः स्नाने सर्व हंति त्रयोदशीति । रत्नमालायां। रविस्तापं कांति वितरति शशी भूमितनयो मृतिं लक्ष्मी चांद्रिः सुरपतिगुरुर्वित्तहरणं । विपत्तिं दैत्यानां गुरुरखिलभोगानुभवनं नृणां तैलाभ्यंगात्सपदि कुरुते सूर्यतनय इति । अथाभ्यंगहेतू- नाह-मांगल्यमिति । मांगल्यं विवाहादि । विजयोत्सव आश्विन शुक्लदशम्यां क्रियते अब्दवदनं संवत्सरप्रतिपत् दीपावलिः प्र० एतेऽभ्यंगस्य हेतवः कारणानि एषु निषि- द्धतिथ्यादावपि अभ्यंगः कर्तव्यः । तथाचोक्तं व्यवहारसारे । वत्सरादौ वसंतादौ सूत- कांते महोत्सवे। दीपोत्सवचतुर्दश्यामभ्यंगनियमो नचेति । तथाचोक्तं स्कांदे। विज- यादशमीविषयं । निषिद्धमपि कर्तव्यं तैलाभ्यंजनमादरात् । इति । अथाभ्यंगनिषि- द्धापवादमाह-क्कथितादीति । निंद्येऽह्नि कथितादितैलं अनसत् शुभं स्यात् । आदिन- हणात् सार्षपसुगंधपुष्पवासितादितैलं गृह्यते। एवं कथितादितैलं निंद्यदिनेपि शुभमि- त्यर्थः। उक्तंच । सार्षपं गंधतैलं च यत्तैलं पुष्पवासितं । द्रव्यांतरयुतं वापि न दुष्यति कदाचन । सूर्यशुक्रारवारेषु निषिद्धासु तिथिष्वपि । कर्तव्ये यदि वा स्नाने पक्वतैलं न दुष्यति । रवौ पुष्पं गुरौ दूर्वा भौमवारे च मृत्तिकां । भार्गवे गोमयं क्षिप्त्वा तैलस्नानं सुखावहमिति । अथ नित्याभ्यंगे विशेषमाह । नित्येऽखिलमिति । नित्येऽभ्यंगे अखिलं तैलं पक्कादिकं अनसत् शुभं स्यात् । उक्तंच । नित्यनाने च कर्तव्ये तिथि- दोषो न विद्यत इति ॥ १० ॥ अथ प्रसंगेन तिलामलकनाने निषिद्धतिथीनाह- दिग्विश्वाद्रिदृगंकदर्शतिथिषु स्नानं न धात्रीफलैः श्रीकामोऽथ बुधांबुपक्षेपितृभाभ्यंगात्पतिभ्यंगना । पुत्री सोमदिने प्रसूर्यमपितृत्वाष्ट्रद्रमिश्रांबुप- ऋव्यादेश्वरभे कुपुत्रहरिजे स्नायान्निशास्येऽपि न ॥ ११ ॥ दिगिति ॥ दिक् दशमी विश्वे त्रयोदशी अद्रिः सप्तमी दृक् द्वितीया अंको नवनी दर्श अमावास्या एतेषु तिथिषु श्रीकामः धात्रीफलैः आमलकीफलैः स्नानं नाचरेत् । तथाचोक्तं । यः करोति दशम्यां च स्नानमामलकैः सह । पुत्रहानिर्भवेत्तस्य त्रयोदयां .

। । मुहूर्तमार्तडः। [विवाहा धनक्षयः । अर्थपुत्रक्षयस्तस्य द्वितीयायां न संशयः । अमायां च नवम्यां च सप्तम्यां च कुलक्षय इति । अथ स्त्रीणां बुधादिषु अभ्यंगनिषेधमाह । बुधो बुधवारः । अंबु- पक्षं शततारका पितृभं मघा एतेष्वभ्यंगस्तस्मात् अंगना स्त्री पतिघ्नी स्यात् । उक्तंच । स्नानं कुर्वति या नार्यश्चांद्रे शतभिषग्गते । सप्तजन्म भवेयुस्ता विधवा दुर्भगा ध्रुवमि- नि । त्रिविक्रमशते । स्नानं नारार्कशुक्रेज्यविष्टिसंक्रांतिपर्वसु । द्वयष्टषदिक्त्रयोदश्यां त्रियस्तु न मघावुधैः । अथ पुत्रवतः सोमवारेऽभ्यंगनिषेधमाह-पुत्रीति । पुत्रवान् सोमवारे न नायात् । उक्तंच । पुत्रवान् स्वगृहे नित्यं न स्नायादुत्तरामुखः ॥ सोमवारे तथाऽभ्यंगं वर्जयेत्सर्वथा बुध इति । अथ प्रसंगेन प्रसूतिकास्नाने निषेधकालमाह-प्रसू- रिति । यमो भरणी पितरो मघा लाष्ट्रं चित्रा इंद्रो ज्येष्ठा मित्रे कृत्तिकाविशाखे अंबुपः शततारा कव्यादो मूलं ईश्वरभमाः एषां समाहारस्तस्मिन् । कुपुत्रहरिजे कुत्सितः पुत्रः पुत्रभावो यस्य तत्कुपुत्रं तच तद्धरिजं च तस्मिन् । यस्मालनात्पंचमस्थः पाप- ग्रहो भवति तस्मिदित्यर्थः । निशास्यं रात्रिमुखं सायंकालस्तस्मिन् प्रसूता न स्नायात् । शेष लग्नबलं प्राग्वत् । उक्तंच । मघामूलविशाखा चित्रादितियमद्वये । ज्येष्ठासार्प- जलेशः नैव स्नायात्प्रसूतिका । शुभग्रहयुते लगे पंचमे पापवर्जिते। परित्यज्य महा- दोषान् सूतिका स्नानमाचरेत् ॥ ११॥ अथौषधनिष्पादनमाह- मंदारान्यदिने मृदुध्रुवचरक्षिप्रैर्वलक्षे सुधा योगेभेषजमाचरेत्सुमृतिकेंद्रारिव्ययांगे भिषक् । तद्दद्यादिह विध्रुवेंदुतनयप्रद्योतने रोगिणे सृक्स्रावव्रणकर्म सूर्यकुजयोरहीह केंद्रस्थयोः ॥ १२ ॥ , मंदारेति ॥ मंदः शनिः आरो भौमः ताभ्यामन्ये रविचंद्रबुधगुरुशुक्रास्तेषां दिन स्मिन् मृदुध्रुवचरक्षिप्रैर्नक्षत्रैः वलक्षे शुक्लपक्षे सुधायोगे अमृतयोगे ग्रंथांतरप्रसिद्ध सुमृतिकेंद्रारिव्ययांगे शोभनानि पापग्रहरहितानि मृतिकेंद्रारिव्ययानि यस्य तत् सुमृ- तिकेंद्रारिव्ययं तच्च तदंगं च तस्मिन् भिषक् वैद्यः भेषजमाचरेत् कुर्यात् । शेषं लग्नवलं प्रा० । अथौषधदानमाह-तदिति। तदौषधं इहानंतरोक्ते भादौ दद्यात् । कथंभूते इह विध्रुवेंदुतनयप्रद्योतने ध्रुवनक्षत्रबुधरविरहिते । अथ रक्तस्रावव्रणयोर्विशेषमाह । असृक्- स्रावो रक्तस्रावः व्रणः क्षतं अनयोः कर्म सूर्यकुजयोरह्नि दिवसे आचरेत् । कयोः सतोः सूर्यकुजयोः केंद्रस्थयोः सतोः। तथाचोक्तं । मंदारवर्जिते वारे चरक्षिप्रमृदुध्रुवैः । सूर्य- सौम्यैः केंद्रगतैर्भेषजोत्पादनं हितं । रक्तस्रावं कुजे कुर्यात्तद्धोरायामथापि वा । कुजे केंद्रेऽथवा मंदे रवौ वा विखलेऽष्टमे । व्रणक्रिया कुजे सूर्ये केंद्रगे तद्दिनेष्टमे । शुद्धपष्टे च सक्रूरे चरलग्ने युवस्वरे इति ॥ १२ ॥ अथ प्रसंगेन रोगमुक्तिदिवसानाह वृत्तार्धेन- याम्याहित्रयवायुमूलजलपोपांत्येंद्रहस्तांबुभे शांत्याजद्विपयोपैनवदिनैरन्यत्र रुग्णो विरुक् । ।

मिश्रप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। आदित्याह्यनिलध्रुवांत्यपितृभे शुक्रंदुवारे गद- त्यक्तस्नानमनिष्टमिष्टमशुभे भादौ खलास्तस्थिरे ॥ १३ ॥१३॥ याम्येति ॥ याम्यं भरणी अहित्रयमाश्लेषात्रयं वायुः स्वाती मूलं प्र० जलपः शत- तारका उपांत्यं उत्तराभाद्रपदा इंद्रो ज्येष्ठा हस्तः प्र. अंबुभं पूर्वाषाढा अस्मिन्नक्षत्र- गणे रुग्णो रोगी शांत्या यथोक्तशांतिकेन विरुक् ज्वरमुक्तो भवति । अजद्विपयोः श्रव- णविशाखयोः रुग्णः नृपैः षोडशभिर्दिनैर्विरुक् स्यात् । अन्यत्र अन्येषु नक्षत्रेषु रुग्णो नवदिनैर्विरुग्भवति । एतज्ज्योतिषार्काभिप्रायम् किंचिद्रनकोशाभिप्रायमुक्तम् । तत्र येषु नक्षत्रेषु ज्वरितस्य मृत्युरुक्तः येषु च कृच्छ्रेण बहुभिर्दिनैः ज्वरमुक्तिरुक्ता तत्फलमत्र शांत्या विरुगित्युक्तं । क्वचिदन्यथा फलदर्शनात् । तथा येषु येषु नक्षत्रेषु सप्तभिर्नव- भिरेकादशभिर्दिनैवरनिर्मोचनमुक्तं तत्फलमत्र मध्यमत्वेन नवदिनैर्विरुगित्युक्तं । ग्रंथलाधवाय स्वल्पांतरत्वात् । तथाच ज्योतिषार्के । सप्ताहमृतिनंदाद्रिरुद्रमृत्युनगाद्रि- भिः । कृच्छ्रमृत्यू मृतीशैश्च कृच्छ्रेशे व्यसुना नृपैरित्यादि । अथोत्तरार्धन रोगमुक्ति- स्नानमाह-आदित्येति । आदित्यं पुनर्वसुः अहिराश्लेषा अनिल: स्वाती ध्रुवाणि पूर्वो- तानि अंत्यं रेवती पितृभं मघा अस्मिन्नक्षत्रगणे शुक्रंदुवारे शुक्रसोमवारे गदत्यक्त- नानं रोगमुक्तस्नानं अनिष्टं स्यात् । तर्हि कुत्र कर्तव्यमित्यत आह । अशुभे भादौ इष्टं शुभं स्यात् । कस्मिन्सति खलास्तस्थिरे सति खल: पापग्रहः । अस्ते यस्य तत्तथा तच्च तस्थिरं च तस्मिन्स्थिरलग्ने पापे सप्तमे सतीत्यर्थः । तथाचोक्तं । वैधृतौ व्यतिपाते च भद्रायां धिष्ण्यसंक्रमे । रोगमुक्तो नरः स्नानात्कुवारह्मतिथिष्वपि । यूनं पापयुतं शस्तं दशमं च शुभान्वितं । सौम्यक्रूरयुतं रंध्ररोगस्नानेऽरिभं तथेति । चंद्रबलं सर्वत्र योज्यं । कुतिथिभादौ सदित्यनेन चंद्रादिबलविषये मोहो माभूदित्यतः चंद्रबलं सूचितं । यतः ग्रंथादौ गर्भाधाने सदा इत्युक्तं तत्सर्वकर्मसु ज्ञेयमिति सर्वग्रंथकारसंमतम् । तथाचोक्तं संहितायां स्पष्टम् । स्नायाद्रोगविमुक्तस्तु शुभयोश्चंद्रतारयोरिति ॥ १३ ॥ अथ व्यवहारद्रव्यं वृत्तेनैकेनाह- द्रव्यं संव्यवहारतो लघुचर्योज्यं चरांगे बुधे धर्माष्टात्मजगेऽथ तस्य हरणे हस्तो रविः कुजः। संक्रांतिर्भरणी त्रिपुष्करयमौ कुंभांत्ययोश्चंद्रमा वृद्धिश्चेति शुभाविदून इह यत्कुर्यादृणं तत्स्थिरम् ॥ १४ ॥१४॥ द्रव्य मिति ॥ द्रव्यं सुवर्णादि संव्यवहारतः कुसीदव्यवहारेण लघुचरैर्नक्षत्रैर्योज्यं देय- मित्यर्थः । क्व । चरांगे चरलग्ने । कस्मिन् सति। बुधे धर्माष्टात्मजगे सति। धर्मो नवमं अष्टमं प्र० आत्मजः पंचमं एवन्यतमस्थानगते सतीत्यर्थः । अन्यत्पूर्वोक्तं ज्ञेयं । अथानंतरं तस्य प्रयुक्तस्य हरणं पुनर्ग्रहणं । तस्मिन्विषये हस्तो नक्षत्रं रविः रविवारः ज्ञो बुधवारः कुजो भौमवारः संक्रांतिः सूर्यसंक्रमणदिनं भरणी प्र. त्रिपुष्करो योगः यमो यमलयोगः त्रिपुष्करयमलयोगौ ग्रंथांतरे प्रसिद्धौ । रत्नमालायां । विषमचरणं धिष्ण्यं भद्रातिथिर्यदि संस्पृशेत् सुरगुरुशनिक्ष्मापुत्राणां कथंचन वासरे । मुनिभि- '९८ - मुहूर्तमार्तडः। [मिश्रप्र० रुदितः सोऽयं योगस्त्रिपुष्करसंज्ञक इत्यादि। अथ यमलयोगः । शनिभौमेज्यवारेषु ति- थिर्भद्राद्विपादभं । तदा द्विगुणयोगः स्याद्धिसंगुणफलप्रदः । कुंभांत्ययोश्चंद्रमाः धनि- ष्ठापंचकं वृद्धिद्धियोगोपि शुभः । हस्तादयोत्र स्वकीयद्रव्यग्रहणे शुभाः । विदूने बुध- दिनं विना इह हस्तादौ यहणं कुर्यात् तत्स्थिरं स्यात् । तथाचोक्तं । चरैः क्षिप्रैश्चरे लग्ने बुधे धर्मसुताष्टमे । व्यवहारं विना द्रव्यप्रयोगो मुनिभिः स्मृतः । भरण्यां संग्रह कुर्यात्पंचके ज्ञे त्रिपुष्करे । ऋणकर्म चरैः क्षिप्रैर्ऋणच्छेदः कुजे हितः । पंचके पंचगु- णितं त्रिगुणं च त्रिपुष्करे । यमले द्विगुणं प्रोक्तं हानिवृद्ध्यादिकं बुधैः । ऋणं भौमे न कुर्वीत न देयं बुधवासरे । ऋणच्छेदं कुजे कुर्यात्संचयं सोमनंदने । हस्तार्कवारे सं- क्रांतौ यदृणं स्यात्कुलेषु तत् । वृद्धियोगे तथा ज्ञेयमृणच्छेदं तु कारयेदिति ॥१४॥ अथ तीक्ष्णादिषु नष्टादिद्रव्यस्य प्राप्तिं तथा द्रव्यनिक्षेपं वृत्ताधंनाह- तीक्ष्णोग्रध्रुवमिश्रवायुषु धनं नष्टादिकं नैतिका- द्रेऽध्याप्ते त्रिखशेषयोर्नगतमेत्यंत्यांबुशुद्धौ क्षिपेत् । विद्यां प्रोक्तवदिष्टदेवतिथिभेऽथ द्वीशमूलध्रुवै- X Hदृश्वीज्यकरांबुपैः सुजलखाब्जांगे तरून् रोपयेत् ॥१५॥ तीक्ष्णेति ॥ तीक्ष्णोगध्रुवमिश्राणि पूर्वोक्तानि वायुः खाती एषु नष्टादिकं धनं नष्ट- प्रयुक्तविनिक्षिप्तादिकं सुवर्णादिकं द्रव्यं नैति । तथा कात् रोहिणीनक्षत्रात् भे इष्टनक्षत्रे अब्ध्याप्त चतुर्भक्ते सति त्रिखशेषयोः गतं न एति । अथ द्रव्यनिक्षेपमाह। अंत्यांबुशुद्धौ क्षिपेत् । धनमित्यनुषंगः । अंत्यं द्वादशं अंबु चतुर्थ अनयोः शुद्धिः पापराहिल्यं तस्यां सत्यां क्षिपेत् । निक्षिपेदित्यर्थः । तथाचोक्तम् । साधारणोग्रतीक्ष्णेषु खात्यां द्रव्यं न लभ्यते । दत्तं प्रयुक्तं. निक्षिप्तं नष्टमित्याह नारदः । अथ नृसिंहादिमंत्रविद्यासाधन- मुहूर्त तथा वृक्षारोपणमुहूर्त उत्तरार्धे नाह-विद्यामिति । विद्यां मंत्रविद्यां प्रोक्तवत् वेद- विद्योक्तभादौ । विद्यां मौंज्युक्तभादौ इत्यायुक्तेः। तथा स्वदेवतिथिभे खेष्टदेवतिथि- नक्षत्रे साधयेत् । गुरुमुखाद्गृह्णीयादित्यर्थः । तत्र आगमोक्तमंत्रग्रहणे अनध्यायदोषो नास्ति । तत्तु स्वदेवतिथिभे इत्यनेनैव पदेन परिहृतम् । तथाचोक्तं । मृदुध्रुवचरक्षि- राकौं धर्मसत्क्रिया। कार्या विद्योक्तभैीक्षाखदेवतिथिभेषु चेति । अथ वृक्षारोप- णमाह । द्वीशं विशाखा मूलं प्र. ध्रुवमृदूनि पूर्वोक्तानि अश्विनी प्र० इज्यः पुष्यः करो हस्तः अंबुपः शततारका एभिर्नक्षत्रैः तरून् पादपान् रोपयेत् । कस्मिन् । सुज- लखाब्जांगे अंगेऽब्जः अब्जांगं अंगं लग्नं तस्मिन्नब्ज: जलचरराशिः चंद्रो वा तद- ब्जांगमुच्यते । जलं च खं च जलखे शोभने जलखे यस्य तत् सुजलखं तच्च तद- ब्जांगं च सुजलखाब्जांगं तस्मिन् शोभने पापग्रहरहिते जलखे चतुर्थदशमे यस्या- ब्जांगस्य तस्मिन्नित्यर्थः । शेषं पूर्ववत् ॥ १५ ॥ अर्थ कापीकूपादीन्वृत्ताधुनाह- उद्वाहक्षहरित्रयादितिहयेज्यास्तंडागांदयो ज्ञेज्या स्तनुगैः सिते दशमगे सिध्यति सद्वासरे।

. मिश्रप्र०] मार्तडवल्लभाख्यव्याख्यासहितः। ९९ राजेक्षा श्रवणत्रयध्रुवमृदुक्षिप्रैः स्वकेंद्रायगैः सौम्यैः शांतिकपौष्टिके सचरभैरेतैः सुधर्मोदये ॥ १६॥४२॥ उद्वाहेति ॥ उद्वाहाण्येकादशसंख्याकानि पूर्वोक्तानि। हरित्रयं श्रवणत्रयं । अदितिः पुनर्वसुः हयः अश्विनी इज्यः पुष्यः एभिस्तडागादयो जलाशयाः सिद्ध्यंति ।कैः शेज्या- जैस्तनुगैः ज्ञो बुधः इज्यो गुरुः अब्जश्चंद्रः जलचरराशिश्च एतैस्तनुगैर्लग्नगतैः। कस्मिन् सति। सिते दशमगे सति शुक्रे दशमगे सति।व। सदासरे सद्रहवासरे इत्यर्थः । तथाचो- कं। चित्रास्वातिपुनर्वसूमृगशिरोमूलाश्विनीरोहिणीहस्ताः पुष्यधनिष्टकं शतभिषमित्रोत्तरे रेवती । एतेषु श्रवणान्वितेषु मकरे लग्ने च कुंभे झषे वापीकूपजलाशयादिखननं शस्तं प्रशस्ते दिने । अन्यच्चोक्तं । सर्वतोयाशयारंभः कर्तव्यो विबलैः खगैः । लग्नस्थे शेऽथवा जीवे लग्नभेऽब्जे स्थिते खगे इति । अथोत्तरार्धन राजदर्शनं शांतिकपौष्टिके चाह- राजेक्षेति । श्रवणत्रयध्रुवमृदुक्षिप्रैर्नक्षत्रैः राजेक्षा राजदर्शनं कार्य सुगमं । पुनः कैः । सौम्यग्रहैः खकेंद्रायगैः लग्नात् व २ केंद्रा १।४।७।१० य ११ गैः शुभग्रहैरित्यर्थः । शेष प्रा० । शांतिकपौष्टिके आह-शांतिकपौष्टिके । एतैरेव नक्षत्रैः श्रवणत्रयादिभि- विधेये। कथंभूतैरेभिः । सचरभैः चरनक्षत्रसहितैः। कस्मिन्सति । सुधर्मोदये शोभन: पापरहितः धर्मो नवमं यस्य स सुधर्मः स चासावुदयश्च स तथा । उदयो लग्नं त- स्मिन्नित्यर्थः । शेषं पूर्ववत् ॥ १६ ॥ अथ वृत्तार्धेन दिव्यमाह दिव्यं नैव मलिम्लुचे विधुसितेज्यास्ते रवावष्टमे मंदाराह्नि खलोदये स्थिरतनौ कुर्यात्कृतेऽदोऽन्यथा । श्रीशैलग्रहणायनेषु विषुवे संकीर्णजातावुपा- कृत्युत्सर्गवधूप्रवेशनगयागोदासु नित्याब्दिके ॥ १७ ॥१४ दिव्यमिति ॥ मलिम्लुचे मासे विधुसितेज्यास्ते विधुश्चंद्रः सितः शुक्रः इज्यो गुरु- स्तेषामस्ते विधोरस्तः कृष्णपक्षे भवति । रवावष्टमे गोचरेण सूर्येऽष्टमे मंदाराह्नि शनि- भौमदिने खलोदये पापराश्युदये। यद्वा उदये खलः खलोदयस्तस्मिन् । स्थिरतना स्थिरलग्ने दिव्यं नैव कुर्यात् । अत्रं दिव्ये कृते सति अदो दिव्यमन्यथा विप- रीतं स्यात् । असत्यवादिनो जयकारिभवतीत्यर्थः । अर्थादन्यत्र कर्तव्यमिति सिद्धं । लग्नवलं प्रा० । अथ गुरुशुक्रयोः मौढ्यदोषः कुत्रकुत्र नास्तीति वृत्ताधंनाह-श्रीशैलेति। श्रीशैल: प्रसिद्धः यत्र मल्लिकार्जुनाभिधानं लिंगमस्ति । ग्रहणं सूर्यचंद्रयोः । अयने दक्षि- णोत्तरे । विषुवं मेषतुलासंक्रमः संकीर्णजातिहीनजातिः उपाकृतिरुपाकर्म उत्सर्गश्छंद- सामुत्सर्गः । वधूप्रवेशनं प्र० गया प्रसिद्धा गोदा गोदावरी नित्याब्दिकं प्रतिवर्षे, य: कियते तथा नवरात्रं ॥ १५ ॥ ईशानाहिबलौ हरेः आमनपर्यावर्तने नैत्यके याने जीर्णगृहेऽवरोहदमनारोपे पवित्रापणे 1AN. SA - । Shanti । । १०० मुहूर्तमार्तडः। [मिश्रप्र० चातुर्मास्यविधौ न जीवसितयोर्मूढत्वदोषोष्टका- मूत्साहांबरधारणेषु गदितो गर्भादिसप्तस्वपि ॥ १८॥ ईशानेति ॥ ईशानाहिबलि: ईशानबलिः प्र० अहिबलिः सर्पबलि: हरेः शयनपर्या- वर्तने विष्णोः शयनमाषाढशुक्लद्वादश्यां भवति । पर्यावर्तनं भाद्रपदशुक्लद्वादश्यां भवति। नैत्यकं यानं नित्यगमनं जीर्णगृहं प्र० अवरोह: देवानां दोलारोहः पूजाविशेषः दमना- रोपश्चैत्र्यां पवित्रार्पणं श्रावण्यां चातुर्मास्यविधौ चातुर्मास्यव्रते अष्टकाः पवर्गीयाक्षर- नाम्नां मासानां कृष्णाष्टम्योष्टकाः । मार्गपौषमाधफाल्गुनानां कृष्णाष्टम्य इत्यर्थः । उ. त्साहाः पुत्रोत्पत्त्यादयः अंबरधारणं वस्त्रधारणं एषु जीवसितयोर्गुरुशुक्रयोर्मूढत्वदोषो नास्तीत्यर्थः । न केवलमेषु गर्भादिसप्तखपि गर्भाधानाद्यनप्राशनांतेषु सप्तसु संस्कारेषु मूढलदोषो न गदितः। गर्भाद्यनाशनांतेष्वित्यत्र श्लोके यद्यपि प्रागुक्तं तथाप्यत्र प्रसं- गादुक्तं । तथाच गर्गः । नित्ययाने गृहे जीर्णे प्राशने परिधानके । वधूप्रवेशमांगल्ये न मौढ्यं गुरुशुक्रयोः । भृगुः । उपाकर्मोत्सर्जनं च पवित्रदमनापणं । अवरोहः सहेमंतः सर्पाणां बलिरष्टकाः । ईशानस्य बलिर्विष्णोः शयनं परिवर्तनं । कुर्याच्छुक्रस्य च गुरो- मौढ्येपीति विनिश्चयात् । धर्मप्रदीपे । गोदावों गयायां च श्रीशैले ग्रहणद्वये । अयने विषुवे चैव चातुर्मास्यव्रतेषु च । उत्सवेषु च सर्वेषु सीमंतऋतुकर्मणि । सुरासुरेज्य- योश्चैव मौढ्यदोषो न विद्यते । कालनिर्णये । नष्टे शुक्रे तथा जीवे सिंहस्थे च बृहस्प- तौ । कार्या चैव खदेव्यर्चा प्रत्यब्दं कुलधर्मतः । मत्स्यपुराणे। मौढ्येऽपि च प्रकर्त- व्या मिश्रजातिक्रियाः शुभाः । सुरेज्यशुक्रयोवर्णिक्रियाश्चीलादिका न चेति ॥ १८ ॥ अथ तीर्थयात्रानिषेधं प्रेतकर्मनिषेधं च सापवादं वृत्तेनैकेनाह- शुक्रेज्यास्तमयेऽधिकक्षयजनुर्मासेषु जन्मक्षके नापूर्वामरतीर्थदर्शनमियाद्गोदागयाभ्यामृते । एष्वाषाढसहस्यविष्णुशयनेष्वप्यंत्यकर्म त्यजे- द्यद्वर्षाधिकलंबितं भवति तद्गोदागयातोऽन्यतः॥१९॥ ॥ इति मिश्रप्रकरणं समाप्तम् ॥ शुक्रेति ॥ शुक्रेज्ययोः अस्तमये अधिकः अधिकमासः क्षयः क्षयमासः जनुर्मासो जन्ममासः तेषु जन्मक्षके जन्मनक्षत्रे अपूर्व प्रथमं तीर्थामरदर्शनं तन्निमित्तं न इयात् न गच्छेत् । काभ्यामृते । गोदागयाभ्यामृते । गोदागययोर्दर्शनं सदैव कुर्यादित्यर्थः । प्रेतकर्मनिषेधमाह-एष्विति । एषु गुरुशुक्रास्तादिषु आषाढः प्रसिद्धः सहस्यः पौषः वि- ष्णुशयनं तेष्वपि । यद्वर्षाधिकलंबितं प्रेतकर्म भवति तत्त्यजेत् । गोदागयातोन्यतः गोदागययोः सदैव कार्य । आषाढशुक्लद्वादश्यादिकार्तिकशुक्लद्वादशीपर्यंतं विष्णुशयन प्रथमवर्षे निषिद्धकालेऽपि कर्तव्यमित्यर्थसिद्धं । अतिक्रांतवर्ष प्रेतकर्म गयागोदयोर्निषि- द्वेपि शुक्रेज्यास्तादिके काले विदधीतेत्यर्थः । तथाचोक्तं । बाले वा यदि वा वृद्धे शुक्रे चास्तमुपागते। मलमास इवैतानि वर्जयेद्देवदर्शनं । व्यासः । अधिमासे च जन्मः नष्टयोर्गुरुशुक्रयोः । तीर्थयात्रा न कर्तव्या गयां गोदावरी विना । भृगुः । मलमासे- अनध्या०] मार्तंडवल्लभाख्यव्याख्यासहितः । प्यनावृत्तं तीर्थस्नानं विवर्जयेत् । अनादिदेवतां द्रष्टुं शुचिः स्यानष्टभार्गवे । तीर्थखंडे । गुरुशुक्रास्तादिदोषः प्रोक्तो यस्तीर्थयात्रिणां । अपूर्वयायिनामेव नवसौ पूर्वगामिनाम् । पितृखंडे । शुक्रस्यास्तमने चैव देवेज्यस्य तथैव च । प्रेतकार्य प्रदुष्येत प्रथमं वत्सरं विना। मांडव्यः । मलिने जन्ममासे वा मौढ्ये वा गुरुशुक्रयोः । तीर्थयात्रा न कर्तव्या गयां गोदावरी विना । गरुडपुराणे । न कुर्याद्गुरुशुक्रास्ते पुष्ये स्वापे मलिम्लुचे । विलं- बितं प्रेतकार्य गयां गोदावरी विना । मेधातिथिः । अस्तं गते गुरौ शुक्रे पुष्याषाढा- धिमासके । प्रेतकार्य न कुर्वीत गयां गोदावरी विना । प्रेतमंजाँ। प्रेतकार्याणि सर्वाणि व्रतस्नानजपादिकं । वयं शुक्रेज्ययोरस्ते गयां गोदावरी विनेति ॥ १९ ॥ इति स्वकृतमुहूर्तमार्तडटीकायां मार्तडवल्लभायां मिश्रप्रकरणं समाम् । ॥ अथानध्यायप्रकरणम् ॥ छिद्राण्येतानि विप्राणां येऽनध्यायाः प्रकीर्तिताः । छिद्रेभ्यः स्त्रवति ब्रह्म ब्राह्मणेन यदर्जितं । तत्काले तस्य रक्षांसि श्रियं ब्रह्म यशो बलं । सर्वमादाय गच्छंति वर्जयं- तीप्सितं फलमित्यनध्याये पठनादौ प्रसंगात् मौंज्यादिनिषेधाच्च वृत्तद्वयेनानध्यायानाह- पर्वाग्रादियुगाष्टमीतितिथयो मध्वादिपक्षद्वये ऽनध्यायाश्चरसंक्रमा अथ मधौ वह्निश्च शुक्रे यमः । राधेऽग्निस्त्वसितो यमः शुचिगाशास्त्रियोदश्यथो मार्गे कृष्णनगग्रहा विषगंकाशाग्नयः कीर्तिताः॥१॥ पर्वति ॥ पर्व अमा पूर्णिमा। किंलक्षणं पर्व । अग्रादियुक् अग्रं प्रतिपत् आदिश्च- तुर्दशी ताभ्यां युक् युक्तं अष्टमी प्र० इति तिथयश्चतस्रस्तिथयःमध्वादिपक्षद्वये मधुश्चै- त्रः तदादिषु मासेषु पक्षद्वयं शुक्लकृष्णाख्यं तस्मिन् अनध्यायाः स्युः कीर्तिताः कथिताः। बुधैरित्यध्याहारः। अथान्यानाह । चरसंक्रमाः चरसंक्रांतयः । मेषकर्कतुलामकरसंक्रांतय इत्यर्थ । मधुश्चैत्रस्तस्मिन् । वहिः वह्निसंख्याकस्तिथिस्तृतीयेत्यर्थः। शुक्रे ज्येष्ठे मासे यमः द्वितीया । यत्र प्रकरणे शुक्लकृष्णपक्षनिर्देशो न दृश्यते तत्र शुक्लपक्षजस्तिथिईयः । राधे वैशाखेऽग्निस्तृतीया शुक्ले । तु पुनः असितः कृष्णो यमः द्वितीया शुचिगाशार्काः शु- चिराषाढः तस्य दृक् द्वितीया आशा दशमी अर्को द्वादशी त्रयोदश्यपि । आषाढशुक्ल- द्वितीयादशमीद्वादशीत्रयोदशीत्यर्थः । अथ मार्गे मार्गशीर्षे कृष्णनगग्रही कृष्णसप्तमी- नवम्यौ इषदृगकाशाग्नयः इषः आश्विनः तस्य दृक् द्वितीया अंको नवमी आशा दशमी अग्निस्तृतीया आश्विनशुक्लद्वितीयानवमीदशमीतृतीयेत्यर्थः ॥ १॥ पौषेशस्त्वसिता दृगंकमुनयोंऽत्ये कृष्णखेटाद्रिदृङ् माघेर्काब्धिगद्रयस्त्वसितजा बाईकपृथ्वीधराः । ऊर्जे द्वयंकरवीश्वरास्त्वसितजा दृग्विश्वसूर्या नभ- स्येऽग्निः कृष्णगद्रिविश्वनवमी पैव्यं यमोऽन्यः श्रवाः॥२॥ ..

0 - मुहूर्तमार्तडः। [अनध्या पौषेति ॥ पौषेशः पौषस्य ईशः एकादशी शुक्ला तु पुनः असिता कृष्णा दृगंकमुनयः द्वितीयानवमीसप्तम्यः अंत्ये फाल्गुने कृष्णखेटाद्रिदृक् खेटो नवमी अद्रिः सप्तमी दृक् द्वितीया एषां समाहारः खेटाद्रिदृक् । कृष्णं च तत् खेटाद्रिदृक् च तथा कृष्णनवमी- सप्तमीद्वितीया इत्यर्थः । माघेकर्काब्धिगद्रयः अर्को द्वादशी अब्धिश्चतुर्थी दृक् द्वितीया अद्रिः सप्तमी एते शुक्लाः तु पुनः असितजा बाह्वकपृथ्वीधराः असितजाः कृष्णपक्षजाः बाईकपृथ्वीधराः बाहुर्द्वितीयां अंको नवमी पृथ्वीधरः सप्तमी ऊर्जे कार्तिके व्यंकरवी- श्वराः द्विर्द्वितीया अंको नवमी रविादशी ईश्वर एकादशी एते शुक्लाः तु पुनः असि- तजाः कृष्णपक्षजाः दृग्विश्वसूर्याः दृक् द्वितीया विश्वे त्रयोदशी सूर्यो द्वादशी नभस्ये भाद्रपदे अग्निस्तृतीया शुक्ला कृष्णगद्रिविश्वनवमीपत्र्यं । दृक् द्वितीया अद्रिः सप्तमी विश्वे त्रयोदशी नवमी प्र० पैञ्यं मघा यमो भरणी अन्यः शुक्लः श्रवाः श्रवणः भाद्र- पदशुक्लश्रवण इत्यर्थः ॥ २ ॥ अथैषां निर्णयं वृत्तेनैकेनाह- योऽनध्यायतिथिः स पूर्वदिवसोऽस्तात्माङ्मुहूर्तोन्मितो ऽन्यस्मिन्वोदयतः क्षणत्रयगतो ब्रह्मेह नैवाभ्यसेत् । पर्वाग्रादियुगष्टमीति च तिथींस्त्यक्त्वैषु शास्त्रस्मृती वेदांगानि समभ्यसेच्च निखिलेषूक्तं पठेन्नैत्यकम् ॥ ३॥ य इति ॥ यः कश्चिदनध्यायतिथिः स पूर्वदिवसोऽस्तात्सूर्यास्ताप्राक् मुहूर्तोन्मितः स्यात् । अत्र पूर्वदिवसे ब्रह्म वेदं नो पठेत् वा इत्यथवा अन्यस्मिन्दिवसे परदिवसे क्ष- णत्रयगतो भवति अत्रास्मिन्दिवसे ब्रह्म नो संपठेत् । पर्वाग्रादियुगष्टमी पूर्ववत्पदवि- भागः । इति चतुरस्तिथींस्त्यक्त्वा एषु अनंतरोक्तेषु अनध्यायेषु शास्त्रस्मृती वेदांगानि समभ्यसेत् । सुगमं । निखिलेषु सर्वेष्वनध्यायेषु उक्तं पठेत् नैत्यकं च पठेत् । उक्त- मिति यथा । अमावास्यायामश्नंस्तु जपेद्वयाहृतिपूर्वकां गायत्रीं स प्रणवां सकृत्रिर्वा राक्षोनीः पित्र्यमंत्रान् पुरुषसूक्तमप्रतिरथमन्यानि च पवित्राणीति । नैत्यकं संध्याहो- मब्रह्मयज्ञादि । तथाच मनुः । वेदोपाकरणे चैव स्वाध्याये चैव नैत्यके । न निरोधोs- स्त्यनध्याये होममंत्रजपेषु चेति । वेदोपाकरणानि । अंगानि स्मृतिरत्नावल्याम् । नित्य जपे च नांगे च कतौ पारायणेपि च । नानध्यायोऽस्ति वेदानां ग्रहणे ग्राहणे स्मृतः । देवतार्चनमंत्राणां नानाध्यायः स्मृतः सदा । नानध्याये जपेद्वेदात्रुद्रांश्चैव विशेषतः । पौरुषं पावमानं च गृहीतनियमादृते इति । स्मृत्यर्थसारे। चतुर्दश्यष्टमी पर्व प्रतिप- द्वर्जितेषु च । वेदांगन्यायमीमांसाधर्मशास्त्राणि चाभ्यसेंदिति । कूर्मपुराणे। इंदौ वृद्धिं क्षयं प्राप्त ब्रह्मयज्ञं न कारयेत् । न जपेद्वैदिक मंत्रं गायत्र्यष्टोत्तरं शतमिति । स्मृति- रत्नावल्यां । अल्पं जपेदनध्याये पर्वण्यल्पतरं जपेदिति ॥ ३ ॥ अथ नैमित्तिकाननध्यायान्वृत्तद्वयेनाह- वभ्वोत्वेणखराम्न्यजांब्वहिगजाश्वोष्टांत्यमूकोन्नता नो यानांतरिते व्यहं प्लवखगाद्यैा च सज्योतिषम् ।

अनध्या.
मार्तडवल्लभाख्यव्याख्यासहितः ।
१०३.
--
स्त्रीगोस्थ्यंतरितेहरुत्सवनिशीथाशौचमार्गेषु च
च्छायायां न कपित्थशाल्मलिमधुश्लेष्मातकादेः पठेत्॥४॥
बभिवति ॥ बभ्रुनकुलः ओतुर्मार्जारः एणो हरिणः खरः प्र० अग्निः प्र. अजो मेषः
अंबु उदकं अहिः सर्पः गजः प्र० अश्वः प्र० उष्ट्र: प्र० अंत्योऽत्यजजातिः रजकच-
मकारादयः मूकः प्र० उन्नतो मत्तः अनः शकटः यानं शिबिकादि एभिरंतरिते गुरौ
सति त्र्यहं त्रिरात्रमनध्यायः । प्लवो मंडूकः खगः पक्षी आदिशब्दाद्गोधादि एभिरंतरिते
सज्योतिषं अनध्यायः । अयमर्थः । दिवा अंतरिते सति सूर्यास्तमानपर्यंतमनध्यायः
रात्रावंतरिते रात्रिशेषपर्यंतमनध्याय इत्यर्थः । स्त्रीगोस्थ्यंतरितेऽहः स्त्री प्र० गौः प्र०
अस्थि प्राण्यंगं एभिरंतरिते अहर्दिनं अहोरात्रमनध्यायः उत्सवो महोत्सवो विवाहा-
दिकः निशीथं मध्यरात्रं आशौचं सूतकं मार्गोऽध्वा एषु न पठेत् । च परं
कपित्थशाल्मलिमधुश्लेष्मातकादेश्छायायां न पठेत् सुगमं । आदिशब्दात्कोविदारबिभी-
तकैरंडादीनां ग्रहणं ॥ ४ ॥
ग्रामांतः कुणपे श्वशूद्रनिकटे श्राद्धाशने वक्रगे
तांबूले ग्रहणाद्गुरुक्षितिपतिप्रांतादुपोत्सर्गतः।
भूकंपाशनिपाततः पुरदहे रिष्टावलोकायह
गर्जेऽनार्तवके व्यहं समयजे सज्योतिरंते सतः॥ ५॥
ग्रामांतरिति । ग्रामांतः कुणपे ग्राममध्ये कुणपे प्रेते सति न पठेत् । श्वशूद्रनिकटे
इवानशूद्रसन्निधौ न पठेत् । श्राद्धाशने श्राद्धभोजने कृते सति जीर्णावधि न पठेत् ।
वक्रगे मुखगते तांबूले सति न पठेत् । ग्रहणात्सकाशात्र्यहं न पठेत् । तथा । गुरुक्षि-
तिपतिप्रांतान्मरणात् त्र्यहं उपोत्सर्गतस्त्रयहं उप उपाकर्म उत्सर्गश्छंदसामुत्सर्गः तथा
उपोत्सर्गतः सकाशात्र्यहं भूकंपाशनिपाततत्यहं भूकंपः प्र० अशनिपातो विद्युत्पातः
ताभ्यां त्र्यहं पुरदहेः पुरदाहात् ववसतिग्रामदाहादित्यर्थः । ज्यहं रिष्टावलोकात् गंध.
वनगरभूतादिदर्शनात् त्र्यहं न पठेत् । गर्जेऽनार्तवके त्र्यहं ऋतौ भवः आर्तवः न
आर्तवः अनार्तवः अनार्तव एव अनार्तवकस्तस्मिन् अकालगर्जने जाते सति त्र्यहं न
पठेत् । समयजे ऋतुजे गर्जे सति सज्योतियथास्यात्तथा न पठेत् । दिवा गर्ने सति
सूर्यास्तपयंतं रात्रौ गर्जे सति सूर्योदयपर्यंतं न पठेदित्यर्थः। सतः अंते खशाखिस-
त्पुरुषस्य मृतौ जाते सति सज्योतिर्न पठेत् ॥ ५॥
अनध्यायांतरमाह-
वाघोलूकखराजिंबुकरवे साम्नां च वाते जले
नीहारे पतिताभिशस्तनिकटे धावज्जनालोकने ।
ग्रामांते पितृकाननेप्यथ सतानूनप्त्रिणीते दिवं
तद्वत्सद्रतिनि व्यहं च न पठेद्भुक्त्वार्द्रपाणिनं च ॥ ६॥

१०४ मुहूर्तमार्तडः। [अनध्या० वाद्येति ॥ वाद्यादीनां रवे शब्दे श्रूयमाणे सान्नां च रवे धूयमाणे वाते वातस्य सर्वदा विद्यमानत्वादतिवाते जले जलमध्ये नीहारे धूमरूपोत्पाते पतितो जातिभ्रष्टः अभिशस्त मिथ्याभिशापी तत्समीपे धावज्जनालोकने धावन्मनुष्यालोंकने ग्रामांते ग्रामसीमासमीपे पितृकानने श्मशाने न पठेत् । सतानूनप्त्रिणीते दिवं स्वर्ग प्रति इते गते मृते सति त्र्यहं न पठेत् । तानूनप्त्रं नाम घृतं यागे येन येन ऋविजा सह स्पृष्टं स सतानूनप्त्री तस्मिन् मृते सति व्यहं न पठेत् । तद्वत्सद्रतिनि मृते सद्रतं वेदव्रतं चरितं येन स सद्रती तस्मिन् मृते व्यहं न पठेत् । भुक्त्वा यावदाईपाणिस्ताक्न पठेत् । अन्येऽनध्याया मूलग्रंथ- तोऽवगंतव्याः ॥ ६॥ अथ प्रदोषानध्यायानाह- राव्यर्धे मदनो मुनिर्दलयुते यामे चतुर्थ्याद्यके प्राग्रात्रौ पठनं छुपाकरणतो मासं निशः प्राग्दले । श्वोऽनध्याय इतीह रात्रिपठनं वयं सदा संध्ययो- शोरोपद्रवयामके त्रिदिवसं दुर्भुप्रतिग्राहयोः ॥ ७ ॥ इत्यनध्यायाः॥ राज्यर्धे इति ॥ रात्र्यधै मदनस्त्रयोदशी यस्मिन् दिने स्यात् । मुनिः सप्तमी रात्रे- दलयुते यामे सार्धप्रहरे यद्दिने स्यात् । चतुर्थी आद्यके प्रथमे प्रहरे यद्दिने स्यात् । अत्र दिने प्राग्रात्रौ पूर्वरात्रौ पठनं वज्यै । तु पुनः उपाकर्मतः सकाशात् मासमात्रं रात्रेः प्राग्दले पठनं वयं । श्वोऽनध्याय इतीह इत्यत्र रात्रिपठनं समस्तरात्रौ पठनं वये । सदा संध्ययोरुभयोः पठनं वय॑म् । चोरोपद्रवेण उपलक्षितो यामः प्रहर- स्तस्मिन्पठनं वयं । त्रिदिवसं दुर्भुप्रतिग्राहयोः दुष्टौ भुक्प्रतिग्रही दुर्भुप्रतिग्रही तयोः दुष्टभोजनदुष्टप्रतिग्रहयोः त्रिदिवसं पठनं वय॑म् । तथाच श्रीधर्या स्मृति- वचनानि । अष्टम्योश्च चतुर्दश्योः पंचदश्योश्च सूतके । शावे प्रतिपदोर्यत्र भये चैव महोत्सवे । रोगे युद्धे विवादे च द्यूते पथि निशीथके । नाधीयीताशुचिश्वापि नास्ना- तश्च न तंद्रितः । उपाकर्मणि चोत्सर्गे ग्रहणे चंद्रसूर्ययोः । त्रिरात्रं स्यादनध्यायो मृते भूपे गुरावपि । फाल्गुन्यां पौर्णमास्यां तु चैत्र्यां तु त्यहमिष्यते । अनध्यायस्तथाषा- व्यां श्रावण्यां कार्तिके तथा । तथैव मार्गशीर्षस्य पूर्णमास्यां न संचरेत् । अशन्याः पतने कंपे भूमेर्दाहे पुरस्य च । मृगस्य सर्पमार्जारनकुलाद्यश्वदंतिनाम् । अंतरागमनेऽ. जोखराणां च व्यहं स्मृतम् । पताकातोरणादर्शरथयानजलाग्निनाम् । मूकोन्मत्तादिश- द्राणामंतरागमने व्यहं । नारीणामपि सर्वासां गवां चैवांतरागमे । अहोरात्रमनध्या- यो गर्जने रात्रिसंभवे । युगर्जने च रात्रौ चापरराने दिनं स्मृतम् । दिनं तूभयसंध्या- यामथास्यां चांतरागमे । पक्षिमंडूकगोधासु नराणां चांतरागमे । दिने दिवसशेषः स्याद्रात्र्यां रात्र्याश्च तद्भवेत् । श्वसृगालरवे नृणां श्रोत्रियागमनेऽध्वनि । तात्कालि- कोऽप्यनध्यायस्तांबूलस्य च भक्षणे । श्राद्धे निमंत्रितो यस्तु भुक्त्वा नाध्यनं चरेत् । करिष्यंश्च तथा विप्रः प्राग्विप्राणां विसर्जनात् । एते प्रोक्ता ह्यनध्याया वैदिकास्तां: ।

अनध्या०] मार्तडवल्लभाख्यव्याख्यासहितः। १०५ । त्रिकास्ततः । प्रवक्ष्यतेऽष्टमीद्वंद्वे चतुर्दश्यां च केवलम् । विषुवद्धितये चैवमयनद्वितये तथा। न पठेत्पाठयेद्धीमान् पुराणमपि सत्तमः । अष्टम्यां च चतुर्दश्यां यावद- दस्तमिते रवौ । दिनशेषमनध्यायं वैदिकं परिकीर्तितम् । तथोदिते दिवारानं तत्काल- मुदिते तयोः । प्रतिपद्यां च संक्रांतो तत्कालमखिलासु च । नभोनभस्ययोः कृष्णे मा- सयोस्त्रिदिनं द्विजः । न सप्तम्यामधीयीत त्रयोदश्यां च पैत्र्ययोः । सदा त्रयोदशी यावत्प्राङिशीथात्तिथिर्भवेत् । प्राक्तदह्रोपराह्नांतादधीयीत न च द्विजः। अष्टम्यां च चतुर्दश्यां प्रतिपद्यां च वर्जयेत् । धर्मशास्त्रपुराणानि शास्त्रं तात्कालिकं बुधः । विमि- श्रितासु कर्तव्यं सप्तम्यादिषु यत्नतः । पुराणाभ्यसनादीनि पंचदश्योश्च वा नवा । नांतरागमने दोषः पुराणादिषु विद्यते । न शस्यते च तत्काले घृतं संप्राश्य वा बुधः । नीयमानं शवं दृष्ट्वा महीस्थं वा द्विजोत्तमः । अकालगर्जितादौ च पर्वखाशौचकादिषु । अनध्याया बुधैः कार्या उपरागादिकेषु च। श्वोऽनध्याये च शर्वयों नाधीयीत कदा- चन । स्मृत्यंतरे। प्रदोषे च त्रयोदश्यां नाध्येयं प्रतिपत्खपि । प्रदोषलक्षणं । षष्ठी च द्वादशी चैव अर्धरात्रोननाडिका । प्रदोषे न वधीयीत तृतीयानवनाडिकाः । अर्ध. रात्रोननाडिका अर्धरात्राद्धटिकया एकयोनेत्यर्थः । अत्र नैमित्तिकप्रदोषमाह आप. स्तबः । श्रावण्यां पौर्णमास्यामध्ययनमुपाकृत्य मासं प्रदोषे नाधीयीतेति । प्रदोषः पूर्व- रात्रः । तथाच गर्गः । अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा । यावन्मासं पूर्वरात्रे नाधीयीत कदाचनेति । नारदः । अयने विषुवे चैव शयने बोधने हरेः । अनध्याय- प्रकुर्वीत मन्वादिषु युगादिषु । मन्वादयो मत्स्यपुराणेऽभिहिताः। आश्वयुक् शुक्लनव- मी कार्तिकी द्वादशी सिता । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च । फाल्गुनस्य खमावास्या पौषस्यैकादशी सिता । आषाढस्यापि दशमी माघमासस्य सप्तमी। श्रावण स्याष्टमी कृष्णा आषाढस्यापि पूर्णिमा । कार्तिकी फाल्गुनी चैत्री ज्येष्ठी पंचदशी सिता। मन्वंतरादयश्चैते दत्तस्याक्षयकारकाः । युगादयो विष्णुपुराणे दर्शिताः । वैशाखमासस्य तु या तृतीया नवम्यसौ कार्तिकशुक्लपक्षे । नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पंच- दशी च माघे। उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् । अष्टकासु बहोरात्रं मृतं तासु च रात्रिषु । मार्गशीर्षे तथा पौषे माधे मासे तथैवच । तिस्रोष्टकाः समाख्याताः कृष्णपक्षे तु सूरिभिः । स्मृतिरत्नावल्यां । चतुर्दश्या यदा पर्व प्रागस्तादृश्यते रवः । अनध्यायं प्रकुर्वीत त्रयोदश्यां तु धर्मवित् । विद्युत्स्तनितवर्षे तु महोल्कानां तु संभवे । अकालिकमनध्यायमेतेषु मनुरब्रवीत् । स्तनितं मेघगर्जितं । अनुराधक्षमारभ्य षोड- शः तु भास्करः । यावच्चरति वै तावदकालं मुनयो विदुः । काले वृष्टौ च तत्कालम- काले च त्रिरात्रकं । अतिमात्राथ वा वृष्टि धीयीत दिनत्रयं । अकालवर्षणे जाते जलौकाश्च प्रवर्तते । एकरात्रमनध्यायमिति कात्यायनोऽब्रवीत् । मेषे च वृषभे चैव तृणाग्रात्स्रवते जलं । भूमिद्रावमनध्यायं कुर्वति वृषकुंभयोः । अत ऊर्ध्व द्विपादेषु तृणप्र- च्यवनं जलं । तृणप्रच्यवनं तृणप्रवाहः । चौरैरुपद्रुते ग्रामे संग्रामे चाग्निकारिते।अकालि- कमनध्यायं विद्यात्सर्वाद्भुतेषु च । प्रादुष्कृतेष्वनग्नीषु विद्युत्स्तनितनिःखने । सज्योतिः स्यादनध्यायः शेषरात्रौ तथा दिवा । मनुः । निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । एतानकालिकान्विद्यादनध्यायानृतावपि । निर्घात आंतरालिको ध्वनिविशेषः । ज्योति- ।

१०६ मुहूर्तमार्तडः। [पल्लीसरठ- - षां चोपसर्जनं चंद्रसूर्ययोः परिवेषः । आपस्तंबः । प्रतिगृह्य द्विजो वेदानेकोद्दिष्टस्य केतनं । त्र्यहांते कीर्तयेद्ब्रह्म राहोरन्यत्र सूतके । केतनं निमंत्रणम् । कूर्मपुराणे । समा. नविद्ये तु मृते तथा सब्रह्मचारिणि । आचार्य संस्थिते चापि त्रिरात्रं क्षपणं स्मृतम् । याज्ञवल्क्यः । त्यहं प्रेतेष्वनध्यायः शिष्यर्खिग्गुरुबंधुषु । उपाकर्मणि चोत्सर्गे खशा- खाश्रोत्रिये मृते । संध्यागर्जितनिर्घातभूकंपोल्कानिपातने । समान्य वेदं द्युनिशमार- ण्बकमधीत्य च । पशुमंडूकनकुलश्वाहिमार्जारमूषकैः । कृतेऽतरे वहोरात्रं शुक्रपाते तथोच्छ्रये । पराशरः । सर्पस्य नकुलस्याथ अजमार्जारयोस्तथा । मूषकस्य तथोष्ट्रस्य मंडूकस्य च योषितः । पुरुषस्यैलकस्यापि शुनोऽश्वस्य खरस्य च । एषां यो विततश्चैव अंतरागमने कृते । त्रिरात्रमुपवासश्च त्रिरात्रमभिषेचनं। अथ तात्कालिकाः । खरो- ष्ट्रगर्दभोलूकसामबाणार्तनिःस्वने । अमेध्यशवशुद्रांत्यश्मशानपतितांतिके। देशेऽशुचौ वर्त्मनि च विद्युत्स्तनितसंप्लवे । भुक्त्वार्द्रपाणिरंभोंतरर्धराधेऽतिमारुते । पांसुवर्षे दिशां- दाहे संध्यानीहारभीतिषु । धावतः पूतिगंधे च शिष्टे च गृहमागते । खरोष्ट्रयानहस्त्य- श्वनौवृक्षे रथरोहणे । सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुरिति । अथानध्याया- पवादः । मनुः । वेदोपाकरणे चैव स्वाध्याये चैव नैत्यके । न निरोधोऽस्त्यनध्याये होममंत्रजपेषु चेति ॥ ७॥ इति मुहूर्तमार्तडटीकायां मार्तडवल्लभायामनध्यायप्रकरणं समाप्तं ।' अथ पल्लीसरठफलादिकम् ॥ अथ पल्लीसरठयोः फलं वृत्तेनैकेनाह- दक्षांगोदरनाभिहृत्सु पतिता पल्ली वरांगे हनुं त्यक्त्वा नुः शुभदाः स्त्रिया फलमिदं वामेतरव्यत्ययात् । इत्याहुः सरठप्ररोहणफलं पातेऽन्यथैके वृथा- पल्यारोहणकेऽपि वस्त्रसहितः स्नात्वा चरेच्छांतिकम् ॥१॥ इति पल्लीसरठयोः पतनादिविचारः ॥ दक्षांगेति ॥ दक्षांगोदरनाभिहृत्सु पतिता पल्ली तथा हनुं त्यक्त्वा वरांगे उत्तमांग पतिता पल्ली नुः नरस्य शुभदा स्यात् । उत्तमांगे हनुं विना सर्वत्र शुभेत्यर्थः । अर्था- दन्यत्र न शुभा। अन्यांगेषु पुरः पाइपृष्ठेषु न शुभा स्यात् । अथ स्त्रियाः विशेष- माह । स्त्रियाः इदं पुरुषोक्तं फलं वामेतरव्यत्ययाज्ज्ञेयं । वामं वामांगं इतरं दक्षिणांग तयोर्व्यत्ययो वैपरीत्यं तस्मात्पुरुषस्य दक्षांगे यत्फलमुक्तं तस्त्रियाः वामांगे ज्ञेयं । पुझ- यदुक्तं तस्त्रिया दक्षांगे ज्ञेयमित्यर्थः । अर्थाद्यत्रांगे वामेतरविभागाभा- वस्तत्र पुरुषतुल्यं फलं ज्ञेयं । वरांगे तूभयोः समानमेव फलं । वामदक्षिणफलाविशे- षात् । सरठफलमाह । इत्याहुः सरठप्ररोहणफल मिति । एवमेव आहुर्मुनय इत्यध्या- हारः। सरठस्य प्ररोहणे पल्लीवत्फलमित्यर्थः । पाते सरठस्य पाते अन्यथा विपरी षस्य वामांगे पल्लीसरठ.] मार्तडवल्लभाख्यव्याख्यासहितः । फलमाहुः । सरठस्य प्ररोहणे यत्फलं तत्तस्य पाते विपरीतफलमाहुरित्यर्थः । एके वृथा एके आचार्याः वृथा फलमाहुः । सरठस्य प्ररोहणे एव फलं पाते वृथाफलं न शु- भं न चाप्यशुभमित्याहुरित्यर्थः । पल्यारोहणकेपि अन्यथाफलमाहुः । पल्लीपतने य- त्फलं तत्तस्या आरोहणे अन्यथा विपरीतफलमाहुः । एके वृथाफलमाहुः। पल्याः पतने एव फलं प्ररोहणे वृथेत्येके आहुरित्यर्थः । अथात्र विधिमाह । वस्त्रसहितः स्नात्वा चरेच्छांतिकमिति । सचैलस्नानं कृत्वा शांतिकं शास्त्रोक्तमाचरेत् । तथाच ज्यो- तिर्निबंधे । पल्लीस्पर्शफलं वक्ष्ये यदुक्तं ब्रह्मणा पुरा । ब्रह्मस्थाने भवेद्राज्यं स्थानलाभो ललाटके । कर्णयोभूषणावाप्तिर्नत्रयोः प्रियदर्शनं । नासिकायां सुगंधानि मुखे मिष्टान्न- भोजनं । कपोलयोर्भवेत्सौख्यं हनुदेशे महद्भयं । भृकुट्यां विग्रहश्चैव कंठे वा व्यसना- गमः । कलिर्वशे सुखं पृष्ठयां दक्षे वामे गदादयः। दक्षांसे विजयो नित्यं वामांसे शत्रुजं भयं । इष्टलाभो भुजे सव्ये कूर्परे मणिबंधके । दक्षे करतले द्रव्यं तत्पृष्ठे सद्वय- यो भवेत् । वामे भुजे कूपरे च मणिबंधे धनक्षयः । वामे करतले हानिस्तत्पृष्ठे चार्थ- नाशनं । हृदये राजसंमानं सौभाग्यं दक्षिणे स्तने । दक्षपार्वे च भोगाप्तिः स्तने वाले यशो धनं । वामपार्वे भवेत्पीडा वामकुक्षौ शिशोस्तथा । दक्षकुक्षौ सुतावाप्तिरुदरे च विशेषतः । वस्त्राप्तिदक्षकट्यां च वामकट्यां सुखक्षयः । नाभ्यां मनोरथावाप्तिर्बस्तौ गर्भच्युतिर्भवेत् । गुह्ये मृत्युमुंदे रोगो दक्षोरौ प्रीतिवर्धन। वामोरौ मृत्युतोर्दुःखं दक्षजानौ सुवाहनं । पशुहानिर्वामजानौ दक्षिणे जघने सुखं ।क्लेशः स्याद्वामजंघायां स्फिचि दक्षेर्थ वृद्धिकृत् । स्फिचि वामे स्त्रीवियोगो दक्षे गुल्फे प्रियागमः । उपप्लवो वामगुल्फे पा- दयोगमनं भवेत् । अत्र यद्यपि सामान्येनोभयोर्गमनफलमुक्तं । तथापि दक्षिणपादे गम- 'नालाभो वक्तव्यः वामपादे गमने हानिर्वक्तव्या पुरोभागे च दुर्वार्ता नष्टवार्ता च पृष्ठतः। वामे हानिधनं दक्षे परितो भ्रमणे क्षितिः । वामदक्षिणभागेन यत्फलं कथितं नृणां । विपर्ययेण तत्स्त्रीणां ज्ञेयं शेषं द्वयोः समं । इत्थं पल्ल्याः प्रप- तने फलं ज्ञेयं विचक्षणैः । एतदेव फलं विद्यात्सरठस्य प्ररोहणे । पछ्याः प्ररोहणे चैव पतने सरठस्य च । तयोः फलस्य व्यत्यासात्तद्वदेव हि जायते । पयाः प्ररोहणं रात्रौ सरठस्य प्रपातनं । नातिदुष्टफलं विद्याद्वयाधिमुग्रविपर्यये। पतनानंतरं यस्य रोहणं यदि जायते । पतने फलमुत्कृष्टं रोहणेऽल्पफलं भवेत् । मृत्युयोगे च जन्मः विष्टयां पाते च वैधृतौ । चंद्रेऽष्टमे च सरे लग्ने विघ्नं प्रजायते। अंगं दक्षिणमा- राह्य वामेनोत्तरते स्फुटं । तदा हानिकरी ज्ञेया व्यत्ययेन तु हानिदा। चरणादूव- मीभूय सद्यो रोहति शीर्षणं । प्राज्यराज्यं तदादत्ते पल्ली श्वेता विशेषतः । चिंति- ताभ्यधिक लाभं स्थिता भोजनभाजने । पादांगुलीषु संपाताद्धानिश्च महती भवेत् । पल्ट्योः सरठयोऽपि युग्ममंगे शुभे पतेत् । दंपत्योर्जायते प्रीतिनिद्यभागे वियोगिता । शीर्षस्योपरि पतिता शुभाय पल्ली सिता नान्या । सितगृहगोधास्पर्शे सर्वध्वंगेषु शोभना ज्ञेयेति । कृकलासः पतेद्यस्य मूर्ध्नि तद्विघ्नशांतये । मृतसंजीविनी विद्यां जपेन्मुंडित- मस्तकः । अथ पल्लीसरठयोः शांतिः। पल्लीसरठयोः स्पर्शे सचैलस्नानमाचरेत् । पंच- गव्यं प्राशयित्वा कुर्यादाज्यावलोकनं । शस्तेवाप्यथवा शस्ते यदीच्छेदात्मनः सुखं । पुण्याहवाचनं कृत्वा शांतिकर्म समाचरेत् । प्रतिरूपं सुवर्णेन कुर्याद्वित्तानुसारतः । रक्त- मुहूर्तमार्तडः। [गोचरप्र० १०८ वस्त्रेण संवेष्ट्य गंधपुष्पैः प्रपूजयेत् । तदने मृन्मयं रम्यं कलशं जलपूरितं । वस्त्रमा- ल्यैरलंकृत्य स्थापयेत्तंडुलोपरि। पंचामृतं पंचगव्यं पंचरत्नानि शक्तितः । पंचवृक्षक- षायांश्च निक्षिप्यावाहयेत्ततः । पूजयेद्धपुष्पार्लोकपालान् क्रमेण च । अग्निसंस्थापन कृत्वा होमकर्म समाचरेत् । मृत्युंजयेन मंत्रेण समिद्भिः खादिरैः शुभैः। तिलैयाहृति- भिर्होममष्टोत्तरसहस्रकं । अष्टोत्तरशतं वापि कुर्याद्वित्तानुसारतः । अभिषेकं ततः कृत्वा पावमानस्य च द्विजैः । पुण्यवारुणसूक्तैश्च दोषशांत्यै द्विजोत्तमाः । धौतांवराणि धृत्वाऽथ वर्ण वस्त्रतिलान्ददेत् । ब्राह्मणान् भोजयेदित्थं शांतिकर्म करोति यः । तस्या- युर्विजयो लक्ष्मीः कीर्तिबुद्धिः शुभं भवेत् । पल्लीसरठयोः शांतिः कथिता भृगुणा पुरा । शौनकाय मुनींद्राय लोकानुग्रहकारिणे ॥ १ ॥ इति मार्तडवल्लभायां पल्लीसरठयोः शांतिप्रकरणम् । अथ गोचरप्रकरणम् । अथ गोचरप्रकरणं विवक्षुस्तावज्जन्मराशेः सकाशात् को ग्रहः कस्मिन् स्थाने शुभः कस्मिन्नशुभ इति चंद्रे शुक्लपक्षे विशेषं ताराबलं च वृत्तेनैकेनाह- स्वाञ्चंद्रखलास्त्रिखारिषु शुभाः सप्तायगोऽब्जः पुन- श्रापुत्राद्व्ययधर्ममृत्युषु कविः स्वास्तत्रिकोणे गुरुः। सौम्यो व्यंत्यसमेऽखिला भवगताः शुक्ले नवेषु द्विग- चंद्रोऽथो निजभाद्दयुभं नवहृतं ज्यद्रीषुशेषं न सत् ॥ १ ॥ खच्चिंद्रखला इति ॥ स्वात् खजन्मराशेः सकाशात् चंद्रखलास्त्रिखारिषु शुभाः स्युः त्रिः तृतीयं खं दशमं अरिः षष्ठं तेषु चंद्रखलाः चंद्रः प्रसिद्धः । खलाः पापग्रहाः रविभौ- मशनिराहुकेतवः शुभाः शुभफलाः भवंति। पुनः सप्ताद्यगः अब्जश्चंद्रः शुभः स्यात् सुगमं । आपुत्राद्वययधर्ममृत्युषु कविः शुभः स्यात् । आपुत्राजन्मराशितः क्रमेण पंचमपर्यंत १ २ ३ ४ ५ व्ययो द्वादशं धर्म नवमं मृत्युरष्टमं एषु कविः शुक्रः शुभः स्यात् । वास्त- त्रिकोणे गुरुः शुभः स्यात् । खं द्वितीयं अस्तं सप्तमं त्रिकोणं नवमं पंचमं च तत्र गुरुः बृहस्पतिः शुभः स्यात् । सौम्यो व्यंत्यसमे शुभः स्यात् सौम्यो बुधः विगतमंत्वं यस्मात्तद्वयत्यं तच्च तत्समं च तथा तस्मिन् द्वादशस्थानवय॑समस्थाने द्वितीयचतुर्था- दिके शुभः स्यादित्यर्थः । अखिला भवगताः शुभाः स्युः सर्वे ग्रहाः एकादशस्थाने शुभाः स्युरिति । शुक्ले नवेषुद्विगश्चंद्रः शुभः स्यात् न कृष्णपक्ष इति । अथ तारा- बलमाह । निजभात् शुभं नवहृतं त्र्यद्रीषुशेषं न सत् । निजभं खजन्मनक्षत्रं तस्मात शुभं दिननक्षत्रपर्यंतं संगण्य नवहृतं सत् त्र्यद्रीषुशेषं त्रिसप्तपंचशेषं न सत् न शुभं अन्यच्छुभमित्यर्थात्सिद्धं । तथाच विशेषसंग्रहो व्यवहारसारे । पंथा हानिः प्रिय व्याधिदैन्यं स्वास्थ्यं गतिं गदः । पापं सुखं धनं हानि करोत्यर्कः खजन्मभात् १ वस्त्रं झानिधनं रोगं पीडां वितं प्रियं वसु । भयं सुखं धनं रोगं करोतींदुः खजन्मभात् २ भयं हानिधनं वैरं दुःख लाभं भयं क्षयं । पापं लाभं सुखं हानि जनेर्भीमफलं क्र- गोचरप्र० ]. मार्तडवल्लभाख्यव्याख्यासहितः। मात् ३ बंधं लाभं भयं वित्तं शोकं लक्ष्मी क्षयं धनं । रोग भोगं सुखं हानि करोति ज्ञः खजन्मभात् ४ भयं वित्तं रुजं हानि लाभं शोकं सुखं रुजं । मानं दैन्यं धनं पीडां क- रोति जन्मभाद्गुरुः ५ जयं वित्तं धनं सौख्यं पुत्रान् वैरं शुभं सुखम् । धर्म दुःखं धनं लाभं जनेः शुक्रो ददाति वै ६ भयं शोकं धनं दुःखं हानि सुहृत्क्षयं मृतिं । पापं श्रमं धनं हानि जनेः पंगुफलं कमात् ७ राहुकेखोः फलं शनिकुजवत् ॥१॥ अथ सर्वेषां ग्रहाणां वेधं वृत्तद्वयेनाह- षष्टांत्ये खजले सुतायभवने व्यंके रवेः स्यान्मिथ- ख्यंके जन्मसुते खके मृतिभवे यस्ते षडंसे विधोः । त्र्य लाभसुते सपत्नतपसोळाशुभानां व्यधो- टाये पुत्रधनेष्टखे कसहजेर्यके भवांत्ये विदः ॥२॥ षष्टांत्ये इति ॥ षष्ठं प्र० अंत्यं द्वादशं तस्मिन् मिथः परस्परं वेधः तद्वत् खजले मुतायभवने त्र्यं के अयं रवेर्वेधः स्यात् । अत्रांकन्यास एव व्याख्यानं । सप्तम्युपल- क्षितैः पदैः वेधाः ज्ञेयाः । तद्यथा षष्टां ६ त्ये १२ ख १० जले ४ सुता ५ य ११ त्र्यं ३ के ९ रवेः सूर्यस्यायं वेधः । त्र्यं ३ के ९ जन्म १ सुते ५ ख १० के ४ मृति ८ भवे ११ द्वय २ स्ते ७ षडं ६ त्ये १२ विधोरयं वेधः । त्र्य ३. के १२ लाभ ११ सुते ५ सपत्न ६ तपसो ९ व्यको शुभानां व्यधोयं विगतोऽर्को येभ्यस्ते व्यर्काः ते च ते अशुभाश्च व्यांशुमाः रविरहितपापग्रहाः तेषामयं वेध इत्यर्थः । अष्टा ८ द्ये १ पुत्र ५ धने २ ऽष्ट ८ खे १० क ४ सहजे ३ ऽयं ६ के ९ भवां ११ त्ये १२ विदः वुधस्यायं वेधः ॥२॥ यस्तेष्टादिमयोः खके नवसुते त्रीशेष्टपुत्रे त्रिका- घेर्यत्येकभवे भृगोर्शशिनोः शन्यर्कयो! व्यधः । विद्धो व्यस्तफलो भवेदिविचरो हेमाद्रिविध्यांतरे खेटायधखेचरं विगणयान्यत्रोभयं जन्मभात् ॥ ३ ॥ ॥ इति गोचरप्रकरणम् ॥ द्वयस्तेति ॥ द्वय २ स्ते ७ ष्टा ८ दिमयोः १ ख १० के ४ नव ९ सुते ५ त्री ३ शे ११ ष्ट ८ पुत्रे ५ त्रिका ३ ये १ ऽयं ६ त्ये १२ क ४ भवे ११ भृगोः शुक्रस्यायं वेधः । गुरोर्वेधः संस्कारप्रकरणे कथितः सोऽत्र सिद्धो ज्ञेयः । अत्र वेधविधाने ज्ञश- शिनोः बुधचंद्रयोः शन्यर्कयोश्च परस्परं नो व्यधः स्यात् । परस्परं वेधो नास्ति । एतदुक्तं भवति । विध्यहिमाचलयोर्मध्ये जन्मराशेः सकाशात् अन्यतमग्रहाधिष्ठित- राशिपर्यंतं गणयिला तद्राशेः सकाशात् यथोक्तवेधस्थानपर्यंतं गणयेत् । तत्र यदि कश्चिद्रहो भवति तदा गणितो ग्रहो विद्धो भवति । अन्यदेशेषु जन्मराशेः सकाशात उभयग्रहं तद्वेषस्थानं च गणयेत् । यदा वेधस्थाने कश्चिद्रहो भवति तदान्यो ग्रहो विद्धो भवति । तत्र सूर्यस्य शनिवेधो नास्ति । शनेः सूर्यस्य वेधो नास्ति । एवं चंद्र- बुधयोः परस्परं ज्ञेयं । अथ वेधप्रयोजनमाह । विद्धो व्यस्तफलो भवेद्दिविचर इति । विद्धो ग्रहो व्यस्तफल: स्यात् । प्रथमश्लोकोदितं फलं व्यस्तं विपरीतं भवतीत्यर्थः । ..

११० [संक्रांतिप्र. । - मुहूर्तमातडः। रत्नमालायामपि । वामवेधविधिना खशोभना अप्यमी शुभफलं दिशंत्यलं । ते मृषा वचनभाषिणो जना यांति हास्यमपि कीर्तिलांछनमिति । अथ देशविशेषेण वेधगण- नाविशेषमाह-हेमाद्रिविंध्यांतर इति । अस्यार्थः पूर्वमेव व्याख्यातः ॥ ३ ॥ इति मार्तडवल्लभायां गोचरप्रकरणं समाप्तं ॥ संक्रांतिप्रकरणम् । अथ संक्रांतिफलं विवक्षुस्तावद्राशिपरत्वेन पुण्यकालं वृत्ताधुनाह- ऊर्ध्वं यात्ममृगेऽर्कसंक्रमणतः पूर्व स्थिरे कर्कटे जूकाजोभयतः खरामघटिकाः पुण्या मृगे दिग्युताः । कर्काजांत्यर्पणसूर्यचलनं निश्यन्यभं सदिवा मूर्यारार्किदिने तृतीयकरणे प्रांत्येऽष्टमे दुःखदम् ॥ १ ॥ ब्रह्माद्यैरिनमंडलांत उदितश्चांद्रस्त्वमांतः परै- सोऽसंक्रमणो द्विसंक्रमणको ज्ञेयोऽधिकोऽथो क्षयः । कर्माण्यन्यगतीनि नात्र तनुयाद्यज्जन्ममृत्यू क्षये तन्मासौ तिथिखंडयोश्चयमुखे भृत्येऽधिको गण्यते ॥ २ ॥ ऊर्ध्वं यात्मेति । यात्मानो द्विस्वभावा राशयः मिथुनकन्याधनुर्मानाः मृगो मकरः एषां समाहारस्तस्मिन्नर्कसंक्रमणतः सूर्यसंक्रमणकालात्सकाशात् ऊर्ध्व उपरि खरामघ- टिकाः पुण्याः स्युः । स्थिरे वृषसिंहवृश्चिककुंभानामन्यतमे राशौ कर्कट: प्र० अर्कसंक्रम- णतः पूर्व प्रथमं खराम ३० घटिकाः पुण्याः स्युः । जूकाजोभयतः जूकस्तुला अजो मेषः अनयोरर्कसंक्रमणतः सकाशादुभयतः खराम ३० घटिकाः पुण्याः स्युः पूर्व पंचदश ऊर्ध्वं पंचदशेति त्रिंशद्धटिका इत्यर्थः । एवं सर्वराशिसंक्रमणपुण्यकालमुक्वेदानीं मकरे विशेषपुण्यकालमाह- मृगे दिग्युता इति । मृगे मकरे ताः खराम'३०घटिकाः दिग्युताः दशयुताः चत्वारिंशद्धटिकाः पुण्याः इत्यर्थः । तथाचोक्तं ज्योतिर्निबंधे । संक्रांतिसमयःसूक्ष्मो दुर्लभः पिशितेक्षणैः । तस्य योगादधश्चोर्ध्वं त्रिंशन्नाज्यः प्रकीर्तिताः । अर्वाक् षोडशनाड्यस्तु परतश्चैव षोडश । पुण्यकालोर्कसंक्रांतः स्नानदानादिकर्मसु । त्रिंशत् कर्कटसंक्रातौ पूर्वतः पुण्यनाडिकाः। मकरे तूत्तराः पुण्याश्चत्वारिंशतिनाडिकाः । स्थिरे विष्णुपदे कर्के दक्षिणायनमादितः। मृगे सौम्यायनं यंगे षडशीतिमुखं पुरः। घटते विषुवे मध्ये पुण्यं दानाद्यनंतकं । प्रागर्धरात्रात्पूर्वेयुः पुण्यं पश्चात्परं दिनं । प्रागर्धरा- त्रादित्येतद्विषुवद्विषयम् । कार्मुकं तु परित्यज्य मृगं संक्रमते रविः । प्रदोषे वार्धरात्रे वा तदा भोगः परेऽहनि । रविसंक्रमणे पुण्ये यो न स्नातीह मानवः। सप्तजन्मांतरे रोगी दुःखभाक् निर्धनो भवेत् । आदित्यपुराणे । शतमिदुक्षये दानमुपरागे वनंतकं । षड- शीत्यां सहस्रं तु विष्णुपद्यां तथैवच । विषुवे शतसाहस्रं कोटिनं दक्षिणायने । शतको- टिगुणं पुण्यं जायते उत्तरायणे इति। अथोत्तरार्धेन संक्रांतेः सदसत्फलमाह-कर्केति। कर्कः प्र. अजो मेषः अंत्यो मीनः वृषः प्रसि० एणो मकरः एतान् सूर्यचलनं निशि रात्रौ सत्स्यात् । अन्यभं प्रति सूर्यचलनं सूर्यसंक्रमणं दिवा सत्स्यात् । अर्थाद्विपरीतं न। शोभनं । सूर्यारार्किदिने रविभौमशनिदिने तृतीयकरणे कौलवे प्रात्ये किंस्तुघ्ने अष्टमे ।

सक्रांतिप्र०]] मातडवल्लभाख्यव्याख्यासहितः । शकुनौ सर्वराशिसंक्रमणं दुःखदं स्यात् । तथाचोक्तं । मृगककीजगोमीनसंक्रांतिनिशि सौख्यदा । शेषेषु सप्तसु दिवा व्यत्ययादशुभं भवेत् । संक्रांतिर्जायते यत्र भास्करे भूसुते शनौ । तत्र मासि भवेद्धोरं दुर्भिक्षं वृष्टिचौरजं । स्यादुत्थितस्य किंस्तुम्ने शकुने कौलवे रवेः । संक्रांतिस्तैतिले नागे प्रसुप्तस्य चतुष्पदे । निविष्टस्य गरे विष्टयां वणिजे बालवे बवे। दुर्भिक्षं रोगबाहुल्यमूल सक्रमते रविः । सुप्तः करोति कल्याणमुपविष्टः समं फलमिति ॥ १ ॥ अथ संक्रांतिप्रसंगेनाधिमासक्षयमासयोर्लक्षणं तत्र कर्तव्या- कर्तव्यं क्षयमासे जन्ममरणादौ मासज्ञानं वृत्तेनैकेनाह-ब्रह्माद्यैरिति । ब्रह्माद्यैः सिद्धांत- कर्तृभिः इनमंडलांतः सूर्यमंडलांतः चांद्रः चांद्रमास उदितः । परैराचार्यैः अमांतश्चांद्रो मास उदितः । एतदुक्तं भवति । अमावास्यांतादपरोमावास्यांतो यावत्तावदमांतो मासः । अमावास्यांते सूर्यचंद्रमंडलयोर्योगो भवति । परतः षड्र्घिटिकाभिर्वियोगो भवति । तस्माद्वियोगादपरो वियोगो यावत्ताबद्रविमंडलांतो मासः। स ब्रह्माद्यैः क्षयमा साधिमासनिर्णयविषयेऽगीकृतः । अपरैरमांतो मासोऽगीकृत इत्यर्थः । अत्र यद्यपि सूर्यग्रहणे मध्यग्रहणकालानंतरं मोक्षस्थितिकाल: षड्घटिकाभ्यो न्यूनो दृश्यते तथापि सूक्ष्मदर्शिभिः पूर्वाचार्यैः रसनाड्योऽर्कमंडलमित्युक्तं । तत्रागम एव प्रमाणं । तत्र उक्तलक्षणो मासः असंक्रमणः संक्रांतिरहितः अधिको ज्ञेयः । द्विसंक्रमणकः संक्रांति- दूधयुक्तः क्षयो ज्ञेयः । अस्योदाहरणं । ब्रह्ममतानुसारिणा श्रीभास्कराचार्येण सिद्धांतशि- रोमणौ दर्शितं । असंक्रांतिमासोऽधिमासः स्फुटः स्याद्विसंक्रांतिमासः क्षयाख्यः कदा- चित् । क्षयः कार्तिकादित्रये नान्यथा स्यात्तदा वर्षमध्येऽधिमासद्वयं च १ गतोब्ध्य- द्रिनंदै ९७४ मिते शाककाले तिथीशै १११५ भविष्यत्यथांगाक्षसूर्यैः १२५६ । गजा- यग्निभूमि १३७८ स्तथा प्रायशोयं कुवेदेंदु १४१ वषैः क्वचिद्गोकुभिश्च १९ श्रीभा- स्कराचार्येणाब्ब्यद्रिनंदै ९७४ मितशाककालादुपरि तिथीशै १११५ मितशाककालात्पूर्व सिद्धांतशिरोमणिविरचितः। अतएवोक्तं गतोब्भ्यद्रिनंदैर्मिते शाककाले तिथीशैर्भविष्यती- ति । तत्र गजायग्निभूभिः तुल्ये शाककाले रविमंडलांतमासप्रमाणेन क्षयमासाधिमासौ प्रदृश्येते। आश्विनी अमावास्या बुधे चतुश्चत्वारिंशद्धटिका ४४ तस्मिन्नेव दिने सप्तत्रिंश- ३७ द्धटिका स्वाती तासु तुलासंक्रमणमभूत् । आश्विनस्तुलासंक्रांतियुक्तत्वाच्छुद्धः । कार्तिकी अमावास्या शुक्रे सप्तदशघटिकाः १७ तस्मिन्नेव दिने त्रिंशद्धटिका स्वाती तासु वृश्चिकसंक्रां- तिरभूत् । अयमसंक्रांतित्वादधिकः कार्तिकः अपरोमासो वृश्चिकसंक्रांतियुक्तः तस्माच्छुद्धोयं कार्तिकः तस्यामावास्या शनी सप्तचत्वारिंशत् ४७ घटिकास्तस्मिन्नेव दिने एकोनषष्टि- घटिका स्वाती तासु धनुःसंक्रमणमभूत् । धनुःसंक्रमणं मार्गशीर्षे जातं तस्यामावा- स्या सोमे पादोनपंचदशघटिकाः तस्मिन्नेव दिने एकोनविंशद्धटिका स्वाती तासु मकरसंक्रांतिरभूत् इयं मकरसंक्रातिर्यद्यपि अमांतमतिक्रम्य जाता तथापि रविमंडलां- तमासप्रमाणेन पूर्वमास एव पतिता तस्मात्संक्रांतिद्वययुक्तत्वात् मार्गपोषयुगलं क्षयाह्वयं जातं । माघी अमा भौमे एकचत्वारिंशत् ४१ घटिकास्तस्मिन्नेव दिने षट्चत्वारिंशत् ४६ घटिका खाती तासु कुंभसंक्रातिरभूत् । इयमपि संक्रातिर्यद्यपि मासमतिक्रम्य जाता तथापि मंडलांतमासप्रमाणेन पूर्वमासस्यैव तस्मान्माघःशुद्धः । अन्यथा मंडलांत- मासानंगीकारे।न क्षयोऽनाधिमासः स्यान्माघो वै परिकीर्तित इत्येतच्छास्त्रमनर्थकं स्यात्। आर्यपक्षे तु संदेहो नास्ति । यतो ब्रह्मपक्षतिथितः आर्यपक्षतिथिश्चतुर्घटिकाधिका ब्रह्म- ३ पक्षसंक्रांतितः आर्यपक्षसंक्रांतिस्त्रिघटिकोना । तस्मादार्यपक्षे संदेहाभावः । तथाच फाल्गुनी अमा गुरौ षट्पटिकास्तस्मिन्नेव दिने पंचत्रिंशं ३५ द्धटिका स्वाती तासु मीन संक्रांतिर्जाता तस्मादयं फाल्गुनः असंक्रांतित्वादधिकः । क्षयः कार्तिकादित्रये नान्यथ स्यात्तदा वर्षमध्येऽधिमासद्वयं चेति तस्योदाहरणं दर्शितं । यत्तु ब्रह्मपक्षे क्षयमासा- विमासनिर्णये अमांतं मासं गणयंति तैर्ब्रह्ममतं न विदितं । पौलस्तिसिद्धांते स्फुटगल्या यदा चंद्रो रविमंडलमध्यगः । तदूवं संक्रमो भानोर्मासः स स्यान्मलिम्लुचः । काल. निर्णये । संक्रमो यदि भवेद्रवेस्ततो मंडलाहिरनिर्गते विधौ । उच्यतेऽथ सहि संक्रमो बुधैः शुद्धमास इतरो मलिम्लुचः । लल्लः । यदा शशी याति गभस्तिमंडलं दिवाकरः संक्रमणं करोत्यनु । विवाहयज्ञोत्सवनाशहेतुकस्तदाऽधिमासः कथितः स्वयंभुवा । रत्न- मालायां । सवितृमंडलमेति यदा शशी तदनु संक्रमणं कुरुते रविः । मखमहोत्सवनाश- करस्तदा मुनिवर्गदितोऽधिकमासकः। शार्ङ्गधरफलग्रंथे । चंद्रार्कयोस्तु बिंबैक्यं प्रतिप- हर्शसंधिषु। तिथ्यंतात्तदुभयतो रसनाड्योऽर्कमंडलं । तन्मंडलाच्छशी गच्छेत्ततः सूर्यस्य संक्रमः । मासोऽसौ मलिनः प्रोक्तो न तद्धीनोधिकः स्मृतः। पितामहः । प्रतिपर्शसंधौ तु बिंबक्यं चंद्रसूर्ययोः । जवांतराप्तं षष्टिनं नांडिका अर्कमंडलं । अत्र कलात्मकवि- ग्रहणं ज्योति प्रकाशे । दाँत एकैः कथितोऽत्र मासः परैः प्रदिष्टो रविमंडलांतः । मतद्वये चेद्रविसंक्रमः स्यात्स एव पूर्वस्य न चापरस्य । पितामहः । अष्टाधिमासाः स्युर्नित्यं प्रोच्यते फाल्गुनादयः । सौम्यपौषौ क्षयौ नित्यं भवेतामिति निश्चितं. १ क्षयो वाप्यधिमासो वा स्यादूर्ज इति निश्चितं । न क्षयो नाधिमासः स्यान्माघो वै परिकीर्तितः। पंचमासास्तु वैशाखादधिमासा व्यवस्थिताः । भवंति चाष्टभिर्वर्भवै११र्वांकनिशाकरैः १९॥ ३ ॥ तथैव फाल्गुनश्चैत्र आश्विनः कार्तिकोधिकः । एते किंदैः १४१ शरांगै- ६५ र्वा कदाचिद्गोकु १९ वत्सरैः ४। मार्गपौषौ क्षयौ स्यातां कदाचित्कार्तिको भवेत् । अधिमासस्तदा ज्येष्टो भवेन्नित्यं क्षयो यदा ॥ ४ ॥ क्षयात्प्रागधिमासः स्यान्नित्ये भाद्रपदत्रये । आश्विनोजों सदा स्यातामादौ भाद्रपदः सकृत् ॥ ६ ॥ यस्मिन्वर्षे कार्तिकः क्षयो भवति तस्मिन् वर्षे ज्येष्ठोऽधिमासो भवेत् । अत्र ज्येष्ठशब्देन भाद्रपदो ज्ञेयः । यतः । क्षयात्प्रागधिमासः स्यानित्यं भाद्रपदत्रये । इति नियमात् । भाद्रपदादीनां त्रयाणां मध्ये भाद्रपदो ज्येष्ठ इति जानीयादित्यर्थः । अथाधिमासक्षय- मासयोः कार्याकार्याण्याह-कर्माण्यन्यगतीनि नात्र तनुयादिति । अन्या गतिर्येषां तानि अन्यगतीनि तानि अत्राधिमासक्षयमासयोर्न तनुयान्न विस्तारयेत् न कुर्यात् ।अर्थादनन्य- गतीनि कर्माण्यत्रापि कर्तव्यानीति सिद्धं । अन्यगतीनामनन्यगतीनामित्थं विचारः। यानि कालनिरोधेन प्रोक्तानि तान्यनन्यगतीनि । यथा ऋतौ जायामुपेयात् । तत्र ऋतु:- स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः। इति मनुना ऋतुप्रमाणमुक्तं। अथ षोडशरा- त्रीणां मध्ये निंद्यदिनान्यपहाय गच्छेत् । स ऋतुर्यदि मलमासशुद्धमासांशैाप्नोति तदा शुद्धमासांशे दोषरहिते गर्भाधानं कुर्यात् । असंभवे मलमासे एव कुर्यात् । तथा चोक्तं। अनन्यगतिकं कुर्यान्नित्यं नैमित्तिकं तथा । एवमन्यान्यपि विचार्य कुर्यात् । गर्भाधानाद्यन्नप्राशनांतकर्मसु मलमासादीनां निषेधो नास्तीति संस्कारप्रकरणे उक्तमस्ति गीद्यनाशनांतेषु न गुरुसितयोर्खाल्यवार्थे च मौट्यमित्यादि । तथाच गर्गः । अग्न्याधानं प्रतिष्टां च यज्ञदानव्रतानि च । वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः । गमनं देवतीर्थानां । । मातड़वल्लभाख्यव्याख्यासहितः । ११३ विवाहमभिषेचनं । यानं च गृहकर्माणि मलमासे विवर्जयेदिति । तथा च सूर्योदये। आवश्यकर्ममासाख्यं मलमासमृताब्दिकं । तीर्थभच्छाययोः श्राद्धं मघानंगपितृ- क्रियां । कुर्यान्मलिम्लुचे वर्षे मध्ये चेत्सर्वदाधिकं । नत्र स्यान्मासिकं मृत्यु मासात्स द्वादशो यदि । प्रेतक्रियां समाप्यात्र कुर्वीताभ्युदयं तथा । श्यामाकाग्रयणं कृच्छ्रे न स्याद्वय॑मतोऽन्यथा । अन्यच्च । काम्यारंभं वृषोत्सर्ग पर्वोत्सवमुपाकृतिं । मेखलाचौल- मांगल्याग्न्याधानोद्यापनक्रियाः । वेदव्रतमहादानाभिषेकान् वर्धमानकं । इष्टापूर्त तथा यस्य विध्यलोपोऽन्यदाकृतौ । तत्सर्वमष्टकादन्यदधिमासे विवर्जयेत् । सूतकेपि च कर्तव्यं स्नानाद्यं राहुदर्शने । इति । स्मृतिरत्नावल्यां । प्रवृत्तं मलमासात्प्राग्यत्काम्यमस- मापितं । आगते मलमासेऽपि तत्समाप्यमसंशयमिति । अथ क्षयमासे जन्मादौ मासज्ञानमाह-यज्जन्मेति । जन्म च मृत्युश्च जन्ममृत्यू यस्य जन्ममृत्यू यज्जन्ममृत्यू क्षये क्षयमासि भवतस्तस्य मासौं तिथिखंडयोतिव्यौ । तिथेः प्रथमेऽर्धे जन्म वा मृत्युवी भवति तदा प्रथममासः द्वितीयेर्धे द्वितीयो मासो ज्ञेयः । तथा च बृहत्काल. निर्णये । तिथ्यर्धे प्रथमे पूर्वो द्वितीयेऽर्धे तथोत्तरः । मासाविति बुधैयौ क्षयमासस्य मध्यगाविति । अथ मलमासः कुत्र कुत्र गण्यत इत्याह-चयमुख इति । चयो गर्भा- यानादेवृद्धिः गर्भस्य कलिलं घनांकुरास्थिचर्मादिचयः प्रतिमासे भवति घनादीनां दिनकलांतरादि चयस्तदादिके प्रेष्ये भृत्ये वेतनदानार्थमधिको मासो गण्यते । तथाच यमः । गर्भे वाधुषिके भृत्ये श्राद्धकर्मणि मासिके । सपिंडीकरणे नित्ये नाधिमासं विव- जयेदिति । पाठांतरव्याख्यानं । अधियुगे पूर्वोऽधिमाः प्राकृत इति । एकस्मिन् वर्षे अधियुगे अधिकद्वये सति पूर्वोऽधिमाः प्रथमोधिमासः प्राकृतः प्राकृतमासवज्ज्ञेयः । अधिकवन त्याज्यः । अर्थादुत्तरोऽधिकमासो मलमासः । तदुक्तं । मासद्वयेऽब्दमध्ये च संक्रमो न भवेद्यदा । प्राकृतस्तत्र पूर्वः स्यादुत्तरस्तु मलिम्लुचः इति ॥ २ ॥ इति स्वकृतमुहूर्तमार्तडटीकायां मार्तडवल्लभायां संक्रांतिप्रकरणं समाप्तम्। अथालंकारमाह- श्रीमत्कौशिकपावनो हरिपदद्वंद्वार्पितात्मा हरि- स्तज्जोऽनंत इलासुरार्चितगुणो नारायणस्तत्सुतः। ख्यातं देवगिरेः शिवालयमुदक तस्मादुदक् टापर- ग्रामस्तद्वसतिर्मुहूर्तभवनं मार्तडमत्राकरोत् ॥१॥ "श्रीमत्कौशिकेति । कु शिकस्य गोत्रापत्यानि कौशिकाः श्रीमतश्च ते कौशिकाश्च ते तथा तान् पावयति पवित्रीकरोतीति । तथा हरिपदद्वंद्वार्पितात्मा हरिर्वासुदेवः तस्य पद- द्व चरणयुगं तस्मिन्नर्पितः आत्मा अंतःकरणं येन स तथा। आत्मा देहे धृतौ जीवे इत्य- भिधानात् । एवं विधो यो हरिस्तज्जस्तस्माज्जातो योऽनंतनाभा । किंलक्षण: । इलासुरा- चितगुणः इला पृथ्वी तस्यां सुरा देवा ब्राह्मणाः तैरर्चिताः पूजिता गुणाः शमदमतपो. दानाध्ययनादिगुणा यस्य स तथा जितेंद्रियो वेदनिधिः स्मृतिज्ञो दृढव्रतो यज्ञकृदन्नदा- तेत्यादि गुणसंपन्न इत्यर्थः । तत्सुतो नारायणः मुहूर्तभवनं मुहूर्तानां भवनं सम मार्तड मार्तडनामकं ग्रंथमकरोत् अत्र । कुत्र देवगिरेः सकाशात् उदक् उत्तरस्यां दिशि यत् ख्यात । पुराणप्रासद्ध शिवालय घृष्णेशाशवालयामात प्रसिद्ध ज्यातालगस्थानमास्त। तस्माच्छिवालयादुदगुत्तरस्यां दिशि यः टापरग्रामोऽस्ति तत्र टापरग्रामे अकरोदित्यर्थः। किंलक्षणो नारायणः । तद्वसतिः तस्मिन् टापरग्रामे वसतिर्वासो यस्य स तथेति ॥१॥ अथास्य पठने फलश्रुतिं तथा अंथे वृत्तसंख्यां प्रहर्षिण्याह- यः षष्टयायुतशतवृत्तबद्धमेनं मार्तडं पठति नरः स विश्वपूज्यः। बह्वायुःसुखधनपुत्रमित्रभृत्यान्संपामोत्यविकलधीश्चतीर्थसिद्धिर यः षष्टयेति । षष्टयायुतं शतं १६० तन्मितानि वृत्तानि तैर्बद्धः कृतः योऽयं मातंडः तमेनं मार्तडं यो नरः पठति स विश्वपूज्यो भवति । न केवलं विश्वपूज्यो भवति । अपि तु बह्वायुःसुखधनपुत्रमित्रभृत्यान् संप्राप्नोति । मुहूर्तदानात्साधितका- र्यस्य विश्वस्य पूज्यो भवतीति युक्तम् । जनानां यथार्थमुहूर्तदानात् कार्यसिद्धिजनित- पुण्येन बह्वायुरारोग्यादीनि संप्राप्नोतीति युक्तं । च परं अविकलधीर्भवति । न विकला धीर्बुद्धिर्यस्येति । तथा अत्र मुहूर्तमार्तडे यद्गर्भाधानादिकमुक्तं। तत्रान्यबहुसंहिताग्रं- थानपेक्षवादविकलधीवमुक्तं । अतएव तीर्थसिद्धिं प्राप्नोति तीर्थ शास्त्रं तस्य सिद्धिस्तां अल्पग्रंथेन बह्वर्थ सिद्धेः। यद्वा तीर्थ गुरुः तस्य सिद्धिः शास्त्रोपदेशलक्षणा तां। यद्वा तीथे यागस्तेन कृत्वा यागसुखादिलक्षणा सिद्धिस्तां प्राप्नोति । तीर्थ शास्त्राध्वरे क्षेत्रोपायोपा- ध्यायमंत्रिष्विति विश्वः ॥ २ ॥ अथ ग्रंथस्याशिषमनुष्टुभाह- व्यंकेंद्रप्रमिते वर्षे शालिवाहनजन्मतः। कृतस्तपसि मार्तडोऽयमलं जयतूद्गतः ॥ ३॥ व्यंकेति। शालिवाहनजन्मतः व्यंकेंद्र १४९३ प्रमिते वर्षे तपसि माघे मार्तडो मुहूर्तमार्तडः कृतः नामैकदेशग्रहणे नामग्रहणं । अयं मुहूर्तमार्तडः अलं अतिशयेन जयतु । यद्वा यमलं मार्तंडयुग्म उद्गतं उदयं प्राप्तं जयतु सर्वोत्कर्षेणास्तु ॥ ३ ॥ अथैतद्वंथांगीकारार्थ बुधप्रार्थना- पूर्ववाक्यार्थमादाय ग्रंथोयं रचितो लघुः । पठनार्थमशक्तानामंगीकार्यो बुधैर्मुदा ॥४॥ पूर्ववाक्यार्थमिति सुगमम् ॥ ४ ॥ इति मुहूर्तमार्तडव्याख्या गाता ।। आसीत्सासमणूरनामनगरे श्रीकौशिकस्यान्वयेऽनंतो वाजसनेयिपूज्यचरणो माध्य- दिनीयाग्रणीः । कृष्णस्तत्तनयः श्रुतिस्मृतिविदामग्रेसरेज्यो हरिस्तत्पुत्रः श्रुतिवित्तदा- त्मजवरोऽनंतोऽग्निहोत्री गुरुः ॥ १॥ तत्पुत्रस्तदनुग्रहात्तधिषणो नारायणष्टापरग्रामे शिष्यगणेच्छया निजकृतग्रंथस्य टीकां स्फुटाम् । चक्रेऽस्यां कृपया परोपकृतये शोध्यं दुरुक्तं बुधैर्मादृक्षस्य विलोक्य धाष्टर्यमपि ते कुप्यंतु नो सज्जनाः ॥२॥ मुखनिधि- पुरुषार्थक्ष्मा १४९४ समाभिः समाभिः परिमितशककाले जातमार्तडटीकाम् । लिखति पठति विप्रः सोऽत्र भूयाद्धरित्या सुखनिधिपुरुषार्थक्ष्मासमावान् क्षमावान, इति कृतस्वमुहूर्तमार्तडटीका मातडवल्लभा समाता । -

Sri Muhurtha Marthanda

Author
Sri Krishna Sastri
Other authors
Edited By N.s.anantakrishna Sastri
Title
Sri Muhurtha Marthanda
File name
Sri Muhurtha Marthanda
Text
OCR done
Published
2005/03/10
Publisher
Tukaram Jawaji Nirnaya Sagar Press Bombay
Language
Sanskrit
Pages
119
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
495696
Barcode
1990030070613.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
e5yPFhY6vzr
Download PDF

Sri Muhurtha Marthanda